#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: E0006 Uniform title: jñānasiddhyāgama Manuscript : IFP transcript T0178 Description: IFP transcript 178 copied from a MS belonging to the GOML, Madras. No. R 16810 Although it calls itself an Aagama this text reads more like a tract dealing a miscellenia of topics related to śaiva Yoga. See Muktabodha digital library, IFP/EFEO collection at www.muktabodha.org for full bibliographic details. Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Feb. 16, 2013 Internet publisher : Muktabodha Indological Research InstituteMuktabodha Publication year : 2013 Publication city : Publication country : United States #################################################### || ज्ञानसिद्ध्यागमः || ज्ञानं राष्ट्राद्यथा ज्ञेयं ग्रामं मालाकलांशकम् | प्राण वायवंश भेदं याऽऽत्म भेदं गजोऽस्य च || १ || पशुपाश विधानेषु अज्ञान चोदिता ध्वजम् | दशनाद ध्वनिर्वाद्य शुद्धिशैवाज्ञ सम्भवम् || २ || इत्यर्थैः सदृशं कुर्याद्दशाङ्गस्य विधिक्रमम् | वेदान्त सिद्धान्त नादान्त विद्याबोधान्त || ३ || भेदैः समयान्तकान्तैः सच्छाम्भवान्तस्सहमुद्रिकान्तः | तत्वान्त साधकान्तञ्च बोधकान्तपरान्तकः || ४ || शिवान्तैर्मुक्तान्त भेदैः षोडशन्त इति स्थितम् | एकैकान्तं सदा दृश्यन्तत्संबन्धेन हि सिद्धिजम् || मुक्त्यर्थं तद्भवेन्नित्यमेकैकं परदर्शनम् | तुर्यातीते परावस्था पदे तत्पर दर्शनम् || उपशान्ते समावस्थे परात्पर शिवं दृशेत् | त्वं तत्पदे * * * * * * वेदान्त दर्शनम् || || सिद्धान्तम्- अथ मन्त्रस्य शुद्धेन योगाष्टाङ्गस्य निर्णयम् | ज्ञानज्ञेय ज्ञातृन्नान्तं मुक्तान्तेन शिवं दृशेत् || सदानन्ते तथा नृत्त नृत्तन्ते शाम्भवस्य तु | दिव्यागमार्थेन सिद्धर्थ * * * * दर्शनम् || || नादान्तम् || मेधादि नादान्त पदे परेण शक्त्यन्तभेदैः समनान्तकान्तैः | अन्त्ये परा शक्ति परेषु योज्यं नादान्तमभ्यासक नित्यसिद्धिः || * स्वप्न सुषुप्त्यर्थे चतुर्विंशत् षष्ठ पक्वकम् | तत्व भिन्नोदय ग्रन्थैः पुरुषार्थं प्रकाशितम् || प्. २) तच्छून्ये केवला वस्था तत्तुर्ये जीव दर्शनम् | शुद्ध केवल दर्शनम् | इत्यर्थे स्वप्रकाशस्य बोधान्तस्तत्र उच्यते || २ || तद्भावे सन्ततं स्थित्वा तन्नित्ये तत्प्रकाशितम् | || योगान्तम् || यमाद्यष्टाङ्गयोगेन समन्तार्थस्समाधये | सन्ततं सततं स्थित्वाऽणिमाद्यष्टसिद्धिजम् || आत्मा सिद्धान्त विशेष निष्ठा * * * * * * | * * * * * * * * वेहि महार्थसाधकैः || तत्तत्पराशान्दह साधकेन सिद्ध्यर्थशुद्धमहदर्थ सिद्धम् | सत्यान्तम् || योगेन मन्त्राननतारदृश्यैरुत्पन्ननादान्तगुणाभिधानैः | संयोग्य केणोदकबन्धतारैः सन्दर्शनं तत्सद सत्यवन्तम् || समयान्तम् || अन्येऽष्टौ करभेद कष्टसमयेऽत्यन्त मोहादृशेः अन्यायैर्जल्पमात्रैरपरिमित कल्पा भाषान्तवेषान्तरे || तत्तन्मानस भावभेद निसमै मन्त्रे परे वेदान्तागमयेवय कान्त समयान्तस्थे पराबोधकम् || शाम्भवान्तम् || शांभवे पञ्चभेदे तन्त्रातीतेषु शाम्भविक मुद्राः | तन्मुद्रादृशबोधैः सत्यज्ञानप्रकाश शाम्भवेति || मुद्रान्तम् || मुद्रान्त नृत्तकान्तं स्वरूपान्तं तन्त्रे बोधकानन्तम् | तदा नन्दैर्युज्य मोक्षं तद्भावे सिद्धिप्रशांभव प्रकाशम् || तत्वान्तम् || तत्वत्रयविधानस्य यया कुण्डलिविग्रहे | संयोज्य बोधतत्वान्तन्तस्य लक्षणम् || प्. ३) साधकान्तम् || न मरुभय सुबन्धो हि ज्वालामये सदाशुद्धे | हिमकर दिनकर बन्धे सिद्ध्यर्थद्वादशोदयं सत्वे || वेधकान्तम् || आत्मवेधकपरवेधक शिववेधकं मलं वेधकम् | स्वात्मबद्ध समवेधकं सुलभशान्ति स्वरूपसुखवेधकम् || गात्रवेधक भेदकान्तं कलापरोदय वेधकं साक्षिकेवलवेधकान्तगुणशाङ्करम् || परम शाम्भवम् || परान्तम् || वान्तं ग्रन्थिरूपं ग्रन्थ्यन्तं पुरुष केवलाभावम् | केवल भाव परोऽहं विश्वग्रासान्तशान्त सुपरान्तम् || त्वं पद शून्य पदेषु केवल रूपं परोदय व्यापकं | अन्त्ये परशिवमन्य परात्परानन्दम् || जीवन्तं मुक्ति परामुक्तिः शिवमुक्तित्रयात्मकम् | स्वरूप स्वस्वरूपेण सूक्ष्म रूपेण मोक्षवान् || अति सूक्ष्म स्वरूपेण मुद्रार्थेन विमुक्ति च | मुक्तान्ते नृत्तनृत्तान्ते मुक्त्यर्थ भेदकम् | नृत्तानन्दि पदे व्याप्तं मुक्त्यन्तं मोक्ष शाम्भवम् | षोडशान्तमिति ख्यातं शुद्ध शैवस्य निर्णयम् || देव्युवाच- देवदेव जगन्नाथ शिवानन्द महेश्वर | शुद्ध शैवस्य सिद्धान्तं शुद्धशून्य प्रकाशकम् || शुद्ध सन्मार्ग तत्वार्थं शुद्धवेदान्त साधनम् | शुद्धज्ञानमयाकारं शुद्धयोगं किमुच्यते || महेश्वर उवाच- शृणु देवि तथा प्रोक्तं सर्व शास्त्रार्थ दुर्लभम् | सर्ववेद * मार्थस्य यत्सारं तत्परात्परम् || प्. ४) यत्तत्वन्तत् पराकारं परबिन्दूद्भवं तथा | परापरादिधातान्त द्वादशं तत्व उच्यते || ३१ || परात्परो पत्परोपन्नापरा शक्तस्तदुद्भवम् | इच्छाज्ञान क्रियाशक्ति तद्भवा शक्ति रुद्भवम् || ३२ || ज्ञानेच्छा स्वक्रियामध्ये शिवशक्तिः सदाशिवम् | नादबिन्दु विभेदोक्तष्षट् तत्वं न प्रकाशितम् || ३३ || सदा शिवान्महेशस्य म * * द्राद्भवं तथा | रुद्रोत्पत्तिर्यथा विष्णुस्तदा उत्पन्न आत्मभूः || ३४ || सृष्टिकालविधानोक्तं सर्वतत्व प्रकाशितम् | ब्रह्मा विष्णुश्च रुद्रश्चेश्वरश्च सदाशिवः || ३५ || बिन्दुनाद द्विधा * * शिवं परपरात्परम् | तन्मध्ये द्रुहिणादीनाञ्चतुष्के सकलोद्भवम् || ३६ || सादाख्यं बिन्दु नादोक्तं सकलाकल मुच्यते | शिवशक्ति परस्त्रीणि परात्पर चतुर्थकम् || ३७ || इच्छाज्ञान क्रियात्म * * * लञ्चेति कीर्त्यते | परात्परं द्विधावान्तं तत्वसारं हि शोधनम् || ३८ || सकलं निष्कलं चैवो भयोस्त्रीणि वर्गकम् | त्रिवर्गगस्त्रीण मध्यस्थे आत्मविद्या शिवत्रयम् | षड्विंश भेदोक्तं तत् स्त्रीण्युद्भव साधनम् || ३९ || इच्छाज्ञान क्रिया तत्वे नवशक्तिस्तदुद्भवम् | शक्त्यादि स्वपरान्तानि प्रासादाग्रोद्भवं तथा || ४० || नव शक्तिर्विधिप्रोक्ता नवमूलागम यामलम् | तत् शा * * * * * ञ्चैव तत्व सिद्ध शाम्भवम् || ४१ || प्. ५) शांभवं पञ्चमं प्रोक्तं तत्व दीक्षार्थ शोधनम् || ४२ || सत्यशाम्भव शुद्धाचोदग्रशांभवमुत्तरात् | अनुक्ताश्शां भवश्चेति शाम्भ * * * लक्षणम् || ४३ || वेदान्तार्थ नवं ज्ञानं सिद्धन्तं परमं शुभम् | वेदस्य विहिताचार दक्षिणाचार मुच्यते || ४४ || विपरीतं वाममार्गं शाक्तोऽयं शैवगोचरम् | इच्छा ज्ञान क्रियाशक्ति मध्ये * * * मन्तिका || ४५ || मन्त्रा शक्त्युद्भवं शेषं वाक् शक्त्याः पञ्चमस्तथा | परा परात्पराकारं शिवशक्तिस्तदुद्भवम् || ४६ || नादबिन्दूद्भवाकारमोंकारं शुद्धतत्वकम् | शुद्ध ज्ञान * * * * शुद्धं वा शक्तिकारणम् || ४७ || ज्ञानबीजं पराकारमोंकारं प्रभुरीश्वरम् | सदाख्यस्य शिवाकारं कलापञ्चम सम्भवम् || ४८ || अकारोकारमकार बिन्दुनादं च पञ्चसु | ओंकार सकलाकार * * * पञ्चमोद्भवम् || ४९ || महासूक्ष्मं नादमुत्पन्नं सूक्ष्माद्बिन्दु समुद्भवम् | पश्यन्ति तन्मकारोजं उकारो मध्यमोदयम् || ५० || अकारोत्पन्न वैखर्या आदिवाक् पञ्चसाधनम् | तन्मध्येशान ईशं च रुद्र विष्ण्वात्म भूरितम् || ५१ || पञ्चमः सकलीशक्तिः पञ्चशन्त्युद्भवं तथा | सृष्ट्यादि पञ्च कृत्यर्थं ब्रह्मादेर्दैव सम्भवम् || ५२ || ब्रह्मणा शतकोट्यंश वैष्णवं कोटि तत्समम् | रुद्रभेदमनेक * * * भेदाष्टविंशतिः || ५३ || प्. ६) सादाख्यं पञ्चमं प्रोक्तं नादबिन्दु चतुर्थकम् | इच्छा ज्ञानक्रियाशक्ति पर माया च पञ्चधा || ५४ || सदाशिवं नादशिवं नादान्तस्य पराशिवम् | मन्त्ररूपशिवं चात्मा शिवं पञ्चम तच्छिवम् || ५५ || निराकारं त्वत्परं च शकारं त्रिपरांशकम् | परान्तं परनादान्तं शिवान्तं त्रिपरात्परम् || ५६ || सृष्टिकाले त्रिबिन्द्वर्थे त्रिकोणाकार सम्भवम् | तत्स्थानं बैन्दवं तत्वं बीजत्रय समुद्भवम् || ५७ || नादबिन्दुस्तथाकारं बिन्दुशक्तिस्तदुद्भवम् | नादान्तादि धरण्यान्तं षट्त्रिंशत्तत्वरूपकम् || ५८ || तन्मध्ये प्रणवाकारं तद्बीजात्मोद्भवं तथा | त्रिकोणस्य महामध्ये चतुर्वर्णं समाश्रितम् || ५९ || एवं मध्यगतं बीजं कामबीजं परांशकम् | मुक्तिबीजमितिख्यातं सर्वमन्त्रात्मकं परम् || ६० || त्रिकोणबीजं त्रिधाकारे ऋग्यजुः साममुद्भवः | मध्यमे प्रणवोत्पन्नमधर्वे दन्तदन्तकम् || ६१ || तत्सर्वं कुण्डली व्याप्तं सर्वतत्वार्थ कारणम् | त्रिवेदं कर्म काण्डानां अथर्वं ज्ञानरूपकम् || ६२ || निदन्तं परिशिवात्मद्वयोरैक्यं परात्परम् | तत्सम व्रताय सिद्ध्यर्थं दशावस्था विवेधकम् || ६३ || तत्तत्सन्मार्ग सिद्ध्यर्थं तत्तत्सन्मार्ग साधनम् | तत्तद्विधा महाविद्या तच्चेदान्तविधिस्थिताम् || ६४ || वेदान्तं शैव सिद्धान्तं द्वयोरैक्यं शिवात्परम् | शुद्धशैव स्वसंवेद्यं शुद्धसन्मार्गरूपकम् || ६५ || प्. ७) चतुर्वेदं यदिश्वेतं वेदंपञ्च विभेदकम् | अकारादि कलापंच स्थाने तद्वाक् भवोद्भवम् || ६६ || ब्रह्माद्यैशान पर्यन्तं कलापञ्चम कारणम् | सद्योजातादिकं वेधां ईशानान्तं सदाशिवम् || ६७ || मूर्तिः पञ्चम मध्यस्थेऽष्टाविंशागमोद्भवम् | बिन्दुनादपराशक्ति शिवशक्तिस्तु पञ्चधा || ६८ || तन्मध्येमूल तन्त्राणां अष्टाविंशागमोद्भवम् | तत्तदाभ्यन्तरश्शक्येन्नव तन्त्रागमोद्भवम् || ६९ || वाग्मीवृत्तिः पञ्चमश्शक्तिर्मध्ये वेदोद्भवं तथा | सर्व वर्णं स्वशास्त्रार्थं बिन्दु तत्वोद्भवं तथा || ७० || दिव्यागम वृत्तिः || तन्त्रावतारविवेकः | नवागम रहस्यार्थेऽष्टाविंशतोदयम् || ७१ || परात्परं द्वेधा शिवशक्ति समन्विता | बिन्दुनादकलाकारा पराशक्तिसमन्विता | शिवः सादाख्ययोर्भेदा मूर्ति सादाख्य संभवाः || ७२ || एवमेतत्क्रमार्थांशी विभवं तन्नवा गमम् | शक्त्यर्थं यामलोद्भेदं नवभेदमनेकधा || ७३ || शिवः शक्तिस्तथा बिन्दुः नादः सादाख्य पञ्चमम् | मूलाष्टविंशतिश्शास्त्रं जाताः सर्वत्र कारणम् || ७४ || सद्यं वाममघोरं च पुरुषैशान पञ्चमम् | तत्तत्प्रोक्तमतं शास्त्रं कामिकाद्यष्टविंशतिः || ७५ || सिद्धिन्नामागमश्शास्त्रं सारन्नमागम त्रयम् | कालोत्तरादिभिर्भिन्नं तन्मूलस्योप भेदकम् || ७६ || कामिकादिर्विभेदार्थं शतद्व्यशताधिकम् | वेद सारागमं शास्त्रं वेदान्तञ्चागमान्तकम् || ७७ || प्. ८) मूर्तैक मूर्तिका प्रोक्तं वेदागमद्विभेदकम् | वाक् चतुर्वर्ण्यमध्यस्थे शास्त्रं सर्वोदितं भवेत् || ७८ || मूलागमाञ्च सन्मार्गं सहमार्गं शिवं गमम् | शिवसृष्टि पञ्चमाकारं शक्त्यागमन्तु अष्टमम् || ७९ || सादाख्यं पार्वती प्रोक्तं तन्त्रा वा तारयो नवः | देवसारं दशांशं च गणेश सारैकयो दश || ८० || वाम गौरवद्योर्भेदं गौतमञ्च गणेश्वरम् | नन्दी केशं पञ्चदशमैन्दुसारं सुषोडशम् || ८१ || गौरीसारागमं पञ्चामहेशासारं ततः परम् | अघोरसारागमं पश्चाद्विष्णुसारमतः परम् || ८२ || ब्रह्मसारं ततः पश्चात्ततः समयसारकम् | महोद्भवोद्भवं चैव रुद्रावतार सम्भवम् || ८३ || सौन्दर्यं सिद्धसारं च महागामन्तु षष्ठमम् | ख सममतम् || सादाख्यं पार्वती प्रोक्तमातन्त्रावतारयो नवः || ८४ || देवसारं दशांशञ्च तस्माद्गौरव सम्मतम् | इत्यष्ट विंशतिर्भेदो मूलपादान कारणम् || ८५ || चतुर्विंशञ्च तद्वेति ह्यष्टाविंशो विभेदकम् | अन्याष्ट भेद संकल्पमष्ट विद्येश्वरोदितम् || ८६ || एवमष्टाविंशतिर्भेदा सारं तन्त्रावतारकम् | सन्मार्गं सहमार्गं च मूलदिव्यागमोदितम् || ८७ || इदं शास्त्रं शिवोवाक्यं मूलतन्त्रावतारकम् | नन्दिकेशं महाप्रोक्तं किञ्चित्तन्त्रावतारकम् || ८८ || सहस्रदिव्यागमार्थस्य सारंसारोत्तरं शुभम् | प्. ९) मूलागमन्तु सन्मार्गं सर्वमार्गं शिवागमम् || ८९ || शिवसृष्टिशक्तिरित्यर्थं सादाख्ये पार्वतीमतम् | तन्त्रावतारयोरैक्य नमः शुद्ध