#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00235 Uniform title: kālahastīśavilāsa Manuscript : IFP/EFEO transcript T0378 Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Sept. 18, 2011 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### ओं कालहस्तीशविलासः || ड्. ५०७६ || कालहस्तीशविलासः || श्रीदेव्यै नमः श्रीकाल * * * * * * * पिता तदा शरणादौ भास्यता तस्य चेत्क्रुद्ध * * * शांकरं सर्वोत्कर्षमवैमि तत्र भवता पा * * * रूपं नमाम्यहम् | ननु कोऽयं ब्रह्म श * * * * ह्मेत्युच्यते | स चापमाकीट पतंगेभ्यः आदैव * * * * मिषयता प्रतिपद्यते | तथापि यस्माद्ब्रह्म * * * दि परिणाम पितृत्वा योगात् | देहादि परिणामरू * * * * वा द्विलक्षणः परम पुरुषः परमेश्वर एव प्रकरणा * * * * ब्रह्म पदादव गत इति स एव नमस्कार्यः प्रतीयते * * * * महद्ब्रह्म परमं यः परायणमिति | * * * * * *स्य च नारायण परत्व मुक्तम् | विष्णुपुराणे * * * * * *रं धाम त ध्येयं * * * * शब्दोयं नोपचारेण ह्यन्यत्र ह्युपचार त इति विष्णुब्रह्मभगव * * * * ङ्कः? प्रजापतिरिति निघंटु वचनात् जातिजीवादावपि ब्रह्म पद प्रयोगो दृष्ट इति चेत् न तेषा * * * * विलेश? योगेनेश्वर पद प्रयोगस्येव | तस्मान्नारायणे मुख्यं ब्रह्मपदं अन्यत्र आम * * * पदं नारायणे योगरूढम् | अथ कस्मादुच्यते ब्रह्म | बृहन्तोत्यस्मिन् * * * * * योगिकत्वात् | तदेव ब्रह्म परमं कवीनाम् | अजस्य नाभो वध्येकमिति | अन्तः समुद्र * * * * * ढ्यं देव विदुषां मते ब्रह्मेति नारायणे विद्वदूढ्यंकीरात् जीवादौ ब्रह्म शब्द रूढि स * * * * * प्. ३) भावित भ्रममूलाय आर्य प्रसिद्धेः प्रावल्यस्य यव वराहादि पदेषु सिद्ध * * * * *च्च ब्र * * * * * द्वितीयमते विष्णौ योगरूढत्वात् | विष्णुपदवत् | न चा प्रयोजकत्वं श्रुतौ तन्निर्वचन वैयर्थ्या * * * * * अत्रोच्यते | यद्यपि ब्रह्मपदं भगवत्पद दृष्टान्तेन विष्णौमुख्यत्वेन * * * * * र्थानुगमस्य गोपदादीनां नानार्थानां सर्वेष्वर्थेषु स्वर्गादिष्ट भावेन मुख्य * * * * * च्छतीति गोरितिव्युत्पत्या सास्नादिमद्व्यक्तावेव मुख्यं भवितु मर्हति | इ * * * * * रि पदं वा * * * * * ख्यं भ्वति | ननार्थत्व प्रतिपादकनिघं * * * * * दि विरोधात् | अन्यथा नानार्थो* * * * * * * * ले व्ययाव्ययौ | प्रधानत्वेन सृज्यत्वं च विष्णोसक्तम् | यथा सन्निधिम् * * * * * * स एव क्षोभको ब्रह्म क्षोभ्यश्च पुरुषोत्तमः | स संकोच विकासा * * * * * * व्यक्त रूपं च | तथा विष्णुः सर्वेश्वरः स्मृतः | अत्र परमेश्वरशब्दा ध * * * * य संकोच विकासादिरूपेण क्षोभ्यत्वकथनान्न तयोर्विरुद्ध धर्म * * * * * * कर्मधारयेतु विशेषणस्य पूर्वनिपात प्र * * * * * * नारायण कर्तृकावान्तरसृष्टि प्रतिपादनान्नारायणो प* * * * * * * * * परमितिविभागः | न च न ब्रह्मनेशान इति वाक्य विरोधः | तस्यावतार * * * * * * * * * * ह्म जगन्मयः | सर्वगः सर्वभूतेशः सर्वात्मापरमेश्वरः प्रधानं पु * * * * * * * न स्यादिति चेन्न | तत्रानुगतस्य शक्यतावच्छेदकस्य प्रवृत्ति निमित्तस्यैश्वर्य * * * * * त्वाभावात् | ब्रह्मपदवन्निघं प्. ४) नानार्थत्वेना प्रतिपादनाच्च | ननु निघंटुवशात्कथं वेदार्थनिर्णयः | अस्य पौरुषे यत्वेना पौरुषेय वेदार्थ निर्णये प्रमाण्या भावादिति चेत् | पौरुषे यस्याप्यनादि प्रयोगस्मारकत्वेन स्मृतिवत्प्रमाणत्वात् | पिकमालभेते त्यादि वाक्यार्थ निर्णये अनार्य प्रयोगस्यापि उपयोगित्व कथनाच्च | ननु पिकादि रुदेष्वार्य प्रयोगा भावेसति अनार्य प्रयोगो निर्णायकः ब्रह्मपदे तु यवादि पदव दार्य प्रयोगो निर्नायक इति चेत् | मैवम् | निघण्टु काराणां व्याकरणाद्यभिज्ञत्वे * * * * * * जात्यादावपि सत्वात् भिन्न विषययोरार्यानार्य व्यवहारयोर्विरोधे तत्र न को* * * * * * दत्र तदभावात् | अवे * * * * * नादिमेच्छ * * * जाति परत्वस्यैव निर्णयात् | ननु ब्रह्म पदे कथ * * * * * * * प्रवृत्ति निमित्ताभाव इति चे * * * * * ह्मत्यत्र प्रणवे ब्रह्मन्नित्यत्र * * * ता चतुर्मुखादौ चानुगतस्यशक्यतावच्छेदकस्य वक्तुमशक्यत्वात् | बृहबृहि वृद्धाविति धा * * * * * वृद्धेः ब्रह्मणत्व जात्यादावनु गमाभावेन शक्यतावच्छेदकत्वा संभवात् | लाघवाद्ब्राह्मणत्व जातेरेव प्रवृत्तिनिमित्तत्वाच्चावयवार्थादन्यस्य शब्दादप्रतीयमानस्य वा शक्य तावच्छेदकत्वे अश्वपदगोपदादावपि तथा वक्तुंशक्यत्वेन नानार्थोच्छेदापत्तेः | वस्तुतस्तु अथ कस्मादुच्यते तारा अथ कस्मादुच्यते प्. ५) प्रणवः | अथ अस्मादुच्यते ब्रह्मेति प्रणवप्रकरणस्थेषु प्रश्नोत्तरेषु वाच्यवाचकयोरभेद सम्बन्धमादाय परब्रह्मणि परमेश्वरे विद्यमानं निरतिशय ब्रह्मत्वं प्रणवे आरोप्य * * *मानं ब्रह्म प * * * मुख्यमेव | न हि रज्जुसर्पे सर्प पदं गौणं भवति | वस्तुतस्तु अथर्वोपनिषदि देवा हवै स्वर्गं लोकमगमन् | ते * * वा रुद्रमपृच्छन् कोभ वा * * * वित् | अहमेकः प्रथममासं वर्तामि च भविष्यामि च | नान्यः कश्चिन्मत्तो व्यति रिक्त इत्युप क्रम्यते देवारुद्रं ध्यायन्तीति मध्ये परा मृश्य नदेतद्रुद्रचरितमित्युपसंहारेणैक वाक्यतया रुद्र परत्वस्यैव निर्णयात् | तदुपासनासाधनत्वेन प्राप्तस्य प्रणवस्य प्रशंसार्थं ब्रह्मभेदमारोप्यतद्वाचक ब्रह्मपदेन निर्देश इति रुद्रे मुख्यं ब्रह्मपदं तदभेदारोपात् प्रणवेपि मुख्यमेव | अन्यथा हरिपदमपि भेकशखामृगादावमुख्यं स्यात् | अनुमानमप्ययुक्तम् | विष्णौमुख्यत्वसाधने सिद्धिसाधनात् तत्रैव मुख्यत्व साधने हरिपदे व्यभिचारः | एवं योगरूढि मतमपि निरस्तम् वेदितव्यम् | सिद्धसाधनाद्व्यभिचारादेव वि* * * * शक्तिरूपस्य योगस्य प्रकृते गुणवाचक ब्रह्मपदावयवाभावेन गुणपूर्तिवाचकत्वरूप यौगिकत्वस्या संभवेन ब्रह्मणि योगरूढत्वस्यापि सिद्धत्वात् | प्. ६) न हि यौगिके धेनुपदे योगरूढे पङ्कजपदे वा अवयवार्थातिरिक्तार्थमादाय यौगिकत्वं केनापि स्वीकृतम् | ननु तर्हि बृहन्तो ह्यस्मिन् गुणा इति श्रुतेः का गतिरिति चेत् कल्पितत्वमेवेति ब्रूमः | अकल्पितत्वेपि धर्ममात्रोपमानातिदेश वाक्यवच्छक्ति ग्रहमात्रोपयोगितया तदर्थस्य बृहद्गुणत्वस्य शक्यतावच्छेदकत्वाभावात् | दृष्टं च धर्ममात्रोपमाने कीदृक्क्र मेलक इति दाक्षिणात्येन पृष्टे सति दीर्घ ग्रीवः प्रलंबोष्टः कण्टकाशनः पशुः प्रमे * * * * ति देशवाक्यार्थस्य शक्यतावच्छेदकत्वाभावेन शक्तिग्रहे सहकारित्वम् | ननु तत्रोष्ट्रत्वं शक्यतावच्छेदकमस्ति | ब्रह्म पदे तु नैवमिति चेत् | ना पदात्प्रतीयमानस्य बृहत्वस्यान्यस्य ब्रह्मणत्वादेर्वा नानार्थ धर्मस्य शक्यतावच्छेदक संभवे पदादप्रतीयमानस्य पूर्ण गुणत्वस्यावच्छेदकत्वे प्रमाणाभावात् | तर्हि रूढिरेवास्त्विति चेत् | ना विष्णुत्व प्रकारक प्रतीतेरभावेन तदवच्छिन्नशक्तेरभावात् | ज्ञा * * * शक्यत्वादिति न्यायेत् | एतेन स विष्णुराहहि स ब्रह्मेति कल्पसूत्रयोरपि ब्रह्म पदार्थ निर्णायकत्वं प्रत्युक्तम् | प्. ७) अभेद परत्वे * * * * शक्तिग्राहकत्वे प्रमाणा भावात् | तदेव ब्रह्म परमं कवीनामिति च न रूढिसाधकम् | यथा अभिषेकादि गुणयुक्तस्य राज्ञः प्रजापरिपालनं परमोधर्म इत्युक्ते पालनमेव धर्मपदस्य मुख्यं चोदना लक्षणन्त्व मुख्यमिति न युक्तं भवति | चैत्रः परमधार्मिक इत्युक्ते धार्मिकत्वेन रूपेण श्रेष्ठत्वेपि चैत्रस्य धार्मिकपदं यागादिकर्तर्यमुख्यं चैत्रे च मुख्यमपि न युक्तम् | अन्यथा परमपद वैयर्थ्य प्रसंगात् | ब्रह्मसाधारणत्वे हि परमपदं सार्थकं भवति एतेन नारायणः परं ब्रह्मेतिः परमं योमहद्ब्रह्मेति भारत वचनं च व्याख्यातम् | गीतासु नारायणेन ब्रह्मणः स्वस्य च भेदेन निर्देशादापि स्वस्मिन् ब्रह्मपदस्य मुख्यत्वं निवारितम् | उक्तञ्च किंतद्ब्रह्मकिम ध्यात्मं किं कर्म पुरुषोत्तम इत्यादि प्रश्नेष्वर्जुनेन कृ * * * * भगवतोत्तरं दत्तम् | अक्षरं ब्रह्म परममित्यारभ्य अधियज्ञो हमेवेत्यन्तेन तत्र यदि स्वयमेव परमं ब्रह्मस्यात् अहमेव परं ब्रह्मेति ब्रूयात् | अधियज्ञोहमेवेतिवत् | तथा नोक्तञ्च | तस्मात् अन्यदेव परं ब्रह्मेति निश्चीयते | प्. ८) यधेवमपि ब्रह्मपदस्य विष्णौ विद्वद्रूढिर्वा शिवे ब्रह्मविद्रूढि सुवचा तथा हि श्वेताश्वतरोपक्रमे ब्रह्मवादिनो वदन्ति किं कारणं ब्रह्मेति प्रश्नषट्कानन्तरं यःकारणानि निखिलानि तनि कालात्मयुक्ताव्यधि तिष्ठत्येन इति | स ईशानः एकोरुद्रः शिव एव केवल इत्यादि वाक्यैः ब्रह्मविदां रुद्रब्रह्मपद प्रयोगव्यवहारयोरवगमात् प्रबला च ब्रह्मविद्वद्रूढिर्विद्वद्रूढ्यपेपक्ष्या तेषां श्रेष्ठत्वात् | तथा च स्मृतिः- विद्वत्सुकृत बुद्धयः कृतबुद्धिषुवक्तारो वक्तृषु ब्रह्मवादिन इति | तस्माद्ब्रह्मपदं विष्ण्वावेव मुख्यं न भवति | नानार्थत्वात् | गवादिपदवत् | न चा प्रयोजको हेतुः | एकत्र मुख्यत्वे नानार्थेषु गवादि पदेष्वपि गच्छतीति व्युत्पत्त्या गवादिषु मुख्यत्वं अन्यत्र स्वर्गादावमुख्यत्वं च स्यात् | न चा सिद्धिः | ना ** र्थेषु परिगणनानुपपत्तेः | अनुगतस्य शक्यतावच्छेदकस्या संभवोक्तेश्च | तस्मात्परम् पुरुषः परमेश्वर एव परं ब्रह्म ब्रह्मवादिनामिति सिद्धम् || ननु शिवस्य कथं परब्रह्म परत्वम् | तल्लक्षणत्वेन वेदान्त शास्त्रे प्रसिद्धस्य जगज्जन्मादिकारणत्वस्य नारायणैक निष्ठत्वात् | प्. ९) तथा च नारायणोपनिषदिश्रूयते एकोह वै नारायण आसीत् | न ब्रह्मनेशानो नेमेद्या वा पृथिवी इत्यादिना सृष्टेः पूर्वं नारायणस्य विद्यमानत्वात् | यतो वा इमानि भूतानि जायन्ते सदेव सोम्येदमग्र आसीत् | आत्मा वा यमेक एववाग्र आसीत् इत्यादयः सामान्याकारेण नारायणमेव प्रतिपादयन्ति | पशूना यजेत | छागस्यवपाया मेदस इत्यादौ सामान्य विशेषणयोरेक वाक्यत्वस्य छागो वा मन्त्रवर्णादिति न्यायसिद्धत्वात् | नारायणाद्ब्रह्मा जायत तव इत्यादिना ब्रह्मादेरपि तत एवोत्पत्तिश्रवणाच्च | यद्यपि यदा तमस्तन्न दिवा न रात्रिर्नसन्न चा सच्छिव एव केवलः न एव रुद्रो न द्वितीयाय तस्थे | कारणं तु ध्येयस्सर्वैश्वर्य सम्पन्नस्सर्वेश्वरः शम्भुराकाशमध्य इत्यादिना शिवस्यापि सृष्टेः पूर्वं विद्यमानत्वमवगम्यते | तथापि नारायणाद्रुद्रो जायत इत्यादि ना रुद्रोत्पत्तिश्रवणात् कारणपराणां शम्भु शिवरुद्रादि शब्दान्न नारायणपरत्वमेव युक्तम् | न च ब्रह्म विष्णु रुद्रास्ते संप्रसूयन्त इति विष्णोरत्युत्पत्तिः श्रूयत इति वाच्यम् | अजायमानो बहुधाविजायत इति तस्यावतार परत्वात् | प्. १०) गीतासु च कृष्णवाक्यम् अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तत इति | अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् || विष्णुपुराणे च प्रजाः ससर्जभगवान् ब्रह्मनारायणात्मकः | प्रज * * * * र्दवो यथा तन्मे निशामय || ब्रह्मनारायणाख्योसौकल्पादौ भगवान् यथा | ससर्ज सर्वभूतानि तदाचक्ष्वमहामुने || उत्तर रामायणे च स वै नारायणो देवः शंखचक्रगदाधरः | विधाताचैव भूतानां संहर्ता च तथैव च || यस्य कार्यं भवो ब्रह्मा पितामह पितामहः | कैलासनिलयः श्रीमान् भवश्चक्रोऽथ संभव इति || तस्मात् श्रुति स्मृति इतिहास पुराणैऽऽरूपबृंहित नारायणोपनिषद्वाक्येन नारायणस्य जगज्जन्मादि कारणत्वप्रतीतमिति जगज्जन्मादिकारणत्वरूप लक्षणसद्भावात् स एव वेदान्त वेद्यं परंब्रह्मेति चेत् | अत्र ब्रूमः | यद्यपि विर्ष्णोर्जगत्कारणत्वं श्रुत्या अत्र ग्रन्थ पातः नावाभ्यां विद्यते भेदो मच्छक्तिस्त्वं न संशयः | त्वन्मयं मन्मयं सर्वमव्यक्त पुरुषात्मकम् || ज्ञाताहं ज्ञानरूपस्त्वमन्ताहं त्वं मतिर्हरे | प्रकृतिस्त्वं सुरश्रेष्थ पुरुषोहं न संशयः || प्. ११) त्वमेव माया विश्वस्य मययहं परमार्थतः || इति | एवं हरिवंश विष्णुपुराणाद्युपबृंहित परमकारणत्वप्रतिपादक श्वेताश्वतर वाक्येन शिवस्य परमकारणत्वप्रतिपादनात्स एव जगज्जन्मादि कारणम् | प्राणं मनसि सह करणैर्नादान्ते परमात्मनि संप्रतिष्ठाप्य प्रध्यायीतेशानं प्रध्यायितव्यं सर्वमिदं