#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00155 Uniform title: janmamaṛanavicāra Author : vāmadeva Editor : śāstrī m r Description: Photographed from volume 19 of the Kashmir Series of Texts and Studies. Notes: Publisher : Research Department Jammu and Kashmir State Publication year : 1918 Publication city : Srinagar Publication country : India #################################################### ओं तत्सत्संविद्वपुषे अमृतेश्वराय नमः | अथेयं जन्ममरणविचारग्रन्थस्य भूमिका (ग्रन्थाङ्कः १९) अयं ग्रन्थः शैवागमग्रन्थेषु मुख्यविषयस्वात्माद्वैतज्ञानपद्धतिसारसंक्षेपतया श्रीभट्टवामदेवाख्यमहामाहेश्वराचार्यवरेण विरचितः | शीभट्टवामदेवश्च श्रीयोगीश्वरापरपर्याययोगराजाचार्यस्य शिष्योऽभूत् | श्रीयोगराजः श्रीमदभिनवगुप्ताचार्यशिष्य-श्रीक्षेमराजाचार्यस्य शिष्यः श्रीमदभिनवगुप्ताचार्यविरचितशैवागमविशेषपरमार्थसारग् रन्थटीकाकृत तदन्ते स्वगुरुणामभिख्यानादिकं निर्दिष्टवान् | तस्मात्साक्षात्तयास्य ग्रन्थस्य विरचनकालानाम्नायेऽपि श्रीमदभिनवगुप्ताचार्याणां कलियुगद्वाचत्वारिंशशत्यान्तः कालमभिव्याप्य लोके स्थितिसत्तया तच्छिष्य-क्षेमराजस्योत्तरसमकालिकत्वेऽपि तच्छिष्य-योगराज-तच्छिष्यैतद्ग्रन्थकर्तॄणां विंशतिविंशतिप्रायाब्दोत्तरकालगणनया तथा अनन्तदेवराजस्य काश्मीरसौराज्यकाले वामदेवाचार्यस्थितिजनश्रुत्या च अनुमितो द्वाचत्वारिंशशत्यान्त्यभागवर्ती एतद्ग्रन्थकृत्संभवकालः संभाव्यते | अतस्तदनुसार्येव (कलियुगद्वाचत्वारिंशशत्यान्त्यभागकालः) एतद्ग्रन्थविरचनकालः | प्. २) अस्य ग्रन्थस्य मूलादर्शपुस्तकमेकमात्रमेवोपलक्ष्यते, अतिप्रयत्नविधानेनापि कुतश्चनाप्यन्यन्नावापि | तदेतदेकमपि तन्त्रसारग्रन्थभूमिकायां वर्णिततद्वृत्तस्य आगराप्रदेशादवाप्तप्रत्नतरशारदाक्षराङ्कितकाश्मीरिकपुस्तक- अमुदायस्य मध्यत उक्ततन्त्रसारग्रन्थसमैकबन्धेषु पुस्तकेष्वेकतमं पण्डितकृष्णस्वामिनाम्ना काश्मीरिकविद्वद्विशेषेण ४६०३ समीपवर्तिलौकिकसंवत्सरे लिखितं समस्ति इति || अस्ति चाकृत्या लघावप्यस्मिन्ग्रन्थे श्रीस्वच्छन्दतन्त्र-तन्त्रालोकादिविस्तीर्णशैवागमग्रन्थेषु यथायथं वितत्य निर्णीतानां मुख्यविषयस्वात्माद्वैतज्ञानसंसाधकपद्धतीनां यथोपयोगं भिन्नतया स्थाने स्थाने प्रतिपादितानां समग्रविषयाणां पूर्णोपज्ञानस्यैकत्रसंगृह्य सुगमसंक्षिप्तमार्गप्रदर्शनम् | तद्यथा - (१) प्रथमतः संविदात्मनः परमशिवस्य स्वातन्त्र्योद्भावितनिखिलजगदात्मत्वेऽपि सर्वोत्तीर्णताद्योतिनिरतिशयस्वातन्त्र्यादिशक्तिमत्तया प्रकाशस्वरूपताप्रतिपादनम् | (२) चिदानन्देच्छाज्ञानक्रियाख्यानां परमशिवसंबन्धिपञ्चशक्तीनां स्वरूपानुशासनम् | (३) विश्वं सिसृक्षोः प्रकाशात्मपरमशिवस्य तस्य स्वात्मनः संकुचितरूपावबिभासयिषया अणुत्वरूपावस्थाननिर्णयः | (४) उक्ताणुतावस्थापत्तौ च देशकालाद्युपाधिविरहिततया अनुत्तरानन्दपरिस्पन्दात्मकस्य भगवतो न कापि क्षतिः प्रत्युत परममहिम्नः पुष्टिः - इत्येतत्प्रतिपादनम् | प्. ३) (५) तस्यैव धरादितत्त्वानुबन्धिन्याः विज्ञानाकलप्रलयाकलसकलात्मकतायाः समापत्तिनिर्देशः | (६) अणोः स्वस्वरूपाच्छादकस्य मायाकलाविद्यारागकालनियतिरूपकञ्चुकषट्कस्य तत्कर्मणश्च प्रतिपादनम् | (७) भुवनतत्त्वकलाख्यप्रमेयत्रयपदमन्त्रवर्णाख्यप्रमाणत्रयसंकलित- षडध्वयोगिनो निवृत्तिप्रतिष्ठाविद्याशान्ता शान्त्यतीताख्यस्य पारमेशशक्ति (कला) पञ्चकस्य तदधिष्ठानादेश्च निर्देशनम् | (८) अनन्तरं च आणवावस्थामाश्रितस्य भगवतो विचित्रजात्यायुर्भोगैः जरायुजाण्डजोद्भेदजस्वेदजादिजन्तुजातं