#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00616 Uniform title: hariharatāratamya Author : haradatta attributed to Description: Notes: Text selected by Dr. Elaine Fisher, funded by a fellowship awarded to Dr. Fisher by Stanford University. Data entered by the staff of Muktabodha under the direction of Dr. Anirban Dash. Revision 0: March 27, 2022 Publisher : vīraśaivaliṅgibrahmaṇagranthamala Publication year : 1904 Publication city : Solapur Publication country : India #################################################### वीरशैवलिंगिब्राह्मणधर्मग्रंथमाला ग्रंथ १४ वा (रामेश्वरपंडितकृत) हरिहरतारतम्यम् वेदमूर्ति मणूरमठाध्यक्ष मल्लिकार्जुन शास्त्री शके १८२६ - सन् १९०४ शुद्धिपत्रिका पृ० प० अशुद्ध शुद्ध १ २० विष्णू विष्णु ५ १९ साखे सारखे ६ १५ करून करून खरें ६ १६ त्याला त्यालाच ६ २२ करून करून खरें १५ ११ दुस??या दुस??याची २२ १३ महादेव महादेव २३ २२ का?ए का?एं पृ० १) || श्रीः|| || श्रीसदाशिवमूर्तये नमः || हरिहरतारतम्यप्रारंभः वृद्धान् श्रुतिस्मृतिपुराणविशेषभाषान् निःशंकबुद्धिकुशलान् प्रणिपत्य नित्यम् || अद्वैतमेकमभजं श्रितभेदबुद्धिः पृच्छाम्यंहं हरिहरस्थिततारतम्यम् || १|| एकः समुद्रसलिले वटपत्रशायी त्वन्यः समुद्रशरधिस्त्रिपुरप्रभेदे || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || २|| पृ० २ नहीं है| पृ० ३) स्थितकंदरेषु || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ६|| एकः सहस्त्रकमलैर्यमुपार्च्य तस्थावन्यस्तु तैरुपचितः सह मोदते स्म || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ७ || गाढांधकारघननीलशरीर एको ज्योत्स्नातिनिर्मलविशुद्धशरीर अन्यः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ८ || एकः कुमारमभजत्सुतरामनंगमन्यः प्रयाति किल शक्तिधरं कुमारम् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ९|| पृ० ४) स्त्रीरूपमाप किल पूर्वमभीष्टमेकस्त्वन्यस्तमेवमभजत्पुरुषस्य रत्या || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || १०|| मुष्णाति वल्लवगृहे नवनीतमेकस्त्वन्यो ददाति सुधियां परमामृतं तत् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ११|| एकः प्रयाति हि सकाम इति प्रसिद्धिमन्यो तथा निहतकाम इति प्रसिद्धिम् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयाः || १२|| पृ० ५) एकस्य जात इति संततलोकवार्ता नान्यस्य तादृशविदूषितदोषवार्ता || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || १३ || एकस्य वार्धुषिकजीवनवृत्तिरासीदन्यस्य चापि बहुभाग्यदवृत्तिरासीत् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || १४ || एकस्तु वाणगतिमेत्य क्वरवणोऽद्य? त्वन्योऽक्षिपत्युरजयाय? तमेव वाणम || को वानयोरधिक इत्यनुचिंत्य वृद्धाः संत्य वदंतु तमिमं वयमाश्रयामः || १५|| पृ० ६) एको विभाति रविचंद्रमयद्विनेत्रस्त्वन्यो रवींदुशिखिरूपघनत्रिनेत्रः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || १६|| एकः सदा सवितृमंडलमध्यवर्ती चान्यः सदा सवितृदंतभिदापटीयः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः|| १७|| एकस्तु दीनमजरक्षणदत्तबुद्धिस्त्वन्यस्तु मत्तगजशिक्षणदत्तबुद्धिः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || १८ || पृ० ७) गोपालकत्वमधिगम्य विभाति चैकस्त्वन्यो वृषाधिपतिनायक इत्यगादि || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || १९ || ब्रह्माणमाप निजनाभिसरोज एकोऽन्यो ब्रह्मणो नखमुखेन शिरश्चकर्त || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || २०|| विश्वैकदेशवसतिर्मुदमेति चैको विश्वेश्वरोऽयमिति