#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00193 Uniform title: kālānalatantra Manuscript : NGMPP Reel B157/27 manuscript No: 1-42 Description: NGMPP manuscript 1-42 śaivatantra reel no: B157/27 50 leaves (4 missing at the beginning) Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: October 21, 2009 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### ५अ) स्माखम्यखेडा भटीधटी | वेरावेहण्डा पुद्यण्डी नायली फेनिलाद्रुमी | भटीध्माक्षी वटीवेश्या फाणिता फुल्लिताधुनी | वोहिनी मधुरष्टि? द्विकाहंगी प्रक्रियारुमी | पिप्पला वासितादंती कारणाकरटांकिता || आशीनुरूपी चेदानी द्वित्राद्यक्तानथो शृणु | अजः सविंववेदीको गणां दुःपंचधा भवेत् || अद्यात प्रोथमाण्डीरसूनामनूरनामकः | सर्वाजूनः कलाद्यश्च नन्दिसंदायिसंज्ञिकौ || स एव दीप्तनिगडोरश्मीरेतः पशुर्वतुः | वर्हिणोऽदस्तृतीयश्चेत् तादूगवदुराधुरा || अमराहैमनीसोमः पर ईदृग्विधे सति | दुर्गतिः सिद्धिभूर्मीना प्रेतोली वाहवी तथा || नयेगणांदौ वैधव्या विंवेन च युते तरिः | हरोऽदः शृंखलो विप्रविवर्णा मुख्यविंवयुक् || सा हंगः सुखदा चार्च्चि वीरुधाद्युल्मिताऽड्यनी | तु दंती चिन्त्यददृक्षेद् विशेषोने वृयहयत् || चिल्लीचकोरी हारीता वंद्यपी दृग्विधे पटौ | भर्मारी वैरणी लोही विचक्षाजूवरी तथा || अर्द्धांगा वेश्मरी व्राता भासिता सालसापि च | मान्यादि त्रितयभद्रपीठशांताः क्रमेण ते || ग*?धारावेदि विंवस्रजः स्युस्त्रिंशद् एव ते | प्रांशुरं शुरिभोरं भाविधोरी वयुवोमुरा || वेहे चीटांकनी नाम्या धुंगनी पर्यावभरा | ५ब्) सुरथो देवीका साध्वी चांतरप्रस्तरप्रियाः || दक्षोजूक्षूश्चटी घोरी निकृतीवं कृतिर्हलः | चर्वचार्वा करो रक्ष क्षपणाः कन्यदृदृशे || तथा दीप्तपदे भृग्वी कारारुण्डीत् तुलाह्रदः | क्षेफम्योगणपदे विम्वेंद्रिय विश्वान्वितेशिरा || अं त्रं पीठोहराल्लीष इन्द्राक्षः प्रतिविंववान् | मेधिरस्मिन् कलाहीने विम्वे मुष्मिछिखानि ते || तथा सप्रतिविंवे च सर्पा नक्रः क्रमादिमौ | हंसो व्रह्मेति निर्दिष्टं सोहं वाच्यं महादिनम् || हलां त्रयाणमैक्येन वीजान्यन्यानि वाडवत् | रजुवोनिः फलोक्षोक्तोऽक्षरमौलिः सखीमता || हले च गत चान्द्रिके गणापीडेमवेदिके | पंचपंचास्य सन्नद्धकवंधुभ्रामिताऽत्रयः || जुह्वां तु गणमान्यायां स वेद्यां निष्फलं यथा | कौसुंभीमालती मुक्ताऽपर्णावाणधरी तथा || शिरायां विगता क्षायां तथा गणशिखाजुधि | मृगीनूता विहंगम्यः शिशिरारोहितापि च || सर्वत्रवेदीसंपृक्ता यत्र ना तत्र वाचिकम् | सखीनिरिन्द्रियामौलौ विंवाधारा सवेदिका || सरटोवरटः कीट ऊध ओधः क्रमादि मे | विंवेन वेद्या चाभ्यक्तो गणयोर्मध्यगः परः || गात्री दात्री च धात्री च पात्री मात्री तथैव च | एवं तयोरगौवरशेषौ स गम्यकौ || वेद्युपांत्ययुतौ चापि क्रमात् पंचदशाप्यमी | ६अ) त्वरितास्थि मिता स्रद्धा लुठितापं नगी नगी || वारिता चारिता स्निग्धा समीचीह्रेषिताऽवृता | शयिता शयिता सुप्ता तरिंस्तूर्यस्वरोनिता || पूर्ववद्वेशुपांत्याभ्यां वटौवटुरपीदृशः | निनिक्ता वोधितो वाग्मी पाण्डरः पण्डुरोऽपि च || वेत्ता वित्तिश्च निलेपो निर्धारोधरणोऽपि च | चिंत्यस्याऽपीदृशत्वं हि केचिदिछन्ति धातृजः || निर्विकारो निराधारो निरीहोपिनिरंजनः | निःसंगो वर्णवर्णैस्तु वेष्टिता नधुना व्रुवे || मृगीपीठहरोष्णीषा तथा गणफलोनिता | वेद्या संयोजिता सप्त भवेत् सशिवविश्वपा || विसृष्टा शंकुरानन्दी तालीपालीजुटीडिता | नग्या ऊर्द्धगणाधस्तादचरे निष्फलं द्विज || सवेद्या वेष्टनी पूर्णा राजरीक्षाविता भगी | शांतेऽव्यवहिकौसुंभ्या जयिनी योजिनीखनिः || तरंती पाटिता पञ्चदुर्गत्पादीनि योनि वै | अक्षरक्षेम्यमान्यानि वारुणी वीरणीरुणी || नटिनी दुर्मदान्यूनौ वैधव्याऽसवेदिकौ | गणशांतकिरीटौ द्वौ सिद्धिभूप्रांतरौ दश || त्रस्था विहस्था संव्यवस्था समस्था शस्तया सह | मंथिका दर्दुरीश्येनी पतंगी शृगिली तथा || वायुवेगत चान्द्रीके तथा गणहरस्रजि | ६ब्) सवेदींद्रियविश्वे च वीजानीमानि सप्त वै || वक्रो दीर्घा वामनश्च पिचिण्डः खण्ड एव च | केकरो वधिरश्चाथ हन ऊनफले तथा || रजितामुखरीरण्डा च पेटी मृदुला तथा | मधुकाचितिनी व्यक्षा सखी शांतशिखा तथा || वेद्या समिता पंचकर्पटो हारितोपि च | विधूनिता वासिता च पंचम्याऽनन्दिनी तथा || अथ वीजानिजानिस्युर्द्विजपंचभिरक्षरैः | कानि चित्तानिवक्ष्यामि मंत्रोद्धारणसिद्धये || पीठो हराऽक्षरक्षेम्य गणांदुश्चेतनान्वितः | सोपांत्यो नवधा भूत्वा जागर्ति ननु कर्मणि || जंवुकी फेरवी धूर्त्ता उल्कास्पारणगा शिवा | फेरुर्निक्रादिनी कीला शान्तादीप्तशिखः स च || पीठाऽपीडोयमपिन्वक्षेम्य मौलिः स वा उ व | हरशेषर एषापि विंववेदी समन्वितः || कुन्तलाभिक्षुकौमौर्वी तर्कुस्त्रीपुट एव च | साहंगो गणशांतस्रग्विंववेद्यन्वितस्तथा || मकरः कमठः शंकुः शतागोघर्घरोपि च | गणः सर्वत्रविषमे समोशांतोऽपि पीठ युक् || भवेत् सविंववेदीकः पंचधामनु निर्णये | पलिक्ती जरकी वृद्धा जीर्णावर्षीयसी तथा || ७अ) गणयोरंतरेशांतः सर्वक्षेम्यस्य शृंखलाः | इमेक्षरस्य निगडा विंववेद्यत्वि तस्य च || कलापिनी मध्यमती सहिताप्यार्हितापि च | चूलिकाऽदश्चतुर्थेर्सो परे पूर्ववदन्विते || खेचरी भूचरी ऋक्षा किराटी वरढा तथा | पीठेतिवेशिते तुर्ये स्थाने पंचभवंति हि || करिणी कुलटा काम्या कलसी कालसी तथा | पीठोगणाक्षरक्षेम्य गणाः पंचाक्षराणि हि || ऊर्ध्वोऽधोभावतश्चेत् स्यु विंववेद्यन्वितानि च | श्वेता रक्ता च पीता च नीला च शवला तथा || अपास्यादि समेकार्णं परे तत्र निवेशिते | तयोरन्वययोगेन पंचवीजानि नारद || ध्रुवाधराचीधमनीधयन्ती तारिणीत्यपि | गणशांतोपरगणौ च तस्रः क्षेम्य शृंखलाः || वेदीविंवाऽन्विता पंच पुन्द्रगी प्राचिकाद्युनी | वि?दारिणी हैमवती गणयोर्मध्यगौ यदि || वर्णौशांतपरौ विप्र चत्वारोपिलयान्दवः | ताभ्यामेव पुनद्वाभ्यां जायंते पंचसंयुताः || सिंहिका वर्षुकीवर्वी वरडीगारुडीत्यपि || वणैः कालमितैर्यानि वीजानिस्युद्विजर्षभः | इमीमिते??ऽधुनातानि समुद्धरणपूर्वकम् || ७ब्) गणा ऊर्द्धमधश्चापि मध्यशांतस्ततः परम् | हरः परोगणश्चापि क्रमाद्विम्वी स वेदिकः || वापी विधुंगी वाराही तर्दूराजुर्भवंत्यमूः | एवं गणां तरालस्थ सचरादिद्वयं ततः || शांतो गणश्च तछेषे वेदिविंवाऽन्वितोऽखिलः | विचिर्मरीचिरावीचीः पराचिः सामिची तथा || एवं हरोनयश्चापि गणोऽक्षर इतः परम् | क्षेम्य एते शेषरास्युर्गणस्य च यथा स्थिति || व्रलिनी फेणिकातार्क्षी चंगेरीमिचिका तथा | शांतः क्षेम्यश्च पीठश्च त्रयोपिस्युर्गणाऽधराः || अन्यत् साधारणं सर्वं वीजानिभूतसंमिता | विरुजाभण्डीखण्डिला * * * भण्डिलापि च || शांतः परशुपीठश्च सर्वोपिगणशृंखलाः | एकीभूताः सवेदीकासं विंवा उवर्षभः || खर्ज्जूरः खदिरक्षुन्न अहण्डिकपरन्तपौ | एवं क्षेम्येश्च शांतश्च पीठश्चैकनुमागताः || विकारश्च निकारश्च प्रकारः प्रकरस्तथा | अनूकार इति ख्याताः परोगण इतीप्यनु || शांतोहरोलयगणौ सर्वमन्यत् पुरोक्तवत् | जातीगंधफलीकौंदी वरुथी सिंधुरी तथा || क्षेम्यो गणान्नुस्थारश्चाऽप्ययो दीप्ताऽधरापि च | ८अ) कलिला कुक्कुटी हीना पूतना पृतनापि च || पीठक्षेम्यश्चशांतश्च गणपादा इमे त्रयः | सर्व-एकत्वमापन्नाः सविम्वाश्च सवेदिकाः || वर्हिष्मती धेनुमती खर्वटावनवंधिनी | पंचम्यसवित्तिरपि गणोधन्यशिखः पली || सान्तांतशेखरागुर्वी यं वै परगणप्रजा | ऊषरीमा पीठशिखा वकुलीसाऽमनोनिता || क्रमप्राप्तद्वयोन्मिश्रा विक्षरी वैखरी खुरी | नखर्यक्षर्यपि ऋषे वीजं स्वरकृतं शृणु || पीठोहराऽक्षरक्षेम्य गणशांतगणान्नुकः | संपृक्तोवेद्युपांत्याभ्यां वंधकी सिंदुकी वुकी || पूजकीवर्त्तिकीचेति पंचवीजानि नारद | क्षेम्यो गणश्च पीठश्च हरशांतपरायणः || ऊर्ध्वोऽधोभावतः सर्वे वेद्याविंवेन च क्रमात् | ऋक्षकर्णी सूर्पकर्णी खरकर्णी तथैव च || गजकर्णी मूषकर्णी गणोयानन्यरोपि च | ततोऽक्षरश्च शांतश्च हरोगलय गणावपि || क्रमादुच्चैवधोभावात् पूर्वौक्ताभ्यां मलं कृतः | अरुणीवारुणीरुणी तरुणीतरुणी तथा || शांतः परोगणः पीठहरक्षेम्यगणाः क्रमात् | गुंगादवतरंतः स्युर्वादीरित * * (?)ऽन्विताः || ८ब्) निसंव्युदुपपूर्वेण सर्गाः पंचभवंति हि | पीठोहरश्च शांतश्च ततः क्षेम्यगणावपि || तदधोव्ययदीप्तौ तत् ततः सार्वत्रिकं हि यत् | सर्गस्थाने तु धानं स्यात् तदादिः प्रथमोस्य हि || चंद्रिकाऽक्षरत्कृप्तानि शृंखवीजानिकानिचित् | गणशांतहरा ऊर्ध्वमधो * *?गणाक्षराः || सर्वशेषेक्षे गणौवेद्या श्लिष्टौ समौम्यया | वैरवी भैरवी रावी विरा वीसारवी तथा || शांताऽक्षरक्षेम्य गणपरा गणवरावपि | दीप्तः सर्वाऽधरस्थोऽत्र द्वयमन्यत् पुरोदितम् || अरटः खर्वटः खल्वाटः कुरटोपि च | दीप्ताऽव्ययाक्षरहरपीठशांतगणास्तथा || क्षेम्य ऊर्द्धोर्द्ध्वभागस्त्वमधोभागद्विजर्षभ | द्व्यूपगूढानिपंचैव वीजानिस्युर्मनूद्भूतौ || रंकिनी वंकिनी पूर्णा शंखिनी पुंखिनीत्यपि | एवमुक्तानि वीजानि ऋषेकतिपयानिते || कूटसंज्ञानि यानीह सांप्रतं तानि वच्म्यहम् | इति तैललोहितीये कालानलतंत्रे वीजकथनं न्नाममद्वितीयः पटलः || २ || श्रीनीललोहित उवाच पीठोहरोऽव्ययः शांत तारदीप्तररो अपि | वन्यः सर्वाऽधरस्थो विंवाऽमाभ्यां परिस्कृतः || शांभवोयं महाकूटो यामलादिगोपितः | पीठोऽजदीप्तपीठाः स्युर्गणः कलश्चासाक्ष्यपि || अजाऽक्षरौ सर्वशेषे तारोपांत्यसमन्वितौ | सद्योजाता ह्वयः कूटः पीठमूर्द्ध्नीगणाऽचरौ || पदे दीप्तश्च शांतश्च तारोऽसोपांत्यसंयुतः | ९अ) एष कूटो वामदेवाभिधो द्विजमयोदितः || अजोहरोगणः पीठो दीप्तः शांतश्च तारयुक् | उपगूढाऽस्मयोपांत्योऽसौ कूटोऽघोरनामकः || शान्ततारौ कन्यदीप्तौ पीठाऽजौ पुण्यमेव च | तदधस्थात् पीठगणौ वै धरीविंववेष्टितौ || कूटोस्तत् पुरुषोख्योयं मीशानमधुना शृणु | गणाजताराः कव्यस्य निगडत्वं मिताद्विजः || शुराग्धांकंषुदीप्ताः स्युर्वरषष्टोऽष्टमोप्यजः | विंवामयोर्ययो गतश्च कूटः सर्वोदितो भवेत् || आदावजवरौ दीप्तपीठौगण इतः परम् | नित्याऽजपीठाश्च गण ततो वन्यहरावपि || इमे रेतः शिरः संस्था कूटो माहेश्वरोभिधः | हराव्ययौ दीप्तशांतौ तारपीठगणास्ततः || धारीशिरस्यसी सर्वे कूटः पाशुपतो भवेत् | दीप्तशांतौ तारपीठौ द्वौगणा व चरोपि च || नित्या गणोवरणौ नाना मूर्द्ध्न्यमीस्थिताः | शांकरो यं महाकूटो योगिनां हृदि दीपवत् || रवदीप्तौशांततारा रजपीठगणा अपि | पुनः कन्यगणौ सर्वे नीलांगशिरसि स्थिताः || कूटमेतत् त्रैपुराख्यं भैरवाख्यं तु वाडव | शान्तताराजदीप्ताख्याश्चत्वारः पीठशेखराः || गणपीठहराः कन्यगणपुष्पामिशृंखला | ९ब्) अमोपांत्यान्विताश्चेत्स्युः कूटं पूर्वोदितं भवेत् || पीठोहरोऽजदीप्ताऽन्दुमुश्चट्युपरिस्थितः | पराकूटं भवेद् एतद् अत्राऽजांघ्रौ सपीठके || चित्संज्ञं पीयुग्मोनेऽत्रे कूटं जेष्टकनामकम् | पीठोहरो दीप्तशांता रजतारौ ततः परम् || पीठोगणः कन्यगणा वमोपांत्यसमन्वितौ | परापरं भवेत् कूटं मातंगादिषु गोपितम् || निगडाः पीठहरयोः शांताजौ दीप्त एव च | तारपीठगणाः कन्यगणपुण्यानि चै न हि || विंवद्युतियुतानिस्युः कूटं लिंगाऽमिधं द्विज | हरपीठौ दीप्तशांतौ तथा पीठगणावपि || तारनित्यगणाश्चापि वैधविंवसमण्डिताः | कूटं भवेद् इदं रौद्रं श्रीकण्ठमधुना शृणु || अजदीप्तौ शांतहरा पीठतारौ वरोगणः | नानाशिरसि तत् कूटं शक्तिं त्वमधुना शृणु || आदौ पीठहराजाः स्युस्ततो दीप्तगणाचराः | शांतसारहरादीप्ताः सर्वे द्यारीमूर्द्धन्य व स्थिताः || गणपीठौ शांततारौ दीप्तकन्यगणास्ततः | पुण्यं सर्वाऽधरगतं वर्णविंवसमन्वितम् || सत्कूटं भावावन्यजन्मतृण्याऽनना कृति | सर्वादिमगण स्थाने हरे तु विनिवेशिते || कूटं हिरण्यगर्भाख्यं जायते व्रह्मनंदन | कूटं तस्यैव वर्णौ द्वौ यादाद्यौ परिकीर्तितौ || कृते तयोर्वै परीत्ये पौष्करं कूटमुच्यते | व्रह्मास्त्रयाणामेतेषां वैधव्यूने पदे कृते || १०अ) श्लिस्ते मया तु तत् स्थात्वन् यत् कूटं त्रयं भवेत् | भासानाख्या च संहारो योगे तु सुरयो द्वयोः || अनाहताख्यप्रथमो द्वितीयोमणिपूरकः | स्वाधिस्थानं तु तार्त्तीयं द्वयोर्योगानुवाऽपरे || गणादेश्च हरादेश्च वैधव्यश्लिष्टयो द्विज | तमः कूटं रजः कूटं पीठाद्यैर्व्यत्यये सति || ज्वालाकूटं शिखाकूटं वेत्यासादमयान्विते | महानिर्वाणनिर्वाणौ जायते द्वौद्विजर्षभ || पुनरन्यप्रजायंते योगतोवर्णाकारयोः | विन्दुकूटं मनःकूटं तत्वकूटं तथैव च || द्वित्रियोगात् पुनश्चैषां भेदास्युर्वहवो द्विज | ज्ञानवैराधर्माख्याः कूटा एते भवंति हि || प्रतिलोमाविलोमाभ्यां वैधव्या चामयायुतौ | गणपीठहरश्लेषात् कूटाख्ययुगपाणयः || तारदीप्तौ कन्यगणौपुण्यं सर्वजघन्यगम् | वैधविंवमिलितं सर्वत्रैषाऽकृतिः समा || आद्या * *? गत या कूटं ताण्डव नामकम् | शिरोनिविष्टेनाजेन प्राणाख्यं कूटमुच्यते || शिरेण तु शिरोगेण फैरवं स्यात् तदेव हि | न येन नाम्नानिगमः स्यात् कूटोमूर्द्धगामिनी || सर्वोपरिस्थपुण्येन सुषुम्ना समुदाहृता | पीडः गणेशापि भवेदाम्नायसंज्ञः || १०ब्) शीर्षसंस्थेन कन्येन कूटो वीर इति स्थितः | मस्तस्थेन भद्रेण भवेत् कूट इडाभिधः || उत्तमांगस्थपीठेन कामिनः कूट इष्यते | एषा नवानां कूटानां चैधवीरहितात्मनाम् || चरणक्ष्वेदमाश्लिष्टं कूटास्तावंत एव हि | तेषामाद्यः कवंधस्याद् द्वितीया विद्युदुच्यते || तार्त्तीयं नागकूटं स्यात् तुर्यं शावमिष्यते | पंचमन्त्रैपुरं कूटं षष्ठं पद्मद्विजर्षभ || हीरवामननामानौ भवेतां सप्तमा *? मौ | नवमं भौम उद्दिष्टः पुनरन्यान्निशामय || आदौ पीठहराजाः स्युः पुनः पीठगणावपि | दीप्तपीठगणाश्चान्ते विंववैधव्यलंकृताः || वृहत्कूट इति ख्यातो यामले व्रह्मनन्दन | इराजदीप्तपीठाः प्रागाणाऽजौपीठपश्चिमौ || पुनगर्णोवर्णविंवसंयुतस्याद्रथंतरः | हराक्षराऽजदीप्ताश्च शांततारौ ततः परम् || पुनर्ध्ययगणौ पुण्यदीप्ताः पश्चिमगामिनः | वैधव्युप्संत्यसश्लिष्टाः खेचरी कूट ईरितः || गणशान्तक्षेम्यदीप्तहरताराः क्रमेण हि | पीठौगणः कन्यगणौ नामोष्टीषा इमे खलाः || मंदारनामा कूटोयं रुद्रेणप्रकटी कृतः | अजदीप्तौ शांततारहरपीठाक्षरा गणः || एते समस्ताः पर्पट्यः शिरोदेश व्यवस्थिताः | ११अ) हेमकूटोयमुदितो हेमराशिप्रदो जपात् || शांततारौ दीप्तगणौ हरपीठ ततः परम् | कन्योगणश्च पुण्यं च घारीशिर्षस्थितोऽखिलः || प्रकाशितो रत्नकूटो देवदेवेन शंभुना | वरोगणः पुण्यशान्तौ ततः पीठहरावपि || तारदीप्तहराश्चापि शेषेन गणणावपि | वर्णविंवयुतश्चायमपराजितनामकः || पुरस्तादक्षरक्षेम्य गणाजादीप्त एव च | शांतातारहराश्चापि शेषे ध्वरगणा वपि || वैधव्युपान्त्य मिलितौ डाकिनीकूट उच्यते | तारौ गणौ पुण्यदीप्तशांताहर इतः परम् || पीठक्षेम्यगणाश्चान्ते सोपांभ्यां वर्णितेपि च | मन्थाननामकूटोयं पश्चिमाम्नाय शेषरः || वरदीप्ताऽजशांताः स्युः पीठतारहरास्ततः | ततो लयगणौसर्वे मीनाशिरसिविष्टिताः || समयाख्यो महाकूटः षडाम्नायेषु गोपितः | पीठदीप्तौ शांततारौ पीठयोर्मध्यगो गणः || हराक्षरक्षेम्यपरगणकन्यगणाऽपि | पुण्यमन्ते वर्णविम्विकूटोयं गह्वराऽभिधः || मंत्रकूटः पीठहरारजदीप्तगणाह *? | शांततारा च? वरा पीठगणावक्षरमेव च || क्षेम्योगणं च पुण्यं च विंवामासहितं द्विज | गणपीठौद्यथमगौशांत तारा * * * *? || दीप्तकन्यगणाः पुण्यक्षरक्षेम्य परायणः | हरो नयगौपीठ गणावपि ततः परम् || वर्णायां त्यान्विता सर्वे कूटोयं मे* * * *? | ११ब्) प्रथमा-अक्षरक्षेम्य परागणवरावपि || गणपीठगणाः शांता तारनित्यगणा अपि | इमे शिखास्थाना ना याः कूटो वर्णोऽधिधस्ततः || इत्ये ते कथिताः कूटाः प्रसिद्धा आगमादिषु | अप्रसिद्धाः परे कूटा महाकालेन भाषिताः || तदा पेक्षकमेतद्धि सा दो नापेक्षिका द्विज | तत्रत्यकूटा पेक्षायां तत एव हि गृह्यते || इति ते निर्णयः प्रोक्ता मातेऽत्रास्तु विचारणा || २०० || इति नैललोहितीये कालानलतन्त्रे कूटकथनन्नामतृतीयः पटलः || ३ || श्रीनीललोहित उवाच मन्त्रोद्धारमिदानीन्ते वक्ष्येहं कामलासने | मुख्यानवाक्षरस्त्वस्या मन्त्रः परमगोपनः || तदनु प्रथिताऽन्यैका दशोनात्रिशताक्षरी | तत्परेण सहस्रार्णस्तदूर्द्धमयुताक्षरी || इति षढ्ढा सिद्धिलक्ष्म्या मन्त्राऽमुष्मिन्मयेरितः | तत्रत्यानां मनूनां हि पञ्चानां व्रह्मनन्दन || विवृणोमि समुद्धारं न्यासपूजा समन्वितम् | तदन्ते तामपि तव कीर्तयिष्यामि नारद || श्रुतिश्चटी च दोग्ध्री च शोषिणी शिरया सह | दोला तदनुमानूरः? सामरश्च निरस्मयः || शेषे दण्डः परिज्ञेयः इय मुक्ता नवाक्षरी | नैतस्य सदृशोमंत्रस्त्रिषुलोकेषु गीयते || १२अ) प्रत्यंगिरा या यावंतो मंत्रा उक्ता पुरारिणा | तावता शेषसर्वेषां मध्यप्रकृतिरुच्यते || अन्ये विकृतयः सर्वे ज्ञेया एतत् पुरः सराः | त्रिशतार्णस्तु यो मंत्र ऊनोदशभिरक्षरैः || तेमिदानीं प्रवक्ष्यामि शुद्धमुद्धृतिरीतितः | श्रुतिदण्डौ सर्वसिद्धि योगिनीति समुद्धरेत् || सापि तुर्यविभक्तेस्तु तार्त्तीयवचनान्विता | सा चत्योचितसंधोता सर्वत्रैषविनिर्णयः || पुनर्द्दण्डः सर्वसिद्धि मातृभ्योनु च कीर्तयेत् | दण्डो नित्योदितानन्दनन्दित यै ततोप्यनु || ततोऽनुसकला भाष्य कुलचक्रेति कीर्तयेत् | नायिकायै समुद्धृत्य भगवत्यै समीरयेत् || चण्डकापानीनेन्तो नवार्णोयं मनुद्विज | पुरोदितः स तस्यानुश्रुतिपरमहंसिनि || निर्वाणमार्गदे प्रोच्य विषमोपप्लवरत् | ततः प्रशमनि प्रोच्य कीर्तयेत् सकलेति च || दुरितारिष्टतः क्लेशदलनि प्रविभावयेत् | सर्वाऽपदंभोधि पदात्तारिणी प्रतिकीर्तयेत् || पुनः सकलशत्रु प्रमथिन्यनु हि देवि च | सखी सर्वो योगिनी च वीजत्रयमिदं ततः || आगछह सवलोति द्विवारं त्रितयं वदेत् | १२ब्) नरानुरुधिरांत्रेति वशाभक्षणि तत्परम् || मम शत्रुन्मर्द्दयुगं स्वाहि द्वितयमेव च | त्रिशूले नेति संलिख्य भिन्दिछिन्दि युगयुगम् || ततः खड्गे नेति पदात् तात्रये द्वय छेदय छेदय | निह्रादिनी तथा पूर्णा मालती मेधिरेव च || ततो ममानुसकलपदादनु मनोरथान् | साधयद्विश्च परमपदात् कारुणिकेपि च || पुनर्भगवति प्रोच्य महाभैरवरूपतः | धारिण्यनु त्रिदशतः पुनर्वलते वदेत् || ततः सकलमंत्रानुमातः प्रणतशब्द च | जनवत्सल इत्येवं संधानानुस्वरूपतः || पुनर्देवीति संवुद्धि वाणीरेतस्तथैव च | प्रांतरं सुखदा सिद्धिभूरपि त्रितयं ततः || महाकालिपदात् कालनाशिनि प्रतिकीर्तयेत् | दोग्ध्रीत्रयं प्रसीदद्विस्ततश्च मदनातुलाम् || युगलं कुरु चाभाष्याऽनुसुरासुरकन्यकाम् | चटी च प्रांतरं दोग्ध्री त्रितालीहोम एव च || संपूर्णोयं महामंत्रो नवाक्षर्य समो द्विज | ससिद्धोयं तु मालाख्यस्तस्याऽस्य च भिदेयती || तुल्यावुभौ परिज्ञयौ सिद्धिप्रदतया भुवि | प्रत्यंगिरा पंचवक्त्रा मंत्रयोरुभयोरपि || ध्यानमप्यतयोरेकं पूजा चैकप्रकारिका | १३अ) अमुयोः केवलं भिन्नः षडंगं न्यास एव हि || श्रेष्टेयं सर्वमन्त्राणां दशोनात्रिशताक्षरी | अनयाराधिताराज्य लक्ष्मी राज्यफलप्रदा || अतः परमयत्नेन गोपनीयं फलार्थिभिः | अथोद्धरिष्ये देवेशीं षोडशार्णामनुत्तमाम् || यामेकवारमुच्चार्यमुच्यते जन्मसंकटात् | चटीदोग्ध्री शिरोसिद्धि भूमेर्द्धिः प्रोथ एव च || गृधी? पुनः शिरोरेतः प्रान्तरोंत्रे ततः परम् | पुरश्चरमहोमास्युमलिना ह्रदपर्पटाः || मंत्रोयंमपि सर्वेषां मनूनामुत्तमः स्मृतः | समान एव च तयो ध्यानतोभिद्यते परम् || वडंगेनापिविप्रर्षे भेदोनान्येन केनचित् | त्रिष्वप्येतेषु मंत्रेषु पञ्चवक्त्रा महेश्वरी || अधिकाऽधिकवक्त्रेयं शतार्णादि मनुष्ठयम् | अथो शताक्षरः मंत्रं मत्तोयत्तोनिशामय || लभन्ते यमुपासित्वा साधकाः सर्वसंपदः | श्रुतित्रयं च वाणीनां वलदा च यतः परम् || प्रांतरं सुखदारेतः परिदोग्ध्री शिलाऽपि च | प्रवंधमेधिनक्राश्च सिद्धिभूक्षपणावपि || निह्रादिनी नन्दिरश्मिरेतः पशुधुनासुतः | हैमणीप्रोथमानूरा दुर्गतिस्तरिरित्यपि || सुखदा वीरुधा चार्वी विचक्षा कूवरी तथा | भर्मावी वै वणीलोही विचक्षा हरीता तथा || वेश्मरी भासिता व्राता मानसा प्रतोनीद्विज | ऊग्रकुल्यभेरी वीर्या भूवंगकर्पटा वपि || *? चाणधरी मृगीलूता विहंगमी च मालती | १३ब्) मुक्तापभुशिशिराश्च रारिता चाविता ततः || आवृता शयितास्तव्धसुप्ता वाग्मी च पाण्डरः | वेत्तारीत्तिर्निलेपश्च निराधारस्ततः परम् || वरटः सरटः कीदोदात्री धात्री च नारद | चटीदोग्ध्री शोषिणी च प्रजापति तु मे शृणु || ततश्चण्डकापालिन्यै भगवत्यै ततः परम् | त्राहिपदं रक्षपदं पूर्वत्रिवीजमेव च || वंजिता व्यषणीरण्डा च पेठी होम एव च | इत्येषा कथिता विप्र सिद्धिलक्ष्म्याः शताक्षरी || नवाक्षरी समोमंत्रो भजतां कल्पपादपः | ऋषिरत्रिर्विराट् छन्दो रवतः कीलकं स्मृतम् || देवता सिद्धिलक्ष्मीश्च चटीवीजं समीरितम् | दोग्ध्रीशक्तिद्विजश्रेष्ठ विनियोगस्य मे शृणु || पुरुषार्थचतुष्टय साधने च जपे पुनः | न्यासपूजादिकं सर्वं पूर्ववत्परिकल्पयेत् || किंतु ध्यानभेदमस्याः पूजाकाले व्रवीमिते | अतःपरं निवोधाऽस्यास्त्वं सहस्राक्षरी मनुम् || गोपितां सर्वतंत्रेषु सर्वसिद्धिफलप्रदाम् | दीक्षितेष्वपिनाख्येया न देया पुत्रपौत्रके || राज्यलक्ष्मी रणे नैव सद्यो राज्यफलप्रदा | श्रीकामैर्गृहिभिर्जप्या राज्यकामैश्च भूमिपैः || १४अ) यतिभिर्मोक्षकामैश्च शूद्रैः सद्गतिलिप्सुभिः | अथोद्धारं प्रवक्ष्यामि शृणुष्व व्रह्मनन्दन || सिद्धिलक्ष्मी सहस्रार्णा मालामंत्रस्य नारद | ऋषिर्नारद उद्दिष्टो गायत्री छन्द उच्यते || सिद्धिलक्ष्मीर्देवता च डाकिनी वीजमीरितम् | सात्वहारौ क्रमेण कथ्यते शक्तिकीलके || पुरुषार्थचतुष्कस्य साधने च जपे तथा | विनियोगोऽस्य मंत्रस्य कथितस्त्वयिनारद || तारत्रयें महाचण्डयोगेश्वरिपदं वदेत् | ततो ज्वलितमुख्युक्त्वा ज्वालाजालेति कीर्तयेत् || जिह्वोदरि ततो भीमे महाभीमपदादनु | भीषणे च तथा लम्वोदरी विश्वान्तकीत्यपि || कालग्रासिनिसंकीर्त्य वदेद्वलनिसूदनि | रुद्योगिनीराववीजान्युच्चरेद्धासिनीत्यपि || महाभैरवि संकीर्त्य महाभीम श्मशानतः | वासिन्युक्त्वा कूर्चवीजं चण्डमुख्यनतो महा || चण्डयोगेश्वरी प्रोच्य वीजत्रयमुदीरयेत् | कुलांगनां संग्रहं च मेखलां फट् त्रयं ततः || महाफेरुपदं प्रोच्य भारुण्डा सिंहराविनि | हस्तिनिग्राहिनि तथा मारिण्युल्लिख्यमोहिनि || कूर्चं या हि युगंख हि युगं विद्राविणीत्यपि | ततोऽनुवनिता टंकौ जंभसानु च मेखला || स्यान् महाभैरवोत्संग वासिनीति ततः परम् | महामांसाशिति(?) प्रोच्य नुदयुग्मं त्रुटद्वयम् || १४ब्) तत उक्ता महाकालि कापालं वज्रतेजसी | पाशदण्डपदोद्धारिण्यपि खर्वोरुकीर्तयेत् || महामा*? च व्रह्माणि माहेश्वरि ततः परम् | कौमारि वष्णवी तथा वाराहि तदनंतरम् || नारसिंहि विसंध्यैन्द्रि तथाग्नेयि च वारुणि | वायव्यकालमुखि च चण्डयोगेश्वरीत्यपि || महाकापालिनि ततो यमघण्टे करालि * ? | भैरवेश्वरि संलिख्य चण्डचण्डेश्वरिति च || महायोगिन्यनूत्यैवं हृदयानन्दकर्यपि | ज्वाला ज्वलितसंवंधे विग्रहे परिकीर्तयेत् || कामिनीञ्चैव डाकिणीं प्रलयं तदनन्तरम् | फेत्कारीमक्षकुण्डे च शृन्खलां पद्ममेव च || कुटिनां मानमारां च दशवीजानि चोद्धरेत् | फट् ततो नरसार्द्देति चर्मन्तेति तथेरयेत् || पिनद्धे घोरफेत्कार राविणिप्रतिकीर्तयेत् | हनयुग्मं कूर्चवीजं ततो डामरमुख्यपि || ज्वालाननि ततः कंवुग्रीवे धृत पदं ततः | व्यालकुण्डल आभाख्य सिद्धिलक्ष्मी ततो वदेत् || राज्यलक्ष्मी समाभाष्य प्रत्यंगिरे इतीरयेत् | सत्वकूटमताख्याख्य कूटं भाषाभिधं ततः || हिरण्यगर्भदटञ्च जयजीवद्वयं द्वयम् | स्फुरद्वयं प्रस्फुरयुगं हसनृत्ययुगं युगम् || त्रैलोक्यत्रासनकरि पललेति ततः परम् | १५अ) वसा सृजिपि व द्वंदं द्विर्वमद्विश्च घाटय || द्वयं द्वयं मुंच वल्गस्फुटगर्ज च चूर्णय | महामदोन्मादिनि च खपदांतात् प्रकाशिनि || कहद्वयं शुष्कमुखि सर्वायुधपदं ततः | धारिण्यनुमहाडामर्यन्धसंकीर्तयेत् ततः || विसर्गो लूकछत्रे च वृहद्भुज इतीरयेत् | महाव्यालायुधेत् युक्त्वा मण्डितेति ततो वदेत् || शरिरेऽनेकक्त्रे च संधिहीनं वदेद् द्विज | व्योमाशनिव्योमशरीरवसिनि महा ततः || सिंहासने महादंष्ट्रा कराले तदनंतरम् | ज्वाला ज्वलितवक्त्रे च करं कंधर इत्यपि || गृर्द्ध्रपोषिण्यनुहृदम्वुजचारिणि कीर्तयेत् | सर्वभूतदमन्युक्त्वा हन युग्मं ततो वदेत् || जृंभं संग्रहमाभाष्य स्थारवप्रतिकीर्तयेत् | कूर्चास्त्रे ततोनु च महाकपालासनसंस्थिते || कूर्च्चाऽस्त्रे च महाव्योममंवुजासन पदं ततः | संस्थिते कूर्चमस्त्रं च महाकालेत्यनंतरम् || रात्रिकूर्चमथास्त्रं च शिवदेहार्द्धधारिणि | कूर्च्चाऽस्त्रानुसहस्रेति ततो दिनकरेत्यपि || समप्रभे कूर्चमस्त्रं चन्द्रकोटीत्यनंतरम् | निर्मले कूर्चमस्त्रं च महेति प्रलयाग्नि च || ततो वज्ज्वलितांगे च कूर्च्चास्त्रे च तुरुद्वयम् | कूर्चास्त्रे प्रस्फुरयुगं अक्षदण्डे ततः परम् || १५ब्) पं पात्रिकार्पट शुचिवीजानि तदनंतरम् | कूर्च्चाऽस्त्रे च ततो दिव्याऽस्त्रराजेश्वरि कीर्तयेत् || कूर्च्चास्त्रे मेघमाले च महामाये ततोऽपि च | कूर्चमस्त्रं ततो विद्युत् कटाक्षे कूर्चमस्त्रयुक् || क्षपयान्तेपि च दुरितानिकूर्च्चास्त्र एव च | एह्ये हि रेतु सान्वक्षकूर्च्चास्त्राणि ततः परम् || लज्जा महाचण्डयोगेश्वरि कूर्च्चाऽस्त्र एव च | भस्मोद्धुलितशव्दानु शरीरे परिकीर्तयेत् || त्रैलोक्यडामरेश्वरिऽन्वष्टौ वीजानि संवदेत् | मैधलक्ष्मी कामसृणि प्रासादकुलिकानि हि || प्रेतं च भैरवी मुक्त्वा महानरपदं वदेत् | कापालांत्रेति संलिख्य पूरितक्षतजा सव || प्रिय इत्यं तु युगलाऽन्वर वीजान्यनुच्चरेत् | पराकरंभे च रटीं ककुदंशैशुकं तथा || केकक्षकालरात्री संहारं पतनादिसम् | त्रिलोक्यग्रासघस्मर्यनुक्रयात् महिषासने || कुंभीरांगोपविष्टान्ता छरीरे इति कीर्तयेत् | कुशिकं च व्ययं चैव रजनीञ्च घटीन्तथा || हारिणि उत्कोचिनी वीजे अघोरेश्वरि तत्परम् | ततो नीलवराहे च महाघोरे ततोऽप्यनु || दंष्ट्राकरालवदने कालांदित्यनृसिंहिकाः | त्रिकौरजं हयगजरासभाननिकीर्तयेत् || क्रयान्महाऽनुपिशिताऽसवमत्ते हनद्वयम् | १६अ) कूर्चं चण्डमुखिप्रोच्य सर्वयोगेश्वरीति च || महामायेघोररूपिण्यनु ह्री तत्परान् | महाचण्डयोगेश्वरीप्रोच्य मानसं वज्रमेव च || कापालास्त्रे षोडश च कलान्तवासिनीत्यपि | हकारार्द्धधारिणि च कर्णिका शृंखले तथा || औपद्धरं नांदिकं च विश्वनिन्निलये तथा | विश्वग्रासैकघस्मर्यनु चतुर्वीजमुद्धरेत् || दुष्कृतं पमुकुशिकौ व्ययं डमरुवाद्य च | प्रिये पदादनुमहाकाल संकर्षणीरयेत् || तंत्रां च कुटिलां चैव रंजिनीं च घटीन्तथा | सर्वविद्यानुनिलये चर्पटं मणिमालया || हरिण्युत्कोचिनीवीजे राज्यलक्ष्मी ततोऽपि च | राजपूजित आभाष्य नादान्तकपथो वदेत् || चामरं व्यजनं चापि विधृतिं तदनंतरम् | अमोघे संधिरहितमपराजित इत्यपि || महाचण्डपदात्कापालिन्यंनुप्रोच्चरेत् ततः | शक्तिसर्वं ममास्यानु परापरमतः परम् || ततोनु वज्रकवचं कपालं व्रह्मणोपि च | सर्वमातृमुखे प्रोच्य महानन्दजनन्यपि || चिछक्तिं शांभवाद्यां च जगदावृत्तिमेव च | महाकल्पस्थानं च अमृतानन्द इत्यपि || स्रवे नित्यनित्यभोगप्रिये तदनुकीर्तयेत् | सिद्धिकाली हयग्रीवधर्मतार्क्ष्यां च शाकिनीम् || डाकिनीं प्रलयं फेत्कारीं हारैकावली अपि | कर्णिकां शृंखलामस्त्रत्रयं शीर्षन्ततो वदेत् || इति पूर्णः सहस्रांशु मंत्रः कमललोचन | १६ब्) प्रत्यंगिराया मंत्रेषु मुख्यत्वेन व्यवस्थितः || दशो न त्रिशताक्षर्या नवांतायास्तथैव च | द्वादशांता छोडन्ता श्रेष्ठत्वे नैव कीर्तितः || श्रेयस्त्वदेषसर्वेषां विशेषेण तु भूभुजाम् | ज्ञात्वा प्रभावमेतस्य ततोऽस्मिन् यत्नमाचरेत् || कस्मादपिदातव्यमकल्पाणमभिप्सता | वहुनोक्तेन किं देव सिद्धेनमनुनाऽमुना || सर्वं साधयते कार्यमसाध्यं त्रिदशैरपि | अतः शतादिवर्णानां निर्भयं वच्मि ते द्विजम् || न्यूनाधिकत्वदोषेण न दुष्यत्वेन मंत्रराट् | सिंहशव्दस्य हे वर्णे पूर्णमात्यंशतं द्विज || औसं?