ब्रह्म ब्रह्म विष्णु रुद्रान्ते संप्रसूयन्ते || अकारणं कारणं तु ध्येयस्सर्वैश्वर्यसम्पन्नः सर्वेश्वरः शम्भुराकाश * * * य इति ईश्वरत्रयाणामुत्पत्तिकथनानन्तरं अकारणमिति त्रयाणामविशेषेण परमकारणत्व * * * वगमात् | कारणं तु ध्येय इति तु शब्देन पूर्वस्माद्वैलक्षण्यं प्रतिपाद्य शम्भोः परमकारणत्व विधानात् न विष्णूत्पत्तिखतारंपरा | नन्वथर्व नारायणश्रुत्योश्शिवनारायणयोस्सकाशात् ब्रह्मरुद्रोत्पत्ति खगतेति कथमुभयजन्यत्वं तयोर्विरोधात् | वस्तुनिविकल्पा संभवेना विरोधस्य कल्पभेदेन व्यवस्थापने परतत्वव्यवस्थाया असंभवेनाद्वैतमतप्रवेशेन निर्विशेष ब्रह्म परतत्व व्यवस्था प्रसंगादिति चेत् मैवम् | संहारकर्तुः रुद्रस्यैव नारायणादनन्तरमुत्पत्ति श्रवणात् | तदुक्तम् विष्णुपुराणे ततः कालाग्निरुद्रोऽसौ भूत्वासर्वहरोहरिः | शेषौ हि श्वाससंभूतै पातकानि दहत्यधः || प्. १२) वामने च तमो मयस्तथैवान्यः समुद्भूतस्त्रिलोचनः | शूल पाणिः कपर्दी चाप्यक्षमालां निदर्शयन् || उत्तर रामायणे च कैलासनिलयः श्रीमान् भवश्चक्रोथसंभव इति || भारते शिवप्रकरणे सोऽसृजद्दक्षिणादंगाद्ब्रह्माणं लोकसंभवम् | वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः | हृदयाच्च तथा रुद्रं * * * * * || इति | अथमभिप्रायः | भारतोपबृंहिताथर्व वाक्येन ब्रह्मविष्णुरुद्राणां त्रयाणामपि विशेषेण सृज्यत्वावगमात् रुद्रोत्पत्तेः कालाग्निरुद्रपरत्वात् अकारणमिति निषेधेन त्रयाणामपि कारणत्वनिषेधात् | वै लक्षण्य प्रतिपादकेन तु शब्देन त्रितयभिन्नस्यैव शम्भोः परमकारणत्व विधानात् विष्णूत्पत्तेरवतारपरत्वकल्पनस्य परमकारणाधीनत्वात् तदभावे तस्याप्ययोगात् | शिवादिपदानां कारणवाचकानां विष्णुपरत्वमयुक्तम् | पशुछाग न्याये नैव सदात्मादिपदानां नारायणादि पदानामपि शिस्र परत्वस्य वक्तुंशक्यत्वात् | तदुक्तं कैवल्योपनिषदि - स एव विष्णुस्सप्राणस्सकालोऽग्निस्स चन्द्रमाः || विष्णुपुराणे च | परमात्मा च सर्वेषामाधारः परमेश्वरः || विष्णुनामा हि वेदेषु वेदान्तेषु च गीयते || विष्णोर्नामानि यस्यासौ विष्णुनामा * * * * || धुत्तूकरः कनकाह्वयः चित्रको वह्नि संज्ञिक इत्यादिवत् प्. १३) नारायणोपनिषत्समानार्थकं अथर्वोपनिषद्वाक्यं च पूर्ववादे उदाहृतं द्रष्टव्यम् | किञ्चयः सर्वाल्लोकान् संभक्षुः संभक्ष्यति अजस्रं सृजति विसृजति वा सयति तस्मादुच्यते महेश्वर इति | प्रयोगश्च | विष्णुर्जगदादि कारणभिन्नः ईश्वरभिन्नत्वात् | ब्रह्मादिवत् | न चा भास समानयोगक्षेमत्वं पूर्वोक्त श्रुत्यादि विरोधात् | तस्माज्जगज्जन्मादि कारणत्वस्य ब्रह्म लक्षणस्य परमेश्वरे परिनिष्ठितत्वात् सदाशिवस्य परब्रह्मत्वमप्रत्यूहम् || ननु मास्तु रुद्रस्य विष्णोरुत्पत्तिः | ब्रह्मणः सकाशात् उत्पत्तिः स्यात् | तथा च भागवते विष्णुपुराणे - प्रादुरासीत्प्रभोरङ्के कुमारो नीललोहितः | रुरोद सुस्वरं सोथ प्राद्रवद्द्विज सत्तम || किं रोदिवीतितं ब्रह्मरुदन्तं प्रत्युवाच वै नाम देहातीतं सोथ प्रत्युवाच प्रजापतिम् || रुद्रस्त्वं देव नाम्नासि मारोदी धैर्यमावह | ततोन्यानि ददौ तस्मै सप्तनामानि स प्रभुः || स्थानानि चैषामष्टाना पत्नीं पुत्रांश्च वै प्रबुः | भवं शर्वं तथेशानं तथा पशुपतिं द्विज || भीममुग्रं महादेवमुवाच स पितामहः | चक्रे नामान्यथैतानि स्थानान्येषां चकार सः || प्. १४) सूर्योजलं महीवायुर्वह्निराकाश एव च | दीक्षितोब्राह्मणः सोम इत्येतास्तनवः क्रमात् || जाबालोपनिषदि ललाटात् रुद्रो जायते | नाम मे कुरु | नामाकरोदिति च || ननु ब्रह्मणः सकाशात् रुद्रस्योत्पत्तौ नारायणाद्रुद्रो जायत इति श्रुति विरोधः | न च कल्पभेदेनाविरोधः | नारायणस्य परब्रह्मत्वेन तस्मादेव सर्वोत्पत्तेर्वक्तव्यत्वादिति चेत् | न | ब्रह्मणोपि नारायणा देवोत्पन्नत्वेनाकाशाद्वायुरित्यादिवत् चतुर्मुख रूपाद्विष्णोरेव रुद्रोत्पत्तिपरत्वेनाविरोधात् | उक्तञ्चोत्तर रामायणे ब्रह्मवाक्यम् - संक्षिप्य च पुरालोकान् माययास्वयमेव हि | एकार्णवे शयानो मां त्वं वै पूर्वमजीजनः || पद्मे दिव्यार्क संकाशे नाभ्या मुत्पाद्यमामपि | प्राजापत्यं त्वयाकर्म सर्वं मयि निवेशितम् || तत्त्वं त्रयाणां लोकानामादिकर्ता स्वयं प्रभुः || इति च | तस्मात्परमकारणस्य नारायणस्य नाभिकमलोत्पन्नत्वात् ब्रह्मणः तत्सकाशाद्रुद्रोत्पत्तेः कथं तस्य परब्रह्मत्वमिति महति पूर्वपक्षे प्राप्ते ब्रूमः || चतुर्मुखस्य नारायणादुत्पत्तौ सत्यामेवैतत्सर्वमुपपद्यते | तदेव तु नास्ति | तस्य रुद्रादेवोत्पत्तेः | तथा च श्वेताश्वन्तरे यो देवानां प्रभवश्चोद्भवश्च विश्वाधिकोरुद्रोमहर्षिः | प्. १५) हिरण्य गर्भं जनयामासपूर्वं सनोबुद्ध्याशुभया संयुनक्तु || तैत्तरीयके यो देवानां प्रथमं पुरस्ताद्विश्वाधिको महर्षिः | हिरण्य गर्भं पश्यत जायमानं सनोदेवः शुभयासंयुनक्तु || यस्मात्परं ना परमस्ति किञ्चित् इत्यादि || ननु चतुर्मुखस्य नारायण नाभिकमलोत्पन्नत्वं श्रुतम् तत्कथमुपपद्यत इति चेन्न | रुद्रादुत्पन्नस्य ब्रह्मणो नारायण देहं प्रविश्य नाभिमार्गेण बहिर्गमन परत्वेन नारायण स्तुतिपरत्वात् | तथाचोत्तर रामायणे रामवाक्यम् - सुप्ते विष्णौ तथा ब्रह्मा विशेश जठरं ततः | बहुश्रुतं तु तं ज्ञात्वा महायोगी समाविशत् || नाभ्यां विष्णोस्समुद्भूतं पद्मं हेमविभूषितम् || स तु निर्गत्य वै ब्रह्मा * * ** महाप्रभुः | सिसृक्षुः पृथिवीं वायुं पर्वतान् स महीरुहान् | पुनश्च - दृष्ट्वास्वयंभुवा मुक्तो रात्रो वीक्षितस्तथा || तेन शब्देन संप्राप्तो हरो वै हरिणा सह | अथ चक्रप्रहारेण सूदितौमधुकैटभौ || इति | अत्र विष्णु शरीर प्रवेश निर्गमनयोः ब्रह्मपरित्राणाय विष्णुना सह रुद्रागमनस्य च त्वं वै पूर्वमजीजन इतिवत् न स्तुति परत्वेनार्थ वादत्वं युक्तम् | धर्मोपदेश प्रकरणत्वात् | ते नैव प्रत्यवायोक्तेश्च | वेदपादस्तवे जैमिनिवाक्यम् - प्. १६) तं नमामि महादेवं यन्नियोगादिदं जगत् | कल्पादौ भगवान् धाता यथा पूर्वमकल्पयत् || हरं सुरनियन्तारं परं तमह मानतः | यदा ज्ञया जगत्सर्वं व्याप्य नारायणः स्थितः || एवं च ब्रह्मणः सकाशात् रुद्रोत्पत्तिरप्यवतार परा | तपसा तुष्टस्य परमेश्वरस्य चतुर्मुखयाचनापरिपूरणाय वरदानप्रयुक्तत्वेन प्रादुर्भावरूपत्वात् | तथा चादित्य पुराणे पञ्चविंशाध्याये चतुर्मुखवाक्यम् - त्वामेव पुत्रमिच्छामि त्वया वा सदृसंसुतम् | त्वन्मायामोहितः शंभो न वेद्वीत्वां परं शिवम् || ईश्वरः - अहमंशेन भविता पुत्रस्तव पितामह | ज्ञानं मद्विषयं क्षिप्रं भविष्यति तवानघ || एव योगीश्वरः शार्ङ्गी ममैवांशो न संशयः | सहायत्वेन भविता ममादेशात्तवानघ || तस्माच्छेताश्वतर तैत्तिरीयक वाक्याभ्यां चतुर्मुखस्य रुद्रादुत्पत्त्यवगमात् तद्विरुद्धानां नारायण नाभिप्रभवत्व प्रतिपादकानां पुराणानां विरोधाधिकरण न्यायेनबाध्यत्वात् नारायणोपनिषद्वाक्यानां चावान्तर सृष्टि विषयत्वेनोपपादितत्वात् नारायणाच्चतुर्मुखोत्पत्तेश्च प्रवेश निर्गमरूपत्वेन नारायण कूर्मपुराणाद्यव गतत्वेन स्तुतिरूपत्वात् प्. १७) रुद्रस्य च ब्रह्म ललाटोत्पत्तेर्वरदान प्रयुक्तत्वेन प्रादुर्भावरूपत्वात् | ललाटाद्रुद्रोऽजायत इति स्वतन्त्रोत्पत्ति प्रतीतिवत् | अथर्वभारतवाक्ययोः स्वतन्त्रोत्पत्ति श्रवणाभावात् | प्रत्युत सृज्यत्वेन पारतन्त्र्यप्रतीतेः नाम मे कुर्विति रुद्राज्ञा पुरस्सरमेव नामाकरोदिति चतुर्मुखेननामकरणाच्च | तस्य च कालाग्निरुद्रत्वेन परमकारणात्परमेश्वराद्भिन्नत्व प्रतिपादनात् | इत्यभिध्यायतो नासाविवरात्सहसानघा वराहतोपि नरगादङ्गुष्ठपरिमाणतः || इति भागवत वचनेन चतुर्मुखस्य नासिकाया नारायणोत्पत्तिश्रवणात् | वामनपुराणे च - नमेऽस्ति माता न पिता तथैव निराश्रयोऽहंगिरिवासी | सुतां प्रतीच्छामि तवाद्रिराज धर्मेणदत्तांभावताभिराय || इति | ईश्वर वाक्याच्च न चतुर्मुखाद्रुद्रोत्पत्तिः | अत एव रुद्रो न परं ब्रह्म नारायण सृज्यत्वात् | अस्मदादिवदिति निरस्तम् | अनुमानमपि शिवस्य पर तत्व रूपत्वेपि रुद्रस्य पदार्थस्याग्नेर्देवतात्मनः परब्रह्मत्वाभावेनांशे सिद्धसाधनात् | तदात्मानं सृजाम्यहंमिति गीता वाक्यात् स्वसृज्यत्वेन स्वात्मन्येव व्यभिचारात् | न चात्मशब्दो देहपरः | जीवानामपि नित्यत्वेन देहस्यैव सृज्यत्वात् | न च विस्पष्टं सृज्यं स्वस्मिन्नपि समानत्वात् | हेतावाद्यभाग वैयर्थ्यात् एवमेव प्रति प्रयोग संभवात् व्याक्ताव्यक्तोभय प्रपंच जन्मादि प्. १८) कारणं ब्रह्म विष्ण्वादिजनकं परब्रह्मपरमेश्वरोगङ्गाधरस्सर्वाधिक इति सिद्धम् || अथ कथं महेश्वरस्य गंगाधरस्य सर्वाधीशत्वं गङ्गाया विष्णुपादोद्भूतत्वेन तद्धारणस्य च विष्णुपादोदक धारणत्वेन विष्ण्वाधिक्या पादकत्वात् | तथाहि - भागवते च - यत्पादनिःसृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्निविधृतेन शिवः शिवोऽभूत् | धातुर्मनः शैल निसृष्टवज्रं ध्यायेच्चिरं भगवतश्चरणारविन्दम् || तत्पाद सलिलं यथेति | आदावादि पितामहस्य निगम व्यापार पात्रे जलं पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् | पुनश्च विष्णुपुराणे गङ्गां प्रस्तुत्य - ततः प्रवहति ब्रह्मन् सर्व पापहरासरित् | गङ्गा देवाङ्गनाङ्गाना मनुलेपन पिञ्जरा || विष्णुपाद विनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम् | समन्ताद्ब्रह्मणः पुर्या गङ्गापतति वै दिवः || वाम पाद्माम्बुजाङ्गुष्ठ नखस्रोतो विनिर्गताम् | विष्णोर्बिभर्तियां भक्त्या शिरसाऽहर्निशं शिवः || अन्यानि च वचनान्यत्रार्थे द्रष्टव्यानि | प्रयोगश्च - शिवः विष्ण्वपेक्षया अधिको न भवति | यथा गुरुपादोदकधारी शिष्यः | न चा प्रयोजको हेतुः | भक्त्या पादोदकधारणस्य नैच्यज्ञापकत्वादिति || प्. १९) अत्रोच्यते | गङ्गाया विष्णुपादोद्भवत्वेपि तद्धारणस्य स्वभक्तानुग्रह हेतुकत्वेन नैच्यानापादकत्वात् | वंहिक्षीरसागरकन्या लक्ष्म्याः वक्षःस्थले निरन्तरधारणात् लक्ष्मीधरोनारायण सागरापेक्षया लक्ष्म्यपेक्षया वा नीचो भवति | किन्त्वाधिक्य प्रमाण सद्भावादधिक एव | तथा च रामायणे बालकाण्डे - देवदेवे गते तस्मिन् सोंगुष्ठाष्ठग्र निपीडिताम् | कृत्वा वसुमतीं राम संवत्सरमुपावसन् || अथ संवत्से पूर्णे सर्वलोकनमस्कृतः | उमापतिः पशुपतिः राजानमिदमब्रवीत् || प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तवप्रियम् | शिरसा धारयिष्यामि शैलराजसुतामहम् || इत्यादि वचनै भगीरथ तपसा प्रीतेन परब्रह्मणापरमकारुणि केन भगवता परमेश्वरेण भगीरथानुग्रहाय शिरसा गङ्गायाधारणेऽपि नाधिक्यहानिः | अपि च तत्रैव श्रूयते शिवाधिक्यम् - गङ्गायाः पतनंराजन् पृथिवी न सहिष्यति | तां वै धारयितुं वीरनान्यं पश्याम् शूलीनः || तत्रैव ब्रह्मवाक्यम् - रक्ष सर्वानिमाल्लोंकान् मालोक कर्तुमर्हसि | देवानाञ्च वचः श्रुत्वा सर्वलोक महेश्वरः || बाढमित्य व्रवीत् सर्वान् युनश्चेदमुवाच ह || किञ्च सर्वलोक नमस्कृतः पशुपतिश्चेति श्रुतिश्च - यस्मै नमच्छिरः | यस्मैस्तस्मैत्वाजुष्टमिति | प्. २०) एतावन्तो वै पशवो द्विपादश्चतुष्पादश्च | तस्माद्रुदः पशुनामधिपतिः | काशीखण्डेपि - ब्रह्मविष्णुसुरेशाद्याः पशवः परिकीर्तिताः | तेषां पतित्वाद्भूतेशः शिवः पशुपतिः स्मृतः || सर्वलोकनमस्कृतत्वं चाथर्वोपनिषदिति रुक्तम् - यस्सर्वाल्लोंकान् संभक्षुः संभक्ष्यति अजस्रं सृजति विसृजति वा स यति तस्मादुच्यते महेश्वर इति | अतः इतिहासपुराणाभ्यां वेदं समुपबृंहयेदिति | तौ तु मेधा विनौ दृष्ट्वा वेदेषु परिनिष्ठितौ | वे दोष बृंहणार्थाय तावग्राहयत प्रभुः || इति रामायणस्य वेदोपबृंहणार्थत्वात् | उदाथृत रामायण वाक्यनिष्ठानां सर्वलोक नमस्कृत पशुपतिशब्दानां रुद्रैक विवयाणां वेद निष्ठं तत्तत्पदार्थोपबृंहणार्थत्वेन प्रत्यभिज्ञयमानत्वात् | तत्तदुप क्रमादि विरोधाच्च न देवतान्तरपरत्वेन नयनं युक्तम् | गङ्गाया अतिशय पावनत्वं च महेश्वरसम्बन्धाधीनमित्युक्तम् | तत्रैव - ते तदेव गन्धर्वा वसुधातलवासिनः | भवाङ्ग पतितं तोयं पवित्रमिति पस्पृशुरिति || विष्णुपुराणे च शम्भो जटाकलापात् सा विनिष्क्रांता स्थिशर्करान् | प्लावयित्वादिवं निन्ये या पापान् सगरात्मजान् || वस्तुतस्तु गङ्गा न विष्.