#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M04002 Uniform title: kālikāpurāṇam Editor : pañcānana tarkavāgīśa Description: Notes: Data entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: April 27, 2017 Publisher : Vangavasi Pree Publication year : 1909 Publication city : Calculta Publication country : India #################################################### कालिकापुराणम् श्रीगणेशाय नमः प्रथमोऽध्यायः यद् योगिभिर्भवभयार्तिविनाशयोग्यमासाद्य वन्दितमतीवविविक्तचित्तैः | तद् वः पुनातु हरिपादस रोजयुग्ममाविर्भवत् क्रमविलङ्घितभूर्भुवः स्वः || १ || सा पातु वः सकलयोगिजनस्य चित्तेऽविद्यातमिस्रतरणिर्यतिमुक्तिहेतुः | या चास्य जन्तुनिवहस्य विमोहिनीति माया विभोर्जनुषि शुद्धकुबुद्धिहन्त्री || २ || ईश्वरं जगतामाद्यं प्रणम्य पुरुषोत्तमम् | नित्यज्ञानमयं वक्ष्ये पुराणं कालिकाह्वयम् || ३ || मार्कण्डेयं मुनिश्रेष्ठं स्थितं हिमधरान्तिके | मुनयः परिपप्रच्छुः प्रणम्य कमठादयः || ४ || भगवन् सम्यगाख्यात सर्वशास्त्रा.इ तत्त्वतः | वेदान् सर्वांस्तथा साङ्गान् सारभूतं प्रमथ्य च || ५ || सर्ववेदेषु शास्त्रेषु यो यो नः संशयोऽभवत् | स स च्छिन्नस्त्वया ब्रह्मन् सवित्रेव तमश्चयः || ६ || जैवातृकाग्र्य भवतः प्रसादाद्द्विजसत्तम | निःसंशया वयं जाता वेदे शास्त्रे च सर्वशः || ७ || कृतकृत्या वयं ब्रह्मंस्त्वत्तोऽधीत्य समन्ततः | सरहस्यं धर्मशास्त्रं यदवादि स्वयम्भुवा || ८ || भूयस्तच्छ्रोतुमिच्छामो हरं काली पुरा कथम् | मोहयामास यतिनं सतीरूपेण चेश्वरम् || ९ || सर्वदा ध्याननिलयं यमिनं यतिनां वरम् | संक्षोभयामास कथं संसारविमुखं हरम् || १० || सती वा कथमुत्पन्ना दक्षदारासु शोभना | कथं हरो मनश्चक्रे दारग्रहणकर्मणि || ११ || कथं वा दक्षकोपेन त्यक्तदेहा सती पुरा | हिमवत्तनया जाता भूयो वा कथमागता || १२ || कथमर्धशरीरं साऽहरत स्मररिपोः पुनः | एतत् सर्वं समाचक्ष्व विस्तरेण द्विजोत्तम || १३ || नान्योऽस्ति संशयच्छेत्ता त्वत्समो न भविष्यति | यथा जानीम विप्रेन्द्र तत् कुरुष्वैतदात्मवित् || १४ || मार्कण्डेय उवाच शृणुध्वं मुनयः सर्वे गुह्याद् गुह्यतरं मम | पुण्यं शुभकरं सम्यग् ज्ञानदं कामदं परम् || १५ || एतद् ब्रह्मा पुरोवाच नारदाय महात्मने | पृष्टस्तेन ततः सोऽपि बालखिल्येभ्य उक्तवान् || १६ || बालखिल्या महात्मानस्तत आचक्षिरे पुनः | यवक्रीताय मुनये स प्रोवाचासिताय च || १७ || असितो मे समाचष्ट एतद्विस्तरतो द्विजाः | अहं वः कथयिष्यामि कथामेतां पुरातनीम् | प्रणम्य परमात्मानं चक्रपाणिं जगत्पतिम् || १८ || व्यक्ताव्यक्तस्वरूपाय सदसद्व्यक्तिरूपिणे | स्थूलाय सूक्ष्मरूपाय विश्वरूपाय वेधसे || १९ || नित्याय नित्यज्ञानाय निर्विकाराय तेजसे | विद्याविद्यास्वरूपाय कालरूपाय वैनमः || २० || निर्मलायोर्मिषट्कादिरहिताय विरागिणे | व्यापिने विश्वरूपाय सृष्टिस्थित्यन्तकारिणे || २१ || योगिभिश्चिन्त्यते योऽसौ वेदान्तान्तगचिन्तकैः | अन्तरन्तः परंज्योतिःस्वरूपं प्रणमामि तम् || २२ || तमेवाराध्य भगवान् ब्रह्मा लोकपितामहः | प्रजाः ससजं सकलाः सुरासुन्नरादिकाः || २३ || सृष्ट्वा प्रजापतीन् दक्षप्रमुखान् स यथाविधि | मरीचिमत्रिं पुलहं तथैवाङ्गिरस क्रतुम् || २४ || पुलस्त्यञ्च वशिष्ठञ्च नारदञ्च प्रचेतसम् | भृगुञ्च मानसान् पुत्रान् यदा दश ससर्ज सः || तदा तन्मनसी जाता चारुरूपा वराङ्गना || २५ || नाम्ना सन्ध्येतिविख्याता साम्यनसन्ध्या गायत्रिका | न तादृशी देवलोके न मर्त्त्ये न रसातले | कालत्रयेऽपि भविता सम्पूर्णगुणशालिनी ||२६ || निसर्गचारुनीलेन कचभारेण राजते | मयूरीव विचित्रेण वर्षासु द्विजसत्तमाः || २७ || आरक्तगौरमलिनमाकर्णान्तं तथालकैः | रेजे सुराधिपधनुश्चारुबालेन्दुसन्निभम् || २८ || प्रफुल्लनीलनलिनश्यामलं नयनद्वयम् | चकाशे चकितायास्तु कुरङ्ग्याः सदृशं चलम् || २९ || निसर्गचञ्चलं चारु भ्रू युग्मं श्रवणायतम् | मीनाङ्ककोदण्डसमं नीलं तस्या द्विजोत्तमाः || ३० || भ्रूमध्याधोनिम्नभागादायतप्रांशुनासिका | लवण्यानि द्रवन्तीव ललाटात्तिलपुष्पवत् || ३१ || तद्वक्त्रं शोणपद्माभपूर्णचन्द्रसमप्रभम् | बिम्बाधरारुणिम्नाभीरेजे रागिमनोहरम् || ३२ || सौन्दर्यलावण्यगुणैरापूर्णं वदनं पुनः | अभितश्चिवुकं यातुमुद्यताविव तत्कुचौ || ३३ || राजीवकुट्मलाकारौ पीनोत्तुंगौ निरन्तरौ | श्मामास्यौ तत्कुचौ विप्रा मुनीनामपि मोहनौ || ३४ || वलिभाजि क्षीणमध्यं मुष्टिग्राह्यमिवांशुकम् | तन्मध्यं ददृशुः सर्वे शक्तितुल्यं मनोभुवः || ३५ || तस्याश्चोरुयुगं रेजे स्थूलोर्ध्वं करभायतम् | आनमद्वारणकरप्रतिमं मृदुमन्थरम् || ३६ || स्थलाम्बुजारुणं पादयुग्मं सत्पार्ष्णिराजितम् | अङ्गुलीदलसंकीर्णं कुसुमायुधबाणवत् || ३७ || तां चारुदर्शनां तन्वीं तनुरोमावलीवृताम् | सस्वेदवदनां दीर्घनयनां चारुहासिनीम् || ३८ || चारुकर्णयुग्मां कान्तां त्रिगम्भीरां षडुन्नताम् | दृष्ट्वा धाता समुत्थाय चिन्तयामास हृद्गतम् || ३९ || दक्षादयस्ते स्रष्टारो मरीच्याद्यास्तु मानसाः | दध्युः समुत्सुकाः सर्वे तां दृष्ट्वा वरवर्णिनीम् || ४० || किं कर्मास्या भवेत् सृष्टौ कस्य वा वरवर्.इनी | भविष्यतीति ते सर्वे चिन्तयामासुरुत्त्सुकाः || ४१ || एवं चिन्तयतस्तस्य ब्रह्मणो मुनिसत्तमाः | मनसः पुरुषो बल्गुराविर्भूतो विनिसृताः || ४२ || काञ्चनीचूर्णपीताभः पीनोरस्कः सुनासिकः | सुवृत्तोरुकटीजंघो नीलवेष्टितकेशरः | लग्न भ्रूयुगलो लोलः पूर्णचन्द्रनिभाननः || ४३ || कपाटविस्तीर्णहृदि रोमराजिविराजितः | शुभ्रमातङ्गकरवत् पीननिस्तलबाहुकः | आरक्तपाणिनयनमुखपादकरोद्भवः || ४४ || क्षीणमध्यश्चारुदन्तः प्रमत्तगजकन्धरः | प्रफुल्लपद्मपत्राक्षः केशरघ्राणतर्पणः | कम्बुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः || ४५ || पञ्चपुष्पायुधो वेगी पुष्पकोदण्डमण्डितः | कान्तः कटाक्षपातेन भ्रामयन्नयनद्वयम् || ४६ || सुगन्धिमरुता भ्रान्त शृंगाररससेवितम् | तं वीक्ष्य तादृशं दक्षप्रमुखा मानसाश्च ते || ४७ || मरीच्याद्या दश ततो विस्मयाविष्टचेतसः | औत्सुक्यं परमं जग्मुरापुर्वैकारिकं मनः || ४८ || चास पि वेधस वीक्ष्य स्रष्टार जगतां पतिम् | प्रणम्य पुरुषः प्राह विनयानतकन्धरः || ४९ || पुरुष उवाच किं करिष्याम्यहं कर्म ब्रह्मस्तत्र नियोजय | मां न्यायये पुरुषो यस्मादुचिते शोभते विधे || ५० || अभिधानं च यद्योग्यं स्थानं पत्नी च या मम | तन्मे कुरुष्व लोकेशत्वं स्रष्टा जगतां यतः || ५१ || मार्कण्डेय उवाच एवं तस्य वचः श्रुत्वा पुरुषस्य महात्मनः | क्षणं न किंचित् प्रोवाच स्वसृष्टावपि विस्मितः || ५२ || ततो मनः सुसंयम्य सम्यगुत्सृज्य विस्मयम् | उवाच पुरुषं ब्रह्मा तत्कर्मोद्देशमावहन् || ५३ || ब्रह्मोवाच अनेन चारुरूपेण पुष्पबाणैश्च पञ्चभिः | मोहयन् पुरुषान् स्त्रींश्च कुरु सृष्टि सनातनीम् || ५४ || न देवो न च गन्धर्वो न किन्नरमहोरगाः | नासुरो न च दैत्यो वा न विद्याधरराक्षसाः || ५५ || न यक्षा न पिशाचाश्च न भूता न विनायकाः | न गुह्यका न वा सिद्धा न मनुष्या न पक्षिणः || ५६ || पशवो न मृगाः कीटपतङ्गाजलजाश्च ये | न ते सर्वे भविष्यन्ति न लक्ष्या ये शरस्य ते || ५७ || अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तमः | भविष्यामस्तव वशे किमन्यैः प्राणधारिभिः || ५८ || प्रच्छन्नरूपी जन्तूनां प्रविशन् हृदयं सदा | सुखहेतुः स्वयं भूत्वा कुरु सृष्टिं सनातनीम् || ५९ || त्वत्पुष्पवाणस्य सदा मुक्यं लक्ष्यं मनोऽस्तु तत् | सर्वेषां प्राणिनां नित्यं मदमोदकरो भवान् || ६० || इति ते कर्म कथितं सृष्टिप्रावर्तकं पुनः | नामापि च गदिष्यामि यत्ते योग्यं भविष्यति || ६१ || मार्कण्डेय उवाच इत्युक्त्वाथ सुरश्रेष्ठो मानसानां मुखानि च | आलोक्य स्वासने पद्मे सूपविष्टोऽभवन् क्षणात् || ६२ || इति श्रीश्रीकालिकापुराणे कामप्रादुर्भावो नाथ प्रथमोऽध्यायः || १ || द्वितीयोऽध्यायः मार्कण्डेय उवाच ततस्ते मुनयः सर्वे तदभिप्रायवेदिनः | चक्रुस्तदुचितं नाम मरीच्यत्रिमुखास्तदा || १ || मुखावलोकनादेव ज्ञात्वा वृत्तान्तमन्यतः | दक्षादयस्तु स्रष्टारः स्थानं पत्नीञ्च ते ददुः || २ || ततो निश्चित्य नामानि मरीचि प्रमुखाद्विजाः | ऊचुः संगतमेतस्मै पुरुषाय द्विजोत्तमाः || ३ || ऋषय ऊचुः यस्मात् प्रमथ्य चेतस्त्वं जातोऽस्माकं तथा विधेः | तस्मान्मन्मथनाम्ना त्वं लोके ख्यातो भविष्यसि || ४ || जगत्सु कामरूपस्त्वं त्वत्समो नहि विद्यते | अतस्त्वं कामनाम्नापि ख्यातो भव मनोभव || ५ || मदनान्मदनाख्यस्त्वं शम्भोर्दर्पाच्च दर्पकः | तदा कन्दर्पनाम्नापि लोके ख्यातो भविष्यति || ६ || त्वदाशुगानां यद्वीर्य तद्वीर्य न भविष्यति | वैष्णवानाञ्च रौद्राणां ब्रह्मास्त्राणाञ्च तादृशम् || ७ || स्वर्गे मर्त्त्ये च पाताले ब्रह्मलोके सनातने | तव स्थानानि सर्वाणि सर्वव्यापि भवान् यतः | किं वाचातिविशेषेण सामान्ये नास्ति ते समः || ८ || यत्र यत्र भवेत् प्राणी शाद्बलास्तरवोऽथवा | तत्र तत्र तव स्थानमस्त्वाब्रह्मसदोदयम् || ९ || दक्षोऽयं भवतः पत्नीं स्वयं दास्यति शोभनाम् | आद्यः प्रजापतिर्यो हि यथेष्टं पुरुषोत्तम || १० || एषा च कन्यका चारुरूपा ब्रह्ममनोभवा | सन्ध्यानामेति विख्याता सर्वे लोके भविष्यति || ११ || ब्रह्मणो ध्यायतो यस्मात् सम्यग्जाता वराङ्गना | अतः सन्ध्येति लोकेऽस्मिन्नस्याः ख्यातिर्भविष्यति || १२ || मार्कण्डेय उवाच इत्युक्त्वा मुनयः सर्वे तूष्णीं तस्थुर्द्विजोत्तमाः | अवेक्ष्य ब्रह्मवदनं निनयावनताः पुरः || १३ || ततः कामोऽपि कोदण्डमादाय कुसुमोद्भवम् | उन्मादनेति विख्यातं कान्ताभ्रूतुल्यवेल्लितम् || १४ || कौसुमानि तथास्त्राणि पञ्चादाय द्विजोत्तमाः | हर्षणं रोचनाख्यञ्च मोहनं शोषणं तथा || १५ || मारणञ्चेति संज्ञाभिर्मुनिमोहकराण्यपि | प्रच्छन्नरूपी तत्रैव चिन्तयामास निश्चयम् || १६ || ब्रह्मणा मम यत्कार्यं समुद्दिष्टं सदातनम् | तदिहैव करिष्यामि मुनीनां सन्निधौ विधेः || १७ || तिष्ठन्ति मुनयश्चात्र स्वयञ्चापि प्रजापतिः | एषा सन्ध्यापि ब्रह्मणा प्रोक्त्तमिदानोमेव यद्वचः || १९ || अहं विष्णुर्हरश्चापि तवास्त्रवशवर्तिनः | किमन्यैर्जन्तुभिरिति तत्सार्थं करवाण्यहम् || २० || मार्कण्डेय उवाच इति सञ्चित्यमनसा निश्चित्य च मनोभवः | पुष्पज्यां पुष्पचापस्य याजयामास मार्गणैः || २१ || आलीढस्थानमासाद्य धनुराकृष्य यत्नतः | चकार वलयाकारं कामो धन्विवरस्तदा || २२ || सहिते तेन कोदण्डे मारुताश्च सुगन्धयः | ववुस्तत्र मुनिश्रेष्ठाः सम्यगाह्लदकारिणः || २३ || ततस्तानथ धात्रादीन् सर्वानेव च मानसान् | पृथक् पृथक् पुष्पशरैर्मोहयामास मोहनः || २४ || ततस्ते मुनयः सर्वे मोहिताश्चतुराननः | मोहितो मनसा किंचिद्विकारं प्रापुरादितः || २५ || सन्ध्यां सर्वे निरीक्षन्तः सविकाराः मुहुर्मुहुः | आसन् प्रवृद्धमदनाः स्त्री यस्मान्मदवर्धिनी || २६ || ततः सर्वान् स मदनो मोहयित्वा पुनः पुनः | यथेन्द्रियविकारांस्ते प्रापुस्तानकरोत्तथा || २७ || उदीरितेन्द्रियो धाता वीक्षाञ्चक्रे यदाथ ताम् | तदैव ह्यूनपञ्चाशद्भावा जाताः शरीरतः || २८ || विव्वोकाद्यास्तथा हावाश्चतुःषष्टिकलास्तथा | कन्दर्पशरविद्धायाः सन्ध्याया अभवन् द्विजाः || २९ || सापि तैर्वीक्ष्यमाणाथ कन्दर्पशरपातजान् | चक्रे मुहुर्मुहुर्भावान् कटाक्षावरणादिकान् || ३० || निसर्गसुन्दरो सन्ध्या तान् भावान् मदनोद्भवान् | कुर्वन्त्यतितरां रेजे स्वर्णदीव तनूर्मिभिः || ३१ || अथ भावयुवां सन्ध्यां वीक्षमाणः प्रजापतिः | धमम्भिःपूरिततनुरभिलाषमथाकरोत् || ३२ || ततस्ते मुनयः सर्वे मरीच्यत्रिमुखा अपि | दक्षाद्याश्च द्विजश्रेष्ठाः प्रापुर्वैकारिकेन्द्रियम् || ३३ || दृष्ट्वा तथाविधान् दक्षमरीचिप्रमुखान् विधिम् | सन्ध्याञ्च कर्मणि निजे श्रदृधे मदनस्तदा || ३४ || यदिदं ब्रह्मणा कर्म ममोद्दिष्टं मयापि तत् | कर्तुं शक्यमिति श्रद्धाभावितात्माभवत्तदा || ३५ || ततो वियद्गतः शम्भुर्विधिं दृष्ट्वा तथाविधम् | सदक्षान्मानसांश्चापि जहासोपजहास च || ३६ || ससाधुवादं तान् सर्वान् विहस्य च पुनः पुनः | उवाचेदं द्विजश्रेष्ठा लज्जयंस्तान् वृषध्वजः || ३७ || ईश्वर उवाच अहो ब्रह्मंस्तव कहं कामभावः समुद्गतः | दृष्ट्वा स्वतनयां नैतद् योग्यं वेदानुसारिणाम् || ३८ || यथा माता तथा जामिर्यया जामिस्तथा सुता | एष वै वेदमार्गस्य निश्चयस्त्वन्मुखोत्थितः | कथन्तु काममात्रेण तत्ते विस्मारितं विधे || ३९ || धैर्ये जगदिदं ब्रह्मन् समस्तं चतुरानन | कथं क्षुद्रेण कामेन तत्ते विघटितं विधे || ४० || एकान्तयोगिनः कस्मात् सर्वदा दिव्यदर्शनाः | कथं दक्षमरीच्याद्या लोलुपाः स्त्रीषु मानसाः || ४१ || कथं कामोऽपि मन्दात्मा प्राप्तकर्माधुनैव तु | युष्मान् शरव्यान् कृतवानकालज्ञोऽल्पचेतनः || ४२ || धिगस्तु तं मुनिश्रेष्ठ यस्य कान्ताजनो हठाद् | धैर्यमाकृष्य लौल्येषु मज्जयत्यपि तन्मनः || ४३ || मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा लोकेशो गिरिशस्य च | व्रीडया द्विगुणोभूतस्वेदार्द्रो ह्यभवत् क्षणात् || ४४ || ततो निगृह्यैन्द्रियकं विकारं चतुराननः | जिघृक्षुरपि तत्याज तां सन्ध्यां कामरूपिणीम् || ४५ || तच्छरीरात्तु धर्माम्भो यत् पपात द्विजोत्तमाः | अग्निष्वात्ता वर्हिषदो जाताः पितृगणास्ततः || ४६ || भिन्नाञ्जननिभाः सर्वे फूल्लरा जीवलोचनाः | नितान्तयतयः पुण्याः संसारविमुखाः पराः || ४७ || सहस्राणां चतुःषष्टिरग्निष्वात्ताः प्रकीर्तिताः | षडशीतिसहस्राणि तथा वर्हिषदो द्विजाः || ४८ || धर्माम्भः पतितं भूमौ यद्दक्षस्य शरीरतः | समस्तगुणसम्पन्ना तस्माज्जाता वराङ्गनाः || ४९ || तन्वङ्गी तनुमध्या च तनुरोमावली शुभा | मृद्वङ्गी चारुदशना तप्तकाञ्चनसुप्रभा || ५० || मरीचिप्रमुखैः षड्भिर्निगृहीतेन्द्रियक्रिया | ऋते ऋतुं वशिष्ठञ्च पुलस्त्याङ्गिरसौ तदा || ५१ || ऋत्वादीना. चतुर्णाञ्च यो भूमौ निपपात ह | ततः पितृगणा जाता अपरे द्विजसत्तमाः || ५२ || सोमपा आज्यपा नाम्ना तथैवान्ये सुकालिनः | हविर्भुजस्तु ते सर्वे कव्यवाहा प्रकीर्तिताः || ५३ || ऋतोस्तु सोमपाः पुत्रा वशिष्ठस्य सुकालिनः | आज्यपाख्याः पुलस्त्यस्य हविष्मन्तोऽङ्गिरः सुताः || ५४ || जातेषु तेषु विप्रेन्द्रा अग्निष्वात्तादिकेष्वथ | लोकानां पितृवर्गेषु कव्यवाहाः समन्ततः || ५५ || सर्वेषामेव भूतानां ब्रह्मा भूतपितामहः | सन्ध्या पितृप्रसूर्भुता तदुद्देशाद्यतोऽभवत् || ५६ || अथ शङ्करवाक्येन लज्जितः स पितामहः | कन्दर्पाय चुकोपाशु भ्रूकुटीकुटिलाननः || ५७ || पुरैव तदभिप्रायं विदित्वा सोऽपि मन्मथः | स्वबाणान् सञ्जहाराशु भीतः पशुपतेर्विधेः || ५८ || ततः क्रोधसमाविष्टो ब्रह्मा लोकापितामहः | यच्चकार द्विजेन्द्रास्तच्छृणुध्वं सुखमाहिताः || ५९ || इति श्रीकालिकापुराणे ब्रह्ममोहनो नाथ द्वितीयोऽध्यायः || २ || तृतीयोऽध्यायः मार्कण्डेय उवाच ततः कोपसमाविष्टः पद्मयोनिर्जगत्पतिः | प्रजज्वालातिबलवद्दिधक्षुरिव पावकः || १ || उवाच चेश्वरं कामो भवतः पुरतो यतः | पुष्पेषुभिर्मामभजत् तत्फलस्याप्नुयाद्वर || २ || तव नेत्राग्निनिर्दग्धः कन्दर्पो दर्पमोहितः | भविष्यति महादेव कृत्वा कर्मातिदुष्करम् || ३ || इति वेधाः स्वयं कामं शशाप द्विजसत्तमाः | समक्षं व्योमकेशस्य मुनीनाञ्च यतात्मनाम् || ४ || अथ भीतो रतिपतिस्तत्क्षणात् त्यक्तमार्गणः | प्रादुर्वभूव प्रत्यक्षं शापं श्रुत्वातिदारुणम् || ५ || उवाच चेदं ब्रह्माणं सदक्षं समरीचिकम् | तथ्यञ्च गद्गतं भीत्या भीतिर्हि गुणहानिकृत् || ६ || मन्मथ उवाच ब्रह्मन् किमर्थ भवता शप्तोऽहमतिदारुणम् | अनागस्तव लोकेश न्यायमार्गानुसारिणः || ७ || त्वयैवोक्तन्तु तत् कर्म यत्तु कुर्यामहं विभो | तत्र याग्यो न शापो मे यतो नान्यन्मया कृतम् || ८ || अहं विष्णुस्तथा शम्भुः सर्वे त्वच्छरगोचराः | इति यद्भवता प्रोक्तं तन्मयापि परीक्षितम् || ९ || नापराधो ममास्त्यत्र ब्रह्मन् मयि निरागसि | दारुणं शमयस्वैनं शाप मम जगत्पते || १० || मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा विधाता जगतां पतिः | प्रत्युवाच यतात्मानं मदनं सदयं मुहुः || ११ || ब्रह्मोवाच आत्मजा मम सन्ध्येयं यस्मादेतत्सकाशतः | लक्ष्यीकृतोऽहं भवता ततः शापो मया कृतः || १२ || अधुना शान्तरोषोऽहं त्वां वदामि मनोभव | भवतः शापशमनं भविष्यति यथा तथा || १३ || त्वं भस्म भूत्वा मदन भर्गलोचनवह्निना | तस्यैवानुग्रहात् पश्चाच्छरीरं समवाप्स्यसि || १४ || यदा हरो महादेवः कुर्याद्दारपरिग्रहम् | तदा स एव भवतः शरीरं प्रापयिष्यति || १५ || मार्कण्डेय उवाच एवमुक्तवाथ मदनं ब्रह्मा लोकपितामहः | अन्तर्दधे मुनीन्द्राणां मानसानाञ्च पश्यताम् || १६ || तस्मिन्नन्तर्हिते शम्भूः सर्वेषाञ्च विधातरि | यथेष्टदेशं गतवान् ब्रह्मा (तदा (?)) मारुतरंहसा || १७ || वेधस्यन्तर्हिते तस्मिन् गते शम्भौ निजास्पदम् | दक्षः प्राहाथ कन्दर्प पत्नीं तस्य निदर्शयन् || १८ || दक्ष उवाच मद्देहजेयं कन्दर्प मद्रूपगुणसंयुता | एनां गृह्णीष्व भार्यार्थ भवतः सद्दशीं गुणैः || १९ || एषा तव महातेजाः सर्वदा सहचारिणी | भविष्यति यथाकामं धर्मतो दशवर्तिनी || २० || मार्कण्डेय उवाच इत्युक्ता प्रददौ दक्षौ देहस्वेदाम्बुसम्भवाम् | कन्दर्पायाग्रतः कृत्वा नाम कृत्वा रतीति ताम् || २१ || तां वीक्ष्य मदनो रामां रत्याख्यां सुमनोहराम् | आत्माशुगेन विद्धोऽसौ मुमोह रतिरञ्जितः || २२ || क्षणप्रभावदेकान्तगौरी मृगदृशी सदा | लोलापाङ्गवय तस्यैव मृगीव सदृशी वधौ || ३३ || तस्या भ्रूयुगलं वीक्ष्य संशयं मदनोऽकरोत् | उन्मादकृन्मे कोदण्डं किं धात्रा स्यान्निवेशितम् || २४ || कटाक्षाणामाशुगतिं दृष्ट्वा तस्या द्विजोत्तमाः | आशुगत्वं निजास्त्राणां श्रद्दधे न च चारुताम् || २५ || तस्याः स्वभावसुरभिं धीरं श्वासानिलं तथा | आघ्राय मदनः श्रद्धां त्यक्तवान् मलयानिले || २६ || पूर्णेन्दुसदृशं वक्त्रं दृष्ट्वा भ्रूलक्ष्मलक्षितम् | न निश्चिकाय मदनो भेदं तन्मुखचन्द्रयोः || २७ || सुवर्णपद्मकलिकातुल्यं तस्याः कुचद्वयम् | रेजे चुचूकयुग्मेन भ्रमरेणेव सेवितम् || २८ || दृढपीनोन्नतघनस्तनम्ध्याद्विलम्बिनीम् | आनाभितो रोमराजिं तन्वी चार्वायतां शुभाम् || २९ || ज्यां पुष्पधनुषः कामः षट्पदावलिसम्भृताम् | विसस्मार च यस्मार्त्ता विगृह्यैनां निरीक्षते || ३० || गम्भीरनाभिरन्ध्रान्तश्चतुष्पार्श्वत्वमावृताम् | आननाब्जेक्षणद्वन्द्वमारक्तकमलं यथा || ३१ || क्षीणमध्येन वपुषा निसर्गाष्टपदप्रभा | रत्नवेदीव ददृशे कामेन द्विजसत्तमाः || ३२ || रम्भास्तम्भयातस्निग्धं तदुरुयुगलं मृदु | निजशक्तिसमं कामो वीक्षाञ्चक्रे मनोहरम् || ३३ || आरक्तपार्ष्णिपादाग्रप्रान्तभागं पदद्वयम् | अनुरागमयं चित्रं स्थतं तिस्यां मनोभवः || ३४ || तस्याः करयुगं रक्तनखरैः किंशुकोपमैः | वृत्ताभिरङ्गुलिभिश्च सूक्ष्माग्राभिर्मनोहरम् || ३५ || इति दृष्ट्वा स्मरो मेने ममास्त्रैर्द्विगुणीकृतैः | मां मोहयितुमुद्युक्ता किमेषा द्विजसत्तमाः || ३६ || तद्वाहुयुगलं कान्तं मृणालयुगलायतम् | मृदुस्निग्धं रराजातिकान्तितोयप्रवाहवत् || ३७ || नीलनीरदसङ्काशः केशपाशो मनोहरः | चमरीबालभारवद्विभाति स्म स्मरप्रियः || ३८ || तां वीक्ष्य मदनो देवीं रतिमतिमनोहराम् | कान्तितोयौघसम्पूर्णा कुचवक्त्राब्जकुड्मलाम् || ३९ || वक्त्रपद्मां चारुबाहुमृणालशकलान्विताम् | भ्रूयुग्मविभ्रमद्व्राततनूर्मिपरिराजिताम् || ४० || कटाक्षपातभृङ्गीघां नेत्रनीलोत्पलान्विताम् | तनुलोमालिशैवालां मनोद्रुमविशातिनीम् || ४१ || निम्ननाभिह्रदां दक्षप्रालेयाद्रिसमुद्भवाम् | गङ्गामिव महादेवो जग्राहोत्फुल्ललोचनः || ४२ || उवाच च तदा सक्षं कामो मोदभरान्वितः | विस्मृत्य शापञ्च तदा विधिदत्तं सुदारुणम् || ४३ || मदन उवाच अनया सहचारिण्या सम्यक् सुन्दररूपया | समर्थो मोहितुं शम्भुं किमन्यैर्जन्तुभिर्विधो || ४४ || यत्र यत्र मया लक्ष्यं क्रियते धनुषोऽनघ | तत्रानयापि चेष्टव्यं मायया रमणाह्वया || ४५ || यदा देवालयं यामि पृथिवीं वा रसातलम् | तदैषाप्यस्तु सध्रीची सर्वदा चारुहासिनी || ४६ || यथा पद्मालया विष्णोर्जलदानां यथा तडित् | यथा ममैषा भविता प्रजाध्यक्ष सहायिनी || ४७ || मार्कण्डेय उवाच इत्युक्त्वा मदनो देवीं रतिं जग्राह सोत्सुकः | स्रागरादुत्थितां लक्ष्मीं हृषीकेश इवोत्तमाम् || ४८ || रराज स तया सार्धं भिन्नपीतप्रभः स्मरः | जोमूत इव सन्ध्यायां सौदामिन्या मनोज्ञया || ४९ || इति रतिपतिरुच्चैर्मोदयुक्तो रतिं तां हृदि परिजगृहे यां योगदर्शीव विद्याम् | रतिरपि पतिमग्र्यं प्राप्य तोषञ्च लेभे हरिमिव कमलोत्था पूर्णचन्द्रोपमास्या || ५० || इति श्रीकालिकापुराणे रत्युत्पत्तौ तृतीयोऽध्यायः चतुर्थोऽध्यायः मार्कण्डेय उवाच ततः प्रभृति धातापि यदेवान्तर्हितः पुरा | चिन्तयामास सततं शम्भुवाक्यविषार्द्दितः || १ || कान्ताभिलाषमात्रं मे दृष्ट्वा शम्भुरगर्हयत् | मुनीनां पुरतः कस्मात् स दारान् संग्रहीष्यति || २ || का वा भवित्री तज्जायाका च तन्मनसि स्थिता | योगमार्गमवष्टव्य तस्य मोहं करिष्यति || ३ || मन्मथोऽपि समर्थो नो भविष्यत्यस्य मोहने | नितान्तयोगी रामाणां नामापि सहते न सः || ४ || अगृहीतेषु दारेषु हरेण कथमादितः | मध्येऽन्ते च भवेत् सृष्टिस्तद्वधो नान्यकारितः || ५ || केचिद्भविष्यन्ति भुवि मया बाध्या महाबलाः | केचिद्विष्णोर्वारणीयाः केचिच्छम्भोरुपायतः || ६ || संसारविमुखे शम्भौ तथैकान्तविरागिणि | अस्मदृते न कर्मान्यत् करिष्यति न संशयः || ७ || चिन्तयन्निति लोकेशो ब्रह्मा लोकपितामहः | पुनर्द्ददर्श भूमिष्ठान् दक्षादीन् वियति स्थितः || ८ || रतिद्वितीयं मदनं मोदयुक्तं निरीक्ष्य च | पुनस्तत्र गतः प्राह सान्त्वयन् पुष्पसायकम् || ९ || ब्रह्मोवाच अनया सहचारिण्या राजसे त्वं मनोभव | एषा च भवता पत्या युक्ता संशोधते धृशम् || १० || यथा श्रिया हृषीकेशो यथा तेन हरिप्रिया | क्षणदा विधुना युक्ता तया युक्तो यथा विधुः || ११ || तथैव युवयोः शोभा दाम्पत्यञ्च पुरस्कृतम् | अतस्त्वं जगतः केतुर्विश्वकेतुर्भविष्यसि || १२ || जगद्धिताय वत्स त्वं मोहयस्व पिणाकिनम् | यथा सुखमनाः शम्भुः कुर्याद्दारपरिग्रहम् || १३ || विजने स्निग्धदेशे च पर्वतेषु सरित्सु च | यत्र यत्र प्रयातीशस्तत्र तत्रानया सह || १४ || मोहयस्व यतात्मानं वनिताविमुखं हरम् | त्वदृते विद्यते नान्यः कश्चिदस्य विमोहकः || १५ || भूते हरे सानुरागे भवतोऽपि मनोभव | शापोपशान्तिर्भविता तस्मादात्महितं कुरु || १६ || सानुरागो वरारोहां यदीच्छति मनोभव | तदा तवोपभोगाय स त्वां सम्भावयिष्यति || १७ || तस्माज्जगद्धिताय त्वं यतस्व हरमोहने | शिवस्य भव केतुस्त्वं मोहयित्वा महेश्वरम् || १८ || मार्कण्डेय उवाच इति श्रुत्वा वचस्तस्य ब्रह्मणः परमात्मनः | उवाच मन्मथस्तथ्यं ब्रह्माणं जगतो हितम् || १९ || मन्मथ उवाच करिष्येऽहं तव विभो वचनाच्छम्भुमोहनम | किन्तु योषिन्महास्त्रं मे तत्र कान्तां प्रभो सृज || २० || मया सम्मोहिते शम्भौ यया तस्यानुमोहनम् | कार्यं मनोरमां रामां तां निदेशय लोकभृत् || २१ || तामहं नहि पश्यामि यया तस्यानुमोहनम् | कर्तव्यमधुना धातस्तत्रोपायं तथा कुरु || २२ || मार्कण्डेय उवाच एवंवादिनि कन्दर्पे धाता लोकपितामहः | कुर्या सम्मोहनीं योषामिति चिन्तां जगामह || २३ || चिन्ताविष्टस्य तस्याथ निःश्वासो यो विनिःसृतः | तस्माद्वसन्तः संजातः पुष्पव्रातविभूषितः || २४ || चूताङ्कुरान् मुकुलितान् विभ्रद् भ्रमरसंहतिम् | किंशुकान् सारसान् रेजे प्रफुल्ल इव पादपः || २५ || शोणराजीवसंकाशः फुल्लतामरसेक्षणः | सन्ध्योदिताखण्डशशिप्रतिमास्यः सुनासिकः || २६ || शङ्खवच्छ्रवणावर्तः श्यामकुञ्चितमूर्द्धजः | सन्ध्यांशुमालिसदृशकुण्डलद्वयमण्डितः || २७ || प्रमत्तमातङ्गगतिर्विस्तीर्णहृदयस्तलः | पीनस्थूलायतभुजः कठोरकरयुग्मकः || २८ || सुवृत्तोरुकटीजङ्घः कम्बुग्रीवोन्नतांसकः | गूढजत्रुः पीनवक्षाः सम्पूर्णः सर्वलक्षणैः || २९ || तादृशेऽथ समुत्पन्ने सम्पूर्णः कुसुमाकरे | ववौ वायुः ससुरभिः पादपा अपि पुष्पिताः || ३० || पिकाश्च नेदुः शतशः पञ्चमं मधुरस्वराः | प्रफुल्लपद्मा अभवन् सरस्यः पुष्टपुष्कराः || ३१ || तमुत्पन्नमवेक्ष्याथ तथा तादृसमुत्तमम् | हिरण्यगर्भो मदनं जगाद मधुरं वचः || ३२ || ब्रह्मोवाच एष मन्मथ ते मित्रं सदा सहचरो भवेत् | आनुकूल्यं तव कृते सवदैव करिष्यति || ३३ || यथाग्नेः श्वसनो मित्रं सर्वत्रोपकरोति च | तथायं भवतो मित्रं सदा त्वामनुयास्यति || ३४ || वसतेरन्तहेतुत्वाद् वसन्ताख्यो भवत्वयम् | तवानुगमनं कर्म तथा लोकानुरञ्जनम् || ३५ || असौ वसन्तः शृङ्गारो वसन्ते मलयानिलः | भवन्तु सुहृदो भावाः सदा त्वद्वशवर्तिनः || ३६ || बिब्बोकाद्यास्तथा हावाश्चतुःषष्टिकलास्तथा | कुर्वन्तु रत्याः सौहृद्यं सुहृदस्ते यथा तव || ३७ || एभिः सहचरैः काम वसन्तप्रमुखैर्भवान् | अनया सहचारिण्या त्वद्युक्तपरिवारया || ३८ || मोहयस्व महादेवं कुरु सृष्टिं सनातनीम् | यथेष्टदेशं गच्छ त्वं सर्वः सहचरैर्वृतः | अहं तां भावयिष्यामि यो हरं मोहयिष्यति || ३९ || एवमुक्तोऽथ मदनः सुरज्येष्ठेन हर्षितः | जगाम सगणस्तत्र सपत्न्यनुचरस्तदा || ४० || दक्षं प्रणम्य तान् सर्वान् मानसानभिवाद्य च | यत्रास्ति शम्भुर्गतवांस्तत्स्थानं मन्मथस्तदा || ४१ || तस्मिन् गते सानुचरेऽथ मन्मथे शृङ्गारभावादियुते द्विजोत्तमाः | प्रोवाच दक्षं मधुरं पितामहः सार्धं मरीच्यत्रिमुखैर्मुनीश्वरैः || ४२ || इति श्रीकालिकापुराणे वसन्तोत्पत्तौ चतुर्थोऽध्यायः || ४ || पञ्चमोऽध्यायः मार्कण्डेय उवाच अथ ब्रह्मा तदोवाच दक्षाय सुमहात्मने | मरीचिप्रमुखेभ्यश्च वचनञ्चेदमञ्जसा || १ || ब्रह्मोवाच भवित्री शम्भुपत्नी का का तं सन्मोहयिष्यति | इति सञ्चिन्तयन् कान्तां न स्थिरीकर्तुमुत्सहे || २ || विष्णु मायामृते दक्ष महामायां जगन्मयीम् | नान्या तन्मोहकर्त्री स्यात् सन्ध्यासावित्र्युमा ऋते || ३ || तस्मादहं विष्णुमायां योगनिद्रां जगत्प्रसूम् | स्तौमि सा चारुरूपेण शंकरं मोहयिष्यति || ४ || भवांस्तु दक्ष तामेव यजतां विश्वरूपिणीम् | यथा तव सुता भूत्वा हरजाया भविष्यति || ५ || मार्कण्डेय उवाअ एवं वचनमाकर्ण्य ब्रह्मणः परमात्मनः | उवाच दक्षह् स्रष्टारं मरीच्यादिभिरीरितः || ६ || दक्ष उवाच यथात्थ भगवंस्तथ्यं त्वं लोकेश जगद्धितम् | तत् करिष्यामहे सम्यग् यथा स्यात्तन्मनोहरा || ७ || तथा तथा भविष्यामि यथा मम सुता स्वयम् | विष्णुमाया भवेत् पत्नी भूत्वा शम्भोर्महात्मनः || ८ || मार्कण्डेय उवाच एवमेवेति तैरुक्तं मरीचिप्रमुखैस्तदा | यष्टुं दक्षः समारेभे महामायां जगन्मयीम् || ९ || क्षीरोदोत्तरतीरस्वस्तां कृत्वा हृदयस्थिताम् | तपस्तप्तुं समारेभे द्रष्टुं प्रत्यक्षतोऽम्बिकाम् || १० || दिव्यवर्षेण दक्षोऽपि सहस्राणां त्रयः समाः | तपश्चचार नियतः संयतात्मा दृढव्रतः || ११ || मारुताशी निराहारो जलाहारो च पर्णभुक् | एवं निनाय तत्कालं चिन्तयंस्तां जगन्मयीम् || १२ || गते दक्षे तपः कर्तुं ब्रह्मा सर्वजगत्पतिः | जगाम मन्दराभ्यासं पुण्यात्पुण्यतरं वरम् || १३ || तत्र गत्वा जगद्धात्रीं विष्णुमायां जगन्मयीम् | तुष्टाव वाग्भिरर्थ्याभिरेकतानं शतं समाः || १४ || ब्रह्मोवाच विद्याविद्यात्मिकां शुद्धां निरालम्बां निराकुलाम् | स्तौमि देवीं जगद्धात्रीं स्थूलाणीयः स्वरूपिणीम् || १५ || यस्या उदेति च जगत्प्रधानाख्यं जगत्परम् | यस्यास्तदंशभूतां त्वां स्तौमि निद्रां सनातनीम् || १६ || त्वं चितिः परमानन्दा परमात्मस्वरूपिणी | शक्तिस्त्वं सर्वभूताना त्व सर्वेषां च पावनी || १७ || त्वं सावित्री जगद्धात्री त्व सन्ध्या त्व रतिर्धृतिः | त्वं हि ज्योति स्वरूपेण ससारस्य प्रकाशिनी || १८ || तथा तमःस्वरूपेण च्छादयन्ती सदा जगत् | त्वमेव सृष्टिरूपेण ससारपरिपूरणी || १९ || स्थितिरूपेण च हरेर्जगतां च हितेषिणी | तथैवान्तस्वरूपेण जगतामन्तकारिणी || २० || त्वं मेधा त्वं महामाया त्वं स्वधा पितृमोदिनी | त्वं स्वाहा त्वं नमस्कारवषट्कारौ तथा स्मृतिः || २१ || त्वं पुष्टिस्त्वं धृतिर्मैत्री करुणा मुदिता तथा | त्वमेव लज्जा त्वं शान्तिस्त्वं कान्तिर्जगदीश्वरी || २२ || महामाया त्वं च स्वाहा स्वधा च पितृदेवता | या सृष्टिशक्तिरस्माकं स्थितिशक्तिश्च या हरेः || २३ || अन्तशक्तिस्तथेशानी सा त्वं शक्तिः सनातनि || २४ || एका त्वं द्विविधा भूत्वा मोक्षसंसारकारिणी | विद्याविद्यास्वरूपेण स्वप्रकाशाप्रकाशतः || २५ || त्वं लक्ष्मीः सर्वभूतानां त्वं छाया त्वं सरस्वती | त्रयीमयी त्रिमात्रा त्वं सर्वभूतस्वरूपिणी || २६ || उद्गीतिः सामवेदस्य या पितृगणरञ्जनी | त्वं वेदिः सर्वयज्ञानां सामिधेनी तथा हविः || २७ || यदव्यक्तमनिर्देश्यं निष्कलं परमात्मनः | रूपं तथैव तन्मात्रं सकलं च जगन्मयम् || २८ || या मूर्त्तिर्वि रता सर्वधरित्रो बिभ्रती क्षितिम् | सा त्वं विश्वम्भरे लोके शक्तिभूतिप्रदा सदा || २९ || त्वं तक्ष्मीश्चेतना कान्तिस्त्वं पुष्टिस्त्वं सनातनी | त्वं कालरात्रिस्त्वं मुक्तिः शान्तिः प्रज्ञा तथा स्मृतिः || ३० || संसारसागरोत्तारतरणि सुखमोक्षदे | प्रसीद सर्वजगतां त्वं गतिस्त्वं मतिः सदा || ३१ || त्वं नित्या त्वमनित्या च त्वं चराचरमोहिनी | त्वं सन्धिनी सर्वयोगसाङ्गोपाङ्गविभाविनी || ३२ || चिन्ता कीर्तिर्यतीनां त्वं त्वं तदष्टाङ्गसंयुता | त्वं खड्गिनी शूलिनी च चक्रिणी घोररूपिणी || ३३ || त्वमीश्वरी जनानां त्वं सर्वानुग्रहकारिणी | विश्वादिस्त्वमनादिस्त्वं विश्वयोनिरयोनिजा | अनन्ता सर्वजगतस्त्वमेवैकान्तकारिणी || ३४ || नितान्तनिर्मला त्वं हि तामसीति च गीयसे | तं हिंसा त्वमहिंसा च त्वं काली चतुरानना || ३५ || त्वं परा सर्वजननी दमनी दामिनी तथा | त्वययेव लीयते विश्वं भाति तत्त्वं तद्बिभर्त्ति च || ३६ || त्वं सृष्टिहीना त्वं सृष्टिस्त्वमकर्णापि सश्रुतिः | तपस्विनी पाणिपादहीना त्वं नितरां ग्रहा || ३७ || त्वं द्वौस्त्वमापस्त्वं ज्योतिर्वायुस्त्वं च नभो मनः | अहंकारोऽपि जगतामष्टधा प्रकृतिः कृतिः || ३८ || जगन्नाभिर्मेरुरूपधारिणी नालिकापरा | परापरात्मिका शुद्धा माया मोहातिकारिणी || ३९ || कारणं कार्यभूतञ्च सत्यं शान्तं शिवाशिवे | रूपाणि तव विश्वार्थे रागवृक्षफलानि च || ४० || नितान्तह्रस्वा दीर्घा च नितान्ताणुबृहत्तनुः | सूक्ष्माप्यखिललोकस्य व्यापिनी त्वं जगन्मयी || ४१ || मानहीना विमानातिविमानोन्मानसम्भवा | यदष्टिव्यष्टिसम्भोगरागादिगलिताशया | तत्ते महिम्नि तद्रूपं तव भ्रान्त्यादिकं च यत् || ४२ || इष्टानिष्टविपाकज्ञा यथेष्टानिष्टकारणम् | सर्गादिमध्यान्तमयं निम्नं रूपं तथैव च || ४३ || विचाराष्टाङ्गयोगेन सम्पाद्यैवं मुहुर्मुहुः | यत् स्थिरीक्रियते तत्त्वं तत्ते रूपं सनातनम् || ४४ || बाह्याबाह्ये सुखं दुःखं ज्ञानाज्ञाने लयालयौ | उपतापस्तथा शान्तिर्भूतिस्त्वं जगतः पतेः || ४५ || यस्याः प्रभावं नो वक्तुं शक्नोति भुवनत्रये | तयैव सन्मोहकरी सा त्वं किं स्तूयसे मया || ४६ || योगनिद्रा महानिद्रा मोहनिद्रा जगन्मयी | विष्णुमाया च प्रकृतिः कस्त्वां स्तुत्या विभावयेत् || ४७ || मम विष्णोः शंकरस्य या वपुर्वहनात्मिका | तस्याः प्रभावं को वक्तुं गुणान् वेत्तुं च कः क्षमः || ४८ || प्रकाशकरणज्योतिःस्वरूपान्तरगोचरा | त्वमेव जङ्गमस्थेयरूपैका बाह्यगोचरा || ४९ || प्रसीद सर्वजगतां जननी स्त्रीस्वरूपिणी | विश्वरूपिणी विश्वेशे प्रसीद त्वं सनातनि || ५० || मार्कण्डेय उवाच एवं संस्तूयमाना सा योगनिद्रा विरिञ्चिना | आविर्बभूव प्रत्यक्षं ब्रह्मणः परमात्मनः || ५१ || स्निग्धाञ्जनद्युतिश्चारुरूपात्तुङ्गा चतुर्भुजा | सिंहस्था खड्गनीलाब्जहस्ता मुक्तकचोत्करा || ५२ || समक्षमथ तां वीक्ष्य स्रष्टा सर्वजगद्गुरुः | भक्त्या विनम्रतुङ्गांसस्तुष्टाव च ननाम च || ५३ || ब्रह्मोवाच नमो नमस्ते जगतः प्रवृत्तिनिवृत्तिरूपे स्थितिसर्गरूपे | चराचराणां भवती च शक्तिः सनातनी सर्वविमोहनीति || ५४ || यः श्रीः सदा केशवमूर्तिमाया विश्वम्भरा या सकलं बिभर्ति | ह्रीर्योगिनी या महिता मनोज्ञा सा त्वं नमस्ते परमात्मसारे || ५५ || यामादिपूर्वे हृदि योगिनो यां विभावयन्ति प्रमितिप्रतीताम् | प्रकाशशुद्धादियुतां विराणां सा त्वं हि विद्या विविधावलम्बा || ५६ || कूटस्थमव्यक्तमचिन्त्यरूपं त्वं बिभ्रती कालमयं जगन्ति | विकारबीजं प्रकरोषि नित्यं प्रत्नानि न्यूतान्यथ मध्यमानि || ५७ || सत्त्वं रजोऽथो तम इत्यमीषां विकारहीना समवस्थितिर्या | सा त्वं गुणानां जगदेकहेतुर्बाह्यान्तरालं भवतीव याति || ५८ || अशेषजगतां बीजे ज्ञेयज्ञानस्वरूपिणि | जगद्धिताय जगतां विष्णुमाये नमोऽस्तुते || ५९ || इत्याकर्ण्य वचस्तस्य काली लोकविमोहिनी | ब्रह्माणमूचे जगतां स्रष्टारं घनशब्दवत् || ६० || देव्युवाच ब्रह्मन् किमर्थं भवता स्तुताहमवधारय | उच्यतां यदधृष्त्योऽस्ति तच्छ्रीघ्रं पुरतो मम || ६१ || प्रत्यक्षं मयि जातायां सिद्धिः कार्यस्य निश्चिता | तस्मात्ते वाञ्छितं ब्रूहि यत् करिष्यामि भाविता || ६२ || ब्रह्मोवाच एकश्चरति भूतेशो न द्वितीयां समीहते | तं मोहय यथा दारान् स्वयं स च जिघृक्षति || ६३ || त्वदृते तस्य नो काचिद् भविष्यति मनोहरा | तस्मात्त्वमेकरूपेण भवस्य भव मोहनी || ६४ || यथा धृतशरीरा त्वं लक्ष्मीरूपेण केशवम् | आमोदयसि विश्वस्य हितायैतं तथा कुरु || ६५ || कान्ताभिलाषमात्रं मे निनिन्द वृषभध्वजः | कथं पुनः स वनितां स्वेच्छया संग्रहीष्यति || ६६ || हरेऽगृहीतकान्ते तु कथं सृष्टिः प्रवर्तते | आद्यन्तमध्यहेतौ च तस्मिञ्छम्भौ विरागिणि || ६७ || इति चिन्तापरो नाहं त्वदन्यं शरणन्त्विह | लब्धवांस्तेन विश्वस्य हितायैतत् कुरुष्व मे || ६८ || न विष्णुरस्य मोहाय न लक्ष्मीर्न मनोभवः | न चाप्यहं जगन्मातस्तस्मात् त्वं मोहयेश्वरम् || ६९ || कीर्तिस्त्वं सर्वभूतानां यथा त्वं ह्रीर्यतात्मनाम् | यथा विष्णोः प्रियैका त्वं तथा सम्मोहयेश्वरम् || ७० || मार्कण्डेय उवाच अथ ब्रह्माणमाभाष्य काली योगमयी पुनः | यदुवाच महाभागास्तच्छृण्वन्तु द्विजोत्तमाः || ७१ || इति श्रीकालिकापुराणे कालीस्तुतौ पञ्चमोऽयायः | षष्ठोऽध्यायः देव्युवाच यदुक्तं भवता ब्रह्मन् समस्तं सत्यमेव तत् | मदृते मोहयित्रीह शंकरस्य न विद्यते || १ || हरेऽगृहीतदारे तु सृष्टिर्नैषा सनातनी | भविष्यतीति तत् सत्यं भवता प्रतिपादितम् || २ || मयापि च महान् यत्नो विद्यतेऽस्य जगत्पतेः | त्वद्वाक्याद् द्विगुणो मेऽद्य प्रयत्नोऽभूत् सुनिर्भरः || ३ || अहं तथा यतिष्यामि यथा दारपरिग्रहम् | हरः करिष्यत्यवशः स्वयमेव विमोहितः || ४ || चार्वी मूर्तिमहं धृत्वा तस्यैव वशवर्तिनी | भविष्यामि महाभाग यथा विष्णोर्हरिप्रिया || ५ || यथा सोऽपि ममैवेह वशवर्ती सदा भवेत् | तथा चाहं करिष्यामि यथेतरजनं हरम् || ६ || प्रतिसर्गादि मध्यं तमहं शम्भुं निराकुलम् | स्त्रीरूपेणानुयास्यामि विशेषेणान्यतो विधे || ७ || उत्पन्ना दक्षजायायां चारुरूपेण शंकरम् | अहं सभाजयिष्यामि प्रतिसर्गं पितामह || १२ || मार्कण्डेय उवाच इति तस्मै समाभाष्य ब्रह्मणे द्विजसत्तमाः | वीक्ष्यमाणा जगत्स्रष्ट्रा तत्रैवान्तर्दधे ततः || १३ || तस्यामन्तर्हितायान्नु धाता लोकपितामहः | जगाम तत्र भगवान् स्थितो यत्र मनोभवः || १४ || मुदितोऽत्यर्थमभवन्महामायावचः स्मरन् | कृतकृत्यं तदात्मानं मेने च मुनिपुङ्गवाः || १५ || अथ दृष्ट्वा महात्मानं विरञ्चि मदनस्तथा | गच्छन्तं हंसयानेन चाभ्युत्तस्थौ त्वरान्वितः || १६ || आसन्नं तमथासाद्य हर्षोत्फुल्लविलोचनः | ववन्दे सर्वलोकेशं मोदयुक्तं मनोभवः || १७ || अथाह भगवान् धाता प्रीत्या मधुरगद्गदम् | मदनं मोदयन् सूक्तं यद् देव्या विष्णुमायया || १८ || ब्रह्मोवाच यदाह वत्स शर्वस्य मोहने त्वं पुरा वचः | अनुमोहनकर्त्री या तां सृजेति मनोभव || १९ || तदर्थं संस्तुता देवी योगनिद्रा जगन्मयी | एकतानेन मनसा मया मन्दरकन्दरे || २० || स्वयमेव तया वत्स प्रत्यक्षीभूतया मम | तुष्टयाङ्गीकृतं शम्भुर्मोहनीयो मयेति वै || २१ || तया च दक्षभवने स समुत्पन्नया हरः | मोहनीयस्तु न चिरादिति सत्यं मनोभव || २२ || मदन उवाच ब्रह्मन् का योगनिद्रेति विख्याता या जगन्मयी | कथं तस्या हरो वश्यः कार्यस्तपसि सम्स्थितः || २३ || किम्प्रभावाथ सा देवी का वा सा कुत्र संस्थिता | तदहं श्रोतुमिच्छामि त्वत्तो लोकपितामह || २४ || यस्य त्यक्तसमाधेस्तु न क्षणं दृष्टिगोचरे | शक्नुमोऽपि वयं स्थातुं तं कस्मात् सा विमोहयेत् || २५ || ज्वलदग्निप्रकाशाक्षं जटाराजिकरालितम् | शूलिनं वीक्ष्य कः स्थातुं ब्रह्मन् शक्नोति तत्पुरः || २६ || तस्य तादृक्स्वरूपस्य सम्यङ्मोहनवाञ्छया | मयाभ्युपेतं तां श्रुतु महमिच्छामि तत्त्वतः || २७ || मार्कण्डेय उवाच मनोभवस्य वचनं श्रुत्वाथ चतुराननः | विवक्षुरपि तद्वाक्यं श्रुत्वानुत्साहकारणम् || २८ || शर्वस्य मोहने ब्रह्मा चिन्ताविष्टो भवन्नहि | समर्थो मोहयितुमिति निःश्वास मुहुर्मुहुः || २९ || निःश्वासमारुतात्तस्य नानारूपा महाबलाः | जाता गणा लोलजिह्वा लोलाश्चाति भयंकराः || ३० || तुरंगवदनाः केचित् केचिद् गजमुखास्तथा | सिंहव्याघ्रमुखाश्चान्ये श्ववराहखराननाः || ३१ || ऋक्षमार्जारदवदनाः शरभास्याः शुकाननाः | प्लवगोमायुवक्त्राश्च सरीसृपमुखाः परे || ३२ || गोरूपा गोमुखाः केचित्तथा पक्षिमुखाः परे | महादीर्घा महाह्रस्वा महास्थूला महाकृशाः || ३३ || पिङ्गाक्षा विरालाक्षाश्च त्र्यक्षैकाक्षा महोदराः | एककर्णास्त्रिकर्णाश्च चतुष्कर्णास्तथा परे || ३४ || स्थूलकर्णा महाकर्णा बहुकर्णा विकर्णकाः | दीर्घाक्षाः स्थूलनेत्राश्च सूक्ष्मनेत्रा विदृष्टयः || ३५ || चतुष्पादाः पञ्चपादास्त्रिपादैकपदास्तथा | ह्रस्वपादा दीर्घपादाः स्थूलपादा महापदाः || ३६ || एकहस्ताश्चतुर्हस्ता द्विहस्तास्त्रिशयास्तथा | विहस्ताश्च विरूपाक्षा गोधिकाकृतयः परे || ३७ || मनुष्याकृतयः केचिच्छुशुमारमुखास्तथा | क्रौञ्चाकारा वकाकारा हंससारसरूपिणः | तथैव मद्गुकुररकङ्ककाकमुखास्तथा || ३८ || अर्द्धनीला अर्द्धरक्ताः कपिलाः पिङ्गलास्तथा | नीलाः शुक्लास्तथा पीता हरिताश्चित्ररूपिणः || ६९ || अवादयन्त ते शङ्खान् पटहान् परिवादिनः | मृदङ्गान् डिडिमांश्चैव गोमुखान् पणवांस्तथा || ४० || शर्वस्य मोहने ब्रह्मा चिन्ताविष्टो भवन्नहि | समर्थो मोहयितुमिति निःश्वास मुहुर्मुहुः || २९ || निःश्वासमारुतात्तस्य नानारूपा महाबलाः | जाता गणा लोलजिह्वा लोलाश्चाति भयंकराः || ३० || तुरंगवदनाः केचित् केचिद् गजमुखास्तथा | सिंहव्याघ्रमुखाश्चान्ये श्ववराहखराननाः || ३१ || ऋक्षमार्जारदवदनाः शरभास्याः शुकाननाः | प्लवगोमायुवक्त्राश्च सरीसृपमुखाः परे || ३२ || गोरूपा गोमुखाः केचित्तथा पक्षिमुखाः परे | महादीर्घा महाह्रस्वा महास्थूला महाकृशाः || ३३ || पिङ्गाक्षा विरालाक्षाश्च त्र्यक्षैकाक्षा महोदराः | एककर्णास्त्रिकर्णाश्च चतुष्कर्णास्तथा परे || ३४ || स्थूलकर्णा महाकर्णा बहुकर्णा विकर्णकाः | दीर्घाक्षाः स्थूलनेत्राश्च सूक्ष्मनेत्रा विदृष्टयः || ३५ || चतुष्पादाः पञ्चपादास्त्रिपादैकपदास्तथा | ह्रस्वपादा दीर्घपादाः स्थूलपादा महापदाः || ३६ || एकहस्ताश्चतुर्हस्ता द्विहस्तास्त्रिशयास्तथा | विहस्ताश्च विरूपाक्षा गोधिकाकृतयः परे || ३७ || मनुष्याकृतयः केचिच्छुशुमारमुखास्तथा | क्रौञ्चाकारा बकाकारा हंससारसरूपिणः | तथैव मद्गुकुररकङ्ककाकमुखास्तथा || ३८ || अर्द्धनीला अर्द्धरक्ताः कपिलाः पिङ्गलास्तथा | नीलाः शुक्लास्तथा पीता हरिताश्चित्ररूपिणः || ६९ || अवादयन्त ते शङ्खान् पटहान् परिवादिनः | मृदङ्गान् डिडिमांश्चैव गोमुखान् पणवांस्तथा || ४० || सर्वे जटाभिः पिङ्गाभिस्तुङ्गाभिश्च करालिताः | निरन्तराभिर्विप्रेन्द्रा गणाः स्यन्दनगामिनः || ४१ || शूलहस्ताः पाशहस्ताः खड्गहस्ता धनुर्धराः | शक्त्यङ्कु शगदावाण-पट्टिशप्रासपाणयः || ४२ || नानायुधा महानादं कुर्वन्तस्ते महाबलाः | मारय च्छेदयेत्यूचुर्ब्रह्मणः पुरतो गताः || ४३ || तेषान्तु वदतां यत्र मारय छेदयेत्युत | योगनिन्द्रा प्रभावात् स विधिर्वक्तुं प्रचक्रमे || ४४ || अथ ब्रह्माणमाभाष्य तान् दृष्ट्वा मदनो गणान् | उवाच वारयन् वक्तुं गणानामग्रतः स्मरः || ४५ || मदन उवाच किं कर्म ते करिष्यन्ति कुत्र स्थास्यन्ति वा विधे | किन्नामधेया एते वा तत्रैतान् विनियोजय || ४६ || नियोज्यैतान्निजे कृत्ये स्थानं दत्त्वा नाम च | कृत्वा पश्चात्महामायाप्रभावं कथयस्व मे || ४७ || मार्कण्डेय उवाच अथ तद्वाक्यमाकर्ण्य सर्वलोकपितामहः | गणान् समदनानाह तेषां कर्मादिकं दिशन् || ४८ || ब्रह्मोवाच एत उत्पन्नमात्रा हि मारयेत्यवदंस्तराम् | मुहुर्मुहुरतोऽमीषां नाम मारेति जायताम् || ४९ || मारात्मकत्वादप्येते माराः सन्तु च नामतः | सदा विघ्नं करिष्यन्ति जन्तूनाञ्च विनार्चनम् || ५० || तवानुगमनं कर्म मुख्यमेषां मनोभव | यत्र यत्र भवान् याता स्वकर्मार्थं यदा यदा | गन्तारस्तत्र तत्रैते साहाययाय तदा तदा || ५१ || चित्तोद्भ्रान्तिं करिष्यन्ति त्वदस्त्रवशवर्तिनाम् | ज्ञानिनां ज्ञानमार्गञ विघ्नयिष्यन्ति सर्वदा || ५२ || यथा सांसारिकं कर्म सर्वे कुर्वन्ति जन्तवः | तथा चैते करिष्यन्ति सविघ्नमपि सर्वतः || ५३ || इमे स्थास्यन्ति सर्वत्र वेगिनः कामरूपिणः | त्वमेवैषां गणाध्यक्षः पञ्चयज्ञांशभोगिनः | नित्यक्रियावतां तोयभोगिनो वै भवन्त्विति || ५४ || मार्कण्डेय उवाच इति श्रुत्वा तु ते सर्वे मदनं सविधिं ततः | परिवार्य यथाकामं तस्थुः श्रुत्वा निजां गतिम् || ५५ || तेषां वर्णयितुं शक्यो भुवि किं मुनिसत्तमाः | माहात्म्यञ्च प्रभावञ्च ते तपःशालिनो यतः || ५६ || नैषां जाया न तनया निःसमीहाः सदैव हि | न्यासिनोऽपि महात्मानः सर्वे त ऊर्ध्वरेतसः || ५७ || ततो ब्रह्मा प्रसन्नः स माहात्म्यं मदनाय च | गदितुं योगनिन्द्रायाः सम्यक् समुपचक्रमे || ५८ || ब्रह्मोवाच अव्यक्तव्यक्तरूपेण रजःसत्त्वतमोगुणैः | संविभज्यार्थं कुरुते विष्णुमायेति सोच्यते || ५९ || या निम्नान्तस्थलाम्भस्था जगदण्डकपालतः | विभज्य पुरुषं याति योगनिद्रेति सोच्यते || ६० || मन्त्रान्तर्भावनपरा परमानन्दरूपिणी | योगिनां सत्त्वविद्यान्तः सा निगद्या जगन्मयी || ६१ || गर्भान्तर्ज्ञानसम्पन्नं प्रेरितं सूतिमारुतैः | उत्पन्नं ज्ञानरहितं कुरुते या निरन्तरम् || ६२ || पूर्वातिपूर्वं सन्धातुं संस्कारेण नियोज्य च | आहारादौ ततो मोहं ममत्वं ज्ञानसंशयम् || ६३ || क्रोधोपरोधलोभेषु क्षिप्त्वा क्षिप्त्वा पुनः पुनः | पश्चात् कामे नियोज्याशु चिन्तायुक्तमहर्निशम् || ६४ || आमोदयुक्तं व्यसनासक्तं जन्तुं करोति या | महामायेति सा प्रोक्ता तेन सा जगदीश्वरी || ६५ || अहंकारादिसंसक्तसृष्टिप्रभवभाविनी | उत्पत्तिरितिलोकैः सा कथ्यतेऽनन्तरूपिणी || ६६ || उत्पन्नमङ्करं बीजाद् यथापो मेघसम्भवाः | प्ररोहयति सा जन्तूंस्तथोत्पन्नान् प्ररोहयेत् || ६७ || सा शक्तिः सृष्टिरूपा च सर्वेषां ख्यातिरीश्वरी | क्षमा क्षमावतां नित्यं करुणा सा दयावताम् || ६८ || नित्या सा नित्यरूपेण जगद्गर्भे प्रकाशते | ज्योतिःस्वरूपेण परा व्यक्ताव्यक्तप्रकाशिनी || ६९ || सा योगिनां मुक्तिहेतुर्विद्यारूपेण वैष्णवी | सांसारिकाणां संसारबन्धहेतुविपर्यया || ७० || लक्ष्मीरूपेण कृष्णस्य द्वितीया सुमनोहरा | त्रयीरूपेण कण्ठस्था सदा मम मनोभव || ७१ || सर्वत्रस्था सर्वगा दिव्यमूर्तिर्नित्या देवी सर्वरूपा पराख्या | कृष्णादीनां सर्वदा मोहयित्री सा स्त्रीरूपेः सर्वजन्तोः समन्तात् || ७२ || इति श्रीकालिकापुराणे योगनिद्रास्तुतौ षष्ठोऽध्यायः || सप्तमोऽध्यायः मार्कण्डेय उवाच अथ ब्रह्मा महामायास्वरूपं प्रतिपाद्य च | मदनाय पुनः प्राह युक्तासौ हरमोहने || १ || ब्रह्मोवाच विष्णुमाया महादेवो यथा दारपरिग्रहम् | करिष्यति तथा कर्तुमङ्गीकारं पुराकरोत् || २ || साऽवश्यं दक्षतनया भूत्वा शम्भोर्महात्मनः | भविष्यति द्वितीयेति स्वयमेवावदत् स्मर || ३ || त्वमेभिः स्वगणैः सार्धं रत्या च मधुना सह | यथेच्छति तथा दारान् ग्रहीतुं कुरु शंकरः || ४ || शम्भौ गृहीतदारे तु कृतकृत्या वयं स्मर | अविच्छिन्ना सृष्टिरियं भविष्यति न संशयः || ५ || मार्कण्डेय उवाच तथाब्रवीद् द्विजश्रेष्ठा लोकेशाय मनोभवः | मधुरं यत् कृतं तेन महादेवस्य मोहने || ६ || मदन उवाच शृणु ब्रह्मन् यथास्माभिः क्रियते हरमोहने | प्रत्यक्षे वा परोक्षे वा तस्य तद्गदतो मम || ७ || यदा समाधिमाश्रित्य स्थितः शम्भुर्जितेन्द्रियः | तदा सुगन्धिवातेन शीतलेन विवेगिना | तं वीजयामि लोकेश नित्यं मोहनकारिणा || ८ || स्वसायकांस्तथा पञ्च समादाय शरासनम् | भ्रमामि तस्य सविधे मोहयंस्तद्गणानहम् || ९ || सिद्धद्वन्द्वानहं तत्र रमयामि दिवानिशम् | भावा हावाश्च ते सर्वे प्रविशन्ति च तेषु वै || १० || यदि प्रविष्टे सविधे शम्भोः प्राणी पितामह | को वा न कुरुते द्वन्द्वभावं तत्र मुहुर्मुहुः || ११ || मम प्रवेशमात्रेण तथा स्युः सर्वजन्तवः | न शम्भुर्न वृषस्तस्य मानसीं विक्रियां गतौ || १२ || यदाहि भवतः प्रस्थं स याति प्रमथाधिपः | तत्र गन्ता तदैवाहं सरितः समधुर्विधे || १३ || यदा मेरुं प्रयात्येष यदा वा नाटकेश्वरम् | कैलासं वा यदा याति तत्र गच्छाम्यहं तदा || १४ || यदा त्यक्त समाधिस्तु हरस्तिष्ठति वै क्षणम् | ततस्तस्य पुरश्चक्रमिथुनं योजयाम्यहम् || १५ || तच्चक्रयुगलं ब्रह्मन् हावभावयुतं मुहुः | नानाभावेन कुरुते दाम्पत्यक्रममुत्तमम् || १६ || नीलकण्ठानपि मुहुः सजायानपि तत्पुरः | सम्मोहयामि सविधे मृगानन्यांश्च पक्षिणः || १७ || विचित्रभावमासाद्य यदा प्रकुरुते रतिम् | मयूरमिथुनं वीक्ष्य तत्तदा को न चोत्सुकः || १८ || मृगाश्च तत्पुरस्थाश्च स्वजायाभिस्तु सोत्सुकाः | अकुर्वन् रुचिरं भावं तस्य पार्श्वे पुरस्तदा || १९ || अपश्यन् विवरं नास्य कदाचिदपि मच्छरः | निपात्यः स यदा देहे यन्मया सर्वलोकधृत् || २० || बहुधा निश्चितं ज्ञातं रामासंगादृते हरम् | अलं च सम्मोहयितुं ससहायोऽपि निष्कलम् || २१ || मधुश्च कुरुते कर्म यद्यत्तस्य विमोहने | तच्छृणुष्व महाभाग नित्यं तस्योचितं पुनः || २२ || चम्पकान् केशरानाम्रान् करुणान् पाटलांस्तथा | नागकेशरपुन्नागान् किंशुकान् केतकान् धवान् || २३ || माधवीर्मल्लिकाः पर्णधारान् कुरुवकांस्तथा | उत्फुल्लयति तत्तस्य यत्र तिष्ठति वै हरः || २४ || सरांस्युत्फुल्लपद्मानि बीजयन् मलयानिलैः | सुगन्धीकृतवान् यत्नादतीव शंकराश्रमम् || २५ || लताः सर्वाः सुमनसः फुल्लपादपसंचयान् | वृक्षान् रुचिरभावेन वेष्टयन्ति स्म तत्र वै || २६ || तान् वृक्षांश्चारुपुष्पौघांस्तैः सुगन्धिसमीरणैः | दृष्ट्वा कामवशं यातो न तत्र मुनिरप्युत || २७ || तद्गणा अपि लोकेश नानाभावैः सुशोभनैः | वसन्ति स्म सुराः सिद्धा ये ये चातितपोधनाः || २८ || न तस्य पुनरस्माभिर्दृष्टं मोहस्य कारणम् | भावमात्रं न कुरुते कामोत्थमपि शंकरः || २९ || इति सर्वमहं दृष्ट्वा ज्ञात्वा च हरभावनाम् | विमुखोऽहं शम्भुमोहान्नियतं मायया बिना || ३० || इदानीं त्वद्वचः श्रुत्वा योगनिद्रोदितं पुनः | तस्याः प्रभावं श्रुत्वाथ गणान् दृष्ट्वा सहायकान् || ३१ || मया शम्भोर्विमोहाय क्रियते मुहुरुद्यमः | भवानपि त्रिलोकेश योगनिद्रा द्रुतं पुनः | भवेद् यथा शम्भुजाया तथैव विदधात्वियम् || ३२ || यमानां नियमानाञ्च प्राणायामस्य नित्यशः | आसनस्य महेशस्य प्रत्याहारस्य गोचरे || ३३ || ध्यानस्य धारणायाश्च समाधेर्विघ्नसम्भवम् | मन्ये कर्तुं न शक्यं स्यादपि मारशतैरपि || ३४ || तथाप्ययं मारगणः करोतु हरस्य योगाङ्गविकारविघ्नम् | यदेव शक्यं किमु वा समर्थः समक्षमन्यस्य न कर्तु भोजः || ३५ || इति श्रीकालिकापुराणे वदनवाक्ये सप्ततोऽध्यायः || ७ || अष्टमोऽध्यायः मार्कण्ण्देय उवाच ततो ब्रह्मापि मदनमुवाचेदं वचः पुनः | निश्चित्य योगनिद्रायाः स्मृत्वा वाक्यं तपोधनाः || १ || ब्रह्मोवाच अवश्यं शम्भुपत्नी सा योगनिद्रा भविष्यति | यथाशक्ति भवांस्तत्र करोत्वस्याः सहायताम् || २ || गच्छ त्वं स्वगणैः सार्द्धं यत्र तिष्ठति शंकरः | द्रुतं मनोभव त्वं च तत् स्थानं मधुना सह || ६ || रात्रिन्दिवस्य तुर्यांशं जगन्मोहय नित्यशः | भागत्रयं शम्भुपार्श्वे तिष्ठ सार्द्धं गणैः सदा || ४ || मार्कण्डेय उवाच इत्युक्त्वा सर्वलोकेशस्तत्रैवान्तरधीयत | शम्भोः सकाशं मदनो गतवान् सगणस्तदा || ५ || एतस्मिन्नन्तरे दक्षश्चिरं कालं तपोरतः | नियमैर्बहुभिर्देवीमाराधयत सुव्रतः || ६ || ततो नियमयुक्तस्य दक्षस्य मुनिसत्तमः | योगनिद्रां पूजयतः प्रत्यक्षमभवच्छिवा || ७ || ततः प्रत्यक्षतो दृष्ट्वा विष्णुमायां जगन्मयीम् | कृतकृत्यमथात्मानं मेने दक्षः प्रजापतिः || ८ || सिंहस्थां कालिकां कृष्णां पीनोत्तुङ्गपयोधराम् | चतुर्भुजां चारुवक्त्रां नीलोत्पलधरां शुभाम् || ९ || वरदाभयदां खड्गहस्तां सर्वगुणान्विताम् | आरक्तनयनां चारुमुक्तकेशी मनोहराम् || १० || दृष्ट्वा दक्षोऽथ तुष्टाव महामायां प्रजापतिः | प्रीत्या परमया युक्तो विनयानतकन्धरः || ११ || दक्ष उवाच आनन्दरूपिणीं देवीं जगदानन्दकारिणीम् | सृष्टिस्थित्यन्तरूपां तां स्तौमि लक्ष्मीं हरेः शुभाम् || १२ || सत्त्वोद्रेकप्रकाशेन यज्ज्योतिस्तत्त्वमुत्तमम् | स्वप्रकाशं जगद्धाम तत्तवांशं महेश्वरि || १३ || रजोगुणातिरेकेण यत् कामस्य प्रकाशनम् | रागस्वरूपं मध्यस्थं तत्तेंऽशांशं जगन्मयि || १४ || तमोगुणातिरेकेण यद्यन्मोहप्रकाशनम् | आच्छादनं चेतनानां तत्ते चांशांशगोचरम् || १५ || परा परात्मिका शुद्धा निर्मला लोकमोहिनी | त्वं त्रिरूपा त्रयी कीर्तिर्वार्त्तास्य जगतो गतिः || १६ || बिभर्ति माधवो धात्रीं यथा मूर्त्त्या निजोत्थया | सा मूर्त्तिस्तव सर्वेषां जगतामुपकारिणी || १७ || महानुभावा त्वं विश्वशक्तिः सूक्ष्मापराजिता | यदूर्ध्वाधोनिरोधेन व्यज्यते पवनैः परम् || १८ || तज्ज्योतिस्तव मात्रार्थे सात्त्विकं भावसम्मतम् | यद्योगिनो निरालम्बं निष्फलं निर्मलं परम् || १९ || आलम्बयन्ति तत्तत्त्वं त्वदन्तर्गोचरन्तु तत् | या प्रसिद्धा च कूटस्था सुप्रसिद्धातिनिर्मला || २० || सा ज्ञप्तिस्त्वन्निष्प्रपञ्चा प्रपञ्चापि प्रकाशिका | त्वं विद्या त्वमविद्या च त्वमालम्बा निराश्रया | प्रपञ्चरूपा जगतामादिशक्तिस्त्वमीश्वरी || २१ || ब्रह्मकण्ठालया शुद्धा वाग्वाणी या प्रगीयते | वेदप्रकाशनपरा सा त्वं विश्वप्रकाशिनी || २२ || त्वमग्निस्त्वं तथा स्वाहा त्वं स्वधा पितृभिः सह | त्वं नभस्त्वं कालरूपा त्वं काष्ठा त्वं बहिःस्थिता || २६ || त्वमचिन्त्या त्वमव्यक्ता तथानिर्देश्यरूपिणी | त्वं कालरात्रिस्त्वं शान्ता त्वमेव प्रकृतिः परा || २४ || यस्याः संसारलोकानां परित्राणाय यद्बहिः | रूपं जानन्ति धात्राद्यास्तत्त्वां ज्ञास्यन्ति के पराम् || २५ || प्रसीद भगवत्यम्ब प्रसीद योगरूपिणि | प्रसीद घोररूपे त्वं जगन्मयि नमोऽस्तु ते || २६ || मार्कण्डेय उवाच इति स्तुता महामाया दक्षेण प्रयतात्मना | उवाच दक्षं ज्ञात्वापि स्वयं तस्येप्सितं द्विजाः || २७ || भगवत्युवाच तुष्टाहं दक्ष भवतो मद्भक्त्या ह्यनया भृशम् | वरं वृणीष्व चाभीष्टं तत्ते दास्यामि तत स्वयम् || २८ || नियमेन तपोभिश्च स्तुतिभिस्ते प्रजापते | अतीव तुष्टा दास्येऽहं वरं वरय वाञ्छितम् || २९|| दक्ष उवाच जगन्मयि महामाये यदि त्वं वरदा मम | तदा मम सुता भूत्वा हरजाया भवाधुना || ३० || ममैष न वरो देवि केवलं जगतामपि | लोकेशस्य तथा विष्णोः शिवस्यापि प्रजेश्वरि || ३१ || देव्युवाच अहं तव सुता भूत्वा त्वज्जायायां समुद्भवा | हरजाया भविष्यामि न चिरात्तु प्रजापते || ३२ || यदा भवान्मयि पुनर्भवेन्मन्दादरस्तदा | देहं त्यक्ष्यामि सपदि सुखिन्यप्यथ वेतरा || ३३ || एष दत्तस्तव वरः प्रतिसर्ग प्रजापते | अहं तव सुता भूत्वा भविष्यामि हरप्रिया || ३४ || तथा सम्मोहयिष्यामि महादेवं प्रजापते | प्रतिसर्गं यथा मोहं सम्प्राप्स्यति निराकुलम् || ३५ || मार्कण्डेय उवाच एवमुक्त्वा महामाया दक्षं मुख्यं प्रजापतिम् | अन्तर्दधे ततो देवी सम्यग् दक्षस्य पश्यतः || ३६ || अन्तर्हितायां मायायां दक्षोऽपि निजमाश्रमम् | जगाम लेभे च मुदं भविष्यति सुतेति सा || ३७ || अथ चक्रे प्रजोत्पादं विना स्त्रीसंगमेन च | संकल्पाविर्भवाभ्यान्तु मनसा चिन्तनेन च || ३८ || तत्र ये तनया जाता बहुशो द्विजसत्तमाः | ते नारदोपदेशेन भ्रमन्ति पृथिवीमिमाम् || ३९ || पुनः पुनः सुता ये ये तस्य जाता सहस्रशः | ते सर्वे भ्रातृपदवीं ययुर्नारदवाक्यतः || ४० || पृथिव्यां सृष्टिकर्तारः सर्वे यूयं द्विजोत्तमाः | पश्यध्वं पृथिवीं कृत्स्नामुपान्तप्रान्तमायताम् || ४१ || इति नारदवाक्येन नोदिता दक्षपुत्रकाः | अद्यापि न निवर्तन्ते भ्रमन्तः पृथिवीमिमाम् || ४२ || ततः समुत्पादयितुं प्रजाः मैथुनसम्भवाः | उपयेमे वीरणस्य तनयां दक्ष ईप्सिताम् || ४३ || वीरिणी नाम तस्यास्तु असक्नीत्यपि सत्तमाः | तस्यां प्रथमसंकल्पो यदा भूतः प्रजापते || ४४ || सद्योजाता महामाया तदा तस्यां द्विजोत्तमाः | तस्यां तु जातमात्रायां सुप्रीतोऽभूत् प्रजापतिः | सैवैषेति तदा मेने तां दृष्ट्वा तेजसोज्ज्वलाम् || ४५ || बभूव पुष्पवृष्टिश्च मेघाश्च ववृषुर्जलम् | दिशः शान्तास्तदा तस्यां जातायाञ्च समुद्गताः || ४६ || अवादयन्तस्त्रिदशाः शुभवाद्यं वियद्गताः | जज्वलुश्चाग्नयः शान्तास्तस्यां सत्यां नरोत्तमाः || ४७ || वीरिण्या लक्षितो दक्षस्तां दृष्ट्वा जगदीश्वरीम् | विष्णुमायां महामायां तोषयामास भक्तितः || ४८ || दक्ष उवाच शिवा शान्ता महामाया योगनिद्रा जगन्मयी | या प्रोच्यते विष्णुमाया तां नमामि सनातनीम् || ४९ || यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत् | स्थितिञ्च विष्णुरकरोद्यन्नियोगाज्जगत्पतिः || ५० || शम्भुरन्तं ततो देवीं त्वां नमाभि महीयसीम् | विकाररहितां शुद्धामप्रमेयां प्रभावतीम् | प्रमाणमानमेयाख्यां प्रणमामि सुखात्मिकाम् || ५१ || यस्त्वां विचिन्तयेद्देवीं विद्याविद्यात्मिकां पराम् | तस्य भोग्यञ्च मुक्तिश्च सदा करतले स्थिता || ५२ || यस्त्वां प्रत्यक्षतो देवीं सकृत् पश्यति पावनीम् | तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिकाम् || ५३ || योगनिद्रे महामाये विष्णुमाये जगन्मयि | या प्रमाणार्थसम्पन्ना चेतना सा तवात्मिका || ५४ || ये स्तुवन्ति जगन्मातर्भवतीमम्बिकेति च | जगन्मयीति मायेति सर्वं तेषां भविष्यति || ५५ || मार्कण्डेय उवाच इति स्तुता जगन्माता दक्षेण सुमहात्मना | तथोवाच तदा दक्षं यथा माता शृणोति न || ५६ || सम्मोह्य सर्वं तत्रस्थं यथा दक्षः शृणोति तत् | नान्यः शृणोति च तथा माययाह तदाम्बिका || ५७ || देव्युवाच अहमाराधिता पूर्वं यदर्थं मुनिसत्तम | ईप्सितं तव सिद्धं तदवधारय साम्प्रतम् || ५८ || मार्कण्डेय उवाच एवमुक्त्वा तदा देवी दक्षञ्च निजमयया | आस्थाय शैशवं भावं जनन्यन्ते रुरोद सा || ५९ || ततस्तां वीरिणी यत्नात् सुसंस्कृत्य यथोचितम् | शिशुपालेन विधिना तस्यै स्तन्यादिकं ददौ || ६० || पालिता साथ वीरिण्या दक्षेण सुमहात्मना | ववृधे शुक्लपक्षस्य निशानाथो यथान्वहम् || ६१ || तस्यान्तु सद्गुणाः सर्वे विविशुर्द्विजसत्तमाः | शैशवेऽपि यथा चन्द्रे कलाः सर्वा मनोहराः || ६२ || रेमे सा निजभावेन सखीमध्यगता यदा | तदा लिखति भर्गस्य प्रतिमामन्वहं मुहुः || ६३ || यदा गायति गीतानि तदा बाल्योचितानि सा | उग्रं स्थाणुं हरं रुद्रं सस्मार स्मरमानसा || ६४ || तस्याश्चक्रे नाम दक्षः सतीति द्विजसत्तमाः | प्रशस्तायाः सर्वगुणैः सत्त्वादपि नयादपि || ६५ || ववृधे दक्षवीरिण्योः प्रत्यहं करुणातुला | तस्यां बाल्येऽपि भक्तायां तयोर्नित्यं मुहुर्मुहुः || ६६ || सर्वकान्तगुणा क्रान्ता सदा सा नयशालिनी | तोषयामास पितरौ नित्यं नित्यं नरोत्तमाः || ६७ || अथैकदा पितुः पार्श्वे तिष्ठन्तीं तां सतीं विधिः | नारदश्च ददर्शाथ रत्नभूतां क्षितौ शुभाम् || ६८ || सापि तौ वीक्ष्य मुदिता विनयावनता तदा | प्रणनाम सती देवं ब्रह्माणमथ नारदम् || ६९ || प्रणामान्ते सतीं वीक्ष्य विनयावनतां विधिः | नारदश्च तथैवाशीर्वादमेतमुवाच ह || ७० || त्वामेव यः कामयते यं त्वं कामयसे पतिम् | तमाप्नुहि पतिं देवं सर्वज्ञं जगदीश्वरम् || ७१ || यो नान्यां जगृहे नापि गृह्णाति न ग्रहीष्यति | जायां स ते पतिर्भूयादनन्यसदृशः शुभे || ७२ || इत्युक्त्वा सुचिरं तौ तु स्थित्वा दक्षाश्रमे पुनः | विसृष्टौ तेन संयातौ स्वस्थानं द्विजसत्तमाः || ७३ || इति श्रीकालिकापुराणे सत्युत्पत्तौ अष्टमोऽध्यायः नवमोऽध्यायः मार्कण्डेय उवाच बाल्यं व्यतीत्य सा प्राप यौवनं शोभनं ततः | अतीव रूपेणाङ्गेन सर्वाङ्गसुमनोहरा || १ || तां वीक्ष्यदक्षो लोकेशः प्रोद्भिन्नान्तर्वयः स्थिताम् | चिन्तयामास भर्गाय कथं दास्य इमां सुताम् || २ || अथ सापि स्वयं भर्ग प्राप्तुमैच्छत्तदान्वहम् | आराधयामास च तं गृहे मातुरनुज्ञया || ३ || आश्विने नन्दकाख्यायां लवणैः सगुडोदनैः | पूजयित्वा हरं पश्चाद्ववन्दे सा निनाय तत् || ४ || कार्त्तिकस्य चतुर्दश्यां सापूपैः पायसैर्हरम् | समाकीर्णैः समाराध्य सस्मार परमेश्वरम् || ५ || कृष्णाष्टम्यां मार्गशीर्षे सतिलैः सयवोदनैः | पूजयित्वा हरं नीलैर्निनाय दिवसं पुनः || ६ || पौषे तु कृष्णसप्तम्यां कृत्वा जागरणं निशि | अपूजयच्छिवं प्रातः कृसरान्नेन सा सती || ७ || माघस्य पौर्णमास्यान्तु कृत्वा जागरणं निशि | आर्द्रवस्त्रा नदीतीरे ह्यकरोद्धरपूजनम् || ८ || नानाविधैः फलैः पुष्पैः सम्यक् तत्कालसम्भवैः | चकार नियताहारं तं मासं हरमानसा || ९ || चतुर्दश्यां कृष्णपक्षे तपस्यस्य विशेषतः | कृत्वा जागरणं देवं बिल्वपत्रैरपूजयत् || १० || चैत्रे शुक्लचतुर्दश्यां पालाशैः कुसुमैः शिवम् | आपूजयद्दिवारात्रौ तं स्मरन्ती निनाय तम् || ११ || वैशाखस्य तृतीयायां शुक्लायां सयवोदनैः | पूजयित्वा हरं देवं हव्यैर्मासं चरन्त्यनु | निनाय सा निराहारा स्मरन्ती वृषवाहनम् || १२ || ज्येष्ठस्य पूर्णिमारात्रौ सम्पूज्य वृषवाहनम् | वसनैर्वृहतीपुष्पैर्निराहारा निनाय ताम् || १३ || आषाढस्य चतुर्दश्यां शुक्लायां कृत्तिवाससः | वृहतीकुसुमैः पूजा देवस्याकारि वै तया || १४ || श्रावणस्य सिताष्टम्यां चतुर्दश्याञ्च सा शिवम् | यज्ञोपवीतैर्वासोभिः पवित्रैरप्यपूजयत् || १५ || भाद्रे कृष्णत्रयोदश्यां पुष्पैर्नानाविधैः फलैः | संपूज्याथ चतुर्दश्यां चकार जलभोजनम् || १६ || इति व्रतं यदारब्धं पुरा सत्या तदैव तु | सावित्रीसहितो ब्रह्मा जगामाथ हरान्तिकम् || १७ || वासुदेवोऽपि भगवान् सह लक्ष्म्या तदन्तिकम् | प्रस्थं हिमवतः शम्भुः स्थितो यत्र गणैः सह || १८ || तौ तु दृष्ट्वा ब्रह्मकृष्णौ सस्त्रीकौ संगतौ हरः | यथोचितं समाभाष्य पप्रच्छागमनं तयोः || १९ || तथाविधांस्तु तान् दृष्ट्वा दाम्पत्यभावसंयुतान् | काञ्चिदीहाञ्च मनसा चक्रे दारपरिग्रहे || २० || अथागमनहेतुं न कथयध्वञ्च तत्त्वतः | किमर्थमागता यूयं किं कार्यं वोऽत्र विद्यते || २१ || इति पृष्टौ त्र्यम्बकेन ब्रह्मा लोकपितामहः | उवाच च महादेवं विष्णुना परिचोदितः || २२ || ब्रह्मोवाच अयदर्थमागतवावां तच्छृणुस्व त्रिलोचन | विशेषतश्च देवार्थं विश्वार्थञ्च वृषध्वज || २३ || अहं सृष्टिरतः शम्भो स्थितिहेतुस्तथा हरिः | अन्तहेतुर्भवानस्य जगतः प्रतिसर्गकम् || २४ || तत्कर्मणि स दैवाहं भवद्भ्यां सहितो ह्यलम् | हरिः स्थितावपि तथा मयालं भवता सह | त्वमन्तकरणे शक्तो विना नावां भविष्यसि || २५ || तस्मादन्योन्यकृत्येषु सर्वेषां वृषभध्वज | साहाययं नः सदा योग्यमन्यथा न जगद्भवेत् || २६ || केचिद्भविष्यन्त्यसुरा मम वध्या महेश्वर | अपरे तु हरेर्वध्या भवतोऽपि तथापरे || २७ || केचित्तद्वीर्यजातस्य केचिन्मेऽशंभवस्य वै | मायायाः केचिदपरे वध्याः स्युर्देववैरिणः || २८ || योगयुक्ते त्वयि सदा रागद्वेषादिवर्जिते | दयामात्रैकैरते न वध्या असुरास्तव || २९ || अबाधितेषु तेष्वीश कथं सृष्टिस्तथा स्थितिः | अन्तश्च भविता युक्तं नित्यं नित्यं वृषध्वज || ३० || सृष्टिस्थित्यन्तकर्माणि न कार्याणि यदा हर | शरीरभेदमस्माकं मायायाश्च न युज्यते || ३१ || एकस्वरूपा हि वयं भिन्ना कार्यस्य भेदतः | कार्यभेदो न सिद्धश्चेद्रूपभेदोऽप्रयोजनः || ६२ || एक एव त्रिधा भूत्वा वयं भिन्नस्वरूपिणः | भूता महेश्वर इति तत्त्वं विद्धि सनातनम् || ३३ || मायापि भिन्नरूपेण कमलाख्या सरस्वती | सावित्री चाथ सन्ध्या च भूता कार्यस्य भेदतः || ३४ || प्रवृत्तेरनुरागस्य नारी मूलं महेश्वर | रामापरिग्रहात् पश्चात् कामक्रोधादिकोद्भवः || ३५ || अनुरागे तु सञ्जाते कामक्रोधादिकारणे | विरागहेतुं यत्नेन सान्त्वयन्तीह जन्तवः || ३६ || संगः प्रथम एव स्याद्रागवृक्षात् फलं महत् | तस्मात् संजायते कामः कामात् क्रोधस्ततो भवेत् || ३७ || वैराग्यञ्च निवृत्तिश्च शोकात् स्वाभाविकादपि | संसारविमुखे हेतुरसंगश्च सदातनः || ३८ || दया तत्र भवेन्नित्यं शान्तिश्चापि महेश्वर | अहिंसा च तपःशान्तिर्ज्ञानमार्गानुसाधनम् || ३९ || त्वयि तावत्तपोनिष्ठे विसङ्गिनि दयायुते | अहिंसा च तथा शान्तिः सदा तव भविष्यति || ४० || ततो सुखविधौ यत्नस्तव कस्माद्भविष्यति | अकृते दूषणं यद्यत्तत् सर्वं कथितं तव || ४१ || तस्माद्विश्वहिताय त्वं देवानाञ्च जगत्पते | परिगृह्णीष्व भार्यार्थे वामामेकां सुशोभनाम् || ४२ || यथा पद्मालया विष्णोः सावित्री च यथा मम | तथा सहचरी शम्भोर्या स्यात्त्वं गृह्ण सम्प्रति || ४३ || मार्कण्डेय उवाच इति श्रुत्वा वचस्तस्य ब्रह्मणः पुरतो हरेः | तदा जगाद लोकेशं स्मितार्द्दितमुखो हरः || ४४ || ईश्वर उवाच एवमेव यथात्थ त्वं ब्रह्मन् विश्वनिमित्ततः | न स्वार्थतः प्रवृत्तिर्मे सम्यग् ब्रह्मविचिन्तनात् || ४५ || तथापि यत्करिष्यामि तत्ते वक्ष्ये जगद्धितम् | तच्छृणुष्व महाभाग युक्तमेव वचो मम || ४६ || या मे तेज समर्था स्याद्ग्रहीतुमिह भागशः | तां निदेशय भार्यार्थे योगिनीं कामरूपिणीम् || ४७ || योगयुक्ते मयि तथा योगिन्येव भविष्यति | कामासक्ते मयि पुनर्मोहिन्येव भविष्यति | तां मे निदेशय ब्रह्मन् भार्यार्थे वरवर्णिनीम् || ४८ || यदक्षरं वेदविदो निगदन्ति मनीषिणः | ज्योतिःस्वरूपं परमं चिन्तयिष्ये सनातनम् || ४९ || तच्चिन्तायां सदा शक्तो ब्रह्मन् गच्छामि भावनाम् | तत्र या विघ्नजननी न भवित्रीह सास्तु मे || ५० || त्वं वा विष्णुरहं वापि परब्रह्मस्वरूपिणः | अङ्गभूता महाभाग योग्यं तदनुचिन्तनम् || ५१ || तच्चिन्तया विना नाहं स्थास्यामि कमलासन | तस्माज्जायां प्रादिशस्व मत्कर्मानुगतां सदा || ५२ || मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा ब्रह्मा सर्वजगत्पतिः | सस्मितं मोदित मना इदं वचनमब्रवीत् || ५३ || ब्रह्मोवाच अस्तीदृशी महादेव मार्गिता यादृशी त्वया || ५४ || दक्षस्य तनया याभूत् सतीनाम्नी सुशोभना | सैवेदृशी भवद्भार्या भविष्यति सुधीमती || ५५ || तां त्वदर्थे तपस्यन्ती तत्प्राप्तिं प्रतिकामिनीम् | विद्धि त्वं देवदेवेश सर्वेष्वात्मसु वर्तसे || ५६ || मार्कण्डेय उवाच अथ ब्रह्मवचः शेषे भगवान् मधुसूदनः | यदुक्तं ब्रह्मणा सर्वं तत् कुरुष्वेत्युवाच सः || ५७ || करिष्य इति तेनोक्ते स्वेष्टं देशं प्रजग्मतुः | हरिर्ब्रह्मा च मुदितौ सावित्रीकमलायुतौ || ५८ || कामोऽपि वाक्यानि हरस्य श्रुत्वा चामोदयुक्तो रतिना समित्रः | शम्भुं समासाद्य विविक्तरूपी तस्थौ वसन्तं विनियोज्य शश्वत् || ५९ || इति श्रीकालिकापुराणे हरानुनयने नवमोऽध्यायः दशमोऽध्यायः मार्कण्डेय उवाच अथ सत्या पुनः शुक्लपक्षेऽष्टम्यामुपोषितम् | आश्विने मासि देवेशं पूजयामास भक्तितः || १ || इति नन्दाव्रते पूर्णे नवम्यां दिनभागतः | तस्यास्तु भक्तिनम्रायाः प्रत्यक्षमभवद्धरः || २ || प्रत्यक्षतो हरं वीक्ष्य सामोदहृदया सती | ववन्दे चरणौ तस्य लज्जयावनता नता || ३ || अथ प्राह महादेवः सतीं तद् व्रतधारिणीम् | तामिच्छन्नपि भार्यार्थे तस्याश्चर्यफलप्रदः || ४ || ईश्वर उवाच अनेन त्वद्व्रतेनाहं प्रीतोऽस्मि दक्षनन्दिनि | वरं वरय दास्यामि यस्तवाभिमतो भवेत् || ५ || मार्कण्डेय उवाच जानन्नपीह तद्भावं महादेवो जगत्पतिः | ऊचेऽथ वरयस्वेति तद्वाक्यश्रवणेच्छया || ६ || सापि त्रपासमाविष्टा नो वक्तुं हृदये स्थितम् | शशाक बालाभीष्टं यल्लज्जयाच्छादितं यतः || ७ || एतस्मिन्नन्तरे कामः साभिप्रायं हरं तदा | वामापरिग्रहे नेत्रवक्त्रव्यापारलिङ्गितम् || ८ || सम्प्राप्य विवरञ्चापं सन्दधे पुष्पहेतिना | हर्षणेनाथ बाणेन विव्याध हृदये हरम् || ९ || ततोऽसौ हर्षितः शम्भुर्वीक्षाञ्चक्रे सतीं मुहुः | विस्मृत्य च परं ब्रह्मचिन्तनं परमेश्वरः || १० || ततः पुनर्मोहनेन बाणेनैनं मनोभवः | विव्याध हर्षितः शम्भुर्मोहितश्च तदा भृशम् || ११ || ततो यदासौ मोहस्य हर्षस्य च द्विजोत्तमाः | भावं व्यक्तीचकारैष माययापि विमोहितः || १२ || अथ त्रपां स्वां संस्तभ्य यदा प्राह हरं सती | ममेष्टं देहि वरद वरमित्यर्थकारकम् || १३ || तदा वाक्यस्यावसानमनपेक्ष्य वृषध्वजः | भवस्व मम भार्येति प्राह दाक्षायणीं मुहुः || १४ || एतच्छ्रुत्वा वचस्तस्य साभीष्टफलभावनम् | तूष्णीं तस्थौ प्रमुदिता वरं प्राप्य मनोगतम् || १५ || सकामस्य हरस्याग्रे तत्र सा चारुहासिनी | अकरोन्निजभावांश्च हावानपि द्विजोत्तमाः || १६ || स्वस्य भावान् समादाय शृंगाराख्यो रसस्तदा | तयोर्विवेश विप्रेन्द्राः कलहो वा यथोचितम् || १७ || हरस्य पुरतो रेजे स्निग्धभिन्नाञ्जनप्रभा | चन्द्राभ्यासेऽङ्कलेखेव स्फटिकोज्ज्वलवर्ष्मणः || १८ || अथ सा तमुवाचेदं हरं दाक्षायणी मुहुः | पितुर्मे गोचरीकृत्य मां गृह्णीष्व जगत्पते || १९ || एवं स्मितं वचो देवी यदोवाच सती तदा | मम भार्या भवेत्यूचे पुनः कामेन मोहितः || २० || अथैतद्वीक्ष्य मदनः सरतिः ससखो मुदा | युक्तो बभूव शश्वच्च आत्मानञ्चाभ्यनन्दयन् || २१ || अथ दाक्षायणी शम्भु समाश्वास्य द्विजोत्तमाः | जगाम मातुरभ्यासं हर्षमोहसमन्विता || २२ || हरोऽपि हिमवत्प्रस्थं प्रविश्य च निजाश्रमम् | दाक्षायणी विप्रलम्भदुःखाद् ध्यानपरोऽभवत् || २३ || विप्रलब्धोऽपि भूतेशो ब्रह्मवाक्यमथास्मरत् | जायापरिग्रहस्यार्थे यदुक्तं पद्मयोनिना || २४ || स्मृत्यैव ब्रह्मवाक्यस्य पुरा विश्वासतः परम् | चिन्तयामास मनसा ब्रह्माणं वृषभध्वजः || २५ || अथ संचिन्त्यमानोऽसौ परमेष्ठी त्रिशूलिनः | पुरस्तात् प्राविशत्तूर्णमिष्टसिद्धिप्रचोदितः || २६ || यत्रायं हिमवत्प्रस्थे विप्रलब्धो हरः स्थितः | सावित्री सहितो ब्रह्मा तत्रैव समुपस्थितः || २७ || अथ तं वीक्ष्य धातारं सावित्रीसहितं हरः | सोत्सुको विप्रलब्धश्च सत्यर्थे तमुवाच ह || २८ || ईश्वर उवाच ब्रह्मन् विश्वार्थतो दारपरिग्रहकृतौ च यत् | त्वमात्थ तत्सार्थमिव प्रतिभाति ममाधुना || २९ || अहमाराधितो भक्त्या दाक्षायण्यातिभक्तितः | तस्या वरमहं दातुं यदायातः प्रपुजितः || ३० || तत्सकाशे तदा कामो मां विव्याध महेषुभिः | मायया मोहितश्चाहं तत्प्रतीकारमञ्जसा | न शक्तः कर्तुमभितः पुराहं कमलासन || ३१ || तस्याश्च वाञ्छितं ब्रह्मन्नेतदेव मयेक्षितम् | यदहं स्यां विभो भर्ता व्रतभक्तिमुदायुतः || ३२ || तस्मात्त्वं कुरु विश्वार्थे मदर्थे च प्रजापते | दक्षो यथा मामामन्त्र्य सुतां दाता तथा द्रुतम् || ३३ || गच्छ त्वं दक्षभवनं कथयस्व वचो मम | यथा सतीवियोगस्य भंगः स्यात् त्वं तथा कुरु || ३४ || मार्कण्डेय उवाच इत्युदीर्य महादेवः सकाशेऽस्य प्रजापतेः | सावित्रीं वीक्ष्य सत्यास्तु विप्रयोगो व्यवर्द्धत || ३५ || तं समाभाष्य लोकेशः कृतकृत्यो मुदान्वितः | इदं जगाद जगतां हितं पथ्यं च धूर्ज्जटेः || ३६ || ब्रह्मोवाच यदात्थ भगवञ्छम्भो तद्विश्वार्थं सुनिश्चितम् | नास्त्येव भवतः स्वार्थो ममापि वृषभध्वज || ३७ || सुताञ्च तुभ्यं दक्षस्तु स्वयमेव प्रदास्यति | अहञ्चापि वदिष्यामि त्वद्वाक्यं तत्समक्षतः || ३८ || मार्कण्डेय उवाच इत्युदीर्य महादेवं ब्रह्मा लोकपितामहः | जगाम दक्षनिलयं स्यन्दनेनातिवेगिना || ३९ || अथ दक्षोऽपि वृत्तान्तं सर्वं श्रुत्वा सतीमुखात् | चिन्तयामास देवेयं मत्सुता शम्भवे कथम् || ४० || आगतोऽपि महादेवः प्रसन्नः सञ्जगाम ह | पुनरेव कथं सोऽपि सुतार्थेऽत्यर्थमीप्सितः || ४१ || प्रस्थाप्यो वा मया तस्य दूतो निकटमञ्जसा | नैतद्योग्यं न गृह्णीयाद् यद्येनां विभुरात्मने || ४२ || अथवा पूजयिष्यामि तमेव वृषभध्वजम् | मदीयतनयाभर्ता स्वयमेव यथा भवेत् || ४३ || तथैव पूजितः सोऽपि वाञ्छन्त्यातिप्रयत्नतः | शम्भुर्भवतु मद्भर्तेत्येवं दत्तञ्च तेन तत् || ४४ || इति चिन्तयतस्तस्य दक्षस्य पुरतो विधिः | उपस्थितो हंसरथः सावित्रीसहितस्तदा || ४५ || तं दृष्ट्वा वेधसं दक्षः प्रणम्यावनतः स्थितः | आसनञ्च ददौ तस्मै समाभाष्य यथोचितम् || ४६ || ततस्तं सर्वलोकेशं तत्रागमनकारणम् | दक्षः पप्रच्छ विप्रेन्द्राश्चिन्ताविष्टोऽपि हर्षितः || ४७ || दक्ष उवाच तवात्रागमने हेतुं कथयस्व जगद्गुरो | पुत्रस्नेहात् कार्यवशादथवाश्रममागतः || ४८ || मार्कण्डेय उवाच इति पृष्टः सुरश्रेष्ठो दक्षेण सुमहात्मना | प्रहसन्नव्रवीद्वाक्यं मोदयंस्तं प्रजापतिम् || ४९ || ब्रह्मोवाच शृणु दक्ष यदर्थं ते समीपमहमागतः | तल्लोकस्य हितं पथ्यं भवतोऽपि तदीप्सितम् || ५० || तव पुत्र्या समाराध्य महादेवं जगत्पतिम् | यो वरः प्रार्थितः सोऽद्य स्वयमेवागतो गृहम् || ५१ || शम्भुना तव पुत्र्यर्थे त्वत्सकाशमहं पुनः | प्रस्थापितोऽस्मि यत् कृत्यं श्रेयस्तदवधारय || ५२ || वरं दातुं यदायातस्तावत्प्रभृति शंकरः | तत्सुताविप्रयोगेण न शर्म लभतेऽञ्जसा || ५३ || लब्धच्छिद्रोऽपि मदनो निचखान तदा भृशम् | सर्वैः पुष्पकरैर्बाणैरेकदैव जगत्प्रभुम् || ५४ || स बाणविद्धः कामेन परित्यज्यात्मचिन्तनम् | सतीं विचिन्तयन्नास्ते व्याकुलः प्राकृतो यथा || ५५ || विस्मृत्य प्रस्तुतां वाणीं गणाग्रे विप्रयोगतः | क्व सतीत्येव गिरिशो भाषतेऽन्यकृतावपि || ५६ || मया यद्वाञ्छितं पूर्वं त्वया च मदनेन च | मरीच्याद्यैर्मुनिवरैस्तत् सिद्धमधुना सुत || ५७ || त्वत्पुत्र्याराधितः शम्भुः सोऽपि तस्या विचिन्तनाम् | अनुमोदयितुं प्रेप्सुर्वर्तते हिमवद्गिरौ || ५८ || यथा नानाविधैर्भावैः सत्या नन्दाव्रतेन च | शम्भुराराधितस्तेन तथैवाराध्यते सती || ५९ || तस्मात्त्वं दक्ष तनयां शम्भ्वर्थे परिकल्पिताम् | तस्मै देह्यविलम्बेन तेन ते कृतकृत्यता || ६० || अहं तमानयिष्यामि नारदेन त्वदालयम् | तस्मै त्वमेनां संयच्छ यदर्थे परिकल्पिताम् || ६१ || मार्कण्डेय उवाच एवमेवेति दक्षस्तमुवाच परमेष्ठिनम् | विधिश्च गतवांस्तत्र गिरिशो यत्र संस्थितः || ६२ || गते ब्रह्मणि दक्षोऽपि सदारतनयो मुदा | अभवत् पूर्णदेहस्तु पीयूषैरिव पूरितः || ६३ || अथ ब्रह्मापि मोदेन प्रसन्नः कमलासनः | आससाद महादेवं हिमवद्गिरिसंस्थितम् || ६४ || तं वीक्ष्य लोकस्रष्टारमायान्तं वृषभध्वजः | मनसा संशयं चक्रे सतीप्राप्तौ मुहुर्मुहुः || ६५ || अथ दूरान्महादेवो लोकेशं सामसंयुतम् | उवाच मदनोन्माथः विधिं स स्मरमानसः || ६६ || ईश्वर उवाच किमवोचत् सुरश्रेष्ठ सत्यर्थे त्वत्सुतः स्वयम् | कथयस्व यथा स्वान्तं मन्मथेन न दीर्यते || ६७ || बाधमानो विप्रयोगो मामेव च सतीमृते | अभिहन्ति सुरश्रेष्ठ त्यक्त्वान्यान् प्राणधारिणः || ६८ || सतीति सततं वेद्मि ब्रह्मन् कार्यान्तरेऽप्यहम् | सा यथा हि मया प्राप्या तद्विधत्स्व तथा द्रुतम् || ६९ || ब्रह्मोवाच सत्यर्थे यन्ममसुतो वदति स्म वृषध्वज | तच्छृणुष्व निजं साध्यं सिद्धमित्यवधारय || ७० || देया तस्मै मया पुत्री तदर्थे परिकल्पिता | ममापीष्टमिदं कर्म त्वद्वाक्यादधिकं पुनः || ७१ || मत्पुत्त्र्याराधितः शम्भुरेतदर्थे स्वयं पुनः | सोऽप्यन्विच्छति तां यस्मात्तस्माद्देया मया हरे || ७२ || शुभे लग्ने मुहूर्ते च समागच्छतुमेऽन्तिकम् | तदा दास्यामि तनयां भिक्षार्थे शम्भवे विधे || ७३ || इत्यवोचन्मुदा दक्षस्तस्मात्त्वं वृषभध्वज | शुभे मुहूर्ते तद्वेश्म गच्छ तामनुयाचितुम् || ७४ || ईश्वर उवाच गमिष्ये भवता सार्धं नारदेन महात्मना | द्रुतमेव जगत्पूज्य तस्मात्त्वन्नारदं स्मर || ७५ || मरीच्यादीन् दश