#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00069 Uniform title: jñānārṇavatantra Main title: jñānārṇavatantram Editor : malaviya, sudhakar Description: jñānārṇavatantram edited by Dr. Sudhakar Malaviya Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Internet publisher : Muktabodha Indological Research InstituteMuktabodha Indological Research Institute Publication year : 2007 Publication city : Publication country : United States #################################################### || श्रीः || ईश्वरप्रोक्तं ज्ञानार्णवतन्त्रम् अथ प्रथमः पटलः श्रीदेव्युवाच -- गणेशनन्दिचण्डेशसुरेन्द्रपरिवारित | सर्ववन्द्य गणाधीश किं त्वया जप्यते सदा || १-१ || अक्षमालेति किं नाम संशयो मे हृदि स्थितः | शब्दातीतं परं ब्रह्म त्वमेव परमार्थवित् || १-२ || कथयाऽऽनन्दनिष्यन्दसान्द्रमानसनिश्चयात् | ईश्वर उवाच -- कथयामि वरारोहे यन्मया जप्यते सदा || १-३ || अकारादिक्षकारान्ता मातृका पीठरूपिणी | चतुर्दशस्वरोपेता बिन्दुत्रयविभूषिता || १-४ || अनुस्वारेण देवेशि बिन्दुनैकेन मण्डिता | विसर्गेण च बिन्दुभ्यां संलग्नाभ्यां विराजिता || १-५ || कलामण्डलमाख्यातं शक्तिरूपं महेश्वरि | ककारादिक्षकारान्ता वर्णास्तु शिवरूपिणः || १-६ || व्यञ्जनत्वात्सदाऽऽनन्देनोच्चारसहिता यतः | उच्चरेत्स्वरसंभिन्नांस्तदा देवि न संशयः || १-७ || पञ्चाशद्वर्णरूपेण शब्दाख्यं वस्तु सुव्रते | अकारः प्रथमो देवि क्षकारोऽन्तिम इष्यते || १-८ || अक्षमालेति विख्याता मातृका वर्णरूपिणी | शब्दब्रह्मस्वरूपेयं शब्दातीतं तु जप्यते || १-९ || शब्दातीतं परं धाम गणनारहितं सदा | आत्मस्वरूपं जानीहि हंसस्तु परमेश्वरः || १-१० || अस्मिन्नेव परे तत्त्वे बिन्दुत्रयविभूषिते | मातृकासंपुटत्वेन संस्थितं व्यक्तिमागतम् || १-११ || बिन्दुत्रयं प्रवक्ष्यामि बीजरूपं वरानने | हकारं बिन्दुरूपेण ब्रह्माणं विद्धि पार्वति || १-१२ || सकारः सर्गबिन्दुभ्यां हरिश्चाहं सुरेश्वरि | अविनाभावसंस्थानाल्लोके हरिहराविति || १-१३ || ब्रह्मबिन्दुर्महेशानि वामा शक्तिनीगद्यते | विश्वं वमति यस्मात्तद्वामेयं परिकीतीता || १-१४ || ज्येष्ठा तु वैष्णवी शक्तिः पालयन्ती जगत्त्रयम् | ततो रौद्री ग्रसन्ती तु क्रमेण परमेश्वरी || १-१५ || एवं बिन्दुत्रयं विद्धि गुणत्रयविभूषितम् | बिन्दुशब्देन शून्यं तु तथाऽपि गुणसूचकम् || १-१६ || इच्छाज्ञानक्रियारूपं भूर्भुवःस्वःस्वरूपकम् | पुरत्रयात्मकं विद्धि तत्त्वत्रयमयं प्रिये || १-१७ || बिन्दुत्रये महेशानि सर्वमेतत्प्रतिष्ठितम् | अम्बिकाबिन्दुभिर्देवि गुणत्रयपरम्परा || १-१८ || जाग्रत्स्वप्नसुषुप्तिश्च बिन्दुत्रयभवा शिवे | जाग्रत्सत्त्वगुणा ज्ञेया केवलं शक्तिरूपिणी || १-१९ || मनोव्यावृत्तिविस्तारा दुःखदोषाभिलाषिणी | शिवरूपा सुषुप्तिस्तु सर्वव्यावृत्तिहारिणी || १-२० || देहधर्मपरित्यक्ता शिवतत्त्वस्वरूपिणी | तमोगुणमयी कर्म ग्रसन्ती मोक्षरूपिणी || १-२१ || सुषुप्त्यन्ते जागरादौ स्वप्नावस्था रजोमयी | उभयैर्लक्षणैर्युक्ता तृष्णालक्षणलक्षिता || १-२२ || अवस्थात्रयमेतत्तु कथितं बिन्दुसंभवम् | एतस्मिन्बैन्दवे ज्ञाते तुर्यावस्थां शृणु प्रिये || १-२३ || निद्रादौ जागरस्यान्ते स्फुरत्तामात्रलक्षणा | अवस्था पूर्णतां प्राप्ता तुर्यावस्था परा कला || १-२४ || भावाभावपरित्यक्ता गुणातीता सुनिश्चला | इयमेव यदा देवि मनसा प्राप्यते सदा || १-२५ || उन्मनी नाम सद्रूपा ज्ञानवल्ली चिदात्मिका | बिन्दुत्रयेण नादेन प्रसृताऽऽनन्दरूपिणी || १-२६ || बिन्दुत्रयसमायोगात् त्रिपुरानामरूपिणी | वर्णातीता सवर्णाऽपि केवलं ज्ञानचित्कला || १-२७ || एनां विद्यां समाराध्य सर्वज्ञत्वं मयि प्रिये | उपास्यते मया देवि त्रिपुरा चाक्षमालया || १-२८ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे स्वरूपज्ञेयमात्रं नाम प्रथमः पटलः || १|| अथ द्वितीयः पटलः श्री देव्युवाच -- त्रिपुरा परमेशान ज्ञानमार्गेण सूचिता | तत्त्वरूपेण कथय यद्यहं तव वल्लभा || २-१ || त्रिपुरायाः प्रकारस्तु मन्त्रभेदश्च किंविधः | सर्वं तच्छ्रेतुमिच्छामि येन सौभाग्यमाप्नुयाम् || २-२ || ईश्वर उवाच -- त्रिपुरा त्रिविधा देवि बालां तु प्रथमं शृणु | यया विज्ञातया देवि साक्षात्सुरगुरुर्भवेत् || २-३ || सूर्यस्वरं समुच्चार्य बिन्दुनादकलान्वितम् | स्वरान्तं पृथिवीयुक्तं तूर्यस्वरविभूषितम् || २-४ || बिन्दुनादकलाक्रान्तं सर्गवान्भृगुरव्ययः | शक्रस्वरसमोपेतो विद्येयं त्र्यक्षरी मता || २-५ || गङ्गातरङ्गकल्लोलवाक्पटुत्वप्रदायिनी | महासौभाग्यजननी महासारस्वतप्रदा || २-६ || महासौन्दर्यसुभगा महामृत्युविनाशिनी | ब्रह्मविष्णुसुरेन्द्रादिवन्दिता पापहारिणी || २-७ || सर्वतीर्थमयी देवी स्वर्णरत्नादिदायिनी | सर्वलोकमयी देवी सर्वलोकवशंकरी || २-८ || सर्वक्षेत्रमयी देवी सर्वकार्यार्थसाधिका | महामोक्षप्रदा शान्ता महामुक्तिप्रदायिनी || २-९ || वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि | वणीतुं नैव शक्येयं विद्येयं त्र्यक्षरी परा || २-१० || पञ्चवक्त्रेण जिह्वाभिः पञ्चभिर्नैव शक्यते | वाग्भवेनेन्दुमहसा वागीशत्वप्रदायिनी || २-११ || कामराजेन बीजेन शक्रगोपस्फुरत्त्विषा | त्रैलोक्यं मोहयन्तीयं शक्तिबीजेन सुव्रते || २-१२ || स्फुरत्सुवर्णवर्णेन सौभाग्यं तस्य मन्दिरे | एतस्याः साधनं देवि कथयामि समासतः || २-१३ || प्रातरुत्थाय देवेशि ब्रह्मरन्ध्रे निजं गुरुम् | स्मृत्वा देवीमयो भूत्वा तत्प्रभापटलामलः || २-१४ || स्नानकर्म ततः कुर्यान्मूलमन्त्रं स्मरन्बुधः | त्रिवारमञ्जलौ वारि मन्त्रयित्वा तु मूर्धनि || २-१५ || निक्षिपेत् परमेशानि त्रिधा चाऽऽचम्य तर्पयेत् | त्रिधा च प्रोक्षयेद्देहं सूर्यायार्घं निवेदयेत् || २-१६ || मूलमन्त्रेण देवेशि सूर्यमन्त्रेण वा प्रिये | शिवबीजं वह्निसंस्थं वामनेत्रविभूषितम् || २-१७ || बिन्दुनादसमायुक्तं हंसःपदमथोच्चरेत् | अनेन मनुना देवि सूर्यायार्घ्यं निवेदयेत् || २-१८ || यथाशक्त्या जपेन्मन्त्रं गायत्रीं परमेश्वरीम् | मूलविद्याद्यमुच्चार्य वागीश्वरि च विद्महे || २-१९ || द्वितीयं बीजमुच्चार्य कामेश्वरि च धीमहि | तृतीयं बीजमुच्चार्य तन्नः शक्तिः प्रचोदयात् || २-२० || यथाशक्त्या जपेत्पश्चाद्यागमण्डपमाविशेत् | धातारं च विधातारं गङ्गां च यमुनां तथा || २-२१ || द्वारश्रियं देहलीं च पुरुषं वास्तुसंज्ञकम् | संपूज्य परमेशानि पूजयेदासनं बुधः || २-२२ || पराबीजं समुच्चार्य ततश्चाऽऽधारपूर्वकम् | शक्तीतिपदमालिख्य कमलासनमालिखेत् || २-२३ || ङेन्तं नमःपदं कृत्वा चाऽऽसनस्य मनुः प्रिये | उपविश्य ततो देवि भूतान् संत्रासयेद्बुधः || २-२४ || भूतशुद्धिविधिं कुर्यात्प्राणायामत्रयेण तु | वायुबीजं समुच्चार्य षट्कोणादागतं महत् || २-२५ || कृष्णवर्णं महेशानि शोषयेदेनसः तनुम् | आसने सम्यगासीनो वामेनाऽऽपूर्य चोदरम् || २-२६ || कुम्भकेन त्रिरावृत्त्या दक्षिणेन च रेचयेत् | कनिष्ठानामिकाङ्गुष्ठेर्यन्नासापुटधारणम् || २-२७ || प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना | वामकुक्षिस्थितं पापपुरुषं कज्जलप्रभम् || २-२८ || ब्रह्महत्या शिरो यस्य स्वर्णस्तेयं भुजद्वयम् | सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् || २-२९ || तत्संसगीपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् | उपपातकरोमाणं कृष्णश्मश्रुविलोचनम् || २-३० || खड्गचर्मधरं क्रुद्धं कुक्षौ पापं विचिन्तयेत् | शोषयेद्वायुबीजेन देहं च परमेश्वरि || २-३१ || पापेन सहितं शुष्कं कृत्वा तेन क्रमेण हि | वह्निबीजेन संदग्धं पापेन सहितं शिवे || २-३२ || पापेन रहितं पश्चात्प्लावयेदमृताम्बुना | प्राणप्रतिष्ठामन्त्रेण जीवं देहे निधापयेत् || २-३३ || मुखवृत्तं समुच्चार्य हंसस्तु विपरीततः | उच्चरेत्परमेशानि विद्येयं त्र्यक्षरी भवेत् || २-३४ || प्राणप्रतिष्ठामन्त्रोऽयं सर्वकर्माणि साधयेत् | तेनैव विधिना देवि स्थिरी कुर्यान्निजां तनुम् || २-३५ || विशुद्धदेहो देवेशि न्यासं कुर्यात्समाहितः | ऋषिरस्य महेशानि दक्षिणामूतीरव्ययः || २-३६ || न्यसेच्छिरसि पूज्यत्वात्पङ्क्तश्छन्दो मुखे प्रिये | देवता हृदये बाला त्रिपुरा परमेश्वरी || २-३७ || बीजं तु वाग्भवं शक्तिस्तार्तीयं कीलकं तथा | कामराजं महेशानि छन्दो न्यास उदाहृतः || २-३८ || नाभ्यादिपादपर्यन्तं गलादानाभि चापरम् | मूर्धादिगलपर्यन्तं त्र्यक्षरीं विन्यसेत्क्रमात् || २-३९ || वामपाणितले चैक दक्षपाणितले तथा | उभयोः संपुटे विद्यां त्रिबीजां विन्यसेत्प्रिये || २-४० || पञ्च बाणान्क्रमेणैव कराङ्गुलिषु विन्यसेत् | अङ्गुष्ठादिकनिष्ठान्तं क्रमेण परमेश्वरि || २-४१ || थान्तद्वयं समालिख्य वन्हिसंस्थ क्रमेण हि | मुखवृत्तेन नेत्रेण वामेन परिमण्डितम् || २-४२ || बाणद्वयमिदं प्रोक्तं मादनं भूमिसंस्थितम् | चतुर्थस्वरबिन्द्वाढ्यं नावरूपं वरानने || २-४३ || फान्तं क्रमसमायुक्तं वामकर्णविभूषितम् | बिन्दुनादसमायुक्तं सर्गवांश्चन्द्रमाः प्रिये || २-४४ || पञ्च बाणा महेशानि नामानि शृणु पार्वति | क्षोभणद्रावणौ देवि तथा कर्षणसंज्ञकः || २-४५ || वश्योन्मादौ क्रमेणैव नामानि परमेश्वरि | कामास्तत्रैव विज्ञेयास्तेषां बीजानि संशृणु || २-४६ || पराबीजं मध्यबाणं वाग्भवं परमेश्वरि | तूर्यबाणं ततश्चैव स्त्रीबीजं च क्रमात्प्रिये || २-४७ || पञ्च कामा इमे देवि नामानि शृणु वल्लभे | काममन्मथकन्दर्पमकरध्वजसंज्ञकाः || २-४८ || मीनकेतुर्महेशानि पञ्चमः परिकीतीतः | एतान्विन्यस्य देवेशि करन्यासं ततः परम् || २-४९ || मूलविद्यां द्विरावृत्त्या सर्वाङ्गुलितलेषु च | षडङ्गक्रमयोगेन मातृकां विन्यसेत्ततः || २-५० || मातृकां शृणु देवेशि न्यासात्पापनिकृन्तनीम् | ऋषिर्ब्रह्माऽस्य मन्त्रस्य गायत्रं छन्द उच्यते || २-५१ || देवता मातृका देवि बीजं व्यञ्जनसंचयः | शक्तयस्तु स्वरा देवि षडङ्गन्यासमाचरेत् || २-५२ || अंआंमध्ये कवर्गं च इं ई मध्ये चवर्गकम् | उं ऊं मध्ये टवर्गं च एं एं मध्ये तवर्गकम् || २-५३ || ओं औ मध्ये पवर्गं च क्रमेण परमेश्वरि | अनुस्वारविसर्गांन्ते यशवर्गौ सलक्षकौ || २-५४ || हृदयं च शिरा देवि शिखां च कवचं ततः | नेत्रमस्त्रं न्यसेन्ङेन्तं नमःस्वाहाक्रमेण तु || २-५५ || वषड्ढुंवौषडन्तं च फडन्तं योजयेत्प्रिये | षडङ्गोऽयं मातृकायाः सर्वपापहरः स्मृतः || २-५६ || द्व्यष्टपत्राम्बुजे कण्ठे स्वरान्षोडश विन्यसेत् | द्वादशच्छदहृत्पद्मे कादीन्द्वादश विन्यसेत् || २-५७ || दशपत्राम्बुजे नाभौ डकारादीन्न्यसेद्दश | षट्पत्रे लिङ्गसंस्थे च बकारादीन्न्यसेच्च पट् || २-५८ || आधारे चतुरो वर्णान्न्यसेद्वादींश्चतुर्दले | हक्षौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत्प्रिये || २-५९ || इत्यन्तर्मातृकां न्यस्य सर्वाङ्गन्यासमाचरेत् | मूर्धनि मुखवृत्ते च नेत्रकर्णेषु पार्वति || २-६० || नासागण्डोष्ठदन्तेषु मूर्धास्येषु च विन्यसेत् | पाणिपादयुगस्यान्ते संध्यग्रेषु क्रमात्प्रिये || २-६१ || पार्श्वद्वये पृष्ठनाभिजठरेषु क्रमान्न्यसेत् | यादीन्सधातुकान्देवि क्रमेणैव ततो न्यसेत् || २-६२ || त्वगसृग्मांसमेदोस्थिमज्जाशुक्राणि धातवः | प्राणात्मा चैव जीवात्मा परमात्मा च विन्यसेत् || २-६३ || हृदये बाहुमूले च तथाऽपरगले प्रिये | कक्षयोर्हृदयप्रान्ते पाणिपादयुगे तथा || २-६४ || जठराननयोर्देवि व्यापकं च क्रमान्न्यसेत् | पञ्चाशद्वर्णरूपां च कन्दर्पशशिभूषणाम् || २-६५ || शुद्धस्फटिकसंकाशां शुद्धक्षौमविराजिताम् | मुक्तावज्रस्फुरद्भूषां जपमालां कमण्डलुम् || २-६६ || पुस्तकं वरदानं च विभ्रतीं परमेश्वरीम् | एवं ध्यात्वा न्यसेत्पश्चाद्विद्यान्यासं सुरेश्वरि || २-६७ || कुर्वीत देहसंन्नाहं त्रिभिर्बीजैः क्रमात्प्रिये | करयोवीन्यसेदादौ मणिबन्धे तले नखे || २-६८ || दक्षे वामे च विन्यस्य कक्षकूर्परपाणिषु | पुनर्दक्षे च वामे च पादयोश्च तथा न्यसेत् || २-६९ || पादान्ते हृदये लिङ्गे न्यसेद्देवि ततः परम् | एतेष्वङ्गेषु देवेशि संहारक्रमतो न्यसेत् || २-७० || विद्यां सृष्टिक्रमेणैव जानीहि परमेश्वरि | ततो न्यसेन्महादेवि नवयोन्यङ्किताभिधम् || २-७१ || कर्णयोश्चुबुके भूयः शङ्खयोर्मुखमण्डले | नेत्रयोर्नासिकायां च बाहुयुग्मे हृदि प्रिये || २-७२ || तथा कूर्परयोर्नाभौ जान्वोरन्धुनि विन्यसेत् | पादयोर्देवि गुह्ये च पार्श्वयोर्हृत्स्तनद्वये || २-७३ || कण्ठे च नवयोन्याख्यं न्यसेद् बीजत्रयात्मकम् | षडङ्गमाचरेद्देवि द्विरावृत्त्या क्रमेण तु || २-७४ || त्रिद्व्येकदशकत्रिद्विसंख्यया शैलसंभवे | अङ्गुलीनां पुनर्देवि बाणान्कामांश्च विन्यसेत् || २-७५ || ललाटगलहृन्नाभिमूलाधारेषु वै क्रमात् | मूलेन व्यापकं कृत्वा प्राणायामं समाचरेत् || २-७६ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे बालान्यासविधिर्नाम द्वितीयः पटलः || २ || अथ तृतीयः पटलः ईश्वर उवाच -- एवं विन्यस्तदेहः सन्समाहितमनास्ततः | अन्तर्यागविधिं कुर्यात्साक्षाद्ब्रह्ममयं प्रिये || ३-१ || मूलाधारे मूलविद्यां विद्युत्कोटिसमप्रभाम् | सूर्यकोटिप्रतीकाशां चन्द्रकोटिद्रवां प्रिये || ३-२ || बिसतन्तुस्वरूपां तां बिन्दुत्रिवलयां प्रिये | ऊर्ध्वशक्तिनिपातेन सहजेन वरानने || ३-३ || मूलशक्तिदृढत्वेन मध्यबीजप्रबोधतः | परमानन्दसंदोहसानन्दं चिन्तयेत्पराम् || ३-४ || इत्यन्तर्यजनं कृत्वा बाह्यपूजां समाचरेत् | तत्र प्राङ्मुख आसीनश्चक्रोद्धारं समाचरेत् || ३-५ || सुस्थले श्रीभवे पट्टे लिखेद्यन्त्रमनुत्तमम् | ईशानादग्निपर्यन्तमृजुरेखां समालिखेत् || ३-६ || ईशादग्नेस्तदग्राभ्यां रेखे आकृष्य देशिकः | एकीकृत्य च वारुण्यां शक्तिरेखा परा प्रिये || ३-७ || त्रिकोणाकाररूपेयं तस्या उपरि संलिखेत् | त्रिकोणाकाररूपात्तु शक्तिद्वयमुदाहृतम् || ३-८ || पूर्वशक्त्यग्रभागे तु मानयष्टिवदालिखेत् | रेखां तु परमेशानि वायुराक्षसकोणगाम् || ३-९ || संधिभेदक्रमेणैव तयोः शक्त्योस्ततः परम् | रेखे आकृष्य कोणाभ्यां तदग्रात्पूर्वगे कुरु || ३-१० || वह्निमण्डलमेतत्तु पूर्वाग्रं वीरवन्दिते | एकेन वह्निना शक्तिद्वयेनैतद्भवेत्प्रिये || ३-११ || नवयोनिविशोभाढ्यं चक्रराजमिदं प्रिये | सर्वसौभाग्यजनकं सर्वैश्वर्यप्रदायकम् || ३-१२ || सर्वसिद्धिप्रदं रोगहरणं धनदायकम् | एतद्बाह्ये तु संलेख्यं वृत्तं पूर्णेन्दुसंनिभम् || ३-१३ || तल्लग्नमष्टपत्रं च ग्रन्थिभिश्चाष्टभिर्युतम् | ग्रन्थयः प्रणवाभ्यां च संपुटत्वेन कारयेत् || ३-१४ || ग्रन्थयः कुलिशा ज्ञेयाः प्रणवैरेव सुव्रते | त्रिशूलाष्टकमालिख्य चतुरस्रं लिखेत्प्रिये || ३-१५ || चतुर्द्वारविशोभाढ्यं सर्वानन्दकरं तथा | हसौःकारं त्रिकोणान्तः सांलिख्य वरवणीनि || ३-१६ || कामबीजं मध्यमं यदष्टकोणेषु संलिखेत् | स्वरान् षोडश देवेशि युग्मयुग्ममभेदतः || ३-१७ || दलाष्टकेषु संलिख्य पश्चिमादिप्रदक्षिणम् | ग्रन्थिस्थानेषु वर्गाणां कादीनां परमेश्वरिः || ३-१८ || विलिखेत्सप्तसंख्यानामाद्यार्णं क्रमतः प्रिये | क्षकारमष्टमे योज्यं शेषान्वर्णान्क्रमेण तु || ३-१९ || त्रिशूलाग्रेषु संलिख्य पश्चिमादिक्रमेण तु | तद्बाह्ये मातृकावृत्तं विलिख्य परमेश्वरि || ३-२० || चतुरस्रे महेशानि मातृकां कामगभीताम् | विलिख्य पूजयेद्यन्त्रं हेमरौप्यादिपट्टके || ३-२१ || ताम्रे वा दर्पणे ताले काश्मीरप्रभवेऽपि वा | चन्दनाद्यन्विते भूमौ कुङ्कुमेनाथ वा पुनः || ३-२२ || सिन्दूररजसा वाऽपि कस्तूरीघुसृणेन्दुभिः | भूर्जे गोरोचनाद्रव्यैः कल्पितं मानसेऽथ वा || ३-२३ || सुवर्णरत्नलेखिन्या सर्वकार्यार्थसाधकः | विलिख्य यन्त्रं देवेशि पूजाद्रव्यैः प्रपूजयेत् || ३-२४ || कुलागमक्रमेणैव ध्यात्वा ब्रह्मविकाशिनीम् | मूलादिब्रह्मरन्ध्रान्तं बिसतन्तुतनीयतीम् || ३-२५ || उद्यदादित्यरुचिरां स्मरेदशुभशान्तये | भ्रमदूभ्रमरनीलाभधम्मिल्लामलपुष्पिणीम् || ३-२६ || ब्रह्मरन्ध्रस्फुरद्भृङ्गमुक्तारेखाविराजिताम् | मुक्तारेखालसद्रत्नतिलकां मुकुटोज्ज्वलाम् || ३-२७ || विशुद्धमुक्तारत्नाढ्यां चन्द्ररेखाकिरीटिनीम् | भ्रमद्भ्रमरनीलाभनयनत्रयराजिनीम् || ३-२८ || सूर्यभास्वन्महारत्नकुण्डलालङ्कृतां पराम् | शुक्राकारस्फुरन्मुक्ताहारभूषणभूषिताम् || ३-२९ || ग्रैवेयाङ्गदमुक्ताभिः स्फुरत्कान्तिविराजिताम् | गङ्गातरङ्गकर्पूरशुभ्राम्बरविराजिताम् || ३-३० || श्रीखण्डवल्लीसदृशबाहुवल्लीविराजिताम् | कङ्कणादिलसद्भूषां मणिबन्धलसत्प्रभाम् || ३-३१ || प्रवालपल्लवाकारपाणिपल्लवराजिताम् | वज्रवैदूर्यमुक्तालिमेखलां विमलप्रभाम् || ३-३२ || रक्तोत्पलदलाकारपादपल्लवभूषिताम् | नक्षत्रमालासंकाशमुक्तामञ्जीरमण्डिताम् || ३-३३ || वामेन पाणिनैकेन पुस्तकं चापरेण तु | अभयं च प्रयच्छन्तीं साधकाय वरानने || ३-३४ || अक्षमालां च वरदं दक्षपाणिद्वयेन हि | दधतीं चिन्तयेद्देवीं वश्यसौभाग्यवाक्प्रदाम् || ३-३५ || क्षीरकुन्देन्दुधवलां प्रसन्नां संस्मरेत्प्रिये || ३-३६ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे त्रिपुरेश्वरीध्यानं नाम तृतीयः पटलः || ३|| अथ चतुर्थः पटलः श्रीदेव्युवाच -- चक्रमण्डलमाख्यातं न पूजा तत्र मण्डले | कथिता परमेशान श्रोतुमिच्छामि तत्त्वतः || ४-१ || ईश्वर उवाच -- शृणु देवि प्रवक्ष्यामि पूजामण्डलमुत्तमम् | पीठपूजां विधायादौ रविदेवीविराजिताम् || ४-२ || वामा ज्येष्ठा च रौद्री च अम्बिकेच्छा ततः परम् | ज्ञाना क्रिया कुब्जिका च ऋद्धिश्चैव विषघ्निका || ४-३ || दूतरी चैव आनन्दा देवि द्वादश शक्तयः | मुक्ताफलामलमणिस्फुरच्छत्रं शशिप्रभम् || ४-४ || गङ्गातरङ्गधवलं चामरद्वयमद्रिजे | नवरत्नस्फुरद्दीप्ति ताम्बूलस्य करण्डकम् || ४-५ || मल्लिकामालतीजातीशतपत्रादिदामभिः | पूर्णं रत्नमयं भाण्डं तथाऽलङ्कारपूरिताम् || ४-६ || पेटिकां व्यजनद्वन्द्वं नवरत्नाभिभूषितम् | नीलकण्ठस्य पिच्छैस्तु तथोशीरविराजितम् || ४-७ || कर्पूरमृगनाभ्याढ्यं कुङ्कुमक्षोदमण्डितम् | चषकं स्वर्णरचितं कङ्कतीं हीरराजिताम् || ४-८ || कज्जलस्य शलाकां च करण्डं चन्द्रपूरितम् | दधानाः परमेशानि शक्तयः पीठसंस्थिताः || ४-९ || पूर्वादिपरितः पूज्या रविसंख्या वरानने | संपूज्य मध्ये देवेशि प्रेतसिंहासनं यजेत् || ४-१० || रत्नस्वर्णाकृति स्फारं दीप्तिमच्छुद्धमव्ययम् | पञ्चप्रेतासनं साक्षान्मोक्षदायि न संशयः || ४-११ || श्रीदेव्युवाच -- पञ्च प्रेतान् महेशान ब्रूहि तेषां तु कारणम् | निर्जीवा अविनाशस्ते नित्यरूपाः कथं विभो || ४-१२ || निर्जीवे नाश एवास्ति ते कथं नित्यतां गताः | ईश्वर उवाच -- साधु पृष्टं त्वया भद्रे पञ्चप्रेतमयं कथम् || ४-१३ || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | पञ्च प्रेता वरारोहे निश्चला एव सर्वदा || ४-१४ || ब्रह्मणः परमेशानि मातृत्वं सृष्टिरूपकम् | वामाशक्तेस्तु विज्ञेयं ब्रह्मा प्रेतो न संशयः || ४-१५ || शिवस्य करणं नास्ति शक्तेस्तु करणं सदा | ब्रह्माण्डलक्षनिर्माणं जायते शक्तितः प्रिये || ४-१६ || अत एव महेशानि शिवः१ प्रेतो न संशयः | विष्णौ च पालनं नास्ति पालयन्ती परा शिवा || ४-१७ || ज्येष्ठाभिधा महेशानि सैव विष्णुरितीरिता | विष्णुस्तु निश्चलो देवि वैष्णवी व्याप्तिकारिणी || ४-१८ || पालयन्ती जगत्सर्वं विश्वनाटककारिणी | अत एव महेशानि विष्णुः प्रेतो न संशयः || ४-१९ || रुद्रस्तु परमं तत्त्वं शिवो निश्चल एव हि | ग्रसन्ती रुद्रशक्तिस्तु तमोरूपा वरानने || ४-२० || गुणत्रयं शिवे नास्ति गुणातीतः परमेश्वरः | निर्गुणस्य कथं ग्रासो निश्चलस्य वरानने || ४-२१ || ग्रसन्ती रुद्रशक्तिस्तु त्रैलोक्यं सचराचरम् | ब्रह्मा विष्णुश्च रुद्रश्च गुणातीताः सदा प्रिये || ४-२२ || सगुणाः परमेशानि सृष्टिस्थितिलयात्मकाः | ईश्वरोऽपि वरारोहे महाप्रेतः सदाऽनघे | शिवे निश्चलता कस्मादीश्वरत्वं भवेत्प्रिये || ४-२३ || यः कर्ता च स्वयं हर्ता स ईशो नान्यथा भवेत् | कर्तृहर्तृत्वयुगलं निश्चले न हि सुन्दरि || ४-२४ || ईश्वरत्वं शिवायां तु न शिवे परमेश्वरि | अत एव महाप्रेत ईश्वरो नान्यथा भवेत् || ४-२५ || सदाशिवो महाप्रेतः केवलं निश्चलः प्रिये | अव्यक्तः परमानन्दो ब्रह्मानन्दमयी शिवा || ४-२६ || शक्त्या विना शिवे देवि वासना न प्रवर्तते | अत एव महेशानि महाप्रेतासनं यजेत् || ४-२७ || चक्रमध्ये स्थितं बीजं सदाशिवमहापदम् | प्रेतपद्मासनं ङेन्तं हृन्मनुर्मनुरीरितः || ४-२८ || महासनस्य मन्त्रोऽयं कलार्णः परमेश्वरि | सिंहासनं समभ्यर्च्य ततश्चाऽऽवाहनं कुरु || ४-२९ || वहन्नाडीक्रमेणैव मूलादिब्रह्मरन्ध्रगाम् | संवित्कलां परेशानि सर्वज्ञां कुलसुन्दरीम् || ४-३० || आवाह्य चक्रमध्ये तु तर्पयेत्कुलसुन्दरीम् | आवाहनादिमुद्रास्तु कथयामि तवानघे१ || ४-३१ || ऊर्ध्वांञ्जलिमधः कुर्यादियमावाहनी भवेत् | इयं तु विपरीता स्यात्तदा वै स्थापनी मता || ४-३२ || मिलितं मुष्टियुगलं संनिधापनरूपिणी | अन्तरङ्गुष्ठमुष्टिभ्यां संनिरोधनरूपिणी || ४-३३ || एतस्या एव मुद्रायास्तर्जन्यौ सरले यदा | सव्यापसव्यभ्रमणान्मुद्रेयमवगुण्ठनी || ४-३४ || अङ्गमन्त्रैर्न्यसेद्देवि देव्यङ्गे साधकोत्तमः | संकलीकरणं नाम मुद्रेयं व्याप्तिकारिणी || ४-३५ || करावेकत्र संयोज्यावङ्गुष्ठौ बन्धयेत्प्रिये | परमीकरणं नाम मुद्रेयं तु ततः परम् || ४-३६ || परिवर्त्य करौ पश्चात्तर्जनीमध्यमायुगम् | कनिष्ठानामिकायुग्मं परस्परयुतं कुरु || ४-३७ || धेनुमुद्रेवमाख्याता अमृतीकरणं भवेत् | एता साधारणा मुद्रा दर्शयित्वा ततः परम् || ४-३८ || वरदाभयमुद्रे च वरदाभयवत्प्रिये | पुस्तकवद्वामकरं कुर्यात्समतलं प्रिये || ४-३९ || पुस्तकं नाम मुद्रेयं वाग्विलासं प्रयच्छति | तर्जन्यङ्गुष्ठयोगे तु दक्षहस्ते तु पार्वति || ४-४० || अक्षमालेति मुद्रेयं ज्ञानमुद्रा च वै भवेत् | मुष्टिं बध्वा दक्षकरे तर्जन्यङ्कुशरूपिणी || ४-४१ || अङ्कुशाख्या महामुद्रा त्रैलोक्याकषीणी भवेत् | तर्जनीयुगलं देवि वामांसे शृङ्खलाकृति || ४-४२ || पाशमुद्रा समाख्याता त्रैलोक्याकर्षणक्षमा | यथा हस्तगतं चापं तथा हस्तं कुरु प्रिये || ४-४३ || चापमुद्रेयमाख्याता वामहस्ते व्यवस्थिता | यथा हस्तगतो बाणस्तथा हस्तं कुरु प्रिये || ४-४४ || बाणमुद्रेयमाख्याता रिपुवर्गनिकृन्तनी | वामहस्ततलं देवि कपालाकृति कारयेत् || ४-४५ || कपालमुद्रा देवेशि देव्यानन्दकरी सदा | हस्ताभ्यां कमलाकारो यदा तत्कमलं भवेत् || ४-४६ || एषा कमलमुद्रा च लक्ष्मीवृद्धिकरी मता | इति चाऽऽयुधमुद्रास्तु दर्शयित्वा वरानने || ४-४७ || गन्धपुष्पाक्षतादीनि दद्यात्स्त्रीसहितः सदा | उपचारैरलंकारैस्तोषयेत् परमेश्वरीम् || ४-४८ || लयाङ्गं कल्पयेद्देहे सम्यक्सन्तर्पयेच्छिवाम् | परिवारार्चनं पश्चादादावङ्गाकृतिं प्रिये || ४-४९ || गुरुपूजानन्तरं तु प्रथमं गुरुमर्चयेत् | प्राग्योनिमध्ययोन्योस्तु मध्ये निजगुरुं यजेत् || ४-५० || विशेषमुद्रां देवेशि दर्शयेत्सर्वसिद्धये | परिवर्त्य करौ सम्यक्तर्जनीवाहनी समे || ४-५१ || मध्यमे कुरु तन्मध्ये योजयेत्तदनन्तरम् | अन्योन्यामिके देवि कनिष्ठे तु यथास्थिते || ४-५२ || अङ्गुष्ठाभ्यां योजिताभ्यां योन्याकारं तु कल्पयेत् | योनिमुद्रेयमाख्याता परा त्रैलोक्यमातृका || ४-५३ || इयमेव हृदि क्षिप्ता त्रैलोक्यक्षोभिणी भवेत् | त्रैलोक्यद्राविणी नाम मुखस्था परमेश्वरी || ४-५४ || भ्रूमध्यस्था महादेवि त्रैलोक्याकषीणी भवेत् | ललाटस्था महादेवि त्रैलोक्यवशकारिणी || ४-५५ || ब्रह्मरन्ध्रस्थिता देवि त्रैलोक्योन्मादकारिणी | पञ्चमुद्रामयीं मुद्रां योनिमुद्रां च दर्शयेत् || ४-५६ || ततः षडङ्गावरणं परितः पीठमद्रिजे | अग्नीशासुरवायव्यमध्ये दिक्षु च पूजयेत् || ४-५७ || अग्रकोणे रतिं यष्ट्वा प्रीतिमुत्तरकोणके | मनोभवां दक्षकोणे ततो बाणान् समर्चयेत् || ४-५८ || उत्तरस्यां द्वयं देवि दक्षिणस्यां दिशि द्वयम् | अग्रे चैकं क्रमेणैव बाणान् पञ्चाद्रिजे यजेत् || ४-५९ || पञ्च कामांस्तथा देवि बाणवत्परिपूजयेत् | अनङ्गकुसुमां देवि तथाऽनङ्गादिमेखलाम् || ४-६० || अनङ्गमदनां पश्चादनङ्गमदनातुराम् | सुभगां पञ्चमीं देवि भगां च भगसपीणीम् || ४-६१ || भगमालां महादेवि पूर्वादिक्रमतो यजेत् | अष्टयोनिषु देवेशि ततो ब्राह्म्यादिका यजेत् || ४-६२ || युग्मयुग्मप्रभेदेन वसुपत्रे वरानने | असिताङ्गं तथा ब्राह्मीं रुरुं माहेश्वरीं प्रिये || ४-६३ || चण्डं कौमारिकां चैव क्रोधं वैष्णवदेवताम् | उन्मत्तं चैव वाराहीं माहेन्द्रीं च कपालिनम् || ४-६४ || भीषणं चैव चामुडां संहारं चाष्टमं यजेत् | महालक्ष्मीं महादेवि युग्मानि परिपूजयेत् || ४-६५ || पश्चिमादिक्रमेणैव ततः पीठाष्टकं यजेत् | कामरूपं च मलयं ततः कौलगिरिं तथा || ४-६६ || कुलान्तकं च चौहारं जालन्धरमतः परम्ं | उड्डीयानं द्देवकूटं पीठाष्टकमिदं क्रमात् || ४-६७ || ग्रन्थिस्थानेषु संपूज्यं पश्चिमादिक्रमेण तु | त्रिशूलं परितो देवि मातृकावृत्तमण्डले || ४-६८ || भैरवा दश संपूज्याः पश्चिमादिक्रमात् प्रिये | हेतुकं चैव वेतालं तन्मध्ये त्रिपुरान्तकम् || ४-६९ || अग्निजिह्वं च कालान्तं तथा चैव कपालिनम् | एकपादं भीमरूपं मलयं हाटकेश्वरम् || ४-७० || दशाभ्यर्च्य