#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: E0005 Uniform title: jñānadīkṣā Manuscript : IFP transcript T0088 Description: IFP transcript 88 Copied from MS no 68462 belonging to the Adyar Library - Madras This is a brief tract dealing with the essential principles of initiation by the awakening of Kuṇḍalinī and other inner methods. See Muktabodha digital library, IFP/EFEO collection at www.muktabodha.org for full bibliographic details. Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Feb. 16, 2013 Internet publisher : Muktabodha Indological Research InstituteMuktabodha Publication year : 2013 Publication city : Publication country : United States #################################################### ज्ञानदीक्षा || अविघ्नमस्तु शिवं प्रणम्य परमं निधनेशमतः परम् | ज्ञानदीक्षां प्रवक्ष्या * * शृणुध्वं समाहिताः | अथात्ममलमायाख्यकर्मबन्धविमुक्तये | व्यक्तेये च शिवत्वस्य शिवज्ञानं प्रवर्तते || ज्ञानं द्विविधमाख्यातं परं चापरमेव | प्रं चैवावबोधाख्यमपरं शास्त्रमुत्तमम् || सृष्टिकाले महेशानः पुरुषार्थ प्रसिद्धये | वि * * विमलं ज्ञानं पञ्चस्रोतोभिलक्षितम् || ज्ञा * * * * * क्षार्थं संग्रहणात्मभेषजम् | परिणामसुखं स्वादु विशेषगुणदर्शकम् || धर्मेण सा * * * र्मि क्वचित्कार्येणकारणम् | कार * * * * कार्यं क्वचिदाम्नाय दर्शनात् || अचेतनस्य मायादेः प्रवर्तकतया पतिः | सिद्धस्सर्वार्थ * * * व्याकस्स ततोदितः || द्रक्रिया * * * यस्य तद्दात्रपूर्व * * * | * * * स्सोत्र मन्तव्यः शक्तिद्वययुतः प्रभुः || प्. २) मतङ्गे- त्रगे * * रधिष्ठानं स्वशक्तिकिरणात्मकम् | त * * * * * * त्मा निष्कंपो चलमूर्तिमान् || काष्ठा सैव परा सूक्ष्मा सर्वदिक्कामृतात्मिका | पृथ्वी * * * * शान्ता वस्तुमात्रातिलालसा || आद्यन्तो * * * * * मूर्तित्वेनोपचर्यते | स्थिरावन्योन्यलोकेऽस्मिन् संविदानोपलभ्यते || वपुषो विद्यमानत्व * * त्कृत्यं करोति सः | तत्र तत्रास्य तत्कर्तृवपुषा * * * * * || किरणे- करणं च न शन्यच्छक्तिर्नाचेतनाचितः | विषयानियमादेकं बोधे कृत्ये च तत्तथा || यथा कालोह्यमूर्तोऽपि दृश्यते फलसाधकः | * * * * ह्यमूर्तोऽपि कुरुते कार्यमिच्छया || शक्तोद्युक्तप्रवृक्तश्च कर्ता त्रिविध इष्यते | शक्तेः प्रवृत्तिभेदेन भेदस्तस्योपचारतः || निमित्त * * * * * द्यद्दृष्टं सहकारणम् | उपादानञ्च यत्सूक्ष्मं सर्वकार्ये तु संहितम् || मूर्तास्सावयवायेत्था नानारूपपरिच्छदः | स्थूलावयव * * * * * मध्ये तु पूर्वकाः || प्. ३) अतोऽस्ति बुद्धिमान्कश्चिदीश्वरस्समवस्थितः | जगज्जन्मस्थितिध्वंसतिरे भावविमुक्तः || कृत्यंसकारकफलं ज्ञेयमस्यै * * * * | स्वापेप्यास्ते बोधयन्बोधयोग्यान् * * * * * || रोद्ध्यान्रुन्धन्पाचयन्कर्मिकर्म | मायाशक्तिव्यक्तियोग्यान्प्रकुर्वन् पश्यन्सर्व * * * * * * * * * * जातम् || देहान्योनीश्वरोव्यापी