तथा मानसानपि संस्मर | तैः सार्द्धं दक्षनिलयं गमिष्येऽहं गणैः सह || ७६ || ततः स्मृतास्ते कमलासनेन सनारदा ब्रह्मसुता मनोजवाः | समागता यत्र हरो विधिश्च तत्रागताः काममवेत्य चिन्ताम् || ७७ || इति श्रीकालिकापुराणे सतीवाचने दशमोऽध्यायः || १० || एकादशोऽध्यायः मार्कण्डेय उवाच ततः समागताः सर्वे मानसाश्च सनारदाः | विधेः स्मरणमात्रेण वातेनेव विनोदिताः || १ || तैः सार्धं ब्रह्मणा शम्भुः सगणो दक्षमन्दिरम् | जगाम मोदयुक्तोऽथ काले तत्कर्मयोगिनि || २ || गणाः शङ्खांश्च पटहान् डिण्डिमांस्तूर्यवंशकान् | वादयन्तो मुदायुक्ता अनुगच्छन्ति शंकरम् || ३ || केचित्तालं करतलैः कुर्वन्तोऽङ्घ्रितलस्वनम् | विमानैरतिवेगैः स्वैरनुयान्ति वृषध्वजम् || ४ || कोलाहलं प्रकुर्वन्तस्तथा नानाविधान् रवान् | गणा अनेकाकृतयः शब्दयोगेन निर्ययुः || ५ || ततो देवा मुदा युक्ता गन्धर्वाप्सरसो गणाः | वाद्यैर्मोदैस्तथा नृत्यैरन्वीयुर्वृषभध्वजम् || ६ || तेषां शब्देन विप्रेन्द्रा गन्धर्वाणां गरीयसाम् | गणानाञ्च दिशः सर्वाः पूरिता च वसुन्धरा || ७ || कामोऽपि सगणः शम्भुं सशृङ्गाररसादिभिः | मोदयन् मोहयन् काममन्वियात् स समक्षतः || ८ || हरे गच्छति भार्यार्थे तदानी सकलाः सुराः | ब्रह्माद्याः स्वयमेवाशु वाद्यं चक्रुर्मनोहरम् || ९ || दिशः सर्वाः सुप्रसन्ना बभूबुर्द्विजसत्तमाः | जज्वलुश्चाग्नयः शान्ताः पुष्पवृष्टिरजायत || १० || ववुर्वाताः सुरभयो वृक्षाश्चापि सुपुष्पिताः | बभूवुः प्राणिनः स्वस्था अस्वस्था येऽपि केचन || ११ || हंससारसकादम्बा नीलकम्बुश्च चातकाः | चुक्रुशुर्मधुरान् शब्दान् प्रेरयन्त इवेश्वरम् || १२ || भुजगो व्याघ्रकृत्तिश्च जटा चन्द्रकला तथा | जगाम भूषणत्वञ्च तेनापि परिदीपितः || १३ || ततः क्षणेन बलिना बलीवर्देन वेगिना | सब्रह्मानारदाद्यैश्च प्राप दक्षालयं हरः || १४ || ततो दक्षो महातेजा अभ्युत्थाय स्वयं हरम् | ब्रह्मादींश्चाददौ तेषामासनानि यथोचितम् || १५ || कृत्वा यथोचितां तेषां पूजां पाद्यादिभिस्तथा | चकार संविदं दक्षो मुनिभिर्मानसैः पुनः || १६ || ततः शुभे मुहूर्ते तु लग्ने च द्विजसत्तमाः | सतीं निजसुतां दक्षो ददौ हर्षेण शम्भवे || १७ || उद्वाहविधिना सोऽपि पाणिं जग्राह हर्षितः | दाक्षायण्या वरतनोस्तदानीं वृषभध्वजः || १८ || ब्रह्माय नारदाद्याश्च मुनयः सामगीतिभिः | ऋचा यजुर्भिः सुश्राव्यैस्तोषयामासुरीश्वरम् || १९ || वाद्यं चक्रुर्गणाः सर्वे ननृतुश्चाप्सरोगणाः | पुष्पवृष्टिञ्च ससृजुर्मेघा गगनसंगताः || २० || अथ शम्भुमुपागत्य गरुडेनातिवेगिना | सार्धं कमलया चेदमुवाच गरुडध्वजः || २१ || श्री भगवानुवाच स्निग्धनीलाञ्जनश्यामशोभया शोभसे हर | दाक्षायण्या यथा चाहं प्रातिलोम्येन पद्मया || २२ || कुरु त्वमनया सार्धं रक्षा देवस्य वा नृणाम् || २३ || अनया सह संसारसारिणां मङ्गलं सदा | कुरु दस्यून् यथायोग्यं हनिष्यसि च शंकर || २४ || य एवैनां साभिलाषो दृष्ट्वा श्रुत्वाथवा भवेत् | तं हनिष्यसि भूतेश नात्र कार्या विचारणा || २५ || मार्कण्डेय उवाच एवमस्त्विति सर्वज्ञः प्रोवाच परमेश्वरम् | प्रहृष्टमानसं प्रीत्या प्रसन्नवदनो द्विजाः || २६ || अथ ब्रह्मा तदा दृष्ट्वा दक्षजां चारुहासिनीम् | स्मराविष्टमना वक्त्रं वीक्षांचक्रे तदीयकम् || २७ || मुहुर्मुहुस्तदा ब्रह्मा पश्यति स्म सतीमुखम् | तदेन्द्रियविकारञ्च प्राप्तवानवशः पुनः || २८ || अथ तस्य पपाताशु तेजो भूमौ द्विजोत्तमाः | तज्वलद्दहनाभासं मुनीनां पुरतस्तदा || २९ || ततस्तस्मात् समभवंस्तोयदाः शब्दसंयुताः | सम्वर्तश्च तथावर्तः पुष्करो द्रोण एव च | गर्जन्तश्चाथ मुञ्चन्तस्तोयानि द्विजसत्तमाः || ३० || तैस्तु सञ्छादिते व्योम्नि तेषु गर्ज्जत्सु शंकरः | पश्यन् दाक्षायणीं देवीं भृशं कामेन मोहितः || ३१ || मोहितोऽप्यथ कामेन तदा विष्णुवचः स्मरन् | इयेष हन्तुं ब्रह्माणं शूलमुद्यम्य संकरः || ३२ || शम्भुनोद्यमिते शूले विधिं हन्तुं द्विजोत्तमाः | मरीचिनारदाद्यास्ते चक्रुर्हाहाकृतिं तदा || ३३ || दक्षो मैवं मैवमिति पाणिमुद्यम्य शङ्कितः | वारयामास भूतेशं क्षिप्रमेत्य पुरोगतः || ३४ || अथाग्रे मीलितं वीक्ष्य तदा दक्षं महेश्वरः | प्रत्युवाचाप्रियमिदं स्मारयन् वैष्णवीं गिरम् || ३५ || ईश्वर उवाच नारायणेन विप्रेन्द्र यदिदानीमुदीरितम् | मयाप्यङ्गीकृतं कर्तुं तदिहैव प्रजापते || ३६ || एनां यः साभिलाषः सन् वीक्षते तं हनिष्यसि | इति वाचन्तु सफलमेनं हत्वा करोम्यहम् || ३७ || साभिलाषः कथं ब्रह्मा सतीं समवलोकयत् | अभवत्त्यक्ततेजास्तु ततो हन्मि कृतागसम् || ३८ || मार्कण्डेय उवाच तमेवं वादिनं विष्णुः क्षिप्रं भूत्वा पुरःसरः | इदमूचे वारयंस्तं हन्तुं सर्वजगत्प्रभुः || ३९ || श्रीभगवानुवाच न हनिष्यसि भूतेश स्रष्ट्रारं जगतां वरम् | अनेनैव सती भार्या भवदर्थे प्रकल्पिता || ४० || प्रजाः स्रष्टुमयं शम्भो प्रादुर्भूतश्चतुर्मुखः | अस्मिन् हते जगत्स्रष्टा नास्त्यन्यः प्राकृतोऽधुना || ४१ || सृष्टिस्थित्यन्तकर्माणि करिष्यामः कथं पुनः | अनेनापि मया चैव भवता च समञ्जसम् || ४२ || एकस्मिन्निहतेऽमीषु कस्तत्कर्म करिष्यति | तस्मान्न वध्यो भवता विधाता वृषभध्वज || ४३ || ईश्वर उवाच प्रतिज्ञां पूरयिष्यामि हत्वैनं चतुराननम् | अहमेव प्रजाः स्रक्ष्ये स्थावराणि चराणि च || ४४ || अन्यं स्रक्ष्ये विधातारमथवाहं स्वतेजसा | स एव सृष्टिकर्ता स्यात् सर्वदा मदनुज्ञया || ४५ || हत्वैनं विधिमेवाहं प्रतिज्ञां पालयन् विधो | स्रष्टारमेकं स्रक्ष्यामि न वारय चतुर्भुज || ४६ || मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा गिरिशस्य चतुर्भुजः | स्मितप्रसन्नवदनः पुनर्मैवमितीरयन् || ४७ || प्रतिज्ञापूरणं कर्तुं योग्यमात्मनि नो भवेत् | इत्युवाचाभिवदनमीश्वरस्य द्विजोत्तमाः || ४८ || ततः पुनः शम्भुरूपे कथमात्मा विधिर्मम | लक्ष्यते भिन्न एवायं प्रत्यक्षेणाग्रतः स्थितः || ४९ || अथ प्रहस्य भगवान् मुनीनां पुरतस्तदा | इदमूचे महादेवं तोषयन् गरुडध्वजः || ५० || श्रीभगवानुवाच ब्रह्मा भवतो भिन्नो न शम्भुर्ब्रह्मणस्तथा | न चाहं युवयोर्भिन्नोऽभिन्नत्वं सदातनम् || ५१ || प्रधानस्याप्रधानस्य भागाभागस्वरूपिणः | ज्योतिर्मयस्य भागो मे युवामेकोऽहमंशकः || ५२ || कस्त्वं कोऽहञ्च को ब्रह्मा ममैव परमात्मनः | अंशत्रयमिदं भिन्नं सृष्टिस्थित्यन्तकारणम् || ५३ || चिन्तयस्वात्मनात्मानं संस्तवं कुरु चात्मनि | एकत्रं ब्रह्मवैकुण्ठशम्भूनां हृद्गतं कुरु || ५४ || शिरोग्रीवाभेदेन यथैकस्यैव धर्मिणः | अङ्गानि मे तथैकस्य भागत्रयमिदं हर || ५५ || यज्ज्योतिरग्र्यं स्वपरप्रकाशं कूटस्थमव्यक्तमनन्तरूपम् | नित्यञ्च दीर्घादिविशेषणाद्यैर्हीनं परं तच्च वयं न भिन्नाः || ५६ || मार्कण्डेय उवाच एतच्छ्रुत्वा वचतस्य महादेवो विमोहितः | जानन् स चाप्यभिन्नत्वं सद्विस्मृत्यान्यचिन्तनात् || ५७ || पुनः प्रपच्छ गोविन्दमनन्यत्वं त्रिभेदिनाम् | ब्रह्मविष्णुत्र्यम्बकानामेकस्य च विशेषकम् || ५८ || ततो नारायणः पृष्टः कथयामास शम्भवे | अनन्यत्वं त्रिदेवानामेकत्वञ्च व्यदर्शयत् || ५९ || श्रुत्वा ततो विष्णुमुखाब्जकोशादनन्यतां विष्णुविधीशतत्त्वे | दृष्ट्वा स्वरूपं च जघान नैनं विधिं मृडः पुष्पमधुप्रकाशकम् || ६० || इति श्रीकालिकापुराणे त्रिदेवानामेकत्वप्रतिपादकः एकादशोऽध्यायः || ११ || द्वादशोऽध्याय ऋषय ऊचुः अनन्यत्वं त्रिदेवानां यज्जगाद जनार्दनः | शम्भवे तद्वयं श्रोतुमिच्छामो द्विजसत्तम || १ || एकत्वं दर्शयामास कथं वा गरुडध्वजः | तत् समाचक्ष्व विप्रेन्द्र परं कौतूहलं हि नः || २ || मार्कण्डेय उवाच शृणुष्वं मुनयो गुह्यं परमं प्रयतं परम् | त्रिदेवानामनन्यत्वं तथैवैकत्वदर्शनम् || ३ || हरेण पृष्टो गोविन्दस्तं समाभाष्य सादरम् | इदमाह मुनिश्रेष्ठा अभिन्नप्रतिपादकम् || ४ || श्रीभगवानुवाच इदं तमोमयं सर्वमासीद्भुवनवर्जितम् | अप्रज्ञातमलक्ष्यञ्च प्रसुप्तमिव सर्वतः || ५ || न दिवारात्रिभागोऽत्र नाकाशं न च काश्यपी | न ज्योतिर्न जलं वायुर्नान्यत् किंचन संस्थितम् || ६ || एकमासीत् परं ब्रह्म सूक्ष्मं नित्यमतीन्द्रियम् | अव्यक्तं ज्ञानरूपेण द्वैतहीनविशेषणम् || ७ || प्रकृतिः पुरुषश्चैव नित्यौ द्वौ सर्वसंहितौ | स्थितः कालोऽपि भूतेश जगत्कारणमेककम् || ८ || यदेकं परमं ब्रह्म तत्स्वरूपात् परं हर | रूपत्रयमिदं नित्यं तस्यैव जगतः पतेः || ९ || कालो नामापरं रूपमनाद्यं तत्तुकारणम् | सर्वेषामेव भूतानामवच्छेदेन संगतः || १० || ततस्तत् स्वप्रकाशेन भास्वद्रूपं प्रकाशते | पुरा सृष्ट्यर्थमतुलं क्षोभयन् प्रकृतिं स्वयम् || ११ || संक्षुब्धायान्नु प्रकृतौ महत्तत्त्वमजायत | महत्तत्त्वात्ततः पश्चादहंकारस्त्रिधाभवत् || १२ || अहंकारे तु संजाते शब्दतन्मात्रतस्ततः | आकाशमसृजद्विष्णुरनन्तं मूर्तिवर्जितम् || १३ || ततस्तु रसतन्मात्रादपः सृष्ट्वा महेश्वरः | निराधारः स्वयं दध्रे तास्तदा निजमायया || १४ || ततस्त्रिगुणसाम्येन संस्थितां प्रकृतिं प्रभुः | पुनः संक्षोभयामास सृष्ट्यर्थं परमेश्वरः || १५ || ततः सा प्रकृतिस्तासु बीजं त्रिगुणधाभवत् | अप्सु संसर्जयामास जगद्बीजं निराकुलम् || १६ || तद्विवृद्धं क्रमेणैव हैममण्डमभून्महत् | जग्राहापः समस्तास्ता गर्भ एव तदण्डकम् || १७ || अप्सु स्थितासु हैमाण्डगर्भे विष्णुस्तदण्डकम् | त्वयैव मायया दध्रे ब्रह्माण्डमतुलं पुनः || १८ || वारिणा वह्निभिश्चैव वायुभिर्नभसा तथा | बहिस्तदण्डकं छन्नं सर्वपार्श्वे समन्ततः || १९ || सप्तसागरमानेन तथा नद्यादि मानतः | ब्रह्माण्डाभ्यन्तरे तोयं तदन्यत्तु बहिर्गतम् || २० || तदन्तः स्वयमेवासौ विष्णुर्ब्रह्मस्वरूपधृक् | दैवं वर्षमुषित्वैव प्रबिभेद तदण्डकम् || २१ || तस्मात् समभवन्मेरुरुत्पन्नोऽस्मिन् महेश्वर | जरायुः पर्वता जाताः समुद्राः सप्त तज्जलात् || २२ || तन्मध्ये गन्धतन्मात्रात् पृथिवी समजायत | ईश्वरेण प्रकृत्या च योजिता त्रिगुणात्मिका || २३ || प्रागेव पर्वतादिभ्यः समुत्पन्ना वसुन्धरा | ब्रह्माण्डखण्डसंयोगाद्दृढा भूता तु सा भृशम् || २४ || तस्यामेव स्थितो ब्रह्मा सर्वलोकगुरुः स्वयम् | यदा ब्रह्माण्डमध्यस्थो ब्रह्मा व्यक्तो न चाभवत् | तदैव रूपतन्मत्रात्तेजः सम्यगजायत || २५ || वायुस्तु स्पर्शतन्मात्रात् प्रकृत्या विनियोजितात् | बभूव सर्वभूतानां प्राणभूतः समन्ततः || २६ || अद्भिस्तेजोभिरतुलैर्वायुभिर्नभसा तथा | अन्तर्बहिस्तदण्डस्य व्याप्तमन्यत्तु गर्धगम् || २७ || ततो ब्रह्मशरीरन्तु त्रिधा चक्रे महेश्वरः | प्रधानेच्छावशाच्छम्भौ त्रिगुणत्रिगुणीकृतम् || २८ || तदूर्ध्वभागः संजातश्चतुर्वक्त्रश्चतुर्भुजः | पद्मकेशरगौराङ्गकायो ब्राह्मो महेश्वरः || २९ || तन्मध्यभागो नीलाङ्ग एकवक्त्रश्चतुर्भुजः | शङ्खचक्रगदापद्मपाणिः कायः स वैष्णवः || ३० || अभवत्तदधोभागः पञ्चवक्त्रश्चतुर्भुजः | स्फटिकाभ्रसमः शुक्लः सकायश्चन्द्रशेखर || ३१ || इतस्ततो ब्राह्मकाये सृष्टिशक्तिं न्ययोजयत् | स्वयमेवाभवत् सष्टा ब्रह्मरूपेण लोकभृत् || ३२ || स्थितिशक्तिं निजां मायां प्रकृत्याख्यां न्ययोजयत् | महेशो वैष्णवे काये ज्ञानशक्तिं निजां तथा || ३३ || स्थितिकर्ताभवद्विष्णुरहमेव महेश्वरः | सर्वशक्तिनियोगेन सदा तद्रूपता मम || ३४ || अन्तशक्तिं तथाकाये शाम्भवे च न्ययोजयत् | अन्तशक्तिं तथाकाये शाम्भवे च न्ययोजयत् || ३५ || अन्तकर्ताभवच्छम्भुः स एव परमेश्वरः | ततस्त्रिषु शरीरेषु स्वयमेव प्रकाशते || ३६ || ज्ञानरूपं परं ज्योतिरनादिर्भगवान् प्रभुः | सृष्टिस्थित्यन्तकरणादेक एव महेश्वरः || ३७ || ब्रह्मा विष्णुः शिवश्चेति संज्ञामाप पृथक् पृथक् | अतस्त्वञ्च विधाता च तथाहमपि न पृथक् | एवं शरीरं रूपञ्च ज्ञानमस्माकमन्तरम् || ३८ || मार्कण्डेय उवाच एतच्छ्रुत्वा वचस्तस्य विष्णोरमिततेजसः | हर्षोतफुल्लमुखः प्रोचे पुनरेव जनार्दनम् || ३९ || ईश्वर उवाच एक एव महेशशेत् ज्योतीरूपो निरंजनः | का वा मायाथ कः कालः का वा प्रकृतिरुच्यते || ४० || के पुमांसस्ततोऽभिन्ना भिन्नाश्चेत् कथमेकता | तन्मे वदस्व गोविन्द तत्प्रभावं यथागतम् || ४१ || श्रीभगवानुवाच त्वमेव पश्यसि सदा ध्यानस्थः परमेश्वरम् | आत्मन्यात्मस्वरूपं मज्ज्योतीरूपं सदक्षरम् || ४२ || मायाञ्च प्रकृतिं कालं पुरुषञ्च स्वयं विभो | ज्ञाता त्वं ध्यानयोगेन यस्माद्ध्यानपरो भव || ४३ || मायया मोहितो यस्मादधुना त्वम्मदीयया | ततो विस्मृत्य परमं ज्योतिर्हि वनितारतः || ४४ || अधुना कोपयुक्तस्त्वं विस्मृत्यात्मानमात्मनि | यां पच्छसि प्रकृत्यादिरूपाणि प्रथमाधिप || ४५ || मार्कण्डेय उवाच ततस्तत्र महादेवः श्रुत्वा वाक्यं सुनिश्चितम् | मुनीनां पश्यतां योगयुक्तो ध्यानपरोऽभवत् || ४६ || आसाद्य बद्धपर्यङ्कं निर्निमीलितलोचनः | आत्मानञ्चिन्तयामास तदात्मनि महेश्वरः || ४७ || परं चिन्तयतस्तस्य शरीरं विबभौ शुभम् | तेजोभिरुज्ज्वलं द्रष्टुं नशेकुर्मुनयस्तदा || ४८ || तत्क्षणात् ध्यानयुक्तश्च शम्भुः स विष्णुमायया | परित्यक्तोऽति विबभौ तपस्तेजोभिरुज्ज्वलः || ४९ || ये ये गणास्तदा तस्थुः सेवया शंकरान्तिके | न तेऽपि वीक्षितुं शेकुः शंकरं वा दिवाकरम् || ५० || स्वयमेव तदा विष्णुः समाधिमनासो भृशम् | प्रविवेश शरीरान्तर्ज्योतीरूपेण धूर्जटेः || ५१ || प्रविश्य तस्य जठरे यथा सृष्टिक्रमः पुरा | तथैव दर्शयामास स्वयं नारायणोऽव्ययः || ५२ || न स्थूलं न च सूक्ष्मञ्च न विशेषणगोचरम् | नित्यानन्दं निरानन्दमेकं शुद्धमतीन्द्रियम् || ५३ || अदृश्यं सर्वद्रष्टारं निर्गुणं परमं पदम् | परमात्मानमानन्दं जगत्कारणकारणम् || ५४ || प्रथमं ददृशे शम्भुरात्मानं तत्स्वरूपिणम् | तत्र प्रविष्टमनसा बहिर्ज्ञानविवर्जितः || ५५ || तस्यैव रूपं प्रकृतिं सृष्ट्यर्थे भिन्नतां गताम् | ददर्श तस्यैवाभ्यासे पृथग्भूतामिवैकिकाम् || ५६ || पुरुषांश्च ददर्शासौ यथैव वसतस्ततः | अग्नेरिव कणात् स्थूलादजस्रं द्विजसत्तमाः || ५७ || तदेव कालरूपेण भासते च मुहुर्मुहुः | सृष्टिस्थित्यन्तयोगानामवच्छेदेन कारणम् || ५८ || प्रकृतिः पुरुषश्चैव कालोऽपि च मुहुर्मुहुः | अभिन्नान् भासमानांश्च सर्गार्थे भिन्नतां गताम् || ५९ || पृथग्भूतानभिन्नांश्च ददृशे चन्द्रशेखरः | एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन || ६० || सप्रधानस्वरूपेण कालरूपेण भासते | तथापुरुषरूपेण संसारार्थं प्रवर्तते || ६१ || भोगार्थं प्राणिनां शश्वच्छरीरे च प्रवर्तते | सैव माया या प्रकृति सा मोहयति शंकरम् || ६२ || हरिं तथा विरिञ्चिञ्च तथैवान्यजनुर्भवान् | मायाख्या प्रकृतिर्जाता जन्तुं सन्मोहयत्यपि || ६३ || सा स्त्रीरूपेण च सदा लक्ष्मीभूता हरेः प्रिया | सा सावित्री रतिः सन्ध्या सा सती सैव वीरिणी || ६४ || बुद्धिरूपा स्वयं देवी चण्डिकेति च गीयते | इति स्वयं ददर्शाशु ध्यानमार्गगतो हरः || ६५ || महदादि प्रभेदेन तथा सृष्टिक्रमं स्वयम् || ६६ || दर्शयित्वा हरिः कालं प्रकृतिं पुरुषांस्तथा | तथान्यद्दर्शयामास तच्छरीरं द्विजोत्तमाः || ६७ || इति श्रीकालिकापुराणे त्रिदेवानामनन्यत्वप्रतिपादेन द्वादशोऽध्यायः || १२ || त्रयोदशोऽध्यायः मार्कण्डेय उवाच ततो ब्रह्माण्डसंस्थानं दर्शयामास शम्भवे | ववृधे तोयराशिस्थं ब्रह्माण्डञ्च यथापुरा || १ || तन्मध्ये पद्मगर्भाभं ब्रह्माणञ्च जगत्पतिम् | ज्योतीरूपं प्रकाशार्थं सृष्ट्यर्थं च पृथग्गतम् || २ || शरीरिणञ्च ददृशे ब्रह्माण्डान्तर्गतं मुहुः | चतुर्भुजं प्रकाशान्तं ज्योतिर्भिः कमलासनम् || ३ || तत्रैव च त्रिधाभूतं वपुर्ब्राह्म्यं ददर्श सः | ऊर्द्धमध्यान्तभागैश्च ब्रह्मविष्णुशिवात्मकम् || ४ || यथोर्ध्वभागो वपुषो ब्रह्मत्वमगमत्तदा | मध्यं यथा विष्णुभूतं ददर्शान्तस्य शम्भुताम् || ५ || एकमेव शरीरन्तु त्रिधाभूतं मुहुर्मुहुः | हरो ददर्श स्वे गर्भे तथा सर्वमिदं जगत् || ६ || कदाचिद्वैष्णवं कायं ब्राह्मे काये लयं व्रजेत् | ब्राह्मं तथा वैष्णवे च शाम्भवे वैष्णवं तथा || ७ || शाम्भवं वैष्णवे काये ब्राह्मं वाप्यथ शाम्भवे | गच्छन्तं लीनतां शम्भुरेकताञ्च मुहुर्मुहुः || ८ || ददर्श वामदेवोऽपि भिन्नञ्चाप्यपृथग्गतम् | परमात्मनि गच्छन्तं लीनतां तद्वपुः स्वयम् || ९ || तन्मध्ये पृथिवीं शम्भुर्ददर्श विततां जले | महापर्वतसंघातैर्विरलं स्थगितन्ततः || १० || पुनर्ददर्श ब्रह्माणं कुर्वन्तं स्वर्गमादितः | आत्मानञ्च पृथग्भूतं विष्णुञ्च गरुडासनम् || ११ || दक्षं प्रजापतिं तत्र तथैव च निजान् गणान् | मरीच्यादीन् दश तथा वीरिणीञ्च तथा सतीम् || १२ || सन्ध्यां रतिं च कन्दर्प शृङ्गारं सवसन्तकम् | हावान् भावांस्तथा मारानृषीन् देवान् मरुद्गणान् || १३ || मेघांश्च चन्द्रं सूर्यञ्च वृक्षान् वल्लीस्तृणानि च | सिद्धान् विद्याधरान् यक्षान् राक्षसान् किन्नरांस्तथा || १४ || मानुषांश्च भुजङ्गांश्च ग्राहान्मत्स्यांश्च कच्छपान् | उल्कानिर्घातकेतूंश्च कृमिकीटपतङ्गकान् || १५ || काञ्चिद्ददर्श वनितां द्वन्द्वभावं प्रकुर्वतीम् | उत्पन्नमुत्पद्यन्तञ्च विपद्यन्तञ्च कञ्चन || १६ || हसतो रमतः कांश्चित् कांश्चिद्विलपतस्तथा | धावतश्चापराञ्छम्भोर्ददर्श परमेश्वरः || १७ || दिव्यालंकारसंछन्ना मालाचन्दनचर्चिताः | वीक्षाञ्च चक्रिरे केचिच्छम्भुना क्रीडिता मुहुः || १८ || स्तुवन्तः प्रस्तुवन्तश्च शम्भुं विष्णुं तथा विधिम् | केचिद्ददृशिरे तेन मुनयश्च तपोधनाः || १९ || तपांसि चरतः केचिन्नदीतीरे तपोवने | स्वाध्यायवेदनिरताः पाठ्यन्तश्चैव केचन || तथैव सागराः सप्त नद्यो देवसरांसि च | तथैव पर्वतस्थोऽसौ ददृशे शम्भुना स्वयम् || २१ || मायालक्ष्मीस्वरूपेण हरिं सन्मोहयत्यलम् | सतीरूपा तथात्मानं मोहयन्तीति शंकरः || २२ || सत्या सार्धं स्वयं रेमे कैलासे मेरुपर्वते | मन्दरे देवविपिने शृङ्गाररससेविते || २३ || सतीदेहं तथा त्यक्त्वा जाता हिमवतः सुता | कार्तिकेयः समुत्पन्नो यथाहंस्तारकाह्वयम् | तत्सर्वं विस्तरात् सम्यग् वृषभध्वजः || २५ || हिरण्यकशिपुर्जघ्ने नरसिंहस्वरूपिणा | यथा हतः कालनेमिर्हिरण्याक्षो यथा हतः || २६ || विष्णुना यादृशं युद्धं दानवौघैः पुराकृतम् | यथा ये ये च निहतास्तत्सर्वं दृष्टवान् हरः || २७ || जगत्प्रपञ्चान् ब्रह्मादीन् नक्षत्रग्रहमानुषान् | सिद्धविद्याधरादींश्च दृष्ट्वा दृष्ट्वा पृथक् पृथक् || २८ || आत्मानं तान् संहरन्तं ददृशे शम्भुरीश्वरः | संहारान्ते ददर्शासौ ब्रह्मविष्णुमहेश्वरान् || २९ || शून्यं समभवत्सर्वं जगदेतच्चराचरम् || ३० || शून्ये जगति सर्वस्मिन् ब्रह्मा विष्णुशरीरगगः | लीनः शम्भुश्च तस्यैव शरीरं प्रविवेश ह || ३१ || एकमेव ददर्शासौ विष्णुमव्यक्तरूपिणम् | नान्यत्किंचिद् ददर्शासौ तदा विष्णुमृते हरः || ३२ || अथ विष्णुश्च ददृशे लयं तं परमात्मनि | भासमानं परं तत्त्वे ज्योतीरूपे सनातने || ३३ || ततो ज्ञानमयं नित्यमानन्दं ब्रह्मणः परम् | केवलं ज्ञानगम्यञ्च ददर्शान्यन्न किञ्चन || ३४ || एकत्वञ्च पृथक्त्वञ्च जगतः परमात्मनि | ददर्श स्वशरीरान्तः सर्गस्थित्यन्तसंयमान् || ३५ || प्रकाशं परमात्मानं शान्तं नित्यमतीन्द्रियम् | एकमेवाद्वयं ब्रह्म ददर्शान्यन्न किञ्चन || ३६ || को वा विष्णुर्हरः को वा को ब्रह्मा किमिदं जगत् | इति भेदो न जगृहे शम्भुना परमात्मनः || ३७ || एवं सम्पश्यतस्तस्य शरीराभ्यन्तराद्बहिः | निःससाराथ मायाहि प्रविवेश वृषध्वजम् || ३८ || अनन्यत्वं पृथक्त्वञ्च दर्शयित्वा जनार्दनः | शम्भवे तच्छरीरात्तु बहिर्भूतस्ततोद्रुतम् || ३९ || अथ त्यक्तसमाधेस्तु हरस्य चलितात्मनः | सतीं मनो जगामाशु मोहितस्य च मायया || ४० || ततो मुहुर्हरो वक्त्रं दाक्षायण्या मनोहरम् | प्रबुद्धकमलाकारं वीक्षांचक्रे द्विजोत्तमाः || ४१ || ततो दक्षमरीच्यादीन् स्वगणान् कमलासनम् | विष्णुञ्च तत्र संवीक्ष्य शंकरो विस्मितोऽभवत् || ४२ || अथ तं विस्मयाविष्टं महादेवं वृषध्वजम् | स्मितप्रफुल्लवदनं हरमाह जनार्दनः || ४३ || श्रीभगवानुवाच यद् यत् पृष्टं त्वयैकत्वे भिन्नतायाञ्च शंकरः | त्रयाणामथ देवानां तज् ज्ञातमधुना त्वया || ४४ || प्रकृतिः पुरुषश्चैव कालो माया निजान्तरे | त्वया ज्ञाता महादेव कीदृशास्ते च के पुनः || ४५ || एकं ब्रह्म सदा शान्तं नित्यञ्च परमं महत् | तत् कथं भिन्नतां जातं दृष्टं तत् कीदृशं त्वया || ४६ || मार्कण्डेय उवाच इति पृष्टो भगवता भगवान् वृषभध्वजः | जगाद हरये तथ्यमेतद्वाक्यं द्विजोत्तमाः || ४७ || ईश्वर उवाच एकं शिवं शान्तमनन्तमच्युतं ब्रह्मास्ति तस्मान्नहि किंचिदीदृशम् | तस्मादभिन्नं सकलं जगद्धरेः कालादिरूपाणि च सृष्टिहेतुः || ४८ || समस्तभूतप्रभवं निरञ्जनं वयञ्च तस्यैव सदांशरूपिण | सृष्टिस्थितिं संयमनं तदीरितं रूपत्रयं तस्य विभाति भेदतः || ४९ || नाहं न च त्वं न हिरण्यगर्भो न कालरूपं प्रकृतिं न चान्यत् | तत्प्रेरणां कर्तुमलं च किञ्चिद्विनापि रूपं सदपीह तस्य || ५० || श्रीभगवानुवाच इति तत्त्वं त्वया प्रोक्तं ज्ञातञ्च वृषभध्वज | तदंशभूतास्तु वयं ब्रह्मविष्णुपिनाकिनः || ५१ || तस्मात् त्वया न वध्योऽयं विरिञ्चिस्तव चेद्भवेत् | एकता विदिता शम्भो ब्रह्मविष्णुपिनाकिनाम् || ५२ || मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा विष्णोरमिततेजसः | न जघान महादेवो विधिं दृष्ट्वाथ चैकताम् || ५३ || इति वः कथितं विष्णुर्यथानन्यत्वमादिशत् | शम्भवे प्रस्तुतं तद्वः कथयामि पुनर्द्विजाः || ५४ || इति श्रीकालिकापुराणे हरकोपोपञ्चमने त्रयोदशोऽध्यायः || १३ || चतुर्दशोऽध्यायः मार्कण्डेय उवाच जलदेष्वथ गर्जत्सु महादेवः सतीपतिः | विसृज्य विष्णुप्रभृतीन् जगाम हिमवद्गिरिम् || १ || आरोप्य वृषभे तुङ्गे सतीमामोदशालिनीम् | जगाम हिमवत्प्रस्थं रम्यं कुञ्जसमन्वितम् || २ || अथ सा शंकराभ्यासे सुदती चारुहासिनी | विरेजे वृषभस्थाति चन्द्रान्ते कालिकोपमा || ३ || ब्रह्मादयश्च ते सर्वे मरीच्याद्याश्च मानसाः | दक्षोऽपि सर्वे मुदिता अभवन् ससुरासुराः || ४ || केचिच्छंखान् वादयन्तः केचित्तालान् सुमङ्गलाः | केचिद्धास्यं प्रकुर्वन्तो अनुजग्मुर्वृषध्वजम् || ५ || विसृष्टा अपि ब्रह्माद्याः शम्भुना पुनरेव ते | अनुजग्मुः कियद्दूरं मुदा परमया युताः || ६ || ततः शम्भुं समाभाष्य ब्रह्माद्या मानसाश्च ते | स्वं स्वं स्थानं तदा जग्मुः स्यन्दनैराशुगामिभिः || ७ || देवाश्च सर्वे सिद्धाश्च तथैवाप्सरसां गणाः | यक्षविद्याधराद्याश्च ये ये तत्र समागताः || ८ || ते हरेण विसृष्टास्तु गतवन्तो निजास्पदम् | बभुवुरामोदयुताः कृतदारे वृषध्वजे || ९ || ततो हरः सस्वगणः संस्थानं प्राप्य मोदनम् | कैलासं तत्र वृषभादवतारयति प्रियाम् || १० || ततो विरूपाक्ष इमां प्राप्य दाक्षायणीं गणान् | स्वीयान् विसर्जयामास नन्द्यादीन् गिरिकन्दरात् || ११ || उवाच शम्भुस्तान् सर्वान् नन्द्यादीनतिसुनृतम् | यदाहं वः स्मराम्यत्र स्मरणाच्चलमानसाः | समागमिष्यथ तदा मत्पार्श्व भोस्तदा तदा || १२ || इत्युक्ते वामदेवेन ते नन्दिभैरवादयः | महाकौषीप्रपाताय जग्मुस्ते हिमवद्गिरौ || १३ || ईश्वरोऽपि तया सार्धं तेषु यातेषु मोहितः | दाक्षायण्या चिरं रेमे रहस्यनुदिनं भृशम् || १४ || कदाचिद् वन्यपुष्पाणि समाहृत्य मनोहराम् | मालां विधाय सत्यास्तु हारस्थाने न्ययोजयत् || १५ || कदाचिद् दर्पणे वक्त्रं वीक्षन्तीमात्मनः सतीम् | अनुगम्य हरो वक्त्रं स्वीयमप्यवलोकयत् || १६ || कदाचित् कुन्तलांस्तस्या उल्लास्योल्लासमागतः | बध्नाति मोचयत्येवं शश्वत् सम्मार्जयत्यपि || १७ || सरागौ चरणावस्या आयावकेनोज्ज्वलेन च | निसर्गरक्तौ कुरुते सरागो वृषभध्वजः || १८ || उच्चैरपि यदाख्येयमन्येषां पुरतो मुहुः | तत् कर्णे कथयत्यस्या हरोः स्प्रष्टुं तदाननम् || १९ || न दूरमपि गत्वासौ समागम्य प्रयत्नतः | अनुबध्नाति तामक्ष्णि पृष्ठदेशेऽन्यमानसाम् || २० || अन्तर्हितस्तु तत्रैव मायया वृषभध्वजः | तामालिलिङ्ग भीत्या सा चकिता व्याकुलाभवत् || २१ || सौवर्णपद्मकलिकातुल्ये तस्याः कुचद्वये | चकार भ्रमराकारं मृगनाभिविशेषकम् || २२ || हारमस्याः कुचयुगाद्वियोज्य सहसा हरः | नियोजयति तत्रैव सकरस्पर्शनं मुहुः || २३ || अङ्गदान् वलयान् वमीं विश्लेष्य च पुनः पुनः | तत्स्थानात् पुनरेवासौ तत्स्थाने प्रयुयोज च || २४ || कालिकेयं समायाति सवर्णा ते सखीति ताम् | पश्येत् यस्यास्तथेच्छन्त्याः प्रोक्त्वा जग्राह तत्कुचौ || २५ || कदाचिन्मदनोन्मादचेतनः प्रमथाधिपः | चकार नर्मकर्माणि तथा हृत्प्रियया मुदा || २६ || आहृत्य पद्मपुष्पाणि वन्यपुष्पाणि शंकरः | पुष्पाभरणसर्वाङ्गीं कुरुते स्म कदाचन || २७ || गिरिकुञ्जेषु रम्येषु तया सह सतीपतिः | विजहार समस्तेषु वनेषु मुदितो हरः || २८ || न याने नोपवेशे च न स्थितौ नापि चेष्टिते | तया विना क्षणमपि शर्म लेभे वृषध्वजः || २९ || विहृत्य सुचिरं कालं कैलासगिरिकन्दरे | महाकौषीप्रपाताय जगाम हिमवद्गिरौ || ३० || तस्मिन् प्रविष्टे हिमवत्पर्वते वृषभध्वजे | कामोऽपि सह मित्रेण रत्या च प्रजगाम ह || ३१ || तस्मिन् प्रविष्टे कामे तु वसन्तः शंकरान्तिके | विततान निजाः श्रीश्च वृक्षे तोये तथा भुवि || ३२ || सर्वे सुपुष्पिता वृक्षा लताश्चान्याः सुपुष्पिताः | अम्भांसि फुल्लपद्मानि पद्मेषु भ्रमरास्तथा || ३३ || प्रविष्टे तत्र सुरतौ प्रववुर्मलयानिलाः | सुगन्धिपुष्पगन्धेन मोहितश्च पुरन्ध्रयः || ३४ || मुनीनामपि चेतांसि प्रमथ्य सुरभिस्तदा | स्मरः सारं समुद्दध्रे तक्रौघादाज्यवत्कृती || ३५ || सन्ध्यार्द्ध चन्द्रसंकाशाः पलशाश्च विरेजिरे | कामास्त्रवत्सुमनसः प्रमोदायाभवत् सदा || ३६ || वभुः पङ्कजपुष्पाणि सरःसु सकलं जनान् | सम्मोहयितुमुद्युक्ता सुमुखीबाम्बुदेवता || ३७ || नागकेशरवृक्षाश्च स्वर्णवर्णप्रसूनकैः | बभुर्मदनकेत्वाभा मनोज्ञाः शंकरान्तिके || ३८ || चम्पकास्तरवो हैमपुष्पत्वं प्रकटं मुहुः | कुर्वन्तः प्रचुरैः पुष्पैः सम्यग्रेजुस्तथास्फुटैः || ३९ || प्रफुल्लपाटलापुष्पैर्दिशः स्युः पाटलांशवः | यथा तथा पुष्पितास्ते पाटलाख्या महीरुहाः || ४० || लवङ्गवल्लीसुरभिर्गन्धेनोद्वास्य मारुतम् | सम्मोहयति चेतांसि भृशं कामिजने पुरा || ४१ || वासन्तीवासितास्तत्र बल्वजाः किल रेजिरे | तद्गन्धलुब्धभ्रमरा रतिमिश्रा मनोहराः || ४२ || चारु पावकवर्चस्वि शिखराश्चूतशाखिनः | बभुर्मदनबाणौघ-पर्यकवदनावृताः || ४३ || अम्भांसि मलहीनानि रेजुः फुल्लकुशेशयैः | मुनीनामिव चेतांसि प्रव्यक्तज्योतिरुद्गमात् || ४४ || तुषाराः सूर्यरश्मीनां संगमादगमन् क्षयम् | ममत्वानीव विज्ञानशालिनां हृदयात्तदा || ४५ || निःशङ्काः कोकिलाः शब्दं तन्वते स्म तदान्वहम् | प्राणिव्यधनपुष्पेषु पुष्पज्याशब्दवत् भृशम् || ४६ || चुकूजुर्भ्रमरास्तत्र वनान्तर्गतपुष्पगाः | कान्तालीलाबुभुक्षोस्तु स्मरव्याघ्रस्य शब्दवत् || ४७ || चन्द्रस्तुषारवद्भानुर्नचैताः सकलाः कलाः | क्रमाद्वभार मोहाय जनानां कुशलं भुवि || ४८ || प्रसन्नाः सह चन्द्रेण निस्तुषारास्तदाभवन् | विभावर्यः प्रियेणेव कामिन्यः सुमनोहराः || ४९ || तस्मिन् काले महादेवः सह सत्या धरोत्तमे | रेमे च सुचिरं छन्नो निकुञ्जेषु दरीषु च || ५० || सापि तेन समं रेमे तथा दाक्षायणी शुभा | यथा हरः क्षणमपि शान्तिं नाप तया विना || ५१ || संभोगविषये देवी सती तस्य मनःप्रिया | विशतीव हरस्याङ्गे पाययन्तीव तद्रसम् || ५२ || तस्याः कुसुममालाभिर्भूषयन् सकलां तनुम् | स्वहस्तरचिताभिश्च वरं नर्म चकार सः || ५३ || आलापैर्वीक्षणैर्हासैस्तथा सम्भाषणैर्हरः | तस्यां विवेश गिरिशः संयमीवात्मसंविदम् || ५४ || तद्वक्त्रचन्द्रपीयूषपानस्थिरतनुर्हरः | नावाप शैषिकीं तन्वीमवस्थां स कदाचन || ५५ || तद्वक्त्राम्बुजवासेन तत्सौन्दर्यस्य नर्मभिः | गुणैरिव महादन्ती बद्धो नान्यद्विचेष्टते || ५६ || इति हिमगिरिकुञ्जे प्रस्थभागे दरीषु प्रतिदिनमधिरेमे दक्षपुत्र्या महेशः | ऋतुभुजपरिमाणैः क्रीडतस्तस्य जाता नव दश च मुनीन्द्रा वत्सरा पञ्च चान्ये || ५७ || इति श्रीकालिकापुराणे शिव-सती-विहार-वर्णने चतुर्दशोऽध्यायः || १४ || पञ्चदशोऽध्यायः मार्कण्डेय उवाच कदाचिदथ दक्षस्य तनया जलदागमे | जगदाद्रेः शिखरिणः प्रस्थस्थं वृषभध्वजम् || १ || सत्युवाच घनागमोऽयं सम्प्राप्तः कालः परमदुःसहः | अनेकवर्णमेघौघस्थगिताम्बरदिक्चयः || २ || विवान्ति वाता हृदयं दारयन्तोऽतिवेगिनः | कदम्बरजसाधौतपाथोलेशादिवर्षिणः || ३ || मेघानां गर्जितैरुच्चैर्धारासारं विमुञ्चताम् | विद्युत्पताकिनान्तीव्रैः क्षुब्धं कस्य न मानसम् || ४ || न सूर्यो दृश्यते नापि मेघाच्छन्नो निशापतिः | दिवापि रात्रिवद्भाति विरहिव्यत्ययाकरम् || ५ || मेघा नैकत्र तिष्ठन्तो ध्वनन्तः पवनेरिताः | पतन्त इव लोकानां दृश्यन्ते मूर्ध्नि शंकर || ६ || वाताहता महावृक्षा नृत्यन्त इव चाम्बरे | दृश्यन्ते हर भीरुणां त्रासकाः कामुकेप्सिताः || ७ || स्निग्धनीलाञ्जनश्याममुदिरौघस्य पृष्ठतः | वलाकाराजिर्भात्युच्चैर्यमुनाघूष्टफेनवत् || ८ || क्षणं क्षणं चञ्चलेयं दृश्यते कालिका गता | अम्बुधाविव सन्दीप्तः पावको बडवामुखः || ९ || प्ररोहन्ति हि शस्पानि मन्दिरप्राङ्गणेष्वपि | किमन्यत्र विरूपाक्ष शस्पोद्भूतिं वदाम्यहम् || १० || श्यामलै राजतैः कक्षैर्विशदोऽयं हिमाचलः | मन्दराश्रमवृक्षौघपत्रैर्दुग्धाम्बुधिर्यथा || ११ || कुसुमश्रीश्च कूटजं भेजे सास्याथ किंशुकान् | उच्चावचां कलौ लक्ष्मीर्यथा सन्त्यज्य सज्जनान् || १२ || मयूराः स्तनयित्नूनां शब्देन हर्षिता मुहुः | केकायन्ते प्रतिवनं सततं वृष्टिसूचकाः || १३ || मेघोन्मुखानां मधुरश्चातकानां स्वनो हरः | श्रूयतामतिमत्तानां वृष्टिसन्निधिसूचकः || १४ || गगने शक्रचापेन कृतं साम्प्रतमास्पदम् | धारासार-शरैस्तापं भेत्तुं प्रति यथोद्गतः || १५ || मेघानां पश्य भर्गेह दुर्नयं करकोत्करः | यत्तारयन्त्यनुगतं मयूरं चातकं तथा || १६ || शिखिसारङ्गयोर्दृष्ट्वा मित्रादपि पराभवम् | हंसा गच्छन्ति गिरिश विदूरमपि मानसम् || १७ || एतस्मिन् विषमे काले नीडं काकाश्च कोरकाः | कुर्वन्ति त्वं विना गेहात् कथं शान्तिमवाप्स्यसि || १८ || महती बाधते भीतिर्मां मेघोत्था पिनाकधृक् | यतस्व तस्माद्वासाय मा चिरं वचनान्मम || १९ || कैलासे वा हिमाद्रौ वा महाकौष्यामथ क्षितौ | तवोपयोग्यं त्वं वासं कुरुष्व वृषभध्वज || २० || एवमुक्तस्तदा शम्भुर्दाक्षायण्या तय सकृत् | इषज्जहास शीर्षस्थचन्द्ररश्मिसिताननः || २१ || अथोवाच सतीं देवीं स्मितभिन्नोष्ठसम्पूटः | महात्मा सर्वतत्त्वज्ञस्तोषयन् परमेश्वरीम् || २२ || ईश्वर उवाच यत्र प्रीत्यै मया कार्यो वासस्तव मनोहरे | मेघास्तत्र न गन्तारः कदाचिदपि मत्प्रिये || २३ || मेघा नितम्बपर्यन्तं सञ्चरन्ति महीभृतः | सदा प्रालेयधाम्नस्तु वर्षास्वपि मनोहरे || २४ || कैलासस्य तथा देवी यावदामेखलं घनाः | सञ्चरन्ति न गच्छन्ति तस्मादूर्ध्वं कदाचन || २५ || सुमेरोर्वारिधेरूर्ध्वं न गच्छन्ति बलाहकाः | जानुमूलं समासाद्य पुष्करावर्तकादयः || २६ || एतेषु च गिरीन्द्रेषु यस्योपरि तवेहते | मनः प्रिये निवासाय तमाचक्ष्व द्रुतं मयि || २७ || स्वेच्छाविहारैस्तव कौतुकानि सुवर्णपक्षानिलवृन्दवृन्दैः | शकुन्तवर्गैर्मधुरस्वनैस्ते सदोपदेयानि गिरौ हिमोत्थे || २८ || सिद्धाङ्गनास्ते सखितां सनातनीमिच्छन्त्य एवोपकृतिं सकौतुकाम् | स्वेच्छाविहारैर्मणिकुट्टिमे गिरौ कुर्वन्त्य एष्यन्ति फलादिदानकैः || २९ || या देवकन्या गिरिकन्यकाश्च या नागकन्याश्च तुरङ्गमुख्यः | सर्वास्तु तास्ते सततं सहायतां समाचरिष्यन्त्यनुमोदविभ्रमैः || ३० || रूपं तवेदमतुलं वदनं सुचारु दृष्ट्वाङ्गना निजवपुर्निजकान्तिसंघम् | हेलां निजे वपुषि रूपगुणेषु नित्यं कर्तार इत्यनिमिषेक्षणचारुरूपाः || ३१ || या मेनका पर्वतराजजाया रूपैर्गुणैः ख्यातवती त्रिलोके | सा चापि ते तत्र मनोनुमोदं नित्यं करिष्यत्यथ सूचनाद्यैः || ३२ || पुरन्ध्रिवर्गैर्गिरिराजवन्द्यैः प्रीतिं वितन्वद्भिरुदाररूपाम् | शिक्षा सदा ते स्वकुलोचितापि कार्यान्वहं प्रीतियुता गुणौघैः || ३३ || विचित्रकोकिलालालापमोदकुञ्जगणावृतम् | सदा वसन्तप्रभवं गन्तुमिच्छसि किं प्रिये || ३४ || नाना स्वच्छजलापूर्णं सरःशतसमावृतम् | पद्मिनीशतसंयुक्तमचलेन्द्रं हिमालयम् || ३४ अ || सर्वकामप्रदैर्वृक्षै शाद्वलः कल्पसंज्ञकैः | सञ्छन्नं यस्य कुसुमान्युपयोक्ष्यसि तत्र वै || ३५ || प्रशान्तश्वापदगणं मुनिभिर्यतिभिर्वृतम् | देवालयं महाभागे नानामृगगणैर्वृतम् || ३६ || स्फटिकस्वर्णवप्राद्यै राजतैश्च विराजितम् | मानसादिसरोवर्गैरभितः परिशोभितम् || ३७ || हिरन्मयै रत्ननालैः पंकजैर्मुकुलैर्वृतम् | शिशुमारैस्तथा शंखैः कच्छपैर्मकरैर्झषैः | निषेवितैर्मञ्जुलैश्च तथानीलोत्पलादिभिः || ३८ || देवीशतस्नानसक्तसर्वगन्धैश्च कुङ्कुमः | विचित्रस्रग्गन्धजलैरापूर्णैः स्वच्छकान्तिभिः || ३९ || शाद्वलैस्तरुभिस्तुङ्गैस्तीरस्थैरूपशोभितैः | नृत्यद्भिरिव शाखौर्षैर्व्यजयन्तं स्वसम्भवम् || ४० || कादम्बैः सारसैर्मत्तचक्राङ्गग्रामशोभितैः | मधुराराविभिर्मोदकारिभिर्भ्रमरादिभिः || ४१ || वासवस्य कुबेरस्य यमस्य वरुणस्य च | अग्नेः कौणपराजस्य मारुतस्य हरस्य च || ४२ || पुरीभिः शोभिशिखरं मेरुमुच्चैः सुरालयम् | रम्भाशचीमेनकादिरम्भोरुगणसेवितम् || किं त्वमिच्छसि सर्वेषां सारभूतं महागिरिम् || ४३ || तत्र देवीशतयुता साप्सरोगणसेविता | नित्यं चरिष्यति शची तव योग्यां सहायताम् || ४४ || अथवा मम कैलासमचलेन्द्रं सदाश्रयम् | स्थानमिच्छसि वित्तेशपुरीपरिविराजितम् || ४५ || गङ्गाजलौघप्रयतं पूर्णचन्द्रसमप्रभम् | दरीषु सानुषु सदा यक्षकन्याभिरीहितम् || ४६ || नानामृगगणैर्जुष्टं पद्माकरशतावृतम् | सर्वैर्गुणैश्च सदृशं सुमेरोरिव सुन्दरि || ४७ || स्थानेष्वेतेषु यत्रास्ति तवान्तःकरणस्पृहा | तद्द्रुतं मे समाचक्ष्व वासं कर्तास्मि तत्र ते || ४८ || मार्कण्डेय उवाच इतीरिते शंकरेण तदा दाक्षायणी शनैः | इदमाह महादेवं श्लक्ष्णं स्वेच्छाप्रकाशकम् || ४९ || सत्युवाच हिमाद्रावेव वसतिमहमिच्छे त्वया सह | न चिरात् कुरु वासं त्वं तस्मिन्नेव महागिरौ || ५० || मार्कण्डेय उवाच अथ तद्वाक्यमाकर्ण्य हरः परममोदितः | हिमाद्रिशिखरं तुङ्गं दाक्षायण्या समं ययौ || ५१ || सिद्धाङ्गनागणयुक्तमगम्यं मेघपक्षिभिः | जगाम शिखरं तुङ्गं मरीचवनराजितम् || ५२ || इति श्रीकालिकापुराणे हिमाद्रिनिवालयवनं पञ्चदशोऽध्यायः षोडशोऽध्यायः मार्कण्डेय उवाच विचित्रं कनकै रूप्यैः शिखरं रत्नकर्बुरम् | वालार्कसदृशं तुङ्गमाससाद सतीसखः || १ || स्फटिकाश्मलये तस्मिन् शाद्वलद्रुमराजिते | विचित्रपुष्पबल्लीभिः सरसीभिश्च संयुते | प्रफुल्लतरुशाखाग्रगुञ्जद्भ्रमरभूषिते || २ || पङ्केरुहैः प्रफुल्लैश्च नीलोत्पलचयैस्तथा | शोभिते चक्रवाकौघैः कादम्बैर्हंसमद्गुभिः || ३ || प्रमत्तसारसैः क्रौञ्चैर्नीलकण्ठैश्च शब्दिते | पुंस्कोकिलकलस्वानैर्मधुरैर्मूगसेविते || ४ || तुरङ्गवदनैः सिद्धैरप्सरोभिः सगुह्यकैः | विद्याधरीभिर्देवीभिः किन्नरीभिर्विहारिते | पुरन्ध्रीभिः पार्वतीभिः कन्याभिश्च समन्विते || ५ || विपञ्चीतन्त्रिकामन्द्रमृदङ्गपटहस्वनैः | नृत्यद्भिरप्सरोभिश्च कौतुकोत्थैः सुशोभिते || ६ || दैवीलताभिर्दिव्याभिर्गन्धिनीभिः समावृते | ऊर्ध्वप्रफुल्लकुसुमैर्निकुञ्जैरूपशोभिते || ७ || शैलराजपुराभ्यासे शिखरे वृषभध्वजः | सह सत्या चिरं रेमे एवम्भूते सुशोभने || ८ || तस्मिन् स्वर्गसमे स्थाने दिव्यमानेन शंकरः | दश वर्षसहस्राणि रेमे सत्या समं मुदा || ९ || स कदाचित्तु तत्स्थानात् कैलासं याति शंकरः | कदाचिन्मेरुशिखरं देवदेवीवृतं पुरा || १० || दिक्पालानां तथोद्यानं वनानि वसुधातलम् | गत्वा गत्वा पुनस्तत्र रेमे तेभ्यः सतीसखः || ११ || न जज्ञे स दिवारात्रं न ब्रह्म न तपः शमम् | सत्याहितमना शम्भुः प्रीतिमेव चकार ह || १२ || एकं महादेवमुखं सती पश्यति सर्वशः | महादेवोऽपि सर्वत्र सदाद्राक्षीत सतीमुखम् || १३ || एवमन्योन्यसंसर्गादनुरागमहीरुहम् | वर्धयामासतुः शम्भुसत्यौ भावाम्बुसेचनैः || १४ || एतस्मिन्नन्तरे सक्षो जगतां हितकारकः | महायज्ञं समारेभे यष्टुं वै सर्वजीवनम् || १५ || अष्टाशीति-सहस्राणि यत्र जुह्वति ऋत्विजः | उद्गातारश्चतुः षष्टिसहस्राणि सुरर्षयः | अध्वर्यवोऽथ होतारस्तावन्तो नारदादयः || १६ || अधिस्थाता स्वयं विष्णुः सह सर्वमरुद्गणैः | स्वयं तत्राभवद् ब्रह्मा त्रयीविधिनिदर्शकः || १७ || तथैव सर्वदिक्पाला द्वारपालाश्च रक्षकाः | उपतस्थे स्वयं यज्ञः स्वयं वेदी धराभवत् || १८ || तनूनपादपि निजं चक्रे रूपं सहस्रशः | हविषां ग्रहणायाशु तस्मिन् यज्ञमहोत्सवे || १९ || आमन्त्र्याशु मरीच्याद्याः पवित्रैकैकधारिणः | सर्वत्र सामिधेन्या ते ज्वालयामासुरर्च्चिषम् || २० || सप्तर्षयः सामघाथाः कुर्वन्ति स्म पृथक् पृथक् | गान्दिशो विदिशः खञ्च पूरयन्तः श्रुतिस्वरैः || २१ || न वृतास्तत्र यागेषु दक्षेण सुमहात्मना | न केचिदृषयो देवा न मनुष्या न पक्षिणः | नोद्भिदो न तृणं वापि पशवो न मृगास्तथा || २२ || गन्धर्वविद्याधरसिद्धसंघानादित्यसाध्यर्षिगणान् सयक्षान् | सस्थावरान्नागवरान् समस्तान् वव्रे स दक्षः सुमहाध्वरेषु || २३ || कल्प-मन्वन्तरयुग-वर्ष-मास-दिवा-निशाः | कला-काष्ठा-निमेषाद्या वृताः सर्वे समागताः || २४ || महर्षिराजर्षिसुरर्षिसङ्घा नृपाः सपुत्राः सचिवैः ससैन्यैः | वसुप्रमुख्या गणदेवता याः सर्वा वृतास्तेन गता मखं तम् || २५ || कीटाः पतङ्गा जलजाश्च सर्वे सवानराः श्वापदविघ्नघोराः | मेघाः सशैलाः सनदीसमुद्राः सरांसि वाप्यश्च गता वृतास्ते || २६ || सर्वे स्वभागं हविषां जिवृक्षवः ऋतुं प्रजग्मुर्दृढयज्विनस्ते | पातालवासा असुराः समागता नागस्त्रियो देवसभाः समस्ताः || २७ || जगद्वर्त्यस्ति यत्किञ्चच्चेतनाचेतनं पुनः | सर्वं वृत्वा समारेभे यज्ञं सर्वस्व दक्षिणम् || २८ || तस्मिन् यज्ञे वृतः शम्भुर्न दक्षेण महात्मना | कपालीति विनिश्चित्य तस्य यज्ञार्हता न हि || २९ || कपालिभायेर्ति सती दयितापि सुता निजा | नाहूता यज्ञविषये दक्षेण दोषदर्शिना || ३० || श्रुत्वा सती तथा यज्ञं तातेनारब्धमुत्तमम् | कपालिभायेर्ति वृता नाहमित्यपि तत्त्वतः || ३१ || उच्चैश्चुकोप दक्षाय रक्तनेत्रानना तदा | शापेन दक्षं दघुं च मनश्चक्रे तदा सती || ३२ || कोपाविष्टापि सा पूर्वसमयं स्मृतवत्यमुम् | मनसेति विनिश्चित्य न शशाप तदा सती || ३३ || अलं शापेन मे पूर्वं सुदृढः समयः कृतः | अस्तीति मययवज्ञायां प्राणान् मोक्ष्ये ध्रुवं पुनः || ३४ || यदा स्तुताहं दक्षेण सुचिरं तनयार्थिना | तदैव समयो मेऽयं शापेनालंकरोमि तम् || ३५ || इति सञ्चिन्त्य सा देवी नित्यरूपमथात्मनः | सस्मारातुलमत्युग्रं निष्कलं तु जगन्मयम् || ३६ || पूर्वरूपं स्मरन्ती सा योगनिद्राह्वयं हरेः | एवं सञ्चिन्तयामास मनसा दक्षजा तदा || ३७ || ब्रह्मणोदितदक्षेण यदर्थमहमीडिता | तत् किञ्चिदपि नोज्ञातं शंकरोऽपि न पुत्रवान् || ३८ || इदानीमेकमेवाभूत् कार्यं देवगणस्य च | यच्छंकरः सानुरागो मत्कृतेऽभूच्च योपिति || ३९ || मत्तो नान्या पुनः शम्भो रागं वर्धयितुं पुनः | शक्ता न कापि भविता स नान्यां संग्रहीष्यति || ४० || तथाप्यहं तनुं त्यक्षे समयात् पूर्वयोजितात् | हिताय जगतां कुर्यां प्रादुर्भावं पुनर्गिरौ || ४१ || पुरा हिमवतः प्रस्थे रम्ये देवगृहोपमे | शम्भुः सार्धं मया रन्तुं सुचिरं प्रीतिसंयुतः || ४२ || तत्र या मेनका देवी चार्वङ्गी चरितव्रता | सुशीला सा पुरस्त्रीणामुत्तमा पावतीगणे || ४३ || सा मां मातृवदाचष्ट सर्वकर्मसु नर्मकम् | तस्यां मेऽत्यनुरागोऽभूत् सा मे माता भविष्यति || ४४ || कन्याभिश्च पार्वतीभिश्च पार्वतीभिश्च बाल्यक्रीडामहं चिरम् | कृत्वा कृत्वा मेनकायाः करिष्ये मोदमुत्तमम् || ४५ || पुनश्चाहं भविष्यामि शम्भोजायातिवल्लभा | करिष्ये देवकार्याणि तदुपायादसंशयम् || ४६ || इति सञ्चिन्तयन्ती सा पुनः कोपसमावृता | जज्वाल दक्षतनया दक्षदारुणकर्मणा || ४७ || क्रोधरक्तेक्षणा तत्र तनुयष्टिस्तदा सती | स्फोटञ्चकार द्वाराणि सर्वाण्यावृत्य योगतः || ४८ || तेन स्फोटेन महता तस्यास्तु प्राणवायवः | निर्भिद्य दशमद्वारमात्मनस्ते बहिर्ययुः || ४९ || त्यक्तप्राणान्तु तां दृष्ट्वा देवाः सर्वेऽन्तरिक्षगाः | हाहाकारं तदा चक्रुः शोकव्याकुलितेक्षणाः || ५० || ततस्तु सत्या भगिनीसुता तां द्रष्टुमागता | चुक्रोश शोकाद्विजया मृतां दृष्ट्वा सतीं महुः || ५१ || हा सती क्व गतासीति हा सती तव किन्विदम् | हा मातृष्वसरित्युच्चैस्तदा शब्दो महानभूत् || ५२ || विप्रियश्रवणादेव प्राणांस्त्यक्तास्त्वया सति | अहं कथन्तु जीवामि दृष्ट्वेदृग्विप्रियं दृढम् || ५३ || पाणिना वदनं सत्या मार्जयन्ती मुहुर्मुहुः | करुणं विलपन्ती स्म मुखं जिघ्रति सा तदा || ५४ || सिञ्चन्ती नेत्रजैस्तोयैः सत्याः सा हृदयं मुखम् | केशानुल्लास्य पाणिभ्यां वीक्षन्ती वदनं मुहुः || ५५ || ऊर्ध्वाधःकम्पितशिराः शोकव्याकुलितेन्द्रिया | हृदयं पञ्चशाखाभ्यां विनिहन्ती तथा शिरः || ५६ || इदं च वचनं साश्रुकण्ठा सा विजयाऽब्रवीत् | श्रुत्वा ते मरणं माता वीरिणी शोककर्षिता || ५७ || धारयन्ती कथं प्राणान् सद्यस्त्यक्ष्यति जीवितम् | स तथा निरनुक्रोशः क्रूरकर्मा पिता तव || ५८ || प्रमीतां भवतीं श्रुत्वा कथं धास्यति जीवितम् | विचिन्त्य नूनं कर्माणि स्वीयानि भवतीं प्रति | कृतानि स नृशंसानि दक्षः शोकाकुलस्तदा || ५९ || यज्वा स च ज्ञानहीनः कथं यज्ञे प्रवर्तते | निःश्रद्धस्त्यक्तबुद्धिश्च कथं वा स भवेत् क्रतौ || ६० || हा मातर्देहि वचनं रुदन्त्या बालवन्मम | भवत्या निर्दया शोकाद् ध्रिये शल्यसमानसून् || ६१ || त्वं किं स्मरसि मे शम्भोर्विहितस्य कदाचन | तेनामर्षवशं प्राप्ता मातर्मां किन्न भाषसे || ६२ || तदेव वचनं चक्षुर्मुखं सा नासिका तव | एतेषां क्व गता सर्वे विभ्रमा हसितं क्व च || ६३ || ननु ते विभ्रमैर्हीनं नेत्रयुग्मं सुनासिकम् | स्मितहीनं च वदनं दृष्ट्वा सोढा कथं हरः || ६४ || का सुधासम्मितं वाक्यं हराश्रमसमागतान् | सुनृतं त्वामृते मातर्वदिष्यति मुहुर्मुहुः || ६५ || श्रद्धावती बान्धवेषु पत्युर्भाववशानुगा | सर्वलक्षणसम्पूर्णा तत्समा का भविष्यति || ६६ || त्वदृते देवि देवेशः शोकोपहतचेतनः | दुःखितात्मा निरुत्साहो निश्चेष्टश्च भविष्यति || ६७ || एवं लपन्ती भृशदुःखिता सतीं मृतां समीक्ष्यातिशयं शुचाहता | पपात भूमौ विजया विरावं वितन्वती चोर्ध्वभुजा प्रवेपती || ६८ || इति श्रीकालिकापुराणे सतीदेह-त्यागो नाम षोडषोऽध्यायः || १६ || सप्तदशोऽध्यायः मार्कण्डेय उवाच एतस्मिन्नन्तरे शंभुः शोभने मानसे ह्रदे | समाप्य सन्ध्यामायातः स्वमाश्रमपदं प्रति || १ || आगच्छन्नेव संरावं विजयाया वृषध्वजः | शुश्राव दारुणं तीव्रं चकितश्च ततोऽभवत् || २ || तत उक्ष्णा बलवता मनोमारुतरंहसा | स्वमाश्रमपदं शर्व आससाद त्वरान्वितः || ३ || आसाद्य देवीं दयितां तदा दाक्षायणीं हरः | मृतां दृष्ट्वापि न जहौ मृतेऽतिप्रियभावतः || ४ || ततो निरीक्ष्य वदनमामृज्य च पुनः पुनः | पप्रच्छ कस्मात् सुप्तासीत्येवं द्राक्षायणीं मुहुः || ५ || ततो भर्गवचः श्रुत्वा तदा तद्भगिनीसुता | विजया प्राह निधनं दाक्षायण्या यथा तथा || ६ || विजयोवाच दक्षः कर्तुं क्रतुं शम्भो देवान् सर्वान् सवासवान् | आजुहाव तथा दैत्यान् राक्षसान् सिद्धगुह्यकान् || ७ || ब्राह्मणानथ गोविन्दमिन्द्रादीनपि दिक्पतीन् | देवयोनींस्तथा सर्वान् साध्यविद्याधरादिकान् || ८ || नाहूतानि क्रतौ तेन यानि सत्त्वानि शंकर | तानि दक्षेण नो सन्ति समस्तभुवनेष्वपि || ९ || एवं प्रविततं यज्ञं श्रुत्वैषा वचनान्मम | विमृष्यवत्यनाह्वाने हेतुं शम्भोरथात्मनः || १० || चिन्तयानां तथाहं तां सतीं ज्ञात्वा यथाश्रुतम् | उक्तवत्यस्मि भूतेश यज्ञानाह्वानकारणम् || ११ || शम्भुः कपाली तज्जाया तत्संसर्गाद्विगर्हिता | अतः शम्भुः सती चापि नाध्वरे मे मिलिष्यतः || १२ || इत्यनाह्वानहेतुर्मे श्रुतपूर्वः पुरा मुखात् | दक्षस्य वीरिणीं श्लक्ष्णां गदतस्तस्य मन्दिरे || १३ || एतच्छ्रुत्वा मम वचः सा विवर्णमुखी क्षितौ | उपविष्टा न मां किंचिदुक्ता कोपपरायणा || १४ || बभूव वदनं तस्यास्तत्क्षणात् सरूपं हर | भ्रुकुटीकुटिलं श्यामं यथा खं धूमकेतुना || १५ || सा मुहूर्तमिव ध्यात्वा स्फोटेन महता ततः | प्राणानुदसृजच्चैषा भित्त्वा मूर्द्धानमात्मनः || १६ || मार्कण्डेय उवाच इति श्रुत्वा वचस्तस्या विजयाया वृषध्वजः | अतीव कोपादुत्तस्थौ दिधक्षुरिव पावकः || १७ || तस्य कोपपरीतस्य कर्णनासाक्षिवक्त्रतः | घोरा जलन्त्यः कणिकाः सृजन्त्योऽग्नेर्महारवम् | उल्का विनिःसृता वह्वयः कल्पान्तादित्यवर्चसः || १८ || अथ तत्र जगामाशु दक्षो यत्र महातपाः | यज्ञञ्चक्रे हरो गत्वा यज्ञवाटाद् बहिःस्थितः || १९ || तं यज्ञं ददृशे भर्गः कोपेन महतावृतः | महाधनसमापन्नं पात्रीयूपादिभिर्वृतम् || २० || हुताज्याहुतिसंवृद्धं दीप्तवह्निविराजितम् | यथास्थानस्थितान् सर्वान् दिक्पालान् सायुधध्वजान् || २१ || विधातारं तथा विष्णुं यज्ञमध्ये व्यवस्थितम् | ददर्श कुपितः शम्भुस्तान् दृष्ट्वातीव कोपतः || २२ || भगं सूर्यं तथा सोमं भार्याभिः सह संवृतम् | सहस्राक्षं गौतमं च पूर्वे भागे व्यवस्थितम् || २३ || सनत्कुमारमात्रेयं भार्गवं विनतासुतम् | मरुद्गणांस्तथा साध्यानाग्नेयं जातवेदसम् || २४ || कालं च चित्रगुप्तञ्च कुम्भयोनिं सगालवम् | विश्वेदेवांस्तथा सर्वान् कव्यवाहादिकान् पितृन् || २५ || अग्निष्वात्तादिकान् सर्वान् भूतग्रामं चतुर्विधम् | भौमं प्रेतगणान् सिद्धान् दक्षिणाशां व्यवस्थितान् || २६ || रक्षांसि च पिशाचांश्च भूतानि मृगपक्षिणः | क्रव्यादान् क्षुद्रजन्तूंश्च तथा पुण्यजनेश्वरम् || २७ || महर्षि मौद्गलं राहुं नैरृत्यां किन्नरांस्तथा | महोरगांस्तथा नक्रान् मत्स्यान् ग्राहांश्च कच्छपान् | समुद्रान् सप्तसिन्धूंश्च नदीस्तीर्थानि गुह्यकान् || २८ || मानसादि ह्रदान् सर्वान् गंगांजम्बूनदीं तथा | कामं मधुं वसन्तं च वरुणञ्च सहानुगम् || २९ || शनैश्चरं गिरीन् सर्वान् पश्चिमाशाव्यवस्थितान् | प्राणादिपंचवायूंश्च सगणञ्च समीरणम् | कल्पद्रुमान् हिमाद्रिञ्च कश्यपञ्च महामुनिम् || ३० || वायव्यां कमलाव्रातं फलानि च कलानिधिम् | नानारत्नानि हैमानि मनुष्यान् पर्वतांस्तथा || ३१ || हिमाद्रिमुख्या यक्षाश्च स्थूणकर्णादयो बुधाः | नलकूबेरेण सहितो यक्षरान्नरवाहनः || ३२ || ध्रुवो धरश्च सोमश्च विष्णुश्चैवानिलोऽनलः | प्रत्यूषश्च प्रभासश्च कौवेरीं संस्थितानिमान् || ३३ || वृषध्वजं विना सर्वान् रुद्रान् जीवं मनूंस्तथा | विविधान् बाहुजान् वैश्यान्शूद्रानपि समन्ततः || ३४ || ऐशान्यां विविधान्नानि व्रीहीनपि तिलानपि | ऐशानीपूर्वयोर्मध्ये ब्रह्मर्षीन् संशितव्रतान् || ३५ || महर्षींश्चतुरो वेदान् वेदाङ्गानि तथैव षट् | नेरृत्यपश्चिमान्तस्थमनन्तं श्वेतपर्वतम् || ३६ || काद्रवेयसहस्रेण सहितान् सप्तभोगिनः | केतुं तत्रैव कुष्माण्डं डाकिनीगणसंयुक्तम् || ३७ || तथा जलधरानन्यान्नानावर्णान् सविद्युतान् | दिग्गजानपि तत्रस्थानैरावतमुखान् हरः || ३८ || यथास्थानस्थितान् सर्वान्दिक्करिण्या च संयुतान् | तमेवं दूरतो दृष्ट्वा यज्ञवाटं महाधनम् | वीरभद्राह्वयं तूर्ण प्रेषयामास तं प्रति || ३९ || वीरभद्रोऽपि बहुभिः संवृतो विविधैर्गणैः | व्यध्वंसयत्ततो यज्ञं दक्षस्य सुमहात्मनः || ४० || विकुर्वन्तं महायज्ञं वीरभद्रं समीक्ष्य वै | वारयामास वैकुण्ठः सर्वदेवगणावृतः || ४१ || तं वार्यमाणं दृष्टैव क्रोधसंरक्तलोचनः | स्वयं विवेश तं यज्ञं ध्वंसयामास चेश्वरः || ४२ || विशन्तमेव तं यज्ञे प्रथमं पुरतो भगः | बाहू वितत्य भूतेशमाससाद त्वरान्वितः || ४३ || तमागतमभिप्रेक्ष्य भर्गोऽपि भृशरोषितः | अंगुल्यग्रप्रहारेण तस्य नेत्रे जघान ह || ४४ || हीननेत्रं भगं दृष्ट्वा विरूपाक्षं दिवाकरः | स्पर्द्धमानस्ततः सर्वमाससाद त्वरान्वितः || ४५ || ततः सूर्यं महादेवः पाणौ धृत्वा करेण च | दूरकृत्यातिकुपितो यज्ञमेवाभ्यधावत || ४६ || मार्तण्डश्च हसन् वेगाद्वितत्य विपुलौ भुजौ | एहि योत्स्ये त्वयेत्युक्त्वा तमग्रे प्रत्यवारयत् || ४७ || हसतस्तस्य सूर्यस्य क्रोधेन वृषभध्वजः | दन्तान् करप्रहारेण शातयामास वक्तृतः || ४८ || विदन्तं मिहिरं दृष्ट्वा हीननेत्रं भगं तथा | सर्वे देवाश्च ऋषयो ये चान्ये तत्र दुद्रुवुः || ४९ || विद्राव्य सर्वान् देवादीन् हरः परमकोपनः | मृगरूपेनापयान्तं यज्ञमेवान्वपद्यत || ५० || यज्ञोऽप्याकाशमार्गेण ब्रह्मस्थानं विवेश ह | वृषध्वजोऽपि कुपितो ब्रह्मस्थानं जगाम ह || ५१ || ब्रह्मणः सदनाद् यज्ञो भीतो भर्गादवातरत् | अवतीर्य सतीदेहं प्रविवेश स्वमायया || ५२ || भर्गोऽपि दक्षदुहितुर्मृताया निकटं यतः | अन्वगच्छतदा यज्ञं ददर्श च सतीशवम् || ५३ || मृतां दृष्ट्वा तदा देवीं हरो दाक्षायणीं सतीम् | विस्मृत्य यज्ञं तत्प्रान्ते स्थितो वाडं शुशोच तान् || ५४ || बहुविधगुणवृन्दं चिन्तयञ्छूलपाणिर्ललितदशनपंक्तिं वक्तृमब्जप्रकाशम् | अरुणदशनवस्त्रं भ्रूयुगं वीक्ष्य तस्याः खरतरपृथुशोकव्याकुलोऽसौ रुरोद || ५५ || इति श्रीकालिकापुराणे दक्षयज्ञभङ्गे सप्तदशोऽध्यायः || १७ || अष्टादशोऽध्यायः मार्कण्डेय उवाच दाक्षायणीगुणगणान् गणयन् गोरङ्गस्तदा | विललापातिदुःखार्तो मनुजः प्राकृतो यथा || १ || विलपन्तं तदा भर्गं विज्ञाय मकरध्वजः | रतीवसन्तसहित आससाद महेश्वरम् || २ || तं शुचातिपरिभ्रष्टं युगपत् स रतिपतिः | जघान पंचभिर्वाणै रुदन्तं भ्रष्ठचेतनम् || ३ || शोकाभिहतचित्तोऽपि स्मरबाण-समाकुलः | संकीर्णभावमापन्नः शुशोच च मुमोह च || ४ || क्षणं भूमौ निपतति क्षणमुत्वाय धावति | क्षणं भ्रमति तत्रैव निमीलति विभुः पुनः || ५ || ध्यायन् दाक्षायणीं देवीं हसमानः कदाचन | परिष्वजति भूमिष्ठां रसभावैरिव स्थिताम् || ६ || सतीसतीति सततं नाम व्याहृत्य शंकरः | मानं त्यज वृथेत्येवमुक्त्वा स्पृशति पाणिना || ७ || पाणिनापरिमार्ज्यैनामलंकारान् यथास्थितान् | तस्या विश्लिष्य च पुनस्तत्रैवानुयुयोज च || ८ || एवं कुर्वति भूतेशे मृता नोवाच किञ्चन | यदा सती तदा भर्गः शोकाद्गाढं रुरोद ह || ९ || रुदतस्तस्य पततो वाष्पान् वीक्ष्य तदा सुराः | ब्रह्मादयः परां चिन्तां जग्मुश्चिन्तापरायणाः || १० || वाष्पाः पतन्तो भूमौ चेद्दहेयुः पृथिवीमिमाम् | उपायस्तत्र कः कार्य इति हाहेति चुक्रुशुः || ११ || ततो विमृष्यते देवा ब्रह्माद्यास्तु शनैश्चरम् | तुष्टुवुर्मूढभर्गस्य वाष्पधारणकारणात् || १२ || देवा ऊचुः शनैश्चर महाभाग लोकानुग्रहकारक | मूलशक्तिसमुद्भूत नमस्ते सूर्यसम्भव || १३ || नमस्ते शूलहस्ताय पाशहस्ताय धन्विने | तथा वरदहस्ताय तमश्छायात्मजाय ते || ४ || नीलमेघ-प्रतीकाश भिन्नाञ्जनचयोपम | नमस्ते सर्वलोकानां प्राणधारणहेतवे || १५ || गृध्रध्वज नमस्तेऽस्तु प्रसीद भगवन् दृढम् | वाष्पेभ्यः शोकजेभ्यश्च पाहि भर्गस्य नः क्षितिम् || १६ || यथा पुरा शतं वर्षानवजग्राह वर्षणम् | भवानेव तु मेघेभ्यस्तथा कुरु हराम्बुनि || १७ || तवचापां ग्रहं दृष्ट्वा मेघास्ते पुष्करादयः | मुमुचुः सततं वर्षं महेन्द्रस्य किलाज्ञया || १८ || आकाश एव वर्षाम्भस्तत्सर्वं भवता पुरा | विनाशितं यथा वाष्पं तथा नाशय शूलिनः || १९ || न त्वामृतेऽन्यः शक्तोऽस्ति हरवाष्पनिवारणे | दहेत् सदेवगन्धर्वब्रह्मलोकान् सपर्वतान् | पृथिवीं पतितो वाष्पस्तस्माद्धारय मायया || २० || मार्कण्डेय उवाच इत्येवम्भाषणमाणेषु देवेषु मिहिरात्मजः | प्रत्युवाच स तान् देवान्नातिहृष्टमना इव || २१ || शनैश्चर उवाच करिष्ये भवतां कर्म यथाशक्ति सुरोत्तमाः | तथा किन्तु विदधं हि न मां वेत्ति यथा हरः || २२ || दुःखशोकाकुलस्यास्य समीपे वाष्पधारिणः | कोपान्नश्येच्छरीरं मे नियतं नात्र संशयः || २३ || तस्माद् यथा मां भूतेशो न जानाति सतीपतिः | तथा कुरुध्वं नेत्रेभ्यो हरलोतकधारिणम् || २४ || मार्कण्डेय उवाच ततो ब्रह्मादयो देवास्ते सर्वे शंकरान्तिकम् | गत्वा हर सन्मुमुहुः सासार्या योगमायया || २५ || शनैश्चरोऽपि भूतेशमासाद्यान्तर्हितस्तदा | वाष्पवृष्टिं दुराधर्षामवजग्राह मायया || २६ || यदा स नाशकद्वाष्पान् सन्धारयितुमर्कजः | तदा महागिरौ क्षिप्ता वाष्पास्ते जलधारके || २७ || लोकालोकस्य निकटे जलधाराह्वयो गिरिः | पुष्करद्वीपपृष्ठस्थस्तोयसागर पश्चिमे || २८ || स तु सर्वप्रमाणेन मेरुपर्वतसन्निभः | तस्मिन् विन्यस्तवान् वाष्पांस्तदाशक्तः शनैश्चरः || २९ || स पर्वतोऽपि तान् वाष्पान्न धर्तुं क्षम ईशितुः | विदीर्णस्तैस्तु वाष्पौघैर्भग्नमध्योऽभवदद्रुतम् || ३० || ते वाष्पाः पर्वतं भित्वा विविशुस्तोयसागरम् | सागरोऽपि ग्रहीतुं तन्न शशाक खरानति || ३१ || ततस्तु सागरं मध्ये भित्वा वाष्पाः समागताः | तोयधेः प्राग्भवां वेलां स्पर्शमात्राद्विभेद ताम् || ३२ || विभिद्य वेलां ते वाष्पाः पुष्करद्वीपमध्यगाः | नदी भूत्वा वैतरणी पूर्वसागरगाभवत् || ३३ || जलधारस्य भेदेन संसर्गात् सागरस्य च | अवाप्य सौम्यतां किंचिद्वाष्पास्ते नाभिन्दन् क्षितिम् || ३४ || वैवस्वतपुरद्वारे योजनद्वयविस्तृता | अद्यापि तिष्ठत्यपगा हरलोतकसम्भवा || ३५ || अथ शोकविमूढात्मा विलपन् वृषभध्वजः | जगाम प्राच्यदेशांस्तु स्कन्धे कृत्वा सतीशवम् || ३६ || उन्मत्तवद्गच्छतोऽस्य दृष्ट्वा भावं दिवौकसः | ब्रह्माद्याश्चिन्तयामासुः शवभ्रंशनकर्मणि || ३७ || हरगात्रस्य संस्पर्शाच्छवो नायं विशीर्णताम् | गमिष्यति कथं तस्मादस्य भ्रंशो भविष्यति || ३८ || इति सञ्चिन्तयन्तस्ते ब्रह्मविष्णुशनैश्चराः | सतीशवान्तर्विविशुरदृश्या योगमायया || ३९ || प्रविश्याथ शवं देवा खण्डशस्ते सतीशवम् | भूतले पातयामासुः स्थाने स्थाने विशेषतः || ४० || देवीकूटे पादयुग्मं प्रथमं न्यपतत् क्षितौ | उड्डीयाने चोरुयुग्मं हिताय जगतां ततः || ४१ || कामरूपे कामगिरौ न्यपतद्योनिमण्डलम् | तत्रैव न्यपतद्भूमौ पर्वते नाभिमण्डलम् || ४२ || जालन्धरे स्तनयुगं स्वर्णहारविभूषितम् | अंशग्रीवं पूर्णगिरौ कामरूपा ततः शिरः || ४३ || यावद्भुवं गतो भर्गः समादाय सतीशवम् | पाच्येषु याज्ञिको देशस्तावदेव प्रकीर्तितः || ४४ || अन्ये शरीरावयवा लवशः खण्डिताः सुरैः | आकाशगंगामगमन् पवनेन समीरिताः || ४५ || यत्र यत्रापतन् सत्यास्तदापादादयो द्विजाः | तत्र तत्र महादेवः स्वयं लिंगस्वरूपधृक् | तस्थौ मोहसमायुक्तः सतीस्नेहवशानुगः || ४६ || ब्रह्मविष्णुशनिश्चापि सर्वे देवंगणास्तथा | पूजयाञ्चक्रुरीशस्य प्रीत्या सत्याः पदादिकम् || ४७ || देवीकूटे महादेवी महाभागेति गीयते | सतीपादयुगे लीना योगनिद्रा जगत्प्रसूः || ४८ || कात्यायनी चोड्डीयाने कामाख्या कामरूपिणी | पूर्णेश्वरी पूर्णगिरौ चण्डी जालन्धरे गिरौ || ४९ || पूर्वान्ते कामरूपस्य देवी दिक्करवासिनी | तथा ललितकान्तेति योगनिद्रा प्रगीयते || ५० || यत्रैव पतितं सत्याः शिरस्तत्र वृषध्वजः | उपविष्टः शिरो वीक्ष्य श्वसञ्छोकपरायणः || ५१ || उपविष्टे हरे तत्र ब्रह्माद्यास्ते दिवौकसः | समीपमगमंस्तस्य दूरतः सान्त्वयन् हरम् || ५२ || देवानागच्छतो दृष्ट्वा शोक-लज्जासमन्वितः | गत्वा शिलात्वं तत्रैव लिंगत्वं गतवान् हरः || ५३ || हरे लिंगत्वमापन्ने ब्रह्मादयास्तु दिवौकसः | तुष्टुवुस्त्र्यम्बकं तत्र लिंगरूपं जगद्गुरुम् || ५४ || देवा ऊचुः महादेवं शिवं स्थाणुमुग्रं रुद्रं वृषध्वजम् | श्मशानवासिनं भर्गं सर्वान्तकरणं परम् || ५५ || त्वां नमामो वयं भक्त्या शंकरं नीललोहितम् | गिरीशं वरदं देवं भूतभावनमव्ययम् || ५६ || अनादिमध्यसंसारयोगविद्याय शम्भवे | नमः शिवाय शान्ताय ब्रह्मणे लिंगमूर्तये || ५७ || जटिलाय गिरिशाय विद्याशक्तिधराय ते | नमः शिवाय शान्ताय ब्रह्मणे लिंगमूर्तये || ५८ || ज्ञानामृतान्तसम्पूर्णशुद्धदेहान्तराय च | नमः शिवाय शान्ताय ब्रह्मणे लिंगमूर्तये || ५९ || आदिमध्यान्तभूताय स्वभावानलदीप्तये | नमः शिवाय शान्ताय ब्रह्मणे लिंगमूर्तये || ६० || प्रलयाणवसंस्थाय प्रलयस्थितिहेतवे | नमः शिवाय शान्ताय ब्रह्मणे लिंगमूर्तये || ६१ || यः परेभ्यः परस्तस्मात् पराय परमात्मने | नमः शिवाय शान्ताय ब्रह्मणे लिंगमूर्तये || ६२ || ज्वालामालावृतांगाय नमस्ते विश्वरूपिणे | नमः शिवाय शान्ताय ब्रह्मणे लिंगमूर्तये || ६३ || ओं नमः परमार्थाय ज्ञानदीपाय वेधसे | नमः शिवाय शान्ताय ब्रह्मणे लिंगमूर्तये || ६४ || नमो दाक्षायणीकान्त मृड शर्व महेश्वर | नमस्ते सर्वभूतेश प्रसाद भगवञ्छिव || ६५ || सशोके त्वयि लोकेशे चेष्टमाने महेश्वर | सुराः समाकुलाः सर्वे तस्माच्छोकं परित्यज || ६६ || नमो नमस्ते भूतेश सर्वकारणकारण | प्रसीद रक्ष नः सर्वांस्त्यज शोकं नमोऽस्तुते || ६७ || मार्कण्डेय उवाच इति संस्तूयमानस्तु महादेवो जगत्पतिः | निजं रूपं समास्थाय प्रादुर्भूतः शुचाहतः || ६८ || तं शुचा विह्वलं दृष्ट्वा प्रादुर्भूतं विचेतसम् | शोकापहं विधिःसाम्ना तुष्टाव वृषभध्वजम् || ६९ || ब्रह्मोवाच हिरण्यबाहो ब्रह्मा त्वं विष्णुस्त्वं जगतः पतिः | सृष्टिस्थितिविनाशानां हेतुस्त्वं केवलं हर || ७० || त्वमष्टमूर्तिभिः सर्वं जगद्व्याप्य चराचरम् | उत्पादकः स्थापकश्च नाशकश्चापि विश्वकृत् || ७१ || त्वा माराध्य महादेव मुक्ति याता मुमुक्षणः | रागद्वेषादिभिस्त्यक्ताः संसारविमुखा बुधाः || ७२ || तृतीयं यद् भवेन्नेत्रं ललाटस्थं महेश्वर | सततं भ्राजमानं तत् चित्र्यं तेजी मुमुक्षुभिः || ७२ क || विभिन्नवायवग्नि जलौघवर्जितं न दूरसंस्थं रविचन्द्रसंयुतम् | त्रिमार्गमध्यस्थमनुप्रकाशकं तत्त्वं परं शुद्धमयं महेश्वर || ७३ || यदष्ट शाखस्य तरोः प्रसूनं चिदम्बुवृद्धस्य समीपजस्य | तपश्छदःसंस्थगिशस्य पीनं सूक्ष्मोपगं ते वशगं सदैव || ७४ || अधः समाधाय समीरण स्वनं निरुद्ध्य चोर्द्धंनिशि हंसमध्यतः | हृत्पद्ममध्ये सुमुखीकृतं रजः परन्तु तेजस्तव सर्वदेक्ष्यताम् || ७५ || प्राणायामैः पूरकैः स्तम्भकैर्वा रिक्तैश्चित्रैश्चोदनं यत्पराख्यम् | दृश्यादृश्यं योगिभिस्ते प्रपञ्चाः शुद्धं वृद्धं तत्त्वतस्तेऽस्ति लब्धम् || ७६ || सूक्ष्मं जगद्व्यापि गुणौघपीनं मृग्यम्बुधेः साधनसाध्यरूपम् | चौरैरक्षैनोज्झितं नैव नीतं वित्तं तवास्त्यर्थहीनं महेश || ७७ || न कोपेन न शोकेन न मानेन द दम्भतः | उपयोज्य तु तद्वित्तमन्ययेव विवर्धते || ७८ || मायया मोहितः शम्भो विस्मृतं ते हृदि स्थितम् | मायां भिन्नं परिज्ञाय धारयात्मानमात्मना || ७९ || मायास्माभिः स्तुता पूर्वं जगदर्थे महेश्वर | तया ध्यानगतं चित्तं बहुयत्नैः प्रसाधितम् || ८० || शोकः क्रोधश्च लोभश्च कामो मोहः परात्मता | ईर्ष्यामानौ विचिकित्सा कृपासूया जुगुप्सता || ८१ || द्वादशैते बुद्धिनाशहेतवो मनसो मलाः | न त्वादृशैर्निषेव्यन्ते शोकं त्यज ततो हर || ८२ || मार्कण्डेय उवाच इति शाम्ना स्तुतः शम्भुः संस्मृत्यापि स्ववाञ्छितिम् | नावदध्रे तदात्मानं शोकात् सत्या विनाकृतः || ८३ || अधोमुखः स्थितं वीक्ष्य ब्रह्माणं स शनैरिदम् | प्राह ब्रह्मन्नायतिगं वद किं करवाण्यहम् || ८४ || इत्युक्तो वामेदेवेन विधाता सर्वदैवतैः | इदमाह तदेशस्य शोकविध्वंसकं वचः || ८५ || ब्रह्मोवाच त्यज शोकं महादेव संस्मृत्यात्मानमात्मना | न त्वं शोकस्य सदनं परं शोकात्तवान्तरम् || ८६ || सशोके त्वयि भूतेश देवा भूताः ससाध्वसा | भ्रंशयेज्जगती कोपः शोकः सर्वाश्च शोषयेत् || ८७ || त्वद्वाष्पव्याकुला पृथ्वी विदीर्णा स्यान्नचेच्छनिः | अवजग्राह ते वाष्पं सोऽपि कृष्णोऽधवद् हठात् || ८८ || यत्र देवाः सगन्धर्वाः सदा क्रीडन्ति सोत्सुकाः | सुमेरुसदृशो योऽसौ मानतः पर्वतोत्तमः || ८९ || यस्मिन् प्रविश्य शिशिरे पद्मनालनिधे घनाः | उत्पिवन्ति स्म तोयानि पुष्करावर्तकादयः || ९० || मन्दरात् सततं यत्र कुम्भयोनिर्महामुनिः | गत्वा गत्वा तपस्तेपे हिताय जगतो हर || ९१ || यस्मिन् स्थित्वा गिरौ पूर्वमगस्त्यस्तोयसागरम् | पपौ तपोबलात् कृत्वा करमध्यगतं किल || ९२ || शनैश्चरेण ते वोढुमसमर्थेन लोतकैः | क्षिप्तैर्विदारितस्तेऽसौ जलधाराह्वयो गिरिः || ९३ || विभिद्य पर्वतं शम्भो वाष्पास्ते सागरं ययुः | भित्त्वा तु सागरं शीघ्रं प्रभीताण्डजसंकुलम् || ९४ || जग्मुस्ते पूर्वपुलिनं तस्य तद्विभिदुश्च ते | भित्त्वा वेलां ततः पृथ्वीं यिभिद्याशु तरंगिणीम् || ९५ || चक्रुर्वैतरणीं नाम्ना पूर्वसागर गामिनीम् | न नावा न विमानेन न द्रोण्या स्पन्दनेन च || ९६ || तर्तुं शक्या सा तु नदी तप्ततोयातिभीषणा | दुःखेन तान्तु पृथिवी विभर्ति महताधुना || ९७ || सदा चोर्द्धगतैर्वाष्पैर्विक्षिपन्ती नभश्चरान् | तस्यास्तूपरि नो यान्ति देवा अपि भयातुराः || ९८ || यमद्वारं परावृत्य योजनद्वयविस्तृता | निम्ना वहति सम्पूर्णा भीषयन्ती जगत्त्रयम् || ९९ || त्वन्निःश्वासमरुज्जातैर्व्यस्ता पर्वतकाननाः | समाकुलद्वीपिनागा नाद्यापि प्रतिशेरते || १०० || तव निःश्वासजो वायुः पीडयन् जगतः सुखम् | नाद्यापि प्रशमं याति बाधाहीनः सनातनः || १०१ || सतीशवं ते वहतः शीर्यमाणा पदे पदे | नाद्यापि व्याकुला पृथ्वी व्याकुलत्वं वियुञ्चति || १०२ || न स्वर्गे न च पाताले तत्सत्त्वं विद्यतेऽधुना | यत्ते क्रोधेन शोकेन नाकुलं वृषभध्वज || १०३ || तस्माच्छोकममर्षं च त्यक्त्वा शान्तिं प्रयच्छ नः | आत्मानञ्चात्मना वेत्थ धारयात्मानमात्मना || १०४ || सती च दिव्यमानेन व्यतीते शरदां शते | सा च त्रेतायुगस्यादौ भार्या तव भविष्यति || १०५ || मार्कण्डेय उवाच इत्युक्तो वेधसा शम्भुस्तूष्णीं ध्यानपरायणः | अधोमुखस्तदा प्राह ब्रह्माणममितौजसम् || १०६ || ईश्वर उवाच यावद् ब्रह्मन्नहं शोकादुत्तरामि सतीकृतात् | तावन्मम सखा भूत्वा कुरु शोकापनोदनम् || १०७ || तस्मिन्नवसरे यत्र यत्र गच्छाम्यहं विधे | तत्र तत्र भवान् गत्वा शोकहानिं करोतु मे || १०८ || मार्कण्डेय उवाच एवमस्त्विति लोकेश प्रोक्त्वा वृषभवाहनम् | हरेण सार्धं कैलासं गन्तुं चक्रे मनस्ततः || १०९ || ब्रह्मणा सहितं शम्भुं कैलासगमनोत्सुकम् | समासेदुर्गणा दृष्ट्वा नन्दिभृङ्गिमुखाश्च ये || ११० || ततः पर्वतसंकाशो वृषभः पुरतो विधेः | उपतस्थे सिताभ्रस्य सदृशो गैरिको यथा || १११ || वासुक्याद्याश्च ये सर्पा यथास्थानञ्च ते हरम् | भूषयांचक्रुरुद्गम्य शिरोवाह्वादिषु द्रुतम् || ११२ || ततो ब्रह्मा च विष्णुश्च महादेवः सतीपतिः | सर्वैः सुरगणैः सार्धं जग्भुः प्रालेयपर्वतम् || ११३ || ततस्तानौषधिप्रस्थान् निःसृत्य नगराद्गिरिः | सर्वैरमात्यै सहित उपतस्ये सुरोत्तमान् || ११४ || ततः सम्पूजितास्तेन सुरौघा गिरिणा सह | सचिवैः पौरवर्गैश्च मुमुदुस्ते सुरर्षभाः || ११५ || ततो ददर्श तत्रैव गिरीन्द्रस्य पुरे हरः | विजयामौषधिप्रस्थे सखौभिर्गौतमात्मजाम् || ११६ || सापि सर्वान् सुरवरान् प्रणम्य हरमुक्तवान् | चुक्रोश मातृभगिनीं पृच्छन्ती गिरीशं सतीम् || ११७ || क्व सती ते महादेव शोभसे न तया विना | विस्मृतापि त्वया तात मद्धृदो नापसर्पति || ११८ || ममाग्रे सा पुरा प्राणान् यदा त्यजति कोपतः | तदैवाहं शोकशल्यविद्धा नाप्नोमि वै सुखम् || ११९ || इत्युक्त्वा वदनं वस्त्रप्रान्तेनाच्छाद्य सा भृशम् | रुदन्ती प्रापतद्भूमौ कश्मलञ्चाविशत्तदा || १२० || इति श्रीकालिकापुराणे विजयाशोके अष्टादशोऽध्यायः एकोनविंशोऽध्यायः मार्कण्डेय उवाच ततस्तां पतितां दृष्ट्वा तदा दाक्षायणीं स्मरन् | न शशाक ह सोढुं शोकमुद्वेगसम्भवम् || १ || भ्रष्टधैर्यस्ततः शम्भुर्वाष्पव्याकुललोचनः | पश्यतां सर्वदेवानां चिन्ताध्यानपरोऽभवत् || २ || अथाश्वास्य तदा धाता विजयां शोककर्षिताम् | हरमाश्वासयन् सान्त्वपूर्वमेतदुवाच ह || ३ || ब्रह्मोवाच पुराणयोगिन् भगवन्न शोकस्तव युज्यते | परधाम्नि तव ध्यानमासीत् कस्मात् स्त्रियामिह || ४ || प्रभविष्णुः परः शान्तः सूक्ष्मः स्थूलतरः सदा | तव स्वभावश्च कथं शोकेन बहुधाकृतः || ५ || निरञ्जनं ध्यानगम्यं यतीनां परात्परं निर्मलं सर्वगामि | मलेर्हीनं रागलोभादिमिर्यत् तत् ते रूपं त्वद्भूतं तं गृह्ण बुद्ध्या || ६ || शोको लोभः क्रोधमोहौ च हिंसा मानो दम्भो मदनोहप्रमोदाः | ईर्ष्यासूयाक्षान्तिरसत्यता च चतुर्दश ज्ञाननाशा हि दोषाः || ७ || ध्यानेन त्वां योगिनश्चिन्तयन्ति त्वं विष्णुरूपी जगतां विधाता | या ते महामोहकरी सतीति तथैव सा लोकमोहाय माया || ८ || या सर्वलोकाञ्जननेऽथ गर्भे विमोहयन्ती पूर्वदेहस्य बुद्धिम् | विनाश्य बाल्यं कुरुते हि जन्तोर्विमोहयत्यद्य सा त्वं सशोकम् || ९ || सतीसहस्राणि पुरोज्झितानि त्वया मृतानि प्रतिकल्पमेवम् | हिताय लोकस्य चराचरस्य पुनर्गृहीता च तथा त्वयेयम् || १० || भवान्तरे ध्यानयोगेन पश्य सतीसहस्राणि मृतानि यानि | यथा तथा त्वं परिवर्जितश्च यथास्ति सा वा वृषराजकेतो || ११ || यतः समुत्पद्य मुहुर्भवन्तं सा प्राप्स्यतीश त्रिदर्शदुरापम् | पुनञ्च जाया यादृशो ते धवित्री तत्तत् सर्वं ध्यानयोगेन पश्य || १२ || मार्कण्डेय उवाच एवं बहुविधं ब्रह्मा व्याहरत् साम शंकरम् | गिरिराजपुरात्तस्माद्गयामास निर्जनम् || १३ || ततो हिमवतः प्रस्थे प्रतीच्यां तत्पुरस्य च | शिप्रं नाम सरः पूर्णं ददृशर्द्रुहिणादयः || १४ || तद्रहस्थानमासाद्य ब्रह्मशक्रादयः सुराः | उपविष्टा यथान्यायं पुरस्कृत्य महेश्वरम् || १५ || तं शिप्रसंज्ञं कासारं मनोज्ञं सर्वदेहिनाम् | शीतामलजलं सर्वैर्गुणैर्मानससम्मितम् || १६ || दृष्ट्वा क्षणं हस्तस्मिन् सोत्सुकोऽभूदवेक्षणे | शिप्रां नाम नदीं तस्मान्निःसृतां दक्षिणोदधिम् | गच्छन्तीञ्च ददर्शासौ पावयन्तीं जगज्जनान् || १७ || तत्सरः पूर्णमासाद्य चरतः शकुनान् बहून् | नानादेशागताञ्छम्भुर्वीक्षाञ्चक्रे मनोरमान् || १८ || गम्भीरपवनोद्धुतिसम्पन्नेषु विराजितः | कोकद्वन्द्वांस्तरंगेषु ददर्श नृत्यतो यथा || १९ || मद्गुचञ्चूषू सम्पृक्तांस्तरंगान् स पृथक् पृथक् | वीक्षाञ्चक्रे यथा तोयादुत्पतत्पतगान् मुहुः || २० || कादम्बैः सारसेर्हसैः श्रेणीभूतैस्तटेतटे | भंगीकृतैर्यथा शंखैः सागरस्तादृशं सरः || २१ || महामीनाहतिक्षुब्धैस्तोयशब्दोत्थसाध्वसैः | पक्षिमिर्विहितैः शब्दस्तत्र तत्र मनोहरम् || २२ || प्रफुल्लैः पङ्कजैश्चैव क्वचिर्ज्जालैर्मनोहरैः | सरोरेजे यथा स्वर्गो नक्षत्रैः स्थूलसूक्ष्मकैः || २३ || महोत्पलानां मध्येषु विरलं नीलमुत्पलम् | रेजे नक्षत्रमध्येषु नीलनीरदखण्डवत् || २४ || पद्मसंधात-मध्यस्था हंसाः कैश्चिन्न संस्तुताः | प्रफुल्लपंकजभ्रान्त्या निश्चलाः स्वर्गवासिभिः || २५ || द्विधा दृष्ट्वा शोणशुक्ले पद्मे फुल्ले विधिः स्वके | कायेऽरुणत्वं फुल्लत्वं स्वासनाब्जे निनिन्द च || २६ || फुल्लं महोत्पलं वीक्ष्य सरसस्तस्य शंकरः | मौलीन्दुकान्तिमलिनं हस्तस्थं नोत्पलं ममे || २७ || हरेः स्वचक्रसूर्यांशफुल्लं हस्तगताम्बुजम् | सरः पद्मञ्च सदृशं मेने वीक्ष्य समन्ततः || २८ || तत्सरो वीक्ष्य सम्पूर्णं नानापक्षिसमाकुलम् | पद्मिनीशतसञ्छन्नं नीलोत्पलचयैर्वृतम् || २९ || देवदारुतरूणाञ्च तटस्थानां प्रसूनजैः | परागैर्वासितजलं हृदयानन्दकारकम् || ३० || तीरे तीरे महावृक्षैः शाद्वलैः परिवारितम् | दृष्ट्वा शम्भुः क्षणं तत्र सोत्सुकः शोकवर्जितः || ३१ || शिप्रामालोकयामास निःसृतां सरसस्ततः | यथेन्दुमण्डलाद् गंगा मेरोर्जाम्बुनदी यथा | तथा दृष्ट्वा महेशेन शिप्रा शिप्राद्विनिःसृता || ३२ || ऋषय ऊचुः शिप्राह्वयः क कासारः कथं शिप्रा ततः सृता | कीदृशोऽस्य प्रभावश्च तत् समाचक्ष्य विस्तरात् || ३३ || मार्कण्डेय उवाच शृण्वन्तु मुनयः सर्वे यथा शिप्रा नदी सृता | शिप्रऽस्य च महाभागाः प्रभावं गदतौ मम || ३४ || वसिष्ठेन यदा देवी परिणीता त्वरुन्धती | तदा वैवाहिकैस्तोयैः शिप्रासिन्धुरभूद्विजाः || ३५ || सा समागत्य पतिता शिप्रे सरसि शासनात् | यदा मन्दाकिनी विष्णुपादादब्धौ शिवोदका || ३६ || ब्रह्मविष्णुमहादेवैस्तोयं सिक्तं तयोः पुरा | विवाहे शान्तिविहितं गायत्रीद्रुपदादिभिः || ३७ || एकीभूतन्तु तत्तोयं मानसाचलकन्दरात् | तत् सर्वं पतितं शिप्रे कासारे सागरोपमे || ३८ || देवानामुपभोगार्थं पुरा धात्रा विनिर्मितम् | सरः शिप्राह्वयं सानौ प्रालेयस्य गिरेर्महत् || ३९ || तत्राद्यापि सुनासीरः सहितश्चाप्सरोगणैः | शचीसहायो रमते प्रसन्ने सालिले शुभे || ४० || तद्देवैः सर्वदा यत्नाद्रक्ष्यतेऽद्यापि रत्नवत् | न तत्र मानुषः कश्चिद् यातुं शक्नोति योऽमुनिः || ४१ || तपः प्रभावान्मुनयः प्रयान्ति सरसीं शुभाम् | शिप्राख्यान्तु महायत्नात् स्नातुं पातुञ्च तज्जलम् || ४२ || तत्र स्नात्वा च पीत्वा च मनुष्याः दैवयोगतः | अवश्यममरत्वाय गच्छन्त्यविकलेन्द्रियाः || ४३ || वृद्धिं गच्छति वर्षासु सरो नैतद्द्विजोत्तमाः | न ग्रीष्मे शोषतां याति सर्वदा तद्यथा तथा || ४४ || तत्र तत् पतितं तोयं वसिष्ठोद्वाहसम्भवम् | ब्रह्मविष्णुमहादेवकरपद्मैरुदीरितम् || ४५ || ववृधे शिप्रगर्भस्थमन्वहं द्विजसत्तमाः | तत्र वृद्धन्तु तत्तोयञ्चक्रेण च हरिः पुरा || ४६ || गिरेः शृङ्गं विनिर्मिद्य लोकानां हितकाम्यया | पृथिवीं प्रेरयामास कृतो पुण्यतमां नदीम् || ४७ || परिवृत्य महेन्द्रं सा पुनाना स्नानकारिणः | दक्षिणं सागरं याता फलदा जाह्नवी समा || ४८ || शिप्राख्यात् सरसो यस्मान्निःसृता सा महानदी | अतः शिप्रेति तन्नाम पुरैव ब्रह्मणा कृतम् || ४९ || कार्तिक्यां पौर्णमास्यां तु तस्यां यः स्नाति मानवः | स याति विष्णुसदनं विमानेनातिदीप्यता || ५० || कार्तिक सकलं मासं स्नात्वा शिप्राजले नरः | प्रयाति ब्रह्मसदनं पश्चान्मोक्षमवाप्नुयात् || ५१ || ऋषय ऊचुः वसिष्ठेन कथं देवी परिणीता त्वरुन्धती | कस्य सा तनया ब्रह्मन्नुत्पन्ना वा वदस्व नः || ५२ || पतिव्रतासु पर्थिता त्रिषुलोकेषु या वरा | भर्तृपादौ विनान्यत्र या न चक्षुः प्रदास्यति || ५३ || यस्याः स्मृत्वा कथामात्रं माहात्म्यसहितं स्त्रियः | प्रेत्येह च सतीत्वं वै प्राप्नुवन्त्यन्यजन्मनि || ५४ || यासन्नकालधर्मो यां न पश्यति तथा शुचिः | पुरुषः पापकारी च तस्या जन्म वदस्व नः || ५५ || मार्कण्डेय उवाच शृणुध्वं सा यथा जाता यस्य वा तनया शुभा | यथावाप वसिष्ठं सा यथा भूता पतिव्रता || ५६ || या सा सन्ध्या ब्रह्मसुता मनोजातः पुराभवत् | तपस्तप्त्वा तनुं त्यक्त्वा सैव भूता त्वरुन्धती || ५७ || मेधातिथेः सुता भूत्वा मुनिश्रेष्ठस्य सा सती | ब्रह्मविष्णुमहेशानां वचनाच्चरितव्रता | वव्रे पतिं महात्मानं वसिष्ठं संशितव्रतम् || ५८ || ऋषय ऊचुः कथं तया तपस्तप्तं किमर्थं कुत्र सन्ध्यया | कथं शरीरं सा त्यक्त्वा भूता मेधातिथेः सुता || ५९ || कथं वा गदितं देवैर्ब्रह्मविष्णुशिवैः पतिम् | वसिष्ठं सुमहात्मानं सा वव्रे संशितव्रतम् || ६० || तन्नः सर्वं समाचक्ष्व विस्तरेण द्विजोत्तम | एतन्नः श्रोष्यमाणानां चरितं द्विजसत्तम | अरुन्धत्या महासत्याः परंकौतूहलं महत् || ६१ || मार्कण्डेय उवाच ब्रह्मापि तनयां सन्ध्यां दृष्ट्वा पूर्वमथात्मनः | कामाय मानसञ्चक्रे त्यक्ता सा च सुतेति वै || ६२ || तस्यांच चलितं चित्तं कामवाणविलोडितम् | ऋषीणां प्रेक्षतां तेषां मानसानां महात्मनाम् || ६३ || भर्गस्य वचनं श्रुत्वा सोपहासविधिं प्रति | आत्मनश्चलचित्तत्वममर्यादमृषीन् प्रति || ६४ || कामस्य तादृशं भावं मुनिमोहकरं मुहुः | दृष्ट्वा सन्ध्या स्वयं तत्र त्रपामायाति दुःखिता || ६५ || ततस्तु ब्रह्मणा शप्ते मदने तदनन्तरम् | अन्तर्भूते विधौ शम्भौ गते चापि निजास्पदम् || ६६ || अमर्षवशमापन्ना सन्ध्या ध्यानपराभवत् | ध्यायन्ती क्षणमेवाशु पूर्ववृत्तं मनस्विनी || ६७ || इदं विममृशे सन्ध्या तस्मिन् काले यथोचितम् | उत्पन्नमात्रां मां दृष्ट्वा युवतीं मदनेरितः || ६८ || अकार्षीत् सानुरागोऽयमभिलाषं पितामहः | सर्वेषां मानसानाञ्च मुनीनां भावितात्मनाम् || ६९ || दृष्टैव माममर्यादं सकाममभवन् मनः | ममापि मथितं चित्तं मदनेन दुरात्मना || ७० || येन दृष्ट्वा मुनीन् सर्वान् चलितं मे मनोभृशम् | फलमेतस्य पापस्य मदनः स्वयमाप्तवान् || ७१ || स्वयं शशाप कुपितः शम्भोरग्रे पितामहः | ममोचितं फलं सर्वं प्राप्तुमिच्छामि साम्प्रतम् || ७२ || यन्मां पिता भ्रातरश्च सकामामपरोक्षतः | दृष्ट्वा चक्रुः स्पृहां तस्मान्न मत्तः काऽपि पापकृत् || ७३ || ममापि कामभावोऽभूदमर्यादं समीक्ष्य तान् | पत्याविव स्वके ताते सर्वेषु सहजेष्वपि || ७४ || करिष्याम्यस्य पापस्य प्रायश्चित्तमहं स्वयम् | आत्मानमग्नौ होष्यामि वेदमार्गानुसारतः || ७५ || किन्त्वेकां स्थापयिष्यामि मर्यादामिह भूतले | उत्पन्नमात्रा न यथा सकामाः स्युः शरीरिणः || ७६ || एतदर्थमहं कृत्वा तपः परमदारुणम् | मर्यादां स्थापयित्वैव पश्चात्त्यक्ष्यामि जीवितम् || ७७ || यस्मिञ्छरीरे पित्रा मे ह्यभिलाषः स्वयं कृतः | भ्रातृभिस्तेन कायेन किंचिन्नास्ति प्रयोजनम् || ७८ || येन स्वेन शरीरेण ताते च सहजे स्वके | उद्भावितः कामभावो न तत्सुकृतसाधकम् || ७९ || इति सञ्चिन्त्य मनसा सन्ध्या शैलवरं ततः | जगाम चन्द्रभागाख्यं चन्द्रभागा यतः सृता || ८० || तया स शैलः समधिष्ठितः सदा सुवर्णगौर्या सुसमप्रभाभृता | सोमेन सन्ध्यासमयोदितेन यथोदयाद्रिर्विरराज शश्वत् || ८१ || इति श्रीकालिकापुराणे सन्ध्यातपश्चरणे एकोनविंशोध्यायः || १९ || विंशोऽध्यायः मार्कण्डेय उवाच अथ तत्र गतां दृष्ट्वा सन्ध्यां गिरिवरं प्रति | तपसे नियतात्मानं ब्रह्मा प्रह्मा प्राह स्वकं सुतम् || १ || वसिष्ठं संशितात्मानं सर्वज्ञं ज्ञानियोगिनम् | समीपे सुसमासीनं वेदवेदांगपारगम् || २ || ब्रह्मोवाच वसिष्ठ गच्छ यत्रैषा सन्ध्या याता मनस्विनी | तपसे धृतकामा सा दीक्षस्वैनां यथाविधि || ३ || मन्दाक्षमभवत् तस्याः पुरा दृष्ट्वेह कामुकान् | युष्मान् माञ्च तथात्मानं सकामान् मुनिसत्तम || ४ || अयुक्तरूपं तत्कर्म पूर्ववृत्तं विमृश्य सा | अस्माकमात्मनश्चापि प्राणान्-सन्त्यक्तुमिच्छति || ५ || अमर्यादेषु मर्यादां तपसा स्थापयिष्यति | तपः कर्तुं गता साध्वी चन्द्रभागाय साम्प्रतम् || ६ || न भावं तपसस्तात सा तु जानाति कञ्चन | तस्माद् यथोपदेशं सा प्राप्नोति त्वं तथा कुतु || ७ || इदं रूपं परित्यज्य रूपान्तरं परं भवान् | परिगृह्यान्तिके तस्यास्तपश्चर्यान्निदेशतु || ८ || इदं स्वरूपं भवतो दृष्ट्वा पूर्वं यथा त्रपाम् | तथा प्राप्य न किंचित् सा त्वदग्रे व्याहरिष्यति || ९ || परित्यज्य स्वकं रूपं रूपान्तरधरो भवान् | तस्मात् सन्यां महाभागामुपदेष्टुं प्रगच्छतु || १० || मार्कण्डेय उवाच तथेत्युक्त्वा वसिष्ठोऽपि वर्णो भूत्वा जटाधरः | तरुणश्चन्द्रभागाय ययौ सन्ध्यान्तिकं मुनिः || ११ || तत्र देवसरः पूर्णं गुणैर्मानससम्मितम् | ददर्श स विसिष्ठोऽथ सन्ध्यां तत्तीरगामिनीम् || १२ || तीरस्थया तया रेजे तत्सरः कमलोज्ज्वलम् | उद्यदिन्दुसनक्षत्रं प्रदोषे गगनं यथा || १३ || तां तत्र दृष्ट्वाथ मुनिः समाभाष्य सकौतुकः | वीक्षाञ्चक्रे सरस्तत्र वृहल्लोहितसंज्ञकम् || १४ || चन्द्रभागा नदीं तस्मात् कासाराद्दक्षिणाम्बुधिम् | यान्ती निर्भिद्य ददृशे तेन सानुगिरेर्महत् || १५ || निर्भिद्य पश्चिमं सानुं चन्द्रभागस्य सा नदी | यथा हिमवतो गंगा तथा गच्छति सागरम् || १६ || ऋषय ऊचुः चन्द्रभागा कथं सिन्धुस्तत्रोत्पन्ना महागिरौ | कीदृक् सरस्तद्विप्रेन्द्र वृहल्लोहितसंज्ञकम् || १७ || कथं सा पर्वतश्रेष्ठश्चन्द्रभागाह्वयोऽभवत् | चन्द्रभागाह्वया कस्मान्नदी जाता वृषोदका || १८ || एतन्नः श्रोष्यमाणानां जायते कौतुकं महत् | माहात्म्यं चन्द्रभागायाः कासारस्य गिरेस्तथा || १९ || मार्कण्डेय उवाच श्रूयताञ्चन्द्रभागाया उत्पत्तिर्मुनिसत्तमाः | युष्माभिश्चन्द्रभागस्य माहात्म्यं नामकारणम् || २० || हिमवद्गिरिसंसक्तः शतयोजनविस्तृतः | योजनत्रिंशदायामः कुन्देन्दुधवलो गिरिः || २१ || तस्मिन् गिरौ पुरा वेधाश्चन्द्रं शुद्धं सुधानिधिम् | विभज्य कल्पयामास देवान्नं स पितामहः || २२ || पित्रर्थञ्च तथा तस्य तिथिवृद्धिक्षयात्मकम् | कल्पयामास जगतां हिताय कमलासनः || २३ || विभक्तश्चन्द्रमास्तस्मिन् जीमूते द्विजसत्तमाः | अतो देवाश्चन्द्रभागं नाम्ना चक्रुः पुरा गिरिम् || २४ || ऋषय ऊचुः यज्ञभागेषु तिष्ठत्सु तथा क्षीरोदजेऽमृते | किमर्थमकरोच्चन्द्रं देवान्नं कमलासनः || २५ || तथा कव्ये स्थिते कस्मात् पित्रर्थ समकल्पयत् | तिथिक्षये तथा वृद्धौ कथमिन्दुरभूद्गुरो || २६ || एतन्नः संशयः ब्रह्मञ्चिन्धि सूर्यो यथा तमः | नान्योऽस्ति संशयस्यास्य छेत्ता त्वत्तो द्विजात्तमः || २७ || मार्कण्डेय उवाच पुरा दक्षः स्वतनया अश्विन्याद्या मनोरमाः | षड्विंशति तथैकाञ्च सोमायादात् प्रजापतिः || २८ || स्मस्तास्तास्ततः सोम उपयेमे यथाविधि | निनाय च स्वकं स्थान दक्षस्यानुमते तदा || २९ || अथ चन्द्रः समस्तासु तासु कन्यासु रागतः | रोहिण्या सार्धमवसद्रतोत्सवकलादिभिः || ३० || रोहिणीमेव भजते रोहिण्या सह मोदते | विनेन्दू रोहिणी शान्तिं न काञ्चिल्लभते पुरा || ३१ || रोहिणीतत्परं चन्द्रं वीक्ष्य ताः सर्वकन्यकाः | उपचारैर्बहुविधैर्भेजुश्चन्द्रमसं प्रति || ३२ || निषेव्यमाणोऽनुदिनं यदा नैवाकरोद्विधुः | तासु भावं तदा सर्वा अमर्षवशमागताः || ३३ || अथोत्तराफाल्गुनीति नाम्ना या भरणी तथा | कृत्तिकार्द्रा मघा चैव विशाखोत्तरभाद्रपत् || ३४ || तथा ज्येष्ठोत्तराषाढे नवैताः कुपिताः भृशम् | हिमांशुमुपसंगम्य परिवव्रुः समन्ततः || ३५ || परिवार्य निशानाथं ददृशू रोहिणीं ततः | वामांकस्था तस्य तेन रममाणां स्वमण्डले || ३६ || तां वीक्ष्य तादृशीं सर्वा रोहिणीं वरवर्णिनीम् | जज्वलुश्चातिकोपेन हविषेव हुताशनः || ३७ || ततो मघात्रिपूर्वाश्च भरणी कृत्तिका तथा | चन्द्रांकस्थां महाभागां रोहिणी जगृहुहंठात् || ३८ || ऊचुश्चातीव कुपिताः पुरुषं रोहिणी प्रति | जीवन्न्या त्वयि दुष्प्राज्ञे नास्मानिन्दुस्तु भावभाक् || ३९ || समुपैष्यति कस्मिश्चित्समये सुरतोत्सुकः | वह्वीनां क्षेमवृद्ध्यर्थं तां हनिष्यामं दुर्मतिम् || ४० || न त्वां हत्वा भवेत् पापमस्माकमपि किंचन | प्रजनघ्नी बहुस्त्रीणामनृतौ पापकारिणीम् || ४१ || यस्मिन्नर्थे पुरा ब्रह्मा व्याजहार सुत प्रति | तीतिशास्त्रोपदेशाय तन्न संश्रुतमस्ति वै || ४२ || एकस्य यत्र निधने प्रवृत्ते दुष्टकारिणः | बहुना भवति क्षेम तस्य पुण्यप्रदो वधः || ४३ || रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः | आत्मानं घातयेद्यस्तु तस्य पुण्यप्रदो वधः || ४४ || मार्कण्डेय उवाच तासां तादृगभिप्रायं बुद्धा दृष्ट्वा च कर्म च | भीतां च रोहिणीं दृष्ट्वा प्रियामतिमनोरमाम् || ४५ || आत्मानं चापराधं च तदसम्भोगजं मुहुः | विचिन्त्य रोहिणीं भीतां तासां हस्तादमोचयत् || ४६ || मोचयित्वा च बाहुभ्यां सम्परिष्वज्य रोहिणीम् | वारयामास ताः सर्वाः कृत्तिकाद्याः स भामिनीः || ४७ || तदेन्दुं वारयन्त्यस्ताः कृत्तिकाद्या मघान्तकाः | साम्यमूचुर्मनस्विन्यस्तां वीक्ष्यन्त्योऽथ रोहिणीम् || ४८ || न ते त्रपा वा भीतिर्वा पापतोऽस्मान्निरस्यतः | संजायते निशानाथ प्राकृतस्येव वर्ततः || ४९ || कथमस्मान्निराकृत्य चारित्रव्रतधारिणीः | सदा भक्तिमतीरेकां मूढवत्त्वं निषेवसे || ५० || कि ते नावगतो धर्मो वेदमूलः श्रुतः पुरा | यद्धर्महीन कुरुष कर्म सद्भिविगहितम् || ५१ || धर्मशास्त्रार्थगं कर्म चरन्तीना यथोचितम् | कथमुद्वाहिताना त्वं मुखमात्र न वीक्षसे || ५२ || गदतो यच्छ्रुत पूर्व नारदाय पितुर्मुखात् | दक्षस्य धर्मशास्त्रार्थ तच्छृणुष्व निशापते || ५३ || बहुदारः पुमान् यस्तु रागादेकां भजेत् स्त्रियम् | स पापभाक्स्त्रीजितश्च तस्याशौचं सनातनम् ||५४ || यद्दुःखं जायते स्त्रीणां स्वाम्यसम्भोगजं विधो | न तस्य सदृशं दुखं किञ्चिदन्यत्र विद्यते || ५५ || सतीमृतुमईं जायां यो नेयात्पुरुषाधमः | ऋतुघस्रेषु शुद्धेषु भ्रूणहा स च जायते || ५६ || भार्या स्यादयावदात्रेयी तावत्कालं विबोधनम् | तस्यास्तु संगमे किंचिद्विहितञ्चापि नाचरेत् || ५७ || बहुभार्यस्य भार्याणामृतुमैथुननाशनम् | न किंचिद्विद्यते कर्म शास्त्रेणापि यदीरितम् || ५८ || तोषयेत् सततं भार्याविधिवत्पाणिपीडिताः | तासां तुष्ट्या तु कल्याणमकल्याणमतोऽन्यथा || ५९ || सन्तुष्टो भार्यया भर्ता भत्रा भार्या तथैव च | यस्मिन्नेतत्कुले नित्यं कल्याणं तत्र वै ध्रुवम् || ६० || यया विरुध्यते स्वामी सौभाग्यमददृप्तया | सपत्नीसंगमं कर्तुं सा स्याद्वेश्या भवान्तरे || ६१ || इहापि लोके वाच्यत्वमधर्मञ्चापि विन्दति | न पितुश्च कुल स्वामिकुल तस्या प्रमोदते || ६२ || विरुध्यमाने पत्यो यत्सपत्न्या वा प्रवर्तते | अतीव दुःख भवति तदकल्याणकृत्तयो || ६३ || मार्कण्डेय उवाच इत्येव भाषभाणास् तासु चातीव निष्ठुरम् | चुकोप चन्द्रमा दृष्ट्वा मलिनं रोहिणीमुखम् || ६४ || रोहिणी च तदा तासामवलोक्योग्रतां मुहुः | न किंचित् सापि प्रोवाच भयशोकत्रपाकुला || ६५ || अथापि कुपितश्चन्द्रस्ताः शशाप तदा स्त्रियः | यस्मान्मम पुरश्चोग्रास्तीक्ष्णा वाचः समीरिताः || ६६ || भवतीभिश्च तिसृभिलोकेऽस्मिन् कृत्तिकादिभिः | ऊग्रास्तीक्ष्णा इति ख्यातिः प्राप्तव्या त्रिदशेष्वपि || ६७ || तस्मादेवंविधानेन नवैताः कृत्तिकादयः | यात्रायां नोपयुक्ता हि भविष्यध्वं दिने दिने || ६८ || युष्मान् पश्यन्ति देवाद्या मनुष्याद्या च ये क्षितौ | यात्रायां तेन दोषेण तेषां यात्रा न चेष्टदा || ६९ || अथ सर्वास्तदा शापं तस्य श्रुत्वातिदारुणम् | चन्द्रस्य हृदयं ज्ञात्वा शापाच्चातीव निष्ठुरम् || ७० || जग्मुः सर्वास्तदा दक्षभवनं प्रत्यमर्षिताः | ऊचुश्च दक्षं पितरमश्विन्याद्याः सगद्गदम् || ७१ || सोमो वसति नास्मासु रोहिणीं भजते सदा | सेवमाना न भजते सोऽस्मान् परवधूरिव || ७२ || नावस्थाने नावसाने भोजने श्रवणे तथा | विनेन्दू रोहिणीं शान्तिं लभते नहि कांचन || ७३ || रोहिण्या वसतस्तस्य समीपं वीक्ष्य ते सुताः | यान्तीः सोऽन्यत्र नयनमाधाय नहि वीक्षते || ७४ || मास्त्वन्यः स्वामिसद्भावो मुखमात्रं न वीक्षते | अस्मिन् वस्तुनि यत्कार्यं तदस्माभिर्निगद्यताम् || ७५ || अस्माभिरेत्समयेऽनुरुद्धश्च चन्द्रमाः | स तत्कृते ततश्चास्मच्छापं तीव्र तदाकरोत् || ७६ || दारुणाश्चातितीक्ष्णाश्च लोके वाच्यत्वमाप्य च | अयात्रिका भविष्यध्वं यूयमित्युक्तवान् विधुः || ७७ || मार्कण्डेय उवाच श्रुत्वा वाक्यं स पुत्रीणां ताभिः सार्धं प्रजापतिः | जगाम यत्र सोमोऽभूद्रोहिण्या सहितस्तदा || ७८ || दूरादेव विधुर्दृष्ट्वा दक्षमायान्तमासनात् | उत्तस्थावन्तिके प्राप्य ववन्दे च महामुनिम् || ७९ || अथ दक्षस्तदोवाच कृतासनपरिग्रहः | सामपूर्वं चन्द्रमसं कृत-संवन्दनं तथा || ८० || दक्ष उवाच समं वर्तस्व भार्यासु वैषम्यं त्वं परित्यज | वैषम्ये बहवो दोषा ब्रह्मणा परिकीर्तिताः || ८१ || रतिपुत्रफला दारास्तासु कामानुबन्धनात् | कामानुबन्धः संसर्गात् संसर्गः संगमाद्भवेत् || ८२ || संगमश्चाप्यभिध्यानाद्वीक्षणादभिजायते | तस्माद् भार्यास्वभिध्यानं कुरु त्वं वीक्षणादिकम् || ८३ || यद्येवं नैव कुरुषे मद्वचो धर्मयन्त्रितम् | तदा लोकवचोदुष्टः पापवांस्त्वं भविष्यसि || ८४ || मार्कण्डेय उवाच एतच्छ्रुत्वा वचस्तस्य दक्षस्य सुमहात्मनः | एवमस्त्विति चन्द्रोऽपि न्यगदद्दक्षशंकया || ८५ || अथानुमन्त्र्य तनयाश्चन्द्रं जामातारं तथा | ययो दक्षो निजं स्थानं कृतकृत्यस्तदा मुनिः || ८६ || गते दक्षे ततश्चन्द्रस्तां समासाद्य रोहिणीम् | जग्राह पूर्ववद्भावं तासु तस्यां च रागतः || ८७ || तत्रैव रोहिणीं प्राप्य न काश्चिदपि वीक्षते | रोहिण्यामेव वसते ततस्ताः कुपिताः पुनः || ८८ || गत्वा ताः पितरं प्राहुर्दौर्भाग्योद्विग्नमानसाः | सोमो वसति नास्मासु रोहिणीं भजते सदा || ८९ || तवापि नाकरोद्वाक्यं तस्मान्नः शरणं भव || ९० || उद्वेग कोपसंयुक्त उत्तस्थौ तत्क्षणान्मुनिः | जगाम मनसा ध्यायन् कर्तव्यं निकटं विधोः || ९१ || उपगम्य तदा प्राह वचश्चन्द्रं प्रजापतिः | समं वर्तस्व भार्यासु वैषम्यं त्वं परित्यज || ९२ || न चेदिदं वचोऽस्माकं मौर्ख्यात् त्वंमावबुध्यसे | धर्मशास्त्रातिगायाहं शप्स्ये तुभ्यं निशापते || ९३ || मार्कण्डेय उवाच ततो दक्षभयाच्चन्द्रस्तत्कर्तुंप्रति तत्पुरः | अंगीचकारातिभयात् कार्यमेवं मुहुस्त्विति || ९४ || समं प्रवर्तनं कर्तुं भार्यास्वंगीकृते ततः | विधुना प्रययौ दक्षः स्वस्थानं चन्द्रसम्मतः || ९५ || गते दक्षे निशानाथो रोहिण्यासहितो भृशम् | रममाणो विसस्मार दक्षस्य वचनन्तु सः || ९६ || सेवमानाश्च ताः सर्वा अश्विनाद्या मनोरमाः | नाभजच्चन्द्रमास्तासु अवज्ञामेव चाकरोत् || ९७ || अवज्ञातास्तु ताः सर्वाश्चन्द्रेण पितुरस्तिकम् | गत्वैवार्तस्वराश्चार्ता रुदन्त्यश्चेदमब्रुवन् || ९८ || नाकरोद्वचनं सोमस्तवापि मुनिसत्तम | अवज्ञां कुरुतेऽमासु पूर्वतोऽप्यधिकं स च || ९९ || तस्मात् सोमेन नः कार्य न किंचिदपि विद्यते | तपस्विन्यो भविष्यामस्तपश्चर्या निदेशय || १०० || तपसा शोधितात्मानः परित्यक्ष्याम जीवितम् | किमस्माकं जीवितेन दुर्भगानां द्विजोत्तम || १०१ || मार्कण्डेय उवाच इत्युक्त्वा तास्ततः सर्वा दक्षजाः कृत्तिकादयः | कपोलमालम्ब्य करैरूरुदुर्विविशुः क्षितौ || १०२ || तास्तु दृष्ट्वा तथाभूता दुःखव्याकुलितेन्द्रियाः | अतिदीनमुखो दक्षः कोपाज्जज्वाल वह्निवत् || १०३ || अथ कोपपरीतस्य दक्षस्य सुमहात्मनः | निश्चक्राम तदा यक्ष्मा नासिकाग्राद्विभीषणः || १०४ || दंष्ट्राकरालवदनः कृष्णांगारसमप्रभः | अतिदीर्घः स्वल्पकेशः कृशो घमनिसन्ततः || १०५ || अधोमुखो दण्डहस्तः कासं विश्रम्य सन्ततम् | कुर्वाणो निम्ननेत्रश्च योषासम्भोगलोलुपः || १०६ || स चोवाच तदा दक्षं कस्मिंस्थास्याम्यहं मुने | किंवा चाहं करिष्यामि तन्मेवद महामते || १०७ || ततो दक्षस्तु तं प्राह सोमं यातु द्रुतं भवान् | सोममत्तु भवान्नित्यं सोमे त्वं तिष्ठ स्वेच्छया || १०८ || मार्कण्डेय उवाच इति श्रुत्वा वचस्तस्य दक्षस्याथ महामुनेः | शनैः शनैस्ततः सोममाससाद गदः स च || १०९ || आसाद्य स तदा सोमं वाल्मीकं पन्नगो यथा | प्रविवेशेन्दुहृदयं छिद्रं प्राप्य महागदः || ११० || तस्मिन् प्रविष्टे हृदये दारुणे राजयक्ष्मणि | मुमोह चन्द्रस्तन्द्रां च विषमां प्राप्तवांश्च सः || १११ || उत्पद्य प्रथमं यस्माल्लीनो राजन्यसौ गदः | राजयक्ष्मेति लोकेऽस्मिन्नस्य ख्यातिरभूद्द्विजाः || ११२ || ततस्तेनाभिभूतः स यक्ष्मणा रोहिणीपतिः | क्षयं जगामानुदिनं ग्रीष्मे क्षुद्रा नदी यथा || ११३ || अथ चन्द्रे क्षीयमाणे सर्वौषध्यो गता क्षयम् | क्षयं यातास्वौषधिषु न यज्ञः समवर्तत || ११४ || यज्ञाभावात्तु देवानामन्नं सर्वं क्षयं गतम् | पर्जन्याश्च ततो नष्टास्ततो वृष्टिर्नचाभवत् || ११५ || वृष्ट्यभावे तु लोकानामाहाराः क्षीणतां गताः दुर्भिक्षव्यसनोपेते सर्वलोके द्विजोत्तमाः || ११६ || दानधर्मादिकं किंचिन्न लोकस्य प्रवर्तते | सत्त्वहीनाः प्रजाः सर्वा लोभेनोपहतेन्द्रियाः | पापमेव तदा चक्रुः कुकर्मरतयश्च ताः || ११७ || एतान् दृष्ट्वा तदा भावान् दिक्पालाः सपुरन्दराः | जग्मुः क्षोभं परं देवाः सागराश्च ग्रहास्तथा || ११८ || ततो दृष्ट्वा जगत्सर्वं व्याकुलं दस्युपीडितम् | ब्रह्माणमगमन् देवाः सर्वे शक्रपुरोगमाः || ११९ || उपसंगम्य देवेशं स्रष्टारं जगतां पतिम् | प्रणम्याथ यथायोग्यमुपविष्टास्तदा सुराः || १२० || तान् म्लानवदनान् सर्वान् वीक्ष्य लोकपितामहः | अभिभूतान् परेणेव हृतस्वविषयानिव | पप्रच्छ सम्मुखीकृत्य गुरुमिन्द्रं हुताशनम् || १२१ || ब्रह्मोवाच स्वागत भो सुरगणाः किमर्थं यूयमागताः | दुःखोपहतदेहांश्च युष्मान् म्लानांश्च लक्षये || १२२ || निराबाधान्निरातंकान् युष्मान् सर्वांश्चं कामगान् | कृत्वा स्वविषये न्यस्तान् कथं पश्यामि दुःखितान् || १२३ || यद्वोऽभवद्दुःखबीजं युष्मान् वा यस्तु बाधते | तत्कथ्यतामशेषेण सिद्धञ्चाप्यवधार्यताम् || १२४ || मार्कण्डेय उवाच ततो वृद्धश्रवा जीवः कृष्णवर्त्मा च लोकभृत् | उवाचात्मभुवे तस्मै सुराणां दुःखकारणम् || १२५ || देवाः ऊचुः शृणु सर्वं जगत्कर्तस्त्वां येन वयमागताः | यद्वास्माकं दुःखबीजं यतो म्लानश्रियो वयम् || १२६ || न क्वचित् सम्प्रवर्तन्ते यज्ञा लोके पितामह | निराधारा निरातंकाः प्रजाः सर्वा क्षयं गता || १२७ || न च दानादिधर्मश्च न तपांसि क्षितो क्वचित् | नैव वर्षति पर्जन्यः क्षीणतोयाभवत् क्षितिः || १२८ || क्षीणाः सर्वास्तथौषध्यः शस्या लोकाः समाकुलाः | दस्युभिः पीडिता विप्रा वेदवादं न कुर्वते || १२९ || अन्नवैकल्यमासाद्य म्रियन्ते बहवः प्रजाः | क्षीणेषु यज्ञभागेषु भोग्यहीनास्तथा वयम् || १३० || दुर्बलास्तु श्रिया हीना नैव शान्ति लभामहे || १३१ || रोहिण्या मन्दिरे चन्द्रो वक्रगत्या चिरं स्थितः | वृषराशौ स च क्षीणो ज्योत्स्नाहीनश्च वर्तते || १३२ || यदैवान्विष्यते देवैश्चन्द्रो नैषा पुरःसरः | कदाचिदपि देवाना समाजे वा भवद्विधे || १३३ || कदाचिद्रोहिणी त्यक्त्वा नैव क्वचन गच्छति | यद्यन्य कोऽपि न भवेत्तदा चन्द्रो बहिर्भवेत् || १३४ || दृश्यते स कलाहीनः कलामात्रावशेषकः | इति सर्वत्र लोकेश वृत्तः कर्मविपर्ययः || १३५ || तं दृष्ट्वा कान्दिशीकास्तु वयं त्वां शरणं गताः | पातालाद्यावदुत्थाय कालकञ्जादयोऽसुराः || १३६ || नास्मान् लोकेश बाधन्ते तावन्नस्त्राहि साध्वसात् | अयं प्रवर्तते कस्माज्जगतां वा व्यतिक्रमः | न जानीमस्तु तत्सर्वं विप्लवे वापि कारणम् || १३७ || मार्कण्डेय उवाच एतत् सुराणां वचनं दिव्यदर्शी पितामहः | श्रुत्वा क्षणमभिध्यायन् निजगाद सुरोत्तमान् || १३८ || ब्रह्मोवाच शृण्वन्तु देवताः सर्वा यदर्थं लोकविप्लवः | प्रवर्ततेऽधुना येन ज्ञान्तिस्तस्य भविष्यति || १३९ || सोमो दाक्षायणीः कन्याः सप्तविंशतिसंख्यकाः | अश्विन्याद्या वरवधूभार्यार्थे परिणीतवान् || १४० || परिणीय स ताः सर्वा रोहिण्यां सततं विधुः | प्रावर्ततानुरागेण न समस्तासु वर्तते || १४१ || अश्विन्याद्यास्तु ताः सर्वा दौर्भाग्यज्वरपीडिताः | षड्विंशतिर्वरारोहाः पितरं प्रस्थिताः स्वकम् || १४२ || प्रवर्तते निशानाथो रोहिण्या रागतो यथा | तथा न तासु भजते तद्दक्षाय न्यवेदयत् || १४३ || ततो दक्षो महाबुद्धिः साम्ना संस्तूय विट्पतिम् | बहुसुनृतमाभाष्य पुत्र्यर्थे चान्वरोधत || १४४ || अनुरुद्धो यथाकामं दक्षेण सुमहात्मना | समं प्रवर्तितुं तासु समयं कृतवान् विधुः || १४५ || सममंगीकृते भाव तासु कर्तुं हिमांशुना | स्वं जगाम ततः स्थानं दक्षोऽपि मुनिसत्तमः || १४६ || गते दक्षे मुनिश्रेष्ठे वैषम्यं तासु चन्द्रमाः | जहौ न भावं ताः शश्वत् कुपिताः पितरं गताः || १४७ || ततो दक्षः पुनश्चन्द्रमनुरुध्य सुतान्तरे | समां वृत्तिं प्रतिश्राव्य वचनं चेदमब्रवीत् || १४८ || न समं वर्तते चन्द्र सर्वास्वासु भवान् यदि | तदा शप्स्ये त्वहं तुभ्यं तस्मात् कुरु समंजसम् || १४९ || ततो गते पुनर्द्दक्षे न समं वर्तते यदा | तासु चन्द्रस्तदा दक्षं पुनर्गत्वाणुवन् रुषा || १५० || न ते वचः सत्कुरुते नैवास्मासु प्रवर्तते | वयं तपश्चरिष्यामः स्थास्यामश्च तवान्तिके || १५१ || तासामिति वचः श्रुत्वा कुपितः स महामुनिः | क्षयाय चन्द्रस्य पुनः शापायत्सुकतां गतः || १५२ || शापायोद्युक्तममनसः कुपितस्य महामुने | क्षयो नाम महारोगो नासिकाग्राद्विनिर्गतः || १५३ || प्रेषितः स च चन्द्राय दक्षेण मुनिना ततः | प्रविष्टश्च ततो देहे क्षयितस्तेन चन्द्रमाः || १५४ || क्षीणे चन्द्रे क्षयं याता ज्योत्स्नास्तस्य महात्मनः | क्षीणासु सर्वज्योत्स्नासु सर्वौषध्यः क्षयं गताः || १५५ || औषध्यभावाल्लोकेऽस्मिन् न यज्ञः सम्प्रवर्तते | यज्ञाभावादनावृष्टिस्ततः सर्वप्रजाक्षयः || १५६ || यज्ञभागोपभोगेन हीनानां भवतां तथा | दुर्बलत्वं समुत्पन्नं विकारश्च स्वगोचरे || १५७ || इति वः कथितं सर्वं यथाभूल्लोकविप्लवः | येनोपायेन तच्छान्तिस्तच्छृण्वन्तु सुरोत्तमाः || १५८ || इति श्रीकालिकापुराणे चन्द्रस्यशाप मोक्षे विंशोऽध्यायः एकविंशोऽध्यायः ब्रह्मोवाच गच्छन्तु भोः सुरगणा दक्षस्य सदनं प्रति | प्रसादयतचन्द्रार्थे स च पूर्णो भवेद्यथा || १ || पूर्णे चन्द्रे जगत्सर्वं प्रकृतिस्थं भविष्यति | युष्माकञ्च भवेच्छान्तिरोषधींनाञ्चसम्भवः || २ || मार्कण्डेय उवाच इति ब्रह्मवचः श्रुत्वा देवाः शक्रपुरोगमाः | प्रययुर्हृष्ठ मनसस्तदा दक्षनिवेशनम् || ३ || यथान्यायमुपस्थाय सर्वे मुनिवरं सुराः | प्रोचुः प्रजापतिं दक्षं प्रणम्य श्लक्ष्णया गिरा || ४ || देवा ऊचुः प्रसीद सीदतां ब्रह्मन्नस्माकं बहुदुःखिनाम् | उद्धरस्व महाबुद्धे त्राहि नः शोकसागरात् || ५ || यद्रूपं ब्रह्मसंज्ञन्तु सृष्टिकृत् परमात्मनः | तदंशस्त्वं परं ज्योतिर्विप्ररूप नमोऽस्तुते || ६ || रक्षणात् सर्वजगतां प्रजापालनकारणात् | दक्षः प्रजापतिश्चेति योगेशस्तं नुमो वयम् || ७ || दक्षाय सर्वजगतां दक्षाय कुशलात्मनाम् | दक्षायात्महितायाशु नमस्तुभ्यं महात्मने || ८ || सततं चिन्त्यमानस्य योगिभिर्नियतेन्द्रियैः | सारस्य सारभूतस्त्वं दक्षाय परमात्मने || ९ || योगिवृत्तिरनाधृष्य पारगाणां परायणः | आद्यन्तमुक्तः साहसा तस्मै नित्यं नमो नमः || १० || इति तेषां वचः श्रुत्वा दक्षो यज्ञभुजां तथा | प्राह प्रसन्नवदनः शक्रमाभाष्य मुख्यतः || ११ || दक्ष उवाच कुतः शक्र महाबाहो भवतां दुःखमागतम् | दुःखहेतुं वद विभो श्रोतुमिच्छाम्यहन्तु तम् || १२ || ममास्ति वा किं कर्तव्यं भवतां दुःखहानये | तदहं यदि शक्नोमि करिष्यामि हितं समम् || १३ || मार्कण्डेय उवाच तच्छ्रुत्वा वचनं तस्य ब्रह्मसूनोर्महात्मनः | जगाद वाक्पतिः शक्रो वीतिहोत्रोऽथ तं मुनिम् || १४ || त ऊचु क्षयी जातो निशानाथस्तस्मिन् क्षीणे क्षयं गताः | सर्वौषध्यो द्विजश्रेष्ठ तद्धानिर्यज्ञहानिकृत् || १५ || यज्ञे विनष्टे सकलाः प्रजाः क्षुद्भयकातराः | वृष्ट्यभवान्महद्दुःखं प्राप्य नष्टाश्च काश्चन || १६ || क्षयोऽयं रात्रिनाथस्य यस्ते कोपात् प्रवर्तते | स सर्वजगतो ब्रह्मन्नभावार्थमुपस्थितः || १७ || नाधुना तत् त्रिभुवन यन्न क्षुब्धं नु किंचन | विप्लुतं वास्ति विप्रेन्द्र स्थावरा पतगाश्च वा || १८ || न यज्ञाः संप्रवर्तन्ते न तपस्यन्ति तापसाः | आहारदुःखान्निश्रीकाः प्रजाः क्षीणा भयातुराः || १९ || एवं प्रवृत्ते विप्रेन्द्र विप्लवेऽस्मात् रसातलाम् | दैत्या न यावदुत्थाय बाधन्ते तावदुद्धर || २० || प्रसीद दक्ष चन्द्रसय तं पूरय तपोबलात् | पूर्णे चन्द्रे जगत्सर्वं प्रकृतिस्थं भविष्यति || २१ || मार्कण्डेय उवाच इति तेषां वचः श्रुत्वा प्रजापतिसुतस्तदा | उवाच तान् सुरगणान् हृदयाच्छल्यमुद्धरन् || २२ || दक्ष उवाच यन्मे वचो निशानाथे प्रवृत्तं शापकारणम् | न केनापि निदानेन मिथ्या कर्तुं तदुत्सहे || २३ || किन्तु मद्वचनं यस्मान्नैकान्तेन मृषा भवेत् | चन्द्रोऽपि वर्धते यस्मात्तदुपायमुदैक्षत || २४ || तत्राप्ययमुपायोऽस्ति मासार्धं यातु चन्द्रमा | क्षयं वृद्धिञ्च मासार्धं समं भार्यासु वर्तताम् || २५ || मार्कण्डेय उवाच तस्य तद्वचनं श्रुत्वा तं प्रसाद्य प्रजापतिम् | सर्वे सुरगणास्तत्र गता यतास्ति चन्द्रमाः || २६ || एवमुक्ते तु वचने दक्षेण मुनिना द्विजाः | अथ चन्द्रं समादाय भार्याभिः सहितं तदा | जग्मुस्ते ब्रह्मभवनं मुदिताः सुरसत्तमाः || २७ || तत्र गत्वा महाभागा यथा दक्षेण भाषितम् | तत्सर्वं कथयामासुर्ब्रह्मणे परमात्मने || २८ || ब्रह्म दक्षवचः श्रुत्वा देवानां वचनात्तदा | चन्द्रभागं महाशैलं जगाम सहितः सुरैः || २९ || तत्र गत्वा सुरश्रेष्ठः प्रजानां हितकाम्यया | स्नापयामास शुभ्रांशुं वृहल्लोहितपुष्करे || ३० || भूतभव्यभवज्ज्ञानः पूर्वमेव पितामहः | एतदर्थञ्चकारात्र सरःपूर्णं जगद्गुरुः || ३१ || तत्र स्नातस्य जन्तोस्तु नीरोगत्वं प्रजायते | चिरायुष्ट्वञ्च सततं वृहल्लोहितसंज्ञके || ३२ || तत्र स्नातस्य चन्द्रस्य शरीरात्तत्क्षणं गदः | राजयक्ष्मा निःससार पूर्वरूपौ यथोदितः || ३३ || राजयक्ष्मा उवाच निःसृत्य राजयक्ष्मापि ब्रह्माणञ्च जगत्पतिम् | प्रणम्याहं किं करिष्ये क्व गच्छामीत्युवाच तम् || ३४ || स्थानं पत्नीञ्च लोकेश कृत्यं मम सनातनम् | निदेशयानुरूपं मे स्रष्टा त्वं जगतां यतः || ३५ || मार्कण्डेय उवाच ततो ब्रह्मापि तं पुष्टं निरीक्ष्येन्दुं शरीरगैः | अमृतैस्तेनातियुक्तैः क्षीणञ्चापि निशापतिम् || ३६ || दोर्भिः स्वयं त्वं गृहीत्वा गिरौ निष्पीड्य वै मुहुः | अमृतं गालयामास शरीराद्राजयक्ष्मणः || ३७ || अमृतानि च यान्याशु गलितानि तदा जले | क्षीरोदस्य स चिक्षेप मध्ये रहसि लोकभृत् || ३८ || तस्मादस्यामृतादिन्दि कलाः क्षीणास्तु याः पुरा | तासां जग्राह लवशश्चूर्णान् क्षीरोदसागरात् || ३९ || कलामात्रावशेषष्य संसर्गाद्राजयक्ष्मणः | क्षीणाः कलाः पंचदश याः पूर्वममृतात्मिकाः || ४० || ता राजयक्ष्मगर्भस्थाश्चूर्णीभूतास्तु पीडया | तेजोज्योत्स्ना सुधाभिस्तु निबद्धं यत् कलापतेः || ४१ || शरीरं तत् त्रिधा भूतं गर्भस्थं राजयक्ष्मणः || ४२ || ज्योतिश्चूर्णमभूत् ज्योत्स्ना लीना राजादियक्ष्मणि | द्रवीभूताः सुधाः सर्वाः गर्भे रोगस्य च स्थिताः || ४३ || यदा निर्गालयामास सुधां ब्रह्मा यक्ष्मान्तरात् | तदा ज्योत्स्नासुधाज्योतिः सर्वं तस्माद्वहिर्गतम् || ४४ || क्षीरोदसागरे क्षिप्तं तत् सर्वं विधिना तदा | देवान् गिरौ परित्यज्य स्वयं गत्वा द्रुतं ततः || ४५ || ततोऽमृतानि प्रक्षाल्य कलाचूर्णानि वारिभिः | ज्योत्स्नाञ्चाप्याजगामाशु गृहीत्वा तत्त्रयं गिरिम् || ४६ || क्षीरोदाद्गिरिमासाद्य चन्द्रभागं तदा विधिः | देवमध्ये कलाचूर्ण सुधाज्योत्स्ना न्यवीविशत् || ४७ || संस्थाप्य तत्त्रय ब्रह्मा देवाना मध्यतः स्थितः | जगाद राजयक्ष्माण तत् स्थानादि निदेशयन् || ४८ || ब्रह्मोवाच सर्वदा यो दिवारात्र सन्ध्यायां वनितारतः | सेवते सुरत तस्मिन् राजयक्ष्मन् वसिष्यसि || ४९ || प्रतिश्याय-श्वासकास-सयुक्तो मैथुन चरेत् | स ते प्रवेश्य सतत श्लेष्मणश्च तथाविधः || ५० || कृष्णाख्या मृत्युपुत्री या भवतः सदृशी गुणैः | सा तेऽस्तु भार्या सततं भवन्तमनुयास्यति || ५१ || क्षीणत्वं भवतः कृत्यं ततस्त्वं विषयं कुरु | द्रुतं गच्छ यथाकामं चन्द्रात् त्वं विमुखो भव || ५२ || मार्कण्डेय उवाच एवं विसृष्टो विधिना राजयक्ष्मा महागदः | पश्यतां अर्वदेवानामन्तर्धानं जगाम ह || ५३ || अन्तर्हिते महारोगे ब्रह्मा लोकपितामहः | चन्द्रं समग्रयामास कलापञ्चदशैधितम् || ५४ || तेन क्षीरोदधौतेन सुधापूतेन चात्मभूः | सज्योत्स्नैस्तु कलाचूर्णैः पूर्ववच्चाकरोद्विधुम् || ५५ || स षोडशकलापूर्णः पूर्ववद्विबभौ यदा | चन्द्रस्तदा सर्वदेवा मुमुदुस्तस्य दर्शनात् || ५६ || अथ चन्द्रस्तदा पूर्णः प्रणिपत्य पितामहम् | उवाचेदं सुरसदोमध्यगो नाति हर्षितः || ५७ || सोम उवाच न सुखं पूर्ववद् ब्रह्मञ्छशरीरे मम वर्तते | न वीर्यं वा तथोत्साहो निषीदन्त्यगसन्धयः || ५८ || नोत्सहे पूर्ववच्चेष्टां विधातुं सुतरामहम् | चेष्टाहीनस्त्वनुदिन वर्तेयं केन लोककृत् || ५९ || ब्रह्मोवाच ग्रस्तस्य यक्ष्मणा सोम यदभूदगसन्धयः | पूर्व विशीर्णा भवतस्तत्पूर्णमभवन्नहि || ६० || अधुना भवतो देहचूर्ण निःसारित मया | शरीरात् सामृतज्योत्स्नामञ्जसा राजयक्ष्मणः || ६१ || तेषां प्रक्षालनविधौ लवशो यत्स्थितं जले | ज्योत्स्नायाश्च सुधायाश्च तेन हीनो भवान् यतः || ६२ || ततोऽङ्गसन्धयो राजंस्तव सीदन्ति साम्प्रतम् | तस्योपायं विधास्यामि यथा नाति लभेद्भवान् || ६३ || प्राजापत्यः पुरोडाशो हवनीयः पुरोऽध्वरे | एन्द्रस्ततोऽनु चाग्नेयः प्रदेयः सर्वतः क्रतौ || ६४ || ततो नु भवतो भागः पुरोडाशो मया कृतः | तेन भागेन बुक्तेन नित्यं यज्ञकृतेन हि | पूर्ववत् तै समुत्साहः श्यामवीर्यं भविष्यति || ६५ || ये चामृतकणस्तोये क्षीरोदस्य स्थितास्तव | शरीरचूर्णं वा यत्ते ज्योत्स्नाश्चापि ये लवाः || ६६ || तत् सर्वं भवतो ज्योत्स्नायोगादनुदिनं विधो | वृद्धिं यास्यति सततं क्षीरसागरगर्भगम् || ६७ || स्वारोचिषेऽन्तरे प्राप्ते द्वितीये शंकरांशजः | दुर्वासा भविता विप्रः प्रचण्डश्चण्ड भानुवत् || ६८ || स देवेन्द्रस्याविनयाच्छापं दत्वा सुदारुणम् | करिष्यति त्रिभुवन् निःश्रीकं ससुरासुरम् || ६९ || श्रिया हीने ततो लोके भविता लोकविप्लवः | यथा तव क्षयात् सोमं प्रवृत्त सर्वविप्लवः || ७० || तन्मानुषप्रमाणेन तृतीये तु कृते युगं | भविष्यति स्थास्यति च यावद् युगचतुष्टयम् || ७१ || ततश्चतुर्थे सम्प्राप्ते सह देवै कृते युगे | क्षीरोदं निर्मथिष्याम शम्भुविष्णुरहं तथा || ७२ || मन्थानं मन्दर कृत्वा नेत्र कृत्वा तु वासुकीम् | यज्ञभागेषु लीनेषु देवान्नार्थं वयं ततः | मथिष्याम समं देवै क्षीरोदं सह दानवैः || ७३ || त्वच्छरीरामृतमिदं यत्स्थितं क्षीरसागरे | तत् प्रमथ्य ग्रहीष्यामो राशीभूतं तथा क्षयम् || ७४ || सर्वौषध्यन्तरे कृत्वा त्वच्छरीरं तदा वयम् | क्षेप्स्यामः सागरजले शरीरार्थं विधो तव || ७५ || निर्मथ्य सागरं पश्चात् समुद्धार्य यदामृतम् | तदा तव वपुस्तस्मिन् पूर्ववत् सम्भविष्यति || ७६ || ओजोवीर्याद्भुतं कान्तमक्षयं च सुधात्मकम् | दृढांगसन्धिकं चारु भविष्यति वपुस्तव || ७७ || मार्कण्डेय उवाच सुधांशुमेवमाभाष्य ब्रह्मा लोकपितामहः | विधोः क्षयाय मासार्धं वृद्धये यत्नवानभूत् || ७८ || यथा दक्षेण गदितं मासार्धं यातु चन्द्रमाः | क्षयं वृद्धिं च मासार्धं यत्नं तत्राकरोद्विधिः || ७९ || ततह् षोडशधा चन्द्रं सुरज्येष्ठो विभक्तवान् | विभज्य च सुरान् सर्वान् समुवाचेदमुत्तमम् || ८० || ब्रह्मोवाच कलाः षोडश चन्द्रस्य तत्रेका शम्भुमूर्धनि | तिष्ठत्वद्यावधि परा क्षय यान्तु क्षय विना || ८१ || क्षयेण यदि रोगेण मासार्धं दक्षवाक्यत | क्षयाय पीड्यते चन्द्रो नोपशान्तिस्तदा भवेत् || ८२ || किंत्वस्य या कला शम्भौ ज्योत्स्ना गच्छतु ता प्रति | चतुर्दशकलासंस्थाः प्रतिमासं सुरोत्तमाः || ८३ || चतुर्दशकलासंस्थान्यभूतानि पिवन्तु वै | प्रतिपत्तिथिमारभ्य भवन्तस्तां चतुर्दशीम् || ८४ || तेजोभागाः सूर्यबिम्बं चतुर्दशतिथौ क्रमात् | प्रविशन्तु क्षयं त्वेवं कृष्णपक्षे विधोर्भवेत् || ८५ || यातु शेषा कला दर्शे हरित्पत्रे पलायिता | तिष्ठतु प्रथमे भागे तिथौ तस्यां निशापतेः || ८६ || द्वितीये दर्शभागे तु रोहिण्या यातु मन्दिरम् | तृतीये तु सरस्वत्यां स्नात्वा समुत्थितो विधुः || ८७ || चतुर्थे बलसम्पूर्णस्तिथिभागे विभावसोः | मण्डलं यातु चन्द्रोऽयं सबिम्बरथघोटकः || ८८ || यावत् कालेन हि कला प्रथमा क्षयमाप्नुयात् | एवमेवं कृष्णपक्षे तावत् सा प्रतिपद् भवेत् || ८९ || द्वितीयादौ कृष्णपक्षे वृद्धि-ह्रासस्तथाविधः | तिथीनां वृद्धिहेतुश्च शुक्ले कृष्णे तथा भवेत् || ९० || ततः पुनः शुक्लपक्षे यावत् पूर्वकलोदिता | वृद्धिं नैति भवेत्तावत् प्रतिपत्तितिथिरादितः || ९१ || ततो द्वितीयभागस्य या ज्योत्स्ना हरमूर्धनि | स्थिता या वै कला यातु गता सापुनरेष्यति | युष्माभिस्तु भवेत् पेयममृतं यद्दिने दिने || ९२ || तद्द्वितीयादितिथिभिः पूर्णान्ताभिः सदैव हि | स्वयमुत्पत्स्यते चन्द्रो ज्योत्स्नायोगात् सुरोत्तमाः || ९३ || यथा दिने दिने भागाः क्षय यान्ति तथा विधोः | वृद्धि गच्छन्त्यनुदिनं शुक्लपक्षेऽन्वहं सुराः || ९४ || तेजोभाग सूर्यबिम्बात् पुनरेव समेष्यति | प्रयास्यति कृष्णपक्षे यथा भागक्रमं तथा || ९५ || ज्योत्स्ना हरशिरश्चन्द्रात् प्रत्यहं पुनरेष्यति | तेजोभागः सूर्यबिम्बादमृतं वर्षति स्वयम् || ९६ || एवं वृद्धिः शुक्लपक्षे सुधांशौः सम्भविष्यति | पक्षयोः शुक्लकृष्णत्वं चन्द्रवृद्धिक्षयाद्भवेत् || ९७ || यावत् कालेन यो भागः क्षयं वृद्धिं च यास्यति | तावत् कालमभिव्याप्य तिथिः स्थास्यति सा पुनः || ९८ || चिरेण विद्धिर्यदि वा क्षयो वा द्रुतेन वृद्धिर्यदिवा क्षयो वा | द्रुतात्तिथीनान्तु सदा क्षयः स्याच्चिरातु वृद्धिस्तिथिषु प्रवेशे || ९९ || हव्यं कव्यञ्च चन्द्रेण विना ना सम्भविष्यति | तस्मात्तयोः प्रवृद्धयर्थं चन्द्रं रक्षन्तु देवताः || १०० || आस्वादनीयः शुभ्रांशुः कलाशेषोऽनुमासतः | आमावास्यापराह्ने तु पितृभी रोहि.ईगृहे || १०१ || तस्यैवास्वादनात् कव्यं वृद्धि यास्यति चान्वहम् | तेन कव्येन पितरस्तृप्तिं यास्यन्ति वै पराम् || १०२ || मार्कण्डेय उवाच ततः सुरगणाः सर्वे यथोक्तं विधिना तथा | चक्रुर्लोकहितार्थाय चन्द्रस्य क्षयं वृद्धये || १०३ || महादेवोऽपि चन्द्रार्थं स्वरूपं परमात्मनः | जग्राह देवैर्विधिना शिरसा क्षुधितो भृशम् || १०४ || यत्तेजः परमं नित्यमजमव्ययमक्षयम् | तत्स्वरूपा चन्द्रकला शापतस्तु क्षयं गता || १०५ || प्रविशति यदा ज्योतिरानन्दमजरं परम् | योगिनस्तु तदा तेषां चिन्तनं लोनमेष्यति || १०६ || महादेवशिरःसंस्थे लीने चित्ते सुधानिधौ | चन्द्रद्वारा भवेन्मुक्तिरित्येवं वैदिकी श्रुतिः || १०७ || एतज् ज्ञात्वा महादेवः क्षयवृद्ध्यविनाकृतम् | हिताय सर्वलोकानां जग्राह शिरसा विधुम् || १०८ || चन्द्रज्योत्स्नासमायोगादौषध्यो यान्ति वृद्धये | सर्वौषधिषु वृद्धासु प्रवर्तन्ते ततोऽध्वराः || १०९ || अध्वरेषु प्रवृत्तेषु स्वान् स्वान् भागांस्तु देवताः | परिगृह्णन्ति पितरस्तथा कव्यानि भूरिशः || ११० || अमृतं ब्रह्मणा सृष्टं यद् देवेभ्यः पुरातनम् | तेन तृप्यन्ति हीना ये हव्यभागेन देवताः || १११ || यज्ञेनाप्यायितं तच्च ज्योत्स्नाभिर्वृद्धिमेति वै | यज्ञज्योत्स्ना विनाभूतं तच्च स्यात् क्षीणमन्यथा || ११२ || अतोऽमृतस्य यज्ञस्य चन्द्रमाः कारणं स्वयम् | अतो दक्षस्य शापात्तु रक्षायै तच्चिकीर्षितम् || ११३ || अद्यापि कृष्णपक्षे तु सुधांशुः पीयते सुरैः | तेजः सूर्यं याति शम्भुं चन्द्रार्धंज्योत्स्निका तथा || ११४ || पुनश्च शुक्लपक्षे तु शेषोदेति कला ततः | ज्योत्स्नाद्वितीयो भागस्तु तेचोभागो द्वितीयकः || ११५ || अन्येऽत्युग्रशिरश्चन्द्रात् सूर्यबिम्बाद् यथाक्रमम् | कलाः षोडश चन्द्रस्य तत्रैका शम्भुशेखरे || ११६ || सितासितावुभौ पक्षौ शेषाणामुदयक्षयौ | इति वः सर्वमाख्यात विभक्तश्चन्द्रमा यथा | ब्रह्मणा पर्वतश्रेष्ठे यथा तच्चन्द्रभागतः || ११७ || यज्ञभागे स्थिते यस्माद्देवान्नमकरोद्विधुम् | कव्ये स्थितेऽपि पित्रन्नं तिथिवृद्धि-क्षयो यथा || ११८ || इदं पुण्यतमाख्यानं यः शृणोति सकृन्नरः | राजयक्ष्मा तस्य कुले न कदाचिद् भविष्यति || ११९ || यक्ष्मणा परिभूतो यः शृणोति वचनं विधे | न चिराद् यक्ष्मणा युक्तः स भवेत् पुरुषोत्तमः || १२० || इदं स्वस्त्ययनं पुण्यं गुह्याद्गुह्यतमं शुभम् | यः शृणोत्येकचित्तः सन् स महापुण्यभाग्भवेत् || १२१ || इति श्रीकालिकापुराणे चन्द्रशाप मोक्षणे एकविंशोऽध्यायः | द्वाविंशोऽध्यायः मार्कण्डेय उवाच यत्र देवसभा भूता सानौ तस्य महागिरेः | तत्र जाता देवनदो सीताख्या वचनाद्विधेः || १ || स्नापयित्वा यदा चन्द्रं सीततोयैर्मनोहरैः | चन्द्रं पपुर्ब्रह्मवाक्यात् सर्वे ते त्रिदिवौकसः || २ || तदा सीताजलं चन्द्रस्नानयोगाच्च सामृतम् | भूत्वा निपतित तस्मिन् बृहल्लोहितसंज्ञके || ३ || तद्विवृद्धं तदा तोयं तस्मिन् सरसि नो ममौ | तद्ददर्श स्वयं ब्रह्मा विवृद्धं सामृतं जलम् || ४ || तद्दर्शनाज्जलात् तस्मादुत्थिता कन्यकोत्तमा | चन्द्रभागेति तन्नाम विधिश्चक्रे स्वयं ततः || ५ || भार्यार्थे सागरस्तां तु जग्राह ब्रह्मसन्मते || ६ || तयैवाधिष्ठितं तोयं गदाग्रेण निशापतिः | निर्भिद्य पश्चिमे पार्श्वे गिरि तं समवाहयत् || ७ || तस्यामृतजलं भित्त्वा वृहल्लोहितनामकम् | कासारं सागरं याता चन्द्रभागा नदी तु सा || ८ || सागरोऽपि तदा भार्यां चन्द्रभागां महानदीम् | तेन तोयप्रवाहेण निनाय भवनं स्वकम् || ९ || एवं तस्मिन् समुत्पन्ना चन्द्रभागाह्वया नदी | चन्द्रभागे महाशैले गुणैर्गंगासमा सदा || १० || नद्यश्च पर्वताः सर्वे द्विरूपाश्च स्वभावतः | तोयं नदीनां रूपन्तु शरीरमपरं तथा || ११ || स्थावरः पर्वतानांतु रूपं कायः तथापरः | शुक्तीनामथ कम्बूनां यथैवान्तर्गता तनुः || १२ || बहिरस्ति स्वरूपन्तु सर्वदैव प्रवर्तते | एवं जलं स्थावरस्तु नदीपर्वतयोस्तदा || १३ || अन्तर्वसति कायस्तु सततं नोपपद्यते || १४ || आप्याययते स्थावरेण शरीरं पर्वतस्य तु | तथा नदीनां कायस्तु तोयेनाप्याययते सदा || १५ || नदीनां कामरूपित्वं पर्वतानां तथैव च | जगत्स्थित्यै पुरा विष्णुः कल्पयामास यत्नतः || १६ || तोयहानौ नदी दुःखं जायते सततं सुराः | विशीर्णे स्थावरे दुःखं जायते गिरिकायजम् || १७ || तस्मिन् गिरौ चन्द्रभागे बृहल्लोहिततीरगाम् | सन्ध्यां दृष्ट्वाथ पप्रच्छं वसिष्ठः सादरं तदा || १८ || वसिष्ठ उवाच किमर्थमागतां भद्रे निर्जनं तु महीधरम् | कस्य वा तनया गौरि किं वा तव चिकीर्षितम् || १९ || एतदिच्छाभ्यहं श्रोतुं यदि गुह्यं न ते भवेत् | वदनं पूर्णचन्द्राभं निःश्रीकं वा कथं तव || २० || मार्कण्डेय उवाच एतच्छ्रुत्वा वचस्तस्य वसिष्ठस्य महात्मनः | दृष्ट्वा च तं महात्मानं ज्वलन्तमिव पावकम् || २१ || शरीरधृग्ब्रह्मचर्य-सदृशं तं जटाधरम् | सादरं प्रणिपत्याथ सन्ध्योवाच तपोधनम् || २२ || सन्ध्योवाच यदर्थमागता शैलं सिद्धं तन्मे द्विजोत्तम | तव दर्शनमात्रेण तन्मे सेत्स्यति वा विभो || २३ || तपः कर्तुमहं ब्रह्मन्निर्जनं शैलमागता | ब्रह्मणोऽहं मनोजाता सन्ध्या नाम्ना च विश्रुता || २४ || नोपदेशमहं जाने तपसो मुनिसत्तम | यदि ते युज्यते गुह्यं मां त्वं समुपदेशय || एतच्चिकीर्षितं गुह्यं नान्यत्किञ्चन् विद्यते || २५ || अज्ञात्वा तपसो भावं तपोवनमुपाश्रिता | चिन्तया परिशुष्येऽहं वेपते च मनः सदा || २६ || मार्कण्डेय उवाच आकर्ण्य तस्या वचनं वसिष्ठो ब्रह्मणः सुतः | स्वयं स सर्वतत्त्वज्ञो नान्यत्किंचन पृष्टवान् || २७ || अथ ता नियतात्मानं तपसेऽतिधृतोद्यमाम् | वसिष्ठो मन्त्रयाञ्चक्रे गुरुवच्छिष्यवत्तदा || २८ || वसिष्ठ उवाच परम यो महात्तेज परमं यो महत्तपः | परमो य समाराध्यो विष्णुर्मनसि धीयताम् || २९ || धर्मार्थकाममोक्षाणाय एकस्त्वादिकारणम् | तमेक जगतामाद्य भजस्व पुरुषोत्तमम् || ३० || शंखचक्रगदापद्मधरं कमललोचनम् | शुद्धस्फटिकसंकाशं क्वचिन्नीलाम्बुदच्छविम् || ३१ || गरुडोपरि शुक्लाब्जे पद्मासनगतं हरिम् | श्रीवत्सवक्षमं शान्त वनमालाधरं परम् || ३२ || केयूरकुण्डलधरं किरीटमुकुटोज्वलम् | निराकारं ज्ञानगम्यं साकारं देहधारिणम् || ३३ || नित्यानन्दं निरालम्बं सूर्यमण्डलमध्यगम् | मन्त्रेणानेन देवेशं विष्णुं भज शुभानने || ३४ || ओं नमो वासुदेवाय ओमित्यन्तेन सन्ततम् | तपस्यामारभेन्मौनीं तत्रैतान्वियमान् शृणु || ३५ || स्नानं मौनेन कर्तव्यं मौनेनैव तु पूजनम् | द्वयोः पर्णजलाहारं प्रथमं षष्ठकालयोः | तृतीये षष्ठकाले तु उपवास परो भवे || ३६ || एवं तपः समाप्तौ तु षष्ठे काले क्रिया भवेत् | वृक्षवल्कलवासाश्च काले भूमिशयस्तथा | एवं मौनी तपस्याख्या व्रतचर्या फलप्रदा || ३७ || एवं तपः समुद्दिश्य कामं चिन्तय माधवम् | स ते प्रसन्न इष्टार्थं न चिरादेव दास्याति || ३८ || मार्कण्डेय उवाच उपदिश्य वसिष्ठोऽथ सन्ध्ययायै तपसः क्रियाम् | तामाभाष्य यथान्यायं तत्रैवान्तर्दधे मुनिः || ३९ || सन्ध्यापि तपसो भाव ज्ञात्वा मोदमवाप्य च | तपः कर्तुं समारेभे बृहल्लोहिततीरगाः || ४० || यथोक्तन्तु वसिष्ठेन मन्त्रं तपसि साधनम् | व्रतेन तेन गोविन्द पूजयामास भक्तितः || ४१ || एकान्तमनसस्तस्या कुर्वन्त्याः सुमहत्तपः | विष्णौ विन्यस्तमनसो गतमेकं चतुर्युगम् || ४२ || न कोऽपि विस्मयं नापं तस्या दृष्ट्वा तपोऽद्भुतम् | न तादृशी तपश्चर्या भविष्यति च कस्यचित् || ४३ || मानुषेणाथ मानेन गते त्वेकचतुर्युगे | अन्तर्बहिस्तथाकाशे दर्शयित्वा निजं वपुः || ४४ || प्रसन्नस्तेन रूपेण यद्रूपं चिन्तितं तया | पुरः प्रत्यक्षां यातस्तस्या विष्णुर्जगत्पतिः || ४५ || अथ सा पुरतो दृष्ट्वा मनसा चिन्तितं हरिम् | शंखचक्रगदापद्मधारिणं पद्मलोचनम् || ४६ || केयूरकुण्डलधरं किरीटमुकुटोज्ज्वलम् | तार्क्ष्यस्थं पुण्डरीकाक्षं नीलोत्पलदलच्छविम् || ४७ || ससाध्वसमहं वक्ष्ये किं कथं स्तौमि वा हरिम् | इति चिन्तापरा भूत्वा न्यमीलयत चक्षुषी || ४८ || निमीलिताक्ष्यास्तस्यास्तु प्रविश्य हृदयं हरिः | दिव्यं ज्ञानं ददौ तस्यै वाचं दिव्ये च चक्षुषी || ४९ || दिव्यं ज्ञानं दिव्यचक्षुर्दिव्यां वाचमवाप सा | प्रत्यक्षं वीक्ष्य गोविन्दं तुष्टाव जगतां पतिम् || ५० || सन्ध्योवाच निराकारं ज्ञानगम्यं नरं यन्नैव स्थूलं नापि सूक्ष्मं न चोच्चैः | अन्तश्चिन्त्यं योगिभिर्यस्य रूपं तस्मै तुभ्यं हरये मे नमोऽस्तु || ५१ || शिव शान्तं निर्मलं निर्विकार ज्ञानात्पर सुप्रकाश विसारि | रविप्रख्य ध्वान्तभागात् परस्ताद् रूपं यस्य त्वा नमामि प्रसन्नम् || ५२ || एकं शुद्धं दीप्यमानं विनोदं चित्तानन्द सत्वज पापहारि | नित्यानन्द सत्यं भूरिप्रसन्नं यस्य श्रीदं रूपमस्मै नमोऽस्तु || ५३ || विद्याकारोद्भावनीयं प्रभिन्नं सत्वच्छन्नं ध्येयमात्मस्वरूपम् | सारं पारं पावनानां पवित्रं तस्मै रूपं यस्य चेयं नमस्ते || ५४ || नित्यार्जवं व्ययहीनं गुणौर्धरष्टांगैर्यश्चिन्त्यते योगयुक्तैः | तत्त्व व्यापि प्राप्य यज्ज्ञानयोगेपरं यातां योगिनस्तं नमस्ते || ५५ || यत्साकारं शुद्धरूपं मनोज्ञं गरुत्मस्थं नीलमेघप्रकाशम् | शंखं चक्रं पद्मगदे दधानं तस्मै नमो योगयुक्ताय तुभ्यम् || ५६ || गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च | वायुः कालश्च रूपाणि तस्य तस्मै नमोऽस्तु ते || ५७ || प्रधानपुरुषौ यस्य कार्याङ्गत्त्वे निवत्स्यतः | तस्मादव्यक्तरूपाय गोविन्दाय नमोऽस्तु ते || ५८ || यः स्वयं पञ्च भूतानि यः स्वयं तद्गुणः परः | यः स्वयं जगदाधारस्तस्मै तुभ्यं नमोनमः || ५९ || परः पुराणः पुरुषः परमात्मा जगन्मयः | अक्षयो योऽव्ययो देवस्तस्मै तुभ्यं नमो नमः || ६० || यो ब्रह्मा कुरुते सृष्टि यो विष्णुः कुरुते स्थितिम् | संहरिष्यति यो रुद्रस्तस्मै तुभ्यं नमो नमः || ६१ || नमो नमः कारणकारणाय दिव्यामृतज्ञानविभूतिदाय | समस्त लोकान्तर-मोहदाय प्रकाशरूपाय परात्पराय || ६२ || यस्य प्रपञ्चो जगदुच्यते महान् क्षितिदिशः सूर्य इन्दुर्मनोजवः | वह्निर्मुखान्नाभितश्चान्तरीक्षं तस्मै तुभ्यं हरये ते नमोऽस्तु || ६३ || त्वं परः परमात्मा च त्वं विद्या विविधा हरे | शब्दब्रह्म परंब्रह्म विचारणपरात्परः || ६४ || यस्य नादिर्नमध्यञ्च नान्तमस्ति जगत्पतेः | कथं स्तोष्यामि तं देवं वामनोगोचराद्बहिः || ६५ || यस्य ब्रह्मादयो देवा मुनयश्च तपोधनाः | न विवृण्वन्ति रूपाणि वर्णनीयः कथं स मे || ६६ || स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभोः | नैव जानन्ति यद्रूपं सेन्द्रा अपि सुरासुराः || ६७ || नमस्तुभ्यं जगन्नाथ नमस्तुभ्यं तपोमय | प्रसीद भगवंस्तुभ्यं भूयोभूयो नमोनमः || ६८ || मार्कण्डेय उवाच अथ तस्याः शरीरन्तु वल्कलाजिनसंवृतम् | परीक्षीणं जटाव्रातैः पवित्रैर्मूर्ध्नि राजितम् || ६९ || हिमाणी तर्जिताम्भोजसदृशवदनं तथा | निरीक्ष्य कृपयाविष्टो हरिः प्रोवाच तामिदम् || ७० || श्रीभगवानुवाच प्रीतोऽस्मि तपसा भद्रे भवत्याः परमेण वै | स्तवेन च शुभप्रज्ञे वरं वरय साम्प्रतम् || ७१ || येन ते विद्यते कार्यं वरेणास्ति मनोगतम् | तत् करिष्यामि भद्रन्ते प्रसन्नोऽहं तव व्रतैः || ७२ || सन्ध्योवाच यदि देव प्रसन्नोऽसि तपसा तम साम्प्रतम् | वृतस्तदाय प्रथमो वरो मम विधीयताम् || ७३ || उत्पन्नमात्रा देवेश प्राणिनोऽस्मिन्नभस्तले | न भवन्तु क्रमेणैव सकामाः सम्भवन्तु वै || ७४ || पतिव्रताह लोकेषु त्रिष्वपि प्रथिता यथा | भविष्यामि तथा नान्या वर एको वृतो मम || ७५ || सकामा मम दृष्टिस्तु कुत्रचिन्नपतिष्यति | ऋते पतिं जगन्नाथ सोऽपि मेऽति सुकृत्तरः || ७६ || यो द्रक्ष्यति सकामो मां पुरुषस्तस्य पौरुषम् | नाशं गमिष्यति तदा स तु क्लीवी भविष्यति || ७७ || श्रीभगवानुवाच प्रथमः शैशवो भावः कौमाराख्यो द्वितीयकः | तृतीयो यौवनो भावश्चतुर्थो वार्द्धकस्तथा || ७८ || तृतीये त्वथ सम्प्राप्ते वयोभागे शरीरिणः | सकामाः स्युर्द्वितीयान्ते भविष्यन्ति क्वचित् क्वचित् || ७९ || पतिस्तव महाभागास्तपोरूपसमन्वितः | सप्तकल्पान्तजीवी च भविष्यति सह त्वया || ८३ || इति ये ते वरा मत्त प्रार्थितास्ते कृता मया | अन्यच्च ते वदिष्यामि पूर्वं यन्मनसि स्थितम् || ८४ || अग्नौ शरीरत्यागस्ते पूर्वमेव प्रतिश्रुतः | स च मेधातिथेर्यज्ञे मुनेर्द्वादशवार्षिके || ८५ || हुतं प्रज्वलिते वह्वौ न चिरात् क्रियता त्वया | एतच्छैलोपत्यकायां चन्द्रभागानदीतटे || ८६ || मेधातिथिर्महायज्ञं कुरुते तापसाश्रमे || ८७ || तत्र गत्वा स्वयं छन्ना मुनिभिर्नोपलक्षिता | मत्प्रसादाद्वह्निजातां तस्य पुत्री भविष्यसि || ८८ || यस्त्वया वाञ्छनीयोऽस्ति स्वामी मनसि कश्चन | तं निधाय निजस्वान्ते त्यज वह्नौ वपुः स्वकम् || ८९ || यदा त्वं दारुणे सन्ध्ये तपश्चरसि पर्वते | यावच्चतुर्युगं तस्य व्यतीते तु कृते युगे || ९० || त्रेतायाः प्रथमे भागे जाता दक्षस्य कन्यकाः | स ददौ कन्यका सप्तविंशतिञ्च सुधांशवे || ९१ || तासां हेतोर्यदा शप्तश्चन्द्रो दक्षेण कोपिना | तदा भवत्या निकटे सर्वे देवाः समागताः || ९२ || न दृष्टाश्च तया सन्ध्ये देवाश्च ब्रह्मणा सह | मयि विन्यस्तमनसा त्वञ्च दृष्टा न तैः पुनः || ९३ || चन्द्रस्य शापमोक्षार्थं चन्द्रभागा नदी यथा | सृष्टा धात्रा तदैवात्र मेधातिथिरुपस्थितः || ९४ || तपसा तत्समो नास्ति न भूतो न भविष्यति | तेन यज्ञः समारब्धो ज्योतिष्टोमो महाविधिः || ९५ || तत्र प्रज्वलितो वह्निस्तस्मिंस्त्यज वपुः स्वकम् || ९६ || एतन्मया स्थापितं ते कार्यार्थं भोस्तपस्विनि | तत् कुरुष्व महाभागे याहि यज्ञं महामुनेः || ९७ || मार्कण्डेय उवाच नारायणः स्वयं सन्ध्यां पस्पर्शाथाग्रपाणिना | ततः पुरोडाशमयं तच्छरीरमभूत क्षणात् || ९८ || महामुनेर्महायज्ञ तस्मिन् विश्वोपकारिणि | नाग्निः कव्यादतां यातु त्वेतदर्थं तथा कृतम् || ९९ || एवं कृत्वा जगन्नाथस्तत्रैवान्तरधीयत | सन्ध्याप्यगच्छत्तत्सत्रे यत्र मेधातिथिर्मुनिः || १०० || अथ विष्णोः प्रसादेन केनाप्यनुपलक्षिता | प्रविवेश तदा यज्ञं सन्ध्या मेधातिथेर्मुनेः || १०१ || वसिष्ठेन पुरा सा तु वर्णीभूत्वा तपस्विनी | उपदिष्टा तपश्चर्तुं वचनात् परमेष्ठिनः || १०२ || तमेव कृत्वा मनसि तपश्चर्योपदेशकम् | पतित्वेन तदा सन्ध्या ब्राह्मणं ब्रह्मचारिणम् || १०३ || समिद्धेऽग्नो महायज्ञे मुनिभिर्नोपलक्षिता | तदा विष्णोः प्रसादेन साविवेश विधेः सुता || १०४ || तस्याः पुरोडाशमयं शरीरं तत्क्षणात्ततः | दग्धं पुरोडाशगन्धं व्यस्तारयदलक्षितम् || १०५ || वह्निस्तस्याः शरीरन्तु दग्ध्वा सूर्यस्य मण्डले | शुद्धं प्रवेशयामास विष्णोरेवाज्ञया पुनः || १०६ || सूर्यो संस्थापयामास प्रीतये पितृदेवयोः || १०७ || यदूर्ध्वभागस्तस्यास्तु शरीरस्य द्विजोत्तमाः | प्रातःसन्ध्याभवत् सा तु अहोरात्रादिमध्यगा || १०८ || यच्छेषभागस्तस्यास्तु अहोरात्रान्तमध्यगा | सा सायमभवत् सन्ध्या पितृप्रीतिप्रदा सदा || १०९ || सूर्योदयात्तु प्रथमं यदा स्यादरुणोदयः | प्रातःसन्ध्या तदोदेति देवाना प्रीतिकारिणी || ११० || अस्तं गते ततः सूर्ये शोणपद्मनिभा सदा | उदेति सायंसन्ध्यापि पितृणा मोदकारिणी || १११ || तस्या प्राणास्तु मनसा विष्णुणा प्रभविष्णुणा | दिव्येन तु शरीरेण चक्रिरेऽथ शरीरिणः || ११२ || मुनेर्यज्ञावसाने तु सम्प्राप्ते मुनिना तु सा | प्राप्ता पुत्री वह्निमध्ये तप्तकाञ्चन सन्निभा || ११३ || तां जग्राह तदा पुत्रीं मुनिरामोदसंयुतः | यज्ञार्थतोयैः संस्नाप्य निजक्रोडे कृपायुतः || ११४ || अरुन्धतीति तस्यास्तु नाम चक्रे महामुनिः | शिष्यः परिवृतस्तत्र महामोदमवाप च || ११५ || न रुणद्धि यतो धर्मं सा केनापि च कारणात् | अतस्त्रिलोकविदितं नाम सा प्राप सान्वयम् || ११६ || यज्ञं समाप्य स सुनिः कृतकृत्यभावमासाद्य सम्मदयुतस्तनयाप्रलम्भात् | तस्मिन् निजाश्रमपदे सहशिष्यवर्गैस्तामेव सन्ततमसौ दयते महर्षिः || ११७ || इति श्रीकालिकापुराणे अरुन्धती-जन्मकथनं द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः मार्कण्डेय उवाच अथ सा ववृधे देवी तस्मिन् मुनिवराश्रमे | चन्द्रभागानदीतीरे तापसारण्यसंज्ञके || १ || यथा चन्द्रकला शुक्लपक्षे नित्यं विवर्धते | यथा ज्योत्स्ना तथा सापि प्राप वृद्धिमरुन्धती || २ || संप्राप्ते पञ्चमे वर्षे चन्द्रभागा तदा गुणैः | तापसारण्यमपि सा पवित्रमकरोत् सती || ३ || तत्र तीर्थं महापुण्यं मेधातिथिनिषेवितम् | क्रीडास्थानमरुन्धत्याः पूतं बाल्योचितं कृतम् || ४ || अद्यापि तापसारण्ये चन्द्रभागानदीजले | अरुन्धतीतीर्थतोये स्नात्वा याति हरिं नरः || ५ || कार्तिकं सकलं मासं चन्द्रभागानदीजले | स्नात्वा विष्णुगृहं गत्वा ह्यन्ते मोक्षमवाप्नुयात् || ६ || माघे मासि पौर्णमास्याममायां वा तथैव च | चन्द्रभागाजले स्नानं यस्तु कुर्यात् सकृत् सकृत् || ७ || तस्य वंशे राजयक्ष्मा न कदाचिद् भविष्यति | देहान्ते चन्द्रभवनं गत्वा याति हरेर्गृहम् || ८ || पुण्यक्षयादिहागत्य वेदज्ञो ब्राह्मणो भवेत् | चन्द्रभागाजलं पीत्वा चन्द्रलोकमवाप्नुयात् || ९ || सकृत् स्नात्वा तु विधिवद्वाजिमेधायुतं लभेत् || १० || चन्द्रभागाजले स्नात्वा क्रीडन्तीं बाल्यलीलया | पितुः समीपे तत्तीरे कदाचित्तामरुन्धतीम् | गच्छन्नाकाशमार्गेण ददर्श कमलासनः || ११ || अथावतीर्य भगवान् ब्रह्मा लोकपितामहः | अरुन्धत्यास्तदा कालमुपदेशे ददर्श ह || १२ || अथोवाच तदा ब्रह्मा मुनिभिः परिपूजितः | मेधातिथिप्रभृतिभिरुचितं तं महामुनिम् || १३ || ब्रह्मोवाच उपदेशस्य कालोऽयमरुन्धत्या महामुने | तस्मादेनां सतीनान्तु स्त्रीणां त्वं कुरु सन्निधिम् || १४ || स्त्रिभिस्त्रियश्चोपदेश्याः काचिदन्यत्र विद्यते | बहुलायाश्च सावित्र्याः पुत्री त्वं स्थापयान्तिके || १५ || तयोः संसर्गमासाद्य पुत्री तव महामुने | महागुणैश्वर्ययुता न चिरात् तु भविष्यति || १६ || मेधातिथिर्वचः श्रुत्वा ब्रह्मणः परमात्मनः | एवमेवेति प्रोवाच तं तदा मुनिसत्तमः || १७ || ततो गते सुरश्रेष्ठे पुत्रीं मेधातिथिर्मुनिः | समादाय ययौ सूर्यभवनं प्रति तत्क्षणात् || १८ || ददर्श तत्र सावित्रीं सूर्यमण्डलमध्यगाम् | पद्मासनगतां देवीमक्षमालाधरां सिताम् || १९ || दृष्टा सा तेन मुनिना निःसृत्य रविमण्डलात् | बहुला सा गता तूर्णं मानसभूभृतः || २० || प्रत्यहं तत्र सावित्री गायत्री बहुला तथा | सरस्वती च द्रुपदा पञ्चैता मानसाचले || २१ || धर्माख्यानैस्तथा साध्वीः कथाः कृत्वा परस्परम् | स्व खं स्थानं पुनर्याति लोकानां हितकाम्यया || २२ || मेधातिथिस्तु ताः सर्वा दृष्ट्वैकत्र तपोधनः | मातृः सर्वस्य लोकस्य प्रणनाम पृथक् पृथक् || २३ || उवाच च स ताः सर्वा ऋषिः श्लक्ष्णं तपोधनः | ससाध्वसो विस्मितश्च तासामेकत्र दर्शनात् || २४ || मेधातिथिरुवाच मातः सावित्रि बहुले मत्पुत्रीयं शुभाशया | कालोऽयमुपदेशेऽस्यास्तदर्थमहमागतः || २५ || जगत्स्रष्ट्रा समादिष्टा प्रयातु तव शिष्यताम् | एषा तेन भवत्पार्श्वमानीता पुत्रिका मम || २६ || सौचारित्र्यं यथाऽस्याः स्यात्तथैनां बालिकां मम | युवा विनयतं देव्यौ मातर्मातर्नमोऽस्तु वाम् || २७ || अथोवाच तदा देवी सावित्री मुनिसत्तमम् | स्मितपूर्व बहुलया सहिता ताञ्च बालिकाम् || २८ || ते ऊचतुः ब्रह्मन् विष्णोः प्रसादेन सुचरित्रा भवत्सुता | पूर्वमेव मुने भूता तद्दुद्देशेन किं पुनः || २९ || किं त्वहं ब्रह्मवाक्येण बहुला च महासती | विनेष्यावस्तव सुतां धीरा स्यान्नचिराद् यथा || ३० || ब्रह्मणः पूर्वदुहिता भवतस्तु तपोबलात् | तथा विष्णोः प्रसादेन सुता तेऽभूदरुन्धती || ३१ || कुलं पुनाति भवतः सत्यसौ वर्धयिष्यति | लोकानामथ देवानां शिवमेषा करिष्यति || ३२ || मार्कण्डेय उवाच अथ ताभिर्विसृष्टः स मुनिर्मेधातिथिः सुताम् | आश्वास्यारुन्धती नत्वा ताः स्वस्थानं जगाम ह || ३३ || गते तस्मिन् मुनिवरे सह ताभ्यामरुन्धती | मातृभ्यामिव निर्भीता पालिता मोदमाप सा || ३४ || कदाचित् सह सावित्र्या रात्रौ याति रवेर्गृहम् | तथा बहुलया याति शक्रगेहं कदाचन || ३५ || एवं ताभ्यां समं देवी विहरन्ती सुरालये | निनाय दिव्यमानेन सा सप्त परिवत्सरान् || ३६ || ताभ्यां तथोपविष्टा सा स्त्रीधर्ममचिरात् सती | सर्व ज्ञातवती भूता सावित्री-बहुलाधिका || ३७ || अथ तस्यास्तदा काले सम्प्राप्ते उचितेऽभवत् | शोभनो यौवनोद्भेदः पद्मिनीनां रुचिर्यथा || ३८ || उद्भूतयौवना सा तु वसिष्ठं मानसाचले | विहरन्ती ददर्शिका चारुतेजस्विनं मुनिम् || ३९ || दृष्ट्वा तमिच्छयाञ्चक्रे कामभावेन सा सती | बालसूर्यप्रभं चारुरूपं ब्रह्मश्रिया युतम् || ४० || अथ सोऽपि महातेजा वसिष्ठो वरवर्णिनीम् | दृष्टैवोद्भूतमदनो वीक्षाञ्चक्रे त्वरुन्धतीम् || ४१ || तयो परस्परं दृष्ट्वा ववृधे हृच्छयो महान् | अमर्यादं द्विजश्रेष्ठाः प्राकृते मदनो यथा || ४२ || अथ धैर्यं समालम्ब्य तथा मेधातिथेः सुता | आत्मानं धारयामास मनश्च मदनेरितम् || ४३ || वसिष्ठोऽपि महातेजा धैर्यमालम्ब्य चात्मनः | मनः संस्तम्भयामास मदनोन्मथितं ततः || ४४ || अरुन्धती ततो देवी विहाय मुनिसन्निधिम् | जगाम यत्र सावित्री निन्दन्ती स्वं मनोरथम् || ४५ || बाध्यमानातिदुःखेन मानसेन महासती | सतीभावः परित्यक्तश्चिन्तयन्ती मयेति वै || ४६ || तस्या मनोजदुःखेन विवर्णमभवन्मुखम् | शरीरं सकलं म्लानं गतिश्च वलिताभवत् || ४७ || इदं विममृषे सा च गर्हयन्ती स्वकं मनः | मृणालतन्तुवत् सूक्ष्मा क्षिन्ना च तत्क्षणादपि || ४८ || स्थितिः सतीनामल्पेन चापल्येनैव नश्यति | इति स्त्रीधर्ममध्याप्य मामाह चरितव्रता || ४९ || सावित्री सारमेतधि सतीधर्मस्य चोद्धृतम् | तदद्य नाशितं पुंसि परकीये मनोरथम् || ५० || वर्द्धयन्त्या तदा किं मे परत्रेह भविष्यति | इति सञ्चिन्तयन्ती सा पुत्री मेधातिथेस्तदा || ५१ || दुःखार्ता बहुलां देवीं सावित्रीं चाससाद ह | तथाविधान्तु तां दृष्ट्वा विवर्णवदनां सतीम् || ५२ || ध्यानचिन्तापरा भूतां सावित्री विममर्ष ह | विमृष्य दिव्यज्ञानेन सर्वं ज्ञातवती सती || ५३ || वसिष्ठेन त्वरुन्धत्या यथाभूद्दर्शन तथा | यथा तयोः सम्प्रवृद्धो मनोजश्चातिदुःसहः || ५४ || मुखवैवर्ण्यहेतुश्च सावित्री दिव्यदर्शिनी | अथ मेधातिथेः पुत्र्या मूर्ध्नि हस्तं निवेश्य सा || ५५ || इदमाह महादेवी सावित्री चरितव्रता | सावित्युवाच वत्स तव मुखं कस्माद्भिन्नवर्णमभूदिदम् || ५६ || छिन्ननालं यथापद्मं सूर्यांशुपरितापितम् | कथं शरीरमभवत् म्लानं ते गुणवत्तमे || ५७ || यथा निशापतेर्विम्बं तनुकृष्णाभ्रसंवृतम् | अन्तर्मनश्च ते भद्रे सचिन्तमिव लक्ष्यते | तन्मे कथय ते गुह्यं नैतच्चेद्दुःस्वकारणम् || ५८ || मार्कण्डेय उवाच अथ साधोमुखी भूत्वा किंचिन्नोवाच लज्जया | सावित्रीं मातरं गुर्वीं तथा पृष्टाप्यरुन्धती || ५९ || यदा दोक्तवती किंचित्तदा नेधातिथेः सुता | स्वयं प्रकाश्य सावित्री तामुवाच तपस्विदी || ६० || सावित्युवाच वत्से योऽसौ त्वया दृष्टो मुनिर्भास्करसन्निभः | स वसिष्ठो ब्रह्मसुतस्तव स्वामी भविष्यति | तव तस्य च दाम्पत्यं पुरा धात्रैव निर्तिम् || ६१ || अतस्तव सतीभावो न हीनस्तस्य दर्शनात् | यद्वा तवाभूद्ध्रदयं सकामं तस्य दर्शनात् || ६२ || न तद्दोषकरं पुत्रि मनोदुःखं ततस्त्यज | त्वया परं तपः कृत्वा पूर्वजन्मनि शोभने || ६३ || वृतः स एव दयितः सकामस्तेन स त्वयि | शृणु पूर्वं त्वया वत्से वसिष्ठोऽयं वृतः पतिः | यथा तपः कृतं तत्र येन भावेन सन्ततम् || ६४ || मार्कण्डेय उवाच इत्युक्त्वा सा च सावित्री यथा सन्ध्याभवत् पुरा || ६५ || कृतं तपो यदर्थन्तु चन्द्रभागाह्वये गिरौ | वसिष्ठेन यथा पूर्वं वर्णिरूपेण वेधसः || ६६ || वचनादुपदिष्टा सा तपश्चर्यां दुरत्ययाम् | यथा प्रसन्नो बह्गवान् विष्णुः प्रत्यक्षतां गतः || ६७ || वरं यथा ददौ तस्ये मर्यादा स्थापिता यथा | यथा वा वाञ्छितः स्वामी वसिष्ठः स तया मुनिः || ६८ || मेधातिथेर्यथा यज्ञे वह्नौ त्यक्तं तवया वपुः | यथा तत्तनया जाता तस्यैतद्विस्तरात् तदा || ६९ || सावित्री कथयामास क्रमाद् बहुलया सह || ७० || अथ तस्या वचः श्रुत्वा यदभूत् पूर्वजन्मनि | तच्छ्रुत्वा वै तदा ज्ञातं मम सर्वं मनोगतम् || ७१ || इत्यतीवत्रपां प्राप्य सातीवाभुदधोमुखी | सावित्रीवचनाद्भूता पूर्वजन्मस्मरा च सा || ७२ || तथैवाधोमुखी भूत्वा यद्वृत्तं पूर्वजन्मनि | तस्य सर्वस्य सस्मार दिव्यज्ञारुन्धती तदा || ७३ || पूर्वं विष्णुप्रसादेन सा भूत्वा दिव्यदर्शिनी | अधुना बाल्यभावेन प्रच्छन्ना दिव्यदर्शना || ७४ || सावित्रीवचनाच्छ्रुत्वा वृत्तान्तं पूर्वजन्मनः | प्रत्यक्षमिव तत् सर्वं पूर्वज्ञानमवाप सा || ७५ || अवाप्य पूर्वं ज्ञानं तद् यद् दत्तं विष्णुणा पुरा | वसिष्ठोऽयं वृतं स्वमी मया वै पूर्वजन्मनि || ७६ || इति ज्ञानवती देवी सामोदारुन्धती स्वयम् | वसिष्ठदर्शनाद्भूते पूर्वं तस्यास्तु हृच्छये || ७७ || यथातङ्कः समुत्पन्नः सतीत्वस्य निवारणे | तञ्च स्वयं सा तत्याज तदा मेधातिथेः सुता || ७८ || त्यक्तचिन्तां ततस्तान्तु विज्ञायारुन्धतीं सतीम् | सावित्री सूर्यभवनं तया सार्धं जगाम ह || ७९ || अरुन्धती निवेश्याथ सावित्री सूर्यमन्दिरे | जगाम ब्रह्मभवनं सर्वज्ञा सा सतीवरा || ८० || अथ प्रणम्य ब्रह्माणं पृष्टा तेनैव तत्क्षणात् | इदं जगाद सावित्री ब्रह्माणममितौजसम् || ८१ || भगवन् जगता नाथ वसिष्ठं भवतः सुतम् | मानसस्य गिरेः सानौ ददर्शारुन्धती सती || ८२ || तयोर्दर्शनमात्रेण ववृधे हृच्छयो महान् | परस्परं तौ स्पृहयाञ्चक्रतुश्च प्रजापते || ८३ || ततो धैर्यात्तु संस्तभ्य मनोजं तौ सुदुःखितौ | विमनस्कौ गतौ स्थानं लज्जितौ तौ स्वकं स्वकम् || ८४ || एवम्प्रवृत्ते यद्योग्यं तदा त्वेतद्विधीयताम् | आयत्याञ्च सुरश्रेष्ठे लोकानां हितकाम्यया || ८५ || इति श्रुत्वा वचस्तस्या ब्रह्मा सर्वजगद्गुरुः | ददर्श दिव्यज्ञानेन प्रवृत्तिं भाविकर्मणः || ८६ || इदञ्च स्वागतं प्रोचे तदा लोकपितामहः | तयोर्दाम्पत्यभावस्य कालोऽयं समुपस्थितः || ८७ || अतो लोकहितार्थाय यास्येऽहं तत्प्रवृत्तये | इति निश्चित्य मनसा सावित्रीसहितो विधिः | जगाम मानसप्रस्थं यत्राभूद् दर्शनं तयोः || ८८ || पितामहे तत्र याते शर्वः सुरगणैर्युतः | नन्दिभृङ्गिप्रभृतिभिः समायातो वृषध्वजः || ८९ || भगवान् वासुदेवोऽपि ब्रह्मणा परिचिन्तितः | भक्त्या सोऽपि जगन्नाथः शङ्खचक्रगदाधरः | स्थितौ ब्रह्महरौ यत्र तत्रैव स्वयमागतः || ९० || अथ ते जगता नाथा ब्रह्मविष्णुमहेश्वराः | नारदं प्रेषयामासुर्दूत मेधातिथि प्रति || ९१ || याहि द्रुतं नारद त्व चन्द्रभागाह्वय गिरिम् | मुनिस्तस्योपत्यकायामास्ते मेधातिथिः परः || ९२ || तमानय यथाकालमस्माकं वचनात् स्वयम् | मेधातिथि समादाय भवानागच्छतु द्रुतम् || ९३ || ब्रह्मादीनां वचं श्रुत्वा नारदोऽपि द्रुतं ययौ | मेधातिथि समानेतु महाकार्यस्य सिद्धये || ९४ || मेधातिथि समाभाष्य देवानां वचनैस्ततः | मेधातिथि समादाय ययौ मानसपर्वतम् || ९५ || सेन्द्रा देवगणाः सर्वे मुनयश्च तपोधनाः | साध्या विद्याधरा यक्षा गन्धर्वाश्च समागताः || ९६ || देवाश्च सर्वे देव्यश्च ये देवानुचरास्तथा | ते सर्वे मानसप्रस्थं याताश्चान्ये च जन्तवः || ९७ || अथ भूते समाजे तु देवानां कमलासनः | मेधातिथिं मुनिं वाक्यमिदमाहातिदेशयन् || ९८ || ब्रह्मोवाच मेधातिथे वसिष्ठाय पुत्रीं ते चरितव्रताम् | देहि ब्राह्मणे विधिना समाजे त्रिदिवौकसाम् || ९९ || वधूवरत्वमनयोः पूर्वं सृष्टं मयैव हि | हरिणां चाप्यनुज्ञातं कर्म चैतत् समञ्जसम् || १०० || एवं कृते तव कुले भविष्यति महद्यशः | हितं च सर्वभूतानां देहि त्वां मां चिरं कृथाः || १०१ || ततो ब्रह्मवचं श्रुत्वा ह्यतिप्रमोदितो मुनिः | एवमस्त्विति चोवाच नत्वा तान् सुरपुङ्गवान् || १०२ || एषा तु वचनात् पुत्रीमादायारुन्धती मुनिः | ध्यानस्थस्य वसिष्ठस्य देवैः सह जगाम ह || १०३ || गत्वा वसिष्ठनिकटं देवैः परिवृतो मुनिः | ब्राह्मश्रिया दीप्यमान ज्वलन्तमिव पावकम् || १०४ || धर्मार्थकाममोक्षेषु धृतबुद्धि पृथक् पृथक् | ददर्श मुनिमासीनं मानसाचलकन्दरे || १०५ || वसिष्ठमोजस्विवर बालसूर्यमिवोदितम् | अथ पुत्रीमग्रगता कृत्वा मेधातिथिर्मुनिः | वसिष्ठ नियतात्मानमुवाचारुन्धतीपिता || १०६ || ऋषिरुवाच भगवन् ब्रह्मणः पुत्र पुत्रीं मे चरितव्रताम् | दत्तां प्रतिगृहाणैनां मया ब्राह्मेण धर्मतः || १०७ || यत्र यत्राश्रमे ब्रह्मन् स्वेच्छया निवसिष्यसि | त्वद्भक्त्यैषा भवित्री चच्छायेवानुगता तव || १०८ || तत्र तत्रैव मे पुत्री समानव्रतचारिणी | पतिव्रता वरारोहा शुश्रूषां ते करिष्यति || १०९ || मार्कण्डेय उवाच इति श्रुत्वा वसिष्ठस्तु मुनेर्मेधातिथेर्वचः | दृष्ट्वा समागतान् देवान् ब्रह्मविष्णुशिवादिकान् || ११० || अवश्यमेतद्भावीति निश्चित्य दिव्यचक्षुषा | ब्रह्मणः सम्मते पुत्रीं तदा मेधातिथेर्मुनेः | वसिष्ठः प्रतिजग्राह वाढमित्युक्तवांश्च ह || १११ || गृहीतपाणिः सा देवी वसिष्ठेन महात्मना | पत्युः पादयुगे चक्षुर्युगं न्यस्तवती सती || ११२ || ततो ब्रह्मा च विष्णुश्च रुद्रश्चान्ये तथामराः | विवाहविधिना तौ तु मोदयाञ्चक्रुरुत्सवैः || ११३ || सावित्रीप्रमुखा देव्यो देवाश्चेन्द्रादयस्तथा | दक्षाद्याः कश्यपाद्यास्तु मुनयोऽतितपोधनाः || ११४ || उन्मुच्य ब्रह्मवचनाद्वल्कलञ्चाजिनं जटाः | मन्दाकिनीजलेनाशु स्नापयित्वा सुतं विधेः || ११५ || जाम्बुनदैस्तथा दिव्यैर्भूषणैश्च मनोहरैः | वसिष्ठं भूषयांचक्रुस्तथैवारुन्धतीं सतीम् || ११६ || भूषयित्वाथ तौ तत्र समाप्य मुनिभिर्विधिम् | विवाहावभृथं चक्रुस्तयोर्विधिहरीश्वराः || ११७ || निधाय सर्वतीर्थानां तोयं जाम्बुनदे घटे | आशीर्वादकरैर्मन्त्रैर्गायत्र्या द्रुपदादिभिः || ११८ || स्वयं तौ स्नापयाञ्चक्रुर्ब्रह्माविष्णुमहेश्वराः | ततो महर्षयश्चान्ये तथा देवर्षयश्च ये || ११९ || ते सर्वे ऋग्यजुःसामवेदभागैर्महास्वरैः | गङ्गादि सरितां तोयैश्चक्रुः शान्तिं तयोर्मुहुः || १२० || भुवनत्रयसञ्चारि विमानं सूर्यवर्चसम् | अव्याहतगतिं ब्रह्मा सतोयञ्च कमण्डलुम् || १२१ || ताभ्यां दायं ददौ विष्णुर्दुष्प्रापं स्थानमुत्तमम् | यदूर्ध्वं सर्वदेवानां मरीच्यादेः समीपतः || १२२ || सप्तकल्पान्तजीवित्वं रुद्रः प्रादात्तयोर्वरम् | अदितिः कुण्डलयुगं ब्रह्मणा निर्मितं स्वकम् | ददौ स्वकर्णादाकृष्य पुत्र्यै मेधातिथेस्तदा || १२३ || पतिव्रतात्वं सावित्री बहुला बहुपुत्रताम् | देवेन्द्रो बहुरत्नानि धनेशेन समं ददौ || १२४ || एवं देवाश्च मुनयो देव्यश्चान्ये च ये स्थिताः | ददुस्तत्र यथायोग्यं दायं ताभ्यां पृथक् पृथक् || १२५ || एवं विवाह्य विधिवत् सौवर्णे मानसाचले | अरुन्धती वसिष्ठस्तु मोदमाप तया सह || १२६ || तत्र यत् पतितं गोयं मानसाचलकन्दरे | विवाहावभृथार्थाय शान्त्यर्थे च सुराहृतम् || १२७ || ब्रह्मविष्णुमहादेवपाणिभिः समुदीरितम् | तत्तोयं सप्तधा भूत्वा पतितं मानसाचलात् || १२८ || हिमाद्रेः कन्दरे सानौ सरस्याञ्च पृथक् पृथक् | तत्तोयं पतितं शिप्रे देवभोग्ये सरोवरे || १२९ || तेन शिप्रानदीजाता विष्णुना प्रेरिता क्षितौ | महाकौषी प्रपाते तु यद्वारि पतितं तु वै || १३० || कौषिकी नाम सा जाता विश्वामित्रावतारिता | उमा क्षेत्रे यत् पतितं तोयं तेन महानदी || १३१ || कावेरी नाम सा जाता कावेरसरसः सृता | महाकाले सरःश्रेष्ठे पतितं तज्जलं गिरेः || १३२ || हिमाद्रेः पार्श्वभागे तु दक्षिणे शंभुसन्निधौ | गोमती नाम तैर्जाता नदी गोमदुदीरिता || १३३ || मैनाको नाम यः पुत्रः शैलराजस्य तत्समः | तस्मिन् सानौ समुत्पन्नो मेनकोदातः पुरा || १३४ || यत्तत्र पतितं तोयं तेन जाता महानदी | देविकाख्या महादेवप्रेरिता सागरं प्रति || १३५ || यत्तोयं संगतं दर्यां हंसावतारसन्निधौ | तेनाभूत् सरयूर्नाम्ना नदी पुण्यतमा स्मृता || १३६ || यान्यम्भांसि महाखाण्डवारण्यसन्निधौ | हिमवत्कन्दरे याम्ये इराया ह्रदमध्यतः || १३७ || इरावतीनाम नदी तैर्जाता च सरिद्वरा | एताः सर्वाः स्नानपानसेवनैर्जाह्नवी यथा || १३८ || फलं ददति मर्त्यानां दक्षिणोदधिगाः सदा | धर्मार्थकाममोक्षाणां बीजभूताः सनातनाः || १३९ || महानद्यस्तु सप्तैताः सर्वदा देवभोगदाः | एवं नद्यः सप्तजाताः सदापुण्यतमोदकाः || १४० || अरुन्धत्या वसिष्ठस्य विवाहे देवसन्निधौ || १४१ || एवं विवाह्य स तदा वसिष्ठस्तामरुन्धतीम् | देवैर्दत्तं तदा स्थानं विमानेन जगाम ह || १४२ || ब्रह्मविष्णुमहेशानां वचनान्मुनिसत्तमः || १४३ || हिताय सर्वजगतां त्रिषु लोकुषु सर्वदा | यस्मिन् यस्मिन् युगे यादृक् स्त्रीणां भवति तादृशम् || १४४ || वेशं भावं शरीरं च कृत्वा धर्मे नियोजनम् | विचरत्येष लोकांस्त्रीनप्रमत्तः प्रसन्नधीः || १४५ || एवं पुरा वसिष्ठेन परिणीता त्वरुन्धती | सा हितार्थाय जगतां देवानां वचनात् पुरा || १४६ || य इदं शृणुयान्नित्यमाख्यानं धर्मसाधनम् | सर्वकल्याणसंयुक्तं चिरायुर्वित्तवान् भवेत् || १४७ || या स्त्री शृणोति सततमरुन्धत्याः कथा मिमाम् | पतिव्रता सा भूत्वेह परत्र स्वर्गमाप्नुयात् || १४८ || इदं परं स्वस्त्ययनमिदं धर्मप्रदं परम् | आख्यानं सर्वदा कीर्तिर्यशः पुण्यविवर्धनम् || १४९ || विवाहे पुंसि यात्रायां यः श्राद्धे श्रावयेत्तथा | स्थैर्यं पुंसवनं सिद्धिः पितृप्रीतिश्चजायते || १५० || इति वः कथितं सर्वं वसिष्ठस्य महात्मनः | अरुन्धती यथाभूता भार्या वापि पतिव्रता || १५१ || यस्य वा तनया जाता यथोत्पन्ना च यत्र च | यथा ब्रह्महरीशानां वचनात् स वृतः पतिः || १५२ || एतत् वः सर्वमाख्यातं गुह्याद्गुह्यतरं परम् | पुण्यदं पापहरणमायुरारोग्यवर्धनम् || १५३ || इति विपुलवृषौधक्षेमकारीतिहासं सदसि सकृदपीह श्रावयेद्यो द्विजानाम् | स भवति कलुषौर्घैर्हीनदेहः समेतो मुनिवरसहचर्यां प्रेत्य गीर्वाण एव || १५४ || इति श्रीकालिकापुराणे वसिष्ठारुन्धतीविवाहे त्रयोविंशोऽध्यायः || २३ || चतुर्विंशोऽध्यायः मार्कण्डेय उवाच ततो हिमवतः प्रस्थे गिरेः शिप्रसरस्तीरे | उपविष्टो महादेवस्तन्सरोऽपश्यदन्तिके || १ || पुनः पुनः प्रेष्यमाणो ब्रह्मणा हरिणा च सः | ध्यानं कर्तुं तत्र मनः स्थिरं कृत्वा दृढात्मवान् || २|| आत्मानमात्मना द्रष्टुमात्मन्येव विशेषतः | परमं यत्नमकरोद् यानेन स्मरणशासनः || ३ || ध्याने प्रविष्टचित्तन्तु तं दृष्ट्वा द्रुहिणादयः | हरे प्रविष्टां मायाख्यां तुष्टुवुर्यतमानसाः || ४ || मायया मोहितो भर्गः सतीशोकाकुलो भृशम् | विलपत्येव तां तस्मिन् मोहयतुं जगत्प्रसूम् || ५ || स्तुत्वा शम्भुशरीरात्तु निःसार्येनां निराकुलाम् | शम्भुचित्तं करिष्यामो ध्यानासक्तं निरञ्जनम् || ६ || यावत् सती पुनर्देहं गृहीत्वा हरभामिनी | भवित्री तावदेवैष विशोको ध्यातु निष्कलम् || ७ || इति सञ्चिन्त्य मनसा ब्रह्माद्यास्त्रिदिवौकसः | योगनिद्रां महामाया स्तोतुमेवं समारभन || ८ || देवा ऊचुः श्रीशक्ति पावनी तान्तु पुष्टिं परमनिष्कलाम् | वयं स्तुमो महाभक्त्या महदव्यक्तरूपिणीम् || ९ || शिवां शिवकरी शुद्धां स्थूलां सूक्ष्मां परावराम् | अन्तर्विद्यामविद्याख्यां प्रीतिमेकाग्रयोगनिम् || १० || त्वं मेधा त्वं धृतिस्त्वं ह्रीस्त्वएका सर्वगोचरा | त्वं दीधितिः सूर्यगता सुप्रपञ्चप्रकाशिनी || ११ || या तु ब्रह्माण्डसंस्थानं जगद्बीजेषु या जगत् | आप्याययति ब्रह्मादींस्तम्बान्तान् या त्वमापगा || १२ || य एकः सर्वजगतां प्राणभूतः सदागतिः | देवानाञ्च य आधारः स नभस्वांस्तवांशकः || १३ || एवं विसारि यत्तेजः सर्वत्रैव समिध्यते | तत्ते रूपं जगद्बीजं बहुधा यच्च दृश्यते || १४ || या ब्रह्मलोकपातालसान्तरालगता सदा | सा त्वं वियन्मध्यबहिर्ब्रह्माण्डस्य च सर्वतः || १५ || अचलाचलचक्रेण यन्त्रिता या प्रपञ्चसूः | जगद्धात्री लोकमाता सा च त्वं माधवी क्षितिः || १६ || त्वं बुद्धिस्त्वं तद्विषया त्वं माता छन्दसां गतिः | गायत्री त्वं वेदमाता त्वं सावित्री सरस्वती || १७ || त्वं माता सर्वजगतां त्वं त्रयी कामरूपिणी | त्वं हि निद्रास्वरूपेण प्राणिनो निर्जरादयः | ये स्वर्गाद्योकसः सर्वान् सुखयन्ती प्रमोहसि || १८ || त्वं लक्ष्मीः पुण्यकर्त्रीणां पापिनां त्वं हि यातना | तथा नीतिभृतां श्रीश्च सुखदानैशिकी धृति || १९ || त्वं शान्तिः सर्वजगतां त्वं कान्तिश्चन्द्रगोचरा | त्वं धात्री सर्वभूतानां लक्ष्मीस्त्वं विष्णुमोहिनी || २० || त्वं तत्त्वरूपा भूतानां पञ्चानामपि सारकृत् | त्वं त्रिलोकी महामायां त्वं नीतिर्मोहकारिणी || २१ || संसारचक्रेष्वारोप्य सर्वभूतं महेश्वरः | भ्रामयन्नस्ति च यथा सा त्वं माया महेश्वरि || २२ || जयन्ती जययुक्तानां ह्रीर्विद्यां नीतिरुत्तमा | गीतिस्त्वं सामवेदस्य ग्रन्थिस्त्वं यजुषां हुतिः || २३ || समस्तगीर्वाणगणस्य शक्तिस्तमोमयी सत्त्वगुणैकदृश्या | रजःप्रपञ्चानुभवैककारिणी या न स्तुता भव्यकरीह सास्तु || २४ || संसारसागरकरालतरङ्गदुःखनिस्तारकारितरणिश्चिरीतिहीना | याष्टाङ्गरूपपरपावनकेलिगीतविक्षेपकारिणी गिरौ प्रणनाम तां वै || २५ || नासाक्षिवक्त्रभुजवक्षसि मानसे च धृत्वा सुखानि विदधाति सदैव जन्तोः | निद्रेति याति सुभगा जगतीभवानां सा नः प्रसीदतु धृतिस्मृतिवृत्तिरूपा || २६ || सृष्टिस्थित्यन्तरूपा या सृष्टिस्थित्यन्तकारिणी | सृष्टिस्थित्यन्तशक्तिर्या सा माया नः प्रसीदतु || २७ || मार्कण्डेय उवाच योगनिन्द्रा महामाया संस्तुतेयं तदा सुरः | हरस्य हृदयात् क्षिप्रं निःससार तदाञ्जसा || २८ || विनिःसृतायां तस्यां तु विवेश मधुसूदनः | शम्भोरन्त स्वयं तस्य शान्त्यर्थं विश्वरूपधृक् || २९ || प्रविश्य हृदयं तस्य कल्पे कल्पे यथाभवत् | सृष्टि स्थितिस्तथैवान्तस्तथादर्शयदच्युतः || ३० || यथा सती तस्य जायां भूता सा या च यत्सुता | तत् सर्वं दर्शयामास मुक्तदेहा च सा यथा || ३१ || बहिर्व्यक्त तु निःसारं प्रपञ्च रजसं बहु | दर्शयित्वा परं ज्योतिर्गतचितं तदाकरोत् || ३२ || ततो हरोऽपि तान् सर्वान् प्रपञ्चान् वीक्ष्य चासकृत् | निःसारांश्च तदा मत्वा सारे चित्तं न्यवेशयत् || ३३ || ब्रह्मादीनां तदा माया देवानां तैः परिष्टुता | प्रतिश्रुत्य च कर्तव्यं तत्रैवान्तर्दधे द्रुतम् || ३४ || भगवानपि वैकुण्ठः शम्भोश्चित्तं पदे पदे | संयम्य निःसृतः कायाद्राजेव रविमण्डलात् || ३५ || कृतकृत्यास्तदा देवा ब्रह्मनारायणादयः | स्वं स्वं स्थानं ययुः प्रीतियुतास्त्यक्त्वा हरं गिरौ || ३६ || ध्यानासक्तं महादेवं प्रणम्येन्द्रादयः सुराः | विज्ञाप्य मौनिनं देवं जग्मुः स्थानं स्वकं स्वकम् || ३७ || यातेषु तेषु देवेषु कपर्दी वृषवाहनः | सहस्रं दिव्यमानेन दध्यौ ज्योतिः परं समाः || ३८ || ऋषय ऊचुः कथं मधुरिपुः शम्भोः प्रविश्य हृदयेऽञ्जसा | कल्पे कल्पे स्थितिं सृष्टिं संयमञ्चाप्यदर्शयत् || ३६ || यथा जगत्प्रपञ्चाय रजसा जगतीं गताः | निःसारता कथं तेषां दर्शिता कैटभारिणा || ४० || किन्नु सारतरं गुह्यं परं ज्योतिः सनातनम् | दर्शितं तेन तत् सत्यमाचक्ष्व द्विजसत्तम || ४१ || श्रोतुमिच्छाम इति ते मुनीन्द्राद्भूतमुत्तमम् | विस्तरादिदमाख्याहि धर्म निःश्रेयसं परम् || ४२ || मार्कण्डेय उवाच आदिसर्गमहं वक्ष्ये वाराहं द्विजसत्तमाः | कल्पे कल्पे यथा सृष्टिर्वाराहे यादृशी भवेत् || ४३ || आदिसृष्टि दर्शयित्वा प्रतिसर्गं तथा हरिः | शम्भवं दर्शयामास प्रलयादीन् निबोधतः || ४४ || प्रलय प्रथमं वक्ष्ये सर्गमादि ततः परम् | प्रतिसर्ग ततो विप्रा वाराहं विनिबोधतः || ४५ || निमेषो नाम कालांशो नेत्रोन्मेषविलक्षितः | तैरष्टादशभिः काष्ठा काष्ठानां त्रिंशता कला || ४६ || कलाभिस्तावतीभिस्तु क्षणाख्यः परिकीर्तितः | क्षणैर्द्वादशभिः प्रोक्तो मुहूर्तस्तैस्तु त्रिंशता || ४७ || मानुषः स्यादहोरात्रः पक्षस्ते दश पञ्च च | पक्षाभ्यां मानुषो मासः पितॄणां तदहर्निशम् || ४८ || मासैर्द्वादशभिर्वर्षो देवानां तदहर्निशम् | कृष्णपक्षः पितॄणां तु कर्मार्थं दिवसो मतः || ४९ || स्वप्नार्थं शुक्लपक्षस्तु रजनी परिकीर्तिता | देवानां तु दिनं प्रोक्तं षण्मासा उत्तरायणम् || ५० || रात्रिः स्वप्नाय देवानां षण्मासा दक्षिणायणम् | द्वाभ्यां द्वाभ्यान्तु मासाभ्यामर्कजाभ्यामृतुः स्मृतः || ५१ || ऋतुभिश्चायनं प्रोक्तं त्रिभिस्तन्मानुषं मतम् | ऋतुभिर्वत्सरः षड्भिस्तांश्च शृणु पृथक् पृथक् || ५२ || चैत्रादि-मासयुगलैः संज्ञाभेदाद् द्विजोत्तमाः | वसन्तश्चैत्रवैशाखो ग्रीष्मो ज्येष्ठः शुचिस्तथा || ५३ || प्रावृट् नभोनभस्यौ तु शरत् स्यादिष-कार्तिकौ | सहः पौषौ च हेमन्तः शिशिरो माघफाल्गुनौ || ५४ || षडिमे ऋतवः