#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00107 Uniform title: haṃsopaniṣat Main title: yoga upaniṣads with the commentary of śrī upaniṣad brahmayogin Secondary title: haṃsa upaniṣat Commentator : brahmayogin Alternate name : śrī upaniṣad brahmayogin Editor : śāstrī mahādeva Description: Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: June 14, 2007 Publisher : Adyar library and research centre Publication year : 1920 Publication city : Madras Publication country : India #################################################### हंसोपनिषत् पूर्णमदः- इति शान्तिः ब्रह्मविद्यासाधनहंसविद्याया अतिगुह्यत्वम् गौतम उवाच- भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद | ब्रह्मविद्याप्रबोधो हि येनोपायेन जायते || १ || सनत्कुमार उवाच- विचार्य सर्वधर्मेषु मतं ज्ञात्वा पिनाकिनः | पार्वत्या कथितं तत्त्वं शृणु गौतम तन्मम || २ || अनाख्येयमिदं गुह्यं योगिने कोशसंनिभम् | हंसस्याकृतिविस्तारं भुक्तिमुक्तिफलप्रदम् || ३ || विवरणम् हंसाख्योपनिषत्प्रोक्तनादालिर्यत्र विश्रमेत् | तदाधारं निराधारं ब्रह्ममात्रमहं महः || इह खलु हंसोपनिषदः शुक्लयजुर्वेदप्रविभक्तत्वेन ईशावास्यबृहदारण्यकादौ य उपोद्घाताः स एव अत्रापि द्रष्टव्यः | सनत्कुमारगौतमप्रश्नप्रतिवचनरूपेयमाख्यायिका प्. ५६०) विद्यास्तुत्यर्था | तत्रादौ गौतमः सनत्कुमारं ब्रह्मज्ञानं तदुपायं च पृच्छतीत्याह- भगवन्निति | हे भगवन् षण्गुणैश्वर्यसंपन्न, सर्वधर्मज्ञ, सर्वशास्त्रविशारद, इति संबोधनत्रयेण त्वं सर्वज्ञोऽसि सर्वज्ञेश्वरभावारूढत्वात् येनोपायेन मे झटिति अनायासेन ब्रह्मविद्याप्रबोधो हि निर्विशेषब्रह्ममात्रज्ञानं जायते तदुपायं कृपया उपदिश || १ || इति गौतमेन पृष्टः सनत्कुमारो मुनिः श्रोतुबुद्धिप्ररोचनाय वक्ष्यमाणविद्यां स्तुवन्निदमुवाचेत्याह- सनत्कुमार उवाचेति | हे गौतम सर्वेशितुः पिनाकिनो यन्मतं स्वातिरिक्तसर्वकलनाविरलं ब्रह्म स्वमात्रमिति तदेव तन्मुखतो ज्ञात्वा तदनुरोधेन स्वातिरिक्तासदपह्नवसिद्धं ब्रह्म सन्मात्रमिति धारणार्हो धर्मो येषु वेदान्तेषु धार्यते तेषु सर्वधर्मेषु ईशाद्यष्टोत्तरशतवेदान्तेषु सम्यक् विचार्य निश्चित्य लोकमात्रा ब्रह्मविद्यारूपया पार्वत्या यत् ब्रह्मतत्त्वं मे केवलकृपया कथितं यत् पिनाकिनोऽभिमतं तन्मतं सावधानमना भूत्वा शृणु, श्रुत्वा सम्यगवधारयेत्यर्थः || २ || तत् कीदृशमित्यत आह- अनाख्येयमिति | यत् मया वक्ष्यमाणं ब्रह्मविज्ञानं तदिदं गुह्यम् अयोगिषु गोपनीयमित्याह- अनाख्येयमिति | कदापि न वक्तव्यमित्यर्थः | अनधिकारिषु ख्यापने महाननर्थो भवेदित्यत्र- अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् | महानरकसाम्राज्ये स तेन विनियोजयेत् || इति, न बुद्धिभेदं जनयेदज्ञानां ज्ञानसङ्गिनाम् || इति च श्रुतिस्मृती मानम् | तर्हि इदं कस्मै आख्येयमित्यत आह- योगिन इति | स्वाश्रमाचारपुरस्सरं ब्रह्मविद्योपयोगसाधनयुक् योगी तस्मै योगिने देशिकेन इदं वक्तव्यमित्यर्थः | तत् कीदृशं किंफलदमित्यत्राह- हंसस्येति | स्वमात्रप्रबोधेन स्वातिरिक्तकलनां हन्ति अपह्नवं करोतीति हंसः परमात्मा तस्याकृतिविस्तारो विश्वविराडोत्रादिः तं तदेव ब्रह्म ज्ञानरत्नकोशसंनिभं स्वातिरिक्तमुक्तेः स्वाज्ञताया मुक्तिः अपह्नवः ततो यत् फलं स्वमात्रावस्थानलक्षणकैवल्यमवशिष्यते तत्फलप्रदं, मया उच्यमानं शृण्विति पूर्वेण अन्वयः || ३ || प्. ५६१) हंसविद्याधिकारिस्वरूपम् अथ हंसपरमहंसनिर्णयं व्याख्यास्यामो ब्रह्मचारिणे दान्ताय गुरुभक्ताय हंसहंसेति सदा ध्यायन् || ४ || हंसस्य आकृतिविस्तारः तदधिकारी वा कीदृशः किं तद्विद्याफलं किं तत्साधनमित्याकाङ्क्षायां योग्याधिकारिणमुपलभ्य मुनिः एतत् सर्वमाचष्टे- अथेति | अथ यथोक्ताधिकारसंपत्त्यनन्तरं क्रमेण जाग्रदाद्यवस्थात्रयं हत्वा तुर्यपदं गच्छतीति हंसः व्यष्टितुर्यः प्रत्यगात्मा, स एव परमः सर्वोत्कृष्टः समष्ट्यवस्थात्रयं हत्वा तत्तुर्यपदं गच्छतीति परमहंसः तयोः हंसपरमहंसयोः प्रत्यक्परयोः निर्णयं यथात्म्यं प्रत्यक्परविभागैक्यासहब्रह्ममात्रज्ञानं विस्पष्टमाख्यास्यामः वक्ष्यामः | कस्मा अधिकारिणे वक्ष्यसीत्यत्र हंसः होऽहमित्यर्थे हंसहंसेत्यावृत्तिः | यः सदैवं हंसः सोऽहमित्यनुसंधानपूर्वकं तत्स्वरूपं ध्यायन् ब्रह्मणि चरति ब्रह्मनिष्ठामारोढुमिच्छति स ब्रह्मचारी तस्मै ब्रह्मचारिणे दान्ताय वशीकृतकरणग्रामाय परमार्थोपदेष्ट्टगुरुभक्ताय गुरूपदिष्टार्थश्रद्धालवे तुभ्यं व्याख्यास्याम इति पूर्वेणान्वयः || ४ || हंसस्वरूपं तज्ज्ञानफलं च सर्वेषु देहेषु व्याप्य वर्तते यथा ह्यग्निः काष्ठेषु तिलेषु तैलमिव | तं विदित्वा न मृत्युमेति || ५ || स हंसः किंपरिच्छिन्नः कुत्रासनमर्हतीत्यत्र सदृष्टान्तमाह- सर्वेष्विति | यथा ह्यग्निः काष्ठेषु स्वावारकेषु स्वदाह्येषु च व्याप्य वर्तते तिलेषु तैलमिव च तथा स्वाज्ञदृष्टिप्रसक्तसर्वेषु ब्रह्मादिस्तम्बान्तदेहेषु