विभिन्नस्समलो जडः | स्वकर्मफलभुक्कर्ता किञ्चिज्ञस्सेश्वरः पशुः || अथानादिमलः पुंसां पशुत्वं परिकीर्तितम् | तुषकुकम्बुकवज्ज्ञेयो मायाबीजाङ्कुरस्य तत् || * * * * * * तानां अनादिनिबिडं महत् | प्रत्यात्मस्थस्वकालान्तापाथशक्तिसमूहवत् || तासां माहेश्वरी शक्तिस्सर्वानुग्राहिका शिवा | धर्मानुवर्तनादेव पाशद्व * * * * * || परिणामवतीताश्च रोधान्तं कार्कचत्विषा | यदोन्मीलनमादत्ते तदानुग्राह्यकोच्यते || यथा कुण्डलिनी शक्तिर्मायाकर्मानु सारिणि | नादब * * * * र्यं तस्या इति जगत्स्थितिः || प्. ४) तस्याश्चतस्रो वाग्रूपा वृत्तयो वै खर्यादयः | वैखरी मध्यमा चान्त्यपऽस्यन्ती सूक्ष्मसंज्ञिका || मायातत्वं जगद्बीजम * * * * * * * * | विभ्वेकमकलं सूक्ष्ममनाद्यव्ययमीश्वरम् || तदेकमशिवबीजस्थं जगतश्चित्रशक्तिमत् | सहकार्यधिकारान्त संरोधिव्याप्यनश्वरम् || शुद्धे ध्वनिशि * * * * क्तो नन्तोसि ते प्रभुः | ग्रन्धिजन्यकलाकाल विद्यारागनुमातरः || गुणाधी गर्व चिन्ताक्षमात्राभूतान्यनुक्रमात् | धर्माधर्मात्मकं कर्म तच्च त्रिविधम * * || * * * र्भो गदं येन नामित्रं पश्यते क्वचित् | कर्म व्यापारजन्यत्वाददृष्टं सूक्ष्मभावतः || जनकन्धारकं भोग्यं अध्वात्मादित्रिसाधनम् | तत्सत्यानुतयोनित्वा * * * * * रूपकम् || स्वापे विपाकमभ्येति तत्स्रष्टापुपयुज्यते | मायायां वर्तते चान्ते नाभुक्तं क्षय * * * || अथात्मा विमलो बद्धः पुनर्मुक्तश्च * * * | * * * स्सत्रिधावस्थः केवलस्सकलो मलः || अचेतनो विभुर्नित्यो गुणहीनो क्रियो प्र * | * * * तभागशक्तश्च शोध्यो बोध्यो क * * || प्. ५) चैतन्यं दृक्क्रिया * * * * त्यात्मनि सर्वदा | सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमु * || * * * दप्य भासमानत्वात्तन्निरुद्धं * * | * * * वृतवीर्यस्य सोन्त एवाविमोक्षणात् || पाशाभावे परातन्त्र्यं वक्तव्यं किन्नबन्धनम् | स्वाभाविकञ्चेन्मु * * * क्तशब्दो निवर्तते || अनादिमलसंब * * * * * र्मयोदितः | अनादिमलमुक्तत्वात्सर्वज्ञोऽसौ ततं शिवः || आदिमत्वं यदा सिद्धन्निमित्तं कल्पते तदा | ई * * पं स्मृतं ताभ्यां शुद्धाशुद्धं यथार्थतः || * * * * * कं कस्मात्समाताम्रं सकालिकम् | यथा तत्र निमित्तं नो तथा नैव शिवात्मनोः || प्रयोक्त्रादिमहीप्रान्तमेतदण्डार्थ साधकम् | प्रत्यात्मनियतं * * * * * प्यवसीयते || सर्वतो युगपनुक्तेरनुत्पादादसर्वगम् | भिन्नजातीयमप्येकफलं दीपाङ्गवस्तुवत् || मुक्त्यर्थं स पशुर्बद्धो नान्य * * * * * ते | यावच्छरीरसंश्लेषो न संजातो न भोगभुक् || अत्यन्तमलिनस्यास्य प्रागुक्तस्याविकारिणः | कला संश्लेषमायाति शिवेच्छानुवि * * * || प्. ६) कर्मणा देहसंयोगो विभोरपि महेश्वरात् | अशक्तत्वात्स्वतो नास्वसामर्थ्यं कर्मयोजने || पशुत्वरुद्धचिच्छक्तेस्स्वातन्त्र्य * * * * * | कर्मचिद्रहितन्तस्माद्योजकस्तदपेक्षते || योजकस्समहेशानस्स्वेच्छया बलवान्यतः | वैखरी श्रोत्रविषया स विकल्पा तु मध्यमा || निर्वि * * * * * वा गासां कारणमन्तिमा | आशुरेव जगत्सर्वं