#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00024 Uniform title: jñānakārikā Secondary title: kaulajñānanirṇaya and some minor texts of the school of matsyendrānātha Author : matsyendrānātha Alternate name : matsyendra Alternate name : macchagnapāda Editor : Bagchi, P. C. Description: The source of this e-text is Calcutta Sanskrit Series 3 - kaulajñānanirṇaya and some minor texts of the school of matsyendrānātha - where it is bundled along with kaulajñānanirṇaya kulānandatantra . The printed volume also contains introductory material and summaries in english. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: August 1, 2006 Publisher : Metropolitan Printing and Pub. House Publication year : 1934 Publication city : Calcutta Publication country : India #################################################### ज्ञानकारिका प्रथमः पटलः ओं नमः शिवाय | सिद्धेभ्यो पुरुषेभ्यो नमः | श्रीशङ्करपादेभ्यो नमः | अप्रतिहततत्त्वेभ्यो नमः | अथातः संप्रवक्ष्यामि ज्ञानसर्वं (सु)भाषितम् | कारिका श्री(ज्ञाना)ख्यातं विसर्ज ज्ञानकारिका(म्) || १/१ || कारिकानाम विज्ञानं श्रूयन्ते च.....वल | साम्प्रतं कथयिष्यामि योगिनां युक्तकारणम् || १/२ || मुक्तिमार्गी च (सर्व)तो सर्वेन्द्रियविवर्जिताः | पञ्चपञ्चविनिर्मुक्तो............वर्जितम् || १/३ || एते सुरास्तं ज्ञानं मुक्ति........वान् यथास्थितः | सर्वव्या(धि)विनिर्मुक्तं यच्च इन्द्रियगोचर(म्) || १/४ || द्वादशान्तं तथा..............शान्तं तथैव च | द्वादशान्तं कलाशतं वर्णाक्षरविवर्जितम् || १/५ || सर्वज्ञञ्च सदा शान्तं (सर्वा)श्रवविवर्जितम् | ब्रह्मा विष्णुस्तथा रुद्र ईश्वरः शिव एव च || १/६ || मूर्तिरूपं स्थितं हेतुरनुत्तरं यथास्थितः | रूपकायः सदातीतं मन्त्रतन्त्राविवर्जितम् || १/७ || आत्मापरविनिर्मुक्तं पक्षातीतं श्रयम् | ............................................................ लक्षणा || १/८ || सर्वद्वन्द्वविनिर्मुक्तं निश्चितन्तु निराकुलम् | साकुलत्वं यदा चित्तं विषयासक्तचेतसाम् || १/९ || तदा भ्रमन्ति संसारं मायामलविमोहिताः | एतद्द्वन्द्वसमाख्यातं संसारस्य तु निर्णयम् || १/१० || साम्प्रतं कथयिष्यामि मुक्तिस्तदस्तु दुर्लभम् | येन विज्ञानमात्रेण मुक्तिर्भवति योगिनाम् || १/११ || सर्वसंसाररहित-मुक्तिश्चैव निराकुलम् | निश्चितं निश्चलं साम्यं निर्द्वन्द्वं च निराकुलम् || १/१२ || भवेन् मोक्षो नराणाञ्च द्वन्द्वभावविवर्जितम् | निश्चित्तं चित्तरहितं कारिकाज्ञानमुत्तमम् || १/१३ || एतद्भेदं मयाख्यातं मोक्षस्यैव तु निर्णयम् | सर्वाश्रयविनिर्मुक्तं चित्ताश्चै(व) निराश्रयम् || १/१४ || चित्ताश्रयं भवेद्धर्मं निराश्रयं मोक्षदं