शैवकाः || ९० || शुद्ध शैवागमेऽत्यर्थं मन्य चैवान्य तन्त्रकम् | नन्दिकेशं परं गुह्यं योग ज्ञान प्रवर्तकम् || ९१ || शिवसांख्यं योगसांख्यं सांख्यं भेदागमद्वयम् | निर्वाणसार सांख्यैक ज्ञानसार द्वितीयकम् || ९२ || तत्वसारं त्रिधाभेदं देवि विघ्ने शयोर्गुहः | कारणं मार्गवं शुद्धं क * कण्ठं ततोऽधिकम् || ९३ || शैव भेदागमेऽत्यर्थं साक्षान्मोक्ष प्रवेशकम् | पूर्वकाण्डमिति प्रोक्तं सूक्ष्म सिद्धान्त शाम्भवम् || ९४ || उत्तरः काण्डयः पश्चाद्यपरं कामिकादिकम् | कामिकं योगजं चिन्त्यं कारणत्वजितं तथा || ९५ || दीप्तं सूक्ष्मं सहस्रं चांशुमान् सु प्रभेदकम् | विजयं चैव निश्वासं स्वायंभुवमथानलम् || ९६ || वीरञ्च रौरवञ्चैव माकुटं विमलं तथा | चन्द्रज्ञानं च बिम्बञ्च प्रोद्गीतं ललितं तथा || ९७ || सिद्धं सान्तानसार्वोक्तं पारमैश्वर्यमेव च | किरणं वातुलं चैवाष्टा विंशति संहिताः || ९८ || कामिकादि तथा पञ्च सद्योजाताननोद्भवम् | दीप्तादिः पञ्चमो भेदः वामदेवाननोद्भवम् || ९० || विजयादि पञ्चमो भेदं तन्त्राघोराननोद्भवम् | रौरवादिस्तथा पञ्च तत्पुरुषाननोदितम् || १०० || प्. १०) प्रोद्गीताद्यष्टमो भेद मीशानानाननोदितम् | इ * * विंशतिश्शास्त्रे रूप भेदागम क्रमम् || १०१ || चतुर्विंशेच्छत द्वैवा तत्तद्भेदा परिम्मिता | अपराष्टविंशतिर्भेदा शैवसिद्धान्तकल्पना || १०२ || पूर्वाष्ट विंशति प्रोक्ता चतुष्पादज्ञेय कल्पना | अन्यथा आगमः प्रोक्तः शिवधर्मोत्तरं द्विधा || १०३ || नानाचार प्रवृत्त्यर्था नाना सिद्धान्त भेदकः | पौष्करा योग सांख्यार्थास्तत्वसाराधिभेदकाः || १०४ || अकेकार्थागमः संख्याश्चतुष्पादा * * * * | देवि कालोत्तर स्कन्दकालोत्तर द्वयोत्तराः || १०५ || सर्वज्ञानोत्तरः संख्या इत्यादि ज्ञान संख्यकाः | नाना शैव प्रवृत्त्यर्थे नाना शैवागमोदिताः || १०६ || अनन्तागमयोः संख्या आदि कालेश कल्पना | मन्त्र तन्त्र क्रिया योगात् ज्ञानं शैवार्थ निर्णयम् || १०७ || शैव शाक्तोद्भवं तत्वं शाक्तं शैवोद्भवं तथा | उभयं सम्पुटीकृत्य परा प्रासादवेधकम् || १०८ || प्रासाद परयोरैक्यं शाम्भ * * * * दितम् | शिव शक्त्यात्मकं पादं शुक्लरक्त प्रकाशकम् || १०९ || तदैक्यं विश्रान्ति तत्वं तद्भावं परमं पदम् | शैवं शाक्तमयं तत्वं तत्वातीतं परं शिवम् || ११० || कुलार्णवं कुलोत्तीर्णं कुलसद्भावं कुलामृतम् | परोत्तरागमार्थञ्च कालीकाकुलशासनम् || १११ || प्. ११ सिद्धामृताम्नया सिद्धिरित्यादिश्शाक्त वामजम् | नवयामलयोर्भेदं तत्तद्भेदमनेकधा || ११२ || शाक्तेयं शाम्भव * * * * * सम्बन्धकारणम् | त्रैविद्यान्तमिति प्रोक्तमिदं शास्त्र त्रिमेलनम् || ११३ || शुद्ध शैवमितिख्यातं शुद्ध शाम्भव सम्भवम् | प्रासाद परयोरैक्यं शुद्धशैवं द्विधा * * || ११४ || शाक्तेयं शाम्भवं शैवं वेदान्तमागमान्तरम् | नादान्तवन्न नाटान्तञ्च सक्यं द्रान्तशाम्भवम् || ११५ || एवं नवान्तयश्शुद्धि शुद्धशैवा प्रकाशकम् | सद्योन्तं प्रणवाग्रं च मुद्रान्तं तन्निसाधनम् || ११६ || पा * * * * * प्रोक्तं षडशस्योपभेदकम् | व्रतकालामुखः प्रोक्ता एकैकः पञ्चपञ्चमः || ११७ || भैरवस्याष्टभेदाश्च चतुष्षष्ट्योपभेदकाः | वामं षोडश * * * * * तद्भेदमनेकधा || ११८ || द्वादशं शैव भेदाश्च तद्विशेषकं शिवाद्वितिम् | लकुलीश्वरयोर्भेदाः पञ्चधा परिकीर्तिताः || ११९ || शैवान्य भेदकाष्षष्ठि संख्या संख्यागमार्थकाः || १२० || नाना कोट्यंश * शं मूर्तिभेदागमार्थिकम् | बिन्दुशक्तिर्भवेद्येवं वाग्भवं शास्त्रकल्पितम् || १२१ || बैन्दवः कलहश्शास्त्रा परज्ञान प्रवर्तकाः | शास्त्रं तत्परमं गुह्यं परात्परतर * * || १२२ || नानाभेदागमार्थन्तु तच्चतुष्पाद कल्पना | अनन्तागमयोर्मध्ये सारात् सराष्टविंशति || १२३ || प्. १२) तन्मूलागम तद्भेदा नवधा मूल कल्पना | तत्तत्सारांश सारार्थं तन्त्रावतार शास्त्रकम् || १२४ || वेदागमरहस्यार्थे वेदागमान्त विस्मयम् | शुद्ध शैव प्रकाशार्थ शुद्ध शांभव संभवम् || १२५ || शुद्धशैवस्तथा सारं सारात्सारं प्रकाशितम् | सारात्सारतरं गुह्यं गुह्याद्गुह्यं प्रकाशितम् || १२६ || शाक्तस्य शांभवं शैवं शिव शाम्भव शाक्तकम् | वेदान्त सिद्धान्त विज्ञान गम्यं वेदान्त सिद्धान्त तद्ज्ञानगम्यं द्व्यैकत्वम् || वेदान्त सिद्धान्त भिन्नैरभिन्नं वेदान्त सिद्धान्त विश्रान्तिमुक्तिम् | शुद्धशैवस्वसिद्धान्तमिदं शास्त्रप्रवर्तकम् | शुद्धशून्य प्रकाशत्वं व्योमकेशं परंशिवम् || १२७ || शुद्धसन्मार्ग तत्वार्थं शुद्धज्ञान प्रकाशितम् | शुद्ध वेदान्त तत्वार्थं तत्वमस्मादि शोभनम् || १२८ || शुद्धज्ञान मयाकार परावरपरं गुरुम् | शुद्धयोगकलातीतं उन्मन्यन्तं परं शिवम् || १२९ || पूर्वोक्त वासना प्रोक्तं इदं देवि वरानने | शुद्ध शैव प्रवृत्त्यर्थ समाहितेति शङ्करि || १३० || || ज्ञान सिद्ध्यागमे प्रथमस्तन्त्रावतारसंहिताधिकारः समाप्तः || देव्युवाच- देव देव महादेव महायोगि महेश्वर | महेशान महामन्त्रि वन्द्यते त्वमहं शिवम् || १ || प्. १३) अचिन्त्य ज्ञान संकेतं कृत्य परं परम् | अभाव सङ्केतमित्यर्थं प्रासाद कुर्वं सदाशिवः || २ || ईश्वर उवाच- शृणु देव्यचिन्त्यार्थं शिवात्मैक्यं शिवोद्भवम् | पतिपाश पशुज्ञानं खण्डा खण्डा विकल्पकम् || ३ || शिव लक्षण विवेकः- शिवस्य लक्षणं वक्ष्ये समासात्परमेश्वरि | शिवं परात्परं सूक्ष्मं निर्विकल्पं निरञ्जनम् || ४ || तत्वा तीतं परं दन्तु तुर्यातीतं परं शिवम् | नादातीतं तु नादान्तं सदानन्दं सदाशिवम् || ५ || * * * रहित ब्रह्ममकल्पितमचिन्त्यकम् | अभोक्तममल ज्ञानमविनाशिकमनात्मिकम् || ६ || शुद्धत्वं शुद्ध संकेतं शुद्धात्मं स्वप्रभावितम् | अध्व षड्भेद संकेतं व्याप्तिनि व्याप्ति निर्णयम् || ७ || प्रासादं परमं मन्त्रं परामन्त्रं तदैक्यकम् | प्रासादपरयोरैक्यं रक्त शुक्लञ्च मिश्रितम् || ८ || रक्तं शुक्लं च मिश्रञ्च द्विविधं पादलक्षणम् | रक्तं त्वत्पादमेवन्तु शुक्लं मत्पादमेव च || ९ || रक्तशुक्ल * * * * भुक्ति मुक्त्यर्थ कारणम् | रक्तशुक्ल प्रभाभिन्नं शिव शक्त्यर्थकं परम् || १० || सान्तं षान्तद्वयोर्वर्णं बिन्दुनाद समुद्भवम् | आत्ममन्त्रमितिख्यातं प्रासाद परमाक्षरम् || ११ || || शिवलक्षण विवेकः समाप्तः || || प्रासाद विवेकः || प्राशब्दं स्याच्छिवज्ञानं साशब्दं गतिरुच्यते | दमत्स्वरूपमेवन्तु त्रिवर्णमभिधीयते || १२ || अध्वा संकेतमार्गं * * * * * स्वरूपकम् | वर्णकलापदं तत्वं मन्त्रो भुवन एव च || १३ || सर्वं कलादि संसर्गं तन्निवृत्यादि रूपकम् | निवृत्ति प्रतिष्ठा विद्या च शान्त्यतीतश्च पञ्चमम् || १४ || अत्मान्तरात्मपरं ज्ञानात्मा न स्वमूर्तकम् | सर्वमन्त्रतनुं प्राप्य पञ्चकृत्य शिवं कुरु || १५ || इच्छाज्ञान क्रियाशक्तिरिच्छायाः पञ्चकृत्यकाः | इच्छाज्ञानक्रियारूपम् कारणत्रयमीश्वरम् || १६ || * * * * * * शक्तिः पञ्च शक्त्यर्थकारणम् | पञ्चमोनाद शक्त्यर्थं कारणत्रयमादिकम् || १७ || बिन्दुशक्तिस्तथा पीठं नादशक्ति स्वलिङ्गकम् | बिन्दुनाद समात्मानं बिन्दुरेफं परात्परम् || १८ || परमं बिन्दुमध्यस्थे वैखर्यादिश्च तोयदम् | वैखरी मध्यमा चान्त्या पश्यन्ती सूक्ष्म संज्ञका || १९ || वैखरी श्रोत्र विषया सविकल्पा तु मध्यमा | निर्विकल्पां तृतीयां वाशां कारणमन्त्यमः || २० || प्. १५) ज्ञान सिद्ध्यागमः | मध्याद्भवं सूक्ष्मं कारेकः पश्यन्ति सम्भवम् | उकारे मध्योत्पन्नमकारे वैखर्योदितम् || २१ || ग्रर्तिसंयुक्तं हंकारोकारमकारम् | बिन्दुतत्व प्रतीकाशं बैन्दवस्तत्व रूपकम् || २२ || बिन्दुमध्योद्भवं सूक्ष्ममकारे पश्यन्ती संभवम् | एवं वाग्वृत्ति संकेतं वैखर्यादि * र्णमुद्भवम् || २३ || उकार उकार मकार बिन्दुनादं च पञ्चमम् | मनो बुद्धिरहंकारश्चित्त * * * * * * || २४ || बिन्दुमध्योदितं सर्वं तत्कालं बैन्दवं तथा | लयकालं तटाकुटिला तन्मध्ये प्रणवोदितम् || २५ || ओ औ मायात्रयो बन्धं त्रिवृत्ताः कुण्डली तथा | तत्र कुण्डलिनी मध्ये इडापिङ्गलयोद्भवम् || २६ || इडा पिङ्गलयोर्मध्ये सुषुम्नानाम स्वरूपकम् | सुषुम्नाभ्यन्तरे सूक्ष्मै चित्र नाटिप्रवेशनम् || २७ || चित्रनाडिस्वमध्यस्थे प्राणापानसमन्वितः | प्राणापानद्वयो * * * * परमकारणम् || २८ || हकारं शिवरूपत्वं सकारं शक्तिरुच्यते | हकार सकारयोर्मध्ये बिन्दुरूपं परायणम् || २९ || बिन्दु मध्येगतो नादो नाद मध्ये गतः शिवः | शिव मध्ये गतः शान्तं शान्त्यतीतं परात्परम् || ३० || सर्वोदित द्विधा शक्तिर्माया कुण्डलिनी तथा | माया कुण्डलिनी भेदा सर्वलोकं चराचरम् || ३१ || प्. १६) ग्रन्थि जन्यं कलाकालं विद्यारागेन्द्रियादयः | गुणधी गर्वचित्ताक्षमात्रा भूतान्य * * * || ३२ || कुण्डलिनी शक्ति माया कर्मानुसारिणी | नादबिन्द्वादिकं कार्यं तस्या इति जगत्स्थितिः || ३३ || कलाषोडशयोर्भेदं मूलकुण्डलिनोद्भवम् | कलाषोडशयोरूप चन्द्रकान्ते प्रतिष्ठितम् || ३४ || तत्र षोडशयोः शक्तिश्चन्द्रदेहे प्रतिष्ठितम् | अन्य मन्त्र कलारूपं प्रासादपरमाक्षरम् || ३५ || अकारश्च उकारश्च मकारोबिन्दुरेव च | अर्धचन्द्र निरोधी च नादो * * * * * * * * || ३६ || शक्तिश्च व्यापिनी चैव समना चोन्मना तथा | समनान्तं पाशजालमुन्मन्यन्ते परं शिवम् || ३७ || प्रस्थारं च विस्तारञ्च निस्थारं च क्रियोद्भवम् | स्थैर्यमित्यनुसन्धत्ते प्रासादे पङ्क्तिस्तु पञ्चमाः || ३८ || अकार स्वररूपत्वमुकारापीश रूपकम् | मकारं विषरूपत्वं बिन्दुरेव फकाक्षरम् परम् || ३९ || अर्धचन्द्रस्तथाकारं निरोधे तत्त्रिकोणकम् | हलबिन्दुद्वयं नादं * * * तत्प्रतीहलम् || ४० || हलमित्राङ्गितश्शक्ति व्यापिनी तत्र शूलकम् | कुब्जिका व्योमरूपी चा नन्तादि शक्ति षष्ठमाः || ४१ || षड्बिन्दुः चूलिकाकारं तदग्रं तु शलाकया | तच्छिवं निष्कलं तत्वं प्रस्थारार्थमिति स्थितम् || ४२ || प्. १७) मध्ये षडवयव व्याप्तिविस्तीर्णं विस्थरक्रमम् | एकैक योज्ययोर्भावं निस्तारं निस्थर क्रमम् || ४३ || परान्तं परयोर्दृष्ट्वा स्थैर्यमित्यङ्ग भावनात्मकम् | तदानुसंन्धान संवृत्ति प्रासादस्त * * * || ४४ || अध्वा षोढा तत्र पदवर्णमस्त्रन्तु सर्गजा | सर्वस्य शक्तिरूपत्वात् एते वाचक रूपकाः || ४५ || * * * * कला तत्व भुवनानीति यत्र यम् | वाच्य रूपंत्रिक द्वन्द्वं एतच्छक्ति शिवात्मकम् || ४६ || वाच्यवाचक व्युत्पन्नं बैन्दवं मलसम्भवम् | आदिकारण मृद्रूपं तच्चक्रं सहकारणम् || ४७ || निमित्तस्य कुलालोक्त त्रियैव मृद्भाण्ड सम्भवम् | ततोऽवग्रन्थि मृद्रूपं कुण्डलीचक्र संस्थितम् || ४८ || परदेशं कुलाले * कुरुते तच्चराचरम् | इच्छाज्ञान क्रियाशक्तिरिति व्याप्तस्य कारणम् || ४९ || सृष्ट्यादिः पञ्चमं कृत्यं ब्रह्मादि * * साधकम् | सर्वसृष्टिमयं बिन्दु तन्मध्ये वर्णमुद्भवम् || ५० || अचिन्त्य कुण्डलीशक्तिर्मध्ये सर्वोदितं भवेत् | कृत्यर्थम् || तत्वात्मबन्धय सृष्टि तद्भोक्त स्थिति साधनम् || ५१ || तत्वात्मनः पृथग्भावं तत्संहारं समुच्यते | कर्म कुर्वन्ति तत्काल स्थिरो भावं तिरोभवम् || ५२ || चतुर्थं कुरुते कृत्यं तदनुग्रह साधनम् | प्. १८) एवं पञ्चमकृत्यर्थं पञ्चदिव्यादि संस्थितम् || ५३ || सूक्ष्म कृत्यं तु पञ्चैते केवलस्याग * * * | बोधनं शोधनं मूढं बन्धनं शंसनं तथा || ५४ || महासंहार काले तु कुटिलांशो ततोदितम् | इच्छा ज्ञान क्रियाशक्ति संग्रहं मूर्तिविग्रहम् || ५५ || ज्ञान रूपं शिवाकारं * * रूपन्तु शक्तयः | ज्ञानक्रिया समं तत्वं तत्सादाख्य स्वरूपकम् || ५६ || ज्ञानशून्यं क्रियाधिक्यं महेशस्तत्व विग्रहम् | क्रिया नूनं योगसिद्धं शुद्ध विद्यार्थ शङ्करम् || ५७ || इच्छाधिके क्रमं विष्णुः ब्रह्मणस्तत्व मुच्यते | तस्मादिच्छादयो भेदं ब्रह्म विष्णु स्वरूपकम् || ५८ || रुद्रो विष्णुर्विधानोक्तं