#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00123 Uniform title: jayākhyasaṃhitā Editor : kṛṣṇamācārya embar Description: Transcribed from the critical edition of Embar Krishnamacharya of the Baroda Oriental Institute Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Sept. 17, 2008 Publisher : Baroda Oriental Institute Publication year : 1957 Publication city : Baroda Publication country : India #################################################### ओं श्रीपाञ्चरात्रे जयाख्यसंहिता शास्त्रारम्भप्रयोजनं नाम प्रथमः पटलः नमः सकलकल्याणदायिने चक्रपाणये | विषयार्णवमग्नानां समुद्धरणहेतवे || १ || [शास्त्रावतरणम्] सुसिद्धपूजिते स्थाने देवब्रह्मर्षिसेविते | तपस्विजनसङ्कीर्णे पुण्यकृद्भिर्निषेविते || २ || तीर्थोत्तमे प्रभासे वै यत्र सन्निहितः सदा | विश्वात्मा भगवान् विष्णुर्लोकानुग्रहकृत्प्रभुः || ३ || तत्र शुश्रूषणपरः पित्रादिगुरुसन्ततेः | नित्यमेवापवर्गार्थी विरागी वीतमत्सरः || ४ || संवर्तकः कान्तिनिधिर्दृष्ट्वा मग्नं स्वकं वपुः | प्राञ्जलिः प्रणतो भूत्वा और्वं पितरमब्रवीत् || ५ || संवर्तकः- संसारार्णवमग्नस्य ममोपायो हि कथ्यताम् | यं ज्ञात्वा न पुनर्जन्म स्यान्ममान्यस्य कस्यचित् || ६ || और्वः- पुरा कृतयुगे वत्स मत्पूर्वैः संयमस्थितैः | वेदवेदाङ्गपारज्ञै ऋषिभिश्च तपोधनैः || ७ || केनापि चात्मभावेन एतदालोचितं तु वै | बहून्यब्दसहस्राणि तपस्तप्त्वा सुदारुणम् || ८ || प्. २) (सन्तोषनियमाढ्यं च व्रतचर्यासमन्वितम्) [निःश्रेयसालाभान्महर्षीणां निर्वेदः] कालेन तपसोऽन्ते वै वयं सद्धर्ममास्थिताः | सिद्धिगोचरमप्राप्ताः प्रोच्छ्वसन्तः पुनः पुनः || ९ || न विद्मः किं भविष्यामो ह्यद्यापि गहने भवे | न स्थितिः शाश्वती स्वस्थे न च बन्धपरिक्षयः || १० || न चैवेह स्थिरा भोगाः किं कुर्यामोऽत्र वैशसे | इत्येवं गहने प्राप्ते तपसश्चानवस्थितेः || ११ || संप्राप्ताः स्म ततो मोहं तदा वाणी महत्यभूत् | भगवद्धर्मजिज्ञासैर्ध्यानासक्तैः प्रचोदिता || १२ || [परतत्त्वज्ञानस्य निःश्रेयसहेतुत्वम्] न यज्ञवेदाधिगमैर्नच दानैस्तु केवलैः | क्रियाभिर्न त्वनेकाभिर्व्रतैश्चान्द्रायणादिकैः || १३ || स्वर्गे वै न भवेत् स्थैर्यं बन्धमोक्षश्च वै कुतः | अज्ञाते परतत्त्वे तु शाश्वते चाक्षयेऽच्युते || १४ || व्यापके तु जगन्नाथे नित्यतृप्ते निरञ्जने | इच्छारूपधरे नित्ये शुद्धे बुद्धे सुनिर्मले || १५ || एवमाद्यः परो देवो ज्ञातो यावन्न वै द्विजाः | तावदेवापवर्गस्तु दुर्लभो युगकोटिभिः || १६ || तस्माद्यतध्वं येनाशु हृदावासो जगद्गुरुः | केवलं चित्स्वरूपश्च गुणगुण्यश्च निर्गुणः || १७ || प्रसादमेति वै क्षिप्रमनाथानामसंशयः | अभूतपूर्वं श्रुत्वैवं स्थितास्ते हृष्टमानसाः || १८ || तस्मिन्नेव क्षणे पुण्ये श्रुतमात्रेण पुत्रक | किमेतत्केन कथितं किं तद्ब्रह्म ह्यनामकम् || १९ || ज्ञास्यामस्तत्कथं सम्यगेवमूचुः परस्परम् | प्. ३) संशयेऽभिनिविष्टास्तु दीर्घकालं यदा तदा || २० || पुनरेवोत्थिता वाणी गगनादमृतोपमा | [परतत्त्वविवेचनम्] यत्तदक्षरमक्षोभ्यं परं ब्रह्म सनातनम् || २१ || परा गतिर्या सर्वेषामच्युतं वित्त तद्द्विजाः | मुनयो ब्रह्मनिष्णाता यमाश्रित्य भवोदधिम् || २२ || तरन्ति पुण्डरीकाक्षो देवो नारायणस्तु सः | शङ्खचक्रधरं विष्णुमानन्दस्यन्दनिर्भरम् || २३ || ये संश्रयन्ति तं भक्त्या सूक्ष्ममध्यात्मचिन्तकाः | ते यान्ति वै पदं विष्णोर्जरामरणवर्जिताः || २४ || इत्युक्त्वा च ततो भूयः सा वागस्तमिता यदा | तदा वयं हृष्टतुष्टाः प्रायशो विगतज्वराः || २५ || श्रीवत्साङ्कवपुर्देवस्त्राता शास्ति जगत्त्रये | चेतसोऽवस्थितिं कृत्वा ऋषिभिश्च तपोधनैः || २६ || चिन्तितं च तदा भूयो ज्ञास्यामस्तं कथं विभुम् | [परतत्त्वाधिगमोपायजिज्ञासया शाण्डिल्यं प्रत्यभिगमनम्] को वेत्ता देवदेवस्य त्रैलोक्येऽस्मिन् यथार्थतः || २७ || प्रसन्नः कस्य भगवान् परमात्माऽप्यधोक्षजः | प्रभावात्तपसः सर्वं चिन्तितं मनसा तदा || २८ || यथावद्विदितं पश्चात्सर्वेषां भावितात्मनाम् | कृतकृत्यो जगत्यस्मिन् शाण्डिल्यः श्रूयते भुवि || २९ || ते चैवं स्वश्रमात्सर्वे फलपुष्पकरोद्यताः | प्रयाताः स मुनिर्यत्र कृतकृत्योऽवतिष्ठते || ३० || सुखासीनो द्विजैः सार्धं योगैश्वर्यसमन्वितः | तपसा तेजसा युक्तः पर्वते गन्धमादने || ३१ || नानाश्चर्यसमायुक्ते नानापुष्पोपशोभिते | फलद्रुमसमाकीर्णे नानाधातुविचित्रिते || ३२ || सिद्धैरध्यासिते रम्ये देवजुष्टे मनोरमे | तपश्शीलैस्सुदान्तैश्च योगव्रतपरायणैः || ३३ || प्. ४) सच्छिष्यैर्ज्ञानसंपूर्णैर्वृतश्चन्द्र इव ग्रहैः | दृष्ट्वा(ष्टो ?) ज्ञानक्रियाढ्योऽसावृषिभिः प्राञ्जलिस्थितैः || ३४ || स चाभिवादितस्सर्वैः क्रमात्तेन च ते तथा | पूजिताः फलमूलाद्यैरम्बुना कुसुमैस्सह || ३५ || निवृत्तेऽभ्यागते धर्मे सोत्सुकैर्भगवान्मुनिः | पृष्टस्तपोधनैस्सर्वैः शाण्डिल्यस्सुरपूजितः || ३६ || [भगवत्तत्त्वतदाराधनप्रकारप्रश्नः] भगवन्श्रोतुमिच्छामो विष्णोरद्भुतकर्मणः | उपासालक्षणं कर्म कथयस्व प्रसादतः || ३७ || श्रुतमत्यद्भुतं यस्मादस्माभिर्गगनान्तरात् | अज्ञाते भगवत्तत्वे दुर्लभा परमा गतिः || ३८ || तथाऽनाराधिते चैव सात्विकेन तु कर्मणा | सन्तारणार्थमस्माकमन्येषां भविनां तथा || ३९ || यथार्थं भगवद्धर्म वक्तुमर्हसि सर्वथा | [अस्य शास्त्रस्य प्रवृत्तिक्रमः शाण्डिल्यः-] श्रुणुध्वं संयतास्सर्वे विष्णोरद्भुततेजसः || ४० || सारभूतमिदं शास्त्रं ज्ञानोपनिषदं महत् | रहस्यमप्रकाश्यं च ब्रह्मगर्भं च शाश्वतम् || ४१ || अनुग्रहार्थं च पुरा कथितं नारदस्य तत् | तथाचातिरहस्यत्वाल्लोकेऽस्मिन्न प्रकाशितम् || ४२ || न चापि चोदितं चैव केनचिद्धर्मगौरवात् | तथोक्तस्य (तथाऽनेक ?) दिनस्यान्ते अन्तर्धानगतं तु तम्(त् ?) || ४३ || भूयश्चैवावतीर्णेन विष्णुना प्रभवष्णुना | मुनेर्वै स्वांशभूतस्य यदुक्तं पुनरेव हि || ४४ || बदर्याश्रमसंस्थेन प्रभुना लोककारिणा | धर्ममार्गावतारार्थं व्रतेनानेन सत्तमाः || ४५ || सिद्धानं शृण्वतां चैव तथा गगनचारिणाम् | प्. ५) देवानां च ऋषीणां च नरादीनां तथैव च || ४६ || मृकण्डुतार्क्ष्यपूर्वाणामादित्यानां महात्मनाम् | किन्नराणां च दैत्यानां वसूनां भावितात्मनाम् || ४७ || साङ्ख्यानां योगसिद्धानां ज्ञानविज्ञानवेदिनाम् | [गुरोर्नारदादधिगतस्यास्य शास्त्रस्य मुनीन् प्रति यथाधिगतमुपदेशप्रतिज्ञा] तच्छृणुध्वं मुनिश्रेष्ठाः धर्मं संसारतारकम् || ४८ || यादृक्प्राप्तं मया पूर्वं परितुष्टाच्च नारदात् | सर्वज्ञानक्रियायुक्तं सर्वसिद्धिप्रसाधनम् || ४९ || संक्षिप्तं च महार्थं यत्तथा सम्यग्विवेकदम् | ज्ञात्वैवं सारभूतं च अधीतं हि पुरा मया || ५० || यस्माद्वै धर्मकामार्थमोक्षाणामाशुसिद्धिकृत् | अधीत्य च श्रुतं पश्चात् ज्ञानानां ज्ञानमुत्तमम् || ५१ || यत्प्रसादात्तु वै भूयो भवेऽस्मिन्न भवाम्यहम् | तद्युष्मभ्यं प्रवक्ष्यामि आम्नायेन यथास्थितम् || ५२ || [श्रद्धाभक्तिपूर्वकमुपसन्नस्यैव शास्त्रस्यास्योपदेशे पात्रता |] रहितं संशयैस्सर्वैर्गुरुशिष्यक्रमेण तु | परिज्ञातं क्रमेणैव यस्माच्छास्त्रं फलप्रदम् || ५३ || तस्मान्नयं द्विजाः पूर्वमाश्रयध्वं प्रयत्नतः | भक्तिश्रद्धासमेतं तु अस्तित्वे (आस्तिक्ये ?) नाप्यलङ्कृतम् || ५४ || सर्वस्वमपि यो दद्यात् भक्तिश्रद्धाविवर्जितः | नयाचारविनिर्मुक्तो मानी शास्त्रार्थदूषकः || ५५ || न तस्य शास्त्रं वक्तव्यं ब्रूते वा यस्स यात्यधः | समाचारेण यो ब्रूयाच्छृणुयाद्यश्च तावुभौ || ५६ || गच्छेतां तु जगद्योनेः पदं घोरविपर्ययात् | [गुरोर्महिमानुवर्णनगर्भं गुरौ भक्तेः श्रेयःसाधनत्ववर्णनम्] शास्त्रायत्ता यतः सर्वे भोगमोक्षादयो द्विजाः || ५७ || वैष्णवं ज्ञानवक्तारं विद्याद्विष्णुवद्गुरुम् | प्. ६) पूजयेद्वाङ्मनःकायैस्स शास्त्रज्ञस्स वैष्णवः || ५८ || श्लोकपादस्य वक्ताऽपि यतः पूज्यस्सदैव हि | किं पुनर्भगवद्विष्णोस्स्वरूपं विवृणोति यः || ५९ || शास्त्रस्य चैव वक्ताऽपि तद्भावगतमानसः | विभोः शास्त्रस्य च गुरोस्त्रितयस्यास्य पूजनात् || ६० || फलं भवत्यनूनं वै इह लोके परत्र च | नारायणः परं ब्रह्म तज्ज्ञानेनाभिगम्यते || ६१ || ज्ञानस्य साधनं शास्त्रं तच्छास्त्रं गुरुवक्त्रगम् | ब्रह्मप्राप्तिरतो हेतोर्गुर्वधीना सदैव हि || ६२ || हेतुनाऽनेन वै विप्रा गुरुर्गुरुतमःस्मृतः | यस्माद्देवो जगन्नाथः कृत्वा मर्त्यमयीं तनुम् || ६३ || मग्नानुद्धरते लोकान् कारुण्याच्छास्त्रपाणिना | तस्माद्भक्तिर्गुरौ कार्या संसारभयभीरुणा || ६४ || शास्त्राञ्जनेन योऽज्ञानतिमिरं विनिपातयेत् | शास्त्रं पापहरं पुण्यं पवित्रं भोगमोक्षदम् || ६५ || शान्तिदं च महार्थं च वक्ति यस्स जगद्गुरुः | [अथ तत्त्वशुश्रूषया मुनिभिः शिष्यभावः] इत्युक्तास्तेन मुनयो मुनिना ब्रह्मवेदिना || ६६ || त्यक्तासनास्ततस्सर्वे बभूवुश्शान्तमानसाः | तत्पादमूले पतितास्तच्चित्तास्तत्परायणाः || ६७ || [अथोपदेशारम्भः] दत्तो मूर्ध्नि ततस्तेषां मुनीनां भावितात्मनाम् | विष्णुहस्तश्च (?) तुष्टेन मुनिना ब्रह्मवेदिना || ६८ || अथोवाच स विप्रेन्द्रः प्रणिपत्याच्युतं हरिम् | क्रमागतं महच्छास्त्रं ज्ञानामृतंफलप्रदम् || ६९ || [अस्य शास्त्रस्यारम्भकालं-प्रवर्तकपुरुषविशेष- आख्याविशेषाणां निरूपणम्] कृते युगे प्रवृत्ते तु कस्मिंश्चिन्मुनिसत्तमाः | प्. ७) पौष्करे ब्रह्मकल्पे तु प्रत्यक्षस्थेऽप्यघोक्षजे || ७० || कामक्रोधविनिर्मुक्ते प्रवृद्धे तु पितामहे | स्थिते निष्कण्टके सम्यक्त्रैलोक्ये सचराचरे || ७१ || संप्रवृद्धे तथा धर्मे अधर्मे नाशमागते | नारदेन यथा पृष्टो देवः कमललोचनः || ७२ || जयार्थमपि भक्तानां हितार्थमपि चात्मनः | अनुष्टुप्छन्दोबद्धेन सारात्सारतरा शुभा || ७३ || प्रोक्ता त्रैलोक्यगुरुणा पृच्छते नारदाय तु | सारभूतं समुद्धृत्य संहिताऽमृतगर्भिणी || ७४ || सर्वज्ञत्वगुणेनैव कृत्स्नं ज्ञात्वा च तत्त्वतः | सार्धकोटिप्रमाणं तु ज्ञातृज्ञानोपबृंहतिम् || ७५ || जयाव्यं निषदं तन्त्रं ब्रह्ममूलाद्विनिस्सृतम् | अमूर्ताद्गगनाद्यद्वत् निर्घातो जायते स्वयम् || ७६ || शान्तात्संविन्मयात्तद्वच्छास्त्रं शब्दात्म चोत्थितम् | अविकारमसङ्कल्पं यद्रूपं तत्परं विभोः || ७७ || यद्विकारं जगद्धातुश्शब्दब्रह्मेति तत्स्मृतम् | ततःप्रभृति कालाच्च लोकेऽस्मिन्मुनिसत्तमाः || ७८ || जयेति विमलं नाम प्रणीतं विश्वकर्मणा | [अधिकः पाठः] पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् | इति सर्वत्र विख्यातं भगवच्छास्त्रगौरवम् || १ || सात्त्वतं पौष्करं चैव जयाख्यं तन्त्रमुत्तमम् | रत्नत्रयमिति ख्यातं तद्विशेष इहोच्यते || २ || सारं सात्त्वतशास्त्रस्य रहस्यं प्राज्ञसंमतम् | रत्नत्रयमिदं साक्षाद्भगवद्वक्त्रनिःसृतम् || ३ || प्रवर्तितं तथैवेदमन्यूनानधिकत्वतः | अन्यान्यानि तु तन्त्राणि भगवन्मुखनिर्गतम् || ४ || सारं समुपजीव्यैव समासव्यासधारणैः | व्याख्योपबृंहणन्यायाद्व्यापितानि तथा तथा || ५ || व्याख्यामूलनयेनैषां गौरवं सम्प्रतिष्ठितम् | तन्त्रेऽप्यष्टोत्तरशते पारमेश्वरसंहिता || ६ || पौष्करार्थविवृत्यर्था व्याख्यारूपाऽवतारिता | सात्त्वतस्य विवृत्यर्थमीश्वरं तन्त्रमुत्तमम् || ७ || जयाख्यस्यास्य तन्त्रस्य व्याख्यानं पाद्ममुच्यते | भगवद्व्यक्तिदेशेषु स्वयंव्यक्तेषु भूतले || ८ || अष्टोत्तरशते मुख्यं रत्नभूतं चतुष्टयम् | श्रीरङ्गं वेंकटाद्रिश्च हस्तिशैलस्ततः परम् || ९ || ततो नारायणादिश्च दिव्यस्थानचतुष्टयम् | वेंकटाद्रिं विनाऽन्येषु देवदेवस्य धामसु || १० || रत्नेषु त्रिषु रत्नानि त्रीणि तन्त्राण्युपासते | मूलव्याख्यानरूपत्वादुपजीव्यं परस्परम् || ११ || तन्त्रत्रयमिदं विद्यादेकशास्त्रं तथा बुधः | सात्त्वतं यदुशैलेन्द्रे श्रीरङ्गे पौष्करं तथा || १२ || हस्तिशैले जयाख्यं च साम्राज्यमधितिष्ठति | पाद्मतन्त्रं हस्तिशैले श्रीरङ्गे पारमेश्वरम् || १३ || प्. ९) ईश्वरं यादवाद्रौ च कार्यकारि प्रचार्यते | श्रीरङ्गाद्यादवाद्रेश्च हस्तिशैलो विशिष्यते || १४ || पद्मरागाच्च वैडूर्याद्यथा वज्रं महागुणम् | पुरा कृतयुगे ब्रह्मा साक्षात्कृत्य रमापतिम् || १५ || स्वयं समर्चयित्वाऽथ तदर्चाक्रममुत्तमम् | शिष्येभ्यो महनीयेभ्य उपदिश्य कृपावशात् || १६ || तैरेवाराधनं काले कारयत्यब्जसंभवः | इत्येवं नारदाच्छ्रुत्वा पुनरेवाहमब्रुवम् || १७ || भगवन् कमलाकान्तः कथं साक्षात्कृतः कदा | तदेतद्ब्रूहि मे स्वामिन् हस्त्यन्द्रेश्चापि वैभवम् || १८ || इति पृष्टो मया प्राह नारदो भगवान् ऋषिः | साधु पृष्टोऽस्म्यहं वत्स श्लाघनीयोऽसि मे मतः || १९ || यदद्य करिशैलस्य वक्ष्यामि तव वैभवम् | पुरा मयोपसन्नेन भगवान् भूतभावनः || २० || जगत्स्रष्टा सुराधीशोऽनुयुक्तश्चतुराननः | हस्तिशैलस्य माहात्म्यं वरदस्य कृपारसम् || २१ || सत्यव्रतस्य क्षेत्रस्य वैभवं चान्ववर्णयत् | तत्तेऽहं संप्रवक्ष्यामि संग्रहेणैव सारवत् || २२ || सावधानः शृणु प्रीत्या गुह्यं सारमिदं यतः | भगवन्नाभिपाथोजाज्जातो धाताऽब्जसंभवः || २३ || सृष्ट्वा चराचरं विश्वं गर्वं परमुपाययौ | आभिजात्यं सदाचारो विद्या चेति मदत्रयम् || २४ || सर्वानेवाभिभवति किमु सर्वाधिके पदे | ततोऽसौ मत्तचित्तः सन् देवदेवं रमापतिम् || २५ || साक्षाच्चिकीर्षुर्योगेन परं यत्नमुपागमत् | देवदेवस्वरूपादिसाक्षात्कारविरोधिना || २६ || अप्रमेयेन महता दुष्कृतेनैष वारितः | पुनः पुनः प्रयत्नेऽपि सुमहत्यप्यनुष्ठिते || २७ || न स सिद्धिमनुप्रापत् समाधेः प्रत्यहन्यत | अथ चिन्तापरो दीनश्चिन्तयित्वा मुहुर्मुहुः || २८ || प्. १०) वृथैवाचरितं कष्टमियता मन्दबुद्धिना | देवावाससमारोहावारोहाभिख्यकेलितः || २९ || निर्मोचनार्थमेकोऽपि क्षणो हन्त न यापितः | अथालम्ब्य धृतिं धीमान् भूलोकं प्रत्यपद्यत || ३० || गङ्गामध्ये महद्घोरं तपस्तप्तुमुपाक्रमत् | अङ्गुष्टाग्रपदात्तिष्टन्निरुद्धश्वासचेष्टितः || ३१ || ऊर्द्ध्वबाहुर्निराहारस्तपस्तेपे सुदारुणम् | कापेयचपलं चित्तं न स्वास्थ्यं प्राप तस्य यत् || ३२ || क्षणमात्रमपि श्रीशं न ध्यातुं प्राभवत्ततः | अथ दीने कृशे धातर्याकाशादशरीरिणी || ३३ || वाणी प्रादुरभूत्पुण्या बोधयामास पद्मजम् | अधिकारमहानन्दरसमग्रस्य ते मनः || ३४ || सहस्रेणाश्वमेधानां विना शुद्धिं न गच्छति | अशुद्धस्येह मनसः स्वास्थ्यं संपाद्यतां कथम् || ३५ || अस्वस्थे मनसि ध्यानं साधु निष्पद्यतां कथम् | कर्तव्यगौरवात्कालविलम्बाच्च बिभेषि चेत् || ३६ || उपायं सुकरं वक्ष्ये यथावदवधारय | गङ्गाया दक्षिणे भागे योजनानां शतद्वये || ३७ || पञ्चयोजनविस्तारं पञ्चयोजनमायतम् | तीरान्तं पूर्ववाराशेः सर्वैः सुमहितं गुणैः || ३८ || सिद्धिक्षेत्रं महापुण्यं श्रीशस्याभिमतं परम् | सत्यव्रतमिति ख्यातं यथार्थाख्यावभासकम् || ३९ || एकस्तत्र कृतो धर्मो वर्धते हि सहस्रधा | तत्र त्वमश्वमेधेन यजेरेकेन चेद्धरिम् || ४० || सहस्रस्याश्वमेधानां फलं प्राप्स्यसि निश्चितम् | तत्र शर्वतरे कल्पे दिग्गजा विष्णुमव्ययम् || ४१ || कस्यचिद्गिरिवर्यस्य शिखरे पर्यपूजयन् | तेषामाविरभूद्देवः करुणावरुणालयः || ४२ || कमलाकामुकः कान्तविग्रहः कञ्जलोचनः | ततः प्रभृति शैलेन्द्रो ययौ करिगिरिप्रथाम् || ४३ || प्. ११) तमेव वेदिकां कृत्वा वाजिमेधेन तं यज | लक्ष्मीवल्लभकारुण्यवीक्षावैभवतो महान् || ४४ || धन्यः कृतार्थो विमलो भविष्यसि न संशयः | इति वाणीं समाकर्ण्य विरिञ्चो हृष्टमानसः || ४५ || क्षेत्रं सत्यव्रतं पुण्यं त्वरितं समुपागमत् | त्वष्ट्रा हस्तिगिरेः शृङ्गं टङ्कैः सन्तक्ष्य शोभनाम् || ४६ || यागार्हां यजमानोऽयं यागवेदीमकल्पयत् | यथाशास्त्रं च लक्ष्मीशं सर्वकारणकारणम् || ४७ || ईजेऽजो वाजिमेधेन यागानामुत्तमेन सः | तत्र सर्वेषु मन्त्रेषु तत्तद्दैवतनामभिः || ४८ || पठ्यमानेषु धाताऽयं देवदेवं रमापतिम् | हृदये समनुध्यायंस्तस्मै सर्वं हविर्हुतम् || ४९ || भक्त्या समर्पयन्नेतदलमेकोऽपि वेदितुम् | सर्वमेव हविर्देवः पुण्डरीकेक्षणो हरिः || ५० || स्वयमेव समादाय समास्वादयदादरात् | स्वान् स्वान् भागान्परीकॢप्तान्कालेष्वनधिगच्छताम् || ५१ || उन्मुखानां वञ्चितानां देवानां क्षुभितं मनः | ब्रह्माणमथ ते सर्वे समागत्यान्वयुञ्जत || ५२ || किमिदं वर्तते मोहः क्षोभिता वञ्चिरा? वयम् | ब्रह्मा तु स्मयमानस्तान् सांत्वपूर्वमबोधयत् || ५३ || देवा मया पुरा सृष्टाः स्रष्टाऽहं भवतां पिता | किमेतद्यत्पिता पुत्रानुपास्तां विनयादिति || ५४ || संसारमार्गनिष्णातैस्तत्तत्फलमभीप्सुभिः | यूयमाराधनीया हि तदर्थमधिकारिताः || ५५ || सर्वान्तरात्मा सर्वेशो मम चापि पिता हरिः | कमलावल्लभो देवस्तमेवोद्दिश्य हूयते || ५६ || इह सर्वं हविर्यज्ञे नाममात्रं तु मन्त्रगम् | भवतां तत्तदर्थस्तु भगवान् कमलापतिः || ५७ || इयं मद्यज्ञसारस्य धोरणी सारमाधुरी | परमैकान्तिनां नॄणामप्येषैव निबोधत || ५८ || प्. १२) इति संबोधिता देवा गतक्षोभाः प्रजापतिम् | सारार्थावगमात्तुष्टाः साधु साध्वित्यपूजयन् || ५९ || श्रेयसां किल कार्याणां प्रत्यूहानां शतं शतम् | तथा तत्र महायज्ञे विघ्नानां शतमुत्थितम् || ६० || देवदेवो रमानाथः कृपया परया मुदा | सर्वान्प्रशमयामास प्रत्यूहान् समुपस्थितान् || ६१ || अथ काले बहुगुणे वपाहोमोचिते तदा | आविरासन्निमित्तानि मनोहारीणि सर्वशः || ६२ || मेषमासे सिते पक्षे चतुर्दशतमे तिथौ | शोभने हस्तनक्षत्रे रविवारेण संयुते || ६३ || प्रातः सवनकालीने वपाहोमे समापिते | तां वपामधरे हृह्णन्नग्नेराविरभूद्धरिः || ६४ || सूर्यकोटिप्रतीकाशे तप्तकार्तस्वरोज्वले | विमाने पुण्यकोट्याख्ये श्रीभूमिसहितः प्रभुः || ६५ || पश्चिमाभिमुखो दीप्तकिरीटमकुटोज्ज्वलः | ऊर्ध्वपुण्ड्रोल्लसत्फालपट्टो राजीवलोचनः || ६६ || तिलप्रसूनसौभाग्यनासाकल्पलतान्वितः | प्रवालखण्डसुषमामोषदक्षाधरोष्ठवान् || ६७ || कम्बुगम्भीरकण्ठान्तर्लम्बिकौस्तुभविभ्रमः | श्रीवत्सवक्षा हारश्रीशोभमानभुजान्तरः || ६८ || पञ्चायुधोल्लसद्बाहुचतुष्टयमनोहरः | सपद्मेन करेणोच्चैर्वहन्नभयमुद्रिकाम् || ६९ || गदां चापं च वामेन पाणिना परिभूषयन् | कटिबन्धे धरिन्दिव्यं नंदकं खड्गमुत्तमम् || ७० || पीताम्बरलसन्नाभिगह्वरोज्वलविह्वलः (ग्रहः ?) | कामारामीयकदलीकेलीचोरोरुभास्वरः || ७१ || मुकुराकारजानूत्थलावण्यप्रसराद्भुतः | कलाचिकारुचिस्पर्धिजङ्घाद्वितयसुन्दरः || ७२ || पद्मसौभाग्यसर्वस्वहारिपादमनोहरः | करुणारसपूर्णाभ्यामीक्षणाभ्यां चतुर्मुखम् || ७३ || प्. १३) आदरादनुगृह्णानः स्मिताञ्चदधरान्तिकः | एवं स्वयमुदात्तेन रूपयौवनशोभिना || ७४ || विग्रहेणोदितं देवं रमाकान्तं जगत्पतिम् | आसेव्य सर्वे संहृष्टाः कृतार्थनयनोदयाः || ७५ || अहो भाग्यमहो भाग्यमित्युच्चैरुदघोषयन् | चतुर्मुखोऽपि नयनैरष्टाभिर्देवमच्युतम् || ७६ || प्रणतार्तिहरं नाथं वरदं समसेवत | सहर्षसंप्रभो नानाचेष्टास्तास्ताः स्वयं चरन् || ७७ || क्रमेण शान्तसंरम्भो देवो नाभिप्रचोदितः | वत्स सत्यव्रतक्षेत्रमाहात्म्यं पश्य पद्मज || ७८ || एकेन हयमेधेन सहस्रस्य फलं त्वया | कांक्षितं तेन चित्तस्य शुद्धिस्तेन च चेतसः || ७९ || स्थैर्यं तेन च निष्पत्तिर्ध्यानस्येतीप्सितं त्वया | अन्ते प्रतीक्षितं यत्ते फलं पर्वक्रमात्किल || ८० || प्रथमे पर्वणि प्राप्तं सुखेनैव प्रजापते | प्रसन्नोऽस्मि तवानेन हयमेधेन सुव्रत || ८१ || वपारसोऽयं मधुरो मम हृद्यो मनोऽहरत् | पारमैकान्तिसौरभ्यसारामृतमनोहरा || ८२ || वपेयं सर्वभक्ष्येभ्यो मम प्रीतिकरी सदा | वरं वरय तस्मात्त्वं यथाऽभिमतमात्मनः || ८३ || सर्वं संपत्स्यते पुंसां मयि दृष्टिपथं गते | इति देवेन संदिष्टः प्रहृष्टः परमार्थवित् || ८४ || ब्रह्मा प्रणम्य बहुशः स्तुत्वा च प्रार्थयद्विभुम् | वैकुण्ठे तु यथा लोके यथैव क्षीरसागरे || ८५ || तथा सत्यव्रतक्षेत्रे निवासस्ते भवेदिह | हस्तिशैलस्य शिखरे सर्वलोकनमस्कृते || ८६ || पुण्यकोटिविमानेऽस्मिन् पश्यन्तु त्वां नरास्सदा | इति संप्रार्थितो देवो भगवान् भक्तवत्सलः || ८७ || हिताय सर्वलोकानां तथाऽस्त्वित्यन्वमोदत | तस्मिन् कृतयुगे ब्रह्मा देवदेवमधोक्षजम् || ८८ || प्. १४) स्वयं तेनैव रूपेण समाराधयदच्युतम् | महाशान्तगजेन्द्रोऽथ त्रेतायां हरिमार्चयत् || ८९ || स्वकराग्रोद्धृतैः पद्मैरथ ग्राहेण पीडितः | शरणागतिमाधाय वरदेन विमोचितः || ९० || हरिणा धाम निन्ये स्वं वाहनेन गरुत्मता | अथ द्वापरसंज्ञे तु युगे देवगुरुः स्वयम् || ९१ || आराध्य वरदं देवं स्वाभीष्टां सिद्धिमाप्नुत | ततः कलियुगस्यादौ ब्रह्माणं वरदोऽब्रवीत् || ९२ || परामृशन् जगत्सर्वं प्रहृष्टेनान्तरात्मना | कालोऽयं कलिरायातः सर्वे स्वार्थपरा जनाः || ९३ || न कोऽपि तत्त्वतो भक्तो द्रक्ष्यते कालविप्लवात् | अयुते वा परार्धे वा यदि कोऽपि च तादृशः || ९४ || संभाव्यते गुणोत्कृष्टं न तं लोकोऽनुमंस्यते | दोषानारोपयेत्कश्चिन्मत्सरात्तस्य मूर्द्धनि || ९५ || तं तथैवेति सर्वेऽन्ये धोषयिष्यन्ति सर्वशः | अन्ते तस्यापि नैराश्याच्च्युतिरेव मनोगतेः || ९६ || भविष्यति तथा नाम कालोऽयं कलिरूर्जितः | अतो न रोचते वत्स हस्तिशैलस्य मूर्धनि || ९७ || दिव्येनानेन रूपेण वस्तुं काले कलाविह | प्रतिज्ञातं च कल्पान्तमवस्थानमिहैव मे || ९८ || अतोऽत्र क्रियतामेवमहं त्वामनुमानयेत् | वरदोऽहं विधे भक्तजनानां करुणाकरः || ९९ || अतः स्थलमिदं पुण्यं त्यागमण्टपमुच्यताम् | योगमण्टपसंज्ञातु श्रीरङ्गस्य मया कृता || १०० || पुष्पमण्टपमित्याख्या वेङ्कटादेर्विराजताम् | अन्यद्यदुगिरिस्थानं विद्यामण्टपमुच्यताम् || १०१ || सर्वोत्तममिदं पुण्यं क्षेत्रं स्थानं च शोभनम् | मम प्रीतिकरं दिव्यं मुक्तिक्षेत्रेषु चोत्तमम् || १०२ || नैतस्य सदृशं किञ्चित् क्षेत्रं वा तीर्थमेव वा | अतो मदाज्ञया ब्रह्मन् आलयोऽत्र विधीयताम् || १०३ || प्. १५) सर्वमन्त्रस्वरूपत्वात् सर्वेभ्योऽभ्यधिको भुवि | संस्थानस्यालयस्यास्य स्वरूपं परमार्थतः || १०४ || न वेत्तुं प्रभवेदन्यो मदीक्षावीक्षितान्नरात् | कालिकालोचितां रीतिमाश्रित्य मनसा मया || १०५ || पाञ्चरात्राह्वयं तन्त्रं यथावदवतारितम् | तदुक्तेन प्रकारेण मूलकर्मोत्सवाश्रयाः || १०६ || तिस्रो मूर्तिः प्रतिष्ठाप्य पूजनं प्रतिपादय | बल्यर्चा च विधानेन सादरं परिकल्प्यताम् || १०७ || रत्नेषु त्रिष्वपि श्रेष्ठं जयाख्यं तन्त्रमुच्यते | तदुक्तेन विधानेन प्रतिष्ठादि प्रवर्त्यताम् || १०८ || काण्वीं शाखामधीयानावौपगायनकौशिकौ | प्रपत्तिशास्त्रनिष्णातौ स्वनिष्ठानिष्ठितावुभौ || १०९ || जयाख्यतन्त्रमार्गेण दीक्षयित्वाऽब्जमण्डले | आचार्यके चाभिषिच्य ताभ्यां पूजां प्रकल्पय || ११० || तद्गोत्रसंभवा एव कल्पान्तं पूजयन्तु माम् | जयाख्येनाथ पाद्मेन तन्त्रेण सहितेन वै || १११ || मूलव्याख्यानरूपाभ्यां समर्चयतु मां सदा | न तन्त्रसङ्करो दोषस्तन्त्रयोरनयोरिह || ११२ || आचार्यके तथाऽर्त्विज्ये पूजने वा ममाब्जज | तावेतौ गोत्रिणौ मुख्यौ मम प्रीतिकरौ मतौ || ११३ || परिचर्यासु तत्तासु योग्यान्निर्णीय चेतसा | दीक्षयित्वा च ते तत्र नियुज्यन्तां यथाविधि || ११४ || अत्राधिकारे उभयोस्तयोरेव कुलीनयोः | शाण्डिल्यश्च भरद्वाजो मुनिर्मौञ्जायनस्तथा || ११५ || इमौ च पञ्चगोत्रस्था मुख्याः काण्वीमुपाश्रिताः | श्रीप्राञ्चरात्रतन्त्रीये सर्वेऽस्मिन् मम कर्मणि || ११६ || इह ताभ्यां चिरं वत्स तोषितोऽस्मि तपोबलात् | तयोरयं वरः प्रीत्या प्रादायि प्रार्थितो मया || ११७ || मन्त्रैः कातीयसूत्रेण निर्दिष्टैर्वैदिकैः सह | भगवच्छास्त्रसंसिद्धैर्दिव्यैर्मन्त्रैर्विमिश्रितैः || ११८ || प्. १६) गर्भाधानादिकाः सर्वे संस्कारा नित्यकर्म च | नैमित्तिकं च श्राद्धादि कर्तव्यं तैरतन्द्रितैः || ११९ || आचारेणैवामुनैवाहं भवामि प्रीतिमानसः | शर्करासहितेनैव क्षीरेण कमलासन || १२० || प्रत्यब्दं चैत्रमासे तु स्वेन रूपेण मां विभुम् | पूर्णिमायामिहागत्य त्वं मामाराधयानघ || १२१ || प्रत्यहं रात्रिकाले तु शेषः फणभृतां वरः | अप्राकृतेन रूपेण मां समाराधयिष्यति || १२२ || इति देवेन संदिष्टः परतन्त्रमना विधिः | तथिव तत्स्वयं प्रीत्या निरवर्तयदादरात् || १२३ || देवावतारसमये विमानमतुलप्रभम् | सर्वदेवमयं दिव्यमग्निमध्यात् समुत्थितम् || १२४ || तथैव देवदेवस्य वरदस्य निदेशतः | भूतले वास्तुविधिना प्रतिष्ठामध्यगम्यत || १२५ || दिव्यालयस्य निर्माणप्रकारो विश्वकर्मणे | देवादेशाद्विरिञ्चेन स्फुटमेवात्यदिश्यत || १२६ || स तस्याज्ञां वहन्मूर्ध्ना तदादिष्टेन वर्त्मना | आलयं निर्ममे दिव्यं तेनैव प्रत्यवेक्षितः || १२७ || मूलमन्त्रत्रयात्मत्वाद्देवदेवस्य सन्निधौ | प्रणवेन समं पूर्वं सोपानत्रयमास तत् || १२८ || षडक्षरस्य मन्त्रस्य स्मारणाय रमापतेः | अर्धमण्डमभागे षट् सोपानानि चकार सः || १२९ || चतुर्विंशतितत्त्वात्मा चतुर्विंशतिसंख्यका | गायत्रीसंमिता पश्चात् सोपानावलिराबभौ || १३० || अथ द्वयाख्यं परमं मन्त्रराजमनुस्मरन् | सोपानयोर्द्वयं दीप्रं निर्ममे निर्ममान्तरः || १३१ || प्रणतार्तिहृतो मन्त्रे दिव्ये देवस्य तोषणे | दशवर्णा इति व्यक्तीकुर्वन् दश तताऽकरोत् || १३२ || बहुनाऽत्र किमुक्तेन देवदेवालयो महान् | उक्तानां भगवच्छास्त्रे लक्ष्मणां लक्ष्यतां ययौ || १३३ || प्. १७) करीशः कमलाकान्तः काले कमलसम्भवम् | स्वच्छन्दः संदिशंस्तेन स्वमालयमकारयत् || १३४ || अथ देवेन निर्दिष्टे काले कमलसंभवः | जयाख्यतन्त्रमार्गेण प्रतिष्ठाविधिमादिशत् || १३५ || दारुणा मूलबेरं तु कर्मार्चां रजतेन वै | औत्सवं चैव ताम्रेणाकारयद्विश्वकर्मणा || १३६ || तथैव चाथ बल्यर्चां विधिनाऽकारयद्विधिः | औपगायनमाचार्यं कौशिकं च तपस्विनम् || १३७ || तत्पुत्रांश्च महाभागान् द्वौ द्वौ देवसुतोपमौ | दीक्षयित्वा यथान्यायं चक्रवारिजमण्डले || १३८ || तैः प्रतिष्ठान्तिकं सर्वं कर्षणाद्यमकारयत् | वैशाखे श्रवणर्क्षे तु संकल्प्यावभृशं पुरा || १३९ || नवमेऽह्नि ध्वजारोहं विधिनाऽकारयद्विधिः | प्रथमेऽहनि देवेशं मण्डपेन विभासिना || १४० || वीथीः सञ्चारयामास प्रातर्भक्तानुकम्पया | रात्रौ मृगेन्द्रवाहेन देवस्योत्सवमाचरत् || १४१ || द्वितीये दिवसे प्रातर्हंसवाहनमाचरत् | रात्रौ मार्तण्डबिम्बेन महोत्सवमकारयत् || १४२ || तृतीये दिवसे प्रातर्गरुडोत्सवमाचरत् | अवतारात्परं देवस्योत्सवे प्रथमे पुरा || १४३ || देवो रमापतिर्दिव्यं वैनतेयमधिश्रितः | प्रथमं दर्शयामास निजमप्राकृतं वपुः || १४४ || मध्ये गोपुरमुख्यस्य ततो गरुडवाहने | गोपुराग्रिममध्ये तु देवसेवा विशिष्यते || १४५ || सर्वपापहरी पुण्या मुक्तिमार्ग उदीरितः | रात्रौ हनुमता चैव देवदेवमचारयत् || १४६ || चतुर्थे दिवसे प्रातः शेषासनतले हरिः | परव्योम्नीव भक्तानां स्वं रुपं समदर्शयत् || १४७ || रात्रौ चन्द्रमसं बिम्बमास्थितस्योत्सवोंऽभवत् | मोहिनीरूपमास्थाय प्रातरान्दोलिकां गतः || १४८ || पंचमेऽहनि देवेशो भक्तान्सर्वाननन्दयत् | प्. १८) रात्रौ तु यालवाहेन देवस्योत्सवमाचरत् || १४९ || षष्ठे प्रातः कल्पतरौ वेणुगानोत्सवोऽभवत् | रात्रौ गजेन्द्रमास्थाय दिव्यं रूपमदर्शयत् || १५० || सप्तमे स्यन्दनं दिव्यमास्थाप्योत्सवमाचरत् | अष्टमे तु जलद्रोणीमवगाह्य दिवा हरिः || १५१ || रात्रौ तुरङ्गमास्थाय सर्वाल्लोकानपावयत् | नवमे शिबिकायात्रामारचयय रमापतिः || १५२ || लीलां प्रणयकोपस्य प्रदर्श्य कमलावुभुवोः | अनन्तसरसीवर्येऽवभृथं महमास्थितः || १५३ || रात्रौ तु पुण्यकोट्याख्ये विमाने निष्ठितः प्रभुः | सर्वं पुरं परिभ्रम्य सर्वांल्लोकानपावयत् || १५४ || दशमेऽहनि मध्याह्ने पुष्पयागमहोऽभवत् | रात्रौ महाविमानेन पुरयात्रा प्रकल्पिता || १५५ || सर्वावरणनिष्क्रामात्परं विहगराङ्ध्वजम् | अवरोपयय विधिवत्पूजको बहुमानितः || १५६ || एवं संरम्भयोगेन महोत्सवमकारयत् | प्रतिवत्सरमेवैवं महोत्सवविधिः कृतः || १५७ || पक्षमासायनाब्दाद्या उत्सवाश्चाभवन्क्रमात् | महर्षी दीक्षितौ तौ द्वावौपगायनकौशिकौ || १५८ || पर्यायेणैव देवेशमानर्च्युतुरिहादरात् | तदेतन्महिमं धाम हस्तिशैलप्रथां गतम् || १५९ || प्रणतार्तिहरो देवो वरदो यत्र पूज्यते | पूजकास्तस्य तद्वश्या महात्मानो गुणोज्ज्वलाः || १६० || पाञ्चरात्रिकमुख्येभ्यः सर्वेभ्योऽप्यधिका भुवि | एवमेतत्समाख्यातं हस्तिशैलस्य वैभवम् || १६१ || देवस्य तन्त्रसारस्य पूजकस्य तु संग्रहात् | यथा वै नारदमुनेः मुखात्पूर्वं श्रुतं मया || १६२ || तथैव सर्वमाख्यातं प्रसङ्गात्प्रीतिपूर्वकम् | अथ प्रकृतमेवाद्य तन्त्रमारंभ्यते मया || १६३ || श्रूयतामवधानेन श्रद्धाभक्तिमहीयसा) इति श्रीपाञ्चरात्रे जयाख्यसहितायां शास्त्ररम्भप्रयोजनं नाम प्रथमः पटलः || १ || अथ ब्रह्मसर्गाख्यानं नाम द्वितीयः पटलः | ऋषय ऊचुः- अज्ञानपङ्कमग्नानां त्वं गतिर्नो महामुने | पुरा यथोक्तं विभुना मुनेर्ब्रह्मात्मजस्य च || १ || तत्सर्वं विस्तरेणाद्य यथावद्वक्तुमर्हसि | [नारदो ब्रह्मणः पुत्रो भवबन्धविमुक्तये] || २ || शाण्डिल्यः- स्वमात्मानं पुरस्कृत्य सद्भक्ताय(नां?)हिताय च | पादपद्मे हरेः स्मृत्वा स्तु(न?)त्त्वा च शिरसा सह || ३ || प्राञ्जलिः प्रयतो भूत्वा प्रोत्फुल्लवदनेक्षणः | प्रणयात्प्रणतो भूत्वा द्वन्द्वोपद्रवशान्तये || ४ || उपसङ्गम्य चरणाविदं स्तोत्रमदीरये(दैरय?)त् | [नारदकृता भगवत्स्तुतिः] नारदः- नमोऽस्तु परमेशाय कारणाय पराय च || ५ || सहस्रशिरसे तुभ्यं सहस्रचरणाय च | सहस्रनयनश्रोत्र सहस्राद्भुतविक्रम || ६ || सहस्रसूर्यवपुषे सहस्रेन्दुगभस्तये | नमः परमहंसाय परात्परतराय च || ७ || सत्त्वरूपाय शान्ताय नमो विश्वायनाय च | भवाय भवहर्त्रे च सर्गस्य प्रभवाय च || ८ || नमः कनकगर्भाय सर्वदेहभृते नमः | त्रयीत्रयमयाद्याय नमस्ते परमात्मने || ९ || हृदम्बुजगुहावासपरव्योमान्तशायिने | भक्तियोगविदभ्यसग्राह्याय खलु ते नमः || १० || मीनो निमीलिताक्षस्त्वं कूर्मस्त्वं च नगोद्वहः | त्वया रूपं च कृत्वाऽग्र्यं विधृतं भूमिमण्डलम् || ११ || भयाभये त्वयैकस्यां नरसिंह्मतनौ धृते | प्. २०) वामनो गोपितवपुर्विततस्त्वं त्रिविक्रमः || १२ || रामरूपेण रम्येण तथा रामत्रयेण च | त्वया देव जिता दैत्याश्च्छन्नरूपाश्च राक्षसाः || १३ || कृष्णस्त्वं बालरूपी च विभुर्दामोदरो हरिः | त्वं विश्वरूपो देवानां साङ्ख्यानां कपिलः प्रभुः || १४ || योगिनां यो गतिस्त्वं वै शेषात्मा धरणीधरः | सङ्कर्षणो ज्ञानिनां त्वं कामिनां कुसुमायुधः || १५ || अनिरुद्धश्च सर्वेषां जीवत्वेन त्वमच्युतः | त्वया सृष्टं जगत्सर्वं ब्रह्मत्वेन जनार्दन || १६ || स्थितं पासि स्वयं भूत्वा विष्णुरूपेण केशव | रुद्ररूपेण गोविन्द जगत्संहरसे क्षणात् || १७ || यज्ञरूपेण देवानां हव्यं वह्निमुखेन च | वहसि त्वं पितॄणां च कव्यं कृत्स्नं जगत्पते || १८ || आराधयामि त्वां भक्त्या भवनिर्वाणदं प्रभुम् | सुरसौख्यकरं देवं सुराणाममृतप्रदम् || १९ || स्थितास्त्वदुदरे लोका द्वीपाश्चोदधिभिस्सह | देवैश्च दानवैःसार्द्धमृषिभिश्च तपोधनैः || २० || मनुजैर्दनुजैश्चैव सरिद्भिस्सह पर्वतैः | तवान्तस्संस्थितं सर्वं सर्वस्यान्तर्भवान् स्थितः || २१ || त्वमाद्यो भुवनस्यास्य त्वां स्मृत्वा सुखिता वयम् | भवामो नित्यसंबुद्धाः संस्थिता यत्र कुत्रचित् || २२ || प्रणवस्त्वं त्रिमात्रश्च भूर्भुवस्वस्त्वमेव च | अहङ्कारकरस्त्वं वै त्रितयं लोकतारकम् || २३ || [भगवद्रूपदिदृक्षया लोकसृष्टिप्रकारजिज्ञासया च नारदकृता प्रार्थना] तदेनमादिशस्वाशु भवाद्येनोत्तराम्यहम् | अधिष्ठाय परां बुद्धिं भूयःश्रेयोऽहमाप्नुयाम् || २४ || मम भक्तस्य देवेश परं ज्ञानात्मकांक्षिणः | संसारभयभीतस्य रूपं वै स्वं प्रदर्शय || २५ || सृष्टं त्वया यथा सर्वमाब्रह्मभवनान्तिमम् | प्. २१) गगनञ्चातिमायेन दुस्तरं तद्वदस्व मे || २६ || [भ्गवता कृतं सकलनिष्कलात्मकस्वीयरूपद्वयप्रदर्शनम्] शाण्डिल्यः- इति सञ्चोदितो भक्त्या परया परमेश्वरः | विशुद्धबुद्धिना सम्यक् नारदेन सुरर्षिणा || २७ || तदुक्तस्य क्षणे तस्मिन्नात्मीयो गहनश्च यः | प्रदर्शितस्स हरिणा सकलो निष्कलात्मकः || २८ || परितोषं परं यातो मुनिर्ब्रह्मसुतस्तदा | उवाच परया प्रीत्या भूयस्स विनयान्वितः || २९ || त्वत्प्रसादान्मया ज्ञातं दुर्लभं यत्सुरैरपि | इदानीं श्रोतुमिच्छामि सम्भूतिं विभवं तव || ३० || [लोकस्य सृष्टिप्रलयकालौ] श्रीभगवानुवाच- यदिदं पश्यसि ब्रह्मन्मायया निर्मितं जगत् | कालादिबहुभिर्भेदैर्भिन्नं नानास्वरूपकैः || ३१ || मामके प्रभवो ह्यह्नि प्रलयश्च निशागमे | दिव्यं युगसहस्रं च मदीयं विद्धि वासरम् || ३२ || रात्रिश्च तावती ज्ञेया एवंरूपे क्षये सति | प्रवर्तमाने त्वहनि काले सर्गाख्यलक्षणे || ३३ || [भगवतो नाभीकमलात् चतुर्मुखसृष्टिः] स्वकारणमनिर्जित्य कार्यार्थं मुनिपुङ्गव | ज्ञानयोगप्रभावेन अम्मयं महिमावृतम् || ३४ || प्रेरितं नाभिरन्ध्रेण मया हार्दं कुशेशयम् | विज्ञप्तिमात्ररूपं यन्ममान्तःकरणस्थितम् || ३५ || सहस्रार्कप्रतीकाशं सहस्रशशिकेसरम् | सहस्रवंह्निगर्भं च हेमनालं महाप्रभम् || ३६ || तन्मध्ये मानवो(सो ?) ब्रह्मा मया सृष्टश्चतुर्मुखः | [तस्य चतुर्मुखस्य विद्याशक्तिविशेषयोगः] जगतां प्रभवस्तस्माद्विद्यादेहस्सनातनः || ३७ || प्. २२) सर्वसंस्कारसंपूर्णो वेदवेदाङ्गपारगः | अणिमाद्यष्टकोपेतस्सिसृक्षाशक्तिभिर्युतः || ३८ || [रजोगुणोद्रेकात् तत्कृता विविधसृष्टिः] न तस्य विदितश्चाहं यदा यातस्सगर्वताम् | अस्मीति प्रत्ययं लब्ध्वा रजसा कलुषीकृतः || ३९ || तदा चकार विविधां सृष्टिं स्वामा(त्मा ?)नुपूर्विकाम् | न्यग्भूतभूतपूर्वाणि स्थूलसूक्ष्माणि यानि च || ४० || चेतनाचेतनाख्यानि व्यञ्जितानि क्रमेण तु | देवाश्चानेकभेदेन मनुष्याः पशवस्तथा || ४१ || स्थावरान्तानि सर्वाणि सन्त्यस्मिन्यानि कानिचित् | स्वनिकेतानि सर्वाणि दृष्ट्वा स्वस्मिन्पितामहः || ४२ || [रजःप्रकर्षादभिभूतसत्त्वतया चतुर्मुखस्य लोकधारणेऽसामर्थ्यम्] स्वा(स्व ?)लोकं रागबाहुल्यात्सम्यग्धर्तुं न वेत्यसौ | कृताकृतं जगत्यस्मिन्विना सत्त्वोदयेन तु || ४३ || [भूमेर्धारणाय भगवतो योगनिद्राश्रयणम्] सम्पाद्यैवं महारूपमात्मीयं पङ्कजान्वितम् | जलान्तर्वर्तितं भूमेः कृत्वा सन्ता(न्धा ?)रणार्थतः || ४४ || योगनिद्रां समाश्रित्य स्थितोऽहं द्विजसत्तम | [मधुकैटभासुरयोरुत्पत्तिः, ताभ्यां कृतः सर्वलोकविजयः] ब्रह्मणो जायमानस्य ह्यभूतां स्वेदबिन्दुकौ || ४५ || पद्मनालं समाश्रित्य संस्थितावुदरान्तरे | तदोत्थितौ दुराधर्षौ नाम्ना द्वौ मधुकैटभौ || ४६ || कामक्रोधात्मकौ चैव तमसाऽतीव निर्भरौ | तामसेनाभिमानेन वृद्धियुक्तौ कृतौ स्थितौ || ४७ || किमिदं तस्य पद्मस्य कल्पयन्तौ परस्परम् | कौतुकाभिनिविष्टौ तु पातालतलमाश्रितौ || ४८ || भूयस्तस्माच्च पातालात्कालवैश्वानरावधि | कृत्वाथ तैजसीं मायां यातावग्नेरधस्तु तौ || ४९ || प्. २३) नान्तोऽस्ति पद्मनालस्य तेजोज्वालावृतस्य च | गर्वान्मोहं गतौ किञ्चिद्यदा भूयस्तदा द्विज || ५० || मतिं कृत्वोर्ध्वगमने प्राप्तावूर्ध्वं मया ततः | स पद्मोऽन्तर्हितश्चैव ततश्चोत्पन्नविस्मयौ || ५१ || स्थितौ तु तौ महाघोरौ क्व गतस्स च पङ्कजः | प्रोत्थितौ तोयमध्याच्च पश्येतां पृथिवीमिमाम् || ५२ || चक्रतुर्मतिमूर्द्धेषु लोकेषु गमनं प्रति | दृष्ट्वा च विभवं सर्वं बुद्धिरासीत्तयोस्तदा || ५३ || क्ष्मादौ सर्वेषु लोकेषु सम्यक्स्वीकरणं प्रति | निर्जिताश्च ततस्सर्वे लोका लोकान्तराण्यपि || ५४ || तमसाऽतीव कष्टेन व्याप्तं सर्वं चराचरम् | [ताभ्यां कृतेन वेदापहारेण चतुर्मुखस्य ज्ञानभ्रंशादधर्मवृद्ध्या लोकस्य दुरवस्थाप्राप्तिः] हृतवेदः कृतो ब्रह्मा अभूदन्यस्तु तत्क्षणात् || ५५ || वेदैर्विना यतो विप्र वेदं चक्षुः पुरा श्रितः | अस्थितिं जगतः कृत्वा अधर्मस्थापनं महत् || ५६ || ततस्तौ तामसौ दुष्टौ जलमध्यं पुनर्गतौ | [मुनिभिः कृतं चतुर्मुखस्योद्बोधनम्] तदा सम्बोधितो ब्रह्मा देवतैर्मुनिभिस्सह || ५७ || संस्मरस्वादिदेवं त्वं समुद्भूतोऽब्जसम्भव | स नः श्रेयःप्रदो नान्यो यदि स्यात्सत्यता श्रुतेः || ५८ || न त्वया साभिमानेन ज्ञातं परमकारणम् | येनाऽनर्थमिदं कष्टं जगत्यस्मिन्प्रतिष्ठितम् || ५९ || कारणं ते स भगवांस्त्वमस्माकं च कारणम् | परमं कारणं विष्णुमजेयं स्मर पद्मज || ६० || [मुनिभिरुद्बोधितेन चतुर्मुखेन कृता भगवत्स्तुतिः] ततश्शान्तरजा ब्रह्मा सत्वैकगतमानसः | अभूत्स्तुतिपरस्सर्वैर्देवतैर्मुनिभिस्सह || ६१ || प्रणष्टवेदधर्मोऽहं न मेऽस्ति गतिरच्युत | पाहि पाहीत्यभीक्ष्णं स अत्यार्तश्च यदाऽब्रवीत् || ६२ || प्. २४) [भगवता कृतमभयप्रदानम्] तदा विप्रावतीर्णोऽहं ममत्वे ग्लानिमागते || प्रणष्टेषु च वेदेषु ब्रह्मण्यब्रह्मतां गते || ६३ || दत्तं मयाऽभयं तेषां समाश्वस्तमिदं जगत् | विद्या मायात्मकं रूपं द्विविधं च मया कृतम् || ६४ || [विद्यामयरूपं परिगृह्य भगवता विरचितं पातालाद्वेदानामुद्धरणम्] विद्यामयेन रूपेण शब्दब्रह्ममयेन च | पातालान्तर्गता वेदास्स्वीकृताः प्रणवेन तु || ६५ || [विद्यामयरूपस्य भगवतोऽनुप्रवेशाच्चतुर्मुखस्य वेदावधारणम्] संप्रविष्टस्ततश्चाहमिमां प(पा ?)द्मोद्भवीं तनुम् | लब्धसंज्ञेन तेनाथ वेदा ह्यावर्तिताः पुनः || ६६ || तदा भुवननाथाश्च सर्वे हृष्टतमाः स्थिताः | तमोमोहभयान्मुक्ताः स्वकं स्थानं समाश्रिताः || ६७ || [मायामयं रूपं परिगृह्य ताभ्यां सह भगवतो युद्धाचरणम्] द्वितीयेन तु रूपेण तयोरग्रे स्थितोऽभवम् | तौ तु दुष्टौ मदोन्मत्तौ मम युद्धाभिलाषिणौ || ६८ || ततो मायात्मकेनैव वपुषाऽनेकबाहुना | बहून्यब्दसहस्राणि योधितौ तौ तदा मया || ६९ || [तयोरजेयत्वमालक्ष्य मन्त्रमयरूपं परिगृह्य तयोर्हननम्] ज्ञात्वा तयोरजेयत्वमहमन्तर्हितो द्विज | ततो मन्त्रमयं रूपं कृत्वा शक्त्यात्मकं महत् || ७० || तत्ताभ्यां चैव दुर्धर्षं दुर्निरीक्ष्यं तथाऽर्कवत् | लीलया करयुग्मेन गृहीत्वा कण्ठतो मया || ७१ || र्-ऊरूभ्यां मर्दितौ चैव ययुर्निष्कण्टकास्सुराः | [मेदिनीशब्दनिर्वचनम्] तदुद्भूतेन मेदेन परिपूर्णा वसुन्धरा || ७२ || ततः प्रभृति कालाच्च मेदिनीति निरुच्यते | इत्येष कथितस्सर्गो मुने ब्राह्मो मया तव || ७३ || अन्ये ह्यनेकरूपाश्च सर्गा बहुतरा गताः | ईदृक्प्रकाशाः स्थूलाश्च येषा सङ्ख्या न विद्यते || ७४ || प्. २५) प्राधानिको द्विजाऽस्याद्यस्तस्याद्यो वैष्णवः परः | किमन्यत्कथयिष्यामि ब्रूहि यवास्ति संशयः || ७५ || अद्यापि मुनिर्शार्दूल तदहं प्रव्रवीभि ते | इति श्रीपाञ्चरात्रे जयाख्यसंहितायां ब्रह्मसर्गाख्यानं नाम द्वितीयः पटलः || २ || अथ प्रधानसर्गाख्यानं नाम तृतीयः पटलः नारदः- भगवन्देवदेवेश लोकनाथ जगत्पते | व्रूहि प्राधानिकं सर्गं स्थूलस्यास्य हि यः परः || १ || श्रीभगवान्- (प्रधानलक्षणम्) अनादिमजमव्यक्तं गुणत्रयमयं द्विज | विद्धि प्रदीपस्थानीयं भिन्नमेकात्मलक्षणम् || २ || (प्रधानात् क्रमान्महदादितत्त्वोत्पत्तिः) विभक्तं च तदुत्पन्नं क्रमात्सत्त्वं रजस्तमः | गुणत्रयसमूहाद्धि धर्मज्ञानादिलक्षणा || ३ || बुद्धिर्बुद्धिमतां श्रेष्ठ अहङ्कारस्त्रयात्मकः | प्रकाशात्मा विकृत्यात्मा भूतात्माऽथ तृतीयकः || ४ || तैजसात् समनश्चैव जातं बुध्यक्षपञ्चकम् | श्रोत्रे त्वक्चक्षुषी जिह्वा घ्राणं चैव क्रमेण तु || ५ || असृजच्च विकृत्यात्मा करणानां च पञ्चकम् | तच्च वाक्पाणिपादाख्यं पायूपस्थेति च स्मृतम् || ६ || भूतात्मा भूतयोनीनां स्रष्टा विद्धि सदैव हि | शब्दस्पर्शौ तथा रूपरसगन्धाभिधायिनः || ७ || तेजो(भ्यो ?)भूतानि जातानि खवायवग्न्युदकानि च | पृथिव्यन्तानि पञ्चैव एकवृद्धिगुणानि च || ८ || एष प्राधानिकस्सर्गः प्रकृत्या तु जडात्मकः | नारदः- जडात्मकं प्रधानं च तदुद्भूतिस्तदात्मिका || ९ || प्. २६) परस्परजडानां च कीदृशं वद मे प्रभो | उत्पाद्योत्पादकत्वं हि अत्र मे संशयो महान् || १० || (जडानां मिथो हेतुहेतुमद्भावे उपपत्तिः) श्रीभगवान्- बीजं ह्यचेतनं यद्वत्तथा व्रीहिकणो द्विज | अन्येषूत्पादकं दृष्टं तत्त्वं तत्त्वे तथैव च || ११ || गुणसाम्यस्वरूपस्य रागादेरास्पदस्य च | सन्तान एको ह्येकस्य चेतनाचेतनस्य च || १२ || नारदः- अचेतनमिदं नाथ कथं स्याच्चेतनं पुनः | एतद्गुणास्पदं तत्त्वं यच्चैकं नैकधा स्थितम् || १३ || (अचेतने चेतनायोगोपपादनम्) श्रीभगवान्- चिद्रूपमात्मतत्त्वं यदभिन्नं ब्रह्मणि स्थितम् | तेनैतच्छुरितं भाति अचिच्चिन्मयावद्द्विज || १४ || यथाऽयस्कान्तमणिना लोहस्याधिष्ठितं तु वै | दृश्यते वलमानं तु तद्वदेव मयोदितम् || १५ || नारदः- चिन्मयस्य जडस्यास्य सम्बन्धे हेतुरुच्यते | विरुद्धमेतद्देवेश वेद्मि छायातपं यथा || १६ || (चिदचितोः संयोगे बन्धे वियोगे च मोक्षे हेतुः) श्रीभगवान्- अनादिवासनायुक्तो जीवोऽयं वै चिदात्मकः | यद्वासनापनोदार्थं परस्माद्ब्रह्मणो द्विज || १७ || तद्धर्मधर्मिनी सूक्ष्मा उदेत्येकान्तरूपिणी | शुद्धाशुद्धात्मिका शुद्धा परमानन्दरूपिणी || १८ || शुद्धसर्गक्रमेणैत्य आध्यात्म्यात्मनि तिष्ठति | करुणोदधिरूपेण भविना मोक्षदक्षमे || १९ || स हि सङ्कल्पयामास मोक्षो ह्यस्यास्तु कर्मिणः | ततो विश्वात्मशक्तिस्सा तदिच्छानुविधायिनी || २० || प्. २७) प्रत्यक्चेतनमाश्रित्य तत्क्षणादवतिष्ठते | मन्त्रशक्तिरिवादृश्या तया सम्बोधितो द्विज || २१ || त्विषाऽक्रान्तस्वरूपश्च प्रत्यगात्मा चिदात्मकः | ब्रह्मण्येकात्मतां याति कर्मवर्गे क्षयं गते || २२ || तस्माद्वै कर्मणां नाशो ह्यभुक्तानां न तस्य वै | न त्वाधारं विना तेषामभिव्यक्तिर्भवेदतः || २३ || तत्स्था ब्रह्मकला सा वै तत्रात्मानं नियोजयेत् | मायामये द्विजाधारे गुणाधारे तते जडे || २४ || शक्त्या संयोजितो ह्यात्मा वेत्त्यात्मीयाश्च वासनाः | शुभाशुभस्वरूपाश्च मायाधारे स्थितास्सदा || २५ || यदाऽलुप्तविवेको वै असक्तो वासनाफलम् | भुङ्क्ते चाशु स बन्धेभ्यो मुक्तो याति क्रमात्परम् || २६ || निर्विवेकोऽथ रज्येत मायाभोगे गुणात्मके | सवासनो वासनाभिरविकारश्च बध्यते || २७ || लयोदयौ तथाऽप्नोति स विश्रान्तः पुनः पुनः | चेतनाचेतनाभ्यां तु सम्बन्धस्य प्रयोजनम् || २८ || कथितं नारद मया किमिदानीं वदामि ते | इति श्रीपाञ्चरात्रे जयाख्यसंहितायां प्रधानसर्गाख्यानं नाम तृतीयः पटलः || ३ || अथ शुद्धसर्गब्रह्मतत्त्वाख्यानं नाम चतुर्थः पटलः नारदः- शुद्धसर्गमहं देव वेत्तुमिच्छामि तत्त्वतः | सर्गद्वयस्य चैवास्य यः परत्वेन वर्तते || १ || (वासुदेवात्परब्रह्मणस्तदनन्यस्याच्युतादेराविर्भावः) श्रीभगवान्- यत्सर्वव्यापकं देवं परमं ब्रह्म शाश्वतम् | चित्सामान्यं जगत्यस्मिन्परमानन्दलक्षणम् || २ || वासुदेवादि(द?)भिन्नं तु वह्न्यर्केन्दुशतप्रभम् | स वासुदेवो भगवांस्तद्धर्मा परमेश्वरः || ३ || प्. २८) स्वादीप्तं क्षोभयित्वा तु विद्युद्वत्स्येन तेजसा | प्रकाशरूपी भगवानच्युतश्चा(तं चा ?)सृजद्द्विज || ४ || सोऽच्युतोऽच्युततेजाश्च स्वरूपं वितनोति च | आश्रित्य वासुदेवं च घर्मे(र्मो) मेघदलं यथा || ५ || क्षोभयित्वा स्वमात्मानं सत्यं भास्वरविग्रहम् | उत्पादयामास तदा समुद्रो बुद्बुदं यथा || ६ || स चिन्मयप्रकाशाख्य उत्पाद्यात्मानमात्मना | पुरुषाख्यमनन्तं च प्रकाशप्रसरं महत् || ७ || [पुरुषात्मनाऽविर्भूतस्य वासुदेवस्य सर्वदेवान्तर्यामित्वम्] स च वै सर्वदेवानामाश्रयः परमेश्वरः | अन्तर्यामी स तेषां वै तारकाणां यथाऽम्बरम् || ८ || सेन्धनः पावको यद्वत्स्फुलिङ्गनिचयं द्विज | अनिच्छतः प्रेरयति तद्वदेष परः प्रभुः || ९ || प्राग्वासनानिबद्धा ये जीवास्तान्बन्धशान्तये | स्वदेह * * * * * * * तदुभयं पुनः || १० || [अवताराणां तदंशत्वम्] ये स्विदाद्यावताराश्च लोकत्राणाधिकारिणः | सर्वान्विद्धि तदंशांस्तान्सर्वेऽशास्सत्त्वजास्तथा || ११ || [पुरुषसत्याच्युतानामुत्तरोत्तरस्वरूपादभिन्नानां वासुदेवे परे रूपेऽवस्थितिः] स च सत्यादभिन्नस्तु तस्मात्सत्यं तथैव हि | द्वाभ्यामेकात्मरूपं यत्तदभिन्नमथोऽच्युतात् || १२ || आश्रितस्संस्थितस्ताभ्यामभेदेन सदैव हि | पुमान्सत्योऽच्युतश्चैव चिद्रूपं त्रितयं तु तत् || १३ || शान्तसंवित्स्वरूपे च वासुदेवेऽवतिष्ठते | [चिद्रूपस्य वासुदेवस्य ततः प्रादुर्भूतस्याच्युतादिरूपत्रयस्य च सनिदर्शनमभिन्नतानिरूपणम्] सोऽन्तर्यामी प्रकाशात्मा चिद्रूपस्स प्रतिष्ठितः || १४ || प्. २९) त्रितये यस्तथारूपोऽनिच्छात उदितस्सदा | असङ्कल्पात्मकास्सर्वे प्रसरन्ति परस्परम् || १५ || दीपवन्मुनिशार्दूल स्वपरालोकदास्तु वै | सङ्कल्पेन विना तद्वदन्योऽन्यत्वेन संस्थिताः || १६ || हृह्णन्ति प्रतिबिम्बत्वं दर्पणेष्विव दर्पणम् | अतीव द्विज नैर्मल्यात्सङ्क्रान्तानां परस्परम् || १७ || प्रविभागो न जायेत व्योमस्फटिकयोर्यथा | भासाद्वयस्य विप्रेन्द्र तथा तेषामभिन्नता || १८ || एतद्रहस्यं परमं मया ते संप्रकाशितम् | सर्ग आद्यो ह्यनन्त(न्य ?)श्च अनन्तस्य महात्मनः || १९ || नारदः- मयैतद्विदितं सर्वं सर्वेश त्वदनुग्रहात् | यथा ह्यस्य(सि ?) त्वमव्यक्तो ह्यमूर्तो मूर्ततां गतः || २० || ज्ञातुमिच्छामि भगवन्स्वरूपं ते यथार्थतः | स्थूलं सूक्ष्मं परं चैव अध्यात्मनि तथा बहिः || २१ || भवत्प्रसादसामर्थ्याद्विनैतत्त्रितयं कथम् | व्यज्यते विषयस्थानां कुरु मेऽनुग्रहं वद || २२ || [स्थूल-सूक्ष्म-परात्मना त्रेधाऽवस्थितस्य भगवतो रूपस्य निरूपणम्] श्रीभगवान्- स्रष्टा पालयिता चाहं संहर्ता पुनरेव च | स्वकीययोगयुक्त्या तु स्थूलरूपेण नारद || २३ || सूक्ष्मेण सर्वभूतानां निवसामि हृदन्तरे | करोम्यनुग्रहं चापि भक्तानां भावितात्मनाम् || २४ || परेणानन्दरूपेण व्यापकेनामलेन च | व्यासयाम्यखिलं विप्र रसेनेव तरूत्तमम् || २५ || मूले सिक्तं शिखाशाखापत्रपुष्पफलान्वितम् | नारदः- सत्यं त्वया जगत्सृष्टं विधृतं च त्वया विभो || २६ || कालरूपी त्वमेवान्ते सत्यं संहारकृत्स्मृतः | पातालादौ च ये लोकास्त्वन्नाभेश्च समुत्थिताः || २७ || प्. ३०) धर्मसंस्थापनं चैव पुनरेव त्वया कृतम् | संहृताश्च त्वया दैत्याः श्रुतं च विदितं मया || २८ || यथा येन प्रकारेण त्वमेव प्रकरोषि च | तद्वै वेदितुमिच्छामि त्वत्सकाशात्सुविस्तरम् || २९ || [सकलनिष्कलात्मना द्विधा भिन्नाया मन्त्ररूपाया मूर्तेर्बन्धतद्विपर्ययहेतुत्वोपपादनम्] श्रीभगवान् योगवीर्येण विप्रेन्द मन्त्ररूपा पुरातनी | निष्कला सकला चैव भोगमोक्षप्रदा शुभा || ३० || कृता मया च लोकानां सम्यगालोकदा शुभा | मन्त्रोत्पत्तिक्रमेणैव स्थिता शान्ततरात्मना || ३१ || तमोमयाभ्यां मूर्त्ताभ्यां दोषाभ्यां नाशनाय वै | सैवावतिष्ठते लोके प्रकृतिर्विश्वपालिनी || ३२ || या करोत्येवमादीनि कर्माण्यस्मिन्भवोदरे | भक्तानां मोक्षयत्याशु कृत्वा बन्धपरिक्षयम् || ३३ || नारदः- निश्शेषेण च तद्योगं तन्मन्त्रं वीर्यमेव च | आदिशस्व जगत्कर्तु(र्त)र्यदि सानुग्रहोऽसि मे || ३४ || [मन्त्रतद्वीर्यादिपरिज्ञानस्य ब्रह्मज्ञानमूलत्वकथनम्] श्रीभगवान्- ब्रह्मपूर्वमिदं सर्वं यत्त्वया चोदितो ह्यहम् || ३५ || यद्विना न प्रवर्तन्ते यानि सङ्कीर्तितानि ते | नारदः- किं तद्ब्रह्म विजानीयां येन योगेश्वरेश्वर || ३६ || विभवो मन्त्रपूर्वश्च मन्त्रोपकरणं तथा | प्रवर्तन्ते विभो क्षिप्रं भक्तानां भक्तवत्सल || ३७ || श्रीभगवान्- ज्ञानेन तदभिन्नेन परिज्ञातेन नारद | जायते ब्रह्मसंसक्तिस्तस्माज्ज्ञानं समभ्यसेत् || ३८ || नारदः- ब्रह्मसिद्धिप्रदं ज्ञानं ब्रूहि तल्लक्षणं प्रभो | यज्ज्ञात्वा न भवेज्जन्म मरणं भवबन्धनम् || ३९ || प्. ३१) श्रीभगवान्- [ज्ञानस्य द्वैविध्यम्, तयोः क्रियाख्येन सत्ताख्यस्य निष्पत्तिः] ज्ञानं तु द्विविधं विद्धि सत्ताख्यं च क्रियात्मकम् | सत्ताख्यस्य क्रियाख्येन अभ्यस्तेन भवेद्धृतिः || ४० || नारदः- ज्ञानं क्रियात्मकं तावद्वद कीदृग्विधं प्रभो | येनाभ्यस्तेन सत्ताख्यं ज्ञास्यामि ब्रह्मसिद्धिदम् || ४१ || [क्रियात्मकस्य यमनियमभेदेन द्वैविध्यम्] श्रीभगवान्- द्विविधं च क्रियाज्ञानं पूर्वं नियमलक्षणम् | यमाख्यं परमं चैव तच्च स्वाभाविकं स्मृतम् || ४२ || निर्वर्त्य नियमाख्यं तद्यमयुक्तं च सिद्धिदम् | नारदः- एतयोर्लक्षणं ब्रूहि यदायत्तं परं पदम् || ४३ || विस्तरेण जगन्नाथ भवाब्धिपतितस्य मे | [यमनियमनिरूपणम्] श्रीभगवान्- शुचिरिज्या तपश्चैव स्वाध्यायश्रुतिपूर्वकः || ४४ || अक्रूरताऽनिष्ठुरता क्षमा चैवानपायिनी | सत्यं भूतहितं चैव यदबाधा परेष्वपि || ४५ || परस्वादेरहिंसा च चेतसो दमनं महत् | इन्द्रियाभ्यवहार्याणां भोगानामपि चास्पृहा || ४६ || आसने शयने मार्गे असक्तिश्चापि भोजने | हृद्गतं न त्यजेद्ध्यानमानन्दफलदं च यत् || ४७ || आत्मशक्त्या प्रदानं च सत्यं वाक्यमनिष्ठुरम् | अमित्रेषु च मित्रेषु समा बुद्धिस्सदैव हि || ४८ || आर्जवत्वमकौटिल्यं कारुण्यं सर्वजन्तुषु | एतदङ्गान्वितो यो यो यमो यमनियामकः || ४९ || [क्रियाख्यात्सत्ताख्यनिष्पत्तेर्ब्रह्माभिन्नज्ञानोदयः, तेन ब्रह्मोपसम्पत्तिः] एवं क्रियाख्यात्सत्ताख्यं ज्ञानं प्राप्नोति मानवः | प्. ३२) ब्रह्मण्यभिन्नं सत्ताख्यात् ज्ञानाज्ज्ञानं ततो भवेत् || ५० || ब्रह्माभिन्नात्ततो ज्ञानाद्ब्रह्म संयुज्यते परम् | [ब्रह्मसमापत्तेरपुनर्भवलक्षणमोक्षरूपता] अनादिवासनायुक्तो यो जीव इति कथ्यते || ५१ || तस्य ब्रह्मसमापत्तिर्याऽपुनर्भवता च सा | [ब्रह्माभिन्नत्वप्रकारोपपादनम्] यत्सम्यग्ब्रह्मवेत्तृत्वं मनाग्या चैव भिन्नता || ५२ || ईषद्ब्रह्मसमापत्तिस्तदभिन्नं तु वै स्मृतम् | [अविद्यायोगादात्मनो देवादिभेदः] ज्ञानं त्वनेकभेदैर्यत्तत्त्वतामेति चात्मनः || ५३ || गौण(णे ?)विद्यामये तत्त्वे सम्यग्विद्यामयस्य च | नारदः- का गुणाख्या ह्यविद्या च यत्र ज्ञानमयः प्रभुः || ५४ || त्वयोक्तं यत्तु (तत्त्व ?)तामेति भेदैर्नानाविधैर्विभो | [अविद्यास्वरूपनिरूपणम्] श्रीभगवान्- गुणत्रयस्य यत्साम्यं साऽविद्याऽनेकरूपिणी || ५५ || रागादीनां च दोषाणामुत्पत्तिस्थानमेव च | नारदः- ब्रह्मप्राप्तौ तु यस्सम्यगुपायः कथितः पुरा || ५६ || स च किंलक्षणो ब्रूहि यश्चात्मेति त्वयोदितः | [जीवात्मनोर्निरूपणम्] श्रीभगवान्- यत्तत्स्थितं च चिद्रूपं स्वसंवेद्याद्यनिर्गतम् || ५७ || रञ्जितं गुणरागेण स आत्मा कथितो द्विज | नारदः- ज्ञानमात्मस्वरूपं च माया तद्रञ्जिका तु वै || ५८ || आचक्ष्व भगवन्ब्रह्म प्राग्व(ग्य ?)त्संचोदितं मया | तन्मे न विदितं सम्यग्यदर्थं क्रियते क्रिया || ५९ || प्. ३३) यत्प्राप्य न पुनर्जन्म भवेऽस्मिन्प्राप्यते बुधैः | [परब्रह्मनिरूपणम्] श्रीभगवान्- आनन्दलक्षणं ब्रह्म सर्वहेयविवर्जितम् || ६० || स्वसंवेद्यमनौपम्यं परा काष्ठा परा गतिः | सर्वक्रियाविनिर्मुक्तं सर्वेषामाश्रयं प्रभुः || ६१ || चिन्तामणौ यथा सर्वं मूर्तं सङ्गि व्यवस्थितम् | तथा सर्वं तु सर्वत्र विद्यते सर्वगस्य च || ६२ || अनादि तदनन्तं च न सत्तन्नासदुच्यते | सर्वत्र करवाक्पादं सर्वतोऽक्षिशिरोमुखम् || ६३ || सर्वतःश्रुतिमद्विद्धि सर्वमावृत्य तिष्ठति | सगुणैरिन्द्रियैस्सर्वैर्भासितं चैव वर्जितम् || ६४ || तदसक्तं हि सर्वत्र यत्तु सर्वत्र चैव हि | निर्गुणो गुणभोक्ता च सर्वस्यान्तर्बहिः स्थितः || ६५ || चलाचलं तु तद्विद्धि सूक्ष्मत्वान्नोपलभ्यते | दूरस्थितस्तथा हृत्स्थः परमात्मा परः प्रभुः || ६६ || भूतेभ्यश्चाविभक्तं तद्विभक्तमुपलभ्यते | स भावभूतभृच्च स्यात्संहर्तापि सृजत्यपि || ६७ || प्रकाश्यं ज्योतिषां तच्च अज्ञानात्परतः स्थितम् | ज्ञानं तदेव ज्ञेयं चतद्ध्यानेनाधिगम्यते || ६८ || सर्ववर्णरसैर्हीनं सर्वगन्धरसान्वितम् | सर्वज्ञस्सर्वदर्शी च सर्वस्सर्वेश्वरः प्रभुः || ६९ || सर्वशक्तिमयश्चैव स्वाधीनः परमेश्वरः | अनादिश्चाप्यनन्तश्च सर्वदुःखविवर्जितः || ७० || विदित्वैवं (एवं वेत्ति?) परं ब्रह्म ज्ञानेन परमेण च | यदा न जायते भूयस्संसारेऽस्मिंस्तदा पुमान् || ७१ || नारदः सर्वतः पाणिपादाद्यैर्यदुक्तं लक्षणैस्त्वया | न चैकमुपपद्येत घटते तद्यथाऽदिश || ७२ || प्. ३४) श्रीभगवान्- इति तस्य जगद्धातुस्सर्वज्ञत्वा च नारद | महिमाऽयमनन्तस्य ईश्वरत्वाच्च विद्यते || ७३ || तस्य सर्वातिशायित्वं यथा ते न मयोदितम् | अन्यथा विद्यते तस्य महिमाऽयं तथाऽच्युते || ७४ || अनादिस्सर्वपूर्वत्वान्न सत्तन्नासदित्यपि | अप्रत्यक्षतयाऽक्षाणां तदसद्विजसत्तम || ७५ || स्वसंवेद्यं तु तद्विद्धि गन्धः पुष्पादिगो यथा | तथा समस्तमाक्षिप्तं यस्माद्वै परमात्मना || ७६ || तस्माद्वै सर्वपाणित्वं सर्वगस्यानुमीयते | नावच्छिन्नं हि देशेन न कालेनान्तरीकृतम् || ७७ || अतस्सर्वगतत्वाद्वै सर्वतःपात्प्रभुः स्मृतः | ऊर्ध्वं तिर्यगधोयातैर्यथोच्चै(स्रै?)र्भासयेद्रविः || ७८ || तद्वत्प्रकाशरूपत्वात्सर्वचक्षुस्ततो ह्यजः | यथा सर्वेषु गात्रेषु प्रधानं गीयते शिरः || ७९ || भवेऽस्मिन्प्राकृतानां तु न तथा तस्य सत्तम | समत्वात्पावनत्वाच्च सिद्धस्सर्वशिराः प्रभुः || ८० || यथाऽनन्तरसास्सर्वे तस्य सन्ति सदैव हि | सर्वत्र शान्तरूपस्य अतस्सर्वमुखः स्मृतः || ८१ || शब्दराशिर्यतो विद्धि स एव परमेश्वरः | सर्वतः श्रुतिमांश्चातो यथा दृक्श्रावकोरगः || ८२ || अयःपिण्डे यथा वह्निर्भिन्नस्तिष्ठत्यभिन्नवत् | तद्वत्सर्वमिदं देवो व्यावृ(पृ ?)त्य परितिष्ठति || ८३ || निर्मले दर्पणे यद्वत्किञ्चिद्वस्त्वभितिष्ठति | न च तद्दर्पणस्यास्ति अस्ति तस्य च तद्विज || ८४ || सेन्द्रियैस्तु गुणैरेवं संयुक्तश्चापि वर्जितः | अस्मिन्मायामये विश्वे व्यापी सर्वेश्वरः प्रभुः || ८५ || सर्वदा विद्ध्यसक्तश्च यथाऽम्भः पुष्करच्छदे | सर्वभृद्वैश्वरूप्याच्च अमोघत्वाच्च निर्गुणः || ८६ || प्. ३५) उदासीनवदासीनो गुणानां गुणभुक् ततः | सर्वदाऽन्तर्गतस्यैव कुम्भस्य च यथोदकम् || ८७ || तथा सर्वस्य जगतो वहिरन्तर्व्यवस्थितः | घटसंस्थं यथाऽकाशं नीयमानं विभाव्यते || ८८ || नाकाशं कुत्रचिद्याति नयनात्तु घटस्य च | चलाचलत्वमेवं हि विभोश्चैवानुमीयते || ८९ || बहुष्वम्बुजपत्रेषु वेधं कुर्वन्क्रमात्क्रमात् | कालवच्चातिसूक्ष्मत्वान्न सदाऽप्युपलभ्यते || ९० || अज्ञानाच्चातिदूरस्थं ज्ञानात्सम्भाव्यते हृदि | यदा तदा समीपस्थं स्वसंवेद्यश्चिदात्मकः || ९१ || आकाशस्य (शः स ?) च यो वायुस्तद्द्वयोरप्यभेदतः (दिता?) | तथा तस्य(स्या ?) विभक्त्यैक्यं भूतानां हि परस्य च || ९२ || चेतनाचेतनास्सर्वे भूताः स्थावरजङ्गमाः | पूरिताः परमेशेन रसेनौषधयो यथा || ९३ || एकेनाभिन्नरूपेण भूतभृत्त्वेन हेतुना | यथैव सूर्याधीने तु प्रकाशतमसी द्विज || ९४ || तद्वत्सृष्टिं ससंहारां स्वतन्त्रः प्रकरोति च | प्रकाशो ज्योतिषां तच्च श्रोत्रादीनां यथा मनः || ९५ || शब्दादिके न संदृष्टे तथाऽपि श्रुणुतेऽन्यथा | तमसोऽन्यो यथाऽलोकश्चाज्ञानात्तत्परस्तथा || ९६ || ज्ञानं तदेव ज्ञेयं च वह्नेर्ज्वाला यथैव हि | वर्णैर्विरहितं सर्वैर्नीरूपत्वात्सितादिकैः || ९७ || मधुरादिरसैस्तद्वत्कल्पनारहितं यतः | मयूरकण्ठवत्सर्वैर्वर्णैस्तदुपचर्यते || ९८ || अनुभावाद्रसानां च तथा सर्वरसात्मकः | सर्ववर्णरसैर्हीनो युक्तश्चातस्स्मृतोऽच्युतः || ९९ || सर्वज्ञस्सर्ववेत्तृत्वाद्दर्शस्सर्वत्र दर्शनात् | साम्यात्सर्वेश्वरश्चैव यतस्सर्वज्ञतादिभिः || १०० || प्. ३६) युक्तश्चान्तस्सर्वशक्तिः षाङ्गुण्यमहिमान्वितः | स्वाधीनश्च स्वतन्त्रत्वात्पुराणत्वादनादि तत् || १०१ || न ह्यस्यान्तोस्त्यतोऽनन्तस्तृप्तत्वाद्दुःखवर्जितः | अमूर्त एव सर्वेशो ह्यभ्यासादुपलभ्यते || १०२ || यथा काष्ठान्तराद्वह्निर्घृतं क्षीरान्तराद्यथा | स्वानुभावाद्विना नैव वक्तुं संयुज्यते यथा || १०३ || माधुर्यमिक्षुसंस्थं च अमूर्तमुपलभ्यते | एवं स्वदेहगं देवं परमात्मानमव्ययम् || १०४ || हेयोपादेयरहितं सुसितानन्दविग्रहम् | प्रमाणैरपरिच्छैद्यं यतस्संविन्मयं महत् || १०५ || विभाति हृदयाकाशे येषां मायाविवर्जितम् | एष नारायणो देवस्सर्वोपाधिविवर्जितः || १०६ || स्वात्मसंवेदनत्वाद्द्यो विना लक्ष्यः परः प्रभुः | तमाश्रयस्वानिर्देश्यं ज्ञानेन परमेण च || १०७ || यच्चोपमानै रहितं व्यवहारैर्धियोऽक्षगैः | कारणं तदनौपम्यं ये विदन्त्यभयास्तु ते || १०८ || भावातीतं परं ब्रह्म स्फटिकामलसन्निभम् | मोक्षं यान्ति च ते मुक्ताः स्थितिस्तेषां परे पदे || १०९ || नानाभेदेन भेदानां निवसत्येक एव हि | न तस्य विद्यते मानं न च रूपं महात्मनः || ११० || तेजोवायविन्दुभावेन, पद्मसूत्रायुतायुतात् | कोष्ट्यंशेन तु मानेन सुसूक्ष्मेषु स्थितोऽणुषु || १११ || किञ्चिच्च तेभ्यः स्थूलेषु स्थूलज्योतिः पुरोदिताम् | प्रमाणात्संस्थितो व्यापी परमात्मा ह्यधोक्षजः || ११२ || वायवात्मना स भूतानां स्थितः कुटिलभाविनाम् | सर्गो रूपेण धूतानां पार्थिवानामशेषतः || ११३ || स्थितःषड्रसरूपेण सर्वौषधिषु सर्वगः | अनेकाभिश्च संज्ञाभिस्तमव्ययमुपासते || ११४ || ईश्वरत्वेन विप्रेन्दु पुरुषत्वेन चैव हि | शिवसूर्यात्मकत्वेन सोमत्वेन तथैव च || ११५ || प्. ३७) अग्नीषोमात्मकत्वेन शब्दत्वेनापि वै पुनः | ज्योतिर्ज्ञानात्मकत्वेन कालत्वेन च नारद || ११६ || जीवक्षेत्रात्मकत्वेन भूतात्मत्वेन वै तथा | एवमेकः परो देवो नानाशक्त्यात्मरूपधृत् || ११७ || नारायणः परं ब्रह्म निष्ठा सन्ब्रह्मवेदिनाम् | [सनिदर्शनमुपासकानां ब्रह्मसम्पत्तिनिरूपणम्] यद्वन्महापुरस्यान्तर्यायिनः प्रविशन्ति च || ११८ || सर्वदिग्बहुनिर्माण (?)स्तद्वद्विष्णोरुपासकाः | ध्येयेष्वीश्वरभूतेषु ध्यायिनस्तु सदैव हि || ११९ || विशन्ति क्षीणमोहाश्च यथा क्षीणामृता द्विज | कला या ऐन्दवास्सूर्ये तद्वद्विष्णौ च योगिनः || १२० || मेघाद्धारागणेनैव पृथग्म्बुगतं क्षितौ | प्राप्नोत्यैक्यं तथा सर्वे भगवत्यपि योगिनः || १२१ || यथाऽनेकेन्धनादीनि संप्रविष्टानि पावके | अलक्ष्याणि च दग्धानि तद्वद्ब्रह्मण्युपासकाः || १२२ || सरित्सङ्घाद्यथा तोयं संप्रविष्टं महोदधौ | अलक्ष्यश्चोदके भेदः परस्मिन् योगिनां तथा || १२३ || उपासते यमात्मज्ञा यतस्सूर्यो विराजते | तमाश्रय मुने शश्वद्यस्य कोट्यंशजा वयम् || १२४ || तथा सहस्रमूर्द्धा यः सहस्राक्षस्सहस्रपात् | सहस्रबाहुभिः पूर्णस्सहस्रात्मधरः प्रभुः || १२५ || सहस्रदीप्तिभिः स्फीतः श्रीनिवासः किरीटवान् | श्रीवत्सवक्षा विप्रेन्द्र कौस्तुभाद्यैरलङ्कृतः || १२६ || चन्द्रार्कौ नयनोद्देशे जिह्वासङ्घे(स्थाने?) सरस्वती | यस्योच्छ्वासश्च पवनस्तस्मादूर्ध्वस्तु कावधौ (?) || १२७ || श्रोत्रोद्देशे दिशो यस्य विदिशो यस्य बाहवः | पातालादौ तलं यस्य विज्ञेयं पादसन्ततौ || १२८ || प्रभा यस्य च कालाग्निर्जीमूताः केशसन्ततिः | रोमाणि यस्य विबुधा ऋषयो रोमकूपगाः || १२९ || प्. ३८) मुखेऽग्निरापस्स्वेदो वै ग्रहा ऋक्षादयो मलम् | मलमस्योपचारत्वान्नत्वेवं परमार्थतः || १३० || इदमुक्तं मया ब्रह्मन् ब्रह्मतत्त्वं यथार्थतः | यज्ज्ञात्वा न पुनर्भूयो भवमेष्यासे सङ्कुलम् || १३१ || खवत्सर्वगतं चैव यद्यप्यस्मिंश्चराचरे | स्थितं ज्ञानं विना विप्र तथाऽपि हि सुदुर्लभः || १३२ || इति श्रीपाञ्चरात्रे जयाख्यसंहितायां शुद्धसर्गब्रह्मतत्त्वाख्यानं नाम चतुर्थः पटलः || ४ || अथ ब्रह्मज्ञानोत्पत्त्याख्यानं नाम पञ्चमः पटलः नारदः ब्रह्माभिन्नं विभो ज्ञानं श्रोतुमिच्छामि तत्त्वतः | येन सम्प्राप्यते ज्ञेयमन्तःकरणसंस्थितम् || १ || [ज्ञानस्य योगाभ्यासैकलभ्यत्वम्] श्रीभगवान् सर्वोपाधिविनिर्मुक्तं ज्ञानमेकान्तनिर्मलम् | उत्पद्यते हि युक्तस्य योगाभ्यासात्क्रमेण तत् || २ || तेन तत्प्राप्यते विप्र अन्यथा दुर्लभं भवेत् | नारदः कथमेवंविधं ज्ञानमुत्पद्येत जगत्प्रभो || ३ || यतस्स्याज्ज्ञेयसमता एतद्विस्तरतो वद | [भगवच्छक्तिसामर्थ्याद्गुणसाम्यापत्त्या स्वात्मस्वरूपजिज्ञासोत्पत्तिः] श्रीभगवान् संसारपादपस्थानां फलानां चैव नारद || ४ || पक्वकर्मरसानां च भ्रान्तानां भवसागरे | भगवच्छक्तिसामर्थ्याद्गुणसाम्यं भवेत्क्षणात् || ५ || तत्साम्यात्कर्मसमता जायते समनन्तरम् | तत्समत्वाद्विचारस्तु प्रवर्तेतात्मलाभदः || ६ || कोऽहं किमात्मकश्चैव किमिदं दुःखपञ्जरम् | यत्राहमसमाश्वस्तस्संस्थितस्सर्वदैव हि || ७ || प्. ३९) इति मत्त्वा ततो याति निष्पन्नस्य गुरोर्गृहम् | [विविदिषयोपसन्नस्य शिष्यस्याधिकारानुगुणमुपाये नियोज्यत्वम्] ज्ञात्वा तस्यातुरत्वं च सर्वज्ञो गुरुमूर्तिगः || ८ || भाति (व?) व्यापृतिकं बुध्वा तं तथा विनियोजयेत् | सोपलब्धे तु निर्बीजे स्वसामर्थ्यात्परे पदे || ९ || निर्वाणे तु निरातङ्के सानन्दे चिन्मये तु वा | मान्त्रेऽधिक्रियमे(?) वाऽपि भोगमोक्षप्रदक्षमे || १० || [स्वाधिकारानुगुणं मन्त्राराधने प्रवृत्तस्य ज्ञानोदयप्रकारः] मन्त्राराधनसक्तस्तु तत्सिद्धीनामलोलुपः | भक्तस्तद्ध्याननिष्ठश्च तत्क्रियापरमो महान् || ११ || तदाद्यभिमुखाकांक्षी ब्रह्मचर्यव्रते स्थितः | भवं भावयते सम्यक् दुःखशोकप्रदं महत् || १२ || अनित्यमध्रुवं कष्टं जरामरणसङ्कुलम् | द्वन्द्वयोगभयाक्रान्तमपर्याप्तमनश्वरम् || १३ || सदैतच्चिन्तनाच्छश्वत्तथा मन्त्राद्यनुग्रहात् | नियमाच्चापि शारीरात्परं वैराग्यमावहेत् || १४ || वैराग्याच्च ततो विप्र विषयैः कलुषीकृतम् | शरत्काले जलं यद्वच्चित्तमेति प्रसन्नताम् || १५ || प्रसन्नस्थिरतां याति निस्तरङ्ग इवोदधिः | निवाताचलदीपाभमचलं बोधसम्मुखम् || १६ || यत्तच्चित्तमिवा(मथा)पन्नः पुमांश्चैतन्यलक्षणः | संबोधं च तदाप्नोति तज्ज्ञानं परमं स्मृतम् || १७ || सैव चिद्धृदयाकाशे ह्युदेत्यादित्यवत्क्रमात् | तेनाधिगम्यते ज्ञेयं यद्वत्सूर्योदयाज्जगत् || १८ || सम्बोधो ज्ञेयनिष्ठा सा तदाऽयाति शनैश्शनैः | तदा समरसत्वं हि सह तेनैव तस्य हि || १९ || ज्ञेयज्ञप्तिकरं ज्ञानं क्रमोपेतं च नारद | निर्वाणदमसङ्कीर्णमिदं ते संप्रकाशितम् || २० || युक्तितस्तदभिन्नं च भेदवत्प्रतिभाति यत् | तथाऽपीदं स्वभावेन विद्धि नातः परं तु वै || २१ || प्. ४०) विद्यते ब्रह्मशार्दूल किं वा तत्र प्रवर्तते | यथेदं ते मया विप्र स्वालोकं प्रकटीकृतम् || २२ || अनुभूतं न भूयस्त्वं मया वक्तुं हि शक्ष्यसे | [ब्रह्मणो दुरवबोधत्वम्] अवाच्ये वर्तते कुत्र वाग् वै संवेदनं विना || २३ || षण्णां यद्वद्रसानां च स्वादुत्वं नानुभूयते | प्राकृतैः करणैस्तद्वन्नाभिव्यक्तिं बहिर्व्रजेत् || २४ || केवलं ह्युपमानेन तत्प्रत्यक्षं प्रकाश्यते | प्रवर्तनार्थं मन्दानां नामन्दानां तु वै पुनः || २५ || योगी समरसत्वेन वेदय त्वं विचाररतः | तस्मात्त्वमेव विप्रेन्द्र अनुभूतं स्थिरीकुरु || २६ || लयमेष्यसि येनात्र निजानन्दे ह्यनूपमे | भूतानन्दस्वरूपेण त्यक्त्वा सम्यक्परिग्रहम् || २७ || निवेदितं मया यत्ते तत्तद्वाच्यं न जातु वै | त्वया यदनुभूतं च तदानीं मयि मन्यसे || २८ || सर्वोपमानरहितं वागतीतं स्ववेदनम् | अस्तीति परमं वस्तु निरालम्बमतीन्द्रियम् || २९ || आत्मन्यानन्दसंस्थस्य व्यज्यते करणैर्विना | करणाः प्राकृतास्सर्वे चित्तजाश्च विशेषतः || ३० || [मन्त्रसमाघ्योर्मन्त्रस्य सुकरोपायत्वम्] उपायमत्र मन्त्रौघास्समन्त्रास्ते च सिद्धिदाः | तस्मान्मुद्रादिकरणा भावजाश्च समाधयः || ३१ || क्रियोपेतास्तथा मन्त्राः सर्वे सद्वस्तुसाधकाः | विघ्नायुतसहस्रं तु परोत्साहसमन्वितम् || ३२ || प्रहरन्त्यनिशं तच्च सर्व(स्या)भिमुखस्य च | मन्त्रपूर्वं हि यत्किञ्चित्स्थूलं ब्रह्मव्यपेक्षया || ३३ || विघ्नजालस्य सर्वस्य वीर्यध्वंसकरं स्मृतम् | यथाग्नेर्दाहसामर्थ्यमुदकेन निपात्यते || ३४ || प्. ४१) मायारूपस्तु विघ्नौघो मन्त्राद्यैरुपहन्यते | निकटस्था यथा राज्ञस्त्वन्येषां साधयन्ति च || ३५ || सिद्धिं राजोपगां शीघ्रमेवं मन्त्रादयः परम् | ज्ञात्वैवं सर्वदा विप्र य आस्ते यत्परायणः || ४६ || अभीप्सितेन मार्गेण निष्पद्येताचिरात्तु सः | इति श्रीपाञ्चरात्रे जयाख्यसंहितायां ब्रह्मज्ञानोत्पत्त्याख्यानं नाम पञ्चमः पटलः || ५ || अथ मुख्यमन्त्रोद्धारो नाम षष्ठः पटलः नारदः त्वत्प्रसादेन भगवन्संविल्लब्धा मया परा | मनसश्चञ्चलत्वाच्च नहि मे स्थिरतां व्रजेत् || १ || अतः पूर्वोदितान्सर्वानुपायान्कथयस्व मे | अशेषांश्च क्रमेणैव भोगमोक्षफलप्रदान् || २ || [मन्त्रनिरूपणारम्भः] श्रीभगवान् साधु नारद पृष्टोऽहं सारभूतमिदं त्वया | मन्त्रपूर्वं हि वै सर्वं यत्त्वया परिचोदितम् || ३ || तस्मान्मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं शुभम् | स्थूलसूक्ष्मस्वरूपेण नानासिद्धिफलप्रदम् || ४ || शक्त्यङ्गावरणोपेतमनेकाद्भुतदर्शनम् | [मातृकापीठपरिकल्पनाप्रकारः] भूमिभागे समे शुद्धे मृद्गोमयसुलेपिते || ५ || पञ्चगव्येन संसिक्ते चन्दनाद्युपलेपिते | निवाते च सुसंच्छन्ने धूपैरप्यधिवासिते || ६ || मृदुकल्हारकुसुमैः केवलैः कुसुमैः शुभैः | प्रणवादिनमोन्तेन स्वनाम्ना पूज्य वै पुरा || ७ || परिजप्याथ बहुशो मृदं भूमौ प्रसार्य च | चतुरश्रं सुवृत्तं च द्विहस्तं हस्तमेव वा || ८ || प्. ४२) सुसमं मातृकापीठं कृत्वा प्रस्तार्य तामपि | [अक्षरेषु विभाव्यो भगवतः स्थितिभेदः] एकैव भिन्नवर्गा च वर्गान्तेऽप्यसमाक्षराः || ९ || षोडशाक्षर आद्यस्तु अकाराद्यो द्विजोत्तम | विसर्गान्तस्थितस्तस्मिन्नग्नीषोमात्मकः प्रभुः || १० || पञ्चार्णानां तु पञ्चानां वर्गाणां परमेश्वरः | सुस्थितः कादिमान्तानां तत्त्वात्मत्वेन सर्वदा || ११ || जाग्रदादिक्रमेणैव स्थितोऽवस्थात्मनात्र वै | यादिवान्ते चतुर्वर्णे वर्गे विप्रेन्द्र सत्तमे || १२ || तुर्यातीतात्मरूपेण शादिक्षान्तेषु संस्थितः | आलोकस्तीक्ष्णता व्याप्तिर्ग्रहणं क्षेपणेरणे || १३ || पाकः प्राप्तिरिति ह्यष्टौ सूर्यभागे व्यवस्थिताः | अकारादिषु ह्रस्वेषु वर्णेष्वेतेष्वनुक्रमात् || १४ || द्रवता शैत्यभावाश्च तृप्तिःकान्तिः प्रसन्नता | रसताऽह्लाद आनन्दो ह्यष्टौ चान्द्रास्त्विमा मताः || १५ || आकारादिषु दीर्घेषु संस्थिता मातृकात्मना | अविनाभावरूपेण अन्योन्येन सदैव हि || १६ || अष्टानामपि चाष्टौ तु संस्थिता बहिरन्तरे | क्ष्मादितत्त्वसमूहस्तु पुरुषान्तः क्रमेण तु || १७ || जाग्रत्स्वप्नसुषुप्तं च तुर्यमूर्ध्वेऽत्र वर्तते | संस्थितः परमालोकशब्दो नित्योदितः परः || १८ || परानन्दश्च समता वेद्यवेदकवर्जितः | स्वरूपमेतत्कथितं तुर्यातीतात्मनो विभोः || १९ || [एवं भगवतः स्थितिं विभाव्योल्लिख्यमानानामक्षराणं भगवन्मातृकादेहरूपता] इति वर्णप्रभावं च व्यापकं चानुभूतिगम् | बुध्वा च लिपिरूपेण संलिखेद्येन केनचित् || २० || संवेद्योऽपि जनेनैव न लिपिर्विप्र मातृकाः | परमः पुरुषो दिव्यो योऽनुभूतः पुरा त्वया || २१ || तस्यायं मातृकादेहः चतुर्धा संव्यवस्थितः | प्. ४३) [मातृकायाः स्वविग्रहे न्यासक्रमः] सूत्रेण मणयो यद्वत्प्रोतास्त्वेकेन नारद || २२ || तद्वद्वर्णा मया तन्तुस्वरूपेणाव्ययात्मना | इति चेतसि वै कृत्वा मन्त्रानुद्धरते च यः || २३ || दृष्टादृष्टफलप्राप्तिस्तस्य मन्त्रात्प्रजायते | एवं स्वविग्रहे न्यस्य मातृकां मन्त्रमात्रकाम् || २४ || वस्तुपूर्णेषु तत्त्वेषु स्वेषु स्वेषूदितेषु च | स्नात्वा शुक्लाम्बरधरस्स्रक्चन्दनविभूषितः || २५ || [मन्त्रमातृकोद्धारक्रमः] तामेव प्रस्तरेन्मन्त्री अष्टवर्गां पृथक्स्थिताम् | अष्टारे तु महाचक्रे मध्यतः सुविभूषिते || २६ || प्रागरादि क्षकारान्तमवर्गादिक्रमेण तु | मध्यतः प्रणवं लिख्य वर्णचक्रं प्रभुं परम् || २७ || एकैकं तु स्वसंज्ञाभिश्चक्रारेष्वक्षरं लिखेत् | यावन्निष्पद्यते वर्गस्स्हितः स्वैस्स्वैररान्तरे || २८ || स्वरव्यञ्जनसंयुक्तां मातृकामग्रतो यजेत् | [मातृकापूजनप्रकारः] पाद्यार्घ्यपुष्पधूपेन दीपेन च विलेपनैः || २९ || फलमूलादिनैवेद्यैरोंनमोमन्त्रमातृके | संपूज्यश्च ततो भक्त्या मातृकाविग्रहः पुमान् || ३० || प्रागुक्तेन स्वनाम्ना वै प्रणत्या प्रणवेन च | स्वाभिधाभिः क्रमेणातो ह्येकैकं चाक्षरं यजेत् || ३१ || मध्याह्नभास्कराकारं प्रस्फुरन्तं विचिन्त्य च | [भगवद्रूपाणामक्षराणामकारादिक्रमेणाभिधाभेदः] अकारश्चाप्रमेयश्च प्रथमो (भवो ?) व्यापकः स्मृतः || ३२ || आदिदेवस्तथाऽकार आनन्दो गोपनः स्मृतः | रामसंज्ञ इकारश्च इष्ट इद्धः प्रकीर्तितः || ३३ || ईकारः पञ्च बिन्दुर्वै विष्णोर्माया द्विजाधिप | उकारो भुवनाख्यश्च उद्दाम उदयस्तथा || ३४ || प्. ४४) ऊकार ऊर्जो लोकेशः प्रज्ञाधारस्तथैव च | सत्यश्च ऋत्तधामा च ऋकारस्स तु चाङ्कुशः || ३५ || ऋकारं विष्टरं विद्धि ज्वाला सैव प्रसारणम् | लिङ्गात्मा भगवान्प्रोक्तो ऌकारस्तारकस्स्मृतः || ३६ || ऌकारो दीर्घघोणश्च देवदत्तो विराट् स तु | त्र्यश्र एकारसंज्ञस्तु जगद्योनिरविग्रहः || ३७ || ऐश्वर्यं योगधाता च ऐ समैरावणस्स्मृतः | ओकार ओतदेहश्च ओदनस्स च विक्रमी || ३८ || और्वोऽथ भूधराख्यश्च औस्स्मृतो ह्यौषधात्मकः | त्रैलोक्यैश्वर्यदो व्यापी व्योमेशोऽङ्कार एव च || ३९ || विसर्गः सृष्टिकृत्ख्यातो ह्यकारः परमेश्वरः | कमलश्च करालश्च ककारः प्रकृतिः परा || ४० || खकारः खर्वदेहश्च वेदात्मा विश्वभावनः | गदध्वंसी गकारश्च गोविन्दस्स गदाधरः || ४१ || घकारश्चैव धर्मांशुस्तेजस्वी दीप्तिमान्स्मृतः | ङकार एकदंष्ट्रश्च भूतात्मा विश्वभावकः || ४२ || चकारश्चंचलश्चक्री चन्द्राशुस्स च कथ्यते | छकारः छलविध्वंसी छन्दश्छन्दःपतिः स्मृतः || ४३ || अजितो जन्महन्ता च जकारस्स च शाश्वतः | झषो झकारः कथितः समात्मा सामपाठकः || ४४ || उत्तमस्त्वीश्वराख्यश्च ज्ञकारस्तत्त्वधारकः | चान्द्री टकार आह्लादो विश्वाप्यायकरः स्मृतः || ४५ || ठकारः कौस्तुभः प्रोक्तो नेमिर्धाराधरस्तथा | डकारो दण्डधारश्च मौसलोऽखण्डविक्रमः || ४६ || ढकारो विश्वरूपश्च वृषकर्मा प्रतर्दनः | णकारोऽभयदश्शास्ता वैकुण्ठः परिकीर्तितः || ४७ || ताललक्ष्मा तकारश्च वैराजस्स्रग्धरस्स्मृतः | धन्वी भुवनापालश्च थकारस्सर्वरोधकः || ४८ || प्. ४५) दत्तावकाशो दमनो दकारश्शान्तिदः स्मृतः | धकारः शार्ङ्गधृद्धर्ता माधवश्च प्रकीर्तितः || ४९ || नरो नारायणः पन्था नकारस्समुदाहृतः | पकारः पद्मनाभश्च पवित्रः पश्चिमाननः || ५० || फकारः फुल्लनयनो लाङ्गली श्वेतसंज्ञिकः | बकारो वामनो ह्रस्वः पूर्णाङ्गस्स च गीयते || ५१ || भल्लायुधो भकारश्च ज्ञेयस्सिद्धिप्रदो ध्रुवः | मकारो मर्दनः कालः प्रधानः परिपठ्यते || ५२ || चतुर्गतिर्यकारस्तु स सूक्ष्मश्शङ्ख उच्यते | अशेषभुवनाधारो रोऽनलः कालपावकः || ५३ || लकारो विबुधाख्यस्तु धरेशः पुरुषेश्वरः | वराहश्चामृताधारो वकारो वरुणस्स्मृतः || ५४ || शकारः शङ्करः शान्तः पुण्डरीकः प्रकीर्तितः | नृसिह्मश्चाग्निरूपश्च षकारो भास्करस्तथा || ५५ || सकारश्चामृतं तृप्तिस्सोमस्तु परिपठ्यते | सूर्यो हकारः प्राणस्तु परमात्मा प्रकीर्तितः || ५६ || अनन्तेशः क्षकारस्तु वर्गान्तो गरुडस्स्मृतः | अशेषसंज्ञा वर्णानामित्येताः परिकीर्तिताः || ५७ || अनुलोमविलोमेन वर्णाद्वर्णस्य वै पुनः | संख्या संज्ञा च या सम्यक्सामान्या सा महामते || ५८ || [भगवदंशभूतानामक्षराणामङ्गाङ्गिभावेन मिथःअसङ्गतानां मन्त्रोत्पत्तिहेतुता] एते भगवदंशाश्च शब्दा भास्वरविग्रहाः | कारणं सर्वमन्त्राणां भगवच्छक्तिबृंहिताः || ५९ || परस्पराङ्गभावेन मन्त्रोत्पत्तिं व्रजन्ति च | चराचरेऽस्मिंस्तन्नास्ति यदमीभिर्न भावितम् || ६० || कृत्वैवं भावगां व्याप्तिं वर्णानां पूजनक्रिया | [मन्त्रोद्धारक्रमः] स्वहृच्चक्रेऽथ भूमिष्ठे ततो मन्त्रान्समुद्धरेत् || ६१ || वर्गान्तमाद्यं बीजं तु सप्तवर्गाद्विभेदितम् | प्. ४६) पञ्चबिन्दुयुतं मूर्ध्नि व्योमेशेन नियोजितम् || ६२ || इदं बीजवरं दिव्यं सर्वकामफलप्रदम् | अनन्तेशात्तृतीयं तु स्वरवर्गान्तयोजितम् || ६३ || द्वितीयं तस्य तद्बीजं जरामृत्युभयापहम् | स्वराद्यं पञ्चमं चैव पञ्चविंशेन योजितम् || ६४ || तयोराद्यं लिखेद्बीजं भोगमोक्षप्रदं शुभम् | नमस्कारपदोपेतं सर्वशक्त्याश्रयं प्रभुम् || ६५ || एतद्वर्णत्रयं देहः स्थूलभासो मम द्विज | भूतदेहव्यपेक्षायां किञ्चित्सूक्ष्मश्च नारद || ६६ || परमूर्त्त्यन्तरेणैव स्थूल एव विभाति च | अत्युत्कृष्टगुणैर्युक्तो ह्यदृश्यो यस्य कस्यचित् || ६७ || अपि चेत्केवलस्सर्वामर्थसिद्धिं प्रयच्छति | किं पुनर्मूर्त्तिमन्त्रेण द्वादशार्णेन संयुतः || ६८ || पदं नारायणायेति कुर्याद्विश्वात्मने ततः | ह्रीं स्वाहाकारसंयुक्तो मूर्त्तिमन्त्रो ह्ययं स्मृतः || ६९ || [मन्त्रमहिमानुवर्णनम्] सङ्कल्पाकल्परूपस्तु त्र्यर्णस्याद्योदितस्य च | अणिमादिगुणाधारः पातालोत्थानसिद्धिदः || ७० || मोक्षदो मोक्षकामस्य भोगकामस्य भोगदः | राज्यदो राज्यकामस्य धनकामस्य भूतिदः || ७१ || यान्यान्प्रार्थयते कामान्सर्वान्वै साधकाय च | द(दा)त्युच्चारमात्रेण सम्यक्तद्भावितात्मने || ७२ || [देवताध्यानम्] अनादिनिधनं देवं जगत्स्रष्टारमीश्वरम् | ध्यायेच्चतुर्भुज विप्र शङ्खचक्रगदाधरम् || ७३ || चतुर्वक्त्रं सुनयनं सुकान्तं पद्मपाणिनम् | वैकुण्ठं नरसिह्मास्यं वाराहं कपिलाननम् || ७४ || शुक्लं खगेश्वरारूढं सर्वाभरणभूषितम् | सर्वलक्षणसंपन्नं माल्याम्बरधरं विभुम् || ७५ || प्. ४७) किरीटकौस्तुभधरं कर्पूरालिप्तविग्रहम् | सूर्यायुतसहस्राभं सर्वदेवनमस्कृतम् || ७६ || [लक्ष्म्यादीनां भगवद्रूपे नित्यसान्निध्यम्] लक्ष्मीः कीर्त्तिर्जया माया देव्यस्तस्याश्रितास्सदा | स्वशक्तिनिचयोपेता निराकारास्तु निष्कलाः || ७७ || सूर्यस्य रश्मयो यद्वदूर्मयश्चाम्बुधेरिव | सर्वैश्वर्यप्रभावेन कमला श्रीपतेस्तथा || ७८ || नानाविशेषलक्ष्मीभिः कोटिसङ्ख्याभिरावृता | कीर्त्तिस्तथाविधेर्देव (नैव ?) विधिना विग्रहे विभोः || ७९ || तन्नास्ति यन्न हि तया व्याप्तं सामान्यदेहया | यस्य या च यदा कीर्त्तिस्स्वसामर्यात्प्रजायते || ८० || सा सा विप्र स्मृता सर्वा विशेषप्रतिपत्तिभिः | जया जयेश्वरस्यैवं व्याप्तिभावेन संस्थिता || ८१ || या काचिद्विद्यते माया जगत्यस्मिन् सुरादिषु | भगवन्माययोद्भूतां तां विद्धि परमां तु वै || ८२ || तदीयं निष्कलं रूपं मुक्त्वा वै परमार्थिकम् | कोऽस्मिंस्तत्त्वोदधौ चास्ति चतुर्धा मुनिसत्तम || ८३ || भगवच्छक्तिभिस्सम्यगाभिर्योगविभागतः | स्वालोकज्ञानसामर्थ्यात्साकारत्वमुपागताः || ८४ || [लक्ष्म्यादीनां ध्यानप्रकारः] ध्यातव्यास्साधकेन्द्रेण यस्य स्त्रीश्च(स्त्रियश्चास्य ?)