प्रोक्ता यज्ञादौ विहिताः पृथक् | नृणां मानेन दशभिर्लक्षैः सप्तभिरुत्तरैः | अष्टाविंशतिसाहस्रैमनिं कृतयुगस्य तु || ५५ || सन्ध्या चतुःशतानीह वर्षाणामन्तरालतः | सन्ध्यांशस्तावता प्रोक्तस्तदन्तर्गत ईप्सितः || ५६ || त्रेता द्वादशभिर्लक्षैर्मानुषैर्वत्सरैर्भवेत् | षण्णवत्या सहस्रैश्च सन्ध्या चास्य शतत्रयम् || ५७ || शतत्रयं तु सन्ध्यांशस्तदन्तः परिकीर्तितः | चतुःषष्टिसहस्राणि लक्ष्याण्यष्टौ प्रमाणतः || ५८ || भवेद्युगं द्वापराख्यं तेषु सन्ध्या शतद्वयम् | शतद्वयं तु सन्ध्यांशस्तदन्तर्गत इष्यते || ५९ || द्वात्रिंशत्तु सहस्राणि चतुर्लक्षाणि वै कलेः || ६० || संवत्सरैर्भवेन्मानं सन्ध्यैकं प्रोच्यते शतम् | वत्सराणामेकशतं संध्यांशश्च तदन्तरे || ६१ || एवं कृतश्च त्रेता च द्वापरश्च तथा कलिः | मानुषेण प्रमाणेन भवेद् युगचतुष्टयम् || ६२ || त्रिचत्वारिंशता लक्षैर्मानञ्चातुर्युगं भवेत् | सहस्रैरपि विंशत्या संध्या संध्यांशसंयुतम् || ६३ || दैवं दिनं वत्सरेण मानुषेण सरात्रकम् | एवं क्रमं गणित्वा तु मानुषीयैश्चतुर्युगैः | दैवं द्वादशसाहस्रं वत्सराणां प्रकीर्त्तितम् || ६४ || देवैर्द्वादशसाहस्रैर्वत्सरैदैविकं युगम् | तद्वै चतुर्युगं नृणां संध्या संध्यांशसंयुतम् || ६५ || देवानां तु कृते त्रेताद्वापरादिव्यवस्थया | न युगव्यवहारोऽस्ति न च धर्मादिभिन्नता || ६६ || किन्तु चातुर्युगं नारं भवेद्दैवयुगं सदा | दैविकैरेकसप्तत्या युगैर्मन्वन्तरं भवेत् || ६७ || दैवयुगसहस्रे द्वे ब्रह्मणः स्यादहर्निशम् | चतुर्युगसहस्रे द्वे नृणां मानेन तद्भवेत् || ६८ || एकस्मिन् ब्राह्मदिवसे मनव स्युश्चतुर्दश | एवं ब्राह्मणे मानेन दिवसैस्तु त्रिभिः शतैः | स-षष्टिभिर्वत्सरः स्याद् ब्राह्मो वर्षो नृणां यथा || ६९ || ब्राह्मै पञ्चशता वर्षैः परार्धः परिकीर्तितः | तदीश्वरस्य दिवसस्तावती रात्रीरीड्यते || ७० || शतेन ब्रह्मणो वर्षो कालः स्याद् द्विपरार्धकः | परार्धद्वितयेऽतीते ब्रह्मणः प्रलयो भवेत् || ७१ || प्रलीने ब्रह्मणि परे जगतां प्राकृतो लयः | समस्तजगदाधारमव्ययं यत् परात्परम् || ७२ || तस्य ब्रह्मस्वरूपस्य दिवारात्रस्य यद् भवेत् | तत्परं नाम तस्यार्धं परार्धंमभिधीयते || ७३ || जगत्स्वरूपी भगवान् परमात्माक्षयोऽव्ययः | स्थूलात् स्थूलतमः सूक्ष्माद् यस्तु सूक्ष्मतमो मतः | न तस्यास्ति दिवारात्रिव्यवहारो न वत्सरः || ७४ || किन्तु पौराणिकैः पूर्वैरस्माभिरपि तादृशैः | सृष्टिप्रलयबोधार्थं कल्प्यते तदहर्निशम् || ७५ || स एव रात्रिः स दिवा स वर्षः स वै क्षितिः सृष्टिकरो हरश्च | स विष्णुरूपी पुरुषः पुराणस्तस्मिन् समस्तञ्च विभाति तद्वत् || ७६ || ततो ब्रह्मणि लीने तु परमात्मनि शाश्वते | जगत् सर्वं क्रमेणैव तद्रूपत्वाय गच्छति || ७७ || ब्रह्मणः शतवर्षान्ते रुद्ररूपी जनार्दनः | जगदन्तं स्वयं कृत्वा परमे लीनमेति वै || ७८ || प्रथमं सविता सर्वं स्थावरं जङ्गमं तथा | तीव्रैः करैः शोषयित्वा जलं सर्वं ग्रहीष्यति || ७९ || शुष्का वृक्षास्तृणगणाः प्राणिनः पर्वतास्तथा | चूर्णीकृत्वा विशीर्णा स्युर्दिव्यवर्षशतेन तु || ८० || ततो द्वादशसूर्यस्य रश्मयः प्रबला भृशम् | अभवन् द्वादशादित्या जगद्भोग्योपबृंहिताः || ८१ || रश्मिद्वारेण सकलास्सूर्यास्ते भुवनानि च | अदहन् पृथिवी द्यौश्च मेदिनी चोष्णतां गता || ८२ || ततो विनष्टे सकले स्थावरे जङ्गमे तथा | आदित्यरश्मितौ देवो रुद्ररूपी जनार्दनः || ८३ || निःसृत्य प्रथमं यातः पातालतलमुन्नतः || ८४ || सप्तपातालसंस्थांस्तु नागगन्धर्वराक्षसान् | देवानृषींश्च शेषञ्च जघान वरशूलधृक् || ८५ || एवं स्वर्गे च पाताले पृथिव्यां सागरेषु च | ये प्राणिनस्तान् समस्तान् जघान स जनार्दनः || ८६ || ततो मुखान्महावायुं रुद्रश्च सृष्टवान् स्वयम् | सोऽव्याहतगतिर्गाढं ससार भुवनत्रये || ८७ || यावद्वर्षशतं वायुर्भ्रमन् भुवनगर्भगः | सर्वमुत्सारयामास यत् किञ्चत्तुलाराशिवत् || ८८ || समस्तं तत् समुत्सार्य जगद्वर्ति समन्ततः | विवेश द्वादशादित्यान् स वायुर्जवनाधिकः || ८९ || प्रविश्य मण्डलं तेषां तेजोभिः सह मारुतः | महामेघान् समारेभे रुद्रेण प्रतियोजितः || ९० || ततस्ते प्रेरिता मेघास्तेन वातेन वेगिना | रुद्रेणाप्यतिरौद्रेण पर्याववुर्नभस्तलम् || ९९ || संवर्ताख्या महामेघा भिन्नाञ्जनचयोपमाः | केचिद्धूम्रा शोणवर्णाः शुक्लाश्चित्राश्च भीषणाः || ९२ || केचिच्च पर्वताकाराः केचिन्नागसमप्रभाः | प्रासादसदृशाः केचित् क्रौञ्चवर्णाविभीषणाः || ९३ || गर्जन्त्स्ते महामेघा वर्षाणामधिकं शतम् | ववृषुस्त्रीनथो लोकान् प्लावयन्तो महास्वनाः || ९४ || अथ स्तम्भप्रमाणेन धारापातेन वै दृढम् | धारासारेण महता पूरितं भुवनत्रयम् || ९५ || आध्रु वस्थानमासाद्य तोयराशौ स्थिते ततः | स मुखादसृजद्वायुं रुद्ररूपी जनार्दनः || ९६ || तेनौघवायुनाक्षिप्ता मेघाः संवत्सराञ्छतम् | अव्याहतगतेनाशु विध्वस्ता अभवंस्ततः || ९७ || नष्टेषु तेषु मेघेषु जनलोकादिकं पुनः | रुद्रस्त्वाब्रह्मभुवनं ध्वंसयामास निर्दयः || ९८ || विध्वस्तेषु समस्तेषु भुवनेषु विशेषतः | विनष्टे ब्रह्मलोके च रुद्रोऽगाद् द्वादशारुणान् || ९९ || स गत्वा द्वादशादित्यान् वेगेन महता हरिः | अग्रसच्चातिजज्वाल तैर्गर्भस्थैर्दिवाकरैः || १०० || ततो ब्रह्माण्डमासाद्य रुद्रः कालान्तकोपमः | चूर्णीचकार सकलं मुष्टिपेषं महाबलः || १०१ || चूर्णीकुर्वन्तु ब्रह्माण्डं पृथिव्यपि विचूर्णिता | तोयानि च समस्तानि स दध्रे योगतो हरिः || १०२ || यद् ब्रह्माण्डाद्बहिस्तोयं स्थितं पूर्वं समन्ततः | यद्वाभ्यन्तर्गतं तोयं तत् सर्वञ्चैकतां गतम् || १०३ || एकीभूतेषु तोयेषु सर्वव्यापिषु सर्वतः | ब्रह्माण्डखण्डपूर्णौधः प्लवन्नासीत् स नौरिव || १०४ || ततः पृथिव्याः सारन्तु गन्धं तन्मात्रकं क्रमात् | अम्भो जग्राह सकलं विनष्टा पृथिवी ततः || १०५ || पुनः स रुद्रस्तेजांसि गर्भस्थानि स्वकायतः | निःसारयामास पुनः पुञ्जोभूतानि भीषणः || १०६ || तानि तेजांसि सकलं जगृहुः सर्वतः स्थितम् | अन्तर्बहिश्च ब्रह्माण्डात्तेजो यच्चान्यतो गतम् || १०७ || जगद्गतं सर्वतेजो गृहीत्वा चैकतो ज्वलन् | रौद्रब्रह्माण्डखण्डानि तेजोऽथ न्यदहज्जले || १०८ || दग्ध्वा ब्रह्माण्डचूर्णानि तेजांस्युज्ज्वलितानि च | जलेभ्यो रसतन्मात्रं सारभूतं ततोऽग्रहीत् | गृहीतसारास्ता आपः प्रनष्टास्तेजसा ततः || १०९ || अप्सु नष्टासु तत्तेजः प्रविश्याथ सदागतिः | एकीभूतो महाभागो रूपं तन्मात्रमग्रहीत् || ११० || गृहीते रूपतन्मात्रे तेजांसि सकलान्यथ | विनष्टानि ततो वायुः प्रबलोऽभूदवारितः || १११ || महास्वनं ततो वायुमासाद्याग्निरिव ज्वलन् | रुद्रः संक्षोभयामास तदाकाशं स्वयं ततः || ११२ || तेन संक्षुब्धमाकाशमग्रहीन्मरुतस्ततः | तद्गतं स्पर्शतन्मात्रं ततो नष्टः प्रभञ्जनः || ११३ || नष्टे वायौ ततो रुद्र आकाशात् सारमग्रहीत् | शब्दतन्मात्रकं तस्मिन् गृहीते विगतं वियत् || ११४ || नष्टे नभसि रुद्रोऽसौ काये ब्राह्मे तदाविशत् | ब्राह्मं तदाकुलं कायं निराधारं निराकुलम् | विवेश वैष्णवे काये शङ्खचक्रगदाधरे || ११५ || ततः शौरिर्महातेजाः कायं तत् पाञ्चभौतिकम् | शङ्खचक्रगदाशार्ङ्गवरासिधरमच्युतम् | स्वशक्त्या संजाहाराशु सारमादाय सर्वतः || ११६ || निराधारं निराकारं निःसत्त्वं निरवग्रहम् | आनन्दमयमद्वैतं द्वैतहीनाविशेषणम् || ११७ || न स्थूलं न च सूक्ष्मं यज्ज्ञानं नित्यं निरञ्जनम् | एकमासीत् परं ब्रह्म स्वप्रकाश समन्ततः || ११८ || नाहो न रात्रिर्न वियन्न पृथ्वी नासीत्तमो ज्योतिरभून्नचान्यत् | श्रोत्रादिबुद्ध्याद्युपलभ्यमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत् || ११९ || एवं यावत्स्थितां सृष्टिस्तावत् कालमसृष्टिकम् | आसीदेकं परं तत्त्वं ततः सृष्टिः प्रवर्तते || १२० || प्रकृतौ संस्थितो यस्मात् सर्वतन्मात्रसञ्चयः | अहङ्कारं महत्तत्त्वं गतो यत् प्राकृतो लयः || १२१ || प्रकृतौ संस्थितं व्यक्तमतीत प्रलयन्तु तत् | तस्मात् प्राकृतसंज्ञोऽयमुच्यते प्रतिसञ्चरः || १२२ || अयं वः कथितो विप्राः प्राकृताख्यो महालयः | आदिसृष्टिं शृणुष्वेमां कथ्यमानां मया पुनः || १२३ || इति श्रीकालिकापुराणे संहारकथनं नाम चतुर्विंशोऽध्यायः || २४ || पञ्चविंशोऽध्यायः मार्कण्डेय उवाच कालो नाम स्वयं देवः सृष्टिस्थित्यन्तकारकः | अविच्छिन्नः स प्रलयं स्तेन भागेन केनचित् || १ || लयभागे व्यतीते तु सिसृक्षा समजायत | ज्ञानरूपस्य च तदा परमब्रह्मणो विभोः || २ || ततोऽस्य प्रकृतिस्तेन सम्यक्संक्षोभिता धिया | स क्षुब्धा सर्वकार्यार्थमभूत् सा त्रिगुणात्मिका || ३ || यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते | मनसो लोककर्तृत्वात्तथासौ परमेश्वरः || ४ || स एव क्षोभको ब्रह्मन् क्षोभ्यश्च परमेश्वरः | स संकोचविकाशाभ्यां प्रधानत्वेऽपि च स्थितः || ५ || इच्छामात्रेण पुरुषः शृष्ट्यर्थं परमेश्वरः | ततः संक्षोभयामास पुनरेव जगत्पतिः || ६ || गुणसाम्यात्ततस्तस्मात् क्षेत्रज्ञाधिष्ठितात् ततः | गुणव्यञ्जनसंभूतिः सर्गकाले बभूव ह || ७ || प्रधानतत्त्वादुद्भुतमीश्वरेच्छासमीरितात् | महत्तत्वं प्रथमतस्तत् प्रधानं समावृणोत् || ८ || प्रधानेनावृतात्तस्मादहङ्कारो व्यजायत | वैकारिकस्तैजसश्च भूतादिश्चैव तामसः || ९ || त्रिविधोऽयमहङ्कारो यो जातो महतोऽग्रतः | भूतानामिन्द्रियाणाञ्च स वै हेतुः सनातनः || १० || स महांस्तमहङ्कारं जातमात्रं समावृणोत् | तन्मात्राणि ततः पञ्चजज्ञिरेऽस्मात् समावृतात् || ११ || प्रथमं शब्दतन्मात्रं स्पर्शतन्मात्रमन्तरम् | तृतीयं रूपतन्मात्रं रसतन्मात्रमेव च || १२ || पञ्चमं गन्धतन्मात्रमेतानि क्रमशोऽभवन् | प्रत्येकं सर्वतन्मात्रमहङ्कारः समावृणोत् || १३ || ससर्ज शब्दतन्मात्रादाकाश शब्दलक्षणम् | शब्दमात्रं तथाकाश भूतादि स समावृणोत् || १४ || शब्दतन्मात्रसहितात् स्पर्शतन्मात्रतस्ततः | वायुं समभवत् स्पर्शगुणः शब्दसमन्वितः || १५ || आकाशवायुसंयुक्ताद्रूपतन्मात्रतस्ततः | तेजः समभवद्दीप्त सर्वतस्तदवर्धतः || १६ || तच्छब्दवत् स्पर्शवच्च रूपवच्च व्यजायत | ततो वियद्वायुतेजोयुक्तात्तोयं ससर्ज ह | रसतन्मात्रतः सम्यक् तेन व्याप्त समन्तः || १७ || तोयान्याधारशक्तिर्या विष्णोरमिततेजसः | सा दध्रेऽथ निराधाराण्यनिलान्दोलितानि वै || १८ || तेषु बीजं प्रथमतः ससर्ज परमेश्वरः | तदण्डमभवद् हैमं सहस्रांशुसमप्रभम् || १९ || महदादिविशेषान्तैरारब्धं सर्वतो वृतम् | वारिवह्न्यनिलाकाशैस्तमोभूतादिना बहिः | वृतं दशगुणैरण्डं भूतादिर्महता तथा || २० || बीजं यथा बाह्यदलैर्व्याप्तमण्डं तथा पुनह् | तोयादिभिस्तथा व्याप्तं ब्रह्माण्डमतुलं द्विजाः || २१ || तदण्डमध्ये स्वयमेव विष्णुर्ब्रह्मस्वरूपं विनिधाय कायम् | दिव्येन मानेन स वर्षमेकं स्थितोऽग्रहीद्बीजगणं स्वबुद्ध्या || २२ || ध्यानेन चाण्डं स्वयमेव कृत्वा द्विधा स तस्थौ क्षणमात्रमस्मिन् | तदैव तन्मात्रगणैः समस्तैर्गन्धोत्तरैर्भूरमुनैव सृष्टा || २३ || स्पर्शस्य शब्दस्य समस्तरूपगुणस्य गन्धस्य रसस्य चैषा | आधारभूता सकलैः कृता यत्तन्मात्रवर्गैरखिला धरित्री || २४ || जातस्तदुत्थैः कनकचलोऽसौ जरायुभिः पर्वतसञ्चयोऽभूत् | गर्भादिकैः सप्तपयोधयस्तु स्कन्धद्वयेन त्रिदशालयोऽभूत् || २५ || स्कन्धद्वयेनापरदेशजेन सप्ताभवन्नागगृहाणि तानि | पातालसंज्ञानि महासुखानि यत्र स्वयं स्यात् परतो महेशः || २६ || तेजोगणात्तस्य बभूव लोको योऽसौ महर्लोक इति श्रुतोऽभूत् | जनाह्वयोऽभून्मरुतोऽथ गर्भाद् ध्यानात्तपोलोकवरो बभूव || २७ || अण्डोर्धगत्यामभवत्तु सत्यं ब्रह्माण्डखण्डोपरि विष्णुरच्युतः | परं पदं यन्निगदन्ति धीरा यज्ज्ञानगम्यं परिनिष्ठरूपम् || २८ || एवं विधाय प्रथमं बभूव विष्णुस्वरूपी स्थितये स एव | स्वयं समुद्भूततनुर्यतोऽयं स्वभूरिति ख्यातिरवाप विष्णुः || २९ || ततोऽभवत् यज्ञवराहरूपी विष्णुर्भुवः प्रोद्धरणाय पीनः | निमज्जमानां पृथिवी स मध्ये भित्त्वा गतो धर्तुमधोऽतिवेगा || ३० || दंष्ट्राग्रदेशे विनिधाय पृथ्वी स उद्गतः सर्वमतीत्य तोयम् | ततोऽभवत् सप्तकणान्वितोऽयमनन्तमूर्तिः पृथिवीं विधर्तुम् || ३१ || प्रसार्य शेषोऽपि फलाः स वैष मध्ये निधायैकफणां धरित्रीम् | दधार तोयोपरि तोयसंस्थितस्ततोऽत्यजद् यज्ञवराह उर्वीम् || ३२ || प्रसारिताः फणाः सर्वास्तासामेका तु पूर्वतः | अपरा पश्चिमायां तु दक्षिणोत्तरयोः परे || ३३ || एका गता फणैशान्यामाग्नेययामपरा दिशि | पृथ्वीमध्ये स्थिता चैका नेरृत्यां तस्य वै तनुः | शून्या दिग्वायवी तत्र ततो नम्रा स्थिता क्षितिः || ३४ || स तु दीर्घतनुस्तोये यदानन्तो न चाशकत् | कूर्मरूपी तदा भूत्वानन्तं कायमधाद्धरिः || ३५ || अधो ब्रह्माण्डखण्डं स पद्भिराक्रम्य कच्छपः | ग्रीवां वितत्य वायव्यां पृष्ठेऽनन्तमधारयत् || ३६ || अनन्तः कूर्मपृष्ठे तु नवभिर्वेष्टनैस्तनुम् | निधाय पृथ्वीं दध्रे सुखेनैव महातनुः || ३७ || ततः फणास्वनन्तस्य चलन्ती पृथिवी स्थिता | वराहः कर्तुमचलामचलामकरोद्दृढाम् || ३८ || मेरुं खुरप्रहारेण प्रहृत्य पृथिवीतलम् | न्यखनत् स विवेशाथ पृथ्वीं भित्त्वान्तरं ततः || ३९ || योजनानां सहस्राणि षोडशैव रसातलम् | प्रविवेश महाशैलो वराहाङ्घ्रिप्रहारतः || ४० || द्वात्रिंशत्तु सहस्राणि योजनानां तु विस्तृतम् | मेरोः शिरोऽभवत्तेन प्रहारेण द्विजोत्तमाः || ४१ || मर्यादा पर्वतनाथस्य पार्श्वे पोत्री तदाकरोत् | यदा चलति नैवैष पर्वतः पृथिवीधरः || ४२ || हिमवत्प्रभृतीनाञ्च भागं भागं सपञ्चकम् | पदा क्षित्यन्तरं चक्रे तदुच्छ्रायप्रमाणतः || ४३ || ततो ब्रह्मा वराहाय नमस्कृत्य महीजसे | अर्धनारीश्वरं कक्षाद् देवदेवं व्यजायतः || ४४ || प्रथमं जातमात्रः स प्ररुरोद महास्वनः | किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह || ४५ || नम देहीति तं सोऽथ प्रत्युवाच महेश्वरः | रुद्रनामा रोदनाच्च मा रोदीस्त्वं महाशय || ४६ || एवमुक्तः पुनः सोऽथ सप्तवारान् रुरोद सः | ततोऽपराणि नामानि सप्त ब्रह्माकरोत् पुनः || ४७ || शर्वं भवं च भीमञ्च महादेवं चतुर्थकम् | पञ्चमं चोग्रमीशानं षष्ठं पशुपतिं परम् || ४८ || मया यथा विभक्तस्त्वं तथात्मा स्वो विभज्यताम् | त्वयापि भूरिसृष्ट्यर्थं भवांश्चापि प्रजापतिः || ४९ || ततो ब्रह्मा द्विधा भूत्वा पुरुषोऽर्धेन सोऽभवत् | अर्धेन नारी तस्यां तु विराजमसृजत् प्रभुः || ५० || तमाह भगवान् ब्रह्मा कुरु सृष्टिं प्रजापते | तपस्तप्त्वा विराट् सोऽपि मनुं स्वायम्भुवं ततः || ५१ || ससर्ज सोऽपि तपसा ब्रह्माणं पर्यतोषयत् | तोषितस्तेन मनसा दक्षं सृष्ट्यै ससर्ज सः || ५२ || सृष्टे दक्षेऽथ दशधा प्रणतो मनुना विधिः | पुनरेव सुतानन्यान् ससर्ज दश मानसान् || ५३ || मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् | प्रचेतसं वसिष्ठञ्च भृगुं नारदमेव च || ५४ || एतानुत्पाद्य मनसा मनुं स्वायम्भुवं पुनः | यूयं सृजध्वमित्युक्त्वा लोकेशोऽन्तर्दधे पुनः || ५५ || वराहोऽप्यथ पोत्रेण खनित्वा सप्तसागरान् | पृथिव्यां बलयाकारान् ससर्ज परमेश्वरः || ५६ || सप्तधा भमणेनासौ सृष्ट्वा सप्ताथ सागरान् | सप्तद्वीपानवच्छिद्य पृथिव्यन्तं ततो गतः || ५७ || लोकालोकाह्वयं शैलः कृत्वा पृथ्व्यास्तु वेष्टनम् | लक्षद्वयोच्छ्रितं मानाद् योजनानां समन्ततः | सुदृढं स्थापयामास भित्तिप्रान्ते यथा गृहम् || ५८ || आदिसृष्टिरियं विप्राः कथिता भवतां मया | प्रतिसर्गमहं वक्ष्ये तच्छृण्वन्तु महर्षयः || ५९ || इति श्रीकालिकापुराणे वराहसर्गो नाम पञ्चविंशोऽध्यायः | षड्विंशोऽध्यायः मार्कण्डेय उवाच वाराहोऽयं श्रुतः सर्गो वराहाधिष्ठितो यतः | प्रतिसर्गः श्रुतः सर्वैर्दक्षाद्यैर्यः कृतः पृथक् || १ || रुद्रो विराण्मनुर्दक्षो मरीच्याद्यास्तु मानसाः | यं यं सर्गं पृथक् चक्रुः प्रतिसर्गश्च स स्मृतः || २ || विराट्-सुतोऽसृजद्वंश्यान्मनून् यैर्विततं जगत् | मनुः सप्त मनून् सृष्ट्वा चकार बहुशः प्रजाः || ३ || प्रजाः सिसृक्षुः स मनुर्योऽसौ स्वायम्भुवाह्वयः असृजत् प्रथमं षड् वै मनून् सोऽथ परान् सुतान् || ४ || स्वारोचिषश्चौत्तमिश्च तामसो रैवतस्तथा | चाक्षुषश्च महातेजा विवस्वानपरस्तथा || ५ || यक्षरक्षःपिशाचांश्च नागगन्धर्वकिन्नरान् | विद्याधरानप्सरसः सिद्धान् भूतगणान् बहून् || ६ || मेघान् सविद्युतो वृक्षान् लतागुल्मतृणादिकान् | मत्स्यान् पशूंश्च कीटांश्च जलजान् स्थलजांस्तथा || ७ || एतादृशानि सर्वाणि मनुः स्वायम्भुवः सुतैः | सहितः ससृजे सोऽन्यः प्रतिसर्गः प्रकीर्तितः || ८ || अन्ये षण्मनवो ये वै तेऽपि स्वे स्वेऽन्तरेऽन्तरे | प्रतिसर्गं स्वयं कृत्वा प्राप्नुवन्ति चराचरम् || ९ || यज्ञस्य सम्भूतं यज्ञं यूपं प्राग्वंशमेव च | धर्माधर्मौ गुणान् सर्वान् वराह इव सृष्टवान् || १० || सुतान् बहून् समुत्पाद्य दक्षो देवर्षिसत्तमान् | महर्षीन् सोमपायींश्च बहून् पितृगणांस्तथा || ११ || सृष्टिं प्रवर्त्तयामास प्रतिसर्गोऽस्य स स्मृतः | अजायन्त मुखाद्विप्राः क्षत्रिया बाहुयुग्मतः || १२ || ऊर्वोर्वैश्याः पदोः शूद्राश्चतुर्वेदाश्चतुर्मुखात् | ब्रह्मणः प्रतिसर्गोऽयं ब्राह्मः सर्गः स्मृतस्ततः || १३ || मरीचेः कश्यपो जातः कश्यपात् सकलं जगत् | देवा दैत्या दानवाश्च तस्य सर्गः प्रकीर्तितः || १४ || अत्रेर्नेत्रादभूच्चन्द्रश्चन्द्रवंशस्ततोऽभवत् | तेन व्याप्तं जगत् सर्वं सोऽस्य सर्गः प्रकीर्तितः || १५ || अथर्वागिरस पुत्राः पौत्राश्च बहुशोऽपरे | मन्त्रयन्त्रादयो ये वै ते सर्वेऽङ्गिरसः स्मृताः || १६ || आज्यपाख्याः पुलस्त्यस्य पुत्राश्चान्ये च राक्षसाः | प्रतिसर्गः पुलस्त्यस्य बलवेगसमन्विताः || १७ || काद्रवेया गजा अश्वाः प्रजा बहुतरास्तथा | ससृजे पुलहेनैष सर्गस्तस्य प्रकीर्तितः || १८ || क्रतोः पुत्राः बालखिल्याः सर्वज्ञा भूरितेजसः | अष्टाशीतिसहस्राणि ज्वलद्भास्करसन्निभाः || १९ || प्रचेतसः सुताः सर्वे ते वै प्राचेतसाः स्मृताः | षडशीतिसहस्राणि पावकोपमतेजसः || २० || सुकालिनो वसिष्ठस्य पुत्राश्चान्ये च योगिनः | आरुन्धतेयाः पञ्चाशद्वाशिष्ठः सर्ग उच्यते || २१ || भृगोश्च भार्गवा जाता ये वै दैत्यपुरोधसः | कवयस्ते महाप्राज्ञास्तैर्व्याप्तमखिलं जगत् || २२ || नारदात्तारका जाता विमानानि तथैव च | प्रश्नोत्तरास्तथैवान्ये नृत्यगीतं च कौतुकम् || २३ || एते दक्षमरीच्याद्याः कृतदारान् बहून् सुतान् | उत्पाद्योत्पाद्य पृथिवीं दिवं च समपूरयन् || २४ || तेषां सुतेभ्यश्च सुतास्तत्पुत्रेभ्यः परे सुताः | समुत्पन्नाः प्रवर्तन्ते ह्यद्यापि भुवनेषु वै || २५ || विष्णोस्तु चक्षुषोः सूर्यो मनसश्चन्द्रमाः स्मृतः | श्रोत्राद्वायु समुद्भतोमुखादग्निरजायत || २६ || प्रतिसर्गो ह्ययं विष्णुस्तथा चापि दिशो दश | सृष्ट्यर्थं चन्द्रमा पश्चादत्रिनेत्रादवातरत् | भास्करं कश्यपाज्जातो भार्यया च समन्वितः || २७ || रुद्राश्च बहवो जाता भूतग्रामाश्चतुर्विधाः | श्ववराहोष्ट्ररूपाश्च प्लवगोमायुगोमुखा || २८ || ऋक्षमार्जारवदना सिंहस्याघ्रमुखाः परे | नाना शस्त्रधरा सर्वे नानारूपा महाबलाः || २९ || एष व प्रतिसर्गोऽपि कथितो द्विजसत्तमाः | दैनन्दिन च प्रलय शृणुध्वं कल्पशेषतः || ३० || इति श्रीकालिकापुराणे सृष्टिकथने षड्विशोऽध्यायः || २६ || सप्तविंशोऽध्यायः मार्कण्डेय उवाच मन्वन्तरं मनोः कालो यावत् पालयते प्रजाः | एको मनुः स कालस्तु मन्वन्तरमिति श्रुतम् || १ || तदेकसप्ततियुगैर्देवानामिह जायते | तैश्चतुर्दशभिः कल्पो दिनमेकं तु वेधसः || २ || दिनान्ते ब्रह्मणो जाते सुषुप्सा तस्य जायते | योगनिद्रा महामाया समायाति पितामहम् || ३ || नाभिपद्मं प्रविश्याथ विष्णोरमिततेजसः | सुखं शेते स भगवान् ब्रह्मा लोकपितामहः || ४ || ततो विष्णुः स्वयं भुत्वा रुद्ररूपी जनार्दनः | पूर्ववन्नाशयामास स सर्वं भुवनत्रयम् || ५ || वायुना वह्निना सार्धं दाहयामास वै यथा | महाप्रलयकालेषु तथा सर्वं जगत् त्रयम् || ६ || जनं यान्ति प्रतापार्ता महर्लोकनिवासिनः | त्रैलोक्यदाहसमये पीडिता दारुणाग्निना || ७ || ततः कालान्तकैर्मेघैर्नानावर्णैर्महास्वनैः | समुत्पाद्य महावृष्टिमापूर्य भुवनत्रयम् || ८ || चलत्तरङ्गैस्तोयौघैराध्रुवस्थानसंगतैः | निधाय जठरे लोकानिमांस्त्रीन् स जनार्दनः | नागपर्यङ्कशयने शेते स परमेश्वरः || ९ || शयान नाभिकमले ब्रह्माणं स जगद्गुरुः | संस्थाप्य त्रीनिमाल्लोकान् दग्ध्वा जग्ध्वा श्रिया सह || १० || शेते स भोयिशययायां ब्रह्मा नारायणात्मकः | योगनिद्रावशं जातस्त्रेलोक्यग्रासवृंहितः || ११ || त्रैलोक्यमखिलं दग्धं यदा कालाग्निना तदा | अनन्तः पृथिवी त्यक्त्वा विष्णोरन्तिकमागगः || १२ || तेन त्यक्ता तु पृथिवी क्षणमात्रादधोगता | पतिता कूर्मपृष्ठे च विशीर्णेव तदाभवत् || १३ || कूर्मोऽपि महतो यत्नाच्चलन्तीं पृथिवीं जले | ब्रह्माण्डं पद्भिराक्रम्य पृष्ठे दध्रे धरां तदा || १४ || ब्रह्माण्डखण्डसंयोगाच्चूर्णिता पृथिवो भवेत् | इति तां परिजग्राह कूर्मरूपी जनार्दनः || १५ || चलज्जलौघसंसर्गाच्चलन्त्या धरया तदा | कूर्मपृष्ठं बहुतरैर्वरण्डैर्विततीकृतम् || १६ || अनन्तस्तत्र गत्वा तु यत्र क्षीरोदसागरः | तत्र स्वयं श्रिया युक्तं सुषुप्सन्तं जनार्दनम् || १७ || फणया मध्यया दध्रे त्रैलोक्यग्रासबृंहितम् | पूर्वं फणाः वितत्योर्ध्वं पद्मं कृत्वा महाबलः | विष्णुमाच्छादयामास शेषाख्यः परमेश्वरम् || १८ || तस्योपधानमकरोदनन्तो दक्षिणां फणाम् | उत्तरां पादयोश्चक्रे उपधानं महाबलः || १९ || तालवृन्तं तदा चक्रे सशेषः पश्चिमा फणाम् | स्वपन्नं बीजयामास शेषरूपी जनार्दनम् || ३० || शङ्खं चक्रं नन्दकासिमिषुधी द्वे महाबलः | ऐशान्ययाथ फणया स दध्रे गरुडं तथा || २१ || गदा पद्मं च शार्ङ्गश्च तथैव विविधायुधम् | यानि चान्यानि तस्यासन्नाग्नेयया फणया दधौ || २२ || एवं कृत्वा स्वकं कायं शयनीय तदा हरेः | पृथ्वीमधरकायेन मग्नामात्रम्य चाम्भसि || २३ || त्रैलोक्य ब्रह्मसहितं सलक्ष्मीकं जनार्दनम् | सोपासङ्ग जगद्बीज जगत्कारणकारणम् || २४ || नित्यानन्दं वेदमयं ब्रह्मण्य परमेश्वरम् | जगत्कारणकर्तार जगत्कारणकारणम् || २५ || भूतभव्यभवन्नाथ परावरगतिं हरिम् | दधारं शिरसा तान्तु स्वयमेव स्वकां तनुम् || २६ || एवं ब्रह्मदिनस्यैव प्रमाणेन निशां हरिः | सन्ध्यां च समभिव्याप्य शेते नारायणोऽव्ययः || २७ || यस्मादयन्तु प्रलयो ब्रह्मणः स्याद् दिने दिने | तस्माद् दैनन्दिनमिति ख्यापयन्ति पुराविदः || २८ || व्यतीतायां निशायां तु ब्रह्मा लोकपितामहः | त्यक्त्वा निद्रां समुत्तस्थौ स पुनः सृष्टये हितः || २९ || त्रैलोक्यं तोयसम्पूर्णं शयानं पुरुषोत्तमम् | निरीक्ष्य वैष्णवीं मायां महामायां जगन्मयीम् | योगनिद्रां स तुष्टाव हरेरङ्गे च संस्थिताम् || ३० || ब्रह्मोवाच चितिशक्तिं निर्विकारां परब्रह्मस्वरूपिणीम् | प्रणमामि महामायां योगनिद्रां सनातनीम् || ३१ || त्वं विद्या योगिनां देवि त्वं गतिस्त्वं मतिः स्तुतिः | त्वं सृष्टिस्त्वं स्थितिः स्वाहा स्वधा त्वमिह गीतिका || ३२ || त्वं सामगीतिस्त्वं नीतिस्त्वं ह्रीः श्रीस्त्वं सरस्वती | योगनिद्रा महामाया मोहनिद्रा त्वमीश्वरी || ३३ || त्वं कान्तिः सर्वशक्तिस्त्वं त्वं तनुर्वैष्णवी शिवा | त्वं धात्री सर्वलोकानामविद्यां त्वं शरीरिणाम् || ३४ || आधारशक्तिस्त्वं देवी त्वं हि ब्रह्माण्डधारिणी | त्वमेव सर्वजगतां प्रकृतिस्त्रिगुणात्मिकां || ३५ || त्वं सावित्री च गायत्री सौम्यासौम्यातिशोभना | त्वं सिसृश्चा हरेर्नित्या सुषुप्सा त्वं सुषुप्तिका || ३६ || पुष्टिर्लज्जा क्षमा शान्तिस्त्वं धृतिः परमेश्वरी | त्वमेव क्षितिरूपेण ध्रियसे सचराचरम् || ३७ || त्वमापस्त्वमपां माता सर्वान्तर्गतचारिणी | स्तुतिः स्तुत्या च स्तोत्री च स्तुतिशक्तिस्त्वमेव च || ३८ || त्वामहं किन्नु स्तोष्यामि प्रसीद परमेश्वरि | नमस्तुन्यं जगन्मातः प्रबोधय जनार्दनम् || ३९ || एवं स्तुता महामाया ब्रह्मणा लोककारिणा | नेत्रास्यनासिका-बाहु-हृदयान्निर्गता हरेः | राजसी मूर्तिमाश्रित्य सा तस्थौ ब्रह्मद्र्शने || ४० || ततो जनार्दनो भोगिशयनान्निद्रया क्षणात् | परित्यक्तः समुत्तस्थौ सृष्टये चाकरोन्मतिम् || ४१ || ततो वराहरूपेण निमग्नां पृथिवीं जले | मग्नां समुद्दधाराशु न्यधाच्च सलिलोपरि || ४२ || तस्योपरि जलौघस्य महती नौरिव स्थिता | विततत्वाच्च देहस्य न मही याति संप्लवम् || ४३ || ततो हरिः क्षितिं गत्वा तोयराशिं स्वमायया | संहृत्य जन्तुस्थितये प्रवृत्तः स्वयमेव हि || ४४ || अनन्तोऽपि यथापूर्वं तथा गत्वा क्षितेस्तलम् | पृथिवीं धारयामास कूर्मस्योपरि संस्थितः || ४५ || ततो ब्रह्मा समुत्पाद्य सर्वानेव प्रजापतीन् | जगदुत्पादयामास सर्वलोकपितामहः || ४६ || ब्रह्मा वा कुरुते सृष्टि यदान्ये वापि कुर्वते | दक्षाद्यास्तु प्रजापालाः स्वयमेव तदिच्छया || ४७ || परब्रह्मस्वरूपीय सोऽनुगृह्णाति सन्ततम् | प्रकृतिश्चानुगृह्णाति महाभूतानि पञ्च वै || ४८ || पुरुषश्चानुगृह्णति तथैव महदादयः | ईश्वरेच्छान्वधिष्ठानात् पुरुषादष्टसंचयात् || ४९ || पुरुषाणामधिष्टानान्महाभूतगणस्य च | तथैव महदादीनां कालस्य च महात्मनः | अधीष्ठानात् प्रधानस्य यच्च किञ्चन जायते || ५० || स्थावरं जङ्गमं वापि स्थिरं वाप्यथवाद्भूतम् | सर्वमेतदधिष्ठानाज्जायते द्विजसत्तमाः || ५१ || इति वः कथितं सर्वं यथैवादर्शयत् पुरा | हराय सृष्टिसंहार-कल्पास्तान् भगवान् हरिः || ५२ || यथा जगत् प्रपञ्चस्यासारता दर्शिता परा | यच्च सारं दर्शितं तन्मत्तः शृण्वन्तु वै द्विजाः || ५३ || इति श्रीकालिकापुराणे सृष्टिकथेन सप्तविंशोऽध्यायः || २७ || अष्टाविंशोऽध्यायः मार्कण्डेय उवाच जगत् सर्वं तु निःसारमनित्यं दुःखभाजनम् | उत्पद्यते क्षणादेतत् क्षणादेतद्विपद्यते || १ || तथैवोत्पद्यते सारान्नि सारं जगदञ्जसा | पुनस्तस्मिन् विलीयन्ते महाप्रलयसङ्गमे || २ || उत्पत्तिप्रलयाभ्यां तु जगन्निःसारतां हरिः | शम्भवे दर्शयामास भावेन जगतां पतिः || ३ || एकं शिवं शान्तमनन्तमच्युतं परात्परं ज्ञानमयं विशेषम् | अद्वैतमव्यक्तमचिन्त्यरूपं सारं त्वेकं नास्ति सारं तदन्यत् || ४ || यस्मादेतज्जायते विश्वमग्र्यं यस्माल्लीनं स्यात्तु पश्चात् स्थितञ्च | आकाशवन्मेघजालस्य वृत्त्या यद्विश्वं वै ध्रियते तत्त्वसारम् || ५ || अष्टाङ्गयोर्गैर्यदवाप्तुमिच्छन् योगी पुनात्यात्मरूपं सदैव | निवर्तते प्राप्य यं नेह लोके तद्वैसारं सारमन्यन्न चास्ति || ६ || सारो द्वितीयो धर्मस्तु यो नित्यप्राप्तये भवेत् | यो वै निवर्तको नाम तत्रासारः प्रवर्तकः || ७ || धर्म शनैः सञ्चिनुयाद्वल्मीको मृत्तिकां यथा | सहायार्थं परे लोके पूर्वपापविमुक्तये || ८ || एको धर्मः परं श्रेयः सर्वसंसारकर्मसु | इतरे तु त्रयो धर्माज्जायन्तेऽर्थादयोऽपरे || ९ || वरं प्राणपरित्यागः शिरसो वाथ कर्तनम् | न तु धर्मपरित्यागो लोके वेदे च गर्हितः || १० || धर्मेण ध्रियते लोको धर्मेण ध्रियते जगत् | धर्मेणैव सुराः सर्वे सुरत्वमगमन् पुरा || ११ || धर्मश्चतुस्पाद् भगवान् जगत् पालयतेऽनिशम् | स एव मूलं पुरुषो धर्म इत्यभिधीयते || १२ || सर्वं क्षरति लोकेऽस्मिन् धर्मो नैव च्युतो भवेत् | धर्माद् यो न विचलति स एवाक्षर उच्यते || १३ || एतद्वः कथितं सारं निःसारं सकलं जगत् | यथा स्वयं ददर्शासौ शम्भुर्ज्ञानेन स्वेऽन्तरे || १४ || एतद्वै दर्शयामास स विष्णुर्जगतां पतिः | स्वयं जग्राह अम्नसां ध्यानेनात्मनि शंकरः || १५ || सारं तत्त्वं परमं निष्कलं यन्मूर्त्या हीनं मूर्तिमान् धर्म एषः | सारोऽन्योऽसौ सारहीनं तदन्यज्ज्ञात्वैवेत्थं याति नित्यं महाधीः || १६ || इति श्रीकालिकापुराणे सारासारनिरूपणं नाम अष्टाविंशोऽध्यायः || २८ || ऊनत्रिंशोऽध्यायः ऋषयः ऊचुः ये सृष्टाः शम्भुना पूर्वं भूतग्रामाश्चतुर्विधाः | किमर्थं ते समुत्पन्नाः कथं वानेकरूपतां || १ || शरीरमर्द्धं वाराहमर्द्धं दन्ताबलं तथा | सिंहव्याघ्रशरीराच्च केचित् केचिद्गणाधिपाः || २ || कथं ते वा गणाः क्रूराः किं भोगास्ते महौजसः | एतत् सर्व वयं श्रोतुमिच्छामो द्विजसत्तम || ३ || मार्कण्डेय उवाच शृण्वन्तु मुनयः सर्वे यथा शम्भुगणाभवन् | यदर्थं ते समुत्पन्ना यस्मात्ते नैकरूपिणः || ४ || एतद्वः परमं गुह्यमिदं धर्मार्थकामदम् | एतद् हि परमं तेजः सततं परमं तपः || ५ || इदं श्रुत्वा महाख्यानं परत्रेह न सीदति | यशस्यं धर्म्यमायुष्यं तुष्टिपुष्टिप्रदं परम् || ६ || आदिसर्गेऽथ वाराहे सम्पूर्णे मुनिसत्तमाः | शंकरः प्राह सर्वेशं वराहं जगतां पतिम् || ७ || ईश्वर उवाच यदर्थं भवता रूपं वाराहं कल्पितं विभो | तत्ते पूर्णं कृतं पृथ्वी यथावत् स्थापिता त्वया || ८ || सागराणां च संस्थानं नदीनां च तथा क्षितेः | सृष्टिर्ब्रह्मकृता चापि संजाता त्वत्प्रसादतः || ९ || त्वं हि सर्वमयो यज्ञमयस्तेजोमयस्तथा | गुरूणामथ सर्वेषां त्वं गुरुस्त्वं परात्परः || १० || त्वां वोढुं न क्षमा पृथ्वी विशीर्णेव जगत्पते | यन्त्रिता शैलसंघातैर्भवता स्थापितेः पुरा || ११ || तत्मात्त्व त्यज वाराहं शरीर जगता पते | जगन्मयं जगद्रूपं जगत्कारणकारणम् || १२ || कस्त्वां चान्यः क्षमो वोढुं वाराहं ते वपुर्विभो | विशेषतस्त्वया पृथ्वी सकामा धषिताः जले | स्त्रीधर्मिणी त्वत्तेजोभिः साधाद् गर्भं च दारुणम् || १३ || रजस्वला क्षमा गर्भं यमाधत्त जगत्पते | तस्माद्यस्तनयो भावी सोऽप्यादास्यति दुर्यशः || १४ || एष प्राप्यासुर भाव देवगन्धर्वहिंसकः | भविष्यतीति लोकेशः प्राह मां दक्षसन्निधौ || १५ || मलिनीरतिसंजातं दुष्टन्तेऽनिष्टकारकम् | कामुकं त्यज लोकेश वाराहं कायमीदृशम् || १६ || त्वमेव सृष्टिस्थित्यन्तकारको लोकभावनः | काले प्राप्ते स्थितिं सृष्टिं संहारं च करिष्यसि || १७ || तस्माल्लोकहितार्थाय त्यक्त्वा कायं महाबल | काले प्राप्ते पुनस्त्वन्यं कायं पोत्रं करिष्यसि || १८ || मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा शंकरस्य महात्मनः | वाराहमूर्तिर्भगवान् महादेवमुवाच ह || १९ || श्रीभगवानुवाच करिष्येऽहं तव वचस्त्वं यथात्थ महेश्वर | इमं तु यज्ञवाराहं कायं त्यक्ष्ये न संशयः || २० || काले प्राप्ते पुनस्त्वन्यं कायं वाराहमद्भुतम् | करिष्येऽहं दुराधर्षं लोकानां भावनाय वै || २१ || इत्युक्त्वा स महाकायस्तत्रैवान्तरधीयत | जगद्गुरुर्जगत्स्रष्टा जगद्धाता जगत्पतिः || २२ || तस्मिन्नन्तर्हिते देवे देवदेवो महेश्वरः | निजं स्थानं देवगणैः स्वगणैश्च जगाम ह || २३ || वाराहोऽपि स्वयं गत्वा लोकालोकाह्वयं गिरिम् | वाराह्या सह रेमे स पृथिव्या चारुरूपया || २४ || स तया रममाणस्तु सुचिरं पर्वतोत्तमे | नावाप तोषं लोकेशः पोत्रीपरमकामुकः || २५ || पृथिव्याः पोत्रीरूपाया रमयन्त्यास्ततः सुताः | त्रयो जाता द्विजश्रेष्ठास्तेषां नामानि मे शृणु || २६ || सुवृत्तः कनको घोरः सर्व एव महाबलाः || २७ || शिशवस्ते मेरुपृष्ठे काञ्चने वप्रसस्तरे | रेमिरेऽन्योन्यसंसक्ता गह्वरेषु सरःसु च || २८ || स तैः पुत्रैः परिवृतो वाराहो भर्यया स्वया | रममाणस्तदा कायत्यागं नैवागणद्धिजाः || २९ || कदाचिच्छिशुभिस्तैस्तु संश्लिष्टः कर्दमान्तरे | चकार कर्दमक्रीडां भार्यया च महाबलः || ३० || सपङ्कलेपः शुशुभे वराहो मधुपिङ्गलः | सन्ध्याघनो यथातोयं क्षरंस्तोयं तथाविधः || ३१ || स पुत्रैः परमप्रीतो भार्यया च पृथिव्यया | विरुजं धरणीं रेमे मध्यनिम्नाथ साभवत् || ३२ || अनन्तोऽपि समाक्रम्य कूर्मं स पृथिवीतले | हरिं वहन् भग्नशिराः सातङ्कोऽभूत्प्रपीडया || ३३ || सुवृत्तेन स्वर्णवप्रं घोरेण कनकेन च | विदारितं पोत्रघातैः स्वर्ण-भग्नात्कृतं समम् || ३४ || मेरुपृष्ठे यानि यानि सौवर्णानि द्विजोत्तमाः | रचितानि सुरैर्यत्नात्तानि भग्नानि तत्सुतैः || ३५ || मानसादीनि देवानां सरांसि शिशवोऽथ ते | आविलानि तदा चक्रु पोत्रधातैः समन्ततः || ३६ || पृथिवी वनितारूपा रमयामास पोत्रिणम् | स्थावरेण तु रूपेण दुःखमाप्नोति वै दृढम् || ३७ || सागराश्च सुवृत्ताद्यैरवगाह्यं समन्ततः | विकीर्णरत्नं पोत्रौघैः सर्वं एवाकुलीकृताः || ३८ || इतस्ततश्च शिशुभिः क्रीडद्भिः पोत्रिभिस्तदा | जगन्ति तत्र भग्नानि नद्यः कल्पद्रुमास्तथा || ३९ || जानन्नपि जगद्भर्ता वराहः स्वयमेव हि | जगत्पीडां सुतस्नेहाद्वारयामास नैव तान् || ४० || सुवृत्तः कनको घोरो यदागच्छति वै दिवम् | तदा देवगणा भीताः प्रद्रवन्ति दिशो दश || ४१ || एवं सुतैर्भार्यया यज्ञपोत्री क्रीडंस्तुष्टिं नाप काञ्चित् कदाचित् | नित्यं नित्यं वर्धते तस्य कामः कायं त्यक्तुं नैच्छदेष प्रदिष्टः || ४२ || इति श्रीकालिकापुराणे वाराहशंकरसंवादे ऊनत्रिंशोऽध्यायः || २९ || त्रिंशोऽध्यायः मार्कण्डेय उवाच ततो देवगणाः सर्वे सहिता देवयोनिभिः | शक्रेण सहिता मन्त्रं चक्रुः सम्यग् जगद्धितम् || १ || ततो निश्चित्य ते सर्वे शक्राद्या मुनिभिः सह | शरण्यं शरणं जग्मुर्नारायणमजं विभुम् || २ || तं समासाद्य गोविन्दं वासुदेवं जगत्पतिम् | प्रणम्य सर्वे त्रिदशास्तुस्टुवुर्गरुडध्वजम् || ३ || देवा ऊचुः नमस्ते देव देवेश जगत्कारण कारक | कालस्वरूपिन् भगवन् प्रधानपुरुषात्मकं || ४ || स्थूल सूक्ष्म जगद्व्यापिन् परेश पुरुषोत्तम | त्वं कर्ता सर्वभूतानां त्वं पाता त्वं विनाशकृत् || ५ || त्वं हि मायास्वरूपेण सन्मोहयसि वै जगत् | यद्भूतं यच्च वै भाव्यं यदिदानीं प्रवर्तते || ६ || तत् सर्वं परमेश त्वं स्थावरं जङ्गमं तथा | अर्थार्थिनां त्वमर्थस्तु कामः कामार्थिनां तथा || ७ || त्वं हि धर्मार्थिनां धर्मो मोक्षो निर्वाणमिच्छताम् | त्व कामुकस्त्वं मेवार्थी धार्मिकस्त्वं सदागतिः || ८ || त्वद्वक्त्राद् ब्राह्मणा जाता बाहुजाः क्षत्रियास्तव | ऊर्वोर्वैश्यास्तथा शूद्राः पादाभ्यां तव निर्गताः || ९ || सूर्यो नेत्रात्तव विभो मनोजश्चन्द्रमास्तव | श्रवणात् पवनो जातो दश प्राणास्तथापरे || १० || ऊर्ध्वं स्वर्गादिभुवनं तव शीर्षादजायत | तव नाभेस्तथाकाशं क्षितिः पादतलादभूत् || ११ || कर्णाभ्यां ते दिशो जाता जठरात् सकलं जगत् | त्वं हि मायास्वरूपेण सम्मोहयसि वै जगत् || १२ || निर्गुणो गुणवांस्त्वं हि शुद्धं एकः परात्परः | उत्पत्तिस्थितिहीनस्त्वं त्वमच्युतगुणाधिकः || १३ || आदित्यैर्वसुभिर्देवैः साध्यैर्यक्षैर्मरुद्गणैः | त्वं चिन्त्यसे जगन्नाथ मुनिभिश्च मुमुक्षुभिः || १४ || त्वां वै चिदानन्दमयं विदन्ति विशेषविज्ञा मुनयो विभोगाः | त्वमेव संसारं महीरुहस्य बीजं जलं स्थानमथो फलं च || १५ || त्वं पद्मया पद्माकरो विभासि वरासिचक्राब्जधनुर्धरस्त्वम् | त्वमेव तार्क्षे प्रतिभासि नित्यं स्वर्णाचले तोययुतो यथाभ्रः || १६ || त्वमेव पीताम्बरशंकराब्जजास्त्वं सर्वमेतन्न च किंचिदन्यत् | न ते गुणा नः परिचिन्तनीया विधेर्हरस्यापि दिशां पतीनाम् | भीतेन भक्त्या शरणं प्रपन्ना गता वयं नः परिरक्ष विष्णोः || १७ || मार्कण्डेय उवाच इति स्तुतो देवदेवो भूतभावनभावनः | सेन्द्रैर्देवगणैरूचे तान् सर्वान्मेघनिस्वनः || १८ || श्रीभगवानुवाच यदर्थमागता यूयं यद्वा भयमुपस्थितम् | तत्र यद्वा मया कार्यं तद् देवास्तूर्णमुच्यताम् || १९ || देवा ऊचुः शीर्यते वसुधा नित्यं क्रीडया यज्ञपोत्रिणः | लोकाश्च सर्वे संक्षुब्धा नाप्नुवन्त्युपसान्त्वनम् || २० || शुष्क तुम्बीफल घातैर्यथा जर्जरता गतम् | वराहक्षुरघातेन तथा जर्जरिता क्षितिः || २१ || तस्य ये वा त्रयं पुत्रा कालाग्निसमतेजसः | सुवृत्तः कनको घोरस्तैश्चाप्याघातितं जगत् || २२ || तेषा कर्दमलीलाभिः सरांसि जगतां पते | मानसादीनि भग्नानि प्रकृति यान्ति नाधुना || २३ || भग्नास्तैर्देवतरवो मन्दाराद्या महाबलैः | देव नाद्यापि रोहन्ति फलं पुष्पं दलं च वा || २४ || यदा त्रिकूटमारुह्य ते सुवृत्तादयस्त्रयः | प्लुतं कृत्वा महाबाहो पतन्ति लवणार्णवे | तदा तत् क्षुब्धतोयौघैः प्लाव्यते सकला मही || २५ || उत्प्लवन्ति जनाः सर्वे प्रयान्ति च दिशो दश | जीवितं रक्षमाणास्ते प्रयान्ति च दिशो दश || २६ || यदा त्रिविष्टपं यान्ति यज्ञवाराहपुत्रकाः | इतस्ततस्तदा भग्ना देवाः शान्तिं न लेभिरे || २७ || सर्वे तैः पर्वताः पुत्रैर्वराहस्य जगत्पते | क्रीडद्भिः शिखरे नीतार्भूरिभागमधोगतिम् || २८ || एवं विक्रीडतां तेषां क्रीडाभिः सकलं जगत् | नाशमायाति वैकुण्ठ तस्माद्रक्ष जगत्प्रभो || २९ || मार्कण्डेय उवाच इति तेषां निगदतां श्रुत्वा वाक्यं जनार्दनः | उवाच शंकरं देवं ब्रह्माणं च विशेषतः || ३० || श्रीभगवानुवाच यत्कृते देवताः सर्वाः प्रजाश्च सकला इमाः | प्राप्नुवन्ति महद्दुःखं शीर्यते सकलं जगत् || ३१ || वाराहं तदहं कायं त्यक्तुमिच्छामि शंकर | निर्वेशशक्तं तं त्यक्तुं स्वेच्छया न हि शक्यते | त्वं त्याजयस्व तं कायं यत्नाद्वा शंकराधुना || ३२ || त्वमाप्यायस्व तेजोभिर्ब्रह्मन् स्मरहरं मुहुः | आप्यायन्तु तथा देवाः शंकरो हन्तु पोत्रिणम् || ३३ || रजस्वलायाः संसर्गाद्विप्राणां मारणात्तथा | काय पापकरो भूतस्तं त्यक्तुं युज्यतेऽधुना || ३४ || प्रायश्चित्तैरपैत्येनः प्रायश्चित्तमहं ततः | चरिष्यामि तदर्थं मे तनुर्यत्नेन शाम्यताम् || ३५ || प्रजा पाल्या मम सदा सा हि सीदति नित्यशः | मत्कृते प्रत्यह तस्मात् त्यक्ष्ये कार्यं प्रजाकृतेः || ३६ || मार्कण्डेय उवाच इत्युक्तौ वासुदेवेन तदा तौ ब्रह्मशंकरौ | त्वया यथोक्तं तत्कार्यमिति गोविन्दमूचतुः || ३७ || वासुदेवोऽपि तान् सर्वान् विसृज्य त्रिदशांस्तथाः | वाराहं तेज आहर्तुं स्वयं ध्यानपरोऽभवत् || ३८ || शनैः शनैर्यदा तेज आहरत्येष माधवः | तदा देहं तु वाराहं सत्त्वहीनमजायत || ३९ || तेजोहीनं यदा देहं ज्ञातं सर्वै स्तदामरैः | आससाद तदा देवो यज्ञवाराहमद्भुतम् || ४० || ब्रह्माद्यास्त्रिदशाः सर्वे महादेवमुमापतिम् | अनुजग्मुस्तदा तेज आधातुं स्मरशासने || ४१ || ततः सर्वैर्देवगणैः स्वं स्वं तेजो वृषध्वजे | आदधे तेन बलवान् सोऽतीव समजायत || ४२ || ततः शरभरूपी स तत्क्षणात् गिरिशोऽभवत् | ऊर्ध्वांधोभागतश्चाष्टपादयुक्तः सुभैरवः || ४३ || द्विलक्षयोजनोच्छ्रायः सार्धलक्षैकविस्तृतः | ऊर्ध्वं वाराहकायस्तु लक्षयोजनविस्तृतः || ४४ || लक्षार्धविस्तृतः पार्श्वे वर्धमानस्तदाभवत् | ततः शरभरूपं तं महादेवमुमापतिम् || ४५ || ददर्श यज्ञपोत्री स स्पृशन्तं शिरसा विधुम् | सुदीर्घनासानखरं कृष्णाङ्गारसमप्रभम् || ४६ || दीर्घवक्त्रं महाकायमष्टदंष्ट्रासमन्वितम् | विभ्रतं ससटं पुच्छं दीर्घकर्णं भयानकम् || ४७ || चतुरः पृष्ठतः पादानधरे चतुरस्तथा | कुर्वन्तं घोरमारावमुत्पतन्तं पुनः पुनः || ४८ || तमायान्तं ततो दृष्ट्वा क्रोधाद् धावन्तमञ्जसा | सुवृत्तः कनको घोरं आसेदुः क्रोधमूर्च्छिताः || ४९ || तमासाद्य महाकायं शरभं भ्रातरस्त्रयः | उच्चिक्षिपुस्ते युगपत् पौत्रघातैर्महाबलाः || ५० || यावत्प्रमाण शरभस्तत्प्रमाणास्तदाभवन् | शरभोत्क्षेपसमये मायया पोत्रिणस्त्रयः || ५१ || तेषां पोत्रप्रहारेण प्रोत्क्षिप्तः शरभस्तदा | पपात पृथिवीप्रान्ते गम्भीरे तोयसागरे || ५२ || तस्मिन् निपतिते तत्र सागरे मकरालये | उत्पत्य ते त्रयः पेतुः क्रोधात्तस्मिन् महोदधौ || ५३ || सुवृत्ते कनके घोरे पतिते सागराम्भसि | वराहोऽपि सुतस्नेहात् क्रोधाच्च द्विजसत्तमाः | उत्पत्य सहसा तस्मिंस्तोयराशौ पपात ह || ५४ || उत्पतन्तस्तदा ते वै वाराहाः शरभस्तथा | बभञ्जुर्दिवि देवांस्तु नक्षत्राणि ग्रहांस्तथा || ५५ || केचित्तु निहता देवा भूमौ पेतुश्च केचन | केचिच्च ज्ञानिनो देवा महर्लोकमुपाश्रिताः || ५६ || नक्षत्राणि विमानात्तु पतितानि महीतले | अदृश्यन्त द्विजश्रेष्ठा ज्वालामाला कुलानि वै || ५७ || तेषामुत्पतने वेगो योऽभूत् परमदारुणः| तेनातिवेगो जनितो वायुः परमदारुणः || ५८ || वायुना तेन नुन्नास्तु पर्वता पृथिवीतले | केचिच्छैलाः पर्वतेषु पतिताः पुनरेव ते || ५९ || विमृद्य वृक्षान् जन्तूंश्च निपेतुश्च पुनः पुनः | केचित्तु पर्वताघातैर्नृत्यमाना महीतले || ६० || बभञ्जुरचलाश्चापि व्रजन्तो बहुशः प्रजाः | पर्वता समदृश्यन्तं वातवेगेन भूतले || ६१ || संघट्टमानास्तेभ्योऽन्ये व्रजन्त इव तेऽचलाः | अम्भोनिधो पतद्भिस्तैर्वाराहैः शरभेण च || ६२ || पर्वतैश्च महातुङ्गै रुत्क्षिप्तास्तोयराशयः | तेषा प्रपातवेगेन क्षिप्तेषु जलराशिषु || ६३ || निस्तोया इव सजाता क्षण वै सर्वसागराः | तै सवैरुदकैः क्षिप्तैः पृथिवीतलमागतैः || ६४ || उत्प्लाविता प्रजाः सर्वाः क्षणाज्जग्मुः क्षयं ततः | प्लवमानाः प्रजास्तोये म्रियमाणाः समन्ततः || ६५ || हा पितस्त्वथ हा तात हा मातर्हा सुतेति च | विलपन्ति स्म करुणं भीताश्चार्ता मुमूर्षवः || ६६ || यस्मिन् देशे निपतितो वाराहैः शरभः सह | तत्रैवाधोगता भूमिः पादवेगेन दारिता || ६७ || अपरः पृथिवीप्रान्त उत्थितः पर्वतैः सह | ससर्ज जनलोकेषु चलां तेषां प्रभञ्जनैः || ६८ || जनलोकेषु संयुक्तां पृथिवीं शरभस्तदा | निष्प्राणाभिव सम्बद्धामचलामपि पोत्रिभिः | ददर्श विस्मयाविष्टः स भीतः श्रान्तपीडितः || ६९ || ततस्ते युयुधुः सर्वे पोत्राघातेन पोत्रिणः | खुरप्रहारैर्दंष्ट्राभिर्गात्रक्षेपैश्च दारुणैः || ७० || शरभोऽप्यथ दंष्ट्राग्रैर्नखैस्तीक्ष्णैः खुरैस्तथा | लाङ्गुलस्य प्रहारैस्तु तुण्डघातैर्महास्वनैः || ७१ || चतुर्भिः पोत्रिभिस्तैस्तु स एकः शरभो महान् | एकान्तं यो धयामास सहस्रं परिवत्सरान् || ७२ || तेषां प्रहारैर्वेगैश्च भ्रमणैश्च गतागतैः | आस्फोटितैस्तथारावैर्देहपातैः पृथक् पृथक् | पाताले पन्नगाः सर्वे विनेशुः कद्रुजैः सह || ७३ || ततस्ते सागर त्यक्त्वा पृथिवीमध्यमागताः | परस्परं युध्यमानां ततोऽभूत् पृथिवी समा || ७४ || शेषोऽपि महतां यत्नाद् बलेनाष्टभ्य कच्छपम् | दधारं पृथिवी दुःखभग्नशीर्षः प्रतापितः || ७५ || अनन्ते वामनीभूते समत्वं पृथिवीतले | गतेऽम्भोभिश्चलद्भिश्च पर्वतैः सर्वजन्तुषु || ७६ || नष्टेषु युध्यमानेषु त्रिपोत्रिशरभेषु च | सागरैराप्लुते सर्वजगत्यापोमये हरिम् || ७७ || चिन्ताविष्टः सुरज्येष्ठः उवाचाथ पितामहः | भगवन् भुवनं सर्वं ससुरासुरमानुषम् || ७८ || विध्वस्तं पृथिवी शीर्णा नष्टा स्थावरजङ्गमाः | देवदानवगन्धर्वा दैत्याश्चापि सरीसृपाः | विध्वस्ता जगतां नाथ मुनयश्च तपोधनाः || ७९ || त्वं पालकोऽसि सर्वेषां त्वमेव जगतः प्रभुः | तस्मात् पालय नः सर्वान् पृथिवीं च जगत्पते || ८० || त्वमेव कायं वाराहं स्वयमेवोपसंहर | संस्थापय महाबाहो पृथिवीं च चराचरैः || ८१ || मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा ब्रह्मणोऽथ जनार्दनः | यत्नं चक्रे तदा सर्वं संस्थापयितुमच्युतः || ८२ || ततो हरी रोहितमत्स्यरूपी भूत्वा मुनीन् सप्त तदा सवेदान् | अधाच्छ्रुते रक्षणतत्परो जगधिताय सर्वश्रुतिकोविदां वरान् || ८३ || वसिष्ठमत्रि त्वथ कश्यपं च विश्वादिमित्रं च सगौतमं मुनिम् | महातपस्थं जमदग्निमुख्यं तथा भरद्वाजमुनि तपोनिधिम् || ८४ || निधाय पृष्ठे स हि तोयमध्ये स्थितो महानौप्रवरे मुनीन्द्रान् | ततः शिवं सान्त्वयितुं सनार्दनो जगाम यस्मिन् युयुधे स पोत्रिभिः || ८५ || श्रान्तं वराहैरतिपौत्रघट्टनैनिपीडितं व्यात्तमुखं श्वसन्तम् | अथागत वीक्ष्य हरं वराहः सस्मार पूर्वां नरसिंहमूर्तिम् || ८६ || स्मृतस्तदा तेन समाजगाम सखा वराहस्य हिते नृसिंहः | तदीयकायान् निजतेज आदात् || ८७ || दृष्टं वराहैः शरभेण तेजो यत् सूर्यतुल्यं प्रविवेश विष्णौ | विज्ञाय तेजोरहितं नृसिंहं ससर्ज निश्वासचयं वराहः || ८८ || ततस्तु जाता बहवो वराहा बहु प्रमाणाद्भुततीक्ष्णदंष्ट्रा | ते वै वराहाः शरभं गिरिशं मायाविनो वीतभयास्तुदन्तः || ८९ || समं नृसिंहेन तदापि युद्धं चक्रुर्ममर्दुश्च भृशं गिरीशम् | क्षणं महापक्षिसमानरूपाः क्षणं तु गावस्तुरगा नराश्च || ९० || क्षणं नृसिंहाश्च वराहरूपा गोमायवो वैकृतिकाः क्षणं ते | अनेकरूपाणि भयङ्कराणि वितन्यमानानि रणे वराहैः || ९१ || निरीक्ष्य भर्गं च निपीडितं तैरथासदन्माधवस्तं गिरीशम् | पस्पर्श विष्णुर्गिरिशं करेण तेजो न्यधात्तत्र निजं पुनः स || ९२ || अथ संस्पृष्टमात्रः स विष्णुणा प्रभुविष्णुणा | अतीव मुदितो हृष्टो बलवान् समजायत || ९३ || अथोच्चैः शरभो नादं ननाद बलवद्दृढम् | आपूरितानि येनैतद्भुवनानि चतुर्दश || ९४ || नदतस्तस्य वदनाच्छीकरा ये विनिःसृताः | ततो गणाः समभवन् महाकाया महौजसः || ९५ || यथा वराहनिश्वासान्नानारूपधरा गणाः | वराहास्तादृशा एते ततोऽप्यतिबलाः पुनः || ९६ || श्ववराहोष्ट्ररूपाश्च प्लवगोमायुगोमुखाः | ऋक्षमार्जारमातङ्गशिशुमारस्वरूपिणः || ९७ || सिंहव्याघ्रमुखा केचित् केचित् सर्पाखुमूर्तयः | हयग्रीवा हयमुखा महिषाकृतयः परे || ९८ || अन्ये तु मनुजाकारा मृगमेषमुखाः पुनः | कबन्धा हीनपादाश्च विहस्ता बहुपाणयः || ९९ || केचित्तु शरभाकाराः कृकलासमुखाः परे | मत्स्यवक्त्रा ग्राहवक्त्रा ह्रस्वा दीर्घाबलाः कृशाः || १०० || चतुष्पादाष्टपादाश्च त्रिपादा द्विपदाः परे | एकपादा भूरिहस्ता यक्षकिपुरुषोपमाः || १०१ || पश्वाकाराः पक्षयुक्ताः लम्बोदरमहोदरा | दीर्घोदरा स्थूलकेशा बहुकर्णा विकर्णकाः || १०२ || स्थूलाधरा दीर्घदन्ता दीर्घश्मश्रुधराः परे | ये सन्ति प्राणिनो विप्रा भुवनेषु समन्ततः || १०३ || चतुर्दशसु ते तेषां रूपेण समतां गताः | नेहास्ति भुवने जन्तुः स्थावरो वा जगत् पुनः || १०४ || यत्तुल्यरूपेण गणो न जातः शङ्करस्य च | ते भिन्दिपालैः खड्गैश्च परिघैस्तोमरैस्तथा || १०५ || शङ्कुलासिगदाभिश्च पाशैः शङ्कुभिरेव च | खट्वाङ्गैश्च त्रिशूलैश्च कपालैः शक्तिभिस्तथा || १०६ || दात्रैः सृणिभिरीषाग्रैर्यष्टिभिश्चत्रिकण्टकैः | प्रासैः परशुभिर्बाणैः कोदण्डैरतिभीषणाः || १०७ || जटाचन्द्रकलायुक्ताः सर्व एव महाबलाः | केचिद्भर्गस्य रूपेण वाहनेनाथ भूषणैः || १०८ || तुल्या जटार्धशुभ्रांशुशुभ्रशीर्षा महाबलाः | अर्धनारीश्वरा केचिद् यथारुद्रस्तथैव ते || १०९ || केचित्तु चारुरूपेण मोहनेन मनोभुवः | तुल्येन वनितासंधै समं जाता रतोत्सुकाः || ११० || आकाशचारिणः सर्वे सर्वे स्वच्छन्दगामिनः | नीलोत्पलदलश्यामाः शुक्ला केचन लोहिताः || १११ || रक्ता पातास्तया चित्रा हरिताः कपिलाः परे | अर्धपीता ह्यर्धरक्ता नीलार्धा धवलाः परे || ११२ || सकृष्णपीताः शुक्लेन कृष्णेनार्धेन रञ्जिताः | एकवर्णा द्विवर्णाश्च त्रिवर्णाश्च तथापरे || ११३ || चतुःषट्पञ्चववर्णाश्च केचिद् दशगुणाः द्विजाः | डिण्डिमान् पटहान् शङ्खान् भेर्यानकसकाहलान् || ११४ || मण्डूकान् झर्झरांश्चैव झर्झरीश्च समर्दलाः | वीणास्तन्त्री पञ्चतन्त्रीः शकटान् दर्दरांस्तथा || ११५ || गोमुखानानकान् कुण्डान् सतालकरतालिकान् | वादयन्तो गणाः सर्वे हसन्तश्च मुहुर्मुहुः || ११६ || वराहाभिमुखा भूत्वा तस्थुस्ते हृष्टमानसाः | तान् सर्वानाह शरभो भगवान् वृषभध्वजः || ११७ || निघ्नतैतान् वराहस्य गणान् वै क्रूरकर्मभिः | क्रूरदृष्ट्या क्रूरयुद्धैः क्रूरा भूत्वा महाबलाः || ११८ || ततस्ते वै गणाः सर्वे नानाकारवरायुधाः | सार्धं वराहस्य गणैर्युयुधुः क्रूरदर्शनाः || ११९ || आकाशचारिणः सर्वे जलपूर्णं जगत्त्रयम् | ते परित्यज्य युयुधुर्वियत्येवोभये गणाः || १२० || ततः क्षणाद् वराहास्य गणान् सर्वान् महाबलान् | हरस्य प्रमथा जघ्नुर्महावाता इवास्बुदान् || १२१ || हतेषु तेषु वीरेषु वाराहेषु गणेष्वथ | दध्यौ वराहः किमिति प्राक् पश्चाद्वृत्तमास्थितम् || १२२ || अथ चिन्तयतस्तस्य स्वान्तं गत्वा जनार्दनः | तत सर्वं ज्ञापयामास वराहवपुषो हितम् || १२३ || ततो देह-परित्यागं कर्तुं समयतस्तदा | ततो दंष्ट्राग्रघातेन नरसिंहं महाबलः || १२४ || शरभो भगवान् भर्गो द्विधा मध्ये चकार ह | नरसिंहे द्विधाभूते नरभागेण तस्य च || १२५ || नर एव समुत्पन्नो दिव्यरूपी महानृषिः | तस्य पञ्चास्यभागेन नारायण इति श्रुतः || १२६ || अभवत् सुमहातेजा मुनिरूप्पी जनार्दनः | नरो नारायणश्चोभौ सृष्टिहेतूं महामती || १२७ || द्वयोः प्रभावो दुर्धर्षः शास्त्रे वेदे तपःसु च | तौ नावि विनिधायाथ मत्स्यमूर्त्यवितात्मनि || १२८ || आससादं पुनर्देवो वराहः शरभ हरिः | वपुस्त्यागो मयावश्यं कर्तव्यो जगतां हिते || १२९ || इति पूर्वं प्रतिज्ञातं तदर्थोऽयं समुद्यमः | क्रियते हरिणा सार्धं शम्भुना ब्रह्मणापि च || १३० || इति सञ्चिन्त्य स तदा शूकरः परमेश्वरः | जगाद शरभं देवं महादेवं महाबलम् || १३१ || जहि मां त्वं महादेव त्यक्ष्ये कायमसंशयम् | हिताय सर्वजगतां देवानामपि ऋत्विजाम् || १३२ || मम देहप्रतीकौधैर्यज्ञं यूपं प्रकल्प्य च | पृथक् पृथक् महाभागा सशामित्रं श्रुवादिकम् || १३३ || ततस्ते तान् त्रिभिः पुत्रैर्विधध्वं जगतां हिते | कनकेन सुवृत्तेन घोरेण च जगन्मयीम् || १३४ || यज्ञाद् देवाः प्रजाश्चैव यज्ञादन्नान् नियोगिनः | सर्वं यज्ञात् सदा भावि सर्वं यज्ञमयं जगत् || १३५ || यमिमं पृथिवीगर्भमाधत्त मलिनी पुनः | तमुत्पन्नं स्वयं देवीं चिरं संगोपयिष्यति || १३६ || प्राप्ते काले यदा देवी तदायुष्मान् सुभाषते | वधस्तस्यातिमारार्ता तदैवैनं हनिष्यथ || १३७ || भारतीं पृथिवीं मग्नां यदाधः शतयोजनम् | शृङ्गिवराहरूपेण प्रोद्धरिष्ये तदा त्विमाम् || १३८ || कृतकृत्यं तु तं कायं त्याजयिष्यति ते सुतः | यो भावी देवसेनानी रुद्रात् षाण्मातुराह्वयः || १३९ || एवं यज्ञवराहे तु भाषमाणे महाबले | निःसृत्य सुमहतेजो ज्वालामालातिदीपितम् || १४० || सूर्यकोटिप्रतीकाशं वराहवपुषस्तदा | हरेर्भगवतो देहे विवेश महदद्भुतम् || १४१ || तस्मिन् विष्णौ प्रविष्टे तु वाराहे तेजसि द्विजाः | सुवृत्तात् कनकाद् घोरात्तेज आदात् स्वयं हरिः || १४२ || तेषामपि शरीरेभ्यस्तेजोभागः पृथक् पृथक् | विनिःसृत्य विनिःसृत्य ज्वालामालातिदीपितः || १४३ || प्रविवेश हरेः काये यथा तेषां पितुस्तथा | ततो हरिश्च ब्रह्मा च महादेवश्च तद्वचः || १४४ || वराहस्य प्रतिश्रुत्य ओमित्युक्त्वा पुनः पुनः | तेषां कायपरित्यागे अकार्षुर्यत्नमुत्तमम् || १४५ || ततस्तुण्डप्रहारेण शरभः कण्ठमध्यतः | भित्त्वा वपुर्वराहस्य पातयामास तज्जले || १४६ || तं पातयित्वा प्रथमं सुवृत्तं कनकं तथा | घोरं च कण्ठदेशेषु भित्त्वा भित्त्वा जघान ह || १४७ || त्यक्तप्राणास्तु ते सर्वे पेतुस्तोये महर्णवे | जले शब्दं वितन्वानाः कालानलसमन्वितः || १४८ || पतितेषु वराहेषु ब्रह्मा विष्णुर्हरस्तथा | सृष्ट्यर्थ चिन्तयामासुः पुनरेव समागताः || १४९ || हरस्य तु गणाः सर्वे तदा भर्गं समागताः | उपतस्थुर्महाभागाश्चतुर्भागेन भाजिताः || १५० || षट्त्रिंशत्तु सहस्राणि प्रमथा द्विजसत्तमाः | तत्रैकत्र सहस्राणि भागे षोडश संस्थिताः || १५१ || नानारूपधरा ये वै जटाचन्द्रार्धमण्डिताः | ते सर्वे सकलैश्वर्ययुक्ता ध्यानपरायणाः || १५२ || योगिनो मदमात्सर्यदम्भाहंकारवर्जिताः | क्षीणपापा महाभागाः शम्भोः प्रीतिकाराः पराः || १५३ || न ते परिग्रहं रागं काङ्क्षन्ति स्म कदाचन | संसार-विमुखा सर्वे यतयो योगतत्पराः || १५४ || ध्यानावस्थं महादेवं परिवार्य धृतव्रताः | कृत्वा परिषदं रुच्या तिष्ठन्ति विगतक्लमाः || १५५ || यदैव परमं ज्योतिश्चिन्तयत्यम्बिकापतिः | तदैव ते पारिषदाः सर्वे संवेष्टयन्ति तम् || १५६ || ते षोडश समाख्याता कोटयो ये यतव्रताः | सिंहव्याघ्रादि-सारूप्या अणिमादिसमायुताः || १५७ || अपरे कामिनः शम्भोः सुनर्मसचिवाः स्मृताः | विचित्ररूपाभरणा जटाचन्द्रार्धमण्डिताः || १५८ || हरस्य तुल्यरूपेण विशदा वृषभध्वजाः| उमासदृशरूपाभिः प्रमदाभिः समागताः || १५९ || विचित्रमाल्याभरणा दिव्यस्रग्गन्धभूषिताः | उमासहायं क्रीडन्तमनुगच्छन्ति भूषिताः || १६० || शृङ्गारवेषाभरणा अष्टौ ते कोटयो गणाः | अर्धनारीश्वराश्चान्ये अर्धनारीश्वरं हरम् || १६१ || ध्यानस्थं प्रविविशुस्ते तुल्यरूपा हरस्य ये | उमासहायो हि यदा रमते ससुखं हरः || १६२ || अर्धनारीशरीरास्तु द्वारपाला भवन्ति ते | आकाशमार्गे गच्छन्तमनुगच्छन्ति नित्यशः || १६३ || ध्यानस्थं परिचर्यन्ति सलिलादिभिरीश्वरम् | नानाशस्त्रधराः शम्भोर्गणास्ते प्रमथाः स्मृताः || १६४ || प्रमथ्नन्ति च युद्धेषु युध्यमानान् महाबलान् | ते वै महाबलाः शूराः संख्यया नव कोटयः || १६५ || अपरे गायनास्तालमृदङ्गपणवादिभिः | नृत्यन्ति वाद्यं कुर्वन्ति गायन्ति मधुरस्वरम् || १६६ || नानारूपधरास्तं वै संख्यया कोटयस्त्रयः | सततं चानुगच्छन्ति विचरन्त महेश्वरम् || १६७ || सर्वे मायाविनः सूराः सर्वे शास्त्रार्थपारगाः | सर्वे सर्वत्र सर्वज्ञाः सर्वे सर्वत्रगाः सदा || १६८ || मुहूर्तात् सर्वभुवनं गत्वा यान्ति पुनर्भवम् | अणिमाद्यष्टकेश्वर्ययुक्तास्ते वै महाबलाः || १६९ || अपरे रुद्रनामानो जटाचन्द्रार्घमण्डिताः | देवेन्द्रस्य नियोगेन वर्तन्ते त्रिदिवे सदा || १७० || तेषां संख्या चैककोटिस्ते सर्वे बलवत्तराः | कुर्वन्ति हि सदा सेवां हरस्य सततं गणाः || १७१ || विस्मयन्ति च पापिष्ठान् धर्मिष्ठान् पालयन्ति च | अनुगृह्णन्ति सततं धृतपाशुपतव्रतान् || १७२ || विघ्नोश्च सततं घ्नन्ति योगिनां प्रयतात्मनाम् | षट्त्रिंशत् कोटयश्चैते हरस्य सकला गणाः || १०३ || वराहगणनाशार्थं हिताय जगतां तथा | शङ्करस्याथ सेवाये समुत्पन्ना इमे गणाः || १७४ || वराहस्य गणान् दृष्ट्वा नरसिंहं तथा हरिम् | स्वयं शरभरूपः सन् ध्यायन्नादं तदाकरोत् || १७५ || तच्चीत्कराद्यतो जातास्तत्तषां बहुरूपता | क्रूरदृष्ट्या क्रूरयुद्धैः क्रूरकृत्यैरिमान् गणा | वराहस्य घ्नतेत्येवं यतः प्रोक्तं कपर्दिनां || १७६ || अतस्ते क्रूरकर्माणः प्रजाताश्च भयङ्कराः | न सदा क्रूरकर्माणि ते कुर्वन्ति महौजसः || १७७ || दृष्टिमात्रस्य ते क्रूराः क्रूरास्ते न तु कार्यतः | फलं जलं तथा पुष्पं पत्रं मूलं तथैव च || १७८ || निवेदितानि भुञ्जन्ति वनपर्वतसानुषु | आहृत्यापि च भुञ्जन्ति पत्र पुष्पादिकं च यत् || १७९ || भवेद्भर्गस्य यद्भोग्यं तद्भोगास्ते महौजसः | आमिषाणि च नाश्नन्ति हित्वा चैत्रचतुर्दशीम् || १८० || तत्रामिषं हरो भुङ्क्ते चतुर्दश्यां मधौ सदा | ततः सर्वे गणास्तत्र भुञ्जते पललान्यपि || १८१ || हते वराहस्य गणे भर्गमासाद्य ते गणाः | चतुर्भागाः स्वयं भूत्वा भूतकर्मेति वै जगुः | भूतत्वमभवत्तेषां चतुर्भागवतां तदा || १८२ || वचनात् पद्मयोनेस्तु भूतग्रामस्ततो मतः | यो लोको विदितः पूर्वं भूतग्रामश्चतुर्विधः | यतस्तेभ्योऽधिको यत्तद्भूतग्रामः स उच्यते || १८३ || इति वः कथितं सर्वं भूताः शम्भुगणाः यथा | यदाहारा यदाकारा यत्कृत्यास्ते महौजसः || १८४ || य इदं शृणुयान्नित्यमाख्यानं महदद्भुतम् | स दीर्घायुः सदोत्साही योगयुक्तश्च जायते || १८५ || इति श्रीकालिकापुराणे शरभवराह युद्धो नाम त्रिंशोऽध्यायः || ३० || एकत्रिंशोऽध्यायः ऋषय ऊचुः कथं यज्ञवराहस्य देहो यज्ञत्वमाप्तवान् | त्रेतात्वमगमन् पुत्रा वराहस्य कथं त्रयः || १ || आकालिकोऽयं प्रलयः कस्माद् भगवता कृतः | जनक्षयो महाघोरो वराहेण महात्मना || २ || कथं वा मत्स्यरूपेण वेदास्त्राताश्च शार्ङ्गिणा | कथं पुनरभूत् सृष्टिः केन चोर्वी समुद्धृता || ३ || ईश्वरः शारभं कायं त्यक्तवान् वा कथं गुरो | कीदृक् प्रवृत्तं तद्देहं तन्नो वद महामते || ४ || एतेषां द्विजशार्दूलं भवान् प्रत्यक्षदर्शिवान् | तन्नोऽद्य श्रोष्यमाणानां कथयस्व महामते || ५ || मार्कण्डेय उवाच शृणुध्वं द्विजशार्दूला यत्पृष्टोऽहमिहाद्भुतम् | शृण्वन्त्ववहिताः सर्वे सर्ववेदफलप्रदम् || ६ || यज्ञेषु देवास्तुष्यन्ति यज्ञे सर्वं प्रतिष्ठितम् | यज्ञेन ध्रियते पृथ्वी यज्ञस्तारयति प्रजाः || ७ || अन्नेन भूता जीवन्ति पर्यन्यादन्नसम्भवः | पर्जन्यो जायते यज्ञात् सर्वं यज्ञमयं ततः || ८ || स यज्ञोऽभूद् वराहस्य कायाच्छम्भुविदारितात् | यथार्हं कथये तद्वः शृण्वन्त्ववहिता द्विजाः || ९ || विदारिते वराहस्य काये भर्गेण तत्क्षणात् | ब्रह्मविष्णुशिवा देवाः सर्वैश्च प्रमथैः सह || १० || निन्युर्जलात् समुद्धृत्य तच्छरीरं नभः प्रति | तद्बिभिदुः शरीरं तद् विष्णोश्चक्रेण खण्डशः || ११ || तस्याङ्गसन्धयो यज्ञा जाताश्च वै पृथक् पृथक् | यस्मादङ्गाच्च ये जातास्तच्छृण्वन्तु महर्षयः || १२ || भ्रूनासासन्धितो जातो ज्योतिष्टोमो महाध्वरः | हनुश्रवणसन्ध्योस्तु वह्निष्टोमो व्यजायत || १३ || चक्षुर्भ्रुवोः सन्धिनां तु व्रात्यष्टोमो व्यजायत | जातः पौनर्भवस्टोमस्तस्य पोत्रौष्ठसन्धितः || १४ || वृद्धष्टोमबृहत्ष्टोमौ जिह्वामूलादजायताम् | अतिरात्रं सवैराजमधोजिह्वान्तरादभूत् || १५ || अध्यापन ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् | होमो दैवो बलिर्भौ तो नृयज्ञोऽतिथिपूजनम् || १६ || स्नानं तर्पणपर्यंत नित्ययज्ञाश्च सर्वशः | कण्ठसन्धेः समुत्पन्नाः जिह्वातो विधयस्तथा || १७ || वाजिमेधमहामेधौ नरमेधस्तथैव च | प्राणिहिसाकरा येऽन्ये ते जाताः पादसन्धितः || १८ || राजसूयोऽर्थकारी च वाजपेयस्तथैव च | पृष्ठसन्धौ समुत्पन्ना ग्रहयज्ञास्तथैव च || १९ || प्रतिष्ठोत्सर्गयज्ञाश्च दानश्राद्धादयस्तथा | हृत्सन्धितः समुत्पन्नाः सावित्रीयज्ञ एव च || २० || सर्वे सांस्कारिका यज्ञाः प्रायश्चित्तकराश्च ये | ते मेढ्रसन्धितो जाता यज्ञास्तस्य महात्मनः || २१ || रक्षःसत्रं सर्पसत्रं सर्वं चैवाभिचारिकम् | गोमेधो वृक्षयागश्च खुरेभ्यो ह्यभवन्निमे || २२ || मायेष्टिः परमेष्टिश्च गीष्पतिर्भोगसम्भवः | लाङ्गुलसन्धौ संजाता अग्निष्टोमस्तथैव च च || २३ || नैमित्तिकाश्च ये यज्ञाः संक्रान्त्यादौ प्रकीर्तिताः | लाङ्गुलसन्धौ ते जातास्तथा द्वादशवार्षिकम् || २४ || तीर्थप्रयोगसामौजः यज्ञः सङ्कर्षणस्तथा | आर्कमाथर्वणश्चैव नाडीसन्धेः समुद्गताः || २५ || ऋचोत्कर्षः क्षेत्रयज्ञाः पञ्चसर्गातियोजनः | लिङ्गसंस्थानहेडम्बयज्ञा जाताश्च जानूनि || २६ || एवमष्टाधिकं जातं सहस्रं द्विजसत्तमाः | यज्ञानां सततं लोका यैर्भाव्यन्तेऽधुनापि च || २७ || स्रुगस्य पोत्रात् सञ्जाता नासिकायाः स्रुषोऽभवत् | अन्येस्रुक्स्रुवभेदा ये ते जाता पोत्रनासयोः || २८ || ग्रीवाभागेण तस्याभूत् प्राग्वंशो मुनिसत्तमाः | इष्टापूर्तिर्यजुर्धर्मो जाताः श्रवणरन्ध्रतः || २९ || दंष्ट्राभ्यो ह्यभवन् यूपाः कुशा रोमाणि चाभवन् | उद्गाता च तथाध्वर्युर्होता शामित्रमेव च || ३० || अग्रदक्षिणवामाङ्ग-पश्चात् पादेषु सङ्गताः | पुरोडाशाः सचरवो जाता मस्तिष्कसञ्चयात् || ३१ || कर्सूर्नेत्रद्वयाज्जाता यज्ञकेतुस्तथा खुरात् | मध्यभागोऽभवद्वेदी मेद्रात् कुण्डमजायत || ३२ || रेतोभागात्तथैवाज्यं स्वधामन्त्रा समुद्गताः | यज्ञालयः पृष्ठभागाधृत्पद्माद्यज्ञ एव च | तदात्मा यज्ञपुरुषो मुञ्जाः कक्षात्समुद्गताः || ३३ || एवं यावन्ति यज्ञानां भाण्डानि च हवींषि च | तानि यज्ञवराहस्य शरीरादेव चाभवन् || ३४ || एवं यज्ञवराहस्य शरीरं यज्ञतामगात् | यज्ञरूपेण सकलमाप्यायितुमिदं जगत् || ३५ || एवं विधाय यज्ञं तु ब्रह्मविष्णुमहेश्वराः | सुवृत्तं कनकं घोरमासेदुर्यत्नतत्पराः || ३६ || ततस्तेषां शरीराणि पिण्डीकृत्य पृथक् पृथक् | त्रिदेवास्त्रिशरीराणि व्यधमन्मुखवायुभिः || ३७ || सुवृत्तस्य शरीरं तु व्यधमन्मुखवायुना | स्वयमेव जगत् स्रष्टा दक्षिणाग्निस्ततोऽभवत् || ३८ || कनकस्य शरीरं तु ध्मापयामास केशवः | ततोऽभूद्गार्हपत्याग्निः पञ्चवेतानभोजनः || ३९ || घोरस्य तु वपुः शम्भुर्ध्मापयामास वै स्वयम् | तत आहवनीयोऽग्निस्तत्क्षणात् समजायत || ४० || एतैस्त्रिभिर्जगद्व्याप्तं त्रिमूलं सकलं जगत् | एतद् यत्र त्रयं नित्यं तिष्ठति द्विजसत्तमाः || ४१ || समस्ता देवतास्तत्र वसन्त्यनुचरैः सह | एतद्भद्रपदं नित्यमेतदेव त्रयात्मकम् || ४२ || एतत्त्रयीविधिस्थानमेतत् पुण्यकरं परम् | यस्मिन् जनपदे चैते हूयन्ते वह्नयस्त्रयः || ४३ || तस्मिन् जनपदे नित्यं चतुर्वर्गो विवर्धते | एतद्वः कथितं सर्वं यत् पृष्टोऽहं द्विजोत्तमाः || ४४ || यथा यज्ञवराहस्य देहो यज्ञत्वमाप्तवान् | यथा च तस्य पुत्राणां देहतो वह्नयोऽभवन् || ४५ || इति श्रीकालिकापुराणे वराहतनौ यज्ञोत्पत्तिर्नाम एकत्रिंशोऽयायः | द्वात्रिंशोऽध्यायः मार्कण्डेय उवाच आकालिकोऽयं प्रलयो यतो भगवता कृतः | तच्छृण्वन्तु महाभागा वाराहं लोकसंक्षयम् || १ || यथा वा मत्स्यरूपेण वेदास्त्राताश्च शर्ङ्गिणा | तदहं संप्रवक्ष्यामि सर्वपापप्रणाशनम् || २ || पुरा महामुनिः सिद्धः कपिलो विष्णुरीश्वरः | साक्षात् स्वयं हरिर्योऽसौ सिद्धानामुत्तमो मुनिः || ३ || ध्यायतः सिद्धमित्येवं सर्वं जगदिदं स्वतः | यतो जातो हरेः कायात् कपिलस्तेन स स्मृतः || ४ || स एकदा पुरा भूत्वा मनोः स्वायम्भुवेऽन्तरे | स्वायम्भुवं मनुं वाक्यं मुनिवर्योऽब्रवीदिदम् || ५ || कपिल उवाच स्वायम्भुव मुनिश्रेष्ठ ब्रह्मरूप महामते | ममैवमीप्सितार्थं त्वं देहि प्रार्थयतोऽधुना || ६ || जगत्सर्वं त्वैवेदं त्वया च परिपालितम् | त्वया सर्वं जगत् सृष्टं त्वमेव जगतां पतिः || ७ || स्वर्गे पृथिव्यां पाताले देवमानुषजन्तुषु | त्वं प्रभुर्वरदो गोप्ता त्वमेवैकः सनातनः || ८ || त्वं वै धाता विधाता च त्वं हि सर्वेश्वरेश्वरः | त्वयि प्रतिष्ठितं सर्वं सततं भुवनत्रयम् || ९ || तपस्यतो तव समं प्रतिभास्यति सोऽनुगम् | कार्यकारणतत्त्वौघसहितानि जगन्ति वै || १० || तन्मे देहि रहः स्थानं त्रिषु लोकेषु दुर्लभम् | पुण्यं पापहरं रम्यं ज्ञानप्रभवमुत्तमम् || ११ || अहं हि सर्वभूतानां भूत्वा प्रत्यक्षदर्शिवान् | उद्धरिष्ये जगज्जातं निर्माय ज्ञानदीपिकाम् || १२ || अज्ञानसागरे मग्नमधुना सकलं जगत् | ज्ञानप्लवं प्रदायाहं तारयिष्ये जगत्त्रयम् || १३ || एतस्मिन्मां भवान् सम्यगुपपन्नमिहेच्छति | त्वन्नो नाथश्च पूज्यश्च पालकश्च जगत्प्रभो || १४ || इत्येवमुक्तः स मनुः कपिलेन महात्मना | प्रत्युवाच अहात्मानं कपिलं संशितव्रतम् || १५ || मनुरुवाच यदि त्वयाखिलजगद्धितार्थं ज्ञानदीपिकाम् | चिकीर्षूणा यतः कार्यं किं स्थानार्थनया तव || १६ || हिरण्यगर्भः सुमहत् तपस्तेपे पुराद्भुतम् | स मे ययाचे तपसे स्थानं कस्मै न च द्विज || १७ || शम्भुः सम्भोगरहितो देवमानेन वत्सरान् | आयुतानि तपस्तेपे सोऽपि स्थानं न चैक्षत || १८ || देवेन्द्रो वीतिहोत्रश्च शमनो रक्षसां पतिः | यादःपतिर्मातरिश्वा धनाध्यक्षतथैव च || १९ || एते तेपुस्तपस्तीव्रं दिक्पालत्वमभीप्सवः | स्थानं न मार्गयामासुः किञ्चनापि महामुने || २० || देवागाराणि तीर्थानि क्षेत्राणि सरितस्तथा | बहूनि पुण्यभाञ्ज्यत्र तिष्ठन्ति कपिल क्षितौ || २१ || तेषामेकतमं त्वं चेदासाद्य कुरुषे तपः | स्थानं ब्रह्मंस्तपःसिद्ध्र्न भविष्यति तत्र किम् || २२ || मत्तः स्थानार्थना तावत् केवलं ते विकत्थनम् | अयं विकत्थनो धर्मो युज्यते न तपस्विनाम् || २३ || मार्कण्डेय उवाच एतच्च्रुत्वा वचस्तस्य मनोः स्वायम्भुवस्य तु | चुकोप कपिलः सिद्धः प्रोवाच च तदा मनुम् || २४ || कपिल उवाच त्वयि विश्रम्भमाधाय तपसः सिद्धयेऽचिरात् | स्थानं मया प्रार्थितं ते तन्मां क्षिपसि हेतुभिः || २५ || अनेनात्युग्रवचसा तवैवाहं न चक्षमे | स्वयं त्रिभुवनाध्यक्ष इति ते गर्व ईदृशः || २६ || अक्षम्यं ते वचो मेऽद्य प्रार्थनायां विकत्थनम् | यत् त्वं वदसि तस्य त्वं फलमेतदवाप्नुहि || २७ || इदं त्रिभुवनं सर्वं सदेवासुरमानुषम् | हतप्रहतविध्वस्तमचिरेण भविष्यति || २८ || येनेयमुद्धृता पृथ्वी येन वा स्थापिता पुनः | यो वास्या अन्नकर्ता स्वाद् यो वास्याः परिरक्षकः || २९ || त एव सर्वे हिंसन्तु सकलं सचराचरम् | नचिराद्द्रक्ष्यसि मनो जलपूर्णं जगत्त्र्यम् | हतप्रहतविध्वस्तं तव गर्वविशातनम् || ३० || एवमुक्त्वा मुनीन्द्रऽसौ कपिलस्तपसां निधिः | अन्तर्दधे जगामापि तदा ब्रह्मसदो मुनिः || ३१ || कपिलस्य वचः श्रुत्वा विषण्णवदनो मनुः | भावीति प्रतिपद्याशु मनुर्नोवाच किञ्चन || ३२ || ततः स्वायम्भुवो धीमांस्तपसे धृतमानसः | हिताय सर्वजगतां दिदृक्षुर्गरुडध्वजम् || ३३ || विशालां बदरीं यातो गङ्गाद्वारान्तिकं खलु | तत्र गत्वा जगद्धर्ता मनुः स्वायम्भुवः स्वयम् | ददर्श बदरीं तत्र पुण्यां पापप्रणाशिनीम् || ३४ || सदा फलवतीं नित्यं मृदुशाद्बलमञ्जरीम् | सुच्छायां मसृणां शीर्णशुष्कपत्रविवर्जिताम् || ३५ || गङ्गातोयौधसंसिक्त-शिखामूलान्तराखिलाम् | उपास्यमानां सततं नानामुनितपोधनैः || ३६ || तत्स्थानं सर्वतो भद्रं नानाभृङ्गगणान्वितम् | फुल्लारविन्दसलिलं रमणीयं वृषप्रदम् || ३७ || प्रविश्य तपसे यत्नमकरोल्लोकभावनः | स भूत्वा नियताहारः परमेण समाधिना || ३८ || आराधयामास हरिं जगत्कारणकारणम् | सर्वेषां जगतां नाथं नीलमेघाञ्जनप्रभम् || ३९ || शङ्खचक्रगदापद्मधरं कमललोचनम् | पीताम्बरधरं देवं गरुडोपरिसंस्थितम् || ४० || जगन्मयं लोकनाथं व्यक्ताव्यक्तस्वरूपिणम् | जगद्बीजं सहस्राक्षं सहस्रशिरसं प्रभुम् || ४१ || सर्वव्यापिनमाधारं नारायणमजं विभुम् | जपन्नेतत्परं मन्त्रं सर्ववेदमयं मनुः || ४२ || हिरण्यगर्भपुरुषप्रधानाव्यक्तरूपिणे | ओं नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे || ४३ || इति जप्यं प्रजपतो मनोः स्वायम्भुवस्य तु | प्रससाद जगन्नाथः केशवो नाचिरादथ || ४४ || ततः क्षुद्रझषो भूत्वा दूर्वादलसमप्रभः | कर्पूरकलिकायुग्म-तुल्यनेत्रयुगोज्ज्वलः || ४५ || तपस्यन्तं महात्मानं मनुं स्वायम्भुवं मुनिम् | आससाद तदा क्षुद्रमत्स्यरूपी जनार्दनः || ४६ || उवाच तं महात्मानं मनुं स्वायम्भुवं तदा | सुसन्त्रस्तं स कारुण्ययुक्तं भीतिसगद्गदम् || ४७ || तपोनिधे महाभाग भीतं मां त्रातुमर्हसि | नित्यमुद्वेजितं मत्स्यैर्विशालैर्भक्षितुं प्रति || ४८ || प्रत्यहं मां महाभाग मीना धावन्ति भक्षितुम् | समन्ततोऽधिकाहन्तु त्वं नाथ गोपितुं क्षमः || ४९ || अद्य प्रभूतैर्विपुलैर्दारितः पृथुरोमभिः | विश्रान्तोऽहं क्षुद्रतरो न च शक्तः पलायने || ५० || प्राणाकाङ्क्षी महात्मानं भवन्तं शरणं मुनिम् | प्राप्तोऽहञ्चेदनुक्रोशस्तेऽस्ति मां प्रतिपालय || ५१ || हयोद्भ्रान्तमनाश्चाहं वृक्षच्छायां च चञ्चलाम् | दृष्ट्वा चलतरङ्गांश्च मत्स्यादिव विभेम्यहम् || ५२ || मार्कण्ड्ये उवाच इति तस्य वचः श्रुत्वा मनुः स्वायम्भुवस्ततः | कृपया परया युक्तः प्रोचेऽहं रक्षिता तव || ५३ || ततः करोदरे तोयमादायाधाय तत्र तम् | समक्षं क्षुद्रमत्स्यस्य विहारं समलोकयत् || ५४ || ततो दयालुं स मनुस्तं मत्स्यं चारुरूपिणम् | अलिञ्जरे तोयपूर्णे न्यधाद्विपुलभोगिनि || ५५ || स तस्मिन् मणिके मत्स्यो वर्धमानो दिने दिने | सामान्यरोहितप्राय-देहोऽभून्नचिरादथ || ५६ || दशघटजलपूर्णं प्रत्यहं स महात्मा मणिकमतिकुर्वन् वर्धयामास मत्स्यम् | स च सुविशदनेत्रो मत्स्यबालोऽचिरेण मणिकसलिलमध्ये लोमशः पीनदेहः || ५७ || इति श्रीकालिकापुणाणे मत्स्यरूप-कथने द्वात्रिंशोऽध्यायः || त्रयस्त्रिंशोऽध्यायः मार्कण्डेय उवाच तं यथा पीवरतनुं दृष्ट्वा मत्स्यं मनुः स्वयम् | गृहीत्वा पाणिना फुल्लनलिनीं सरसीं ययौ || १ || तत्सरस्तत्र विपुलं पुण्ये नारायणाश्रमे | एकयोजनविस्तीर्णं सार्धयोजनमायतम् || २ || नानामीनगणोपेतं शीतामलजलोत्करम् | तदासाद्य सरो मत्स्यं विनिधाय मनुस्तदा || ३ || पालयामास सुतवत् कृपया परया युतः | सोऽचिरेणैव कालेन पीनो वैसारिणोऽभवत् || ४ || न ममौ तत्र सरसि वृहत्त्वात् द्विजसत्तमाः | स एकदा महामत्स्यः पूर्वापरतरद्वये || ५ || शिरः पुच्छे निधायाशु तुङ्गदेहः समुच्छ्रितः | स्वायभुवं महात्मानं चुक्रोश त्राहि मामिति || ६ || तं तथा च मनुर्ज्ञात्वा क्रोशन्तं स्थूलपुच्छकम् | आससाद तदा मत्स्यं जग्राह च करेण तम् || ७ || न शक्नोम्यहमुद्धर्तुं पृथरोमाणमद्भुतम् | इति सञ्चिन्तयन्नेव प्रोद्दधार करेण तम् || ८ || भगवानपि विश्वात्मा मत्स्यरूपी जनार्दनः | स्वायम्भुवकरं प्राप्य लघिमानमुपाश्रयत् || ९ || ततः कराम्यामुद्धृत्य स्कन्धे कृत्वा द्रुतं मनुः | निनाय सागरं तत्र तोये च निदधे ततः || १० || यथेच्छमत्र वर्धस्व न कोऽपि त्वां वधिष्यति | अचिरेणैव सम्पूर्णदेहं त्वं समवाप्नुहि || ११ || इत्युक्त्वा स महाभागः सर्वप्राणमृतां वरः | लघुत्वं चिन्तयंस्तस्य विस्मयं परमं गतः || १२ || मत्स्योऽपि नचिरादेव पूर्णकायस्तदा महान् | सर्वतः पूरयामास देहाभोगेन सागरम् || १३ || तं पूर्णकायमालोक्य व्यतीत्याम्भः समुच्छ्रितम् | शिलाभिर्निचितं स्फीतं मानसाचलसंनिभम् || १४ || रुन्धन्तं सागरं सर्वं देहाभोगाचलीकृतम् | स्वायम्भुवो मनुर्धीमान् मेने मत्स्यं न तं तदा || १५ || ततः पप्रच्छ तं साम्ना मत्स्यं स्वायम्भुवो मनुः | विचिन्त्य लघिमानं च पश्यन् मूर्ति तदाद्भुतम् || १६ || मनुरुवाच न त्वां मत्स्यमहं मन्ये कस्त्वं मे वद सत्तम | महत्त्वं लघिमानं ते चिन्तयन् सुमहत्तर || १७ || त्वं ब्रह्माह्यथवा विष्णुः शम्भुर्वा मीनरूपधृक् | न चेद्गुह्यं महाभाग तन्मे वद महामते || १८ || मत्स्य उवाच आराध्योऽहं त्वया नित्यं यो हरिः स सनातनः | तवेष्टकामसिद्ध्यर्थं प्रादुर्भूतः समाहितः || १९ || यत् त्वमिच्छसि भूतेश मत्तस्त्वं मीनमूर्तितः | तत् करिष्येऽद्य तां मूर्तिमिमां विद्धि मनो मम || २० || मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा विष्णोरमिततेजसः | ज्ञात्वा प्रत्यक्षतो विष्णुं मनुस्तुष्टाव केशवम् || २१ || मनुरुवाच नमस्ते जगदव्यक्तपरापरपते हरे | पावकादित्यशीतांशु नेत्रत्रयधराव्यय || २२ || जगत्कारणसर्वज्ञ जगद्धाम हरे पर | परापरात्मरूपात्मन् पारिणां पारकारण || २३ || आत्मानमात्मना धृत्वा धरारूपधरो हरे | विभर्षि सकलान् लोकानाधारात्मंस्त्रिविक्रम || २४ || सर्ववेदमयश्रेष्ठ धामधारणकारण | सुरौघपरमेशान नारायण सुरेश्वर || २५ || अयोनिस्तं जगद्योनिरपादस्त्वं सदागतिः | त्वं तेजः स्पर्शहीनश्च सर्वेशस्त्वमनीश्वर || २६ || त्वमनादिः समस्तादिस्तं नित्यानन्तरोऽन्तरः | यद्धैममण्डं जगतां बीजं ब्रह्माण्डसंज्ञितम् || २७ || तद्बीजं भवतस्तेजस्त्वयोक्तं सलिलेषु च | सर्वाधारो निराधारो निर्हेतुः सर्वकारणम् || २८ || नमि नमस्ते विश्वेश लोकानां प्रभव प्रभो | सृष्टिस्थित्यन्तहेतुस्त्वं विधिविष्णुहरात्मधृक् || २९ || यस्य ते दशधा मूर्तिरूर्मिषट्कादिवर्जिता | ज्योतिः पतिस्त्वमम्भोधिस्तस्मै तुभ्यं नमो नमः || ३० || कस्ते भावं वक्तुमीशः परेश स्थूलात्स्थूलो योऽनुरूपोर्थवर्गात् | तस्मै नित्यं मे नमोऽस्त्वद्य योऽभू- दादित्यवर्णं तमसः परस्तात् || ३१ || सहस्रशीर्षा पुरुषः सहस्रपात् सहस्रचक्षुः पृथिवीं समन्ततः | दशाङ्गुलं यो हि समत्यतिष्ठत् स मे प्रसीदत्विह विष्णुरुग्रः || ३२ || नमस्ते मीनमूर्ते हे नमस्ते भगवन् हरे | नमस्ते जगदानन्द नमस्ते भक्तवत्सल || ३३ || मार्कण्डेय उवाच स्वायम्भुवेन मनुना संस्तुतो मत्स्यरूपधृक् | वासुदेवस्तदा प्राह मेघगम्भीरनिःस्वनः || ३४ || श्रीभगवानुवाच तुष्टोऽस्मि तपसा तेऽद्य भक्त्यः चापि स्तुतो मुहुः | सपर्यया च दानेन वरं वरय सुव्रत || ३५ || इष्टार्थं सम्प्रदास्यामि तुभ्यं नात्र विचारणा | वरयस्वेप्सितान् कामान् लोकानां वा हितं च यत् || ३६ || मनुरुवाच यदि देयो वरोमेऽद्य लोकानां यो हितो भवेत् | तन्मे देहि वरं विष्णो तं वक्ष्यामि शृणुष्व मे || ३७ || शशाप कपिलः पूर्वं मदर्थे भुवनत्रयम् | हतप्रहतविध्वंस्तं सकलं ते भवेदिति || ३८ || येनेयमुद्धृता पृथ्वी येनेयं प्रतिपालिता | संहरिष्यति यस्त्वेनां तेऽधुना प्लावयन्त्विमाम् || ३९ || ततोऽहं दीनहृदय स्त्वामेव शरणं गतः | न यथेदं त्रिभुवनं भविष्यति जलप्लुतम् | हतप्रहतविध्वस्ते तथा त्वं देहि मे वरम् || ४० || श्री भगवानुवाच न मत्तः कपिलो भिन्नस्तथा न कपिलादहम् | यदुक्तं तेन मुनिना मयोक्तं विद्धि तन्मनो || ४१ || तस्माद् यदुदितं तेन तत्सत्यं नान्यथा भवेत् | करिष्ये तत्र साहाययं स्वायम्भुव निबोध तत् || ४२ || हतप्रहतविध्वस्ते तोयमग्ने जगत्त्रये | अ चिरादेव तत्रोयं भीषार्ययामि वै मनो | स्यामलेनाथ शृङ्गेण त्वं मां ज्ञास्यसि वै तदा || ४३ || यावज्जलप्लवस्तावद्यथा कार्यं त्वया मनो | तन्मे निगदतः पथ्यं शृणुष्वावहितोऽधुना || ४४ || सर्वयज्ञियकाष्ठौघैरेका नौका विधीयताम् | तामहं दृढयिष्यामि यथा नो भिद्यते जलैः || ४५ || दशयोजनविस्तीर्णां त्रिंशद्योजनमायताम् | धारिणीं सर्वबीजानां भुवनत्रयवर्धिनीम् || ४६ || सर्वयज्ञियवृक्षाणां भूरिवल्वलतन्तुभिः | नवयोजनदीर्घां तु व्यामत्रयसुविस्तृताम् || ४७ || कुरुष्व त्वं मनो तूर्णं बृहतीमीरिका वटीम् | जगद्धात्री जगन्माया लोकमाता जगन्मयी | दृढयिष्यति तां रज्जुं न त्रुत्यति यथातथा || ४८ || सर्वाणि वीजान्यादाय सवेदान् सप्त वै ऋषीन् | तस्यां नावि निषण्णस्त्वं वर्तमाने जलप्लवे || ४९ || दक्षेण सह सङ्गम्य स्मरिष्यसि मनो मम | स्मृतोऽहं तूर्णमायास्ये भवतो निकटं प्रति | श्यामलेनाथ शृङ्गेण त्वं मां ज्ञास्यसि वै तदा || ५० || यावत् प्रहतविध्वस्त-हतं स्याद्भुवनत्रयम् | तावत् पृष्ठेन तां नावं वोढाहं नात्र संशयः || ५१ || जहप्लुते तु सम्पूर्णे शृङ्गे मम च तां तरीम् | त्वं तदा वटीरिकया सन्धानिष्यसि वै दृढम् || ५२ || वद्धायां नावि मे शृङ्गे देवमानेन वत्सरान् | सहस्रं प्रेरयिष्यामि तां नावं शोषयन् जलम् || ५३ || ततः शुष्केषु तोयेषु प्रोतुङ्गे शिखरे गिरेः | हिमाचलस्य बद्ध्वाहं तस्मिन्नावमहं मनो || ५४ || अहमाराधितो येन जप्येन भवता मनो | सर्वसिद्धिर्भवेत्तस्य यस्तोषयति तेन माम् || ५५ || मार्कण्डेय उवाच इति दत्त्वा वरं तस्मै मत्स्यस्तेन नमस्कृतः | अन्तर्दधे जगन्नाथो लोकानुग्रहकारकः || ५६ || स्वायम्भुवोऽपि भगवानन्तर्धानं गते हरौ | यथोक्तं हरिणा पूर्वं नावं रज्जुं तथाकरोत् || ५७ || सर्वयज्ञियवृक्षौघाञ्छित्वा स्वायम्भुवस्तदा | उद्धृत्य कारयामास वास्यादिभिरसौ तरिम् || ५८ || तेषां अल्कसमुद्भूतसूत्रसङ्घर्वटीरिकाम् | पूर्वोक्तेन प्रमाणेन कारयामास वै मनुः || ५९ || ततः कालेन महता वृत्तं युद्धं महाद्भुतम् | विष्णोर्यज्ञवराहस्य शरभस्य हरस्य च || ६० || ततो जलप्लवे जाते विध्वस्ते भुवनत्रये | तथा रज्ज्वा तरिं बध्वा वीजान्यादाय सर्वशः || ६१ || वेदानृषींस्तदा सप्तदशन्चादाय वै मनुः | तस्यां नावि समाधाय तोयमग्रे चराचरे || ६२ || स्वायम्भुवस्तदा मत्स्यं हरिं सस्मार नौगतः | ततो जलानामुपरि सशृङ्ग इव पर्वतः || ६३ || दितश्चैकशृङ्गेण विष्णुर्मत्स्यस्वरूपधृक् | आगतस्तत्र नचिराद्यत्रास्ते तरिणा मनुः || ६४ || तरिमारुह्य विपुले तोयराशौ भयङ्करे | यावच्चलाचलं तोयं तावत् पृष्ठे तरिं न्यधात् || ६५ || जले प्रकृतिमापन्ने शृङ्गे बध्वा वटीरिकाम् | तां नावं नोदयामस सहस्रं दैववत्सरान् || ६६ || स्वं नावमवष्टभ्य दधार परमेश्वरः | योगनिद्रा जगधात्री समासीदद्वटीरिकाम् || ६७ || ततः शनैः शनैस्तोये शोषं गच्छति वै चिरात् | पश्चिमं हिमवच्छृङ्गं सुमग्नं तोयमध्यतः || ६८ || द्वे सहस्रे योजनानामुच्छ्रितस्तय हिमप्रभो | पञ्चाशत्तु सहस्राणि शृङ्गं तत्तस्य चोच्छ्रितम् || ६९ || तस्मिन् शृङ्गे ततो नावं बध्वा मत्स्यात्मधृग् हरिः | जगाम शोषणायाशु जलानां जगतां पतिः | एवं हि मत्स्यरूपेण वेदास्त्राताश्च शार्ङ्गिणा || ७० || मार्कण्डेय उवाच कपिलस्य तु शापेन कृत आकालिको लयः | अकालिकोऽयं प्रलयो यतो भगवता कृतः | इति वः कथितं सर्वं यथावद्द्विजसत्तमाः || ७३ || इति श्रीकालिकापुराणे अकालप्रलयकथने त्रयस्त्रिंशोऽध्यायः | चतुस्त्रिंशोऽध्यायः मार्कण्डेय उवाच यथा पुनरभूत् सृष्टिरकालप्रलये गते | येन चैवोद्धृता पृथ्वी तच्छृणन्तु द्विजोत्तमाः || १ || व्यतीते प्रलये विष्णुः कूर्मरूपी महाबलः | पृष्ठे निधाय पृथिवीमुद्धृत्याथ सपर्वताम् | समाञ्चकार सकलां पूर्ववत्परमेश्वरः || २ || शरभस्य वराहस्य तत्पुत्राणां पदक्रमैः | यत्र भूमिर्विशीर्णाभूत्तां तां समां कमठोऽकरोत् || ३ || कृत्वा समां ततो भूमिं पूर्ववत् परमेश्वरः | अनन्तं धारयामास पृथिवीतलसंश्रितम् || ४ || ततो ब्रह्मा च विष्णुश्च हरश्च परमेश्वरः | नावोदरस्थान् सप्तमुनीन्मनुं स्वायम्भुवं तदा | नरनारायणौ चोभौ दक्षञ्चोचुः समागताः || ५ || शृण्वन्तु मुनयः सर्वे नरनारायणौ तथा | दक्षस्वायम्भुवमनौ वयं ब्रूमोऽधुना च यत् || ६ || सृष्टिर्नष्टा वराहस्य शरभस्य च सङ्गरात् | अतोऽस्माकं यथाकार्या सृष्टिराकर्णयन्तु तत् || ७ || नरनारायणवेतौ सृष्ट्यर्थं समुपस्थितौ | संस्थापनाय देवानां परमं तप्यतां तपः || ८ || अप्यायय तपसा चोभौ जनलोकगतान् सुरान् | आनयन्त्वपराञ्छश्वत् संसृजन्तु गणान् बहून् || ९ || नक्षत्राणि ग्रहांश्चैव तेषां स्थानानि वै मुने | एतयोस्तपसा यान्तु स्थिरतां पूर्वजन्मनो || १० || सूर्यस्य रथसंस्थानं तथा चन्द्ररथस्थितिम् | करोत्वयं महाभागः स्वयमेव जनार्दनः || ११ || पृथिव्यां सर्ववीजानि स्वायम्भुवमनो त्वया | उप्यन्तां सर्वतः शस्यपूर्णा भवतु मेदिनी || १२ || प्ररोहयोषधीर्वृक्षान् लतावल्लीश्च सर्वतः | स्वायम्भुव महान्त्येतत् प्राप्तान्यृतुफलानि च || १३ || दक्षः सप्तमुनीन्द्रैस्तु यज्ञेन यजतां हरिम् | वराहपुत्रदेहोत्थमग्नित्रयमिदं यजन् || १४ || असौ यज्ञो वराहस्य देहाज्जातस्तु सृष्ट्ये | अनेनैव तु यज्ञेन दक्षः सृष्टिं तनोत्विमाम् || १५ || नरनारायणाभ्यान्तु मुनिभिः सप्तभिस्तथा | दक्षेण भवता चापि यज्ञेनैभिस्तथाग्निभिः || सम्पूर्यतामियं सृष्टिः स्वर्गे भुवि रसातले || १६ || वयं च सृष्टिमाप्यायय यथा सम्पद्यते त्वियम् | यतिष्यामस्तथा नित्यं यूयं कुरुत सर्जनम् || १७ || ततः सम्पद्यतां सृष्टिर्यथा पूर्वं तथैव च | प्रथमं त्वन्तु वीजानि प्ररोहय मनोऽधुना || १८ || मार्कण्डेय उवाच इत्यादित्य महाभागा विधिविष्णुवृषध्वजाः | यथास्थानं स्थापयितुं पर्वतान् प्रययुस्ततः || १९ || मेरुमन्दरकैलासहिमवत्प्रभृतिष्वथ | पुराणि सर्वदेवानां ते वै चक्रुः पृथक् पृथक् || २० || परित्यज ततो नावमवधृत्य वसुन्धराम् | स्वायम्भुवः क्षितौ वीजान्यवपत् सर्वसम्पदे || २१ || ततो वृक्षलतावल्लीगुल्मानि च वनानि च | बालशस्यानि धान्यानि तथैवौषधयः समाः || २२ || बीजकाण्डप्ररोहाश्च प्रताना जलजानि च | प्रफुल्लानि विकोशानि फलकन्ददलानि च || २३ || वभूवुः शाद्बलान्येव सर्वेषां प्राणवृद्धये | पृथिवी शस्यसम्पना वृक्षास्ते शाद्वलाः शुभाः | दृष्टाः पूर्वं यथा तस्मान्मनुनाचित्तहर्षिणा || २४ || ततो नरो महायोगी तपस्तेपे महत्तमम् | नारायणश्च देवानां भावनाय महामतिः || २५ || नारायणो नरश्चोभौ परमावृषिसत्तमौ | तपसाराध्य परमं तेजोमयमनामयम् || २६ || आनिन्याते जनगणान् देवान् देवर्षिसत्तमान् | ये मृता अमराः पूर्वं गणशस्तान् पृथक् पृथक् | तपोबलेन महत सर्जयामासतुर्मुनि || २७ || सूर्याचन्द्रमसौ देवौ दिक्पालांश्च तथा दश | जनार्दनः स्वयं चक्रे पातालतलवासिनः || २८ || सूर्याचन्द्रमसोश्चक्रे यथासंस्थानमच्युतः | पुर्ववद् योजयामस दिवारात्रस्थितौ च तौ || २९ || ओषधिषु च जातासु यज्ञवृक्षेषु सत्तमाः | शस्यबीजेषु जातेषु देवेषु च पृथक् पृथक् || ३० || दक्षः कर्तुं समारेभे ज्योतिष्टोमं महाध्वरम् | कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः || जमदग्निर्भरद्वाज एते सप्तर्षयोऽमलाः || ३१ || एतैः सप्तमुनीन्द्रैस्तु दक्षो ब्रह्मसुतः स्वयम् | महायज्ञं ततश्चक्रे यावद्द्वादशवत्सरान् || ३२ || हूयमानेषु तत्रैव त्रिष्वग्निषु पुनः पुनः | इज्यमाने वराहे तु यज्ञरूपे तदा द्विजैः | चतुर्विधाः प्रजा जाता यज्ञादेव द्विजोत्तमाः || ३३ || ततो दक्षस्य सञ्जाताः पुत्र्यः पुण्यास्त्रयोदश | स्वरूपगुणसम्पन्नाः सृष्ट्यर्थममितप्रजाः || ३४ || ताः पुत्रीः प्रददौ दक्षः कश्यपाय महात्मने | ताभ्यो जाताश्च बहवस्तैर्व्याप्तं सकलं जगत् || ३५ || स सर्वासां प्रजानां तु कश्यपो जनको ह्यभूत् | निश्चितं द्विजशार्दूलाः कश्यपात् सकलं जगत् || ३६ || तासां नामानि तज्जाताःप्रजाः सर्वाः पृथक् पृथक् | शृणवन्तु मुनयः सर्वे सम्यक् कथयतो मम || ३७ || अदितिर्दितिर्दनुः काला दनायूः सिंहिका मुनिः | क्रोधा प्रधा वरिष्ठा च विनता कपिला तथा || कद्रूस्त्रयोदशसुता एता दक्षस्य कीर्तिताः || ३८ || सञ्जातो दक्षिणाङ्गुष्ठान्मनसा ध्यायतो विधेः | तेन देवमनुष्येषु दक्ष इत्येव कथ्यते || ३९ || ब्रह्मणो मानसाःपुत्रा दश पूर्वं प्रकीर्तिताः | तेषां षट्सृष्टिकर्तारो व्यतीतेऽस्मिन् जनक्षये || ४० || मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः | मरीचेस्तनयो जातः कश्यपो लोकभावनः || ४१ || अस्यैव दक्षकन्याभ्यः प्रजा जज्ञेऽथ भूरिशः | अस्य जायाप्रजातानां नामतो विनिबोधत || ४२ || धाता मित्रोऽर्यमा शक्रो वरुणः सोम एव च | भर्गो विवस्वान् पूषा च सवितृत्वष्टुविष्णवः || ४३ || अदितेर्द्वादशसुता आदित्यास्ते प्रकीर्तिताः | एषां कनीयान् गुणवान् सदा यस्तपतिः प्रजाः || ४४ || स वै वंशकरो मुख्यो गद्यते वो दिवाकरः | एक एव दितेः पुत्रो हिरण्यकशिपुर्बली || ४५ || चत्वारस्तस्य तनया हृष्टा मदबलान्विताः | प्रह्लादो ह्यथ संह्लादो वाष्कलः शिबिरेव च || ४६ || प्रह्लादस्य त्रयः पुत्रास्तेषामाद्यो विरोचनः | कुम्भो निकुम्भो बलवांस्त्रयः प्राह्लादजाः स्मृताः || ४७ || विरोचनसुतो जातो दानशौण्डो बलिर्महान् | बलेश्च पुत्रो विदितो वाणो नाम महाबली || ४८ || शम्भोरनुचरः श्रीमान् महाकालाह्वयश्च सः | बाणस्य च शतं पुत्राः कुसुम्भमकरादयः || ४९ || चत्वारिंशद्दनोः पुत्रा विप्रचित्तिपुरःसराः | शम्बरो नमुचिश्चैव पुलोमा च तथैव च || ५० || असिलोमा तथा केशी दुर्जयोऽयःशिरास्तथा | अश्वशीर्षो क्षयः शङ्कुर्वियन्मूर्धा महाबलाः || ५१ || वेगवान् केतुमांश्चैव स्वयं स्वर्भानुरेव | अश्वो ह्यश्वपतिः कुण्डो वृषपर्वाजकस्तथा || ५२ || अश्वग्रीवश्च सूक्ष्मश्च तुरुण्डुर्माण्डलस्तथा | ऊर्धबाहुश्चैकचक्रो विरूपाक्षो हराहरौ || ५३ || नियन्त्रश्च निकुम्भश्च कूपटश्चपटुस्तथा | सरभः सुलभश्चैव सूर्याचन्द्रमसौतथा || ५४ || अन्यावेतौ दनोः पुत्रौ सूर्याचन्द्रमसौ तथा | दिवाकर-निशानाथौ तावन्यौ देवपुङ्गवौ || ५५ || एषां पुत्रैश्च पौत्रैश्च तत्पुत्रैश्चैव भूरिभिः | जगद्व्याप्तमिदं सर्वं बलवीर्यसमन्वितैः || ५६ || दनायुषोऽभवन् पुत्राश्चत्वारो बलवत्तराः | वीरभद्रो विक्षरश्च वत्सो वृत्तस्तथैव च || ५७ || एषां चतुर्णां वहवः पुत्रा जाता द्विजोत्तमाः | रूपसत्वबलोपेता एकैकस्य शतंशतम् || ५८ || कालायास्तनया जाताः कालेया इति विश्रुताः | विख्यातास्ते महावीर्याश्चत्वारो दानवाधिपाः || ५९ || विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च | क्रोधशक्रस्तथा चैते कालापुत्राः प्रकीर्तिताः || ६० || सिंहिकायाः सुतो जातो राहुश्चन्द्रार्कमर्दनः | सुचन्द्रश्चन्द्रहन्ता च तथा चन्द्रविमर्दनः || ६१ || एगवान् केतुमान् चैव अयः सुर्भानुरेव च | अश्वोद्यपतिः कृष्टुरष्टपर्वाजुस्रुस्तथा || ६२ || क्रोधायास्तनया जाताः क्रूरकर्मकरास्तथा | सिंहिकाचैव क्रोधा च द्वे सुते क्रूरिके सदा || ताभ्यां च प्रभवो वंशो ह्यतः क्रूरतरः स्मृतः || ६३ || एक एव मुनेः पुत्रो जातः शुक्रः कविर्महान् | दैत्यदानवकालेयप्रभृतीनां सदा गुरुः || ६४ || चत्वारस्तस्य तनया जाता असुरयाजकाः | त्वष्टावरस्तथात्रिश्च सौकलश्चेति वाग्मिनः || ६५ || तेजसा सूर्यसदृशा ब्रह्मलोकःप्रभावनाः | असुराणां सदैत्यानां कालेयानां तथैव च || ६६ || क्रोधात्मजानाञ्च तथा सिंहिकातनयस्य च | सूतिप्रसूतिभिः सर्वं जगद्व्याप्तं चराचरम् || ६७ || तेषां तु यान्यपत्यानि वर्धितानि क्रमद्द्विजाः | तेषां बहुत्वात् सङ्ख्यातं चिरेणापि न शक्यते || ६८ || तार्क्ष्यश्चारिष्टनेमिश्च अनूरुर्गरुडस्तथा | आरुणिर्वारुणिश्चैव विनतातनयाः स्मृताः || ६९ || शेषो वासुकिराजश्च तक्षकः कुलिकस्तथा | कूर्मश्च सुमनाश्चेति काद्रवेयाः प्रकीर्तिताः || ७० || भीमसेनोग्रसेनश्च सुपर्णो गरुडस्तथा | गोपतिर्धृतराष्ट्र सूर्यवर्चाश्च वीर्यवान् || ७१ || अर्कदृष्टः प्रयुक्तश्च विश्रुतः सुश्रुतस्तथा | भीमश्चित्ररथश्चैव विख्यातः सर्वविद्बली || ७२ || शालिशीर्षश्च पर्जन्यः कलिर्नारद एव च | इत्येते देव गन्धर्वा मुनिपुत्राः प्रकीर्तिताः || ७३ || अनवद्यां सानुरागां संवरां मार्गणां प्रियाम् | असूयां सुभगां भीमामिति कन्यामसूयत || ७४ || प्राधा सर्वगुणोत्थानात् कश्यपात्तु तपोधनात् | विश्वावसुः सुचन्द्रश्च सुपरणः सिद्ध एव च || ७५ || बर्हिः पूर्णश्च पूर्णाङ्गो ब्रह्मचारी रतिप्रियः | भानुश्च दशमश्चैते प्राधापुत्राः प्रकीर्तिताः || ७६ || इत्येते देवगन्धर्वाः सन्ततं पुण्यलक्षणाः | प्राधासूत महाभागा देवी देवर्षिसत्तमात् || ७७ || अलम्बुषा मिश्रकेशी गामिनी च मनोरमा | विद्युत्पन्नानधारम्भा ह्यरुणा रक्षितातुला || ७८ || सुवाहुः सुरता चैव मुरजा सुप्रिया तथा | वपुस्तिलोत्तमा चेति मुख्या अप्सरसः स्मृताः || ७९ || अतिबाहुस्तुम्बुरुश्च हाहा हूहूस्तथैव च | गन्धर्वाणामिमे मुख्या देवतुल्याः प्रकीर्तिताः || ८० || अमृतं ब्राह्मणा गावो मुनयोऽप्सरसस्तथा | कपिलातनयाः प्रोक्ता महाभागा महोत्सवाः || ८१ || इति दक्षसुतानां ये कश्यपात्तनयाः स्मृताः | तैरिदं सकलं व्याप्तं जगत्स्थावरजङ्गमम् || ८२ || एवं यज्ञवराहस्य यज्ञरूपस्य पातनात् | त्रिभ्योऽग्निभ्यो मनोस्तस्मात् स्वायम्भुवमहात्मनः || ८३ || मुनिभ्यश्चैव सप्तम्यः कश्यपादिभ्य एव च | नरनारायणाभ्यान्तु व्यतीतेऽकालिके लये | पुनः प्रजाः पुरा सृष्टा हरिणानेकरूपिणा || ८४ || एवं पुनरभूत् सृष्टिः सृष्टिस्थित्यन्तकारिणः | हरेस्तस्य प्रसादेन नरनारायणात्मनः || ८५ || इति श्रीकालिकापुराणे सृष्टिकथने चतुस्त्रिंशोऽध्यायः || ३४ || पञ्चत्रिंशोऽध्यायः मार्कण्डेय उवाच ईश्वरः शारभं कायं यथा तत्याज यत्नतः | तन्मे निगदतो भूयः शृणुध्वं द्विजसत्तमाः || १ || हते यज्ञवराहे तु ब्रह्मा लोकपितामहः | उवाच शरभं गत्वा सामयुक्तं जगद्धितम् || २ || देहाभोगेन भवतः पूरितं भूरियोजनम् | उपसंहर तस्मात् त्वं कायं लोकभयङ्करम् || ३ || तव युद्धेन सकलं प्रणष्टं भुवनत्रयम् | आकाशं गन्तुं त्वां दृष्ट्वा विभेत्यद्य जनार्दनः | तस्मात् त्वमूर्धलोकानां हिताय त्यज वै तनुम् || ४ || मार्कण्डेय उवाच ततस्तस्य वचः श्रुत्वा सुरज्येष्ठस्य शङ्करः | तत्याज शारभं कायं तोयोपर्येव तत्क्षणात् || ५ || त्यक्तस्य तस्य देहस्य शङ्करेण महात्मना | अष्टौ पादा अष्टमूर्तेस्तेषु चाष्टसु भेजिरे || ६ || आद्यन्तु दक्षिणं पादमाकाशमगमद्द्रुतम् | तद्वामं मिहिरं भेजे पश्चाद् दक्षिणजं विधौ || ७ || वामन्तु ज्वलनं भेजे पृष्ठाग्रं पद्गतं क्षितिम् | पृष्ठाग्रवामं सलिलं तत्पश्चाद् दक्षिणं तथा || ८ || वायौ वामपदं भेजे होतारं सर्वतोमुखम् | एवं तस्याष्टमूर्तेस्तु अष्टमूर्तिषु तत्क्षणात् | अष्टौ पादास्तथा भेजुः स्वं त्वं तेजो ययुः पदम् || ९ || मध्यं तु शारभं कायं शङ्करस्य महात्मनः | कपाली भैरवो भूतश्चण्डरूपी दुरासदः || १० || मस्तिष्कमेदसा युक्तं मांसं जुह्वति ते शुचौ | ब्रह्मकपालपात्रस्थं सुराभिर्देवपूजनम् || ११ || बलिर्मनुष्यमांसेन पानं तु रुधिरं सदा | सुरया पारनं यज्ञे कपालोद्भटधारणम् || १२ || व्याघ्रचर्मपरिधानं समलं त्रिवलीवृतम् | एवं कुर्वन्ति सततं कपालव्रतधारिणः || १३ || कपाली भैरवस्तेषां देवः पूज्यस्तु नित्यशः | श्मशानभैरवो योऽसौ यो महाभैरवाह्वयः || १४ || बालसूर्यसमोद्योतः सदाष्टादशबाहुभिः | विभ्राजमानो रक्ताक्षः सर्वदा नायिकाव्रजैः || १५ || कालीप्रचण्डाप्रमुखैः क्रीडमानस्तु नित्यशः | सद्योदग्धनृमांसाशी गलल्लोललसद्भुजः || १६ || लोहिताहारविघसः प्रेताशनगतः सदा | स्थूलवक्त्त्रोऽथ लम्बोऽष्ठो ह्रस्वस्थूलपदालयः | विनोदी वादनो लोके साट्टहासात्तु भैरवः || १७ || एवं स च महादेवो महाभैरवरूपधृक् | मध्यशारभकायेन कार्यं दध्रे महाभुजः || १८ || स जगाम ततो देवा हरस्य प्रमथान् प्रति | गणैः सार्धं तथाकाशे विक्रीडति स भैरवः || १९ || स महाभैरवो देवः पूज्यमानो जगज्जनैः | अद्यापि कुरुते नित्यमिष्टकामस्य साधनम् || २० || चैत्र-शुक्लचतुर्दश्यां मध्वासवपयःफलैः | मांसैर्मत्स्यैः सरुधिरैः सकृद्यो भैरवं यजेत् || २१ || स सर्वकामान् संसाध्य भोगान् भुक्त्वा यथेष्टतः | प्रयाति शम्भुभवनमारुह्य वृषभं परम् || २२ || एतद्वः कथितं सर्वं यत्पृष्टोऽहं द्विजोत्तमैः | भवद्भिर्यच्च वोऽन्यद् वा रोचते पृच्छ मां तु तत् || २३ || इति श्रीकालिकापुराणे शरभकायत्यागे पञ्चत्रिंशोऽध्यायः | षट्त्रिंशोऽध्यायः ऋषयः ऊचुः कथं वराहपुत्रोऽसौ नरको नाम वीर्यवान् | सञ्जातो असुरसत्त्वः स देवदेवीसुतोऽपि सन् || १ || चिरजीवी कथं सोऽभूत् किमर्थमुदरे चिरम् | पृथिव्यां न्यवसञ्जातः कुत्र वा स महाबलः || २ || सोऽसुराणां कथं राजा पुरं तस्य किमाह्वयम् | मलिनीरतिसञ्जातः स क्षितौ पोत्रिणस्तथा || ३ || श्रूयते मुनिशार्दूल कथं भूतस्तथाविधः | एतत्सर्वमशेषेण पृच्छतां त्वं वदस्व नः || ४ || त्वं नो गुरुश्च शास्त्रा च सर्वं प्रत्यक्ष दर्शिवान् | कथं लब्धवरो भूतो ब्रह्मणा प्रभविष्णुणा || ५ || मार्कण्डेय उवाच शृण्वन्तु मुनयः सर्वे यत् पृष्टोऽहं द्विजोत्तमाः | यथा स नरको जातो धरासुतो महासुरः || ६ || रजस्वलाया गोत्राया गर्भे वीर्येण पोत्रिणः | यतो यातस्ततोभूतो देवपुत्रोऽपि सोऽसुरः || ७ || गर्भसंस्थं महावीरं ज्ञात्वा ब्रह्मादयः सुराः | वराहपुत्रं दुर्धर्षं महाबलपराक्रमम् || ८ || गर्भ एव तदा देवाः शक्त्या दध्रुश्चिरं दृढम् | यथा कालेऽपि सम्प्राप्ते नो गर्भाज्जायते स च || ९ || ततस्त्यक्तशरीरस्तु वराहस्तनयैः सह | अतीव शोकसन्तप्ता जगद्धात्र्यभवत् क्षितिः || १० || शोकाकुला सा व्यलपच्चिरकालं मुहुर्मुहुः | प्रकृतिस्था क्षितिर्भूता माधवेन प्रबोधिता || ११ || ततः कालेऽपि सम्प्राप्ते दैवशक्त्या यदा धृतः | न गर्भः प्रसवं याति तदाभूत् पीडिता क्षितिः || १२ || कठोरगर्भा सा देवी गर्भभारं न चाशकत् | यदा वोढुं तदा देवं माधवं शरणं गता || १३ || शरण्यं शरणं गत्वा माधवं जगतां पतिम् | प्रणम्य सिरसा देवी वाक्यमेतदुवाच ह || १४ || पृथिव्युवाच नमस्ते जगदव्यक्तरूप कारणकारण | प्रधान पुरुषातीत स्थित्युत्पत्तिलयात्मक || १५ || जगन्नियोजनपर स्वाहाभोगधरोत्तम | जगदानन्दनन्दात्मन् भगवन् जगदीश्वर || १६ || नियोजको नियोज्यश्च विभ्राजन विष्णुरव्यय | नमस्तुभ्यं जगद्धातस्त्रिलोकालय विश्वकृत् || १७ || यः पालयति नित्यानि स्थापयत्येव तत्परः | त्वं त्वां नियमरूपेण नमामि जगदीश्वर || १८ || त्वं माधवः प्रवेकश्च कामः कामालयो लयः | प्रसूतिच्युतिहेत्वर्थ-त्राणकारणमीश्वरः || १९ || न यस्य ते क्लेदाय स्युरापो नोष्मा तथोष्मणे | नशीताय भवेच्छीतं तस्मै तुभ्यं नमोनमः || २० || न समुद्रः प्लवकरो न शोषाय दहात्मकः | न मृत्यवे यस्य यमस्तस्मै तुभ्यं नमोनमः || २१ || यच्चिद्धार्यं योगिभिः तान्तहेहै रुन्मार्गाणां यात्यरिध्येयकृत्यम् | नित्यं यद्रूपमार्गावसक्तं स त्वं त्राहि त्राणमिच्छन् धरित्रीम् || २२ || मार्कण्डेय उवाच इति स्तुतो हृषीकेशो जगद्धात्र्या तदा हरिः | प्रादुर्भुतस्तदा प्राह धरित्रीं दीनमानसाम् || २३ || श्रीभगवानुवाच कथं दीनमना देवि धरित्रि परिदेवसे | तव वा किं कृता पीडा वेत्तुमिच्छामि तामहम् || २४ || मुखं ते परिशुष्कं तु शरीरं कान्तिवर्जितम् | आकुलं नयनद्वन्द्वं भ्रूविभ्रमविवर्जितम् || २५ || ईदृशं तव रूपं तु दृष्टपूर्वं कदापि न | रूपस्य तु विपर्यासे दुःखबीजं च भाषय || २६ || एतच्छ्रुत्वा वचस्तस्य माधवस्य जगत्पतेः | विनयावनता देवी पृथ्वी प्राह सगद्गदम् || २७ || पृथिव्युवाच न गर्भभारं संवोढुं माधवाहं क्षमाधुना | भृशं नित्यं विषीदामि तस्मात् त्वं त्रातुमर्हसि || २८ || त्वया वराहरूपेण मलिनी कामिता पुरा | तेन कामेन कुक्षौ मे यो गर्भोऽयं त्वयाहितः || २९ || काले प्राप्तेऽपि गर्भोऽयं न प्रच्यवति माधव | कठोरगर्भा तेनाहं पीडितास्मि दिने दिने || ३० || यदि न त्राहि मां देव गर्भदुःखाज्जगत्पते | न चिरादेव यास्यामि मृत्योर्वशमसंशयम् || ३१ || कयापि नेदृशो गर्भः पूर्वं माधव वै धृतः | योऽचलां चालयति मां सरसीमिव कुञ्जरः || ३२ || एतच्छ्रुत्वा वचस्तस्याः पृथिव्याः पृथिवीपतिः | आह्लादयन् प्रत्युवाच हरिस्तप्तां लतामिव || ३३ || श्रीभगवानुवाच न धरे ते महद्दुःखं चिरस्थायि भविष्यति | शृणु येन प्रकारेण चानुभूतमिदं त्वया || ३४ || मलिन्या सहसङ्गेन यो गर्भः सन्धृतस्त्वया | सोऽभूदसुरसत्वस्तु घृष्टेः पुत्रोऽपि दारुणः || ३५ || ज्ञात्वा तस्य न वृत्तान्तं गर्भस्य द्रुहिणादयः | दैवीभिः शक्तिभिर्वद्धस्तव कुक्षौ तु तत्पुरः || ३६ || सर्गादौ यदि जायेत भवत्यास्तादृशः सुतः | भ्रंशयेत् सकलान् लोकांस्त्रीनिमान् ससुरासुरान् || ३७ || अतस्तस्य बलं वीर्यं ज्ञात्वा ब्रह्मादयः सुराः | प्राक्सृष्टिकाले ते गर्भं तथा धूर्जगतां कृते || ३८ || अष्टाविंशतितमे प्राप्ते आदिसर्गाच्चतुर्युगे | त्रेतायुगस्य मध्ये तु सुतं त्वं जनयिष्यति || ३९ || यावत् सत्ययुगं याति त्रेतार्धं च वरानने | तावद् वह महागर्भं दत्तः कालो मया तव || ४० || न यावज्जायते धात्रि गर्भस्ते ह्यतिदारुणः | तावद् गर्भवती दुःखं न त्वं प्रप्स्यसि भामिनी || ४१ || मार्कण्डेय उवाच इत्युक्त्वा भगवान् विष्णुः पृथिवीं गर्भिणीं तदा | नाभौ पस्पर्श दयितां शङ्खाग्रेणातिपीडिताम् || ४२ || सा स्पृष्टा विष्णुणा पृथ्वी शरीरं लघु चासदत् | गर्भेऽपि लघिमानं सा प्रापातीव सुखप्रदम् || ४३ || अगर्भा यादृशी नारी तादृशी साप्यजायत | धृतगर्भापि मुदिता सा बभूव जगत्प्रसूः || ४४ || ततः पुनरिदं वाक्यमुक्त्वा स भगवान् क्षितिम् | पुनः प्रसादयामास सामभिर्बहुभिश्च ताम् || ४५ || श्रीभगवानुवाच जगधात्रि महासत्वे त्वं धृतिर्धारणात्मिका | सर्वेषां धारणाद्देवि त्वं धात्रीति प्रगीयसे || ४६ || क्षमा यस्माज्जगद्धर्तुं शक्ता क्षान्तियुतात्र यत् | सर्वं वसु त्वयि न्यस्तं यस्माद्वसुमती ततः || ४७ || तद्दुःखं त्यज पुत्रस्ते यदा सञ्जायते तदा | मां स्मरिष्यसि देवि त्वं पुत्रं ते पालयाम्यहम् || ४८ || इदं रहस्यं कुत्रापि न प्रकाश्यं त्वया धरे | यन्मया कथितं देवि रहस्यं परमं परम् || ४९ || गर्भस्तव महाभागे त्रेतायामध्यभागतः | उत्पत्स्यते हते वीरे रावणे रामसंज्ञिना || ५० || मार्कण्डेय उवाच इत्युक्त्वा भगवान् विष्णुस्तत्रैवान्तरधीयत | आज्ञाप्य पृथिवीं देवीं गर्भभारप्रपीडिताम् || ५१ || धरापि कुशला क्षामा लघुकाया बलैर्युता | अगर्भेव ययौ देवी मुदा परमया युता || ५२ || इति श्रीकालिकापुराणे धरादुःखविमोचने षट्त्रिंशोऽध्यायः || ३६ || सप्तत्रिंशोऽध्यायः मार्कण्डेय उवाच अथ काले बहुतिथे व्यतीते द्विजसत्तमाः | विदेहविषये राजा जनको नाम वीर्यवान् || १ || सर्वराजगुणैर्युक्तो राजनीतिविवर्धितः | सत्यवाक् शीलवान् दक्षो ब्रह्मण्यः प्रयतः शुचिः || २ || देवद्विजगुरूणां च पूजासु निरतः सदा | बभूव सर्वलोकानां पितेव परिपालकः || ३ || तस्य राज्ञः सुतो नाभूत् प्राप्ते कालेऽपि वै यदा | तदा स विमना भूत्वा चिन्ताध्यानपरोऽभवत् || ४ || एकदा सोऽथ सुश्राव नारदस्य मुखान्नृपः | अपुत्रो नृपतिर्वृद्धो नाम्ना दशरतो महान् || ५ || पुत्रान् लेभे महासत्वानध्वरेण महामतिः | अयोध्यायां नगर्यां तु ऋष्यशृङ्गपुरोगमैः || ६ || मुनिभिर्विहितैर्यज्ञैर्लब्धवान् सभूपः सुतान् | रामं च भरतं चैव शत्रुघ्नं लक्ष्मणं तथा || ७ || महासत्वान् महावीरान् देवगर्भोपमाञ्छुभान् | तच्छ्रुत्वा जनको राजा प्रविश्यान्तःपुरं स्वकम् | भार्याभिर्मन्त्रयामास यज्ञार्थं पुत्रजन्मने || ८ || मन्त्रयित्वा तदा राजा महिषीप्रमुखैःस्वयम् | चतसृभिस्तु भार्याभिर्यज्ञार्थं दीक्षितोऽभवत् || ९ || ततः पुरोधसं राजा गौतमं मुनिसत्तमम् | तत्पुत्रं च शतानन्दं पुरोधायाकरोन्मस्वम् || १० || द्वौ पुत्रौ तस्य सञ्जातौ यज्ञभूमौ मनोहरौ | एका च दुहिता साध्वी भूम्यन्तरगता शुभा || ११ || नारदस्योपदेशेन यज्ञभूमिं ततो नृपः | हलेन दारयामास यज्ञबाटावधिस्वयम् || १२ || तद्भूमिजातसीतायां शुभां कन्यां समुत्थिताम् | लेभे राजा मुदा युक्तः सर्वलक्षणसंयुताम् || १३ || तस्यां तु जातमात्रायां पृथिव्यन्तर्हिता स्वयम् | जगाद वचनं चेदं गौतमं नारदं नृपम् || १४ || पृथिव्युवाच एषा सुता मया दत्ता तव राजन् मनोहरा | एनां गृहाण सुभगां कुलद्वयशुभावहाम् || १५ || अनया मे महाभारस्तत्त्वतो हेतुभूतया | क्षयं यास्यति भारार्ति मोचयिष्यामि दारुणाम् || १६ || रावणाद्या महावीराः कुम्भकर्णादयोऽपरे | नाशं यास्यति दुर्घर्षां कृतेऽस्या राक्षसाः परे || १७ || त्वं च मोदं दुराघर्षं दुहितकृतिजं नृपः | अवाप्स्यसि सुराणां च पितृणामृणशोधनम् || १८ || किन्त्वेकः समयः कार्यस्त्वया मम नरोत्तम | तमहं ते प्रवक्ष्यामि पुरो नारदगौतमौ || १९ || निहते रावणे वीरे भारार्ति-रहिता सुखम् | सुपुत्रं जनयिष्यामि यज्ञभूमावहं तव || २० || तं पुत्रवत् पालयिता भवान् नृपतिसत्तम | यावद्व्यतीतबाल्यः सन् भविता तनयो मम || २१ || व्यतीतबाल्यं तमहं पालयिष्ये स्वयं नृप | तस्य स्यान्मानुषो भावो यथा त्वं तत्करिष्यसि || २२ || मार्कण्डेय उवाच इति पृथिव्या वचनं श्रुत्वा राजा तदा मुदा | प्रणम्य पृथिवीं प्राह साम्ना स जनकाह्वयः || २३ || राजोवाच यत् त्वं ब्रूषे जगद्धात्रि करिष्ये तद्वचस्तव | ममापीष्टं प्रयच्छस्व प्रसीद परमेश्वरि || २४ || देवि प्रत्यक्षतो रूपं द्रष्टुमिच्छाभ्यहं तव | शक्तिस्त्वं लोकजननी त्वां नमामि प्रसीद मे || २५ || इति तस्य वचः श्रुत्वा जनकस्य तदा क्षितिः | मुनीनां सन्निधौ रूपं दर्शयामास भूभृते || २६ || नीलोत्पलदलश्यामामक्षमालाब्जधारिणीम् | बाहुयुग्मेन शुभ्रेण मृणालायतशोभिना | सुन्दरीं लोकधात्रीं तां दृष्ट्वा शश्वत् नृपोऽनमत् || २७ || ततः सा पृथिवी देवी सीतां जातां नृपात्मजाम् | करेण शश्वत् संस्पृश्य वचनं चेदमब्रवीत् || २८ || इयं ते मानुषं भावमवाप्स्यति जगत्प्रसूः | तव पुत्री नृपश्रेष्ठ समयं प्रतिपालय || २९ || मार्कण्डेय उवाच इत्युक्त्वा पृथिवी देवी राजानं जनकाह्वयम् | सम्भाष्य नारदादींस्तांस्तत्रैवान्तरधीयत || ३० || जनकोऽपि सुतां लब्ध्वा सर्वलक्षणशालिनीम् | सुतद्वयं तथा प्राप्य मुदितः स्वगृहं ययौ || ३१ || ततः काले तु सम्प्राप्ते रावणे राक्षसे हते | मानुषेण स्वरूपेण विष्णुना प्रभविष्णुना || ३२ || गत्वा विदेहराजस्य यज्ञभूमिं तदा क्षितिः | सुषुवे तनयं वीरं यत्र सीता पुराभवत् || ३३ || जाते पुत्रे तदा देवी जगद्धात्री जगत्प्रभुम् | सस्मार समये विष्णुं स्मरन्ती समयं पुरा || ३४ || स्मृतमात्रस्तदा देवः समयं प्रत्यपालयत् | क्षितेर्यत्र सुतो जायस्तत्र प्रादुर्बभूव ह || ३५ || प्रादुर्भूतं तदा देवी प्रणम्य परमेश्वरम् | संस्तूय सुनृतं शश्वदिदमाह जगत्प्रभुम् || ३६ || पृथिव्युवाच एष ते तनयोजातः सुकुमारो महाप्रभः | संस्मरन् समयं पूर्वं त्वमेनं प्रतिपालय || ३७ || श्रीभगवानुवाच अयं ते तनयो देवी महाबलपराक्रमः | भविता मानुषं भावं तन्वानः सुचिरं बुधः || ३८ || यावन्मानुषभावं ते तनयो भावयिष्यति | तावत् कल्याणभाग्भूत्वा चिरं राज्यं करिष्यति || ३९ || त्यक्तमानुषभावस्तु यदा चायं विचेष्टते | तदा तु नास्य सुचिरं जीवितं सम्भविष्यति || ४० || सम्प्राप्ते षोडशे वर्षे राज्यमासादयिष्यति | धनरत्नगजैश्वर्ययुक्तोऽयं रथसञ्चयैः | आसाद्य महतीं नित्यं श्रियं भोक्ष्यति वीर्यवान् || ४१ || यस्मिन् यस्मिन् युगे भावो यो वा भवति व नृणाम् | तं भावं तथैवायं करिष्यति तथा कुरु || ४२ || एतस्य निभृतं राज्यं यत् प्राग्ज्योतिषसंज्ञकम् | पुरं तत्र चिरं शास्ता राज्यमेष सुतस्तव || ४३ || मार्कण्डेय उवाच इत्युक्त्वा पृथिवीं विष्णुः समाभाष्य जगत्पतिः | दृश्यमानस्तया क्षिप्रं तत्रैवान्तर्दधे प्रभुः || ४४ || प्रसूय पृथिवी पुत्रं मध्यरात्रे महाद्युतिम् | जनकं ज्ञापयामास रहस्यं पूर्वमीरितम् || ४५ || विदेहराजो ज्ञात्वैव पृथिवीजनितं सुतम् | तत्रैव यज्ञवाटं स रात्रावागात् कृतक्रियः || ४६ || गच्छन्तं यज्ञवाटं तं दृष्ट्वा सर्वंसहा तदा | नोक्त्वा किञ्चन तं शश्वदन्तर्धानं गता नृपम् || ४७ || अथ गत्वा तदा तत्र विदेहाधिपतिः सुतम् | धरायां ददृशे कान्त्या चन्द्रार्कज्वलनोपमम् || ४८ || रुदन्तं बहुशः स्निग्धं चलधस्तपदद्वयम् | वपुष्मन्तं श्रियादीप्तं कार्तिकेयमिवापरम् || ४९ || उद्गच्छन् स रुदन् बालो यज्ञभूमिं व्यतीत्य च | कियद्दूरं जगामाशूत्तानशायी महाद्युतिः || ५० || मनुष्यस्य शिरस्तत्र मृतस्य प्राप्य बालकः | स्वशिरस्तत्र विन्यस्य रुदंस्तस्थौ क्षणं तदा || ५१ || ततो विदेहराजोऽपि मार्गमाणः क्षितेःसुतम् | व्यतीत्य यज्ञभूमिं तमाससादाञ्जसा बहिः || ५२ || आसाद्य बालकं दीप्तं प्रदीप्तमिव पावकम् | कान्त्या चन्द्रमसस्तुल्यं तेजोभिर्भास्करोपमम् || ५३ || शरमध्यगतं पूर्वं पावकिं पावको यथा | स्वयं जग्राह तं राजा पृथिव्याः समयं स्मरन् || ५४ || उद्गृह्णन् तच्छिरोदेशे ददृशे मानुषं शिरः | शशंसचाचिरं शीर्षं मानुषं गौतमाय सः || ५५ || अथ बालं समादाय प्रविश्यान्तःपुरं स्वकम् | महिष्यै कथयामास प्राप्तं पुत्रं गुहोपमम् || ५६ || सा तं दृष्ट्वा विशालाक्षं सिंहस्कन्धं महाभुजम् | विस्तीर्णहृदयं कान्तं नीलोत्पलदलच्छविम् | मुमोद पालनीयोऽयं मयेति न्यवदत् नृपम् || ५७ || तां राजापि ततः प्राह पुत्रोऽयं मम सुन्दरि | यज्ञभूमौ समुत्पन्नः स्वच्छन्दं पाल्यतामयम् || ५८ || यत् पृथिव्या रहः प्रोक्तं न तद्देव्यै न्यवेदयत् | सत्यसन्धो नृपश्रेष्ठः प्रियाया अपि भाषितम् || ५९ || मम सुतसुतवंशान् पालयित्री धरेय- मिति नरपतिवर्यो मोदवांस्तद्दिने च | सुरतनयसमानं तुत्रमासाद्य देवी जितरिपुरतिधीमान् स्वादयञ्चेत्यमोदत् || ६० || इति श्रीकालिकापुराणे नरकजन्म-कथने सप्तत्रिंशोऽध्यायः || ३७ || अष्टत्रिंशोऽध्यायः मार्कण्डेय उवाच अथ तस्य नृपश्रेष्ठो गौतमेन महर्षिणा | संस्कारं कारयामास विधिना मानुषेण तु || १ || नरस्य शीर्षे स्वशिरो निधाय स्थितवान् यतः | तस्मात्तस्य मुनिश्रेष्ठो नरकं नाम वै व्यधात् || २ || अपरान् बालसंस्कारान् क्षात्रेण विधिना मुनिः | केशान्तावधि सञ्चक्रे ऋग्यजुः साममन्त्रकैः || ३ || ववृधे तस्य सदने नरको नाम भूसुतः | दिनं दिनं धृतान्यश्रीः शरदीव निशाकरः || ४ || स राजा तं सदा भावैर्मानुषैयोजयन् स्वयम् | गौतमस्य सुतेनाथ शतानन्देन धीमता | ग्राहयामास तन्नित्यं क्षात्रं भावं च मानुषम् || ५ || तथैव पृथिवी देवी धात्रीवेषेण तं सुतम् | नियतं ग्राहयामास मानुषं चरितं शुभम् || ६ || यदैव पुत्र उत्पन्नस्तदैव पृथिवीस्वयम् | मायामानुषरूपेण नृपान्तःपुरमाविशत् || ७ || प्रविश्य तत्र सा देवी नृपस्यानुमतेऽभवत् | धात्री तस्य द्विजश्रेष्ठाः कात्यायन्या ह्यवस्थया || यावत् षोडशवर्षाणि तस्य बालस्य भावीनि | तावत् स्वयं पालयन्ती ग्राहयामास संनयम् || ९ || स वर्धमानोऽनुदिनं नरकः पृथिवीसुतः | अत्यक्रामत् सुतान् सर्वान् जनकस्य महात्मनः || १० || शरीरेणाथ वीर्येण रूपेण बलवत्तया | धनुषा गदया वीरो ह्यत्यक्रामन् नृपात्मजान् || ११ || स शास्त्रवादकुशलो धनुर्वेदे च कोविदः | वर्षैः षोडशमिर्भूतो वीरैरन्यैर्दुरासदः || १२ || विदेहाधिपतिर्दृष्ट्वा महाबलपराक्रमम् | ततो न्यून्यान् स्वपुत्रांश्च नातिहृष्टमनाभवत् || १३ || निरस्यासौ च मत्पुत्रान् मम राज्यं ग्रहीष्यति | काले प्राप्ते महावीरो मतिस्तस्याभवत् पुरा || १४ || अन्तःपुरे यदा पुत्रान् सर्वान् रमयते नृपः | तदा तु नरकं वीक्ष्य हर्षं प्राप्नोति नाधिकम् || १५ || तस्य तद्वुबुधे देवी नृपस्याथ वसुन्धरा | महिषी विस्मयं चक्रे तस्मिन् भावे तु भूभृतः || १६ || अथैकदा महादेवी जनकस्य महात्मनः | पप्रच्छ नृपतिश्रेष्ठं विदेहाधिपतिं पतिम् || १७७ || महिषी उवाच नाथ पृच्छामि ते किंचिद्रहस्यं यदि नो तव | तदा मां तद्वदस्व त्वं कृपा चेद्विद्यते मयि || १८ || यदैव तनयाः सर्वे विहरन्ति पुरस्तव | तदैव नरकं दृष्ट्वा विमना इव लक्ष्यसे || १९ || तन्मे रात्रिन्दिवं वाढं विस्मयः प्रतिवर्धते | संशयश्च भयं चैव न जहाति च मां सदा || २० || रूपवान् वीर्यवानेष नये च विनये तथा | कुशलः प्रतिबुद्धश्च पुत्रस्तव महाबलः || २१ || न सभाजयसे कस्मात् पुत्रमन्यैर्दुरासदम् | तदहं ज्ञातुमिच्छामि यदि तथ्यं वदस्व मे || २२ || मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा प्रियायाः पृथिवीपतिः | तूष्णीं भूत्वा क्षणं देवीमिदं वचनमब्रवीत् || २३ || राजोवाच कथयिष्ये प्रिये तत्त्वं यत् पृष्ठोऽहं त्वयाधुना | मासत्रये व्यतीते तु समयं प्रतिपालय || २४ || निगूढः कश्चिदत्रास्ति देवस्य समयो मम | तेनाधुना न किञ्चित्ते कथयिष्यामि तद्रहः || २५ || मार्कण्डेय उवाच राज्ञो ह्ययं सभार्यस्य संवादोऽभवदन्तिके | मानुषी पृथिवी धात्री तं शुश्राव यदा तदा || २६ || श्रुत्वा तयोस्तु संवादं महिषीभूपयोः क्षितिः | मासत्रयेण समयं दत्तं देव्यै धराभृता || २७ || तत्काले विमनस्कं च भूपं नरकसंज्ञया | त्रिभिर्मासैर्व्यतीतैः स्यादस्य षोडशवत्सरः || २८ || ततो नृपो महिष्यास्तु कथयिष्यति तद्रहः | ततो मम रहस्यं तु विदितं सम्भविष्यति || २९ || चिन्तयित्वेति सा देवी जगद्धात्री सुतं प्रति | निश्चित्येदं तदा कृत्यं प्राप्तकालमचेष्टत || ३० || ततो रहसि भूपं तं समासाद्य सगौतमम् | इदमाह जगद्धात्री स्वपुत्रार्थे यशस्विनी || ३१ || पृथिव्युवाच यो मया समयो दत्तः पालितः स त्वयानघ | पुत्रश्च पालितो मेऽयं नरको विनयैर्युतः || ३२ || सम्प्राप्तयौवनः पुत्रो योजितश्च त्वया नयैः | तव प्रसादात् पुत्रो मे सुखी वृद्धो गृहे तव || ३३ || तमहं पूर्वसमयान्नयिष्यामि स्वमात्मजम् | अनुजानीहि भद्रं ते नरकस्य गतिं प्रति || ३४ || रक्षितव्यश्च भवता समयः सपुरोधसा | छन्नमेव नयिष्यामि भूपते मा कृथा व्यथाय || ३५ || मार्कण्डेय उवाच इत्युक्त्वा जगतां धात्री विदेहाधिपतिं नृपम् | तत्रैव पश्यतां तेषामन्तर्धानमुपागमत् || ३६ || नृपोऽपि तस्यास्तद्वाक्यमगींकृत्य क्षिति प्रति | तस्याः प्रत्यक्षतः स्थानं जगाम सपुरोहितः || ३७ || अथैकदा धरा देवी मायामानुषरूपिणी | उपांशु नरकं प्राह धात्री तस्य महात्मनः || ३८ || त्वया समं महाबाहो गङ्गां यातुं मनो मम | यदि त्वं यासि यास्यामि रथेनाद्यैव पुत्रक || ३९ || नरक उवाच न पितुर्वचनं यास्ये विना मातस्त्वया समम् | अनुज्ञाप्य रथेनाहं यास्ये गङ्गां त्वया समम् || ४० || नुज्ञाप्य महाराजं करिष्यामि तवेप्सितम् | गुरुञ्च तनयं तस्य शतानन्दं द्विजोत्तमम् || ४१ || धात्र्युवाच न ते पितायं जनको यः सर्वजगतां प्रभुः | स ते पिता तं गङ्गायां पश्य गत्वा मया सह || ४२ || अयं पिता पालकस्ते न राज्यं सम्प्रदास्यति | यस्ते वर्धयिता तात तमासादय पुत्रक || ४३ || अत्रं यद्मद्रहस्यं तद् गङ्गायामेव पुत्रक | कथयिष्याम्यहं सर्वं रहोभङ्गस्ततोऽन्यथा || ४४ || मार्कण्डेय उवाच जातसम्प्रत्ययो धात्र्या वचसा नरकस्तथा | विहाय यानं छन्देन पद्भ्यां गङ्गा ययौ तदा || ४५ || अथ गङ्गा समासाद्य संस्नाप्य विधिवत् सुतम् | आत्मानं दर्शयामास पृथिवी स्वसुताय व || ४६ || मायामानुषमूर्तिं तां विहाय जगतां प्रसूः | नीलोत्पलदलश्यामं सर्वलक्षणसंयुतम् || ४७ || सर्वाङ्गसुन्दरं चारु नानालङ्कारभूषितम् | पुत्राय दर्शयामास नरकाय वसुन्धरा || ४८ || कथामेताञ्च पूर्वस्मिन्नुद्भूतां पृथिवी तदा | कथयामास पुत्राय प्रतीतिर्जायते यथा || ४९ || पृथिव्युवाच मम गर्भे यथा पुत्र वर्धसे त्वं दिने दिने | ब्रह्मादयस्तदा देवा आलोक्य स्वयमेव ते || ५० || मलिनीक्षितिसञ्जातः पुत्रो विष्णोर्महात्मनः | आसुरं भावमास्थाय सवांनस्मान् हनिष्यति || ५१ || इति चिन्तापरा देवाः कुमन्त्रं चक्रिरे तदा | अवं नोत्पद्यतां गर्भाद्गर्भे तिष्ठत्वयं सदा || ५२ || ततो मम भवान् गर्भे सुबहूनि युगान्यथ | अवसद्दुःखवान् पुत्र देवानां च कुमन्त्रतः || ५३ || मृतकल्पाभवमहं भवतो धारणात् सुत | ततोऽहं शरणं याता भगवन्तं सनातनम् || ५४ || नारायणस्य वाक्यत् तु भवानुत्पन्नवांस्ततः | इति सत्यं मम वचः पुत्र जानीहि निश्चितम् || ५५ || मार्कण्डेय उवाच अथ यावन्नपुत्रस्य विस्मयः समपद्यत | तावदेव स्वयं देवी प्रोचे पुत्रमिदं वचः || ५६ || अथा विदेहराजस्य यज्ञभूमावसूयत | विदेहराजेन समं यादृशः समयोऽभवत् || ५७ || यथा मानुषरूपेण धात्री सा समपद्यत | तत् सर्वं कथयामास नरकाय महात्मने || ५८ || अथ तां पृथिवीं प्राह नरकः पुनरेव हि | पृथिव्याः वचनं श्रुत्वा स्वल्पसंशयसंयुतः || ५९ || नरक उवाच अद्येवं मे पिता विष्णुर्माता त्वं पृथिवी शुभे | आगच्छतु जगन्नाथो ममैवाभ्युपपत्तये || ६० || स एव सर्व लोकेशो यदि मां भाषतेऽच्युतः | पिताहं ते त्वियं माता श्रद्धधे तदहं शुभे || ६१ || त्वया मानुषरूपेण धात्र्याहं प्रतिपालितः | तद्रूपं द्रष्टुमिच्छामि यदि ते रूपमीदृशम् || ६२ || पृथिव्युवाच अहं ते जननी तात मया ज्ञातोऽसि पुत्रक | पृथिव्यहं जगद्धात्री मद्रूपं मृन्मययन्त्विदम् || ६३ || पिता तव महाबाहो प्रभुर्नारायणोऽव्ययः | अच्युतो जगतां धाता महात्मा शूकरात्मधृक् || ६४ || तेनाहितस्त्वं मद्गर्भे सुचिरं त्वं पुरावसः | सम्प्राप्ते समये जातः पालितश्चेह भूभृता || ६५ || मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा हर्षशोकाकुलस्तदा | नरकः पृथिवीं देवीमिदमाह धनुर्धरः || ६६ || नरक उवाच न माता विदिता पूर्वं माहाहकिति भाससे | विष्णुः पितेति च वचो न पिता विदितो मम || ६७ || जानामि पितरं चाह विदेहाधिपतिं नृपम् | तस्य भार्यां सुमत्याख्यामहं जानाति मातरम् || ६८ || भ्रातरस्तत्सुता सर्वे सीता मे भगिनी शुभा | सुमतिर्मम मातेति लोको जानाति सन्तमम् || ६९ || कात्यायनी च धात्री मे याधुनैव कृता त्वया | एतत् सर्वं त्वया मिथ्या शंशितं मम साम्प्रतम् | यथा तत्वाहं तनयः सत्यमाख्याहि तन्मम || ७० || मार्कण्डेय उवाच पुत्रस्य वचनं चेति श्रुत्वा सर्वंसहा तदा | सर्वं तत् पूर्ववृत्तान्तं तनयाय न्यवेदयत् || ७१ || यथा मलिन्या सम्भोगो वराहस्याभवत् पुरा | यथा गर्भ धृतो देवर्येन या कारणेन सः || ७२ || यथा च गर्भदुःखार्ता माधवं शरणं गता | यथा तेन प्रदतश्च समयो जनकं प्रति || ७३ || ऋषयः ऊचुः किमर्थं समयो दत्तो विष्णुणा प्रभविष्णुना | निहते रावणे वीरे रामेण सुमहात्मना || ७४ || भविष्यति सुतस्ते वै तत्र न संशयो महान् | एतान् त्वं संशयान् छिन्धि गुरो शास्तासि नः सदा || ७५ || मार्कण्डेय उवाच भारार्ता रावणादीनां पृथिवी मांसभोगिनाम् | अधोगता योजनानि पञ्च वै द्विजसत्तमाः || ७६ || अयं वराहवीर्येण जातो गर्भे क्षितेः पुनः | असावपि महाराजो दशग्रीवो यथाभवत् || ७७ || अधो यास्यति भारार्ता सातीव पृथिवी त्विति | समयो दत्तवात् विष्णू रावणे निहते सति | धरायै भारविहतिव्याजेन द्विजसत्तमाः || ७८ || त्वत्पूर्वरूपं दृष्ट्वा वै वचनाच्च जगद्गुरोः | जातश्रद्धो महाभागे स्थास्यामि समये तव || ७९ || पुत्रस्य वचनं श्रुत्वा पृथिवी प्रथमं तदा | मायामानुषरूपं तत् प्रतिजग्राह तत्पुरः || ८० || यथा कात्यायनीरूपं येन रूपेण पालितः | नरकः सा तु तद्गृह्य तत्याज पृथिवी तनुम् || ८१ || अथ दृष्टैव नरको धात्रीं कात्यायनीं तदा | पप्रच्छ पूर्व वृत्तान्तं यद्वृत्तं नृपमन्दिरे || ८२ || सा तथा कथयामास यथा सम्प्रति पालितः | यद्वृत्तं पूर्वतो गेहे नृपस्य जनकस्य तु || ८३ || जातसम्प्रत्ययस्तत्र नरकः समपद्यत | पृथिवी च पुनर्देवीरूपं स्वं जगृहे तदा || ८४ || अथ सस्मार पृथिवी जगन्नाथं हरिं प्रभुम् | समये पूर्वविहिते प्रणम्य शिरसा मुहूः || ८५ || स्मृतमात्रस्तदा क्षित्या माधवो गरुडध्वजः | प्रसन्नो जगतां नाथः प्रत्यक्षत्वं गतस्तदा || ८६ || तं दृष्ट्वा पृथिवी देवी देवं गरुडवाहनम् | नीलोत्पलदलश्यामं शंखचक्रगदाधरम् || ८७ || पीताम्बरं जगन्नाथं श्रीवत्सोरस्कमव्ययम् | प्रणनाम महाभक्त्या पस्पर्श शिरसा महीम् || ८८ || परमेश जगन्नाथ जगत्कारणकारण | प्रसीदेति वचश्चापि तदा प्रोचे जगतप्रसूः || ८९ || नरकस्तु हरिं दृष्ट्वा निमील्य नयनद्वयम् | तत्तेजसा चाभिभूतेस्तदा भूमावुपाविशत् || ९० || उपविष्टे तदा देवी तनये नरकाह्ववे | प्रसादयामास तदा पुत्रार्थे वरवर्णिनी || ९१ || प्रसाद्यमानो धरया हरिर्णारायणोऽव्ययः | शङ्खाग्रेण तदा पुत्रं पस्पर्श नरकाह्वयम् || ९२ || स्पृष्टमात्रोऽथ हरिणा नरकोऽभूत् सुदर्शनः | दृष्टश्चोत्साहवांश्चैव बलवान् समपद्यत || ९३ || तत उत्थाय नरको हरिं नारायणं प्रभुम् | भक्त्या प्रणम्य गोविन्दं साष्टाङ्ग च मुहुर्मुहुः || ९४ || ननाम पृथिवीं वीरो जातसम्प्रत्ययास्तदा | प्रणम्य च महाभागां भक्त्या परमया युतः || ९५ || प्राञ्जलिः पुरतस्तस्थौ नोक्त्वा किञ्चन वै भिया | ततस्तदर्थे पृथिवी माधवं समयाचत || ९६ || प्रसीद देवदेवेश समयं प्रतिपालय | त्वयाहं तनयो दत्तो मम सर्वं जगत्पते | एतदर्थे प्रतिज्ञातं यद्दत्तं प्रतिपालय || ९७ || भगवानुवाच भवती यत् सुपुत्रार्थे मामयाचत पुरा मया | तत् सर्वंत् अव दत्तं वै राज्यं दत्तं च वत्सुते || ९८ || इत्युक्त्वा भगवान् विष्णुरादाय नरकाह्वयम् | सार्द्धं पृथिव्या गङ्गायां ममज्ज जगतां प्रभुः || ९९ || निमज्य क्षणमात्रेण प्राग्ज्योतिषपुरं गतः | मध्यगं कामारूपस्य कामाख्या यत्र नायिकाः || १०० || स च देशः स्वराज्यार्थे पूर्वं सुप्तश्च शम्भुना | किरातैर्बलिभिः क्रूरैरज्ञेरपि च वासितः || १०१ || रुक्मस्तम्भनिभांस्तत्र किरातान् ज्ञानवर्जितान् | अनर्थमुण्डितान् मद्यमांसाशनैकतत्परान् || १०२ || ददर्श विष्णुः कुपितान् विष्णुं दृष्ट्वा द्विजर्षभाः | तेषामधिपतिस्तत्र घटको नाम वीर्यवान् | रुक्मस्तम्भनिभस्तत्रः प्रदीप्त इव पावकः || १०३ || स क्रोद्धाच्चतुरङ्गेन बलेन महता युतः | आससाद जगन्नाथं नरकं च महावलम् || १०४ || आसाद्य शरवर्षेण ववर्ष प्रभुमव्ययम् | किरातैः सहितो राजा घटकाख्यः किरातराट् || १०५ || माधवोपि तदा पुत्रं नरकं वीर्यवत्तरम् | प्रेस्यामास युद्धाय किरातनृपतेस्तदा || १०६ || नरको धनुरादाय सह तैर्बलवत्तरैः | युयुधे सुचिरं तत्र शस्त्रास्त्रैर्बहुधेरितैः || १०७ || ततोऽसौ भल्लमादाय योजयिता धनुर्गुणैः | शिरः किरातराजस्य चिच्छेद नरको बली || १०८ || मुख्यान् मुख्यान् किरातांश्च बहून् सेनाधिपांस्तथा | जघान कुपितो वीरः केशरीव मतङ्गजान् || १०९ || हतेऽथ नृपतौ केचित् पलायनपरायणाः | किराताः केचन पुनर्नरकं शरणं गताः || ११० || निहत्य युध्यमानांस्तु संरक्ष्य शरणं गतान् | नरकः पितरं गत्वा प्रणम्याथ न्यवेदयत् || १११ || नरक उवाच हतस्तात किरातानामधिपो घटको मया | सेनाधिपाश्च तस्यान्ये किमन्यत् कुरवाण्यहम् || ११२ || श्रीभगवानुवाच किरातान् जहि यावत्त्वं देवीं दिक्करवासिनीम् | पलायमानान् विद्राव्य पालय शरणं गतान् || ११३ || मार्कण्डेय उवाच ततः स नरको वीरः समारुह्य सितं गजम् | चतुर्दन्तं महाकायं किराताधिपवाहनम् || ११४ || ऐरावतसमं वीर्ये वेगेन गरुडोपमम् | किरातान् द्रावयामास यावद्दिक्करवासिनीम् || ११५ || पितरं पुनरागत्य वचनं चेदमब्रवीत् | नरक उवाच विद्राविताः किरातास्ते सागरान्तं समाश्रिताः || ११६ || हतश्च घऽकाख्यो हि किराताधिपतिर्महान् | वेगिनं गजमारुह्य ऐरावतसमं गुणैः | यदन्यत् करणीयं मे तदाज्ञापय सम्प्रति || ११७ || भगवानुवाच करतोया सदा गङ्गा पूर्वभागावधिश्रया | यावल्ललितकान्तास्ति तावदेव पुरं तव || ११८ || अत्र देवी महाभागा योगनिद्रा जगत्प्रसूः | कामाख्यारूपमास्थाय सदा तिष्ठति शोभना || ११९ || अत्रास्ति नदराजोऽयं लौहित्यो ब्रह्मणः सुतः | अत्रैव दशदिकपालाः स्वे स्वे पीठे व्यवस्थिताः || १२० || अत्र स्वयं महादेवो ब्रह्मा चाहं व्यवस्थितः | चन्द्रः सूर्यश्च सततं वसतोऽत्र च पुत्रक || १२१ || सर्वे क्रीडार्थमायाता रहस्यं देशमुत्तमम् | अत्र श्रीर्वसते भद्रा भोग्यमत्र तथा बहु || १२२ || अस्य मध्ये स्थितो ब्रह्मा प्रङ्नक्षत्रं ससर्ज ह | ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा || १२३ || अत्र त्वं वस भद्रं ते ह्यभिषिक्तो मया स्वयम् | कृतदारः सहामात्यै राजा भूत्वा महाबलः || १२४ || मार्कण्डेय उवाच एवमुक्त्वा स्वयं विष्णुः शम्भोरनुमते तदा | सर्वान् किरातान् पूर्वस्यां सागरान्ते न्यवेशयत् || १२५ || पूर्वं ललितकान्तायाः समादायावधिं पुनः | यावत् सागरपर्यन्तं किरातास्तावदावसन् || १२६ || पश्चाल्ललितकान्तायाः देर्श कृत्वावधिं पुनः | करतोया नदीं यावत् कामाख्यानिलयं तु तत् || १२७ || तस्मात् किरातानुत्सार्य वेदशास्त्रातिगान् बहून् | द्विजातीन् वासयामास तत्र वर्णान् सनातनान् || १२८ || वेदाध्ययनदानादि सततं वर्तते यथा | तथा चकार भगवान् मुनिभिर्वासयन् विभुः || १२९ || वेदवादरताः सर्वे दानधर्मपरायणाः | नचिरादभवद्देशः कामरूपाह्वयस्तदा || १३० || ततो विदर्भराजस्य पुत्रीं मायाह्वयां हरिः | पुत्रार्थे वरयामास नरकस्य समां गुणैः || १३१ || तामुद्वाह्य हृषीकेशस्तस्मिन् पुरवरे स्वयम् | तया समं स्वतनयं राजत्वेनाभ्यषेचयत् || १३२ || सूगुप्तां च पुरीं चक्रे गिरिदुर्गेण माधव | जलदुर्गं सर्वतो भद्रं देवैरपि दुरासदम् || १३३ || ततः किरातराजस्य चतुर्दन्ताः सुदन्तिनः | पञ्चविंशतिसाहस्रा महामात्रकुथैर्युताः || १३४ || यानि रत्नान्यनेकानि सैन्यानि विविधानि च | अश्वाश्चाभरणाश्चैव तत्सर्वं नरकोऽग्रहीत् || १३५ || यद्यत् सुभूषणं राज्ञो ध्वजाश्चाभरणानि च | तानि तानि स्वयं विष्णुस्तनयस्य ददौ तदा || १३६ || रथं च प्रददौ तस्मै त्रिषु लोकेषु दुर्लभम् | लोहाष्टचक्रसञ्छन्नमर्धयोजनविस्तृतम् || १३७ || युक्तमश्वसहस्रैश्च तथाष्टाभिर्मनोजवैः | रत्नकाञ्चनचित्राढ्यं वेदिकाभागविस्तरम् || १३८ || वज्रध्वजेन महता काञ्चनेन विराजितम् | हेमदण्डपताकाढ्यं वैदूर्यमणिकूबरम् || १३९ || सिंहव्याघ्रसमुद्भूतैश्चर्मभिश्छादितं सदा | लोहजालैश्च सञ्छन्नं किंङ्कणीजालमालिनम् | सर्वप्रहरणैर्युक्तं बहुमायासमन्वितम् || १४० || शक्तिं च प्रददौ तस्मै सर्वशत्रुविशातनीम् | ज्वालामालाभिदीप्ताङ्गीं रिपुकक्षाग्निरूपिणीम् || १४१ || इमं च समयं प्रोचे नरकान महात्मने | नरकस्य हितायेशो वसुधायाः समक्षतः || १४२ || श्रीभगवानुवाच इमां शक्तिं न हि भवान् प्राणानां संशयं विना | प्रयोक्ष्यति कदाचित्तु मानुषेषु विशेषतः || १४३ || एषा भार्या च वैदर्भी भवतः सदृशी गुणैः | भवतो जीवनं यावत्तावत् स्थास्यति शोभना || १४४ || त्वं तु प्रजायै त्रेतायां यत्नवान् वै भविष्यसि | द्वापरान्ते तु सम्प्राप्ते प्रजा तत्र भविष्यति || १४५ || विरोधो मुनिभिः सार्धं ब्राह्मणैरपि पुत्रक | न कदाचित्त्वया कार्यश्चिरञ्जीवितुमिच्छता || १४६ || न राजभिर्न देवैश्च विरोधो युज्यते तव | महादुर्गस्य वे मध्ये वसतो ह्यपराजिते || १४७ || दिव्ययोषिद्गणैः सार्धं वसमानोऽतिभोगवान् | स्वपर्वते कामरूपे चिरं त्वं तिष्ठ तुत्रक || १४८ || महादेवीं महामायां जगन्मातरमम्बिकाम् | कामाख्यां त्वं विना पुत्र नान्यदेवं यजिष्यसि || १४९ || इतोऽन्यथा त्वं विहरन् गतप्राणो भविष्यसि | तस्मान्नाक यत्रेन समयं प्रनिपालय || १५० || मार्कण्डेय उवाच इत्युक्त्वा भगवान् विष्णुर्नरकं तनयं स्वकम् | तमपास्य रहस्येनां पृथिवीं वाक्यमब्रवीत् || १५१ || यद् यत् पूर्वं मया प्रोक्तं कर्तव्यं तव सुन्दरि | तत् सर्वं नरकायाशु भूत्यै समुपदेशय || १५२ || यदैनं त्वं स्वयं हन्तुं मां जगद्धात्रि भाषसे | तदा तु मानुषः कश्चिन्नरकं निहनिष्यति || १५३ || पृथिव्युवाच प्रजार्थमेष यत्नो मे निन्द्यः स्यात् सन्ततिं विना | तस्मान्नाथ प्रयन्तान्मे सन्ततिं पालयिष्यसि || १५४ || मार्कण्डेय उवाच एवमस्त्विति तां विष्णुः पृथिवीं प्रति पावनः | नरकं च समाभाष्य तत्रान्तर्धिमगात् क्षणात् || १५५ || गते हरौ निजस्थानं पृथिवी तनरं स्वकम् | यत् पूर्वं हरिणा प्रोक्तं तत्र तं व्यनयत् स्वयम् || १५६ || नरकोऽपि तदा धीमान् वेदशास्त्रार्थपारगः | ब्रह्मण्यनीतिकुशलो वदान्यो दानतत्परः || १५७ || कामाख्यापूजनरतो नीलकूटे महागिरौ | महाभोगी महाश्रीमान् हीनबाधश्च शत्रुभिः | सुचिरं राज्यमकरोच्छक्रवत्त्रिदशालये || १५८ || ततो विदेहराजोऽपि श्रुत्वैव नरकश्रियम् | सपुत्रभार्यः सगुणो नरकं द्रष्टुमभ्यगात् || १५९ || प्राग्ज्योतिषं पुरं गत्वा कामरूपान्तरस्थितम् | ददर्श नरकं राजा शरच्चन्द्रसमं श्रिया || १६० || प्राग्ज्योतिषं पुरं मेने स राजा त्वमरावतीम् | देवेन्द्रं नरकं मेने सत्परिच्छदभूषणम् || १६१ || जनक उवाच ततो महिष्यै तत् सर्वं जनको वाक्यमब्रवीत् | एष ते पालितसुतः श्रीमान् नरकसंज्ञकः || १६२ || पृथिव्या दयितः पुत्रः सञ्जातो घृष्टिरूपिणा | विष्णुना जगदीशेन त्वमेनं पश्य सङ्गतम् || १६३ || मार्कण्डेय उवाच इत्युक्त्वा जनको राजा यथा वृत्तं तथा पुरा | वृत्तान्तं कथयामास नरको जातवान् यथा || १६४ || ततस्तत्र चिरं स्थित्वा प्राग्ज्योतिषपुरे मुदा | विदेहाधिपती राजा नरकेण प्रपूजितः || १६५ || स्वस्थानं गतवांस्तस्मात् स्वगणैः परिवारितः || १६६ || एवं स नरको जातः पृथिव्यास्तनयस्तदा | हीनासुरस्वभावः संविजहार चिरं क्षितौ || १६७ || इति श्रीकालिकापुराणे नरकाभिषेचनेऽष्तत्रिंशोऽध्यायः || ३८ || एकोनचत्वारिंशोऽध्यायः मार्कण्डेय उवाच स राजा नरकः श्रीमांश्चिरञ्जीवी महाभुजः | मानुषेणैव भावेन चिरं राज्यमथाकरोत् || १ || त्रेतायां च व्यतीतायां द्वापरस्य तु शेषतः | अभवच्छोणितपुरे बाणो नाम महासुरः || २ || तस्याग्निदुर्गं नगरं स च शम्भुसखो बली | सहस्रबाहुर्दुर्धर्षः प्रियः पुत्रः स वै बलेः || ३ || नरकेण समं तस्य महामैत्री व्यजायत | अमनागमनान्नित्यमन्योन्यानुग्रहैस्तथा | तयोरभूद् महाप्रीतिः पवनानलयोर्यथा || ४ || स च बाणः समाराध्य महादेवं जगत्प्रभुम् | आसुरेणाथ भावेन व्यचरच्चाकुतोभयः || ५ || तत्संसर्गात् स नरको दृष्ट्वा तस्याद्भुतां कृतिम् | तेनैव सह भावेन विहर्तुमुपचक्रमे || ६ || न ब्राह्मणान् पूजयति यथा पूर्वं तथा द्विजाः | न च यज्ञेषु दानेषु पूर्ववन्मुदितः स च || ७ || न तथा विष्णुमभ्येति पृथिवीं वापि नार्चति | कामाख्यायां तथा भक्तिस्तदा तस्याथ नाभवत् || ८ || एतस्मिन्नन्तरे धातुस्तनयो मुनिसत्तमः | वसिष्ठो नाम कामाख्यां द्रष्टुं प्राग्ज्योतिषं गतः || ९ || तां दुर्गाभ्यन्तरे नीलकूटदेवीं व्यवस्थिताम् | द्रष्टुं गन्तुं वसिष्ठस्य न द्वारं नरको ह्यदात् || १० || ततो वसिष्ठः कुपितो वचनं परुषं मुनिः | जगाद नरकं वीरं गर्हयन्मुनिसत्तमः || ११ || वसिष्ठ उवाच कथं पृथिव्यास्तनयो वराहस्य सुतोऽञ्जसा | देवीं द्रष्टुं ब्राह्मणस्य न ददासि तथागतः || १२ || किं ते कुलोचितं कर्म त्वं करोषि धरात्मज | देवीं प्राग्ज्योतिषं गत्वा पूजयिष्ये जगन्मयीम् || १३ || मार्कण्डेय उवाच ततः स नरको राजा प्राप्तकालः क्षिते सुतः | परुषेणाथ वाक्येन तमाक्षिप्य निरस्तवान् || १४ || ततो मुनिः स कुपितः शशाप नरकं नृपम् | वशिष्ठ उवाच नचिराद् येन जातोऽसि तेन मानुषरूपिणा | मरणं भविता पाप वराहकुलपांसन || १५ || मृते त्वयि महादेवीं कामाख्यां जगतां प्रसूम् | पूजयिष्याम्यहं पाप तिष्ठ यास्ये स्वमालयम् || १६ || त्वं यावज्जिविता पाप कामाख्यापि जगत्प्रसूः | सर्वैः परिकरैः सार्धमन्तर्धानाय गच्छतु || १७ || मार्कण्डेय उवाच इत्युक्त्वा ब्रह्मपुत्रः स स्वस्थानं गतवान् मुनिः | वसिष्ठस्तेन भौमेन निरस्तः कुपितो भृशम् || १८ || गते वसिष्ठे नरकः शीघ्रं विस्मयसंयुतः | जगाम देवीभवनं नीलकूटं महागिरिम् || १९ || तत्र गत्वा न चापश्यत् कामाख्या कामरूपिणीम् | न योनिमण्डलं तस्याः सर्वान् परिकरांस्तथा || २० || ततः स विमना भूत्वा क्षितिं सस्मार मातरम् | पितरं च जगन्नाथं नरकः प्रभुमव्ययम् || २१ || न तावपि तदा यातौ तस्य प्रत्यक्षतां द्विजाः | व्युत्क्रान्तसमयस्येति नीतिहीनस्य शम्भवे || २२ || चिरं प्रतीक्ष्य तौ तत्र भौमो वज्रध्वजस्तदा | अप्राप्तक्ष्तिविष्णुः स सशोकः स्वं निवेशनम् || २३ || स गच्छन् स्वगृहं भौमः पुरीं स्वां दृष्टवांस्तु सः | पूर्वश्रिया परित्यक्तां मलिनां वनितामिव || २४ || देव्यामन्तर्हितायां तु वेदवादविवर्जितम् | पुण्यस्वल्पादरजनं तत् पुरं समपद्यत || २५ || न देवास्तत्र गच्छन्ति न विप्रा न महर्षयः | बभूव नगरं तस्य स्वल्पयज्ञक्रियोत्सवम् || २६ || ईतयो बहवो जाता मृताश्च बहवो जनाः | लौहित्यनदराजोऽपि हीनतोयस्तदाऽभवत् || २७ || बहूनि विपरीतानि दृष्ट्वा स नरकस्तदा | मेने मरणमासन्नमत्मनो ब्रह्मशापतः || २८ || ततः प्राग्ज्योतिषाध्यक्षः शोकविह्वलचेतनः | चिन्तयन् मनसा मित्रं बाणं बलिसुतं ययौ || २९ || सखा प्राणसमः सोऽस्य सततान्योन्यरक्षणे | तत्परौ बाणनरकौ स्वर्वैद्यावश्विनाविव || ३० || एतस्मिन्नन्तरे बाणो मित्रं शम्भुसखो बली | अनुकूलयिता मन्त्रप्रदानेन महाबुधः || ३१ || इति चासीन्मतिस्तस्य वज्रकेतोस्तदाचला | दूतं च प्राहिणोद् दीप्तं बाणस्य नगरं प्रति || ३२ || स शोणितपुरं गत्वा स्यन्दनेनाशुगामिना | ततो भौमस्य वृत्तान्तं वाणायाशु न्यवेदयत् || ३३ || यथा शप्तो वसिष्ठेन यथा चान्तर्हिताम्बिका | यथा विघ्नः पुरवरे जातः प्राग्ज्योतिषाह्वये || ३४ || समयस्य व्यतिक्रान्तिर्भूमिमाधवयोर्यथा | तथा स दूतो भौमस्य शशंस बलिसूनवे || ३५ || स समाकारमित्रस्य सम्यग् दैवपराभवम् | स्वयं जगाम नरकं सभाजयितुमीश्वरः || ३६ || स काञ्चनविचित्राङ्गं युक्तमश्वशतैस्त्रिभिः | लोहचक्रं च वैयाघ्रं मयूरधजभूषितम् || ३७ || हेमदण्डसितच्छत्रच्छदितं किङ्किणीगणैः | नानारतनौघरचितमारुरोह महारथम् || ३८ || स सहस्रभुजः श्रीमांश्चतुरंगबलैर्युतः | प्राग्ज्योतिषं भौमपुरमचिरादाजगाम ह || ३९ || तमासाद्य महाबाहुर्बाणः प्राग्ज्योतिषेश्वरम् | हीनं पूर्वश्रिया मित्रमपश्यन्नगरं च तत् || ४० || स तेन तूजितो बाणो यथायोग्यं सुतेन कोः | पप्रच्छ किं निमित्तं ते हीनश्रीकमभूत् पुरम् || ४१ || बाण उवाच शरीरं च यथापूर्वं तथा न तव राजते | मनश्च ते नाति हृष्टं तत्र हेतुं वदस्व मे || ४२ || मार्कण्डेय उवाच एवमादीनि पृष्टः स नरकः क्षितिनन्दनः | यथा वसिष्ठशापोऽभूत् तत् सर्वं तस्य चाब्रवीत् || ४३ || यच्छ्रुतं भौमवदनात्तद्दूतावेदितं पुरा | ज्ञात्वां तथा तं प्रोवाच बाणो वज्रध्वजं पुनः || ४४ || बाण उवाच नहि मन्युस्त्वया कार्यः सुखे दुःखे शरीरिणाम् | चक्रवत् परिवर्तेते नैताभ्यां कौऽपि हीयते || ४५ || परं तत्र प्रतीकारः कार्यो धीरैर्विभूतये | भवानपि प्रतीकारं कर्तुमर्हति सम्प्रति || ४६ || य एष मानुषः पृथ्व्यामसाधारणभूतिभिः | वर्धते दानवो वापि दैत्यो वाप्यथवासुरः || ४७ || राक्षसः किन्नरो वापि शक्रस्तान् सहते नहि | स कौटिल्यं देवगणैः सार्धं कुर्वन्नितस्ततः | यथा तथा प्रकारेण भ्रंशयत्येव तं श्रियः || ४८ || तस्य चेष्टतमो देवो विष्णुर्नित्यं सनातनः | स न शक्तस्य कुरुते मनोऽनिष्टं मनागपि || ४९ || यः समाराधयेद् विष्णुं शक्रस्यानिष्टकारकः | तस्मै वरं तु सच्छिद्रं दत्त्वा तं शातयत्वितः || ५० || चिरमाराधितो विष्णुरिष्टान् कामान् प्रयच्छति | महता कायदुःखेन पूजितः सम्प्रसीदति || ५१ || विनेष्टदेवतापूजां विभूतिमतुलां पुमान् | कः प्राप्नोति श्रुतः पूर्वं न वा पूर्वतरैः क्वचित् || ५२ || त्वया नाराधितः पूर्वं ब्रह्मा वा विष्णुरीश्वरः | तेन तेऽद्य महाविघ्ना उत्पन्ना विषये तव || ५३ || यो वा विष्णुः पालकस्ते न निसर्गानुकम्पकः | किन्तु ते स क्षितेर्वाक्यात्तया चाराधितो मुहुः || ५४ || दत्तं छिद्रं च ते विष्णुर्नापराध्यास्त्वया द्विजाः | इतोऽन्यथा त्वं भविता हतश्रीरिति नः श्रुतम् || ५५ || अपराध्यस्त्वया भूप वसिष्ठः परमो मुनिः | तेन स्मरणमात्रेण नायातौ क्षितिमाधवौ || ५६ || तस्मात्त्वं मित्र बुध्यस्व कौटिल्यं हरिमेधसः | नाधुना युज्यते भौम तवोदासीनताकृतिः || ५७ || यत्ते मनसि तातोऽयमिति सम्प्रत्ययः स ते | वराह एव ते तातः स लोकान्तरं गतः || ५८ || वाराहोऽपि हरेरंश इति यच्छ्रूयते त्वया | तस्यांश इत्यतुक्रोशः केन वो क्रियते वद || ५९ || तस्मात्त्वं कुरु शम्भोर्वा ब्रह्मणो वाधुनार्चनम् | स ते प्रसन्नः परममिष्टकामं प्रदास्यति || ६० || विघ्नो वा मुनिशापो वा महेतिर्वातिपीडकः | विधौ प्रसन्ने शम्भौ वा नचिरात्क्षयमेष्यति || ६१ || मार्कण्डेय उवाच जातसम्प्रत्ययो भौमो बाणस्य वचनात् तदा | सुप्रीतः समुवाचेदं धीरघर्घरनिःस्वनः || ६२ || भौम उवाच यत् त्वया गदितं बाण हितं मे मित्रवत्सल | तत् कार्यमचिरादेव तपश्चरणमुत्तमम् || ६३ || विष्णुर्नाराधनीयो मे तत्र हेतुस्त्वयोदितः | नवाराध्यस्तथा शम्भुरन्तर्गुप्तः स मे पुरे || ६४ || तस्माद् ब्रह्मा समाराध्यो वचनात् तव मित्रक | तत्पुत्रस्य महाबाहो लौहित्यस्याम्बुसन्निधौ || ६५ || भवताध्यापितश्चाहं शिष्योऽथ गुरुणा यथा | मित्रं मित्रं यथा धीर साम्ना परमवल्गुना || ६६ || मार्कण्डेय उवाच इत्युक्त्वा स महाबाहुर्बाणं वज्रध्वजस्तदा | यथावत् पूजयामास तन्मित्रं मित्रवत्सलः || ६७ || अर्चयित्वा यथायोग्यं प्रस्थाप्य च बलेः सुतम् | ब्रह्माराधनमत्युग्रं कर्तुमिच्छन् क्षितेः सुतः || ६८ || स तीरे नदराजस्य लौहित्यस्य महात्मनः | ब्रह्माचलं समारुह्य तपस्तप्तुमुपस्थितः || ६९ || स मानुषेण मानेन क्षितिपुत्रः शतं समाः | जलाहारव्रतेनैव समानर्च पितामहम् || ७० || सन्तुष्टः शतवर्षान्ते ब्रह्मा लोकपितामहः | प्रत्यक्षीभूय नरकस्याग्रतः समुपस्थितः || ७१ || प्रीतोऽस्मि ते वरं दास्ये वरं वरय सुव्रत | इति चोवाच नरकं स तदा कमलासनः || ७२ || स दृष्ट्वा सर्वलोकेशं प्रत्यक्षं कमलासनम् | प्रणम्य प्राञ्जलिः प्रोचे विनयानतकन्धरः || ७३ || हौम उवाच देवासुरेभ्यो रक्षोभ्यः सर्वेभ्यो देवयोनितः | अवध्यत्वं सुरश्रेष्ठ वरमेकं प्रयच्छ मे || ७४ || अविच्छिन्ना सन्ततिर्मे यावच्चन्द्रो रविस्तपेत् | तावद्भवतु लोकेश द्वितीयोऽयं वरो मम || ७५ || तिलोत्तमाद्या या देव्यः सद्रूपगुणसंयुताः | तास्ता मे दयिताः सन्तु सहस्राणि तु षोडश || ७६ || अजेयत्वं सदा श्रीर्मा न जहातु कदाचन | इति पञ्च वरा मेऽद्य वृतास्त्वत्तः पितामह || ७७ || मार्कण्डेय उवाच मायया मोहितो भौमो मुनिशापं विस्मृत्य च | अन्यद्वरान्तरं वव्रे मुनिशापस्तथा स्थितः || ७८ || एवमस्त्विति तान् सर्वान् वरान् दत्त्वा पितामहः | उवाचेदं द्वापरान्ते सन्ध्यायां सुरकन्यकाः || ७९ || तिलोत्तमाद्यास्ते जाया सम्भविष्यन्ति भूतले | न यावन्नारदो याति वज्रध्वज पुरं तव | तावन्न मैथुने योज्या भवता ताक्षितेः सुत || ८० || इत्युक्त्वा सर्वलोकेशः क्षणादन्तर्हितोऽभवत् | मुदमासाद्य परमां स्वस्थानं नरकोऽभ्यगात् || ८१ || ततो मुदितलोकं तं नगरं श्रीनिषेवितम् | सदा सोत्साहसम्पूर्णमीतिविघ्नविवर्जितम् || ८२ || अभवत् पशुसंघैश्च वाजिवारणकुम्भकैः | सम्पूर्णं देवराजस्य दयितेवामरावती || ८३ || उत्तीर्णतपसं श्रुत्वा बाणो दत्तवरं तथा | स्वयं पुनरुपातिष्ठद् भौमं वज्रध्वजं तदा || ८४ || स गत्वा भौमनगरं बाणः प्राग्ज्योतिषाह्वयम् | पप्रच्छ नरकं मित्रं तपसः सन्निवेशनम् || ८५ || कुत्र त्वया तपस्तप्तं किं वा चीर्णं त्वया व्रतम् | कीदृशो वा वरो लब्धस्त्वं ममाख्यातुमर्हसि || ८६ || दृष्टं तव पुरं सर्वं प्रहृष्टजनसङ्कुलम् | वाजिवारणरत्नौघैः पूरितं मङ्गलस्वनैः || ८७ || दृश्यतेऽद्य त्वया पाल्यं शस्यपूर्णमनामयम् | कथ्यतां वा कथं ब्रह्मा वरं तुभ्यं प्रदत्तवान् || ८८ || भौम उवाच ब्रह्मा स्वयं पर्वतरूपधारी कामेश्वरीं धर्तुमिहावतीर्णः | तत्र स्वयं सम्प्रति घस्रमेति पुरा न यावच्छपते वसिष्ठः || ८९ || सोऽयं पुरे मे बलिपुत्र राजते देवौघसेव्योऽप्यमरोत्तमांशः | तत्राहमेको वरतोयभोजनो वर्षाण्यकार्षं च तपः शतानि वै || ९० || लौहित्यतीरे घनवायुसेविते मनोहरे प्राणभृतां सुखप्रदे | तपःप्रवृत्तस्य मुखं समागम- च्छरद् यथैका शरदां शतानि मे || ९१ || ततः स तुष्टश्चतुराननोऽभवत् प्रत्यक्षतो मां न्यगदच्च मद्धितम् | तव प्रसन्नोऽस्मि वरं यथेप्सितं दास्ये गृहाणेति पुरोऽथ भूत्वा || ९२ || अवध्यता मे सुरयोनितः सुरा- दच्छिन्नसन्तानमजेयता तथा | सदा विभूतिर्न जहातु मामिति वराश्च नार्यो नवयौवनान्विताः || ९३ || एते वराः पञ्च मया ततो वृताः सोऽपि प्रतिश्रुत्य गतो निजास्पदम् | ततोऽहमभ्येत्य पुरं निजं मुदा मन्त्रिप्रवीरैः सहितः पुनस्तान् || ९४ || पौरान् सबन्धून् सगणानमोदयम् दानेन मानेन च भोजनेन || ९५ || मार्कण्डेय उवाच इतीरितं तस्य बलेः सुतस्तदा भौमस्य श्रुत्वा मुमुदे न तत्क्षणात् | इदं तदोचे वचनं क्षितेः सुतं तत्कालयुक्तं न च्च सूनृतोद्भवम् || ९६ || बाण उवाच न ते मुनेः शापमतीत्य गन्तुं भूता मतिर्मित्र तदा विधेः पुरः | कथं तु भद्रं भविता तवेह भावीत्यवश्यं क्षितिपुत्र नित्यम् || ९७ || कृतस्य करणं नास्ति दैवाधिष्ठितकर्मणः | भावीत्यवश्यं यद्भाव्यं तत्र ब्रह्माप्यबाधकः || ९८ || तस्मात् त्वं सुमहावीरानसुरान् पावकोपमान् | सन्धयाय च पुरस्कृत्य साचिव्ये विनियोजय || ९९ || द्वारि संस्थाप्य वै वीरान् देवैरप् दुरासदान् | अतिक्रमस्व देवेशं यदि लब्धवरो भवान् || १०० || विधिना यो वरो दत्तो भवते तत्-परीक्षणम् | कर्तुमर्हसि जायायामपुत्रो जनयात्मजम् || १०१ || इत्युक्त्वा प्रययौ बाणो यथावत् तेन पूजितः | नरको मित्रवचनं कर्तुं समुपचक्रमे || १०२ || इति श्रीकालिकापुराणे भौमतपस्यायां एकोनचत्वारिंशोऽध्यायः || ३९ || चत्वारिंशोऽध्यायः मार्कण्डेय उवाच ऋतुमत्यां तु जायायां काले स नरकः क्रमात् | भगदत्तं महाशीर्षं मदवन्तं सुमालिनम् || १ || चतुरो जनयामास पुत्रानेतान् क्षितेः सुतः | महासत्त्वान् महावीर्यान् वीरैरन्यैर्दुरासदान् || २ || ततो बाणस्य वचनाद् हयग्रीवं तथा मुरुम् | सन्धायाथ समानीय सैनापत्येऽभ्यस्.एचयत् || ३ || मुरुं सन्निहितं श्रुत्वा हयग्रीवं च भौमिना | ये ये क्षितौ तदा ह्यासन्नसुरास्तेऽपि सङ्गताः || ४ || हयग्रीवं मुरुं श्रुत्वा नरकेण समागतम् | निसुन्दसुन्दनामानावसुरौ सैनिकैः सह || ५ || विरूपाक्षस्तदा दैत्यः सर्वे तेन समागमन् | ततः स पश्चिमद्वारि नरकः सेनया सह || ६ || मुरुं द्वाराधिपं चक्रे हयग्रीवं तथोत्तरे | पूर्वद्वारि निसुन्दन्तु विरूपाक्षं तु दक्षिणे || ७ || मध्ये पञ्चजनं सुन्दं सैनापत्येऽभ्यषेचयत् | मुरुं क्षुरान्तान् पाशांश्च षट्सहस्राण्ययोजयत् || ८ || द्वारि तत् पुररक्षार्थं सत्कृतः क्षितिसूनुना | एवं पूर्वान् पूर्वतरानवमत्य सुमन्त्रिणः || ९ || असुरैरेव सततं सोऽसुरो मुदितोऽभवत् | पूर्वं गृहीतं भावं स परित्यज्य क्षितेः सुतः || १० || आसुरं भावमासाद्य बाधते त्रिदिवौकसः | न देवान् न मुनीन् सर्वान् न च जानाति कांश्चन || ११ || सुरेश्वरं जिगायाशु हयग्रीवसहायवान् | एवं स चासुरं भावं तन्वानो विचरन् क्षितौ || १२ || बाणस्य वचनाच्छक्रं बाधयत्येव वै मुनीन् | देवेश्वरं त्रिधा जित्वा हयग्रीव सहायवान् || १३ || अदित्याः कुण्डलयुगं त्रिषु लोकेषु विश्रुतम् | सर्वरत्नामृतस्रावि दुःखविघ्नहरं परम् || १४ || जहार नरको भौमो निर्भीतो मुनिशापतः | एवं देवान् बाधमानो मुनीन् विप्रान् क्षितेः सुतः | पञ्चवर्षसहस्राणि राज्यं प्राग्ज्योतिषेऽकरोत् || १५ || एतस्मिन्नन्तरे देवी महाभारार्दिता क्षितिः | ब्रह्मविष्णुमुखान् देवान् रक्षार्थं शरणं गता | इदं चोवाच धातारं प्रणम्योर्वी समाधवम् || १६ || पृथिव्युवाच दानवा राक्षा दत्या हरिणा ये च सूदिताः | ते राज्ञां मन्दिरे जाता अधुना बलगर्विताः || १७ || तेषां भारमहं सोढुं न शक्नोमि महत्तरम् | असंख्याताश्च ते सर्वेतान् संख्यातुं न चोत्सहे || १८ || अष्टौ शतसहस्राणि तेषां मुख्या महाबलाः | तेष्वप्यतिबलान् वोढुं न ताञ्छक्नोमि चाधुना || १९ || बाणं बलेः सुतं वीरं कंस धेनुकमेव च | अरिष्टं च प्रलम्बं च सुनामानं मुरुं शलम् || २० || चारुणमुष्टिकौ मल्लौ जरासन्धं महाबलम् | नरकं च हयग्रीवं निसुन्दं सुन्दमेव च || २१ || विरूपाक्षं पञ्चजनं हिडिम्बं च बकं बलम् | जटासुरं च किर्मीरमनायुधमलम्बुषम् || २२ || सौभाख्यं च जरासन्धं द्विविदं चापि वानरम् | श्रुतायुधं महादैत्यं शतायुधमथापरम् || २३ || ऋष्यशृङ्गसुतं चैव सुबाहुमतिबाहुकम् | कालकञ्जांस्तथा दैत्यान् हिरण्यपुरवासिनः || २४ || एतेषां तु पदक्षोभर्विशीर्णाहं दिने दिने | लोकान् वोढुं न शक्नोमि तान्निघ्नन्तु सुरोत्तमाः || २५ || नचेद्रक्षां प्रकुर्वन्ति भवन्तः सुरसत्तमाः | तदा विशीर्णा यास्यामि पातालमवशाऽधुना || २६ || मार्कण्डेय उवाच ततस्तस्या वचः श्रुत्वा ब्रह्मविष्णुमहेश्वराः | इत्यूचुस्ते करिष्यामः क्षिते भारविमोक्षणम् || २७ || विसृज्य पृथिवीं देवीं सर्वे देवाः सनातनम् | माधवं तोषयामासुर्भारावतरणं प्रति || २८ || स तु तुष्टः सुरान् सर्वान् स्वांशैरवतरन्तु वै | क्षितौ भारावतारायेत्युक्त्वा स्वयमिह प्रभुः || २९ || अवतीर्णोऽथ देवक्या गर्भे भारावतारणे | विष्णुं चावतरिष्यन्तं ज्ञात्वा देवाः सनातनम् || ३० || रम्भातिलोत्तमाद्याश्च देव्यो रूपगुणान्विताः | क्षितावुत्पादयामासुः सहस्राणि तु षोडश || ३१ || ताः सर्वा हिमवत्पृष्ठे क्रीडमाना वरस्त्रियः | अपश्यन्नरको भौमस्ता जहार तदा हठात् || ३२ || तेन ता धर्षिता देव्यो नीताः प्राग्ज्योतिषं प्रति | नरकं प्रार्थयामासुः समयं मैथुनं प्रति || ३३ || नारदो यावदायाति नगरं प्रति भौम ते | अस्माकं कुरु रक्षां च तावन्नो मुञ्च मैथुने || ३४ || स समेष्यति वीर त्वां न चिरान्नो ह्यनुग्रहात् | तेन दृष्टा वयं सार्धमेष्यामः सङ्गमं त्वया || ३५ || इति सम्प्रार्थितस्ताभिर्नरको भूमिनन्दनः | ब्रह्मवाक्यं तदा स्मृत्वा एवमस्तूचिवान् मुहुः || ३६ || एतस्मिन्नन्तरे देवो भगवान् लोकभावनः | देवक्या जठराज्जातो वृद्धो नन्दगृहेऽभवत् || ३७ || कंसकेशिप्रलम्बादीन् हत्वा दैत्याननेकशः | अकरोद् द्वारकावासं सागरे सलिलान्तरे || ३८ || तत्राष्टौ कन्यकास्तेन स्वधर्मेण च स्वीकृताः | कालिन्दी मानुषीरूपा रुक्मिणी रमणी ततः || ३९ || नग्नजित्तनया सत्या लक्ष्मणा चारुहासिनी | सुशीला शीलसम्पन्ना तथ जाम्बवती सती || ४० || एतासु स्त्रीषु च ततो ह्यनुरक्तस्य तस्य वै | षट्त्रिंशद्वत्सरा जाता बलदेवसहायिनः || ४१ || प्रद्युम्नसाम्बप्रमुखाः पुत्रास्तस्य महाबलाः | जातास्तत्र द्विजश्रेष्ठाः शास्त्रे शस्त्रे च कोविदाः || ४२ || अनेके निहता दैत्या भारभूतास्तदा क्षितेः | प्रहृष्टः क्रीडमानश्च द्वारकायामुवास सः || ४३ || अथ शक्रस्तदायातो नरकेणार्दितो भृशम् | द्वारकां प्रति कृष्णस्य दर्शनाय गणैः सह || ४४ || तत्र गत्वा परिष्वज्य कृष्णं लोकनमस्कृतम् | पूजितस्तेन बहुश आसने काञ्चने स्थितः || ४५ || कथयामास हरये नरकस्य विचेष्टितम् | शक्रो यथा पूर्ववृत्तं यथा वा वर्ततेऽधुना || ४६ || शक्र उवाच शृणु कृष्ण महाबाहो यदर्थमहमागतः | कथयिष्यामि तत् सर्वं तत्र शङ्कां न सङ्कुरु || ४७ || भूमिपुत्रोऽसुरो नाम्ना नरकः सुरमर्दनः | चिरञ्जीवी पुरा विष्णुक्षितिभ्यां परिपालितः || ४८ || अधुना स क्षितिं विष्णुमवज्ञाय दुरासदः | वाणस्य वचनाद् भौमो ब्रह्माऽं पर्यतोषयत् || ४९ || ब्रह्मतः स वरान् लब्ध्वा ह्यतीवाभूत् प्रदर्पितः | माधवं पृथिवीं वापि सस्मार न कदाचन || ५० || पूर्वमासीत् स धर्मात्मा ह्याराधितसुरो व्रती | अधुना बाधते सर्वानासुरं भावमाश्रितः || ५१ || अदितेः कुण्डले मोहाज्जहारामृतसम्भवे | देवानृषीन् बाधमानो विप्राणामप्रिये रतः || ५२ || मां चापि बाधते नित्यं कामगामी दुरासदः | जेता तु सुरदैत्यानामवध्यः सर्वदेहिनाम् || ५३ || तव चाप्यन्तरप्रेक्षी तं पापं जहि भूतये | त्वदर्थं सर्वदेवैर्या देवगन्धर्वकन्यकाः || ५४ || पुरा पर्वतमुख्ये तु हिमवत्यवतारिताः | चतुर्दश सहस्राणि सहस्रे द्वै शताधिके || ५५ || ताः सर्वाः कन्यकाः पापः प्रसह्य वरदर्पितः | जहार स दुराधर्षो हयग्रीवसहायवान् || ५६ || सागरे यानि रत्नानि पृथिभ्यां च त्रिविष्टपे | तानि सर्वाणि संहृत्य प्रमथ्य सुरमानुषान् || ५७ || तीरे लौहित्यतीर्थस्य सोऽकरोन्मणिपर्वतम् | तस्मिन् गिरौ पुरीं रम्यां कारयित्वाऽलकाह्वयाम् || ५८ || ताः सर्वा वासयामास देवगन्धर्वयोषितः | एकवेणीधराः सर्वाः सम्भोगपरिवर्जिताः || ५९ || त्वामेव ताः प्रतीक्षन्ते सनाथाः कुरु कृष्ण ताः | यावदागच्छति पुरं भवतो नारदो मुनिः || ६० || तावन्न मैथुने यत्नं भौम त्वं संकरिष्यसि | इति ताः समयं चक्रुर्नरकस्य दुरात्मनः || ६१ || नारदश्च तदायातः प्राग्ज्योतिषपुरं प्रति | यदा त्वं नरकं हन्तुं गन्ता तत्पुरमुत्तमम् || ६२ || तस्मात् त्वं पापकर्माणं नरकं नरकोपमम् | जहि देवमनुष्याणां कण्टकं तं दुरासदम् || ६३ || बधात् तस्य क्षितिर्देवी पुत्रशोकं न चाप्स्यति | स्वयमेव वधं तस्य देवेभ्यो यदयाचत || ६४ || तस्मात् तं जहि पापिष्ठं नरकं पापपुरुषम् | स्त्रीरत्नान्यपि रत्नानि तं निहत्य समुद्धर || ६५ || इत्युक्तो जगतां नाथः शक्रेण सुमहात्मना | प्रतिजज्ञे क्षितिसुतं हन्तुं प्रति तदैव हि || ६६ || प्रतिज्ञाय वधं तस्य शक्रेण सह केशवः | तदैव यात्रामकरोत् प्राग्ज्योतिषपुरं प्रति || ६७ || आरुह्य गरुडं कृष्णः सत्यभामाद्वितीयकः | प्राग्ज्योतिषमुखोअ.