कल्पभोगाधिकारकम् | बिन्दुशक्तिस्तथामध्ये मायाशक्ति समुद्भवम् || ५९ || मायाशक्ति मध्ये * * * * शक्तिस्तदुद्भवम् | काम्यशक्तिस्व मध्यस्थे मायेयं च तदुद्भवम् || ६० || चतुर्मलं तथा भेद्यं तत्तिरोधाधिकं भवेत् | एवं पञ्चमलः शक्त्याः पाशबन्धस्तदुच्यते || ६१ || एवं विग्रह कृत्यर्थमेवं सत्कृत्य निर्णयम् | देवदेव महेशान महायोगी महेश्वर || ६२ || यन्मन्त्रंसार संग्राह्यं तन्मन्त्राकारमुच्यते | शङ्कर उवाच- बिन्दुषष्ठ्यादिनादेन स्वनादे बिन्दु संभवम् || ६३ || तद्रूपं प्रणवाकारं पञ्च * * र्ण संस्थितम् | प्. १९) ओमित्येकाक्षरं ब्रह्म परमात्म स्वविग्रहम् || ६४ || ओंकारं शिवरूपत्वं तद्भेदं पञ्चमत्रयम् | मूलकुण्दलिनी व्याप्तमात्म मन्त्रस्ववर्णकम् || ६५ || हंस विद्यामहाविद्या प्रासाद परया सह | प्रासादपर * * * * * शक्तिस्वविग्रहम् || ६६ || प्रासादपरयोरैक्यं शाम्भवं शिवसम्भवम् | बिन्दुभिद्यदि नादेन सनादः खेन विद्यते || ६७ || बिन्दुनाद कलारूपं शिवशक्तिस्व विग्रहम् | आधारं मानसं * * * * धेयं परं शिवम् || ६८ || बिन्दुराधार पीठं च नादलिङ्गं समाचरेत् | बिन्दुभिद्यं सदाकारभगांशं शक्तिविग्रहम् || ६९ || त्रिकोण मध्ये हौकारं धर्महंसौ हरिं शिवम् | हंसे बिन्दुगतोनादे हंसमार्गे * * * * || ७० || नादं लिङ्गमिति प्राहुः बिन्दुपीठं उदाहृतम् | बिन्दुमध्ये गतोनादो नाद मध्येगतः शिवः || ७१ || शिवमध्यगतः शक्तिः शक्ति मध्ये स्वयं शिवम् | परहंस प्रभेदं च हकारहौकार इत्यपि || ७२ || हंसः परमहंसञ्च द्विधा हंस प्रभेधकम् | अहं पृथिव्या अहमापः अहमीश्वरमेव हि || ७३ || अहं पृथिव्या अहं तेजो अहं हरिः | अहमाकाश सद्भूतं अहमात्मा अहं परा || ७४ || हकारं ब्रह्मरूपत्वं उकारं विष्णुरूपकम् | प्. २०) मकारं रुद्ररूपत्वं बिन्दुरीश्वरमेव हि || ७५ || नादं सदाशिवं प्रोक्तं नादातीतं परं शिवम् | परतत्वं परं ज्ञेयं परामुक्ति स्वरूपकम् || ७६ || हकारं निष्कलोपेतं सकारं सकलं भवेत् | हकारं शिवरूपत्वं सकारं शक्तिरुच्यते || ७७ || हकारः सूर्य इत्यर्थः सकारश्चन्द्र इत्यपि | इकारः पावको रूप इति ज्योतित्रयोदितम् || ७८ || हकारो कारयोर्मध्ये बिन्दुरूपमुदाहृतम् | बिन्दुमध्यगतोनादं नाद मध्यगतः शिवः || ७९ || बिन्दुभिट्याति नादेन सनादेः खेन भिद्यते | शिव मध्यगतं तत्वं तत्वमध्ये परात्परम् || ८० || परं परात्परं सूक्ष्मं परामुक्ति परिग्रहम् | व्योमाकारं महाशून्यं तुर्यातीतं परं शिवम् || ८१ || तुर्यातीतं चरं स्थानं परव्योम प्रकाशितम् | तुर्यातीतं पराकारं ओमिति ज्योतिरूपकम् || ८२ || बालवृद्धः सगारूपमाद्यन्त रहित * * | ज्ञानयोगक्रियाबीजं क्रियाकर्मान्यवर्णकम् || ८३ || ओङ्कारं परमात्मानं पराशक्ति प्रकाशितम् | तस्मात् ज्ञानमयं ब्रह्ममोमिति ज्योतिरूपकम् || ८४ || ओंकारोदात्तानुदात्त स्वरितः कुटिलस्वरः | ध्वनिरन्तर्गत ज्योतिः ज्योतिरन्तर्गतं मनः || ८५ || मनस्यान्तर्गतो बुद्धिरन्तर्गतो मम | ममान्तर्गत * चित्तश्चित्तमन्तर्गतात्मनः || ८६ || प्. २१) आत्मान्तर्गतो कालः कालमन्तर्गतः कला | कालान्तर्गतयो नादनादान्त * * * परा || ८७ || परान्तर्गतयो ज्ञान ज्ञानमन्तर्गतः शिवः | सर्वान्तर्गतयाद्ब्रह्म तद्ब्रह्म तत्परात्परम् || ८८ || एवमन्तर्गतस्यार्थ हौ ओं त्रीणि गुरुद्भवः | योगाष्टाङ्ग प्रकारोक्तमोंकारं परमाक्षरम् || ८९ || सप्तव्याहृति गायत्र्या सावित्री प्रकृता कृतिम् | षडङ्गाश्चतुर्वेदा स्मृति त्यागं ततो मयम् || ९० || मा * * * * * * * * * * * त्म विवेकः नानान्त्योत्पन्नय प्राप्तं तन्मायामयीमयम् | मायान्त स्थात्मकं बद्धं पाशं पञ्चममाचरेत् | पाशं शोधन जीवात्मा पशुतच्छोधनः पराः || ९१ || परा प्रणव संशोध्यं ओंकारान्तं गुरोः परम् | गुरोरन्यत् परं नास्ति गुरोरन्यत् शिवं न हि || ९२ || || प्रणव विवेकः समाप्तः || || अथ लिङ्गोद्भव विवेकः || प्रणवं बिन्दुनादोक्तं कुटिलाकारमुद्भवम् | कुटिला * स्वशक्त्यर्थमुदितां कुरवः शिवम् || ९३ || बिन्दुनाद कलाकारं प्रणवं तल्लिङ्गमाचरेत् | नादान्तस्य कलापाशमुन्मन्यन्तं तदाधिकम् || ९४ || समनान्तं पाशजालमुन्मन्यन्तं परं शिवम् | शुद्धाध्वा वुन्मनीर्यन्तन्तदन्तं चरणोदितम् || ९५ || प्. २२) काल भुवन वर्णञ्च मन्त्राध्वा च पदाध्व च | तत्वाध्वा इति विज्ञेया षडध्वा सादाख्यरूपकम् || ९६ || कलाध्वा वायवं प्रोक्तं भुवनं रोममेव च | त्वग्वर्णा च * * शोणिपदाध्वा च नाड्यः शिराः || ९७ || षड्विंशत्तत्व खण्डोक्तं धातुरूपं सदाशिवम् | तद्भेद प्राणयश्शक्ति तत्परा शक्तिरुच्यते || ९८ || शिवमात्म स्वरूपस्थमिदं सादाख्यमुद्भवम् | पञ्चकृत्याधिकारस्थं जगद्योनिं सदाशिवम् || ९९ || परमं बीजमध्यस्थे त्रिकोणरेखा स्तनादयः | त्रिकोणाकार मध्यस्थे भगाङ्गं लिङ्गमाचरेत् || १०० || भगमध्ये स्थितं लिङ्गं लिङ्ग मध्ये स्थितं भगम् | सदाशिवासनं लिङ्गं लिङ्गासनं तु पीठिका || १०१ || पीठिकासन भ्रूमध्ये देशिका ध्यानमासनम् | एवं ध्यात्वा तु मनसा पराशक्तिस्तु विन्यसेत् || १०२ || पञ्चभेदन्तु सादाख्यं तद्भेदं षोडशोद्भवम् | अष्टाविंशं महेशोक्तन्नटराजं प्रधानकम् || १०३ || परेच्छया शिवसादाख्यं तदादिः पञ्चमोद्भवम् | महेश विष्णुरुद्रादि पञ्चभूतस्तु पञ्चमम् || १०४ || सर्वं सादाख्यमुत्पन्नं कारणत्रयमाचरेत् | मूर्ता मूर्तिः कर्ममूर्तिः शिव * ?ख्य पञ्चमम् || १०५ || रुद्रोत्पन्न गणेशस्तत्स्वभेदं षोडशं तथा | रुद्रोत्पन्न विशाखश्च षट्भेदैक स्वसंग्रहम् || १०६ || प्. २३) देवासुरा नराशक्ति ऋषिभ्यः किन्नरादिकम् | सर्वं रुद्रेशरोमस्य मध्योत्पन्नमसंख्यया || १०७ || ब्रह्मादि शिवतत्वान्त दशसादाख्य सम्भवम् | वेधाः पश्चिमभागे तु हृषीकेशोत्तरस्तथा || १०८ || अघोर दक्षिणे भागं पुरुषं पूर्वयोदितम् | ईशानस्थानमीशानं दृष्ट्वा मध्यमयोदितम् || १०९ || मध्यमाग्रस्तथा बिन्दुनादं रेखाग्रयश्शिवम् | शिवमध्यन्तु शक्त्यर्थमेतत् सादाख्यमुद्भवम् || ११० || शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिणेत्रं | शूलं वज्रं खड्गं परशुमभयदं वाम दक्ष भागे वहन्तम् || १११ || नासगं पाशं च घण्टां मलनकरयुतं सांकुशं वामभागे | नानालंकारयुक्तं स्फटिकमणिनिभं सौम्यसादाख्य तत्वम् || ११२ || देवीशिर दक्षिणोत्तर सुपादं गोमुख पादान्तकृतवारि भुजयुक्तम् | योनिगत मध्य मधु संस्थित लिङ्ग स्थापित सदाशिव- मनोन्मनि स्वरूपम् | मनश्शक्तिक विज्ञेय उन्मनः परमः शिवः || १३ || मन उन्मन सम्बन्धान्मनोन्मन्यभिधीयते || ११४ || वामाद्यष्ट शक्तीनां मध्यतेजो मनोन्मनी | मनोन्मनि ग मध्यस्थो सादाख्यं लिङ्गमध्यमम् || ११५ || शिवशक्ति स्थितं लिङ्गं जगद्योन्युद्भवस्तथा | नवज्ञाङ्ग पद्माङ्गं न चक्राङ्गञ्च? गत्त्रयम् || ११६ || लिङ्गांशञ्च भगांशञ्च तस्मान्माहेश्वराज्जगत् | मूलाधारं चतुष्पत्रं तन्मध्ये वशषस्सजम् || ११७ || प्. २४) तन्मध्ये कुटिलाकारं त्रिकोणाकार संभवम् | नाडी मूलावृताङ्काभि कुण्डली हंसनिस्वना || ११८ || कुण्डल्याकार मध्यस्थे प्राणं प्रणवसम्भवम् | प्रणवत्रयमध्यस्थं व्योमाकारं पराक्रमम् || ११९ || पराक्रमं परोत्पन्नं परं सर्वत्र कारणम् | चिद्घनं मेघतद्व्याप्तं नित्यं सद्योतित प्रभम् || १२० || सर्वात्म कारणं शम्भुर्विभुश्शर्वस्व साक्षिकम् | शम्भोः शिवपरं सूक्ष्मं सर्वव्यापकमीश्वरम् || १२१ || सर्व वर्णं तथा मन्त्रं मन्त्रमूर्तिमनेकधा | सर्वकोटि महामन्त्रं सप्तकोट्यंशि कारणम् || १२२ || विज्ञानस्याष्ट विद्येशं मन्त्रमूर्ति प्रधानकम् | सप्तकोटि महामन्त्रं चित्तव्याकुल कारणम् || १२३ || एकेन सहजं मन्त्रं तुर्यातीते परं शिवम् | नादबिन्दु द्विधाकारं त्रिधावाक् पञ्चमोद्भवम् || १२४ || कुटिली कुण्डलीस्तारं बैन्दवैशानमीश्वरम् | रुद्रविज्ञान काष्टांशं इच्छाज्ञानक्रियात्मकम् || १२५ || आणवं माययाकाम्यं पावे?पंच तिरोभवम् | स्थूल सूक्ष्म महान् प्राणा व्यक्ता पञ्चम कञ्चुकाः || १२६ || जीवामेच्छादिषु त्रिंशत् षट्त्रिंशत्तत्वकारणम् | कारणं कृत्य मूलस्थं माया कुण्डलिनोद्भवम् || १२७ || सर्व तत्वं मयाख्यातं सर्वात्म सृष्टिकारणम् | अचिन्त्यं तत्परा शक्तिश्चिन्त्यमाया विकल्पकम् || १२८ || प्. २५) अचिन्त्याचिन्त्ययः साक्षिरात्मरूपं परात्परम् | सर्वमन्त्रमयं तारन्ताररिश्वादयोदितम् || १२९ || ओमिति ज्योतिरूप ज्योतिरूपस्थं सत्यमुक्तम् | आसिकाबन्धनं शैवं नासिकाबन्धनं न च || १३० || न यनो नियमश्चैव स्वयमोमिति पश्यतः | || अर्थितत्व संग्रह विवेकः || क्षित्यादि कुटिलान्तानि षट्त्रिंशत्तत्वरूपकम् || १३१ || शिवेच्छया कुटिलोत्पन्नं नादतत्व प्रधानकम् | नादमध्योदितं बिन्दु शिवशक्त्यर्थनामकम् || १३२ || ज्ञानक्रिया समुत्पन्नं शिवशक्ति स्वरूपकम् | ज्ञानक्रियोऽत यस्तत्वं तत्सादाख्य स्वरूपकम् || १३३ || ज्ञाननून क्रियाधिक्यं महेशस्तत्व विग्रहः | योगेच्छया क्रियान्यून शुद्धविद्याप्रकाशितम् || १३४ || शुद्ध विद्येश सादाख्यं बिन्दुनादाश्च पञ्चधा | शिवतत्वमिति प्रोक्तं बैन्दवस्तत्र कारणम् || १३५ || बिन्दुशक्तोद्भवं माया मोहिन्यो मोहकारणम् | अरूपं नित्यैक रूपस्थं व्याप्त्यन्तं स्वनविग्रहम् || १३६ || मायोद्भवस्तथा * * त्रिकृत्यर्थं त्रिभेदकम् | कालस्योत्पन्ननियति यत्कर्मं तत्सुनिश्चियम् || १३७ || कालो नियतिरुत्पन्न माणविस्तत्र शोधनम् | किञ्चिदिच्छा क्रियाज्ञान स्वात्ममध्ये प्रकाशितम् || १३८ || कारणत्वे तथा विद्या नाना ज्ञानोद्भवात्मकम् | प्. २६) रागा परिमिताशार्थं विद्या तत्वेति षष्ठमम् || १३९ || मूल प्रकृति विकृति कलातत्वोद्भवं तथा | त्रिगुणत्वोन्नतत्काल गुणत्वं प्रकृति स्थितम् || १४० || इन्द्रिय ग्र * * * रसाने पुरुष तत्वकम् | विषयग्राह्यैन्द्रियः कालेनात्मं पुर्यष्टकं तथा || १४१ || माया व्यक्तं तदव्यक्तं तद्व्यक्तं तन्महानिति | तत्वन्त्वहित यस्तत्वस्तच्चित्तं करणादिकम् || १४२ || अ * * * गुणोत्वञ्च त्रिधाभेदस्तथोच्यते || १४३ || सात्विके तैजसा हन्ताराजसे वैखरी तथा | तमसे भूतातिकन्तु तस्माद्भुज त्रयोदितम् || १४४ || तन्मध्ये तैजसाहन्ता मध्ये मानसमुद्भवम् | ज्ञानक * * याकारं वैखर्याहनयोद्भवम् || १४५ || शब्दादिः पञ्चमो भेदं भूताहन्तान्ततोद्भवम् | शब्दादिः पञ्चतन्मात्रे आकाशादि समुद्भवम् || १४६ || आकाशाद्वायुरुत्पन्नं वायव्येदं मनोभवम् | दहने जलवुत्पन्न जले मेदिनिरुद्भवम् || १४७ || चतुरमार्ध चन्द्रञ्च त्रिकोण षट्कोणवृत्तयः | पृथिव्यादि स्वरूपोक्तं बुद्धिमत्कारणोद्भवम् || १४८ || स्वर्णः श्वेतारुणः कृष्णं धूम्रं प्रव्याधि रूपकम् || १४९ || * * * * ज्ञ मादीनां लवरयह वर्णकम् || १५० || ब्रह्मा विष्णुस्तथा रुद्रमीशमीशान कारणम् | भूत भेदमिदं प्रोक्तं तज्जन्यं तत्र कारणम् || १५१ || प्. २७) पृथिव्यप्तेजोवायुराकाशं भूतपञ्चमम् | श्रोत्रं त्वक् चक्षुर्जिह्वा च प्राणञ्चैव तु पञ्चमम् || १५२ || वाक्पाणिपादपायुरुपस्थञ्चैव तु पञ्चमम् || १५३ || वचनागमनादान विसर्गानन्द पञ्चमम् | तदन्यं पञ्चदश्यर्थं शब्दादिः पञ्चविंशतिः || १५४ || मनोबुद्धिरहङ्कार चित्तज्ञेत्रज्ञ पञ्चमम् | एवन्तु पञ्चविंशार्थमात्म तत्वं प्रकीर्तितम् || १५५ || रागो नियति विद्या च कला कालश्च मोहिनी | विद्या तत्वमिति प्रोक्तं षष्ठमं परिकीर्तितम् || १५६ || शुद्धविद्येश सादाख्यः शिवशक्तिस्तु पञ्चमाः | शिवतत्वमिति प्रोक्तं शुद्धाशुद्धञ्च मिश्रितम् || १५७ || आत्मतत्वं हृदायान्तं विद्यातत्वं भ्रुवान्तकम् | शिवतत्वं शिखान्तस्थं तत्वन्नात्रमिति स्थितम् || १५८ || सर्वतत्वं कलातीतं पराशक्ति प्रभेदकम् | || ज्ञान सिद्ध्यागमे द्वितीयः शिवलक्षणाधिकारः समाप्तः || प्रथमस्तन्त्राधिकारार्थः द्वितीयः शिवलक्षणम् | मन्त्र तत्वप्रसादार्थं शिवसादाख्य सम्भवम् || १ || इत्थमधिकार संग्रह विवेकम् || देव्युवाच- देव देव जगन्नाथ शिवशूलिन् महेश्वर | आत्मवर्गं किमुत्पन्नः शृणु देवि वरानने || २ || पृथिव्यादि शिवान्तानि षट्त्रिंशत् तत्वसाधनम् | प्. २८) तन्मध्ये बिन्दु तत्वार्थे त्रिकोणे गुणसम्भवम् || ३ || तदग्रोभयकोणैश्च विज्ञानादि त्रिसाधनम् | बिन्दुभि वृतिनादेन तत्काले त्रीण्यणूद्भवम् || ४ || अनादिकाले त्रयात्मानं शक्तिभेदोदयं भवेत् | सकल सृष्टिकाले तु तत्तत्तत्वोदितं भवेत् || ५ || षट्त्रिंशत् सूक्ष्म तत्वार्थ परापा शक्तिरुद्भवम् | विषसम्बन्धिनीशक्तिस्तथात्मान माहितम् || ६ || तदौषधं निरुध्येति तस्मात् ज्ञानोद्भवात्मकम् | ज्ञानोद्भवन्तु तत्कालं शिवसायुज्य शाम्भवम् || ७ || शिवं प्रकाशितं कालं शिवसायुज्य सम्भवम् | शिवे प्रकाशमात्रस्थे मलपाश तमोहरम् || ८ || निर्मलीभावमात्मार्थं निर्मलात्मा विधीयते | शिवदर्शनम्- भूतसृष्टिः भवेज्जन्म बोध दृष्टि भवे * * || ९ || अविज्ञानस्याणवं देहं मायादेहं तथात्मकम् | काम्यं सकलदेहश्च शु * * * * देहिनः || १० || शिवदेह मुमुक्षुत्वमन्यं बन्धस्थितं भवेत् | अनादिकाले त्रिधात्मानं कुटिलाः कुण्डलिनो स्थितम् || ११ || बिन्दुशक्तिर्विभेदांशे बैन्दवं भावमाचरेत् | तत्काले मल सम्बन्धं तत्सृष्ट्यादिस्ततोदितम् || १२ || विज्ञानात्मा चतुर्थञ्च प्रलयात्मा त्रिभेदकम् | सकलात्मा त्रिभेदं च तस्मात्त्रैयादशं विधम् || १३ || प्. २९) विज्ञानो निर्मलात्मानं अज्ञाने मन्त्रविद्येशं विज्ञानान्नव विज्ञानमूढार्थं प्रलयद्विमलोद्भवम् || १४ || प्रलयार्णव विज्ञानं प्रलयः सकलत्रयम् | बन्ध चिन्मुक्तविद्वैधा समचित् सकलत्रयम् || १५ || एवं त्रेधात्मभेदोक्तं तत्पूर्वानादिकोदितम् | सकलात्मान्तरात्मान जीवात्मा परमात्मकम् || १६ || भूतात्मानं गुणात्मानं मन्यत्मा सप्तम स्मृतम् | सर्वात्मा कर्मभेदोक्तं जाला भावा तनूदितम् || १७ || शिवशक्तिस्तथा लीला मध्ये तत्वात्म संभवम् | शिव * * * * * * * म्बातीतं परात्परम् || १८ || परात्परा तत्परा शक्तिः संभ्वः सकलो हितः | विज्ञानोमन्त्र विद्येशं प्रधानान्तादिरष्टमम् || १९ || अनन्तः सूक्ष्मकश्चैव शिवोक्तमन्त्रिणेत्रकम् | एक नेत्रैक रुद्राश्च श्रीखण्डिश्च शिखण्डिनिः || २० || एवं विद्याष्टकेशानां रौद्ररूपं त्रिणेत्रकम् | सप्त कोटिमहामन्त्रमष्टविद्येश्वरोदितम् || २१ || सप्तकोटि महामन्त्रं विद्येशं सप्तकोट्यकम् | प्. ३०) * * * * * * दोक्तमादिपाशेन बन्धनम् || २२ || माया देवाणव * * * * * * * * * * | * * * * * * * * * * नेशं पुरोदितम् || २३ || क्रोधेशं मण्डलेशश्च वीरभद्रं कपालिनम् | इत्यादि भेदसंयुक्तं रुद्रत्वं प्रलयाजलम् || २४ || अथ सकल भेदोक्तं नरस्सुर गणादिकम् | असुरादित्य भूतादिर्यो * * * * * स्तरम् || २५ || एवं त्रिधात्म भेदोक्तं नवतत्वेत्यकारणम् | विज्ञानेश्वर भेदोक्तं प्रलया सादाख्यपञ्चमाः || २६ || महेश रुद्रस्तथा विष्णुर्वेधाग्रं मूर्तयो नव | इच्छाज्ञान क्रियामाया परावैन्दव तारकाः || २७ || कुटिलाः कुण्डली भेदा नवमं प्राधान्यशक्तयः | नवमं प्राधान्यं * * * * * द्वै बन्धकारणाम् || २८ || मलः शक्त्यर्थ भिन्नात्मा कारणत्रय संभवात् | कुण्डली कलहार्थस्य भेदनात् * * * * * || २९ || * * * * * * * * * * * * * शे भवाः | अनादि पाशमित्याहुरेताः पाशसमालकाः || ३० || आणवादिषु पञ्चैते वेधां सम्बन्धमुच्यते | आणवादि चतुर्भेदाः तत्र भेदा नारायणं स्थितम् || ३१ || आणवा * * * दैश्च रुद्र सम्बन्ध उच्यते | आणवादि त्रिभेदं च महेश्वरं पाश उच्यते || ३२ || आणवैशान संबन्धं * * * * * * * * | आणवान्त शिवं तत्वं बिन्दुनाद कलात्मकम् || ३३ || आणवः सहितः पूर्वैः पश्चात्तन्न्यून साधके | प्. ३१) शिवशक्तिस्तथा प्रोक्तं निर्मलं गुरुरूपकम् | समलं तत्व विस्तीर्णं * * * * * * * * || ३४ || * * * * * * * * * * * तत्व शून्यकम् | समलासम सम्बन्धं त्रिविधात्मार्थ कारणम् || ३५ || अनादि मल सम्बन्धात् किञ्चिद्ज्ञोऽणुमयोदितम् | अनादि मल मुक्तत्वात् सर्वज्ञो तौ ततः शिवः || ३६ || आत्म तत्वं चतुर्विंशत् ब्रह्मा तत्राधिदैवतम् | विद्यात् पुरुष तत्सप्त विष्णुस्तत्राधि दैवतम् || ३७ || शुद्ध विद्यार्थ रुद्राणां कार्तावीशं महेश्वरम् | सादाख्येशान कर्तार नादबिन्दूत्थ कर्तृकम् || ३८ || शिवशक्तिस्तथा प्रोक्तं * * तत्वस्तयोदितम् | सर्वात्म लक्षणैर्युक्तं पाशबन्धः स्थितः पशुः | मोहिका मूर्च्छिका माया त्रि * * * * वस्थिता || ३९ || शुद्ध केवलभेदोक्तः शुद्धात्मा स्वप्रकाशकः | एतावस्थाश्चतुर्भि श्चतुरात्मा स्वप्रकाशकाः || ४० || स्थूलकं पञ्च कृत्यर्थं सूक्ष्मं पञ्चमकृत्यकम् | अनुग्राह्ये पञ्चकृत्यर्थं पञ्चादश्यांश कृत्यकम् | सकलात्मस्थूल कृत्यर्थं सूक्ष्मं प्रलय विज्ञकम् || ४१ || जागृजाग्रादयः पञ्चानुग्राह्याः कृत्यरूपकम् | तच्छुद्धात्म समाध्यर्थमात्मावस्थेति कल्पितम् || ४२ || पञ्चावस्थाप्रकर्तव्यं * * * * * साधनम् || ४३ || विज्ञान प्रलयश्चैव सकलः शुद्धाणुभिश्च तु | तदवस्था प्रकर्तव्यं केवलः सकलो मलः || ४४ || अनादिकलोदितावस्थाः केवलं व्योमकारणम् | प्. ३२) सृष्टिकालोद्भवाऽवस्था माया च सकलाञ्चियाः || ४५ || मुक्तिकालोद्भवाऽवस्था जाग्रतीतमयं स्थिताः | देव्युवाच- शूलपाणे महादेव आत्मबन्धं किमुच्यते || ४६ || ईश्वर उवाच- अनादिमलदोषस्वात् त्रिधात्मा बन्धसम्भवम् | देहिनं केव * * * देहं नास्ति कुतोऽज्ञता || ४७ || अचिन्मात्रात्मकं दोषं किमनादि सुबन्धनम् | ताम्रे पैशाच इत्येव सुमलोबन्धितः पशुः || ४८ || त्रिमलं द्विमलैकश्च निर्मलात्माश्चरुद्भवम् | अथाऽनादि मलः पुंसां पशुत्वं परिकीर्तितम् || ४९ || तुष कम्बुक विज्ञेयो माया बीजाङ्कुरस्य तत् | मलपाकस्वकाले तु पुण्यपाक समन्वितम् || ५० || तन्मात्रे ज्ञानशक्त्यर्थं तदात्मार्थन्तु सम्भवम् | ज्ञाने स्वेच्छा मृति * * * * * गुरुवन्दनम् || ५१ || गुरुकारुण्यमात्रेण सिद्धिमुक्तिर्भवेन्नृणाम् | || ज्ञानसिद्ध्यागमे तृतीयोऽऽत्मलक्षणाधिकारः स्माप्तः || देव्युवाच- महेशः परमेशान अथपाशं किमुच्यते | ईश्वर उवाच- पाशं पञ्चमलोबन्धं पाशबन्ध स्वभावितम् | अत्यन्तमविनाशस्य प्रागुक्तस्याविकारिणः || २ || प्. ३३) क * * * * संयोगे विभोरपि महेश्वरात् | अशक्तस्यावतो नास्य सामर्थ्यात् कर्मयोमुने || ३ || पशुत्वरुद्ध चिच्छक्तेः स्वातन्त्र्यं नव शोधितम् | कर्मचिद्रहितं तस्मात् * जन्तु * वपेक्षते || ४ || मायाद्यवनि पर्यन्ते तत्व भूतात्म वर्त्मनि | भुक्ते नाऽत्र स्थितान् भोगान् भोगैकरसिकः पुमान् || ५ || भोगभुक् सर्वकर्माणि पाशशक्त्यात्मकं परम् | तद्भिन्नात्मकं * * * * * न्ते कोदयं भवेत् | आणवादि मलो बन्धं केवलावस्थितं कुरु || ६ || केवलं तुर्यातीतं शुद्धा शुद्धदयं तथा | मायामलस्वसंबन्धं तुर्यावस्थात्मनोदितम् || ७ || कः * * बन्धयो वस्था सुषुप्तार्थ स्वकल्पितम् | मायेयं स्वप्नावस्थाः तिरोधाजाग्र संभवा || ८ || एतत् पञ्चमलावस्था स्वमूढादितकल्पितः | तुर्यात्मप्राण सम्बन्धं सुप्ताप्राण * * * * || ९ || शब्दादिर्वचनादिश्च प्राणादशमद्विधाः | मनादिः पञ्चकरणा स्वप्नार्थैः पञ्चविंशता || १० || एतद्विंशति पञ्चैव वागादि श्रोत्रमादिकम् | एतत्त्रिंशति * * जातो वा जाग्र विनिर्दिशेत् || ११ || जाग्रादि पञ्चमावस्था स्थूलं सूक्ष्म सुसूक्ष्मकम् | आदि सूक्ष्म महासूक्ष्मं एवं पञ्चभि लक्षणम् || १२ || योगावस्था मलावस्था द्विद्विधा नामकल्पना | एवं * * स्थिता बन्धं बन्धान्तैः मुक्तिसम्भवम् || १३ || बन्धमुक्तिर्विकल्पोऽयं पशुपाशैः प्रवर्तकम् | || ज्ञान सिद्ध्यागमे चतुर्थः पाशलक्षणाधिकारः समाप्तः || देव्युवाच- जगदुत्पन्न शान्त्यर्थात् जगन्नाथ शिवात्परात् | अवस्था भेदन्तु यत्प्रोक्तं किं पुनोच्चारणं तथा || १ || ईश्वरः- शृणु देवि महेशानि शांभवी शांकरी तथा | आ * * * सम्बन्धैः अवस्था भेदादिनी कथा || २ || पूर्वोक्त सहजावस्थाः पञ्चावस्थाः प्रकीर्तिताः | जाग्रत्स्वप्न सुषुप्तिश्च तुर्यातीतश्च पञ्चमाः || ३ || फलकण्ठ हृदन्नाभो मूलावस्था न पञ्चमम् | एकैक स्थान गम्यन्ते नास्ति नास्ति स्वचेतनम् || ४ || आत्म तत्व स्थितावस्था पञ्चमाधार पञ्चमाः | चतुर्देशेन्द्रियावस्थाः पञ्चधाष्टक पञ्चधा || ५ || इन्द्रियाव स्थितः पञ्चकेव * * * * दिका | मोहिकादि त्रिभेदाश्चाध्वावस्थश्च पञ्चमाः || ६ || जाग्रत्स्वप्न सुषुप्ताश्च तुर्यश्चैकश्चतुर्थकाः | एवावस्थान्तरो भेदा जाग्रातीतैक रूपकाः || ७ || गुणसम्बन्धा तृतीयश्च पञ्चावस्थैक भेदिकाः | सर्वावस्थापि निर्मुक्तं तुर्यातीतं परं शिवम् || ८ || ज्ञानकर्मेन्द्रिय विषैः जाग्रस्थं पञ्चविंशतिः | शब्दादिर्वचनादिश्च करुणात् स्वप्न * * * || ९ || चतुर्दशस्तथा मध्ये बुध्यादि त्रिसुषुप्तयः | अहन्ता चित्त संस्थाप्य तुर्यावस्था प्रकल्पिता || १० || चित्तवृत्तलयं तुर्यातीतमेवन्तु पञ्चमम् | आत्म तत्व व्यवर्थार्थिमेवं लक्षणमुच्यते || ११ || प्. ३५) शब्दादिर्वचनान्तं च मनाव्याप्त जाग्रुचम् | अत्यन्त करणोवृत्ति स्वप्नोऽवस्था विधीयते || १२ || अहन्ता चिद्विधा सुप्तिचित्रमात्रामतुर्यकः | चित्त कृष्ण कृतातीतं करणावस्थापितं स्थितम् || १३ || शब्द स्पर्शस्वरूपं च * * * * * * * * | * * * * रहंकार जाग्रदांशा इति मिथः || १४ || मनोदुःस्वप्न तत्वानामवस्था बुध्यानि सुषुप्तिकः | अहन्ता तुर्यसंभिन्न एका अष्टामहोदकाः || १५ || शब्दादिः पञ्चमो जाग्रं शब्दादिश्च स्वप्नकम् | शब्दादित्रितयः सुषुप्ति शब्दादिश्च द्वितीयकम् || १६ || शब्दादिशून्यः तथा तत्वमेवमिन्द्रिय पञ्चमम् | केवलादि त्रित्रिभेदोक्तं केवलः सकलोमलः || १७ || अचेतने * * * * * * * * * * * * तत्वहीनो कलाहीनो कर्महीनो न तन्त्रिकम् | न चेच्छा ज्ञानहीनश्चैवं लक्षण केवलम् || १८ || सकलावस्था प्रभेदं तत्वसम्बन्धकारणम् | रूपभेगेन्द्रिय प्राप्तं कारक त्रय सम्भवम् || १९ || सर्वयोनिस्तथा जातं सर्वकर्म स्थिताङ्कुरम् || २० || एवं लक्षण सम्बन्धं सकलात्म प्रकल्पितम् | नरकैः स्वर्गभूलोकैः * * * * * * * || २१ || * * * * समत्वांश काले शक्ति प्रकाशितम् | ज्ञानशक्तिस्तथा कारं ज्ञानाचार्य शरीरकम् || २२ || कुरुकारुण्य मात्रेण शुभ्रावस्था प्रकाशितम् | जाग्रातीतं सु शुद्ध्यर्थमुक्तावस्था स्थितं परम् || २३ || तत्संबन्ध वशीकाले जीवन्मुक्ति प्रकाशितम् | केवलादि त्रिभेदोक्त * * त्रीणि समुद्भवम् || २४ || प्. ३६) मोहिता मूर्च्छिका माया कर * * * * * कम् | योगावस्था प्रभेदोक्त * * * * * * * * || २५ || पूर्वोक्त पञ्चमाचारमाधारा वस्थितोद्भवम् | अवस्था भेद तत्वस्याधिकारो जाग्रन्नदादिकम् || २६ || जाग्रान्य चिन्तिता स्वप्ना तात्विकान्त सुषुप्तिकम् | तच्चैतन्योदितं तुर्यं तुर्यस्तुर्यः पने दितः || २७ || * * * * * * * * * * * * * * * * | सुषुप्ति भावप्रकाशं यत् जाग्रार्थं समुच्चरन् || २८ || तत् किञ्चिद्भावना स्वप्नाभावा भाव * * * * | * * * * * * तुर्य सुप्तावस्थाश्चतुर्थकाः || २९ || तुर्य जाग्रेन्द्रियं यच्छून्यं तत्स्वप्नः कारणोलयः | तुर्य सुप्तिस्तथा माया * * * * * * * * || ३० || अवस्थान्ता वस्थितो भेदा * * * * * * * | * * * * * * जाग्रः चेतनोभय राजसः || ३१ || सम्बन्धो तद्गुण स्वप्नवकारस्तमस त्रिकम् | गुण सम्बन्धिका शून्यं तत्तु तत्व प्रकाशकः || ३२ || अवस्था भेदमिदं कृत्वा तज्जयं योगसाधनम् | जाग्रत्स्वप्न द्विधावस्था मायादिः पञ्चमो जयः || ३३ || ध्यान योगाज्जयं सिद्धि सुप्तिकारस्तमिस्रकम् | समाधिस्तुर्य जयम् * * * * * * * * * || ३४ || तुर्यातीतं जयं कुर्या * * * * * * * * | तुर्यातीतं परं तत्वं तुर्यातीतं परात्परम् || ३५ || शुद्धावस्थास्तदन्यन्तु परजीव परोद्भवम् | || पञ्चावस्थाधिकारः