तेद्विशती विद्यात्रिशतीडामरस्मरे | शतं चतुर्थं व्यगमत्स्फुटयुग्मान्तिमाक्षरे || ज्वलितस्य च ते वर्णे तथा पंचशती गता | निर्मलेहं फडंते च संपूर्णा षट्शतीद्विज || डामरेश्वरि मे वर्णे सप्तसत्यगमत्तथा | रावर्णे रासभानन्या * * समाप्ततीमनोः || संकर्षिण्यास्तथा कांते नवशत्यगमत्पुनः | यामलादेर्विनिष्कृष्यमयाते प्रतिपादितः || स्युः संख्या विषयाः सिद्धो कदाचिछिकता अपि | कदापिनैतस्य गुणा मनवः कल्पकोटिभिः || अदीक्षिता येऽर्चन्ति जपपूजादिकाः क्रियाः | नभवन्ति श्रिये तषां शिलायामुप्तबीजवत् || १७अ) देवदीक्षा विहीनस्य न सिद्धिर्न च सद्गतिः | तस्मात्सर्वप्रयत्नेन गुरुणादीक्षितो भवेत् || अदीक्षितोपि मरणे रौरवं नरकं व्रजेत् | तस्मात् दीक्षां प्रयत्नेन गुरुणा दीक्षितश्चरेत् || गुरुश्च तादृशः कार्यः शिष्यस्तादृश एव च | काले च तादृशी कार्याः योगादौत्तादृशी द्विज || समस्तां च क्रमानां वै विचार्य गृह्नियान्मनुम् | अन्यथा मानवः सर्वे न च सिद्ध्यंति व्रह्मज || कल्पे दृष्ट्वा तु यं मंत्रं यो वै गृह्नाति नारद | मन्वन्तरसहस्रेषु निष्कृतिर्न्नैव जायते || नादीक्षितस्य कार्यं स्यात् तपोभिर्नियमव्रतैः | नतीमुपगमनेनापि न च सारीरसाधनैः || ताराराशिककोष्ठानां मनुकूलान्मनुं भजेत् | ताराचक्रं राशिचक्रं नामचक्रं तथैव च || अत्र चेत् सगुणोमंत्रो नान्यचक्रं विचारयेत् | धनिमंत्रं न गृह्नीयादकुलं च तथैव च || इति नैललोहितीये श्रीकालानलतंत्रे नवाक्षरादि सहस्राक्षरीपर्यन्तमंत्रोद्धार कथनं नाम चतुर्थः पटलः || ४ || नारद उवाच || देवानामपि देवेश भगवन्नीललोहित | त्वन्मुखांभोजकथनामृतधाराऽभिषेचनात् || स्निग्धोभवं महानत्र भक्तवत्सल हे प्रभो | कीदृशो वा गुरुरत्र शिष्यः कीदृश ईश्वरः || दीक्षाक? * * * * * * * * * * * * * | १७ब्) * * * * * * * * * * * * * * स्मरेत् || अनुराधा नाभिदेशे पुनश्चटीं स्मरेद्द्विज | देवदत्तं तथोच्चार्य ज्यष्टां दक्षकटौ न्यसेत् || चटीधनं जयप्राणापानवीजं ततः परम् | कटिदेशे मूलामृक्षं ततश्चटी स्मरेन्मुने || समानवीजं तदनुपूर्वाषाढां न्यसेत्ततः | दक्षोरौ विप्रतन्न्यासं साधकश्च समाचरेत् || चटीवीजमुदानं चोत्तराषाढां ततः परम् | वामोरौ विधिवन्न्यस्य चटीवीजं स्मरेत् ततः || व्यानवीजं समुच्चार्य श्रवणां दक्षजानुनि | चटीवीजं धर्मवीजं मनुवीजं ततः परम् || धनिष्ठां वामदेशे च जानुनि व्रह्मनन्दन | चटीकामवीजे स्मृत्वा शतभिषां न्यसेद्वटो || दक्षजंघास्थले देव भूदेव शृणु तत्परम् | चटीमोक्षचित्तवीजं समुच्चार्य ततोप्यनु || पूर्वभाद्रपदां वामे विन्यसेत्मुनिसत्तम | चटीसरगतिदे तु वीजान्युच्चार्यको विद || उत्तरां दक्षपादे च विन्यसेत् साधकोत्तम | चटीतर्कतनुवीजमुच्चरेत् तदनंतरम् || रेवतीं वामपादे च विन्यसेदजनंदन | नक्षत्रन्यास इत्युक्तस्त्वयि नारद हे द्विज || सर्वतंत्रेषु गोप्तोऽयं सर्वापद्विनिवारकः | न्यासानां नृपतिः प्रोक्तः सिद्धिलक्ष्म्या हि नारद || शुश्रूषा वर्तते किं ते चातः पठम्वदस्व मे | ३६ | १८अ) * * * * गणोदीप्तः कल्पो भद्रो विधूर्हरः || पीठोहांतश्च शांतश्च पंचत्रिंशच्च नाऽधिकाः | पंचभिः पंचभिः पंचचतुर्भिश्च त्रिभिस्त्रिभिः || वर्णैरेते व्यवस्थाप्याः स्वस्वयूथतयोदिताः | अष्टौपंक्तिर्न्निगदिता क्षाक्षक्रमनिरूपिता || मखोव्रतं तपोमौनं दीक्षाचेत्यव्रुयोनिज | आद्यानां पंचथानां नामानि कथितानि ते || आश्रमस्त्रययपिगुणः शेषाणामभिधेदृशी | दण्डो*?मश्च तालश्च मन्वंता ह्वेदृशी तथा || माल्यमालाशिखास्रग्भिः शेषरापीडमौलिभिः | किरीटमुकुटोल्लीषाऽभिधानैरुद्धगा मतः || पदाख्यधरशेषाधः शृंखलानिगडाऽन्दुभिः | अभिख्येयमधस्थानां व्यवस्थेयं मयोदिता || मदनुक्तमपि ग्राह्यं गुरवाचाथवाधि *? | आद्याद्याः षोडशी वीह कौमुद्यंतास्तपोनिधे || विंवमाल्या क्रमादेताः पुष्टिदा वलदामतिः | मेधाक्रियाक्षे मामैत्री शुंभा *? विमर्दिनी || धारावाणी श्रुति प्रज्ञा मण्डला गगनं तथा | मैत्र्याद्यास्तु च तस्राया तास्तु षण्टतयोदिताः || उपयुक्तान्यासकार्ये नामनूद्धृतिषु द्विज | अजाद्याः शांतशेषाश्च उपांत्यमुकुटोज्वला || पृथिव्यापः शिखीवायुराकाशं रूपमेव च | १८ब्) ** * * * * * * * * * * * *?धयः | तोरणा गर्हितारायी विसमर्मरविष्टयः | कुथा व हेवी भवना खलिनी गंठिकाद्रुमः || चारी च पेता वा धौजः कथ्यंतेतसराशयः | पारीपुरं नटीवारी वल्लकीवंधकीवली || चित्रिणी लोहिनीवेला वर्वसा वाजिनी रजिः | ददुरः *?कटो हाला ति च धम्याढवीथयः || गौणीवुलाकावेतण्डी जानिका ज्वालिनी जडा | शवरीशांवरीक्षेप करालहठवृत्तयः || नदीनांदीप्रवाहा च पंचत्रिंशत् तमाऽसुरी | विश्वसंसर्गिणेधन्य जीवतीरभटद्रमाः || परमः पशवोवीटा हारहीकवीटयः | आवेला भारतीभृंगिकलिंगपिकविंगणाः || तुषारतणीत्राणं पलपालविलक्रथाः | रोवपाथदूतीलोहा कलंकाः केकिका हरौ || दर्वीदोला माया त्यक्ताः पटलः पृतनापृथुः | पुटोवराढीभेरुण्डा कण्ठिकाकोरयेन्धने || भिक्षाभूरिभाराभीरवाहनं वीरवीरुधौ | वेशसंवेशवैधेय विराधविविधाध्वसः || पलालपाकपक्षभ्यः फुल्लफालवियोनयः | शठः शारी सहीमेदः प्रवंधभ्रमरक्षुपाः || विद्याद्या एव तिथ्यक्ताः कलासंपर्किलशृथन् | धाटी वृष्ट्याधुरी वृ ** * * * * * * * || १९अ) * * * * * * * * * * *?व महोदयम् | अप्रकाश्यं श्रेष्ठतमं दूरूहं गर्वशालिनाम् | षट्स्वाम्नाये षुमन्तव्यमुत्तरं जगदुत्तरम् || तत्रैकैव समाराध्याचिछक्तिर्व्रह्मरूपिणी | निर्गुणैस्तत्त्वामवाच्यानिरूप्यव्यक्तसंभवा || सगुणात्त्रद्विधा प्रोक्ता रूपभेदेन सुव्रत | रूपं सितादिकं ज्ञेयं मूर्तिरेकैव गीयते || वत्र? Kआपालिनी गुह्यकाली श्यामानिगद्यते | चण्डकापालिनी सिद्धिलक्ष्मीः श्वेता तथैव च || वज्रो व्रह्मेतिविख्याताश्चण्डो विष्णुरिति स्मृतः | तयोः कपालधारिण्या वेते देव्यौ प्रकीर्तिते || महारहस्य मंत्रत्वाद् गुह्यकाली नि?गद्यते | सिद्धिर्निर्वाणरूपा या लक्ष्म्याश्च धनसंपदः || युगदत्वात् सिद्धि लक्ष्मीरिति लोकेषु गीयते | रुद्रशिष्यो महाकालस्तदुपासकतां गतः || शिवांते वास्यहमपि सिद्धिलक्ष्म्या उपासकः | विधाय संहिता स्वीयां महाकालः स्वसंज्ञया || शिष्येभ्यः प्रददौमन्त्र ध्यानपूजापवृंहिताम् | अहं कालानलं तंत्रं व्रह्मर्षे भवते ददे || तत्रत्या संविदन्यैव विस्तरानाति दि *? रा | १९ब्) कालानलीयादभ्रांत दुर्वोधा किंतु नारद || समयानदसीयांस्त्वमवधे हि पुरा मम | ततो ज्ञास्यसितंत्रोक्त मंत्रपूजाविधिक्रमान् || इति नैललोहितीये श्रीकालानलतंत्रे प्रथमः पटलः || १ || श्रीनीललोहित उवाच आत्मा फलं दशार्णो भूतं कालः स्वरोचरः | द्वारमाशेन्द्रियं राशि विश्वमित्रस्थिथिः कला || द्वंद्वाऽभिख्यापविख्याता अष्टवेते परस्परम् | आद्या चान्द्री चान्द्रमसी वैधव्यैन्द्रष्यमाऽमृता || चन्द्रिकामोदिनी ज्योत्स्ना द्युतिसारामलास्मया | सौम्या कौमुद्यपि तथा वोध्याः पूर्वदप्यमः || द्वितीयतुर्यषष्ठास्तु भावनाह्वाऽभिधायिनः | सार्कमन्वन्विता वेदी साषिशेषद्वयान्विता || प्रधानमिति निर्द्दिष्टं मुख्यं नामान्तरं तथा | शिवविश्वान्वितं चैतच्चेतनानामधारिणी || व्यस्तं समस्तमपि वा तत् तन्नाम्नाभिधीयते | उपंत्यांत्यौ तथा विंवप्रतिविंवतयोदितौ || अपराणां व्यवस्थेयमपरेखामथो शृणु | अजाक्षरा व्ययाध्येया भाव्योगम्यः पराचरः || नित्यः शुद्धः स्थिरो युक्तः साक्षीचेतानिधिर्लयः | चिंत्योवंद्यः पटुर्वल्यो मान्यः क्षमो वरोऽधरः || तारः पुण्यो * * * * * * * * * * * * | * * * * * * * ओं नमश्चण्डकापालिन्यै | २०अ) गते कृतयुगस्यार्द्धे भगवान्नीललोहितः || नारदा या वदत्पृष्टस्तंत्रं कालानलं पुरा | शांडिल्यां य स चो वा च देवलायऽसिताय च || मेरुपृष्ठे सुखासीना नेतानान्गिरसः कविः | अभ्यायगामसंवर्तो जिज्ञासुस्तंत्रमुत्तमम् || कालानलाकयं गोप्यं यामलादुद्धृतं हि यत् | संवर्त उवाच य ज्ञानं नारदादाप्तं भवद्भिर्भवभीरुभिः || नारदेनापि यत् प्राप्तं नीललोहिततोपि च | अधिगंतुं तदेवाहं भवतः समुपागतः || येनामृतत्वमश्नाति मुच्यते येन संसृतेः | फलाभिलाषी येतै *? भुक्तं भोगान् सुदुल्लभान् || ज्ञातुं तत् सर्वमखिलं मायातो भवदन्तिकम् | यद्यन्ते वासियोग्योऽस्मि दृढभक्तिर्भवत्स्वपि || कालानलं तंत्रं भवंतः पाठयंतुमाम् | शाण्डिल्याऽसितदेवला ऊचुः साधुसंवर्तभो साधु योग्यस्त्वमसिको विद * || तथा च पठितुं तंत्रा स्माकं न संशयः | अतस्त्वां पाठयिष्यामस्तंत्रं कालानलाभिधम् || किंतु गुप्तं प्रकुर्वीथा दारेषु * * * * पि? | यदुक्तवान् नारदायपि नाकी नीललोहितः || तद्वयं संप्रवक्ष्यामो यद्यपि स्यात् सुगोपितम् | आराधितो नारदेन * * * * * * * * ? || * * * * * * * * * * * * प्रालेय भूधरे || २०ब्) पञ्चाक्षरेणमंत्रेण दिव्यानां शरदां शतम् | प्रत्यक्षतामगाद्रुद्रो भक्तिभाववशीकृतः || श्रीनीललोहित उवाच तावकीने न तपसा वत् सतुष्टोऽस्मिनिश्चितम् | वरंवरयदेवर्षे मनसायदभीप्ससि || नारद उवाच यस्त्वया जप्यते मंत्रो ध्यायते या च देवता | प्रत्यहं पूजयसियांस्तौ षियामन्वहं प्रभो || नविस्मरसियाञ्चापि क्षणमात्रमपीश्वर | तामे देवीं वद विभो वरमेतन् मयावृतम् || श्रीनीललोहित उवाच वरानन्यान् विहायत्वं किं वरं वृतवानसि | मज्जप्तमंत्रश्रवणात् किं फलं साधयिष्यसि || नारद उवाच मंत्रतं मे समाचक्ष्व सिद्धिर्भवतु वानवा | वरमेतद्विहाया हं नैवान्यद्धिवरं वृणे || श्रीनीललोहित उवाच कथं मयागोपनीयं तवैव हृदयं गता | या त्वामेता दृशवरग्रहे योजितवत्यहो || धन्योसि कृत कृत्योसि भाग्यवानसि नारद | चण्डकापालिनी देवी यत् ते हृदयगामिनी || आराध्य तेन निर्णीता तत्र वाच्यं मयानु किम् | सर्वेभ्योपि मयागोप्यं मिदं मे मनसि स्थितम् || तन्नाशक्तमहं कर्तुं यितमामोपि नारद | अतः कालानलं तंत्रं वक्ष्येत * * * * * || ःईऋE ईष् आ ङाPE ईण् ंआणूष्CऋईPट् Pआङ्E २१अ-- ६९ब्. ७०अ) || इति नैललोहितीये श्रीकालानलतंत्रे पूजाप्रकरणे न्यास कथन्नामसप्तदशतमः पटलः || नारद उवाच भगवन्करुणासिंधो नीललोहित हे प्रभो | पिवतोमेऽमृतधारां तृप्तिर्महति जायते || किंतुमां च जगन्नाथ षोढान्यासं च केवलम् | नोक्तवानसि कथं तन्मे भगवन् नीललोहित || श्रीनीललोहित उवाच प्रजापते सूनो नाथ साधुत्वं द्विजसत्तम | सिद्धिलक्ष्म्याः कथायां च यस्मात् ते निष्ठितं मनः || दक्षिणा कलिवत् षोढा सिद्धिलक्ष्म्याः प्रकीर्तिताः | तत् शृणुष्व महाभाग सुगमेन वदाम्यहम् || एतस्मात् न्यास वज्ज्ञातुं सर्वं पापप्रणस्यति | सिद्धिलक्ष्म्यार्महादेव्याः षोढान्यासं समाचरेत् || जीवन्मुक्तो भवेद् विप्र साक्षान्महेश्वरो भवेत् | निगद्यतेऽधुना न्यासो प्रजापति तनूद्भव || मातृकां केवलांभ्यस्त्वा मातृकास्थान एव च | ततः समस्तं तद्वर्णं प्रत्येकं श्रुति पुटितम् || विन्यसेन् मातृकास्थाने क्रमेण ब्रह्मनन्दन | ततश्च श्रुतिबीजं तु मातृकाक्षरपुटितम् || स्थानेषु तेषु संन्यास प्रांतरं मातृकापुटम् | विन्यसेन् मातृका स्थाने पद्मयोनिजहे द्विज || ततस्तु मातृकावर्णं प्रान्तरेण बीजेन वै | संपुटं मातृका स्थाने विन्यसेत् साधकस्तथा || ततः परं रेतसा बीजेन मुनिपुंगव | प्रत्येकं मातृकावर्णं संपुटं मातृकास्थले || विन्यसेत् साधकश्रेष्ठ ततश्चटीबीजेन च | ७०ब्) संपुट्यमातृकावर्णं विन्यसेत् तदनंतरम् || पुटिता मातृकावर्णैर्श्चटी च मुनि सत्तम | सर्वत्र मातृकास्थाने विन्यत् तु ततः परम् || चटीद्वयं तथा न्यस्त्वा पुनर्न्यासं समाचरेत् | श्रुतिबीजेन च चटीपुटिता च तथा श्रुतिः || श्रुत्या च पुटितं रेतो रेतसा पुटिता श्रुतिः | सर्वत्रपुटितं कृत्वा शेषे दण्डः प्रकीर्तितः || मूलेन च ततो विप्र सप्तधा व्यापकं न्यसेत् | इत्युक्ता सिद्धिलक्ष्म्यास्तु अंगषोढा हि नारद || एकवार कृते नापि देवीरूपो भवेत् स्वयम् | न्यासमेतद् यदि द्वित्रिवारमाचरेद्वुध || पुत्रपौत्रान्वितो भूत्वा चिरजीवीभवेन्नरः | विवादे विजयो नित्यं संग्रामे विजयस्तथा || राजकन्या भवेत् पत्नी राजा च वशगो भवेत् | सर्वदा ज्ञाति श्रेष्टोऽपि वंधुभर्त्ता सदा भवेत् || रिपूणां वीर्यविध्वंसी भवत्येव न संशयः | अन्तकाले गतिस्तस्य निशामय मम द्विज || सिद्धिलक्ष्मी प्रसादेन साधकस्य फलं शृणु | काश्यां वामथुरायां वा गंगाजलेथवा वपुः || निष्यतति साधकस्य सत्यं सत्यं द्विजोत्तम | सिद्धिलक्ष्म्याश्चरो भूत्वा विहरेत्तदनंतरम् || आदौ च मातृका न्यासं षोढान्यासं ततः परम् | ७१अ) तत्र क्रमवशाद्विप्र न्यासमन्न्यं न्यसेद्बुधः || इति नैललोहितीये श्रीकालानलतंत्रे पूजाप्रकरणे षोढान्यासकथनन्नामाष्टादशतमः पटलः || श्रीलीललोहित उवाच अतः परं निबोधत्वं नित्यपूजाविधिं मम | निर्वर्त्यन्यासजालानि ध्यायद्देवी मनन्यधीः || ध्यानमस्या प्रवक्ष्यामि तन्निबोध अजात्मज | श्वेतां श्वेतशवारूढां नृमुण्डकृतकुण्डलाम् || पंचवक्त्रां महारौद्रीं प्रतिवक्त्रत्रिलोचनाम् | व्याघ्रचर्मावृतकटीं शुष्कावयवभूषिताम् || आवद्धयोगपट्टां च नरास्थिकृत भूषणाम् | हस्तैः षोडशभिर्दीप्तां विस्रस्तघनकुन्तलाम् || खड्गं वाणं तथा शूलं चक्रं शक्तिं गदामपि | जपमालां कर्तिकां च विभ्रतिं दक्षिणे भुजे || फलकं कार्मुकं नागपाशं परशुमेव च | डमरुं फेरुपोतञ्च नरमुण्डं कपालकम् || उद्वहन्ती करे वामे दीर्घसर्वांगभूषणाम् | एवं ध्यात्वा यजेद् देवीं सिद्धिलक्ष्मीमनन्यधीः || संपूज्यमानसैर्विप्र ततोऽर्घ्यस्थापनं चरेत् | पात्रसंख्या च अर्घस्य शृणुष्वममहेद्विज || त्रितयमर्घ्यपात्रं च पाद्यपात्रत्रयं भवेत् | आचमनीयानि पात्राणि तथैव ब्रह्मनन्दन || ७१ब्) तथा चरणदौर्वयादेकमेव प्रशस्यते | सामान्यार्घ विशेषार्घ अर्घपात्रद्वयं द्विज || यद्येकपात्रमेवस्यान् निष्फलं भवति तदा | मंत्राः परान्मुखायांति मृते च पशुतां व्रजेत् || इह लोके दरिद्रः स्यादापदश्च पदे पदे | पूर्वोक्तविधिना चैव अर्घपात्रं प्रकल्पयेत् || अथवान्यप्रकारं च पात्रं संस्थापनं शृणु | सखीबीजं चटीबीजं प्रांतरं बीजमेव च || अर्घपात्राय तदनु दण्डबीजं ततः परम् | सखीबीजं पुनर्विप्र समुच्चार्य द्विजांवर || परमहंसिनिपदं सर्वज्ञता पदं ततः | हृदयायपदं चोक्त्वा ततो दण्डं समादिशेत् || अनेन पूरणं कृत्वा पवित्रीकरणं ततः | वाणीबीजं चटीबीजं प्रांतरं बीजमेव च || व्योमकूटमानन्दभैरवाय वौषडत्यपि | अनेन चन्दनपुष्पं निःक्षिप्य वारिणिद्विज || वाणी चटीप्रान्तराणि हंसकूट ततः परम् | हरत्रयं बिंबयुक्तं परादेवी पदं ततः || अमृतं पदमेवोक्ता स्रावय द्वितयं वदेत् | शेषे होमः प्रदातव्यः पवित्रीकरणे मनुः || सखीबीजात् सकलशत्रु प्रमथिनि पदम् | ततो नित्यानन्दशक्ति पदादस्त्रायतालकम् || अनेन शोधयेद्वारि मनुनावत् सनारद | ७२अ) सखीबीजं समुर्च्चार्य सकलपदमेव च || ततश्च दुरितारिष्ट क्लेशदलनि तत्परम् | स्वतंत्रपदतश्चैव कवचायपदं ततः || दोग्ध्रीबीजं शेषे ज्ञेयोऽवगुण्ठनमनुर्मतः | श्रुतिबीजं हंसकूटं मर्घ्यपात्रं च नेन्तकम् || शेषे दण्डः परिज्ञेयो पूजाकर्मणि नारद | सकलशत्रुप्रमथिनि सन्दायीतालमेव च || अस्त्रायेति ततः पूर्वं तालस्थपूर्वे नियोजयेत् | अनेन प्रोक्षणं कार्यं तत आत्मपूजां च चरेत् || नवाक्षरी पदाच्चैव आत्ममूर्तये पदं ततः | नमः पदं शेषे दद्यात् शिरसिपुष्पमेव च || मूलमंत्रेण तदनुवारिणा पूरयेत् पुनः | षडंगं न्यासं पूर्ववदथवान्यत् समाचरेत् || तत् शृणुष्व द्विजश्रेष्ठ पद्मयोनि तनूद्भव | सखीसकलशत्रु प्रमथिनिपदं ततः || अस्त्राय पदतश्चैव तालबीजं ततः परम् | करशुद्धौ मनुर्ज्ञेय षडंगानां मनुं शृणु || सखी परमहंसिनि अंगुष्ठाभ्यां नमस्ततः | सखी निर्वाणमार्गदे देवि संबोधनं पदम् || तर्ज्जनीभ्यां ततो नः सखीबीजं समुच्चरेत् | विषमोप्लवप्रशमनि