णुपादोद्भूता | किन्तु हिमवदुत्पन्ना | तथा च रामायणे राम वाक्यम् - दुहितुः शैलराजस्य ज्येष्ठाया वक्तुर्महसि || प्. २१) त्रीन् पथो हेतुना केन पावयेल्लोक पावती | कथं गङ्गा त्रिपथगा विश्रुतासरिदुत्तमा || त्रिषुलोकेषु धर्मज्ञ कर्मभिर्यैः समन्विता || तथा ब्रुवति काकुत्स्ये विश्वामित्रस्तपोधनः | इत्यादि तत्त्व वुभुत्सु प्रकरणे ब्रह्मवाक्यञ्च - इयं हैमवती ज्येष्ठा गङ्गा हिमवतस्सुता || वैनतेयवाक्यं तत्रैव - गङ्गाहिमवतो ज्येष्ठा दुहिता पुरुषर्षभ | तस्यां कुरु महाबाहो पितॄणां सलिलक्रियाम् || ननु विष्णुपुराण भागवतादिवचनैः विष्णुपादोद्भूतत्वं गङायाः प्रतीतमिति चेन्न | विष्णुपादवचनेन ध्रुवलोकादुपरि लोकस्यैव विवक्षितत्वात् | तथा च तस्मिन्नेव प्रकरणे पूर्ववाक्यम् - यावन्मात्रे प्रदेशे तु मैत्रेयोऽवस्थितो ध्रुवः | क्षमयायान्ति तावत्तु भूमिराभूतसंप्लवम् || ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः | एतद्विष्णुपदं दिव्यं तृतीयं व्योम्निभास्वरम् || अपुण्य पुण्योपरमे क्षीणाश्शेषार्ति हेतवः | यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् || इत्यादिना | अस्य प्रकरणस्य भूतादि लोक प्रतिपादन परत्वात् ध्रुवादुपरि लोकमुक्तवचनाभ्यां वर्णयित्वा ताभ्यामन्यैश्च वचनैस्तस्यैव लोकस्य विष्णुपदत्वेन प्रतिपदनपुरस्सरं प्. २२) अस्मिन् प्रतिष्ठितो भास्वामिहूतः स्वयं ध्रुवः | ध्रुवे सर्व ज्योतीषि ज्योतिः शम्भुमुचोद्विज || इत्यादिना तस्यैव विष्णुपादाख्यस्य लोकस्य सर्वाधारत्वमुक्त्वा एवमेतत्पदं विष्णोस्तृतीय ममलात्मकम् | इति तस्यैव स्वरूपं प्रतिपाद्य तस्माल्लोंकात्ततः प्रवहति ब्रह्मन् सर्वपापहरासरित् | गङ्गादेवाङ्गनाङ्गानामित्यादि पूर्वोदाहृतवचनैः गङ्गानिर्गमन वर्णनात् पूर्वोत्तर पर्यालोचनया विष्णुपदं न शरीरावयव परं किन्तु वियद्विष्णुपदं वा तु पुंस्याकाश विहायसी इत्यादि नैघंटिक प्रसिद्धाकाशपरम् | विष्णोः पदं विष्णुपदमिति योगापेक्षया तन्निरपेक्षरूढेर्बलवत्वात् | तद्बलवत्वस्य च रथकारोऽग्निमाद दधीतेत्यत्र रथं करोतीति रथकार इति व्युत्पत्त्या तेषा मध्ययनाधिकारे अध्ययनजन्य विद्यायाः संभवात् जाति परत्वे विद्या प्रयुक्ति गौरवात् त्रैवर्णिकपरत्वमेवेति पूर्व पक्षानन्तरं योगस्या वयवशक्तिसापेक्षत्वात् विलम्बित प्रतीतिकत्वेन तन्निरपेक्ष रूढेरेव शीघ्रोपस्थितत्वे बलवत्वमिति रथकारजातीय एवाधानाधिकारी | तद्वलाच्च विद्या प्रयुक्तिरपि कल्पनीयेति सिद्धान्त सिद्धत्वात् | न च वामपादाम्बुजांगुष्ठ प्. २३) नखस्रोतो विनिर्गतामिति वाक्यविरोधः | प्रकरणवशेन गङ्गाया हिमवदुत्पत्ति प्रतिपादकानेक वचनविरोधेनाकाशस्यैव मनोहरपदाम्बुजत्वेन गङ्गायाश्चतदंगुष्ठनिर्गतत्वेन चोत्प्रेक्षायाः स्तुतिसंभवात् | दृष्टञ्चाचेतनानां पदार्थानां चेतना वयवत्व निरूपणेन स्तुतिपरत्वं प्रणा उपरवाहनू अधिषवणे जिह्वाचर्म ग्रावाणोदन्तामुखमाहवनीयो नासिकोत्तर वेदिरित्यादौ || प्रमाणान्तर विरोधे च गुणवादत्वमुक्तम् भट्टाचार्यैः - विरोधे गुणवादः स्यात् अनुवादोऽवधारिते | इति | रामायण वाक्यस्य गङ्गायाः हिमवत्कन्यात्व प्रतिपादकस्य नार्थवादत्वं युक्तम् | न ते वागनृताकाव्ये काचिदत्त भविष्यति इति ब्रह्मणा दत्तस्य वरप्रदानस्य तत्रैव श्रूयमाणत्वात् | अथवा विष्णुपादांगुष्ठ नख विनिर्भिन्न ब्रह्माण्ड कटाह द्वारा अन्तः प्रविष्ट कुटिलाख्य बाह्यजल प्रवाहयोगेन पादाङ्गुष्ठप्रभवत्वस्य व्यपदेशः | तथा च वामनपुराणे - विष्ण्वंघ्रिणा प्रसरता कटाहे भेदितेऽम्बरात् | कुटिला तस्य पादाग्रात् स पारकुटिला ततः || इति | न च सैव गंगेति वक्तव्यम् | तस्मिन्नेव पुराणे पृथक् गंगोत्पत्तिवर्णनात् | इत्येवं ब्रह्मण शप्ता हिमवद्दुहिता मुने | आपो मयी ब्रह्मलोकं प्लावया मासयोगिनी || प्. २४) न च हिमवद्दुहितृत्वेन रामायण भारत वामन पुराणेषु प्रसिद्धाया गङ्गाया विष्णुपादसम्बन्धि कटाहोदकसम्बन्धमात्रेण तत्पादोदकत्वं युक्तम् | रथ्याजल योगेनापि रथ्याजलत्वा पत्तेः || ननु गंगायाः प्रथमं विष्णुपादोत्पन्नाया एव पश्चात् हिमवत्यवतीर्णायाः तस्माद्भुवंगतायाः हिमवत्कन्यात्वं जह्नु कन्यात्ववत् गौणमस्तु | जह्नुवात् हिमवतोऽपि मार्गवशेनप्राप्तत्वादिति चेत् | मैवम् | प्रथमतः हिमवतः सकाशात् मेनकायामुत्पन्नाया एव देवैर्देवकार्यार्थं स्वर्लोकं प्रतिनीतायाः पश्चाद्भगीरथानु ग्रहाय भूलोकप्ताप्तेः बहुप्रमाणसिद्धत्वात् | तथा च रामायणे - चोदितो रामवाक्येन विश्वामित्रो महामुनिः | सृद्धिं जन्म च गङ्गायाः वक्तु मेवोपचक्रमे || शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान् | तस्य कन्याद्वयं राम रूपेणा प्रतिमं भुवि || या मेरुदुहिता नाम तयोर्माता सुमध्यमा | नाम्ना मनोरमा नाम पत्नीहिमवतः प्रिया || अथ ज्येष्ठां सुरास्सर्वे देवतार्थचिकीर्षया | शैलेन्द्रं वरया मासुर्गङ्गां त्रिपथगां नदीम् || ददौधर्मेण तनयां हिमवान् लोकपावनीम् | स्वच्छन्द पथगां गङ्गां त्रैलोक्य हितकाम्यया || प्. २५) प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः | गङ्गामादाय वै गच्छन् कृतार्थेनान्तरात्मना || या चान्या शैल दुहिता कन्यासीद्रघुनन्दन | उग्रं सुव्रतमास्थाय तपस्तेपे तपोधना || उग्रेण तपसायुक्तां ददौ शैलवरस्सुताम् रुद्राया प्रतिरूपाय उमां लोकनमस्कृताम् || एते ते शैल राजस्य सुते लोकनमस्कृते | गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव || एतत्ते सर्वमाख्यातं यथा त्रिपथगा नदी | खं गतौ प्रथमं तात गतिं गमिमतांवर || सैषा सुरनदीरम्या शैलेन्द्रस्यसुतातदा | सुरलोकं समारूढा विपापा जलवाहिनी || इति || अत्र विष्णुपादोद्भूतत्वेऽस्माल्लोकाद्देव लोकप्रापणवैमर्थ्यं तदपि बहुपुराण सिद्धमिति चेत् | तदुत्पत्तिप्रतीतेर्गौणत्वात् | किमत्रविनिगमकमिति चेत् | गर्भधारणोपयुक्त मातृवर्नस्य प्रथमोत्पत्ति ज्ञापकत्वात् | अतएव धर्मशास्त्रे आत्मजत्व मौरसे मुख्यं दत्तक्रीता दिषुगौणमित्युक्तम् | ततः गङ्गाविष्णुपादोत्पन्ना न | हिमवत्कत्यात्वात् | गौरीवत् | न चा सिद्धिः | मेनका गभोत्पत्त्या तत्सिद्धेः || गङ्गाविष्णुपदी शिवश्यशिरसा धत्ते च तां भक्तिमानित्येवं शतशः पुराणवचनं तत्तत्स्तुति प्रक्रमे || प्. २६) जिज्ञासुं रघुपुंगवं प्रतिसुतोगाधेरवोचत्पुनः मेनाया हिमवत्सुतैव दिविजैर्नीता स्वलोकं प्रति || विष्णुश्च विप्रपादाम्बु शतशः सिरसा वहन् | तेभ्यः किं न्यूनता मेतीत्येवं शम्भुर्विभाव्यताम् || तदुक्तं भागवते तस्यावनिज्यचरणौ तदपश्च मूर्ध्नि बिभ्रज्जगद्गुरुतरो हि सतांपतिर्हि | अतोपविश्य पर्यङ्के स्वयं सरव्युः सहर्षणम् || उपाहृत्यावनिज्यास्य पादौ पादावतेजनिः | अग्रहीच्छिरसा राजान् भगवाल्लोंक पावनः || न च शम्भोर्विष्ण्वपेक्षया आधिक्येप्रमाणाभावः | तत्रैव - नाहं न यज्ञो न च यूयमन्ये येहभाजो मुनयश्च तत्त्वम् | विदुः प्रमाणं बलवीर्ययोर्वातस्यात्मतंत्रस्यक उद्विधत्सेत् || तस्मात्परमेश्वरस्य सर्वलोक नमस्कृतत्वादिभिः श्रुतीतिहास पुराणोक्तैर्धर्मैः सर्वोत्तरविश्वाधिका वर्णनावगमात् गंगायाश्च हिमवत्कन्यात्वावगमात् तद्धारणस्य भगीरथानुग्रह प्रयुक्तत्वाच्च परमकारुणिकः परमेश्वरः सर्वाधीशः | तथा च प्रयोगः - शिवः स्वसमानाभ्यधिकरहितः | सर्वनमस्कार्यत्वात् | सर्वेश्वरत्वात् | यन्नैवं तन्नैवम् | यथा स्मदादि वदिति केवल व्यतिरेक्यनुमानेन विश्वाधिक्य सिद्धिः | न च हेतोरप्रयोजकत्वम् | राजादौ नमस्कार्यत्वस्याधिक्य प्रयुक्तत्वात् | सर्वनमस्कार्यत्वस्य सर्वाधिक्यं विनाऽनुपपत्तेः | प्. २७) उक्तश्रुत्यादि विरोधाच्चेत्यलमति विस्तरेण || ननु शिवस्य सर्वाधिकत्वं रामायण बलान्निरूपितम् | तत्कथं युज्यते | रामायण एव - जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णोः पराक्रमैः | अधिकं मेनिरे विष्णुं देवस्सर्षि गणास्तथा || विष्णुपुराणे च - चक्रे कर्म महच्छौरिर्विभ्राणो मानुषींतनुम् | जिगायशक्रं सर्वं च सर्वदेवांश्च लीलया | जृम्भणा स्त्रेण गोविन्दो जृम्भया मासशङ्करम् || जृम्भा भीभूतस्तु हरो रथोपस्य उपाविशत् || न शशाक तदायोद्धुं कृष्णेनाक्लिष्ट कमणा || एव मन्यत्रापि भागवत हरिवंशादौ बाणासुरनिमित्तः पराजयःश्रूयते | तत्कथं शिवस्याधिक्यमिति चेत् | मैवम् | किं विष्णुपुराणवचनात् विष्ण्वाधिक्यमुच्यते रामायण वाक्याद्वा | नाद्यः | तस्मिन्नेव प्रकरणे बाणासुर बाहुछेदाख्यभुजकण्डू निवारणस्येश्वराज्ञानुसारित्वात् | तथा च श्रूयते तत्रैव - बाणोपि प्रणिपत्याथ देवमाह त्रिलोचनम् | देवबाहुसहस्रेण निर्विण्णोस्म्याहवं विना || काश्चिन्ममैषां बाहूनां साफल्य जनकोरणः | भविष्यति विना युद्धं भाराय मम किं भुजैः || शंकरः - मयूरध्वजभंगस्ते यदा बाण भविष्यति | ऐ शितासि जनानन्दं प्राप्स्यसि त्वं तदारणम् || प्. २८) इत्यादि परब्रह्मणा परम कारुणिकेन परमेश्वरेण बाणासुरमनुगृहीतं तस्याहङ्कारादि दोषप्रभवरण कण्डूतिं चापनेतुं विषवृक्षोपि संवर्घ्य स्वयं छेत्तुमसं प्रतमिति न्यायेन स्वयं तन्निवारणस्यानुचितत्वात् मुखान्तरेण तन्निवारणमभिप्रेत्य तस्मैपरमानुग्रह पर्यवसन्नं भुजकण्डूतिशामकं रणरूपं वरं मयूरध्वज भङ्गस्ते इत्यादि वाक्येनदत्तवान् | न च शंकरस्य जृम्भणं विना बाणस्य युद्धं संभावितम् | न च पूर्वं बाणासुरतपसा प्रसन्नेन परमेश्वरेणेन्द्रादिभ्योभय निवारणाय स्वपुरद्वारपालकत्वमभिलषितम् | ततो बाणस्याभिलषितं प्रतिज्ञाय द्वारे स्थितवता परमेश्वरेण युद्धं न कर्तव्यमिति युक्तं | तस्माद्विश्वराज्ञा परतन्त्रेणैव कृष्णेनेश्वरदत्तवर परिपालनायबाणः शिक्षित इति नेश्वराधिक्यहानिः | अन्यथा - अस्मात्यंश्रयदृप्तोपि नायं वध्यस्तवा व्यय | मया दत्तवरो दैत्यस्ततस्त्वां क्षमयाम्यहम् || इतीश्वराज्ञानुवर्तनं नस्यात् | अन्यथा कमलभवमनोभवयोर्निग्रहस्य प्रतीकार प्रसंगाच्च | ननु कृष्ण्स्य स्तुतिः कृतेतिचेत् निर्मत्सरा महात्मानः स्वाज्ञाकारिणः शिष्यादीन् स्तुत्वा लालयित्वा वा स्वकार्यं साधयन्तीति सर्वत्र प्रसिद्धत्वात् | अयं सर्वोपिवृत्तान्तः उषाऽनिरुद्ध विव्वह पर्यन्तः परमेश्वश्वरेण प्. २९) सङ्कल्पित इति तदभिप्रायाभिज्ञया पार्वत्या पूर्वमेवोषायैवरोदत्तः | तथा च तस्मिन्नेव पुराणे - वैशाखशुद्ध द्वादश्यां स्वप्नेयोभिभवंस्तव | करिष्यति सते भर्ता राजपुत्री भविष्यति || इति | प्रत्युत वामनपुराणे दक्षाध्वर भङ्गे रुद्रा गमनानन्तरं विष्णोः पलायन श्रवणात्साम्यमेव दुर्लभम् | कुतस्तरामाधिक्यम् || जटाधरं हरिर्दृष्ट्वा क्रोधादारक्तलोचनम् | तस्माद्देशादपाक्रम्य कुब्जो धान्तर्हितः स्थितः || अत एवाधिकं मेनिरे विष्णुं इत्यादि रामायण वचनं व्याख्यातम् द्रष्टव्यम् | आधिक्यज्ञान मात्रस्य प्रमाभ्रमसाधारणस्याधिक्या साधकत्वात् | न च देवानां तत्व ज्ञत्वं युक्तम् | आधिक्य जिज्ञासुत्वेन तत्रैव प्रतिपादनात् | सदाशिवस्य नारायणा पेज्ञयाऽऽधिक्यं नारायणस्य तत्प्रेर्यतया तदुपसर्जनत्वं त्रिपुरभंग प्रकरणे श्रूयते | रुद्र इत्यब्रुवन् | रुद्रो वै क्रूरः | अत्र तेषामसुराणां तिस्रः पुर आसन्निति त्रिपुरविजयस्य कर्तव्यत्वात् तदुपकरणत्वेन विष्णोर्बाणत्व प्रतिपादनात् तत्प्रयोक्तृत्वेन रुद्रस्य स्वतन्त्र कर्तृत्वावगमात् तदाधिक्यस्य स्फुटत्वेन अधिकं मेनिरे विष्णुमित्यादि वाक्योक्ताधिक्य ज्ञानस्य भ्रमत्वमेव युक्तम् | अन्यथा तद्धनुषो मेरोरपि भंगे प्. ३०) समर्थस्य विष्णोः रामस्य रावणादि विजयाय मेरोरेकदेश भूतरावण निकेतभूत त्रिकूटभङ्गाय बह्वायासानुभवोनस्यात् | शिवस्य तु रावणेन कैलासोत्पाटने कृते तन्निग्रहायाङ्गुष्ठचालनमेवकृतम् | न तु रामवद्वह्वायासोऽनुभूत इति व्यक्तमाधिक्यम् | तथा