प्रादुर्भावयतः उपभुक्तान्नपानपाकवशाद्रसरूपावस्थितरक्तमांसमेदोऽस्थि- मज्जात्मना शुक्रधातौ विश्रान्तिप्रदर्शनोत्तरं स्त्रीपुंसादिरूपतयोद्भवन्मनुष्यपशुपक्षितरुदंशादिशरीर- संबन्ध्यनुरूपनाड्याद्यङ्गप्रत्यङ्गसंधितत्संख्यानोत्तरोत्तर- तदुपचयगर्भस्थितिजन्मतदनुवर्तिबाल्याद्यवस्थानतदनुभूयमान- हर्षशोकादिनिर्णयमनु पुनर्जन्मसदसत्कर्मोदर्कसदसल्लोकावाप्तिसमनुशासनपूर्वकं स्वात्मस्वरूपावाप्त्युपायज्ञानमार्गप्रकाशनं संगृह्य प्रतिपादितं समस्ति | तदेतस्य पुस्तकस्य संग्रहणोत्तरं समाधानेन विमर्शनाभ्यासात् तत्त्वज्ञानफलरसास्वादमधिगच्छन्तु सहृदयाः सद्विद्वांसः सफलयन्तु चैतत्संस्करणोत्तरप्रकाशनप्रयत्नः मामकीनमित्याशासे | इति निवेदकः म० म० पं० मुकुन्दराम शास्त्री ओं नमः शिवायामृतवपुषे | अथ जन्ममरणविचारग्रन्थः | श्रीमद्भट्टवामदेवाचार्यविरचितः | सान्द्रोद्रेकक्षुभितमभितः स्वान्तमन्तर्नियम्य प्रायो धत्ते नवनवरसोल्लेखमानन्दकन्दम् | भूयो भूयः प्रलयविभवोद्दामदुःखान्तरायो योऽसावन्तर्जयति हृदये कोऽपि संविद्विकासः || १ || इह खलु निखिलजगदात्मा सर्वोत्तीर्णश्च सर्वमयश्च विकल्पासंकुचितसंवित्प्रकाशरूपः अनवच्छिन्नचिदानन्दविश्रान्तः प्रसरदविरलविचित्रपञ्चवाहवाहवाहिनीमहोदधिः निरतिशयस्वातन्त्र्यसीमनि प्रगल्भमानः सर्वशक्तिखचित एक एव अस्ति संविदात्मा महेश्वरः | तस्य प्रकाशरूपता चिच्छक्तिः स्वातन्त्र्यम् आनन्दशक्तिः तच्चमत्कारः इच्छाशक्तिः आमर्शात्मकता ज्ञानशक्तिः सर्वाकारयोगित्वं क्रियाशक्तिः इति | प्. २) इत्थं सर्वशक्तियोगेऽपि आभिर्मुख्याभिः शक्तिभिरुपचर्यते स च भगवान् स्वातन्त्र्यशक्तिमहिम्ना स्वात्मानं संकुचितमिव आभासयन् अणुः इति उच्यते | यथोक्तम् - व्यापको हि शिवः स्वेच्छाकॢप्तसंकोचमुद्रणात् | विचित्रफलकर्मौघवशात्तत्तच्छरीरभाक् || इति निजस्वरूपगोपनकेलिलोलम् एवं माहेशशक्तिपरिस्पन्दं प्रवरगुरवः प्रतिपेदिरे | तथा च आहुः - अतिदुर्घटकाअरित्वात्स्वाच्छन्द्यान्निर्मलादसौ | स्वात्मप्रच्छादनक्रीडापण्डितः परमेश्वरः || अनावृते स्वरूपेऽपि यदात्माच्छादनं विभोः | सैवाविद्या यतो भेद एतावान्विश्ववृत्तिकः || इति | न च एतावता भगवतो देशकालाकारोपाधिविरहितनिरतिशयानन्दपरिस्पन्दात्मकस्य काचिदपि क्षतिः प्रत्युत परममहिम्नः परिपुष्टिरित्युक्तम् | अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः | महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद्घटादिवत् || प्. ३) परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् | जडाद्विलक्षणोबोधो यतो न परिमीयते || तेन बोधमहासिन्धोरुल्लासिन्यः स्वशक्तयः | आश्रयन्त्यूर्मय इव स्वात्मसंघट्टचित्रताम् || इत्यादि | तदेवम् असौ भगवान् स्वमायाशक्त्याख्येन अव्यभिचरितस्वातन्त्र्यशक्तिमहिम्ना स्वात्मनैव आत्मानं संकुचितमिव अवभासयन् विज्ञानाकलः प्रलयाकलः सकलश्च संपद्यते | तत्र आणवेन एकेनैव मलेन संयुक्तो विज्ञानाकल उच्यते द्वाभ्याम् आणवमायीयाभ्याम् अपवेद्यः प्रलयाकलः त्रिभिराणवमायीयकार्मैः संवेद्यः तैरेव कलादिधरण्यन्ततत्त्वमयः सकलः तदर्थमेव अयमर्थसर्गः | तत्र सृष्ट्युन्मुखो भगवान् शुद्धाध्वनि वर्तमानः स्वशक्तिभिः मायां विक्षोभ्य कलातत्त्वं किंचित्कर्तृत्वलक्षणं पुद्गलस्य सृजति ततोऽपि किंचिदवबोधाख्यं विद्यातत्त्वं किंचिदभिलाषरूपं च रागतत्त्वं तदेतत्सरागं कर्तृतत्त्वं भूतभविष्यद्वर्तमानतया त्रिधा अवच्छिद्यते तत् कालतत्त्वं तुल्यत्वेऽपि रागे येन कर्तृत्वस्य प्. ४) अवच्छेदः क्रियते तत् नियतितत्त्वं तदेतत् कञ्चुकषट्कम् अन्तर्मलावृतस्य पुद्गलस्य