याति हि कीर्तिमन्यः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || २१ || पृ० ८) एकोऽस्ति केशव इति प्रथितस्तु लोकेऽन्यो व्योमकेश इति याति जगत्प्रसिद्धिम् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || २२|| एकः समक्ष्युदहरन्निजमब्जपूर्त्यै त्वन्यस्तदा नयनमस्य ददौ च चक्रम् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || २३ || एको ह्यगाधलुब्दब्धिवजले? निममः? कैलासशैलशिखरे खलु वर्ततेऽन्यः | को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || २४ || पृ० ९) एकः सुरैरुपगिरं हि तपश्चकार तस्मै ददौ सुतमधिक्षिति सांबमन्यः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || २५ || एकस्तु नैल्यमुपयाति शरीरमात्रे त्वन्यस्तु नैल्यमुपयच्छति कंठमात्रे || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || २६|| एकः प्रसिद्धिमिह धेनुवधं विधाय व्याघ्रं निहत्य नितरामितरः प्रसिद्धः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || २७|| पृ० १०) एकः सदाष्टमहिषीरुपयाति शीघ्रमन्यो बिभर्ति नितरामपि चाष्टमूर्तिम् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || २८ || एकः सुवर्णवसनं विदधाति कट्यामन्यः सुवर्णगिरिचापमधात्कराग्रे || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || २९|| एको दवौ शिरसि बर्हिणपिच्छमात्रमन्यो मयूरवरवाहनपुत्रदृष्टिः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ३०|| पृ० ११) एको दधाति हृदि कौस्तुभरत्नमेकमन्यः सहस्रफणिरत्नमहींद्रहारम् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ३१|| इंद्रानुजत्वत उपेंद्र इतीड्य एक इंद्रादिभिः सुरगणैः परिपूज्यतेऽन्यः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ३२|| लक्ष्मीं वहन्नपि च वांछति वित्तमेको भिक्षामटन्नपि च यच्छति भाग्यमन्यः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ३३|| पृ० १२) एकः करेण धृतवानिह पांचजन्यमन्यस्तथैव बहुविश्वसृजः कपालम् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ३४|| एकस्तु माधव इति प्रथितः स्वनाम्ना त्वन्यो ह्युमाधव इति प्रथितः स्वनाम्ना || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ३५|| वृंदावने चरति गोभिरुपेत्य चैको त्वन्यो भृशं पितृवनेचरतीह भूतैः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः|| ३६|| पृ० १३) एकः कदापि मधुमात्रहृतिं चकार त्वन्यो महाविषहृतिं च तथा चकार || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ३७|| एकस्तु कैटभवधे निपुणस्तथैवमन्यस्तु मृत्युहनने निपुणो नितांतम् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ३८|| एको व्रजेषु कुरुते मृदुवेणुनादमन्यो लयेषु कुरुते विकटाट्टहासम् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः|| ३९|| पृ० १४) पक्षींद्रवाहन इति प्रथितोऽयमेकस्त्वन्यो य?होक्षवरवाहन इत्यभाणि || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ४०|| एकस्तु योनिज इति ह्यगमत्प्रसिद्धिमन्यस्त्वजात इति याति जगत्प्रसिद्धिम् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ४१|| एकस्त्वनित्य इति सुप्रथितो जगत्यामन्यस्तु नित्य इति शंसति लोकसिद्धिः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ४२|| एको श्रुलूखलनिबद्ध इति प्रसिद्धस्त्वन्यो विमुक्तभवपाश इति प्रसिद्धः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः|| ४३ || पृ० १५) एकस्तु पार्थरथवाजिकृतोपचारस्त्वन्यस्तु पार्थसमरप्रणुतप्रभावः|| को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ४४|| एको जनार्दन इति प्रकटीकृतोऽयमन्यस्तु शंकर इति स्फुटमीड्यते स्म || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ४५|| भक्तं