सत्सु तदारोपापवादाधिकरणजीवेशप्रत्यक्पररूपेण व्याप्य वर्तते, स्वज्ञानेन स्वाज्ञानहानौ सत्यां प्. ५६२) व्याप्यत्वसापेक्षव्यापकत्ववैरल्यात् निष्प्रतियोगिकब्रह्ममात्रमवशिष्यते | तज्ज्ञानफलमाह- तमिति | तमेवं विदित्वा वेदनसमकालं मृत्युं स्वातिरिक्तास्तितामोहं नैति विद्वान् | स्वातिरिक्तापह्नवसिद्धब्रह्ममात्रतया अवशिष्यते इत्यर्थः || ५ || हंसज्ञानोपायो योगः गुदमवष्टभ्याधाराद्वायुमुत्थाप्य स्वाधिष्ठानं त्रिः प्रदक्षिणीकृत्य मणिपूरकं गत्वा अनाहतमतिक्रम्य शिश्नाभे पार्श्वे भवतः | विशुद्धौ प्राणान्निरुध्याज्ञामनुयायन् ब्रह्मरन्ध्रं ध्यायन् त्रिमात्रोऽहमित्येवं सर्वदा पश्यत्यनाकारश्च भवति || ६ || एषोऽसौ परमहंसो भानुकोटिप्रतीकाशो येनेदं सर्वं व्याप्तम् || ७ || एवं सम्यग्ज्ञानावाप्तौ उपायः कः इत्याकाङ्क्षायां तदुपायत्वेन योगमुपदिशति- गुदमवष्टभ्येति | तं विदित्वा न मृत्युमेतीत्युक्तितो वेदनादेव मृत्युग्रासब्रह्माप्तिरवगम्यते | केषांचिन्मलिनचित्तानां मुमुक्षायां सत्यामपि केवलवेदान्त- श्रवणतो मृत्युग्रासब्रह्मज्ञानं नोदेति | तत्रान्तरायो मलिनचित्तता | योगाख्यशुद्धवारिणा यदि सा शोधिता तदा पूर्वश्रुतज्ञानमेव स्वगताभासतां विहाय सम्यग्ज्ञानपदवीं भजति | ततः सम्यग्ज्ञानसमकालं मृत्युग्रासब्रह्माप्तिरिष्यते | तस्मात् ब्रह्माप्तिहेतुज्ञानसाधनत्वेन अष्टाङ्गयोगोऽभ्यसनीयः | कोऽयमष्टाङ्गयोगः ? यमनियमासनप्राणायामप्रत्याहार- धारणाध्यानसमाधयः इत्यष्टाङ्गानि गुरुसंनिधौ यथावदभ्यस्य अथ समाध्यर्थं जनसंबाधरहितगुहां प्रविश्य योगी सिद्धासनारूढः सन् वामगुल्फेन गुदमवष्टभ्य नासिकाभ्यां वक्त्रेण वा वायुमापूर्य कुम्भयित्वा सम्यगाकुञ्चनेन मूलाधाराद्वायुमुत्थाप्य प्राणापानयोरैक्यं कृत्वा अयं मूलाधारत्रिकोणगतवह्निप्राणापानान् मिलित्वा कुण्डलिनीं बोधयित्वा तया मूलाधारस्थसुषुम्नाकवाटब्रह्मग्रन्थिं विभिद्य चतुर्दलयुक्तं प्. ५६३) मूलाधारचक्रं प्रविश्य विराजं तत्तुर्यं वा ध्यात्वा अथ स्वाधिष्ठानं षड्दलशोभितं त्रिः प्रदक्षिणीकृत्य अथ दशारशोभितं मणिपूरकं गत्वा अनाहतचक्रं द्वादशदलं तन्मूलस्थविष्णुग्रन्थिं विभिद्य अनाहतचक्रमध्ये सूत्रं तत्तुर्यं वा ध्यात्वा तत्र निर्विकल्पसमाधिमेत्य, अथ अनाहतमतिक्रम्य, अथ विशुद्धिचक्रं षोडशदलं, तदधोभागे शिश्नाभे पार्श्वे भवतः विशुद्धचक्राधोभागे लम्बमानशिश्नतुल्यमांसखण्डे भवतः, य एषः स्तन इवावलम्बते | सेन्द्रयोनिः इति