मध्यमाभ्यां वषट्टतः || सखीबीजं सकलदुरितारिष्टपदं ततः | तदनुक्लेशदलनि नेन्तानाभिका ततः || दीर्घतनुछदं चोक्त्वा सखीबीजं पुनः स्मरेत् | सर्वापदांभोधिपदं ततोऽधिदारिणीपदम् || कनिष्ठाभ्यां बोधच्चैव पुनः सखीबीजं वदेत् | ७२ब्) सकलशत्रुप्रमर्दनि अस्त्राय तदनंतरम् || फकारं च परे दत्वा करन्यासं समापयेत् | सखीबीजं ततः सर्वयोगिनीभ्य इति स्मरेत् || पूर्ववक्त्राय तदनु नमः पदं वदेत्ततः | सखी सर्वसिद्धिमातृभ्यो दक्षिणवक्त्राय नम इत्यपि || सखीबीजं नमो नित्यनन्दितायै पदं ततः | उत्तरवक्त्रा तदनु दण्ड इति वदेत् सुधीः || सखी च सकलकुलचक्रनायिकायै ततः | पश्चिमक्रायतदनुदण्डपश्च्याच्च नारद || सखीबीजं भगवत्यै चण्डकापालिनि ततः | ऊर्द्धवक्त्राय तदनु नमोन्तं विन्यसेद्द्विज || वक्त्रन्यासः समुदितः प्रसंगेन मुने त्वयि | षडंगं न्यासमधुना कथयामि द्विजोत्तम || सखीपरमहंसिनि सर्वज्ञता पदं ततः | हृदयाय नमश्चोक्त्वा पुनः सखीं समुच्चरेत् || निर्वाणगार्गदे तृप्ति शिरसे स्वाहा पदम् | सखी च विषमो प्लवप्रशमनि पदम् || अनादिबोधिनि पदात् शिखायै वषडित्यपि | सखीसर्वपदांभोधितारिणि पदमेव च || अलुप्तशक्तिपदाच्च नेत्रत्रयाय वौषट् | सखी च सकलशत्रुप्रमर्दिनि पदं ततः || अस्त्राय फट् तदनु चांगं न्यासं समापयेत् | अर्घपात्रोपरि तदा मुद्रया मीनसंज्ञया || आछद्यमूलं दशधा जप्त्वा धेन्वाख्य मुद्रया | ७३अ) अमृतीकरणं कुर्यात् आत्मां प्रक्षिपेज्जलैः || पूजोपकरणं चैव संरक्षतालबीजकैः | भूतिनी योगिनीमुद्रे प्रदर्श्य तज्जलं पुनः || प्रोक्षिणीपात्रसंस्थाप्य मूलेन तेन वारिणा | पूजोपकरणं चात्मानं प्रक्षिपेत् ततः || यंत्रं विलिख्य तदनु पीठपूजां समाचरेत् | यंत्रोद्धारमहं वक्ष्ये सिद्धिलक्ष्म्या द्विज शृणु || चतुरस्रं चतुर्द्वारं वृत्तत्रयेन वेष्टितम् | अष्टारं चरविदलं पुनरष्टदलं लिखेत् || षट्कोणमध्ये त्रिकोणं च तत्र बिंदुं विचिंतयेत् | तत्रैव पूजयेद् देवीं सिद्धिलक्ष्मी मनन्यधीः || मालामंत्रस्य यंत्रं ते प्रवक्ष्यामि महामुने | त्रिकोणस्थं सखीबीजं षट्कोणं तद्वहिः स्मृतम् || वसुछदं ऋतु द्वयछदेन परिभूषितम् | त्रिवृत्तं च चतुष्काणं भूगृहं विलिखेत् ततः || यंत्रद्वयं समाख्यातं सिद्धिलक्ष्म्या मया तव | दर्शनाछिवमाप्नोति स्पर्शनात् सौख्यमेव च || वंदनान्मुक्तिमाप्नोति पूजनात् सर्वसिद्धिदम् | यंत्रनिर्माणमात्रं ते कथयाम्यधुना त्वयि || कपाले ताम्रपात्रे वा शरीरेमृतसंभवे | शनिभौमदिने चैव प्रजापति समुद्भव || श्मशानकाष्ठे रौप्ये वा सुवर्णे लोहकेपि वा | चक्रं कार्यं सिद्धिलक्ष्म्या * * * * मम शृणु || ७३ब्) इदानीं ते फलं विप्र व्याहरामि विशेषतः | कपाले सौख्यमाप्नोति इहलोके परत्र च || ताम्रपात्रे च कल्यानं शवे सिद्धिरनुत्तमा | सुवर्णे चातिसौख्यं स्याद् रजते च फलं महत् || श्मशानकाष्ठे रचिते सर्वसिद्धिर्भवेद् ध्रुवम् | लोहके देवता प्रीतिरित्युक्तं ते फलं द्विज || अतः परं परं पीठ देवान् पूजयेत् पूर्ववत्सुधीः | तदुपरिपूजयेत् तु साधकोभीष्टमानसः || मेधिबीजं समुच्चार्य सदाशिवपदं ततः | ततो महाप्रेतपदात्पद्मासनाय नमो वदेत् || नरासनं च तत्रैव मयूरासनमेव च | मूषकासनं द्विजश्रेष्ठ पूजयेत् तदनंतरम् || ततः परं पूर्ववच्च ध्यानं कृत्वा च साधकः | पुष्पांजलौ समानीय आवाहयेत् ततः परम् || सखीबीजं समुच्चार्य या सा परापरापदम् | सूक्ष्मा खगस्था तदनु स्वस्वरुपिनि तत्परम् || ततः सुरलीकपदात् गता देवी पदं ततः | आयांतु पदतश्चैव इह मण्डले पदं ततः || मंत्रेणानेन चावाह्य पूजयेत् तदनंतरम् | सखीप्रांतरश्चट्यश्च मोक्षबीजं ततः परम् || जालंधरपीठनेन्तं शेषे दण्डप्रकीर्तितः | सखीबीजं प्रांतरं च चट्यथो बीजके ततः || पूर्णगिरिपीठं नेन्तं दण्डान्तं हि मनुर्मतः | सखीप्रांतरचटीश्च कामरूपपीठं तथा || ७४अ) चतुर्थन्तेन दण्डांतं पूजयेत् त्रिकोणे सुधीः | ततः परं पूजयेद्विंदुमध्ये सुरेश्वरीम् || सखी च प्रांतरं बीजं चटीबीजमतः परम् | महाप्रेतासनं नेन्तं दण्डान्तं विन्दुपूजने || श्रुतिश्चटीमाण्डीराश्च आद्यातसमीहे द्विज | पुनराद्यातमुच्चार्य दण्डहोमौ तथा द्विज || श्रीसिद्धिलक्ष्मी देव्याम्बा पादुकां तदनंतरम् | पूजयामि नमः शेषे विन्दुमध्ये च पूजनम् || पुनर्ध्यात्वा महादेवीं पूर्वोक्तां गायत्रीं पठेत् | पुनर्मध्ये पूजयेत् तु साधकः स्थिरमानसः || श्रुतिदण्डौ समाभाष्य सर्वसिद्धिपदं ततः | योगिनीभ्य इति चोक्त्वा नम इति स्मरेत् पुनः || पुनः सर्वसिद्धिपदं मातृभ्यो नमस्तथा | नित्योदिता नन्दितायै सकलकुलचक्रं पदम् || नायिकायै भगवत्यै चण्डकापालिन्यै पुनः | श्रुति चटीघारी जुहु आद्यातं दण्ड एव च || परमहंसिनि पदात् निर्वाणमार्गदे पदम् | देविपदाद्विषमो * * *? प्रशमनि पदम् ततः || सकलदुरितारिष्ट क्लेशदलनिपदं ततः | सर्वापदांभोधितारिणी पदमेव च || सकलशत्रुप्रमथनि देवि पदं ततः परम् | आगछ द्वितयं चैव हसयुग्मं ततः परम् || मम शत्रूनिति प्रोच्य मर्द्दययुग्ममेव च | खाहि द्वयं त्रिशूलेन भिंदि द्वयं वदेत् ततः || छिंधिद्वयं समुच्चार्य खड्गेन ताडयेद्द्वयम् | छेदयद्वितयं चैव ताडयद्वितयं तथा || सकलमनोरथान् प्रोच्य साधयद्वितयं वदेत् | ७४ब्) परमकारुणिके भगवति पदं ततः || ततो महाभैरवरूपधारिणि तत्परम् | त्रिदशवरनामिते सकलमंत्रमातश्च || प्रनतजनवत्सले देवि कलिकालविनाशिनि | श्रुतिबीजं धारीत्रयं प्रसीदपदमेव च || मदनातुरां समाभाष्य चटीबीजं ततः परम् | कुरुद्वयं सुरासुरकन्यकां चटीमेव च || प्रान्तरं च घरीबीजं फट्द्वयं होम एव च | श्रीसिद्धिलक्ष्मी देव्यां वा पादुकां पूजयामि च || दण्डान्ते नैव मनुना चांगमंत्रेण पूजयेत् | इदानीं मुनिशार्दूल वलिमंत्रं शृणुष्व मे || सखीबीजं क्रमगणपतिनाथाय पादुकाम् | पूजयामि नमः पश्च्याद् वलिं दद्याद् विचक्षणः || सखीबीजं क्रमवटुकनाथाय पादुकां ततः | पूजयामितमशेषे वलिदाने मनुर्मतः || वह्निकोणे पूज्यमनुनानेन मंत्रवित् | सखीबीजं क्रमवटुकनाथवल्लभापदं ततः || श्रीपादुकां पूजयामि नमस्तेन समाप्यते | नै-ऋते सखीबीजं च ओंकारपदमेव च || पीठनाथाय तदनु पादुकां तदनंतरम् | पूजयामि नमश्चांते सखीबीजं पुनः स्मरेत् || वृषसंकेतनाथाय पादुकां पूर्ववत् परम् | वायव्ये सखीबीजं तु महाफलपदम् ततः || वीरश्मशाननाथाय पादुकां पूर्ववत् परम् | सखीसर्वसंहारिण्यै श्रीपादुकां ततः परम् || इशाने सखीबीजं तु महासर्वपदं ततः | ७५अ) संहारवलोत्कटक्षेत्रपालपदं ततः || वल्लभां वा पादुकां च पूजयामि नमः पदम् | त्रिकोणमध्ये तदनु नेन्तां हं सासना पदम् || श्रीपादुकां पूजयामि नमः पदं च शेषके | वृषभं मयूरं चैव गरुडं महिषं तथा || एनं सिंहं मासनांत.ं नेन्तेन परिपूजयेत् | अतःपरं मष्टपत्रे न्यूनयेदष्टशक्तिकाः || सखीबीजं ब्रह्माणी देवी पदं ततः परम् | असितांगभैरवसहितपादुकां च ततः परम् || पूजयामि नमोन्तेन पूजयेत् ताश्च शक्तिकाः | सखीमाहेश्वरी देवी रुरुभैरवपदं ततः || सहितपादुकां पश्चात् पूर्वादौ पूजयेत् सुधीः | सखीकौमारी देवी चण्डभैरवपदं ततः || सखीवष्णवी देवी क्रोधभैरव पदं पुनः | सखीवाराही देवी चोन्मत्तभैरवं पदम् || तदेव वीजमिन्द्राणी देवी पदात् ततः शृणु | कापालीश भैरव पदं ततश्च सहितादिकम् || चामुण्डा देवी भीषणपदं भैरवं पदं ततः | सखीसर्वेण सर्वत्र सहितपादुकांते हि || सखी महालक्ष्मी देवी संहारभैरवपदम् | सहित पादुकां पश्चात् पूजयामि नमस्ततः || अनेन मनुना तेभ्यो वलिं दद्याद्धोमान्तकै | अष्टपत्रे पूजां कृता रविदले यजेत् ततः || सर्वत्रसखीबीजं च पूर्वं कृत्वा हि साधकः | पादुकां च पदे दत्वा पूजयामि नमोऽपि च || अग्रादौ पूजयेत् सर्वाः सखीश्च क्रमचोदिताः | शिवा देव्यां वा संपूज्य भगवती देवीं तथा || ७५ब्) देव्यांते चां वा पदं ज्ञेयं साधकसत्तमैः | मायादेवीं भद्रादेवीं कि * देवीं ततः परम् || विमलादेवीं तदनु यमजिह्वा देवी ततः परम् | ततो घटोदरी देवी ततः परं द्विज शृणु || चौरमातरीदेवीं ततः कि * द्वयं वदेत् | ततो देवी पदं दत्वा पूर्ववत् पाद पूजयेत् || ततश्च काकिनीदेवीं पूजयेत् पूर्ववत् सदा | पूर्ववच्च वलिं दाद्यादष्टकोणे यजेत् ततः || श्रुतिश्चटीबीजे चोक्त्वा पूजयेदष्टनायिकाम् | उग्रचण्डां समाभाष्य तद्वीजद्वय पूर्विकाम् || अंबादि पादुकांतं च परे दत्वा यजत् सुधीः | उग्रचण्डं च चण्डं च चण्डोग्रां चण्डनायिकाम् || चण्डां चण्डवतीं चैव चण्डरूपां च चण्डिकाम् | वलिं च पूर्ववद् दद्याद् यजेत पूर्ववत् तु *? || ततः परं यजेद् विप्र सट्कोणे साधकाग्रणी | सखीबीजं डां डाकिन्यिम्बा पादुकां ततः परम् || पूर्वादौ पूजयेत् सर्वमेवं * मेण नारद | रां राकिनीं लां लाकिनीं कां काकिनीं ततः परम् || सां साकिनीं संपूज्य हां हाकिनीमतः परम् | पूर्ववद्धिवलिं दद्यात् पूजयेत् पूर्ववद्द्विज || पुनर्मध्ये पूजयेत् तु तन्मंत्रं शृणु नारद | सखीप्रांतरचट्यश्च मोक्षबीजं ततः परम् || ओडियानपीठाय पादुकां पदमेव च | अनेन मनुना विप्र वलिमेकं तु दापयेत् || सखीप्रांतरचटी च मोक्षबीजं द्विजोत्तम | जालंधरं पीठाय पादुकां तत एव हि || ७६अ) द्वितीयं वलौ मंत्रोयं ब्रह्मनन्दन मे शृणु | सखीबीजं प्रांतरं च चटीबीजं तथा परम् || कामरूपपीठाय पादुकां पूर्ववद्द्विज | तृतीयवलिदानेन मनुरयं प्रकीर्तितः || सिद्धिलक्ष्मी महादेवी मुपचारेण पूजयेत् | दान वाक्यमिदानीन्ते वक्ष्यामि शृणु नारद || दण्डान्तं पाद्यदाने होमांतमर्घ्यदानके | तथा चाचमनीयादौ स्वधां तं वाक्यमुच्चरेत् || प्रथमं मूलमुच्चार्य ततो देय वदेत्सुधीः | तदंते संप्रदानं च त्यागार्थक पदं ततः || प्रकल्पयेद् उपचारान् एव क्रमेण नारद | स्वस्वमंत्रेण तत उपचान्निवेदयेत् || सावित्रीञ्च ततो जप्त्वा मूलं रहस्य मालया | यथाशक्ति जपं कृत्वा गुह्यादिना समर्पयेत् || स्तोत्रेनानेन तदनु प्रणत्साधकाग्रणी | त्वं देवी विष्णुमाया प्रकृतिमय परा पार्वती || त्वं च स्वाहा सृष्टिस्थित्यंतहेतो सकलगुणमयी कारिणी धाणी त्वम् | संसारस्यैकसारा प्रणतभयहरा शंकरस्योत्तमांगे लीना शंखेन्दु कुण्डैर्द्धवलदशभुजां पंचवक्त्रां नमामि || प्रणमानेन तदनु संहारमुद्रया सुधीः | निर्माल्यमासनान्नित्वा ऐशान्यां भूमिमण्डले || त्रिकोणं विरचर्याथ निर्माल्य वासिनी यजेत् | निर्माल्य वासिनि मिष्ट्वा षडंगन्यासमाचरेत् || भूतशुद्धिं प्राणायामौ कुर्या ततः परं सुधीः | पादोदकं तु निर्माल्यं किंचित् स्वीकार्य नारद || विरहेदात्मसुखेन यथा स्थानं हि साधकः | इत्युक्त्वा ते नित्यपूजां सिद्धिलक्ष्म्या हि नारद || इदानीं किं शुश्रूषसेतन्मे कथय वै द्विज || इति नैललोहितीये श्रीकालानलतंत्रे नित्यार्च्चा कथनं नाम उनविंशतितमः पटलः || नारद उवाच भगवन् करुणानाथ दयाऽव्धे नीललोहि | त्वत्प्रसादात् सिद्धिलक्ष्म्याः श्रुतं सर्वमशेषतः || पूजाविधौ यदुक्तं ते उपचारा मयाग्रतः | * *? च स्व स्वमनवस्तानि मे विस्तराद् वद || श्रीनीललोहित उवाच साधु नारदधंन्योसि मनस्ते सम्यगीरितम् | सिद्धि प्रसंगेन यस्माद् भवति निश्चितम् || विस्तरेण प्रवक्ष्यामि सावधानेन चेतसा | समाकलयविप्रेन्द्र प्रीतोहं त्वयि सर्वदा || उपचाराण् प्रवक्ष्यामि तन्निबोधमयि द्विज | आसनं स्वागतं पाद्यं चार्घ्यमाचमनीयकम् || स्नानं वासोपवीतं च भूषणानि च शर्वशः | गधं पुष्पं तथा धूपं दीपमन्नं च दर्पणम् || माल्यानुलेपनं चैव नमस्कारविसर्जने | अष्टादशोपचारस्तु मंत्री पूजां समाचरेत् || तेषामभावे दातव्याः षोडशोपचारा द्विज | पाद्यमर्घ्यमाचमनं स्नानं वसनभूषणे || गंधपुष्पे धूपदीपौ नैवेद्याचमनं ततः | तांबूलमर्च्चनं स्तोत्रं तर्पणं च नमस्क्रिया || प्रयोजयेत् पूजा स्थाने उपचारास्तु षोडशः | एतदभावे कर्तव्या दशोपचारा नारद || पाद्यमर्घ्यं तथा चान्नं मधुपर्काचमनं तथा | ७७अ) गंधादयो नैवेद्यां ताज्ञेया दशोपचारिका || पंचोपचारपूजा च कर्तव्या यत्नतः द्विज | गंधादयो नैवेद्यांताः पूजापंचोपचारिकाः || दानमंत्रमिदानीन्ते वक्ष्यामि पद्मयोनिज | पृथक् पृथक् मनुः प्रोक्तः सर्वकर्मणि नारद || वस्त्रदानमनुमत्र गदतो मे निशामय | चटीरेतः सुखादानां युगं युग्ममनुः स्मरेत् || सिद्धिलक्ष्मी ततश्चोक्त्वा वस्त्रं गृह्न द्वयं स्मरेत् | तालहौमौ परं ज्ञयौ वस्त्रार्पणमनुर्वटो || अतः परं निबोधत्व कज्जलस्य मनुर्मम | श्रुतिर्दोग्धी युगं स्मृत्वा महाघोरतरे स्मरेत् || हिनियुग्मं कज्जपं च गृह्नद्वयं वदेत् ततः | कज्जलस्य दाने मनुर्होमांतोयं प्रकीर्तितः || सिंदूरं तदनु दद्यादनेनमनुना प्रिये | खेचरी भूचरी ऋक्षा कालसी कुलटा तथा || प्रत्तंगीधीवलीश्वेता किराटी वरटा तथा | श्वेतशवारूढे देवि सिद्धिलक्ष्मी पदं ततः || मम शत्रुरिति प्रोच्य स्तंभय युगलं वदेत् | विध्वंसय युगं चोक्त्वा ग्रहेभ्यः इति संस्मरेत् || शांतिं कुरु रक्षां कुरु परापरकूटं ततः | फडन्तोयं समाख्यातः सिंदूरार्पणको मनुः || पीठार्पण मनुमिमं शृणु मे ब्रह्मनन्दन संभव | वरुडी गारुडी वापि भगवती पदं ततः || सिद्धिलक्ष्मी * *? ततःश्चोक्त्वा उपवेशय युगं वदेत् | प्. ७७ब्) स्वाहांतोयं मनुर्ज्ञयः पीठार्पणे द्विजोत्तम || अलक्तकार्पणं मंत्रं प्रयत्नेनाशु मे शृणु | रेतसो युग्ममुच्चार्य नवकोटिपदं ततः || योगिनीति ततः पश्चात् नेन्तं परिवृता तथा | होमांतोयं मनुर्ज्ञेयोऽलक्तकार्पणे द्विज || धूपार्पणमनुं विप्र शृणुष्वतः परतो द्विज | ध्रुवाधवाचीधमनी धयंती धारणी तथा || इमं धूपमिति प्रोच्य घ्राणं गृह्नयुगं वदेत् | अग्न्यंगनां तोऽयमनुर्धूपार्पणविधौ शृणु || दीपमनुः सिद्धिलक्ष्म्या निबोधत्वमतः परम् | निर्विकारनिराधार निरीहास्तदनंतरम् || तिमिरासमिदं दीपं गृह्नयुग्मं वदेत् ततः | कूटं माहेश्वरं चैव फडन्तोयं मनुर्मतः || गंधदानेऽधुना मंत्रं शृणु नारदवत्सक | दर्दुरी दुर्मदादीर्घा दोग्ध्री दोला विहंगमी || गंधार्पणमनुश्चैव गृह्न गृह्न होमांतकः | पुष्पदानमंत्रमत्र निशामय द्विजोत्तम || श्रुतीवाणीचटीनां च युग्मयुग्मं क्रमेण च | पुष्पमेतत् सिद्धिलक्ष्म्यै निवेदयामि तत्परम् || निह्रादिनी पलिक्नी च मधुकाचित्रिनी तथा | प्रेतारूढे सिद्धिलक्ष्मी छत्रमिदं पदं ततः || तुभ्यं निवेदयामि च छत्रार्पणमनुर्मतः | श्रुतिदोग्ध्रीरेतसां च युगं युगं वदेत् सुधीः || भगवति सिद्धिलक्ष्मी ततोन्नं भक्षयद्वयम् | ७८अ) ग्रासद्वयं समाभाष्य समीहातालहोमकौ || मनुरयं कथितस्ते अन्नार्पणविधौ द्विज | शंखार्पणममुवक्ष्येतदिदानीं निशा मय || कुररीभासिता व्राता वेश्मरी सारसास्तथा | पूतं शंखमिमं गृह्न गृह्नस्वाहांतको