गच्छद्वासवस्त्रिदिवं ययौ || ६८ || दिवमाक्रम्य गच्छन्तौ कृष्णशक्रौ महाद्युती | यादवा ददृशुस्तत्र सूर्याचन्द्रमसौ यथा || ६९ || संस्तूयमानौ गन्धर्वैर्देवैरप्सरसां गणैः | कृष्णः शक्रः क्षणादेव गतौ खे तावदृश्यताम् || ७० || ततः क्षणेन गरुडेनाससाद जगत्पतिः | पुरं प्राग्ज्योतिषं रम्यं नरकेण वशीकृतम् || ७१ || स दुर्गं मौरवैः पाशैः षट्सहस्रैर्भयङ्करैः | क्षुरान्तैर्वेष्टितं पार्श्वे मृत्युपाशैरिवोच्छ्रितम् || ७२ || निर्गच्छन्तं पुरात् तस्मात् नारदं च ददर्श सः | स तु देवमुनिः श्रीमान् यदागान्नरकं प्रति || ७३ || तदा प्राग्ज्योतिषं गत्वा सत्कृतस्तेन नारदः | सङ्गमे समयं प्रोचे नरकाय स योषिताम् || ७४ || प्रवर्ततेऽद्य चैत्रस्य शुक्लपक्षस्य पञ्चमी | नवम्यां तु धरापुत्र प्राप्नोसिमहदापदम् || ७५ || तदा यदि चतुर्दश्यां सुस्नाता योषितस्त्विमाः | सुरतेषु त्वया तत्र प्रोयोक्तव्या यथासुखम् || ७६ || नारदस्य वचः श्रुत्वा नरको भयमोहितः | आसारं च प्रसारं च नगरे सन्यवेशयत् || ७७ || रक्षिभी रक्षितं राज्यं रक्षितं च समन्ततः | भयहर्षयुतो भौमः समयं समवैक्षत || ७८ || तस्मिन्नवसरे प्राप कृष्णः प्राग्ज्योतिषं पुरम् | प्रथमं पश्चिमं द्वारमासाद्य गरुडध्वजः || ७९ || पाशानां षट्सहस्राणि क्षुरान् सञ्छिद्य नैकधा | जघान स मुरुं दैत्यं सानुगं च सबान्धवम् || ८० || षट्सहस्रा महावीरा दानवा द्वारि संस्थिताः | हताश्चक्रेण हरिणा तदैव मुरुणा सह || ८१ || मुरुं हत्वा सहस्राणि पुत्रांस्तस्यापरांश्च षट् | जघान चक्रेण तदा खण्डशोऽन्यांश्च दानवान् || ८२ || ततोऽनेकशिलासंघानतिक्रम्य जनार्दनः | सगणं सानुगं चैव निसुन्दं समपोथयत् || ८३ || एको यो योधयेद्देवान् सहस्रं वत्सरान् पुरा | शक्रं च समतिक्रम्य महावीरपराक्रमः || ८४ || तं जघान हयग्रीवं समतिक्रम्य केशवः | मध्ये लौहित्यसंज्ञस्य भगवान् देवकीसुतः || ८५ || औदकायां विरूपाक्षं सुन्दं हत्वा महाबलः | ततः पञ्चजन वीर जघान परमेश्वरः || ८६ || एतान् हत्वा महाकायान् महावीर्यान् दुरासदान् | आससाद जगन्नाथः पुर प्राग्ज्योतिषाह्वयम् || ८७ || वियत्स्थैर्दैवतैः सर्वैर्नारदेन महात्मना | जयशब्दैः स्तूयामानः प्रविवेश यथेश्वरः || ८८ || श्रिया युक्तां दीप्यमानां प्राकाशाट्टालभूषिताम् | स मेने नगरीं विष्णुः किमिन्द्रस्यामरावती || ८९ || तत्र युद्धं महद्भूत नानाप्रहरणोद्यतम् | भीरूणां त्रासजननं शूराणां हर्षवर्धनम् | यथा देवासुरं युद्धं तथैव समपद्यत || ९० || ततः शार्ङ्ग विनिर्मुक्तैर्बाणैस्तान् दानवान् बहून् | निजघान महाबाहुर्गरुडस्थो जनार्दनः || ९१ || अष्टौ शतसहस्राणि अष्टौ शतशतानि च | हत्वासुरान् महाबाहुर्नरकं तं समासदत् || ९२ || ततः श्रुत्वा स नरकः पतितानसुरान् बहून् | दृष्ट्वा कृष्णं महाबाहुं गरुडस्थं महाबलम् || ९३ || वसिष्ठशापं सस्मार समयं माधवस्य च | नारदस्य वचश्चापि वरच्छिद्रं तथा विधेः || ९४ || स प्राप्तकालश्च तथा केशवेन समागतः | युद्धमेव परं मेने स्मरन् बाणवचस्तदा || ९५ || स काञ्चनं समारुह्य रथं वज्रध्वजं वरम् | लौहश्चक्राष्टसंयुक्तं त्रिनल्वप्रमितं रथम् || ९६ || युक्तमश्वसहस्रैस्तु वज्रध्वजविराजितम् | नानाप्रहरणोपेतं बहुतूणीरसंयुतम् | अगच्छत् समारायाशु नरकः पृथिवीसुतः || ९७ || स गच्छन् समरायाशु मानुषं भावमर्चितम् | निन्द्यं तथासुरं मेने स्मरन् पूर्ववचो हरेः || ९८ || क्षणात् कृष्णं स ददर्श गरुडोपरि संस्थितम् | शङ्खचक्रगदाशार्ङ्गवरासिधरमच्युतम् || ९९ || किरीटकुण्डलयुतं श्रीवत्सवक्षसं हरिम् | कौस्तुभोद्भासितोरस्कं पीताम्बरधरं परम् || १०० || स तेन युयुधे वीरो विष्णुना प्रभविष्णुना | प्राग्ज्योतिषाधिपो वीरो नरकः पृथिवीसुतः || १०१ || स युध्यत् कृष्णनिकटे कालिकां कालिकोपमाम् | रक्तास्यनयनां दीर्घां खड्गशक्तिधरा तदा || १०२ || अपश्यज्जगतां धात्रीं कामाख्यामपि मोहिनीम् || १०३ || स विस्मितस्तदा भीतस्तां दृष्ट्वा जगतां प्रसूम् | योद्धव्यमित्येव तदा युयुधे नरकोऽसुरः || १०४ || तेन सार्धं तदा कृष्णः कृत्वा सुमहदद्भुतम् | युद्धं यादृक् पुरा भूतं न देवे न च मानुषे || १०५ || ततस्तेनाथ भौमेन युद्धकेलिं स माधवः | चिरं कृत्वा जघानाथ देवेन्द्रं प्रतिहर्षयन् || १०६ || सुदर्शनेन चक्रेण मध्यदेशे तदा हरिः | द्विधा चिच्छेद नरकंखण्डितोऽभ्यपतद् भुवि || १०७ || विभक्ततच्छरीरं तु भूमौ निपतितं तदा | विराजन्ते वज्रभिन्नौ यथा गौरिकपर्वतः || १०८ || पतिते तनये देवी पृथ्वी दृष्ट्वा शरीरकम् | शोकवेगं तदा सेहे ज्ञात्वा कालं तदागतम् || १०९ || अदितेः कुण्डलयुगं स्वयमादाय काश्यपी | उपातिष्ठत गोविन्दं वचनं चेदमब्रवीत् || ११० || पृथिव्युवाच त्वया वराहरूपेण यदाहं चोद्धृता पुरा | तदा त्वद्गात्रसंस्पर्शात् पुत्रो मे नरकः स्थितः | सोऽयं त्वया पालितश्च पातितश्चाधुना सुतः || १११ || गृहाण कुण्डले चेमे अदितेः सर्वकामदे | सन्ततिं चास्य गोविन्द प्रतिपालय नित्यदा || ११२ || श्रीभगवानुवाच भारावतरणे देवि नरकस्य वधः पुराः | त्वयैव प्रार्थितो यस्मात् तेनासौ निहतो मया || ११३ || पालयिष्येऽस्य सन्तानं देवि त्वद्वचनादहम् | प्राग्ज्योतिषेऽभिषेक्ष्यामि नप्तारं भगदत्तकम् || ११४ || एवमुक्त्वा महाबाहुर्भगवान् मधुसूदनः | अन्तःपुरं विवेशास्थ नरकस्य धनालयम् || ११५ || स तत्र ददृशे वीरो रत्नानि विविधानि च | राशीभूतानि शुद्धानि पर्वतानिव राजतः || ११६ || मुक्तामणिप्रवालानां वैदूर्यस्य च पर्वतम् | तथा रजतकूटानि वज्रकूटानि माधवः || ११७ || सुवर्णसञ्चयान् रुक्मदण्डान् रत्नमयध्वजान् | वाहनानि विचित्राणि यानानि शयनानि च || ११८ || खचितानि स्वर्णरत्नैर्महार्हाणि महान्ति च | यद् यद् दृष्टं च यावच्च धनं रत्नं मणिस्तथा || ११९ || भुवि तादृक् च नो दृष्टमन्यत्र नरकालयात् | न कुबेरस्य नरेन्द्रस्य न यमस्याप्यपां पतेः || १२० || तावन्ति धनरत्नानि यावन्ति नरकालये | केशवोऽप्यथ तत्रैव नारदेन च संगतः || १२१ || अवेक्ष्यान्तःपुरधनं सारं सारतरं ततः | तेषां समाददे ग्राह्यं प्रभूतं परवीरहा || १२२ || या दत्ता वैष्णवीशक्तिर्विष्णुना प्रभविष्णुना | हत्वा भौमं तु तां शक्तिं जगृहे देवकीसुतः || १२३ || पृथिव्या नारदेनैव सहितः केशवस्तदा | भगदत्तं भौमसुतं प्राग्ज्योतिषपुरोत्तमे || १२४ || अभिषिच्य तदा भूपं पुरमध्ये न्यवेशयत् | अभिषिक्तं तु तां दृष्ट्वा भगदत्तं तदा क्षितिः || १२५ || नप्तुरर्थेऽथ तां शक्तिं केशवं समयाचत | केशवोऽपि क्षितेर्वाक्यान्नारदानुमतेन च | तां शक्तिं भगदत्ताय सुप्रीतमनसा ददौ || १२६ || यच्छत्रं वरुणं जित्वा काञ्चनस्राविसंज्ञकम् | समानयत् पुरा भौमस्तच्छस्त्रं हरिराददे || १२७ || अष्टभारसुवर्णानि यत्संस्रवति चान्वहम् | यत् क्रोशमात्रविस्तीर्णमर्धयोजनमुच्छ्रितम् || १२८ || रत्नोत्तमानि सर्वाणि चतुर्दन्तांस्तथा गजान् | चतुर्दशसहस्राणि पूजिताः प्रमदास्तथा || १२९ || द्वारकां प्रति दैत्यौघैर्वाहयामास केशवः || १३० || ता देवकन्यकाः पूर्वं नरकेण हृता बलात् | तासां कृत्वा हृषीकेशो वेणीबन्धविमोक्षणम् || १३१ || वासोभिर्भूषणेर्दिव्यैस्ताः सत्कृत्य मुहुर्मुहुः | आरोप्य च विमाने तु रक्षिभिर्बलिभिर्दृढैः || १३२ || नारदाधिष्ठिताः सर्वा द्वारकां प्रत्यवाहयत् | यः कृतः सुरकन्यार्थे भौमेन मणिपर्वतः || १३३ || मणिरत्नौघसम्पूर्णो दिवाक्रसमप्रभः | उत्पाट्य तं जगन्नाथस्तार्क्षपृष्ठे न्यधाप्यत् || १३४ || तथैव वारुणं छत्रं गरुडोपरि माधवः | आरोप्य सत्यया सार्धमासीनः सुमना हरिः || १३५ || भगदत्तं समाभाष्य पृथिवीं च जगत्पतिः | प्रतस्थे द्वारकां वीरो वियन्मार्गेण वै द्रुतम् || १३६ || सुवर्णं काञ्चनस्राविच्छत्रं समणिपर्वतम् | केशवं सत्यया सार्ध हेलया खे वहन् ययौ || १३७ || क्षणेन द्वारकां प्राप्य केशवः परवीरहा | मुदं च लेभे सकलैर्वान्धवैश्च तथा गणैः || १३८ || एवं काली महामाया कालिकाख्या जगन्मयी | विष्णुं च जगतां नाथं परापरपतिं हरिम् || १३९ || जगत्कारणकर्तारं ज्ञानगमयं जगन्मयम् | सन्मोहयत्येव तथा ह्यनुरागविरागवान् || १४० || अनुगृह्णाति मित्राणि ह्यमित्राणि निहन्ति च | नारीषु मूढो रमते द्वन्द्वेनापि च मुह्यते || १४१ || इति वः कथितं विप्रा यथाभून्नरकोऽसुरः | यथा च वरलाभोऽभूद् यथा चास्य विचेष्टितम् || १४२ || आराधितो यथा ब्रह्म बाणबुद्ध्याथ भौमिना | किमन्यदुचितं वास्ति तद्ब्रुवन्तु द्विजोत्तमाः || १४३ || इति श्रीकालिकापुराणे नरकोपाख्याने चत्वारिंशोऽध्यायः || ४० || एकचत्वारिंशोऽध्यायः ऋषय ऊचुः कथं गिरिसुता काली बभूव जगतां प्रसूः | दाक्षायणी त्यक्ततनुः कथमाप हरं पतिम् || १ || कथमर्धशरीरं सा जहार च पिणाकिनः | एतन्नः पृच्छतां सम्यक् कथयस्व महामते || २ || मार्कण्डेय उवाच शृणुध्वं मुनिशार्दूला यथा दाक्षायणी सती | भूता गिरिसुता पूर्वं यथार्धमहरत्तनुम् || ३ || यदाऽत्यजत्तनुं देवी पूर्वं दाक्षायणी सती | तदैव मनसागच्छन् मेनकां हिमवद्गिरिम् || ४ || यदा हरेण सहिता दक्षकन्या हिमाचले | चिक्रीड च तदा तस्या मेनकाऽभूद् हितैषिणी || ५ || अस्याः सुता स्यामिति च आधाय मनसि द्विजाः | त्यक्तप्राणा तदा देवी भूता हिमवतः सुता || ६ || यदा दाक्षायणी प्राणान् दक्षकोपाज्जहौ पुरा | तदैव मेनका देवी आरिराधयिषुः शिवम् || ७ || महामायां जगद्धात्रीं योगनिद्रां सनातनीम् | मोहिनीं सर्वभूतानां शरणं सर्वनाकिनाम् || ८ || अष्टम्यामुपवासं तु कृत्वा सा नवमीतिथौ | मोदकैर्वलिभिः पिष्टैः पायसैर्गन्धपुष्पकैः || ९ || चैत्रे मासि समारभ्य सप्तविंशतिवासरान् | यावत् सम्पूजयामास पुत्रार्थिन्यन्वहं शुचिः || १० || गङ्गायामोषधिप्रशे कृत्वा मूर्तिं महीमयीम् | कदाचित् सा निराहारा कदाचित् सा धृतव्रता || ११ || शिवाविन्यस्तमनसा सप्तविंशतिवत्सरान् | निनाय मेनका देवी परमां भूतिमिच्छती || १२ || सप्तविंशतिवर्षान्ते जगन्माता जगन्मयी | सुप्रीताऽभवदत्यर्थं प्राह प्रत्यक्षतां गता || १३ || देव्युवाच यत् प्रार्थितं त्वया देवि मत्तस्तत्प्रार्थयाधुना | दास्ये तवाहं तत्सर्वं वाञ्छितं यद् हृदा भवेत् || १४ || मार्कण्डेय उवाच ततः सा मेनका देवी प्रत्यक्षं कालिकां गताम् | दृष्ट्वैव प्रणनामाथ वचनं चेदमब्रवीत् || १५ || देवी प्रत्यक्षतो रूपं तव दृष्टं मयाऽधुना | त्वामहं स्तोतुमिच्छामि प्रसन्ना यदि मे शिवे || १६ || ततः सा मातरित्युक्त्वा कालिका सर्वमोहिनी | बाहुभ्यां चारुवृत्ताभ्यां मेनकां परिषस्वजे || १७ || ततः सा मेनका देवी कालिकां परमेश्वरीम् | तुष्टाव वाग्भिरिष्टाभिः शिवां प्रत्यक्षतः स्थिताम् || १८ || मेनकोवाच प्रेरयन्तीं जगद्धाम चण्डिकां लोकधारिणीम् | प्रणमामि जगद्धात्रीं सर्वकामार्थसाधिनीम् || १९ || इत्यानन्दां ज्ञानमयीं योगनिद्रां जगत्प्रसूम् | प्रणमामि शिवां शुद्धां विधिशौरिशिवात्मिकाम् || २० || मायामयीं महामायां भक्तशोकविनाशिनीम् | कामस्य वनितं भद्रां नमामि त्वां चित्ति शिवाम् || २१ || सत्त्वोद्रेकाद् या भवित्रीह नित्या नित्या चापि प्राणिनां बुद्धिरूपा | सा त्वं बन्धच्छेदहेतुर्यतीनां कस्ते गद्यो मादृशीभिः प्रभावः || २२ || या त्वं साम्नां सिद्धिरुक्थिस्तथार्चा या वृत्तिर्या यजुषां दीर्घरूपा | हिंसा या वाऽथर्ववेदस्य सा त्वं नित्यं कामं त्वं ममेष्त विधेहि || २३ || नित्यानित्यर्भागहीनैः पुरस्थै स्तन्मात्रैर्यैर्यत्यते भूतवर्गः | तेषां शक्तिस्त्वं सदा नित्यरूपा का ते योषा योग्यं वक्तुं समर्था || २४ || क्षितिर्धरित्री जगतां त्वमेव त्वमेव नित्या प्रकृतिस्वरूपा | यया वशः क्रियते ब्रह्मरूपः सा त्वं नित्या मे प्रसीदास्तु मातः || २५ || त्वं जातवेदोगतशक्तिरूपा त्वं दाहिका सूर्यकरस्य शक्तिः | आह्लादिका त्वं बहु चन्द्रिकाया- स्तां तामहं स्तौमि नमामि चाम्बिकाम् || २६ || योषा योषित्प्रियाणां त्वं विद्या त्वं चोर्ध्व रेतसाम् | वाञ्छा त्वं सर्वजगतां माया च त्वं तथा हरेः || २७ || याऽनेकरूपाणि विधाय नित्यं सृष्टिं स्थितिं हानिमपीह कर्त्री | ब्रह्माच्युतस्थाणुशरीरहेतुः सा त्वं प्रसीदाद्य पुनर्नमस्ते || २८ || मार्कण्डेय उवाच ततः सा जगतां माता कालिका पुनरेव हि | उवाच मेनकां देवीं वाञ्छितं वरयेत्युत || २९ || ततः सा प्रथमं पुत्रशतं वब्रे यशस्विनी | वीर्यवच्चायुषा युक्तमृद्धिसिद्धिसमन्वितम् || ३० || पश्चात् तथैकां तनयां सुरूपां गुणशालिनीम् | कुलद्वयानन्दकरीं भुवनत्रदुर्लभाम् || ३१ || ततो भगवती प्राह मेनकां मुनिसन्निभाम् | स्मितपूर्वं तदा तस्याः पूरयन्ती मनोरथम् || ३२ || देव्युवाच शतं पुत्राः सम्भवन्तु भवत्या वीर्यसंयुताः | तत्रैको बलवान्मुख्यः प्रथमं सम्भविष्यति || ३३ || सुता च तव देवानां मानुषाणां च रक्षसाम् | हिताय सर्वजगतां भविष्याम्यहमेव ते || ३४ || वं सुखप्रसवा नित्यं तथा नित्यं पतिव्रता | अम्लाना रूपसम्ना सुभगा च भविष्यसि || ३५ || मार्कण्डेय उवाच एवमुक्ता जगद्धात्री तत्रैवान्तरधीयत | मेनका च मुदं लब्धा स्वस्थानं प्रविवेश ह || ३६ || ततः काले तु सम्प्राप्ते मैनाकमचलोत्तमम् | पक्षेण सह योऽद्यापि सिन्धुमध्ये प्रवर्तते || ३७ || मेनका सुषुवे देवी देवेन्द्रं स्पर्धयागतम् | अन्यानूनशतं पुत्रान् क्रमात् सा सुषुवे सती || ३८ || महावीर्यान् महासत्त्वान् सर्वतो गुणैः | ततः सा कालिका देवी योगनिद्रा जगन्मयी || ३९ || पूर्वत्यक्तसतीरूपा जन्मार्थं मेनकां ययौ | समयस्यानुरूपेण मेनका जठरे शिवा || ४० || समुद्भूय समुत्पन्ना सा लक्ष्मीरिव सागरात् | वसन्तसमये देवी नवम्यामृक्षयोगतः || ४१ || अर्धरात्रे समुत्पन्ना गङ्गेव शशिमण्डलात् | ततस्तस्यां तु जातायां प्रसन्ना अभवन् दिशः || ४२ || अनुकूलो ववौ वायुर्गम्भीरो गन्धवाञ् शुभः | वभूव पुष्पवृष्टिश्च तोयवृष्टिस्तथापरा || ४३ || जज्वलुश्चाग्न्यः शान्ता जगर्जुश्च घनाघनम् | तस्यां तु जातमात्रायां सर्वं स्वास्थ्यमपद्यत || ४४ || तां तु दृष्ट्वा तथा जातां नीलोत्पलदलानुगाम् | श्यामां सा मेनका देवी मुदमापातिहर्षिता || ४५ || देवाश्च हर्षमतुलं प्रापुस्तत्र मुहुर्मुहुः | तुष्टुवुश्चान्तरिक्षस्था गन्धर्वाप्सरसां गणाः || ४६ || तां तु नीलोत्पलदलश्यामां हिमवतः सुताम् | कालीति नाम्ना हिमवानाजुहाव कृतोदने || ४७ || आन्धवैस्तु समस्तैस्तन्नाम्ना सा पार्वतीति च | कालीति च तथा नाम्ना कीर्तिता गिरिनन्दिनी || ४८ || ततः सा ववृधे देवी गिरिराजगृहे शुभा | गङ्गेव वर्षासमये शरदीवाथ चन्द्रिका || ४९ || धमानानुदिवसं चार्वङ्गी चारुतां मुहुः | अघ्रे सानुदिनं काली चन्द्रबिम्बं कलामिव || ५० || सा बालभावमापन्ना क्रीडन्ती कालिका मुदम् | सखीभिः प्राप विपुलां कालिन्दीव सरिद्व्रजैः || ५१ || षड्गुणास्तां स्वयं देवीं पूर्वजन्मवशीकृताः | स्वयमीयुर्द्विजश्रेष्ठाः प्रावृषं कालिका यथा || ५२ || अतिचक्राम स्वगुणैः सा देवी देवकन्यकाः | रूपैरप्सरसः सर्वा गीतैर्गन्धर्वकन्यकाः || ५३ || सा बाल्य एव सततं बन्धुवर्गप्रिया शुभा | गुणैः स्वबन्धून् पितरं मातरं चाप्यतोषयत् || ५४ || मातुः स्तुतिकरी नित्यं पितृपूजनतत्परा | सर्वदा भ्रातृसहिता जगन्माताऽभवत्तदा || ५५ || सर्वदा सा जगन्माता कन्या सा समुपस्थिता | पितुः समीपे वसति कालिन्दीव विभावसोः || ५६ || अथैकदा तां निकटे निधाय हिमवद्गिरिः | तनयैः सह सङ्गम्य स्थितः परमकौतुकात् || ५७ || अथागतस्तत्र मुनिर्नारदो देवलोकतः | हिमवन्तं सुखासीनं सुतैः सार्धं ददर्श सः || ५८ || अपश्यन्निकटे कालीं आलिकामिव सूर्यतः | ज्योत्स्नामिव सुधांशोस्तु सम्यग्वृद्धां शरन्निशि || ५९ || पूजितस्तेन गिरिणा कृतासन-परिग्रहः | नारदः प्रथमं शैलं वृत्तान्त पर्यपृच्छत || ६० || ततो विदितवृत्तान्तो नारदो मेनकां प्रति | उवाच हर्षयन् वाक्यं मुनिर्वाक्यविशारदः || ६१ || नारद उवाच एषा ते तनया रुच्या शुद्धांशोरिव वर्धिता | आद्या कला शैलराज सर्वलक्षणशालिनी || ६२ || शम्भोर्भवित्री दयिता सानुकूला सदा हरेः | तस्य चित्तं वशे चैषा करिष्यति तपस्विनी || ६३ || स चाप्येनामृते जायां नान्यामुद्वाहयिष्यति | एतयोर्यादृशः प्रेमा कयोश्चिन्नैव तादृशः || ६४ || भूतो वा भविता वापि नाधुना च प्रवर्तते | अनया सुरकार्याणि कर्तव्यानि बहूनि च || ६५ || अनयैव गिरिश्रेष्ठ अर्धनारीश्वरो हरः | भविष्यति च सौहार्दाज्योत्स्नयैवामृतात्मनः || ६६ || शरीरार्धं हरस्यैषा करिष्यति निजास्पदे | स्वर्णगौरी सुवर्णाभा तपसा तोषिते हरे || ६७ || विद्युद्गौरी त्वियं काली तव पुत्री भविष्यति | गौरीति नाम्ना पश्चात्तु ख्यातिमेषा गमिष्यति || ६८ || नान्यस्मै त्वमिमां दातुं मनः कर्तुमिहार्हसि | इदं चोपांशु देवानां न प्रकाशं करिष्यसि || ६९ || मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा देवर्षेर्नारदस्य च | उवाच हिमवान् वाक्यं मुनिं प्रति विशारदः || ७० || हिमवानुवाच श्रूयते त्यक्तसंगः स महादेवो यतात्मवान् | तपशोपांशु तपति देवानामप्यगोचरः || ७१ || स कथं ध्यानमार्गस्थः परब्रहार्पितं मनः | भ्रंशयिष्यति देवर्षे तत्र मे संशयो महान् || ७२ || अक्षरं परमं ब्रह्म प्रदीपकलिकोपमम् | सोऽन्तः पश्यति सर्वत्र न तु बाह्यं निरीक्षते || ७३ || इति स्म श्रूयते नित्यं किन्नराणां मुखाद् द्विज | स कथं तादृशं स्वान्तं शक्तो भ्रंशयितुं हरः || ७४ || विशेषतः श्रूयते स्म दाक्षायण्या समं हरः | समयं ज्ञातवान् पूर्वं तन्मे निगदतः शृणु || ७५ || त्वामृतेऽन्यां न वनितां दाक्षायणि सति प्रिये | भार्यार्थे सङ्ग्रहीष्यामि सत्यमेतद् ब्रवीमि ते || ७६ || इति सत्या समं तेन पुरैव समयः कृतः | तस्यां मृतायां स कथं स्त्रियमन्यां ग्रहीष्यति || ७७ || नारद उवाच नात्रा कार्या त्वया चिन्ता गिरिराज भवत्सुता | एषा सती समुत्पन्ना हरायैव न संशयः || ७८ || मार्कण्डेय उवाच इत्युक्त्वा स तु देवर्षिर्नारदस्तु यथा सती | मेनकायां समुत्पन्ना सर्वं तत् प्रोक्तवान् गिरौ || ७९ || तत्सर्वं पूर्ववृत्तान्तं नारदस्य मुखाद् गिरिः | श्रुत्वा सपुत्रदारः स तदा निःसंशयोऽभवत् || ८० || ततः काली कथां श्रुत्वा नारदस्य मुखात् तदा | लज्जयाऽधोमुखी भूत्वा स्मितविस्तारितानना || ८१ || करेण तां तु संगृह्य प्रोन्नमयय मुखं गिरिः | मूर्ध्नि सम्यगुपाघ्राय स्वासने संन्यवेशयत् || ८२ || ततस्तां पुनरेवाह नारदः शैलपुत्रिकाम् | हर्षयन् गिरिराजं तु मेनकां तनयैः सह || ८३ || नारद उवाच सिंहासनेन किं स्वस्याः शैलराज भवेत् तव | शम्भोरूरुः सदैवास्या आसनं तु भविष्यति || ८४ || हरोरुमासनं प्राप्य तनया तव संततम् | नान्यत्र कुत्रचित्तुष्टिमासने प्राप्यते गिरे || ८५ || मार्कण्डेय उवाच इति वचनमुदारं नारदः शैलराजं त्रिदिवमगमदुक्त्वा तत्क्षणाद् देवयानैः | गिरिपतिरपि चिन्ताहर्षसन्मोहयुक्तः प्रविशदचलयासौ स्वान्तरं पद्मगर्भम् || ८६ || इति श्रीकालिकापुराणे नारदागमने एकचत्वारिंशोऽध्यायः || ४१ || द्विचत्रारिंशोऽध्यायः मार्कण्डेय उवाच एतस्मिन्नन्तरे शम्भुः क्षिप्रं त्यक्त्वा तदा सरः | गङ्गावतारमगमद् हिमवत्प्रस्थमुत्तम || १ || यत्र गङ्गा निपतिता पुरा ब्रह्मपुरात् सृता | ओषधीप्रस्थनगरस्यादूरे सानुरुत्तमः || २ || तत्र भर्गः स्वमात्मानमक्षरं परमात्परम् | चेतो ज्ञानमयं नित्यं ज्योतीरूपं निराकुलम् || ३ || जगन्मयं प्रदीपाभं द्वैतहीनाविशेषकम् | एकाग्रं चिन्तयामास भगवान् वृषभध्वजः || ४ || हरे ध्यानपरे तस्मिन् प्रमथा ध्यानतत्पराः | अभवन् केचिदपरे नन्दिभृङ्ग्यादयो गणाः || ५ || द्वाःस्था भूता महाभागा ये पूर्वद्वारि योजिताः | तावन्तोऽपि गणास्तत्र नैव किंचनं कूजितम् || ६ || तेषां संश्रूयते सर्वे निःशब्दाः संस्थितास्ततः | अन्ये तु तत्र क्रीडन्ति गणा दूरान्तरस्थिताः || ७ || कुसुमैश्च दलैर्भक्तैर्गिरिप्रस्रवणोदकैः | रत्नानि च विचिन्वन्तो भूषिता गैर्कैस्तथा || ८ || सगणं तु तथा दृष्ट्वा गिरिराजो गतं हरम् | स्वस्थानमोषधिप्रस्थान्निःसृत्य सहितो गणैः || ९ || पूजार्थमुपतस्थे स यथायोग्यं तथार्चयत् | स चापि शम्भुस्तस्यार्च्चां परया श्रद्धया युतः | प्रतिजग्राह कूटस्थो गङ्गाशीर्षे यथा पुरा || १० || पूजितस्तेन सहसा गिरिराजं वृषध्वजः | उवाच ध्यानयोगस्थः स्मयन्निव जगत्पतिः || ११ || ईश्वर उवाच तव प्रस्थे तपस्तप्तुं रहस्यमहमागतः | न यथा कोऽपि निकटं समायाति तथा कुरु || १२ || त्वं महात्मा जगद्धाम् मुनीनां च सदाश्रयः | देवानां राक्षसानां च यक्षाणां किन्नरस्य च || १३ || सदावासो द्विजातीनां गङ्गापूतश्च नित्यदा | त्वत्पुरस्यास्य निकटे प्रस्थं गङ्गावतारणम् || १४ || आश्रितोऽहं गिरिश्रेष्ठ तद्योग्यं कुरु साम्प्रतम् || १५ || इत्युक्त्वा जगतां नाथस्तूष्णीमास वृषध्वजः | गिरिराजस्तदा शम्भुं प्रणयादिदमब्रवीत् || १६ || हिमवानुवाच पूतोऽस्मि जगतां नाथ त्वयाऽहं परमेश्वर | आगतेनाद्य विषयमितः कृत्यं किमस्ति मे || १७ || तपसा महता त्वं हि देवैर्यत्नपरस्थितै | न प्राप्यसे जगन्नाथ स त्वं स्वयमुपस्थितः || १८ || मत्तो धन्यतरो नास्ति न मत्तोऽन्योऽस्ति पुण्यवान् | यद्भवान् हिमवत्प्रस्थे तपसे समुपस्थितः || १९ || देवेन्द्रादधिकं मन्ये आत्मानं परमेश्वर | सगणेन त्वया प्राप्तो यदाऽहं कामचारतः || २० || इत्युक्त्वा गिरिराजोऽथ स्ववेश्म पुनरागमत् | नियमाय परिवारान् गणानप्यवदत् स्वकान् || २१ || अद्य प्रभृति नो गन्ता कोऽपि गङ्गावतारणम् | मच्छासनं न हि विना यो गन्ता दण्डये ह्यहम् || २२ || इति स्वान् स नियम्याशु तिलपुष्पकुशान् फलम् | समादायाशु तनयासहितोऽगाद् हरान्तिकम् || २३ || अथ गत्वा जगन्नाथं हरं ध्यानपरं तदा | नमयामास तनयां कालीं सर्वगुणान्विताम् || २४ || तिलपुष्पादिकं यद् यत्तत्तदग्रे निधाय सः | अग्रे कृत्वा सुतां शम्भुमिदमाह स शैलराट || २५ || हिमवानुवाच भगवंस्तनयेयं मे त्वमाराधयितुं प्रति | समादिष्टा समानीता त्वदाराधनकांक्षिणी || २६ || सखिभ्यां सह नित्यं त्वां सेवतामीश शंकर | अनुजानीहि सेवायै मयि ते यद्यनुग्रहः || २७ || मार्कण्डेय उवाच अथ तां शंकरोऽपश्यत् प्रथमारूढयौवनाम् | फुल्लेन्दीवरपत्राभां पूर्णचन्द्रनिभाननाम् || २८ || समग्रनीचकेशौघप्राप्तवेशविजृम्भिकाम् | कम्बुग्रीवां विशालाक्षीं चारुकर्णयुगोज्ज्वलाम् || २९ || ऋणालायतपर्यन्तबाहुयुग्ममनोरमाम् | राजीवकुण्डलप्रख्यघनपीनोन्नतस्तनौ || ३० || बिभ्रती क्षीणसन्मध्यां रक्तपाणितलद्वयाम् | स्थलपद्मप्रतीकाश-पादयुग्ममनोरमाम् || ३१ || मध्यक्षीणां महासत्त्वां वृत्तस्थूलघनोज्ज्वलाम् | सुजङ्घां नागनासोरुंइम्ननाभिविभूषिताम् || ३२ || सुवृत्तचारुजङ्घाग्रां त्रिगम्भीरां षडुन्नताम् | सर्वलक्षणसम्पूर्णां त्रिषु लोकेषु दुर्लभाम् || ३३ || ध्यानपञ्जरनिर्बन्धमुनिमानसमप्यरम् | दर्शनाद् भ्रंशितुं शक्तां योषिद्गणशिरोमणिम् || ३४ || तां दृष्ट्वा तपसे नित्यं ध्यानिनां च मनोहराम् | विघ्नहेतुं चानुरागवर्धिनीं कामरूपिणीम् || ३५ || गिरिराजस्य वचनात्तनयां तस्य शंकरः | पर्येषणायै जगृहे गौरवादपि गोरथः || ३६ || ईश्वर उवाच उवाचेदं तव सुता सखिभ्यां स शैलराट् | नित्यं मे सेवतां यत्नाद् निर्भीता ह्यत्र तिष्ठतु || ३७ || मार्कण्डेय उवाच एवमुक्त्वा तु तां देवीं सेवायै जगृहे हरः | इदमेव महद् धैर्यं यद् विघ्नो न हि विघ्नयेत् | निर्विघ्नं स्थानमासाद्य यत्तपः क्रियते द्विजैः || ३८ || सविघ्नो विघ्नहेतुं यः परिभूय प्रवर्तते | त्वन्महत्त्वं च तपसां धीरता च तपस्विनाम् || ३९ || ततः स्वपुरमायातो गिरिराट् परिचारकैः | हरश्च ध्यानयोगेन परं चिन्तयितुं स्थितः || ४० || काली सखिभ्यां सहिता प्रत्यहं चन्द्रशेखरम् | सेवमाना महादेवं गमनागमनैः स्थिता || ४१ || कदाचित् सहिता काली सखिभ्यां शंकराग्रतः | वितन्वती शुभं गीतं पञ्चमञ्चातनोत्तदा || ४२ || कदाचित् कुशपुष्पादिसमिद्वारि हराय सा | सखिभ्यां स्नानसत्कारं कुर्वन्ती न्यवसत्तदा || ४३ || कदाचिदग्रे नियता स्थिता चन्द्रभृतो मुखम् | वीक्षन्ती चिन्तयामास सकामा चन्द्रशेखरम् || ४४ || (अदा कार्येषु सा व्यग्रा तदा तत्कर्म चेष्टते | ऋत्यहीना यदा सा तु तदैवाचिन्तयद्धरम् || ४५ || अदा मामेष भूतेशः कर्ता पाणिगृहीतिकाम् | अदा मया समं रन्ता नानासद्भावभावनैः || ४६ || ति चिन्तापरा काली स्वप्नेऽपि परमेश्वरम् | र्चयत्येव परमं सदा चिन्तनतत्परा || ४७ || ग्रं गता यदा काली प्रध्यायति महेश्वरम् | अदा तद् वेदभूतेशस्तां निसर्गपरिस्थिताम्) || ४८ || किन्तु गर्भगतैर्बीजैर्धूतदेहेति तां तदा | नाग्रहीद्गिरिशः कालीं भार्यार्थे ह्यधृतव्रताम् || ४९ || महादेवोऽपि तां दृष्ट्वा तदैवेदमचिन्तयत् | कथमेषा तपश्चर्याव्रतं कुर्याद् गिरेः सुता || ५० || कृतव्रतां ग्रहीष्यामि गर्भबीजविवर्जिताम् | कालीं भार्या स्वदयितां योनिजामतिदूषिताम् || ५१ || व्रतेन चाथ संस्कारैर्गर्भबीजं विमुच्यते | तस्माद् व्रतं यथा काली कुर्यात् तद् युज्यते कथम् || ५२ || इति संचिन्त्य भूतेशस्तदा ध्यानमनाः स्थितः | ध्यानासक्तस्य तस्याथ नान्यचिन्ता व्यजायत || ५३ || काली त्वनुदिनं शम्भुं भक्त्या भृशमसेवत | विचिन्तयन्ती सततं तस्य रूपं महात्मनः || ५४ || हरो ध्यानपरः कालीं नित्यं प्रत्यक्षतः स्थिताम् | विस्मृत्य पूर्ववृत्तान्तं पश्यन्नपि न पश्यति || ५५ || एतस्मिन्नन्तरे देवांस्तारको नाम दैत्यराट् | ववाधे सर्वलोकांश्च ब्रह्मणो वरदर्पितः || ५६ || वशीकृत्य स लोकांस्त्रीन् स्वयमिन्द्रो बभूव ह | विद्राव्य सकलान् देवान् दैत्यान् स्वांस्तत्पदेषु च | स्वयं नियोजयामस देवयोनिष् चाप्यसौ || ५७ || न यमः स्वेच्छया लोकांस्तस्मिन् राज्ञि नियच्छति | न स्वेच्छया तथा सुर्यो लोकांस्तपति तद्भयात् || ५८ || चन्द्रस्तु नर्मसाचिव्यं तस्य कुर्वन् स रश्मिभिः | वायुना सह संगम्य तत्सेवां विदधेऽनिशम् || ५९ || सदा सौगन्ध्यगाम्भीर्यशैत्यस्निग्धत्वसंयुतः | तं बीजयन् ववौ वायुः शासनात्तस्य भूभृतः || ६० || धनदोऽपि यथासारं धनमादाय यत्नतः | सावधानस्तस्य सेवामकरोत्तारकेच्छया || ६१ || अग्निस्तस्याभवत् सूदः शासनात्तारकस्य तु | व्यञ्जनान्यथ भोज्यानि चक्रे तस्येच्छया तदा || ६२ || निर्-ऋतिस्तस्य सततं सहितः सर्वराक्षसैः | अश्वान् गजान् वाहनानि कारयामास साध्वसात् || ६३ || नृत्यद्भिरप्सरोभिश्च स्तुवद्भिः सूतमागधैः | गायमानैश्च गन्धर्वैः संचिक्रीड सुरान् द्विषन् || ६४ || एवं स सर्वलोकांस्तु त्रिष्वप्यथ विलोडयन् | लोकेषु सारान् सारांश्च देवानामप्यथाग्रहीत् || ६५ || तेनाभिबाधिताः सर्वे देवाः शक्रपुरोगमाः | ब्रह्माणं शरणं जग्मुरनाथा नाथमुत्तमम् || ६६ || ते प्रणम्य सुराः सर्वे पुरुहूतपुरोगमाः | इदमूचुर्महात्मानं सर्वलोकपितामहम् || ६७ || देवा ऊचुः लोकेश तारको दैत्यो वरेण तव दर्पितः | निरस्यास्मान् हठादस्मद्विषयान् स्वयमग्रहीत् || ६८ || रात्रिंदिवं बाधतेऽस्मान् यत्र तत्र स्थिता वयम् | पलायिताश्च पश्यामः सर्वकाष्ठासु तारकम् || ६९ || अग्निर्यमोऽथ वरुणो निर्-ऋतिर्वायुरेव च | तथा मनुष्यधर्मा च सर्वैः अरिकरैर्युतः || ७० || एते तेनार्दिता ब्रह्मन् देवास्तस्यैव शासनात् | अनिच्छाकार्यनिरताः सर्वे तस्यानुजीविनः || ७१ || या देववनिताः स्वर्गे ये चाप्यप्सरसां गणाः | तान् सर्वानग्रहीद् दैत्यः सारं लोकेषु यच्च यत् || ७१ || न यज्ञाः संप्रवर्तन्ते न तपस्यन्ति तापसाः | दानधर्मादिकं किंचिद् न लोकेषु प्रवर्तते || ७३ || तस्य सेनापतिः पापः क्रौञ्चो नामास्ति दानवः | स पातालतलं गत्वा बाधतेऽहर्निशं प्रजाः || ७४ || तस्मात् तु तारकेणेडं सकलं भुवनत्रयम् | हृतं सर्वं जगत् त्राहि पापात्तस्मात् पितामह || ७५ || वयं च यत्र स्थास्यामस्तत्स्थानं विनिदेशय | स्वस्थानाच्च्यावितास्तेन लोकनाथ जगद्गुरो || ७६ || त्वं नो गतिश्च शास्त्रा च त्वं नस्त्राता पिता प्रसूः | त्वमेव भुवनानां च स्थापकः पालकः कृती || ७७ || तस्माद् यावत्तारकाख्ये वह्नौ दग्धाः प्रजापते | न भवाअस्तथा कर्तुं भवता युज्यतेऽधुना || ७८ || मार्कण्डेय उवाच सुराणां वचनं श्रुत्वा ब्रह्मलोकपितामहः | प्रत्युवाच सुरान् सर्वांस्तत्कालसदृशं वचः || ७९ || ब्रह्मोवाच ममैव वरदानेन तारकाख्यः समेधितः | न मत्तस्तस्य मरणं युज्यते त्रिदिवौकसः || ८० || युष्माकञ्च प्रतीकारः कर्तव्यः प्रतिकर्मणि | किन्तु सम्यक् न शक्नोमि प्रतिकर्तुं प्रचोदितः || ८१ || तस्माद् यथा तारकाख्यः स्वयमेष्यति संक्षयम् | तथा यूयं संविदध्वमुपदेशकरस्त्वहम् || ८२ || न मया तारको वध्यो न तथा वनमालिना | न हरेण तथा वध्यो नान्यैरपि सुरैर्नरैः || ८३ || एष एव वरो दत्तो मया तस्मै तपस्यते | उपायश्चिन्तितश्चास्ति तत्कुर्वन्तु सुरोत्तमाः || ८४ || सती दाक्षायणी पूर्वं त्यक्तदेहा स्वजन्मने | अगच्छन्मेनकां देवीं शैलराजस्य योषितम् || ८५ || तां समुत्पादयामास मेनकाजठरे गिरिः | लक्ष्मीमिव् पुरा ख्यातां भृगुः स्वतनयो मम || ८६ || तामवश्यं महादेवः कुर्यात् पाणिगृहीत्रिकाम् | यथा स नचिरात्तस्यामनुरक्तो भवेत् सुराः || ८७ || तथा विदध्वं सुतरां तत्तेजः प्रतिकर्तु वः | तमूर्ध्वरेतसं शम्भुं सैव प्रच्युतरेतसम् || ८८ || कर्तुं समर्था नान्यास्ति काचिदप्यबलाऽपरा | तस्य तेजश्च्युतं यच्च तस्माद् यो जायते सुतः || ८९ || स एव तारकाख्यस्य हन्ता नान्यस्तु विद्यते | सा सुता गिरिराजस्य साम्प्रतं रूढयौवना || ९० || तपस्यन्तं गिरिप्रस्थे नित्यं पर्येषते हरम् | वाक्याद् हिमवतः सा तु काली नाम्ना निषेवते | सखिभ्यां सह सर्वज्ञं ध्यानस्थं परमेश्वरम् || ९१ || तामग्रतो वर्तमानां त्रिलोकवरवर्णिनीम् | ध्यानासक्तो महादेवो मनसापि न चेच्छति || ९२ || यथा समीहते भार्यां कालीं च चन्दशेखरः | तथा कुरुध्वं त्रिदशा नचिरादेव यत्नतः || ९३ || स्वस्थानं भवतां स्वर्गस्तस्मात् तारकमप्यहम् | निवर्तयिष्ये संगम्य गच्छध्वं विगतज्वराः || ९४ || मार्कण्डेय उवाच इत्युक्त्वा सर्वलोकेशस्तारकाख्यमुपस्थितः | उपसंगम्य वचनं समाभाष्येदमब्रवीत् || ९५ || ब्रह्मोवाच भो भो तारक मा स्वर्गराज्यं त्वं परिशाधि भोः | तदर्थं न तपस्तप्तं समये भवता पुरा || ९६ || वरो नापि मया दत्तो न मया स्वर्गराजता | तस्मात् स्वर्गं परित्यज्य क्षितौ राज्यं समाचर || ९७ || देवभोग्यानि तत्रैव सम्भविष्यन्ति तेऽसुर | मार्कण्डेय उवाच इत्युक्त्वा सर्वलोकेशस्तत्रैवान्तरधीयत || ९८ || स तारकः परित्यज्य स्वर्गं क्षितिमथाभ्ययात् | तत्रैव संस्थितो देवान् बाधते स्म स नित्यशः | इन्द्रं करप्रदं चक्रे निदेशस्थं महाबलम् || ९९ || तमिन्द्रः सततं देवभोग्यानि वितरन् मुहुः | सेवमानः क्षमो नाभूत् सन्तोषयितुमीश्वरम् || १०० || एवं तेनार्दिता देवा मन्युना परिपीडिताः | विधातुरुपदेशेन यत्नं चक्रुर्हरान्वये || १०१ || तत इन्द्रोऽथ गुरुणा संगम्य कृतनिश्चयः | कुसुमेषुं समाहूय वचनं चेदमब्रवीत् || १०२ || इन्द्र उवाच त्वयेदं पाल्यते विश्वं त्वया विश्वं प्रसूयते | त्वं ब्रह्मविष्णुरुद्राणां प्रीतिहेतुः पुरा भवः || १०३ || ब्रह्मा प्रीत्या यथा पूर्वमगृह्णाच्चरितव्रताम् | सावित्रीं माधवो लक्षमीं सतीं दाक्षायणीं हरः || १०४ || ताः प्रीतये पुरा तेषां देवेशानां यथा कृता | तथैव कुरु मे प्रीतिं काम प्राणभृतां सदा || १०५ || न त्वं न कस्यचित् स्वर्गे पाताले वाथ भूतले | प्रियः प्राणभृतां काम सततं जगतां मतः || १०६ || देवदानवयक्षाणां रक्षसां मानुषस्य च | त्वं पालकश्च कर्ता च हृदये च प्रवर्तसे || १०७ || तस्मात् त्वं सर्वजगतां हिताय कुरु चेष्टितम् | देवदानवयक्षाणां मानुषाणां महात्मनाम् || १०८ || मार्कण्डेय उवाच एतच्छ्रुत्वा वचस्तस्य शक्रस्य मकरध्वजः | देवराजमुवाचेदं सुप्रीतस्तद्वचोऽमृतैः || १०९ || मदन उवाच यत्राहमीशिता शक्र तत्कर्म विदितं त्वया | तस्मान्ममोचितं शक्यं करिष्ये तन्निदेशय || १०० || पञ्चैव बाणा मृदवस्ते च पुष्पमया मम | चापस्तथा पुष्पमयः शिञ्जिनी भ्रमरात्मिका || १११ || रतिर्मे दयिता जाया वसन्तः सचिवो मम | यन्ता मलयजो वायुर्मित्रं मम सुधानिधिः || ११२ || सेनाधिपो मे शृङ्गारो हावा भावाश्च सैनिकाः | सर्वे मे मृदवोऽक्रूरा अहं चापि तथाविधः || ११३ || यद् येन युज्यते कार्यं धीमांस्तत्तेन योजयेत् | मम योग्यं तु यत् कर्म तस्मात्तस्मिन् नियोजय || ११४ || इन्द्र उवाच यत् कारयितुमिच्छामि भवता तन्मनोभव | तत्ते समुचितं कर्म तस्मिन् परिवृतो भवान् || ११५ || कृतकर्मापि तत्र त्वं कृती चापि मनोभव | त्वदन्यैः किन्तु दुःसाध्यं तत्त्वां तत्र नियोजये || ११६ || श्रूयते हि तपस्यन्तं ध्यानस्थं वृषभध्वजम् | गिरेर्हिमवतः प्रस्थे निराकांक्षं वधूकृतौ || ११६ || तं पितुर्वचनात् काली तपस्यन्तं निषेवते | सखिभ्यां सहिता नित्यं हरस्यानुमतेऽधुना || ११७ || आरूढयौवनां तां तु स्त्रीरत्नमपि सुन्दरीम् | ध्यानासक्तो महादेवो नेहते मनसापि च || ११८ || सानुरागो यथा तस्यां जायते वृषभध्वज | तथा विधत्स्व देवानां हिताय जगतामपि || ११९ || सह सत्या यथा रेमे सानुरागो वृषध्वजः | अथैतया गिरिजया रमतां तत्कृतेन वै) || १२० || तस्याः कृते तु यत्तेजः प्रच्युतं यद् हरस्य वै | ततो यो जायते सोऽस्मांस्तारकादुद्धरिष्यति || १२१ || मार्कण्डेय उवाच ततः स देवराजस्य वचः श्रुत्वा मनोभवः | प्राप्तकालं च सस्मार शाप ब्रह्मकृतं पुरा || १२२ || सन्ध्यां प्रतिविधातारं यदा शस्त्रं परीक्षितम् | कामोऽहनत् पुष्पबाणैस्तदा तमशपद्विधिः || १२३ || शम्भुनेत्राग्निदग्धस्त्वं भविष्यसि द्विजोत्तमाः | यदा कुर्याद् गिरिसुतां हरः पाणिगृहीतिकाम् || १२४ || तदा भवान् शरीरेणागमिष्यति समग्रताम् | इति स्मृत्वा विधेः शापं भीतोऽपि मकरध्वजः || १२५ || अङ्गीचक्रे शक्रवाक्यात् काल्या योजयितुं हरम् | इदं च वचनं प्रोचे तत्कालसदृशं पुनः || १२६ || मदन उवाच करिष्ये तद्वचः शक्र हरं संगमयाम्यहम् | काल्या गिरिजया सार्धं दाक्षायण्या यथा पुरा || १२७ || किन्त्वेकं मम साहाययं कर्ता त्वं हरमोहने | यदा सन्मोहनेनाहं हरं सन्मोहयामि च || १२८ || तदा कुरु सहायं त्वं स्वःस्थमाप्याययस्व माम् | प्रविश्याहं सुरभिणा न चिराच्छंकराश्रमम् || १२९ || विधाय पूर्वं मनसो विकारं हर्षणेन तु | संमोहनेन सुदृढं मोहयिष्ये वृषध्वजम् || १३० || स्मरिष्यसि त्वं सम्प्राप्ते काले मां मम पालने | अहं गच्छामि सहितं तत्कर्तुं बलसूदन || १३१ || मार्कण्डेय उवाच इत्युक्त्वा स जगामाथ मदनः शंकराश्रमम् | शक्रोऽपि त्रिदशान् सर्वानिदमाह वचस्तदा || १३२ || यूयं कुरुध्वं साहाययं यत्र याति मनोभवः | तत्र तत्रानुगयैव समये मां च बोधत || १३३ || यदा संमोहनेनायं संमोहयति शंकरम् | तदाहमपि यास्यामि तत्र बोधत मां सुराः || १३४ || इत्युक्तास्तेन शक्रेण देवा जग्मुर्मनोभवम् | सोऽपि गत्वा यत्र हरो गङ्गावतरणे गिरेः | हिमभारभृतः सानौ सुरभिं च न्ययोजयत् || १३५ || ततस्तत्र गते सम्यक्सुरभौ तस्य लक्षणम् | अभवन्नचिरादेव तरुगुल्मलतासु च || १३६ || पुष्पिताः किंशुकास्तत्र मञ्जुलाः केतकास्तथा | सरांसि च सप्द्मानि सविकाराश्च जन्तवः || १३७ || ववौ वायुश्च गम्भीरो गन्धिलः पुष्परेणुभिः | शनैः शनैः सुखकरः कर्षयन् स हि काननम् || १३८ || पक्षिणश्च मृगाश्चैव ये चान्ये प्राणधारिणः | सिद्धाश्च किन्नराश्चैव द्वन्द्वभावं वितेनिरे || १३९ || चूताः कुसुमितास्तत्र नवस्तबकभूषिताः | अशोकाः पाटलाश्चैव नागकेशरकारुणाः || १४० || सविकारा गणाश्चासन् शंकरस्य तदा द्विजाः | प्रत्यक्षतों ययुस्तेऽपि विकारं शम्भुसाध्वसात् || १४१ || भ्रमन्ति स्म तदा तत्र भ्रमराः कुसुमोद्भवम् | पिबन्तो बहुशश्च्युतं गुञ्जन्तः सह जायया || १४२ || एवं प्रवृत्ते सुरभौ शृङ्गारोऽपि गणैः सह | हावभावयुतस्तत्र प्रविवेश हरान्तिकम् || १४३ || मदनः सगणस्तत्र निवसंश्चिरमेव हि | न दृष्टवांस्तदा शम्भोश्छिद्रं येन प्रवेक्ष्यति || १४४ || यदा च प्राप्तविवरस्तदा भयविमोहितः | नाग्रेसरोऽभवत् तस्य मदनो रतिवारितः || १४५ || एवं यातस्तस्य कालः प्रभूतो द्विजसत्तमाः | निरूपयन् न वा चाप छिद्रं तस्य यतेस्तदा || १४६ || ज्वलत्कालाग्निसंकाशं भानुलक्षसमप्रभम् | ध्यानस्थं शंकरं को वा समासादयितुं क्षमः || १४७ || अथैकदा गिरिसुता काली तस्याभवत्पुरः | कृत्वा परीष्टिं कर्तव्या सखिभ्यां प्रणता स्थिता || ३४८ || शंकरोऽपि तदा ध्यानं त्यक्त्वा तत् क्षणमास्थितः | योजयन् स्वगणान् कृत्ये ज्योतिश्चिन्ताविवर्जितः || १४९ || तच्छिद्रं प्राप्य मदनः प्रथमं हर्षणेन तु | बाणेन हर्षयामास पार्श्वस्थं चन्द्रशेखरम् || १५० || शृङ्गारश्च तदा भावैर्हावैश्च सहितो हरम् | जगाम कामसाहाययं कुर्वन् सुरभिणा सह || १५१ || हर्षणेनातिहृषितः शृङ्गाराद्यैर्निषेवितः | शंकरो वदनं काल्याः साकूतं संव्यलोकयत् || १५२ || तत् प्राप्य विवरं कामः पुष्पं चापे न्ययोजयत् | संमोहनं पुष्पवृतं पुष्पमालाविवर्धितम् || १५३ || तदाभूद् दक्षिणे पार्श्वे रतिः प्रीतिस्तु वामतः | पृष्ठे वसन्तस्तूणीरं पौष्पमादाय सुन्दरः || १५४ || आकर्णपूरितं पुष्पं चापमाकृष्य संयतः | यदा मनोभवो वायुस्तदा तं समुपेयिवान् || १५५ || एवं प्रवृत्ते सुरभौ शृङ्गारोऽपि गणैः सह | हावभावयुतस्तत्र प्रविवेश हरान्तिकम् || १४३ || मदनः सगणस्तत्र निवसंश्चिरमेव हि | न दृष्टवांस्तदा शम्भोश्छिद्रं येन प्रवेक्ष्यति || १४४ || यदा च प्राप्तविवरस्तदा भयविमोहितः | नाग्रेसरोऽभवत् तस्य मदनो रतिवारितः || १४५ || एवं यातस्तस्य कालः प्रभूतो द्विजसत्तमाः | निरूपयन् न वा चाप छिद्रं तस्य यतेस्तदा || १४६ || ज्वलत्कालाग्निसंकाशं भानुलक्षसमप्रभम् | ध्यानस्थं शंकरं को वा समासादयितुं क्षमः || १४७ || अथैकदा गिरिसुता काली तस्याभवत्पुरः | कृत्वा परीष्टिं कर्तव्या सखिभ्यां प्रणता स्थिता || ३४८ || शंकरोऽपि तदा ध्यानं त्यक्त्वा तत् क्षणमास्थितः | योजयन् स्वगणान् कृत्ये ज्योतिश्चिन्ताविवर्जितः || १४९ || तच्छिद्रं प्राप्य मदनः प्रथमं हर्षणेन तु | बाणेन हर्षयामास पार्श्वस्थं चन्द्रशेखरम् || १५० || शृङ्गारश्च तदा भावैर्हावैश्च सहितो हरम् | जगाम कामसाहाययं कुर्वन् सुरभिणा सह || १५१ || हर्षणेनातिहृषितः शृङ्गाराद्यैर्निषेवितः | शंकरो वदनं काल्याः साकूतं संव्यलोकयत् || १५२ || तत् प्राप्य विवरं कामः पुष्पं चापे न्ययोजयत् | संमोहनं पुष्पवृतं पुष्पमालाविवर्धितम् || १५३ || तदाभूद् दक्षिणे पार्श्वे रतिः प्रीतिस्तु वामतः | पृष्ठे वसन्तस्तूणीरं पौष्पमादाय सुन्दरः || १५४ || आकर्णपूरितं पुष्पं चापमाकृष्य संयतः | यदा मनोभवो वायुस्तदा तं समुपेयिवान् || १५५ || संहिते पुष्पबाणे तु गिरिजां चन्द्रशेखरः | जातेन्द्रियविकारः सन् जिघृक्षुः संगमेऽभवत् || १५६ || अमराः शक्रसहितास्तदा सर्वे वियद्गताः | सभ्यं मनोभवं मेने सुरकृत्ये निवेशितभ् || १५७ || अथ संस्मृत्य संयम्य निगृह्य विकृतिं तदा | इन्द्रियस्य महादेवः सहसेदं व्यचिन्तयत् || १५८ || योनिजां गिरिजां कालीं तपोव्रतविवर्जिताम् | कथं संगमकामोऽहं धर्तुमिच्छामि वै हठात् || १५९ || तपोव्रतपवित्राङ्गों तपश्चरणसत्कृताम् | स्वयमेव ग्रहीष्यामि सतीं दाक्षायणीमिव || १६० || कथं विकृतकामोऽहमनिच्छन्निव साम्प्रतम् | केनापि चाकृष्ट इव चिकीर्षुः संगमोद्भवम् || १६१ || एवं विकारहेतुं स निश्चिन्वन्निन्द्रियस्य तु | पुरोऽवलोकयामास संहितेषुं मनोभवम् || १६२ || एतस्मिन्नन्तरे ब्रह्मा विज्ञातसमयः सुरान् | दृष्ट्वा स्थानादाजगाम तत्समाजमनुग्रहात् || १६३ || ततः स कुपितो दृष्ट्वा सन्धितेषुं मनोभवम् | जज्वाल ज्वलनप्रख्यस्तं दिधक्षुः प्रसह्य तु || १६४ || कामोऽयं समयं ज्ञात्वा मां मोहयितुमिच्छति | मनो मे स्ववशं कर्तुं तन्नयामि यमक्षयम् || १६५ || एवं विचिन्त्यमानस्य नेत्रोद्भाविततेजसा | वर्धतो ज्वलनो भूत्वा क्रोधं नेत्रात् ससर्ज ह || १६६ || तं क्रोधान्निःसरिष्यन्तं जातवेदःस्वरूपिणम् | ज्ञात्वा कामस्य तान् बाणान् पौष्पचापनिषण्णकान् || १६७ || शक्तिं प्राणांस्तथात्मानमाकृष्यापालयद्विधिः | उत्सारयामास तदा वसन्तं स पितामहः || १६८ || निजशक्त्या तदा शम्भुक्रोधाद्रक्षन्मनोभवम् | अथाकाशगता देवाः क्रुद्धं दृष्ट्वा महेश्वरम् || १६९ || प्रसीद जगतां नाथ कामे क्रोधं परित्यज | त्वया यथा पुरा सृष्टः शम्भुरूपेण कर्मणा || १७० || येन चायोजितं कर्म तत्करोति मनोभवः | तस्मात् त्वं मदने शम्भो क्रोधाग्निमुपसंहर || १७१ || प्रसीद सर्वभूतेश भक्तया त्वां प्रणता वयम् | इति स्म वदतां तेषाममराणां तदानलः || १७२ || ललाटचक्स्.उःसम्भूतो भस्माकार्षीन्मनोभवम् | दग्ध्वा कामं तदा वह्निर्ज्वालामालातिदीपितः || १७३ || संस्तम्भितोऽथ विधिना हरं गन्तुं शशाक न | महादेवोऽपि तद्भस्म मनोभवशरीरजम् || १७४ || आदाय सर्वगात्रेषु भूतिलेपं तदाकरोत् | लेपशेषाणि भस्मानि समादाय तदा हरः || १७५ || सगणोऽन्तर्दधे कालीं विहाय विधिसम्मते | ब्रह्मा क्रोधानलं शम्भोर्दहन्तं सकलान् सुरान् || १७६ || वडवारूपिणं चक्रे देवानां पुरतस्तदा | वडवां तां तदा देवाः सौम्यां ज्वालामुखीं शुभाम् || १७७ || दृष्ट्वा निर्विघ्नमनसो बभुवुः पूर्वपीडिताः | वडवां तां समादाय तदा ज्वालामुखीं विधिः || १७८ || सागरं प्रययौ लोकहिताय जगतांपतिः | गत्वाथ सागरं ब्रह्मा प्रोवाच परिपूजितः || १७९ || यथावत्तेन विप्रेन्द्राः समयं च निवेदयन् | अयं क्रोधो महेशस्य वडवारूपधृक् त्वया || १८० || ज्वालामुखः सदा धार्यो यावन्न विनयाम्यहम् | यदा त्वामहमागम्य वदामि सरितां पते || १८१ || तदा त्वया परित्याज्यः क्रोधोऽयं वडवामुखः | भोजनं भवतस्तोयमेतस्य तु भविष्यति || १८२ || यत्नादेवं विधार्योऽयं यथा नो याति चान्तरम् | इत्युक्तो ब्रह्मणा सिन्धुरङ्गीचक्रे तदा क्रुधम् || १८३ || ग्रहीतुं वडवावक्त्रे शम्भोश्चाशक्यमप्यरम् | ततः प्रविष्टो जलधौ पावको वडवामुखः || १८४ || वार्योधान्निदहन् सम्यग् ज्वालामालातिदीपितः | अदाभवच्छम्भुनेत्राद् ददाह मदनं तदा || १८५ || अभवत् सुमहाशब्दो येनाकाशः प्रपूरितः | तेन शब्देन महता कामदाहे क्षणेन च || १८६ || सखीभ्यां सह भीताभूत् काली शोकयुता तदा | तेन शब्देन हिमवांश्चकितो विस्मितस्तदा || १८७ || सुतामेव जगामाशु गतां कालीं हराश्रमम् | तां तत्र कालीं तनयां भयशोकाकुलां शुभाम् | रुदन्तीं शम्भुविरहादाससादाचलेश्वरः || १८८ || आसाद्य पाणिना तस्या मार्जयन्नयनद्वयम् | मा भैषीः कालि मा रोदीरित्युक्त्वा तां तदाग्रहीत् || १८९ || क्रोडीकृत्य सुतां तां तु हिमवान्नचलेश्वरः | स्वमालयमथानिन्ये सान्त्वयामास चार्दिताम् || १९० || अन्तर्हिते हरे काली विरहात् तस्य संततम् | निवसन्ती पितुर्गेहे शुशोच च मुमोह च || १९१ || शैलाधिराजोऽप्यथ मेनकाऽपि मैनाकमुख्योऽपि सखीद्वयं च | तां सान्त्वयांचक्रुरदीनसत्त्वां हरं विसस्मार तथापि नोमा || १९२ || इति श्रीकालिकापुराणे द्विचत्वारिंशोऽध्यायः || ४२ || त्रिचत्वारिंशोऽध्यायः मार्कण्डेय उवाच अथ देवमुनिर्यातो हिमवन्मन्दिरं तदा | नियोजितो बलभिदा नारदः कामगः परम् || १ || सः गतः पूजितस्तेन धरेशेन महात्मना | तं समुत्सुज्य रहसि कालीं तामससाद ह || २ || आसाद्य काली स मुनिः सम्बोध्य ज्ञानशालिनीम् | उवाचेदं वचस्तथ्यं सर्वेषां जगतां हितम् || ३ || नारद उवाच शृणु कालि वचो मह्यं सत्यं तदवधारय | सेवितः स महादेवस्त्वयेह तपसा विना || ४ || अनुरक्तोऽपि तेन त्वां महादेवो विसृष्टवान् | त्वामृते शंकरो नान्यां द्वितीयां संग्रहीष्यति || ५ || त्वं चापि नान्यं दयितं ग्रहीष्यसि विनेश्वरम् | तस्मात् त्वं तपसा युक्ता चिरमाराधयेश्वरम् || ६ || तपसा संस्कृतां त्वां तु स द्वितीयां करिष्यति | मन्त्रोऽयं तस्य सुभगे शृणु त्वं येन सोऽचिरात् || ७ || आराधितस्ते प्रत्यक्षो भविष्यति महेश्वरः | ओं नमः शिवायेति च सर्वदा शंकरप्रियः || ८ || चिन्तयन्ती तु तद्रूपं नियमस्था षडक्षरम् | मन्त्रं जप त्वं गिरिजे तेन तुष्टो भवेद्धरः || ९ || एवमुक्ता तदा काली नारदेन महात्मना | कर्तव्यमनुमेने सा हितं तथ्यञ्च तद्वचः || १० || अनुमान्य तपस्तप्तुं तदा कालीञ्च नारदः | स्वर्गं जगाम तस्याश्च निश्चिताऽभून्मतिर्व्रते || ११ || अथ याते देवमुनौ काली सासाद्य मेनकाम् | तपःश्रद्धां समाचख्ये चात्मनो हरसंगमे || १२ || काल्युवाच तपस्तप्तुं गमिष्यामि मातः प्राप्तुं महेश्वरम् | अनुजानीहि मां गन्तुं तपसेऽद्य तपोवनम् || १३ || तपःकरणयत्नं मे पितुरावेदय द्रुतम् | यावन्न दह्ये जननि भूतेशविरहाग्निना || १४ || मार्कण्डेय उवाच इति तस्या वचः श्रुत्वा मेनका शोककर्शिता | आलिङ्ग्य स्वसुतामूचे मा तपः कुरु वल्लभे || १५ || मृदुदेहासि पुत्रि त्वं मा तपो याहि कर्कशम् | तपः सोढुं मुनेर्गात्रं शक्तं ते न कलेवेअरम् || १६ || वनवासश्च ते पुत्रि नेष्टः शत्रुगणैरपि | तस्मात् त्वं सम्परित्यज्य वनवासोद्भवं तपः | आत्मनो ह्यनुरूपेण तपस्तत् करु यद्धितम् || १७ || मातुः सा वचनं श्रुत्वा गिरिजा दीनमानसा | इत्यूचे च तदा वाक्यं तपोयत्नपरा प्रसूम् || १८ || काल्युवाच मा निषेधय मां यास्ये तपसेऽद्य तपोवनम् | प्रच्छन्नमपि यास्यामि नानुज्ञाताप्यहं त्वया || १९ || मेनकोवाच गृहेषु देवाः सततं ब्रह्मविष्णुशिवादयः | तस्माद् गृहे पुत्रि देवानर्चय त्वं यथेप्सितान् || २० || स्त्रीणां तपोवनगतिर्न श्रुता स्वामिना विना | तस्मान्न युज्यते पुत्रि तपोयात्रा वनं प्रति || २१ || मार्कण्डेय उवाच यतो निरस्ता तपसे वनं गन्तुं च मेनया | उमेति तेन सोमेति नाम प्राप तदा सती || २२ || अवज्ञाय तदा मातुर्वचनं हिमवत्सुता | सखीभ्यां ज्ञापयामास पितरं तपसोद्यमम् || २३ || स तु ज्ञात्वा गिरिपतिस्तपसे चरितोद्यमम् | दुहितुश्चानुमेने च नातिहृष्टमना इव || २४ || सानुज्ञाप्य तदा तातं यत्र दग्धो मनोभवः | शम्भुना प्रययौ तत्र गङ्गावतरणं प्रति || २५ || गङ्गावतरणं नाप प्रस्थो हिमवतः स च | हरशून्योऽथ ददृशे काल्या तच्चिन्तया तदा || २६ || यत्र स्थित्वा पुरा शम्भुर्ध्यानवानभवद् भृशम् | तत्र क्षणं तु सा स्थित्वा बभूव विरहार्दिता || २७ || हा हरेति क्षणं तत्र रोदमाना गिरेः सुता | विललापातिदुःखार्ता चिन्ताशोकसमन्विता || २८ || क्षणं विलप्य सा काली स्मृत्वा पूर्वोद्भवं तदा | हार्दं हरस्य सा मोहमवाप कमलेक्षणा || २९ || ततश्चिरेण सा मोहं धैर्यात् संस्तभ्य भामिनी | नियमायाभवत्तत्र दीक्षिता हिमवत्सुता || ३० || प्रथमं नियमस्तस्या बभूव फलभोजनम् | चर्या पञ्चातपा चिन्ता शाम्भवी शाम्भवो जपः || ३१ || यज्ञियैर्दारुभिः शुष्कैश्चतुर्दिक्षु चतुष्कृतम् | वह्निसंस्थापनं ग्रीष्मे तीव्रांशुस्तत्र पञ्चमः || ३२ || हस्तान्तरे चतुर्वह्नीन् कृत्वा वैश्वानरेष्टिना | तन्मध्यस्था सूर्यबिम्बं वीक्षन्ती वल्कलांशुका || ३३ || ग्रीष्मं निन्ये वह्निमध्ये शिशिरे तोयवासिनी | प्रथमं फलभोगेन द्वितीयं तोयभोजनम् || ३४ || तृतीयं तु स्वयम्पाति-वृक्षपल्लव-भोजनम् | क्रमेण तु तदा पर्णं निरस्य हिमवत्सुता || ३५ || निराहारव्रता भूत्वा तपश्चरणखिन्निका | आहारे त्यक्तपर्णाभूद्यस्माद्धिमवतः सुता || ३६ || तेन देवैरपर्णेति कथिता पृथिवीतले | पञ्चातपव्रतेनैव तोयानाञ्च प्रवेशनैः || ३७ || एकपादस्थिता स तु वसन्ते हिमवत्सुता | षडक्षरं जपन्ती सा चिरं तेपे तपो महत् || ३८ || चीरबल्कलसंवीता जटासंघातधारिणी | कृशाङ्गी चिन्तने शक्ता जिगाय तपसा मुनीन् || ३९ || तां तपश्चरणे शक्तां ररक्ष शंकरः स्वयम् | आप्यायति स्म स तदा भयाद्रक्षति हर्षितः || ४० || एवं तस्यास्तपस्यन्त्याश्चिन्तयन्त्या महेश्वरम् | त्रीणि वर्षसहस्राणि जग्मुः काल्यास्तपोवने || ४१ || षट्त्रिवर्षसहस्राणि संस्कृता वीक्षणात् स्वयम् | दैवेन विधिना देवी हरयोग्या तथाभवत् || ४२ || षट्त्रिवर्षसहस्रान्त्रे यत्र तेपे तपो हरः | तत्र क्षणमथोषित्वा चिन्तयामास भामिनी || ४३ || काल्युवाच नियमस्थां महादेवः किं मां जानाति नाधुना | येनाहं सुचिरं तेन नानुज्ञाता तपोरता || ४४ || लोके नास्त्यत्र गिरिशः किं तत्र मुनिभिः स्तुतः | सर्वज्ञः सर्वगो देवो हरो देवैर्निगद्यते || ४५ || स सर्वगस्तु सर्वज्ञः सर्वात्मा सर्वहृद्गतः | सर्वभूतिप्रदो देवः सर्वभावनभावनः || ४६ || सती च मेनका माता यदि चाहं वृषध्वजे | सानुरक्ता न चान्यस्मिन् स प्रसीदतु शंकरः || ४७ || यदि नारदवक्त्रोत्थो मन्त्रोऽयं स्यात्षडक्षरः | यदि भक्त्या मया जप्तं हरस्तेन प्रसीदतु || ४८ || सत्यं यदि तपस्तप्तं सत्यं चाराधितो हरः | सत्यं भवेद् यदि तपो हरस्तेन प्रसीदतु || ४९ || मार्कण्डेय उवाच एवं विचिन्तयन्ती सा यदातिष्ठद्धराश्रमे | अधोमुखी दीनवेशा जटाबल्कलमण्डिता || ५० || तदैव ब्राह्मणः कश्चिद् ब्रह्मचारी धृतव्रतः | कृष्णाजिनोत्तरीयेण धृतदण्डकमण्डलुः || ५१ || ब्राह्म्या श्रिया दीप्यमानः स्वर्णगौरः सुशोभनः | जटाभिः परिवीताभिरुद्रिक्तस्तनुदेहभृत् || ५२ || उपस्थितस्तदा कालीं शम्भुर्ब्राह्मणरूपधृक् | आसाद्य प्रथमं कालीं समाभाष्य तदा द्विजः || ५३ || ज्ञातुं प्रत्यक्षतो रागं श्रीतुमिच्छंश्च तद्वचः | वाग्मी विचित्रवाक्येन पप्रच्छ गिरिजां तदा || ५४ || ब्राह्मण उवाच का त्वं कस्यासि कल्याणि किमर्थं विजने वने | तपश्चरसि दुर्धर्षं मुनिभिः प्रयतात्मभिः || ५५ || न बाला त्वं नापि वृद्धा तरुणी चातिशोभना | कथं पतिं विनाभीक्ष्णं तपश्चरसि साम्प्रतम् || ५६ || किंवा तपस्विनी भद्रे कस्यचित् सहचारिणी | तपस्विनः स पुष्पादि समाहर्तुं गतोऽन्यतः || ५७ || एतन्मम समाचक्ष्व यदि गुह्यं भवेन्न ते | यदि ते हृदये मन्युः कच्चिद्वसति सम्प्रति | तदाचक्ष्व समर्थोऽस्मि तमहं चापि वारितुम् || ५८ || इत्युक्ता तेन विप्रेण गिरिजाऽथ निजां सखीम् | तस्योत्तरप्रदानाय कटाक्षेण न्ययोजयत् || ५९ || सा सखी विजया तस्या वचनाद् ब्राह्मणं तदा | प्रोवाचेदं यथातथ्यं वीक्षन्ती गिरिजामुखम् || ६० || एतस्य गिरिराजस्य तनयेयं द्विजोत्तम | ख्याता च पार्वतीनाम्ना कालीति च सुशोभना || ६१ || ऊचे यन्न च केनापि शंकरं वृषभध्वजम् | वाञ्छन्ती दयितं तीव्रं तपश्चरति वै पतिम् || ६२ || त्रीणि वर्षसहस्राणि तपस्तपति भामिनी | न शंकरो गिरिसुतामद्याप्यभ्युपपद्यते || ६३ || शंकरों गिरिशो देवः सर्वगः परमेश्वरः | इति स्म गद्यते देवैर्मुनिभिश्च तपोधनैः || ६४ || किमेनां स न जानाति किं सानौ नास्ति वा गिरेः | इति चिन्ताविषण्णेयमद्य नो लभते सुखम् || ६५ || अप्रार्थितस्त्वमनया दयसे यदि वा सुखम् | तदैनां शंकरेणाद्य त्वं संगमय सुव्रत || ६६ || इति तस्या वचः श्रुत्वा ब्रह्मचारी तदा द्विजः | स्मयमान इदं वाक्यं हेलयोवाच पार्वतीम् || ६७ || ब्राह्मण उवाच अमोघदर्शनश्चास्मि हरं चानयितुं क्षमः | किन्त्वेकं निगदाम्यद्य निश्चितं मन्मतं शृणु || ६८ || जानाम्यहं महादेवं तं वदामि शृणुष्व मे | वृषध्वजो महादेवो भूतिलेपी जटाधरः || ६९ || व्याघ्रचर्मांशुकश्चैकः संवीतो गजकृत्तिना | कपालधारी सर्पौघैः सर्वगात्रेषु वेष्टितः || ७० || विषदग्धगलस्त्र्यक्षो विरूपाक्षो विभीषणः | अव्यक्तजन्मा सततं गृहभोग्यविवर्जितः || ७१ || ज्ञातिभिर्बान्धवैर्हीनो भक्ष्यभोज्यविवर्जितः | श्मशानवासी सततं तत्संगपरिवर्जितः || ७२ || गर्जद्भिर्विकटैस्तीक्ष्णैर्भूतौघैः परिवारितः | शृंगाररसहीनश्च भार्यापुत्रविवर्जितः || ७३ || केन वा कारणेन त्वं भर्तारं तं समीहसे | पूर्वं श्रुतं मया चैव तस्यापरमिदं कृतम् || ७४ || शृणु ते निगदाम्यद्य यदि ते गृह्ण रोचते | दक्षस्य दुहिता साध्वी सती वृषभवाहनम् || ७५ || वव्रे पतिं पुरा दैवात् सम्भोगपरिवर्जितम् | कपालिजायेति सती दक्षेण परिवर्जिता || ७६ || यज्ञभागप्रदानाय शम्भुश्चापि विवर्जितः | साथ तेनापमानेन भृशं शोकाकुला सती || ७७ || तत्याज स्वान् प्रियान् प्राणांस्तया त्यक्तश्च शंकरः | त्वं स्त्रीरत्नं तव पिता राजा निखिलभूभृताम् || ७८ || तथाविधं पतिं कस्मादुग्रेण तपसेहसे | देवेन्द्रो वा धनेशो वा पवनो वाप्यपांपतिः || ७९ || अग्निर्वाऽन्यः सुरो वापि स्वर्वैद्यावश्विनावपि | विद्याधरो वा गन्धर्वो नागो वा मानुषोऽथ वा || ८० || रूपयौवनसम्पन्नः समस्तगुणसंयुतः | स ते योग्यः पतिः श्रीमानुदारकुलसम्भवः || ८१ || येन त्वं बहुरत्नौघ-पूरितेऽनर्घविस्तृते | माल्यप्रवरसंयुक्ते धूपचूर्णैः सुवासिते || ८२ || मृद्वास्तरणसंयुक्ते विस्तृते सुमनोहरे | चारुप्रासादगर्भस्थे जाम्बूनदविचित्रिते || ८३ || शययातले समासाद्य स योग्यस्ते भवेत् पतिः | एवं ज्ञात्वाऽद्य सुभगे यदि वाञ्छसि शंकरम् | किं ते तपोभिः सुतरामहं तं योजये त्वया || ८४ || मार्कण्डेय उवाच इति श्रुत्वा तदा काली ब्राह्मणस्योत्तरं तदा | मितं तथ्यं जगादैनं ब्राह्मणं कोपसंयुक्ता || ८५ || काल्युवाच न जानासि हरं देवं त्वं जानामीति भाषसे | वहिर्यद् दृश्यते तत्ते कथितं द्विजनन्दन || ८६ || यस्य भावं न जानन्ति सेन्द्रा ब्रह्मादयः सुराः | तस्य त्वं विप्रतनय शिशुर्ज्ञास्यसि किं भवम् || ८७ || यच्छ्रुतं भवता नीचवदनाद् भाषितं लघु | इतस्ततस्तु श्रुत्वैव भाषसे त्वं न दृष्टवान् || ८८ || तस्मात् त्वत्तो वरं नाहं वाञ्छये नापि वा पतिम् | अन्यद् वद न च त्वत्तो वाञ्छये हरसंगमम् || ८९ || इत्युक्त्वा गिरिजा विप्रमवलोक्य सखीमुखम् | इदमाह तदा काली संशयारूढचेतना || ९० || महता चिन्तनेनेह तपसाराधितो हरः | तन्ममाग्रे विप्रसुतो निन्दितुं वाक्यमुक्तवान् || ९१ || तदहं चापनेष्यामि स्तुतिवाक्येन साम्प्रतम् | महात्मनां च यो निन्दां शृणोति कुरुतेऽथवा || ९२ || तयोरागः समं पूर्वं मया तातमुखाच्छ्रुतम् | तस्मात्तदपनेष्येऽहं तन्निषेधय विप्रकम् || ९३ || मार्कण्डेय उवाच इत्युक्त्वा सा सखीं काली शम्भुसंगतमानसा | आगःसंमार्जनायाशु हरं स्तोतुमुपाक्रमत् || ९४ || नमः शिवाय शान्ताय कारणत्रयहेतवे | निवेदयामि चात्मानं त्वं गतिः परमेश्वरः || ९५ || विज्ञानसौभाग्यसुहृद्गताय ते प्रपञ्चहीनाय हिरण्यबाहवे | नमोऽस्तु नारायण पद्मसम्भव प्रधानबीजाय जगद्धिताय ते || ९६ || इति स्तुवन्तीं पुनरेव स द्विज- स्तदा वचः किंचिदुदीरितुं पुनः | समीक्ष्य कालीमकरोत् सयत्नकं बुद्ध्वा समाचष्ट सखीं गिरेः सुता || ९७ || अयं द्विजः किंचन वक्तुमिच्छ- त्युग्रं हरं चापि न संविदानः | निन्दन्नहि प्राणहरीं हरस्य निन्दामहं श्रोतुमिह क्षमामि || ९८ || यावद् भूरिवचोऽस्याहं न शृणोम्यधुना सखि | गच्छामि तावद् दूराय समुत्तिष्ठामि मत्प्रिये || ९९ || इत्युक्त्वा सा तया सख्या सहिता हिमवत्सुता | प्रतस्थेऽथ समुत्थाय तमुत्सृज्य द्विजं हठात् || १०० || अथ शम्भुर्निजं रूपमास्थाय हिमवत्सुताम् | तं समुत्सृज्य गच्छन्तीं हरः स्मेरमुखोऽन्वयात् || १०१ || अहं हरो महादेवो मां संस्तौषि न चाधुना | सम्मुखीभव हे कालि समाश्वासय शांकरि || १०२ || इत्युक्त्वा स महादेवो गच्छन्त्याः पुरतो गतः | प्रसार्य हस्तौ काल्यास्तु गतिं तस्य विरोधयन् || १०३ || सा वीक्ष्य शम्भुवदनं तत्क्षणादभवद्धठात् | अधोमुखी तडिद्वातचकितेव गिरेः सुता || १०४ || मन्दाक्षं प्रीतिलज्जाभिः सा जडेव तदाभवत् | वक्तुं च नाशकत् किंचिद्विवक्षुरपि भामिनी || १०५ || मनोरथानां सिद्ध्या तु सुधाभिरिव पूरितम् | शरीरमभवत्तस्या मुदा पूर्णं द्विजोत्तमाः || १०६ || षट्त्रिवर्षसहस्रैस्तु तपःक्लेशमविन्दत | यत्तं क्षणात् समुत्सृज्य सम्मोदमुदिताभवत् || १०७ || तां च वीक्ष्य तथाभूतां प्रणयाद् वृषभध्वजः | कामेन भस्मरूपेण गात्रस्थेन च मोहितः || १०८ || अथ तां विरहोद्रिक्तः समेत्य वृषभध्वजः | सम्बोधयन्निदं चाटुवचनं प्रोक्तवान् मुदा || १०९ || न तु सुन्दरि मां वक्तुं किंचनापि त्वमीहसे | तपःक्लेशं स्मरयन्ती किं मह्यं कुप्यसि साम्प्रतम् || ११० || अहं च परितप्यामि त्वामृते सुभगे मम | समयाद् यत् समारब्धं तपस्तप्तुं त्वया समम् || १११ || सानुरक्तोऽथ संस्कृत्य भविष्यामि त्वया प्रिये | अधुना समतीतो मे यः कृतः समयो मया || ११२ || तपसे भवती चापि तपसैव सुसंस्कृता | संचिन्तनेन जप्येन तीव्रेण तपसा तदा | मूल्येन महता क्रीतो दासोऽहं मां नियोजय || ११३ || त्वदङ्गानां संस्करणे जटानां च प्रसाधने | प्रमुच्य बल्कलं गात्राच्चार्वंशुकनिवेशने || ११४ || हारनूपुरकेयूरकाञ्च्यादिपरिधापने | द्रुतं नियोजय शुभे यदि स्नेहोऽस्ति मादृशि || ११५ || निर्दग्धो यो मया कामो भस्मरूपेण मत्तनौ | स्थितो मां प्रतिकृत्येव त्वदग्रे दग्धुमिच्छति || ११६ || तस्मादुद्धर मां कामादग्नेरिव मनोहरे | त्वदङ्गामृतदानेन प्रसीद दयिते मम || ११७ || इति कालिकापुराणे त्रिचत्वारिंशोऽध्यायः || ४३ || चतुश्चत्वारिंशोऽध्यायः मार्कण्डेय उवाच अथ श्रुत्वा वचः शम्भोर्गिरिजातीव हर्षिता | मेने प्राप्तं तदा शम्भुं सुन्दरं दयितं पतिम् || १ || अथ प्राह तदा काली सखीवक्त्रेण शंकरम् | यथा स शृणुते वाक्यं श्रोतुमिच्छंश्च शंकरः || २ || न सन्धावतिभेदेन प्रवर्तन्तेऽत्र सज्जनाः | मर्यादया हरस्तं मे पाणिं गृह्णातु शंकरः || ३ || पितृदत्ता भवेत् कन्या तपोदत्ता भवेन्नहि | तपसा चेत् प्रदत्ताहं मां तातश्च प्रदास्यति || ४ || तस्मात् सम्प्रार्थ्य पितरं हिमवन्तं नगेश्वरम् | वैवाहिकेन विधिना पाणिं गृह्णातु मे हरः || ५ || मार्कण्डेय उवाच इत्युक्त्वा विररामाथ काली लज्जासमन्विता | हराऽपि तद्वचः सत्यं तथ्यं योग्यं तदाग्रहीत् || ६ || ततः स सगणः शम्भुस्तत्र वासं तदाकरोत् | गङ्गावतरणे सानौ यथापूर्वं तथाधुना || ७ || काली पितुर्गृहं याता सखीभिः परिवारिता | नालोकयन्ती सा दीना गुरूणां वदनं सती || ८ || एतस्मिन्नन्तरे सप्त मरीचिप्रमुखान् मुनीन् | चिन्तयामास शशिभृत् कालीं प्रार्थयितुं तदा || ९ || चिन्तिताः सप्त मुनयस्तत्क्षणान्मदनारिणा | आकृष्टा इव केनापि तत्सकाशमुपागताः || १० || तान् मुनीन् ददृशे शम्भुः सप्ताग्नीनिव दीपितान् | अरुन्धतीं वसिष्ठस्य सकाशे ददृशे सतीम् || ११ || अरुन्धतीं ततो दृष्ट्वा वसिष्ठस्य समीपतः | मेने योषिद्ग्रहं धर्मं मुनिभिश्चाप्यवर्जितम् || १२ || ततस्ते मुनयः सर्वे सम्पूज्य वृषभध्वजम् | इदमूचुः प्रहर्षेण स्मरणाकर्षिताः प्रियम् || १३ || ऋषयः ऊचुः यत् प्रत्यक्षं दृश्यते शुद्धरूपं चन्द्रप्रख्य चन्द्रखण्डोपशोभि | अन्तःप्रज्ञं भावितं तन्मुनीनां भाग्यं दृष्टं भागधेयेन मुक्तैः || १४ || प्रज्ञातन्त्रं ध्यानतन्त्रं पुरस्ता- न्नित्यं ध्येयं ध्यायिनां स्वप्रकाशम् | पुञ्जीभूतं बाह्यतत्त्वेन शश्वद् योग्यप्राप्यं धाम शम्भोरुदारम् || १५ || दृष्ट्वा यस्यैवाग्रभागं स नेत्रं त्राणाय स्याद् दर्शनं सूर्यतुल्यम् | तद्धामेदं स्थानसर्वस्य नित्यं भक्त्या स्तुत्यं तं नमः शम्भुदेहम् || १६ || प्रकाशते यः प्रथमादिभागतः स्थितः स वामे य इहैव नेता | सोऽस्माकमस्तु प्रथमं स्वसिद्ध्यै हरस्य शक्त्या विधृतो ललाटे || १७ || यः प्रधानात्मकः सत्त्वरजोभ्यां तमसान्वितः | पुरुषः सर्वजगतां स हरो नः प्रसीदतु || १८ || मार्कण्डेय उवाच इति संस्तुत्य देवेशं मुनयो विनयानताः | ऊचुः किमर्थं भवता स्मृतास्तन्नो निगद्यताम् || १९ || तेषां तद्वचनं श्रुत्वा शंकरः प्रहसन्निव | जगाद तान्मुनीन् सर्वानाभाष्य पृथक् पृथक् || २० || ईश्वर उवाच हिताय सर्वजगतां सम्भोगायात्मनस्तथा | दारान् ग्रहीतुमिच्छामि तथा सन्तानवृद्धये || २१ || सहायं तत्र कुर्वन्तु भवन्तो मम साम्प्रतम् | मदर्थे च ततः कालीं याचन्तां तुहिनाचलम् || २२ || महता तपसा काली मां पतिं लघु विन्दताम् | किन्तु ग्रहीष्ये विधिना तस्माद् याचन्तु तं गिरिम् || २३ || यथा यथा स्वयं कालीं शैलो दातुं समुत्सहेत् | तथा तथा विदध्वं हि यूयं वाग्विभवान्विताः || २४ || मार्कण्डेय उवाच हरं सम्बोध्य मुनयो ह्यगच्छन् गिरिराड्गृहम् | तेन प्रपूजितास्ते तु प्रोचुस्तं मुनयो गिरिम् || २५ || यश्चन्द्रशेखरो देवो देवदेवश्च यो मतः | शापानुग्रहणे शक्तो य एको जगतां पतिः || २६ || यः संहरति सर्वाणि जगन्ति प्रयलोद्भवे | यो विभूतिप्रदो भक्ते नानारूपो मनोहरः || २७ || स ते दुहितरं कालीं भार्यामादातुमिच्छति | यदि पश्यसि त्वं योग्यं वरं तं दुहितुः समम् || २८ || तदा प्रयच्छ तनयां कालीं शशिभृते गिरे | इत्युक्तस्तैर्गिरिपतिश्चिरं स्वहृदयस्थितम् || २९ || दुहितुश्च प्रियं ज्ञात्वा प्राप्य सद्वचनान्मुदम् | आह चेदं प्रकाशेन युष्माभिस्त्वहमागतैः || ३० || पावितो मुनिशार्दूलैः पूरितश्च मनोरथः | दास्यामि शम्भवे पुत्रीं युष्माभिः प्रार्थितस्त्वहम् || ३१ || पूर्वमेव तपस्तप्त्वा तयेशः पतिरीहितः | धातुर्नियोजनमिदं कोऽन्यथा कर्तुमुत्सहेत् || ३२ || कोऽन्यः प्रार्थयितुं शक्त्ऽह् सुतां मम विना हरात् | हरेणावगृहीता या तामन्यः कः समुत्सहेत् || ३३ || हरं गृहीत्वा मनसा नान्यं सापीह वाञ्छति | इत्युक्त्वा मेनया सार्धं सुतां दातुं च शम्भवे || ३४ || अङ्गीकृत्य विसृष्टास्ते ह्यनुप्रापुर्महेश्वरम् | ते गत्वा मुनयः सर्वे मरीचिप्रमुखा द्विजाः || ३५ || शैलराजो यदाचष्ट तदूचुर्मदनारये | हिमवांस्तनयां दातुं तुभ्यमुत्सहते हरः || ३६ || यदिदानीं त्वया कर्तुं युज्यते क्रियतां तु तत् | अस्मांश्चाप्यनुजानीहि हर गन्तुं निजास्पदम् || ३७ || सिद्धं ज्ञात्वा हरः साध्यं मुदितस्तान् विसृष्टवान् | यथायोग्यं समाभाष्य क्रमादेकैकशो मुनीन् || ३८ || कालीविवाहावसरे यूयमायात मां प्रति | इति ते वै हरेणोक्तं प्रतिश्रुत्यर्षयो ययुः || ३९ || अथान्योन्यप्रियतया कृत्वा कृत्वा गतागतम् | समयं कारयामास विवाहाय हरो गिरिम् || ४० || माधवे मासि पञ्चम्यां सिते पक्षे गुरोर्दिने | चन्द्रे चोत्तरफाल्गुन्यां भरण्यादौ स्थिते रवौ || ४१ || आगता मुनयस्तत्र मरीचिप्रमुखा मुहुः | हरेण चिन्तिताः सर्वे तथा ब्रह्मादयः सुराः || ४२ || तथा च सर्वे दिक्पाला मुनयश्च तपोधना | शच्या सह तथा शक्रो ब्रह्माण्याद्यास्तु मातरः || ४३ || नारदश्च गतस्तत्र देवर्षिर्ब्रह्मणः सुतः | एतैः परिचरैः सार्धं गणैराप्यायितः स्वकैः || ४४ || वैवाहिकेन विधिना गिरिपुत्रीं हरोऽग्रहीन् | विवाहे गिरिजा शम्भोः सर्पा येऽष्टौ तनौ स्थिताः || ४५ || ते जाम्बुनदसंनद्धा अलंकारास्तदाभवन् | द्विभुजोऽभून्महादेवो जटाः केशत्वमागताः || ४६ || शिरस्थितश्चन्द्रखण्डः सोऽर्चिषां ज्वलितोऽभवत् || ४७ || विचित्रवसनं व्याघ्रकृत्तिरासीत्तदा द्विजाः | विभूतिलेपो ह्यस्याभूत् सुगन्धिमलयोद्भवः || ४८ || गौररूपो हरस्तत्र बभूवाद्भुतदर्शनः | ततो देवाः सगन्धर्वाः सिद्धविद्याधरोरगाः || ४९ || विस्मयं परमं जग्मुर्हरं दृष्ट्वा तथाविधम् | हिमवान् मुदितश्चासीत् सहपुत्रैश्च मेनया || ५० || ज्ञातयश्चास्य मुमुहुर्हरं दृष्ट्वा तथाविधम् | इदं ब्रह्मा तत्र जगौ हरं दृष्ट्वा मनोहरम् || ५१ || सर्व शिवकरं यस्मात् सुवेशमभवत्सुराः | तस्माच्छिवोऽयं लोकेषु नाम्नाख्यातोऽधिकः शिवः || ५२ || महेश्वरमुमायुक्तमीदृशं यः स्मरेद्धृदा | सततं तस्य कल्याणं वाञ्छितं च भविष्यति || ५३ || एवं काली महामाया योगनिद्रा जगत्प्रसूः | पूर्वं दाक्षायणी भूत्वा पश्चाद् गिरिसुताऽभवत् || ५४ || स्वयं समर्थापि सती काली सम्मोहितुं हरम् | तथाप्युग्रं तपस्तेपे हिताय जगतां शिवा | एवं सम्मोहयामास कालिका चन्द्रशेखरम् || ५५ || इत्येतत् कथितं सर्वं त्यक्तदेहा सती यथा | हिमवत्तनया भूत्वा पुनः प्राप महेश्वरम् || ५६ || इदं यः कीर्तयेत् पुण्यं कालिकाचरितं द्विजाः | नाधयो व्याधयस्तस्य दीर्घायुः स च जायते || ५७ || इदं पवित्रं परममिदं कल्याणवर्धनम् | श्रुत्वापि सकृदेवेदं शिवलोकाय गच्छति || ५८ || यः श्राद्धे श्रावयेद्विप्रान् कालिकाचरितं महत् | पितरस्तस्य कैवल्यमाप्नुवन्ति न संशयः || ५९ || यः श्रावयेद् ब्राह्मणानां सन्निधौ वा समायतः | तत्र स्वयं हरो गत्वा शृणोति सह मायया || ६० || इति वः कथितं पुण्यं सर्वपापप्रणाशनम् | युष्मभ्यं रोचते चान्यद्यत्तत् पृच्छन्तु सत्तमाः || ६१ || इति श्रीकालिकापुराणे कालीहरसमागमो नाम चतुश्चत्वारिंशोऽध्यायः || ४४ || पञ्चचत्वारिंशोऽध्यायः ऋषयः ऊचुः विचित्रमिदमाख्यातं ब्रह्मन् कालीहरागमम् | पुण्यं पापहरं नित्यं श्रुतिसौख्यप्रदं वरम् || १ || भूयः कथय शर्वस्य कालीतन्वर्धमुत्तमम् | कथं जहार गौरी वा कथम्भूताथ कालिका || २ || केन वा कारणेनाशु कृष्णा गौरीत्वमागता | तन्नः कथय तत्त्वेन मुनिश्रेष्ठ द्विजोत्तम || ३ || मार्कण्डेय उवाच इदं तु महदाख्यानं कथयिष्यामि वोऽधुना | महर्षयस्तच्छृण्वन्तु तत्त्वेन शुभदं परम् || ४ || एतदौर्व पुरा राजा सगरः पृष्टवान्मुनिम् | स तं यथा समाचष्ट तद्वोऽथ निगदाम्यहम् || ५ || पुराभूत् सोमवंशे च सगरो नाम पार्थिवः | स श्रीमान् बलवान् दक्षः सर्वशास्त्रार्थपारगः || ६ || सोऽभूदेकरथेनैव जित्वा सर्वान् महीभुजः | सार्वभौमो नरपतिः सर्वराजगुणैर्युतः || ७ || तं प्राप्तराज्यं राजानं सगरं पार्थिवोत्तमम् | सभाजयितुमत्यर्थं मुनयः समुपागताः || ८ || प्राच्योदीच्या महात्मानो दाक्षिणात्यास्तथोत्तराः | मुनयो ब्राह्मणाश्चैव नृपं द्रष्टुं समागमन् || ९ || आगतेष्वथ सर्वेषु महात्मा ज्वलनोपमः | और्वो नाम मुनिः श्रीमानागतो नन्दितुं नृपम् || १० || तमागतं मुनिं दृष्ट्वा ज्वलन्तमिव पावकम् | सपर्यया महत्या तु सगरस्तमपूजयत् || ११ || पाद्यमाचमनीयं च दत्त्वैवार्धपुरोगमम् | निवेशयामास च तं मुनिश्रेष्ठं वरासने || १२ || उवाच च महात्मानमौर्वं स सगरो नृपः | प्रणम्य च यथायोग्यं कुशलं त इति द्विजम् || १३ || स च प्राह मुनिश्रेष्ठो नरराज सदा मम | सर्वत्र कुशलं त्वां तु द्रष्टुं कुशलमुत्सहे || १४ || त्वत्तः कोऽन्योऽस्ति कुशली पृथिव्यां सर्वराजसु | य एकः सञ्जिगायाशु भवान् सकलपार्थिवान् || १५ || कुशलं वर्धतां नित्यं तव राजवरोत्तम | यथा नीत्या सदाचारैः पृथिवीं शाधि भूपते || १६ || तव वृद्धौ जगद्वृद्धिर्वृद्धौ चेष्टां तत्ऽह् कुरु | शुभ्रांशुवृद्धौ सततं सागरस्येव वर्धनम् || १७ || प्रथमं सद्गुणैरात्मा क्रियतां नृप योजनम् | ततः स्वभार्या महिषी क्रियतां तद्गुणैर्युता || १८ || नित्या संयोजिता चेत् स्याद्वनिता स्वयमेव हि | स्वगुणेषु प्रवेक्ष्यन्ती महत्यपि धृतव्रता || १९ || श्रूयते हिमवत्पुत्री शम्भुसंगतमानसा | क्रियाभ्युपायैर्बहुभिः शम्भुना सा प्रयोजिता || २० || ततोऽतिमहता प्रेम्णा शंकरस्याथ पार्वती | शरीरमर्धमहरत्तस्यैवानुमते सती || २१ || अर्धनारीश्वरस्तेन तदा प्रभृति शङ्करः | अभवन् नृपशार्दूल नान्यां भार्यां गृहीतवान् || २२ || तस्मात् त्वमपि राजेन्द्र स्वजायामात्मनोत्तरे | गुणैः संयोजय लघुं संयोजय ततः सुतम् || २३ || मार्कण्डेय उवाच इत्यौर्वभाषित श्रुत्वा सगरोऽपि मुदान्वितः | इद मुनिमपृच्छत् स नृपतिः स्मितसन्ततः || २४ || सगर उवाच कथं सा गिरिजा देवी कायार्धमहरत् सती | शङ्करस्य द्विजश्रेष्ठ तदहं श्रोतुमुत्सहे || २५ || नीत्या यया वा योक्तव्या स्वात्मा भार्या सुतोऽथवा | तां नीतिं च सदाचारसंहितां श्रोतुमुत्सहे || २६ || राजनीतिं सतां नीतिमन्येषां च कृतात्मनाम् | पृथक् पृथक् श्रोतुमिच्छुरहं त्वां नाथये द्विज || २७ || यदि गुह्यमिदं ब्रह्मन्न तदा श्रोतुमुत्सहे | तथा नाज्ञापयामि त्वां श्रोतुमिच्छुश्च तत्समम् || कृपया कथनीयं चेत्तदा कथय तन्मुने || २८ || मार्कण्डेय उवाच इत्येवं सगरेणोक्तमौर्वोऽपि द्विजसत्तम | प्रत्युवाच महात्मानं कृपालुस्तत्र भूपतौ || २९ || और्व उवाच शृणु राजन् प्रवक्ष्यामि यद् यत् पृष्टमिह त्वया | यथा हरस्य तन्वर्थं भूभृत्पुत्री पुराहरत् || ३० || यथा नीतिस्त्वया कार्या यत्र यत्र नृपोत्तम | सर्वेषां च सदाचारं क्रमाद् वक्ष्यामि तच्छृणु || ३१ || यदोढा हिमवत्पुत्री शङ्करेण महात्मना | कियन्तं स तदा कालं तत्र निन्ये सहोमया || ३२ || रममाणस्तया सार्धं सानौ कुञ्जे दरीषु च | विजहार चिरं तत्र पार्वतीं मोदयन् हरः || ३३ || अथ काले तु सम्प्राप्ते शम्भुः कैलासपर्वतम् | सगणो भार्यया सार्धमगच्छत्त्रिदिवोपमम् || ३४ || स त्वया क्रीडमानश्च त्यक्तध्यानात्मचिन्तनः | तद्वक्त्रचन्द्रे नेत्राणि चकोरानिव चाकरोत् || ३५ || पुष्पाणि क्वचिदाहृत्य गिरिजां प्रति शङ्करः | सर्वाङ्गसङ्गिनीं मालां विदधेऽतिमनोहराम् || ३६ || कदाचिदादर्शतले युगपच्चात्मनो मुखम् | मुखं तथैवापर्णाया वीक्षाञ्चक्रे वृषधवजः || ३७ || कदाचिन्मृगनाभीनां विलेपैर्गन्धपत्रकम् | तस्या घनस्तनयुगे विलिलेख स्मरान्तकः || ३८ || गन्धसारविलेपेन तिलकान्यम्बिकातनौ | ललाटे चाकरोच्चारु चन्द्रवद्घनसन्धिषु || ३९ || उमानिर्याससंसक्तकेशपाशेषु चित्रकम् | चन्दनागुरुकस्तूरीकुङ्कुमस्य विलेपनैः || ४० || चकार येन तस्यास्तु केशपाशो व्यराजत | नर्तनायावतीर्णस्य शिखिपुच्छस्य साम्यधृक् || ४१ || जाम्बूनदमयाञ् शुद्धान् कुण्डलाद्यान् मनोहरान् | अलङ्कारानुमा देहे समाकार्षीद् वृषध्वजः || ४२ || तैर्जाम्बूनदसम्भूतैर्योजितैर्गिरिजातनुः | विभाति जलदापूर्णे कालिकेव तडिद्गणैः || ४३ || सर्वैर्दिव्यैरलङ्कारैर्नानारत्नैः सदंशुकैः | सम्पूर्णमण्डिता काली सादृश्यं प्रकृतेर्दधौ || ४४ || एवं सदा सानुरागस्तस्यां शम्भुर्जगत्पतिः | जगद्धिताय चिक्रीड काल्या दयितया सह || ४५ | काली च जगतां माता महामाया जगन्मयी | योगनिद्रा जगद्बुद्धिर्विद्याविद्यात्मिकाखिला || ४६ || प्रकृतिः परमा मूर्तिः सर्गान्तस्थितिकारिणी | सम्मोह्य शङ्करं यत्राज्जगतां च हितेषिणी | रेमे तेन समं देवी चन्द्रिकेव सुधांशुना || ४७ || अथैकदा स्मरहरः कैलासाग्रे सहोमया | रममाणो मुदा युक्तो ददृशेऽप्सरसः शुभाः || ४८ || रूपयौवनसम्पन्नाः सर्वलक्षणसंयुताः | तासां मध्यगता वेश्या उर्वशी च मनोहरा || ४९ || ताः सर्वा रक्तगौरांग्यः सर्वालङ्कारभूषिताः | मुनीनां च मनोऽत्यर्थं शक्ता मोहयितुं हठात् || ५० || ताः प्रणम्य हरं दृष्ट्वा गिरिजां च मनोरमाम् | अग्रे प्राञ्जलयस्तस्थुस्तद्भीतिनतमस्तकाः || ५१ || अथ प्राह तदा भर्गः पार्वतीमिदमद्भुतम् | तासां समक्षं तस्यां तु भाषितुं स्याद् यदप्रियम् || ५२ || कालि भिन्नाञ्जनश्यामे उर्वश्याद्यप्सरोगणैः | त्वयेह स्त्रीस्वभावेन संलापः क्रियतामिति || ५३ || तच्छ्रुत्वा वचनं तस्य यथायोग्यं च सोर्वशी | अप्सरसः समाभाष्य विसृष्टा गिरिजा तया || ५४ || अथ सा क्रोधवशगा पार्वती भर्गभावितात् | काली भिन्नाञ्जनश्यामेत्युदिता ह्यभवत् क्षणात् || ५५ || सा चाप्सरसां पुरतो वर्णोद्देशविकत्थनम् | न सेहे मन्युना युक्ता गिरिजेन्दुकलाभृतः || ५६ || अथ सा रोषसंयुक्ता त्यक्त्वा वृषवाहनम् | अपह्नुते शैलसानौ रोषापह्नुतिमागता || ५७ || मार्गमाणोऽथ विरहव्याकुलो वृषवाहनः | नाससाद कियत्कालं पार्वतीं पर्वतोत्तमे || ५८ || विरहव्याकुलं ज्ञात्वा स्वय सा पार्वती हरम् | आत्मानं दर्शयामास गिरिसानावपह्नुते || ५९ || तामासाद्य ततः शम्भुः किमर्थमभजः प्रिये | मानं मनोनुदं देवि विशीर्ण इव चाब्रवीत् || ६० || भर्तुरागः पुरन्ध्रीणां मानग्रहणकारणम् | तद्विना ग्रहणात्तस्य भीरु प्राप्नोति वाच्यताम् || ६१ || तस्मात् किमर्थमकरो रोषं त्वं जलजानने | तदाचक्ष्व द्रुतं कान्ते मनो मे न प्रसीदति || ६२ || इत्युक्त्वा शङ्करो देवीं तामालिङ्गितुमुद्यतः | काली तं वारयामास वचनं चाब्रवीदिदम् || ६३ || न दृष्टपूर्वा किमहं येन भिन्नाञ्जनोपमा | क्रियते मयि भूतेश भवताप्सरसां पुरः || ६४ || जातिहीनं वृत्तिहीनं रूपहीनमदक्षिणम् | हीनाङ्गमतिरिक्ताङ्गं तेन दोषेण नाक्षिपेत् || ६५ || इति ब्रह्मा पुरा प्राह वेदौघार्थावनिश्चयम् | तं चावमन्य भवता परिहासोऽभ्यभाष्यते || ६६ || यावन्न मे शरीरस्य भवित्री स्वर्णगौरता | न समेष्ये त्वया तावदिति सत्यं ब्रवीमि ते || ६७ || शरीरगौरतां शम्भो न समेष्ये त्वया विना | तत्र मे शृणु सन्धाय आत्मनः शिरसा शपे || ६८ || इत्युक्त्वा सा तदा देवी तस्यैव पुरतो ययौ | महाकोषीप्रपाताख्यं हिमवत्साउमुत्तमम् || ६९ || महादेवोऽपि तं भाव्यं ज्ञानेन कृतनिश्चयम् | अर्थं ज्ञात्वा तदापर्णां सर्वज्ञो नाप्यवारयत् || ७० || सा गत्वा पूर्ववत्तत्र शम्भुसङ्गतमानसा | शतमाराधयामास वर्षाणि वृषभध्वजम् || ७१ || एकं पादं समुत्क्षिप्य वामेनाक्रम्य सा क्षितिम् | उत्तराभिमुखी भूत्वा निराहारा निरन्तरम् || ७२ || वैयाघ्रचर्मवसना सोर्ध्वमूर्द्धानना सती | ज्योतिर्मयं परं शान्तं शिवं शिवकरं वरम् || ७३ || आत्मस्वरूपतत्त्वज्ञा तत्त्वेनाराधयद्धरम् | तां चिन्तयन्तीं परमनिश्चलां तत्त्वमानसाम् || ७४ || मेने मुनिगणः स्थाणुर्यो न जानाति तत्त्वतः | एवं तस्यास्तपस्यन्त्या जग्मुर्वर्षाणि वै शतम् || ७५ || अन्येषां च यथा शश्वदेकं नृपतिसत्तम | ततस्तां शतवर्षान्ते शङ्करो योगतत्परः || ७६ || आत्मानं दर्शयामास क्रमादेकं स सत्रपम् | प्रथमं दर्शयामास ब्रह्माणं च हरिं ततः || ७७ || ततस्तु शाम्भवं देहं ततस्तेषामथैकताम् | ज्योतिर्मयत्वं शुद्धत्वं सर्वेषां हेतुतां तथा || ७८ || ततस्तु शम्भुरूपं स दर्शयामास शङ्करः | योगनिद्रां महामायां योगिनीं कालिकाम्बिकाम् || ७९ || प्रथमं दर्शयित्वा तु तस्याः प्रकृतिरूपताम् | पश्चात् सा पार्वतीत्येव क्रमात्तस्या अदर्शयत् || ८० || तपसा सम्भृतेनाशु ज्ञानमासाद्य पार्वती | अन्तर्दृष्ट्या बहिर्दृष्ट्या तत्त्वं ज्ञात्वा यथातथम् || ८१ || शम्भुं जगन्मयं मेने तथात्मान जगन्मयीम् | ब्रह्मा विष्णुर्हरश्चापि ततः सर्वमिदं जगत् || ८२ || अहं समस्तप्रकृतिर्योगनिद्रा तथा सती | इति ध्यानेन सा देवी प्राप्य ध्यानं तदात्यजत् | उन्मील्य नयनद्वन्द्व बहिः शम्भुं ददर्श च || ८३ || सा दृष्ट्वा शङ्करं देवं देवदेवमुमापतिम् | तुष्टाव वाग्भिरिष्टाभिर्यमिनं योगतत्परम् || ८४ || पार्वत्युवाच नमस्ते जगतां नाथ नमस्ते केशवाव्यय | प्रधानपुरुषातीत कारणत्रयकारण || ८५ || योगमोहमनोराग-धर्माधर्ममयस्तथा | विद्याविद्यास्वरूपश्च शाम्भवः काय एष ते || ८६ || त्वं निःश्रेयः श्रेयसा युज्यमानो दृश्योऽदृश्यो योगमूर्तिर्मनीषी | सम्यक् श्रद्धा पौरुषे तत्त्वरूपं त्वं वै ज्योति शान्तिरूपं पुरस्तात् || ८७ || ब्रह्मा विष्णुस्त्वं हरस्त्वं महेन्द्रः सूर्यः सोमो वायुरग्निर्धनेशः | त्वं तोयेशः शमनो राक्षसश्च शेषस्त्वत्तो भिद्यते कोऽपि नास्मिन् || ८८ || त्वं भूमिद्यौर्द्युर्सदां चापि पन्था- स्त्व स्थावरो जङ्गमो भूर्वलस्थः | ज्ञानं ज्ञेयं ध्यानगम्यं च तत्त्वं परात्परं व्यक्तरूपं परेषाम् || ८९ || त्वं पुरुषः परमात्मा प्रधानं त्वं हि ज्यायानागमो ज्ञानगम्यः | भावः कृत्यं पञ्चरूपी समस्तै- रासाद्यस्ते गोचरास्तद्भवाय || ९० || कीर्तिः कीव्यः स्तुत्यरूपी स्तुतिश्च द्रष्टा दृश्यः स्थैर्यधृक् स्थावरश्च | नित्योऽनित्यो मुक्तयोगो वियोगो दानादाने भेदसामप्रयोगः || ९१ || नीतिर्नेयो दीक्षितो दक्षिणाश्च सारात् सारः सविधाता विधेयः | आर्योऽनार्यो रूपधृग्रूपहीनो दिव्यो देवो मानुषोऽमानुषाश्च || ९२ || सृज्यः स्रष्टा पालकः पाल्यरूप- श्चेता चेयो नोर्मियुक्तस्तथोर्मिः | विद्याविद्यावेदवादैकरूपो रूपारूपस्तीक्ष्णसौम्यैकरूपः || ९३ || भावाभावः शोभनः शुद्धरूपी शश्वद्दान्तः शान्तिरुग्रा मुनीनाम् | द्वन्द्वोऽद्वन्द्वः सर्वगोऽसर्वगश्च भ्रान्तोऽभ्रान्तः सिद्धसिद्धिप्रदश्च || ९४ || एकस्थस्त्वं सर्वगोप्ता सुदेहो निर्देहस्त्वं देह एकः सुराणाम् | स्थूलः सूक्ष्मो निर्विकारः शरीरी विश्वात्मा त्व नास्ति भिन्नो भवत्तः || ९५ || कार्याकार्ये यस्य रूपे समस्ते व्याप्याव्याप्ये भागहीनोऽतिपूर्णः | योगज्ञानस्थात्मकं यस्य नित्यं रूपं यस्य श्रीद तस्मै नमस्ते || ९६ || प्रधानपुंसोरपि यो विधाता यः कालरूपी पुरुषः परेशः | तमीशमुग्रं वरदं वरेण्यं नमामि चिन्नीतिवितानकत्वाम् || ९७ || अक्षयो योऽव्ययः साक्षी क्षेत्रज्ञःक्षेत्रधृग्वरः | तस्मै नमस्ते विश्वात्मन् वृषध्वज महेश्वरः || ९८ || ज्ञानामृतविनिस्यन्दि यस्य चिच्चन्द्रमाः सदा | तद्रूपमेकं यं ज्ञेयं भाक्तिमात्रं नमोऽस्तु ते || ९९ || और्व उवाच इति स्तुतो महादेवः सर्वभूतानुकम्पकः | प्रसन्नवदनः प्राह पार्वतीं प्रतिहर्षयन् || १०० || ईश्वर उवाच प्रीतोऽस्मि देवि भद्रं ते वरं वरय