प्रबुद्धं शब्दवृत्तिभिः || न हि शब्दादृते पुंसः प्रत्ययोऽस्ति कदाचन | शब्दानुवृद्धमेवेह विश्व * * * * * * || एता एव परोबन्धः पशूनां परमार्थतः | कलोत्बलित चैतन्यो विद्यादर्शिततगोचरः || रागेण रञ्जितश्चापि बुध्यादिकरणे * * | मायाद्यवनि पर्यन्ते दत्वा भूतात्मवर्त्मनि || भुङ्क्ते तत्र स्थितान्भोगान् भोगैकरसिकः पुमान् | भोगोऽस्य वेदना पुंसः सुखदुःखातिलक्षणः || तां * * * * * * न्यः पुमानभ्येति कर्मतः | कर्मतश्च शरीराहि विषयाः करणानि च || भोगसंसिद्धये भोक्तुंर्भवन्ति न भवन्ति च | एवं मायाजनस्थोणुर्निजदोषतिर * * || प्. ७) * * * * यतान्तेषु मायाभोगेषु रञ्जितः संसारी विषयी भोक्ता क्षेत्री क्षेत्रज्ञ एव च || शरीरीचेति बन्धात्मा सकलश्चोच्यते बुधैः | तमश्शक्त्यधि * * * * * * तत्परिच्युतौ || व्यनक्ति दृक्क्रियानन्त्य जगद्बन्धुरणोश्शिवः | येषां शरीरिणां शक्तिः पतत्यविनिवृत्तये || तेषां तल्लिङ्गमौत्सुक्यं मुक्तौ येषो भव * * | * * * शिवभक्तेषु श्रद्धातश्चासके विधौ || तन्निपाच्च तस्येत्थमज्ञस्याप्यभिलाषितः | बुद्धिरुत्पद्यते कस्मात् विवेकेनात्मवर्तिना || विवेकिनो वि * * * * * साचोपजायते | जिज्ञासोपेतचैतन्यं पशुं संसारसागरात् || जिसृक्षया युनक्त्येनयुक्तं प्रेरयिता प्रभुः | प्रेरणे प्रेरकश्श्रीम * * * पिसमन्त्रराट् || अनुग्राह्यस्य विनये तथानुग्राहकस्य च | कारुण्येत्वनयोरस्मात्तयो * गस्सुदुर्लभः || स देशिकमनुप्राप्य दीक्ष * * * * न्धनः | प्रयाति शिवसायुज्यं निर्मलो निरुपप्लवः || सर्वज्ञानोत्तरे- प्. ८) * * * भिर्निबन्धात्मा सर्वधर्मे च संयुतः | न * * * * क्तुं वर्ज्यदीक्षां शि * * * * * || कर्तृशक्तिरणोर्नित्या विद्वीचेश्वरशक्तिवत् | तमच्छन्न * * * * * भातिदिरनुग्रहात् || विभुस्सन्ज्ञानरूपे * * * * * वेत्ति येन तत् | किञ्चिज्ञस्तेन स प्रोक्तो व्यवधानादिदर्शनात् || * * * व्यज्यते स्वल्पं महन्महतितस्थितम् | * * * * * * * स्य प्रदीपस्तिमिरे यथा || सचेतनस्ततो जीवो यदा शक्त्या तु युज्यते | अन्यथा निष्कलो ह्यात्मा विष * * पलक्ष्यते || गुरुर्यथाग्रतश्शिष्यान् सुप्त * * * * धयेत् | शिवोऽपि मोहनिद्रायां सुप्तां शक्त्या प्रबोधयेत् || यथा भेषजसामर्थ्या दशक्तानां बलं * * | तेन तच्छक्तियोगेन सामर्थ्यममितं भवेत् || * * * * च सामर्थ्यात् कर्मणा मुनिसत्तम | शिवत्वाद्युज्यते मोक्षे पशुत्वाद्युज्यते तनौ || ईश्वराधिष्ठितात्मा च वस्वतन्त्रोयतस्सदा | नित्यव्यापकविच्छक्तिनिधिरप्यर्थसिद्ध * || * * * शांभवं वापि बलमन्वेष्टि नान्यथा | विश्वस्यानेकरूपस्य ज्ञानमेकं शिवात्मकम् || प्. ९) व्यापकं विमलं शान्तं भुक्तिमुक्तित्रियेन तु | एकैव वस्तु त * * * * क्तिर्निर्मला परा || अविना भावनी शंभोश्शुचेरुष्णमिव प्रभोः | तयात्म शिवयोस्सन्धिश्शिवबोधपरापरा || बाध्यक्षन्नापि तल्लैङ्गन्न * * * * * करम् | ज्ञानमाभाति विमलं सर्वदा सर्ववस्तुषु || अस्मात्प्रवितताद्बन्धात्परसंस्थानिरोधकात् | दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि || * * * * सने सिद्धा दीक्षा क्षपणदानयोः | दानन्नाम स्वसत्तैव या सा ज्ञानक्रियात्मिका || सा शक्तिस्तस्य संस्पर्शाद्व्यक्ति भूतासु निर्मला | पत्युर्दान * * * * * * यं व्यज्यते पशोः || अशरीरं यदात्मानं पश्यति ज्ञानचक्षुषा | तदा भवति शान्तात्मा सर्वतो विगतस्पृहः || दीक्षानला पुष्टमलस्य जन्तो * * * * * | स्वाख्यं * * * * * * * * * * पत्रियोगात् || शक्त्या विभोश्चुंबित हृत्प्रदेशो * * * * * | * * * * * नान्येन पुंसोऽपि न वृत्तिरेति || अनेकक्रमयोगेन परां केवलतां गतः | प्. १०) अनाद्यशुद्धिशून्यत्वात् प्राप्नोति न भवान्तरम् | यस्य जाग्रे प्रलीयन्ते सर्वे भावास्सुषुप्तिवत् || पर्याप्तं तस्य विज्ञानन्त्रपदन्तेन लम्बितम् | * * * शक्तिदीधित्या समर्थी कृत चिदृशा || शिवं शक्त्यादिभिस्सार्धं पश्यत्यात्मागताव्रतिः | उल्काहस्तो यथा कश्चित् द्रव्यमालोक्यतां त्यजेत् || ज्ञानेन ज्ञेयमालोक्य प * * * परित्यजेत् | यदा मनः परे तत्वे लब्धलक्षन्निलीयते || तदाह्यशेष विज्ञानं विनाशमुपगच्छति | अनाख्ये तु निरालम्बे अग्राहे मनवर्जिते || निस्त * * * * मुक्त इति शास्त्रस्य निश्चयः | भवोद्भवपदानीतो निष्कंपाच्चिरवस्थितः || मुक्तो व्यक्तशिवत्वोऽसौ कृतकृत्यो यतस्ततः | नात्र पूजानमस्कारो नज * * * * वच || केवलं ज्ञेयमित्युक्तं वेदितव्यं न किञ्चन | यथा वायुस्सुशीघ्रोऽपि मुक्त्वाकाशं न गच्छति || ज्ञेयनिक्षिप्त चित्तस्तु विषयस्थो न मुञ्चति | * * * * * था चित्तं नित्यं गच्छति देहिनाम् || तथा चैवेन्द्रियातीते तस्य नैराकृते पदे | गोदोहमिषुपातं वा नयनोन्मीलमात्रकम् || प्. ११) अकृत्परपदे युक्तो न * * * * * प्नुयात् | पशुभावात्यदादित्यः पतिभावेन तिष्ठति || तत्तस्य गमनं नाम सर्वगे गमनं कुतः | शिवधामाप्लुतस्यास्य भोगभोक्तुर्नजातु चित् || भोक्तृत्वम * * * * * ति कृत्यानुकारिता | विषसंबन्धनी शक्तिर्यथा मन्त्रैर्निरुध्यते || तथा न तद्विषं क्षीणमेवं पुंसो * * * * | अनेक भाविकं कर्म दग्धं बीजमिवा * * || * * * * * संरुद्धमेनेदन्तद्धि भोगतः | जातायां घटनिष्पत्तौ यथा चक्र भ्रमत्यपि || पूर्वसंस्कार संसिद्ध * * * * रिदं स्मृतम् | भग्ने घटे यथा दीपस्स * * * * * * || देहपाते तथा चात्मा * * * * * सर्वदा | प्रकटयस्वै इदं ज्ञानं मद्भक्तानां वरानने || रक्षणीय * * * * तस्करेभ्यो धनं यथा || || इति श * * * * * * * * * * * * * || इदं च अडैयार पुस्तकागारात् तालपत्रकोशं ग्रन्थाक्षरालंकृतं दृष्ट्वा नटराजेण विलिखितम् इदं च दशकार्यम् इत्याद्यागमविषयबोधक ग्रन्थमध्ये लिखितं दृश्यते अत्र च अस्य ग्रन्थस्यारं भात्पूर्वं एवं दृश्यते यत्- प्. १२) इति || इतः परं च इत्यारभ्य अयं ग्रन्थो दृश्यते समाप्ति बोधकवाक्यं तु नष्टम् | अनन्तरं च सीताचक्रं रामचक्रं इति ग्रन्थः अनेनैव कर्त्रालिखितो वर्तते || हस्ताक्षरसाम्येन च महागणपतिनामक शिवाचार्येणैव इदमपि लिखितं इति निश्चितुं शक्यते || इति नटराजः सा ########### END OF FILE #######