श्रुत्यन्तरात् | तत्पार्श्वस्थ- मार्गद्वयं विहाय तन्मांसखण्डमध्यमार्गेण विशुद्धिचक्रं प्रविश्य तत्र विशुद्धौ विशुद्धिचक्रे प्राणान्निरुध्य अथ भ्रूमध्ये द्विदलाढ्यम् आज्ञाचक्रं तन्मूलस्थरुद्रग्रन्थिं विभिद्य आज्ञाचक्रं प्रविश्य तन्मध्ये बीजं तत्तुर्यं वा अनुयायन् ध्यायन् निर्विकल्पकसमाधिमेत्य, अथ चन्द्रसूर्याग्र्यैक्यसंजातामृत- मास्वाद्य अजरामरपिण्डो योगी सहस्रारशोभि ब्रह्मरन्ध्रं प्रविश्य, तत्रत्यत्रिमात्रारोपाधिकरणतुर्यस्त्रिमात्रोऽहं, यद्वा त्रिपञ्चमात्रा यत्रापह्नवं भजति तत्तुर्यतुर्यं वाहमस्मीति यदि सर्वदा पश्यति तदा योगी त्रिमात्राधिकरणकिंचित्साकारवत् तुर्यो वा, अनाकारवत् तुर्यतुर्यो वा भवति | तुर्यतुर्यस्य निष्प्रतियोगिकत्वख्यापकः चशब्दः || ६ || यः तुर्यतुरीयत्वेन उक्तः एषोऽसौ परमहंसः परमात्मा स्वांशजतुर्याभेदेन भानुकोटिप्रतीकाशः युगपदुदितानन्तकोटिभानुसदृशप्रकाशः येन तुर्यप्रकाशेन इदं सर्वं जगत् व्याप्तं कबलितम् || ७ || हृत्पद्मे हंसभावनया तुर्यात्मदर्शनम् तस्याष्टधा वृत्तिर्भवति | पूर्वदले पुण्ये मतिः | आग्नेये निद्रालस्यादयो भवन्ति | याम्ये क्रौर्ये मतिः | नैर्-ऋते पापे मनीषा | वारुण्यां क्रीडा | वायव्यां गमनादौ बुद्धिः | सौम्येरतिप्रीतिः | ईशान्ये द्रव्यादानम् | मध्ये वैराग्यम् | केसरे जाग्रदवस्था | कर्णिकायां स्वप्नम् | लिङ्गे सुषुप्तिः | पद्मत्यागे तुरीयम् प्. ५६४) यदा हंसे नादो विलीनो भवति तत् तुरीयातीतम् || ८ || अथो नाद आधाराद् ब्रह्मरन्ध्रपर्यन्तं शुद्धस्फटिकसंकाशः स वै ब्रह्म परमात्मेत्युच्यते || ९ || तस्यैव पुनर्व्यष्टिप्रपञ्चारोपाधिकरणजीवभावमापन्नस्य अष्टधा अष्टप्रकारा वृत्तिर्भवति | कथमित्यत्र- तदधिष्ठेयं हृत्पद्मं द्वादशदलयुक्तम् इत्युक्तम् | तत्र दलचतुष्टयं हंसास्पृश्यं, शिष्टाष्टदलं व्यवहारयोग्यं भवतीति कृत्वा तत्प्रकार उच्यते | तत्र हंसः प्राणोपाधिकजीवः यदा पूर्वदले प्रविशति तदा पुण्ये कर्मणि मतिः भवति | यदा आग्नेयदले प्रविशति तदा निद्रालस्यादयो भवन्ति | यदा याम्यदले प्रविशति तदा क्रौर्ये कर्मणि मतिर्जायते | यदा नैर्-ऋते दले प्रविशति तदा पापे कर्मणि कर्तुं मनीषा उदेति | यदा वारुण्यां दिशि विद्यमानदले प्रविशति तदा क्रीडाविनोदमतिर्भवति | वायव्यां दिशि विद्यमानदले यदा प्रविशति तदा चलनगमनादौ बुद्धिः उदेति | यदा सौम्ये दले प्रविशति तदा विद्वदविदुषोः आत्मानात्मरतिप्रीतिः उदेति | यदा ईशान्ये दले प्रविशति तदा इहामुत्रोपयोगिद्रव्यादानमतिः