चाभियुक्तवचनम् - अलभ्या पातालं व्यलस चलितांगुष्ठ शिरसि प्रविष्टा त्वययासीद्ध्रुवमुपचितो मुह्यति खलः | उत्तररामायणे चा यमर्थो द्रष्टव्यः | तदाराम महादेवः प्रहसन् वीक्ष्यतत्कृतम् | पादांगुष्ठेन तं शैलं पीड्यामासलीलया || ततस्ते पीडितास्तत्र रावणस्य भुजास्तदा | विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः | तेन राक्षस मुख्येन शैलाक्रान्त भुजेन वै || मुक्तो विरावस्सु महान् त्रैलोक्यं येन पूरितम् || तस्माद्विष्ण्वंशभूतेन परशुरामेणात्मश्लाघायै उक्तस्य वचनस्याधिकंमेनिरे विष्णुमित्यस्याहंकारमूलत्वात् लोभमूलस्य वैसर्जनीय वासोध्वयुर्गृह्नातीति वाक्यस्येव हेतु दर्शनाधिकरण न्यायेनाप्रामाण्यमावश्यकमित्यलमति विस्तरेण || ननु त्रिपुर विजये परमेश्वरस्य मेरुर्धनुर्धरणीरथः चन्द्रार्कौ रथाङ्गे वेदा अश्वाः यन्ताचतुर्मुखः नारायणो बाण इति सर्वं श्रुतिस्मृतीति हासपुराणेषु प्रसिद्धम् | प्. ३१) ब्रह्माद्युप करणत्वेन तदाधिक्यं तथापि तत्रैव पूर्वोदाहृत त्रिपुरविजयप्रकरणे वेदितव्यः | तथापि पाशुपत्यवरयाचनं कथमुपपद्यते | याचनस्य दैन्यमूलत्वेन श्रैष्ठय विरोधित्वादिति चेत् | उच्यते पाशुपत्यस्या नादिसिद्धत्वेपि कृपालुर्भगवान् परमेश्वरः पाशुपत्यज्ञानस्य परमपुरुषार्थसाधनतामनुसंदधानः तज्ज्ञानशून्यान् देवान् तदुपदेशेनानु जिघृक्षुः पुरविजयरूपोपकार प्रदर्शनव्याजेनाभिमुखीकृत्य तेषांपाशुपत्यमुपदिष्टवान् | सोऽब्रवीद्वरं वृणे अहमेव पशूनामधिपतिरासमिति वाक्येन | ननु वरं वृणेति वरयाचनं प्रतीयते | तत्कथमुपपद्यत इति चेत् | मैवम् | देवानां स्वशेषत्वं तन्मुखेनैवाङ्गीकारयितुमिति वदामः | युक्तं च सर्वाप्तस्य परमेश्वरस्य पितुरिवपुत्रान् प्रत्युपदेष्टृत्वं तद्बहुमानपूर्वकमेव | देवानां पितृत्वमपि रुद्रसूक्ते श्रूयते - अतेपित मरुतान् सुम्नमेत्विति | न च पाशुपत्यानादि सिद्धत्वमसिद्धम् | प्राजापत्या वै पशवः | तेषां रुद्रोऽधिपतिः | न चास्यागन्तुकत्वं युक्तम् | वेदस्या नित्य संयोगाख्यदोष प्रसंगात् | न ह्यनादिमतो वेदस्यादिमत्पाशुपत्य प्रतिपादकत्वं युक्तम् | ननु हरिश्चन्द्रोह वै राजेत्यादीनामनादित्वं स्यादिति चेत् | तेषां प्रवाहरूपेणानादिमत्वस्य शाबरभाष्य जैमिनिसूत्राभ्यां अर्थवाद पादे अनित्य संयोगपरिहारार्थं प्रदर्शितत्वात् | प्. ३२) न च रुद्रपाशुपत्य वरणस्यापि तथात्वंयुक्तम् | एक एवरुद्रो न द्वितीयायतस्थ इत्यादि श्वेताश्वतरादि वाक्यै रुद्रैकत्वावगमात् परमेश्वरस्य स्वरूपेणानादिमत्वसंभवे प्रवाहरूपेणानादिमत्वस्यायुक्तत्वात् | सहस्राणि सहस्रशो ये ये रुद्रा अधिभवन्नित्यादीनान्तु परमेश्वरावतार रुद्रत्वान्नकश्चिद्विरोधः | किञ्चायं परमेश्वरस्य पाशुपत्यं वरदानलब्धमिति वदन् वादीवैष्णवः उतवेदबाह्यः | नाद्यः | तस्यापि देवताभ्योवरंप्राप्य समुत्थाप्य च वानरान् | अयोध्यां प्रस्थितोरामः पुष्पकेणसुहृद्वृतः || इति रामायण वाक्यस्य प्रमाणत्वात् विष्णोरपि वरयाचनाप्रयुक्तमप्रकृष्टत्वं स्यात् | श्रुतौ च | किं स्विदत्रान्तरभूतम् | येनेमे विधृते उभे | विष्णुना विधृते उभे भूमी इति प्रश्नोत्तरानन्तरम् | किं तद्विष्णोर्बलमाहुः कादीप्तिः किं परायणम् | एको यद्धारयद्देवः रेजती रोदसी उभे इत्यादिना विष्णोर्बलदीप्ति परायणद्यावा पृथिवी धारणानां किं स्वसामर्थ्य प्रयुक्तत्वमुतान्यसामर्थ्य प्रयुक्तत्वमिति प्रश्ने प्रश्नेषूत्तराणि तत्रैवान्यप्रयुक्त प्रतिपादकानि श्रुतानि | वाताद्विष्णोर्बलमाहुरक्षराद्दीप्तिरुच्यते | त्रिपदाद्धारयद्देवः यद्विष्णोरेकमुत्तमम्| अग्नयो वायवश्चैव एतदस्य परायणम् | इत्यादिना वाताक्षरत्रिपदाग्नि प्. ३३) वायवादि शब्दवाच्यैर्विष्णुबलादिकं प्रयुक्तमिति प्रतिपादनादपकर्षःस्यात् | न चात्र विष्णुशब्द वाच्यो नारायणादन्यो भवितुर्महति | द्यावापृथिवीविधारणस्या न्यस्मादशक्यत्वात् किञ्च विष्णोर्माहात्म्यस्य कर्माधीनत्वमपि श्रूयते | विष्णुर्वा अकामयत पुण्यश्लोकं शृणोमि न मामपि कीतिरागच्छेदिति विष्णोः पुण्यश्रवणकीर्तनस्य कर्माधानत्वप्रतिपादनात् | न द्वितीयः | वेदाप्रामाण्य वादिनः तव वेद प्रतिपाद्य पाशुपत्य वरणाश्रितदोषाणामाश्रयासिद्धदोषग्रस्तत्वात् | वस्तुतस्तु पाशुपत्य वरणस्याधिक्य प्रतिपादकत्वमेव | न त्वपकर्षापादकत्वम् | विष्णुकृत मधुकैटभयाचनवत् | तथा च मार्कण्डेयपुराणे - तावप्यति बलोन्मत्तौ महामाया विमोहितौ | उक्तवन्तौ वरोऽस्मत्त व्रीयतां इति केशवम् || श्रीभगवानुवाच - भवतामद्य मे तुष्टौ मम वध्याबुभावपि | किमन्येन वरेणात्र एतावद्धि वृतं मया || प्रकृते च देवताभ्यो वरयाचनस्य स्वाधिक्य पर्यवसायित्वात् अमात्यपुरोहित सामन्तादिभिः साम्राज्येऽभिषिक्तस्यापि राजकुमारस्य स्वामित्व नियामकत्व स्वातन्त्र्यादिवत् देवताभिः पाशुपत्ये प्रतिष्ठापि तस्य परमेश्वरस्य तत्प्रति योगिकस्वामित्व पर्यवसायित्वात् | तेषां च स्वनिगम्यत्वे विरोधाच्च स्वयं वरप्रवृत्ते कन्यावृते तद्भर्तृवच्चाधिक्य पर्यवसायित्वादिति शिवः सर्वाधिकः सर्वपतित्वात् | प्. ३४) व्यतिरेकेण जीववत् | सर्वेशिवादन्ये शिवेन नियम्याः पशुत्वात् अस्मदादिवत् | सर्वनियामकत्वं शिवैकनिष्ठं शिवादन्यत्रा विद्यमानत्वे सति वृत्तिमत्वात् शिवत्ववत् | न चा प्रयोजकत्वं पाशुपत्य प्रतिपादक पूर्वोक्त श्रुति विरोधादित्यास्तां विस्तरः | अथ कथं सर्वाधिकत्वं शिवादन्यत्र नास्तीत्युच्यते तदन्यस्य विष्णोरेव सर्वाधिकत्वसंभवात् | आधिक्यानाधिक्ये उपास्योपासक भावेन व्यक्तमवग्च्छामः || तथा च पद्मपुराणे परमेश्वरवचनम् - रकारादीनि नामानि शृण्वतो मम पार्वति | मनः प्रसन्नतामेति राम नामाभिशङ्कया || अन्यत्र च - मुमूर्षोर्मणि कर्णिक्यामर्धोदक निवासिनः | अहं दिशामि ते मन्त्रं तारक ब्रह्मसंज्ञिकम् || श्रीराम रामरामेति ह्येतत्तारक मुच्यते | अतस्त्वां जानकीनाथ परब्रह्म सुनिश्चितम् || त्वन्माया मोहितास्सर्वे नत्वां जानन्ति तत्वतः || तापनीये च - श्रीरामस्यमनुं काश्यांजजाप वृषभध्वजः | एवञ्चोपासकस्य शिवस्य नारायणांशभूतराम प्रतिपादकतारक ब्रह्ममन्त्र जपोपदेशाभ्यां तद्भक्त त्वमेव ज्ञापयति | तथा च प्रयोगः- शिवो नारायणापेक्षया अधिकोनभवती तद्भक्तत्वात् | तदुपासकत्वात् | तन्मन्त्रजापकत्वात् | नारदादिवत् | प्. ३५) न चा प्रयोजकत्वम् | न्यूनाधिकभावस्योपास्योपासक भावव्यापकत्वेन राजभृत्यादौ लोकसिद्धत्वात् | तस्मान्नारायण एवाधिक इत्युच्यत इति चेत् | अत्र ब्रूमः | रामतारकमन्त्रस्य विष्णुवाचकत्वे सत्वे तदुपपद्यते | न च विष्णुत्वं प्रवृत्तिनिमित्तम् | तथात्वे प्रमाणाभावात् | रमन्ते योगिनोनन्ते सत्यानन्दे चिदात्मनि इति रामपदेनासौ परं ब्रह्माभिधीयत इति स्कन्दपुराणवचनेन राम शब्दस्य परब्रह्मवाचकत्वावगमात् | न च विष्णोः पर ब्रह्मत्वेपि इदं वचनमुपपन्नमिति वाच्यम् | काश्यां रामतारकोपदेशं प्राप्यमुक्तस्यशिवत्वप्राप्ति श्रवणेन तस्य विष्णुवाचकत्वायोगात् | यथा क्रतुरस्मिल्लोके पुरुषो भवति | अचेतः प्रेत्य तथा भवतीतिश्रुतेः | अस्यार्थः - क्रतुः संकल्पः | पुरुषः आसील्लोंके यादृशसंकल्पो भवति यादृशोपासनावान् भवति | इतः प्रेत्य शरीरं त्यक्त्वा तथा भवति तादृशोभवतीत्यर्थः | गीतासु कृष्णवाक्यम् - यं यं भावं स्मरन्नित्यं त्यजत्यन्ते कलेवरम् | तं तमेवैति कौन्तेय सदा तद्भाव भावितः || भूतिलिप्ताविलासिन्या भुगङ्गपरिवारिताः | चन्द्रभूषितदेहाश्च यस्यां त्वमिवशङ्कर || रामशब्दः किं विष्णुवाचकः | उततदवतारवाचकः | नाद्यः | निघंट्वादौ विष्णुवाचक पर्यायेषु पाठा भावात् || प्. ३६) न द्वितीयः | तदवतार त्वेपि किं भार्गवस्य रामस्यवाचकः उतराघवस्य रामस्य वाचकः | उतयादवस्य रामस्य सर्वेषां नाद्यः | भवन्मते भार्गवरामस्येतरावतारवत् पूज्यत्वानङ्गीकारेण तन्नाम्नोप्यनादरत्व प्रसङ्गात् | न द्वितीयः | रामोऽहं तु भविष्यामि दुष्ट निग्रह हेतवे || हरिवंशशेषधर्मेषु मतङ्गमहामुनिं प्रति विरूपाक्षचनात् तस्य रामभद्रस्य परब्रह्मभूत सदाशिवांशत्वात् परब्रह्मवाचकरामशब्दवाच्यत्वो जपत्तेः | न च विष्णोरर्धं महाभाग कौसल्यजनयत्सुतम् | इति रामायणवाक्य विरोधः | अष्टाभिर्लोकपालानां मात्राभिर्निर्मितो नृप इति न्यायेन पालनस्य विष्णुकार्यत्वात् विष्ण्वंशगोपपत्तेः | नाविष्णुः पृथिवीपतिरिति न्यायेन | न चैतावता रामशब्दस्य विष्णुवाचकत्वं युक्तम् | शिवस्यैव प्रधानत्वात् | प्राधान्येन व्यपदेश्या भवन्तीति न्यायेन शिववाचकत्वोपपत्तेः | न च विष्णोरेव प्रधानत्वं राक्षससंहारार्थत्वादवतारस्य संहारस्य रुद्रकार्यत्वात् | एतदस्य बलंघोरं ममवात्र्यम्बकस्य वा | इति रामायणे रामभद्रवाक्येन - गगनं गगनाकारं सागरः सागरोपमः | इतिवदभेदेप्युपमानोपमेय भाव विवक्षया प्रयुक्तेन रुद्रांशस्यैव प्रधानत्वावगमात् पाञ्चभौतिकेषु घटादि पदार्थेषु पार्थिवत्वतैजसत्वादि प्. ३७) व्यवहारवत् रुद्रांशस्य प्रधानत्वात् रामशब्दस्य रुद्रवाचकत्वोपपत्तेः | दृश्यते च पुराणेषु रामस्या करेणशिवरूपत्वम् | यथा शत्रु भये चोर भये राज भये तथा | ध्यात्वा रघुपतिं क्रुद्धं कालानलमिवापरम् || पीतकृष्णाजिनधरं भस्मोद्धूलितविग्रहम् | आकर्ण * * * कृष्टकोदण्ड भुजमण्डलम् || जानकी लक्ष्मणोपेतं जटामकुटमण्डितम् || इत्यादीनां जटाधारण भस्मोद्धूलनादीनां शिवभेदज्ञापकत्वात् | अत एव रामभद्रस्य रामेश्वराद्यनेक लिङ्गप्रतिष्ठापकत्वेन शिवपूजा सम्प्रदाय प्रवर्तकत्वेन च शिवलिङ्गप्रतिष्ठाता सर्वावगुणवर्जित इति रामाष्टोत्तरशतदिव्यनामस्तोत्र वचनैश्च शिवराघव संवादादि पुराणसंहितानी प्रतिपाद्यमानत्वात् | * * *त्वेन रामशब्द वाच्यत्वम् | एतेन तृतीय चतुर्थपक्षावपि निरस्तौ | रामस्य * * * * * ब्रह्मत्व * * * भावात् | नापि चतुर्थः | अवताराणामादिमत्वेन रामशब्दस्य तद्वाचकत्वे शब्दार्थयोरनित्य सम्बन्धे औत्पतीकश्च शब्दस्यार्थेन नित्यः सम्बन्ध इति जैमिनीयसूत्र विरोधः स्यात् | न च तदवतारमूल नारायणत्वानादि त्वेन तत्संबन्धोप्य नादिरिति वाच्यम् | तद्वाचक पर्यायेषु पाठाभावस्योक्तत्वात् | न च विष्णु सहस्रनामपाठाद्विष्णुवाचकत्वं प्. ३८) शिवसहस्रनाम पाठा तद्वाचकत्वोपपत्तेः | एवं च राममन्त्रोपासनया मुक्तस्य शिवत्व प्राप्त्या वैकुण्ठ लोकमप्नोति दशपूर्वैर्दशापरैरित्यादीनां रामोपासकस्य वैकुंठ प्राप्ति प्रतिपादक दक्षपुराण वचनानां च शिवलोक प्राप्ति मार्गभूतार्चिरादि देवताप्राप्ति वदुपपत्तेः | विष्णुलोक कामनयानुष्ठान विषयत्वेन वा अविरोधात् | रामस्य हरिवंश शेष धर्मवचनानुसारेण रामभद्रस्य सदाशिवावतारत्वेन तद्वाचकस्य शिव परत्वात् | रामेश्वरादि प्रतिष्ठापकत्वेन जटाभस्मधारित्वेन च शिवत्वनिर्णयात् तद्वाचकस्य रामतारक मन्त्रस्य सत्यानन्द चिदात्मक ब्रह्मवाचकत्वात् तादृशराम मन्त्रजपोपदेशयोः लोकानु ग्रहार्थत्वात् परब्रह्मणः परमेश्वरस्य नाधिक्य हानिरिति सिद्धम् || स्यादेतत् | रामादिभिर्यदि शिव प्रतिष्ठादिकं कृतं कथं तर्हि शिवप्रसाद निषेधः | न च विहितत्वा * * * * कर्तव्यं निषिद्धत्वात् प्रसादादिकं न स्वीकर्तव्यमिति युक्तम् | हविश्शेषभक्षणाभावे कृष्णविषाणां प्राश्यतीतिवत् भूतोपयोगि संस्काराभावेन याग वै गुण्यवत् प्रसाद भक्षणाभावे पूजायाः वैगुण्यप्रसंगात् प्रसादग्रहणं | प्रसादभक्षणाभावे आत्मार्थपाकस्य केवलोघो भवति केवलादी | भुञ्जते ते त्वघं पापं ये पचन्त्यात्मकारणात् | इति श्रुति स्मृतिभ्यां निषिद्धत्वेनस्या भाव प्रसंगात् | तस्माच्छिव प्रसाद निषेधः पूजा निषध पर्यवलायी | प्. ३९) नैवं विष्णु प्रसाद निषेधः प्रत्युत विहितस्तत्पूजा च | तदुक्तं भागवते - त्वयोपभुक्तस्रग्गन्ध वसोलंकार चिर्चिताः | उच्छिष्टभोजनादानास्तव मायां जयेमहि || अन्यत्र च - अकाल मृत्युहरणं सर्वव्याधि विनाशनम् | समस्त दुरितध्वंसि विष्णोः पादोदकं शुभम् || पुनश्च - आजन्म कृतपापानां प्रायश्चित्तं विधित्सुभिः | सालग्रामशिलावारि पापहारि निषेव्यताम् || शिवप्रसादस्य तु