बहिराच्छादकम् उक्तं च चिल्लाचक्रेश्वरमते माया कला शुद्धविद्या रागकलौ नियन्त्रणा | षडेतान्यावृतिवशात्कञ्चुकानि मितात्मनः || एवं च पुद्गलस्यान्तर्मलः कञ्चुकवत्स्थितः | तुषवत्कञ्चुकानि स्युस्तस्माज्ज्ञानक्रियोज्झितः || इति | सा च कला पुरुषस्य परिमितं कर्तृत्वं प्रकाश्य सुखदुःखमोहरूपं भोग्यम् अव्यक्तत्वं सृजति ततोऽपि अष्टगुणं बुद्धितत्त्वम् उत्पन्नं ततोऽपि सात्त्विकराजसतामसभेदभिन्नं त्रिस्कन्धम् अहंकारतत्त्वम् तत्र पूर्वस्मात् अहंकारात् मनो जातं अपरस्मात् इन्द्रियाणि तृतीयात् तन्मात्राणि एभ्यो भूतानि - इत्येवमयम् एकस्यैव आदिदेवस्य स्वातन्त्र्यमहिम्ना संसारे संसरतः परिमितप्रमातृताम् अवलम्बमानस्य तत्त्वप्रसरः उक्तं च - भूतानि तन्मात्रगणेन्द्रियाणि मूलं पुमान्कञ्चुकयुक्सुशुद्धम् | विद्यादिशक्त्यन्तमियान्स्वसंवित्- सिन्धोस्तरङ्गप्रसरप्रपञ्चः || प्. ५) तथा - साल उत्त पुरिपुण्ण उ स-अल्ल-उत्त उत्तिण्ण | परि आणह अत्ताण उ परि मसिवेण समाण उ || इति | एतेषां च उक्तरूपाणां तत्त्वानां प्रमातृभेदे वैचित्र्यात् प्रमेयवैचित्र्यं भवति इति श्रीपूर्वशास्त्रे कथितम् तथाहि - शक्तिमच्छक्तिभेदेन धरातत्त्वं विभिद्यते | स्वरूपसहितं तच्च विज्ञेयं दशपञ्चधा || अनेनैव विधानेन पुंस्तत्त्वात्तु कलान्तिकम् | त्रयोदशविधं ज्ञेयं रुद्रवत्प्रलयाकलः || तद्वन्मायापि विज्ञेया नवधा ज्ञानकेवलः | मन्त्राः सप्तविधास्तद्वत्पञ्चधा मन्त्रनायकाः || त्रिधा मन्त्रेश्वरेशानाः शिवः साक्षान्न भिद्यते | यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः || स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः | दृष्टाः संभाषितास्तेन स्पृष्टाश्च प्रीतचेतसा || नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि | इति | तदेवम् अनेकावसायोऽयं तत्त्वक्रमः | एतेषां च तत्त्वानां वर्गशो यदनुगामि रूपम् - प्. ६) एकरूपम् - एकरूपकलनासहिष्णुत्वात् सा कला कथ्यते | तथा हि निवर्तन्ते यतस्तत्त्ववर्गाः सा निवृत्तिर्नाम कला | सा च पृथिव्यामेव व्यवस्थिता | कारणत्वे पूरणाप्यायकारित्वात् प्रतिष्ठा नाम कला उच्यते | सा च जलादिमूलान्तं व्याप्य व्यवस्थिता | वेद्यविलये संविदाधिक्यात् विद्या नाम कला | सा च पुमादिमायान्तम् अध्वानम् अध्यास्ते | कञ्चुकतरङ्गोपशमात् शान्ता नाम कला उच्यते | सा च शुद्धविद्यादिशक्त्यन्ते स्थिता इति | एतदेव अण्डचतुष्टयं पार्थिवप्राकृतमायीयशाक्तलक्षणम् | सर्वातीतत्वात् शिवतत्त्वे शान्त्यतीता | इति | परं तु तत्त्वं स्वतन्त्रत्वात् कलातीतम् आसामेव कलानां तत्त्ववदन्तर्भूतानि भुवनान्यपि बोद्धव्यानि एवं स्थूलसूक्ष्मपरत्वेन प्. ७) भुवनतत्त्वकलारूपं त्रिविधरूपं प्रमेयम् उक्तम् प्रमाणमपि तथैव पदमन्त्रवर्णतया त्रिविधमेव - इति एकस्यैव पूर्णप्रमातुः स्वातन्त्र्यात् संसरतः षड्विधे अध्वनि विश्रान्तिरुक्ता | भवन्ति चात्र दीक्षापरिघटनसंग्रहश्लोकाः - पदमन्त्रवर्णमेकं पुरषोडशकं धरेति च निवृत्तिः | तत्त्वार्णमग्निनयनं रसशरपुरमस्त्रमन्त्रपदमन्या || मुनितत्त्वार्णं द्विकपद- मन्त्रं वस्वक्षिभुवनमपरकला | अग्न्यर्णतत्त्वमेकक- पदमन्त्रं सैकभुवनमिति तुर्या || षोडश वर्णाः पदमन्त्र- तत्त्वमेकं च शान्त्यतीतेयम् || इति | तदेवम् आणवीं वृत्तिम् आलम्ब्य भगवान् विचित्रैः जात्यायुर्भोगैः जरायुज अण्डज उद्भेदज स्वेदजादिजातं प्रादुर्भावयति | तत्र उपभुक्तस्य अन्नपानस्य पाकवशात् रसरूपतया स्थितस्य रक्तमांसमेदोऽस्थिमज्जात्मना शुक्रधातौ विश्रान्तिर्भवति तंत्र इमाः प्रजाः प्रजायन्ते | प्. ८) तथा चोक्तं सौश्रुते - इह खलु