#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00191 Uniform title: jñānasaṅkalinītantra Editor : caṭṭopādhyāya, rasika mohana Description: Notes: Data entered by staff of Muktabodha under the supervision of Mark S.G. Dyczkowski Revision 0: October 9, 2008 Publisher : Unknown, late 19th century Publication year : Publication city : Publication country : India #################################################### पुब्लिस्हेद् इन् चल्चुत्त एन्द् ओf १९थ् चेन्तुर्य. स्च्रिप्त् बेन्गलि ट्रन्स्च्रिबेद् fरोम् एदितिओन् ब्य ऋअसिक ंओहन Cअट्टोपाध्याय पुब्लिस्हेद् इन् Cअल्चुत्त एन्द् ओf १९थ् चेन्तुर्य. ष्च्रिप्त् Bएन्गलि ज्ञानसङ्कलिनीतन्त्रम् कैलाशशिखरासीनं देवदेवं जगद्गुरुम् | पृच्छति स्म महादेवी ब्रूहि ज्ञानं महेश्वर || १ || देवी उवाच कुतः सृष्टिर्भवेद् देव कथं सृष्टिर्विनश्यति | ब्रह्मज्ञानं कथं देव सृष्टिसंहारवर्जितम् || २ || ईश्वर उवाच अव्यक्ताच्च भवेत् सृष्टिरव्यक्ताच्च विनश्यति | अव्यक्तं ब्रह्मणो ज्ञानं सृष्टिसंहार वर्जितम् || ३ || ओङ्कारादक्षरात् सर्वास्त्वेता विद्याश्चतुर्दश | मन्त्र - पूजा - तपो - ध्यानं कर्माकर्म तथैव च || ४ || षडङ्गं वेदाश्चत्वारो मीमांसा न्यायविस्तरः | धर्मशास्त्रपुराणानि एता विद्याश्चतुर्दश || ५ || तावद् विद्या भवेत् सर्वा यावद् ज्ञानं न जायते | ब्रह्मज्ञानं पदं ज्ञात्वा सर्वविद्या स्थिरा भवेत् || ६ || वेदशास्त्रपुराणानि सामान्यगणिका इव | या पुनः शाम्भवी विद्या गुप्ता कुलवधूरिव || ७ || देहस्थाः सर्वविद्याश्च देहस्थाः सर्वदेवताः | देहस्थाः सर्वतीर्थानि गुरुवाक्येन लभ्यते || ८ || अध्यात्मविद्या हि नृणां सौख्यमोक्षकरी भवेत् | धर्म कर्म तथा जप्यमेतत् सर्वं निवर्तते || ९ || काष्ठमध्ये यथा वह्निः पुष्पे गन्धः पयोऽमृतम् | देहमध्ये तथा देवः पुण्यपापविवर्जितः || १० || इडा भगवती गङ्गा पिङ्गला यमुना नदी | इडापिङ्गलयोर्मध्ये सुषुम्ना च सरस्वती || ११ || त्रिवेणीसंगमो यत्र तीर्थराजः स उच्यते | तत्र स्नानं प्रकुर्वीत सर्वपापैः प्रमुच्यते || १२ || देवी उवाच कीदृशी खेचरी मुद्रा विद्या च शाम्भवी पुनः | कीदृश्यध्यात्मविद्या च तन्मे ब्रूहि महेश्वर || १३ || ईश्वर उवाच मनः स्थिरं यस्य विनावलम्बनं वायुः स्थिरो यस्य विना निरोधनम् | दृष्टिः स्थिरा यस्य विनावलोकनं सा एव मुद्रा विचरन्ती खेचरी || १४ || बालस्य मूर्खस्य यथैव चेतः स्वप्नेन हीनोऽपि करोति निद्राम् | ततो गतः पथो निरावलम्बः सा एव विद्या विचरन्ती शाम्भवी || १५ || देवी उवाच देवदेव जगन्नाथ ब्रूहि मे परमेश्वर | दर्शनानि कथं देव भवन्ति च पृथक् पृथक् || १६ || ईश्वर उवाच त्रिदण्डी च भवेद् भक्तो वेदाभ्यासरतः सदा | प्रकृतिवादरताः शाक्ता बौद्धा शून्यातिवादिनः || १७ || अतोर्ध्वं गामिनो ये वा तत्त्वज्ञा अपि तादृशाः | सर्वं नास्तीति चार्वाका जल्पन्ति विषयाश्रिताः || १८ || उमा पृच्छति हे देव पिण्डब्रह्माण्डलक्षणम् | पञ्चभूतं कथं देव गुणाः के पञ्चविंशतिः || १९ || ईश्वर उवाच अस्थि मांसं नखं चैव त्वङ्लोमानि च पञ्चमम् | पृथ्वी पञ्चगुणा प्रोक्ता ब्रह्मज्ञानेन भासते || २० || शुक्रशोणितमज्जा च मलं मूत्रं च पञ्चमम् | अपां पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भासते || २१ || निद्रा क्षुधा तृषा चैव क्लान्तिरालस्यपञ्चमम् | तेजः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भासते || २२ || धारणं चालनं क्षेपं संकोचं प्रसरं तथा | वायोः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भासते || २३ || कामं क्रोधं तथा मोहं लज्जा लोभञ्च पञ्चमम् | नभः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भासते || २४ || आकाशाज्जायते वायुर्वायोरुत्पद्यते रविः | रवेरुत्पद्यते तोयं तोयादुत्पद्यते मही || २५ || मही विलीयते तोये तोयं विलीयते रवौ | रविर्विलीयते वायौ वायुर्विलीयते तु खे || २६ || पञ्चतत्त्वाद् भवेत् सृष्टिस्तत्त्वात् तत्त्वं वीलीयते | पञ्चतत्त्वात् परं तत्त्वं तत्त्वातीतं निरञ्जनम् || २७ || स्पर्शनं रसनं चैव घ्राणं चक्षुश्च श्रोत्रकम् | पञ्चेन्द्रियमिदं तत्त्वं मनः साधकमिन्द्रियम् || २८ || ब्रह्माण्डलक्षणं सर्वं देहमध्ये व्यवस्थितम् | साकाराश्च विनश्यन्ति निराकारो न नश्यति || २९ || निराकारं मनो यस्य निराकारसमो भवेत् | तस्मात् सर्वप्रयत्नेन साकारं तु परित्यजेत् || ३० || देवी उवाच आदिनाथ मयि ब्रूहि सप्तधातुः कथं भवेत् | आत्मा चैवान्तरात्मा च परमात्मा कथं भवेत् || ३१ || ईश्वर उवाच शुक्रशोणितमज्जा च मेदो मांसं च पञ्चमम् | अस्ति त्वक् चैव सप्तैते शरीरेषु व्यवस्थिताः || ३२ || शरीरं चैवमात्मानमन्तरात्मा मनो भवेत् | परमात्मा भवेच्छून्यं मनो यत्र विलीयते || ३३ || रक्तधातुर्भवेन्माता शुक्रधातुर्भवेत् पिता | शून्यधातुर्भवेत् प्राणो गर्भपिण्डं प्रजायते || ३४ || देवी उवाच कथमुत्पद्यते वाचा कथं वाचा विलीयते | वाक्यस्य निर्णयं ब्रूहि पश्य ज्ञानमुदाहर || ३५ || ईश्वर उवाच अव्यक्ताज्जायते प्राणः प्राणादुत्पद्यते मनः | मनसोत्पद्यते वाचा मनो वाचा विलीयते || ३६ || देवी उवाच कस्मिन् स्थाने वसेत् सूर्यः कस्मिन् स्थाने वसेछशी | कस्मिन् स्थाने वसेद् वायुः कस्मिन् स्थाने वसेन्मनः || ३७ || ईश्वर उवाच तालुमूले स्थितश्चन्द्रो नाभिमूले दिवाकरः | सूर्याग्रे वसते वायुश्चन्द्राग्रे वसते मनः || ३८ || सूर्याग्रे वसते चित्तं चन्द्राग्रे जीवितं प्रिये | एतद्युक्तं महादेवि गुरुवाक्येन लभ्यते || ३९ || देवी