अ* * * मम नैवेद्यं निम * * तथा | यः स्वयं * * लोकेऽस्मिन् प्रायश्चित्ति भवेन्नरः || इत्यादिवचनैः शिवप्रसादस्य निषिद्धत्वादिति चेन्न | यद्यपि शिवप्रसाद निषेधः क्वचित् क्वचिच्छ्नुतः तथा पितत्स्वीकारो विहितत्वादवश्य कर्तव्यः | न च विधि निषेधयोर्विरोधः | निषेधस्य रागतः प्राप्तविषयत्वेन विहितेतरपरत्वात् | न हि स्यात् सर्वा भूतानि | अग्नीषोमीयं पशुमालभेत इतिवत् | तथा च श्रुतिः - ईशावास्यमिदं सर्वं यत्किंच जगत्यां जगत् | तेन त्यक्तेन भुञ्जीथामागृधः कस्यस्विद्धनम् || अत्रेशशब्दस्य शम्भुरीशः पशुपतिरिति शिवे रूढत्वात् पिकमालभेतेत्यादौ म्लेच्छ प्रसिद्धेरपि शब्दार्थनिर्णय हेतुत्वाभ्युपगमात् | तृतीयान्तत्वेपि ईश ऐश्वर्य इति धातूत्पन्नत्वेन सदा शिवपरत्वात् | इना देशा भावस्य भद्रं कर्णे भिरित्यादिवच्छान्द सत्वे नाप्यु * * * प्. ४०) दविधानात् भोजनार्थत्वावगते तद्विहित भोजनसाधनत्वेन तेनत्यक्तेनेति व्याधिकरण तृतीयाद्वयेन परमेश्वरमुक्त परित्युक्त द्रव्येण भोजनं सम्पादयेदिति विध्यर्थपर्यवसानात् मागृधः कस्यस्विद्धनमिति इतर निन्दार्थवाद योगना न कर्मणा न प्रजयाधनेन त्यागेनैकेऽमृतत्वमानशुरितिवत् विधित्व निश्चयात् | उपांशुयागमन्ता यजतीत्यस्य विधित्वकल्पनवद्विधित्वोपपत्तेः विहितस्य प्रतिषेधे विकल्पोच्छेदात् | आदित्यपुराणे - ब्रह्मघो वा सुरापी वा स्तेयी वा गुरुतल्पगः | योऽन्त्यकाले शिवं स्मृत्वा शिवसायुज्यमाप्नुयात् || निर्माल्यं धारयेद्भक्त्या शिरसा पार्वतीपतेः | राजसूयस्य यागस्य फलमाप्नोत्यनुत्तमम् || शिरसा शिवनिर्माल्यं भक्त्या योधारयिष्यति | अशुचिर्भिन्न मर्यादः सर्वावस्थां गतोऽपि वा || स्वैरीवा मदमत्तो वा नियमैश्चबहिष्कृतः | तस्य पापानि सर्वाणि नाशयत्येव शङ्करः || लोभा * * * * येच्छंभोर्निर्माल्यं न च भक्षयेत् | न स्पृशेदपि * * * * लंघयेन्नापि ना * * * || निर्माल्यलंघनं * * * * * भ्रंशो भिजायते | निर्माल्य दाता नरके पच्यते कालमक्ष्यम् || पुरुदकं महातीर्थं गंगा च यमुना नदी | नर्मदा चैव कावेरी तथा गोदावरी नदी || प्. ४१) सदा सन्निहितास्त्वेताः शम्भोः पादोदके मुने | शम्भोः पादोदकं सेव्यं सर्वतीर्थमयं हि तत् || धारणात्पापसंघातैस्तत्क्षणादेवमुच्यते || लिंगे स्वयंभुवे बाणे रत्नजे रसनिर्मिते | सिद्ध प्रतिष्ठिते चैव न चण्डाधि कृतो भवेत् || तस्मादेतैर्वचनैः निर्माल्यस्य विहितत्वात् निषेधवचनानाञ्चा भ्क्तविषयत्वेन रागतः प्राप्तविषयत्वेन श्रुतिवाक्यादेव व्यवस्थितत्वात् | भक्त्या निर्माल्य सेवाया अनन्तफलसाधनता प्रतिपादनात् | भागवते चतुर्थ स्कन्धे - तत्किं शिवाख्यमनिशं न विदुस्तदन्ये ब्रह्मादयस्तमवकीर्य जटाश्मशाने | तन्माल्य भस्मनृकपाल * * * त्पिशाचै र्यन्मूर्धभिर्दधति तच्चरणावसृष्टम् || रामायणे - तत्र देवर्षि गन्धर्वा वसुधातल वासिनः | भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः || इति || विष्णुपुराणे- शम्भोर्जटाकलापात्सा विनिष्क्रान्तास्थि शर्कराः | प्लावयित्वा दिवंनिन्ये या पापान् सगरात्मजान् || आदित्थपुराण भागवतरामायण विष्णुपुराणवाक्यैः उपबृंहिते नेशावास्य वाक्येन विहितत्वात् शिवप्रसाद पादोदक निर्माल्य सेवा सर्वैरपि कर्तव्या || तथा च वातूलागमे - पादोदकं पुरभिदः पाशजालहरं परम् | शूलकुष्ठाद्यपस्मारज्वराणां भेषजं प्रिये || प्. ४२) स्कान्दे - निर्माल्य सलिलं पीत्वा देवदेवस्य सुचिः | क्षयापस्मारकुष्ठादि पातकैरपि मुच्यते || तथा च प्रयोगः - शिवप्रसादादि सेवा निरतिशयपुरुषार्थ हेतुः | तत्त्वेन वेद विहितत्वात् | अश्वमेधादिवत् | प्रसादादि सेवा बलवद निष्टा ननु बन्धीष्टसाधनम् | विहितत्वात् ज्योतिष्टोमादिवत् | न चा प्रयोजकत्वम् | विहिते प्रतिषेधाभावेन बलवदनिष्टा ननु बन्धित्वात् | विधेयस्यबलवदनिष्टानु बान्धित्वे वेदस्यानाप्त प्रणीतत्वप्रसंगः | न च श्येनादिर्विहितत्वेन हेतोर्व्यभिचारः | नाभिचरित वै | अभिचारं छागहीनं त्रिभिः * * * व्यपोहति | इति निषेध प्रायश्चित्तोपदेशाभ्यां श्येनादौ विध्यर्था भावेन अप्रवृत्त प्रवर्तकत्वा भावात् | वैरिवध प्रवृत्तस्य नियोज्यत्वेन साधनत्वमात्रपरत्वात् | अविगीतत्वं वा विशेषणं देयमिति बुद्धिमद्भिरुहनीयम् || अत्र केचिच्छिव प्रति पादकानां पुराणागमानां तामसत्वं प्रतिपादयन्ति | तेषां मयमाशयः | मत्स्यपुराणे- संकीर्णास्तामसाश्चैव सात्विकाराजसास्तथा | यस्मिन् कल्पेषु यत्प्रोक्तं पुराणं ब्रह्मणपुरा || तस्य तस्य तु माहात्म्यं तत्वरूपेण वर्ण्यते | अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते || राजसेषु तु माहात्म्यंमधिकं ब्रह्मणो विदुः | प्. ४३) सात्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः || येष्वेव योग संसिद्धा गमिष्ठष्यन्ति परांगतिम् || संकीर्णेषु सरस्वत्याः माहात्म्यमधिकं विदुः || इति | एतदुक्तं भवति | अधिक्षेत्रज्ञ * * * * ब्रह्मणः तस्यापि केषुचिदहस्सु सत्वमुद्रिक्तम् | केषुचित्तमः | केषुचिद्रजः | तथा च केचिद्ब्रह्म कल्पासत्वप्रायाः | केचिद्रजः प्रायाः | केचित्तमः प्रायाः | एतेन सत्व प्रायेषु तदितरेषु चाहवप्सु यानि पुराणानि ब्रह्मणा प्रोक्तानि तेषां परस्पर विरोधेसति सात्विकाहः प्रोक्तं पुराणमेव यथार्थम् | तद्विरोध्यन्यद यथार्थं सत्वनिष्ठेन ब्रह्मणाप्तोप्रोक्तत्वात् | गीतासु च - सत्वात्सं जायते ज्ञानं रजसा लोभ एव च | प्रमाद मोहौ तमसा भवेतां ज्ञानमेव च || प्रवृत्तिं च निवृत्तिं च कार्या कार्ये भयाभये || बन्धमोक्षञ्च योवेत्ति बुद्धिस्सापार्थसात्विकी || यथा धर्ममधर्मञ्च कार्यञ्चा कार्यमेवं च | यथावत् प्रविजानाति बुद्धिस्सापार्थराजसी || अधर्मं धर्ममिति या मन्यते तमसा कृता || सर्वार्थान्वि परीतांश्च बुद्धिस्सापार्थ तामसी || इति | सर्वान् पुराणार्थान् ब्रह्मणस्सकाशा दधिगम्यैवसर्वाणि पुराणानि पुराण काराश्चक्रुः | यथोक्तम् - कथयामि यथा पूर्वं दक्षाद्यैर्मुनिसत्तमैः | प्. ४४) पृष्ठः प्रोवाच भगवानब्जयोनिः पितामहः || तस्मात्सत्वाद्युद्रेकवता ब्रह्मणा सात्विकादिषु प्रोक्तत्वात्सात्त्विकादि व्यपदेशः | पुराणानाम् - अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यत इति वचनात् शिवप्रतिपादकानां पुराणानां तामसत्वं तत्प्रतिपाद्यत्वाच्च शिवस्य तामसत्वम् | न च तस्य श्रेयः प्रापकत्वं तमसा मोह एव चेत्यादि वचनात् | सत्त्वात्सञ्जायते ज्ञानंश्रेयांसि | तत्र खलुं सत्वतनोः नृणां स्युरिति भागवत वचनात् तत्प्रधानत्वात् विष्णोरेव श्रेयः प्रापकत्वम् | अन्ये तु - एव मोहं सृजाम्याशु योजनान्मोह इष्यति | त्वं वै रुद्र महाबाहो मोहशास्त्राणि कारय || अतथ्यानि वितथ्यानि दर्शयस्व महाभुज | प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु || इत्यादि वराहपुराण वचनेन शिव प्रतिपादकानां मोहार्थकत्वेना प्रामाण्यमिति वदन्ति | तदयुक्तम् | यद्यपि तमो गुणस्य मोहहेतुत्वं सर्वसिद्धं तथापि शिवस्य तत्प्रतिपादकपुराणा गमानां च न तामसत्वं प्रमाणाभावात् | तथाहि - किमिदं तामसत्वं तमोगुणजन्यत्वं वा स्वेतरगुणा संसृष्ट तमोजन्यत्वं वा | इतरानभिभूत तमो जन्यत्वं वा तमोगुणजन्य विशिष्टत्वं वा तमोविशिष्ट कर्तृकत्वं वा तमोगुण विशिष्ट प्रतिपादकत्वं प्. ४५) वा तमोगुणप्रधान प्रतिपाद्यत्वं वा अन्यद्वा | नाद्यः रुद्राद्यात्मनां नित्यत्वेना तामसत्वात् | सर्वस्य प्रपञ्चस्य गुणत्रय जन्यत्वेन त्वत्संमतानां पुराणागमानामपि तामसत्व प्रसंगात् | न च तमोमात्र जन्यत्वं वा विवक्षितम् | एकस्यानारम्भकत्वेनासिद्धेः | अत एव न द्वितीयः | सर्वस्य गुणस्य गुणान्तरयुक्तस्यैव जनकत्वेनेतरासंसृष्टतमोगुण जन्यत्वस्या प्रसिद्धत्वात् | न तृतीयः | रुद्रस्य नित्य सिद्धत्वेन प्रकृते तदसिद्धेः | तत्कर्तृकाणां शैवागमानां अष्टादश पुराणानां कर्ता सत्यवती सुतः | आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पशुद्धिभिः || पुराणसंहितांचक्रे पुराणार्थ विशारद || इति विष्णुपुराणवचनात् व्यासकृतानां सर्वेषामपि तामसत्वा भावात् | अन्यथा त्वदभिमतानामपि तामसत्वप्रसङ्गस्तुल्यन्यायत्वात् | नन्वस्तु तमोगुणजन्य देहादिविशिष्टस्य रुद्रस्य तामसत्वमिति चतुर्थः पक्षः | रुद्रस्य संहारकर्तृत्वेन संहारस्य तमोगुण कार्यत्वेन सर्वपुराण प्रसिद्धत्वादिति चेन्मैवम् | विष्णोः संहार कर्तृत्वाभावेनानीश्वरत्व प्रसंगात् | न च संहारं प्रतिरुद्रादिशरीरद्वाराकारणत्वं विष्णोः पालनं प्रति तु साक्षादेवेति वाच्यम् | प्. ४६) साक्षात्संहारकर्तृत्वस्याग्नावभावेन तस्य तामसत्वासिद्धेः | त्वया सङ्कर्षणस्यैव संहर्तृकत्व कथनाच्च | सर्वत्र साक्षाद्वा परम्परयावा कारणत्वसंभवे तारतम्यकल्पत्रयां प्रमाणाभावेन तस्यापि तामसत्व प्रसङ्गात् | वैपरीत्यस्यापि सुवचत्वाच्च | पालनस्य प्राकृतसत्वगुणप्रयोज्यत्वेन विष्णोरपि प्राकृतत्व प्रसंगात् | तस्यापि भूभारावताराय दैत्यादि संहारकर्तृत्वेन रुद्रस्यापि कालकूट किलनान्धकारसुर त्रिपुरादि निग्रहद्वारा जगद्रक्षकत्वस्य पुराण प्रसिद्धत्वेन सात्त्विकत्व तामसत्व व्यत्ययप्रसंगाच्च | या ते रुद्रशिवा तनूरघोरा पापकाशिनी | तया नस्तन्वा शंतमया गिरिशत्वमभिचाकशीति शिव शरीरस्य तामसत्व निषेधाच्च | अस्यार्थः - हे गिरिश हे रुद्र अपापानां काराते प्रकाशत इत्यपापकाशिनी | शिवाक्षेमंकरी या तनूः शरीरं शंतमया आत्यन्तिक सुखहेतु भूतया तन्वानः अस्मान् प्रतिचाकशीहि प्रकाशस्वेति | न हि तामसस्य शरीरस्याघोरत्वं आत्यन्तिकसुखहेतुत्वं अपापान् प्रति प्रकाशमानत्वं वा संभवति | तस्माच्छिव शरीरस्य न तामसत्वम् | तर्हि संहारस्य तमः कार्यत्वप्रतिपादकानां पुराणानां का गतिरिति चेत् घोरशरीरविषयत्वात् | तथा च श्रुतिः - रुद्रो वा एव यदग्निस्तस्ये ते ते प्. ४७) तनवौ घोरान्या शिवान्येति | प्रत्युत शिवस्यैव निष्ण्वादि शरीरद्वारा पालनादि कर्तृत्वं वक्तुंयुक्तम् | श्रूयते च विष्णोरुद्रशरीरत्वम् यद्वसोर्धारां जुहोति यैवास्यशिवा तनूस्तां तेन प्रीणाति आग्निर्वसुस्तस्यैषा धारा विष्णुर्वसुस्तस्यैषा धारा वसोर्धारां जुहोति | अज्ञाग्नेर्विष्णोश्चरुद्रशरीरत्वाभावे तदुभय देवताक वसुधाराहुत्यारुद्रतनूः कथं प्रीता भवति | विनियुक्त विनियोग विरोधात् | तदुक्तम्शिवागमे - घोरा तनूस्तव ब्रह्मन् आपोधर्मश्च चन्द्रमाः | शिवा तनूस्तव ब्रह्मन् सूर्योविष्णुर्हुताशनः || अत्र विष्णोः शिवशरीरत्वेन विष्ण्वाधिक्य प्रतिपादकपुराणागमानां शिवाधिक्यपरत्वमेव निश्चीयते | शरीराधिक्यपराणामलंकार स्तोत्रादीनां शरीरिणि पर्यवसानात् | नन्वस्तु पञ्चमः | तमोगुण प्रचुरेषु कल्पेषु तद्विशिष्टेन ब्रह्मणा कृतानि पुराणानि तामसानि | तत्प्रतिपाद्यत्वाच्छिवस्यापि तामसत्वमिति चेत् तामसेषु कल्पेषु ब्रह्मणा कृतानां पुराणानां अस्मिन्वर्तमाने श्वेतवराहकल्पेऽनुवर्तमानत्वे प्रमाणाभावात् | अस्मिन्नपि कल्पेऽष्टाविंशति तमेन व्यासेने दानीन्तनपुराणकरणस्य श्रूयमाणत्वात् | तदुक्तं विष्णुपुराणे - वैवस्वतेन्तरे तस्मिन् द्वापरेषु पुनः पुनः | वेदव्यासा व्यतीतायेऽष्टाविंशति सत्तम || प्. ४८) वर्तमानस्य पराशरात्मजस्य वेदव्यासस्य प्रवर्तमानसर्वपुराण कर्तृत्वं च तथैवश्रुताम् | पुराणसंहितां चक्रे पुराणार्थ विशारद इति | तानि चाष्टादश पुराणानि तत्रैव गणयित्वोत्पत्ति क्रमापेक्षया क्रम उक्तः | एतद्वैष्णव संज्ञं वै पाद्मं तु तदनन्तरम् | एवमर्थानामपि कर्तमानकल्पस्थरामकृष्णादीनां युदुवंशप्रभवत्वात् | दक्ष कन्यानिमित्तदक्षाध्वरध्वंसादीनामेतत् कल्प मध्यस्थत्वात् | एतत्कल्पस्थ शैव वैष्णव प्रभाव प्रतिपादकानां एतत्कल्पजातेनाष्टाविंशति तमेन व्यासेन कृतानां पुराणानां परस्परम् बलाबलचिन्तायां बहुकाल व्यवहितानां तामसादिब्रह्मकल्पानां उपन्यासो निरर्थकः | कथं प्रतिपादकस्य भ्रान्तिं नापादयतीति चिन्तनीयम् | ननु पुराणकाराणां पुराणकर्तृत्वं