स्मृतम् | देवो देवी तथान्यञ्च धर्माधर्मविवर्जितम् || १/१५ || धर्माधर्माश्रयं प्रोक्तं संसारस्य तु बन्धनम् | आश्रयं बन्धमित्युक्तं मुक्तिश्चैव निराश्रयम् || १/१६ || निराश्रयं भवेत्तत्त्वमचिन्त्यमुक्तिलक्षणम् | विषयावस्थं यदा चित्तं द्वन्द्वमुक्तिविवर्जित(म्) || १/१७ || तदा भ्रमति संसारं यत्तं निश्चयतालयः | मनोऽवस्थाविनिर्मुक्तं यावत्तं चञ्चलीभवेत् | कथन्तं निश्चलं देवि ज्ञातव्यं ज्ञानकारिके || १/१८ || इति ज्ञानकारिकायां मोक्षाधिकारः प्रथमः पटलः | द्वितीयः पटलः अतः परं प्रवक्ष्यामि ज्ञानं त्रैलोक्यदुर्लभम् | कारिकातत्त्वसद्भावं सिद्धनाथकुलोद्भवम् || २/१ || चन्द्रसूर्यविनिर्मुक्तं द्वारणाक्षविवर्जितम् (१) | पृथिव्यापस्तं तथा योगी वायुराकाशमेव च || २/२ || पञ्चभिराहेतो देहो श्रूयते तत्त्वनायके | सर्वेषां व्यापकः शान्त व्याप्ती तस्य न विद्यते || २/३ || व्यापकत्वे स्थितः साक्षाद्यथा क्षीरेषु सर्पिषः | कथितं तत्त्वभिर्वस्तु ज्ञानरत्नं सुदुर्लभम् || २/४ || आत्मापरविनिर्मुक्तं चित्तं चैव निराश्रयम् | चित्ताश्रयं भवेद्द्वन्द्वं निराश्रयञ्चमौषदम्(?) || २/५ || मनसस्तु विधं प्रोक्तं राजसन्तामसन्तथा | सात्त्विकन्तु तृतीयञ्च त्रिभिर्धर्मेण लक्षणम् || २/६ || तामसं चञ्चलं क्षुद्रं राजसङ्गतिरागतिः | सात्त्विकं तृतीयं ज्ञेयं धर्मयुक्तं सदा स्थितम् || २/७ || चतुर्थन्तु मनश्चैव कथयामि विशेषतः | गुणत्रयविनिर्मुक्तं सदा निर्वाणलक्षणम् || २/८ || उत्तमोत्तमचतुर्थन्तु येन संशुद्धचेतसा | सर्वाग्निविनयातीतमिन्द्रियातीतमव्ययम् || २/९ || अनाभ्यासं सदा तत्त्वं सर्वचिन्ताविवर्जितम् | चित्ताभावविनिर्मुक्तं निमित्तं तत्त्वलौकिकम् || २/१० || अभावं भावनातीतं चित्ताचित्तविवर्जितम् | चित्ताद्यचिन्तितं ज्ञानमवाच्यज्ञाननिर्णयम् || २/११ || यथैव सदात्युक्ताः तावच्चित्तं सुचञ्चलम् | चञ्चलं भावमित्युक्तमचलं मुक्तिलक्षणम् || २/१२ || चित्तायुक्तं यदा चित्तं तदासौ चञ्चलं स्मृतम् | चित्तातीतं यदा चित्तं निश्चितमचलं भवेत् || २/१३ || सर्वचिन्ताविनिर्मुक्तमभावे निश्चलं भवेत् | न योगाध्यातचित्तस्तु न च लक्षणसाधकम् || २/१४ || न निरोधो भवेत् तत्र न कायशून्यमेव च | न बहिरन्तमन्तस्थं न चान्त आदिमध्यगः || २/१५ || न तेजो वायुराकाशं पृथिव्या आपभावना | न बुद्धिर्न चाहंकारो न मन इन्द्रियो न च || २/१६ || न चित्ताचित्तकस्तत्त्वं चिन्तातीतं स्थितं सदा | न चिन्ता यस्तु विज्ञेया ज्ञातव्य कालशासनः || २/१७ || यो सो निश्चिन्तसर्वज्ञः समाधिपरमेश्वरः | ज्ञातव्यं मोक्षसद्भावं गुप्तभेदप्रकाशितम् || २/१८ || संसारार्णवनिर्मुक्तं कल्पनातीतगोचरम् | निर्विकल्पं सदा ज्ञानं कथितं ज्ञानकारिकम् || २/१९ || चेतनाचेतना चैव कल्पना भावनास्तथा | धारणाधरविन्यासचन्द्रसूर्याग्निमण्डले || २/२० || वायुराकाशस्तथा सृत्याः ब्रह्मा