#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M04001 Uniform title: hayaśirṣsapañcarātra Secondary title: The Hayasirsa Paancharatram Editor : Pandit Bhuban Mohan Sankhyatiratha Description: A Vaishnava Pancharatra Samhita dealing entirely with matters related to the construction and re-construction of temples and consecration of images. Notes: Data entered by the staff of Muktabodha under the direction of Mark S.G. Dyczkowski. Revision 0: April 27, 2017 Publisher : Varendra Research Society Publication year : 1952 Publication city : Rajshahi East Bengal Publication country : India #################################################### प्. १) हयशीर्षपञ्चरात्रम् आदिकाण्डम् प्रथमः पटलः (शास्त्रावतारः) ओं नमो विघ्नेश्वराय [ओं नमो गणेशाय ख्, ग्] | मार्कण्डेय उवाच - कथं हयशिरा विष्णुः प्रादुर्भूतः पुरा विभुः | किं निमित्तञ्च देवेशो दधार रुचिरं वपुः || १ || हयशीर्षं जगत्स्वामी पुरा नारायणः प्रभुः | श्रुतमासीच्च भवता यदुक्तं परमेष्ठिना || २ || आद्य यत् पञ्चरात्राणां तन्ममाचक्ष्व पृच्छतः [पृच्छतः क्, पूर्वतः ख्, ग्] | भृगुरुवाच - शृणु वत्स ! प्रवक्ष्यामि पञ्चरात्रं पुरातनम् || ३ || सप्तिशीर्षं नमस्कृत्य यस्माद् भक्तोऽसि केशवे | तस्मादर्हसि तच्छ्रातुं पञ्चरात्रं पुरातनम् || ४ || [सप्तीत्यतः पुरातनमित्यन्तं पादचतुष्टयं ख्, ग्, पुस्तकयोर्नास्ति |] --------------------------------------------------------------------------------------------------------------------- ------- श्रीश्रीहयशीर्षाय नमः | १|२| हयशीर्षमिति - जगत्स्वामी नारायणः प्रभुः किं निमित्तं हयशीर्षं वपुर्दधरिति पूर्वश्लोकेन श्रुतमासीदिति परमेष्ठिनोक्तमित्यनेन चान्वयः | ४ | प्रकृतशास्त्रश्रवणोपयोगितामाह सप्तिशीर्षमित्यादिना | सप्तिशीर्षं हयशीर्षम् प्. २) पुरा किल विरूपाक्षः सार्द्धं गौर्या महेश्वरः | चतुर्मुखञ्च [च क्, स क्, ग्] पप्रच्छ वैराजभवने स्थितम् [स्थितं क्, ग्, स्थितः ख्] || ५ || महेश्वर उवाच - पञ्चरात्रं पुरा पृष्टस्त्वया हयशिरा विभुः | मधुकैटभयोर्हन्ता सैकार्णवञ्जले विभुः || ६ || समर्पितेषु देवेषु [समर्पितेषु वेदेषु ख्, ग्, क् पुस्तके मनं इति |] चतुर्ष्वेव महामते | तत् सर्वं मे समाचक्ष्व विस्तराच्चतुरानन || ७ || ब्रह्मोवाच - एकार्णवे दुरालोके नष्टे स्थावरजङ्गमे | नष्टचन्द्रार्कपवने विनष्टग्रहतारके || ८ || --------------------------------------------------------------------------------------------------------------------- ------- ५ | स्थितमितिपाठे चतुर्मुखविशेषणम् | स्थित इतिपाठे महेश्वरविशेषणं तत्र आगत्य स्थित इत्यर्थः | ६ | सैकार्णवजल इति - गम्यमानस्य भूतल इत्यस्य विशेषणम् | ७ | समर्पितेष्विति - वेदेषु समर्पितेषु त्वत्तो वेदानपहृत्य रसातलं प्रविष्टाभ्यां मधुकैटभाभ्यां तानादाय भगवता हयशिरसा तुभ्यं प्रत्यर्पितेष्वित्यर्थः | ८ | अत्र ब्रह्मोवाचेत्यनन्तरं - द्विधा चकार वै तूर्णं मण्डलन्तु हिरण्मयम् इति ख् ग् पुस्तकयोरधिकः पाठो दृश्यते परमत्र प्रकृतप्रलयवर्णनप्रसङ्गे हिरण्याण्डस्यानवसरत्वात् ततो नारायणो देवस्तेजसा तेन वै सृजत् | हिरण्यमण्डं भगवान् इत्यादिवक्ष्यमाण- चतुर्दशश्लोकांशेन ततः स्वयम्भुर्भगवानिति प्रक्रम्याभिहितेन तदण्डमभवद्धैम मित्यादिमनुवचनेन च सृष्टिप्राक्क्षण एव हिरण्मयाण्डोत्पत्तिवर्णनात् द्विधा चाकरवं तूर्णं मण्डलन्तु हिरण्मयम् | इति वक्ष्यमाणग्रन्थेन प्. ३) शेषपर्यङ्कमासाद्य सुप्ते देवे जनार्दने | शृणु वै [वै क्, मे ख्, ग्] यत्तदा वृत्तमेकार्णवज्जले पुरा || ९ || शेते योऽर्णवमध्यस्थो नागशययागतः प्रभुः | नारायणः स भगवानादिदेवः पुरातनः || १० || संहृत्य सर्वलोकान् वै योगनिद्रावशं गतः | तस्य सुप्तस्य देहे तु तेजो दिव्यं महद् विभोः || ११ || पद्मरूपेण नाभौ तु प्रभूत [तु प्रभूतं क्, तत्प्रसूतं ख्, ग्] निर्जगाम ह | प्रदीप-इव तत् पद्मं प्रदीप्तं विष्णुतेजसा || १२ || सहस्रादित्यसङ्काशं सहस्रदलकेशरम् | ततो नारायणो देवस्तेजसा तेन वै सृजत् || १३ || हिरण्यमण्डं भगवान् गर्भस्तस्मिन्नहं पुनः | द्विधा चाकरवं [चाकरवं क्, चकार वै ख्, ग्] तूर्णमण्डं तत्तु [अण्डं तत्तु क्, असुप्तं तु ख्, ग्] हिरण्मयम् || १४ || तत्र चेदं महद्रूपं [रूपं क् कूपं ख्, ग्] हिरण्मयमिदं मम | चतुर्वाहुं चतुर्वक्त्रं जटामुकुटमण्डितम् || १५ || --------------------------------------------------------------------------------------------------------------------- ------- पीनरक्त्यापत्तेः , क् संज्ञिते प्राचीनतमपुस्तकेऽपरिगृहीतत्वाच्च नायमंशो मूले निवेशितः | १३ | सृजदित्यडागमाभाव आर्षः | १४ | गर्भ इति - तस्मिन् अण्डे गर्भभूतोऽहं तदण्डं द्विधाकरवमित्यन्वयः तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् | स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्विधेति मनुवचनसंवादात् | चकारेति पाठेऽप्यहमिति योज्यम् | प्. ४) एवम्भूतदपुः सोऽहं तस्मिन् पद्मे व्यवस्थितः | आवर्तयस्तदा [आवर्त्तयं क्, अवर्त्त(र्ण) यं ख्, ग्] वेदान् [वेदान् ख्, ग्, वेदं क्] साङ्गोपाङ्गपदक्रमान् || १६ || उपासाञ्चक्रिरे मह्यं वेदा देहभृतस्तदा [देहभृतः क्, दरभृतः ख्, ग्] | वेदाभ्यासरतेस्तत्र स्वेदविन्दुरजायत || १७ || स पद्मपत्रमासाद्य द्विधाभूतोऽपतत्तदा | रजस्तमोमयौ तस्माज्जातौ दैत्यौ बलोत्कटौ || १८ || मधुकैटभनामानौ महाबलपराक्रमौ | ततस्तौ मम वेदान् वै जह्नतुः पापनिश्चयौ || १९ || सशरीरेषु वेदेषु हृतेष्वथ महेश्वर [महेश्वर ग्, महेश्वरः क्, ख्] | बोधितोऽसौ मया देवः पद्मनाभस्य चाननात् || २० || --------------------------------------------------------------------------------------------------------------------- ------- १५ | चतुर्वाहुमिति न्वागम आर्षः | १९ | पापनिश्चयाविति साभिप्रायं विशेषणं यागादिप्रतिपादकानां वेदानां विध्वंसनबुद्ध्या नतु तेषु बहुमानेनेत्यर्थः | २० | सशरीरेष्विति साङ्गेषु शिक्षाकल्पाद्व्यङ्गसहितेष्वित्यर्थः | महेश्वर इति निर्विसर्गपाठे शिवसम्बोधनम् | सविसर्गपाठे तु देव इत्यस्य विशेषणं तत्र महेश्वरशब्दो न शिववाची | पद्मनाभस्येति - पद्मनाभस्य आननात् असौ देवो भगवान् विष्णुर्मया बोधितः स्त्रोत्रादिभिराविर्भावितः | एतेन स विबुद्धस्तदा देवः कृत्वा हयशिरोधनम् इत्यनेन च गर्भोदशय-बालमुकुन्दमुखाविर्भूतं हयशीर्षात्मकं द्वितीयं रूपमित्यवगन्तव्यम् अन्यथा द्वितीयेन शरीरेण रसातलतलं गतः इति वक्ष्यमाणग्रन्थो नोपपद्यते | अथ यदि द्वितीयेन शरीरेणेत्यनेन गर्भोदशय एव भगवान् स्वं रूपं प्. ५) स विबुद्धस्तदा देवः कृत्वा हयशिरोधरम् | शशाङ्कशतसङ्काशं नानाभरण-भूषितम् || २१ || चतुर्भुजं गदा-चक्र-पद्म-शार्ङ्गधरं [पद्मशार्ङ्गधरं क्, शङ्खपद्मधरम् ख्, ग्] शुभम् | द्वितीयेन शरीरेण रसातलतलं गतः || २२ || तेनाश्वशिरसा गत्वा वेदानादाय शाश्वतान् | पौष्णवं [पौष्णवं ख्, ग्, पौक्षवं क्] भवनं दिव्यं महर्षिगणसेवितम् [सेवितं क्, भूषितं ख्, ग्] || २३ || सोऽप्यसौ प्रददौ वेदान् भूय एव जगद्गुरुः | तस्मिन् काले मया पृष्टो देवो यत्तत् शृणुष्व मे || २४ || कियन्ति पञ्चरात्राणि त्वया प्रोक्तानि वै पुरा | कथं ते स्थापनं देव क्रियते मुक्तिकाङ्क्षिभिः [भुक्ति क्, ख्, मुक्ति (क् पादटिप्पन्यां) भक्ति ग्] || २५ || --------------------------------------------------------------------------------------------------------------------- ------- परिहाय हयशीर्षात्मकं द्वितीयं रूपं दधरित्युच्यते पद्मनाभस्येति भेदबोधिका षष्ठी आननादित्यपादानबोधिका पञ्चमी च नोपपद्येति | तस्मात् सत्रे ममास भगवान् हयशीरषाथो साक्षात् स यज्ञपुरुषस्तपनीयवर्णः | छन्दोमयो मखमय इत्यादिश्रीमद्भागवत-द्वितीयस्कन्धीय- सप्तदशाध्यायैकादशश्लोकेन तथा विष्णुः शिवाय जगतां कलयावतीर्णस्तेनाहृता मधुभिदा श्रुतयो हयास्ये | इत्येकादशस्कन्धीय- चतुर्थाध्याय-सप्तदशश्लोकेन चांशावताररूपतया प्रतिपादनादपर एव गर्भोदशयादयं हयशीर्षो नामेति प्रतिज्ञातमुपपद्यत इति सर्वमवदातम् | अत्र विष्णुकर्णमलोद्भूतावित्यादि-मार्कण्डेयपुराणीय- देवीमाहात्म्यवचनविरोधस्तु कल्पभेदेन समाधेयः | प्. ६) आचार्यमूर्तिपानाञ्च कीदृशं लक्षणं विभो | [आचार्येत्यादि विभो इत्यन्तं पादद्वयं ख्, ग् पुस्तकयोर्नास्ति |] वास्तुयागविधानञ्च अर्घ्यदानविधिन्तथा || २६ || शिलान्यासविधानञ्च क्षेत्रादिसाधनन्तथा | प्रासादलक्षणञ्चैव [सर्वं क्, चैव ख्, ग्] प्रतिमालक्षणन्तथा || २७ || प्रतिष्ठापञ्चकं सर्वं ध्वजारोहविधिन्तथा [विधिं ख्, ग् विधिः (?) क्] | यदप्यन्यद् भवेत् पृष्टप्रतिष्ठाङ्गं [पृष्टं क् लक्ष्म् ख्, ग्] सुरेश्वर || २८ || अज्ञानाद् वा [वा क्, च ख्, ग्] प्रमादाद् वा [वा क्, च ख्, ग्] यन्मया नानुकीर्तितम् | तत् सर्वमखिलं देव ! प्रसादाद् वक्तुमर्हसि || २९ || इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (शास्त्रावतारो नाम) प्रथमः पटलः [प्रथमः पटलः ख्, ग् प्रथमपटलम् क्] || १ || आदितः श्लोकसंख्या - २९ --------------------------------------------------------------------------------------------------------------------- ------- २६ | अर्घ्यदानविदिमित्यादीनां द्वितीयान्तानां वक्तुमर्हसीत्यनेनान्वयः | २९ | तत्सर्वमखिलमिति - सर्वमिति कर्मपदम् अखिलमिति क्रियाविशेषणं सामग्र्येणेत्यर्थः अतो न पौनरुक्त्यम् | प्. ७) द्वितीयः पटलः (पञ्चरात्रस्वरूपनिरूपणम्) श्रीबगवानुवाचं - यत्त्वया पृष्टमखिलं तत् सर्वं कथयामि ते | प्रोक्तानि पञ्चरात्राणि कल्पे कल्पे पुरा मया || १ || व्यस्तानि मुनिभिर्लोके पञ्चविंशतिसंख्यया | आद्यं समस्ततन्त्राणां हयशीर्षं प्रकीर्त्तितम् || २ || त्रैलोक्यमोहनं तन्त्रं वैभवं पौष्करन्तथा | नारदीयं तथा तन्त्रं प्राह्रादं [प्राह्रादं क्, ग्, प्राह्लादं ख्] गार्ग्यगालवम् || ३ || श्रीप्रश्नं शाण्डिलं तन्त्रं तन्त्रमीश्वरसंहिता | सत्योक्तमुत्तमं [सत्योक्तमुत्तमं क्, सत्योक्तयुक्तमत् (?) ख्, ग्] तन्त्रं वाशिष्ठं शौनकं तथा || ४ || नारायणीयमन्यच्च तन्त्रं ज्ञानार्णवं तथा [ज्ञानार्णवं तथा क्, ज्ञानस्य कारणम् ख्, ग्] | स्वायम्भुवं कापिलञ्च विहगेन्द्रं तहापरम् || ५ || आत्रेयं नारसिंहाख्यमानन्दाख्यं तथारुणम् | बौधायनं तथा तन्त्रं तन्त्रं वैश्वावतारितम् [वैश्वावतारितम् क्, विश्वाभिभाषितम् ख्, ग्] || ६ || --------------------------------------------------------------------------------------------------------------------- ------- १ | प्रोक्तानीति एतेन पञ्चरात्राणां प्रवाहरूपतयानादित्वाभिधानादमीषां सादित्ववादिनो निरस्ताः | २ | आद्यमिति - आदौ भवमित्यर्थः सृष्टेः प्राक् प्रथममेव भगवताभिहितत्वात् प्. ८) अष्टाक्षरविधानन्तु महातन्त्रं तदुच्यते | समासैर्विस्तरैरेते भूतलं व्याप्य संस्थिताः || ७ || तन्त्रं भागवतत्त्रैव शिवोक्तं विष्णुभाषितम् | पद्मोद्भवं पुराणञ्च वाराहञ्च तथापरम् || ८ || इमे भागवतानान्तु [तु क्, ग्, च ख्] तथा सामान्यसंहिता | व्यासोक्ता संहिता चान्या [अन्या क्, एव ख्, ग्] तथा परमसंहिता || ९ || यदन्यन्मुनिभिर्गीतमेतेष्वेवाश्रितं हि तत् | प्रतिष्ठाद्येकदेशञ्च तत् सर्वं विष्णुभाषितम् || १० || कर्त्तुमिच्छति यः [यः क् यत् (?) ख्, ग्] पुण्यं मम मूर्तिप्रतिष्ठया | अन्वेषणीयस्त्वाचार्यस्तेन लक्षणसंयुतः || ११ || संशुद्धब्रह्मयोनिस्तु प्रलयोत्पत्तिसंस्थितिम् [संस्थितिं क् संस्थितः ख्, ग्] | यो वेत्ति कुलजो धीमानाचार्यत्वन्तु [तु क् च ख्, ग्] सोऽर्हति || १२ || ब्राह्मणः सर्ववर्णानां पञ्चरात्रविशारदः | क्रोधलोभविनिर्मुक्तो दोषमात्सर्यवर्जितः || १३ || --------------------------------------------------------------------------------------------------------------------- ------- १० | यदन्यदिति - एतेन प्रागुक्तानि पञ्चविंशतिसंख्यकानि मुख्यतया पञ्चरात्नशब्दप्रतिपाद्यानि अन्यानि तु भगवदुपासनपराणि तन्त्रपुराणादीनि पञ्चरात्रशास्त्रेष्वेवान्तर्भूतानीत्यवधेयम् | ततश्च भगवदुपासनपरं यत् शास्त्रं तदेव पञ्चरात्रमिति प्रतिभाति | ११ | कर्त्तुमिति - पाञ्चरात्रस्वरूपं निरूप्य प्रतिष्ठानुगुणाचार्यलक्षणमाह कर्त्तुमिच्छतीत्यादिना | प्. ९) क्षयापस्माररहितः कुष्ठरोगविवर्जितः | अन्यूनानतिरिक्ताङ्गो युवा लक्षणलक्षितः || १४ || अनन्यदेवताभक्तः शूद्रान्नपरिवर्जितः | ब्राह्मणानामलाभे [अलाभे क्, अभावे ख्, ग्] तु क्षत्रियो वैश्यशूद्रयोः || १५ || क्षत्रियाणामलाभे तु वैश्यः शूद्रस्य कल्पितः | कदाचिदपि शूद्रस्तु न चाचार्यत्वमर्हति || १६ || गृहस्थं ब्रह्मचर्यस्थं ककाराष्टकवर्जितम् | गुरुं कुर्वीत सततमुपवासव्रते रतम् || १७ || --------------------------------------------------------------------------------------------------------------------- ------- १३ | ब्राह्मण इति - त्रैवर्णिकानां यथायोगमाचार्यत्वं शूद्राणां तदनर्हत्वञ्चाह | तत्र गुणान् ब्राह्मणस्तदादिवर्णचतुष्टयानां ब्राह्मणालाभे क्षत्रियो वैश्य-शूद्रयोः क्षत्रियालाभे वैश्यः शूद्रस्याचार्यत्वेऽधिकारी परं शूद्रस्य न क्वापि तत्राधिकार इति वक्तुमुपक्रमते ब्राह्मण इत्यादिना अर्हतीत्यन्तेन | वक्ष्यमाणगुणसम्पन्नः पञ्चरात्रविशारदो ब्राह्मणः सर्ववर्णानामाचार्य इत्यर्थः | १५ | अनन्येति | अनन्यदेवताभक्तः प्रतिष्ठाप्यदेवतोपासनानिरतः तन्त्रसारे वैष्णवे वैष्णवो ग्राह्यः शैवे शैवश्च शक्तिके | इत्यादिना तत्तद्देवोपासकानामेव तत्र तत्राचार्यत्वप्रशस्तेः | न तु देवान्तरद्वेषी तस्य द्विजातिगुरुदेवानां निन्दकः इत्यादि - तृतीयपटलवचनेन गुरुत्वे निषेधात् | १७ | गृहस्थमित्यादि - ब्रह्मचर्यस्थं गृहस्थमित्यर्थः | गृहिणो ब्रह्मचर्यन्तु तासामाद्याश्चतस्रस्तु निन्दितैकादशी तथेत्यादिमनुवचनप्रतिषिद्ध- तत्तद्रात्रिवर्जनपुरःसरम् ऋतौ भार्यामुपेयात् ऋतुकालाभिगामी स्यादित्यादिवचनपरिप्राप्तर्त्तुकालाभिगमनमित्यवधेयं निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् | ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन् | इति मनुवचनसंवादात् | न च गृहस्थं ब्रह्मचर्यस्थञ्चेति वैयधिकरण्याभिप्रायकमिदमिति वाच्यं सर्वशास्त्रार्थवेत्ता च प्. १०) ऋजुस्वभावं मधुरस्मितपूर्वाभिभाषिणम् [मधुर-ख्, ग्, मधुरं क् ; भाषिणं क्, भाषितं ख्, ग्] | एवंविधेन गुरुणा स्थापिते पुरुषोत्तमे || १८ || तद्देशाधिपतिर्यष्टा शिल्पिनः स्थापकादयः | प्रतिनन्दन्ति मुचिरं [सुचिरं ख्, ग्, स्थविरं (?) क्] सर्वे ते नात्र संशयः || १९ || इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (पञ्चरात्रस्वरूपनिरूपणं नाम्) द्वितीयः पटलः || २ || आदितः श्लोकसंख्या - ४८ --------------------------------------------------------------------------------------------------------------------- ------- गृहस्थो देशिको भवेत् | दैवे पित्रे च मिश्रे च गृहस्थो देशिको भवेदित्यागमतत्त्वविलासधृतकुलार्णव-यामलवचनाभ्यां गृहस्थानामेवाचार्यत्वेऽधिकारश्रवणात् शैवः सौरो नैष्ठिकश्चेत्यादिवक्ष्यमाण-तृतीयपटलवचनेन स्वयमेव नैष्ठिकानामत्रानधिकारप्रतिपादनाच्चेति ध्येयम् | १८ | भाषिणमिति ताच्छील्ये णिनिः स्मितपूर्वाभिभाषणस्वभावमित्यर्थः | भाषितमिति पाठे तु सोऽर्थो न घटते | प्. ११) तृतीयः पटलः (वर्जनीयाचार्यलक्षणम्) श्रीभगवानुवाच - स्थापकान् संप्रवक्ष्यामि विपरीतगुणैर्युतान् [विपरीत क्, विपरीतैः ख्, ग्] | तन्त्रेऽस्मिन् वर्जिता ये च प्रतिष्ठां तैर्न कारयेत् || १ || शैवः सौरो नैष्ठिकश्च नग्नः सङ्करजोऽशुचिः | वृद्धः कुत्सितमूर्तिर्यो महापातकचिह्नितः || २ || कुष्ठी च कुनखी श्वित्री श्यावदन्तः क्षयी तथा | कच्छदेशसमुत्पन्नः कावेरीकोङ्कनोङ्गतः || ३ || कामरूपकलिङ्गोत्थः काञ्ची-काश्मीर-कोशलः | कुवृत्तिश्च कुसङ्गश्च महाराष्ट्रसमुद्भवः || ४ || कुबुद्धिश्चाथ [कुबुद्धिः क्, कुवृत्तिः ख्, ग्] लम्बोष्ठी निष्ठीवी [निष्ठीवी-क्, निष्ठीव-ख्, ग्] घर्घरस्वरः | अर्बुदी गारुडी व्यङ्गो [व्यङ्गो क्, व्यङ्गी ख्, ग्] गर्वितो बधिरस्तथा || ५ || --------------------------------------------------------------------------------------------------------------------- ------- १ | वर्जनीयाचार्यलक्षणमाह - स्थापकानिति | स्थापको गुरुराचार्यो देशिक इत्यादयोऽभिन्नार्थाः | विपरीतगुणैरिति - प्रागुक्तसंशुद्धब्रह्मयोनित्व- प्रलयोत्पत्तिसंस्थितिवेदित्वादिप्रशस्तुगुणविलक्षणैर्निन्दितगुणैरित्यर्थः | २ | वर्जनीयानाह शैव इत्यत आपटलान्तम् | ५ | अत्र कुवृत्तिरिति ख् ग् पुस्तकधृतः पाठो न मूले निवेशितः कुवृत्तिरिति पूर्वश्लोकोक्तेन पौनरुक्त्यापत्तेः | निष्ठीवधर्धरस्वर इति ख् ग् पुस्तकधृतः पाठो नादृतः प्. १२) तन्त्रविद्वेषकश्चैव परद्रोहरतस्तथा | कुण्डः काकस्वरः क्लीवः कातरः क्रोधनस्तथा || ६ || पुनर्भूश्च स्वयम्भूश्च गोलको नास्तिकस्तथा | जडोऽतिगौरः खल्वाटो [खल्वाटः ख्, खल्वीटः क्, खन्दीचः ग् (पादटिप्पण्यां) खल्लाटः] हीनाङ्गः स्थूल एव वा [वा ख्, ग्, च क्] || ७ || अतिकृष्णोऽघृणः पापी कृशो ह्रस्वोऽलसस्तथा | व्यापन्नोऽसंस्कृतश्चैव उद्विग्नो दीनएव वा [वा ख्, ग्, च क्] || ८ || व्रतोपवासहीनश्च वृषलीपतिरेव च | [व्रतेत्यत एव चेत्यन्तं पादद्वयं क्, पुस्तके नास्ति |] पण्यरङ्गोपजीवी च पण्यस्त्रीपारदारिकः || ९ || --------------------------------------------------------------------------------------------------------------------- ------- निष्ठीवो मुखेन श्लेष्मनिरसनमेव तेन घर्घरस्वरायोगात् | परिगृहीतपाठे तु निष्ठीवी मुखेनानवरतश्लेष्मनिरसनकारी घर्घरस्वरः श्लेष्मप्रकोपादिनिबन्धन उष्ट्रादिवत्कठोरस्वर-इत्यर्थः शोभनः स्यात् | ६ | तन्त्रविद्वेषकः शास्त्रविद्वेषो तस्य शास्त्रप्रतिपाद्ये भगवति प्रतिष्ठादौ च प्रणयासम्भवात् | कुण्डः जीवत्पतिकायां परस्त्रियामुत्पन्नः | ७ | गोलक इति - गोलकः मृतपतिकायां परस्त्रियामुत्पन्नः | खल्वाटः इन्द्रलुप्तिकः स्वभावलुप्तलोमशिरस्क इत्यर्थः | यथा नीतिशतके भर्तृहरिः - खल्वाटो दिवसेश्वरस्य किरणैः सन्तापिते मस्तके | गच्छन्देशमनातपं द्रुतगतिस्तालस्य मूलं गतः | इति प्. १३) आचार्यपुत्रकादीनां विद्वेष्टा परसेवकः | भोजकः सेवकश्चैव व्यसनी पिशुनो [पिशुनः ख्, ग् पिशुनी क्] गदी || १० || अतिरोगी भिषक् चैव साहसी समयच्युतः | द्विजातिगुरुदेवानां निन्दकः स्थापकस्तथा || ११ || पिङ्गाक्षो मधुवर्णाक्षो [मधुवर्णाक्षः क्, धूमवर्णाक्षः ख्, ग्] विडालाक्षस्तथैव च | मत्सरी गण्डमाली च वकवृत्तिरतस्तथा || १२ || उपायदेशहीनश्च कक्खटः [३कक्खलः क्, कलढः ख्, कक्ख (ट) लः ग्] कुत्सितव्रतः | निर्द्दयश्चैव निःसत्वो नैपुण्यपरिवर्जितः || १३ || प्रतिष्ठातन्त्ररीतिज्ञोऽवेदवेदाङ्गपारगः [रीतिज्ञः क्, किञ्चिज्ज्ञः ख्, ग् ; अवेद क्, वेद ख्, ग्] | वर्जयेत्तु [वर्जयेत्तु ख्, ग् वर्जयीत क्] प्रयत्नेन सर्वज्ञमपि नास्तिकम् || १४ || --------------------------------------------------------------------------------------------------------------------- ------- १० | आचार्येति - आचार्य पुत्रकादीनां विद्वेष्टा अथ च परसेवकः | य आचार्यपुत्रकादिषु विद्वेषं प्रकाशयति अथ च तदितरेषु येषु केषुचिद् भृत्यवदानुकूल्यं विधत्ते इत्यर्थः | सेवकः अनुजीवी सेवकार्यनुजीविन इत्यमरः | अतो द्वितीयसेवकशब्दस्य न पौनरुक्त्यम् | पिशुन इति - पिशुनशब्दस्य विशेषणतया तत इन्-प्रत्ययः कथं स्यादिति पिशुनीति पाठो न मूले निवेशितः | १३ | कक्खट इति - निष्ठुरप्रकृतिरित्यर्थः | कक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढमित्यमरः | १४ | प्रतिष्ठेति - प्रतिष्ठातन्त्ररीतिज्ञोऽपि अवेदवेदाङ्गपारगश्चेत् तर्हि स वर्जनीय इत्यर्थः | यो वेदवेदाङ्गादिपारदर्शितामलभमानः प्रतिष्ठाप्रतिपादकं शास्त्रीयं प्. १४) पदवाक्यप्रमाणज्ञो [पद ख्, ग् पर क्] ब्राह्मणो वेदपारगः | रञ्जितः पशुशास्त्रेण नाचार्यो न स [नाचार्यो न स ख्, ग् नाचार्येण स (?) क्] देशिकः || १५ || एतैः संस्थापितो देवः फलदो [फलदोन क्, न शुद्ध्येत ख्, ग्] न कथञ्चन || १६ || यद्येतैर्वर्जितैर्विष्णोः स्थापनं क्रियते क्वचित् | असाधकं भुक्तिमुक्त्योर्निष्फलं तन्न संशयः || १७ || इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (वर्जनीयाचार्यलक्षणं नाम) तृतीयः पटलः || ३ || आदितः श्लोकसंख्या - ६५ --------------------------------------------------------------------------------------------------------------------- क्रममात्रं वेत्ति तस्य तत्तदितिकर्त्तव्यताक-यागादिविषयक- विशिष्टज्ञानासम्भवेन वर्जनीयत्वमवधेयम् | ख् ग् पुस्तकपाटानुसारेण तु वेदवेदाङ्गपारगोऽपि प्रतिष्ठातन्त्रे किञ्चिज्ज्ञः प्रतिष्टातन्त्रेष्वपरिपक्वज्ञानश्चेद् वर्जनीय इत्यर्थः | १५ | पदवाक्यप्रमाणज्ञोऽपि वेदपारगोऽपि पशुशास्त्रेण वेदवाद्व्यज्ञानविरोधिशास्त्रेणानुरञ्जितबुद्धिश्चेत् तस्य नाचार्यत्वम् इत्यर्थः | प्. १५) चतुर्थः पटलः (आचार्यलक्षणम्) श्रीभगवानुवाच - विशेषेण पुनर्वक्ष्ये आचार्यस्य च [च क्, तु ख्, ग्] लक्षणम् || १ || आकाशवायुतेजांसि पानीयं वसुधा तथा | एता वै रात्रयः ख्याता [ख्याता क्, प्रोक्ता ख्, ग्] ह्यचैतन्यास्तमोत्कटाः [ह्यचैतन्या ख्, ग् स्त (?) (स्त्व) चैतना क्] || २ || रात्रीणामप्यथैतासां व्यतिरिक्तं निरञ्जनम् | स यदा बुध्यते तत्त्वं तदा मुक्तोऽनुकीर्त्यते || ३ || तदासौ भगवान् विष्णुः परमात्मा न संशयः || ४ || --------------------------------------------------------------------------------------------------------------------- १ | द्वितीयपटले संशुद्धब्रह्मयोनिस्त्वित्यादिना सामान्यतो लक्षितमाचार्यमिह विशिनष्टि विशेषेणेत्यादिना | २ | आकाशेति | आकाशादितः पृथिव्यन्ताः पञ्च पदार्थाः भूतानीत्यर्थः रात्रयः ख्याताः | तत्र हेतुमाह-ह्यचैतन्येति | हि यस्मात् आकाशादयः अचैतन्याः चैतन्यशून्या जडा इत्यर्थः | तमोत्कटाः उत्कटतमोगुणाञ्च अहङ्कारस्य तमःप्रधानादंशात् तन्मात्रानुक्रमेण तेषामुत्पादात् तस्माज्जडत्वावरकत्वादिसाधर्म्येण तेषां रात्रित्वमभ्युपगन्तव्यमित्यर्थः | ३-४ | एतत्प्रतिपादनफलमाह - रात्रीणामिति | साधनसिद्धः तपःप्रभावान्निर्मलस्वान्तो विवेकवारिविधौतमतिः समुच्छिन्नसंसारबन्धनो यदा एतासां रात्रीणां पूर्वोक्तानां रात्रिशब्दप्रतिपादितानां व्यतिरिक्तं पृथग्भूतं निरञ्जनं निरुपाधिकं तत्त्वं परमात्मानं बुध्यते सच्चिदानन्दमयोऽयं परमात्मा भगवान् विष्णुः जडजगद्भ्यो भिन्न प्. १६) अपि पापसमाचार. सर्वलक्षणवर्जितः | देशिकः स तु विज्ञेयः संसारार्णवतारकः || ५ || सर्वत्र व्यतिरिक्तन्तु आत्मानं वेत्ति यो द्विजह् | सर्वलक्षणहीनोऽपि स गुरुर्नात्र संशयः || ६ || चतुष्पात्संहिताञ्चेमां यो वेत्ति द्विजसत्तमः | सर्वलक्षणहीनोऽपि स यज्ञं [स यज्ञं ख्, ग् सर्वज्ञं (?) क्] कर्त्तुमर्हति || ७ || पञ्चरात्रप्रबुद्धस्तु [तू क् च ख्, ग्] सिद्धान्तस्यास्य तत्त्ववित् [तत्त्ववित् क् भाववित् ख्, ग्] | सर्वलक्षणहीनोऽपि आचार्यः स विशिष्यते || ८ || --------------------------------------------------------------------------------------------------------------------- इति वस्तुतत्वमवधारयति तदा स मुक्तो ऽनुकीर्त्त्यत इत्यर्थः | तदा तादृशज्ञानक्षणे असाववधारितवस्तुतत्त्वः जीवन्म्क्त इत्यर्थः परमात्मा भगवान् विष्णुरिव भवतीत्यर्थः | ब्रह्मविद् ब्रह्मैव भवतीति श्रुतेः | ५ | एवम्भूतस्य परमात्मज्ञानिन आचार्यत्वमाह - अपीत्यादिना | पापसमाचारोऽपि सन्ध्यावन्दनादिनित्यनैमित्तिककर्मनिरपेक्षतया श्रुतिस्मृतिविहिताचारनिरपेक्षतया च लोकदृष्टा पापितया परिगणितोऽपि सर्वलक्षणहीनोऽपि प्रागुक्तसंशुद्धब्रह्मयोनित्वाद्याचार्यलक्षणरहितोऽपि स एव देशिकः संसारार्णवतारको विज्ञेयः | एतादृशेनाचार्येण प्रतिष्ठायां विहितायां मुक्तिरवश्यम्भाविनीत्यर्थः | ६ | अमुमेवार्थं लोकप्रतीत्यर्थं संक्षिप्य दर्शयति - सर्वत्रेति | ७ | आचार्यप्रकारान्तरमाह - चतुष्पादिति | यो द्विजसत्तमः इमां चतुष्पात्संहितां आदिसङ्कर्षादिपादचतुष्टयात्मिकां हयशीर्षपञ्चरात्ररूपां प्रतिष्ठा-तदङ्गप्रासाद-प्रतिमा-तदुपकरण- प्रकारादिप्रतिपादिकां वेत्ति सर्वलक्षणनैरपेक्ष्येण तस्य आचार्यत्वमुपयुज्यत इत्यर्थः | ८ | आचार्यप्रकारान्तरमाह - पञ्चरात्रेति | पञ्चरात्रशास्त्रे यत्र क्वचन न तु प्. १७) तारको जायते नैव [तारको जायते नैव ख्, ग् यज्ञः कार्यस्तु तेनैव क्] ज्ञानहीनो यदाऽनघ | सम्यक्प्रबुद्धतत्त्वार्थो [प्र ख्, ग् सं क्] गुरुस्तारक इष्यते || ९ || यस्य विष्णौ परा भक्तिर्यथा [यथा ख्, ग् यस्य क्] विष्णौ तथा गुरौ | स एव स्थापको ज्ञेयः सत्यमेतद् वदामि ते || १० || नाभिषेकं तु यः कुर्यात् प्रतिष्त्ःआलोभमोहितः [प्रतिष्ठा क्, प्रतिष्ठां ख्, ग्] | स याति नरकं घोरं सह शिष्यैर्न संशयः || ११ || इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (चतुर्थः) आचार्यलक्षणपटलः || ४ || आदितः श्लोकसंख्या - ७६ --------------------------------------------------------------------------------------------------------------------- हयशीर्षीय एव प्रागुक्तेन पौनरुक्त्यापत्तेः | प्रबुद्धः प्रकृष्टज्ञानसम्पन्नः तथा सिद्धान्तार्थस्य पञ्चरात्रप्रतिपादित-भगवदुपासनरूपस्य तत्ववित् तद्विषयकतत्त्वज्ञानवान् य आचार्यः स सर्वलक्षणहीनोपि विशिष्यते इत्यर्थः | पञ्चरात्रशास्त्रस्य भगवदुपासनपरतया तज्ज्ञानप्रकर्षे सति लक्षणान्तरनैरपेक्ष्येण अपाञ्चरात्रिकेभ्यस्तत्तल्लक्षणलक्षितेभ्यो वैशिष्ट्यमाचार्यगतमवधेयम् | १० | यस्येति - गुरुदेवतयोरभेदज्ञानस्यैव भक्तिस्वरूपत्वादित्यर्थः | प्. १८) प्ञ्चमः पटलः (एतच्छास्त्रानधिकारिनिरूपणं प्रतिष्ठायां दिङ्नियमः भूमिपरीक्षा च) श्रीभगवानुवाच - इदं न हेतुवादिभ्यो वक्तव्यं नास्तिकाग्रतः [अग्रतः यतः ख्, ग्] || जैमिनिः सुगतश्चैव नास्तिको नग्न एव च | कपिलश्चाक्षपादश्च षडेते हेतुवादिनः || २ || एतन्मतानुसारेण वर्त्तन्ते ये नराधमाः | ते हेतुवादिनः प्रोक्तास्तेभ्यस्तन्त्रं [तेभ्यस्तन्त्रं क्, तन्त्रं तेभ्यः ख्, ग्] न दापयेत् || ३ || अथ दिङ्नियमोपेतं देवतास्थापनं शुभम् | पुरे देशि यथा देवाः स्थाप्याः शृणु तथा मम || ४ || --------------------------------------------------------------------------------------------------------------------- १ | अथेदानीमेतच्छास्त्रानधिकारिणो निरूपयति इदमित्यादिना | शास्त्रमिदं हेतुवादिभ्यो वक्ष्यमाणेभ्यो नास्तिकाग्रतश्च न वक्तव्यमित्यर्थः | आस्तिक्यमस्ति वेदैकगम्यं वस्त्विति निश्चयः | (अहिर्बुध्न्यसंहिता ३ | २८ |) इत्यास्तिक्यलक्षणवहिर्भूतानां विशेषतो युक्तिमनुरुन्धानानाममीषां प्रतिकूलतर्कावष्टम्भेन भगवदुपासनपराणां शास्त्राणामप्रामाण्यं प्रतिपिपादयिषूणां हेतुवादिनां नास्तिककोटावन्तर्भावात् | योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विजः | स साधुभिर्वहिष्कार्यो नास्तिको वेदनिन्दकः || (मनु २ | २२) इत्यादिभिर्निन्दितत्वाच्च | अत्र हेतुवादित्वादेव नास्तिकानां संग्रहे पुनर्नास्तिकाग्रत इत्युपादानं तेषां विशिष्य वर्जनार्थम् | नास्तिका यत इति पाठे इदं हेतुवादिभ्यो न वक्तव्यं यतस्ते हेतुवादिनो नास्तिका इत्यर्थः | २ | पूर्वोक्तान् हेतुवादिनो निरूपयति जैमिनिरित्यादिना | ३ | तन्मतानुसरणे दोषमाह एतदित्यादिना | ४ | प्रतिष्ठायां देवताभेदेन दिग्भेदनियममाह अथेत्यादिना भिद्यत इत्यन्तेन | प्. १९) नगरग्राममध्ये तु ब्रह्मणः स्थानमुत्तमम् | आखण्डलस्य सूर्यस्य पूर्वेणायतनं शुभम् || ५ || स्वदिग्गतं कृशानोस्तु मातॄणाञ्चैव दक्षिणे | भूतानामालयो यस्मिन् धर्मराजालयः शुभः || ६ || चण्डिकायाः पितॄणाञ्च दैत्यानां नैरृते भवेत् | प्रचेतसः समुद्रस्य सिन्धूनां पश्चिमे भवेत् || ७ || फणिनाञ्चैव [फणिनां क्, सालिनां (?) ख्, ग्] वायव्यां वायोः स्थानञ्च [च ख्, ग् तु क्] तच्छुभम् | यक्षाधिपस्य स्कन्दस्य उदीच्यां स्थानमुच्यते || ८ || चण्डीशस्य महेशस्य ऐशान्यां स्थानमिष्यते | विष्णोः स्थानन्तु सर्वत्र [स्थानन्तु सर्वत्र क्, स्थानं समासाद्य ख्, ग्] कालभेदेन भिद्यते [भिद्यते क्, विद्यते ख्, ग्] || ९ || नगराभिमुखाः सर्वे स्थापिताः शुभदा नृणाम् || १० || अज्ञानाद्वा प्रमादाद्वा कृता यदि पराङ्मुखाः | तदा शास्त्रादिभिर्विद्वानुपायमिममाचरेत् || ११ || तद्वर्णभूषणोपेतं तदेवायुधवाहनम् [वाहनम् ख्, ग् भूषणं क्] | पुरस्याभिमुखं भित्तौ तं देवं तत्र संलिखेत् || १२ || --------------------------------------------------------------------------------------------------------------------- ------- १० | एवं प्रतिष्ठायां देवताभेदेन दिग्भेदनियमे सत्यपि नगराभिमुख्यं सर्वत्र विधेयमित्याह नगराभिमुखा इति | ११ | दैवात् तद्वैमुख्ये जातेए प्रतिकारमाह अज्ञानादित्यादिद्वाभ्याम् | प्. २०) पूर्वं देवकुलं पीड्य प्रासादं स्वल्पकं त्वथ [त्वथ क्, तथा ख्, ग्] | समं वाप्यधिकं वापि न कर्तव्यं विजानता || १३ || उभयोर्द्विगुणां सीमां त्यक्त्वा चोच्छ्रयसम्मिताम् | प्रासादं कारयेदन्यं नोभयं पीडयेद् बुधः || १४ || दिग्विशेषेण मे स्थानं शृणु त्वं [त्वं ख्, ग् मे क्] सुरसत्तम [सुरसत्तम क्, सुसमाहितः ख्, ग्] | ग्राममध्येऽथवारण्ये [ग्राममध्यऽथवारण्ये क्, कान्तारे पर्वतेऽरण्य ख्, ग्] नदीनां सङ्गमे तथा || १५ || नगरस्य समन्ताच्चा सर्वत्राहं प्रतिष्ठितः | भुक्तिमुक्तिप्रदः पुंसां विशेषं शृणु चापरम् || १६ || ऐन्द्र्यां विभूतये शस्तमाग्नेययां [विभूतये शस्तं ख्, ग् प्रशस्तं विज्ञेयं क्] परिवर्जयेत् [परिवर्जयेत् ख्, ग्, परिवर्जितम् क्] | याम्यां प्रशान्तये शस्तं नैरृत्यां भयदं भवेत् || १७ || --------------------------------------------------------------------------------------------------------------------- ------- १३ | पूर्वमिति - अनभिमतं पूर्वकृतं देवालयं भङ्क्त्वा तत्र तन्न्यूनपरिमाणं वा तत्समपरिमाणं वा तदधिकपरिमाणं वा स्वाभिमतं प्रासादान्तरं न विधेयमित्यर्थः | १४ | तर्हि तत्रैव बलवति नवप्रासादनिर्माणाभिलाषे जाते किं विधेयमित्यत्राह उभयोरिति | पूर्वस्थितप्रासादोभयपार्श्वयोः उच्छ्रयसम्मितां सीमां द्विगुणितां तत्प्रासादोच्छ्रयपरिमाणद्विगुणपरिमाणमित्यर्थः त्यक्त्वा प्रासादान्तरं कुर्यात् न तु तन्मध्ये इत्याह नोभयमिति | १५ | तत्र कामनाभेदेन दिग्विशेषमाह दिगित्यादिना तृणामित्यन्तेन | प्. २१) द्रव्यादीनां [द्रव्यादीनां क्, क्रव्यादीनां ख्, ग्] प्रसिद्ध्यर्थं वारुण्यां राज्यसिद्धये | वायव्यां वर्जयेद् यत्नात् कौवर्या पुष्टिवर्द्धनम् || १८ || ऐशान्यां यजनं श्रेष्ठं सर्वसम्पत्करं नृणाम् | एवं ज्ञात्वा [ज्ञात्वा क्, ग्, कृत्वा ख्] विशेषेण ततो भूमिं परीक्षयेत् || १९ || लक्षणैर्द्देशिकश्रेष्ठो यथा तदधुनोच्यते | सरभीणां रतिर्यत्र सवत्सानां वृषैः [सवत्सानां वृषैः क्, वत्सानां वृषभैः ख्, ग्] सह || २० || सुन्दरीणां रतिर्यत्र पुरुषैः सह सत्तम | राज्ञां पूर्वं गृहं यस्यामग्नीनां यज्वनान्तथा [यज्वनां ख्, यज्ञिनां क्] || २१ || काश्मीरचन्दनामोदा [मोदा क्, मोद ख्, ग्] कर्पूरागुरुगन्धिनी | कमलोत्पलगन्धा च जातीचम्पकगन्धिनी || २२ || पाटलामल्लिकागन्धा नागकेशरगन्धिनी | दधिक्षीराज्यगन्धा च मदिरासवन्धिनी || २३ || सुगन्धिव्रीहिगन्धा च शुभद्रव्यस्वना च या | सर्वेषां वर्णिनां भूमिः सर्वसाधारणा मता || २४ || --------------------------------------------------------------------------------------------------------------------- ------- २० | इदानीं प्रतिष्ठोपयोगिभूमिपरीक्षा निरूप्यते | तत्र प्रथमं प्रशस्तभूमिलक्षणमाह सुरभीणामित्यादिना | प्. २२) दुर्गन्धा दुःखना या च नानावर्णा च दुःपुरा | वृत्तार्द्धचन्द्रसदृशा विस्ताराद्द्विगुणायता [आयता क्, यदा ख्, ग्] || २५ || विकर्णा कर्णहीना च वक्रा सूचीमुखी तथा | द्विकर्णा सूर्पसदृशी गोमुखी च त्रिकोणिका || २६ || षडस्रा शूलसदृशी दन्तिपृष्ठोपमा च या | सरीसृपसमा या च दिङ्मूढा शकटाकृतिः [दिङ्मूढा शकढाकृतिः क्, दिङ्मुखा शकढोपमा ख्, ग्] || २७ || एवंप्रकारा या भूमिर्वर्ज्या यत्नेन देशिकैः || २८ || इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (पञ्चमः) भूतलक्षणटलः || ५ || आदितः श्लोकसंख्या - २०४ --------------------------------------------------------------------------------------------------------------------- ------- २५ | तत्र निन्दितभूमिलक्षणमाह दुर्गन्धेत्यत आपटलान्तम् | इह दुःपुरेत्यत्र दुर्भगेति शब्दकल्पद्रुमे मन्दिरशब्दे हयशीर्षीयभूमिलक्षणे पाठो दृश्यते प्. २३) षष्ठः पटलः (भूमेः परीक्षा शोधनञ्च) श्रीभगवानुवाच - प्रासादस्य विशेषेण प्रोक्ता भूमिश्चतुर्विधा [प्रोक्ता भूमिः क्, भूमिः प्रोक्ता ख्, ग्] | सुपद्मा भद्रिका पूर्णा धूम्रावेगिन्यथापरा || १ || चन्दनागुरुकर्पूरगन्धा शुभस्वनार्जुनैः [चन्दनागुरुकर्पूरगन्धा शुभस्वनार्जुनैः क्, पुन्नागै दिवि पार्श्वैश्च चननैः सरलार्जुनैः (?) ख्, ग्] | तिलकैर्नारिकेलैश्च वर्हिः [वर्हिः क्, वर्हि ख्, ग्] काशैश्च शोभिता || २ || पद्मेन्दीवरसंयुक्ता सा सुपद्मेति विश्रुता | नदीसमुद्रायतनतीर्थपर्यन्तशोभिता [पर्यन्त क्, पर्वत ख्, ग्] || ३ || पुष्पवृक्षसमाकीर्णा क्षीरिवृक्षोपशोभिता [क्षीरि क्, क्षीर ख्, ग्] | वनोद्यानलतागुल्मफुल्लस्तम्बसमावृता [वन क्, वर ख्, ग्] || ४ || --------------------------------------------------------------------------------------------------------------------- ------- १ | पूर्वपटले सामान्येन विहिताविहितभूमिलक्षणमभिधाय इह सलक्षणांस्तद्भेदानाह सुपद्मेत्यादिना | आवेगिनीति धूम्राविशेषणम् | अपरा प्रागुद्दिष्टप्रशस्तभूमित्रयविलक्षणा आवेगिनी शर्कराकण्टकगृध्रादिकृतसम्भ्रमा भूमिर्धूम्रेत्यर्थः | अत्र धूम्रा चेति सुरोत्तम इति वैदिकसर्वस्वधृतः पाठः | २ | तत्र प्रथमां सुपद्मां भूमिं लक्षयति चन्दनेत्यादिना | ३ | द्वितीयां भद्रां भूमिं लक्षयति नदीत्यादिना | प्. २४) यज्ञीयवृक्षमुक्षेत्रयुक्ता [यज्ञीय ख्, ग्, यज्ञिय क्] भद्रेति कीर्तिता | वकुलाशोकबहुला तथा प्लक्षाम्रलोहितैः [लोहितैः क्, रोहितैः ख्, ग्] || ५ || माधवीवेष्टिता या च मुद्गनिष्पावकोद्रवैः | शूकधान्यैश्च पुन्नागैर्गिरिपार्श्वगता च या || ६ || तोयञ्च स्वल्पकं [तोयञ्च स्वल्पकं क्, स्वल्पञ्च तोयकं ख्, ग्] यस्यां पूर्णा सा परिकीर्तिता | विल्वार्कस्नुहिपीलूनां वनैर्या परितो वृता || ७ || सशर्करा च कठिना युक्ता कण्टकिभिर्द्रुमैः | गृध्रगोमायुकाकानां श्येनानां याकुला कुलैः || ८ || धूम्रेति कीर्त्तिता सा तु तां यत्नात् परिवर्जयेत् | ततो [ततः क्, ज्ञात्वा ख्, ग्] भूमिं परीक्षेत पूर्वोदक्प्लवनां [पूर्वोदक्प्लवनां क्, पूर्वोत्तरप्लवां ख्, ग्] शुभाम् || ९ || --------------------------------------------------------------------------------------------------------------------- ------- ५ | तृतीयां पूर्णां भूमिं लक्षयति वकुलेत्यादिना | लोहितैः रक्तचन्दनैः रक्तशोभाञ्जनैर्वा | इह परत्र चोपलक्षणे तृतीया | निष्पावः श्वेतशिम्बिधान्यम् | कोद्रवो धान्यभेदः | कोरदूषस्तु कोद्रवः इत्यमरः | पुन्नागः स्वनामख्यातः पुष्पप्रधानो वृक्षः | ७ | चतुर्थो धूम्रां भूमिं लक्षयति विल्वार्केति | पीलुः गुर्जरदेशख्यातो गुडफलाख्यो वृक्षः | ९ | अथ भूमिपरीक्षा निरूप्यते तत इत्यादिना | प्रागुक्तरीत्या निन्दितां भूमिमुपेक्ष्य प्रशस्ताञ्च आदेयतया निरूप्य तस्यां वक्ष्यमाणक्रमेण परीक्षितायां चेदुत्तीर्येत तर्हि गृह्णीयादन्यथा परिहरेदित्यर्थः | प्. २५) असङ्कटां तथा च्छन्दाकल्पतोयां [च्छन्दां क्, च्छन्नां ख्, ग्] परिप्लुताम् [तोयां परि क्, तोयपरि ख्, ग्] | संपूर्यमाणे