ब्रह्मणस्सकाशात्पुराणार्थानधिगम्यैवेत्युक्तम् | सत्यम् यत्रातीतकल्पस्थाः पुराणार्थाः ब्रह्मणापुराणकारैश्चते तथैव प्रतिपाधन्ते | यथा पद्मकल्पे मार्कण्डेयस्य परमेश्वरानुग्रहः | यत्र तु वर्तमानकल्पास्याः पुराणार्थाः रामावतार कृष्णावतार वराहावतार प्रभृतयः | यथा वा कालकूटभक्षण दक्षाध्वरध्वंसादयः | तेप्येतत्कल्पस्यत्वेनैव ब्रह्मणा उपदिश्यन्ते | पुराणकारैरपि तथैव प्रति पाद्यन्ते | तेषां परस्पर विरोधे स्वाभिमतपुराणाधिक्य निर्णय हेतु मपश्यता बहुकाल व्यवहितातीत कल्पाना प्. ४९) सात्विकतामसत्वाद्युपन्यासः कुत्रकेन संगत इति जानीमः | नापिषष्ठः | रुद्रसम्बन्धिनो घोर शरीरस्य संहारकत्वेन तमोविशिष्टत्वेपि तच्छरीरिणः परमेश्वरस्य तद्वोतीतत्वात् | तथा च कैवल्योपनिषदि - उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशासम् | ध्यात्वामुनिर्गच्छति भूत योनिमिति || यद्यपि देवदत्तादौ तमोगुण प्रधान शरीरादि विशिष्टे तामसत्वस्य व्यवहारो लोकेदृष्टः | तथापि न तन्मात्र विशिष्टत्वेन प्रतिपाद्यः परमेश्वर संबन्धानां तमोतीतानां अलौकिकप्रकाशरूपाणामनेकेषां विग्रहाणां प्रमाण प्रसिद्धत्वात् | तथा च स्थिरेभिरङ्गैः पुरुरूप उग्रोबभ्रुः शुभ्रेभिः पिपिशे हिरण्यैः इत्यत्र शुक्लेभिरिति शुक्ल शब्देन सत्त्वमयत्वमुच्यते | लोहितशुक्ल कृष्णामितिवत् | अन्यथा विष्ण्वाधिक्यवादिनां मते तमोविशिष्ट विष्णु प्रतिपादकत्वेन वैष्णवानां पुराणानामपि तामसत्वप्रसङ्गः | कथमन्यथा विष्णोर्भूभारावतरणाय यादव कौरव दैत्यादि संहारकत्वं कथं वा दैत्य व्यामाहेनाय महामोहाख्य पुरुषरूपेण दैत्यव्यामोहक बुद्धजिनादि शास्त्रप्रणेतृत्वम् | तदुक्तं विष्णुपुराणे- इत्युक्तो भगवान् तेभ्यो माया मोहंशरीरतः | समुत्पाद्य ददौ विष्णुः प्राह चेदं सुरोत्तमम् || माया मोहोऽयमखिलान् दैत्यांस्तान्मोहायिष्यति | ततो बध्याभविष्यन्ति वेदमार्गबहिष्कृताः || न हि स्वस्य तमो वै शिष्ट्या भावे महामोहस्यान्यत् प्रसिद्धं प्. ५०) उपादानम् | येन स्वशरीरस्य तामसत्वं नस्यात् | ननु विष्णोः कार्यार्थं तमोगुणसाहित्येपि तस्य सत्वेनाभिभूतत्वात् न प्राधान्यम् | रुद्रस्य तु सत्व रजसी तमसैवाभिभूते इति प्रधानं तमः तद्विशिष्टतया संहारादि कर्तृत्वेन प्रतिपाद्यत्वमिति सप्तमः पक्षः कक्षी क्रियतामिति | मैवम् | शत्रुसंहारमात्र प्रयोजकेषु नृसिंहाद्यवतारेषु तत्प्राधान्येनतामसत्व प्रसङ्गात् शिवस्य तमोमय त्वस्य निरस्तत्वेन पक्षेवाधितत्वाच्च | नान्त्यः | यः संहारकर्ता तामसः तस्यापि कश्चित्संहारकोऽस्ति नवा | अस्ति चेत् तामसत्वेपि स एव सर्वाधिकः सर्वसंहार स्वतन्त्रत्वात् | नास्ति चेदयमेव तामसस्सर्वाधिक इति तामसत्वं सर्वसंहर्तृत्वात् सर्वाधिकत्वव्याप्तमिति विरुद्धो हेतुः | तस्माद्रुद्रः सर्वाधिकस्सर्वसंहर्तृत्वात् व्यतिरेकेण जीववत् | न चाप्रयोजको हेतुः | प्रबलदुर्बलभावं विना बाध्यबाधक भावस्यैवासंभवात् | सात्विकत्वस्य बाध्यत्व व्याप्तेः संहारं प्रतिविरुद्धत्वात् | मृदुःसर्वत्र बाध्यत इति न्यायेन | न च साध्याप्रसिद्धिः | विश्वाधिकोरुद्र इति पक्ष एव प्रसिद्धेः | तदनुग्रहार्थत्वादनुमानस्य न सिद्धसाधनत्वम् | एवं सात्विकत्वमुक्त प्रकारेण विकल्प्यदूषणीयम् | ननु सत्वगुण प्रधान विष्णु प्रतिपादकत्वेन पुराणानां सात्त्विकत्वं विष्णोः सत्त्वप्राधान्यं च | भागवते - सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एव इहास्य धत्ते | प्. ५१) सृष्ट्यादयो हरिविरिञ्चि हरेति संज्ञाः श्रेयांसि तत्र खलु सत्व तनोर्नृणांस्युः || इति विष्णोः श्रूयत इति चेत् | न | विष्ण्वाधिक्य प्रतिपादकानां मार्कण्डेयादि पुराणानां सात्विकत्व प्रसंगात् | रुद्राधिक्य प्रतिपादकानां पद्मपुराणादीनां तामसत्वप्रसङ्गात् | पद्मपुराणे पूर्वोत्तरखण्डाभ्यां हरिहरयोराधिक्य वर्णनात् तदंशेतामसत्वमिष्टमिति चेत् | रामायण भागवतादावपि तदंशेतामसत्व प्रसंगात् | रामायणे बालकाण्डे- तां वै धारयितुं राजन् नान्यं पश्यामिशूलीनः | उमापतिः पशुपतिः सर्वलोकनमस्कृतः || इति | युद्धकाण्डेऽपि एतदस्त्र बलंघोरं ममवात्र्यम्बकस्य वा || इति | उत्तरकाण्डे च - कैलासनिलय यन्त्रणेन रावण निग्रहेन्द्रजिदनु ग्रहादिवर्णनस्य बहुतरत्वात् | रावणविनाशस्यापि रुद्रावज्ञानिमित्तत्व वर्णनात् | अथ राम महादेवः प्रहसन् वीक्ष्यतत्कृतम् | पादांगुष्ठेन तं शैलं पीड्यामास लीलया || ततस्ते पीडितास्तत्र शैलस्याधोगता भुजाः || पुनरपि तस्मिन्नेव - शुशुभे तत्र तल्लिङ्गं नानारत्नविभूषितम् | अर्चयित्वा तु तं देवं यथा चरति रावणः || तत्सर्वं सिध्यते तस्य विधिर्नार्चयतो हरम् | अथावज्ञां करोत्येष रावणो दुर्मतिर्यदा || प्. ५२) ऋषिभिर्देवतैश्चास्य मृत्युः संचिन्त्यते तदा || स तु मत्तो न जानीते विधिहीनं शिवार्चनम् || एवमिन्द्रजितोपि बहुवारं कपिसेनासहितस्य रामस्य परा * * * कारणीभूतं वरदानादिकं महेश्वरकृतमिति शिवाधिक्यं बहुधाद्रष्टव्यम् | एवं विष्णुपुराणेपि - बाणासुरामरत्व वरप्रदानादिकमपि द्रष्टव्यम् | न चैतस्यापि शिवाधिक्य प्रतिपादकस्य तामसत्वं वक्तुं युक्तम् | न ते वागनृता काव्ये काचिदत्र भविष्यति | इति ब्रह्म वाक्यविरोधात् | एवं भागवते चतुर्थस्कन्धे अदिति कश्यपसंवादे न यस्य लोकेस्वजनः परो वा नात्यादृतो नो त कश्चिद्विगर्ह्यः | वयं व्रतै यच्चरणापविद्धामाशास्महेजांबत भुक्तभोगाम् || यस्या न वद्यं चरितं मनीषिणो गृहान्तविद्यापटलाद्विभत्सवः | निरस्त साम्याति शयोपि यः स्वयं पिशाचचर्यामचरद्गतिस्सताम् || हसन्ति यस्याचरितं हि दुर्भगा स्वात्मस्मृतस्या विदुषः समीहितम् | यैर्वस्त्रमाल्याभरणानुलेपनैः इव भोजनं स्वात्मतयो पलालितम् | ब्रह्मादयो यत्कृत सेतुपालायत्कारणं विश्वमिदं हिमाया || आज्ञाकरी तस्य पिशाचचर्येत्यहो विभूम्नश्चरितं विडम्बनम् || प्. ५३) श्मशानचक्रानिलधूलिधूम्र विकीर्णविद्योत जटाकलापः | भस्मावकुण्ठामलरुक्मदेहो देवस्त्रिभिः पश्यति देवरस्ते || न चैतेषामापि शिव प्रतिपादकत्वेन तामसत्वम् | प्रथमश्लोकस्य भुक्तभोगामजोन्य इति द्वितीयश्लोकस्य यस्मात्परं ना परमस्ति किञ्चिदिति तृतीयस्य स्थेम्नि सर्वं प्रतिष्ठितमिति यो ब्रह्माणं विदधाति पूर्वमित्यादि श्रुति समानार्थत्वेन तामसत्वयोगात् | एतद्विरोधेन विश्वाधिक्य प्रतिपादकानां प्रामाण्यप्रसंगात् | प्रत्यक्षश्रुतिसंवादिनां शिवाधिक्य प्रतिपादकानां पुराणागमानां वाक्यानां स्मृत्यनवकाशाधिकरणे प्रत्यक्ष वेदमूलानां मन्वादिस्मृतिवाक्यानां सांख्यस्मृतिः * * * धकत्वमिव विष्ण्वाधिक्य प्रतिपादक मत्स्यकूर्मपुराणादि वाक्यबाधकत्वोपपत्तेः | एतेन सात्विकादिपुराणानां विशेषाकारेण परिगणनमपिनिरस्तम् || त्वत्परि गणित सात्विकपुराणेष्वेव रुद्राधिक्य परिगणनेन परिगणनवैयर्थ्यात् | तथोक्तं त्वया - ब्रह्माण्डं ब्रह्म कैवर्तं मार्कण्डेयं तथैव च | भविष्यद्वामनं ब्राह्मं राजसानि निबोधमे || मात्स्यं कौर्मं तथा लैंगं रौंवस्कान्दं तथैव च | आग्नेयं च षडेतानि तामसानि निबोधमे || प्. ५४) वैष्णवं नारदीयं च तथा भागवतं शुभम् | गारुडं च तथा पाद्मं वाराहं शुभदर्शने || सात्त्विका मोक्षदाः प्रोक्ता राजसा स्वर्गदा शुभाः || तामसा निरय प्रदा इति | एवं ब्रह्माणु वामनयोः राजसत्वे तदन्तर्गत रंग माहात्म्य वेंकटाचल मागत्म्ययोः राजसत्वेन मोक्ष प्रदत्वं नस्यात् | सत्त्वं रजस्तम इति श्लोकानुसारेण सत्वस्य प्रकृति गुणत्वेन तद्युक्तस्य विष्णोरपि प्राकृतत्वं स्यात् | तथा च प्रयोगः - सात्त्विकत्वं प्राकृतत्वव्याप्यं सात्त्विकत्वाद्यन्यता मात्रवृत्तित्वात् | तामसत्ववत् | न च सत्त्वं विशुद्धं श्रयते भगवान् स्थिताविति वचन विरोधः | इतरानभि भूतस्यैव विशुद्धपदार्थत्वात् | एतेन प्राकृत सत्त्वमस्त्रीत्याधुनिकमतं परास्तम् | अप्राकृत रजस्तमसोरपि सिद्धिप्रसंगात् | अत एव नाप्रयोजकोहेतुः | एवञ्च शिवो गुणातीतः प्रकृत्यतीतत्वात् | मुक्त पुरुषवत् | ना प्रयोजकत्वमसिद्धत्वं वा | तस्य प्रकृतिलीनस्य यः परस्समहेश्वर इति प्रकृत्यतीतत्वप्रतिपादक श्रुतिविरोधात् | एवं तामसेषु शिवस्य चेत्यादि मत्स्य पुराणमपि प्रत्युक्तम् | त्वयैव मत्स्यपुराणस्यतामसेषु परिगणनेनैतद्वाक्य प्रामाण्ययोर्व्याघातात् | यदिशिवस्य प्. ५५) तामसत्व सिद्ध्यर्थं तामसेषु परिगणितमिति मत्स्यपुराणं तस्मिन्नर्थे प्रमाणम् | तदा तुल्य न्यायत्वात् | स्वर्गापवर्गयोरपि प्रमा * * * अन्यथा तत्पुराण वक्तु मत्स्यमूर्तेरनाप्तत्वं स्यात् | मत्स्यावतारेण वेदोद्धारादिकमपि व्यर्थमेव स्यादिति बहुव्याकुली भवेत् | अनाप्तत्वशङ्कायास्सर्वत्रसुलभत्वात् | एवं कूर्म प्रोक्तं पुराणमपि उक्त न्यायेन समर्थनीयम् | शैवादि पुराणानामपि शिव प्रतिपादकत्वेन यदि तामसत्वं तदा तत्प्रतिपादकस्य प्रत्यक्ष वेद भागस्य नमस्ते रुद्र अणोरणीया नित्यादेरनेक ग्रन्थ सन्दर्भस्य तामसत्व प्रसंगेन तदङ्गीकरणे प्रमाणिकैस्तस्य बहिर्भाव एवो चितः | एतेन शिवाधिक्यप्रतिपादकानां शैवागमपुराणानां मोहशास्त्रत्वमपि प्रत्युक्तम् | एषमोहं सृजामीति स्वस्याप्यनाप्तत्व प्रसंगात् | स्वोक्तानामपि पाञ्चरात्रागमानां अप्रामाण्यापत्तेः | वस्तुतस्तु शिवाधिक्यस्य प्रत्यक्षश्रुत्यादि सिद्धत्वात् | सात्विकत्वेन त्वदभिमतानामितिहास पुराणानां तदुपबृंहकत्वेन दर्शितत्वात् | तद्विरोधिनां च पुराणागमानां विरोधाधिकरण स्मृत्यनवकाशन्यायाभ्यां बाध्यत्वात् सिद्धमप्रत्यूहं शिवाधिक्यमिति || ननु शिवो गुणातीतत्वान्नतामस इत्युक्तम् | तदयुक्तम् | तस्य चतुर्मुख पञ्चमशिरो निकृन्तनेन ब्रह्महंतृत्वात् || प्. ५६) तदुक्तम् वामनपुराणे- तच्छ्नुत्वाक्रोध युक्तेन शंकरेण महात्मना | नखाग्रेण शिरश्छिन्नं ब्राह्मं परुषवादियत् || तच्छिन्नं शङ्करस्यैव सव्ये करतलेऽभवत् | पतते न कदाचित्तु तच्छंकरकाराच्छिरः || न च ब्रह्मणो निधनाभावेन ब्रह्महत्या नास्तीतियुक्तम् | तथाच - ततस्समागता रौद्रा नीलाञ्जन चयप्रभा | स रक्त मूर्धजाभीमा ब्रह्म हत्या हरान्तिकम् || ब्रह्महत्यास्मि संप्राप्ता संप्रतीच्छ त्रिलोचन || इत्येव मुक्त्वा वचनं ब्रह्महत्या विवेशतम् || त्रिशूल पाणिनंरुद्रं * * * * इत्यादि | तत्रैव श्रवणात् | एवञ्च कपालित्वमपि तत्रैव श्रूयते - एवं कपालीसञ्जातो देवर्षे भगनेत्रहा | अनेन कारणेनासौ दक्षेण न निमन्त्रितः || तस्मात्सर्वाधिकस्य शिवस्य कथं ब्रह्महत्याब्रह्मकपालधारणं चेति | उच्यते | अत्ताचराचर ग्रहणादित्यत्र ब्रह्म च क्षत्रं चोभे भवत ओदन इति ब्रह्म क्षत्रादि सर्वभक्षकस्य परमेश्वरस्य संहर्तृत्वं गुण एवेति गुणदोष भ्रमोनु * * * कारणानाम् | किञ्चयागस्थ दीक्षित ब्राह्मणस्य दक्षस्यशिरश्छेदेन ब्रह्महत्या प्राप्तिः पुराणेषु नश्रुतम् | ब्रह्मणः पञ्चमशिरः कृन्तनेनाहंकारनिवारेणेपि जीवत एव ब्रह्मणोहत्याकथं परिगणिता | मरणोद्देश्यक मरणफलक व्यापारस्यहिंसात्वेन प्. ५७) मरणफलकत्वाभावे हिंसात्वाभावात् | अत एव श्येनादेः वैरिमरणोद्देशेन विहितस्य हिंसात्व व्यवहारो लौकिक वैदिकानाम् | अत एव कूपखनन कर्तुर्नहिंसकत्व व्यवहारः | मरणानुद्देश्यकत्वात् | अत एव मरणोद्देशेन क्षिप्तनाराचेन प्राणिवधाभावे क्षिप्तुर्न हिंसकत्व व्यवहारः | मरणफलकत्वाभावात् | न च ब्रह्म शिरश्छेदस्य मरणोद्देश्यकत्वं अहंकारमात्र निरासप्रयोजनत्वात् | तदुक्तंवामनपुराणे - वक्त्राणि दृष्ट्वाथ भवस्य मौढ्या- त्पैतामहं वक्त्रमुवाच वाक्यम् | समाहतस्यास्य जलस्य बुद्बुदा- भवन्ति किं तेषु परा क्रमास्ते || तच्छ्रुत्वा क्रोधयुक्तेन शंकरेण महात्मना | नखाग्रेण शिरश्छिन्नं ब्राह्मं परुषवादियत् | मरणोद्देश्यकत्वे शीर्षान्तरस्यापि छेदे संभवति प्रतिषेधकाभावात् | तस्मादंकार निरासमात्र प्रयोजनत्वेन मरणोद्देश्यत्वाभावात् हिंसात्वानुपपत्तिः | दक्ष हिंसायामपि पुराणेषु ब्रह्महत्याया अवर्णनात् | ब्रह्म क्षत्रादिसकलसंहारकत्वस्येश्वरत्व साधकत्वात् | अनेक कल्प ब्रह्माण्ड मध्यवर्त्यनन्त