जायते | यदा दलानां मध्ये प्रविशति तदा स्वातिरिक्तविषये वैराग्यमुदेति | यदा तत्केसरे संचरति तदा जाग्रदवस्था भवति | तदानीमहंकृतिः पूर्णविकासतामेति | यदा तत्कर्णिकायां संचरति तदा स्वप्नं पश्यति | तदानीमहंकृतेः अर्धविकासो भवति | तदन्तः सुषिरं तत्र यदा प्रविशति तदा सुषुप्तिः भवति | यथोक्तलक्षणपद्मत्यागे तुरीयं तत्साक्षात्कारो भवति | तदानीं हंसः प्रत्यगभिन्नपरमात्मतया अवशिष्यते | यदा हंसे प्रत्यगभिन्नपरमात्मनि नादोऽर्धमात्रात्- मको विलीनो भवति तदा स्वाधिष्ठेयगुणसाम्यादिप्रपञ्चवैरल्यात् तन्निरूपिताधिष्ठानताविरलं निरधिष्ठानं तुरीयातीतं निष्प्रतियोगिकब्रह्ममात्रं अवशिष्यते || ८ || एवं भावनाविशिष्टयोगिनः स्वदेहे तुर्यात्मा प्रकाशत इत्याह- अथो इति | अथो निर्विकल्पकसमाधिसिद्ध्यन्तरं योगिनो हृदये नादो प्. ५६५) गुणसाम्यासङ्गचिद्धातुः तुर्यः आधारात् मूलाधारमारभ्य ब्रह्मरन्ध्रपर्यन्तं तुर्यस्वरूपं शुद्धस्फटिकसंकाशं निर्दुष्टस्फटिकाचलवत् शुक्लतेजोमयं ब्रह्म स वै नादावभासकपरमात्मेत्युच्यते || ९ || अजपाहंसमन्त्रजपप्रकारः अथ हंस ऋषिः | अव्यक्तगायत्री छन्दः | परमहंसो देवता | हं बीजम् | सः शक्तिः | सोऽहं कीलकम् || १० || षट्संख्यया अहोरात्रयोरेकविंशतिसहस्राणि षट्छतान्यधिकानि भवन्ति | सूर्याय सोमाय निरञ्जनाय निराभासायातनुसूक्ष्म प्रचोदयादिति || ११ || अग्नीषोमाभ्यां वौषट् हृदयाद्यङ्गन्यासकरन्यासौ भवतः || १२ || एवं कृत्वा हृदये हंसमात्मानं ध्यायेत् || १३ || इत्थंविधतुर्यसाक्षात्कारात्ममन्त्रस्य ऋषिछन्दोदेवताङ्गन्यासध्यानसहितजपप्रकार उच्यते | अथ शयनादुत्थानानन्तरमहोरात्रगणनीयश्वाससंख्यया मुमुक्षुभिः अजपानुसंधानं कर्तव्यम् | तत उच्छ्वासनिश्वास एव आत्ममन्त्र उच्यते | निश्वास एव सकारस्त्वंपदार्थः | उच्छ्वास एव सबिन्दुकवियद्बीजं हमिति तत्पदार्थः | पुनःपुनः तयोर्योग एव असिपदार्थः || सकारः खेचरी प्रोक्तस्त्वंपदं चेति निश्चितम् | हकारः परमेशः स्यात्तत्पदं चेति निश्चितम् | सकारो ध्यायते जन्तुः हकारो हि भवेत् ध्रुवम् || इति श्रुतेः | अथ अजपात्ममन्त्रस्य हंसः प्रत्यगात्मैव ऋषिः | अव्यक्तगायत्री छन्दः | परमहंसः परमात्मा देवता | हं बीजम् | सः प्. ५६६) शक्तिः | सोऽहं कीलकम् | हंसात्मसाक्षात्कारार्थे विनियोगः | हंसामित्यादिषडङ्गन्यासः | ध्यानम्- गमागमस्थं गमनादिशून्यं चिद्रूपमेकं परमाद्वितीयम् | ध्यायन्ति ये सर्वजनान्तरस्थं नमामि हंसं परमात्मरूपम् || इति || लमित्यादि