बलिं पुनरधःकृतवानिहैको भक्तं कुबेरमधिकश्रियमाधृतोऽन्यः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ४६|| पृ० १६) व्याधादिनीचहृतनैजवधूक एको व्याधायितोऽपि निगमैरभिराश्रितोऽन्यः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ४७|| एकस्य सेवकजना भृशदग्धगात्रा ह्यन्यस्य सेवकजनाः सविभूतिरेखाः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ४८|| पृ० १७) एको दधौ सितपृदं तिलकं ललाटे त्वन्यो दधौ हुतवहं तिलकं ललाटे | को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ४९|| एको दधाति तुलसीकृतमालिकां हृद्यन्यो दधाविति विधातृकपालमालाम् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ५०|| गोपालकैरनुसृतः सुतरामिहैको दिक्पालकैरनुसृतस्तु दिगंबरोऽन्यः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ५१ || एको मिलत्यनु * *? * * * * * * * * * * * * * * * * * * * * || वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ५२|| पृ० १८) एको मृगाभिलषितो गहने चचार ह्यन्यो मृगं करतलेन वहंश्चचार || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ५३|| एको दशास्यहृतनैजवधूक आसीदन्यो वधूविलसितार्धशरीर आसीत् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ५४|| पृ० १९) एकस्तु शैलनिचयैः शरधिं ववंध ह्यन्यस्तमेव शरधिं त्रिपुरे चकार || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ५५ || एकस्तु मर्कटभटेन ददाह लंकां ह्यन्यः करेण च ददाह पुरत्रयं तत् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ५६|| एकस्तु मर्कटभटैर्निजकार्यकारी ह्यन्यः सुरेद्रनिवहैर्निजकार्यकारी || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ५७|| एको विवेश? सरयूसलिलांतराले त्वन्यो दधौ त्रिपथगां कणवज्जटायाम्|| को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ५८|| पृ० २०) एकः शिवं जगति पूजयति स्म सेतौ रामेश्वरोऽद्य तु जनैः परिदृश्यतेऽन्यः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः|| ५९ || एकस्तु मत्स्यतनुमेत्य गतोऽब्धितोये ह्यन्यस्तु मत्स्यकलितध्वजधक् प्रसिद्धः|| को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ६०|| पृ० २१) एको नृसिंहतनुमेत्य जघान दैत्यमन्यस्तमेव हतवान् शरभावतारे || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ६१|| एको बटुः कपट इत्यखिलैरभाणि विद्यागुरुस्त्वपर इत्यखिलैरभाणि || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ६२|| एकोऽपि चौर्यहतवानिह ताटकां स्त्रीमन्यो जघान हि मदांधकराक्षसेंद्रम् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ६३|| * * * * * * * * * * * * * *? येऽपि हि चास्ति शक्तिः || पृ० २२) को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयामाश्रयामः || ६४|| एकः प्रसिद्ध इह संप्रति वासुदेवो देवो महानिति सदा च ततः प्रसिद्धः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः|| ६५ || एकः पदेन शकटं सहसा नुनोद ह्यन्यः पदांगुलिनखेन गिरिं नुनोद || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ६६ || एकः पदत्रयमितं त्रिजगच्चकार ह्यन्यः पदाहतिहतं त्रिजगच्चकार || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ६७|| पृ० २३) एकस्य रूपमधिगच्छति तामसत्वमन्यस्य रूपमधिगच्छति सात्विकत्वम् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ६८|| नीलोऽपि नीलयमुनाजलमग्न एकः शुभ्रोऽपि शुभ्रतरदिव्यधुनीधरोऽन्यः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ६९|| एकस्य सूनुरपि नेत्रकृशानुदग्धो ह्यन्यस्य वत्स उदितः खलु शाश्वतायुः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ७०|| एको