स्वसिद्धये | एकवक्त्रा द्विनेत्राश्च द्विभुजाश्चारुकुण्डलाः || ८५ || पद्मगर्भनिभाः कान्ता मेखलादाममण्डिताः | श्वेतमाल्याम्बरधरा हारकेयूरभूषिताः || ८६ || सर्वलक्षणसंपन्नाः पीनोन्नतपयोधराः | प्रबुद्धोत्पलविस्तीर्णलोचनाश्च स्मिताननाः || ८७ || चलद्द्विरेफपटलतुल्यैर्युक्तास्तथाऽलकैः | ललाटतिलकैश्चित्रैर्विविधैः परिमण्डिताः || ८८ || आरक्ताधररक्ताश्च वंशमुक्ताफलद्विजाः | अर्धचन्द्रललाटाश्च श्लक्ष्णकुञ्चितमूर्धजाः || ८९ || प्. ४८) पाशाङ्कुशधरा देव्यः सर्वकामार्थसाधकाः | पूर्वादिदिग्विभागस्थाः केसरारेषु नारद || ९० || बद्धपद्मासनाश्चैव देवदेवस्य संउखाः | [लक्ष्म्यादिमन्त्रनिरूपणोपक्रमः] मन्त्रांस्तासां प्रवक्ष्यामि पूजार्थं विविधानथ || ९१ || यैस्समाराधिताः शश्वदभीष्टं साधयन्ति च | मूलमन्त्राद्द्वितीयं यत्केवलं बीजनायकम् || ९२ || सामान्यं हृदयं ह्येतत्सर्वासां परिकीर्तितम् | मूर्तिमन्त्रचतुष्कं तु क्रमेणासां पृथक्शृणु || ९३ || [लक्ष्मीमन्त्रः] प्रणवं चोद्धरेत्पूर्वं हृद्बीजं तदनन्तरम् | द्विरक्षरे पदं लक्ष्म्यै प्राङ्गमोन्तं निवेश्य च || ९४ || ततः परमशब्दं तु तदन्ते पुरुषेश्वरम् | वर्गान्तमास्वरोपेतं वस्थितायै पदं न्यसेत् || ९५ || भूयस्तद्धृदयं बीजं श्रीं ह्रीं बीजद्वयं ततः | स्वाहासमन्वितं विप्र प्रणवाद्यं च मन्त्रराट् || ९६ || मूर्त्तिमन्त्रसमेतस्तु लक्ष्म्याख्यो द्विदशाक्षरः | [कीर्त्तिमन्त्रः] हृद्बीजं प्रणवाद्यं तु पदं कीर्त्त्यै ततो नमः || ९७ || सदोदितानन्दपदं विग्रहायै पदं त्वनु | ह्रीं क्लीं स्वाहासमेतस्तु प्राक्संख्यं कीर्तिमन्त्रराट् || ९८ || [जयामन्त्रः] हृद्बीजं प्रणवोपेतं जयायै त्र्यक्षरं नमः | स्वराद्यं जितशब्दश्च धामा वर्णद्वयं ततः || ९९ || वस्थितायै पदं कृत्वा तद्धृद्बीजं न्यसेत्पुनः | अशेषभुवनाधारावस्थितं च तृतीयकम् || १०० || व्योमेशपञ्चबिन्दुस्स्यात्स्वाहा तदनु नारद (वै पदम्) | वर्णाद्विदशसंख्यश्च जयाख्यो मन्त्र उत्तमः || १०१ || प्. ४९) [मायामन्त्रः] प्राग्बीजं प्रणवाद्यं च मायायै च ततो नमः | मोहातीतपदं चाथ नान्तं तदनु योजयेत् || १०२ || द्वितीयस्वरसंयुक्तं दकारं तदनन्तरम् | शृतायै त्र्यक्षरश्शब्दो मायाबीजं ततो भवेत् || १०३ || प्रधानमनलारूढं चतुर्थस्वरभूषितम् | त्रैलोक्यैश्वर्यदेनैव युक्तं स्वाहान्तमुद्धरेत् || १०४ || मायामन्त्रश्च पूर्वेषां वर्णसंख्यासमस्स्मृतः | [हृदाद्यङ्गमन्त्रनिरूपणम्] अङ्गानि देवदेवस्य कथयिष्यामि तत्त्वतः || १०५ || सन्नद्धःसाधको यैस्तु अवध्यस्त्रिदशैरपि | साधयेत्सर्वकार्याणि यान्यायुस्सुखदानि च || १०६ || भक्तस्तद्भावितात्मा च यदि मन्त्रक्रियापरः | [हृन्मन्त्रः] अनन्तपूर्वं यद्बीजं बिन्दुभूषितमुद्धरेत् || १०७ || नमोऽन्तं प्रणवाद्यं तु हृन्मन्त्रं विद्धि निष्कलम् | अस्यैव मूर्त्तिमन्त्रो यस्तं ते वच्मि यथास्थितम् || १०८ || प्रणवो बिन्दुसंभिन्नस्सूर्यस्सोमो विसर्गधृक् | शुचिशब्दं ततः कुर्यादग्निरूपमथोद्धरेत् || १०९ || दकारवर्णं तदनु प्रणवेनाप्यलङ्कृतम् | हृदयाय नमस्कुर्यात् हृन्मन्त्रो मूर्तिसंयुतः || ११० || सप्तादशाक्षरो विप्र सर्वसिद्धिप्रदायकः | [शिरोमन्त्रः] द्वितीयस्वरसंयुक्तं तदेव शिरसि न्यसेत् || १११ || एवमुद्धृत्य च ततस्तस्यादौ प्रणवं न्यसेत् | प्रणतिं चावसाने तु मूर्धानं विद्धि निष्कलम् || ११२ || मूर्त्तिमन्त्रमथो वक्ष्ये अस्यैवानुचरस्तु यः | प्रोद्धरेत्पद्मनाभाख्यं केवलं तादृशं त्वनु || ११३ || अशेषभुवनाधारं फलं तस्यावसानगम् | प्. ५०) कालपावकसंस्थं वै तं च फान्तं द्विजोत्तम || ११४ || अथोद्धरेत्प्राणसंज्ञं मदनेनोपरि स्थितम् | शिरसे च पदं पश्चात्स्वाहा शब्दस्तदन्तगः || ११५ || त्रयोदशाक्षरं विद्धि शिरोमन्त्रं तु नारद | [शिखामन्त्रः] प्रणवं प्रथमं दद्यात्सूर्याख्यं तदनन्तरम् || ११६ || विष्णुनाऽलङ्कृतं मूर्ध्ना त्रैलोक्यैश्वर्यदेन च | नमश्चास्यावसाने वै शिखामन्त्रश्च निष्कलः || ११७ || मूर्त्तिमन्त्रमथास्यैव वच्मि सर्वार्थसिद्धिदम् | पद्मनाभश्च (भं च ?)रारूढं दकारं शङ्खमूर्ध्वगम् || ११८ || कुर्यात्तमोतदेहेन प्रोतं यत्नेन नारद | केवलस्ताललक्ष्मातो रामोपेतो नरस्ततः || ११९ || शिखायै वौषडन्तश्च शिखामन्त्रो ह्ययं स्मृतः | सार्धत्रयोदशार्णश्च नानासिद्धिफलप्रदः || १२० || [कवचमन्त्रः] नतिप्रणवमध्ये तु प्राणं व्योमविभूषितम् | पञ्चमस्वरसंयुक्तं कवचार्णं विनिर्दिशेत् || १२१ || कृष्णस्य मूर्त्तिमन्त्रे तु भुक्तिमुक्त्यर्थसिद्धिदम् | प्रोद्धरेच्छङ्काराख्यं तु आनन्देनाभ्यलङ्कृतम् || १२२ || वराहस्थं तमेवाथ वैराजं केवलं ततः | केवलं पुण्डरीकं तु केवलं कालपावकम् || १२३ || चतुर्गतिसमारूढं वैकुण्ठं प्रोद्धरेत्ततः | कवचाय पदं कुर्याद्धुङ्कारेण विभूषितम् || १२४ || उभयात्मैष उक्तस्तु मन्त्रः पञ्चदशाक्षरः | [नेत्रमन्त्रः] नमोन्तः प्रणवाद्यश्च प्राणो व्योमविभूषितः || १२५ || औकारस्वरसंयुक्तो नेत्रमन्त्रस्तु निष्कलः | पवित्रमनलारूढं कमलं गोपनाङ्कितम् || १२६ || प्. ५१) केवलं शङ्करश्चान्ते रारूढं पश्चिमाननम् | अजितश्चामृताधारस्संस्थितं प्रोद्धरेत्ततः || १२७ || धरेशं केवलं दद्यान्नेत्राय त्र्यक्षरं पदम् | तदन्ते च वौषट् कुर्यान्नेत्रमन्त्रो ह्ययं स्मृतः || १२८ || त्रिपञ्चवर्णसंख्यस्तु सार्द्धार्णो द्विज सिद्धिदः | [अस्त्रमन्त्रः] नमः प्रणवमध्यस्थः परमात्मा ह्यनन्तरम् || १२९ || सविसर्गःस एवास्त्रं मूर्त्तिमन्त्रसमन्वितम् | दत्तावकाशसंज्ञं वै मायाभूषितविग्रहम् || १३० || पवित्रं स्रग्धरारूढं तदूर्ध्वे चोदनं न्यसेत् | मदनं सत्यसंस्थं च पवित्रं ताललक्ष्मगम् || १३१ || भूयस्तमनलस्थ च केवलं च ध्रुवं ततः | तदन्ते चाप्रमेयं तु सोमाख्यं चोद्धरेत्ततः || १३२ || वैराजस्थं द्विजश्रेष्ठ सोऽपि चानलसंस्थितः | गोपनेनाङ्कयेत्तं वै पिण्डोऽयं चतुरक्षरः || १३३ || केवलं च ततः सूक्ष्मं फट्कारपदभूषितम् | चतुर्दशस्वरं ह्यस्त्रमर्द्धाक्षरमन्वितम् || १३४ || [पूर्वं चतुर्वक्त्रतयोक्तस्य देवस्य नृसिह्माद्यास्यत्रयमन्त्राः] स्थिता नृसिह्मपूर्वेषु तान्वक्ष्यामि समासतः || १३५ || सदेहाश्च पृथग्भागे साङ्गास्सपरिवारकाः | देवस्य वक्त्रमात्रेण ध्येयाः पूज्याश्च यत्नतः || १३६ || विश्वाप्याययुतं विप्र प्रणवं पूर्वमुद्धरेत् | अजितञ्चानलस्थं च ओदनेन समन्वितम् || १३७ || चन्द्रिणञ्चोर्ध्वतः कृत्वा व्यापनस्तस्य चोपरि | प्रोद्धरेज्जन्महन्तारं तदधस्सामपाठकम् || १३८ || कुर्याच्चानलसंस्थं च र्-उर्जं वै तदधः पुनः | ऊर्ध्वे व्यापी तथा ह्यादौ भूधरश्च भवेत्क्रमात् || १३९ || पिण्डाक्षरमिदं विप्र द्वितीयस्य नमोन्तगम् | ज्वलनायुतशब्दं च दीप्तये त्र्यक्षरं पदम् || १४० || प्. ५२) नृसिह्मायेति च पदं स्वाहा तदनु योजयेत् | ऊनविंशाक्षरो मन्त्रो मूर्तामूर्ते नृकेसरी || १४१ || पूजितस्संस्मृतो ध्यातस्सञ्जप्तश्च ततो द्विज | निहन्यात्सामयान्दोषांस्तथा भूतग्रहानपि || १४२ || प्रोद्धरेत्प्रणवञ्चादौ सूर्याख्यं तदनन्तरम् | तमेव लोकेशगतं व्योम चान्द्री तदूर्ध्वतः || १४३ || रेफबीजमथादाय धर्मांशुं तदधो न्यसेत् | तदधो ह्यनलं भूयः प्रज्ञाधारोपरि स्थितम् || १४४ || औषधात्माऽस्य चोर्ध्वे तु चान्द्री व्यापी क्रमाद्भवेत् | अस्य पिण्डद्वयस्यान्ते नमस्कारं नियोजयेत् || १४५ || अनन्तभासाय पदं कपिलाय ततो भवेत् | स्वाहासमन्वितं कुर्यान्मन्त्रं सप्तदशाक्षरम् || १४६ || अत्युग्रं कपिलं नाम्ना सर्वद्वन्दोपशान्तिदम् | प्रायश्चित्तविधौ नित्यं जप्तव्यस्सिद्धिहेतुकः || १४७ || तथाऽपवर्गप्राप्त्यर्थमचिरेण तु नारद | प्रागोङ्कारमथादाय गोविन्दाख्यमथोद्धरेत् || १४८ || पुरुषेश्वरमस्याथ ओतदेहं तदूर्ध्वगम् | त्र्यैलोक्यैश्वर्यदोपेतं टकारस्तस्य चोपरि || १४९ || अमृताख्यं वराहस्थमूकारं तदधो द्विज | ओकारान्तं तदूर्ध्वे तु त्र्यैलोक्यैश्वर्यदं ततः || १५० || विश्वाप्यायसमायुक्तमस्यान्ते विन्यसेन्नमः | कृष्णवर्णद्वयं दद्यात्पिङ्गलाय पदं ततः || १५१ || वराहाय पदं स्वाहा मन्त्रस्सप्तदशाक्षरः | शान्ति श्रीपुष्टिमारोग्यं कुर्यादाप्यायनं स्मृतम् || १५२ || गोप्तव्यश्चैव जप्तव्यो वाराहो भुक्तिमुक्तिदः | [अथ कौस्तुभादिमन्त्रः] कौस्तुभाद्यङ्कुशान्तांश्च मन्त्रान्सर्वान्यथा शृणु || १५३ || येषामनन्तविभवःशश्वदाराधनाद्भवेत् | [कौस्तुभमन्त्रः] प्. ५३) कौस्तुभो व्योमसंभिन्नः परमात्मा ततो द्विज || १५४ || ऊर्ध्वाधोऽनलसंभिन्नं कुर्यात्तदनु नारद | अकारेणाङ्कितं तं वै तं तमूर्जेन कारयेत् || १५५ || ततो व्योमान्वितो नेमी नमस्कृतिरनन्तरम् | प्रभात्मने पदं दद्यात्कौस्तुभाय पदं ततः || १५६ || स्वाहान्वितस्सप्रणवः कौस्तुभस्य प्रकीर्त्तितः | षोडशार्णो महामन्त्रो नास्ति तद्यन्न साधयेत् || १५७ || [मालामन्त्रः] प्रोद्धरेत्प्रणवान्ते तु धरेशं तदधो न्यसेत् | तृप्तिसंज्ञं च तस्याधो वरुणं विनिवेश्य च || १५८ || मायाव्योमान्वितः पिण्डो नमस्कारसमन्वितः | स्थलवर्णद्वयं दद्याज्जलोद्भूतपदं ततः || १५९ || भूषिते वनमाले स्वाहा समेतं पदं ततः | एकोनविंशवर्णस्तु मालामन्त्र उदाहृतः || १६० || अभीष्टसिद्धिदो विप्र नित्यमाराधकस्य च | [पद्ममन्त्रः] प्रणवस्यावसाने तु वामनाख्यं नियोजयेत् || १६१ || सोमाख्यं तदधो योज्य उद्दामोपरि संस्थितः | त्र्यैलोक्यैश्वर्यदोपेतः पिण्डो नतिसमन्वितः || १६२ || श्रीनिवासपदं दद्यात्पद्माय तदनन्तरम् | स्वाहान्वितस्तु पद्मस्य मन्त्रः स्यात्त्रिदशाक्षरः || १६३ || प्रयच्छत्यतुलां भूतिं भक्तानामक्षयां द्विज | [शङ्खमन्त्रः] प्रणवं पूर्वमादाय परमात्मानमुद्धरेत् || १६४ || भेदयेद्भुवनान्तेन त्र्यैलोक्यैश्वर्यदेन तु | नमस्कारं क्रमं कुर्यादेतदेवाक्षरं त्रिधा || १६५ || महाशङ्खाय च स्वाहा शङ्खाख्यस्त्रिदशाक्षरः | यन्त्रश्शुभतरः प्रोक्तो धियं विद्यां प्रयच्छति || १६६ || प्. ५४) [चक्रमन्त्रः] शाश्वतः प्रणवान्ते तु रारूढस्सिद्धिकृद्युतः | तादृशश्चापि कमलः प्रफुल्लनयनस्ततः || १६७ || केवलस्स्यात्तदन्ते तु ह्लादस्स्वरविवर्जितः | परमात्मानमुद्धृत्य अङ्कुशाद्येन संयुतम् || १६८ || और्वान्तेनाङ्कितं मूर्ध्ना तदन्ते योजयेन्नमः | फट्कारत्रितयं पश्चाद्विष्णुचक्राय वै पदम् || १६९ || स्वाहार्णद्वितयं चान्ते चाक्रं सप्तदशाक्षरम् | अर्धाक्षरचतुष्केन युक्तं सर्वमिदं जगत् || १७० || [गदामन्त्रः] उद्धरेत्प्रणवं त्वादौ तदन्ते च गदाधरम् | प्रधानोपरिसंस्थं च तदधः पुरुषेश्वरम् || १७१ || जगद्योनियुतं मूर्ध्ना व्योमेशमुपरि न्यसेत् | ततो जकारमादाय विष्टरोपरि संस्थितम् || १७२ || विसर्गाद्येन संभिन्नं नमस्कारविभूषितम् | सहस्राश्रिगदे स्वाहा गदाख्यस्त्रिदशाक्षरः || १७३ || अभीष्टदो महामन्त्रो विघ्नजालक्षयंकरः | [गरुडमन्त्रः] प्रणवं पूर्वमादाय अनन्तेशमतः परम् || १७४ || ऊर्ध्वाऽधोनलसंभिन्नं सत्याद्यं तदधो न्यसेत् | त्र्यैलौक्यैश्वर्यदा दानत्रैलोक्यैश्वर्यदेन च || १७५ || शिरसा भूषितं कुर्याद्वेदात्मानमथोद्धरेत् | सोऽप्यनन्तेशवत्कार्यस्स्वरव्यञ्जनभूषितः || १७६ || सृष्टिकृत्सहितं भूयः कूटं दद्यान्नमोन्तगम् | पदञ्चान्तेऽनन्तगते स्वाहान्तं गरुडाय च || १७७ || सप्तदशाक्षरो मन्त्रः कीर्त्तितो गरुडस्य च | यस्य संस्मरणात्सम्यक्समस्तापल्लयं व्रजेत् || १७८ || प्. ५५) [पाशमन्त्रः] आदायादौ तु वैकुण्ठं तस्यारूढं च रं न्यसेत् | व्योमानन्दसमेतं च कढ्ढकढ्ढपदं ततः || १७९ || धाराधरद्वयोपेतं वरपाशाय वै पदम् | स्वाहा चैव तु तस्यान्ते कुर्यात् सप्तदशाक्षरः || १८० || स तारको ह्ययं मन्त्रः पाशाख्यः क्षिप्रसिद्धिकृत् | [अङ्कुशमन्त्रः] प्रणवान्ते ततः कुर्याद्विराट्संज्ञं तदूर्ध्वतः || १८१ || व्योमविप्रानलोपेतं कमलं तदनन्तरम् | ऋतधामोपरिस्थं च व्योम तस्योपरि न्यसेत् || १८२ || पदं निशितघोणाय अङ्कुशाय पदं ततः | स्वाहान्वितस्त्रिपञ्चार्णो मन्त्रराडङ्कुशस्य च || १८३ || शीघ्रकर्मकरः प्रोक्तो नित्यमिच्छान्तलक्षणः | [उपाङ्गपञ्चकनिरूपणारम्भः] उपाङ्गपञ्चकं चाथ सत्यादीनां हि वाचकम् || १८४ || ब्रह्मस्वरूपममलं व्यापकं सर्वसिद्धिदम् | सम्यक्शृणुष्व देवर्षे सरहस्यं वदामि ते || १८५ || यद्विन्यासात्साधकस्य सिद्धो वै यत्र कुत्रचित् | फलदो मन्त्रमूर्तिस्स्यादचिरात्तन्मयस्य च || १८६ || स्याद्देवेशसमो मन्त्री तन्न्यासाद्व्याप्तिभावनात् | यागाहुतस्य मन्त्रस्य शक्त्यङ्गाद्यावृतस्य च || १८७ || सम्यङ्निरोधसिद्ध्यर्थं योजनीयं सदैव हि | तथात्मनः कृते न्यासे न्यस्ते चोपाङ्गपञ्चके || १८८ || शश्वत्स्याच्चित्तवृत्तीनां विक्षिप्तानां च संयमः | [सत्याद्युपाङ्गपञ्चकबीजमन्त्रः] तुर्यातीतात्मसंज्ञो यो वर्गः पञ्चार्णभूषितः || १८९ || विलोमेन सुपर्णाद्यं स्थापयित्वा नियोज्य च | आद्यं वै भूधराख्येन ऊर्जसंज्ञेन चापरम् || १९० || लोकेशेन तृतीयं तु तुर्यं साक्षाच्च विष्णुना | प्. ५६) पञ्चमं त्वादिदेवेन व्यापी सर्वत्र मूर्धनि || १९१ || समस्तेन द्विजोङ्कारे एकैकं मध्यतः क्षिपेत् | पञ्चकं पञ्चसंज्ञस्य बीजभूतमिदं स्मृतम् || १९२ || संस्थितं तु परत्वेन एतस्मात्प्रभवन्ति ते | सौक्ष्म्येन व्यापकत्वेन धातृत्वेन तु नारद || १९३ || एकैकस्मिन्समूहेन पञ्चैते संव्यवस्थिताः | प्रशान्तहुतभुग्रूपाः परमन्त्रसहोदिताः || १९४ || आदिदेवस्य वै विष्णोः सत्याख्यस्य महात्मनः | महाविभवसंज्ञस्य प्रथमो मन्त्रराट् स्मृतः || १९५ || वासुदेवस्य च विभोर्द्वितीयः परिकीर्तितः | सङ्कर्षणस्य च ततो बीजमुक्तं तृतीयकम् || १९६ || चतुर्थं विप्रशार्दूल प्रद्युम्नस्य महात्मनः | उपाङ्गं पञ्चमं विद्धि अनिरुद्धात्मनो विभोः || १९७ || सत्याद्यमनिरुद्धान्तं पवित्रं मन्त्रपञ्चकम् | उपाङ्गसंज्ञं यो वेत्ति स सत्यं वेत्ति नान्यथा || १९८ || इति सूक्ष्मस्वरूपस्य विभोर्मन्त्रवरस्य च | त्र्यक्षरस्य द्विबीजाद्यं व्यापकस्यामलस्य च || १९९ || मूर्त्तिमन्त्रादितः प्रोक्तो मन्त्रसंज्ञो(घो ?) यथाक्रमम् | अभीप्सितप्रदस्सम्यग्भक्तानां भावितात्मनाम् || २०० || अत्रासक्तो भव मुने यजैतत्पूजयस्व च | विधिना शास्त्रदृष्टेन वाञ्छितं यत्प्रयछति || २०१ || नारदः स्थूलसूक्ष्मविभागेन एष मन्त्रः परो मया | ज्ञातः परस्वरूपेण न ज्ञातः परमेश्वर || २०२ || पुराऽस्यैव परा मूर्त्तिर्मान्त्री संसूचिता त्वया | समाचक्ष्व समासेन यदि सानुग्रहोऽसि मे || २०३ || [मन्त्रस्य परस्वरूपनिरूपणम्] श्रीभगवान् मूर्तिमन्त्रं विना विप्र यो मन्त्रः प्रागुदीरितः | प्. ५७) प्रभवाद्यो विसर्गान्तस्सुधासन्दोहविग्रहः || २०४ || सर्वदेवमयश्शुद्धस्सर्वाध्वात्मा परः प्रभुः | समस्तशक्तिदेहस्तु भारूपस्सूक्ष्मरूपधृत् || २०५ || संसारार्णवमग्नानामिच्छया स्थूलतां गतः | अधिष्ठितस्स विभुना परेणालोकरूपिणा || २०६ || सुसूक्ष्मेणाविग्रहेण सदालोकरसात्मना | अणीयांसमणोर्विद्धि मन्त्रशक्तिः परा हि सा || २०७ || उपाधिरहितं शुद्धं मत्सामीप्यफलप्रदम् | तच्छरीरं हि मे मन्त्रं परं परफलप्रदम् || २०८ || [परसूक्ष्मस्थूलरूपेण सतां मन्त्राणां संविन्मयात् सर्वतः परतरात्प्रादुर्भावनिरूपणम्] निर्विकारशरीरं च यागाख्यं परमं स्मृतम् | तुर्यात्परं पदादस्मात् ज्ञेयाख्यं परमं मम || २०९ || ग्राह्यग्राहकनिर्मुक्तं संविदानन्दलक्षणम् | तन्मयास्तं प्रपश्यन्ति विशुद्धेनान्तरात्मना || २१० || यतः परः प्रभवति भाःशब्दाख्यश्च मन्त्रराट् | यत्र सप्तपदार्थं तु विज्ञातं व्यक्तिमेति च || २११ || यत्र वै वर्णरूपेण सर्वे लोकाः प्रतिष्ठिताः | प्रधानकारणानां यद्द्वाभ्यां यत्परतस्स्थितम् || २१२ || मन्त्रोत्पत्तिक्रमेणैव यादृक्संस्थं तथा शृणु | अनुक्रमेण संयोज्य सृष्टिन्यायेन नारद || २१३ || सप्तकञ्चैव वर्णानां संविभक्तिविभावितम् | सूर्यसोमाग्निरूपं तु प्रधानपुरुषेश्वरम् || २१४ || अशेषभुवनाधारं त्र्यैलोक्यैश्वर्यदायकम् | एष वर्णमयः पिण्डः परो मे मन्त्रविग्रहः || २१५ || भावग्राह्यमनौपम्यमप्रकाश्यमिदं मुने | प्रकाशितो मया तेऽद्य जीवभूतो हि मन्त्रराट् || २१६ || समस्तमन्त्रचक्रस्य सामर्थ्यजनको हि यः | मन्त्रेण तेन विधिना ओतप्रोतव्यवस्थया || २१७ || अधिष्ठितोऽपि बीजो वै निर्मलस्फटिको यथा | प्. ५८) निर्मलेनाम्बरेणैव दृश्यादृश्येन वै तथा || २१८ || व्याप्तास्तेनापरे मन्त्रास्तथैव परिभाविताः | नारदः मन्त्रः(ः ?)सृष्टिक्रमेणैव यथावन्नोदितस्त्वया || २१९ || तमादिशस्व येनाद्य कृतकृत्यो भवाम्यहम् | योऽविकारः परश्शुद्धस्स्थितस्संवेदनात्परे || २२० || स कथं व्यापकं ब्रह्म मन्त्रमूर्तित्वमागतः | [मन्त्रसृष्टिक्रमविवेचनम्] श्रीभगवान् तस्यैकां परमां शक्तिं विद्धि तद्धर्मचारिणीम् || २२१ || ययोपचर्यते विप्र सृष्टिकृत्परमेश्वरः | बृह्मितो यद्बृहत्वेन नित्यानन्दोदितस्तथा || २२२ || सर्वदा नित्यशुद्धो यस्तस्यैतन्नोपपद्यते | शक्त्यात्मकस्स भगवान्सर्वशक्त्युपबृंहितः || २२३ || अग्नीषोमात्मकेतं मे (कत्वेन ?) तुल्यकालं हि मूर्च्छति | प्रकाशस्तु भवेत्सूर्य आह्लादस्सोम उच्यते || २२४ || द्वयोरन्तर्गता संवित्ताभ्यामस्तोदयावपि | पुमान्स एव चिन्मूर्त्तिरग्नीषोममयो द्विज || २२५ || यदग्निरूपं त्रैगुण्यं तच्च विद्यामयं तु वै | चिदात्मा शलभो यद्वत्तमधिष्ठाय तिष्ठति || २२६ || ततः प्रधानिकीं भूमिं तत्रस्थो गमयेत्प्रभुः | पुरुषेश्वरतां याति क्ष्मातत्त्वेऽधिष्ठिते सति || २२७ || ममेति वासनाविद्धस्तेजसा परिपूरयेत् | तत्त्वबृन्दं च सकलं त्रैलोक्यैश्वर्यतां व्रजेत् || २२८ || तैजसादभिमानात्तु ततस्तस्मान्निवर्तते | स्वां स्थितिं समवाप्नोति परावस्थास्थितिं पुनः || २२९ || गमयेत्स्थूलरूपं वा सूक्ष्मं वा शक्तिवेष्टितम् | द्वयमेतत्समाश्रित्य लोकानुग्रहकृद्भवेत् || २३० || संप्रयच्छति मोक्षं च भोगं राज्यादिकं तु वा | यत्तस्मात्तदुपास्यो वै स्थूलसूक्ष्मोभयात्मकः || २३१ || प्. ५९) त्र्यक्षरः परमो मन्त्रस्तेन संदीक्षयेत्क्रमात् | भवाब्धिपतितान्भक्तानपरेण तु (?)कर्हिचित् || २३२ || दीक्षितः पाशमुक्तो वै त्यक्तसर्वपरिग्रहः | पिण्डपाताभिलाषी वा योगैकगतमानसः || २३३ || भक्तः परो योजनीयस्सर्वो निर्वाणभागथ | तत्स्थः परं पदं याति स्थूलसूक्ष्मोभयेन तत् || २३४ || व्यक्तिमेत्यचिराद्विप्र भविनां भावितात्मनाम् | उपलब्धौ तु सत्यां वै संयुक्तं चैव विष्णुना || २३५ || जपमानस्तु यो ध्यायेत्पञ्चस्थानविनिर्गतम् | सृष्टिक्रमेण तस्याशु सिध्यते मनसेप्सितम् || २३६ || विग्रहादुदितं वाऽथ व्याप्तिसत्तासमन्वितम् | यत्पदादवतीर्णं च तदाक्रम्य पुनर्बहिः || २३७ || वर्तते विग्रहं त्यक्त्वा संस्मृतो मोक्षमृच्छति | दृश्याद्वायोर्गतिपथाद्व्यापाराच्च क्रमेण तु || २३८ || संहृत्य हृदयात्सर्वं स्थानान्यूर्ध्वे तथैव च | तत्सेवामृतसंभिन्नान्नित्याभ्यासाच्च नारद || २३९ || स्यात्स्थिरत्वं शरीरस्य भोगमोक्षबलं तथा | तस्मादस्य सदा पूजा ध्यानजप्यमयी भवेत् || २४० || नोपचारमयी कार्या पुष्पधूपादिकैर्बहिः | यतस्सकलदेहस्य पूजनं विहितं मुने || २४१ || भावना निष्कलाख्यस्य नैतदस्ति द्वयोज्झिते | यदस्याविकृतं रूपं तदनेन त्वधिष्ठितम् || २४२ || भाव्योदयेन योगेन सोऽस्य वै जनको यतः | अस्मात्सिंह्मादिवच्चान्यदेवमेव विभावयेत् || २४३ || पृथग्यागे समस्ते वा निर्विघ्नफलसिद्धये | ब्रह्मप्रात्तौ तथा भोगे दीक्षाद्ये कर्मसंग्रहे || २४४ || एतदीयं हि सामर्थ्यं मन्त्रस्य त्र्यक्षरस्य तु | बोद्धव्यस्स त्रिधैवात्मा गुणत्रयमयस्तथा || २४५ || सदा विप्र त्रिलोकात्मा त्रिवेदात्मा स उच्यते | त्रेताग्निं तं विजानीयात्कर्म वाङ्मनसे असौ || २४६ || प्. ६०) मनोबुद्धिरहङ्कारो बुद्धिकर्माक्षभूतवान् | सोमसूर्याग्निरूपेण त्रिधा सोऽपि त्रयोऽक्षरः (राः ?) || २४७ || प्रकृतिः पुरुषश्चैव तृतीयश्चेश्वरश्च सः | स च नाडीत्रयं देहे स्थानत्रयसमन्वितम् || २४८ || एवमेवास्य मन्त्रस्य वैश्वरूप्यं च नारद | व्यापकत्वं च यो वेत्ति तत्सत्यं वेत्ति नान्यथा || २४९ || इति मन्त्रगणो मुख्यस्सर्वोप्लवशान्तिकृत् | प्रकाशितो यथा तथ्यं नाख्येयो यस्य कस्यचित् || २५० || इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मुख्यमन्त्रोद्धारो नाम षष्ठः पटलः || ६ || अथ उपकरणमन्त्रोद्धारो नाम सप्तमः पटलः श्रीभगवान् अथाधारासनाख्यानां मन्त्राणां लक्षणं शृणु | पूजनं यैर्विना विप्र मन्त्रेशस्य न जायते || १ || [आधारशक्तिमन्त्रः] अशेषभुवनाधारामाधाराधेयवन्न्यसेत् | परमात्मनि विप्रेन्द्र मायाख्यो मत ऊर्ध्वतः || २ || नमोऽन्तं प्रणवाद्यं च बीजमाधारशक्तिजम् | आधेयतुल्यसामर्थ्यमस्य रूपं तथाविधम् || ३ || [कूर्ममन्त्रः] उद्धृत्य प्रणवं पूर्वमनन्तेशस्य पूर्वजम् | तत्कालपावकेनैव भिन्नं कुर्याद्द्विजोभयोः || ४ || त्रैलोक्यैश्वर्यदेनैवमूर्जेन तु तथा द्विज | नमस्कारान्वितं बीजं कूर्मकालाग्निवाचकम् || ५ || आधारशक्तेरुपरि विमलं दीप्तविग्रहम् | ज्वालाशतसमाकीर्णं शङ्खचक्रगदाधरम् || ६ || [अनन्तमन्त्रः] अनन्तेशस्य यत्पूर्वं गोपनेन समन्वितम् | व्योमयुक्तमनन्ताख्यं नागराजस्य कीर्त्तितम् || ७ || प्रणवादि नमोऽन्तं च एतद्बीजवरं शुभम् | पूर्णचन्द्राननं ध्यायेत्सहस्रफणभूषितम् || ८ || प्. ६१) चक्रलाङ्गलहस्तं च प्रणमन्तं परात्परम् | [धरामन्त्रः] अनन्ताख्यं च यद्बीजं प्रधानोपरि संस्थितम् || ९ || सोऽप्यारूढो धरेशस्य व्योमानन्तद्वयाङ्कितम् | प्राग्वदाद्यन्तसंरुद्धं धरायास्संप्रकीर्तितम् || १० || कुङ्कुमोदकसङ्काशां हेमरत्नविभूषिताम् | बद्धाञ्जलिं शिरोदेशे संस्मरन्तीं विभोः स्मरेत् || ११ || [क्षीरोदमन्त्रः] अमृतं वरुणस्थं च आदिदेवेन योजितम् | क्षीरोदमन्त्रराडेष व्योमयुक्तो द्विजोत्तम || १२ || अस्यादौ प्रणवञ्चान्ते नमस्कारपदं न्यसेत् | शुद्धकुन्देन्दुधवलं स्रोतोरश्मिभिरावृतम् || १३ || कीर्णसंपूर्णचंद्राभं ध्यायेद्गम्भीरविग्रहम् | [पद्ममन्त्रः] पद्मस्याथ प्रवक्ष्यामि मन्त्रं सन्निधिकारणम् || १४ || प्रणवं प्रणवान्ते च पवित्रं तदनन्तरम् | भुवनं व्योमसंभिन्नमाधारेति पदं ततः || १५ || पद्माय च नमश्चान्ते पदं पूर्वपदस्य च | प्रशान्तपावकाकारमुदयादित्यसन्निभम् || १६ || ध्यायेद्वै द्विभुजं ह्रस्वं जठराद्यैर्विलम्बितम् | भासितं सितदन्तं च वेष्टितं सुरषट्पदैः || १७ || व्यक्ताव्यक्तपरत्वेन पद्माद्यं त्रितयं स्मरेत् | त्रितयं तदधस्थं यच्छक्यं तस्यैवमेव हि || १८ || अयमाधारषट्कस्य मन्त्रमार्गः प्रकीर्तितः | [धर्माद्यासनमन्त्राः] अत्रोपर्यासनाख्यांश्च षण्मन्त्रानथ मे शृणु || १९ || धर्त्ताऽजितोऽमृताधारो विबुधाख्यैश्च नारद | व्युत्क्रमानुक्रमेणैव कृत्वैकैकस्य योजयेत् || २० || सम्यग्ज्वालाऽथ लिङ्गात्मा देवदत्तस्ततो द्विज | प्. ६२) वामनं सोममुद्दामं प्रणवस्योपरि न्यसेत् || २१ || त्रैलोक्यैश्वर्यदं दद्यात्सर्वेषां स्याच्चतुष्टयम् | धर्माद्यं तद्विपर्यासैर्युक्तं वेदैस्तथा युगैः || २२ || सुसितं चामृतं पद्मं सूर्येन्द्वग्नित्रयं ततः | एतेषां प्रणवः संज्ञा नमस्कारो भवेद्द्विज || २३ || अत्रोपर्यपरं विप्र चिद्भासा खचितं शुभम् | भावासनं विभोर्दद्यात्स्थूलसूक्ष्मद्वयात्परम् || २४ || अप्रमेयेण सूर्येण व्योमाख्येनामृतेन च | परमेश्वरयुक्तेन त्रितारोक्तात्मनाथवा || २५ || इत्येवं पीठपूजार्थो मन्त्रग्रामो द्विजोत्तम | रहस्यमेतदाख्यातमिदानीमपरं शृणु || २६ || [क्षत्रपालमन्त्रः] क्षेत्रेशाद्यं मन्त्रचयं विघ्ननिर्मथनक्षमम् | अनन्ताख्यं च कालेन भेदयेत्सानलेन च || २७ || त्रैलोक्यैश्वर्यदेनाथ सादिदेवेन भेदितम् | क्षेत्रपालस्य मन्त्रोऽयमोङ्कारान्तेन भूषितः || २८ || [क्षेत्रपालध्यानम्] नीलजीमूतसङ्काशं दण्डहस्तं महातनुम् | मुष्टिकृद्वामहस्तेन यागक्षेत्रावधौ स्मरेत् || २९ || [श्रयादीनां पद्मनिध्यन्तानां मन्त्राः] पुण्डरीकस्ततश्चक्री पवित्रश्चाथ शाश्वतः | वराहश्च गदध्वं(सी) सूक्ष्मश्शान्तः पवित्रकः || ३० || क्रमेण मुनिशार्दूल एतद्वर्णगणं लिखेत् | अशेषभुवनाधारं विश्रान्तं व्योमभूषितम् || ३१ || मायाद्यस्योपरि न्यस्य चतुर्णामथ विक्रमी | पञ्चबिन्दुरतो द्वाभ्यां लोकेशोऽप्यपरे द्वये || ३२ || प्रणवेनाभिधानेन नमस्कारेण भूषिताः | सर्वे मन्त्रवरा ह्येते स्वसामर्थ्यफलप्रदाः || ३३ || प्. ६३) श्रियश्चण्डप्रचण्डाभ्यां जयस्य विजयस्य च | गङ्गायमुनयोर्विप्र सनिध्योः शङ्खपद्मयोः || ३४ || [श्र्यादीनां पद्मनिध्यन्तानां ध्यानम्] पद्मकुम्भकरां लक्ष्मीं पद्मोपरिगतां स्मरेत् | चण्डाद्या विजयान्ताश्च सर्वे ज्ञेयाश्चतुर्भुजाः || ३५ || गदाचक्रधराश्चैव शङ्खहस्ता महाबलाः | तर्जयन्तो ह्यभक्तानां दोषाणां ध्वंसनोद्यताः || ३६ || तोयाधारं वहन्त्यौ ते कलशं वारिपूरितम् | नवयौवनलावण्यस्त्रीरूपं च नदीद्वयम् || ३७ || निधिपौ शङ्खपद्मौ च निधिभाण्डोपरि स्थितौ | स्थूलदन्तौ च पिङ्गाक्षौ द्विभुजौ भगवन्मयौ || ३८ || [गणेशादिपित्रन्तानां मन्त्राः] पित्रन्तं च गणेशाद्यमथ मन्त्रगणं शृणु | [गणेशमन्त्रः] गदाधरं समुद्धृत्य प्रज्ञाधारेण भेदयेत् || ३९ || अंकारयोजितं मूर्ध्नि गणाधिपतये पदम् | नमस्कारान्वितं पूर्वं प्रणवञ्चास्य योजयेत् || ४० || नवाक्षरो ह्ययं मन्त्रो विघ्नेशस्य च वाचकः | एष एव गदध्वंसी षोढा कार्योऽथ भेदयेत् || ४१ || आदिदेवादिषट् दीर्घैर्विराट् ज्वालोज्झितैः क्रमात् | पञ्चानां मस्तके व्यापी जात्यैकैकं स्वयं न्यसेत् || ४२ || नमः स्वाहा ततो वौषट् हुं वौषट् फट् समन्विताः | जातयः षट् समाख्याता हृदादीनां क्रमेण तु || ४३ || [गणेशध्यानम्] ध्यायेच्चम्पकवर्णाभं बद्धपद्मासनं द्विज | कर्णिकायां त्रिपत्रेऽब्जे रक्ते षट्केसरे शुभे || ४४ || वरदाभयहस्तश्च (स्तं च ?) दक्षिणे साक्षसूत्रकम् | विश्रान्तं चिन्तयेद्वामं चतुर्थं परशूपरि || ४५ || वरदाभयहस्ताभ्यां मत्स्यमुद्राद्वयं स्मरेत् | तर्जन्यङ्गुष्ठसङ्घट्टाज्जायते यदयत्नतः || ४६ || प्. ६४) स्थूलाङ्गमेकदंष्ट्रं च लम्बक्रोडं गजाननम् | केसरेष्वङ्गषट्कं च पत्रत्रयगतं न्यसेत् || ४७ || [वागीश्वरीमन्त्रः] आदाय प्रणवञ्चादौ सुपर्णं तदनन्तरम् | तदन्तेऽथ तदाद्यं च सोमं तदनु वै द्विधा || ४८ || प्राक्बीजस्याध ऊर्ध्वे च योजयेत्कालपावकम् | अथो दद्याद्द्वितीयस्य केवलं तच्च नारद || ४९ || शङ्खसंस्थं तृतीयस्य चतुर्थस्याक्षरस्य च | स्रग्धरेण तु शङ्खेन तदूर्ध्वाधोयुतं न्यसेत् || ५० || पुनरादिक्रमेणैव द्वाभ्यां मायां नियोज्य च | द्वाभ्यां तं चादिदेवं च सर्वेषां व्योम चोपरि || ५१ || तदन्ते वर्णपूर्वान्तां क्षान्तां संयोज्य मातृकाम् | वागीश्वर्यै नमश्चान्ते एकषष्ठ्यक्षरः (?) शुभः || ५२ || वाग्विभूतिप्रदो मन्त्रो वागीश्वर्या मयोदितः | सोमं चानलसंस्थं च गणेशाङ्गोदितैस्स्वरैः || ५३ || भिन्नमस्याङ्गषट्कं स्यात् ओङ्काराद्यं नमोऽन्तकम् | [वागीश्वर्या ध्यानम्] सूर्येन्दुमण्डलाभ्यां च मध्ये पद्मं स्मरेत् स्थितम् || ५४ || तन्मध्ये संस्थितां देवीं वह्निवेश्मप्रभाञ्चिताम् | सर्वोपाधिविनिर्मुक्तां सर्वाकारसमन्विताम् || ५५ || इत्यस्या वैश्वरूप्यं स्याद्ध्यानमप्यधुना शृणु | सितकुन्देन्दुधवलां शङ्खपद्मकरोद्यताम् || ५६ || वरदाभयहस्तां च विलिखन्तीं च पुस्तकम् | द्विनेत्रामेकवक्त्रां च हेमकुण्डलभूषिताम् || ५७ || ध्याता भगवती ह्येषा शक्तिः शब्दात्मिका विभोः | समभ्यस्ता ददात्याशु साधकानामभीप्सितम् || ५८ || [गुरूणां मन्त्राः] प्रणवद्वितयं व्यापी तदधस्थोदयस्तु गः | गुरवे सनमश्चान्ते मन्त्रोऽयं पूजने गुरोः || ५९ || प्रणवत्रितयान्ते तु सव्योमा पश्चिमाननः | ततः परमशब्दस्तु गुरवे सनमस्ततः || ६० || गुरोर्गुरोरयं मन्त्रस्तद्गुरोरवधारय | प्. ६५) मन्त्राद्यस्य चतुष्कं तु पद्मनाभमतः परम् || ६१ || न्यसेत्तस्यानन्दयुतं व्योमोर्ध्वे परमेष्ठिने | सनमस्तकं पदं दद्यात् पितृभ्यां [तॄणां] चाथ मे शृणु || ६२ || [पितॄणां मन्त्राः] तारपञ्चकमाह्लादं व्योमप्राणोपरि न्यसेत् | कालानलौ तु तदधस्सर्वलोकेश्वरोपरि || ६३ || यथाक्रमोदितैर्वर्णैः पिण्डं कृत्वा ततः पदम् | स्वधा पितृभ्यःसनमः पितृसङ्घस्य मन्त्रराट् || ६४ || [पूर्वसिद्धमन्त्रः] कथितो द्विजशार्दूल पूर्वसिद्धेष्वथोच्यते | अन्ते प्रणवषट्कस्य आनन्दं व्योमभूषितम् || ६५ || पद तथादिसिद्धेभ्यस्सनमस्कं नियोजयेत् | प्रागिमं मन्त्रनिचयं पूजयित्वा ततोऽर्चयेत् || ६६ || प्रधानमन्त्रपूर्वा ये यस्मिंन्यस्मिंस्तु कर्मणि | [लोकेशमन्त्राः] अथ लोकेशमन्त्राणां शास्त्राणां लक्षणं शृणु || ६७ || व्योमानन्दं ततः प्राणं धरेशोपरि संस्थितम् | एतदेकीकृतं वर्णं सृष्टिन्यायेन नारद || ६८ || ऐन्द्रो मन्त्रस्समुद्दिष्ट इतरेषां निबोध मे | प्राणद्वयं द्विजोद्धृत्य क्रमादनलकालगम् || ६९ || द्वितीयस्वरसंयुक्तं व्योममस्तकभूषितम् | शिखिनश्चान्तकस्यैव द्वे बीजे परिकीर्तिते || ७० || व्यापी नरश्च लिङ्गात्मा प्राग्वत्संयोज्य पिण्डवत् | यात्वीशस्य तु बीजेन अन्येषामवधारय || ७१ || परमात्मानमुद्धृत्य द्विधा द्वाभ्यामथो न्यसेत् | वराहसूक्ष्मसंज्ञौ तु व्योमानन्दावथोपरि || ७२ || अनुक्रमेण विज्ञेयौ बीजौ वरुणवायुजौ | धर्मांशोरूर्ध्वगं न्यस्य वर्णं वाराहसंज्ञकम् || ७३ || प्. ६६) प्राग्वत्स्वरद्वयोपेतं बीजं चोडुपतेः स्मृतम् | सूर्यमूर्जोपरिस्थं च व्यापकेन तथाङ्कितम् || ७४ || ईशानाख्यं स्मृतं बीजं विश्वाप्यायकरान्वितम् | आदिदेवान्वितं व्योम प्राणाख्यस्योपरि न्यसेत् || ७५ || वैकुण्ठस्तदधो योज्यो बीजं नागेश्वरस्य च | प्राग्वत्स्वरान्विते सूर्ये वेदात्मानमथो न्यसेत् || ७६ || ब्रह्मणो बीजमाख्यातं परं व्योमेश्वरस्य च | सर्वेषां प्रणवं पूर्वं स्वसंज्ञान्ते नमोयुताः || ७७ || [वज्राद्यायुधमन्त्रः] अथायुधानां क्रमशो ये मन्त्राः शुभलक्षणाः | स्थितान् शृणु समासेन यथायोगानुवाचकान् || ७८ || अजितं च द्विधोद्धृत्य प्रधानोपरिसंस्थितम् | अशेषभुवनाधारमूर्ध्वेऽधश्चानयोर्न्यसेत् || ७९ || लोकेशोर्ध्वोदितं पूर्वं द्वितीयं पञ्चबिन्दुना | विसर्गयुक्ते द्वे चैते बीजे कुलिशशक्तिजे || ८० || अखण्डविक्रमश्वान्द्री द्वावेतौ मर्दनस्थितौ | लोकेश्वरविसर्गाढ्यौ विज्ञेयौ दण्डखड्गयोः || ८१ || आह्लादाजितसंज्ञौ द्वौ शताख्यवरुणस्थितौ | विसर्गानन्दसंयुक्तौ ज्ञेयौ पाशध्वजाभिधौ || ८२ || परमात्मानमुद्धृत्य अनलाख्यमतःपरम् | तयोरुपरि तौ कुर्यात्क्रमादनलशाश्वतौ || ८३ || सोद्दामेन विसर्गेण एकैकमथ योजयेत् | प्रोक्तौ मुद्गरशूलौ द्वौ सोमेशाभ्यां द्विजायुधे || ८४ || परप्रकृतिसंज्ञं यद्विन्यसेदनलोपरि | ओदनं सविसर्गं च ततस्तस्यैव योजयेत् || ८५ || सीराख्यं बीजमेतद्धि वारिजस्याधुनोच्यते | वरुणञ्च द्विजोद्धृत्य नराख्यस्योपरि स्थितम् || ८६ || विसर्गेणादिदेवेन युक्तं पाद्ममिहोदितम् | [विष्वक्सेनमन्त्रः] आक्रान्तमनलेनैव प्राणाख्यं बीजनायकम् || ८७ || प्. ६७) त्रैलोक्यैश्वर्यदोपेतमूर्जोपरि गतं तु तत् | ततो वाराहमादाय भूधरव्योमभूषितम् || ८८ || विष्वक्सेनाय तदनु सनमस्कं पदं न्यसेत् | प्रणवाद्यो ह्ययं मन्त्रो विष्वक्सेनस्य कीर्त्तितः || ८९ || पूर्वबीजं हि यच्चास्य ऊकारस्वरवर्जितम् | गणेशवच्च षट्दीर्घैर्भिन्नमङ्गगणं भवेत् || ९० || प्रणवेन स्वनाम्ना च जातिभिः षड्भिरन्वितम् | [औपचारिकमन्त्रपञ्चकम्] औपचारिकमन्त्राणां पञ्चकं चाधुनोच्यते || ९१ || मूलमन्त्रादिसर्वेषां सामान्यं यन्महामते | येन विज्ञातमात्रेण जपध्यानादिकं विना || ९२ || यथाकालं प्रयुक्तत्वात्संपूर्णं जायतेऽर्चनम् | [आवाहने विनियोक्तव्यो मन्त्रः] प्रणवद्वितयोपेतं परमं त्र्यक्षरं पदम् || ९३ || धामावस्थितपञ्चार्णं द्वितीयं प्रोद्धरेत्ततः | तदनुग्रहकाम्यं यो अष्टार्णं परमं पदम् || ९४ || दकारं च यकारस्थं तदन्ते योजयेद्द्विज | आदिदेवान्वितं पश्चात्ताललक्ष्माणमुद्धरेत् || ९५ || ततो वरुणसंज्ञं च केवलस्रग्धरं ततः | अशेषभुवनाधारं जगद्योनियुतं ततः || ९६ || परमात्मानमन्ते च गोपनेन समन्वितम् | रामोपेतं ध्रुवं दद्यात्ततः कालं च केवलम् || ९७ || वैराजं केवलं चाथ सिद्धिदं त्र्यक्षरं पदम् | मन्त्रेति द्व्यक्षरं दद्याच्छङ्करं केवलं ततः || ९८ || अशेषभुवनाधारं मायायुक्तं ततो न्यसेत् | विक्रमव्योमसंभिन्नमनलंचोद्धरेत्ततः || ९९ || नमो नमः पदं पश्चादष्टत्रिंशाक्षरः परः | प्रणवेनाधिको विप्र द्वितीयेन महाप्रभः || १०० || प्. ६८) मन्त्र आवाहने विप्र योक्तव्यस्तु परं शृणु | [पाद्याद्येषूपचारेषु विनियोज्यो मन्त्रः] औपचारिकहृत्संज्ञं क्रियते येन पूजनम् || १०१ || प्रणवान्ते त्रिधा योज्य प्राणं व्योमविभूषितम् | इदमिदमिदं पश्चात्पदं दद्यात्षडक्षरम् || १०२ || गृहाण च ततः स्वाहा मन्त्रः पञ्चदशाक्षरः | योग्यस्सर्वोपचारेषु पाद्याद्येषु सदैव हि || १०३ || [न्यूनाधिकपरिहाराय विनियोज्या विष्णुगायत्री] प्रणवं विश्वरूपाय विद्महे विन्यसेत्ततः | विश्वातीताय तदनु धीमहे तदनन्तरम् || १०४ || पदद्वयान्ते तदनु तन्नो विष्णुः प्रचोदयात् | सर्वेषां कर्मणामन्ते पूरणार्थं प्रयोजयेत् || १०५ || न्यूनाधिकनिमित्तार्थं गायत्री वैष्णवी परा | चतुर्विंशाक्षरो ह्येष नमःप्रणवसंयुतः || १०६ || [प्रसादने विनियोज्यो मन्त्रः] उद्धरेत्प्रणवं पूर्वं विष्णुं व्योमान्वितं ततः | ह्रींकारं च ततो दद्याद्भूयो विष्णुं तथाविधम् || १०७ || ततो व्योमान्वितं प्राणं सोमं तदनु केवलम् | परवर्णं द्वयं दद्यात्परमेशपदं ततः || १०८ || प्रसीद ओं नमस्यान्तो मन्त्रो ह्यष्टादशाक्षरः | मन्त्रप्रसादने योज्यो मुद्राबन्धावसानतः || १०९ || [विसर्जने विनियोक्तव्यो मन्त्रः] ओं भगवन्मन्त्रमूर्ते दद्यादष्टाक्षरं पदम् | तदन्ते वरुणारूढममृताख्यं नियोज्य च || ११० || पदमासादयपदं ततो दद्यात् षडक्षरम् | क्षमस्व त्र्यक्षरं भूयः प्रणवान्तं च विन्यसेत् || १११ || नमोनमःपदं दद्यात्षड्विंशार्णं तु मन्त्रराट् | विसर्जने नियोक्तव्यो मन्त्रग्रामस्य सर्वदा || ११२ || ज्ञप्तिसंज्ञं तु यद्वर्णं वराहोपरि संस्थितम् | व्योमेशं विष्णुना युक्तं नमःप्रणवमध्यगम् || ११३ || प्. ६९) सौरभीयो ह्ययं मन्त्रः स्वसंज्ञासंयुतो द्विज | संपूरणार्थं भोगान्ते तेषामाप्यायनार्थतः || ११४ || इत्येष कथितो विप्र मन्त्रकोशो यथा स्थितः | सर्वपापक्षयकरस्सर्वदुःखोपशान्तिदः || ११५ || गोपनीयो ह्यभक्तानां शठानां च विशेषतः | नास्तिकानामसाधूनां धूर्तानां छद्मचारिणाम् || ११६ || नास्तिकानां च भक्तानां श्रद्धासंयमसेविनाम् | गुरुशास्त्ररतानां च नयमार्गानुवर्तिनाम् || ११७ || तत्त्वतश्चोपपन्नानां दृढश्रद्धावलम्बिनाम् | तन्मयानामिदं वाच्यमितरेषु च योऽन्यथा || ११८ || वक्ति चैतेषु यो मोहाद्भक्तिश्रद्धोज्झितेषु च | लोभेनान्यायतः कामात्स याति नरकेऽधमः || ११९ || सिद्धोऽपि विप्रशार्दूल असिद्धस्य तु का कथा | तस्मादालक्ष्य वै पूर्वं न्यायधर्मो यथार्थतः || १२० || वक्तव्यमुपसन्नस्य न्यायतः शृणुयाद्यदि | यो वक्ति न्यायरहितं विना न्यायं शृणोति यः || १२१ || तावुभौ नरकं घोरं व्रजतः कालमक्षयम् | ज्ञात्वैवं मुनिशार्दूल रहस्यमिदमुत्तमम् || १२२ || साधनं भोगमोक्षाभ्यां वक्तव्यं नापरीक्षिते | यद्यत्किञ्चिज्जगत्यस्मिंस्तत्तत्सर्वं विनश्वरम् || १२३ || स्वप्नवत्क्षणमात्रस्य सुखदायि धनादिकम् | समाचारक्रियाश्शास्त्रे मान्त्रं ज्ञानमनश्वरम् || १२४ || अनन्तनित्यसुखदं वृद्धिं याति क्षणात्क्षणम् | इति श्रीपाञ्चरात्रे जयाख्यसंहितायां उपकरणमन्त्रोद्धारो नाम सप्तमः पटलः || ७ || अथ जयाख्यसंहितायां मुद्राबन्धाख्यानं नाम अष्टमः पटलः श्रीभगवानु वाच अस्यैव मन्त्रवृन्दस्य क्रमेण तु यथाक्रमम् | मुद्राकोशं प्रवक्ष्यामि येन सन्निहितस्सदा || १ || प्. ७०) भवेच्च साधकेन्द्राणां भुक्तिमुक्तिप्रसाधने | आदौ तु मूलमन्त्रस्य अन्येषां तदनन्तरम् || २ || मुद्रां वै बन्धयेन्मन्त्री स्नानकाले जलान्तरे | आत्मनो न्यासकाले तु पूजान्ते मण्डलावनौ || ३ || अर्चासु मन्त्रविन्यासे अर्घ्यपात्रेऽम्बुभाजने | पूर्णाहुत्यवसाने च मन्त्रे वह्न्यन्तरस्थिते || ४ || हिंसकानां विधाताय सर्वविघ्नोपशान्तये | सर्वकार्यार्थसिध्यर्थं मुद्राकोश इहोदितः || ५ || [जयामुद्रा] अधोमुखाद्वामहस्तान्मध्यमां ग्राहयेन्मुने | कनिष्ठया दक्षिणस्य तिस्रोऽन्या मुष्टिवत्स्थिताः || ६ || अङ्गुष्ठमुभयं कृत्वा मुद्रेयं तु जया स्मृता | अधस्ताद्गरुडं तस्या वामहस्ते विचिन्तयेत् || ७ || पृष्ठे स्याद्दक्षिणे हस्ते ध्यायेद्विष्णुं सनातनम् | एषा मुद्रा जया नाम सर्वकार्यार्थसाधनी || ८ || योजयेद्देवदेवस्य तार्क्ष्येण सहितस्य च | [शक्तिमुद्रा] प्रसार्य वाममुत्तानमङ्गुल्यो विरलाः स्थिताः || ९ || कार्यास्त्वाकुञ्चिताः प्रान्तादङ्गुष्ठं सेतुवद्भवेत् | सम्मुखं तासु संलग्नं करशाखासु मध्यतः || १० || हृत्सम्मुखं तु बध्नीयाच्छक्तिमुद्रां सुखप्रदाम् | शक्तियुक्तस्य देहस्य मुद्रा वै सन्निधापनी || ११ || प्रदेशिन्या ततो(?)विद्धि लक्ष्मीपूजासु शक्तिषु | [हृदयमुद्रा] दक्षिणेन तु हस्तेन मुष्टिबन्धं प्रकल्पयेत् || १२ || अङ्गुष्ठं करमध्यस्थं कृत्वा योज्यं हृदि द्विज | हृदयाख्या भवेन्मुद्रा सर्वमन्त्रेषु साधनी || १३ || [शिरोमुद्रा] प्रसृता अङ्गुलीस्सर्वा अङ्गुष्ठेन तु संस्पृशेत् | प्. ७१) शिरोमुद्रेति विख्याता मन्त्रसन्निधिकारिणी || १४ || [शिखामुद्रा] मुष्टिं बध्वा शिखास्थाने तर्जनी चोर्ध्वसंस्थिता | शिखामुद्रेति विख्याता सर्वदुष्टक्षयङ्करी || १५ || दोषविघ्नविनाशाय सदा ह्येषा प्रकीर्तिता | आदौ तस्मात्प्रयत्नेन यागवेश्मनि बन्धयेत् || १६ || उत्सादं सर्वविघ्नानां कुरुते मन्त्रसंयुता | [कवचमुद्रा] उभयोरग्रतश्शाखा ग्रस्तास्तु करयोर्द्विज || १७ || तयोर्मध्यं ह्यसंश्लिष्टं करबन्धाधितो भवेत् | वार्मण्येषा भवेन्मुद्रा द्वावंसावनया स्पृशेत् || १८ || दुर्भेद्या दुष्टसङ्घस्य भूतवेतालयोगिनाम् | कर्मकाले च बध्नीयात्समन्त्रां च प्रयत्नतः || १९ || [नेत्रमुद्रा] करयोर्ग्रथिताङ्गुल्यस्संवृताः पाणिपृष्ठगाः | तर्जन्यौ प्रान्तसंलग्ने सुषिरेचोर्चिते तयोः || २० || अङ्गुष्ठौ मूलसंलग्नविपर्यस्तौ परस्परम् | लोचनाख्या भवेन्मुद्रा दर्शयेच्चक्षुषोऽन्तिके || २१ || [अस्त्रमुद्रा] तर्जनीं स्फोटयेद्दिक्षु दशस्वङ्गुष्ठकेन तु | द्रुतं करद्वयेनैव चक्षुर्भ्यां सन्निरीक्षयेत् || २२ || अस्त्रमुद्रेति विख्याता त्रासिनी त्रिदशेष्वपि | किं पुनर्दुष्टयोनीनां वाङ्मनःकायसंयुता || २३ || [सिह्ममुद्रा] उत्ताने दक्षिणे वामे कुञ्चयित्वाऽङ्गुलित्रयम् | प्रसारयेच्च तिर्यग्वै अङ्गुष्ठं तर्जनीं तथा || २४ || ईषदूर्ध्वीकृताऽधोदृग् निष्कम्पालोकसंयुता | पाशबन्धक्षयकरी सर्वोपद्रवनाशिनी || २५ || सिह्ममुद्रा भवत्येषा विस्मयाख्या महाप्रभा | प्. ७२) [कपिलमुद्रा] तर्जन्यङ्गुष्ठयोर्मध्ये मध्यमां तु प्रपीडयेत् || २६ || प्रसारयेदनामां च पश्चात्तस्याः कनिष्ठिकाम् | परस्परं च दूरस्थे मुद्रैषा कपिली स्मृता || २७ || सर्वसिद्धिकरी ह्येषा अणिमादिषु साधनी | [क्रोडमुद्रा] अधोमुखे वामहस्ते मध्यमानामिके यदा || २८ || अङ्गुष्ठस्य तु संसक्ते कनिष्ठा तर्जनीद्वयम् | प्रसारितं ततः कार्यं मुद्रा क्रोडात्मिका स्मृता || २९ || सर्वयन्त्रप्रमथनी सर्वदुष्टनिवारिणी | स्वे स्वे स्थाने नियोक्तव्या मुद्रावक्त्रेषु या स्थिता || ३० || [कौस्तुभमुद्रा] मध्यमानामिकान्यूना मुष्टिवत्पाणिमध्यगाः | उभयोर्हस्तयोर्विप्र पश्चान्मुष्टिद्वयं तु तत् || ३१ || श्लेषयेत्समरन्ध्रेण तर्जन्यौ द्वे प्रसार्य च | ततः संश्लेषयेदग्रादङ्गुष्ठाग्रे नियोजयेत् || ३२ || मध्यतस्तर्जनीभ्यां तु अन्योन्येन क्रमेण तु | मुद्रैषा कौस्तुभस्योक्ता मालामुद्रामथो शृणु || ३३ || [मालामुद्रा] शाखाष्टकं कराभ्यां यद्ग्रस्तमग्रानदूरतः | संश्लक्ष्णं लम्बमानं च उपविष्टोऽथ वास्थितः || ३४ || कुर्याद्बाहुद्वयं विप्र ऊरुमध्यावलम्बितम् | मणिबन्धावधौ सम्यङ्मालामुद्रा प्रकीर्तिता || ३५ || [पद्ममुद्रा] अङ्गुष्ठौ सङ्गतौ लग्नौ अङ्गुल्यो विरलाः स्थिताः | पाद्मी ह्येषा भवेन्मुद्रा पुष्टिसौभाग्यदायिका || ३६ || [शङ्खमुद्रा] मुष्टिना ग्राहयेद्वाममङ्गुष्ठं दक्षिणेन तु | अङ्गुलीर्वामहस्तात्तु दक्षिणस्योपरि न्यसेत् || ३७ || प्. ७३) वामतर्जनिकाग्रं तु अङ्गुष्ठाग्रं च दक्षिणात् | परस्परं सम्मुखं तु सुश्लिष्टं विनियोजयेत् || ३८ || शङ्खस्यैषा भवेन्मुद्रा उत्ताना तु यदा स्थिता | [चक्रमुद्रा] स्पष्टौ प्रसारितौ हस्तौ परस्परनियोजितौ || ३९ || भ्रमणाच्चक्रवत्तौ तु चक्रमुद्रेति कीर्तिता | नाशिनी सर्वदुःखानां मुद्राणां भेदिनी परा || ४० || [गदामुद्रा] बध्वा मुष्टिं दक्षिणेन वामाङ्गुष्ठस्य मूर्धनि | कृत्वैवं दर्शयेदेषा कौमोदक्याः सुशोभना || ४१ || गदामुद्रेति विख्याता दोषसैन्यप्रमर्दनी | [पक्षिराजमुद्रा] प्रसार्य संहतं कृत्वा पुरा पाणिद्वयं द्विज || ४२ || अनामा मूलदेशाभ्यामङ्गुष्ठाग्रद्वयं न्यसेत् | अधोमुखं तु पतितं मणिबन्धस्य सम्मुखम् || ४३ || सुश्लिष्टमग्रतः कृत्वा न्यसेत्तच्चाङ्गुलिद्वयम् | तर्जनीमध्यमाभ्यां यद्वामं युग्मं करद्वयात् || ४४ || प्रोच्छ्रितं विरलं कुर्यात्कुञ्चितं चापि सम्मुखम् | सुस्पष्टमुच्छ्रितं लग्नं पुच्छवत्कन्यसायुगम् || ४५ || पक्षिराजस्य मुद्रैषा केवलस्य महात्मनः | [पाशमुद्रा] प्रसार्य दक्षिणं पाणिं ततोऽङ्गुष्ठकनिष्ठिके || ४६ || मेलयेदग्रदेशाच्च सेतुवत्करणेन तु | फणवत्कुञ्चितं लग्नं तर्जन्याद्यं लतात्रयम् || ४७ || पाशमुद्रा भवत्येषा अङ्कुशाख्यं निबोध मे || ४८ || [अङ्कुशमुद्रा] कनिष्ठा मध्यमा नाम वामहस्तस्य मध्यतः | पृष्ठवन्निक्षिपेत्पृष्ठे तासामङ्गुष्टकं भवेत् || ४९ || अग्रतस्तर्जनी कार्या कुञ्चिताङ्कुशवद्द्विज | इत्येषाऽङ्कुशमुद्रैव सत्यादीनामथो शृणु || ५० || प्. ७४) [सत्यादिमुद्रापञ्चकम्] दक्षिणस्य तु हस्तस्य अग्रतोऽङ्गुलिपञ्चकम् | परस्परं स्पृशेत्कार्यं प्रोन्नतं मुखसम्मुखम् || ५१ || सत्यस्यैषा भवेन्मुद्रा प्रागुपाङ्गोद्भवस्य च | अङ्गुष्ठतर्जनीयोगाद्द्वितीयस्य प्रकीर्तिता || ५२ || अङ्गुष्ठमध्यमायोगात्तृतीयस्य प्रकीर्तिता | अङ्गुष्ठानामिकायोगाच्चतुर्थस्य तु नारद || ५३ || कनिष्ठाङ्गुष्ठसंयोगात्पञ्चमस्य तु जायते | [महाजयामुद्रा] हृल्लग्नं वामहस्तं तु कृत्वोत्तानं प्रसारितम् | पृष्ठे तु मुष्टिबन्धं तु दक्षिणेन करेण तु || ५४ || मुष्टेरूर्ध्वं स्थितोऽङ्गुष्ठं चक्षुर्भ्यामवलोकितम् | दैवी ह्येषा भवेन्मुद्रा मन्त्रराजस्य सुव्रत || ५५ || महाजयेति विख्याता सर्वयोगप्रसाधनी | सर्वसिद्धिकरी शश्वत्सर्वमुद्राप्रपूरणी || ५६ || अनया मुद्रितं विश्वमाब्रह्मभावनान्तिमम् | सर्वाङ्गशक्तियुक्तस्य सर्वमन्त्रालयस्य च || ५७ || निष्कलस्याविकारस्य ब्रह्मन्सप्ताक्षरस्य च | इत्येष गर्भमन्त्राणामुक्तो मुद्रागणो मया || ५८ || आधारासनमन्त्राणां मुद्राणां लक्षणं शृणु | [आधारशक्तिमुद्रा कूर्ममुद्रा च] क्षिप्तमङ्गुलियुग्मं तु मुष्टिभ्यामन्तरे द्विज || ५९ || वामस्य दक्षिणो मुष्टिः पृष्ठे स्यात्स्पर्शवर्जितः | असावाधारशक्तौ च ऊर्ध्वतः कूर्मवह्नि (द्द्वि?)ज || ६० || [अनन्तासनमुद्रा] अधोमुखस्य वामस्य अनामा तर्जनी उभे | आकुंच्य पृष्ठलग्ने तु मध्यमायां तु संस्थिते || ६१ || तयोरधस्तान्मध्याख्यामृज्वीं कुर्यादधोमुखाम् | कनिष्ठिका तु साङ्गुष्ठा कार्या सुप्रसृता मुने || ६२ || प्. ७५) अनन्तासनमुद्रेयमनेनास्या(ख्या?)यते द्विज | सर्वं जगदिदं ह्येषा क्रोडीकृत्य च वर्तते || ६३ || सर्वास्वाधारमुद्रासु प्राधान्येन व्यवस्थिता | तस्यादौ मन्त्रमुच्चार्य प्लुतं च बहुमातृकम् || ६४ || शब्दशक्यविभागोत्थं भावग्राह्यमनाहतम् | ततस्तस्य विसर्गे तु अनन्तासनसंज्ञया || ६५ || बद्धं प्रकल्पयेद्विप्र सद्भावध्यानसंयुतम् | सदाधिकारयागे तु मन्त्राणां भिन्नरूपिणाम् || ६६ || क्षिप्रकर्मप्रसिध्यर्थं योजनीया प्रयत्नतः | [पृथिवीमुद्रा] करद्वयेन बध्नीयाल्लग्नमुष्टिद्वयं पुरा || ६७ || अङ्गुलित्रितयेनैव अङ्गुष्ठे तर्जनीद्वयम् | प्रान्तलग्नं ततः कृत्वा तद्युगे मेलयेत्पुनः || ६८ || एषा तु पार्थिवी मुद्रा सामुद्रीमधुना शृणु | [समुद्रमुद्रा] मणिबद्धौ च संलग्नौ नखाग्राणि करद्वयात् || ६९ || कार्याणि साङ्गुलीकानि परस्परमुखानि तु | अङ्गुष्ठाग्रे निराधारे तन्मध्ये चालयेद्धृतम् || ७० || मध्यं कुर्याच्च हस्ताभ्यां गाधं तु सुषिरोपमम् | क्षीरार्णवस्य मुद्रैषा प्रागुक्ता पङ्कजस्य तु || ७१ || मन्त्रयोगात्तथा ध्यानादन्यत्वं चैव जायते | [धर्मादिमुद्राचतुष्टयम्] करद्वयमसंलग्ने(ग्नं?) कृत्वा तदनु योजयेत् || ७२ || मुखे मुखं तर्जनीभ्यां तं मुञ्चेदथ मध्ययोः | कुर्यात्ताद्दृग्विधं बन्धं तं त्यक्त्वाऽनामिकाद्वये || ७३ || उपसंहृत्य तं चापि द्वे कनिष्ठे नियोजयेत् | प्रत्येकबन्धे संलग्नमङ्गुष्ठयुगलं न्यसेत् || ७४ || धर्माद्यस्य चतुष्कस्य विद्धि मुद्रागणं क्रमात् || ७५ || तदूर्ध्वस्थस्य पद्मस्य प्रागुक्ता मन्त्रयोगतः | प्. ७६) [सूर्येन्द्वग्निलक्षणधामत्रयमुद्रा] दक्षिणस्य तु हस्तस्य तर्जन्यङ्गुष्ठमेलनम् || ७६ || कृत्वा तदनु तद्बन्धं विकास्य च शनैः शनैः | समुत्तानं पुनः कुर्याच्छाखासङ्घं पृथक्स्थितम् || ७७ || धामत्रयस्य मुद्रैषा हंसाख्यां तु निबोध मे | [हंसमुद्रा] स्पष्टौ प्रसारितौ हस्तौ कुर्यादञ्जलिरूपकौ || ७८ || भावासनस्य मुद्रैषा सुशुद्धा परमार्थकी | एष आसनमन्त्राणां मुद्राबन्धो मयोदितः || ७९ || क्रमात्क्षेत्रेशपूर्वाणां बीजानां मुनिसत्तम | पद्मनिध्यधिपान्तानां मुद्रादशकमुच्यते || ८० || [क्षेत्रेशमुद्रा] ग्रस्तमङ्गुलिसंख्यातं कृत्वा पाणिद्वयेन तु | बलात्प्रपीडयेत्कुर्यादङ्गुष्ठद्वयमुच्छ्रितम् || ८१ || मुद्रेयं क्षेत्रपालस्य श्र्यादीनामथ मे शृणु | [श्रीमुद्रा] उत्तानौ तु करौ कृत्वा निकटस्थौ तु नारद || ८२ || तदङ्गुलीगणं सर्वं कुञ्चितं मध्यसंस्थितम् | अङ्गुष्ठौ पतितौ कृत्वा क्रमशः स्पष्टतां नयेत् || ८३ || श्रीबीजस्य तु मुद्रैषा प्रथमं कथिता तव | [चण्डमुद्रा] समुत्थाप्य कराद्वामात्तर्जनीं चण्डबीजजा || ८४ || [प्रचण्डमुद्रा] तामेव दक्षिणाद्धस्तात्प्रचण्डाख्यस्य विद्धि वै | [जयमुद्रा] मध्यमाद्वामहस्ताद्वै समुत्थाप्य जयस्य च || ८५ || [विजयमुद्रा] दक्षिणाद्विजयाख्यस्य बीजस्य परिकीर्तिता || ८६ || [गांगमुद्रा] वामाच्चानामिका प्राग्वत्कृत्वा गाङ्गस्य विद्धि ताम् | प्. ७७) [यामुनमुद्रा] दक्षिणाद्यामुनस्योक्ता मुद्रा बीजस्य नारद || ८७ || [शङ्खमुद्रा] निधीश्वरस्य शङ्खस्य वामहस्तात्कनिष्ठिका | [पद्मनिधिमुद्रा] पद्माख्यस्यापराद्धस्तात्सैव चोर्ध्वीकृता यदा || ८८ || [गणेशमुद्रा] दक्षिणेन तु हस्तेन साङ्गुष्ठेन च मुष्टिना | प्रदेशिनीं ह्यनामां च वामहस्तस्य पीडयेत् || ८९ || प्रयत्नकृतशङ्खानां पृष्ठे योज्या च मध्यमा | लम्बमानकराकारा यथा संदृश्यते च सा || ९० || मुष्टेर्नातिसमीपस्थां वामहस्तात्कनिष्ठिकाम् | दक्षिणाङ्गुष्ठबाह्ये च दंष्ट्रावत्परिभावयेत् || ९१ || ईषत्तिर्यक्ततस्सपष्टो वामाङ्गुष्ठस्तथा परः | यथा तौ परिदृश्येते गजकर्णोपमौ द्विज || ९२ || गणेश्वरस्य मुद्रेयं सर्वविघ्नक्षयङ्करी | [वागीश्वरीमुद्रा] सुश्लिष्टौ मणिबन्धौ तु कृत्वा पाणिद्वये पुरा || ९३ || संलग्नमग्रदेशात्तु प्रोन्नतं मध्यमायुतम् | प्रदेशिनीद्वयं तद्वत्कृत्वाऽनामायुगं तथा || ९४ || अचलं द्विगुणीकृत्य नमयेत्तदधोमुखम् | शनैः शनैःस्पृशेद्यावत्स्वं स्वं पाणितलं द्विज || ९५ || स्पष्टं सुविरलं कुर्यादङ्गुष्ठद्वितयं द्विज | तद्वत्कनीयसीयुग्मं समेन धरणेन तु || ९६ || मुद्रैषा वाग्विश्रूत्यर्थी यो बध्नाति दिने दिने | जपमानस्तु तद्भावी तस्य चावतरेत्तु धीः || ९७ || [गुरुमुद्रा] सम्मुखौ संपुटीकृत्य द्वौ हस्तौ संप्रसारितौ | विनियोज्यौ ललाटोर्ध्वे शिरसाऽवनतेन तु || ९८ || प्. ७८) गुरोर्गुरुतरस्यापि मुद्रा ह्येषा पितुः पितुः | [पितृगणमुद्राः] प्रोत्तानं दक्षिणं पाणिं कृत्वाङ्गुलिगणं ततः || ९९ || संलग्नं कुञ्चयेत्किञ्चिदङ्गुष्ठं संप्रसार्य च | तिर्यग्भवैः शनैः किञ्चित्कुर्याद्वाऽधोमुखं ततः || १०० || मुद्रा पितृगणस्यैषा नित्यतृप्तिकरी स्मृता | पूजाकाले तु वै तस्माद्दर्शनीया प्रयत्नतः || १०१ || यो वै नैमित्तिकाच्छ्राद्धात्परितोषस्तु जायते | स पितॄणां शतगुणो मुद्राबन्धाच्च पूजनात् || १०२ || [सिद्धमुद्रा] करद्वयं समुत्तानं नाभिदेशे नियोजयेत् | वामस्य दक्षिणे(?) पृष्ठे मुद्रैषा सिद्धसन्ततेः || १०३ || [वराभयमुद्रे] सुस्पष्टं दक्षिणं हस्तं स्वात्मनस्तु पराङ्मुखम् | पराङ्मुखं लम्बमानं वामपाणिं प्रकल्पयेत् || १०४ || क्रमाद्वराभयाख्यं तु इदं मुद्राद्वयं द्विज | विज्ञेयं लोकपालानामिन्द्रादीनां समासतः || १०५ || एकैकेन तु मन्त्रेण वज्राद्येन क्रमाद्युताम् | अस्त्राख्यां शक्तिसंयुक्तां प्रागुक्तां संप्रदर्शयेत् || १०६ || लोकपालायुधानां तु पूजितानां क्रमेण वै | [विष्वक्सेनमुद्रा] कनिष्ठाऽनामिका मध्या वामाच्च करमध्यगाः || १०७ || तासामङ्गुष्ठकः पृष्ठे तर्जनी प्रोन्नता भवेत् | नासावंशप्रदेशस्था ततो दक्षिणपाणिना || १०८ || अङ्गुलीत्रितयेनैवं मुष्टिं बध्वा तु पूर्ववत् | तर्जनीद्विगुणं कृत्वा अङ्गुष्ठाग्रे निरोधयेत् || १०९ || प्रोद्यतो बाहुदण्डः स्याच्चक्रक्षेपे यथोद्यतः | विष्वक्सेनस्य मुद्रेयं विश्वकर्मनिकर्तनी || ११० || प्. ७९) [आवाहनमुद्रा] किञ्चिदाकुञ्चयेद्धस्तं दक्षिणं हृदयोपगम् | अङ्गुष्ठो विरलस्पष्टो मुद्रा ह्यावाहने स्मृता || १११ || [विसर्जनमुद्रा] खड्गधारासमाकारा विरलाङ्गुलिकावुभौ | अङ्गुष्ठौ दण्डवत्कृत्वा मुष्टिबन्धं शनैश्शनैः || ११२ || कुर्यात्कनिष्ठिकादिभ्यो मुद्रैषा स्याद्विसर्जने | [सुरभिमुद्रा] ग्रथितौ [द्वौ] करौ कृत्वा सुश्लिष्टौ चाप्यधोमुखौ || ११३ || कनीयसौ तदाङ्गुष्ठौ सुश्लेषेण नियोज्य च | मध्यमाङ्गुलियुग्मं तु अन्योन्यकरपृष्ठगम् | विक्षिप्तानामिकायुग्मं तर्जनीयुगलं तथा || ११४ || मुद्रैषा कामधेन्वाख्या सर्वेच्छापरिपूरणी | द्विप्रकारं तु मुद्राणां प्रयोगं नित्यमाचरेत् || ११५ || संविन्मयं तु चाध्यात्मरूपं भास्वरसंपुटम् | बाह्यान्तस्त्रिविधं विप्र कर्मवाक्चित्तजं तु यत् || ११६ || अनेन विधिना मुद्रां यो बध्नाति विधानवित् | तेनेदं मुद्रितं विश्वमपुनर्भवसिद्धिदम् || ११७ || इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मुद्राबन्धाख्यानं नाम अष्टमः पटलः || ८ || अथ पाञ्चरात्रे जयाख्यसंहितायां स्नानविधिर्नाम नवमः पटलः श्रीभगवान् अथाधिकारसिद्ध्यर्थं स्नानं वक्ष्यामि पूर्वतः | येन भक्तोऽभिषिक्तस्तु स्यादर्हो होमयागयोः || १ || [स्नाने द्वैविध्यम्] स्नानं तु द्विविधं कुर्यान्मलसङ्करशुद्धये | सामान्यविधिना स्नात्वा विशेषविधिना ततः || २ || सामान्यं लौकिकं स्नानं विशिष्टं मन्त्रसंस्कृतम् | [शौचविधिः] तच्चापि शौचपूर्वं स्यात्तदादौ कथयामि ते || ३ || प्. ८०) तिस्रो लिङ्गे मृदो देया एकैकान्तरमृत्तिकाः | पञ्च वामकरे देयास्तिस्रः पाण्योर्विशुद्धये || ४ || मूत्रोत्सर्गे शुद्धिरेषा पुरीषस्याप्यनन्तरम् | पञ्चापाने मृत्तिकास्स्युस्तथैवान्तरमृत्तिकाः || ५ || दश वामकरे देयास्सप्त तूभयहस्तयोः | पादाभ्यां त्रिसृभिश्शुद्धिर्जङ्घाशुद्धिश्च पञ्चभिः || ६ || नियोजयोत्ततो विप्र कट्यां वै सप्तमृत्तिकाः | स्वदेहस्वेददोषघ्नं बाह्यकर्दमशान्तये || ७ || भक्तानां श्रोत्रियाणां च वर्षास्वेवं निरूपितम् | प्रावृट्सूक्तात्तदेतस्मादेकमृद्व्यपनोदनम् || ८ || शरद्ग्रीष्मवसन्तेषु नित्यं कार्या क्रियापरैः | एतस्मादपि चैकैका परिलोप्या तु मृत्तिका || ९ || हेमन्ते शिशिरे विप्र श्रोत्रियैः संयमस्थितैः | पथि शौचं प्रकर्तव्यं देशकालानुरूपतः || १० || गन्धलेपमपास्यैवं मनश्शुद्ध्या विशुध्यति | [स्नानार्थं मृत्संग्रहणम्] एवं कृत्वा पुरा शौचं समाचम्य ततः खनेत् || ११ || शङ्कुना ह्यस्त्रजप्तेन शुचिस्थानात्तु मृत्तिकाम् | गृहीत्वाऽस्त्रेण सङ्गृह्य यायाज्जलनिकेतनम् || १२ || [स्नानविधिः] तत्रादौ जलकूलं तु क्षालयेदस्त्रवारिणा | मृदः कृत्वा द्विधा स्थाप्य एक भागोपगं ततः || १३ || निधाय गोमयं दर्भान्स्तिलास्त्रानभिमन्त्रितान् | लौकिकं गोमयाढ्येन भागेन [स्नानमाचारेत्] || १४ || तत(तच्च ?)स्नानं पुरा कृत्वा विधिस्नानं समाचरेत् | [विधिस्नाने क्रमः] विधिस्नाने तु मृद्भागो यस्तं कुर्याद्द्विधा पुनः || १५ || पादादि क्षाल्यमेकेन पूर्ववत्क्रमयोगतः | पाणिप्रक्षालनं कृत्वा विनिमज्य जलान्तरे || १६ || प्. ८१) [स्नानाङ्गमन्त्रन्यासमुद्राबन्धौ] समुत्थाय न्यसेन्मन्त्रं षडङ्गं विग्रहे स्वके | मन्त्रन्यासं ततः कुर्यान्मुद्राबन्धं च कारयेत् || १७ || कीटाद्यशुचिसम्पर्काज्जलस्यावहतो द्विज | वहतोऽप्युद्धृतस्यापि शुद्धिरेवं भवेत्पुरा || १८ || निर्मलं वारुणं विप्र चन्द्रार्ककरतापितम् | यद्यपि स्यात्तथा नैवं सम्यङ्मान्त्रे क्रियाक्रमे || १९ || [पवित्रधारणम्] त्रिपञ्चसप्तकाण्डोत्थं द्रढिमग्रन्थिसंयुतम् | पवित्रकद्वयं दार्भमस्त्रमन्त्राभिमन्त्रितम् || २० || हस्तद्वयेऽपि निक्षिप्य अनामाङ्गुलयोरधः | [वामपाणौ मूलादिस्थानभेदेन त्रेधा विभक्ताया मृदः क्रमेणास्त्रादित्रयेणाभिमन्त्रणम्] सावशेषां मृदं शेषां कृत्वाऽदायास्त्रमुच्चरन् || २१ || तां तथा वामपाणौ तु मूलमध्याग्रतो भजेत् | सास्त्रेण मूलमन्त्रेण जपेदङ्गैरनुक्रमात् || २२ || [तत्रास्त्राभिमन्त्रिताया विनियोगः] अस्त्रजप्तां मृदं गृह्य क्षिपेद्दिक्षु विदिक्षु च | अध ऊर्ध्वे च तन्मन्त्रं (न्त्र ?) मुद्राबन्धेन संयुतम् || २३ || तेन स्नानहरा विघ्ना दिग्विदिक्परिसंस्थिताः | प्रयान्ति विह्वलीभूता यावत्तन्नोपसंभृतम् || २४ || [मूलमन्त्रिताया मृदो विनियोगः] मृद्भागो मूलमन्त्रेण मन्त्रितो यः पुरा स्थितः | तमुच्चरंस्तमादाय तोयमध्ये विनिक्षिपेत् || २५ || तेन तत् द्विजशार्दूल तत्क्षणादेव जायते | गङ्गातोयेन संपूर्णं यामुनेन जलेन च || २६ || प्रायागं चक्रतीर्थं च प्रभासं पुष्कराणि च | भवन्ति सन्निधीभूता मन्त्रस्यास्य प्रभावतः || २७ || ततो वै विष्णुतीर्थाय मन्त्रान्ते पदमुच्चरेत् | प्. ८२) सनमस्कं भवेत्तेन विष्णुतीर्थस्य सन्निधिः || २८ || [तीर्थान्तरे केवलमूलमन्त्रमात्रयोजनम्] अन्यतीर्थे यदा स्नानं कुर्यात्तत्र च योजयेत् | केवलं मूलमन्त्रं तु विष्णुतीर्थपदं विना || २९ || तीर्थान्तरेष्विदं नाम न सङ्कीर्तयते सुधीः | सन्निधाने हि तीर्थस्य यद्यन्यामभिधां स्मरेत् || ३० || स्नातकस्तस्य तत्तीर्थमभिशप्य क्षणं व्रजेत् | निर्जराम्बुतटाकादौ सामान्यस्नानकर्मणि || ३१ || गङ्गादीनां नदीनां च तीर्थानां च प्रकीर्तितम् | मान्त्रे स्नानक्रमे सम्यग्विष्णुतीर्थाय कीर्तयेत् || ३२ || [अङ्गमन्त्राभिमन्त्रितस्य मृद्भागस्य विनियोगः] ततोऽङ्गमन्त्रजप्तं च भागं पाणितले स्थितम् | तोयेनालोढ्य मसृणं तापयेदर्करश्मिभिः || ३३ || मेघच्छन्ने स्वकं मन्त्रं सूर्यवत्खस्थितं स्मरेत् | दर्शयित्वा करे तस्य ताभ्यां सर्वाङ्गकं स्पृशेत् || ३४ || [तीर्थस्य परमीकरणप्रकारः] धारणाद्वितयेनाथ तीर्थस्य सजलस्य च | परमीकरणं कुर्याद्विधिदृष्टेन कर्मणा || ३५ || आधारशक्तेरारभ्य सङ्कल्पविषयावधि | वह्निना पूरयेत्सर्वं ज्वालामालाविलेन च || ३६ || निरम्मयं जगत्कृत्वा तीर्थं शान्ततनु स्मरेत् | शान्ते संविन्मये विष्णौ भूयस्तदवतार्य च || ३७ || निशाम्बुकणसङ्काशमियत्ताकल्पितं पुरा | स्मृत्वा शक्तिप्रभावेन ब्रह्मस्रोतो विनिर्गतम् || ३८ || धाराकल्लोलसङ्गीर्णं पतमानं तु वेगतः | आब्रह्मभवनं सर्वं पूरयेच्छशिसन्निभम् || ३९ || विलोकनपदैश्शश्वत्सङ्घट्टं तं तु भावयेत् | समस्ते प्राक्स्वरूपेण तन्मध्ये त्वासनं प्रभोः || ४० || दत्वा तदुपरि ब्रह्मन् स्मरेन्नारायणं प्रभुम् | प्. ८३) चन्द्रकोटिसमं शुद्धसुधाधारागणावृतम् || ४१ || साहंशक्तिसमूहाढ्यं प्रोद्गिरन्तं सुधारसम् | एवं कृते सति भवेत्तीर्थं नारायणात्मकम् || ४२ || निमज्जनं ततः कुर्यादुन्मज्जनसमन्वितम् | गन्धैस्सामलकैर्हृद्यैः पवित्रैर्विविधैः शुभैः || ४३ || चक्रवर्त्युपचारेण मन्त्री स्नायादतन्द्रितः | [अथ स्नानोत्तराङ्गविधिः] ततश्चान्तर्जलस्थश्च स्मरेन्मन्त्रं स्वशक्तितः || ४४ || भास्वद्भास्वररूपोऽसौ उदेति हृदयान्तरे | हृदयादग्रतश्चान्ते द्वादशान्तेन दूरतः || ४५ || परमं पुरुषं दृष्ट्वा प्रत्यक्षस्थं तु नारद | समुत्थाय जलात्पश्येद्गगनस्थं तमेव हि || ४६ || ततोऽप्सु तारमासाद्य उपविश्य यथासुखम् | न्यसेदङ्कुशमुद्राग्रे हृन्मन्त्रं सितविग्रहम् || ४७ || स्वेनानिलेन संयुक्तं रेचयेत्तीर्थमध्यतः | पूरकेण समाकृष्य मुद्रायुक्तेन तत्पुनः || ४८ || एवञ्चोपगतं तीर्थं पुरा कृत्वा तु नारद | प्रणवेनोपचाराख्यहृदयेनाचमेत्ततः || ४९ || सुप्रसन्नेन तोयेन जान्वन्तस्थेन पाणिना | एकेन पाद्यमन्त्रेण सोपचारहृदा द्विज || ५० || ध्वात्वा तत्र स्थितं देवं साङ्गं सपरिवारकम् | जप्यमानश्च मन्त्रोऽयमुपस्थानं तु कारयेत् || ५१ || प्रणवेन ततस्सर्वान्पितृदेवांश्च तर्पयेत् | तिलमिश्रेण विधिवत्सन्त्यजेत्स्नानकर्पटम् || ५२ || सुधौतं परिधायाथ वस्त्रयुग्ममखेददम् | अथवा तदधश्शाटीं योगपट्टकसंयुताम् || ५३ || नैकवस्त्रेण वै यस्माद्भवितव्यं कदाचन | स्थानेऽस्त्रशोधितेऽन्यस्मिन्ननन्तासनसंस्थितम् || ५४ || प्. ८४) आधारमासनं ध्यात्वा जलमध्येऽच्युतस्य च | मन्त्रग्रामसमोपेतमाहूय विनिवेश्य तम् || ५५ || तर्पयेदुदकेनैव विष्वक्सेनावसानकम् | स्वेन स्वेन तु मन्त्रेण पाणिभ्यामग्रतः क्रमात् || ५६ || देवताश्च मुनीन्नागान् ग्रहभूतवियच्चरान् | सन्तर्प्य स्थावरान्तांश्च स्ववंशं तर्पयेत्क्रमात् || ५७ || व्रजन्तं सासनं देवं जलमध्यात्ततस्स्मरेत् | तीर्थशुद्धौ पुरा मन्त्रो न्यस्तोऽसावपि दिक्षु वै || ५८ || प्रेरयन्पूर्ववद्देवान्प्राणाग्रेणानिलं द्विज | तमेकीकृत्य वै तेन त्यक्त्वा तोयं तु शुक्लवत् || ५९ || आपूर्य हृदि विन्यस्येत् सोपसंहारमुद्रया | इत्युक्तमौदकं स्नानमथ मान्त्रं निबोध मे || ६० || [मन्त्रस्नानम्] तोयाभावे च यत्कुर्याद्दुर्गे काले च शीतले | गमने क्षिप्रसिद्धौ वा गुरुकार्ये स्वतन्त्रताम् || ६१ || प्राप्तां वा वीक्ष्य विप्रेन्द्र निशाभागे दिनस्य वा | प्रक्षाल्य पादावाचम्य प्रोद्धृतेन तु वारिणा || ६२ || स्नानं दश दिशः प्राग्वत्संशोध्योपविशेत्ततः | अस्त्रं हस्ततले योज्यं क्रमान्न्यासं ततस्तनौ || ६३ || मूलमन्त्रादि तत्कुर्यात्सर्वमन्त्रगणेन तु | केवलादुदकस्नानात्संस्कारपरिवर्जितात् || ६४ || प्रभासादिषु तीर्थेषु यत्फलं स्नातकस्य च | ज्ञेयं शतगुणं तस्मान्मन्त्रग्रामस्य नारद || ६५ || [ध्यानस्नानम्] ध्यानस्नानमथो वक्ष्ये द्वाभ्यामपि परं तु यत् | खस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं प्रभुं स्मरेत् || ६६ || तत्पादोदकजां धारां पतमानां स्वमूर्धनि | चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् || ६७ || तया संक्षालयेत्सर्वमन्तर्देहगतं मलम् | प्. ८५) तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः || ६८ || इदं स्नानं परं मान्त्रात्स्नानाच्छतगुणं स्मृतम् | तस्मादेकतमं कार्यं स्नानं श्रद्धापरेण तु || ६९ || स्नानपूर्वाः क्रियास्सर्वा यतस्सम्यक्फलप्रदाः | तस्मात्स्नानं पुरा कुर्याद्य इच्छेच्छ्रेय आत्मनः || ७० || स्नानेन निर्मलो जन्तुः कृतमात्रेण जायते | द्विजेन्द्र निर्विवेकात्मा किं पुनर्यः क्रियापरः || ७१ || वर्णधर्मक्रमोपेतस्साधुमार्गव्यवस्थितः | इति श्रीपाञ्चरात्रे जयाख्यसंहितायां स्नानविधिर्नाम नवमः पटलः || ९ || अथ समाधिख्यापनं नाम दशमः पटलः [ध्यानार्थं निर्जनस्थानं प्रति गमनम्] श्रीभगवान् सास्त्रं दूर्वाङ्कुरं दत्वा पुष्पं पत्रं तिलांस्तु वा | सोदकानात्मनो मूर्ध्नि शिखास्थाने च नारद || १ || ततश्चोदकसम्पूर्णं भाण्डमादाय पाणिना | एकान्तनिर्जनं यायान्मनोज्ञं दोषवर्जितम् || २ || हृन्मध्यस्थं स्मरे(र ?)न्मन्त्रं प्रबुद्धानलविग्रहम् | दिगन्तरमवीक्षन्वै मौनी संरोधितानिलः || ३ || [स्थानप्राप्तिसमये कर्तव्यांशः] प्राप्य स्थानं स्वमन्त्रं तु नासाग्रेण विरेचयेत् | बहिरस्त्रं च विन्यस्य चरणेन हनेत्क्षितिम् || ४ || मन्त्रपूर्वं स्मरेद्विष्णुं सकलं गरुडासनम् | [दर्भाद्यासनविकल्पः] एकदेशं समासाद्य बध्नीयाद्रुचिरासनम् || ५ || दर्भे चर्मणि वस्त्रे वा फलके यज्ञकाष्ठके | [गुरुस्मरणपूर्वकमानसक्रियानिर्वहणम्] अभिवन्द्य हरिं भक्त्या मनसा गुरुसन्ततिम् || ६ || गृहीत्वा मानसीमाज्ञां तेभ्यस्तु शिरसा नतः | मानसीं निर्वहेत्सर्वां क्रियां विप्र यथास्थिताम् || ७ || प्. ८६) [आसनशुद्धिः] मूलमन्त्राभिजप्तेन तोयेन प्रोक्ष्य चासनम् | च्छोटिकां मन्त्रसंयुक्तां दद्यात्तच्छुद्धये पुनः || ८ || [करशुद्धिः] हस्तशुद्धिं ततः कुर्याद्यथा तच्छृणु नारद | द्वे तले हस्तपृष्ठे द्वे सर्वाश्चाङ्गुलयस्तथा || ९ || अस्त्रमन्त्रेण संशोध्य ध्यानोच्चारप्रयोगतः | कृत्वैवं करशुद्धिं च स्थानशुद्धिं समाचरेत् || १० || [स्थानशुद्धिः] ध्यात्वा देवं ज्वलद्रूपं सहस्रार्कसमप्रभम् | ज्वालाकोटिसमाकीर्णं वमन्तं ज्वलनं मुखात् || ११ || तेन संपूरयेत्सर्वमाब्रह्मभुवनान्तिमम् | दिगोघं प्रज्वलन्तं च भावयेन्मन्त्रतेजसा || १२ || क्ष्मामण्डलमिदं सर्वं स्मरन्पक्वं च वह्निना | मन्त्रजेन द्विजश्रेष्ठ मृण्मयं भाजनं यथा || १३ || स्थानशुद्धिर्भवत्येवं सुधाकल्लोलसेचनात् | भूतशुद्धिं शृणु मुने यथावदनुपूर्वशः || १४ || [भूतशुद्धिप्रकरणम्] पृथ्व्यप्तेजोनिलाकाशं शरीरं भूतपञ्चकम् | इन्द्रजालोपमं विद्धि ज्ञानाद्यैरुज्झितं गुणैः || १५ || मलिनञ्चास्वतन्त्र च रेतोरक्तोद्भवं क्षयि | यावन्न शोधितं सम्यक् धारणाभिर्निरन्तरम् || १६ || तावदेतदयोग्यं स्यान्मन्त्रन्यासादिवस्तुषु | [पृथिव्यादिभूतानां बीजानि] शङ्करश्चाग्निरूपश्च सोमःसूर्यस्तदन्तकः || १७ || वर्णपञ्चकमेतद्वै युक्तं कुर्यात्क्रमेण तु | धरेशेन वराहेण अनलेनाथ कम्बुना || १८ || प्रधानेन द्विजश्रेष्ठ सर्वेषां योजयेत्ततः | त्रैलोक्यैश्वर्यदोपेतमादिदेवं च मूर्धनि || १९ || प्. ८७) पृथ्वीकाग्निमरुद्व्योमबीजान्येतान्यनुक्रमात् | पृथ्व्यादिसंज्ञायुक्तानि हुंफडन्तानि नारद || २० || प्रागोङ्कारेण युक्तानि भूतशुद्धौ त्रिधोच्चरेत् | भूतेश्वराणां पञ्चानां परत्वेन क्रमात्स्थिताः || २१ || [पृथिव्यादिभूतानां देवताः] अनिरुद्धादयः पञ्च सत्यपूर्वाः पुरोदिताः | शक्तित्वेन च वर्तन्ते तैश्च तान्व्याहरेत्क्रमात् || २२ || [पृथिव्यादिमहाभूतानां स्वविग्रहे प्रवेशन तद्व्यापन तद्विलयनप्रकाराः] सौषुम्नाद्दक्षिणद्वारान्निर्गमयय हरिं बहिः | सहस्ररविसङ्काशं वृत्तमण्डलमध्यगम् || २३ || तप्तकाञ्चनवर्णाभमासीनं परमे पदे | मन्त्रात्मानं तु तं ध्यात्वा ह्युपरि द्वादशाङ्गुले || २४ || प्रभाचक्रं तु तदधस्तत्त्वाधिष्टातृसंयुतः | निष्कलं मन्त्रदेहं तु ध्यात्वा तु तदधः क्रमात् || २५ || [तत्रादौ पृथिवीतत्त्वनिलयनम्] तुर्यश्रां पीतभां भूमिं चिन्तयेद्वज्रलाञ्छिताम् | शब्दाद्यैः पञ्चभिर्युक्तां नगद्रुमसमाकुलाम् || २६ || पुरप्राकारसुसरिद्द्वीपार्णवपरिष्कृताम् | संविशन्तीं स्मरेद्बाह्यात्पूरकेण स्वविग्रहे || २७ || प्रोच्चारयंश्च तन्मन्त्रं विश्रान्तामथ चिन्तयेत् | जान्वोः पादतलं यावत्तया व्याप्तं क्रमेण तु || २८ || कुम्भकेन द्विजश्रेष्ठ मन्त्रमूर्तौ स्वके ततः | शनैः शनैर्लयम् यातां गन्धशक्तौ च मन्त्रराट् || २९ || [जलतत्त्वनिलयनम्] गन्धशक्तिं च तां पश्चाद्रेचकेन बहिःक्षिपेत् | तोयाख्ये च महाधारे ततस्तोयं च वैभवम् || ३० || समुद्रससरित्स्रोतो रसषट्कं च सौषधीः | यानि यान्यम्बुभूतानि भूतानि भुवनान्तरे || ३१ || अर्धचन्द्रसमाकारं कमलध्वजशोभितम् | वारुणं विभवं बाह्ये ध्यात्वा तेनाथ विग्रहम् || ३२ || प्. ८८) संपूर्य पूरकाख्येन करणेन शनैश्शनैः | ऊरुमूलाच्च जान्वन्तं शरीरं मण्डलं स्वकम् || ३३ || तेनाखिलं तु संव्याप्तं कुम्भकेन स्मरेद्द्विज | तन्मध्ये वारुणं मन्त्रं धारणाख्यं विचिन्त्य च || ३४ || अम्मयं विभवं सर्वं तन्मध्ये विलयं गतम् | ततस्तं रसशक्तौ च सा शक्तिर्वह्निमण्डले || ३५ || [तेजस्तत्त्वनिलयनम्] रेचकेन विनिक्षिप्य ततो वान्हं च वैभवम् | त्रिकोणभुवनाकारं दीप्तिमद्भिर्विभूषितम् || ३६ || विद्युच्चन्द्रार्कनक्षत्रमणिरत्नैश्च धातुभिः | स्वप्रकाशशरीरैस्तु अशरीरैश्च खेचरैः || ३७ || चिन्हितं स्वस्तिकैर्दीप्तैर्व्याप्यैवं विभवं महत् | तैजसं मुनिशार्दूलं तन्मात्रं चाथ संस्मरेत् || ३८ || तन्मण्डलान्तरस्थं तु प्रोच्चरन्वै तमेव हि | प्रविष्टं पूर्ववद्ध्यायेत्तेनैव करणेन तु || ३९ || आनाभेः पायुपर्यन्तं व्याप्तं कृत्वाऽवधार्य च | तं विप्र विभवं सर्वं तैजसं परिभावयेत् || ४० || तन्मन्त्रविग्रहे श्रान्तं मन्त्रं तच्चानलात्मकम् | रूपशक्तौ लयं यातं शक्तिस्संविन्मयी च सा || ४१ || [वायुतत्त्वनिलयनम्] तया मन्त्रशरीरं स्वं स्वशक्त्या विलयीकृतम् | रेचकेन कृतां शक्तिं वायवाधारे बहिः क्षिपेत् || ४२ || ततस्तु वायवीयं वै वैभवं बाह्यतः स्मरेत् | वृत्तं राजोपलाभं तु बिम्बैर्युक्तं तु तैजसैः || ४३ || पूर्णं नानाविधैर्गन्धैरनेकैस्तद्गुणैस्तथा | स्वमन्त्रेण समाक्रान्तं धारणाख्येन तं स्मरेत् || ४४ || तथा स्वरूपं तन्मन्त्रं ध्यात्वोच्चार्य समाहरेत् | प्. ८९) पूर्वोक्तकरणेनैवं घ्राणाग्रेण शनैश्शनैः || ४५ || आकण्ठान्नाभिदेशान्तं तेन व्याप्तं तु भावयेत् | प्रागुक्तकरणेनैव वायव्यं विभवं ततः || ४६ || अधिष्ठातृलयं यातं स्मृत्वा तं च महामुने | स्पर्शाख्यायां महाशक्तौ तां शक्तिमविनश्वरीम् || ४७ || [आकाशतत्त्वनिलयनम्] व्याप्तां नित्यामदृश्यां च स्वशक्तिविभवान्विताम् | शब्दाख्ये तु महाधारे निक्षिपेद्व्योममण्डले || ४८ || ध्यात्वाऽथ विभवं सर्वं व्योमाख्यं विग्रहाद्बहिः | नानाशब्दसमाकीर्णं नीरूपं चाञ्जनप्रभम् || ४९ || अविग्रहैश्शब्दमयैः पूर्णं सिद्धैरसङ्ख्यकैः | तन्मध्ये धारणान्मन्त्रं व्योमाख्यं संस्मरेद्द्विज || ५० || धारयन्तं स्वमात्मानं स्वसामर्थ्येन सर्वदा | शब्दमत्रामरूपं तु व्यापकं विभवेष्वपि || ५१ || धिया च संपरिच्छन्नं कृत्वा विन्यस्य विग्रहे | प्रागुक्तकरणेनैव तेन व्याप्तं तु भावयेत् || ५२ || आकर्णाद्ब्रह्मरन्ध्रान्तं व्योमाख्यं विभवेन च | सन्धार्य कुम्भकेनैव यावत्कालं तु योगिना || ५३ || ध्यायेत्परिणतं पश्चात्स्वमन्त्रे तु तथा मुने | व्योमाख्यं धारणामन्त्रं शब्दशक्तौ लयं गतम् || ५४ || [शब्दशक्तेः क्रमात् गन्धादिशक्तिनिलयनास्पदभूताया निष्कलेऽनुप्रवेशभावनम्] तां शक्तिं ब्रह्मरन्ध्रेण प्रयान्तीमनुभावयेत् | युक्तां शक्तिचतुष्केण गन्धाद्येनाविनश्वरीम् || ५५ || आश्रयेन्निष्कलं मन्त्रं व्योमातीतं निरञ्जनम् | शक्तयो याश्च सत्याद्यास्तासामपि परश्च यः || ५६ || षट्कं (ष्ठं ?) तं निष्कलं विद्धि व्याप्तिः प्रागुदिताऽस्य च | समन्त्रं विभवं भौतमेवमस्तं नयेत्क्रमात् || ५७ || प्. ९०) [जीवस्य पदात्पदान्तरप्रापणक्रमेण देहात् स्थूलात् प्रभाचक्रविशेषप्रापणेन कैवल्यस्थितिप्रापणम्] चैतन्यं जीवभूतं यत्प्रस्फुरत्तारकोपमम् | भावनीयं तु विश्रान्तं निस्सृतं भूतपञ्जरात् || ५८ || निष्प्रपञ्चे परे मन्त्रे पञ्चशक्त्याख्यविग्रहे | अनेन क्रमयोगेन जीवमात्मानमात्मना || ५९ || इक्षते(क्षेत ?) तद्धृदाकाशे अचलं सूर्यवर्चसम् | स्फुरद्द्युतिसमाकीर्णमीश्वरं व्यापकं परम् || ६० || ततो मन्त्रशरीरस्थं समाधिं चाभ्यसेत्परम् | परं मन्त्रशरीरं यद्व्यक्तमक्षरसन्ततौ || ६१ || सूर्यादिव्योमपर्यन्तमतीतं शक्तिकारणैः | हेयं चेत्थमिदं बुध्वा यदा तत्स्थानबृंहितः || ६२ || अतृप्तोऽकृतकृत्यश्च मन्त्रहृत्पद्मसेवनात् | षट्पदी(?)ह्यात्मतत्त्वं च ज्ञानरज्वाऽवलंव्य च || ६३ || हृत्कोटरोर्ध्वान्निर्यान्तं स्वात्मानं स्वात्मना स्मरेत् | भारूपान्नाडिमार्गेण मन्त्रवह्नेश्शिखा हि सा || ६४ || पद्मसूत्रप्रतीकाशा सुषुम्ना चोर्ध्वगामिनी | तद्ब्रह्मरन्ध्रगां स्मृत्वा सुपथा तेन नारद || ६५ || शनैश्शनैस्स्वमात्मानं रेच्य विज्ञानवायुना | मान्त्रं कारणषट्कं च एवमव्यापकं न्यसेत् || ६६ || प्राप्नुयाच्च तदूर्ध्वात्तु यः परात्प्रभुविग्रहात् | उदितं (तो?) द्विजशार्दूल तेजःपुञ्जो ह्यनूपमः || ६७ || तत्प्रभाचक्रनाभिस्थं स्वानन्दानन्दनन्दितम् | एवं पदात्पदस्थस्य आत्मतत्त्वस्य नारद || ६८ || तत्त्व(स्य ?)निर्मुक्तदेहस्य केवलस्य चिदात्मनः | य उदेति महानन्दः सा शक्तिर्वैष्णवी परा || ६९ || अलुप्तकर्मकर्तारं जीवं कृत्वा तमात्मसात् | यत्रोदिता च तत्रैव पुनरेवावतिष्ठते || ७० || तच्च (तं च?) सङ्कल्पनिर्मुक्तमवाच्यं विद्धि नारद | प्. ९१) [त्यक्ततया भावितस्यास्य भौतिकदेहस्य प्रज्वालन भस्मीकरणभावनम्] एवं स्वस्थानमासाद्य त्यक्त्वा भौतं च विग्रहम् || ७१ || तत्र स्थितो दहेत्पिण्डं शक्तितन्मात्रवर्जितम् | षाट्कोशिकमसारं च निर्दग्धतृणरूपिणम् || ७२ || इच्छानिर्मथनोत्थेन मन्त्रजेन तु वह्निना | अशेषभुवनाधारं चतुर्गतिसमन्वितम् || ७३ || लोकेशोपरिसंस्थं च व्योम्नि तस्योपरि न्यसेत् | प्रणवादिनमोऽन्तं च इच्छाग्नेर्वाचकः स्वयम् || ७४ || तेनाङ्घ्रिदेशादारभ्य तं पिण्डं ज्वलितं स्मरेत् | भस्मराशिसमप्रख्यं शान्ताग्निं तदनु द्विज || ७५ || साह्लादेन च सूक्ष्मेण व्यापिनोङ्कारपूर्विणा | नमोऽन्तेन तु तद्भस्मपातं ध्यात्वाऽन्वितस्ततः || ७६ || [भस्मावशेषतया भावितस्य समाप्लावनभावना] ध्यानजेनोदकेनाथ भूतिं संप्लाव्य दिग्गताम् | विनिपातात्स्वमन्त्रेण सिक्तेन क्षीररूपिणा || ७७ || [अथापूर्वतेजोमयशरीरसृष्टिभावनाक्रमः] वराहममृतारूढं त्रैलोक्यैश्वर्यदान्वितम् | दीपकं द्वितयेनैतत्संपुटीकृत्य पूर्ववत् || ७८ || तेन क्षीरार्णवाकाराद्ध्यायेद्विश्वं चराचरम् | पात्यमानं तदूर्ध्वे तु धारासङ्घो द्विजामृतः || ७९ || तुर्यस्थानाद्विनिष्क्रान्तो भावनीयो मुहुर्मुहुः | तत्राधारमयीं शक्तिं मध्ये विन्यस्य वैष्णवीम् || ८० || बीजभूतां च सर्वस्य तदुत्थं चाम्बुजं स्मरेत् | षडध्वतत्त्वभूतं च सितं तेजोमयं शुभम् || ८१ || मण्डलत्रितयाकीर्णं स्पुरत्किरणभास्वरम् | मन्त्रात्मानं च तन्मध्ये ध्यायेन्नारायणं प्रभुम् || ८२ || निष्कलं केवलं शुद्धं पञ्चसन्मन्त्रविग्रहम् | तन्मन्त्रशक्तिभिर्भूयो मूर्च्छितं भावयेद्द्विज || ८३ || व्योमादिपञ्चभूतीयं मन्त्रमीश्वरपञ्चकम् | प्. ९२) तेभ्योऽथ प्रसरन्तं च व्योमाद्यं विभवं स्मरेत् || ८४ || संयोगजनितं पिण्डं ध्यायेद्विभवपञ्जरात् | सहस्रसूर्यसङ्काशं शतचन्द्रगभस्तिमत् || ८५ || निर्मलस्फटिकप्रख्यं जरामरणवर्जितम् | जनित्वैवं सपिण्डं तु परमं भोगमोक्षयोः || ८६ || साधनं मुनिशार्दूल सहजं सर्वदेहिनाम् | तमासाद्य क्रमेणैवं सिसृक्षालक्षणेन च || ८७ || स्वपादान्निस्तरङ्गाच्च कृत्वा शक्त्या सहोदयम् | [जीवस्य सृष्टे शरीरे प्रवेशनक्रमः] स्वानन्दं च महानन्दात्स्वनन्ताच्चाश्रयेत्ततः || ८८ || मारीचं नाभसं चक्रं तस्माद्रूपं स्वकं च यत् | सूर्यकोटिकराभासं प्रस्पुरन्तं स्वभाससा || ८९ || कदम्बगोलकाकारं निशाम्बुकणनिर्मलम् | एवमात्मानमानीय स्वस्थानात्स्वात्मना द्विज || ९० || विशेन्मन्त्रशरीरं स्वं ब्रह्मरन्ध्रेण पूर्ववत् | ज्योत्स्नानाडीपथेनैव पुर्यष्टककजान्तरम् (?) || ९१ || स्ववाचकं भावयन्वै ध्वनिना निष्कलेन तु | [आत्ममन्त्रः] अशेषभुवनाधारं विश्वाप्यायकरेण तु || ९२ || अङ्कयेदमृताख्यं च तदन्ते चात्मने नमः | स तारकस्त्वयं मन्त्रो विज्ञेयो ह्यात्मवाचकः || ९३ || ततस्तु निष्कलो मन्त्रो यावद्भानुं च विग्रहः | पञ्चकं चाभिमानं तु आसाद्यालोकविग्रहम् || ९४ || स्वमन्त्रादमृतौघेन सेचयेद्विग्रहं स्वकम् | ततस्स्वतन्त्रं तं बिम्बमाकृष्य हृदि विन्यसेत् || ९५ || निस्तरङ्गा परा शक्तिर्महानन्दमयी च सा | स्वानन्दाच्च प्रभाचक्रं रूपमात्मीयभास्वरम् || ९६ || सौषुम्नस्तादृशो मार्गः पिण्डमन्त्रश्च निष्कलः | प्. ९३) शक्त्याद्यो मन्त्रसङ्घोऽथ धारणेश्वरपञ्चकम् || ९७ || तेषां विभवसङ्घो यः पिण्डस्तत्सामुदायिकः | स्मरेज्ज्वालीकृतं सर्वमपृथक्च पृथक् स्थितम् || ९८ || स्थूलसूक्ष्मपराख्येन त्रिविधेन तु नारद | करणेनोदिता सम्यक्शुद्धिरेषा च भौतिकी || ९९ || भक्तस्त्वं भावितात्मा च स्थिरबुद्धिरतन्द्रितः | प्रियोऽपि मे यथा तेन सरहस्या प्रकीर्तिता || १०० || यथा त्वं मयि विप्रेन्द्र त्वययेवं यो भविष्यति | तस्येदं प्रकटीकुर्यान्नेतरस्याधरस्य च || १०१ || परं भवहरं पुण्यं समाधिं भूतशुद्धिदम् | केवलं यस्समभ्यस्येत्स याति ब्रह्म शाश्वतम् || १०२ || अनेन किं पुनर्विप्र चित्तं विग्रहसंयुतम् | संस्तुत्य यो यजेद्देवं भावितात्मा प्रसन्नधीः || १०३ || इति श्रीपाञ्चरात्रे जयाख्यसंहितायां समाधिख्यापनं नाम दशमः पटलः || १० || अथ मन्त्रन्यासविधिर्नाम एकादशः पटलः संशुद्धविग्रहो मन्त्री मन्त्रन्यासं समाचरेत् | येन विन्यस्तमात्रेण देवदेवसमो भवेत् || १ || पूजादौ सर्वकार्याणामधिकारश्च जायते | भवेद्वै सर्वसिद्धीनामाविर्भावस्तु येन च || २ || यं कृत्वा निर्भयस्तिष्ठेद्देशे दुष्टसमाकुले | विजयश्चापमृत्यूनां स्याद्येन विहितेन च || ३ || [आसनपरिकल्पनम्] क्षितावुपरि विन्यासं यत्पुरा फलकोदितम् | तस्मिंश्चोपरि विन्यासं समुद्रं पद्मसंयुतम् || ४ || स्वेन स्वेन तु मन्त्रेण ध्यानयुक्तेन यत्नवान् | तार्क्ष्यं चैव ततो न्यस्य ध्यात्वा चोपविशेत्ततः || ५ || [आसनाद्बहिः प्राकारपरिकल्पनम्] दिशो विरेच्य चास्त्रेण पुनरेव मुहुर्मुहुः | प्. ९४) शरजालोपमं स्मृत्वा प्राकारं चासनाद्बहिः || ६ || सप्राकारं तु संस्थानं कवचेनावकुण्ठयेत् | ज्वलत्कञ्चुकरूपेण [न्यासप्रयोजनम्] यथा सिद्धादिषु द्विज || ७ || गगनस्थेष्वदृश्यः स्यादाचरेन्न्यासमात्मनः | अगुप्तस्य यतो वीर्यं मन्त्रजस्याहरन्ति ते || ८ || तस्मादनेन विधिना त्वादौ गुप्तिं समाचरेत् | हस्तन्यासं पुरा कृत्वा देहन्यासं समाचरेत् || ९ || [हस्तन्यासः] अङ्गुष्ठे मूलमन्त्रं तु मूर्तिमन्त्रसमन्वितम् | एवमेव क्रमेणैव तर्जन्यादिषु देवताः || १० || कनिष्ठान्तासु वै सर्वा न्यस्य चाङ्गानि योजयेत् | कनिष्ठिकाद्यासु ततो हृदयादीन्यनुक्रमात् || ११ || अस्त्रमङ्गुष्ठके यावत्कराग्रेषु च लोचनम् | नृसिह्मं दक्षिणे हस्ते वामे च कपिलं न्यसेत् || १२ || वामहस्तादि चोभाभ्यां वराहं चाङ्गुलीषु च | कौस्तुभं दक्षिणतले वनमालां तथाऽपरे || १३ || दक्षिणे मध्यतः पद्मं शङ्खं वामतले न्यसेत् | अनन्तारं च तत्रैव चक्रमस्त्रं महाप्रभम् || १४ || गदां च दक्षिणे हस्ते ज्वलन्तीं स्वेन तेजसा | अङ्गुष्ठाद्दक्षिणादादौ वामान्तं मूलदेशतः || १५ || गारुडं विन्यसेन्मन्त्रं दशस्वङ्गुलिषु क्रमात् | वामहस्ततले पाशमङ्कुशं दक्षिणे तथा || १६ || क्रमेण हृदयाद्येन उभयोर्हस्तयोर्न्यसेत् | सत्यादि चानिरुद्धान्तमौपाङ्गं बीजपञ्चकम् || १७ || नखाद्यामणिबन्धान्तं कृत्स्ने पाणियुगे ततः | न्यसेत्सप्ताक्षरं मन्त्रं सर्वमन्त्रोपरि स्थितम् || १८ || अनेन विधिना पूर्वं हस्तन्यासं समाचरेत् | [देहन्यासाद्धस्तन्यासस्य प्राथम्ये कारणम्] प्. ९५) वैभवी परमा शक्तिर्हृच्चक्रकुहरान्तगा || १९ || वायव्यं रूपमास्थाय दशधा संव्यवस्थिता | इच्छया स्वप्रवाहेण पाणिमार्गेण निर्गताः || २० || नाडीदशकमाश्रित्य ता एवाङ्गुलयो मताः | अत एव द्विजश्रेष्ठ शक्त्याख्ये प्रभुविग्रहे || २१ || पूर्वं मन्त्रगणं न्यस्य ततो भूतमये न्यसेत् | [देहन्यासः] विग्रहे मन्त्रसङ्घातं यथावदवधारय || २२ || आमूर्ध्नश्चरणान्तं च मूलमन्त्रं पुरा तनौ | व्यापकत्वेन विन्यस्य पादाद्भूयश्शिरोऽन्तिमम् || २३ || मूर्तिमन्त्रेण वै कुर्यान्न्यासं सर्वाङ्गकं ततः | मूर्ध्नि वक्त्रेऽसयुग्मे च क्रमात्सव्येतरे हृदि || २४ || पृष्ठे नाभौ तथा कट्यां जानुनोरथ पादयोः | क्रमेण हावसानं च नाद्यं द्वादशवर्णकम् || २५ || मूर्त्तिमन्त्रं तु विन्यस्य देवतां तु ततो न्यसेत् | वामस्कन्धे तथा लक्ष्मीं कीर्तिं दक्षिणतो न्यसेत् || २६ || जयां दक्षिणपाणिस्थां मायां वामे तथा न्यसेत् | हृदयादीनि चाङ्गानि विन्यसेत्तदनन्तरम् || २७ || स्तनान्तरे तु हृन्मन्त्रं शिरोमन्त्रं च मूर्धनि | चूडिकां च शिखास्थाने स्कन्धयोः कवचं ततः || २८ || नेत्राभ्यां विन्यसेन्नेत्रमस्त्रं पाणितले द्विज | नृसिह्मं दक्षिणे श्रोत्रे कपिलञ्च कृवाटिके || २९ || वामश्रोत्रावधौ न्यस्य वाराहं मन्त्रनायकम् | वक्षसः कौस्तुभं मध्ये कण्ठे च वनमालिकाम् || ३० || पद्मादींश्च ततः प्राग्वदूरुभ्यामन्तरे द्विज | गरुडाख्यं महामन्त्रमथोपाङ्गं गणं न्यसेत् || ३१ || क्रमेण वाऽनिरुद्धेन प्रथमं द्विजसत्तम | पादयोर्वस्तिशीर्ष च नाभौ हृदि शिखावधौ || ३२ || प्. ९६) सत्याद्येन क्रमेणैव भूयस्तत्पञ्चकं न्यसेत् | ब्रह्मरंध्रान्तरे चैव हृन्मध्ये नाभिपुष्करे || ३३ || नाभिमेढ्रान्तरे चैव पादयोः क्रमयोगतः | योजयेच्च ततो देहे आमूर्ध्नश्च तनुत्रवत् || ३४ || सप्ताक्षरं महामन्त्रं विष्णुं नारायणं प्रभुम् | सर्वे मन्त्रास्तदन्तस्थास्तेषामन्तगर्तश्च सः || ३५ || अस्यैव मन्त्रसङ्घस्य परमं करणञ्च सः | सर्वेषां वर्तते मूर्ध्नि तस्मात्सर्वोपरि न्यसेत् || ३६ || शक्तिचक्रं हृदन्नाभिं(?)