महादेवि भैरवान् मातृमण्डले | चतुरस्रे महेशानि लोकपालाष्टकं यजेत् || ४-७१ || इन्द्रमग्निं यमं देवि राक्षसं वरुणं तथा | वायुं कुबेरमीशानं पूर्वादिक्रमतो यजेत् || ४-७२ || ब्रह्माणं चैव विष्णुं च ऊर्ध्वाधः क्रमतो यजेत् | वांकारं बीजमुच्चार्य बटुकाय नमो लिखेत् || ४-७३ || यांकारं बीजमुच्चार्य योगिनीभ्यो नमस्तथा | क्षांकारं बीजमुच्यार्य क्षेत्रपालाय वै नमः || ४-७४ || गांकारं बीजमुच्चार्य ततो गणपतिं लिखेत् | ङेन्तं नमः पश्चिमादिदिक्षु पूज्याः क्रमेण तु || ४-७५ || चतुरस्रे तु संपूज्या विदिक्षु परमेश्वरि | वायव्यादिक्रमेणैव वक्ष्यमाणा महेश्वरि || ४-७६ || वसवो द्वादशाऽऽदित्या रुद्राश्चैव ततः प्रिये | सर्वे भूता वरारोहे क्रमेण परिपूजयेत् || ४-७७ || पूजां विधाय देवेशीमुपचारैः प्रपूजयेत् | उत्तराभिमुखो भूत्वा यदा चक्रं प्रपूजयेत् || ४-७८ || उत्तराशा तदा देवि पूर्वाशैव व्यवस्थिता | पश्चिमाशामुखो देवि यदा चक्रं प्रपूजयेत् || ४-७९ || पश्चिमाशा तदा देवि पूर्वाशैव व्यवस्थिता | दक्षिणाशामुखो देवि तदा चक्रं प्रपूजयेत् || ४-८० || दक्षिणाशा ततो देवि पूर्वाशैव न संशयः || ४-८१ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे त्रिपुरेश्वरीपूजाक्रमविधिर्नाम चतुर्थः पटलः || ४ || अथ पञ्चमः पटलः श्रीदेव्युवाच कुमारीक्रम आख्यातो मुद्रासनसमन्वितः | इदानीं श्रोतुमिच्छामि बलिदानादिकं विभो || ५-१ || ईश्वर उवाच -- धूपं विस्तारयेत्सम्यङ्मूलमन्त्रं हृदि स्मरन् | वनस्पतिरसोत्पन्नो गन्धाढ्यो धूप उत्तमः || ५-२ || आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् | अनेन मनुना देवि देव्यै धूपं निवेदयेत् || ५-३ || सुप्रकाशो महादीपः सर्वत्र तिमिरापहः | सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् || ५-४ || तथैव दीपमन्त्रोऽयं विद्यान्ते परमेश्वरि | आरात्रिकं ततः कुर्यात्सर्वकार्यार्थसिद्धये || ५-५ || सौवर्णे राजते कांस्ये स्थालके परमेश्वरि | कुङ्कुमेन लिखेत्पद्मं वसुपत्रं मनोहरम् || ५-६ || चन्द्ररूपं चरुं कृत्वा तन्मध्ये मस्तके शिवे | दीपमेकं विनिक्षिप्य वसुपत्रेऽष्ट दीपकान् || ५-७ || यवगोधूममुद्गादिरचिताञ् शर्करायुतान् | चषकान्वितमुद्राभिः शोभितान्घृतपूरितान् || ५-८ || अभिमन्त्र्य महेशानि रत्नेश्वर्या ततः परम् | श्रीबीजं च पराबीजं संलिख्य वरवणीनि || ५-९ || गसौ च मपनाः पश्चादिन्द्रस्थाः क्रमतः प्रिये | वामकर्णसमायुक्ता बिन्दुनादविभूषिताः || ५-१० || बीजपञ्चकमेतत्तु पञ्चरत्नानि सुन्दरि | पूर्वबीजे विलोमेन रत्नेशीयं नवाक्षरी || ५-११ || मूलमन्त्रेण चाभ्यर्च्य ततश्चाऽऽरात्रिकं चरेत् | स्थालकं तु समुद्धृत्य मस्तकान्तं पुनः पुनः || ५-१२ || नववारं महेशानि ततो नीराजनं चरेत् | समस्तचक्रचक्रेशीयुते देवि नवात्मिके || ५-१३ || आरातीकमिदं देवि गृहाण मम सिद्धये | नीराजनमनुर्देवि विद्यान्ते प्रकटीकृतः || ५-१४ || आरातीके महेशानि चक्रमुद्रा व्यवस्थिता | वामहस्ताङगुष्ठगर्भे कनिष्ठां दक्षिणां नयेत् || ५-१५ || कनिष्ठागर्भगे वामे दक्षाङ्गुष्ठंं विनिक्षिपेत् | अन्योन्यकरयोर्देवि चक्रमुद्रेयमीरिता || ५-१६ || आरातीकविधिं कृत्वा नैवैद्यं तु निवेदयेत् | शुद्धस्फटिकसंकाशश्चन्द्ररश्मिसमप्रभः || ५-१७ || लसत्तण्डुलजो देवि चारुमृद्वोदनः प्रिये | हिङ्गुजीरमरीचाढ्यैरार्द्रकै रुचिरः प्रिये || ५-१८ || वटकः कुङ्कुमाकारः पायसं हेमसंनिभम् | दुग्धगम्भीरसुभगं शर्करापूरपूरितम् || ५-१९ || कपिलाघृतसंयुक्तं भूर्जत्वङ्मण्डकाः प्रिये | शर्करालोलिता देवि सूपं मुद्गोद्भवं तथा || ५-२० || नानाविधानि पेयानि व्यञ्जनानि बहूनि च | इत्याद्यन्नरसोपेतं नैवेद्यं कल्पयेद्बुधः || ५-२१ || मनःकल्पितरूपं वा त्रिपुरायै निवेदयेत् | हेमापात्रगतं दिव्यं परमान्नं सुसंस्कृतम् || ५-२२ || पञ्चधा षड्र्सोपेतं गृहाण परमेश्वरि | विद्यान्ते परमेशानि नैवेद्यमनुरीरितः || ५-२३ || परिषिंच्य ततो देवि नित्यहोमं समाचरेत् | मूलमन्त्रेण देवेशि हुनेत्पञ्चाऽऽहुतिः क्रमात् || ५-२४ || प्राणापानौ तथा व्यान उदानञ्च समानकः | एतत्स्वरूपं जानीयादाहुतीनां च पञ्चकम् || ५-२५ || षडाहुतीः षडङ्गेन नित्यहोमोऽयमीरितः | नित्यहोमविधिं कृत्वा बलिदानविधिं चरेत् || ५-२६ || ईशाने च तथाऽऽग्नेये नैरृत्ये च तथा प्रिये | वायव्ये क्रमतो देवि मण्डलानां चतुष्टयम् || ५-२७ || श्रीचक्रमभितो देवि त्रिकोणं व्योम चाऽऽलिखेत् | पूर्वमन्त्रैः समभ्यर्च्य बटुकादिभिरद्रिजे || ५-२८ || एह्येहि देवि पुत्रान्ते वटुकान्तेऽथ नाथ च | कपिलान्ते जटाभार भासुरान्ते त्रिनेत्र च || ५-२९ || ज्वालामुख च सर्वान्ते विघ्नान्नाशय नाशय | सर्वोपचारसहितं बलिं गृह्ण द्विधापदम् || ५-३० || वह्निजायान्वितो मन्त्रो बटुकस्य उदाहृतः | अनेन विधिना देवि बटुकस्य बलिं प्रिये || ५-३१ || ऊर्ध्वं ब्रह्माण्डतो वा दिवि वा गगनतले भूतले निष्कले वा | पाताले वाऽनले वा सलिल-- पवनयोर्यत्र कुत्र स्थिता वा || ५-३२ || क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिकेन | प्रीता देव्यः सदा नः शुभद-- बलिविधिना पान्तु वीरेन्द्रवन्द्याः || ५-३३ || एतदन्ते महेशानि यां बीजं योगिनी ततः | भ्यः स्वाहा सर्ववर्णान्ते योगिनीपदमालिखेत् || ५-३४ || कवचं चास्त्रमालिख्य वह्निजायां पुनलीखेत् | अनेन मनुना देवि योगिनीनां बलिं हरेत् || ५-३५ || षड्दीर्घस्वरसंभिन्नं क्षकारं विलिखेत्प्रिये | स्थानक्षेत्रपदं पालधूपदीपादि चाऽऽलिखेत् || ५-३६ || सहितं बलिमालिख्य गृह्ण गृह्ण वदेत् ततो | वह्निजायान्वितो मन्त्रः क्षेत्रपालस्य सुन्दरि || ५-३७ || अनेन मनुना देवि क्षेत्रपालबलिः स्मृतः | गांगींगूंत्रयमालिख्य डेन्तं गणपतिं ततः || ५-३८ || वरान्ते वरदान्ते च सर्वान्ते जनमालिखेत् | मे वशं चाऽऽनय प्रोच्य सर्वोपपदमालिखेत् || ५-३९ || चारान्ते सहितं चोक्त्वा बलिं गृह्ण द्विधापदम् | वह्निजायान्वितो मन्त्रो गणपस्य बलिं हरेत् || ५-४० || वामाङ्गुष्ठानामिकाभ्यां बटुकस्य बलिं हरेत् | तर्जन्यनामिका चैव मध्यमोपरि योजयेत् || ५-४१ || योन्याकारेण वामेन योगिनीनां बलिर्भवेत् | अङ्गुष्ठमध्यमानामा योन्याकारेण योजयेत् || ५-४२ || वाममुष्टिं विधायाऽऽदौ तर्जनीं सरलां कुरु | अनया मुद्रया देवि क्षेत्रपालबलिर्भवेत् || ५-४३ || तथा मुष्टेस्तु मध्यस्थामङगुलीं दण्डवत्कुरु | गजतुण्डा महामुद्रा गणपस्य बलिर्भवेत् || ५-४४ || अथवा वामभागे तु मण्डलं चैकमालिखेत् | तत्रैव बलिदामं तु कुर्यात्सर्वार्थसिद्धये || ५-४५ || आत्मविद्यां शिवैस्तत्त्वैर्गुरुं संतर्प्य देवताम् | संतोष्याऽऽनन्दसहितः सर्वकर्माणि साधयेत् || ५-४६ || अनेन विधिना देवि पूजयेत्परमेश्वरीम् | पञ्चसिंहासनोन्नद्धां परमानन्दरूपिणीम् || ५-४७ || पञ्चसिंहासनोन्नद्धां चित्कलां चिन्तयेत्सदा | वर्णलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत्प्रिये || ५-४८ || तर्पणं तु तथा कुर्यात्सर्वसौभाग्यवान्भवेत् || ५-४९ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे त्रिपुरेश्वरीयजनविधिर्नाम पञ्चमः पटलः || ५ || अथ षष्ठः पटलः श्रीदेव्युवाच -- पञ्चसिंहासनगता कथं सा त्रिपुरा परा | कथयस्व महेशान कथं सिंहासनं भवेत् || ६-१ || ईश्वर उवाच -- यथा श्रीत्रिपुरा बाला तथा त्रिपुरभैरवी | संंपत्प्रदा नाम तस्याः शृणु निर्मलमानसे || ६-२ || शिवचन्द्रौ वह्निसंस्थौ वाग्भवं तदनन्तरम् | कामराजं तथा देवि शिवचन्द्रान्वितं ततः || ६-३ || पृथ्वीबीजान्तवह्न्याढ्यं तार्तीयं शृणु वल्लभे | शक्तिबीजे महेशानि शिवं वह्निं च योजयेत् || ६-४ || व्योमादिवह्निसंस्थं तु विशेषं शृणु वल्लभे | कुमार्याः परमेशानि हित्वा सर्गं तु बैन्दवम् || ६-५ || त्रिपुरा भैरवी देवी महासंपत्प्रदा प्रिये | अनया सदृशी विद्या त्रिषु लोकेषु दुर्लभा || ६-६ || ब्रह्मानन्दमयी साक्षात्सर्वसाम्राज्यदायिनी | ध्यानमस्याः प्रवक्ष्यामि महासंपत्प्रदं प्रिये || ६-७ || आताम्रार्कसहस्राभां स्फुरच्चन्द्रजटाशिखाम् | किरीटरत्नविलसच्चित्रचित्रितमौक्तिकाम् || ६-८ || स्रवद्रुधिरपङ्काढ्यमुण्डमालावलीयुताम् | नयनत्रयशोभाढ्यां पूर्णेन्दुवदनान्विताम् || ६-९ || मुक्ताहारलताराजत् पीनोन्नतघनस्तनीम् | त्रिवलीखचितालग्नां नानाभरणभूषिताम् || ६-१० || रक्ताम्बरपरीधानां यौवनोन्मत्तरूपिणीम् | पुस्तकं चाभयं वामे दक्षिणे चाक्षमालिकाम् || ६-११ || वरदानरतां नित्यं महासंपत्प्रदां स्मरेत् | न्यासपूजादिकं सर्वं कुमार्या इव सुव्रते || ६-१२ || त्रिपुरा भैरवी देवी पञ्चसिंहासनान्विता | प्रथमं शृणु देवेशि ब्रह्मा सृष्टिकरो यदा || ६-१३ || निश्चेतनोऽपि देवेशि तदा त्रिपुरदेवताम् | समाराध्याभवत्कर्ता सृष्टेस्तु परमेश्वरि || ६-१४ || ब्रह्माणं तं समाराध्य तपसा महता प्रिये | शक्रोऽभूद्देवराजोऽयं पूर्वस्यां दिशि पालकः || ६-१५ || तदा प्रसन्ना त्रिपुरा पूर्वसिंहासनस्थिता | शृणु देवि प्रवक्ष्यामि पूर्वसिंहासनस्थिताम् || ६-१६ || वाग्भवं बीजमुच्चार्य जीवप्राणसमन्विताम् | सकला भुवनेशानि द्वितीयं बीजमुद्धृतम् || ६-१७ || जीवं प्राणं वह्निसंस्थं शक्रस्वरविभूषितम् | विसर्गाढ्यं महेशानि विद्या त्रैलोक्यमातृका || ६-१८ || त्रैलोक्यमोहनी देवी परब्रह्मचिदात्मिका | चैतन्यभैरवी नाम चेतना निष्कले शिवे || ६-१९ || उद्यद्भास्वत्सहस्राभां नानालंकारभूषिताम् | मुकुटोज्ज्वलसच्चन्द्रलेखां रक्ताम्बरान्विताम् || ६-२० || पाशाङ्कुशधरां नित्यां वामहस्तकपालिनीम् | वरदाभयशोभाढ्यां पीनोन्नतघनस्तनीम् || ६-२१ || एवं ध्यात्वा भजेद्देवीं पूर्वसिंहासनस्थिताम् | द्विरावृत्त्या षडङ्गानि न्यसेत्सर्वाङ्गलक्षणाम् || ६-२२ || यन्त्रमस्याः प्रवक्ष्यामि देवि त्रैलोक्यमोहनम् | त्रिकोणं चैव षट्कोणं वसुपत्रं वरानने || ६-२३ || चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् | तत्राऽऽवाह्य महादेवीं पूर्ववत्परमेश्वरीम् || ६-२४ || मुद्राः प्रदर्शयेत्पश्चात्परिवारार्चनं यजेत् | प्रथमावरणं देवि षडङ्गानां तु पूर्ववत् || ६-२५ || रत्यादिकास्ततः पूज्याः पूर्ववत्परमेश्वरि | अग्रे वसन्तं वामे तु कामदेवं वरानने || ६-२६ || चापं दक्षिणकोणे च बाणान् पूर्ववदद्रिजे | डाकिनीं राकिनीं चैव लाकिनीं काकिनीं तथा || ६-२७ || शाकिनीं हाकिनीं देवि पश्चिमादिक्रमाद्यजेत् | अनङ्गकुसुमा मुख्या वसुपत्रेषु पूर्ववत् || ६-२८ || परभृत्सारसौ चैव शुकमेघाह्वयौ पुनः | अपाङ्गम्भ्रूविलासौ च हावभावौ प्रपूजयेत् || ६-२९ || इन्द्राद्या लोकपालास्तु क्रमेण परिपूजयेत् | पूर्वसिंहासने देवि कथिता वीरवन्दिते || ६-३० || कामेश्वरी च रुद्राणां पूर्वसिंहासनस्थिता | एतस्या एव विद्याया बीजद्वयमुदाहृतम् || ६-३१ || तदन्ते परमेशानि नित्यक्लिन्ने मदद्रवे | एतस्या एव तार्तीयं रुद्राणां परमेश्वरि || ६-३२ || पूजाध्यानादिकं देवि चैतन्यायाश्च पूर्ववत् | त्रिकोणे तु विशेषोऽस्ति कथयामि तवानघे || ६-३३ || अग्रकोणक्रमेणैव नित्यां क्लिन्नां मदद्रवाम् | षडङ्गावरणात्पश्चात्पूजयेत्सर्वसिद्धये || ६-३४ || अनेनैव प्रकारेण पूर्वसिंहासनस्थिताम् | त्रिपुरां भैरवीं देवीं पूजयेत्परमेश्वरीम् || ६-३५ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे पूर्वसिंहासनकथनं नाम षष्ठः पटलः || ६ || अथ सप्तमः पटलः ईश्वर उवाच -- एतामाराध्य देवेशि महात्रिपुरभैरवीम् | पालकोऽभून्निश्चलोऽपि प्रेतत्वात्सुरवन्दिते || ७-१ || योगनिद्राछलाद्देवि प्रेतत्वं तस्य निश्चलम् | तद्ध्यानेन स्वयं शक्तिरभूत्कुवलयेक्षणे || ७-२ || तामाराध्य महाविष्णुरघोरेण मुखेन च | त्रिपुरो निजीतो देवि त्रैलोक्यभयकारकः || ७-३ || तदा सिंहासने प्रौढा दक्षिणे परमेश्वरि | मन्त्रं तस्याः प्रवक्ष्यामि रिपुभारनिकृन्तनम् || ७-४ || शिवचन्द्रौ मादनान्तं वान्तं वह्निसमन्वितम् | शक्तिभिन्नं बिन्दुनादकलाढ्यं वाग्भवं प्रिये || ७-५ || संपत्प्रदाया भैरव्याः कामराजं तदेव हि | सदाशिवस्य बीजं तु सिंहासनगतस्य च || ७-६ || एषा विद्या महेशानि वणीतुं केन शक्यते | ध्यानमस्याः प्रवक्ष्यामि रिपुभारनिकृन्तनम् || ७-७ || उद्यत्सूर्यसहस्राभां चन्द्रचूडां त्रिलोचनाम् | नानालंकारसुभगां सर्ववैरिनिकृन्तनीम् || ७-८ || स्रवद्रुधिरमुण्डालिकलितां रक्तवाससम् | त्रिशूलं डमरुं चैव खड्गं खेटकमेव च || ७-९ || पिनाकं च शरान्देवि पाशाङ्कुशयुगं क्रमात् | पुस्तकं चाक्षमालां च शिवसिंहासने स्थिताम् || ७-१० || एवं ध्यात्वा महेशानि पूजामण्डलमारभेत् | त्रिकोणं चैव वृत्तं च वृत्ताष्टदलनीरजम् || ७-११ || वृत्तं भूसदनोपेतमेषा त्रिपुरयन्त्रिका | वामां ज्येष्ठां च रौद्रीं च काली च वरलोचने || ७-१२ || कलाढ्यां च बलाढ्यां च यजेद्विकरिणीं पिरये | बलप्रमथिनीं चैव सर्वभूतान्तमावदेत् || ७-१३ || दमनीं च तथाऽचीत्वा मनोन्मनीपदान्विताम् | एवं पीठं समभ्यर्च्य ततः सिंहासनं यजेत् || ७-१४ || अघोरविद्यारूपं तु महापापनिकृन्तनम् | अघोरे वाग्भवं देवि घोरे तु भुवनेश्वरीम् || ७-१५ || घोरघोरतरेभ्यश्च विलिख्य सुरवन्दिते | सर्वेभ्यः सर्वशर्वेभ्यो देव्या बीजयुगं लिखेत् || ७-१६ || नमस्तेऽस्तुपदं कुर्याद्रुद्ररूपे ह्सौ लिखेत् | त्रिंशद्भिश्च त्रिभिर्वर्णैवीद्येयं कथिता प्रिये || ७-१७ || अनेन मनुना देवि यजेत्सिंहासनं बुधः | आवाहनादिकं कुर्यात् क्रमार्चनमतः परम् || ७-१८ || आदावङ्गावृत्तिर्देवि द्विरावृत्त्याऽङ्गपूजनम् | रत्यादित्रयमभ्यर्च्य तथाऽनङ्गादिका यजेत् || ७-१९ || ब्राह्म्यादियुग्मं संपूज्य वसुपत्रेषु मातृकाः | भूबिम्बे लोकपालांश्च सायुधान्परमेश्वरी || ७-२० || द्वितीयसिंहासनगां पूजयेद्रुद्रभैरवीम् || ७-२१ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे द्वितीयसिंहासने रुद्रभैरवीयजनं नाम सप्तमः पटलः || ७ || अथाष्टमः पटलः ईश्वर उवाच -- पश्चिमे भैरवी देवी षट्कूटा परमेश्वरी | यत्स्फूर्त्या स शिवो देवि सृष्टिसंहारणक्षमः || ८-१ || डाकिनीराकिनीबीजे लाकिनीकाकिनीयुगात् | बीजे आहृत्य देवेशि योजयेच्चन्द्रसूर्ययोः || ८-२ || आद्यमैकारसंयुक्तमन्यदीकारमण्डितम् | शक्रस्वरसमायुक्तं तार्तीयं बीजमालिखेत् || ८-३ || बिन्दुनादकलाक्रान्तं तृतीयं शैलसम्भवे | एषा विद्या महेशानि रुद्रसिंहासेन स्थिता || ८-४ || ध्यानमस्याः प्रवक्ष्यामि सर्वभूतनिकृन्तनम् | बालसूर्यप्रभां देवीं जपाकुसुमसन्निभाम् || ८-५ || मुण्डमालावलीरम्यां बालसूर्यसमांशुकाम् | सुवर्णकलशाकारपीनोन्नतपयोधराम् || ८-६ || पाशाङ्कुशौ पुस्तकं च दधानां जपमालिकाम् | एवं ध्यात्वा यजेद्देवीं मानसैरुपचारकैः || ८-७ || द्विरावृत्त्यां षडङ्गानि विधाय परमेश्वरि | यन्त्रमस्या वरारोहे त्रिकोणं तत्पुटं लिखेत् || ८-८ || बहिरष्टदलं पद्मं रविपत्रं समालिखेत् | चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् || ८-९ || षडङ्गावरणं देवि पूर्ववत्पूजयेत्प्रिये | रत्यादित्रितयं देवि त्रिकोणे परिपूजयेत् || ८-१० || डाकिन्याद्यास्तु षट्कोणे वसुपत्रे ततः परम् | ब्राह्म्यादियुगलं पश्चाद्रविपत्रे ततः परम् || ८-११ || बालायाः पीठशक्तीस्तु वामाद्याः पूजयेत्प्रिये | चतुरस्रे लोकपालान् सायुधान् परमेश्वरि || ८-१२ || एवं पूजाविधिं कुर्याद्भोगमोक्षफलाप्तये | अनेनैव विधानेन नित्याख्यां भैरवीं यजेत् || ८-१३ || सर्वसौभाग्यदां नित्यां सर्वसाम्राज्यदायिनीम् | एतस्या एव विद्यायाः षड्वर्णान् क्रमतः स्थितान् || ८-१४ || विपरीतान् वद प्रौढे विद्येयं भोगमोक्षदा | नित्याख्या भैरवी देवि रिपुभारनिकृन्तनी || ८-१५ || न्यासपूजादिकं सर्वमस्याः पूर्ववदाचरेत् || ८-१६ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे पश्चिमसिंहासनकथनं नामाष्टमः पटलः || ८ || अथ नवमः पटलः ईश्वर उवाच -- शृणु देवि महाविद्यां चिन्तितेष्टफलप्रदाम् | यस्या विज्ञानमात्रेण भुवनाधिपतिर्भवेत् || ९-१ || हंसाद्यं वाग्भवं चाऽऽद्यं हसकान्ते सुरेश्वरि | भूबीजं भुवनेशानी द्वितीयं बीजमुद्धृतम् || ९-२ || शिवचन्द्रौ महेशानि शक्रस्वरविभूषितम् | बिन्दुनादकलाक्रान्तं तृतीयं बीजमुद्धृतम् || ९-३ || एषा विद्या महेशानि भुवनेश्वरभैरवी | मध्यबीजेन देवेशि षड्दीर्घस्वरभेदिना || ९-४ || षडङ्गानि प्रविन्यस्य ध्यायेद्देवीं चतुर्भुजाम् | जपाकुसुमसंकाशां दाडिमीकुसुमप्रभाम् || ९-५ || चन्द्ररेखाजटाजूटां त्रिनेत्रां रक्तवाससम् | नानालंकारसुभगां पीनोन्नतघनस्तनीम् || ९-६ || पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां स्मरेत् | एवं ध्यात्वाऽर्चयेद्देवीं यन्त्रोद्धारं च पूर्ववत् || ९-७ || चैतन्यभैरवी देवी यन्त्रवत्परमेश्वरि | सिंहासनं समभ्यर्च्य परिवारार्चनं यजेत् || ९-८ || षडङ्गावरणं देवि पूर्ववत्परिपूजयेत् | रत्याद्याः पूजयेद्देवि त्रिकोणे तदनन्तरम् || ९-९ || ब्रह्मा विष्णुश्च रुद्रश्च पूज्यास्तत्रैव सुन्दरि | डाकिन्याद्यास्तथा पूज्या वसुपत्रे ततः परम् || ९-१० || अनङ्गकुसुमाद्याश्च ब्राह्म्यादियुगलं ततः | भूबिम्बे लोकपालांश्च बटुकाद्यांश्च पूजयेत् || ९-११ || योगिनीनां चतुःषष्टिं पूजयेत्सुरवन्दिते | सदाशिवसखा यस्मात्कुबेरः परमेश्वरि || ९-१२ || येनेयं प्राथीता देवी राजराजस्ततो भवेत् | तेनैव प्राथीता विद्या गौरी गौरफलप्रदा || ९-१३ || अन्नपूर्णेश्वरी नाम सर्वसंपत्प्रदा सताम् | अनया विद्यया देवि कुबेरो धननायकः || ९-१४ || लोकपालेषु सर्वेषु धनरत्नादिपूर्णता | तथाऽन्नपूर्णता तस्मिन्सुस्थिराऽस्याः प्रसादतः || ९-१५ || अन्नपूर्णा महादेवि साक्षात्कामदुघाऽद्रिजे | मन्त्रमस्याः प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् || ९-१६ || तारं च भुवनेशानीं श्रीबीजं कामराजकम् | हृदन्ते भगवत्यर्णा माहेश्वरि पदं लिखेत् || ९-१७ || अन्नपूर्णेऽग्निजाया च विद्येयं विंशदक्षरी | अनया सदृशी विद्या सिद्धिदा नास्ति भूतले || ९-१८ || भुवनेशी महेशानि षड्दीर्घस्वरभिन्नया | षडङ्गानि महेशानि च्छन्दोन्यासानन्तरम् || ९-१९ || ऋषिर्ब्रह्माऽस्य मन्त्रस्य पङ्तिश्छन्दो वरानने | अन्नपूर्णेश्वरी देवि देवता परिकीतीता || ९-२० || बीजं च भुवनेशानी श्रीबीजं शक्तिरुच्यते | कीलकं कामराजं स्यात्षडङ्गानन्तरं ततः || ९-२१ || एकमेकं पुनश्चैकं पुनरेकं द्वयं चतुः | चतुश्चतुस्तथा द्वाभ्यां पदान्येतानि पार्वति || ९-२२ || पदानि नव देवेशि नव द्वारेषु विन्यसेत् | मूर्धादिगुदपर्यन्तं पुनस्तेषु वरानने || ९-२३ || गुदादिब्रह्मरन्ध्रान्तं पदानां नवकं न्यसेत् | ब्रह्मरन्ध्रास्यहृदयमूलाधारेष्वनुक्रमात् || ९-२४ || चतुर्बीजानि विन्यस्य शेषेष्वन्यान् प्रविन्यसेत् | गोलकं च ततो देवि विन्यस्य विधिवत्प्रिये || ९-२५ || प्राणायामं प्रकुर्वीत पूजामण्डलमालिखेत् | त्रिकोणं च चतुःपत्रं वसुपत्रं ततः परम् || ९-२६ || कलापत्रं च भूबिम्बं चतुर्द्वारं समालिखेत् | सिंहासनस्य परितः पीठदेवीः समर्चयेत् || ९-२७ || सिंहासने दक्षिणे तु कथिताः पीठनायिकाः | ता एव पूजयेत्पीठे वामाद्याः परमेश्वरि || ९-२८ || जया च विजया चैव अजिता चापराजिता | नित्या विलासिनी दोग्ध्री अघोरा मङ्गलात्मिका || ९-२९ || नवमी परमेशानी सिंहासनसमीपगाः | समावाह्य यजेद्देवीं ध्यानं कुर्वन्समाहितः || ९-३० || तप्तकाञ्चनवर्णाभां बालेन्दुकृतशेखराम् | नवरत्नप्रभादीप्तमुकुटां कुङ्कुमारुणाम् || ९-३१ || चित्रवस्त्रपरीधानां मदिराक्षीं त्रिलोचनाम् | सुवर्णकलशाकारपीनोन्नतघनस्तनीम् || ९-३२ || गोक्षीरधामधवलं पञ्चवक्त्रं त्रिलोचनम् | प्रसन्नवदनं शान्तं नीलकण्ठविराजितम् || ९-३३ || कपदीनं स्फुरत्सर्पभूषणं कुन्दसंनिभम् | नृत्यतन्तमतिसंहृष्टं दृष्ट्वाऽऽनन्दमयीं पराम् || ९-३४ || सानन्दमुद्यल्लोलाक्षीं मेखलाढ्यनितम्बिनीम् | अन्नदानरतां नित्यां भूमिश्रीभ्यामलंकृताम् || ९-३५ || एवं ध्यात्वा यजेद्देवि षडङ्गावरणं यजेत् | अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजनम् || ९-३६ || अथ वक्ष्ये महेशानि त्रिकोणस्य च पूजनम् | तारं प्रासादबीजं च हृच्छिवाय ततः परम् || ९-३७ || सप्ताक्षरी महाविद्या त्वनया देवि पूजयेत् | नृत्यन्तमीश्वरं देवि त्रिकोणाग्रे सुरेश्वरि || ९-३८ || ओं नमः पदमाभाष्य ततो भगवते पदम् | ततो वराहरूपाय भूर्भुवःस्वःपतिं तथा || ९-३९ || ङेन्तं च भूपतिं च त्वं मे देहीति च दापय | वह्निजायान्वितो मन्त्रो वराहस्य वरानने || ९-४० || अनया विद्यया देवि वामकोणे प्रपूजयेत् | ओं नमः पदमाभाष्य ङेन्तं नारायणं लिखेत् || ९-४१ || नारायणं दक्षकोणे क्रमेण परिपूजयेत् | वामदक्षिणयोः पूज्ये भूश्रियौ परमेश्वरि || ९-४२ || एकेन मनुना देवि कथयामि तवानघे | ओं नमो हि पदं चान्नं मे देह्यन्नाधिपान्तङे || ९-४३ || तथेयमान्नं संलिख्य प्रदापय ततः परम् | वह्निजायान्वितो मन्त्रः संपुटीकृत्य योजयेत् || ९-४४ || ग्लौमात्मकेन रमया वामदक्षिणयोः क्रमात् | ततश्चर्तुर्दले पूज्या पश्चिमादिक्रमेण तु || ९-४५ || तारेणं परविद्यां च भुवनेशीं तदात्मना | कमलां रमया भद्रे कामेन सुभगां यजेत् || ९-४६ || वसुपत्रे महेशानि ब्राह्म्याद्याः पश्चिमादितः | षोडशारे परेशानि चन्द्रमण्डलरूपिणीः || ९-४७ || कलाः षोडश संपूज्याः पश्चिमादिक्रमेण हि | अमृता मानसी पुष्टिस्तुष्टिः प्रीती रतिस्तथा || ९-४८ || श्रीश्च ह्रीश्च स्वधा रात्रिर्ज्योत्स्ना हैमवती तथा | छाया च पूणीमा नित्या अमावास्या च षोडशी || ९-४९ || शेषवर्णैः प्रपूज्यास्तु अन्नपूर्णान्तशब्दकाः | चतुरस्रे लोकपालान्क्रमेण परिपूजयेत् || ९-५० || इत्युत्तरपतेः सम्यक्पूजितान्नसुवर्णदा | स्वशक्त्या या करोत्येव राजराजं धनाधिपम् || ९-५१ || सिद्धिप्रदा सिद्धिविद्या ममाप्यन्नप्रदा प्रिये | भुवनेश्वरभैरव्या भेदान्तरमथोच्यते || ९-५२ || सहाद्या सैव देवेशि तदा स सकलेश्वरी | ध्यानपूजादिकं सर्वमेतस्या एव पार्वति || ९-५३ || उत्तरस्यां वरारोहे सिंहासनमिदं दिशि | संपत्प्रदा भैरवी च विद्धि कौलेशभैरवी || ९-५४ || हसराद्या भैरवी सा त्रिषु बीजेषु पार्वति | इयं तु सहराद्या स्यात्पूजाध्यानादिकं तथा || ९-५५ || एतस्या एव विद्याया आद्यन्ते रेफवजीते | तदेयं परमेशानि नाम्ना सकलभैरवी || ९-५६ || संपत्प्रदा भैरवी च ध्यानपूजादिकं प्रिये | पञ्चसिंहासनमयी महात्रिपुरभैरवी || ९-५७ || चतुराम्नायविद्याभिर्मान्यं सिंहासनं प्रिये | हस्रीमात्मकमुच्चार्य सह्रीमात्मकमद्रिजे || ९-५८ || शक्तिः सकलह्रीमन्ते चतुर्बीजमुदाहृतम् | श्रीबीजं कुरु तार्तीयं नित्या वेदाक्षरी भवेत् || ९-५९ || उन्मनी नाम विद्येयं भोगमोक्षफलप्रदा | पूर्वाम्नाये महाविद्या दक्षिणाम्नाय उच्यते || ९-६० || वाग्भवं बीजमुच्चार्य क्लिन्ने कामस्य बीजकम् | मदद्रवे कुले हस्रौ विद्येयं भोगिनी प्रिये || ९-६१ || दक्षिणाम्नायविद्येयं पश्चिमाम्नाय उच्यते | वाग्भवं च परा श्रीश्च हसखफ्रोमिति प्रिये || ९-६२ || हस्रौभस्तास्ततो देवि पञ्चैते प्रणवाः स्मृताः | भगवत्यम्ब आलिख्य पृथक्पदमथेश्वरि || ९-६३ || चतुर्थं प्रणवं चैव हसकफ्रोमिति प्रिये | कुब्जिके चैव हस्रां च हस्रीं हस्रौ ततः परम् || ९-६४ || अघोरे चैव घोरे च त्वघोरमुखि चाऽऽलिखेत् | हस्रां हस्रीं किणिद्वन्द्व विच्चे द्वात्रिंशदक्षरी || ९-६५ || पूर्वोक्तैः प्रणवैर्देवि संपुटीकृत्य संस्मरेत् | कुब्जिकेयं महाविद्या पश्चिमाम्नायदेवता || ९-६६ || खफ्रेमात्मकमुच्चार्य महाचण्डपदं लिखेत् | योगेश्वरीपदं पश्चाद्विद्येयं कालिका प्रिये || ९-६७ || उत्तराम्नायविद्येयं नाम्ना कालीति विश्रुता | एताभिः परमेशानि पूज्यं सिंहासनं सदा || ९-६८ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे सिंहासनविद्याविधानं नाम नवमः पटलः || ९ || अथ दशमः पटलः श्री देव्युवाच -- त्रिपुरा द्विविधा देव भवता प्रकटी कृता | त्रिविधेति यदुक्तं तत्प्रकटी कुरु शंकर || १०-१ || ईश्वर उवाच -- परं ब्रह्मस्वरूपं यन्नादबिन्दुत्रयात्मकम् | शिवशक्तिमयं तत्तु कथयामि तवानघे || १०-२ || व्याप्य तिष्ठति विश्वं सा शिवं च परमेश्वरि | पूर्वं गुणैस्तु कथिता शिवशक्त्यात्मकं शणु || १०-३ || हकारादिसकारान्ता मातृका शक्तिरव्यया | हकारः परमेशानि केवलं शिव उच्यते || १०-४ || आद्यन्ताक्षरभावेन तदाऽहं सकलात्मकः | यदुच्यते मातृकार्णैस्तत्सर्वमहमीश्वरि || १०-५ || हकारः परमेशानि शून्यरूपी सदाऽव्ययः | सकारः शक्तिरूपत्वात्परावाची विसर्गवान् || १०-६ || उत्पत्तेः कारणं यस्माच्छक्तिरित्यभिधीयते | आत्मानं दर्शयेद्योगः सोऽहंशब्देन सुन्दरि || १०-७ || बिन्दुत्रयसमायोगान् महात्रिपुरसुन्दरी | नादरूपेण सा देवी हकारार्धस्वरूपिणी || १०-८ || हकारः परमेशानि शिवरूपी यतस्तदा | तस्यार्धांङ्गं महाशक्तिर्हकारार्धस्वरूपिणी || १०-९ || अत एव महाविद्या महात्रिपुरसन्दरी | नित्येति कथ्यते देवि चित्कला परमेश्वरी || १०-१० || श्रीगुरोः कृपया भद्रे संप्रदायकुलान्वितः | प्रातरुत्थाय देवेशि गुरुं नत्वा स्वनामभिः || १०-११ || संध्यास्नानादिकं देवि विधाय मनुवित्तमः | सर्वशृङ्गारवेषाढ्यः कर्पूरघुसृणादिभिः || १०-१२ || महार्हैश्चन्दनाद्यैश्च दीप्ताङ्गः कुङ्कुमारुणः | नवरत्नविभूषाढ्यो रक्ताम्बरविराजितः || १०-१३ || ताम्बूलरागवदनो मदिरानन्दमानसः | यागमन्दिरमागत्य लाक्षाचित्रविचित्रितम् || १०-१४ || अनेकधूपबहलं पुष्पप्रकरपूरितम् | गोमयेन च संलिप्तं चारुपुष्पवितानितम् || १०-१५ || मनोहरे मृदुश्लक्ष्ण आसने उपविश्य तु | मन्त्रोद्धारं प्रकुर्वीत सर्वकार्यार्थसिद्धये || १०-१६ || आद्यं वाग्भवमुच्चार्य कामराजं द्वितीयकम् | कुमार्यास्तु तृतीयं तु त्रिपुरा परमेश्वरी || १०-१७ || करशुद्धिकरी विद्या प्रथमा परमेश्वरि | कुमारी तु द्वितीया स्यात्त्रिपुरेशी महेश्वरि || १०-१८ || त्रिपुरेश्यादिमं त्यक्त्वा भुवनेशीं परिक्षिपेत् | अनयाऽऽत्मासनं दद्यात्त्रिपुरेश्या षडङ्गकम् || १०-१९ || त्रिपुरेशी महेशानि त्रिबीजा हस्थिता यदा | चक्रासनगतां देवि विद्धि त्रिपुरवासिनीम् || १०-२० || त्रिपुरेशी महेशानि वाग्भवे कामराजके | शिवचन्द्रसमायुक्ता तार्तीये शिवरूपिणी || १०-२१ || सर्वमन्त्रासनगता त्रिपुरा श्रीरियं प्रिये | आत्मासनगतायास्तु हित्वा तार्तीयमद्रिजे || १०-२२ || ब्लेमात्मकमारोप्य साध्यसिद्धासनस्थिता | (त्रिपुरामालिनी प्रोक्ता सिद्धाख्यां त्रिपुरां शृणु || १०-२३ || भुवनेशी श्रिया युक्ता कुमारी च तथोत्तमा | मूतीविद्या समुद्दिष्टा माया लक्ष्मीः परास्थिता || १०-२४ || अनया विद्यया देवि यजेत्त्रिपुरसिद्धिकाम्|) | मायालक्ष्म्योस्तु बीजे द्वे शक्तिबीजं तृतीयकम् || १०-२५ || त्रिपुराद्या त्र्यम्बिकेयमष्टमी परिकीतीता | संपत्प्रदा भैरवी या तस्यास्तार्तीयबीजके || १०-२६ || बिन्दुं हित्वा तत्र सर्गं निक्षिपेत्सुरसुन्दरि | अनयाऽऽवाहनं देवि कारयेत्सुरवन्दिते || १०-२७ || मूतीविद्या समुद्दिष्टा माया लक्ष्मीः परा स्थिता | अनया विद्यया देवि यजेत्त्रिपुरसिद्धिदा {म्} || १०-२८ || सिद्धाम्बावाहिनीमूतीवीद्या च सुरसुन्दरि | मूलविद्यां शृणु प्रौढे सकलागमसेविताम् || १०-२९ || सर्वदर्शनवन्द्यां च चित्कलामव्ययां प्रिये | भूमिश्चन्द्रः शिवो माया शक्तिः कृष्णाध्वमादनौ || १०-३० || अर्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते | महात्रिपुरसुन्दर्या मन्त्रा मेरुसमुद्भवाः || १०-३१ || लकारात्पृथिवी देवि सशैलवनकानना | पञ्चाशत्पीठसंपन्ना सर्वतीर्थमयी परा || १०-३२ || सर्वगङ्गामयी सर्वक्षेत्रस्थानमयी शिवे | सकाराच्चन्द्रतारादिग्रहराशिस्वरूपिणी || १०-३३ || हकाराच्छिवसंवादव्योममण्डलंसस्थिता | ईकाराद्विश्वकर्त्रीयं माया तुर्यात्मिका प्रिये || १०-३४ || एकाराद्वैष्णवी शक्तिवीश्वपालनतत्परा | रकारात्तेजसा युक्ता परं ज्योतिः स्वरूपिणी || १०-३५ || ककारात्कामदा कामरूपिणी स्फुरदव्यया | अर्धचन्द्रेण देवेशि विश्वयोनिरितीरिता || १०-३६ || बिन्दुना शिवरूपेण शून्यरूपेण साक्षिणी | अनया सह सर्वत्र व्याप्तिनिश्चलताऽऽत्मना || १०-३७ || एवं परब्रह्मरूपा मेरुणाऽनेन सुव्रते | एभिर्नवात्मकैर्वर्णैर्जायते त्रिपुरामनुः || १०-३८ || अन्यथा नैव निष्पत्तिर्नास्ति श्रीत्रिपुरामनौ | श्रीचक्रमपि देवेशि मेरुरूपं न संशयः || १०-३९ || लकारः पृथिवीबीजं तेन भूबिम्बमुच्यते | सकारश्चन्द्रमा भद्रे कलाषोडशकात्मकः || १०-४० || तस्मात्षोडशपत्रं तु हकारः शिव उच्यते | अष्टमूतीः सदा भद्रे तस्माद्वसुदलं भवेत् || १०-४१ || ईकारस्तु महामाया भुवनानि चतुर्दश | पालयन्तो परा तस्माच्छक्रकोणं भवेत्प्रिये || १०-४२ || शक्तिरेकादशस्थाने स्थित्वा सूतै जगत्त्रयम् | विश्वयोनिरिति ख्याता सा विष्णुर्दशरूपकम् || १०-४३ || रकारात्परमेशानि चक्रं व्याप्य विजृम्भते | दशकोणकरी यस्माद्रकारो ज्योतिरव्ययः || १०-४४ || कलादशान्वितो वह्निर्दशकोणप्रकारकः | ककारान्मदनो देवि शिवश्चाष्टस्वरूपकः || १०-४५ || योनिवश्यं तदा चक्रे वसुयोन्यङ्कितं भवेत् | अर्धमात्रा गुणान्सूते नादरूपा यतस्ततः || १०-४६ || त्रिकोणरूपा योनिस्तु बिन्दुना बैन्दवं भवेत् | कामेश्वरस्वरूपं तु विश्वाकारस्वरूपकम् || १०-४७ || श्रीचक्रं तु वरारोहे श्रीविद्यार्णवसंभवम् | तत्र प्राङ्मुख आसीनश्चक्रराजं समालिखेत् || १०-४८ || भूप्रदेशे समे वर्ये सिन्दूररजसाऽथ वा | कुङ्कुमस्य रजोभिस्तु भूमौ चक्रं समालिखेत् || १०-४९ || ऋजुरेखं नेत्ररम्यं सन्धिभेदसमं ऋजु | अथ वा हेमरौप्याभ्यां ताम्रेण बहुधातुभिः || १०-५० || पट्टं विरच्य श्रीखण्डरक्तचन्दनसंभवे | पट्टे संस्थाप्य विलिखेल्लेखन्या हेमया प्रिये || १०-५१ || रोचनाकुङ्कुमाभ्यां तु कस्तूरीचन्दनेन्दुभिः | ईशानादग्निपर्यन्तमृजुरेखां समालिखेत् || १०-५२ || ईशादग्नेस्तदग्राभ्यां रेखे आकृष्य देशिकः | एकीकृत्य च वारुण्यां शक्तिरेखा परा प्रिये || १०-५३ || त्रिकोणाकाररूपेयं तस्या उपरि संलिखेत् | त्रिकोणाकाररूपं तु शक्तिद्वयमुदाहृतम् || १०-५४ || पूर्वशक्त्यग्रभागे तु मानयष्टिवदालिखेत् | रेखा तु परमेशानि वायुराक्षसकोणगाम् || १०-५५ || सन्धिभेदक्रमेणैव तयोः शक्त्योस्ततः परम् | रेखे आकृष्य कोणाभ्यां तदग्रात्पूर्वगे कुरु || १०-५६ || वह्निमण्डलमेतत्तु पूर्वाग्रं वीरवन्दिते | चक्रत्रयभभूत्तत्र ततः शृणु वरानने || १०-५७ || पूर्वशक्तीशवह्निभ्यां कोणाभ्यां सुरवन्दिते | पूर्वरेखां तु विस्तार्य तथा पश्चिमवह्नितः || १०-५८ || वायुराक्षसकोणाभ्यां रेखां पश्चिमगां तथा | विस्तार्य योजयेद्देवि संधिभेदक्रमेण तु || १०-५९ || योन्यग्रगां पूर्वदेशे दक्षिणोत्तरतः क्रमात् | तथा रेखे वह्निसंस्थे पश्चिमस्यां दिशि क्रमात् || १०-६० || कोणाग्राभ्यां योजयित्वा दशकोणं तथा भवेत् | तथैव देवदेवेशि द्वितीयं दशकोणकम् || १०-६१ || ईशानवह्निगे रेखे पूर्वयोन्यग्रयोः क्रमात् | विस्तार्य योजयेत्पश्चात्पश्चिमायां दिशि क्रमात् || १०-६२ || वायुराक्षसकोणाग्ने रेखे विस्तार्य सुन्दरि | पश्चिमाग्रे तथा देवि योजयेदिन्द्रदिग्गते || १०-६३ || एकत्र पूर्वकोणाग्रचुम्बिनी तु मनोहरा | योजयेद्देवदेवेशि यथा पङ्क्त्यस्रकं भवेत् || १०-६४ || दक्षकोणस्य देवेशि त्यक्त्वा कोणचतुष्टयम् | दशकोणान्तरे देवि मध्ये रेखे प्रकाशयेत् || १०-६५ || द्वे दक्षिणे विभागे तु तथा चोत्तरभागके | षट्कोणस्य ततो देवि सन्धिभेदक्रमेण तु || १०-६६ || योनिं वह्निं च संयोज्य शकारं जायते सदा | कक्षामध्यगता रेखा ऋजुरूपास्तु योजयेत् || १०-६७ || ऋज्वाकृति यथा देवि जायतेऽतिमनोहरम् | संमुखं पञ्चशक्त्यग्रं प्राग्वक्त्रं चतुरग्निकम् || १०-६८ || बिन्दुत्रिकोणे वस्वारचक्रमेतद्वरानने | चक्रमध्यं तु जानीहि दशारयुगलं तथा || १०-६९ || शक्रयोन्यङ्कितं देवि बाह्यमध्यगतं भवेत् | एतच्चक्रं महेशानि सर्वसौभाग्यवर्धनम् || १०-७० || सर्वसाम्राज्यदं देवि सर्वोपद्रवनाशनम् | अनेकरत्नमाणिक्यसुवर्णपरिपूरकम् || १०-७१ || महामोक्षप्रदं देवि वाग्विलासकरं महत् | एतद्बाह्ये महेशानि वृत्तं पूर्णेन्दुसंनिभम् || १०-७२ || तद्युक्तं कुरु मीनाक्षि वसुपत्रं मनोहरम् | ततः षोडशपत्रं तु विलिखेत्सुरवन्दिते || १०-७३ || तद्बाह्ये देवदेवेशि निवृत्तं मातृकान्वितम् | चतुरस्रं चतुर्द्वारसहितं परमेश्वरि || १०-७४ || चतुःषष्टियुताः कोट्यो योगिनीनां महौजसाम् | चक्रेस्मिन्स्ंनिविष्टास्ताः साधकं मानयन्ति हि || १०-७५ || चतुरस्रं मातृकार्णैर्मण्डितं सिद्धिहेतवे | मुक्तामाणिक्यघटितं समस्थलविराजितम् || १०-७६ || त्रैलोक्यमोहनं नाम कल्पद्रुमफलप्रदम् | षोडशारं चन्द्रबिम्बरूपं तु सकलालयम् || १०-७७ || सर्वाशापूरकं भद्रे स्रवत्पीयूषवर्षणम् | अष्टपत्रं महेशानि जपाकुसुमसंनिभम् || १०-७८ || सर्वसंक्षोभणं नाम सर्वकामप्रपूरकम् | एतत्त्रयं महेशानि सृष्टिचक्रं सुखप्रदम् || १०-७९ || पूर्वाम्नायाधिदेव्या तु मण्डितं सर्वसिद्धिदम् | चतुर्दशारं देवेशि दाडिमीकुसुमप्रभम् || १०-८० || अनन्तफलदं भद्रे सर्वसौभाग्यसंप्रदम् | दशारं तप्तहेमाभं सिन्दूरसदृशं प्रिये || १०-८१ || सर्वार्थसाधकं चक्रं मनश्चिन्तितदं सदा | द्वितीयमपि पङ्क्त्यस्रं जपाकुसुमसंनिभम् || १०-८२ || सर्वरक्षाकरं चक्रं महाज्ञानमयं शिवे | एतत्त्रयं महेशानि स्थितिचक्रं सुखप्रदम् || १०-८३ || दक्षिणाम्नायपूज्यं तु यथेप्सितफलप्रदम् | अष्टकोणं वरारोहे बालार्ककिरणारुणम् || १०-८४ || पद्मरागसमप्रख्यं सर्वरोगहरं सदा | उद्यत्सूर्यसहस्राभं बन्धूककुसुमप्रभम् || १०-८५ || सर्वसिद्धिप्रदं चक्रं सकलालयमीश्वरि | त्रिकोणं सर्वसंभूतिकारणं भूतिदं सदा || १०-८६ || बिन्दुचक्रं वरारोहे सर्वानन्दमयं परम् | सदाशिवमयं चक्रनायकं परमेश्वरि || १०-८७ || एतच्चक्रं तु संहाररूपं ब्रह्ममयं सदा | पश्चिमाम्नायसंसेव्यं त्रयमुत्तरसेवितम् || १०-८८ || अस्ंमिश्चक्रे षड्ध्वानो वर्तन्ते वीरवन्दिते | चक्रपत्रेषु देवेशि पदाध्वा तु निगद्यते || १०-८९ || चक्रत्रिसंधिभागेषु भुवनाध्वा व्यवस्थितः | वर्णाध्वा मातृकारूपी कथयामि तवानघे || १०-९० || वर्गाष्टकं मातृकाया दिक्षु सिद्धं यतः क्रमात् | पाथीवं तन्मयं विद्धि षोडशारं कलात्मकम् || १०-९१ || अष्टपत्रं कादिवर्णैः क्षान्तैदीक्षु विदिक्षु च | कादिढान्ताः शक्रवर्णाः शक्रकोणेषु संस्थिताः || १०-९२ || णकारादिभकारान्ता दशवर्णा दशारके | मकारादिशकारान्ता द्वितीयेऽपि दशारके || १०-९३ || वर्णाष्टकं चाष्टकोणे त्रिकोणे कथयामि ते | अकथादित्रिकोणान्तं हक्षयुग्मं तु मध्यगम् || १०-९४ || वर्णाध्वा कथितो देवि मातृकापीठरूपकः | षट्विंशत्तत्त्वभरितं चक्रं मूलानुसारतः || १०-९५ || तत्त्वाध्वा कथितो देवि तत्त्वरूपो वरानने | पञ्चसिंहासनोन्नद्धकलाध्वा चक्रशासनात् || १०-९६ || साबाला भैरवीयुक्ता महात्रिपुरसुन्दरी | त्रिपुरा त्र्यम्बिकान्साढ्या चक्रं प्राप्य विजृम्भते || १०-९७ || मन्त्राध्वाऽयं समाख्यातो निश्चयेन सदाऽनघे | एवं षडध्वविमलं श्रीचक्रं परिचिन्तयेत् || १०-९८ || उत्तराशामुखो देवि यदा चक्रं समुद्धरेत् | उत्तराशा तदा देवि पूर्वाशैव निगद्यते || १०-९९ || ईशानकोणं देवेशि तदाऽऽग्नेयं न संशयः | पश्चिमादिङ्मुखो मन्त्री यदा चक्रं समुद्धरेत् || १०-१०० || पश्चिमाशा तदा ज्ञेया पूर्वाशैव न संशयः | वायुकोणं तदाग्नेयमैशानं राक्षसं भवेत् || १०-१०१ || दक्षिणाभिमुखो मन्त्री यदा चक्रं समुद्धरेत् | पूर्वाशैव तदा सा दिग्रक्षःकोणं तु वह्निवत् || १०-१०२ || एतच्चक्रं मेरुरूपं श्रीविद्यार्णैः समुद्धृतम् | सर्वागममयं देवि कथितं वीरवन्दिते || १०-१०३ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे करशुद्धिविद्याचतुरासनविद्यावाहन-- विद्यायजनविद्यामेरुस्वरूपश्रीचक्रोद्धारषडध्व निरूपणं नाम दशमः पटलः || १० || अथैकादशः पटलः ईश्वर उवाच -- एभिर्वर्णैस्तु देवेशि त्रिपुरा कथ्यतेऽधुना | नवाक्षरो महामेरुरयं ब्रह्माण्डगोलकः || ११-१ || चतुरस्रं च कोदण्डं त्रिकोणं तत्पुटं मुखम् | निरालाम्बं तवाऽऽख्यातमेतद्ब्रह्माण्डमण्डलम् || ११-२ || लकारश्चतुरस्रं स्यात्पृथ्वीबीजतया प्रिये | अर्धमात्रा तु कोदण्डं स्रवत्पीयूषवषीणी || ११-३ || त्रिकोणरूपी वह्निः स्यात्त्रिकोणत्वात्परा शिवा | एकारश्च रकारश्च ईकारश्च त्रयं भवेत् || ११-४ || मायाविकाररूपेण षट्कोणाश्रयरूपिणी | हकारो व्योमरूपत्वाद् बिन्दुश्च मुखमण्डले || ११-५ || इच्छारूपेण कामस्तु सर्वत्र परमेश्वरि | तस्मान्मादनव्याख्यातमेतद्वै मेरुमण्डलम् || ११-६ || शृणु देवि प्रवक्ष्यामि बीजं कामेश्वरीमतम् | सकला भुवनेशानि कामेशीबीजमुत्तमम् || ११-७ || अनेन सकला विद्याः कथयामि विशेषतः | शक्त्यर्णस्तुर्यवर्णोंऽयं कलमध्ये सुलोचने || ११-८ || वाग्भवं पञ्चवर्णं तु कामराजमथोच्यते | मादनं शिवचन्द्राद्यं शिवान्तं मीनलोचने || ११-९ || कामराजमिदं भद्रे षड्वर्णं सर्वमोहनम् | शक्तिबीजं वरारोहे चन्द्राद्यं सर्षसिद्धिदम् || ११-१० || चतुरक्षररूपं तु त्र्यक्षरी त्रिपुरा परा | सर्वतीर्थमयी देवि सर्वदेवस्वरूपिणी || ११-११ || सर्वशास्रमयी विद्या सर्वयोगमयी परा | सर्वयज्ञमयी संवित्सर्वज्ञानस्वरूपिणी || ११-१२ || सर्वदेवमयी साक्षात्सर्वसौभाग्यसुन्दरी | एनामुपास्य देवेशि कामः सर्वाङ्गसुन्दरः || ११-१३ || कामराजो भवेद्देवि नित्येयं ब्रह्मरूपिणी | इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे एकादशः पटलः || ११ || अथ द्वादशः पटलः श्री देव्युवाच -- एतस्या देवदेवेश भेदान् कथय सुन्दर | केन केनोपासितेयं विशदी कुरु तत्त्वतः || १२-१ || ईश्वर उवाच-- शृणु देवि प्रवक्ष्यामि लोपामुद्राभिधां वराम् | कामराजाख्यविद्यायाः शक्तिं तुर्यां च सुन्दरि || १२-२ || हित्वा मुखे शिवेन्द्वाढ्या लोपामुद्रा प्रकाशिता | अगस्त्योपासिता विद्या त्रैलोक्यक्षोभकारिणी || १२-३ || एषा विद्या कामराजपूजितैव न संशयः | विद्याद्वयमिदं भद्रे दुर्लभं भुवनत्रये || १२-४ || कामराजाख्यविद्याया वाग्भवेन वरानने | विद्योद्धारं प्रवक्ष्यामि शक्तिमादनमध्यगम् || १२-५ || शिवं कुर्याद्वाग्भवे तु शिवाद्यं कामराजकम् | चन्द्राद्यं तु तृतीयं स्याद्विद्येयं मनुपूजिता || १२-६ || सहाद्यं वाग्भवं देवि चन्द्राद्यं शिवमध्यगम् | मादनं कामराजे तु शक्तिबीजं सहाननम् || १२-७ || चन्द्राराधितविद्येयं भोगमोक्षफलप्रदा | हसाद्यं वाग्भवं विद्धि शिवाद्यं सहमध्यगम् || १२-८ || मादनं कामराजे तु तार्तीयं शृणु पार्वति | हसाद्यं शक्तिबीजं तु कुबेरेण प्रपूजिता || १२-९ || कामराजाख्यविद्यायास्तार्तीयं सुरवन्दिते | शक्तिबीजं सहाद्यं स्याद्विद्याऽगस्त्यप्रपूजिता || १२-१० || लोपामुद्रा प्रभावेन् साक्षाद्ब्रह्मस्वरूपिणी | कामराजाख्यविद्याया वाग्भवे मादनं त्यज || १२-११ || चन्द्रं तत्रैव संयोज्य कामराजे ततः परम् | हित्वा चन्द्रं मुखे कुर्याद्विद्येयं नन्दिपूजिता || १२-१२ || कामराजाख्यविद्याया हित्वा भूमिं तृतीयके | शक्तिकण्ठे स्थितां देवि चन्द्राधः कुरु तत्र च || १२-१३ || इन्द्राराधितविद्येयं भुक्तिमुक्तिफलप्रदा | लोपामुद्राख्यविद्याया द्वितीयाया महेश्वरि || १२-१४ || कामराजे भृगुं हित्वा तार्तीये शक्रगः शिवः | एषा विद्या वरारोहे त्रिपुरा सूर्यपूजिता || १२-१५ || शृणु देवि प्रवक्ष्यामि चतुष्कूटां च शाङ्करीम् | लोपामुद्रां द्वितीयां तु विलिख्य सुरवन्दिते || १२-१६ || पुनवीलिख्य तामेव चतुर्थे पञ्चमे स्थिताम् | हित्वा तु भुवनेशानीमेकोच्चारेण प्रपूजिता || १२-१७ || चतुष्कूटा महाविद्या शङ्करेण प्रपूजिता | लोपामुद्रां पुनर्देवि विलिख्य तदनन्तरम् || १२-१८ || नन्दिकेश्वरविद्यां च षट्कूटा वैष्णवी भवेत् | दुर्वाससा पुरा देवि निष्कूटा पूजिता परा || १२-१९ || कामराजाख्यविद्यायास्रिकूटेषु वरानने | या स्थिता भुवनेशानि द्विधा कुरु महेश्वरी || १२-२० || बिन्दुहीना नादहीना दुर्वासःपूजिता भवेत् | एतैर्द्वादशसंख्याकैर्मन्त्रैस्तु सुरवन्दिते || १२-२१ || द्वादशान्ता स्थिता देवि परब्रह्मस्वरूपिणी | राज्ञीयं सर्वविद्यानां सर्वाम्नायैस्तु सेविता || १२-२२ || सर्वागममहामन्त्रवन्दिता देववन्दिता | सर्वयोगैर्नता नित्या केवलं ब्रह्मरूपिणी || १२-२३ || एवं त्रिधा महाविद्या विद्या त्रिपुरसुन्दरी | इयमेव महादेवी त्रिकूटा परमेश्वरी || १२-२४ || वक्तुं न शक्यते सर्वैर्ब्रह्मविष्ण्वादिभिः सदा | नो वाचा मनसा बुद्ध्या तुर्या वक्तुं न शक्यते || १२-२५ || साक्षाद्ब्रह्ममयी देवी षोडशार्णस्वरूपिणी | मनसैव महेशानि स्मृत्वाऽहं तु सदाशिवः || १२-२६ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे त्रिपुरसुन्दरी (विद्याविवरणं नाम) द्वादश पटलः || १२ || अथ त्रयोदशः पटलः श्री देव्युवाच -- परब्रह्मतया साक्षाच्छ्रीविद्या षोडशाक्षरी | कथय त्वं महादेव यद्यहं तव वल्लभा || १३-१ || त्रिकूटाः कथिताः सर्वाश्चतुष्कूटा च शाङ्करी | षट्कूटा वैष्णवी चैव मनवः कथिता विभो || १३-२ || एतास्तु सकला विद्यास्रिविधास्तु श्रुता मया | इदानीं श्रोतुमिच्छामि श्रीविद्यां षोडशाक्षरीम् || १३-३ || ईश्वर उवाच -- शठत्वेन वरारोहे श्रीविद्यामन्त्रविद्बुधः | योगिनीनां भवेद्भक्ष्यः श्रीगुरोः शासनात्प्रिये || १३-४ || षोडशार्णां महाविद्यां न दद्यात्कस्यचित् प्रिये | राज्ञे राज्यप्रदायापि पुत्राय प्राणदाय वा || १३-५ || देयं तु सकलं भद्रे साम्राज्यमपि पार्वति | शिरोऽपि प्राणसहितं न देया षोडशाक्षरी || १३-६ || उच्चार्यमाणा ये मन्त्रास्ते सर्वे वाचिकाः प्रिये | उच्चाररहितं वस्तु श्रीविद्या षोडशाक्षरी || १३-७ || सवर्णाऽपि वरारोहे वस्तु साक्षान्निरक्षरम् | भृङ्गोपभुक्तपुष्पं तु शिवे योग्यं यथा भवेत् || १३-८ || तथा निरक्षरं वस्तु ह्यक्षरैरपि संयुतम् | उदके लिखितं यद्वन्मन्त्रोच्चारस्तथा भवेत् || १३-९ || भोगमोक्षप्रदा विद्या श्रीविद्या षोडशाक्षरी | विना गुरूपदेशेन शापो भवति निश्चयात् || १३-१० || चन्द्रान्तं वारुणान्तं च शक्रादिसहितं पृथक् | वामाक्षि बिन्दुनादाढ्यं विश्वमातृकलात्मकम् || १३-११ || चतुवीधप्रकारेण शृणु देवि प्रकथ्यते | त्वं मनोहारिणी यस्मात्कथ्यते भुवि दुर्लभम् || १३-१२ || विद्यादौ योजयेद्देवि साक्षाज्जाग्रत्स्वरूपिणी | उत्पत्तिर्जागरो बोधो व्यावृत्तिर्मनसः सदा || १३-१३ || कलाचतुष्टयं जाग्रदवस्थायां व्यवस्थितम् | जाग्रत्सत्त्वगुणा प्रोक्ता केवलं शक्तिरूपिणी || १३-१४ || त्रिकूटा सकला भेदाः पञ्चकूटा भवन्ति हि | वैष्णवी वसुकूटा स्यात्षट्कूटा शांकरी भवेत् || १३-१५ || द्वितीयोऽयं प्रकारः स्याद्दुर्लभो भुवनत्रये | एषैव शिवरूपा तु व्यापकत्वात्सुरेश्वरि || १३-१६ || निश्चला सर्वभूतेषु सदाशिवमयी परा | सुषुप्तिरूपिणी साक्षाद्ब्रह्मरूपा यतः प्रिये || १३-१७ || मरणं विस्मृतिर्मूर्छा निद्रा च तमसा वृता | सुषुप्तिस्तु कला ज्ञेया सुषुप्तिः शिवरूपिणी || १३-१८ || केवलत्वेन जाग्रत्स्यात्पञ्चकूटा च शाम्भवी | सुषुप्त्यन्ते जागरादौ स्वप्नावस्था रजोमयी || १३-१९ || अभिलाषो भ्रमश्चिन्ता विषयेषु पुनः स्मृतिः | कलाचतुष्टयं स्वप्नावस्थायां तु विधीयते || १३-२० || शिवरूपा शक्तिरूपा महात्रिपुरदेवता | वेदादिमण्डिता देवि शिवशक्तिमयी सदा || १३-२१ || सप्त भेदास्तु सकलाः षट्कूटाः परमेश्वरि | वैष्णवी नवकूटा स्यात्सप्तकूटा च शाङ्करी || १३-२२ || अस्याः स्मरणमात्रेण गजदानं शतं भवेत् | भेदत्रयं तु कथितं तूर्यां विद्यां शृणु प्रिये || १३-२३ || यस्या विज्ञानमात्रेण ब्रह्म साक्षान्न संशयः | सुषुप्त्यादौ जागरान्ते स्फुरत्तामात्रलक्षणा || १३-२४ || अवस्थाशेषतां प्राप्ता तुर्या तु परमा कला | भावाभावविनिर्मुक्ता गुणातीता निगद्यते || १३-२५ || वैराग्यं च मुमुक्षत्वं शमादि विमलं मनः | सदसद्वस्तुनिर्धारस्तुर्यायास्तु कला इमाः || १३-२६ || आद्यबीजद्वयं भद्रे विपरीतक्रमेण हि | विलिख्य परमेशानि ततोऽन्यानि समुद्धरेत् || १३-२७ || अन्तर्मुखा वरारोहे कुमारी त्रिपुरेश्वरी | एभिस्तु पञ्चसंख्याकैर्बीजैः संपुटिता यजेत् || १३-२८ || षट्कूटा परमेशानि विद्येयं षोडशाक्षरी | त्रिकूटा सकला भद्रे षोडशार्णा भवन्ति हि || १३-२९ || वैष्णव्येकोनविंशार्णा शैवी सप्तदशाक्षरी | वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि || १३-३० || वणीतुं नैव शक्येयं श्रीविद्या षोडशाक्षरी | वैष्णवी पञ्चमी चैव कः शक्तो गुणवर्णने || १३-३१ || यतो निरक्षरं वस्तु परा तत्र तु कारणम् | मूकीभूता हि पश्यन्ति मध्यमा मध्यमा भवेत् || १३-३२ || ब्रह्मविद्यास्वरूपेण भुक्तिमुक्तिफलप्रदा | एकोच्चारेण देवेशि वाजपेयस्य कोटयः || १३-३३ || अश्वमेधसहस्राणि प्रादक्षिण्यं भुवस्तथा | काश्यादितीर्थयात्राश्च सार्धकोटित्रयान्विताः || १३-३४ || तुलां नार्हन्ति देवेशि नात्र कार्या विचारणा | एकोच्चारेण गिरिजे किं पुनर्ब्रह्म केवलम् || १३-३५ || षोडशार्णा महाविद्या न प्रकाश्या कदाचन | गोपितव्या त्वया भद्रे स्वयोनिरिव पार्वति || १३-३६ || शिवशक्तिसमायोगाद्यद्यत्कर्म प्रजायते | वेद्यं तन्न भवेत्तद्वच्छ्रीविद्यां षोडशाक्षरीम् || १३-३७ || विना गुरूपदेशेन श्रीविद्या षोडशाक्षरी | दृष्ट्वा प्रजपते यस्तु स भक्ष्यो योगिनीगणैः || १३-३८ || श्रीगुरोः कृपया लब्धा सर्वसाम्राज्यदायिनी | भुवनत्रयसौभाग्यं ददाति विपुलां श्रियम् || १३-३९ || साक्षान्मदनसौभाग्यं त्रैलोक्याकर्षणक्षमम् | सुधातरंङ्गिणीवेयं शब्दचातुर्यदायिनी || १३-४० || सौभाग्यभाग्यसंपन्नकलापटलदायिनी | परब्रह्मणि लीनत्वं ददाति यश उत्तमम् || १३-४१ || प्रपञ्चसागरे लीनानुद्धरेद्वेदमातृका | यस्याः सामर्थ्यतो देवि भुवनानि चतुर्दश || १३-४२ || अभूवन्परमेशानि तेषां कारणरूपिणी | चतुःसागरसामर्थ्यं कृपालोकनतो भवेत् || १३-४३ || ब्रह्माण्डकोटिजननी महामोक्षप्रदायिनी | निःसरन्ति महामन्त्रा विस्फुलिङ्गा यथा प्रिये || १३-४४ || वह्नेः सकाशाद् बहवो विद्यास्तु बहवस्तथा | वाग्भवात्तु समुत्पन्नास्तस्माद्वाग्भवमुच्यते || १३-४५ || मातृकार्णास्तथा भद्रे वाग्भवान्निसृताः क्रमात् | अत एव महेशानि शब्दब्रह्ममयी प्रिये || १३-४६ || पालयन्ती जगत्सर्वं तथा त्रैलोक्यमोहिनी | मोहयन्ती कामकला पुत्रपौत्रप्रवधीनि || १३-४७ || स्रीपुंभावेन सकलं ग्रथितं कामसूत्रके | तदा सौभाग्यसंपन्ना ब्रह्मस्थाननिवासिनी || १३-४८ || सौभाग्यगर्वगहना विश्वयोनिरितीरिता | चतुर्वाङ्मयनिष्ठेयं त्रैलोक्यवशकारिणी || १३-४९ || साक्षात्संविन्मयी ज्ञानरूपिणी भोगदायिनी | महासंपत्प्रदा नित्या साक्षादक्षररूपिणी || १३-५० || षोडशार्णा मया भद्रे श्रीविद्या कथिता परा | निधानमिव चोरेभ्यो रक्षणीया तथा प्रिये || १३-५१ || न देया यस्य कस्यापि देया प्राणप्रदायिने | निर्मलाय स्वभक्ताय प्राणेभ्योऽप्यधिकाय च || १३-५२ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे षोडशीविद्याविवरणं नाम त्रयोदशः पटलः || १३ || अथ चतुर्दशः पटलः श्रीदेव्युवाच -- चक्रमण्डलमाख्यातं न पूजा तत्र मण्डले | कथिता परमेशान श्रोतुमिच्छामि तत्त्वतः || १४-१ || ईश्वर उवाच -- शृणु देवि प्रवक्ष्यामि पूजाविधिमनुत्तमम् | तदङ्गकलशादीनां स्थापनं प्रथमं भवेत् || १४-२ || तद्विधानं शृणु प्राज्ञे यथाविधि समासतः | मण्डलं वामतः कृत्वा जलेन चतुरस्रकम् || १४-३ || बृहत्कराभ्यां देवेशि तत्राऽऽधारं मनोहरम् | सौवर्णरौप्यताम्रादिरचितं पूजयेत्प्रिये || १४-४ || वह्निमण्डलरूपं तु कलादशकमर्चयेत् | धूम्रा च नीलवर्णा च कपिला विस्फुलिङ्गिनी || १४-५ || ज्वाला हैमवती कव्यवाहिनी हव्यवाहिनी | रौद्री संकषीणी चैव वैश्वानरकला दश || १४-६ || आभिः कलाभिः सहितं वह्निं तत्र प्रपूजयेत् | कलशं हेमजं वाऽन्यं स्थापयेत्तत्र सुन्दरि || १४-७ || पूजयेत्सूर्यरूपं तु कलाभिः परमेश्वरि | तपिनी तापिनी चैव विबुधा बोधिनी तथा || १४-८ || कलिनी शोषणी चैव वारुण्याकषीणी तथा | माया विश्वावती हेमा प्रभा सौरकला इमाः || १४-९ || कलशं तु समापूर्य जलेन कमलेक्षणे | तत्रस्थममृतं साक्षाच्चन्द्ररूपं विचिन्तयेत् || १४-१० || चन्द्रमण्डलमभ्यर्च्य कलाभिः सुरवन्दिते | अमृता मानसी तुष्टिः पुष्टिः प्रीति रतिस्तथा || १४-११ || श्रीश्च ह्रींश्च स्वधा रात्रिर्ज्योत्स्ना हैमवती तथा | छाया च पूणीमा नित्या अमावास्या च षोडशी || १४-१२ || एभिः समभ्यर्च्य मन्त्रैर्यजेदानन्दभैरवम् | शिवचन्द्रौ मातृकान्तं कलाशक्राम्बुवह्नयः || १४-१३ || वायुश्च वामकर्णेन योजितो बिन्दुल्लाञ्छितः | बीजमेतत्समुच्चार्य तथा चाऽऽनन्दभैरवम् || १४-१४ || ङेन्तं शिखामन्त्रयुक्तं पुनर्बीजं तु संलिखेत् | चन्द्रं हित्वाऽऽदिमं कुर्यात्कर्णे वामाक्षि योजयेत् || १४-१५ || सुरादेव्यै ततो वौषडियमानन्दभैरवी | अनेन चन्द्रं संपूज्य पूजार्हः कलशो भवेत् || १४-१६ || विधाय वामभागे तु चतुरस्रं तु मण्डलम् | यन्त्रिकां तत्र संस्थाप्य शङ्खं तत्र विनिक्षिपेत् || १४-१७ || शुद्धोदकेन संपूर्य पूजयेत्कारणान्वितम् | षडङ्गं तत्र संपूज्य सामान्यार्घ्यमिदं प्रिये || १४-१८ || अथ वक्ष्ये महेशानि विशेषार्ध्यस्य लक्षणम् | आत्मश्रीचक्रयोर्मध्ये चतुरस्रं तु मण्डलम् || १४-१९ || सामान्यार्घ्यस्य तोयेन देशिको भूमिजानुकः | वहत्करोर्ध्वपुटतो यन्त्रिकां तत्र योजयेत् || १४-२० || त्रिकोणवृत्तषट्कोणं चतुरस्रं तु मण्डलम् | वह्निं तत्र विचिन्त्याथ पूजयेद्यन्त्रिकामयम् || १४-२१ || पूर्ववत्परमेशानि त्रिकूटां मध्यगां यजेत् | व्यस्तकूटैर्यजेत्तत्र त्रिकोणे परमेश्वरि || १४-२२ || द्विरावृत्त्या षडङ्गानि षट्कोणेषु प्रपूजयेत् | सौवर्णं राजतं वाऽपि पात्रं संस्थापयेत्प्रिये || १४-२३ || सूर्यरूपं प्रपूज्याथ यन्त्रं पूर्ववदालिखेत् | समस्तव्यस्तकूटैस्तु पूजयेत्पूर्वत्क्रमात् || १४-२४ || विशेषेण पयापूर्य चन्द्रं द्रवमयं प्रिये | पूर्ववद्यन्त्रमालिख्य त्रिकूटां यन्त्रमध्यगाम् || १४-२५ || त्रिकोणं चिन्तयेत्तत्तु त्रिकूटैः पूजितं प्रिये | अकथादित्रिरेखाढ्यं हक्षाभ्यन्तरमुत्तमम् || १४-२६ || द्विरावृत्त्या षडङ्गानि षट्कोणेषु प्रपूजयेत् | आत्मानं हंसमनुना आनन्देन च पूजयेत् || १४-२७ || मूलविद्यां यजेत्तत्र षोडशार्णां जपेत्ततः | धूपदीपौ निवेद्याथ नमस्कृत्यार्घ्यकं बुधः || १४-२८ || मुद्राः संदर्शयेत्तत्र साक्षाद्ब्रह्ममयं भवेत् | प्रोक्षयेत्तेन चाऽऽत्मानं पूजोपकरणानि च || १४-२९ || सर्वत्र प्रोक्षणं कुर्यात्सर्वं ब्रह्ममयं भवेत् | आत्मानं तु समभ्यर्च्य भूतान्संत्रासयेत्ततः || १४-३० || मूलविद्यास्त्रमुच्चार्य दिग्बन्धं स्फोटनादिभिः | तन्मुखः संनतो देवि भूतशुद्धिं तु पूर्ववत् || १४-३१ || ततो न्यासादिकं कुर्यात्संनाहं तु शरीरके | करशुद्धिकरीं