खाते तु तथाधिकमृदं शुभाम् || १० || कुसुम्भसदृशं वर्णं यस्यां न म्लानिमृच्छति | न निर्वाति तथा दीपं तोयं शीघ्रं न जीर्यति || ११ || --------------------------------------------------------------------------------------------------------------------- ------- १० | असङ्कटां अनल्पावकाशां | छन्दां अभिमताम् इष्टसाधनतया प्रतीयमानामित्यर्थः | संपूर्यमाण इति | विशदीकृतमेतद् विश्वकर्मप्रकाशे प्रथमाध्यायेनिखनेद्धस्तुमात्रन्तु पुनस्तेनैव पूरयेत् | पांशुनाधिकमध्योना श्रेष्ठा मध्याधमा क्रमात् इत्यनेन | मयमते च चतुर्थाध्याये - पूरिते तन्मृदा खाते समता मध्यमा मता | उत्तमा भूर्मृदाधिक्या हीना हीना मृदा मही | इत्यनेन | ११ | कुसुम्भेति | अस्याः परीक्षायाः प्रकारः सौरकाण्डे - श्वभ्रे वा वर्णसदृशान् कुसुमान् सन्निवेशयेत् | प्रदोषे पूर्ववत् सूर-उद्यमे तान् निरीक्षयेत् | अम्लानं यस्य वर्णस्य तस्यासौ शुभदा भवेदिति | अत्र श्वेतारुणेत्याद्येतत्पटलद्वादशश्लोकेन यो ब्राह्मणादिगतः श्वेतादिवर्णभेदो निरूपितस्तदनुसारेण श्वेतरक्तपीतकृष्णकुसुमेषु श्वभ्रे सन्निवेशितेषु यद्वर्णकुसुमस्य वर्णम्लानिर्न जायेत तद्वर्णस्य सा भूमिः प्रशस्तेति बोध्यम् | कुसुम्भसदृशमित्युपादानन्तु प्रासादनिर्माणस्य प्रायशः क्षत्रियकर्तृकत्वदर्शनादिति ध्येयम् न निर्वातीति | अस्याः परीक्षायाः क्रमः सौरकाण्डे - श्वभ्रान्तःकुम्भवक्त्रेषु आमपात्रं निवेशयेत् | गव्येन हविषापूर्य पूर्ववद् वर्तिकल्पना | पूर्वादिक्रमयोगेन ज्वलनं वीक्षयेत्ततः | यद्देशे भिद्यते पात्रं या च वर्तिर्विनश्यति | तस्य सा शस्यते नैव शस्यते यस्य दीप्यते | सर्वा ज्वलति वै यत्र सर्वकामप्रदा तु सा | इत्यनेन प्रदर्शयिष्यते | अत्र सर्वकामप्रदेति सर्वेषां कामप्रदेत्यर्थः | अतएव प्राच्यां दीपशिखया उज्ज्वलत्वे तद् वास्तु ब्राह्मणस्य प्रशस्तं दक्षिणादिदिशि शिखायास्तथात्वे क्षत्रियादेः सर्वशिखासमत्वे सर्ववर्णानां स वास्तुदेशः प्रशस्त इति स्मार्तभट्टाचार्याः | तोयमिति | अयमपि परीक्षाप्रकारो विशदीकरिष्यत सौरकाण्डे - प्रदोषे वारिणा गर्तं पूर्य सूर्योदये गुरुः | वीक्षेद् यत्नेन मतिमानुत्तमाधममध्यमाम् | प्. २६) श्वेतारुणा पीतकृष्णा [अरुणा पीत क्, अरुणपीत ख्, ग्] विप्रादीनां प्रशस्यते | आज्यासृग्गन्धमद्यानां तुल्यगन्धा च या भवेत् || १२ || मधुरा च कषाया च अम्ला च कटुका च या | कुशैः काशैः शरैस्तद्वद्दूर्वाभिर्याति संवृता [याति क्, या च ख्, ग्] || १३ || तस्यां पुण्येऽथ नक्षत्रे कुर्याद् भूमिपरिग्रहम् | प्राकारसीमापर्यन्तं ततो भूतबलिं हरेत् || १४ || --------------------------------------------------------------------------------------------------------------------- ------- तोये तिष्ठति श्रेष्ठा स्यात् सपङ्का मध्यमा भवेत् | शुष्का विस्फुटिता हीना वर्ज्या यत्नेन वै मही | इत्यनेन | १२ | वर्णभेदेन भूमिभेदमाह श्वेतेति | श्वेता ब्राह्मणानां रक्ता क्षत्रियाणां पीता वैश्यानां कृष्णा शूद्राणामित्यर्थः | आज्यामृगिति - अत्रापि विप्रादीनामिति सम्बध्यते धृतगन्धा भवेद् राज्ञी रक्तानुगन्धिनी | क्षारगन्धा भवेद् वैश्या शूद्रा मद्यानुगन्धिनी (अपरा २ |) इति विशेषदर्शनात् | १३ | मधुरेति - अत्रापि विप्रादीनामिति सङ्गमनीयः मधुरा ब्राह्मणी भूमिः कषाया क्षत्रिया मता | अम्ला वैश्या भवेद् भूमिः कटुका शूद्रिणी मता | (विश्व २) इति रसभेददर्शनात् | कुशैरिति - अत्रापि विप्रादीनामिति बोध्यम् सौरकाण्डे कुशैः श्रैस्तथा काशैर्दूर्वाभिर्या समन्विता | सा विप्रादिक्रमेणेह शस्यते वसुधानध | इति दर्शनात् | भूमिलक्षणपरीक्षादिविस्तरस्तु सौरकाण्डे द्वितीयपटले द्रष्टव्यः | १४ | एवं परीक्षया प्रशस्ततया ज्ञायमानाया भूमेः परिग्रहमाह तस्यामिति | अत्र नक्षत्र इत्येतत्कल्पविहितशुभदिनोपलक्षकं तथा पुण्यतिथोपेते नक्षत्रविषये शुभे || करणे च सुलग्ने च मुहूर्ते च बुधेप्सिते | (मय ४|८) इत्यादिभिस्तिथ्यादिविचारविधानात् | प्. २७) माषं [माषं ख्, ग्, मांसं क्] हरिद्राचूर्णञ्च सलाजा [सलाजा क्, सलाज ख्, ग्] दधिशक्तवः | एभिर्भूतबलिं [एभिः क्, एतैः ख्, ग्] दत्त्वा सूत्रमष्टाक्षरेण [सूत्र क्, मन्त्र (?) ख्, ग्] तु || १५ || पातयित्वा ततः शङ्कूनष्टदिक्षु निवेशयेत् | राक्षसाश्चापि भूताश्च येऽस्मिंस्तिष्ठन्ति भूतले || १६ || --------------------------------------------------------------------------------------------------------------------- ------- १५-१६ | पूर्वं भूतबलिं हरेदित्युक्तं तदुपचारानाह माषमिति | सूत्रमिति | तारं नमःपदं ब्रूयान्न-रौ दीर्घसमन्वितौ | पवनो नायमन्त्रोऽयं प्रोक्तो वस्वक्षरः परः | इति तन्त्रसारप्रमाणप्राप्तेन ओं नमो नारायणायेत्यष्टाक्षरमन्त्रेण वक्ष्यमाण-शङ्कुनिवेशनसीमनिरूपणार्थं सूत्रं पातयित्वा अष्टौ शङ्कन् निवेशयेदित्यर्थः | सौरकाण्डे तृतीयपटले शङ्कून् प्रकृत्य - ईशानादिषु कोणेषु संस्थाप्य विधिना बुधैः रित्यनेन शङ्कुचतुष्टयारोपणमभिधास्यते | व्यवहारोऽपि तथैव | अत्र अष्टौ शङ्कून् निवेशयेदिति तु सूत्रच्छेदादिशङ्कयेति बोध्यम् | मात्स्ये सूत्रच्छेदे भवेन्मृत्युर्व्याधिः कीले त्वधोमुखे इत्यभिधानात् | विस्तृतप्रदेशे शङ्कुचतुष्टयमात्रे रोपिते तद्गतदीर्घतरसूत्रच्छेदस्य सूत्राकर्षणेन शङ्कुस्खलनस्य च सर्वथा सम्भवात् | अतएव भोजदेवः कीलानष्टौ परीक्षेत स्थापयेच्च यथाविधि इत्यभिधाय वध्यमानं यदा सूत्रं शङ्कुः किमपि मुञ्चति | तदा पुत्रबधं विद्याच्छिन्नं स्वस्वामिमृत्यवे | तस्माद् यत्नः प्रकर्तव्यो यावत् सूत्रं प्रसार्यते | (समराङ्गन २३ | २५ + ७ - ७२) इत्यादिना शङ्कुष्टकारोपणं प्रबलानिष्टानुबन्धिसूत्रच्छेदादिपरिहाराय प्रयत्नञ्चोपदिदेश | तथा च यत्र भूमेर्न तथा विस्तारस्तत्र शङ्कुचतुष्टयारोपणं न दोषाय | यत्र तु विस्तारस्तत्र सूत्रच्छेदादिशङ्कानिरसनाय शङ्क्वष्टकनिवेशनमेव सम्यगिति परिहृतः परस्परविरोधः | अष्टौ शङ्कूनिति सौरकाण्डोक्तं सूर्यविषयं वा | अत्र सौरकाण्डे शङ्कुं संस्थापयेद् यत्रात् सूत्रञ्चापि प्रसारयेदिति प्रकृत्य यज्ञीयसारवद्वृक्षसम्भवाः शङ्कवः स्मृताः | द्वादशाङ्गुलविस्ताराः इत्यभिधानात् उडुम्बरादियज्ञकाष्ठैर्द्वादशाङ्गुलपरिमाणाः शङ्कवः कर्तव्याः | अत्र विस्तरः सौरकाण्डतृतीयपटले द्रष्टव्यः | तत्र प्रार्थनामन्त्रमाह राक्षसाश्चेति | प्. २८) ते सर्वे व्यपगच्छन्तु स्थानं कुर्यामहं हरेः | इत्यनुज्ञाप्य भूतादींस्तां भूमिं [तां भूमिं ख्, ग् भूमिञ्च क्] परिशोधयेत् || १७ || आदित्यादिग्रहाणाञ्च लोकपालसमन्वितान् (?) | आज्यनिष्ठाविधानेन [आज्यनिष्ठा क्, आज्यं चरु ख्, ग्] ततस्तु होममाचरेत् || १८ || चरुहोमं ततः कुर्यान्मूलमन्त्रेण देशिकः | दद्यात् पूर्णाहुतिं पश्चाद् वौषडन्तेन मन्त्रवित् [मन्द्रवित् ख्, ग् देशिकः क्] || १९ || वृषभौ कपिलौ गृह्य सवर्णौ वा [सवर्णौ वा क् समवर्णौ ख्, ग्] विचक्षणः | योजनार्थं हलस्यैव गृह्णीयादसनोद्भवम् || २० || प्राङ्मुखं योज्य मन्त्रज्ञो वस्त्रालङ्कारभूषितः | आसनीं यष्टिमादाय द्वादशाक्षरविद्यया || २१ || --------------------------------------------------------------------------------------------------------------------- ------- १८ | भूमिशोधनक्रममाह आदित्येति | लोकपालसमन्वितानिति द्वितीयान्तं पदं निरन्वयमपि अस्मदुपजीव्यपुस्तकत्रितयसंवादान्मूले निवेशितम् | शब्दकल्पद्रुमे मन्दिरशन्दे लोकपालैः समं कृतीत्युपलभ्यमानो हयशीर्षीयः पाठस्तु साधीयानिति प्रतिभाति | २० | भूमिकर्षणमाह वृषभाविति | कपिलाविति प्रथमः कल्पः तदलाभे सवर्णाविति | असनोद्भवं सर्जवृक्षसम्भवम् | २१ | आसनीं सर्जवृक्षसम्भवां यष्टिमादाय वृषनोदनार्थमित्यर्थः | द्वादशाक्षरविद्ययेति ओं नमो भगवते वासुदेवायेति मन्त्रेण प्रणवो हृद् भगवते वासुदेवाय कीर्तितः | प्रधाने वैष्णवे तन्त्रे मन्त्रोऽयं सुरपादपः | इतितन्त्रसारप्रमाणानुसारिणेत्यर्थः | प्. २९) समर्द्धेन [समर्द्धेन क्, समत्वेन ख्, ग्] (?) समीकृत्य शुभवीजानि योजयेत् | संप्राप्ते शोभने काले [शोभने काले क्, फलकाले तु ख्, ग्] गोभिस्तत् [तत् क् तं (?) ख्, ग्] खादयेद् बुधः || २२ || पुनस्तां कर्षयित्वा तु समीकृत्य गृहं गुरुः || २३ || इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (षष्ठो) भूतशुद्धिपटलः || ६ || आदितः श्लोकसंख्या - १२७ --------------------------------------------------------------------------------------------------------------------- ------- २२ | समर्द्धेनेति | अत्र सम्मर्द्दनैरिति वैदिकसर्वस्वधृतः पाठः साधीयानिति प्रतिभाति | समर्द्धेनेति तु सर्मर्द्दनैरित्यस्यैव लेखकप्रमादकृतं वैरूप्यमिति सम्भाव्यते | शुभवीजानीति | हलकृष्टे तथोद्देशे सर्ववीजानि वापयेदित्यभिधाय व्रीहयःशालयो मुद्गा गोधूमाः सर्षपास्तिलाः | यवाश्चीषधयः सप्त सर्वबीजानि चैव हि (विश्व २ | ६५) इत्युक्तानि | योजयेत् वापयेदित्यर्थः | शोभने काले फलकाले | संप्राप्ते फलकाले तु गोकुलं तत्र वासयेत् | अहोरात्रत्रयं सम्यक् ततः शुध्यति सा महीति सौरकाण्डतृतीयपटलसंवादात् | २३ | पुनरिति | प्रथमं भूमेः कर्षणं ततः कर्षणप्रभावां लोष्ट्रादीनां सर्मर्द्दनैः समीकरणं तत्र वीजवपनम् उप्त वीजप्रभवेषु फलेषु तत्र चरद्भिर्गोभिः खादितेषु तस्या भूमेः पुनः कर्षणं पुनः समीकरणमिति कर्मक्रमः | गृहमिति व्रजेदित्यर्थः | प्. ३०) सप्तमः पटलः (हस्तलक्षणं शङ्कुलक्षणञ्च) मानोन्मानविभागार्थं मङ्गलं हस्तलक्षणम् | [क् पुस्तकधृतं पादद्वयमिदं ख्, ग्, पुस्तकयोर्नास्ति ||] सर्वकर्मप्रधानत्वात् [प्रधानत्वात् क्, प्रधानञ्च ख्, ग्] प्रोच्यमानं मया शृणु || १ || परमाण्वष्टकेनैव रथरेणुः प्रकीर्त्तितः | रथरेण्वष्टकेनैव त्रसरेणुः प्रकीर्त्त्यते [प्रकीर्त्त्यते क्, प्रकीर्त्तितः ख्, ग्] || २ || --------------------------------------------------------------------------------------------------------------------- ------- १ | पूर्वपटले शङ्कनष्टदिक्षु निवेशयेदित्युक्तम् अष्टमपटले च मध्ये सुनिश्चलं शङ्कुमित्यादिना शङ्कुनिवेशनमभिधास्यते | ते च शङ्कवस्तथा परे च वक्ष्यमाणाः प्रासाद-प्रतिमा-ध्वज-पताका-तोरण-कुण्ड-मण्डलादयः सर्व एव प्रधानकर्माङ्गभूताः परिमिताः परिमाणज्ञानसापेक्षा इति परिमाणस्वरूपमभिधेयम् | तत्र च एकहस्तद्विहस्त- त्रिहस्तादिलक्षणहस्तपरिमाणेनैव प्रकृतसर्वकर्मनिर्वाहदर्शनात् सर्वत्र हस्तपरिमाणस्यैव प्राधान्यात् तदेव वक्तुमुपक्रमते मानोन्मानेत्यादिना | मानं साधारणपरिमाणम् उन्मानञ्च ऊर्द्ध्व परिमाणम् | अत्र मानानन्तरमुन्मानानिधानात् मानशन्देनापेक्षिकन्यूनपरिमाणं लक्ष्यम् | तथा च परमाण्वपेक्षया रथरेणुरूर्ध्व परिमाणं तदपेक्ष्या त्रसरेणुरूर्ध्वपरिमाणम् | एवं हस्तमानापेक्षया द्विहस्तत्रिहस्तादिपरिमाणस्योन्मानत्वम् इत्येव बोधयितुमाह मानोन्मानेति | भोजदेवोऽपि हेतुः समस्तवास्तूनामाधारः सर्वकर्मणाम् | मानोन्मानविभागादिनिर्णयैकनिबन्धनम् | परिध्युदयविस्तारैर्दैर्घ्याणां स्युरमी यतः | ज्येष्ठमध्याधमा भेदा यं ज्ञात्वा न विमुह्यति | (समराङ्गन ९ | ११ | १२) इत्यादिभिरेतदेवाह | २ | परमाण्विति | परमाण्वाइपरिमाणाभिधानन्तु हस्तपरिमाणबोधनार्थमेव | त्रसरेणुरिति - एतन्मते चतुःषष्ट्या परमाणुभिरेकस्त्रसरेणुर्भवति | केचित्तु प्. ३१) तैरष्टभिस्तु बालाग्रं लिक्षा तैरष्टभिः स्मृता | ताभिर्यूकाष्टभिः ख्यातास्ताश्चाष्टौ यवमध्यकम् || ३ || यवाष्टकैरङ्गुलं [लं क् लः ख्, ग्] स्याच्चतुर्विंशाङ्गुलः करः | चतुर्विंशाङ्गुलश्चान्यः स्वाङ्गुष्ठेनापि [अपि ख्, ग् तु क्] सम्मितः || ४ || चतुरङ्गुलसंयुक्तः स्वहस्तः [ख क्, स (?) ख्, ग्] पद्महस्तकः | --------------------------------------------------------------------------------------------------------------------- ------- जालान्तरगते भानावित्यादिना परमाणुषट्कात्मकं (द्व्यनुकत्रयात्मकं) त्रसरेणुपदार्थमाहुः | भोजदेवस्तु परमाणुं रथरेणुं त्रसरेणुञ्चानङ्गीकृत्य रेण्वष्टकेन बालाग्रम् (समराङ्गन ९ | ४) इत्याह | मयमते तु परमाण्वष्टकेन रथरेणुं तदष्टकेन बालाग्रमाह परं हयशीर्षसम्मतं त्रसरेणुपरिमाणं नाभ्यधात् | एवं परिमाणनिरूपणेऽन्येऽपि प्रकारभेदा दृश्यन्ते | ४ | अङ्गुलमिति | अङ्गुलशब्दो हस्तपदशाखार्थः पुंसि प्रकृतेऽष्टयवोदरपरिमाणे तु क्लीवे वर्त्तते यवाष्टगुणितोऽङ्गुलम् (मय ५ | ४) इति दर्शनात् यवोदरैरङ्गुलमष्टसंख्यैरिति भास्कराचार्योक्तेश्च | अतोऽत्र ख्, ग् पुस्तकधृतः पुंलिङ्गान्तपाठो न मूले निवेशितः | चतुर्विंशेति - अत्र भोजदेवेन इदानीं तस्य हस्तस्य सम्यङ्निश्चयसंयुतम् | कथ्यते त्रिविधस्यापि लक्षणं शास्त्रदर्शितम् (समरा ९ | ३) इत्यनेन हस्तपरिमाणस्य त्रैविध्यमुक्तम् | तत् त्रैविध्यञ्च प्रदर्शितं तेनैव - यवाष्टकाङ्गुलैः कॢप्तः प्रकर्षेणायतः किल | ज्येष्ठो हस्तः स विद्वद्भिः प्रोक्तः प्राशयसंज्ञितः | १ | यः पुनः कल्पितः सप्तयवकॢप्तैरिहाङ्गुलैः | तज्ज्ञैः स मध्यमो हस्तः साधारण इति स्मृतः | २ | मात्रेत्यल्पं यतः प्रोक्तं हस्तश्च शय उच्यते | तेन मात्राशयः स स्याद्धस्तो यः षड्यवाङ्गुलः | ३ | (समरा ९ | २८ - ३२) इत्यादिना | अत्रापि तथैव हस्तपरिमाणत्रैविध्यमभिदधानः प्रागुक्तपरमाण्वादिक्रमसाधितचतुर्विंशत्यङ्गुलैरेकं हस्तपरिमाणमाह चतुर्विंशाङ्गुलः कर इति | परमाण्वादिक्रमानङ्गीकारेण स्वाङ्गुष्टस्य चतुर्विंशतिसंख्यया परिमितं द्वितीयं हस्तपरिमाणमाह चतुर्विंशति | प्. ३२) एतैर्हस्तैस्तु [एतैः क् एभिः ख्, ग्] कुर्वीत पासादं यागमण्डपम् [याग क्, यज्ञ ख्, ग्] || ५ || प्रतिमां पिण्डिकां वापि कुण्डं [कुण्डं क्, कुण्ड ख्, ग्] मण्डलमेव च | तोरणञ्च ध्वजञ्चैव गुणाढ्यं पात्रमेव च || ६ || मानहीनं न कर्तव्यं फलप्राप्त्यर्थिभिः सदा | प्रशस्तं दारुमादाय सारवत् खदिरादिकम् || ७ || चतुरस्रन्तु तद् दारु कारयित्वा तु शिल्पिना | वृत्तं [वृत्तं क्, वृत्त ख्, ग्] भूमिसमं कुर्यान्निर्व्रणं सुषमं बुधः [तथा क्, बुधः ख्, ग्] || ८ || --------------------------------------------------------------------------------------------------------------------- ------- ५ | चतुरङ्गुलाधिकस्वहस्तपरिमाणेन परिमितं तृतीयं हस्तपरिमाणमाह चतुरङ्गुलेति | अतएव एतैर्हस्तैरिति वक्ष्यमाणं बहुवचनमुपपद्यते | अत्र हस्तपरिमापणार्थं विहिताविहितदारुनिर्णयस्तेनैव कृतः - खदिराञ्जनवंशादि श्लक्ष्णं हीरं मनोरमम् | सारवच्च भवेदिष्टं दारु हस्तप्रकल्पने || ग्रन्थिलं लघु निर्दग्धं जीर्णं विस्फुटितं तथा | अदृढं कोटराक्रान्तं दारु हस्ताय नेष्यते | (समराङ्गन ९ | ११ + १२) इति द्वाभ्याम् | ७ | इदानीं शङ्कुनिरूपणप्रकारं वक्तुमुपक्रमते प्रशस्तमित्यादिना | अत्रादिपदेन दन्तं वै चन्दनं चैव खदिरः कदरः शमी | शाकश्च तिन्दुकश्चैव शङ्कुवृक्षा उदीरिताः | (मय ६ | ६ |) इत्युक्तानि ग्राह्याणि | ८ | दारु चतुरस्रं कारयित्वा पुनस्तदेव वृत्तं कुर्यादित्यर्थः | प्रथमं चतुरस्रीकृत्य पश्चाद् वृत्तीकरणन्तु व्यासपरिमाणसौकर्यार्थमेव | निर्व्रणमक्षतम् | सुषमं मूलाद्रग्रं यावत् दन्तुरत्वादिदोषरहितमित्यर्थः | प्. ३३) द्वादशाङ्गुलमायामं पर्व चाङ्गुलमुच्यते | मूले षडङ्गुलञ्चास्य परिणाहः स्वमानतः [परिणाहः स्वपानतः क्, सरिणाहप्रमाणतः ख्, ग्] || ९ || ह्वस्वाद्ध्रस्वतरं कार्यमग्रे स्याद् यवमात्रकम् | भूमिच्छेदसमं कुर्यान्मूलमग्रं सुसम्मितम् || १० || एतद् यथाक्रमेणैव कथितं शङ्कुलक्षणम् | एवं निष्पाद्य वै शङ्कुं कुर्याद् दिक्साधनं गुरुः || ११ || इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (सप्तमः) शङ्कुलक्षणपटलः || ७ || आदितः श्लोकसंख्या - १३८ --------------------------------------------------------------------------------------------------------------------- ------- ९ | १० | अस्य शङ्कोरायामपरिमाणमाह द्वादशेति | पूर्वं यद् यवाष्टकैरङ्गुल स्यादित्युक्तं तन्नेह प्रवर्त्तेत | इह तु पृथगेवाङ्गुलपरिमाणम् | किं तदित्याह पर्वेति - अङ्गुष्ठाग्रपर्वणैव अङ्गुलपरिमाणमिह ग्राह्यमित्यर्थः | एतैर्द्वादशाङ्गुष्ठपर्वभिरेकमरत्निपरिमाणं भवति ततश्च मयमते अरत्निमात्रमायाममित्यादिना यत् शङ्कोररत्निप्रमाणस्य श्रेष्ठत्वमुक्तम् इहापि तस्य द्वादशपर्वपरिमाणं वदता तदेव सूचितम् | मूल इति - शङ्कोः परिणाहो मूले षडङ्गुलः अग्रे च यवमात्रप्रमाणः | स्वमानतः ह्रस्वाद् ह्रस्वतरमिति - उक्तपरिमाणानुसारेण मूलादग्रं यावत् क्रमशस्तथा व्यासह्रासो यथा मूलमग्रञ्च सुसन्मितं स्यात् प*(?)