नाना तु मुनिसत्तम | न्यस्तमात्रेण वै तेन सन्धानमुपद्यते || ३७ || एवं न्यासं पुरा कृत्वा करयोर्विग्रहे ततः | [तत्तन्मुद्राप्रदर्शनम्] मूलमन्त्रादिसर्वस्य न्यस्तमन्त्रगणस्य च || ३८ || मुद्रां प्रदर्शयेत्स्वां स्वां मन्त्रन्याससमन्विताम् | [साधकेन कर्तव्यध्यानप्रकारः] ततस्सविग्रहं ध्यायेदात्मानं विष्णुरूपिणम् || ३९ || पूर्वोक्तध्यानयोगेन षाङ्गुण्यमहिमावृतम् | स्वरूपं विश्वरूपं वा यथाभिमतरूपकम् || ४० || अहं स भगवान्विष्णुरहं नारायणो हरिः | वासुदेवो ह्यहं व्यापी भूतावासो निरञ्जनः || ४१ || एवं रूपमहङ्कारमासाद्य सुदृढं मुने | तन्मयश्चाचिरेणैव जायते साधकोत्तमः || ४२ || न्यासाद्ध्यानात्तथा भावान्मध्यमाच्चापि योगजात् | इति संक्षेपतः प्रोक्तं न्यासकर्म मया च ते || ४३ || समाचर यथान्यायं गोपयस्व च यत्नतः | इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मन्त्रन्यासविधिर्नाम एकादशः पटलः || ११ || अथ मानसयागाख्यानं नाम द्वादशः पटलः श्रीभगवान् एवं विष्णुमयो भूत्वा स्वात्मना साधकः पुरा | मानसेन तु यागेन ततो विष्णुं समर्चयेत् || १ || [मानसयागोपक्रमे अवयवविभागशः स्थानभेदेन आधारशक्त्यादिपद्मान्तानां षण्णां कल्पनाप्रकारः] नाभिमेढ्रान्तरे ध्यायेच्छक्तिं चाधाररूपिणीम् | कालाग्निं च तदूर्ध्वे तु अनन्तं तस्य चोपरि || २ || तदूर्ध्वे वसुधां देवीं चतुर्भिः पूरितां स्मरन् | कन्दान्नाभ्यवसानाच्च चतुर्द्धा भाजितैः पदैः || ३ || नाभौ क्षीरार्णवं ध्यात्वा ततः पद्मं समुत्थितम् | सहस्रदलपर्यन्तं सहस्रकिरणावृतम् || ४ || [पद्मस्योपरिपीठकल्पनम्] सहस्ररश्मिसङ्काशं तत्पृष्ठे चासनं न्यसेत् | [तस्य पीठस्य धर्मादिषोडशपादपरिकल्पनाप्रकारः] धर्मं ज्ञानं च वैराग्यमैश्वर्यं च चतुर्थकम् || ५ || अवतार्य स्वमन्त्रेण आग्नेयादिचतुष्टये | चतुष्कमेतद्विन्यस्य यावदीशानगोचरम् || ६ || पीठपादचतुष्के तु सितास्सिह्मानना अमी | शरीरात्पुरुषाकाराः परोत्साहसमन्विताः || ७ || तत्पूर्वदिग्विभागादि यावदुत्तरगोचरम् | न्यस्याधर्मं तथाऽज्ञानमवैराग्यमनैश्वरम् || ८ || पुरुषाकृतयस्त्वेते बन्धूककुसुमोज्वलाः | प्रागीशानदिगन्ते तु प्रागाग्नेयदिगन्तरे || ९ || यातुवारुणमध्ये तु वायव्यवरुणान्तरे | ऋग्वेदाद्यं चतुष्कं तु पीतं हयनराकृतिम् || १० || ईशानसोमदिग्मध्ये अन्तकाग्निदिगन्तरे | याम्यराक्षसमध्ये तु सौम्यसामीरणान्तरे || ११ || कृताद्यं युगसङ्घं च कृष्णं वृषनराकृतिम् | सर्वे चतुर्भुजास्त्वेते द्वाभ्यां सन्धारयन्ति च || १२ || प्. ९८) पीठमञ्जलिना द्वाभ्यां प्रणमन्ति जगत्प्रभुम् | [धर्मादिपीठस्योपरि अवयवविभागशः स्थानभेदेन सितकमलसूर्येन्द्वग्निपक्षिराजान्तासनपञ्चकस्योपर्युपरि परिकल्पनप्रकारः] एषामुपरि विन्यस्य सितपद्मादितस्त्रयम् || १३ || प्रागुक्तैस्स्वोदितैर्मन्त्रैरुपर्युपरि नारद | तत्पृष्ठे पक्षिराजं च वराहं तूभयं न्यसेत् || १४ || आनाभि हृदयान्तं च पञ्चधा सुसमैः पदैः | विकल्प्य भावयेद्व्याप्तिमस्य मन्त्रासनस्य च || १५ || [आधारशक्तिप्रभृति पक्षिराजान्तेष्वेकादशपदेषु भूतपञ्चकप्रभृतीश्वरपर्यन्तानां तत्त्वानां क्रमाद्व्याप्तिः] आधारशक्तेरारभ्य यावन्मान्त्रं परं पदम् | भूतान्याधाराशक्तौ तु तन्मात्राः कालपावके || १६ || वागादिकं तथैवाक्षमनन्तं व्याप्य संस्थितम् | श्रोत्रादिकं धरण्यां च मनः क्षीरार्णवे द्विज || १७ || अनन्तदलपद्मे तु अहङ्कारस्समाश्रितः | द्विरष्टकं च धर्माद्यमधिष्ठाय च धीस्स्थिता || १८ || तदूर्ध्वपद्मे प्रकृतिर्गुणसाम्याऽविभागिनी | धामत्रयाश्रितः कालो भावाख्ये पुरुषः स्थितः || १९ || गरुडश्चेश्वरेणैव प्रभुत्वेन त्वधिष्ठितः | एकादशपदं ह्येवं मन्त्रमूर्तौ जनार्दने || २० || आसीनं च शरीरस्थमविभक्तं विभक्तिमत् | [विष्णोर्ध्यानोपक्रमः] विष्णुं विश्वात्मकं देवमीश्वराधारविग्रहम् || २१ || स्वस्थानाच्च समायान्तं प्राक्प्रवाहेण भावयेत् | [प्रथमं मन्त्रात्परतरस्वरूपस्य भावनम्] मरीचिचक्रपर्यन्तं मन्त्रात्परतरस्थितिम् || २२ || परसूक्ष्मविभागेन ततो मन्त्रात्मना स्मरेत् | [परसूक्ष्मोभयात्मनाऽवस्थितस्य मन्त्रात्मस्वरूपस्य भावनम्] परं ज्योतिर्मयं रूपमाह्लादानन्दलक्षणम् || २३ || प्. ९९) सूक्ष्मं चिच्छक्तिलक्षं तु लिङ्गमात्रं प्रकाशवत् | [स्थूलस्वरूपस्य स्मरणम्] ततः स्थूलवपुर्ध्येयो नानारूपविभागशः || २४ || [परसूक्ष्मात्मनाऽवस्थितस्य मन्त्रमूर्तेविष्णोरैश्वर्यम्] वालाग्रशतभागश्च प्रधानपुरुषेश्वरः | गुणभोक्ता गुणाधारो गुणवान्निर्गुणस्तथा || २५ || देहेश्वरस्सविख्यातस्सर्वदेवमयः प्रभुः | अङ्गुष्ठमात्रः पुरुषस्सर्वदेहेषु तिष्ठति || २६ || मणिर्यथा विभागेन नीलपीतादिभिर्युतः | रूपभेदमवाप्नोति ध्यानभेदात्तथा विभुः || २७ || ब्रह्माह्ययं तथा रुद्रश्चन्द्रसूर्यौ प्रजापतिः | परमात्मसमुद्भूतमन्त्राज्जातास्तदात्मकाः || २८ || [लक्ष्म्यादिभिः सहैवपूज्यत्वम्] बुद्धिस्सन्तारिका या वै परे तद्धर्मधर्मिणी | तत्ज्ञा वा (सा ?)प्राग्विभागेन प्रभा चन्द्रमसो यथा || २९ || अवस्थिता चतुर्धा वै शक्तित्वेन जगद्गुरोः | ज्ञानक्रियास्वरूपेण ईशित्वानुग्रहात्मना || ३० || पञ्चैव बुद्धिपूर्वास्ताः प्रागुक्तासु च शक्तिषु | विकारत्वेन वर्तन्ते आसामपि च नारद || ३१ || बुद्धिं विना चतसॄणां विकृतिश्चापि नश्वरी | व्यवस्थिताश्चतुर्धा या लक्ष्म्याद्या देवतास्तु ताः || ३२ || ताभिस्सह सदा पूज्यस्साङ्गो हृत्पद्मकोटरे | [परमात्मनः शक्तिभूतानां लक्ष्म्यादीनां धर्मज्ञानादिविकृत्यष्टकमूलप्रकृतित्वम्] एतासां हि विकारश्च श्रेयोमार्गनियामकाः || ३३ || सदैव मत्प्रपन्नानां जनानां येऽनुरागिणः | संस्थिताश्च जगत्यस्मिन् धर्मज्ञानादयस्तु ते || ३४ || एतेषां वै द्विजश्रेष्ठ विकारत्वेन संस्थितम् | अधर्माद्यं चतुष्कं तु अश्रेयः पथयोजकम् || ३५ || गुर्वग्निमन्त्रशास्त्राणां दूषकादिषु जन्तुषु | शेषं मायामयं सर्वं तां मायां विद्धि मामकीम् || ३६ || प्. १००) पृथग्रूपं तथैक्यं च आभ्यामुक्तं पुरा मया | [हृत्पुण्डरीकमध्येऽवस्थापितस्य मन्त्रात्मनः परस्य चैतन्यज्योतिषो विष्णोः प्रभावविशेषः] एवं प्रकीर्तितं सङ्घं मन्त्रचक्रं परात्मकम् || ३७ || हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम् | कदम्बागोलकाकारं विश्वरूपं मणिप्रभम् || ३८ || रत्नदीपसमाकारमच्छिन्नप्रसरं महत् | श्रोत्रपूर्वैः खरन्ध्रैश्च रश्मयस्तस्य निर्गताः || ३९ || छिद्रपूर्णाद्यथा कुम्भान्महादीपयुताद्ध्विज | याति भासां गणो बाह्ये शरीरादेवमेव हि || ४० || मन्त्रो रश्मिसमूहस्तु नाडीभिः प्रसरेद्बहिः | [स्थैर्यादीनां पृथिव्यादिगुणानामपि परमात्मैकाश्रयत्वम्] अप्रत्यक्षस्सदाऽक्षाणां मन्त्रात्माऽयमपि द्विज || ४१ || तथाऽप्यनेन न्यायेन प्रत्यक्षमुपलक्ष्यते | बहिस्थितं यद्भूतानां क्ष्मादीनां गुणपञ्चकम् || ४२ || तेन तच्चोपलब्धव्यं प्रत्यक्षेण परोक्षगम् | तस्य भौमो गुणस्थैर्यं तद्गुणेन हि सा स्थिरा || ४३ || परस्परानुभावेन संवृत्तौ तदुपारुहेत् | आह्लादो यस्तदीयोऽपि सतोये चोपलभ्यते || ४४ || तोये गुणस्तु तस्यास्ति कथं स्यादन्यथा मुने | स्मृतमात्रेण मन्त्रेण आह्लादो मानसो महान् || ४५ || रूपात्मना परिणतस्सचाग्नौ पारमेश्वरः | यो रूपाख्यो गुणश्चाग्नेस्समन्त्रात्मनि तिष्ठति || ४६ || तेजो विना यतो ध्यानं कुत्रचिन्नोपलभ्यते | स्पर्शधर्मो हि यो वायोस्स तदीयो महामते || ४७ || यो वायव्यो गुणस्सूक्ष्मस्स च मन्त्रतनौ स्थितः | स चान्तःकरणे चैव संहृते स्यात्तदुत्थितः || ४८ || यदाकाशस्य शून्यत्वमस्ति तस्मात्तदुद्भवः | स मन्त्रात्मनि संविष्टो गुणो ह्यस्मिन्महामते || ४९ || प्. १०१) अग्राह्यत्वाच्च करणैः प्राकृतैर्भावनां विना | इत्येवं मन्त्रसामर्थ्यं पुरा ज्ञात्वा यथार्थतः || ५० || [मुद्रामन्त्रपूर्वकमावाहनम्] सन्निधानं भवेद्येन पूजाकाले ह्युपस्थिते | मुद्रासमन्वितो मन्त्रो य आवाहनसंज्ञितः || ५१ || पूरकेण द्विजश्रेष्ठ मनसा समुदीरयेत् | समाहूय ततः पश्चान्मूर्तिमन्त्रेण चेतसा || ५२ || ध्यानोक्तां कल्पयेन्मूर्त्तिं तस्य हृत्पद्ममध्यगाम् | परेणाधिष्ठितं ध्यायेन्मूलमन्त्रं ज्वलत्प्रभम् || ५३ || [आवाहितस्य तस्य संउखीकरणम्] सम्मुखीकरणं कुर्यान्मन्त्रमूर्तेर्द्विजात्मनः | आत्ममन्त्रादितो भूयो मन्त्रैस्सर्वैश्च पूर्ववत् || ५४ || करन्यासं विना देहे न्यासं तस्य च संस्मरेत् | पुष्पमर्घ्यं तथा धूपं दीपं माल्यं विलेपनम् || ५५ || चेतसा सादरेणैव पाद्यपूर्वं च भक्तितः | प्रणाममथ चाष्टाङ्गं जयशब्दांश्च मानसान् || ५६ || कृत्वा भगवते ब्रह्ममुद्रां वै संप्रदर्शयेत् | स्वागतं तव देवेश सन्निधिं भजमेऽच्युत || ५७ || गृहाण मानसीं पूजां यथार्थपरिभाविताम् | ज्ञात्वा तु सुप्रसन्नं तं प्रसादाभिमुखं प्रभुम् || ५८ || [अथ विस्तरेण मानसयागारम्भः] विस्तरेण द्विजश्रेष्ठ मानसं यागमारभेत् | सङ्कल्पजनितैर्द्रव्यैः पवित्रैरक्षयैः शुभैः || ५९ || सर्वकामप्रदं देवं मन्त्रमूर्त्तिधरं यजेत् | अभ्यङ्गोद्वर्तने पूर्वं स्नानं चाथ विलेपनम् || ६० || वस्त्रपूर्वाणि माल्यानि सुगन्धानि निवेद्य च | हारकेयूरकटकैर्मुकुटैर्भूषितं स्मरेत् || ६१ || चित्रेण कटिसूत्रेण हेमरत्नमयेन च | माणिक्यरचितैश्शुद्धैर्मुक्ताहारैश्च भूषयेत् || ६२ || प्. १०२) संपूर्णेन्दुसमानं च हेमदण्डसमन्वितम् | छत्रं निवेदयेद्विष्णोर्मायूरं व्यजनं शुभम् || ६३ || कर्पूरचूर्णसंमिश्रं सुगन्धि मधुरं बहु | धूपं भगवते दत्वा दीपमालां घृतेन च || ६४ || मधुसर्पिःप्लुतं चाथ मधुपर्कं निवेद्य च | पशुं च विविधं मूर्तं पावनं शकुनिं तथा || ६५ || औषधीश्शालिदूर्वां च सत्फलाढ्यं वनस्पतिम् | मूर्तं निवेदयेत्पूर्वमिदमन्नं चतुर्विधम् || ६६ || नैवेद्यं विविधं शुद्धं भक्ष्यभोज्यान्यनेकशः | हृद्यानि फलमूलानि षड्-ऋतुप्रभवानि च || ६७ || षड्रसानि च चित्राणि पानान्यथ निवेद्य च | सर्वाण्यात्मोपभोग्यानि भक्तिश्रद्धावशाद्द्विज || ६८ || प्राग्दिक्ष्वप्यविरुद्धानि देवाय विनिवेदयेत् | तन्त्रीवाद्यान्यनेकानि नृत्तगेयान्वितानि च || ६९ || भेरीपटहघोषादिस्तुतिपाठान्वितानि च | चिन्तयेद्देवदेवस्य लोकत्रयगतानि च || ७० || किङ्किणीजालयुक्तेन चामरेणोपवीज्य च | वितानकं पताकाश्च ध्वजानि विविधानि च || ७१ || विनिवेद्य विभोर्भक्त्या प्रसन्नेनान्तरात्मना | गजाश्वधेनुयानानि सुवस्त्रालङ्कृतानि च || ७२ || निवेद्य चान्तरा तानि ग्राहयन्तं स्मरेत्ततः | आत्मानं ससुतान्दारांस्तस्मै च नमसा युतान् || ७३ || निवेद्य प्रणतो मूर्ध्ना आनन्दाश्रुसमन्वितः | कामधेनुमयीं मुद्रां मनसा मन्त्रसंयुताम् || ७४ || बध्वा संचिन्तयेद्विष्णोस्सर्वकामप्रपूरणीम् | हृद्व्योमपुष्कराग्रस्थं देवमिष्ट्वा जगद्गुरुम् || ७५ || समस्तमन्त्रदेहं तु सकलं निष्कलात्मकम् | [लक्ष्म्याद्यङ्गपूजनम् तत्रलययागादिभेदः] शक्तयश्चाङ्गषट्कं च लांछनं कमलादिकम् || ७६ || भूषणं कौस्तुभाद्यं च वदनानां तथा त्रयम् | प्. १०३) सत्याद्या मूर्तयश्चैव देहे देवस्य भाविताः || ७७ || व्यापयय च तथात्वेन स्वे स्वे स्थाने तथात्मकाः | तद्देहसंस्थितास्सर्वे पूजनीयाः क्रमेण तु || ७८ || परिवारं विना मन्त्रैः स्वैः स्वैः पुष्पानुलेपनैः | लययागो ह्ययं विप्र लक्ष्म्यादिष्वनुकीर्तितः || ७९ || तस्माद्धृत्कर्णिकाधारे मूर्तौ वा यत्र कुत्रचित् | मूलमन्त्रशरीरस्थं परिवारं यजेत्सदा || ८० || याग एष लयाख्यस्तु संक्षिप्तस्सर्वसिद्धिदः | मन्त्रराट् कर्णिकामध्ये लक्ष्म्याद्याः केसरादिषु || ८१ || साकाराः केवलास्सर्वे यत्र भोगाभिधस्स तु | केवलेन च यागेन पृथग्भूतेन नारद || ८२ || पूजनं कमलादीनामधिकाराभिधस्स तु | सांप्रतं सर्वमन्त्राणां भोगयागार्थमेव च || ८३ || हृत्पद्मे तु विभागेन विन्यासमवधारय | पूर्वभागे विभोर्लक्ष्मीं केसरस्थां च विन्यसेत् || ८४ || कीर्त्तिं दक्षिणतस्तस्य पृष्टतस्तु जयां हरेः | तस्यैव चोत्तरे भागे मायां केसरगां न्यसेत् || ८५ || विदुक्ष्वङ्गानि विन्यस्य केसरेषूपरि द्विज | पूर्वयाम्यान्तरे विष्णोर्हृन्मन्त्रं विनिवेश्य च || ८६ || शिरःपूर्वोत्तरे दद्याच्छिखां पश्चिमदक्षिणे | पश्चिमोत्तरदिङ्मध्ये कवचं विन्यसेद्विभोः || ८७ || अग्रतः केसरोद्देशे नेत्रं दिक्ष्वस्त्रमेव च | दक्षिणे मन्त्रनाथस्य पद्मपत्रे नृकेसरी || ८८ || कपिलः पश्चिमेन्यस्यो वराहश्चोत्तरे दले | कौस्तुभं वनमालां च विभोः पूर्वदलान्तरे || ८९ || नृसिह्मक्रोडमन्त्राभ्यां समीपे तद्दलद्वये | पद्मशङ्खौ तु विन्यस्य गदाचक्रे तथैव च || ९० || समीपे रत्नमालां च गरुडं नातिदूरतः | पाशं च तत्समीपे तु गदाया निकटेऽङ्कुशम् || ९१ || अनिरुद्धाद्युपाङ्गानि पत्राग्रेषु तु विन्यसेत् | प्. १०४) सौम्माप्यदक्षिणे पूर्वे कर्णिकासंस्थितस्य च || ९२ || तदीशपत्रादारभ्य दलाग्रेषु चतुर्ष्वपि | सत्यमन्त्रं तु विन्यस्य यावद्वायुदलावधि || ९३ || ब्रह्मरन्ध्राद्विनिष्क्रान्ते मूलमन्त्रस्य नारद | प्रभानाले निराधारे प्रचरद्रश्मिपल्लवे || ९४ || आनन्दकेसराकीर्णे महानन्दाख्यकर्णिके | न्यसेत्सप्ताक्षरं मन्त्रं निष्कलं तु च केवलम् || ९५ || यद्वै तद्भावभावित्वमेतावत्तस्य पूजनम् | सङ्कल्पजनितैर्भोगैर्विकल्पपदवर्तिभिः || ९६ || कथं स्यात्पूजनं तस्य यतस्तेभ्यः स्थितः परे | न्यस्यैवं मन्त्रसङ्घं तु पूर्ववत्पूजयेत्क्रमात् || ९७ || ध्यात्वैकैकं स्वमन्त्रेण तद्ध्यानमवधारय | भोगस्थाने च मन्त्राणां यत्सदा संप्रयोजयेत् || ९८ || यत्पूर्वं कथितं रूपं मन्त्राणां निष्कलं मया | सकलेन बहिस्थेन छुरितं भावयेत्ततः || ९९ || निर्मलं स्फटिकं यद्वदुपरागेण केनचित् | स्फटिकं चोपरागस्य नान्तरं संविशेद्यथा || १०० || उपरागस्त्वनिच्छातस्संविशेत्स्फटिकान्तरम् | एवं हि सकलं रूपं निष्कलेन सह स्मरेत् || १०१ || भोगस्थानगतस्यैव विद्धि तच्चोभयात्मकम् | अधिकारपदस्थस्य मन्त्रस्य मुनिसत्तम || १०२ || सकलं योजयेद्ध्यानं तस्य हृप्तद्ममध्यगम् | निराधारस्थितं ध्यायेत्तद्रूपं निष्कलं तु तत् || १०३ || भिन्नात्मभ्यां ततस्ताभ्यामेकत्वेन स्थितिं पुरा | इति चेतसि वै कृत्वा ततस्संपूजयेद्द्विज || १०४ || पादपश्च यथा भौमैर्गुणैर्दूरतरे स्थितः | पादपीयैर्गुणैस्तद्वद्दूरे तिष्ठति मेदिनी || १०५ || सकलाकलमन्त्राभ्यामविनाभाव ईदृशः | केवलात्सकलाद्ध्यानात्पदसिद्धिर्न जायते || १०६ || प्. १०५) स्वभावनिष्कलान्मन्त्रात्तद्वद्दूरे च सिद्धयः | अत एव क्रमाद्ध्यातैः पूजितैस्तोषितैस्ततः || १०७ || [विशेषपूजनम्] विशेषपूजनं विप्र कल्पयेदच्युतस्य तु | सौवर्णपुष्पसंपूर्णमञ्जलिं संप्रसार्य च || १०८ || मूलमन्त्रं समुच्चार्य प्रयत्नात्पूरकादिभिः | दीर्घघण्टारवप्रख्यं यावत्तत्संभवावधि || १०९ || स्फुरद्रश्मिचयाकीर्णमग्न्यर्केन्दुशतप्रभम् | ध्यात्वा नारायणं देवमञ्चलौ सन्निरोधयेत् || ११० || तमञ्जलिं क्षिपेन्मूर्ध्नि तस्मिन्वै मन्त्रविग्रहे | अर्घ्यं निवेदयेद्भूयः पुनः पुष्पाञ्जलिं शुभम् || १११ || मुद्रां सन्दर्श्य मूलाख्यां मानसं जपमारभेत् | संख्याहीनं यथाशक्ति घण्ठाख्यकरणेन च || ११२ || भोगस्थानगतानां च लक्ष्म्यादीनां क्रमेण च | मनसा दर्शयेन्मुद्रां जपं कुर्यात्सकृत्सकृत् || ११३ || स्रोत्रमन्त्रैः पवित्रैश्च स्तुत्वा सम्यक्प्रसादयेत् | एवं क्रमेण विप्रेन्द्र कृत्वा यागं तु मानसम् || ११४ || [अथ मानस होमप्रकारः] होमं तथाविधं कुर्यान्मोक्षलक्ष्मीप्रदं शुभम् | नाभिचक्रान्तरस्थं तु ध्यायेद्वन्हिग्र(गृ ?)हं मुने || ११५ || त्रिकोणं त्रिगुणेनैव अव्यक्तेनावृतं परि | ध्यानारणिं तु निर्मथ्य चिदग्निमवतार्य च || ११६ || सुशुद्धं संस्कृतं दीप्तं सदैवोर्ध्वशिखं द्विज | वासुदेवात्मकं यस्मात्स वसत्यन्तरात्मसु || ११७ || प्रोच्चरेन्मूलमन्त्रं तु यावच्छब्दस्य गोचरम् | तत्रस्थमाहरेद्दिव्यमाह्लादाज्यामृतं परम् || ११८ || ब्रह्मसर्पिःसमुद्राद्यन्निस्तरङ्गाप्तरिस्रुतम् | गृहीत्वाऽमृतमार्गेण ब्रह्मरन्ध्रेण संविशेत् || ११९ || हृदयान्मध्यमार्गेण चिन्मयेन सदीप्तिना | प्रोल्लसन्तं स्मरेन्मन्त्रं ब्रह्मसक्त्युपबृंहितम् || १२० || प्. १०६) स्वकारणाग्नौ नाभिस्थे य ऊर्ध्वेन्धनवत्स्थितः | स्वभावदीप्तब्रह्माग्नौ परितश्चोदरोज्वलम् || १२१ || स्मृत्वा मन्त्रं तु तन्मूर्ध्नि पतमानं द्विजाम्बरात् | चिन्तयेदमृतंत्वाज्यं पुरा यच्चाहृतं द्विज || १२२ || चिदग्निमेव सन्तर्प्य नाभौ मन्त्रस्वरूपिणम् | ज्वालाग्रावस्थितं चैव भूयो हृत्पङ्कजे स्मरेत् || १२३ || प्रोच्चारयंश्च मन्त्रेशं प्लुतं ध्यानसमन्वितम् | कृत्वैवमेकसन्धानं स्थानद्वयगतस्य च || १२४ || विष्णोर्मन्त्रस्वरूपस्य नानामन्त्रात्मकस्य च | सर्वं तु सन्यसेत्पश्चात्तस्मिन्मन्त्रकृतं च यत् || १२५ || तोयपुष्पाक्षतैः पूर्णं भावयेद्दक्षिणं करम् | तन्मध्ये निष्कलं मन्त्रं संस्मरेत्किरणाकुलम् || १२६ || यागोत्थां फलसंपत्तिं लक्ष्मीरुपां विचिन्त्य च | मूलमन्त्रं समुच्चार्य पाणिमध्ये तथा स्मरेत् || १२७ || भूयश्च निष्कलं मन्त्रं तस्यामुपरि भावयेत् | सशीर्षे जानुनी भूमौ कृत्वा विष्णोर्निवेदयेत् || १२८ || प्रसादाभिमुखेनाथ तेन तच्चात्मसात्कृतम् | भावनीयं द्विजश्रेष्ठ परितुष्टेन चादरात् || १२९ || अयं यो मानसो यागो जराव्याधिभयापहः | पापोघसर्गशमनो भवाभावकरो द्विज || १३० || सतताभ्यासयोगेन देहपातात्प्रमोचयेत् | यस्त्वेवं परया भक्त्या सकृदाचरते नरः || १३१ || क्रमोदितेन विधिना तस्य तुष्याम्यहं मुने | याजकानां च सर्वेषां प्रधानत्वेन वर्त्तते || १३२ || तारयेत्स्वपितॄन्यातानेष्यांश्चैव तु सांप्रतात् | किं पुनर्नित्ययुक्तो यस्तद्भावगतमानसः || १३३ || मन्त्राराधनमार्गस्थश्रद्धाभक्तिसमन्वितः | न तस्य पुनरावृत्तिस्स याति परमं पदम् || १३४ || ज्ञात्वैवं यत्नतो नित्यं कुर्याद्यागं तु मानसम् | इदं रहस्यं परमं मयोक्तं तेऽद्य नारद || १३५ || प्. १०७) नाशिष्याणां च वक्तव्यं नाभक्तानां कदाचन | अत्यन्तभवभीतानां भक्तानां भावितात्मनाम् || १३६ || इदं रहस्यं वक्तव्यं सम्यग्भावं परीक्ष्य च | इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मानसयागो नाम द्वादशः पटलः || १२ || अथ बाह्ययागाख्यानं नाम त्रयोदशः पटलः श्रीभगवान् पुराऽनेन विधानेन कृत्वा यागं तु मानसम् | कर्मणा भक्तियुक्तेन मण्डलस्थं यजेत्ततः || १ || हृत्पुण्डरीकमध्ये य इष्टो मन्त्रगणः पुरा | प्रस्फुरन्तं तमत्रैव प्राणापानगतं स्मरेत् || २ || विसर्जयेन्न तं यावन्न कृता बाह्यतः क्रियाः | न्यसनीयो ह्ययं यस्मादर्घ्यपात्रे द्विजोत्तम || ३ || मण्डले ह्यक्षसूत्रे च कुण्डमध्यगतेऽनले | [प्रश्नप्रतिवचनमुखेन बाह्ययागस्यावश्यकत्वनिरूपणम्] [नारदः] भगवंस्त्वत्प्रसादेन ज्ञातो ह्यज्ञाननाशनः || ४ || ज्ञानविज्ञानसहितो हृद्यागस्सर्वसिद्धिदः | किमर्थं बाह्यतः पूजा कार्या वै मण्डलान्तरे || ५ || एतदाचक्ष्व भगवंस्तत्र मे संशयो महान् | श्रीभगवान् बाह्योत्था वासना विप्र बहुजन्मार्जिता दृढा || ६ || लोलीकृतोऽनया ह्यात्मा शुद्धोऽशुद्धस्वरूपया | या मन्त्रविषया शुद्धा क्रिया शान्तस्वरूपदा || ७ || समुत्थानविनाशार्थमस्यास्सा संप्रकीर्तिता | स बाह्याभ्यन्तराभ्यां च क्रियाभ्यां तन्मयो भवेत् || ८ || दृढोत्थवासनानां च तानवं स्याच्छनैश्शनैः | यन्मयस्साधको विप्र देहस्थस्सांप्रतो भवेत् || ९ || तन्मयो देहपातात्स्यादित्येतत्कथितं मया | नारदः- ब्रूहि मे देवदेवेश मण्डले यजनं यथा || १० || प्. १०८) स्वरूपं मण्डलस्यापि यदि सानुग्रहोऽसि मे | श्री भगवान् [मण्डल विन्यासः] शृणु मण्डलविन्यासं विष्णोरद्भुततेजसः || ११ || प्रवक्ष्यामि समासेन येन श्रेयो ह्यवाप्स्यसि | परीक्ष्य विविधामुर्वीं गन्धवर्णस्सान्विताम् || १२ || लाङ्गलाद्यैः पुरा यत्नास्कृत्वा तु परिशोधिताम् | दुष्टशल्यविनिर्मुक्तां हस्तिभारवतीं दृढाम् || १३ || तत्पृष्ठे मण्डपं कुर्यात्सुधाधवलितं शुभम् | वितानकपताकाभिर्वस्त्रैश्च सुपरिष्कृतम् || १४ || तत्रादौ लक्षयेद्बुध्या ब्रह्मस्थानं प्रयत्नतः | वृक्षजाम्(?)उन्नतां कुर्याद्वेदिं याग(गे ?)द्विजाधिका(यता?)म् || १५ || अस्त्राभिमन्त्रितं कृत्वा पञ्चगव्यं तु तेजसा | उपलिप्याग्रतस्सूत्रं वेदिकामभिमन्त्र्य च || १६ || दद्यात्पूर्वपरं सूत्रं तत्र मध्ये च नारद | अष्टहस्तं तदर्द्धं वा चतुरस्रं तु साधयेत् || १७ || मानादर्धार्धसूत्रेण ब्रह्मस्थानस्थितेन च | दिग्द्वयान्मध्यसूत्रं तु चिन्हीकृत्य समं यथा || १८ || चिन्हाचिन्हगतं सूत्रं कृत्वा तदनु नारद | उल्लङ्घ्योल्लङ्घ्य वै कुर्याल्लांछने सौम्ययाम्यगे || १९ || एवमेवापरे चिन्हे तद्वत्तस्मिंश्च दिग्द्वये | कुर्यात्तेनैव सूत्रेण चिन्हाच्चिन्हगतेन च || २० || प्रसार्योर्द्धस्थितं सूत्रं मत्स्यसन्धिद्वये द्विज | दक्षिणोत्तरदिग्यातं प्राक्पूर्वापरसंस्थितम् || २१ || ततो मानार्धसूत्रेण चिन्हयेद्दिक्चतुष्टयम् | तेषु चिन्हेषु वै पृष्ठे कृत्वा तच्चाथ सूत्रकम् || २२ || सल्लांछ्य कोणभागान्वै पूर्वतुल्यैस्तु लांछितैः | दिद्गलस्थेन सूत्रेण ततस्सूत्रचतुष्टयम् || २३ || दद्याद्वै क्षेत्रसिध्यर्थं कोणात्कोणे च नारद | प्. १०९) समैः पदैस्तु तत्क्षेत्रं कृत्वा षोडशधा ततः || २४ || चतुर्भिस्तु पदैर्मध्ये पद्ममष्टदलं लिखेत् | तद्वदष्टासु वै कुर्यादाशासु कमलाष्टकम् || २५ || दिक्षु पद्मचतुष्कं तु देवीनां पूजनाय च | विदुक्ष्वन्यानि चत्वारि सत्यान्ता येष्ववस्थिताः || २६ || तेषां मध्ये तु नवमं पूज्यते यत्र केशवः | मध्यमं कमलं क्षेत्रं चतुर्द्धा भ्रामयेन्मुने || २७ || वर्जयित्वाऽष्टमांशं तु व्योम तेनार्धतो बहिः | भ्रमणेनान्तरस्थेन भवति द्विज कर्णिका || २८ || केसराणि द्वितीयेन तृतीये पत्रसन्धयः | पत्राग्राणि चतुर्थेन भ्रमणोपरि कल्पयेत् || २९ || कोणात्कोणगतं तस्मिन्पद्मे सूत्रद्वयं क्षिपेत् | सूत्राणामन्तरे भूयः क्षिपेत्सूत्राष्ठकं तथा || ३० || पद्मसन्धिस्थसूत्रेण दिक्क्रमेण दलाष्टकम् | भ्राम्य वृत्तार्थयोगेन एवमन्ये बहिस्थिताः || ३१ || पद्माः कार्याः प्रयत्नेन सुसमाश्च परस्परम् | चतुर्धा केशरांशं तु पत्रे पत्रे विभज्य च || ३२ || केसरत्रितयं मध्ये एकैकेन यथा भवेत् | संसक्तनवपद्मे तु गर्भस्यार्धेन वीधिकाः || ३३ || आधाय वीधिविस्तारान् षडंशं वाऽथ पञ्चकम् | तेन पद्मसमूहस्य चतुरश्रं लिखेद्बहिः || ३४ || तत्त्रिधा विभजेद्दिक्षु पीठः स्यात्पादगात्रभृत् | दिग्पद्मं परितो द्वारं कुर्याद्दिक्षु चतुर्ष्वपि || ३५ || तस्मिन्भागद्वयेनैव कर्णं कुर्याद्द्विजोत्तम | चतुर्भिरुपकर्णं तु कोणं कोणं भवेत्ततः || ३६ || द्वाविंशतिपदैः पूर्णमेकीकृत्य विशोध्य च | विविक्तं पश्चिमद्वारं कुर्याद्रेखाविवर्जितम् || ३७ || कर्णिकां पीतवर्णेन पीतरक्तेन केसरान् | पत्राष्टकं सितं कुर्यादन्तरालं नभस्समम् || ३८ || प्. ११०) पीतेन पीठकोणादि गात्रकाण्यरुणेन तु | सितं द्वारचतुष्कं तु कोणात्रक्तेन भूषयेत् || ३९ || बाह्ये रेखात्रयं दद्याद्रक्तपीतासितान्तिमम् | अन्तःशक्तिगतेनैव स्वरषोडशकेन च || ४० || [मण्डले प्रकारभेदाः फलभेदाश्च] अथवा द्वादशारं तु द्वादशस्वरभावितम् | अष्टारं विलिखेन्नित्यं नाभिनेमिसमन्वितम् || ४१ || वर्गाष्टकेन वै व्याप्ता अरा ऋज्वस्सुशोभनाः | चक्रनाभौ लिखेत्पद्मं पूर्वलक्षणलक्षितम् || ४२ || शङ्खोदरेऽथवा लेख्यं पङ्कजं सुमनोहरम् | कौमोदक्यां पुरो वाऽपि बिम्बे वा कौस्तुभोपमे || ४३ || पुष्पमालाकृतौ वाऽथ यथाकामाप्तये मुने | स्वलांछनाकृतौ यागे ददात्यभिमतं विदुः || ४४ || नवनाभौ परां सिद्धिमैहिकामुष्मिकीं लभेत् | पद्मोदरे कृते यागे सदा लक्ष्मीः प्रवर्धते || ४५ || चक्रमध्ये भवेद्राज्यं शत्रुपक्षक्षयङ्करम् | शान्तिकर्मणि वै शङ्खे गदायां सुभगो भवेत् || ४६ || कौस्तुभे राज्यलाभस्तु पुष्टिर्वै पुष्पमण्डले | एष पद्मोदरो यागः पद्मादेर्मध्यगः स्मृतः || ४७ || [मण्डलस्येव कुम्भ पुष्पमण्डल स्थण्डिल प्रतिमादीनामपि बाह्ययाग प्रदेशत्वविधानम्] नानावर्णकसंयुक्तस्त्वन्यः कुम्भोदरे शृणु | सौवर्णं राजतं ताम्रं मृण्मयं वा घटं दृढम् || ४८ || कालमूलैस्तु रहितं त्रासप्राणविवर्जितम् | (?) क्षीरपूर्ण तु तं कुर्याद्दध्ना वा गन्धवारिणा || ४९ || सर्वरत्नौषधीगाढं कुशदूर्वाफलोदरम् | सिद्धार्थकाक्षतोपेतं कुङ्कुमोदकभावितम् || ५० || प्रशस्ततरुशाखाभिः कोमलाभिरलङ्कृतम् | शङ्खस्वस्तिकपद्मैश्च चर्चितं चन्दनेन च || ५१ || प्. १११) शोभितं च सितैर्वस्त्रैः पट्टैश्चैव स्रगादिभिः | तन्मध्ये चासनं पद्मं तन्मध्ये तु जनार्दनः || ५२ || वैनतेयोपरिस्थस्तु लक्ष्माद्याः पूर्ववत्स्थिताः | संक्षेपपूजनार्थं तु कुम्भे यागः प्रकीर्तितः || ५३ || उपलिप्य स्थलं वाथ गोमयेन मृदाम्भसा | वर्त्तुलं परीयात्तत्र दद्याद्वा चतुरश्रकम् || ५४ || यथा कालोद्भवैः पुष्पैः पवित्रैः कटमुक्तये | तत्र संपूजयेद्देवमथवा मुनिसत्तम || ५५ || अहतं सुसितं वस्त्रं धूपगन्धादिवासितम् | पृष्ठतस्तु स्थले दत्वा तत्रोपरि यजेद्धरिम् || ५६ || प्रतिमां कारयेद्वाऽथ घातुमृच्छैलदारुजाम् | सपद्मं केवलं वाऽथ भद्रपीठं प्रकल्पयेत् || ५७ || केवले तोयमध्ये वा दीप्तेऽग्नौ धूमवर्जिते | स्थितमायतने वाऽथ साकारं परमेश्वरम् || ५८ || शङ्खचक्रधरं विष्णुं सुरसिद्धावधारितम् | ऋषिभिर्मनुजैर्वाऽथ भक्तियुक्तैः प्रतिष्ठितम् || ५९ || तन्मूर्तौ च स्वमन्त्रेण यजेदावाहनं विना | भूमिष्ठे ह्यचले विप्र पाषाणे चक्रलांच्छिते || ६० || चले वा शङ्खपद्माख्यमुद्राभिर्विप्र मुद्रिते | तत्रोपरि यथापूर्वं तथा संपूजयेत्प्रभुम् || ६१ || एभिर्यागपरैर्मध्यादेकं निष्पाद्य यत्नतः | कर्मणा भक्तियुक्तेन पूजयेत्सर्वकामदम् || ६२ || यथाशक्त्युपचारेण विभवेन तु वा मुने | [अथ मण्डले बाह्ययागप्रकारः] अर्घ्यपात्रं समादाय सुवर्णरजतादिजम् || ६३ || शैलं मृद्दारुजं वाऽथ पलाशांबुजपर्णजम् | अस्त्रोदकेन प्रक्षाल्य लेपयेत्कुङ्कुमादिभिः || ६४ || अनेकाङ्गं च तत्रार्घ्यं योजयेदस्त्रसंस्कृतम् | प्. ११२) [अर्घ्यद्रव्याणि] सिद्धार्थकास्तिलादूर्वास्सयवास्सिततण्डुलाः || ६५ || तोयक्षीरफलोपेता इदमर्घ्यमुदाहृतम् | आप्यायय मूलमन्त्रेण सुधासन्दोहमूर्तिना || ६६ || [अर्घ्यस्य विनियोगः] पात्रद्वयस्थितं तेन कृत्वा भागद्वयं मुने | एकस्मिन्निष्कलाधारे संस्थितं निष्कलात्मकम् || ६७ || मन्त्रचक्रं स्ववीर्येण प्रस्फुरत्तच्च विन्यसेत् | संस्थाप्य मण्डलाग्रे तु पूज्यं पुष्पादिना पुरा || ६८ || धारणाद्वितयेनैव अग्नीषोममयेन च | सम्यग्द्वितीयं संस्कुर्याद्यथावदवधारय || ६९ || प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत्पुरा | संचिन्त्य भस्मभूतं तु ततः पूर्णेन्दुरश्मिभिः || ७० || आपूर्यामृतकल्लोलधारापातेन नारद | कान्तिमच्चिन्तयेद्भूयो यद्दग्धं भानुना तु वै || ७१ || मूलमन्त्रादिभिर्मुख्यैर्मन्त्रैस्तदभिमन्त्र्य च | बध्वाकामदुधां मुद्रां स्रवन्तीं मन्त्रसंयुताम् || ७२ || गोरूपां हिमशैलाभां निराधारपथस्थिताम् | गन्धदिग्धौ करौ कृत्वा अर्घ्यपात्रोद्धृतेन च || ७३ || मण्डलं मण्टपं प्रोक्ष्य यागद्रव्याण्यशेषतः | दाहयेदस्त्रमन्त्रेण मूलेन प्लावयेत्ततः || ७४ || निर्मलो द्रव्यसङ्घश्च यागयोग्यो भवेत्तदा | नमस्कृत्य ततो विष्णुं मूलमन्त्रं समुच्चरेत् || ७५ || [द्वारपूजा] स्वमूर्तिसंस्थितः पूज्यः पुष्पैरञ्जलिसंस्थितैः | अर्घ्यपात्रं समादाय पुष्पं धूपं विलेपनम् || ७६ || दीपनैवेद्यपर्यन्तं द्वारं बाह्यं ततो यजेत् | [द्वारदेवतापूजा] उदुम्बरस्य मूले तु बहिर्द्वारस्य मध्यतः || ७७ || प्. ११३) भूमिष्ठं क्षेत्रपालं च पूजयेत्तदनन्तरम् | द्वारोपरि स्थितां लक्ष्मीमूर्ध्वसंस्थं उदुम्बरे || ७८ || दक्षिणोत्तरशाखाभ्यां मूले चण्डप्रचण्डकौ | तद्वज्जयं च विजयं बाह्ये द्वारस्य चान्तरे || ७९ || शाखाद्वयस्य मध्ये तु वामदक्षिणतः क्रमात् | गङ्गां च यमुनां चैव पूजयेत्तदनन्तरम् || ८० || तेनैव क्रमयोगेन द्वारस्याभ्यन्तरस्थितौ | निधीशौ शङ्खपद्माख्यावर्घ्यपुष्पादिभिर्यजेत् || ८१ || [यागमंदिरप्रवेशविधिः] कृत्वैव द्वारयागं तु ततः पुष्पं च सम्मुखम् | गृहीत्वाऽङ्गुष्ठपूर्वेण अङ्गुलीत्रितयेन तु || ८२ || अभिमन्त्र्य तदस्त्रेण चक्रं तदुपरि स्मरेत् | निशितारं ज्वलद्रूपं वर्षन्तमनलाशनिम् || ८३ || क्षयकृद्विघ्नजालानां क्षिपेद्यागगृहान्तरे | दक्षिणां तर्जनीं विप्र कुर्यादूर्ध्वमुखीं ततः || ८४ || शिखामन्त्रेण संयुक्तां विद्युद्विलसितप्रभाम् | स्मृत्वा भ्रामयमाणस्तां संविशेद्यागमन्दिरम् || ८५ || [उपवेशनशेषभूतमासनप्रोक्षणादि] स्वासनं च ततः प्रोक्ष्य अर्घ्यपात्रोदकेन च | सास्त्रेण ताड्य पुष्पेण तत्पृष्ठे क्रमशो द्विज || ८६ || आधारशक्तिपूर्वं तु मन्त्रसङ्घं प्रपूजयेत् | उपविश्य ततः पश्चात् [पूजनाङ्गभूतावेक्षणप्रोक्षणविशेषौ] हृदयस्थं च तत्परम् || ८७ || तेजो नारायणाख्यं तु तत्कुर्यान्नेत्रमध्यगम् | वासुदेवाभिधानं तु प्रागुक्तं च समाश्रयेत् || ८८ || निरीक्ष्य सकलं सम्यक्स्तब्धनेत्रयुगेन च | मण्डलञ्चार्घ्यपात्रं तु पुनः प्रोक्ष्य कुशाम्भसा || ८९ || [आधारशक्त्याद्यासनकल्पनतत्पूजनक्रमः] पूजनं प्रारभेत्पश्चात्सार्ध्यैः पुष्पैः क्रमेण तु | प्. ११४) आधारशक्तेरारभ्य अनुसन्धानपूर्वकम् || ९० || युगावसानं प्राक् दत्वा स्थूलं मन्त्रासनासनम् | तत्रोर्ध्वे मध्यदेशेऽपि प्रागुक्तविधिना न्यसेत् || ९१ || द्विरष्टकं तु धर्माद्यं कान्तिमत्पररूपधृत् | तच्च षोडशकं न्यस्य भूयो भूयो दिगष्टके || ९२ || सूक्ष्मरूपधरं विप्र प्राक्पदादीशगोचरम् | पद्मादिवन्हिवेश्मान्तमेकैकस्मिन्न्यसेत्ततः || ९३ || तदेव गर्भदेशस्थं ह्यनुसन्धाय विन्यसेत् | भावासनावसानान्तं (नं तत् ?) मन्त्रैः स्वैस्स्वैरथार्चयेत् || ९४ || उपर्युपरि योगेन पुष्पधूपानुलेपनैः | [चतुरस्रायतमण्डलकल्पनम्] युगावसाने पीठस्य पृष्ठे विधिसमीपतः || ९५ || कल्पनाजनितं कुर्याच्चतुरस्रायतं ततः | मण्डलं देवदेवस्य दक्षिणे मण्डलोपरि || ९६ || वायव्यकोणादारभ्य यावदीशानगोचरम् | [गणेशादिपूजनम्] तत्रादौ तु स्वमन्त्रेण गणेशं पूजयेत्द्विजः || ९७ || ततो वागीश्वरीं देवीं तदन्ते गरुडं यजेत् | पूजयेच्च ततो भक्त्या गुरुं परमसंज्ञितत् || ९८ || परमेष्ठी ततः पूज्यस्ततः पितृगणं यजेत् | आदिसिद्धसमूहं च भगवद्ध्यानतत्परम् || ९९ || अनुज्ञां प्रार्थयेत्तेभ्यो यथानुक्रममेव च | [हृदयकमलाद्भगवत आवाहन पूजनप्रकारः] गृहीत्वा शिरसा तां च तत आवाहयेत्प्रभुम् || १०० || आवाह्य मन्त्रेण मुने मुद्रायुक्तेन भक्तितः | प्रोच्चार्य मूलमन्त्रं तु हृदयस्थं च सर्वगम् || १०१ || अवतार्य क्रमेणैव रेचकेन शनैश्शनैः | नाडीभ्यां सन्धिदेशेन नीरूपेणामलेन च || १०२ || कल्पनारहितेनैव चिद्भावाभासितेन च | सर्वगस्य ततो विप्र सार्घ्यं पुष्पाञ्जलिं विभोः || १०३ || प्. ११५) निक्षिप्याथोमुखेनैव पाणियुग्मेन मूर्धनि | लययागोक्तविधिना पूजयेत्प्रथमं ततः || १०४ || पुष्पार्घ्यलेपनैर्धूपैर्मूलमन्त्रादिभिः क्रमात् | [लक्ष्म्यादीनां ध्यानपूर्वको न्यासक्रमः] ततो भगवतो विष्णोर्भासा भास्वरविग्रहात् || १०५ || लक्ष्म्यादीर्निस्सृता ध्यायेत्स्फुलिङ्गनिचया यथा | भोगस्थाने यथायोगमेकैकं विन्यसेत्ततः || १०६ || [मण्डले मन्त्रन्यासक्रमः] मण्डलोपरि मन्त्रं च यथा तदवधारय | ऊर्ध्वतः पद्ममध्ये तु यथा भूतं तथा न्यसेत् || १०७ || मूलमन्त्रं द्विजश्रेष्ठ मूर्तियुक्तं तु पूर्ववत् | तदग्रसंस्थिते पद्मे लक्ष्मीं वै कर्णिकान्तरे || १०८ || कीर्ति दक्षिणभागस्थे पृष्ठगे तु जयां न्यसेत् | मायां चोत्तरपद्मे तु कर्णिकान्तेऽथ विन्यसेत् || १०९ || आग्नेये हृदयं मध्ये शिरस्त्वीशानपङ्कजे | शिखां राक्षसदिङ्मध्ये कवचं वायुगोचरे || ११० || अथ मध्यस्थिते पद्मे देवस्य पुरतो दले | नेत्रमन्त्रं विन्यसेत्तु विदिक्पत्रेषु चास्त्रराट् || १११ || अत्रैव नारसिह्माख्यं(द्यं ?) वराहान्तत्रयं क्रमात् | दिक्षु पत्रत्रयं(ये ?) विष्णोर्याम्ये प्रत्यक्तथोत्तरे || ११२ || लक्ष्मीकमलयन्त्रा(पत्रा ?)णां सर्वेषां कौस्तुभं न्यसेत् | तद्वद्धृत्पङ्कजीयानां वनमालां निवेश्य च || ११३ || कीर्तिपङ्कजपत्राणां पद्ममाहूय विन्यसेत् | शङ्खं शिखाब्जपत्राणां जयाब्जे चक्रमेव च || ११४ || ततस्तु तत्र पद्मे तु पत्रस्थां विन्यसेद्गदाम् | मायाम्बुजच्छदे विप्र न्यसेत्पाशं ततो द्विज || ११५ || शीर्षाधारे तु वै पद्मे पत्राणामङ्कुशं ततः | न्यसेद्द्वारचतुष्के तु समाहूय खगेश्वरम् || ११६ || प्. ११६) कर्णिकायां न्यसेत्सत्यं हृन्मन्त्रस्य ततो(थो ?)परि | आश्रित्य दक्षिणं भागमथ ब्रह्माम्बुजोपरि || ११७ || मूर्तं मूर्तव्यपेक्षायां न्यस्तं मन्त्रेषु नारद | शिरस्यूर्ध्वे तु विन्यस्य वासुदेवं तथैव च || ११८ || शिखायामुपरि न्यासं कुर्यात्सङ्कर्षणस्य तु | अथोर्ध्वे कर्णिकायास्तु प्रद्युम्नं कवचोपरि || ११९ || लक्ष्म्यादिष्वनिरुद्धं च आधेयत्वेन चोपरि | ततस्सप्ताक्षरं मन्त्रं मूलमन्त्रोपरि न्यसेत् || १२० || प्राच्यादावीशपर्यन्तमिन्द्राद्यं चाष्टकं बहिः | नागेशं विन्यसेच्छेषमधःस्थमथ चोर्ध्वगम् || १२१ || ब्रह्माणं च सुरेशानमेवं लोकेशसन्ततिम् | न्यसेत्तदनु चास्त्राणि बहिस्तेषां तु विन्यसेत् || १२२ || पूर्वादिक्रमयोगेन यावदीशानगोचरम् | अधो नागेश्वरास्त्रं च ब्रह्मास्त्रमुपरि न्यसेत् || १२३ || त्र्यम्बकोत्तरदिग्भ्यां तु मध्यतः खस्थितं स्मरेत् | विष्वक्सेनं द्विजश्रेष्ठ आयान्तं गगनान्तरात् || १२४ || एवं न्यासं पुरा कृत्वा मन्त्राणां मण्डलान्तरे | [अथ मन्त्राणां यथान्यासं ध्यानविधिः] ततस्संचिन्तयेद्ध्यानमेकैकस्य यथास्थितम् || १२५ || मूलमन्त्रस्य देवा(वी ?)नां पुरा प्रोक्तं मया मुने | नोक्तं यद्धृदयादीनां तदेकाग्रमनाः शृणु || १२६ || [हृदयमन्त्रध्यानप्रकारः] सितशोणितवर्णाभमेकवक्त्रं चतुर्भुजम् | गरुडासनसंस्थं च पद्मशङ्खकरान्वितम् || १२७ || मुद्रालङ्कृतिमत् ध्यायेद्दक्षिणं चापरं करम् | वामपाणिं द्वितीयं च संयुक्तमभयेन तु || १२८ || सिताभरणमाल्यैश्च कर्पूरालिप्तविग्रहम् | सम्मुखं देवदेवस्य हृन्मन्त्रं संस्मरेत्सदा || १२९ || प्. ११७) [शिरोमन्त्रध्यान प्रकारः] बन्धुजीवोपमं रक्तं पद्मचक्रोद्यतंद्विज | स्वमुद्रासंयुतं ध्यायेत्पाणिना वरदेन च || १३० || कुङ्कुमेन विलिप्ताङ्गं रक्तभासं मनोहरम् | रक्ताभरणसंयुक्तं रक्तपुष्पविभूषितम् || १३१ || सम्मुखं मन्त्रनाथस्य शिरोमन्त्रं च संस्मरेत् | [शिखामन्त्रध्यानप्रकारः] चलालिपटलाभं तु पद्मकौमोदकीधरम् || १३२ || आत्मीयमुद्रां धर्त्तारं युक्तं चाभयपाणिना | युक्तं मृगमदेनैव पुष्पाद्यैरसितैश्च तम् || १३३ || ईषत्स्मिताननं ध्यायेच्छिखामन्त्रं च नारद | [कवचमन्त्रध्यानप्रकारः] मधुपिङ्गलवर्णाभं शङ्खचक्रधरं तथा || १३४ || स्वमुद्राव्यग्रितं ध्यायेत्पाणियुग्मयुतो(तं) परम् | मिश्रैर्विलेपनैर्लिप्तं मिश्रैः पुष्पादिभिस्तथा || १३५ || निरीक्ष्य(क्ष ?)माणं च विभोः कवचं संस्मरेद्द्विज | [नेत्रमन्त्रध्यानप्रकारः] रक्तपीतप्रभं चैव गदापद्मोद्यतं क्रमात् || १३६ || दक्षिणापरहस्ताभ्यां युक्तं चैव स्वमुद्रया | सकाश्मीरेण लिप्ताङ्गं चन्दनेन सितेन च || १३७ || पुष्पाभरणवासोभिः पीतैर्मण्डितविग्रहम् | संस्मरेन्नेत्रमन्त्रं तु सुनेत्रं च स्मिताननम् || १३८ || [अस्त्रमन्त्रध्यानप्रकारः] राजोपलद्युतिमुषं गदाचक्रोद्यतं महत् | युक्तं चैव स्वमुद्राभ्यां सुवर्णसदृशैः शुभैः || १३९ || युक्तमाभरणाद्यैश्च प्रलयानलविक्रमम् | अस्त्रमन्त्रं विभोर्ध्यायेत्सम्मुखं स्वामिनः सदा || १४० || एकवक्त्राः स्मृताः सर्वे सर्वे च गरुडासनाः | इतीदमुक्तमङ्गानां ध्यानं पापहरं शुभम् || १४१ || प्. ११८) नृसिंहपूर्वमन्त्राणां त्रयाणामवधारय | [नृसिह्ममन्त्रध्यानप्रकारः] प्रलयाम्बुदनिर्घोषं प्रोद्वमन्तं च पावकम् || १४२ || पद्मशङ्खगदाचक्रधर्त्तारं परमेश्वरम् | द्रवच्चामीकराभासं नानाभरणभूषितम् || १४३ || नानाविलेपनाङ्गं च प्रभूतस्रग्धरं द्विज | रक्तकौशेयवसनं नृसिह्मं संस्मरेद्विभुम् || १४४ || [कपिलमन्त्रध्यानप्रकारः] उदयादित्यसङ्काशं पिङ्गलश्मश्रुलोचनम् | चतुर्भुजमुदाराङ्गं पद्माद्यैरुपशोभितम् || १४५ || सितवस्त्रोत्तरीयं च मुक्ताभरणभूषितम् | सितमाल्यधरं ध्यायेत्कापिलं मन्त्रनायकम् || १४६ || [वाराहध्यानप्रकारः] राजाश्मराशिवर्णाभं पीताभरणभूषितम् | महाद्युतिधरं ध्यायेच्चतुर्हस्तं च नारद || १४७ || प्राग्वल्लाञ्छनसङ्घेन कमलाद्येन मण्डितम् | वराहमन्त्रनाथं च मधुपिङ्गललोचनम् || १४८ || चलद्विद्युद्भ्रुवं रौद्रं ज्वालाश्मस्रुसटं स्मरेत् | बालचन्द्राग्रतुल्येन युक्तं दंष्ट्राद्वयेन तु || १४९ || पद्मासनोपविष्टाश्च चिन्तयन्तः स्वकारणम् | सम्मुखाः कर्णिकाधःस्थाः स्मर्तव्याः सर्वदा मुने || १५० || [कौस्तुभादिध्यानप्रकारः] कौस्तुभं द्विभुजं ध्यायेत्सहस्रार्कसमप्रभम् | नानावर्णधरां देवीं वनमालां तथैव च || १५१ || कान्तां कमलपत्राक्षीं प्रौढस्त्रीसदृशीं द्विज | पुण्डरीकप्रभं पद्मं शङ्खं कुन्देन्दुसन्निभम् || १५२ || राजोपलप्रभं चक्रं हेमाभां संस्मरेद्गदाम् | द्विरष्टवर्षवत्कान्तां कुमारीं नवयुवनाम् || १५३ || [गरुडध्यानप्रकारः] रक्ततुण्डं महाप्राणं भीमभुकुटिलोचनम् | प्. ११९) द्रवच्चामीकराकारं पक्षमण्डलमण्डितम् || १५४ || संस्मरेद्गरुडं विप्र गृध्रवक्त्रं पृथूदरम् | [पाशाङ्कुशयोर्ध्यानप्रकारः] नवदूर्वाङ्कुरश्यामं पाशेशं पन्नगाननम् || १५५ || संस्मरेदङ्कुशं कृष्णं दीर्घनासं भयानकम् | स्वमुद्रालङ्कृताः सर्वे द्विभुजाश्चारुकुण्डलाः || १५६ || ध्यातव्याः पुरुषाकाराः स्वप्रभाभिर्विराजिताः | एतल्लाञ्छनमन्त्राणां ध्यानमुक्तं मया मुने || १५७ || [सत्यादिपञ्चकध्यानप्रकाराः] सत्यादीनामथ ध्यानं समासादवधारय | द्विभुजं संस्मरेत्सत्यं सितमिन्दुशताकृतिम् || १५८ || वरदाभयहस्तं च ध्यानोन्मीलितलोचनम् | सितकौशेयवसनं मुक्तादामाद्यलतङ्कृम् || १५९ || सितचन्दनलिप्ताङ्गं सितपुष्पविभूषितम् | ऊर्ध्वस्थं मन्त्रनाथस्य ब्रह्मपु(प ?)त्रस्थितं स्मरेत् || १६० || पद्मासनेनोपविष्टं प्रसन्नवदनं द्विज | एवं विधं ततो ध्यायेद्वासुदेवं चतुर्भुजम् || १६१ || शङ्खपद्मधरं चैव वरदाभयदं विभुम् | प्रशान्तहुतभुग्रूपं न सितं नातिचारुणम् || १६२ || ध्यायेत्सङ्कर्षणं देवं प्रद्युम्नं संस्मरेत्ततः | पीतचम्पकवर्णाभं कमलायतलोचनम् || १६३ || शरद्गगनसङ्काशमनिरुद्धं स्मरेत्ततः | वासुदेवसमाः सर्वे भुजाभरणलाञ्छनैः || १६४ || उपविष्टास्तथैवेते ब्रह्मरन्ध्राम्बुजेषु च | [सप्ताक्षरमन्त्रध्यानप्रकारः] सुशुद्धस्फटिकप्रख्यं नीरूपमिव (मपि ?)रूपिणम् || १६५ || सर्वाकारधरं चैव सर्वाकारविवर्जितम् | सर्वतः पाणिपादं च सर्वतोऽक्षिशिरोमुखम् || १६६ || प्रसन्नरश्मिजालेन स्फटिकामलरूपिणा | प्. १२०) स्वदेहनिस्सृतेनैव भासितं परितः प्रभुम् || १६७ || प्रतिबिम्बति वै यस्मिन्मन्त्रचक्रं यथास्थितम् | ध्यायेत्सप्ताक्षरं मन्त्रं भोगस्थानगतं मुने || १६८ || एवं ध्यात्वा समभ्यर्च्य यथान्यासक्रमेण च | [ध्यानानानन्तरं न्यासक्रमेण मन्त्रगणस्य बाह्ययागप्रकारः] अर्घैः पाद्यैस्तथा पुष्पैः सुगन्धैरनुलेपनैः || १६९ || शालिपूर्णोत्थिताघारपृष्ठसंस्थैरनेकशः | सुगन्धघृतदीपैश्च पुष्पालम्बनचर्चितैः || १७० || महामोदैश्शुभोद्दिपैरच्छिन्नैर्गुग्गुलान्वितैः | भक्ष्यैर्भोज्यैस्तथा लेह्यैः पेयैरन्यैरनेकधा || १७१ || मधुपर्कैश्च मात्राभिः फलमूलैरनेकशः | पायसैर्विविधैर्दिव्यैः मोदकैः कृसरादिभिः || १७२ || सुसंस्कृतैश्च बहुभिर्मध्वाज्यादिपरिप्लुतैः | एकैकस्मिंस्तु वै भोगे मुद्रां कामदुघां पुरा || १७३ || समन्त्रां पूर्ववद्ध्यायेत्प्रोक्षयेर्दर्घ्यवारिणा | दत्वा पुष्पार्घ्यमुपरि संस्पृशेद्विष्णुपाणिना || १७४ || निवेदयेत्ततो विप्र शिरसाऽवनतेन च | यत्किञ्चन्मानसे यागे पुरा प्रोक्तं मया च ते || १७५ || तत्सर्वं देवदेवस्य बहुमूर्तं निवेदयेत् | असन्निधिश्च यो भोगो ह्यङ्गभावमनुव्रजेत् || १७६ || तत्तद्ध्यात्वा तु मनसा भक्त्या विष्णोर्निवेदयेत् | यथानुक्रमतो ह्येवं सर्वमन्त्रगणं मुने || १७७ || इष्ट्वा पूर्वं विधानेन भूयः संपूज्य केशवम् | [पुष्पाञ्जलिप्रकारः] मूलमन्त्रं समुच्चार्य पुष्पैरापूर्य चाञ्जलिम् || १७८ || तन्मध्ये परमात्मानं मन्त्रं माणिक्यदीधितिम् | समस्तमन्त्रसंलीनं ध्यायेदुद्धारयोगतः || १७९ || पूरकादिविभागेन शब्देनातिप्लुतात्मना | यावच्छब्दावसानस्थो व्यज्यतेऽसावनेकधा || १८० || प्. १२१) तन्त्रीशब्दात्मना विप्र ततो भासात्मना तु वै | ह्लादात्मना च तदनु आनन्दविभवात्मना || १८१ || तस्मात्सर्वपदातीतः सर्वत्र विभवात्मना | सच्चिद्घनोर्मिनिर्मुक्तशान्तबोधान्तरात्मना || १८२ || एवं षडूर्मिनिर्मुक्तं विकल्पातीतगोचरम् | अवगाह्य क्रमेणाथ पुनरेत्य पदात्पदम् || १८३ || ध्यात्वा मन्त्रं सहस्त्रांशुं सहस्रकरजामृतम् | रेचकेन विनिक्षिप्य देवदेवस्य मूर्धनि || १८४ || ततोऽछिन्नं करे कृत्वा धूपपात्रं तु दक्षिणे | [धूपपात्रविधिः] पद्मचक्राङ्कितं दिव्यमाधारं कञ्जरूपिणम् || १८५ || एकनालं च कर्तव्यं (कुर्वीत ?) शेषं सप्तफणं विभुम् | बद्धाञ्जलिपुटं नित्यं ध्यायन्तं कारणं परम् || १८६ || चक्रलाङ्गलहस्तं च पद्मासनगतं विभुम् | कर्तव्यं (कुर्वीत ?) धूपघर्त्तारं किङ्किणीजालशोभितम् || १८७ || चक्रं तच्चक्रहृदयं पद्मं हृत्कोटरं विदुः | चक्रे या या (ये ये ?) अराख्या (स्स्यु ?)स्ता नाड्यो वै द्वादश स्मृताः || १८८ || किङ्किण्यो याः स्मृता विप्र ज्ञेयास्ताः सूक्ष्मनाडयः | यासां वै मध्यमा शक्तिर्भुजङ्गकुटिलोपमा || १८९ || धूमधूसरवर्णाभा अण्डं भित्वा विनिर्गता | कालाग्निहृदयोत्था सा सत्यान्ते तु लयं गता || १९० || तया संबोधितो ह्यात्मा मन्त्रमूर्तिधरः प्रभुः | सन्निधौ भवति, क्षिप्रमव्युच्छिन्नं दहेत्तथा || १९१ || [धूपपात्रमन्त्रविधानम्] मन्त्रेणानेन विप्रर्षे तन्मन्त्रमवधारय | ओङ्कारं पूर्वमुद्धृत्य परमात्मा ततः पुनः || १९२ || व्योमानन्देन संयुक्तमनन्ताय पदं ततः | कालाग्निरूपाय पदं जगद्धूमपदं तथा || १९३ || सुगन्धिने पदं कुर्यात्सर्वगन्धवहाय च | प्. १२२) नमः स्वाहासमायुक्तमेकत्रिंशाक्षरं परम् || १९४ || मन्त्रं द्विज समाख्यातं धूपपात्रस्य नारद | मुद्राध्यानसमायुक्तं (क्तां ?) सर्वसिद्धिकरं (रीं ?) परम् (राम् ?) || १९५ || पूजितां धूपितां लिप्तां मन्त्रविन्यस्तविग्रहाम् | एकीकृत्य स्वशब्देन हृद्गतेनान्तरात्मना || १९६ || [घण्टाचालनविधानम्] सञ्चालयेत्ततस्सम्यक्सशब्दां चक्रचिन्हिताम् | त्रैलोक्यद्राविणीं घण्टां सर्वदुष्टनिबर्हिणीम् || १९७ || एषा दूती हि मन्त्राणां सुप्तानां च प्रबोधिनी | वारणी सर्वविघ्नानां सर्वमन्त्रप्रसादिनी || १९८ || प्रणवान्ते ध्वनिर्ह्येष शब्दशक्तौ लयं गतः | वर्णदेहाः स्मृता मन्त्रा मन्त्रदेहाश्च देवताः || १९९ || घण्टास्तनितमूलास्ते प्रबुद्धाः कर्मसिद्धिदाः | परशब्दोत्थिता शक्तिर्घण्टास्तनितरूपिणी || २०० || वर्णत्वं समनुप्राप्ता तैर्वर्णैर्मुनिसत्तम | मन्त्राणां कल्पनादेहा नानाकाराः सहस्रशः || २०१ || स्वेच्छया त्वनया शक्त्या सामर्थ्यात्स्वात्मनस्स्वयम् | अनुग्रहार्थमिह हि भक्तानां भावितात्मनाम् || २०२ || मननान्मुनिशार्दूल त्राणं कुर्वन्ति वै ततः | ददते पदमात्मीयं तस्मान्मन्त्राः प्रकीर्तिताः || २०३ || अनभिव्यक्तशब्दास्ते निराकारास्तथैव च | घण्टायां चाल्यमानायां निर्यान्ति च सहस्रशः || २०४ || अत एव मुनिश्रेष्ठ मन्त्रमाता प्रकीर्तिता | एषा घण्टाभिधा शक्तिर्वागीशी च सरस्वती || २०५ || वाचि मन्त्राः स्थितास्सर्वे वाच्या मन्त्रे प्रतिष्ठिताः | मन्त्ररूपात्मकं विश्वं स बाह्याभ्यन्तरं ततः || २०६ || घण्टाशब्दगतं सर्वं तस्मात्तां चालयेत्पुरा | आवाहनेऽर्घ्ये धूपे च दीपे नैवेद्यजोषणे || २०७ || नित्यमेव प्रयुञ्जीत सम्यङ्मन्त्रार्थसिद्धये | प्. १२३) पूजाकालं विनाऽन्यत्र हितं नास्याः प्रचालनम् || २०८ || नानया तु विना कार्यं पूजनं सिद्धिमिच्छता | यस्मात्तस्मात्परं मन्त्रमेतदीयमिदं शृणु || २०९ || [घण्टामन्त्रनिरूपणम्] आदाय प्रणवं पूर्वमनन्तेशं ततः परम् | तच्चानलेन संभिन्नमूर्ध्वाधो मुनिसत्तम || २१० || त्रैलोक्यैश्वर्यदेनाथ लाञ्छयेत्पञ्चबिन्दुना | दद्यादस्यावसाने तु जगद्ध्वनिपदं ततः || २११ || मन्त्रमात्रे पदं चान्यत्स्वाहाक्षरसमन्वितम् | तदन्ते परमात्मानं प्रज्ञाधारोपरि स्थितम् || २१२ || भूधरेण युतं मूर्ध्ना भूधरोपरि विन्यसेत् | विश्वाप्यायकरान्तस्थं त्रैलोक्यैश्वर्यदं मुने || २१३ || त्रयोदशाक्षरो मन्त्रो घण्टाख्यस्सर्वसिद्धिकृत् | विन्यासकाले यस्या वै प्लुतमुच्चारयेत्ततः || २१४ || [घण्टाध्यानप्रकारः] ध्यानयुक्तं द्विजश्रेष्ठ तद्ध्यानमवधारय | अधोमुखं तु ब्रह्माण्डं ध्यायेज्जनरवाकुलम् || २१५ || सनालं च तदूर्ध्वे तु पद्ममष्टदलं तथा | प्रकीर्णपत्रं सुसितं (त ?) केसरालं (लिं ?) सुकर्णिकम् || २१६ || तन्मध्ये चिन्तयेद्देवीं वर्गाष्टक भुजान्विताम् | मुख्यहस्तचतुष्के तु लाञ्छनं कमलादिकम् || २१७ || कमलं च ततः शङ्खं पाशं चैवाङ्कुशं क्रमात् | स्फटिकं चाक्षसूत्रं च तथा विज्ञानपुस्तकम् || २१८ || अभयं वरदं चैव हस्तद्विद्वितये परे | पद्मासने चोपविष्ठां पद्मपत्रायतेक्षणाम् || २१९ || पद्मगर्भप्रतीकाशां पद्ममालाविभूषिताम् | विद्याभरणसंछन्नां पीतवस्त्रविवेष्टिताम् || २२० || दर्शयेद्देवदेवस्य मुद्रां नारायणात्मनः | [लक्ष्म्यादिमन्त्राणामभ्यर्चनम्] लक्ष्म्यादीनां ततो भक्त्या मन्त्राणां च महामुने || २२१ || प्. १२४) भूयोऽर्घ्यपुष्पगन्धेन धूपान्तेन समर्चयेत् | [अथ स्तुतिः] ततः स्तुवीत देवेशं स्तोत्रेणानेन नारद || २२२ || सम्यक्प्रणवपूर्वेण नमोऽन्तेन तु वै त्रिधा | जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन || २२३ || नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज | [मधुपर्कादिसमर्पणप्रकारः] जपन्वै दधिसंपूर्णं मधुना सर्पिषाऽन्वितम् || २२४ || पात्रं करतले कृत्वा तन्मध्यस्थं प्रभुं स्मरेत् | मूलमन्त्रेण तद्वस्तु स्वरूपादुदितेन च || २२५ || लसत्पीयूषकल्लोलसत्तरङ्गेण नारद | तन्निवेद्य पुनर्भक्त्या भूयः पुष्पाञ्जलिं क्षिपेत् || २२६ || ततो निवेदयेद्विष्णोर्हिरण्यकटकादिकम् | अनन्तरं निमित्तार्थं ताम्बूलं तदनन्तरम् || २२७ || प्रक्षाल्य गन्धतोयेन अर्घ्यपात्रोद्धृतेन वै | पाणियुग्मं यथा वै स्यात्सार्धमत्यन्तनिर्मलम् || २२८ || नैवेद्यधूपपात्राद्यैः पात्रैश्च निर्मलीकृतम् | कृत्वा तद्गन्धदिग्धौ तौ अर्घ्येणार्च्य परस्परम् || २२९ || तन्निवेद्य विभोः पश्चाद्वाक्कर्ममनसाऽन्वितः | [बाह्ययागपरिसमापनक्रमः] पुण्डरीकाक्ष विश्वात्मन्मन्त्रमूर्ते जनार्दन || २३० || गृहाणेदं जगन्नाथ मम दीनस्य शाश्वत | इत्युक्त्वा सोदकं पुष्पं कृत्वा दक्षिणपाणिगम् || २३१ || अग्रतो निक्षिपेद्विष्णोर्मूलमन्त्रेण नारद | भावयेच्च ततस्सम्यक्स्फुरन्तीं तारकावलीम् || २३२ || प्रविष्टां भवगद्वक्रे वक्रान्ताद्धृद्गतां पुनः | हृदयाद्द्विजशार्दूल संहाराख्यक्रमेण तु || २३३ || पूर्ववद्ब्रह्मरन्ध्रेण परेण सह योजयेत् | भगवन्तं ततो नत्त्वा अष्टांगेन तु भक्तितः || २३४ || प्. १२५) समुत्थायासनात्तस्मिन्नर्घ्यपुष्पे विनिक्षिपेत् | यस्मात्तत्क्षणमन्त्रं(?) तु न शून्यं संपरित्यजेत् || २३५ || अज्ञानात्ज्ञानतो वाऽपि यातमूनाधिकं च यत् | दासस्य मम दीनस्य क्षन्तव्यं लोकलोचन || २३६ || इति श्रीपाञ्चरात्रे जयाख्यंसहितायां बाह्ययागाख्यानं नाम त्रयोदशः पटलः || १३ || अथ जपविधानं नाम चतुर्दशः पटलः नारदः- ब्रूहि मे देवदेवेश विष्णोर्विभवमात्मनः | निर्णयं जपयज्ञस्य न ज्ञातं तत्कथं भवेत् || १ || श्रीभगवानुवाच एवं सन्तर्प्य देवेशं कुम्भे वा मण्डलादिषु | जपयज्ञविधानेन देवं सन्तर्पयेत्ततः || २ || तदा स सर्वकामार्थान्मनसेष्टान्प्रयच्छति | [जपस्य त्रैविध्यम्] जपं तु त्रिविधं कुर्यादक्षसूत्रकरार्पितः || ३ || वाचिकं क्षुद्रकर्मभ्य उपांशुं सिद्धिकर्मणि | मानसं मोक्षकमार्थं ध्यायेद्देवं तु सर्वतः || ४ || अक्षसूत्रं शुभं कार्यमदृश्यमितरैर्जनैः | [अक्षसूत्रविधानम् तत्र मणिप्रमाणादिविशेषाः] अक्षास्थिमात्रैर्मणिभिर्ज्येष्ठं कुर्यात्सुवर्त्तुलम् || ५ || घात्रीफलानां गर्भेण प्रमाणं मध्यमं स्मृतम् | बदरास्थिप्रमाणेन कनीयंः समुदाहृतम् || ६ || अष्टोत्तरशतं पूर्णं तदर्धं पादमेव वा | कुर्यात्तच्च विधानोक्तं विधिना प्रतिकर्मणि || ७ || सौवर्णं द्रव्यसिध्यर्थमुत्तमं तत्र कारयेत् | पुष्ट्यर्थं रूपलाभाय राजतं पितृकर्मणि || ८ || मेधावीर्यमहातेजोलाभार्थं ताम्रमेव च | मध्यमं मुनिशार्दूल कार्यं चैवाक्षसूत्रकम् || ९ || प्. १२६) यक्षाणां यक्षिणीनां च साधने त्रपुजं स्मृतम् | राक्षसानां पिशाचानां वशे सीसमयं तु वै || १० || पातालसाधनार्थं तु अरीतिमयमुच्यते | सपन्नगानां नागानां साधने स्यात्तु कांस्यजम् || ११ || कनीयस्तु तदा कुर्यादायसं क्षुद्रकर्मणि | इति धातुमयानां च सूत्राणां विधयः स्मृताः || १२ || वक्ष्ये मणिमयानां च विभागं मुनिसत्तम | सर्वं मणिमयं चैव आयुरारोग्यभूतिदम् || १३ || मोक्षदं तु विशेषेण स्फाटिकं शान्तिकर्मणि | त्रितयं चोत्तमाद्यं यत्समं सर्वेषु कर्मसु || १४ || मूलजानामथो वक्ष्ये बीजानां विधिमुत्तमम् | सौभाग्ये वैद्रुमं कार्यमुत्तमाद्यं सदा त्रयम् || १५ || मुक्त्यर्थं पुत्र दीप्तैस्तु पुष्पषैर्दोप्रशान्तये | वक्ष्ये जलोत्थितानां च विषयं सर्वसिद्धिदम् || १६ || पद्मबीजैश्च शाङ्खैश्च श्रीकामो जपमारभेत् | आयुःप्रज्ञायशश्शान्तौ मौक्तिकं सर्वसिद्धिदम् || १७ || उत्तमादिविभागेन त्रितयं यत्प्रकीर्तितम् | एभ्यो मध्यादेकतमं ग्राह्यं चैव शुभे दिने || १८ || [मणीनां क्षालनप्रकारः] सास्त्रेण गन्धतोयेन क्षालयेत्तदनन्तरम् | [सूत्रविशेषविधानम्] शाणं कार्पासकं वाऽथ प्राप्य सूत्रं नवं दृढम् || १९ || त्रिगुणं त्रिगुणीकृत्य चतुर्था वा यथा दृढम् | सुवेष्टितं तु वै कृत्वा क्षालयेत्पूर्ववद्द्विज || २० || [सूत्रे मणीनां योजनप्रकारः] निक्षेप्या मणयस्तस्मिन्सन्धानक्रमयुक्तितः | मणयस्सुसमास्सर्वे ऊनाधिक्यविवर्जिताः || २१ || जपार्थं मुनिशार्दूल नित्यं मन्त्रेषु निष्कले | मणिभिः क्रमसूत्रैस्तु मुतन्तुकल निष्कले (?) || २२ || प्. १२७) सकले तु यथेच्छा वै सूत्रार्थं मणिगोलकाः | (?) युगलं युगलं सूत्रे परस्परमुखं द्विज || २३ || पृष्ठं पृष्ठस्य लग्नं वा यथा स्याद्योजयेत्तथा | सन्धाय चातिसुश्लिष्टं गहनं न भवेद्यथा || २४ || [अक्षसूत्रस्य वलयाकारतापादनम्] परस्परमणीनां तु प्रोतानां मुनिसत्तम | अव्युच्छिन्नेन तेनैव त्वेकेन प्रोततन्तुना || २५ || मणिभ्यां सङ्गमोद्देशात्सूत्रं सूत्रेण वेष्टयेत् | यथा स्यात्कटकाकारं स्तब्धं वृत्तं विभक्तिमत् || २६ || [अक्षसूत्रे मेरुकल्पनम्] ग्रन्धिसन्धावतो विप्र मणिसख्याधिकं ततः | मेरुं प्रकल्पयेन्मध्ये एकेन गुलिकेन च || २७ || [अक्षसूत्रसंशोधनावधानम्] विलिप्य चन्दनाद्यैस्तु स्थापयेद्भाजने शुभे | संपूज्य पुष्पधूपाद्यैस्तस्य शुद्धिमथाचरेत् || २८ || दग्धमस्त्रेण संचिन्त्य वर्मणा मारुतेरितम् | आप्लाव्य मूलमन्त्रेण परमामृतरूपिणा || २९ || संशोध्यैवं पुरा सूत्रं देहवच्चिन्तयेत्ततः | [अक्षसूत्रस्य दिव्यदेहत्वेन चिन्तनम्] चतुर्भुजं तु विरजो नारायणमिवापरम् || ३० || वरदाभयहस्तं च बद्धाञ्जलिधरं स्मरेत् | ब्रह्मद्वारस्थितं तच्च सूत्रं ध्यायेच्छिखोपमम् || ३१ || स्वमन्त्रेण द्विजश्रेष्ठ मन्त्रमत्र निबोधतु | [अक्षसूत्रमन्त्रः] प्रोद्धरेत्प्रणवं पूर्वं तदन्ते कौस्तुभं न्यसेत् || ३२ || त्रैलोक्यैश्वर्यदोपेतं गोपनेनाङ्कयेच्च तत् | तदन्ते त्वक्षसूत्राय पदं पञ्चाक्षरं न्यसेत् || ३३ || नमस्कारान्वितः प्रोक्तो ह्यक्षसूत्रस्य मन्त्रराट् | [स्वमन्त्रेणाक्षसूत्रस्य सकलीकरणपूजने] सकलीकरणं कुर्यान्मन्त्रेणानेन तस्य वै || ३४ || प्. १२८) पूजयेच्च स्वमन्त्रेण ततस्तत्सन्घये क्रमात् | [वैष्णव्याः परशक्तेरक्षसूत्रे भावनाक्रमविधानम्] या परा वैष्णवी शक्तिरभिन्ना परमात्मनः || ३५ || प्रचलत्पूर्णचन्द्राभा सूर्यवत्किरणावृता | युगक्षयोग्रहुतभुक्तेजसा तीवृबृंहिता || ३६ || प्राग्वत्सृष्टिक्रमेणैव स्मरेद्धृत्पद्ममध्यगाम् | पूरकेण तु विप्रेन्द्र कुम्भकेन निरोधिताम् || ३७ || हृत्पद्मादुत्थितां भूयो ब्रह्मरन्ध्रावधिं स्मरेत् | ब्रह्मरन्ध्रात्ततो विप्र प्रोल्लसन्तीं शनैश्शनैः || ३८ || पूर्ववत्सन्धिमार्गेण चिन्तयेद्द्वादशान्तगाम् | (?) रेचकाख्येन योगेन तया सूत्रं तु भावयेत् || ३९ || [अक्षसूत्रप्रभोद्भासितत्वेन यागालयस्मरणम्] भासितं चाथ सूत्रेण सर्वं यागालयं स्मरेत् | पूर्णेन्दुनेव गगनं, [मन्त्रात्मनो भगवच्छत्तेः सूत्रस्य मन्त्राक्षराणां चैकीभूतत्वभावनविधिः] निष्कलो मन्त्रराट् ततः || ४० || मन्त्रबृन्दसमायुक्तो मग्नस्तत्रेति चिन्तयेत् | मन्त्रात्मा भगवच्छक्तिस्सूत्रमन्त्राक्षराणि वै || ४१ || सर्वमेकीकृतं ध्यायेद्यथा क्षीरेण सोदकम् | [सकलनिष्कलमन्त्रस्य सृष्टिक्रमेणाक्षसूत्रे सान्निध्यचिन्तनम्] तत्र पुष्पाञ्जलौ पृष्ठे गृहीत्वा चिन्तयेदिमम् || ४२ || सुसंस्कृताक्षसूत्रस्य पतन्तं पृष्ठतो द्विज | सृष्टिक्रमात्समायातं मन्त्रं सकलनिष्कलम् || ४३ || स्फुलिङ्गगणसङ्काशमाधेयतनुतां गतम् | [भगवत्प्रार्थनापूर्वक तदभ्यनुज्ञयाऽक्षसूत्रस्य ग्रहणम्] इदं विज्ञाप्य देवेशमक्षसूत्रमयाच्युत || ४४ || प्रयच्छ मन्त्रजापार्थं स्मरेद्दत्तं च तेन तत् | गृहीस्वा शिरसा पश्चात्प्रसीद इति चोच्चरेत् || ४५ || [अभ्यर्चनपूर्वकमक्षसूत्रे मन्त्रस्य प्रतिष्ठापनक्रमः] प्राप्तं संस्नापयेत्पश्चादर्घ्यपात्राच्च वारिणा | प्. १२९) संपूज्य पुष्पधूपाद्यैर्मन्त्रं तव च विन्यसेत् || ४६ || साधारं साधनं चैव शक्तिपूर्वैस्समावृतम् | सन्निधौ भव देवेश सन्निरुद्धो भवाच्युत || ४७ || सूत्राख्ये मणिजालेऽस्मिन्यावच्चंद्रार्कतारकम् | एवं मुने प्रतिष्ठाप्य मन्त्रं सूत्रेऽक्षसंज्ञिके || ४८ || प्रतिष्ठितस्य वै पश्चान्मुद्रां स्वां च प्रदर्शयेत् | [अक्षसूत्रमुद्रा] लग्नं तिर्यग्गतं कुर्यात्कुञ्चितं दक्षिणात्करात् || ४९ || चतुष्कमङ्गुलीनां च अङ्गुष्ठाग्रेण संस्पृशेत् | तर्जनादिक्रमेणैव कनिष्ठान्तं द्विजोत्तम || ५० || संस्पृशन्तं कनिष्ठान्तमङ्गुष्ठं चोर्ध्वमानयेत् | अक्षसूत्रस्य मुद्रैषा नित्यसन्निधिकारिणी || ५१ || जपं समारभेत्पश्चाददृश्यमितरैर्जनैः | [जपारम्भात्प्राक्कर्तव्योऽनुसन्धानविशेषः] करणं वाङ्मनश्चैव मन्त्रेण परमात्मना || ५२ || विष्णुना शक्तिरूपेण भावितं भावयेत्पुरा | चेतसा यदुपारूढं तद्युक्तं वस्तु वाग्गतम् || ५३ || वस्तुयुक्तं च चैतन्यं वाक्तृतीया च नारद | समारोहेत्कर्मपदे विकारत्वे शनैश्शनैः || ५४ || एवं विवर्तते मन्त्रस्तुर्याज्जाग्रावधि क्रमात् | प्रातिलोम्येन वै विप्र पुनरेव निवर्तते || ५५ || करणं वाक्स्वरूपं स्याद्वाक्च चिद्रूपिणी भवेत् | यच्चित्तं स भवेन्मन्त्रो यो मन्त्रस्स त्वजो हरिः || ५६ || ब्रह्माद्यजाग्रत्पर्यन्तं पुनरत्रैव संनयेत् | व्यापकं यत्परं ब्रह्म शक्तिर्नारायणी च या || ५७ || सा ह्येव परिणामेन तुर्याख्यं भजते पदम् | तुर्यं सुषुप्ततामेति सुषुप्तं स्वप्नतां व्रजेत् || ५८ || जाग्रत्वं स्वप्नमायाति एवं जाग्रादितः पुनः | प्. १३०) [जाग्रदादिभेदनिरूपणम्] भगवच्छक्तिपर्यन्तं सन्धानं चैकतां स्मरेत् || ५९ || यदनित्यमिदं विप्र चित्रवत्परिदृश्यते | बाह्यं विषयजालं च जाग्रदेतदुदाहृतम् || ६० || अनित्यप्रतिपत्तिर्या अस्मिन्नुपरि सर्वदा | भङ्गुरे स्वप्नतुल्यो यस्स स्वप्नो जाग्रकारणम् || ६१ || सुषुप्तं शान्ततां विद्धि स्वप्नवृत्तेः परं तु यत् | शक्तिरूपस्य वै विष्णोः प्राप्तस्तुर्यत्वमेति सः || ६२ || तया सह समत्वं च तुर्यातीतं तदुच्यते | मन्त्रातीतं परं मन्त्रं स्थूलसूक्ष्मद्वयं तथा || ६३ || आत्मानं पञ्चमं विप्र एकत्वेनानुसन्धयेत् | कृत्वैवमनुसन्धानं प्रारभेत जपं तथा || ६४ || [अन्तर्हृत्पुण्डरीकादिव बहिरक्षसूत्रे मन्त्रस्योदय क्रमभावनम्] हृत्पुण्डरीकमध्यस्थो भारूपः परमेश्वरः | निर्मलस्फटिकप्रख्यः प्रस्फुरन्यः स्वतेजसा || ६५ || तस्य शब्दमयी शक्ती(क्तिः ?)ज्वालावन्निस्सृतं महत् (ताहिया ?) | तद्धर्मधर्मिणी शुद्धा तस्या वै वर्णसन्ततिः || ६६ || निस्सृता मन्त्रजननी तदग्राच्चैव मन्त्रराट् | निस्सृतं(तु) यथा पुष्पं लताग्रान्मुनिसत्तम || ६७ || एवमेवाक्षसूत्रे तु उदितं च क्रमं स्मरेत् | हृल्लयं तल्लयीकुर्याद्धृल्लयस्य च तत्तथा || ६८ || एकस्य मन्त्रनाथस्य अन्तर्बाह्योदितस्य च | [जपसङ्ख्याविधानम्] यदैकं तज्जपो विप्र लक्षसंख्याभिधो भवेत् || ६९ || एवं लक्षस्थितो यस्माज्जपस्तु परिसंख्यते | प्रयत्नादक्षसूत्रेण जपसंख्या तु सा स्मृता || ७० || अनेन क्रमयोगेन विष्णुवत्करणं भवेत् | विष्णुवद्योगमाश्रित्य अक्षमक्षं समाहरेत् || ७१ || सह प्राणोदयेनैव निष्ठाक्षं यावदेव हि | प्. १३१) [मेरोर्लङ्घननिषेधः] ततः प्रदक्षिणं कुर्यान्मेरुमूर्तिस्थितस्य च || ७२ || निष्कलस्य च मन्त्रस्य तदूर्ध्वेऽवस्थितस्य च | ग्रन्धीरूपस्य च विभोरमलस्य महात्मनः || ७३ || पृष्ठेन लङ्घनं यस्माद्वर्जनीयं तु नारद | मेरुमूलेऽङ्गुलिप्रान्तं शिष्टं कृत्वा शनैश्शनैः || ७४ || अङ्गुष्ठस्य भ्रमं कुर्यान्नमेरोर्लङ्घनं भवेत् | अङ्गुष्ठमूलमध्ये च भ्रामणीयं च छत्रवत् || ७५ || विधिनाऽनेन जप्तव्यो मन्त्रो ध्यानसमन्वितः | [शान्तिकपौष्टिकादिनिमित्तभेदेन मन्त्रस्य भिन्नभिन्नरूपतया ध्यानविधानम्] शान्तिके स्फाटिकाभं च पीतं ध्यायेच्च पौष्टिके || ७६ || वश्ये किंशुकपुष्पाभमाकृष्टौ नृपशैलवत् | मारणे कज्जलाभं तु विद्वेषे चाषपक्षवत् || ७७ || उच्चाटने च धूम्राभं मन्त्रं ध्यायेज्जपेत्सदा | [परापरभेदेन जपस्य द्वैविध्यम्] परापरस्वरूपेण जपस्तु द्विविधः स्मृतः || ७८ || परदेहप्रदे (वे ?)शे च तत्त्वानां प्रेरणे द्विजं | क्रूरकर्मणि सिध्यर्थं जपो ज्योतिर्मयस्स्मृतः || ७९ || तत्रान्तर्लीनममलं शब्दं तु परिभावयेत् | भुक्तिमुक्तिप्रसिध्यर्थं दोषदुःखक्षयङ्करम् || ८० || शान्तौ तु सर्वकार्याणां सिध्यर्थमविचारतः | सुखसौभाग्यसिध्यर्थं तथाऽप्याधानकर्मणि || ८१ || जपो भवति शब्दाख्यस्तत्रान्तस्तु विभावयेत् | निशाम्बुकणसङ्काशप्रकाशात्मजनार्दनम् || ८२ || हृत्पद्मात्तु स्वमन्त्रेणं भावयेच्छब्दमुत्थितम् | नित्योदितं तु तेनैव प्रयत्नहरि (रहि ?) तेन तु || ८३ || प्राणापन्नपदस्थेन भावनामिश्रितेन च | जप्यमानस्तु वै मन्त्रस्सर्वकामफलप्रदः || ८४ || प्. १३२) अथ प्रयत्नजनितं शब्दमुत्थाप्य नारद | केवलं तु स्वमन्त्रेण बद्धलक्षस्तु पूर्ववत् || ८५ || अक्षरादक्षरं यातमृतदोषेण वर्जितम् | विलम्बितं च नातीतं तथाऽस्फुटपदोज्झितम् || ८६ || चित्तविक्षेपरहितमत्युत्कृष्टधियाऽन्वितम् | [अधिकारिणां सत्त्वादिगुणभेदेन जपकालभेदः] पूर्वान्हे मध्यभागेऽथ अपरान्हे दिनस्य तु || ८७ || क्रमाद्वै सात्विकादीनां वेलात्रयमुदाहृतम् | एवं कृत्वा जपन्विप्र विनिवेद्य च यागवत् || ८८ || मन्त्रात्मा भगवान्विष्णुरचिरात्सिद्धिदो भवेत् | प्रतिमासं द्विजश्रेष्ठ इष्ट्वाऽर्घ्यकुसुमादिभिः || ८९ || [अक्षसूत्रस्यपुनर्नवीकरण प्राचीनसूत्रपरित्यागयोर्विधानम्] सन्धानमुपसंहृत्य पूर्वं यच्चाक्षसूत्रकम् | विसर्जनाख्यमन्त्रेण मुद्रायुक्तेन नारद || ९० || सूत्रं चाभिनवं कृत्वा प्राग्वत्संस्कृत्य वेष्टयेत् | यथास्थितं मणीनां च योजनं चाचरेत्पुनः || ९१ || संस्नाप्य विधिवन्मन्त्री भूयस्तस्मिंस्तु विन्यसेत् | पुरा यदाहृतं चैव सूत्रच्छेदभयात्ततः || ९२ || पूजां कृत्वा तथा होमं तत्कर्मछिद्रकारणम् | पुराणसूत्रमादाय विभजेत्तन्तुजं च तत् || ९३ || बध्वा पाषाणखण्डे च अगाधेऽम्भसि निक्षिपेत् | विष्वक्सेनीयमन्त्रेण क्षिप्त्वाऽचम्य स्मरेद्धरिम् || ९४ || मूलमन्त्रण विप्रेन्द्र सप्तवारान्समाहितः | इति श्रीपञ्चरात्रे जयाख्यसंहितायां जपविधानं नाम चतुर्दशः पटलः || १४ || अथाग्निकार्यविधानं नाम पञ्चदशः पटलः श्रीभगवान् जपं कृत्वा यथाशक्ति जपान्ते पूजयेत्प्रभुम् | भक्तितश्चार्घ्यपुष्पाभ्यां ततो धूपानुलेपनैः || १ || पश्चात्सन्तर्पयेद्विप्र अग्निमध्यगतं प्रभुम् | प्. १३३) [कुण्डपरिकल्पनविधानारम्भः] देवादुत्तरदिग्भागे कुण्डं कुर्यात्सलक्षणम् || २ || देवागारात्तु वाऽन्यत्र भूमिभागे सलक्षणे | धूमनिर्गमनोपेतमण्टपे सुसमे शुभे || ३ || तत्र कुर्यात्पुरा वेदिं चतुरश्रां समन्ततः | सर्वलक्षणसंपन्नां कुर्यात्कुण्डं तदूर्ध्वतः || ४ || चतुरश्रं समं श्रेष्ठं वर्तुलं वा मनोरमम् | द्विग्विदिक्संस्थितं चैव काम्यानां कर्मणां हितम् || ५ || निष्कामो वा सकामो वा मध्यतस्सर्वदिक्षु च | [कुण्डानां दिग्भेदेन फलभेदः] ईशानदिग्गते कुण्डे मन्त्रात्मा तपितो हरिः || ६ || ददाति सिद्धिं भौलोकीं तत्सिद्धीप्सोर्महात्मनः | वियद्गतिपरः कुण्डे जुहुयात्पूर्वदिक्स्थिते || ७ || रिपूणां निग्रहार्थाय होममाग्नेयदिग्गते | होमं दक्षिणदिक्कुण्डे शान्त्यर्थी ह्याचरेत्सदा || ८ || उत्सादनार्थमन्येषां कुण्डे नैऋतदिग्गते | अपमृत्युजयार्थी च सर्वोपप्लवशान्तये || ९ || होमं वारुणदिक्कुण्डे मन्त्रस्सन्तर्पितो यदा | (हुत्वा वारुणदिक्कुण्डे मन्त्रं सन्तर्पयेत्सुधीः?) यदा वायव्यदिक्कुण्डे मन्त्रस्सन्तर्पितस्तदा || १० || विविधानि निधानानि प्रयश्छ(च्छ)त्यचिरेण तु | आरोग्यं संपदं पुष्टिं प्रददाति च मन्त्रराट् || ११ || तर्पितस्सौम्यदिक्कुण्डे नात्र कार्या विचारणा | [आहुतिसङ्ख्याभेदेन कुण्डानां मानभेदः] शतार्धसङ्ख्यहोमे च कुण्डं स्याद्द्वादशाङ्गुलम् || १२ || होमे साष्टशते चैवमुष्ट्यरत्निसमं भवेत् | होमे सार्धशते चैव सारत्निस्सकनिष्ठिका || १३ || हस्तं सहस्रहोमे तु अयुताख्ये द्विहस्तकम् | लक्षहोमे चतुर्हस्तं कोटिहोमेऽष्ट हस्तकम् || १४ || प्. १३४) [खातमानम्] विस्तारार्धेन सर्वत्र खातस्तु परिशस्यते | स्वीयात्प्राङ्मेखलामानादायं खाते युगं पुरः || १५ || त्यक्त्वा तु मेखलाबन्धं ततश्चैव समारभेत् | [कुण्डमानभेदेन मेखलानां मानभेदाः] प्रमाणं मेखलानां च यवद्वादशसम्मितम् || १६ || द्वादशाङ्गुलमानस्य कुण्डस्य परिकीर्तितम् | विस्तारतुल्यमुच्छ्रायो मेखलानां महामते || १७ || मेखलात्रितयं चैवमेकीकृत्य तु जायते | विस्तारस्तु ततोच्छ्रायस्सार्धं तु चतुरङ्गुलम् || १८ || रत्निमात्रस्य कुण्डस्य मेखला द्व्यङ्गुलाः स्मृताः | अङ्गुलं सकनिष्ठस्य कुण्डस्यार्धोत्तरं द्वयम् || १९ || त्र्यङ्गुला हस्तमात्रस्य कुण्डस्य समता स्मृता | द्विहस्तस्य द्विजश्रेष्ठ मेखलाश्चतुरङ्गुलाः || २० || चतुर्हस्तस्य कर्तव्यास्सर्वाश्चैव षडङ्गुलाः | अष्टाङ्गुलिश्च कुण्डस्य अष्टहस्तस्य कीर्तिताः || २१ || [नाभिलक्षणम्] दिङ्मध्येऽप्यथ कुण्डस्य नाभिं (?) कुर्याद्द्विजोत्तम | अश्वत्थपत्रसदृशीं मेखलोपरि संस्थिताम् || २२ || यदुक्तं प्राङ्मया मानं मेखलानां क्रमेण तु | एकीकृत्य तु तत्सर्वं मध्यात्सूत्रेण लाञ्छयेत् || २३ || अर्धमर्धेन्दुवद्बाह्यात्तत्र चातिशयेन च | मुखाद्यभ्यन्तरं यावत्क्रमेणानेन ह्रासयेत् || २४ || उभयोः पक्षयोर्विप्र गजोष्ठाकृतिवत्तथा | पृष्ठतो मेखलमानात्किञ्चित्कार्या द्विजोन्नता || २५ || एकमेखलमानाच्च त्र्यंशेनार्धेन वा मुने | क्रमेण ह्रासयेत्तावत्तावद्वै मेखलोच्छृतिः || २६ || ईषदुच्चा भवेत्सा वै मेखलोपरि संस्थिता | एकमेखलतुर्यांशमानं कुण्डान्तरे द्विज || २७ || प्. १३५) योन्येषु (?) निस्सृतं कुर्यात्तमेवाधोगतं तु वै | आक्रम्य मेखलाभूमिं यावत्खातं तु संस्पृशेत् || २८ || इत्येतत्कथितं नाभेर्लक्षणं च यथास्थितम् | साधनं चतुरश्रस्य विद्धि कुण्डस्य यागवत् || २९ || चतुरश्रस्य वै मध्ये सूत्रं कृत्वा भ्रमं (?) ततः | चतुरश्रं समं कुर्यात्सर्वदिक्कोण वर्जितम् || ३० || [कुण्डानां विकल्पः] नित्यनैमित्तके होमे वृत्तं वा चतुरश्रकम् | त्रिमेखलं तु कर्तव्यमोष्ठनाभिसमन्वितम् || ३१ || द्विमेखलं वा विप्रेन्द्र सुश्लक्ष्णं च मनोरमम् | एकमेखलकं वाऽपि कुण्डं क्षेपणि(?)णकर्मणि || ३२ || [कुण्डे हवनस्य प्राशस्त्यम्] कुर्याच्चलं स्थिरं वाऽपि न हि कुण्डं विना शुभम् | हवनं विप्र मन्त्राणां तस्मात्कुण्डं च साधयेत् || ३३ || [देशकालवैगुण्येन कुण्डस्यासम्भवे हवनप्रकारः] देशकालवशाच्चैव कुण्डं न घटते यदि | तं विना हवनच्छेदो न कार्यस्सिद्धिमिच्छता || ३४ || शोधिते ह्युपलिप्ते च स्थले चलमृदान्विते | होमस्तु विहितस्सम्यक् मन्त्रस्यामन्त्रितस्य च || ३५ || पिण्डिका चतुरश्रा तु बहिस्सर्वत्र शस्यते | मध्ये पद्मं प्रकुर्वीत श्रीपद्मं पद्ममध्यगम् || ३६ || एवं कृते शुभे कुण्डे अग्निकार्यं समाचरेत् | यागगेहात्तु वाऽन्यस्मिन्यदि गेहे महामुने || ३७ || पूर्ववद्वारयागं तु कृत्वा संप्रविशेत्ततः | तत्रैव यदि वा कुर्याद्दत्वाऽन्यच्चासनं शुभम् || ३८ || तत्र पूर्वोक्तविधिना उपविश्य समाहितः | [कुण्डसंस्कारप्रकारः] कुण्डस्यारम्भकाले तु संस्कारा न कृता यदि || ३९ || निष्पन्नस्य च ते सर्वे विधेयाश्च क्रमेण तु | ताडयेदस्त्रमन्त्रेण पुष्पैर्दक्षिणपाणिना || ४० || प्. १३६) गृहीत्वा चैकदेशात्तु कुण्डमध्याच्च मृत्कणम् | अङ्गुष्ठानामिकाभ्यां तु हृदयेन समुद्धरेत् || ४१ || अस्त्रेणैव समीकृत्य न स्यान्निम्नोन्नतं यथा | सेचयेत्कवचेनैव कुट्टयेत्तदनन्तरम् || ४२ || लेपयेद्गन्धतोयेन अस्त्रेण परिशोधयेत् | उल्लिखेदस्त्रराजेन दर्भकाण्डेन यत्नतः || ४३ || भूमावभ्यन्तरे कुण्डे दक्षिणाशादितः क्रमात् | उत्तराशावधिर्यावद्दद्याद्रेखात्रयं समम् || ४४ || प्रत्यग्भागात्समारभ्य नयेत्पूर्वमुखं तु तत् | तन्मध्ये त्रितयं चान्यद्रेखाणामुत्तरामुखम् || ४५ || एवमुल्लिख्य विधिना प्रोक्षयेत्कवचेन तु | अच्छिन्नाग्रैस्ततो दर्भैरस्त्रमन्त्राभिमन्त्रितैः || ४६ || कुण्डभित्तिगणं सर्वं प्रोत्थितं परिभूषयेत् | कृत्वैवमक्षवाटं तु कुण्डसंस्कारमुत्तमम् || ४७ || [नाभिपूजनम्] समभ्यर्च्य ततोऽर्घ्याद्यैर्मध्यतः प्रणवेन तु | तेनैव विधिना नाभिं पूजयेच्चन्द्रसन्निभाम् || ४८ || [मेखलापूजनम्] मेखलात्रयपूजायां हृन्मन्त्रं तु प्रयोजयेत् | [मेखलात्रये तत्त्वत्रयस्य पूजनम्] ततस्तत्वत्रयं पूज्यं मेखलात्रितयोपरि || ४९ || प्रधानपुरुषेशाख्यं प्रणवत्रितयेन च | अर्घ्यैर्विलेपनैर्धूपैरिष्ट्वा कुण्डं पुरा द्विज || ५० || [कुण्डमध्ये आधारशक्त्याद्यासनकल्पनपूर्वकं नारायणाख्यायाः शक्तेः स्थापनप्रकारः] चतुष्पथे तु कुण्डस्थे सपुष्पं दर्भविष्टरम् | हृन्मन्त्रेण च विन्यस्य तत्रोपर्यथ पूजयेत् || ५१ || सम्पूज्याग्निं समादाय सम्भ्राम्यायतनं त्रिधा | योनिमार्गेण निक्षिप्य वह्निबीजमनुस्मरेत् || ५२ || प्. १३७) आधारशक्तिपूर्वं च आसनं वैष्णवं च यत् | तत्र नारायणाख्यां वै शक्तिं विद्योतलक्षणाम् || ५३ || लक्ष्म्याकृतिपदं प्राप्ताममृतावृतदेहिनीम् | सर्वातिशयरूपां च सर्वशक्तिसमन्विताम् || ५४ || सौकुमार्येण रूपेण सर्ववस्त्वन्तरस्थिताम् | शाश्वतीं सृष्टिमार्गेण अवतार्य हृदम्बुजे || ५५ || पुरा ध्यानक्रमेणैव हृन्मन्त्रेण हृदम्बुजात् | स्वनामपदयुक्तेन सनमःप्रणवादिना || ५६ || रेचकेन विनिक्षिप्य कुण्डहृत्पद्ममध्यतः | संपूज्य गन्धपुष्पाद्यैः पद्ममुद्रां पदर्श्य च || ५७ || चक्रमन्त्रेण संयुक्तामेवं कुर्याच्च सन्निधिम् | [वह्नेरुत्पादनक्रमः] आदौ च भगवच्छक्तेर्वह्नेरुत्पादनाय च || ५८ || आदायारणिजं चाग्निं सूर्यकान्तोद्भवं तु वा | लोहपाषाणजं वाऽथ अदुष्टं लौकिकं तु वा || ५९ || तैजसे ताम्रपात्रेऽथ मृण्मयेऽभिनवे तथा | [अग्नेस्ताडनप्रोक्षणादयो बाह्याः पञ्चसंस्काराः] सन्ताड्य चास्त्रमन्त्रेण प्रोक्षयेच्छिखया च तम् || ६० || अर्चयेत्कवचेनैव कवचेनावकुण्ठ्य च | प्लावयेदमृतेनैव नेत्रमन्त्रेण नारद || ६१ || [अग्नेः स्वात्मन्युपशमापादनपूर्वकं सृष्टिक्रमेण पदात्पदमवतारितस्य नाभिगतत्वचिन्तनम्] पूरकेणोपसृत्याथ स्वात्मन्युपशमं नयेत् | क्रमादानन्दशक्तौ तु प्राग्वदुद्धृत्य योजयेत् || ६२ || सृष्टिक्रमेण तद्भूयो ह्यवतार्य पदात्पदम् | शब्दास्पदावधिर्यावत्स्मरेन्नाभिगतं ततः || ६३ || [नाभिकुण्डस्थतया भाविते तेजोविशेषे होमक्रमः] प्रणवेन तु नाभिस्थमग्नीषोमात्मकं यजेत् | त्रिधा समिद्भिर्भिन्नेन अद(ह ?) मादिभिरादरात् || ६४ || त्रयाणामथ बीजेन भिन्नेनाथ यजेद्द्विज | प्. १३८) एकाहुतिप्रदानेन तत्रस्थो बुध्यते यथा || ६५ || तेन मार्गेण जप्तव्यं ध्यात्वा चाज्यामृतं हृदि | [तस्याग्नेः स्वमन्त्रेण नाभीकुण्डादुत्थापनम्] ततः स्वमन्त्रेणोत्थाप्यो नाभिकुण्डाद्धुताशनः || ६६ || [अग्नेर्मन्त्रः] कृत्वाऽदौ प्रणवं विप्र तदन्ते त्वजितं न्यसेत् | अशेषभुवनाधारमथ ऊर्ध्वेऽस्य योजयेत् || ६७ || ऊर्ध्वाधोभ्यां च तस्यैव भूधरोर्जौ न्यसेत्ततः | त्रैलोक्यैश्वर्यदं मूर्ध्नि बीजस्यास्य महामते || ६८ || ततः क्रमेण संयोज्य धरेशाद्यं च सप्तकम् | सुपर्णसंज्ञापर्यन्तं सप्तकस्यास्य योजयेत् || ६९ || उर्ध्वाधोभ्यां च नालं तु मायाव्योमे तथोपरि | तेजसे पदमादाय ततः सप्तार्चिषे पदम् || ७० || स्वाहासमन्वितश्चाग्नेर्मन्त्रो ह्यष्टादशाक्षरः | [स्वमन्त्रेण नाभीकुण्डादुद्बोधितस्य तेजसः पात्रस्थवह्नौ प्रक्षेपः] धूधूशब्दशरीरान्तं (?) सच्छब्दालोकबोधितम् || ७१ || विकल्पधूमनिर्मुक्तं सच्चैतन्यस्फुलिङ्गिनम् | नादान्तेन क्षिपेद्विप्र सिद्धिमार्गेण पूर्ववत् || ७२ || पुरा हृते च पात्रस्थे वन्हौ वन्हि (ह्निं ?) विशुद्धये | करद्वयेन चादाय भ्राम्य कुण्डे विनिक्षिपेत् || ७३ || [कुण्डमध्ये प्रक्षिप्तस्याग्नेश्चिन्तनविशेषः] कुण्डमध्यस्थया चाथ शक्त्या नारायणाख्यया | नासाग्रेण तमग्निं च घ्रातं ध्यायेत्स्वहृद्गतम् || ७४ || [वह्नेरुद्बोधनम्] त्रिपञ्च सप्त वा दद्यात् समिधे हृदयेन च | वह्नेरुद्बोधनार्थं तु नेत्रमन्त्रेण नारद || ७५ || [पर्यग्निकरणम्] पर्यग्निकरणं कुर्याद्धृदयेनार्द्रपाणिना | [परिस्तरणम्] स्तरं ततोऽस्त्रमन्त्रेण चतुर्दिक्षु त्रिधा त्रिधा || ७६ || प्. १३९) प्रागादौ तु यथामूलं तदग्रैश्छादितं भवेत् | कुर्यात् स्तरसमाप्तिं तु सर्वदाऽत्मन उत्तरे || ७७ || स्तरोपर्यथ संस्थाप्य वन्हिकार्योपयोगि यत् | [प्रणीतापात्रेघ्मस्रुक्स्रुवाद्युपकरणद्रव्यसादनम्] प्रणीतापात्रयुग्मं तु तथेध्मयुगलं तु वै || ७८ || स्रक्स्रुवद्वितयं चैवमाज्यस्थालीं तथैव हि | सर्वं संप्रोक्ष्य मूलेन निधायाथ स्तरोपरि || ७९ || प्रणीतापात्रमापूर्य तोयेन तदनन्तरम् | तत्रासनवरं ध्यात्वा विष्णुमूलेन विन्यसेत् || ८० || याग(गे ?)