उवाच कस्मिन् स्थाने वसेच्छक्तिः कस्मिन् स्थाने वसेच्छिवः | कस्मिन् स्थाने वसेत् कालो जरा केन प्रजायते || ४० || ईश्वर उवाच पाताले वसते शक्तिर्ब्रह्माण्डे वसते शिवः | अन्तरिक्षे वसेत् कालो जरा तेन प्रजायते || ४१ || देवी उवाच आहारं काङ्क्षते कोऽसौ भुञ्जते पिबते कथम् | जाग्रत् स्वप्नसुषुप्तौ च को वाऽसौ प्रतिबुध्यति || ४२ || ईश्वर उवाच आहारं काङ्क्षते प्राणो भुञ्जतेऽपि हुताशनः | जाग्रत्स्वप्नसुषुप्तौ च वायुश्च प्रतिबुध्यति || ४३ || देवी उवाच को वा करोति कर्माणि को वा लप्येत पातकैः | को वा करोति पापानि को वा पापैः प्रमुच्यते || ४४ || शिव उवाच मनः करोति पापानि मनो लिप्येत पातकैः | मनश्च तन्मना भूत्वा न पुण्यैर्न च पातकैः || ४५ || देवी उवाच जीवः केन प्रकारेण शिवो भवति कस्य च | कार्यस्य कारणं ब्रूहि कथं किञ्च प्रसादनम् || ४६ || शिव उवाच भ्रान्तिबद्धो भवेज्जीवो भ्रान्तिमुक्तः सदाशिवः | कार्यं हि कारणं त्वञ्च पुनर्बोधो विशिष्यते || ४७ || मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र मारुतः | इदं तीर्थमिदं तीर्थं भ्रमन्ति तामसा जनाः || ४८ || आत्मतीर्थं न जानाति कथं मोक्षो वरानने || न वेदं वेदमित्याहुर्वेदो ब्रह्म सनातनम् | ब्रह्मविद्यारतो यस्तु स विप्रो वेदपारगः || ४९ || मथित्वा चतुरो वेदान् सर्वशास्त्राणि चैव हि | सारं तु योगिभिः पीतं तक्रं पिबन्ति पण्डिताः || ५० || उच्छीष्टं सर्वशास्त्राणि सर्वा विद्या मुखे मुखे | नोच्छिष्टं ब्रह्मणो ज्ञानमव्यक्तं चेतनामयम् || ५१ || न तपस्तप इत्याहुर्ब्रह्मचर्यं तपोत्तमम् | ऊर्ध्वरेता भवेद् यस्तु स देवो न तु मानुषः || ५२ || न ध्यानं ध्यानमित्याहुर्ध्यानं शून्यगतं मनः | तस्य ध्यानप्रसादेन सौख्यं मोक्षं न संशयः || ५३ || न होमं होममित्याहुः समाधौ तत्तु भूयते | ब्रह्माग्नौ हूयते प्राणं होमकर्म तदुच्यते || ५४ || पापकर्म भवेद् भव्यं पुण्यं चैव प्रवर्तते | तस्मात् सर्वप्रयत्नेन ताद्रूप्यं च त्यजेद् बुधः || ५५ || यावद् वर्णं कुलं सर्वं तावज्ज्ञानं न जायते | ब्रह्मज्ञानपदं ज्ञात्वा सर्ववर्णविवर्जितः || ५६ || देवी उवाच यत्त्वया कथितं ज्ञानं नाहं जानामि शङ्कर | निश्चयं ब्रूहि देवेश मनो यत्र विलीयते || ५७ || शंकर उवाच मनो वाक्यं तथा कर्म तृतीयं यत्र लीयते | विना स्वप्नं यथा निद्रा ब्रह्मज्ञानं तदुच्यते || ५९ || एकाकी निस्पृहः शान्तश्चिन्ताविवर्जितः | बालभावस्तथा भावो ब्रह्मज्ञानं तदुच्यते || ६० || श्लोकार्धं तु प्रवक्ष्यामि यदुक्तं तत्त्वदर्शिभिः | सर्वचिन्तापरित्यागो निश्चिन्तो योग उच्यते || ६१ || निमिषं निमिषार्द्धं वा समाधिमधिगच्छति | शतजन्मार्जितं पापं तत्क्षणादेव नश्यति || ६२ || देवी उवाच कस्य नाम भवेच्छक्तिः कस्य नाम भवेच्छिवः | एतन्मे