पाञ्चभौतिकस्य चतुर्विधस्य आहारस्य षड्रसोपेतस्य द्विविधरसवीर्यस्य अष्टविधरसवीर्यस्य अनेकप्रकारोपभुक्तस्य परिणतस्य यस्तेजोरूपः सारः सूक्ष्मः स रस इत्युच्यते तस्य हृदयं स्थानं स च हृदयात् चतुर्विंशतिधमनीरनुप्रविश्य ऊर्ध्वगा दश दश च अधोगामिनीः चतस्रः तिर्यग्गाः सकलं शरीरम् अहरहस्तर्पयति जीवयति धारयति वर्धयति अदृष्टनिमित्तेन कर्मणा स खलु आप्यो रसो यकृत्प्लीहादिं प्राप्य रागमुपैति भवन्ति वा अत्र श्लोकाः - रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् | अव्यापन्नाः प्रसन्नेन रक्तमित्येव तद्विदुः || रसादेव स्त्रियो रक्तं रजःसंज्ञं प्रवर्तते | तद्वशाद्द्वादशादूर्ध्वं याति पञ्चाशतिः क्षितिम् || आर्तवं शोणितम् आग्नेयम् - अग्नीषोमीयत्वात् गर्भस्य | रसाद्रक्तं ततो मांसं मांसान्मेदश्च जायते | मेदसोऽस्थि ततो मज्जा मज्जातः शुक्रसंभवः || एवं मांसेन शुक्रत्वं रसो याति यथाक्रमम् | स्त्रीणां तथैव मासेन भवेदार्तवसंभवः || इति | तदेवं भूते मातृपितृसंबन्धसंभूते अग्नीषोमात्मके रक्तरेतसीइ कुसुमसमयादनन्तरं - प्. ९) जननीजठरे रेतः कलिलीभवति ततो बुद्बुदम् ततः पेशी ततो घनः यावदङ्गपरिग्रहः अङ्गव्यक्तिः संविदुल्लासः सर्वाङ्गसंपत्तिरोजः संचारः सुखदुःखसंवित्तिरिति यावत् प्रजायते | उक्तं श्रीचिल्लाचक्रेश्वरमते - सोमसूर्यरसोल्लासपरस्परनिघर्षणात् | जातवेदसि संजाते मध्यधामविकासिनि || विरारुणपरीणामवशादङ्कुरसंभवः | एकरात्रोषितं रेतः सिक्तं कलिलतां व्रजेत् || बुद्बुदं सप्तरात्रेण पेशी मासेन जायते | द्वितीये मासि च घनस्तृतीयेऽग्निपरिग्रहः || चतुर्थे व्यङ्गताङ्गानां चेतना पञ्चमे भवेत् | षष्ठे सर्वाङ्गसंभेदः सप्तमे चलनोद्गमः || तेजोऽष्टमे संचरति नवमे वेदनं भवेत् | संपूर्णदेहो दशमे मासि जन्तुः प्रजायते || जातोऽसौ वायुना स्पृष्टो योनियन्त्रप्रपीडितः | न स्मरत्युग्रसंतापमनेकभवसंभवम् || क्रमेण वृद्धिमायान्ति तस्यैते देहहेतवः | रसः स्थितिं प्रकुरुते रक्तं संजीवयत्यलम् || मांसं वृंहयति प्रायो मेदः स्नेहयति स्फुटम् | धारयन्ति तथास्थीनि मज्जान्तः सारसंश्रया || हर्षोत्कर्षकरं शुक्रं मूत्रं क्लेदविवेककृत् | वायवग्निसंरोधकरं पुरीषं परिकीर्तितम् || प्. १०) स्वेदक्लेदोपकरणं गर्भहेतुरथार्तवम् | एवं शरीरमासाद्य षाट्कोशं तत्परिग्रहात् || अनपेक्ष्य निजं भावं पुमान्भावानपेक्षते || इति | अयमेव च अर्थो निरुक्तिकृतापि - उक्तपार्थिवान् अष्टौ गुणान् विद्यात् त्रीन् मातृतः त्रीन् पितृतः इत्याद्युपक्रम्य उक्तः | अत्रैव इदं पुंस्त्रीनपुंसकलक्षणं प्रकृतित्रयकारणम् - सोमाधिक्येन पुंजन्म सूर्याधिक्येन योषितः | साम्यात्क्लीबस्तु वातेन भेदात्स्याद्बह्वपत्यता || इति | अवयवभेदोऽपि - नवमे दशमे मासि प्रबलैः सूतिमरुतैः | निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः || तस्य षोढा शरीअं तत्षट् त्वचो धारयन्ति च | अस्थ्नां तथा षष्ट्यधिकं विनिबद्धं शतत्रयम् || स्थूलैः सह चतुःषष्टिर्दशना विंशतिर्नखाः | पाणिपादशलाकाश्च तासां स्थाने चतुष्टयम् || षष्ट्यङ्गुलीनां द्वे पार्ष्णी गुल्फेषु च चतुष्टयम् | चत्वार्यरत्निकास्थीनि जंघयोस्तावदेव तु | द्वे द्वे जानुकपोलोरुफलकांससमुद्भवे | अक्षिस्थलूषके श्रोणीफलके च विनिर्दिशेत् || भगास्थ्येकं तथा पृष्ठे चत्वारिंशच्च पञ्च च | ग्रीवा पञ्चदशास्थीनि जत्र्वेकं च तथा हनुः || प्. ११) तन्मूले द्वे ललाटाक्षिगण्डनासाघनास्थिका | पर्शुकास्तलकैः सार्धमर्बुदे च द्विसप्ततिः || द्वौ शङ्खकौ कपालानि चत्वार्येव शिरस्तथा | उरः पञ्चदशास्थीनि पुरुषस्यास्थिसंग्रहः || इति | एतेष्वेव कपालभरणतुरुण्डरुण्डरुचकनलयष्टीलनलकभेदेन अभिधानानि शास्त्रान्तरेषु उक्तानि | स्थानान्तराणि आह - वसावपावहननं नाभिक्लोमयकृत्प्लिहा | क्षुद्रान्त्रवृक्शको वस्तिः पुरीषापान एव च || आमाशयोऽथ हृदयं स्थूलान्त्रं गुदमेव च | उत्तरौ च गुदौ कोष्ठौ विस्तारोऽयमुदाहृतः || कनीनिके साक्षिकूटे शष्कुली कर्णपुत्रिके | गण्डौ शङ्खौ भ्रुवौ कष्टवेष्टावोष्ठौ कुकुन्दरे || वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातिकौ स्तनौ | उपजिह्वास्फिजौ जिह्वाजंघे चोरू च पिण्डिके || तालूदरवस्तिशीर्षे चिबुके गलशुण्डिके | अक्षिपक्ष्मचतुष्कं च पद्धस्तहृदयानि तु || अवटुश्चैवमादीनि स्थानान्यत्र शरीरके | नवच्छिद्राणि तान्येव प्राणस्यायतनानि च || धमनीनां शते द्वे तु पञ्चपेशीशतानि च | इति | प्. १२) स्त्रीणां च स्तनयोर्गर्तादष्टात्रिंशदधिकाः सपेश्यो धमन्यो भवन्ति इति सौश्रुतः | एकान्नत्रिंशल्लक्षाणि नव स्नायुशतानि च | षट्पञ्चशानि तु ज्ञेया सिरा धमनिसन्ततिः || सप्तोत्तरं मर्मशतं द्वे तु संधिशते तथा | लोम्नां कोट्यस्तु पञ्चाशच्चतस्रः कोट्य एव च || रसस्य नव विज्ञेया जलस्याञ्जलयो दश | सप्त वै तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः || श्लेष्मा षट्वञ्च पित्तं च चत्वारो मूत्रमेव च | वसात्रयं च द्वौ मेदो मज्जैकार्धं च मस्तके || श्लेष्मौजसस्तावदेव रेतसस्तावदेव च | इत्येतदस्थिरं वर्ष्म यस्य मोक्षाय कृत्यसौ || इति स्वस्थस्य सौम्यधातोरेवम् | अन्यथा तु - वैलक्षण्याच्छरीराणामस्वस्थत्वात्तथैव च | दोषधातुमलानां च परिमाणं न विद्यते || इत्युक्तम् | तदेतत् विभागेन बीभत्सदर्शनं वैराग्यमुनिभिरगायि तथा चाहुः - अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् | चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः || जराशोकसमाविष्टं रोगायतनमातुरम् | रजस्वलमनित्यं च भूतावासमिमं त्यजेत् || प्. १३) मुनिः पाराशर्योऽपि आह - सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः | शरीरकस्यापि कृते मूढाः पापानि कुर्वते || आहारैर्नीयमानाय क्रमाद्दुःखेन रम्यताम् | को हि नाम शरीराय धर्मापेतं समाचरेत् || इति | एवं शरीरमुक्त्वा शरीरिस्वरूपमुच्यते - द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः | हिता नामाहिता नाड्यस्तासां मध्ये शशिप्रभम् || मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः | स ज्ञेयस्तं विदित्वेह पुनराजायते न तु || इदमत्र तात्पर्यम् - तं तथाभूतमात्मानं विदित्वा नरो न जन्मक्लेशमनुभवति किंभूतं यद्धृदयोक्तं द्वासप्ततिसंख्यावच्छिन्नं नाडीचक्रं तदन्तर् यत् शशिमण्डलं तदन्तःस्थं ताश्च नाड्योऽशितपीतरससंचरणाधिकारत्वात् पुण्योपचयेन हिताः तदभावेन अहिताः तासां संचारक एक एव व्यवहारभेदात् पञ्चभेदो वायुः तासां च द्वे प्रधाने - दक्षिणोत्तरसंबद्धे अग्नीषोमात्मके तद्द्वारेण प्राणस्य ऊर्ध्वगमनम् प्. १४) अहः अधोऽपानस्य रात्रिः एतेन अर्धमासमासर्तुवत्सरादिकालविभागोऽपि व्याख्यातः समप्राणचारो विषुवत् तयोर्मध्ये तृतीया दण्डाकारा ब्रह्मनाडी स्थिता तत्र निरुद्धप्राणो योगी दीपाकारम् आत्मानं पश्यति इति अत एवोक्तं - सम्यग्दर्शनसंपन्नः कर्मभिर्न स बध्यते | दर्शनेन विहीनस्तु संसारं प्रतिपद्यते || इति | संसारप्रवृत्तौ च तस्य कलातो विषयविभेदो मुनिभिरुक्तः तथाहि परद्रव्याण्यभिध्यायंस्तथानिष्टानि चिन्तयन् | वितथाभिनिवेशी च जायतेऽन्त्यासु योनिषु || पुरुषोऽनृतवादी च पिशुनः पुरुषस्तथा | अनिबद्धप्रलापी च मृगपक्षिषु जायते || अदत्तादाननिरतः परदारोपसेवकः | हिंसकश्चाविधानेन