यज्ञपिति(ते?)र्मन्त्रमेवं संस्थाप्य चोत्तरे | [परिधिविधानम्] प्रदद्याच्च ततो विप्र परिधीन्हृदयेन च || ८१ || यज्ञकाष्ठोद्भवान्स्पष्टान्सपर्णान्हस्तसम्मितान् | चतुर्यवपरीणाहानगारे हस्तसम्मिते || ८२ || अन्येषां द्व्यङ्गुला वृद्धिः परिधीनां द्विजोत्तम | यावदष्टकरं कुण्डमत ऊर्ध्वं न कारयेत् || ८३ || [ब्रह्मादिलोकपालार्चनम्] विष्टराणि ततो दद्यात्तेषु पृष्ठे हृदा मुने | तत्पृष्ठे पूजयेन्नित्यं लोकपालान्स्वदिक्स्थितान् || ८४ || ब्रह्ममाहेन्द्ररुद्रादीन्गन्धपुष्पादिभिः शुभैः | [स्रुक्स्रुवयोः संस्कारक्रमः] स्रुक्सुवाभ्यां च संस्कारमुपयामाग्रगैः कुशैः || ८५ || स्रुवं द्वादशधा शोध्यं ह्यस्त्रेणोष्णेन वारिणा | तथैव द्विजशार्दूल स्रुक्संशोध्या द्विधैव तु || ८६ || संक्षाल्यौ स्रुक्स्रुवौ ह्येवं शिखामन्त्रेण वै ततः | कुण्डस्थेनाग्निना ताप्यौ [स्रुक्स्रुवयोर्लक्षणम्] तयोर्लक्षणमुच्यते || ८७ || स्वबाहुदण्डमानेन मन्त्रज्ञः कल्पयेत्पुरा | प्. १४०) दैवीस्रुक्सिद्धये काष्टं विस्ताराच्च षडङ्गुलम् || ८८ || दैर्घ्याद्भागद्वयेनाथ दण्डमष्टास्रमुच्यते | सार्धद्व्यङ्गुलमानं तु कृत्वा शेषं तु शोधयेत् || ८९ || कलशं दण्डमूले तु कुर्यात्पद्माननं शुभम् | कर्णिकास्थो यथा दण्डो भवेद्वै मुनिसत्तम || ९० || त्रिवलिं त्वथवा शङ्खं यथा दण्डस्तदास्यगः | कृत्वाऽग्रस्थं द्विधा भागं समांशेन प्रयत्नतः || ९१ || द्व्यङ्गुलं चाथ भागस्य वैपुल्यं चाग्रतः क्रमात् | दण्डावस्थस्य भागस्य त्र्यङ्गुलं परितः समम् || ९२ || दत्वा भ्रमं ततः कुर्यान्निम्नं खातं सलक्षणम् | तन्मध्ये पङ्कजं कुर्यात्प्रफुल्लं चोर्ध्वपल्लवम् || ९३ || आज्यकोशं तु तं विद्धि सप्तपञ्चपलोपमम् | पद्ममध्ये निमग्ना च कर्णिका वै सकेसरा || ९४ || द्वादशारं बहिश्चक्रं पद्मस्याष्टदलस्य च | पद्मबाह्ये तु कर्तव्यं शङ्खं कोणचतुष्टये || ९५ || ततोऽग्रभागस्य मुने पार्श्वयोरुभयोरपि | एकैकमङ्गुलं शोध्यं स विभाज्यस्त्रिधा ततः || ९६ || कर्णमेकेन भागेन मध्ये त्वस्यौ (त्वंसौ ?) द्वयेन तु | विच्छिन्नं वक्त्रमंसाभ्यां मध्यमेकाङ्गुलेन तु || ९७ || विस्तारं कर्णतुल्यं तु वर्जयित्वा ततः पुरा | कर्णदेशात्समारभ्य शेषं तु परिशोधयेत् || ९८ || क्रमागतेन सूत्रेण स्याद्वाराहाननं यथा | ततः पुष्करपत्रात्तु मुखाग्रं यावदेव हि || ९९ || कुर्यादाज्यप्रणालं तु समं न्यूनाङ्गुलं मुने | ईषद्वै क्रमसूक्ष्मं च नाज्यं याति यथा द्रुतम् || १०० || हस्तमात्रं ततः कुर्यात्स्रुवं विप्र मनोरमम् | विस्तारं द्व्यङ्गुलं काष्ठं वैपुल्याच्च तदर्धतः || १०१ || विस्तारमानादग्रेऽस्य वृत्तं कुर्याद्द्विरङ्गुलम् | क्रमात्तन्निम्नखातं च गोलके चैव मुद्रितम् || १०२ || प्. १४१) मध्ये मृगपदाकारचिन्हेन तु विराजितम् | विस्तारस्य त्रिभागेन ग्रीवा साश्रा त्रिरङ्गुला || १०३ || मूले चोभयतः कुर्यात्स्वस्तिकं द्व्यङ्गुलायतम् | विचित्ररचनायुक्तं दण्डं श्लक्ष्णं तु वा भवेत् || १०४ || स्रुवमेवंविधं कुर्याद्धोमकर्मणि साधकः | संस्कारार्थं ततोग्नेर्वै तेन होमं समाचरेत् || १०५ || [अग्नेः संस्कारद्वैविध्यम्] अग्नेश्च दश संस्काराः कुण्डमध्यगतस्य च | बाह्ये तु पञ्चसंस्कारा एवं पञ्चदश स्मृताः || १०६ || प्रोक्षणं ताडनं बाह्ये अर्चनं चावकुण्ठनम् | अमृतीकरणं वन्हेः पञ्चैते कथिताः पुरा || १०७ || [अग्नेर्गर्भन्यासादिसंस्काराः] कुण्डमध्ये तु वै विप्र प्राग्लक्ष्म्यां तु प्रयोजनम् | गर्भन्यासं पुंसवनं ततो वै वक्त्रकल्पना || १०८ || सीमन्तं वक्त्रनिर्यासं निष्क्रामं जातकर्म च | नामध्येयं च भोगं च प्राशनाद्यं द्विजाखिलम् || १०९ || अधिकारं च सर्वान्वै हृदा कुर्याच्च नारद | [अथाज्यसंस्काराः] आज्यकर्मणि वै कुर्याद्दशैवं विधिपूर्वकम् || ११० || अधिश्रयणमादौ हृन्मन्त्रेण कवचेन च | संप्लवोत्प्लवने चैव उपाधिश्रयणं तथा || १११ || प्रसादीकरणं चैव पवित्रीकरणं तथा | ततो नीराजनं नाम त्रीण्येतानि च नारद || ११२ || हृन्मन्त्रेण च कार्याणि कवचेनावकुण्ठनम् | अवलोकामृतीकारौ तेनैव तदनन्तरम् || ११३ || भाण्डस्थस्य यदाज्यस्य दर्भैः प्रज्वलितैः पुरा | स्पर्शनं विद्धि संस्कारमधिश्रयणसंज्ञकम् || ११४ || प्. १४२) ततः पाणिद्वयेनैव अनामाङ्गुष्ठपीडितम् | मध्यनम्रं कुशाकाण्डं गृहीत्वाऽज्योपरि || ११५ || नयेत्तच्चनयेद्विप्र तमग्नौ निक्षिपेत्कुशम् | संप्लवोत्प्लवनावेतौ संस्कारौ परिकीर्तितौ || ११६ || उपाधिश्रयणं नाम यत्तद्रावणमुच्यते | परिवर्तनमन्यस्मिन्भाण्डे दोषापनुत्तये || ११७ || प्रसादीकरणं ह्येतत्ततो दार्भं पवित्रकम् | विनिक्षिपेच्च तन्मध्ये पवित्रीकरणं च तत् || ११८ || कुण्डादुल्मुकमादाय ज्वलन्तं धूमवर्जितम् | तेनावर्तं सकृद्विप्र तद्वै नीराजनं स्मृतम् || ११९ || नीरजीकृत्य तत्पश्चात्कवचोदरगं स्मरेत् | अवकुण्ठनमेतद्धि तर्जन्या यत्प्रदक्षिणम् || १२० || तेजसा हृदयस्थेन दृग्गतेनावलोकनम् | निरीक्षणमिदं विप्र ततस्तत्रोपरि स्मरेत् || १२१ || चन्द्रमण्डलमध्यस्थं धेनुमुद्रासमन्वितम् | मन्त्रं वै सौरभेयं च स्फुरदिन्दुशतप्रथम् || १२२ || तदन्तरस्थं मन्त्रेशं हिमाचलनिभं स्मरेत् | तत्स्रुतैरमृतौघैश्च शशिजैर्धेनुजैरपि || १२३ || सर्वसंस्कारसंयुक्तं स्मरेदाज्यं च भावितम् | अमृतीकरणं नाम इदं ते संप्रकाशितम् || १२४ || अवलोक्यामृतीकृत्य दातव्ये चैव चक्षुषी | [स्रुक्स्रुवाभ्यां कुण्डस्य दक्षिणवामभागयोः क्रमादाज्यहोमः] स्रुव(च ?) माज्येन संपूर्य सूर्यबीजेन चिन्तयेत् || १२५ || सहस्रांशुं च तन्मध्ये दद्यात्कुण्डस्य दक्षिणे | अपरस्मिन्स्रुवे ध्यात्वा सोमाख्येनाक्षरेण तु || १२६ || पूर्णं शशाङ्कबीजं च प्रदद्यात्तु तदुत्तरे | [कुण्डस्य मध्यभागे अग्नीषोमात्मकस्य यजनप्रकारः] ताभ्यामभ्यन्तरे पश्चादग्नीषोमात्मकं यजेत् || १२७ || यद्बीजं हि सतत्त्वस्य शरीरस्याखिलस्य च | अविभागेन वै यत्र संस्थिता देहधातवः || १२८ || प्. १४३) बहिः (र्हि ?) कण्ठोपमं ध्यात्वा लक्ष्मीबीजान्तरस्थितम् | उक्तं (क्त ?) बीजद्वयेनैव मन्त्रेणैकीकृतेन वै || १२९ || प्राग्वद्धृतं स्वयं दद्याद्ध्यान(त ?)मस्त्रसमन्वितम् | [तिलादिहोमद्रव्याणामाज्येन संस्कारः] ततश्चाज्येन संस्कार्याः सर्वहोम्यास्तिलादयः || १३० || [अग्नेर्गर्भाधानादिसंस्काराणां विवेचनम्] अग्नेर्होमेऽथ कर्तव्यः सर्वसंस्कारसिद्धये | हृदाऽनलं पुटीकृत्य कर्मनाम समुच्चरेत् || १३१ || संपादयामि स्वाहान्तः सर्वकर्मस्वयं क्रमः | [अथ तत्र गर्भाधानसंस्कारविवेचनम्] श्रीकुक्षिकुहरे यद्वै बहिष्ठस्य प्रवेशनम् || १३२ || गर्भाधानं तु तं विद्धि संस्कारं प्रथमं मुने | [पुंसवनम्] घ्राणयोगाच्च या शक्तिर्वन्हि(न्हेः ?) श्रीजठरे स्थिता || १३३ || ज्वालारूपाऽक्षया सूक्ष्मा तस्याश्चित्प्रसरो हि यः | भगवच्छक्तिचैतन्यसंसर्गाच्च शनैः शनैः || १३४ || सत्वे (स्मृत्वै ?) तज्जुहुयादाज्यं तन्मन्त्रेणोदितेन च | भवेत्पुंसवनं चाग्नेश्चिच्छक्तिनयनात्तु वै || १३५ || [अथ वक्त्रकल्पना] तस्य चार्चिष्मतो वक्त्रात्प्रबुद्धस्योद्भवन्ति ताः | आलोके दहने शक्त्या (क्ता ?) निराकारस्य सांप्रतम् || १३६ || गोलकाकृतिमात्रस्य विद्धि तां वक्त्रकल्पनाम् | [सप्तानां वक्त्रार्चिषां नामानि] तासां वक्त्रार्चिषां चैव शृणु नामानि नारद || १३७ || प्रभा दीप्तिः प्रकाशा च मरीचिस्तपनी तथा | कराला लेलिहा चैव कुण्डं व्याप्य व्यवस्थिताः || १३८ || ईशपूर्वाग्निदिग्भागे प्रभाद्यं त्रितयं स्मृतम् | रक्षोवारुणवायव्ये मरीच्याद्यं त्रयं तु तत् || १३९ || प्. १४४) उदग्दिङ्मध्यतो याम्ये स्थितैका लेलिहाऽभिधा | [वक्त्रार्चिषां बीजगणः] आसां बीजगणं विश्वं वह्निबीजावसानकम् || १४० || पूर्वोदितक्रमेणैव प्रणवाद्यं नमोऽन्तकम् | [अथ सीमन्तः] अव्यक्ताश्च तदन्तस्थाः शिरःपाण्यादयोऽखिलाः || १४१ || स्वां स्वां वै कर्मसीमानं प्रबुद्धाः संश्रयन्ति ये | विभागकल्पना तेषां सीमन्तं तदुदाहृतम् || १४२ || [अथ वक्त्रनिर्यासः] नरसिह्मादयो वक्त्राः स्फुरत्तारकसन्निभाः | शक्तिचैतन्यमध्यस्थाः सा च शक्तिस्तदात्मना || १४३ || सम्यक् परिणता विप्र तस्मात्ता निष्क्रमन्ति वै | स्वस्वस्थाने स्ववीर्येण वक्त्रनिर्यास उच्यते || १४४ || [अथ निष्क्रामः] मुखश्वासो (से ?) न निर्यातध्यानं श्रीकुक्षिगोचरात् | निष्क्रामः सह वै वह्नेः संस्कारो जुहुयाच्च तम् || १४५ || [अथ जातकम्] निस्सृतस्य च वै गर्भाज्जातकं तदुदाहृतम् | [प्राशनम्] हिरण्यमधुसर्पिभ्यां स्नानं संप्राशनं द्विज || १४६ || [नामकरणम्] कुर्यात्तदनु वै नाम जातस्याग्नेः प्रयत्नतः | नामकारावसानं च प्रणवं वैष्णवाग्नये || १४७ || [भोगः] अन्नप्राशनपूर्वस्तु भोगो दारावसानिकः | अभ्यङ्ग एकः संस्कारो होतव्यः पूर्ववद्द्विज || १४८ || [अथाधिकारः] ततोऽधिकारसंज्ञस्तु संस्कारो बहुरूपधृत् | [उक्तसंस्कारसंस्कृतस्याग्नेर्नारायणत्वेन ध्यानम्] इति संस्कारसंशुद्धं वह्निं नारायणात्मकम् || १४९ || प्. १४५) चतुर्भुजं चतुर्वक्त्रं शङ्खचक्रगदाब्जिनम् | कुण्डमध्यस्थितं ध्यात्वा उदयार्कसमप्रभम् || १५० || [ज्वालामार्गेण हृदये प्रविष्टत्वभावनम्] तत्र तज्जनितं(तां ?) कुण्डाज्ज्वालामार्गेण चागताम् | परानन्दप्रकाशाभांनासिक्या(?)द्वादशावधि || ५१ || ततोऽवतारयोगेन प्रविष्टां भावयेद्धृदि | [अथ संस्कृतस्याग्नेः पूजनम्] संस्कृतस्याथ वै वह्नेः पूजां कृत्वा तु भक्तितः || १५२ || पुष्पैर्धूपेन दध्ना च तिलैरक्षतमिश्रितैः | अन्नैर्भक्ष्यफलोपेतैराज्येन क्रमशो द्विज || १५३ || संपूर्णहृदयेनैव स्वमन्त्रेणानलं ततः | तर्पयेत यथाशक्ति तिलाज्याद्यैरनुक्रमात् || १५४ || अग्नेः पूर्णाहुतिं दत्वा वौषडन्तां घृतेन च | [अग्निमध्ये देवस्य पूजनम्] ततः पूजा प्रकर्तव्या देवस्याग्नेस्तु मध्यतः || १५५ || [तत्र प्रथमं वन्हेः स्मरणप्रकारः] पूर्वं तं च स्मरेद्वह्निं साकारं निष्कलप्रभम् | स्वयोगबलवीर्येण व्यापकं सर्वदिग्गतम् || १५६ || सर्वतः करवाक्पादं सर्वतोऽक्षिशिरोमुखम् | कदम्बकुसुमाकारं स्वप्रभाभिर्विराजितम् || १५७ || कुण्डमापूरयन्सर्वं सर्वाकृत्या च सर्वतः | एवं हि विततो व्यापी निराकारः सुदीप्तिमान् || १५८ || [व्योमवद्व्यापकतया भावितस्याग्नेर्मध्ये देवयजनम्] वह्निं तु व्योमवद्ध्यात्वा तन्मध्ये पूजयेत्प्रभुम् | गन्धपुष्पादिना चैव [अस्त्रादियजनम्] ततोऽस्त्रं कवचं यजेत् || १५९ || दक्षिणे बाहुमार्गे तु अनिरुद्धसमीपतः | अग्नीषोमात्मकं तत्र आत्मरक्षार्थमेव च || १६० || प्. १४६) देवं चक्रस्थितं चक्रं [अथ होमविधानम्] ततो होमं समारभेत् | तिलैर्घृतसमायुक्तैः द्रव्यैः सर्वैश्च याज्ञिकैः || १६१ || सुगन्धाज्यप्लुतैश्चैव कुर्वीत विधिवत्ततः | [लक्ष्म्यादीनां होमसङ्ख्याविधानम्] मूलमन्त्राच्चतुर्थांशं लक्ष्म्यादीनां च होमयेत् || १६२ || अङ्गानां शक्तिहोमाच्च अर्धं तु जुहुयात्ततः | तदर्धेन तु वक्त्राणां होमं कुर्याद्द्विजोत्तम || १६३ || वक्त्रेभ्यः कौस्तुभादीनामर्धं तु परिहोमयेत् | सत्यादीनां तदर्धं तु तेभ्यश्चार्धं परेऽक्षरे || १६४ || अर्धमर्धांशसंयुक्तमधिकं चाग्रवर्तिनाम् | [जपानुगुण्येन होमस्य कर्तव्यता] जपकाले यथा होमे कर्तव्यं सिद्धिमिच्छता || १६५ || एवं ज्ञात्वा ततः कुर्यात्कोटिहोमाच्छतावधि | यस्मादतर्पितो मन्त्रो न कदाचित्फलप्रदः || १६६ || कामैरवश्यफलदैर्देशकालसमुद्भवैः | [होमद्रव्यनिरूपणम्] तिलैर्घृतेन पयसा दध्ना वा पायसेन तु || १६७ || सिद्धान्नैः साधितैर्भक्ष्यैर्बीजलाजैश्च तण्डुलैः | मूलैः फलैः पल्लवैर्वा सुप्रशस्तैश्च कोमलैः || १६८ || सुगन्धैः स्थलपद्माद्यैः पुष्पैर्विप्र सितादिकैः | गुग्गुलेनाज्यमिश्रेण साज्यश्रीवेष्टकेन वा || १६९ || धात्रीफलैर्वा सरसैरुत्पलैश्च शुभैस्तथा | सुसितैः सितररक्तैश्च पद्मैर्बिल्वैः सुशोभनैः || १७० || दूर्वाकाण्डैरभग्नाग्रैः दन्तिसद्दन्तनिर्मलैः | एधोंभिर्ब्रह्मवृक्षोत्थैः क्षीरद्रुममयैस्तथा || १७१ || अमृता क्षीरसंयुक्ता औदुम्बर्यो मधुप्लुताः | अच्छिन्नाग्रा ह्यभग्नाश्च कण्टकैः परिवर्जिताः || १७२ || सर्वास्त्रिमधुरक्ताश्च घृतयुक्तास्तु वा पुनः | प्. १४७) [होमद्रव्यभेदेन फलभेदः] आज्ययुक्तैस्तिलैः शान्तिः सिद्धयः सकलास्तथा || १७३ || घृतेन पयसा दध्ना होमस्तृप्तिं प्रयच्छति | पायसेन तु सिद्धान्नैर्भक्ष्यैः पुष्टिः सदा भवेत् || १७४ || बीजैर्धान्यैस्तण्डुलैश्च तर्पितो मन्त्रराड् भवेत् | प्रयच्छति सदा श्रेयः प्रसन्नः परमेश्वरः || १७५ || पल्लवैः फलमूलैश्च होमस्तुष्टिं प्रयच्छति | जहाति चापमृत्युं च रोगांश्चोपशमं नयेत् || १७६ || तर्पितः स्थलपद्माद्यैः पुष्पैश्चान्यैः सितादिकैः | सौभाग्यमतुलं विप्र अचिरात्संप्रयच्छति || १७७ || गुग्गुल्वाद्यैर्द्विजारोग्यं शुभैर्धात्रीफलैस्तथा | आज्याक्तैः पद्मबीजैश्च लक्ष्मीं शीघ्रं प्रयच्छति || १७८ || उत्पलैर्वश्यकामस्तु भोगकामश्च होमयेत् | दूर्वामृताभिर्होमेन आयुषो वृद्धिमाप्नुयात् || १७९ || एधोभिश्च शुभैर्होमाद्दोषशान्तिप्रदः प्रभुः | [आहुतिप्रमाणभेदः] तिलानां शस्यते होमः सततं मृगमुद्रया || १८० || घृतस्य काषि(र्ष ?)को होमः क्षीरस्य च विशेषतः | शुक्तिमात्राहुतिर्दध्नः प्रसृतिः पायसस्य च || १८१ || ग्रासार्धमात्रमन्नानां भक्ष्याणां स्वप्रमाणतः | सर्वेषामेव बीजानां मुष्टिना होममाचरेत् || १८२ || अग्राङ्गुलिस्तु लाजानां शालीनां पञ्चकं हुनेत् (?) | फलानां स्वप्रमाणं च पल्लवानां तथैव च || १८३ || त्रितीयं मूलखण्डानां पुष्पाणां स्वप्रमाणतः | कर्कन्धुमात्रगुलिका होतव्या गुग्गुलैस्सदा || १८४ || धात्रीफलप्रमाणां वा संभवे सति होमयेत् | दूर्वाकाण्डानि विप्रेन्द्र चतुरष्टाङ्गुलानि वा || १८५ || समित्प्रदेशमानेन समच्छेदा त्वगन्विता | [स्वाहाकार वषट्कार वौषट्कारादिप्रयोगे निमित्तभेदनिरूपणम्] स्वाहाकारं सदा होमे पूर्णायां वौषडेव च || १८६ || प्. १४८) तमेव शान्तिके कुर्याद्वषड्वाऽप्ययने सदा | स्वधा पितृक्रियायां च फट्कारः क्षयकर्मणि || १८७ || विद्वेषे हुं वशे हीं च नमो मोक्षप्रसिद्धये | [पूर्णाहुतिप्रकारः] कर्महोमावसाने च घृतेनापूर्य च स्रुव(च)म् || १८८ || अभावात्तु प्रभूतस्य (?) होमद्रव्येन पूरयेत् | तत्रोपरि घृतं दद्यात्ततोर्घ्यकुसुमादिभिः || १८९ || मूलदेशात्समारभ्य स्रुक्संपूज्या स्रुवान्विता | घृतयुक्तं तु तद्द्रव्यं स्रुचः पुष्करकुक्षिगम् || १९० || द्रवच्चन्द्रोपमं ध्यायेत्ततः पूर्णं समुद्धरेत् | स्रुग्दण्डं देहनाभौ तु मूले संरोध्य संस्मरेत् || १९१ || निष्कलं मन्त्रनाथं तु पूर्णशीतांशुसन्निभम् | आमूलाच्च मरुच्छक्त्या प्रोद्धरेच्च स्वविग्रहात् || १९२ || विधाय चेश्वराधारे तस्माद्धारामृतं महत् | नासिकासन्धिमार्गेण स्रुक्पद्मे पतितं स्मरेत् || १९३ || सामृतामाज्यधारां च वसुधारामिव क्षिपेत् | मुखमध्ये तु मन्त्रस्य तद्ब्रह्मविवरेऽथवा || १९४ || हृत्पद्मान्तर्गतां सम्यक्प्रविष्टामनुभावयेत् | तया वै बृंहितं मन्त्रं भावयेद्ब्रह्मधारया || १९५ || तृप्तं हृष्टं च पुष्टं च तुष्टं वै साधकोपरि | मन्त्रोच्चारसमेता वै शरीरकरणान्विता || १९६ || ध्यानोपेता द्विजश्रेष्ठ पूर्णेयं परिपातिता | सर्वसिद्धिकरी शश्वन्मोक्षलक्ष्मीविवर्धनी || १९७ || [अग्नेर्वर्णादिभेदैः कर्मसिद्धेर्ज्ञातव्यता] बहुशुष्केन्धनेऽग्नौ च होतव्यं कर्मसिद्धये | अग्नेर्वर्णाश्च गंधाश्च शब्दाश्चाकृतयस्तथा || १९८ || विकाराश्च शिखाश्चैव संवेद्याः कर्मसिद्धये | पद्मरागद्युतिः श्रेष्ठो लाक्षालक्तकसन्निभः || १९९ || बालार्कवर्णो हुतभुक् जयार्थं शस्यते द्विज | इन्द्रकोपकवर्णाभः शोणाभो वाऽथ पावकः || २०० || प्. १४९) शक्रचापनिभः श्रेष्ठः कुङ्कुमाभस्तथैव च | रक्तानां पुष्पजातीनां वर्णेनाग्निरिहेष्यते || २०१ || सुगन्धद्रव्यगन्धोऽग्निर्घृतगन्धश्च शोभनः | आयुर्दः पद्मगन्धः स्याद्बहुगन्धश्च सुव्रत || २०२ || उग्रगन्धोऽभिचारे तु विहितः सर्वदाऽनलः | जीमूतवल्लकीशङ्खमृदङ्गध्वनितुल्यकः || २०३ || शब्दोऽग्नेः सिद्धये हेतुरतोऽन्यः स्यादसिद्धिदः | छत्राकारो भ्रमः श्रेष्ठो ध्वजचामररूपकः || २०४ || विमानादिवितानानां प्रासादानां वृषस्य वा | आकारेणाथ हंसानां मयूराणां च सिद्धिदः || २०५ || रक्ताभस्तु यदा वह्निर्लक्षणात्परिदृश्यते | भग्नराजोपलाभश्च स्फटिकाभस्तथा शुभः || २०६ || यद्रूपं कथितं पूर्वं यदि तस्य प्रदक्षिणम् | अन्योन्यत्वं प्रपद्येत तथा सिद्धिकरोऽनलः || २०७ || गर्हितेन तु तर्णेन यदि कापोतिकादिना | परिवर्तं करोत्यग्निस्तदा विप्र विपर्ययम् || २०८ || होमान्ते तन्निमित्तं वै होमं कुर्याच्छताधिकम् | विषमाश्च शिखा वह्नेस्त्रयादयश्च शुभावहाः || २०९ || हस्वा ह्रस्वोन्नता दीर्घा ज्वालाः सिद्धिप्रदाः स्मृताः | स्निग्धः प्रदक्षिणावर्तः श्रुतिप्रच्छादितध्वनिः || २१० || स नित्यमेव शुभकृद्यदन्यैर्वर्जितो गुणैः | [होमे प्रशस्तोऽग्निः] प्रदीप्ते लेलिहानेऽग्नै निर्धूमे सगुणे तथा || २११ || हृद्ये तुष्टिप्रदे चैव होतव्याः श्रियमिच्छता | [होमे वर्ज्योऽग्निः] अल्पतेजोऽल्परूपश्च विष्फुलिङ्गसमन्वितः || २१२ || ज्वालाभ्रमविहीनश्च कृशानुर्नैव सिद्धिदः | अप्रबुद्धे सधूमे च जुहयाद्यो हुताशने || २१३ || कर्महानिर्भवेत्तस्य त्वाभिचारार्थमश्नुते | दुर्गन्धश्चावलीढश्च पीतः कृष्णश्च यो भवेत् || २१४ || प्. १५०) असकृत्कुं लिखेद्यस्तु स तु दद्यात्पराभवम् | [तिथिभेदेन फलभेदाः] शुभे ग्रहे सुनक्षत्रे शुक्लपक्षे तिथिष्वपि || २१५ || द्वादश्यां धर्मकामार्थानग्निस्थः कुरुते विभुः | सौभाग्यं तु त्रयोदश्यामेकादश्यां ध्रुवं जयः (यं ?) || २१६ || पञ्चम्यां द्रव्यसिद्धिं च नवम्यां कीर्तिदः प्रभुः | तिथयः शुक्लपक्षे तु प्रोक्ताः सौभाग्यकर्मणि || २१७ || यथाकामं तु मोक्षार्थी पक्षयोरुभयोरपि | [प्रभाद्यर्चिःसप्तके क्रमादेकैस्मिंस्तर्पितस्य मन्त्रस्य फलभेदः] प्रभामूर्तिगतो मन्त्रस्तर्पितो यदि नारद || २१८ || विद्यां प्रयच्छत्यचिरात् दीप्तिस्थो भूप्रदः प्रभुः | तापयत्थाशु शत्रूणां प्रकाशोपर्यवस्थितः || २१९ || शत्रुक्षयं ददात्याशु मरीच्यामूर्ध्वगो विभुः | तपन्यामूर्ध्वगो मन्त्रः सर्वतापोपशान्तिदः || २२० || विपक्षोच्चाटनं कुर्यात्करालासंस्थितो विभुः | लेलिहावस्थितो मन्त्रो यदि सन्तर्पितो मुने || २२१ || दद्यादभीप्सितं चैव देहान्ते परमं पदम् | इदमुक्तं मया विप्र होमकर्म समासतः || २२२ || [होमान्ते कर्तव्यस्य तदुत्तराङ्गस्य विधानम्] होमान्ते सानलं मन्त्रं भूयः पुष्पादिभिर्यजेत् | मुद्राः प्रदर्शयेत्सर्वा मूलमन्त्रादितः क्रमात् || २२३ || सन्दर्शयेत्ततो वह्नेर्मुद्रां मन्त्रसमन्विताम् | [अग्निमुद्रा] पद्माकारौ करौ कृत्वा अङ्गुष्ठौ च कनिष्ठिके || २२४ || संमील्य चाग्रदेशात्तु कर्णिकेव यथा द्विज | तर्जन्यादित्रयं शेषमूर्ध्वगं च करद्वयात् || २२५ || असंलग्नं तु निक्षिप्तं मुद्राऽग्नेः संप्रकीर्तिता | [मण्डले विन्यस्तस्य मन्त्ररूपस्य भगवतो मूर्धनि पुष्पाञ्जलिसमर्पणप्रकारः] मण्डलाग्रं ततो यायाद्धोमं विष्णोः समर्प्य च || २२६ || आपूर्य पाणियुगलं पुष्पैस्तत्रोपरि स्थितम् | प्. १५१) संस्मरेन्निष्कलं मन्त्रममृतेनोपबृंहितम् || २२७ || प्रभूतदीप्तिच्छुरितं निक्षिपेन्मन्त्रमूर्धनि | [अथ प्रार्थना] तर्पितोऽसि विभोर्भ(भ ?)क्त्या होमेनानलमध्यगम्(ग ?) || २२८ || होमद्रव्येषु यद्वीर्यं तदिदं चात्मसात्कुरु | गृहीतं भावयेत्तेन प्रसन्नेनान्तरात्मना || २२९ || [अथ मण्डलस्थस्य विसर्जनप्रकारः] विसर्जनं ततः कुर्याद्दत्वाऽर्घ्यं धूपसंयुतम् | [अथ प्रसादस्य शिरसि धारणम्] प्रसादार्घ्यं सपुष्पं च कर्णिकोर्ध्वात्परिच्युतम् || २३० || गृहीत्वा स्वात्मनो मूर्ध्नि दत्वा [मण्डलादुद्धृतरजसा तिलकधारणम्] ऽथ रजसा मुने | ललाटे तिलकं कुर्यात्पीतरक्तेन मण्डलात् || २३१ || [अर्घ्यपात्रे न्यस्तस्य मन्त्रस्य पूरकेण स्वदेहे व्याप्तत्वभावनम्] द्विधा यश्चार्घ्यपात्राभ्यां मन्त्रो न्यस्तः पुरा द्विज | मन्त्रमुद्रासमेतेन पूरकेण तु नारद || २३२ || भासितं भावयेद्देहं तेनापादाच्छिरोऽवधि | भोगस्थानगतानां मन्त्राणां मुख्यमन्त्रशरिरे प्रविष्टत्वभावनम्] भोगस्थानगता मन्त्राः पूजिता ये यथा क्रमात् || २३३ || मुख्यमन्त्रशरीरं तु संप्रविष्टांश्च संस्मरेत् | ज्वाला ज्वालान्तरे यद्वत्समुद्रस्येव निम्नगाः || २३४ || [सर्वमन्त्रास्पदस्य तस्य स्थूलमन्त्रशरीरस्य स्वकारणसूक्ष्मादिक्रमेण पररूपे प्रविष्टत्वभावनम्] तं मन्त्रविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज | प्रविष्टं भावयेत्सूक्ष्मे बुध्यक्षे ह्युभयात्मके || २३५ || परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् | [पररूपस्य तस्य स्वहृदये प्रविष्टत्वभावनम्] तं परं प्रस्फुरद्रूपं निराधारपदाश्रितम् || २३६ || सिद्धिमार्गणहृत्पद्मे संप्रविष्टं तु भावयेत् | प्. १५२) [स्वहृदयं प्रविष्टस्य परस्वरूपस्य भासाऽपादमस्तकं स्वदेहस्य व्याप्तत्वभावनम्] मन्त्रमुद्रासमेतेन पूरकेण तु नारद || २३७ || भासितं भावयेद्देहं तेनापादाच्छिरोवधि | प्रविष्टेन तु मन्त्रेण प्रयत्नेन विना द्विज || २३८ || विग्रहः कम्पते यस्य मन्त्रस्तस्य प्रसीदति | [विसर्जनानन्तरं दीक्षितेभ्यो नैवेद्यप्रदानम्] एवं विसृज्य मन्त्रेशं लोकपालास्त्रवर्जितम् || २३९ || दीक्षितानां द्विजानां च श्रद्धासंयमसेविनाम् | प्रदद्याद्द्विज नैवेद्यं शिष्याणां भावितात्मनाम् || २४० || [मूलमन्त्राभ्यर्चने विनियुक्तानां पुष्पादीनां समाहरणम्] वलमानस्य (?) मन्त्रस्य तुल्यकालं समाहरेत् | पुष्पाण्यस्त्रं च नैवेद्यं मूलमन्त्रोपयोजितम् || २४१ || [समाहृतेन तेन द्रव्येण विष्वक्सेनाभ्यर्चनम्] तेन भाण्डस्थितेनापि समाहूयाम्बरान्तरात् | विष्वक्सेनं यजेद्भक्त्या ध्वात्वा वै मण्डलान्तरे || २४२ || चतुर्भुजमुदाराङ्गं गदाशङ्खधरं विभुम् | नवाम्रपत्रसङ्काशं पिङ्गलश्मश्रुलोचनम् || २४३ || पीतवस्त्रं चतुर्दष्ट्रं स्वमुद्राद्वितयान्वितम् | समभ्यर्च्य क्रमात्साङ्गं मुद्रामस्याथ दर्शयेत् || २४४ || [अथ कुण्डे विन्यस्तस्य मन्त्रस्य पुष्पैः पूजनम्] गत्वा कुण्डसमीपं तु मन्त्रं पुष्पैः प्रपूज्य च | [भस्मना तिलकधारणम्] भस्मनाऽस्त्राभितप्तेन ललाटे तिलकं शुभम् || २४५ || [मण्डलस्थस्येव कुण्डस्थस्य मन्त्रस्योपसंहरणम्] कृत्वा मण्ड(ल)वत्पश्चादुपसंहृत्य चात्मनि | [अथ विष्वक्सेनस्य कुण्डे सन्तर्पणक्रमः] विष्वक्सेनस्ततो भक्त्या तर्पणीयस्तिलाक्षतैः || २४६ || वौषडन्तेन मन्त्रेण दद्यात्पूर्णाहुतिं द्विज | मण्डले पूजयित्वाऽथ कुर्यात्तस्य विसर्जनम् || २४७ || प्. १५३) [विष्वक्सेनविसर्जनम्] स्वमन्त्रेण द्विजश्रेष्ठ क्षमस्वेति पदेन च | मुद्रासमन्वितेनाथ नभस्युत्पतितं स्मरेत् || २४८ || पूर्णेन कलशेनाथ अस्त्रजप्तेन नारद | क्षीराम्बुमधुराज्येन प्रापयेन्मण्डलं तु तत्(?) || २४९ || ततः कुण्डात्समुत्थाप्य विष्वक्सेनं यथा पुरा | [लोकपालादीनां विसर्जनप्रकारः] पूजयेल्लोकपालांश्च पुष्पाद्यैस्तर्पयेत्ततः || २५० || एकाहुतिप्रदानेन शक्त्या वा बहुभिः पुनः | यथाविधि स्वमन्त्रेण पूजयित्वा विसर्जयेत् || २५१ || सास्त्रान्सपरिवारांश्च स्वं स्वं स्थानं क्रमेण तु | [अथ क्षेत्रपालादीनां घृतादिभिस्तर्पणक्रमः] गत्वा कुण्डसमीपेऽथ क्षेत्रपालादयः क्रमात् || २५२ || आधारशक्तेरारभ्य पीठमन्त्राश्च सर्वशः | गणेशाद्याश्च सिद्धान्तास्तर्पणीया घृतादिकैः || २५३ || सकृत्सकृत्स्वशक्त्या वा पूर्णां सर्वेष्वथ क्षिपेत् | पात्रस्थं कलशस्थं च मन्त्रतन्त्रावतारितम् || २५४ || क्रमेण चोपसंहृत्य घ्राणाग्रेण तु पूर्ववत् | [अथ वह्नेस्तर्पणप्रकारः] स्वमन्त्रेण ततो वह्निं शक्तितस्तर्पयेद्द्विज || २५५ || अच्छिद्रकरणीं पूर्णां पूर्णामन्त्रेण पातयेत् | कुण्डे पुष्पाञ्जलिं कृत्वा वह्निमन्त्रमनुस्मरन् || २५६ || समाघ्राय न्यसेत्कोष्ठे ह्यवतारक्रमेण तु | [अथाग्नेः परिषेचनम्] स्रुवन्तु तोयेनापूर्य कुण्डं बाह्ये प्रदक्षिणम् || २५७ || कुर्यादीशानकोणाद्वै अच्छिद्रोदकधारया | [नैवेद्यादीनां तोये प्रक्षेपविधानम्] नैवेद्यमुपसंहृत्य वस्त्रालङ्कारवर्जितम् || २५८ || अगाधोदकमध्ये तु वहत्यधिविनिक्षिपेत् | प्. १५४) [निमार्ष्ट्युपलेपनपूर्वकं सिद्धार्थकादीनामुत्किरणम्] सम्यक्कृत्वा निमार्ष्टिं वै उपलिप्याथ चोत्किरेत् || २५९ || सिद्धार्थकादिलाजांश्च तिलं सुमनसोऽक्षतान् | [रक्षार्थं स्थापितयोः कवचास्त्रयोरुपसंहारः] वर्मास्त्रे ह्युपसंहृत्य रक्षार्थं योजिते पुरा || २६० || [स्वविग्रहे कृतस्य न्यासस्योपसंहारः] यागस्थानाच्च तिलकं कृत्वा न्यासं स्वविग्रहात् | उपसंहृत्य मेधावी कुर्याद्वै भोजनादिकम् || २६१ || इदमुक्तं समासेन मन्त्रसन्तर्पणं द्विज | [अपात्रेऽस्य मन्त्रसन्तर्पणक्रमस्यावाच्यत्वकथनम्] वाच्यं नादीक्षितानां च नाभक्तानां कदाचन || २६२ || नान्यदर्शनसंस्थानां नोपहासरतात्मनाम् | [पात्रे वक्तव्यता] सद्भावज्ञे तु वक्तव्यं समयज्ञेऽथ पुत्रके || २६३ || साधके तु गुरोर्वापि भक्ते स्निग्धे विमत्सरे | सत्यधर्मपरे वापि साचारे समयस्थिते || २६४ || इति श्रीपञ्चरात्रे जयाख्यसंहितायामग्निकार्यविधानं नाम पञ्चदशः पटलः || १५ || अथ दीक्षाविधानं नाम षोडशः पटलः नारदः - श्रोतुमिच्छामि भगवन्दीक्षालक्षणमुत्तमम् | समयिनः पुत्रकस्य साधकाचार्ययोस्तथा || १ || नैष्ठिकानां तथा स्त्रीणां शिशूनां भावितात्मनाम् | विस्तरेण समाख्याहि यदि सानुग्रहोऽसि मे || २ || श्रीभगवान् शृणु दीक्षां प्रवक्ष्यामि शिष्याणां भावितात्मनाम् | देवाग्निगुरुपूजासु अधिकारो यथा(या ?)भवेत् || ३ || सिद्धये मुक्तये चैव तां वक्ष्यामि त्रिधा यथा | [आढ्यानाढ्यभेदेन दीक्षाप्रकारे भेदः] महामण्डलयागेन वित्ताढ्यानां तु कारयेत् || ४ || प्. १५५) वित्तयोगविमुक्तस्य स्वल्पवित्तस्य देहिनः | संसारभयभीतस्य विष्णुभक्तस्य तत्त्वतः || ५ || अग्नौ चाज्यान्वितैर्बीजैः सतिलैः केवलैस्तथा | द्रव्यहीनस्य वै कुर्याद्वाचैवानुग्रहं गुरुः || ६ || [उपसन्नस्यावश्यं दीक्षयितव्यता] यः समः सर्वभूतेषु विरागी वीतमत्सरः | जितेन्द्रियः शुचिर्दक्षः समग्रावयवान्वितः || ७ || कर्मणा मनसा वाचा भीतेष्वभयदः सदा | संबुद्धिपदसंप्राप्तस्तत्रापि भगवन्मयः || ८ || पञ्चकालरतश्चैव पञ्चरात्रार्थवित्तथा | विष्णुतत्त्वं परिज्ञाय एकं चानेकभेदगम् || ९ || दीक्षयेन्मेदिनीं सर्वां किं पुनश्चोपसर्पितान् | [एकस्यैवाच्युतस्यानेकरूपेण स्थितत्वनिर्देशः] निराश्रयमसङ्कल्पं स्वरूपादच्युतं स्थिरम् || १० || ग्राह्यग्राहकधर्मैश्च निर्मुक्तमचलं ध्रुवम् | एव(क ?)मेव फले पञ्च(?)वक्ष्ये ते नैकधा स्थितम् || ११ || व्याप्तव्यापकभेदेन यथावन्मुनिसत्तम | [परसूक्ष्मस्थूलात्मना त्रिधा स्थितेषु तत्त्वेषु अच्युतस्य त्रेधा व्याप्य स्थितिः] स्थूलं सूक्ष्मं परं चान्यद्व्याप्य तत्त्वत्रयं स्थितम् || १२ || प्रधानपुरुषेशाख्यं तथाऽन्यच्छ्रोत्रपूर्वकम् | व्याप्याच्युतः स्थितस्साक्षात् त्रिधा वै बुद्धिपश्चिमम् || १३ || त्रिविधं विष्णुतत्त्वं तु एकं ज्ञात्वाऽप्यनेकधा | एकैकेन तु भेदेन कुर्यात्सर्वेष्वनुग्रहम् || १४ || यथानुरूपं क्रमशः समयज्ञादिषु द्विज | [मन्त्रमूर्तेर्भगवतस्त्रेधाऽवस्थानम्] पिण्डात्मा भगवानेक उपाङ्गाढ्यश्च स द्विधा || १५ || त्रिविधे मन्त्रराशौ तु त्रिधा चैव व्यवस्थितः | [स्थूलसूक्ष्मपरात्मना मन्त्रराशेस्त्रैविध्यम्] मणेराकृष्टिमन्त्रान्तो मान्त्रः प्राग्राशिरुच्यते || १६ || प्. १५६) लक्ष्म्याद्यो भूधरान्तश्च द्वितीयः सूक्ष्मसंज्ञितः | सप्तामूर्मू(र्णान्मू ?)र्तिमन्त्रान्तस्तृतीयस्तु परः स्मृतः || १७ || तत्त्व (मन्त्र ?) ग्रामं समुच्चित्य स्थितः संक्षेपकर्मणि | [स्थूलसूक्ष्मपरात्मना त्रेधाऽवस्थितस्य मन्त्रराशेः स्थूलाद्येकैकराशौ प्रत्येकं स्थूलादित्रिकरूपेणावस्थितिः] त्रित्रिकावस्थरूपेण त्रयं कृत्वा त्रिधा स्वयम् || १८ || राशीनां भगवान्विष्णुर्लोकानुग्रहकृत्स्थितः | अङ्कुशाद्वैनतेयान्तं स्थूलात्स्थूलमिदं त्रिकम् || १९ || गदामन्त्राच्च शङ्खान्तं स्थूलमध्यं च नारद | पङ्कजात्कौस्तुभान्तं च स्थूलपारं भवेत्त्रिकम् || २० || वराहात्सिंह्ममन्त्रान्तं सूक्ष्म स्थूलं त्रिकं स्मृतम् | अस्त्राद्धृदयपर्यन्तं सूक्ष्ममध्यो भवेत्प्रभुः || २१ || मायाशक्तेस्तु लक्ष्म्यन्तं भवेत्सूक्ष्मं परं तु तत् | समूलो मूर्तिमन्त्रो यः सर्वस्सप्तदशाक्षरः || २२ || परस्थूलमिदं विद्धि सप्तमं सर्वसिद्धिदम् | अनिरुद्धात्तु सत्यान्तं सर्वं तत्परमध्यमम् || २३ || परात्परं मन्त्रपदं नवमं भोगमोक्षदम् | विद्धि सप्ताक्षरं पिण्डं मन्त्रग्रामस्य नायकम् || २४ || उत्तरोत्तरता चैव सर्वेषां वर्तते क्रमात् | सामर्थ्येन तु वीर्येण ज्ञानेन विविधेन च || २५ || भवच्छेदे च दीक्षायां विविधासु च सिद्धिषु | [मन्त्रसङ्घस्य तत्त्वसङ्घे संक्षेपमध्यविस्तारात्मकदीक्षात्रैविध्यानुगुणं त्रेधाऽवस्थाननिरूपणम्] क्रमेण गन्धतन्मात्रात्प्रभुतत्त्वावधिं द्विज || २६ || मन्त्रसङ्घः परत्वेन किञ्चित्सङ्कोचरूपधृत् | स्थूलसूक्ष्मादि नवधा मध्ये विस्तारकर्मणि || २७ || भयोऽनुक्रमयोगेन पञ्चविंशतिधा मुने | एकः स एव मन्त्रात्मा भिन्नोऽपि बहुभेदतः || २८ || प्. १५७) [अधिभूताधिदैवाध्यात्मभेदेन त्रेधा विभिन्नस्य प्रत्येकं पञ्चविंशतिधाऽवस्थितिनिरूपणम्] अध्यात्मत्वाधिदैवत्वाधिभूतत्वव्यवस्थया | स्थितस्त्वीश्वरतत्त्वाच्च यावत्तत्त्वं धराभिधम् || २९ || ईश्वरोऽथ प्रधानं च बुद्धिश्चाहंकृतिर्मनः | पञ्चेन्द्रियाणि श्रोत्राद्याः पञ्च वागादयस्तथा || ३० || पञ्च शब्दादयश्चान्ये पञ्च भूतानि खादयः | अधिभूतगणश्चायमधिदैवगणं शृणु || ३१ || मकाराद्यानि बीजानि कावसानानि वै क्रमात् | ईश्वरादिषु तत्त्वेषु कथितास्साधिदैवताः || ३२ || मन्त्राश्चाध्यात्मरूपा ये क्रमशः शृणु नारद | सप्ताक्षरः परो मन्त्रो ह्यध्यात्मं चैश्वरं स्मृतम् || ३३ || सत्यादिपञ्चकं विद्धि प्रकृते परमव्ययम् | मूलमूर्तिसमेतं च बुद्धेरध्यात्ममुच्यते || ३४ || लक्ष्मीमन्त्रमहङ्कारे मनसः कीर्तिसंज्ञितम् | श्रोत्रेन्द्रिये जयाख्यं तु मायाख्यं च त्वगिन्द्रिये || ३५ || हृच्चक्षुरिन्द्रिये विद्धि जिह्वाग्रे तु शिरः स्मृतम् | शिखा घ्राणेन्द्रिये विद्धि वाक्तत्वे कवचं स्मृतम् || ३६ || पाणितत्त्वे भवेन्नेत्रमस्त्रं पादाभिधस्य च | पायवाख्यस्य च तत्त्वस्य सिह्ममन्त्रं परं स्मृतम् || ३७ || कापिलं विद्ध्युपस्थस्य शब्दे वाराह उच्यते | स्पर्शे त्वध्यात्मरूपं च मन्त्रं कौस्तुभसंज्ञितम् || ३८ || रूपाख्यस्य तु मालाख्यं पद्मं विद्धि रसस्य च | शङ्खमन्त्रस्तु गन्धस्य चक्रं नभसि नारद || ३९ || गदामन्त्रः स्मृतो वायोरग्नेर्गारुड उच्यते | अप्तत्त्वस्य तु पाशाख्यो भूमेरङ्कुशसंज्ञितः || ४० || वैतत्येनोदिता मन्त्राः सतत्त्वा वितते क्रमे | दीक्षाकर्मणि संक्षिप्ते मध्यमे विततेऽथ च || ४१ || यावन्न त्रितयं ज्ञातं तावद्दीक्षा न जायते | एवमेष जगन्नाथो मन्त्रात्मा परमेश्वरः || ४२ || प्. १५८) पञ्चविंशतितत्त्वेषु तत्त्वबीजेषु चैव हि | स्थितो ह्यधिष्ठातृत्वेन परत्वेन महामते || ४३ || ऊर्ध्वे सप्ताक्षरं विप्र स्थिता नारायणी स्थितिः | या ह्येव कथिता पूर्वं त्रिधा सैव तु नान्यथा || ४४ || [तथाभूतस्य मन्त्रात्मनः परमेश्वरस्य विशेषतस्त्र्यक्षरे मन्त्रे सान्निध्यनिरूपणम्] स्थितीस्सर्वाश्च संहृत्य विशेषेण व्यवस्थितः | परं(र ?)सूक्ष्मयुतं(त ?)स्थूलरूपेण त्र्यक्षरे सदा || ४५ || मन्त्रे ह्यनुग्रहार्थस्तु भविता भावितात्मनाम् | [वक्ष्यमाणदीक्षाङ्गभूतत्वत्त्वशोधने त्र्यक्षरस्य मन्त्रस्य विनियोगभेदः] त्रिरुच्चारेण वै कुर्याद्दीक्षां वा तेन नारद || ४६ || ईशप्रधानतन्मात्रसन्धाने शोधने सति | द्विरुच्चारेण वा कुर्यादीशप्रकृतियोगतः || ४७ || प्रकृतिर्द्व्यक्षरो(रे ?)शोध्या प्रणवेनेश्वरस्तथा | [सप्ताक्षरमन्त्रेणेश्वरतत्त्वसंशोधनप्रकारः सोपपत्तिकः] सप्तार्णेनेश्वरं वाथ एकोच्चारेण शोधयेत् || ४८ || मन्त्रा यतोऽखिलास्तस्मिन्पिण्डे तत्त्वानि चेश्वरे | इत्येवं विष्णुतत्त्वं तु व्यापकत्वेन संस्थितम् || ४९ || ज्ञात्वा सम्यक्ततो दीक्षां मन्त्रैः कुर्याद्द्विजाखिलैः | यतः परेण विभुना सर्वे मन्त्रा अधिष्ठिताः || ५० || [शिष्यलक्षणपरीक्षणपूर्वकं शिष्याणां दीक्षितव्यता] परीक्ष्य तन्नियुक्तांस्तु ब्रह्मचर्यस्थितान् शुचीन् | दक्षान् जितेन्द्रियान्धीरान्गुरुदेवाग्नितत्परान् || ५१ || वर्णाश्रमगुणोपेतान्विनीतान् श्रद्धयाऽन्वितान् | शिष्यांश्च भगवद्भक्तान् संसारानलखेदितान् || ५२ || दीक्षयेद्विधिना मन्त्री मन्त्रदीक्षादितः क्रमात् | संस्थिताऽनेकभेदेन यथा तद्गदतः शृणु || ५३ || [सामान्यदीक्षायास्त्रैविध्यम्] सर्वेषां केवलैर्मन्त्रैर्मान्त्री सामान्यलक्षणा | तत्त्वैर्बीजैस्तथा मन्त्रैर्ध्यानेन हवनेन च || ५४ || प्. १५९) सामान्या हि(त्रि ?)विधा चान्या सर्वेषा भावितात्मनाम् | संक्षिप्ता मध्यमा सा च तृतीया चातिविस्तरा || ५५ || [संक्षिप्तादित्रयस्य फलभेदः] क(अ ?)ल्पकालं च संक्षिप्ता भोगं यच्छति सङ्कटम् | मध्यमा मध्यमं भोगं तथा कालं प्रयच्छति || ५६ || अनन्तभोगफलदा भवेद्भोगाभिलाषिणाम् | प्रभावाद्धोमपूजाभ्यां विस्तीर्णा कालमक्षयम् || ५७ || समत्वमपवर्गे तु भवेद्दीक्षात्रयस्य च | [विशेषदीक्षायाः पञ्चविधत्वम्] विशेषाख्या च या दीक्षा पञ्चधा सा व्यवस्थिता || ५८ || [पञ्चविधासु विशेषदीक्षासु प्रत्येकमधिकारिभेदनिरूपणम्] प्रथमा समयज्ञानां बलानां विष्णुचेतसाम् | भक्तानां कन्यकानां च द्वितीया पुत्रकेषु च || ५९ || तृतीया मोक्षमार्गस्था साधकानां तु वै सदा | चतुर्थी मुनिशार्दूल ब्रह्मसायुज्यदायिका || ६० || देशिकानां तु कर्तव्या अङ्गनानां तु पञ्चमी | [संक्षिप्तमध्यमविस्तृतभेदभिन्नासु सामान्यदीक्षासु क्रमात्तत्वसंयोजनप्रकारभेदः] एतासां क्रमशो वक्ष्ये समत्वं तत्त्वसंग्रहम् || ६१ || येन विज्ञातमात्रेण दीक्षा सम्यक्प्रवर्तते | संहारक्रमयोगेन मन्त्रराशित्रयं च यत् || ६२ || प्रागुक्तं योजनीयं तत्तृतीये(त्रितयं ?) बीजसंयुते(तम् ?) | तन्मात्रके प्रधाने च ईश्वराख्ये च शुद्धये || ६३ || राशित्रयस्य यो भेदः कथितो नवधा पुरा | अङ्कुशात्सप्तवर्णान्तं तन्मात्रेषु च पञ्चसु || ६४ || अहङ्कारे तथा बुद्धौ प्रकृतौ चेश्वरे च वै | तया संहृतियुक्त्या वै गन्धमात्रादितः क्रमात् || ६५ || विस्तीर्णायां तृतीयायां यदध्यात्मादिनोदितम् | क्रमः स एव बोद्धव्यः सृष्टिसंहारयोगतः || ६६ || सामान्यत्रितयस्येदं दीक्षायोगस्य लक्षणम् | [अथ विशेषदीक्षापञ्चकभेदे प्रत्येकं मन्त्रैस्तत्त्वसंयोजनप्रकारभेदः] पञ्चकस्याधुना विद्धि विशेषाख्यस्य नारद || ६७ || प्. १६०) त्र्यक्षरं पदभेदेन मूर्तिमन्त्रसमन्वितम् | संक्षिप्ते तत्त्वजाले तु योजनीयं क्रमेण तु || ६८ || तन्मात्राणां च ह्रीं स्वाहा पञ्चानां तु सकृन्न्यसेत् | विश्वात्मने पदं यच्च द्वितीयं तदहङ्कृतौ || ६९ || नारायणाय बुद्धौ तु तृतीयं योजने(येत् ?)स्मरन् | नमः प्रधानतत्वे तु त्र्यक्षरं चेश्वरे ततः || ७० || विशेषपञ्चकस्यैषा प्रथमा परिकीर्तिता | द्वितीयं शृणु विप्रेन्द्र सर्वसिद्धिप्रदा हि या || ७१ || गन्धतन्मात्रपूर्वाणि हृदयाद्यैरनुक्रमात् | अहङ्कारं तु नेत्रेण (?) बुद्धिं जीवेन शोधयेत् || ७२ || प्रधानं मध्यमेनैव देवीनां हृदयेन तु | ईश्वरं प्रणवेनैव कुर्यात्तत्रैव योजनम् || ७३ || पुत्रकाणां स्मृता दीक्षा विधिनाऽनेन नारद | साधकानां तु वक्ष्यामि तत्त्वशुद्धौ क्रमेण तु || ७४ || संशोध्य गन्धतन्मात्रं वक्त्रमन्त्रत्रयेण तु | रसाख्यमङ्गषट्केन रूपमात्रं च शक्तिभिः || ७५ || समस्तमूलमन्त्रेण शोधयेत्स्पर्शसंज्ञितम् | संशोध्य शब्दतन्मात्रमनिरुद्धेन नारद || ७६ || प्रद्युम्नेन त्वहङ्कारं बुद्धिं सङ्कर्षणेन च | प्रधानं वासुदेवेन ततः सत्येन चेश्वरम् || ७७ || शोधयेत्साधकस्यैवं तत्त्वं सद्वैष्णवस्य च | दीक्षार्थं तत्त्वसंशुद्धौ गुरोर्मन्त्रानथो शृणु || ७८ || दशभिस्सास्त्रमन्त्रैस्तु गन्धमात्रं तु संहरेत् | लोकेशाद्यै रसाख्यं तु रूपाख्यं कौस्तुभादिकैः || ७९ || स्पर्शसंज्ञं त्रिभिर्वक्त्रैर्हृदाद्यैः शब्दसंज्ञितम् | लक्ष्म्याद्यैरप्यहङ्कारं बुद्धिं मूलेन शोधयेत् || ८० || प्रधानमथ सत्याद्यैः पञ्चभिः परिशोध्य च | सप्ताक्षरेण मन्त्रेण शोधयेदीश्वरं ततः || ८१ || क्रम एष हि दीक्षायामाचार्याणामुदाहृतः | स्त्रीणां तु भोगसिद्ध्यर्थं शृणु दीक्षाक्रमं मम || ८२ || प्. १६१) पुरुषं प्रथमे तत्त्वे योजयेद्गन्धसंज्ञिते | रसतन्मात्रसंज्ञेऽथ सत्त्यं चैव द्वितीयके || ८३ || अच्युतं च तृतीये तु वासुदेवं चतुर्थके | सकलेन तु रूपेण एतदादौ चतुष्टयम् || ८४ || योजनीयं च मन्त्राणां चतुस्तन्मात्रशुद्धये | पञ्चमेचानिरुद्धं तु षष्ठे योज्यः पुनः प्रभुः || ८५ || प्रद्युम्नस्तु विशालाक्षस्ततः सङ्कर्षणः परे | निष्कलस्सप्तमे योज्यो देव्यो योज्यास्तथाऽष्टमे || ८६ || नवमे तु महातत्त्वे ध्यायेन्नारायणं प्रभुम् | त्र्यक्षरेण तु मन्त्रेण त्रिदैवत्यं जगद्गुरुम् || ८७ || एवं तत्त्वसमूहस्थं ज्ञात्वा मन्त्रगणं पुरा | प्रारभेत ततो दीक्षां सुशुभे दिवसे गुरुः || ८८ || [दीक्षायां प्रशस्तास्तिथयः] यद्यप्युक्ता मया विप्र तिथयः पूजने पुरा | तथाऽपि द्वादशी श्रेष्ठा दीक्षायां पूजने हरेः || ८९ || सर्वं दशम्यामाहृत्य यागोपकरणं तु वै | [स्नानादिनियमपूर्वकं यागशालाप्रवेशः] प्राग्वत्स्नात्वा समाचम्य कृतन्यासस्स्मरेद्धरिम् || ९० || पुष्पार्घ्यतोयहस्तश्च संविशेद्यागमन्दिरम् | [नृसिंह्यमन्त्रादिभिरभिमन्त्रितानां सिद्धार्थकानां यागशालायां परितः प्रक्षेपः] नृसिंह्ममन्त्रेणास्त्रेण सचक्रेणाभिमन्त्र्य च || ९१ || सिद्धार्थकान्क्षिपेत्पश्चादूर्ध्वेऽधो दिग्विदुक्षु च | [स्वमन्त्रेण गदास्थापनम्] प्राकाराकारदेहां च नानाज्वालासमावृताम् || ९२ || शक्तिरूपां गदां तत्र स्वमन्त्रेण तु विन्यसेत् | [सत्याद्यभिमन्त्रितेन पञ्चगव्येन त्र्यक्षरमन्त्रेण सर्वद्रव्यप्रोक्षणम्] पात्रे चाभिनवे कुर्यात्संमिश्रसलिलेन च || ९३ || सत्यादिपञ्चकेनाथ पञ्चगव्यं तु मन्त्रयेत् | त्र्यक्षरेण तु मूलेन सर्वं संप्रोक्ष्य तेन वै || ९४ || प्. १६२) कौशेयेन पवित्रेण ध्यायमानस्तमेव हि | [कलशविधिः] अथादाय दृढं शुभ्रमेकरूपं च निर्व्रणम् || ९५ || कलशं मृण्मयं रम्यं सौवर्णं चाथ राजतम् | रत्नहाटकसद्गन्धफलसर्वौषधीयुतम् || ९६ || शुभपादपशाखाढ्यं पट्टस्रक्कण्ठभूषणम् | गालितोदकसंपूर्णं वारिधारान्वितं शुभम् || ९७ || चन्दनाद्युपलिप्तं च परितश्चार्घ्यचर्चितम् | [यथाविधि मन्त्रस्य साङ्गस्य पूजनीयत्वविधानम्] मन्त्रपीठोपरि ब्रह्मन्साङ्गं सपरिवारकम् || ९८ || मन्त्रं पूर्वोक्तविधिना पूजयेच्च यथाविधि | [वर्धन्या अभिमन्त्रणम्] सास्त्रेण चक्रमन्त्रेण मन्त्रयेदथ वर्धनीम् || ९९ || तत्र चक्रस्थितं चास्त्रं यजेन्नारायणात्मकम् | [वर्धनीस्थसलिलधारया भित्तिसंसेचनपूर्वकं कलशस्य भ्रामणविधिः] तया भित्तिगणं सर्वं संसिच्याच्छिन्नधारया || १०० || प्रदक्षिणक्रमेणैवमीशकोणादितो द्विज | पृष्ठतः कलशो भ्राम्यस्स्तुल्यकालं तु वा पृथक् || १०१ || [अथ भ्रामितस्य कलशस्य स्थापनविधिः] शाल्यादिषु परिस्थाप्यः कलशो वर्धनीयुतः | ईशदिक्संमुखं चाथ पुष्पाद्यैः पूजयेत्पुनः || १०२ || [स्थापितस्य कलशस्य पूजनम्] अस्त्रेण वस्त्रयुग्मं तु अहतं चाभिमन्त्र्य वै | धूपादिवासितं कृत्वा तावुभौ परिवेष्ट्य च || १०३ || पूजां कृत्वाऽथ पुष्पाद्यैः [स्थण्डिलेऽग्नौ च हरेर्यजनविधानम्] स्थण्डिलेऽथ यजेद्धरिम् | पूर्वोक्तेन विधानेन ततोग्नेर्मध्यतो यजेत् || १०४ || प्. १६३) सन्तर्प्य पूर्वविधिना चरुं वै साधयेत्ततः | [अथ चरुसाधनप्रकारः] प्रक्षाल्य च पुराऽस्त्रेण गन्धैरालिप्य चान्तरात् || १०५ || क्षीरेण हविरापूर्य हृन्मन्त्रेण तु नारद | लक्षयित्वा शृतं क्षीरं निक्षिपेत्तण्डुलांस्ततः || १०६ || शक्तिमन्त्रचतुष्केण चालयेत्सिह्ममूर्तिना | सिद्धमुत्तारयेत्कुण्डान्मन्त्रेण कपिलात्मना || १०७ || प्रक्षाल्यालिप्य च ततो मन्त्रेण क्रोडमूर्तिना | स्थगयेन्मूलमन्त्रेण [सिद्धस्य चरोश्चतुर्धा विभज्य विनियोगविधानम्] चतुर्धा संविभज्य तत् || १०८ || स्थण्डिलाराधितस्यादौ भागमेकं निवेद्य च | मध्वाज्यसंप्लुतं कृत्वा द्वितीयं कलशस्थिते || १०९ || तृतीयं भागमादाय तमग्निस्थे तु होमयेत् | परिवारे बलिं दद्यात्स्थलेशकलशावधौ (?) || ११० || [स्थण्डिलादिस्थानत्रये देवस्य पुनः पूजनम्] मुद्रां बध्वा ततो जप्त्वा पुष्पाद्यैः पूजयेत्पुनः | त्रिस्थानस्थं क्रमाद्देवं शिष्यानाहूय मण्डितान् || १११ || [शिष्याणां प्रोक्षणम्] सुस्नातान्धौतवस्त्रांश्च पवित्रीकृतविग्रहान् | द्वारदेशस्थितान्कृत्वा बहिर्वासान्तरे द्विज || ११२ || प्रोक्षयेदर्घ्यपात्रात्तु प्रागस्त्रेण तु नारद | [अथ सर्वाङ्गसंस्पर्शः] सर्वाङ्गालभनं कुर्याच्छाखाजप्तैः पदैः क्रमात् || ११३ || [अभिमन्त्रितस्यार्घ्यपुष्पस्य शिरसि प्रक्षेपः] दत्वाऽर्घ्यपुष्पं शिरसि शिरोमन्त्राभिमन्त्रितम् | [शिष्याणां मन्त्रमयशरीरत्वापादनम्] दहनोत्पादनं कुर्यात्पूर्ववत्क्रमयोगतः || ११४ || प्. १६४) ततस्तेषां विधानेन कुर्यान्मन्त्रमयीं तनुम् | [गुरुणा शिष्ये कर्तव्यो भावनाविशेषः] यथाऽत्मनि पुरा देवे यथाऽग्नौ कलशे यथा || ११५ || शिष्यस्य च तथा ध्यायेत्सकलान्निष्कलात्परम् | परं च त्र्यक्षरेणैव केवलेन तु नारद || ११६ || संस्कारस्सकलः प्रोक्तः शङ्खचक्रगदाधरः | निष्कलः शक्तिरूपस्तु मध्यमो मन्त्रनायकः || ११७ || परःशक्त्यवसानस्तु प्रणमात्मा (वात्मा ?) व्यवस्थितः | सकलाधिष्ठिता व्यक्ता प्रकृतिः स्पष्टरूपिणी || ११८ || निष्कलाधिष्ठितं ज्ञेयमव्यक्तं पुरुषीश्चितिम् | (?) मन्त्ररूपेण देवेन सदसद्व्यक्तिरूपिणा || ११९ || परेणाधिष्ठितं सर्वं व्यक्ताव्यक्तं चिदात्मकम् | [स्वस्य शिष्यस्य चोक्तप्रकारेणैकीभावं भावयतो गुरोरेव संसारविमोचकत्वोक्तिः] एवं देवं स्वमात्मानं शिष्यं च पुरुषात्मकम् || १२० || एकीभावेन यो वेत्ति न्यासकाले परस्य तु | दीक्षाधिवासने विप्र स संसाराद्विमोचकः || १२१ || [मत्रमूर्तेर्भगवतः सन्निधौ विज्ञापनम्] विज्ञाप्यश्चाथ भगवान्स्थलस्थो मन्त्रविग्रहः | सबन्धान्वैषयैः पाशैः विदेहं (विवशान् ?) पशुपक्षिवत् || १२२ || त्वदनुग्रहसामर्थ्यान्मोक्षयामि जगद्गुरो | विज्ञाप्यो भ्गवनेवं विनिवेद्य पशू(?)न्विभोः || १२३ || पुत्राः शिष्यास्तथा भृत्यास्तथै(वै ?)व परमेश्वर | [अहतेन वाससा शिष्यस्य नेत्रबन्धनम्] वाससा ह्यहतेनाथ शुद्धेन सुसितेन च || १२४ || नेत्रमन्त्राभिजप्तेन नेत्रे शिष्यस्य बन्धयेत् | [पिनद्धनेत्रस्य शिष्यस्य हस्तेन पुष्पाञ्जलिप्रक्षेपणम्] अमन्त्रं क्षेपयेच्चातो विष्णोः पुष्पाञ्जलिं स्थले || १२५ || [पुष्पाञ्जलिपतनानुसारेण शिष्यस्य नामकरणम्] यत्र सा पतति ब्रह्मन्बुद्धिसङ्कल्पितेऽम्बुजे | प्. १६५) नवधा विभजेत्प्राग्वत्तन्नामानं तमङ्कयेत् || १२६ || विष्णुशब्दान्वितेनैव पतिं(ति ?)संज्ञायुतेन च | [अमन्त्रकं कलशपूजनम्] अमन्त्रमर्चयेत्पश्चात्कलशं सास्त्रवर्धनीम् || १२७ || [मायासूत्रविधाननिरूपणम्] सुसितं सूत्रमादाय लाक्षालक्तकभावितम् | [तत्र सूत्रमानम्] सम्मुखं चोत्थितं शिष्यं समपादशिरोन्नतम् || १२८ || कृत्वाऽङ्गुष्ठद्वयस्याग्रात्समारभ्य द्विजोत्तम | यावच्छिखावसानं तु सूत्रमानं समाहरेत् || १२९ || [तस्य सूत्रस्यैकगुणद्विगुणत्वाद्यन्यतमविधानम्] कुर्यादेकगुणं तद्वै द्विगुणं त्रिगुणं तु वा | त्रित्रिस्थगुणितं वाथ पञ्चविंशतिधा तु वा || १३० || [तस्य सूत्रस्य सर्वविकारप्रकृतिभूताव्यक्तत्वेनभावनम्] अव्यक्तलिङ्गसूत्रं तु प्रागविद्याकलात्मकम् | नित्यं जडं व्यापकं च तस्मिन्विश्वं प्रतिष्ठितम् || १३१ || तत्राप्त(स्त ?)मयते भूयस्तस्माद्वै संप्रवर्तते | तत्रस्थां चिन्तयेत्सर्वामभिन्नां तत्त्ववर्धनीम् || १३२ || तत्रोद्भवास्तु ये विप्र पाशबन्धात्मका दृढाः | रागेण रञ्जिताश्चित्रा अविद्यासंप्रदीपिताः || १३३ || विच्छिन्नाश्चैव कालेन नियता व्यापकास्तथा | [तस्य सूत्रस्यैकद्वित्र्याद्यन्यतमप्रकारेण तत्त्वसङ्ख्याक्रमेण यथेच्छं ग्रंथनम्] तत्त्वसङ्ख्याक्रमेणैव ग्रथयेत्तद्विजेच्छया || १३४ || एकधा वा द्विधा चैव त्रिधा वा नवधा मुने | संक्षिप्तं विस्तरेणाथ ग्रथयेत्पञ्चपञ्चधा || १३५ || [भोगमोक्षार्थिनः शिष्यस्य तदन्तरायोन्मूलनार्थं शिष्यशरीरतया भाविते सूत्रे तत्त्वसृष्टिक्रमेण शिखाप्रभृतिचरणान्तावयवभावनापूर्वकं होमस्य कर्तव्यताविधानम्] तत्त्वसृष्टिक्रमेणैव शिखाग्राच्चरणावधि | प्. १६६) भविष्यत्फलदेहेऽसौ (स्य ?) कृतकृत्यस्य कर्मणः || १३६ || कल्पयित्वा तु होतव्यो मन्त्रैर्निमूलकारणम् | भोगमोक्षप्रसक्तस्य बाधन्ते न यथा पुनः || १३७ || कदाचिद्देहपादाद्यैः कर्माणि मुनिसत्तम | अनिच्छमानस्य बलाज्जन्तोः संप्रेयरन्ति च || १३८ || सेश्वरे प्राकृते देहे स हि कर्मास्पदो यतः | आश्रयस्य त्वभावेन कर्माण्युपशमन्ति च || १३९ || स्वयमेव यथा वह्नेर्ज्वालाद्या इन्धनं विना | भोगासक्तस्य वै जन्तोरन्ते मोक्षाभिकांक्षिणः || १४० || संविधानमिदं कुर्यान्न निर्वाणाश्रितस्य च | [सूत्रं कुंडसमीपं नीत्वा तस्मिन् सूत्रात्मके देहे तत्त्वानां संक्षेपविस्ताराभ्यां पूर्वोक्तैक द्वित्र्यादिग्रन्थनप्रकारविकल्पानुगुणं स्मरणप्रकारः] साधुपर्णपुटे सूत्रं कृत्वा तं मल्लकेऽथ वा || १४१ || प्रयायात्कुण्डनिकटं सह शिष्येण वै गुरुः | निधाय कुण्डनिकटे देहे शैष्येऽथ सौत्रके || १४२ || तत्त्वसङ्घं स्मरेद्भिन्नं स्पष्टं सृष्टिक्रमेण तु | केवलं चेश्वरं वाथ तं प्रधानान्वितं तु वै || १४३ || ते द्वे तन्मात्रकं वर्गमेकं च बहुधात्मकम् | ईश्वरं प्रकृतिं मेधामहङ्कारादिकं गणम् || १४४ || नवधा वा मुनिश्रेष्ठ विस्तारेणाथ चिन्तयेत् | ईश्वराच्च प्रथिव्यन्तं यथा चानुक्रमेण वा || १४५ || ललाटादङ्घ्रिपर्यन्तं स्थानभेदेन नारद | व्यापकत्वेन वै तत्त्वं सर्वेषां च लयं गतम् || १४६ || [तत्त्वगणस्य दीपालोकयोरिवापृथग्भावलक्षणमैक्यम्] प्रदीपाच्च यथा गेहे बहवस्स्थानभेदकाः | दृश्यते(न्ते ?)च तदुद्भूत आलोकोन विभाव्यते || १४७ || व्यापकत्वात्पृथग्रपमेवं तत्त्वगणं मुने | अपृथक्च पृथग्भूतं संमिश्रं तु विभावयेत् || १४८ || यथावज्ज्ञानदृष्ट्या तु बुद्ध्या संशोध्य योजयेत् | एवमेवापृथग्विद्धि भेदमेकस्य तं प्रति || १४९ || प्. १६७) दिक्संस्थितस्य यच्चैक्यं मिश्रीभूतत्वमेव हि | [तत्रैकधाग्रन्थनपक्षे] एकोच्चारप्रयोगेण ईशं सर्वत्र भावयेत् || १५० || [द्विधा ग्रन्थनपक्षे] द्विरुच्चारप्रयोगेण ईश्वरं तु विभावयेत् | व्यक्तौ प्रधानतत्त्वं तु व्यापकं देहरूपधृत् || १५१ || [त्रिधा ग्रन्थनपक्षे] त्रिरुच्चारेण चामूर्ध्नो हृदयान्तं स्मरेद्विभुम् | हृदयान्नाभिपर्यन्तं प्रधानं परिभावयेत् || १५२ || आनाभेः पादपर्यन्तं स्मरेत्तन्मात्रकं गणम् | [नवधा ग्रन्थनपक्षे] नवधा मुनिशार्दूल एवमेव क्रमं शृणु || १५३ || आकर्णादीश्वरं मूर्ध्नि प्रधानं वक्षसोऽन्तरे | नाभौ बुद्धिमहङ्कारं कन्दमूलाश्रितं स्मरेत् || १५४ || ऊरुभ्यां शब्दतन्मात्रं स्पर्शाख्यं सन्धिदेशजम् | जङ्घाभ्यां रूपतन्मात्रं गुल्फयोरससंज्ञितम् || १५५ || पादाभ्यां गन्धसंज्ञं तु सबीजं ध्यानसंयुतम् | स्मरेद्देहे शिशोस्सूत्रे नवग्रन्थिसमायुते || १५६ || ध्यायेद्ध्याता धरान्तं वा दीक्षाकाले ह्युपस्थिते | [अथ तत्त्वानां होमः] ललाटे चेश्वरं साक्षाच्चिद्रूपं सर्वतो मुखम् || १५७ || समग्रैश्वर्यसंपूर्णं स्वबीजेन महामते | तद्वदेव हि शिष्यस्य ध्वात्वा तदनु होमयेत् || १५८ || स्वबीजेन शतं साष्टं तदर्द्धं त्र्यंशमेव वा | तत्पादमथ पादार्धं ज्ञात्वाव्यक्तबलं तु वै || १५९ || हुत्वाऽथ हविषाऽपूर्य स्रवं तेन हुने (?)च्छिशुम् | मूर्ध्नि पूर्णोपमं कुण्डे स्वाहान्तं तु विनिक्षिपेत् || १६० || सूत्रग(ग्र ?)न्धावथोर्ध्वस्थे तत्तत्वं भावयेत्तथा | एवमीश्वरसंपातं होमं कृत्वा समासतः || १६१ || प्. १६८) प्रधानं च भुवोर्मध्ये स्वमन्त्रेण तु भावयेत् | सिन्दूरपुञ्जसङ्काशं होमयेत्तद्वदेव हि || १६२ || सितेन्दुरश्मिवर्णाभां तालुमध्ये धियं स्मरेत् | कुसुम्भरससङ्काशं खद्योतमिव खेचरम् || १६३ || तालुमूले त्वहङ्कारं तालुकर्णान्तरे ततः | राजोपलद्युति मुषंषः (माकृतेः ?) कदम्बकुसुमोपमम् || १६४ || मनसश्चानुसन्धानं कुर्यात्सन्तर्प्य पूर्ववत् | कर्णाद्धृत्पद्मपर्यन्तं स्मरेत्पञ्चपदे समे || १६५ || श्रोत्रादीनथ वै पञ्च प्रस्फुरत्तारकोज्वलान् | स्वैः स्वैर्बीजैश्च पूर्वोक्तैर्ध्यात्वा सन्तर्प्य पूर्ववत् || १६६ || तत्स्थाना - - - - - - - - - - - - - - - - - - | स्पन्द (पद्म) स्थानाच्च नाभ्यन्तं प्राग्वत्पञ्चपदान्तरे | वागादीन्वै स्थितान् पञ्च बीजैः स्वैः पूर्ववत्स्मरेत् || १६७ || अनुक्रमेण चैकैकमुच्चार्य जुहुयान्न्यसेत् | आनाभेर्वस्तिशीर्षान्तं सुसमे पदपञ्चके || १६८ || शब्दतन्मात्रपूर्वाणि गन्धमात्रावसानतः | स्वैःस्वैर्गुणैश्च युक्तानि भास्वज्ज्योतिःप्रभाणि तु || १६९ || ऊरुमूले तथा मध्ये बुद्धिदेशे (?)ततस्त्वधः | दण्डे मर्मावसाने तु (?)सर्वस्मिंश्चरणे क्रमात् || १७० || खवाययवग्न्युदकक्ष्मान्तं चिन्तयेद्भूतपञ्चकम् | नि(नी ?)रूपाञ्जनवर्णं तु संस्मरेद्व्योमगोलकम् || १७१ || वायव्यं नीलपीतञ्च तैजसं मधुपिङ्गलम् | मुक्ताफलनिभं चाप्यं रत्नपीतं तु पार्थिवम् || १७२ || सध्यानद्रष्टा चोङ्कारं बीजं तदनु वै नमः | तत्रैव काले होमार्थं बीजं प्रणवपूर्वकम् || १७३ || तत्तत्सज्ञं ततः स्वाहा संपाते त्वीदृशो विधिः | [संपातहोमः ?] तुर्यातीतपदावस्थो गुरुः कुर्यादनुग्रहम् || १७४ || एकोच्चारेण शिष्यस्य क्रियामप्यपरित्यजन् | प्. १६९) द्विरुच्चारेण तुर्यस्थः सुषुप्तावस्थगस्त्रिभिः || १७५ || नवभिस्स्वप्नभूमिष्ठो जाग्रत्स्थानोऽखिलैर्जुहेत् | एकधा वा द्धिधा त्रेधा पञ्चधा पञ्चपञ्चधा || १७६ || हुत्वा संपातहोमार्थं सर्वद्वन्द्वोपशान्तये | कुर्यात्पूर्णाहुतिं चैव होमान्ते बीजसन्ततम् || १७७ || समूलमन्त्रं संस्मृत्य वौषडन्तं महामुने | यः पुमान् जीवसंज्ञस्तु तस्यैता भोगभूमयः || १७८ || ऊर्ध्वाधोभ्यामविश्रान्तस्तावत्कुर्याद्गमागमम् | यावन्न गुरुणा सम्यङ्मन्त्रमूर्त्तौ नियोजितः || १७९ || तत्स्थितो भगवच्छक्तिकिरणैश्चामलीकृतः | निर्मलो मलसोपानपदवीं न व्रजेत्पुनः || १८० || एवं संपातहोमं तु संपाद्य च पुरा मुने | विधाय तत्त्वसूत्रं तु पात्रेणैवापरेण तु || १८१ || संवेष्ट्य सितसूत्रेण गत्वाऽथ विनिवेद्य च | [रजोघटिकाकर्तर्याद्युपकरणद्रव्याणामासादनादिसंस्कारः] कुम्भाग्रे वायुकोणे वा रजांसि घटिकां तथा || १८२ || कर्त्तरीं शालिपूर्णां तु सूत्रं किरणसंज्ञितम् | सौवर्णीं राजतीं चैव शलाकां ताम्रजामथ || १८३ || धूपदीपादिकं सर्वं मूलमन्त्रेण नारद | संपूज्याथ परामृश्य निरीक्ष्याच्छाद्य वाससा || १८४ || [बलिहरणम्] ततश्शिष्यसमायुक्तो द्वाराद्बाह्यं व्रजेद्गुरुः | भूतानि दूरतोऽस्त्रेण प्रेर्य चैव बलिं क्षिपेत् || १८५ || तोयतण्डुलसिद्धार्थदधिजालसमन्वितम् | [परिखालेखनम्] शङ्कुनाऽस्त्राभिजप्तेन परितः परिखां लिखेत् || १८६ || समाचम्योपविश्याथ प्राङ्मुखो वाप्युदङ्मुखः | [पञ्चगव्यप्रदानम्] अनुक्रमेण शिष्याणां वर्णतो व्यवहारतः || १८७ || प्. १७०) पञ्चगव्यमथो दद्याद्दुर्भुक्तानां विशुद्धये | [चरुशेषभक्षणम्] आचम्य चरुशेषं तु अश्नीयाच्छिष्यसंयुतः || १८८ || [अथ दन्तकाष्ठचर्वणतत्प्रक्षेपणविधानम्] भुत्त्काऽस्त्रेणाभिमन्त्र्याथ दन्तकाष्ठं तु भक्षयेत् | [अधिकारिभेदेन दन्तकाष्ठपरिमाणभेदः] नवाष्टसप्तषट्पञ्चाङ्गुलैर्ब्राह्मणपूर्वकम् || १८९ || दद्यात्स्त्रीबालपर्यन्तं गुरोर्वै द्वादशाङ्गुलम् | एकापायेन चैतस्मात् समयज्ञावसानतः || १९० || भक्षयित्वा विनिक्षिप्य तौ (सं ?)क्षाल्य प्रयतस्ततः | स्पष्टं कृत्वा खवक्त्रं तु अग्रपातं विलोक्य च || १९१ || [शुभाशुभपरिज्ञानम्] उदक्पश्चिम ऐशानप्राङ्मुखं पतितं तु वा | शुभं शेषासु विप्रेन्द्र दिक्षु चाशुभमादिशेत् || १९२ || स दोषाश्चाशुभे पाते निर्दोषाश्च शुभे स्मृताः | [अशुभशान्त्यर्थो होमः] तत्राशुभोपशान्त्यर्थं प्रभाते जुहुयाद्गुरुः || १९३ || शतं सहस्रं साष्टं वा यथाशक्त्यथवा द्विज | मध्वाज्यक्षीरसंमिश्रान् सफलांश्च तिलानथ || १९४ || अस्त्रसंपुटितेनैव नाम्ना स्वाहान्वितेन तु | दोषं जहि जहीत्येव पदं नामावसानगम् || १९५ || [अथ शयनविधिः] आचम्य पाणिपादं तु प्रक्षाल्य शिशुना सह | सर्वं प्रदक्षणीकृत्य त्रिस्थानस्थक्रमेण तु || १९६ || प्राग्दक्षिणशिरो वाऽथ शयनं कल्पयेद्गुरुः | दर्भांस्तत्रास्त्रमन्त्रेण क्षिपेत्सिद्धार्थकांस्तथा || १९७ || भगवन्तं स्मरंस्तत्र नारायणमजं विभुम् | उपोष्य रजनीमेकां नियमस्थां तु कारयेत् || १९८ || प्. १७१) शतमावर्तयेन्मन्त्रमर्धं पादं तु शक्तितः | [स्वप्नाधिपतिमन्त्रः] ओंकारः प्राक्ततः प्राणो लोकेशोपरि संस्थितः || १९९ || तदूर्ध्वे व्यापकं चान्द्रं ह्रीङ्कारस्तदनन्तरम् | स्वप्नाधिपतये दद्यात्पदं चाथ षडक्षरम् || २०० || रजनीश्वराय शब्दं वै विष्णवे त्र्यक्षरं ततः | स्वाहा समन्वितो विंशत्यक्षरः स्वप्नमन्त्रराट् || २०१ || [अर्धरात्रे शयनादुत्थाय गुरुणा विधेयो विशेषः] ततोऽर्धरात्रसमये उत्थाय शयनाद्गुरुः | प्रक्षालिताङ्घ्रिपाणिश्च आचम्य न्यासमाचरेत् || २०२ || स्थलस्थं धूपयित्वाऽग्निमुत्थाप्यैकीकृतं स्मरेत् | कुम्भस्थे मन्त्रमूर्तौ तु प्राग्वत्कुर्याच्च मण्डलम् || २०३ || शोभयेच्च तथा विप्र दद्यादस्त्राभिमन्त्रितम् | शराष्टकं बहिर्दिक्षु सफलं पुष्पमण्डितम् || २०४ || शराश्रितं त्रिधा छिन्नं सूत्रं वै पञ्चरङ्गकम् | वस्त्रैः कृत्वा परिच्छन्नं यथान्यो नावलोकयेत् || २०५ || कृतो वा क्रियमाणो वा यस्मान्नापूजितो मुने | दर्शनीयो रजःपातः कस्यचित्सिद्धिमिच्छता || २०६ || [प्रभाते शिष्याणामुद्बोधनम्] प्रभाते बोधयेच्छिष्यान् स्वप्नं पृच्छेच्छुभाशुभम् | [शुभाशुभस्वप्नभेदनिरूपणम्] गुरुदेवद्विजाःकन्या गोगजाश्चाश्वकेसरी || २०७ || दर्पणं शङ्खभेर्यौ च तन्त्रीवाद्यं च रोद(शोभ ?)नम् | ताम्बूलभक्षणं चैव तथा दध्यभिवन्दनम् || २०८ || सिद्धान्नमाममांसं च मद्यस्त्रीमदिरासवम् | छत्रं यानं सितं वस्त्रं तथाऽन्यत् श्वेतचन्दनम् || २०९ || माल्यं मुक्ताफलैर्हारो भूयःपूर्णोदितश्शशी | प्रचण्डकिरणः खस्थो निम्नगाऽथ महोदधिः || २१० || प्रफुल्लपादपश्शाली कुङ्कुमं रोचना मधु | प्. १७२) लाजाः सिद्धार्थका बीजं नवभाण्डं च पायसम् || २११ || तपस्यन्वै तथाऽचार्यो गायन्ती च वराङ्गना | मनःप्रीतिकराश्चान्ये लोके शंसापदङ्गता || २१२ || सर्वे स्वप्नाश्शुभा विद्धि सिद्धिमोक्षफलप्रदाः | अतोऽन्ये विपरीताश्च मनसः खेददाश्च ये || २१३ || गर्हिता लोकविद्विष्टास्स्वप्नास्ते ह्यशुभावहाः | [अशुभस्वप्नदोषपरिहाराय होमविधानम्] पृष्ट्वा समाचरेद्धोमं दन्तकाष्ठोदितं मुने || २१४ || केवलेनाथवाऽज्येन सिंहमन्त्रेण शान्तये | [न्यूनातिरिक्तप्रायश्चित्तार्थं होमस्य विधानम्] सशिष्योऽथ गुरुस्स्नात्वा पूर्ववत्संप्रविश्य च || २१५ || ऊनातिरिक्तशान्त्यर्थं सर्वमन्त्रैश्च होमयेत् | [पूर्वोक्तप्रकारेण मण्डलपूजनादि] मण्डलं पूजयेत्पश्चात् पूर्वोक्तविधिना मुने || २१६ || सर्वं होमावसानं तु कृत्वा शिष्यान् प्रवेशयेत् | [आबद्धनेत्राणां शिष्याणां हस्ततः पुष्पाञ्जलिप्रक्षेपणम्] क्रमात् पुष्पाञ्जलिं कृत्वा बद्धनेत्रांश्च पूर्ववत् || २१७ || क्षेपयेच्च हिरण्याढ्यं मणिमुक्ताफलान्वितम् | [उद्घाटितनेत्रैः शिष्यैः गुरुनमस्कारादेः कर्तव्यता] उद्घाट्य नयने पश्चादखिलं संप्रदर्शयेत् || २१८ || गुरोर्वै पादपतनं कृत्वाऽष्टाङ्गेन भक्तितः | प्रदक्षिणद्वयं कुर्यान्मण्डले नतमस्तकः || २१९ || व्रजेदग्नेस्समीपं तु उपविश्य ततो गुरुः | [अथ गुरुणा कर्तव्यहोमविशेषविधानम् तत्र मन्त्रतृप्तिहोमः] विन्यस्य वह्नेर्गेहे तु मन्त्रमण्डलमुत्तमम् || २२० || स्वाहान्तान् होमयेद्भूयो मन्त्रान्विधिपुरस्सरान् | देवीरङ्गानि सत्यास्त्रं ? तिलैराज्येन शक्तितः || २२१ || मन्त्राणां तर्पणं कृत्वा सर्वेषां मुनिसत्तम | [मन्त्राधिकारहोमः] दीक्षारम्भनिमित्तार्थं दशभागव्यवस्थया || २२२ || प्. १७३) मन्त्रपूजाधिकारार्थं होमं कुर्यात्ततोऽपरम् | प्रतिमन्त्रस्य जुहुयात् पञ्चपञ्चाहुतिक्रमात् || २२३ || अधिकारो भवत्येवं जपेऽग्नौ च श्रुतेऽर्चने | [अथ मलशोधनहोमः] दीक्षायां मलशुद्ध्यर्थं मूलमन्त्रस्य वै शतम् || २२४ || अष्टाधिकं घृतेनैव तिलेनापि यथेच्छया | देवीनां पञ्चविंशेन त्वङ्गानां दशकेन तु || २२५ || सिंहादिष्वष्टकेनैव सप्तकेन ततो मुने | विहितं कौस्तुभादीनां षड्भिस्सत्यादिषूदितम् || २२६ || सप्ताक्षरस्य मन्त्रस्य विहितं पञ्चकेन वै | पूर्णाहुतिं घृतेनैव मूलमन्त्रेण पातयेत् || २२७ || तदा दीक्षा भवेच्छश्वन्मान्त्री सामान्यलक्षणा | विना स्वरूपज्ञानेन यया सन्तारयेद्गुरुः || २२८ || मन्त्रैस्तु संपुटीकुर्यात् किन्तु संज्ञा (ज्ञां ?)शिशोर्द्विज | इत्येतन्मन्त्रदीक्षायां केवलायां समासतः || २२९ || [अथ दीक्षायां ज्ञातव्यविशेषविधानम्] हवने लक्षणं प्रोक्तं सतत्त्वायामतश्शृणु | दीक्षाकाले तु गुरुणा ज्ञातव्या तत्त्वपद्धतिः || २३० || ज्ञेयानुष्ठानभावेन यथा तु सुकरो भवेत् | मन्त्रशुद्धिप्रभावाच्च शुद्धो भवति वै गुरुः || २३१ || गुरुशुद्धिप्रभावाच्च मन्त्रग्रामो भवेत्स्थिरः | प्रागुक्तेन विधानेन हवनादपि सन्धनात् || २३२ || दीक्षाकर्मणि विस्तीर्णे मध्यमे वाऽवाधारय | [नवतत्त्वशोधनेन सर्वतत्त्वानां शुद्धता] गन्धतन्मात्रपूर्वैस्तु तन्मात्रैः शोधितैः क्रमात् || २३३ || भवन्त्यमी विशुद्धास्तु पृथिव्याद्याः खपञ्चमाः | तेषामन्तर्गतौ ज्ञेयौ द्वौ वर्गाविन्द्रियात्मकौ || २३४ || कर्मेन्द्रियात्मक पूर्वं ततो बुद्धीन्द्रियात्मकः | एवं तन्मात्रशुद्ध्या वै विंशत्तत्वं विशोधितम् || २३५ || प्. १७४) अहङ्कारेण शुद्धेन मनश्शुद्धिरिहोच्यते | बुद्ध्या तु शुद्धया शुद्धाः प्रत्ययाः सविपर्ययाः || २३६ || प्रधानेन तु शुद्धेन व्यक्ताव्यक्तं तु शोधितम् | ईश्वरेण तु शुद्धेन शुद्धश्चित्पुरुषो भवेत् || २३७ || अशोध्यं परमं तत्त्वं यत्र केवलतां व्रजेत् | तत्रैव तु लयं कुर्यात्परब्रह्मस्वभावके || २३८ || ज्ञानदीक्षाक्रमेणैव तत्त्वशुद्धेरनन्तरम् | एवं वेदविदां श्रेष्ठः पुरा ज्ञात्वा समासतः || २३९ || [मुमुक्षुशिष्याणां तत्त्वशोधने विशेषविधानम्] मुमुक्षूणां च शिष्याणामध्वानं शोधयेत्क्रमात् | यादृक्तद्विस्तरेणैव श्रुणुष्वावहितो मम || २४० || [वह्वौ भाविते मन्त्रमयमूर्तिस्वरूपे शिष्यतत्त्वानामुपसंहरणप्रकारः] वह्नौ तु व्योमवद्ध्यात्वा न्यस्तो मन्त्रगणो हि यः | सर्वव्यापकरूपेण तन्मध्ये तत्त्वपद्धतिम् || २४१ || समग्रां योजयेद्ध्यात्वा तत्त्वात्तत्वं क्रमेण तु | [निरीक्षणप्रोक्षणादिलक्षणः शिष्यशरीरसंस्कारः] बद्धपद्मासनं शिष्यं कृत्वा चात्मसमीपगम् || २४२ || निरीक्ष्य पूर्ववत्प्रोक्ष्य मन्त्रहस्तेन संस्पृशेत् | [अथ ततस्तत्वानां सृष्टिभावनम्] ईश्वराद्भूमिपर्यन्तां पुरा पूर्वां तु वै त्रिधा || २४३ || सृष्टिं कुर्यात्स्वरूपस्थां तमेवमुपसंहरेत् | ततः शिष्यतनौ सम्यक्सृष्टिं स्पष्टां स्मरेत्क्रमात् || २४४ || येन शिष्यतनुस्थानां तत्त्वानां जडरूपिणाम् | संबोधमावहत्याशु दीक्षाकाले ह्युपस्थिते || २४५ || [अथानुज्ञाग्रहणपूर्वकं पाशसूत्रस्य कुण्डसमीपे नयनम्] ततः कुंभस्थितं मन्त्रं गत्वा संप्रार्थ्य चेतसा | लब्धानुज्ञस्समादाय पाशसूत्रं पुटस्थितम् || २४६ || यायात्कुण्डसमीपं तु तमुद्घाट्य निधाय वै | [मूलमन्त्रेण होमः] सहस्रेण शतेनाथ आहुतीनां तु तर्पयेत् || २४७ || प्. १७५) मूलेन भगवन्तं तु परमं सृष्टिकारणम् | पूर्णा दीक्षावसाने तु दातव्या मुनिसत्तम || २४८ || एकानेकप्रयोगाणां न तु कर्मणि कर्मणि | [ताडनलक्षणं शिष्यशरीरशुद्धीकरणम्] एकचित्तस्थितिं कृत्वा शिष्यरूपं समाधिना || २४९ || सांप्रतं मूलमन्त्रेण मन्त्रजापोत्थितेन तु | प्रजप्य मूलमन्त्रेण पुष्पं तु बहुशस्ततः || २५० || हुं फट्कारान्तयुक्तेन हृदयं तस्य ताडयेत् | संबोधमावहेच्छीघ्रं पिण्डमध्यगतस्य च || २५१ || [तत्त्वानां शोधनप्रकारः] क्ष्मातत्त्वे जननं पूर्वं चैतन्यस्य प्रकाशता | सद्व्याप्तिभावना तस्मिन् स्वस्मिन्स्वस्मिन्स्थितस्य च || २५२ || मन्त्रसंबोधसामर्थ्यात्तत्रैश्वर्यपदं पुनः | तद्भोगमपि चैश्वर्यात्तत्तृप्तिमथ भावयेत् || २५३ || जन्तोर्भोगसमाप्तिं तु भोगान्ते तु वियोजनम् | अथोद्धारस्तु कर्तव्यस्तत्त्वात्तत्त्वे ह्यनुक्रमात् || २५४ || एवं तु विविधं कर्म तत्त्वे तत्त्वे विचिन्तयेत् | प्रतितत्त्वं शतं हुत्त्वा आहुतीनां तु नारद || २५५ || मन्त्रयुक्तेन बीजेन सर्वतत्त्वानि होमयेत् | अध्यात्ममन्त्रमुच्चार्य अस्येति द्व्यक्षरं परम् || २५६ || तदन्ते शिष्यसंज्ञां तु तत्त्वबीजमथोच्चरेत् | बीजान्ते तत्त्वसंज्ञा च शोधयेति पदं ततः || २५७ || स्वाहां तदनु वै कुर्याश्छमं नयपदं ततः | नमस्कारसमायुक्तो मन्त्रोऽयं होमकर्मणि || २५८ || चिन्तयेत्तत्वरत्नं तु शिष्यान् (शैष्यं ?) संस्मृत्य पार्थिवम् | चैतन्यकरणेनापि निक्षिप्तं च स्रुचोऽग्रतः || २५९ || प्. १७६) विभवव्यूहसूक्ष्मात्मा तदेव परिभावयेत् | विकर्त्त्य पार्थिवग्रन्थिं सूत्रात्कुर्यात्स्रुचोऽग्रगम् || २६० || नियोज्य पूर्णया चाग्नावङ्कुशेन तु नारद | एवं संहारयोगेन परस्मिन्मन्त्रकारणे || २६१ || ज्वलद्रूपेऽग्निकुण्डस्थे क्ष्माख्यतत्वं शमं नयेत् | क्रमेणानेन विप्रेन्द्र अप्तत्त्वेऽपि प्रयुज्यते || २६२ || तद्द्वत्तदुपसंहृत्य पूर्णां पाशेन तस्य वै | तेजसो गरुडेनैव गदयाप्यथ मारुते || २६३ || ततस्त्वाकाशसन्धाने पूर्णां चक्रेन निक्षिपेत् | गन्धतन्मात्रशुद्ध्यर्थं शङ्खमन्त्रेण नारद || २६४ || पूर्णां वै पद्ममन्त्रेण रसतन्मात्रशुद्धये | रूपतन्मात्रशुद्ध्यर्थं मालामन्त्रेण निक्षिपेत् || २६५ || स्पर्शसंज्ञस्य विप्रेन्द्र कौस्तुभाख्येन योजयेत् | शब्दतन्मात्रतत्त्वस्य वाराहेण समाचरेत् || २६६ || उपस्थतो वाङ्निष्ठानां पञ्चानां परियोजयेत् | कापिलेनाथ सिह्मेन अस्त्रनेत्रेण वर्मणा || २६७ || कार्यं सदैव विप्रेन्द्र इन्द्रियाणामतः शृणु | शिखया शिरसा चैव हृन्मन्त्रेणाथ मायया || २६८ || जयामन्त्रेण श्रोत्राख्य इन्द्रियान्तं लयक्रमात् | आरभ्य घ्राणसंज्ञां च सततं पूर्णकर्मणि || २६९ || मनसः कीर्तिमन्त्रेण लक्ष्माख्येन त्वहङ्कृतेः | समग्रमूलमन्त्रेण बुद्धेः पूर्णाहुतिं क्षिपेत् || २७० || सत्यादिपञ्चकेनैव प्रकृतिं प्रलयन्नयेत् | पुरुषञ्चेश्वरस्थाने शमन्नयति सर्वदा || २७१ || गुरुः सप्ताक्षरेणैव पूर्णाहुत्या प्रसन्नधीः | ईश्वरात्तु परं तत्त्वं तत्त्वग्रामे न विद्यते || २७२ || पुमानीश्वरतत्वात्तु अधो यातः पदात्पदम् | येनेश्वरस्वरूपस्सन्ननिशं प्रतिभाति वै || २७३ || प्. १७७) तस्माद्दीक्षाक्रमेणैव तत्रोद्धृत्य पुनः क्षिपेत् | लयस्तत्रैव कर्तव्यो भोगार्थं च शिशोस्तदा || २७४ || [गुरुणा कर्तव्यो भावनाविशेषः] ईश्वराधारसंज्ञस्तु स्वात्मवान्दीक्षितः शुचिः | ध्यायेन्निरक्षराकारं विश्वो विश्वात्मकस्त्वथ || २७५ || अनाधिनिधनं देवमच्युताच्युतविग्रहम् | [भोगार्थपूर्णाहुतिप्रकारनिरूपणम्] ध्यात्वा नारायणं पश्चात्मूलमन्त्रं विलोमतः || २७६ || परमामृतसंक्षुब्धरूपमोघं तु चामृतम् | मुञ्चमानमनौपम्यमप्रतर्क्यमतीन्द्रियम् || २७७ || शशिसूर्यप्रतीकाशं विसर्गेण तु बन्धभृत् | पूर्णाहुतिः प्रदातव्या वौषडन्तेन नारद || २७८ || एवं पूर्णाहुतिं दत्वा सम्भोगार्थमनन्तरम् | [मोक्षार्थपूर्णाहुतिप्रकारनिरूपणम्] मोक्षार्थं पातयेदन्यां पूर्णां संपूर्णलक्षणाम् || २७९ || संशुद्धसर्वतत्त्वं तु ईश्वरादूर्ध्ववर्तिनम् | अक्षरेण तु मन्त्रेण त्रिदैवत्यमिवाच्युतम् || २८० || ध्यात्वा तु सकलं शिष्यमात्मानं निष्कलं तथा | पूर्णार्थमुद्यतं चाज्यं ध्यायेत्सकलनिष्कलम् || २८१ || शिष्यदेहं तथा कर्मभिन्नं भावनया पुरा | ततः स्रुचोऽग्नो(ग्रे ?) सन्धाय द्वे एकीकरणेन तु || २८२ || निष्कलेन स्वरूपेण शिष्याज्ये तु यथा पुरा | कृत्वाऽचार्यस्वभावस्थं स्वचैतन्यं शनैः शनैः || २८३ || यावत्सुनिर्भरानन्दस्वानन्दपदमेति वै | ततः स्वानन्दविश्रान्ते महानन्दातुलास्पदे || २८४ || षडूर्मिषङ्गुणातीतं मन्त्रमुद्राक्रमोज्झितम् | स्वशक्तिवैभवं दिव्यं प्रतिभाव्याच्युतं गुरोः (रुः ?) || २८५ || ततो विज्ञानशब्दात्मपर्यन्तं रूपमुज्वलम् | अनुच्चार्य (ध्याय ?) समुच्चार्य मन्त्रं सप्ताक्षरं द्विज || २८६ || प्. १७८) पूर्णाहुतिं तदन्तेन वौषडन्तेन होमयेत् | [ब्रह्मसमापत्तिहोमप्रकारः] ततो ब्रह्मसमापत्तिस्थित्यर्थं होमयेद्गुरुः || २८७ || प्रणवादिनमोन्तैस्तु दशभिष्तु महापदैः | अप्रतर्क्यमनिर्देश्यमनौपम्यमनामयम् || २८८ || सूक्ष्मं सर्वगतं नित्यं ध्रुवमव्ययमीश्वरम् | भवेद्दशदशाहुत्या तद्वत्पूर्णाहुतिं पुनः || २८९ || शिष्यं चैव तथात्मानं परं ध्यात्वा परं पुनः | वौषडन्तं महापूर्णां तृतीयां पूर्ववत्क्षिपेत् || २९० || क्षीरं क्षीरं यथा विप्र नीरमेकत्र चिन्तयेत् | शिष्यं चैव तथाऽत्मानं विष्णुं सर्वगतं विभुम् || २९१ || निस्तरङ्गे मुनिश्रेष्ठ एकत्र समतां गतम् | तदा स्यान्मुक्तिदा दीक्षा वैष्णवी मोक्षदाऽर्थदा || २९२ || तत्त्वसंहारयोगेन अपुनर्भवता मुने | [सृष्टिक्रमेण संपादितानां तत्त्वानां शिष्यदेहे योजनम्] अलुप्तानन्दविज्ञानब्रह्मशैलाग्रगो गुरुः || २९३ || पातयेत्सृष्टिमार्गेण दिव्यमन्त्रमयं पुरम् | शिष्यः समाप्तहोमोऽयं कृतो विष्णुमयः पुरा || २९४ || विज्ञानवायुनाऽकृष्य निस्सृतं भावयेच्छनैः | वासुदेवोदधेर्मध्यादायान्तं च पदात्पदम् || २९५ || प्रवाहमौदकं यद्वत्सृष्टिमार्गे नियोज्य च | ------ मन्त्रे परे सूक्ष्मे तथा परे || २९६ || शुद्धे त्वंशपदे चाद्ये तत्त्वानामुदयास्पदे | तत्त्वात्तत्वं समायाति (दाय ?) तदा चात्मनि योजयेत् || २९७ || संशुध्य शिष्यचैतन्यं भागार्थं ब्रह्मणो हरेत् | अनुग्रहार्थं भक्तानां शिष्यदेहे नियोजयेत् || २९८ || एवं समाप्य वै दीक्षां विष्णोस्सायुज्यदायिकाम् | [वह्निमध्यस्थस्य मन्त्रमूर्तेर्भगवतोऽर्चनम्] भगवन्तं ततो विष्णुं व्यापकं वह्निमध्यगम् || २९९ || प्. १७९) मन्त्ररूपं परं ध्यातं साकारं संस्मरेत्पुनः | पूजयित्वाऽर्घ्यपुष्पाद्यैः समयान् श्रावयेद्गुरुः || ३०० || [अथ समयोपदोशः] स्वमन्त्रो नोपदेष्टव्यो न वक्तव्यश्च संसदि | गोपनीयं स्वशास्त्रं च रक्षणीयं शरीरवत् || ३०१ || यथा यथा यत्र तत्र न गृह्णीयाच्च केवलम् | अभक्त्या तु गुरोर्नाम गृह्णीयात्प्रयतात्मनः (ना ?) || ३०२ || प्रणवग्रथितो (तं ?) नाम विष्णुशब्दमनन्तरम् | पादशब्दसमेतं तु नतमूर्धा कृताञ्जलिः || ३०३ || न तमाज्ञापयेन्मोहात्तच्छायां तु न लङ्घयेत् | आसनं शयनं यानं तदीयं तु न चाक्रमेत् || ३०४ || गुर्वग्निमन्त्रशास्त्राणां भक्तिरव्यभिचारिणी | प्रभाते मन्त्रजापस्तु पूजनं सततं विभोः || ३०५ || प्रक्षीणदिनवेलायां जपेन्मन्त्रं स्वशक्तितः | द्वादश्यां सितकृष्णायां परिपीडं समाचरेत् || ३०६ || नक्तमास्ते त्वसामर्थ्याद्दानपूजापुरस्सरम् | वैष्णवानां पराभक्तिराचार्याणां विशेषतः || ३०७ || पूजनं च यथाशक्ति तानापन्नांश्च पालयेत् | मुद्राक्षसूत्रे संरक्ष्ये स्वमन्त्रं न प्रकाशयेत् || ३०८ || दूराच्च पादपतनं गुरोः पादाभिवन्दनम् | नोच्चासने हरेरग्रे उपवेश्यं कदाचन || ३०९ || न शङ्खपद्मचक्राङ्के आसनेऽपि च नारद | नानिवेद्य हरेः किञ्चिद्भोक्तव्यं वा गुरोस्तथा || ३१० || मन्त्रोपभुक्तिमर्घ्यं च तथा यन्मन्त्रसंस्कृतम् | प्राप्तमायतनाद्विष्णोः प्रयतः शिरसोद्वहेत् || ३११ || उदके निक्षिपेत्पश्चाद्भूमौ वै निपतेद्यदि | विशेषपूजनं कुर्यात्पक्षे मासेऽथ वत्सरे || ३१२ || द्वादश्यां वैष्णवैस्सार्द्धं तत्रैव शुभजागरम् | कार्यायतनयात्रा वै तत्र दानं च शक्तितः || ३१३ || प्. १८०) पठनं श्रवणं कुर्याच्छास्त्राध्ययनमाचरेत् | अतन्द्रितश्च सततं विना वै द्वादशीद्वयम् || ३१४ || प्रतिपत्पौर्णमास्यौ च साष्टमीं च चतुर्दशीम् | ग्रहोपरागसंक्रान्तिं विना चाथा(ना ?)गते गृहम् || ३१५ || गुरौ गुरुभ्रातरि वा यतिसङ्घे तु वैष्णवै | रथ्याचत्वरमार्गेषु सन्निधावप्यदीक्षिते || ३१६ || तथाप्यवैष्णवे मूर्खे पूजया च विना मुने | शास्त्रव्याख्या न कर्तव्या न श्रोतव्या शुभेप्सुना || ३१७ || तदारम्भे गुरोः पूजा मध्ये चैव विशेषतः | अन्ते विशेषयागं च क्रीडनं च महोत्सवम् || ३१८ || फलमूलं तथा पुष्पं गन्धोऽप्यन्नं नवं च यत् | तत्तदादौ गुरौ मन्त्रे विनिवेद्योपयोजयेत् || ३१९ || सामान्यसिद्धौ रक्षार्थं परेषां न कदाचन | प्रयुञ्जीत स्वमन्त्रं च आपत्स्वपि च नाचरेत् || ३२० || गारुडं भूतकर्माऽपि लोकस्यार्थेन नारद | कृपया परया कुर्यादनाथेष्वथ संसदि || ३२१ || सूर्यसोमान्तरस्थं च गवाश्वत्थाग्निमध्यगम् | भावयेद्भगवद्विष्णुं गुरुविप्रशरीरगम् || ३२२ || ज्ञेयो माता पिता विष्णुर्ज्ञेयो विष्णुः प्रियोऽतिथिः | ज्ञेयो विष्ण्वाश्रयी विष्णुरात्मा ज्ञेयोथ विष्णुवत् || ३२३ || यत्र तत्र परीवादो मात्सर्याच्छ्रूयते गुरोः | तत्र तत्र न वस्तव्यं प्रयायात्संस्मरेद्धरिम् || ३२४ || यैः कृता च गुरोर्निन्दा विभोः शास्त्रस्य नारद | तैर्नैव सह वस्तव्यं न वक्तव्यं कदाचन || ३२५ || कर्मणा मनसा वाचा न हिंस्यात्परदारकान् | प्रदक्षिणे प्रयाणे च प्रदाने च विशेषतः || ३२६ || प्रभाते च प्रवासे च स्वमन्त्रं बहुशः स्मरेत् | स्वप्ने वाऽक्षसमक्षं वा आश्चर्यमतिहर्षदम् || ३२७ || अकस्मादपि जायेत नाख्यातव्यं गुरोर्विना | इत्येतत्समयौघं तु विद्धि साधारणं द्विज || ३२८ || प्. १८१) ब्राह्मणादौ च वर्णानां समयीपुत्रकात्मनाम् | साधकानां गुरूणांच येभ्यो मध्यात्सुखप्रदान् || ३२९ || अविरुद्धांस्तथाऽक्लिष्टांस्त्रीबालानां च नारद | स्त्रीणां विशेषतो दद्यात्पतिभक्तिसमन्वितान् || ३३० || पतिशून्या च या नारी तस्या आयतने हरेः | लेपनं शोधनं दद्यात्संयमं च मिताशिताम् || ३३१ || पालनात्समयानां च सिद्धिरुत्पद्यतेऽचिरात् | मन्त्रः साम्मुख्यमभ्येति समयज्ञस्य सर्वदा || ३३२ || सिद्धयः समयज्ञस्य सिद्धाः स्युर्मोक्षपश्चिमाः | इत्यग्नावग्रतो विप्र दत्वा समयसंचयम् || ३३३ || [विष्णुहस्तप्रदानपूर्वकं शिष्यस्य मन्त्रहृद्यागाद्युपदेशः] भूतिना तिलकं कृत्वा मण्डलाग्रं व्रजेद्गुरुः | संपूज्य तत्र मन्त्रेशं विधिवत्पूर्ववन्मुने || ३३४ || विष्णुहस्तं ततो दद्यान्मूर्ध्नि पृष्ठे हृदन्तरे | आलम्भे(भेत् ?)मुद्रया सर्वं मूर्ध्नः पादतलान्ततः || ३३५ || शिष्यमुच्चारयेन्मन्त्रं न्यासहृद्यागपूर्वकम् | [कुम्भस्थदेवस्यार्चनम्] मन्त्रेण विविधैर्भोगैर्यथा चावसरोदितैः || ३३६ || कुम्भस्थमर्चयेद्भक्त्या देववन्मन्त्रभक्तितः | [अथ गुरोः पूजनम्] गुरुमष्टाङ्गपातेन पूजयेत्तदनन्तरम् || ३३७ || शिरः पादतले कृत्वा आनन्दाश्रुयुतो वदेत् | सपुत्रदारः सधनः प्रभो दासोऽस्म्यहं तव || ३३८ || भावोपेतं द्विज गुरोरात्मानं तु निवेदयेत् | ग्रामं वा रत्ननिचयं सुवर्णं वा कृताकृतम् || ३३९ || हस्त्यश्वरथपादातदासीदासगणैस्सह | यद्यद्यथोचितं वस्तु येन वा तुष्यते गुरुः || ३४० || समग्रेणापि दत्तेन भवेन्नानृणता गुरोः | भक्त्या विशुद्धया युक्तः पूजितस्य फलाम्बुना || ३४१ || प्. १८२) अशाठ्येन तु विप्रेन्द्र भवत्यनृणवान्गुरोः | [दीक्षान्ते वैष्णवानां भोजनादिना सन्तर्पणम्] आचार्यो दीक्षये(र्यस्तोषये ?)