दन्तुरतादिदोषदूषितं न स्यादित्यर्थः | भूमीति - उत्तमपरिमाणोऽरत्निप्रमाणः (द्वादशाङ्गुष्ठपर्वपरिमाणः) मध्यमपरिमाणोऽष्टादशाङ्गुलः अधमपरिमाणो द्वादशाङ्गुल इति त्रिविधं शङ्कुपरिमाणं भवति | तत्र वास्तुभूमेर्विस्तारतारतम्यानुसारेण शङ्कोरपि प्रोक्तपरिमाणतारतम्यं कर्तव्यमित्येवाह भूमिच्छेदसममित्यनेन | ११ | दिक्साधनं कुर्यादिति वक्ष्यमाणक्रमेणेत्यर्थः | प्. ३४) अष्टमः पटलः (दिक्साधनं मर्मज्ञानं शल्यज्ञानं वास्तुमण्डलञ्च) श्रीभगवानुवाच - बाह्यवास्तसमं कृत्वा [कत्वा क्, कुर्यात् ख्, ग्] चतुरस्रं समन्ततः | भूमिं तोयसमां कृत्वा दर्पणोदरसन्निभाम् [सन्निभाम् क्, सम्मिताम्, ख्, ग्] || १ || --------------------------------------------------------------------------------------------------------------------- ------- १ | पूर्वपटले शङ्कुनिर्माणक्रममुक्त्वा यदि कुर्याद् यथादृष्टं विपन्नो नरकं व्रजेत् | भानोर्गत्या दिशो ज्ञात्वा कुर्यात् कर्माणि देशिकः | (प्राण ३) इति राघवभट्टधृतवचनेन दिग्ज्ञानानन्तरमेव प्रासादादौ कर्तव्ये वास्तुवैषम्यतो यत्र सम्यङ् न ज्ञायते किल | तत्र शर्ङ्कु प्रतिष्ठाप्य जानीयात्छुद्धदिक्स्थितिम् | इत्यनेन तत्रैवोक्तेन प्रमाणेन इहापि शङ्कुना साधयेद्दिशमिति वक्ष्यमाणानुसारेण तच्छङ्कुकरणक- दिङ्निरूपणप्रकारमभिधत्ते वाह्येत्यादिना | वास्तु द्व्यंशकं भवति बाह्यमाभ्यन्तरीणञ्च | तत्र प्रासादचतुःशालादेर्बहिः स्थितस्तदनुषक्तो योंऽशस्तद् बाह्यम् | यश्च तदन्तःपाती तदाभ्यन्तरीणमिति | इह चोभयोरेत्रांशयोस्तुल्यतया वक्ष्यमाणप्रक्रियां प्रदर्शयितुमाह बाह्येति - समन्ततः वास्तुत्वेनाभिमताया भूमेश्चतुर्दिक्षु बाह्यवास्तुसमं चतुरस्रं कृत्वेत्यर्थः | भूमिमिति - ताञ्च चतुरस्रां भूमिं तोयसमां तोयेन समां कृत्वेत्यर्थः | गृहीतवास्तुमध्ये तु समं कृत्वा भुवः स्थलम् | जलेन दण्डमात्रेण समन्तु चतुरस्रकम् | (मय ६ | २-३) इत्यादिना जलकरणकभूसमीकरणाभिधानात् | अत्र मयवचने दण्डमात्रेणेत्यभिधानात् इहापि समीकरणरीतिरेवमवगन्तव्या यद्भमिं समस्थलीकृत्य समन्ततो मृदादिमयं सेतुं निर्माय जलमयीकृते तदभ्यन्तरे कञ्चन परिमितं दण्डं परितोऽन्तरान्तरा निधाय निधाय तद्दण्डपरिमाणानुसारिणा तज्जलपरिमाणेन तद्भूमेः समत्वमसमत्वं दिक्प्लवत्वं वा परीक्षेत | असमत्वे पुनरनयैव रीत्या तस्याः समत्वं विदधीतेति | दर्पणेति - दर्पणोदरवददन्तुरामित्यर्थः | तोयसमामिति दिक्प्लवादिशङ्कानिरसनाय | दर्पणोदरसन्निभामिति सर्वत्र दन्तुरतादिदोषव्यावृत्तये | प्. ३५) द्वादशाङ्गुलमानेन चाष्टौ [चाष्टौ क्, अष्टौ ख्, ग्] वृत्तांस्तु भ्रामयेत् | मध्ये सुनिश्चलं [सु क्, च ख्, ग्] शङ्कुं स्थाप्य च्छायां निरीक्षयेत् || २ || --------------------------------------------------------------------------------------------------------------------- ------- २ | एवं समीकृतायां भूमौ कर्तव्यमाह द्वादशेति | अत्र सुषमे भूतले कृत्वा वृत्तं भ्रमणरूपतः | तन्मद्यबिन्दौ शङ्कुन्तु स्थापयेद् द्वादशाङ्गुलम् | अग्रच्छायान्वयवशाद् वृत्ते पूर्वापरद्वये | पूर्वापराह्णयोः कृत्वा चिह्ने तमभितस्थथा | सुसमानपरिभ्रान्त्या कार्यं वृत्तद्वयं पुनः | तयोः संश्लेषसञ्जातमध्यदक्षोत्तरे स्थिते | सन्धिद्वये तु प्राक्प्रत्यक्सूत्रं मध्ये च विन्यसेत् | सूत्रदक्षोत्तरं तेषामग्रैः प्रागादि कल्पयेत् | इति प्राणतोषण्युक्तराघवभट्टधृतवचनेन भूमौ प्रथमतो वृत्तं ततस्तन्मध्ये शङ्कुस्थापनम् पूर्वाह्णे प्रतीच्यामपराह्णे च प्राच्यां दिग्विलम्बि-शङ्कुच्छायाग्रनिरूपितायां तत्तच्चिह्नरक्षणाय वृत्तद्वयकरणम् तदुभयतः सुसमानपरिभ्रमणेन प्रथमवृत्ताभ्यन्तरीणबिन्दोर्दक्षोत्तरयोस्तत्तच्चिह्णसंरक्षणाय पुनर्वृत्तद्वयमिति क्रमेण च्छायया दिङ्निरूपणान्तरमेव तत्तच्चिह्नस्थापनाय वृत्तचतुष्टयनिर्माणमभिहितम् | इह तु अष्टौ वृत्तांस्तु भ्रामयेदित्यनेन प्रथममेव वृत्ताष्टकनिर्माणे कृते तदानीमपि दिङ्निर्णयाभावाद् वृत्तानां यादृच्छिकत्वेन शङ्कुच्छायापातस्यापि यादृच्छिकत्वसम्भवाद् वृत्तैरमीभिर्दिक्साधनं न सम्भवेत् परन्तु तेषां वैफल्यमेव स्यादिति महदसमञ्जसं घटेत | तत् पूर्वदर्शितराघवभट्टप्रमाणरीत्या ग्रन्थोऽयमस्माभिरेवं व्याख्यायते - प्रातः सूर्योदये किञ्चन वृत्तं कृत्वा तन्मध्ये सुनिश्चलं शङ्कुं संस्थाप्य च्छायां निरीक्षयेत् निरीक्ष्य च तच्छयासमसूत्रेण प्रतीच्यां द्वादशाङ्गुलं वृत्तमेकं विदधीत | एवं प्राच्यामपि सूरे प्रतीचीविलम्बिनि पूर्वतः प्रवर्त्तिन्यां सङ्कुच्छायायां समसूत्रेण द्वादशाङ्गुलं वृत्तमेकं विदधीतेति | प्. ३६) प्रवेशे निष्क्रमे तस्यां शङ्कुच्छायां निरूपयेत् | शङ्कुच्छायाग्रचिह्नाभ्यां [चिह्नाभ्यां क्, दह्नाभ्यां (?) ख्, ग्] प्रक्प्रतीच्यौ प्रसाधयेत् || ३ || प्राक्प्रतीचीगते सूर्ये उदग्याम्ये प्रसाधयेत् [प्रसाधयेत् क्, निरीक्षयेत् ख्, ग्] | विषुवे विमले व्योम्नि शङ्कुना साधयेद्दिशम् || ४ || --------------------------------------------------------------------------------------------------------------------- ------- ३ | तत्र छायानिरूपणक्रमे विशेषमाह प्रवेश इति - तस्यां भूमौ प्रवेशनिक्रमयोच्छायानिरूपणं विधेयमित्यर्थः | अत्र पूर्वापराह्णयोश्छाया यदि तन्मण्डलान्तगा | (मय ६ | ८) इत्यादिना प्राह्णापराह्नयोः सौरच्छायाया मण्डलाभ्यन्तरगमनेन दिक्परिच्छेदोऽभिहितः | इहापि प्रवेशनिष्क्रमपदाभ्यां प्रायस्तामेव शैलीमभिधत्ते | तत्र प्रवेश इति-प्रातः सूर्योदये प्रतीचीना शङ्घोश्छाया द्राधीयसी भवति ततश्चोर्द्ध्वमारोहति सूरे सा च्छाया क्रमशो ह्रस्वतामापद्यमाना यदा मध्यवृत्तादन्यून द्वादशाङ्गुलान्तरितं स्वं देशमनुप्रविशेत् तदा तद्वृत्त-मध्यबिन्दुसमसूत्रेण तच्छीर्षं प्रतीचीमवगच्छेदित्यर्थः | निष्क्रम-इति - एवमनया रीत्या निष्क्रमे पूर्वदिङ् निरूपणीया | तथाहि - मध्यमह्नः समारूढे सवितरि पश्चिमदिग्विलम्बिनि पूर्वगामिनी शङ्कुच्छाया क्रमेण दीर्घतामापद्यते | तत्र प्रागुक्तप्रतीचीक्रमेण पूर्वदिक्चिह्नभूतं द्वादशाङ्गुलं वृत्तमेकं विधाय तच्छीर्षीयं पूर्वबिन्दुं प्रतीचीं निरूपयेत् इत्येव दिङ्निरूपणशैलीं बोधयितुं शङ्कुच्छायाग्रचिह्नाभ्यामित्याचष्ट | शङ्कुच्छ्राययोः पूर्वापरगामिन्यो अग्रचिह्नाभ्यां प्रवेशनिष्क्रमयोः प्रागुक्तक्रमेण प्राक्प्रतीच्यौ प्रसाधयेत् निरूपयेदित्यर्थः | वृत्तानि तु तत्र तत्र कर्तव्यानि यथा द्वादशाङ्गुलान्यप्यष्टौ संश्लेषेण स्थानं लभेरन् | ४ | अयन्तु पूर्वापरदिङ्निरूपणप्रकार उक्तः | अथ दक्षिणोत्तदिङ्निरूपणोपायः क इत्यत आह प्रागिति | राघवभट्टः सूत्रपातेन दक्षोत्तरदिङ्निरूपणं तत्र तत्र तत्तच्चिह्नस्थापनाय वृत्तपातञ्चोपदिदेश | अत्र तु प्रक्रारान्तरेण तदभिधत्ते | तथाहि सूर्ये प्राक्प्रतीचीगते विषुवसम्प्राप्त्या पूर्वापरबिन्दुसमसूत्रेण स्थिते उदग्याम्ये स्थिते उदग्याम्ये दिशौ प्रसाधयेत् निरूपयेदित्यर्थः | प्. ३७) शरद्वसन्तयोरेवमादित्यात् साधयेद्दिशम् || ५ || प्राचीं तु पुष्यवेधेन चित्रास्वात्यन्तरेण वा | उदीचीं ध्रुववेधेन मध्ययोगेन चोन्नयेत् || ६ || चतुरस्रां शिलां गृह्य इष्टकां वा सुशोभनाम् | --------------------------------------------------------------------------------------------------------------------- ------- एवमत्रावधेयम् - अष्टौ वृत्तांस्तु भ्रामयेदित्युक्त्या पूर्वकृतद्वादशाङ्गुलपूर्वापरवृत्तद्वयात् वामतो-भ्रमणेन द्वादशाङ्गुलं संश्लिष्टं वृत्तत्रयं दक्षिणतोऽपि तथा वृत्तत्रयं कुर्यात् | एवञ्चाष्टौ वृत्तानि भवन्ति चत्वारि दिग्गतानि चत्वारि च कोणगतानि | तत्र पूर्ववृत्तोत्तरार्द्धम् ईशानवृत्तं उत्तरवृत्तपूर्वार्द्धं तथा पश्चिमवृत्तोत्तरार्द्धं वायववृत्तं उत्तरवृत्तपश्चिमार्द्धञ्च निरूप्य उभयतश्चतुर्विंशाङ्गुलसन्धिमुदीचीं जानीयात् एवं दक्षिणदिङ्निरूपणेऽपि पूर्ववृत्तदक्षिणार्द्धम् आग्नेयवृत्तं दक्षिणवृत्तपूर्वार्द्धं तथा पश्चिमवृत्तदक्षार्द्धं नैरृतवृत्तं याम्यवृत्तपश्चिमार्द्धञ्च निरूप्य पूर्ववदुभयतश्चतुर्विंशाङ्गुलसन्धिं मध्यवृत्तमध्यदेशमवाचीमवगच्छेदिति फलितम् | ततश्च प्राक्प्रतीचीगते सूर्ये इत्यनेन सुनिरूपितप्राक्प्रतीच्यपेक्षयैव दक्षोत्तर-दिङ्निरूपणं हयशीर्षसम्मतम् वृत्ताष्टकपातेन दिङ्निरूपणो पदेशस्तु दिशां विदिशाञ्च निरूपणाय | अयन्तु पूर्वोक्तः सर्वोऽपि दिङ्निर्णयप्रकारो विषुवविषय एव इत्याह विषुव इति | विषुव-एव पूर्वापरबिन्दौ समसूत्रेण सौरप्रचारात्तत्रैवानया रीत्या शङ्ककरणकदिङ्निरूपणसम्भवात् | ५ | ननु क्वायं विषुवो नाम यत्रैवं दिक्साधनमित्याह शरदिति | एतच्च शरदवसन्तविषयमेव | तत्रैवाश्विनचैत्रयोः सूर्यस्य विषुवरेखासम्प्राप्तेरित्यर्थः | ६ | एवं दिवा दिक्साधनक्रममभिधाय रात्रऊ तमाह प्राचीन्त्विति | कृत्तिका श्रवणा पुष्या चित्रास्वात्योर्यदन्तरम् | एतत् प्राच्या दिशो रूपं युगमात्रोदिते पुरः | (प्राण ३ प०) इत्यनेन श्रवणस्योदये प्राची कृत्तिकायास्तथोदये | चित्रास्वात्यन्तरे चन्द्रसूर्योरिति तत्रैव धृतेन त्रिकाण्डमण्डलवचनेन च यद्रात्रौ नाक्षत्रिकसंस्थानदर्शनेन दिक्साधनक्रमो दर्शितः इह प्राचीमित्यादिनापि तमेवक्रममभिधत्ते | रात्रौ कर्कटोदिते पुष्ये तद्वेधेन कन्यायां चित्रोदयानन्तरं स्वायुदये तन्मध्यप्रदेशेन वा प्राचीं दिशमुन्नयेत् तद्वधेन प्रतीचीं साधयेदित्यपि बोध्यम् | प्. ३८) चतुर्दिक्षु निवेश्याथ सूत्रचिह्नन्तु कारयेत् || ७ || एवं कृत्वा सूत्रचिह्नं [सृतचिह्नं क्, ततोभूमौ ख्, ग्] ब्राह्मणांस्तत्र भोजयेत् | वैष्णवान् पायसेनाग्यरान् द्वादशैव समाहितः [समाहितः क्, समन्विताः (?) ख्, ग्] || ८ || मासाधिपानां तुष्ट्यर्थं सूत्रणं स्यादतः परम् | महामर्मोपमर्मादि-ज्ञानार्थं यत्नवान् भवेत् || ९ || दर्शनैः कीर्त्तनैः शब्दैर्यजमानस्य चेष्तितैः | --------------------------------------------------------------------------------------------------------------------- ------- रात्रावुदीचीसाधनमाह ध्रुववेधेनेति उदीच्यां ध्रुवोदयादित्यर्थः | तथा मध्ययोगेन साधितप्राचीप्रतीचीमध्यद्वारेण चोन्नयेदुदीचीमवाचोञ्चेत्यर्थः | ७ | एवं दिशो निरूप्य तत्परिमाणसंस्थापनक्रममाह चतुरस्रामिति | गृह्येति क्ताचो यवादेश आर्षः | इष्टकां वेति - यत्र शिलामयः प्रासादः करणीयस्तत्र शिलां यत्र चेष्टकामयस्तत्रेष्टकामिति वाशब्देन सूच्यते एकादशे शिलाधिवासनपटले - कर्तव्यस्त्विष्टकान्यासः प्रासादे चेष्टकामये | शैले शिलानां विन्यासः कार्करे कर्करामयमिति वक्ष्यमाणत्वात् वाधकमन्तरेणात्र तत्क्रमाइक्रमे प्रमाणाभावाच्च | चतुर्दिक्ष्विति वास्तुभूमेरित्यर्थः | ९ | इदानीं दिक्साधनानन्तरं कर्तव्ये वास्तुपुरुषस्य स्वरूपनिर्णये तस्य मर्मणामज्ञानमनिष्टफलकमिति तज्ज्ञानमभिधत्ते | तत्र पूर्वोत्तरदिङ्मूर्द्धा पुरुषोऽयमवाङ्मुखोऽस्य शिरसि शिखी | (बृहत् ५२ | ५१) इत्यादिना निरूपितस्य वास्तुपुरुषस्य तेषु तेष्वङ्गेषु वक्ष्यमाणक्रमेण चतुःषष्टिपदन्यासः कर्तव्यः यथा तत्तदङ्गदेवतानां तत तत्र पदेषु समावेशः सम्पद्येत | तानि च पदानि सूत्रपातसाध्यानि | सूत्राणाञ्चामीषां कोणात् कोणगतानां सम्पातास्तथा पदानां समानि मध्यानि च मर्माणि | यथा - सम्पाता वंशानां मध्यानि समानि यानि च पदानाम् | मर्माणितानि विन्द्यन्न तानि परिपीडयेत् प्राज्ञः | तान्यशुचिभाण्डकीलस्तम्भाद्यैः पीडितानि शल्यैश्च | गृहभर्त्तुस्तत्तुल्ये पीडामङ्गे प्रयच्छन्ति | (बृहत् ५२ | ५७-५८) इत्यादिना मर्मणां स्वरूपं पीडनजनितानिष्टसम्भावनञ्चाभिहितम् | भोजदेवेनापि प्. ३९) यथावल्लक्षयेच्छल्यं वास्तुदेहे विचक्षणः || १० || लङ्घनादथ सूत्रस्य दर्शनान्नामभाषणात् | --------------------------------------------------------------------------------------------------------------------- ------- अन्तस्त्रयोदशसुरा द्वात्रिंशद् बाह्यतश्च ये | तेषां स्थानानि मर्माणि सिरा वंशाश्च तेषु तु | (समराङ्गन १३ | ६) इत्यनेन तथैव मर्माण्यभिधाय तेषां महामर्मोपमर्मभेदेन द्वैविध्यमङ्गीकृतम् | तत्र महामर्माणि मुखे हृदि च नाभौ च मूर्ध्नि च स्तनयोस्तथा | मर्माणि वास्तुपुंसोऽस्य षण्महान्ति प्रचक्षते इति | उपमर्माणि तु चतुष्वपि विभागेषु सिरा याः स्युश्चतुर्दिशम् | मर्माणि तानि चोक्तानि द्वारमध्यगतानि च | (समराङ्गन १३ | ७ | १०) इत्येवंरूपमभिधाय द्वारैर्वा भित्तिभिर्वापि मर्मणां परिपीडनात् | दौर्गत्यं गृहिणः प्राहुः कुलहानिमथापि वा | (समराङ्गन १३ | १२) इत्यादिना तत्तदङ्गपरिपीडनात् तत्तदनिष्टफलानुबन्धोऽभिहितः | ग्रन्थविस्तरभयादत्र तानि नोदाह्रियन्ते | परमार्थतस्तु वास्तोस्तत्तत्पदान्याक्रम्य सतो मुखादितत्तदङ्गानां महामर्मत्वम् वंशादीनाञ्चोपमर्मत्वं यथा तेषां पीडा न स्यात् तथा द्वारादीनां सन्निवेशः कर्तव्य इति ध्येयम् | १० | अथेदानीं प्राणतोषण्यां वर्जनीयभूमिं प्रकृत्य - स्फुटिता मरणं कुर्यादूषरा धननाशिनी | सशल्या क्लेशदा नित्यं विषमा शत्रुतो भयम् | तथा प्रासादारम्भकाले तु गृहादौ च विशेषतः | शल्योद्धारस्तु कर्तव्यो यदीच्छेच्छुभमात्मनः | स्वामिनो मरणं वा स्याद् विदेशगमनं तथा | यत्नेनोत्पाटयेच्छल्यं यदीच्छेच्छुभमात्मनः | (३ प०) इत्यादिभीराघवभट्टधृत-महाकपिलपञ्चरात्रवचनैः शल्यदूषिताया भूभेर्बलवदनिष्टानुबन्धित्वाभिधानादुद्धरणीये शल्ये शल्यज्ञानप्रकारमाह - दर्शनैरिति | दर्शनैः अलीकस्त्रीपुंसपश्वादिसमसंस्थानरूपादीनां वास्तुदेहे यत्रतत्रावलोकनैः | कीर्त्तनैः यत्रतत् स्वामिनो नामकीर्त्तनैराह्वानैरित्यर्थः | शब्दैः अतात्त्विकैर्विडालशृगालखरोष्ट्रादिध्वनिसदृशध्वनिसमाकर्णनैः | तथा यजमानस्य चेष्टितैः वक्ष्यमानाङ्गविकारैरित्यर्थः | पश्वादिसदृशाचरणैरिति वा | विचक्षणः शल्यानुशासनानुशीलननिर्मलबुद्धिर्गुरुः वास्तुदेहे यथावच्छल्यं लक्षयेदित्यर्थः | प्. ४०) श्रवणादथ शब्दस्य जानीयाच्छल्यमादरात् || ११ || दर्शनं लङ्घनं यस्य गदितं [गदितं क्, रुदितं ख्, ग्] नामकीर्त्तितम् | तस्य सत्त्वस्य तच्छल्यं जानीयाल्लङ्घनादिभिः || १२ || आदिशेद् वास्तुतः शल्यं गृहिणोऽङ्गविकारतः || १३ || --------------------------------------------------------------------------------------------------------------------- ------- ११ | अन्यच्चाह - अथ अथवा सूत्रस्य लङ्घनात् वास्तुमभितः परिमाणविवेकार्थं सन्निवेशितानां सङ्कूनामध्यग्रं बध्यमानसूत्रस्य लम्फाप्रदानपूर्वकमतिक्रमणात् तथा दर्शनात् मनुष्यपश्वादिशरीरावलोकाअत् तथा नामभाषणात् यस्य कस्यचिन्नामोच्चारणात् शब्दस्य पश्वादिशब्दसमजातीयस्य श्रवणात् आदरात् प्रयत्नविशेषात् शल्यं जानीयात् कस्य सत्त्वस्य शल्यमिति वक्ष्यमाणरीत्यावगच्छेदित्यर्थः | १२ | इदानीं तदेव विशेषयति दर्शनमिति - यस्येति कर्मणि षष्ठी सर्वत्र सम्बध्येत | यस्य दर्शनमिति यदि यत्र तत्राकस्माद् वास्तुदेहे स्त्रीरूपं वा पुरूपं वा तद्विशेषो वा गवाश्वादयः पशवो वाऽन्तराऽन्तरावलोक्येरन् तर्हि तत्तदङ्गसम्भवान्य - स्थ्यादीनि तद्भूमेरधस्तादस्तीति प्रतीयेत | लङ्घनमिति | प्रागुक्तरीत्या पश्वादिकृतेन शल्यं लक्षयेत् - तथाहि येन पशुना तत् सूत्रं लङ्घ्येत तस्य शल्यं तत्रास्तीत्यवगच्छेत् यथा विडालेन लङ्घिते विडालस्य शृगालेन शृगालस्य स्त्रीपुंसाभ्यञ्च तयोरिति | गदितमिति | यस्य गदितं शब्दः श्रूयेत तच्छल्यं तत्रास्तीति | पेचकादिशब्दश्रवणेन तत्तच्छल्यमिति जानीयात् | नामकीर्तितमिति देवदत्तयज्ञदत्तादिनाम्ना पुनः पुनः समाह्वानेन तत्तन्नाम्नः पुरुषादेः शल्यं तत्र वर्त्तत इत्युन्नेयमित्येवाह तस्य सत्त्वस्य तच्छल्यमित्यनेन | १३ | आदिशेदिति | गृहिणः अङ्गविकारतः कण्डूयनादिरूपादङ्गवैकृत्याद् वास्तुतः शल्यमादिशेत् | अङ्गविकारत इति गृहिणो यदङ्गे शिरसि वाहौ अन्यत्र वा प्रासादारम्भकाले कण्डूयनादिरूपोऽङ्गविकारो भवेत् वास्तुपुंसस्तत्र तत्राङ्गे शल्यसत्तां जानीयादित्यर्थः | अतएव प्राणतोषणीधृत महाकपिलपञ्चरात्रवचनैरङ्गभेदेन कण्डूयनानुमेयसत्ताकं शल्यं तदुद्धरणञ्चोपदिष्टं यथा - प्. ४१) प्रासादारम्भकाले तु यदङ्गं स्पृशते पुमान् | वास्तुदेहे दृढं शल्यं तत्र दद्याद्विचक्षणः || कण्डूयति शिरः पुंसि शिरःशल्यं समुद्धरेत् | शल्यं तत्रास्ति विज्ञेयं खन्यमाने करद्वये || अग्निदाहश्च रोगश्च धनहानिश्च जायते | यत्रेनोत्पाटयेच्छल्यं यदीच्छेच्छुभामात्मनः || वाहौ कण्डूयमाने तु निर्दिशेल्लोहशृङ्खलम् | हस्तद्वयेन मानं तल्लक्षणं कथितं तव || स्वामिनो मरणं वा स्याद् विदेशगमनं तथा | यत्रेनोत्पाटयेच्छल्यं यदीच्छेच्छुभमात्मनः || उरौ कण्डूयमाने तु कांश्यशल्यं विनिर्दिशेत् | हस्तेनैकेन सन्तिष्ठेल्लक्षणं कथितं तव || असती च भवेद् भार्या यशोहानिः प्रजायते | यत्नेनोत्पाटयेच्छल्यं यदीच्छेच्छुभमात्मनः || हस्ते कण्डूयमाने तु कङ्कालञ्च विनिर्दिशेत् | त्रिहस्तेन तु सन्तिष्ठेत् खन्यमाने न चान्यथा || अग्निदाहश्च रोगश्च पीडा च मरणं भवेत् | यत्नेनोत्पाटयेच्छलयं यदीच्छेच्छुभमात्मनः || पृष्ठे कण्डूयमाने तु वाहुशल्यं विनिर्दिशेत् | हस्तेनैकेन सन्तिष्ठेन्नात्र कार्या विचारणा || स्वामिनाशो भवेत्तत्र भार्या वा जायतेऽसती | पादे कण्डूयमाने तु हस्तशल्यं विनिर्दिशेत् || सार्द्धहस्तेन सन्तिष्ठेल्लक्षणं गदितं तव | अङ्गनाशो राजदण्डः शस्यहानिश्च जायते || यत्नेनोत्पाटयेच्छलयं यदीच्छेच्छुभमात्मनः | कुक्षौ कण्डूयमाने तु पाषाणं तत्र निर्दिशेत् || हस्तद्वितयमानेन लक्षणं गदितं तव | प्. ४२) शकुनो दृश्यते वापि यस्य वा श्रूयते ध्वनिः | कीर्त्त्यते यस्य वा नाम शल्यं तस्य विनिर्दिशेत् || १४ || वास्त्वङ्गं सूत्रयेत् प्राज्ञः श्वेताम्बरधरः शुचिः | श्वेतगन्धानुलिप्ताङ्गं [श्वेत क्, शुभ ख्, ग्] सर्वालङ्कारभूषितः || १५ || --------------------------------------------------------------------------------------------------------------------- ------- भुजङ्गदंशस्तत्र स्यात्तस्माच्छल्यं समुद्धरेत् || जानौ कण्डूयमाने तु भस्म तत्र विनिर्द्दिशेत् | हस्तद्वयेन सन्तिष्ठेल्लक्षणं गदितं तव || अग्निदाहो मनस्तापः क्लेशदुःखभयानि च | करोत्येवंविधं कर्म तस्मात्तं वै समुद्धरेत् || इति | एवमन्यादृशैरप्यङ्गविकारैस्तत्र तत्र वास्त्वङ्गे शल्यमस्तीत्यवगन्तव्यम् | १४ | पूर्वं यद्दर्शनैरित्याद्यभिहितं तदेव स्फुटीकरोति - शकुन इति | वराहमिहिरैरपि - अर्द्धनिचितं कृतं वा प्रविशन् स्थपतिर्गृहे निमित्तानि | अवलोकयेद् गृहपतिः क्व संस्थितः स्पृशति चाङ्गम् || रविदीप्तो यदि शकुनिस्तस्मिन् काले विरौति पुरुषरवम् | संस्पृष्टाङ्गसमानं तस्मिन् देशेऽस्थि निर्देश्यम् || शकुनसमयेऽथवान्ये हस्त्यश्वश्वादयोऽनुवाशन्ते | तत्प्रभवमस्थि तस्मिंस्तदङ्गसम्भवमेवेति || सूत्रे प्रसार्यमाणे गर्दभरावोऽस्थिशल्यमाचष्टे | श्वशृगाललङ्घिते वा सूत्रे शल्यं विनिर्द्देश्यम् || (बृहत् ५२ | १०३ - १०६) इत्यादिना प्रायो हयशीर्षसम्मतैव शल्यज्ञानशैली समवर्णि | एतावदन्तं शल्यज्ञानमुक्तम् | शल्योद्धारस्तु दशमेऽर्घ्यदानपटले वक्ष्यते | १५ | एवं शल्यज्ञानक्रममभिधाय वास्तुपुरुषदेहावच्छिन्न-तत्तत्पदविभाजक- प्. ४३) चतुःषष्टिन्तु [षष्टिं क्, षष्टिः ख्, ग्] प्रासादे एकाशीतिं गृहे सदा || १६ || --------------------------------------------------------------------------------------------------------------------- ------- वास्तुमण्डलसन्निवेशनशैलीमभिधातुमुपक्रमते - वास्त्वङ्गमित्यादिना | सूत्रयेदिति वक्ष्यमाणक्रमेणेत्यर्थः | १६ | ननु