रुद्रादिदेवताः | सर्वे ते कल्पना प्रोक्तं निर्विकल्पस्तथान्यथा || २/२१ || कल्पनाज्ञानयुक्तास्तु भ्रमन्ति घटयन्त्रवत् | परिपूर्णं कथं तेषां सिद्धक्रमविवर्जितम् || २/२२ || पतन्ति क्षिप्रं संसारे चित्तज्ञानेन रञ्जितः | न यान्ति चेह संसारे ये स्थिता उत्तमं पदम् || २/२३ || नरके गमनन्तस्य न स्वर्गे गमनन्तथा | पाशद्वयविनिरूपस्तु धर्माधर्मनिबन्धने || २/२४ || ज्ञानखड्गेन छित्वा पाशद्वयनिबन्धनम् | अन्धपाशं यदा चित्तं कुतो गच्छन्ति योगिनः || २/२५ || धर्माधर्मद्वयः पाशो पतन्त्युत्पतन्ति च | तेन पाशेन बद्धस्तु भुञ्जते कर्मसञ्चयम् || २/२६ || धर्मेण भुञ्जते स्वर्गमधर्मं नरकादिषु | धर्माधर्मौ तु द्वौ योऽसौ त्रैलोक्यस्य निबन्धनम् || २/२७ || धर्माधर्मं यदा त्यक्तं क्षिप्रं मुञ्चन्ति मानवाः | धर्मा चैव अधर्मा द्वौ द्विविधं परिकीर्तितम् || २/२८ || सबा(ह्य)भ्यन्तरचेतः धर्माधर्मप्रतिष्ठितम् | अध्यात्मजातसद्भावं योगिनामेवसंस्थितः || २/२९ || लौकिकास्थलकर्मञ्चाध्यात्मकस्येदं सूक्ष्मम् | आध्यात्मिके चैव धर्माधर्मस्थितिः सदा || २/३० || ऊर्द्ध्वचारो भवेद्धर्मोऽद्वयस्योऽधर्मलक्षणम् | धर्माधर्मक्षये क्षीणे मुच्यते सर्वैर्धनैः (?) || २/३१ || धर्माधर्मद्वयं ज्ञात्वा पुनर्ज्ञानमवाप्नुयात् | धर्माधर्मविचारोऽयं कथितं ज्ञानकारिकैः || २/३२ || इति ज्ञानकारिकायां धर्माधर्मविचारो नाम द्वितीयः पटलः || तृतीयः पटलः अथ चर्यान् (प्र)वक्ष्यामि योगिनामुपजायते | स चेताज्ञान न सर्वः चैतन्यं ज्ञानवर्जितम् || ३/१ || चेताचेतसमायुक्तं ज्ञानत्वं सम्प्रकीर्तितम् | भुक्तितत्त्वं यदा चेतं स चेत्तम्मुक्तिलक्षणम् || ३/२ || चेताचेतसमायुक्तं चैतन्यं शाश्वतं पदम् | योगिनां योगचिन्तितमार्यसंज्ञानवर्जितम् || ३/३ || यो मार्गविनिर्मुक्तं योगिनां मुक्तिलक्षणम् | एकलिङ्गे श्मशाने वा नदीनां सङ्गमेषु च || ३/४ || शून्यागारे गुहावासे वृक्षमूले तु चत्वरे | महोदधितटे चैव त्रिपथे वापि साधकः || ३/५ || नग्नास्ते मुक्तकेशास्तु मदिरानन्दचेतसः | मालानिर्मालिता योगी एकाकी भ्रमते सदा || ३/६ || लिङ्गन्तु कथयिष्यामि यल्लिङ्गं कौलिकं स्मृतम् | लयपूजाष्टकं यत्तं लिङ्गन्तु स चराचरम् || ३/७ || लय वै यानि सर्वेषां तेन लिङ्गं मुदा कृतम् | एतत् कौलिकं यल्लिङ्गं न शैलहेमरौप्यजम् || ३/८ || कथितं देहजं लिङ्गं एकन्तु न द्वितीयकम् | एकलिङ्गं समाख्यातं श्मशानं कथयामि ते || ३/९ || शोभते च यदा देहः सर्वेषां एकदेहिनाम् | निस्वासस्वाससंयुक्तं श्मशानं परिकीर्तितम् || ३/१० || अधोर्द्धं प्राणसञ्चारः बहते चैव नित्यशः | ऊर्द्ध्वचारे भवेद् गङ्गा यस्ना(?) चाधो व्यवस्थितः || ३/११ || द्वाभ्यां मेलापकं यत्न स न मेतत् (?) प्रकीर्तिता | अशरीरं यदा तत्त्वं स्वदेहे सा स्थिता यदि || ३/१२ || शून्यं निरन्ञ्जनं ज्ञात्वा मुच्यते नात्र संशयः | गुह्यं तु कथयिष्यामि