त्पश्चाद्वैष्णवान्पाञ्चरात्रिकान् || ३४२ || यथाथक्ति ह्यशाठ्येन भोजनेन धनेन च | [रात्र्यतिवाहने विशेषनियमः] गीतकैर्मङ्गलैर्वाद्यैः स्तोत्रैः शास्त्रकथान्वितैः || ३४३ || क्षपयित्वा ततो रात्रिं त्रिरात्रं सप्त पञ्च वा | [त्रिस्थानस्थस्य भगवतो विसर्जनं विश्वक्सेनपूजनं च] पूजया जपहोमेन दीक्षितः श्रद्धयाऽन्वितः || ३४४ || प्रागुक्तेनैव विधिना त्रिस्थानस्थं हरिं क्रमात् | विसृज्य पूजयेत्पश्चाद्विश्वक्सेनं तु पूर्ववत् || ३४५ || [अवभृथ सोमपानप्रकारनिरूपणम्] कलशद्वितयं कुर्यात्प्रागुक्तविधिना शुभम् | मध्वाज्यक्षीरसंपूर्णं यागमेकेन सेचयेत् || ३४६ || द्वितीयं मूलमन्त्रेण चन्द्रमध्यगतेन च | अभिमन्त्र्य च संस्थाप्य सोमपानार्थमादितः || ३४७ || मण्डलं प्लावितं येन कलशेन द्विजोत्तम | यानारूढो गृहीत्वा तं वामहस्ततले गुरुः || ३४८ || पृष्ठेऽस्य दक्षिणं दद्यादस्त्रराजं जपेन्मुने | शिष्यैः परिवृतो यायान्मङ्गलादिपुरस्सरैः || ३४९ || पटहैः शङ्खशब्दैश्च पूजां निक्षिप्य चोदके | प्राक्षाल्य पाणिपादं तु आचम्य न्यासमाचरेत् || ३५० || तमानीय च संपूर्णमम्भसा यत्र नारद | प्रक्षिप्तयागसंलग्नपुष्पार्घ्यादिकलम्भनम् || ३५१ || फलशाखान्तरस्थं च पुष्पस्रक्कण्ठधारिणम् | छादितं सितवस्त्रेण सर्वमन्त्राभिमन्त्रितम् || ३५२ || प्रविश्य यागभवनं मध्ये ह्युपविशेद्गुरुः | पीठन्यासप्रयोगेण प्रागुत्तरमुखस्ततः || ३५३ || प्. १८३) क्रमेण दीक्षितानां च धारया सेचयेच्छिरः | चक्रास्त्रसिंह्मैरच्छिद्रैः सिद्धये सिद्धिमिच्छताम् || ३५४ || दीक्षावसाने सर्वत्र विधिनाऽनेन यत्नतः | शिष्याणां कृपयाऽचार्यो दद्यादवभृथं शुभम् || ३५५ || यथाऽभिषेके तु मुने आचार्यस्साधकात्मनाम् | स्नानार्थं कलशं तद्वत्कुर्यादवभृथे सदा || ३५६ || कलशेन शुभेनैव सर्वतीर्थमयेन तु | स्नातः संपूजयेद्भूयो गुरुं च सपरिच्छदम् || ३५७ || प्रसन्नः पूजितो दद्यात्सोमपानं ततः क्रमात् | पात्रेष्वस्त्राभिजप्तेषु चन्द्रबिंबयुतेषु च || ३५८ || एकैकं तु ततः पात्रं मुद्रया चामृतेन तु | संपूर्यामृतमन्त्रेण सुधासन्दोहरूपिणा || ३५९ || [अथ गुरुयागः] ततोऽपरस्मिन्नहनि महता विभवेन तु | गुरुयागं मुने कुर्याच्छिष्यः सत्यपराक्रमः || ३६० || रजोभिर्मण्डलं कृत्वा चतुरश्रायतं शुभैः | तूलपूर्णं ततो दद्यादासनं फलकोपरि || ३६१ || तदाधारक्रमेणैव पुष्पाद्यैः पूजयेच्छिशुः | अभ्यज्योद्वर्त्त्य संस्थाप्य आलभ्याच्छाद्य शोभनैः || ३६२ || वस्त्रैःकटककेयूरैः पश्वादुपविशेति च | विज्ञाप्यो ह्यद्य भगवान्गुरुमूर्तिर्जनार्दनः || ३६३ || उपविष्टं तु पुष्पाद्यैर्मन्त्रेणानेन पूजयेत् | अज्ञानगहनालोकसूर्यसोमाग्निमूर्तये || ३६४ || दुःखत्रयाग्निसन्तापशान्तये गुरवे नमः | नैवेद्यमग्रतः कृत्वा पवित्रं विविधं बहु || ३६५ || बीजयन्नग्रतस्तिष्ठेत्किंकुर्वाणपरायणः | भुक्तं तृप्तमथाचान्तं प्रार्च्य संवाहयेत्ततः || ३६६ || शयनस्थं गुरुं विप्र स्वयं भुञ्जीत वै ततः | तदनुज्ञां गृहीत्वा तु शिरसा शान्तमानसः || ३६७ || प्. १८४) [गुरुशिष्ययोर्दीक्षाविधानफलम्] एवं विधिविधानेन दीक्षां यः कुरुते गुरुः | यस्य हि क्रियते विप्र समोक्षमधिगच्छति || ३६८ || कुरु गुप्तमिदं सर्वमभक्तानां च सर्वदा | दर्शयस्व च भक्तानामास्तिकानां विशेषतः || ३६९ || इति श्रीपाञ्चरात्रे जयाख्यसंहितायां दीक्षाविधानं नाम षोडशः पटलः || १६ || अथ शिष्यभेदाख्यानं नाम सप्तदशः पटलः नारदः साधकाचार्यसमयिपुत्रकाणां यथार्थतः | ज्ञातुमिच्छामि भगवन् त्वत्तो लक्षणमुत्तमम् || १ || समयज्ञश्च किं कुर्यात्पुत्रकः किं समाचरेत् | साधकः कथमास्ते वै किमाचार्यः करोति च || २ || श्रीभगवान्- [समयिलक्षणम्] यस्य मन्त्रे पराभक्तिर्ब्रह्मचारी जितेन्द्रियः | सत्यवाक्चतुरो धीरो ह्री श्रद्धाबुद्धिमांश्च यः || ३ || दृढव्रतः शुचिश्वैव गुर्वाराधनतत्परः | समाचरेच्छुभं नित्यं प्रसन्नात्मा प्रियंवदः || ४ || प्राप्तानुज्ञस्सवित्तोऽपि यागेन गुरुणाऽर्चयेत् | पश्येत्तथाऽन्यतो गत्वा यागं वै यत्र यत्र च || ५ || पूजितं तर्पितं विष्णोः शास्त्रं च शृणुयात्सदा | पालयेत्समयान्सर्वान्मन्त्रस्मरणपूर्वकान् || ६ || शङ्खचक्रगदापद्ममूर्तिमुद्रासमन्वितः | द्वादश्यादिषु कालेषु पूजयेद्धवनं विना || ७ || पठनं श्रवणं कुर्यात्सततं चार्चनं विना | शास्त्रार्थं विधिवद्ज्ञात्वा नयाचारसमन्वितः || ८ || पालयन्गुरुगेहाच्च व्यवहारं सदुत्थितम् | एवं लक्षणसंपूर्णो गुरुमभ्यर्थयेत्पुनः || ९ || प्. १८५) प्रत्यहं पूजनार्थं यस्समयज्ञस्स नारद | ज्ञात्वा तं गुरुणा सम्यगुक्तचिह्नैस्तु सामयैः || १० || पूरणीयाऽस्य चाकांक्षा यदर्थमुपरोध(धि ?)तः | तापनं गुरुवेश्मार्थं व्यवहारं सहेत सः || ११ || [पुत्रकलक्षणनिरूपणम्] निर्वर्त्य मण्डलं सम्यक्तदीयेन धनेन च | रजोभिः पत्रपुष्पाद्यैरभावा(र्विभवात् ?)त्प्रापणस्य च || १२ || समयज्ञं ततः शिष्यं (पुत्रं ?) क्रमेणारचयेद्गुरुः | ततःप्रभृति कालाच्च पूजां विष्णोः समाचरेत् || १३ || प्राणात्ययेऽपि विप्रेन्द्र रक्षेल्लोपं(पात् ?)प्रयत्नतः | नचास्य विहितो होमो धर्मार्थं पूजनं विना || १४ || नित्यपूजाभियुक्तो यः पूर्वोक्तगुणभूषितः | समुपैति तमुत्कर्षं श्रवणाच्छास्त्रचिन्तनात् || १५ || ददात्युत्कलिकां तस्य हृदयस्थो जनार्दनः | साधनोपरि मन्त्रस्य प्रार्थयेत गुरुं ततः || १६ || [साधकलक्षणनिरूपणम्] शुश्रूषा परमा भक्त्या संक्रमो गुरुणा ततः | क्रमोत्कृष्टगुणैर्युक्त एकरूपस्समाहितः || १७ || नियुक्तादच्युतश्रद्धी शास्त्रार्थकृतघीर्महान् | यजेद्यागेन वै भूयो मन्त्रं चाभीष्टसिद्धये || १८ || अभिषिक्तोऽभ्यनुज्ञातो धैर्योत्साहसमन्वितः | एकान्तं निर्जनं यायान्नारायणनिकेतनम् || १९ || दूरतो बान्धवानां च दुर्जनानां विशेषतः | क्षेत्रमायतनं चैव निर्द्वन्द्वं चाथ पर्वतम् || २० || सोदकं च फलाकीर्णं रम्यमासन्नगह्वरम् | वनञ्चोपवनं वाऽथ प्रसिद्धं सिद्धसेवितम् || २१ || वितृष्णो बन्धुवर्गाच्च संविसृज्य पुरान्वितम् | स्वाध्यायशौचसन्तोषसंपूर्णे स्वगृहेऽथवा || २२ || सधायेदीप्सितं मन्त्रं भावशुद्धिसमन्वितः | प्. १८६) यथा सुखेनासनेन आसने व्याप्तिभाविते || २३ || प्रसन्नास्यः कृतन्यासो लक्षं लक्ष्यस्थितो जपेत् | क्षेत्रीकृतो भवेन्मन्त्रो यत्र तत्र स्थितस्य च || २४ || निर्वर्तनेन जिह्वाग्रात्परित्यक्तोऽपि वै जपेत् | समाराधनसिध्यर्थं मन्त्रस्यार्घ्यकृतो मुने || २५ || दद्याद्धृदयमन्त्रेण ततः प्रभृति नारद | चरुभुग्वा फलाहारो भिक्षाशी वा पयोभुजः || २६ || शाकमूलं तथा कन्दमश्नीयाद्द्वर्तते यथा | शुद्धान्तसर्पिषश्शालीन् प्रत्यक्षलवणोज्झितान् || २७ || हृष्टस्स्तुष्टः प्रसन्नात्मा कालोक्तजपमारभेत् | इदमाचरमाणस्तु प्रत्यहं मुनिसत्तम || २८ || निशाक्षये तु शयनात्स्मृत्वा नारायणं विभुम् | उत्थाय दक्षिणांसेन वामपादं न्यसेद्भुवि || २९ || पदे पदे स्मरंश्चास्त्रं दूरं यायाद्द्विजालयात् | कृत्वा मलच्युतिं तत्र वाससा कं विवेष्ट्य च || ३० || दिङ्नभो न निरीक्षेत ततो यायाज्जलाशयम् | शौचं कृत्वा यथापूर्वं विधिनाऽचमनं ततः || ३१ || दन्तकाष्ठं तु वै भुक्त्वा स्नायात्तदनु नारद | सामान्यविधिनाऽस्त्रेण गायत्रीं वैष्णवीं जपेत् || ३२ || सकृत्त्रिःपञ्चवारान्वा सप्त वाऽथ स्वशक्तितः | ततः स्वमाश्रमं गत्वा मन्त्रं पुष्पैश्च पूजयेत् || ३३ || केवलं शास्त्रपीठस्थं स्वदेहस्थं तु वा मुने | संपूज्य च जपं कुर्याद्यावद्वै प्रहरद्वयम् || ३४ || तदूर्ध्वे पूर्ववत्स्नात्वा विशेषेण विधानवत् | न्यासावसानं निखिलं सर्वं कुर्यात्पुरोदितम् || ३५ || पूजाग्निहोत्रपर्यन्तं ततस्तु जपमारभेत् | यावद्दिनावसानं तु भूयः स्नायाद्द्विजोत्तम || ३६ || उपास्य विधिवत्संध्यां देवं संपूजयेत्ततः | विसर्ज्य भोजनं कुर्यात्सततं तारकोदये || ३७ || प्. १८७) भुक्त्वा शयीत शयने मृदुस्निग्धे च भूतले | अर्धरात्रे समुत्थाय पादशेषेऽथ वा द्विज || ३८ || आचम्य देवं संस्मृत्य शीघ्रं संपूज्य पूर्ववत् | जपं कुर्याद्यथाशक्ति अर्चयेच्च विभोस्ततः || ३९ || येन संरक्षितो विप्र भवेद्वै नापहीयते | सिद्धैरदृश्यभूतैस्तु मन्त्रिसिध्यभिकांक्षिभिः || ४० || समर्प्य चैवं शयने श्रमं वै सन्त्यजेत्पुनः | अनेन विधिना यो वै मन्त्राराधनतत्परः || ४१ || उच्यते मुनिशार्दूल विज्ञेयस्सतु साधकः | न तेन कुत्रचित्कार्ये शापानुग्रहकर्मणि || ४२ || न तेन मन्त्रो वक्तव्यो मुद्रा वा समयास्तु वा | स्वानुष्ठानेऽपि यत्कर्म सर्वं सर्वस्य गोपयेत् || ४३ || मन्त्रगुप्तिस्तु कर्तव्या सततं मन्त्रसिद्धये | ताद्व्याप्तिभावनोपेता ज्ञातव्या मन्त्रवादिना || ४४ || गुरुं प्रसाद्य देवं च शास्त्रं चालोक्य यत्नतः | तन्त्रज्ञो मन्त्रवद्धीरो द्वाभ्यां चैव द्विजोत्तमः || ४५ || [अथाचार्यलक्षणम्] मन्त्रसिद्धिस्तु वै तस्य विज्ञाता गुरुणा यदा | गुरुणा वै सोऽभिषिक्तः(षेच्यः ?)ततः शिष्यः प्रसादतः || ४६ || कृत्वा यागं चतुर्थं तु तद्वित्तेन तु पूर्ववत् | पूजयित्वा समाहूय साधकं लक्षणान्वितम् || ४७ || पूजा कार्या विधानेन लययागोदितेन वै | स बाह्याभ्यन्तरोक्तेन निश्शेषेण यथा पुरा || ४८ || अग्नौ तु पूर्ववद्दीक्षां निर्वाणाख्यां समापयेत् | ततोऽभिषिच्य विधिना स्वाधिकारं निवेदयेत् || ४९ || गृहीत्वा तेन कर्तव्यं गुरुत्वमितरेषु च | पूजाग्निहवनं चैव जपध्यानान्वितं सदा || ५० || भक्तानां संशयच्छेदं कुर्याच्छास्त्रं विना तु वै | अनुग्रहं च शापं च मन्त्रारंभणमर्पणम् || ५१ || न लोभेन न रागेण न स्वार्थेन न नामतः | प्. १८८) कुर्यादनुग्रहं जन्तोः कस्यचिद्वा शठस्य च || ५२ || भीतस्य च विनीतस्य भक्तस्यार्त्तस्य कारयेत् | प्रायश्चित्तैः सदा शान्तिं कुर्यान्नीतिच्युतस्य च || ५३ || विभागो लिंगिनां चैव वेदनीयः सदैव हि | वैखानसादि सर्वेषां वैष्णवानां च नारद || ५४ || प्रसन्नश्चाभिषिञ्चेत भक्तं भव्यमनेकधा | मोक्षार्थमाधिपत्यार्थं दुःखोपशमनाय च || ५५ || कुण्डमण्डलपद्मादीन्सूत्रयेत्प्रतिमादिकान् | शिष्याणामुपकारार्थं दर्शयेत्शिल्पिनस्तथा || ५६ || कुर्यात्सम्यक्प्रतिष्ठानं देवदेवस्य वै विभोः | समदृष्ट्या तथाऽन्येषां देवानां स्थापनं द्विज || ५७ || अवैष्णवेषु मर्त्येषु भक्तेष्वन्यत्र सर्वदा | तच्छासनं गुरूणां च अभयात्प्रार्थितोऽपि तैः || ५८ || स्वकल्पोक्तविधानेन कुर्यात्सर्वेष्वनुग्रहम् | अभ्यर्थितस्तदा विप्र यजनं च पवित्रकम् || ५९ || स्वशिष्यपरशिष्याणां लोभनिर्मुक्त आचरेत् | अशास्त्रज्ञे(षु ?) चान्येषु गुरुभावस्थितेन च || ६० || चुम्बुकत्वं न कुर्याद्वै तर्केणागमतोऽपि वा | नातीव संग्रहं कुर्यान्मात्रावित्तस्य नारद || ६१ || नित्यमभ्यस्यति त्यागमनित्यं भावयेद्भवम् | एवं लक्षणसंपन्नो यस्स आचार्य उच्यते || ६२ || इति श्रीपाञ्चरात्रे जयाख्यसंहितायां शिष्यभेदाख्यानं नाम सप्तदशः पटलः || १७ || अथाभिषेकाख्यानं नामाष्टादशः पटलः श्रीभगवान् [अभिषेकेऽधिकारः] अथाभिषेचयेच्छिष्यं सर्वलक्षणसंयुतम् | सुशान्तं स्पष्टमनसं संयतं देवपूजकम् || १ || गुरुभक्तं जिताक्षं च पूर्वोक्तसमयस्थितम् | एवंविधस्य सततं कर्तव्यमभिषेचनम् || २ || प्. १८९) [अभिषेक्तुराचार्यस्य ब्राह्मणजातीयस्य सर्वेषामभिषेकविधानेऽधिकारः] आचार्यस्सर्ववर्णानामाश्रमाणां तथैव च | तथा सामयिकादीनां त्रयाणां च विशेषतः || ३ || प्रभुत्वेनाभिषेक्तव्यमधिकारार्थमेव च | तेनापि सर्वजन्तूनां कार्यो नित्यमनुग्रहः || ४ || परितुष्टेन सततं दातव्यमभिषेचनम् | ब्राह्मणः पञ्चकालज्ञः कुर्यात्सर्वेष्वनुग्रहम् || ५ || [ब्राह्मणाद्यभावे क्षत्रियादीनां स्वस्वावरवर्णानां शिष्याणामनुग्रहाभिषेककरणेऽधिकारः] तदभावाद्द्विजश्रेष्ठ शान्तात्मा भगवन्मयः | भावितात्मा च सर्वज्ञः शास्त्रज्ञः सत्क्रियापरः || ६ || सिद्धित्रयसमायुक्त आचार्यत्वेऽभिषेचितः | क्षत्रविट्शूद्रजातीनां क्षत्रियोनुग्रहक्षमः || ७ || क्षत्रियस्यापि च गुरोरभावादीदृशो यदि | वैश्यःस्यात्तेन वै कार्यो द्वयोर्नित्यमनुग्रहः || ८ || सु(स ?)जातीयेन शूद्रेण तादृशेन महाधिया | अनुग्रहाभिषेकौ च कार्यौ शूद्रस्य सर्वदा || ९ || [उत्तमवर्णस्याविदुष उपायेन संबोधप्रापणम्] उपायेन भयाल्लोभात्सर्वैर्मूर्खो द्विजोत्तमः | सन्मार्गे विनियोक्तव्यः शास्त्रेण क्रियया तथा || १० || यावत्संबोधमाप्नोति स्वात्मना शुभलक्षणम् | [प्राप्तसंबोधस्य तस्य विनाऽनुग्रहबुद्ध्या सकलक्रियाधानपूर्वकं कालेन कृतकृत्यतापादनम्] पूर्वोक्तेन विधानेन इष्ट्वा यागेन चाच्युतम् || ११ || विधिनाऽग्नौ च सन्तर्प्य स्नापयित्वा द्विजोत्तम | विनाऽनुग्रहबुध्या वै तस्य कार्या क्रियाऽखिला || १२ || मन्त्रेणार्चापयेद्विष्णुमर्थितो ह्युपवेशितम् | कृतकृत्यो यदा स स्यात्क्रमात्कालान्तरेण च || १३ || आचारेण तथा नीत्या शास्त्रेण कृपया तथा | [सजतीयस्यापि गुरोरलाभेन स्वस्य स्वेनैवानुग्रहाभिषेकयोः कर्तव्यता] तथा शास्त्रोक्तविधिना स्वयमिष्ट्वा जगद्गुरुम् || १४ || प्. १९०) हुत्वा शास्त्रोक्तविधिना अर्चयित्वाऽच्युतं प्रभुम् | अनुग्रहाभिषेकौ च स्वयमात्मनि कल्पयेत् || १५ || स्वजातीयगुरोर्विप्र अभावादिदमाचरेत् | अनुकल्पं द्विजाद्यैश्च आत्मसंस्कारसिद्धये || १६ || [सति गुरौ स्वेनैव कर्तव्यतायाः प्रतिषेधः] गुरौ वर्णोत्तमे विप्त विद्यमाने श्रुतेऽपि वा | स्वदेशतोऽपि वाऽन्यत्त्र नेदं कार्यं शुभार्थिना || १७ || स्वदेशतोऽपि यः कुर्याद्यत्र यत्र विपर्ययम् | तस्येह पुत्रनाशः स्यात्तस्माच्छास्त्रोक्तमाचरेत् || १८ || [उत्तमवर्णस्य दीक्षादिविधानेऽवरवर्णस्यानधिकारः] क्षत्रविट्शूद्रजातीयः प्रातिलोम्यान्न दीक्षयेत् | त्रितत्वविद्द्विजातीयो दीक्षयेदनुलोमतः || १९ || [समयज्ञाभिषेकविधानप्रकारः] मूलमन्त्रोपजप्तेन तद्व्याप्तिविभवं विना | समयज्ञस्य संपाद्यं गुरुणाचाभिषेचनम् || २० || [पुत्रकस्याभिषेकविधानप्रकारः] मन्त्रोच्चारणमात्रेण ध्यानसंवित्तिवर्जितम् | ध्यात्वाऽथ तत्त्वनिश्रेणीं नवधा बीजसंस्थिताम् || २१ || एकोनाधिष्ठितां सर्वां मूलेन सकलात्मना | तां तु संपूज्य संस्मृत्य सृष्टिधर्मक्रमेण तु || २२ || मनसा तु मुनिश्रेष्ठ पुष्पैर्वा विविधैः शुभैः | ततोऽभिषेको दातव्यस्तत्त्वाख्यः पुत्रकस्य च || २३ || [साधकाभिषेकप्रकारः] साधकस्यापि वक्ष्यामि अभिषेकविधिं क्रमात् | ध्यात्वाऽथ तत्त्वनिश्रेणीं संहारं सृष्टियोगतः || २४ || नवधा त्रिविधेनैव भिन्नां सूक्ष्मादिना त्वथ | मन्त्रश्रेणीं च नवधा क्रमान्न्यस्य पुरोदिताम् || २५ || तत्रैव सृष्टिं योगेन सकलं निष्कलं द्विधा | पूजयित्वा विधानेन कलशेषु पृथक् पृथक् || २६ || प्. १९१) प्राग्वत्संस्मृत्य संस्मृत्य साधकत्वेन पुत्रकम् | तत्त्वाभिषेचनं दद्याच्छुभं सिद्धिकरं महत् || २७ || तत्वमन्त्रावधिर्यावत्साधकस्याभिषेचनम् | [आचार्याभिषेचनम्] दत्वैवं मन्त्रसिद्धस्य गुरुत्वेन ततो द्विज || २८ || तस्यैव यादृशं दद्यादभिषेकं हितं शृणु | ईश्वरादचलान्ताच्च साधिभूताधिदैवताम् || २९ || तत्त्वमालां स्मरेत्सर्वां सृष्टिन्यायेन वै पुरा | तत्र विन्यस्य विततां मन्त्रश्रेणीं पुरोदिताम् || ३० || त्रिविधेन प्रकारेण सप्तार्णाद्यावदङ्कुशम् | प्रपूज्य विधिना पश्चात्संहाराख्यक्रमेण तु || ३१ || परिजप्यं द्विजश्रेष्ठ यावद्वाणी निवर्तते | स्वभावस्थो गुरुः साक्षात्परेणानेकभेदिना || ३२ || ततोऽभिषेको दातव्यो मनसा विभवेन च | परतत्वावधिं ध्यात्वा देशिकञ्चाभिषेचयेत् || ३३ || [समयज्ञादीनां चतुर्णामभिषेके भावनीयः पर्वभेदः] सेनापतिक्रमेणैव समयज्ञस्य सर्वदा | महामन्त्रित्वविधिना पुत्रकस्याभिषेचनम् || ३४ || युवराजविधानेन दातव्यः साधकस्य च | राजोपचारविधिना अभिषेको गुरोः स्मृतः || ३५ || [आचार्याभिषेकप्रयोगः] दीक्षामण्डलवेद्यां तु सितेन रजसा गुरुम् | स्वस्तिकं मण्डलं कृत्वा तन्मध्ये मण्डलं शुभम् || ३६ || द्विहस्तं शाश्वतं पद्मं यज्ञवृक्षोद्भवं तु वा | सुकृतं चाऽथ सुश्लक्ष्णं सर्वत्राष्टाङ्गुलोच्छ्रितम् || ३७ || मृगचर्म तु तत्पृष्ठे सितं वस्त्रं तदूर्ध्वतः | वितानेनोर्ध्वताच्छेन (?) सपुष्पेण सितेन च || ३८ || पूर्णपात्रान्वितं तत्र दिक्षु पूर्णघटादिकम् | दद्याद्दीपाष्टकं तत्र लाजादीन् परितः क्षिपेत् || ३९ || प्. १९२) संस्थाप्य पीठनिकटे भ्रमद्दक्षिणतः क्रमात् | चन्दनं सितमर्घ्यं च दूर्वा जातिफलानि च || ४० || तांबूलव्यञ्जनं दण्डं विचित्रे चाप्युपानहौ | शङ्खचक्रगदापद्मशुभमुद्राचतुष्टयम् || ४१ || वाससी उपवीतं च कौशेयं च पवित्रकम् | घटिकां करणीं सूत्रमर्घ्यपात्रं कमण्डलुम् || ४२ || गैरिकं मुखवासांसि सितमृद्गोमयं तथा | कृष्णसाररुरोश्चर्म दन्तधावनमेव च || ४३ || ततः सर्वाधिकारार्थं संहितापुस्तकादि च | ईशदिङ्मण्डलस्याथ स्थलीं कृत्वा तथाविधाम् || ४४ || शोभितां च वितानाद्यैस्तत्र मन्त्रेश्वरस्ततः | आदौ तु कलशे पूज्यस्ततो मण्डलमध्यगः || ४५ || वह्निमध्ये ततः पूज्यः शिष्यदेहे पुनः पुनः | आत्मस्थं च पुरा देवं संपूज्य तदनन्तरम् || ४६ || आनीय कलशान्दिव्यान् पूर्वलक्षणलक्षितान् | सर्वरत्नैश्च संपूर्णान्कदलीफलशोभितान् || ४७ || तीर्थोदकेन संपूर्णान् प्रागुक्तरचनान्वितान् | प्रदक्षिणेन विन्यस्य प्रागादौ मण्डलाद्बहिः || ४८ || स्वतत्त्वसंख्ययाऽचार्ये [आचार्याभिषेकात् साधकाद्यभिषेके कलशसंख्यायां भेदः] साधके पुत्रकेऽथ च | एकं वै समयज्ञस्य द्रवे कर्म(व्यमेकं)विनिक्षिपेत् || ४९ || एवंविधांस्तु(स्त्रीन्)कलशान्सत्याद्यैश्च प्रतिष्ठितान् | पुरा कृत्वा विधानेन प्रागुक्तेन क्रमेण तु || ५० || मन्त्रैः संजप्य संपूज्य संचित्य च यथाक्रमम् | प्रागादिष्वथ सर्वेषु गन्धपुष्पादिभिः क्रमात् || ५१ || पूर्वोदितेन विधिना इष्ट्वा मन्त्रोश्वरं विभुम् | प्रजापयेत्ततः शिष्यं स्वात्मीयेन क्रमेण तु || ५२ || चरुणा च ततः पूज्यमाधारादिक्रमेण तु | प्. १९३) वेदिमध्यगतं चैव अभिषेकासनं शुभम् || ५३ || मन्त्रपीठत्वमापन्नं लाजप्रकरशोभितम् | तस्योपरि स्थितं कृत्वा शिष्यं मन्त्रशरीरिणम् || ५४ || गत्वाऽथ मण्डलाग्रं तु विज्ञाप्यः परमेश्वरः | त्वच्छासनप्रपन्नानामधिकारं करोम्यहम् || ५५ || शिष्यमात्मसमं भक्तमहं यास्यामि ते लयम् | लब्धानुज्ञस्ततो विप्र पूर्वदिक्संस्थितश्च यः || ५६ || कलशं पूजयित्वा तं स्वमन्त्रेण स्वमुद्रया | सहस्रपरिजप्तेन सम्यगष्टाधिकेन च || ५७ || शतजप्तेन दशभिः सकृत्गुर्वादितः क्रमात् | ध्वात्वा चामृतसंपूर्णं मन्त्रं रत्नोज्ज्वलं प्रभुम् || ५८ || तस्य मूर्ध्नि शुभं दत्वा कलशं मन्त्रपूजितम् | ततः क्रमेण कलशैः सकलैरभिषेचयेत् || ५९ || पठद्भिर्माङ्गलीयानि ऋक्सामानि यजूंषि च | मङ्गलैर्दीयमानैस्तु तन्त्रीवाद्यसमन्वितैः || ६० || शङ्खशब्दैः सपटहैर्जयशब्दसमन्वितैः | अनेन विधिना कुर्यादाचार्यस्याभिषेचनम् || ६१ || मन्त्रोपकरणं सर्वं तस्य संप्रतिपाद्य च | हस्तद्वयं च वक्तव्यं प्रणम्या(त्या ?)संस्थितस्य च || ६२ || सहस्रकिरणाभं तु सूर्यबीजेन चाच्युतम् | स्मरेद्दक्षिणहस्तस्थं पद्मे चानन्तपल्लवे || ६३ || कलाद्वादशसंयुक्ते अकाराद्यैरदारुणैः (?) | द्रव्यशुद्धिविदाहार्थं द्रव्योत्पत्तौ ततः स्मरेत् || ६४ || सितं सहस्रपत्राढ्यं कलाषोडशकेसरम् | सोमबीजेन तन्मध्ये स्मरेन्नारायणं प्रभुम् || ६५ || स्रवन्तममृतं दिव्यं द्रव्योत्पादनकर्मणि | भौतं तान्मात्रिकं मान्त्रं विग्रहं चास्य दर्शयेत् || ६६ || विज्ञानपदवीं सर्वां स्वानुभूतामनेकशः | स्थानलक्षक्रमेणैव वक्तव्या विविधाश्च वै || ६७ || प्. १९४) व्याख्याताः पुस्तके याश्च विज्ञानगतयः शुभाः | तच्चित्तं हि क्रमात्तासामनुसन्धाय वै गुरुः || ६८ || आचार्यसमयान् पश्चादूर्ध्वस्थाञ्छ्रावयेच्छुभान् | [आचार्यपदासाधारणा विशेषसमयाः] संसारभयभीतानां भक्तानां परमेश्वरे || ६९ || शास्त्रक्रमेण विधिवदिदं शास्त्रं प्रकाशयेत् | गच्छंस्तिष्टन्स्वपन् जाग्रद्भगवन्तं स्मरेत्सदा || ७० || पुण्डरीकस्य मध्यस्थं द्रव्यैर्दानसमुद्भवैः | मान्त्रभावाद्यजेद्विष्णुं देशे तस्करसंकटे || ७१ || नाभिमानाच्च वै बाह्या क्रिया त्याज्या कदाचन | चातुर्मास्यं च नियममवतिष्ठेदवश्यतः || ७२ || उपभुक्तं परेणैव विशेषाद्दीक्षितेन तु | छत्रोपानहवस्त्राद्यं नोपयुञ्जीत जातु वै || ७३ || असंपत्तावथापत्सु न दोषं क्षालिते सति | स्वगुरोर्दीक्षितानां च आचार्याणां सदैव हि || ७४ || उपभुक्तं न दोषः स्यात्स्वदत्तादाहृतात्तु वा | भगवद्भक्तिनिष्णातास्तच्चित्तास्तत्परायणाः || ७५ || कर्मणा मनसा वाचा संमान्याश्च सदैव हि | भर्तव्याश्चैव पूज्याश्च वाग्दानैर्मधुरैः सदा || ७६ || जातिधर्ममनुज्झित्वा तथा च स्वगुरोः क्रमम् | स्वशास्त्रविहितं चापि ज्ञानं शिक्षेदशिक्षितम् || ७७ || एकतः समयाः सर्वे नियमाश्चैव सर्वशः | एकतो भगवान्विष्णुर्गुरुस्तद्भाविनो नराः || ७८ || ज्ञात्वा जीर्णमसारं च इदं पुत्र कलेवरम् | स्वाधिकारं समारोप्य योग्यस्याटनमाचरेत् || ७९ || दण्डी कषायवासाश्च नमो नारायणाय वै | ब्रुवन्प्रणवपूर्वं च त्यक्त्वा सर्वपरिच्छदम् || ८० || क्षेत्रायतनतीर्थानामन्ते ब्रह्मणि योजयेत् | आत्मतत्वं शरीरं च अग्नौ वा खेचरादिषु || ८१ || तत्त्वसन्यासयोगेन येन स्याच्छान्तिराच्युति | प्. १९५) [विष्णुहस्तप्रदानम्] इत्युक्त्वा दक्षिणे हस्ते स्वयं सञ्चिन्त्य वै गुरुः || ८२ || मन्त्रात्मानं परं विष्णुं परं सकलनिष्कलम् | संपूज्य गन्धपुष्पाद्यैर्दद्यात्तस्य च मस्तके || ८३ || [शिष्येण गुरोः पादोदकप्राशनकर्तव्यता] न्यस्यासनं ततः शिष्यः पादयोर्निक्षिपेच्छिरः | प्रक्षाल्य सलिलेनाथ गुरोश्चरणपङ्कजम् || ८४ || तेनात्मानं तु संसिच्य पिपेदञ्जलिना ततः | पूर्ववत्पूजयेद्भक्त्या आत्मनाऽथ धनेन च || ८५ || अनेन विधिना कुर्यादाचार्यस्याभिषेचनम् | [साधकाभिषेकातिदेशः] एवमेव विधानेन साधकं चाभिषेचयेत् || ८६ || समालम्भनपूर्वं यद्दन्तधावनपश्चिमम् | तस्य सर्वोपकरणं दातव्यं नियमैर्विना || ८७ || [पुत्रकस्याभिषेके देयविशेषः] पूजाधिकारशास्त्रं च पुत्रकस्य प्रदीयते | [समयज्ञस्याभिषेके देयविशेषः] केवलं समयज्ञस्य प्रदद्याच्छास्त्रपुस्तकम् || ८८ || अभिषेकावसाने च आज्ञायां योगदर्शने (?) | [अभिषेकस्य श्रेयःप्रभृत्यनेकफलसाधनता] श्रेयोऽर्थी विधिनाऽनेन यः स्नायाच्छ्रेय आप्नुयात् || ८९ || जयार्थी वाऽथ भूपालो भाग्यार्थी वाऽथ दुर्भगः | पुत्रकामाऽथ वनिता पतिकामाऽथ कन्यका || ९० || चिरायुषोऽर्थी यः कश्चित्स्नायात्संवत्सरं प्रति | तस्यापमृत्युनाशश्च भवति ह्यचिरात्ततः || ९१ || यावदब्दानि कुरुते तावद्रोगविवर्जितः | वलीपलितनिर्मुक्तः सुभगः स्थिरयौवनः || ९२ || सर्वकामानवाप्नोति देहान्ते शाश्वतीं गतिम् | इति श्रीपाञ्चरात्रे जयाख्यसंहितायां अभिषेकाख्यानं नामाष्टादशः पटलः || १८ || अथ मन्त्रसिद्धिचिन्हाख्यानं नामैकोनविंशः पटलः अभिषिक्तो ह्यनुज्ञातः कृतजापः प्रसन्नधीः | मन्त्रस्याराधनं कुर्याद्विधिनाऽनेन नारद || १ || एकान्ते स्वगृहे वाऽथ पूर्वोक्तध्याननिर्मितम् | बिम्बं सुलक्षणं कृत्वा पटस्थं धातुजं तु वा || २ || सर्वावयवसंपूर्णं तालं तालाधिकं तु वा | विधिना तं प्रतिष्ठाप्य तत्र मन्त्रं यजेत्सदा || ३ || सर्वकामविभूत्यर्थं मोक्षार्थं मुनिसत्तम | द्वादशाब्दानि विधिवन्नियमस्थोऽर्चयेत्सदा || ४ || हृद्यैः पुष्पैस्तथा गन्धैः सौभाग्यारोग्यवर्धनैः | जपहोमैश्च विविधैर्भूत्वा मन्त्राकृतिः स्वयम् || ५ || शुक्लाम्बरधरः स्रग्वी सितगन्धानुलेपनः | पीतयज्ञोपवीती च कटकाङ्गदभूषितः || ६ || ताम्बूलशुद्धवदनो मुखवास्यैः सुवासितः | विचित्रतिलकोपेतः सुनिर्मलशिरोरुहः || ७ || माल्यैर्मनोहरैर्गन्धैरशेषैरधिवासितः | कुङ्कुमालिप्तचरणस्तथाकृतकरद्वयः || ८ || मूर्तिमुद्राचतुष्केण उपतिष्ठेद्विभूषितः | पवित्रभृद्धविष्याशी, समाराध्यश्व मन्त्रराट् || ९ || अभावात्साधनस्यापि केशश्मश्रुविलुण्ठितः | यथासम्भववस्त्री च मलयूकादिवर्जितः || १० || सुविनीतसुहृद्युक्तो मन्त्रमाराध्य भक्तितः | पूजया जपहोमेन मन्त्रराडथ सिध्यति || ११ || तेन सिद्धेन वै कुर्यात्कर्माणि विविधान्यपि | यान्यात्मनोऽभीप्सितानि लोकानामीप्सितानि च || १२ || नारदः कैर्लिङ्गैर्लक्ष्यते नाथ सुसिद्धश्चैव मन्त्रराट् | भगवान् [मन्त्रसिद्धौ प्रवृत्तस्य साधकस्य वत्सरत्रयं विघ्नप्राप्तिः] साधकस्याक्षतार्थस्य नित्याभ्यासरतस्य च || १३ || प्. १९७) समाराधनकामस्य (सक्तस्य) प्रथमं वत्सरत्रयम् | जायन्ते बहुशो विघ्ना नियमस्थस्य नारद || १४ || नोद्वेगं साधको याति कर्मणा मनसा यदि | [विघ्नैरनुपहतचित्तस्य तस्य चतुर्थादिवत्सरेषु बहुशिष्योपसेव्यतादिलक्षणशुमप्राप्तिः] तृतीयाद्वत्सरादूर्ध्वं शुभं तस्य प्रजायते || १५ || सेव्यते बहुभिः शिष्यैरहर्निशमतन्द्रितैः | साधकाश्चोपसेवन्ते किङ्करत्वेन भक्तितः || १६ || निवेदयन्ति सर्वस्वं साधकस्य महात्मनः | [सप्तमादारभ्य राजाद्युपसेव्यता] सप्तमाद्वत्सरादूर्ध्वं राजानश्व महीभृतः || १७ || प्रार्थयन्त्युपरोधेन गर्विताश्चाभिमानतः | प्रसादः क्रियतां नाथ ममोद्धारणकारणम् || १८ || प्रज्वलन्तं प्रपश्यन्ति तेजसा विभवेन च | अतस्ते मुनिशार्दूल निष्ठुरं वक्तुमक्षमम् || १९ || [दशमादारभ्य नानाश्चर्यदर्शनम्] नवमाद्वत्सरादूर्ध्वं स्वयं पश्यति मन्त्रवित् | नानाश्चर्याणि हृदये हासानन्दमयानि तु || २० || सदाऽह्लादप्रदान्याशु प्रत्यक्षेण बहिस्तथा | जड आस्ते क्षणं विप्र क्षणमास्ते प्रहर्षितः || २१ || क्षणं दुन्दुभिनिर्घोषं शृणुयादन्तरिक्षतः | क्षणं च मधुरं वाद्यं नानारीतिसमन्वितम् || २२ || क्षणमाजिघ्रते गन्धान् कर्पूरमृगनाभिजान् | क्षणमुत्पतमानं च पश्यत्यात्मानमात्मना || २३ || चन्द्रार्ककिरणाकीर्णं क्षणमालोकयेन्नभः | गवाश्वगजनादांश्व शृणुयाच्च क्षणं द्विज || २४ || निर्झरस्याम्बुसंक्षोभं क्षणमाकर्णयेन्महत् | विद्युज्ज्वालाकुलं पश्येत् क्षणं क्षितितलं द्विज || २५ || तोयपूर्णं क्षणं पश्येत्समग्रं क्षितिमण्डलम् | ऋग्युजुस्सामघोषांश्च आकर्णयति च क्षणम् || २६ || तारकाकारिणश्चित्रान्योगिनो नभसि स्थितान् | प्. १९८) पश्यत्युग्रान्भयार्तांश्च क्षणं मन्त्रव्रती मुने || २७ || क्षणं किलकिलारावं सह वह्निरवं क्षणम् | क्षणं मेघोदयं पश्येत्क्षणं रात्रिं दिने सति || २८ || रात्र्यां च दिवसालोकं ससूर्यं क्षणमीक्षते | बलेन परिपूर्णस्तु तेजसा सूर्यवर्चसा || २९ || सूर्येन्दुसदृशः कान्त्या गमने पक्षिराडिव | स्वरेण युक्त उच्चेन गम्भीरेण महात्मना || ३० || स्वल्पाशनेन कृशता बहुना च न विद्यते | विण्मूत्रयोरथाल्पत्वं भवेन्निद्राजयो महान् || ३१ || जपध्यानरतो मौनी न खेदमभिगच्छति | विना भोजनपानाभ्यां पक्षमासाधिकं तु वै || ३२ || इत्येवमादिभिश्चिह्नैः स्वहृद्विस्मयकारकैः | प्रवर्तमानैर्बोद्धव्यः प्रसन्नो मम मन्त्रराट् || ३३ || [मन्त्रसिद्धेरप्रकाश्यता] मन्त्रप्रसादजनितं लिङ्गं न तु गुरोर्विना | प्रकाशनीयं विप्रेन्द्र कदाचित्सिद्धिमिच्छता || ३४ || प्रकाशयति यो मोहादौत्सुक्यान्मन्त्रजं सुखम् | करसंस्थाश्च वै तस्य सिद्धयो यान्ति दूरतः || ३५ || आविर्भवन्ति दुःखानि शोकाश्च विविधा अपि | तस्मात्सर्वप्रयत्नेन सिद्धिलिङ्गानि नारद || ३६ || गोपनीयानि यत्नेन य इच्छेद्भूतिमात्मनः | इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मन्त्रसिद्धिचिह्नाख्यं नामैकोनविंशः पटलः || १९ || अथ प्रतिष्ठाविधानं नाम विंशः पटलः नारदः साधकानां हितार्थाय बिम्बं यदुदितं त्वया | तदहं ज्ञातुमिच्छामि कथं तत्क्रियते विभो || १ || क्व तस्यापि विधानेन स्थापनं कथयस्व मे | यस्य संपूजनान्नाथ लिङ्गान्येतानि चाप्नुयात् || २ || प्. १९९) श्रीभगवान् [अथ पटे बिम्बविधानम्] पटे बिम्बविधानं तु सांप्रतं शृणु नारद | सर्वसिद्धिकरं रम्यं निर्दोषं नातिविस्तरम् || ३ || [पटमानादि] द्विहस्तं चतुरस्त्रं तु हस्तमात्रं तु वा पटम् | कार्पासमथ वा क्षौमं नवं शुक्लमनाहतम् || ४ || [पटस्य चित्रकरस्य च संस्कारः] प्रक्षाल्य बहुशोऽस्त्रेण चित्रज्ञं स्नाप्य वै द्विज | दाहोत्पादनयुक्त्याऽथ सपटं संस्मरेच्च तं || ५ || [आसनपदम्] संसूत्र्य कमलं तत्र अष्टपत्रं सकर्णिकम् | [गृहार्चामानम्] कर्णिकामध्यसंस्थं तु प्रोच्छायं द्वादशाङ्गुलम् || ६ || त्रिविंशत्यङ्गुलान्तं च बिम्बं लिख्य सुलक्षणम् | [लक्ष्म्यादिपरिवारोपेतस्य ग्राह्यता] लक्ष्म्यादिपरिवाराढ्यं लोकेशास्त्रसमावृतम् || ७ || संगृह्याद्यजनार्थं तु [गृहादन्यत्र मानाधिक्यम्] तत्प्रमाणं द्विजोर्ध्वतः | मानं कुर्याद्गृहाद्बाह्ये स्थाने प्रासादपूर्वके || ८ || [गृहार्चासु लेख्यचित्रबिम्बस्य हस्ताधिकमानत्वेऽप्यदोषता] हस्ताधिकेऽपि च कृते चित्रबिम्बे गृहस्थिते | न दोषः साधकानां तु दारुमृच्छैलजैर्विना || ९ || [अथ बिम्बस्यावयवमानविधानम्] बिम्बमानं तु नवधा प्रोच्छ्रयात्संविभज्य च | भागं भागं तु तं भूयो भजेद्द्वादशधा मुने || १० || तदङ्गुलं तु बिम्बस्य तेनाङ्गावयवास्ततः | दर्शनीयाश्च गुरुणा शिल्पिकस्य समासतः || ११ || प्. २००) चिबुकाच्च ललाटान्तं स्याद्वक्त्रं द्वादशाङ्गुलम् | ललाटादूर्ध्वतो विप्र त्र्यङ्गुलेनोन्नतं शिरः || १२ || द्वादशाङ्गुलविस्तीर्णं त्रिगुणं परिणाहतः | विस्तारद्व्यङ्गुलौ कर्णौ तन्मानद्विगुणोच्छ्रितम् || १३ || कनिष्ठाग्रसमं विद्धि रन्ध्रं श्रोत्रस्य चान्तरात् | कर्णभागावधोर्ध्वस्थमानेनार्धाङ्गुलौ स्मृतौ || १४ || कर्णछिद्रात्तु वै बाह्ये कर्णमध्येऽङ्गुलोऽवटम् | त्र्यङ्गुलं कर्णपाशाभ्यां व्यासो वा स्यादथेच्छया || १५ || भ्रूलता शशिलेखाय(खेव ?)आयामाच्चतुरङ्गुला | अर्धाङ्गुलेन विस्तीर्णा मध्ये स्थूलाऽग्रतः कृशा || १६ || भ्रूसन्धिरङ्गुलसमो नासा तु चतुरङ्गुला | द्व्यङ्गुलाच्चाग्रतः कार्या तिलपुष्पाकृतिर्यथा || १७ || नेत्राभ्यामन्तरं विद्धि द्व्यङ्गुलं नेत्रभूस्तथा | दैर्घ्येण द्व्यङ्गुलं नेत्रं तदायामेन चाङ्गुलम् || १८ || त्र्यंशेन तारकं मध्ये ज्योतिस्तत्त्र्यं शसम्मितम् | घ्राणाधश्चाङ्गुलेनैव पादहीनेन कल्पयेत् || १९ || गोजिकां(?)मुनिशार्दूल एकांशेन ततोऽधरः | उत्तराख्यो ह्यधस्थं तु प्रमाणेनाङ्गुलः स्मृतः || २० || द्व्ययङ्गुलं चिबुकं विप्र उच्छ्रायेण प्रकीर्तितम् | विस्तारद्व्यङ्गुलं विद्धि सृक्किणी चतुरङ्गुले || २१ || ईषद्विहस्तमाने च कर्णपाल्योः परस्परम् | कपोलमूर्ध्वे शशिवत्तन्मध्ये चतुरङ्गुलौ || २२ || मुखगण्डौ समौ कुर्यात्सुसंपूर्णौ मनोहरौ | कर्णोच्छायस्त्र्यङ्गुलस्याद्विस्तारात्तच्च नारद || २३ || अष्टाङ्गुलञ्च परिधेस्त्रिगुणं परिकीर्तितम् | कण्ठादधः स्थितं वक्षो यावत्स्पन्दावधिं द्विज || २४ || उन्नतत्वेन विहितं सदैव द्वादशाङ्गुलम् | द्विगुणं चैव विस्ताराद्व्यङ्गुलं स्तनमण्डलम् || २५ || एतयोश्चूचुके कुर्यादष्टमांशं स्वकाङ्गुलात् | परस्परं च स्तनयोरन्तरं द्वादशाङ्गुलम् || २६ || प्. २०१) अष्टाङ्गुलौ स्मृतौ चांसौ विस्तरेण महामते | प्रोन्नतत्वेन वै कुर्यात्स्कन्धमूर्ध्वं षडङ्गुलम् || २६ || उच्छ्रायेण तु नाभ्यन्तं स्पन्दाद्वै द्वादशाङ्गुलम् | परिधिं नाभिदेशस्य चत्वारोंऽशास्तु पञ्च वै || २७ || अङ्गुलं नाभिरन्ध्रं तु क्रमान्निम्नं द्विरङ्गुलम् | कुर्यात्प्रदक्षिणावर्तं नाभिमेढ्रान्तरं मुने || २८ || उच्छ्रायेण तु संपाद्यं सुसमं द्वादशाङ्गुलम् | नाभ्यावधेस्तदुदरं संपाद्यं चतुरङ्गुलम् || २९ || शेषं तत्कटिभूभागं विस्तारेणोदरं मुने | द्विसप्ताङ्गुलमानं स्यात्परिधेस्त्रिगुणं हितत् || ३० || त्रिषट्काङ्गुलविस्तीर्णं कटिमानं विधीयते | चतुः पञ्चाशदङ्गुल्यः परिधिस्तु कटेः स्मृतः || ३१ || षट्त्रिंशाङ्गुलमानेन परिधिस्तु कटेः स्मृतः (?) | कुर्यात्प्रजननं विप्र उच्छ्रायेण षडङ्गुलम् || ३२ || द्व्यङ्गुलेन तु विस्तीर्णं वृषणौ चतुरङ्गुलौ | त्रिचतुर्मुष्क(?)संपूर्णौ ऊरुदण्डौ ततो द्विज || ३३ || उच्छ्रायेण प्रकर्तव्यौ चतुर्विंशाङ्गुलौ समौ | प्रथुमूलौ क्रमात्क्षामौ संलग्नौ गजपाणिवत् || ३४ || विस्तारेणाथ वा कुर्यादूरुमूलं नवाङ्गुलम् | षट्त्रिंशाङ्गुलमानं स्यादूरुमध्ये तु वष्टनम् || ३५ || ऊरुभ्यामवसाने तु वेष्टितञ्चैकविंशतिः | त्र्यङ्गुलं मुनिशार्दूल परितो जानुमण्डलम् || ३६ || विस्तारेणोन्नतश्वापि जानुभ्यामथ मे शृणु | द्विद्वादशेनाङ्गुलानां जङ्घोच्छ्राय इहोच्यते || ३७ || षडङ्गुलेन विस्तीर्णं जङ्घामूलं प्रकीर्तितम् | जङ्घामध्ये तयोर्नाहो || ३८ || जङ्घावसाने विस्तारे ज्ञेयः पञ्चाङ्गुलो मुने | तमेव त्रिगुणीकृत्य तस्यैव परिधिर्भवेत् || ३९ || गुल्फादधस्त्र्यंगुलं स्यात्पदोच्छ्रायस्तु नारद | प्. २०२) तत्पार्ष्णिपृष्ठतो यावदङ्गुलाग्रं द्विजोत्तम || ४० || भवेत्पादस्तु दैर्घ्येण अङ्गुलानां द्विसप्तकम् | षडङ्गुलेन विततः कूर्मपृष्ठोन्नतः क्रमात् || ४१ || चतुरङ्गुलदैर्घ्येण अङ्गुष्ठं द्व्यङ्गुलं ततः | त्रिगुणं वेष्टनं तस्य दैर्घ्यात्तत्पादतोऽधिका || ४२ || पादप्रदेशिनी कार्या तत्समीपस्थिताङ्गुलिः | अङ्गुष्ठस्य समा कार्या तत्पादोना त्वनामिका || ४३ || अनामिकायाः पादेन हीना पादकनीयसी | त्र्यंशेन विद्धि सर्वासां पर्वमानं तु नारद || ४४ || पर्वार्धेन नखाः कार्या अर्धेन्दुसदृशाः शुभाः | षट्त्रिंशदङ्गुलं मानं पृष्ठमंसावधि स्मृतम् || ४५ || गोमुखं वा क्रमान्निम्नं यावद्विंशाङ्गुलं भवेत् | मध्यप्रदेशाद्विततः पृष्ठवंशोन्नतः क्रमात् || ४६ || सुश्लक्ष्णश्चाविभक्तश्च विभक्तश्च यथा मुने | संमीलनं मीनयुक्तं कक्षा पञ्चाङ्गुला स्मृता || ४७ || सुवर्त्तुलौ स्फिजौ कार्यौ विस्तारात्षोडशाङ्गुलौ | सुविभक्ते च पीने च करिकुम्भोपमे शुभे || ४८ || अधस्तात् स्कन्धशीर्षस्य बाहुः स्याद्द्वादशाङ्गुलः | अष्टादशाङ्गुलं विद्धि उपबाहुं द्विजोत्तम || ४९ || मणिबन्धप्रदेशस्तु तत्र त्र्यङ्गुल उच्यते | मध्यमाङ्गुलिपर्यन्तं मणिबन्धावसानतः || ५० || द्वादशाङ्गुलमानं तु स्कन्धं स्यात्परिवर्त्तुलम् | चतुरङ्गुलविस्तीर्णं परिधेस्त्रिगुणं स्मृतम् || ५१ || मूलतश्चोपबाहुर्वै पञ्चाङ्गुलमुदाहृतम् | त्रिगुणं च तथा नाहं तं क्रमाद्ध्रासयेन्मुने || ५२ || गोपुच्छसदृशाकृत्या तथा स्यात्र्यङ्गुलं मुने | मणिबन्धप्रदेशस्तु विस्तारेण च वेष्टनात् || ५३ || नवाङ्गुलप्रमाणेन पाणेर्मानमतः शृणु | मणेरङ्गुलिमूलान्तं विद्धि सप्ताङ्गुलं सदा || ५४ || पञ्चाङ्गुलप्रमाणेन तिर्यग्विस्तरमुच्यते | प्. २०३) निम्नं करतलं कुर्याच्छुभरेखाविभूषितम् || ५५ || तत्र मध्याङ्गुलिं विद्धि विप्र पञ्चाङ्गुलं तु वा | तस्या द्वे पार्श्वतोऽङ्गुल्यावूने त्वर्धाङ्गुलेन वै || ५६ || तत्पञ्चमांशहीनां च नित्यं कुर्यात्कनीयसीम् | सार्धत्र्यङ्गुलमङ्गुष्ठं द्विपर्व परिकीर्तितम् || ५७ || त्रिपर्वाङ्गुलयः शेषाः पर्वार्धेन नखाः स्मृताः | गोपुच्छसदृशः कार्या अङ्गुल्योऽङ्गुलमानतः || ५८ || पादहीना कनिष्ठा स्यात्सपादश्चाङ्गुलोङ्गुलाः (?) | स्वकप्रमाणविस्तारात्रिगुणं विद्धि वेष्टनम् || ५९ || कूर्मपृष्ठनखाः सर्वे अग्रतश्चार्धचन्द्रवत् | लिङ्गाकृतिं (?) मूलदेशान्मानमेषामनिश्चितम् || ६० || सलोमदन्तकेशानां मानं शोभाविकल्पितम् | केशैरलकजालं तु ललाटोपरि शोभितम् || ६१ || ललाटोर्ध्वाङ्गुलच्छादि कुर्यात्रिवलिसंयुतम् | मनोहरा ह्यवयवाः सर्वे कार्याः सुलक्षणाः || ६२ || समानविषमा विप्र सक्तासक्ता विशेषतः | मानेनानेन वै कुर्यात् बिम्बं विप्र सुलक्षणम् || ६३ || शतमष्टोत्तरं पूर्णमङ्गुलानां स्वकाङ्गुलैः | उच्छ्रायेण द्विजश्रेष्ठ मूर्ध्नः पादतलावधि || ६४ || हारनूपुरकेयूरमेखलामौलिशोभितम् | पीनाङ्गमध्यदेशाच्च समानवलिशोभितम् || ६५ || शेषं ध्यानोदितं सर्वमुक्तानुक्तं प्रकल्पयेत् | [अथ बिम्बद्रव्यविधानम्] कुर्यादनेन मानेन सौवर्णं वाथ राजतम् || ६६ || बिम्बमाराधनार्थं तु आरकूटमयं तु वा | शिलामृद्दारुजं वाऽथ यथा संभवतो मुने || ६७ || [सिद्ध्यभिकांक्षिणां गृहे शैलजादिप्रतिषेधः] सम्भवे सति यः कुर्याच्छैलमृद्दारुजं गृहे | चिरेण सिद्धयस्तस्य प्रवर्तन्ते महामते || ६८ || प्. २०४) निर्विघ्नेन भवेन्मोक्षो ह्यतस्सिध्यभिकांक्षिभिः | न कार्यं शैलजं गेहे दारुजं वाथ मृण्मयम् || ६९ || [अथ पीठमानम्] बिम्बमानाद्यथा पीठं कुर्याद्देवस्य तच्छृणु | [तत्र पीठद्वैविध्यम्] चतुरश्रं तु तद्विद्धि चरुरश्रायतं तथा || ७० || [चतुरश्रपीठलक्षणम्] बिम्बोच्छ्रायसमं पीठं परितश्चैव विस्तृतम् | तदर्धेनोच्छ्रितं कुर्यादेतत्सामान्यलक्षणम् || ७१ || चतुरश्रस्य पीठस्य कथितं च महामुने | [चतुरश्रायतपीठलक्षणम्] चतुरश्रायतस्याथ प्रमाणमवधारय || ७२ || बिम्बार्धेन तु विस्तीर्णं तत्प्रमाणेन चोन्नतम् | समं देवस्य दैर्घ्येण चतुरश्रायतं तु तत् || ७३ || कुर्यात्तुङ्गालयस्थानां देवतानां सदैव हि | [चलार्चायागृहार्चायाश्च पीठमानम्] चलानां वेश्मसंस्थानां बिम्बानां पीठमन्यथा || ७४ || कुर्थात्स्कन्धसमं दैर्घ्यात् स्तनमानान्वितं तु वा | आपादाज्जानुपर्यन्तं विस्तारेणोच्छ्रयेण च || ७५ || ऊ(तदू ?)र्ध्वेनाथ वा कुर्यात् विस्तारं चापिचोन्नतिम् | उक्तोन्नतेर्वा विप्रेन्द्र स्यादर्धेन तु विस्तृतिः || ७६ || तच्चतुर्भागहीनं तु त्रिभागं चार्धमेव वा | तुङ्गत्वं विहितं पीठे चलबिम्बस्य सर्वदा || ७७ || धातुद्रव्यस्य चाभावात्स्थिराणामेवमेवहि | [अथोपपीठलक्षणम्] कृत्वा तु तदधः कुर्यादुपपीठं प्रमाणतः || ७८ || त्रिभागेनाथ पीठस्य प्रणालं मध्यतो भवेत् | तन्मानेन तु तद्दिर्घं स्वमानादग्रतः पुनः || ७९ || त्र्यंशमानेन विस्तीर्णं तस्यापि त्र्यंशमन्तरात् | खातव्यमग्रतो मूलात्तत्कुर्यान्मकराननम् || ८० || प्. २०५) वराहकूर्मवक्त्रं वा सुश्लक्ष्णमथ केवलम् | उच्छ्रायं नवधा युंज्याच्चतुरश्रं तु मण्डलम् || ८१ || भागद्वयेन भूस्पर्शं कुर्याज्जान्वंघ्रिसंज्ञितम् | घण्टा(टा ?)कारं तदूर्ध्वे तु वृत्तं भागद्वयोन्नतम् || ८२ || वृत्तोपरि ततः कुर्यात्कण्ठभागद्वयोच्छ्रितम् | तं च भागेन परितः संप्रवेशयेत् || ८३ || अर्धभागेन निष्क्रान्तामेकांशेन तदूर्ध्वतः | कुर्याद्वै मेखलां विप्र भागेनार्धेन कुम्भवत् || ८४ || सार्धेनोपरि भागेन चतुरश्रां तु मेखलाम् | जलाधारः स विज्ञेयो द्विगुणञ्चोर्ध्वविस्तृतम्(तः ?) || ८५ || तल्यंशेन तुलापीठं निम्नखातेन खातयेत् | तदूर्ध्वे कमलं कुर्यान्नातिनिम्नं च नोन्नतम् || ८६ || देवतास्तत्र कर्तव्या दलस्थाः पूर्वचोदिताः | तासां वा पूजनार्थं तु केवलं विततच्छ्रदम् || ८७ || पीठोच्छ्रायात्तु पादेन तदूर्ध्वे कमलोच्छितम् | संभवे सति वै भिन्ना(न्न ?)मभिन्नां(न्नं ?) सत्यसंभवे || ८८ || [बिम्बपीठयोः सजातीयविजातीयद्रव्यत्वविकल्पः] सजातीयं हि यत्पीठं बिम्बस्य मुनिसत्तम | तदनन्तफलं विद्धि क्षेमारोग्यसुभिक्षदम् || ८९ || बिम्बेन सह यत्पीठं भिन्नं तच्छोभनं भवेत् | मोक्षदं कीर्त्तिदं चापि दद्यात्परिमितं फलम् || ९० || राजनं(तं ?) हेमबिम्बस्य पीठं भवति शोभनम् | ताम्रजं राजतस्योक्तमीरितं तस्य शैलजम् || ९१ || शैलजं शैलजस्योक्तं दारुजस्यापि दारुजम् | मृण्मयस्य च दारुक्तं शैलजं दारुजस्य च || ९२ || [अथ प्रासादोपपीठः] चातुर्भागेन वै गर्भाद्भित्तिमानं विधीयते | गर्भमानात्सभित्तीकात्प्रासादस्य तु नारद || ९३ || पादहीनं पुरा पीठं वृत्तं वा चतुरश्रकम् | अर्घन्यूनं तु वै कुर्यात्संक्षिप्तं वा सुसम्मितम् || ९४ || प्. २०६) सोपानपदवीयुक्तं चतुर्दिक्षु तथा मुने | एवमेव समं पीठं संपाद्यादौ विचिन्त्य वा || ९५ || [अथ प्रासादलक्षणम्] प्रासादं च तथा कुर्यात्तस्य लक्षणमुच्यते | [तत्र प्रासादपीठः] देवमानात्पुरा विप्र पीठमानाद्विचिन्तयेत् || ९६ || पीठं दैर्घ्येण वै कुर्यात्प्रासादस्य समन्ततः | गर्भद्विगुणविस्तीर्णं गर्भागारं त(य?)यथाविधम् || ९७ || सिद्धविद्याधराकीर्णं देवद्विजनृपान्वितम् | उद्यानभूधराम्भोधिसंभवैः परिभूषितम् || ९८ || गजाश्वनृपसिह्माद्यैर्मृगयूथैश्च शोभितम् | तस्मिन्पीठोपरि शुभं प्रासादं परिकल्पयेत् || ९९ || [प्रासादे भेदाः] चतुरश्रं चतुर्द्वारं वृत्तमष्टाश्रमेव वा | एकद्वारं विचित्रं वा यथाभिमतदिग्गतम् || १०० || प्रागुक्तात्क्षेत्रमानाद्वै तत्सार्धं च(द्वि ?) गुणोन्नतम् | [प्रासादपीठरचनाविधानम्] कृत्वा प्रासादपादार्धमंशकं भित्तिसम्मितम् || १०१ || दत्वा तस्मिंस्ततः कुर्यात्पीठोक्ता(क्तां ?)रचना(नां ?)मुने | [प्रासादजङ्घा] गर्भोक्तोन्नतिमानेन जङ्घामुद्धृत्य यत्नतः || १०२ || स्तम्भाष्टकसमोपेतां प्रागुक्तरचनान्विताम् | नानापत्रलताकीर्णां पुष्पस्तवकभूषिताम् || १०३ || [जङ्घोर्ध्वरचना] ततः शिष्टं तु शिखरं संविभज्य त्रिपञ्चधा | जङ्घोर्ध्वरचना कार्या एकांशेन महामते || १०४ || सद्गृहाणि विमानानि देवतायतनानि च | नानारूपाणि वै तत्र चतुर्दिक्षु प्रकल्पयेत् || १०५ || [अथ भूमिकापञ्चकविधानम्] भागत्रिदशकेनाथ कुर्याद्वै भूमिकागणम् | प्. २०७) सङ्कोचमुन्नतिं तासां रचनामवधारय || १०६ || एकीकृत्य पुरा सर्वभूमिकाभागसञ्चयम् | भु(भ ?)ञ्जन्नवतिभिर्भागैस्समैरेकाधिकैर्मुने || १०७ || त्रयोदशभिरङ्गैस्तु कपोतोपरि भूमिका | एकापायेन तन्मानादूर्ध्वान्तं ह्रासयेत्क्रमात् || १०८ || भूमिर्वै मुनिशार्दूल यावदूर्ध्वं तु भूमिका | भवत्येकेन चांशेन अनेन विधिना भवेत् || १०९ || उच्छ्रायह्रासौ भूमीनां पार्श्वसङ्कोच उच्यते | कपोतपालेरूर्ध्वात्तु परितः शिखरं भवेत् || ११० || सप्तविंशतिभिर्भागैरूर्ध्वसूत्रैस्समानतः | कपोतपालेरर्वाक्तु भूमावेकांशमादितः || १११ || परितश्शोधयित्वा वै एकं चोपरि भूमिषु | एकैकमंशं संशोध्य यावदूर्ध्वं तु भूमिका || ११२ || पञ्चधा भूमिकाः कुर्यात्क्रमाद्वै विषमांशतः | एकस्मिन्मेखलास्तिस्रो भागे कार्याह्यधःस्थिते || ११३ || कपोतवद्द्वितीयेऽस्मिन्भागे तु रचना भवेत् | मेखलाद्वितयं कुर्यात्तृतीये च तदूर्ध्वतः || ११४ || चतुर्थं रचयेत्पश्चात्कम्बुभिः चक्रपङ्कजैः | एकैव मेखला कार्या ऊर्ध्वभागे तु पञ्चमे || ११५ || मेखलापत्रपुष्पाद्यै रचनीयाऽथ वा द्विज | सुश्लक्ष्णा केवला कार्या सुवृत्ता अश्रभूषिता || ११६ || एवं तु सर्वभूतानां कृत्वा तु रचनाः शुभाः | ऊर्ध्वस्था ऊर्ध्वभूमौ तु भागः पञ्चदशो हि यः || ११७ || [अथामलसारकविधानम्] तेनोष्णीषसमायुक्तं कुर्यादमलसारकम् | संविभज्य त्रिधा तद्वै उष्णीषं प्रथमेन वै || ११८ || भूमिकाग्राच्च निष्क्रान्तमीषच्छादनवद्द्विज | ऊर्ध्वात्तु भूमिकातुल्यः(ल्यं ?)सुलक्ष्णं रचनोज्झितम् || ११९ || तदूर्ध्वं नवभिर्भागैः सुसमैः संविभज्य च | प्. २०८) भागेन मध्यतः कण्ठं विस्तीर्णं परिकल्पयेत् || १२० || परितश्चार्धभागेन कण्ठं तु परिवर्त्तुलम् | कण्ठात्त्रितीयभागेन कुर्यात्तच्चापि चोन्नतम् || १२१ || तथाविधं तु कण्ठोर्ध्वे कार्यं दण्डासनं शुभम् | शुक्तिसंपुटरूपैस्तु शृङ्गैरमलसारकम् (?) || १२२ || [अमलसारकस्योर्ध्वमाणे चक्रविधानम्] युक्तं कुर्याद्द्विजश्रेष्ठ चक्रं चाथ तदूर्ध्वतः | ध्वजदण्डसमोपेतं द्वादशारं तु धातुजम् || १२३ || एवं विधानि सूक्ष्माणि प्रासादानि च नारद | कुर्याद्वै भूमिकोणेषु द्विपञ्चाशत्कसंख्यया || १२४ || [अथ प्रासादद्वारविधानम्] द्वारं द्वाराणि वा चास्य कुर्यान्मानयुतानि च | सपीठात्प्रतिमानाच्च(मामानात् ?)दशमांशेन चाधिकम् || १२५ || उच्छ्रितं कल्पयेद्द्वारं उच्छ्रायार्धेन विस्तृतम् | द्वारोच्ल्रायप्रमाणं तु विहीनेन तु कल्पयेत् || १२६ || द्वारशाखाद्वयं चैव तदूर्ध्वाध उदुंबरौ | नवशाखान्वितं कुर्याच्छाखायुग्ममुदुम्बरे || १२७ || [द्वाराग्रे मण्टपविधानम्] द्वाराग्रे मण्टपश्चात्र कार्यो द्वारत्रयान्वितः | प्रासादक्षेत्रविस्तीर्णं चतुरश्रं समं ततः || १२८ || कपोतभूमिपर्यन्तमुन्नतस्तत्र मध्यतः | स्तम्भद्वादशकं दद्याद्भित्तिकाद्वादशान्वितम् || १२९ || प्रासादमानयुक्त्या तु भित्तयः स्युश्च नारद | एवं हि कौस्तुभं नाम कृत्वा प्रासादमुत्तमम् || १३० || तन्मध्ये संप्रतिष्ठाप्या मन्त्रमूर्तिः सनातना | [प्रतिष्ठाकालः] शुक्लपक्षतिथौ श्रेष्ठे सुशुभे च महाग्रहे || १३१ || स्वानुकूले च नक्षत्रे शुद्धलग्ने स्थिते(रे ?)तथा | आषाढकार्तिके चैत्रे यत्र यत्र स्थिते रवौ || १३२ || प्. २०९) [अधिवासमण्डप विधानम्] प्राग्वा ह्युदग्वा प्रासादात्त्रिंशद्धस्तैर्द्विजायतम् | द्व्यधिकैर्मण्डपं कुर्यादन्य(?)द्वादशभिः करैः || १३३ || [मण्डपमध्ये वेदिपञ्चककल्पनम्] स्यात्तुर्यास्रायतं मध्ये वेदीनां तत्र पञ्चकम् | परितः पञ्चहस्तं च हस्ते हस्तेऽन्तरीकृतम् || १३४ || प्रदक्षिणगणोपेतं वितानाद्यैश्च भूषितम् | [पञ्चानां वेदीनां विनियोगभेदः] वेद्यामुत्तरसंस्थायां कुर्यात्कुण्डं सलक्षणम् || १३५ || होमोपकरणं सर्वं तत्रोपरि निवेश्य च | ततोऽपरायां वेद्यां तु नेत्र उन्मील्य नारद || १३६ || मण्डलं मध्यमायां तु वेद्यामप्येकपङ्कजम् | प्रस्तार्य चित्रं शयनं चतुर्थ्यां मुनिसत्तम || १३७ || स्नानकर्म ततः कुर्यात्पञ्चमाया तु दक्षिणे | [प्रतिष्ठाविधानोपक्रमः] एवं कृत्वा समानीय पीठं ब्रह्मशिलान्वितम् || १३८ || जपमानस्तु वाराहं मन्त्रमस्त्रं च देशिकः | भूमिष्ठे भद्रपीठे तु वेदिकायां निवेश्य च || १३९ || आचार्यान्साधकान्वाथ चतुरः परिकल्प्य च | वासुदेवादिभिर्मन्त्रैः कृतन्यासांस्तु पूजयेत् || १४० || वस्त्राद्यैः कर्मशालाश्च यायादस्त्रोदकेन तु | बिम्बमाकारशुध्यर्थं स्नापयित्वा समन्ततः || १४१ || उद्धृत्य मूर्तिपाद्यैस्तु शिल्पिभिर्वा रथस्थितम् | समानीय ततो यत्नाज्जपन्वै नारसिह्मकम् || १४२ || वस्त्रेणाच्छाद्य संस्थाप्य पिण्डिकोपरि साधकः | चक्राभिमन्त्रितान्मूर्ध्नि दद्यात्सिद्धार्थकांस्ततः || १४३ || कृत्वा स्नानं समाचम्य द्वारं संपूज्य पूर्ववत् | संप्रविश्य च दिग्बन्धं कुर्यात्सिद्धार्थकाक्षतैः || १४४ || प्. २१०) शिष्यस्य दीक्षाविधिना प्रागुक्तं च समापयेत् | बिम्बादिसर्वद्रव्याणामधिवासं यथास्थितम् || १४५ || स्वार्थतो वा परार्थेन साधकः सुसमाहितः | शिष्यवद्देवदेवस्य किं तु बिम्बं निवेदयेत् || १४६ || भगवन्भूतभव्येश त्वययेवाराधनाय च | इदं बिम्बं करिष्यामि संस्तुत्य रजनिक्षये || १४७ || [शिल्पिदोषविनाशार्थस्नपनविधानम्] ततः स्नात्वा प्रभाते तु स्नापयेत्प्रतिमां मुने | प्रथमं कर्मशालोत्थ दोषविध्वंसनाय च || १४८ || पञ्चविंश(ति ?)त्तु कोष्ठानि कल्पयित्वा तु पूर्ववत् | नृसिह्ममन्त्रजप्तेन केवलेनोदकेन च || १४९ || ततः प्रागादितो न्यस्य साधकः कलशाष्टकम् | पूर्वं क्षीराम्बुना पूर्णमपरं शुद्धवारिणा || १५० || तृतीयं रत्नतोयेन होमतोयेन चापरम् | गन्धसंमिश्रितं चान्यत्फलपुष्पोदकान्वितौ || १५१ || शालीबीजाम्भसा पूर्णमष्टमं परिकीर्त्तितम् | सत्याद्यैः पञ्चभिर्मन्त्रैस्त्रिभिः सिंहादिकैः क्रमात् || १५२ || एकैकं सप्तधाऽमन्त्र्य प्रागादौ कलशं द्विज | एकैकस्मिन्विनिक्षिप्य दर्भमृद्गोमयांस्तिलान् || १५३ || ततस्तेषां बहिर्न्यस्य तथादिक्कलशाष्टकम् | धात्रीफलोदकं पूर्वे पथ्यातोयं ततो परे || १५४ || गलूचिक्वाथमन्यस्मिन्विभीतकजलं परे | कुमारिक्वाधितं तोयं व्याघ्रीसलिलमेव च || १५५ || नागरोदकमन्यस्मिन्तथाऽन्यस्मिन्मधूदकम् | एतानि चक्रमन्त्रेण हृदाद्येनाभिमन्त्र्य च || १५६ || पूर्वोक्तैरथ गायत्र्या कलशैः स्नापयेत्क्रमात् | द्वितीयावरणस्थैस्तु उपचारा हृदा मुने || १५७ || केवलेनोदकेनाथ अस्त्रजप्तेन सेचयेत् | प्. २११) शिल्पिदोषविनाशार्थं स्नानमेतदुदाहृतम् || १५८ || [अधिवासस्नपनार्थकलशस्थापनाविधानम्] विलिख्य तत्र चैशान्यां कमलं षोडशच्छदम् | कर्णिकोपरि संस्थाप्य कलशानां चतुष्ट्यम् || १५९ || पूर्वपत्रात्समारभ्य यावदीशानगोचरम् | षोडशान्यान्प्रतिष्ठाप्य तथैव कलशान्मुने || १६० || परिधाय ततो विप्र वाससी अधरोत्तरे | [अथ नेत्रोन्मीलनविधानम्] द्वितीयवेद्यामूर्ध्वे तु शयनं परिकल्प्य च || १६१ || तत्र पूर्वशिरस्कं च बिम्बं प्रस्वापयेद्द्विज | स्वयं शलाकां सौवर्णीं ग्रहीत्वाऽस्त्राभिमन्त्रिताम् || १६२ || उल्लिखेत्साधको नेत्रे नेत्रमन्त्रेण नारद | स्नातः शुद्धाम्बरधरस्त्वाचार्येणावलोकितः || १६३ || अस्त्रमन्त्रितशस्त्रेण शिल्पी प्रकटतां नयेत् | पीठिका तु यदग्रे स्याद्ब्रह्मपाषाणसंयुता || १६४ || भद्रपीठे समारोप्य तथा बिम्बं तु सुस्थिरे | आधारादिक्रमोपेते सदा लब्धे सुपूजिते || १६५ || निरीक्षेत ततो बिम्बं प्रदीप्तं ज्ञानचक्षुषा | ताडयेदस्त्रपुष्पेण कवचेनावकुण्ठ्य च || १६६ || [नेत्रोन्मीलनाङ्गभूतलघुस्नपनम्] हृदा वै पञ्चगव्येन ततश्चैव मृदम्बुना | सर्वौषध्युदकेनैव केवलेनाम्भसाऽथ वै || १६७ || संमृज्य वाससा चैव सुसितेनाहतेन च | [कौतुकविसर्जनम्] कौतुकं मोचयेत्पश्चात् चक्रमन्त्रेण मन्त्रवित् || १६८ || दत्वा शिरसि चार्घ्यं तु पुष्पोदकसमन्वितम् | संशोध्य धारणाभिस्तु ध्यात्वा तीक्ष्णांशुबिम्बवत् || १६९ || संहृत्य हृदि निक्षिप्य बहिस्थं स्नापयेत्ततः | [अधिवासस्नपनविधानम्] पूजितैर्मन्त्रितैः शुद्धैः कलशैर्द्रव्यपूरितैः || १७० || प्. २१२) चन्दनार्घ्यफलोपेतैर्वृक्षपल्लवशोभितैः | दर्भच्छदधरैः पट्टस्रग्ग्न्धपरिभूषितैः || १७१ || हृद्यैः षोडशभिर्विप्र तत्रैवेशानदिक्स्थितैः | [स्नपनकलशेषु पूरणीयद्रव्याणि] प्रथमं पञ्चगव्येन केवलेन तु पूरयेत् || १७२ || गोमूत्रेण द्वितीयं तु तृतीयं गोमयाम्बुना | त्रेताग्निभूतिना विप्र च (तु ?)र्थं सोदकेन तु || १७३ || गजगोवृषभशृङ्गवल्मीकाख्य (कोत्थ ?) मृदा परम् | शालिक्षेत्रान्नदीमध्यात्पद्मषण्डाच्च पर्वतात् || १७४ || मृद्भिः षष्ठं तु कलशं पूरणीयं ततो द्विज | सप्तमं सर्षपाम्भोभिः सर्वौषधिभिरष्टमम् || १७५ || क्षीरेण नवमं विद्धि दध्ना दशममुच्यते | घृतेन चैकादशकं मधुना द्वादशं द्विज || १७६ || सर्वैस्त्रयोदशं बीजैः फलैस्सर्वैश्चतुर्दशम् | समस्तधान्यैरपरं सर्वगन्धैस्तु षोडशम् || १७७ || हृदाऽभिमन्त्रितं कृत्वा एकैकं कलशं पुरा | स्नपयेन्मूलमन्त्रेण एकैकेन ततः क्रमात् || १७८ || उदकान्तरितेनैव सार्घ्येण मुनिसत्तम | मसूरमाषगोधूमचूर्णैरथ विमृज्य च || १७९ || [बिम्बे मन्त्रन्यासविधानम्] प्रक्षाल्य चार्च्य शिरसा मूर्तिमन्त्रं न्यसेत्ततः | मूर्ध्नि वक्त्रेऽसयोः कर्णे हृदि नाभौ तु पृष्ठतः || १८० || कटिमूले तथोर्वोश्च जानौ गुल्फे च पादयोः | शेषं मन्त्रगणं प्राग्वद्धस्तन्यासं विना न्यसेत् || १८१ || [सकलीकरणादि विधानम्] सकलीकरणं कुर्यान्निष्कलीकरणं तथा | ततश्चोभयरूपात्मा(पत्वं ?) सर्वं पूर्वोक्तवद्द्विज || १८२ || [कर्णिकास्थितैः कलशैः स्नपनम्] सत्यादिमन्त्रैः संस्नाप्य कलशैः कर्णिकास्थितैः | पुष्पोदकेन प्रथमं गन्धस्वर्णोदकेन तु || १८३ || प्. २१३) सर्वरत्नोदकेनाथ मार्जयेदथ वाससा | [अथार्घ्यसमर्पणप्रभृतिविज्ञापनान्तमभ्यर्चनम्] मूलमन्त्राभिजप्तं तु दत्वाऽर्घ्यं मूर्ध्नि नारद || १८४ || समालभ्य ततो बिम्बं चन्दनाद्यैर्विलेपनैः | वाससी परिधायाथ अलङ्कृत्य यथाविधि || १८५ || किरीटनूपुराद्यैश्च दिव्यैराभरणैर्मुने | सुपुष्पधूपदीपादिमधुपर्केण चार्चयेत् || १८६ || नैवेद्यैर्विविधैश्चाथ मात्राताम्बूलदर्पणैः | मुद्रां बध्वा प्रणम्याथ विज्ञाप्य परमेश्वरम् || १८७ || [अथ बिंबसहिते पीठे समस्ताध्वमयत्वध्यानम्] विधिनाऽनेन संपूज्य पीठं ब्रह्मशिलान्वितम् | स्नापितं सह बिम्बेन यत्पुरा मुनिसत्तम || १८८ || समस्ताध्वमयीं ध्यायेत्पीठिकां विग्रहान्विताम् | [पीठे आधारशक्त्यादिध्यानम्] आधारशक्तिभूतान्तं स्मरेद्ब्रह्मशिलान्वितम् || १८९ || [पीठस्याच्छादनम्] शिलां सपिण्डिकां पश्चादाच्छाद्य शुभवाससा | [अथ नीराजनम्] निवेद्याचमनं चार्घ्यं कुर्यान्निराजनं ततः || १९० || [अथ रथयात्राविधानम्] पुण्याहजयघोषेण वेदध्वनियुतेन च | शङ्खवादित्रनिर्घोषपटहैर्गीतिभिस्सह || १९१ || सुशुभैरतुलैर्विप्र समारोप्याचलं यथा(रथे?) | ततः प्रदक्षणीकृत्य ग्रामं प्रासादपूर्वकम् || १९२ || तं रथं रथमार्गेण राजवेश्म प्रवेशयेत् | भक्त्याऽर्घ्यपाद्ये दत्वादौ द्वाराग्रस्थस्य वै ततः || १९३ || [अथ शयनाधिवासविधानम्] श्वोभूतायां चतुर्थायां कुर्यात्स्वस्तिकमण्डलम् | रजसा वाऽठ कुसुमैः चतुर्वर्णैर्महोज्वलैः || १९४ || प्. २१४) तत्र दर्भस्तरं दत्वालाजादीन्मध्यतः क्षिपेत् | सखट्वालिप्तकां(?) न्यस्य सर्वोपकरणान्विताम् || १९५ || पीठन्यासक्रमेणाथ मूर्ध्नो देशेऽथ नारद | पूर्वलक्षणसंयुक्तं पूजितं कलशं न्यसेत् || १९६ || तस्मिन्निद्रां तथा रात्रिमनन्तं पूजयेच्छ्रियम् | ततः पीठस्थितं देवमवतार्य शनैः शनैः || १९७ || शययायामुपरि न्यस्य प्राक्शिरो हृदयेन तु | वर्मणाऽच्छादनपटं दत्वा धृपादिवासितम् || १९८ || मूलेन शयनस्थस्य कुर्यादाप्यायनं ततः | वैभवं देवताचक्रं व्यूहाख्यं तदनन्तरम् || १९९ || सूक्ष्मं चापि मुनिश्रेष्ठ पादयोर्हृदि मूर्धनि | प्रपूज्य पुष्पधूपार्व्यमुद्राभिः प्रणमेदथ || २०० || [स्नपननेत्रोन्मीलनादितत्तत्क्रियाङ्गभूतहोमविधानम्] गत्वा कुण्डसमीपं तु व्यापारेष्वखिलेषु च | होमं कुर्याद्यथाशक्ति तिलाज्यैः शतपूर्वकम् || २०१ || स्मृत्वैकैकं तु वै कर्म कर्ता मन्त्रोद्रितेन च | हृन्मन्त्रेण समूलेन दत्वा पूर्णाहुतिं ततः || २०२ || आप्रभाताच्च तत्कालं कर्मणां पूरणाय च | [शान्त्युदकेन बिम्बशिरसि प्रोक्षणम्] ततः शान्त्युदकं मूर्ध्नि होमान्ते स्वात्मनो(?)द्विज || २०३ || दत्वाऽथ बिम्बशिरसि मूलेनाष्टकमेव तत् | [कर्ममन्त्राणां जपो बलिदानं च] जपं च कर्ममन्त्राणां यथाशक्ति समाचरेत् || २०४ || भूतानां बलिदानं च कृत्वाऽस्त्रेण तु पूर्ववत् | [चतुर्दिक्षु होमः] प्रासादस्य चतुर्दिक्षु कुण्डेषु सुशुभेषु च || २०५ || मण्डपस्याथवा कुर्याद्धोमं प्रागादि मूर्तिपः | स्वैस्वैर्मन्त्रैः सहस्रं तु शतं वाऽष्टाधिकं मुने || २०६ || तैश्च शान्त्युदकं मूर्ध्नि बिम्बे वै दापयेद्गुरुः | प्. २१५) [अथ ध्यानाधिवासनम्] अथाधिवासनं कुर्याद्विधिदृष्टेन कर्मणा || २०७ || ध्यानाख्यं निष्कलं शुद्धं येन सन्निहितः सदा | मन्त्रोह्यर्चागतो विप्र स्यात्पटस्थोऽथवा पुनः || २०८ || न चोपसंहृतो यावद्गुरुणा तत्त्ववेदिना | प्राक्सर्वमुपसंहृत्य संहारक्रमयोगतः || २०९ || स्वरूपे(ऽ)विकृते शुद्धे गुरुरास्ते च नारद | स्वहृद्रश्मिमये पद्भे स्थितिं कृत्वा पुराऽत्मनः || २१० || एवमेवाविनाशां च निरस्तावयवामथ | बोधिविज्ञानदेहं च बिम्बं सम्भाव्य वै तथा || २११ || द्वौ सुषुम्नात्मकौ मार्गौ प्रज्वलद्भास्वराकृती | हृत्पद्मगोलकापूर्वमेकैकं तौ व्यवस्थितौ || २१२ || मणिप्रभेवचोद्बुद्धौ (र्ध्वाधो ?) व्यापकत्वेन संस्थितौ | यथाऽत्मनि तथा देवे यथा देवे तथाऽत्मनि || २१३ || विभाव्य च ततो यायाद्दक्षिणेन पथा मुने | स्वदेहाद्धृदयं दे(दै?)वं वाममार्गेण संविशेत् || २१४ || यथात्मात्महृदये ह्यनुभूतो ह्यनूपमः | तदा तद्धृदयान्तस्थं स्मरेद्विज्ञानगोलकम् || २१५ || दृष्ट्वा स्वरश्मिखचितमानन्दापूरितं महत् | गमागमैकनिष्ठं तु शक्तौ ब्रह्मण्यथात्मनि || २१६ || देवदेहस्थितेनैव विज्ञानेन सहैकता | निष्पाद्या यावदस्पन्दकालमानं स्वदेहगम् || २१७ || पदं यदात्मना विप्र केवलेनानुभूयते | स्पन्दप्रवर्तितेनाथ कालेनैकात्मना द्विधा || २१८ || कृत्वाऽत्मनि तथा देवे निष्क्रामेदथ साधकः | देवदक्षिणमार्गेण विशेद्वामेन चात्मनः || २१९ || हृदयं भासुराकारं जन्मा(ज्ञाना ?)मृतपरिप्लुतम् | योगोऽयं मुनिशार्दूल बिम्बस्य द्रव्यजस्य च (?) || २२० || आपादान्मूर्धपर्यन्तं नाडीबृन्दस्य व्यञ्जकम् (कः ?) | [ईश्वरसन्धानम्] येन सर्वेशता विप्र बिम्बस्यास्य प्रजायते || २२१ || प्. २१६) तं योगमधुना वच्मि एकाग्रमवधारय | हृत्पुण्डरीकमध्यस्थः साधको वृत्तिवर्जितः || २२२ || स्वमन्त्रोच्चारयोगेन प्राग्वत्पदमनामयम् | यायादूर्ध्वं प्रवाहेण तावद्भूयः प्रवर्तते || २२३ || अनिच्छन्नव्यथोऽक्षुब्धः स्वेच्छया क्षोभमेति च | यथाऽसन्नतरो दीपो ह्यकम्पः कम्पमेति च || २२४ || कोशकारो यथा तन्तुं गृहीत्वा संप्रवर्तते | विज्ञानशक्तिमालम्ब्य एवं भूयो हृदम्बुजम् || २२५ || स्वकीयं माययाऽचार्यः पूर्ववत्संविशेत्ततः | देवस्य हृदयाम्भोजं विलोक्य सह तेन वै || २२६ || भावयित्वाऽथ विज्ञानं बोधशक्त्या ततो व्रजेत् | तद्द्वादशान्तमागत्य ज्ञेयाख्यं न च नान्तरम् || २२७ || तत्पदात्पूर्वयुक्त्याऽथ दैवं हृदयमाश्रयेत् | ततो वै देवहृदयात्प्रविश्य हृदयं स्वकम् || २२८ || सह मार्गेण हृदयादेत्य स्वं नेत्रगोलकम् | एवं देवेऽनुसन्धाय निरीक्ष्य च परस्परम् || २२९ || देवालोकेन चात्मानमनुसिद्धिं च संस्मरेत् | आत्मालोकेन देवेशं भिन्नं सर्वत्र भावयेत् || २३० || एतदीश्वरसन्धानं भिन्नमेकान्तलक्षणम् | सर्वैश्वर्यप्रदं विद्धि सर्वदा प्रतिमासु वै || २३१ || [शब्दानुसन्धानम्] अथशब्दानुसन्धानमनेकाद्भुतदर्शनम् | वक्ष्यामि चैव मन्त्रात्मा बिम्बेनैकाङ्गतां व्रजेत् || २३२ || निष्कम्पबोधसामान्यरूपो भूत्वा पुनःस्वयम् | ये शब्दजनिता भावाः सूक्ष्मैः(क्ष्माः ?)सूक्ष्मतराखिलाः || २३३ || सामान्याबोधशब्देन तान्पश्येदेकतां गतान् | सङ्कल्पपूर्वपूर्वोत्थशब्दमात्रेण वर्जितान् || २३४ || सचाभिमुखमायाति संकल्पादुत्थितस्य च | शब्दरूपपदार्थस्य शब्दः स परमो द्विज || २३५ || प्. २१७) सङ्कल्पपदवीरूढः स्फुरत्यन्तस्थितः स्फुटम् | पदार्थोपरि यः शब्दो मध्यमं विद्धि तं मुने || २३६ || हृत्पद्मकर्णिकासंस्थः प्रयत्नपदवीषु च | विज्ञानकरणोत्थासु यश्चाभिव्यक्तिमेति च || २३७ || वाच्यवाचकरूपेण स शब्दः स्थूल उच्यते | अतिस्थूलपरत्वेन स च वाग्विषये पुनः || २३८ || दृश्यादृश्येषु भावेषु अभिव्यक्तिं प्रयाति च | ततः स्थूलतरः शब्दो व्यवहारेऽखिलः स्थितः || २३९ || तस्माच्छब्दमयो देह इति चेतसि वै पुरा | निष्कम्पं साधकैः कृत्वा बिम्बं भाव्य तदात्मकम् || २४० || शब्दसंहारयोगेन स्वपिण्डं बिम्बसंयुतम् | निष्कम्पबोधशब्दात्मा यो गुरुः सप्रपश्यति || २४१ || पूर्वोक्तक्रमयोगेन शब्दब्रह्मात्मना तु तम् | पश्येत्परिणतं विप्र क्रमाद्बिम्बात्मना तु वै || २४२ || तेन संस्थापितं बिम्बं भुक्तिमुक्तिफलप्रदम् | एवं शब्दानुसन्धानं कृत्वा बिम्बस्य नारद || २४३ || [अथ मन्त्रसन्धानम्] ततो वै मन्त्रसन्धानमारभेत प्रयत्नतः | अशब्दभेदं शब्दात्म नित्योदितमनाहतम् || २४४ || स्वहृत्पद्मस्थितं मन्त्रमुदितं नादसूत्रवत् | निस्सृतं मध्यमार्गेण बिम्बान्तः संविशन् स्मरेत् || २४५ || स्फुरत्तारकरूपं च मन्त्रैर्व्याप्तं तथाऽखिलैः | मन्त्रात्मानं जगन्नाथं बिम्बं तत्पद्ममध्यगम् || २४६ || संस्मरेत्सृष्टिसंहारौ कुर्वन्तं साधकोत्तमः | परः स एव बोद्धव्यः सुसूक्ष्मः स च निष्कलः || २४७ || सकलं निष्कलं चैव बोद्धव्यमुभयात्मकम् | [भगवतो निद्रानुसन्धानप्रकारः] विज्ञानरजनीमध्ये ज्ञेयं निद्रारसान्वितम् || २४८ || प्. २१८) [अथ प्रबोधप्रकारानुसन्धानम्] तत्त्वग्रामप्रभातेऽथ सम्भोगदिवसोदये | प्रबुद्धं संस्मरेद्देवमवतीर्णं परात्पदात् || २४९ || [बिम्बस्य पीठेन सहैकीकृतत्वभावनम्] सर्वाध्वभोगभूपीठं तेनाक्रान्तं च भावयेत् | स्थितिराधारशक्तिर्वै विभोर्मन्त्रात्मकस्य च || २५० || तस्माद्ब्रह्मशिलापीठं बिम्बमेकीकृतं स्मरेत् | [अथ मन्त्रन्यासपूर्वकमभ्यर्चनम्] ध्यानाधिवासयोगेन पूजयेत्तदनन्तरम् || २५१ || मन्त्रन्यासं पुरा कृत्वा त्रिधा पूर्वक्रमेण तु | हस्तन्यासं विना विप्र लययुक्ततयाऽखिलम् || २५२ || पाद्येनार्घ्येण पुष्पेण धूपेन च विलेपनैः | मधुपर्केण चान्नेन भक्ष्यैरुच्चावचैस्तथा || २५३ || पवित्रैः पानकै हृद्यैस्तै रसालादिभिः फलैः | मधुराम्बुरसैः सर्वैर्मूर्तैर्भोगैरनेकशः || २५४ || समस्तधातुभिर्बीजैर्वाद्यैर्गेयैस्तथाऽखिलैः | वसनच्छत्रवस्त्रैस्तु दर्पणाञ्जनवाहनैः || २५५ || उपानट्पादुकाभ्यां च चामरैः पादपीठकैः | प्रतिग्रहेण ताम्बूलैर्वासोभिर्ध्वजभूषणैः || २५६ || उद्यानवेश्मप्रासादरचनारचितैः शुभैः | शयनैरासनैः सर्वैः गृहोपकरणैस्तथा || २५७ || पताकाभिर्वितानैश्च शस्त्रैश्शास्त्रैस्तथाऽखिलैः | मात्रागोभिस्तथा ग्रामैः पशुभिः पक्षिभिस्तथा || २५८ || अन्तर्मानैरनन्तैश्च संपूर्णैरप्यकृत्रिमैः | वध्वा कामदुधां मुद्रां स्वमन्त्राभोगरूपिणीम् || २५९ || भोगमन्त्रेण चैकैकं गायत्त्र्या विनिवेद्य च | ततो जितंते स्तोतव्यो दत्वा धूपं मुहुर्मुहुः || २६० || [पूर्वादिषु चतुर्षु दिक्षु पश्चिमाद्यभिमुखमवस्थितैर्ब्राह्मणैः क्रमादृगादिमन्त्रपठनम्] पूर्वे प्रत्यङ्मुखं कृत्वा आसनस्थं द्विजोत्तमम् | प्. २१९) पुष्पमाल्यैस्तथोष्णीषैर्भूषणैस्त्वङ्गुलीयकैः || २६१ || ऋङ्मन्त्रान्पाठयेत्पूर्वं वीक्ष्यमाणमुदग्दिशम् | यजुर्बृन्दं वैष्णवं यत्पाठयेद्देशिकस्तु तत् || २६२ || गायेत्सामानि शुद्धानि सामज्ञः पश्चिमस्थितः | भक्तश्चोदक्स्थितो ब्रूयाद्दक्षिणस्थो(णास्यो ?)ह्यथर्वणम् || २६३ || स्वशाखोक्तांस्तथा मन्त्रान् ज्ञातलिङ्गानशेषतः | एकैकं शिष्यवर्गेण वृतो याज्यक्रमेण तु || २६४ || [आप्ताद्यनुयायिभिः सह ईशादिविदिक्षु स्थितैः यत्यादिभिः एकायनीयशाखामन्त्रपठनम्] भगवद्भाविनो ये च यतयः पाञ्चरात्रिकाः | चतुर्भिराप्तैर्विप्राद्यैर्युक्तांस्त्वीशदिशि न्यसेत् || २६५ || एकान्तिनस्तथाऽप्तैश्च(ऽनाप्तैः ?)युक्तानाग्नेयदिग्गतान् | निवेश्य विप्र नैऋत्यां भक्तान्वैखानसैः(सान् ?)सह || २६६ || चतुर्भिरञ्जलीकैस्तु ततो वायव्यगोचरे | सारम्भिणस्सात्वतांश्च तत्काले भगवन्मयान् || २६७ || चत्वारोऽथ चतुर्दिक्षु योज्याश्च शिखिनो मुने | तेषां चैवानुयायित्वाच्चत्वारस्तु प्रवर्तिनः || २६८ || ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तम | एकायनीयशाखोत्थान्मन्त्रान्परमपावनान् || २६९ || पाठयेच्च यतीनाप्तान् पूर्वान्वै पाञ्चरात्रिकान् | स्वानुष्ठानैः स्वकान्मन्त्रान्जपतः संशितव्रतान् || २७० || [प्रागादिषु चतुर्षु दिक्षु गुर्वादीनां स्थितिः] प्रागादौ चोन्तरान्तं च चत्वारो गुरुपूर्वकाः | बहवः समयज्ञान्ताः द्वावेको वा स्वशक्तितः || २७१ || कृतन्यासास्तथा ध्यानमुद्रालङ्कृतपाणयः | स्ववाससि स्वकां मुद्रां छन्नां कुर्युः परस्परम् || २७२ || गीतनृत्तपराश्चान्ये अग्रतः स्तोत्रपाठकाः | वन्दिबृन्दयुता बाह्ये तथा दुन्दुभिवादिनः || २७३ || प्रतिकर्म ततः कुर्याद्धोमं शक्त्या तु साधकः | प्. २२०) [ब्रह्मशिलापीठयोस्तत्त्वसंशोधनादि] दीक्षाविधिक्रमेणैवं सकलां तत्त्वपद्धतिम् || २७४ || संशोध्य परभावस्थ आचार्यः सुसमाहितः | आधारशक्तिमन्त्रेण जुहुयाद्ब्रह्मसंज्ञिताम् || २७५ || सन्तर्प्य पीठिकां शक्त्याधारमन्त्रेण नारद | लयात्मरूपी भगवानाज्येन बहुना ततः || २७६ || [शान्त्युदकप्रोक्षणम्] दद्याच्छान्त्युदकं मूर्ध्नि क्रमेणैव तु त्रिष्वपि | मूलमन्त्रेण विधिवद्धृदयाद्रेचितेन तु || २७७ || भगवन्तं कृते त्त्वेवं बिम्बस्थं श्रावयेद्गुरुः | मनसा सुविशुद्धेन इमं मन्त्रमुपस्थितम् || २७८ || [सान्निध्यप्रार्थनम्] त्वया सन्निहितेनात्र भवितव्यमथोक्षज | मत्पूर्वाणां हि भक्तानां सिद्धिहेतोर्निरञ्जन || २७९ || ततः स भगवान्मन्त्रप्रबुद्धः कमलेक्षणः | [उत्थापनसंमुखीकरणादि] बिम्बमुत्थाप्य तु ध्येय आचार्येण तु सम्मुखम् || २८० || कृत्वा तु पादपतनमष्टाङ्गेन तु साधकः | [लयभोगविधानेन यजनम्] अत्यौत्सुक्याच्च यागस्थमवतार्य यजेत्ततः || २८१ || लयभोगात्मना सम्यक् पूर्वोक्तविधिना ततः | [वह्निस्थस्य पूजनम्] तथा क्रमेण वह्निस्थं पूजयित्वा प्रतर्प्य च || २८२ || [शान्तिहोमविधानम्] चतुर्द्रव्यमयं होमं ततः साधक आचरेत् | तत्त्वानां च समस्तानां विभवस्याखिलस्य च || २८३ || व्यूहस्य सूक्ष्मसंज्ञस्य मन्त्रस्यानेकरूपिणः | मन्त्रातिरिक्तशक्तेस्तु शक्तीशस्यायुतस्य च || २८४ || एकसन्धानकरणं विन्यस्यापि(स्तानां ?) ततो मुने | प्. २२१) संहारस्थितियोगेन यथा तदवधारय || २८५ || बिम्बात्मनो विभोः स्पृष्ट्वा घृतेन चरणद्वयम् | तद्धृतं होमयेद्विप्र शतसंख्याष्टसंयुतम् || २८६ || अन्ते निक्षिप्य पादाभ्यां दर्भकूर्चेन चोपरि | तथैव दध्ना होमं च स्पृष्ट्वा नाभिं समाचरेत् || २८७ || क्षीरहोमं ततः कुर्याद्धृद्देशे स्पर्शने सति | अथोत्तमाङ्गं संस्पृश्य होमयेत्केवलं मधु || २८८ || एकीकृत्याथ वै सर्वं समभागेन नारद | सर्वगात्राणि संस्पृश्य होमयेत्तदनन्तरम् || २८९ || अनिरुद्धादिसत्यान्तैर्मन्त्रैः पादादि होमयेत् | दत्वा घृतेन वै पश्चात्पूर्णां मूलेन नारद || २९० || [शान्तिहोमान्ते मध्वादिचतुर्द्रव्यैर्भोजनविधानं दक्षिणादानं च] भोजयेन्मूर्त्तिमन्त्रेण मध्वाज्यघृतपायसैः | दक्षिणां च यथाशक्ति दद्याद्धेमादिकं ततः || २९१ || [अथ लग्नकालप्रतीक्षायां कालापनोदनक्रमः] प्रतीक्षेल्लग्नकालं तु यावन्नायाति स द्विज | तावद्विनोदैर्होमैश्च हासैः पाठैश्च संक्षिपेत् || २९२ || [अथ प्रतिष्ठासमये सन्निहिते प्रथमं कर्तव्यः प्रार्थनाप्रकारः] प्राप्ते लग्नोदये विप्र सन्निरोध्य जगत्प्रभुम् | क्षणं क्षमस्व भगवन्सर्वज्ञ करुणास्पद || २९३ || निवेशयामि ते यावत्प्रासादे ब्रह्मपीठिकाम् | [शयनस्थस्य भगवतो निद्रायमाणत्वेन स्मरणम्] स्मरेन्निद्रायमाणं तु शयनस्थं जगद्गुरुम् || २९४ || [प्रासादप्रवेशविघ्नप्रशमनादिविधानम्] ततो मूर्तिधरैः सार्धं प्रासादं संव्रजेद्गुरुः | हन्याच्चक्रेण तत्रस्थान् विघ्नान्सास्त्रेण नारद || २९५ || प्रक्षाल्य च तमस्त्रेण स्मरेद्ब्रह्मशिलां ततः | [ब्रह्मशिलास्थापनविधानम्] किञ्चित्पीठतलन्यूनां समां श्लक्ष्णां दृढां द्विज || २९६ || प्. २२२) कृत्वा नवपदां पूर्वं पद्मं तस्यां पदे पदे | विलिख्य रेखया सम्यक् खनेत्सर्वेषु कर्णिकाम् || २९७ || सप्तधा तु ततः कुर्यात्प्रासादं सुसमैः पदैः | द्वारात्पश्चिमभित्यन्तमेकद्वारेण नारद || २९८ || द्वारदेशात्समारभ्य त्यक्त्वा भागचतुष्टयम् | द्वाभ्यां पदाभ्यां मध्ये तु न्यसेद्ब्रह्मशिलां मुने || २९९ || द्वारान्मध्यं न सन्त्याज्यं देवस्थापनकर्मणि | चतुर्द्वारे तु भवने मध्येऽथ विनिवेश्य च || ३०० || त्रिधा कृते चतुर्दिक्षु तत्र ब्रह्मशिलां दृढाम् | ब्रह्मशीलाक्षेपादौ सति गर्भे लभेर्चनम्(?) || ३०१ || ततो ब्रह्मशिलामानं बाहुव्यायामयोः खनेत् | तत्पूर्वं सूत्रमार्गेण सञ्चाल्योत्तरदिङ्नयेत् || ३०२ || श्वभ्रं तत्रापि मध्ये तु शुभं कुर्यात्षडङ्गुलम् | तस्मिंस्तु रत्नसंपूर्ण हेमजं वाऽथ ताम्रजम् || ३०३ || चतुरङ्गुलमात्रं तु कलशं कम्बुरूपिणम् | हृन्मन्त्रेण तु सम्मन्त्र्य गायत्र्या च निवेश्य च || ३०४ || सपिधानं तु तत्कृत्वा सुधालेपं तथोपरि | दत्वा ब्रह्मशिलां न्यस्येत्प्राङ्मन्त्रपरिभाविताम् || ३०४ || व्यापकत्वं समालम्ब्य स्वयमेव तदा गुरुः | तां शिलां व्यापिकां ध्यायेदाधाराधेयविग्रहाम् || ३०५ || तत्र सर्वोर्ध्वगं न्यासं मूलमन्त्रेण भावयेत् | एवं तत्सन्निधिं कृत्वा पश्चात्तत्रोपरि द्विज || ३०६ || [रत्नादिन्यासः] न्यासं रत्नादिकं कुर्याद्यथा तदवधारय | हैममग्निं तथाऽनन्तं राजतं हेमजां धराम् || ३०७ || अष्टलोहमयं पद्मं मध्ये ब्रह्मशिलोपरि | प्राच्यादौ पद्मगर्भेषु क्रमादीशानगोचरम् || ३०८ || वज्रं च सूर्यकान्तं च इन्द्रनीलं तथैव च | महानीलं मुनिश्रेष्ठ मुक्ताफलमतः परम् || ३०९ || पुष्यरागमतश्चैव पद्मरागमतः परम् | प्. २२३) ऐशान्ये न्यस्य वैडूर्यं मध्यतः स्फटिकं न्यसेत् || ३१० || प्रागादौ रजतं ताम्रं त्रपु वंगमतीरुतम् | लोहं तथायसं कांस्यं मध्ये हेम निवेश्य च || ३११ || तालं मनश्शिलां चापि रजनीं कुष्ठमेव च | स्त्रोतोऽञ्जनं तु दरदं सौराष्ट्रं हेमगैरिकम् || ३१२ || मध्ये तु राजपाषाणं पारदं चाथ सर्वतः | गोधूमांश्च यवान्वन्यान्मुद्गमाषांस्तथैव च || ३१३ || चणकान्मुनिशार्दूल कुलुत्थं च मसूरकम् | क्रमादष्टसु विन्यस्य मध्ये सिद्धार्थकांस्तिलान् || ३१४ || ह्रीबेरं रजनीं मांसीं सहदेवीं वचां ततः | विष्णुक्रान्तां वलां मोटां श्यामाकं शङ्खपुष्पकम् || ३१५ || प्रागादौ मध्यपर्यन्तं विन्यसेन्मूलसन्ततिम् | अभावात्सर्ववस्तूनां हेमं सर्वत्र विन्यसेत् || ३१६ || तदभावात्तु तारं तु न्यसेन्मुक्ताफलानि च | घृतेन पयसा वाथ प्रापितेन पुरैव तु || ३१७ || प्रदद्याल्लेपनं विप्र सर्वगर्तेषु चैव हि | अहतं सुसितं पश्चात्तत्रोपरि दुकूलकम् || ३१८ || [ब्रह्मशिलोपरि पीठन्यासविधानम्] ततः श्लक्ष्णं सुधालेपं दत्वा पीठं तु विन्यसेत् | सन्धाय पूर्ववत्तच्च शिलया सह नारद || ३१९ || पीठश्वभ्रेऽथ विन्यस्य सौवर्णं गरुडं मम(मुने) | क्षीरं दधि घृतं लाजं मधुपुष्पफलानि च || ३२० || सर्वगन्धानि विप्रेन्द्र सर्वौषधियुतानि च | भावयेत्पूर्ववत्पीठे धर्माद्यैरखिलैर्युतम् || ३२१ || चिदासनमयीं व्याप्तिं पुनस्तत्रोपरि न्यसेत् | हृदाऽथ विष्णुगायत्त्र्या एकैकमभिमन्त्र्य च || ३२२ || विन्यस्य कुर्याद्धवनं यस्मिन्यस्मिंस्तु कर्मणि | पीठन्यासविधिं यावत्ततः पूर्णाहुतिं जुहेत् || ३२३ || [अथ प्रबोधनम्] प्राप्ते लग्नोदये विप्र शयनस्थं प्रबोधयेत् | प्. २२४) मन्त्रात्मन् रूपमात्मीयमाग्नेयमुपसंहर || ३२४ || समाश्रयस्व सौम्यत्वं स्थित्यर्थं परमेश्वर | नमस्तेऽस्तु हृषीकेश उत्तिष्ठ परमेश्वर || ३२५ || मदनुग्रहहेत्वर्थं पीठभूमिं समाक्रम | [देवस्य प्रासादे प्रवेशनम्] उद्धृत्य मूर्त्तिपैः सम्यक् पृष्ठे वा साधकोऽग्रतः || ३२६ || यायात्प्रक्षिपमाणस्तु सार्ध्यार्थं(?)रत्नकं बहु | प्रदक्षिणं ततः कुर्यात्प्रासादस्य च नारद || ३२७ || शनैः प्रवेशयेद्देवं यथोर्ध्वं तु न संस्पृशेत् | पार्श्वद्वयं तु द्वारीयं [अथ पीठे देवस्य स्थापनम्] पीठमध्येऽथ विन्यसेत् || ३२८ || हृदा संपुटयोगेन मूलमन्त्रेण नारद | तत्र तं चाग्रतः स्थाप्य तत्पार्श्वे पृष्ठतोऽपि च || ३२९ || वज्रलेपेन गायत्र्या पीठस्यैकात्म्यतां नयेत् | तारकं पूर्वमुच्चार्य गुरुः प्रणतमस्तकः || ३३० || [विज्ञापनम्] आराधितोऽसि भगवन्साधकानां हिताय च | त्वयाऽप्यनुग्रहार्थं च वस्तव्यमिह सर्वदा || ३३१ || त्वं तिष्ठसि प्रभो यत्र तत्र सिद्धिर्न दूरतः | भवेद्वै साधकेन्द्राणामित्युक्तं च पुरा त्वया || ३३२ || तस्माध्रुवं सदा तुष्टस्सानुकम्पापरो महान् | सदा ह्यनुग्रहपरस्तिष्ठस्वाचन्द्रतारकम् || ३३३ || एवमुक्त्वा ततो दद्यादर्घ्यं शिरसि पादयोः | [अथ तत्त्वसंस्थापनम्] तत्त्वसंस्थापनं कुर्यात्प्रकृतिस्थापनादनु || ३३४ || विज्ञानानन्दकल्लोलज्ञेयभासां तथा रवैः | अनेकाह्लादजनितैराचारादिभिरा(राचाधाराच्छिरो ?)वधि || ३३५ || पश्येन्मन्त्रमयं बिम्बमनेकाद्भुतविग्रहम् | एवं सर्वसमुत्पत्तिस्थाने संकल्पसिद्धिदम् || ३३६ || प्. २२५) [बिम्बस्य मन्त्रमयवृक्षत्वेन भावनं] बिम्बं मन्त्रमयं वृक्षं प्रतिष्ठाप्यामलात्मना | तद्विज्ञानमयीं शाखां प्रवरायाति चो(मायतो ?)न्नताम् || ३३७ || अनन्तगगनाक्रान्तां भावयेत्साधको द्विज | प्रभूतेन तु वै तस्मादनौपम्यामृतेन तु || ३३८ || मन्त्रबिम्बमयं वृक्षं सरसं भावयेत्सदा | यथा भौमेन तोयेन गगनोत्थेन नारद || ३३९ || मन्दारपुष्पविटपी तद्वदेव हि नान्यथा | [बिंबपीठादिषु न्यस्तस्य मन्त्रचक्रस्य लयभोगादिविधानेन पूजनविधानम्] ततः संपूजयेत्तत्र लययागेन चाखिलम् || ३४० || पीठस्थं भोगयागेन मन्त्रचक्रं यजेत्पुनः | पीठमूलं समाश्रित्य लोकेशान्सायुधान्यसेत् || ३४१ || पीठीयमन्त्रसङ्घं च विलोमेनाथ पूजयेत् | आधारशक्तिपर्यन्तं सृष्टिन्यासेन नारद || ३४२ || [प्रतिष्ठादिवसे कर्तव्यं प्रतिष्ठानन्तरं स्नपनम्] पूजयित्वा ततो देवं स्नापयेत् [चतुःस्थानार्चनम्] मण्डले पुनः | प्रपूज्य पूर्वविधिना मण्डलानुक्रमेण तु || ३४३ || होमान्तं निखिलं कृत्वा दद्यात्पूर्णाहुतिं ततः | [सुप्रतिष्ठितत्वाभिशंसनम्] स्वामीति च स्वनामान्तं रूढिशब्दं प्रकल्प्य च || ३४४ || ताल(र ?)शब्दयुतं सर्वैरेवमस्त्विति चोच्चरन् | पुष्पाक्षताञ्जलिं पूर्णं क्षिपमाणाश्च नारद || ३४५ || सर्वे वदेयुस्तत्रस्था भगवान्सुप्रतिष्ठितः | [स्तुतिजयोद्घोषः] ततः सर्वैस्स भगवान्स्तोतव्यो जगतः पतिः || ३४६ || जितन्तेनोच्चया वाचा ततो जयजयेति च | प्. २२६) जीवभूतेन वै तेन विभुना मन्त्रमूर्त्तिना || ३४७ || प्रतिष्ठितेन विप्रेन्द्र विद्धि सर्वं प्रतिष्ठितम् | [प्रदक्षिणप्रणामौ] आमूलाद्धजपर्यन्तं प्रासादे यः पुराकृतः || ३४८ || देवं प्रदक्षणीकृत्य अष्टाङ्गेन प्रणम्य च | [बलिदानम्] ग्रहीत्वा चार्घ्यपात्रं तु यायाद्देवगृहाद्बहिः || ३४९ || प्रभूतानां च भूतानां बलिदानं समापयेत् | गृह्णन्तु भगवद्भक्ता भूताः प्रासादबाह्यगाः || ३५० || बलिं मन्त्रपवित्राश्च(त्रं च ?) तेषामनुचराश्च ये | सोदकेन तु पात्रेण दत्वा देवं प्रणम्य च || ३५१ || [न्यूनाधिकशान्त्यर्थपूर्णाहुतिः] व्रजेद्यागगृहं पश्चात्पूर्णहोमं समाचरेत् | ऊनाधिकनिमित्तं च दद्यात्पूर्णाहुतिं ततः || ३५२ || [अथ फलश्रुतिः] आदेवालयभूभागाद्ध्वजान्ताच्चापि मण्डपात् | सर्वोपकरणोपेतात्परमाणुषु नारद || ३५३ || यावती जायते सङ्ख्या तावत्कर्ता समावसेत् | भोगभुग्विष्णुलोके च यात्यन्ते परमं पदम् || ३५४ || [प्रतिष्ठाकर्मणि वृतानां पूजनम्] ततः संपूज्य विधिवत्क्रमात्सर्वान्पुरोदितान् | गन्धार्घ्यपुष्पधूपेन माल्यैश्चैवानुलेपनैः || ३५५ || भोजनैर्विविधैश्शक्त्या दक्षिणाभिर्महामुने | [अथ रात्रौ जागरणम्] रात्रौ जागरणं कुर्यान्नृत्तगीतैर्महोत्सवम् || ३५६ || [प्रतिष्ठादिनाद्यावद्दिनचतुष्टयं होमस्य कर्तव्यता] अव्युच्छिन्नोदितं होमं कुर्याद्दिनचतुष्टयम् | क्षणवारानुसारेण (?)बहिः कुण्डेषु चान्तरे || ३५७ || यथा दिनचतुष्कं तु धूमच्छेदो न तत्र वै | प्. २२७) [प्रतिष्ठादिनाच्चतुर्थदिने स्नपनादिविधानम्] चतुर्थेऽहनि संप्राप्ते संस्नाप्य परमेश्वरम् || ३५८ || प्रपूज्य पूर्वविधिना होमं कुर्याच्च शक्तितः | समग्रमन्त्रजालस्य दत्वा पूर्णाहुतिं ततः || ३५९ || [अथ विष्वक्सेनपूजनम्] प्रागुक्तेन विधानेन प्रासादाभ्यन्तरे द्विज | ऐशान्यां चलपीठस्थं कुम्भे वा तोयपूरिते || ३६० || प्रपूज्य विष्वक्सेनं च पूजितव्याश्च मूर्तिपाः | [शिष्टद्रव्यविनियोगप्रकारः] निर्वर्त्य सर्वसंभारं स्वगुरोर्विनिवेद्य च || ३६१ || स्वयं वा यः प्रतिष्ठानमाचार्यस्त्वाचरेद्द्विज | यत्नाद्विभजनीयं तन्मूर्त्तिपादिष्वनुक्रमात् || ३६२ || [अवभृथः] सिद्धिमुक्त्योरभीप्सार्थं स्नायादवभृथेन च | इत्येतत्साधकस्योक्तं मन्त्राराधनकांक्षिणः || ३६३ || मन्त्रमूर्त्तिप्रतिष्ठानं यत्रस्थः सिद्धिमाप्नुयात् | [चित्रप्रतिष्ठायां विशेषः] लेपभित्तिपटस्थानां स्नानाद्यं दर्पणे मुने || ३६४ || कुर्यान्निरवशेषं च पुष्पैः पूजां जलोज्झितैः | [तत्र रत्नन्यासप्रतिषेधः] भित्तिगानां पटस्थानां बिम्बानां स्थापने द्विज || ३६५ || पीठब्रह्मशिलारत्नन्यासाख्यो न भवेद्विधिः | [अन्यत्र धातुजादिषु तद्विधानम्] समानयोनिपीठानां धातुजानां तु नारद || ३६६ || चलानां लघुदेहानां बिम्बानां तु समाचरेत् | शैलमृद्दारुजानां तु एवमेवहि नान्यथा || ३६७ || निस्सारे सति वै पीठे अन्तस्सारे स्मरेद्धिया | [अथ जीर्णोद्धारविधानम् तत्र जीर्णबिम्बस्याभ्यर्चनप्रतिषेधः] पटे कुड्ये परिक्षीणे भग्ने बिम्बे प्रमादतः || ३६८ || प्. २२८) नार्चनं विहितं विप्र न सुशोभनमर्चनम् | तस्मात्कृत्वाऽर्चनं होमविशेषेण महामते || ३६९ || दानपूजा यतीनां च भगवत्तत्ववेदिनाम् | अवतारक्रमेणैव निखिलं हृदि चारभेत् || ३७० || आधारनिचयं न्यस्तं पूर्वोक्तविधिना मुने | [धातुद्रव्योद्भवादन्यस्य भग्नबिम्बस्य जलाशये प्रक्षेपविधानम्] विष्वक्सेनस्य मन्त्रेण न्यासपूजामिव क्षिपेत् || ३७१ || जलाशये ह्यगाधे च धातुद्रव्योद्भवं विना | यस्मात्त ----------बिम्बकर्मणि संस्कृतिम् || ३७२ || इत्येतदेकदेहानां बिम्बानां परिकीर्तितम् | [पीठेन सहसन्धिंगभितेषु बिम्बेषु विशेषाः] अन्योन्यैकीकृतानां तु वज्रबन्धेन मे शृणु || ३७३ || [तत्र किञ्चित्पीठभङ्गे निर्दोषत्वम्] किञ्चित्पीठविभङ्गे तु न दोष उपजायते | [ईषदङ्गक्षते सन्धानम्] ईषदङ्गक्षते कुर्याद्बिम्बस्य स्वर्णघर्षणम् || ३७४ || [पीठस्य भङ्गाधिक्ये तत्त्यागः] बृहद्भङ्गे समुत्थाप्य पीठाद्बिम्बं तु तं क्षिपेत् | कृत्वा चाभिनवं पीठं तत्र संस्थापयेत्पुनः || ३७५ || [बिम्बस्य भङ्गाधिक्ये तत्त्यागः] भग्ने बिम्बे शुभे पीठे सति बिम्बं नवं स्मृतम् | [अविज्ञाते बीजन्यासे प्रणवेन विधानम्] बीजन्यासे ह्यविज्ञाते ब्रह्मतत्त्वं हि तद्गतम् || ३७६ || तत्त्ववित्प्रोद्धरेद्यत्नात्प्रणवेनात्र कर्मणि | सर्वज्ञानानि तत्स्थाने मन्त्राश्च प्रणवे स्थिताः || ३७७ || वाच्यवाचकसंबन्धस्ताभ्यां नान्यस्य वै यतः | अनेन विधिना विप्र कृतमायतनस्य यत् || ३७८ || तिष्ठत्यविषयं कालं नान्तर्धानं व्रजेत्पुनः | प्. २२९) [देशभङ्गाद्युपद्रवे अवधानेन संरक्ष्यता] देशभङ्गे तु मरणे दुर्भिक्षे चातिसङ्कटे || ३७९ || अनावृष्टिभयात्स्थानं निरीक्ष्यं यदि तद्भवेत् | प्राधान्यात्सन्निधानस्य नाशुद्धिं विम्बमाप्नुयात् || ३८० || तस्करादिषु संस्पर्शात्तस्मिन्वेशाभिषेवणात् | (?) यो यो मन्त्र(न्त्रि ?)