वाञ्छितम् | तपसाप्यायितश्चाहं त्वया ब्रह्मा तथा हरिः || १०१ || तपसा त्वत्समो नास्ति शीलेन च गुणेन च | त्वां विना न हि तृप्यामि प्रिये कुरु यथेप्सितम् || १०२ || ततः सा मोहिता प्राह मायया हिमवत्सुता | और्व उवाच जाम्बुनदाभगौरो मे देहो भवतु साम्प्रतम् | अनन्यकान्तस्त्वं चापि भूया मत्तो विना हर || १०३ || एवमुक्तो महादेवः पार्वत्या पार्वतीं ततः | आकाशगङ्गातोयोघे मज्जयामास भामिनीम् || १०४ || सा निमज्ज्य समुत्तीर्णा विद्युद्गौरी व्यजायत | सिताम्भोमध्यगा देवी शारदाभ्रे तडिद्यथा || १०५ || ईश्वर उवाच शम्भुश्चाङ्गीचकाराशु नाहं त्वत्तो विना प्रिये | मनसापि ग्रहीष्यामि नान्यां सत्यं ब्रवीमि ते || १०६ || और्व उवाच अथ तोयात् समुत्तीर्णा पार्वती मोदसंयुता | तपःक्लेशपरित्यक्ता चन्द्रिकेव विधोर्यथा || १०७ || अथ तां पार्वतीं देवीमादाय वृषध्वजः | जगाम शैलं कैलासं स्वमाश्तमपदं लघु || १०८ || तदा गत्वा हरो देवीमधिवास्य विभूष्य च | पूर्ववन्मोदयामास नर्महासकथादिभिः || १०९ || सापि सौवर्णगौराङ्गी वीक्ष्य रूपं मनोहरम् | गृहीतसमयं शम्भुं प्राप्यातीव मुमोद ह || ११० || एवं तयोस्तु शिवयोरन्योन्यरममाणयोः | जगाम सुचिरं कालं कैलासे पर्वतोत्तमे || १११ || अथैकदा महादेवसमीपे हिमवत्सुता | आसीना ददृशे तस्य स्वां छायामुरसि स्थिताम् || ११२ || स्फटिकाभ्रसमे स्वच्छे हृदि शम्भोर्मनोहरे | योगिज्ञानादर्शतले चार्वङ्गी प्रतिबिम्बिताम् || ११३ || आत्मच्छायां गिरिसुता वामभागे मनोहरे | ददर्श वनितारूपां स्मितवक्त्रां मनोहराम् || ११४ || भ्रान्त्या दृष्ट्याथ पार्वत्यास्तदा ज्ञानमजायत | कृतसत्योऽपि गिरिशः किमन्यां वनितां दधौ || ११५ || मायया स्थापितां गात्रे वीक्षन्तीं कुटिलं च माम् | इति तस्यास्तदा वक्त्रं मलिनं भृकुटीयुतम् | बभूव वृषकेतुश्च श्याम उत्पातको यथा || ११६ || सा दृष्ट्वाथ तदा छायां विष्णुमाया-विमोहिता | अपह्नुतं गिरेः शृङ्गं मानाद्रोषाद्विवेष ह || ११७ || अथ तां मार्गमाणस्तु शङ्करो विरहाकुलः | चिरादपह्नुतां देवीमाससाद ततो हरः || ११८ || तामासाद्य महादेवी विवर्णवदनां प्रियाम् | उवाच रोपणे हेतुं ज्ञातुमिच्छुर्यथातथम् || ११९ || ईश्वर उवाच किमर्थस्त्वं वरारोहे मह्यं कुप्यसि कोपने | रोषहेतुमहं वक्तुं तवेच्छामीह वल्लभे || १२० || न तुभ्यमपराध्यामि वाचा वा मनसाथवा | कायेन वा कथं कोपं कर्तुमर्हसि भामिनी || १२१ || देव्युवाच समयेन मया पूर्वं तथा सम्प्रार्थितो भवान् | कथं तं परिहाय त्वमन्यां भार्यां समीहसे || १२२ || प्रत्यक्षेण मया दृष्टा तव हृद्यन्तरे हर | चार्वङ्गी वनिता काचित्तोयनिर्यातभस्मनि || १२३ || भवान् सर्वज्ञानमयः सर्वगः परमेश्वरः | तोषितो मे तपोव्रातैर्न तुष्टस्त्वं महेश्वर || १२४ || तस्मादहं तपस्तप्तुं शाश्वद्गन्तु समुत्सहे | अनुजानीहि मा शम्भो मा विलम्बं वृथा कृथाः || १२५ || और्व उवाच इति श्रुत्वा वचस्तस्याः स्मितविस्तारिताननः | शङ्करः पार्वतीं प्राह सन्दिग्धामिव भामिनीम् || १२६ || ईश्वर उवाच नाहमन्यां स्त्रियं वोढा नाहं समयभेदकः | तव मिथ्यामतिर्जाता मुग्धे मूढतयाधुना || १२७ || त्वमिच्छसि यदि श्रोतुं तत्र हेतुं च पार्वति | तदहं कथये तत्त्वं मानं मानिनि मा कृथाः || १२८ || मम वक्षसि विस्तीर्णे दर्पणस्वच्छभासिनि | तवैव वपुषश्छायाबिम्बिता लोकिता त्वया || १२९ || इदानीमेव बुध्यस्व त्वामृते नास्ति सा मयि | नात्र मानस्त्वया कार्यो हृदयान्तरसंस्थिते || १३० || देव्युवाच मयि स्थितायां छायास्ति मामृते नास्ति सा पुनः | कथमेतन्मया ज्ञेयं तन्मे वद वृषध्वज || १३१ || ईश्वर उवाच गवाक्षाभ्यन्तरे स्थित्वा तज्जालेन मनोहरे | पश्य तोयौघनिर्यातभूतिलेपमुरो मम || १३२ || तथा त्वं मण्डितं देहं वीक्ष्यादर्शतले पुनः | मद्धृदासन्नमासाद्य तादृक्छायां विलोकय || १३३ || यथा द्रक्ष्यसि देहे स्वं तत् कुरु त्वं तथा मम | आलोकय निजां छायां त्वां विना नास्ति तत् पुनः || १३४ || त्वमेव ज्ञास्यसि च्छायां मद्वक्षसि मनोहरे | ज्ञात्वा विसृज्यमानं मां त्वं चाप्युपपत्स्यसि || १३५ || और्व्य उवाच एवमुक्ता हरेणाथ पार्वतीन्दुकलाभृतः | तयौर्निर्धाव्य हृदयं स्वां छायां पुनरैक्षत || १३६ || दृष्ट्वादर्शतले वक्त्रं निजं देहं च पार्वती | आलोकयामास तदा शश्वच्छङ्करवक्षै || १३७ || यथा सा कुरुते देवी कापट्यं नेत्रविभ्रमम् | तथा सा कुरुते च्छाया करकम्पादिकं तथा || १३८ || ततः पुनर्गवाक्षस्य जाले स्थित्वा हिमाद्रिजा | तथा व्यलोकयच्छम्भोर्हृदयं वीतभूतिकम् || १३९ || तया तत्र तु पार्वत्या वृषभध्वजवक्षसि | न कापि दृष्टा वनिता दृष्टं जालस्य मण्डलम् || १४० || एवं बहुविधैर्देवी तदोपायैस्तथेतरैः | निर्यातसंशया भूत्वा लज्जां प्राप वराङ्गना || १४१ || तां लज्जितां गिरिसुतामीषद्भीतामधोमुखीम् | शम्भुरालिंग्य पाणिभ्यां मुखं चास्याश्चुचुम्ब च || १४२ || स तामाह महादेवो देवीमाश्वासयन् मुहुः | मा ब्रीडस्व महाभागे भ्रांतिः कस्य न जायते || १४३ || मानस्त्वयि वरस्त्रीभिः कार्यः प्रेमकरो यतः | त्वयापि विरलः कार्यो मानो देवि न सर्वदा || १४४ || इत्युक्ता देवदेवेन मैनाकसहजाम्बिका | शङ्करं प्रणयात् प्राह सूनृतं मधुरं वचः || १४५ || देव्युवाच यथा तवाहं सततं छायेवानुगता हर | भवेयं साहचर्येण तथा मां कर्तुमर्हसि || १४६ || सर्वगात्रेण संस्पर्शं नित्यालिङ्गनविभ्रमम् | अहमिच्छामि भवतस्तत्त्वं चेत् कर्तुमर्हसि || १४७ || भगवानुवाच रोचते तन्मह्यमपि यस्त्वमिच्छसि भामिनि | तत्रोपायमहं वक्ष्ये यदि शक्नोषि तं कुरु || १४८ || अर्द्धं मम गृहाण त्वं शरीरस्य मनोहरे | अर्द्धं भवतु मे नारी अथैवार्द्धं पुमानिति || १४९ || यदि त्वमपि शक्नोषि कर्तुं तदर्धमी दृशम् | तदाहं ते हरिष्यामि शरीरार्द्धं वरानने || १५० || तवैवार्द्धं तथा नारी ह्यर्धं भवतु पूरुषः | विद्यते तत्र शक्तिर्मे त्वमनुज्ञातुमर्हसि || १५१ || देव्युवाच तवैवाहं हरिष्यामि शरीरार्द्धं वृषध्वज | किं त्वहं त्वेवमिच्छामि तच्चेत्त्वं कर्तुमिच्छसि || १५२ || यदाहमर्द्धं भवतो भूत्वा तिष्ठामि तावता | त्यजाम्यहं यदा तेऽर्द्धं सम्पूर्ण स्यात्तदा द्वयम् || १५३ || इत्यर्द्ध भागहरणं भवेद्यदि यथेप्सितम् | तवैवाहं तदा शम्भो शरीरार्द्धं हराम्यहम् || १५४ || ईश्वर उवाच एवमस्तु भवेन्नित्यं यथार्द्धं हर्तुमर्हसि | शरीरस्यार्द्ध हरणं भूयस्तव यथेप्सितम् || १५५ || और्व्य उवाच अथ गौरी तदा पूर्वमनुभूतं तपःस्थितौ | योगनिद्रास्वरूपं तदात्मनोऽचिन्तयाद्धिया || १५६ || हरं प्रणम्य प्रथमं ब्रह्माणं च ततः परम् | ततस्त्रिजगतामीशं हरिं नारायणं प्रभुम् || १५७ || चिन्तयित्वा यदा तेषामेकता सा जगन्मयी | आत्मानं योगनिद्रां च चिन्तयित्वा तपस्विनी || १५८ || दक्षिणे स्वशरीरस्य भागार्द्धं शशभृद्भृतः | शरीरस्य तदा वाममतिप्रेम्णा निजं हरे || १५९ || हरोऽपि स्वशरीरार्द्धं गौरिकाये तदा स्वयम् | प्रेम्णा न्यवेशयत्तस्याश्चिकीर्षुः प्रियमद्भुतम् || १६० || अथ स्थित्वा तदा भर्गः काल्या सह चिरं तदा | परित्यज्य शरीरार्द्धं पृथगेव बभौ रुचा || १६१ || काली भूत्वा स्वर्णगौरी शरीरार्द्धं च शङ्करम् | प्राप्तमोदा तदात्मानं सन्तुष्टा च जगन्मयी || १६२ || एवं यदा शरीरार्द्धमादाय परमेश्वरी | रहस्ये तिष्ठति तदा राजतेऽतीव शोभना || १६३ || अर्द्धं धम्मिल्लसंयुक्तं जटाजूटार्द्धयोजितम् | एकस्मिन् श्रवणे भोगी भागे जाम्बूनदार्चितम् || १६४ || कुण्डलं श्रवणेऽन्यस्मिन् शीर्षे तस्या व्यराजत | अर्द्धं मृगाक्षि चान्यार्द्धं वृषभाक्षि व्यजायत || १६५ || अर्द्धं स्थूलनसं चारु तिलपुष्पनसं परम् | दीर्घश्मश्रु तथैवार्द्धमर्द्धं श्मश्रुविवर्जितम् || १६६ || आरक्तचारुदशनं रक्तौष्ठमेकतस्तथा | अपरं शुक्लविपुलं दीर्घाकृतिरदं परम् || १६७ || अर्द्धनीलगलं चार्द्धमपरं हारसंयुतम् | अर्द्धं कङ्कणकेयूरयुक्तबाहु तथापरम् || १६८ || नागकेयूरसंयुक्तं स्थूलबाहुनिरूर्मिकम् | अर्द्धं विलोलसुभुजं करिहस्तभुजं परम् || १६९ || एकत्र सोमिकाशाखा करस्यान्यत्र तां विना | एकस्तनं तु हृदयं रोमावल्यर्धसंयुतम् || १७० || रम्भास्तम्भसमानोरु सुपार्ष्णि मृदुपादकम् | एक तथापरं स्थूलं संहतोरुपदाम्बुजम् || १७१ || एकं चारुमृदुस्थूलजघनं सुमनोहरम् | तथापरं दृढकटि संहतोर्द्धपदान्वयम् || १७२ || एक वैयाघ्रमर्मौघयुक्तं भूतिविलेपनम् | अपरं मृदु कौशेयवसनं चन्दनोक्षितम् || १७३ || एवमर्द्धं तथा जातं योषिल्लक्षणसंयुतम् | अपरं बलवद् भूरि सुगूढ पुरुषाकृति || १७४ || एवमर्द्धं स्मररिपोर्जहार गिरिजा सती | हिताय सर्वजगतां कालिका कालिकोपमा || १७५ || तस्याः शरीरं राजेन्द्र हरतन्वर्द्धसंयुतम् | येनोपमेयं तत्रास्ति मार्गितं भुवनत्रये || १७६ || सन्तानः पारिजातो वा एकान्तविशदस्तरुः | अमोघया यथा वल्ल्या तौ चापि ययतुर्नहि || १७७ || बहुधा च पृथक् तेन तौ रेमाते नरेश्वर | अर्द्धनारीश्वरो भूत्वा स तु रेमे कदाचन || १७८ || इति यद्यपि भूतेशः स्वयं शक्नोति कालिकाम् | गौरीं कर्तुं तदा सर्वभूतकारणकारणः || १७९ || तथापि तां गिरिसुतां संयोज्य विविधैः पुरा | तपश्ययोजयद् देवः क्रियोपायेरनेकशः || १८० || तपोनिर्धूतसर्वाङ्गीं पश्चाद् गौरीमथाकरोत् | अर्द्धं च प्रददौ तस्यै शरीरस्य महेश्वरः || १८१ || नवास्य तत्त्वं जानन्ति शक्राद्याः सकलाः सुराः | शरीरार्द्ध प्रदानस्य तपसे योजनस्य च || १८२ || एतस्य तत्त्वं जानन्ति महात्मानो महाबलाः | नन्दी भृङ्गी महाकालो वेतालो भैरवस्तथा || १८३ || अङ्गभूता महेशस्य वीतभीतास्तपोधनाः | ये मानुषशरीरेण प्रापिरे तपसो बलात् || १८४ || गणानामाधिपत्यं तु ते जानन्ति हरं परम् | एवं सदा त्वया योज्याः सानुगा नृपसत्तम् || १८५ || वनिता सत्क्रियोपायैस्ततो भद्रमवाप्स्यसि | य इदं शृणुयान्नित्यमद्भुतं पुण्यदायकम् || १८६ || शिवयोः प्रीतिकरणं शरीरार्द्ध ग्रहं तथा | गौरीत्वसाधानञ्चैव कालिकायाः शुभावहम् || १८७ || न तस्य विघ्ना जायन्ते स च पुण्यतमो मतः | दीर्घायुः स सुखी भूयात् पुत्रपौत्रसमन्वितः || १८८ || सततं परिश्र्ण्वानः शिवयोश्चरितं महत् | शिवलोकमवाप्नोति सुचिरं शिववल्लभः || १८९ || इति श्रीकालिकापुराणेऽर्द्धनारीश्वरचरिते पञ्चचत्वारिंशोऽध्यायः || ४५ || षट्चत्वारिंशोऽध्यायः सगर उवाच कोऽसौ भैरवनामाभूत् को वा वेतालसंज्ञकः | कथं वा तौ शरीरेण मानुषेण गणाधिपौ || १ || अभूतां द्विजशार्दूल तन्मे वद महामुने | जानामि नन्दिनं विप्र सहायं शशभृद्भृतः || २ || यथाभवद् गणाध्यक्षस्तन्नारदमुखाछ्रुतम् | यथा भृङ्गिमहाकालौ विश्रुतौ हि हरात्मजौ || ३ || कथं वा तौ समुत्पन्नौ त्वत्तः श्रोतुं समुत्सहे | योऽसौ शरभरूपस्य महादेवस्य वै पुरा || ४ || कायभागः श्रुतः पूर्व्ऽम् स महाभैरवाह्वयः | स एव किं भैरवाख्यः किं वान्यो द्विजसत्तम || ५ || वेत्तुं तत्त्वेन तत् सर्वमिच्छामि द्विजसत्तम | कस्य वा तनयौ भूत्वा गणाध्यक्षत्वमागतौ | तच्चापि कथयस्वाद्य यथा तौ वानराननौ || ६ || और्व्य उवाच शृणु राजन् प्रवक्ष्यामि महाकालस्य भृङ्गिणः | भैरवस्यापि चरितं वेतालस्य महात्मनः || ७ || योऽसौ भृङ्गी हरसुतो महाकालोऽपि भर्गजः | तावेव गौरीशापेन सम्भूय नरयोनिजौ || ८ || वेतालभैरवौ जातौ पृथिव्यां नृपवेश्मनि | यथा भृङ्गिमहाकालव्युत्पन्नौ प्राक् तथा शृणु || ९ || योऽसौ महाभैरवाख्यः सकायः शरभो हरः | भैरवः पृथगेवायं गणाध्यक्षो हरात्मजः || १० || ऊढायां हिमवत्पुत्र्यां भर्गेण सुमहात्मना | तारकस्य वधार्थाय देवैः शक्रपुरोगमैः | स्तुतिभिर्नतिभिः शम्भुं सन्ततिर्याचिता पुरा || ११ || स याचितो देवगणैर्भगवान् वृषभध्वजः | महामैथुनमारेभे सन्तानायोमया सह || १२ || आरब्धे मैथुने तेन नरवर्येण वै ययुः | द्वात्रिंशद् वत्सरा राजन् क्षणवच्चन्द्रधारिणः || १३ || स महामैथुनं कुर्वंस्तृप्तिं नाप महेश्वरः | माप्यस्य प्रच्युतं तेजो न तृप्तिं प्राप पार्वती || १४ || तन्महासङ्गसमये चकम्पे वसुधा स्फुटम् | आकुलाः सकला देवाः स्युः स्वर्गस्थाश्च येऽपरे || १५ || सर्वं जगत्तदा भूतमाकुलं शिवयोस्तयोः | ततो निवृत्तिजातेन महामैथुनकर्मणा || १६ || अथ सेन्द्राः सुराः सर्वं ब्रह्माणं जगतां पतिम् | शरण्य शरणं जग्मुर्भीताः शङ्करकेलिभिः || १७ || ते सम्भूयाथ धातारं प्रणम्य च सुरोत्तमाः | आकुलं सर्वमाचक्षुर्हरमैथुनकर्मणा || १८ || ततः सर्वान् देवगणान् पश्चात् कृत्वैव वृत्रहा | स्वयमाह विधातारं तत्कालभयभाषितम् || १९ || इन्द्र उवाच आकुलाः सकला लोका हरमैथुनकर्मणा | अहं महद् भयं प्राप्य शरणं त्वामिहागतः || २० || एवम्भूते सङ्गमे च शङ्करस्योमया सह | यः पुत्रो जायते ब्रह्मन् स मामभिभविष्यति || २१ || तत्क्रियादर्शनादेव सूत्पन्नादपि तत्सुतात् | ब्रह्मन् जातं भयं मेऽद्य तारकादपि चाधिकम् || २२ || तस्मादेवं त्वं विधेहि तत्सुतो मां सुरान् यथा | न बाधेत तथा यत्नात्तारयास्मान्महाभयात् || २३ || ब्रह्मोवाच उमायां जायते पुत्रो यदि शङ्करतेजसा | अशक्यः सर्वलोकेशैः सेन्द्रैरपि सुरासुरैः || २४ || अस्माद्धरो यथोमायां न प्रसूतो भविष्यति | तथाहं संविधास्यामि गत्वा देवैर्हरान्तिकम् || २५ || तारकस्य विघातश्च यथा स्याद्धरतेजसा | तच्चाप्यहं करिष्यामि व्येतु ते मानसो ज्वरः || २६ || और्व्य उवाच इत्युक्त्वा सह देवौघैः कैलासाद्रिं प्रजापतिः | जगाम रेमे गिरिशो गिरिपुत्र्या समं भृशम् || २७ || तत्र गत्वा महादेवं ब्रह्मा लोकपितामहः | सर्वैः सुरगणैः सार्धं तुष्टाव वृषभध्वजम् || २८ || देवा ऊचुः प्रीतये यस्य न रतिर्न कामो यन्मनोभवः | न यस्य जन्मनो हेतुस्तस्मै तुभ्यं नमो नमः || २९ || यस्य लोकहितायैव जातो जायापरिग्रहः | त्र्यम्बकाय नमस्तस्मै स शिवो नः प्रसीदतु || ३९ || यन्मन्मथं विना देवं शृङ्गाराद्या विशन्ति च | स्वबलेनैव तं देवं त्वां वयं प्रणता हरम् || ३१ || हिरण्यरेताः स्वर्णाभो यो हिरण्यभुजाह्वयः | स त्वं सर्गहरो देवो नित्यं नोऽभिप्रसीदतु || ३२ || जगन्मयी योगनिद्रा विष्णुमाया बलीयसी | तस्याभवत् स्वयं जाया तस्मै तुभ्यं नमो नमः || ३३ || पञ्चभूतमयं यस्य पञ्चशीर्षं विराजते | तं पञ्चवदनं देवं भक्त्या त्वां प्रणमामहे || ३४ || सद्योजातमघोरं च वामदेवमुमापतिम् | ईशानं प्रणमामोऽद्य यं तत्पुरुषमाह वै || ३५ || योऽसतामशिवो नित्यं यो वा भक्तिमतां शिवः | शिवाशिवस्वरूपाय नमस्तस्मै शिवाय ते || ३६ || रूपैस्त्रिभिर्यः थितिसृष्टिनाशं इष्ण्वात्मभिः शम्भुरिति प्रसिद्धैः | करोति शश्वज्जगतां नुमस्तं सिवं विरूपाक्षममुं शिवेशम् || ३७ || अः शूलखट्वाङ्गमृगाङ्कधारी यो गोध्वजः शक्तिमान् पञ्चरूपी | तस्मै तुभ्यं जातवेदः प्रभाय भूयो भूयो न नमः शङ्कराय || ३८ || ब्रह्मार्चिष्मान् भोगभृद्दैत्यहन्ता अन्ता योद्धा वीतगर्भो जगत्याः | स त्वं स्तुतो नः प्रसीदत्वनन्तो नित्योद्रेकी उक्तरूपः प्रधानः || ३९ || अरब्रह्मरूपी नियतैकमुक्तः परज्योतिरूपी नियतस्त्वनन्तः | अरः पाररूपी नियतात्मभागी अ नो भर्गरूपी गिरिशोऽस्तु भूत्यैः || ४० || उमापतिं महामायं महादेवं जगत्पतिम् | शिवं शिवकरं शान्तं नमानः स प्रसीदतु || ४१ || और्व्य उवाच इति स्तुतो महादेवः शक्राद्यैस्त्रिदशैः स्वयम् | उमासङ्गं परित्यज्य भर्गोऽगात्त्रिदिवौकसः || ४२ || येन भावेन स तदा महामैथुनतत्परः | आसीन् तेनैव भावेन ब्रह्मादीनां ससाद ह || ४३ || ईश्वर उवाच अथ तान् स सुरान् प्राह महादेवस्त्वरन्निव | किमर्थमागता यूयं तन्मे वदत निर्जराः || ४४ || देवा ऊचुः तमूचुस्त्रिदशाः सर्वे ब्रह्मशक्रपुरोगमाः | त्वन्महामैथुनाद्भर्ग व्याकुलं सकलं जगत् || ४५ || पृथिवी कम्पतेऽतीव सशैलवनकानना | सागराः क्षुभिताः सर्वे नदा नद्यश्च शङ्कर || ४६ || देवाश्च सर्वे दिक्पाला न शान्ति प्राप्नुवन्ति वै | तस्मात् त्वं सर्वलोकेश सकलाननुकम्पय || ४७ || त्यक्त्वा महामैथुनं तु रतिमात्रं नियोजय | और्व्य उवाच एतच्छ्रुत्वा वचस्तस्य ब्रह्मणः परमात्मनः | उवाच शङ्करो देवो नातिहृष्टमना इव || ४८ || ईश्वर उवाच इयं प्रवृत्तिर्भवतां शिवायामरसत्तमाः | त्यक्ते महामैथुने तु रतिमात्रं प्रयोजिते | नोमायां भविता पुत्रस्तदर्थमयमुद्यमः || ४९ || उमाशरीरजः पुत्रो यो भवेन्मम तेजसा | स एव तु रिपून् हत्वा त्रिदशान् वर्धयिष्यति || ५० || तस्मान्महामैथुने मेऽतीव भीताः सुरोत्तमाः | स्वं स्वं स्थानं प्रगच्छन्तु अहं तदनुचिन्तये || ५१ || देवा ऊचुः उमाशरीरजः पुत्रो यथा न भविता हर | तथा कुरु जगन्नाथ तन्महामैथुनं त्यज || ५२ || ईश्वर उवाच रतिमात्रेण नोमायां मत्पुत्रः सम्भविष्यति | महामैथुनसन्त्यागात् स्यादपुत्री तु पार्वती || ५३ || तस्मादहं तु देवानां वचनाद् ब्रह्मणस्तथा | त्यक्ष्ये महामैथुनं तु किं त्वेकं कुरुतामराः || ५४ || येन मे प्रसृतं तेजो महामैथुनकारणात् | धायं तेजस्विनं देवमानयन्त्वमरास्तु तम् || ५५ || यो निष्कम्पो निर्विकारो भूत्वा तेजो ग्रहीष्यति | तन्मे वदन्तु त्रिदशास्त्यक्ष्ये तेजः शरीरजम् || ५६ || और्व्य उवाच वृषध्वजवचः श्रुत्वा देवा ब्रह्मपुरोगमाः | हरतेजोग्रहायाथ वीतिहोत्रं ययुर्धिया || ५७ || अथ ब्रह्माणमामन्त्र्य तथानुज्ञाप्य पावकम् | सेन्द्रा देवगणाः सर्वे हरमूचुरिदं वचः || ५८ || देवा ऊचुः एष वैश्वानरः श्रीमान् भूरितेजोमयो वली | महामैथुनबीजं तु त्वत्तेजः सङ्ग्रहीष्यति || ५९ || और्व्य उवाच इत्युक्त्वा त्रिदशा सर्वे वीतिहोत्रं पुरः स्थितम् | तस्मै निदेशयामासुः शम्भवे सर्वहेतवे || ६० || अतः षडङ्गं स्वं रेतो व्यादिते दहनानने | उत्ससर्ज महाबाहुर्महामैथुनकारणम् || ६१ || अग्नावुत्सृज्यमानस्य तेजसः शशभृद्भृतः | अणुद्वयमतिस्वल्पं गिरिप्रस्थे पपात ह || ६२ || तयोस्तु कणयोः सद्य सम्भूतौ शङ्करात्मजौ | एको भृङ्गसमः कृष्णो भिन्नाञ्जानिभोऽपरः || ६३ || भृङ्गाभस्य तदा ब्रह्मा नाम भृङ्गीति चाकरोत् | महाकृष्णैकरूपस्य महाकालेति लोकभृत् || ६४ || ततस्तौ पालयामास शङ्करः प्रमथोत्करैः | अपर्णया चापि तथा क्रमात् तावतिवर्द्धितौ || ६५ || प्रवृद्धौ तौ महात्मानौ हरोमाप्रतिपालितौ | क्रमाद् गणेशौ कृत्वा तौ हरो द्वारि न्ययोजयत् || ६६ || सगर उवाच उत्सृष्टमग्नौ यत्तेजस्तत् किं वृत्तं द्विजोत्तम | तद्प्यहं श्रोतुमिच्छुः संक्षेपात् तद्वदस्व मे || ६७ || और्व्य उवाच अग्नावुत्सृज्य तेजांसि तावत्कालं वृषध्वजः | आकाशगङ्गामुद्दिश्य देवानिदमुवाच ह || ३८ || ईश्वर उवाच एतत् तेजो दुराधर्षं स्त्रीभिरन्यैः सुरोत्तमाः | योगनिन्द्रामृते देवीं शैलपुत्रीमृतेऽथ वा || ६९ || तस्मादहं प्रवक्ष्यामि यथेदं तेजसा सुतः | यत्र वा भविता देवो या च वा तद् ग्रहीष्यति || ७० || इयं त्वाकाशगा गङ्गा शैलराजसुतापरा | उमाया भगिनी ज्येष्ठा ततोऽपत्यं हुताशनात् || ७१ || जनिष्यत्यात्मवीर्येण तेजसानुपमद्युतिः | भविष्यति स वः श्रीमान् सेनापतिररिन्दमः || ७२ || स तारकं वः पुरतो विजेष्यति शिखिध्वजः | अमोघया महाशक्त्या मयैव प्रतिविर्धितः || ७३ || और्व्य उवाच इत्युक्त्वा स महादेवो विसृज्य सकलान् सुरान् | पार्वतीमभिसंमन्त्र्य शौचार्थं गतवांस्तदा || ७४ || पार्वती वचनं श्रुत्वा देवानामप्रियं सती | चुकोप त्रिदशौघाय पुत्राशापपरिवर्जिता || ७५ || मन्युना दह्यमानेव स्फुरदोष्ठाधरा तदा | इदमाह सुरान् दृष्ट्वा हरं च त्यक्तमैथुनम् || ७६ || देव्यु वाच यस्माद्वियोजितः शम्भुर्युष्माभिर्मम मैथुने | अजातपुत्रा च कृता वारस्त्रीवाहमर्दिता || ७७ || तस्मात् सर्वे सुरगणा अद्यावधि निरन्तरम् | महामैथुनविभ्रष्टा भवन्तु निजयोषिति || ७८ || तेषामपि तथा पुत्रा न जनिष्यन्ति मे यथा | भर्याश्च सन्त्वपत्येन हीना दैव्यो वराङ्गनाः || ७९ || यथाहं परितप्यामि पुत्राशापरिवर्जिता | तथा सन्तु समस्तास्ता देव्यः पुत्राशय च्युताः || ८० || और्व्य उवाच एवं सुरान् गिरिसुता शशाप कुपिता भृशम् | तत्कालावधि न स्वर्गे जायन्ते देवपुत्रकाः || ८१ || नाद्यापि सम्प्रजायन्ते पुत्रास्तासु सुधाशिनाम् | दहनोऽपि तथा काले प्राप्ते गङ्गोदरे स्वयम् | रेतः संक्रामयामास शाम्भवं स्वर्णसन्निभम् || ८२ || सा तेन रेतसा देवी सर्वलक्षणसंयुतम् | पूर्णकालेऽथ सुषुवे पुत्त्र्ययुग्मं मनोहरम् || ८३ || एकः स्कन्दो विशाखाख्यो द्वितीयश्चारुरूपधृक् | शक्तिद्वयधरौ द्वौ तौ तेजः कान्तिविर्धितौ || ८४ || तावेकत्वं जगामाशु विशाखः स्कन्द एव च | शिशुश्चाप्यभवद् यातो यथान्यस्य सुतस्तथा || ८५ || ततस्तं तनयं जातं तथा दृष्ट्वातिविस्मिता | मध्ये शरवणस्याशु गङ्गा तं व्यसृजद्घटात् || ८६ || विसृज्य गर्भं तं गङ्गा बहुलायै स्वयं तदा | गर्भवृत्तान्तमाचख्यौ जातं च व्यसृजद् यथा || ८७ || तच्छ्रुत्वा बहुला ज्ञात्वा महादेवतनूद्भवम् | परिगृह्य सुतं तं तु पालयामास कृत्तिका || ८८ || उमायाः शङ्करस्यापि विज्ञाप्यानुमते तयोः | ततो नीत्वा ददौ देव्यै तं पुत्रमरिमर्दनम् || ८९ || सोऽतिवृद्धः शक्तिधरो महाबलपराक्रमः | वर्धितः शङ्करेणाशु देवसेनाधिपोऽभवत् || ९० || ततः सुरारिं सगणं तारकं लोकतारकम् | शक्तिहस्तो हरसुतः प्रममाथ महाबलम् || ९१ || एवमग्नौ समुत्सृष्टं तेजो भर्गेण सङ्गतम् | यथा वृत्तं तथा तेऽद्य कथितं नृपसत्तम || ९२ || साम्प्रतं प्रस्तुतुअं श्राव्यं महाकालस्य भृङ्गिणः | वृत्तान्तं शृणु राजेन्द्र तौ भूतौ मनुजौ यथा || ९३ || इति श्रीकालिकापुराणेसट्चत्वारिंशोऽध्यायः || ४६ || सप्तचत्वारिंशोऽध्यायः और्व्य उवाच हरो यावद् जगत्यर्थे देववर्गैः प्रसादितः | तावन्महामैथुनेन हीनोऽभूदुमया सह || १ || वर्तते रतिमात्रेण स्वेच्छां सम्पूरयन् सदा | यथा मनोरथं देव्याः सततं पूरयन्मृडः || २ || अथैकदोमया सार्धं निगूढे रतिमन्दिरे | नर्माकरोन्महादेवो मोदयुक्तो रतिप्रियः || ३ || यदा सा नर्मणे याता गौरी स्मरहरान्तिकम् | तदा भृङ्गिमहाकालौ द्वाःस्थौ द्वारि प्रतिष्ठितौ || ४ || नर्मावसाने सा देवी मुक्तधम्मिल्लबन्धना | बन्धहीनं गलद्गात्राद्वस्त्रमालम्ब्य पाणिना || ५ || व्यस्तहारा गन्धपुष्पैराकुलैर्नातिशोभना | विलुप्तकुङ्कुमा दष्टदशनच्छदविभ्रमा || ६ || निःषृता रतिसङ्केलिनिलयाज्जलजानना | ईषदाघूर्णनयना निचिता स्वेदबिन्दुभिः || ७ || तां निःसरन्तीं सदनात् तथाभूतामनिन्दिताम् | अयोग्यां वीक्षितुञ्चन्यैर्वृषध्वजमृते पतिम् || ८ || ददशृतुर्महात्मानौ नातिहृष्टात्ममानसौ | भृङ्गी चापि महाकालः प्राप्तकालं चुकोपतुः || ९ || दृष्ट्वा तां मातरं दीनौ तथाभूतावधोमुखौ | चिन्तां च जग्मतुस्तीव्रां निशश्वसतुरुत्तमौ || १० || तौ पश्यन्तौ तदा देवी ददर्श हिमवत्सुता | चुकोप च तदापर्णा वाक्यं चैतदुवाच ह || ११ || एवंभूतां च मां कस्मादसम्बद्धावपश्यताम् | भवन्तौ तनयौ शुद्धौ ह्नीमर्यादाविवर्जितौ || १२ || यष्मादिमाममर्यादं भवन्तौ निरपत्रपौ | अकुर्वतां ततो भूयाद् सवतोर्जन्म मानुषे || १३ || मानुषीं योनिमासाद्य मदवेक्षणदोषतः | भविष्यन्तौ भवन्तौ तु शाखामृगमुखौ भुवि || १४ || इति तावुमया शप्तौ हरपुत्रौ महामती | भृङ्गी चैव महाकालः स्वमातुरन्तिकं तदा || १५ || तौ प्राप्तदुःखौ तु तदा दुर्मनस्कौ हरात्मजौ | शापं तस्या न सेहाते प्रोचतुश्चेदमद्विजाम् || १६ || अनागसौ सदैवावां भवत्या हिमवत्सुते | कथं शप्तौ त्वया मातर्हठादेवं प्रकोपया || १७ || नियोजितौ यथा द्वारि महेशेन त्वया सह | तथा नियोगं कुर्वन्तो तिष्ठावो द्वारि संयतौ || १८ || हठान्निःसरणं गेहात् तवैव न हि युज्यते | आगच्छन्त्या भवत्या तु दृष्टावावां सुसंयतौ || १९ || तस्मान्निरर्थकः कोपः को दोषस्तत्र चावयोः | तस्मात् तत्र प्रतीकारं शृणु मातरनिन्दिते || २० || त्वं मानुषी क्षितौ भूया हरो भवतु मानुषः | मानुषस्य हरस्याथ जायायां हरतेजसा || २१ || भवत्याश्चापि मानुष्यां भविष्यावस्तथोदरे | यदि सत्यं हरसुतावावां यदि निरागसौ || २२ || तदावयोरिदं वाक्यं सत्यमस्तु गिरेः सुते | इत्यन्योन्यमथो शापं दत्ता दत्त्वा सुदारुणम् || २३ || इविशुर्नृपशार्दूल गौरी हरसुतौ च तौ | अथ काले व्यतीते तु सर्वज्ञो वृषभध्वजः || २४ || तद्भावि कर्म ज्ञात्वैव मानुषो ह्यभवत् स्वयम् | ब्रह्मणो दक्षिणाङ्गुष्ठाद् दक्षो ब्रह्मसुतोऽभवत् || २५ || अदितिस्तत्सुता जाता ततः पूषाह्वयोऽभवत् | ऊष्णःपुत्रोऽभवत् पौष्यः सर्वशास्त्रार्थपारगः || २६ || यस्य तुल्यो नृपो न भूमौ न भूतो न भविष्यति | स पुत्रहीनो राजाभूत् पौष्यो नृपतिसत्तमः || २७ || शेषे वयसि संप्राप्ते भार्याभिस्तिसृभिः सह | पौष्यः परमया भक्त्या ब्रह्माणं पर्यतोषयत् || २८ || ब्रह्मोवाच तस्य प्रसन्नो भगवान् ब्रह्मा लोकपितामहः | तमुवाच च राजानं किमिच्छसि वदस्व मे || २९ || प्रसन्नोऽस्मि नृपश्रेष्ठ प्रदास्यामि यथेप्सितम् | यदिष्टं तव जायानां तद्वदिष्यसि साम्प्रतम् || ३० || पौष्य उवाच इरण्यगर्भपुत्रोऽहं पुत्रार्थी त्वामुपास्महे | त्वयि प्रसन्ने पुत्रो मे मूयाल्लक्षणसंयुतः || ३१ || एतदर्थे सभार्योऽहं भक्त्या त्वां समुपस्थितः | यथा मे जायते पुत्रस्तथा कुरु जगत्पते || ३२ || पुन्नाम्नो नरकात् पुत्रस्त्रायते पितरं प्रसूम् | अतस्तस्माद् भयं ब्र्हमंस्त्वं नाशयितेमर्हसि || ३३ || ब्रह्मोवाच शृणु पौष्य यथा भावी पुत्रस्तव कुलोद्वहः | तदहं ते वदाम्यह भार्याभिस्तत् समाचार || ३४ || इदं फलं गृहाण त्वं मया दत्तं नृपोत्तम | अजीर्णं बहुले काले प्राप्तेऽपि सुरसं सदा || ३५ || फलमेतत् समादाय तावत् संवत्सरत्रयम् | आराधय महादेवं स प्रसन्नो भविष्यति || ३६ || यथा सम्भाषते भर्गः फलमेतत् तथा भवान् | करिष्यति फल राजन् भार्याभिस्तिसृभिः सह || ३७ || ततस्ते लक्षणोपेतस्तनयः कुलवर्धनः | भविष्यति स्वयं शास्ता चक्रवर्ती वसुन्धराम् || ३८ || और्व्य उवाच इत्युक्त्वा प्रययौ ब्रह्मा राजापि सह भीरुभिः | हरं यष्टुं समारेभे भक्त्या परमया युतः || ३९ || निराशीः संयताहारः कदाचित् फलभोजनः | दृषद्वतीनदीतीरे फलं संस्थाप्य चाग्रतः || ४० || पुष्पार्घदीपधूपैश्च वृषभध्वजमतर्पयत् | स तु वर्षत्रयेऽतीते महादेवो जगत्पतिः || ४१ || पौष्यस्य नृपतेः सम्यक् प्रससादार्थसिद्धये | प्रसन्नः प्राह नृपतिं महादेवो हसन्निव | उपाससे किमर्थं मां तन्मे वद ददामि ते || ४२ || पौष्य उवाच अपुत्रोऽहं पुत्रकामस्तच्छृणुस्व वृषध्वज | यथाहं पुत्रवान् वै स्यां वृषध्वज तथा कुरु || ४३ || और्व उवाच इति स न्यगदद्राजा भार्याभिः सह हर्षितः | प्रणम्य स्तुतिपूर्वेण भक्तिनम्रात्ममानसः || ४४ || ततः पुत्रार्थिनं भूपं प्रसन्नो वृषभध्वजः | ब्रह्मदत्तं फलं हस्ते कृत्वेदं तमुवाच ह || ४५ || ईश्वर उवाच इदं फलं ब्रह्मदत्तं विभज्य नृपते त्रिधा | भोजयेथा स्वजायास्त्वं प्रहृष्टः सुस्थमानसः || ४६ || ततः प्रवृत्ते भवत एतासु ऋतुसङ्गमे | आधास्यन्ति तु गर्भास्तु भार्यास्ते युगपन्नृप || ४७ || कालं प्राप्ते च युगप्त् प्रसवो योषितां तव | भविष्यति नृपश्रेष्ठ तत्रेत्थं त्वं करिष्यसि || ४८ || एकस्या जठरे शीर्षभागस्ते सम्भविष्यति | अपरस्यास्तदा कुक्षेर्मध्यभागो भविष्यति || ४९ || अधो नाभ्यास्तु यो भागः सोऽपरस्यां भविषति | तच्च खण्डत्रयं भूप यथास्थानं पृथक् पृथक् || ५० || योजयिष्यसि पश्चात् ते पुत्र एको भविष्यति | तस्य शीर्षे चन्द्ररेखा सहजा सम्भविष्यति || ५१ || तेनैव नाम्ना स ख्यातिं गमिष्यति च भूतले | और्व उवाच इत्युक्त्वा स महादेवस्तासां गर्भान् स्वयं तदा || ५२ || संस्कर्तुं आह्नवीतोयमात्मवासाय वै ज्यधात् | ततः फले स्वयं देवः प्रविवेश वृषध्वजः || ५३ || तत्क्षणात् तत्फलं भूतं त्रिभागं स्वयमेव हि | पौष्यस्तत्फलमादाय मुदितः सह भार्यया || ५४ || प्रययौ मन्दिरं हृष्टो अनुज्ञाप्य वृषध्वजम् | ततः समुचिते काले प्राप्ते ताभिस्तु भक्षितम् || ५५ || तत्फलं नृपशार्दूल गर्भाश्चाप्यायिताः शुभाः | सम्पूर्णे गर्भकाले तु गर्भेभ्यः समजायत || ५६ || खण्डत्रयं पृथग्राजंस्तथा भर्गेण भाषितम् | तच्च खण्डत्रयं पौष्यौ यथास्थानं नियोज्य च || ५७ || एकपिण्डं चकाराशु तत्र पुत्रो व्यजायत | तस्य शीर्षे तदा राजन् सहजेन्दुकला शुभा || ५९ || विरराज यथा स्वस्था शरत्काले कला विधोः | तं सर्वलक्षणोपेतं पीनोरस्कं सुनासिकम् || ५९ || सिंहग्रीवं विशालाक्षं दीर्घायतभुजं तदा | दृष्ट्वा पौष्योऽथ भार्याभिस्तिसृभिः सह सम्मुदम् || ६० || लेभे दरिद्रः सत्कोषं प्राप्येअ विपुलं ततः | तस्य नामाकरोद्राजा ब्राह्मणैः स्वैः पुरोहितैः || ६१ || चन्द्रशेखर इत्येव कान्त्या चन्द्रमसः समः | ववृधे स महाभागः प्रत्यहं चन्द्रवत् सुतः || ६२ || कलाभिरिव तेजस्वी शरदीव निशाकरः | एवं तिसृणामम्बानां गर्भे जातो यतो हरः || ६३ || अतस्त्र्यम्बक नामाभूत् प्रथितो लोकवेदयोः | स राजपुत्रः कौमारीमवस्थां प्रापयत् तदा || ६४ || सर्वशास्त्रार्थ तत्त्वज्ञो विष्णोस्तुल्यो बभूव ह | बले वीर्ये प्रहरणे शास्त्रे शीले च तत्समः || ६५ || नान्योऽभूद् नृपशार्दूल नो वा भूमौ भविष्यति | अभिषिच्याथ तं राख्ये कुमारं बलवत्तरम् || ६६ || दशपञ्चैकवर्षीयं सर्वराजगुणैर्युतम् | तिसृभिः सहभार्याभिर्वनं पौष्यो विवेश ह | वृद्धोचितक्रियां कर्तुं राजा परमधार्मिकः || ६७ || गते पितरि राजा स वनवासं महाबलः || ६८ || सर्वां क्षितिं वशे चक्रे आमात्यश्चन्द्रशेखरः | सार्वभौमो नृपो भूत्वा राजभिः परिसेवितः || ६९ || अमरैरिव देवेन्द्रो विजहार श्रिया युतः | एवं पौष्यसुतो भूत्वा त्र्यम्बकः पुण्यनिर्वृतः || ७० || ब्रह्मावर्ताह्वये रम्ये करवीराह्वये पुरे | दृषद्वतीनदीतीरे राजा भूत्वा मुमोद ह || ७१ || अथैकदा स पितर वनवासगतं स्वयम् | मातृश्चापि नृपश्रेष्ठ द्रष्टुकामोऽभवन्नृपः || ७२ || स एकस्यन्दनेनैव एकाकी चन्द्रशेखरः | विपुलं धनुरादाय समार्गणगणं तदा || ७३ || तपोवनं पुण्यमयं विषयान्ते व्यवस्थितम् | आससाद दिदृक्षुः स तातं वृद्धं समातृकम् || ७४ || स गच्छन् पितुरभ्याशं नृपतिं चन्द्रशेखरः | ददर्श नमुचं नाम तपस्यन्तं महामुनिम् || ७५ || कृष्णाजिनोत्तरीयेण संवीतं सूर्यसन्निभम् | ऊर्ध्वगाभिर्जटाभिश्च संयुत ध्यानिनं कृशम् || ७६ || तपसा द्योतिततनुं निश्चलं कुशजासनम् | तं दृष्ट्वा दूरतो वीरो रथोपस्थादवातरत् || ७७ || उपतस्थे च विप्रेन्द्रं विनयानतकन्धरः | प्रणनाम मुनिं तं च वाक्यमेतदुदीरयन् || ७८ || पौष्यस्य तनयो ब्रह्मन् नाम्नाहं चन्द्रशेखरः | प्रणमामि महाभक्त्या भवन्तं मुनिसत्तमम् || ७९ || इत्युक्त्वा प्राञ्जलिस्तस्थौ मुनेस्तस्याग्रतो नृपः | नमुचस्य मुखं वीक्ष्य भक्तिनम्रात्ममानसः || ८० || पूर्वमेव यदा राजा प्राविशत् तपसे वनम् | तदैव सह भार्याभिस्तं मुनिं प्रत्यपूजयत् || ८१ || चिरमाराध्य नमुचं पौष्यः परमपण्डितः | प्रसादयामास मुनिं पुत्रार्थे सूनृताक्षरः || ८२ || विषयान्ते तपः कुर्वन् मुनिश्रेष्ठेह तिष्ठसि | एकन्तु प्रार्थये त्वत्तो यदि मां दयसे मुने || ८३ || शिशुर्मे तनयो राजा चन्द्रशेखरसंज्ञकः | सहजेन्दुकलायुक्तो बालभावाच्च चञ्चलः || ८४ || स चेद् भवन्तमासाद्य कराचिदपराध्यति | तदा क्षमिष्यसि मुने मयैतत् प्रार्थितं त्वयि || ८५ || पौष्यस्य वचनं श्रुत्वा मुनिश्चाङ्गीचकार ह | दृष्ट्वा तत्तनयं विप्रः पौष्यवाक्यमथास्मरत् || ८६ || स्मृत्वाग्रतः स्थितं नम्रं सुचिरं चन्द्रशेखरम् | इदं प्रोवाच स मुनिर्दयावान्नमुचाह्वयः || ८७ || विनयेनाद्य तुष्टोऽस्मि भवतः चन्द्रशेखर | वरं वरय दास्यामि वाञ्छितं मे महत्तरम् || ८८ || तस्य श्रुत्वा ततो वाक्यं नृपतिश्चन्द्रशेखरः | पुनः प्रणम्य नमुचमिदमाहातिसूनृतम् || ८९ || कायेन मनसा वाचा यदत्यर्थं द्विजोत्तम | तत्सर्वं विषये मेऽस्ति त्वादृशा यस्य दक्षिणाः || ९० || मनोगतं मे दुष्प्रापं वाञ्छनीयं न विद्यते | तदेव वरणीयं मे यद् ददाति स्वयं भवान् || ९१ || नमुच उवाच त्वं सप्तदशवर्षाणां प्राप्ते संवत्सरे परे | भविष्यसि नृपश्रेष्ठ वररामापतिः वयम् || ९२ || यथा गिरिसुता शम्भोर्यथा लक्ष्मीर्गदाभृतः | यथा सुरेशस्य शची तथा तेऽपि भविष्यति || ९३ || इत्युक्त्वा स मुनिर्भूपं नमुचस्तपसां निधिः | विसर्जयामास तदा स चापि मुदितो ययौ || ९४ || स गत्वा पितरं प्राप्य मातृश्च चन्द्रशेखरः | अपूजयद् यथार्हन्तु तैरप्याश्वासितः सुतः || ९५ || अथागतो नृपः स्वीयां करवीरपुरीं प्रति | मुदितः सचिवै सार्धं रेमे देवेन्द्रसन्निभः || ९६ || इति श्रीकालिकापुराणे सप्तचत्वारिंशोऽध्यायः || ४७ || अष्टचत्वारिंशोऽध्यायः और्व उवाच अवतीर्णे महादेवे पौष्यजायासुखेच्छया | मानुषेण प्रमाणेन गते संवत्सरत्रये || १ || गिरिजापि ककुत्स्थस्य राज्ञो भार्यास्वजायत | मेनकायां यथापूर्वं स्वेच्छया परमेश्वरी || २ || अथार्यावर्तविषये ब्रह्मण्यः शूरसत्तमः | इक्ष्वाकुवंशजो राजा ककुत्स्थो नाम धार्मिकः || ३ || भोगवत्याह्वयायां तु पुर्यां रिपुनिषूदनः | सर्वलक्षणसम्पन्नो भूपालगुणसंयुतः || ४ || तस्य भार्या महाभागा भर्गदेवस्य पुत्रिका | सा मनोन्मथिनी नाम्ना पूजिता पतिवल्लभा || ५ || तस्याः पुत्रशतं यज्ञे देवगर्भाभमच्युतम् | बलवीर्यसमायुक्तं ककुत्स्थनृपसत्तमात् || ६ || पुत्री न विद्यते तस्यास्तदर्थं सा गृहान्तरे | निभृतं स्थण्डिलं कृत्वा चण्डिकां समपूजयत् || ७ || पूज्यमाना महादेवी चण्डिका राजभार्यया | प्रसन्ना सा त्रिभिर्वर्षैस्तां स्वप्ने चाब्रवीदिदम् || ८ || योषिल्लक्षणसम्पन्ना सार्वभौमस्य भामिनी | नक्षत्रमालया युक्ता पुत्री तव भविष्यति || ९ || सापि स्वप्ने वरं प्राप्य मुदिताभून्नृपाङ्गना | सापि स्वप्ने वरं प्राप्य मुदिताभून्नपाङ्गना || १० || पार्वत्यपि स्वयं तस्या गर्भे काले विवेश ह | सा मनोन्मथिनी देवी प्रवृत्ते ऋतुसंगमे | गर्भं दधौ महासत्त्वं चन्द्रिकेवामृतोत्करम् || ११ || सम्पूर्णे तु ततः काले प्राप्ते नक्षत्रमालिनीम् | सा मनोन्मथिनी देवी सुषुवे तनयां शुभाम् || १२ || तां दृष्ट्वा हारसंयुक्तां शरज्ज्योत्स्नोपमां शुभाम् | ककुत्स्थो भार्यया सार्धमत्यर्थमुदितोऽभवत् || १३ || सहजेनाथ हारेण भूषिता तु ककुत्स्थजा | ववृधे मन्दिरे तस्य वर्षास्विव सुरापगा || १४ || तेनैव हारचिह्नेन तस्यास्तारावतीति वै | नामाकरोत पिता काले यथोक्ते नृपसत्तम || १५ || कालक्रमेण सा बाल्यं व्यतीता वरवर्णिनी | मञ्जुलं यौवनोद्भेदं प्राप श्रीरिव माधवे || १६ || सा श्रिया श्रियमन्वेति शौचेनाथ सती शुभा | सुशीलां शीलचरितैः स्वरूपेण च पार्वतीम् || १७ || तस्यास्तु यौवनोद्भेदं दृष्ट्वा राजा सुतैः सह | ककुत्स्थः कारयामास समयेऽथ स्वयंवरम् || १८ || माधवे मासि सम्प्राप्ते चन्द्रवृद्धौ शुभे दिने | स्वयंवरसभां चक्रे तारावत्याः पिता सुतैः || १९ || वार्तिकांस्तु बहून् राजा वडवाभिः क्रमेलकैः | तूर्णं प्रश्तापयामास नानादेशनृपान् प्रति || २० || ते राजानस्तदा श्रुत्वा वार्ता वै वार्तिकाननात् | तूर्णमेव समाजग्मुस्तारावत्याः स्वयंवरम् || २१ || तं श्रुत्वा पौष्यतनयश्चतुरङ्गबलैर्युतः | स्वयंवरं जगामाशु दिव्यालङ्कारसंयुतः || २२ || तत्र गत्वा नृपश्रेष्ठाः ककुत्स्थेन विनिर्मिते | स्वयंवरसभामध्ये यथायोग्यमुपस्थिताः || २३ || आसीनेष्वथ भूपेषु ककुत्स्थस्तनयां स्वकाम् | शुभे मुहूर्ते सम्प्राप्ते सभां नेतुं मनोऽकरोत् || २४ || एतस्मिन्नन्तरे राज्ञः कुमारी वरवर्णिनी | वृद्धां धात्रीं निजां सम्यक्सम्पूर्णज्ञानशालिनीम् || २५ || स्वयंवरसभां द्रष्टुं प्राहिणोत् सदसं प्रति | उवाच च तदा धात्रीं राजपुत्री सुमङ्गलाम् || २६ || स्वयंवरसभां गत्वा चारुरूपं सुलक्षणम् | नृपं निरूप्य भो धात्रि समक्षं मे निवेदय || २७ || त्वं मातर्मम कल्याणं सौभाग्यमपि वाच्छसि | यथा सौभाग्यदः स्वामी मम स्यात् त्वं तथा कुरु || २८ || एवं तां प्रेषयित्वाथ धात्रीं तां नृपपुत्रिका | सा मनोन्मथिनी यत्र प्राराधयत चण्डिकाम् || २९ || तत्र प्रायान् महाभागा शुभा तारावती तदा | तत्र गत्वा महादेवीं प्रणम्य कालिकाह्वयाम् || ३० || मानुषेणाथ भावेन तां ज्ञात्वात्मानमात्मना | प्रणनाम महाशक्त्या वाक्यं चैतदुवाच ह || ३१ || प्रणमामि महामायां योगनिद्रां जगन्मयीम् | सा मे प्रसीदतां गौरी चण्डिका भक्तवत्सला || ३२ || यदि सत्यं जनन्या मे मदर्थे त्वं प्रपूजिता | तेन सत्येन सुभगः पतिर्मम नृपोत्तमः || ३३ || स्वयंवरेऽद्य भवतु प्रसीद हरवल्लभे | इति तस्या वचः श्रुत्वा चण्डिका हरमोहिनी || ३४ || मोहयन्ति नृपसुतां यथात्मानं न वेत्ति च | तथा प्राहादृश्यमूर्तिरिदं सा सूनृतं वचः || ३५ || देव्युवाच पौष्यस्य तनयो योऽसौ नाम्नाभूच्चन्द्रशेखरः | स मनोहररूपस्ते प्रियः स्वामी भविष्यति || ३६ || तमिन्दुकलया शीर्षे चिह्नितं नृपसत्तमम् | वरयस्व वरारोहे पार्वतीव वृषध्वजम् || ३७ || इत्युक्त्वा विवरामाशु पार्वती नृपपुत्रिकाम् | सापि नत्वा तथादृश्यां हर्षोत्फुल्लविलोचना || ३८ || जगाम मङ्गलगृहं जनन्या यत्र वासिता | अथाजगाम सा धात्री निरूप्य सदृशं पतिम् || ३९ || तारावत्यास्तदाचष्ट रहस्यं नृपसत्तम | दृष्ट्वा तामग्रतो धात्रीं प्रहृष्टां नृपते सुता || ४० || पप्रच्छ निभृतं कीदृक् को वा दृष्टस्त्वया नृपः | दृष्ट्वा तामग्रतो धात्रीं प्रहृष्टां नृपते सुता || ४० || पप्रच्छ निभृतं कीदृक् को वा दृष्टस्त्वया नृपः | सा प्राह धात्री वचनात् तव भूपा विलोकिताः || ४१ || चारुरूपाः कुलीनाश्च शास्त्रै शस्त्रे च पारगाः | तेषामहं न शक्नोमि प्रवक्तुं सुबहून् गुणान् || ४२ || येषु मे रोचते तांस्तु कथयामि शुभप्रभे | चारुरूपा मया तेषु चत्वारः पुरुषाः शुभे || ४३ || दृष्टास्तत्रापि नासत्यौ देवौ द्वावपरौ नरौ | देवयोः कथने कृत्यं किंचिन्नापि न विद्यते || ४४ || यौ पुनः पृथिवीपालौ तयोरेकः सदारकः | नाम्ना सर्वांगकल्याणोऽथापरश्चन्द्रशेखरः || ४५ || नासत्ययोरेतयोस्तु विशेषो नास्ति कश्चन | रूपे शरीरसौभाग्ये सर्वे चातिमनोहराः || ४६ || नृपौ पुनर्महासत्त्वौ सिंहस्कन्धौ महाभुजौ | आरक्तपाणिनयनमुखपादकरोद्भवौ || ४७ || पीनोरस्कौ विशालाक्षौ लग्नभ्रूयुगलावुभौ | सर्वलक्षणसम्पूर्णौ देवालङ्कारमण्डितौ || ४८ || तयोरपि वयःस्थत्वात् प्रशस्तश्चन्द्रशेखरः | सुशीलः सूनृतवचाः शास्त्रे शस्त्रे च सम्मतः || ४९ || ईषदुद्भिन्नरोम्णा तु नीलेन चारु निर्मलम् | राजते वदनं तस्य लक्ष्मणेव निशाकरः || ५० || दीप्तिमत्यापि कलया राजते स निशापतेः | सहजेन शिरस्थेन साक्षात् स चन्द्रशेखरः || ५१ || स एव ते पतिर्योग्यश्चिह्नेनानेन सुन्दरि | तं त्वं वरय राजानं तव यीग्यं शुभोदयम् || ५२ || धात्र्याश्चैवं वचः श्रुत्वा राजपुत्री जगाद ताम् | मत्पार्श्वचारिणी भूत्वा निद्शय नृपोत्तमम् || ५३ || धात्रि सयंवरसभाप्रव्शसमये मम | तयोरायात्तदा राजा त्वन्योन्यं भाषमाणयोः || ५४ || सुतां स्वयंवरसभां नेतुं काले शुभोदये | स्वयं तदा ककुत्स्थस्तु सुताया मङ्गलालये || ५५ || आसाद्य पुत्रीं दयितां योषिद्भिः कृतमङ्गलाम् | माल्यं सुगन्धिपुष्पाणां करेणादाय तत्करे || ५६ || दत्त्वा चेदमुवाचाशु प्रापयन् मङ्गलालयात् | प्रविश्य समितौ मातर्माल्येनान्येन सत्तमम् || ५७ || यं त्वमिच्छसि राजानं द्विजं वा त्वं वरिष्यसि | एवमुक्त्वा शिविकया स्वाप्तैर्वृद्धैश्च पूरुषैः || ५८ || तामागतां सभां दृष्ट्वा शक्राद्यास्त्रिदशास्तदा || ५९ || अन्ये दिक्पतयश्चापि सभां तत्क्षणमागताः | सावतीर्य तदावाप्य यानात् तारावती मुदा || ६० || धात्र्या चानुगया युक्ता व्यचरत् सदसोऽन्तरे | सभामध्ये चिरं सा तु विहृत्य वरवर्णिनी || ६१ || भावित्वान्नियतेर्योगाच्चण्डिकायाः प्रसादतः | तयोः समत्वादेकत्वात्तया धात्र्या विबोधिता || ६२ || गतिस्वेदजहर्माम्भः कणिकानिचितानना | पतिं पूर्वतरं पुत्री राज्ञस्तारावती सती || ६३ || स्वयं सा पार्वती देवी वव्रे च चन्द्रशेखरम् | वृतं दृष्ट्वा तदा तन्तु ब्राह्मणाः सामगीतिभिः || ६४ || तयोर्वैवाहिकं चक्रुर्मङ्गलं यतमानसाः | वैतालिका गायकाश्च तथा तौर्यत्रिका नृप || ६५ || प्रशंसन्ति स्म गायन्ति वादयन्ति च कौतुकात् | सर्वे च त्रिदशा मोदमवापुश्चन्द्रशेखरे || ६६ || तारावत्या वृते चाथ ककुत्स्थोऽप्यतिहर्षितः | वृत्तान्तं वीक्ष्य ये भूपाः सुबाहुप्रमुखाः परे || ६७ || रुष्टास्तान् वारयामास समितौ चन्द्रशेखरः | ततो यातेषु देवेषु त्रिदिवं प्रति स्वेच्छया || ६८ || भूपेषु च प्रयातेषु ककुत्स्थेनार्चितेषु च | वैवाहिकेन विधिना स राजा चन्द्रशेखरः || ६९ || तारावतीं तदा भार्यां ककुत्स्थानुमते पुनः | संस्कृत्य ज्ञापयामास देवेभ्यो वैदिकैर्मखैः || ७० || पाणिग्रहणसंस्कारान् कृत्वा तां सहचारिणीम् | करवीरपुरायाशु प्रययौ चन्द्रशेखरः || ७१ || द्वाविंशत् तु सहस्राणि दासीनां प्रददौ पुनः | ककुत्स्थाख्यो विट्पतये तस्मिन्नुद्वाहकर्मणि || ७२ || गवां षष्टिसहस्राणि सौरभीणां तथैव च | दुहित्रे प्रददौ दायं दासान् दासीः प्रमाणतः || ७३ || अपरा या निजा पुत्री ककुत्स्थाख्यस्य भूपतेः | नाम्ना चित्राङ्गदा ख्याता रूपैस्तारावती समा || ७४ || दासीनामधिपा भूत्वा स्वयं चानुययौ तदा | तारावतीं भूपसुतां ज्येष्ठां स्वां भगिनीं शुभाम् || ७५ || तान् दासान् सुसमादाय ककुत्स्थतनयो महान् | ज्येष्ठो विश्वावसुर्नाम गच्छन्तं चन्द्रशेखरम् || ७६ || तारावत्या च सहितं स्यन्दनेनाशुगामिना | धीमाननुययौ पश्चात् करवीरपुरं प्रति || ७७ || तारावत्या सम राजा पौष्यजश्चन्द्रशेखरः | करवीरपुरे रम्ये रेमे नृपतिशेखरः || ७८ || इति स्वयं महादेवो मानुषीं योनिमाश्रितः | पार्वती च स्वयं जाता नरयोनिमनिन्दिता || ७९ || तथा भृङ्गी महाकाल एतयोरभवत् सुतः | तथा त्वं शृणु राजेन्द्र कथयामि समुद्भवम् || ८० || इति श्रीकालिकापुराणेऽष्टचत्वारिंशोध्यायः || ४८ || एकोनपञ्चाशोऽध्यायः मार्कण्डेय उवाच अथ काले व्यतीते तु ककुत्स्थतनया सती | विधातुमार्तवं स्नानं योषिद्भिः परिवारिता || १ || शीतामलजलां हृद्यां कलुषध्वंसकोविदाम् | प्रभिन्नाञ्जनसङ्काशां कलुषध्वंसकोविदाम् || २ || कृतस्नानामनुत्तिर्णामर्धमग्नां महासतीम् | ददृशे स्वर्णगौराङ्गीं कपोतो मुनिसत्तमः || ३ || कापोतं वपुरास्थाय प्राणिनां वधशङ्कया | विचचार यतः पूर्वं कपोतस्तेन स स्मृतः || ४ || तां दृष्ट्वा हेमगर्भाभां चन्द्रिकां शारदीमिव | कपोतः कामयामास कामबाणादितो भृशम् || ५ || कामाग्निपरितप्तः स ककुत्स्थतनयां मुनिः | अभिगम्याथ कल्याणीमिदं वचनमब्रवीत् || ६ || कपोत उवाच का त्वं कस्यासि वनिता पुत्री वा कस्य सुन्दरि | कस्मात् समागता वा त्वमुपांशु तटिनीजलम् || ७ || रूपं ते सौम्यमाह्लादि पूर्णचन्द्रनिभं मुखम् | तिलपुष्पप्रतीकाशं नासिकायुगलं तव || ८ || वातकम्पितनीलाब्जसदृशे लोचने तव | बाहू मनोहरौ वृत्तौ मृणालमृदुलायतौ | ऊरू गजकरप्रख्यौ मध्यं वेदिविलग्नकम् || ९ || ईदृशेन तु रूपेण न त्वं मानुषभामिनी | देवी वा दानवी वा त्वमप्सरोगुणशालिनी || १० || अथवा भोग्यभोगाय श्रीस्त्वं नारीत्वमागता | अपर्णा वा शची वा त्वं तन्मे वद मनोहरे || ११ || और्व उवाच इति वाक्यं मुनेः श्रुत्वा जलादुत्तीर्य भामिनी | प्रणम्य तं मुनिं नम्रा वचनं चेदमब्रवीत् || १२ || अहं तारावती नाम्ना ककुत्स्थस्य सुता सती | चन्द्रशेखरभूपस्य भार्यां जानीहि मां मुने || १३ || नाहं देवी न गन्धर्वी न यक्षी न च राक्षसी | मानुष्यहं नृपसुता चारित्रव्रतधारिणी || १४ || कपोत उवाच त्वां दृष्ट्वा मां स्वयं कामः सङ्गतः सङ्गमाय ते | पीडितश्चापि तेनाहं त्वया शक्त्या समक्षया || १५ || स्मरसागरकल्लोलपतितं मां निराकुलम् | त्वदूरुतरिणा त्राहि तूर्णं त्वं मृदुभाषिणी || १६ || मत्तः पुत्रद्वयं चारु रूपलक्षणसंयुतम् | भविष्यति महाभागे बलवीर्ययुतं महत् || १७ || मार्कण्डेय उवाच कपोतस्य वचः श्रुत्वा भयदुःखसमाकुला | जगाद गद्गदं वाक्यं वाग्मिन्यथ ककुत्स्थजा || १८ || तारावत्युवाच वाक्यमन्यन्मया कार्यं न कार्यमतिनिन्दितम् | तस्मान्मा वद मामित्थं प्रणम्य त्वां प्रसादये || १९ || तवापि नैतद् योग्यं स्यान्मुनेरिह तपोधन | तपःक्षयकरं गर्ह्यं सतीत्वभ्रंशकं मम || २० || कपोत उवाच तपोव्ययो वा चान्यद्वा दूषण तन्ममास्त्विह | तथापि त्वामहं त्यक्तुं नेच्छामि सुरतौ शुभे || २१ || अवश्यं मम कामेभ्यस्त्राणं कर्तुमिहार्हसि | अन्यथा कामदग्धोऽहं त्वया त्यक्तो मनोहरे || २२ || भवतीं च करिष्यामि शापदग्धां सबान्धवाम् | ततस्तद्वचनं श्रुत्वा देवी तारावती तदा | ऋषिशापभयात् साध्वी न किञ्चिच्चोत्तरं ददौ || २३ || सम्भाषयेऽहं स्वसखीरिह तिष्ठ महामुने || २४ || एवमुक्त्वा तदा देवी दासीनां मध्यमागता | चित्राङ्गदां समाहूय वचनं चेदमब्रवीत || २५ || चित्राङ्गदे मिनिरसौ मां वै कामयते भृशम् | किं करिष्ये सतीभावान्न भ्रष्टा स्यामहं कथम् || २६ || पतिं बन्धूंश्च कपोतः सद्यः शापाग्निना दहेत् | नाहं मुनिं कामये चेत् संशये पतिता त्वहम् || २७ || ततश्चित्राङ्गदा प्राह मा भैस्त्वं सत्यभाषिणि | तत्रोपायमहं वक्ष्ये यत्कृत्वा त्वं प्रमोक्ष्यसे || २८ || न जहाति मुनिश्चेत्त्वां दासीमेकां मनोहराम् | सुभूषणैर्भूषयित्वा मुनये त्वं नियोजय || २९ || कामातुरो मुनिर्मोहात् कृपणो ज्ञास्यते न हि | दासीं त्वद्भूषणाच्छन्नां ज्योत्स्नाच्छन्नां मृगीमिव || ३० || एवं कुरु महाभागे मा त्वं चिन्तां गमः शुभे | त्वं चेत् सतीति नियतं न ज्ञास्यति तदा मुनिः || ३१ || ततस्तारावती प्राह तां रूपगुणशालिनीम् | चित्राङ्गदां भूपपुत्रीं शश्वद्विनयसूनृताम् || ३२ || त्वमेव गच्छ भगिनी अपोताख्यमनिन्दिते | मद्भूषणैर्भूषयित्वा स्वशरीरं मनस्विनि || ३३ || अन्यां प्रस्थापितां विप्रः सम्बुध्य क्रोधवह्निना | धक्ष्यत्यवश्यं सकुलां मां तस्माद् गच्छ सुन्दरि || ३४ || त्वं मत्समा सर्वगुणैः सर्वभूषणभूषिता | मुनिं सङ्गमयस्वाद्य रक्ष मां सकुलां शुभे || ३५ || ततस्तस्या वचः श्रुत्वा विनयं च सकातरम् | तूष्णीं भूत्वा क्षणं तस्थौ नातिहृष्टमना इव || ३६ || जगाद च महाभागां चित्राङ्गदा ककुत्स्थजाम् | करिष्ये वचनं तेऽद्य समये मां स्मरिष्यसि || ३७ || यदर्थे पितरं चेमं भूपं च चन्द्रशेखरम् | आश्वासयिष्यति तथा समस्तां च सखीगणान् || ३८ || एवमुक्त्वा भूषणानि तारावत्याः पिधाय सा | चित्राङ्गदा जगामाशु मुनेः कामोत्सवाय च || ३९ || तारावती तदा दीन वस्त्रालङ्कारवर्जिता | दासीमध्यगता भूत्वा तामेवानुययौ प्रियाम् || ४० || तामायान्तीं ततो दृष्ट्वा अपोतः काममोहितः | मुनीनां परजायासु सस्मार सङ्गमं तदा || ४१ || प्रम्लोचा कामिता पूर्वं वतण्डस्य सुतेन वै | यथा वा कामिता पद्मा भरद्वाजेन धीमता || ४२ || तथाहं कामयिष्यामि साम्प्रतं वरवर्णिनीम् | पश्चात् तपोबलात् तद्वज्जायापापाद् विमोक्षये || ४३ || इति चिन्तयतस्तस्य तदा चित्राङ्गदा शुभा | समेत्य तं मुनिं लज्जायुक्ता चैषाह किञ्चन || ४४ || तामासाद्य महाभागः कपोतो मुनिसत्तमः | शृङ्गारवेषभावाय मदनं मनसास्मरत् || ४५ || स्मृतमात्रोऽथ मदनः स्वयमेत्य महामुनिम् | गन्धमाल्यैः सुवासोभिरध्युवासातिहर्षितः || ४६ || तेनाधिवासितो विप्रः अपोतश्चारुरूपधृक् | जज्वाल तेजसा चापि द्वितीय इव भास्करः || ४७ || मनोहरं तथा दृष्ट्वा अपोतं मदनोपमम् | तारावतीमृते सर्वाः सकामाश्चाभवन् स्त्रियः || ४८ || तारावती मुनि दृष्ट्वा सुन्दरं मदनोपमम् | विस्मयं परमं प्राप्ता मुनिं कामममन्यत || ४९ || अथ चित्राङ्गदा विप्रः कामुकः कामसङ्गमे | तदा नियोजयामास सुप्रीतश्चाभवत् क्षणात् || ५० || ततस्तस्यां समुत्पन्नं सद्योजातं सुतद्वयम् | देवगर्भोपमं दीप्तज्वलनार्कसमप्रभम् || ५१ || जाते सुतद्वये तां तु मुनिः संसृज्य पाणिना | निनाय पूर्ववद्भावं वचनं चेदमब्रवीत् || ५२ || मत्सङ्गमे कियत्कालं प्रिये तिष्ठ शुभानने | ममेच्छया यास्यसि त्वं भयं ते नास्ति राजतः || ५३ || एवमस्त्विति सा प्राह ऋषिं शापभयात् सती | ततो विसर्जयामास मुनिरन्याश्च योषितः || ५४ || ततस्तारावती देवी दासीभिः परिवारिता | भगिनीमनुशोचन्ती जगाम भवनं निजम् || ५५ || गत्वा तं सर्ववृत्तान्तं अपोतकृतमद्भुतम् | ब्रह्मावर्ताधिपायाशु सशंसाथ ककुत्स्थजा || ५६ || स श्रुत्वा नृपशार्दूलः क्षणमात्रं विचिन्त्य च | चित्राङ्गदायाः साहाययं अपोतानुमतेऽकरोत् || ५७ || अपोतोऽपि तदा तस्यां जातयोसुतयोस्तयोः | यथोक्तेनाथ विधिना संस्कारमकमोत्तदा || ५८ || सगर उवाच चित्राङ्गदा कथं पुत्री ककुत्स्थस्याभवत् तदा | तदहं श्रोतुमिच्छामि कथयस्व द्विजोत्तम || ५९ || और्व उवाच एकदा तु ककुत्स्थोऽसौ हिमवन्तं महागिरिम् | मृगयायै जगामाथ मृगाश्चापि निपातिताः || ६० || लम्बन्तीं सुरलोकात् तु भूमिं प्रति तदोर्वशीम् | विश्रामायोपविष्टस्तु सानौ वेश्यां ददर्श ह || ६१ || तामासाद्य महाराजः कामबाणप्रपीडितः | अवतीर्णा गिरौ शश्वदङ्गसङ्गमयाचत || ६२ || सा ज्ञात्वा नृपशार्दूलं ककुत्स्थं शक्रसन्निभम् | उर्वशी रमयामास गिरिकुञ्जे यथेप्सितम् || ६३ || ततो राज्ञः ककुत्स्थस्य स्वर्वेश्यायां तदा सुता | अभवन् नृपशार्दूलात् सद्योजाता मनोहरा || ६४ || अथ कामेन सन्तुष्टं ककुत्स्थं सा तदोर्वशी | थेष्टदेशं विज्ञाप्य गन्तुमैच्छदनिन्दिता || ६५ || तामाह राजा तनयां परित्यज्य कथं शुभे | गन्तुमिच्छसि चार्वङ्गि सुतामेनां तु पालय || ६६ || सा प्राहाहं स्वर्गगणिका मयि कस्य न चाभवत् | तनयस्तनया वापि सद्योजाता नृपात्मजा || ६७ || स्वतेजसा शरीरस्य विकारो मे न विद्यते | सुताश्चापि न पाल्यन्ते वेश्याभावात् स्वभावतः || ६८ || दयास्ति यदि ते पुत्र्यां नीत्वैनां वर्धय स्वयम् | गन्तुं मामनुजानीहि सत्यमेतद् ब्रवीमि ते || ६९ || इत्युक्त्वा सा जगामाशु यथेष्टं सोर्वशी नृपः | पुत्रीं तां समुपादाय नगरं स्वं विवेश ह || ७० || तस्याश्चित्राङ्गदा नाम स चकार नृपः स्वयम् | मनोन्मथिन्यै चादात् तां भार्यायै पुत्रिकां शुभाम् || ७१ || इदं च वचनं देवीं तदा प्राह नृपोत्तमः | देवि पुत्री ममेयं त्वमेनां पालय सद्गुणाम् || ७२ || मयानीतां शैलजातां मा हेलां कर्तुमर्हसि | इत्युक्ता राजपुत्री सा पालेन चाकरोन्मतिम् || ७३ || भर्तुराज्ञां पुरस्कृत्य नान्यत् किञ्चिदुवाच ह | सा चैकदा बाल्यभावादष्टावक्रं महामुनिम् || ७४ || व्रजन्तं जिह्ममेवाशु जहासोपजहास च | स चुकोप मुनिस्तस्यै शापं परमदारुणम् || ७५ || ददौ दासी स्ववंशस्य भवितेति ककुत्स्थजे | दासी भूत्वा स्ववंशस्य ह्यनूढैव सुतद्वयम् || ७६ || जनयिष्यसि पापिष्ठे ततो भद्रमवाप्स्यसि | एवं ककुत्स्थतनया जाता चित्राङ्गदा नृप || ७७ || दासी च भूता सा ते तारावत्या निवासिता | अनूढाप्यलभत् पुत्रयुग्मं मुनिवराच्छुभात् || ७८ || तौ च पुत्रौ महाभागौ महाकार्यं करिष्यतः | इति ते कथितं राजन् यथाचित्राङ्गदाऽभवत् | ककुत्स्थस्य सुता साध्वी प्रस्तुतं शृणु साम्प्रतम् || ७९ || इति शीकालिकापुराणे एकोनपञ्चशोऽध्यायः || ४९ || पञ्चाशोऽध्यायः और्व उवाच अथ काले व्यतीते तु पुनस्तारावती शुभा | आर्तवं विहितं स्नानं नदीं प्राप्ता दृषद्वतीम् || १ || दासीसहस्रैः संयुक्ता नानालङ्कारमण्डिता | रम्भादिभिर्यथेन्द्राणी तथा सा प्रत्यदृश्यत || २ || सावतीर्णा जले देवी गौराङ्गी तडिदुज्ज्वला | नदीमुज्ज्वलयामास भिन्नाञ्जनसमाम्भसम् || ३ || स्थलीं काचमयीं स्वच्छां काञ्चनीप्रतिमा यथा | स्वभासा ज्वलयामास प्रतिबिम्बेन सा तथा || ४ || अथ तां पुनरेवाथ कपोतो मुनिसत्तमः | आनाभिमग्नां तोयौघैर्ददर्श सुमनोहराम् || ५ || दृष्ट्वा तामथ पप्रच्छ तदा चित्राङ्गदां मुनिः | केयं जले दृषद्वत्यामवतीर्णा सखीशतैः || ६ || श्रिया ज्वलन्ती श्रीतुल्या किमपर्णा गिरेः सुता | अतीव भ्राजते रूपैर्न संस्तौषि च तां किमु || ७ || अथ तस्य वचः श्रुत्वा मुनेश्चित्राङ्गदा तदा | ऋषिशापभयात् साध्वी संस्तौमीति तदाऽब्रवीत् || ८ || इयं तारावती नाम ककुत्स्थस्य सुता सती | चन्द्रशेखरभूपालभार्याऽतिदयिता शुभा || ९ || एषा त्वया कामिता तु कामार्थं पूर्वतो मुने | स्वालङ्कारैरङ्कृत्य मां दत्त्वा ते गृहं गता || १० || सेयं पुनर्नदीं स्नातुं भगिनी मे समागता | ज्येष्ठां तां तु मुने वक्तुं न ते किञ्चिच्च युज्यते || ११ || त्वमत्र तिष्ठ विप्रेन्द्र ज्येष्ठा तां भगिनीं प्रियाम् | समाभाष्य समेष्ये त्वामनुजानासि चेद् गतौ || १२ || इति श्रुत्वा वचस्तस्या मुनिः स्नेहेन वञ्चनाम् | तारावत्या कृतां पूर्वं मुनिस्तस्यै चुकोप ह || १३ || इयं पापीयसी रामा वञ्चनामकरोन्मयि | तस्याः सङ्कालनञ्चाहं करिष्याम्यद्यनिश्चितम् || १४ || इत्युक्त्वा स तया सार्धं मुनिश्चिताङ्गदाख्यया | जगाम यत्र सा देवी स्थिता तारावती शुभा || १५ || गत्वा तां तु समासाद्य कपोतो मुनिसत्तमः | इदं तारावतीं प्राह कुपितः प्रहसन्निव || १६ || कामार्थं प्रार्थिता पूर्वं त्वं मया च्छद्मना त्वया | वञ्चितोऽस्मि दुराधर्षे धलं तस्य समापुहि || १७ || ममापि पुरतः पापे त्वं सतीति विकत्थसे | सतीत्वभ्रंशकं मां त्वं नैव कामितवत्यसि || १८ || तस्माद् बीभत्सवेषास्त्वां कपाली पलितो रहः | विरूपो धनहीनश्च कामयिष्यति वै हठात् || १९ || सद्योजातं पुत्रयुगं सश्रीकं वानराननम् | भविष्यति च ते पापे त्वेकाब्दाभ्यन्तरेऽधुना || २० || एतच्छ्रुत्वा मुनेर्वाक्यं प्राह तारावती मुनिम् | कोपाद् भयाच्च सा देवी स्फुरदोष्ठपुटा तदा || २१ || यदि सा पूजयित्वा तु चण्डिकां प्राप मां प्रसूः | यद्यहं व्रतिनी नित्यं भूपतौ चन्द्रशेखरे || २२ || ककुत्स्थस्य सुता सत्यं यद्यहं द्विजसत्तम | तेन सत्येन मे देवान्नान्यो मां कामयिष्यति || २३ || यदि सत्यं महादेवो नित्यमाराध्यते मया | तेन सत्येन मे देवादाराध्याच्चन्द्रशेखरात् || २४ || स्वप्नेऽपि मुनिशार्दूल नान्यो मां कामयिष्यति | इत्युक्त्वा सा मुनिं नत्वा स्वामिविन्यस्तमानसा || २५ || ययौ तारावती देवी स्वस्थानमिति भामिनी | तस्यां गतायां देव्यां तु चिन्तयामास तां मुनिः || २६ || ममैव पुरतश्चैषा निर्भीताति प्रवल्गते | अत्रान्तर्विनिगूढं तु बीजं शुद्धं भविष्यति || २७ || एवं विचिन्त्य स मुनिर्ध्यानसंयुक्तमानसः | दिव्यज्ञानपरो भूत्वा सर्ववृत्तान्तमाददे || २८ || यथा भृङ्गिमहाकालौ देव्या शप्तौ सुतावुभौ | प्रतिशापं यथा तौ तु ददतुः पार्वतीं हरम् || २९ || यथावतीर्णौ मानुष्ययोनौ तौ तु यदर्थतः | चित्राङ्गदा यथा जाता यदर्थं देवकन्यका || ३० || दिव्यज्ञानेन तज्ज्ञात्वा मुनिः किञ्चन नाकरोत् | चित्राङ्गदामादरेण समादाय मुनिस्ततः || ३१ || स्वस्थानं गतवान् विप्रः पूजयामास तां मुनिः | तारावती च तत्सर्वं चन्द्रशेखरभूपतेः || ३२ || वृत्तान्त मुनिशापस्य कथयामास भामिनी | तत्सर्वं पौष्यजो राजा स्वगतं चिन्तया युतः || ३३ || आश्वास्य दयितां भार्यां माभैर्देवीति सोऽचिरात् | सततं सेवया पत्युर्धर्मार्थपरिसेवनैः || ३४ || वर्जनादप्रशस्तानां मुनिशापोऽपनीयते | तस्मात् त्वं देवि सुभगे चारित्रव्रतधारिणी || ३५ || कल्याणभागिनी नित्यं नापदं समवाप्स्यसि | एवमुक्त्वा स राजा तु करवीरपुराधिपः || ३६ || प्रासादं कारयामास उच्चैरभ्रंकषं बहु | उच्चैश्चतुःशतं व्यामं त्रिंशद्योजनविस्तृतम् || ३७ || रत्नस्फटिकभूम्यन्तःखचितं रत्नकर्बुरैः | वैदूर्यपटलैः शुभ्रैश्छादितं सुमनोहरम् || ३८ || स्वर्णं रत्नतुलास्तम्भं विश्वकर्मविनिर्मितम् | रक्षार्थं कारयामास तारावत्याः प्रियङ्करम् || ३९ || रत्नसोपानसंयुक्तं वैदूर्यवलभीयुतम् | सौवर्णनीपसम्बद्धसुधर्मा अदृशं गुणैः || ४० || तस्यां समस्तभोग्यानि स्वादूनि च मृदूनि च | आप्तैरासादयामास पुरुषैश्चन्द्रशेखरः || ४१ || ततस्तारावतीं देवीमादाय चन्द्रशेखरः | नित्यं प्रासादपृष्ठं तमारुह्य रमते नृपः || ४२ || एवं संवत्सरं यावदन्यैरप्राप्यवेश्मनि | आप्तैरधिष्ठितद्वारि तां देवीं समरक्षत || ४३ || एकदा तु विना तेन करवीराधिपेन तु | उच्चैः प्रासादमारुह्य स्थिता तारावती सदा || ४४ || चिन्तयन्ती नृपं तं तु दयितं चन्द्रशेखरम् | तत्पदे न्यस्तमनसा सावित्रीव पतिव्रता || ४५ || आराध्य च महादेवं पार्वत्या सहितं तदा | इष्टां देवीं च सा देवी चिन्तयन्ती स्म च स्थिता || ४६ || तत्र सा चिन्तयन्ती तु त्र्यम्बकं चन्द्रशेखरम् | विवेद भेदं न तयोश्चन्द्रशेखरयोर्द्वयोः || ४७ || एवं प्रासादपृष्ठे तु स्थिता तारावती सती | सुधर्मामध्यगा देवि शक्रश्रीरिव भूषिता || ४८ || अथोमया समं देवो वियता चन्द्रशेखरः | आजगाम तदा गच्छन् प्रासादं प्रति तं नृप || ४९ || अदृशे सूत्तरन्ती सा उमायाः सदृशी गुणैः | सर्वलक्षण-सम्पूर्णा माधवस्येव माधवी || ५० || तां दृष्ट्वा न्यगदद् देवीं गौरीं वृषभकेतनः | स्मितप्रसन्नवदनः प्रहसन्निव भामिनीम् || ५१ || ईश्वर उवाच इयं ते मानुषी मूर्तिः प्रिये तारावतीति या | भृङ्गिमहाकालयोस्ते जन्मनो विहिता स्वयम् || ५२ || त्वत्तो ह्यनन्यकान्तोऽहं नान्यं गन्तुमिहोत्सहे | त्वमिदानीं स्वयं चास्यां मूर्त्यां प्रविश भामिनि | तत उत्पादयिष्यामि महाकालं च भृङ्गिणम् || ५३ || देव्युवाच ममैव मानुषी मूर्तिरस्यां वृषभकेतन | विशामि तेऽत्र वचनादुत्पादय सुतद्वयम् || ५३ || मम भृङ्गिमहाकाल कपोतानां च शापतः | एवं मोक्षो भवेद् भर्ग तस्मात् त्वं कुरुमत्प्रियम् || ५५ || और्व उवाच प्रविवेश ततो देवी स्वयं तारावतीतनौ | महादेवोऽपि तस्यां तु कामार्थं समुपस्थितः || ५६ || ततः सापर्णयाविष्टा देवी तारावती सती | कामयानं महादेवं स्वयमेवाभजन्मुदा || ५७ || तस्मिन्कालेऽभवद्गर्गः कपाली चास्थिमाल्यधृक् | वीभत्सवेशो दुर्गन्धः पलितोऽतिविरूपधृक् || ५८ || कामावसाने तस्यां तु सद्योजातं सुतद्वयम् | अभवन्नृपशार्दूल तथाशाखामृगाननम् || ५९ || तद्देहान्निःसृतापर्णा जातयोः सुतयोस्तयोः | मोहयित्वा यथात्मानं न जानाति ककुत्स्थजा || अहं औरी तथा भर्गभावेन मानुषेण तु || ६० || अथ तारावती देवी सुतौ दृष्ट्वा क्षितिस्थितौ | आतिव्रत्यात् परिभ्रष्टा आत्मानं वीक्ष्य भामिनी || ६१ || तथा बीभत्सवेशं तु हरं दृष्ट्वाग्रतः स्थितम् | मुनिशापं तदा मेने प्राप्तं कालान्तकोपमम् || ६२ || इति शोकविमुढा च निनिन्द च सतीव्रतम् | इदं चोवाच तं वीक्ष्य महादेवं त्रिशूलिनम् || ६२ || मुनिव्रतादपि वरं नारीणां च सतीव्रतम् | इति स्म सततं धीरा व्याहरन्ति पुराविदः || ६४ || न तत्सत्यमहं मन्ये यत्प्रवृत्तं ममेदृशम् | इत्युक्त्वा सा तदा देवी शुशोच च मुमोह च || ६५ || तामाहाथ महादेवो मा कार्षीस्त्वं वरानने | शोकं सतीव्रतं चापि मा निन्द त्वं सुचेतने || ६६ || अपोतेन यदा शप्ता त्वं तदैव तदग्रतः | उक्तवत्यसि दीर्घाक्षि यत् तद्भूतं तवाधुना || ६७ || यदि सत्यं महादेवी नित्यमाराध्यते मया | तेन सत्येन मे देवादाराध्याच्चन्द्रशेखरात् || ६८ || स्वप्नेऽपि मुनिशार्दूल नान्यो मां कामयिष्यति | सोऽहमेव महादेव आराध्यश्चन्द्रशेखरः || ६९ || त्वं मया कामिता चापि मा कार्षीः शोकमङ्गने | इत्युक्त्वा स महादेवस्तत्रैवान्तरधीयत || ७० || मायया मोहिता देवी तत्र तारावती सती | भूमौ मलिनवेशेन मन्युना समुपाविशत् || ७१ || सुतौ च पतितौ भूमौ सा देवी नासभाजयत् | भर्तुरागमनं शश्वत् काङ्क्षन्ती भर्गभाषितम् || ७२ || न रराज गृहे चापि मुक्तकेशी तथास्थिता | अथ क्षणान्महाभागः स राजा चन्द्रशेखर || ७३ || प्रासादपृष्ठमागच्छद् द्रष्टुं तारावतीं तदा | स तं प्रासादमारुह्य जायां तारावतीं तदा || ७४ || ददर्श पतितां भूमौ मुक्तकेशीं निरुत्सवाम् | श्यामाननां श्वसन्तीं च अत्यगर्हण तत्पराम् || ७५ || सुतौ च पतितौ भूमौ सूर्याचन्द्रमसौ तदा | वानरास्यौ स ददृशे पदक्षोभं वृषस्य च || ७६ || इति सर्वमवेक्ष्याथ सा राजा चन्द्रशेखरः | भीतश्च विस्मितश्चैव भार्यां पप्रच्छ सम्भ्रमात् || ७७ || किं किं तारावति तव प्रवृत्तं निर्जने गृहे | को वा धषितवांस्त्वां हि शिवः सिंहवधूमिव || ७८ || कस्य वा पृथुकावैतौ प्रोद्दीप्तौ वानराननौ | तन्मे द्रुतं समाचक्ष्व को वा त्वां कामितोऽपरः || ७९ || और्व उवाच एवमुक्ता तु भूपेन तदा तारावती सती | वृत्तान्तं कथयामास सकलं चन्द्रशेखरे || ८० || यथा समागतो भर्ग उत्तरं च यथोक्तवान् | तत्सर्वं कथयामास बाष्पकण्ठा सगद्गदा || ८१ || तस्यास्तद्वचनं श्रुत्वा चिन्तयंश्चन्द्रशेखरः | किं वृत्तमिति विज्ञातुं भूतले समुपाविशत् || ८२ || स्वगतं चिन्तयन् राजा चकारेमां विचारणाम् | अनन्यकान्तो गिरिशः स नान्यां पार्वतीमृते || ८३ || कामयिष्यति तस्मात् स न भर्गः परमेश्वरः | ऋषिशापो हि बलवांस्तच्छापादेव राक्षसः || ८४ || कोऽपि मायाबलोपेतः शङ्करच्छद्मनागतः | एषा सती प्रिया भार्या राक्षसेनापि दूषिता || ८५ || कथं चेयं मया ग्राह्या पूर्ववत् सर्वकर्मसु | एतौ च तनयौ तस्य सद्योजातौ च राक्षसौ || ८६ || अन्यथा वा कथंभूतौ शाखामृगमुखौ सुतौ | एवं चिन्तयतस्तस्य देवौघविनियोजिता || ८७ || सरस्वती वियत्स्था तु राजानमिति चाब्रवीत् | न त्वया संशयः कार्यस्तारावत्यां नृपोत्तम || ८८ || सत्यमेव महादेवो भार्यां वव समेयिवान् | एमौ च तनयौ तस्य राजंस्त्वं परिपालय || ८९ || योऽन्यस्ते संशयोऽत्रास्ति नारदस्तं विनेष्यति | इत्युक्त्वा विररामाशु वाग्देवी प्रियवादिनी || ९० || जातसम्प्रत्ययो राजा भार्यामाश्वासयत्तदा | सुतौ तु देवदेवस्य संस्कृत्य विधिना तदा || ९१ || पालयामास नृपतिराकाङ्क्षान्नारदागमम् | अथाजगाम देवर्षिर्नारदस्तस्य मन्दिरम् || ९२ || पूजाभिर्बहुभिस्तं तु प्रत्यगृह्णात् स भूपतिः | पूजयित्वा यथान्यायं तारावत्या समं नृपः || ९३ || उच्चैः प्रासादमतुलं सुरेशभवनोपमम् | आरोहयामास तदा तं मुनिं चन्द्रशेखरः || ९४ || तत्रोपांशु तदा राजा सभार्यश्चन्द्रशेखरः | पूर्वप्रवृत्तवृत्तान्तमपृच्छच्चन्द्रशेखरः || ९५ || पूतोस्स्म्यनुगृहीतोऽस्मि भवता ब्रह्मसूनुना | अन्तर्बहिश्च विप्रेन्द्र तुङ्गप्रासादगामिना || ९६ || एकं मे संशयं ब्रह्मंश्छेतूमर्हसि हृद्गतम् | त्वदन्यः संशयस्यास्य च्छेत्ता नैवास्ति कुत्रचित् || ९७ || ऋषिशापेन भार्येयं मम तारावती सती | बीभत्सवेशाकृतिना धर्षिता कृत्तिवाससा || ९८ || तस्यात्मजौ समुत्पन्नौ सद्योजाताविमौ पुनः | अत्र मे संशयं शाश्वन्नित्यं चित्ते प्रवर्तते || ९९ || अनन्यकान्तो गिरिशो गिरिजां पार्वतीमृते | कथं सङ्गमयामास मानुषीं हीनजन्मजाम् || १०० || कथमुत्पादयामास अनुष्यौ तनयौ स्वकौ | एदत्सर्वं समाचक्ष्व यदि गुह्यं न ते भवेत् || १०१ || और्व उवाच इति पृष्टः स तु मुनिश्चन्द्रशेखरभूभृता | कथयामास तत्सर्वं नारदो मुनिसत्तमः || १०२ || यथा भृङ्गिमहाकालौ समुत्पन्नौ पुरातनौ | यथा शप्तौ च पार्वत्या तौ ओदाहरतां यथा || १०३ || यथा पौष्यसुतो जातो भर्गः स चन्द्रशेखरः | तारावती ककुत्स्थस्य गृहे गौरी यथाभवत् || १०४ || तत्सर्वं कथयामास नारदश्चन्द्रशेखरे | इदं च परमाख्यानं कथयामास नारदः || १०५ || नारद उवाच ब्याजहार यदापर्णां कालीति वृषभध्वजः | तदोमा तपसे याता वपुर्गौरत्वकाङ्क्षया || १०६ || अमर्षयुक्ता वचनाच्छङ्करस्य गिरेः सुता | विनीयमाना भर्गेण सानुं हिमवतो गिरेः || १०७ || तस्यां गतायां पार्वत्यां शङ्करो विरहार्दितः | कैलासाद्रिं परित्यज्य मेरुपृष्ठं तदा ययौ || १०८ || तत्रापि शर्म नो लेभे पार्वत्या च विनाकृतः | मोहितः कामदेवेन तथा वै योगनिद्रया || १०९ || अथैकदा मेरुपृष्ठे चरन्तीं सुमनोहराम् | सावित्रीं ददृशे शम्भुः पार्वत्याः सदृशीं गुणैः || ११० || तां दृष्ट्वा मदनाविष्टः पार्वत्या विरहादितः | अविद्यया समाविष्टो बभूव प्राकृतो यथा || १११ || अथ तां पार्वतीभ्रान्त्या चरन्तीमन्वधावत | एहि मां पार्वति शुभे भवद्विरहपीडितम् || ११२ || प्रहरत्येष मां कामः पर्ववैरमनुस्मरन् | मम तत्र प्रतीकारं उरु सम्प्रति वल्लभे || ११३ || इत्युक्त्वा विमुखीं यान्तीं सावित्रीं वृषभध्वजः | स्कन्धे हस्तेन पस्पर्श सा चुकोप ततो भृशम् || ११४ || अथ सा सम्मुखी भूत्वा सावित्र्यतिपतिव्रता | इदमाह महादेवं गर्हयन्ती वृषध्वजम् || ११५ || किं त्वं पशुपते मूर्ख मानुषः प्राकृतो यथा | निरस्य कलहैर्भार्यामनुनेतुमिहार्हसि || ११६ || विमूढचेतनः कामैस्त्वं संस्तौषि परस्त्रियम् | असंस्तुत्वापि सम्प्रष्टुं मादृशीं युज्यते तव || ११७ || किमहं पार्वती मूढ येन मत्स्कन्धदेशतः | हस्तं ददास्यविज्ञाय सावित्रीं विद्धि मां सतीम् || ११८ || अस्मान्मानुषवन्मां त्वमनुजानासि बर्बर | तस्मात् त्वं मानुषीयोन्यां सुरतं संविधास्यसि || ११९ || औरीमृते नान्यकान्तस्त्वमन्यां तु समीहसे | तस्यैतत्फलितं भर्ग गच्छ मां त्वं परित्यज || १२० || इत्युक्त्वा सा गता देवी स्वमाश्रमपदं सती | लज्जाविस्मयसंयुक्तो हरोऽप्यायात् निजास्पदम् || १२१ || अतोऽयं मानुषीयोनौ सुरत शङ्करोऽकरोत् | तस्मान्निः संशयं राजन्निमां तारावतीं सतीम् | दयस्व तनयावेतौ भर्गस्य प्रतिपालय || १२२ || और्व उवाच ततः स राजा श्रुत्वैव नारदस्य मुखात् तदा | आत्मनः शम्भुरूपत्वं गौरी तारावतीति च | मनुष्ययोनावुत्पन्नावुमावृषभकेतनौ || १२३ || श्रुत्वातिहर्षितो राजा विस्मितो नारदं पुनः | पप्रच्छ मुनिशार्दूल विज्ञातुमिति चात्मनः || १२४ || शङ्करत्वं च गौरीत्व तारावत्याः समक्षतः | यथाहं तत्तु पश्यामि तं मां ज्ञापय निश्चितम् || १२५ || नारद उवाच अङ्के तारावतीं कृत्वा अक्षिणी त्वं निमीलय | क्षणं तारावती चापि निमीलयतु चक्षुषी || १२६ || निमील्य पश्चाद्राजेन्द्र न्मीलय ततो द्रुतम् | ततस्ते शाम्भवं ज्ञानं रूपं चापि भविष्यति || १२७ || इत्युक्तो नारदेनाथ स राजा चन्द्रशेखरः | वामेन पाणिना धृत्वा देवीं तारावतीं सतीम् || १२८ || चक्षुषी च तया सार्धं निमील्योन्मील्य तत्क्षणात् | तन्निमीलनकाले तु तस्याभूच्छम्भुरूपता || १२९ || गौरीरूपाऽभवद् देवी ततस्तारावती सती | अहं शम्भुरहं गौरीति विज्ञानं तयोरभूत् || १३० || ततः प्रोवाच तं शम्भुं नारदः प्रहसन्निव | शम्भुः साक्षाद् भवान् गौरी देवी तारावती स्वयम् || १३१ || प्रत्यक्षं ते महाभाग सम्पश्यात्मानमात्मना | ततो राजा भवत्वेवमित्युक्त्वाथ स्वकां तनुम् || १३२ || व्याघ्रचर्मपरीधानां दशभिर्बाहुभिर्युताम् | त्रिशूलखट्वाङ्गधरां शक्त्यादिधृतहस्तकाम् || १३३ || वृषभोपरि संस्था तु जटाजूटविभूषिताम् | तारां च विद्युद्गौराङ्गी पद्महस्तां शुभाननाम् || १३४ || वीक्ष्य सम्प्रत्ययं प्राप ज्ञानेनापि तदात्मनि | ततस्तु नारदः प्राह शृणु राजन् वचो मम || १३५ || नृयोनौ वैष्णवी माया युवां पूर्वममोहयत् | तेन तेन शरीरेण शम्भुत्वं नेक्षितं त्वया || १३६ || अधुना दर्शिता तेऽद्य शम्भुना शम्भुरूपता | निमील्य नयनद्वन्द्वं पुनस्त्वं याहि मर्त्यताम् || १३७ || आसाद्य मानुषं भावमादेहान्तं स्थिरो भव | तथा तारावती देवी तूर्णं भवतु मानुषी || १२८ || और्व उवाच आत्मनो देवरूपत्वं ज्ञात्वा दृष्ट्वाऽथ चक्षुसा | जात सम्प्रत्ययो राजा न्यमीलयत लोचने || १४९ || ततस्तारावती देवी न्यमीलयत चक्षुषी | पुनस्तौ मानवौ जातौ महिषी नृपतिस्तथा || १४० || उन्मील्य तौ तु नेत्राणि मानुषत्वं तदात्मनोः | दृष्ट्वा आवां तथा मर्त्याविति ज्ञानमभूत् तयोः || १४१ || ततो विमोहितौ तौ तु दम्पती विष्णुमायया | अहं राजा च महिषी अहमित्यभवन्मतिः || १४२ || तस्यां सुतौ तु जायायां देवांशाविति तन्मती | आवां स्थिता कला मूर्ध्नि अभूतां जातचिह्नितौ || १४३ || ततः स राजा न्यगदत् तं मुनिं नारदं मुदा | सत्यमेतत् त्वया प्रोक्तं करिष्ये वचनं तव || १४४ || पालयिष्ये शम्भुपुत्रौ सत्यलभ्ये सदैव हि | किन्त्वेतौ मुनिशार्दूल त्वं संस्कुरु यथाविधि || १४५ || और्व उवाच ततस्तयोर्नाम चक्रे नारदो वचनान्नृप | ज्येष्ठो भैरवनामाऽभूद् औरीपुत्रो भयङ्करः || १४६ || वेतालसदृशः कृष्णो वेतालोऽभूत् तथापरः | इति चक्रे तयोर्नाम देवर्षिब्रह्मणः सुतः || १४८ || अन्यांश्च सर्वान् संस्कारान्नारदो मुनिसत्तमः | चकार क्रमशो वाक्याच्चन्द्रशेखरभूभृतः || १४८ || एवं सर्वान् संशयांस्तु सञ्छिद्य मुनिसत्तमः | संस्कृत्य भर्गतनयौ विसृष्टस्तेन भूभृता || १४९ || ययाआकाशमार्गेण नाकपृष्ठं स नारदः | नारदे तु गते राजा मुदितश्चन्द्रशेखरः || १५० || तारावत्या समं रेमे करवीराह्वये पुरे | शम्भोरंशोऽहमित्येवं गौर्यास्तारावतीति च || १५१ || जातश्रद्धस्तदा राजा शशास सुचिरं क्षितिम् | तनयौ च हरस्याथ तदा वेतालभैरवौ || १५२ || ववृधाते महात्मानौ शरच्चन्द्राविवोद्यतौ | चन्द्रशेखरभूपस्य तारावत्यां नृपोत्तमः || १५३ || त्रयः पुत्रा महावीर्या रूपसम्पत्-समन्विताः | ज्येष्ठस्तत्रोपरिचरो दमनोऽलर्क एव च || १५४ || वेतालभैरवाम्यां तु ज्यायांसस्तेऽभवंस्त्रयः | एवमेते त्रयः पुत्राश्चन्द्रशेखरभूभृतः || १५५ || वेतालभैरवौ चापि सद्योजातौ हरात्मजौ | समानभोगा ववृधुश्चन्द्रशेखरभूभृतः | पालितास्तु सभार्येण समानासनवाहनाः || १५६ || इति पञ्चसुता महाबलाः पञ्चभूतसदृशाः कृता विधेः | ववृधिरे प्रथमं सकलं जगत् समतीत्य मुदा बलदर्पिताः || १५७ || इति श्रीकालिकापुराणे पञ्चाशोध्यायः || ५० || एकपञ्चाशोऽध्यायः और्व उवाच अथ कालक्रमेणैव प्रवृद्धास्ते महाबलाः | शस्त्रास्त्रज्ञानकुशलाः शास्त्रार्थपरिनिष्ठिताः || १ || सम्प्राप्तयौवना दीप्ता दुर्धर्षाः परिपन्थिभिः | धमार्थज्ञानकुशला ब्रह्मण्याः सत्यवादिअनः || २ || सदा सहचरौ तत्र प्रीत्या वेतालभैरवौ | अलर्कौ दमनश्चैव तथोपरिचरस्त्रयः | सदा सहचरा नित्यं भ्रातरश्चान्द्रशेखराः || ३ || त्रिष्वात्मजेषु नृपतेः सदोपरिचरादिषु | ममत्वमधिकं नित्यं प्रीतिस्नेहौ तथाधिकौ || ४ || वेताले भैरवे चापि चन्द्रशेखरभूभृतः | नास्त्येव तादृशी प्रीतिर्यादृशी तेषु जायते || ५ || न तौ दृष्ट्वा स नृपतिः कदाचिच्चन्द्रशेखरः | अत्याह्लादयतेऽजस्रं पुत्रबुद्धयेष्यतेऽथवा || ६ || तौ वीरौ धर्मकुशलौ महाबलपराक्रमौ | त्रैलोक्यविजये दक्षौ शस्त्रास्त्रग्रामपारगौ || ७ || ताभ्यां बिभेति च नृपः कदा किंवा करिष्यतः | वेतालभैरवावेतौ मां सुतान् राज्यमेव वा || ८ || इति चिन्तापरो राजा नित्यमेव निरीक्षते | प्रणतावपि तत्पुत्रौ सम्यग् वेतालभैरवौ || ९ || अथोपरिचरं राजा यौवराज्येऽभ्यषेचयत् | ज्यायांसमौरसं पुत्रं सर्वराजगुणैर्युतम् || १० || यः पश्चात् सर्वभूपालान् योजयिष्यति नीतिभिः | राजोपरिचरो नाम सर्वशास्त्रार्थपारगः || ११ || दमनाय ददौ दायं तथालर्काय भूमिभृत् | प्रभूतधनरत्नानि तथासनरथान् बहून् || १२ || तावन्ति नददौ ताभ्यां दायवित्तानि भागशः | वेतालभैरवाभ्यां तु ततस्तौ मन्युराविशत् || १३ || मन्युनाभिपरीतौ तौ विचरन्तावितस्ततः | न भोगमीप्सतां वीरौ तपसे च कृतोद्यमौ | अनूढभार्यौ सततं निर्जने वसतः सदा || १४ || तथाभूतौ तदा पुत्रौ देवौ वेतालभैरवौ | बुबुधे चिन्तयाक्रान्ता देवी तारावती तदा || १५ || राजोपरिचराद् भीता पत्युश्च चन्द्रशेखरात् | नोवाच किञ्चित सुदतीच्छन्नं तौ बौधयत्यपि || १६ || एतस्मिन्नन्तरे विद्वान् कपोतो मुनिसत्तमः | चित्राङ्गदासङ्गभोगी सन्तुष्टः सुरतोत्सवैः || १७ || चित्राङ्गदां परित्यज्य सपुत्रां सहचारिणीम् | येष गन्तुं स प्रोचे तदा चित्राङ्गदां वचः || १८ || मुनिरुवाच चित्राङ्गदे तपस्तप्तुं गमिष्यामि तपोवनम् | किं ते प्रियं करोमीह तं मे वद मनोहरे || १९ || चित्राङ्गदोवाच तम्बुरुश्च सुवर्चाश्च तनयौ तव सुव्रत | एतयोस्त्वं मुनिश्रेष्ठ प्रियं कुरु यथोचितम् || २० || मां चापि भगिनीगेहे संस्थाप्य द्विजसत्तम | तदा तपोवनं गच्छ यदि ते रोचतेऽनघ || २१ || इति श्रुत्वा वचस्तस्याः कपोतो मुनिसत्तमः | हिरण्यार्थं अमालोच्य कुबेरसदनं ययौ || २२ || प्रार्थयित्वा कुबेरं तु सुवर्णानां शतानि षट् | निष्काणां तु सहस्राणि स लेभे मुनिसत्तमः || २३ || शतं भारांश्च रत्नानामानीय व सवीवधैः | पुत्राभ्यां प्रददौ विप्रो भार्यायै च विशेषतः || २४ || ततस्तां सहपुत्राभ्यां तैर्धनैरपि भूरिभिः | चित्राङ्गदामतेनाथ पुत्रयोरपि सम्मते || २५ || सुवर्चसं तुम्बुरुं च तथा चित्राङ्गदामपि | आमन्त्र्य मुनिशार्दूलः करवीरपुरं ययौ || २६ || तत्र गत्वा स अपोतो राजानं चन्द्रशेखरम् | राजोपरिचरं चैव वाक्यमेतदुवाच ह || २७ || इयं ककुत्स्थजा भूप तवैव विदिता पुरा | सद्योजातौ तथैवास्यामेतौ मे तनयौ शुची || २८ || एभिर्वित्तैः समं पुत्रौ मम त्वं प्रतिपालय | राजोपरिचरश्चापि पालयत्विह मे सुतौ || २९ || अपुत्रस्य नृपः पुत्रो निर्धनस्य धनं नृपः | अमातुर्जननी राजा ह्यतातस्य पिता नृपः || ३० || अनाथस्य नृपो नाथो ह्यभर्तुः पार्थिवः पतिः | अभृत्यस्य नृपो भृत्यो नृप एव नृणां सखा | सर्वदेवमयो राजा तस्मात् त्वामर्थये नृप || ३१ || और्व उवाच ततः स राजा तं प्राह मुनिमेवं