पञ्चपूजा | सोऽहमिति मन्त्रः | निश्वासोच्छ्वासवर्तनमेव हि जपः || १० || षट्संख्याकाः षडाधारदेवता गणेशादयः जपसंख्याकर्तारो भवन्ति | अहोरात्रविभक्तश्वाससंख्या निगद्यते | अहोरात्रयोरेकविंशतिसहस्राणि षट्छतान्यधिकानि भवन्ति | दिने दिने षट्छताधिकैकविंशतिसहस्रसंख्यया निश्वासोच्छ्वासाः सोऽहं सोऽहमिति जपन्ति | अजपां विशिष्टां चतुर्धा विभज्य तत्राद्यो भागः विराडात्मने सूर्याय समर्पयेत् | द्वितीयो भागः सूत्रभावमापन्नाय सोमाय प्रचोदयात् समर्पयेत् | तथा तृतीयो भागः अतनुसूक्ष्माभिधविराट्सूत्रारोपाधिकरणतया स्वाधिष्ठेयनिरञ्जनाय सर्वेश्वराय प्रचोदयात् विनियोजयेत् | अवशिष्टतुर्यभागस्तु स्वातिरिक्तस्थूलसूक्ष्मबीजाभासतदध्यक्ष- विराडादिगतहेयांशापवादाधिकरणतया निराभासाय प्रत्यगभिन्नपरमात्मने अतनुसूक्ष्मादिप्रपञ्चं प्रचोदयात् विलापयेत् || ११ || अग्नीषोमाभ्यां वौषट् हृदयाद्यङ्गन्यासकरन्यासौ भवतः इति | हंसौं इति दीर्घभाक् षट्पर्यायेषु, संसौं इति पञ्चमपर्यायस्थाने तदेव, नो चेदग्नीषोमाभ्यां वौषडिति वा कुर्यादित्यर्थः || १२ || एवमङ्गन्यासादिकं कृत्वैव हृदये हंसमात्मानं प्रत्यगभिन्नं ब्रह्मास्मीति ध्यायेत् || १३ || सगुणहंसध्यानेन परमात्मदर्शनम् अग्नीषोमौ पक्षावोंकारः शिर उकारो बिन्दुस्त्रिणेत्रं मुखं रुद्रो रुद्राणी चरणौ द्विविधं कण्ठतः कुर्यादित्युन्मनाः प्. ५६७) अजपोपसंहार इत्यभिधीयते || १४ || एवं हंसवशान्मनो विचार्यते || १५ || एवं निर्गुणध्यानाशक्तस्य सगुणध्यानप्रकार उच्यते- अग्नीषोमाविति | वैराजभावमापन्नहंसस्य अग्नीषोमौ सूर्याचन्द्रमसौ पक्षौ बाहू भवतः | अस्य शिरस्तु ओंकारः | अस्य त्रिणेत्रं सबिन्दुकाकारोकारमकाराः | अस्य मुखं रुद्रः | अस्य चरणौ पादौ रुद्राणी गङ्गा च भवतः | एवं सगुणनिर्गुणभेदात् द्विविधं हंसध्यानं कण्ठतः कण्ठरवेण मुमुक्षुः निश्शङ्कं कुर्यात् | इत्येवं प्रकारद्वयध्यानेन उद्गतं निरस्कृतं मनः तत्कार्यं यस्य सोऽयमुन्मनाः मुनिः | अजपा हंसविद्या तस्या उपसंहारः विलापनं यत्र प्रत्यगभिन्नपरमात्मनि सोऽयम् अजपोपसंहारः परमात्मेत्यभिधीयते || १४ || एवं सोऽहमिति हंसध्यानवशात् हंसातिरेकेण मनस्तत्कार्यं नेति नेति इति विचार्यते निर्धार्यते || १५ || अजपाजपेन दशनादानुभवः अस्यैव जपकोट्या नादमनुभवति | स च दशविधो जायते | चिणिति प्रथमः चिणिचिणीति द्वितीयः | घण्टानादस्तृतीयः | शङ्खनादश्चतुर्थः | पञ्चमस्तन्त्रीनादः | षष्ठस्तालनादः | सप्तमो वेणुनादः | अष्टमो