वरो भक्तः साधकः कृतनिश्चयः || ३८१ || स सोऽत्र सिद्धिमचिरात्प्राप्नुयान्मानसेप्सिताम् | [महोत्सवस्य कर्तव्यताविधानम्] सनक्षत्रं दिनं शुभ्रं सौम्यग्रहसमन्वितम् || ३८२ || देशकर्त्तृनृपादीनामनुकूलं च मन्त्रिणः | समाश्रित्य नृपः कुर्यात्कर्त्ता धन्योऽपि वैष्णवः || ३८३ || महानिमित्तमुद्दिश्य त्रीन्वारान्वत्सरं प्रति | स्वदेशविहितेनैव विधिना च महोत्सवम् || ३८४ || कर्मबिम्बं विमानस्थं हित्वा चक्रादिकं तु वा | नृत्तगीतस्वनैर्गीतैर्वाद्यदानपुरस्सरम् || ३८५ || बलिकर्मसमोपेतं भ्रमणीयं सुशान्तये | सर्वग्रामादिवीधीनां कीर्तिपुण्यफलाप्तये || ३८६ || इति श्रीपाञ्चरात्रे जयाख्यसंहितायां प्रतिष्ठाविधिर्नाम विंशः पटलः || २० || अथ पवित्रविधानं नाम एकविंशः पटलः नारदः [अनुष्ठानलोपे निष्कृतिप्रकारप्रश्नः] नियमस्थस्य भगवन्साधकस्याभियोगिनः | मोहाद्वा देशभङ्गाच्च ज्वरादिव्याधिपीडितात् || १ || अनुष्ठानमसम्पन्नं कदाचित्कर्मदोषतः | किं कार्यं तेन वै नाथ किं वा तस्य भवेद्वद || २ || श्रीभगवान् [पवित्रारोपणस्य निष्कृतित्वविधानम्] क्रियया जपहोमेन कृतेन --------------------- | क्रियाजपार्चनादीनां लुप्तानां साधकस्य च || ३ || प्. २३०) पवित्रारोपणाद्विप्र ऋते नान्या भवेद्गतिः | नारदः [पवित्रारोपणविधानप्रकारप्रश्नः] पवित्रारोपणं विष्णोः श्रोतुमिच्छामि तत्त्वतः || ४ || येनाहं कृतकृत्यः स्यां क्रियासक्तः सदैव हि | श्रीभगवान् [पवित्रारोपणकालविधानम्] कर्कटस्थे द्विजादित्ये सिह्मकन्यातुलास्थिते || ५ || द्वादश्यां शुक्लपक्षे तु राकायां यत्र रोचते | जपहोमक्रियालोपशान्तये विधिपूर्वकम् || ६ || यागं पवित्रकोद्देशे कृत्वा पूर्वोदितश्च(तं च ?)यः | [सूत्रादिद्रव्याणामधिवासकालविधानम्] दशम्यामधिवासं तु द्रव्याणां विधिपूर्वकम् || ७ || कुर्याच्चैव ससूत्राणां [सूत्राणां कौशेयत्वादिविकल्पः] तत्सूत्रं विद्धि पट्टजम् | कार्पासमथ वा क्षौमं श्लक्ष्णं दृढकृत्रिमम् || ८ || तस्य शुद्धिं पुरा कृत्वा दहनाप्यायनेन च | पञ्चभूतात्मकं ध्यात्वा व्यापकत्वेन तत्पुनः || ९ || [अथ सूत्रैः पवित्रनिर्माणविधानम्] पुरा तत्त्रिगुणं कृत्वा ततः कुर्याच्चतुर्गुणम् | समतां सर्वभावानां द्विजोत्पादयते यतः || १० || अतो न विषमैः कुर्यात्तन्तुभिः सूत्रमेव तत् | तेन सूत्रेण विप्रेन्द्र पवित्राण्यारभेत्ततः || ११ || [मण्डले प्रतिमन्त्रं समर्पणीयपवित्रसङ्ख्या] मूलमन्त्रादिसर्वस्य मन्त्रचक्रस्य नारद | त्राणि त्रीण्यथवा द्वे द्वे एकैकं सत्यसम्भवे || १२ || पवित्रकं तु प्रत्येकमनुकल्पेषु नारद | प्. २३१) [तेषां पवित्राणां व्यासमानग्रन्धिसख्यादिविधानम्] व्यासादर्धसमैः (?) कुर्याद्धाराकारं च तन्तुभिः || १३ || शतेनाष्टोत्तरेणाद्यं द्विगुणेन द्वितीयकम् | त्रिगुणेन तृतीयं तु व्यासमेवं तु तन्नयेत् || १४ || षट्त्रिंशद्ग्रन्धिकं चाद्यं द्वितीयं द्विगुणं स्मृतम् | तृतीयं त्रिगुणं विप्र [प्रवित्रगन्धीनां रञ्जनादिविधानम्] ग्रन्धिं वै कुङ्कुमेन तु || १५ || रञ्जयेच्चन्दनाद्येन यथा शोभानुरूपतः | ग्रन्धियुक्तेन तुल्येन मृदुना सुसितेन तु || १६ || पूरयेद्ग्रन्धयोर्मध्ये शङ्खाकारं यथा भवेत् | मण्डले मन्त्रमूर्त्तीनां पूजनार्थं तु नारद || १७ || व्यासमानं तु कथितं पवित्राणां च सर्वदा | [बिम्बस्य शिरःप्रभृत्यवयवभेदेन पवित्राणामाकृतिभेदमानभेदविधानम्] प्रतिष्ठितस्य बिम्बस्य परादौ(?) धातुजस्य वा || १८ || मालाकृतिं च शिरसि यथेच्छग्रन्धिपूरकैः | द्वितीयमंसयोर्यावल्लम्बितं जानुमण्डले || १९ || मूर्ध्नः पादावधिर्यावन्त्रितीयमतिविस्तृतम् | [पीठपवित्रप्रमाणविधानम्] पृथक्पीठस्य वै कुर्यात्स्वप्रमाणेन शोभनम् || २० || [प्रतिसराणां व्यासानियमः] बिम्बप्रतिसराणां च व्यासश्चानियतः स्मृतः | सूत्रमानं च पूर्वोक्तं द्विगुणं सम्भवे सति || २१ || त्रिगुणं वा मुनिश्रेष्ठ आलभेत्पूरयेत्ततः | त्र्यङ्गुलान्तरिता देयास्सर्वेषां ग्रन्धयः समाः || २२ || सङ्ख्यानेन विना सम्यङ्मातुलुङ्गोपमाः शुभाः | [कुम्भादिपवित्रनिर्माणप्रकारविधानम्] कुम्भोत्तमाभ्यामग्रे तु विद्यापीठस्य चैव हि || २३ || प्. २३२) स्रुक्स्रुवाभ्यां च घण्डायामक्षसूत्रे च नारद | अर्घ्यपात्रस्य चैककं सूत्रगर्भेर्यथेच्छया || २४ || [गुर्वादीनां षण्णां यथाक्रमं पवित्रविधानप्रकारभेदः] गुर्वादिसमयज्ञानां यतीनां भावितात्मनाम् | कुडुम्बिनां क्रमात्कुर्यात्तन्तुभिर्मुनिसत्तम || २५ || चतुर्विंशतिभिश्चैव सूत्रैः षोडशभिस्तथा | ततो द्वादशभिर्ब्रह्मन्नष्टभिस्तदनन्तरम् || २६ || षड्भिस्त्रिभिस्ततो देया ग्रन्धयः सूत्रसङ्ख्यया | रञ्जयेत्पूर्वविधिना न कुर्याद्गर्भपूरणम् || २७ || [पवित्राधिवासाख्यकर्मविधानम्] (तत्र पवित्रासादन प्रकारः) संस्थाप्य वै दले भाण्डे पलाशपुटकेऽथवा | आच्छाद्य वाससा पश्चात्सुसितेनाहतेन तु || २८ || मध्ये तु यागद्रव्याणां तद्भाण्डं विनिवेश्य च | [नित्यार्चनपूर्वकविशेषयजनविधानम्] स्नात्वा तु पूर्वविधिना कुर्यान्नित्यार्चनं हरेः || २९ || ततो विशेषयजनं दीक्षाख्येन क्रमेण तु | द्वारयागादिकं कृत्वा सर्वं कलशपूर्वकम् || ३० || संविधानं मुनिश्रेष्ठ हवनेन समन्वितम् | एवं हि पूजनं कृत्वा मन्त्रसन्तर्पणं पुरा || ३१ || मुद्राबन्धजपान्तं च दद्यात्पूर्णाहुतिं ततः | पुरा यस्मिन्दिने विप्र अतिते वत्सरे कृतः || ३२ || पवित्रकोपसंहारस्तद्दिनादादितः स्मरेत् | अर्घ्यपुष्पादिबलिभिः पूजयेत्सर्वमध्वरम् || ३३ || समाचम्य स्मरेत्सर्वं मन्त्रबृन्दं क्रमेण तु | पुरा प्रतिष्ठितं बिम्बं स्वयमन्य(कृ)तंतु वा || ३४ || निर्गत्य स्नापयेद्भक्त्या पूर्वोक्तविधिना ततः | प्. २३३) पूजयित्वा विशेषेण दत्वाऽर्घ्यं पुनरेव च || ३५ || संस्मृत्य मूलमन्त्रं तु जपमुद्रासमन्वितम् | स्मरेत्कृताकृतं सर्वं पूर्ववद्वासरीयकम् || ३६ || कृत्वा प्रदक्षिणं यायाद्भूयो यागनिकेतनम् | [चतुःस्थानार्चनविधानम्] स्थलस्थस्य च वै तत्र मन्त्रमूर्तेर्निवेद्य च || ३७ || ताम्बूलदन्तकाष्ठं च पञ्चगव्यपुरस्सरम् | अग्रतो देवदेवस्य सिह्ममूर्त्तौ तु दक्षिणे || ३८ || प्रदीपं च तथा धूपं दर्पणं हेमसूत्रकम् | पश्चिमे कापिले मूर्त्तौ हेमपात्रं तु नारद || ३९ || निवेद्य हविषा पूर्णं वाराहे चोत्तरे ततः | माल्यान्यथौषधीस्तोयं क्षीरं माक्षिकमेव च || ४० || फलानि शालिबीजानि त्वन्येषां दन्तधावनम् | ताम्बूलेन समायुक्तं ततः प्रतिसरं मुने || ४१ || निवेद्य पात्रतः कृत्वा कुम्भेऽग्नावेवमेव हि | बाह्यतः प्रतिमायां च सर्वं प्रतिसरान्तकम् || ४२ || [आमन्त्रणम्] ततो निमन्त्रयेन्मन्त्रमिष्टं येन क्रमेण तु | आमन्त्रितोऽसि देवेश कृतो यागो यथाविधि || ४३ || तमाहरस्व भगवन्सर्वकर्मप्रपूरणम् | एवं संश्रावयित्वा तु मनुभेदस्थितं विभुम् || ४४ || [सूत्रेण यागसदनवेष्टनम्] सर्वं सितेन सूत्रेण त्रिरावृत्तेन चान्तरा | सेषुणा यागसदनं वेष्टयेत्तदनन्तरम् || ४५ || पिधाय पात्रैः सुदृढैः पवित्राणि पृथक् पृथक् | [पूर्वोक्तप्रकारेण प्रासादवेष्टनम्] तथैव वेष्टयेद्विप्र प्रासादं बाह्यतस्ततः || ४६ || [भूतबलिः] सम्यग्भूतबलिं दद्यादस्त्रमन्त्रेण नारद | [पञ्चगव्यप्राशनादिविधानम्] पञ्चगव्यं पुरा पीत्वा भुक्त्वा चान्नं चरुस्थितम् || ४७ || प्. २३४) संचर्व्य दन्तकाष्ठं तु ताम्बूलं वा यथेच्छया | आचम्य न्यासपूर्वंतु सकलीकृत्य विग्रहम् || ४८ || स्थलस्थमुद्धरेन्मन्त्रं कलशे न्यस्य वाऽत्मनि | [रात्रौ जागरणस्य मण्डलकर्मणः समापनस्य च विधान] रात्रौ जागरणं कुर्यान्मण्डलं च समापयेत् || ४९ || रात्रिक्षये ततः स्नायाद्विभवेनाच्युतं यजेत् | [पवित्रारोपणप्रकारविधानम् तत्र नित्यार्चनपूर्वक चतुस्स्थानार्चनम्] नित्यकर्म पुरा कृत्वा कुंभस्थं तु यजेत्क्रमात् || ५० || मण्डलस्थं ततः पश्चादग्निस्थं तदनन्तरम् | स्नानपूर्वं तु बिम्बस्थं प्रासादाभ्यन्तरे द्विज || ५१ || [प्रथमं कलशस्थस्य पवित्रारोपणप्रकारः] प्रविश्य यागसदनं गत्वा कलशसन्निधिम् | पूजयित्वा समुद्घाट्य पात्रं प्रातिसरीयकम् || ५२ || अवलोक्य समादाय तस्मिन्ध्यायेद्द्विजाखिलम् | संवत्सरं तु यत्कर्म आप्रभातान्निशान्तकम् || ५३ || ध्यानोत्थं निष्कलं सम्यगपवर्गपदं तु यत् | संस्मृत्य निष्कलं मन्त्रं शुद्धोच्चारक्रमेण तु || ५४ || मन्त्रं सन्धाय तत्सूत्रं सूत्रे मन्त्रं तथैव च | एकीकृत्यात्मना सार्धं दद्याद्वै मन्त्रमूर्धनि || ५५ || समादाय परं सूत्रं तस्मिन्सकलनिष्कलम् | ज्ञानकर्मस्वरूपं तु कर्म ध्यायेच्च वत्सरम् || ५६ || स्मृत्वा चोभयरूपं तु मन्त्रं कलशपूजितम् | पूर्ववच्चानुसन्धानं कृत्वा दद्यात्पवित्रकम् || ५७ || ततः प्रतिसरं विप्र तृतीयं च समाहरेत् | बाह्यं सांवत्सरं कर्म सकलं चाखिलं स्मरेत् || ५८ || पूजयन्तं स्वमात्मानमाधाराच्च परावधिम् | लयभोगाधिकाराख्यक्रमेण सकलात्मना || ५९ || सकलं मन्त्रनाथं तु लयभोगादिविग्रहम् | स्मृत्वा कृत्वा च सन्धानं दद्यात्प्रतिसरं ततः || ६० || प्. २३५) अर्घ्यैः पुष्पैस्तथा माल्यैः धूपान्तैश्च विलेपनैः | अन्तरान्तरयोगेन पूजां कुर्यात्त्रिधा तथा || ६१ || मूलमन्त्रस्य विप्रेन्द्र गायत्र्योपहृतात्मना | दत्वैवं कलशस्थस्य पुत्रा विप्र पवित्रकम् || ६२ || [मण्डलस्थस्य पवित्रारोपणम्] अनेन विधिना दद्यान्मण्डलस्थस्य वै पुरा | पवित्रकत्रयं शुभ्रं भोगस्थाने च नारद || ६३ || दद्यात्समस्तमन्त्राणां त्रीण्येकं वा यथेच्छया | [अग्निस्थस्य ततो बिम्बस्थस्य च पवित्रारोपणम्] पूजयित्वा ततोऽग्निस्थं विभुं बिम्बगतं ततः || ६४ || कलशोक्तप्रयोगेण भूषणैस्तु त्रिभिस्त्रिभिः | [अग्निस्थस्य समर्पणे विशेषनिरुपणम्] अग्नौ निवेदयेद्विप्र भूषणं न तु होमयेत् || ६५ || यस्मात्सन्यासमूर्ध्वे तु विहितं भूषणस्य च | नाहर्तुं युज्यते दग्धुं दोषमाहरणं विना || ६६ || पवित्रकावधेरूर्ध्वं साधकानां तु नारद | [महामन्त्रजपविधानम्] पश्चात्पद्मासनं बध्वा देवस्याभिमुखस्थितः || ६७ || सकृज्जपं महामन्त्रं सर्वकर्मप्रवर्धनम् | नाशनं सामयानां च दोषाणां स्मरणादपि || ६८ || [अथ विज्ञापनम्] ततः संश्रावयेद्देवं त्रिस्थानस्थं क्रमेण तु | कामतोऽकामतो वाऽपि न कृतं नियतार्चनम् || ६९ || केनचिद्विघ्नदोषेण मया यत्परमेश्वर | तेन मे मनसाऽतीव सन्तापो दहनात्मकः || ७० || यतः समयदोषेण बाधितोऽस्मि जनार्दन | त्वयोद्दिष्टं पुरा नाथ भक्तानां हितकाम्यया || ७१ || दोषविध्वंसकृच्छुद्धं पवित्रं तत्कृतं मया | प्रसीद मे कुरु त्राणं जहि कोपं हि लोपजम् || ७२ || प्. २३६) निमज्जतो भवाम्भोधौ समयप्रच्युतस्य च | नमो नमस्ते मन्त्रात्मन् प्रसीद परमेश्वर || ७३ || पाहि पाहि त्रिलोकेश केशवार्त्तिविनाशन | त्वत्प्रसादाच्च मे मास्तु दोषः समयसंज्ञि(श्रि ?)तः || ७४ || अद्यास्तु कर्मसंपत्तिर्नित्यनैमित्तिकी प्रभो | श्रुत्वैवमादरात्तस्य संसारार्तस्य मन्त्रराट् || ७५ || पूर्णभावं नयच्छ्रीघ्रं हन्ति दोषांश्च सामयान् | [अथ गुरोः पूजनम्] एवं कृत्वा ततो भक्त्या पूजयेद्विष्णुवद्गुरुम् || ७६ || दक्षिणाभिर्यथाशक्ति विविधैः पानभोजनैः | प्राप्ता नियन्त्रिताश्चान्ये भगवद्भाविनस्तु वै || ७७ || [पवित्रोत्सवान्ते कृतस्य यत्यादिभ्यो दानस्य फलाधिक्यकथनम्] पञ्च वैखानसान्ताश्च यतिपूर्वाश्च नारद | आप्तादिपञ्चभेदेन चत्वारो ब्राह्मणादयः || ७८ || पञ्च योगरताद्यास्तु शास्त्रसन्धारणान्तिमाः | असंख्यं यतये दत्तं वैष्णवाय प्रकीर्तितम् || ७९ || विद्धि कोटिगुणञ्चैव दत्तमेकान्तिने तु यत् | तस्माद्दशशतांशोनं दत्तं यच्छिखिने तु वै || ८० || सात्वताय शतांशोनं दशांशोनं तु नारद | विद्धि वैखानसे दत्तं दानं प्रतिसरावधौ || ८१ || चतुर्विधे द्विजाप्ते तु एवमेवमुदाहृतम् | आकोटेर्दानह्रासस्तु अनाप्तानामतः शृणु || ८२ || अनाप्ते लक्षगुणितं ब्राह्मणे परिकीर्तितम् | एवमेव तु दत्तं च बुहुशो बहुभोजनन् || ८३ || यो निरस्यति विप्रेन्द्र साधको वाऽप्यसाधकः | तस्याशु भवते सिद्धिरिह लोके परत्र च (?) || ८४ || इत्येतत्साधकानां च क्रियासंपूरणं मया | कथितं मुनिशार्दूल तत्सहस्रशतांशतः || ८५ || शतांशोनं तदंशेन दत्तमेव नृपादितः | प्. २३७) लक्षार्धत्रिगुणं दानं ततस्तामेति नारद || ८६ || अञ्जलीयकविप्राय यद्दत्तं विधिपूर्वकम् | सहस्रांशशतांशेन ------------------ह्रसेच्च तत् || ८७ || नृपादिशूद्रपर्यन्तं वक्ष्ये त्वारम्भिणामतः | लक्षपादगुणं दानं विप्रायारंभिणे मतम् || ८८ || सहस्रांशाद्दशांशोनं विद्धि क्षत्रादिपूर्वकम् | अथायुतगुणं दानं ब्राह्मणे संप्रवर्तिनि || ८९ || नृपे सहस्रगुणितं वाऽपि तच्छतसंज्ञकम् | अतो दशगुणं विद्धि योगज्ञादिष्वतः शृणु || ९० || कोटिकोटिगुणं दानं भगवद्योगवेदिनि | विप्रे वेदविदां श्रेष्ठे तत्सहस्रांशवर्जितम् || ९१ || क्षत्रिये वैश्यजातौ तु शतांशोनं तदेव तु | दशांशहीनं तच्छूद्रे भगवद्योगसेविनि || ९२ || कोटिलक्षगुणं चैव जपनिष्ठे द्विजोत्तमे | सहस्रांशशतांशोनं दशांशोनं नृपादिषु || ९३ || कोटिसाहस्रगुणितं ब्राह्मणे विष्णुतापसे | प्राग्वदूनं सहस्रादेस्तत्क्षत्रादिषु नारद || ९४ || नारायणागमज्ञे तु दानं द्विजवरे तु यत् | दत्तं काले पवित्रे तु कोटीशतगुणं स्मृतम् || ९५ || राजन्यवैश्यशूद्राणां पूर्ववत्कल्पयेच्च तत् | धत्ता(धृता ?)गमानां यो विप्रो वैष्णवानां च भक्तितः || ९६ || कोटीदशगुणं दानं तद्दत्तं भवतीति च | क्षत्रादिष्वेव विहितं तत्सहस्रादितो भवेत् || ९७ || [वैष्णवमात्रस्य पूज्यता] यः कश्चिद्वैष्णवस्तस्मिन्काले तत्रावतिष्ठते | स पूजनीयो विप्रेन्द्र यथाशक्ति च भक्तितः || ९८ || स्वभाववैष्णवो जन्तुरास्तां तावन्महामुने | [वैष्णवलिङ्गधारिमात्रस्य पूज्यता] गृहीत्वा वैष्णवं लिङ्गं भक्तो यः कश्चिदागतः || ९९ || अर्थ्यहं वैष्णवो देहि ब्रूते ह्येवमभीक्ष्णशः | प्. २३८) सोऽपि यत्नाद्यथाशक्ति पूज्योऽज्ञातोऽपि नारद || १०० || [आरोपितानां पवित्राणां यावदपनयनकालं तथैव मण्डलादौ संस्थाप्यता] एकरात्रं त्रिरात्रं वा सप्तरात्रं तु वा द्विज | पवित्रकं स्थापनीयं मण्डलेऽर्चागतं तथा || १०१ || अथवाऽर्च्चागतं विप्र तद्वत्संस्थाप्य भूषणम् | यावदेकादशी शुक्ला संप्राप्ता कार्तिकस्य तु || १०२ || [पुष्पमात्रस्य प्रत्यहमपनीयता] पुष्पपूजापनयनं कृत्वा वै प्रत्यहं पुनः | पवित्रकं योजनीयं संप्राप्ते कालवासरे || १०३ || [पवित्रविसर्जनप्रकारविधानम्] अपनीय गुरोर्भक्त्या निवेद्य ब्राह्मणस्य वा | पञ्चकालप्रसक्तस्य तदभावात्तु नारद || १०४ || षट्कर्मसंप्रसक्तस्य विष्णुभक्तस्य तत्त्वतः | विशेषयागं होमान्तं कृत्वाऽचार्यप्रपूजनम् || १०५ || वैष्णवाः पूर्ववत्पूज्या दद्यादाच्छादनं ततः | तेषां चैव यथाशक्ति अभावादथ नारद || १०६ || युग्ममेकं तु वा वस्त्रमेकस्यावश्यमेव हि | उपवीतानि चान्येषां सोत्तरीयाणि योजयेत् || १०७ || [यतीनां सन्निधौ प्रार्थना] प्रार्थना च ततः कार्या यतीनां संयतात्मनाम् | युष्मत्प्रसादसामर्थ्यान्ममास्तु परिपूर्णता || १०८ || क्रियाङ्गानां च सर्वेषां मा मेऽस्तु समयच्युतिः | [अथ यत्यादीनां प्रतिवचनम्] एवमस्त्विति वक्तव्यं सर्वैस्तालसमन्वितम् || १०९ || सांवत्सरः क(त ?)दाऽकृत्यदोषः समयपूर्वकः | नाशमायाति वै क्षिप्रं पवित्रारोहणान्मुने || ११० || [पवित्रशब्दनिर्वचनम्] पाति यस्मात्सदोषं हि पतनात्परिरक्षति | विशेषेण द्विजां स्त्राति पूर्णं कर्म करोति च || १११ || प्. २३९) साधके च क्रियाहीने तस्मादुक्तो मया महान् | याग एष पवित्राख्य उक्तलक्षणलक्षितः || ११२ || [पवित्रकर्मविधानानन्तरं पालनीया विशेषनियमाः] कृते पवित्रके विप्र भक्तैर्मन्त्रक्रियापरैः | कश्चिद्विशेषनियमः पालनीयः प्रयत्नतः || ११३ || यावदेकादशी शुक्ला कार्तिकस्यातिपुण्यदा | भूयस्तदादि विप्रेन्द्र प्रयत्नाद्दिनपञ्चकम् || ११४ || कुर्याद्व्रतपरं किञ्चिद्दानपूजनपूर्वकम् | समस्तदोषशमनं समस्तसुखवर्धनम् || ११५ || मधुमांसमसत्यं च मैथुनं मृगयान्वितम् | तैलाभ्यङ्गं च मत्स्यं च बहुशो बहुभोजनम् || ११६ || यो निरस्यति विप्रेन्द्र साधको वाऽप्यसाधकः | तथाऽस्य भवते सिद्धिरिह लोके परत्र च || ११७ || इत्येतत्साधकानां च क्रियासंपूरणं मया | कथितं मुनिशार्दूल पवित्रं पापनाशनम् || ११८ || मन्त्राराधनसक्तानामचिरात्सिद्धिदं महत् | मन्त्रतन्त्रविहीनानां भक्तानां भुवनत्रये || ११९ || पवित्रस्य फलं शश्वत्प्रददाति समापनात् | नारदः कोऽसौ मन्त्रो जगत्कर्त्तर्यो जप्तव्यः क्रियापरैः || १२० || पूजावसानकाले तु यथावत्कथयस्व मे | श्रीभगवान् [पवित्रकर्मावसाने जप्तव्यतया पूर्वमुक्तो महामन्त्रः] ओङ्कारत्रितयं पूर्वं प्रथमं केवलस्ततः || १२१ || पवित्र ऋतधामाऽथ परा प्रकृतिरेव च | ताललक्ष्मा तदन्ते तु बुद्धिरानन्दचिह्निता || १२२ || आकारेणाङ्कितं दद्याद्रेफं च तदनन्तरम् | केवलोऽथ यकारश्च शास्ता तद्वद्द्विजोत्तम || १२३ || त्वां प्रपन्नोऽस्मि तदनु रक्षरक्ष पदान्वितम् | ततो मकारमादाय व्योमेशानन्दभूषितम् || १२४ || प्. २४०) स(श?)र्ववज्रद्वयञ्चान्ते दमनो विक्रमीयुतः | नृसिह्मः सिद्धिदश्चान्तो यकारस्त्र्यश्रभूषितः || १२५ || हलायुधोऽप्यकारस्थो विसर्गेण विभूषितः | ततः सकारमादाय वरुणस्थस्ततोऽनलः || १२६ || सकारश्च मकारश्च सुसूक्ष्मस्तदनन्तरम् | ओंयुक्तो विबुधाद्यस्तु वकारो विग्रहान्वितः || १२७ || गकारोऽथ यकारस्थ आकारेण विभूषितः | तृप्तिं च वरुणारूढमुद्धरेत्कालपावकम् || १२८ || सकारः केवलश्चाथ परा संवित्ततोऽनलः | गकारोऽथ सकारश्च पारूढश्चानलः स्मृतः || १२९ || एकारेणाङ्कितश्चैव शान्तोऽथ वरुणः स्थितः | रेफं च केवलं दद्यात्सर्वशक्तपदं ततः || १३० || सर्वाधारपदोपेतं सर्वान्तर्बहिरेव च | स्थितेवर्णद्वयं दद्यात्सर्ववर्णद्वयं ततः || १३१ || परां प्रकृतिमादाय रेफं च तदधो न्यसेत् | इष्टेनाप्यङ्कयेत्तच्च यकारं चोद्धरेत्ततः || १३२ || आकारेण समायुक्तमेकदंष्ट्रमथोद्धरेत् | गकारं तदधो दद्यादाकारं च ततो मुने || १३३ || इकारेणाङ्कितं दद्यान्नरं तदनु नारद | द्विधा मकारं तदनु पूरयेति पदं ततः || १३४ || सर्वाणि पदमादाय ङकारस्तदनन्तरम् | उत्तमं तदधो न्यस्याद्द्विधा नारायणं ततः || १३५ || आकारेणाङ्कयेत्पूर्वमिकारेण परं द्विज | द्विधा मकारस्तदनु प्रकाशय पदं द्विधा || १३६ || सर्वाणि करणानीति पदं कालं ततो द्विधा | स्वात्मलाभे पदं चाथ नियोजय पदं द्विधा || १३७ || भगवंस्त्र्यक्षरमिति त्र्यक्षरं भवहेति च | भूतात्मानमथादाय तदधस्थं गदाधरम् || १३८ || प्. २४१) गोपनेनाङ्कितं मूर्ध्नो रेफं वै योजयेत्ततः | वैराजोपरिसंस्थं च ओंकारेणाङ्कयेच्च तम् || १३९ || व्योमेशाढ्यो हकारश्च शङ्खश्चानन्दभूषितः | आदाय चञ्चलं विप्र ईश्वरं तदधो न्यसेत् || १४० || आनन्देनाङ्कितं कुर्याज्जिते पाणिपदं ततः | चतुरर्णं तु संयोज्य मकारं च ततो न्यसेत् || १४१ || व्योमेशाकारसंभिन्नं सत्यं तदनु चोद्धरेत् | तदन्तेऽभयदं न्यस्य गकारं तदनन्तरम् || १४२ || व्योमेशभिन्नो वैकुण्ठो वाराहस्त्विनभूषितः | शार्ङ्गभृद्वरुणारूढो न्यस्यो व्योमेशचिह्नितः || १४३ || संस्कारोऽथ(?)यकारश्च लिप्तोऽस्मि त्र्यक्षरं पदम् | सकारोऽथ मकारश्च यकारस्तदनन्तरम् || १४४ || ततो धरेशमादाय ओंकारेण विभूषितम् | पकारश्च वकारश्च लक्षणं केवलास्त्वमी || १४५ || विश्वभावकमादाय कमलोपरिसंस्थितम् | शिरसाऽविग्रहाख्येन वर्णेन परिभूषितम् || १४६ || नकारं केवलं चाथ पदं निर्मलमित्यथ | मापादय पदं दद्यात्सकलेति पदं द्विज || १४७ || उद्दामस्थं गकारं तु लकारं केवलं ततः | आदिदेवान्वितः पन्था रामोपेतश्च माधवः || १४८ || पकारश्च तकारश्च यकारोऽविग्रहान्वितः | द्विधा जहि पदं देयं कालं त्र्यश्रेन चाङ्कितम् || १४९ || चतुर्गतिसमारूढं वैराजमथ योजयेत् | आनन्दाख्येन चाक्रान्तं न्यसेद्रेफमतो द्विज || १५० || वैराजोपरिसंस्थं तु सोमेशाख्यं स्थितं पुनः | पदं तु मानसं तेदं(दोषं?) दद्यात्पञ्चाक्षरं द्विज || १५१ || वाचिकांस्त्र्यक्षरं चातो दुरुक्तान् कायिकांस्ततः | षडक्षरं कुवृत्तीन्वै त्र्यक्षरं तदनु न्यसेत् || १५२ || प्. २४२) परमेश्वरशब्दं तु दद्यात्पञ्चाक्षरं मुने | ततः परममूर्तौ(र्ते?)च प्रसीद पदमेव च || १५३ || मे प्रपन्नस्य च पदं न्यसेत्पञ्चाक्षरं मुने | आदेशाच्छलविध्वंसी इकारेण विभूषितः || १५४ || रामोपेतं नरं दद्यान्माधवं तदधो न्यसेत् | भिन्धि संसारमिति च दद्यात्पञ्चाक्षरं मुने || १५५ || दकारं भुवनारूढं विसर्गेण समन्वितम् | विश्वभावनमादाय केवलं च तदन्तगम् || १५६ || उद्धरेद्द्विजशार्दूल शाश्वतं तदनन्तरम् | व्योमेशानन्तसंभिन्नं वामनं प्रोद्धरेत्ततः || १५७ || पन्थानं माधवारूढं व्योमेशानन्तभूषितम् | ककारश्चैव रेफश्च द्वावेतौ भुवनोपरि || १५८ || एकारेणाङ्कितः कालो वैराजो रामभूषितः | सर्वेभ्योऽनुग्रहं चैव पदं सप्ताक्षरं ततः || १५९ || ज्ञानात्मनो पदं दद्यात्पुरुषोत्तमसंयुतम् | महातमः प्रविष्टस्य पदमष्टाक्षरं त्विदम् || १६० || ---------------मादाय जगद्योनिविभूषितम् | विज्ञानालोकशब्दं तु प्रदाने त्र्यक्षरं पदम् || १६१ || हकारञ्च मकारं च सर्वदेहमथोद्धरेत् | क्रमात् त्रयाणां योक्तव्या ना(रा?)मोद्दामोऽपि विक्रमी || १६२ || भकारश्च वकारश्च व्यापकः केवलास्त्वमी | रारूढः पद्मनाभस्य(श्च?)स्रग्धरो रामभूषितः || १६३ || हकारश्च तकारश्च पुण्डरीकश्च केवलः | वैराजस्थोऽथ कमलश्शङ्खस्त्र्यश्रेण चाङ्कितः || १६४ || परमात्माऽथ सूक्ष्मस्थः पुण्डरीकश्च केवलः | रामस्ततस्तकारस्थः सूक्ष्मस्थश्चामृतस्ततः || १६५ || कालश्चैकारसंभिन्नस्समुद्धरपदं ततः | अजितस्तु पदं त्र्यर्णं मम जन्मपदं द्विज || १६६ || प्. २४३) केवलश्च ततो ह्रस्वो नकारस्त्रासनस्थितः | त्र्यैलोक्यैश्वर्यदोपेतो घातयेति पदं द्विधा || १६७ || ज्ञानैश्वर्य एदं दद्याल्लीलासक्तपदं त्वनु | पद्मनाभश्च रारूढः कमलो[ऋ]तथात्म(धाम?)गः || १६८ || इष्टोपेतस्तु कमलो वैराजं भुवनोर्ध्वगम् | केवलः पद्मनाभस्तु धन्वी चानङ्गभूषितः || १६९ || हकारश्च नकारश्च वकारो रामभूषितः | आह्लादस्थं ततो भानुं मदनेन समन्वितम् || १७० || त्र्यैलोक्यैश्वर्यदोपेतं परमात्मानमुद्धरेत् | स्रग्धरं वरुणारूढं त्र्यैलोक्यैश्वर्यदान्वितम् || १७१ || मम त्राता पदं योज्यं सकलेति पदं ततः | जकारश्च नकारश्च शरणेति पदं ततः || १७२ || शरणागतोऽक्षरं(?)दद्यात्पदं विप्र षडक्षरम् | त्र्यश्रान्वितं च वैराजं कुरुवीप्सापदं ततः || १७३ || दकारं केवलं शङ्खं गोपनेनाङ्कितं न्यसेत् | नकारं च द्विधा दद्यादन्त्यं वै गोपनाङ्कितम् || १७४ || देयो भुवनपालश्च सकारः शङ्खसंस्थितः | पन्था गोपनसंभिन्नः केवलः सर्वरोधकः || १७५ || पुण्डरीकाक्षशब्दं तु परमं त्र्यक्षरं पदम् | पदं कराणि(कारुणि?)केत्युक्त्वा ततो भक्तजनेन(ति ?) च || १७६ || पदं वत्सलमादाय पिण्डभावनसंयुतम् | विश्वात्मा च ततः शब्दं विश्वेश्वरपदं ततः || १७७ || हृषीकेशपदं दद्यान्मोक्षलक्ष्मीपदं ततः | पद्मनाभश्च रेफस्थो दकारः केवलस्ततः || १७८ || भगवन्सर्वमन्त्रात्मन् पदमष्टाक्षरं शुभम् | नरस्त्र्यश्रेण संभिन्नस्सर्वमन्त्रपदं ततः || १७९ || केवलं पुण्डरीकं च रेफं वै विष्णुनाऽङ्कितम् | भूयस्तं विक्रमीयुक्तं त्र्यैलोक्यैश्वर्यदान्वितम् || १८० || प्. २४४) नमो नमःपदोपेतं पञ्चधाऽथ त्रिकं न्यसेत् | क्रमेण द्विजशार्दूल कूट(?)सूर्यामृताभिधाम् || १८१ || विसर्गेणाङ्कयेत्पूर्वं व्योमेशेन पदं ततः | तृतीयमौर्वसंज्ञेन चतुर्थं छादनेन तु || १८२ || पञ्चमं योगधात्रा तु योज्यः षष्ठेन नारद | अविग्रहः सप्तमे तु देवदत्तं नियोजयेत् || १८३ || तारकं त्वष्टमे विप्र विष्टरं नवमे ततः | दशमे ऋतधामानमूर्जमेकादशं मुने || १८४ || द्वादशेऽभ्युदयं विद्धि न्यसेद्विष्णुं त्रयोदशे | रामं द्विसप्तमे विप्र विन्यसेत्तदनन्तरम् || १८५ || आनन्दं पञ्चदशमे बीजे तदनु नारद | प्रणवस्सनमस्कोऽन्ते तदन्ते प्रणवः पुनः || १८६ || भूयः प्रणवमादाय भगवत्पदमेव च | ममेति द्व्यक्षरं शब्दं विवेकपदमेव च || १८७ || पकारं केवलं दद्याद्दकारं गोपनाङ्कितम् | ताललक्ष्माणमन्ते तु अप्रमेयोज्झितं मुने || १८८ || समयोत्थानतः शब्दं दोषं ज्ञानाङ्कुशेन वै | पदं सप्ताक्षरं दद्यात्कमलं केवलं ततः || १८९ || विश्वरूपसमारूढं दण्डधारं न्यसेत्ततः | तदन्ते कमलं दद्याद्दण्डधारमथोद्धरेत् || १९० || वृषकर्मा च तदधः अकरालस्ततो द्विज | अखण्डविक्रमी देयस्तदधस्थः प्रतर्दनः || १९१ || शश्वच्छब्दस्ततो विप्र चन्द्रांशुश्छन्दपृष्ठतः | आनन्देनाङ्कितः कार्यो व्योमेशेनाङ्कितेन तु || १९२ || रामाङ्कं स्रग्धरं चाधो मापादय पदं ततः | कालत्र्यश्राङ्कितं दद्यान्नरं रामाङ्कितं ततः || १९३ || अनलं वरुणं चैव केवलं योजयेत्क्रमात् | पुण्डरीकोऽग्निरूपश्च वैकुण्ठस्तु तृतीयकः || १९४ || छन्दस्त्र्यश्राङ्कितो (तं?) योज्यश्च(ज्यंच?)न्द्रांशुं प्रोद्धरेत्ततः | छन्दःपतिसमारूढमानन्देनाथ चाङ्कयेत् || १९५ || प्. २४५) गकारं केवलं दद्याद्वैकुण्ठं व्योमराड्युतम् | पूजयेति वदेद्वीप्सां सूर्यं तदनु चोद्धरेत् || १९६ || सामदाम(फाठ?)कमस्यान्ते दीप्तिमन्तमनन्तरम् | उत्फुल्लनयनश्चान्ते चतुर्णां योजयेत्क्रमात् || १९७ || त्र्यैलोक्यैश्वर्यदं मूर्ध्नि प्रज्ञाधारमथासने | ततो झषं समादाय ज्वालारूढं तु नारद || १९८ || व्योमेशेन समायुक्तं धर्मांशुं प्रोद्धरेत्ततः | तस्यासने तु लिङ्गात्मा योजनीयोऽवसानतः || १९९ || अप्रमेयोज्झितः स्रग्वी आधेयश्चाथ लाङ्गली | आसने भगवानस्य वैराजस्तस्य पूर्वकम् || २०० || द्विधाऽनलं समुद्धृत्य न्यस्यस्ताभ्यामथ क्रमात् | लाङ्गली विश्वरूपश्च व्यापी बाह्यात्तु मस्तके || २०१ || प्रथमस्यासने योज्यं नाम्ना वर्णं प्रसारणम् | दीर्घघोणं द्वितीयस्य योजयेत्तदनन्तरम् || २०२ || अथानलं द्विजादाय तदधः सामफाठकम् | अशेषभुवनाधाररूढं कृत्वाऽस्य मूर्धनि || २०३ || ऐश्वर्यसंवृतं व्योम न्यसेदेकं द्विधा मुने | ततोऽनलं समादाय सूर्यं न्यस्येदधस्ततः || २०४ || अस्य चाधोऽनलं चोर्ध्वे व्योमचैरावणस्थितम् | ततस्तु रेफमादाय झषोपरि गतं मुने || २०५ || तदधोपरि तेजस्वी तदधो ह्यनलं पुनः | लोकेशोपरिसंस्थं तु अंकारश्चास्य मूर्धनि || २०६ || पट्कारद्वितयं चान्ते केवलो लाङ्गली ततः | रामाङ्कितो दण्डधरः स्रग्वी तेनैव चाङ्कितः || २०७ || महामन्त्रेति च पदं शब्देनेति पदं ततः | विघ्नोऽयमिति वै देयं समयेति पदं ततः || २०८ || दोषहृद्दन्त(वृन्दं न ?)दन्ते तु अविद्यानिचयं ततः | बधरीभूतमिति वै शीघ्रं कुरु कुरु द्विज || २०९ || ततः प्रणवमादाय सूर्यो योज्यस्ततो मुने | प्. २४६) सूपर्णं च तदन्ते तु प्राणस्तदनु नारद || २१० || कूटस्तदवसाने तु सर्वलोकेशसंस्थितः | व्योमेशभूषितश्चैव भगवन्मे पदं ततः || २११ || संपूर्णे च पदं दद्याद्दानवर्णयुतं ततः | कर्मणिशब्दमथ च संपादय पदं द्विधा || २१२ || तदन्ते कौस्तुभपदं ओंभगवन्पदं ततः | ततश्चामृतमूर्ते वै समस्तपदमेव हि || २१३ || पदं मन्त्रगणं चातो यकारः केवलस्ततः | नारायणः प्रधानस्थश्शान्तिदः केवलस्ततः || २१४ || नरोऽथ भुवनारूढो रारूढोऽथ गदाधरः | ओतदेहाङ्कितप्राणश्शङ्खस्थश्चाथ शान्तिदः || २१५ || व्योमेशयुक्तो वैराजः स्रग्धरः केवलस्ततः | ताललक्ष्मा तदन्ते तु तृप्तिं च तदधो न्यसेत् || २१६ || तस्याप्यधो वराहं तु पिण्डोऽयं गोपनाङ्कितः | नारायणोऽथ चैकाकी भूयस्स दमनोर्ध्वगः || २१७ || आदिदेवेन चाक्रान्तो मन्दरोऽथाङ्कुशस्थितः | औकारसंयुतः स्रग्वी त्र्यश्रयुक्तोऽथ दीप्तिमान् || २१८ || केवलश्च ततः पन्थास्सन्तर्पयपदं द्विधा | सोमोऽथ वरुणारूढो द्विधा देयश्च नारद || २१९ || व्यापी चान्द्री तथाऽनन्दो योज्यस्तदनु वै द्वयोः | वराहोऽथामृतस्थस्तु तदधः पुरुषेश्वरः || २२० || उद्दामो ह्यथ तस्याधो व्यापी चान्द्री च मूर्धनि | एतदेव पुनर्दद्याद्भुवनार्णेन वर्जितम् || २२१ || विष्णुनाऽलङ्कृतं किं तु सानन्दममृतं ततः | तदधश्चामृताधारं शङ्खं तस्याप्यधो न्यसेत् || २२२ || विश्वाप्यायकरानन्दं त्रैलोक्यैश्वर्यदान्वितम् | परमेश्वरसंयुक्तं न्यसेत्सोममथ द्विधा || २२३ || वरुणो भूधरोपेतस्त्वग्निरूपोऽथ केवलः | दण्डधारस्ततो देयः प्रणवेनाङ्कितो मुने || २२४ || प्. २४७) नमो नमस्ततः स्वाहा मन्त्रोऽयं त्रिदशार्चितः | शतानि पट् च वर्णानां वर्णा द्वादश च द्विज || २२५ || अर्धाक्षराणि वै पञ्च इत्येतत्कथितं मुने | [अस्य महामन्त्रस्य प्रशंसा] मन्त्रोऽयं सूचितः प्राग्वै रक्षणीयः प्रयत्नतः || २२६ || छिन्नानामपि भिन्नानां मन्त्राणां चारुरूपिणाम् | एषा(षां?) मन्त्रवरः श्रेष्ठस्सर्वेषामपि पूरयेत् || २२७ || तेजसाऽपि च वीर्येण सौम्यत्वेन सदैव वा | समस्तदोषशमनो विघ्नविध्वंसकृन्महान् || २२८ || मन्त्रोऽयं मुनिशार्दूल गोपनीयः प्रयत्नतः | सामान्यं साधकानां च सच्छासननिषेविणाम् || २२९ || अनेकवक्त्रनयनमनेकाङ्घ्रिकरान्वितम् | अनेकाद्भुतदातारमनेकाभरणभूषितम् || २३० || अनेकगन्धपुष्पाढ्यमनेकायुधधारिणम् | अनेकदीप्तनयनमनेकफलभूषितम् || २३१ || अनेकमन्त्रकोटीभिस्संस्मरेत्सेवितं सदा | यस्तु नैमित्तिके यागे नित्ये वानन्यमानसः || २३२ || सोऽचिरात्प्राप्नुयात् सिद्धीर्नावसीदति कर्हिचित् | इति श्रीपाञ्चरात्रे जयाख्यसंहितायां पवित्रकविधानं नामैकविंशः पटलः || २१ || अथ वैष्णवाचारलक्षणं नाम द्वाविंशः पटलः नारदः [यतिप्रभृतीनां वैष्णवानांस्वरूपप्रश्नः] श्रोतुमिच्छामि भगवन्वैष्णवानां च लक्षणम् | सर्वेषां यतिपूर्वाणामाचारं च विशेषतः || १ || दानं प्रदानं द्विविधं येषामुक्तं त्वया फलम् | तानहं तु कथं नाम वेद्मि वै लक्षणं विना || २ || श्रीभगवान् [भागवतधर्मैकनिष्ठानां साम्येऽपि भेदे कारणम्] भगवद्धर्मतन्त्राणां पञ्चकालनिषेविणाम् | प्. २४८) अप्रतिग्राहकाणां च कणभिक्षाभिवर्तिनाम् || ३ || बाह्याभ्यन्तरतुल्यानां श्रद्धासंयमसेविनाम् | नारायणैकनिष्ठानां येऽस्मिन्जाता महाकुले || ४ || ऊनाधिकेन विप्रेन्द्र कर्मणाऽनुष्ठितेन च | कालह्रासवशाच्चैव वैषम्यमुपयान्ति च || ५ || [यतीनां लक्षणम्] संस्कृताश्च निषेकाद्यैः पित्रा वा गुरुणा त्वनु | स्वयं विवेकभावस्था ब्रह्मचारिगुणैर्युताः || ६ || सर्वभूतस्थितं विष्णुं पश्यन्त्यमलया धिया | सर्वे भूतास्तदन्तस्था भावयन्तीति सर्वदा || ७ || कर्मणा मनसा वाचा यजन्त्येकमधोक्षजम् | आद्यद्विजेन्द्रवेश्मभ्यस्तदभावान्महामते || ८ || षट्कर्मरतविप्रेभ्यो नित्यं चायाचितेन तु | सिद्धान्नेन च वर्तन्तो मुण्डितश्मश्रुमस्तकाः || ९ || काषायवासोधर्त्तारो दण्डमात्रपरिग्रहाः | ते विप्रा यतयः शुद्धाः सत्वस्था वैष्णवाः स्मृताः || १० || [एकान्तिलक्षणम्] भ्रान्त्वा मिक्षां च षट्कर्मनिरतेभ्यस्तु सत्कृताम् | अपरिग्रहवान्यो वै तया संपूजयेत्प्रभुम् || ११ || पुमान्गोप्तारमव्यक्तमष्टाङ्गविधिना महत् | गुणिना सह शिष्येण वसत्येको विचारधीः || १२ || कुलक्रमेणाधिकारी स एकान्तीह वैष्णवः | [वैखानसलक्षणम्] यः परिग्रहवान्विप्रः पूजयेत्परमेश्वरम् || १३ || याचितेन द्रिजेंद्राच्च प्राप्तेनायाचितेन तु | धनेन क्षत्रियाद्वैश्यात्कुटुम्बमपि पालयन् || १४ || विद्धि वैखानसः सोऽपि जटी छत्री सिताम्बरः | [कर्मसात्त्वतस्य लक्षणम्] मुख्यत्वेन क्रियार्थं यः कुटुंबस्य च पालने || १५ || प्. २४९) आत्मनो भरणे चापि इत्यु(उद्यु?)क्तश्चोपसर्पति | वृत्त्यर्थमपि राजानं स विप्रः कर्मसात्त्वतः || १६ || [शिखिनो लक्षणम्] स्फुरत्यविरतं यस्य वैष्णवं यजनं हृदि | प्राधान्येनाथ पित्र्यादि तदर्थं कृषिपूर्वकम् || १७ || समाचरति वै कर्म शिखी साक्षाद्विजोत्तमः | मययपेक्षावशेनैव यद्यप्युत्कृष्टतां गतः || १८ || तथापि चातुराश्रम्यं सर्वेषां विहितं सदा | [वैखनसादिभ्यो वैष्णवेभ्यो भगवत्पूजनशेषभूतवृत्तिप्रदानां फलविशेषः] भगवत्पूजनार्थं तु त्रणायां यः प्रयच्छति || १९ || मठं सायतनं कृत्वा वृत्तिपूर्वमकण्टकम् | दासीकर्मकरोपेतं शुद्धवेदवरान्वितम् || २० || ते यान्ति भगवत्स्थानं भक्तानां सदनं महत् | [गृहस्थेभ्यो वैष्णवेभ्यो ग्रामादिदाने फलम्] भगवद्यजनार्थं वा सात्त्विकेन तु चेतसा || २१ || मठायतनभिन्नं च ग्रामभूद्रविणं महत् | गृहाश्रमरतानां च वैष्णवानां निवेदयेत् || २२ || न्यायोपायविधिप्राप्तं यस्स मोक्षमवाप्नुयात् | [ब्राह्मणादन्यतो वृत्तिग्रहणप्रतिषेधः] अलाभाच्चैव भिक्षाणामसामर्थ्यात्तथाऽत्मनः || २३ || स्वकर्मणि ह्यलोपार्थं पुत्रादेर्भरणाय च | अत्यापद्यपि जातायां कुटुम्बी वैष्णवो द्विजः || २४ || ब्राह्मणादेव गृह्णीयाद्वृत्तिं देवमठाश्रिताम् | केवलां ग्रामपूर्वां वा याचितायाचितात्तथा || २५ || आप्रभातान्निशान्तेन कर्मणा वैष्णवेन च | क्रियमाणेन तदुत तदर्थमघमेति वै || २६ || इत्येतद्यतिपूर्वाणां वैष्णवानां च लक्षणम् | कथितं मुनिशार्दूल आप्तादीनामथो शृणु || २७ || [आप्तलक्षणम्] ये यजन्ति क्रमाद्देवं पञ्चकाल्येन कर्मणा | प्. २५०) द्विजातीनां चतुर्णां तु अधिकारं ददत्यपि || २८ || शुद्धे तु भगवन्मार्गे सत्त्वस्थास्सात्त्वताश्च ते | असंकीर्णा द्विजश्रेष्ठ ब्रह्मरुद्रेन्द्रपूर्वकैः || २९ || विशेषदेवतायागैरमुख्यैर्नातिनिर्मलैः | वासुदेवं विना [चातुरात्म्यं त] त्प्रभवादिना || ३० || संन्यासकर्म (कर्मसंन्यास ?) योगेन फलसंपद्विनैव हि | वेदान्तविधि(न्तार्थवि ?)शेषज्ञाश्चतुर्णामुपरि स्थिताः || ३१ || मोक्षार्थमपि विप्रेन्द्र स्थितास्तेऽञ्जलिकारिणः | प्रतिभात्यधिकं येषां यत्स्यात्संस्थापने हरेः || ३२ || धनं समार्ज्य यत्नेन प्रतिष्ठामचरन्ति ये | वैष्णवीं भक्तियुत्केन चेतसा कीर्तयन्ति च || ३३ || भगवद्भाविनो विप्रा इत्याप्तास्समुदाहृताः | [अनाप्तलक्षणम्] वर्णधर्ममनुज्झित्य ह्याप्तादिष्टेन कर्मणा || ३४ || यजन्ति श्रद्धया देवमनाप्तास्ते प्रकीर्तिताः | [आरम्भिलक्षणम्] विना तेनार्थसिध्यर्थं विश्वात्मानं यजन्ति ये || ३५ || आरम्भिणस्ते बोद्धव्या वैष्णवा ब्राह्मणादयः | [संप्रवर्तिलक्षणम्] श्रद्धया ये प्रवर्तन्ते स्वयं संपूजने हरेः || ३६ || अमार्गेण तु विप्रेन्द्र विद्धि तान्संप्रवर्तिनः | लिङ्गैरेतैस्तु बोद्धव्यास्सदैवाप्तादयो मुने || ३७ || अथातो योगिपूर्वाणां वैष्णवानां समासतः | विप्रादिमौद्गलान्तानां लक्षणं चावधारय || ३८ || [योगिनां लक्षणम्] शययासनपथिस्थश्च हृद्गतं संस्मरेत्प्रभुम् | निष्कलादिप्रभेदेन अथवायतने हरेः || ३९ || प्. २५१) निमीलिताक्षोपविष्टस्समाधिं चाभ्यसेत्सदा | नमो नारायणायेति वासुदेवेति वा वदेत् || ४० || कर्मणा मनसा वाचा नानिष्टं कस्यचित्स्मरेत् | लिङ्गैरेतैस्तु बोद्धव्या भगवद्योगसेविनः || ४१ || [जपनिष्ठानां लक्षणम्] यो नु शुद्धश्शान्तमना दण्डी काषायवस्त्रभृत् | भगवद्भाविजन्तूनां साभिलाषं निरीक्षते || ४२ || पौत्रदीपकपद्माक्षस्फाटिकेनामलेन वा | गणित्रेण करस्थेन भजमानो जपेद्धरिम् || ४३ || मनसा मुनिशार्दुल विष्णोरर्चापरः स्थितः | जपेदुपांशुना मन्त्रमादराद्वा स्तुतिं पठेत् || ४४ || जपनिष्ठं तु तं विद्धि वैष्णवे शासने स्थितम् | [तापासलक्षणम्] यत्किञ्चिद्व्रतमातिष्ठेत्तत्तद्भगवदाश्रितम् || ४५ || चान्द्रायणपराकादीनेकादश्यादिकं चरेत् | सदैवायतने विष्णोस्तदभावे गृहस्थितः || ४६ || उत्तिष्ठन्संस्मरेद्विष्णुमुपविष्टस्तथैव च | मासोपवासी भिक्षाशी विष्ण्वायतनलोलुपः || ४७ || व्रतान्ते पत्रपुष्पाद्यैः पूजयेद्भगवन्मयान् | औदकीमाचरेच्छुद्धिमेकद्वित्रिजलाप्लवः || ४८ || क्षालनं वसनाभ्यां वा ताभ्यां वा परिवर्तनम् | समीपवर्तिनां(नो ?)नित्यमुद्धोधयति यत्नतः || ४९ || नक्तोपवासपूजायामेकादश्यां प्रयत्नतः | यस्त्वेवमादि सततमाचरेत्प्रयतात्मवान् || ५० || वैष्णवस्तापसः प्रोक्तः पयोमूलफलाशनः | [शास्त्रज्ञलक्षणम्] पुराणं धर्मशास्त्राणि इतिहासांश्च वैष्णवान् || ५१ || वेत्ति वेदान्तसिद्धान्तान् शृणुयाद्व्याकरोत्यपि | प्रणष्टपाठवाक्यानां कृत्वा वस्तुविचारणम् || ५२ || प्. २५२) तज्ज्ञैस्सह प्रयत्नाद्वै ह्यागमं संस्करोति यः | अतन्द्रितः सदा विद्धि तं शास्त्रज्ञं हि वैष्णवम् || ५३ || [शास्त्रधारकलक्षणम्] श्रद्धया यः समुच्चित्य यत्र कुत्रचिदागमम् | ब्रह्म ध्यायंस्तथा पश्चात्सन्धारयति यत्नतः || ५४ || पूजयत्यर्घ्यपुष्पाद्यैश्शास्त्रापीठं क्रमेण तु | ददाति वैष्णवानां च गोपयत्यकृतात्मनाम् || ५५ || अन्यदर्शनभत्कानां विद्धि तं शास्त्रधारकम् | इत्येतत्कथितं विप्र वैष्णवानां च लक्षणम् || ५६ || [उक्तलक्षणलक्षितानां वैष्णवानां यागपूजार्हत्वविधानम्] यजस्व पूजयस्वैतान् भक्त्या भावेन नारद | समुद्दिश्य निमित्तं यच्छ्राद्धं यजति वैष्णवे || ५७ || यत्यादिपञ्चकेवाऽथ ह्यनाप्ते ब्राह्मणे द्विज | तस्मिन्नञ्जलिकारे वाऽरम्भिणेऽथ प्रवर्तिने || ५८ || तदक्षयं पितॄणां तु विशेषान्मन्त्रसंस्कृतम् | षडेतेऽर्हाश्च विप्रेन्द्र पितृकर्मणि सर्वदा || ५९ || जपहोमव्रतादीनामासत्काः षडिमे त्वपि | दानकर्मणि दिव्ये च प्रायः क्षत्रादयः स्मृताः || ६० || भवन्ति यादृशाश्चैव तापसा जपिनस्तु वा | दैवे पित्र्ये द्विजश्रेष्ठ योगी चार्हति सर्वदा || ६१ || यद्वयः पूर्णमासीत्तु किं तु योगपरो यदि | तस्य ब्रह्ममयो देहो विशेषाद्वैष्णवस्य च || ६२ || तस्मात्स पूजनीयो हि यथाशक्ति च सर्वदा | दुर्लभा भगवद्यागा भाविनो भुवि मानवाः || ६३ || तद्दर्शनात्तदालापात्सुलभं शाश्वतं पदम् | नारदः एको हि श्रूयते देव कालो लोके न चापरः || ६४ || पञ्च कालास्त्वयोद्दिष्टाः किमेतन्मेऽत्र संशयः | प्. २५३) श्रीभगवान् [पञ्चकालभेदः तत्र कर्तव्यकर्मभेदश्च] एकस्यैव हि कालस्य वासरीयस्य नारद || ६५ || आप्रभातान्निशान्तं वै पञ्चधा परिकल्पना | पृथक्कर्मवशात्कार्या न काला बहवः स्थिताः || ६६ || नारदः एककालस्थितानां च कर्मणां लक्षणं वद | परिज्ञातैस्तु यैस्सम्यक्कृतकृत्यो भवाम्यहम् || ६७ || श्रीभगवान् ब्राह्मान्मुहूर्तादारभ्य प्रागंशं विप्र वासरे | जपध्यानार्चनस्तोत्रैः कर्मवाक्चित्तसंयुतैः || ६८ || अभिगच्छेज्जगद्योनिं तच्चाभिगमनं स्मृतम् | ततः पुष्पफलादीनामुत्थायार्जनमाचरेत् || ६९ || भगवद्यागनिष्पत्तिकारणं प्रहरं परम् | तदुपादानसंज्ञं वै कर्मकालपदाश्रितम् || ७० || ततोऽष्टाङ्गेन यागेन पूजयेत्परमेश्वरम् | सार्धं तु ? प्रहरं विप्र इज्याकालस्तु स स्मृतः || ७१ || श्रवणं चिन्तनं व्याख्या ततः पाठसमन्विता | अध्यायसंज्ञं तं विद्धि कालांशं मुनिसत्तम || ७२ || दिनावसाने संप्राप्ते पूजां कृत्वा समभ्यसेत् | योगं निशावसाने च विश्रमैरन्तरीकृतम् || ७३ || पञ्चमो योगसंज्ञोऽसौ कालांशो ब्रह्मसिद्धिदः | नारदः श्रुतो मयाऽखिलः पूर्वं भगवद्याग उत्तमः || ७४ || तस्याङ्गानि विभागेन श्रोतुमिच्छाम्यहं पुनः | श्रिभगवान् अन्तःकरणयागादि यावदात्मनिवेदनम् || ७५ || तदाद्यमङ्गं यागस्य नाम्नाऽभिमनं महत् | प्. २५४) पूजनं चार्घ्यपुष्पाद्यैर्भोगैर्यदखिलं मुने || ७६ || बाह्योपचारैस्तद्विद्धि भोगसंज्ञं तु नारद | मध्वाज्याक्तेन दध्ना वै पूजा च पशुनाऽपि वा || ७७ || तत्तृतीयं हि यागाङ्गं तुर्यमन्तेन पूजनम् | निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने || ७८ || संप्रदानं तु तन्नाम यागाङ्गं पञ्चमं स्मृतम् | वह्निसन्तर्पणं षष्ठं पितृयागस्तु सप्तमः || ७९ || प्राणाग्निहवनं नाम्ना त्वनुयागस्तदष्टमम् | इत्येतत्कथितं सम्यक् यत्त्वया परिचोदितम् || ८० || प्रददात्यचिराद्यद्वै तन्निष्ठानां परं पदम् | इति श्रीपाञ्चरात्रे जयाख्यसंहितायां वैष्णवाचारलक्षण नाम द्वाविंशः पटलः || २२ || यहा तक भेजा गया है अथ श्राद्धविधानं नाम त्रयोविंशः पटलः नारदः विधानमादिश विभो निमित्तं श्राद्धकर्मणि | दीक्षितैर्भगवद्भत्केः कथं कार्यं क्रियापरैः || १ || श्रीभगवान् [दीक्षितैरपि श्राद्धस्यावश्यं कर्तव्यता] कर्मणा मनसा श्राद्धं यत्नात्कार्यं सदैव हि | सऋणैरऋणैः सर्वैंर्यावद्देहान्तिमं द्विज || २ || विविक्तं धर्ममेतावत्सिद्धानामपि देहिनाम् | [सिद्धैरपि लोकसंग्रहार्थं धर्मस्य कर्तव्यता] नाचरेद्योऽपि वै सिद्धो लौकिकं धर्ममग्रतः || ३ || उपप्लवमसिद्धास्तु कुर्वन्त्यविरतं महत् | उपप्लवाच्च धर्मस्य ग्लानिर्भवति नारद || ४ || विवेकज्ञैरतस्तस्माल्लोकाचारो यथास्थितः | आदेहपाताद्यत्नेन रक्षणीयः प्रयत्नतः || ५ || [धर्मेषु श्राद्धस्य श्रैष्ठ्यम्] आचाराणां हि सर्वेषां धर्माणां मुनिसत्तम | श्राद्धं मे रोचते यादृक् तादृक् न परमं तु वै || ६ || प्. २५५) [श्राद्धनिमित्तभूतकालादिनिरूपणम्] तस्य कालं विधानं च यथा तदवधारय | सितासिते च द्वादश्यावमावास्या च पुर्णिमा || ७ || राहुसन्दर्शनं चैव सूर्यसंक्रमणं तथा | श्राद्धं तत्र प्रयत्नेन काम्यं कुर्याच्च भक्तितः || ८ || अष्टकान्वष्टकाभ्यां च श्राद्धपक्षे विशेषतः | पितॄक्षे त्वमावास्यात्रयोदश्योस्तथैव च || ९ || नवान्नप्राशने चैव सुतसंस्कारकर्मणि | गुरोर्वा वं(?) प्रवृद्धे तु तद्भ्रातरि गृहागते || १० || शुद्धेऽर्थे पात्रतो लब्धे तीर्थे वाऽयतने हरेः | प्राप्ते क्षेत्रेऽथ संसिद्धे प्रतिष्ठायां पवित्रके || ११ || वापीकूपतटाकानां वृक्षाणां परिमोक्षणे | गोदानादौ वृषत्यागे व्रतारम्भे तदन्ततः || १२ || शास्त्रश्रवणनिष्पत्तावारम्भे च तहैव हि | वत्सरे वत्सरे विप्र मि(पि !)त्रादीनां कुटुम्बिनाम् || १३ || श्राद्धं कार्यं दीक्षितेन लौकिकीषु तिथिष्वपि | [श्राद्धविधानप्रकारः] पूजयित्वा पुरा देवं तर्पयित्वा हुताशनम् || १४ || प्रागुक्तेन विधानेन ततस्त्वाहूय वैष्णवान् | प्रक्षालिताङ्घ्रीन्स्वाचान्तान् प्रोक्षितानस्त्रावारिणा || १५ || [तत्र आमन्त्रितानां वैष्णवानामासनपरिकल्पनविधानम्] सम्मुरवान्मन्त्रनाथस्य उत्तराभिमुखानपि | आसनेषु विविक्तेषु परिच्छिन्नेषु नारद || १६ || गायत्र्या भस्मरेखासु शङ्कुनाऽस्त्रान्वितेन वा | हृदाऽस्त्रपरिजप्तानि आसनानामथोर्ध्वतः || १७ || सतिलानि च दर्भाणि निक्षिप्याम्बुयुतानि च | [गुरुवर्गे पितृवर्गे मातृवर्गे च तेषां स्थापनप्रकारविधानम् स्थापनीयवैष्णवसङ्ख्याप्रदर्शनं च] गुरोर्वा गुरुवर्गस्य मूलमन्त्रेण नारद || १८ || प्. २५६) प्रतिष्ठाप्यासने पूर्वमेकमादौ तु वैष्णवम् | हृद्युक्तेनाथ तेनैव स्वधा संभूषितेन च || १९ || पितुः पङ्क्यवसाने तु नाम्नाऽन्यमुपवेशयेत् | शिरसा संयुतेनाथ गृहीत्वा पाणिना द्विज || २० || नाम्ना पितामहीयेन प्रतिष्ठाप्यासने परम् | नेत्रे [ण] स्वावसानेन त्र्यक्षेरेण समूर्त्तिना || २१ || प्रपितामहनाम्ना तु वैष्णवं चापरं न्यसेत् | चत्वार एव वै पूर्वं मन्त्रपीठस्य सन्मुखाः || २२ || देवीमन्त्रचतुष्केण मातुर्वास्य कुलस्य वा | अस्त्रेण पितृवर्गस्य उत्तराभिमुखं द्वयम् ? || २३ || [पित्रादौ जीवति तत्स्थाने पितामहादीनां नियोज्यता] विद्यमाने तु पितरि पितुर्योज्यः पितामहः | सत्यां मातर्यपि मुने तत्पितर्यपि तेन वै || २४ || मातुः पितामहो योज्यो मातुर्मन्त्रेण सर्वदा | [वैष्णवानामलाभे सङ्कोचविधानम्] पितृमातृकुलाभ्यां द्वौ वंशकैकमथोभयोः || २५ || [पित्रादिस्थाने वृतानां तेपां देहन्यासविधानं] मनसा मुनिशार्दुल द्वादशार्णेन कल्पयेत् | देहन्यासं च सर्वेषां न्यस्यो हस्ततलेऽस्त्रराट् || २६ || [तेषां ध्यानप्रकारः] सर्वे चतुर्भुजा ज्ञेयाः शङ्खचक्रगदाधराः | किरीटकौस्तुभधरा वैनतेयासने स्थिताः || २७ || प्रोद्यता इव चोद्धर्तुं प्रेतीभूतस्य नारद | [पितणां पाद्यार्ध्यदानविधानम्] ततो हृदयमन्त्रेण अर्घ्यपात्रोदकेन तु || २८ || सिञ्चेत्क्रमेणाङ्घियुग्ममेकैकस्मिन्महामते | मूलमन्त्रेण तदनु पाणिभ्यां तु तिलोदकम् || २९ || [अर्घ्यसंस्रावस्य पितृपात्रेण ग्रहणविधानम्] दत्वा दत्वा समाहृत्य पात्रे ह्यस्त्राभिमन्त्रिते | एकैकस्यापिधायाथ पूज्यत्र्यर्णेन नारद || ३० || प्. २५७) [तन्मध्ये पितॄणां विष्णुरूपाणां ध्यानम्] संस्थाप्य भगवदग्रे तन्मध्ये मनसा स्मरेत् | तान्पितॄन् विष्णुरूपांश्च भासा भास्वरविग्रहान् || ३१ || पितृमन्त्रेण तदनु पितृमातृमयान्पितॄन् | त्रिस्सप्तकुलसंस्थापनोक्तानत्रैव भावयेत् || ३२ || अर्थयित्वा ततोऽनुज्ञां गृहीत्वा शिरसा ततः | पात्रासनस्थितेभ्यस्तु पित्रर्थं यागमाचरेत् || ३३ || [मन्त्रेशसन्निधावभ्यर्थनम्] भगवन्पितृयागार्थं यजामि त्वां विशेषतः | तेषामनुग्रहार्थं तु यागमाहर मेऽच्युत || ३४ || एवं विज्ञाप्य मन्त्रेशं [चरुसाधनम्] चरुं क्षीरेण साधयेत् | संस्कृतेऽग्नौ पुरा यद्यत्सिद्धं तच्चावलोकयेत् || ३५ || प्रोक्षयेदस्त्रमन्त्रेण भक्तं सव्यञ्जनादिकम् | संस्कृतेनाग्निना ताप्य कृत्वा मधुघृताप्लुतम् || ३६ || तिलदर्भान्वितं पश्चात्प्राग्वदाप्यायय निर्दहेत् | सर्वं यत्साधितं किञ्चित् भक्ष्यपानादिभोजनम् || ३७ || चेतसा कल्पयेत्सर्वं पितॄणां तर्पयेत्तु तत् | [साधितेन भक्ष्यभोज्यादिना देवस्य यजनम्] ततस्तेन यजेद्देवमर्घ्यपुष्पादिकेन तु || ३८ || यथा निवेशिताः पूर्वं मण्डलेष्वथ नारद | तेषां तृप्त्यर्थमुद्धृत्य संपूर्णं तु फलादिकैः || ३९ || दधिक्षीरान्नपात्रं तु क्रमादस्योद्धृतं च यत् | अर्घ्यपुष्पैस्तथा धूपलेपनाञ्जनदीपिकैः || ४० || तद्वीर्यमूष्मणा सार्धं तस्मिन्परिणतं स्मरेत् | तेन तं भावयेत्तृप्तमतीव मुनिसत्तम || ४१ || सर्वेषामन्नवीर्यं हि एवं परिणतं नयेत् | प्. २५८) [पितृसन्तर्पणमंत्रः] प्रणवेनामृतेनैव व्योमेशेनान्वितेन तु || ४२ || स्वनाम्ना च स्वधाऽन्तेन ततो नारायणात्मने | तदन्ते तु नमस्कुर्यान्मन्त्रोऽयं पितृतर्पणे || ४३ || [अथाग्नौ होमविधानम्] ततो नारायणाग्नौ तु यायादग्रं च नारद | तभिन्धनेन शुष्केण संबोध्याज्ययुतेन च || ४४ || दक्षिणाग्रान् न्यसेत्तत्र दर्भान्भूयः स्तरोपरि | पूर्ववत्पूजयित्वाऽग्निं पितॄन् तेन तु तत्स्थितम् || ४५ || मन्त्रमूर्तिं यजेत्पश्चाद्बलिदानेन वै पुनः | त्र्यक्षरेण तु मन्त्रेण दद्यादन्नाहुतित्रयम् || ४६ || मध्येऽग्नि मन्त्रनाथस्य मध्याद्बाह्येऽग्निमध्यतः | प्रदक्षिणक्रमेणैव द्वादशाप्याहुतीस्ततः || ४७ || मूर्तिमन्त्रात्तु वर्णेन एकैकेन तु नारद | ओमादिना स्वधाऽन्तेन ततोऽस्त्रेण तथा बहिः || ४८ || [अथ पितृभ्यः पिण्डदानविधानम्] प्रदक्षिणे च प्रागादौ स्तरस्योपरि सोदकम् | दत्वा बल्य(?)ष्टकं चाथ अग्नावग्रे तिलं क्षिपेत् || ४९ || हृन्मन्त्रेण पुरा विप्र पितृभ्यस्तत्र वै क्रमात् | गायत्र्या च स्वनाम्ना वै स्वधायुक्तेन पूर्ववत् || ५० || पाणिना त्वपसव्येन बलिदानं समाचरेत् | तद्वीर्यं पूर्ववत्तेषां पितॄणां परिभावयेत् || ५१ || तिलोदकं ततो दद्यादाद्यन्तेन हृदा द्विज | स्वधाप्रणवयुक्तेन नाम्ना गोत्रान्वितेन च || ५२ || राजाऽथ(?)सगुणध्यानचेतसा भावितेन वै | अग्रतो मन्त्रमूर्तौ तु वह्नावपि ततः क्रमात् || ५३ || [अथ पितॄणामन्नसंविभजनविधानम्] पूजयेदुपविष्टांश्च पुष्पधूपानुलेपनैः | नैवेद्यहुतशेषं च तेषामन्नं विभज्य च || ५४ || प्. २५९) व्यञ्जनादिफलोपेतं यत्किञ्चित्साधितं पुरा | स्वधान्वितेन मूलेन मूर्तिना भूषितेन तु || ५५ || पात्रं पूर्णेन्दुवद्ध्यायेत्तन्मध्ये तं तु संस्मरेत् | मन्त्रेशममृताकारं तृप्तिसंजननं महत् || ५६ || [भुञ्जानेषु पितृषु जपध्यानविधानम्] भुञ्जानेषु तथैतेषु दश दिक्ष्वस्त्रमास्मरेत् | जपेत् ध्यायेच्च मन्त्रेशं नारसिह्मं महामुने || ५७ || [भोजनान्ते दक्षिणादानम्] भक्त्या संप्रीणयद्देवं दद्याच्छक्त्या च दक्षिणाम् | नैवेद्यमपि सन्धार्यं तावदेव हि नारद || ५८ || यावद्भुजिक्रियान्तस्तु तदन्ते प्रतिपाद्य च | [शेषान्नसंविभजनम्] स्वं स्वमेव हि सर्वस्य अन्नस्याभ्यागतस्य च || ५९ || तेषु वा संविभज्यादौ एकं तत्रैव वर्जयेत् | यत्पिताअमहनाम्ना तु हरेः पूर्वं निवेदितम् || ६० || तद्गृहाश्रमिणो दद्यात् जायायां सुतवृद्धये | अथ पूर्णाहुतिं दद्याद्देवदेवं विसृज्य च || ६१ || उपसंहृत्य चैवाग्रे ------------------------------------ | नारदः कव्यं श्राद्धविधानं तु इदं ज्ञातं मया विभो || ६२ || और्ध्वदेहिकसंज्ञं तु ज्ञातुमिच्छामि वै प्रभो | श्रीभगवान् संस्कृत्य वैष्णवं प्रेतं विधिदृष्टेन कर्मणा || ६३ || [प्रेतश्राद्धविधानम्] [तत्र प्रथमेऽहनि कर्तव्यविधिः] ततस्तस्य क्रिया कार्या स्वाश्रमे वा जलाशये | दिक् विदिक् सिह्ममन्त्रं तु सास्त्रं न्यस्य पुरा ततः || ६४ || तदन्तरे कुटिं ध्यायेद्वर्ममन्त्रं स्वमुद्रया | कृतन्यासं ततोऽस्त्रेण प्रोक्षयेदस्त्रवारिणा || ६५ || प्. २६०) उत्तराभिमुखां चुल्लीं तत्रास्त्रेणानलं क्षिपेत् | वर्मणाऽभिनवां स्थालीं क्षालयित्वोपलिप्य च || ६६ || हृदयेनाम्भसाऽपूर्य तेनैव क्षाल्य तण्डुलम् | समारोप्य च संसाध्य गायत्र्या तं चरुं द्विज || ६७ || मधुक्षीराज्यसंमिश्रं सिद्धमुत्तारयेत्ततः | आमूलादस्त्रपर्यन्तैस्तन्मन्त्रैरभिमन्त्र्य च || ६८ || वीक्षमाणो दिशं ह्यग्नेस्ततोऽस्त्रेणोपलिप्य च | मण्डलं भूतले रम्ये केशकण्टकवर्जिते || ६९ || कृत्वाऽर्घ्यपात्रं तदनु प्रोक्षयेत्तज्जलेन तु | तत्रास्त्रेण तिलान् दर्भान्विकिरेन्मध्य(?)मिश्रितान् || ७० || तत्र भद्रासनं चैवावतार्यास्त्राभिमन्त्रितम् | तत्रोपर्यथवा भूमौ मन्त्रपीठं प्रकल्पयेत् || ७१ || निष्कलं लययागेन मन्त्रेशं पूजयेत्ततः | अर्घ्यपुष्पादिना पूर्वं विना न्यासक्रमेण तु || ७२ || वह्निपूजावसानं च शश्वन्नातीव विस्तरम् | हृन्मन्त्रमन्त्रिते पात्रे राजते वाऽथ ताम्रके || ७३ || चरुस्थमुद्धरेदन्नं पात्राभावे च पिण्डवत् | संस्थाप्य भगवत्यग्रे हृन्मन्त्रेण तु नारद || ७४ || ततो नैवेद्यमध्यस्थं हृद्बीजं प्रणवान्वितम् | प्रेतनाम्ना समायुक्तं नमस्कारपदान्वितम् || ७५ || प्रेतरूपानुकारं च ध्यात्वाऽतो देवतात्मना | स्वधाऽन्तेन स्वनाम्ना वै पूजयेत्तदनन्तरम् || ७६ || अर्घ्यपुष्पैस्तथा दीपैर्लेपनाभ्यञ्जनाञ्जनैः | वाससा मधुपर्केण अन्नेन त्वर्हणादिना || ७७ || तर्पणेनाथ मात्राभिः प्रणम्य परमेशवत् | एवं कृत्वा तु मन्त्रेशो निष्कलस्तत्र यः स्थितः || ७८ || लयदेहश्च विप्रेन्द्र तं किञ्चित् खप्लुतं स्मरेत् | ततस्तिलेन मधुना दध्नाऽन्नेनोदकेन तु || ७९ || प्. २६१) पूरयित्वाऽञ्जलिं पात्रं राजतं वाऽर्घ्यसंयुतम् | नैवेद्यस्यापसव्येन परितः प्रक्षिपेद्बहिः || ८० || नमस्कृत्य यथान्यायं क्षान्त्वा चाथावसज्य च | मुद्रया सह मन्त्रेण पूर्वोद्दिष्टेन नारद || ८१ || पूर्णं हृदाऽम्भसा कृत्वा कलशं सतिलं द्विज | नैवेद्यान्नसमायुक्तं ब्राह्मणस्य निवेद्य च || ८२ || गोषु वा तदभावाच्च तदभावे जले क्षिपेत् | ततस्तिलोदकं दत्वा हृन्नाम्ना तु स्वधां सह || ८३ || प्रक्षाल्य पाणिपादं तु आचम्य तदनन्तरम् | संहृत्य पीठन्यासं तु पूजास्थानं द्विजाम्भसा || ८४ || प्लावयित्वोपलिप्याऽथ कृतन्यासो विशेद्गृहान् | पूर्ववत्कृतरक्षस्तु भुञ्जीयात् पावनं लघु || ८५ || तदन्ते नृहरिं ध्यायेद्यथाशक्ति तु संजपेत् | दिनान्तेऽस्त्रेण सिद्धार्थान् क्षिप्त्वा शयनमाचरेत् || ८६ || विधानमेतदखिलमाचर्तव्यं प्रयत्नतः | [द्वितीयदिनमारभ्य यावद्दशमदिनं कर्तव्यविधिः] दिनानि दश मेधावी प्रेतानुग्रहकाम्यया || ८७ || आरभ्य शिरसो यावदस्त्रमन्त्रैस्तु नारद | अथोर्ध्वमनिरुद्धादिवासुदेवावसानकम् || ८८ || दशाहमेवं निर्वर्त्त्य प्राप्ते त्वेकादशे दिने | [एकादशेऽहनि कर्तव्यश्राद्धविधानम्] श्राद्धकर्म तु वै कुर्यात्संपन्ने त्वाह्निके सति || ८९ || तदर्थमभ्यर्थ्य गुरुं गुरुपुत्रं तु वा द्विज | साधकं तदभावात्तु पुत्रकं सामयं तु वा || ९० || प्रागुक्तं यतिपूर्वं वा वैष्णवं त्वेकमेव हि | प्रक्षालिताङ्घ्रि स्वाचान्तं कृत्वा तं संप्रवेश्य च || ९१ || दत्वासनं तु संस्थाप्य उत्तराभिमुखं तु तम् | पूजयेच्च ततो देवं शक्त्यङ्गावयवान्वितम् || ९२ || आचार्यस्य ततो विप्र कुर्यान्मण्डलकं शुभम् | प्. २६२) तत्रासनवरं दद्यात्पूजितं व्याप्तिभावितम् || ९३ || विनिवेश्याथ वै तत्र प्रेतनाम्नाऽभिमन्त्रितम् | पूर्वोक्तेन विधानेन न्यास आवाहनं भवेत् || ९४ || अर्घ्यपाद्ये ततो दद्यान्नामगोत्रेण नारद | पुष्पधूपार्चितं कुर्याद्यथाशक्त्यम्बरादिभिः || ९५ || मृतोपकरणं सर्वं तस्यैव विनिवेद्य च | अनुज्ञां पूर्ववल्लब्ध्वा पित्रर्थं (प्रेतार्थं ?) यागमारभेत् || ९६ || पूर्वोक्तेन विधानेन किञ्चित्तत्रापि चोच्यते | नैवेद्यपिण्डं गायत्र्या निवेद्यामृतगोलवत् || ९७ || ध्यात्वाह्लादकराकीर्णं स्थितं धामत्रयोपरि | तन्मध्ये मूलमन्त्रेण स्वधाशब्दान्वितेन तु || ९८ || मूर्तिं प्रेतमयीं ध्यायेन्नारायणकलोद्भवाम् | लक्ष्म्याद्यमखिलं तत्र लयन्यासं प्रकल्पयेत् || ९९ || तमर्घ्याद्यैरथो भोगैर्मूलमन्त्रेण पूजयेत् | मुद्रां बध्वा जपित्वा च वह्निस्थे चाग्रतो हरेः || १०० || दक्षिणाग्रेषु दर्भेषु एकमेव समाचरेत् | तिलोदकान्तं सकलमाचार्यं भोजयेत्ततः || १०१ || भुञ्जानस्य मुने तस्य अग्रस्थो नृहरिं जपेत् | तद्भोजनावसाने नु मन्त्रपीठस्य चाग्रतः || १०२ || अर्घ्यपात्रेण विप्रेन्द्र भूयो दद्यात्तिलोदकम् | भुक्तशेषं तु सिद्धान्नं गृहीत्वाऽर्घ्योदकान्वितम् || १०३ || भूतानां तर्पणार्थाय विकिरेत्पूर्ववद्बलिम् | संतृप्तस्याग्रतश्चैव हृन्मन्त्रेणामृतेन तु || १०४ || परमेश्वरयुक्तेन नमोऽन्तेनामलादिना | संपन्नमिति संपृष्ट्वा दद्यादाचमनं ततः || १०५ || उच्छिष्टमुपसंहृत्य अस्त्रेणाभ्युक्षयेत्क्षितिम् | भगवत्प्रीणनं कुर्याद्गृहीत्वा दक्षिणां तु वै || १०६ || वह्निस्थस्य तु मन्त्रस्य दद्यात्पूर्णाहुतिं द्विज | हृदयाम्बुजमध्ये तु तेजःपुञ्जप्रभं महत् || १०७ || प्. २६३) मन्त्रेशमुपसंहृत्य पीठपिण्डाग्निमध्यगम् | विधिनाऽनेन वै कुर्यान्मासं मासं महामुने || १०८ || [अथ प्रेतत्वनिवर्तकमाब्दिकश्राद्धम्] वत्सरे चैव निष्पन्ने मासे चैव त्रयोदशे | प्रेतत्वस्योपशान्त्यर्थं पितृश्राद्धं समाचरेत् || १०९ || स्नानाद्यं होमपर्यन्तं कुर्यादादौ द्विजाह्निकम् | संस्कृतेऽग्नौ तु सिद्धेऽग्नौ घृतक्षीरमधुप्लुते || ११० || आहूय भगवद्भक्तानाचार्यांश्च क्रियापरान् | चतुरोदङ्मुखान् न्यस्य पीठन्यासक्रमेण तु || १११ || द्वावन्यौ पूर्ववक्त्रौ च विनिवेश्यासनद्वये | चतुर्णामनिरुद्धाद्यैर्मन्त्रैर्न्यासं समाचरेत् || ११२ || मूलीयमङ्गषट्कं तु ह्येकैकस्याथ विन्यसेत् | आपादान्मूर्धपर्यन्तं द्वाभ्यामस्त्रं तु देहगम् || ११३ || जातियुक्तं तदेवास्त्रं स्वसंज्ञापरिभूषितम् | ताभ्यां षडङ्गन्यासार्थं कृत्वा देहे करे न्यसेत् || ११४ || यदर्थं क्रियते श्राद्धं संज्ञा तस्यानिरुद्धकी | पितुः संज्ञां च विन्यस्य प्रद्युम्नस्यामितात्मनः || ११५ || सङ्कर्षणं तु मन्त्रेशं कल्पयेच्च पितामहम् | प्रपितामहसंज्ञं तु वासुदेवं प्रकल्पयेत् || ११६ || विधिनाथाप्ययाख्येन अर्घ्यपुष्पादिभिर्यजेत् | प्रार्थयित्वा ततोऽनुज्ञां मन्त्रेशं प्रतिमागतम् || ११७ || विभवेनार्चयित्वा तु स्नानाद्येन महामते | चन्दनाभरणस्रग्भिर्वस्त्रैर्धूपैस्तथाऽञ्जनैः || ११८ || दीपेन मधुपर्केण परमान्नेन मात्रया | स्तोत्रमन्त्रनमस्कारैः सुमनोभिरनन्तरम् || ११९ || तमेवानलमध्ये तु सन्निधीकृत्य पूजयेत् | ततोऽस्त्रमन्त्रजप्तेषु पात्रेषूद्धृत्य भक्तितः || १२० || पितृसन्धानसिद्ध्यर्थं नैवेद्यान्नचतुष्टयम् | व्यञ्जनादिसमायुक्तं मध्वाज्यतिलभावितम् || १२१ || प्. २६४) संप्रोक्ष्य चानिरुद्धाद्यैर्मूलमन्त्रेण वै विभोः | संहारक्रमयोगेन एकैकं विनिवेद्य च || १२२ || ततोऽन्नपात्रमेकैकमानयेत्संस्कृतं पुरा | तथारूपं तु तं ध्यायेच्चतुर्धा भेदभावितम् || १२३ || बहुभिन्नाऽन्नशक्तिभ्य उत्तरोत्तरतां गताः | अनिरुद्धादिभेदेन वासुदेवावसानतः || १२४ || रसशक्तिश्च या चासौ साऽनिरुद्धो महामते | प्रद्युम्नो वीर्यशक्तिः स्यात् धृतिशक्तिस्ततोऽच्युतः || १२५ || आनन्दशक्तिर्याऽन्नोत्था वासुदेवस्तु स स्मृतः | एवं स्मृत्वा ततो ध्यात्वा मन्त्रैः स्वैः स्वैः पृथक् पृथक् || १२६ || न्यासमन्नशरीराणां देवानां विद्धि पूर्ववत् | हृदाद्यस्त्रावसानं च एवं मूर्तिमयं द्विज || १२७ || तन्नैवेद्यचतुष्कं तु लोलीभूतं गतं त्वपि | मन्त्रमित्यन्नभेदेन अर्घ्यपात्रादिना यजेत् || १२८ || नामगोत्रादिना प्राग्वद्देवेशं प्रीणयेत्ततः | ततोऽग्निस्थाच्युतस्याग्रे तृप्तस्याज्यादिना पुरा || १२९ || एवमेव चतुर्धा वै कृत्वा चान्नमयीं क्रियाम् | तत्रापि प्रीणनं कृत्वा पितृनाथस्य वै प्रभोः || १३० || त्वदग्रे प्रीतये पीत्वा पितृयागमिदं मया | कृतं मन्त्रात्मने हि त्वां --- स्वधा ओं नमोनमः(?) || १३१ || हृन्मन्त्रेण ततो दद्यादेकैकस्य तिलोदकम् | अग्रतोऽन्नशरीरस्य मन्त्रमूर्त्यात्मनः पितॄन् || १३२ || अथाप्ययेन विधिना अन्नवीर्यमयान्पितॄन् | देवतामन्त्रचैतन्ये शान्तभावं गतान्स्मरेत् || १३३ || कर्मवाङ्मनसाभ्यां च यथा तदवधारय | किञ्चिच्च पूर्वं नैवेद्यादादायान्नं तु पाणिना || १३४ || तदूर्ध्वस्थेऽन्नकवले पूर्वमुच्चार्य मेलयेत् | नामगोत्रावसानं च पितृमन्त्रं पुरोदितम् || १३५ || अधीशमन्त्रं तदनु स्वधाम्नि व्रज वै पदम् | प्. २६५) नमस्कारान्वितेनैवमुक्त्वैवं भावयेत्ततः || १३६ || प्रद्युम्नात्मनि संलीनमन्नवीर्यं(र्ये ?) शशिप्रभम्(भे ?) | पितरं(?) तारकाकारमनिरुद्धं ज्वलत्प्रभम् || १३७ || चिद्धर्मविभवोपेतमेवं कृत्वा ततो द्विज | मेलयेद्विधिनाऽनेन अन्नं प्रद्युम्नभावितम् || १३८ || सङ्कर्षणे महाधाम्नि वासुदेवे च तं पुनः | वासुदेवोऽपि भगवान् परस्मिन्नव्यये पदे || १३९ || शान्तेऽनन्ते तु पूर्वोक्ते यत्रस्थो न भवेत्पुनः | कृत्वैवं पितृसन्धानं हरेरग्रेऽग्निसन्निधौ || १४० || भोजनं च ततो दद्यात्पूजितानां पुरा द्विज | यथाक्रमं ततः पृच्छेत्तृप्तिमन्नपरां तु तान् || १४१ || स्वाचान्तानन्ततो दद्याद्विष्णोरग्रे तु दक्षिणाम् | हृन्मन्त्रेण तु तैर्वाच्या प्रीतिर्नारायणी परा || १४२ || ततः पूर्णाहुतिं दद्यात् क्षन्तव्यो द्विज मन्त्रराट् | [पैतामहान्नशेषस्य जायायै प्रदानम्] प्राग्वन्ममेति(?)नैवेद्यं मूलमन्त्राभिमन्त्रितम् || १४३ || प्रयतायां तु जायायां दद्यात् क्षीराज्यभावितम् | सुतत्वेन तु संसिद्धिं तत्कुक्षौ चोपयान्ति च || १४४ || अथ तेनोदकेनैव लक्ष्मीसौभाग्यभाजनम् | [शेषान्नसंविभजनम्] ज्ञानधर्मक्रियासक्तस्सत्यव्रतपरायणः || १४५ || नियोजनादि वै कुर्यान्नैवेद्यस्यैव पूर्ववत् | [पितॄणां विसर्जनप्रकारः] पादा(द्या ?)र्घ्यपात्रमुत्पाद्य हृन्मन्त्रेण तु वै पुरा || १४६ || स्वमन्त्रेण पितॄन्सर्वांस्तत्रस्थान् खगतान् स्मरेत् | [नेत्रावमार्जनम्] अथ तेनोदकेनैव नेत्रमन्त्रेण लोचने || १४७ || प्. २६६) अवमार्ज्योदकं तद्वै स्थाने निक्षिप्य पावने | इति मन्त्रमयश्राद्धं कुरुते सुगतिप्रदम् || १४८ || [गुर्वादिश्राद्धस्य समयज्ञादिभिः कर्तव्यता] समयज्ञादिकैः कार्यं गुरूणामात्मसिद्धये | पित्रादीनां च स्वसुतैर्गुरुभिश्चानुकम्पया || १४९ || समयव्रतपूर्वाणां शिष्याणां भावितात्मनाम् | यद्यप्यनुप्रयोज्यं स्याच्छ्राद्धं सद्दीक्षितस्य च || १५० || क्रियासंज्ञेन तत्रापि कार्यमात्महिताप्तये | दीक्षासममिदं श्राद्धं कुगतेः सुगतिप्रदम् || १५१ || सदैव दीक्षितानां च यागे यज्ञे च वैष्णवे | तस्मात्सर्वप्रयत्नेन यथालब्धेन केनचित् || १५२ || वस्तुनाऽपि पवित्रेण इदं श्राद्धं समापयेत् | [श्राद्धानुष्ठानस्य प्रशंसा] कदन्नेन कुदेशे च अपात्रे चापि नारद || १५३ || ध्यानविज्ञानमन्त्राद्यैः संपाद्यं विद्धि शाश्वतम् | देशकाले तथा पात्रे श्रद्धापूतं तु किं पुनः || १५४ || वैष्णवः परमं पात्रं देश आयतनं हरेः | द्वादशी सर्वकालानामुत्तमा परिकीर्तिता || १५५ || इति श्रीपाञ्चरात्रे जयाख्यसंहितायां श्राद्धविधानं नाम त्रयोविंशः पटलः || २३ || अथ संस्काराख्यानं नाम चतुर्विंशः पटलः नारदः काम्यं (कव्यं ?) प्रेतं पितृश्राद्धं त्वत्प्रसादान्मया श्रुतम् | इदानीं श्रोतुमिच्छामि गतासूनां च संस्कृतिम् || १ || त्वच्छासनप्रपन्नानां कथयस्व समासतः | उदीरितं त्वया पूर्वं नोदितं च परिस्फुटम् || २ || भगवान् विपन्नं दीक्षितं ज्ञात्वा प्रार्थनीयो महागुरुः | स्नेहेन कृपया वाऽथ सह शिष्यैः कृतात्मभिः || ३ || प्. २६७) यायात्कृताह्निकः शश्वदभुक्तान्नो विशेषतः | [शवसंस्कारविधानम्] प्रागुक्तया पुरा दृष्ट्या अवलोक्य च तं द्विज || ४ || [शवस्य स्नपनालङ्करणे] दत्वाऽज्ञां तु समुत्थाप्य स्नापयेत्तु मृतं पुरा | अस्त्रमन्त्राभिजप्तेन गोमयेन मृदम्भसा || ५ || सुगन्धामलकैः स्नाप्य सर्वौषध्युदकेन च | चन्दनेन समालिप्य सबाह्लीकेन नारद || ६ || सकषाये सिते वाऽथ वाससी ह्यधरोत्तरे | परिधाप्योपवीतं च सोत्तरीयं तथा नवम् || ७ || पवित्रकद्वयं तत्र योज्याङ्गुल्योः कुशैः कृतम् | पुष्पस्रग्भूषितं कृत्वा स्थाप्य यन्त्रे पटावृते || ८ || [शवस्य संस्कारस्थाननयनम्] गृहीत्वाऽथ स्वजातीयैर्दीक्षितैर्वाऽप्यदीक्षितैः | तन्नयेत्संस्कृतिस्थानमस्थ्यङ्गारादिवर्जितम् || ९ || [संस्कृतिस्थानसमीकरणम्] उपलिप्य पुरा तद्वै समीकृत्य यथाविधि | [भैक्षपात्रादिद्रव्याणां तदीयानां तच्छवेन सह नयनम्] भैक्षपात्रं तथा दण्डं स्रुक्स्रुवौ चाक्षसूत्रकम् || १० || पादुके आसनं चैव योगपट्टं तथैव च | दारवं भद्रपीठं च सार्ध्यपात्रं कमण्डलुम् || ११ || मात्रोपकरणं सर्वं तदीयं मुनिसत्तम | [तत्र वर्ज्यद्रव्याणि] हिरण्यवस्त्रशास्त्रैश्च घण्टया च विवर्जितम् || १२ || तच्छ्राद्धकाले दातव्यं तत्प्रीत्यर्थं हि कस्यचित् | [प्रेतसंस्कारोपकरणद्रव्याणामग्रतो नयनम्] नयेत्तस्याग्रतः पुष्पमर्घ्याम्बुकुसुमादिकम् || १३ || उपयोज्यं च यत्तत्र अर्चने होमकर्मणि | प्. २६८) अश्वत्थतरुसंभूता अष्टौ तीक्ष्णा हि शङ्कवः || १४ || अयत्नलब्धा विप्रेन्द्र अन्यस्माद्यतिनः स्वयम् | छिन्द्यादश्वत्थवृक्षं तु पालाशाद्यमभावतः || १५ || पीतं वा सुसितं सूत्रं क्षौमं कार्पासजं तु वा | समस्तधान्यानि तिलाः कृष्णास्सिद्धार्थकैर्युताः || १६ || प्रभूतमिन्धनं शुष्कं पालाशाद्यं च पावनम् | तत्र चैशानदिग्भागमासाद्योपविशेद्गुरुः || १७ || [गुरुणाऽप्ययक्रमेण स्वाङ्गन्यासस्य कर्तव्यता] समलङ्कृत्य चात्मानमापादाच्च शिरोन्तिमम् | मन्त्रेणाप्यययुक्त्या वै षडङ्गविधिना पुरा || १८ || [मृतेन योऽनुष्ठितो मन्त्रस्तेन प्रथमं पूजनस्य कर्तव्यता] तदनुष्ठानसंज्ञेन प्रारम्भे पूजयेद्द्विज | परिशिष्टस्य वाऽन्यस्य आचार्यस्यापि कस्यचित् || १९ || शासनस्थस्य भक्तस्य मन्त्रे चाविदिते सति | [तदपरिज्ञाने नारसिह्ममन्त्रेण पूजनाविधिः] प्रणवाद्यन्तरुद्धेन सामान्येन महात्मना || २० || नारसिह्मेण चोग्रेण तस्योङ्कारः पुरा भवेत् | नमो भगवते कृत्वा नारसिह्माय वै ततः || २१ || द्वादशाक्षरमन्त्रोऽयं सर्वैः सर्वत्र शस्यते | तन्नामपूर्ववर्णं तु दीर्घैः षड्भिर्विभेदितम् || २२ || तेषामाद्यावसाने तु प्रणवञ्चापि योजयेत् | प्रकल्प्य चाङ्गषट्कं तु सामान्यस्य च संज्ञया || २३ || [कुम्भस्थापनतत्पूजनविधिः] अन्तःस्थं पूजयित्वाऽदौ बहिस्तदनु पूजयेत् | प्रणवेन पुरा पीठं साधारं परिकल्पयेत् || २४ || तत्रार्चिते न्यसेत्पृष्ठे कलशं वारिपूरितम् | समायं (सामयं ?) विन्यसेन्मन्त्रं विलोमोच्चारयोगतः || २५ || अस्त्राद्यमङ्गषट्कं तद्वैपरीत्येन विन्यसेत् | प्. २६९) हृद्यस्त्रं हृदयं चास्त्रे यथा भवति नारद || २६ || कृत्वैवःxx० म् कलशे न्यासं तं यजेद्विधिना ततः | तत्रास्त्रकलशं कुर्यादासनं तत्र कल्पयेत् || २७ || फट्कारेण तु चक्राख्यं केवलं रक्तरूपधृक् | नाभिनेमिविहीनं तु तदूर्ध्वे कलशं न्यसेत् || २८ || पुष्पार्घ्यधूपैर्लिप्त्वा च अस्त्रमन्त्रं तदन्तरे | विसर्गफट्पदाद्यं तु वैपरीत्येन चोच्चरेत् || २९ || बलिदानावसानं तत्पूजयित्वा ततो द्विज | [अथ मण्डले (स्थंडिले) पूजनाविधानम्] तदग्रे भद्रपीठं तु योजयेत्तदभावतः || ३० || भूमावुपरि विन्यस्य आधारं प्रणवेन तु | ऐश्वर्याद्यं तदूर्ध्वे तु धर्मान्तं चाथ विन्यसेत् || ३१ || हृन्मन्त्रेण तदूर्ध्वे तु शेषं सप्रणवेन तु | कल्पयेन्मुनिशार्दूल रत्नपुञ्जनिभं महत् || ३२ || हृदयाच्चैव तत्पृष्ठे मन्त्रमावाह्य विन्यसेत् | केवलं लयदेहं तु पूर्वोच्चारक्रमेण तु || ३३ || [कुण्डे हवनविधानम्] पूजयित्वा यथान्यायं तदग्रेऽथ प्रकल्पयेत् | प्रमाणरहितं कुण्डमेकं मेखलयाऽन्वितम् || ३४ || तत्संस्कृत्य पुरा तत्र गगनादवतार्य च | सूर्यकान्तेन मणिना वैष्णवं जातवेदसम् || ३५ || लौकिकं तदभावाच्च आनायय तु तथा स्मरेत् | तत्र दर्भास्तरं दद्यात्त्रिधा दिक्ष्वन्तरा ग्रहम् (?) || ३६ || संस्कृत्य पावकं प्राग्वन्नमोऽन्तं जुहुयात्ततः | [होमः] मूलमन्त्रं शतं साष्टं तिलैराज्येन वै तथा || ३७ || संहारक्रमयोगेन स्मृत्वा मन्त्रं ततोऽन्तगम् | दद्यात्पूर्णाहुतिं विप्र ततश्चार्घ्याम्बुना तु वै || ३८ || प्. २७०) [अथ शवस्य प्रोक्षणादि] तं शवं प्रोक्षणीयं च ताडयित्वाऽवलोक्य च | चक्षुषा ज्ञानपूर्णेन करुणानुगतेन च || ३९ || दत्वाऽर्घ्यपुष्पे शिरसि दुरस्थश्चास्पृशंश्च तम् | आनायय पृष्ठदेशं तु कलशाभ्यां द्विजोत्तम || ४० || आसने त्वपकृष्टे तु कायं सन्धाय केनचित् | तं वीक्षमाणः कुण्डस्थो गुरुस्तूपविशेषत्ततः || ४१ || प्राक्कर्मपरिशुद्धं तु मृतं संस्कारवर्जितम् | [आह्लानपूर्वकं जीवस्य शवशरीरे योजनविधानम्] जीवं च केवलीभूतं सामीप्यपदवीगतम् || ४२ || मन्त्रेणाहूय देहस्थं कृत्वा तदनु योजयेत् | पूर्ववच्छवपिण्डे तु रत्नदीपोज्ज्वलप्रभम् || ४३ || [जीवाह्वानमन्त्रः] प्रणवान्तं (न्ते ?) शिखाबीजं संज्ञां तदनु योजयेत् | तदन्ते तु शिखाबीजं प्रभा(ण ?)वान्तं न्यसेत्पुनः || ४४ || आगच्छ -----नेतस्य प्रविश्या(शा ?)थ नियोजयेत् | एवं स्वस्थानगं कृत्वा जीवं शुक्रगतं त्विह || ४५ || [स्वस्थानं गमितस्य जीवस्य परतत्त्वे संयोजनविधानम्] व्यापारशक्तिसंयुक्तं काष्ठस्थमिव पावकम् | दीक्षाख्येन क्रमेणास्य लयहोमस्तु केवलः || ४६ || कर्तव्यो गुरुणा सम्यक् प्रथिव्यादिक्रमेण तु | परे तत्त्वे तु संयोज्य पूर्णाहुत्या तु पूर्ववत् || ४७ || [अथ चिताकल्पनविधानम्] दक्षिणेनात्मनश्चाथ प्रोक्ष्य क्ष्मामस्त्रवारिणा | तिलैः सिद्धार्थकैर्धान्यैर्मिश्रीभूतैस्तु नारद || ४८ || नाभिनेमिविहीनं च कालचक्रं समापयेत् | वामावर्तद्विषट्कारं त्रिकोणं तद्बहिः पुरः || ४९ || तद्देहवर्णज्वालाढ्यं स्वस्तिकत्रितयान्वितम् | तद्बहिश्चतुरश्रं च पञ्चरङ्गोज्ज्वलं पुरम् || ५० || प्. २७१) पञ्चरेखान्वितं कुर्याद्वज्राष्टकविभूषितम् | विलोमगत्या वामेन पाणिना पातयेद्रजः || ५१ || विमानवच्चितिं काष्ठैर्विचिन्वीयात्पुराऽहृतैः | गोमयैर्वा द्विजारण्यसंप्राप्तैः कुशमिश्रितैः || ५२ || अन्तकाशादितश्चाथ नैरृत्यान्तं तु शङ्कवः | रोपणीया हि सूत्रेण त्रिरावृत्तेन वेष्टयेत् || ५३ || [सर्वस्य पूजाद्रव्यस्योपसंहृतस्य कुण्डाग्नौ प्रक्षेपः] पूजाद्रव्यं समस्तं च नैवेद्यान्तं हि नारद | उपसंहृत्य जुहुयादग्नौ कुण्डगते ततः || ५४ || [कुम्भादिस्थानान्मन्त्रस्योत्सर्जनम्] विसर्ज्य मन्त्रं कुम्भस्थं भद्रपीठाग्निमध्यगम् | खात्वा तु सेचयेद्भूमिं कलशस्थेन चाम्भसा || ५५ || [शवस्य चितायामारोपणम्] सासनं च ततः शावं दक्षिणाभिमुखं ततः | चितोपरि स्थितं कुर्यात् [योगपट्टादीनां शवस्य कण्ठादिस्थानविशेषे स्थापनम्] तस्य कण्ठे विनिक्षिपेत् || ५६ || विततं योगपट्टं च दक्षिणे चाक्षसूत्रकम् | वामहस्तेऽर्घ्यपात्रं तु प्रणीतां च कमण्डलुम् || ५७ || वामतः पादुके छत्रं उष्णीषं दक्षिणे न्यसेत् | अग्रतो भद्रपीठं च शङ्खमुद्रादिकं च यत् || ५८ || संपूज्य पुष्पधूपाद्यैश्चन्दनेन तु तां चिताम् | [चिताप्रज्ज्वालनं पूर्णाहुतिश्च] प्रज्ज्वाल्य दर्भपुञ्जीलं कुण्डस्थेन तु वह्निना || ५९ || ज्वालयेद्दक्षिणाशां च वीक्षमाणस्तु तां चिताम् | गुरुश्चाभिमुखः स्थित्वा तस्य पूर्णाहुतिं क्षिपेत् || ६० || मूर्ध्नि वा वक्त्रविवरे त्यजेत्तत्रैव स्रुक्स्रुवौ | [चितापरिभ्रमणपूर्वकमस्त्रकलशस्य वियति प्रक्षेपविधिः] ततोऽस्त्रकुम्भमादाय वरुणाशादितो द्विज || ६१ || विक्षिपन्नौदकीं धारां वामतश्च परिभ्रमेत् | दिशि क्षिपेद्दक्षिणस्यां कलशं गगनोपरि || ६२ || प्. २७२) [अथ स्नानविधानम्] तत्र संरक्षकान्दत्वा गुरुर्यायाज्जलाशयम् | सचेलं जलमाविश्य मनसा चोपसंहरेत् || ६३ || पूर्वोक्तं विग्रहन्यासं स्नात्वाऽथ विधिना ततः | स्नानमाचमनाद्यं तु कृत्वा दद्याज्जलाञ्जलिम् || ६४ || उत्तीर्य परिधायान्यदम्बरं शुचि निर्मलम् | [गुर्वादिभिः कर्तव्यो जपविधिः] प्राङ्मुखस्त्वासने स्थित्वा मनसा नृहरिं मुने || ६५ || जपेदष्टाधिकं भक्त्या सहस्रं ध्यानसंयुतम् | वोढारस्तु तदर्धं च तदर्धं भाण्डवाहकाः || ६६ || [नक्तं भगवतो यजनस्य कर्तव्यता] प्राप्ते नक्तं जपान्ते वा विशेषादच्युतं यजेत् | जपहोमावसाने च समश्नीयात्ततो गुरुः || ६७ || तद्बान्धवैः स्वशिष्यैस्तु संवृतः शोकशान्तये | [अस्थिसञ्चयनम्] अस्थिसङ्घटनं कुर्यात्तृतीयेऽह्नि समागते || ६८ || इष्टा(ष्ट्वा ?)पूर्तीश्वरीं(?)पूर्वं पुष्पार्घ्यबलिधूपकैः | विमलाम्भसि निक्षिप्य अगाधे वा नदीजले || ६९ || भूमावथ कृते खाते ह्यधस्ताद्विनिवेशयेत् | न दीक्षितानां विप्रेन्द्र क्षिपेदस्थि ततस्ततः || ७० || इत्येष वैष्णवानां च सद्भक्तानां मयोदितः | [शवसंस्कारस्य सर्वैरवश्यकर्तव्यता] देहपातिकसंस्कारो ह्यपवर्गफलप्रदः || ७१ || अनुष्ठेयस्ततस्तस्माच्छिष्याणां गुरुणा सदा | सच्छिष्यैर्वा गुरूणां तु स्त्रीणामथ महामते || ७२ || दीक्षितानां महायागे मात्रोपकरणं विना | संस्काराश्चाखिला मन्त्राः पित्राऽथ गुरुणाऽथवा || ७३ || आत्मजेनाथ पत्न्या वा कार्यश्चादीक्षितैरपि | कृपयाऽघविघातार्थमसन्दिग्धतया धिया || ७४ || प्. २७३) [यतिधर्राश्रयाणां दाहे विशेषः] यतिधर्माश्रयाणां तु कर्मसन्यासिनां च वै | दाहमात्रं तु विहितं मन्त्रपूजाविवर्जितम् || ७५ || [परोक्षतो मृतानां संस्कारविधानप्रकारः] परोक्षतो विपन्नानां विधानमधुनोच्यते | येन याति पदं विष्णोः पदं योऽन्यतरस्थितः || ७६ || यदैव दीक्षितस्तिष्ठेच्छासनेऽस्मिन्मयोदिते | तदैवाप्तं मुनिश्रेष्ठ तैः पदं विमलं मम || ७७ || किं तु ये दीक्षिताः पूर्वं न निर्व्यूढास्सदाऽर्चने | म्रियन्ते चाकृतार्थाश्च समयज्ञास्तु पुत्रकाः || ७८ || ते स्वकर्मवशं यान्ति किञ्चित्स्थानमशाश्वतम् | भूयस्तस्माच्चीरेणैव केनचिद्विग्रहात्मना || ७९ || काले शुभे शुभे देशे उत्पद्यन्तेऽशुभेऽथवा | पुण्यं कुर्वन्ति वा पापं देशे काले तयोर्वशात् || ८० || शुभेन कर्मणा स्वर्गमशुभेनाप्नुवन्त्यधः | एवमस्थितिमाप्नोति उपसंहृत्य दीक्षितः || ८१ || मृतश्चापि परोक्षे तु यदा वै गुरुणा तदा | कृपात्मना समर्थेन कार्यमुद्धरणं महत् || ८२ || शरीरधर्मसंस्थेन यथा तदवधारय | विधिवन्मरणं ज्ञात्वा पुरा भक्तस्य कस्यचित् || ८३ || स्वकाह्निकावसाने तु यजेदर्चादिषु प्रभुम् | विशेषविहितेनैव कर्मणा होमपश्चिमम् || ८४ || श्वेतां मृदमथालोड्य पञ्चगव्येन चाम्भसा | द्वादशाङ्गुलमात्रं तु मूर्तिं कृत्वा तदाकृतिम् || ८५ || आपादाच्चूलिकान्तं च सर्वाङ्गावयवान्विताम् | पलाशाश्वत्थवल्कोत्थदारुणा पल्लवेन वा || ८६ || तामग्नेः कुण्डदेशस्थां कृत्वा यन्त्रकृतां पुरा | प्रणवेन तु सास्त्रेण प्रोक्षयेत्सप्तधाऽम्बुना || ८७ || अर्घ्यपात्रोद्धृतेनैव त्रिधाऽथ द्वादशात्मना | प्. २७४) फडन्तेन द्विधा ताड्यं त्र्यक्षरेणार्घ्यतण्डुलैः || ८८ || कुसुमैरथ पत्रैर्वा दर्भकाण्डयुतेन तु | ततोऽवलोकनं कुर्यान्मन्त्रवित् ज्ञानचक्षुषा || ८९ || साधिभूतमथाध्यात्मस्वरूपं तत्त्वसंग्रहम् | ततः सृष्टिक्रमेणैव विनिवेश्य यथा पुरा || ९० || स्थानलक्ष्यक्रमेणापि ध्यानमार्गेण देशिकः | होमं कृत्वा यथान्यायं त्रिद्व्येकाहुतिभिस्तु वा || ९१ || तत्त्वार्णमभिधायुक्तं मूलसंपुटयोगतः | आयाहिपदसंमिश्रं ज्ञात्वा देहि(ह्य ?)