मण्डलेऽस्मिन् कति पदानि विधेयानीत्यत आह - चतुःषष्टिन्त्विति | प्रासादनिर्माणे कर्तव्ये चतुःषष्टिं गृहनिर्माणे चैकाशीतिं पदानि कुर्यादित्यर्थः | ननु भोजदेवेन वास्तुत्रयविभागानन्तरं - एकाशीतिपदो यः स्यात्तथा शतपदश्च यः | चतुःषष्टिपदो यश्च वास्तुरत्र त्रिधोदितः || इति प्रकृत्य - वर्णिनां भवनादीनि निवेशा राजवेश्मनाम् | एकाशीतिपदेनेन्द्रस्थानञ्च विभजेत् सुधीः || प्रासादा विविधास्तद्वद् विचित्राश्चात्र मण्डपाः | तान् मापयेच्छतपदप्रविभागेन बुद्धिमान् || यः पुनः स्याच्चतुःषष्टिपदस्तेन विभाजयेत् | नरेन्द्रशिविरग्रामखेटादि नगरादि च || (समराङ्गन १३ | १ | ३ | ५) इत्युक्तरीत्या तेषामेकाशीति - पदादिवास्तुमण्डलत्रयाणां विषयभेदेन प्रविभागः कृतः | तन्मते वर्णिनां राज्ञाञ्च गृहा एकाशीतिपदविषयाः प्रासादा मण्डपाश्च शतपदविषयाः चतुःषष्टिपदस्य तु राजशिविरादिविषयकत्वमेव | न तु हयशीर्षानुसारि-देवभवनविषयत्वमिति परस्परविरोधो दुष्परिहर इति चेदुच्यते - प्रासादा विविधास्तद्वदित्यादिभोजदेववचने प्रासादपदं मण्डपपदञ्च राजगृहपरमेव एकाशीतिपदं प्रकृत्य - तत्र मैत्रपदस्थाने निवेशायावनीपतेः | प्रासादः प्राङ्मुखः कार्यो यथावत् पृथिविञ्जयः || श्रीवृक्षं सर्वतोभद्रं मुक्तकोणमथापरम् | यमिच्छेन्नृपतिः कुर्यात् प्रासादं शुभलक्षणम् || (समराङ्गन १५ | १६ | १७ ) इत्यादिना राजगृहविशेषवाचकस्यैव प्रासादपदस्य भोजदेवेनाभिहितत्वात् | एकाशीतिपदाज्जातो वास्तुः शतपदाभिधः | (समराङ्गन १४ | १२) इत्यनेन शतपदस्यैकाशीतिपदप्रकृतिकतया तयोस्तुल्यविषयत्वाभिधानाच्च | तथा च - राजभवनत्वपुरष्कारेणाभेदेऽपि तत्तदुविशेषलक्षणलक्षितराजगृहत्वव्याप्यप्रासादत्वमण्डपत्वरूपविभाजकोप अधिभेदेन भिन्नानाममीषां प्. ४४) चतुरस्रीकृते क्षेत्रे ह्यष्टधोभयभाजिते [ष्टधो क्, स्तथो (?) ख्, ग्] | कोणरेखां [रेखां क्, रेफां (?) ख्, ग्] ततो दत्त्वा सुरभागांस्तु [सुर क्, रुद्र (?) ख्, ग्] कल्पयेत् || १७ || --------------------------------------------------------------------------------------------------------------------- ------- शतपदविषयत्वं तदितरेषान्तु राजवेश्मनामेकाशीतिपदविषयत्वमित्यवधेयम् | भोजदेवस्तु राजभवननगरारामादिमात्रव्याख्यानप्रवृत्तः किमनेनाप्रस्तुतदेवभवनव्याख्यानकौतूहलेनेति चतुःषष्टिपदे देवगृहाणामन्तर्भावमकुर्वन्नापराध्यति | अथवा चतुःषष्टिपदे नगरादि चेत्यादिपदेन देवगृहाणामपि ग्रहणे सर्वं निर्विरोधमिति संक्षेपः | न च प्रासादो देवभूभजामित्यमरोक्ते श्चतुःषष्टिन्तु प्रासादे इत्यत्र प्रासादपदं देवगृहराजगृहसाधारणमिति वाच्यं चतुःषष्टिपदं वास्तु सर्वदेवगृहं प्रति | एकाशीतिपदं वास्तु मानुषं प्रति सिद्धिदम् | इति वास्तुयागतत्त्वधृतलिङ्गपुराणवचनेन चतुःषष्टिपदस्य देवगृहमात्रविषयत्वाभिधानात् एकाशीतिपदैर्भक्तं विधेयं नृपमन्दिरम् | (समराङ्गन २५ | ९) इति भोजदेववचनेन विशिष्य राजभवनस्यैकाशीतिपदवास्तुविषयत्वाभिधानाच्च प्रासादपदस्यात्र देवगृहपरत्वमेव न तु स्वप्नेऽपि राजगृहपरत्वं कल्पनीयमिति निष्कर्षः | १७ | अस्य शास्त्रस्य देवगृहमात्रपरतया समुद्दिष्टमप्यप्राकरणिकमेकाशीतिपदं मण्डलमुपेक्ष्य प्राकरणिकं चतुःषष्टिपदं व्याचष्टे - चतुरस्रीति | भूमिं प्रथमं चतुरस्रां विधाय तामुभयतोऽष्टधा विभाजयेत् | तत्र च विभाजने नव पूर्वायता नव चोत्तरायता रेखाः कर्तव्यः | एवं कृते चतुःषष्टिः पदानि भवन्ति | रेखानामासां संज्ञाश्च विश्वकर्मणा प्रदर्शिताः | तत्र पूर्वापरायतानां रेखानवकानामुत्तरादिक्रमेण संज्ञाः - श्रिया यशोमती कान्ता सुप्रियापि परा शिवा | सुशोभा सधना ज्ञेया तथेभा नवमी स्मृता | पूर्वापरायता येताश्चतुःषष्टिपदे स्थिताः | (विश्व ५ | २२ | २३) पश्चिमादिक्रमेण दक्षोत्तरगाणां संज्ञास्तु धन्या धरा विशाला च स्थिरा रूपा गदा निशा | विभवा प्रभवा चान्या सौम्यासौम्याश्रिताः शिराः | (विश्व प्. ४५) शिवः कोणार्द्धतो ज्ञेयः पर्जन्यः पदसंस्थितः | द्विपदस्थो जयो ज्ञेयः सुरेशश्चैकपादकः || १८ || भास्करस्तु पदे ज्ञेयो द्विपदः सत्य इष्यते | भृशः पदस्थो विज्ञेयो [विज्ञेयो क्, ज्ञातव्यो ख्, ग्] व्योम चैव पदार्द्धगः || १९ || हुताशनः पदार्द्धश्च [च क्, तु ख्, ग्] पूषा च पदसंस्थितः | वितथो द्विपदस्थश्च [पदस्थश्च क्, पदो ज्ञेयः ख्, ग्] पदैकस्थो गृहक्षतः || २० || वैवस्वतः पदैकस्थो गन्धर्वो द्विपदस्थितः | भृङ्गश्चैकपदेज्ञेयो [दे क्, दो ख्, ग्] मृगश्चार्द्धपदे स्थितः || २१ || --------------------------------------------------------------------------------------------------------------------- ------- ५ | २३ | २४) एता ह्यष्टादशरेखाः शिराशब्देनोच्यन्ते तासां मर्मान्तर्गतत्वं पूर्वमुक्तमित्यलमत्र प्रपञ्चेन | कोणरेखामिति - ततः प्रागुक्तक्रमेण चतुःषष्टिं पदानि निर्माय चतुष्कोणपदेषु क्रमादेकैकां कोणरेखां दत्त्वेत्यर्थः | तथा च मण्डस्येशानकोणपदे ऐशानीतो नैरृत्यन्तां आग्नेयपदे आग्नेययाद् वायव्यन्तां नैरृतपदे नैरृतादीशानान्तां वायव्यपदे च वायव्यादाग्नेययन्तां रेखां विदधीतेत्यर्थः | एवं कृते मण्डलस्य प्रतिकोणमेकैकशस्तिर्यग्रेखा भवति | इति मण्डलाङ्कनक्रमः | सुरभागानिति | तेषु पदेषु वक्ष्यमाणरीत्या वक्ष्यमाणानां सुराणां भागान् कल्पयेदित्यर्थः | १८ | तत्कल्पनशैलीमाह - शिव इत्यत आपटलान्तम् | पूर्वपङ्क्तावीशानकोणार्द्धे शिवोऽर्द्धपदः | तद्दक्षिणी पर्जन्य एकपदः | तद्दक्षिणे तदधःपदसहिते जयन्तो द्विपदः | मूले द्विपदस्थो जय इत्यत्र जयो जयन्तः जयन्तायहुंप्रदातव्येति नवमपटलस्वरसात् द्विपदस्थो जयन्तश्चेति वास्तुयागतत्त्वधृत- देवीपुराणवचनैकवाक्यत्वाच्च | तद्दक्षिणे सुरेश (इन्द्र) एकपदः | १९ | ततो भास्कर एकपदः | तद्दक्षिणे तदधःपदसहिते सत्यो द्विपदः | तद्दक्षिणे भृश एकपदः | ततोऽग्निकोणार्द्धे व्योमार्द्धपदम् | इत्यष्टौ पूर्वस्यां पूज्या बहिर्देवताः | प्. ४६) पितरश्चार्द्धतो ज्ञेयाः पदे दौवारिकस्तथा | सुग्रीवो द्विपदो [दे क्, दो ख्, ग्] ज्ञेयो ह्येकस्थः पुष्पदन्तकः || २२ || यादसाम्पतिरेकस्थो ह्यमुरस्तु द्विसंस्थितः | शोषश्चैकपदे [शोष क्, शोक ख्, ग्] ज्ञेयो ह्यर्द्धगः पाप इष्यते || २३ || रोगश्चार्द्धपदे ज्ञेयो नागश्चापि पदे स्थितः | मुख्यश्च [मुख्य क्, यक्ष ख्, ग्] द्विपदो ज्ञेयो भल्लाटः पदसंस्थितः || २४ || --------------------------------------------------------------------------------------------------------------------- ------- २० | अथ दक्षिणपङ्क्तावग्निकोणापरार्द्धे हुताशनोऽर्द्धपदः | तत्पश्चिमे पूषैकपदः | तत्पश्चिमे सोत्तरैकपदे वितथो द्विपदः | तत्पश्चिमे गृहक्षत एकपदः | २१ | तत्पश्चिमे वैवस्वत (यम) एकपदः | तत्पश्चिमे सोत्तरैकपदे गन्धर्वो द्विपदः | तत्पश्चिमे भृङ्गराज एकपदः | मूले भृङ्गश्चैकपदे ज्ञेय इत्यत्र भृङ्गो भृङ्गराजः गन्धर्वो भृङ्गराजश्चेति (मत्स्य २२७ अ०) वचनस्वरसात् | ततो नैरृतकोणार्द्धे मृगोऽर्द्धपदः | इत्यष्टौ दक्षिणदिग्देवताः | २२ | अथ पश्चिमपङ्क्तौ नैरृतकोणापरार्द्धे पितरोऽर्द्धपदाः | तदुत्तरेदौवारिक एकपदः | तदुत्तरे पूर्वैकपदसहिते सुग्रीवो द्विपदः | तदुत्तरे पुष्पदन्त एकपदः | २३ | तदुत्तरे वरुण एकपदः | तदुत्तरे पूर्वैकपदसहितेऽसुरो द्विपदः | तदुत्तरे शोष एकपदः | ततो वायुकोणार्द्धे पापोऽर्द्धपदः | पाप इत्यत्र पापयक्ष्मेति बृहत्संहिता | इत्यष्टौ पश्चिमदिग्देवताः | २४ | अथोत्तरपङ्क्तौ वायुकोणापरार्द्धे रोगोऽर्द्धपदः | तत्पूर्वे नाग एकपदः | प्. ४७) यक्षेश्वरः पदे ज्ञेयो नागराड् द्विपदे स्थितः | पदस्था श्रीर्महादेवी अदितिश्चार्द्धसंस्थिता || २५ || आपो ज्ञेयास्तु पदगा ह्यापवत्सः [वत्सः क्, वन्ती (?) ख्, ग्] पदस्थितः [स्थितः ख्, ग्, संस्थितः क्] | चतुष्पदस्थो विज्ञेयस्त्वर्यमा पूर्वमध्यगः [पूर्व क्, पूर्य (?) ख्, ग्] || २६ || सविता तु पदे ज्ञेयः सावित्री च [च क्, तु ख्, ग्] पदे स्थिता | ततो विवस्वान् विज्ञेयश्चतुष्टयपदस्थितः [चतुष्टयपद क्, चतुष्पादव्यव ख्, ग्] || २७ || --------------------------------------------------------------------------------------------------------------------- ------- तत्पूर्वे दक्षैकपदसहिते मुख्यो द्विपदः | बृहत्संहितायामपि तथैव | वास्तुयागतत्त्वधृतदेवीपुराणे तु द्विपदे विश्वकर्मा तु इति दृश्यते | तत्पूर्वे भल्लाट एकपदः | २५ | तत्पूर्वे यक्ष्मेश्वर (सोम) एकपदः | यज्ञेश्वर इति देवीपुराणम् | सोम इति बृहत्संहिता | तत्पूर्वे दक्षैकपदसहिते नागराड् द्विपदः | तत्पूर्वे श्रीरेकपदा | ततश्चेशानकोणार्द्धे अदितिरर्द्धपदा | इत्यष्टावुत्तरदिग्देवताः | इत्येवंक्रमेणाष्टशश्चतुर्दिक्षु द्वात्रिंशद् बाह्यदेवताः पूज्याः | ईदृशदेवताविभागे तु पदस्थान् पूजयेद्देवान् त्रिंशत् पञ्चदशैव तु | द्वात्रिंशद् बाह्यतः पूज्याः पूज्याश्चान्तस्त्रयोदश || (देवी) इत्यादिवचनमेव नियामकम् | २६ | अथेदानीमन्तःपददेवता निरूप्यन्ते | द्वितीयपङ्क्तावीशानपदे आप एकपदाः | तृतीयपङ्क्तावीशानपदे आपवत्स एकपदः | ततः पूर्वदिङ्मध्यगपदद्वयात् शक्रभास्कराभ्यामधिष्ठितादधःपदचतुष्टये ब्रह्मस्थानादूर्ध्वे अर्यमा चतुष्पदः | २७ | ततो द्वितीयपङ्क्तावाग्नेयपदे सवितैकपदः | ततस्तृतीयपङ्क्तावाग्नेयपदे सावित्री एकपदा | प्. ४८) इन्द्रश्चेन्द्रजयश्चैव एकैके संव्यवस्थितौ | मित्रश्चतुष्पदस्थश्च [च क्, तु ख्, ग्] पश्चिमे तु व्यवस्थितः || २८ || रुद्रः पदैकसंस्थो वै यक्ष्मा [यक्ष्मा क्, ब्रह्मा ख्, ग्] चैकपदे [क क्, व ख्, ग्] स्थितः | धराधरश्च विज्ञेयो ह्युत्तरे च चतुष्पद. [च चतुष्पदः इत्यंशो क्, पुस्तके पतितः |] || २९ || चतुर्मुखश्चतुष्कस्थो मध्ये ज्ञेयः प्रजापतिः | देवतानुचरा बाह्ये सर्वे स्कन्दादयः स्थिताः || ३० || इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (अष्टमो) देवताविभागपटलः || ८ || आदितः श्लोकसंख्या - १६८ --------------------------------------------------------------------------------------------------------------------- ------- ततो याम्यमध्यगपदाभ्यां गृहक्षतयमाधिष्ठिताभ्यामधःपदचतुष्टये ब्रह्मस्थानादूर्ध्वे विवस्मांश्चतुष्पदः | २८ | ततो द्वितीयपङ्क्ता नैरृतपदे इन्द्र एकपदः | ततस्तृतीयपङ्क्तौ नैरृतपदे इन्द्रजय एकपदः | ततः पश्चिमपदाभ्यां पुष्पदन्त- वरुणाधिष्ठिताभ्यामधः पदचतुष्टये ब्रह्मस्थानादूर्ध्वे मित्रचश्तुष्पदः | २९ | ततो द्वितीयपङ्क्तौ वायव्यपदे रुद्र एकपदः | ततस्तृतीयपङ्क्तौ वायव्यपदे राजयक्ष्मैकपदः | मूले यक्ष्मेत्यनेन राजयक्ष्मेति बोध्यम् राजयक्ष्मा पदस्थित इति वास्तुयागतत्त्वधृतदेवीपुराणात् रुद्रश्च राजयक्ष्मा चेति मत्स्यपुराणाच्च | अत्र पापयक्ष्मेति बृहत्संहिता | तत उत्तरपदाभ्यां भल्लाटयक्षेश्वराधिष्ठिताभ्यामधःपदचतुष्टये ब्रह्मस्थानादूर्ध्वे धराधर (पृथ्वीधर) श्चतुष्पदः | ३० | मध्ये चतुर्मुखः प्रजापतिर्ब्रह्मा चतुष्पदः | इत्येवं क्रमेण पदविभागः विभक्तेषु पदेषु देवानामीषां पूजनञ्च कर्तव्यम् | प्. ४९) देवतेति | बाह्ये मण्डलबहिर्भागे स्कन्दादयः सर्वे देवाः स्थिताः तेषामपि पूजनं वक्ष्यमाणक्रमेण विधेयमित्यर्थः | स्कन्दादयश्च - पूज्या मण्डलबाह्ये तु पूर्वाग्नेययादिक्रक्रमात् | स्कन्दश्चैव विदारी च अर्यमा पूतना तथा | जम्भकापापराक्षस्यौ पिलिपिञ्जश्चरक्यपि | इति वास्तुयागतत्त्वधृत- देवीपुराणवचनानुसारेण पूतना पश्चिमायां जम्भका वायव्यां पापराक्षसी उत्तरस्यां पिलिपिञ्जः ऐशान्यां चरकी च स्थिताः इत्यर्थः | तथा गारुडे चतुःषष्टिपदे देवा इत्येवं परिकीर्त्तिता | इति प्रकृत्य चरक्यादिचतुष्टयानां पूजनादनन्तरम् ईशानाद्यास्तथा बाह्ये देवाद्या हेतुकादयः | हेतुकस्त्रिपुरान्तश्च अग्निवेतालको यमः | अग्निजिह्वः कालकस्तु करालो ह्येकपादकः || ऐशान्यां भीमरूपस्तु पाताले प्रेतनायकः | आकाशे गन्धमाली स्यात् क्षेत्रपालांस्तथा यजेत् || (गारुड ३६) इत्यभिधानान्मूलस्थस्कन्द्दादिपदेनैतेषामपि ग्रहणम् | अत एव विश्वकर्मणा बाह्यदेवानाममीषां सन्निवेशनक्रममभिधाय - या बाह्यदेवताः प्रोक्ताः प्रासादेः ताः प्रपूजयेत् | (विश्व ५) इत्यनेन यत्र यत्र देवतानुचरा बाह्ये सर्वे स्कन्दादयः स्थिता इति हयशीर्षीयरीत्या स्कन्दादीनां मण्डलपदबहिर्देवतानां पूजनमभिहितं तत्र तत्रैव तस्य प्रासादमात्रपरत्वमवगन्तव्यमिति सूचितम् | तथा चैकाशीतिपदविषये गृहादौ प्रागुक्ताः शिख्यादिचतुःपञ्चाशद्देवता एव पूज्याः | चतुःषष्टिपदविषये प्रासादादौ तु शिवादिचतुःपञ्चाशद्देवतापूजनानन्तरं स्कन्दादीनामपि पूजनं कर्तव्यमित्येव प्रतिभाति विश्वकर्म-हयशीर्षादिवचनसंवादेन | पूजा च हेतुकादीनामीशानादिक्रमेणोत्तरान्ता | ईशानाद्यास्तथा बाह्ये देवाद्या हेतुकादयः दति गारुडस्वरसात् | हेतुकः पूर्वदिग्भागे इत्यादि विश्वकर्मोक्तन्त्वेकाशीतिपदविषयकमिति ध्येयम् | तथा ऐशान्यां पाताले प्रेतनायकः आकाशे गन्धमाली पूज्यौ | तथा हेतुकादयः क्षेत्रपालाः पूज्याः इति क्षेत्रपालांस्तथा यजेदिति तथाशब्देन सूचितम् | प्. ५०) नवमः पटलः (वास्तुपदानां रजसापूरणम् बलिभेदाः पददेवतापूजाप्रयोगनञ्च) श्रीभगवानुवाच - एवं प्रगृह्य [गृह्य क्, मृज्य ख्, ग्] कोष्ठानि रजसापूर्य देशिकः | एतेषामेव देवानां बलिं दद्यात्तु कामिकम् || १ || --------------------------------------------------------------------------------------------------------------------- ------- १ | पूर्वपटले तत्तद्देवताकपदनिर्माणमुक्ता पदानाममीषां रजसापूरणं देवताभेदेन बलिभेदञ्च वक्तुं पटलोऽयमारभ्यते | रजसेति | पञ्चवर्णरजोभिः | तथा च शारदायां - भक्तानामपि देवानां पदान्यापूर्य पञ्चभिः | रजोभिस्तैर्यथोक्तेभ्यः पायसाद्यैर्बलिं हरेत् || इति | तथा - पीतं हरिद्राचूर्णं स्यात् सितं तण्डुलसम्भवम् | कुसुम्भचूर्णमरुणं कृष्णं दग्धपुलाकजम् | विल्वादिपत्रजं श्याममित्युक्तं वर्णपञ्चकम् || इत्यादिना रजसां स्वरूपमभिहितम् | अत्र विशेषानभिधानात् शारदोक्तान्येव पदपूरकाणि रजांसि ग्राह्याणि | रजसामेतेषां पदभेदेन विन्यासक्रमभेदो न मूले निवेशित इति विश्वकर्मोक्तदिशा प्रदर्श्यते | यथाह विश्वकर्मा - मध्ये नवपदो ब्रह्मा पीतश्वेतश्चतुर्भुजः | आब्रह्मन् ब्रह्मण इति मन्त्रोयं समुदाहृतः | अर्ययमा कृष्णवर्णश्च अर्यम्ना च बृहस्पतिः | सविता रक्तवर्णस्तु उपयाम गृहीतकम् || विवस्वान् शुक्लवर्णश्च विवस्वानादित्यमन्त्रतः | इन्द्रो रक्तेन्द्रसूत्रामा मन्त्रोऽयं समुदाहृतः || मित्रः श्वेतश्च तन्मित्रं वरुणस्याभिचक्षत्विति | राजयक्ष्मा रक्तवर्णो ह्याभिगोत्राणि मन्त्रतः | पृथ्वीधरो रक्तवर्णः पृथिवीच्छन्दमन्त्रतः || आपवत्सः शुक्लवर्णो भवामेति च मन्त्रतः || आपः शुक्लवर्णश्च तद्वाह्ये आपो अस्मान्मातरेति च | प्. ५१) सावित्र्याग्नेयदिग्भागे शुक्लवर्णैकपात्तथा || उपयामगृहीतोऽसि सवितासीति मन्त्रतः | जयन्तः श्वेतो नैरृत्ये मर्माणि तेति मन्त्रतः || रुद्रो रक्तश्च वायव्ये सूत्रामा इति मन्त्रतः | ईशाने रक्तवर्णश्च तमीशानेति वै शिखी || पर्यन्यः पीतवर्णश्च तमीशानेति वै तथा | जयन्तः पीतवर्णश्च धन्ननागा इति स्मृतः || कुलिशायुधः पीतवर्णो महा इन्द्रेति वै तथा | सूर्यो रक्तः सूर्यरश्मिर्हरिकेति च मन्त्राः || सत्यश्च शुक्ल् व्रतेन दीक्षामाप्नोति मन्त्रतः | भृशः कृष्णो मन्त्रमस्य भद्रङ्करणेभिरेव च || अन्तरिक्षः कृष्णवर्णो वयं सोमश्च इत्यपि | वायुर्धूम्रस्तथावर्ण आवयोरिति मन्त्रतः || पूषा च रक्तवर्णश्च पूषन्तव इतीरितः | शुक्लवर्णञ्च वितथं सविता प्रथमेति च || गृहक्षतः पीतवर्णः सविता त्वेति मन्त्रतः | यमः कृष्णवपुर्याम्ये यमाय त्वा मखाय च || गन्धर्वो रक्तवर्णऽऽच पृतद्वो वेति मन्त्रतः | भृङ्गराजः कृष्णवर्णो मृत्युः सुपर्णेति वा तथा || मृगः पीतश्च तद्विष्णोर्मन्त्रेण निरृतिस्थितः | पितृगणा रक्तवर्णाः पितृभ्यश्चेति पूजयेत् || दौवारिको रक्तवर्णो द्रविणोदाः पिपीषति | शुक्लवर्णश्च सुग्रीवः सुषुम्नः सूर्यरश्मिना || पुष्पदन्तो रक्तवर्णो नक्षत्रेभ्येति मन्त्रतः | वरुणः शुक्ल इतरो मित्रास्य वरुणास्यतः || असुरः पीतरक्तश्च ये रूपाणीति मन्त्रतः || शोकः कृष्णवपुर्मन्त्रमासवे स्वाहेत्यावाहयेत् || पापयक्ष्मा पीतवर्णः सूर्यरश्मीति मन्त्रतः | रक्तवर्णस्तथा रोगः शिरो मे इति कोणके || द्विपदोऽहिर्वायुकोणे नमोऽस्तु सर्पेभ्यश्च | मुख्यो रक्तवपुः कार्य इषे त्वा इति पूजयेत् || भल्लाटकः कृष्णवर्णो बन्महांसीति मन्त्रतः || सोमः श्वेतश्चोत्तरे च वयसोमेति मन्त्रतः || सर्पः कृष्णवपुः पूज्य उदुत्यं जातवेदसम् | अदितिः पीतवर्णा तु उतनोहिर्बुध्न्यमन्त्रतः || दितिः पीता अदितिर्द्यौर्मन्त्रेणेशानकोणके | ईशानादिक्रमेणैव स्थाप्याः पूज्याः स्वमन्त्रतः || नाममन्त्रेण वा स्थाप्याः पूज्याश्चैव यथाक्रमात् | भूर्भुवःस्वेति मन्त्रेण प्रणबाद्येन नामकैः || ईशाने चरकी स्थाप्या धूम्रवर्णाथ बाह्यगाः | ईशावास्येति मन्त्रेण स्थाप्याः पूज्याः प्रयत्नतः || विदारिका रक्तवर्णा अग्निं दूतेति मन्त्रतः | पूतना पीतहरिता नमः स्वस्त्याय मन्त्रतः || प्. ५२) पापराक्षसी कृष्णाभा वायव्यैरिति मन्त्रतः | बहिरेव च पूर्वादिक्रमेण च ततोऽर्च्चयेत् | रक्तकृष्णः स्कन्धघटी एह्यत्र मयमन्त्रतः | अर्यमा दक्षिणे कृष्ण अर्यम्ना च बृहस्पतिः || पश्चिमे रक्तवर्णस्तु जम्भकः परिकीर्तितः | सरोभ्यो भैरवं मन्त्रं समुच्चार्य प्रपूजयेत् || पिलिपिञ्जः पीतवर्णः कायम्भमरेति मन्त्रतः | भीमरूपस्तथेशाने यमाय त्वेति रक्तकः || त्रिपुरारिः कृष्णवर्णस्त्र्यम्ब्के त्वग्निकोणके | अग्निजिह्वस्तु नैरृत्य असुन्वं त्वेति पीतकः || कराला रक्तवर्णा तु वातो ह त्वा हनास्थितः | हेतुकः पूर्वदिक् कृष्णो हेमन्ते रृतुना तथा || अग्निवेतालके (?) याम्ये कृष्णोऽग्निं दूतमित्यपि | कालाख्यः पश्चिमे कृष्णो वरुणस्योत्तम्भनं तथा || एकपादः पीतवर्णः कुविदाङ्गेति चोत्तरे | ईशान- पूर्वयोर्मध्ये गन्धमाल्यश्च पीतकः || गन्धद्वारेति मन्त्रेण पूज्यमानोऽन्तरीक्षके | नैरृत्यां बुद्धिमध्यस्थो ज्वालाख्यः श्वेतरूपधृक् || महि द्यौरिति