मनुः || सामान्यभूषणदानमनुं वक्ष्येऽधुना द्विज | हंसकूटव्योमकूटौ चामराहैमनिन्दवः || अमुकभूषणं गृह्न सिद्धिलक्ष्मी नमः स्वाहा | मनुरं समाख्यातो भूषणदानकर्मणि || अनुक्तद्रव्यदानस्य मनुं वक्ष्ये शृणुष्व मे | श्रुतिचटी वाणीरेतः पशूनां युगयुग्मकम् || सिद्धिलक्ष्मीं भगवतीं नेतामुच्चार्यसाधकः | अमुकद्रव्यं प्रयछामि गृह्नयुग्मं स्वाहांतकः || सामान्यद्रव्य दानस्य मनुरुक्तस्त्वयि द्विज | द्रव्यदानस्थलं वक्ष्ये निबोधतः परं मम || गंधं पुष्पं भूषणं च संमुखे संनियोजयेत् | दक्षिणे प्रदीपो देयो वामे धूपस्तथा द्विज || नैवेद्यं दक्षिणे देशे पक्वं यत् तन् निवेदयेत् | अपक्वं वामभागे च दीपस्यातः परम् शृणु || घृतयुक्तञ्च यो दीपास्सतावर्तियतोपि वा | दक्षदेशे च तं दद्यादन्यत् तु वामदेशके || मध्यमानामिकांगुष्ठैरंगुल्यग्रेण नारद | दद्याच्च विमलं गंधं मूलमंत्रेणसाधकः || यथा गंधस्तथा विप्र धूपं दद्याद् विचक्षणः | मध्यमानामिकाभ्यां तु मध्यपर्वणिदेशिकः || ७८ब्) अंगुष्ठाग्रेण ब्रह्मर्षे धृत्वा धूपं निवेदयेत् | तत् तोलनं त्रिधा कृत्वा गायत्र्या मूलमंत्रतः || तत्वाख्य मुद्रया विप्र नैवेद्यं विनिवेदयेत् | मूलेनाचमनं दद्यात् तांबूलं तत्त्वमुद्रया || पुष्पं वा यदि वा पत्रं नेष्टं सर्वमधोमुखम् | तालेन न पूजितां घंटां वादयेन् गुग्गुलं दहेत् || इदानीं शृणु विप्रर्षे धूपनिरूपनं मम | गुग्गुलं शरलं दारुपत्रं मलयसंभवम् || ह्रीवेरमगुरुं कुष्ठं गुडं सर्जरसं घनम् | हरीतकीनखीलाक्ष्या जटामांसी स शैलजम् || षोडशांगं विदुर्धूपं दैवे पैत्रे च कर्मणि | मधुमुष्टं घृतं गंधो गुग्गुलुं गुरुशैलजम् || शरलं सिह्लसिद्धार्थं दशांगोधूप उच्यते | सिताज्यमधुसंमिश्रं गुग्गुलुं गुरुचन्दनम् || षडंगधूमे तत् तु सर्वदेव प्रियं सदा | गुग्गुल्वगुरूशीरं च शर्करामधुचन्दनैः || धूपयेद् आज्यसंमिश्रैर्नीचैद्दैवस्य देशिकः | इति ते कथितं विप्र प्रश्नोत्तरं मया तव | किमधुना प्रवक्ष्यामि तन्मे कथय नारद | इति नैललोहितीये श्रीकालानलतंत्रे उपचारकथनन्नामविंशतितमः पटलः || श्रीनारद उवाच नीललोहित हे नाथ गिरिजानन्दवर्द्धन | त्वत्प्रसादात् श्रुतं सर्वं सिद्धिलक्ष्म्यार्चनं मया || ७९अ) योक्ता रहस्यमाला च नीललोहिततां वद | कस्य कस्य भवेन्माला कस्यैव कामदा फलाः || सर्वं विंविच्य निगदभगवन् नीललोहित | श्रीनीललोहित उवाच शृणु वत्समहावाहो नारदब्रह्मनंदन | श्रद्धया तव विप्रर्षे प्रीतिर्मे जायते त्वयि || सर्वासामेव देवीनां मालां वक्ष्यामि तां शृणु | ततः पश्च्याच्च तासां तु संस्कारं पव्रवीमि ते || रुद्राक्षशंखपद्माक्ष पुत्रजीविकमौक्तिकैः | स्फाटिकैर्मणिरत्नैश्च सौवर्णैर्विद्रुमैस्तथा || रजतैः कुशमूलैश्च गृहस्थस्याक्षमालिका | अंगुलीगणनादेकं पर्वणाष्टगुणं स्मृतम् || पुत्रजीवैर्दशगुणं शतं शंखैः सहस्रकम् | प्रवालैर्मणिरत्नैश्च दशसहस्रकं स्मृतम् || तदेव स्फाटिकं प्रोक्तं मौक्तिकैर्लक्षमुच्यते | पद्माक्षैर्दशलक्षं स्यात् स्मैवर्णैः कोटिरुच्यते || कुशग्रंथ्या कोटिशतं रुद्राक्षैः स्याद् अनंतकम् | सर्वैर्विरचिता माला नृणां मुक्तिफलप्रदा || यस्या यस्याश्च या माला इदानीं शृणु तद् द्विज | भैरवीनां महं वक्ष्ये मालां सर्वसमृद्धिदाम् || सुवर्णरचितां मालां स्फाटिकीं शंखनिर्मिताम् | प्रवालैरेव वा कुर्यात् पुत्रजीवं विवर्जयेत् || ७९ब्) रुद्राक्षं चैव भद्राक्षं पद्मां च विशेषतः | त्रिपुराणामिदानीन्ते वक्ष्यामि पद्मयोनिज || रक्तचन्दनमाला तु भोगदा मोक्षदा भवेत् | त्रिपुरा या जपे सस्ता रुद्राक्षरक्तचन्दनैः || श्मशानैर्धूस्तुरैर्माला ज्ञेया धूमावती विधौ | महाशंखमयी माला तारा विद्या जपे द्विज || कर्णनेत्रांतरस्थास्थि महाशंखः प्रकीर्तितः | नवांगुल्यस्थिभिर्माला सिद्धिलक्ष्म्याः प्रकीर्तिताः || नाडीभिर्ग्रंथनं कार्यं मथवा रक्तवाससा | गोपनीया प्रयत्नेन जनन्याजारवद्द्विज || भेदेन कामनानाञ्च मालां वक्ष्यामि वै द्विज | पन्नाक्षैर्विहिता माला शत्रूणां नाशिनी मता || कुशग्रंथिमयी माला सर्वपापप्रणाशिनी | पुत्रजीवफलैः क्तृप्ता कुरुते पुत्रसंपदम् || निर्मितारूप्यमालाभिर्जपमालेप्सितप्रदा | प्रवालैर्विहिता मा प्रयछेत्पुष्करं धनम् || महाशंखाप्य भावे च स्फाटिकी मालया जपेत् | सिद्धिलक्ष्म्या जपे ज्ञया विधिरेष द्विजोत्तम || अन्योन्य समरूपाणि नातिस्थूलकृशानि वै | कीटादिभिरदुष्टानि नजीर्णानि नवानि वै || संख्याभेदेनाधुना ते फलं वक्ष्यामि नारद | पंचाशन्मणिभिर्माला विहिता सर्वकर्मसु || ःEऋE ईष् आḻष्O आ ङाPE ८०अ) * * * * * * * * * * * * * कर्मसु || अकारादिक्षकारांता अक्षमाला प्रकीर्त्तिता | क्षांतं मेरुमुखं तंत्रकल्पयेन्मुनिसत्तम || अनया सर्वमंत्राणां जपः सर्वसमृद्धिदः | नित्यं जपं करे कुर्यान् नतु काम्यमवोधनात् || काम्यमपिकरे कुर्यान् मालाभावे तथा द्विज | प्रसंगादक्षसूत्राणां विधानमिहचोच्यते || अष्टोत्तरशतैः सर्वसिद्धिरुक्तामनीषिभिः | पंचाशद्भिः काम्यसिद्धिः स्यात् तथा चतुरुत्तरैः || सर्वथाः सप्तविंशत्या पंचादस्याभिचारके | पञ्चविंशतिभिर्मोक्षं त्रिंशद्भिर्धनसिद्धये || शिल्पिनं तोषयित्वा च मालां कुर्याद्विचक्षणः | सूत्रं चापि चतुर्थेह्नि क्षालयेत्तालवारिणा || समानवर्णसूत्रेषु ग्रंथयेत् श्रुतिमंत्रकैः | व्रह्मग्रन्थिं ततो दद्यान्नागपाशमथाऽपि वा || वध्नीयाद्दोग्ध्री वीजेन द्विसूत्रेणमेरुं चरेत् | ग्रंथयेत् श्रुति वीजेन प्रतिष्ठामाचरेत् ततः || सूत्रविधिमतो वक्ष्ये निवोधत्वं द्विजर्षभ | कार्पासधर्मकर्मादि साधनं सर्वसिद्धिदम् || तत् तु विप्रेन्द्रकन्याभिर्न्निर्मितं च सुसोभनम् | शुक्लं कृष्णं तथा रक्तं पट्टसूत्रमथापि वा || शान्तिवश्याभिचारेषु मोक्षैश्वर्यजयेषु च | शुक्लं रक्तं तथा पीतं कृष्णं वर्णेषु च क्रमात् || सर्वेषामेव वर्णानां रक्तं सर्वेप्सितप्रदम् | त्रिगुणं त्रिगुणी कृत्य ग्रथयेत् शिल्पशास्त्रतः || मुखे मुखं तु संयोज्य पुछेपुछं तु योजयेत् | गोपुछसदृशीमाला यद् वा सर्पाकृतिर्भवेत् || ८०ब्) एवं निर्माय वै मालां प्रतिष्ठामाचरेद्वुधः | अप्रतिष्ठिताभिर्मालाभिर्मंत्रं जपति यो नरः || सर्वं तन्निष्फलं विंद्यात् क्रुद्धा भवति देवता | अश्वत्थपत्रनवकैः पद्माकारं तु कारयेत् || तन्मध्ये स्थापयेन् मालां मातृका मूलमुच्चरन् | क्षालयेत् पंचगव्येन सद्योजातेन तज्जलैः || सद्योजातेनमनुना क्षालयेद्वारिभिर्द्विज | चन्दनागुरुगंधाद्यैर्वामदेवेन घर्षयेत् || धूपयेत् तामघोरेण तत्पुरुषेण लेपयेत् | मंत्रयेत्पंचमे नैव प्रत्येकं तु शतं शतम् || पंचमे नैव सूक्तेन शतान्यूनेन मंत्रयेत् | तत्रावाह्य यजेद्देवीं ततो विभवविस्तरैः || संस्कृत्यैवं वुधो मालां तत् प्राणास्तत्र स्थापयेत् | वाणीवीजं प्रांतर च अक्षादिमालिकां ततः || नेन्नाच्च दण्डवर्णान्ता मंत्रेणानेन पूजयेत् | होमकर्म ततः कुर्याद् देवता भावसिद्धये || अष्टोत्तरशतं हुत्वा संपाताज्यं विनिक्षिपेत् | होमकर्मण्यशक्तश्चेद् द्विगुणं जपमाचरेत् || नान्यमंत्रं जपेन्मंत्री कंपयेन्नविधूनयेत् | कंपनात् सिद्धिहानिः स्याद् धूननं वहुदुःखदम् || शव्दे जाते भवेद् रोगः करभ्रष्टो विनाशकृंत् | छिन्ने सूत्रे भवेन् मृत्युस्तस्माद् यत्नपरो भवेत् || त्वं माले इति मंत्रेण प्रपूज्यसाधकाग्रणी | गोपयेद्यत्नतो विप्रमालां परममुक्तिदाम् || ८१अ) जीर्णे सूत्रे पुनः सूत्रं ग्रथयित्वा पुनर्जपेत् | प्रमादात्पतिते हस्ता छतमष्टोत्तरं जपेत् || जपेन्निषिद्धसंस्पर्शे क्षालयित्वा यथोचितम् | इति ते कथितं सर्वं सिद्धिलक्ष्म्यार्चनोचितम् || सर्वेषामेव मनुनामेक एव पूजाविधिः | षोडश्याः पूजने ध्यानभेदमात्रं शृणु द्विज || ५० || महातेजोमयी लक्ष्मी रश्मिकोट्ययुतप्रभा | पंचवक्त्रा दशभुजा त्रिपंचनयनैर्युता || श्वेतवर्णनिभा देवी महाप्रेतोपरि स्थिता | मातृकाष्टकममध्यस्था सिद्धियोगिनिसेविता || दासितास्या लेलिहाना ज्वालालुप्तजगत्रयी | उछ्वासोछ्वासवेगेन चालयन् कुलपर्वतान् || क्वचिद्देशे क्वचित्कूटे क्वचित्संहरते क्षणात् | क्वचित्सृजेत्यालयेच्च स्वतंत्राद् वा प्रवर्त्तते || गोनासाभरणैर्युक्ता उरगेन्द्रविभूषिता | पाशांकुशधरा देवी नरा भयकरांवुजा || सव्यहस्ते धृतं खड्गं त्रैलोक्यक्ष्योभकारिकम् | वामे खट्वान्गमृत्युग्रं दक्षिणे शूलमुत्तमम् || वामे तु कलशं दिव्यं महारत्नप्रपूरितम् | एषा प्रत्यंगिरा देवी उन्मना व्योमदेहजा || एकात्मानेकभेदे मविश्वं व्याप्यव्यवस्थिता | ८१ब्) प्रत्यंगिरा महादेवी सिद्धिलक्ष्मीर्जयप्रदा || एतत् ते ध्यानमुक्तं च मंत्रन्यासं निशामय | सोडश्या हि मुनिश्रेष्ठमंत्रन्यासस्थलं मम || व्रह्मरंध्रे ललाटे च नेत्रेश्रवणयुगले | घ्राणे ओष्ठे तथा दंतौर्द्वेजिह्वायां ततो द्विज || चिवुके पृष्ठदेशे च सर्वांगे हृदये ततः | स्तनौ कुक्षौ च लिंगे च षोदशार्णान् न्यसेत् सुधीः || ६० || इति भेदस्तव स्थाने विहितो नारदद्विज | इदानीं किमिहश्रोतुमिछा ते वर्त्तते मुने || तन्निगदमहाविप्रशंका वर्ज्जितमानसः | इति नैललोहितीये श्रीकालानलतंत्रे मालाविधान कथनं नामैकविंशतितमः पटलः || नारद उवाच जगदाधारसर्वज्ञ करुणांभोनिधे शिव | त्वत् प्रसादात् श्रुतं सर्वं सिद्धिलक्ष्म्याविधानकम् || पौरश्चरणिकां विधिं न श्रुतो मेदयामय | श्रीनीललोहित उवाच यथा कामकला काली गुह्यकाली तथा द्विज | यथा छिन्ना यथा तारा वज्रकापालिनी यथा || सिद्धिलक्ष्मीः तथा देवी विशेषोनास्ति कश्चन | एकैव हि पूजा ज्ञेया प्रयोगाश्च तथा द्विज || अत्रानुक्तं यत् किंचित् संहितायाञ्च तद् विदुः | ग्रन्थ गौरवभीत्या च नोक्तमत्यत्त्वयिद्विज || ८२अ) संक्षेपेन सिद्धिलक्ष्म्यास्त्वयि सर्वं प्रतिष्ठितम् || विस्तृतं च महाकाल संहितायां द्विजोत्तम || जपः पुरपुरश्चरणञ्च आचारश्चापि नारद | महाकालसंहितायां कामकलान्यासप्रकीर्तितम् || तेनैव वर्त्मना विप्र सिद्धिलक्ष्म्याऽखिलं विदुः | पुनरुक्तभये नैव न निगद्यते नारद || नारद उवाच पुनरुक्तभया छम्भो यदि तन्नोच्यतेऽधुना | षट्कालीवत्सिद्धिलक्ष्मीर्न्निगद्यते मयित्वया || अयुताक्षरमंत्रस्य समुद्धारं तदा वद | अयुताक्षरमंत्रो मे श्रोतव्यो नीललोहिता || कुतस्ते वासना चात्र नीललोहित हे प्रभो | श्रीनीललोहित उवाच पूजाध्यानादिकं सर्वं पूर्ववच्च विजानि हि | यंत्रं न्यासादिकं सर्वं पुरैव कथितं त्वयि || इदानीमयुताक्षर्ययाः समुद्धारं निशामय | प्रत्यंगिरा सिद्धिलक्ष्यमाः मंत्रोयं कल्पपादपः || यस्य स्मरणमात्रेण ना साध्यं वर्त्तते क्वचित् | सर्वपापप्रशमनः सर्वाभीष्टफलप्रदः || मंत्राणां मंत्रराजोऽयं गोष्ठसर्वागमेषु च | ८२ब्) स्वजनेभ्यो न देयः स्यात् तथा सहोदरादिषु || यदि भाग्यवशे नैव सोदराल्लभ्यते ह्ययम् | गुरुचिंतामविचार्य गृह्नीयाद् धृष्ट तत्परः || नात्र गुर्वादिचिन्तास्ति न चाधिकरणं तथा | न कालनियमोस्त्यत्र नशौचादिकचिन्तनम् || वहुभाग्यवशे नैव लभ्यन्ते मंत्रराट् नरैः | गुरुर्ददाति मंत्रे मं वहुभाग्येन नारद || राज्यार्थीराज्यकामेन प्रजपेत युताक्षरम् | मोक्षार्थीमोक्षकामैस्तु धनार्थीधनकामतः || तव स्नेहेन वक्ष्यामि शृणुष्व पद्मयोनिज | अतः परं निवोधत्वं सावधानेन चेतसा || प्रवक्ष्येहं समुद्धारं दत्तवित्तो तवाऽधुना | श्रुतिः चटी तथा दोग्ध्री शोषिणी शिरसस्तथा || दोःला शृणि तथा दण्डी वेदादिश्च पुनश्चटी | समीहाशोषिणी शिरादोलांकुशहृदस्तथा || वेदशिरश्चटीदोग्ध्री शोषिणी शिरसः पुनः | श्रुतितत् सदित्येवं चत्वारत्रयं वदेन्मुने || भरद्वाद ऋषिश्चात्र गायत्र्युष्णिगनुष्टुपः | वृहतीपन्क्तितृष्टुव्जगत्यति जगत्यपि || शर्कर्यति शर्करी प्रकृत्युत्कृतयस्तहा | एषां छंदांसि ज्ञेयानि सिद्धिलक्ष्मीश्च देवता || ८३अ) शिरावीजं सखीशक्तिरंकुशं कीलकं तथा | भुक्तिमुक्ति सिद्धिकामो जपेत् साधकसत्तमः || अतः परमनोर्विप्र समुद्धारं निशामय | ऐं ओं ह्रीं हूं ह्रें वाणी श्रुती चटी दोग्ध्री शिरसश्चैव नारद || भगवति वदेच्चण्ड कापालिनि ततः परम् | सिद्धिलक्ष्मिप्रत्यंगिरे संवोधनपदद्वयम् || दोलांकुशः रेतसश्च प्रांतरः सुखदा ततः | रक्तमुखिघोराट्टहासिनि च भीमनादिनि || प्रणतार्त्तिहारिणि च वरदाप्रोथ एव च | प्रवंधक्षुपपीयूषं श्मशानवासिनि ततः || हिमकिरणशुभ्रशरीरे तदनन्तरे | भक्तजनतारिणि च शिवः सखीताली ततः || पानीयमेधिश्च ततः परमेति वदेत् ततः | सदाशिवसामरस्य चारिणि तदनंतरम् || कात्यायिनि ततः पश्च्यात् कापालिनि ततः परम् | महायोगिनी ततः कुन्द चन्द्राधिकेत्यपि || धवल महारुद्ररूपशवाधिरूढे ततः | मानूरक्षपनौ चैव अमरामृतरुण्डिका || ततः सकलसुराऽसुरनरकिन्नर तत्परम् | मनोनुरंजिनि ततो दैत्यदानवदर्पेति || भंजिनि च ततः पश्च्यात् पंचधारिणी च | ततो नरमुण्डमालाधिरिणि संवोधनं पदम् || ८३ब्) ततश्चतुर्वर्गफलदायिनि तदनंतरम् | चर्चरीकरतालिका गायिनी च तथा परम् || जुहूचटीघारी चैव निकृतीरंकुतिस्तथा | चण्डचण्डातितरमहाविकटघोररावे || ततस्त्रिविधमहातत्व विद्याप्रकाशिनी | चतुर्दशभुवनेति संत्रासकारकेति च || ततो महाहासिनिपदं संवोधनस्य च | ड्रीं थ्रीं द्रीं ध्रीं न्रीं कारं तदनंतरम् || त्रैलोक्याभयशौण्डभुजदण्डदशकेति च | मण्डिते परमैश्वर्य करणभूते तत्परम् || ततो भूतेश्वरवामलोचने तदनंतरम् | ततश्च लोचनत्रयविराजिते पदं मुने || वायी चैवा शिवा चैव सखीवीजमतः परम् | ताली च पाली वीजञ्च हि मकुन्दधवलेत्यपि || कलेवरे पदं चोक्त्वा अपि महानीलेत्यपि | ततश्च नीरदप्रभे प्रत्यंगिरापदं ततः || शक्तितत्वावरे च प्रचण्डचण्डिनि पदम् | महाभयानके ततः प्रलम्वलंविनि ततः || चर्च्चरी करतालिका समरसंत्रासितेत्यपि | त्रिभुवने पदं चोक्त्वा नानाजन्मेति नारद || उपचितपापेत्युक्त्वा संचयकारणेति च | ततो महानरकार्णवतारिणि ततः परम् || चटीदोग्ध्री शिरादोला अंकुशं तदनंतरम् | राज्यलक्ष्मि च विजयलक्ष्मि संवोधनं पदम् || ८४अ) महालक्ष्मि धनलक्ष्मि सिद्धिलक्ष्मि जयद्वयम् | जीवद्वयं कहद्वयं स्फुरद्वयं ततः परम् || ततः सकलशत्रु प्रमर्दिनि महामुने | महामाये पदं चोक्त्वा चटीदोग्ध्री शिरस्तथा || ततस्तारं परशिवसामरस्यमयि पदम् | महाभीमे चटीदोग्ध्री शिरसस्तालमेव च || ततश्च महाश्मशानसंचारिणिपदं ततः | महाभागे चटीदोग्ध्री शिरसस्तालमेव च || महादारिद्र्यदुःखदलिनि तदनंतरम् | महाहासे चटीदोग्ध्री शिरस्तालं तथैव च || ततश्चतुर्वर्गफलदायिनि वदेत् ततः | महाघोरे चटीदोग्ध्री शिवस्तारं च पूर्ववत् || ततश्चतुर्वर्गफलदायिनि तदनंतरम् | महाचण्डे ततः पूर्ववीजानि