भिसन्धये || ९२ || तत्त्वं तत्त्वं क्रमेणैव प्रागुक्तविधिना मुने | ततो हृत्पुण्डरीकस्थं मन्त्रं ध्यायेच्च सर्वगम् || ९३ || तज्जिवानयने सम्यक् बन्धकक्ष्यसमन्वितम् | करुणानन्दसंपूर्णं महामाणिक्कदीधितिम् || ९४ || विज्ञाप्य मनसा तूर्णं त्रिधा स्मृत्वा पुराऽमलम् | महाविभूते षाङ्गुण्यशरीर परमेश्वर || ९५ || तदन्ते मूलमन्त्रस्तु संस्मरेन्मूर्तिसंयुतम् | यत्र कुत्रचिदादाय पदञ्चावस्थितं ततः || ९६ || तदन्तेऽमृतबीजं तु व्योमेशे भूषितं स्मरेत् | आनयेति द्विधा योज्यं तत्संज्ञां तदनु द्विज || ९७ || नमस्कारान्वितं मन्त्रमिदं वै रोचयेद्बहिः | स्मरेत्संपूरितं तेन यदूर्ध्वे यच्च विद्यते || ९८ || तिर्यक् पृष्ठे पुरस्ताच्च आब्रह्मभवनान्तिमम् | स्वतेजसा समाकृष्य जीवं दूरस्थितं त्वपि || ९९ || क्षिप्रं द्विज स्वसामर्थ्यात्पतङ्गं पावके यथा | ततस्तमात्मसात्कुर्यान्मन्त्रं जीवसमन्वितम् || १०० || मन्त्रमात्मनि संशोध्य जीवं प्रतिकृतौ न्यसेत् | प्राग्वत्सन्धानयोगेन प्रतिष्ठोक्तेन नारद || १०१ || ततस्तस्य विधानेन तत्त्वदीक्षां समापयेत् | प्रागुक्तेनाथ योगेन योजयेच्छाश्वते पदे || १०२ || पूर्णाहुतिप्रदानेन ततः प्रतिकृतिं दहेत् | तस्माच्चैवाग्निकुण्डात्तु मन्त्रे चोत्थापिते सति || १०३ || पश्चात्स्नानादिकं सर्वं पूर्वोक्तं तु समाचरेत् | समस्तदोषशान्त्यर्थं प्रायश्चित्तं चरेत्ततः || १०४ || स्वस्थोऽन्यस्मिन्दिने विप्र समर्थो वाऽथ तद्दिने | इति श्रीपाञ्चरात्रे जयाख्यसंहितायां संस्काराख्यानं नाम चतुर्विंशः पटलः || २४ || अथ प्रायश्चित्तविधिर्नाम पञ्चविंशः पटलः | नारदः भगवन् श्रोतुमिच्छामि प्रायश्चित्तविनिर्णयम् | कृताकृतानां सर्वेषां शान्तये वैष्णवस्य च || १ || श्रीभगवान् मार्गस्थो मुनिशार्दूल लुप्ताचारो व्रजत्यधः | पालनीयस्त्वतस्तस्मादाचारः साधुसेवितः || २ || दैवाद्रोगात्तथा मोहवशाद्दोष उपागतः | जपेन क्षालनीयोऽसौ दानेन हवनेन च || ३ || तपसाऽपि मुनिश्रेष्ठ ज्ञात्वा कर्मबलाबलम् | [सन्ध्यालोपे प्रायश्चित्तम्] आरम्भसन्ध्यालोपेषु मूलमङ्गसमन्वितम् || ४ || सत्यादिपञ्चकोपेतं सरुजश्च सकृत्सकृत् | अरुजः सत्यबीजं तु शतमष्टाधिकं जपेत् || ५ || जपावसानात्तत्कुर्यात्सन्ध्याकर्म द्विजाखिलम् | [सन्ध्यात्रयलोपे प्रायश्चित्तम्] लुप्ते सन्ध्यात्रये चैव नीरुजस्तु जपेत्सदा || ६ || षट्शतानि तु मूलस्य मूर्तिमन्त्रान्वितस्य च | सरुजश्चाङ्गषट्काढ्यं मूलमूर्तियुतं त्रिधा || ७ || जपेद्वा नित्यशान्त्यर्थमन्येषां दोषमाप्नुयात् | [अनेकदिनेषु सन्ध्यालोपे प्रायश्चित्तम्] अनेकदिनशो भ्रंशः सरुजस्य यदा भवेत् || ८ || प्. २७६) स्नात्वा निवृत्तरोगोऽसौ पूजयित्वा जगत्प्रभुम् | जपित्वैकसहस्रं च भूयः पूजाग्नितर्पणम् || ९ || कुर्याच्चैव जपार्धेन नीरुजस्याथ कीर्त्यते | द्विस्त्रिस्तथैकरात्रं वा यथाशक्त्याऽथ मन्त्रराट् || १० || जप्योऽयुतद्वयं पश्चात्पूजा कार्या विशेषतः | तिलानामाज्यसिक्तानां सहस्रैकं तु होमयेत् || ११ || वैष्णवान्भोजयेत्पश्चाच्छक्त्या त्रिद्द्व्येकसङ्ख्यया | [प्रमादादशुचिसंस्पृष्टान्नभक्षणे अन्यस्त्रीसेवने च प्रायश्चित्तम्] प्रमादाद्यदि विप्रेन्द्र अज्ञात्वा भक्षितं पुरा || १२ || स्पृष्टमन्नादिकं चैव मदिरासेवकादिभिः | रेतोमूत्रपुरीषैर्वा शुककाकावलीढितम् || १३ || विड्वराहैरथो गृध्रगोमायुकपिकुक्कुटैः | संस्पृष्टमन्त्यजेनापि शूद्राद्युच्छिष्टदूषितम् || १४ || अभोज्यान्नं तु वा भुक्त्वा सेवित्वाऽन्यस्त्रियं तु वा | स्नात्वा भुक्त्वा त्वहोरात्रं पञ्चगव्यं समाचरेत् || १५ || सहस्रं प्रतिसन्ध्यं च सिह्ममन्त्रं जपेद्बुधः | दिनत्रयं नक्तभोजी त्रिस्नायी ध्यानतत्परः || १६ || इष्ट्वा देवं चतुर्थेऽह्नि सहस्रं होमयेत्ततः | पूर्ववद्भोजनं दत्वा नक्ताशी शुध्यते द्विजः || १७ || [तत्र क्षत्रियवैश्यशूद्राणां विशेषाः] नारायणैकचित्तस्य नृपस्यैवं विनिर्दिशेत् | द्विधा स्नानं तु वैश्यस्य सकृच्छूद्रस्य कीर्तितम् || १८ || क्रमतो द्विगुणो जापः सर्वेषां परिकीर्तितः | [उक्तप्रायश्चित्ताङ्गभूतपञ्चगव्यविधानम्] क्षीरं दधि घृतं चैव गोमूत्रं गोशकृत्कुशान् || १९ || तोयं ताम्रमये पात्रे कृत्वाऽथ परिजप्य च | एकैकं शतजापेन मूलाद्यस्त्रावसानिकैः || २० || स्नात्वा पीत्वा त्रिरात्रं तु कृत्वा योन्तो (न्योऽ ?)पि तं पिबेत् | ध्यायेज्जपेत् नृसिंहं तु पूजयेच्चापि नारद || २१ || प्. २७७) तस्यापि नाशमायाति महापातकसञ्चयः | स्तेयं गुरुस्त्रीसंभोगः सुरापानादिकं च यत् || २२ || [कामतो ब्राह्मणवधे प्रायश्चित्तम्] कामतो ब्राह्मणं हत्वा गवां मध्यस्थितो जपेत् | अतन्द्रितः सिंहमन्त्रमनिशं वत्सरद्वयम् || २३ || अयाचितान्नलध्वाशी त्रिस्नायी न्यासकृत्सदा | वत्सरद्वितयस्यान्ते तीर्थं वाऽयतनं व्रजेत् || २४ || ततः कुर्याद्व्रतं शक्त्या कृच्छ्रचान्द्रायणादिकम् | व्रतान्ते नवनाभेन दीक्षयेत्पुनरेव हि || २५ || सर्वस्वं च गुरोर्दद्याद्भक्तानां च तदाज्ञया | [सुरापानप्राश्चित्तम्] सुरां पीत्वा तु तामन्ते जपेत्सत्यमहर्निशम् || २६ || त्र्यहं त्वनश्नन्नन्ते तु कं पिबेत् सिह्मतापितम् | स्थित्वा चायतने विष्णोः सहस्रैकं जपेद्बुधः || २७ || [स्वर्णस्तेयादौ प्रायश्चित्तम्] स्तेयं च कामतः कृत्वा हेमभूम्यादिकं तु वै | ज्ञात्वाऽनुतापसन्तप्तो मन्त्रेशं कापिलं जपेत् || २८ || पञ्चायुतप्रमाणेन विजनस्थः समाहितः | पयोमूलफलाहारः शुध्यत्यन्तेऽर्चने हुतौ || २९ || कामतः सन्त्यजेद्भूयो द्रव्यमेतत्समाहृतम् | द्विगुणं तदभावाच्च जपं पूर्वोदिताच्चरेत् || ३० || [गुरुपत्नीगमने प्रायश्चित्तम्] सिह्मं गुरुस्त्रीगमने ह्यकामाज्जनवर्जिते | भैक्षाहारो जपेन्मौनी शुद्धये त्वयुतत्र(द्व?)यम् || ३१ || प्रख्यातौ कामतो लक्षस्सकामश्च रहस्यपि | अयुतद्वितयं सार्धं जप्त्वा शुध्यति नान्यथा || ३२ || एकान्ते कामतो गत्वा सार्धं चैवायुतद्वयम् | अकामतः प्रकाशे तु जप्त्वाऽयुतचतुष्टयम् || ३३ || अप्रकाशे प्रकाशे वा तु कामतोऽकामतोऽपि वा | जपान्ते यागहोमौ च कृत्वा शुध्यति नान्यथा || ३४ || प्. २७८) दीक्षोपकरणादीनामभावाद्द्विजसत्तम | गुर्वङ्गनाप्रसक्तश्च लक्षजापाच्च शुध्यति || ३५ || [रजस्वलास्पृष्टान्नभक्षणे प्रायश्चित्तम्] अन्नं रजस्वलास्पृष्टं भुक्तं चेद्यदि कामतः | जप्त्वाऽस्त्रमन्त्रं साष्टं च शतं चैवाभिशुध्यति || ३६ || कामतस्त्रिगुणं चैव जपं कुर्यादतन्द्रितः | [लिङ्गमूर्तये विनियुक्तान्नस्य भक्षणे प्रायश्चित्तम्] यल्लिङ्गमूर्तौ रुद्रस्य दत्तमश्नाति वैष्णवः || ३७ || तत्स्पृष्टं वा प्रमादेन सिह्मपञ्चशतं जपेत् | कामतो द्विगुणश्चैव स्नातो होमाच्च शुध्यति || ३८ || [विष्णुनिवेदितस्यान्नस्यायोग्ये देशे पात्रे वा प्रक्षेपे प्रायश्चित्तम्] विष्णोर्निवेदितं प्राश्यं निक्षिपेद्यत्र कुत्रचित् | अयोग्यस्याथ वा दद्यात्सिंहस्याष्टशतं जपेत् || ३९ || [आशौचान्नभक्षणे प्रायश्चित्तम्] मृतके मुनिशार्दूल भुक्त्वा चैवाथ सूतके | कामतः सिंहमन्त्रं तु सहस्रं परिवर्तयेत् || ४० || अकामतस्तदर्धं वै जपेत्तन्नियतः शुचिः | [पतिताद्यन्नभक्षणे प्रायश्चित्तम्] भक्तं च पतितानां तु गणिकानां च वै द्विज || ४१ || गणान्नमथवा भुक्तं पञ्च षट् सप्त वै शतम् | नृसिह्मकपिलक्रोडमन्त्राणां क्रमशो जपः || ४२ || [सीमन्तादिसंस्कारान्नभक्षणे प्रायश्चित्तम्] यः सीमन्ते प्रभुङ्क्ते तु स च नक्तागमे जपेत् | द्वे शते अनिरुद्धाख्यबीजस्य ध्यानतत्परः || ४३ || नामधेयाख्यसंस्कारे प्रद्युम्नं द्विशतं जपेत् | अन्नप्राशनसंस्कारे जपेत्संकर्षणम् शतम् || ४४ || शेषेषु वासुदेवाख्यं बीजमावर्तयेच्छतम् | [सद्यःश्राद्धाद्यन्नभोजने प्रायश्चित्तम्] यः पञ्चत्वं प्रयातस्य भुङ्क्तेः संवत्सरावधि || ४५ || सद्यःश्राद्धात्समारभ्य स सिंहस्यायुतं जपेत् | प्. २७९) [सच्छूद्रान्नभक्षणे प्रायश्चित्तम्] कामतोऽकामतो वाऽपि सच्छूद्रान्नस्य भक्षणात् || ४६ || सहस्रमर्धं क्रमशो ह्यस्त्रमन्त्रं जपेद्बुधः | एतच्चतुर्गुणं विद्यादसच्छूद्रान्नभक्षणात् || ४७ || वान्ते मन्त्रं तु वाराहं त्रिशतं परिवर्तयेत् | स्नात्वा तन्मन्त्रितं पीत्वा पञ्चगव्यं तु वा द्विज || ४८ || अवैष्णवप्रतिष्ठायां यज्ञे वाऽवैष्णवे त्वपि | भुङ्क्ते हृदयमन्त्रस्य जपेत्पञ्चशतं तु वै || ४९ || [आरामादौ भोजनप्रायश्चित्तम्] आरामवृक्षकूपेषु बाह्ये वा सुगतालये | प्रपातटाकयोर्मोक्षे गोदाने वृषमोक्षणे || ५० || विवाहे वरणे वाऽथ भुङ्क्ते गत्वा परे गृहे | जपेत्साष्टशतं मन्त्री सिह्ममन्त्रमतन्द्रितः || ५१ || अवैष्णवाग्रतो भुक्त्वा पथि साष्टशतं जपेत् | [नैष्ठिकाद्यन्नभक्षणे प्रायश्चित्तम्] कामतो नैष्ठिकान्नं तु वणिगन्नं तु वा द्विज || ५२ || भुक्त्वा जपेन्मूर्तिमन्त्रं सहस्रपरिसङ्ख्यया | अकामतस्तदर्धं तु लिङ्गिनामेवमेव हि || ५३ || [मधुमांसयोर्दर्शने प्रायश्चित्तम्] निषेधान्मधुमांसाभ्यां प्रमादाद्दर्शनं कृतम् | सिह्मस्याष्टशतं जापात्स दोषः शतधा व्रजेत् || ५४ || [नियमात्प्रच्यवे प्रायश्चित्तम्] मैथुनाहारपानादिनियमस्याप्यरक्षणात् | अस्त्रमन्त्रशतं सार्धं जपन्यासे कृते सति || ५५ || भैक्षान्नभक्षलोभाच्च एवमेव प्रकीर्तितम् | अधश्शयनसङ्कल्पलोपादस्त्रं जपेच्छतम् || ५६ || गृहभूतपिशाचादिविच्छेदे तु कृते सति | मूलमन्त्रं शतं साष्टं जपेधृत्संपुटीकृतम् || ५७ || [ज्ञानप्राप्त्यादेरन्यत्र नृत्तगीतादिकरणे प्रायश्चित्तम्] ज्ञानप्राप्तौ प्रतिष्ठायां प्रक्रान्ते विष्णुजागरे | प्. २८०) प्राप्ते चायतने तीर्थे शास्त्रे सन्मार्गदर्शने || ५८ || गुरोर्विपत्तिश्रवणात्स.प्राप्ते दशमे पुनः | एभिर्विना नृत्तगीते कृत्वा सत्यशतं जपेत् || ५९ || उपरोधादथ स्नेहात्कृत्वा शान्तिकपौष्टिके | शतत्रयं च वाराहं जप्त्वा मन्त्रेशमर्चयेत् || ६० || [सूतकादौ शान्तिकादिकर्मसु पूजास्वीकारे प्रायश्चित्तम्] सूतके मृतके चैव वर्तमाने तु नारद | कामतः पूजितो मन्त्री शान्तिकादौ तु कुत्रचित् || ६१ || जपेत्पञ्चशतं [चात्र] सिह्ममन्त्रस्य भक्तितः | शतत्रयमकामश्च प्रायश्चित्तविधौ जपेत् || ६२ || [उच्चाटनादिकरणे प्रायश्चित्तम्] उच्चाटनादीन्कृत्वा वै इच्छयाऽस्त्रं द्विजोत्तम | अयुतार्धं पुरावर्त्यं तदर्धं चाप्यकामतः || ६३ || न मारणं तु मन्त्रेण कुर्यान्मन्त्री कदाचन | [चैत्यादिषु देवप्रतिष्ठाकरणे प्रायश्चित्तम्] देवप्रतिष्ठां दीक्षां च कृत्वा चैत्यादिषु त्रिषु || ६४ || सङ्कर्षणादिकांस्त्रीन्वै क्रमशः परिवर्तयेत् | एकद्वित्रिशतैः साष्टैः कुर्याद्धवनपूजने || ६५ || [पट्टादिप्रतिग्रहे प्रायश्चित्तम्] पट्टः कार्पासकौर्णश्च क्षौममार्जं तु वेष्टनम् | चर्म प्रतिग्रहेणैव गृहीत्वा यत्र कुत्रचित् || ६६ || हृदाद्यस्त्रावसानं षट् जपेद्वै षट्शतादितः | क्रमशस्त्वेकहान्या तु एकैकस्मिंस्तु नारद || ६७ || कामतोऽकामतश्चैव अर्धमर्धं पुरोदितात् | [क्षीरादिप्रतिग्रहे प्रायश्चित्तम्] क्षीरं दधि घृतं चैव तदुत्थमपि यद्द्विज || ६८ || लवणं मधु तैलं च सर्वमिक्षुसमुद्भवम् | गृहीत्वाऽस्त्रसमायुक्तं वराहं त्रिशतं जपेत् || ६९ || प्. २८१) [रत्नादिपरिग्रहे प्रायश्चित्तम्] रत्नानि रजतं हेम विद्रुमं मौक्तिकं तथा | गृहीत्वा कापिलं मन्त्रं जपेत्कामाच्छतत्रयम् || ७० || अकामाच्च तमेकं तु जपेद्ध्यानपरायणः | ताम्रादिलोहमादाय नृपशैलादिधातुकान् || ७१ || कामतोऽकामतो जप्यो नृसिह्मो द्वे शते शतम् | [गवादिप्रतिग्रहे प्रायश्चित्तम्] गामश्वं वृषभं हस्तिं स्त्रियोऽवाश्वतरं तु वा || ७२ || गृहीत्वा नृहरिर्जप्यः कामतोऽष्टशतं मुने | शतत्रयमकामेन सोपवासस्त्वसौ जपेत् || ७३ || [शाल्यादिप्रतिग्रहे प्रायश्चित्तम्] सस्यानि शालयः सर्वे गृहीताश्च प्रतिग्रहाः | शतत्रयं द्वयं चैव कामाकामे ह्युदङ्मुखः || ७४ || [भूदानप्रतिग्रहे प्रायश्चित्तम्] केवलाल्पावनिं चैव गृहीत्वा नृहरिं जपेत् | सहस्रसंख्यया चैव संपन्नां फलशालिभिः || ७५ || कुर्याद्द्विगुणमेतं वै कामतोऽकामतो जपम् | मठप्रतिग्रहेऽप्येवमर्धं वेश्मप्रतिग्रहे || ७६ || [पापसंकरे प्रायश्चित्तम्] पापानामप्यनेकानां सङ्करे सति नारद | मूलमन्त्रं जपेत्साङ्गं शतमष्टाधिकं तु वै || ७७ || ततः सत्यादिकाः पञ्च परावृत्या शतं शतम् | जपेत्सप्ताक्षरं मन्त्रं शतमष्टाधिकं द्विज || ७८ || अन्नसङ्करदोषाच्च शुद्धिमायाति तत्क्षणात् | एवमेव जपं कुर्यादुत्पन्ने भाण्डसंकरे || ७९ || योनिसङ्करशुध्यर्थं जपेत्सत्यं शतत्रयम् | [काष्ठादिहरणे प्रायश्चित्तम्] काष्ठोपलतृणादीनां हरणे सति नारद || ८० || कामतोऽकामतश्चैव शिखामन्त्रं जपेच्छतम् | प्. २८२) [शास्त्रादिहरणे प्रायश्चित्तम्] परतश्छद्मना ज्ञानं हृतं शास्त्रं तु वा मुने || ८१ || मूर्तिमन्त्रायुतं मूलं जपेदयुतसंख्यया | [गुरुदारादिनिन्दने प्रायश्चित्तम्] गुरोः स्त्रियं सुतां वाऽपि निन्दन्वै यस्तु मोहितः || ८२ || शतं शतं च देवानां जप्यमस्त्रं यथाक्रमम् | [प्राणिघाते प्रायश्चित्तम्] सतेजःप्राणिघाते तु निरस्थिनि हते सति || ८३ || कामतोऽकामतो द्विर्वा सत्यमन्त्रं सकृत्स्मरेत् | आखुघाते च दशधा मार्जारे शतधा तु वै || ८४ || श्वशृगालवधे चैव द्विगुणं कपिकुक्कुटे | सर्पाद्यण्डजघाते तु हंसादिशकुनिष्वपि || ८५ || सिंहादिमगघाते च अजादिपशुघातने | शताच्चतुश्शतान्तं तु नृसिह्मं वै जपेत्क्रमात् || ८६ || [श्वशृगालादिदंशे प्रायश्चित्तम्] श्वशृगालादिसर्वेषां यदि दंशः प्रमादतः | स्नात्वा शीताप्सुमध्यस्थो गारुडं द्विशतं जपेत् || ८७ || [असत्प्रतिग्रहे प्रायश्चित्तम्] कामतोऽकामतो वापि असक्त(त?)श्च प्रतिग्रहम् | गृहीतं मुनिशार्दूल सिह्मजापी विशुध्यति || ८८ || शतत्रयाच्चाचिरेण स्नानध्यानेन नारद | [श्वपाकादिस्पर्शे प्रायश्चित्तम्] श्वपाकम्लेच्छचण्डालकरङ्कनृकपालिभिः || ८९ || स्पर्शने सोमकृद्यूपश्मशानद्रुमपुल्कसैः | कृत्वा स्नानं सचेलं तु सिह्ममन्त्रं शतं जपेत् || ९० || [वैष्णवादिनिन्दादौ प्रायश्चित्तम्] निन्दनाद्वैष्णवानां च दीक्षितानां विशेषतः | गुर्वाज्ञालङ्घनाच्चैव गुरुद्रव्य उपेक्षणात् || ९१ || सत्यं बीजं जपेत्साष्टशतं वै मुनिसत्तम | प्. २८३) [अपशकुने प्रायश्चित्तम्] वामाङ्गस्पन्दने चैव तथा दुःस्वप्नदर्शने || ९२ || वासुदेवं जपेन्मन्त्रं पञ्चविंशतिसंख्यया | [अरिष्टचिन्तनादौ प्रायश्चित्तम्] अरिष्टचिन्तनाच्चैव भाषणादनृतस्य च || ९३ || कर्मणा वाङ्मनोभ्यां तु सत्यं चाष्टशतं जपेत् | [रेतःस्पन्दने प्रायश्चित्तम्] अकामतः प्रसुप्तस्य शुक्रादेः स्पन्दने सति || ९४ || स्नात्वा पुरा सचेलं तु अस्त्रमन्त्रशतं जपेत् | [गर्भपाते प्रायश्चित्तम्] कामतो गर्भपाताच नृसिह्मस्यायुतं जपेत् || ९५ || [धेनुवधे प्रायश्चित्तम्] धेनुं प्रमादतो हत्वा अयुतं त्रियुतं जपेत् | त्रिः स्नायाद्द्विगुणं कामात्तज्जपे मुनिसत्तम || ९६ || यागं कृत्वा तथा होमं दद्याद्धेनुद्वयं गुरोः | [वृक्षच्छेदे प्रायश्चित्तम्] विश्शेषपादच्छेदे पञ्च सत्यादयः क्रमात् || ९७ || जप्याः शतं शतं चैव त्वल्पतश्छेदने द्विज | द्वे शते चास्त्रमन्त्रस्य परावर्तेत्प्रयत्नतः || ९८ || वामे वा दक्षिणे वाऽपि विच्छिन्ने सति मण्डले | भुक्त्वा पदेस्तु शूद्रस्य कामतोऽकामतो द्विज (?) || ९९ || शतत्रयं सिंहमन्त्रं परावर्त्त्यं द्वयं तथा | [गुरोः खेदावहवादाद्याचरणे प्रायश्चित्तम्] कर्मणा मनसा वाचा यो गुरुं परिखेदयेत् || १०० || समाचरेच्च वादं वा निर्वेदजनकं तथा | कृत्वा पुरा त्रिरात्रं तु वासुदेवं जपेधृदि || १०१ || प्रत्यहं मुनिशार्दूल त्रैकाल्यात्तु शतत्रयम् | [देवालयादौ मूत्रोत्सर्गादिकरणे प्रायश्चित्तम्] देवालये तु यः कुर्यात्पुरीषं मूत्रमेव वा || १०२ || प्. २८४) देवतायतनारामे वैष्णवे तु विशेषतः | [वैष्णवारामतः क्रीडार्थं फलपुष्पादिहरणे प्रायश्चित्तम्] क्रीडार्थं तु तदारामात्पत्रपुष्पफलहृतिम् || १०३ || यः कुर्यात्स द्विजश्रेष्ठ सिंहस्याष्टशतं जपेत् | [नग्नीभूय स्नानाचरणे प्रायश्चित्तम्] वीक्षमाणो दिवि दिशोऽक्रमे स्नायाद्दिगम्बरः || १०४ || हृन्मन्त्रं तु शतं साष्टं जपेत्स मुनिसत्तम | [वृद्ध गुर्वपचारे प्रायश्चित्तम्] वृद्धानां च गुरूणां च सन्निधौ वा तदाऽसने || १०५ || उपविष्टः शतं साष्टं प्रद्युम्नं च जपेधृदि | गुरूणामपहासे तु कृते वाऽश्लीलभाषणे || १०६ || [दुष्टेन मनसा गुरुभार्या सुतयोर्दर्शने प्रायश्चित्तम्] दुष्टेन मनसा दृष्ट्वा गुरोर्भार्यां सुतामथ | सिंहमन्त्रं जपेन्मन्त्री स्नातः पञ्च शतानि वै || १०७ || [स्त्रीशूद्रादिवधे प्रायश्चित्तम्] स्त्रीशूद्रबालकान्हत्वा कामतोऽकामतोऽपि वा | द्वेऽयुते ह्ययुतं साष्टं जप्त्वा यागेन शुध्यति || १०८ || सच्छूद्रघातनाच्चैव पूर्वोक्तद्विगुणं क्रमात् | [आलये चण्डालप्रवेशे प्रायश्चित्तम्] चण्डालपूर्वकः कश्चित्प्रविष्टो यदि मन्दिरम् || १०९ || सन्त्यजेन्मृण्मयान्सर्वान् भाण्डानप्यस्त्रवारिणा | प्रोक्षणीयकृतस्नानस्तत्रस्थः कपिलं जपेत् || ११० || शतानि द्वादश मुने तत्र सर्वं च शुध्यति | [रजकादीनां गृहे प्रवेशे प्रायश्चित्तम्] रजकश्चर्मकारश्च कामतोऽकामतो गृहे || १११ || संविशेदस्त्रतोयेन प्रोक्षयेच्च शतं जपेत् | [नियतानुष्ठानस्य विष्णुमयस्य सिद्धस्य सद्यःशुद्ध्यादिविशेषकथनम्] सूतके मृतके चैव नित्यं विष्णुमयस्य च || ११२ || प्. २८५) सानुष्ठानस्य विप्रेन्द्र सद्यः शुद्धिः प्रजायते | तत्रापि वासुदेवाख्यमन्त्रं पञ्चशतं जपेत् || ११३ || स्पर्शनं भोजनं दानं दशाहं तस्य वर्जयेत् | तत्संपर्काद्भवेद्दोषः सिद्धस्यापि महामुने || ११४ || [ब्राह्मणादीनां सूतकमृतकयोर्जपाद्यनुष्ठानानर्हता] नाधिकारो(री?) ह्यनुष्ठाने सदशाहं भवेद्द्विज(ः ?) | द्वादशाहं नृपश्चैव वैश्यः पञ्चदशान्तिकम् || ११५ || निवर्तन्ते जपध्यानात् शूद्रो मासं प्रयत्नतः | [उच्छिष्टसङ्करे प्रायश्चित्तम्] स्वजातिदीक्षितस्यापि उच्छिष्टोच्छिष्टसङ्करात् || ११६ || स्नात्वा जपेन्मूलमन्त्रं शतमष्टाधिकं द्विज | विजातेश्चोपवासस्तु विहितस्त्वीदृशो जपः || ११७ || [अदीक्षितावलोकने प्रायश्चित्तम्] यदि चादीक्षितः पश्येत्पूज्यमानं प्रभुं द्विज | अक्षसूत्रं तु वा मुद्रां जपेदथ (अस्त्र?) शतं जपेत् || ११८ || [गुरु देवनाम्ना शपथाचरणे प्रायश्चित्तम्] आपत्तावथ जातायां शपथं गुरुसंज्ञितम् | न कुर्याद्भगवत्संज्ञं प्रमादाच्च कृतं यदि || ११९ || तदर्थं निर्वहेद्यत्नादन्ते पूजाजपाहुतीः | अनिर्वाहाच्च कार्यस्य यदर्थं शपथं कृतम् || १२० || प्रायश्चित्तं जपेद्विप्र सहस्रं त्र्यक्षरस्य तु | होमं कुर्यात्तदर्धेन सोपवासश्च पूजनम् || १२१ || यो मोहाच्चापि वा पृष्टो गुरुणा शपथं भजेत् | ददाति चान्यो दुष्टात्मा व्रजेतां नरकं तु तौ || १२२ || [सङ्करप्रायश्चित्तम्] सङ्करेषु च सर्वेषु चेतसश्शुद्धिकारणम् | सिंहमन्त्रं जपेन्मन्त्री यावच्चित्तं प्रसीदति || १२३ || [स्तेयादौ प्रायश्चित्तम्] स्तेयेष्वेवं मूलमन्त्रमुपघातेषु नारद | प्. २८६) सिंहमन्त्रमशेषासु शुद्धिष्वस्त्रं तथैव च || १२४ || शपथेषु च हृद्बीजं भोज्याभोज्येषु चास्त्रकम् | सर्वद्रोहेषु वाराहं सर्वशान्तिषु नारद || १२५ || देवीमन्त्रचतुष्कं तु चित्तशुध्यर्थकारणम् | येन येन कृते चेह विपरीतेन कर्मणा || १२६ || मालिन्यमात्मनो विप्र जायते तत्प्रशान्तये | जपेद्ध्यायेच्च जुहुयान्मूलं भावः प्रसीदति || १२७ || यावल्लोकापवादस्तु तच्छुद्धौ विनिवर्तते | किल्बिषेणापवादेन मोहतामेति नारद || १२८ || सामर्थ्यान्मन्त्रजापस्य शतधा किल्बिषं व्रजेत् | विनिवृत्तोऽशुभाज्जन्तुर्ध्यानेन तपसा तु वा || १२९ || तीर्थेन मन्त्रजापाच्च पूजया हवनेन च | मेघरिक्तो यथा भानुस्तद्वल्लोके प्रकाशते || १३० || तस्मादघनिवृत्त्यर्थं प्रायश्चित्तं समाचरेत् | सर्वथाऽकीर्तिशान्त्यर्थं लोके धर्मव्यवस्थितेः || १३१ || नारदः [मन्त्रोपघाते प्रायश्चित्तप्रश्नः] मन्त्रोपघाते चोत्पन्ने ह्यर्चादौ गृहमेधिनाम् | नृपारितोयलोकानां सकाशात्तस्करस्य च || १३२ || किं कार्यं वद देवेश भक्तैर्भवभयाकुलैः | यस्मात्त्वयोक्तमन्यत्र मन्त्रः शास्त्राक्षसूचितः || १३३ || प्रतिमाकिंकणीसंस्थो यागोपकरणे परे(?) | अपूजितश्च विधिना कल्पोक्तेन दिने दिने || १३४ || संक्रुद्धः शापयन्त्या तु (त्याशु?)शश्वत्सिद्धिं न गच्छति | रोगशोकावघातांश्चोद्वेगां[श्च]जनयेद्बहून् || १३५ || श्रीभगवान् अर्चाद्याधारका मन्त्रा न्यस्तास्ते सन्निधिं सदा | सानुष्ठानस्य कुर्वन्ति विशेषाद्भावितात्मनः || १३६ || आधारस्थास्तु ये मन्त्राः पुराऽचार्यैर्निबोधिताः | प्. २८७) उपप्लवे समुत्पन्ने विसर्जनविधिं सदा (विना ?) || १३७ || सामर्थ्यात्स्वप्रभावाच्च आश्रयन्ति स्वकारणम् | तदाधारोपघाताच्च भ्रंशत्यायुर्जनस्य हि || १३८ || [मन्त्राधारभूतार्चोपघातजनितदोषशान्त्यर्थ- प्रायश्चित्तविधानम्] सुमहद्दोषशान्त्यर्थमाचर्तव्यमिदं मुने | यदि सन्निहितस्यैतदक्लिष्टस्य भवेत्तदा || १३९ || प्रयत्नेन दिनात्तस्माद्यमाचरणमारभेत् | ज्ञातं वाऽथ दिने यस्मिंस्तदादौ संप्रवर्तते || १४० || अथ सामर्थ्यविरहात् स्वतन्त्रत्वं च वा विना | प्रत्यहं तु यथाशक्ति स्वमन्त्रं भक्तितो जपेत् || १४१ || प्राप्तः प्रतिपदं यावत्तद्दिनादौ समाचरेत् | दशैकाहमभुञ्जानो ह्यश्नन्वा क्षीरसर्पिषी || १४२ || ईषद्वा फलमूलानि भूशायी न्यस्तविग्रहः | ध्यानं तु मण्डलं पूजां जपहोममतन्द्रितः || १४३ || एकादशाहेऽतिक्रान्ते दश द्वौ भगवन्मयान् | आचार्यान्पूजयेद्भक्त्या दानं द्वादशकं ततः || १४४ || प्रदद्याच्छक्तिपूर्वं च सर्वमूलं पृथक् पृथक् | गवान्नहेमरत्नानि ग्रामाणि रजतं तिलान् || १४५ || धान्यं गजाश्ववासांसि मधुरादीन्रसानपि | अभावाच्च गजाश्वाभ्यां कार्यौ सौवर्णराजतौ || १४६ || समर्थानां सवित्तानां भक्तानां कथितं त्विदम् | अल्पार्थानामशक्तानामतृप्तं नक्तभोजनम् || १४७ || दधिक्षीरघृताक्तं च युक्तं गोवैष्णवादिकम् (?) | हिरण्यतिलदानं च तेष्वपि द्वादशे दिने || १४८ || दत्वा तत्सन्निधौ भूयो मात्राग्रहणमाचरेत् | पूर्वोक्तेन विधानेन लब्धानुज्ञस्ततस्तदा || १४९ || ब्रह्मचारीवनस्थानां यतीनां केवलात्तु वै | स्नानाद्ध्यानात्तथा शौचाज्जपस्याप्ययुतत्रयात् || १५० || शुद्धिः स्यादन्यथा याति पातित्यं पातकात्स तु | प्. २८८) न पातकं विना यस्मान्मात्राहानिः प्रजायते || १५१ || पूर्वजन्मार्जितस्यैव पापस्योत्पद्यते क्षयः | यत्प्रभावान्मनस्तापो भक्तानां जायते महान् || १५२ || समकालमृतस्यान्ते विधिका क्षेत्रजन्मनः (?) | पूजनीयास्तथाऽचार्या वैश्येन त्रयि(त्र्यधि?)कौ तु सः || १५३ || चतुर्हरन्तिकान्तेन द्विगुणं द्विगुणं जपेत् | यस्य वै प्रकटा लोके ख्यातिर्यात्वार्यसंसदि || १५४ || तस्यैतत्कथितं चैव अकीर्त्यशुभशान्तये | यस्माल्लोकापवादो वै संयतानां विगर्हितः || १५५ || सम्यक्सिद्धस्य किं लोकैः कारणं मुनिसत्तम | न लोके प्रथितो यस्य मात्राभ्रंशो मनागपि || १५६ || जप्तव्यं तेन रहसि स्वमन्त्रस्यायुतत्रयम् | ब्रह्मचार्युदितेनैव विधिना पुनरेव तु || १५७ || मात्रासङ्घट्टनं कुर्याद्येन शान्तिमवाप्नुयात् | प्रणष्टायां तु मात्रायां यदि लाभो भवेत्पुनः || १५८ || प्रायश्चित्तादियत्नार्थं वासमाचरेत् | सर्वनाशात्तु यद्येको मन्त्रांशः प्राप्यते पुनः || १५९ || संस्कृत्य प्राप्य भुक्त्वा च जप्त्वा मन्त्रं तदाहरेत् | इति श्रीपाञ्चरात्रे जयाख्यसंहितायां प्रायश्चित्तविधिर्नाम पञ्चविंशः पटलः || २५ || अथ साधकस्य मूलमन्त्रसाधनं नाम सड्विंशः पटलः नारदः मुक्तिमार्गस्त्वया प्रोक्तो दीक्षा मम यथाक्रमम् | अधुना भुक्तिमार्गं तु यथावत्कथयस्व मे || १ || श्रीभगवान्- शृणु कर्माणि दिव्यानि मन्त्रराजस्य सुव्रत | संक्षेपात्कथयिष्यामि पातालोत्थानसाधने || २ || खट्फट्काञ्जनकाशंगु गुलिकादिप्रसाधने | प्. २८९) [मन्त्रसाधने देशवैलक्षण्यादिनियमः] साधकः संयतो भूत्वा मन्त्रव्रतपरायणः || ३ || महोत्साहः शुभाचारो धीरस्सर्वगुणान्वितः | पुण्यक्षेत्रेषु तीर्थेषु नदीनां सङ्गमेषु च || ४ || देवता ऋषिजुष्टेषु कुर्यात्स्थानपरिग्रहम् | पवित्राहारसंपन्नः सङ्करैः परिवर्जितः || ५ || जपेल्लक्षत्रयं धीरो मन्त्रार्पितमनाः सुधीः | पूर्वोक्तेन विधानेन अखिलेन द्विजोत्तमः || ६ || संत्यज्यानेककर्माणि सुसिद्धस्तु ददाति च | नियोजितः करोत्याशु वश्याकर्षणमारणान् || ७ || ग्रहज्वरविषादीनां भूतानां च प्रमर्दनम् | डाकिनीनां च सर्वासां ह्रासने मन्त्रनायकम् || ८ || यथा नियोजयेत्सम्यक् तथा शृणु समाहितः | [मूलमन्त्रस्य भूतोपशमनादौ विनियोगप्रकारः] कृत्वा तु मण्डलं दिव्यं तत्र कुंभं निवेशयेत् || ९ || पूर्वोक्तेन विधानेन इष्ट्वा देवं जनार्दनम् | स्थापयेत्पुरतस्तस्य शुचिमातुरमासने || १० || परिजप्य तु पुष्पाणि सिद्धार्थसहितानि तु | शताष्टपरिजप्तानि हस्ताभ्यामातुरस्य च || ११ || स्वहस्ते मण्डलं ध्यायेत्त्रिकोणे वह्निलांछितम् | तन्मध्ये देवदेवेशं तेजोरूपं विचिन्तयेत् || १२ || दीप्तचक्रगदापाणिं सर्वदुष्टांश्च तर्जयेत् | तद्धस्तं दर्शयेत्साध्ये क्षिप्रमावेशकारकम् || १३ || तं दृष्ट्वा सर्वभूतानि आविशन्ति भयार्दिताः | प्रविष्टमात्रं दृष्ट्वा तं शङ्खबन्धं तु कारयेत् || १४ || मूलमन्त्रेण मन्त्रज्ञः सार्णं संपुटितेन तु | भस्मना चास्त्रजप्तेन दिग्बन्धं चात्र कारयेत् || १५ || अस्त्रजप्तेन मन्त्रेण भस्मना ताडयेद्बुधः | ताडयेत्सप्तजप्तैस्तु कुशैः सिद्धार्थकैः पुनः || १६ || प्. २९०) त्रिजप्तं गुग्गुलं धूपं प्रदद्यात्मनः स तु | शीताद्भिः शरदण्डैर्वा सप्तजप्तैस्तु ताडयेत् || १७ || जयां मुद्रां ततो बध्वा मन्त्रमस्त्रयुतं जपेत् | यथेष्टं निग्रहं चास्य मन्त्रेणानेन कारयेत् || १८ || गदया ताडयेन्मूर्ध्नि कर्णं करविलिप्तये ? | अथवा प्रतिमां कुर्याद्गोमयेन गृहस्य तु || १९ || चक्रेणाङ्गानि कृन्तेत्तु यदि क्षिप्रं न मुञ्चति | मुञ्चामीति यदा ब्रूयात् शपथं कारयेत्सदा || २० || विसर्जयेद्बलिं दत्वा शिखादिग्बन्धमोक्षणात् | कर्मणा मनसा चैव तथा वाचापि मोक्षयेत् || २१ || [विषप्रशामनप्रकारः] ठकारोदरगं मन्त्रं कलाषोडशसंयुतम् | स्रवन्तममृतं ध्यायेच्चन्द्रमण्डलसन्निभम् || २२ || वामहस्ते विचिन्त्यैवं साध्यमूर्ध्नि निवेशयेत् | तेनामृतेन संपूर्य विग्रहं त्वातुरस्य च || २३ || हरेद्विषाण्यशेषाणि विधिनाऽनेन योजितः | [वशीकरणप्रकारः] सप्त जप्तानि पुष्पाणि सुगन्धाक्तानि दापयेत् || २४ || वामहस्तेन नारीणां पाणौ तासां च दक्षिणे | वामपाणौ तु विप्रेन्द्र नॄणां दक्षिणपाणिना || २५ || सद्यस्तद्वशतां यान्ति मन्त्रस्यास्य प्रभावतः | चन्द्रमण्डलमध्यस्थं मन्त्रं ध्यात्वा करोदरे || २६ || यस्य तद्दर्शयेद्धस्तं क्षिप्रं तं वशमानयेत् | न्यासं कृत्वा तु पूर्वोक्तं कान्तं रूपं विचिन्तयेत् || २७ || क्रुद्धस्याप्यग्रतः स्थित्वा क्षिप्रं तं वशमानयेत् | पत्रं पुष्पं फलं वाऽपि त्रिजप्तं यस्य दीयते || २८ || वशमायाति स क्षिप्रं मन्त्रस्यास्य प्रभावतः | रोचनाकुङ्कुमाभ्यां वा भस्मना चन्दनेन वा || २९ || प्रजप्य तिलकं कृत्वा विशेद्राजकुलं यदि | प्. २९१) प्रा यान्महतीं पूजां दर्शनान्नात्र संशयः || ३० || [उच्चाटनप्रकारः] वायव्यभुवनान्तस्थं मन्त्रं नीलांबुदप्रभम् | निराधारं तदन्तस्थं ध्यायेत्साध्यं कृशं महत् || ३१ || नीलाम्बरधरं कृष्णं शुक्लवर्णसमं लघु | देवं (व ?) नासानिलेनैव पूर्यमाणं नभस्थले || ३२ || भ्राम्यमाणं निराधारे उच्चाटत्यचिराच्च सः | [विद्वेषणविधानम्] आग्नेयभुवनान्तस्थं चाषपक्षसमद्युतिम् || ३३ || ध्यात्वा मन्त्रेश्वरं क्षिप्रं तत्पाद गो(द्वयगौ?)स्मरेत् | द्वौ साध्यौ हुतभुग्रूपौ वीक्षमाणौ परस्परम् || ३४ || पादं पदा ताडयन्तावभीक्ष्णं चातिवेगतः | करोति विप्र विद्वेषं ध्यानमात्रान्न संशयः || ३५ || [आकर्षणम्] सूर्यमण्डलमध्यस्थं ध्यायेन्मन्त्रेश्वरं द्विज | भग्नराजोपलाभं तु घ्राणाग्रस्थेन वायुना || ३६ || कर्षयन्तं सुदूराच्च साध्यं भास्वरविग्रहम् | विधिनाऽनेन भगवान् ध्यान(त?)स्त्वाकर्सणे सदा || ३७ || आकृष्य भवनं सर्वं साधकस्य ददाति च | सितपद्मोत्तरस्थं तु मन्त्रं ध्यात्वा खगासनम् || ३८ || वर्णतः सितरक्ताभं तत्पाणिद्वयगौ तु वै | द्वौ तु साध्यौ तदाकारौ पतन्तौ तौ तु संस्मरेत् || ३९ || हृष्टतुष्टप्रसन्नात्मा प्रीत्यर्थं मुनिसत्तम | नयेत् पथञ्चैव विधिनाऽनेन मन्त्रराट् || ४० || हुताशसलिले द्वे तु किं पुनर्मानवान्प्रति | [मारणम्] वायुवह्निपुराभ्यां तु मध्ये चक्रोदितं प्रभुम् || ४१ || संस्मरेत्कृष्णरक्तं तु साध्यं तत्पादतो हतम् | निष्पीड्यमानं वेगेन चक्रक्षेप्रैर्गतासुवत् || ४२ || प्. २९२) ध्यायेद्विलुप्तशक्तिं च निमीलितविलोचनम् | मारयत्यचिरेणैव विपक्षो यस्य साधकः || ४३ || [स्तम्भनम्] माहेन्द्रमण्डलान्तस्थं कुङ्कुमोदकसन्निभम् | प्रपीडयन्तं पादाभ्यामाधारं यन्त्रसंस्थितम् || ४४ || स्तम्भयत्यचिरेणैव यं यमिच्छति साधकः | [पुष्टिविधानम्] चन्द्रमण्डलमध्यस्थं पीतं पीताम्बरं प्रभुम् || ४५ || वमन्तममृतं वक्त्रात्तत्पीयूषं द्विजाधिप | विशन्तं ब्रह्मरन्ध्रेण स्मरेत्साध्यस्य हृद्गतम् || ४६ || सर्वाङ्गानि च तत्स्थेन आक्रान्तानि च भावयेत् | पुष्टाङ्गो जायते शश्वद्विधिनानेन मानवः || ४७ || [शान्तिकविधानम्] सितपद्मयुगान्तस्थं संपूर्णं च शशिप्रभम् | विचिन्त्यैकमजस्योर्ध्वे द्वितीयमधरस्थितम् || ४८ || निशाम्बुकणसङ्काशं स्वच्छन्दं मध्यतः स्थितम् | मुञ्चन्तं सलिलं देहाच्छीतलं क्षीरवत्स्थितम् || ४९ || सिच्यमानं स्मरेत्साध्यं तेन तं तदधःस्थितम् | जायते शान्तिकं सम्यग्यस्य यस्य द्विजेच्छसि || ५० || [पु(तु?)ष्टिविधानम्] कुङ्कुमोदकसङ्काशं पूर्णचन्द्रान्तरस्थितम् | ध्यात्वा मन्त्रं पुरा विप्र वमन्तममृतं मुखात् || ५१ || वर्णतः सितपीताभं तदग्रस्थं च भावयेत् | पिबन्तं पाणियुग्मेन आत्मानमथवातुरम् || ५२ || पु(तु?)ष्टिरुत्पद्यते शश्वन्मन्त्रराजप्रभावतः | एतत्पूर्वोक्तजापस्य फलमुक्तं समासतः || ५३ || अनुक्तान्यपि कर्माणि कुरुते चात्र योजितः | योज्यं कर्मपदं चैव परिकर्मणि यत्नतः || ५४ || कुरु वीप्सासमेतं च ध्यानेन परिभावितम् | पूर्वोक्ताद्द्विगुणाज्जापाच्चैव सिद्धिमवाप्नुयात् || ५५ || प्. २९३) [वैखरीसिद्धिः] विवरद्वारमासाद्य स्थण्डिलं चोपलेपयेत् | इष्ट्वा तु विधिना मन्त्रं कुर्याद्धोमं समाहितः || ५६ || तिलेन तु घृताक्तेन महिषाक्षेण वै पुनः | क्षीरवृक्षसमिद्भिर्वा दूर्वाकाण्डैरभावतः || ५७ || लक्षमात्रे हुते ह्याशु वैखरीं सिद्धिमाप्नुयात् | भित्वा तु सत्वयन्त्राणि प्रविशेद्विवरोत्तमम् || ५८ || पीत्वा रसायनं दिव्यं नारायणबलो भवेत् | क्रीडने कन्यकायुक्ते यावदाभूतसप्लवम् || ५९ || [खड्गसाधनम्] भूमिभागे समे लिप्ते रोचनां कुङ्कुमैर्युताम् | लिखेत् त्रिंशाङ्गुलं खड्गं स्पष्टं साङ्गं मनोरमम् || ६० || पूर्वोक्तेन विधानेन इष्ट्वा तत्र जनार्दनम् | मुष्टिस्थाने करं स्थाप्य जपेल्लक्षं समाहितः || ६१ || युक्ताहारविहारो हि युक्तस्वप्नो ह्यखेदवान् | यावदुत्तिष्ठते खड्गो मुष्टिना ग्राहयेत्ततः || ६२ || तं गृहीत्वा तु सर्वेषां विद्यानामधिपो भवेत् | विद्याधराणां सर्वेषां चक्रवर्तित्वमाप्नुयात् || ६३ || [अञ्जनादिसाधनम्] पूर्वोक्तेन विधानेन पूजयेन्मन्त्रनायकम् | रोचनां शङ्खशुक्तौ तु गृहीत्वा शङ्खमुद्रया || ६४ || तावत्परिजपेन्मन्त्रं यावज्ज्वालां प्रमुञ्चति | तन्मध्ये दृश्यते कान्ता कन्यका कामरूपिणी || ६५ || सिद्धास्मीति वदेत्सा तु कुरु कार्यं यथेप्सितम् | अनेनैव विधानेन अञ्जनादीनि साधयेत् || ६६ || [गुलिकासाधनम्] रोचनां कुङ्कुमं चैव हरितालं मनश्शिलाम् | चक्रांकां चौषधीं तत्र पञ्चमां विनियोजयेत् || ६७ || प्. २९४) सूक्ष्मपिष्टां तु तां कृत्वा आलोड्य मधुरैस्त्रिभिः | एकादश्यां समभ्यर्च्य मण्डले मन्त्रनायकम् || ६८ || तत्राधिवासयेत्तां तु गुलिकां यन्त्रसंपुटे | सितार्कस्य विधानेन द्वादश्यां तु जपेत्ततः || ६९ || दशायुतं तु तन्मन्त्री ततः सिद्धा तु सा भवेत् | तया करस्थया मन्त्री विधिवद्गगनान्तरे || ७० || पाताले वा महीपृष्ठे लोकपालपुरेषु च | चक्रपाणिर्यथा विष्णुरधृष्यः सर्वदैवतैः || ७१ || जायते साधकेन्द्रस्तु मन्त्रस्यास्य प्रभावतः | [रसायनादिसाधनम्] ब्राह्मणं क्षत्रियं वाऽपि निर्व्रणं लक्षणैर्युतम् || ७२ || युवानमेकं दिवसं संस्थितं तु समानयेत् | शून्ये गृहे समावेश्य स्नापयेदर्चयेत्ततः || ७३ || यथा विधानतो मन्त्री मन्त्रं संपूज्य मण्डले | उपविष्टं शवं कृत्वा मन्त्रं तस्याग्रतो जपेत् || ७४ || ताडयेत्सर्षपाणां तु शतेनाष्टोत्तरेण तु | ततो वेगात्समुत्थाय ब्रवीति प्रणतो वचः || ७५ || किं करोमि तवाद्याहं ममाज्ञा संप्रदीयताम् | पादमूले रसं सिद्धं रसायनमपि द्विज || ७६ || यच्चान्यन्मनसोऽभीष्टं दद्ददात्यविकल्पतः | [यक्षिणीसाधनम्] कौशेयवस्त्रमानीय लिखेत्तत्र च यक्षिणीम् || ७७ || सर्वाभरणसंयुक्तां सुरूपां मनसेप्सिताम् | यथोक्तेन विधानेन मन्त्रं संपूज्य पूर्ववत् || ७८ || उपोषितश्चार्धरात्रे दद्याद्धूपं सगुग्गुलुम् | सप्ताहमेवं कुर्वीत जपेच्चाप्ययुतं सदा || ७९ || सप्तमे ह्यर्धरात्रे तु सशद्बः कम्पते पटः | प्रत्यक्षमास्ते विप्रेन्द्र रूपैश्वर्येण संयुता || ८० || प्. २९५) यदा तु न क्षुभेन्मन्त्री तदा सिद्धाऽस्य सा भवेत् | माता वा भगिनी भार्या का भवामीति भाषते || ८१ || तस्या यथेष्टं वक्तव्यं निर्विकल्पेन चेतसा | सा सिद्धा सर्वकार्याणि साधयत्याशु मन्त्रिणः || ८२ || कामं ददाति विविधं नानारूपैर्यथेप्सितम् | जायात्वेन द्विजश्रेष्ठ यदा चाङ्गीकृता पुरा || ८३ || निधीनथाक्षयान् शश्वद्भगिनीत्वे प्रयच्छति | लोकालोकान्तरालोकं दर्शयत्यविचारतः || ८४ || औषधीश्च तदा दिव्या रसांश्च विविधानपि | शास्त्राणि विविधान्याशु साधयेच्छान्तिसिद्धये || ८५ || ददाति सम्यक् सिद्धा सा सुसिद्धीर्जननी यथा | [परसैनिकप्रणाशनम्] संग्रामकाले संप्राप्ते आयुधान्यभिमन्त्रयेत् || ८६ || परसैनिक(?)पूर्वोक्तमभिमन्त्र्य च सर्षपान् | अस्त्रसंपुटितेनैव तेनैव त्र्यक्षरेण तु || ८७ || मन्त्रेणाग्निप्रभावेन ज्वालामालाकुलेन तु | गत्वा परबलास्त्रं तु क्रोधसंरक्तलोचनः || ८८ || प्रक्षिपेत्सैन्यमध्ये च नाशयेत्परसैनिकम् | [दिव्यानां स्तम्भनम्] रोचनाकुङ्कुमैर्युक्तो नाममन्त्रविदर्भितम् (?) || ८९ || लिखेत्कौस्तुभमध्ये तु कलाषोडशसंयुते | एकैका तु कला विप्र पुरा युक्ताऽमृतेन तु || ९० || साऽमृतानां कलानां च योजयेच्च तथोपरि | विश्वाप्यायस्थितं वापि चन्द्ररश्मिसमप्रभम् || ९१ || तद्बाह्येऽष्टदलं पद्मं विलिखेच्च सकर्णिकम् | देव्योऽङ्गानि यथार्चायां दलेष्वभ्यन्तरे लिखेत् || ९२ || स्तम्भयेत्सर्वदिव्यानि खात्केशां(खेचरां?)श्च निवारयेत् | पूजनाद्धवनाद्ध्यानाच्चन्दनोदकसेचनात् || ९३ || प्. २९६) [उत्पातप्रशमनम्] लिखितं भूर्जपत्रे तु क्षीराम्भोविनिवेशितम् | उत्पातानि महोग्राणि साभिचाराणि नाशयेत् || ९४ || [विषशस्त्रादिभयप्रशमनम्] त्रिलोहवेष्टितं कृत्वा पुष्यर्क्षे लिखितं तु वै | द्वादश्यां शुक्लपक्षे वा मध्यंदिनगते रवौ || ९५ || बाह्वोः कण्ठे तथा मूर्ध्नि यस्तु धारयते सदा | विषशस्त्राग्निभूतेभ्यो भयं तस्य न जायते || ९६ || [चक्रयन्त्रसाधनम्] रोचनाचन्दनेनैव भूर्जे वा सितकर्पटे | चक्रं कुर्याद्द्विषट्कारं नाभिनेमिसमन्वितम् || ९७ || तन्मध्ये कमलं कुर्यात् षोडशच्छदभूषितम् | त्र्यर्णेन मूलमन्त्रेण नामसंपुटयोगतः || ९८ || विलिख्य तद्बहिर्दद्यान्मन्त्रं यो द्वादशाक्षरम् | परिवेषप्रयोगेण पत्रे पत्रे लिखेत्ततः || ९९ || देवीनां हार्दकं बीजं चतुर्धा केसरावधौ | अष्टाष्टकं तु बीजानां यावदेकत्र सङ्ख्यया || १०० || ततः सर्वदलाग्रस्थः प्रणवो लिख्यते द्विज | पुष्पपत्रात्समारभ्य हकाराद्यं च विन्यसेत् || १०१ || क्रमान्मकारपर्यन्तं ततः पद्मस्य बाह्यतः | शिरः शिखां च कवचं नाभित्रितयगं लिखेत् || १०२ || परिवेषप्रयोगेण चक्रारेषु लिखेत्ततः | अस्त्रा द्वादशधा विप्र एकैकस्यान्तरे ततः || १०३ || नेत्रमन्त्रं त्रिधा दद्यान्नाभिवन्नेमिमण्डले | यन्त्रोऽयं मुनिशार्दूल सर्वोपद्रवनाशनः || १०४ || धारणात्स्मरणाद्ध्यानान्नास्ति तद्यन्न साधयेत् | [शङ्खयन्त्रम्] शङ्खोदरगतं पद्मं लिखित्वा द्वादशच्छदम् || १०५ || समदेन तुषारेण कुङ्कुमेन तथैव च | विलिख्य कर्णिकामध्ये त्र्यक्षरं मूर्तिसंयुतम् || १०६ || प्. २९७) वलयाकृतियोगेन नाम तन्मध्यतो लिखेत् | नारसिह्मादयो मन्त्रास्त्रयो लेख्या दलत्रये || १०७ || भूयो भूयश्चतुर्वारं बाह्यपद्मं च वेष्टयेत् | क्रमात्पद्मादिकैर्मन्त्रैस्सर्पकुण्डलयोगतः || १०८ || वक्त्रदेशेऽथ शङ्खस्य क्रमाल्लोकेश्वरा दश | अस्त्रमन्त्रास्तथा सख्यः शङ्खस्याथो निवेशयेत् || १०९ || इदं यन्त्रं मुनिश्रेष्ठ सर्वमन्त्रैरधिष्ठितम् | सर्वकर्मकरं प्रोक्तं सर्वोपप्लवनाशकम् || ११० || सर्वरोगविघातं च सर्वामयविनाशनम् | [तिथिनक्षत्रविशेषात्फलभेदः] सर्वमङ्गलकृत्सम्यक् पुष्यर्क्षलिखितं भवेत् || १११ || द्वादश्यामथ शुक्लायां पूजयित्वा यथाविधि | अभिषेकविधानेन शान्तिके पौष्टिके लिखेत् || ११२ || रक्षार्थं सर्वभूतेभ्यो योज्यं सर्वत्र सर्वदा | [आहुतिद्रव्यभेदात् आहुतिसङ्ख्याभेदाच्च फलभेदः] लक्षाहुतिप्रदानेन तिलानां कृष्णवर्चसाम् || ११३ || पूजयेद्वत्सरं यत्तु होमान्तेऽथ घृताहुतीः | आपाद्य द्वादशशतं स्रुचा सम्यङ्महामुने || ११४ || ददाति तस्य भगवान् यत्किञ्चिन्मनसेप्सितम् | एकादश सहस्राणि कमलानां तु नारद || ११५ || जुहुयाच्च घृताक्तानामेकान्ते विजने तु यः | समुद्धृत्योदकात्सद्यस्तस्य लक्ष्मीं प्रयच्छति || ११६ || योऽयुतं चाथ बिल्वानां घृताक्तानां तु होमयेत् | तस्य क्षिप्रं ददात्येष मन्त्रेशो विपुलं धनम् || ११७ || ग्रामानश्वान्सुवर्णं च दर्शयेत्तु कृताकृतम् | आयुः पुत्रानथारोग्यं सौभाग्यं सर्वतोमुखम् || ११८ || यस्या अग्रे देवताया इमं मन्त्रेश्वरं जपेत् | सा तस्मै सकलान्कामान्प्रसन्ना संप्रयच्छति || ११९ || साधितो मन्त्रसिद्धिर्हि(द्ध्या हि?) मन्त्रराजः करोति च | प्रसादितश्च पूजाद्यैः कर्मणा चाग्निकेन तु || १२० || प्. २९८) सामान्यमपि यत्किंचिद्भूतले कर्म विद्यते | स्मरणात्सर्वमेवाशु साधकानां प्रयच्छति || १२१ || [मन्त्रराजस्य महिमाविशेषः] इदमन्यत्प्रवक्ष्यामि मुनिश्रेष्ठ निबोध मे | मन्त्रराजस्य यद्वीर्यं माहात्म्यं प्रभविष्णुता || १२२ || येनायं पूजितः सम्यक् ज्ञातो ध्यातः सकृत्स्मृतः | तस्य सिद्धिः परा दिव्या मानुषी संप्रवर्तते || १२३ || न चास्य सदृशो मन्त्रो मन्त्रराजस्य विद्यते | सुखसौभाग्यसंपत्तेरपवर्गप्रसिद्धये || १२४ || इमं मन्त्रेश्वरं जप्त्वा भक्तिश्रद्धापरस्तु यः | तच्चित्तो विजने स्थाने सर्वान्कामानवाप्नुयात् || १२५ || किमन्यैस्तस्य विप्रेन्द्र मन्त्रकोटिशतैरपि | स तु चिन्तामणिप्रख्यो यस्यायं हृदि वर्तते || १२६ || सर्वकामप्रदः सद्यो देहान्तेऽपि च मोक्षदः | इमं मन्त्रेश्वरं जप्त्वा सर्वान्कामानवाप्नुयात् || १२७ || न चास्य सदृशो मन्त्रो मन्त्रैः कोटिशतैरपि | एवं मन्त्रवरं लब्ध्वा धुनेत्सर्वं फलाफलम् || १२८ || चिन्तामणिर्यथा लोके सर्वाभीष्टं प्रयच्छति | एवं मन्त्रेश्वरो ह्येष साधकाय प्रयच्छति || १२९ || ऐहिकामुष्मिकं सर्वं सम्यगाराधितः सदा | लक्षायुतायुते जप्ते पूजाहोमादिकैर्विना || १३० || प्रयच्छत्यणिमादीनि जपान्ते मन्त्रराड् द्विज | प्राणायामादिसंयुक्तो धारणाध्यानतत्परः || १३१ || विना हवनपूजाभ्यां लक्षं लक्षं स्थितो जपेत् | साक्षात्पश्यति देवेशं विष्णुं परमरूपिणम् || १३२ || एतदुद्देशतो विप्र कर्म मन्त्रेश्वरस्य तु | भक्त्यर्थं साधकेन्द्राणां कथितं नातिविस्तृतम् || १३३ || तन्नास्ति यन्न मन्त्रेशः साधयेत्परितोषितः | इति श्रीपांचरात्रे जयाख्यसंहितायां साधकस्य मूलमन्त्रसाधनं नाम सड्विंशः पटलः || २६ || अथ शक्तिमन्त्रसाधनं नाम सप्तविंशः पटलः श्रीभगवान् अनुक्रमेणाथ मुने लक्ष्म्यादीनां च साधनम् | विविधानि च कर्माणि मन्त्रेभ्यो ह्यवधारय || १ || [लक्ष्म्यादिषु अनन्ताद्यासनस्य साधारण्यम्] अनन्तं च तदूर्ध्वे तु धर्माद्यं यच्चतुष्टयम् | पद्मं धामत्रयोपेतं सर्वमन्त्रगणस्य च || २ || सामान्यमासनं विद्धि पूजाकाले तु सर्वदा | [तत्र द्वारयागादेः साधारण्यम्] द्वारयागो गणेशादिपूजनं मुनिसत्तम || ३ || लोकेश्वरास्त्रयागश्च सर्वत्र विहिताः सदा | देवीचतुष्कयागे तु षट्के तु हृदयादिके || ४ || नृसिह्मकपिलक्रोडयागेषु च यजेद्द्विज | [लक्ष्म्यादियागादन्यत्र विष्वक्सेनपूजनप्रतिषेधः] विष्वक्सेनस्तु नान्यत्र पूजनीयः कदाच || ५ || [तत्तन्मन्त्राणां तत्तद्धृदयेनैवोपचारः] यं यं प्रपूजयेन्मन्त्री मन्त्रं सिद्धिपरायणः | तन्मन्त्रं हृदयेनैव तं तमेवोपचार्य च || ६ || नोपचारिकमन्त्रान्वै पूर्वोक्तान्विनिवेशयेत् | [जपसूत्रे विशेषः] न मूलमन्त्रसंरुद्धं सूत्रं तु जपकर्मणि || ७ || तन्मन्त्रेण तु संस्कृत्य पुरा सन्धाय चापरम् | [धूपघण्टादीनां साधारण्यम्] सामान्यं सर्वमन्त्राणां धूपघण्टा पुरोदिता || ८ || यागागारं तथा कुण्डं स्रुक्स्रुवौ मुनिसत्तम | अथाङ्गषट्कं व्याख्यास्ये लक्ष्म्याद्यादौ तु लक्षणम् || ९ || चतुर्णां तु सखीनां च बीजमन्त्रचतुष्टयम् | चतुर्णामनुगानां तु क्रमेण च यथास्थितम् || १० || प्. ३००) [लक्ष्म्या अङ्गमन्त्रः] आदाय पुण्डरीकं तु धरेशं तदधो न्यसेत् | अनलं तदधःस्थं च कृत्वा षोढा नियोज्य च || ११ || क्रमेण योजयेदेषामानन्दं प्रथमस्य च | विष्णुमूर्जमथैश्वर्यं भूधरं परमेश्वरम् || १२ || चान्द्री व्योमेशसंयुक्तां सर्वेषामुपरि न्यसेत् | विद्धि षड् हृदयादीनि [लक्ष्म्याः सखीमन्त्रः] सखीनामधुना शृणु || १३ || आदाय केवलं सत्यं तत्स्थितं वरुणं ततः | मायायुक्तं ततः सोमं वरुणं रामभूषितम् || १४ || चान्द्री व्यापी क्रमाद्योज्यौ सर्वेषां मूर्ध्नि वै ततः | ऋद्धिः वृद्धिः समृद्धिश्च विभूतिरपि सा सखी || १५ || [लक्ष्म्या अनुचरमन्त्रः] लकारस्त्वादिदेवस्थस्सोमोऽथ भुवनस्थितः | द्विधाऽमृतं समादाय भूधरेण समन्वितम् || १६ || पूर्ववच्चिरसंयुक्तमेतत्कुर्याच्चतुष्टयम् | लावण्यः सुभगो नाम्ना सौभाग्यश्च तृतीयकः || १७ || चतुर्थस्सौमनस्यश्च चत्वारोऽनुचराः स्मृताः | सर्वेषां प्रणवं पूर्वं नामस्वाहानमोनुगम् || १८ || [मण्डलम्] चतुरस्रं चतुर्द्वारं कृत्वा पूर्वोदितं पुरम् | तन्मध्येऽष्टदलं पद्मं लिखेच्छुक्लारुणप्रभम् || १९ || सितानि चतुरालिख्य कोणेषु स्वस्तिकानि च | [न्यासः] व्यापकत्वेन तु पुरा मणिबन्धमुखादिगम् || २० || विन्यस्य मूलमन्त्रं तु हस्ते देहे च केवलम् | पश्चादादौ तु हस्ताभ्यां लक्ष्मीमन्त्रं तथा न्यसेत् || २१ || प्. ३०१) तदङ्गानि हृदादीनि हस्ते देहे च विन्यसेत् | तस्यानुगचतुष्कं यद्देवीनां तदनु न्यसेत् || २२ || प्रदेशिन्यादितो हस्ते देहे तदनु विन्यसेत् | उत्तमाङ्गेऽथ हृन्मध्ये ऊर्वोर्जानुद्वये तथा || २३ || लावण्याद्याश्च चत्वारो ह्यनामादौ करद्वये | अङ्गुष्ठान्तं करे न्यस्य देहे तदनु नारद || २४ || दक्षिणे च तथा वामे स्कन्धे पक्षद्वये तथा | [लक्ष्म्या मानसयागः] न्यासं कृत्वा यथान्यायं श्रीकामोऽथ यजेद्धृदि || २५ || लययागप्रयोगेण लक्ष्मीमन्त्रं तु केवलम् | कृत्वाऽवलोकनाद्यं तु ततो बाह्ये तु विन्यसेत् || २६ || [बाह्ययागार्थो मण्डले विन्यासः] मूर्तिमन्त्रयुतं मूलं कर्णिकोपरि नारद | सकलाकलदेहं च सर्वमन्त्रात्मकं प्रभुम् || २७ || तदुत्सङ्गगतां लक्ष्मीं स्वमन्त्रेणावतार्य च | पूर्वोक्तध्यानसंयुक्तां भोगमोक्षप्रसिद्धये || २८ || तदाग्नेये तदीशाने वायवीये च नैऋते | चत्वारि हृदयादीनि नेत्रं केसरसन्ततौ || २९ || तदग्रे दक्षिणे पृष्ठे वामपत्रे क्रमान्न्यसेत् | चतुष्टयं तु शुद्धा(ऋद्ध्या?)द्यं द्विभुजं तु तदाकृति || ३० || पद्मगौरप्रतीकाशं श्रीवृक्षचमराङ्कितम् (?) | पद्मासने चोपविष्टं प्रेक्षमाणं तदाननम् || ३१ || स्वस्तिकानां तदीशादिकोणस्थाने निवेश्यते | लावण्याद्यचतुष्कं तु पीतवर्णं चतुर्भुजम् || ३२ || नीलकौशेयवसनं पद्मकुम्भकरान्वितम् | नलिनीध्वजहस्तं च सफलामलवृक्षधृत् || ३३ || द्वारेष्वस्त्रं चतुर्दिक्षु न्यस्य पूज्य यथा पुरा | [जपहोमादिविधिः] मूलमन्त्रयुतां देवीं लक्ष्मीं लक्ष्मीप्रदां द्विज || ३४ || प्. ३०२) जप्त्वा कृत्वा ततो होमं सघृतैस्तु तिलाक्षतैः | सामलैः श्रीफलैश्चैव सक्तुलाजैस्तु पङ्कजैः || ३५ || यथाशक्ति ह्यसङ्ख्यैस्तु होमान्ते च ततो द्विज | लक्ष्मीरूपधरो भूत्वा साधकः कृतनिश्चयः || ३६ || जपेल्लक्षाणि वै पञ्च शुद्धाहारो जितेन्द्रियः | होमं कुर्याज्जपान्ते तु क्रमाद्बिल्वफलाम्बुजैः || ३७ || पयोमधुघृताक्तैस्तु अयुतायुतसंख्यया | [लक्ष्मीमन्त्रसिद्धिजं सामर्थ्यम्] ददाति दर्शनं विप्र होमान्ते परमेश्वरी || ३८ || पुत्र सिद्धाऽस्मि ते ब्रूहि यत्ते मनसि चेप्सितम् | कुरु कर्माण्यभीष्टानि मन्मन्त्रेणाखिलानि च || ३९ || अद्य प्रभृति निश्शङ्को द्वन्द्वोपद्रववर्जितः | एवमुक्त्वा तु सा देवी याति यत्रागता तु वै || ४० || ततः कर्माणि वै कुर्याल्लक्ष्म्योक्तानि तु साधकः | तुष्टाऽभीष्टां श्रियं दद्यादर्थिनामर्थकामिनाम् || ४१ || संक्रुद्धो निर्धनं कुर्याद्वाङ्मात्रेण धरेश्वरम् | शुद्धं कुर्यात्सकृद्ध्यानान्मन्त्रजापाच्च हाटकम् || ४२ || पूरयित्वाऽम्भसा कुंभं क्षीरेण मधुनाऽथवा | निधाय दक्षिणे हस्ते वामं तदुपरि न्यसेत् || ४३ || शतमष्टाधिकं मन्त्रं जपेद्ध्यानसमन्वितम् | रसेच्छासुनिवेशस्थो ह्येकचित्तः समाहितः || ४४ || रसेन्द्रत्वं समायाति यत्कुम्भे त्वाहृतं जलम् | सरसो लक्षवेधी स्याच्छस्त्रादीनां भवेद्विज || ४५ || करोति कायमजरं जरारोगविवर्जितम् | अङ्गुष्ठोदरमात्रं तु पुरा पाषाणमाहरेत् || ४६ || दक्षिणेन च हस्तेन वामे च बदरीसमम् | अभिमन्त्र्य तु द्वौ मुष्टी द्वे शते षोडशाधिके || ४७ || दक्षिणस्थं तु पाषाणं रत्नत्वमुपयाति च | वामे मुक्ताफलत्वं च महामूल्ये तु ते उभे || ४८ || प्. ३०३) यद्यदिच्छति जात्या वै तत्तद्रत्नं भवेत्तदा | तथा मुक्ताफलं यद्यत्प्रतिभाति करोति तत् || ४९ || गोगजाश्वसमुद्भूतमस्थि चादाय पाणिना | शतार्धमन्त्रितं कृत्वा प्रवालत्वं प्रयाति तत् || ५० || शताभिमन्त्रितं कृत्वा त्रपुसीसे तथाऽयसम् | जायते कलधौतं तु रजतं वाऽथ निर्मलम् || ५१ || यद्यद्गृहीत्वा विप्रेन्द्र यं यं वा तु समीहते | क्रुद्धो वा परितुष्टश्च तत्तत्कुर्यात्तु नान्यथा || ५२ || एवमश्ममयानां तु अन्यत्वमुपपद्यते | या या मनसि वै यस्य विभूतिं प्रददाति च || ५३ || तां तां ददाति तस्याशु धनधान्यगवादिकम् | लिखित्वा भूर्जपत्रे तु यागन्यासक्रमेण तु || ५४ || रोचनाकुङ्कुमाभ्यां तु सन्धारयति यः सदा | सुवर्णवेष्टितं चाङ्गे लक्ष्मीमन्त्रं तु नारद || ५५ || तस्यायुषश्श्रियो वृद्धिस्सर्वसत्त्वाश्रयो महान् | प्राप्नुयान्महतीं पूजां यत्र यत्र च संविशेत् || ५६ || इदमाराधनं प्रोक्तं श्रीकामानां समासतः | [कीर्तिमन्त्रसाधनप्रकारः] कीर्तिमन्त्रविधानं तु सांप्रतं मेऽवधारय || ५७ || विलिख्य कमलं षोढा अनलासनसंस्थितम् | अङ्कयेच्छिरसा विप्र लाक्ष्म्यमङ्गगणं यथा || ५८ || सर्वत्र चास्त्रमन्त्रस्य तच्चिह्नं परिवर्जयेत् | [कीर्तेः सखीमन्त्राः] शान्तिदं च ततस्सोमं मर्दनं शङ्करं ततः || ५९ || क्रमेणालिख्य चतुरः कालपावकसंस्थितान् | व्यापी चान्द्री ततो माया एकैकस्मिंस्तु मूर्धनि || ६० || द्युतिः सरस्वती मेधा धृतिः कीर्तिः सखीगणः | प्. ३०४) [कीर्तेरनुचरमन्त्राः] आनन्दयुक्तं वरुणमप्रमेयं च केवलम् || ६१ || पवित्रमनलारूढं स्रग्धरं च तथाविधम् | आनन्देनापि चाक्रान्तं चतुर्णां मूर्ध्नि योजनम् || ६२ || विश्वाप्यायकरो व्यापी क्रमादनुचरास्त्वमी | वागीशो ह्यभयश्चैव प्रसादस्त्राणसंज्ञितः || ६३ || [पूर्ववन्मण्डलादिविधानम्] न्यासो हृत्पद्मयागश्च सर्वं विद्धि पुरोदितम् | पूर्वोक्तं मण्डलं कृत्वा सितपीतं तदन्तरे || ६४ || किं तु वै पङ्कजं कुर्याद्विन्यसेत्तदनन्तरम् | विभोरुत्सङ्गगां कीर्तिं हृदादीनि यथा पुरा || ६५ || [सखीनामनुचराणां च ध्यानप्रकारः] क्रमाद्ध्यानं सखीनां च शृणुष्वानुचरेष्वपि | द्विभुजा हेमवर्णाश्च कीर्तिरूपाः स्मिताननाः || ६६ || सुपुस्तकं करे वामे दक्षिणे चामरं करे | ध्यायेत्किंशुकवर्णास्ताः कान्तरूपा मनोहराः || ६७ || तदाऽनुगचतुष्कं तु चतुर्हस्तं सिताम्बरम् | वामदक्षिणहस्ताभ्यां मुख्याभ्यां तेषु चिन्तयेत् || ६८ || शङ्खमिन्दुशताभं च कदम्बाख्यं महाद्रुमम् | सुपुष्पं षट्पदोपेतं पराभ्यां च निबोध मे || ६९ || पूर्णचन्द्रोपमं वामे दर्पणं दक्षिणे द्विज | मयूरव्यजनं शुभ्रं ध्यात्वैवं पूजयेत्ततः || ७० || [होमजपयोर्विधिः] अर्घ्यपुष्पादिकाः सम्यक् दत्वा शक्त्याऽथ होमयेत् | तिलानि चाज्यसिक्तानि गन्धधूपान्वितानि च || ७१ || देवीरूपं तु होमान्ते कृत्वा पुष्पाञ्जनाम्बरैः | एकान्ते विजने स्थित्वा मौनी मूलफलाशनः || ७२ || जपेल्लक्षत्रयं मन्त्री जपान्ते होममाचरेत् | लक्षैकसंख्यं विप्रेन्द्र तण्डुलैस्तिलमिश्रितैः || ७३ || प्. ३०५) कापिलेन घृतेनैव क्षीरमिश्रेण नारद | एकैकं च घृतादीनां सहस्रं चाथ होमयेत् || ७४ || दद्यात्पूर्णाहुतिं पश्चात् क्षीरेणाज्यान्वितेन च | पतितायां तु पूर्णायामायाति परमेश्वरी || ७५ || साधु साध्विति वै ब्रूते स्थित्वाऽग्रे साधकस्य च | एह्येहि परमं धाम त्यजेदं भौतिकं पुरम् || ७६ || उपभुङ्क्ष्व परान्भोगानक्षमध्यगतो महान् | मदीयेनाखिलं कर्म मन्त्रेण कुरु साधक || ७७ || एवमुक्त्वा तु सा देवी गगनं च व्रजेत्ततः | साधकः कीर्तिमन्त्रेण कुर्यात्कर्म यथेप्सितम् || ७८ || [कीर्तिमन्त्रसिद्धिजन्यं सामर्थ्यम्] ददाति यस्य यत्किञ्चित्तस्य तच्चाक्षयं भवेत् | तेनासौ लभते कीर्तिं यावच्चन्द्रार्कतारकम् || ७९ || प्रचण्डानां मनुष्याणां मध्यस्थो यदि बुध्यते | वक्ति संसदि वा किंचित् प्राप्नुयाद्विपुलं यशः || ८० || अभिभूय जनान्सर्वानुत्कृष्टत्वं प्रयाति च | जप्त्वा सिद्धान्नभाण्डं तु स्वल्पं कालेऽन्नसङ्कटे || ८१ || यथेच्छानां जनानां तु यथेच्छमशनं द्विज | ददाति चाक्षयं तस्मात्सप्ताहमनिशं यदि || ८२ || प्राप्नुयान्महतीं कीर्तिं यावदाभूतसंप्लवम् | सुभिक्षे लवमात्रं तु प्रदाय कनकस्य च || ८३ || परिजप्य सहस्रं तु विधिना परिसंस्थितम् | प्रयाति तत्प्रभूतत्वं दीयतेऽर्थिजनाय च || ८४ || अविच्छिन्नं द्विसप्ताहं संक्षयं नाधिगच्छति | तेनासौ महतीं कीर्तिं प्राप्नुयाच्छाश्वतीं द्विज || ८५ || आदाय तोयकलशं नागेन्द्रभवनाद्द्विज | प्रयायान्मरुभूमिं वै तत्र निम्ने तु भूतले || ८६ || निक्षिप्य पर्वताग्रे वा सहस्रपरिमन्त्रितम् | स पन्नगेश्वरस्तत्र परिचारान्वितो द्विज || ८७ || रक्षन्नुदकमातिष्ठेद्यावत्तिष्ठति मेदिनी | प्. ३०६) तेनासौ महतीं लोके कीर्तिं प्राप्नोति नारद || ८८ || काले तु बीजरोहीये यदि देवो न वर्षति | आदाय मृत्कणं हस्ते तटाकाज्जलमर्दितम् || ८९ || तं मध्यस्थभयक्लिन्नं (?) परिजप्य शतत्रयम् | कख (मुख ?) श्वासैस्तु सन्तप्तं कृत्वा मन्त्रमनुस्मरेत् || ९० || प्रक्षिपेद्गगने तद्वन्मेघत्वमुपयाति च | पूरयेन्मेदिनीं सर्वां जलेन जलदस्तु सः || ९१ || तदाज्ञया वसेत्तावत् तस्मिन्देशे स मेघराट् | वर्षं तदुपयोग्यं च यावत्संपद्यतेऽखिलम् || ९२ || तेनासौ महतीं कीर्तिं प्राप्नुयाच्च त्रिलौकिकीम् | संपादयति विप्रेन्द्र यस्य यन्मनसेप्सितम् || ९३ || प्रभावान्मन्त्रराजस्य प्रसादादच्युतस्य च | लिखितं पूर्ववद्बध्वा वस्त्रे वा दक्षिणे भुजे || ९४ || प्राप्नुयान्महतीं वृद्धिं पूर्णां कीर्तिं सरस्वतीम् | एतत्संक्षेपतः प्रोक्तं कीर्तिमन्त्रस्य नारद || ९५ || [जयामन्त्रसाधनप्रकारः] संविधानमपूर्वं च सन्ततेरपि भूतिदम् | जयाख्यमधुना विद्धि विधानं विष्णुभाविनाम् || ९६ || [जयाया अङ्गमन्त्रः] आदाय शाश्वतं षोढा कृत्वा चानलगं क्रमात् | आक्रान्तं पूर्ववत्कुर्यादङ्गषट्कस्य सिद्धये || ९७ || [जयायाः सखीमन्त्रः] अजितं विष्णुना युक्तं वाराहं रामवेष्टितम् | व्यापकं केवलं चाऽथ सोमं रामसमन्वितम् || ९८ || शिरसा चिह्नयेत्प्राग्वच्चतुरः क्रमशो मुने | सख्यो जयन्ती विजया तृतीया त्वपराजिता || ९९ || सिद्धिश्चतुर्थी विज्ञेया शृणुष्वानुचराननु | प्. ३०७) [जयाया अनुचरमन्त्रः] आरूढः पद्मनाभस्तु शाश्वतः केवलो द्विज || १०० || प्रधानं च तथोद्दामं क्रमेणैतानि योजयेत् | येषामुपरि वैनेयश्चान्द्री व्योमसमन्वितः || १०१ || प्रतापी जयभद्रश्च तृतीयस्तु महाबलः | उत्साहाख्यश्चतुर्थस्तु कृत्वा न्यासं तु पूर्ववत् || १०२ || इष्ट्वा भुवननाथं तु पूजयेच्च ततो बहिः | [मण्डलादिविधानम्] मण्डलं पूर्ववत्कृत्वा तन्मध्ये पङ्कजं लिखेत् || १०३ || नीलोत्पलाभातुल्येन रजसा च स (चाष्ट ?) पत्रकम् | तत्रोत्सङ्गगतां विष्णोर्हृदयाद्योजयेज्जयाम् || १०४ || शेषमन्त्रगणन्यासान्पूर्वपूर्वक्रमेण तु | कर्तुः (कुर्यात् ?) ध्यानं च सर्वेषां समासादवधारय || १०५ || [जयायाः सखीनामनुचराणां च ध्यानप्रकारः] हृदादीनां पुरा प्रोक्तं मूलमन्त्रप्रसङ्गतः | नीलनीरजवर्णाश्च प्रसन्नवदनेक्षणाः || १०६ || पीताम्बरधराः सर्वाः सख्यः कनककुण्डलाः | सितचामरहस्ताश्च चित्रपत्रफलोद्यताः || १०७ || निरीक्षमाणा वदनं जयाया अजितस्य च | कुन्दकुङ्मलवर्णाभाः प्रसन्नमुखपङ्कजाः || १०८ || रक्ताम्बरधराश्चैव चतुर्हस्ता महाबलाः | धनुर्बाणकराश्चैव गदाचक्रधरा द्विज || १०९ || चत्वारोऽनुचरा ध्येयाः पुष्पाभरणभूषिताः | पूजयेच्च ततो भक्त्या होमं कुर्यादनन्तरम् || ११० || [होमादिविधिः] तिलैः सिद्धार्थकोपेतैः हविषा गुग्गुलेन च | होमावसाने विप्रेन्द्र कृत्वा रूपं जयात्मकम् || १११ || जयाऽहमिति वै बुद्ध्वा चेतसोपस्थितं महत् | प्. ३०८) वीरस्थानं समासाद्य निश्शङ्को जनवर्जितम् || ११२ || वर्मणाऽस्त्रेण दिग्बन्धं कृत्वा दुष्टनिबर्हणम् | प्रारभेत् जपं पश्चात् पयोऽन्नफलभुक्सदा || ११३ || युक्तोऽन्तरसहायेन मौनी ध्यानपरायणः | प्रणिपत्य हरिं मूर्ध्ना प्राक् स्वमन्त्रेण नारद || ११४ || जपेल्लक्षचतुष्कं तु जपान्ते होममाचरेत् | समित्प्रादेशमात्रा तु रक्तचन्दनसंभवा || ११५ || तासामयुतहोमस्तु घृताक्तानां तु होमयेत् | सिद्धार्थकायुते द्वे च मधुमिश्रा महामुने || ११६ || अयुतत्रितयं चाथ जुहुयादसितैस्तिलैः | मधुत्रितयसंपृक्तैरन्ते पूर्णाहुतित्रयम् || ११७ || मधुक्षीरगृतैर्विप्र क्रमेण परिहोमयेत् | ततो भगवती विप्र समायाति जया स्वयम् || ११८ || [जयायाः प्रसादः] सुसिद्धाऽस्मि च ते पुत्र मन्मन्त्रेण समाचर | यदभीष्टं तु वै कार्यं निश्शङ्को विगतज्वरः || ११९ || उक्त्वेत्यदर्शनं याति देवी नारायणात्मिका | [जयामन्त्रसिद्धिजन्यं सामर्थ्यम्] ततः कर्माणि कुर्वीत विविधानि त्वनेकशः || १२० || लोकेऽस्मिन्यान्यभीष्टानि आत्मनश्च परस्य वा | तत्राप्युद्देशतो वक्ष्ये शृणु तत्त्वेन नारद || १२१ || ज्वालाभद्रासनां ध्यायेद्देवीमन्त्रेण साधकः | उद्ग्राहयति वै यस्य यस्मिन्यस्मिंस्तु वस्तुनि || १२२ || निर्जित्य न्यायतस्तं वै जयमाप्नोत्ययत्नतः | गजाश्वशस्त्रभृत्पूर्णं परसैन्यं बलान्वितम् || १२३ || दृष्ट्वाऽन्यस्य समायातं हन्तुमभ्युद्यतं रणे | परिजप्य धनुः खड्गं खेटकं बाणपञ्चकम् || १२४ || प्रेरयेद्यस्य वै दत्वा स गत्वा च चमूमुखम् | विदारयति चैकाकी जयमाप्नोति शाश्वतम् || १२५ || प्. ३०९) ध्यात्वा दक्षिणपाणिस्थं त्रिकोणं वह्निमण्डलम् | तन्मध्ये चिन्तयेद्देवीं परिवारसमन्विताम् || १२६ || मत्तेभसिंहसर्पाणामशनीनां च दर्शयेत् | क्षिप्रं पराङ्मुखा यान्ति दृष्ट्वा हस्ततलं तु तत् || १२७ || खादिरं मुसलं स्पृ(सृ?)ष्ट्वा आदाय शतमन्त्रितम् | कृत्वा गत्वा बिलद्वारं चातुर्वर्ण्यजनान्वितम् || १२८ || मुसलाहननान्यष्टौ दद्यात्तत्र शनैः शनैः | देवीमन्त्रे च (ण?) विप्रेन्द्र अस्त्रसंपुटितेन तु || १२९ || फट्कारान्तेन तु ततो बिलयन्त्रं व्रजेदधः | समस्तजनसंयुक्तो विशेषात्साधकोत्तमः || १३० || भित्वा यन्त्राण्यनेकानि जित्वा दानवपुङ्गवान् | जनानां योजनं तत्र कृत्वा कान्तागणैः सह || १३१ || दत्वा रसात्मकं पानं स्वहस्तेन महाबलः | स निर्याति स्वमार्गेण तेनैव स्वनिवेशनम् || १३२ || करोति यदि विप्रेन्द्र मतिं मन्त्री जगत्त्रये | जयं प्रत्यविचारेण गदाचक्रधरोद्यतः || १३३ || पाशाङ्कुशधरो वाऽथ जयं प्राप्नोति नान्यथा | लिख्य योजनया भूर्जे कुङ्कुमेन घनेन च || १३४ || संपुटीकृत्य वै नाम विधाय जनमध्यगम् | सदाऽसौ जयमाप्नोति दिव्यैः सर्वैस्तु लीलया || १३५ || विलिख्य चन्दनेनैव पयसा कुङ्कुमेन च | धारयेद्यो गले वस्त्रे भुजे वामेऽथ दक्षिणे || १३६ || स सर्वत्र जयं विप्र संप्राप्नोत्यविचारतः | जयार्थं मुनिशार्दूल मन्त्रं वै यत्र कुत्रचित् || १३७ || मन्त्री प्रयोजयेच्छश्वत्तत्र तत्राप्नुयाज्जयम् | जयाविधानमित्येतत्समासात्परिकीर्तितम् || १३८ || [मायामन्त्रसाधनप्रकारः] मायाख्यमधुना वच्मि संविधानं यथास्थितम् | प्. ३१०) [मायाया अङ्गमन्त्रः] षोढा प्रधानमादाय कालपावकसंस्थितम् || १३९ || ततस्तच्चाङ्कयेत्प्राग्वत्स्वरैः प्राक् शिरसा तदा | षडेतान् हृदयादीन्वै विद्धि शेषं महामुने || १४० || [सखीमन्त्राः] प्रधानोऽथ ध्रुवो रस्थो पद(दम ?)नो पोऽनलोर्ध्वगः | आदेयास्त्वथ सर्वेषामोदनानन्दकौ क्रमात् || १४१ || भुवनो योगघाता च व्यापी चान्द्री चतुर्ष्वपि | मोहिनी भ्रामणी दुर्गा प्रेरणी च महामुने || १४२ || मायासख्यः स्मृता ह्येताश्चत्वारो रक्तभासुराः | [सखीनां ध्यानप्रकारः] लावण्येन तु वीर्येण सौन्दर्येण च तेजसा || १४३ || मायाख्येन तु संयुक्ताः सितवस्त्रानुलेपनाः | चामराङ्कुशहस्ताश्च बद्धपद्मासनस्थिताः || १४४ || [मायाया अनुचरमन्त्राः] प्रधानं गोपनोपेतं तं तु वै केवलं त्वतः | शङ्करं कमलं चैव क्रमाद्दद्याच्च केवलौ || १४५ || सर्वेषामुपरि ब्रह्मन् व्यापीं चान्द्रीं च विन्यसेत् | प्रागेकैकस्य चोङ्कारमन्ते संज्ञानमोयुतम् || १४६ || मायामयो महामोहः शम्बरश्च कलीश्वरः | चत्वारोऽनुचरा ह्येते ध्येयास्त्वलिकुलप्रभाः || १४७ || [मायानुचराणां ध्यानप्रकारः] चतुर्भुजा महाकायाः सौम्यवक्त्राः स्मिताननाः | केयूराभरणोपेताः पीताम्बरधरास्तु वै || १४८ || हारनूपुरसंयुक्ता नानाकुसुमभूषिताः | तुषारधूलिधवलाः खड्गपाशसमुद्यताः || १४९ || बाणं कार्मुकमन्यस्मिन्नातपत्रं करद्वये | एवमुद्धृत्य विधिवन्मायीयां मन्त्रसनतिम् || १५० || [न्यासविधिः] स्वहस्ते पूर्ववन्न्यस्य विग्रहे तदनन्तरम् | प्. ३११) हृदयान्तर्गतं चेष्ट्वा बाह्यतश्चावतार्य च || १५१ || [बाह्ययागविधिः] मन्त्रोत्सङ्गता न्यस्याः प्राग्वच्चाङ्गादयोऽखिलाः | [मुद्राविधानम्] प्रपूज्य विधिवद्देवीं स्वां मुद्रां दर्शयेत्ततः || १५२ || प्रागुक्तानां चतुर्णां तु भिन्नानामपि सा स्मृता | सर्वासां देवतानां च मुद्रासंघर्षसङ्गिकम् || १५३ || मूलमन्त्रोदितं विद्धि देवताङ्गैः समन्वितम् | साधारणं सखीनां च षोडशानां तु नारद || १५४ || स्वमन्त्रयोजितामेकां मुद्रामप्यवधारय | [महायोनिमुद्रा] संमुखौ तु करौ कृत्वा तथा वै संप्रसारितौ || १५५ || कनिष्ठानामिकाभ्यां वै युगलं युगलं द्विज | मेलयेन्नखदेशाच्च यथा स्यादेकपिण्डवत् || १५६ || अङ्गुलीभिश्च तिसृभिः पाणिमध्ये निराश्रयम् | अङ्गुष्ठौ दण्डवत्कृत्वा प्रान्तलग्नौ प्रसारितौ || १५७ || अङ्गुलीनां चतसॄणां विश्रान्तौ चोदरावधि | सर्पकुण्डलवत्कृत्वा प्रयत्नात्तर्जनीद्वयम् || १५८ || प्रसार्य चाग्रतो लग्ने मध्यमे द्वे महामुने | नीता सा जन्मभूमेस्तु समारभ्य करद्वयम् || १५९ || कुर्याच्चैवातिसंलग्नं मणिबन्धावसानतः | ईषदस्पृष्टमूलेन मणिबन्धं करद्वयात् || १६० || कुर्याद्विकसितं चैव मुद्रैषा मुनिसत्तम | महायोन्यभिधाना च त्रिलोकजननी पुरा || १६१ || वशीकुर्याज्जगत्सर्वं कामतो यदि योजयेत् | अत्रानुष्ठानसक्ता स्त्री बध्वा दूरात्प्रदर्शयेत् || १६२ || मुनीनां गतसङ्गानां क्षोभमायान्ति ते क्षणात् | पुरुषोऽत्राभियुक्तो वा दर्शयेद्वनितासु च || १६३ || निवृत्तकामधर्मासु अबलास्वथवा मुने | प्. ३१२) क्षुभ्यन्ति मदनार्ताश्च सकामासु च का कथा || १६४ || [अनुचरमुद्रा] वक्ष्येऽथानुचराणां तु षोडशानां समासतः | द्विजैरमुद्रां(?)सामान्यां सन्निधीकरणे शुभाम् || १६५ || पृष्ठलग्नौ करौ कृत्वा मोक्षयेत्तदनन्तरम् | प्रादेशिनीयुगं चैव कन्यासायुगलं तथा || १६६ || अधोमुखं तु सुस्पष्टं ताभ्यां मध्यान्महामुने | कनिष्ठिकाद्वयं लग्नं विरलं तर्जनीद्वयम् || १६७ || मध्यमानामिकानां तु युग्मं युग्मं तु धारयेत् | एकलग्नं नखोद्देशाद्यावत्पर्व तु मध्यमम् || १६८ || ऊर्ध्ववक्त्रं मुनिश्रेष्ठ समेन धरणेन तु | सुस्पष्टौ लम्बमानौ च अङ्गुष्ठौ चाप्यधोमुखौ || १६९ || परस्परं तु दूरस्थौ मुद्रैषा सर्वकामदा | स्वमन्त्रसंयुतां चैव पूजाकाले प्रदर्शयेत् || १७० || चतुर्भुजानुकारा च (?) सर्वेषां सिद्धिकामदा | एवं मुद्रागणं दत्वा जप्त्वा च तदनन्तरम् || १७१ || [होमादिविधानम्] होमं तदनु वै कुर्यात्तिलैः सिद्धार्थकान्वितैः | सकुङ्कुमघृतक्षीरसंप्लुतैस्तण्डुलादिभिः || १७२ || ततो नियममाश्रित्य कृत्वा तदनु नारद | देवीरूपं स्वमात्मानं भावनाप्यु (द्यु ?) पचारतः || १७३ || प्रयायाद्विजनस्थानं प्रौढयुक् स्वासनान्वितः | जपेल्लक्षाणि वै सप्त पूर्वोक्तविधिना व्रती || १७४ || क्षीरमूलफलाहारो देशकालवशात्तथा | अयाचितैकभिक्षाशी तदभावाच्च नारद || १७५ || स्वशिष्यसाधितं चान्नं मन्त्रपूतमसैन्धवम् | तैलमांसविनिर्मुक्तं सन्ध्याकालेऽप्युपस्थिते || १७६ || अतृप्तमपि भुञ्जीत भावितं मधुसर्पिषा | जपान्ते विधिवन्मन्त्री होमं कुर्यात्प्रयत्नतः || १७७ || प्. ३१३) बलां मोदां तथा मांसीं चक्राङ्गीं नागकेसरम् | कुंकुमं चन्दनं क्षोदं रजनीचूर्णमेव तु || १७८ || मेलयेत्सुस्थि(सि?)तानां च तिलानां मधुना तथा | भावयेत्सघृतेनैवं त्रिलक्षं जुहुयात्ततः || १७९ || मध्यमानामिकाभ्यां च अंगुष्ठाग्रेण नारद | अन्तेऽयुतत्रयं चैव समिधां परिहोमयेत् || १८० || प्राग्राजार्कतरूत्थानां खादिराणां ततोऽपरम् | सुरदारुमयीनां च तृतीयमयुतं ततः || १८१ || दद्यात्पूर्णाहुतिं चैव विशुद्धेनान्तरात्मना | पतितायां तु पूर्णायामायाति परमेश्वरी || १८२ || परिवारान्विता देवी भाषते साधु साध्विति | कुरु कार्यमभीष्टं च मन्त्रेण त्वधुना व्रज || १८३ || इदमुक्त्वा व्रजेत्तूर्णं देवी विष्णुनिकेतनम् | [सिद्धिज सामर्थ्यम्] ततः स साधकवरः कर्माणि विविधानि च || १८४ || प्रारभेन्मनसा विप्र यान्यभीष्टानि सर्वदा | आत्मार्थे वा परार्थे वा लेशतः शृणु नारद || १८५ || प्रजप्यामलकं बिल्वं सकृन्नृपगृहं विशेत् | कोशस्याग्रे विनिक्षिप्य यत्र कुत्र स्थितस्य च || १८६ || गगनात्पतिते (तति?) तूर्णं यद्यदुक्तं समीहते | यद्यच्चाभरणं विप्र यद्यद्वा वसनं शुभम् || १८७ || एवं वै व्रीहिगुलिकं तथैव तिलतण्डुलम् | क्षिपेद्धान्यखले पूर्णे कोष्ठागारेऽथ खातके || १८८ || राजकीये तथा स्वर्णं (?) यत्र यत्र स्थितस्ततः | यद्यत्समीहते धान्यं सस्यं वा तण्डुलान्वितम् || १८९ || तत्तदग्रेऽथ गगनात्पतत्यथ यथेप्सितम् | एवमेव तु सिद्धान्नं गुलिकां परिजप्य च || १९० || क्षिप्त्वा महानसोद्देशे सिद्धान्नं वर्षयेत्क्षणात् | गुलिकां गोमयेनैव कृत्वा बदरसंमिताम् || १९१ || प्. ३१४) निक्षिप्य गोव्रजस्यान्तस्सप्तवाराभिमन्त्रिताम् | ध्यानमात्रात्क्षणस्यान्ते दधिक्षीराज्यपूरिताः || १९२ || भाण्डाश्च पृष्ठतः पश्येद्यत्र तत्र स्थितो व्रती | प्रजप्य बदरं विप्र फलमन्यत्तु वा क्वचित् || १९३ || क्षिपेन्मधुवने राज्ञः फलाकृष्टिं करोति च | प्रपुष्पवाटिकायां तु पुष्पमेकं विनिक्षिपेत् || १९४ || जप्त्वा वारत्रयं मन्त्री पुष्पाण्याकर्षयेत्क्षणात् | यत्र यत्र तदङ्गोत्थं सप्तजप्तं विनिक्षिपेत् || १९५ || तत्र तत्र च तत्तिष्ठेत्संकल्पे तु कृते सति | यथेच्छं तु समाकृष्टं तत्र तत्र च तद्व्रजेत् || १९६ || न चापि साधकवरस्संविण्णो (ग्नो?) जायते क्वचित् | कृत्वाऽङ्गारकणं चैव शतजप्तं तु नारद || १९७ || क्षिपेत्सलिलमध्ये तु ज्वलन्तं (प्रज्वलत् ?) तत्प्रदृश्यते | कुशाग्रस्थं जलकणं शतवाराभिमन्त्रितम् || १९८ || कृत्वा हुताशराशौ तु ज्वलमाने विनिक्षिपेत् | भवेत्पानीयमिव च स वह्निर्दृश्यते क्षणात् || १९९ || वालुकापरिपूर्णं तु अरण्यं च तृणोज्झितम् | दृष्ट्वा तत्र विनिक्षिप्य तृणं च शतमन्त्रितम् || २०० || पुष्पपत्रसमाकीर्णं पत्रपल्लवसंकुलम् | कुर्यान्नन्दनतुल्यं तं तोयशालिसमावृतम् || २०१ || नानाविहगसंपूर्णं पत्तनोपवनान्वितम् | पुरप्राकारसंपूर्णं देवतायतनान्वितम् || २०२ || गेयदेवध्वनियुतं ललनाभिश्च शोभितम् | नृपाणामेतदाश्चर्यं दर्शनीयं सदैव हि || २०३ || अनोकहेष्वरण्येषु नीरसेषु सदैव हि | इच्छयाऽपस्तथाऽन्नानि भोगांश्च विविधानि च || २०४ || करोति मन्त्रितैर्लोष्ठैर्गोमयेनाष्टसङ्ख्यया | अरिवर्गे मुनिश्रेष्ठ संमुखे संस्थिते सति || २०५ || क्रोधाच्चैव वधोद्युक्ते एकाकी यदि तिष्ठति | जपमानस्तु वै सम्यक् संकल्प्य मनसा महत् || २०६ || प्. ३१५) आत्मीयं च बलं विप्र सैनिकायुधसङ्कुलम् | तस्य संपद्यते क्षिप्रं चमूः घोरपराक्रमा || २०७ || स तन्त्रं तु गजाश्वं च नानाशस्त्रविभासितम् | दृष्ट्वा पराङ्मुखं याति हतौजस्कं रिपोर्बलम् || २०८ || करोति विप्र यत्किञ्चिन्मनसा मन्त्रमुच्चरन् | व्यलीकं सत्यभूतं च तत्तथा परिदृश्यते || २०९ || सुशुष्कं पादपं दृष्ट्वा ताडयेच्चरणेन तु | जपमानो महामन्त्रं तस्य पुष्पफलान्वितम् || २१० || रसपुष्पफलोपेतं पाणिभ्यां मन्त्रमुच्चरन् | पीडयेत्पादपं मन्त्री शोषितं सोऽधिगच्छति || २११ || पर्वताग्रस्थिथो मन्त्रं नाशार्थं संजपेद्यदि | व्रजेदधस्तात्तद्विप्र यावदिच्छति साधकः || २१२ || तुष्टः प्रोत्थापयेत्पश्चात्पातालात्पर्वतं पुनः | चन्दनेन रसेनैव मन्त्रं पद्मोदरे लिखेत् || २१३ || पत्रेष्वङ्गानि चालिख्य सुशोभनदिने ततः | पूजयित्वाऽर्घ्यपुष्पाद्यैर्वेष्टयेदथ पूर्ववत् || २१४ || धारयेद्यो महामन्त्रं तस्य सर्वा विभूतयः | सम्यगाविर्भवन्त्यत्र लोके निष्कण्टकः स च || २१५ || सुशोभनश्च दीर्घायुः परत्र शुभमाप्नुयात् | देवीचतुष्टयस्यैष सिद्धिसङ्घस्समासतः || २१६ || किञ्चिदुद्देशतः प्रोक्तः साधकानां हिताय च | नानाविधानि दिव्यानि प्रयच्छन्ति शुभानि च || २१७ || कर्माण्यतुलवीर्याणि अन्ते तु परमं पदम् | प्रकाशयति भक्तानां वैष्णवानां विशेषतः || २१८ || इति जयाख्यसंहितायां शक्तिमन्त्रसाधनं नाम सप्तविंशः पटलः || २७ || अथाङ्गमन्त्रसाधनं नामाष्टाविंशः पटलः श्रीभगवान् अङ्गानां शृणु विप्रेन्द्र साधनं सिद्धिदं महत् | येन विज्ञातमात्रेण साधकः सुखमृच्छति || १ || [हृन्मन्त्रसाधनप्रकारः] व्यापकत्वेन हृन्मन्त्रं विन्यसेत्तु करद्वये | न्यस्य देहे च तदनु इष्ट्वा हृत्पद्ममध्यगम् || २ || विलिख्य च ततो बाह्ये चतुरस्रस्य मध्यतः | चतुर्द्वारस्य सुसितमष्टपत्रं कुशेशयम् || ३ || न्यस्य तत्कर्णिकायां तु ध्यात्वा मन्त्रेण पूर्ववत् | पूजयित्वा विधानेन जुहुयात्सुसितैस्तिलैः || ४ || तदन्ते हार्दकं रूपं कृत्वा तु विजनं व्रजेत् | जपेल्लक्षत्रयं तत्र लक्षषट्कं तु होमयेत् || ५ || सितचन्दनलिप्तानामाज्याक्तानां तथैव च | सुगन्धिजातिपुष्पाणां दद्यात्पूर्णाहुतिं ततः || ६ || पश्येत् स्वहृद्गतं मन्त्रं प्रबुद्धोत्फुल्ललोचनम् | इति मत्वा ममेदं वै सिद्धं तु हृदयेश्वरम् || ७ || ततः कर्माणि वै कुर्यात्तेन मन्त्रेण नारद | [हृदयमन्त्रसिद्धिजं सामर्थ्यम्] शान्तिकं पौष्टिकं चैव स्वप्नस्थोऽथ शुभाशुभम् || ८ || आदिशत्यभियुक्तस्य तत्स्वार्थघटनोद्यतः | स्वप्नस्थानां नृपादीनां वनितानां विशेषतः || ९ || कृत्वा तु हृदये पादं राका (ब्रूया ?)च्चोत्तिष्ठ दुर्मते | प्रसादयामुकं गत्वा साधकं च धनादिकैः || १० || स तथेति च वै मत्वा प्रबुद्धो निश्चितेन तु | यायादभ्यर्थयेत्तस्य साधकस्यामलात्मनः || ११ || स्नात्वा घनरसाभ्यां तु नाम हृत्संपुटीकृतम् | अम्भोजकर्णिकामध्ये सप्तम्यां सितपक्षतः || १२ || अर्धरात्रे समुत्थाय नैशेन सलिलेन तु | प्. ३१७) हार्दकं मूर्तिमन्त्रं तु सह नाम्ना दले दले || १३ || लिखेद्दूर्वाङ्कुरेणैव पुष्येणानशनो व्रती | समस्तदोषशान्त्यर्थं समस्तसुखवृद्धये || १४ || समस्तापद्विमोक्षाय समस्तवनिताप्तये | एतद्धृदयमन्त्रस्य साधनं कथितं मया || १५ || [शिरोमन्त्रसाधनप्रकारः] अधुना साधनं वक्ष्ये शिरोमन्त्रस्य नारद | न्यस्य हस्ते तथा देहे पूजयित्वा हृदन्तरे || १६ || लाक्षारसाक्तवर्णेन साब्जमालिख्य मण्डलम् | तन्मध्ये तु शिरोमन्त्रं प्राग्वद्ध्यात्वा यजेत्ततः || १७ || ताम्रं स्वर्णं तु जुहुयात् सघृतान्वै तिलानथ | भूत्वा रक्ताम्बरधरस्तन्मन्त्राकृतिविग्रहः || १८ || आक्रम्य गिरिमध्यं तु जपेल्लक्षाणि पञ्च वै | तदन्ते जुहुयान्मन्त्री लक्षत्रयमनन्यधीः || १९ || रक्तपाटलपुष्पाणां सुगन्धानां तु नारद | कुङ्कुमागरुलिप्तानां घृताक्तानां विशेषतः || २० || दद्यात्पूर्णाहुतिं पश्चात्कुङ्कुमेन घृतेन च | साकारं तु भ्रुवोर्मध्ये पश्येन्मन्त्रं जगत्प्रभुम् || २१ || ततः कर्माणि वै कुर्याल्लब्धसंवित् सुसाधकः | वशीकुर्याज्जगत्सर्वमात्मना च धनेन च || २२ || [सिद्धिजं सामर्थ्यम्] प्रजप्य शतवारं तु बाह्लीकं हेमभूषितम् | अङ्गुष्ठानामिकाग्रेण मर्दयित्वा निशाम्बुना || २३ || ललाटे तिलकं कुर्याद्द्विजानामिकया परम् | तदधोऽङ्गुष्ठसंस्थेन रजसा बन्धयेद्धृदि || २४ || दिनत्रयं यथासङ्ख्यं जपन्सन्ध्यात्रयं चरेत् | चतुर्थेऽहनि संप्राप्ते मण्डलीको नराधिपः || २५ || ३१८) समेत्य प्रार्थयेत्तस्य प्रसादं कुरु मे प्रभो | गृहाण मे धनं राष्ट्रं दासीदासगजादिकम् || २६ || तस्मिन्नेव क्षणस्यान्ते समायाति रसातलात् | शतशो नागकन्याश्च रसायनकरोद्यताः || २७ || पिबेदं सुशुभं पानमस्माकं रमयस्व च | याताच्चतुर्थदिवसादारभ्येदं क्षणं प्रभो || २८ || न प्राप्नुमो धृतिं तत्र पाताले भवतो विना | किंनर्यश्चाथ यक्षिण्यस्तथा विद्याधरस्त्रियः || २९ || साभिलाषाः समायान्ति साधकं प्रार्थयन्ति च | क्रीडते चेच्छया तासां स्ववशः स च नारद || ३० || यावदात्मसमीहा च पीत्वा पानवरं च तत् | शताभिमन्त्रितं कृत्वा निर्मलं भाजने जलम् || ३१ || अत्रानुसन्धयेन्मन्त्रमिमं संपूज्य यत्नतः | भविष्यद्भूतभव्येषु संशयो यस्य कस्यचित् || ३२ || तत्तद्दर्शयते मन्त्रः स्वदेशोत्थैः स्फुटाक्षरैः | माम्न अन्तर्गतं मन्त्रं वशीकारे तु नारद || ३३ || जपेदाकर्षसिद्धौ वा साष्टं सूर्योदये शतम् | यःकश्चित्पुरुषो विप्र नारी वा मनसेप्सिता || ३४ || जपान्ते द्रुतमायाति मन्त्रस्यास्य प्रभावतः | लिखेन्मृगमदेनैव पयसा कुङ्कुमेन तु || ३५ || सितकर्पटखण्डे वै दूर्वाकाण्डैर्दिनोदये | त्रिकोणपुरमध्यस्थं त्रिपत्रकमलं मुने || ३६ || हृदयाद्यं तु संयुक्तमभिधानं तदन्तिके | तन्मूर्तिमन्त्रसंयुक्तं दद्यात्पत्रत्रये तथा || ३७ || यो धारयति विप्रेन्द्र रक्तसूत्रेण वेष्टितम् | वस्त्रैर्वा वा(र्बाहौ?) गले वाऽथ लम्बमानं तु वा हृदि || ३८ || यत्र तत्र जयस्तस्य पूजा भवति पुष्कला | व्यालैर्व्याधैर्गजैश्चैव तस्करैर्घोरविक्रमैः || ३९ || प्. ३१९) न शक्यतेऽभिभवितुं मन्त्रस्यास्य प्रभावतः | एतन्मूर्द्धाख्यमन्त्रस्य विधानं कथितं मया || ४० || [शिखामन्त्रसाधनप्रकारः] वक्ष्येऽधुना शिखाकल्पं संक्षेपाच्छृणु नारद | कृत्वा न्यासं तु हृद्यागं बहिरालिख्य मण्डलम् || ४१ || चतुरस्रं चतुर्द्वारं रेखापञ्चकभूषितम् | द्वाराणि सितवर्णानि रक्तवर्णानि चाश्रयः || ४२ || तन्मध्ये पङ्कजं कुर्याद्भिन्नाञ्जनसमप्रभम् | तत्रावतार्य हृदयाद्विन्यस्य च यजेत्ततः || ४३ || होमावसानं कृत्वा तु कृष्णाम्बरधरो व्रजेत् | शिखरप्रान्तभूभागं जपेल्लक्षत्रयं ततः || ४४ || जपान्ते जुहुयात्तत्र रक्तपुष्पायुतत्रयम् | रक्तचन्दनसंयुक्तं तदन्ते चायुतत्रयम् || ४५ || जुहुयाच्चन्दनेद्धानां मध्वाक्तानां तु नारद | दद्यात्पूर्णाहुतिं चान्ते चन्दनेन घृतेन च || ४६ || तदन्ते मन्त्रराट् सम्यक् ब्रह्मरन्ध्रोर्ध्वगो वदेत् | गच्छ त्वं कुरु कर्माणि विविधानि महामते || ४७ || परितुष्टाऽस्मि ते सम्यक् होमेन च जपेन् च | [मन्त्रसिद्धिजं सामर्थ्यम्] ततस्साधकमुख्योऽसौ कुर्यात्कर्म यदीप्सितम् || ४८ || मन्त्रेणाद्यन्तरुद्धेन जपेन्नागवराभिधाम् | समायाति फणीन्द्रोऽपि हस्ते कृत्वा रसायनम् || ४९ || दर्शयेत्स्थाननिचयं निधीनां क्ष्मातले स्थितम् | तदाज्ञया वसेच्चैव दुर्गे तु गिरिमस्तके || ५० || प्रददज्जलमक्षययं स्वादुयुक्तं सुशीतलम् | क्षीरवृक्षलतायुग्मं स्फुटमादाय चोन्नतम् || ५१ || मन्त्रोदकेन संस्नाप्य बध्नीयात्तद्घटद्वये | स्तंभद्वयेऽथवा विप्र मुञ्जाद्यैर्मन्त्रितैस्तृणैः || ५२ || प्रजप्य गुग्गुलं धूपं शिखामन्त्रेण सप्तधा | प्. ३२०) लताभ्यां मध्यतो दद्यात्प्रकंपेत शनैः शनैः || ५३ || तन्मध्ये जपमानं तु (नस्तु ?) पुष्पं संधार्य पाणिना | गृहीत्वा मनसा चिन्तां या यस्य परिरोचते || ५४ || ऋतं तद्यदि विप्रेन्द्र कुसुमं करमध्यगम् | समाहरेत्तत्तु बलादनृतं यदि तद्भवेत् || ५५ || प्रयाते (ति ?) दूरतो वेगाच्चालयित्वा घटद्वयम् | प्रणष्टद्रव्यसंदेहे चारेणापहृते तु वै || ५६ || कुर्यादेतल्लताकर्म परमर्मावघट्टने | अथवा मुनिशार्दूल दृष्ट्वा निकटवर्तिनम् || ५७ || समं घटद्वयं भूमावेकजातिं सुलक्षणम् | स्थितं लताद्वयं ताभ्यां मनसा परिकल्प्य च || ५८ || चिन्तां कृत्वा जपेन्मन्त्री वीक्षमाणो लताद्वयम् | प्रणष्टद्रव्यसंज्ञेन --------------------- तत्र वै || ५९ || सत्यविज्ञापनार्थं तु समागम्य परस्परम् | वेष्टयित्वात्मनात्मानमनृतज्ञापनाय च || ६० || नत्वाऽवनिं शनैर्विप्र संस्पृशेत्तां पुनः पुनः | मुसलद्वितयं वाऽथ भूमौ संरोप्य नारद || ६१ || हस्तद्वयान्तरेणैव साध्यं संपूज्य धूपयेत् | पुरोदितं परिज्ञेयमथ विप्र शरद्वयम् || ६२ || निधाय भूमौ तन्मध्ये करमात्रं परित्यजेत् | ताभ्यां कृत्वा तु संस्कारं प्रागुक्तपरिशुद्धये || ६३ || विलिख्य लोहकीलेन पूरयेच्च महामते | सुस्पष्टं कुङ्कुमेनैव नाममन्त्रपुटीकृतम् || ६४ || पक्वमृत्कर्पराणां तु शंकार्थं यत्रकुत्रचित् | जलमध्ये तु निक्षिप्य ------- संज्ञाप्य कर्परम् || ६५ || प्लुतमास्ते जलोर्ध्वे तु निश्शङ्कं तदधो वसेत् | यत्स्व(द्वा ?)