विद्यां मध्यमादितलान्तकम् || १४-३२ || अङ्गुलीषु द्विरावृत्त्या करशुद्धिरियं प्रिये | अत आत्मासनं दद्यात्ततश्चकासन प्रिये || १४-३३ || सर्वमन्त्रासनं दद्यात्साध्यसिद्धासनं यजेत् | पादयोर्जङ्घयोर्जान्वोलीङ्गे न्यस्य चतुष्टयम् || १४-३४ || कुमार्यास्रिपुरेशान्याः षडङ्गानि च पूर्ववत् | अथ वक्ष्ये महेशानि श्रीविद्यान्यासमुत्तमम् || १४-३५ || सम्पूर्णां चिन्तयेद्विद्यां ब्रह्मरन्ध्रेऽरुणप्रभाम् | स्रवत्सुधां षोडशार्णां महासौभाग्यदां स्मरेत् || १४-३६ || वामांसदेशे सौभाग्यदण्डिनीं भ्रामयेत्ततः | रिपुजिह्वाग्रहां मुद्रां पादमूले न्यसेत्प्रिये || १४-३७ || त्रैलोक्यस्य त्वहं कर्ता ध्यात्वैवं तिलके न्यसेत् | सम्पूर्णामेव वदने वेष्टनत्वेन विन्यसेत् || १४-३८ || पुनः सम्पूर्णया देहे गलोर्घ्वे विन्यसेत्ततः | पुनः सम्पूर्णया देहे व्यापकत्वेन विन्यसेत् || १४-३९ || व्यापकान्ते योनिमुद्रां मुखे क्षिप्त्वाऽभिवन्द्य च | श्रीविद्यापूर्णरूपोऽयं न्यासः सौभाग्यवर्धनः || १४-४० || परिभ्राम्यानामिकां तु मूर्धानं परितः प्रिये | ब्रह्मरन्ध्रे क्षिपेद्देवि मणिबन्धे न्यसेत्ततः || १४-४१ || ललाटेऽनामिका कुर्यात्षोडशार्णा स्मरन्बुधः | संमोहनाख्यो देवेशि न्यासोऽयं क्षोभकारकः || १४-४२ || त्रैलोक्यमरुणं ध्यायेच्छ्रीविद्यां मनसि स्मरेत् | पादयोर्जङ्घयोर्जान्वोः कट्योरन्धुनि पृष्टके || १४-४३ || नाभौ पार्श्वद्वये चैव स्तनयोरंसयोस्तथा | कर्णयोर्ब्रह्मरन्ध्रे च वदनेऽक्षिणि पार्वति || १४-४४ || ततः कण्ठप्रदेशे तु करवेष्टनयोः क्रमात् | संहारोऽयं महान्यासो बीजैः षोडशभिः क्रमात् || १४-४५ || श्रीविद्याया षोडशार्णैर्न्यासैवीश्वेश्वरो भवेत् | सृष्ट्यन्तां विन्यसेद्देवि मातृकां पूर्ववत्प्रिये || १४-४६ || मातृकार्णस्वरूपां च वर्गाष्टकसमन्विताम् | वशिनीं मातृकां न्यस्येद् बीजाष्टकसमन्विताम् || १४-४७ || अवर्गान्ते लिखेद्बीजं वह्निफान्तं क्षमान्वितम् | वामकर्णविशोभाढ्यं बिन्दुनादाङ्कितं प्रिये || १४-४८ || वशिनीं पूजयेद्वाचां देवतां देवि सुव्रते | कवर्गान्ते महेशानि कामेशीबीजमुत्तमम् || १४-४९ || मेरूद्धतं समुच्चार्य वाग्देवीं पूजयेत्ततः | च वर्गान्ते धान्तलान्तं क्षमातुर्यस्वरान्वितम् || १४-५० || मोदिनीं पूजयेद्वाचां देवतां तदनन्तरम् | टवर्गान्ते वायुतोयं मुखसंस्थं महेश्वरि || १४-५१ || वामकर्णेन्दुबिद्वाढ्यं विमलां वागधीश्वरीम् | तवर्गान्ते जमक्ष्माद्यं वामनेत्रविभूषितम् || १४-५२ || बिन्दुनादाङ्कितं बीजं वाग्देवीमरुणां यजेत् | पवर्गान्ते व्योमचन्द्रं क्षमातोयाग्निमुख्यकम् || १४-५३ || उकारस्वरसंयुक्तं बिन्दुनादकलाङ्कितम् | जयिनीं पूजयेद्वाचां देवतां वीरवन्दिते || १४-५४ || यवर्गान्ते जान्तकालरेफवायुसमन्वितम् | ऊमाढ्यं देवतां वाचां सर्वेशीं परिपूजयेत् || १४-५५ || क्षमोवह्निगतं तुर्यं बीजेन परिमण्डितम् | बिन्दुनादकलाक्रान्तं कौलिनीं वाचमर्चयेत् || १४-५६ || शवर्गान्ते महेशानि न्यसेत् सर्वार्थसिद्धये | शिरोललाटभ्रूमध्यकण्ठहृन्नाभिगोचरे || १४-५७ || आधारे व्यूहकं यावन्न्यसेद्देवीः क्रमात्प्रिये | षोढान्यासं ततः कुर्याद्येन ब्रह्माण्डरूपकः || १४-५८ || विराट्स्वरूपी वर्णात्मा शिवः साक्षान्न संशयः | गणेशः प्रथमो न्यासः सर्वविघ्नविनाशनः || १४-५९ || अरुणादित्यसंकाशान्गजवक्त्रांस्रिलोचनान् | पाशाङ्कुशवराभीतिकराञ्शक्तिसमन्वितान् || १४-६० || ध्यात्वा प्रविन्यसेद्देवि मातृकान्यासवत्ततः | विघ्नेश्वरस्तथा श्रीश्च विघ्नराजस्तथा ह्रिया || १४-६१ || विनायकस्तथा तुष्टिः शान्तियुक्तः शिवोत्तमः | विघ्नकृत्पुष्टियुक्तस्तु विघ्नहृच्च सरस्वती || १४-६२ || विघ्नराड्रतियुक्तस्तु मेधावान् गणनायकः | एकदन्तश्च कान्तिश्च द्विदन्तः कामिनीयुतः || १४-६३ || गजवक्त्रो मोहिनी च निरञ्जनजटा ततः | कपर्दी तु तथा तीव्रा दीर्घवक्त्रस्ततः प्रिये || १४-६४ || ज्वालिनीसहितः पश्चान्नन्दासंकर्षणौ ततः | वृषध्वजश्च शुभगा गणनाथेन संयुता || १४-६५ || कामरूपिणिका पश्चाद्गजेन्द्रः शुभ्रया युतः | शूर्पकर्णस्तु जयिनी त्रिनेत्रः सत्ययाऽन्वितः || १४-६६ || लम्बोदरश्च विघ्नेशी महानादस्वरूपिणी | चतुमूत्तीः कामदा च सदाशिवयुता ततः || १४-६७ || मदविह्वलनाम्नी च आमादविकटे ततः | दुर्मुखश्च तथा घूर्णा सुमुखो भूतिमांस्ततः || १४-६८ || प्रमोदश्च तथा भूमीरेकपादस्तथा सती | द्विजिह्वश्च रमायुक्तः शूरश्चैव तु मानुषी || १४-६९ || वीरेण सहिता पश्चाच्छैलजे मकरध्वजः | षण्मुखश्च विकर्णा च वरदो भृकुटी तथा || १४-७० || वामदेवस्तथा लज्जा वक्रतुण्डस्तथा परम् | दीर्घघोणान्वितः पश्चाद्विरण्डकधनुर्धरा || १४-७१ || सेनानीर्यामिनीयुक्तो ग्रामणी रात्रिसंयुतः | मत्तश्च चण्डिकायुक्तो विमत्तश्च शशिप्रभा || १४-७२ || मत्तवाहनलोले च जटी च चपलेक्षणा | शुण्डि ऋज्वीयुतः पश्चात्खड्गी दुर्भगयाऽन्वितः || १४-७३ || वरेण्यश्चैव सुभगा वृषकेतुस्तथा शिवा | भक्ष्यप्रियश्च दुर्गा च मेघनादश्च कालिका || १४-७४ || गणेशः कालकुब्जा च गणपो विघ्नहारिणी | मातृवर्णैर्न्यसेद्देवि ग्रहन्यासं ततो न्यसेत् || १४-७५ || पद्मरागं सितं रक्तं श्यामं पीतं च पाण्डुरम् | धूम्रकृष्णं कृष्णधूम्रं धूम्रधूम्रं विचिन्तयेत् || १४-७६ || रविमुख्यान्कामरूपान्सर्वाभरणभूषितान् | वामोरुन्यस्तहस्तांश्च दक्षहस्ताभयप्रदान् || १४-७७ || स्वरैरर्कं हृदि न्यस्य यवर्गेण शशी ततः | भ्रूमध्येऽथ कवर्गेण भौमं नेत्रत्रये न्यसेत् || १४-७८ || चवर्गेण बुधो हृत्स्थष्टवर्गेण बृहस्पतिः | हृदयोपरि देवेशि तवर्गेण गले भृगुः || १४-७९ || पवर्गेण शनिर्नाभौ राहुर्वक्त्रे शवर्गतः | लक्षाभ्यां तु गुदे केतुर्न्यसेदेवं वरानने || १४-८० || अथ नक्षत्रवृन्दस्य न्यासं कुर्यात्सुखप्रदम् | ज्वलत्कालाग्निसंकाशाः सर्वाभरणभूषिताः || १४-८१ || नतिपाण्योऽश्विनीमुख्या वरदाभयपाणयः | युग्मं युग्मं तथा युग्मं युग्मयुग्मेन रोहिणीम् || १४-८२ || एकमेकं तथा द्वन्द्वमेकं पुष्यान्तमुच्यते | ललाटे चक्षुषोः पश्चाद्वामदक्षिणकर्णयोः || १४-८३ || नासाद्वये च देवेशि तथा कण्ठे क्रमान्न्यसेत् | पुष्यान्तं च प्रविन्यस्य खगार्णाभ्यां तु सार्पकम् || १४-८४ || दक्षस्कन्धे घङाभ्यां तु मघां स्कन्धे द्वितीयके | चपूर्वाफाल्गुनीं दक्षे कूर्परे छजसंयुताम् || १४-८५ || उत्तरफाल्गुनीं वामे कूर्परे विन्यसेत्प्रिये | झञवर्णास्थितो हस्तो मणिबन्धेऽथ दक्षिणे || १४-८६ || चित्रां टठस्थां वामे च मणिबन्धे न्यसेत्प्रिये | डकारेण युतां स्वातीं दक्षहस्ते प्रविन्यसेत् || १४-८७ || ढणयुक्तां विशाखां तु वामहस्ते प्रविन्यसेत् | तथदस्थानुराधां तु नाभौ विन्यस्य पार्वति || १४-८८ || धकारेण युतां ज्येष्ठां न्यसेद्दक्षकटौ प्रिये | नपफस्थं तथा मूलं न्यसेद् वामकटौ प्रिये || १४-८९ || पूर्वाषाढां वकारेण दक्षोरौ विन्यसेत्प्रिये | भकारेणोत्तराषाढां वामोरौ तदनन्तरम् || १४-९० || मकारयुक्तं श्रवणं दक्षजानुनि विन्यसेत् | यरस्थितां धनिष्ठां तु वामजानुनि विन्यसेत् || १४-९१ || लकारेण ततो देवि शतभिषं न्यसेत्प्रिये | दक्षजङ्घागतां पश्चात्पूर्वाभाद्रपदां ततः || १४-९२ || वशवर्णस्थितां न्यस्य वामजङ्घागतां क्रमात् | षसहस्थोत्तराभाद्रपदां दक्षिणापादके || १४-९३ || क्षकारेण ततो बिन्दुविसर्गाभ्यां च रेवती | वामपादे प्रविन्यस्य योगिनीन्यासमाचरेत् || १४-९४ || सितासितारुणा बभ्रूचित्रापीताश्च चिन्तयेत् | चतुर्भुजाः समैर्वक्त्रैः सर्वाभरणभूषिताः || १४-९५ || डांडींबीजद्वयं चोक्त्वा डमला वरयाः प्रिये | वामकर्णेन्दुनादाढ्यं डाकिन्यै नम इत्यपि || १४-९६ || स्वरान्ते तु प्रवक्तव्यं मान्ते रक्षपदद्वयम् | त्वगात्मने कण्ठदेशे विशुद्धौ विन्यसेत्पिरये || १४-९७ || कण्ठवर्णै राकिनीं तु रकाराद्यक्षरैः क्रमात् | पूर्ववद्बीजसंयुक्तैरसृगात्माऽत्र संवदेत् || १४-९८ || अनाहते न्यसेत्पश्चाड्डकारादिफकारकैः | लाकिनी च तथा देवि मांसात्मा मणिपूरके || १४-९९ || बंलंवर्णैः काकिनीं तु स्वाधिष्ठाने तथाविधाम् | भेदस्वरूपां विन्यस्य वसवर्णैस्तु साकिनीम् || १४-१०० || अस्थिरूपां च पूर्वोक्तबीजेनाऽऽधारके न्यसेत् | हक्षवर्णास्थितां तद्वन्मज्जारूपिणिकां यजेत् || १४-१०१ || भुवोर्मध्ये महेशानि हाकिनीं द्विदले न्यसेत् | पूर्ववद्बीजसंयुक्तां तद्वच्छुक्रात्मिकां यजेत् || १४-१०२ || सर्वधातुगतां देवीं शुक्लवर्णां तु याकिनीम् | ब्रह्मरन्ध्रे महेशानि न्यासोऽयं योगिनीयुतः || १४-१०३ || राशिन्यासं ततः कुर्यात्सर्वरक्षाकरं सदा | रक्तश्वेतहरिद्वर्णपाण्डुचित्राशितान्स्मरेत् || १४-१०४ || पिशङ्गपिङ्गलौ बभ्रुकर्बुरासितधूम्रकान् | अकारादिचतुष्केण विन्यसेत्सुरवन्दिते || १४-१०५ || मेषं दक्षिणपद्गुल्फे ततो द्वन्द्वेन वै वृषम् | न्यसेज्जानुनि वेदैस्तु मिथुनं वृषणे ततः || १४-१०६ || द्वाभ्यां कर्काटकं कुक्षौ द्वाभ्यां स्कन्धे च सिंहकम् | अनुस्वारविसर्गाभ्यां शवर्गेण च कन्यकाम् || १४-१०७ || दक्षिणे तु शिरोभागे विन्यसेद्वीरवन्दिते | तथा वामशिरोभागे कवर्गेण तुलाभृतम् || १४-१०८ || चवर्गेण तथा स्कन्धे वृश्चिकं विन्यसेत्प्रिये | टवर्गेण तथा कुक्षौ धन्विनं विन्यसेत्प्रिये || १४-१०९ || मकरं तु तवर्गेण वृषणे विन्यसेत्क्रमात् | पवर्गेण तथा कुम्भं वामजानुनि विन्यसेत् || १४-११० || यवर्गेणं क्षकारेण मीनं गुल्फेऽथ वामके | अथ पीठानि विन्यस्येत्सर्वतीर्थमयानि हि || १४-१११ || सितासितारुणाश्यामहारित्पीतान्यनुक्रमात् | पुनः पुनः क्रमाद्देवि पञ्चाशत्पीठसंचयः || १४-११२ || पीठानि संस्मरेद्विद्वान् सर्वमातृकया युतान्(?) | मातृकार्णैर्न्यसेद्विद्वान् सर्वकामार्थसिद्धये || ११३ || कामरूपं महापीठं पीठं वाराणसीं ततः | नेपालं च तथा पीठं तथा वै पौण्ड्र्वर्धनम् || १४-११४ || पुरस्थिरं तथा पीठं चन्द्रस्थिरमतः परम् | पूर्णशैलं महापीठमर्बुदं च ततः परम् || १४-११५ || आम्रातकेश्वरं पीठमेकाम्रं च ततः परम् | विस्रोतःपीठमनघं कामकोटं ततः परम् || १४-११६ || कैलासभृगुकेदारं पीठं चन्द्रपुरं ततः | श्रीपीठं च तथोंकारं जालन्धरमतः परम् || १४-११७ || मालवं च ततः पीठं कुलान्तं देवकोटकम् | गोकर्णं च महापीठं मारुतेश्वरमेव च || १४-११८ || अट्टहासं च विरजं राजगेहं महापथम् | पीठं कोल्लगिरिं प्रोक्तमेलापुरमतः परम् || १४-११९ || कामेश्वरं महापीठं महापीठं जयन्तिका | पीठमुज्जयनी चैव चरित्रं क्षीरकाभिधम् || १४-१२० || हस्तिनापुरपीठं च उड्डीशं च प्रयागकम् | षष्ठीशं पीठश्रीशैलं मायापूरजलेश्वरम् || १४-१२१ || मलयं च महापीठं श्रीशैलं मेरुकं गिरिम् | महेन्द्रं वामनं चैव हिरण्यपुरमेव च || १४-१२२ || महालक्ष्मीमयं पीठमुड्डीयानमतः परम् | छायाच्छत्रपुरं पीठं तथैव परमेश्वरि || १४-१२३ || पञ्चाशत्पीठविन्यासं मातृकाविन्न्यसेत् सदा | षोढान्यासो महादेवि न्यस्त्वा साक्षात्स्वयं शिवः || १४-१२४ || अथ कामान्न्यसेद्देवी दाडिमीकुसुमप्रभान् | वामाङ्कशक्तिसहितान्पुष्पबाणेक्षुकार्मुकान् || १४-१२५ || शक्तयः कुङ्कुमनिभाः सर्वाभरणभूषिताः | नीलोत्पलकरा ध्येयास्त्रैलोक्याकर्षणक्षमाः || १४-१२६ || न्यसेत्कामरतिं पश्चात्कामप्रीतिं सुरेश्वरि | कान्तश्च कामिनीयुक्तो भ्रान्तो वै मोहिनीयुतः || १४-१२७ || कामाङ्गः कमले तद्वत्कामचारो विलासिनी | कर्णकल्पलते तद्वत्कोमलश्यामले तथा || १४-१२८ || कामवर्धनसंयुक्ता विज्ञेया तु शुचिस्मिता | कामश्च विस्मितायुक्तो विशालाक्षीयुतो रमः || १४-१२९ || रमणो लेलिहायुक्ता रतिनाथदिगम्बरे | रतिप्रियश्च वामा च रात्रिनाथश्च कुब्जिका || १४-१३० || स्मरेण च युता कान्ता रमणः सत्यया युतः | निशाचरश्च कल्याणी नन्दनो भोगिनी तथा || १४-१३१ || नन्दकः कामदायुक्तो मदनश्च सुलोचना | सुलावण्यायुतो देवि तथा नन्दसुताभिधः || १४-१३२ || निशाचरश्च मदीन्या रतिर्हंसस्ततः परम् | कलहः प्रियया युक्तः पुष्पधन्वा च काङ्क्षिणी || १४-१३३ || महाधनुश्च सुमुखा ग्रामणीर्नलिनीयुतः | भीमश्च जटिनीयुक्तो भ्रामणः पालिनीयुतः || १४-१३४ || भ्रमणः शिखिनीयुक्तो शान्तमुग्धे ततः परम् | भ्रामणो रमया युक्तो भृगुर्भूमा ततः परम् || १४-१३५ || भ्रान्तश्चामरलोला च भ्रमावहसुचञ्चले | मोहनो दीर्घजिह्वा च मोचकश्च तथा सती || १४-१३६ || तथा मुग्धश्च लोलाक्षी मोहमर्दनभृङ्गिणी | मोहकश्च चपेटा च मन्मथो नाथया युतः || १४-१३७ || मातङ्गमालिनीयुग्मं भृङ्गा च कलहंसिनी | गायकेन समायुक्ता तथा वै विश्वतोमुखी || १४-१३८ || गजःनन्दिकया युक्तो गीतिश्च तदनन्तरम् | नर्तकः सह रञ्जिन्या खेलः कान्तिसमन्वितः || १४-१३९ || उन्मत्तः कलकण्ठे च मत्तकश्च वृकोदरी | मेघः श्यामान्वितो देवी विमलश्रीः क्रमात्प्रिये || १४-१४० || मातृकार्णैर्न्यसेद्देवि मातृकावत्सदाऽनघे | अनेन न्यासयोगेन त्रैलोक्यक्षोभको भवेत् || १४-१४१ || बालायास्रिपुरेशान्या नवयोन्यङ्कितं न्यसेत् | श्रोत्रयोश्चुबुके चैव शङ्खास्येषु दृशोर्नसि || १४-१४२ || अंसद्वये च हृदये न्यसेत्कूर्परकुक्षिषु | जान्वन्धुपादगुह्येषु पार्श्वहृत्सु स्तनद्वये || १४-१४३ || कण्ठे च नवयोन्याख्यं न्यसेद्बीजत्रयात्मकम् | पुनर्बालां समुच्चार्य षोडशार्णां प्रविन्यसेत् || १४-१४४ || पुनर्बालां समुच्चार्य चतुरस्रं च चिन्तयेत् | गोलकं न्यासयोगेन श्रीचक्रं परिचिन्तयेत् || १४-१४५ || षट्चक्रेषु ललाटे च सीमन्ते च शिरोबिले | नव स्थानानि संकल्प्य न्यसेद्देवि ततः परम् || १४-१४६ || श्रीविद्यां ब्रह्मरन्ध्रे च पृष्ठतो गुरवः क्रमात् | तिथिनित्यास्ततो देवि मातृकास्वरसंयुताः || १४-१४७ || मातृकावन्न्यसेद्वक्त्रे सर्वसौभाग्यदायकाः || १४-१४८ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे श्रीविद्यान्यासविधानं नाम चतुर्दशः पटलः || १४ || अथ पञ्चदशः पटलः ईश्वर उवाच-- शृणु देवि प्रवक्ष्यामि नित्यामण्डलमुत्तमम् | कामेश्वरी महाविद्या सर्वलोकवशंकरी || १५-१ || बालां तारं च हृत्प्रान्ते कामेश्वरिपदं लिखेत् | इच्छाकामफलप्रान्ते प्रदेसर्वपदं लिखेत् || १५-२ || ततः सत्त्ववशं ब्रूयात्करिसर्वजगत्पदम् | क्षोभणान्ते करि ब्रूयाद्धुंकारत्रितयं लिखेत् || १५-३ || पञ्च बाणान्समालिख्य संहारेण कुमारिकाम् | एषा कामेश्वरी नित्या प्रसङ्गात्कथिताऽद्रिजे || १५-४ || वाग्भवं भगशब्दान्ते भुगे भगिनि चाऽऽलिखेत् | भगोदरीति वर्णान्ते१ च भगमाले भगावहे || १५-५ || भगगुह्ये भगप्रान्ते योनिप्रान्ते भगान्तिके | निपातिनि च सर्वान्ते ततो भगवशंकरि || १५-६ || भगरूपे ततो लेख्यं नीरजायतलोचने | नित्यक्लिन्ने भगप्रान्ते स्वरूपे सर्व चाऽऽलिखेत् || १५-७ || भगानि मे ह्यानयेति वरदेति समालिखेत् | रेत सुरेते भग च क्लिन्ने क्लिन्नद्रवे ततः || १५-८ || क्लेदय द्रावयाथो च सर्वसत्त्वान्भगेश्वरि | अमोघे भगविच्चे च क्षुभ क्षोभय सर्व च || १५-९ || सत्त्वान्भगेश्वरि ब्रूयाद्वाग्भवं ब्लूंजमादिमम् | भेब्लूं भोब्लूं च हेंब्लूं च हें क्लिन्ने च ततः परम् || १५-१० || सर्वाणि च भगान्यन्ते मे वशं चाऽऽनयेति च | स्त्रीबीजं च हर प्रान्ते बलेमात्मकमक्षरम् || १५-११ || भुवनेशीं समालिख्य विद्येयं भगमालिनी | प्रसङ्गात्कथिता पञ्चचत्वारिंशच्छताक्षरी || १५-१२ || पराबीजं समुच्चार्य नित्यक्लिन्ने मदद्रवे | अग्निजायान्वितो मन्त्रो नित्यक्लिन्नेयमीरिता || १५-१३ || सर्वसौभाग्यदात्री च सर्वैश्वर्यप्रदायिनी | प्रणवं पूर्वमुच्चार्य तथाऽङ्कुशयुगं लिखेत् || १५-१४ || तन्मध्ये विलिखेद्देवि भरोमात्मकमक्षरम् | चवर्गमन्त्यहीनं तु विलिखेद्वह्निसंस्थितम् || १५-१५ || चतुर्दशस्वरोपेतं बिन्दुनादाङ्कितं पृथक् | वह्निजायान्वितो मन्त्रो भेरुण्डायाः फलप्रदः || १५-१६ || भुवनेशीं समुच्चार्य चतुर्थ्या वह्निवासिनीम् | हृदन्तोऽयं मनुर्देवि नित्येयं वह्निवासिनी || १५-१७ || प्रणवं भुवनेशानि फरेमात्मकमक्षरम् | सविसर्गः शशी पश्चान्नित्यक्लिन्ने मदद्रवे || १५-१८ || वह्निजायान्विता विद्या सर्वैश्वर्यप्रदायिनी | महाविद्येश्वरी नित्या प्रसङ्गेन मयेरिता || १५-१९ || पराबीजं समुच्चार्य शिवदूतीं च ङेयुताम् | हृदन्तोऽयं मनुर्देवि दूतीयं सर्वकामदा || १५-२० || ओंकारबीजमुच्चार्य परां कवचमालिखेत् | खे च छे क्षः समालिख्य स्त्रीबीजं च समालिखेत् || १५-२१ || हूंकारं क्षे परा चास्त्रं विद्येयं द्वादशाक्षरी | त्वरिता नाम नित्येयं त्रिषु लोकेषु दुर्लभा || १५-२२ || सर्वसिंहासनमयी बालेव कुलसुन्दरी | बालया पुटितां कुर्यात्तथा वै नित्यभैरवी || १५-२३ || पञ्च बाणाश्च देवेशी नित्या शक्राक्षरी भवेत् | त्रैलोक्यविमला विद्या नित्याख्या परमेश्वरी || १५-२४ || पञ्चाक्षरी बाणबीजैनीत्येयमपरा प्रिये | प्रणवं भुवनेशानी फरेमात्मकमक्षरम् || १५-२५ || स्रूमात्मकं द्वितीयं च भुवनेश्यङ्कुशं ततः | नित्यशब्दं समुद्धृत्य संबुद्ध्या तु मदद्रवाम् || १५-२६ || कवचं चाङ्कुशं पञ्चदशैर्नीलपताकिनी | वान्तं कालसमायुक्तं वह्निवायुगतं ततः || १५-२७ || पृथक्पञ्समायुक्तं ततः शक्रस्वरान्वितम् | बिन्दुनादाङ्कितं बीजं नित्येयं विजया प्रिये || १५-२८ || चन्द्रवारुणसंयुक्तं तारबीजं समालिखेत् | चतुर्थ्या तु ततो देवि विलिखेत्सर्वमङ्गलाम् || १५-२९ || हृदन्तोऽयं मनुर्देवि नित्येयं सर्वमङ्गला | तारं हृद्भगवत्यन्ते ज्वालामालिनी देवि च || १५-३० || द्विरुच्चार्य च सर्वान्ते भूतसंहारकारिके | जातवेदसि संलिख्य ज्वलन्तिपदयुग्मकम् || १५-३१ || ज्वलेतिप्रज्वलद्वन्द्वं हुंकारद्वितयं लिखेत् | वह्निबीजत्रयं हुं च अस्त्रस्वाहृन्वितो मनुः || १५-३२ || इयं नित्या महादेवि ज्वालामालिनिका परा | कवर्गान्तं स्वरान्तं च शक्रस्वरविभूषितम् || १५-३३ || बिन्दुनादकलाक्रान्तं विचित्रा परमेश्वरी | अकारादिषु सर्वेषु स्वरेषु क्रमतो न्यसेत् || १५-३४ || अःस्वरे परमेशानि श्रीविद्यां विश्वमातृकाम् | स्वरवद्विन्यसेन्नित्या नीरजायतलोचने || १५-३५ || प्रकटाद्या न्यसेत्पश्चादाधारादिषु मन्त्रवित् | स्थितिन्यासं ततः कुर्याच्छ्रीविद्याषोडशाक्षरैः || १५-३६ || पञ्चाङ्गुलीषु करयोर्ब्रह्मरन्ध्रे मुखे हृदि | त्रयं विन्यस्य नाभ्यादिपादान्ते चैकमद्रिजे || १५-३७ || गलादिनाभिपर्यन्तमपरं हि ततः परम् | ब्रह्मरन्ध्रादिकण्ठान्तमेकं विन्यस्य पादयोः || १५-३८ || अङ्गुलीषु च विन्यस्य न्यासोऽयं स्थितिकारकः | सृष्टिन्यासं ततः कुर्यात्सर्वसिद्धिप्रदायकम् || १५-३९ || ब्रह्मरन्ध्रेऽलिके नेत्रश्रुतिघ्राणोष्ठकेषु च | दन्तान्तरोर्ध्वके देवि जिह्वायां गलकूपके || १५-४० || पृष्ठे सर्वाङ्गहृदयस्तनकुक्षिषु लिङ्गके | श्रीविद्यार्णैर्न्यसेद्देवि मन्त्रं सर्वसमृद्धये || १५-४१ || सर्वाङ्गे विन्यसेत्पश्चाद्व्यापकत्वेन सुन्दरि | प्राणानायम्य विधिवन्मुद्रासन्नद्धविग्रहः || १५-४२ || संक्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः | खेचरी बीजरूपा च योनिमुद्रेत्यनुक्रमात् || १५-४३ || बीजानि वक्ष्ये क्रमतो मुद्राणां परमेश्वरि | पञ्चबाणैः पञ्च मुद्राः क्रोमात्मकमक्षरम् || १५-४४ || आद्यं तु रुद्रभैरव्या बीजं सादाशिवं ततः | ततस्तु वाग्भवं देवि क्रमेण हि चतुष्टयम् || १५-४५ || चतुर्मुद्रासु बीजानि नवमुद्रास्वनुक्रमात् | अथ वक्ष्ये महेशत्नि मुद्राविवरणं क्रमात् || १५-४६ || वामहस्तेन मुष्टिं तु बद्ध्वा कर्णप्रदेशके | तर्जनीं सरलां कृत्वा भ्रामयेत्तन्त्रवित्तमः || १५-४७ || सौभाग्यदण्डिनी मुद्रा न्यासकाले तु सूचिता | अन्तरङ्गुष्ठमुष्ट्या तु निरुध्य जगतीमिमाम् || १५-४८ || रिपुजिह्वाग्रहा मुद्रा न्यासकाले तु सूचिता | पाणिद्वयं महेशानि परिवर्तनयोगतः || १५-४९ || योजयित्वा तर्जनीभ्यामनामे वारयेत्प्रिये | मध्यमे योजयेन्मध्ये कनिष्ठे तदधस्तथा || १५-५० || अङ्गुष्ठावपि संयोज्य त्रिधा युग्मक्रमेण तु | त्रिखण्डा नाम मुद्रेयं त्रिपुराह्वानकर्मणि || १५-५१ || विरलौ तु करौ कृत्वा मध्यमे मध्यमे कुरु | अङ्गुष्ठाभ्यां कनिष्ठे च संपीड्य सरले ततः || १५-५२ || तर्जन्यौ दण्डवत्कुर्यान्मध्यमस्थ ह्यनामिके | सर्वसंक्षोभिणी मुद्रा त्रैलोक्यक्षोभकारिणी || १५-५३ || मध्यमे तर्जनीयुक्ते सरले स्यात्तदा भवेत् | सर्वविद्राविणी मुद्रामोहयेत्सचराचरम् || १५-५४ || मध्यमे तर्जनीयुग्मे वक्रे कुर्यात्सुलोचने | एतस्या एव मुद्रायास्तदा कर्षणकारिणी || १५-५५ || विपरीतौ तलौ कृत्वा चाङ्गुली हृन्मुखा यजेत् | परिवर्तनमार्गेण क्रमेण निबिडास्ततः || १५-५६ || अङ्गुष्ठावग्रदेशे तु तर्जन्यावङ्कुशाकृती | सर्वा एकत्र संयोज्य सर्ववश्यकरी भवेत् || १५-५७ || पुटाञ्जलिकरौ कृत्वा मध्यमागर्भसंस्थिते | परस्परकनिष्ठे तु तर्जन्यग्रगते ततः || १५-५८ || अनामिके तु सरले मध्यमामुखदेशगौ | अङ्गुष्ठौ परमेशानि सर्वोन्मादनकारिणी || १५-५९ || एतस्या एव मुद्राया अनामातर्जनीक्रमात् | अङ्कुशाकारूपा तु मुद्रेयं तु महाङ्कुशा || १५-६० || वामं भुजं दक्षभुजे दक्षिणं वामदेशतः | निवेश्य योजयेत्पश्चात्परिवर्त्य क्रमेण हि || १५-६१ || कनिष्ठानामिकायुग्मे तर्जनीभ्यां निरोधयेत् | मध्यमे सरले कृत्वा योनिवत्सरलौ ततः || १५-६२ || अङ्गुष्ठौ खेचरी मुद्रा पाथीवस्थानयोजिनी | प्रियेयं सर्वदेवानां खेचरत्वप्रदायिनी || १५-६३ || परिवर्त्याञ्जलिं कृत्वा कनिष्ठाग्रगते ततः | मध्यमे स्थापयेद्देवि कनिष्ठे धारयेत्ततः || १५-६४ || अनामिकाभ्यां सुदृढं तर्जनीमध्यमायुगम् | अङ्गुष्ठाभ्यां समायोज्यमर्धचन्द्राकृतिं प्रिये || १५-६५ || बीजमुद्रेयमाख्याता सर्वानन्दकरी पिरये | परिवर्त्य करौ सम्यक्तर्जनीवामने समे || १५-६६ || मध्यमे कुरु तन्मध्ये योजयेत्तदनन्तरम् | अन्योन्यानामिके देवि कनिष्ठे तु यथास्थिते || १५-६७ || अङ्गुष्ठाभ्यां योजिताभ्यां योन्याकारं तु कारयेत् | योनिमुद्रेयमाख्याता परा त्रैलोक्यमातृका || १५-६८ || एवं विन्यस्तदेहः सन् मुद्रासन्नद्धविग्रहः | अन्तर्यागविधिं कुर्याद्येन साक्षात्स्वयं विभुः || १५-६९ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे श्रीविद्यान्यासविवरणं नाम पञ्चदशः पटलः || १५ || अथ षोडशः पटलः श्री देव्युवाच -- अन्तर्यागविधिं देव बहिर्यागविधिं तथा | सकलं कथयेशान यद्यहं तव वल्लभा || १६-१ || ईश्वर उवाच -- शृणु देवि प्रवक्ष्यामि यजनं चाऽऽन्तरं महत् | मूलादिब्रह्मरन्ध्रान्तं बिसतन्तुतनीयसीम् || १६-२ || उद्यत्सूर्यप्रभाजालविद्युत्कोटिप्रभामयी | चन्द्रकोटिप्रभाद्रावां त्रैलोक्यैकप्रभामयीम् || १६-३ || अशेषजगदुत्पत्तिस्थितिसंहारकारिणीम् | ध्यायेन्मनो यथा देवीं निश्चलं जायते तथा || १६-४ || सहजानन्दसंदोहमन्दिरं भवति क्षणात् | मनो निश्चलतां प्राप्तं शिवशक्तिप्रभावतः || १६-५ || समाधिर्जायते तत्र संज्ञाद्वयविजृम्भितः | स्वयंप्रज्ञातनामैको ह्यसंप्रज्ञातनामधृत् || १६-६ || स्वयंप्रज्ञातसंज्ञस्तु शक्त्याधिक्येन जायते | असंप्रज्ञातनामैको शिवाधिक्येन वै भवेत् || १६-७ || स्वयंप्रज्ञातभेदस्तु तीव्रस्तीव्रतरो भवेत् | असंप्रज्ञातभेदस्तु मन्दो मन्दतरस्तथा || १६-८ || (संज्ञा प्रज्ञान यत्रैवं स्वयंप्रज्ञोऽभिधीयते | असंप्रज्ञो हि भूयस्तु स्थितप्रज्ञः प्रतिष्ठितः || १६-९ || प्रज्ञाप्रज्ञानमेवेदमसंस्मयमिति द्वयम् | संज्ञाद्वयमिदं देवि शिवतत्त्वेन वै भवेत् || १६-१० || हास्यरोदनरोमाञ्चकम्पस्वेदादिलक्षणः | तीव्रस्तीव्रतरो देवि समाधिरुपलक्षितः || १६-११ || निमेषवजीते नेत्रे वपुस्तल्लक्षणं स्थिरम् | मन्दो मन्दतरो देवि समाधिः परिकीतीतः || १६-१२ || शाम्भवेन च वेद्येन सुखी भूयान्निरन्तरम् | अन्तर्यागविधिं कृत्वा बहिर्यजनमाचरेत् || १६-१३ || एवं विन्यस्तदेहः सन्सर्वात्मा साधकोत्तमः | ध्यायेन्निरामयं वस्तु जगत्त्रयविमोहिनीम् || १६-१४ || अशेषव्यवहाराणां स्वामिनीं संविदं पराम् | उद्यत्सूर्यसहस्राभां दाडिमीकुसुमप्रभाम् || १६-१५ || जपाकुसुमसंकाशां पद्मरागमणिप्रभाम् | स्फुरत्पद्मनिभां तप्तकाञ्चनाभां सुरेश्वरीम् || १६-१६ || रक्तोत्पलदलाकारपादपल्लवराजिताम् | अनर्घ्यरत्नखचितमञ्जीरचरणद्वयाम् || १६-१७ || पादाङ्गुलीयकक्षिप्तरत्नतेजोविराजिताम् | कदलीललितस्तम्भसुकुमारोरुकोमलाम् || १६-१८ || नितम्बबिम्बविलसद्रक्तवस्त्रपरिष्कृताम् | मेखलाबद्धमाणिक्यकिङ्किणीनादविभ्रमाम् || १६-१९ || अलक्ष्यमध्यमां निम्ननाभिं शातोदरीं पराम् | रोमराजिलतोद्धूतमहाकुचफलान्विताम् || १६-२० || सुवृत्तनिबिडोत्तुङ्गकुचमण्डलराजिताम् | अनर्घ्यमौक्तिकस्फारहारभारविराजिताम् || १६-२१ || नवरत्नप्रभाराजद् ग्रैवेयकविभूषणाम् | श्रुतिभूषामनोरम्यकपोलस्थलमञ्जुलाम् || १६-२२ || उद्यदादित्यसंकाशताटङ्कसुमुखप्रभाम् | पूर्णचन्द्रमुखीं पद्मवदनां वरनासिकाम् || १६-२३ || स्फुरन्मदनकोदण्डसुभ्रुवं पद्मलोचनाम् | ललाटपट्टसंराजद्रत्नाढ्यतिलकाङ्किताम् || १६-२४ || मुक्तामाणिक्यघटितमुकुटस्थलकिंङ्किणीम् | स्फुरच्चन्द्रकलाराजन्मुकुटां च त्रिलोचनाम् || १६-२५ || प्रवालवल्लीविलसद्बाहुवलीचतुष्टयाम् | इक्षुकोदण्डपुष्पेषुपाशाङ्कुशचतुर्भुजाम् || १६-२६ || सर्वदेवमयीमम्बां सर्वसौभाग्यसुन्दरीम् | सर्वतीर्थमयीं दिव्यां सर्वकामप्रपूरिणीम् || १६-२७ || सर्वमन्त्रमयीं नित्यां सर्वागमविशारदाम् | सर्वक्षेत्रमयीं देवीं सर्वविद्यामयीं शिवाम् || १६-२८ || सर्वयागमयीं विद्यां सर्वदेवस्वरूपिणीम् | सर्वशास्रमयीं