चोद्धरेन्मुने || ततो महाजटाभार भासुरे पदमेव च | महाग्रासे ततो विप्रचतुर्वीजं समाहरेत् || सकलकुलाकुलचक्रनायिके तदनंतरम् | महादये चटीदोग्ध्री शिरसस्तारमेव च || शुद्धसत्वगुणमयशरीरे तदनंतरम् | महाविद्ये चटीदोग्ध्री शिरोस्त्रं व्रह्मनन्दन || ततः संसारवंधविमोचने ततः परम् | कलातीते चटीदोग्ध्री शिवस्तारं मुने शृणु || ततः पंचकालानलकृता वासे पदं ततः | महाप्रकाशे चेटीत्रसमीहा च शिरस्तथा || तालं महादोर्दण्डमण्डलमण्डिते पदम् | ८४ब्) रुद्रवासे चटीदोग्ध्री शिरंस्तालं ततः परम् || चतुर्दशभुवनत्राणप्रदे ततः परम् | महावले पदं चोक्त्वा चतुर्वीजं वदेत् ततः || ततो ज्वलदग्निमुखघोराकारे महाव्रते | चटीदोग्ध्री शिवस्तालं पद्मयोनि तथा शृणु || ततोदितिजदनुजप्रमर्दिनि ततः परम् | महाकल्पे चटीदोग्ध्री शिवः फट्कारमेव च || सत्ययुगप्रकटितप्रभावे तदनंतरम् | ततो महानर्तकि च चटीदोग्ध्री तथैव च || शिरस्तालं ततो रुद्रपर्यंकशयिनि ततः | समरविजयिनि च परव्रह्मलयिनि च || श्रुतिर्दोलांकुशदण्डास्ततः परशिवेति च | सहचारिणीपदं चोक्त्वा नरमुमाला ततः || भाविनि च मनोरथसिद्धिकारि तत्परम् | श्रुतिदोलांकुशदण्डाः शं *? कर्पूरेति ततः || गोक्षीरविशदे चोक्त्वा हिमशुभ्रेति संवदेत् | ततो दीर्घनिशिता भुग्नवदे पदं स्मरेत् || व्रह्मविष्णुशिवा देवा विदितपदे ततः | तालदोलासृणिहृदः सकलजगन्मन्गलेति || प्रदायिनि विविधसकलेति पदं ततः | ऐश्वर्याधायिनि ततो नारद हे शृणुष्व मे || ततः शवाकारनिजवल्लभांगशायिनि च | श्रुतिदोलांकुशदण्डा नवकोटिपदं ततः || ८५अ) ततो मंत्रमय विग्रहे संवोधनं पदम् | ततश्च कृत सकलदैत्यनिग्रहे तत्परम् || विस्तारितात्मभक्तानुग्रहे संवोधनं ततः | श्रुति दोलांकुशदण्डाश्चन्द्रसूर्याग्निलोचने || ततः संसारवंधमोचने तदनंतरम् | ततो निखिलागमप्ररोचने ततः परम् || वेद शिरोदोला चैव सृणिदण्डौ च नारद | महाघोरतरकां तारविहितवासे ततः || त्रिभुवनभयजनकारणहासे ततः परम् | परशिवसामरस्य सविनाशे ततः परम् || ततः श्रुतिदोला चैव अंकुशं दण्ड एव च | ततो वेदवेदान्तप्रसिद्धानुभावे ततः || समध्यासित महादारे पदं ततः परम् | संत्रासदायक महाभीमरावे पदं मुने || श्रुतिदोलांकुशदण्डा तत् प्रतिस्थापनेत्यपि | संहारकल्पना दक्षे समुन्मूलितविंपक्षे || प्रकल्पितभक्तजनरक्षितारं दोलांकुशौ | दण्डस्ततोऽनतिदीर्घखर्वपीवरि तत्परम् || ततः प्रलयकालजलधिरवि तथा परम् | महाश्मशान वसते नचीवरि तथा मुने || श्रुति दोलांकुशदण्डा व्याघ्रचर्मावृतेत्यपि | कटिमहाप्रलयकालनटिपदं ततः || ततः सप्तार्णवैकता समरभटि तथा पुनः | तारदोलांकुशदण्डा जयद्वंद्वं ततः परम् || महायोगेश्वरि ततो योगसंभवे तथा परम् | ८५ब्) योगगम्ययोगातीते योगरूपे पदं ततः || सिद्धि भूश्चरेता सुखदा होमाजययुगं ततः | महाज्वालेश्वरि ततो ज्वाला संभवे तत्परम् || ज्ञानागम्य ज्ञानातीते ज्ञानरूपे ततः परम् | सिद्धिभूश्चरेताश्चैव सुखदा होम एव च || जयद्वयं महातंत्रेश्वरि संवोधनं पदम् | मंत्रसंभवे मंत्रगम्ये मंत्रातीते मंत्ररूपे || सिद्धिभूरेतः सुखदा होमाजययुगं ततः | महासिद्धेश्वरिपदं सिद्धि संभवे ततः परम् || सिद्धिगम्ये सिद्धातीते सिद्धिरूपे ततः परम् | सिद्ध्यादिश्च समाभाष्य जययुग्मं वदेत् ततः || महाधर्मेश्वरिपदं धर्मसंभवे पदं ततः | धर्मगम्ये धर्मातीते धर्मरूपे तथैव च || पूर्ववीजानि चोच्चार्य जययुग्मं समाहरेत् | महाकामेश्वरिपदं कामसंभवे तत्परम् || कामगम्ये कामातीते कामरूपे ततः परम् | सिद्धिर्व्वादीन् समाभाष्य जययुग्मं समाहरेत् || महामोक्षेश्वरीपदं मोक्षसंभवे तत्परम् | मोक्षगम्ये मोक्षातीते मोक्षरूपे ततः परम् || सिद्धिर्व्वादीन् समाभाष्य जययुग्मं वदेन्मुने | ततो निर्वाणेश्वरिपदं विजानि हि * * * || ८६अ) निर्वाणसंभवे ततो निर्वाणगम्ये ततः परम् | निर्वाणातीते पदामंत्रे निर्वाणरूपे तत्परम् || कैवल्यसंभवे ततः कैवल्यगम्ये च नारद | कैवल्यातीते ततः कैवल्यरूपे तत्परम् || सिद्धिभूरेतः सुखदा होमास्तारं चटी ततः | दोग्ध्री च शोषिणी चैव शिरो दोलांकुशं तथा || जययुग्मं जीवयुग्मं त्रिशूलिनी वदेत् ततः | महावलिनि संप्रोच्य जगत्कवलिनि तदा || दोग्ध्रीतालं तथा दण्डस्तथा च वह्निवल्लभा | श्रुतिश्चती समीहा च शोषिणी शिरसीत्यपि || दोलांकुशं जययुगं जीवयुग्मं ततः परम् | गुणातीत परम सदाशिवमोहिनि तत्परम् || ततोऽपवर्गरसदोहिनि संवोधनपदम् | ततः शुद्धसत्वगुणचैतन्यानन्दरोहिणि || दोग्ध्रीतालं नमः स्वाहा प्रणवश्चचटी ततः | समीहाशोषिणिशिरा दोलांकुशजयद्वयम् || जीवद्वयं महानागराजभूषितपदात्परम् | दशभुजदण्डे पदं चण्डचण्डातितरेत्यपि || करवारविनिकृत्तसकलेति पदात् ततः | दैत्यपदानवशरीरखण्डे संवोधनं पदम् || निरंतराकृष्टकठोरवाणकोदण्डपदम् | दोग्ध्रीतालदण्डहोमौ तारं चटी ततः परम् || ८६ब्) ससंहो शोषिणी शिवो दोलांकुशं जयद्वयम् | जीवद्वयं मनोविषयि रागगोचरे ततः परम् || त्रिगुणमय सर्वकलेवरे ततः परम् | व्याघ्रचर्माम्वरे तदा समीहातालमेव च || दण्डहोमौ श्रुतिचटीदोग्ध्री च शोषिणी तथा | शिरोदोलांकुशं चैव जयजीवद्वयं द्वयम् || ततः प्रचलतरजटाभारभासुरेपि च | हिमकुन्दचन्द्रघनसारकंवुमेदुरे च || जराजन्मसंसारपाशभिदुरे ततः | दोग्ध्रीतालं दण्डहोमौ तारमाया क्रोधास्तथा || शोषिणी शिरसीदोला सृणिर्जयद्वयं तथा | जीवद्वयं च विप्रर्षे गुह्याति परमेति च || गुह्या परापरशिवशक्ति तत्वगूढे ततः | आनन्दानुभव स्वप्रकाशपदरूढे ततः || सामरस्य विलासपर्यंकसमूढे तत्परम् | दोग्ध्रीतालं दण्डहोमौ तारमाया क्रोधास्तथा || शोषिणी शिरसीदोला अंकुशं जययुग्मकम् | जीवयुग्मं प्रकृतिपुरुषाती तनिः || श्रेयसाक्षिणो त्रिलोकीरक्षणि तदा दैत्यदानवभक्षिणि | दोग्ध्रीतालं दण्डहोमौ वेदादिश्चटी तथा || समीहाशोषिणीशिरोदोलांकुशं जयद्वयम् | जीवद्वयं निखिलकौलमतचक्रप्रवर्तिनी || समस्तदैत्यदानवराक्षसभयकर्त्तिणि | प्. ८७अ) क्षीरोदार्णवोद्भूतं सुधादेवी पदात्परम् || विशेषरसपायिनि त्रिलोकीजठरेत्यपि | उत्पन्नसत्वमात्रवंधनकारिणि मायिनि || महामारी परचक्रदुर्भिक्षेति वदेत् ततः | महोत्पात साध्व सविवर्तिनि ततः परम् || दोग्ध्रीतालं दण्डीहोमस्तारवंत्रपा क्रोधौ तथा |(?) जययुग्मं जीवयुगं विविधेति वदेत् ततः || ततो दिव्यास्त्रसंधान पारगं मे पदं मु * | षडाम्नायमंत्रमयं पंजरविहंग मे || समस्तशरीरभूषणी कृताष्टभुजंग मे | दोग्ध्रीतालं दण्डहोमौ तारत्रपाक्रोधा अपि || शोषिणी शिरसी चैव दोलांकुशं जयद्वयम् | जीवद्वयं प्रपंचातीतनिष्कलेति संवदेत् || तुरीयाकारे ततश्चैव अखण्डानन्दपरेत्यपि | मात्मवोधाऽमृतविधारे शृणुष्व नारदमुने || निगमागमतत्वसारे दोग्ध्रीतालं च नारद | दण्डहोमौ श्रुति चटीदोग्ध्री च शोषिणी तथा || शिरो दोलांकुशं चैव जयजीवद्वयं द्वयम् | महाखेचरी प्रभृति सिद्ध्यष्टकप्रदायिनि || दोग्ध्रीतालो दण्डहोमौ श्रुतिश्चटी तथैव च | समीहा शोषिणि शिरो दोलांकुशं जयद्वयम् || व्रह्मविष्णुशिवाराधनीयचरणकमले | नृमुण्डावली भूषितगले संवोधनं पदम् || निखिलसुरासुररासज्य महावले ततः परम् | दोग्ध्रीतालं नमः स्वाहा जययुग्ममहामुने || ८७ब्) सत्ययुगे प्रत्यंगिरे जयद्वंद्वं तत स्मृतम् | त्रेतायुगे सिद्धिलक्ष्मी जयद्वयमतः परम् || द्वापरयुगे राजलक्ष्मि जयद्वंदं परे स्मृतम् | कलियुगे चण्डकापालिनि तत्परमेव च || श्रुतिवाणी वलदा च मेधिनक्रौ ततः परम् | भगवतिपदाच्चैव प्रसीद युगलं वदेत् || ज्वलयुग्मं प्रज्वलयुगं स्फुरयुग्मं ततः परम् | प्रस्फुरयुगलं चापि चटद्वयं ततः स्मृतम् || प्रचटयुगलं चापि गायहसयुगं युगम् | नृत्ययुगं कहयुगं कि *? युगं ततः परम् || त्वरधावयुगं चैव युगं दोग्ध्री शिवस्तथा | दोलांकुशं चटी चैव व्योमकेशिपदं ततः || विद्युत्केशि पिंगकेशि फट् स्वाहा हुं तत परम् | शिरो दोलांकुशचट्यौ भगमालिनि तत्परम् || भगप्रदे भगप्रिये तालहोमौ दोग्ध्री ततः | शिरोदोलांकुशचट्यौ मदनोन्मादिनि ततः || शवमांसखादिनि व्रह्मसंवादिनि ततः | फट् स्वहा हुं शिरश्चैव दोलांकुशं चटी तथा || नरकपालमालाभरणे पदमेव च | संसारसागरतरणे पदमेव च || त्रिभुवननन्दिनचरणे फट् स्वाहा ततः | दोग्ध्री शिरो दोलांकुशं चटी व मदग्निमुखि || ततः कोटि कोटि फेरुपरिवृते ततः परम् | ८८अ) करतालिका त्रासितत्रिपिष्टये महामुने || महासंवर्त्तकाली ननृत्यप्रसारितेत्यपि | पादाघातपरिवर्तितसप्तद्वीपे तत्परम् || तालहोमौ चटीदोग्ध्री शिरो दोलांकुशस्तथा | चटीचरणविन्यासा व नम्रीकृत पदादनु || कमठशेषभोगे च संवोधनपदादनु | अध्यासितसमस्तभूतांतः करणे तथा || निगमागमेति हासपुराणगोचरतत्त्व | फट् स्वाहा हुं प्रेंकारं च दोलांदांकुशं चटीं तथा || भक्तजनहृदयसंतापनिवारिणिपदम् | दुःखत्रयातिभूतजंगमा जंगमेति च || तत्परं सकलसत्वतारिणि तदनंतरम् | देवाधिदेवहृदयारविन्द प्रकाशनेत्यपि || सिद्धिं कृत्वा ततो विप्र एकमार्त्तण्डमण्डले | तालहोमौ श्रुतिर्वाणी चटीसिद्धिभुवस्तथा || प्रांतररेतो सुखदा समीहास्तदनंतरम् | प्रवंधशोषिणी दोला सृणिशिरः सखी तथा || सकलदैत्यदानवासुर यक्षराक्षसेत्यपि | भूतप्रेतपिशाचेति कुष्माण्डडाकिनी पदः || ततः शाकिनीपदं च स्कन्दविनायकेत्यपि | द्योणकक्षेत्रपालवेतालपदमेव च || व्रह्मराक्षसगुह्यगंधर्वपदमेव च | ८८ब्) सर्पनागग्रहनक्षत्रभूतोन्मादेति संवदेत् || त्रिविधोत्पातचौराग्नि वन्या स्वापदपदं ततः | युद्धवज्रोपनाशिनि मेघविद्युत्पातेत्यपि || वर्षविषोपविषकृत्याभिचारेति ततः | छलकपटदुर्भिक्षनगरभंगपदं ततः || देशो पद्रवस्तंभनमोहनपदं ततः | वशीकरणद्वेषोच्चाटनापदमतः परम् || ततो वेशनदनदी समुद्धावर्तपदञ्च | कान्तारवात्पादहनोकृमि कीटपतंगेति || स्थलज जलजपदात् शूकपदपदं ततः | द्विपदचतुष्पदषट्पादाष्टपदेति च || अनेकपदघोरां धकारेति तदनुस्मरेत् | माहामारीवालग्रहहिंसकसर्वपदं ततः || स्वापहारिमाया विदुर्ज्जनाक्षेपि तत्परम् | देविदस्युवञ्चकादि वाचरपदं ततः || रात्रिञ्चरसंध्याचर शृंगीस्वपदं ततः | दंष्टिलेदिविविधोपद्रवे भ्योमां ततः || रक्षयुगं पाहियुगं पालययुगलं ततः | समुद्धरयुगं प्रोच्य अभयद्वयं ततः || प्रसीदद्वयं अनुकंपययुगं ततश्च नारद | शत्रून् जहियुगलं उन्मूलयुगं ततः || छिन्दि छिन्दि युगं युगं मारययुगलं ततः | नाशययुगलं चापि हनद्वयं महामुने || ८९अ) उच्चाटययुगं चापि स्तंभययुगलं ततः | मथद्वयं विध्वंशययुगलं परिकीर्तितम् || त्रुटयुग्मं शोषय विद्रावययुगं युगम् | त्रासय द्वंदं मोहय द्वंदं विद्रावयद्वयं ततः || स्फोटययुगं जृंभययुगं हरयुग्मं तथैव च | विक्षोभययुगं चापि मर्दययुगलं ततः || दमयुग्मं तुरुयुग्मं हिलियुग्मं किनिद्वयम् | हनयुगं भक्षययुगं कृंतययुगलं ततः || संचूर्णययुगलं विप्रपिषयुग्मं तथा परम् | चोरययुगलं चापि भंजयुग्मं तथैव च || भस्मीकुरु द्वयं चैव आकर्षयद्वयम् तथा | पातययुगं कंपययुगं उद्वेजययुगं ततः || आवेशययुगं चापि उन्मादययुगं तथा | ओं मयग्युगं देव लुनी हि युगं ततः || आस्कन्दययुगं चापि मुंचद्वंद्वं ततः परम् | लुञ्चयुगं पिवयुगं जारय स्था * *? तथा || स्वकपाले व्लौं वीजं भगवति ग्लौं च तथा | महाप्रचण्डिनि तथा क्षौंकारं च विदारिणि || त्रीं मुण्डमालिनिचर्वाकं तदनंतरम् | महाग्रासे ततः पश्च्यान्मालतीवीजमेव च || तदनु पार्वतिपदमुक्ता वीजन्ततः परम् | महाभूतिनितदनु सन्नद्धवीजमेव च || ८९ब्) भुजंगकिन्किनीके च कवंधवीजं ततः परम् | पातालवासिनि तदा नववीजांतश्चारिणि || कोकमुखिदोग्ध्री वीजं रक्ततुण्डि ततः परम् | दोग्ध्रीरुद्राधारे चैव दोग्ध्री ऋक्षकर्णि ततः || हुं जारि तदनुविद्युद्धासे ततः परम् | हुं चन्द्रभाले तदनु शवरि ततः परम् || किरातिपदं संभाष्य हुं कुणपाशिनि ततः | हुं क्षीरोदार्णवप्रिये हुं सामरस्य लोलुपे || हुं कैलाससंचारिणि हुं भक्तकल्पलतिके | मनोरथप्रदे च हुं सिद्धाष्टकविधायिनि || हुं राज्यैश्वर्यदायिनि राजराजेश्वरि ततः | हुं विद्युत्कटाक्षे हुं सुधासमुद्रमग्ने || हुं मणिधरिवज्रिनि हुं महाडामरिपदम् | हुं भक्तिसेवा पूरणे हूं चतुर्वर्गफलप्रदे || दोग्ध्रीवीजं ततस्तारं ततोऽद्वैते मुक्तिपदम् | देहि स्वाहा ततस्तारं अगोचरे पदं ततः || सिद्धिदापय स्वाहा तारं तुरीयातीते पदम् | स्वपदं दर्शय स्वाहा ततस्तारं महामुने || चिदानन्दस्वरूपे ततो ज्ञानं मयि विधेहि स्वाहा | ओं नादविन्दुस्वरूपे च योगं प्रकटयस्वाहा || ओं चैतन्य मयाकारे सर्वज्ञतां प्रकल्पय | होमश्रुतीमंत्रमयविग्रहे पदमेव च || शिवशक्तिसामरस्य विभावय स्वाहा | ओं ज्ञानदीपकलिके अज्ञानतिमिरं पदम् || ९०अ) अपनय ततः स्वाहा वेदशिरस्ततः परम् | शव्दव्रह्ममयि तदा सर्वविद्यांमयि ततः || अवस्थापय ततः स्वाहा श्रुतिवीजं च नारद | ततः संसारदावाग्नि रूपेदं ततः पदम् || जन्ममृत्युं अपनय स्वाहा | ओं भक्तवत्सले | दुर्गतिं मेशमय स्वाहा तारं च नारद || त्रयीस्वरूपिनि तथा पापादुन्मोचय स्वाहा | ओं सर्वान्तर्यामिनिपदं त्वयि भक्तिं वितरेत्यपि || होमस्तारं ततः सर्वाभिप्रायवेदिनि ततः | ततस्त्रिवर्गेण मां योजयेति होमस्तथा || ओं प्रसादसुमुखि वरैरूपछन्दय स्वाहा | ओं निगमागमारण्य सिंहि ममतां ततः परम् || हंतामपनुद स्वाहा तारं नवाक्षरी ततः | ततो मंत्रकृताधिवासे पदं मुने शृणु || सर्वान् संकटादुत्तारय स्वाहा तारं ततः परम् | सर्वोपदप्रभंजिनि सर्वेषां नः कुशलं च || कुरुद्वयं ततः स्वाहा तारं च वलदा ततः | रेतोमेधिश्च नक्रश्च सूर्यासने पदं ततः || प्रभारूपे पदं चोक्त्वा तुभ्यं दण्डस्तालं ततः | तालं च वलदा चैव रेतोमेधिश्च नक्रकः || चन्द्रासने ततः पश्च्याच्चन्द्रिकारूपे पदं ततः | तण्डतालौ च श्रुतिश्च वलदारेत एव च || मेधिर्न्नक्रः पावकासने पदं ततः परम् | ज्वालारूपे पदं चोक्त्वा तुभ्यं दण्डीतालं तथा || ९०ब्) वलदा चैरेतो मेधिस्ततः परम् | नक्रवीजं हिरण्यगर्व्भासने पदं महामुने || सृष्टिरूपे पदं चोक्त्वा तुभ्यं नमः फडेव च | वेदशिवश्च वलदारेतो मेधिस्ततः परम् || नक्रो नारायणासने स्थितिरूपे तुभ्यं ततः | तालश्रुतीवलदाचरेतो मेधिश्च नक्रकः || ततो महाभैरवासने संवोधनं पदम् | प्रलयरूपे तुभ्यं नमः फट्श्रुतिस्ततः परम् || वलदारेतो मेधिनक्रा वेदासने तत्परम् | गायत्रीरूपे ततः श्रुतिस्तुभ्यं दण्ड एव च || तालं तारं वला च रेतो मेधी च नक्रकः | यज्ञासने होमरूपे तुभ्यं दण्डश्च तालकम् || श्रुतिश्च वलदारेतो मेधि नक्रौ तथैव च | अचारासने तदनुधर्मरूपे तुभ्यं नमः || तालं तारं वलदाश्च शुक्रमेधी च नक्रकः | पर्ज्जन्यासने वृष्टिरूपे तुभ्यं नमः पदं पुनः || अस्त्रश्रुती च