भेरीनादः | नवमो मृदङ्गनादः | दशमो मेघनादः || १६ || यदि मुमुक्षुः सगुणनिर्गुणध्यानाशक्तो भवति तदा तूष्णीमहोरात्रनिर्वर्त्यनिश्वासोच्छ्वासरूपेण केवलाजपात्महंसमन्त्रजपं कुर्वतः स्वानुभवजन्यनादेयत्तं तदनुसंधानावान्तरफलं परमफलं चाह- अस्यैवेति | एवं प्. ५६८) यथोक्तस्य अस्यैव हंसमनोर्जपकोट्या कोटिसंख्याजपप्रभावेनायं मुमुक्षुः अनाहतचक्रे नादब्रह्म अनुभवति स्वानुभूतिप्रमाणतो जानाति | योऽयमनुभूतो नादः स च दक्षिणकर्णे दशविध उपजायते अभिव्यज्यते | क्रमशः तत्प्रकारमाह- चिणितीति | प्राथमिको नादः चिणितिध्वन्यात्मको भवति | द्वितीयो नादः चिणिचिणीति ध्वन्यात्मकः | तृतीयो नादः घण्टानादसमो भवति | चतुर्थस्तु शङ्खनादवदभिव्यक्तो भवति | पञ्चमस्तु वीणातन्त्रीनादवदभिव्यज्यते | षष्ठः तालनादनिभो भवति | सप्तमनादस्तु सुस्वरवेणुनादसमानो भवति | भेरीनादतुल्योऽयमष्टमः | मृदङ्गनादनिभोऽयं नवमः | दशमस्तु मेघनादसंनिभः || १६ || केवलदशमनादाभ्यासविधिः नवमं परित्यज्य दशममेवाभ्यसेत् || १७ || एवं दशविधनादेषु प्रथमादिनवमान्तं परित्यज्य मुमुक्षुः दशममेव अभ्यसेत् || १७ || तत्तन्नादानुभवफलम् प्रथमे चिञ्चिणीगात्रं द्वितीये गात्रभञ्जनम् | तृतीये भेदनं याति चतुर्थे कम्पते शिरः || १८ || पञ्चमे स्रवती तालू षष्ठेऽमृतनिषेवणम् | सप्तमे गूढविज्ञानं परावाचा तथाष्टमे || १९ || अदृश्यं नवमे देहं दिव्यं चक्षुस्तथामलम् | दशमं च परं ब्रह्म भवेद्ब्रह्मात्मसंनिधौ || २० || प्. ५६९) चिणिति प्राथमिको नादो य उक्तः तस्मिन् प्रथमे नादे यथावदनुभूते तदा स्वस्य चिञ्चिणीगात्रं प्रतिभाति | तथा द्वितीये तद्गात्रभञ्जनं भवति | तृतीये तु हृदयं भेदनं याति हृत्पद्मं विकासमेति | चतुर्थे तु स्वशिरः कम्पते- षण्मुखीमुद्रारूढस्य कुम्भकावस्थायां वायावाज्ञाचक्रं प्रविष्टे शिरः कम्पयतीत्यर्थः || १८ || पञ्चमे तन्त्रिनादेऽभिव्यक्ते स्वतालू स्रवती | षष्ठाख्यतालनादाभिव्यक्तौ चन्द्रसूर्यमण्डलद्वयैक्यसंजाता- मृतनिषेवणममृतास्वादनं भवति | सप्तमवेणुनादाभिव्यक्तौ स्वातिरिक्तजनानां यत् गूढं ब्रह्म तद्विषयकविज्ञानं जायते | अष्टमभेरीनादाभिव्यक्तौ सर्ववेदशास्त्ररूपिण्या परावाचा अयं योगी विजृम्भते, सकलविषयकशास्त्रविज्ञानी सर्वज्ञो भवति || १९ || नावमिकमृदङ्गनादाभिव्यक्तौ देहं पश्यतामदृश्यं भवति अन्तर्धानादिशक्तिमान् भवति | निर्मलदिव्यचक्षुः त्रिकालज्ञः ईश्वरो भवति | प्रथमादिनवमान्तनादतद्भवनानाविधसिद्ध्युपेक्षा- पूर्वकं दशममेघनादाभिव्यक्तौ ब्रह्मात्मसंनिधौ प्रत्यगभिन्ने ब्रह्मणि स्वाज्ञादिदृष्टिप्रसक्ततद्गतभेदैक्यकलना- पह्नवसिद्धब्रह्म भवेत्, तन्मात्रतया अवशिष्यत इत्यर्थः || २० || मनोलयात् ब्रह्मात्मत्वप्रकाशः तस्मान्मनो विलीने मनसि गते संकल्पविकल्पे दग्धे पुण्यपापे सदाशिवः शक्त्यात्मा सर्वत्रावस्थितः स्वयंज्योतिः शुद्धो बुद्धो नित्यो निरञ्जनः शान्ततमः प्रकाशयतीति वेदानुवचनं भवतीत्युपनिषत् || २१ || कथं पुनरेव ब्रह्ममात्रमवशिष्यते स्वातिरिक्तमनस्तत्कार्यसंकल्पपुण्यपापादिसत्त्वादित्यत आह- तस्मादिति | यस्मात् स्वाज्ञानविकल्पितोऽयं मन-आदिविकारपूगः तस्मात् स्वज्ञानेन मनो मनसि विलीने निर्मूलभावं प्. ५७०) गते तत्कार्यसंकल्पविकल्पे तत्कार्यपुण्यपापादावपि दग्धे सम्यग्ज्ञानाग्निना भस्मीकृतेऽथ स्वातिरिक्तमनस्तत्कार्यारोपाप- वादाधिकरणतया (ब्रह्मप्रणवार्थतुर्यतुर्यतया) सदाशिवः परमेश्वरः तत्तत्पदार्थगतसर्वशक्त्यात्मा सर्वत्र व्यक्ताव्यक्तप्र- पञ्चे सच्चिदानन्दात्मना अवस्थितः | जडप्रपञ्चानुयोगतो जडत्वं स्यादित्यत्र आह- स्वयंज्योतिरिति | स्वाज्ञदृष्टिप्रसक्तजडप्रपञ्चस्य स्वज्ञदृष्ट्या मिथ्यात्वेन तदनुयोगस्यापि तथात्वात् स्वयंज्योतिरात्मा ह्यजडात्मकः | अत एवायं शुद्धः अशुद्धमायावैरल्यात् | माया- पाये तदनुगतस्यापि तदात्वं स्यादित्यत आह- नित्य इति | सत्तामात्रत्वात् | मात्रशब्दस्येतरव्यवच्छेदकत्वेन तत्राञ्जनता स्यादित्यत आह- निरञ्जन इति | सत्तामात्रस्य निष्प्रतियोगिकत्वेनेतररञ्जनता कथं सेद्धुं पारयति ? स्वातिरिक्तास्तिताहेतुस्वाज्ञानहेतुतमःसत्त्वे निष्प्रतियोगिकसत्तामात्रता कुत इत्यत्र आह- शान्ततमः प्रकाशयतीति | यदवगतिसमकालं स्वाज्ञानतत्कार्यं तमोऽपह्नवपदं भजति सोऽयं शान्ततमः अत एवायं निष्प्रतियोगिकतया प्रकाशयति | अस्मिन्नर्थे पश्यतेहापि सन्मात्रमसदन्यत्, ब्रह्मव्यतिरिक्तं न किंचिदस्ति, अतोऽन्यदार्तं ब्रह्ममात्रमसन्न हि सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि | नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम् || इत्यादिवेदानुवचनं भवति | इत्युपनिषच्छब्दौ उपनिषत्परिसमाप्त्यर्थौ || २१ || श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना | लिखितं स्याद्विवरणं हंसोपनिषदः स्फुटम् | संसोपनिषदो व्याख्या सप्तत्यधिशतं स्मृता || इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे पञ्चदशसंख्यापूरकं हंसोपनिषद्विवरणं संपूर्णम् ########### END OF FILE #######