नित्यां सर्वागमनमस्कृताम् || १६-२९ || सर्वाम्नायमयीं देवीं सर्वायतनसेविताम् | सर्वानन्दमयीं ज्ञानगह्वरां संविदं पराम् || १६-३० || एवं ध्यात्वा परामम्बां वहन्नासापुटं क्रमात् | आवाह्य चक्रमध्ये तु मुद्रया हि त्रिखण्डया || १६-३१ || संस्थितां चिन्तयेत्तत्र श्रीपीठान्तनीवासिनीम् | मुद्राः संदर्शयेद्देवि तर्पणैस्तु त्रिधा यजेत् || १६-३२ || लयाङ्गं कल्पयेद्देहे देव्यास्तु परमेश्वरि | गन्धपुष्पाक्षतादींश्च देव्यै सम्यङ् निवेदयेत् || १६-३३ || उपचारैः षोडशभिः संपूज्य परदेवताम् | तर्पणानि पुनर्दद्यात्त्रिवारं मूलविद्यया || १६-३४ || एतस्मिन्समये देवि तिथिनित्यां प्रपूजयेत् | कामेश्वर्यादिका नित्या विचित्रान्ताः परेश्वरि || १६-३५ || प्रतिपत्पौर्णमास्यन्ततिथिरूपाः प्रपूजयेत् | विभाव्य च महात्र्यस्रं पूर्वदक्षोत्तरं क्रमात् || १६-३६ || रेखासु विलिखेत्तत्र पञ्चपञ्च क्रमेण हि | अकराद्या उवर्णान्ता दक्षिणस्यां विचिन्तयेत् || १६-३७ || ततश्च पूर्वरेखायामूकारादिकपञ्चकम् | विलिख्योत्तररेखायां शक्त्यादि विलिखेत्ततः || १६-३८ || अनुस्वारान्तमन्त्रस्तु विसर्गे षोडशीं यजेत् | वामावर्तेन देवेशि नित्याः षोडश कीतीताः || १६-३९ || प्रतिपत्तिथिमारभ्य पौर्णमास्यन्तमद्रिजे | एकैकां पूजयेन्नित्यां महासौभाग्यमाप्नुयात् || १६-४० || कृष्णपक्षे महेशानि पूजयेत्तिथिमण्डलम् | विचित्राद्या वरारोहे यावत्कामेश्वरी भवेत् || १६-४१ || पूजनीया विलोमेन भक्त्या तु परमेश्वरि | कलाः षोडश देवेशि यस्तु चन्द्रकलाः क्रमात् || १६-४२ || तिथिनित्यां त्रिधा देवि पूजयेद्भाग्यहेतवे | पुनः श्रीत्रिपुरानित्या यजेत्सौभाग्यहेतवे || १६-४३ || स सौभाग्यं महादेवि प्राप्नोति गुरुशासनात् | कामेश्वर्यादिका नित्याः पूजयित्वा क्रमात्ततः || १६-४४ || एतस्मिन्समये देवि गुरुन्संपूजयेद्बुधः | पुष्पसंकोचयोगेन कथयामि तवानघे || १६-४५ || रश्मिवृन्दं दलमितं गुरवस्तु शताधिकाः | तस्मांत्संकोचयेत्पुष्पममिताः सिद्धिहानिदाः || १६-४६ || नष्टसंततिविज्ञेया मिताः सर्वसमृद्धिदाः | पुष्पं संकोचयेन्नोचेद्द्वादशे नष्टसंततिः || १६-४७ || संतत्या नष्टरूपः सन्न भवेद्देवताप्रियः | अत एव मया सम्यक्पुष्पं संकुचितं प्रिये || १६-४८ || कामराजाख्यविद्याया गुरवस्तु समृद्धिदाः | मध्यप्राक्त्र्यश्रमध्ये हि गुरुपङ्क्तिं त्रिधाऽर्चयेत् || १६-४९ || परारब्धान्पूजयेदादौ परापरविभक्तिकान् | ततोऽपरांस्त्रिधा देवि गुरुन् संपूजयेत्प्रिये || १६-५० || दिव्यौघे तु परान्विद्धि सप्तसंख्यान्वरानने | आनन्दनाथशब्दान्ता गुरवः पुरुषाः प्रिये || १६-५१ || स्त्रियः पराम्बाशब्दान्ता विज्ञेया वीरवन्दिते | परप्रकाशो देवेशि ततः परशिवो मतः || १६-५२ || परा शक्तिस्तथा देवि कौलेश्वर इति प्रिये | शुक्ला देवि कुलेशानकामेश्वर्यम्बिकाः क्रमात् || १६-५३ || मुनिसंख्यास्तु गुरवः पराख्या दिव्यरूपिणः | भोगक्लिन्नस्तु समयो वेदाख्यः सहजस्तथा || १६-५४ || परापराख्यसिद्धौघे मानवौघे शृणु प्रिये | गगनो विश्वविमलौ मदनो भुवनस्तथा || १६-५५ || लीला स्वात्माप्रियः पश्चान्नागसंख्यास्तु मानवाः | अपराः परमेशानि नियता अक्षरा इमे || १६-५६ || एतत्त्रयं तु नियतं देशिकानां हिताय च | मयोद्धृतं महेशानि पुष्पं संकुचितं प्रिये || १६-५७ || मानवौघान्तिके पश्चात्स्वगुरुत्रितयं यजेत् | परमेष्ठी गुरुः पश्चाद्गुरुः परमसंज्ञितः || १६-५८ || स्वगुरुश्च महेशानि पुजयेत्तु गुरुत्रयम् | अथ वा मानवौघान्त एकं स्वगुरुमर्चयेत् || १६-५९ || अयं प्रकारः कथितः प्रकारान्तरमुच्यते | वन्द्यं सर्वप्रकाराणां मानवौघाष्टकादथ || १६-६० || गुरवो नवसंख्याका इह यावद्भवन्ति हि | नवचक्रेश्वरी यस्मात्तावत्पुष्पं प्रकाशयेत् || १६-६१ || मानवौघे तदा देवि दशसप्त भवन्ति हि | पश्चात्संकोचयेत्पुष्पं नवमं श्रीगुरुं यजेत् || १६-६२ || अज्ञातगुरुशिष्याणां कथयामि वरानने | गुरुभ्यो नम उच्चार्य पादुकाभ्यो नमो लिखेत् || १६-६३ || गुर्वन्ते परमान्ते च गुरुभ्यो नम इत्यपि | एतेषां पादुकास्तद्वदाचार्येभ्यो नमो वदेत् || १६-६४ || आचार्यपादुकास्तद्वत्पूर्वसिद्धास्तु पादुकाः | सामान्यगुरुशिष्याणां गुरुपङ्क्तिरियं भवेत् || १६-६५ || गुरुपङ्क्तिं प्रपूज्याथ स्वयं श्रीत्रिपुरा भवेत् | गुरुपङ्क्तिविहीनस्तु पुरुषः पङ्क्तिवजीतः || १६-६६ || सामान्यगुरुपङ्क्तित्वान्न भवेत्पङ्क्तिवजीतः | पुष्पसंकोचमार्गोऽयं मया सिद्धः कृतः प्रिये || १६-६७ || कृपया परमेशानि साधकानां हिताय च | कामराजाख्यगुरवः श्रीविद्याविषये क्रमात् || १६-६८ || लोपामुद्राख्यविद्याऽप्यान् गुरुञ्शृणु वरानने | परमाद्यशिवश्चाऽऽद्या कामेश्वर्यम्बिका तथा || १६-६९ || दिव्यौघश्च महौघश्च सर्वानन्दस्ततः परम् | प्रज्ञादेव्यम्बिका पश्चात्प्रकाशः सप्तमो भवेत् || १६-७० || दिव्याः पराख्यगुरवो लोपामुद्राप्रभामयाः | दिव्यश्चित्रश्च कैवल्यदेव्यम्बा च महोदयाः || १६-७१ || सिद्धाः परापरा ज्ञेया मानवौघे शृणु प्रिये | विद्या शक्तिश्च विश्वश्च चतुर्थः कोमलो भवेत् || १६-७२ || पञ्चमस्तु परानन्दो मनोहर इति प्रिये | स्वात्मानन्दः सप्तमस्तु प्रतिभोऽष्टम उच्यते || १६-७३ || अपराख्या इमे देवि गुरवः परिकीतीताः | पूर्ववद्योजयेत् पश्चादष्टानन्तरमेव च || १६-७४ || त्रयं वा स्वगुरुं वाऽपि नवान्तं वाऽब्जलोचने | दक्षिणामूतीशिष्याणां गुरुक्रम उदाहृतः || १६-७५ || संप्रदाया अनेके च ज्ञातव्याः स्वगुरुक्रमात् | संप्रदायविहीनस्य न दद्यात्पङ्क्तिमुत्तमाम् || १६-७६ || साधारणास्तु गुरवः सर्वभेदेषु वै समाः | गुरुक्रमं प्रपूज्याथ यजेदाम्नायदेवताः || १६-७७ || त्रैलोक्यमोहने देवि सर्वाशापरिपूरके | सर्वसंक्षोभणे चक्रे पूर्वाम्नायं प्रपूजयेत् || १६-७८ || सर्वसौभाग्यदे चक्रे तथा सर्वार्थसाधके | सर्वरक्षाकरे चक्रे दक्षाम्नायं प्र पूजयेत् || १६-७९ || मध्यचक्रत्रये देवि पश्चिमाम्नायमर्चयेत् | नवचक्रेषु देवेशि कौबेराम्नायमर्चयेत् || १६-८० || बैन्दवे परमेशानि मध्यसिंहासनं यजेत् | अनेनैव प्रकारेण पूजयेत्पञ्च पञ्चिकाः || १६-८१ || श्रीविद्या च प्ररं ज्यौतिः परा निष्कलशाम्भवी | अजया मातृका चेति पञ्च कोशाः प्रकीतीताः || १६-८२ || श्रीविद्या च तथा लक्ष्मीर्महालक्ष्मीस्तथैव च | त्रिशक्ति सर्वसाम्राज्या पञ्च लक्ष्म्यः प्रकीतीताः || १६-८३ || श्रीविद्या त्वरिता चैव पारिजातेश्वरी तथा | त्रिपुटा पञ्चबाणेशी पञ्च कल्पलताः स्मृताः || १६-८४ || श्रीविद्या मूलपीठेशी सुधा श्रीरमृतेश्वरी | अन्नपूर्णेति विख्याताः पञ्चैताः कामधेनवः || १६-८५ || श्रीविद्यां सिद्धलक्ष्मीश्च मातङ्गी भुवनेश्वरी | वाराहीति च संमोक्ताः पञ्च रत्नाः प्रकीतीताः || १६-८६ || मूलविद्या महेशानि श्रीविद्या परिकीतीता | वारुणान्तं वह्निसंस्थं बिन्दुनादसमन्वितम् || १६-८७ || वामनेत्रसमायुक्तं लक्ष्मीबीजमुदाहृतम् | श्रीबीजं तु पराबीजं लक्ष्मीबीजमुदाहृतम् || १६-८८ || प्रणवं पूर्वमुच्चार्य ह्रीमात्मकं समुच्चरेत् | श्रीपुटां च नु कमले कमलाग्रे प्रसीदतु || १६-८९ || लये मध्यगतां भूमिं रुद्रस्थाने नियोजयेत् | प्रसीद युगलं दद्याच्छ्रीबीजं भुवनेश्वरीम् || १६-९० || श्रिया बीजं ततो दद्यान्महालक्ष्मी च { श्च} हृन्मनुः | सप्तविंशतिवर्णात्मा महालक्ष्मीमनुर्मतः || १६-९१ || श्रीबीजं च पराबीजं कामराजं समालिखेत् | इयं त्रिशक्तिर्देवेशि त्रिषु लोकेषु दुर्लभा || १६-९२ || चन्द्रेण मादनं लक्ष्मीर्देवी दीर्घाक्षिमण्डिता | विष्णुक्रूरेश्वरीयुक्ता रित्ययं वैष्णवीयुता (?) || १६-९३ || श्रीबीजसंपुटं कुर्यात्सर्वशास्त्रप्रदायिनी | प्रणवं पूर्वमुच्चार्य पराहंसं समुद्धरेत् || १६-९४ || ततः सोऽहं शिरो देवि वसुवर्णोऽयमीरितः | वेदादिकेवला देवी परा निष्कलशाम्भवी || १६-९५ || हंसोऽजपार्णान्तः त(वर्णवस्त)त्र मातृकेति प्रकीतीता(तः) | प्रणवं भुवनेशानी वियच्चन्द्राग्निवायवम् || १६-९६ || भुवनेशी ध्रुवं चैव सरस्वत्यै नमो लिखेत् | इयं तु पारिजातेशी पारिजातरतोपमा || १६-९७ || काण्डवानीश्वरीविद्या प्रसङ्गात्कथिता मया | त्रिबीजं च पराबीजं सकामा त्रिपुटोदिता || १६-९८ || पञ्चकामेश्वरीविद्या बालान्यासे समीरिता | वाग्भवं वामनेत्रं च ध्रुवान्तं बिन्दुसंयुतम् || १६-९९ || मूलपीठेश्वरीविद्या सुगुप्ता कथिता मया | पराबीजं तु श्रीबीजं बालायामाद्यमक्षरम् || १६-१०० || राज्यदे राजलक्ष्मीति चन्द्रः सर्गविभूषितः | बिलोमान्यादिबीजानि सुधा श्रीश्च प्रकीतीताः (ता) || १६-१०१ || वाग्भवं भुवनेशानि श्रीबीजं तदनन्तरम् | वियत्तदादिखफलेमित्यवर्णं समालिखेत् || १६-१०२ || वियत्तदादिकं तं च फ्रानित्येव मनुर्मतः | चवर्गतृतीयं तुर्यं मायारेफेन्दुसंयुत्तम् || १६-१०३ || महाचण्डं समुद्धृत्य संकर्षणीति संलिखेत् | कालमहान इत्युक्त्वा वियदिन्दुसमन्वितः (?) || १६-१०४ || मायाबीजं तु कथितः सिद्धलक्ष्म्या महामनुः | अन्नपूर्णा च देवेशि उत्तराम्नायकीतीता || १६-१०५ || मातङ्गिन्येति चांशं वाङ्मायाश्रीसंपुटं लिखेत् | इयं मातङ्गिनी विद्या द्वादशार्णा प्रकीतीता || १६-१०६ || वियदग्निसमायुक्ता वामनेत्रेन्दुविभूषितम्(ता) | भुवनेशी महेशानि दुर्लभा भुवनत्रये || १६-१०७ || वाग्भवं पूर्वमुद्धृत्य संबुद्ध्या भगवत्यपि | वार्ताली द्वे च वाराही युग्मवाराहमुख्यपि || १६-१०८ || अन्धे अन्धिन्यै नत्यन्तं रुन्धिनी तत्परः परम् | जम्भे जम्भिन्यै नत्यन्तं मोहे मोहिन्यै युतं नमः || १६-१०९ || स्तम्भे स्तम्भिन्यै हृद्युक्तममुकं स्तम्भनद्वये | सर्वदुष्टप्रदुष्टानां सर्वेषां सर्वमुच्चरेत् || १६-११० || जिह्वास्तम्भं कुरु द्वन्द्वं शीघ्रवश्यं कुरु द्वयम् | वाग्क्कूट त्रयं वाचं मन्त्रपावकवल्लभा || १६-१११ || महाविद्येयमाख्याता सर्वतन्त्रेषु गोपिता | श्री देव्युवाच -- मन्त्रास्तु कथिता देव सर्वतन्त्रेषु गोपिताः || १६-११२ || तानाराध्य कथं लोका जायन्ते भुवि दुर्लभाः | एतत्सर्वं महादेव कथय त्वं सुविस्तरम् || १६-११३ || ईश्वर उवाच -- साधु पृष्टं त्वया भद्रे लोकानां हितकाम्यया | अविज्ञातमनस्तत्त्वं भजता दुःसुता यथा (?) || १६-११४ || कथ्यतेऽत्र तथा देवि सर्वतन्त्रेषु गोपितम् | मन्त्राविशोधनं कुर्यान्मन्त्राणां च विशुद्धये || १६-११५ || चतुरस्रभुवं भित्त्वा कृत्वा रेखात्रयं त्रयम् | वृत्तः षोडशके चैव ततो वर्णान् समालिखेत् || १६-११६ || इन्द्राग्नि रुद्रनवनेत्रयुगेन दिक्षु ऋत्वष्टषोडशचतुर्दश भौतिकेषु | पाताल पञ्चदशवह्निहिमांशुकोष्ठे वर्णाल्लिखेल्लिपिभवान्क्रमशस्तु धीमान् || १६-११७ || मन्त्राद्यसाधकानां तु नामार्णः पतति ध्रुवम् | सिद्धिस्थानं च विज्ञेयं द्वितीयं साध्यनामकम् || १६-११८ || सुसिद्धं तु तृतीयं स्याच्चतुर्थमरिसंज्ञकम् | सिद्धः सिध्यतिकालेन साध्यः सिध्यति वा न वा || १६-११९ || सुसिद्धस्तत्क्षणादेव साधकं भक्षयेदरिः | सिद्धसिद्धो जपात्सिद्धिद्वीगुणात्सिद्धसाध्यकः || १६-१२० || सिद्धसुसिद्धः संग्राहात्सिद्धारिर्हन्ति वै द्विजान् | साध्यः सिध्यति संक्लेशात्साध्यसाध्योऽतिदुःखकृत् || १६-१२१ || साध्यः सुसिद्धो भजनात्साध्यारिः स्वाश्रयं हरेत् | सुसिद्धसिद्धोऽध्ययनात्फलं दद्युर्यथेप्सितम् || १६-१२२ || सुसिद्धसाध्यो जपाद्यैः सिद्धिर्यस्मादतोऽन्यथा | सुसिद्धे तु सुसिद्धस्तु पूर्वजन्मकृतश्रमात् || १६-१२३ || संस्मात्तु सर्वं सिद्धानां साधको यो जपेन्मनुः | अभिचारे रिपोरवं यदि स्यान्भुविपन्नयोः (?) || १६-१२४ || संसिद्धेऽरिविशेषेण स्वकुलान्नाशयेद्ध्रुवम् | अरिसिद्धस्तु संहन्यादरिसाध्यं तु योषितः || १६-१२५ || अरिसिद्धस्वमन्त्रश्च कुलाच्छादनकृच्छलैः | अर्यरिस्वामहामन्त्रप्राप्तेन सुनिश्चितम् {?} || १६-१२६ || एतदुक्तं महेशानि त्यक्त्वाऽन्यमतमुत्तमम् | स्वप्नलब्धे स्त्रिया दत्ते मालमन्त्रे त्रिबीजके || १६-१२७ || सिद्धादिशोधनं देवी न वै तेषां तु विद्यते | श्रीविद्यापूजनस्थाने चक्रराजे महेश्वरि || १६-१२८ || महाकोशेश्वरावृन्दमण्डिता सनसंस्थिता || १६-१२९ || सर्वसौभाग्यजननीपादुकां पूजयामि च | इत्युच्चार्य परं ज्योतिःकोशाद्यां पूजयेत्सुधीः || १६-१३० || अनेनैव प्रकारेण पूजयेत्पञ्चपञ्चिकाः | शैवं तु दर्शनं देवि बैन्दवे पूजयेत्प्रिये || १६-१३१ || परितो दर्शनं शाक्तं चक्रस्य परमेश्वरी | ब्राह्मं तु दर्शनं पूज्यं भूबिम्बे प्रथमे प्रिये || १६-१३२ || शिवस्य वामतो देवि वैष्णवं दर्शनं यजेत् | सृष्टिचक्रे भवेत्सूर्यदर्शनं कमलेक्षणे || १६-१३३ || स्थितिचक्रे तु संपूज्यं बौद्धदर्शनमुत्तमम् | एवं संपूज्य सकलं श्रीविद्यां परितोषयेत् || १६-१३४ || तर्पणानि पुनर्दद्यात्त्रिवारं तत्त्वमुद्रया | अङ्गुष्ठानामिकाभ्यां तु तत्त्वमुद्रेयमीरिता || १६-१३५ || पुष्पं समर्पयेद्देवि मुद्रया ज्ञानसंज्ञया | अङ्गुष्ठतर्जनीयोगाज्ज्ञानमुद्रा प्रतिष्ठिता || १६-१३६ || सर्वोपचारैराराध्य मुद्राः संदर्शयेत्क्रमात् | अथाङ्गावरणं कुर्याच्छ्रीविद्यामनुसंभवम् || १६-१३७ || अग्नीशासुरवायव्यमध्यदिक्ष्वङ्गपूजनम् | मायालक्ष्मीमयं बीजयुग्मं पूर्वक्रमेण तु || १६-१३८ || कथितं योजयेद्देवि त्रयं वा परमेश्वरि | संपुटक्रमयोगेन चाथवा वीरवन्दिते || १६-१३९ || संयोज्य पूजयेत्सर्वाः क्रमादेव वरानने | त्रैलोक्यमोहने चक्रे प्रकटा योगिनीर्यजेत् || १६-१४० || चतुरस्रे चतुर्द्वारे शोभिते सिद्धिदायकाः | अणिमां पश्चिमद्वारे दक्षभागे प्रपूजयेत् || १६-१४१ || लघिमामुत्तरद्वारे दक्षभागे प्रपूजयेत् | पूर्वद्वारे तु महिमामुत्तरे पूजयेत्प्रिये || १६-१४२ || ईशित्वसिद्धिंर्देवेशि दक्षिणद्वारि पूर्ववत् || १६-१४३ || वशित्वसिद्धिं वायव्ये तेनैव क्रमयोगतः || १६-१४४ || इच्छासिद्धिं पूर्वभागे नैरृत्ये च प्रपूजयेत् | प्राप्तिसिद्धिः सर्वकामा सिद्धिश्च परमेश्वरि || १६-१४५ || अधोर्ध्वक्रमरूपेण ज्ञातव्ये सुरसुन्दरि | ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा || १६-१४६ || वाराही च तथा षष्ठी चामुण्डा सप्त मातरः | अष्टमी तु महालक्ष्मीः पश्चिमादिक्रमेण हि || १६-१४७ || वामभागे तु संपूज्या वायव्यादि च पूर्ववत् | संक्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः || १६-१४८ || खेचरीबीजयोन्याख्यास्त्रिखण्डां च प्रपूजयेत् | एताः संपूज्य चक्रेशीं त्रिपुरां पूजयेत्पराम् || १६-१४९ || अणिमासिद्धिपुरतः सर्वकार्यार्थसाधिकाम् | सर्वसंक्षोभिणीं मुद्रां दर्शयेत्कमलानने || १६-१५० || सर्वाशापूरकं चक्रं गुप्तयोगिन्यधिष्ठितम् | षोडशारं ततो देवि पूजयेत्कार्यसिद्धये || १६-१५१ || कामाकषीणिकां देवि बुध्द्याकषीणिकां तथा | अहंकाराकषीणीं च शब्दाकर्षणरूपिणीम् || १६-१५२ || स्पर्शाकषीणिरूपां च रूपाकषीणिरूपिणीम् | रसाकर्षकरीं चैव गन्धाकर्षणकारिणीम् || १६-१५३ || चित्ताकषीणिकां तद्वद्धैर्याकषीणिकां प्रिये | नामाकषीणिकां चैव बीणाकषीणिकां तथा || १६-१५४ || अमृताकषीणीं चैव बीजाकषीणिकां प्रिये | शरीराकषीणीं चैव आत्माकर्षणरूपिणीम् || १६-१५५ || पश्चिमादिविलोमेन षोडशारे स्वरान्विताः | एता नित्याः कलाः पूज्याः स्रवत्पीयूषमण्डलाः || १६-१५६ || चक्रेश्वरीं यजेद्देवीं त्रिपुरेशीं समृद्धिदाम् | कामाकर्षणरूपायाः पुरतः पूजयेत्प्रिये || १६-१५७ || सर्वविद्राविणीं मुद्रां दर्शयित्वा निवेदयेत् | सर्वसंक्षोभणे चक्रे यजेद्गुप्ततराभिधाः || १६-१५८ || अनङ्गकुसुमां प्राच्यां कवर्गेण प्रपूजयेत् | दक्षिणे च चवर्गेण तथा चानङ्गमेखलाम् || १६-१५९ || अनङ्गमदनां पश्चाट्टवर्गेण प्रपूजयेत् | तवर्गेणोत्तरे पश्चादनङ्गमदनातुराम् || १६-१६० || अनङ्गरेखामाग्नेये पवर्गेण प्रपूजयेत् | राक्षसेऽनङ्गवेगां तु यवर्गेण प्रपूजयेत् || १६-१६१ || वायव्ये तु शवर्गेण तथाऽनङ्गाङ्कुशां यजेत् | ईशान्ये लक्षवर्गेण पूज्याऽनङ्गादिमालिनी || १६-१६२ || चक्रेश्वरीं यजेद्देवीं ततस्त्रिपुरसुन्दरीम् | अनङ्गकुसुमाग्रे च सर्वसाम्राज्यदायिनीम् || १६-१६३ || सर्वाकर्षणमुद्रां च दर्शयेत्सुरवन्दिते | चक्रपूजां निवेद्याथ चतुर्थं चक्रमर्चयेत् || १६-१६४ || सर्वसंक्षोभिणी शक्तिः सर्वविद्राविणी तथा | सर्वाकषीणिका शक्तिः सर्वाह्लादनकारिणी || १६-१६५ || सर्वसंमोहिनी शक्तिः सर्वस्तम्भनकारिणी | सर्वजृम्भिणिका शक्तिः सर्वावशकरी तथा || १६-१६६ || सर्वार्थरञ्जिनी शक्तिर्नवमी परमेश्वरी | सर्वोन्मादनिका शक्तिः शक्तिः सर्वार्थसाधिका || १६-१६७ || सर्वसंपत्तिपूर्णा च सर्वमन्त्रमयी तथा | चतुर्दशारशक्तिस्तु सर्वद्वन्द्वक्षयंकरी || १६-१६८ || सर्वसौभाग्यदे चक्रे पश्चिमादिविलोमतः | वाममार्गेण देवेशि संपूज्याः सर्वसिद्धिदाः || १६-१६९ || सर्वसंक्षोभिणी शक्तिः पुरतः पूजयेत्ततः | चक्रेश्वरी सिद्धिदात्रीं परां त्रिपुरवासिनीम् || १६-१७० || वश्यमुद्रां प्रदर्श्याथ निवेद्य तदनन्तरम् | सर्वार्थसाधके चक्रे दशारे कुलयोगिनीः || १६-१७१ || पूजयेत्सर्वकार्यार्थसिद्धिदाः पञ्चमे क्रमात् | सर्वसिद्धिप्रदा देवी सर्वसंपत्प्रदा तथा || १६-१७२ || सर्वप्रियकरी देवी सर्वमङ्गलकारिणी | सर्वकामप्रपूर्णा च सर्वदुःखप्रमोचनी || १६-१७३ || सर्वमृत्युप्रशमनी सर्वविघ्ननिवारिणी | सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी || १६-१७४ || पश्चिमादिविलोमेन दशारे पूजयेदिमाः | सर्वसिद्धिप्रदा देवि पुरतश्चक्रनायिकाम् || १६-१७५ || सर्वसिद्धिप्रदां देवि पूजयेत्त्रित्पुराश्रियम् | सर्वोन्मादनमुद्रां च दर्शयित्वा निवेद्य च || १६-१७६ || सर्वरक्षाकरे चक्रे नगर्भा योगिनीर्यजेत् | सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदा ततः || १६-१७७ || सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी | सर्वाधारस्वरूपा च सर्वपापहरा तथा || १६-१७८ || सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी | सर्वेप्सितार्थफलदा देव्यः सर्वसमृद्धिदाः || १६-१७९ || पश्चिमादिविलोमेन पूजयेत्पङ्क्तयोनिके | सर्वज्ञापुरतो देवि चक्रेशीं मालिनीं यजेत् || १६-१८० || महाङ्कुशां महामुद्रां दर्शयित्वा निवेद्य च | मध्यचक्रे महेशानि योगिनीः पूजयेत्प्रिये || १६-१८१ || सर्वरोगहरे चक्रे वसुकोणे सुरेश्वरि | रहस्ययोगिनीर्देवि वशिन्याद्यास्तु सिद्धिदाः || १६-१८२ || पश्चिमादिविलोमेन पूर्वोक्ताः पूजयेत्क्रमात् | वशिनीपुरतः पूज्या सिद्धाम्बा चक्रनायिका || १६-१८३ || खेचरीं दर्शयेन्मुद्रां निवेद्यानन्तरं ततः | सर्वसिद्धिप्रदे चक्रे त्रिकोणे सर्वकामदे || १६-१८४ || परापररहस्याख्ययोगिनीः परिपूजयेत् | पञ्च बाणान्समुच्चार्य कामकामेश्वरीमयान् || १६-१८५ || जम्भनाख्यान्महेशानि पूजयेद्बाणदेवताम् | धमात्मकं कामचापं द्वितीयं तु थमात्मकम् || १६-१८६ || कामेश्वर्या मोहनाख्यां पूजयेच्चापदेवताम् | द्वितीयं भुवनेशानीपाशयुग्मं वशंकरम् || १६-१८७ || कामेशस्य च कामेश्यास्त्रैलोक्याकर्षणं प्रिये | अङ्कुशाख्यं करोमात्मबीजं स्तम्भनसंज्ञकम् || १६-१८८ || कामेशस्य च कामेश्या अङ्कुशं पूजयेत्प्रिये | षडङ्गावरणद्वाह्ये समीपे क्रमतो यजेत् || १६-१८९ || पश्चिमादिक्रमेणैव चतुदीक्षु प्रपूजयेत् | कामेश्वरीं रुद्रशक्तिमाद्यकूटेन चाग्रतः || १६-१९० || द्वितीयेन च कूटेन कामाख्येन च वैष्णवीम् | दक्षकोणे समभ्यर्च्य तृतीयेन च पूजयेत् || १६-१९१ || भगमालां ब्रह्मशक्तिमुत्तरे विश्वमातृकाम् | चक्रेश्वरीमम्बिकाख्यां कामेशीपुरतो यजेत् || १६-१९२ || बीजमुद्रामुपास्याथ चक्रपूजां निवेदयेत् | सर्वानन्दमये चक्रराजे बैन्दवसंज्ञके || १६-१९३ || ब्रह्मरूपे चित्स्वरूपे संविद्वेद्ये शृणु प्रिये | परापररहस्याख्यां योगिनीं त्रिपुरां यजेत् || १६-१९४ || कूटत्रयं समुच्चार्य सर्वविद्यास्वरूपकम् | समस्तदेवतारूपं सर्ववस्तुमयं यजेत् || १६-१९५ || चक्रेशीमपि तामेव महात्रिपुरसुन्दरीम् | श्रीविद्यां षोडशार्णां च भुक्तिमुक्तिफलप्रदाम् || १६-१९६ || समस्तचक्रचक्रेशीं सर्वागमनमस्कृताम् | सर्वाम्नायेश्वरीं विद्यालंकृतां ब्रह्मरूपिणीम् || १६-१९७ || उपचारैः समभ्यर्च्य गन्धपुष्पाक्षतादिभिः | तर्पणानि पुनर्दद्यात्त्रिवारं मूलविद्यया || १६-१९८ || योनिमुद्रां प्रदर्श्याथ मुद्राः संदर्शयेत्क्रमात् | वनस्पतिरसोत्पन्नैः पवित्रै रम्यगन्धिभिः || १६-१९९ || दशाङ्गाद्यैर्धूपवर्यैर्धूपयेत्परमेश्वरीम् | (कस्तूरीकुङ्कुमं देवि गुग्गुलं शालसंभवम् || १६-२०० || चन्दनागरुकर्पूरसिताज्यमधुसंयुतम् | धूपयेद्देशिको नित्यं सर्वसौभाग्यसिद्धये || १६-२०१ || धूपमन्त्रेण देवेशि त्रैलोक्यस्यापि दुर्लभम् | अभितो वेदिकाचक्रं दीपमाला घृतप्लुताः || १६-२०२ || कर्पूररचिताश्चापि तैलपूर्णास्तु वा यजेत् | धूपदीपौ निवेद्याथ तर्पयेत्पूर्ववत्प्रिये || १६-२०३ || आरातीकविधिं कुर्यात्पूर्ववद्देववन्दिते | अन्यदारातीकं वक्ष्ये सर्वकाममपूरकम् || १६-२०४ || स्वर्णादिनिमीते पात्रे मध्ये चक्रं लिखेद्बुधः | तण्डुलोल्लासितं कृत्वा नवधा कारयेत्ततः || १६-२०५ || नव गोलांश्चन्द्ररूपान्विरच्य तदनन्तरम् | शर्करागर्भभरितान्मण्डकान्युग्मरूपकान् || १६-२०६ || विरच्य घटिकाः कार्या योजयित्वा तु सप्तकम् | सप्तसप्तप्रकारेण घटिका नव योजयेत् || १६-२०७ || अष्टकोणेषु संस्थाप्य गोलकांञ्चोपरि क्षिपेत् | चणमुद्रा विकीर्याथ दीपकान्घृतपाचितान् || १६-२०८ || मुष्टिकाकृतिमुष्टिश्च स्थापयेत्तत्र तत्र तु | दीपान्प्रज्वाल्य पश्चात्तु पञ्चरत्नैः प्रपूजयेत् || १६-२०९ || पञ्चसिंहासनगता विद्यास्तत्र प्रपूजयेत् | आमस्तकं समुद्धृत्य नववारं पुनः पुनः || १६-२१० || नवावरणवद्देवि परिभ्राम्य पुनः पुनः | उत्तीर्य स्थापयेत्पश्चाद्दीपमालामयं महः || १६-२११ || नेत्रयोः सुस्थिरं ध्यायेदारातीकविधिः प्रिये | नैवेद्यं षड्र्सोपेतं सितापूपादिसंयुतम् || १६-२१२ || शर्करापूरभरितमण्डकैः पायसान्वितम् | मुक्ताकर्पूरधवलं शुद्धौदनसुपूरितम् || १६-२१३ || घृतकर्पूरशोभाढ्यं सम्पूर्णघृतमण्डितम् | नानाव्यञ्जनशोभाढ्यं वटकैः कुङ्कुमप्रभैः || १६-२१४ || माषान्नभरितं नानारसपानविराजितम् | घृतक्षीरेण भरितं चतुर्मुद्राविराजितम् || १६-२१५ || संकल्प्य परमेशान्यै नित्यहोमविधिं चरेत् | मूलेन प्राणसहिता आहुतीः पञ्च होमयेत् || १६-२१६ || षडाहुतीः षडङ्गानां नित्यहोमः प्रकीतीतः | उपविश्याऽऽसने रम्ये वामभागे ततः परम् || १६-२१७ || वहत्करोर्ध्वपुटतः साधको भूमिजानुकः | मण्डलं चतुरस्रं तु तन्मध्ये विलिखेत्प्रिये || १६-२१८ || त्रिकोणमध्ये व्योमाख्यं मण्डलं पूजयेत्ततः | व्यापकान्ते मण्डलाय हृदन्तो वाग्भवं परम् || १६-२१९ || मुखे कृत्वा पूजनीयं मण्डलं मनुना प्रिये | एतन्मण्डलमभ्यर्च्य मण्डलानां चतुष्टयम् || १६-२२० || ईशानवह्निनैरृत्यवायुकोणेषु पूर्ववत् | मण्डलानि निधायाथ पूर्ववत्पूजयेत्प्रिये || १६-२२१ || पूर्ववद्बलिदानं च दद्यात्सर्वसमृद्धये | बटुकाय महेशानि योगिनीभ्यश्च वल्लभे || १६-२२२ || क्षेत्रपालगणेशाभ्यां पूर्ववद्बलिमुत्सृजेत् | वामभागे कृतस्याथ मण्डलस्योपरि क्षिपेत् || १६-२२३ || आधारं पूजयेत्तत्र पात्रं चान्नोदकान्वितम् | सकारणं मन्त्रयित्वा सर्वभूतबलिं हरेत् || १६-२२४ || षोडशार्णेन मनुना त्रिवारं वीरवन्दिते | तारं च भुवनेशानि सर्वविघ्नपदं ततः || १६-२२५ || कृद्भ्यश्च सर्वभूतेभ्यो हुंकारं वह्निवल्लभाम् | समुच्चरन्बलिं दद्यान्मुद्रया तत्त्वसंज्ञया || १६-२२६ || बलिपञ्चकमाख्यातं सर्वरक्षाकरं सताम् | एकत्र वा पञ्च बलीन्दद्याद्व्यापकमण्डले || १६-२२७ || वामभागे स्थितो देवि सर्वविघ्नहरो भवेत् | चक्रमभ्यर्च्य सकलं विधिवत्परमेश्वरि | श्रीगुरोः कृपया देवि सर्वज्ञः सर्वतत्त्ववित् || १६-२२८ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे उमामहेश्वरसंवादे श्रीविद्यायजन-- विधिर्नाम षोडशः पटलः || १६ || अथ सप्तदशः पटलः श्रीदेव्युवाच -- देवदेव महादेव अश्रुतार्थं महेश्वर | षोडशाक्षरविद्यायाः श्रीचक्रविधिमुत्तमम् || १७-१ || जपादिकं च यत्सर्वमेकैकाक्षरसाधनम् | कथयस्व महेशान यद्यहं तव वल्लभा || १७-२ || ईश्वर उवाच -- शृणु सर्वांगसुभगे श्रीविद्याविधिमुत्तमम् | यस्य विज्ञानमात्रेण कर्ता हर्ता स्वयं विभुः || १७-३ || अनेन विधिना यत्र श्रीचक्रं क्रमसंयुतम् | पूज्यते तत्र सकलं वशी कुर्यान्न संशयः || १७-४ || नगरं वशमायाति देशमण्डलमद्रिजे | योषितः सकला वश्या ज्वलत्कामाग्निपीडिताः || १७-५ || विद्याविमूढहृदयाः साधकन्यस्तमानसाः | तद्दर्शनेन देवेशि जायन्ते सर्वयोषितः || १७-६ || अक्षमालां समाश्रित्य मातृकावर्णरूपिणीम् | अथ मुक्ताफलमयी वाङ्मोक्षफलदायिनी || १७-७ || सर्वसिद्धप्रदा नित्यं सर्वराजवशंकरी | यथा मुक्ताफलमयी तथा स्फटिकनिमीता || १७-८ || रुद्राक्षमालिका मोक्षे सर्वसंपत्समृद्धिदा | प्रवालमाला वश्ये तु सर्वकार्यार्थसाधिका || १७-९ || माणिक्यमाला फलदा साम्राज्यफलदायिनी | पुत्रजीवकमाला तु विद्यालक्ष्मीप्रदा सताम् || १७-१० || पद्माक्षमालया लक्ष्मीर्जायते महती परा | रक्तचन्दनमाला तु सर्वभोगप्रदायिनी || १७-११ || अक्षमालां प्रपूज्याथ चन्दनेन विलेपिताम् | समाश्रित्य जपेद्विद्यां लक्षमात्रं यदा बुधः || १७-१२ || योषितो भ्रमयन्त्येव मनस्तस्य सुनिश्चलम् | तदा द्वितीयलक्षं तु प्रजपेत्साधकोत्तमः || १७-१३ || पातालतलनागेन्द्रकन्यकाः क्षोभयन्ति तम् | तासां कटाक्षजालैस्तु न मोहं याति साधकः || १७-१४ || तदा लक्षत्रयं कुर्यात्साधकः स्थिरमानसः | तृतीयलक्षे संप्राप्ते द्रावयन्ति सुराङ्गनाः || १७-१५ || अभिमानेन सौन्दर्यात्सौभाग्यमदकारिणः | साधकं द्रावयन्त्येव ततश्चासौ मनस्थिरः || १७-१६ || तदा लक्षत्रयं साधु सर्वपापनिकृन्तनम् | एवं लक्षत्रयजपेद् व्रतस्थः स्वस्थमानसः || १७-१७ || संक्षोभयति भूर्लोकस्वर्लोकततलवासिनः | पुरुषा योषितो वश्याश्चराचरमपि प्रिये || १७-१८ || गोरोचनादिभिर्द्रव्यैश्चक्रराजं समालिखेत् | अतीव सुन्दरं रम्यं तन्मध्ये प्रतिमां वराम् || १७-१९ || ज्वलन्तीं नामसहितां महाबीजविदभीताम् | चिन्तयेत्तु ततो देवि योजनानां सहस्रशः || १७-२० || अदृष्टपूर्वा देवेशि श्रुतमात्राऽपि दुर्लभा | राजकन्याऽथ वा चार्वी भयलज्जाविवजीता || १७-२१ || आयाति साधकं सम्यग्मन्त्रमूढा सती प्रिये | चक्रमध्यगतो भूत्वा साधकश्चिन्तयेद्यदा || १७-२२ || उद्यत्सूर्यसहस्राभमात्मानमरुणं तथा | साध्यमप्यरुणीभूतं कृत्वा मन्त्रं जपेद्बुधः || १७-२३ || अनेन क्रमयोगेण स्वयं कन्दर्परूपवान् | सर्वसौन्दर्यसुभगः कामिनीवल्लभो भवेत् || १७-२४ || सर्वलोकेषु सुभगः सर्वलोकवशंकरः | सर्वरक्तोपचारैस्तु मुद्रासनद्धविग्रहः || १७-२५ || चक्रं प्रपूरयेद्यस्तु यस्य नाम विदभीतम् | स भवेद्दासवद्देवि धनाढ्ये वाऽपि भूपतिः || १७-२६ || चक्रमध्यगतं कुर्यान्नाम यस्यास्तु योषितः | अदृष्टाया महेशानि योनिमुद्राधरो बुधः || १७-२७ || हठादानयते शीघ्रं यक्षिणीं राजकन्यकाम् | नागकन्यांसाप्सरसं खेचरीं वा सुराङ्गनाम् || १७-२८ || विद्याधरीं दिव्यरूपामृषिकन्यां रिपुस्रियम् | मदनोद्भवसंतापां स्फुरज्जघनमण्डलाम् || १७-२९ || कामबाणप्रभिन्नान्तःकरणां लोलचक्षुषाम् | महाकामकलाध्यानयोगात्तु सुरवन्दिते || १७-३० || क्षोभयेत्स्वर्गभूर्लोकपातालतलयोषितः | रोचनाभागमेकं तु भागमेकं तु कुङ्कुमम् || १७-३१ || अथ भागद्वयं देवि चन्दनं मर्दयेत्समम् | एकत्र तिलकं कुर्यात् त्रैलोक्यवशकारिणम् || १७-३२ || अष्टोत्तरशतावृत्त्या मन्त्रयित्वा वशं नयेत् | राजानं नगरं ग्रामं तेन यद्यत्प्रद्दश्यते || १७-३३ || मन्त्रिणा परमेशानि तत्सर्वं तस्य वश्यगम् | ताम्बूलं धूपमुदकं पत्रं पुष्पं फलं दधि || १७-३४ || दुग्धं घृतं चूर्णमन्नं वस्त्रं कर्पूरमेव च | कस्तूरी घुसृणं चैलां लवङ्गं जातिपत्रकम् || १७-३५ || फलं वा वस्तु यद्यत्तु सकलं परमेश्वरि | शतमष्टोत्तरं जप्त्वा यस्मै कस्मै प्रयच्छति || १७-३६ || स वश्यो जायते देवि नात्र कार्या विचारणा | स्त्रियस्तु सकला वश्या दासीभूता भवन्ति हि || १७-३७ || जगत्कर्षणमेतत्तु कथितं नान्यथा भवेत् | रहस्यस्थानके मन्त्री लिखेद्रोचनया भुवि || १७-३८ || चारुशृङ्गारवेषाढ्यां सर्वाभरणभूषिताम् | प्रतिमां सुन्दरां गीतां विलिख्य सुमनोहराम् || १७-३९ || तद्भालकण्ठहृन्नाभिजन्ममण्डलयोजिताम् | जन्मनाममहाविद्यामङ्कुशान्तवीदभीताम् || १७-४० || सर्वसन्धिषु देहस्य मदनाक्षरमालिखेत् | लीनं दाडिमपुष्पाभं चिन्तयेद्देहसन्धिषु || १७-४१ || तदाशाभिमुखो भूत्वा स्वयं देवीस्वरूपकः | मुद्रां तु क्षोभिणीं बद्ध्वा मन्त्रमष्टशतं जपेत् || १७-४२ || नियोज्य मदनागारे चन्द्रसूर्यकलात्मके | ततो विकलसर्वाङ्गी कामबाणैः प्रपीडिताम् || १७-४३ || अनन्यमानसां प्रेमभ्रममाणानां मदालसाम् | एवमाकर्षयेन्नारीं योजनानां शतादपि || १७-४४ || मातृकां विलिखेच्चक्रबाह्यतः सकलां प्रिये | भूर्जपत्रे स्वर्णपत्रे रौप्यपत्रेऽथ ताम्रजे || १७-४५ || अवध्यः सर्वजन्तूनां व्याघ्रादीनां विशेषतः | तथैव मातृकायुक्तस्वसंज्ञाचक्रमण्डितः | कर्पूरकुङ्कुमाद्यैस्तु अजरामरतां लभेत् || १७-४६ || अनेन विधिना देवि रोचनागरुकुङ्कुमैः || १७-४७ || विलिखंश्चक्रयोगेण साध्यनाम वरानने | विदभीतं स्वनाम्ना तु यस्मिन्कस्न्निपि स्थितम् || १७-४८ || स्थावरं जङ्गमं चापि सकलं जनमण्डलम् | वशी कुर्यान्महेशानि पादाक्रान्तं न संशयः || १७-४९ || महात्रिपुरसुन्दर्याः कामकूटेन भास्वता | एकमेकमवष्टभ्य साध्यनामाक्षराणि च || १७-५० || बहिरप्यखिलैर्वर्णैर्मातृकायाः प्रवेष्टयेत् | हेममध्यगतं कुर्याच्छिखायां वामके भुजे || १७-५१ || धारयेद्यत्र कुत्रापि त्रैलोक्यवशकारकम् | राजेन्द्रमपि देवेशि दासभूतं करोति हि || १७-५२ || राजानो वाजिनः सर्पा गजा दुष्टा मदोत्कटाः | व्याघ्राः केसरिणो मत्ता वश्यास्तस्य भवन्ति हि || १७-५३ || पूर्वक्रमेण नगरनाम संदर्भ्य शैलजे | मध्ये चतुष्पथे वाऽपि चतुदीक्षु निधापयेत् || १७-५४ || महाक्षोभो योषितां तु जनानां महतामपि | तथैव सर्वदुष्टानां पुरस्थानां च जायते || १७-५५ || एतन्मध्यगतां पृथ्वीं सशैलवनगह्वराम् | ज्वलन्तीं सर्वराजेन्द्रमण्डितां सागराम्बराम् || १७-५६ || मासषट्कं चिन्तयेद्यः साक्षात्कामोपमो भवेत् | कटाक्षक्षेपमात्रेण नार्यस्तस्य वशाः प्रिये || १७-५७ || राजानो ब्राह्मणा वैश्याः शूद्राश्च पशवो जगत् | दृष्ट्वा त्वाकर्षयेद्देवि त्रैलोक्यं सचराचरम् || १७-५८ || सपत्नान्नाशयेद्दृष्ट्वा नात्र कार्या विचारणा | भूतप्रेतपिशाचांश्च ज्वरांश्चातुथीकादिकान् || १७-५९ || शूलगूल्मादिरोगांश्च दृष्ट्वा नाशयते क्षणात् | एतत्सिन्दूरसुभगं रात्रौ संपूजितं प्रिये || १७-६० || योजनानां शताद्वाऽपि सम्यगाकर्षयेस्रियम् | यदा दिक्षु विदिक्ष्वेवं दिविष्ठानपि सुन्दरि || १७-६१ || वशमानयते शीघ्रं सपुत्रपशुबान्धवान् | भूर्जपत्रे समालिख्य रोचनागरुकुङ्कुमैः || १७-६२ || तन्मध्ये नगर देशं मण्डलं खण्डमेव च | नाम्ना विदभीतं स्वस्य पूजयित्वा यथाविधि || १७-६३ || भूमिमध्यगतं कृत्वा त्रैलोक्यं वशमानयेत् | अथ वा धारयेत्कण्ठे शिखायां बाहुमूलके || १७-६४ || यत्र कुत्र स्थितं भद्रे क्षोभयेन्नगरं महत् | अर्कक्षीरेण संयुक्तं धत्तूरकरसं तथा || १७-६५ || रोचनाकुङ्कुमे चैव लाक्षालक्तकसंयुतम् | कस्तूरीचन्द्रसंयुक्तमेकीकृत्य ततः परम् || १७-६६ || चक्रमेतत्समालिख्य यस्य नाम्ना महेश्वरि | तस्य व्याघ्रगजव्याधिरिपुसर्पभयादिकम् || १७-६७ || चोरग्रहजलारिष्टशाकिनीडाकिनीभयम् | भयं न विद्यते देवि परमन्त्राभिचारजम् || १७-६८ || नित्यं संधारयेद्देवि कालमृत्युं विनाशयेत् || १७-६९ || अथवा मध्यगां देवीं त्रिकोणोभयमध्यगाम् | अथ स्वनामसंयुक्तां रोचनाकुङ्कुमाङ्किताम् || १७-७० || निधापयेच्च सप्ताहाद्दासवत्ंकिकरो भवेत् | पीतद्रव्यैः समालिख्य पीतपुष्पैः समर्चयेत् || १७-७१ || पूर्वाशाभिमुखो भूत्वा स्तम्भयेत्सर्ववादिनः | सहस्रवदनो देवि मूढो भवति तत्क्षणात् || १७-७२ || नाम्ना यस्य स वाग्ग्मी हि पाषाण इव जायते | चक्रं विलिख्य देवेशि महानीलीरसेन तु || १७-७३ || नाम संयोज्य विधिवद्दक्षिणाभिमुखो बुधः | वह्नौ दग्ध्वा महेशानि मारणं वैरिणां प्रिये || १७-७४ || महिषाश्वपुरीषाभ्यां सम्यगाधृष्य शैलजे | गोमूत्रेण च संलिख्य नामसंदर्भ्य पूर्ववत् || १७-७५ || क्षिप्त्वाऽऽरनालमध्यस्थं विद्वेषणकरं भवेत् | कृत्वा रोचनया नाम काकपक्षस्य मध्यगम् || १७-७६ || लम्बमानं तदाकाशे शत्रूच्चाटनकारकम् | महानीलीरोचनाभ्यां दुग्धलाक्षारसेन हि || १७-७७ || विलिख्य धारयेन्मन्त्री सर्ववर्णान्वशं नयेत् | अनेनैव विधानेन स्थापयेद्वारिमध्यगम् || १७-७८ || तेनोदकेन संस्नातः पीतं तत्सर्ववश्यकृत् | सौभाग्यं जायते तेन पानीयेन न संशयः || १७-७९ || एतन्मध्यगतां पृथ्वीं नगरीं वा सुलोचने | सप्ताहात्क्षोभयेत्सम्यग्ज्वलमानां विचिन्तयेत् || १७-८० || अथ वक्ष्ये महेशानि महापातकनाशनम् | शिवां संपूजयेद्देवि सुगन्धैः कुसुमैः प्रिये || १७-८१ || महापातकयुक्तात्मा तत्क्षणात्पापहा भवेत् | शमीदूर्वाङ्कुराश्वत्थपलाशैरथ वाऽर्कजैः || १७-८२ || मासेन हन्ति कलुषं सप्तजन्मकृतं नरः | पूर्वाशाभिमुखो भूत्वा पीतद्रव्यैः समर्चयेत् || १७-८३ || पीतस्थाने समालिख्य स्तम्भयेत्सर्ववादिनः | उत्तराशामुखो भूत्वा सिन्दूररजसा लिखेत् || १७-८४ || पूजयेद्विधिवद्विद्वान् सर्वलोकं वशं नयेत् | पश्चिमाभिमुखो भूत्वा चन्दनेन समालिखेत् || १७-८५ || संपूज्य विधिवद्विद्वान् सर्वयोषिन्मनो हरेत् | वल्लभो जायते देवि दासीमिव वशं नयेत् || १७-८६ || यमाशाभिमुखो भूत्वा चक्रे कृष्णं यदाऽर्चयेत् | यस्य नामाङ्कितं तस्य मन्त्रहानिः प्रजायते || १७-८७ || अग्निराक्षसवायव्यशम्भुकोणेषु पूजितम् | पूर्ववत्परमेशानि क्रमेण परिपूजितम् || १७-८८ || स्तम्भविद्वेषणव्याधिशत्रूच्चाटकरं भवेत् | रोचनालिखितं चक्रं क्षीरमध्ये क्षिपेद्बुधः || १७-८९ || सर्ववश्यकरं देवि भवत्येव न संशयः | गोमूत्रमध्यगं सम्यक्शत्रूच्चाटकरं भवेत् || १७-९० || तैलस्थं चक्रराजं तद्विद्वेषणकरं भवेत् | ज्वलज्ज्वलनमध्यस्थं शत्रुनाशकरं भवेत् || १७-९१ || यदेकान्ते चतुर्मार्गे सिन्दूररजसा लिखेत् | सर्वबाह्यत आरभ्य यावन्मध्यं महेश्वरि || १७-९२ || आकारादिक्षकारान्तां मातृकां तत्र विन्यसेत् | पूजयेद्रात्रिसमये कुलाचारक्रमेण तु || १७-९३ || साधकः खेचरो देवि जायते नात्र संशयः | गिरावेकतरौ तद्वदर्चयेत्कुलमार्गतः || १७-९४ || अजरामरतां लब्ध्वा सुखी भवति मान्त्रिकः | श्मशाने पूजयेच्चक्रं महाभूतदिने बुधः || १७-९५ || पूर्वक्रमेण विधिवत्साधकः स्थिरमानसः | खड्गसिद्धिं च मनःसिद्धिं च गुटिकामपि || १७-९६ || पादुकां वेतालसिद्धिं च मनःसिद्धिं च धातुदाम् | महाविवरसिद्धिं च यक्षिणीचेटकोद्भवाम् || १७-९७ || सर्वं तल्लभते मन्त्री नात्र कार्या विचारणा | अथ वक्ष्ये महेशानि श्रीविद्यापूजनं महत् || १७-९८ || ब्रह्महत्यादिदोषाणां पुरश्चरणमुत्तमम् | रक्तपद्मैर्महेशानि पूजयेच्चक्रमुत्तमम् || १७-९९ || समस्तरश्मिसहितं नित्याम्नायपुरस्कृतम् | कुलाचारक्रमाद्देवि कर्पूरक्षोदमण्डितम् || १७-१०० || मासमात्रेण देवेशि महापातककोटयः | जन्मान्तरकृता सर्वा नाशयेन्नात्र संशयः || १७-१०१ || लक्ष्मीस्तस्य गृहे रम्या सुस्थिरा सुरवन्दिते | जपापुष्पैर्महेशानि पूर्ववत्पूजयेच्छिवाम् || १७-१०२ || मासमात्रं क्रमेणैव पूर्ववत्परमेश्वरि | ब्रह्महत्यादिपापांश्च पूर्वजन्मकृतान्प्रिये || १७-१०३ || नाशयेन्नात्र संदेहो धनवाञ्जायते बुधः | केतकैस्तरुणैः पत्रैः पूर्ववत्पूजयेत्प्रिये || १७-१०४ || उपपातकसंघांश्च मासमात्रेण नाशयेत् | सौभाग्यमतुलं तस्य जायते नात्र संशयः || १७-१०५ || शतपत्रैर्मनोरम्यैः पूजयेन्मासमात्रकम् | पूर्ववत्परमेशानि पूर्वपापं विनाशयेत् || १७-१०६ || चम्पकैः सुमनोरम्यैः पूर्ववत्पूजयेच्छिवाम् | मासमात्रेण हन्त्येव पातकाञ्शतजन्मजान् || १७-१०७ || सौभाग्यवान्भवेन्मन्त्री त्रिपुरायाः प्रसादतः | श्वेतपद्मैर्महेशानि महद्भिः पूजयेत्पराम् || १७-१०८ || पूर्ववन्नाशयेत्पापं विंशज्जन्मभवं प्रिये | मासमात्रेण सकलं मोक्षस्तस्य करे स्थितः || १७-१०९ || बन्धूककुसुमैर्देवि मासमात्रं प्रपूजयेत् | त्रैलोक्यं वशगं तस्य पूर्वपापं दहेद्बुधः || १७-११० || बिल्वपत्रैश्च जलजैः सहैव परिपूजयेत् | पूर्ववत्परमेशानि मासमात्रं प्रसन्नधीः || १७-१११ || समृद्धिमान् भवेद्देवि सर्वपापहरः सदा | मल्लिकामालतीजातीकुन्दैश्च शतपत्रकैः || १७-११२ || श्वेतोत्पलैमीश्रितैस्तु पूजयेन्मासमात्रकम् | कुलाचारक्रमेणैव पातकं शतजन्मजम् || १७-११३ || ब्रह्महत्यादिजनितं नाशयेन्नात्र संशयः | मुक्तिस्तस्य करे देवि वाचा जीवसमो भवेत् || १७-११४ || अगस्त्यबाणबन्धूकजपारक्तोत्पलैः प्रिये | पूर्वक्रमेण संपूज्य मासमात्रं प्रसन्नधीः || १७-११५ || पातकं नाशयेन्मन्त्री साक्षात्कामसमो भवेत् | चम्पकैः पाटलैर्दैवि बकुलैर्नागकेसरैः || १७-११६ || कह्लारैः सिन्दुरै रम्यैः पूर्ववत्पूजयेत्क्रमात् | सौभाग्यमतुलं तस्य मासमात्रेण जायते || १७-११७ || पापं विनाशयेद्देवि यदि जन्मसहस्रजम् | इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे श्रीविद्याप्रयोगविधिर्नाम सप्तदशः पटलः || १७ || अथाष्टादशः पटलः ईश्वर उवाच -- रत्नपूजाविधानं तु कथयामि तवानघे | पुष्पाणि रचयेद्देवि माणिक्यरचितानि हि || १८-१ || तैस्तु पूजा प्रकर्तव्या चक्रराजस्य पूर्ववत् | नानापुष्पैः सुगन्धैश्च कर्पूरक्षोदचन्दनैः || १८-२ || एकविंशतिरात्रेण विंशतिं धरणीभुजाम् | दासीभूतां करोत्येव महारोगांश्च नाशयेत् || १८-३ || सूर्यवत्कान्तिमान्मन्त्री जायते नात्र संशयः | मुक्तारत्नैश्च रचयेत्स्वर्णपुष्पाणि सुन्दरि || १८-४ || तैस्तु पूजा प्रकर्तव्या नानापुष्पैश्च पूर्ववत् | एकविंशतिरात्रेण राजपत्न्यो वशाः प्रिये || १८-५ || कलाकान्तियुतो देवि जायते सुभगः क्षितौ | प्रवालघटितैः स्वर्णपुष्पैस्तु बहुभिर्यजेत् || १८-६ || पूर्ववत्परमेशानि कुलाचारक्रमेण तु | पुष्पैश्च विविधैर्देवि त्रिःसप्ताहात्सुरेश्वरि || १८-७ || क्रूरास्तस्य वशाः सर्वे वैरिवर्गान्विनाशयेत् | तथा मरकतक्षिप्तस्वर्णपुष्पैस्तु पूजयेत् || १८-८ || एकविंशतिरात्रेण नानापुष्पैः क्रमं यजेत् | विबुधास्तस्य वरदा वैरी नश्यति नान्यथा || १८-९ || पुष्परागमहारत्नघटितैः स्वर्णनिमीतैः | कुसुमैः पूजयेच्चक्रं त्रिःसप्ताहात्सुरेश्वरि || १८-१० || सुरास्तस्य वशा देवि बृहस्पतिसमो भवेत् | सुवर्णरचितैः पुष्पैर्वज्रकेयूरराजितैः || १८-११ || एकविंशतिरात्रेण मोहयेज्जगतीमिमाम् | दैवदैत्या वशास्तस्य जायन्ते नात्र संशयः || १८-१२ || इन्द्रनीलमयैः स्वर्णपुष्पैश्चक्रं समर्चयेत् | एकविंशतिरात्रेण तथा नीलैश्च नीरजैः || १८-१३ || वैरिणो नाशमायान्ति शेषा वश्या भवन्ति हि | गोमेदेघटितैः पुष्पैः सुवर्णस्य यजेद्बुधः || १८-१४ || किंशुकैश्च कुसुमैश्च पूर्ववत्परमेश्वरि | सप्ताहाद्वैरिणो वश्या घातस्तेषु प्रजायते || १८-१५ || त्रिःसप्ताहान्महापापसंचयं नाशयेत्प्रिये | क्रव्यादजीवा वश्या हि भवन्त्येव न संशयः || १८-१६ || वैदूर्यघटितैः स्वर्णपुष्पैरभ्यर्चयेत्क्रमम् | चम्पकादिभिरभ्यर्च्य त्रैलोक्यं स्तम्भयेत्क्षणात् || १८-१७ || एकविंशतिभिर्वारैः सर्वपापहरो भवेत् | पुष्पैः पर्युषितैर्देवि नार्चयेत्स्वर्णजैरपि || १८-१८ || निर्माल्यभूतैः कुसुमैरुच्छिष्टैः परमेश्वरि | नवरत्नमयैः स्वर्णपुष्पैर्यदि शिवांं यजेत् || १८-१९ || तदा देवा मनुष्याश्च पन्नगा राक्षसादयः | सर्वे वश्या भवन्त्येव त्रिःसप्ताहान्न संशयः || १८-२० || जन्मकोटिभवं पापं नाशयेन्नात्र संशयः | स्वर्णरत्नमयैः पुष्पैर्नवरत्नैः प्रपूजयेत् || १८-२१ || तदाऽश्वमेधदशकं कृतं भवति शैलजे | स्वर्णरत्नादिपूर्णत्वं यदा नास्ति तदा शृणु || १८-२२ || तैरेव पुष्पैः पूजा तु कर्तव्या साधकोत्तमैः | यद्यत्पुष्पं यत्र यत्र दत्तं तत्तत्सुरेश्वरि || १८-२३ || तत्र तत्र प्रदातव्यं न दातव्यं यथेच्छया | अलंकारस्वरूपेण पूजयेच्चक्रनायकम् || १८-२४ || केवलं स्वर्णपुष्पैस्तु त्रैलोक्यं स्तम्भयेच्छिवे | मासमात्रेण पापानि सप्तजन्मभवान्यपि || १८-२५ || नाशयेन्मोहयेत्सर्वां समुद्रवलयां धराम् || १८-२६ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे श्रीविद्यास्वर्णरत्नपूजाविधि-- विवरणं नामाष्टदशकः पटलः || १८ || अथैकोनविंशः पटलः श्रीदेव्युवाच -- त्रिपुरा परमा शक्तिस्त्रैलोक्यवशकारिणी | एतस्याः परमानन्दसाधनं कथय प्रभो || १९-१ || बीजत्रयस्य देवेश यद्यहं तव वल्लभा | ईश्वर उवाच -- एषा विद्या वरारोहे पारम्पर्यक्रमागता || १९-२ || भवबन्धं घातयन्ती संस्मृता पापहारिणी | जपान्मृत्युञ्जयेशानि ध्याता सर्वार्थसाधिका || १९-३ || दुःखदौर्भाग्यदारिद्र्यभयघ्नी पूजिता भवेत् | विघ्नौघशमनी चैव हवनान्नात्र संशयः || १९-४ || पृथग्बीजत्रयस्याहं साधनं कथयामि ते | शुभ्राम्बरपरीधानो गन्धकर्पूरमण्डनः || १९-५ || मुक्ताफलस्फुरद्रूपभूषणः शुभ्रमाल्यधृत् | शुभ्रमन्दिरसंविष्टो ब्रह्मचर्यसमन्वितः || १९-६ || पूजयेच्छुभ्रकुसुमैर्नैवेद्यमपि सूज्ज्वलम् | पायसं घृतसंपन्नं तथाऽमृतफलौदनम् || १९-७ || घृतमोदकसंपन्नं नानाशुभ्रान्नपूरितम् | नैवेद्यं दर्शयेद्देव्यै वागीश्वर्यै सुरेश्वरि || १९-८ || उपचारैः सुशुभ्रैश्च साधयेन्मोक्षवाङ्मयम् | वाग्भवाख्यां जपेद्विद्यां वागीशीं संस्मरन्बुधः || १९-९ || कर्पूरधवलां शुभ्रपुष्पाभरणभूषिताम् | अत्यन्तशुभ्रवसनां वज्रमौक्तिकभूषणाम् || १९-१० || मुक्ताफलामलमणिजपमालालसत्कराम् | पुस्तकं वरदानं च दधतीमभयप्रदाम् || १९-११ || एवं ध्यायेन्महेशानि सर्वविद्याधिपो भवेत् | मूलादिब्रह्मरन्ध्रान्तं स्रवत्पीयूषवषीणीम् || १९-१२ || तस्माज्ज्योतिर्मयीं ध्यायेज्जिह्वां दीपस्वरूपिणीम् | पाषाणेन समो वाऽपि मूर्खो जीवसमो भवेत् || १९-१३ || अथ कामकलाशक्तिसाधकः परमेश्वरि | रक्तालंकारसुभगो रक्तगन्धानुलेपनः || १९-१४ || रक्तवस्त्रावृतः सम्यङ्मध्ये कामकलात्मना | रक्तपुष्पैश्च विविधैः कुङ्कुमादिभिरर्चयेत् || १९-१५ || मूलादिब्रह्मपर्यन्तं स्फुरद्दीपस्वरूपिणीम् | बन्धूककुसुमाकारकान्तिभूषणभूषिताम् || १९-१६ || इक्षुकोदण्डपुष्पेषुवरदाभयसत्कराम् | तदीयकायसिन्दूरभरितं भुवनत्रयम् || १९-१७ || चिन्तयेत्परमेशानि त्रैलोक्यं मोहयेत्क्षणात् | राजानो वशमायान्ति पन्नगा राक्षसाः सुराः || १९-१८ || कन्दर्प इव देवेशि योषितां मानहारकः | मनश्चिन्तितयोषित्तु दासीव वशगा भवेत् || १९-१९ || चलच्चलेन्दुसंकाशां तरुणारुणविग्रहाम् | चिन्तयेद्योषितां योनौ क्षोभयेत्सुरसुन्दरीः || १९-२० || किं पुनर्मानुषीर्देवि त्रैलोक्यमपि मोहयेत् | एषैव चिन्तिता देवी सिन्दूराभा हृदि क्षणात् || १९-२१ || आकर्षयेत्तदा शीघ्रं रम्भां वाऽपि तिलोत्तमाम् | रक्तवर्णां स्त्रियं ध्यात्वा तदीयसहसत्तमः (?) || १९-२२ || तस्या र्मूध्नि स्मरेद्बीजान्स्रवत्पीयूषवषीणीम् | ध्यायन्संमोहयेद्देवि मदनोत्तप्तमानसाम् || १९-२३ || क्षणमात्रेण वेशि त्रैलोक्यं वशमानयेत् | एतत्कामकलाध्यानात्पञ्च कामा वरानने || १९-२४ || मोहयन्ति जगत्सर्वं प्रयोगं शृणु पार्वति | पूर्वोक्तकामा देवेशि ज्ञातव्याः पञ्चसंज्ञकाः || १९-२५ || विदर्भ्याद्येन कामेन मन्मथान्तर्गतं कुरु | कन्दर्पसंपुटं कृत्वा कोणगर्भगतं ततः || १९-२६ || मकरध्वजसंज्ञं तु सर्वमेतद्वरानने | मीनकेतुगतं कुर्यान्मोहयेज्जगतीमिमाम् || १९-२७ || त्रैलोक्यमोहनं नाम योगोऽयं परिकीतीतः | शृणु देवि प्रवक्ष्यामि शक्तिबीजस्य साधनम् || १९-२८ || सृष्टिसंहारपर्यन्तं शरीरे चिन्तयेत्पराम् | स्रवत्पीयूषधाराभिर्वर्षन्तीं विषहारिणीम् || १९-२९ || हेमप्रभाभासमानां विद्युन्निकरसुप्रभाम् | स्फुरच्चन्द्रकलापूर्णकलशं वरदाभयौ || १९-३० || ज्ञानमुद्रां च दधतीं साक्षादमृतरूपिणीम् | ध्यायन्विषं हरेन्मन्त्री नानाकारव्यवस्थितम् || १९-३१ || एतस्याः स्मरणाद्देवि नीलकण्ठत्वमागतः | अहं मृत्युञ्जयो भूत्वा विचरामि जले स्थले || १९-३२ || वैनतेयसमो मन्त्री विषभारसहस्रनुत् | भूतप्रेतपिशाचांश्च नाशयेद्रोगसंचयम् || १९-३३ || चातुथीकज्वरान्सर्वानपस्मारांश्च नाशयेत् | अथ त्रिकूटा सम्पूर्णा महात्रिपुरसुन्दरी || १९-३४ || चिन्तिता साधकस्याऽऽशु त्रैलोक्यवशकारिणी | क्रमेण नाभिहृद्वक्त्रमण्डलस्थाऽरुणप्रभा || १९-३५ || पद्मरागमणिस्वच्छा चिन्तनात्सुरवन्दिते | तस्याष्टगुणमैश्वर्यं सौभाग्यं च प्रजायते || १९-३६ || तन्नाम संस्मरन्मन्त्री योगिनीनां भवेत्प्रियः | मातृचक्रं तस्य काये तेन सार्धं सुखी भवेत् || १९-३७ || पुत्रवान् देवदेवेशि मन्त्री ध्यानान्न संशयः | यदा चक्रस्थिता पूर्णा खेचरी सिद्धिदायिनी || १९-३८ || चतुःषष्टिर्यतः कोट्यो योगिनीनां महौजसाम् | चक्रमेतत्समाराध्य संस्थिता वीरवन्दिते || १९-३९ || आदौ संबन्धिनि पदे बीजाष्टकं बहिः | कलां ध्यात्वाऽङ्गनासङ्गे कामराज इवापरः || १९-४० || पाशाङ्कुशधनुर्बाणैर्मादनैर्मोहयेत्प्रिये | त्रैलोक्यसुन्दरीं देवीं किं पुनर्मर्त्ययोषितः || १९-४१ || तथैव शक्तिसंबन्धशस्त्रैस्तन्मयविग्रहः | सिद्धगन्धर्वदेवांश्च वशी कुर्यान्न संशयः || १९-४२ || एतामाराध्य देवेशि कामः सौभाग्यसुन्दरः | हरिश्च परमेशानि त्रिपुरासाधनात्प्रिये || १९-४३ || त्रैलोक्यमोहनो भूत्वा स्थितिकर्ताऽभवत्सदा | एतत्समाराधनेन ब्रह्मा सृष्टिकरोऽभवत् | चन्द्रसूर्यौ वरारोहे सृष्टिसंहारकारकौ || १९-४४ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रेत्रिपुराबीजत्रयसाधनविधि-- र्नामैकोनविंशः पटलः || १९ || अथ विंशः पटलः श्रीदेव्युवाच -- जपहोमविधिं ब्रूहि येन विघ्नं विनाशयेत् | साधकानां हिताय त्वं वद शंकर सुव्रत || २०-१ || ईश्वर उवाच -- शृणु देवि प्रवक्ष्यामि जपहोमविधिं प्रिये | चक्रं समर्चयेद्देवि सकलं नियतव्रतः || २०-२ || बाह्यं मध्यगतं वाऽपि मध्यं वा चक्रमर्चयेत् | उपचारैः समाराध्य सहस्रं प्रजपेच्छुचिः || २०-३ || तदग्रे संस्थितो मन्त्री तदनन्तफलं भवेत् | ध्यात्वाऽथ वा चक्रराजमत्र पूजासमन्वितम् || २०-४ || जपारम्भं सुधीः कुर्यान्महापातकहा भवेत् | निगदेनोपांशुना वा मानसेनाथ वा जपेत् || २०-५ || निगदः परमेशानि स्पष्टवाचा निगद्यते | अव्यक्तस्तु स्फुरद्वक्त्र उपांशुः परिकीतीतः || २०-६ || मानसस्तु वरारोहे चिन्तनाक्षररूपवान् | निगदेन तु यज्जप्तं लक्षमात्रं वरानने || २०-७ || उपांशुस्मरणेनैव तुल्यं भवति शैलजे | उपांशु लक्षमात्रं तु यज्जप्तं कमलेक्षणे || २०-८ || मानसोच्चारणात्तुल्यमेकेन परमेश्वरि | मुद्रासंनद्धदेहः सन्पूर्वोक्तध्यानयोगतः || २०-९ || लक्षमात्रं जपेद्यस्तु महापापैः प्रमुच्यते | लक्षद्वयेन पापानि सप्तजन्मभवान्यपि || २०-१० || महापातकमुख्यानि नाशयेन्नात्र संशयः | ततो लक्षत्रयं जप्त्वा यस्तु मन्त्रं कुलेश्वरि || २०-११ || महापातककोटीस्तु नाशयेन्नात्र संशयः | चतुर्लक्षं जपेद्देवि स हि वागीश्वरो भवेत् || २०-१२ || कुबेर एव देवेशि पञ्चलक्षान्न संशयः | षड्लक्षजपमात्रेण महाविद्याधरो भवेत् || २०-१३ || सप्तलक्षजपान्मन्त्री खेचरीमेलको भवेत् | अष्टलक्षजपान्मन्त्री देवपूज्यो भवेन्नरः || २०-१४ || अणिमाद्यष्टसिद्धीनां नायको भवति प्रिये | वशगास्तस्य राजानो योषितस्तु विशेषतः || २०-१५ || नवलक्षप्रमाणं तु जपेत् त्रिपुरसुन्दरीम् | रुद्रमूतीः स्वयं कर्ता हर्ता साक्षान्न संशयः || २०-१६ || सर्ववन्द्यः सदा सर्वस्वस्थः सौभाग्यभाग्भवेत् | यत्र वा कुवचिद्भागे लिङ्गं यत्पश्चिमामुखम् || २०-१७ || स्वयंभूबाणलिङ्गं वा वृषशून्यं जलस्थितम् | पश्चिमायतनं चापि इतरद्वाऽपि सुव्रते || २०-१८ || शक्तिक्षेत्रेषु गङ्गायां नद्यां पर्वतमस्तके | पवित्रे सुस्थले देवि जपेद्विद्यां प्रसन्नधीः || २०-१९ || तत्र स्थित्वा जपेल्लक्षं साक्षाद्देवीस्वरूपकः | ततो भवति विद्येयं त्रैलोक्यवशकारिणी || २०-२० || एवं जपेद्यथाशक्ति होमकर्म समारभेत् | किंशुकैर्हवनं कुर्याद्दशांशेन वरानने || २०-२१ || कुसुम्भकुसुमैर्दैवि मधुत्रयविमिश्रितैः | विधिनोक्तप्रकारेण विघ्नौघं नाशयेत्क्षणात् || २०-२२ || सर्वकामप्रदा राज्यभुक्तिमुक्तिफलप्रदा | कुण्डं विरच्य विधिवत्सर्वलक्षणलक्षितम् || २०-२३ || योनिकुण्डं वाक्प्रदं स्यादाकृष्टिकरणं भगम् | लक्ष्मीप्रदं वर्तुलं स्याच्चन्द्रार्धे हि त्रयं भवेत् || २०-२४ || नवत्रिकोणकुण्डं तु खेचरीसिद्धिदायकम् | चतुरस्रं शान्तिलक्ष्मीपुष्टिवृद्ध्यम्बुकारणम् || २०-२५ || षडस्रं सर्वसंपत्तिधनसौभाग्यवर्धनम् | पद्माङ्कं सर्वसंपत्तिकारणं सुरवन्दिते || २०-२६ || अष्टपत्रं वरारोहे समीहितफलप्रदम् | एतानि सर्वकार्याणि चतुरस्रे भवन्ति हि || २०-२७ || शृणु देवि प्रवक्ष्यामि चतुरस्रस्य लक्षणम् | चतुरस्रं समं हस्तमात्रं विरचयेत्सुधीः || २०-२८ || मेखलासहितं देवि शृणु लक्षणमुत्तमम् | पञ्चदशाङ्गुलं खातं रमणीयं यथा भवेत् || २०-२९ || कण्ठदेशेऽङ्गुलं त्यक्त्वा नवाङ्गुलसमुन्नता | षडङ्गुलप्रविस्तारा मेखला प्रथमा भवेत् || २०-३० || द्वितीया मेखला देवि चतुरङ्गुलविस्तरा | सप्ताङ्गुलोच्चा कर्तव्या तृतीया मेखला ततः || २०-३१ || पञ्चाङ्गुलोच्चा देवेशि विस्तारे द्व्यङ्गुला भवेत् | वेदाग्निपक्षविस्तारा कर्तव्या मेखला प्रिये || २०-३२ || कर्तव्यमथ वा खातं द्वादशाङ्गुलसंमितम् | द्वादशाष्टतदर्धैस्तु मेखला देवि कारयेत् || २०-३३ || चतुरङ्गुलमायामो तथा चैवोच्चता भवेत् | कुण्डस्य पश्चिमे भागे योनिं कुर्यात्सुलक्षणाम् || २०-३४ || द्वादशाङ्गुलदीर्घी तु तथाऽष्टाङ्गुलविस्तराम् | अश्वत्थपर्णरूपां तु त्रिकोणां वा विचक्षणः || २०-३५ || अथ चैकतमे पक्षे शृणु वक्ष्ये हि लक्षणम् | अष्टादशाङ्गुलं खातं कुण्डं कुर्याद्विचक्षणः || २०-३६ || चतुरङ्गुलविस्तारा षडङ्गुलसमुन्नता | मेखला पूर्ववत्कार्या योनिश्चापि तथा भवेत् || २०-३७ || चतुवींशाङ्गुलं कुण्डं त्रिकोणं परितः पृथक् | खातं तु पूर्ववत्कुर्यात्कण्ठे हित्वाऽङ्गुलं तथा || २०-३८ || पूर्ववन्मेखलाः कार्या एकाऽपि च तथा भवेत् | योनिस्तद्वन्महेशानि त्रिकोणं परिकीतीतम् || २०-३९ || चतुरस्रेण कुण्डेन समं कुण्डं यथा भवेत् | तथा परिमितं कुर्यात्त्रिकोणादिकमद्रिजे || २०-४० || योनिकुण्डं योनिरूपं भगाङ्कं भगरूपकम् | कुर्यात्त्रिकोणवद्देवि चतुरस्रस्य संख्यया || २०-४१ || चतुर्हस्तमितं सूत्रं वर्तुलाकृति योजयेत् | वर्तुलं रचयेत्तेन खननं पूर्ववद्भवेत् || २०-४२ || मेखला पूर्ववद्योनिस्तथैव परिकीतीता | अर्धचन्द्रं तु कुण्डं हि परिवेषक्रमेण च || २०-४३ || चतुर्हस्तमितं कुर्यादर्धचन्द्रं यथा भवेत् | मेखला