गुह्ये सचराचरम् || ३/१३ || गुह्यं शरीरमित्युक्तं वासितं ज्ञानराशिना | गुह्यावासं स्थितो योगी चर्या तस्य न उच्यते || ३/१४ || वासस्तु कथितं दिव्यं वृक्षमूलं शृणु तथा | वृक्षः शरीरमित्युक्तं पादादिकरशाखयोः || ३/१५ || ऊर्द्ध्वमूलं भवेद्वक्त्रं मूलवे (?) वृक्षधारकम् | वृक्षमूलं ततो ज्ञात्वा बाह्यवृक्षस्य वर्जितम् || ३/१६ || वृक्षमूलं समाख्यातं चत्वारः शृणु साम्प्रतम् | जया च विजया चैव अजिता चापराजिता || ३/१७ || चतुःशक्तिसमोपेतं चत्वारं मात्रकोद्भवम् | चत्वारं कथितं दिव्यं महोदधितटः शृणु || ३/१८ || बिन्दुस्तञ्च पराशक्तिः तटस्थः चारुरूपिणी | बिन्दुचारुस्थिता नित्यं तटस्थं बिन्दुमण्डलम् || ३/१९ || तटस्थञ्च स्थिता योगी तटं चैव प्रकीर्तितम् | चन्द्रं त्यक्त्वा यदा याति आधारं सूर्यमण्डलम् || ३/२० || णुम्बेरिन्ग् गलत है सूर्यं त्यक्त्वा यदा याति व्योमाऽस्तु चन्द्रमण्डले | गगनमास्थितो (?) नित्यं वेला इव महोदधेः || ३/७२ || एतद्वेला समाख्यातम् अध्यात्मैव प्रतिष्ठितम् | नास्थिरं भवति श्वासं बहिस्थं मनरञ्जितम् || ३/७३ || अथिरं सर्वयोगिनां प्रवाहं वहते सदा | प्रवाहं गमनञ्चैव गमनागमनं पुनः || ३/७४ || गमनागमनसंयुक्तो वेलाऽस्मिन् यथा स्थितम् | गमागम यथा वेला नास्ति रञ्जित कश्चित् (?) || ३/७५ || गगनोपमं स्थितं जगत् भावन्निश्चलतां व्रजेत् (?) | महोदधितटे स्थित्वा उदधि कथितं ततः || ३/७६ || निश्चलं परिपूर्णत्वं महोदधि स्मृतम्....... | योगिनां चर्यसद्भावं कथितं तत्त्वं विशेषतः || ३/७७ || महोदधि समाख्यातं त्रिपञ्चकं कथयाम्यहम् | सत्त्वरजस्तमश्चैव एकत्वे तु यथा स्थितम् || ३/७८ || त्रिपथं तु विनिर्मुक्तं शास्त्रतो ज्ञानकारिका | त्रिपथं तु समाख्यातं नग्नन्तु कथयामि ते || ३/७९ || अविद्या...........पत्यत्काल(?) (न)ग्नकं च साधकेश्वरम् | नग्नस्तु कथितान् देवान् मुक्तकेशन्ततः शृणु || ३/८० || केशस्तु पाशमित्युक्तं मुक्तिमार्गप्रबन्धकम् | धर्मस्तु नैकेन पाशश्चैव विशेषतः || ३/८१ || षड्भिर्मुक्तो यदा योगी मुक्तकेशः स उच्यते | मुक्तकेशः समाख्यात आनन्दं शृणु साम्प्रतम् || ३/८१ || योगपारगतो योगी महापारविवर्जितः | पानयोगामृतं दिव्यं योगिनां सम्प्रकीर्तितम् || ३/८३ || एभिर्युक्तो महायोगी मदिरामत्त उच्यते | मदिरानन्दमाख्यातं नैर्माल्यमालिनो (?) शृणु || ३/८४ || वर्णं चैवास्ति मालाग्रं संस्थितो शक्तिसूत्रके | माला चैव समाख्याता योगिनां चान्यकारणम् || नैर्माल्यमालिनो योगी योगचर्यां करोति सः || ३/८५ || एकाकीमतिथिर्यस्तु भ्रमिते प्रवदेत् सदा | असंहायो भ्रमते धीरः स एकाकीनमुच्यते || ३/८६ || एकाकी तु समाख्याता शास्त्रं मिलकारिका (?) | एतच्चर्या समाख्याता विश च ज्ञानधारक (?) || ३/८७ || इति ज्ञानकारिमहामछिन्द्रनाथपादावतारितेनोक्तं चर्याधिकारस्तु तृतीयः पटलः || ########### END OF FILE #######