समाप्तः || देव्युवाच- शिवेश रुद्र ईशान महादेव महेश्वर | अवस्था पञ्चमो भेदमात्मबन्धं किमुच्यते || १ || ईश्वर उवाच- अवस्था परिमितं प्रोक्तं शृणु देवि वरानने | अवस्थामष्टोत्तर * * * * * * * * * || २ || अवस्था भेदः देश विवेकः || केवलः सकलश्शुद्धावस्थाय त्रिविध मोहिकाः | चातुर्थकन्तु तुर्याश्च जाग्रातीतञ्च स्वप्नकाः || ३ || तुर्यजाग्रमतीतञ्च जाग्रतुर्यं सुबोधनम् | अवस्थाष्टोत्तरशतं शुद्धावस्था दशाधिकम् | परावस्था त्रिभेदाञ्च अवस्थान्तर षोडश || ४ || कारणाः पञ्चमावस्थाऽऽधारस्थाप्य पञ्चमाः | गुणसम्बन्धकारश्चकर * * * पञ्चमाः || ५ || मायावस्था महामूर्च्छा समना उन्मना तथा | समानान्ताः पाशजाल उन्मन्यन्ते परश्शिवम् || ६ || शिवावस्था परावस्थाऽऽत्मावस्था तृतीयम् || ७ || पुर्यष्टकं चतुर्थानि महोग्रान्तोन्न सुप्तिका | दर्शनानि त्रिभेदानि समावस्था समाधयः || ८ || अव्यक्तं परम व्यक्तं मशशून्य स्त्रियोद्भवाः || ९ || सर्वावस्था विशेषोक्तं पञ्चावस्या प्रभेदकम् | * * वस्था त्रिभेदानि तत्वावस्थार्थ पञ्चमाः || १० || पञ्चविंशस्तु पञ्चानां पूर्वोक्तविधिना तथा | सर्वशून्यो महायोग्यावस्था गर्भा व्यवस्थिता || ११ || भूतावस्था मलावस्था स्थूलसूक्ष्म द्विपञ्चमाः || १२ || सर्वावस्था विनिर्मुक्तं स्वयमात्मस्वरूपकम् | सर्वावस्था विनिर्मुक्तं तुर्यातीतं परं शिवम् || १३ || प्. ३८) तुर्यातीतं परं तत्व सर्वतत्वार्थ * * * | * क वर्णानि रूपानामेक दुद्रा च खेचरी || १४ || एकमेवं निरालम्बो एकावस्थानमुन्मनी | सर्वावस्था विनिर्मुक्ता सर्वचिन्ता विवर्जिता || १५ || मौनमुद्रा स्थिता येन शिवयोगी तथा भवेत् | ग्राह्या ग्राहक संवृत्तिः सामान्यं सर्वदेहिनाम् || १६ || योगिनान्त विशेषोऽयं सम्बन्धे स्थापनाशनाः | सर्वावस्थाजयं शुद्धं योगाष्टाङ्गा न्यसेत्क्रमात् || १७ || अवस्थातीतं परातत्वं तत्वातीतं परं शिवम् | अवस्था भेदाधिकारः समाप्तः || देव्युवाच - ज्ञानतत्वप्रकाशाय सर्वतत्वाधिकेश्वरः | ज्ञानभेदं ज्ञानगुणं ज्ञानरूपं ततोद्भवम् || १८ || ज्ञानाचार्य अनाचार्य शिष्याशिष्यस्य लक्षणम् | ज्ञान निर्णय तत्वार्थं दशभेदं किमुच्यते || १९ || शङ्कर उवाच- शब्दज्ञानञ्च तत्वं च नानासमय दर्शनम् | * * * * * खण्डं च काला ज्ञानस्य नो सहः || २० || चिन्मात्रञ्चापि शैवे हि शैवभेद प्रमाणतः | पापात्तु पापना ज्ञानं पाषण्ड ज्ञानरूपकम् | समलामल विज्ञान द्व्यैता वुभौ समौ || २१ || शाम्भव ज्ञान संकेता सिद्धान्तश्रवणस्तथा | निग्रथ ज्ञानिमूढं च नानासांख्या प्रभेदका || २२ || सङ्कल्पञ्च विकल्पं च बोधनाः शोधनायिता | प्रकाशा प्रकाश भेदाञ्चाष्टा * * * कल्पनाः || २३ || शब्दार्थ लक्षणाभासा शब्दज्ञानि स्वलक्षणम् | तत्वापरिमिताभ्यासं तत्वज्ञान प्रवर्तकाः || २४ || प्. ३९) नानासमयखण्डार्थ ज्ञात्रा समय लक्षणम् | समय विवेकः- शैवं शिवाद्वित द्वैधा शिव संमेलनं त्रयम् || २५ चतुर्थं पाशुपर्यन्तं पञ्चमन्तु महाव्रतम् | षष्ठं कालामुखं चैव सप्तमं भैरवं तथा || २६ || अष्ठमं वामभेदार्थं सम * * * * भवेत् || २७ || न्यायं वैशेषिकं चैव बौद्धं माषञ्चकं तथा | लोकायितञ्च सांख्यं च मीमांसं वैष्ण्वं तथा || २८ || एवमष्टाबहिर्भेदं बाह्याभ्यन्तर षोडशम् | भेदाभेदो भय ज्ञान मायावादि प्रधानकम् || २९ || मन्त्रयन्त्रञ्च तन्त्राश्च तर्कामार्ताण्ड वादिनम् | आनन्दावस्थितं शान्तं शान्त्यतीतं परात्परम् || ३० || प्रारब्ध कर्म पादाश्चान्या न्यौषधवादिनः | अष्टपादमिदं प्रोक्तं * * * चतुर्विंशतिः || ३१ || तीर्थशास्त्रं प्रमाणञ्च अर्चनाध्यार्थ पञ्चमा | ब्राह्म्याभ्यन्तरयोर्भेदाः संकल्पाः षट्प्रभेदकाः || ३२ || अथाश्रम चतुर्भेदा षोडश * * यास्तथा | ब्रह्मवद्वाद वादीवत्व तत्ववादिस्तु शून्यकम् || ३३ || एवं पञ्चशिवोत्पन्नं श्रुत्यागमान्य तन्त्रजम् | अष्टाविंशत् प्रभेदोक्तमर्थमाया कुण्डलिनोद्भवम् || ३४ || वेदान्त तत्व विज्ञान * * * तस्य साधनम् | वेदार्थ समयं ज्ञानं तत् ज्ञानं परमं पदम् || ३५ || त्रैधाद्वैधकयोर्भेदा सम्यक् ज्ञान प्रवर्तकाः | जीवात्मा परमात्मा च द्वै * * * स्थितं भवेत् || ३६ || स्वरूपे कान्तविश्रान्ति वेदान्तस्य च दर्शनम् | प्. ४०) सत्यज्ञानमनन्तं चानन्तं ब्रह्मरूपिणम् || ३७ || आनन्दा वस्थितं शान्तं शान्त्यतीतं परात्परम् | नानाशास्त्र विकल्पार्था * * * * कलोद्भवम् || ३८ || नानाशास्त्रार्थमेकार्थं दृष्ट्वा खण्ड स्थितं भवेत् | चतुष्षष्टि कलाभ्यासं कलाज्ञानं विचक्षणम् || ३९ || अष्टाङ्गयोगमभ्यासमन्ययोगमनेकजः | * * * चेतना ज्ञानं अचिद्भूतञ्च भूतिकम् || ४० || चिदचिद्भावना ज्ञानं व्याक्ताव्यक्त स्थितं भवेत् | पाषाणावस्थितो मोक्षपाषण्डा ज्ञानकल्पना || ४१ || समलं सकली भावममलं निष्कलं तथा | द्वैधा द्वैधादिकं ज्ञानं दासोऽहं सोऽहमाश्रितम् || ४२ || द्विधा मिश्रो भयज्ञानं शम्भुसम्बन्ध शाम्भवम् | पाशं पाशपतात्यर्थ ज्ञानसिद्धान्त दर्शनम् || ४३ || गूढ ज्ञानादि गुपितं मूल ज्ञानादि मूढनम् | सांख्य भेदमनेकाश्च प्रकृतौ विकृतौ द्विधा || ४४ || पुरुष संख्याश्च चतुर्थैः सुरसांख्यकाः | निरीशः पञ्चमञ्चैव योगसांख्यन्तु षष्ठमम् || ४५ || अन्या परिमिदं सांख्यं सांख्य ज्ञानमिति स्थितिः | संकल्पं कल्पना ज्ञानं विकल्पं तत्कुरं मदम् || ४६ || बोधनात्मा प्रकाशस्थं बोधनं व्योमदर्शनम् | प्रकाशं त्रैलोक्य सहजं प्रकाशं मनोहरम् || ४७ || इत्यष्टा विंशति ज्ञानं तदन्तं शुद्धशैवकम् | पशुपाशहरे ज्ञान मुमुक्षो मुक्तिगोचरम् || ४८ || पाश ज्ञानं पशुबन्धमेवं ज्ञानोद्भवस्थलम् || ४९ || प्. ४१) आचाअर्य लक्षण विवेकः | आचार्य लक्षणं वक्ष्ये समाहित महेश्वर | सवर्ण ज्ञानवान् बद्ध सत्यवादी दयापरः || १ || नाना शास्त्रविचारार्थ नाना सिद्धन्त दर्शनम् | ज्ञानयोग क्रियाचर्या प्रवर्तक निवर्तकः || २ || भिन्ना भिन्नस्व सिद्धान्तरभिन्नः शाश्वत दर्शनम् | सर्वावयव संयुक्तं सर्वाभरणभूषितम् | सर्वज्ञत्व समर्थञ्च * * * ज्ञान तत्परः || ३ || एवं लक्षण संयुक्तः सदाचार्यः सलक्षणः | शिवोऽहं भावना ज्ञान शिवहस्तापकेश्वरः || ४ || * * * * * * * * * * * * * * भवेत् | ज्ञान क्रिया क्रियाचार्यश्चतुर्दीक्षाधिकेश्वरम् || ५ || अनाचार्य लक्षणविवेकः || कामक्रोधमदाल्लोभा मोहमात्सर्य सम्भवम् | अहन्ताश्च विकल्पाश्च * * * त्रयसङ्गमाः || ६ || नानाशास्त्रानभ्यास नाना योगमनभ्यसः | * * * * * * * * * * यत्रादि दोषका || ७ || कृष्ण वर्णमनाचार्य विकटाक्ष विरोधकम् | असंप्रदाय शुद्धायाऽभक्ष्य परदूषणः || ८ || तत्वज्ञानमनभ्यास आत्मज्ञान विवर्जितः | शिवज्ञानं नवाभ्यास शिवद्रोह * * * * || ९ || प्. ४२) * * * * * * * * * * * * * * * * | अविश्वास अकारुण्याति भ्रान्तस्य लक्षणम् | सच्छिष्य लक्षण विवेकः || सत्यशौचात्मकाः शुद्धाः कामक्रोधादि वर्जितः | शान्तिर्दान्ति युपर्युक्ति स्वपक्षा पेक्षा चतुष्टयः || ११ || एवं साधनसंयुक्त गुर्वाज्ञां परिपालनः | समयाचारं पराचारं लोकाचारं च वर्जितः || त्रयेषण परित्यज्य मानाभिमान वर्जितः | अहोरात्राचार्य सेव्य सुमनः सुमुखस्थितः || आचार्य कल्पन ज्ञान निष्ठोपाय विशिष्ठकः | पञ्चपातक कुत्स्यार्थमूढ संसर्ग वर्जितः || सन्तानं शास्त्र विधिमाने कान्तः सहसा सह | इत्यादि लक्षणैर्युक्तं सच्छिष्यस्तस्य लक्षणम् || असच्छिष्य विवेकः || अशान्तः शास्त्र सहश्चादिमूढादि सम्भवः | क्रूरो विकल्पकोऽङ्गुष्ठ रोहादि * * * * * || * * * श्वासाद्युदासीन अतिमूढोऽवर्णकः || दुःशील लक्षणो दुष्टदुराचारा दुर्भाषिकः | दुर्मना दुर्मुखा दुष्टा गुण इत्यर्थः सम्भवाः || गुरुद्रोह शिवद्रोह शास्त्रस्वसमय द्रुहः | सन्तानद्रोह इत्यर्थं विषयं परिपालनः || एवमादि गुणैर्युक्तं दुःशीललस्यस्य लक्षणम् || ज्ञान निर्णय विवेकः || पाश ज्ञानं पशुज्ञानं पतिज्ञानं त्रिधोत्तमम् || * * * * * सिद्धान्तद्वे भिन्ना भिन्न दर्शनम् | सत्य भानु भव ज्ञानमेवं ज्ञानोत्तमाष्टमम् || प्. ४३) तद्वेतान्तस्य सिद्धान्त मध्ये संस्थितं भवेत् || ज्ञानं द्विविधमाख्यातं परं वाचा परं स्मृतम् | परञ्चैवाव बोधाख्यं परमं शास्त्रमुत्तमम् || ज्ञान लक्षणाकार पटलः समाप्तः || देव्युवाच- शिवानन्द जगन्नाथ शिवयोगी महेश्वरः | सदाचार्थस्य भेदार्थं दीक्षा * * * * * * || शुद्ध शैवस्य सिद्धान्तं वेदान्त ज्ञान गोचरम् | द्वे भिन्ना भिन्न संकेतं शुद्धज्ञान प्रवेशकम् || शुद्धसायुज्य सन्मार्गं शुद्धा शुद्ध प्रवर्तकम् | पशुपाशक्षयं योगज्ञानरूपं परं गुरुः || गुह्याद्गुह्यस्य सिद्धान्तमेवं द्वादश भेदकम् | किं प्रकारेण कर्तव्यं तत्तल्लक्षणमुच्यते || ईश्वर उवाच- शृणु प्रश्नं महादेवि सर्वार्थ संग्रहम् | द्वादश प्रश्न तत्वार्थं गुह्याद्गुह्यं शृणुस्तथा || सदाचार्य गुरुस्वामी त्रिविधं तत्र कल्पना | आचार्यो बाल्य शिक्षार्थं मन्त्रस्तन्त्र धनं गुरुः || उपदेश क्रमस्त्वेवं तत्स्वामिस्तु विधीयते | अन्यं दिव्यं च सिद्धिञ्चोपाय त्रिविधो गुरुः || दिव्यं मानस सम्बोधो स्वशिवस्योपकारकम् | सिद्धं सन्दर्शनो भेदं शास्त्रकालान्तर स्थितम् || सेवका वृत्तिकालान्ते पक्वमस्य भवं शिवम् | तत् * * * स्त्रदीक्षार्थे बोधकुर्वत्यजायकः || प्. ४४) विज्ञान प्रलयश्चैव सकलत्रैधाधिकारिकाः | परः शिवकटा * * बैन्दव ज्ञान कल्पनाः || वाच्यवाचक संभिन्ना त्रैधात्मा बोधसम्भवाः | त्रिधा शिष्यः त्रिधाचार्यः त्रिधात्वं बोधनादृशम् || एवमाचार्य सिद्धार्थं सदाचार्य प्रवर्तकम् | सद्बोधं सद्गुरुर्युक्तं सदानन्दात्म सम्भवम् || || इत्याचार्यविवेकः || चतुष्पादा नानासमय कल्पनाः | पशुजा * * * दीक्षा वैदिकः शैवमामकाः || अनेक शाम्भयो दीक्षाऽन्यतन्त्रान्य दीक्षिताः | अष्टपादादयो * * * * ज्ञान स्वदीक्षया || अष्टसिद्ध्यर्थयो दीक्षाऽष्ट ग्राह्य गुणाधिकाः | एवमादि प्रभेदार्थ लोकमध्ये तु कल्पनाः || समयं च विशेषञ्च निर्वाणं शाम्भवं तथा | अभिषेकासीनय स्थाप्य षड्भेदं शैवकारणम् || ज्ञानयोगक्रिया त्रीण्या त्रिषट्कं पूर्वोक्त दीक्षया | सिद्धमार्ग प्रभेदार्थ नाना दृश्य स्वदीक्षिताः || चाक्षुषी स्पर्शदीक्षा च वाचकी मानसी तथा | शास्त्रे च योगदीक्षा च हन्ता * * * नेकथा || दीयते ज्ञान संभवं क्षीयते च मलत्रयम् | दीयते क्षीयते चैव दीक्षा शब्द इहोच्यते || तस्मात्पाश पशुत्वर्त्थं मलपञ्चकमोचनम् | दीक्षा शब्दस्य कर्तव्यं तञ्जीवात्म शिवैक्यकम् | शुद्धशैवस्व सिद्धान्तं शैवभेदं किमुच्यते || अनादि शैवमादिञ्च मिश्रमं च त्रिधाय च | प्. ४५) गुरुशैव चतुर्थन्तु पञ्चमान्तर भेदकम् | महाशैवः षष्ठ भेद भेद शैवं तु सप्तमम् || अभेद शै * * विद्यात् योगशैवन्नवं तथा | ज्ञान शैवं दशं विद्यादूर्ध्व शैव एकादशम् || द्वादशमाज्ञशैवं तु ननु शैवं त्रयोदशम् | अर्थ शैवं चतुर्दश्यां तत्वशैव * * * * || षोडशं शुद्धशैवं च शैवभेदमिति स्थितम् | पशुपाश पतिज्ञानं शैवभेदार्थ निर्णयम् || वेदान्तं शैव सिद्धान्त योगान्तं नादमन्तकम् | बोधान्तं तत्र पञ्चान्तं शुद्ध शैव सुदर्शनम् || तत्राव स्थितं शान्तं शुद्धशैव प्रवर्तकम् || || शैवविवेकः समाप्तः || अथ शृणुष्व वेदान्त सर्वशास्त्र स्वसारकम् | जीवात्मा परमात्मा च द्वयोरैक्यं * * * * || सत्य ज्ञानमनन्तं चानन्दं तत्स्वरूपकम् | एकवाक्ये बहुशास्त्रोदयकं न प्रकाशकम् || ऋग्यजुः सामाथर्वाणः कर्मकाण्डोद्भवं स्थिताः | वेदान्तस्तु महावाक्य जीवन्मुक्त प्रकाशकम् || * * पुंसस्तु रूपं यन्महावाक्य स्वरूपकम् | पुराणं भारतं शास्त्रं समयां तत्ववृत्तिकम् || मन्त्रशास्त्रं कथाशास्त्रं पश्वशास्त्रं विमोहितम् | वेदान्तं शैवसिद्धान्त शिवशास्त्रं सिद्धमुक्तिदम् || तन्महावाक्य शिरसा त्रैययाः पादात्रिधाय च | त्रियक्ष शबलादेहा