#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00265 Uniform title: jñānasāra Manuscript : BHU C4251 Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 7, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### * मः * रा * ये || नाथज्ञानसारो लिख्यते || कथमुत्पदते वाक् च कथं वाक् च विलीयते | वाच?स्तु निर्णयं ब्रूहि पश्चात् तत्वमुदीरय || श्री * श्व * उ * च || आहारं काङ्क्षयेत् प्राणः प्राणादुत्पद्यते मनः | मनु स्युत्पद्यते वाक्य? मा? च मनसि लीयते || श्री * व्यु * च || आहारं काङ्क्षयेत् प्राणो भुञ्जानो पिचकः कथम् | जागर्ति स्वपते कोसौ सप्तः कोवाप्रबु?ध्यते || ३ || श्री * श्व * उ * च आहारं काङ्क्षयेत् प्राणो भुङ्क्ते चैव हुताशनः | प्. १७४अ) जागर्ति स्वपते वायुः सुप्तं तेजो विबुध्यते || ४ || श्री * व्यु * च को वा करोति कर्माणि को वा लिप्येत पातकैः | को वा करोति पापानि को वा पापे प्रवर्तयेत् || ५ || श्री * श्व * उ * च मनः करोति कर्माणि मनो लिप्येतपातकैः | मनो हि तन्मयी भूतं न धर्मो न च पातकम् || ६ || श्री * व्यु * च यदिदं निष्कलं ब्रह्म व्योमातीतं सनातनम् | निर्द्वन्द्वं निर्मलं शान्तं निष्पापं समलक्षयेत् || ७ || अप्रतर्क्यमविज्ञेयं विनासोत्पत्ति वर्जितम् | कैवल्यकेवलं शश्वच्छुद्धस्फटिकसन्निभम् || ८ || प्. १७४ब्) तत्क्षणान्मुच्यते येन तज्ज्ञानं ब्रूहि शङ्कर | यदिदं शक्तिराकाशं देहस्थं देहवर्जितम् || ९ || कथं जीवत्यसौजीवो निष्कलस्तु कथं भवेत् | केन पश्यत्यसौजीवः किं वा जीवस्य भोजनम् || १० || कुत्र वा लीयते जीवो जागर्ति कुत्र एव वा | को जनः किं प्रमाणं तु जीवस्यापि प्रकीर्तितम् || ११ || एतत्सर्वं समासेन ब्रूहि मे परमेश्वर || श्री * श्व * उ * च शृणु देवि प्रवक्ष्यामि यत्त्वया समुदीरितम् | कथयामि न सन्देहः सारात्सारतरं परम् || १३ || वायुर्जीवस्तथा काशस्तृतीयो जीवसंज्ञकः | स जीवः प्रभुरित्युक्तो बालाग्रं शत कल्पितः || १४ || प्. १७५अ) जीवश्शुक्लस्तु विज्ञेयो यावत् सत्वेन संयुतः | रजस्सत्त्वसमायुक्तो रक्तो जीवः प्रकीर्तितः || १५ || तमस्सत्त्वसमायुक्तस्तदा कृष्णो भवेद्ध्रुवम् | सत्त्वेन च समायुक्तो धर्मज्ञाने प्रवर्तते || १६ || रजः सत्त्वसमायुक्तो भुङ्क्ते तु विषयानपि | तमस्सत्त्वसमायुक्तस्तदा पापे प्रवर्तयेत् || १७ || नासाग्रं चैव नाभिश्च हृदयं च तृतीयकम् | स्थानान्येतानि जीवस्य कलितानि शिवेन तु || १८ || कपलं हृत्स्वरूपं च ह्यधो यावद् व्यवस्थितम् | देह स?