वलदारेतो मेधी च नक्रकः | अन्नासने प्राणरूपे तुभ्यं नमः पदं च फट् || श्रुतिवलदारेतसो मेधिनक्रकौ ततः परम् | मंत्रासने ततो दीक्षारूपे तुभ्यं नमश्च फट् || श्रुतिर्वलदारेतश्च मेधिश्च नक्र एव च | व्रतासने तपोरूपे तुभ्यं नमः फट् एव च || ९१अ) तारवलदारे तमेधिर्न्नक्रस्थैव च | ततोऽनंतासने चैव धरित्रीरूपे पदं ततः || तुभ्यं दण्डी च तालं च तारं च वलदा तथा | मेधिर्न्नक्रो निराकारासने पदं हि नारद || आकाशरूपे तुभ्यं दण्डीतालं तारं वदेत् ततः | वलदारेतो मेधिनक्रास्त्रिभुवनासने ततः || सर्वशक्तिरूपे पदं तुभ्यं दण्डीतालं तथा | श्रुतिवलदारेत सोमेधिनक्रौ च नारद || सर्वसत्वासने चेष्टारूपे तुभ्यं नमःश्च फट् | श्रुतिवलदारेतो मेधिनक्रास्तत एव च || मूलाधारासने ततो योगरूपे ततः परम् | तुभ्यं नमश्च तालं च तारं च वलदा तथा || शुक्रमेधि कुंभीरश्च व्रह्मासने ततः परम् | नित्योदिता नन्दरूपे तुभ्यं नमः फडेव च || वाणीलूता विहंसंपादा त्री ततः परम् | तरिर्दुःषितरैवर्ण्यै वेश्मरीवीजमेव च || असुरो वाग्भवश्चैव प्रवृत्तिनिवृत्तिद्वयम् | ततो मार्गद्वयं व प्रवर्तयित्रि तत्परम् || द्व्याकार प्रकटयित्रि वेदादिषड्वदेत् ततः | आम्नाया वेद्यतदनु कथमिवतिनाद || व्रूवःस्ते महिमानं त्वमसि प्रत्यंगिरा ततः | शिवा च डाकिनी चैव स्वमसीति ततः परम् || चण्डकापालिनी ततः शिवा डाकिनी तत्परम् | ९१ब्) त्वमसिगुह्यकाली च तथा डाकिनी च त्वमसीति ततः परम् || * * * * * * लीचं तद्वीजयुगलं पुनः | त्वमसि कामकलाकाली तद्वीजयुगलं मुने | त्वमसि त्रिपुरसुन्दरी शिवा डाकिनी ततः | त्वमसि राजमातंगी वीजद्वयं तदेव हि || त्वमसि कुव्जिका ततो वीजयुग्मं तथा मुने | त्वमसि हरसिद्धा च शिवा डाकिनी तत्परम् || त्वमसि वालावीजं तद्द्वयं महाशृणु | त्वमसि तारावीजे त्वमसि भैरवी च ते || त्वमसि चामुण्डातेजवीजे त्वमसि छिन्नमस्ता च | ते वीजे त्वमसि उग्रचण्डावीजे च ते मुने || त्वमसि चण्डीश्वरी वीजे ते त्वमसि भुवनेश्वरी | ते वीजे च त्वमसि महिषमर्द्दिनी ते च वीजके || त्वमसि वागीश्वरी ततस्ते च वीजे मुनीश्वर | त्वमसि शिवदूती च वीजे ते पुनरेव च || त्वमसि महालक्ष्मीश्च ते वीजे त्वमसि पदम् | राजराजेश्वरी पदा ते वीजे त्वमसि ततः || स्वर्णकूटेश्वरी ततस्ते वीजे त्वमसि तदा | जय झंकेश्वरी ततस्ते वीजे त्वमसि मुने || उछिष्टचाण्डाली तदनुवीजद्वयं तदेव हि | त्वमसि कालरात्रिश्च वीजं तद्द्वयमेव च || त्वमसि क्षेमंकरी च शिवा डाकिनी तत्परम् | त्वमसि वाभ्रवी ते वीजे त्वमसि ततः || ९२अ) रक्तदंतिका तदनु ते वीजे त्वमसि पुनः | अपराजिता ते वीजे वाणीश्रुतिः प्रवंधकः || हंसो महावाक्यश्चापि निवृत्तिरूपायां ते तत्परम् | ततो रूपविवरी तु मशक्यं श्रुतिरेव च || अशरीराऽनिन्द्रिया च शृणुष्व मुनिपुंगव | अरूपरसगंधस्पर्शशव्दा ततो वदेत् || तत्त्वमसितारद्वयं अजन्ममरणा तदा | अवाक्पाणिपायुपस्था पदं वच्च नारद || अवचनादानगमनोत्सर्गव्यवाया तत्परम् | तत्त्वमसि पदं चोक्त्वा श्रुतिह्रदं ततः परम् || तत स्त्रिकालव्यापिनी त्र्यक्षरा तदनंतरम् | त्रियंवकातत्त्वमसि श्रुतियुग्मं ततः स्मृतम् || मनोनिगमानासाद्या नामाकारवर्जिता च | तत्त्वमसिपदं चैव श्रुतिनिर्विकारा ततः || निरंजना निरीहा च निःसंगानिर्गुणा ततः | तत्त्वमसि श्रुतिद्वयं सनातनी पदं तथा || समस्तसाक्षिणी तत सर्वभूतनिगूढा च | ततः सर्वेश्वरी सर्वाराध्या तत्त्वमि || श्रुतियुग्मं सच्चिदानन्दा सनातनी पुनः | सत्वगुणमयी पादं सपरिवृंहणा ततः || समदर्शना तदनु तत्त्वमसिश्रुतिद्वयम् | केवला कैवल्यरूपा कल्पनातिगा ततः परम् || कालव्यापिनी तदनुकालरहिता तथा परम् | त्वमसि युगं अद्वैता लक्षिता ततः || ९२ब्) अगोचरा ततोऽद्वयाऽखण्डानन्दा ततः | अकारणा तत्त्वमसि श्रुतिद्वयं महामुने || ततः कालिकसंवंधा भाववती ततः परम् | कूटस्था कलना वर्जिता कल्पना ततः || रहिता कारणातीता कर्मा सहचरी तथा | केवलानुभववेद्या तत्त्वमि ततः परम् || श्रुतिद्वयं निष्प्रपंचा शुद्धवुद्धेति तत्परम् | नित्यसत्य मुक्तः स्वभावा ततः परं मुने || प्रत्येक चैतन्यमयी च विकारपरिणामेति | शून्याऽवरकविक्षेपादि शक्तिपरित्यक्ता च || विपाद्वषराविद्या मोहनिर्मुक्ता पदम् | तत्त्वमसि श्रुतिद्वयं नित्यज्ञानेछा तत्परम् || कृति महोदयेति च निवृत्तिपदमेव च | वैराग्यैश्वर्यसंपूर्ण तत्त्वमसि श्रुतिद्वयम् || उपाध्यहंकारमनोवासनापदमेव च | योनिचित्तवुद्धिनिसर्गहीना तत्त्वमसि च || श्रुतिद्वयं प्रमाणप्रत्येय तत एव हि | सत्ता परमार्थशूक्ष्मा भासनिमित्तपदात्परम् || हेतु संवंधिनी चैव तत्त्वमसि ततः परम् | श्रुतिद्वयं सदसदुपशमेति तत्परम् || स्मृति प्रवोधाशयन *?यैंत्यसाक्षिणी ततः | तत्वमसि श्रुतिद्वयं यावदेकनिर्गुणेति च || ९३अ) ततो व्रह्मवाचकशव्दवाच्या ततः परम् | तत्त्वमितारद्वंद्वं वाच्यवाचकपदं ततः || भावसिद्ध शिवशक्ति समयेति ततः परम् | रहस्य संप्रदायिनी चे तत्त्वमसि ततः परम् || श्रुतिद्वयं निर्वाणकैवल्या मृतमुक्तिनि | निश्रेयापवर्गमोक्षनयेति तत्परम् || सामरस्यैका ये प्रत्यगा पदमेव च | नन्दानुभवतादात्म्यादि पर्यायपदं ततः || पददायिनी तत्त्वमसि श्रुतिद्वंद्वं तथा परम् | वाणी श्रुति चटीसिद्धि भूरेतः सुखदास्ततः || प्रांतरं दोग्ध्री शोषिणी च प्रवंधश्च दोला तथा | अंकुशं च शिवा चैव डाकिणी च ताली तथा || निह्रादिनी च दण्डश्च सकलपदात्परम् | यंत्रमातर्जगज्जननि परमपदं ततः || कारुणिके ततः पश्च्याद् दयाद्रमानसे ततः | सर्वहितकारिणि च जन्ममृत्युपदं ततः || वासनामयं संसारसागरोधारिणि ततः | ततश्च द्विविधाकारिणिपदमेव च || तत् तत् पदप्रकाशनाय तत्तन्नामगीते ततः | वाणीयोगभूमिरसि ओं अविषयासि तत्परम् || चटीनिःसंकल्पासि सिद्धिभूशांभवासिपदम् | क्लीं तुरीयासिसुखदा निर्वाणासि ततः परम् || प्रांतरमपुनः पदात् भवासि तदनंतरम् | ९३ब्) दोग्ध्रीतालविंदुरसि शोषिणी च ततः परम् || परमात्मासि प्रवंधो नित्योदितपदं ततः | अखण्डपरमानन्दासि दोलावीजमेव च || प्रत्यक्चैतन्यरूपासि मुणिवीजमतः परम् | ततो निर्विकारपदात् निरंजनासि तत्परम् || शिराशुद्धनित्यसत्यकरासि डाकिनी ततः | कालत्रयातीतासि तालीवीजमेव च || आत्मपरमात्माभिन्नासि निर्ह्रादिनीवीजं ततः | असंवादानुभवासि नमश्च पद्मयोनिज || कैवल्यामृतासि तदा साकारापदमेव च | भोगसिद्धि स्वर्गप्रदासि कूटं भासाख्यमेव च || कालहीनं वर्णयुक्तंसि सृक्षोन्मुखासि पदम् | ततो भासाख्यकूटं च आदिसर्गेति तत्परम् || ततश्च कर्यसि पदं कूटं वाराहिकं ततः | भौक्तिकसर्गकर्यसि तदा तदेव कूटकं पुनः || कालयुक्तं वर्णहीनं शृणुष्वमुनिपुंगव | तिर्यक्सर्गनिसर्गेति कर्यसिपदमेव च || पुनर्वाराहिकं कूटं पालनकर्यसि ततः | प्रभातिकं ततः कूटं संहारकर्यसि ततः || ऋषिकूटं व्यवस्थेति कर्यसितदनंतरम् | ९४अ) पराकूटं ततो नस्थं जीवं विशेषकम् || संस्थानकर्यसि तदाहीनं तदेव च | मर्यादा कर्यसि तदा रेफस्थं शांतवीजकम् || चन्द्रकूटं मुनिश्रेष्ठ वस्तुसंयोगेति तत्परम् | गुणकृद्यासिनिर्गुणापि सगुणोपास्या तत्परम् || निराकाराविभाव्या च शिवात्रितयमेव च | सर्वसिद्धियोगिनी च त्रिचटी तत्परम् शृणु || सर्वसिद्धि मातापदं श्रुतित्रयं वदेत् ततः | नित्योदिता नन्दनन्दिता दोग्ध्री त्रितयं वदेत् || सकलकुलचक्रनायिका तदनंतरम् | सृणित्रयं भगवति चण्डकापालिनि ततः || प्रवंधाना त्रयंविप्र परमहंसिनि ततः | निर्वाणमार्गदा चैव शोषिणी त्रितयं तथा || विषमो पप्लवपदातप्रशमणीपदं ततः | दोलात्रयं च सकलदुरितारिष्ट तत्परम् || ततः क्लेशदलनी च वलदा त्रितयं ततः | ततः सर्वापदांभोधि तारिणीसिद्धिभूत्रयम् || ततः सकलशत्रुप्रमथिनी ततः परम् | रेतस्त्रयं नररुधिरां त्रवशांभक्षणी ततः || सुखदानां त्रयं चैव सकलेति पदं ततः | मनोरथसाधनी च सखीत्रयं तथैव च || ९४ब्) परमकारुणिका ततो महाभैरवेति | रूपधारिणी पदतो निर्ह्रादिनी वदेत् ततः || त्रिदशवरनमिता सकलमंत्रमाता ततः | वाणीत्रयं प्रणतजनवत्सला कालनाशिनी || अमरा त्रितयं विप्र सदाऽमृतधारा ततः | वर्षिणी चैव प्रसन्नानना त्रिक्षपणं वदेत् || निगमागमपदतः कुलाकुलपदं वदेत् | ततश्चक्रसमयेति प्रवर्तयित्री तत्परम् || ततो महाकांतार वासप्रिया तथैव च | मालूरत्रितयं चैव दारिद्र्यपद तत्परम् || ततो दुष्टदुर्गति?हारिणी च मुनीश्वर | प्रणतजनदैत्यविषादनाशिनी ततः || नाम्यात्रयं नरमुण्डकीकसेतिपदं स्मरेत् | मालाभरणातदनु तडिद्दुर्गेति तत्परम् || पिंगल महाजटाभार चर्चिता तत्परम् | ततो नान्दीत्रयं चैव उल्कामुखकोटि ततः || फेरुपरिवृता पदात् स्वच्छाचारविहारिणी | मेधित्रयं कोटिकालानलज्वलित तत्परम् || मुखीमहाज्वालाजालजिह्वोदरी ततः परम् | नयनान्तकोणनिर्यत्कटाक्षस्फुलिंगिनी च || कारत्रितये चैव वृहत्स्थूलपदं ततः | ९५अ) लम्वोदरी च गंभीरा वृत्तनाभिपुण्डरीका || कालमृत्युग्रासिनी च यमान्तकनिसूदनी | घूर्णात्रयं प्रज्वलच्छवसंकुलेति संस्मरेत् || ततः पश्च्यान्महाभीमश्मशानवासिनी ततः | हस्तिगोमायुसिंहेति भारुण्डनादिनी ततः || दुष्टनिग्राहिणीदिति दनुजनिकृन्तिनी | जरनीनां त्रयं चैव यावदेकसत्वेति च || जातिसंमोहिनी चैव क्षीरसागरापदं ततः | छाछमहारुद्रोत्संग वासिनी तदनंतरम् || महामांसाशिनी चैव धराकूटत्रयं तथा | व्रह्माणी च माहेश्वरी कौमारी वैष्णवी तथा || वाराहीनारसिंही च तथेन्द्री च महामुने | चामुण्डा शिवदूती च चण्डयोगेश्वरी तथा || महाकापालिनी चैव काममुखी ततः परम् | यमघण्टा कराली च महायोगिनी तत्परम् || वारुणी च वायव्या च आग्नेयी च मुनीश्वर | ऐशानी च महात्रासकारिणी तदनंतरम् || महाप्रलयकालरंगनर्तकी ततः परम् | वृहत्कूटत्रयं चैव हूं हूंकारपदं ततः || ततो घोरराविणी च नरसार्द्दपदं ततः | चर्मावृतसकलेति विग्रहा तदनंतरम् || ९५ब्) लेलिहानरसना च कराल आनना ततः | संधिं कृत्वा पठेद् विप्र ततः सर्वायुधेति च || धारिणी कुक्कुटगृर्द्ध्रकाकोलूकछत्रा ततः | राथन्तराणां त्रितयं कूटं किंचिद्विशेषकम् || शेष तस्य स्थाने व्रह्मन् वर्गाद्यं वेत्सिनारद | ततो महाडामरी च फेत्कारिणी ततः परम् || सितनीलपीतरक्तवर्णभुजंगपदं ततः | ततो भोगभूषितेति कलेवरा ततः परम् || अनंतकोटिनेत्रकरपदं ततः | चरणा च पदं ततः शांतराणां त्रयं तथा || अकारोकारपदंतोमकार निर्मितेत्यपि | गृहांतश्चारिणी चैव महागगनचेत्यपि || सिंहासनाधिरूढा च करकन्कपदं ततः | कंकालमालिनी चैव भीमहासिनी तत्परम् || महापाशुपतः त्रयकूटं च पीवरी ततः | धीवरीडाकिनी पदात् शाकिनी योगिनी पदम् || भोगिनी च व्रह्मसूनो कामोन्मादिनी तत्परम् | दुरितदिष्खोत्सादिनी च नान्दीकूटत्रयं ततः || जंभिनी स्थंभिनी चैव मोहिनी दोहिनी तथा | नायिका गायिका पदात तपिनी तापिनीपदम् || कराली विकराली च आवेशिनी ततः परम् | प्रवेशिनी धरिणी च धारिणी तत्परम् विदुः || ९६अ) ततः शंकु तत् त्रयं सर्वभूतपदात् ततः | दमनी महादंष्ट्रा च कराला च ततः परम् || कालरात्रिसहचरी कोटिमार्तण्डचेत्यपि | मण्डलसमप्रभा प्रलयचेत्यपि || संधिं कृत्वाऽग्निपदं दुस्सहपदं ततः | स्पर्शाविभूति भूषित सर्वकलेवरा ततः || त्रैलोक्योड्डामरी पदात् शिवहृदंवुजेति च | भ्रमरी श्वेतवाराही रक्तचामुण्डा ततः परम् || आपत्रयं हेतु त्रयं सर्वविद्येश्वरी ततः | श्वेतसरस्वती चैव श्रुतित्रयं चटी ततः || तारेणपुटिता दोग्ध्री शोषिणी श्रुति शिरा ततः | तारेणपुटिता दोला सृणिवीजं ततः परम् || धारेणपुटितं धांतं हरश्च विंदुयुक् तथा | ततो जगज्जननि च तत्परं जगदाश्रये || जगद्रूपे जगत्पदात् पालिनीपदमेव च | जगत्संहारिणि पदाज्जगद्वंद्य चटी श्रुती || चटीत्रयं समीहा च वटी शोषिणी तत्परम् | चट्या च पुटिता शिवादोलाचटी सृणि तथा || चट्या च पुटितं धान्तं विन्दुहीनं मुनीश्वर | न्यास द्विविंदुकं स्मृत्वा दुर्गे संवोधनं पदम् || दुर्गदैत्यमर्दिनि च दुर्गोत्तारिणि तत्परम् | दुर्गप्रभंजिनि तदा दुर्गतिनाशिनि ततः || ९६ब्) दुर्गमकर्मसाधनि दुर्गतानुकंपिनि च | दोग्ध्र्या च पुटितं तारं चटी दोग्ध्री त्रयं विदुः || शोषिणी च दोग्ध्री चैव शिरा दोग्ध्र्यौ ततः परम् | दोला दोग्ध्री सृणिर्दोग्ध्री धांतं दोग्ध्री व्यालं तथा || कौलाचारव्रतिनि च कुलमार्गप्रदं ततः | प्रवर्तयि त्रिपदतः कुलकुट्टिनि तत्परम् || ततः कौलिकपदतः प्रतिपादिनि तत्परम् | ततः कुलाकुलचक्रनायिके तदनंतरम् || ततः कुलवस्तुपदात् संतोषिणिपदं मुने | कुलद्वेषिविनाशिनि शोषिणी पुटितः श्रुतिः || चटीवीजं शोषिणीपुटिता समीहा ततः | शोषिण्या द्वितयं चैव शिरा शोषिणी दोलकाः || शोषिण्यंकुशशोषिण्यो धांतं च शोषिणी तथा | कलान्वितं व्यापनं चैव वेदमार्गप्रकाशिनि || वेदवेदांतवेद्ये च वेदनामात्रपदं ततः | विभाव्ये पदतो वेद हारिणिपदमुत्तमम् || वेदोपगीयमानमहिमे तदनंतरम् | ततो वेदमयरुद्राधिरूढे तदनंतरम् || वेदप्रतिपाट्या पदात् कर्मफलप्रदं ततः | ततो दात्रिपदं चैव शिराश्रुतिः पुनः शिरा || चटीशिरादोग्ध्री चैव शिराशोषिणी शिरसः | ९७अ) शिराद्वयं दोलावीजं शिरांकुश शिरा अपि || धांतं शिरापंचमो द्विविन्दुयुक् योगिश्वरि | योगिजनहृदयारविन्द कृतावासे ततः || योगमयशरीरे च योगप्रकाशिके ततः | योगवियोगप्रतिपादयित्रि ततः परम् || योगप्र्दनाडी पदात् विहितवासे पदं ततः | योगदाननाशितभववंधो दोलाश्रुती अपि || दोलाचटी दोलादोग्ध्री दोला च शोषिणी तथा | दोलया पुटिता शिरा सृणिवीजं तथा मुने || दोलया पुटितं धांतं पपंचमस्तथैव च | ततः परमान्तव्योमचारिणि संवोधनं पदम् || परमप्रचण्डदोर्दण्डमण्डले तत्परम् | ततः परमपदप्रकाशिनि ततः परम् || परमपरापरमंत्रवर्णक्रमपदं ततः | दीक्षायोगज्ञानमयविग्रहे तदनंतरम् || परमपुरुषवत् प्रकृतिरूपे पदं ततः | परमानन्दचैतन्य परिणामपदं ततः || रूषितपदे तदनुपरमसंकटपदम् | तारिणी संवोधनं चोक्ता श्रुति सृणि श्रुतिं सृणिस्तथा || चटी सृणि समीहाश्च सृणिश्च शोषिणी तथा | सृणि शिरांकुशदोलाश्चांकुशत्रयमेव च || ९७ब्) नमः पदतश्चैव चतुर्दशपदं वदेत् | भुवनेश्वरि पदाद्व्रह्मन् चतुर्वर्गफलेति च || दायिनी चतुरशीति कोटिव्रह्माण्डरेत्यपि | सृष्टिस्थितिप्रलयरूपकर्मपदं ततः || ततः परं त्रितय च संस्कारोत्पादिनि ततः | चतुर्मुख चतुर्भुज चतूरूपादि च पदम् || ततश्च सुरनिकरसेवितपदमेव च | चरणारविन्दपदाच्चतुर्वर्ण्यपदं ततः || चातुराश्रम्यविहितसदाचारपदं ततः | व्रतयज्ञधर्महोमपदात् तदनु नारद || ततो यमनियमप्रिय संवोधनं वदेत् | चतुरंगपदाश्चैव समरकर्मचित्यपि || प्रिय महाभैरवे च सहकर्मचारिणि च | चतुरुदधिमाला च वलयितपदं ततः || भूमिमण्डलवर्ति च प्राणिमात्रपदं ततः | हृदयाधिष्ठात्रि नमः प्रत्यंगिरे नमो वदेत् || प्रतिव्यक्तिस्वभावसंज्ञकर्मपदं ततः | प्रेरिके तदनु विप्र नमः प्रत्यादिष्ट पद || सकलप्रणतजनदुरिते च नमः पदम् | ततः प्रतिफलितमायाशक्तिप्रज्ञे नमस्ततः || प्रत्यंगपुजित यंत्रमंत्रे नमः पदं ततः | प्रतिभाभावित भक्तजने नमः पदं पुनः || प्रतिनियतदैवफलापहारिके ततः | ततो नवाक्षरीं चोक्त्वा नवाक्षरीपदं ततः || घटीतसर्वशरीरे श्रुतीरूपप्राणे ततः | ९८अ) चटीरूपमस्तके च दोग्ध्रीवीजमतः परम् || रूपहृदाय शोषिणी च रूपवाहपदं ततः | पृष्ठजठरे पदतः सखीवीजं च नारद || रूपपार्श्व कट्युरुजघने तदनंतरम् | दोलारूपजंघा पादे सृजिवीजं मतः परम् || रूपहस्तपादांगुलिनखे संवोधनं पदं ततः | नमो रूप सर्वांगसंवोधनं पदम् || ओमित्याकारोकारमकारेण नारयणपदम् | ततो हिरण्यगर्भ सदाशिवरूपा ततः || ततो ह्रीमिति हकाररेफेकारेण तत्परम् | व्योमाग्निरमारूपा हूमिति पदमेव च || हकारोकारेण रोषावेशरूपा | हामिति हकाराकारेण पंचभूतपदं ततः || वंधनरूपा तदनु फ्रेमिति पदमेव च | फकाररेफैकारेण चतुर्वर्गपदं ततः || विद्याविभवरूपा च क्षौमिति पदमेव च | ककारषकारौ कारेण सृष्टिप्रतिपालेत्यपि || संहाररूपा तदनुक्रोमिति पदमेव च | ककाररेफौकारेण जन्मजरापदं ततः || मरणनाशकरूपा च नमः इति ततः परम् | ततो नकारमकारविसर्गेण पदं ततः || देवमंत्रहोमान्नप्राणायुः पदमेव हि | कालरूपाविपरीत यो न तदनंतरम् || ९८ब्) व्रह्मास्त्र वैष्णवास्त्रेति पाशुपतास्त्रपदं ततः | संधिं कृत्वाऽग्नेयास्त्र वारुणास्त्रपदं ततः || याम्यास्त्र गारुडास्त्र संहारास्त्रधारिणी ततः | अनुलोमप्रतिलोमाकारेण पदमेव च || त्रयस्त्रिंशत् कोटिदेवरूपा अष्टादश ततः | विद्यारूपा नवनिधिरूपा अष्टसिद्धिपदम् || रूपापदात् पंचभूतरूपा ततः परं शृणु | व्रह्मैकरूपा तान् आद्योद्वितीयापदमेव च || लज्जा तृतीयोरोषश्चतुर्थोध्वामुने शृणु | पंचमी शाकिनी षष्ठी पदाच्च धारणा पदम् || सप्तम्यर्गलाष्टप्रणामा इति पदं ततः परम् | वासना मोहे जन्मजरामरणपदं ततः || गर्भवासतापत्रयसंसारेभ्यस्तारयति | ससंकित इति पदात्तारं विंदुद्वयं वदेत् || पापा कार्य परस्वादा नहिंसापदमेव च | पैशून्या नृतविवादा धर्मेभ्यो लज्जतपदम् || इति लज्जा ततो गर्वा नादपदमेव च | परिभवाधिक्षेपहर्षाऽसूया तथैव च || दैन्यद्वेषेभ्यो रोषयतीति रोषो वेदपदं च | धर्माचारयज्ञतपो मंत्रप्रतिष्ठा तत् परम् || पुण्येभ्यो ध्यानयतीत्यध्यापदं ततः परम् | अनुभवो पासना च नियमपदमेव च || ९९अ) प्रकर्षविद्या वैराग्य धर्मार्थपदमेव च | निश्चयेभ्यः शक्नोतीति शाकिनीपदमतः परम् || भूचराश्चरखचरविलचरपदं ततः | ततस्तरुचरगृहचरांगपदमेव च || ततश्चरांतचरेभ्यो धारयतीति धारणा | कुशास्त्र कुपदतः कुमतकुव्यवहारपदम् || कुशिष्या कुपथपदात् कुवुद्धिपदमेव च | कुशिल्य कुनयेभ्योऽर्गलयतीत्यर्गला ततः || नमनोन्नमनपर्यवस्थापनपदं ततः | प्रतीकारसंकटविषादपदमेव च || ततो विछेदविरोधेभ्यः प्रणामयतीति च | प्रणामः सर्वनिगमागमतत्वं श्रुतिस्तथा || चटीदोग्ध्री शोषिणी च शिवादोलांकुशं तथा | नम इतीदं संभाख्य उपाशितव्यं तत्परम् || त्रिसत्यं च श्रुतिचट्यो दोग्ध्री इति पदं ततः | सत्ययुगे शोषिणी च शिवादोला तथैव च || इति त्रेतायुगे ततः क्रों नमःपदमेव च | इति द्वापरयुगे श्रुतिचटी क्रोधास्ततः || शोषिणी च शिवादोला सृणिदण्डास्ततः परम् | इति कलियुगे ततस्तदेतत् पदमेव च || ततः सर्वनिगमागम वेदिभिस्तत्परम् | संधितश्चाभ्यस्तं विप्रमुमुक्षुरे तत्पदं ततः || पुरं अभ्यस्यन्नपुनर्भवायपदमेव च | गायत्री वान्वहमध्ये तव्यासेयं मुनीश्वर || सर्वनिगमागममाता सखी च सिद्धिपदम् | लक्ष्म्यै विद्महे कालिकायै धीमहिपदमेव च || ९९ब्) तन्नः संकर्षिणी तदा प्रचोदयात् पदं ततः | ततः पंचविंशत्यक्षरा वा ततः परम् || एषा गायत्री तदनु पंचविंशति तत्परम् | तनुरूपा एतामधीत्य पंचविंशति पदम् || ततस्तत्वात्यति पदात्क्रामतिपदमेव च | एषा नवाक्षरी ततः सहचरी ततः पदम् || ततः पश्चात् तामधीत्येतामधीते ततः पदम् | व्रह्मविदिवदाच्च व्रह्मोप्नोति पदं ततः || श्रुतिश्चण्डकापालिन्यै विद्महे तदनंतरम् | कालसंकर्षिण्यै ततो धीमही तदनंतरम् || तन्नः सिद्धिलक्ष्मीः पदात् प्रचोदयात् पदं ततः | विंशत्यक्षरा वा एषाऽययुताक्षरी ततः || ततश्च गायत्री पदं एषामधीत्यपदं ततः | ततो व्रह्म सायुज्य तामाप्नोति च पदं ततः || चटीदोग्ध्री शिवाश्चैव सिद्धिभूमेधिरेव च | प्रोथांकुशौ शिवांगना प्रांतराश्च पनोऽन्गिस्थः || मलिना ह्रूदपपाट्यो वह्निजाया ततः परम् | एषा वानवाक्षरी च समानापदमेव च || एषा वाप्यधीतापदात् तदेवफलमित्यपि | गमयति पदात् ततो षोडशाक्षर इत्यपि || संधि ततो मंत्रः षोडशकला ततः परम् | आसादयति पदाच्च षोडशापि भोगान् वदेत् || १००अ) प्रयछति पदाच्चैव अविग्रहापि वदेत् ततः | सविग्रहा सौम्यापि च महोग्रा ऐहिकात् ततः || आमुष्मिकसुखसिद्धि विधायिनी ततः परम् | श्रुतिवाणी वरदाश्च सर्वविद्यापदं वदेत् || पदात्रीपदात् प्रांतरं च चटीशिवा सिद्धि भुवः | सखीवीजं प्रचुरतरधनप्रदा ततः परम् || रेतोऽंगनादोग्ध्रीवीजं प्रांतरं मानुरं तथा | रुण्डीक्षपौ ततो विप्र स्त्रीपुत्रगृहपदं ततः || ततः सौख्याऽरोग्यायुः कारिणीपदमेव च | दात्रीक्षुपोवहूगरूढो अमरा प्रवंधस्ततः || खेचरी च मेधिश्चैव मेदः सर्वगतस्तथा | अ?मरविजयपदात् शत्रुनाशपदं ततः || राज्यप्रदा विहस्था च रेफहीना वीजं ततः | पशुवीजं धुरावीजं मुषणीवीजमेव च || ह्रदवीजं ततो रोगात् पातसर्पपदं ततः | ततः शत्रुमारीति भयनाशिनीपदं ततः || श्रुतित्रयं हंसवीजं महावाक्यवीजं ततः | ततश्च कैवल्यमोक्षविधायिनीपदं ततः || वाणीत्रयं प्रवंधानां द्वयं ततो यमपदम् | ततो नियमतपोयोगज्ञानपदं ततः परम् || वैराग्यभावयित्री च हाद्यं वाराहिकं कूटम् | ततः प्राभातिकं कूटं सर्वकार्यपदं ततः || १००ब्) सर्वमनोरथपदात् सर्वसिद्धिविधायिनी | सरटोवरटश्चैव कीट ऊषस्ततः परम् || ओषवीजात् भूतप्रेतपिशाचपदमेव च | यक्षरक्षोगंधंर्वा वेशप्रशमनी ततः || कीलावीजं वलिजं च जलं संभोगवीजकम् | हार्दवीजं ततः पश्चात् दुर्हिवपदमेव? च || मरकाकालमृत्यु परचक्रपदं ततः | भयप्रमर्दिनी चैव व्याधित्रयं समाहरेत् || पुरवीजत्रयं चैव अवग्रहपदं ततः | ज्वराभिचारकलहद्वेषोच्चाटनपदं ततः || प्रभंजनी हं त्रयं च हैं वीजं त्रयमेव च | चौरकांतारस्थवल्य आपदमेव च || दन्दशूकपुछविषविलेशयपदं ततः | ततो दंष्ट्री रोमगरलभीति हारिणी ततः || तत्त्ववीजत्रयं रिपु आसुरीवीजं त्रयं तथा | कपटिवंचकदस्यु धूर्तघातिनी तत्परम् || उदानस्य त्रयं वैव ज्वलिनीत्रयमेव च | विविधोपद्रवपदात् प्रशमनीपदं ततः || श्रुतिवाणी शिवाश्चैव चटीदोग्ध्री च सिद्धिभूः | रेतोंऽगनामेधिश्चैव नमो भगवत्यै ततः || ततश्चण्डकापालिन्यै शोषिणीवीजदोला ततः | स्थानप्रवंधवलदा नमः प्रत्यंगिरायै च || ततः कोटि कोटि पदात् दोर्दण्डमण्डितां तदा | १०१अ) नेन्ता चोक्त्वा महाभीमश्मशाननिलया तथा || महारुद्रहृदयपर्यंकाधिरूढा च नेन्ता | मानूरश्च सोमश्चैव शिरासखी ततः परम् || ताली च फेत्कारी चैव मुक्तावीजं ततः परम् | ततो वुद्धा रेफहीना खनिवीजं महामुने || ततो वुद्धा व्यस्तावीजं क्षांते वसैश्च योजितम् | यांतचांतौ ततो जांतं हांतं वह्यारूढं तदा || भूषितं कालतिथिभ्यां च बीजमेतन्महामुने | ततो महाकुणपवाहनायै पदं ततः || अजितायै पदं चोक्त्वाऽपराजितायै तत्परम् | अलक्षिता चामिता च द्वयं नंतं वदेत् ततः || अगोचरात् प्रतिहतात् अनुत्पन्ना चा द्वैता पदम् | सर्वानेन्ताः समुच्चार्याः कोटिका?रणपदं ततः || नेत्रे पदात् सहस्रवृन्दमस्तके तत्परम् | ज्वलद्वयं प्रज्वलं च स्फुरप्रस्फुरपदमेव च || चटद्वयं प्रकटद्वयं कहधर्मपदयोश्च | हसयुगं गाययुग्मं जययुग्मं महामुने || जीवद्वयं पदाच्चैव व्याघ्रचर्माम्वरे पदम् | कालरूपिनि तत्पश्चामुण्डमालिनि तत्परम् || शिवात्रयं दोलात्रयं स्थानत्रयं तथैव च | धरित्रिधारिणी पदा व्रह्मवादिनि तत्परम् || व्रह्मामृतमयिपदात् नमोस्तु ते पदं ततः | प्रत्यंगिरे पदाच्चैव नमोस्तु ते पदं ततः || सिद्धिलक्ष्मि पदतश्च नमोस्तु ते पदं ततः | १०१ब्) ततश्चण्डकापालिनि नमोस्तु ते पदं ततः || साम्राधिदैवत च ततो नमोऽस्तु ते पदम् | महामाये अरूपे च वहुरूपे विश्वरूपे || नानारूपे रूपातीते सकलासुरपदं ततः | ततो दैत्यदानवोछादिनि तदनंतरम् || ततः कृत्याभिचारग्रहनक्षत्रपदादनु | दोषप्रणाशिनिपदं यक्षराक्षसपदं ततः || भूतपिशाचवेताल प्रेतडाकिनी तत्परम् | प्रभंजिनि गायत्री च सावित्रिमहित्रि पदम् || सवित्रि अरित्रि च तथाऽग्निभय कृतनि | ततो विद्युदशनिवर्ष सलिल्या प्रमर्दिनि || सागर नहित्रनौराद्या घूऋणिका प्रमथिनि | रात्र्यंधकालकान्तार दुःखौघपदमेव च || संकटतारिणिपदात् राजकुलपदं ततः | विषोपविषज्वरादिरोगप्रशमनि ततः || अभये भयहारिनि अनघे तदनंतरम् | अघनाशिनिपदतोऽदीने दैत्यखण्डिनि च || अचिंत्ये चिन्तानोदिनि च अमुग्धे पदमत्परम् | मोहापनयनि ततोऽजडे जाड्यहारिणि च || अमाये मायादयिनि च तथा वंधे पदं मुने | वंधछेदिनि पदतोऽरागे रागोन्मूलिनि च || अनुग्राहिके जन्ममरणभयभेदिनि च | अलक्षणीये लक्षणदायिनि तदनंतरम् || १०२अ) अव्यक्तव्यक्तिकरि चामृतेऽमृतफलप्रदे | सत्ये सत्यपदप्रदात् प्रदायिनिमेव च || नित्ये नित्यानंदकविवोधे वोधायिनि च | मनोरागगोचरे च मनोरथप्रदायिनि || इहानभिभूते पदात् समीहा संपदयिनि | प्रमाणावेद्ये तदनु प्रमाणसिद्धिविधायिनि || अगुणाविग्रहा पदात् अनुपास्यापदं ततः | ततश्च सगुणावयवो पासनी या तदनंतरम् || हिमशंखकुण्डवर्णा पंचवदनात्परम् | ततः प्रतिवदनत्रिनयना पदं ततः || पिंगलजटामुकुटभूषितापदमहः परम् | व्याघ्रचर्मपरीधाना नरमुण्डमालिनी च || रुद्रहृदयाधिरूढा योगपट्टपदं ततः | संधिं कृत्वाऽवनद्धजानुद्वया पदं ततः || दशहस्ता त्रिशूलखड्खघण्टांकुशपदं ततः | खट्वांगकपालपाशघंतावराभयकरा || अचिंत्यामितवलपराक्रमा ततः परम् | ततो दैत्यदानवासुरमांसपदं ततः || रुधिरप्रिया तदनु समरविजयपदम् | संपादनकरी पदात् भक्तजनपदं ततः || स्वर्गमोक्षविधायिनी श्मशानवासिनी ततः | महाघोररावा पदात् म * *? हासपदात् परम् || १०२ब्) हासकरी योगिनी च डाकिनी पदमेव च | चामुण्डाभैरवी पदात् सहचारिणी तत्परम् || वृहल्लम्पनानोदरी त्रिदिवपदमेव च | भूमण्डलरसातलादि चतुर्दशपदम् || ततश्च भुवनेश्वरीपदं नवकोटि ततः | मंत्रमय कलेवरापदं मुने शृणु मम || ततो महाभीषणतरा पराशिवपदं ततः | शक्तिसामरस्य पदात् समयकुलपदम् || चक्रपरमतत्वगूढा पदमतः परम् | प्रकृत्य परमशिवनिर्वाणपदमेव च || फलदायिनी तदनुविकरालपदं ततः | द्वात्रिंशदंतपन्क्ति कोटिसंचूर्णितपदम् || कोटिव्रह्माण्डतदनु चतुर्द्वारपदं ततः | चतुरस्रत्रिरेखाऽष्टारद्वादशपदम् || दलषट्कोणत्रिकोणविंदुरूपपदं ततः | गृहमध्यवासिनी च नववर्णमयपदम् || मंत्रराजोपासनिया नवपदमनंतरम् | नवार्णकूटघटितमूर्तिधरा पदं ततः || ततः सर्ववान्मय विद्यातिगापदं ततः | नादविंदुकलाकारा दिव्यादिपदमेव च || दिव्यामोघमूर्तिधरत्रयस्त्रिंशत्पदं ततः | कोटिसस्त्रास्त्रसंधान संग्रहणीपदं ततः || निखिलागमदैशिकाराधनीया पदं ततः | १०३अ) महाखेचरी तदनु मुद्रा प्रकटयित्री तदा || महाशंखविनिर्मितसकलाभरणा ततः | मदोन्मादिनी तदनु निखिलदुःखोत्सादिनी ततः || कपालमालाभरणा कोटिविद्युदर्कपदम् | दुर्निरीक्ष्याकारा तदनु महामांसखण्डपदम् || कवलिनी पदाद्वमदग्निज्वालपदमतः परम् | मुखमण्डनपदतो विभूषितापदं मुने || कोटि कोटि फेरु परिवृतापदं महामुने | चर्च्चरी करतालिका त्रासितत्रिभुवनापदम् || नृत्यप्रसारितकरपादाघातपदं ततः | नमदुन्नमत् पदतः कमठशेषपदं च || भोगा पदात् कुरुकुल्या कुणपछत्रा ततः परम् | ऊलूकपोषिणी पदात् नरकंकालपदं ततः || करंकरंकिणी पदाद्रक्तचण्डीपदं ततः | श्वेतमुखी ततश्चण्डातिचण्डी च पदात् परम् || यमघण्टा ज्वालामालिनी भुवनभयहरी | तस्मात् तु वेतालानना स्कन्दघोणकपदं ततः || सहवासा कौमारव्रतिनी तदनंतरम् | कुलकुट्टिनी तदनु महारौद्री ततः परम् || सर्ववीजप्रसवित्री कालेश्वरी ततो मुने | कालवंचनी तदनु महाभैरवी तत्परम् || जगन्माता जगतानन्ददायिनी तत्परम् | १०३ब्) प्रलयानलवक्त्रा मृत्युंजय विलासिनी || कुक्कुटकपोटलालनीपदं तत्र नारद | वर्हिवर्हावतंसिनी महाडामरी तत्परम् || मदाघूर्नितनेत्ररक्तनेत्रा पदात्परम् | ऋद्धि वुद्धि शांति स्वस्ति पुष्टि तुष्टि पुष्टी करी ततः || देवदेवेश्वरी चैव सर्वाऽशुभविघातनी | सर्वशुभंकरी पदान् नक्षत्रकूटमुद्धरेत् || ततो वाराहिकं कूटं पुनस्तच्च सादिकम् | भाशाख्यकूटं तदनु व * भुहीनं वाराहिकम् || कालान्वितं समाभाष्य पुनस्तव्यहसादिकम् | पुनर्भाशाष्यैकूटं च कालवर्णयुतं विभो || कालवर्णसमायुक्तं वाराहिकं पुनर्मुने | हसादिकं च तद्रूपं चिंतयेत् पुनरेव च || श्रुतिश्चटीदोग्ध्री चैव शोषिणी च शिरा ततः | दोलांकुशं ततो दण्डश्चटीदोग्ध्री शिरा ततः || सिद्धिभूश्च मेधिश्चैव प्रोथांकुशौशिरा ततः | सुखदा प्रांतरं चैव अंत्रवीजं ततः परम् || मलिनाह्रदपर्पट्यस्तानवीजं च नारद | नवनवार्णनवाक्षरपदं महेश्वरि || षोडशाक्षरमंत्रपदमुच्चार्य नारद | त्रयोपासनप्रिया ऐहपदं मुनीश्वर || तत ऐहलोकिकपारलौकिकादि पदं ततः | ंंं १०४) चतुर्वर्गफलपदात् साधनीपदमेव च | महामाया सौम्याग्ररूपा पदं ततः परम् || प्रतिव्यक्तिसुखमनोरथपूरणी तत प *? | * ? श्च शांभवं कूटं प्रत्यंगिरे पदं ततः || देवि तुभ्यं पदाच्चैव दण्डतालहोमा अपि | प्रत्यंगिरे देवि तुभ्यं दण्डतालहोमासतः? || प्रत्यंगिरे देवि तुभ्यं दण्डतालहोमाः पुनः | इतीदं कथितं विप्र सिद्धिलक्ष्म्ययुताक्षरम् || जनन्याजारवत् गोप्यं सर्वत्र मुनिपुंगव | विनोपदेशं यः पश्येत् पठेद् वा शृणुयादपि || अयुतार्णं सिद्धिलक्ष्म्याः स वशमाप्नुयात् | मयो? तस्य? * * वं हि सर्वं त्वयि च प्रतिष्ठितम् || किमन्यत् त्वयि वाच्यं हि न प्रकाश्यं कदाचन | स्वजने वा परजने मनु* * * * * * ||? नप्रकाश्यं नवक्तव्यं नदातव्यं कदाचन | संलिख्ये मं मनुं विप्र परेषु यदि दीयते || पृथिव्यां यानि पापानि * प्नोत्य संशयः | यथा मंदाकिनीतीर्थे देवेषु च यथा हरिः || अवलासु यथा देवी तथा मंत्रेऽयुताक्षरम् | शपथ * * * * * ? मम वचः पुनः पुनः || न प्रकाश्यो महामंत्रो ब्रह्मपुत्र शृणुष्व मे | इति नैललोहितीये श्रीकालानलतंत्रे सिद्धिलक्ष्म्ययुताक्षरा कथनन्नामद्वाविंशतितमः पटलः || श्रीं || श्रीचण्डकापालिन्यार्पणमस्तु || @@@ ########### END OF FILE #######