त्रिलक्षण समुद्भवः || प्. ४६) त्रिधा जाग्रत्रिधास्वप्नं त्रिधासुप्तिं त्रितुर्यकम् | त्रिपद त्रिपदार्थाय * त्म ज्योति स्वरूपकम् || इत्यादि लक्षणैर्युक्तं तत्वमस्येति रूपकम् | बोधामृत सुराकारं समयातीत गोचरम् || अकारोकारमकार शिरस्त्रि प्रणवांश्च * | शिव जीव परयोरैक्यं त्रिपादी लक्षलक्षणाः || शबला परिमितं भेदं तन्मध्ये षोडशोत्तमम् | जीवं पर गिरामुक्ति सव्याप्यस्तत्रलक्षणम् || आत्मजाग्रं परोजाग्रं शिवजाग्रं त्रिजाग्रकम् | आत्मस्वप्नं परस्वप्नं शिवस्वप्नं त्रिस्वप्नकम् || आत्म सुप्तिपरं सुप्तिं शिवसुप्तं त्रिसुप्तकम् | आत्मतुर्यं परे तुर्यं शिवतुर्यं त्रितुर्यकम् | एवं द्वादशधा भिन्नं दशावस्थाः प्रकीर्तिताः || जागृजाग्रं जाग्रत्स्वप्नं जागृसुप्ति तृतीयकम् | जाग्रं तुर्यं चतुर्थञ्च तत्काल परपञ्चमम् || परव्योमं षष्ठमं चैव परावस्था तु सप्तमम् | विश्वग्रासाष्टमञ्चैवोपशान्तो नवस्तथा || शिव सृष्टा दशञ्चैव वाक्यावस्था दशेरिति | त्वं पदं तत्वपदं द्वेधा असित्रैध इति पदाः || आत्मार्थञ्च परार्थञ्च शिवार्थञ्च त्रिधार्थकाः | स्वविश्वं तेजसं प्रोक्तज्ञ त्रिधावस्था तृतीयकाः || आदिशक्तिः पराशक्तिः शिवशक्तिः त्रिशक्तयः | एतल्लक्षण संयुक्तं वेदान्तार्थ विधिक्रमम् || प्. ४७) जीवन्मुक्ति परोमुक्ति शिवमुक्ति तृतीयकम् | भिन्नाभिन्न विवेकः- शिवोहम स्मीति सिद्धान्तं सोऽहमस्मिश्रुतान्तकम् | वेदार्थसार संग्राह्यन्नवतत्वोदिता गमम् || तस्माद्वेदान्त सद्बोधं शैवसिद्धान्त दर्शनम् | मायाकुण्डलिनी मध्येऽणुः प्राप्य द्विभिन्नकम् || आत्मकेवल संबोध जीवात्मस्वप्रकाशकम् | जाग्र तुर्यसुसंबोधं श्रुत्यन्तात्म स्वरूपकम् || अवस्था भेदं तथा दानं मलातीतं स्वमात्मनम् | वेदागम द्विभिन्ना भिन्नञ्चात्म स्वरूपकम् || वै भिन्नाभिन्न सम्बन्धः स्वरूपं चैतन्यरूपकम् | अभिन्नमात्म स्वरूपस्थं भिन्नं प्रकृतिरुच्यते || वाक्यार्थं प्रणवार्थञ्च मुद्रार्थं तत्र दर्शनम् | स्नानुभूत्यर्थ संबोद्य शुद्ध ज्ञान प्रवेशकम् || शुद्धज्ञान प्रकाशार्थं शुद्ध सायुज्य सम्भवम् | तत्वत्रय विकल्पार्थं शुद्धाशुद्ध द्विमिश्रकम् || वेदान्तार्थं प्रबोधार्थे स्वानुभूति प्रकाशकम् | तस्मान्महावाक्यभावं पशुपाशद्विमोचनम् || अष्टाङ्गांशुरिति संग्रहान्तं हि योगज्ञान द्विसंघटम् | सर्वावस्था विनिर्मुक्तं गुरुरूपं परात्परम् || गुह्यां शाम्भव तद्वैधा गुह्याद्गुह्यं गुरोः परम् | पूर्वोक्त द्वादशार्थस्य विचारश्चेति शङ्करि || || सङ्ग्रहाधिकारः समाप्तः || प्. ४८) देव्युवाच- परमेश महेशान परात्परपरः शिवः | सिद्धान्तमार्ग संबोधं किं प्रकाअरं तदुच्यते || ईश्वर उवाच- शृणु देवि महाभागे शैवसिद्धान्त लक्षणम् | पाशं पाशुपति ज्ञेयं त्रिपदार्थं त्रिनिर्णयम् || पाशं पाशुपतिर्मध्ये त्रित्रिधाय तु दीक्षयः || नवमः सिद्धान्ताधिकारः || तस्माद्दशविधो दीक्षा पशुपाश पतिक्रमात् | प्रथमं तत्वरूपाणि द्वितीयं तत्वदर्शकम् || तृतीयं तत्व शुद्ध्यर्थं चतुर्थमात्मरूपकम् | पञ्चममाहश्यन्तु षष्ठमात्मशोधनम् || सर्वतत्वश्चतुर्भेद मायाकुण्डलिनोद्भवम् | पूर्वोक्तस्य स्व कर्तव्यं तत्वत्रय विशेषतः || तत्वरूपमितिस्तत्र तत्वं दर्शनभावनम् | तत्वशुद्धि पृथग्रूप कर्मभावं तत्वशून्य स्थितं कुरु || अरूपा वर्णचैतन्यमविकारान्तगोचरम् | अभिन्ना भिन्न यच्छून्य इत्यर्थमात्मरूपकम् || अपि कारोत्पन्न यत् प्रज्ञा तत्तत्वन्नाणुरूपकम् | तद्व्याप्तं चेतसोरूपं तत्सर्वं स्वप्रकाशकम् || तद्व्योम संभवत्यर्थः तदवस्थात्म शोधनम् | रूपारूपं द्विधा शून्यं तुर्यातीतं परं शिवम् || तत्वदं परमं स्थाणु तत्वातीतं परं शिवम् | अथ शिव दर्शन विवेकः - अणोरणीयान् महतो महीयान्नात्माऽस्य जन्तोर्निहितो गुहायाम् | प्. ४९) उपाधिशून्य स्वयमात्ममध्ये प्रकाश तद्ज्ञप्ति परानुभावः || स्वजीवपरयोरैक्यं शिवयोगं शिवोद्भवम् | दशावस्था युतिक्रान्तं परावस्था विमर्शनम् || स्वरूपं सत्यादिगुणं वाक्यलक्षणशोधनम् | सत्यानन्दं महाज्योति शिवभोगानु भूतिकम् || || सिद्धान्त दर्शनाधिकारः समाप्तः || देव्युवाच- देवदेव जगन्नाथ शिवशूलिन् महेश्वर | दशावस्था प्रसिद्ध्यर्थं जीवन्मुक्ति प्रयत्नकम् || स्व जीवपरयोरैक्यं किमुपायं तदुच्यते | अतिगुह्यं महागुह्यं शुद्ध ज्ञानं शृणु प्रिये || दीक्षाचार विवेकः- शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत् | दीर्घदण्ड नमस्कारं निर्लज्जा गुरुसन्निधौ || पश्चात्वेकन्तु तत्प्रोक्तं शिवहस्त स्थिरं शिवम् | करुणा दर्शनीभावात् पुण्यपापद्वयं हरिम् || श्रीपदं शिर धाराः च सोऽहमस्तीति भावनात् | जीवन्मुक्ति परोमुक्तिः शिवमुक्तिस्तु सम्भवम् || शिवोऽहमस्तीति संचिन्त्य शिवज्ञानं प्रकाशितम् | शिवज्ञानं महाज्ञानं सोऽहमस्मीति भावितम् || सोऽहं भावं श्रुतीत्याहुः दासोऽहं समयोद्भवम् | सोऽहमस्तीति सिद्धान्तं शुद्धान्तं शुद्ध जैवजम् || देहो देवालयः साक्षात् जीवोदेवः सदाशिवः || प्. ५०) त्यजेद ज्ञान निर्माल्यं सोऽहमस्मीति पूजयेत् | ज्ञानदीक्षा स्वरूपस्थं ज्ञानशक्ति प्रकाशकम् || ज्ञानशक्ति प्रकाशार्थे तमः शक्तिपृथग्भवम् | तमःशक्ति पृथग्भावे जीवन्मुक्ति प्रकाशकम् || जीवन्मुक्ति प्रकाशार्थे परोमोक्षस्थितं भवेत् | देव्युवाच- देवदेव महेशान करुणाकर शङ्कर | शिवोऽहमस्तीति कं प्राप्यं किं प्राप्यं शाम्भवोदयम् || ईश्वर उवाच- शांभवी शांकरी गौरी शृणु देवि वरानने | षट्त्रिंशत्तत्व इत्यर्थेऽऽत्म रूपं प्रकाशितम् || धातुरूप स्थितं देहं स्वरूपो देह उच्यते | पुर्यष्टक स्थितं सूक्ष्मं प्रकृति त्रीणि देहजम् || प्राणदेहं ततः पश्चात् त्वठान्मोहिनि देहजम् | पञ्चकञ्चु कयोर्देहं परित्यज्याद्य देहकम् || पञ्चभूत स्थितं देहं धातुरूपं प्रकल्पितम् | रसरुधिर मांसास्थि मेदामज्जाश्च शुक्लकम् || सप्तधातुं परित्यज्य श्रोत्रमाद परित्यजम् | वागादि पञ्चमत्याज्यं शब्दः पञ्चमं त्यजेत् || वचनादिः पञ्चमत्याज्यं शब्दादिः पुरुषपञ्चकम् | एतत्सर्वं परित्यज्य जागृजाग्रमिति स्थितम् || विद्यातत्वं परित्यज्य जागृ जाग्रमिति स्थितम् | विद्या तत्वं परित्यज्य जागृस्वप्नं स्थितं भवेत् || शिवतत्वं परित्यज्य मायामोहिनि सम्भवम् | तज्जाग्रस्सुप्तयोर्भावं साक्षिः पुरुष तत्वकम् || प्. ५१) पुरुषार्थं परित्यज्य केवलातीत सम्भवम् | गुरुकारुण्यमात्रेण पृथग्भावमलोदयम् | अतितुर्य प्रकाशार्थ जीवे चैतन्य रूपकम् || जागृ जाग्रादिकादि गावस्था तिरोधायिमलस्थिताः | तिरोधाज्जागृजाग्रे च मार्येयं जागृ भुक्पदाः | जाग्रत्सुप्तिं भवेत्काम्य तत्तुर्ये मोहिनी जया || जग्रतीताणवं बन्धं तत्त्याज्यं आत्मनोहितम् | जागृजाग्रस्थितं ब्रह्मा जाग्रत्स्वप्न स्थितो हरिः || जाग्रत्सुप्ति स्थित्ं रुद्रे तमसा मोहिनी तथा | जाग्रतुर्य स्थिते जन्तु जाग्रातीतं सदाशिवम् | तद्बन्धं बिन्दुशक्त्यर्थमनवद्याव सम्भवम् || जाग्रतुर्यं तथा प्रोक्तं जीवात्मस्तत्र दर्शनम् | तुर्यात्म संभवं त्वं पदञ्चात्म * * * || उपाधि शून्य जीवात्मा त्वं पदार्थस्य शुद्धिमान् | तत्सर्वं देहयोर्व्याप्तं जगदेतच्चराचरम् || बोधादृष्ट प्रकाशार्थं भूतदृष्टि विनाशनम् | सर्वार्थ भावना प्रोक्तं आत्मतुर्यं प्रकाशकम् || बोधस्य दूषणं व्याप्तं पशुत्वस्य प्रकाशकम् | तुर्यभावात् चिदं यस्तु जागृभावात् तमांशकम् | उभयोर्मेलनं तस्य पुरुषार्थस्य कल्पना || एकविंशतिधा ग्राह्यावस्थाः पुरुषतत्वकः | त्रिखण्ड जीव ब्रह्मार्थे एकीभाव स्थितं न हि || तस्मात् संशत प्राज्ञा तदात्मपर संस्थितः || प्. ५२) तत्काल परनामानि तत्पशुत्वस्य कारणम् | तत्प्रज्ञाभाव संसिद्धं शुद्धकेवल संस्थितम् || परमे व्योम तत्वार्थं जीवन्मुक्ति प्रकाशकम् | तत्प्रकाश स्वचैतन्यं परमात्मा व्यवस्थितः || परावस्था प्रकाशस्तु समस्तातीत गोचरम् | आकाश शरीरं ब्रह्म तुर्यातीतं परं शिवम् || अणुर्महत्व तत्वाप्त जीवात्मा गुहयोदितम् | एतदर्थं तदर्थं च तत्परं परमं पदम् || विश्वग्रासं परं गुह्यं सर्वात्म शिवमुद्भवम् | सत्सर्व * * * युक्तं तच्छून्यं शान्तिसम्भवम् || तच्छिवा वस्थितं शान्तं शान्त्यतीतं परात्परम् | उपशान्तिज्ञ तत्प्राप्तं परजीवैक्य साधनम् || आत्मा परशिवश्चेति त्रिपदार्थ त्रिचेतना | त्रिश्न्यो * * * संभिन्नात्वन्तदस्येति सम्भवम् || त्वमस्थि तुर्ये त्वज्जीवं तस्मिन् तुर्यपरात्परम् || द्वयोरैक्ये तु संप्राप्ते परापरपरः शिवः | काम्य * * * * * * * * सादिश्शण त्रिधा || त्वं तदध्येति तन्मध्ये मोचनं शुद्धमात्मना | आत्म शुद्ध्यर्थयोर्मुक्तमत्यर्थं तत्परात्परम् || त्वमसि किमसावाति तदसि त्वं तदस्य च | त्व मध्येति यो वाक्यं सोह * * * * भावितम् || सोऽहमस्मीर्यमस्यास्मि तदस्मि परं पदम् | त्वामे वासि मामेव सिन्त्वदसीत्येति भिन्नता || भिन्नभिन्नद्वया भिन्न भिन्नन्तु त्रैविधाप्रोक्ता || प्. ५३) या * * * दन्तत्वात् त्वावत्स्वात्मरूरूपमाम् | शिव परमानन्दस्सन्तदनुभवं शुद्ध सिद्धसम्मासम् || यात्मत्वं पदव्याप्ता त्रिधात्म तदनुवस्थिता | त्रिधात्मासि पदं प्राप्ता नवात्म भेदमधिष्ठिता || * * * * धना प्रोक्ता लक्षणेनात्र संस्थितम् | जहल्लक्षणाजहल्लक्षणा जहदजहल्लक्षणात्रिधा || त्रिपदाः शुद्धि तद्ज्ञेया त्रिपदार्थः शुद्ध्यस्तथा | त्रिपदः शुद्ध्य ज्ञेया त्रिपदार्थे स्वशोधनम् || मञ्चाः क्रोशन्ति गङ्गायां घोष इति वसति व | तस्मान्मू * * * यः प्रोक्तं ज्ञाता न द्वय कारणम् || तत्तन्मध्ये स्थितः पुंसां घोषयन्ति स्थितं कुरु | एतद्विशेषणैर्युक्तं सर्वदेह स्थितं गुरुः || तस्मान्मूढ तमं पुंसो वाचा धीत्वान्य बोधकः | यथा कर्म स्थितोदेही कुर्याद्देहं न कुर्यकः || इदं प्रोक्तस्तथा ब्रह्मा शोधनं लक्षणा जहत् | श्रोणो स्वस्थिष्ठति श्वेतो धावतीत्यर्थका जवा || तथै * * * बोधार्या प्रकाशेनात्मबोधकम् | एतद्भावन्तु सायुज्यं पशुपत्येक संस्थितम् || सोऽहन्दे वदत्तेति तज्जहाजह लक्षणाः | त्रिदेशैः कः पुमान् व्याप्तमात्रभेद स्वदर्शनम् || एवं तत्त्रिपदाश्शुद्धा लक्षणार्थं तदुच्यते | शिवानन्द महादेवी सत्य ज्ञानमनन्तकम् | अनन्तं तत्स्मित ज्ञप्तो तत्स्वरूप प्रकाशितम् || प्. ५४) सत्यजानमनन्तं चनन्तञ्च मरुद्भवम् | सत्यात्मतत् * * ज्ञानशिवोनन्द त्रिधागुणाः | आनन्दः शक्तयो योज्य तत्प्राप्तं सद्गुरोः परम् || स्वरूपं तत्र रूपञ्च गुणत्रय विभूतकः | एतस्य तु प्रकारार्थं सत्यादिगुण सम्पदम् || रूपं गन्धं गुणं शोभस्तथा उद्भवमुत्पलम् | तथैवेत्यादि तद्भेदं स्वरूपस्तस्य उद्भवम् || ज्ञानज्ञेय ज्ञातृकान्त त्रिपदार्थे समुच्यते | तस्मात् स्वरूपं सर्वत्र प्रकाशानन्द विग्रहम् || तत् * * * परो मुक्तं शिव जीवैक्य सम्भवः | सदा ध्यायन्तु संप्राप्तं शिवसायुज्यमाप्नुयात् || वाक्य निर्णयम् | त्वमसि तदसि द्वैधा त्वन्तदस्य त्रिधाय च | तदञ्चयत तत्प्राप्तं तत्वमस्येति उद्भवम् || उपाधि निर्णयम्- कार्योपाधिरयं जीवः कारणोपाधिरीश्वरम् | कार्यकारणतां हित्वा पूर्णबोधो विशिष्यते || पूर्ण शून्यम्- अन्तः पूर्णो बहिः पूर्णो मध्ये पूर्णो निरामयः | अन्तः शून्यो बहिः शून्यो मध्ये शून्यो निरामयः || वाक्य दूषणम् || तत्वन्नत्वन्नासि नाहन्नास्ति नास्तीति नास्ति च | नैव शून्यन् नाप्यशून्यमेव मेवेति यद्भवम् | दासोऽहमिति संमोहं मोहमेव परिभ्रमम् || प्. ५५) अहमेव परिभ्रान्तः तस्मात्त्रीणि परित्यजेत् || स्वानुभूतिः || मूक स्वप्नमिति निरतिशया नन्दमात्मविज्ञानं तत्संप्रदाय सिद्धम् | शान्ततजात प्रकाशसद्भाव सम्प्रदायाधिकारस्समाप्तः || देव्युवाच- सिवप्रकाश शिवानन्द शिवयोगमहेश्वर | ज्ञानाचारे वरारोहे सर्वाचार विवर्जितम् || १ || शास्त्राचारं कथं चैव कर्माचार विवर्जितम् | समयाचारेण किं कार्यं लोकाचारेण किं भवाः || २ || सर्वाचार विनिर्मुक्तं स्वयमाचारमाप्नुयात् | नाऽत्र पूजा नमस्कारो न जपो ध्यानमेव च || ३ || * * * ज्ञेयमित्युक्तं वेदितव्यं न किञ्चन | गो दोष मिषु पादं वा नयनोन्मीलमात्रकम् | सकृत्परपदे युक्तं न पुनर्भावमाप्नुयात् || ४ || ज्ञानि निष्ठस्व निष्ठार्थं सत्यनिष्ठा स्वरूपकम् | ज्ञान ज्ञेय स्वरूपस्थं सन्तन्त चिन्त्यमौक्तिकम् || ५ || चितादित्यो हृदाकाशे प्रतिभाति निरञ्जनम् | नाऽस्तिमेति न चोदेति कथं सन्ध्यामुपास्महे || ६ || उदकेन विनासन्ध्या जपेहोमैर्विना तपः || प्. ५६) * * * * * * * * * सन्ध्या सद्भिरिष्यते || ७ || शास्त्रं कोटि कोट्यत्वं शिवज्ञानानन्द दर्शनम् | स्वानुभूत्या महात्मानं सदाभावं विचिन्तितम् || ८ || * * * * * * * * * * * * * * जयम् | अप्रमेय परापूजाऽनिच्छा परमं पदम् || ९ || विदुषां परमं ध्यानं न ससो वृत्ति शून्यकम् | मौनमन्त्र जपः साक्षान्निष्क्रिया सत्क्रियाय च || १० || सनका * * * * * * * * * प्रबोधकम् || ज्ञानदीक्षा स्वयं वेद्यं सत्यमानञ्च मुद्रया || ११ || मुद्रार्थ विवेकः- मित्रैः साध्यमसु प्रियै स्थितिपति स्वामिन्नदूरे वधु काचित्कोनु तपैषु नायक इति प्रीत्याऽनुयुक्ता जनैः | प्रत्येकं दपस्पतिं विहाय सकले सन्नेषु शक्रे शिरः कम्भं मौनमसे पदात्मदयिते ज्ञानार्थये तादृशी || १२ || ज्ञानसायुज्यमाप्नोति शुद्धात्म शिवसङ्गमम् | तद्ज्ञानं शक्ति सामर्थ्यं शिव * * * * * * || १३ || देव्युवाच- देवदेव जगन्नाथ शिवः शूलीमहेश्वरः | सर्वानन्दमयं मुक्तं स्वानुभूतिस्थितं भवेत् || १४ || ईश्वर उवाच- चलं चित्त चलं जीवं चलं भूतञ्च भौतिकम् | अचला चिन्त्यकानन्दं मौनमुद्रास्थितोद्भवम् || १५ || कर्मक्षय विपाकः अनेक भाविकं कर्म दग्धबीजमिवाणुभिः | भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः || १६ || प्. ५७) पूर्व संसिद्धिदं कर्म- घटायां घट निष्पत्तौ यथा चक्रं भ्रमत्यपि | पूर्व संस्कार संसिद्धं तं काव तद्दीक्षाक्रमम् || १७ || भग्नेव घटे यथा दीपस्सर्वतः संप्रकाशते | देहे पाते तथा चात्मा भाति सर्वत्र सर्वदा || १८ || योग ज्ञानं शिव ज्ञानं शिवं सर्वत्र कारणम् | शिवं शान्तं जगद्योनिं शिवमुक्ति प्रकाशकम् || १९ || गुरुः पिता गुरुर्माता गुरुर्भ्राता गुरुः सुहृत् | गुरोस्तु न परं किञ्चिदित्याह परमेश्वरः || २० || न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम् | शिवसाधन यश्शिवशासशासनयश्शिव साशासनयः || २१ || प्रसं प्रदाधिकारः समाप्तः || देव्युवाच- देवदेव परानन्द शिवश्शूली महेश्वर | योग * * * * * र्थं किं प्रकारं तदुच्यते || १ || महेश्वर उवाच- महेशि देवदेवेशि शृणुदेवि वरानने | योग सिद्धि प्रबोधन्तूपदेश क्रमं तथा || २ || योगसिद्धि प्रबोधन्तूपदेश क्रमं तथा | उपदेश क्रमं ह्येवं योग सिद्धस्य बोधकम् || ३ || योगमष्टाङ्ग तद्भेदं बाह्वार्थानामनन्तकम् | योगभेदः- यमश्च द्विधमाप्रोक्तमासनं त्रिविधं परम् || ४ || प्राणायाम चतुर्थन्तु प्रत्याहारञ्च पञ्चकम् | धारणा ध्यान संकेतं समाध्यष्टाङ्ग उच्यते || ५ || स्वाधारञ्च निराधारं पाशयोगं तृतीयकम् || प्. ५८) योगोपरिमितं शास्त्रे सारात् * * * * * * | योगेन सिद्ध्यत्यर्थं हि ज्ञानेन ह्युक्तिरुच्यते || ६ || योगभेदः- यमं दशविधं यमं दशविधं भवेत् | आसना परिमिदं तञ्च तन्मध्ये दशमुत्तमम् || ७ || प्राणायाम प्रभेदार्थश्चतुर्थं पूरकादिकम् | प्रत्याहारञ्च पञ्चैते धारणाः पञ्चमं भवेत् || ८ || अष्टाविंशति ध्यानं च मध्ये पञ्चम उत्तमम् | एकं समाधिरित्युक्तं तन्मध्ये परमं पदम् || ९ || यमं दशविधं प्रोक्तं शुद्धं कारुण्य सम्भवम् | अल्पाहारमितिश्शान्तं सर्वार्थ समचिन्त्यकम् || १० || सत्यञ्च दृढचित्तं च ब्रह्माचार्यं तदष्टमम् | न येयु न च * * * यमं दशविधं तथा || ११ || एकैकं तु यथा प्रोक्तं सूक्ष्मात् सूक्ष्मतरं तथा | यमं दशविधं प्रोक्तं शृणु देवि वरानने | तपञ्जपयोगश्चैव स दोषाऽस्ति कदाचन || १२ || शिववृत्तं तत्वसिद्धः साधकः शिवपूजकः | मतिर्लज्जा तथा प्रोक्ता आसनं दशमं शृणु || १३ || पत्रं गोमुख पद्मं च सिंह स्वस्ति कदाचन | पञ्चकम् || वीरं सुखास निमुक्तं मयूरं दण्डासनं तथा || १४ || प्राणायामं चतुर्थञ्च शृणु देवि वरानने | पूरकं रेचकं चैव कुम्भकं त्रासनं तथा || १५ || एकैक वायुमापूर्य मात्रा दीर्घं तदुच्यते | प्रत्याहार प्रभेदार्थं शृणु देवि वरानने || १६ || प्. ५९) जितेन्द्रियोपाधिशून्या चैतन्यो भावसम्भवः | ज्ञानचक्षुः प्रकाशश्च * * * * * मूढकम् || १७ || एवं पञ्च मयं प्रोक्तं तत्प्रत्याहारमुच्यते | धारणं पञ्चका प्रोक्तं शृणु पार्वतिमत् प्रिये || १८ || मूलं लिङ्गेन नाभ्यन्तं हृदयं गलपञ्चकम् | नासिका भ्रूशिखामार्गे मरुन्नादोद्भव ध्वनिम् || १९ || प्रभेद सोऽष्ट भेदन्तु शिखादिं पञ्चमोत्तमम् | अन्यथा धारणं प्रोक्तं पृथिव्यादिकमेककम् || २० || तत्तज्जात क्रमाद्योज्यं दिवौ ग्रन्थिस्तदुज्यकम् | ग्रन्थात्मपदे योज्यं तत्परो योज्यधारणम् || २१ || एवमष्टमधो भेदं धारणा सूक्ष्म मुच्यते | महेशी मायया देवि * * * * * * * णुः || २२ || निवृत्त्यादि कलापञ्च ध्यानं पञ्चात्मको भवम् | आधारं च निराधारं न साधारं न धारकम् || २३ || ऊर्ध्वाधार प्रविश्यार्थं पराशक्ति प्रकाशकम् | रूपारूप विदध्यानं रूपारूप द्विभावनम् || २४ || सत्यध्यानं समाध्यर्थं बोधध्यानं प्रबोधनम् | जितेन्द्रियं इन्द्रियध्यानं शक्त्या ध्यानमनन्तरः || २५ || वीर ध्यानं पर ध्यानं रक्त शुक्ल द्विमिश्रकम् | बोध बोधस्व बोध * परध्यानं परोदितम् || २६ || शिवध्यानात्म भावोक्ता ध्यानयोगमिदं तथा | इन्द्रियस्य पदध्यानं पराबोध शिवस्य तु || २७ || एवं * * * * युक्तं न ध्यानं व्यापकं शिवम् | प्. ६०) समाधिर्योग संप्रोक्तं शृणु देवि महेश्वरि || २८ || समाधिः समतावस्था जीवात्म परमात्मयोः | तमतांश समाध्यर्थं जीवन्मुक्ति पदं परम् || २९ || जीवत्व परयोरैक्यं वेदान्त ज्ञान सङ्गमम् | वेदान्तार्थ मयं ज्ञानं सिद्धान्तं परमं शुभम् || ३० || देवस्य विहिताचारं दक्षिणाचारमुच्यते | विपरीतं वाममन्त्रं शक्त्या ध्यान समाश्रितम् || ३१ || * * सिद्धिस्तथा प्रोक्तं शृणुवेदान्त संग्रहम् | || अष्टाङ्ग योगपटलः || अष्टाविंशस्तु ज्ञानांशमेव * * * * * * | एवं शैव क्रियाभेदं चतुष्पादोद्भवाश्रयम् || चर्यादि ब्रह्मचर्यादि सिद्धान्ताश्रममुच्यते | ऊर्ध्वशैवं महाशैवं मनादि शैवादि शैवकम् || भेदा भेद द्वयं शैवगुण शैव * * * * | अध्व शैवं क्रियाशैवमवान्तरं योगशैवकम् || ज्ञानशैवं शिवः शैव शैव भेदञ्चतुर्दशम् | शुद्धशैवं तथा मुख्यञ्चतुष्पादा प्रवर्तकम् || ज्ञानज्ञेय द्विधा ज्ञातुर्भावं साक्षान्निवर्तकम् | पञ्चान्त * * * * * * * * ज्ञानसाधकम् || वेदान्तं शैव सिद्धान्तं नादान्तं बोधमन्तकम् | योगान्तं पञ्चमान्तस्तु सर्वशास्त्रात्तु सारजम् || सिद्धिमुक्तिस्तथा प्रोक्तः साधनं ज्ञान साधनम् | शुद्ध शैव * * * * शाभवं शाश्वतम् शुभम् || सर्व शास्त्रार्थ सारार्थः संग्राह्यं शुद्धशैवकम् || प्. ६१) शुद्धशैव स्वमुक्त्यर्थं शुद्धमुक्तिस्व गोचरम् | नानासमय भेदार्थं नानामुक्ति स्वभावकम् || नानायोग प्रभेदार्थं नाना सिद्धिप्रवेशनम् || पद * * * * * क्ताः मुक्तारूपा स्वमुक्तिकाः | अपिकारस्तथा * * एवं नानात्म मुक्तिकाः || तन्मध्ये सिद्धिमुक्तिश्च शुद्धमुक्तिश्चतुर्द्वयम् | शुद्ध शैव स्वसिद्ध्यर्थं शाम्भवी मुद्रिकान्तकम् || शाम्भवं * * * * * * क्षात् योग्यस्व वेधनम् | सत्य साम्भव शुद्धाय उग्रशाम्भवमुत्तरा || अनुत्तरः शाम्भवश्चेति शाम्भवं ज्ञान पञ्चकम् | शाम्भवी खेचरी ज्ञानमुद्रा त्रितय शाम्भवम् || अष्ट शाम्भव संवेद्यं शुद्धशैवार्थ निर्णयम् | योग शाम्भव त * * * * * * * भेदकम् || नाना विध शास्त्रार्थै * * * * * * * * * | अष्टक ज्ञान भेदोक्तं शुद्धशैवस्व शाम्भवम् | शैवमार्गे महासिद्धिरन्यं पाशुपतादिकम् || कलाध्वा मध्यमो भागो पञ्चाध्वा * * मोद्भवम् | पाशं पशुपति ज्ञेयं शैव सिद्धान्त साधनम् || ज्ञानयोग क्रियाचर्या शैवाश्रम विभेदकाः | नाना वेदागमाद्यर्थं नानाशास्त्रार्थ दर्शनम् || नानाशब्द प्रवाहार्थं बैन्दवः कलहोदितम् | नानाशब्द प्रवाहार्थं बैन्दवः कलहोदितम् || बैन्दवं कुटिल * * बिन्दुनादोदयोदितम् | बैन्दवस्तत्व * * * * * * * कलोदितम् || प्. ६२) बिन्दुनाद कलामध्ये अकारोकारयोदितम् | अकरोकारमकारं च बिन्दुनादं च पञ्चमम् || कलाध्वा मध्यमो भागो पञ्चा * * वमुद्भवम् | अकारो वैखरी जातमुकारे मध्यमोदितम् || मकारे पश्यन्ती जातं बिन्द्वौ सूक्ष्मस्ततोदितम् | नादान्त सूक्ष्म वाग्जातं वाक्पञ्चम लोदितम् | वाग्भवं वेदशास्त्रार्थं वैखरी वर्ण उद्भवः || वैखरी श्रोत्र विज्ञेया * * कल्पा तु मध्यमाः | निर्विकल्पा तृतीयाया आसांकारण मध्यमाः || महासूक्ष्मा च रूपार्थ इति वाक् पञ्चमोद्भवः | अकारो ब्राह्मणो जातमकारो वैष्णवोद्भवम् | मकारो रुद्रांश वर्णन्तु बिन्दुरीशोद्भवस्तथा || नादः सदाशिव इति नादादि पृथिव्यन्तकम् | त्रिंशत्तत्व द्विसंभिन्नं कुटिलाशक्तिरुद्भवम् || कुटिलं कुण्डली व्याप्तं कुण्डली प्रणवोदितम् | यातु कुण्डलिनी शक्तिर्माया कर्मानुसारतः || * * न्दु द्वादकार्यन्तु तस्य त्रि च जगत्स्थितिः | मकारः सामनादांशं बिन्द्वाधर्वणमुद्भवम् || वेदान्त्योंकार नादान्ते ज्ञानरत्नं तथोद्भवम् | सर्वमोंकारमुत्पन्नमोमिति ज्योतिरूपकम् || निवृत्ति कलांश रूपप्रतिष्ठा भावोदितोपमम् | बिन्द्वान्तं तटिदाकारं शान्तिदीपक समोपमम् || प्. ६३) शुद्धस्फटिक संकाशं शक्त्यन्त तपसोपमम् | निवृत्त्यादि कलारूपाऽकारादि कलोदिता || अकारादि कलामध्ये वाचा पञ्चमदेवता | अकारादि कलारूपं हौकार * * * * * || * * * * ष्टमं बीजं षष्ठमस्वर संयुतम् | चतुर्दश स्वरोपेतं बिन्दुनाद समन्वितम् || एवं पञ्चकलाप्रोक्तं मूलमन्त्रं तदुच्यते || हकारश्च उकारश्च मकारो बिन्दुरेव च | अर्धचन्द्रो निरोधी च नादो नादान्त एव च || शक्तिश्च व्यापिनी चैव समना चोन्मना तथा | समनान्तं पाशजालं उन्मन्यन्तं परं शिवम् || उन्मन्यन्ते परा तत्वा तदन्तं शिव मुच्यते | कलाषोडश विज्ञेयं प्रासादं परमाक्षरम् | प्रासादयेति प्रासादं प्रासादं शिवमन्त्रकम् || * * * * * * * * * शब्दो गतिरुच्यते | दमत्स्वरूपमेवन्तु त्रिवर्णमभिधीयते || कला षोडशयोर्भेदं पञ्चकस्य कलमयम् | कला पञ्चम मध्यस्थे पञ्चाध्व उद्भवं तथा || अकारे तत्वमुत्पन्नं उकारे भुवनोद्भ्वम् | मकारे पदमुत्पन्नं बिन्द्वे वर्ण स्थितोदितम् || नादेमन्त्रोद्भवं ज्ञेयं जगत्यर्थं ततोदितम् | हकारादि कलामध्ये पृथिव्यादि समुद्भवम् | पृथिव्यादि कुटिलान्तं षट्त्रिंशत्तत्वमुद्भवम् || आत्मविद्या शिवत्वं च * * * * * * दकम् | श्रोत्रत्वक् चक्षुर्जिह्वा च ज्ञान इन्द्रिय पञ्चमम् || प्. ६४) वाक्पाणि पायूपस्थं कर्मेन्द्रिय पञ्चमम् | शब्दस्पर्शरूपं च रसगन्धं च पञ्चमम् || वचनागम नादानां विसर्गानन्द पञ्चमम् | मनोबुद्धिरहंकारश्चित्त क्षेत्रज्ञ पञ्चकम् || आत्मतत्वमिति ज्ञेयं भाग्यखण्डमशुद्धकम् | मायाकालं च नियतिः कला विद्यारागषष्ठमम् || अशैव खण्डमित्युक्तं शुद्धाशुद्ध विमिश्रमम् | शुद्धविद्येश सादाख्यं बिन्दुनादान्त पञ्चमम् || शिवतत्वमिति ज्ञेयं प्रेरखण्डं तदुच्यते || शिवतत्वं शुद्ध तत्वार्थं तत्त्वातीतं समात्मनम् | तत्त्वातीतं परं शक्ति तत्वातीतं परं शिवम् || तत्वार्थं कुण्डली व्याप्तं जगदुत्पत्ति कारणम् | कुटिलेच्छादितं भिन्नं तच्छक्ति तत्व विग्रहम् || सर्वतत्वमयं व्याप्तं पाशतत्वार्थ कारणम् | तत्वतीतं पराशक्ति तत्वातीतं परं शिवम् || कला पञ्चममध्यस्थे पाशः पञ्च मलोदितम् | पाशवो बद्ध्य पाशः पाशबन्धस्तथा पशुः || पाशेन पशवो बद्धाः कारणं परमेश्वरः | पतिर्नाम इति