ङ्ग न मित्युक्तं शिवेन परमात्मना || १९ || यावन्निश्श्वासतो जीवो भवेन्निष्कलतां गतः | प्. १७५ब्) नासाग्रे निष्कलं ज्ञात्वा मुच्यते जन्म बन्धनात् || २० || सर्वाङ्गः सर्वदेहस्थो नासाग्रे च प्रतिष्ठितः | अतर्क्यः सर्वभूतानां दृश्यते न च लक्ष्यते || २१ || नाभिमध्ये स्थितं विश्वं सिद्धतत्त्वं तु निर्मलम् | आदित्यमिवतद्दीप्तं रस्मिभिस्तत्क्षणं शिवम् || २२ || आकाराष्टकसञ्जीवं देहोक्तं देहवर्जितम् | नाडीरन्ध्राद्विनिष्क्रान्तं विषयान्प्राप्यसंस्थितम् || २३ || तेनेदं निष्कलं विश्वं क्षीरसर्पि समोपमम् | करणात्मया?यान्मुक्तो भ्रमते हृदयस्थितः || २४ || गोलकस्थो यथा देवि खेलनाद्दण्डबाह्यतः | देष्ठते भ्रमते शीघ्रमविश्रान्तः पुनः पुनः || २५ || कीदृशी खेचरी विद्या चोन्मना वातुं कीदृशी | बन्धनं कीदृशं देव कथयस्व महेश्वर || १ || को दण्डमध्यगं देवि सङ्कोचेन त्रिलोचने | न सूर्यचन्द्रमार्गेण लम्पिका करणं प्रिये || २ || लोलां रन्ध्रमुखे कृ?त्वा विपथे योजयेत् प्रिये | सा भवेत् खेचरी मुद्रा व्योमचक्रं तदुच्यते || ३ || कण्ठसङ्कोचनं कृत्वा द्वे नाड्यौ स्तम्भयेद्ध्रुवम् | मध्यचक्रमिदं भद्रे षोडशारार्धबन्धनम् || ४ || प्. १७६ब्) नाभिशक्ति द्वये मध्ये स्थानं देयं पराङ्मुखम् | मूलचक्रमिदं भद्रे सत्पथव्याधिनाशनम् || ५ || रसनामूर्धगां कृत्वा क्षणाध्वं यदि तिष्ठति | क्षणेन मुच्यते योगी व्याधिभिस्तु जरादिभिः || ६ || रसनाभ्यन्तरे नित्यं यावद्ब्रह्मबिलंगता | अमृताग्रसने घ्राणं पीड्यमानं विचिन्तयेत् || ७ || मासार्द्धाज्जयते मृत्युं सत्यं सत्यं महामते | सर्वव्याधिविनि *?क्तो योगीनाथो न संशयः || ८ || रसना तालु मूलेन वायुं पीत्वा शनैः शनैः | षण्मासाभ्यन्तरे विश्वे बलीपलित नाशनम् || ९ || घृतास्वादूपमानाश्च ह्यमरत्वं न संशयः | मधुस्वादूपमानाश्च शास्त्रोत्गीरणता भवेत् || १० || प्. १७७अ) मृष्टानिखण्डकद्यानि लडुकाशोकवर्तिकाः | एवं वाराह्यनेके च कामदेवो व्यवस्थितः || ११ || दिव्यकन्यागणेनित्यमाकृष्टिर्जायते सदा | हिक्कादद्यात्सदावक्त्रे प्रायश्चैव विजृम्भिकाम् || १२ || एवमभ्यस्यमानस्तु कामदेवो द्वितीयकः | योगिनी गुणसामान्यः सृष्टिसंहारकारकः || १३ || न क्षुधा न च तृण्निद्रा नैव मुर्छा प्रजायते | भवेत्स्वच्छन्ददेहस्तु सर्वोपद्रववर्जितः || १४ || अनेन विधिना देवि योगीन्द्रो भूमिमण्डले | नभस्य पुनरावृत्तिः पूजितः स्यात्सुरैरपि || १५ || पुण्य पापैर्न लिप्येत भयमुद्रा विदुत्तमः || तालुमध्ये स्थितश्चन्द्रो नाभिमध्ये दिवाकरः | अमृतं स्रवते चन्द्रो विषं प्रज्वलितो रविः || १ || सूर्याग्रे वसते वायुश्चन्द्राग्रे वसते नभः | सूर्याग्र मनुवर्तेत चन्द्राग्रं चैव नित्यशः || २ || चन्द्रसूर्य द्वयोर्मध्ये मुडादद्या? तु खेचरीम् | निरालम्बं मनः कृत्वा न किञ्चिदपि चिन्तयेत् || ३ || स बाह्या भ्यन्तरे योगी घटवत्तिष्ठते प्रिये | बाह्ये वायुस्तथा पृष्ठे चान्ते वायुर्न संशयः || ४ || स्वस्थाने गच्छते वायुर्मनस्तत्रैव लीयते | प्. १७८अ) अमृतं प्राप्नुयाद्योगी महाबलपराक्रमः || ५ || वायुवेगेन देवेशि सकलां भ्रमते महीम् | अष्टधागुणमैश्वर्यं सत्यं सत्यं न चान्यथा || ६ || शङ्खदुन्दु?