ब्रूहि भो देव पश्चाज्ज्ञानं प्रकाशय || ६३ || ईश्वर उवाच चलच्चित्ते वसेच्छक्तिः स्थिरचित्ते वसेच्छिवः | स्थिरचित्तो भवेद्देवि स देहस्थोऽपि सिध्यति || ६४ || देवी उवाच कस्मिन् स्थाने त्रिधा शक्तिः षट्चक्रं च तथैव च | एकविंशतिब्रह्माण्डं सप्तपातालमेव च || ६५ || ईश्वर उवाच ऊर्ध्वशक्तिर्भवेत् कण्ठः अधशक्तिर्भवेत् गुदः | मध्यशक्तिर्भवेन्नाभिः शक्त्यतीतं निरञ्जनम् || ६६ || आधारं गुह्यचक्रं तु स्वाधिष्ठानं च लिङ्गकम् | चक्रभेदं मयाख्यातं चक्रातीतं नमो नमः || ६७ || कायोर्ध्वं च ब्रह्मलोकः स्वाधः पातालमेव च | ऊर्ध्वमूलमधःशाखं वृक्षाकारं कलेवरम् || ६८ || देवी उवाच शिव शंकर ईशान ब्रूहि मे परमेश्वर | दशवायुः कथं देव दशद्वाराणि चैव हि || ६९ || ईश्वर उवाच हृदि प्राणः स्थितो वायुरपानो गुदसंस्थितः | समानो नाभिदेशे तु उदानः कण्ठमाश्रितः || ७० || व्यानः सर्वगतो देहे सर्वागात्रेषु संस्थितः | नाग ऊर्ध्वगतो वायुः कूर्मस्तीर्थानि संस्थितः || ७१ || कृकरः क्षोभिते चैव देवदत्तोऽपि जृम्भणे | धनञ्जयो नादघोषे निविशेच्चैव शाम्यति || ७२ || एष वायुर्निरालम्बो योगिनां योगसम्मतः | नवद्वारं च प्रात्यक्षं दशमं मन उच्यते || ७३ || देवी उवाच नाडीभेदं च मे ब्रूहि सर्वगात्रेषु संस्थितम् | शक्तिः कुण्डलिनी चैव प्रसूता दशनाडिका || ७४ || ईश्वर उवाच इडा च पिङ्गला चैव सुषुम्ना चोर्ध्वगामिनी | गान्धारी हस्तिजिह्वा च प्रसवा गमनायता || ७५ || अलम्बुसा यशा चैव दक्षिणाङ्गे च संस्थिताः | कुलश्च शङ्खिनी चैव वामाङ्गे च व्यवस्थिताः || ७६ || एतासु दशनाडीषु नानानाडीप्रसूतिका | द्विसप्ततिसहस्राणि शरीरे नाडिकाः स्मृताः || ७७ || एता यो विन्दते योगी स योगी योगलक्षणः | ज्ञाननाडी भवेद्देवी योगिनां सिद्धिदायिनी || ७८ || देवी उवाच भूतनाथ महादेव ब्रूहि मे परमेश्वर | त्रयो देवा कथं देव त्रयो भावास्त्रयो गुणाः || ७९ || ईश्वर उवाच रजोभावस्थितो ब्रह्मा सत्त्वभावस्थितो हरिः | क्रोधभावस्थितो रुद्रस्त्रयो देवास्त्रयो गुणाः || ८० || एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः | नानाभावं मनो यस्य तस्य मुक्तिर्न जायते || ८१ || वीर्यरूपी भवेद् ब्रह्मा वायुरूपः स्थितो हरिः | मनोरूपः स्थितो रुद्रस्त्रयो देवास्त्रयो गुणाः || ८२ || दयाभावस्थितो ब्रह्मा शुद्धभावस्थितो हरिः | अग्निभावस्थितो रुद्रस्त्रयो देवास्त्रयो गुणाः || ८३ || एकं भूतं परं ब्रह्म जगत् सर्वं चराचरम् | नानाभावं मनो यस्य तस्य मुक्तिर्न जायते || ८४ || अहं सृष्टिरहं कालोऽप्यहं ब्रह्माऽप्यहं हरिः | अहं रुद्रोऽप्यहं शून्यमहं व्यापी निरञ्जनम् || ८५ || अहं सर्वात्मको देवि निष्कामो गगनोपमः | स्वभावनिर्मलं स्वान्तं स एवाहं न संशयः || ८६ || जितेन्द्रियो भवेच्छूरो ब्रह्मचारी