ज्ञातं पाशाभावेन यः पशुः || कालावसानात् शक्त्यर्थे तिष्ठन् बोधात् विमुक्तः || एवं शाश्वत शैवार्थमेवं सिद्धान्तगोचरम् | मूलादि द्वादन्तार्थैः संयोज्यं परमाक्षरम् || तन्निराधार योगांशं स्वाधारं नव भावितम् | परायोग्यां परामिश्रमन्वे योग्यं पृथक् तथा || योगभेदमिति प्रोक्तं तत्त्रिभेद इति स्थितिः | कलायोगम् - अकारे मनसोत्पन्नमुकारे बुद्धिरुद्भवम् || प्. ६५) उकारे हा त्रयोत्पन्नं बिन्द्वौ चित्तस्तदुद्भवम् | नादे पुराणमुत्पन्नं नादान्ते शक्तिरुद्भवम् || शक्त्यन्ते शिवमुत्पन्नं तदन्ते परमं पदम् | कलापन्न महाभागे जगदुत्पत्ति कारणम् || कलातीतं परातीतं परातीतं परं शिवम् || || तन्त्रावतार पटलः || अष्टभेदं स्वसिद्ध्यर्थं शृणुदेवि वरानने | अष्टभेद प्रभेदार्थे नाना सिद्धिसमुद्भवम् || अणिमा महिमा चैव लघिमा गरिमा तथा | प्राप्य प्राकाम्यमीशित्वञ्च शिवत्वं कामरूपकम् || निर्मितस्व समर्थार्थ साधकः सिद्धिसम्भवम् | उद्गतश्वासमात्रार्थं विषमाजात नाशनम् || अणिमदि प्रसिद्ध्यर्थं अष्टैश्वर्यं यथा तथा || वायुमापूर्य संसिद्धिरन्यथा द्वादशोद्भवम् | कुण्डली मध्यम स्थाने कृपाकारं त्रिकोणकम् || तन्मध्यस्थे चतुर्मात्रा हंसो स्वरति नासिकः | मार्गेण गम्यतां वायुर्जरामरण कारणम् || हंसं परमहंसं न हंसं सोऽहं यथा * * | उद्गत श्वासयोर्नाशं निर्गतश्वास सिद्धिजम् | सन्ततं निर्गतश्वासं मन्त्रयोगस्व साधकम् || सन्ततं निश्वासभावं साधयेद्द्वादशाब्दजम् | अन्यथा द्वादशाः सिद्धिरेकैकाब्दस्ततोदितम् || प्रथमार्थाद्व्य व्याधिर्द्वितीयो जनवर्जितम् | तृतीयस्सर्व नाशास्त्रय चतुर्थे वाक्यार्थ सिद्धिजम् || पञ्चमे पुराण श्रवण षष्ठ्यातीतन्तु नागतः || प्. ६६) सप्तमे चण्डवेगार्थमष्टमे मरणानि च | नवमोनन्द कायस्थं दशं भू त्याग सम्भवम् || एकादशं तथारुद्रा द्वादशद्योगमिष्यति | एवं द्वादश सिद्ध्यर्थं वायुमापूर्य उद्भवम् || वायुमापूर्य मार्गस्थे नाना सिद्धिसमुद्भवम् | इडा पिङ्गलयोर्मध्ये तन्मध्ये नाद सम्भवम् || नाद * * * * * * * * न्तं परमः शिवः | शिवमध्ये गतश्शक्ति शक्तिमध्यगतः शिवः || हकारं शिवरूपत्वं सकारं शक्तिरुच्यते | हकार सकार योर्मध्ये हंसमनूदितम् || हंसमार्गस्वयं शक्तिनीलवर्णनिभं तथा | सोऽहं शस शरन्तत्र निश्वासो छ्वास तद्विधा || सर्वनाडि स्वमध्यस्थे सुषुम्ना नाड्युत्तमं भवेत् | सुषुम्ना मूलाग्र मध्यस्थे मण्डलत्रय संयुतः || मण्डलत्रय मध्यस्थे ज्योतीरूपं परामयम् | परा वा समया सिद्धिर्जरा मरण नाशनम् || हातो विसर्जनैर्युक्तः पराविद्यामयं तथा | कारचञ्चु पुरीकारं शोष्यमाणा निलात्मकम् || सदाभावं विशेषार्थं जरामरण नाशनम् | पराविद्या महाविद्या मूलविद्या समस्तथा || परामूलं समाश्रित्य संघटी कृत्यार्थसिद्धिजः | आधार प्राणसंवेद्यमात्ममन्त्र स्वगोचरम् || आधारं षष्ठमं भेदं निराधारं परं शिवम् || आधार लक्षणम्- प्. ६७) आधारे लिङ्गनाभौ हृदय सरसिजे तालुमूले ललटे द्वेवक्त्रे षोडशारे द्विशत दशदले युते द्वादशार्धे चतुष्के | वासान्ते बालमध्ये सफकठ सहिते संविर्गेह लक्षे मध्ये हंसं स्वदीप्तं सकलं कलयुतं वर्णरूप प्रकाशम् || सर्व वर्णस्व मध्यस्थे हंसमात्मन्ततोदितम् | हंसं सर्वत्र वर्णानां आदि मध्यान्त रूपकम् || एकं वर्ण स्वरूपं चैक मुद्रार्थ खेचरी | एकं देव परब्रह्म एकं शक्तिपरामयम् || एकविंशत् सहस्राणि षट्शतं तत्र कारणम् | हंसमार्ग महोरात्रन्नासिमार्गे गमिष्यति || त्रीण्यं शैकांश भोगन्तु तथापूरित मायुकम् | निश्वासोश्वास सम्बन्धमेक प्राणावसानकम् || वायुगम्यं यथा नाश तथा गम्यं स्वसिजम् | गम्यन्ते वरणावस्था अगम्यं सिद्धिरुत्तमम् | मूलमन्त्र प्रतीकाश मूल कुण्डलिनोदयम् || तन्मध्येहंसमुद्योगं तन्मध्ये बिन्दु संस्थितम् | अकारोकारमकारं च क्रियाकुण्डलिनोदयम् || कुण्डलीत्रय मध्यस्थे सोमसूर्याग्नि सम्भवम् | सोमसूर्याग्निमध्यस्थं सृष्टि स्थित्यन्तकारणम् || नादमार्गं तथा शक्ति ज्ञानान्तं तच्छिवोदयम् | शिवोऽहमस्य प्रकारं सोऽहमस्मिन् समाश्रितम् || सोऽहंमार्ग सुषुम्नो हि प्रकाशे साधकोत्तमः || प्. ६८) ऋद्धि सिद्धिर्भविष्यन्ति सोऽहंभावं समाचरेत् | मूलारविन्द मध्यस्थे हकारं वह्नि मण्डलम् || वह्नि ज्वाला प्रतीकाशं हंस हौवर्णमुद्भवम् | मूलास्मि नाभिचक्रान्तं सान्तवर्णस्ततोदितम् || नाभ्यादि हृदयान्तं च उकार ज्योतिरूपकम् | * * * * जिह्वान्तस्ये ऋकार ज्योति सङ्गमम् || जिह्वादि नासिका मध्याहदान्तं बिन्दुरूपकम् | भ्रुवादि मध्यगान्तं च नाभिस्थानं विशेष्यकम् || मस्तकादि शिखान्तं च नादान्त स्थानमाचरेत् | तदूर्ध्वे परमाशक्तिस्तदूर्ध्वे परमः शिवः || आधारादि शिखान्तस्थे द्वे धनं मन्त्रशोधनम् | शिखाग्रे द्वादशाङ्गुल्ये शिवं सूक्ष्म परोदितम् || प्रासाद परया विद्या साधकः साधकोत्तमः | प्रासाद परसंघट्टं नवाधारस्तु शोभनम् || नवाधारस्य * * * * * * * * दर्शनम् | प्रासाद परयोर्विद्या सर्वसिद्धिस्ततोदितम् | || इत्यष्टसिद्धिपटलः समाप्तः || अतः परं प्रवक्ष्यामि मूर्त्यंश स्वविधानकम् | बिन्दुमध्यगतोनादं नादमध्यगतः शिवः || नादलिङ्गमिति प्रोक्तं बिन्दुपीठमिति स्थितम् | बिन्दुनाद समाश्रेयं भगलिङ्गद्वयोदितम् | भगस्यान्तर्गतं लिङ्गं लिङ्गस्यान्तर्गतं भवम् || भगलिङ्ग समाश्रेयं शिवशक्तिद्वि संगमम् | भगमध्ये स्थितं लिङ्गं लिङ्गमध्ये स्थितं * * | * * शिवासनं लिङ्गं लिङ्गासनन्तु पीठकम् || प्. ६९) एवं ध्यात्वा तु मनसा पराशक्तिस्तु विन्यसेत् | न यज्ञाङ्गं न पद्माङ्गं न चक्राङ्गं जगत्त्रयम् || लिङ्गाङ्गं च जगत्सर्वं तस्मान्माहेश्वरं जगत् | देवीशर दक्षिणोत्तर सुपाद गोमुख पदान्त कृतवारि भुजयुक्तम् | योनिगतमध्यमयसंस्थितं लिङ्गं स्थापित सदाशिवं मनोन्मनि स्वरूपम् || शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रम् | शूलं वज्रं च खड्गं परशु * * * * * न्तम् || नागं पाशं च वर्णामनल करयुतं साङ्कुशं वामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभं कोऽपि सादाशिवाख्यम् || पञ्चवक्त्रं पञ्चवर्ण पञ्चदिग्देवतावयम् | दशपञ्चक नेत्रांशं दशहस्तदशायुतम् || दशकर्ण समायुक्तमेवं सादाख्यरूपकम् | सादाख्यं पञ्चभेदांशं सर्वं बिन्दूद्भवं तथा || कर्मकर्तृ स्वमूर्तिञ्च मूर्तिसादाख्य भेदकम् | शिवसादाख्य * * * * र्म भागैः प्रवर्तकम् | ईशान स्फटिक नं यत् कुंकुमाभं मुखं पूर्वं तत्पुरुषं यदञ्जननिभं याम्यं च घोराननम् | औदीच्यं विलसज्जपाकसदृशं वक्त्रं तु वामं भवेत् सद्योजातमुखं तु पश्चिममदां गोक्षीर तुल्यप्रभम् || एवं सादाख्यरूप स्वमनोन्मनि सहितः शिवम् | वामाद्यष्टमशक्तीनां मध्यतेजो मनोन्मनीम् || प्. ७०) नवशक्तिक विज्ञेयमुन्मनः परमः शिवः | मन उन्मन सम्बन्धान्मनोन्यभिधीयते || * * * * * यं शक्तिः सम्बन्धं भोगरूषितम् | तन्म* * * * * * न्तर्मध्ये भोगसाधनम् || तन्मध्ये रिद्धि सिद्ध्यर्थं तन्मध्ये मुक्तिवेधकम् | तन्मध्ये सर्वमूर्त्यर्थं तस्मात् सर्वत्र कारणम् | हकारोकार लिङ्गञ्च सर्वलिङ्गमयं तथा || मकारं विद्यामयं प्रोक्तं लिङ्गसूत्र प्रधानकम् | लिङ्गसूत्रं सुषुम्नांशं प्रासादगमनं तथा || बिन्दु पीठं च शक्तिञ्च नादलिङ्गं शिवस्तथा | बिन्दुनाद समांशस्तु प्रणवाक्षर रूपकम् || प्रणवमक्षरं प्रोक्तं बिन्दुनाद नस्य शिखान्तस्थे बिन्दुनादोत्किरीटम् | बिन्दुनाद कलाकारं सर्वमन्त्रात्म रूपकम् | बिन्दुनाद कलाभेदं सोमसूर्याग्निरूपकम् || बिन्दुनाद कलाकारमिच्छज्ञान क्रियात्मकम् | बिन्दुभिद्य त्रिकोणांशं * ण्डवं तत्त्वरूपकम् || रुद्रैशेशान तत्वानि साधनं बैन्दवोद्भवम् | त्रिकोणं त्रिपुराकारं वाक् कर्म मुक्तिरुद्भवम् || तन्मध्ये न परा शक्तिः तन्मध्ये त्रिपुरं तथा | वाग्भव स्वर्ण * * * * * शाण क्रिया तथा || मुक्तिस्फटिक सौत्मेति त्रिपुरा शक्तिकारणम् | पञ्चमूर्ति स्वरूपस्थं पञ्चशक्ति स्वरूपकम् | पञ्चपाशमल प्रोक्तं शुद्ध तत्वार्थ पञ्चमम् || प्. ७१) पञ्च सामाख्य संभिन्नं पञ्च * * * * * * | पञ्चमाग्नि विधिप्रोक्तं पञ्चकस्य कलामयम् | पञ्चकृत्यस्तथाकारं पञ्चवाग्वृत्तिकारणम् || पञ्चमाक्षर संभिन्नं सर्वं बैन्दवमुद्भवम् | अर्धं वा षट् कति प्रोक्तं सर्वपञ्च कलामयम् || विज्ञानादि त्रिधात्मानं * * * * * कारणम् | सागरश्शिकरादीनि तरङ्गाद्योदयं लयम् | तथैव बैन्दवाकारे सर्वतत्वोदितं लयम् || खेचरी भूचरी शक्तिः शक्ति दृग्गोचरी तथा | व्योम वामेश्वरी शक्तिः पञ्चमं बैन्दवोदितम् || खे * * * * न्तिर्भूचरीर्य परा * * तथा | दिक्शरी तन्दिशा शक्तिगोचरी मन्त्रभूमिकाः || इच्छा ज्ञान क्रियामाया परा पञ्चाथ देवताः | अकारोकार मकारं च बिन्दुनाद कलात्मिकाः || बिन्दु तत्वोदितं सर्वं सृष्टिकाले प्रकाशितम् | तत्सर्वं कुटिला तत्वे * * * * * * * * || इडा पिङ्गलयोर्मध्ये कुण्डल्याकार सम्भवम् | कुण्डलीत्रय मध्यस्थं ज्योतीरूपं परात्परम् || देहमस्य स्ववर्णानां मातृका शक्तिरुद्भवम् | मातृकाशक्ति विज्ञेयं सर्वशास्त्रार्थ निर्णयम् || ओंकारमक्षरं ब्रह्म कलारूपं तरात्परम् | ओमिति सर्व बोधार्थमोमिति सर्वकारणम् | जातसूतकमुत्पन्न मन्त्रान्ते * * सूतकम् || प्. ७२) उभयोरपि दोषं स्यात् तत्सर्वं निष्फलं भवेत् | ओंकारादि नमोन्तं च सर्वमन्त्रान्विशेषतः || उच्चारेत्यजनार्थञ्च मन्त्रशुद्धिरुदाहृतम् | ओंकार ज्ञानवर्णन्तु वर्णान्यं कर्मरूपकम् | तस्माच्छ्रेष्ठमयं बोधं परमात्म प्रकाशकम् || मूल मध्यञ्च सूक्ष्मं च त्रिविधं तारभेदकम् | पञ्चप्रणव सम्बन्धं पञ्चतत्वकलामयम् || पञ्चतत्व कलाभेदैः पञ्चाक्षर समुद्भवम् | प्रणवादि यकारान्तं पञ्चाक्षर षडक्षरम् || पञ्चाक्षर तत्प्रणवेन युक्तं षडक्षरं मन्त्रमुदीरयन्ती | षडक्षरं मन्त्रमुदीरितानां षडध्व भावादिति तल्लयार्था || षडध्व मार्गभेदन्तु क्रियाशैव विधिक्रमम् | आत्मकर्मार्थ दुर्मार्गसेव्या भोज्यं तथा कुरु || अध्वा इत्यर्थ यत्काले तत्काले कर्मनाशनम् | वर्णकलाभेदं तत्वं मन्त्रो भुवन एव च || द्विप त्रितय संग्राह्यं वाच्यवाचकयोर्लयम् | वाच्यवाचक तद्रूप शिवशक्ति पदोद्भवम् | शिवः शक्तिपदं व्याप्तं शुक्लरक्त प्रकाशकम् || रक्त शुक्लं द्विविधं द्विविधं पादलक्षणम् | * * त्वत्पादमेवन्तु शुक्लं मत्पादमेव च | रक्तशुक्लञ्च मिश्रञ्च समोद्योगं शिवं परम् | तत्तच्छुक्लद्विमध्यस्थे ऋद्धिसिद्धि द्वयोर्मिथः | वृथा दीक्षा वृथा ज्ञानं वृथा योगं वृथा जपः || प्. ७३) शिवशक्ति स्वरूपेण शैवं शाक्तं मयोदितम् | शिव सम्बन्धयश्शक्ति शक्ति सम्बन्धयश्शिवः || षड्वक्त्रैशान सम्बन्धं षट्शक्ति प्राभवोद्भवम् | षट्शक्ति प्रभवाकारे शैवादिस्समयोदितम् || शै * * * मुखोत्पन्नं याम्ये कालामुखं तथा | पश्चात् पाशुपतञ्चैवमुत्तरे तु महाव्रतम् | तदूर्ध्वे भैरवं प्रोक्तं पाताले वाममुच्यते || पातालशक्ति सम्बन्धं तदूर्ध्वे परमं पदम् | दिशाशक्तिर्दशप्रोक्तं दिक्चरी भेदकोदयम् || दिक्चरी शक्तिमध्यर्थे दिक्पालाष्टमयोदितम् | ग्रन्थिजन्यं कलाकाल विद्यापरं चन्द्रमातरम् || गुणधीगर्व चित्ताक्षि मात्राभूतान्यनु क्रमात् | पूर्वे त्रिपुरा देवि आग्ने त्रैव पुरी मतः || उद * भोगहस्तं स्यान्महालक्षन्तु नैर्-ऋते | पश्चिमे कुब्जिका शक्तिर्वायव्येऽपि च चण्डिके || उत्तरे काल संकर्षि ऐशान्यं सिद्धिसामरी | पातालो दन्त शक्त्यर्थः परादूर्ध्वं दिशा भवेत् || एतच्छक्तिमयं विश्वं विश्वातीतं परं शिवम् || शिवशक्ति द्विमध्यस्थे नादबिन्दुस्ततोदितम् | नाद बिन्दु द्विमध्यस्थे पञ्चसादाख्यमुद्भवम् || पञ्चसादाख्य मध्यस्थेऽष्टाविद्येश्वरोदितम् | अष्टविद्येश्वरो मध्ये रुद्र * * * * दितम् || रुद्रभेदैः स्व मध्यस्थे षट्कोटि विष्णुरुद्भवम् | षट्कोटि विष्णु मध्यस्थे शतकोटि ब्रह्मणोद्भवम् || ########### END OF FILE #######