भिनादेन न शृणोति कदाचन | काष्टवज्ञायते योगी नोत्पत्त्या वै प्रजायते || ७ || शक्ति द्वयस्य मध्ये तु हीन्द्रियाख्यं तदुच्यते | अनेनैव च बन्धेन सद्यमृत्युविनाशनम् || ८ || कायं च भजते क्षेत्रं मूलबन्धेन पार्वति | निरालम्बं भवेद्बीजं नान्यथा सिद्ध्यति ध्रुवम् || ९ || ऊर्ध्वाधो बन्धमादाय कृत्वा चिन्ता मनामये | सिद्ध्यते नात्र सन्देहो गोपनीयो महामते || १० || प्. १७८ब्) अण्डजालजाश्चैव स्वेदजा भेदजास्तथा | एक द्वि त्रि चतुष्पञ्चेन्द्रियाणि सर्वजन्तुषु || १ || सर्वेषामेक एवात्मा साधारो बीजरूपवान् | शब्दः स्पर्शश्च गन्धश्च रसोरूपं च पञ्चमं || २ || बुद्ध्यहङ्कारसंयुक्तं मनस्तत्रव्यवस्थितम् | यथामूले लताबीजं तथा पतन्ति जन्तवः || ३ || सस्यवत्सर्वबीजानां जन्माप्तिश्च पुनः पुनः | वाहकश्चैवमात्मापि धर्माधर्मौ तु बन्धनम् || ४ || अन्तरात्मा यथा तिष्ठेत् स्वरूपं पारमेश्वरम् | तस्मिन् काले वरारोहे लीयते घटवत्घृतम् || ५ || प्. १७९अ) सर्पिषावात्रयोगेन पृथक्त्वं च न विन्दते | उल्का हस्तो यथा कश्चिद्द्रव्यमालोकतां नयेत् || ६ || कर्मशौचं मनःसौचं मनसो ज्ञानमेव च | ध्यायेत तु जगत्सर्वं देहिनां देहमाश्रयम् || ७ || यथामृतेन तृप्तस्य पयसा किं प्रयोजनम् | आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् || ८ || ध्याननिर्मथनाभ्यासाद्देवं पश्येत कुण्डगम् | कायस्थोपि न कायस्थः कायस्थोपि न नश्यति || ९ || भुङ्क्ते भोगांश्च कायस्थः कायस्थोपि न वध्यते | यथाखरश्चन्दनभारवाही भारस्य वा हीन तु चन्दनस्य | तथैव मूर्खो बहुशास्त्रपाठी शास्त्रस्य पाठी न तु निश्चयस्य || ११ || प्. १७९ब्) आहारनिद्राभयमैथुनानि समानमेतत् पशुभिर्नराणाम् | ज्ञानं नराणामधिको विशेषास्ते नैव हीनः पशुभिः समानः || १२ || यावद्बिन्दु सहस्राणि कोटिबिन्दुशतानि च | सर्वथाभस्मतां यान्ति यत्र देवो निरालयः || १३ || ह्यन्यते मुष्टिना काशं क्षुधार्ता खण्डयेत्तुषम् | ब्रह्मदण्डं न जानाति न मुक्तिः स्याद्वरानने || १४ || शास्त्रं ह्यनन्तं बहुधा च विद्या अल्पश्च कालो बहवश्च विघ्नाः | यत्सारभूतं तदुपासितव्यं हंसो यथा नीरमिवाम्बु मध्ये || १५ || तद्ध्यानस्तत्गतिस्थोपि कृत्वा पापशतान्यपि | लिप्यतेन स पापेन पद्मपत्रमिवाम्भसा || १६ || इदं शास्त्रमिदं ज्ञानं यः सर्वं ज्ञातुमिच्छति | अपिवर्षसहस्रायुः शास्त्रान्तं नाधि गच्छति || १७ || ########### END OF FILE #######