सुपण्डितः | सत्यवादी भवेद् भक्तो दाता धीरो हितेरतः || ८७ || ब्रह्मचर्यं तपोमूलं धर्ममूला दया स्मृता | तस्मात् सर्वप्रयत्नेन दयाधर्मं समाश्रयेत् || ८८ || देवी उवाच योगेश्वर जगन्नाथ उमायाः प्राणवल्लभ | वेदसन्ध्या तपो ध्यानं होमकर्म कुलं कथम् || ८९ || ईश्वर उवाच अश्वमेधसहस्राणि वाजपेयशतानि च | ब्रह्मज्ञानसमं पुण्यं कलां नार्हति षोडशीम् || ९० || सर्वदा सर्वतीर्थेषु यत् फलं लभते शुचिः | ब्रह्मज्ञानसमं पुण्यं कलां नार्हति षोडशीम् || ९१ || न मित्रं न च पुत्राश्च न पिता न च बान्धवाः | न स्वामी च गुरोस्तुल्यं यद्दृष्टं परमं पदम् || ९२ || न च विद्यागुरोस्तुल्यं न तीर्थं न च देवताः | गुरोस्तुल्यं न वै कोऽपि यद्दृष्टं परमं पदम् || ९३ || एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् | पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा चानृणी भवेत् || ९४ || यस्य कस्य न दातव्यं ब्रह्मज्ञानं सुगोपितम् | यस्य कस्यापि भक्तस्य सद्गुरुस्तस्य दीयते || ९५ || मन्त्रं पूजां तपो ध्यानं होमं जप्यं बलिक्रियाम् | संन्यासं सर्वकर्माणि लौकिकानि त्यजेद् बुधः || ९६ || संसर्गाद् बहवो दोषा निःसङ्गाद् बहवो गुणाः | तस्मात् सर्वप्रयत्नेन यतिः सङ्गं परित्यजेत् || ९७ || अकारः सात्त्विको ज्ञेय उकारो राजसः स्मृतः | मकारस्तामसः प्रोक्तस्त्रिभिः प्रकृतिरुच्यते || ९८ || अक्षरा प्रकृतिः प्रोक्ता रक्षरः स्वयमीश्वरः | ईश्वरान्निर्गता सा हि प्रकृतिर्गुणबन्धना || ९९ || सा माया पालिनी शक्तिः सृष्टिसंहारकारिणी | अविद्या मोहिनी या सा शब्दरूपा यशस्विनी || १०० || अकारश्चैव ऋग्वेद उकारो यजुरुच्यते | मकारः सामवेदस्तु त्रिषु युक्तोऽप्यथर्वणः || १०१ || ओङ्कारस्तु प्लुतो ज्ञेयस्त्रिनाद इति संज्ञितः | अकारस्त्वथ भूर्लोक उकारो भुव उच्यते || १०२ || सव्यञ्जनो मकारस्तु स्वर्लोकस्तु विधीयते | अक्षरैस्त्रिभिरेतैश्च भवेदात्मा व्यवस्थितः || १०३ || अकारः पृथिवी ज्ञेया पीतवर्णेन संयुतः | अन्तरीक्षं उकारस्तु विद्युद्वर्ण इहोच्यते || १०४ || मकारः स्वरिति ज्ञेयः शुक्लवर्णेन संयुतः | ध्रुवमेकाक्षरं ब्रह्म ओं इत्येवं व्यवस्थितम् || १०५ || स्थिरासनो भवेन्नित्यं चिन्तानिद्राविवर्जितः | आसु स जायते योगी नान्यथा शिवभाषितम् || १०६ || य इदं पठते नित्यं शृणोति च दिने दिने | सर्वपापविशुद्धात्मा शिवलोकं स गच्छति || १०७ || देवी उवाच स्थूलस्य लक्षणं ब्रूहि कथं मनो विलीयते | परमार्थं च निर्वाणं स्थूलसूक्ष्मस्य लक्षणम् || १०८ || शिव उवाच येन ज्ञानेन हे देवि विद्यते न च किल्बिषी | पृथिव्यापस्तथा तेजो वायुराकाशमेव च | स्थूलरूपी स्थितोऽयं च सूक्ष्मश्च अन्यथा स्थितः || १०९ || इति ज्ञानसङ्कलिनीतन्त्रं समाप्तम् || ########### END OF FILE #######