मन्त्रेण पूजनीयो विधानतः | या बाह्यदेवताः प्रोक्ताः प्रासादे ताः प्रपूजयेत् || (विश्व ५ | ६२ - ९८) विश्वकर्मणा गृहादिनिर्माणविहितैकाशीतिपदमण्डलमधिकृत्य रजसां न्यासो व्याख्यात इति प्रकृतप्रकरणानुसारेण मध्ये नवपदो ब्रह्मेत्यभिहितं परन्त्वेकाशीतिपद-चतुःषष्टिपदयोरुभयोरपि पूजनीयानां देवतानां प्रायस्तुल्यतया तत्तद्देवतावर्णानामपि तथात्वेन राजसां न्यासोऽप्युभयत्न तुल्य एव | तथा च हयशीर्षोक्तक्रमेण विभक्तदेवताकेषु पदेषु विश्वकर्मोक्तरीत्या राजसां न्यासः करणीयो नतु पदविभागोऽपीति तत्त्वम् | परन्तु शिखीत्यत्र शिव इति अदितिरित्यत्र शीरितिदितिरित्यत्र चादितिरित्येकाशीतिपदाच्चतुःषष्टिपदगतदेवतान्यासे विशेष इति ध्येयम् | एषु विश्वकर्मवचनेषु ब्रह्मणः प्रभृति रजसां न्यासोऽभिहितः | अस्माभिस्तु शिष्टानां सुखबोधाय हयशीर्षोयोद्देशानुसारेण स एव संक्षेपेण प्रदर्श्यते - शिवो रक्तः | पर्जन्यः पीतः | जयन्तः पितः | शकः पीतः | भास्करो रक्तः | सत्यः शुक्लः | भृशः कृष्णः | व्योम कृष्णम् | हुताशनो (केषाञ्चिन्मते वायुः) धूम्रः | हुताशनो रक्त इति वैदिकसर्वस्वम् | पूषा रक्तः | वितथः शुक्लः | गृहक्षतः पीतः | प्. ५३) ईशानाय प्रदातव्यं पायसं मधुना सह | यमः कृष्णः | गन्धर्वो रक्तः | भृङ्गराजः कृष्णः | मृगः पीतः | पितरो रक्ताः | दौवारिको रक्तः | सुग्रीवः शुक्लः | पुष्पदन्तो रक्तः | वरुणः शुक्लः | असुरः पीतरक्तः | शोषः (शोक इति विश्वकर्मा) कृष्णः | पापयक्ष्मा पीतः | रोगो रक्तः | नागो रक्तः | मुख्यो रक्तः | (विश्वकर्मा पीत इति वैदिकसर्वस्वम्) भल्लाटः कृष्णः | थक्ष्मेश्वरः (सोम इति विश्वकर्मा) श्वेतः | सर्पः कृष्णः | श्रीः (अदितिरिति विश्वकर्मा) पीता | अदितिः पीता | आपः शुक्लाः | आपवत्सः शुक्लः | अर्यमा कृष्णः | सविता रक्तः | सावित्री शुक्ला | विवस्वान् शुक्लः | इन्द्रो रक्तः | इन्द्रजयः श्वेतः | (जयन्त इति विश्वकर्मा) | मित्रः श्वेतः | रुद्रो रक्तः | राजयक्ष्मा रक्तः | पृथ्वीधरो रक्तः | मध्ये चतुष्पदो ब्रह्मा पीतश्वेतः | अथेदानीं मण्डलबहिर्देवतावर्णा निरूप्यन्ते - स्कन्दो रक्तः | विदारी रक्ता | अर्यमा कृष्णः | पूतना पीतहरिता | जम्भको रक्तः | पापराक्षसी कृष्णा | पिलिपिञ्जः पीतः | चरकी धूम्रा | हेतुकः कृष्णः | त्रिपुरान्तकः कृष्णः | अग्निवेतालः कृष्णः | यमः कृष्णः | अग्निजिह्वः पीतः | कालः कृष्णः | करालो रक्तः | एकपादः पीतः | (एतेऽष्टौ हेतुकाद्याः क्षेत्रपालाः) | भीमरूपो रक्तः | गन्धभाली (ईशानपूर्वयोर्मध्ये नभसि) पीतः | पुनस्तत्रैव हेतुकाद्याः क्षेत्रपालास्तत्तद्वर्णाः पूज्याः | अथ वक्ष्यमाणबलेः काम्यत्वं व्यवस्थापयितुमाह - कामिकमिति | एतेन बलेः काम्यत्वात् एवं संपूजिता देवा इत्यादिवक्ष्यमाणैकविंशश्लोकेन पूजाया नित्यत्वावगमाच्च पूजाङ्गहोमस्यापि तथात्वेन पूजाहोमानन्तरं बलिर्विधेयः | अत एव स्मार्त्तभट्टाचार्यैरपि - एवं संपूजिता देवाः शान्तिपुष्टिप्रदा नृणाम् | अपूजिता विनिघ्नन्ति कारकं स्थापकं तथा || इति देवीपुराणवचनमुल्लिख्य अत्र प्रपूजाया नित्यत्वात् वक्ष्यमाणमत्स्यपुराणवचने होमानन्तरं बलिविधानाच्च बलेः काम्यत्वात् पूजाहोमानन्तरं बलिदानाचारः इति तथा - होमान्ते भक्ष्यभोज्यैश्च वास्तुयागे बलिं हरेदिति मत्स्यपुराणे होमान्ते बलिविधानादत्रापि होमं कृत्वा बल्यादिप्रागुदितसर्वकर्मकरणाचार इति चाभ्यधायि | प्. ५४) पर्जन्याय जलं देयं गन्धपुष्पादिवासितम् [गन्धपुष्प क्, पुष्पगन्ध ख्, ग्] || २ || जयन्ताय प्रदातव्या पताका [पताका क्, पताकी (?) ख्, ग्] पीतवर्णिका | सुरेश्वराय रत्नानि भास्कराय घृतं तथा || ३ || धूम्रकं [धूम्रकं क्, धूम्राभं ख्, ग्] पीतवर्णं वा सत्ये दद्याद्वितानकम् | दद्याद् भृशे [भृशे क्, वृषे (?) ख्, ग्] पक्षिमांसं व्योमाय (?) श्रुवमग्नये [श्रुव ख्, श्रव (?) ख्, ग्] || ४ || पुष्णे धानाः सलाजास्तु सुवर्णं वितथे तथा | गृहक्षताय मध्वन्नं यमाय पिशितौदनम् || ५ || गन्धं गन्धर्वदेवाय भृङ्गे दद्यात्तु शाकुनम् | मृगे [भृगे ख्, ग् मुद्ग क्] तिलयवांश्चैव [तिल क्, तिस (?) ख्, ग्] पितृभ्यः कृसरन्तथा || ६ || दौवारिके दन्तकाष्ठं सुग्रीवे यावकन्तथा | पुष्पदन्ते कुशा देया वरुणे पद्ममुत्पलम् || ७ || अमुरायैक्षवं [असुराय क्, गन्धर्वाय (?) ख्, ग्] देयं रसं शोषे [शोषे क्, शोके ख्, ग्] घृतौदनम् | यवास्तु देयाः पापाय रोगाय घृतमण्डकम् || ८ || नागाय नागपुष्पाणि भक्ष्यान् मुख्याय दापयेत् | चित्रौदनञ्च भल्लाटे सोमाय मधुपायसम् || ९ || --------------------------------------------------------------------------------------------------------------------- ------- २ | अथेशानादिदेवेषु कस्सै कीदृशो बलिर्देय इत्याह - ईशानायेत्यत ऐशान्यां दिशि दापयेदित्यन्तेन | प्. ५५) नागाय चापि शालूकं श्रियै सरसपायसम् | अदित्यै पूरिका देया क्षीरमद्भ्यो ददेद्बलिम् || १० || दधि क्षीरञ्चापवत्से [वत्से ख्, ग्, वन्त्यै (?) क्] अर्यम्णे लड्डुकं बलिम् | कुशोदकं सवित्रे च सावित्र्यै गुडपूपकम् || ११ || विवस्वते रक्तपुष्पं रक्तचन्दनमेव च | हरिद्रान्नं तथेन्द्राय साज्यमिन्द्रञ्जयाय च || १२ || घृतपूरन्तु [पूर क्, पूर्ण ख्, ग्] मित्राय रुद्राय गुडपायसम् | आमपक्वानि मांसानि प्रदद्याद्राजयक्ष्मणे || १३ || पृथ्वीधरायाममांसं सकुल्माषं बलिं हरेत् | साक्षतं सतिलञ्चैव पञ्चगव्यं तथा चरुम् || १४ || कुशान् गन्धं तथा पुष्पं ब्रह्मस्थाने निवेदयेत् [द क्, श ख्, ग्] | आममांसं पूर्वभागे सर्वं स्कन्दे तु सोदनम् || १५ || सितपद्मं घृतं मांसं विदार्यै चाग्निकोणके | कृसरापूपकं मांसमर्यम्नायैव [मार्यम्ना क्, अर्यम्ना ख्, ग्] दक्षिणे || १६ || पिष्टं [पिष्टं ख्, ग् पिण्डं क्] चैव तथा रक्तं पूतन्यै निरृते तथा | सासृङ्मांसं प्रदातव्यं जम्भकायैव [एव क्, तु ख्, ग्] पश्चिमे || १७ || अस्थिकण्डैश्च सहितं रक्तपिण्डेन मिश्रितम् | प्रदेयं पापराक्षस्यै वायव्यां मांसमेव च || १८ || उत्तरे पिलिपिच्छायै (?) सान्त्रं रक्तं बलिं हरेत् | प्. ५६) चरक्यै [चरक्यै ख्, ग्, वाराह्यै (?) क्] छागमांसानि ऐशान्यां दिशि दापयेत् || १९ || ततो भूतगणानान्तु राक्षसानां सुरोत्तम | पिशाचानां गणानान्तु बलिर्देयस्तु कामिकः || २० || एतान् वा पूजयेत् सर्वान् कुशपुष्पाक्षतैर्बुधः || २१ || एवं संपूजिता देवाः शान्तिपुष्टिप्रदा नृणाम् | अपूजिता विहिंसन्ति कारकं स्थापकं तथा || २२ || तस्मादेतांस्तु संपूज्य गन्धैः पुष्पैर्मनोहरैः | प्रासादं कारयेद् विद्वान् गृहं वा सुरसत्तम || २३ || इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (नवमो) बलिदानपटलः || ९ || आदितः श्लोकसंख्या - १९१ --------------------------------------------------------------------------------------------------------------------- ------- २० | एवं चरक्यन्तानां बलिमुक्त्वा भूतादीनां बलिमाह - तत इति | भूतानां राक्षसानां पिशाचानाञ्च बलिर्न निर्दिष्टः परन्त्वेतेषां यद् यदभीष्टं वस्तु तेन तेनैवैतेषां बलिर्विधेय इत्येवाह - कामिक इत्यनेन | २१ | तत्तदुपचारालाभे कर्तव्यमाह - एतानिति | मत्स्यपुराणे तु हयशीर्षीयक्रमेण बलिभेदमभिधाय पायसं वापि दातव्यं स्वनाम्ना सर्वतः क्रमात् | नमस्कारेण मन्त्रेण प्रणवाद्येन सर्वतः || (२४२ अ०) इत्यनेन बलेस्तत्तदुपकरणालाभे पायसेन तन्निर्वर्तनमभिदधे | सौरकाण्डेऽपि चतुर्थपटले - प्रत्येकद्रव्यजातीनामलाभाद् वास्तुदेवताः | गन्धादिना समभ्यर्च्य परमान्नबलिं हरेदित्यभिधास्यते | २२-२३ | वास्तुकर्मण्येतेषां पूजने फलमाह - एवमिति | अपूजने दोषमाह - अपूजिता इति | उपसंहरति - तस्मादिति | प्. ५७) दशमः पटलः | (अर्घ्यदानम्) श्रीभगवानुवाच - ब्रह्मस्थाने ततः कुर्याद् वासुदेवस्य पूजनम् | श्रियः संपूजनं कुर्यात् हृषीकेशगणस्य च || १ || पूजनञ्च ततः कुर्याद् वासुदेवगणस्य च | गन्धार्घ्यपुष्पनैवेद्य [नैवेद्य क्, नैवेद्यैः ख्, ग्] धूपदीपैर्मनोहरैः [धूपैर्दीपैः क्, धूपदीपैः ख्, दीप ग्] || २ || ततः संपूजयेत्तस्मिन् सर्वलोकधरां महीम् | सुरूपां प्रमदारूपां दिव्याभरणभूषिताम् [दिव्या क्, सर्वा ख्, ग्] || ३ || ध्यात्वा समर्चयेद्देवीं परितुष्टां स्मिताननाम् | ततः प्रणम्य विज्ञाप्य तन्मयत्वेन [यत्वेन क्, ना च (?) (श्च) वि ख्, ग्] चिन्तयेत् || ४ || --------------------------------------------------------------------------------------------------------------------- ------- १ | अथेदानीमर्घ्यदानप्रक्रियां प्रदर्शयितुं पटलोऽयमारभ्यते ब्रह्मस्थान इति | तत इति शिवादीनां पददेवतानां पूजनादनन्तरं नतु स्वाव्यवहितप्रागुक्तबलिविधेरनन्तरं तस्य होमानन्तरमेव कर्तव्यतायाः पूर्वपटले व्यवस्थापनात् | ब्रह्मस्थाने मण्डलमध्ये चतुष्पदात्मके स्थाने इत्यर्थः | ३-४ | पृथिव्याः पूजनमाह - तत इति | वासुदेवादिपूजानन्तरं तस्मिन् ब्रह्मस्थाने सर्वलोकधरां महीं पूजयेदित्यर्थः | तस्या ध्यानमाह - सुरूपामिति | प्. ५८) ततः स्वनाममन्त्रेण सर्वामरमयं परम् | ध्यात्वा समर्चयेद् भक्त्या [भक्त्या क्, तत्र ख्, ग्] यत्तद्वास्तुमयं नरम् || ५ || ब्रह्मस्थाने ततो विद्वान् कुर्यादाधारमक्षतैः | तस्मिन् संस्थापयेत् कुम्भं वर्द्धन्या सह पूजितम् || ६ || हैमं वा राजतं वापि मृण्मयं वा दृढं नवम् [दृढं नवं क्, नवं दृढं क्, ग्] | सर्ववीजौषधीयुक्तं सुवर्णराजतान्वितम् [राजत क्, रजत ख्, ग्] || ७ || रत्नगर्भं सुसम्पूर्णं वस्त्रपूतेन वारिणा | प्रशस्तपल्लवोपेतं श्वेतचन्दनचर्चितम् || ८ || पुष्पैः सुमालितं कृत्वा शस्तधूपैर्विधूपितम् | आहतेन तु शुक्लेन वस्त्रयुग्मेन वेष्टितम् || ९ || --------------------------------------------------------------------------------------------------------------------- ------- ५ | तत इति पृथिवीपूजानन्तरम् | स्वनाममन्त्रेणेति ओं वास्तुपुरुषाय नमः इति मन्त्रेणेत्यर्थः ओंकारादिसमायुक्तं नमस्कारान्तकीर्तितम् | स्वनाम सर्वसत्त्वानां मन्त्र इत्यभिधीयते | इति वास्तुयागतत्त्वधृतब्रह्मपुराणवचनात् | सर्वामरमयमिति - वास्तुपुरुषस्य स्वर्गावधिकपातनकाले तदवयवाधिष्ठितानां ब्रह्मेन्द्रेशपर्जन्यादिदेवानां तेन सहैव पतनात् तदवयवेष्वव्यभिचरिताधिष्ठानश्रुतेश्चास्य सर्वामरमयत्वम् | तच्च भीतभीतैस्ततो देवैर्ब्रह्मणा वाथ शूलिना | दानवासुररक्षोभिरवष्टब्धं समन्ततः || येन यत्रैव चाक्रान्तं स तत्रैवाभवत् पुनः | निवासात् सर्वदेवानां वास्तुरित्यभिधीयते || (मत्स्य २२७) इति वचनादवगन्तव्यम् | ६ | अथ ब्रह्मदेवताकं घटस्थापनं तत्स्थानञ्च निर्दिशति ब्रह्मस्थान इति | मध्यपदचतुष्टयात्मके स्थाने अक्षतान्याधारभूतानि निक्षिप्य तदुपरीत्यर्थः | ७-९ | स्थापनीयकलसस्य प्रकारभेदान् स्थापनक्रमञ्च निर्दिशति हैममित्यादिना वेष्टितमित्यन्तेन | प्. ५९) ब्रह्मस्थाने ततो मन्त्री कलसं स्थाप्य पूजयेत् | तस्मिंश्चतुर्मुखं देवं प्रजेशं मन्त्रविग्रहम् || १० || गन्धैः [गन्धैः ख्, ग्, गन्ध क्] पुष्पैश्च धूपैश्च नैवेद्यैः [सु क्, च ख्, ग्] सुमनोहरैः | ततो मण्डलबाह्ये तु प्राच्यां वै प्राङ्मुखः स्थितः || ११ || आचार्यो गृह्य सम्भारान् ग्रहादीं [ग्रहादीन् क्, ब्रह्मा तु ख्, ग्] स्तर्पयेत् सुरान् | घृतैस्तिलैर्यवैर्मन्त्री ब्रह्मादींस्तर्पयेत्ततः || १२ || प्रजेशं तर्पयेद् विद्वानाहुतीनां शतेन च [च क्, तु ख्, ग्] | इतरान् दशभिर्देवानाहुतीभिः प्रतर्पयेत् || १३ || दद्यात् पूर्णाहुतिं पश्चाद् वौषडन्तेन मन्त्रवित् | ततः प्रणम्य विज्ञाप्य कृत्वा वै स्वस्तिवाचनम् || १४ || प्रगृह्य कर्करीं सम्यङ् मण्डलन्तु प्रदक्षिणम् | सूत्रमार्गेण देवेश तोयधारान्तु भ्रामयेत् || १५ || --------------------------------------------------------------------------------------------------------------------- ------- १० | पूर्वं यत् सप्तमश्लोके तस्मिन् संस्थापयेत् कुम्भमित्यनेन घटस्थापनमुद्दिष्टं तदेव विधिना कर्त्तुमुपदिशति ब्रह्मस्थान इति | १२ | सम्भारान् वक्ष्यमाणहोमाद्युपकरणानि गृहीत्वेत्यर्थः | गृह्येति क्त्वाचो यवादेश आर्षः | ग्रहादीनित्यत्र ब्रह्मादीनिति वैदिकसर्वस्वधृतः पाठः | ग्रहादीनित्यनेन नवग्रहहोम उक्तः | तदन्तरं ब्रह्मादिदेवताकहोममाह - घृतैरिति | वैदिकसर्वस्वे तु घृताक्तमधुमिश्रिततिलयवैः समिद्भिर्होम उक्तः | ब्रह्मादीनित्यादिपदेन शिवादीनां मण्डलबाह्यान्तर्देवतानां ग्रहणम् | १३ | अथ ब्रह्मादिदेवेषु कस्य कियत्संख्यकहोम इत्याह - प्रजेशमित्यादि | १५ | प्रगृह्येति | कर्करीं वर्द्धनीं ब्रह्मकुम्भस्य शीर्षे स्थापितपूर्वां प्. ६०) पूर्ववत्तेन मार्गेण सप्तवीजानि भ्रामयेत् [भ्रामयेत् क्, संलिखेत् ख्, ग्] | सुशोभनं शुभस्थानं तथा खातस्य कारयेत् || १६ || [पादद्वयमिदं क पुस्तके नास्ति |] ततो गर्त्तं खनेन्मध्ये [मध्ये क्, भूमौ ख्, ग्] हस्तमात्रं प्रमाणतः | चतुरङ्गुलमात्रन्तदधः [तदधः क्, तु ह्यधः ख्, ग्] खन्यात् सुसम्मितम् || १७ || गोमयेनोपलिप्याथ [उप क्, वि ख्, ग्] चन्दनेन विभूषयेत् | मध्ये दत्त्वा तु पुष्पाणि शुक्लान्यक्षतमेव च || १८ || आचार्यः प्राङ्मुखो भूत्वा ध्यायेद्देवं चतुर्भुजम् | तूर्यमङ्गलघोषेण ब्रह्मघोषवरेण च || १९ || --------------------------------------------------------------------------------------------------------------------- ------- गृहीत्वैव प्रदक्षिणं कार्यं न तु कर्कर्ययन्तरमादाय सौरकाण्डे चतुर्थेऽर्घ्यदानपटले - अवधार्य जगच्छान्तिं ततोऽर्घ्यं दापयेत् गुरुः | इति प्रकृत्य कुम्भन्तु सम्यगुद्धृत्य ब्रह्मघोषादिना गुरुः | सेचयेद् ब्रह्मभागे तु वर्द्धनीं भ्रामयेत्ततः | इत्यादिना ब्रह्मकुम्भोद्धारपुरःसरं वर्द्धनीभ्रमणोपदेशात् | कर्मणि विनियुक्तां वर्द्धनीमुपेक्ष्य वर्द्धन्यन्तरादाने प्रमाणाभावाच्च | वर्द्धनी तु गलन्तिका इति हैमः इत्यमरटीकायां भानुजिदीक्षितः | कर्कर्यालुर्गलन्तिका इति चामरः | तस्माद् वर्द्धनीकर्करीशब्दावभिन्नार्थकौ | १७ | अथार्घ्यदानाय खातकरणमाह - तत इति | मध्य इति वास्तुभूमेर्मध्यप्रदेशे ब्रह्मस्थाने इत्यर्थः | अत्र स्मार्त्तभट्टाचार्यैराग्नेययामाकाशपदे खातनिर्माणमुक्तं व्यवहारोऽप्यधुना तथैव | तया स्मार्तोक्त्या ख्, ग् पुस्तकधृतो मध्य इत्यत्र भूमाविति पाठो न विसंवदति | परं वास्तुयागतत्त्वधृतदेवीपुराणेऽपि मध्य इति पाठदर्शनात् स एव मूले निवेशितः | प्. ६१) अर्घ्यं दद्यात् सुरश्रेष्ठ कुम्भतोयेन मन्त्रवित् | प्रगृह्य कर्करीं तावत्तद् गर्त्तं [गर्त्तं ख्, ग्, सूत्रं (?) क्] पूरयेज्जलैः || २० || सर्वरत्नसमाकीर्णैर्विमलैः सुसुगन्धिभिः | तस्मिन् शुक्लानि पुष्पानि प्रक्षिपेदोमिति स्मरन् || २१ || तदावर्त्तं परीक्षेत वेदाद्येनाक्षतं क्षिपेत् | शुभं स्याद्दक्षिणावर्त्तेऽशुभं वामे भवेत्ततः || २२ || वीजैः शालियवादीनां तं गर्त्तं पूरयेद् बुधः [बुधः क्, ततः ख्, ग्] | क्षेत्रजाभिः पवित्राभिर्मृद्भिर्गर्त्तं प्रपूरयेत् || २३ || एवं निष्पाद्य विधिना चार्घ्यदानं सुरोत्तम | सुवर्णं गां वस्त्रयुग्ममाचार्ययाय निवेदयेत् || २४ || कालज्ञ-स्थपती पूज्यौ वैष्णवान् शक्तितोऽर्चयेत् | ब्राह्मणान् भोजयित्वा च [च क्, तु ख्, ग्] गेयनृत्यादि [गेयनृत्यादि क्, नृत्यगीतादि ख्, ग्] कारयेत् || २६ || ततस्तं खातयेद् [तं खातयेत् क्, संक्षालयेत् ख्, ग्] यत्नाज्जलान्तं यावदेव तु | पुरुषाधः स्थितं शल्यं न गृहे दोषदं भवेत् || २६ || प्रासादे दोषदं शल्यं भवेद् यावजलान्तिकम् | तस्मात् प्रासादिकी भूमिः शोध्या यावज्जलान्तिकम् || २७ || --------------------------------------------------------------------------------------------------------------------- ------- २३ | वीजैरिति | ब्रीह्यादिसप्तवीजैः टीकायां प्रागुक्तैः | २६-२७ | एवमर्घ्यदानब्राह्मणभोजनाद्यनन्तरं प्रागुक्तैर्लिङ्गैः शल्यानां ज्ञानेऽज्ञाने वा सम्भाव्यमानशल्यापनयनाय प्रक्रियाविशेषमुपदिशति तत इति | प्. ६२) शिलान्तं कर्करान्तं वा यावद्वा भूः [वा भूः क्, भूर्वा ख्, ग्] कुमारिका | आकोट्य तां समीकृत्य ततो यागं [यागं क्, यज्ञं ख्, ग्] समारभेत् [रभेत् क्, चरेत् ख्, ग्] || २८ || इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (दशमो) ऽर्घ्यदानपटलः || १० || आदितः श्लोकसंख्या - १९६ --------------------------------------------------------------------------------------------------------------------- ------- प्रागुक्तवास्तुदोषोपशमनपरिकर्मभिः परिशोधितं वास्तुत्वेनाभिमतं प्रदेशं यत्नात् खातयेत् | कियदन्तमित्याह - जलान्तमिति | खाते क्रियमाणे यावदधःप्रदेशाज्जलं नोद्गच्छति तावदित्यर्थः | जलोद्गमे प्रवृत्ते न पुनः खननमावश्यकम् | एतच्च प्रासादविषय एव नतु गृहादावित्याह - पुरुषाध इति | गृहे पुरुषपरिमितितभूमेरधःस्थं शल्यं न दोषमावहति | प्रासादे तु जलान्तखननशोधितैव भूमिरात्मानमपशल्यां प्रमाणयति तदधःस्थशल्यस्य फलजननासामर्थ्यादित्यर्थः | अत्र प्रासादस्यैव प्रस्तुतत्वादुपसंहरति तस्मादिति | २८ | तत्रैव क्रमान्तरमाह - शिलान्तमिति | भूमौ खन्यमानायामप्राप्ते जलोद्गमे भूमेरधः शिलासु कर्करासु कृष्णमृत्तिकभूमिषु वोपलभ्यमानासु तदन्तमेव खातयेत् | कठिनशिलादीनामधोऽस्थ्यङ्गारादिशल्यस्य प्रवेशासम्भवात् कृष्णमृदां पुरातनत्वेन तदभ्यन्तरे शल्यसत्तासम्भवाच्चेति तात्पर्यम् | आकोट्येति | तामनया रीत्या संशोधितां भूमिकाकोट्य मुद्गरादिभिराहत्य वक्ष्यमाणयागं समारभेतेत्यर्थः | प्. ६३) एकादशः पटलः | (शिलाधिवासनं तत्र दिनविचारः इष्टकालक्षणादिकञ्च) श्रीभगवानुवाच - अतः परं प्रवक्ष्यामि प्रतिष्ठां पादसंज्ञिताम् [संज्ञितां ख्, ग्, संश्रितां क्] | अग्रतो मण्डपः कार्यश्चतुरस्रः सवेदिकः || १ || दशद्वादशहस्तो [स्तो ख्, ग्, स्ता क्] वा चतुर्भागायतः शुभः | पताकाभिर्ध्वजैश्चित्रैः कदलीभिर्विभूषयेत् || २ || --------------------------------------------------------------------------------------------------------------------- ------- १ | अथेदानीमर्घ्यदानानन्तरं पातालयागे कर्तव्ये तदङ्गशिलाध्वासन- स्वरूपनिरूपणार्थं शिलाधिवासनपटलोऽयमारभ्यते अतःपरमित्यादिना | एवमत्रावधेयं - पातालयागो नाम वक्ष्यमाणपटलेऽभिधेयो होम- गर्भाधानादिकर्मकलापनिष्पादनपुरःसरो विधिबोधितः प्रागुक्तप्रक्रियापरिशोधितभूमेरधःखाते करिष्यमाणप्रासाद- वेदिकारम्भकेष्टकाप्रतिष्ठारूपो व्यापारविशेषः | इष्टकाप्रतिष्ठा च सा प्रासादवेदिकासम्पादिनी वेदिकायाश्च प्रासादशरीरधारकत्वेन पादभूतत्वात् तत्प्रतिष्ठा प्रासादपादप्रतिष्ठैवेत्याह - प्रतिष्ठां पादसंज्ञितामित्यनेन | अग्रत इति - करिष्यमाणप्रासादाधिकरणत्वेनाभिमताया भूमेरग्रत इत्यर्थः | अत्राग्रत इत्यनवधारिताग्रदेशविशेषेऽपि दशहस्तान् परित्यज्य मण्डपस्य विभागकम् | इति वैदिकसर्वस्वधृत-महाकपिलपञ्चरात्रवचनेन देवताप्रतिष्ठायामिव प्रकृतप्रासादप्रतिष्ठायामपि मण्डपार्थं प्रासादभूमेर्दशहस्तान्तरिताग्रप्रदेशस्य परिग्रहः समीचीनः विशेषानादेशाद् वाधकाभावाच्च | २ | अस्य मण्डपस्य परिमाणमाह - दशद्वादशहस्तो वेति | अथ पूर्वश्लोके सवेदिक इत्युक्तं तत्र वेदिकायाः किं परिमाणमित्यत आह - चतुर्भागायत इति | प्. ६४) कुण्डानि कुर्याच्चत्वारि तोरणानि यथाक्रमम् | कुम्भन्यासेष्टकान्यासौ [सौ क्, से ख्, ग्] द्वारस्तम्भौ व्रतन्तथा [द्वारस्तम्भौ व्रतं तथा क्, तोरणाश्रयमेव हि ख्, ग्] || ३ || सर्वमेतत्तु कुर्वीत दिवसे तु सुशोभने | सर्वेष्वेव तु कर्तव्यं देवब्राह्मणपूजनम् || ४ || कालज्ञपूजनञ्चैव स्थपतीनाञ्च पूजनम् | वास्तुकर्म न चारभ्यं वर्षाकाले विजानता || ५ || कृष्णपक्षे त्रिभागान्ते शुक्लस्यदौ द्वितीयके | चतुर्थीं नवमीं वर्ज्य तिथिञ्चापि चतुर्दशीम् || ६ || भौमस्य तु दिनं वर्ज्यं करणं विष्टिसंज्ञिfतम् | क्षित्यन्तरीक्षदिव्योत्थैरुत्पातैर्भयपीडितम् || ७ || उपसृष्टं ग्रहैर्भञ्च व्यतीपातहतं तथा | चन्द्रतारानुकूले च [च क्, तु ख्, ग्] कार्यं कर्म विजानता || ८ || ध्रुवाणि चात्र शस्तानि नैरृतं शक्रदैवतम् | पुष्यं पौष्णञ्च सावित्रं वायव्यं वैष्णवं तथा || ९ || --------------------------------------------------------------------------------------------------------------------- ------- मण्डपचतुर्भागैकभागायता वेदिका कार्या | ततश्च चतुर्भागैकभागायतवेदिको मण्डपः कार्य इत्यर्थः | उपसर्जनीभूतस्यापि वेदिकाशब्दस्य बुद्धिस्थस्यात्र परामर्शः | ३-५ | कुण्डानां तोरणानाञ्च लक्षणानि चतुस्त्रिंशपटले वक्ष्यन्ते | कुम्भेति - वक्ष्यमाणकुम्भन्यासादौ प्रशस्ताप्रशस्तकालादिरूपास्ते ते विशेषाः प्रदर्श्यन्ते कुम्भन्यासेत्यादिना | प्. ६५) स्थिरांशे च स्थिरे लग्ने कर्तुश्चोपचयात्मके | केन्द्रे सौम्यो ग्रहो यस्य त्रिकोणे च [च क्, तु ख्, ग्] सुरोत्तम || १० || पापाश्चोपचयस्थाने तदा कार्यं समाचरेत् | यत्नेन वर्जयेत् पापं कन्द्रस्थं सर्वकर्मसु || ११ || सौम्ययुक्ते तु यत् केन्द्रं तादृक् पत्रन्तु शूण्यकम् [सौम्ययुक्तन्तु पक्षेन्द्रं तज्ज्ञेयं न तु स्वल्पकम् ख्, ग्] | पूरयेत् [पूरयेत् ख्, ग् पूरके क्] खातकं यत्नात् पादं पादं यथाक्रमम् || १२ || अष्टाङ्गुलं मृत्तिकाया हस्तकं [हस्तकं ख्, ग्, हास्तिकं क्] चेष्टकादिभिः | सिक्त्वा सिक्त्वा तु तोयेन कलसैः काञ्चनादिभिः || १३ || आकोटनं ततः कुर्यान्मुद्गरैर्ब्रह्मवृक्षजैः | पादोनं पूरयेत् खातं सुषमञ्चैव कारयेत् || १४ || --------------------------------------------------------------------------------------------------------------------- ------- १२ | पूर्वपटले ततस्तं खातयेदित्यादिना भूमेः शोधनार्थं खातं निर्माय मुद्गराघातेन तस्य समीकरणमभिहितम् | इदानीं तत्र खाते कृत्यमाह - पूरयेदित्यादिना | तत् खातकं यथाक्रमं वक्ष्यमाणक्रमानुसारेण पादं पादं पूरयेत् न तु कालहरणपरिजिहीर्षया एकदैव सर्वं पूरणकृत्यं समापयेत् तथा करणे क्रमोल्लङ्घने च भूमेदौर्बल्यसम्भवादित्यर्थः | १३-१४ | पूरणक्रममाह - अष्टाङ्गुलमित्यादिना | अत्रैवमवधेयं - प्रथममष्टाङ्गुलं मृत्तिकयापूर्य तत्र जलं सिक्त्वा ब्रह्मवृक्षसम्भवैर्मुद्गरैराहत्य तदूर्ध्वन्त्विष्टकादिभिर्हस्तपरिमितमापूरयेत् | एवमनया रीत्या मृदेष्टकादिभिश्च पूरणमन्तरान्तरा जलसेचनं मुद्गरैराहननञ्च तावदेव कर्तव्यं यावत् खातमिदमेकपादमात्रावशिष्टं स्यादिति | इष्टकादिभिरित्यादिपदं शैलकार्करादिप्रासादे तत्तत्परिग्रहाभिप्रायेणेति बोध्यं सर्वत्रैव तथा भेदव्यवस्थादर्शनात् | प्. ६६) देशिकः पञ्चगव्येन तां भूमिं प्रोक्षयेद् बुधः || १५ || सुवर्णव्रीहिगर्भेण चूतपल्लवशोभिना | तीर्थतोयप्रपूर्णेन स्वर्णताम्रमयेन वा || १६ || सेचयेदभिजप्तेन वारिणा कलसेन तु | ततः शुद्धा भवेद् भूमिर्दोषयुक्तापि या भवेत् || १७ || एवं भूमिं विशोध्याथ ततो वास्तुं यजेद् बुधः | ब्रह्मस्थानं स्थिरीकृत्य इष्टकाग्रहणं ततः || १८ || इष्टकानां प्रमाणञ्च लक्षणं साम्प्रतं शृणु | सुतला लक्षणोपेता द्वादशाङ्गुलसम्मिता || १९ || सुविस्तारविभागेन नैपुण्येन च सम्मिता | सुपक्वाः सुप्रमाणास्ता एकवर्णा मनोहराः || २० || विमला इष्टकाः कार्याश्चतुरस्राः सुसम्मिताः | छिन्नकर्णाश्चा [च क्, हि ख्, ग्] प्रशस्ताः पाणिपादविवर्जिताः || २१ || सशर्कराः कृष्णवर्णा अस्थ्यङ्गारचिताश्च याः | --------------------------------------------------------------------------------------------------------------------- ------- १५ | ततः किं कुर्यादित्याह - देशिक इति | १७ | तेन किं स्यादित्याह - तत इति | १८ | ततः किं कुर्यादित्याह - एवमिति | ब्रह्मस्थानमिति | तत्र पादोनपूरिते खाते पूर्वकृत-चतुःषष्टिपदमण्डलपरिप्राप्तं पदचतुष्टयात्मकं वास्तुमध्यभूतं स्थानमित्यर्थः | १९ | इदानीमिष्टकाधिवासने कर्तव्येऽपेक्षमाणमिष्टकानां प्रमाणं लक्षणञ्च निरूपयति - इष्टकानामित्यतो विवर्जितत्यन्तेन | प्. ६७) विवर्णा मन्दगन्धाश्च याः पीनाः पिण्डिकाश्चया. [पिण्डिका क्, पिण्डका ख्, ग्] || २२ || हीनाश्च विषमा भग्ना जर्जराश्च विवर्जिताः | कर्तव्यस्त्विष्टकान्यासः प्रासादे चेष्टकामये || २३ || शैले शिलानां विन्यासः कार्करे [कार्करे क्, कर्करे ख्, ग्] कर्करा [कर्करा क्, कर्करां ख्, ग्] न्यसेत् | नवैव [व क, वं ख्, ग्] परिगृह्णीयात्ताम्रकुम्भान् सुशोभनान् || २४ || आहृत्य सर्वसम्भारानिष्टकामधिवासयेत् | ऐशान्यां मण्डपं [मण्डपं क्, मण्डलं (?) ख्, ग्] कृत्वा तद्वत् प्राच्याञ्च [तद्वत् प्राच्याञ्च क्, स्नापनार्थाय ख्, ग्] मण्डपम् || २५ || कुम्भानामिष्टकानाञ्च ततः स्नानं समाचरेत् | अथ पञ्चकषायेण सर्वौषधिजलेन च || २६ || --------------------------------------------------------------------------------------------------------------------- ------- २२ | मन्दगन्धाश्चेत्यतो मन्दपक्वाश्च नेष्टा सा खण्डिता तु या इति वैदिकसर्वस्वधृतः पाठः | २३-२४ | प्रासादभेदेन तदुपकरणीभूतेष्टकादिभेदमाह - कर्तव्य इति | इदानीमिष्टकाधिवासने पातालयागे च वक्तव्ये तदङ्गद्रव्यासादनमाह - नवैवेत्यादिना | २५-२६ | तदधिवासनाङ्गस्नानमाह - ऐशान्यामिति | अत्र ऐशान्यां मण्डपं कृत्वा तत्र प्रागुक्तनवकुम्भानां प्राच्यां मण्डपं कृत्वा तत्र नवानामिष्टकानां स्नानं समाचरेदिति यथासंख्येनान्वयः स्नापयेदिष्टकान्तथा इत्यनेनेष्टकास्नानादेशोत्तरं कुम्भांस्तान् स्नाअपयेद् बुधः इत्यनेन कलसस्नानस्यापि वक्ष्यमाणत्वात् | ख्, ग्, पुस्तकपाठानुसारेण तु न मण्डपद्वयं परमेकस्मिन्नेवेशानमण्डपे कलसानामिष्टकानाञ्च स्नपनं विधेयमिति प्रतिभाति | वैदिकसर्वस्वकारैस्तु प्. ६८) गन्धतोयेन च तथा कुम्भैस्तोयसुपूरितैः [सु क्, प्र ख्, ग्] | हिरण्यव्रीहिसंयुक्तैर्गन्धचन्दनचर्चितैः || २७ || आधो हि ष्ठेति तिसृभिः शन्नो देवीति चाप्यथ | तरत्समन्दीति तथा पावमानीभिरेव च [तरदित्यादि पादद्वयं क्, पुस्तके नास्ति |] || २८ || उदुत्तमं वरुणेति इमम्मेति तथैव च | वरुणस्येति मन्त्रेण हंसः शुचिसदित्यपि || २९ || श्रीसूक्तेन तथा कुम्भैः स्नापयेदिष्टकान्तथा | श्रायन्तीयं पठन् सूक्तं कुम्भांस्तान् स्नापयेद् [स्नापयेत् क्, स्थापयेद् ख्, ग्] बुधः || ३० || ततोऽनुलेपनं कार्यं चन्दनेन सुगन्धिना | आच्छादनं ततः कुर्याद् वासोभिः कुसुमैस्ततः [ततः क्, तथा ख्, ग्] || ३१ || शययायान्तु प्रकृष्टायां मण्डपे स्थाप्य पूजयेत् | नानाभक्ष्यौदनैश्चैव गन्धैः पुष्पैर्मनोहरैः || ३२ || धूपं दीपञ्च नैवेद्यं तेषां यत्नान्निवेदयेत् | एवं कृत्वा ततः सम्यगिष्टकाहोममाचरेत् || ३३ || तस्मिंस्तु मण्डपे लिख्य वैष्णवं मण्डलं शुभम् | --------------------------------------------------------------------------------------------------------------------- ------- कुम्भानामित्यत्र कृष्टानामिति पाठम् उत्कृष्टानामिति तदर्थञ्च परिकल्प्य सर्वमपि संशये पातितम् | इष्टकास्नानमाह - अथेत्यादिना स्नापयेदिष्टकामित्यन्तेन | ३० | नवकलसस्नानमाह - श्रायन्तीयमित्यनेन | ३१ | स्नानानन्तरकरणीयमाह - तत इत्यादिना | ३३ | अथेष्टकानां पूजनादनन्तरं होममाह - एवमित्यादिना | प्. ६९) विष्णुं समर्चयेत्तत्र [सम् क्, अभि ख्, ग्] कुण्डेऽग्निं जुहुयात्ततः || ३४ || वैष्णवाग्निं जनित्वादौ [जनित्वादौ क्, जनेदादौ ख्, ग्] (?) यथाविधि समाहितः | कुर्याच्च समिधाधानं द्वादशाक्षरविद्यया || ३५ || आघारावाज्यभागौ तु प्रणवेनैव कारयेत् | अष्टाक्षरैस्ततो व्यस्तैः कुर्यादष्टाहुतीः क्रमात् || ३६ || आज्यं व्याहृतिभिर्हुत्वा [व्याहृ ख्, ग् स्वाकृ क्] लोकेशानां क्रमेण तु | अग्नये चैव सोमाय ग्रहेभ्य इति चैव हि || ३७ || पुरुषोत्तमायेति हुत्वा व्याहृतीर्जुहुयात्ततः [व्याहृताः क्, व्याहृतिभिः ख्, ग्] | प्रायश्चित्तं ततो हुत्वा दद्यात् पूर्णाहुतिं ततः || ३८ || द्वादशाक्षरमन्त्रेण वेदाद्यैरथवानघ | कुण्डेषु मूर्त्तिपाः सम्यग् जुहुयुः सघृतांस्तिलान् || ३९ || इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (एकादशः) शिलाधिवासनपटलः || ११ || आदितः श्लोकसंख्या - २५८ --------------------------------------------------------------------------------------------------------------------- ------- ३४ | वैष्णवमिति सर्वतोभद्रमण्डलम् वैष्णवमित्यत्र भद्राख्यमिति वैदिकसर्वश्वधृतः पाठः | तत्र मण्डले विष्णुं संपूज्य कुण्डे होमं कुर्यात् | कुण्डलक्षणानि वक्ष्यन्ते | ३५ | वैष्णवाग्निः षट्त्रिंशपटले निरूपयिष्यते | ३९ | पूर्णाहुतिं दद्यादित्युक्तं तत्र विशेषमाह द्वादशेति | द्वादशाक्षरमन्त्रेण वेदादिचतुष्टयमन्त्रेण वा पूर्णाहुतिं दद्यादित्यर्थः | प्. ७०) द्वादशः पटलः (पातालयागः देवताभेदेन पीठबन्धभेदः प्रासादनिर्माणप्रशस्तिश्च) श्रीभगवानुवाच - कुम्भन्यासं ततः कुर्यादिष्टकान्यासमेव च | देशिकः प्राङ्मुखो भूत्वा सर्वालङ्कारभूषितः || १ || विलिप्य गोमयैर्भूमिं विन्यसेत् कलसान्नव | अष्टदिक्षु यथान्यायं मध्ये चैकं तथा न्यसेत् || २ || पञ्चरत्नसमायुक्तान् मङ्गलौषधिसंयुतान् [पादद्वयमिदं ख्, पुस्तके नास्ति |] | पारदेन समायुक्तान् कृत्वा वस्त्रेण भूषिताम् [भूषितान् क्, वेष्टितान् ख्, ग्] || ३ || पद्मं [पद्मं ख्, ग्, शङ्खं |] चैव महापद्मं मकरं कच्छपं तथा | मुकुन्दञ्च तथानन्दं नीलं शङ्खञ्च पद्मिनीम् || ४ || एतास्तु देवताः कुम्भे न्यसनीया यथाक्रमम् | --------------------------------------------------------------------------------------------------------------------- ------- १ | अथेदानीं पातालयागस्वरूपं निरूप्यते कुम्भेत्यादिना | ततः शिलाधिवासनानन्तरं वक्ष्यमाणक्रमेण कुम्भानामिष्टकानाञ्च पूर्वपटलविधिसंस्कृतानां न्यासं कुर्यादित्यर्थः | २ | तं क्रममाह विलिप्येत्यादिना | ईशाणतो दक्षिणादिक्रमेणाष्टौ मध्ये चैकमिति नव कलसानित्यर्थः | ४-५ | तेषु कलसेषु देवतानां न्यासमाह - पद्ममिति | अत्र शङ्खमिति प्. ७१) एवं विन्यस्य कलसान् पुनर्नैतान् प्रचालयेत् [प्र क्, न ख्, ग्] || ५ || कुम्भस्योपरि विन्यस्य इष्टकाष्टौ यथाक्रमम् | ऐशाने च तथा कोणे इष्टकां प्रथमं [प्रथमां क्, प्रथमं ख्, ग्] न्यसेत् || ६ || प्रदक्षिणं ततो देव इष्टकान्यास उच्यते | शक्तयो विमलाद्यास्तु इष्टकानान्तु देवताः || ७ || न्यसनीया यथान्यायं मध्ये न्यस्या स्त्व(?)त्वनुग्रहा | अव्यङ्गे चाक्षते पूर्णे मुनेरङ्गिरसः सुते || ८ || इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहम् | मन्त्रेणानेन विन्यस्य इष्टकां देशिकोत्तमः || ९ || गर्भाधानं ततः कुर्यान्मध्यस्थाने समाहितः | --------------------------------------------------------------------------------------------------------------------- ------- क्, पुस्तकधृतः पाठो न मूले निवेशितः शङ्खञ्चेति चतुर्थपादोक्त्या पुनरुक्त्यापत्तेः | यथाक्रममिति कलसवदीशानादिक्रमेणैवेष्टकानां न्यासः कर्तव्य इत्यर्थः | वैदिकसर्वस्वकारास्तु प्रदक्षिणन्ततोदेव इष्टकान्यास इष्यते इत्यनन्तरं कलसस्थापनमप्येवंक्रमेण प्रधानक्रमात् | पद्मादिस्थापनन्तु पूर्वादिक्रमेण इत्याहुः परं प्रधानक्रममुल्लङ्घ्य क्रमान्तराङ्गोरे किमपि प्रमाणं न दृश्यते | ६-८ | कुम्भस्येति | तेनैव क्रमेणेष्टकान्यासोऽपि कर्तव्यः | अत्र प्रदक्षिणमित्यभिधानात् कलसादीष्टकान्यासान्तं सर्वमेव कृत्यमीशानादितः प्रादक्षिण्येन कर्तव्यमिति बोध्यं विशेषानभिधानात् | शक्तय इति | विमलाद्या इत्यादिपदेन उत्कर्षिणी ज्ञाना ह्रिया संयोगा प्रह्वी सत्या ईशाना अनुग्रहा इत्यष्टानां ग्रहणमिति वैदिकसर्वस्वकाराः | तथा च विमलाद्या ईशानान्ता अष्टौ दिक्षु मध्येचानुग्रहेति नवेष्टकादेवताः | ९ | इष्टकान्यासे प्रार्थनामाह - अव्यङ्ग इति | १० | गर्भाधानमाह - गर्भेति | गर्भाधानं नाम द्वादशाङ्गुलविस्तारमित्यादिना प्. ७२) कुम्भोपरिष्टाद्देवेश पद्मिनी यस्य देवता || १० || गृह्णीयान्मत्तिकां देव दशस्थानेषु देशिकः | समुद्रे पर्वते नद्यां ह्रदे तीर्थे खले तथा || ११ || कुलीरवासे वल्मीके विषाणाग्रे वृषस्य च | कुञ्जरस्य विषाणाग्रे स्थानेष्वेषु पृथक् पृथक् || १२ || रक्तोत्पलस्य पद्मस्य तथा नीलोत्पलस्य च | कुमुदस्य सुरश्रेष्ठ गृह्णीयान्मूलमुत्तमम् || १३ || मनःशिलां सीसकञ्च हरितालं रसाञ्जनम् [रसा क्, तथा ख्, ग्] | सौराष्ट्रीं रोचनां गन्धं पारदं गैरिकं तथा || १४ || वज्रञ्च [वज्र ख्, ग्, रक्त क्] मौक्तिकञ्चैव वैदुर्यं शङ्खमेव च | स्फटिकं पुष्परागञ्च चन्द्रकान्तं तथैव च || १५ || महानीलं पद्मरागं गृह्णीयाद् यत्नतो बुधः || १६ || शालि-नीवार-निष्पाव-यव-मुद्ग-कुलत्थकान् | तिल-गोधूम-कुल्माषान् गृह्णीयाद्देशिकोत्तमः || १७ || सुवर्णं रजतं शुल्वमायसं [शुल्वं क्, शुल्कं ख्, ग्] त्रपुकं यथा | कूर्मं शेषं तथा पद्मं शङ्खं चक्रं तथा धनुः || १८ || गदाञ्चैव महाभाग सर्वं कुर्याद्धिरण्मयम् | सर्वमेतत् [एतत् ख्, ग्, एतं क्] समानीय न्यसेद् वै गर्भभाजने || १९ || --------------------------------------------------------------------------------------------------------------------- ------- वक्ष्यमाणस्य सामुद्रमृदादिपरिपूरितस्य पात्रविशेषस्य करिष्यमाणप्रासादवेदिकाभूगर्भे विधिना स्थापनम् | तदेव विवृणोति मध्य इत्यादिना | प्. ७३) द्वादशाङ्गुलविस्तारं चतुरङ्गुलमुच्छ्रितम् | श्लक्ष्णमस्फुटितञ्चैव पद्माकारं सुशोभनम् || २० || चान्द्रं रौप्यं तथा शौल्वं [शौल्वं ख्, ग्, शुल्वं क्] प्रशस्तं गर्भभाजनम् | ब्रह्मस्थाने तु यत् कुम्भं न्यस्तं श्रीदैवतं पुरा || २१ || तदूर्द्ध्वं नेत्रपट्टञ्च [च क्, तु ख्, ग्] दत्त्वा गोमूत्रप्रोक्षणम् [प्रोक्षणम् क्, प्रोक्षित ख्, ग्] | तदूर्ध्वं ब्राह्मणानान्तु विन्यसेद् दर्भ [गर्भ क्, दर्भ ख्, कुम्भ ग्]- भाजनम् || २२ || क्षत्रियाणां विशाञ्चैव शूद्राणाञ्च पटं विना | विमलं भाजनं कृत्वा पञ्चगव्येन शोधयेत् || २३ || हस्ताभ्यां परिगृह्याथ तस्मिन्नेव विचिन्तयेत् | अथ भूमण्डलं सर्वं ससमुद्रं [समुद्रं क्, ख्, सपवित्रं ग्] सपर्वतम् || २४ || --------------------------------------------------------------------------------------------------------------------- ------- २०-२१ | गर्भभाजनमाह - द्वादशेति | चान्द्रं सुवर्णमयं | स्वर्णेऽपिभूरिचन्द्रौ द्वावित्यमरोक्तेः | शौल्वं ताम्रमयं शुल्वं ताम्रे यज्ञकर्मण्याधारे जलसन्निधौ इति मेदिनी | २१-२२ | अथ कुत्र तद् गर्भभाजनं कया रीत्या स्थापनीयमित्याह - ब्रह्मस्थान इति | न्यस्तमिति अष्टदिक्षु यथान्यायं मध्ये चैकं तथा न्यसेत् (१२ | २) इत्यनेन मध्ये ब्रह्मस्थाने यः कलस्य पद्मञ्चैव महापद्मं मकरं कच्छपं तथा | मुकुन्दञ्च तथा नन्दं नीलं शङ्खञ्च पद्मिनीम् || (१२ | ४) इत्यत्र पद्मिनीपदेन श्रीदेवताकतया प्रतिपन्नस्य न्यासोऽभिहितस्तस्य न्यस्तस्य कलसस्योर्द्धं गर्भभाजनं विन्यसेदित्यर्थः | एतच्च ब्राह्मणानाम् | क्षत्रविट्शूद्राणां विशेषमाह - क्षत्रियाणामिति | २३ | एवं विन्यस्ते गर्भभाजने कृत्यान्याह - विमलमित्यादिना | प्. ७४) दिग्-द्वीपेन्द्रसमायुक्तमनन्तस्योपरि स्थितम् | एवं ध्यात्वा तु पृथिवीं भाजनो [भाजनो क्, भाजन ख्, ग्] परिकल्पयेत् || २५ || मृदं समुद्रजां गृह्य वृतिं [ख्, ग्, वृत्तं क्] कुर्यात् प्रदक्षिणम् | पार्वती पूर्वतः कार्या नदीजा दक्षिणे तथा || २६ || ह्रदजा पश्चिमे भागे तीर्थजा चोत्तरे तथा | आग्नेययां खलजा कार्या निरृत्यान्तु कुलीरजा || २७ || वल्मीकजा च वायव्यामैशान्यां वृषशृङ्गजा | नागदन्तोद्भवा मध्ये न्यसनीया यथाक्रमम् || २८ || रक्तोत्पलस्य पूर्वे तु दक्षिणे पद्ममूलकम् | प्रत्यङ्नीलोत्पलस्योक्तमुत्तरे कुमुदस्य च || २९ || मनःशिलादिधातूनि पूर्वादिक्रमतो न्यसेत् | वज्रादिरत्नजातानि तेनैव क्रमयोगतः || ३० || शाल्यादीनि च बीजानि तत्रैव विनियोजयेत् [विनि ख्, ग्, सम क्] | सुवर्णं पूर्वतः कार्यं रजतं दक्षिणे तथा || ३१ || आयसं पश्चिमे भागे त्रपुकं चोत्तरे तथा | आग्नेययां कूर्मरूपन्तु अनन्तं नैरृते तथा || ३२ || वायव्यामथ पद्मन्तु शङ्खमीशान एव च | धनुश्चक्रं गदाञ्चैव ब्रह्मस्थाने निवेशयेत् || ३३ || प्. ७५) एवं कृत्वा समायोगं [योगं क्, युक्तं ख्, ग्] प्रोक्ष्य द्वादशविद्यया | अथ [अथ क्, अथो ख्, ग्] दक्षिणतः स्थाप्य होमकर्म समारभेत् || ३४ || द्वादशाज्याहुतिं [आहुतिं क्, आहुतीः ख्, ग्] हुत्वा द्वादशाक्षरविद्यया | तथाष्टलोकपालेभ्यस्तथा नारायणाय च || ३५ || वीजेभ्यः [शीजेभ्यः क्, सर्वेभ्यः ख्, ग्] सर्वधातुभ्यः सर्वलोकेभ्य एव च | नदीसमुद्रतीर्थेभ्यः पर्वतेभ्यस्तथैव च || ३६ || ह्रदेभ्यश्च गणेभ्यश्च पातालेभ्यस्तथैव च [इत्यन्तं पादद्वयं ख्, पुस्तके नास्ति |] | वृषेभ्यो दिग्गजेभ्यश्च नागेभ्यः सुरसत्तम [भ्यःसुर क्, भ्यश्च सुरो ख्, ग्] || ३७ || व्याहृत्या [आहुत्या क्, व्याहृत्या ख्, ग्] चापि जुहुयात् स्वाहाकारान्तयुक्तया | प्रतिपत्त्याहुतिं [प्रतिपत्या क्, प्रतिपाद्या ख्, ग्] कुर्यात् संपातविधिनैव च || ३८ || गर्भभाजनमध्ये तु संपाताज्यं समापयेत् | पिधाय भाजनं तप्तं [तप्तं क्, तन्तु ख्, ग्] गृहीत्वाग्रकरेण च || ३९ || जपेदष्टाक्षरं मन्त्रं द्वादशाक्षरमेव च | जप्त्वा च प्राङ्मुखो भूत्वा ध्यायेच्च [ध्यायेत् क्, ध्यात्वा ख्, ग्] मनसा भुवम् || ४० || --------------------------------------------------------------------------------------------------------------------- ------- ३४-३९ | अथ होमविधिमाह | अथ दक्षिणत इति | दक्षिणतो दक्षिणभागे गर्भभाजनं संस्थाप्येत्यर्थः | तेनाचार्य कुण्ड एव होमः | इति वैदिकसर्वस्वकाराः | प्. ७६) ध्यात्वा तु सकलां भूमिमिमं मन्त्रमुदीरयेत् | एकान्ते सर्वभूभागे पर्वतासनमण्डिते || ४१ || समुद्रपरिधाने त्वं देवि गर्भं समाचर [समाचर क्, समाश्रय ग्] | नन्दे नन्दय वाशिष्ठे वसुभिः प्रजया सह || ४२ || जये भार्गवदायादे प्रजानां विजयावहे | पूर्णेऽङ्गिरसदायादे पूर्णकामं कुरुष्व माम् || ४३ || भद्रे काश्यपदायादे कुरु भद्रां मतिं मम | सर्वबीजसमायुक्ते सर्वरत्नौषधीवृते || ४४ || जयस्व रुचिरे नन्दे वाशिष्ठे रम्यतामिह | प्रजापतिसुते देवि चतुरस्रे महीयसि || ४५ || सुभगे सुप्रदे भद्रे गृहे काश्यपि रम्यताम् | पूजिते परमाचार्यैर्गन्धमाल्यैरलङ्कृते || ४६ || भव भूतिकरी देवि गृहे भार्गवि रम्यताम् | अव्यक्ते चाक्षते पूर्णे मुनेरङ्गिरसः सुते || ४७ || इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहम् [अव्यक्त इत्यादि कारयाम्यहमित्यन्त-पादचतुष्टयात्मको मन्त्रः ख्, ग् पुस्तकयोर्नास्ति |] | देशस्वामि-पुरस्वामि-गृहस्वामि-परिग्रहे || ४८ || मनुष्यधनहस्त्यश्व-पशुबृद्धिकरी भव | एवमुक्त्वा ततः श्वभ्रं गोमूत्रेण तु प्रोक्षितम् || ४९ || --------------------------------------------------------------------------------------------------------------------- ------- ४१ | गर्भाधाने प्रार्थनामन्त्रानाह - ओं एकान्ते इत्यादि | प्. ७७) कृत्वा नियमयेद् [नियमयेत् क्, निधापयेत् ख्, ग्] गर्भं [गर्त्तं क्, गर्भं ख्, ग्] सर्वकल्याणसंयुतम् | गर्भाधानं भवेद्रात्रौ सुवर्णं दक्षिणा भवेत् || ५० || तथा पयस्विनीं गाञ्च वस्त्रयुग्मं तथैव च | मूर्तिपानाञ्च दातव्या तथा धेनुः पयस्विनी || ५१ || एवं गर्भन्तु विन्यस्य तदूर्ध्वं नवमिष्टकाम् | यस्य यन्त्रावृतो [यन्त्रावृतः क्, वस्त्रावृतः ख्, ग्] गर्भमिष्टकाभिस्तु पूरयेत् || ५२ || पीठबन्धमतः कुर्यान्महाप्रासादमानतः [महा ख्, ग् महत् क्] | पीठोत्तमञ्चोच्छ्रयेण प्रासादस्यार्द्धमानतः || ५३ || पादहीनं मध्यमं स्यात् कन्यसं चोर्ध्वमानतः | उत्तमं वासुदेवस्य कुर्यात् पीठं विचक्षणः || ५४ || अन्येषां स्वेच्छया कुर्यात् पीठं शृणु विशेषतः | चतुर्मुखेशसूर्याणामुत्तमं पीठमुच्यते || ५५ || --------------------------------------------------------------------------------------------------------------------- ------- ४९-५१ | एवमिति प्रार्थनानन्तरं पुनर्गर्भभाजनं गोमूत्रप्रोक्षिते तस्मिन् गर्त्ते स्थापयेत् | गर्भाधानस्य कालं दक्षिणाञ्चाह | गर्भाधानमित्यादिना | ५२ | ततस्तस्य गर्त्तस्य पूरणमाह - एवमित्यादिना | ५३-५५ | एवं प्रागुक्तक्रमेण श्वभ्रमापूर्य तत्र पीठबन्धं कुर्यात् | पीठबन्धः प्रासादवेदिका यतो गृहभित्तयः प्रारभ्यन्ते | स पीठबन्धस्त्रिविधो भवति उत्तमो मध्यमोऽधमश्चेति | तत्रैविध्यमेवाह - पीठोत्तममित्यादिना | देवताभेदेन पीठभेदमाह - उत्तममित्यादिना | पीठबन्धोपरिष्टात्तु वास्तुयज्ञं पुनर्यजेत् | य इमां सकलां कुर्यात् प्रतिष्ठां पादसंश्रिताम् [संश्रि क्, संज्ञि ख्, ग्] || ५६ || सर्वपापविनिर्मुक्तो [पाप क्, पापैः ख्, ग्] विष्णुलोके महीयते | मरणं च [च ख्, ग् न क्] व्रजेम्मर्त्त्यो यः कृत्वा प्रथमेष्टकाम् || ५७ || स समाप्तस्य यज्ञस्य फलमाप्नोत्यसंशयः | देवागारं करोमीति मनसा यस्तु चिन्तयेत् || ५८ || तस्य कायगतं पापं तदह्ना [तदह्ना क्, तदग्रे ख्, ग्] विप्रणश्यति | कृते तु किंपुनस्तस्य प्रासादं विधिनैव तु || ५९ || अष्टेष्टकासमायुक्तं यः कुर्याद् वैष्णवं गहम् | न तस्य फलसम्पत्तिर्वक्त्रुं शक्येत केनचित् || ६० || अनेनैवानुमेयं हि फलं प्रासादविस्तरात् | ग्राममध्ये च पूर्वे च प्रतग्द्वारं प्रकल्पयेत् || ६१ || विदिशासु च सर्वासु तथा प्रत्यङ्मुखं भवेत् | दक्षिणे चोत्तरे चैव पश्चिमे प्राङ्मुखं भवेत् || ६२ || इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (द्वादशः) पातालयागपटलः || १२ || आदितः श्लोकसंख्या - २७९ --------------------------------------------------------------------------------------------------------------------- ------- ५६-६१ | प्रासादप्रतिष्ठायां फलमाह - य इमामित्यादिना | ६२ | स्थानभेदेन प्रासादानां द्वारनिर्माणे विशेषमाह - ग्राममध्य इति | प्. ७९) त्रयोदशः पटलः | प्रासादसामान्यलक्षणं क्रमभेदाः सप्तभौमिकान्तप्रासादः तत्र विशेषाश्च श्रीभगवानुवाच - प्रासादं संप्रवक्ष्यामि सर्वसाधारणं शृणु | चतुरस्रीकृतं क्षेत्रं भजेत् [भजेत् ख्, ग्, भवेत् क्] षोडशधा पुनः || १ || मध्ये तस्य चतुर्भिस्तु कुर्यादायसमन्वितम् | द्वादशैव तु भागानि [भागानि क्, भागादि ख्, ग्] भित्त्यस्र [भित्त्यस्रं क्, भित्त्यर्थं ख्, ग्] परिकल्पयेत् || २ || जङ्घोच्छ्रायन्तु कर्तव्यं चतुर्भागेन चायतम् | जङ्घयोर्द्विगुणोच्छ्रायं मञ्जर्याः कल्पयेद्बुधः || ३ || चतुर्भागेण मञ्जर्याः कार्या सम्यक् प्रदक्षिणा | तन्मानं [तन्मान क्, तन्माना ख्, ग्] निगमं कार्यमुभयोः पार्श्वयोः समम् || ४ || शिखरेण समं कार्यमग्रे [मग्रे क्, मान (?) ख्, ग्] जगति विस्तरम् | द्विगुणेनापि कर्तव्यं यथाशोभानुरूपतः || ५ || --------------------------------------------------------------------------------------------------------------------- ------- १ | पूर्वपटले प्रासादवेदिकानिर्माणपर्यन्तमभिधाय पटलेऽस्मिन् प्रासादसामान्यलक्षणमभिधातुमुपक्रमते प्रासादमित्यादिना | ५ | प्रासादपुरोवर्त्तिभूमेर्दैर्घ्यमाह - शिखरेण सममिति | प्रासादशिखरस्य प्. ८०) विस्तारं मण्डपस्याग्रे गर्भं सूत्रद्वयेन तु | दैर्घ्यात् पादाधिकं कुर्यात् [कुर्यात् क्, कार्य ख्, ग्] मध्ये स्तम्भैर्विभूषितम् || ६ || प्रासादगर्भमानं वा कुर्वीत मुखमण्डपम् | एकाशीतिपदैर्वास्तुं यष्ट्वा मण्डपमारभेत् || ७ || शुकाढ्यद्वारविन्यासे [शुकाढ्य क्, शुकाढ्या ख्, ग्] पादान्तस्थान् यजेत् सुरान् | तथा प्राकारविन्यासे यजेद्द्वात्रिंशदन्तगान् || ८ || सर्वसाधारणञ्चैतत् प्रासादस्य तु लक्षणम् | मानेन प्रतिमाया वा प्रासादमपरं शृणु || ९ || प्रतिमायाः प्रमाणेन कर्तव्या पिण्डिका शुभा | गर्भस्तु पिण्डिकार्द्धेन गर्भमानास्तु भित्तयः || १० || --------------------------------------------------------------------------------------------------------------------- ------- यावदौन्नत्यं पुरोवर्त्तिनो भूमिभागस्य तावान् विस्तार इत्यर्थः | द्विगुणेनेति | यत्र भूमेर्विस्तारातिरेकः शोभाविशेषं पुष्णाति तत्र द्विगुणोऽपि विस्तारः करणीय इत्यर्थः | ६ | ७ | अथेदानीं प्रासादपुरोवर्त्तिनो मण्डपस्य स्वरूपमाह - विस्तारमित्यादिना | कल्पान्तरमाह - प्रासादेति | प्रासादगर्भमानं मध्ये तस्येत्यादिना षोडशधाविभक्तस्य क्षेत्रस्य वहिर्द्वादशांशं परित्यज्य मध्यवर्तिनोऽंशचतुष्टयस्य भित्तेरभ्यन्तरस्थस्य यन्मानं तन्मानं मुखमण्डपं कुर्वीतेत्यर्थः | एकाशीतिपदवास्तुमण्डलप्रमाणन्तु चतुःषष्टिपदवास्तुमण्डलप्रतिपादकस्य नवमपटलस्य व्याख्यायां कथञ्चित् प्रदर्शितं | विशेषस्तु विश्वकर्मप्रकाशादावनुसन्धेयः | ९ | प्रासादस्य प्रकारान्तरमाह - मानेनेति | प्. ८१) भित्तेरायाममानेन उच्छ्रायन्तु प्रकल्पयेत् | भित्त्युच्छ्रायन्तु द्विगुणं शिखरं कल्पयेद् गुरुः [गुरुः क्, बुधः ख्, ग्] || ११ || शिखरस्य तु तुर्येण भ्रमणं परिकल्पयेत् | शिखरस्य चतुर्थेन अग्रतो मुखमण्डपम् || १२ || अष्टमांशेन गर्भस्य रथकानान्तु निर्गमः | परिधेर्गुणभागेन रथकांस्तत्र कल्पयेत् || १३ || तत्तृतीयेन वा कुर्यात् रथकानान्तु निर्गमम् [निर्गमः क्, निर्गमम् ख्, ग्] | रामत्रयं स्थापनीयं रथकत्रितये सदा || १४ || शिखरार्थं हि सूत्राणि रत्नानि विनिपातयेत् | शुकनासोर्द्धतः सूत्रं तिर्यक्सूत्रं निपातयेत् [ख्, ग् पुस्तकधृतोऽयं पाठः क पुस्तके नास्ति |] || १५ || शिखरस्यार्द्धभागस्थं सिंहं तत्र च कारयेत् | शुकनासां स्थिरीकृत्य मध्यसन्धौ विधारयेत् [विधारयेत् क्, विदाचयेत् (?) ख्, ग्] || १६ || अपरे च तथा पार्श्वे तद्वत् सूत्रं निधापयेत् | तदूर्द्धन्तु भवेदीश कण्ठोऽस्य मनसा वरान् [अत्र ख्, ग् पुस्तकयोः कश्चो मनसावरानिति प्रामादिकः पाठः | कण्ठे श्यामलसारवानिति शब्दकल्पद्रुमधृतः पाठः |] || १७ || स्कन्धभग्नं [स्कन्धनग्नं ख्, ग्, भग्नस्कन्धन्तु क्] न कर्तव्यं विकरालं तथैव च | ऊर्द्धन्तु वेदिकामानात् कलसं परिकल्पयेत् || १८ || प्. ८२) विस्तारं द्विगुणद्वारं [द्विगुणद्वार क्, द्विगुणं द्वारं ख्, ग्] कर्तव्यन्तु सुशोभनं | जातरूपं * * * * * * * * * * (?) || १९ || [पादद्वयमिदं क् पुस्तके नास्ति ||] औदुम्वरोऽर्द्धतः [औदुम्वरो क्, ऊडुम्वरा ख्, ग्] स्वर्णं दत्त्वा शाखां न्यसेद्बुधः | तूर्यमङ्गलघोषेण ब्राह्मणान् स्वस्तिवाच्य च || २० || द्वारस्य तु चतुर्थांशे कार्यौ चण्डप्रचण्डकौ | दण्डहस्तौ तु कर्तव्यौ विश्वक्सेनोपमावुभौ || २१ || शाखार्द्धं न्यस्य रत्नानि न्यसेदूर्द्धसुदुम्बरम् [ऊदुम्वरम् क्, ऊडुम्वरम् ख्, ग्] | तस्य मध्ये स्थिता देवी साक्षाल्लक्ष्मी सुरेश्वरी || २२ || कर्तव्या दिग्गजैः सा तु स्नाप्यमाना [स्नाप्यमाना क्, स्थाप्यमाना ख्, ग्] घटेन तु | शाखोदुम्वरकौ कार्यौ पत्रवल्ल्यादिभूषितौ [पत्रवल्ल्यादिभूषितौ ख्, ग्] [अत्र क् पुस्तके पित्त्र्यवन्त्यादिभूषितौ इति पाठो दृश्यते स तु न शौनः |] || २३ || एकशाखं त्रिशाखं वा षट्शाखं द्वारमिष्यते | नवशाखञ्च कुर्वीत अत्र ऊर्ध्वं न कारयेत् || २४ || विष्ण्ववताररूपाद्यैः शाखां यत्नाद् विभूषयेत् | प्रासादस्य चतुर्भागैः प्राकारस्योच्छ्रयो भवेत् || २५ || प्. ८३) प्राकारात् पादहीनस्तु गोपुरस्योच्छ्रयो भवेत् [एकभूमीत्यादि पादद्वयं क्, पुस्तके नास्ति |] | पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका || २६ || तस्मात्तु द्विगुणः प्रोक्तस्तथा गरुडमण्डपः | एकहस्तादि कुर्वीत त्रिंशद्धस्तान्तमेव च || २७ || एकभूम्यादिकं कुर्यात् सप्तभूम्यन्तमेव च | वायव्यां नागनाम्ना तु विष्णवे चैकभूमिकम् || २८ || द्विभौमिकं तथाग्नेयं माहेन्द्रन्तु त्रिभौमिकम् | चतुर्भागन्तु वारुण्यां सौरं स्यात् पञ्चभौमिकम् || २९ || सौम्यं षाड्भौमिकं [षाड्भौमिकं क्, षड्भौमिक ख्, ग्] ज्ञेयं वैष्णवं सप्तभौमिकम् | गरुत्वन्तं तथा कुर्यादुपरिष्टाच्चतुर्द्दिशम् [चतुर्दिशम् ख्, ग् चतुर्गुणम् क्] [गुरुरन्तं चतुर्गुणम् क्] || ३० || कुर्याद्धि प्रतिमायामान् दिक्षु चाष्टासु चोपरि | महावराहमैन्द्र्यान्तु नरसिंहन्तु दक्षिणे || ३१ || प्रतीच्यां श्रीधरं देवमुदीच्यां हयशीर्षकम् | आग्नेययां जामदग्न्यन्तु नैऋते राममेव च || ३२ || वामनञ्चैव वायव्यां वासुदेवमथापरे | पूर्वभूमौ तु शयनं द्वितीये चाशनं [अशनं क्, आसनं ख्, ग्] भवेत् || ३३ || प्. ८४) स्थानमेव तृतीये तु चतुर्थे यानमेव च | पञ्चमे योगनिद्रा [योग ख्, ग् याग (?) क्] तु षष्ठे योगासनं भवेत् || ३४ || स्थानयोगसमायुक्तं [स्थान क्, स्नान ख्, ग्] सप्तमे परिकल्पयेत् | नानागवाक्षकैर्यत्नात् पत्रवल्ल्यादिभूषितम् || ३५ || नानाप्रकारपुष्पाद्यैर्यथाशोभं प्रकल्पयेत् | कनिष्ठमध्यज्येष्ठानां प्रासादानां यथाक्रमम् || ३६ || वसुभार्गवविद्वद्भिः [अत्र क् पुस्तकधृतोऽन्यादृशोऽपि पाठः अक्षराणामस्पष्टतया स्फुटं न बुध्यते || ] प्रदेया रचना बुधैः | द्वारस्य चाष्टमे युक्ते नवमे दशमे तथा || ३७ || लालटवेधो नैव [नैवं क्, नैव ख्, ग्] स्यादायन्तु शृणु साम्प्रतम् | यावद्धस्तैरभिप्रेतः प्रासादः कर्तृणानघ || ३८ || तावद्भिरङ्गुलैरायो वसुभागेन वा भवेत् | एकस्तम्भो ध्वजो ज्ञेयो द्विस्तम्भा वेदिका मता || ३९ || दशभूम्यन्तरे [दश क्, कुश ख्, ग्] नित्यं चतुःस्तम्भं प्रकल्पयेत् | तोरणस्य विधानञ्च कथितं तु तवानघ || ४० || प्रासादाग्रे यदाकार्यावेदिका स्तम्भसंयुता | वैष्णवैस्तु तदाकार्या वेदिका स्तम्भसंयुता || ४१ || इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे त्रयोदशः प्रासादलक्षणपटलः || १३ || आदितः श्लोकसंख्या - ३१० स्थापनीयं ख्, ग्] यथान्यायमपरं शृणुमेऽनघ || ३ || --------------------------------------------------------------------------------------------------------------------- ------- १ | पूर्वपटले प्रासादसामान्यलक्षणमभिधाय विशेषलक्षणार्थं पटलोऽयमारभ्यते अतःपरमित्यादिना | अत्र मुख्यतः प्रासादलक्षणानुक्तावपि प्रतिष्ठाप्यगौणमुख्यदेवतासन्निवेशनक्रमाभिधानेन वस्तुगत्या प्रासादविशेषलक्षणमेवापतितमिति प्रवक्ष्यामि प्रासादानान्तु लक्षणमिति साधु सङ्गच्छते | प्रासादानामिति भेदलक्षणमित्यर्थः | २ | ३ | प्रासादस्त्रिविधो भवति पञ्चायतनो नवायतनो द्वादशायतनश्चेति | तत्र यस्य प्रधानायतनचतुष्कोणेषु चत्वार्यायतनानि स पञ्चायतनप्रासादः | तत्र देवतास्थापनक्रममाह पञ्चायतनेति - पञ्चायतन-प्रासादस्य मध्ये प्रधानायतने वासुदेवं आग्नेयायतने वामनं नैऋतायतने नरसिंहं वायव्यायतने हयशीर्षं ईशानायतने नृशूकरं स्थापयेदिति पञ्चायतनप्रतिष्ठायामेकः क्रमः | क्रमान्तरमाह - अपरं शृण्विति | प्. ८६) मध्ये नारायणं [नारायणं क्, नारायणः ख्, ग्] स्थाप्य [स्थाप्य क्, स्थाप्यं ख्, ग्] आग्नेययामम्बिकां न्यसेत् | नैऋत्यां भास्करं स्थाप्य वायाव्यां कमलोद्भवम् || ४ || ऐशान्यां स्थापयेल्लिङ्गमथवा रुद्ररूपकम् | नवायतनमध्ये तु वासुदेवं निवसयेत् || ५ || पूर्वादीशानपर्यन्तं रामादीन् विन्यसेत् पुनः | इन्द्रादीन् वा लोकापालानष्टदिक्षु यथाक्रमम् || ६ || --------------------------------------------------------------------------------------------------------------------- ------- ४ | ५ | मध्य इति | अथवा मध्यायतने नारायणं आग्नेयायतने अम्बिकां नैरृतायतने भास्करं वायव्यायतने ब्राह्मणं ऐशान्यां लिङ्गं रुद्रं वा स्थापयेदित्यपरः पञ्चायतनक्रमः | एवञ्च यः स्वाभीष्टतया प्रधानो देवः स मध्यगे प्रधानप्रासादे अन्ये त्वपरेषु चतुर्षु स्थापनीया इति प्रतिभाति | ५ | ६ | अथेदानीं नवायतनप्रतिष्ठायां देवतासंस्थापनक्रममाह - नवायतनेति | नवायतनप्रतिष्ठायामपि पञ्चायतनवत् मध्ये प्रधानायतनं पूर्वादिषु च अष्टावायतनानि परिकल्प्य प्रधाने मध्यायतने वासुतेवमितरेषु पूर्वाद्यष्टायतनेषु यथाक्रमं रामादीन् विन्यसेत् | रामादयस्तु - बलराम - प्रद्युम्नानिरुद्धनारायण-ब्रह्मविष्णुनरसिंहवराहाः | रामादिपदेनैतेषां ग्रहणन्तु चतुर्विंशे नवव्यूहप्रतिमालक्षणपटले द्रष्टव्यम् | तथा च - मध्ये प्रधानायतने वासुदेवं ऐन्द्रे बलरामम् आग्नेये प्रद्युम्नं याम्येऽनिरुद्धं नैऋते नारायणं वारुणे ब्रह्माणं वायव्ये विष्णुं कौवेरे नरसिंहं ऐशाने च वराहं स्थापयेदित्यर्थः | दिग्देवतान्यासे प्रकारान्तरमाह - इन्द्रादीनिति | तथा च - प्रागुक्तक्रमेण मध्ये वासुदेवं न्यस्य पूर्वादीशानपर्यन्तं यथाक्रममिन्द्रादीन् लोकपालान् स्थापयेदित्यर्थः | प्. ८७) अथवान्यप्रकारेण नवायतनमुच्यते | पञ्चायतनसंस्थाने वडभ्यो यत्र मध्यमाः [मध्यमाः क्, ग् मध्योगा ख्] || ७ || पुरुषोत्तममूर्त्तिस्तु मध्ये स्थाप्या विचक्षणैः | पूर्वगायां वडभ्याञ्च लक्ष्मी-वैश्रवणौ न्यसेत् || ८ || दक्षिणस्यां वडभ्यान्तु न्यसेन्मातृगण बुधः | ईशानञ्च तथा [ईशानञ्च ख्, ग् ईशानञ्चेन क्] स्कन्दं गणेशं चात्र विन्यसेत् || ९ || पश्चिमायां वडभ्यान्तु सूर्यादीन् विन्यसेद् ग्रहान् | उत्तरस्यां वडभ्यान्तु मत्स्यादीन् विन्यसेद्दश || १० || आग्नेययां चण्डिका स्थाप्या नैऋत्यामम्बिकां न्यसेत् | सरस्वतीन्तु वायव्यां पद्मामीशानगोचरे || ११ || मध्ये च [च क्, तु ख्, ग्] स्थापयेद्देवीं वासुदेवं यथोदितम् | नारायणं श्रीधरं वा [वा क्, च ख्, ग्] वामनं मोहनाशनम् || १२ || द्वादशायतनं तत्तु [तत्तु क्, यत्र ख्, ग्] मध्यमन्तु त्रयोदश | अस्मिन् देवविभागानि [विभागानि क्, वितानानि ख्, ग्] शृणुष्व सुरसत्तम || १३ || विश्वरूपं न्यसेन्मध्ये केशवादीन् प्रदक्षिणम् | पूर्वाद्यनुक्रमेणैव यथावद्विनिवेशयेत् || १४ || यां मूर्तिं स्थापयेन्मध्ये तत्स्थाने मध्यमां न्यसेत् | कामनाभेदतश्चायं वेधः साधारणः स्मृतः || १५ || --------------------------------------------------------------------------------------------------------------------- ------- १३ | द्वादशायतनमाह - द्वादशेति | प्. ८८) प्रासादलक्षणं प्रोक्तं संक्षेपेण मया तव | तथैवान्येऽपि कर्तव्या येऽस्मिन् संकीर्त्तिता मया || १६ || इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे चतुर्दशः प्रासाददेवतासंस्थापनपटलः [प्रासाद क्, ख्, ग् पुस्तकयोरेतन्नास्ति |] || १४ || आदितः श्लोकसंख्या - ३२५ ########### END OF FILE #######