व्रीह्यादयश्चैव कार्यास्सप्ताभिमन्त्रिताः || ६६ || तस्कराणां तु शङ्कार्थं प्रदेया वामपाणिना | दक्षिणे तु करे तेषां मुष्टिं संवेशयेत्ततः || ६७ || प्. ३२१) शतैकसंख्यया तिष्ठेज्जपन्मन्त्रं तु नारद | प्रदह्यन्ते च चोराणां बीजानि करकानि च || ६८ || धारयेत्पूर्वविधिना भूर्जे वा सितकर्पटे | ददात्यभीष्टं भक्तानां निर्विघ्नेन तु नारद || ६९ || एतच्छिखाख्यमन्त्रस्य संविधानं मयोदितम् | [कवचमन्त्रसाधनप्रकारः] कवचस्याधुना विप्र किंचिदुद्देशतः शृणु || ७० || न्यस्य चेष्ट्वा च हृदये मण्डलं च ततो लिखेत् | तन्मध्ये पंकजं कुर्यात्पीतकृष्णोज्ज्वलेन तु || ७१ || तन्मिश्रितेन रजसा तन्मध्ये चावतार्य वै | प्रपूज्य पूर्वविधिना कुण्डस्थमथ तर्पयेत् || ७२ || सितकृष्णैस्तथा ताम्रैस्तिलैर्मध्वाज्यभावितैः | दत्वा पूर्णाहुतिं कृत्वा रूपं कवचसंज्ञितम् || ७३ || प्रयायाद्भूगृहं विप्र गुहां वाऽप्यथ पार्वतीम् | तत्र लक्षद्वयं जप्त्वा होमं तदनु चाचरेत् || ७४ || द्रव्यैः पूर्वोदितैः सर्वैः कृष्णागरुविभावितैः | जपार्धसंख्यामानेन ततः पूर्णाहुतिं चरेत् || ७५ || आज्येन मधुमिश्रेण तदन्ते मन्त्रनायकम् | दशदिक्षु स्थितं पश्येत्साधकस्येदमाह च || ७६ || गच्छ सिद्धोऽसि ते कर्माण्यभीष्टानि प्रसादय | तदाज्ञां शिरसा कृत्वा साधयेन्मनसेप्सितान् || ७७ || [मन्त्रसिद्धिजं सामर्थ्यम्] गत्वा वन(नं?) पुरान्तं तु वामपाणिस्थितं जपेत् | सितं सिद्धार्थकं चैव प्रहरार्धमुदङ्मुखः || ७८ || निक्षिपेद्वनभूमौ तु तदधोर्ध्वं विदिक्ष्वपि | ततो हि ताः (ऽभितः ?) समायान्ति तदग्रे वनदेवताः || ७९ || ममाज्ञां देहि मन्त्रज्ञ किमर्थं तापिताऽस्मि वै | अभीष्टान्याहरस्वेमान्यौषधानि सहस्रशः || ८० || समस्तकर्मसिद्ध्यर्थं क्षुज्जराविनिवृत्तये | प्. ३२२) अथौषधानि दिव्यानि सर्वकर्मकराणि च || ८१ || गृहीत्वा च वनोद्देशात्प्रयायात्साधकेश्वरः | आदाय कदलीपत्रं तमालच्छदमेव वा || ८२ || विततं भूर्जपत्रं वा मन्त्रेशं तत्र संलिखेत् | तत्तनुत्रत्वमायाति वेष्टितं च यदा यदा || ८३ || शत्रुशस्त्रविनाशार्थमग्निज्वालापनुत्तये | घर्मांशुतापशान्त्यर्थं शीतानां नाशनाय च || ८४ || लोष्ठकण्टकशीकर्यः स्थूलत्वमुपयान्ति च | यदि दत्वा च तं भूमौ स्वपेदुपविशेच्च वा || ८५ || दृष्ट्वाऽग्रस्थं चोरसैन्यं समुद्यतवरायुधम् | भीमं मृगारिं सिंहं वा हालाहलगणं महत् || ८६ || मदोद्धतं करीन्द्रं वा आरण्यमहिषादिकम् | नदीनदान्तरस्थं वा प्राणिग्राहादिकं महत् || ८७ || हन्तुकामं च साधूनां सदामिवजिघृक्षया | दण्डाग्रस्थं तु तत्पत्रं कृत्वा दक्षिणपाणिना || ८८ || सार्धाग्रस्थं (स्थो ?) भ्रामयेत्तु तत्समुत्थेन वायुना | कल्पान्तसदृशेनाशु यान्ति सर्वे इतस्ततः || ८९ || अथवा साधकेन्द्रेऽसौ चेतसा चानु सन्धयेत् | गुप्तिं प्राकारतुल्येन कवचेनानलात्मना || ९० || चक्षुर्बन्धश्च दुष्टानां तत्क्षणा [दुपजायते] | तन्मन्त्रेण तु नग्नस्य जप्त्वा दद्याद्वटच्छदम् || ९१ || शीतकाले निदाघे वा अम्बरत्वं प्रयाति सः | समुत्थिते महामेघे ग्रामे वा विषयेऽखिले || ९२ || स्मरेत् शस्त्र ------------ तत्पत्रं दण्डपृष्ठगम् | शतधा साशनिर्याति तानुत्रेण तु तेजसा || ९३ || बध्वा तनुत्रमन्त्रं च लिखितं पीतकर्पटे | क्षीरेण कुङ्कुमेनैव ---------- मिश्रितेन तु || ९४ || कर्णिकामध्यगं मन्त्रं द्विधा संज्ञा तदन्तगा(?) | युक्तं कर्मपदेनैव पत्रे पत्रे तु मन्त्रपम् || ९५ || प्. ३२३) लिखित्वा [तच्च] सूत्रेणावेष्ट्य ताम्रपुटान्तरे | कृत्वा बध्वा भुजे वामे मन्त्री यद्यत्समीहते || ९६ || तत्तदेव परा(समा?)प्नोति दत्वा वाऽन्यस्य कस्यचित् | ग्रहभूतादयः सर्वे न बाधन्ते च तं नरम् || ९७ || प्रयच्छति सदाऽरोग्यं मन्त्रस्यास्य प्रभावतः | [नेत्रमन्त्रसाधनप्रकारः] अधुना नेत्रमन्त्रस्य विधानं वच्मि सिद्धिदम् || ९८ || पूर्वोक्तेन विधानेन हृद्यागे तु कृते सति | मण्डलान्तर्गतं कृत्वा पीतरक्तं तु पङ्कजम् || ९९ || आहूय तत्र मध्ये तु नेत्रं हार्दाम्बुजस्थितम् | होमावसानं संपूज्य होममाज्येन शस्यते || १०० || पीतैसिर्द्धाथकैश्चैव ताम्रवर्णं तिलान्वितैः | पूर्णां हुत्वा ततः कृत्वा तद्रूपं विजनं व्रजेत् || १०१ || दिक्चक्रं भ्रममाणस्य वीक्षमाणो दिवाऽनिशम् | सूर्यस्य मुनिशार्दूल जपेल्लक्षत्रयं व्रती || १०२ || होमं कुर्याज्जपान्ते तु केवलेन घृतेन तु | अयुतद्वितयं मन्त्री सुरदारुरसेन च || १०३ || मधुमिश्रेण चान्ये द्वे एकं सिद्धार्थकैस्तिलैः | ततः पूर्णां समापाद्य समांशोत्थैर्घृतादिकैः || १०४ || अवसाने तु पूर्णायाः पश्येन्मन्त्रेश्वरं तु तम् | दीप्तलोचनमार्गस्था(मग्रस्थ?)माज्ञां दत्वाऽथ स व्रजेत् || १०५ || ततोऽखिलानि वै कुर्यान्मन्त्री कर्माणि भूतले | [नेत्रमन्त्रसिद्धिजं सामर्थ्यम्] स्रोतोऽञ्जनं समादाय कृत्वा द्विशतमन्त्रितम् || १०६ || सप्तवारं च सौवर्णीं शलाकामभिमन्त्र्य च | स्वनेत्रयुगलं तेन रञ्जयेदञ्जनेन तु || १०७ || पश्येद्भूमिगतं सर्वं यत्किञ्चिन्निघिपूर्वकम् | समुद्रतोयमध्यस्थं नागलोकं च पश्यति || १०८ || निश्शेषं रत्ननिचयं समादातुं च तं यदि | व्रजेद्वा नागलोकं च ददाति विवरं जलम् || १०९ || प्. ३२४) पाषाणपादपानां तु मध्यस्थं यक्षिणीगणम् | संपश्यत्यचिरेणैतत्तदीयेन यथा मुने || ११० || प्रविश्य क्रीडते सम्यक् तासां द्विज यथेच्छया | अदृश्यभूतो यक्षाणां स तेषामवलोकयेत् || १११ || सर्वदा चेष्टमानानां यक्षयोगानशेषतः | औषधो(ध्यो?)र्थास्तु विप्रेन्द्र तत्तन्मन्त्राश्च सर्वशः || ११२ || स्वयं वा यक्षकान्तानां सकाशादाहृतानि च | निर्याति(?) च प्रपन्नानां भक्तानां भावितात्मनाम् || ११३ || साधने ह्यसमर्थानां संप्रयच्छति साधकः | ते यक्षयन्त्रयोगानां सामर्थ्यान्मनसीप्सितम् || ११४ || संप्राप्नुवन्ति चाकृष्टाः प्रभावात्साधकस्य च | पुनरभ्यञ्जयन्नेत्रे पूर्वोक्तविधिना यदि || ११५ || ईक्षते गगनान्तस्थान् सिद्धसंघाननेकशः | पूजयन्ति च ते तस्य साधकस्य महात्मनः || ११६ || अभीप्सितं प्रयच्छन्ति स्वपथं वा नयन्ति च | उपसन्नस्य भक्तस्य वैष्णवस्य विशेषतः || ११७ || शताभिमन्त्रितं कृत्वा ह्यञ्जनं तु शलाकया | दद्यान्नेत्रद्वये यस्य स पश्यत्यखिलं मुने || ११८ || एकदेशस्थितश्चैव निखिलं विषयं तु तत् | नगाद्यैरपि विच्छिन्नं योगयोगेश्वरान्वितम् || ११९ || डाकिनीभूतवेतालगणं चादर्शनस्थितम् | प्रहृष्टा दृष्टमात्रास्ते प्रभावात्साधकस्य च || १२० || धनाधिकं प्रयच्छन्ति उदासीनस्थितस्य च | सप्ताभिमन्त्रितं कृत्वा नेत्रमन्त्रेण चाञ्जनम् || १२१ || प्रदद्यान्नेत्रयुग्मे स्वे अरिमध्यगतो नरः | स यायाद्दर्शनं शश्वद्यत्र यत्र विशेच्च वा || १२२ || शताभिमन्त्रितं कृत्वा अदृष्टेच्छापथस्थितः | अन्यस्य यदि युञ्जीयात्सोऽपि यायाददर्शनम् || १२३ || अदर्शनगतो मन्त्री किं न कुर्याच्च भूतले | घृष्ट्वा निशाम्बुतोयेन अञ्जनं रोचनान्वितम् || १२४ || प्. ३२५) विलिख्य बर्हिपत्रेण नामयुक्तं च पूर्ववत् | कर्णिकामध्यगं मन्त्रं दलस्थं विधिपूर्वकम् || १२५ || दशाङ्गुले नेत्रखण्डे चतुरश्रेऽथ वर्तुले | बध्वा सन्धारयेन्मन्त्री सर्वस्मिन्जायते प्रियः || १२६ || सर्वसंपत्करो मन्त्रो ध्याययन्यस्य वारणात्(?) | नेत्रस्यैतत्समाख्यातं विधानमतिशोभनम् || १२७ || [अस्त्रमन्त्रसाधनप्रकारः] अथेदानीं समासेन अस्त्रराजस्य मे शृणु | कृत्वा न्यासं पुरा सम्यक् हृद्यागं तदनन्तरम् || १२८ || चतुरश्रं चतुर्द्वारं कृत्वा यागं महामुने | तन्मध्ये राजपाषाणतुल्येन रजसाम्बुजम् || १२९ || केसराणि सुरक्तेन तस्य पीतेन कर्णिकाम् | तत्रावतार्थ संपूज्य ततो होमं समाचरेत् || १३० || हविषा गुग्गुलेनैव तिलैः सह सितासितैः | दत्वा पूर्णाहुतिं पश्चात् कृत्वाऽस्त्रसदृशीं तनुम् || १३१ || प्रयायान्निर्जनं स्थानं जपेल्लक्षत्रयं सुधीः | जपान्ते होमयेन्मन्त्री गुग्गुलैरयुतद्वयम् || १३२ || बदराण्डप्रमाणेन एकं सिद्धार्थकस्य च | रक्तचन्दनवृक्षोत्थमिध्मानमयुतद्वयम् || १३३ || घृतस्यायुतमेकं तु दद्यात्पूर्णाहुतिं तु वै | ततः सहस्रसूर्याभं द्वादशान्तेऽस्त्रनायकम् || १३४ || पश्यत्यमलवद्दृष्ट्या इदमाह च सोऽस्त्रराट् | गच्छ त्वं साधकश्रेष्ठ विचरेह यथासुखम् || १३५ || कुर्वन् कर्माण्यशेषाणि दिव्यमर्त्यान्यनेकशः | तदाज्ञया स विप्रेन्द्र सिद्धिं चाप्यनुसाधयेत् || १३६ || प्रजप्योपलखण्डं तु कालं तु घटिकाभिधम् | क्ष्मातलं वीक्षमाणस्तु तेन संताडयेत्क्षितिम् || १३७ || सा पीताङ्गी स्वरूपेण स्थित्वाऽग्रे साधकस्य तु | प्रयच्छत्यचिरात्सर्वं यदभीप्सितमस्य तु || १३८ || प्. ३२६) [अस्त्रमन्त्रसिद्धिजं सामर्थ्यम्] अकालशालयस्सर्वे तथाऽकालफलानि च | सर्वाण्यकालपुष्पाणि गन्धाश्च विविधा अपि || १३९ || बिलद्वाराण्यसंख्यानि विविधानि सहस्रशः | रसायनानि दिव्यानि स्वयंग्राहाणि सर्वशः || १४० || सप्तपातालसंस्थानि भावा नानाविधास्तथा | ये स्वर्गे ये च भूलोके दुर्लभास्तु सहस्रशः || १४१ || सर्वाणि तानि विप्रेन्द्र प्रकटीकुरुते तथा | आदाय खादिरं हस्ते लगुडं शतमन्त्रितम् || १४२ || चतुष्पथस्थितं वृक्षं तेन सन्ताडयेद्बलात् | निर्यान्ति विह्वलीभूताः शाकिन्यो भूतमातरः || १४३ || किं किं साधकराजेन्द्र आज्ञां देहि यथेप्सिताम् | अशक्येषु च कार्येषु भूतानां प्रेरयेत्तदा || १४४ || विदेशवृत्तकं सर्वं गूढं सुप्रकटं तथा | गत्वा ज्ञात्वा यथाभूतमागत्य ह्यचिरेण तु || १४५ || निवेदयन्ति तत्सर्वं डाकिन्यो मन्त्रपीडिताः | प्रयान्ति मातरोभताः क्षणेन गगनान्तरम् || १४६ || चेष्टितं च कृतं वृत्तं यत्तद्गगनचारिणाम् | ज्ञात्वा निवेदयन्त्याशु साधकस्य यथास्थितम् || १४७ || भूतैर्गृहीतमनुजं ताडयेच्च लतादिना | समानयेन्नयेच्चाथ तदग्रस्थस्य तां लताम् || १४८ || यायादभीप्सितं वेगाद् द्रुतमायाति तत्क्षणात् | कृत्वा तु मातरं तस्माद्दूरदेशं व्रजन्ति च || १४९ || यत्र यत्र क्षिपेन्मन्त्री जप्त्वा सिद्धार्थकानि तु | सन्निधिं तत्र कुर्वन्ति देवयोन्युषि(दि ?)ता ग्रहाः || १५० || अभीप्सितं चानयन्ति पानान्नवसनादिकम् | अस्त्रेण मन्त्रितं कृत्वा शस्त्रं परबलं व्रजेत् || १५१ || ध्वस्तायुधं करोत्याशु तन्मध्ये तत्क्षिपेद्यदि | अभेद्यमपि चेद्वज्रमस्त्रजप्तबलेन तु || १५२ || प्. ३२७) बहुधा भेदमायाति एवमन्ये नगादयः | क्ष्मामण्डलस्थितं ध्यायेदस्त्रज्वालावलीवृतम् || १५३ || यत्र यत्र नियुक्तं तु स्तंभं तत्र करोति च | अस्त्राभिमन्त्रितं कृत्वा लोहकाण्डं तु नारद || १५४ || भ्रामयन्गगनस्थं च स्तंभयेदभिवर्षणम् | यत्र यत्र नियुंजीयात्क्रोधसंरक्तलोचनः || १५५ || अस्त्रजप्तं तृणाग्रं तु बकवत्तत्र तत्पतेत् | मनःशिलायुतेनैव कुङ्कुमेन विलिख्य च || १५६ || कर्णिकादौ स्थितं प्राग्वद्दिक्षु वज्राष्टकान्वितम् | धारयेद्यस्तु युक्तात्मा सर्वत्राप्यपराजितः || १५७ || पूजामाप्नोति विपुलां सौभाग्यं चाखिलं तथा | इति श्रीपाञ्चरात्रे जयाख्यसंहितायां अंगमन्त्रसाधनं नामाष्टाविंशः पटलः || २८ || अथ वक्त्रमन्त्रसाधनं नामैकोनत्रिंशः पटलः श्रीभगवान् एतद्विधानमङ्गानां कीर्तितं तु यथेप्सितम् | शृणु वक्त्रत्रयस्याथ कल्पं वक्ष्यामि यादृशम् || १ || [नृसिंहवक्त्रमन्त्रसाधनम्] यत्तन्नृसिंहवदनं कल्पान्तार्कायुतप्रभम् | तस्याङ्गषट्कसंयुक्तं शृणु मूर्तिचतुष्टयम् || २ || युक्तं शक्तिचतुष्केण कल्पान्ताग्निसमद्युति | [नृसिंहस्याङ्गमन्त्राः] आदाय शाश्वतं षोढा सामपाठकसंस्थितम् || ३ || चतुर्गतिधरेशाभ्यामन्तस्स्थेनाथ योजयेत् | उत्तराधरतः पश्चादाङ्गिकैश्चाङ्कयेत्स्वरैः || ४ || कौस्तुभोत्तममध्येन व्योमेशेनाथ भूषयेत् | अङ्गान्येतानि विप्रेन्द्र नृसिह्मस्य महात्मनः || ५ || [नृसिंहस्य मूर्तिमन्त्राः] कूटान्तश्चैव धा मात्मा(?)शाश्वतावस्थितस्ततः | वेदात्मा परमात्मा च चतुर्णामथ योजयेत् || ६ || प्. ३२८) अथ लोकेश्वरार्णं तु सूक्ष्मान्तस्थं यदक्षरम् | लोकेश्वरोज्झितं तं वै व्योमेशाख्याद(र्ण?)संयुतम् || ७ || चतुर्णामपि मूर्धस्थं चतस्रो मूर्तयो विभोः | सूर्यलोकप्रदश्चाद्यो द्वितीयोऽग्निप्रभाकरः || ८ || अत्युग्रदर्पशमनश्चतुर्थो विश्वसूकरः | [नृसिंहानुचरमूर्तीनां ध्यानप्रकारः] नृसिह्मभूतयः(मूर्तयः?) सर्वे ध्येयास्सर्वे चतुर्भुजाः || ९ || नखप्रहरणाश्चैव विश्वोपप्लवहानिदाः | विस्मयाख्यां स्मरेन्मुद्रां सर्वेषां च करद्वये || १० || करेण तु करं ध्यायेन्मर्दयन्तमतीव हि | अतश्चोद्रिक्तरूपाणां ध्येया मुद्रा परा मुने || ११ || सितरक्तसुवर्णाभं नीलपूर्वाकृतिं स्मरेत् | [नृसिंहस्य शक्तिमन्त्राः] आदायोत्फुल्ल (य फुल्ल ?) नयनमग्निरूपमतः परम् || १२ || दीप्तिमद्विश्वरूपौ च तेषां मूर्धनि विन्यसेत् | अशेषभुवनाधारं मायाव्योमेशभूषितम् || १३ || मायाव्योमेशरहितं तत्तेषामासनं न्यसेत् | युगान्तहुतभुग्ज्वाला विश्वमूर्तिर्महाप्रभा || १४ || जगत्संपूरणी नाम्ना चतुर्थी संप्रकीर्तिता | [नृसिंहशक्तीनां ध्यानप्रकारः] क्रमेण वर्णमासां तु यथास्वमवधारय || १५ || अलिहेमारुणा -------- द्विभुजाश्चारुकुण्डलाः | उन्नताङ्गा महाकायाः पिङ्गभ्रूयुग्मलोचनाः || १६ || चतस्रश्चापि षड्घ्राणाः प्रलम्बिजठरास्तथा | चक्रचामरहस्ताश्च बद्धपद्मासनस्थिताः || १७ || सर्वासां प्रणवं संज्ञां नमस्कारपदं न्यसेत् | मूलशक्तिप्रणीतेन न्यायेन न्यासमाचरेत् || १८ || अर्चयित्वा तु हृत्पद्मे षट्कोणे मण्डले बहिः | अष्टपत्रोदरे न्यस्य पूजयेत्परमेश्वरम् || १९ || प्. ३२९) न्यसेद्धृदादिकं प्राग्वत्पत्रप्रान्तचतुष्टये | प्रागाद्ये मूर्तिसंघं तु आग्ने याम्येऽथ शक्तयः || २० || इष्ट्वाऽथ मूर्तिमन्त्राणां स्वमुद्रां संप्रदर्शयेत् | चक्रं कीर्तिचतुष्कस्य गुग्गुलं च तिलं ततः || २१ || हृतकिंशारुकाणां तु धान्यानामरुणात्मनाम् | तणदोषविमुक्तानामाज्याक्तानां विशेषतः || २२ || गुग्गुलुक्षौद्रमिश्राणां दद्यात्पूर्णाहुतिं ततः | प्रमुञ्चन्वै महानादं त्रैलोक्यजडकृन्महत् || २३ || नृकेसरी समायाति गगनादनलान्तरात् | तन्मन्त्रेण महानादमुत्प्लुत्य गगनं द्रुतम् || २४ || कुर्यात्साधकमुख्यो वै तेजसा मुदितो भवेत् | तदा स भगवान्देवः परितुष्टोऽनुभाषते || २५ || वद साधकराजेन्द्र यत्ते चेतस्यवस्थितम् | इत्युक्त्वाऽदर्शनं याति मन्त्रमूर्तीनृकेसरी || २६ || [नृसिंहमन्त्रसिद्धिजं सामर्थ्यम्] ततोऽष्टगुणमैश्वर्यं साधको यदि चेच्छति | आत्मनो द्विज वाऽन्यस्य वाङ्मात्रेण तु साधयेत् || २७ || दृष्ट्वा सुलक्षणं पात्रं ब्राह्मणं क्षत्रियं तु वा | कृत्वा तु चेतसा न्यासं पुष्पैरर्घ्यैस्तथाऽम्बुना || २८ || संपूज्य रङ्गमध्यस्थमाविष्टस्स वदेत्क्षणात् | भूतं भव्यं भविष्यच्च यस्य यत्प्रतिभाति वै || २९ || न्यस्य तन्मूर्तिमन्त्रांश्च तन्मन्त्रैरथ पूजयेत् | दारकं सोऽपि चेत्सर्वमतीतानागतं वदेत् || ३० || शक्तिमन्त्रचतुष्केण समावेश्य च कन्यकाम् | स्वल्पाऽपि बालभावस्था सा विवक्ति यथेप्सितम् || ३१ || जपमानस्तु मन्त्रेशं तन्मन्त्रेणाथ संक्षिपेत् | सिद्धार्थकान्विशेद्ग्रामान्नगरं वा पुरं महत् || ३२ || तत्क्षणात्क्षोभमायाति सतिर्यङ्नरदैवतम् | ---------------------- कृत्वातः सिंहविग्रहम् || ३३ || प्. ३३०) लेपनाभरणाद्यैस्तु संरक्षे खलु कण्टकम् (?) | यायाच्छैलेन्द्रमूर्धानं जपेल्लक्षाष्टकं व्रती || ३४ || वाऽयुतं लक्षयुग्मं तु जपान्ते जुहुयात्ततः | न्यासं कृत्वा विशेन्मध्यमास्ते वाऽन्यस्य सम्मुखे || ३५ || क्षोभमायाति तरसा सगजाश्वायुधान्वितम् | प्रतिष्ठितायामल्पायां यस्यां कस्यां हि नारद || ३६ || जपन्मन्त्रं कृतन्यासो यद्यग्रे तिष्ठति क्षणम् | साऽपि च क्षोभमायाति धावेद्यत्र स साधकः || ३७ || मकरालयकूलं तु समासाद्य महामते | एवमेव हि यस्तिष्ठेत् क्षोभयत्यचिरेण तम् || ३८ || निरीक्षमाणो गगनं यदि मन्त्रमनुस्मरेत् | विघनं निर्मलं चैव तत्क्षणात्क्षोभमेति च || ३९ || जीमूतस्तनितैर्घोरैर्विद्युन्मालाशनीयुतैः | वनं वनस्पतियुतं सिंहव्याघ्राकुलं महत् || ४० || विधिनानेन विप्रेन्द्र क्षोभमायाति चाचिरात् | यं यं क्षोभयते मन्त्री सिंहमन्त्रेण भास्वता || ४१ || स स यच्छति सर्वस्वं भयभीतश्च भक्तितः | यं यं कृत्वा तु मनसा यक्षविद्याधरादिकम् || ४२ || जपेन्मन्त्रवरं मन्त्री स स आयाति शीघ्रतः | आज्ञां स साधयत्याशु साधकस्य महात्मनः || ४३ || तदाज्ञया व्रजेद्भूयः स्वस्थानं भीतमानसः | विलिख्य द्वादशारं तु नाभिनेमिसमन्वितम् || ४४ || सषट्कोणं तु नाभौ तु सपद्मं कुङ्कुमेन तु | तरूत्थितेन पयसा वस्त्रे रोचनया सह || ४५ || कर्णिकान्तर्गतां संज्ञां मन्त्राद्यन्तं निरोधिताम् | अमृतार्णान्तरस्थां च व्यापी चान्द्रीयुतश्च सः || ४६ || स्वकोऽसौ मूर्तिमन्त्रो यः प्रत्येकस्मिन्दले दले | रक्षामुकपदोपेताः षट्कोणे च हृदादयः || ४७ || प्. ३३१) मूर्तिद्वयं तु प्रथमं संज्ञाद्यन्तगतं द्विज | चक्रनाभौ द्विधा योज्यं द्वयमेव न (त्व ?)रान्तरे || ४८ || अरान्तरान्तयोगेन एकैकं षट्सु षट्सु च | याऽत्र वै प्रथमा शक्ती रक्षनामपदान्विता || ४९ || अरान्तराले सा योज्या एका द्वादशधा द्विज | नामयुक्तां त्रिधा चान्यां चक्रनेमौ नियोज्य च || ५० || त्रिरष्टधा तृतीया च तथा चक्रप्रथिष्वपि | वा(या?) चतुर्थी विभोश्शक्तिरेकधा चक्रबाह्यगा || ५१ || तन्मयी येन सूत्रेण चक्रं संवेष्ट्य सप्तधा | व्रतोपवासशुद्धात्मा पूजां कृत्वा तथाऽहुतिम् || ५२ || द्वादश्यां सितकृष्णायां गुरोर्वारेऽथ नारद | अथवा जीवनक्षत्रे मुहूर्ते शकुनान्विते || ५३ || विलिख्य च बहिः पक्षे सितरक्तेन वेष्टयेत् | त्रिलोहगर्भगं कृत्वा मन्त्रं यो धारयेद्द्विज || ५४ || तस्यायुः श्रीस्तथाऽरोग्यं सौभाग्यमुचितं बलम् | तृप्तिः कान्तिस्तथा कीर्तिर्विजयस्सर्वतोमुखः || ५५ || मेधाऽभिचारविध्वंसो मन्त्रो योगकृतोऽथ वा | स्थावरं जङ्गमं घोरं शङ्काख्यं कृत्रिमं तथा || ५६ || विषं विनाशमायाति गृहभूतेषु का कथा | कामयेद्वनितानां तु मध्ये भवति वल्लभः || ५७ || यं यं समीहते कामं तं तं प्राप्नोत्ययत्नतः | एतन्नृसिंहमन्त्रस्य वक्त्रभूतस्य नारद || ५८ || [कपिलमन्त्रसाधनप्रकारः] विधानं कथितं सम्यक् कापिलस्याथ कथ्यते | [कपिलस्याङ्गमन्त्रः] विलेख्यो दीप्तिमान्षोढा ऊर्ध्वाधोऽनलवेष्टितः || ५९ || तन्नृसिंहाङ्गवन्मूर्ध्ना क्रमात्कुर्याच्च योजितम् | एतानि कपिलाङ्गानि चेटकानस्य वै शृणु || ६० || प्. ३३२) [कपिलस्यानुचरमन्त्राः] चतुष्कं वारुणान्तस्थं शाद्यं कृत्वा क्रमेण तु | धरेशमनलारूढं सलोकेशं चतुर्ष्वधः || ६१ || विश्वाप्यायकरो व्यापी न्यस्यो ह्युपरि सर्वतः | योगेश्वरश्च तत्त्वज्ञो ब्रह्मदत्तो महामतिः || ६२ || सितरक्तारुणः कृष्णश्शान्तदेहश्चतुर्भुजः | [कपिलानुचरमूर्तिध्यानप्रकारः] ब्रह्माञ्जलिकृताः सर्वे बद्धपद्मासनस्थिताः || ६३ || विज्ञानसंचयाकारा ह्यक्षसूत्रकरास्तु वै | प्रभाकरसहस्राभा दिव्यमालाम्बरान्विताः || ६४ || दिव्यगन्धानुलिप्ताङ्गा दिव्याभरणभूषिताः | [कपिलस्य शक्तिमन्त्राः] आद्यवर्णचतुष्कं तु शान्तान्तं च लिखेत्क्रमात् || ६५ || अनलस्थं च सर्वेषामधः सोमं च विन्यसेत् | व्यापी चान्द्री ततो माया चतुर्थ्यन्तं नियोजयेत् || ६६ || विमला करुणा शक्तिर्ज्ञानाख्या चेति शक्तयः | [कपिलशक्तिध्यानप्रकारः] पीतश्यामारुणाः शुक्लाः क्रमशो द्विभुजाः स्मृताः || ६७ || वरदाभयहस्ताश्च कपिलाकृतयस्तथा | कृत्वा न्यासं यजेत्पश्चात् वितते हृत्कुशेशये || ६८ || ततः पूर्णेन्दुसङ्काशमेकद्वारं तु वर्तुलम् | सपद्मं मण्डलं कृत्वा तन्मध्ये ह्यवतार्य च || ६९ || शेषमंगादिकं प्राग्वन्न्यस्य लीला(द्दले न्यस्य?)तदन्तरे | इष्ट्वा ब्रह्माञ्जलिं मुद्रां योगेशादिषु दर्शयेत् || ७० || वराभयौ तु शक्तीनां मुख्यस्थाङ्गेषु पूर्ववत् | कृत्वा होमं यथाशक्ति तिलैराज्यपरिप्लुतैः || ७१ || दत्वा पूर्णाहुतिं पश्चात् स्थानमासाद्य निर्जनम् | जपेल्लक्षचतुष्कं तु हृदादीनां तु नारद || ७२ || क्रमात्सहस्रमेकैकं ततो होमं समाचरेत् | पयसा मधुमिश्रेण जुहुयादयुतद्वयम् || ७३ || प्. ३३३) निरम्बुनाऽथ वै दध्ना जुहुयादयुतं ततः | मालतीकुसुमानां तु ततश्चायुतपञ्चकम् || ७४ || एकमाज्यस्य जुहुयात्केवलस्य स्रुवेण तु | शतं शतं च सर्वेषां सर्वमेकीकृतं जुहेत् || ७५ || ततः पूर्णाहुतिं दद्याद्दधिमध्वाज्यपूरिताम् | एत्यादित्यपथादग्रे साक्षात्तिष्ठेदधोक्षजः || ७६ || गच्छ साधक सिद्धोऽसि मन्मन्त्रेणाखिलं कुरु | एवमुक्त्वा स भगवान्याति सूर्यपथादतः || ७७ || [कपिलमन्त्रसिद्धिजं सामर्थ्यम्] तन्मन्त्रेणाथ वै मन्त्री कुर्यात्कर्म यथेप्सितम् | जडानां योजयन्मन्त्रं मुहूर्तं हृत्कुशेशये || ७८ || प्राप्नुवन्ति प्रबोधं च अष्टाक्षरपदान्वितम् | मन्त्रेणाद्यन्तसंरुद्धं यस्य नाम तु नारद || ७९ || जपेच्छतद्वयं मन्त्री स संबाधपथं व्रजेत् | मन्त्रेशं जपमानस्तु यदि तिष्ठेत्तपोवने || ८० || लब्धविज्ञानसन्तोषाः पादयोर्निपतन्ति ते | तपस्विनः शान्तचित्ता मन्त्रज्ञस्य महात्मनः || ८१ || महानृपालयाग्रे तु ध्यायेद्वै मन्त्रनायकम् | क्षणमास्ते यदा मन्त्री तदा नृपवरस्तु तम् || ८२ || समेत्य पादमूलं तु निखिलं विनिवेदयेत् | यान्यांश्चेतसि कृत्वा वै जपेन्मन्त्रवरं व्रती || ८३ || समेत्य तेन विप्रेन्द्र मन्त्रज्ञस्य महात्मनः | स्वं स्वं चैव तु विज्ञानं कथयन्ति प्रयत्नतः || ८४ || नागा विद्याधरा यक्षा ये वै गगनगामिनः | विज्ञानसिद्धिं वै सर्वां विशेषेण महात्मनः || ८५ || दत्वा साधकमुख्यस्य यान्ति यत्रागताः पुनः | विज्ञानविषये सिद्धौ सन्दिग्धार्थे तु नारद || ८६ || मन्त्रं ध्यायेज्जपेन्मन्त्री निस्सन्देहपदं व्रजेत् | ध्यात्वा नाभौ तु मन्त्रेशं जपेद्यद्ययुतं प्रति || ८७ || भूतं भव्यं भविष्यच्च वेत्ति सर्वं न संशयः | प्. ३३४) साष्टं शतद्वयं जप्त्वा सर्षपान्करसंपुटे || ८८ || निक्षिपेद्भूमिमध्ये तु ते स्वयं संघटन्त्यधः | निधिस्थाने तु विप्रेन्द्र स्थाने रासायने तु वा || ८९ || तत्प्राणि(प्ति?)सूचनार्थं तु तत्रावर्तं ददत्यथ | प्राप्तिर्न विद्यते यस्मिन्निधावथ रसायने || ९० || दूरतश्च तदुद्देशात्प्रयान्तीतस्ततो द्विज | बद्धपद्मासनो मन्त्री शून्यधारणया स्थितः || ९१ || जपेद्दशसहस्राणि खेचरत्वमवाप्नुयात् | राजोपलद्युतिमुषं ध्यात्वा मन्त्रं जपेद्यदि || ९२ || तुर्यांशमयुतं ----------- तालुरन्ध्रपथस्थितम् | स्वयमन्यस्य वा विप्र पलितं नाशयेद्यतः || ९३ || पुरन्दरपुरान्तस्थं मन्त्रं मन्त्री जपेद्यदि | ज्वलनाभं तु जिह्वाग्रे रक्षावानीश्वरस्य तु || ९४ || सोऽपि मूकत्वमाप्नोति किं पुनर्मनुजोऽल्पधीः | निशाम्बुना च क्षीरेण सघनेन रसेन च || ९५ || विलिख्य कुङ्कुमाढ्येन भूर्जे वा सितकर्पटे | षट्पत्रं तु महापद्मं तद्बहिर्द्वादशच्छदम् || ९६ || सनाभिनेमि तद्बाह्ये षोडशारश्च हतिराट् | प्राग्वन्नामसमायुक्तं मन्त्रेशं कर्णिकान्तरे || ९७ || पत्रषट्के षडङ्गं तु नामाक्षरपदान्वितम् | अङ्गानि मूर्तयश्चैव शक्तयोऽथ दलत्रये || ९८ || तान्येवान्येषु पत्रेषु भूयो भूयो विलिख्य च | पद्मं समाप्यते यावन्नाभौ मूलं न्यसेत्पुनः || ९९ || अरान्तराल हृद्बीजमस्त्रबीजमरेषु च | शेषमङ्गचतुष्कं तु मूर्तयश्शक्तयस्तथा || १०० || चक्रनेमौ तु विन्यस्य चक्रबाह्यं तु वै ततः | नवधा शक्तिबीजेन वेष्टनीयं महामते || १०१ || आश्रमावरुणासङ्घशान्तिमन्त्रान्विनिक्षिपेत्(?) | अथवाऽनेन तु व्योम्नि तत्र सूत्रेण वेष्टयेत् || १०२ || प्. ३३५) जाम्बूनदपुटे कृत्वा धारयेद्भक्तिमान्हि यः | तस्य ज्ञानं सविज्ञानमाविर्भवति नारद || १०३ || नदीः सन्तरतस्तस्य अथवोदधिलङ्घने | तोयोत्था दोषसंघाश्च ऊर्मयः प्रशमन्ति च || १०४ || यन्त्रसंधारको यत्र निवसत्यम्बुजन्म च | ज्वलितं वाचकं तत्र गमयत्यचिरेण तु (?) || १०५ || कृत्वा स्थानं तु निर्बाधं मन्त्रस्यास्य प्रभावतः | प्रविशन्ति च घोराणि भौमाद्यानि सहस्रशः || १०६ || न तत्र दैविको बाधः कुतो राजकुलोद्यतः | उदेति पूर्णमतुलं धैर्यं लक्ष्मीः प्रगल्भता || १०७ || विपरीतमतो यद्वै तत्सर्वं नाशमेति च | किमस्य मन्त्रनाथस्य अप्राप्यं भुवनत्रयम् || १०८ || स्यात्समाराधितस्यैवं विधिदृष्टेन कर्मणा | यत्र यत्र च मन्त्रेशं यं यं मन्त्री नियोजयेत् || १०९ || तत्राङ्गशक्तिमूर्तिं चाप्यर्चयेज्जुहुयाज्जपेत् | इत्येतत्कापिलस्योक्तं वाराहस्याधुनोच्यते || ११० || [वराहमन्त्रसाधनप्रकारः तत्र वराहस्याङ्गमन्त्रः] षोढाऽनन्तेशमादाय प्रधानोपरि संस्थितम् | धरेशं तदधो दद्यात्संयोज्याङ्गोदितस्वरैः || १११ || [वराहस्यानुचरमन्त्राः] गोविन्दो विबुधाद्यश्च वराहश्च चतुर्गतिः | क्रमाच्चतुष्टयं दद्यात्तेषां चाधो नियोज्य च || ११२ || धरेशश्च गदध्वंसी सूक्ष्मं वरुणमेव च | तदूर्ध्वमनलं पश्चाच्चतुर्णां क्रमशो न्यसेत् || ११३ || [वराहस्य शक्तिमन्त्राः] अथ शक्तिचतुष्कार्थमादायार्णचतुष्टयम् | ध्रुवो वराहस्त्वनलः परमात्मा महामतेः || ११४ || प्. ३३६) आरूढं सोमबीजं च चतुर्णामासने न्यसेत् | विष्णुनाऽलंकृतास्सर्वे ततः स्वहृदयान्मुने || ११५ || सर्वस्मिन्मन्त्रचक्रे तु चान्द्री व्यापी तु मूर्धनि | न्यासं पुरोदितं कृत्वा इष्ट्वा हृदयगोचरे || ११६ || अष्टास्रं तु पुरं कृत्वा द्वाराद्यवयवान्वितम् | तन्मध्ये कमलं शुक्लमष्टपद्मं सकर्णिकम् || ११७ || तत्रावतार्य मन्त्रेशं पूजयेद्भक्तिपूर्वकम् | पूर्ववद्धृदयादीनि ततोऽनुगचतुष्टयम् || ११८ || ध्यात्वा पद्मदलान्तस्थं न्यसेद्ध्यानं निबोध मे | [वराहानुचरध्यानप्रकारः] अतसीपुष्पसंकाशं प्रथमं धरणीधरम् || ११९ || धराधरं द्वितीयं तु नवमेघसमप्रभम् | प्रियङ्गुमञ्चरीश्यामं तृतीयं पृथिवीधरम् || १२० || चतुर्थं विश्वधृङ्नाम ध्यायेदलिकुलद्युतिम् | वराहवदनाः सर्वे शंखपद्मकरोद्यताः || १२१ || बद्धपद्मासनासीना वरदाभयकास्तु वै | पुष्पाभरणदिग्धाङ्गास्तुषारनिकरान्विताः || १२२ || [वराहशक्तिध्यानप्रकारः] ततः शक्तिचतुष्कं तु ध्यात्वा ध्यात्वा निवेशयेत् | नवचम्पकवर्णाभां प्रथमां विश्वपूरकीम् || १२३ || राजोपलप्रभामन्यां विश्वसन्धारणीति या | ध्यायेद्बन्धूकपुष्पाभामोजाख्यां तु महाबलाम् || १२४ || चतुर्थीं स्थितिसंज्ञां च तुहिनाचलसन्निभाम् | वराहवदनास्सर्वे द्विभुजाश्चारुकुण्डलाः || १२५ || गदाचक्रकराश्चैव नानापुष्पाम्बरान्विताः | पूजयित्वा ततो दद्यान्मुद्रां मन्त्रगणस्य च || १२६ || मूलस्य हृदयादीनां पूर्वलक्षणलक्षिताम् | वराभयाख्यां मूर्तीनां गदामुद्राङ्गनासु च || १२७ || ततस्तु जुहुयान्मन्त्री मध्वक्तानसितांस्तिलान् | दत्वा पूर्णाहुतिं कृत्वा वाराहं रूपमात्मनः || १२८ || प्. ३३७) यायाज्जलाशयोद्देशमेकान्तं विजनं महत् | तत्र लक्षाष्टकं जप्त्वा जुहुयाद्द्वे च सप्त च || १२९ || तिलानां त्वयुतं चापि अयुतद्वितयं तथा | गव्यस्याज्यस्य जुहुयात् गुल्गुलोरयुतं पुनः || १३० || दद्यात्पूर्णाहुतिं मन्त्री ततो दृष्टिपथं व्रजेत् | स्तूयमानस्सुरैः सर्वैर्वराहो वरदः प्रभुः || १३१ || गच्छ तुष्टोऽस्मि ते शीघ्रमभीष्टं परिसाधय | ततः साधकमुख्योऽसौ साधयेत्प्रभुणोदितम् || १३२ || [वराहमन्त्रसिद्धिजं सामर्थ्यम्] आरुह्य शिखराग्रे तु दक्षिणाशां निरीक्षयन् | जपेन्मन्त्रवरं रात्रौ निशान्ते चान्तकः स्वयम् || १३३ || विह्वलीभूत आयाति किं मया ते प्रयोजनम् | ब्रूहि वैरिगणः कस्ते यस्याद्य प्रभवाम्यहम् || १३४ || प्रसन्नस्त्ववसन्नो वा यस्यासौ कालमृत्युना | न बाध्यतेऽद्यप्रभृति त्वदीयं शपथं हि मे || १३५ || त्वमिदानीं व्रतधरो गतमृत्युर्न संशयः | यास्यामि देहि चाज्ञां मे याहीत्यस्य ततो वदेत् || १३६ || ध्यात्वा तोयं घटान्तस्थं जप्त्वा सार्धशतं तथा | गर्दभाद्याश्च ये रोगाः प्रशमन्ति च तज्जलात् || १३७ || स्नानात्पानात्तथा सेकात् क्षणेन तु महामुने | निशाम्बुना चन्दनेन नाममन्त्रपुटीकृतम् || १३८ || परिवारयुतं पद्मे लिखित्वा शीतले जले | निधाय तत्क्षणाद्याति ज्वरश्चैकाह्निकादिकः || १३९ || प्रजप्य गुग्गुलुं धूपं सिद्धार्थकसमन्वितम् | ज्वरान्ते धूपितः सम्यक् सुखी भवति तत्क्षणात् || १४० || मृदमादाय संमन्त्र्य कृत्वा वामकरस्थिताम् | जलेनालोड्य तदनु लूताक्तं परिलेपयेत् || १४१ || नश्यत्याशु द्विजश्रेष्ठ मन्त्रस्यास्य प्रभावतः | शताभिमन्त्रितं कृत्वा तिलतैलं घृतान्वितम् || १४२ || प्. ३३८) सर्वव्याधिविघातं च अभ्यङ्गात्परिजायते | इच्छासंख्यं करे कृत्वा नीलं दर्भगणं द्विज || १४३ || शताभिमन्त्रितं कृत्वा निक्षिपेत्पृष्ठदेशतः | व्रजमानो महारण्ये चोरातङ्कभयाकुले || १४४ || आस्ते चानुगता तस्य पैशाची यक्षसन्ततिः | निपातयति दोषाणां पथि सर्वसुखप्रदा || १४५ || यं यं समीहते मन्त्री पथि तीर्थान्तरे स्थितः | तं तं यक्षादयश्शश्वत् प्रददन्ते यथेप्सितम् || १४६ || तृप्त्यर्थं तस्य सार्थस्य न श्रमं चाप्यसौ व्रजेत् | यक्षरक्षःपिशाचाश्च तिष्ठन्त्यन्येऽग्रतोऽस्य वै || १४७ || अनुसन्धानमात्रेण तदाज्ञासंप्रतीक्षकाः | यदा गगनगामित्वमिच्छत्यद्भुतकृद्व्रती || १४८ || तदादाय च माक्षीकं सुभगां च महौषधीम् | तुषारं सूतसहितं कृत्वा ताम्रपुटे त्वमून् || १४९ || गूहयेन्मर्दनेनाथ भूयो हेमपुटे क्षिपेत् | सहस्रं परिजप्याथ कृत्वा च गुलिकां च ताम् || १५० || निक्षिप्य मुखमध्ये तु ततो नभसि चेत्पतेत् | सिद्धविद्याधराः सर्वे आयान्ति भयविह्वलाः || १५१ || किङ्करत्वेन वर्तन्ते मन्त्रज्ञस्य महात्मनः | सप्तद्वीपसमुद्रान्तां यद्यगादवनिं द्विज || १५२ || अन्तरिक्षेण वै मन्त्री न मोहमुपगच्छति | भ्रमत्यविरतं मन्त्री मेरुपृष्ठे गतो यदि || १५३ || दिवौकसां पुराणां तु तत्र चेद्विबुधाङ्गनाः | पूजयन्ति च वै तस्य विबुधाः प्रणमन्ति च || १५४ || आदाय गुटिकां मन्त्री कृत्वा द्वादशमन्त्रिताम् | सप्तलोकोद्भवाः कन्याः सप्तपातालसम्भवाः || १५५ || संलिख्य चेतसा कृत्वा स्वपरार्थकरो यदि | दृश्यन्ते च ततः क्षिप्तं मदाघूर्णितलोचनाः || १५६ || नागाश्च महिषा दान्ता मृगास्सिंहोरगादयः | नरा वा[कि]न्नराश्चान्ये तान् लिखेद्यदि साधकः || १५७ || क्षणेन सत्यंकारास्ते प्रोत्तिष्ठन्ते न संशयः | प्. ३३९) मधुना तिलकं कृत्वा युक्तं मृगमदेन तु || १५८ || शताभिमन्त्रितं सम्यक् ललाटे मुनिसत्तम | सान्तःपुरयुतो राजा क्षोभमायाति तत्क्षणात् || १५९ || अभिमन्त्र्य गदां मन्त्री खादिरीमायसीं तु वा | बिलं विना तु भूभागं केवलं ताडयेद्यदि || १६० || सप्तानां तु तलानां वै निर्यन्त्रो(यन्त्रा ?)भूयते गतेः | या या चेतसि वै सिद्धिरभीष्टा साधकस्य तु || १६१ || सा सा मन्त्रबलात्सम्यक् सिध्यति ह्यचिरात्ततः | अष्टयोन्युत्थिता देवी तथा चैवाणिमादयः || १६२ || सामर्थ्यान्मन्त्रनाथस्य साधकानां च नारद | पयसा कापिलेनैव रोचनाकुङ्कुमेन च || १६३ || भूर्जपत्रेऽथवा वस्त्रे अष्टास्रं च लिखेत्परम् | तन्मध्येऽष्टदलं पद्मं षट्कोणं तद्बहिःपुरम् || १६४ || द्वादशारं तु तद्बाह्ये नाभिनेमिप्रथीइयुतम् | मध्ये मन्त्रयुतं ---------- नामबीजान्तरस्थितम् || १६५ || पूजान्यासप्रयोगेण दलानां च हृदादयः | भूयोऽस्त्रबीजं विप्रेन्द्र अष्टास्रास्त्रिषु चाष्टधा || १६६ || तदाशास्वष्टधा भूयो हृन्मन्त्रं योजयेत्ततः | षोढा वै षट्सु कोणेषु बहिरष्टास्रकस्य तु || १६७ || शिखाबीजं तु विन्यस्य तनुत्रं लोचनान्वितम् | प्रपूरणार्थं नाभौ तु असंख्यं बहुशो लिखेत् || १६८ || षट्परावर्तयोगेन चतस्रोऽरेषु मूर्तयः | याऽत्र वै प्रथमा शक्तिश्चतुर्विंशतिधा च ताम् || १६९ || दद्यादरान्तरालेषु द्वितीया नेमिमण्डले | नाभिस्थबीजयुक्ता तु योजनीया निरन्तरम् || १७० || अन्तरान्तरयोगेन शेषं शक्तिद्वयं तु तत् | प्रथिषु न्यसनीयं च बाह्यचक्रे ततो द्विज || १७१ || द्विषट्कधा च शिरसा वेष्टयित्वा त्रयं नयेत् | विष्णुं व्योमेशवर्णेन तद्यन्त्रं परिवेष्टयेत् || १७२ || पञ्चरङ्गेण सूत्रेण क्षिपेत्कनकसंपुटे | प्. ३४०) दोर्दण्डे दक्षिणे कुर्यात् स्त्री वा स्तनयुगान्तरे || १७३ || प्रियत्वं सततं याति वैरिष्वपि च साधकः | नदीनदान्समुद्रान्वा लीलया परिलङ्घयेत् || १७४ || बह्वर्थं तत्प्रभावाच्च नो मज्जति जलान्तरे | नारण्यवनजानां तु सकाशाद्विद्यते भयम् || १७५ || भजन्ति सानुकूलं च विपरीतस्थिता ग्रहाः | न बाधते विषं घोरमनेकं चातिभीषणम् || १७६ || चोरादिशस्त्रसंघातो गात्रसन्धिषु नो विशेत् | यत्रोपलानि गगनात्पतन्ति यदि वै ततः || १७७ || तुल्यानि पुष्पवृष्टीनां वैध(स्युः ?)न्यूनान्यथ द्विज | बालग्रहादयो दूरं त्यक्त्वा बालं प्रयान्ति च || १७८ || यत्रेदं तिष्ठते यन्त्रं किं तु तद्देहगं तु वै | लग्नगर्भा च या नारी सुखं सूते च धारणात् || १७९ || भवेत्पुत्रवती वन्ध्या मृतवत्साऽथ पुत्रिणी | सपत्नी गणमध्ये तु पूजामाप्नोति शाश्वतीम् || १८० || रणे राजकुले द्यूते विवादे चातिसंकटे | धारको जयमाप्नोति मन्त्रस्यास्य प्रभावतः || १८१ || तस्मात्संसाधिते मन्त्रे यन्त्रं वै मुनिसत्तम | इह तन्त्रोत्थितं वान्यत्सर्वकर्मकरं भवेत् || १८२ || सर्वसिद्धिप्रदं चैव सर्वसंपत्समृद्धिकृत् | इदं ते विप्र मन्त्राणां सरहस्यं च कीर्तितम् || १८३ || साधनं भोगकामानां साधकानां महात्मनाम् | नेदं शठानां पापानामभक्तानां प्रकाशयेत् || १८४ || नान्यदर्शनभक्तानां नाशिष्याणां कदाचन | नान्यायमार्गसंस्थानामधर्मनिरतात्मनाम् || १८५ || लीलया चोदकानां च मार्गे वा यत्र कुत्रचित् | यो धर्मं चार्थलाभेन प्रब्रूते ह्युन्नतिं विना || १८६ || धनाभिमानसक्तानां स सिद्धोऽपि व्रजत्यधः | तस्मादिदं रहस्यं च दृष्टादृष्टद्वयार्थिषु || १८७ || न्यायतः प्रतिपन्नेषु वक्तव्यं श्रेय इच्छता | इति श्रीपांचरान्त्रे जयाख्यसंहितायां वक्त्रमन्त्रसाधनं नाम एकोनत्रिंशः पटलः || २९ || अथ परिकरसाधनं नाम त्रिंशः पटलः श्रीभगवान् समासात्कौस्तुभादीनां साधनं शृणु नारद | येन विज्ञातमात्रेण यथेष्टं साधयिष्यति || १ || स्वनाम्नः पूर्ववर्णं च मात्राव्यञ्जनवर्जितम् | आङ्गिको लांछनचयः स्वस्वसंज्ञादयस्तु षट् || २ || साधार(सामान्य ?) मेतत्सर्वेषां नवानामङ्गसिद्धये | विशेषः कौस्तुभादीनामधुनाऽत्रैव वक्ष्यते || ३ || [कौस्तुभमन्त्रसाधनम्] मण्यक्षरस्यासने तु नियोक्तव्यौ रलौ क्रमात् | कृत्वा न्यासं यजेद्देहे सूर्यवद्वर्तुलं बहिः || ४ || सपद्ममण्डलं कृत्वा इष्ट्वा तत्र महामते | जप्त्वा हुत्वा ततो यायाद्गिरिशृङ्गमपादपम् || ५ || जपेल्लक्षद्वयं पश्चान्मन्दारकुसुमायुतम् | जुहुयात्कुङ्कुमेनैव समध्वाज्यपरिप्लुतम् || ६ || ततश्चम्पकपुष्पाणां जुहुयादयुतत्रयम् | मन्त्रेशः सिध्यति क्षिप्रं सिद्धः सद्रत्नसञ्चयम् || ७ || प्रयच्छत्यचिरेणैव आयुरारोग्यवर्धनम् | कृत्वाऽलक्तकसूत्रेण वेष्टनाच्च यवत्रयम् || ८ || अङ्गुलानि चतुर्दैर्घ्यात् घृताक्तं वर्तिपञ्चकम् | सषडङ्गेन मन्त्रेण ज्वालयित्वा जपेन्मुने || ९ || शतमेकं तु वै सार्धं लोहचक्रोपरि स्थितम् | बिलं रसायनं वित्तं यत्राधस्तात्क्षितौ स्थितम् || १० || चङ्क्रमेज्जपमानस्तु चक्रात्प्लुत्य च भेकवत् | वर्तयो निपतन्त्याशु मन्त्रस्यास्य प्रभावतः || ११ || स्थानं खात्वोत्तरेद्विप्र निधीन्वै सरसायनान् | बिलं कृतं यद्विविक्तं तिष्ठत्याचन्द्रतारकम् || १२ || नरेन्द्रमखिलं तत्र --------------------------------- | रत्नानि ध्यानमात्रेण पणान्याभरणानि च || १३ || प्. ३४२) ददाति मर्त्यलोकेऽस्मिन्दुर्लभानि सदैव हि | यश्चैवं ---------- माद्यैस्तु लिखितं धारयेद्गले || १४ | पद्म --- सप्रयोगेण प्रजपन्मन्त्रनायकम् | तस्य सर्वार्थसिध्यर्थं सर्वस्मिन्निधिवस्तुनि || १५ || इत्येतत्कौस्तुभस्योक्तं मालामन्त्रस्य कथ्यते | [मालामन्त्रसाधनम्] अथ स्वनामवर्णस्य क्रमाच्च लय(यरल ?) त्रयम् || १६ || पूर्वोपकरणेनैव युक्तमङ्गगणं तनौ | न्यस्य कृत्वा तु हृद्यागं बहिरर्धेन्दुमण्डले || १७ || षट्पत्रे पुष्करे ध्यात्वा संपूज्य जुहुयात्ततः | वनराजिं समासाद्य लक्षमेकं जपेत्ततः || १८ || जातिचम्पकपुष्पाणां कदम्बानां तु होमयेत् | सर्वौषधिरसाक्तानामयुतञ्चायुतं क्रमात् || १९ || मधुना केवलेनाथ जुहुयादयुतं द्विज | होमान्ते मन्त्रसिद्धिस्स्याद्दैवी लोके तु मानुषे || २० || कृत्वाऽभिमन्त्रितां कण्ठे पुष्पमालां च साधकः | निधायावनिसंस्थायामर्चायामात्मनोऽथवा || २१ || न विप्रमानभावत्वं यात्यसौ यावदिच्छति | करोति चार्चनं विष्णोः स्थाने पुष्पफलोज्झिते || २२ || अकालकुसुमान्याशु तत्राकाशात्पतन्ति च | पूजां (स्रजं) कृत्वा तु तैः पुष्पैस्तान्येव यदि धारयेत् || २३ || उत्तमाङ्गे तु कण्ठे वा भूयो द्विशतमन्त्रिताम् | यायाददर्शनं मन्त्री खगतिर्वाऽथ वायुवत् || २४ || दिव्यगन्धवहो नित्यं दिव्याश्चर्यप्रदर्शकः | कुसुमायुधसादृश्याद्वपुषा परिदृश्यते || २५ || मालाधरस्तु वै मन्त्री अखिले ललनाकुले | मालाकारस्य वै तुष्टो यदि पुष्पवनं द्विज || २६ || निरीक्षते जपन्मन्त्री शुष्कं तत्पुष्पितं भवेत् | प्. ३४३) क्रुद्धोऽपि कुसुमाकीर्णं वनं दृष्ट्वा करोति च || २७ || दावाग्निनेव निर्दग्धं भूयो वा यदि चेच्छति | प्रावृण्माधवकालाभ्यां तुल्यत्वमुपपादयेत् || २८ || ये केचिद्दुर्लभा गन्धाः स्वर्गपातालसंभवाः | यत्र मालाधरस्तिष्ठेन्मन्त्री तत्र वहन्ति ते || २९ || सुभगस्सर्वभूतानां दर्शनादेव जायते | जयादृते न चाप्नोति कुत्रचित्स पराजयम् || ३० || शान्तिकं पौष्टिकं चैव अयत्नेनाचिरात्तु वै | मालाधरो लभेताशु मन्त्रसन्धारणादपि || ३१ || [कमलमन्त्रसाधनप्रकारः] मालासाधनमित्येतत्कमलस्याथ कथ्यते | नामार्णस्यासने दद्याज्जीवं वरुणसंस्थितम् || ३२ || प्रागुक्तसंस्कृतं कृत्वा ह्यस्य ध्यात्वा यजेद्धृदि | बहिः पद्मान्तरे पद्मं द्विषट्पत्रे तु षड्दलम् || ३३ || कर्णिकाकेसरोपेतं कृत्वा वृत्तपुरान्तरे | तत्रावतार्य संपूज्य होमं कृत्वा तिलादिकैः || ३४ || यायात्पद्मवनोद्देशं पद्ममन्त्रं जपेत्ततः | लक्षमेकं मुनिश्रेष्ठ अयुतं त्रितयान्वितम् || ३५ || होमयेत्कमलानां तु अयुतद्वितयं द्विज | अयुतं स्थलपद्मानां मधुसिक्तं ततोऽयुतम् || ३६ || नागकेसरगन्धानां मन्त्रसिद्धिर्भवेत्ततः | लभेत विपुलां लक्ष्मीं व्याधिरोगविवर्जितः || ३७ || सौभाग्यमतुलं चैव कान्तिं परमशोभनाम् | वलीपलितनिर्मुक्तो धनधान्यसमन्वितः || ३८ || भूर्जपत्रे तु षट्पत्रं कमलं कुङ्कुमेन तु | विलिख्य मन्त्रं तन्मध्ये न्यासयोगेन नारद || ३९ || ददाति धारणात्सर्वं साधितं कमलं पुरा | एतद्विधानं पद्मस्य शङ्खस्याप्यधुनोच्यते || ४० || प्. ३४४) [शङ्खमन्त्रसाधनप्रकारः] स्वाभिनद्धा (धाना ?) द्यवर्णस्य त्वधस्थौ योजयेद्बलौ | विग्रहं सकलीकृत्य हृद्यागे तु कृते सति || ४१ || बाह्ये शङ्खोदरं पद्मं षट्पत्रं मण्डलस्थितम् | कृत्वा तत्रार्चयेन्मन्त्रं होमं कृत्वा तु नारद || ४२ || निर्झराम्बुयुतं स्थानं प्रयायाद्विजनं द्विज | लक्षाष्टकं जपेन्मन्त्री अयुतं त्रितयोत्तरम् || ४३ || जुहुयात्कुमुदानां तु लक्षषट्कं समाहितः | होमान्ते मन्त्रराट् सम्यक् सिध्यत्यस्य महामते || ४४ || दूराच्छ्रवणविज्ञानं तत्प्रभावात्प्रवर्तते | सर्वभूतरुतं चैव ध्यानजप्यपरो लभेत् || ४५ || प्रभावान्मन्त्रनाथस्य शब्दांश्चाकर्णयेद्बहून् | देवगन्धर्वलोकोत्थान् श्रोत्रेन्द्रियमनोहरान् || ४६ || प्रयुक्तः पूर्वविधिना मन्त्रोऽयं यत्र कुत्रचित् | स साधयति तच्छीघ्रं विघ्नेशेन महामते || ४७ || तुषारक्षीरललितां (ते ?) सुधया चन्दनेन च | रक्तवस्त्रेऽथवा भूर्जे मन्त्रं यो धारयत्यपि || ४८ || तस्योपचयसामग्री सम्मुखत्वं प्रयाति च | विधानमेतच्छङ्खस्य प्रोक्तं चक्रस्य कथ्यते || ४९ || [चक्रमन्त्रसाधनप्रकारः] कृत्वोर्ध्वे मरणानां च संज्ञा प्राक् क्षयं तु यत्(?) | कुर्यात्परिकराढ्यं च चक्राङ्गगणसिद्धये || ५० || न्यस्य पाणौ तथा देहे हृत्पद्मे पूजयेत्ततः | द्विषट्कारं लिखेच्चक्रं नाभिनेमिसमन्वितम् || ५१ || तदन्तरे तु षट्पत्रं कमलं रक्तपांडुरम् | चक्रं राजोपलाभेन सितधारं ज्वलत्प्रभम् || ५२ || तन्मध्ये चक्रमन्त्रं तु संपूज्य जुहुयात्ततः | दत्वा पूर्णाहुतिं चैव समाक्रम्य वनस्थलीम् || ५३ || प्. ३४५) विलिख्य चक्रराण्मन्त्र --------- कं वाथ कुङ्कुमम् | चक्रमस्मीति वै बुद्ध्या स्थितमात्मनि नारद || ५४ || समाक्रम्य तु चक्राक्षं बद्धपद्मासनो विशेत् | जपेल्लक्षत्रयं मन्त्री चक्राङ्कां च महौषधिम् || ५५ || जुहुयाल्लक्षमानेन चक्रलक्षस्थितो व्रती | चक्राङ्के तु शुभे कुण्डे त्रितयं जुहुयाद्धृतम् || ५६ || होमान्ते मुनिशार्दूल चक्रमाक्रम्य साधकः | जपेद्ध्यानस्थितो लक्षं चक्रमुत्पतते ततः || ५७ || प्रयात्यर्कपदं वेगाद्गृहीत्वा साधकं तु वै | लोकान्तरेषु सर्वेषु नयत्यविरतं बलात् || ५८ || न याति यदि वै मोहं मन्त्रसत्वक्षयान्मुने | चक्रमस्मीति वै बुद्ध्या वासना यदि वर्तते || ५९ || मन्त्र्यस्मिन्मानुषे लोके नास्ति तद्यन्न साधयेत् | कर्मणा मनसा वाचा ध्यानात्संस्मरणात्तु वै || ६० || इत्येतच्चक्रमन्त्रस्य विधानमथ नारद | [गदामन्त्रसाधनप्रकारः] वक्ष्ये गदाख्यमन्त्रस्य तद्वर्णस्यासने न्यसेत् || ६१ || लरौ पूर्वोदितं सर्वमूर्ध्वेऽङ्गनिचयो भवेत् | न्यासं कृत्वाऽर्चनं सम्यङ्मनसाऽथ बहिर्द्विज || ६२ || गदाष्टकावृतं कुर्यात्स्फुरन्तं मध्यतोऽम्बुजम् | हेमाभं षड्दलं तत्र गदामन्त्रं तु पूजयेत् || ६३ || होमं कृत्वा ततो यायाद्गुहां विप्र मनोरमाम् | तत्रायुताष्टकं मन्त्रं जपेत्तदनु होमयेत् || ६४ || घृताप्लुतं समिल्लक्षं रक्तचन्दनसंभवम् | होमान्ते तु गदामन्त्रः सुसिद्धिं संप्रयच्छति || ६५ || यान्यभीष्टानि मनसो ह्यात्मनश्च परस्य वा | कृत्वादौ तु गदां मन्त्री द्विहस्तां चन्दनोत्थिताम् || ६६ || प्रपूज्य तां समादाय कृत्वाष्टशतमन्त्रिताम् | घोरान्दुष्टग्रहान्हन्यान्मन्त्री शिरसि ताडनात् || ६७ || प्. ३४६) यत्रेन्द्रजालरोगादीन् (दि ?) स्तम्भा नानाविधाश्च ये | पाणिना भ्राम्यमाणायां गदायां यान्ति हस्तसात् || ६८ || नश्यन्ति करिणो मत्तास्तथान्ये कुक्कुरादयः | घोरा विषधरा क्षुद्रा येऽप्यन्ये दुष्टचेतसः || ६९ || प्रहारैर्भूतलं हन्याद्दशभिर्मन्त्रसंस्कृतैः | पातालवीथीः सर्वाश्च निर्भयः संचरेद्व्रती || ७० || चक्रवल्लिखितं भूर्जे गदामन्त्रं च यो वहेत् | त्रिलोहवेष्टितां कृत्वा स सर्वसुखभाग्भवेत् || ७१ || उक्तमेतद्गदाख्यस्य कर्म मन्त्रस्य नारद | [गरुडमन्त्रसाधनप्रकारः] गरुडस्याधुना शीघ्रमेकाग्रमवधारय || ७२ || वर्णेऽभिधानपूर्वे तु वेदात्मानं नियोजयेत् | ऊर्ध्वाधो ह्यनलं भूयो युक्तं तत्पूर्ववत्स्वरैः || ७३ || कृत्वा न्यासं तु हृद्यागं चतुरस्रे तु मण्डले | षट्पत्रं वज्रमध्ये तु कुर्यात्पद्मं सुपीतलम् || ७४ || संपूज्य तत्र गरुडं होमं कृत्वा यथाविधि | यायाद्वरगिरेः शृङ्गं जपेल्लक्षचतुष्टयम् || ७५ || त्रिलक्षं जुहुयात्पश्चाद्घृताक्तानां महामते | श्यामातण्डुलयुक्तानां तिलानामेकमानसः || ७६ || ततोऽस्य खगराट् सम्यक् परितोषं प्रयच्छति | अभीष्टमापादयति साधकस्य कृतात्मनः || ७७ || निरीक्षमाणो दिक्चक्रं प्रदक्षिणमुपक्रमन् | जपेन्मन्त्रं यदा मन्त्री आस्ते रात्रौ सिताष्टमीम् || ७८ || तदाऽष्टौ कुलनागा ये नागवृन्दायुतान्विताः | प्रधानान्वै मणींश्चैव प्रधानं च रसायनम् || ७९ || गृहीत्वा भयभीताश्च तस्य तिष्ठन्ति चाग्रतः | निस्सर्पः स भवेद्देशो यत्र मन्त्र्यवतिष्ठते || ८० || स्थावराणि विषाणां चाभ्यन्तराणां तु का कथा | लूताविस्फोटकानां तु गर्दभानां महामते || ८१ || प्. ३४७) नामनाशो भवेत्तत्र यावत्तत्सन्तते (त ?) स्थितिः | लीलया याहि याहीति दष्टमेघस्य(?)भाषते || ८२ || स याति च तथा नूनमरणेषूषरेषु च | विषभारसहस्रं च योऽत्ति वै कालिकोदये || ८३ || भक्त्या स्मृत्वा मन्त्रिणं तं तत्तन्नामग्रहेण वा | यश्च धारयते मन्त्रं ललाटे कुंकुमेन तु || ८४ || स सर्वदोषनिर्मुक्तः ख आस्ते पक्षिराजवत् | गरुडस्य च मन्त्रस्य उक्तमुद्देशतो मया || ८५ || [पाशमन्त्रसाधनप्रकारः] माहात्म्यमथ पाशाख्यमन्त्रस्य शृणु नारद | विनियोगं तदाद्यर्णे विश्वरूपानलौ त्वधः || ८६ || तदङ्कयेच्च शिरसि षोढा कृत्वा तु पूर्ववत् | न्यस्य हस्ते तथा देहे हृत्पद्मे पूजयेत्ततः || ८७ || कृत्वा पाशोदरे पद्मं षट्पत्रं वह्निमण्डले | तत्र संपूज्य तन्मन्त्रं होमं कुर्यात्तिलाक्षतैः || ८८ || जप्त्वा मन्त्रायुतान्यष्टौ जुहुयाद्वाजसर्षपान् | सितसर्षपतैलाक्तान् जपार्धेन महामते || ८९ || तदन्ते तु घृतैः कुर्यात्तिलैर्होमं तु नारद | एकायुतप्रमाणेन ततः सिध्यति मन्त्रराट् || ९० || मर्त्यलोकस्थितो मन्त्री पातालस्थांश्च कर्षयेत् | पातालसंस्थितो मन्त्री स्वर्ग्यान्वै निखिलान्मुने || ९१ || वश्याकर्षणशोषांश्च प्रयुक्तश्चैव मन्त्रराट् | करोति नात्र संदेहो ध्यातश्च लिखितस्तु वा || ९२ || वरपाशयुतं मन्त्रं नियुञ्जीयान्महामते | विधिनाऽराधितं प्राग्वत्तत्तदाप्नोत्ययत्नतः || ९३ || रोचनाकुंकुमेनैव लिखितं च निशाम्बुना | संवेष्ट्य पीतसूत्रेण यो धारयति नारद || ९४ || यां यां निरीक्षते सौम्य तां तां (कान्तां ?)सुस्निग्धया दृशा | सकृच्चामरणान्तं तु सा सा तस्यानुगा भवेत् || ९५ || प्. ३४८) यया दृष्टोऽथ वा मन्त्री दूराद्विप्र श्रुतोऽपि वा | सा स्वस्थानं परित्यज्य धावेद्यत्र स तिष्ठति || ९६ || अपि चेत्किन्नरी नारी यक्षिणी देवकन्यका | नारी विद्याधरी चैव गन्धर्वी सिद्धसंज्ञिता || ९७ || तां चेतसाऽनुसन्धाय रात्रौ मन्त्रवरं जपेत् | निशान्ते विह्वलीभूता पाशाकृष्टेव तिष्ठते || ९८ || एतत्पाशस्य कथितमङ्कुशस्याधुनोच्यते | [अङ्कुशमन्त्रसाधनप्रकारः] अकरालमधश्चोर्ध्वे अनलार्णेन योजयेत् || ९९ || युक्तं कुर्यात्स्वरैः प्राग्वन्न्यस्य संपूज्य हृद्गतम् | कृत्वा शशिकलाकारं पुरं तन्मध्यतोऽम्बुजम् || १०० || सिन्दूरपुञ्जवर्णाभं तन्मध्ये हृदयं न्यसेत् | पूजयित्वा विधानेन जुहुयात्तदनन्तरम् || १०१ || प्रियङ्गुना यथाशक्ति श्यामाकेन तिलेन च | ततोऽङ्कुशोऽहं भाव्यं च व्रजेत्पर्वतमस्तकम् || १०२ || जपेल्लक्षत्रयं तत्र ततो लक्षं तु होमयेत् | रक्तानामरपुष्पाणां(?)कृष्णानामपरं तु वै || १०३ || अयुते द्वे च समिधां खदिराणां महामते | कटुतैलाप्लुतानां च दद्यात्पूर्णाहुतिं ततः || १०४ || आज्येन च सुगन्धेन ततो मन्त्रः प्रसिध्यति | ततः प्रभृति कालाच्च कुर्यात्कर्माण्यशेषतः || १०५ || साधकोऽङ्कुशमन्त्रेण लीलया चाप्रयत्नतः | वश्याकर्षणविद्वेषौ मारणोच्चाटने तथा || १०६ || ध्यात्वाऽकृष्टश्च वित्तेशो मन्त्रेणानेन वै यदि | प्रयच्छत्यखिलं वित्तमभयं चान्तकस्तु वै || १०७ || शक्रः प्रयच्छते राज्यं मारुतः शीघ्रगामिताम् | निःशेषविद्याकथनमीशस्तेजो हुताशनः || १०८ || वरुणः शान्तिपुष्टी च समाकृष्टः करोति च | यक्षेशः किन्नरत्वं च पन्नगेशो रसायनम् || १०९ || प्. ३४९) आकृष्टः खगतिं दद्याद्ध्रुवो ब्राह्मणविग्रहम् | विद्याधराश्च गुलिकां सिद्धाश्चैवाञ्जनं महत् || ११० || प्रयच्छन्ति सदाऽकृष्टा मन्त्रस्यास्य प्रभावतः | प्रागुक्ता गुलिका कार्या राज्ञां च सपरिच्छदाः (?) || १११ || मन्त्री चाङ्कुशमन्त्रेण ध्यानयुक्तेन साधयेत् | ध्यानाज्जपात्तथालेख्याद्धवनात्पूजनान्मुने || ११२ || करोत्यङ्कुशमन्त्रस्तु अभीष्टमपरे तथा | कौस्तुभाद्याश्च वै प्रोक्तास्त्वखण्डविधिसाधिताः || ११३ || निखिलं संप्रयच्छन्ति भावशुद्धिसमन्विताः | युगशक्त्यनुसारेण सुसहायगुणेन च || ११४ || कृते एतच्च मन्त्राणामुक्तं संसाधनं मया | त्रेतायां द्विगुणं विद्धि त्रिगुणं द्वापरे स्मृतम् || ११५ || कलौ चतुर्गुणं चैव भावज्ञस्य च वै पुनः | प्रीतिभक्तिसहायस्य श्रद्धानिष्ठस्य तत्त्वतः || ११६ || सदा सदा -------- ---------- विद्धि जपहोमादिकं तु यत् | तस्माद्भावं तथा भक्तिमेकत्र कुरु नारद || ११७ || साधनं सर्वमेकत्र समं तत्रापि वा न वा | इति श्रीपांचरात्रे जयाख्यसंहितायां परिकरसाधनं नाम त्रिंशः पतलः || ३० || अथ उपाङ्गसाधनं नाम एकत्रिंशः पटलः [सत्यमन्त्रसाधनप्रकारः] श्रीभगवान् कदम्बगोलकाकारं नानावर्णविभूषितम् | सपद्मं मण्डलं कृत्वा पुरा तदनु नारद || १ || सत्येन सकलीकृत्य स्वमात्मानं यजेद्धृदि | ततोऽवतार्य हृदयान्मण्डले पूर्वकल्पिते || २ || चित्रैः पवित्रैः सुस्वादैरिष्ट्वा मूलफलादिकैः | हुत्वा तिलाद्यैर्विप्रेन्द्र ततो यायाच्छुभं वनम् || ३ || तत्र लक्षचतुष्कं तु स्वस्थानावस्थितं मुने | जप्तव्यं ध्यायमानेन द्विलक्षमथ होमयेत् || ४ || प्. ३५०) शर्करामधुराज्यं च क्षीरं च तिलतण्डुलान् | एकीकृत्य समासेन मुद्रां बध्वा मृगाननाम् || ५ || [मृगीमुद्रा] मध्यमानामिकाङ्गुष्ठत्रयाणामग्रमेलनात् | प्रदेशिनी कनिष्ठा च प्रोन्नता विरला द्विज || ६ || कृत्वा मुद्रां नाम्नां सर्वत्र विहिताऽहुतौ | ततः पूर्णाहुतिं दद्यान्मन्त्रेशः सिध्यति द्विज || ७ || ददाति सिद्धिं दिव्यां च स्वेच्छया विधियोजितः | विज्ञानभूमिकाः सर्वाः प्रकटीकुरुते प्रभुः || ८ || [वासुदेवमन्त्रसाधनप्रकारः] एवमेव द्विजश्रेष्ठ सकलीकृत्य विग्रहम् | वासुदेवाख्यबीजेन केवलेन महात्मना || ९ || पूजयित्वा तु मनसा बहिः कृत्वाऽथ मण्डलम् | सुवृत्तं पूर्णचन्द्राभं श्वेतपत्रोदरं महत् || १० || तत्रावतार्य संपूज्य सितैः पुष्पानुलेपनैः | नैवेद्यभेदैः सुसितैः जुहुयात् क्षीरतण्डुलैः || ११ || ततो यायाद्वनं रम्यं सितपुष्पद्रुमाकुलम् | सत्योक्तं जपहोमं तु कृत्वा क्षीराज्यतण्डुलैः || १२ || होमान्ते वासुदेवस्तु सर्वाः सिद्धीश्च शाश्वताः | ददाति च प्रयुक्तस्तु स्वपदं मोक्षसिद्धिदम् || १३ || प्रकटीकुरुते शश्वत्प्रसन्नः परमेश्वरः | [सङ्कर्षणमन्त्रसाधनप्रकारः] न्यस्य हस्ते पुरा देहे ---- नं सङ्कर्षणं मुने || १४ || पूजयित्वा तु हृत्पद्मे बाह्ये कुर्याच्च मण्डलम् | रजसा सत्त्वमिश्रेण पाण्डुरेण तु नारद || १५ || व्यक्तं भास्वरबिंबाभं रक्ततामरसोदरम् | तत्रारुणैस्तु नैवेद्यैस्तथा पुष्पानुलेपनैः || १६ || अवतार्य यजेद्भक्त्या जुहुयात्तदनन्तरम् | प्. ३५१) तिलानाज्येन संसिक्तान् दत्वा पूर्णाहुतिं व्रजेत् || १७ || अशोकवनमध्यं तु तत्र लक्षचतुष्टयम् | जप्त्वाऽथ रक्तपुष्पाणां जुहुयाल्लक्षमेव हि || १८ || लक्षं कुङ्कुमपुष्पाणां दद्यात्पूर्णाहुतिं ततः | ततः सिध्यति मन्त्रेशः सिद्धः सिद्धिं प्रयच्छति || १९ || स्वयमप्यप्रयुक्तस्तु यद्यन्मनसि रोचते | विज्ञायते गतिर्मान्त्री सौषुप्ताख्या तु याखिला || २० || स्वयं स भगवान्देवः स्वपदे निष्कलात्मना | व्यक्तिमभ्येति भक्तानां मोक्षमार्गे नियोजयेत् || २१ || [प्रद्युम्नमन्त्रसाधनप्रकारः] अथ प्रद्युम्नमन्त्रेण कृत्वा स्वं मन्त्रविग्रहम् | हृत्तामरसमध्ये तु कृत्वा यागं तु चेतसि || २२ || बहिः कदम्बपुष्पाभं रजसा हेमरूपिणम् | सपद्ममण्डलं कृत्वा तत्राहूय जगत्पतिम् || २३ || उपचारेण पीतेन यजेत्पुष्पादिना तु वै | रजनीपूर्णसंमिश्रं सतिलं जुहुयाद्धृतम् || २४ || दत्वा पूर्णाहुतिं यायात्कदलीकाननान्तरम् | जपं पूर्वोक्तसंख्यातं तत्र कृत्वा तु नारद || २५ || मिश्रितं कुङ्कुमेनैव प्राक्कृत्वा निस्तुषं तिलम् | सुगन्धिशालिसंमिश्रं लक्षमानेन होमयेत् || २६ || भावितं कुंकुमेनाथ क्वथितं च पुरा मुने | अयुतत्रयमानेन पयो गव्यं तु होमयेत् || २७ || बदराण्डप्रमाणानां घृताक्तानामनन्तरम् | अयुतं गुलिकानां तु गुग्गुलोरथ होमयेत् || २८ || ततस्त्वाज्यस्य जुहुयादयुतं केवलस्य च | दद्यात्पूर्णाहुतिं पश्चान्मन्त्रेशस्सिध्यते ततः || २९ || सप्तलोकगतान्भावानप्रयुक्तो ददाति च | योजयेत्सिद्धिमार्गे तु ततो मोक्षपथेन वै || ३० || [अनिरुद्धमन्त्रसाधनप्रकारः] पुराऽनिरुद्धमन्त्रेण सकलीकृत्य विग्रहम् | प्. ३५२) हृद्यागं विधिवत्कृत्वा मण्डलं निर्वपेद्बहिः || ३१ || अतसीपुष्पसंकाशं वर्णेन रजसा शुभम् | वृत्तं कदम्बगोलाभं पद्मगं मधुशोभनम् || ३२ || तत्राहूय जगन्नाथमुद्यत्सूर्यसमप्रभम् | पुष्पोपलेपनाद्यैस्तु सुसितैः पावनैर्यजेत् || ३३ || होमं कृष्णतिलैः कृत्वा होमान्ते विजनं वनम् | यायात्तत्र जपं कुर्यात् प्राक्प्रमाणेन नारद || ३४ || होमं कुर्यात्तदर्धेन अतसीपुष्पसन्निभैः | तिलैरप्यसितैर्विप्र कृष्णागरुसमन्वितैः || ३५ || दद्यात्पूर्णाहुतिं पश्चात्ततः स परमेश्वरः | तोषमायाति विप्रेन्द्र तुष्टः सर्वं ददाति च || ३६ || स्वयमेवानिरुद्धात्मा योजयेच्छाश्वते पदे | स बाह्याभ्यन्तरं सर्वं दर्शयेत्साधकस्य च || ३७ || येनासौ कृतकृत्यः स्यादनन्तफलभागपि | बहुनाऽत्र किमुक्तेन पञ्चकृत्यकसंयुतम् || ३८ || [सप्ताक्षरमन्त्रसाधनप्रकारः] कृत्वा सप्ताक्षरं मन्त्रं विप्रहस्तेन वै पुरा | सकलीकृत्य विप्रेन्द्र प्राग्वद्ध्यात्वा च निष्कलम् || ३९ || हृत्पुण्डरीकमध्ये तु पूजयित्वा जपेत्ततः | एकान्ते निर्जने रम्ये वने पादपसंकुले || ४० || सप्तलक्षाणि विप्रेन्द्र आयामत्रितयान्वितः | विना बाह्योपचारेण होमपूजादिकेन तु || ४१ || जपान्ते मुनिशार्दूल सर्वकामानवाप्नुयात् | अणिमाद्यास्तथा सिद्धीर्गुणषट्कं बलादिकम् || ४२ || वाचा ददाति सर्वं च यस्य यन्मनसेप्सितम् | तुष्टः साधकमुख्योऽसौ क्रुद्धो लोकत्रयं दहेत् || ४३ || देवासुरास्तथा नागाः सिद्धाश्चेन्मुक्तिभाजनाः | किङ्करत्वेन वर्तन्ते योगसिद्धाश्च देवताः || ४४ || सप्ताक्षराभियुक्त ------ ----- सत्यस्य महात्मनः | आचन्द्रतारकं कालं वलीपलितवर्जितः || ४५ || प्. ३५३) मन्त्री तिष्ठति देहे स्वे स्वयमन्ते कलेवरम् | त्यक्त्वा तु मुनिशार्दूल यायाद्विष्णोः परं पदम् || ४६ || यद्गत्वा न निवर्तन्ते पुनरस्मिन्भवार्णवे | सत्यादिपंचकं विप्र पिण्डस्सप्ताक्षरस्तथा || ४७ || आराधितस्तदर्धेन जपहोमादिकैः शुभैः | न हि सामान्यसिद्धीनां योक्तव्यं मन्त्रवादिना || ४८ || आराधितस्तु विधिना स्वयमेव ददाति च | अभीप्सितं साधकानामन्ते मोक्षं च शाश्वतम् || ४९ || इति श्रीपांचरात्रे जयाख्यसंहितायां उपाङ्गसाधनं नाम एकत्रिंशः पटलः || ३१ || अथ साधनविधिर्नाम द्वात्रिशः पटलः [विघ्नेशमन्त्रसाधनप्रकारः] यः पुरा कथितश्चैव मन्त्रो वैनायको मया | तस्येदानीं समासेन साधनं शृणु नारद || १ || कृत्वा न्यासं षडङ्गं तु इष्ट्वा हृत्कमलान्तरे | ततः कोणत्रयेणैव युक्तं कुर्याच्च मण्डलम् || २ || द्वारत्रयान्वितं चैव तन्मध्ये त्रिदलं लिखेत् | कमलं तत्र तन्मध्ये पूर्वोक्तविधिना द्विज || ३ || इष्ट्वा हुत्वा ततः कुर्याद्रूपं सम्यक्तयाऽत्मनः | यायाद्वनप्रदेशं तु जपेल्लक्षद्वयं मुने || ४ || लक्षमेकं तु जुहुयात्पुष्पाणां मुनिसत्तम | अयुतं द्वे च समिधां सितार्कस्य विशेषतः || ५ || घृतस्यायुतमेकं तु दद्यात्पूर्णाहुतिं मुने | ततः प्रत्यक्षतामेति साक्षाद्देवो विनायकः || ६ || सिद्धोऽस्मीति च वै ब्रूते कुरु कर्म यथेप्सितम् | तदा च साधकवरस्सर्वं साधयते क्षणात् || ७ || [विघ्नेशमन्त्रसिद्धिजं सामर्थ्यम्] राजार्कमूलमादाय कृत्वा च शतमन्त्रितम् | गणेशमन्त्रेण ततो मन्त्रयित्वा समापयेत् || ८ || प्. ३५४) अर्धाङ्गुलप्रमाणेन विघ्नेशं पद्मसंस्थितम् | तस्मिन्मन्त्रं सकृन्न्यस्य वेष्टयेन्मदनेन तु || ९ || कृत्वा ताम्रपुटे चैव धारयेच्छिरसा तु तत् | रणे राजकुले द्यूते विवादेऽपि महामते || १० || जयमाप्नोति मन्त्रज्ञो निर्विघ्नेन यथेप्सितम् | न्यासं कृत्वा गणेशेन ------ लाग्यस्यकस्यचित् || ११ || तिष्ठत्यग्रे तु मन्त्रज्ञो निर्विघ्नेन तदाप्नुयात् | शताभिमन्त्रितं कृत्वा फलं पुष्पं च वै रिपोः || १२ || दद्यात्पाणौ तु सर्वत्र विघ्नो भवति तस्य वै | घृष्ट्वा मनश्शिलां मन्त्री भावयेच्च निशाम्बुना || १३ || विमृज्य कापिलेनैव पयसा पीतकर्पटे | लिखेद्वैघ्नेश्वरीं मूर्तिं तत्र हृत्पद्ममध्यगाम् || १४ || दद्याद्विघ्नेशमन्त्रं तु सर्वं यच्छत्य ----- न्वि(भीप्सि ?)तम् | यत्रावतिष्ठते गेहे दिशि प्रागुत्तरे तु वै || १५ || यावन्न चालितो भूयो दृष्टो नान्येन केनचित् | तावत्तत्र गृहे लक्ष्मीर्धनधान्यसमाकुला || १६ || कृषिगोरक्षवाणिज्यं फलत्यविरतं तु वा | कोष्ठागारस्तु कोशो वा न चेत्संख्यायते पुनः || १७ || व्ययं करोति दानं वा तदक्षययं व्यये सति | देशप्राप्तिं तु वा लाभमुत्तमं यदि मन्यते || १८ || मोदकानि घृताक्तानि मन्त्रितानि विधाय यः | हुत्वाऽतङ्कविनिर्मुक्तो यत्र यत्र प्रयाति च || १९ || रात्रौ वा वासरे वाऽपि चोरान्तकभयाकुले | वस्त्राभरणयुक्तोऽपि धनवान्क्रमते हि सः || २० || योजनानां सहस्राणि एकाकी विघ्नवर्जितः | मन्त्राभिमन्त्रितं सम्यक् सितं सिद्धार्थकं करे || २१ || प्रीतियुक्तेन मनसा ददाति स वशं व्रजेत् | यदि विघ्नेशमन्त्रेण होमयेद्राजसर्षपान् || २२ || प्. ३५५) कटुतैलसमायुक्तान्विद्वेषं कुरुते क्षणात् | परस्परं च प्रीतानामप्रीतानां तु का कथा || २३ || जुहुयाद्यस्य नाम्ना वै वायव्याभिमुखस्थितः | सहस्रं काकपक्षाणां सोच्चाटत्यचिरेण तु || २४ || प्रजप्य महिषाक्षं तु सितसिद्धार्थकान्वितम् | जुहुयादयुतार्धं तु नाम्ना यस्य महामते || २५ || आकृष्टो दूरतोऽभ्येति होमान्तेऽपि च देवराट् | लाक्षालक्तकसंयुक्तं करवीरायुतद्वयम् || २६ || जुहुयाद्यस्य नाम्ना तु भवेद्वश्यो हि सोऽवशः | मध्वाज्यं जुहुयान्मन्त्री यद्येकं च तिलायुतम् || २७ || प्रीतिमुत्पादयत्याशु विद्विष्टानां परस्परम् | निम्बपत्रकृतं चूर्णं छागासृग्विषभावितम् || २८ || जुहुयाद्यस्य नाम्ना तु रात्रौ भूतदिनेऽसिते | स याति पञ्चतामाशु होमान्ते तु महामते || २९ || तदर्धं यदि वै कुर्याद्धोमं तु मधुसर्पिषा | एकायुतप्रमाणेन होमे तं जीवयेत्पुनः || ३० || शान्तिं पुष्टिं तथाऽरोग्यं घृतक्षीरतिलैः क्रमात् | ददाति होमान्मन्त्रेशो निर्विघ्नेन महामते || ३१ || रोचनालिखितं भूर्जे साङ्गमष्टदलाम्बुजे | यो धारयति रक्षार्थं स दुःखैर्मुक्तिमाप्नुयात् || ३२ || नश्यन्ति हिंसकास्तस्य ब्रह्मरक्षोमुखा मुने | हन्यादपस्मृतिमयं मन्त्रसन्धारतो भवेत् (?) || ३३ || येऽन्ये अतिग्रहाद्याश्च तथा स्कन्दग्रहादयः | विघ्नेशमन्त्रो हन्त्येतान् जपाद्ध्यानाच्च पूजनात् || ३४ || तस्मात्सन्धारणीयं च सर्वविघ्नोपशान्तये | मन्त्रस्समस्तभूत्यर्थं साधकैः सिद्धिलालसैः || ३५ || वैनायकस्य मन्त्रस्य संविधानमिदं मया | उक्तं वागीश्वरीयस्य शृणुष्वावहितो मुने || ३६ || प्. ३५६) [वागीश्वरीमन्त्रसाधनप्रकारः] न्यासं षडङ्गकं कृत्वा मूलमन्त्रादितः क्रमात् | इष्ट्वा हृत्कमले त्वादौ बाह्ये चन्द्रार्करूपधृक् || ३७ || सपद्मं मण्डलं कृत्वा देवीं तत्रावतार्य च | इष्ट्वा सितादिकैः सर्वैर्नैवेद्यैः कुसुमादिकैः || ३८ || होमं कृत्वा तिलैः शुक्लैर्नवनीतेन नारद | दत्वा पूर्णाहुतिं पश्चात्कुर्याद्देहं तदाकृतिम् || ३९ || कदम्बवनमध्ये तु यायादञ्चितलोचनः | जपेल्लक्षचतुष्कं तु होमं तदनु चाचरेत् || ४० || लक्षसंख्याप्रमाणेन सितशर्करया मुने | शालिभिश्च सुगन्धाभिर्नवनीतेन चैव हि || ४१ || घृतक्षीरविमिश्रेण तथा गुग्गुलुना मुने | एकैकमयुतं मन्त्री एकैकस्य क्रमान्मने || ४२ || जुहुयाद्वितरेत्पूर्णां ततो वागीश्वरी स्वयम् | समेत्य वदने तस्य प्रविशत्यचिरेण तु || ४३ || अशीतोदकधारेव वेद्यते त्वंगना त्वसौ | [वागीश्वरीमन्त्रसिद्धिजं सामर्थ्यम्] तदा शीघ्रतरेणैव कालेन तु महाकविः || ४४ || जायते साधकेन्द्रस्तु शास्त्रार्थं वेत्ययन्त्रितः | संस्कृतं प्राकृतं वाऽपि अपभ्रंशानुनासिकम् || ४५ || नानादेशविभागोत्थं त ---- ------- ------ बलात् | अतीतानागतं वेत्ति सकृद्गृह्णाति चाश्रुतम् || ४६ || ऋग्यजुस्सामशब्दांश्च निस्सृतांश्च द्विजाननात् | तुल्यकालत्रयाणां च पृथग्भेदे तु का कथा || ४७ || बहूनां वा यथायोगं वागीशेष्वधिकात्मनाम् | विपक्षपदसंस्थानामुद्ग्राहयति लीलया || ४८ || एकैकस्य पृथग्रूपं यदि वर्षशतं मुने | क्षयं न वाक्प्रमेयाभ्यां स संयाति द्विजोत्तम || ४९ || अथवा प्रतिपक्षोत्थभूतानां भावितात्मनाम् | प्. ३५७) ध्यायेज्जिह्वादिसंस्थां चा वागीशीं रक्तभास्वराम् || ५० || वज्रपंजरमध्यस्थां वाक्स्तम्भमुपपादयेत् | ध्यायेत्संप्रतिपन्नस्य जिह्वामध्यगतां यदा || ५१ || चन्द्रमण्डलमध्यस्थां तुषारनिचयप्रभाम् | स्रवन्तीममृतं वक्त्रात्तेन तस्य च विग्रहम् || ५२ || संसिक्तं तु स्मरेद्विप्र तत्क्षणात्स कविर्भवेत् | पुष्पमण्डलमध्ये तु कृत्वा कुंभं तु राजतम् || ५३ || मध्वम्मःपयसा पूर्णं तन्मध्ये परमेश्वरीम् | पूजयित्वा तु सप्ताहं सितपुष्पानुलेपनैः || ५४ || अष्टमेऽहनि वै यस्य दद्यात्तोयाञ्जलित्रयम् | स्वहस्तेन तु पानार्थं पीत्वाऽसौ बुद्धिमान्भवात् || ५५ || शन्तिकं पौष्टिकं वाऽपि तत्स्नानादवगाहनात् | जायते जडबुद्धीनामस्वस्थानां विशेषतः || ५६ || शताभिमन्त्रितं कृत्वा वचां यः प्रत्यहं द्विज | भक्षयेत्तत्र सप्ताहं स वाग्मी मतिमान्भवेत् || ५७ || इष्ट्वा देवीं त्रिसप्ताहं सिततामरसोदरे | निवेद्य सघृतं भक्त्या परमान्नं चरुस्थितम् || ५८ || तच्चोष्मणा युतं तृप्तं भुङ्के निश्शोषतस्तु यः | बालो बालाऽथवा कन्या नानाशास्त्रार्थविद्भवेत् || ५९ || वक्त्रादविरतं चापि शास्त्राण्युद्गिरते महत् | भवत्योजः क्षयो दूरात्पण्डितानां महामते || ६० || कृत्वाऽभ्यासं तु गनसा सबाह्याभ्यन्तरं तु वै | उदासीनस्य मूर्खस्य अपूर्वस्य च संसदि || ६१ || सोऽपि वेदाहरेच्छास्तां तदाज्ञापरिचोदितः | सर्वार्थसिद्धिदा देवी सिद्धा वागीश्वरी भवेत् || ६२ || धनकामस्य धनदा पुत्रकामस्य पुत्रदा | राज्यदा राज्यकामस्य भोगकामस्य भोगदा || ६३ || जयदा जयकस्मस्य शान्तिकामस्य शान्तिदा | पुष्टिदा पुष्टिकामस्य तुष्टिकामस्य तुष्टिदा || ६४ || प्. ३५८) ज्ञानदा ज्ञानकामस्य मोक्षकामस्य मोक्षदा | -------------------------------- स कामानां च कामदा || ६५ || [वागीश्वरीयन्त्रविधानम्] पद्ममष्टदलं कृत्वा तदन्ते नामसंयुता | देवीषडङ्गषट्कं तु बहिस्संस्थं यदा पुरा || ६६ || तद्बहिश्चापरं पद्मं द्विरष्टदलभूषितम् | दले दले त्रिधा दद्यात् हृद्बीजं केसरावधौ || ६७ || तदस्त्रबीजं पत्राणां षोडशानां नियोजयेत् | लिखेत्षोडशपत्रस्य बाह्येऽब्जं द्वादशच्छदम् || ६८ || शिरश्शिरवा च कवचं केसरार्धदले दले | नेत्रमन्त्रदलान्तस्थं दद्याद्द्वादशधा मुने || ६९ || अकारादिक्षकारान्तं पद्मबाह्ये तु मातृकाम् | लिखेत्कुण्डलयोगेन शिरसा चाथ वेष्टयेत् || ७० || सप्तधा मुनिशार्दूल परमात्माऽथ तद्बहिः | व्योमेशाह्लादसंयुत्को ह्यष्टदिक्षु महामते || ७१ || ततो वायव्यभवनं यकाराष्टकभूषितम् | परस्परं यकाराभ्यामन्तरं परिपूरयेत् || ७२ || त्रैलोक्यैश्वर्यदेनैव संख्याहीनेन नारद | ततस्त्रिकोणभवने शिखामन्त्रेण दीपितम् || ७३ || कुर्यात्कोणद्वायाद्विप्र दिक्त्रयात्स्वस्तिकान्वितम् | अशेषभुवनाधारं व्योमेशेन समन्वितम् || ७४ || मरीचिपदसंख्यं तु त्रिकोणस्य बहिर्लिखेत् | तद्बाह्ये वारुणं दद्यान्मण्डलं चार्धचन्द्रवत् || ७५ || चतुष्पत्रैश्चतुष्पद्मैस्संयुतं तेषु संलिखेत् | कर्णिकामध्यसंस्थं तु कवचं पत्रगं शिखा || ७६ || अन्तरालानि पद्मानां वराहार्णेन पूरयेत् | चान्द्री व्योमेशयुक्तेन तद्बहिः पार्थिवं पुरम् || ७७ || युक्तं वज्राष्टकेनैव चतुरङ्गुलभूषितम् | वज्रोदरगतं चास्त्रं भूयश्चास्त्रेण रश्मिमयत्(?) || ७८ || प्. ३५९) पूरयेत्सकलं बाह्याच्चतुरस्रं पुरं तु तत् | रजनीरसमादाय पद्मषण्डमथोदकम् || ७९ || रोचनारसकर्पूरैर्नैशं चोदकमेव च | सुदिने पूजयित्वाऽदौ वागीशं विलिखेत्ततः || ८० || भूर्जे नेत्रेऽथ वा वस्त्रे सौवर्णोत्थशलाकया | त्रिलोहवेष्टितं कृत्वा यन्त्रं यो धारयेद्द्विज || ८१ || तस्याशु वाचि भूतिश्च धनमानौ रिपुक्षयः | अक्षयश्च महाघोरे संग्रामे स भवेद्द्विज || ८२ || न भयं विद्यते तस्य विषाहिज्वलनादितः | पूरयेदखिलान्कामान् धारणस्मरणादिभिः || ८३ || तस्मादेतत्प्रयत्नेन कुर्याद्बाह्वोर्गलेऽथ वा | सर्वकालजयार्थी वै पुमान्सद्वैष्णवः सदा || ८४ || इति श्रीपाञ्चरात्रे जयाख्यसंहितायां साधनविधिर्नाम द्वात्रिंशः पटलः || ३२ || अथ योगाख्यानं नाम त्रयस्त्रिंशः पटलः श्रीभगवान् अथ योगविभूत्यर्थं योगं युञ्जीत वैष्णवः | सुगुप्ते विजने देशे निर्द्वन्दे शुभलक्षणे || १ || जितदर्पां मतिं कृत्वा सर्वभूतहिते स्थितः | देवाग्निगुरुभक्तश्च सच्छास्त्राभिरतस्सदा || २ || भूतद्रोहपरित्यागी आस्ते यः संयतेन्द्रियः | आसने चोपविष्टस्तु सुशुभे लक्षणान्विते || ३ || शुभदारुसमुत्थे तु चतुर्विंशाङ्गुलायते | द्वादशाङ्गुलकोत्सेधे सुधौतेनापि वाससा || ४ || कुशैश्च मृदुभिश्छन्ने पवित्रेणाथ चर्मणा | तत्रोपविष्टः सततं योगाङ्गानि समभ्यसेत् || ५ || [प्राणायामस्य त्रैविध्यम्] रेचकादिचतुर्भिस्तु मात्राभेदकृतैस्तु सः | कनीयान्मध्यमो ज्येष्ठः प्राणायामः प्रकीर्तितः || ६ || प्रत्याहारं ततः कुर्याच्चित्तसंयमनं तु सः | बुद्धिर्मनस्त्वहङ्कारस्त्रिभिश्चित्तं प्रकीर्तितम् || ७ || प्. ३६०) तथापि मनसः कुर्यात्प्रत्याहारं प्रयत्नतः | मनश्चतुर्विधं प्रोक्तं प्रत्याहारेण निर्जितम् || ८ || तिष्ठते लक्ष्यमार्गे तु अ(ना?)न्यथा तु कदाचन | ध्यानं लक्ष्यस्य निष्पत्तिश्चिन्तनं तत्प्रकिर्तितम् || ९ || धारणा तु ततो धार्या शीतदाहापनुत्तये | पञ्चधा पूर्ववत्सा तु प्रतिमन्त्रव्यवस्थया || १० || जपं निमीलिताक्षेण कुर्यान्मन्त्रं तु वाचकम् | वाच्यस्य प्रतिपत्त्यर्थं पिण्डबीजपदात्मकम् || ११ || त्रिविधं वै समुद्दिष्टं प्रागुक्तविधिभावितम् | योगोऽपि त्रिविधः प्रोक्तस्तं च कार्त्स्येन मे शृणु || १२ || प्राकृतं पौरुषं चैव ऐश्वर्यं च तृतीयकम् | ऊहस्तु कीर्त्यते तर्कस्तच्च सिद्धिविचारकम् || १३ || समाधिस्त्वात्मलाभः स्यादात्मजः परिकीर्तितः | स तु लक्ष्यं परित्यज्य मन्त्रोच्चारणवर्जितम् || १४ || सदा विभज्यते ब्रह्मन् कलांशविधिवर्जितम् | समाधौ परिनिष्पन्ने परमाप्नोति पूरुषम् || १५ || प्राणायामादितो यावत्समाध्यन्तं प्रकीर्तितम् | द्विगुणं त्रिगुणं चैव मात्राभेदेन संस्थितम् || १६ || योगासनस्थः कुर्वीत विधिमेव यथोदितम् | योगासनानि चत्वारि योगपट्टेन बन्धयेत् || १७ || पर्यङ्कं कमलं वाऽपि भद्रं वा स्वस्तिकं दृढम् | एषामेकतमे स्थित्वा ऋजुकायोर्ध्वतः क्रमात् || १८ || स्पष्टाङ्गसन्धिः कुर्वीत विस्तीर्णोरुः स(सु?)कन्धरः | बाहू परिसमौ कृत्वा किञ्चिदाकुञ्चयेच्छिरः || १९ || नाभौ जघनमध्ये वा हस्तौ कच्छपसंस्थितौ | सव्यस्य चोपरिस्थं तु वामे सव्यमथापि वा || २० || उत्तानौ तु करौ कृत्वा कच्छपीतां (?) नियोजयेत | ग्रीवां तु बिभृयाद्यत्नान्नातिस्तब्धां न कुंचिताम् || २० || किञ्चिन्निमीलयेन्नेत्रे नासाग्रमवलोकयेत् | समुद्भवत्पिधायास्यं दन्तैर्दन्तानसंस्पृशन् || २२ || प्. ३६१) सगर्भं योगमातिष्ठेन्निर्गर्भं वा सुयन्त्रितः | ततः प्रमथयेद्वायुं प्राणाख्यं चित्तसंयुतम् || २३ || रेचकादिचतुर्भेदैः प्राणायामः प्रकीर्तितः | चित्तं जयेत्सदा यत्नाद्दुर्जयं देवदानवैः || २४ || यद्यप्यभ्यासवैराग्यैश्चित्तं संयम्यते बलात् | तथापि यत्नादातिष्ठेत्पूर्वाधीनं तु वर्जयेत् || २५ || द्विविधास्ते तु विज्ञेयास्सन्निकृष्टा मनोगताः | सन्निकृष्टाः स्थानगताश्चित्तोपा(श्चैत्ता वा ?)सनया कृताः || २६ || न दंशमशकाकीर्णे निश्शब्दे गन्धवर्जिते | निमीलिताक्षस्सन्तिष्ठेत्सर्वेन्द्रियविवर्जितः || २७ || एवं परित्यजेत्सर्वानुपाधीन्सन्निकर्षजान् | वासनोत्थांश्च विविधान्सम्यग्लक्ष्यं समास्थितः || २८ || प्रत्याहरेत् सदा चित्तं विक्षिप्तं सर्ववस्तुषु | तामसं तत्तु बोद्धव्यं चित्तं सर्वत्रगं सदा || २९ || गतं रागादितो ज्ञेयमभ्यासाद्राजसं तु तत् | सात्विकं कथ्यते चित्तं संश्लिष्टं लक्ष्यगोचरे || ३० || संलीनं च ततो ज्ञेयं गुणातीतं तपोधन | ध्यानमेवंविधं कुर्यात्सगर्भं प्राणनिग्रहे || ३१ || उच्यते च ततो भूयस्त्रिविधं योगिनां हितम् | सकलं निष्कलं विष्णुं तृतीयं पररूपिणम् || ३२ || अन्यत्र त्रिविधं ज्ञेयं शब्दं व्योम सविग्रहम् | विग्रहं देवरूपस्य लक्ष्यरूपं विचिन्तयेत् || ३३ || ध्यानमेवं समुद्दिष्टं यावद्व्योमान्तिमं भवेत् | तावच्च भावयेल्लक्ष्यं यावल्लक्ष्यं न भावयेत् || ३४ || भावे ह्यभावमापन्ने स्वस्वभावः परः स्मृतः | स्थूलं पूर्वं समभ्यस्येत्ततः सूक्ष्मं ततः परम् || ३५ || एवं विलीयते चित्तं लक्ष्यं चोपाधिभिस्सह | विग्रहं देवदेवस्य ध्यायेद्धृत्पद्मगोचरे || ३६ || ततोऽन्यच्चिन्तयेल्लक्ष्यं स्थूलं सूक्ष्मं ततः परम् | एवमभ्यस्यमानस्य गुणोत्कर्षः प्रजायते || ३७ || प्. ३६२) चन्द्रार्काग्निमयं बिम्बं रविमण्डलसन्निभम् | शुक्लरूपधरञ्चापि गुणोत्कर्षप्रदायकम् || ३८ || ततः सूक्ष्मतरं बिन्दुं राजमुद्गसमप्रभम् | तं विद्यात्सर्वमन्त्राणामूर्ध्वमाक्रम्य तिष्ठति || ३९ || ततस्तु राजकाबीजप्रमाणं चिन्तयेत्क्रमात् | उत्पादकमथास्यापि यस्यान्ते नादमाश्रितः || ४० || तं विलीय समुत्पन्नमश्ववालप्रमाणकम् | यस्सदा गच्छति व्योम्नि मनश्चागच्छते हृदि || ४१ || ततो विचिन्तयेत्सूक्ष्मं शिरोवालप्रमाणकम् | ब्रह्मनाडीमनेनाशु पश्यन्ति ध्यानसेचनात् || ४२ || ततोऽङ्गरोममात्रं तु बिसवालसमं ततः | ध्यायेन्नियममास्थाय ब्रह्मनाडीप्रकाशकम् || ४३ || तदा सा दृश्यते नाडी सादृश्यरहिता परा | तया यायात्परं स्थानं ब्रह्मरन्ध्रपथेन तु || ४४ || एवं तु निष्कलं ध्यायेत्सोऽपि लीनः परे पदे | परं त्वभ्यसमानस्य उन्मनस्त्वं प्रजायते || ४५ || ततस्तु व्यज्यते सत्ता स्वकीया ब्रह्मरूपिणी | शब्दरूपं तु वा ध्यायेदेवं सकलनिष्कलम् || ४६ || नारायणात्मकं मन्त्रं प्रणवादिनमोन्तकम् | ध्यायेच्छब्दमयो ह्येष सकलः परमेश्वरः || ४७ || निष्कलं वर्णमेकं तु क्षौं ह्रीं(?)वाऽपि चिन्तयेत् | ततोऽपि निष्कलं बिन्दुं तन्मूर्धस्थं त्रिदैवतम् || ४८ || सा शक्तिस्तत उत्पन्ना प्रमाणार्धप्रमाणका | सा शक्तिर्लीयते नादे नादो याति लयं परे || ४९ || एवं हि ध्यानयोगेन परं पश्यन्ति शाश्वतम् | अथ वाऽलोकशब्दौ हि प्रथयित्वा विचिन्तयेत् || ५० || स्वयं विलीनो यत्रैव तत्रैव परमं पदम् | प्. ३६३) अथवा व्योमरूपं तु ध्येयं तत्त्वं सनातनम् || ५१ || बाह्यान्तस्थं शिखातीतं त्रिव्योमं चिन्तयेत्सदा | मुख्येऽन्तस्थं परं ध्यात्वा न भूयो भवभाक्मवेत् || ५२ || एवं ध्यात्वा भवेन्मुक्तिर्भुक्तिस्तु सकले स्थिता | सकलो देवदेवस्य विग्रहो विष्णुरूपिणः || ५३ || शङ्खपद्मधरो देवो गदापद्मविभूषितः | चतुर्भुजश्चतुर्मूर्तिश्चतुर्वक्त्रः सुलोचनः || ५४ || लक्ष्मीवक्षाः खगारूढः सर्वरत्नोपशोभितः | कृष्णस्सुरोत्तमो विष्णुर्जिष्णुस्सर्वत्रगो हरिः || ५५ || हलहेतिर्हयग्रीवो हरिरूपधरः प्रभुः | नृहरी क्रोडरूपी च शक्त्यङ्गश्च महेश्वरः || ५६ || एवमास्थाय नियमं पिण्डवत्त्वं परित्यजेत् | परिज्ञाय पुरा पिण्डं(ण्ड?)पाक(त ?)लक्षणमुत्तमम् || ५७ || निरुद्धं सन्धिमार्गं तु कृत्वा देहसमीरणम् | मुक्त्वा सद्ब्रह्मरन्ध्रेणोत्क्रान्तिकरणेन तु || ५८ || ध्यात्वा परित्यजेद्देहं नित्याभ्यासरतो यदि | स ब्रह्मपरमभ्येति वासुदेवाख्यमव्ययम् || ५९ || नारदः भगवन् श्रोतुमिच्छामि एतत्संक्षेपतस्त्वहम् | लक्षणं देहपातस्य वायोर्गतिनिरोधनम् || ६० || श्रीभगवान् युक्ताहारविहारस्य क्रियासक्तस्य नारद | युक्तस्वप्नावबोधस्य समधातोः सदैव हि || ६१ || निर्वर्तते सदाशब्दो हृद्गतो दुन्दुभिस्स्वनः | सृजच्छीतातपे काले न जानात्युष्णशीतलौ || ६२ || ध्यात्वा ज्योतिर्भ्रुवोर्मध्ये द्वादशान्तेऽथ नारद | प्रत्य (स्त)मेति वै शब्दो न चोदेत्यथवा मुने || ६३ || प्. ३६४) न जानाति समाधिस्थो ह्रादमाब्जं यदान्तरे | परिशुष्यति गात्रस्थं शोणितं श्लेष्मलक्षणम् || ६४ || न वेत्ति पार्थिवं गन्धं स बाह्याभ्यन्तरे यदा | पिण्डपातस्तदा विप्र बोद्धव्यो न चिरेण तु || ६५ || पार्थिव्या संस्थितश्चैव धारणायां समाहितः | न वेत्ति शब्दं प्रागुक्तं पञ्चाहात्पञ्चमे क्षणे || ६६ || स्थितस्समाधौ वाऽप्येतौ शीतोष्णौ नानुविन्दति | पतेद्दिनचतुष्केण पिण्डस्तत्कलिते क्षणे || ६७ || रूपध्यानं समासाद्य पूर्वोक्तविधिना यदि | न भाति हृदयाकाशे बहिर्वा ज्योतिषां पतिः || ६८ || पिण्डपातो ह्यवश्यं स्यात्तृतीयेऽह्नि तथा क्षणे | समाधौ यदि वायव्ये योगी नारद वर्तते || ६९ || न वेत्ति परमाह्लादं तृषितः परिकम्पते | दिनद्वयेन पिण्डस्य पातः स्याद्द्वितये क्षणे || ७० || स्थितो गगनभावे तु प्रागुक्तविधिना यदि | न वेत्ति विविधं गन्धमन्तर्बाह्ये शुभाशुभम् || ७१ || तत्रैवास्य दिने पातः क्षणे प्रथमलक्षणे | ध्यात्वैवं मुनिशार्दूल योगी ध्यानैकमानसः || ७२ || स्वयमुत्क्रमते पिण्डाद्यायाद्ब्रह्मनिकेतनम् | प्रविशेत्पिण्डमन्यं वा प्राग्वत्सन्धानयोजितः || ७३ || कालो यद्देहपातस्य लक्षणेन समासतः | कथितः सारभूतस्य वायोस्संरोध उच्यते || ७४ || सगर्भं हृदयावासादुद्धृत्य कतलावधि | अप्रमेयविहीनं तु विकरालं नियोजयेत् || ७५ || प्रधानं कण्ठकूपे तु न याति हृदयं पुनः | स्मरेद्विजन्मपुटके(?)प्रधानं व्यापकोज्झितम् || ७६ || पन्धानं नन्द ----------- येत्प्रन थमवर्जितम् | रोधमार्गद्वयस्यैवं दद्यात्सव्येतरस्य तु || ७७ || प्. ३६५) नेत्रनासाननाख्यस्य ततश्चाव्यक्तभास्वरम् | मन्त्रान्ते केवलं वाऽथ वषड् ध्यायेत्खरन्ध्रगम् || ७८ || प्राक्रमेत्परमात्मानं त्यक्त्वा पिण्डमिमं मुने | परिपक्वसमानं च आश्रयेच्छाश्वतं पदम् || ७९ || इत्येतत्कथितं सर्वं पंचरात्रार्थमुत्तमम् | सर्वस्वमिव विप्रेन्द्र रक्षणीयं प्रयत्नतः || ८० || सर्वोत्तमा संहितैषा सर्वविज्ञानदीपिका | नाख्येया दुष्टबुद्धीनां नराणां कलुषात्मनाम् || ८१ || मत्सराणामभक्तानां शठानां छद्मचारिणाम् | गर्वान्मे शास्त्रसद्वस्तुनिन्दकानां विशेषतः || ८२ || मद्भक्तदूषकाणां च शुष्कतर्करतात्मनाम् | शास्त्रापकर्तॄणामन्यदर्शने भावितात्मनाम् || ८३ || देयं विविक्तबुद्धीनां स्वधर्मनिरतात्मनाम् | संसारभयभीतानां मद्भक्तिनिरतात्मनाम् || ८४ || मच्छासनप्रपन्नानां ये पश्यन्ति सदा मुने | मद्भाविनो मत्समयाद्दृष्ट्या चातिविशुद्धया || ८५ || तेषां वाच्यमिदं शास्त्रं दीक्षां कृत्वा यथाविधि | प्रदर्श्य मन्त्रसंघं वा पूजितं मण्डलं पुरा || ८६ || शास्त्रार्थमनुवक्तव्यं शास्त्रमादौ प्रपूज्य च | येनाशु विविधा सिद्धिर्द्वयोर्भवति शाश्वती || ८७ || इति श्रीपाञ्चरात्रे जयाख्यसंहितायां योगाख्यानं नाम त्रयस्त्रिंशः पटलः || ३३ || समाप्तेयं जयाख्यसंहिता | ########### END OF FILE #######