चतुर्मुख संहारकस्य रुद्रस्य ब्रह्महन्तृत्वव्यपदेशस्य भूषणत्वात् | ननु ततस्समागता रौद्रेति ब्रह्महत्या प्राप्तिवचनस्य कागतिरिति चेत् | तस्य काशीक्षेत्रस्य प्. ५८) ब्रह्महत्या निवर्तकत्व प्रतिपादन परत्वेन स्तुत्यर्थत्वात् तथा च वामनपुराणे तत्रैव प्रकरणे - ईदृशायां सुरेशान वाराणस्यां महामते | तत्र गत्वा सुरश्रेष्ठ पापमोक्षमवाप्स्यसि || इति | ननु नारं स्पृष्ट्वास्थिसस्नायुसवासा जलमाविशेत् इति कपालस्यापवित्रत्वात् तद्धारणस्याशुचित्वसम्पादकत्वमिति चेत् | मैवम् | काशीस्थ कपालमोचनाख्यतीर्थ माहात्म्यप्रतिपादकत्वेनान्यपरत्वात् | तथा च तत्रैव- कपालमोचनेसस्नौ वेदोक्त विधिनामुनिः | स्नातस्य तीर्थे त्रिपुरान्तकस्य परिच्युतं हस्ततलात्कपालम् | नाम्नाबभूवाथ कपालमोचनात्तत्तीर्थवर्यं भगवत्प्रसादात् || ततः कपाली लोके तु ख्यातोरुद्रो भविष्यति || कपाल परित्यागेपि कपालित्वप्रसिद्धिः ब्रह्माद्यपेक्ष * * * धिक्य सूचकत्वेनोत्कर्षहेतुत्वात् | अन्यथा विष्णोरपि पञ्चजनाख्यदैत्य शीर्षास्थिभूत पाञ्चजन्यधारणेनापवित्रत्वं स्यात् | तदुक्तं विष्णुपुराणे - दैत्याः पञ्चजनोनाम शङ्खरूपस्य बालकान् | जग्राह सोऽस्तिसलिले ममैवासुरसूदन || इत्युक्तेन्तर्जलं गत्वा हत्वा पञ्चजनं च तम् | कृष्णो जग्राह तस्यास्थि प्रभवं शंखमुत्तमम् || तं पाञ्चजन्यमापूर्य * * * * || इत्यादि प्. ५९) रावण हनने च ब्रह्महत्या सेतौ रामेश्वर प्रतिष्ठया तन्निवृत्तिकथनं च पुराणेषु बहुतरं दृष्टमिति परेषामपि समोदोषः | आदित्यपुराणे एक त्रिंशे - प्रतिष्ठाप्य महादेवं सेतुमध्ये स राघवः | लब्धवान् परमांभक्तिं शिवेशंभोरनुग्रहात् || रामेश्वर इति ख्यातः महादेवः पिनाकधृत् | यस्य दर्शनमात्रेण ब्रह्महत्या व्यपोहति || भृगुपत्नीहननेन स्त्रीहत्यादोषो रामायणे - विष्णुना च पुरा राम भृगु पत्नी दृढव्रता | अनिन्द्रं लोकमिच्छन्ती काव्यमातानिषूदिता || तेषामन्यपरत्वे प्रकृतेपि समं समाधानम् | वस्तु तस्तु परमेश्वरस्य सर्वज्ञत्वान्न पापसम्बन्धलेपः | जीवानामपि तत्त्वज्ञानां लेपाभाव वर्णनात् | तथा च सूत्रम् - तदधि गमे उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् | इति | एतेन कपालभोजनमपि व्याख्यतम् | पाञ्चजन्यपूरणस्य मुख सम्बन्धं विनानुपपत्तेः | भिक्षाटनस्य नवनीतचौर्यादिवत् समाहितत्वात् | वस्तुतस्तु ब्रह्मशिरश्छेदः तत्कपाल धारणञ्च परमेश्वरांशभूत तमोगुणप्रधानसंहाररुद्राख्य भैरवेण कृतमिति न परमेश्वरस्य कपालित्वं ब्रह्महत्या वा | तथा चोपक्रमे - तमोमयस्तथैवान्यस्समुद्भूतस्त्रिलोचनः | शूलपाणिः कपर्दी चाक्षमालां निदर्शयन् || प्. ६०) अहंकारावृतोरुद्रः प्रत्युवाच पितामहम् || इति || उपसंहारे च - तमोमूर्तिरहं ह्येषस्त्वदंशः क्रोधसंभवः || इति | न चैतदतिरिक्ते परमेश्वरे प्रमाणाभावः | तापनीये - ऐकात्म्य प्रत्ययसारं शिवं शान्तमद्वैतं चतुर्थंमन्यन्ते इति शिवस्य ब्रह्मरुद्र विष्ण्वपेक्षया चतुर्थत्वव्यपदेशेन सप्त * * * * प्राजापत्य * * * * वत् संख्याभेदकत्वात् || न च तस्मिन् शम्भुशंकरादि शिववाचकशब्दप्रयोगानुपपत्तेः | शिवांशाद्यिक्येन तत्सादृश्येन च राजपुरुषादौशजपद प्रयोगवच्छिवादि पद प्रयोगोपपत्तेः | अत एव संहाररुद्र निष्ठं कपालित्वं परमेश्वरेऽऽरोप्यतमवजानतो दक्षस्याहंकार भ्रमा(भ्रा)न्तत्वेन निग्रहपात्रत्वं वीरभद्रादिगणैः कृतमिति युक्तमुत्पश्यामः | तदुक्तम्- एवं कपाली संजातो देवर्षेत्यादि | त्रयोऽग्नय स्त्रिभिर्नेत्रैस्समं दक्षमवैक्षत || दृष्टमात्रस्त्रिणेत्रेण भस्मीभूतोऽभवत्क्षणात् || काशीखण्डे च - अयं ब्रह्म * * * * त्तो भैरवस्यैव रुद्रांशभूतस्य वर्णित इत्येतत्संवादो द्रष्टव्यः | एवं परमेश्वरो निर्लेपः तत्वज्ञत्वात् | सर्वज्ञत्वाच्च | मुक्तात्मवत् | तस्मात्सर्वोत्तरः परमेश्वर इति सिद्धम् || अथ कथं सदाशिवः इतरापेक्षया अधिकः प्. ६१) तदुपासनया अस्थिर फलत्वात् | दशग्रीवादेः शिवोपासनया ऐश्वर्याधिकास्य प्रसिद्धत्वात् | तथाचोक्तम् - अयत्नादापाद्य त्रिभुवनमवैरिव्यतिकरं दशास्यो यद्वाहुन भृतरणकण्डूत्वावाशान् | शिरः पद्मश्र * * * चित चरणांबोरुहबलेः स्थिरायास्त्वद्भक्तेः त्रिपुरहरविस्फूर्जितमिदम् || ईदृशस्य शिवप्रसाद लब्धैश्वर्यस्यान्येषामपि तादृशानां दैत्यदानवाद्यैश्वर्याणां नाशदर्शनादस्थिर वरप्रदत्वं परमेश्वरस्य | नारायणस्य तु ध्रुव विभीषणादि परमोत्कृष्टस्थिरतरैश्वर्य प्रदत्वेन मोक्ष प्रदत्वेन च स्थिरतरवर प्रदातृत्वमिति स एव सर्वोत्तर इति परेषामभिप्रायः | अत्र किं कर्मफलमस्थिरमित्युच्यते | उत ज्ञानफलमपि | नाद्यः - तद्यथेह कर्मचितो लोकः क्षीयत इत्यादिश्रुत्त्या ध्रुवाद्यैश्वर्यस्यानित्यत्वेन सर्वसम्मतत्वेन प्रतिपादितत्वात् | न द्वितीयः | ईशं ज्ञात्वा अमृता भवन्तीति ईश्वरसाक्षात्कारस्यानश्वर मोक्ष हेतुत्वात् | ननु कर्म फलस्यानित्यत्वेपि कल्पान्तस्थायि फलत्वं विष्णूपासनाया न सदा शिवोपासनाया इति चेत् मैवम् | शिवोपासनाया अपि बाणासुर सुकेशि नन्दीश्वरप्रभृतीनामनन्तैश्वर्यावगमात् | तदुक्तं वामन पुराणे- प्. ६२) अस्मिन्निशाचरपतिर्विद्युत्केशीति विश्रुतः | तस्य तुष्टोऽप्यधीशानः पुरमाकाशचारिणीम् || प्रादादजेयत्वमपि शत्रुभिश्चाप्यवध्यताम् | उत्तररामायणे - अमरं चैव तं कृत्वा महादेवोऽव्ययोऽक्षयः | पुरमाकाशगां प्रादादुमायाः प्रीतिकाम्यया || ततः सुकेशिर्वरदानगिअर्वितः देव्याः प्रभोः प्राप्यहरस्यपार्थिवः | चचारसर्वां स महींमहामतिः खगांपुरीं प्राप्य यथा पुरंदरः || एवं बाणासुरस्यापि अमरत्वप्रदानम् विष्णुपुराणे - तदेतस्याभयं दत्तं बाणस्यास्यमया प्रभो | अस्मत्संदृप्तोपि नायं वध्यस्तवाव्ययः || भारते अर्जुनस्य पाशुपतास्त्रकाले मोक्षदानं चेश्वरेण कृतम् | तर्हि रावणैश्वर्यस्य कथमस्थिरत्वमिति चेत् परम * * * दीश्वरावज्ञारूपा धर्मादिति ब्रूमः | तथा च नन्दिकेश्वर शापो रावणं प्रत्युत्तररामायणे तं क्रुद्धो भगवान् नन्दी शंकरस्या परा तनुः | अब्रवीत्तत्र तद्रक्षो दशाननमवस्थितम् || यस्माद्वानररूपं मा मवज्ञायदशानन || अशनिपातसंकाशमट्टहासं प्रमुक्तवान् || तस्मान्मत्मुखसंकाशामद्वीर्या समतेजसः | उत्पत्स्यन्ते वधार्थंते कुलस्यास्य च वानराः || इति | एवमीश्वरेण लवणासुरपितुर्मधुदैत्यस्यशूलदान प्. ६३) समये धर्मविरोधयवोत्त्रावधीकृतः | तथा चोत्तररामायणे - तवायमतुलोधर्मो मत्प्रसादकरः शुभः | येन प्रीतस्तदारिघ्नं ददाम्यायुधमुत्तमम् || यावत्सुरैश्च विप्रैश्च न विरोधं करिष्यति | तावत्कालं तवैतत्स्यादन्यथा नाशमेष्यति || एवमन्धकासुरस्यापि परमेश्वराद्वरदानं धर्मविरोधावधिश्च | तथा च वामनपुराणे प्रह्लादवाक्यम्- तवापिचात्र पुत्रेण धर्मनित्येन दानव | आराधितो महादेवः * * * * * पुराकिल || पुत्रकं पुत्रकामस्य प्रोक्त्वेत्थं वचनं विभुः | यदा तु लोकविद्विष्टं दुष्टं कर्मकरिष्यति || घातयिष्यति वा विप्रं देवान् द्वेष्यतिवाऽखिलान् || तदास्य स्वयमेवेह करिष्ये कायशोषणम् || अन्यथा विष्णोरपि - युधिष्ठिरोग्रसेनादि यादव कौरवेभ्यः कुचेल सान्दीपनीप्रभृतिभ्योप्यैश्वर्य दानस्यास्थिरत्वात् अस्थिर वरप्रदत्वं स्यात् | तदुक्तं तेनैव यस्यानुग्रहमिच्छामि तस्य वित्तं हराम्यहम् || इति | वस्तु तस्तु परमेश्वरस्य धर्माधिष्ठातृत्वात् धर्माविरोधेनैव वरप्रदानम् | फलमत उपपत्तेरित्यत्र फलशब्दस्य सुखदुःख साधारणत्वेन यथा तुष्टस्तपसा सुखहेतुं वरं ददाति | एवं निषिद्धकर्मणा द्विष्टः परमेश्वरः प्. ६४) नरकादि दुःखं ददाति | यथा धर्मेण पापमपनुदति | एवमधर्मेणापि पुण्यमपनुदति | इति परमेश्वर एव फलदातेति | रावणादेः परस्त्रीकामनादि जन्येन पापेन तपोलक्षण पुण्यभिभवाद्युक्तं तेषां शीघ्रतरं नाश इति न परमेश्वरस्याधिक्य हानिरिति सिद्धम् || ननु विष्णुरेव सर्वोत्तमः | गजेन्द्रेणादिमूलस्य परब्रह्मणः स्तुतिं कृत्वा परमकारण प्रपत्तौक्रियमाणायां प्रपन्नपरिपालनाय नारायण एव प्रत्यक्षोभूत्वा ग्राहपाशात्तं मोचयामास | नान्ये ब्रह्मादयः प्रत्यक्षीभूयरक्षिवन्तः | तथा भागवते गजेन्द्रस्तोत्रप्रक्रमे - यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् | योऽस्मात्परस्माच्चपरं तं प्रपद्ये स्वयंभुवम् || उपसंहारे च - एवं गजेन्द्रमुपवर्णित निर्विशेषं ब्रह्मादयो विविधलिंगभिदाभिमानाः | नैते यथोपससृपु निखिलात्मकत्वात् तत्राखिलामरमयो हरिराविरासीत् || तस्माद्गजेन्द्रेण सर्वोत्तम स्तुतौ क्रियमाणायां सत्यां यस्तं रक्षितवान् स एव सर्वोत्तमः | न ह्यन्यप्रपत्तौ क्रियमाणायां सत्यां यस्तं रक्षितवान् स एव सर्वोत्तमः | अन्यः परिपालयतीति युक्तम् | अत एव नारायण सर्वोत्तम इति प्राप्ते ब्रूमः | यद्यपि गजेन्द्रेण परम कारणं प्रत्येवस्तुतिः प्. ६५) प्रतिपत्तिश्च कृता तथापि नारायणस्य जगत्परिपालनेऽधिकृतत्वात् तेन परिरक्षणकरणं युक्तम् | न हि केनचिदुपद्रवादि परिपीडितेन राजानं प्रत्याक्रोशेक्रियमाणे राजा अमात्येन परिरक्षणं क्रियत इति युक्तम् | पालने तस्याधिकृतत्वात् | न च परमेश्वरेण विष्णोः पालनेऽधिकृतल * * * * * नुशासनिके पर्वाणि | स एव भगवान् रुद्रस्सर्व तत्वादि रव्ययः | सोऽसृजद्दक्षिणादंगात् ब्रह्माणं लोकसंभवम् || वाम * * * * * त्तथा विष्णुं लोकरक्षार्थमीश्वरः | वेदपादस्तवे जैमिनिना च || यदाज्ञया जगत्सर्वं व्याप्य नारायणः स्थितः || इति | यजुर्वेदे च - वाताद्विष्णोर्बलमाहुरिति | प्राणाधिकरण न्यायेन वातशब्द वाच्यात्परमेश्वरात् विष्णोर्बलमाहुरित्यर्थः | अथवा गजेन्द्रस्य पूर्व जन्मनि विष्णुभक्तत्वात् तेन परब्रह्मत्वेन विष्णोरेव स्तुतां क्रियमाणायां विष्णुरेव प्रसन्नो नान्य इति युक्तम् | तथा च भागवते - योऽसौ पूर्वमभूद्राजा पाण्डयो द्रविडसत्तमः | इन्द्रद्युम्न इति ख्यातो विष्णु व्रतपरायणः || हर्यर्चनानु भावेन यद्गजत्वेऽप्यनु स्मृतिः || इति || गीतासु च - कौन्तेय प्रतिजानीहि नमे भक्तः प्रणश्यति | प्. ६६) तेषामहं समुद्धर्ता मृत्योस्संसारसागरात् || किञ्चपरब्रह्मत्वेन विष्णोः स्तुतिर्वा परब्रह्मत्वे प्रमाणम् | स्तुत्यनन्तरं तस्यैवा न गमनान्यथानुपपत्तिर्वा | नाद्यः | आपोवा इदं सर्वमित्यादिवत् स्तुतेस्तत्वा साधकत्वात् | न द्वितीयः | स्वपुत्रभृत्यादि रक्षणवत् स्वभक्तरक्षणस्य परब्रह्म साधकत्वात् | पालनाधिकारित्वेन वा गजेन्द्र रक्षणोपपत्तेरिति | वामनपुराणे तु गजेन्द्रस्यानेक जन्म प्रभृति विष्णुभक्तत्वं विष्णुस्तुतिकर्तृत्वं च स्पष्टतया युक्तम् | व्याधितस्सन् निरुत्साहो गृहीतोघोरकर्मणा | परमापदमापन्नो मनसाऽचिन्तयद्धरिम् || स तु भागवतः श्रीमान् नारायण परायणः | जन्म जन्मान्तराभ्यासात् भक्तिमान् गरुडध्वजे || नान्यं देवं महादेवात्पूजयामास केशवम् | संपूजयन्पद्मनाभं शंखचक्र गदाधरम् || स्तोत्रं च कृतम् - नमो जगत्प्रतिष्ठाय गोविन्दाय नमो नमः | नमोऽस्तु पद्मनाभाय सांख्य योगोद्भवाय च || इति | विष्णुस्तुतिश्च स्पष्टमेवावगम्यते | तस्मात्स्वभक्तरक्षणाय विष्णुरेवावगत इति | नैतावता तदा गमनस्य सर्वोत्तमत्व साधकत्वमित्यलमति विस्तरेण || अथ कथं शिवस्य सर्वाधिकत्वं भस्मासुरनाम्नो प्. ६७) वृकासुरस्य वरं दत्वा तेन शिरसि हस्तेदातुमारब्धेसति सर्वाल्लोकान् पलायमानस्य नारायणेनरक्षणात् | तदुक्तं भागवते - दशमे सप्ताशीति तमे - कोप प्रसादयोरीशाः ब्रह्मविष्णुशिवादयः | वृकासुराय गिरिशोवरं दत्वाऽऽपसंकटम् || देवात् स वव्रे पापीयान् वरं भूतभयावहम् | यस्य यस्य करं शीर्षे दास्ये स म्रियतामिति || स तद्वरपरीक्षार्थं शम्भोर्मूर्ध्नि किलासुरः | स्वहस्तं दातुमारेभे परिधावत्स वै दिशः || इत्थं भगवतश्चित्रैर्वचोभिः स्तुति पेशलैः | भिन्नधीर्विस्मितःशीर्षे स्वहस्तं कुमतिर्व्यधात् || अथा पतद्भिन्नशिराः वज्राहत इव क्षणात् | किञ्च भृग्वादिभिरपि विष्ण्वाधिक्यस्य निश्चयात् विष्णुरेवाधिकः | तदुक्तं तत्रैव- सरस्वत्यास्तटेरम्ये ऋषयस्सत्रमासत | वितर्कस्समभूत्तेषां त्रिष्वधिकेषुको? महान् || तस्य जिज्ञासया ते वै भृगुं ब्रह्मसुतं नृपः | तज्ज्ञप्त्यै प्रेषयामासुः सोऽभ्यगाद्ब्रह्मणः सभाम् || न तस्मै ब्रह्मणे स्तोत्रं चक्रे सत्वपरीक्षया | तस्मै चुक्रोध भगवान् प्रज्वलन् स्वेनतेजसा || ततः कैलासमगमत् तत्र देवो महेश्वरः | परिरब्धुं समारेभे उत्थाय भ्रातरं मुदा || प्. ६८) नैच्छत्युत्पथग इति देवश्चुकोपह | शूलमुद्यम्य तं हन्तुमारेभेतिग्मलोचनः || पतित्वापादयोर्देवी सान्त्वयामासतं गिरा | अथा जगाम वैकुण्ठं यत्र देवोजनार्दनः || शयानं श्रिय उत्संगे पदावक्षस्य ताडयन् | तत उत्थाय भगवान् सह लक्ष्म्यासप्तां गतिः || स्वतल्पादवरुह्याथ ननाम शिरसामुनिम् | तन्नि शम्याथमुनयो विस्मिता मुक्तसंशयाः || भूयांसं श्रद्दधुर्विष्णुं यतश्शान्तिर्यतोभयम् || वैराग्यप्रदत्वाच्च- यस्याहमनुगृह्नामि हरिष्ये तद्धनंशनैः | ततो धनं संत्यजन्ति स्वजना दुःखितं यथा || मत्परैः कृतमन्त्रस्य करिष्येमदनुग्रहम् || रामायणे ब्राह्मकाण्डे - अधिकं मेनिरेविष्णुं देवात्सर्षिगणास्तथा || श्रुतिश्च - नारायण परंब्रह्म तत्वं नारायणः परः || इति तस्माद्रुद्रभयावहस्य वृकासुरस्य निग्रहाद्भृग्वादिभिः परमशान्तत्वेनाधिकत्वनिर्णयात् युद्धे जृंभितत्वाच्च विष्णुरेवाधिकः | परतत्वमपि स एवेति प्राप्तेब्रूमः | शिव एव परं तत्वं | यो देवानां प्रथमं पुरस्तात् द्विश्वाधिको रुद्रो महर्षिः | यस्मात्परं नापरमस्ति किञ्चिदित्युपनिषद्वाक्याभ्यां रुद्रात्पर तत्वस्य निषेधात् | न चा नयोरेक वाक्यत्वमसिद्धम् | भिन्नक्रियापर्यवसायित्वादिति वाच्यम् | स्योनं ते सदनं वृणोमि तस्मिन् सीद | प्. ६९) अमृते प्रतिनिवृतीतिवत् विभागे साकांक्षत्वेन सर्वनाम्नः पूर्वोक्त प्रकृतपरामर्शितत्वात् | तदुक्तम्- सर्वनाम प्रसिद्धार्थमप्रसिद्ध्यर्थद्यातकृत् | प्रसिद्ध्यपेक्षी सत्पूर्ववाक्यस्थमपकर्षति || पुरुष पदेन रुद्रप्रत्यभिज्ञानाच्च | तदुक्तं भागवते - निरस्तसाम्यातिशयोऽपि यत्स्वयम् इति शिवादतिशयस्य निषेधात् | ब्रह्मादयो यत्कृत सेतु पालाः | यद्यक्षरं नाम गिरेरितं नृणांसकृत्प्रसंगादधमाशुहन्ति तत् | पवित्रकीर्तिं तमलंघ्यशासनं भवानहोद्वेष्टिशिवं शिवेतरः || मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् | इत्यादिनामायाधिष्ठातृत्वालंघ्यशासनत्वयोरवगमात् | तदुक्तमुत्तररामायणे रामेण - एवं ते सर्वमाख्यातं शूलपाणिस्सुदुर्जयः | श्रीमतः शितिखण्डस्य कीर्तिर्हि दुरतिक्रमा || त्वत्कीर्तिः कीर्तनमाज्ञापनमित्यर्थः | ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया || इति सर्वान्तर्यामित्वावगमात् | अन्यथा तिष्ठामीति प्रयोगप्रसंगात् | कृष्णकर्तृकपरतत्वोपासना प्रतिपादककृष्णवाक्यस्य- तमेव चाद्यं पुरुषं प्रपद्येयतः प्रवृत्तिः प्रसृतापुराणी | निर्मानमोहा जितसंगदोषा अध्यात्मनित्यानि निवृत्तकामाः || इति श्रवणात् | योऽग्नौ रुद्रो योऽप्सु य ओषधीषु यो रुद्रो प्. ७०) विश्वाभुवनानि विवेशेत्यन्तर्यामितया प्रवेशस्य व्यक्तत्वात् | बृहदारण्यकेऽन्तर्यामि ब्राह्मणे - एष आत्माऽन्तर्याम्यमृत इत्यमृत पदेन शिवस्यैव निर्देशात् | जाबालोपनिषदि- रुद्राध्यायप्रकरणे - एतानि वा अमृतस्य नामधेयानीति रुद्रनाम्नाममृत नामधेयतोक्तेः पुंलिङ्गस्यामृतपदस्य मोक्षवाचकत्वानुपपत्तेः | शिवसंकल्पोपनिषदि बोधायन पठितायां - येनेदं भूतं भुवनं भविष्यत्परिगृहीतममृतेन सर्वम् | येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसंकल्पमस्तु | इत्यमृतशब्दस्य शिवेप्रयोगदर्शनात् | अवयवार्थानुस्यूतेरपि स्थिरेभिरंगैः पुरुरूपौग्र इति मरणादिरहिते शिव एव संभवात् | विष्णोः शरीरत्यागस्य - बहूनि मे व्यतीतानि जन्मानि भरतर्षभ | इति गीता वाक्यसिद्धत्वात् | विष्णुपुराणे च मैत्रेयः | सविद्रुशापव्याजेन संजहेस्वं कुलं कथम् | कथं च मानुषं देहमुत्ससर्जजनार्दनः || पराशरः - गते तस्मिन् स भगवान् संहृत्यात्मानमात्मनि | तत्याज मानुषं देहमतीत्य त्रिविधां गतिम् || इत्यमृतत्वयोगात् || ननु स्वेच्छा न कर्मायत्तेति चेत् | सुतौ विशेषणादर्शनात् देवानामपि रावणवधाय स्वेच्छया जन्मश्रवणात् | भीष्मस्यापि स्वेच्छामरण दर्शनात् नामृतत्वमन्येषाम् | जगज्जन्मादि कारणत्वादपि शिव एव परं तत्वम् || प्. ७१) तथा चाथर्वोप निषदि यस्सर्वाल्लोंकान् संभक्षुः संभक्षयतेत्यादिना | यजुर्वेद च - तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमैशमित्यारक्ष्य अजामेकामित्यन्तं मायाविशिष्टस्य सर्वकर्तृत्व प्रतीतेः | रामायणेचोत्तरकाण्डे - तैर्वध्यमानादेवाश्च मुनयश्च तपोधनाः | भयार्ताः शरणं जग्मुर्देव देवं महेश्वरम् || जगत्सृष्टयन्तकर्तारमजमव्यक्तरूपिणम् | आधारं सर्वलोकानामाराध्यं परमं गुरुम् || ते समेत्य तु कौमारीं त्रिपुरारिं त्रिलोचनम् || ऊचुः प्राञ्जलयो देवाः * * * * * * * इति श्रुत्युक्तसकर्तृकत्वोपबृंहणात् विश्वं भूतं भुवनं चित्रं बहुधाजातं जायमानं च यत् | सर्वोह्येष रुद्र इति सर्वात्मत्ववर्णनात् | शिवसंकल्पोपनिषदि च त्रयाणामपि तारतम्यं व्यक्तमवगम्यते | परात्परतरं ब्रह्म तत्परात्परतो हरिः | यत्परात्परतोरीशस्तन्मे मनः शिवसंकल्पमस्तु || रीश इति रेफश्छान्दसः | ननु नारायणपरं ब्रह्मेति श्रूयत इति चेत् नारायणात्परं नारायणपरमिति श्रुत्योरविरोधेन व्याख्यानस्यैव युक्तत्वात् | सामान्येन परत्वश्रवणस्य विशेषदर्शनेषति त्याग योगात् सामान्य विशेषयोरेक वाक्यत्वस्य पशुन्नाग न्यायेन सिद्धत्वात् | तदर्थस्तु नारायणात्परं ब्रह्मतत्वं नारायणस्तु चतुर्मुखाद्यपेक्षया पर इति | अन्यथा नारायणः पर इति उत्तर वाक्येन पुनरुक्तेश्च | रामायणे च सारमेय व्याख्याने - प्. ७२) एतच्छ्रुत्वा तु रामो वै विस्मयोत्फुल्ल लोचनः | क्वाप्यगच्छन्महातेजाः यत एवा गतस्ततः || मनस्वी पूर्व जातिज्ञो जातिमात्रेणदूषितः | वारणस्यां तथाश्वा वै प्रायशोपाविशत् स्वयम् || इति | अत्रायोध्यामुक्तिक्षेत्रत्वेपि रामस्य मोक्षदातृत्वेपि उभयमपि परित्यज्य शिवक्षेत्रभूत वाराणसीगमनस्य शिवाधिकत्व सूचकत्वं व्यक्तमेव | वामनपुराणे च- ततः पितामहोदेवः केशवश्च जगत्पतिः | आजग्मतुस्तमुद्दिश्य यत्रलिंगं भवस्य तु | ततो लिंगं हरिर्दृष्ट्वा समारुह्य स्वगेश्वरम् || पातालं स विवेशाथ विस्मयात्परितो विभुः | ब्रह्मा हंस विमानेनोर्ध्वमाक्रम्य सर्वतः || नैवान्तमलभद्ब्रह्मा विस्मितः पुनरागतः | विष्णुर्गत्वाथ पातालात्सप्त लोकपरायणः | चक्रपाणिर्विनिष्क्रान्तो लिङ्गं न लभते मुने || विष्णुः पितामहश्चोभौ हरलिंगं समेत्य हि | कृताञ्जलिपुटौ भूत्वा स्तोत्रं देवस्य चक्रतुः || अत्र हरशरीरावयवभूतालिङ्गस्यैवाद्यन्त परज्ञानशून्ययोश्चतुर्मुख नारायणयोर्दिव्यमङ्गलविग्रहस्य परमेश्वरस्य स्वरूपज्ञानं नास्तीति व्यक्तं शिवाधिक्यम् | न चास्य पुराणस्य राजसत्वं वक्तुंशक्यम् | पुलस्त्य प्रोक्तस्य वामनपुराणस्य राजसत्वे पुलस्त्यानुग्रहेण पराशरोक्तस्य सात्विकत्वेन त्वदभिमतस्य विष्णुपुराणस्यापि राजसत्वं स्यात् | प्. ७३) तदुक्तं विष्णुपुराणे पुलस्त्येन- पुराण संहिताकर्ता भवान् पुत्र भविष्यति | देवता परमार्थ्यं च यथावद्वेत्स्यते भवान् || वशिष्टवचनं च - पुलस्त्येन यदुक्तं ते सर्वमेतद्भविष्यति || इति | एतेन स्मृति पुराणयोः राजस तामसविभागो निरस्तः | ऋषिवाक्यानां सर्वेषां प्रमाणत्वात् | तदुक्तं विष्णुपुराणे - सप्तर्षयोथ मनवः प्रजानां पतयस्तथा | सदाचारस्य वक्तारः कर्तारश्च महीपते || इति | तर्हि पूर्वपक्षहेतूनां रामायणाद्युक्तानां कागतिरिति चेदुच्यते | युद्धे विष्णोर्जयस्येश्वरानुग्रह प्रयुक्ततवात् | तदुक्तं महाभारते - अश्वत्थाम व्यास संवादे शत रुद्रीयप्रस्तावे - जेष्यसे मामपि भवान् युद्धाय समुपस्थितम् || इति | अपि चेत्समरं प्राप्तो भविष्यसि ममाधिकः || इति | बाणासुरभङ्गस्तु पूर्वमेवनिराकृतः | वृकासुरस्य तु भक्तत्वात् पुत्रादिच्छेत्पराजयमिति न्यायेन पलायनस्यैव श्लाघ्यत्वात् | विषवृक्षोपि संवर्घ्य स्वयं छेत्तुमसाम्प्रतमिति न्यायात् | अन्यथा अन्तर्धानशक्तियुक्तस्य परमेश्वरस्यान्तर्धायेनैव समाधाने सति कृपां विना पलायने हेत्वन्तर मन्वेषणीयम् | अन्तर्धान सामर्थ्यञ्च मेघनादस्यान्तर्धानशक्त माया दानेनैव सिद्धम् | तदुक्तमुत्तर रामायणे महेश्वरे प्रवृत्ते तु यज्ञे पुंन्निस्सुदुर्लभे || प्. ७४) कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् || मायाञ्च तामसीं नाम यस्यां प्रभवते नमः | एतयोः किलसंग्रामे मायया राक्षसोत्तमः | पुं युद्धस्य गतिर्वक्तुं न शक्या वै सुरासुरैः || इत्यनेनयैव मायया इन्द्र रामचन्द्रादि विजयः प्रसिद्धः | कियान् भस्मासुर व्यामोह इति | विष्णोस्तु शत्रुभूतकालयवनात्पलायनं कथम् ? तथा च विष्णुपुराणे भागवते च- इति निश्चित्य यवनः प्राद्रवत्तं पराङ्मुखम् | पलायनं यदुकुले जातस्य तव नोचितम् || इत्यादि | एवं भृग्वादि * * * * विष्णोः शान्तत्वेनाधिकत्व निर्णयो न परतत्व निर्णयोपयोगी | शान्तस्य ज्ञानाधिकारित्वेन तस्माच्छान्तो दान्तः इति श्रुति प्रसिद्धत्वात् | प्रत्युत भयहेतुत्वमेव परब्रह्म लक्षणम् | तथा च श्रुतिः- भीषास्माद्वातः पवने भीषोदेति सूर्यः भीषाग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इति || भीषाभयेनेत्यर्थः | न चेयमन्यपरा | रुद्रपरश्रुति संवादात् | तदुक्तं हरदत्ताचार्यैः- ब्रह्मत्व लक्षणमयं भयहेतु भाव इति | भयहेतुत्वं चोग्रभीमादि पद योगात् | भृगुश्च विष्णौ नेश्वर बुद्धिं कृतवान् भक्त्या | किन्तु प्रिय वादिने विष्णवे * * * कृतवान् | कथमन्यथा विष्णुना भृगुपत्नीशिरश्छेदेकृते प्. ७५) भवानपि बार्या वियोगादि दुःख्* * * * तदुक्तं मत्स्यपुराणे- ज्ञात्वा विष्णुस्ततस्तस्याः क्रूरं देव्या विचेष्टितम् | क्रुद्धः स्वशस्त्रमादाय शिरश्चि * * * * तच्छ्नुत्वा तु वधं घोरं चक्रोध भृगुरीश्वरः | ततो हि शप्तो भृगुणा विष्णुभार्या वधे तदा || यस्मान्मे जान * * * * दिता | तस्मात्त्वं सप्तकृत्वोवै मानुषेषूपपत्स्यसि || ब्रह्माण्डे च - भृगोरपि च शापेन विष्णुः परम वीर्यवान् | * * * * * * दुःखितश्च सदाकृशः || शेपुः शापैश्च विविधैस्तं देवं भुवनेश्वरम् || तस्मान्न भृगुस्तत्वज्ञः | नापिदेवता ऋषयश्च | * * * सदाशिवं परं ब्रह्म न देवा न व?र्षयो विदुः | एकस्तद्वेद भगवान् धाता नारायणो हरिः || नारायण * * * * * * * * होरगाः | देवा देवर्षयश्चैव यं विदुर्दुःखभेषजम् || इति | दुःखभेषजत्वेन नारायणा * * * * * * भेदः | कर्मकर्तृभाव विरोधात् | तस्माच्छिवात्परतत्वस्येतिहास पुराणोपबृंहित श्रुत्यैव नि * * * णत्व मायाधिष्ठातृत्व सर्वान्तर्यामित्व सर्वात्मकत्व सर्वभय हेतुत्वानां * * * * शिव शरीरावयव लिंगान्वेषषणेपि इतरयोस्तन्मात्रस्या ज्ञानात् तल्लिंग पूजकत्वात् प्. ७६) ईदृक्तारतम्यस्य बोधायनपरिगृहीत शिवसंकल्पश्रुति सिद्धत्वात् वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नम इति सामान्येन ज्येष्ठत्व श्रेष्ठत्व प्रतीक्ष्या सिद्धं सर्वापेक्षया आधिक्यं सदाशिवस्येति सर्वमवदातम् || ब्रह्मत्वं कारणत्वं विधिहरिजननं धारणं हैमवत्या रक्षाबाणस्य शिक्षा पशुपतिविषये रामनामाभिधाय | निर्माल्यस्योपयोगः शिवपरवचसां तामसत्वोक्तिभंगो भंगो मूर्ध्नो विधातुः स्थिरतरपरता * * * पस्युत्युपेक्षा || दैत्याद्भीत्यापयानं भृगुमुनि विषये कोप इत्यादयस्ते सर्वोत्कर्षाय शम्भोर्नतु हतमातीभिः कल्पिता भासवादाः || श्रीकालहस्तीशपुस्ते सिद्धे पुरः सन्निधि देवतायाः || चण्डीश्वरीपाद समीपदेशे सिंहारुणे भूत् प्रथमोविलालः | जयतिविमल बुद्धिः षण्मतस्थापनार्यः सकलबुध जनेड्यस्सर्व विद्याभिरामः | कुवलयतति विद्वत्पूर्णिमाश्लिष्ट चन्द्रः सरसगुणयुत श्रीचारुकीर्तिर्यतीन्द्रः | प्लवसंवत्सरे मार्गशीर्षे * * * * * * वेंकटेशेन लिखितं कालहस्तीशपुस्तकम् || ########### END OF FILE #######