वराहतनुमेत्य भुवं विलेख ह्यन्यो भुवं पुरजये स्वरथीचकार || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ७१|| एको चलां निजवधूं न शशाक रोद्धमन्यश्चकार वनितां स्फुटमर्धमात्रे || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ७२|| एको विभाति नितरां शिखिपिच्छचूडस्त्वन्यो विभाति नितरां नवचंद्रमौलिः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः|| ७३ || एकस्य सूकरजनिः सुलभास्ति हीना ह्यन्यस्य चेच्छरभरूपमतिप्रसिद्धम् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ७४ || एको विभाति भृशमेकमुखांबुजेन ह्यन्यो विभाति भुविपंचमुखैः प्रसिद्धैः|| को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः|| ७५|| पृ० २६) एकश्चतुर्भुज इति प्रथितस्त्रिलोक्यामन्यो भृशं दशभुजैः प्रथितो जगत्याम् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ७६|| पंचायुधप्रबलशक्तिमुपैति चैकः सर्वायुधप्रबलशक्तिमुपैति चान्यः|| को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः|| ७७ || एको मुमूर्च्छ गहने च किरातवाणादन्यो ह्यमूर्च्छय दुरुत्रिपुरस्थदैत्यान् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः|| ७८|| एकस्तु चक्रमधिगम्य ररक्ष लोकांश्चक्रप्रदः पुररिपुः सुरचक्रवर्ती || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ७९|| एकस्त्रिपादिति भृशं जगति प्रसिद्धो ह्यन्यस्य सेवकजनोऽपि तदा प्रसिद्धः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ८०|| एकस्तु साधु हयवक्त्र इति प्रसिद्धो ह्यन्यस्य पुत्र इभवक्त्र इति प्रसिद्धः|| को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ८१|| पृ० २८) एकस्य भाति चतुरानन एव सूनुरन्यस्य भाति हि षडानन एव सूनुः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः|| ८२ || आदाय वेदमदिशद्विधये पुरैकोऽन्यो वेदवाजिषु विधिं विदधे स सूतम् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ८३ || एको जघान नरकं सुतरामिहैकमन्यो जघान नरकान्सुतरामनेकान् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः|| ८४|| पृ० २९) एकस्तु याचकबलिं च पुनर्ययाच ह्यन्यो ददाविह परत्र च सौख्यमेव || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ८५ || ग्राहं निहत्य करिराजमरक्षदेको मृत्युं निहत्य मुनिपुत्रमरक्षदन्यः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ८६|| एकः पपौ स्तनरसं विषतीव्रवेगमन्यः पपौ भुवनभीकरकालकूटम् ||? को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ८७|| भक्तेन केनचिदबंधयदब्धिमेको भक्तेन केनचिदपीतयदब्धिमन्यः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ८८ || एकोऽवधीद्रिपुगणं च कृतावतारः शत्रून् जयेति च परः समदादनुज्ञाम् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमायश्रामः || ८९ || एकोऽर्जुनस्य जयदः खलु सूतभावादन्योऽर्जुनस्य जयदोऽभवदस्त्रदानात् || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ९० || पृ० ३१) एको व्यधात्तृणमिवाद्रिवरं सुमेरुं गोवर्धनाद्रिमितरस्तु करे दधानः || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ९१ || एकं द्विजातिमखिलेषु सुरेषु मध्ये क्षत्रं परं तु परमार्थविदो वदंति || को वानयोरधिक इत्यनुचिंत्य वृद्धाः सत्यं वदंतु तमिमं वयमाश्रयामः || ९२ || अद्वैतमेव भजनीयमतोऽप्रमेयं नित्यं निरंजनमनाकृतिनिर्विकल्पम् || सत्यं परात्परमखंडचिदात्मभावमानंद्यमच्युतमजं तमिहाश्रयामः || ९३|| पृ० ३२) श्रीकांतनामविबुधेंद्रतनूभवेन रामेश्वराध्यरसुधामणिना प्रणीतम् || लोके त्विदं हरिहरस्थिततारतम्यं मत्वाधिकं हि शतकं सुधियः पठंतु || ९४ || || इति हरिहरतारतम्यं समाप्तम् || ########### END OF FILE #######