स्थावरेपूपजायते || इत्यादि अयं तु उक्तयातनस्य नियोगः अद्वयरूपस्य आत्मनः कुतस्त्योऽयं भेदः? इति चेत् - मायामहामोहविकल्पकल्पित इत्याह - आकाशमेकं हि यथा घटादिषु पृथग्भवेत् | तथात्मैकोऽप्यनेकश्च जलाधारेष्विवांशुमान् || प्. १५) इति | न च अपक्वकषायस्य कदाचिदपि उक्तरूपम् आत्मज्ञानं भवति तथा च - मलिनो हि यथादर्शो रूपालोकस्य न क्षमः | तथा ह्यपक्वकरण आत्मज्ञनस्य न क्षमः || इत्याद्युक्तम् | इत्यलं भूयसा उक्तेन | एवम् असौ भगवान् स्वातन्त्र्यशक्तिमहिम्ना पशुदशाम् अवलम्बमानो भोगोपदानप्रवणः संपूर्णदेहप्राणबलः सन् उक्तेन षडध्वजालक्रमेण प्रबुद्धः शरीरपरिग्रहम् आसादयति क्रमेण भुक्तेषु कर्मसु षडिर्भावविकारैर्जरारोगादिभिः काययन्त्रे विघटमाने देहस्तम्भो वेपथुर्नाडीचक्रसंकोचः क्वचिद्विपर्ययेण तद्विकासो मर्मभङ्गः शोष इत्यादि पूर्वसंस्थापनोपमर्दकं सर्वम् उपपद्यते यावत् विनश्यति विनाशश्च क्षणिकोऽस्य यद्यपि तथापि स्थूलया वृत्त्या दशभिर्दशभिरभिव्यक्तः प्रोक्तः | तथाहि - बाल्यं वृद्धिर्बलं प्रज्ञा त्वक्चक्षुः श्रोत्रमिन्द्रियम् | आसनं शयनं पुंसां दशभिर्दशभिर्व्रजेत् || इत्युक्तं | ततश्च तस्मिन् शरीरयन्त्रे विघटिते सा संवित् प्राणनात्मताम् अवलम्ब्य आंतिवाहिकेन - प्. १६) देहेन देहान्तरं नीयते ततश्च आतिवाहिकं शरीरकं भूतभविष्यद्देहान्तराले युग्यस्थानीयं संभवति यदारूढोऽसौ पुद्गलः शरीरान्तरासङ्गम् अनुभवति उक्तं च कोशभाष्ये - मृत्यूपपत्तिभवयोरन्तरा भवतीह यः | गम्यदेशानुषक्तत्वादुपपन्नोऽन्तराभवः || व्रीहिसंतानसाधर्म्यादवच्छिन्नसमुद्भवः | प्रतिबिम्बमसिद्धित्वादसाम्याच्च निदर्शनात् || स पुनर्मरणात्पूर्वमुपपत्तिक्षणात्परम् | स्वजातिशुद्धकर्माक्षदृश्यकर्मविवेकवान् || इति | श्रुतिश्च - द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः | अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः || इति अयमर्थः - हे सूर्ये भगवति आत्मशक्ते ब्रह्माणः ब्रह्मवादिनः ऋतुथा काले काले ते तव संबन्धिनी द्वे चक्रे विदुः चक्रमिव चक्रं परिवर्तसाधर्म्यात् शरीरमुच्यते तयोर्द्वित्वं वर्तमानभाविभेदात् अतस्तयोरन्तरे कथितया युक्त्या यदेकमातिवाहिकाख्यं तत् गुहा गुप्तम् अनुपलक्ष्यम् इत्यर्थः अत एव तदद्धातयः इत् विदुः योगिन एव जानन्ति इति तात्पर्यम् | प्. १७) तथा च जाग्रदवस्थायां दृढकरणस्य प्रमातुरिन्द्रियाणि श्रोत्रादीनि शब्दादयश्च विषया भवन्ति तथा प्रमेयसमये प्रचलितम् अन्तःकरणमिन्द्रियं यियासुता च विषयः तामेव यियासुताम् अधिकृत्य प्रवरमुनिः पाराशर्यः समाधितवान् यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् | तं तमेवैति कौन्तेय सदा तद्भावभावितः || इति | अयमत्र संक्षेपार्थः - संभवभोगः जन्मभोगः स्थितिभोगश्च इति तिस्रः शरीरस्य प्रागवस्थाभवन्ति हि तथाहि - जठरे चेतनायां संजातायां गर्भभोगः प्रसवसमये जन्मभोगः प्रसूतस्य बाल्यादिवयः परावृत्त्या विचित्रः स्थितिभोगः | मृतिभोगः यियासुता च द्वे चरमावस्थे तत्र मृतिभोगः विचित्रा शरीरपीडा यियासुता आतिवाहिकशरीरसंबद्धा तामेव च यियासुतामुद्दिश्य - यं यं वापि स्मरन्भावम् * * * * * * * * | इत्यादि प्रवृत्तं अत एव भूतभविष्यदर्थहितार्थवादिनः - प्. १८) स्मरन्निति शब्दप्रत्ययस्य यथार्थः प्रयोगः स्यात् एतदेव च वितत्य श्रीतन्त्रालोके प्रतिपादितम् मृतिभोगः समस्तोऽयं मर्मच्छिन्मूढताक्षगः | तत्रेन्द्रियाणां संमोहः श्वासायासपरीतता || यस्त्वसौ क्षण एवैकश्चरमः प्राणनात्मकः | सा देहत्यागकालांशकला प्राणवियोगिनी || तस्यां यदेव स्मरति प्राक्संस्कारप्रबोधतः | तदेव रूपमभ्येति सुखदुःखविमोहितम् || इति | अत्र च विषयनैयत्येन विभागो व्यासमुनिनैव कृतः | यदा सत्त्वे विवृद्धे तु प्रलयं याति देहभृत् | इत्यादिना ग्रन्थेन | ता एताः शरीरावस्थाः पञ्चारे चक्रे परिवर्तमाने तस्मिन्नातस्थुर्भुवनानि विश्वा | इत्यादिश्रुतावुक्ताः | अन्यत्रापि - संभवो जन्म सत्ता च मृतिश्चाथ यियासुता | एताः पञ्च शरीरस्य परिणामविपत्तयः || इत्युक्तम् | एतदेवमुक्तरूपेण असौ आतिवाहिकेन देहेन देहान्तरं नीयते सोऽपि देहः सुप्तोत्थितात् प्रबोधम् अवाप्य प्राणिति - प्. १९) उक्तेन चक्रेण सोऽपि विनश्यति यावत् अरघट्टघटीयन्त्रवत् परिवर्तमानोऽणुः नानाकायनिकायैः संसरति संसारे | तथा च श्रुतिः - सस्यमिव मर्त्यः पच्यते सस्यमिव जायते पुनः | इति | वासांसि जीर्णानि यथा विहाय | इत्यादिना व्यासमुनिनापि एतदुक्तम् | अथ कदाचित्परमेश्वरानुग्रहशक्तिपातपवित्रितः केनापि दीक्षादिना उपायेन संविदानन्दविश्रान्तम् अद्वयं निजं रूपं परामृशति ततः स्वरूपमालम्बते यथोक्तं श्रीमालिनीविजये - एवमस्यात्मनः काले कस्मिंश्चिद्योग्यतावशात् | इत्युपक्रम्य - तत्क्षणाद्वोपभोगाद्वा देहपाते शिवं व्रजेत् | इत्येवमन्तेन ग्रन्थेन | यद्वा क्वापि परमेश्वरायतने शरीरम् अतिवाह्य पूर्वे विधौ क्रमेण परमेश्वरीभवति तदुक्तं श्रीसात्त्वतायाम् - प्रासादद्वारदेशाच्च यत्र शङ्खध्वनिश्चरन् | प्रयाति सर्वतो दिक्षु तत्क्षेत्रं वैष्णवं मतम् || मुनिप्रणीताद्द्विगुणं तदेव परिकीर्तितम् | सिद्धावतारिताद्देवात्तदेव त्रिगुणं स्मृतम् || प्. २०) चतुर्गुणं स्वयं व्यक्ताद्देहान्ते भावितात्मनाम् | फलं सायुज्यतापूर्वं विज्ञेयं तु क्रमात्ततः || दुष्टेन्द्रियवशाच्चित्तं नृणां यत्कल्मषेरितम् | तदन्तकाले संशुद्धिं याति नारायणालये || इति | श्रीमदमृतेशशिखायामपि - ये तु तत्त्वावतीर्णानां शङ्कराज्ञानुवर्तिनाम् | स्वयंभूमुनिदेवर्षिमनुजादिभुवां गृहे || मृतास्ते तत्पुरं प्राप्य पुरेशैर्दीक्षिताः क्रमात् | मर्त्येऽवतीर्य वा नावा प्रयान्ति परमं पदम् || तत्र स्वयंभुवो द्वेधा केऽप्यनुग्रहतत्पराः | केऽपि स्वकार्येणायाताः पूर्वे निर्वाणदायिनः || इति | तत्रापि न सर्वस्य मोक्ष इत्युक्तम् - पशुमात्रस्य सालोक्यं सामीप्यं दीक्षितस्य तु | तत्परस्य तु सायुज्यमित्याज्ञा पारमेश्वरी || यस्तूर्ध्वशास्त्रगस्तत्र त्यक्तास्थः संशयेन सः | व्रजेदायतनं नैव स फलं किंचिदश्नुते || दीक्षायतनविज्ञानद्वेषिणो ये तु चेतसा | आचरन्ति च तत्ते वै सर्वे निरयगामिनः || ये च स्वभ्यस्तविज्ञानमयाः शिवमया हि ते | जीवन्मुक्ता न तेषां स्यान्मृतौ कापि विचारणा || इति | अत एव उक्तं श्रीनिशाटने गोदोहमिषुपातं वा नयनोन्मीलनं च वा | सम्यग्युक्तः परे तत्त्वे न भूयो जन्मभाग्भवेत् || प्. २१) यस्मात्पूर्वं परे न्यस्तो येनात्मा ब्रह्मणि स्वयम् | स्मरणं तु कथं तस्य प्राणान्ते समुपस्थिते || इति | श्रीरामभट्टारकेऽपि तावत्क्षेत्रं तथा तीर्थं यावद्ब्रह्मणि नो विशेत् | तद्विदित्वा श्वपाकोऽपि मत्समो नात्र संशयः || इति | भगवता भेगिपतिनापि तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्देहम् | ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः || इति | श्रीमत्पौष्करायामपि उक्तम् क्षित्यन्तानां च तत्त्वानां देवत्वेन व्यवस्थितः | मन्त्रज्ञो भगवद्भक्तः श्रद्दधानः सदास्तिकः || यत्र यत्राश्रमे चैव निवसेत्संयतेन्द्रियः | स्वदेहस्थं स्मरेन्नित्यं स्वमन्त्रं न्यस्तविग्रहः || देहसंन्यासकाले तु विश्रान्तो यत्र कुत्रचित् | प्रयाति पदमाद्यं वै समुत्क्रान्तः स्वविग्रहम् \| इति | अन्यत्रापि शरीरमेवायतनं नान्यदायतनं व्रजेत् | तीर्थमेकं श्रयेन्मन्त्रमन्यतीर्थानि वर्जयेत् || प्. २२) इति | तथा - स्वस्थचेष्टाश्च ये मर्त्याः स्मरन्ति मम नारद | काष्ठपाषाणतुल्यांस्तानन्तकाले स्मराम्यहम् || इत्युक्तं | न च संस्थितस्य उत्तमतया अधिकारिणो लोकयात्राप्रसिद्धास्रुविमोचनादिपरिदेवितं कार्यम् यथोक्तं श्रीपूर्वशासने निषिद्धं सर्वशास्त्राणां रोदनं कायशासनम् | विशेषाद्भैरवे तन्त्रे शम्बरं पशुकल्पितम् || अयुक्तमिममाचारं त्यजेद्वै नौर्ध्वदैहिकम् | इति | श्रीमतरहस्यतिलकेऽपि उत्तमनयाधिकारिणां संवृतनिजसदाचाराणां लोकप्रसिद्धिरक्षायै तदाचारापरित्यागोऽपि आम्नातः तथाहि लोकाचारस्य विच्छेदो न कर्तव्यः कदाचन | गुह्यं गुह्यतरं कार्यं बाह्यं बाह्यान्तरं तथा || इति | अनयोश्च पक्षयोरेकतरपक्षावलम्बने प्रवरगुरव एव प्रमाणम् | पित्रुद्देशेन च यागजपहोमोपवासादि गुरुमाराध्य अवश्यं विधातव्यम् इत्युक्तम् श्रीमहाकुले - प्. २३) आसूत्रिते भागलुप्ते यथेष्टरजसान्विते | अपि मन्त्रमनाहूय मण्डले विधिचोदिते || संनिधानं प्रकुर्वन्ति मन्त्राणां सप्तकोटयः | किं पुनः कौलिकाम्नायस्तत्राहूय प्रपूजितः || समुद्दिश्य पितॄन्भद्रे तदानन्त्याय कल्पते || इति | श्रीप्रचण्डभैरवेऽपि उक्तम् - तनुवित्ताश्च ये मर्त्या गुरुमन्त्रपरायणाः | विशेषेण महायागपूजनं प्रति न क्षमाः || सिद्धलिङ्गं तदा तेषां पित्रर्थं पूजयेद्बुधः | उचितं पूजनं तत्र देवानामपि दुर्लभम् || कुलान्युद्धरते तत्र दश पूर्वापराण्यपि | इति | श्रीभागेशमतेऽपि - विषसर्पाग्न्यपस्मारक्षुधात्यशनबन्धनैः | चण्डालोदकनिर्घातराजशासनतस्करैः || निदाघशीतशकटलूतोषितमहाव्रजैः | ब्राह्मणम्लेच्छपाषण्डिनिर्मूलोड्डामरक्रमैः || ये हताः पापकर्माणो मित्रद्रोहरताश्च ये | स्वामिद्रोहकृताश्चान्ये ये तथात्मोपघातकाः || गुर्विण्यो दुश्चरित्राश्च प्रसवेन हताश्च याः | तेषामुद्धरणोपायो नान्योऽस्ति वरवर्णिनि || विना यागं विना होमं विना मूर्तिपरिग्रहम् | विना महाजालविधिप्रयोगाहृतपुद्गलम् || मृतोद्धरणसंज्ञां च दीक्षां सर्वाध्ववर्तिनीम् | प्. २४) इति | तदयं तावत् ऊर्ध्वशासनवर्तिनां क्रमः | इतरेषां तु स्वशास्त्रसमयोपन्यस्तानुष्ठानमेव श्रेयः तदलमनेन | एवं समनन्तरोदीरितया नीत्या जन्ममरणप्रबन्धसंबन्धम् अवधार्य अकृत्रिमस्वरूपपरामर्शनेन जीवन्मुक्तिमासाद्य कृतकृत्यतामालम्बन्ते सन्तः | यथोक्तम् - विदितमतिसतत्त्वाः संविदम्भोनिधाना- दचलहृदयवीर्याकर्षनिष्पीडनोत्थम् | अमृतमिति निगीर्णे कालकूटेऽपि देवा यदि पिबत तदानीं निश्चितं वः शिवत्वम् || इति | श्रीमद्योगेश्वराचार्यप्रसादासादितस्थितिः | वामदेवश्चकारेदं जन्ममृत्युविचारणम् || अभिनवमदमन्थरा पुरन्ध्री मधुसमये मधुराश्च गीतिबन्धाः | बत बत हृदयं हरन्ति वाचो ललितपदाश्च रहस्यवस्तुगर्भाः || समाप्तोऽयं जन्ममरणविचाराख्यो ग्रन्थः || प्. २५) कृतिस्तत्रभवन्महामाहेश्वराचार्यवर्यश्रीमद्भट्टवामदेवस्य अ || सद्विद्यानां संश्रये ग्रन्थविद्वद्- व्यूहे ह्रासं कालवृत्त्योपयाते | तत्तत्सद्धर्मोद्दिधीर्षैकतान- सत्प्रेक्षौजःशालिना कर्मवृत्त्यै || २ || श्रीमत्कश्मीराधिराजेन मुख्यै - र्धर्मोद्युक्तैर्मन्त्रिभिः स्वैर्विवेच्य | प्रत्यष्ठापि ज्ञानविज्ञानगर्भ- ग्रन्थोद्धृत्यै मुख्यकार्यालयो यः || २ || तत्राजीवं निर्विशद्भिर्मुकुन्द- रामाध्यक्षत्वाश्रितैः सद्भिरेषः | पूर्त्या शुद्ध्या व्याख्यया संस्कृतः स्तात्- पूर्णो ग्रन्थः श्रेयसे सज्जनानाम् || ३ || तिलकम् || श्रीस्वात्मचिदमृतवपुःशंकरार्पणं भूयात् || ########### END OF FILE #######