योनिसहिता पूर्ववत्परमेश्वरि || २०-४४ || नवत्रिकोणकुण्डं तु कथयामि वरानने | मध्यचक्रेण सदृशं कुण्डं कुर्याद्विचक्षणः || २०-४५ || मध्यत्रिकोणं देवेशि त्रिकोणमिव पूर्ववत् | मेखलारहितं तेन नवकोणं यथा भवेत् || २०-४६ || सन्धिभेदक्रमेणैव ततः कोणाष्टकं भवेत् | खनेत्तत्तत्प्रकारेण गणितेन यथाक्रमम् || २०-४७ || मेखलाः पूर्ववत्कार्यास्त्यक्त्वा कण्ठेऽङ्गुलं क्रमात् | योनिस्तथैव रचयेत्सर्वसौभाग्यवर्धनी || २०-४८ || अष्टपत्रं महेशानि कमलाकृति संभवेत् | चतुरस्रस्य मानेन यथा चाष्टदलं भवेत् || २०-४९ || एकत्र खननं चास्य कुर्यान्नेत्रसुखप्रदम् | मेखला पूर्ववत्कार्या पद्माकृतिसुखावहा || २०-५० || योनिस्तथैव देवेशि कुर्यात्सर्वसमृद्धये | एवं विरच्य कुण्डं हि होमं कुर्याद्विचक्षणः || २०-५१ || दीपस्थानं समाश्रित्य कुण्डस्य रचना भवेत् | वर्तुलं रचयेद्देवि कूर्माकृति सुलोचने || २०-५२ || तन्मध्ये नव कोष्ठानि कृत्वा वर्णान्समालिखेत् | मध्यकोष्ठे क्षेत्रनाम ततोऽन्यत्र समालिखेत् || २०-५३ || स्वरयुग्मं क्रमेणैव दिक्षु चाष्टसु योजयेत् | अवर्गः कथितो देवि कवर्गादिकसप्तमम् || २०-५४ || पूर्वादक्रमतो देवि कुबेरान्तं ततो लिखेत् | लक्षवर्णौ शम्भुकोणे विलिखेत्कूर्मसंज्ञके || २०-५५ || यस्मिन्कोष्ठे क्षेत्रनाम तन्मुखं विद्धि पार्वति | मुखस्य पार्श्वयोः पाणियुग्मं जानीहि पार्वति || २०-५६ || ततः पार्श्वद्वयं कुक्षिस्थानं हि सुरवन्दिते | ततः पादद्वयं विद्धि चान्ते पुच्छं प्रकीतीतम् || २०-५७ || मुखे कार्याणि सिध्यन्ति मनोरथशतानि हि | करस्थाने महाक्लेशः सर्वकार्यविनाशकृत || २०-५८ || उदरे दुःखमधिकं पादयोर्हानिरुच्यते | पुच्छे तु धनहानिश्च जायते नान्यथा भवेत् || २०-५९ || दीपस्थानं मया प्रोक्तं त्रिषु लोकेषु दुर्लभम् | दीपस्थानं पुरे पश्येद्ग्रामे वा विषयेऽपि वा || २०-६० || यत्र कुत्रापि वा पश्येत्कार्यसिद्धिर्भवेत्प्रिये | क्षेत्राधिपस्य नाम्ना हि दीपस्थानं विचारयेत् || २०-६१ || दीपस्थाने जपं कुर्याद्धोमं च फलदं सदा | कुण्डं सुलक्षणं कुर्यादीशाने मण्डपस्य च || २०-६२ || अङ्गुष्ठपर्वमात्रोच्चं वालुकामण्डलं कुरु | गोमयेन च संलिप्तभूम्यां सुस्थलरूपकम् || २०-६३ || तत्र चोल्लेखनं कुर्यात्त्रिरेखाः पश्चिमाः क्रमात् | पूर्वाग्रे विलिखेत्पश्चात्तिस्रो रेखाः प्रदक्षिणाः || २०-६४ || उत्तरान्तास्ततो देवि लेखनीं तत्र संक्षिपेत् | प्रोक्षणं च ततः कृत्वा सिन्दूरेण ततः परम् || २०-६५ || कुङ्कुमेनाथ वा देवि कर्पूररजसाऽथ वा | चूर्णेन वा हरिद्राया धान्यपिष्टेन वा प्रिये || २०-६६ || त्रिकोणं चैव षट्कोणं वसुपत्रं समालिखेत् | चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् || २०-६७ || मध्ये पुष्पं विनिक्षिप्य त्रिपुरेश्या वरानने | ततः स्रुवादिपात्राणां पवित्रीकरणं यजेत् || २०-६८ || इध्मदूर्वाश्च दर्भाश्च द्विधा कृत्वा वरानने | आज्यस्थालीं चरुस्थालीं स्थापयेद्युग्मभेदतः || २०-६९ || स्रुवं स्रुचं ततः पश्चात्प्रणीतां प्रोक्षणीं क्रमात् | द्वन्द्वशः परमेशानि स्थापयाधोमुखानि च || २०-७० || अर्ध्यपात्रस्थमुदकं गृहीत्वा प्रोक्षणीं यजेत् | त्रिधा चोत्पवनं कृत्वा प्रोक्षयेत्तेन वारिणा || २०-७१ || तानि सर्वाणि पात्राणि पवित्रीकरणं भवेत् | उन्मुखानि ततः कृत्वा बालया चाभिमन्त्रयेत् || २०-७२ || परिस्तीर्य च दूर्वाभिः कुण्डस्य परितः प्रिये | पूर्वाग्रमुत्तराग्रं च परिस्तरणमुच्यते || २०-७३ || स्रुवं गृहीत्वा वामेन करेण सुमुखं ततः | दुर्भाङ्कुरेण तद्वक्त्रं पश्चिमात्पूर्वदेशतः || २०-७४ || त्रिवारं परिमृज्याथाधस्तत्करणमानयेत् | उपरिष्टात्ततो देवि यावद्वक्त्रं तु मन्त्रयेत् || २०-७५ || बालयाऽथ वरारोहे पवित्राणि भवन्ति हि | मूलविद्यां समुच्चार्य कुण्डाय नम आलिखेत् || २०-७६ || अनेन मनुना देवि कुण्डं सम्पूजयेत्सुधीः | कामेश्वरीं कुण्डमध्ये सकामामृतुसंयुताम् || २०-७७ || समावाह्य च संपूज्य तद्गर्भे वह्निमानयेत् | मूलविद्यानेत्रमन्त्रार्णद्वयेन विलोकयेत् || २०-७८ || अस्रमन्त्रेण संरक्ष्य संपुटस्थं ततः परम् | भ्रामयेत्कुण्डपरितस्त्रिधा दक्षिणतः क्रमात् || २०-७९ || संपुटादग्निखण्डं तु हुंफडन्तेन संत्यजेत् | क्रव्यादंशं कोणभागे राक्षसे वीरवन्दिते || २०-८० || कवचेन च संपूज्य जानुभ्यामवनिं गतः | कुण्डमध्ये प्रतिष्ठाप्य कामबीजं च वह्नि च || २०-८१ || मूर्तये नम आलिख्य मनुना पूजयेच्छिवाम् | नाभिमण्डलदेशस्थवहन्नाडीपुटक्रमात् || २०-८२ || ज्ञानाग्निं बाह्यवह्निं च एकीकृत्य प्रपूजयेत् | मूलविद्यां समुच्चार्य आंसोहमिति चोच्चरेत् || २०-८३ || वह्निचैतन्यमुच्चार्य ङेन्तं हृन्मन्त्रसंयुतम् | अनेन मनुना गर्भे कामेश्वर्या विचिन्तयेत् || २०-८४ || वर्ह्नेदेहे षडङ्गानि योजयेत्सुरवन्दिते | सहस्राचीः स्वस्तिपूर्ण उत्तिष्ठ पुरुषस्तथा || २०-८५ || धूमव्यापी सप्तजिह्वो धनुर्धर उदाहृतः | चतुर्थ्यन्तान्षडङ्गेषु योजयेत्कमलेक्षणे || २०-८६ || तारं वैश्वानरप्रान्ते जातवेद इहाऽऽवह | लोहिताक्ष ततः सर्वकर्माणीति च साधय || २०-८७ || वह्निजायान्वितो मन्त्रो वह्निं सम्यक्समर्चयेत् | ध्यायेद्वह्निं हेमवर्णं शक्तिस्वस्तिकधारिणम् || २०-८८ || वरदायकशोभाढ्यं सुवर्णवरभूषणम् | एवमग्निं समभ्यर्च्य तन्मुखे कमलेक्षणे || २०-८९ || षट्कोणं चिन्तयेत्तत्र सप्त जिह्वाः समर्चयेत् | वह्निवायुं वामकर्णं भूषितं नादबिन्दुना || २०-९० || अनेन योजयेद्देवि क्रमेण रसनाः प्रिये | यकारादिसकारान्ता जिह्वाः सप्त भवन्ति हि || २०-९१ || पद्मरागतप्तहेमवर्णा हि सुरवन्दिते | हिरण्याख्याः शम्भुकोणे पूजयेत्सुरवन्दिते || २०-९२ || वैदूर्याभा सुवर्णा तु कनकाख्या ततः परम् | पूर्वकोणे समभ्यर्च्य पूजयेद्रुद्रलोहिताम् || २०-९३ || उद्यदादित्यसंकाशां रक्ताख्यां वह्निकोणके | नीलां नीलप्रभां देवि कृष्णाख्यां राक्षसे यजेत् || २०-९४ || श्वेतां मुक्ताप्रभां देवि शुभ्राख्यां पश्चिमे यजेत् | धूमिनीं पद्मरागाभां वायौ रक्ततरां यजेत् || २०-९५ || करालीं चन्द्रकोट्याभां बहुरूपां तु मध्यगाम् | दक्षिणोत्तरभागस्थां पूजयेत्सर्वसिद्धिदाम् || २०-९६ || क्रमेण जिह्वाबीजान्ते नामानि परिपूजयेत् | अग्निर्हुतवाहनेऽथ हुताशनेऽथ वर्त्मने || २०-९७ || देवमुखः सप्तजिह्वो वैश्वानरो जातवेदाः | क्रमेण पूजयेतत्र अष्टौ नामान्यनुक्रमात् || २०-९८ || एवमग्निं तु संपूज्य कामेशीगर्भसंभवम् | दर्भकङ्कणमादाय करबन्धं सुलोचने || २०-९९ || मूलमन्त्रेण बाणेन चतुर्थेन च होमयेत् | गर्भाधानं विधायेत्थं सीमन्तोन्नयनादिकम् || २०-१०० || कामेशीगर्भजातस्य वह्नेश्चौलादिसत्क्रियाः | मूलमन्त्रेण संचिन्त्य बाह्यचक्रं समचंयेत् || २०-१०१ || षट्कोणेषु षडङ्गानि वसुकोणेषु मातरः | लोकपालांश्च भूबिम्बे वह्निं प्रौढं विचिन्तयेत् || २०-१०२ || ब्रह्माणं दक्षिणेऽभ्यर्च्य घृतस्थालीं प्रपूजयेत् | वह्निं सम्पूज्य विधिवत्तन्मुखे शैलसंभवे || २०-१०३ || चक्रराजं समावाह्य सर्वरश्मिसमन्वितम् | सर्वसिंहासनैः सेव्यमुपचारैः समर्चयेत् || २०-१०४ || धूपं विस्तारयेत्सम्यक्कुण्डमण्डपपूरितम् | दीपं च दर्शयेन्मन्त्री ततो दीपान्बहु प्रिये || २०-१०५ || मालाकारेण संवेष्ट्य मेखलात्रयमाद्रिजे | विस्तार्य चरुकं पश्चात्सर्वदिक्षु सुखाप्तये || २०-१०६ || नित्यहोमं ततः प्रोक्तं कामनाहोममाचरेत् | मालतीजातिकामल्लीकुसुमैर्मधुमिश्रितैः || २०-१०७ || घृतपूर्णैर्हुनेद्देवि वागीशत्वं प्रजायते | मूकस्यापि च मूढस्य शिलारूपस्य नान्यथा || २०-१०८ || जपापुष्पैराज्ययुक्तैः करवीरैस्तथाविधैः | हवनान्मोहयेन्मन्त्री लोकत्रयनिवासिनः || २०-१०९ || कर्पूरकुङ्कुमे देवि मिश्रं मृगमदेन हि | हवनान्मदनो देवि मन्त्रिणा विजितो भवेत् || २०-११० || सौभाग्येन विलासेन सामर्थ्येनापि सुव्रते | चम्पकैः पाटलैर्हुत्वा श्रियं प्रोल्लसिताम्बराम् || २०-१११ || मन्त्री प्राप्नोति महतीं स्तम्भयेज्जगतीभिमाम् | श्रीखण्डं गुग्गुलं चन्द्रमगरुं होमयेत्ततः | राजनागेन्द्रदेवानां पुरन्ध्रीर्वशमानयेत् || २०-११२ || सर्वलोका वशास्तस्य भवन्त्येव न संशयः | लाक्षाहोमाद्भवेद्राज्यं दारिद्र्यभयपीडितः | दुर्गोपसर्गशमनं पलत्रिमधुहोमतः || २०-११४ || दूरस्थितानां देवेशि गुरुणा प्रोक्तमार्गतः | होमं कुर्याद्वश्यकामैरन्यथा निष्फलं भवेत् || २०-११५ || रुधिराक्तेन च्छागस्य मांसेन निशि होमतः | मधुरत्रययुक्तेन गुरुणोक्तविधानतः || २०-११६ || परराष्ट्र्ं महादुर्गं समस्तं स्ववशं नयेत् | महापलेन देवेशि रिपोः सैन्यं विनाशयेत् || २०-११७ || खेचरो जायते रात्रौ कृत्वा होमं चतुष्पथे | क्षीरं मधु दधि त्वाज्यं पृथग्घुत्वा वरानने || २०-११८ || आयुर्धनमथाऽऽरोग्यं समृद्धिर्जायते नृणाम् | क्रमेण शैलजे क्षीरमधुभ्यां मृत्युनाशनम् || २०-११९ || दधिमाक्षिकहोमेन सौभाग्यं धनमाप्नुयात् | सितया केवलं होमो वैरिस्तम्भनकारकः || २०-१२० || होमो दधिमधुक्षीरलाजभिर्वीरवन्दिते | रोगहन्ता कालहन्ता मृत्युहन्ता न संशयः || २०-१२१ || कमलैररुणैर्होमः सम्यक्संपत्तिदायकः | रक्तोत्पलैर्जगद्वश्यं राजानो वशगाः क्षणात् || २०-१२२ || नीलोत्पलैर्महादुष्टा वशमायान्ति नान्यथा | श्वेतोत्पलैः श्रियं वाचं लभते हवनात्प्रिये || २०-१२३ || श्वेतैश्च ब्रह्मकमलैर्लक्ष्मीं सौभाग्यमाप्नुयात् | कह्लारहवनान्मन्त्री सौभाग्यं च धनं लभेत् || २०-१२४ || पूर्णं दाडिमहोमेन वशी कुर्यान्महासुरान् | मातुलुङ्गफलोद्भूतहोमेन क्षत्रिया वशाः || २०-१२५ || नारङ्गफलहोमेन वैश्या वश्या भवन्ति हि | कूष्माण्डफलहोमेन शूद्रा वश्यास्तथाऽपरे || २०-१२६ || द्राक्षाफलैः सिद्धयोऽष्टौ लक्षहोमान्न संशयः | कदलीफलहोमेन लक्षमात्रेण भूभृतः || २०-१२७ || वश्यास्तु दशसंख्याका भवन्त्येव न संशयः | खर्जूरीफलहोमेन लक्षमात्रेण भूभुजः || २०-१२८ || वश्या विंशतिसंख्याका इत्याज्ञा पारमेश्वरी | नारिकेलफलैर्होमात्समृद्धिर्जायते प्रिये || २०-१२९ || लक्षमात्रेण मन्त्रज्ञो राजाऽपर इव प्रिये | पक्वाम्रफलहोमेन लक्षमात्रेण सुन्दरि || २०-१३० || चतुःसमुद्रपर्यन्तां मेदिनी वशमानयेत् | पनसस्य फलैर्होमाल्लक्षेण शतभूभुजः || २०-१३१ || वशा भवन्ति देवेशि नात्र कार्या विचारणा | तिलाज्यहोमाद्देवेशि कार्यसिद्धिर्भवोत्प्रिये || २०-१३२ || राजिकालवणाभ्यां तु दुष्टलोकान्वशं नयेत् | गुग्गुलस्य च होमेन सर्वदुःखानि नाशयेत् || २०-१३३ || कुङ्कुमेन हुनेद्देवि त्रैलोक्यं वशमानयेत् | वैरिणो वशगाः शीघ्रं चन्दनस्यापि होमतः || २०-१३४ || रक्तचन्दनहोमेन वश्या हि पुरुषाः स्त्रियः | कर्पूरस्य च होमेन वाग्वश्यं जायते नृणाम् || २०-१३५ || कस्तूरीहोमतो देवि राजानो राजमन्त्रिणः | वश्या भवन्ति सकलाः परिवारयुताः प्रिये || २०-१३६ || तिलतण्डुलहोमेन शान्तिर्भवति मन्दिरे | शर्करागुडहोमेन सर्वकामार्थसाधकः || २०-१३७ || घृतपायसहोमेन सिता युक्तेन मान्त्रिकः | त्रैलोक्यं वशमायाति धान्यसिद्धिर्भवेद्ध्रुवम् || २०-१३८ || सोपस्करैश्च वटकैरुपसर्गान् विनाशयेत् || २०-१३९ || बन्धूककुसुमैर्होमः सर्वशत्रून् विनाशयेत् | जपापुष्पैर्जगद्वश्यं वनपुष्पैश्च मोहनम् || २०-१४० || बकुलस्य हुनेत्पुष्पैः सौभाग्यं जायते महत् | दशाङ्गधूपहोमेन सौभाग्यमतुलं भवेत् || २०-१४१ || जम्बूफलैः स्त्रियो वश्याः कूष्माण्डैर्दैत्यकन्यकाः | श्रीफलैरतुलां लक्ष्मीं पत्रैर्वा सुरवन्दिते || २०-१४२ || इक्षुखण्डैः सुखावाप्तिस्तद्रसाद्राजकन्यकाः | वश्या भवन्ति देवेशि नारिकेलजलेन वा || २०-१४३ || केवलं घृतहोमेन वरदाः सर्वशक्तयः | शृणु देवि प्रवक्ष्यामि मानं हवनसिद्धिदम् || २०-१४४ || पुष्पं समग्रं जुहुयात्कमलं वाऽपि पुष्कलम् | कुसुम्भवनपुष्पाणि यथेष्टानि हुनेत्प्रिये || २०-१४५ || शतसंख्यास्तिला देवि राजिकाः शतसंख्यया | लाजा मुष्टिप्रमाणास्तु घृतं गद्याणमात्रकम् || २०-१४६ || चुलुकार्धं पयः क्षीरमन्नं ग्रासमितं भवेत् | स्थूलं फलं महेशानि कूष्माण्डं मातुलुङ्गकम् || २०-१४७ || मनःप्रियैश्च खण्डैश्च फलं भवति निश्चयात् | रम्भाफलं चतुःखण्डैर्लघु चेत्खण्ड्यते न हि || २०-१४८ || नारिकेलस्य खण्डं हि रम्भायाः फलवत्प्रिये | पर्वस्थाने चेक्षुखण्डं मनःसंतोषकारि वा || २०-१४९ || द्राक्षाफलं समग्रं स्यान्नारङ्गं खार्जुरं तथा | गुग्गुलं क्रमुकार्धं तु कुङ्कुमं च तथा भवेत् || २०-१५० || गुञ्जासमं च कर्पूरं कस्तूरी घुसृणं तथा | चन्दनं चागरुं देवि क्रमुकेन समं भवेत् || २०-१५१ || मनःप्रियाणि सर्वाणि फलानि हवने प्रिये | लाक्षा गुग्गुलसंख्या स्याद्यद्यद्वस्तु मनोहरम् || २०-१५२ || मनःप्रियाहुतीः कृत्वा होमं कुर्यात्सुलोचने | एतदाहुतिमानं ते कथितं सर्वविघ्नहृत् || २०-१५३ || यथेच्छया वरारोहे श्रीविद्यां परितोषयेत् | यथाशक्ति जपं कृत्वा तद्दशांशेन होमयेत् || २०-१५४ || किंशुकैः पापसंघातनाशकैरथ वा प्रिये | नानाद्रव्यैः पृथग्भूतैमीश्रितैर्वा वरानने || २०-१५५ || यथाशक्त्या तु मिलितैर्होमं कुर्याद्विचक्षणः | शृणु देवि प्रवक्ष्यामि विशेषविधिमुत्तमम् || २०-१५६ || आदौ कुण्डं समुत्पाद्य सर्वलक्षणसंयुतम् | चतुरस्रं तु शोभाढ्यं शतहोमेऽर्धहस्तकम् || २०-१५७ || सहस्रे हस्तमात्रं च चतुरस्रं द्विहस्तकम् | द्विहस्तमयुते प्रोक्तं लक्षे हस्तचतुष्टयम् || २०-१५८ || कोटिहोमेऽष्टहहस्तं च कृत्वा कुण्डस्य लक्षणम् | शान्तिके चतुरस्रं तु वश्ये चैवार्धचन्द्रकम् || २०-१५९ || षट्कोणं स्तम्भने चैव मारणे तद्वदेव हि | आकर्षणे त्रिकोणं च वृत्तमुच्चाटने तथा || २०-१६० || नानासिद्धिहितार्थाय पद्मकोणं च सिद्धिदम् | उत्तरे शान्तिकं चैव स्तम्भने वारुणीं दिशम् || २०-१६१ || मारणं दक्षिणे चैव पश्चिमे वश्यकर्मणि | दाहकर्म च आग्नेये विद्वेषो नैरृते तथा || २०-१६२ || उच्चाटने तु वायव्य ईशान्ये (एशाने) सर्वसिद्धिदम् | कृत्तिका कर्षणे प्रोक्ता भरणी मारणे तथा || २०-१६३ || स्वाती वश्ये तथोच्चाटे ज्येष्ठा स्तभनमेव च | विद्वेषणे शततारं चाभिजित्वं तु शान्तिके || २०-१६४ || सोमे सर्वाकर्षणं च मारणं मङ्गले तथा | बुधेन स्तम्भ कार्यं गुरुवारे तु पौष्टिकम् || २०-१६५ || शुक्रे च सर्वकामास्तु भानोरथ(नावथ)शुभानि च | पूर्वाह्णे वश्यकर्माणि मध्यान्हे प्रीतिनाशनम् || २०-१६६ || उच्चाटनं चापराह्णे संध्यायां मारणे तथा | शान्तिके अर्धरात्रं च पौष्टिकं प्रातरेव हि || २०-१६७ || स्तम्भने गजचर्माणि मारणे माहिषं तथा | मृगचर्म तथोच्चाटे छागलं वश्यकर्मणि || २०-१६८ || विद्वेषे जम्बुकं प्रोक्तं गोचर्मं शान्तिके तथा | नानासिद्धिहितार्थाय व्याघ्रचर्ममुदाहृतम् || २०-१६९ || श्वेतं व्याघ्रे भवेच्छान्त्यै पीतं स्तम्भनकारकम् | वश्याकर्षणयो रक्तं क्षोभणार्थं प्रियावहम् || २०-१७० || कृष्णं च मारणे प्रोक्तं धूम्रमुच्चाटनादिके | राजवृक्षस्य समिधो होतव्याः स्तम्भकर्मणि || २०-१७१ || महिषीघृतसंयुक्तं सदा वै सिद्धिदायकम् | मारणेऽत्यचिराहोमं समिधै {द्भि} र्दाडिमोद्भवैः || २०-१७२ || अजाघृतेन देवेशि वशयेत्सचराचरम् | विद्वेषस्यैव होतव्य { व्या } उन्मत्तसमिधस्तथा || २०-१७३ || अतसीतैलसंयुक्ता विद्वेषणमतः परम् | सर्वविघ्नसमूहं तु नाशयेन्नात्र संशयः || २०-१७४ || पूर्णाहुतिं ततो देवि पूजयित्वा तु कन्यकाः | पूजितं तेन त्रैलोक्यं कन्यका येन पूजिताः || २०-१७५ || बालया पूजयेद्देवी श्रीविद्यां पूजयेत्ततः | पञ्चसिंहासनैर्देवि श्रीविद्यां तत्र पूजयेत् || २०-१७६ || सुवासिनीस्ततः पूज्याः श्रीविद्यां तत्र पूजयेत् | विप्रान्संतोषयेत्पश्चाच्छ्रीविद्यां तत्र पूजयेत् || २०-१७७ || योगिन्यश्च तथा पूज्याः श्रीविद्यां परितोषयेत् | दर्शनानि समग्राणि पूजयेद्विविधानि च || २०-१७८ || श्रीविद्यां तोषयेत्तत्र पूर्णाहुतिमथाऽऽचरेत् || २०-१७९ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे विंशः पटलः || २० || अथैकविंशः पटलः ईश्वर उवाच -- होमान्तरं प्रवक्ष्यामि येन ब्रह्म सनातनम् | ज्ञानेन चतुरस्राख्यं कुण्डं संचिन्त्य पूर्ववत् || २१-१ || आत्मभिश्चतुरस्रं तद्विज्ञेयं वीरवन्दिते | आत्मानो वेदसंख्या हि ज्ञातव्या देशिकोत्तमैः || २१-२ || येषां विज्ञानमात्रेण पुनर्जन्म न विद्यते | साधारणेन पक्षेण वर्तते सर्वजन्तुषु || २१-३ || स आत्मा परमेशानि प्राणरूपी वरानने | प्राणस्तु पवनो देवि हृदयस्थानमन्दिरः || २१-४ || शरीरं व्याप्य सकलं चरस्याप्यचरस्य च | हंसस्वरूपी विज्ञेयः श्वासोच्छ्वासविलासवान् || २१-५ || जीव इत्येव नामास्य भ्रान्त्या भासान्न वस्तुतः | श्वासोच्छ्वासो देहभावाद्भ्रान्तिरेव न संशयः || २१-६ || कुलालचक्रभेदेन घटाकाशं यथा घटे | दृश्यते परमेशानि आकाशं व्याप्य तिष्ठति || २१-७ || घटे भवति भिन्नत्वं नाऽऽकाशे भिन्नता भवेत् | तथा देहगतो जीवो देहनाशे वरानने || २१-८ || व्याप्य तिष्ठति सर्वत्र तस्मादात्मा परं महत् | आत्मज्ञानं मया प्रोक्तं द्वितीयस्य शृणु प्रिये || २१-९ || अन्तरात्मेति किं नाम तच्छृष्णुष्व पदं महत् | अन्तःशब्देन देवेशि रहस्यं सूक्ष्मरूपकम् || २१-१० || परमाणुस्वरूपेण सर्वं व्याप्य विजृम्भते | अन्तरङ्गतया तेन चरं वाऽप्यथ वाऽचरम् || २१-११ || व्याप्यते सकलं तस्मादन्तरात्मेति गीयते | स एव हंस आत्मा हि योगिगम्यो यदा भवेत् || २१-१२ || तारचञ्चुर्वरारोहे निगमागमपक्षवान् | शिवशक्तिपदद्वन्द्वो बिन्दुत्रयविलोचनः || २१-१३ || अयं परमहंसस्तु सृष्टिं व्याप्यावतिष्ठति | तदा भूतानि जायन्ते क्रमेण कमलेक्षणे || २१-१४ || आकाशं पवनोऽग्निश्च जलं पृथ्वी वरानने | पञ्चकस्यास्य देवेशि प्रथमं चित्तमुच्यते || २१-१५ || अविद्याख्यसरोमध्ये मोहपङ्कप्रपूरिते | प्रपञ्चकमले भूतपञ्चकपरिजृम्भिते || २१-१६ || विहारोऽस्यैव हंसस्य सृष्ट्या मायामयो भवेत् | अयमेव महादेवि निष्प्रपञ्चो यदा भवेत् || २१-१७ || संहाररूपी हंसस्तु तदाऽऽत्मानं प्रदर्शयेत् | पक्षित्वमस्य नास्त्येव सोऽहमात्मा प्रतिष्ठितः || २१-१८ || परमात्मेति जानीहि त्रयमेतदुदाहृतम् | पक्षपुच्छशिरो देवि आकारप्रतिभासकः || २१-१९ || ज्ञानात्मा कथ्यते भद्रे यः साक्षात्साक्षिरूपकः | येनेदं ज्ञायते सर्वं समत्वेन वरानने || २१-२० || चन्द्रबिम्बं यथा देवि जलक्षीरेषु दृश्यते | न लिप्तस्त { सं त} स्य देवशि नीरक्षीरविभेदतः || २१-२१ || कर्दमे चन्दने बिम्बं न भवेल्लिप्तमद्रिजे | सर्वसाक्षी तथा भद्रे ज्ञानात्मा परिकीतीतः || २१-२२ || आत्मान्तरात्मपरमज्ञानात्मानः प्रकीतीताः | एतद्रूपं हि चित्कुण्डं चतुरस्रं वरानने || २१-२३ || आनन्दमेखलारम्यं बिन्दुत्रिवलयाङ्कतम् | अर्धमात्रा योनिरूपं ब्रह्मानन्दमयं सदा || २१-२४ || पराहन्तामये सर्वज्ञानदीपविजृम्भिते | संविदग्नौ हुनेद्देवि प्रपञ्चहविरुत्कटम् || २१-२५ || शब्दाख्यं मातृकारूपमक्षवर्णविराजितम् | अक्षराणि हुतान्यत्र निःशब्दं ब्रह्म जायते || २१-२६ || पुण्यपापे हविर्देवि कृत्याकृत्ये हविः प्रिये | संकल्पश्च विकल्पश्च धर्माधर्मौ हविस्तथा || २१-२७ || जुहुयात्परमेशानि मन्त्राभ्यां विमलानने | मूलविद्यां ब्रह्मरूपां ध्यात्वा तु तदनन्तरम् || २१-२८ || तदन्ते चोच्चरेत्पश्चाद्ब्रह्मप्रात्यै तु देशिकः | धर्माधर्महविर्दीप्त आत्माग्नौ मनसा स्रुचा || २१-२९ || सुषुम्नावर्त्मना नित्यमक्षवृत्तिं जुहोम्यहम् | स्वाहान्तेन हुनेद्देवि सकलं निष्कलं जगत् || २१-३० || अन्तर्होममनुर्देवि सर्वमायानिकृन्तनः | प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचा || २१-३१ || धर्माधर्मौ कलास्नेहपूर्णवह्नौ जुहोम्यहम् | अग्निजायान्वितो मन्त्रो विद्यान्ते कथतस्तव || २१-३२ || निप्रपञ्चे यदा देवि जायते मन्त्रवित्तमः | तदा सच्चिन्मयः साक्षात्केवलं ब्रह्म साधकः || २१-३३ || दश सोऽहं जुहंसोऽपि पीत्वा मृत्युं सुखी भवेत् || २१-३४ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे ज्ञानहोमविधि-- र्नामैकविंशः पटलः || २१ || अथ द्वाविंशः पटलः ईश्वर उवाच -- होमादिकं तु सकलं कुमारीपूजनं विना | परिपूर्णफलं नैव पूजनात्सफलं भवेत् || २२-१ || कुमारीपूजनाद्देवि पूजाकोटिफलं भवेत् | पुष्पं कुमार्यै यद्दत्तं तन्मेरुसदृशं भवेत् || २२-२ || कुमारी भोजिता येन त्रैलोक्यं तेनं भोजितम् | कुमार्यै यज्जलं दत्तं तज्जलं सागरोपमम् || २२-३ || अन्नं तु मीननयने कुलाचलसमं भवेत् | एकाब्दात्षोडशाब्दान्ताः कन्यकाः पूजयेच्छुभाः || २२-४ || विवाहरहिताः स्युश्चेदुत्तरोत्तरसिद्धिदाः | विवाहितास्तु देवेशि बाला एव कुमारिकाः || २२-५ || सुवासिन्यो मदप्रौढ.ः संशये त्यज सुव्रते | कुमारीपूजने देवि कुमारीमनुना भवेत् || २२-६ || मन्त्रभेदेन तेनैव श्रीविद्यां च प्रपूजयेत् | नैमित्तिकं प्रवक्ष्यामि येन ब्रह्ममयो बुधः || २२-७ || निवीकल्पस्य देवेशि नान्यस्य सुरवन्दिते | सर्वशङ्काविनिर्मुक्तः सर्वज्ञः साधकोत्तमः || २२-८ || दूतीयागविधिं कुर्यात्खेचरो जायते प्रिये | अर्घ्यपात्रे वह्निसूर्यसोमामृतमये शिवे || २२-९ || सोमामृतं तु जानीहि नानाद्रव्यमयं सदा | सविकल्पस्य देवेशि वर्णानुक्रमभेदतः || २२-१० || कथ्यन्ते द्रव्यभेदास्तु क्रमेण वरवणीनि | क्षीराज्यमधुमैरेयद्रव्यभेदा भवन्ति हि || २२-११ || सर्वज्ञत्वे वरारोहे यज्ञे दोषो न विद्यते | अश्वमेधादियज्ञेषु वाजिहत्या कथं भवेत् || २२-१२ || द्रव्यभेदा वरारोहे बहवः सन्ति भेदतः | जलं क्षीरं घृतं भद्रे मधु मैरेयमैक्षवम् || २२-१३ || पौष्पं तरुमयं धान्यसंभवं बहुनिमीतम् | सहकारभवं देवि विविधं बहुभेदतः || २२-१४ || मादकं धर्मसंछेदाद्वर्ज्यमासीत्सुलोचने | ज्ञानेन संस्कृतं तत्तु महापातकनाशनम् || २२-१५ || ब्रह्महत्त्यासुरापानस्वर्णस्तेयादिपातकान् | नाशयेत्पूजनाद्देवि निवीकल्पः स मन्त्रवित् || २२-१६ || विचारयेत्सदा सर्वं सर्वविद्वीरवन्दिते | जलं जलचरं विद्धि घटं पूर्णं समानयेत् || २२-१७ || स्थापितं देवि सप्ताहाज्जलं जीवसमन्वितम् | क्षीरं वै यस्य जीवस्य तस्य मांसं न संशयः || २२-१८ || कृशा पुत्रवती नारी वन्ध्या पुष्टा यतः प्रिये | माकन्दफलजं रम्यं द्रावं सेव्यं द्विजातिभिः || २२-१९ || अमादकत्वाद्देवेशि चैक्षुत्वं सेव्यते बुधैः | अनामिषं नास्ति किंचित्सर्वं क्षीरादिकं प्रिये || २२-२० || वेदशास्रपुराणेषु गूढो ज्ञानसमुच्चयः | शमीवृक्षे यथा वह्निस्तथा तिष्ठति सुन्दरि || २२-२१ || सर्वभूतेषु विज्ञानं ज्ञातव्यं देशिकोत्तमैः | काष्ठनिर्मथनाद्देवि प्रकटो वह्निरुच्यते || २२-२२ || तत्काष्ठं दह्यते तेन तथा ब्रह्ममयं जगत् | पापपुण्यविनिर्मुक्तं ज्ञानमेतद्वरानने || २२-२३ || किंचिदुल्लासपर्यन्तं ग्राह्यमेतत्सुरेश्वरि | यज्ञाङ्गं तु यतो लौल्यात्पातकी ब्रह्महा भवेत् || २२-२४ || मादकं वस्तु सकलं वर्जयेत्कनकादिकम् | कलञ्जं पातकी तस्माद्ब्रह्म ब्रह्मविदां वरः || २२-२५ || धर्माधर्मपरिज्ञानात्सकलेऽपि पवित्रता | विण्मूत्रं स्रीरजो वाऽपि नखास्थि सकलं प्रिये || २२-२६ || विचारयेन्मन्त्रवित्तु पवित्राण्येव सुव्रते | अन्नं ब्रह्म विजानीयात्तेन यस्य समुद्भवः || २२-२७ || नानाजीवाश्रयं तत्तु पुरीषं केन निन्द्यते | नानाविधा हि देवेशि देवताः सलिलस्थिताः || २२-२८ || तेनोदकेन यज्जातं मूत्रं कस्मात्तु दूषयेत् | गोमूत्रप्राशनं देवि गोमयस्यापि भक्षणम् || २२-२९ || प्रायश्चित्ते तु कथितं ब्रह्महत्यादिके प्रिये | मले मूत्रे कथं दोषो भ्रान्तिरेव न संशयः || २२-३० || स्त्रीरजः परमेशानि देहस्तेनैव जायते | कथं तु दूषणं येन प्राप्यते परमं पदम् || २२-३१ || पुरुषस्य तु यद्वीर्यं बिन्दुरित्यभिधीयते | बिन्दुस्तु परमेशानि कायोऽयं शिवरूपकः || २२-३२ || शिवतत्त्वेन चास्थ्यादिदूषणं नास्ति बैन्दवे | रेतः पवित्रं देहस्य कारणं केन निन्द्यते || २२-३३ || ज्ञानमार्गोऽयं सकलो निवीकल्पस्य सुन्दरि | सविकल्पो महेशानि पापभाग्जायते नरः || २२-३४ || मातृगर्भाद्विनिर्गत्य शिशुरेव न संशयः | इन्द्रियाण्यखिलान्यस्य देहस्थान्यपि वल्लभे || २२-३५ || निवीकारतया तत्र नान्यथा भवति प्रिये | भगलिङ्गसमायोगो जन्मकाले भवेत्सदा || २२-३६ || काम्यते सा यदा देवि जायते गुरुतल्पगः | अत एव यदा तस्य वासना कुत्सिता भवेत् || २२-३७ || तत्तद्भूषणसंयुक्तमन्यत्सर्वं शुभं भवेत् | पवित्रं सकलं भद्रे वासना कलुषा स्मृता || २२-३८ || अत एवार्घ्यपात्रस्य प्रतिष्ठानन्तरं ततः | मञ्चकं गजदन्तस्य हेमरूप्यादिनिमीतम् || २२-३९ || विशुद्धक्षौमरचितां तूलिकां तत्र योजयेत् | पुष्पान्विकीर्य तन्मध्ये कर्पूरस्य रजस्तथा || २२-४० || मण्डूकादींस्ततो देवि उपर्युपरि शैलजे | मण्डूकं पूजयेदादौ रुद्रं कालाग्निसंयुतम् || २२-४१ || आधारशक्तिं कूर्मं च तथाऽनन्तं वराहकम् | पृथिवीं च तथा कन्दं नालं पद्मं तथा दलान् || २२-४२ || केसराणि च सम्पूज्य कणीकां पूजयेत्ततः | मञ्चकं च समभ्यर्च्य तत्र पादचतुष्टये || २२-४३ || धर्मं ज्ञानं च वैराग्यमैश्वर्यं च क्रमाद्यजेत् | अपूर्वान्पूजयेदेतांस्तत्पादानां समीपके || २२-४४ || आत्मन्तरात्मपरम--ज्ञानात्मनः क्रमाद्यजेत् | मञ्चकाग्रेषु सम्पूज्य गुणत्रयमथार्चयेत् || २२-४५ || दूतीं सुलक्षणां रम्यां सर्वलक्षणलक्षिताम् | नानालंकारसुभगां सर्वज्ञां शारदामिव || २२-४६ || पूजयेत्परमेशानि पञ्चकामैः शरैस्तथा | बटुकादिंश्चतुदीक्षु पूजयेत्सिद्धिहेतवे || २२-४७ || मातृकां विन्यसेत्तस्या देहे कामशरान्विताम् | त्रिकोणं चिन्तयेन्मूघ्नी तत्र सम्पूजयेत्क्रमात् || २२-४८ || त्रिकोणमध्ये बालाख्यां कामेशीं परिपूजयेत् | गणेशं च कुलाध्यक्षं तथा लक्ष्मीं सरस्वतीम् || २२-४९ || त्रिकोणेषु च सम्पूज्य वसन्तं मदनं प्रिये | स्तनयोः पूजयेत्पश्चान्मुखे तस्याः कलाधरम् || २२-५० || दक्षपादादिमूर्धान्तं वामे मूर्धादि सुन्दरि | पादान्तं पूजयेत्सर्वाः कला वै कामसोमयोः || २२-५१ || श्रद्धा प्रीती रतिश्चैव धृतिः कान्तिर्मनोरमा | मनोहरा मनोरामा मदनोन्मादिनी प्रिये || २२-५२ || मोहिनी दीपनी चैव शोषणी च वशंकरी | रञ्जनी सुभगा देवि षोडशी प्रियदर्शना || २२-५३ || षोडशस्वरसंयुक्ता एताः कामकला यजेत् | पूषा वशा च सुमना रतिः प्रीतिस्तथा धृतिः || २२-५४ || ऋद्धिः सौम्या मरीचिश्च शैलजे चांशुमालिनी | अङ्गिराः शशिनी चैव छाया सम्पूर्णमण्डला || २२-५५ || तथा तुष्ट्यमृते चैव कलाः सोमस्य षोडश | स्वरैरेव प्रपूज्या हि सर्वकार्यार्थसिद्धिदाः || २२-५६ || बालाक्रमं मस्तकेऽस्याः संपूज्य तदनन्तरम् | तस्या मदनगेहं तु पूजयेद्भगमालया || २२-५७ || त्रिकोणं तद्भगं ज्ञात्वा सर्वसिद्धिप्रदाभिधम् | सर्वानन्दमयं मध्ये चक्रयुग्मं प्रपूजयेत् || २२-५८ || पूर्ववत्क्रमयोगेन (ण) श्रीविद्यां तत्र पूजयेत् | धूपादिकं समर्प्याथ स्वलिङ्गे तदनन्तरम् || २२-५९ || तारं च भुवनेशानि महात्रिपुरसुन्दरि | नमः शिवाय विद्येयं दशार्णा परिकीतीता || २२-६० || अनया विद्यया देवि स्वलिङ्गे पूजयेच्छिवम् | यजेत्तत्पुरुषाघोरसद्योवामेशसंज्ञया || २२-६१ || निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च | शान्त्यतीता च सम्पूज्या षडङ्गावरणं यजेत् || २२-६२ || समग्रविद्यामुच्चार्य नन्दिकेशं प्रपूजयेत् | मध्ये वृषणयोर्देवि गन्धपुष्पाक्षतादिभिः || २२-६३ || निवेद्य धूपदीपादि विजितेन्द्रियमानसः | सर्वक्षोभिणीं मुद्रां बद्ध्वा योनिं प्रचालयेत् || २२-६४ || क्षोभिण्यां वाऽथ वा देवि गजतुण्डाख्ययाऽथ वा | उच्चरन्भगमालां तु द्राविणीबीजमुच्चरेत् || २२-६५ || अक्षुब्धः सन् वरारोहे यावद्रेतः प्रवर्तते | रजोमयं रजः साक्षात्संविदेव न संशयः || २२-६६ || प्रकृतिः परमेशानि वीर्य पुरुष उच्यते | सर्वं साक्षात्सामरस्यं शिवशक्तिमयं ततः || २२-६७ || तयोर्योगो महेशानि योग एव न संशयः | सीत्कारो मन्त्ररूपस्तु वचनं स्तवनं भवेत् || २२-६८ || नखदन्तक्षतान्यत्र पुष्पाणि विविधानि च | कूजनं गायनं स्तुत्या ताडनं हवनं भवेत् || २२-६९ || आलिङ्गनं तु कस्तूरीघुसृणादिकमद्रिजे | मर्दनं तर्पणं विद्धि वीर्यपातो विसर्जनम् || २२-७० || कुलद्रव्येण संशोध्य शिवशक्तिमयं प्रिये | बीजामृतं परब्रह्मरूपं निक्षिप्य सुन्दरि || २२-७१ || अर्घ्यपात्रामृते त्यक्त्वा निवीकल्पः सदाऽनघः | श्रीविद्याक्रममभ्यर्च्य परब्रह्ममयो भवेत् || २२-७२ || एतत्ते कथितं ज्ञानं सामरस्यं वरानने | सविकल्पस्तु देवेशि पापभाग्जायते नरः || २२-७३ || विचिकित्साकारो मन्त्री जायते गुरुतल्पगः | अत एव वरारोहे निवीकल्पः सदा भवेत् || २२-७४ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे श्रीविद्यादूतीयजनविधिर्नाम द्वाविंशः पटलः || २२ || अथ त्रयोविंशः पटलः ईश्वर उवाच -- दूत्यन्तरं प्रवक्ष्यामि येन ब्रह्म सनातनम् | प्रणवाख्यं यागगेहं प्रविश्य सुरवन्दिते || २३-१ || इच्छाज्ञानक्रियाद्रव्यरचितं सुधया युतम् | अम्बया परमेशानि तत्त्वज्ञानमये शिवे || २३-२ || पर्यङ्के पुरुषार्थैस्तु पादैश्च परिमण्डिते | आत्मान्तरात्मपरमज्ञानात्माङ्गविभूषिते || २३-३ || तत्पदार्थस्त्वंपदार्थोऽसिपदार्थश्च सुन्दरि | पदार्थत्रयमेतत्तु ज्ञानसूत्रप्रकाशकम् || २३-४ || एतत्सूत्रमयैः पट्टैर्गुम्फितेऽम्बरमण्डिते | सुमनोवाससुभगे परां तत्र प्रपूजयेत् || २३-५ || जातिभेदस्तु दूतीनां चतुर्धा वीरवन्दिते | हस्तिनी शङ्खिनी चैव चित्रिणी पद्मिनी प्रिये || २३-६ || चतुवीधा हि दूत्यस्तु सुन्दर्यश्चारुलोचनाः | वैखरी हस्तिनी ज्ञेया स्थूला यस्माद्वरानने || २३-७ || ययेदं धार्यते सर्वं ब्रह्माण्डपरिमण्डलम् | वर्गाष्टकेन देवेशि सूते दिग्गजसंचयम् | तेनेयं करिणी प्रोक्ता मध्यमा शङ्खिनी भवेत् || २३-८ || शङ्खिनी तु यथा भद्रे विशुद्धा पापवजीता | सर्वदेवप्रिया सा हि शान्तिसौभाग्यशोभिता || २३-९ || तथा वनस्पतिगता मध्यमा वाग्वरानने | चित्रिणी वल्लरी देवि महादोषविनाशिनी || २३-१० || यस्याः फलं वरारोहे शिवशक्तिमयं सदा | शिवशक्तिमयं देवि प्राणिमात्रजगत्त्रयम् || २३-११ || तेषु सर्वेषु पश्यन्ती जीवेषु परमाश्रया | परब्रह्मणि सा लीना परा वाक्परमेश्वरि || २३-१२ || तां दूतीं तत्र संपूज्य समाधिकुसुमैः शुचिः | तदङ्गेषु कलाः पूज्याः क्रमेण सुरवन्दिते || २३-१३ || पद्मिनी तु परा ज्ञेया हंसस्वच्छविकासिनी | हंसोदयेन पद्मं हि त्यक्त्वा संकोचमद्रिजे || २३-१४ || विकासयति सौभाग्यं तथा वस्तुविलासतः | परा प्रकाशमायाति पद्मिनीत्वमतो भवेत् || २३-१५ || तस्या देहे वरारोहे कलाः पूज्यास्तु षोडश | चित्कला सत्कला ज्ञानकला संवित्कला तथा || २३-१६ || आत्मनस्तु कला ज्ञेयाश्चतस्रः परमेश्वरि | विरागता मोक्षकला परमाणुकला तथा || २३-१७ || विद्याकलाचतुष्कं तु विज्ञेयं चान्तरात्मनि | विद्या संतोषता तृप्तिः परब्रह्मप्रकाशता || २३-१८ || परमात्मकला ज्ञेयाः संलीनाः परवस्तुनि | लुप्तिः शान्तिकला बोधकला व्याप्तिकला परा || २३-१९ || ज्ञानात्मनः कला ज्ञेयाश्चतस्रः परमेश्वरि | कलाः षोडश देवेशि श्रीविद्यार्णेषु संस्थिताः || २३-२० || षोडशार्णा ब्रह्मरूपा कला षोडशरूपिणी | आत्मा जाग्रत्स्वरूपेण त्रैलोक्यं रचयत्यसौ || २३-२१ || अन्तरात्मा सत्त्वरूपस्तमोरूपश्च मिश्रितः | अत एव रजोरूपस्तमोरूपः परः शिवः || २३-२२ || परमात्मा हि विज्ञेयो ज्ञानात्मा तुर्यया युतः | एताः कला वरारोहे तस्या देहे प्रकाशयेत् || २३-२३ || तत्पदार्थं तु जानीहि मुखमस्या वरानने | त्वंपदार्थोऽसिवाक्यार्थः कुचयुग्मं क्रमेण हि || २३-२४ || भोगस्तु परमेशानि नादो ब्रह्ममयो भवेत् | नादोदितं वरारोहे विश्वं योनिर्न संशयः || २३-२५ || तत्रैव शक्तिं संपूज्य स्वात्मलिङ्गं शिवं यजेत् | परस्परप्रभावेण ब्रह्मानन्दरसो भवेत् || २३-२६ || तं रसं मनसा देवि वहन्नाड्यगतं प्रिये | अर्घ्यामृतेन संयोज्य ततः श्रीचक्रमर्चयेत् || २३-२७ || ब्रह्मानन्दमयं ज्ञानं कथयामि वरानने | न ब्राह्मणो ब्राह्मणस्तु क्षत्रियः क्षत्रियस्तथा || २३-२८ || वैश्यो न वैश्यः शूद्रो न शूद्रस्तु परमेश्वरि | चाण्डालो नैव चाण्डालः पौल्कसो न च पौल्कसः || २३-२९ || सर्व समं विजानीयात्परमात्मविनिश्चयात् | आकाशात्पतितं तोयं निम्नमार्गेण गच्छति || २३-३० || ग्राममध्यगतं सर्वं विष्ठामूत्रादिपूरितम् | मृतगोश्वानमार्जारखरादिरुधिरान्वितम् || २३-३१ || समस्तमपि देवेशि गङ्गायां मिलितं यथा | गङ्गामृते तु देवेशि कालुष्यं नैव तिष्ठति || २३-३२ || तथा सच्चिन्मये ज्ञाने समता सर्वजन्तुषु | सर्वद्रव्येषु गिरिजे समता नात्र संशयः || २३-३३ || यथा सूर्यप्रकाशोऽयं समत्वेन प्रवर्तते | उत्तमस्यापि चान्यस्य तमः संहरते क्षणात् || २३-३४ || शोषयन्दुग्धमूत्राणि चन्दनं चैव कर्दमम् | अत एव महेशानि मन्त्री सर्वसमो यदा || २३-३५ || सिद्धिस्तदैव विज्ञेया श्रीगुरोः कृपया प्रिये || २३-३६ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे ज्ञानदूतीयजनविधिर्नाम त्रयोविंशः पटलः || २३ || अथ चतुवींशः पटलः ईश्वर उवाच -- दीक्षाविधिं प्रवक्ष्यामि येन शिष्यः सुखी भवेत् | दीयते सकलं देवि गुरवे प्राणसंयुतम् || २४-१ || धन--रत्न--सुवर्णादि--पट्टवस्र--समुच्चयम् | क्षयं प्राप्नोति तद्भावान्नानापापसमुच्चयः || २४-२ || तस्माद्दीक्षेति नामास्याः सर्वशास्रेषु सुव्रते | पापिने कृपणायापि शठाय कपटाय च || २४-३ || अदीनायाऽऽचारशून्याय मन्त्रद्वेषपराय च | निन्दकाय च मूर्खाय तीर्थद्वेषपराय च || २४-४ || भक्तिहीनाय देवेशि न देया मलिनाय च | दानशीलाय भक्ताय साधवे तीर्थचेतसे || २४-५ || सन्मार्गवतीने चाग्निदेवद्विजरताय च | सर्वशास्रार्थवेदार्थज्ञानिने सुव्रताय च || २४-६ || दीक्षा देया वरारोहे अन्यथाऽऽपत्तिभाग्भवेत् | अथ वक्ष्ये वरारोहे दीक्षाकरणमुत्तमम् || २४-७ || मण्डपं वेदिकां कृत्वा पुष्पवैतानमण्डितम् | दीपमालावलीरम्यं नानाधूपसुधूपितम् || २४-८ || सिन्दूररङ्गमालाभिर्मण्डितं चित्रचित्रितम् | वेदिकायां वरारोहे कुङ्कुमेनाथ वा प्रिये || २४-९ || सिन्दूररजसा वाऽपि विलिखेच्चक्रमुत्तमम् | मध्यचक्रं वरारोहे नवकोणविराजितम् || २४-१० || चतुरस्रं च संलिख्य सुवर्णकलशान्नव | रौप्यताम्रादिरचितान्मृत्तिकारचितांश्च वा || २४-११ || जलपूर्णान्विशेषाढ्यान् स्वर्णरत्नप्रपूरितान् | फलैः पुष्पैश्च सुभगान् सुगन्धेन च चचीतान् || २४-१२ || वशिन्याद्यष्टकं तत्र वसुकुम्भेषु पूजयेत् | मध्यकुम्भे वरारोहे श्रीविद्यां परितोषयेत् || २४-१३ || क्रमं समस्तमभ्यर्च्य कुमार्याद्यर्चनं यजेत् | सुवासिनीर्ब्रह्मवृन्दं योगिनो विविधानपि || २४-१४ || तदङ्गहवनं कुर्यात्सर्वेषां तृप्तिहेतवे | गुरुः शिष्यमुपानीय भक्तिनम्रमकल्मषम् || २४-१५ || प्राणानायम्य विधिवच्छुद्धपीठे निवेश्य च | सुरास्त्वामेत्यादिमन्त्रैश्चिरण्टीभिर्युतः स्वयम् || २४-१६ || अभिषिञ्चेच्च तन्मूघ्नी तदेतत्कलशोदकैः | परिधायय सुवासोभिश्चन्दनादवलेप्य च || २४-१७ || वामतः परमेशानि स्वासने पूजिते शुचिम् | सर्वशृङ्गारवेषाढ्यं शिष्यं तत्र निवेशयेत् || २४-१८ || षडध्वरूपं श्रीचक्रं तस्य र्मूध्नि विचिन्तयेत् | अभावे तु बृहच्छङ्खं जलेनाऽऽपूर्य सुन्दरि || २४-१९ || कलास्तत्र समाराध्य देवीं सम्पूज्य सेवयेत् | स्वदृष्ट्याऽऽलोकयेत्तं तु दृष्ट्या दृष्टिं तु मेलयेत् || २४-२० || आज्ञासंक्रमणं कुर्याद्यावन्निश्चलता भवेत् | नैश्चलं शाम्भवो वेद्यः शून्याशून्यविवजीतः || २४-२१ || शून्यं शिवमयं वस्तु पुरुषः परमेश्वरि | अशून्यं शक्तिराद्या हि प्रकृतिः परमेश्वरि || २४-२२ || शक्त्याधिक्ये रजःस्थौल्यं संयोगाच्छिवयोर्यदा | स्वप्नावस्था तदा ज्ञेया योगः शक्त्यधिकस्ततः || २४-२३ || शक्तिर्जाग्रदिति ख्याता शिवो निश्चलता पिरये | सुषुप्तिरिति मन्त्रज्ञैः कथिता निश्चला यतः || २४-२४ || गुणत्रयं तु कथितं जाग्रत्सत्त्वगुणा प्रिये | तमोगुणा सुषुप्तिस्तु शिवे निश्चलरूपिणी || २४-२५ || शिवाधिक्याद्गुणातीतं वस्तु जानीहि सुन्दरि | शिवशक्तिसमायोगाच्छिवाधिक्यं यदा भवेत् || २४-२६ || तदा तुर्यां विजानीयात्सर्वबन्धनिकृन्तनीम् | कलाः षोडश देवेशि आत्मज्ञाने व्यवस्थिताः || २४-२७ || श्रीविद्याबीजसंलीनाः शिष्यदेहे प्रकाशयेत् | चतुवीधा षोडशार्णा महात्रिपुरसुन्दरी || २४-२८ || तद्ध्यानात्तु मनःस्थैर्यमुन्मनीति निगद्यते | ब्रह्मज्ञाने मनः पक्षी तृष्णाचञ्चुविलक्षितः || २४-२९ || संकल्पेन विकल्पेन पक्षाभ्यां चञ्चलः सदा | मोहमत्सरकामैश्च क्रोधाहंकारदुर्मदैः || २४-३० || संनद्धपिच्छैःसबलः कृत्याकृत्यपदद्वयः | संसारवृक्षे देवेशि धनपुत्रादिमूलके || २४-३१ || अविद्याविस्तृते निन्दास्तुतिशाखासुशोभिते | अभिलाषस्फुरत्पुष्पभरिते पातकादिभिः || २४-३२ || पर्णपूर्णे वरारोहे पापपुण्यफलान्विते | तत्र शाखाद्वये स्थूले श्रुतदृष्टाभिधः स्थितः || २४-३३ || पक्षिणं तं समाक्रम्य ज्ञानपाशेन पाशयेत् | पक्षिखेलारतो नित्यं कटाक्षः श्रीगुरोः प्रिये || २४-३४ || तेन पक्षद्वयं छिन्नं यदा भवति निश्चयात् | तदा समुन्मनीभूत उन्मुखो निश्चयात्प्रिये || २४-३५ || सर्वसंकल्परहिता कला सप्तदशी भवेत् | उन्मनी नाम तस्या हि भवपाशनिकृन्तनम् || २४-३६ || उन्मन्या सहितो योगी न योगी नोन्मनी परा | यथा कर्पूरगो दीपो न दीपो न पुनः शशी || २४-३७ || अत एव महेशानि दृष्ट्या संक्रमणं यजेत् | तत्त्वमस्यादिवाक्येन पश्चाद्वाच्यं हि योजयेत् || २४-३८ || आदावकथ्यसंयोज्यं स्पर्शेनैव सुलोचने | स्पर्शः स्पर्श इवाऽऽभाति श्रीगुरोः करसंभवः || २४-३९ || स्पर्शेन धातवः सद्यो लोहाद्याः सुरवन्दिते | सुवर्णतां प्राप्य सर्वे विशिष्टाभरणान्विताः || २४-४० || करस्पर्शस्तु देवेशि प्रपञ्चमलिनादिकम् | लोहत्वं नाशयित्वा हि सुवर्णत्वं करोति हि || २४-४१ || करे पुष्पफलान्कृत्वा ब्रह्मरन्ध्रे करं क्षिपेत् | तस्माद्ब्रह्मत्वमेवासीति वाक्यार्थः कराद्भवेत् || २४-४२ || अनिर्वाच्योपदेशोऽयं स्पर्शनाद्ब्रह्मरन्ध्रके | ब्रह्मरन्ध्रे सहस्रारे कर्पूरधवलो गुरुः || २४-४३ || वराभयकरो नित्यो ब्रह्मरूपी सदाऽनघः | जागती परमेशानि निजस्थानप्रकाशकः || २४-४४ || पश्चात्षट्चक्रविज्ञानं शिष्याय प्रतिबोधयेत् | आधारं स्वर्णवर्णं च चतुर्दलसुशोभितम् || २४-४५ || वादिसान्तैश्चतुर्वर्णैस्तप्तहेमसमप्रभैः | गणेशसहितं विद्धि स्वाधिष्ठानं ततः प्रिये || २४-४६ || इन्द्रगोपप्रतीकाशं स्फुरद्विद्रुमसंनिभैः | बादिलान्तैः स्फुरद्वर्णैर्ब्रह्मणा मण्डितं प्रिये || २४-४७ || नीलवर्णं तृतीयं हि मणिपूरं दशारकम् | विद्युत्पुञ्जप्रभावर्णैर्डादिफान्तैश्च मण्डितम् || २४-४८ || गदाधरहरिं प्रौढं चतुर्थं शृणु सुव्रते | पिङ्गाभं द्वादशारं तु कादिठान्तैः सुलोचने || २४-४९ || विस्फुलिङ्गप्रभैर्वर्णैः शिवेन च युतं प्रिये | विशुद्धचक्रं देवेशि धूम्रवर्णं कलात्मकम् || २४-५० || स्वरैर्माणिक्यसंकाशैर्मण्डितं परमेश्वरि | जीवात्मानऽधिष्ठितं हि तज्जानीहि तदन्ततः || २४-५१ || आज्ञाचक्रं महेशानि विद्युत्कोटिसमप्रभम् | द्विदलं हक्षवर्णाभ्यां शुभ्राभ्यां परिमण्डितम् || २४-५२ || परमात्मस्वरूपाढ्यं नादरूपं हि सप्तमम् | नादो विलीनो यस्मात्तु तस्माद्ब्रह्म तदुच्यते || २४-५३ || देहेऽक्षराणि देवेशि नाद एवात्र कारणम् | नादः पवनसंयोगत्कुण्डलिन्या युतो यदा || २४-५४ || प्रसन्नः परमेशानि षट्श्चकाणां दलेषु सः | पञ्चाशद्वर्णरूपत्वं माप्तवान्सुरवन्दिते || २४-५५ || अव्यक्तरूपता प्राप्ता उदात्तादिस्वरैः क्रमात् | एवं सर्वज्ञतां तस्मै दद्याच्छिष्याय सद्गुरुः || २४-५६ || शिष्यस्तदा श्रीगुरोस्तु पूजां कुर्यात्सुलक्षणाम् | रत्नाभरणशोभाढ्यां पट्टवस्रधनान्विताम् || २४-५७ || गजाश्वसहितां भद्रे महिषीगोसमन्विताम् | क्षेत्रग्राममहारामरम्यां चेटीशतान्विताम् || २४-५८ || सुवर्णरश्मिभरितां कस्तूरीचन्द्रचन्दनाम् | गुरुं संतोष्य विधिवत्प्रसादं तत्त्वसंयुतम् || २४-५९ || गृह्णीयाच्छिष्यवर्यस्तु गुरुस्तस्मा अनन्तरम् | बालां प्रकाशयेत्कर्णे दक्षिणे च ततः परम् || २४-६० || पञ्चसिंहासनगता विद्याः पश्चात्प्रकाशयेत् | ततो रहस्यं परमं महात्रिपुरसुन्दरीम् || २४-६१ || प्रकाशयेद्दक्षकर्णे परब्रह्ममयीं प्रिये | सर्वसौभाग्यजननीं भोगमोक्षफलप्रदाम् || २४-६२ || श्रीविद्यां षोडशार्णां तु ब्रह्मानन्दस्फुरत्कलाम् | न प्रकाशये द्देवेशि सर्वस्वमिव सुव्रते || २४-६३ || वेदशास्त्रपुराणेषु यामलेष्वपि सुव्रते | मुप्ता श्रीषोडशार्णेयं निधानमिव संस्मरेत् || २४-६४ || सहोदराय सर्वस्वप्राणदायापि बन्धवे | राज्ञे राज्यप्रदायापि पुत्राय प्राणदाय च || २४-६५ || न देया षोडशार्णेयं देयं सर्वस्वमद्रिजे | सुपुत्रदारसहितं शिरो देयं कथंचन || २४-६६ || न देया षोडशार्णा हि प्राणैः कण्ठगतैरपि | गोपितव्या महाविद्या स्वयोनिरिव पार्वति || २४-६७ || उदके लवणं लीनं यथा भवति शैलजे | मनो भवति वै लीनं पादयोः श्रीगुरौः प्रिये || २४-६८ || तदा देया महाविद्या कृपया षोडशाक्षरी | अक्षरैः सहिता वाऽपि निरक्षरतया स्थिता || २४-६९ || आकाशे नीलिमा देवि भ्रान्त्या दृष्टोदरे यथा | अक्षराणि तथा सन्ति श्रीविद्यायां सुरेश्वरि || २४-७० || षोडशार्णां ब्रह्मरूपां जानीहि परमेश्वरि | यथा रत्नमये दीपे कज्जलं नैव विद्यते || २४-७१ || श्रीविद्यायां यथाऽव्यक्तव्यक्तता वीरवन्दिते | न दद्याद्यस्य कस्यापि दद्यात्प्राणप्रियाय च || २४-७२ || कृतार्थोऽसि शिशोर्वाक्यं प्रवदेद्देशिकोत्तमः | षोडशार्णां महाविद्यां न दद्याद् ब्रह्मरूपिणीम् || २४-७३ || एकोच्चारेण देवेशि वाजपेयस्य कोटयः | अश्वमेधसहस्रं तु तुलां नाऽऽयाति सर्वदा || २४-७४ || एकोच्चारेण देवेशि प्रादक्षिण्यं भुवो भवेत् | धेनूनां कपिलानां हि दत्ता यैः कोटिकोटयः || २४-७५ || एकोच्चारेण देवेशि तुलां नाऽऽयाति सर्वदा | अर्धोदये पुण्यतिथौ हेमभारसहस्रकम् || २४-७६ || तुलापुरुषकोट्यस्तु तुलां नाऽऽयान्ति षोडशीम् | यदा यद्वर्ण्यते वस्तु तदा सर्व निरामयम् || २४-७७ || तथा ज्ञेया महाविद्या षोडशार्णा वरानने | परमात्मस्वरूपेयं विश्वस्पन्दनरूपिणी || २४-७८ || श्वासोच्छ्वासतया देवि षट्शतान्येकविंशतिः | सहस्राणि दिवा रात्रौ हंसः शब्दजपो भवेत् || २४-७९ || स्यन्दनत्वेन सकलं व्याप्य तिष्ठति सर्वतः | आत्मत्वेनाजपा ज्ञेया सूर्यसोमस्वरूपिणी || २४-८० || निरञ्जनस्वरूपा च निराभासस्वरूपिणी | अतनुत्वतनुत्वाभ्यां सूक्ष्मत्वेन वरानने || २४-८१ || प्रबोधापादनेनापि मण्डिता वह्निजायया | षडङ्गैः शोभितां देवीं हंसेनैव प्रपूजिताम् || २४-८२ || अव्यक्तरूपगायत्रीछन्दोवक्त्रां वरानने | साक्षात्परमहंसाभां देवतां परमेश्वरीम् || २४-८३ || श्रीविद्यां व्यापिकां विद्धि परज्योतिः स्वरूपिणीम् | आत्मस्वरूपलिङ्गं हि मायागेहगतं प्रिये || २४-८४ || श्रद्धातरङ्गिणीनीरक्षालितं भववन्दनम् | सुमनोमण्डितं वाऽपि समाधिकुसुमैर्वरम् || २४-८५ || ज्ञानाङ्गारे प्रपञ्चाख्यं धूपं दीपं च चिन्मयम् | अधितिष्ठति सर्वत्र सर्वनैवेद्यमण्डितम् || २४-८६ || निष्प्रपञ्चं निराभासं केवलं ब्रह्मसत्कलम् | षोडशार्णा परा विद्या श्रीविद्येत्यभीधीयते || २४-८७ || शुक्लपक्षे शुभदिने शुभवारे वरानने | मन्त्राद्यारम्भणं कुर्याद्ग्रहणे चन्द्रसूर्ययोः || २४-८८ || न वारमासदोषा हि ग्रहणे चन्द्रसूर्ययोः | पवित्रं सर्व देवेशि दानमेव शुभे दिने || २४-८९ || चैत्रे वै निष्फलं ज्ञेयं नीरजायतलोचने | वैशाखे क्षेत्रलाभं च ज्येष्ठे च मरणं ध्रुवम् || २४-९० || आषाढे बन्धुनाशं च श्रावणे च शतायुषम् | क्षयो भाद्रपदे मासि आश्विने रत्नसंपदः || २४-९१ || कातीके तु भवेल्लक्ष्मीर्मार्गशीर्षे धनं महत् | पौषे तु सम्भवेत्क्लेशो माघे सम्पत्तिरुत्तमा || २४-९२ || फाल्गुने सर्वकार्याणि मासानां फलमीदृशम् | शिष्यस्य प्रथमार्णं हि गृहीत्वा सुन्दरि पिरये || २४-९३ || नाम संकल्पयेद्देवि मनोज्ञं स्थिरबुद्धये || श्रीविद्यां हृदये तस्य न्यसेदव्यक्तरूपिणीम् || २४-९४ || श्रीविद्याक्षरपङ्क्तिस्तु परब्रह्मणि चिन्मयी | उदके लवणं लीनं यथा तिष्ठति पार्वति || २४-९५ || तस्माद्ब्रह्ममयीं विद्धि सर्वशास्रेषु योजिताम् || २४-९६ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे दीक्षाविधिर्नाम चतुवींशः पटलः || २४ || अथ पञ्चविंशः पटलः ईश्वर उवाच -- पवित्रारोपणं वक्ष्ये साधकानां हिताय च | वर्षमात्रकृता पूजा सफला भवति ध्रुवम् || २५-१ || तस्मात्पवित्रपूजा हि कर्तव्या सिद्धिहेतवे | आरभ्य मिथुनार्कं हि तुलासंक्रान्तिमासकम् || २५-२ || अतिरम्या महापूजा पवित्राणां सुरेश्वरि | पक्षद्वयेऽपि पूजा स्याच्चतुर्थ्यामष्टमीदिने || २५-३ || नवम्यां वा चतुर्दश्यां पवित्रारोपणं यजेत् | सौवर्णरौप्यताम्राणां सूक्ष्मसूत्राणि कारयेत् || २५-४ || कार्पाससंभवान्येव पट्टसूत्रसमुद्भवम् | त्रसरीसूत्रसंभूतं पद्मवल्कलसंभवम् || २५-५ || दर्भमुञ्जशणोद्भूतं पवित्राय प्रकल्पयेत् | प्रणवश्चन्द्रमा वह्निर्ब्रह्मा नागो गुहो रविः || २५-६ || साम्बाख्यः सर्वदेवश्च नवतन्तुषु पूजयेत् | शिरोमन्त्रेणाभिमन्त्र्य हृन्मन्त्रेण ततः परम् || २५-७ || प्रक्षालयेत्ततोऽभ्युक्ष्यास्रमन्त्रेण च देशिकः | अवरुध्य च नेत्रेण ग्रथितं कवचेन हि || २५-८ || रोचनाकुङकुमाभ्यां च रक्तचन्दनचन्दनैः | कस्तूरीघुसृणाद्यैश्च कर्पूरैर्न { र्ना } गरैरपि || २५-९ || गैरिकाद्यैवीचित्रं तत्कारयेत्सुमनोहरम् | मूलमन्त्रेण चाभ्युक्ष्य स्थापयेदीशकोणके || २५-१० || पवित्रवृन्दं सकलं षडङ्गैस्तु पवित्रितम् | कृत्वा देवेशि पूर्वस्मिन्दिवसे सद्य एव वा || २५-११ || अष्टोत्तरशतैः सूत्रैर्नवसूत्रेण कल्पितैः | उत्तमं तत्पवित्रं हि तदर्धं मध्यमं स्मृतम् || २५-१२ || तस्याप्यर्धं कनिष्ठं स्यात्त्रिविधं कथितं प्रिये | अधिवासनवेलायां यवान्विस्तार्य सुव्रते || २५-१३ || चतुभीरासनैस्तत्र पुष्पं निक्षिप्य देशिकः | पवित्राणि पवित्राणि पञ्चामृतसमुच्चयैः || २५-१४ || रचितान्यमलैः पञ्चरत्नैः सर्वौषधीगणैः | नववस्त्रयुगेनाथ सम्यगाच्छाद्य सुव्रते || २५-१५ || देवि कुम्भं प्रतिष्ठाप्य पूर्ण चामीकरादिभिः | देवीमावाह्य तत्कुम्भे मूलमन्त्रेण पूजयेत् || २५-१६ || ततः क्रमं समभ्यर्च्य पवित्रार्पणमारभेत् | श्रीविद्यया पवित्राणि गुरोर्नाम्ना च देशिकः || २५-१७ || पवित्रं गुरवे दद्यात्सर्वेभ्यस्तदनन्तरम् | गुरुभ्यस्त्रिविधेभ्यश्च पवित्राण्यर्पयेत्ततः || २५-१८ || तिथिनित्यागणायाथ पवित्रारोपणं यजेत् | नवचक्रस्थितायाथ चक्रेशीनवकाय च || २५-१९ || रश्मिवृन्दाय देवेशि प्रत्येकं भावपूर्वकम् | पवित्रकं समर्प्याथ गुरून् संतोषयेत्प्रिये || २५-२० || स्वर्णालंकारवस्त्रैश्च नानाधनसमुच्चयैः | तत्प्रसादं पवित्रं च धारयेत्तदनन्तरम् || २५-२१ || तदङ्गहोमं निर्वर्त्य पवित्रेण समर्चयेत् | कुमारीपूजनं कुर्यात्ततः सुवासिनीगणम् || २५-२२ || योगिन्यो योगिनश्चैव ब्राह्मणा विविधा गणाः | पूज्या हि परमेशानि यदीच्छेत्सिद्धिमात्मनः || २५-२३ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे श्रीविद्यापवित्रारोपणविधिर्नाम पञ्चविंशः पटलः || २५ || अथ षड्विंशः पटलः ईश्वर उवाच -- दमनारोपणं वक्ष्ये साधकानां हिताय च | संवत्सरकृता पूजा येन पूर्णा भवेत् प्रिये || २६-१ || तपोभङ्गाय मदनो मम शैलभवे यदा | भस्मीभवत्तदा पत्नी रतिः प्रीतिश्च दुःखिते || २६-२ || तन्नेत्रवारिसंभूता दमनस्य लता भवेत् | तत्सौरभ्यं च सौभाग्यं महदासीत्सुलोचने || २६-३ || तेन संतुष्टसुहृदा वरो दत्तो मया प्रिये | रत्यै प्रीत्यै च तस्मात्तु मदनः प्रकटीकृतः || २६-४ || दमनेन च यो मन्त्री वर्षमध्ये न पूजयेत् | तस्य सांवत्सरी पूजा मदनाय भविष्यति || २६-५ || इति तस्मै वरो दत्तो मयैव सुरवन्दिते | तस्माद्दमनपूजा हि कर्तव्या वीरवन्दिते || २६-६ || अन्यथा तत्फलं वर्षकृतं कामाय जायते | समूलं दमनं देवि स्थापयेत्पात्रके वरे || २६-७ || दमनं नवधा कूर्यात्पूजयेत्तदनन्तरम् | आनन्देश्वरबीजेन ततो भिन्नेन सुन्दरि || २६-८ || आनन्देश्वरबीजेन नवधा बिन्दुना सह | नवप्रकारभिन्नाङ्गं दमनं पूजयेत्क्रमात् || २६-९ || अघोरविद्यया पश्चादभिषिच्य तमेव हि | पूर्वोक्तया दक्षिणस्यां दिशि सिंहासनोक्तया || २६-१० || अस्त्रेण रक्षणं कुर्यात्कवचेन ततः परम् | बद्ध्वा त्रिशूलमुद्रां तु भ्रामयेद्दमनोपरि || २६-११ || चैत्रे सितचतुर्दश्यां दमनारोपणं भवेत् | उद्धरेदस्त्रमन्त्रेण हृदयेन च लेपयेत् || २६-१२ || श्रीखण्डघुसृणेन्द्राद्यैरधिवासं च कारयेत् | प्रथमे दिवसे कुर्यादधिवासनमुत्तमम् || २६-१३ || सद्योऽधिवासनं वाऽपि वर्षपूर्जासुसिद्धये | प्रातःकाले चतुर्दश्यां नित्यार्चानन्तरं ततः || २६-१४ || नवकोणं विरच्याथ सिन्दुरेण महाप्रभम् | कलशान्नव संस्थाप्य हेमरत्नादिपूरितान् || २६-१५ || एकं वा कलशं रम्यं स्थापयेद्देशिकोत्तमः | दक्षतो मण्डलं कृत्वा कुङ्कुमाद्यैवीचित्रितम् || २६-१६ || अशोकतरुमालिख्य त्रिकोणं मण्डलं लिखेत् | तन्मध्ये पूजयेत्कामं तरुणं चारुणप्रभम् || २६-१७ || रक्तवस्रं रक्तभूषं वामदक्षिणयोः प्रिये | रतिप्रीतिविशोभाढ्यं पञ्चबाणं धनुर्धरम् || २६-१८ || बसन्तसहितं कामं कदम्बवनमध्यगम् | मन्त्रेणानेन तं कामं पूजयेत्सिद्धिहेतवे || २६-१९ || वाग्भवं भुवनेशानीं श्रियं कामात्मकेन च | कामाय नम आलिख्य विद्येयं नववणीनी || २६-२० || कामबीजत्रयं चोक्त्वा रत्यात्मकमुच्चरेत् | रत्यै नमश्चाष्टवर्णां रतिविद्या वरानने || २६-२१ || प्रीतिं वदेद्रतिस्थाने प्रीतिमन्त्रोऽष्टवर्णकः | गौरश्यामे रतिप्रीती क्रमेण मणिभूषणे || २६-२२ || पद्मताम्बूलहस्ते च रक्तवस्त्रविराजिते | दिव्याभरणभूषे च पुष्पदामविराजिते || २६-२३ || वामदक्षिणयोर्ध्यात्वा कामस्य तदनन्तरम् | वसन्तं पूजयेत्पश्चात्कदम्बवनमध्यगम् || २६-२४ || गौरवर्णं वामहस्ते सुधापूर्णघटान्वितम् | दक्षहस्तेन दधतं नानापुष्पसमुच्चयम् || २६-२५ || साङ्गं कामं प्रपूज्याथ धूपदीपादि दर्शयेत् | दमने पूजितः कामः सर्वकार्याणि साधयेत् || २६-२६ || तेन सम्यक्प्रपूज्याथ महात्रिपुरसुन्दरीम् | क्रमं समर्चयेत्सम्यक्कुमारीर्भोजयेद्बुधः || २६-२७ || सुवासिनीश्च सम्पूज्य योगिनीगणमर्चयेत् | ब्राह्मणान् परिपूज्याथ नानादर्शनपारगान् || २६-२८ || तदङ्गहवनात्पश्चाद्गुरुं रत्नादिभूषणैः | स्वर्णभारसहस्रैश्च दिव्यवस्त्रमनोरमैः || २६-२९ || पूजयित्वा ततो देवि पूर्णाहुतिमथोच्चरेत् | अनेन विधिना देवि दमनारोपणं यजेत् || २६-३० || तस्य सांवत्सरी पूजा सफला शैलसंभवे || २६-३१ || इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे देवीश्वरसंवादे श्रीविद्यादमनारोपणविधिर्नाम षड्विंशः पटलः || २६ || ########### END OF FILE #######