द्विजोत्तमम् | करिष्ये त्वद्वचश्चाहं राजोपरिचरश्च सः || ३२ || अथ चित्राङ्गदा राजा जग्राह मुनिसम्मते | सुतौ च तस्य सधनौ ज्यायसे सूनवे ददौ || ३३ || स चोपरिचरः प्रादाद्राज्यमर्धं सुवर्चसे | तथैव सचिवाध्यक्षमकरोत्तुम्बुरुं तदा || ३४ || कपोतस्चापि सुप्रीतः पुत्रार्धं समवेक्ष्य च | जगामामन्त्र्य नृपतिं तपसे च तपोवनम् || ३५ || पथि गच्छन् स कपोतः शम्भुपुत्रौ मनोहरौ | एकाकिनौ चरन्तौ तु सूर्याचन्द्रमसाविब || ३६ || तयोर्ददृदर्श च तदा वदने वानराकृती | स्मृत्वा पूर्वकथां दृष्ट्वा तावपृच्छत् तपोधनः || ३७ || कौ युवां देवगर्भाभौ चरन्तौ विजने पथि | एकाकिनौ नरश्रेष्ठौ तन्मे वदतमीरितम् || ३८ || अथ तौ प्रणिपत्यैनं सम्भाष्य च समञ्जसम् | कपोताख्यं मुनिश्रेष्ठमूचतुः शङ्करात्मजौ || ३९ || चन्द्रशेखरपुत्रौ नौ तारावत्यां समुद्गतौ | विद्धि त्वं मुनिशार्दूल प्रणमावः पदं तव || ४० || अवज्ञां वीक्ष्य नृपतेरावयोः सततं मुने | एकाकिनौ निर्जनेषु भ्रभावो मन्युना सदा || ४१ || किमर्थमात्मजौ पुत्रौ प्रणतौ सततं नृपः | अवज्ञाय महाभाग दायमात्रं न दित्सति || ४२ || तस्मादावां तपस्तप्तुमिच्छावो द्विजसत्तम | उपदेशप्रदानेन चानुगृह्णाति चेद्भवान् || ४३ || ततस्तयोर्वचः श्रुत्वा प्रहस्य मुनिसत्तमः | भूतभव्यभवज्ज्ञानस्ताविदं मुनिरब्रवीत् || ४४ || मुनिरुवाच न युवां तनयौ तस्य चन्द्रशेखरभूपतेः | तारावत्यां समुत्पन्नौ भवन्तौ शङ्करात्मजौ || ४५ || सद्यौ जातौ महावीर्यौ वेतालत्वे च सम्मतौ | भृङ्गिमहाकालसंज्ञौ शापाद् धरणिमागतौ || ४६ || युवयोरत्र तेनैव न दायं दित्सति प्रियम् | गच्छतं शरणं तातं शङ्करं वृषभध्वजम् || ४७ || स एव युवयोः सर्वं करिष्यति महेश्वरः | किं वात्युग्रेण तपसा चिरकालफलेन वै || ४८ || इत्युक्त्वा मुनिशार्दूलः अपोतः परमात्मधृक् | भूतभव्यभवजज्ञानन्ताभ्यां सर्वमथोचिवान् || ४९ || यथा भृङ्गिमहाकालौ शप्ताववनिमागतौ | यथा हरश्च गौरी च पृथिवीमागतौ नृप || ५० || तारावती यथा शप्ता तेनैव मुनिना पुरा | यथा तौ च समुत्पन्नौ तारावत्युदरे पुरा || ५१ || यथा वा नारदेनैव संशयच्छेदनं नृपे | तत्सर्वं कथयामास पुत्राभ्यां गिरिशस्य तु || ५२ || तच्छ्रुत्वा तौ महात्मानौ तदा वेतालभैरवौ | मुदा परमया युक्तौ बभूवतुरनिन्दितौ || ५३ || मोदपूर्णौ तदा भूत्वा सिक्त्वाविव सुधारसैः | पुनः पप्रच्छ कपोतं वेतालो भैरवोऽपि च || ५४ || पितावयोर्महादेवस्त्वया सत्यमितीरितम् | सोऽर्चनीयो यथावाभ्यां सिद्धये मुनिसत्तम || ५५ || आवाभ्यां च यथाराध्यो यत्र वाराधितो हरः | प्रसादमेष्यत्यचिरात् तन्नो वद महामते || ५६ || धन्यावनुगृहितौ नौ यत् त्वया मुनिसत्तम | विज्ञापितमिदं सर्वं हृच्छल्यं चोद्धृतं च नौ || ५७ || पुनरावां दयस्व त्वं कृपामय मुनीश्वर | प्राप्स्यावो न चिराद् भर्गं यथा वद तथैव नौ || ५८ || मुनिरुवाच शृणु त्वं कथयाम्यद्य यत्र चाराधितो हरः | नचिरादेव भवतोरायास्यति समक्षताम् || ५९ || नित्यं यत्र महादेवो वसन् भवति तुष्टये | युवां तत् सम्प्रवक्ष्यामि स्थानं गुह्यं प्रकाशितम् || ६० || वाराणसी नाम पुरी गङ्गातीरे मनोहरे | अरणायास्तथा चासेर्मध्ये चापाकृतिः सदा || ६१ || स्वयं वृषध्वजस्तत्र नित्यं वसति योगिनाम् | सदा प्रीतिकरो योगी स्वयं चाप्यात्मचिन्तकः || ६२ || वियत्स्था सा पुरी नित्यं भर्गयोगबलाद् धृता | दिव्यज्ञानं ददात्येषा तत्र यो म्रियते नरः || ६३ || तस्मै स्वयं महादेवः संसार-ग्रन्थिमुक्तये | स भूत्वा परमो योगी मृतस्तत्र भवान्तरे || ६४ || सुलभेनैव निर्वाणमाप्नोति हरसम्मतः | योगयुक्तो महादेवः पार्वत्या सहितः सदा || ६५ || देवगन्धर्वयक्षाणां मानुषाणां च नित्यशः | ज्ञेयो हरः प्रकाशश्च क्षेत्रं तच्च प्रकाशितम् || ६६ || न तत्र कामदो देवो नचिराच्च प्रसीदति | आराधितश्चिरं प्रीत्या निर्वाणाय प्रसीदति || ६७ || गौर्या विवजिता सा तु पुरी तत्र न गच्छति | योगस्थानं महाक्षेत्रं कदाचिदपि शाङ्करी || ६८ || आसन्नं युवयोः क्षेत्रमिदं वाराणसी तु यत् | कथितं नातिदूरे च वर्तते नरसत्तमौ || ६९ || अपरं तु प्रवक्ष्यामि गुह्यं पीठं सदार्चितम् | हरगौरीसमायुक्तं परं धर्मार्थकामदम् || ७० || तपसा चाति तीव्रेण चिराद् भवति मोक्षदम् | नचिरात् कामदं पुण्यं क्षेत्रं पीठं निगद्यते || ७१ || चिरात् तु कामदो देवो न चिराद् यत्र ज्ञानदः | तत्क्षेत्रमिति लोकेषु गद्यते पूर्ववन्दिभिः || ७२ || कामरूपं महापीठं गुह्याद् गुह्यतमं परम् | सदा सन्निहितस्तत्र पार्वत्या सह शङ्करः || ७३ || न चिरात् पूजितो देवस्तस्मिन् पीठे प्रसीदति | पार्वती चानुगृह्णाति भर्गभक्तं तु तत्र वै || ७४ || ददाति नचिरात् कामं भक्ताय परमेश्वरः | तत् तु पीठं प्रवक्ष्यामि शृणुत साम्प्रतं युवाम् || ७५ || करतोया नदीपूर्वं यावद् दिक्करवासिनीम् | त्रिंशद्योजनविस्तीर्णं योजनैकशतायतम् || ७६ || त्रिकोणं कृष्णवर्णं च प्रभूताचलपूरितम् | नदीशतसमायुक्तं कामरूपं प्रकीर्तितम् || ७७ || शम्भुनेत्राग्निनिर्दग्धः कामः शम्भोरनुग्रहात् | तत्र रूपं यतः प्राप कामरूपं ततोऽभवत् || ७८ || तस्य पीठस्य वायव्यां नैर्-ऋत्यां मध्यभागतः | ऐशान्यां च तथाग्नेययां मध्ये पार्श्वे च शङ्करः || ७९ || स्वमाश्रमपदं कृत्वा षट्सु स्थानेषु शोभनम् | नित्यं वसति तत्रापि पार्वत्या सह नर्मभिः || ८० || मध्ये देवीगृहं तत्र तदधीनं तु शङ्करः | नीलाख्ये पर्वतश्रेष्ठे पार्वती तत्र तिष्ठति || ८१ || ऐशान्यां नाटके शैले शङ्करस्य महाश्रमः | नित्यं वसति तत्रेशस्तदधीना च पार्वती || ८२ || अपरे चाश्रमाः सन्ति हरगौर्योः सदातनाः | नैतयोः सदृशः कोऽपि विद्यते शङ्कराश्रमः || ८३ || अत्राराध्यो महादेवो भवद्भयां नरसत्तमौ | तत्स्थानं मनसादाय प्रसादय वृषध्वजम् || ८४ || एतालभैरवावूचतुः कामरूपं गमिष्यावौ रहस्यं नाटकाचलम् | गौरीहरौ स्थितौ यत्र नित्यं सन्निहितौ मुने || ८५ || आराधनीयो भूतेशो ह्यवश्यमिह चावयोः | यथैवाराधयिष्यावस्तथाचक्ष्व द्विजोत्तम || ८६ || येन मन्त्रेण वा देवो नचिरात् तु प्रसीदति | तत् त्वं वद महाभागानुग्रहोऽस्त्यावयोर्यदि || ८७ || ऋषिरुवाच नाटकं पर्वतश्रेष्ठं गच्छतं नरसत्तमौ | तत्र नित्यं महादेवी अमतेऽपर्णया सह || ८८ || सन्ध्याचले तत्र मुनिराराधयति शङ्करम् | वशिष्ठो ब्रह्मणः पुत्रस्तं युवामनुगच्छतम् || ८९ || स च मन्त्रं सतन्त्रं च हराराधनकर्मणि | ज्ञापयिष्यति वां पृष्टः किल वेतालभैरवौ || ९० || तपसे गन्तुमिच्छामि नेदानीं कालयापना | युज्यते मम तस्मान्मां त्यजतं वीरसत्तमौ || ९१ || एवमुक्त्वा मुनिश्रेष्ठः अपोतः प्रययौ वनम् | तौ तं मुनिं नमस्कृत्य जग्मतुर्भवनं निजम् || ९२ || अथ तौ समयं कृत्वा दीक्षितौ तपसे तदा | पितरावप्यनुज्ञाप्य भ्रातृनन्यांश्च बान्धवान् | प्रस्थानं कामरूपाय चक्रतुस्तौ महामती || ९३ || तौ गच्छन्तौ परिज्ञाय शङ्करोऽपि सहोमया | देवान् सर्वानुवाचेदं सान्त्वयन्निव सेन्द्रकान् || ९४ || ईश्वर उवाच पुत्रौ मे तपसे यातः साम्प्रतं सुरसत्तमाः | ममाराधनचित्तौ तु तौ दयध्वं सुरेश्वराः || ९५ || संस्कृत्य तपसा चतौ पुत्रौ वेतालभैरवौ | गाणपत्ये नियोक्ष्यामि तौ संस्कुर्वन्तु निर्जराः || ९६ || अनेनैव शरीरेण तौ गणेशत्वमाप्स्यतः | तपसा तु तयोः कायौ भावं त्यक्त्वा तु मानुषम् || ९७ || यथाप्नुतः सौरभावं विधास्यामि ह्यहं तथा | इत्युक्त्वा वामदेवोऽपि पार्वत्या सह पुत्रकौ | गच्छन्तौ वियता स्नेहात् पश्चादनुययौ शिवः || ९८ || शक्राद्यास्त्रिदशाः सर्वे दिक्पालाश्च तथापरे || ९९ || सर्वे हरं चानुजग्मुरनुगच्छन्तमात्मजौ | अथ तौ तु नदीं प्राप्य कृष्णाजिनधरौ तदा || १०० || अदाय तापसं भावं गङ्गातुल्यां दृषद्वतीम् | तपस्विनौ तु देवेन त्र्यम्बकेणाथ पालितौ || १०१ || देवैः सह तदायातौ कामरूपाह्वयाश्रमम् | आसाद्य कामरूपं तु करतोयानदीजले || १०२ || उपस्पृश्य ततस्तौ तु नन्दिकुण्डं नृपोत्तम | तत्र स्नात्वाप्युपस्पृश्य नदीं गत्वा जटोद्भवाम् || १०३ || पस्पृश्य च तौ तत्र नन्दिनं तपसा धृतम् | प्रणम्य जल्पिशं देवं जग्मतुर्नाटकाचलम् || १०४ || नाटकाचलमासाद्य प्रणम्य वृषभध्वजम् | आराधनोपदेशाय कपोतकवचःस्मरौ || १०५ || जग्मतुर्दक्षिणां काष्ठां यत्र सन्ध्याचलः स्थितः | कान्ता नाम नदी तत्र वशिष्ठेनावतारिता || १०६ || तस्यास्तीरे महाशैलः स्निग्धच्छायलतातरुः | सन्ध्यां वशिष्ठः कृतवांस्तत्र यस्माद् विधेः सुतः || १०७ || अतः सन्ध्याचलं नाम तस्य गायन्ति देवताः | तत्रासाद्य वशिष्ठं तु साक्षादिव हुताशनम् || १०८ || आराधयन्तं गिरिशं ध्यानसंयुक्तमानसम् | तपःश्रिया दीप्यमानं द्वितीयमिव भास्करम् || १०९ || प्रणम्य पुरतस्तस्य तदा वेतालभैरवौ | प्राञ्जली तस्थतुर्भूप विनयानतकन्धरौ || ११० || इदं चाप्यूचतुस्तौ तु प्रणमन्तौ विधेः सुतम् | तारावत्यां समुत्पन्नौ चन्द्रशेखरभूभृतः || १११ || क्षेत्रे भर्गस्य तनयावावां जानीहि मानुषौ | आराधयितुमिच्छावो हरं कार्यस्य सिद्धये || ११२ || वाञ्छितस्य यदि त्वं नावनुगृह्णासि सुव्रत | तयोस्तद् वचनं श्रुत्वा वशिष्ठो मुनिसत्तमः || ११३ || उवाचेति युवां ज्ञातौ मया सत्यं हरात्मजौ | हरस्याराधनं आर्यं युवयोर्नरसत्तमौ || ११४ || तत्रास्ति मम कृत्यं किं तद्भाषतमनिन्दितौ | वृषध्वजाराधनाय युवयोस्तु प्रयोजनम् | विद्यते तन्निमित्तं यत् तत् सिद्धमिति चिन्त्यताम् || ११५ || वेतालभैरवावूचतुः येन मन्त्रेण नचिरात् सम्यगाराधितो हरः | प्रसादमेष्यत्यवनौ तन्नो वद महामुने || ११६ || यथा चाराधयिष्यावस्तन्त्रं यद् यादृशः क्रमः | तत्सर्वं मुनिशार्दूल वक्तुमर्हसि चोत्तरम् || ११७ || यथा त्वदुपदेशेन प्राप्स्यावो नचिराद् हरम् | अथा आचां मुनिश्रेष्ठ ह्यनुशाधि नतौ त्वयि || ११८ || वसिष्ठ उवाच प्रसन्न एव भवतोर्वृषकेतुः सहोमया | नचिरात् स्वयमेवात्र प्रसादं च समेष्यति || ११९ || सर्वैर्देवगणैः सार्धं सभार्यो वृषभध्वजः | आकाशमार्गेणायातः आलयन् स्वसुतौ गृहात् || १२० || किन्तु मानुषदेहौ वामधिवास्य तपोव्रतैः | स्वयन्नेष्यति कैलासं गाणपत्ये नियोज्य वाम् || १२१ || अहं चाप्युपदेक्ष्यामि यथा भर्गं युवां द्रुतम् | प्राप्स्यथः पार्वतीपुत्रवेकाग्रं शृणुतं तु तत् || १२२ || चिरात् प्रसीदति ध्यानान्नचिराद् ध्यानपूजनात् | तस्माद् ध्यानं पूजनं च कथयाम्यद्य तत्त्वतः || १२३ || तेजोमयः सदा शुद्धो ज्ञानामृतविवर्धितः | जगन्मयश्चिदानन्दः शौरिब्रह्मस्वरूपधृक् || १२४ || महादेवो महामूर्तिर्महायोगयुतः सदा | जगन्ति तस्य रूपाणि तानि को गदितुं क्षमः || १२५ || किन्तु यैरिह रूपैस्तु इहरत्येष शङ्करः | तेषां यन्मे ज्ञानगम्यं तत्रेष्टं निगदामि वाम् || १२६ || प्रथमं शृणुतं मन्त्रं ततोऽनुध्यानगोचरम् | ततः क्रमं तु पूजायाः क्रमाद् वृत्तं नरर्षभौ || १२७ || समस्तानां स्वराणां तु दीर्घाः शेषाः सबिन्दुकाः | ऋऌशून्याः सार्धचन्द्रा उपान्तेनाभिसंहिताः || १२८ || एभिः पञ्चाक्षरैर्मन्त्रं पञ्चवक्त्रस्य कीर्तितम् | क्रमात् सम्मदसन्दोह-नादगौरव-संज्ञकाः || १२९ || प्रासादस्तु भवेच्छेषः पञ्चमन्त्राः प्रकीर्तिताः | एकैकेन तथैकैकं वक्त्रं देवं प्रपूजयेत् || १३० || एकं समुदितं कृत्वा पञ्चभिर्वा प्रपूजयेत् | प्रसादेनाथ वा पञ्चवक्त्रं देवं प्रपूजयेत् || १३१ || सम्मदादिषु मन्त्रेषु प्रासादस्तु प्रशस्यते | शम्भोः प्रसादनेनैष यस्माद् वृत्तस्तु मन्त्रकः || १३२ || तेन प्रासादसंज्ञोऽयं कथ्यते मुनिसत्तमैः | तस्मात् सर्वेषु मन्त्रेषु प्रासादः प्रीतिदः परः || १३३ || आमोदकारकः शम्भोर्मन्त्रः सम्मद उच्यते | मनःप्रपूरणाच्चापि सन्दोहः परिकीर्तितः || १३४ || आकर्षको भवेन्नादो गुरुत्वाद् गौरवाह्वयः | एतद्व्यस्तं समस्तं च मन्त्रं शम्भोः प्रकीर्तितम् || १३५ || पञ्चाक्षरं तु यन्मन्त्रं पञ्चवक्त्रस्य कीर्तितम् | युवां तेनैव मन्त्रेण आराधयतमीश्वरम् || १३६ || ध्यानं वक्ष्यामि सृणुतं सम्यग् वेतालभैरवौ | पञ्चवक्त्रं महाकायं जटाजूटविभूषितम् || १३७ || चारुचन्द्रकलायुक्तं मूर्ध्नि बालौघभूषितम् | बाहुभिर्दशभिर्युक्तं व्याघ्रचर्मामराम्बरम् || १३८ || कालकूटधरं कण्ठे नागहारोपशोभितम् | किरीटबन्धनं बाहुभूषणं च भुजङ्गमान् || १३९ || बिभ्रतं सर्वगात्रेषु ज्योत्स्नार्पितसुरोचिषम् | भूतिसंलिप्तसर्वाङ्गमेकैकत्र त्रिभिस्त्रिभिः || १४० || नेत्रैस्तु पञ्चदशभिर्ज्योर्तिष्मद्भिर्विराजितम् | वृषभोपरि संस्थं तु गजकृत्तिपरिच्छदम् || १४१ || सद्योजातं वामदेवमघोरं च ततः परम् | तत्पुरुषं तथेशानं पञ्चवक्त्रं प्रकीर्तितम् || १४२ || सद्योजातं भवेच्छुक्लं शुद्धस्फटिकसंनिभम् | पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् || १४३ || नीलवर्णमघोरं तु दंष्ट्वा भीतिविवर्धनम् | रक्तं तत्पुरुषं देवं दिव्यमूर्ति मनोहरम् || १४४ || श्यामलं च तथेशानं सर्वदैव शिवात्मकम् | चिन्तयेत् पश्चिमे त्वाद्यं द्वितीयं तु तथोत्तरे || १४५ || अघोरं दक्षिणे देवं पूर्वे तत्पुरुषं तथा | ईशानं मध्यतो ज्ञेयं चिन्तयेद् भक्तितत्परः || १४६ || शक्तित्रिशूलखट्वाङ्गवरदाभयदं शिवम् | दक्षिणेष्वथ हस्तेषु वामेष्वपि ततः सुभम् || १४७ || अक्षसूत्रं बीजपूरं भुजगं डमरूत्पलम् | अष्टैश्वर्यसमायुक्तं ध्यायेत् तु हृद्गतं शिवम् || १४८ || एवं विचिन्तयेद् ध्याने महादेवं जगत्पतिम् | चिन्तयित्वा द्वारपालान् गणेशादीन् प्रपूजयेत् || १४९ || विशुद्धिं पञ्चभूतानां चिन्तयित्वा ततो मुहुः | अष्टमूर्तीस्ततः पश्चात् पूजयेदष्टनामभिः || १५० || आसनानि च तस्याथ पूजयेत् सकलानि तु | भावादीन्यष्टपुष्पाणि हृदैव विनियोजयेत् || १५१ || नाराचमुद्रया तस्य ताडनं परिकीर्तितम् | विसर्जनं धेनुमुद्रां दर्शयित्वा विधानतः || १५२ || निर्माल्यधारणं कुर्यात् सदा चण्डेश्वरं धिया | प्रत्येकं पञ्चभिर्मन्त्रैरङ्गादीनि प्रमार्जयेत् || १५३ || सम्मदादिभिरेतस्य पूर्वोक्तैर्नरसत्तमौ | बालां ज्येष्ठां तथा रौद्रीं कालीं च तदनन्तरम् || १५४ || कलविकरिणीं देवीं बलप्रमथिनीं तथा | दमनीं सर्वभूतानां मनोन्मथिनीं तथैव च || १५५ || अष्टौ ताः पूजयेद् देवीः क्रमाच्छम्भोश्च प्रीतये | एवं शिवं पूजयित्वा ध्यानतत्परमानसः || १५६ || जपेन्मालां समादाय मन्त्रं ध्यात्वा तथा गुरुम् | एकं पञ्चाक्षरं मन्त्रमेकं प्रासादमेव वा || १५७ || तत्सक्तमनसौ जप्त्वा शीघ्रं सिद्धिमवाप्स्यथः | इति वां कथितं मन्त्रं ध्यानपूजाक्रमं तथा | गच्छतं नाटकं शैलं तत्राराधयतं हरम् || १५८ || वेतालभैरवावूचतुः पञ्चाक्षरस्तु मन्त्रोऽयं धृतस्त्वत्सम्मते मुने | अनेनैव हरं देवं पूजयिष्यावहे मुदा || १५९ || इत्युक्त्वा तन्नमस्कृत्य तदा वेतालभैरवौ | जग्मुतुर्नाटकं शैलं वशिष्ठानुमते नृप || १६० || तत्रास्ति सरसी रम्या सुसम्पूर्णमनीहरा | सर्वदा स्वच्छसलिला प्रफुल्लकमलोत्पला || १६१ || तस्यास्तीरे तु विपुलः सुमनोज्ञो हराश्रमः | सर्वदा दानवैर्देवैः किन्नरैः प्रमथैस्तथा || १६२ || रक्ष्यते नृपशार्दूल नृत्यवादनतत्परैः | यस्मान्नटति तत्रेशो नित्यं कौतुकतत्परः || १६३ || तस्मान्नाटकनान्नसौ शैलराजः प्रगीयते | छत्राकारं तु तं शैलं मनोज्ञं शङ्करप्रियम् || १६४ || आसाद्य यत्र सरसी तत्र गत्वा तु तौ तदा | न चैवापश्यतां तत्र हराश्रममनुत्तमम् || १६५ || गन्तुं चैवाश्रमस्थानं तौ नैवाशकतां नृप | ततो हरं प्रणम्याशु तस्यैव सरसस्तटे || १६६ || निर्माय स्थण्डिलं चारु वशिष्ठोक्तक्रमेण तु | हरमाराद्धुमारेभे वेतालो भैरवोऽपि च || १६७ || आराधयन्तौ भूतेशं तौ तदा शङ्करात्मजौ | दृष्ट्वा हरो देवगणैः सार्धं तस्मिंस्तु पर्वते | अधित्यकायां न्यवसत् स्वाश्रमेऽपर्णया सह || १६८ || अधोभागे सरस्तीरे तपस्यन्तौ हरात्मजौ | स्थितौ दृष्ट्वा देवगणैः सहितः शङ्करः स्थितः || १६९ || नृत्यमर्दलशब्दो यो हरस्य सततं भवेत् | शृणुतस्तौ तदा शब्दं गन्तुं द्रष्टुं न लभ्यते || १७० || हरेणाधिष्ठितः शैलः सर्वदेवगणैः सह | राजते स्म तदा भूप सुधर्मा वासवी यथा || १७१ || ध्यायतोस्तु तदा तत्र भगवान् वृषभध्वजः | नचिरादेव तस्याभूद् ध्यानमार्गेषु निश्चलः || १७२ || तौ पुजयन्तौ गच्छन्तौ स्थितौ वा चन्द्रशेखरम् | नैव अत्यजतुश्चित्तैः कदाचिदपि भूमिप || १७३ || पञ्चाक्षरेण मन्त्रेण पूजयन्तौ वृषध्वजम् | व्यतिचक्रमतुस्तौ तु सहस्रं परिवत्सरान् || १७४ || निराहारौ यताहारौ हरसंसक्तमानसौ | तपसा निन्यतुर्वर्षान् सहस्रं चैकवर्षवत् || १७५ || गते वर्षसहस्रे तु स्वयमेव वृषध्वजः | प्रसङ्गस्तु तयोर्भूत्वा प्रत्यक्षत्वमुपागतः || १७६ || तं तु प्रत्यक्षतो दृष्ट्वा तदा वेतालभैरवौ | वृषध्वजं तुष्टुवतुर्ध्यानगम्यं पुरःस्थितम् || १७७ || हररूपं यथाध्यातं हृद्गतं तेजसोज्ज्वलम् | तथा दृष्ट्वा ततस्ताभ्यां अशिष्ठस्यानुमानतः || १७८ || वेतालभैरवावूचतुः पञ्चवक्त्रं महाकाव्यं सर्वज्ञानमयं परम् | संसारसागरत्राणं प्रणमावो वृषध्वजम् || १७९ || त्वं परः परमात्मा च परेशः पुरुषोत्तमः | त्वं कूटस्थो जगद्व्यापी प्रधानः परमेश्वरः || १८० || रूपात्मा त्वं महातत्त्वं तत्त्वज्ञानालयः प्रभुः | सांख्ययोगालयः शुद्धो गुणत्रयविभागवित् || १८१ || त्वं नित्यस्त्वमनित्यश्च जगत्कर्ता लयः स्मृतः | एकोऽनेकस्वरूपश्च शान्तचेष्टो जगन्मयः || १८२ || निर्विकारो निराधारो नित्यानन्दः सनातनः | त्वं विष्णुस्त्वं महेन्द्रस्त्वं ब्रह्मा त्वं जगतां पतिः || १८३ || यो रूपरूपेश्वररत्नमालः सम्भूतिभूतो निरवग्रहश्च | काक्ष्यावतीर्णावगतप्रमाथी योगेश्वरो ज्ञानगतिस्त्वगम्यः || १८४ || प्रमेयरूपात्मधराधराभो भोगीन्द्रबद्धामृतभोगतन्त्रः | सूक्ष्माक्षरस्तत्त्वविदप्रमाथी त्वं देवदेवः शरणं सुराणाम् || १८५ || विकल्पमानापरिहीनदेहः शुद्धान्तधामानुगतैकविद्यः | वर्धिष्णुरुग्रः पुरुषः परात्मा त्वमिन्द्रियौघस्य विचारबुद्धि || १८६ || त्वं नाथनाथ प्रभवः परेषां गतिर्मुनीनां परयोगिगम्यः | त्वंभूधरो भागधरो ह्यनन्तो विश्वात्मनस्ते बहवः प्रपञ्चाः || १८७ || ज्ञानामृतस्यन्दकपूर्णचन्द्रो मोहान्धकारस्य परः प्रदीपः | भक्तात्मजानां परमः पिता त्व कामे च पञ्चाननरूपधारी || १८८ || शास्त्राखिलानां प्रथमो विवस्वां- स्तनूनपात् त्वं तनुषे गुणौधान् | त्वं ब्रह्मरूपेण करोषि सृष्टिं विष्णुस्वरूपैः सततं स्थितिं च || १८९ || त्वं रुद्ररूपी कुरुषे तथान्तं त्वत्तो न चान्यज्जगतीह वस्तु | त्वं रात्रिनाथो दिवसेश्वरश्च त्वमग्निरापः पवनो धरित्री || १९० || नभस्तथा त्वं क्रतुतन्त्रहोता त्वमष्टमूर्तिर्भवतो न चान्यत् | अनन्तमूर्तिस्त्विह मुख्यभावा- न्निगद्यते चाष्टमयी त्रिमूर्तिः || १९१ || अनन्तमूर्ते कथमन्यथा ते संख्यास्ति रूपस्य यदष्टमूर्तिः | त्वं त्र्यम्बकस्त्वं त्रिपुरान्तकश्च त्व शम्भुरीशः शमनो विधाता || १९२ || सहस्रबाहुश्च हिरण्यबाहुः सहस्रमूर्तिस्त्विह पञ्चवक्त्रः | प्रभूतनेत्रस्तु षडर्द्धनेत्रः प्रभूतबाहुर्दशबाहुरीशः || १९३ || प्रभूतभोगी मितभोगयुक्तो भोग्यानुसारो निरवग्रहश्च || १९४ || नित्यानित्यस्वरूपाय नित्यधामस्वरूपिणे | परतत्त्वस्वरूपाय नमस्तुभ्यं शिवात्मने || १९५ || नान्तं लिङ्गस्य यस्याप्तं विष्णुना ब्रह्मणा तव | तस्यावां कि विधास्यावः स्तुतिवाक्यं वृषध्वजः || १९६ || स्वरूपं यस्य जानन्ति न देवा नापि दानवाः | आलावावां कथन्तु त्वां स्तोष्यावः परमेश्वरः || १९७ || भक्तिमात्रेण देवेश अवावां वृषभध्वज | कुर्वः प्रणामं गौरीश भूयस्तुभ्यं नमो नमः || १९८ || और्व उवाच इति स्तुतो महादेवो वेतालेन महात्मना | भैरवेणापि राजेन्द्र प्रसन्नः प्राह तौ तदा || १९९ || श्री भगवानुवाच तुष्टोऽस्मि युवयोः पुत्रौ वृणुतं वाञ्छितं वरम् | दास्यामि युवयोरिष्टं प्रसन्नोऽहं तपोव्रतैः || २०० || स्तुतिभिस्तु दमैश्चापि तथैकान्ताउचिन्तनैः | मुहुर्मुहुः सुप्रसन्न इष्टं दास्यामि वां सुतौ || २०१ || वेतालभैरवावूचतुः तुष्टोऽसि यदि सत्यं नौ सत्यमावां सुतौ यदि | वृषध्वज तवैवेह तदेष्टं देहि नौ वरम् || २०२ || सुतभावेन पितरं भवन्तं जगतां पतिम् | नित्यं यथावगच्छावस्तथा देहि वरं तु नौ || २०३ || न राज्यमभिकांक्षावो न धनं नान्यदेव वा | त्वद्भक्त्या सेवनं कर्तुं तवेच्छावो वृषध्वज || २०४ || त्वत्पादपङ्कजद्वन्द्वे नित्यं मधुकरात्मताम् | त्वयि प्रसन्ने नेत्राणां युगले प्राप्नुतां सदा || २०५ || इतोऽन्यथा त्वच्चिन्ताभिस्त्वद्द्यानैस्त्वत्प्रपूजनैः | कल्पकोटिसहस्राणि यान्तु सम्यक्तथावयोः || २०६ || और्व उवाच ततस्तद् वचनं श्रुत्वा महादेवो हसन्निव | सर्वैर्देवगणैः सार्धं देवत्वमकरोत्तयोः || २०७ || देवेन्द्रसम्मतेनैव सुधामानीय नाकतः | वेतालभैरवौ तान्तु पाययामास शङ्करः || २०८ || पीतेऽमृते ततस्तौ तु मर्त्यतां नरसत्तमौ | अमर्त्यतां परित्यज्य प्रापतुः शिवशक्तितः || २०९ || तस्मिन्काले स्वपन्तौ तु दिव्यज्ञानबलान्वितौ | दिव्यरूपोपसम्पन्नौ बभूवतुररिन्दमौ || २१० || अभिन्नेनैव देहेन देवत्वं गतयोस्तयोः | प्राह शम्भुस्तदा तौ तु सुतौ परमहर्षितौ || २११ || भगवानुवाच अहं तुष्टस्तु युवयोः पार्वतीं दयितां मम | मद्दत्तं काममिच्छन्तावाराधयतमीश्वरीम् || २१२ || तामृते तु न शक्नोमि दातुमिष्टं सनातनम् | सेवितुं च सुतौ नित्यं शरणं व्रजतं शिवाम् || २१३ || अचिराद् येन भावेन प्रीतिं देवी गमिष्यति | त्र वा तत्र वा गत्वा तेन भावेन चार्यताम् || २१४ || इति श्रीकालिकापुराणे वेताल-भैरवोत्पत्तिकथने कपञ्चाशोऽध्यायः || ५१ || द्विपञ्चाशोऽध्यायः और्व उवाच एवं वदति भूतेशे तदा वेतालभैरवौ | प्राहतुर्व्योमकेशं तौ हर्षोत्फुल्लविलोचनौ || १ || वेतालभैरवावूचतुः पार्वत्या न हि जानीवो ध्यानं मन्त्रं विधिं तथा | कथमाराधयिष्यावो भगवन् सम्यगुच्यताम् || २ || श्रीभगवानुवाच महामायाविधिं मन्त्रं कल्पं च भवतोः सुतौ | उपदेक्ष्यामि तत्त्वेन येन सर्वं भविष्यति || ३ || और्व उवाच इत्युक्त्वा स महामायाध्यानं मन्त्रं विधिं तथा | कथयामास गिरिशस्तयोः सम्यङ् नृपोत्तम || ४ || यदष्टादशभिः पश्चात्पटलैश्च स भैरवः | स निर्णयविधिं कल्पं निबबन्ध शिवामृते || ५ || सगर उवाच कीदृङ् मन्त्रं पुरा शम्भुरवोचदुभयोस्तयोः | येनाराध्य महामायां तौ गणेशत्वमापतुः || ६ || सकल्पं सरहस्यं च साङ्गं तच्छ्रोतुमुत्सहे | दशाष्टपटलैर्यत् तु निबबन्ध स भैरवः || ७ || और्व उवाच बहुत्वाद् वदितुं तस्य चिरेणैव तु शक्यते | तस्मात् सद्यः समुद्धृत्य यन्महादेवभाषितम् | संक्षेपात् कथये तत्त्वं तच्छृणुष्व नृपोत्तम || ८ || पृच्छन्तौ पार्वती मन्त्रं तदा वेतालभैरवौ | जगाद स महादेवः शृणुत मन्त्रकल्पकौ || ९ || श्रीभगवानुवाच शृणु मन्त्रं प्रवक्ष्यामि गुह्याद् गुह्यतमं परम् | अष्टाक्षरं तु वैष्णव्या महामायामहोत्सवम् || १० || अस्य श्रीवैष्णवीमन्त्रस्य नारद ऋषिः शम्भुर्देवता | अनुष्टुप् छन्दः सर्वार्थसाधने विनियोगः || ११ || हान्तान्तयुर्वो रान्तश्च नान्तो णान्तस्तथैव च | कैकादशाष्टादिषष्ठः खान्तो विष्णुपुरःसरः || १२ || एभिरष्टाक्षरैर्मन्त्रं शोणपत्रसमप्रभम् | ओंकारं पूर्वतः कृत्वा जप्यं सर्वैस्तु साधकैः || १३ || महामन्त्रमिदं गुह्यं वैष्णवीमन्त्रसंज्ञकम् | मन्त्रं कलेवरगतं तस्मादङ्गं प्रकीर्तितम् || १४ || महादेवस्योर्ध्वमुखं बीजमेतत् प्रकीर्तितम् | ओंकाराक्षरबीजं च यकारः शक्तिरुच्यते || १५ || सबीजं कथितं मन्त्रं कल्पं च शृणु भैरव | तीर्थे नद्यां देवखाते गर्तप्रस्रवणादिके || १६ || परकीयेतरे तोये स्नानं पूर्वं समाचरेत् | आचान्तः शुचितां प्राप्तः कृतासनपरिग्रहः || १७ || उत्तराभिमुखो भूत्वा स्थण्डिलं मार्जयेत् ततः | करेणानेन मन्त्रेण यूं सहः क्षित्या इति स्वयम् || १८ || ओं ह्रीं स इति मन्त्रेण आशापूरणकेन च | तोयैरभ्युक्षयेत् स्थानं भूतानामपसारणे || १९ || ततः सव्येन हस्तेन गृहीत्वा स्थण्डिलं शुचिः | मन्त्रं लिखेत् सुवर्णेन याज्ञिकेन कुशेन वा || २० || ओं वैष्णव्यै नमः इति मन्त्रराजमथापि वा | ततस्त्रिमण्डलं कुर्यात् तेनैव समरेखया || २१ || नित्यासु न हि पूजासु रजोभिर्मण्डलं लिखेत् | पुरश्चरणकार्येषु तत्काम्येषु प्रयोजयेत् || २२ || रेखामुदीच्यां प्रथमं पश्चिमे तदनन्तरम् | दक्षिणे तु ततः पश्चात् पूर्वभागे तु शेषतः || २३ || वर्णानां च सहद्वारैरेवमेव क्रमो भवेत् | ओं ह्रीं श्रीं स इति मन्त्रेण मण्डलं पूजयेत् ततः || २४ || हस्तेन मण्डलं कृत्वा कुर्याद् दिग्बन्धनं ततः | आशाबन्धनमन्त्रेण पूर्वोक्तेन यथाक्रमम् || २५ || फडन्तेनात्मनाप्यत्र करेणैव निबन्धयेत् | यवानां अण्डलैरेकमङ्गुलं चाष्टभिर्भवेत् || २६ || अदीर्घयोजितैर्हस्तैस्चतुर्विंशतिरङ्गुलैः | तत्प्रमाणेन हस्तेन हस्तैकं तस्य मण्डलम् || २७ || पद्मं वितस्तिमात्रं स्यात् कर्णिकारं तदर्धकम् | दलान्यन्योन्यसक्तानि ह्यायतानि नियोजयेत् || २८ || न न्यूनाधिकभागानि सबहिर्वेष्टितानि च | मध्यभागे न्यसेद् द्वारं न न्यूने नाधिके तथा | सुबद्धं मण्डलं तच्च रक्तवर्णं विचिन्तयेत् || २९ || इतोऽन्यथा मण्डलमुग्रमस्याः करोति यो लक्षणभागहीनम् | फलं न चाप्नोति न काममिष्टं तस्मादिदं मण्डलमत्र लेख्यम् || ३० || इति श्रीकालिकापुराणे महामायाकल्पेऽष्टादशपटले इपञ्चाशत्तमोऽध्यायः || ५२ || त्रिपञ्चाशोऽध्यायः श्रीभगवानुवाच ततो लमिति मन्त्रेण अर्घपात्रस्य मण्डलम् | चतुष्कोणं विधायाशु द्वारपद्मविवर्जितम् || १ || ओं ह्रीं श्रीमितिमन्त्रेण अर्घपात्रं तु मण्डले | विन्यसेत् प्रथमं तत्र पूजयित्वा समिध्यति || २ || ओं ह्री ह्रौमितिमन्त्रेण गन्धपुष्पे तथा जलम् | अर्घपात्रे क्षिपेत् तत्र मण्डलं विन्यसेत् ततः || ३ || पूर्ववन्मण्डलं कृत्वा अर्घपात्रे ततो जलैः | त्रिभागैः पूरयेत् पात्रं पुष्पं तत्र विनिःक्षिपेत् || ४ || ततो ह्रीमिति मन्त्रेण आसनं पूजयेत् स्वकम् | ततः क्षौमितिमन्त्रेण आत्मानं पूजयेद् बुधः || ५ || गन्धैः पुष्पैः शिरोदेशे ततः पूजां समाचरेत् | ओं ह्रीं स इति मन्त्रेण पुष्पं हस्ततलस्थितम् || ६ || संमृज्य सव्यहस्तेन घ्रात्वा वामकरेण तु | ऐशान्यां निक्षिपेदेतत् पूर्वमन्त्रेण कोविदः || ७ || रक्तं पुष्पं गृहीत्वा तु कराभ्यां पाणिकच्छपम् | बद्ध्वा कुर्यात् ततः पश्चाद् दहनप्लवनादिकम् || ८ || वामहस्तस्य तर्जन्यां दक्षिणस्य कनिष्ठिकाम् | तथा दक्षिणतर्जन्यां वामाङ्गुष्ठं नियोजयेत् || ९ || उन्नतं दक्षिणाङ्गुष्ठं वामस्य मध्यमादिकाः | अङ्गुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य च || १० || वामस्य पितृतीर्थेन मध्यमानामिके तथा | अधोमुखे तु ते कुर्याद् दक्षिणस्य करस्य च || ११ || कूर्मपृष्ठसमं पृष्ठं कुर्याद् दक्षिणहस्ततः | एवं बद्धः सर्वसिद्धिं ददाति पाणिकच्छपः || १२ || कुर्यात् तद्धृदयासन्नं निमील्य नयनद्वयम् | समं कायशिरोग्रीवं कृत्वा स्थिरमना बुधः || १३ || ध्यानं समारभेद् देव्या दाहप्लवनपूर्वकम् | अग्निं वायौ विनिक्षिप्य वायुं तोये जलं हृदि || १४ || हृदयं निश्चले दत्त्वा आकाशे निक्षिपेत्स्वनम् | ओं हूं फडिति मन्त्रेण भित्त्वा रन्ध्रं तु मस्तके || १५ || शब्देन सहितं जीवमाकाशे स्थापयेत् ततः | वायवग्नियमशक्राणां बीजेन वरुणस्य च || १६ || परास्थानपराश्चैतैः सार्धचन्द्रैः सबिन्दुकैः | शोषं दाहं तथोच्छादं पीयूषासेवनं परम् || १७ || यथाक्रमेण कर्तव्यं चिन्तामात्रं विशुद्धये | ततस्तु देवीबीजेन अणुं जाम्बूनदाकृतिम् || १८ || तत्रासाद्य द्विधा कुर्यात् उम् ह्रीं श्रीमिति मन्त्रकाः | तदूर्ध्वभागेषु हृद्लोकं स्वर्गं च खं तथा || १९ || निष्पाद्य शेषभागेन भुवं पातालवारिणि | चिन्तयेत्तत्र सर्वाणि सप्तद्वीपां च मेदिनीम् || २० || तत्तेषु सागरांस्तांस्तु स्वर्णद्वीपं विचिन्तयेत् | तन्मध्ये रत्नपयङ्क रत्नमण्डपसंस्थितम् || २१ || आकाशगङ्गातोयोधैः सदैव सेवितं शुभम् | तत्पर्यङ्के रक्तपद्मं प्रसन्नं सर्वदाशिवम् || २२ || चिन्तयेत् स्वर्णमानाङ्कं सप्तपातालनालकम् | आब्रह्मभुवनस्पर्शि उवर्णाचलकर्णिकम् || २३ || तत्रस्थितां महामायां ध्यायेदेकाग्रमानसः | शोणपद्मप्रतीकाशां मुक्तमूर्धजलम्बिनीं || २४ || चलत्काञ्चनामारुह्य कुण्डलोज्ज्वलशालिनीम् | सुवर्णरत्नसम्पन्न किरीटवयधारिणीम् || २५ || शुक्लकृष्णारुणैर्नेत्रैस्त्रिभिश्चारुविभूषिताम् | सन्ध्याचन्द्रसमप्रख्य-कपोलां लोललोचनाम् || २६ || विपक्वाअडिमीबीजदन्तान् सुभ्रूओगोज्ज्वलाम् | बन्धूकदन्तवसनां शिरीषप्रभनासिकाम् || २७ || कम्बुग्रीवां विशालाक्षीं सूर्यकोटिसमप्रभाम् | चतुर्भुजा विवसनां पीनोन्नतपयोधराम् || २८ || दक्षिणोर्ध्वेन निस्त्रिंशत्परेण सिद्धसूत्रकम् | बिभ्रतीं वामहस्ताभ्यामभीतिं वरदायिनीम् || २९ || निम्नाभिरमायातां क्षीणमध्यां मनोहराम् | आनमन्नागपाशोरूं गुप्तगुल्फां सुपार्ष्णिकाम् || ३० || बद्धपर्यङ्कसङ्कल्पां निवीरासनराजिताम् | गात्रेण रत्नसंस्तम्भं सम्यगालम्ब्य संस्थिताम् || ३१ || किमिच्छसीति वचनं व्याहरन्तीं मुहुर्मुहुः | पन्चाननं पुरःसंस्थं निरीक्षन्तीं सुवाहनम् || ३२ || मुक्तावली स्वर्णरत्नहाअकङ्कणादिभिः | सर्वैरलङ्कारगणैरुज्ज्वलां सस्मिताननाम् || ३३ || सूर्यकोटिप्रतीकाशां सर्वलक्षणसंयुताम् | नवयौवनसम्पन्नां तथा सर्वाङ्गसुन्दरीम् || ३४ || ईदृशीमम्बिकां ध्यात्वा नमः फडिति मस्तके | स्वकीये प्रथमं दद्यात् साऽहमेव विचिन्त्य च || ३५ || अङ्गन्यासकरन्यासौ ततः कुर्यात् क्रमेण च | एभिर्मन्त्रैः स्वरैः अह सृमीसूमैः क्रमान्वितैः || ३६ || ओम् क्षौम् चैते सप्रणवां रक्तवर्णा मनोहराम् | अङ्गुष्ठादिकनिष्ठान्तमन्त्रसंबेष्टनं फट् || ३७ || प्रान्तेन कुर्याद् विन्यासं पूर्वं करतलद्वये | हृच्छिरःशिखाकवचनेत्रेषु रमतो न्यसेत् || ३८ || ततस्तु मूलमन्त्रस्य वक्त्रे पृष्ठे तथोदरे | बाह्वोर्गुह्ये पादयोश्च जङ्घयोर्जघने क्रमात् || ३९ || विन्यसेदक्षराण्यष्टौ ओंकारं च तथा स्मरन् | एभिः प्रकारैरतिसुद्धदेहः पूजां सदैवार्हति नान्यथा हि | शरीरशुद्धिं मनसो निवेशं भूतप्रसारं कुरुते नृणां तत् || ४० || इति श्रीकालिकापुराणे महामायाकल्पे रिपञ्चाशोऽध्यायः || ५३ || चतुःपञ्चाशोऽध्यायः श्रीभगवानुवाच ततोऽर्घपात्रे तन्मन्त्रमष्टधाकृत्य सञ्जजपेत् | तेन तोयानि पुष्पाणि स्वं मण्डलमथासनम् || १ || आशोधयेत् ततः पश्चात् पूजोपकरणं समम् | ओं ऐं ह्रीं ह्रौंइति मन्त्रेण शब्दप्रांशुविवर्जितम् || २ || द्वारपालं ततो देव्या आसनानि च पूजयेत् | नन्दिभृङ्गिमहाकालगणेशा द्वारपालकाः | उत्तरादिक्रमात् पूज्या आसनानि च मध्यतः || ३ || आधारशक्तिप्रभृति एमाद्यन्तात् प्रपूजयेत् | प्रसिद्धान् सर्वतन्त्रेषु पूजाकल्पेषु भैरव || ४ || दशदिक्पालसहितान् धर्माधर्मादिकांस्तथा | मण्डलाग्न्यादिकोणेषु पूजयेत् पार्श्वदेशतः || ५ || सूर्याग्निसोममरुतां मण्डलानि च पद्मकम् | रजस्तथा तमः सत्त्वं योगपीठं गुरोः पदम् || ६ || सारादीन् भद्रपीठान्तान् साङ्गोपाङ्गान् प्रपूजयेत् | ब्रह्माण्डं स्वर्णडिम्बं च ब्रह्मविष्णुमहेश्वरान् || ७ || ससागरान् सप्तद्वीपान् स्वर्णद्वीपं समण्डपम् | रत्नपद्मं सपर्यङ्कं रत्नस्तम्भं तथैव च || ८ || पञ्चाननं मण्डलस्य मध्येऽवश्यं प्रपूजयेत् | रीं मन्त्रेण ततः कूर्मपृष्ठं पाण्योर्निबध्य च || ९ || ध्यायेच्च पूर्ववद् देवीमासाद्यासनमुत्तमम् | हृन्मध्ये चिन्तयेत् स्वर्णद्वीपं पर्यङ्कसम्भृतम् || १० || पश्यन्निव ततो देवीमेकाग्रमनसा स्मरेत् | प्रत्यक्षीकृत्य हृदये मानसैरुपचारकैः || ११ || सोडशानां प्रकारैस्तु हृदिस्थां पूजयेच्छिवाम् | ततस्तु वायुबीजेन दक्षिणे च पुटेन च || १२ || नासिकाया विनिःसार्य क्रीं मन्त्रेण च भैरव | स्थापयेत् पद्ममध्ये तु तद्धस्तं न वियोजयेत् || १३ || कृते वियोगे हस्तस्य पुष्पात् तस्माच्च भैरव | गन्धर्वैः पूज्यते देवी पूजकैर्नाप्यते फलम् || १४ || आवाहनं ततः कुर्याद् गायत्र्या शिरसा सह | महामायायै विद्महे त्वां चण्डिकाख्यां धीमहि || १५ || तदुक्त्वा ततः पश्चाद् धियो यो नः प्रचोदयात् | स्नानीयं देवि ते तुभ्यं ओं ह्रीं श्रीं नम इत्यतः || १६ || स्नानीयं च ततो देव्यै दद्याल्लक्षणलक्षितम् | ततस्तु मूलमन्त्रेण गन्धपुष्पं सदीपकम् || १७ || धूपादिकं प्रदद्यात् तु मोदकं पायसं तथा | सितां गुडं दधि-क्षीरं सर्पिर्नानाविधैः फलैः || १८ || रक्तपुष्पं पुष्पमालां सुवर्णरजतादिकम् | नैवेद्यमुत्तमं देव्या लाङ्गलं मोदकं सिताम् || १९ || शाण्डिल्यकरताम्राख्य-कूष्माण्डानां फलानि च | हरीतकीफलं चापि नागरङ्गकमेलकम् || २० || बालप्रियं च यद् द्रव्यं कसेरुकबिसादिकम् | तोयं च नारिकेलस्य देव्यै देयं प्रयत्नतः || २१ || रक्तं कौशेयवस्तं च देयं नीलं कदापि न | देव्याः प्रियाणि पुष्पाणि बकुलं केशरं तथा || २२ || माध्यं कह्लारवज्राणि करवीरकुरुण्टकान् | अर्कपुष्पं शाल्मलकंदूर्वाङ्कुरं सुकोमलम् || २३ || कुशमञ्जरिका दर्भा बन्धूककमले तथा | मालूरपत्रं पुष्पंच त्रिसन्ध्यारक्तपर्णके || २४ || सुमनांसि प्रियाण्येतान्यम्बिकायाश्च भैरव | बन्धूकं बकुलं माध्यं बिल्वपत्राणि सन्ध्यकम् || २५ || उत्तमं सर्वपुष्पेषु द्रव्ये पायसमोदकौ | माल्यं बन्धूकपुष्पस्य शिवायै बकुलस्य वा || २६ || करवीरस्य माध्यस्य सहस्राणां ददाति यः | स कामान् प्राप्य चाभीष्टान् मम लोके प्रमोदते || २७ || चन्दनं शीतलं चैव कालीयकसमन्वितम् | अनुलेपनमुख्यं तु देव्यै दद्यात् प्रयत्नतः || २८ || कर्पूरं कुङ्कुमं कूर्चं मृगनाभिं सुगन्धिकम् | कालीयकं सुगन्धेषु देव्याः प्रीतिकरं परम् || २९ || यक्षधूपः प्रतीवाहः पिण्डधूपः सगोलकः | अगुरुः सिन्धुवारश्च धूपाः प्रीतिकरा मताः || ३० || अङ्गरागेषु सिन्दूरं देव्याः प्रीतिकरं परम् | सुगन्धि शालिजं चान्नं मधुमांससमन्वितम् || ३१ || अपूपं पायसं क्षीरमन्नं देव्याः प्रशस्यते | रत्नोदकं सकर्पूरं पिण्डीतककुमारकौ || ३२ || रोचनं पुष्पकं देव्याः स्नानीयं परिकीर्तितम् | घृतप्रदीपो दीपेषु प्रशस्तः परिकीर्तितः || ३३ || पुष्पाञ्जलित्रयं दद्याद् मूलमन्त्रेण शोभनम् | दत्त्वोपचारानखिलान्मध्ये चैताः प्रपूजयेत् || ३४ || कामेश्वरीं गुप्तदुर्गां विन्ध्यकन्दरवासिनीम् | कोटेश्वरीं दीर्घिकाख्यां प्रकटीं भुवनेश्वरीम् || ३५ || आकाशगङ्गां कामाख्यां यदा दिक्करवासिनीम् | मातङ्गीं ललितां दुर्गां भैरवी सिद्धिदां तथा || ३६ || बलप्रमथिनीं चण्डीं चण्डोग्रां चण्डनायिकाम् | ग्रां भीमां शिवां शान्तां जयन्तीं कालिकां तथा || ३७ || मङ्गलां भद्रकालीं च शिवां धात्रीं कपालिनीम् | स्वाहां स्वधामपर्णां च पञ्चपुष्करिणीं तथा || ३८ || मदनीं सर्वभूतानां मनःप्रोत्साहकारिणीम् | दमनीं सर्वभूतानां चतुःषष्टिं च योगिनीः || ३९ || एताः सम्पूज्य मध्ये तु मन्त्रेणाङ्गानि पूजयेत् | हृच्छिरस्तु शिखावर्मनेत्रबाहुपदानि च || ४० || मूलमन्त्राद्यक्षरैस्तु त्रिभिराद्यङ्गपूजनम् | एकैकं वर्द्धयेत् पश्चान्मन्त्राण्यङ्गौघपूजने || ४१ || सिद्धसूत्रं च खड्गं च खड्गमन्त्रेण पूजयेत् | ततोऽष्टपत्रमध्ये तु पूजयेदष्टयोगिनीः || ४२ || शैलपुत्रीं चण्डघण्टां स्कन्दमातरमेव च | कालरात्रिं च पूर्वादिचतुर्दिक्षु प्रपूजयेत् || ४३ || चण्डिकामथ कूष्माण्डीं तथा कात्यायनीं शुभाम् | महागौरीं चाग्निकोणे नै-ऋत्यादिषु पूजयेत् || ४४ || महामायां षमस्वेति मूलमन्त्रेण चाष्टधा | पूजयेत् पद्ममध्ये तु बलिदानं ततः परम् || ४५ || एवं यदा कल्पविधानमानैः सम्पूज्यते भैरव कामदेवी | तदा स्वयं मण्डलमेत्य देयं गृह्णाति कामं च ददाति सम्यक् || ४६ || इति श्रीकालिकापुराणे अष्टादशपटलोद्धारे महामायाकल्पचतुःपञ्चाशोऽध्यायः || ५४ || पञ्चपञ्चाशोऽध्यायः श्रीभगवानुवाच बलिदानं ततः पश्चात् कुर्याद् देव्याः प्रमोदकम् | मोदकैर्गजवक्त्रं च हविषा तोषयेद्रविम् || १ || तौर्यत्रिकैश्च नियमैः शङ्करं तोषयेद्धरिम् | चण्डिकां बलिदानेन तोषयेत् साधकः सदा || २ || पक्षिणः कच्छपा ग्राहाश्छागलाश्च वराहकाः | महिषो गोधिकाशोषा तथा नवविधा मृगाः || ३ || चामरः कृष्णसारश्च शशः पञ्चाननस्तथा | मत्स्याः स्वगात्ररुधिरैश्चाष्टधा बलयो मताः || ४ || अभावे च तथैवैषां कदाचिद्धयहस्तिनौ | छागलाः शरभाश्चैव नरश्चैव यथाक्रमात् || ५ || बलिर्महाबलिरिति बलयः परिकीर्तिताः | स्नापयित्वा बलिं तत्र पुष्पचन्दनधूपकैः || ६ || पूजयेत् साधको देवीं बलिमन्त्रैर्मुहुर्मुहुः | उत्तराभिमुखो भूत्वा बलिं पूर्वमुखं तथा || ७ || निरीक्ष्य साधकः पश्चादिमं मन्त्रमुदीरयेत् | वरस्त्वं बलिरूपेण मम भाग्यादुपस्थितः || ८ || प्रणमामि ततः सर्वरूपिणं बलिरूपिणम् | चण्डिकां प्रीतिदानेन दातुरापद्विनाशनः || ९ || वैष्णवीबलिरूपाय बले तुभ्यं नमो नमः | यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा || १० || अतस्त्वां घातयाम्यद्य तस्माद् यज्ञे वधोऽवधः | (ओं) ऐं ह्रीं श्रीं इति मन्त्रेण तं बलिं कामरूपिणम् || ११ || चिन्तयित्वा न्यसेत् पुष्पं मूर्ध्नि तस्य च भैरव | ततो देवीं समुद्दिश्य काममुद्दिश्य चात्मनः || १२ || अभिषिच्य बलिं पश्चात् करवालं प्रपूजयेत् | रसना त्वं चण्डिकायाः सुरलोकप्रसाधकः || १३ || इं ह्रीं श्रीमिति मन्त्रेण ध्यात्वा खड्गं प्रपूजयेत् | कृष्णं पिनाकपाणिं च कालरात्रिस्वरूपिणम् || १४ || उग्रं रक्तास्यनयनं रक्तमाल्यानुलेपनम् | रक्ताम्बरधरं चैकं पाशहस्तं कुटुम्बिनम् || १५ || पीयमानं च रुधिरं भुञ्जानं क्रव्यसंहतिम् | असिर्विशसनः खड्गस्तीक्ष्णधरो दुरासदः || १६ || स्रीगर्वो विजयश्चैव धर्मपाल नमोऽस्तु ते | पूजयित्वा ततः खड्गं ओं अं ह्रीं फडितिमन्त्रकैः || १७ || गृहीत्वा विमलं खड्गं छेदयेद् बलिमुत्तमम् | ततो बलीनां रुधिरं तोयसैन्धवसत्फलैः || १८ || मधुभिर्गन्धपुष्पैश्च अधिवास्य प्रयत्नतः | ओं ऐं ह्रीं श्रीं कौशिकीति रुधिरं दापयामि ते || १९ || स्थाने नियोजयेद्रक्तं शिरश्च सप्रदीपकम् | एवं दत्त्वा बलिं पूर्णं फलं प्राप्नोति साधकः || २० || हीनं स्याद्धीनतामूलं निष्फलं स्याद् विपर्ययात् | बलिदाने तु दुर्गाया अन्यत्रापि विधिः सदा || २१ || अयमेव प्रयोक्तव्यः सद्भिर्वेतालभैरवौ | जपं समारभेत् पश्चात् पूर्ववद्ध्यानमास्थितः || २२ || हस्तेन स्रजमादाय चिन्तयेन्मनसा शिवाम् | चिन्तयित्वा गुरुं मूर्ध्नि यथा वर्णादिकं भवेत् || २३ || मन्त्रं च कण्ठतो ध्यात्वा सितवर्णं हिरण्मयम् | महामायां च हृदये आत्मानं गुरुपादयोः || २४ || अचक्षेत ततः पश्चाद् गुरोर्मन्त्रस्य चात्मनः | देव्याश्चाप्येकतां ध्यात्वा सुषुम्नावर्त्मना ततः || २५ || तत्त्वस्वरूपमेकं तु षट्चक्रं प्रति लम्बयेत् | षट्चक्रेऽपि महामायां क्षणं ध्यात्वा प्रयत्नतः || २६ || लम्बयेन्मूलमात्रेण वादिषोडशचक्रकम् | आदिषोडशचक्रस्थां साधकानन्दकारिणीम् || २७ || इन्तयन् साधको देवीं जपकर्म समारभेत् | भ्रवोरुपरि नाडीनां त्रयाणां प्रान्त उच्यते || २८ || तत्प्रान्तं त्रिपथस्थानं षट्कोणं चतुरङ्गुलम् | रक्तवर्णं तु योगज्ञैराज्ञाचक्रमितीर्यते || २९ || कण्ठे त्रयाणां नाडीनां वेष्ठनं विद्यते नृणाम् | सुषुम्नेडापिङ्गलानां षट्कोणं तत्षडङ्गुलम् || ३० || तत् षट्चक्रमिति प्रोक्तं शुक्लं कण्ठस्य मध्यगम् | त्रयाणामथ नाडीनां हृदये चैकता भवेत् || ३१ || तत्स्थानं षोडशारं स्यात् सप्ताङ्गुलप्रमाणतः | अत्प्रयुक्तं तु योजज्ञैरादिषोडशचक्रकम् || ३२ || ध्यानानामथ मन्त्राणां चिन्तनस्य जपस्य च | यस्मादाद्यं तु हृदयं तस्मादादीति गद्यते || ३३ || जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः | निधाय मण्डलस्यान्तः सव्यहस्तगतां च वा || ३४ || ओं माले माले महामाये सर्वशक्तिस्वरूपिणि | चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव || ३५ || पूजयित्वा ततो मालां ऋह्णीयाद् दक्षिणे करे | मध्यमाया मध्यभागे वर्जयित्वाथ तर्जनीम् || ३६ || अनामिकाकनिष्ठाभ्यां युताया नम्रभागतः | स्थापयित्वा तत्र मालामङ्गुष्ठाग्रेण तद्गतम् || ३७ || प्रत्येकं बीजमादाय जप्यादर्धेन भैरव | प्रतिवारं पठेन्मन्त्रं शनैरोष्ठं च चालयेत् || ३८ || मालाबीजं तु जप्तव्यं स्पृशेन्नहि परस्परम् | पूर्वजापप्रयुक्तेन नैवाङ्गुष्ठेन भैरव || ३९ || पूर्वबीजं जपन् यस्तु परबीजं च संस्पृशेत् | अङ्गुष्ठेन भवेत् तस्य निष्फलस्तस्य तज्जपः || ४० || मालां स्वहृदयासन्ने धृत्वा दक्षिणपाणिना | देवीं विचिन्तयन् जप्यं कुर्याद् वामेन न स्पृशेत् || ४१ || स्फटिकेन्द्राक्षरुद्राक्षैः पुत्रञ्जीवसमुद्भवैः | सुवर्णमणिभिः सम्यक् प्रवालैरथवाब्जजैः || ४२ || अक्षमाला तु कर्तव्या देवीप्रीतिकरी परा | जपेदुपांशु सततं कुशग्रन्थ्याथ पाणिना || ४३ || मालाबीजेषु सर्वेषु रुद्राक्षो मत्प्रियाप्रियः | रुद्रप्रीतिकरी यस्मात् तेन रुद्राक्षरोचनी || ४४ || प्रवालैरथवा कुर्यादष्टाविंशतिबीजकैः | पञ्चपञ्चाशता वापि न न्यूनैरधिकैश्च वा || ४५ || रुद्राक्षर्यदि जप्येत इन्द्राक्षैः फटिकैस्तथा | नान्यं मध्ये प्रयोक्तव्यं पुत्रञ्जीवादिकं च यत् || ४६ || यद्यन्यत् तु प्रयुज्येत मालायां जपकर्मणि | तस्य कामं च मोक्षं च ददाति न प्रियङ्करी || ४७ || मिश्रीभावं ततो याति चाण्डालैः पापकर्मभिः | जन्मान्तरे जायते स वेदवेदाङ्गपारगः || ४८ || एको मेरुस्तत्र देयः सर्वेभ्यः स्थूलसम्भवः | आद्यं स्थूलं ततस्तस्माद् न्यूनं न्यूनतरं तथा || ४९ || विन्यसेत् क्रतस्तस्मात् सर्पाकारा हि सा यतः | ब्रह्मग्रन्थियुतं कुर्यात् प्रतिबीजं यथाश्तितम् || ५० || अथवा ग्रन्थिरहितं दृढरज्जुसमन्वितम् | विरावृत्याथ मध्येन चार्धवृत्यान्तदेशतः || ५१ || ग्रन्थिः प्रदक्षिणावर्तः स ब्रह्मग्रन्थिसंज्ञकः | अत्मना योजयेन्मालां नामन्त्रो योजयेन्नरः || ५२ || दृढं सूत्रं नियुञ्जीत जपे त्रुट्यति नो यथा | यथा हस्तान्न च्यवेत जपतः स्रक् तमाचरेत् || ५३ || हस्तच्युतायां विघ्नं स्याच्छिन्नायां मरणं भवेत् | एवं यः कुरुते मालां जपं च जपकोविदः || ५४ || स प्राप्नोतीप्सितं कामं हीने स्यात् तु विपर्ययः | अन्यत्रापि जपेन्मालां जप्यं देवमनोहरम् || ५५ || तादृशः साधकः कुर्यान्नान्यथा तु कदाचन | यथाशक्ति जपं कुर्यात् सङ्ख्ययैव प्रयत्नतः || ५६ || असङ्ख्यातं च यज्जप्तं तस्य तन्निष्फलं भवेत् | जप्त्वा मालां शिरोदेशे प्रांशुस्थानेऽथ वा न्यसेत् || ५७ || स्तुतिपाठं ततः कुर्यादिष्टं कामं निवेद्य च | स्तुतिश्चापि महामन्त्रं साधनं सर्वकर्मणाम् || ५८ || वक्ष्ये युवां महाभागौ सर्वसिद्धिप्रदायकम् | सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके || ५९ || शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते | सप्तधावर्तनं कृत्वा स्तुतिमेनां च साधकः || ६० || पञ्चप्रणामान् कृत्वाथ ऐं ह्रीं श्रीमितिमन्त्रकैः | अन्येषां पुरतश्चैव अधिकं वा यथेच्छया || ६१ || योनिमुद्रां ततः पश्चाद् दर्शयित्वा विसर्जयेत् | द्वौ पाणी प्रसृतीकृत्य कृत्वा चोत्तानमञ्जलिम् || ६२ || अङ्गुष्ठाग्रद्वयं न्यस्य कनिष्ठाग्रद्वयोस्ततः | अनामिकायां वामस्य तत्कनिष्ठां पुरो न्यसेत् || ६३ || दक्षिणस्यानामिकायां कनिष्ठां दक्षिणस्य च | अनामिकायाः पृष्ठे तु मध्यमे द्वे निवेशयेत् || ६४ || द्वे तर्जन्यौ कनिष्ठाग्रे तदग्रेणैव योजयेत् | योनिमुद्रा समाख्याता देव्याः प्रीतिकरी मता || ६५ || त्रिवारं दर्शयेत् तां तु मूलमन्त्रेण साधकः | तां मुद्रां शिरसि न्यस्य मण्डलं विन्यसेत् ततः || ६६ || ऐशान्यामग्रहस्तेन द्वारपद्मविवर्जितम् | तत्र नत्वा रक्तचण्डां ह्रीं श्रीं मन्त्रेण साधकः || ६७ || रक्तचण्डायै नम इति निर्माल्यं तत्र निक्षिपेत् | उदके तरुमूले वा निर्माल्यं तत्र संत्यजेत् || ६८ || एवं यः पूजयेद् देवीं विधानेन शिवां नरः | सोऽचिरेण लभेत्कामान् सर्वानेव मनोगतान् || ६९ || अर्धलक्षजपं जप्त्वा प्रथमं चैव साधकः | पुरश्चरेद् विशेषेण नानानैवेद्यवेदनैः || ७० || कुण्डं मण्डलवत् कृत्वा चाष्टम्यां समुपोषितः | नवम्यां शुक्लपक्षस्य रजोभिः पञ्चभिर्नरः || ७१ || पूर्ववन्मण्डलं कृत्वा गुरुपित्रोश्च सन्निधौ | अनेनैव विधानेन पूजयित्वा तु चण्डिकाम् || ७२ || सहितैर्बिल्वपत्रैश्च अष्टोत्तरशतत्रयम् | तिलैर्होमं चरेत् तस्यां सहस्रत्रितयं जपेत् || ७३ || नैवेद्यं गन्धपुष्पे च वस्त्रं दद्याच्च अत्प्रियम् | पूर्वोक्तं चान्यदप्यस्यै प्रदद्यात् पायसं तथा || ७४ || पूजावसाने देयं स्यात् तज्जातीयं बलित्रयम् | सिन्दूरं स्वर्णरत्नानि अद्यत् स्त्रीणां विभूषणम् || ७७ || निवेदयेद् यथाशक्त्या पुष्पमाल्यं च भूरिशः | महाशक्तुं सशाल्यन्नं गव्यव्यञ्जनसंयुतम् || ७६ || देव्यै नवम्यां सम्पूर्णं बलिं दद्याद् घृतादिभिः | दक्षिणां गुरवे दद्यात् सुवर्णं गां तथा तिलम् || ७७ || अभिशप्तमपुत्रं च सावद्यं कितव तथा | क्रियाहीनमकल्पज्ञं वामनं गुरुनिन्दकम् || ७८ || सदा मत्सरसंयुक्तं गुरुं मन्त्रेषु वर्जयेत् | गुरुर्मन्त्रस्य मूलं स्यान्मूलशुद्धौ तदुद्गतम् || ७९ || सफलं जायते यस्मान्मन्त्रं यत्नात्परीक्षयेत् | शाठ्यात् क्रोधात्तु मोहाद्वा आसन्मत्या गुरोर्मुखात् || ८० || कल्पेषु दृष्ट्वा वा मन्त्रं गृह्णीयाच्छद्मनाऽथ वा | स मन्त्रस्तेय पापेन तामिस्रे नरके नरः || ८१ || मन्वन्तरत्रयं स्थित्वा पापयोनिषु जायते | शठे क्रूरे च मूर्खे च छद्मकारिण्यभक्तिके || ८२ || मन्त्रं न दूषिते दद्यात् सुबीज विपिने तथा | लक्षेण साधयेत कामं पुरश्चरणपूर्वकम् || ८३ || पापक्षयो भवेद् यस्मात् पुरश्चरणकर्मणा | लक्षद्वयेन मन्त्रस्य जपेन नरसत्तमौ || ८४ || त्रिसन्ध्यासु प्रतिदिनं बीजसंघातकेन च | कविर्वाग्मी पण्डितश्च यशस्वी च प्रजायते || ८५ || साधकः साधकश्रेष्ठ पूजास्थानं ततः शृणु | यत्र यत्र नरः पूजां निर्जने कुरुते च यः || ८६ || तस्यादत्ते स्वयं देवी पत्रं पुष्पं फलं जलम् | शिला प्रशस्ता पूजायां स्थण्डिलं निर्जनं तथा || ८७ || जपश्चोपांशु सर्वेषामुत्तमः परिकीर्तितः | अशुचिर्न महामायां पूजयेत् तु कदाचन || ८८ || अवश्यं तु स्मरेन्मन्त्रं योऽतिभक्तियुतो नरः | दन्तरक्ते समुत्पन्ने स्मरणं च न विद्यते || ८९ || सर्वेषामेव मन्त्राणां स्मरणन्नरकं व्रजेत् | जानूर्ध्वे क्षतजे जाते नित्यं कर्म न चाचरेत् || ९० || नमित्तिकं च तदधः स्रवद्रक्तो न चाचरेत् | सूतके च समुत्पन्ने क्षुरकर्मणि मैथुने || ९१ || धूमोद्गारे तथा वान्ते नित्यकर्माणि संत्यजेत् | द्रव्ये भुक्ते त्वजीर्णे च न वै भुक्त्वा च किञ्चन || ९२ || कर्म कुर्यान्नरो नित्यं सूतके मृतके तथा | पत्रं पुष्पं च ताम्बूलं भेषजत्वेन कल्पितम् || ९३ || कणादिपिप्पल्यन्तं च फलं भुक्त्वा न चाचरेत् | जलस्यापि नरश्रेष्ठ भोजनाद् भेषजादृते || ९४ || नित्यक्रिया निवर्तेत सह नैमित्तिकैः सदा | जलौकां गूढपादं च कृमिगण्डूपदादिकम् || ९५ || कामाद्धस्तेन संस्पृश्य नित्यकर्माणि संत्यजेत् | विशेषतः शिवापूजां प्रमीतपितृको नरः || ९६ || यावद् वत्सरपर्यन्तं मनसापि न आचरेत् | महागुरुनिपाते तु काम्यं किञ्चिन्न चाचरेत् || ९७ || आर्त्विज्यं ब्रह्मयज्ञं च श्राद्धं देवयजं च यत् | गुरुमाक्षिप्य विप्रं च प्रहृत्यैव च पाणिना || ९८ || न कुर्यान्नित्यकर्माणि रेतःपाते च भैरव | आसनं चार्घ्यपात्रं च भग्नमासादयेन्नतु || ९९ || ऊषरे कृमिसंयुक्ते स्थाने मृष्टेऽपि नार्चयेत् | नीचैरासनमासाद्य शुचिः प्रयतमानसः || १०० || अर्चयेच्चण्डिकां देवीं देवमन्यं च भैरव | दिग्विभागे तु कौबेरी दिक् छिवा प्रतिदायिनी || १०१ || तस्मात् तन्म्ख आसीनः पूजयेच्चण्डिकां सदा | पुष्पं च कृमिसंमिश्रं विशीर्णं भग्नमृद्गते || १०२ || सकेश मूषिकोद्धूतं यत्नेन परिवर्जयेत् | याचितं परकीयं च तथा पर्युषितं च यत् | अन्त्यसृष्टं पदा स्पृष्टं यत्नेन परिवर्जयेत् || १०३ || इदं शिवायाः परमं मनोहरं करोति योऽनेन तदीयपूजनम् | स वाञ्छितार्थं समवाप्य चण्डिका- गृहं प्रयाता नचिरेण भैरव || १०४ || इति श्रीकालिकापुराणे और्वसगरसंवादे महामायाकल्पः अञ्चपञ्चाशोऽध्यायः || ५५ || षट्पञ्चाशोऽध्यायः श्रीभगवानुवाच अस्य मन्त्रस्य कवचं शृणु वेतालभैरव | वैष्णवीतन्त्रसंज्ञस्य वैष्णव्याश्च विशेषतः || १ || तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपधृक् | वर्णो द्वितीयो ब्रह्मैव तृतीयश्चन्द्रशेखरः || २ || चतुर्थो गजवक्त्रश्च पञ्चमस्तु दिवाकरः | शक्तिः स्वयं पकारश्च महामाया जगन्मयी || ३ || यकारस्तु महालक्ष्मीः शेषवर्णः सरस्वतो | योगिनीपूर्ववर्णस्य शैलपुत्री प्रकीर्तिता || ४ || द्वितीयस्य तु वर्णस्य चण्डिका योगिनी मता | चन्द्रघण्टा तृतीयस्य कुष्माण्डी तत् परस्य च || ५ || स्कन्दमाता तकारस्य पस्य कात्यायनी स्वयम् | कालरात्रिः सप्तमस्य महादेवीति संस्थिता || ६ || प्रथमं वर्णकवचं योगिनीकवचं तथा | देवौघकवचं पश्चाद् देवीदिक्कवचं तथा || ७ || ततस्तु पार्श्वकवचं द्वितीयान्ताव्ययस्य च | कवचं तु ततः पश्चात् षड्वर्णं कवचं तथा || ८ || अभेद्यकवचं चेति सर्वत्राणपरायणम् | इमानि कवचान्यष्टौ यो जानाति नरोत्तमः || ९ || सोऽहमेव महादेवी देवीरूपश्च शक्तिमान् | अस्य वैष्णवीतन्त्रकवचस्य आरद-ऋषिअनुष्.उप्छन्दः || १० || कात्यायनी देवता सर्वकामार्थसाधने विनियोगः | अः पातु पूर्वकाष्ठायामाग्नेययां पातु कः सदा || ११ || पातु चो यमकाष्ठायां दो नै-ऋत्यां च सर्वदा | मां पातु तोऽसौ पाश्चात्ये शक्तिर्वायव्यदिग्गता || १२ || यः पातु मां चोत्तरस्यामैशान्यां अस्तथावतु | मूध्नि रक्षतु मां सोऽसौ बाहौ मां दक्षिणे तु कः || १३ || मां वामबाहौ चः पातु हृदि टो मां सदावतु | तः पातु कण्ठदेशे मां कट्योः शक्तिस्तथावतु || १४ || यः पातु दक्षिणे पादे षो मां वामपादे तथा | शैलपुत्री तु पूर्वस्यामाग्नेययां पातु चण्डिका || १५ || चन्द्रघण्टा पातु याम्यां अमभीतिविवर्धिनी | नैर्-ऋत्ये त्वथ कूष्माण्डी पातु मां जगतां प्रसूः || १६ || स्कन्दमाता पश्चिमायां मां रक्षतु सदैव हि | कात्यायनी मां वायव्ये पातु लोकेश्वरी सदा || १७ || कालरात्री तु कौबेर्यां सदा रक्षतु मां स्वयम् | महागौरी तथैशान्यां सततं पातु पावनी || १८ || नेत्रयोर्वासुदेवो मां पातु नित्यं सनातनः | ब्रह्मा मां पातु वदने पद्मयोनिरयोनिजः || १९ || नासाभागे रक्षतु मां सर्वदा चन्द्रशेखरः | गजवक्त्रः स्तनयुग्मे पातु नित्यं हरात्मजः || २० || वामदक्षिणपाण्योर्मां नित्यं पातु दिवाकरः | महामाया स्वयं नाभौ मां पातु परमेश्वरी || २१ || महालक्ष्मीः पातु गुह्ये जानुनोश्च सरस्वती | महामाया पूर्वभागे नित्यं रक्षतु मां शुभा || २२ || अग्निज्वाला तथाग्नेययां पायान्नित्यं वरासिनी | रुद्राणी पातु मां याम्यां नैर्-ऋत्यां चण्डनायिका || २३ || उग्रचण्डा पश्चिमायां पातु नित्यं महेश्वरी | प्रचण्डा पातु वायव्ये कौबेर्यां घोररूपिणी || २४ || ईश्वरी च तथैशान्यां पातु नित्यं सनातनी | ऊर्ध्वं पातु महामाया पात्वधः परमेश्वरी || २५ || अग्रतः पातु मामुग्रा पृष्ठतो वैष्णवी तथा | ब्रह्माणी दक्षिणे पार्श्वे नित्यं रक्षतु शोभना || २६ || माहेश्वरी वामपार्श्वे नित्यं पायाद् वृषध्वजा | कौमारी पर्वते पातु वाराही सलिले च माम् || २७ || नारसिंही दंष्टिभये पातु मां विपिनेषु च | ऐन्द्री मां पातु चाकाशे तथा सर्वजले स्थले || २८ || सेतुः सर्वाङ्गुलीः पातु देवादिः पातु कर्णयोः | देवान्तश्चिबुके पातु पार्श्वयोः शक्तिपञ्चमः || २९ || हा पातु मां तथैवोर्वोर्माया रक्षतु जङ्घयोः | सर्वैन्द्रियाणि यः पातु रोमकूपेषु अर्वदा || ३० || त्वचि मां वै सदा पातु मां शम्भुः पातु सर्वदा | नखदन्तकरोष्ठादौ रां मां पातु सदैव हि || ३१ || देवादिः पातु मां वस्तौ देवान्तः स्तनकक्षयोः | एतदादौ तु यः सेतुर्बाह्ये मां पातु देहतः || ३२ || आज्ञाचक्रे सुषम्नायां षट्चक्रे हृदि सन्धिषु | आदिषोडशचक्रे च ललाटाकाश एव च || ३३ || वैष्णवी तन्त्रमन्त्रो मां नित्यं रक्षंश्च तिष्ठतु | अर्णनाडीषु सर्वासु पार्श्वकक्षशिखासु च || ३४ || ३४ || रुधिरस्नायुमज्जासु मस्तिष्केषु च पर्वसु | द्वितीयाष्टाक्षरो मन्त्रः कवचं पातु सर्वतः || ३५ || रेतो वायौ नाभिरन्ध्रे पृष्ठसन्धिषु सर्वतः | षडक्षरस्तृतीयोऽयं मन्त्रो मां पातु सर्वदा || ३६ || नासारन्ध्रे महामाया कण्ठरन्ध्रे तु वैष्णवी | सर्वसन्धिषु मां पातु दुर्गा दुर्गार्तिहारिणी || ३७ || श्रोत्रयोर्हूं फडित्येवं नित्यं रक्षतु कालिका | नेत्रबीजत्रयं नेत्रे सदा तिष्ठतु अक्षितुम् || ३८ || ओं ऐं ह्रीं ह्रौ नासिकायां रक्षन्ती चास्तु चण्डिका | ओं ह्रीं हूं मां सदा तारा जिह्वामूले तु तिष्ठतु || ३९ || हृदि तिष्ठतु मे सेतुर्ज्ञानं रक्षितुमुत्तमम् | ओं क्षौं फट् च महामाया पातु मां सर्वतः सदा || ४० || ओं युं सः प्राणान् कौशिकी मां प्राणान् रक्षतु रक्षिका | ओं ह्रीं हूं सौं भर्गदैता देहशून्येषु पातु माम् || ४१ || ओं अमः सदा शैलपुत्री सर्वान् रोगान् प्रमृज्यताम् | ओं ह्रीं सः स्फें क्षः फडस्त्राय सिंहव्याघ्रभयाद्रणात् || ४२ || शिवदूती पातु नित्यं ह्रीं सर्वास्त्रेषु तिष्ठतु | ओं हां हीं सश्चण्डघण्टा कर्णच्छिद्रेषु पातु माम् || ४३ || ओं क्रीं सः कामेश्वरी कामानभितिष्ठतु रक्षतु | ओं आं हूं फडुग्रचण्डा रिपून् विघ्नान् वमर्दताम् || ४४ || ओं पं पातु नारसिंही मां क्रव्यादेभ्यस्रयास्त्रतः | ओं श्रीं ह्रीं ह्रां ह्रं कालरात्रिः खड्गाद्रक्षतु मां सदा || ४५ || ओ अं शूलात् पातु नित्यं वैष्णवी जगदीश्वरी | ओं कं ब्रह्माणी पातु चक्रात् (ओं) चं रुद्राणी तु शक्तितः || ४५ || ओं टं कौमारी पातु वज्रात् ओं तं वाराही तु काण्डतः | ओं पं पातु नारसिंही मां क्रव्यादेभ्यस्तथास्त्रतः || ४६ || शस्त्रास्त्रेभ्यः समस्तेभ्यो यन्त्रेभ्योऽनिष्टमन्त्रतः | चण्डिकां मां सदा पातु य सं देव्यै नमो नमः | विश्वासघातकेभ्यो मामैन्द्री रक्षतु मन्मनः || ४७ || ओं नमो महामायायै ओं वैष्णव्यै नमो नमः | रक्ष मां सर्वभूतेभ्यः सर्वत्र परमेश्वरि || ४८ || आधारे वायुमार्गे हृदि कमलदले चन्द्रवत् स्मेरसूर्ये | वस्तौ वह्नौ समिद्धे विशतु वरदया मन्त्रमष्टाक्षरन्तत् | यद्ब्रह्मा मूर्ध्नि धत्ते हरिरवति गले चन्द्रचूडो हृदिस्थं | तं मां पातु प्रधानं निखिलमतिशयं पद्मगर्भाभबीजम् || ४९ || आद्याः शेषाः स्वरौघैर्मायवलवरैरस्वरेणापियुक्तैः सानुस्वाराविसर्गैर्हरिहरविदितं यत्सहस्रं च साष्टम् | अन्त्राणां सेतुबन्धं निवसति सततं वैष्णवीतन्त्रमन्त्रे तन्मां पायात्पवित्रं परमपरमजं हूतलव्योमभागे || ५० || अङ्गान्यष्टौ तथाष्टौ वसव इह तथैवाष्टमूर्तिर्दलानि प्रोक्तान्यष्टौ तथाष्टौ मधुमतिरचिताः सिद्धयोऽष्टौ तथैव | अष्टावष्टाष्टसंख्या जगति रतिकलाः क्षिप्रकाष्ठाङ्गयोगा मययष्टावक्षराणि क्षरतु न हि गणो यद्धृदो यस्त्वमूषाम् || ५१ || इयि तत्कवचं प्रोक्तं धर्मकामार्थसाधनम् |इदं रहस्य परममिदं सर्वार्थसाधकम् || ५२ || यः सकृच्छृणुयादेतत् कवचं मयकोदितम् | स सर्वांल्लभते कामान् परत्र शिवरूपताम् || ५३ || सकृद् यस्तु पठेदेतत् कवचं मयकोदितम् | स सर्वयज्ञस्य फलं लभते नात्र संशयः || ५४ || सङ्ग्रामेषु जयेच्छत्रुं मातङ्गानिव केशरी | दहेत् तृणं यथावह्निस्तथा शत्रुं दहेत् सदा || ५५ || नास्त्राणि तस्य शस्त्राणि शरीरे प्रविशन्ति वै | न तस्य जायते व्याधिर्न च दुःखं कदाचन || ५६ || गुटिकाञ्जनपातालपादलेपरसाञ्जनम् | उच्चाटनाद्यास्ताः सर्वाः प्रसीदन्ति च सिद्धयः || ५७ || वायोरिव गतिस्तस्य भवेदन्यैरवारिता | दीर्घायुः काम्भोगी च धनवानभिजायते || ५८ || अष्टम्यां संयतो भूत्वा नवम्यां विधिवच्छिवाम् | पूजयित्वा विधानेन विचिन्त्य मनमा शिवाम् || ५९ || यो न्यसेत् कवचं देहे तस्य पुण्यफल शृणु | जितव्याधिः शतायुश्च रूपवान् गुणवान् सदा || ६० || धनरत्नौघसम्पूर्णो विद्यावान् स च जायते | नाग्निर्दहति तत्कायं नापः सङ्क्लेदयन्ति च || ६१ || न शोषयति तं वायुः रव्यात् तं न हिनस्ति च | शस्त्राणि नैनं छिन्दन्ति न तापयति भास्करः || ६२ || न तस्य जायते विघ्नो नास्ति तस्य च सञ्ज्वरः | वेतालाश्च पिशाचाश्च राक्षसा गणनायकाः || ६३ || सर्वे तस्य वशं यान्ति भूतग्रामाश्चतुर्विधाः | नित्यं पठति यो भक्त्या कवचं हरिनिर्मितम् || ६४ || सोऽहमेव महादेवो महामाया च मातृका | धर्मार्थकाममोक्षाश्च तस्य नित्यं करे स्थिताः || ६५ || अन्यस्य वरदः सोऽर्थैर्नित्यं भवति पण्डितः | कवित्वं सत्यवादित्वं सततं तस्य जायते || ६६ || वदेच्च्लोकसहस्राणि भवेच्च्रुतिधरस्तथा | लिखितं यस्य गेहे तु कवचं भैरव स्थितम् || ६७ || न तस्य दुर्गतिः क्वापि जायते तस्य दूषणम् | ग्रहाश्च सर्वे तुष्यन्ति वशं गच्छन्ति भूमिपाः || ६८ || यद्राज्ये कवचज्ञोऽस्ति जायन्ते तत्र नेतयः | सेतुर्देवः शक्तिबीजं पञ्चमोहाय ते नमः || ६९ || वायुर्बलेन चैतायै द्वितीयाष्टाक्षरं त्विदम् | सेतुर्देवोऽठ वैष्णव्यै षडक्षरमिदं स्मृतम् || ७० || एतद् द्वयं तु जिह्वाग्रे सततं यस्य वर्तते | तस्य देवी महामाया काये तिष्ठति वै सदा || ७१ || मन्त्राणां प्रणवः सेतुस्तत्सेतुः प्रणवः स्मृतः | षरत्यनोङ्कृतः पूर्वं परस्ताच्च विशीर्यते || ७२ || नमस्कारो महामन्त्रो देव इत्युच्यते सुरैः | द्विजातीनामयं मन्त्रः शूद्राणां सर्वकर्मणि || ७३ || अकार चात्युकारं च मकारं च प्रजापतिः | वेदत्रयात्समुद्धृत्य प्रणवं निर्ममे पुरा || ७४ || स उदात्तो द्विजातीनां राज्ञां स्यादनुदात्तकः | प्रचितश्चोरुजातानां मनसापि तथा स्मरेत् || ७५ || चतुर्दशस्वरो योऽसौ शेष औकारसंज्ञकः | स चानुस्वारचन्द्राभ्यां शूद्राणां सेतुरुच्यते || ७६ || निःसेतु च यथा तोयं क्षणान्निम्नं प्रसर्पति | मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्वनाम् || ७७ || तस्मात् सर्वत्र मन्त्रेषु चतुर्वर्णा द्विजातयः | पार्श्वयोः सेतुमादाय जतकर्मसमारभेत् || ७८ || शूद्राणामादिसेतुर्वा द्विःसेतुर्वा यथेच्छतः | द्विःसेतवः समाख्याताः सर्वदैव द्विजातयः || ७९ || और्व उवाच एतत् ते सर्वमाख्यातं कवचं त्र्यम्बकोदितम् | अभेद्यं कवचं तत् तु कवचाष्टकमुत्तमम् || ८० || महामायामन्त्रकल्पं कवचं अन्त्रसंयुतम् | षडक्षरसमायुक्तं त्रिषु लोकेषु दुर्लभम् || ८१ || एतत् त्वं नृपषार्दूल नित्यभक्तियुतः पठन् | जपन् मन्त्रं च वैष्णव्याः सर्वसिद्धिमवाप्स्यसि || ८२ || इति श्रीकालिकापुराणे महामायामन्त्रकल्पे (कवचं) नामसट्पञ्चाशोऽध्यायः || ५६ || सप्तपञ्चाशोऽध्यायः मार्कण्डेय उवाच श्रुत्वेमं सगरो राजा संवादं भैरवेण वै | वेतालेनापि भर्गस्य पुनरौर्वमपृच्छत || १ || सगर उवाच मन्त्रं कलेवरगतं आङ्गं प्रोक्तं त्वया द्विज | अङ्गमन्त्राणि मे देव्याः कथ्यन्तां भो द्विजोत्तम || २ || तथा मन्त्राणि सर्वाणि पूजास्थानानि सर्वशः | तथैवोत्तरमन्त्राणि कवचानि पृथक् पृथक् || ३ || कामाख्यायाश्च माहात्म्यं सरहस्यं समन्त्रकम् | यथा शशंस भगवान् महादेव उमापतिः || ४ || वेतालभैरवाभ्यां तत् समाचक्ष्व सविस्तरात् | शृण्वतो न हि मे तृप्तिर्जायते महदद्भुतम् || ५ || भवता कथ्यमानं हि परं कौतूहलं मम | और्व उवाच शृणु त्वं राजशार्दूल यत्पुत्राभ्यामुमापतिः || ६ || उवाच महदाख्यानं तन्मे निगदतोऽधुना | एतद्रहस्यं परमं पवित्रं पापनाशनम् || ७ || अरं स्वस्त्ययनं पुंसां गर्भे पुंसवनं स्मृतम् | कल्याणकारकं भद्रं चतुर्वर्गफलप्रदम् || ८ || शठाय चलचित्ताय नास्तिकायाजितात्मने | देवद्विजगुरूणां च मिथ्यानिर्बन्धकारिणे || ९ || न पापायाभिशस्ताय खञ्जकाणादिरोगिणे | न कथ्यं न च वा देयं श्रद्धाविरहिताय च || १० || महामायामन्त्रकल्पं प्रोक्त्वा ताभ्यामुमापतिः | वेतालभैरवाभ्यां तु पुनरेवाभ्यभाषत || ११ || भगवानुवाच अङ्गमन्त्रं प्रवक्ष्यामि प्रोक्तवांस्तन्त्रमुत्तमम् | तदेव प्रथमं विद्धि सर्वपूजासु सङ्गतम् || १२ || आचान्तः शुचितां प्राप्तः सुस्नातो देवपूजने | पूजावेद्या बहिःस्थित्वा चतुर्हस्तान्तरे धिया || १३ || गृहे वां द्वारदेशस्थः प्रणम्य शिरसा गुरुम् | प्रणमेदिष्टदेवं स्वं दिक्पालानपि चेतसा || १४ || यत् पूर्वमर्जितं पापं तद्दिनेऽन्यदिनेऽपि वा | प्रायश्चित्तैर्नापनुन्नं तच्च पापं स्मरेद्धिया || १५ || तत्पापस्यापनोदाय मन्त्रद्वयमुदीरयेत् | देवि त्वं प्राकृतं चित्तं पापाक्रान्तमभून्मम || १६ || तन्निःसारय चित्तान्मे पापं हूं फट् च ते नमः | सूर्यः सोमो यमः कालो महाभूतानि पञ्च वै || १७ || एते शुभाशुभस्येह कर्मणो नव साक्षिणः | ततः पुनर्हूं फडिति पार्श्वमूर्ध्वमधस्तथा || १८ || आत्मानं क्रोधदृष्ट्याथ निरीक्ष्य सुमना भवेत् | एवं कृते प्रथमतः पापोत्सारणकर्मणि || १९ || यत् स्याद् दृढतरं पापं तद् दूरे चावतिष्ठते | अतीते पूजने स्थानं स्वं प्रयाति पुनश्च यत् || २० || यत् स्यादल्पतरं पापं तन्नाशमुपगच्छति | ओं अः फडितिमन्त्रेण पूजावेदीं ततो विशेत् || २१ || पूजने त्यक्तपापस्य काममिष्टं क्षणाद् भवेत् | नाराचमुद्रया दृष्ट्वा समया अम्प्रलोकयेत् || २२ || पुष्पनैवेद्यगन्धादि ह्रीं हूं फडिति मन्त्रकैः | यदात्मनानवज्ञातं सम्यक् पुष्पादिदूषणम् || २३ || अस्पृश्यस्पर्शनं वापि यदन्यायार्जितं च वा | तथा निर्माल्यसंसृष्टं कीटाद्यारोहणं च यत् || २४ || तत्सर्वं नाशमायाति नैवेद्याद्यवलोकनात् | ततो रमितिमन्त्रेण शिखां दीपस्य संस्पृशेत् || २५ || स तस्य सुभगो दीपो भवेत् स्पर्शनमात्रतः | पतङ्गकीटकेशादि-दाहात् क्रव्यादसंहतः || २६ || वसामज्जास्थिसम्पूतिर्यज्ञादावुअयोजनम् | अज्ञातरूपं तत्सर्वं दोषं स्पर्शाद् विनाशयेत् || २७ || नारसिंहेन मन्त्रेण देवतीर्थेन संस्पृशेत् | पानीयं घटमध्यस्थं वीक्सन्नभ्युक्ष्य याजकः || २८ || वामेन पाणिना धृत्वा वामपार्श्वे स्थितं तदा | पात्रमाधारमन्त्रेण संस्कुर्वन् संस्पृशेज्जलम् || २९ || यज्ञदानादपेयादि संसृष्टिरिह सङ्गता | यदन्यद् दूषणं पात्रे तोये वा ज्ञानतो भवेत् || ३० || जलाशयं शवस्पर्शाज्जलं स्ननाच्च सङ्गतम् | दूषणानि विनश्यन्ति तानि वै देवपूजने || ३१ || प्रजापतिसुतो हान्तप्रान्तः स्वरसमन्वितः | चन्द्रार्धबिन्दुसहितो मन्त्रोऽयं नारसिंहकः || ३२ || स्वसंज्ञाद्यक्षरं बिन्दुचन्द्रार्धपरियोजितम् | आधारमन्त्रं जानीयात् साधकः कार्यसिद्धये || ३३ || तत आधारमन्त्रेण पाणिभ्यामासनं स्वकम् | आदाय विनिधायाशु पुनः संस्पृश्य पाणिना || ३४ || आत्ममन्त्रेण्पविशेत् तदा तस्मिन् वरासने | दुःशिल्पिरचितत्वादि यद्वान्यासनऊषणम् || ३५ || अज्ञातं विलयं याति उपवेशात् समन्त्रकात् | आहूय स्वाक्षरं पूर्वं सोमसामिसमन्वितम् || ३६ || सबिन्दुकं विजानीयादात्ममन्त्रं तु साधकः | ततस्तु मातृकान्यासं नादबिन्दुसमन्वितम् || ३७ || कुर्यात् तु मातृकामन्त्रैः स्वशरीरे विचक्षणः | कल्पेषु च यदज्ञातं मन्त्रोच्चारणकर्मणि || ३८ || यद्दुष्टं वा तथा स्पृष्टं माताभ्रष्टादिदूषणम् | तन्न्यस्ता मातृकामन्त्रा नाशयन्ति सदैव हि || ३९ || व्यञ्जनानि च सर्वाणि तथा विष्ण्वादयः स्वराः | सर्वे ते मातृकामन्त्राश्चन्द्रबिन्दुविभूषणा || ४० || सर्वे युगान्तवन्द्येषु न्यस्तेषु न्यूनपूरणम् | मन्त्रे कल्पे च कुर्वन्ति विन्यस्ता मातृकाः स्वयम् || ४१ || एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते | प्लुतस्त्रिमात्रो विज्ञेयो वर्णा एते व्यवस्थिताः || ४२ || सर्वेषामेव वर्णानां मात्रादेव्यस्तु मातृकाः | शिवदूतीप्रभृतयस्तन्न्यासास्तत्तनुस्थिताः || ४३ || पूरयन्ति च तान् न्यूनांश्चतुर्वर्ग तथाचिरात् | ददत्येव सदा रक्षां कुर्वन्ति सुरपूजने || ४४ || चतुर्वर्गप्रदश्चायं सर्वकामफलप्रदः | सर्वदामातृकान्यासस्तुष्टिपुष्टिप्रदायकः || ४५ || यः कुर्याद् मातृकान्यासं विनापि सुरपूजनात् | तस्माद् बिभेति सततं भूतग्रामश्चतुर्विधः || ४६ || तं द्रष्टुमपि देवाश्च स्पृहयन्ति महौजसम् | स सर्वं च वशं कुर्याद् न च याति पराभवम् || ४७ || कुसुमं विष्णुमन्त्रेण अङ्गुल्यग्रेण साधकः | विमर्दनार्थं गृह्णीयात करशोधनकर्मणि || ४८ || उपान्तः सामि चन्द्रेण रञ्जितः शून्यसंयुतः | रुद्रान्तोपरिसंसृष्टो मन्त्रोऽयं वैष्णवो मतः || ४९ || प्रासादेन तु मन्त्रेण अङ्गुल्यग्रेण साधकः | गृहीत्वा च ततः कुर्यात् कराभ्यां पुष्पमर्दनम् || ५० || इर्मथेत् कामबीजेन जिघ्रेद् ब्राह्मेण तत् पुनः | प्रासादेन परित्यागो दिश्यैशान्यां विशेषतः || ५१ || एवं कृते तु करयोर्विशुद्धिरतुला भवेत् | जलौकागूढपादादिस्पर्शाच्छुद्दिर्विशोधनात् || ५२ || दुर्गन्ध्युच्छिष्टसंस्पर्शाद् दूषणं करयोस्तु यत् | अज्ञातरूपं तत्सर्वं नाशयेत् सुविधानतः || ५३ || अङ्गुल्यग्राणि शुद्धानि पुष्पाणां ग्रहणाद् भवेत् | तलद्वयं मर्दनात् तु विशुद्धमभिजायते || ५४ || निर्मञ्छनात् पाणिपृष्ठं घ्राणान्नासाग्रमुत्तमम् | तीर्थानि च समायान्ति नासिकायां करं प्रति || ५५ || तस्माद् यत्नेन कार्याणि कर्माण्येतानि भैरव | प्रान्तादिर्वासुदेवेन वर्णेनापि च संहितः || ५६ || शम्भुचूडाबिन्दुयुक्तः प्रासाद च स उच्यते | कामबीजं तु विज्ञेयं वासुदेवेन्दुविन्दुभिः || ५७ || व्यञ्जनं चाद्यदन्तं च प्रान्तदन्त्या तु पूर्वकम् | आद्यदन्त्यद्वयं पश्चाद् व्यञ्जनं प्रणवोत्तरम् || ५८ || ब्रह्मबीजमिदं प्रोक्तं सर्वपापप्रणाशनम् | प्रणवं दीर्घमुच्चार्य प्रथमं मुखशुद्धये || ५९ || वासुदेवस्य बीजेन प्राणायामं समाचरेत् | यस्य देवस्य यद्रूपं तथा भूषणवाहनम् || ६० || तदेव पूजने तस्य चिन्तयेत् पूरकादिभिः | वैष्णवीतन्त्रमन्त्रस्य कण्ठाद्यं यत्पुरःसरम् || ६१ || तद् बीजं वासुदेवस्य पूर्णचन्द्रनिभं सदा | गङ्गावतारबीजेन प्रथमं धेनुमुद्रया || ६२ || अमृतीकरणं कुर्यादर्घपात्राहिते जले | शशिखण्डयुतः कण्ठ्यः पञ्चमीबलबीजकः || ६३ || गङ्गावतारमन्त्रोऽयं सर्वपापप्रणाशकः | मात्राद्वययुतो विष्णुर्बलबीजमुदाहृतम् || ६४ || अमृतीकरणे वृत्ते तोयं यद् दीयतेऽमृतम् | भूत्वा प्रयाति देवस्य प्रीतये सुरपूजने || ६५ || गङ्गापि स्वयमायाति पूजापात्रजलं प्रति | अमृतीकरणं कुर्याद् धर्मकामार्थसिद्धये || ६६ || स्वस्तिकं गोमुखं पद्ममर्धस्वस्तिकमेव च | पर्यङ्कमासनं शस्तुमभीष्टसुरपूजने || ६७ || पादयन्त्रमिदं प्रोक्तं सर्वमन्त्रोत्तमोत्तमम् | तद् गृह्णीयाद् वराहस्य बीजेन प्रथमं बुधः || ६८ || मायादिरग्निबीजस्य चतुर्थः समव्याप्तिकः | सष्ठस्वरोपरिचरो वाराहं बीजमुच्यते || ६९ || वाराहबीजसंशुद्धं मन्त्रपादद्वये कृतम् | पश्यन्नभीष्टदेवं तु पाददोषं न पश्यति || ७० || न युक्तमन्यथा पाददर्शनं सुरपूजने | अन्त्रेण लभतेऽभीष्टांस्तस्मान्मन्त्रपरो भवेत् || ७१ || पाणिकच्छपिकां कुर्यात् कूर्ममन्त्रेण साधकः | तत्र संस्कृतपुष्पेण पूजयेदात्मनो वपुः || ७२ || पूजिते तेन पुष्पेण देवत्वं स्वस्य जायते | द्वितीयं वैष्णवीतन्त्रं बीजं बिन्द्विन्दुसंयुतम् || ७३ || षष्ठस्वरोपरिचरं कूर्मबीजं प्रकीर्तितम् | दहनप्लवनस्यादौ रन्ध्रस्य दशमस्य तु || ७४ || भेदनं साधकः कुर्यान्मन्त्रेण प्रणवेन तु | बीजेन वासुदेवस्य आकाशे विनिधापयेत् || ७५ || प्राणेन सहितं बीजं ततपूर्वं प्रतिपादितम् | अज्ञाता प्रयतानां तु मण्डलस्थानमार्जनात् || ७६ || द्रव्याणां विप्रकारः स्यात् संसर्गाणां तथैव च | मधुकैटभयोर्मेदःसंघातैर्दृढतां गता || ७७ || मेदिनी सर्वदा शुद्धा सुरपूजासु सर्वतः | अद्यापि सर्वे त्रिदशा न स्पृशन्ति पदा क्षितिम् || ७८ || न च स्वीयतनुच्छायां योजयन्ति च भूतले | तस्य दोषस्य मोक्षार्थं मन्त्रराजं लिखेत् क्षितौ || ७९ || प्रोक्षणाद् वीक्षणाद् वापि शुद्धा भवति मेदिनी | वीक्षणं धर्मबीजेन स्थण्डिलस्य समाचरेत् || ८० || दान्तो बलेन संयुक्तश्चूडाविन्दुसमन्वितः | धर्मबीजमिति प्रोक्तं धर्मकामार्थसाधनम् || ८१ || आदानं धारणं चैव तथा संस्थानपूजने | पूरणं संलिलेनैव निःक्षेपो गन्धपुष्पयोः || ८२ || मण्डलस्याथ विन्यासः पुनः पुष्पस्य संश्रयः | अमृतीकरण पात्रप्रतिपतीरियं नरः || ८३ || आनिरुद्धेन चादाय अस्त्रमन्त्रेण धारणम् | पात्रे तु मण्डलन्यासं वाग्बीजाग्रेण योजयेत् || ८४ || आनिरुद्धं भवेद्बीजमाद्यं बिन्दुद्वयोत्तरम् | फडन्तेनानिरुद्धं तु अस्त्रमन्त्रं प्रकीर्तितम् || ८५ || शम्भुराद्यवलः प्रान्तः अम्पूर्णा सहिता इमे | परतः परतः पूर्वं समाप्त्यन्ताः सबिन्दुकाः || ८६ || तृतीयं वाग्भवं बीजं सकलं निष्कलाह्वतम् | स्वरश्चतुर्थः सकलः संसृष्टौ बिन्दुनेन्दुना || ८७ || वर्गाद्यादिर्द्वितीयं तु वाग्भवं बीजमुच्यते | कामराजाह्वयं चैतद् धर्मकामार्थसाधनम् || ८८ || मनोभवस्य बीजं तु कुण्डलीशक्तिसंयुतम् | वासुदेवेन सम्पृक्तमाद्यं वाग्भवमुच्यते || ८९ || इदं सारस्वतं नाम यदाद्यं वाग्भवं स्मृतम् | एकैकं कामबीजादि त्रिभिस्तु त्रिपुरामहः || ९० || आद्यं तृतीयं सामीन्दुबिन्दुभ्यः समलंकृतम् | मदनस्य तु मन्त्रोऽयं कामभोगफलप्रदः || ९१ || औदेतोरूपविन्यस्तं यन्त्रं भास्करसन्निभम् | तद् वक्ष्ये कुण्डलीशक्तिमभेदात् तु निगद्यते || ९२ || भूतापसारणं कुर्यान्मन्त्रेणानेन याजकः | यस्मिन् कृते स्थानभूता ऊरं यान्ति सुरार्चने || ९३ || स्थितेषु तत्र भूतेषु नैवेद्यमण्डलं तथा | विलुम्पन्ति सदा लुब्धा न गृह्णन्ति च देवता || ९४ || तस्माद् यत्नेन कर्तव्यं भूतानामपसारणम् | अस्त्रमन्त्रेण सहितं तस्य मन्त्रमिदं स्मृतम् || ९५ || अपसर्पन्तु ते भूता ये भूता भूमिपालकः | भूतानामविरोधेन ऊजाकर्म करोम्यहम् || ९६ || अनेन स्थण्डिलाद् भूतानपसार्याथ साधकः | ततो दिग्बन्धनं कृत्वा दिग्भ्यस्तानपसारयेत् || ९७ || विष्णुबीजं फडन्तं तु मन्त्रं दिग्बन्धने स्थितम् | करेण होटिकापूर्वं वेष्टनं बन्धनं दिशः || ९८ || आत्मनः पूजनेनाथ कर्मारम्भाधिकारिता | पूजितं चासनं योगपीठस्य सदृशं भवेत् || ९९ || स्वभावतः सदा शुद्धं पञ्चभूतात्मकं वपुः | मलपूतिसमायुक्त श्लेषम्विण्मूत्रपिच्छिलम् || १०० || रेतोनिष्ठीवलालाभिः स्रवद्भिरपरिष्कृतम् | बीजभूतानि चैतस्य महाभूतानि पञ्च वै || १०१ || तेषां तु सर्वभूतानां बीजानां देहसङ्गिनाम् | वायुतेजःपृथिव्यम्भोवियतां शुद्धये क्रमात् || १०२ || शोषणं दहनं भस्मप्रोत्सादोऽमृतवर्षणम् | आप्लावनं च कर्तव्यं चिन्तामात्रविशुद्धये || १०३ || अण्डस्य चिन्तनाद् भेदात्तन्मध्ये देवचिन्तनात् | स्वकीयस्येष्टदेवस्य चिन्ता सर्वात्मना भवेत् || १०४ || सोऽहमित्यस्य सततं चिन्तनाद् देवरूपता | आत्मनो जायते सम्यक् संस्कृतिः पुष्पदानतः || १०५ || अहं देवोऽथ नैवेद्यं पुष्पगन्धादिकं च यत् | पूजोपकरणार्थं च देवत्वमिह जायते || १०६ || देवाधारो ह्यहं देवो देवं देवाय योजयेत् | सर्वेषां देवतासृष्ट्या जायते शुद्धतापि च || १०७ || मनोजीवात्मनोः शुद्धिः प्राणायामेन जायते | अन्तर्गतं यच्च मलं तच्च शुद्धं प्रजायते || १०८ || गृहे चेत् पूजयेद् देवं तदा तस्य विलोकनम् | कुर्यादादित्यबीजेन चतुःपार्श्वेष्वपि क्रमात् || १०९ || हान्तः समाप्तिसहितो वह्निबीजेन संहितः | उपान्तः सचतुर्थस्तु स तथा सकलोऽग्रतः || ११० || आदित्यबीजं कथितं सर्वरोगविनाशनम् | धर्मार्थकाममोक्षाणां कारणं तोषदायकम् || १११ || अशुद्धपक्षिसंयोग-पक्षिविष्ठाप्रसेचने | मूषिकाणां तथा स्पर्शः कृमिकीटादिसङ्गमः || ११२ || एवमादीनि नश्यन्ति लोकनाद् गृहदूषणम् | ततस्तु योगपीठस्य ध्यानं प्रथमतश्चरेत् || ११३ || ध्यानमात्रं योगपीठं प्रविशत्येव मण्डलम् | योगपीठे स्मृते सर्व योगपीठमय समम् || ११४ || न योगपीठादधिकं विद्यते परमासनम् | यस्य ध्यानाज्जगद् व्याप्तं सचराचरमानुषम् || ११५ || तच्चिन्तनस्य माहात्म्यं को वा वक्तुं समुत्सहेत् | चिन्तामात्रेण मानुष्यं पश्य शोकविनाशनम् || ११६ || धारणाद् योगपीठं तु चतुर्वर्गफलप्रदम् | शुद्धस्फटिकसंकाशं चतुष्कोणं चतुर्वृतिम् || ११७ || आधारशक्त्या विहितं प्रग्रहं सूर्यसन्निभम् | आग्नेयादिषु कोणेषु चतुर्षु क्रमतः स्थितम् || ११८ || धर्मो ज्ञानं तथैश्वर्यं वैराग्यं क्रमतः सदा | पूर्वादिदिक्षु चैतानि स्थितानि क्रमतो यथा || ११९ || अधर्मश्च तथाज्ञानमनैश्वर्यं ततः परम् | अवैराग्यं परं तस्माद्धारणार्थं व्यवस्थितम् || १२० || तस्योपरि जलौघस्तु तस्मिन् ब्रह्माण्डमास्थितम् | ब्रह्माण्डाभ्यन्तरे तोयं कूर्मस्तस्योपरि स्थितः || १२१ || कूर्मोपरि तथानन्तः पृथ्वी तस्योपरि स्थिता | अनन्तगात्रसंयुक्तं नालं पातालगोचरम् || १२२ || पृथ्वीमध्ये स्थितं पद्मं दिक्पत्रं गिरिकेशरम् | तस्याष्टदिक्षु दिक्पालाः स्वर्गो मध्ये व्यवस्थितः || १२३ || कर्णिकायां ब्रह्मलोको महर्लोकादयो ह्यधः | स्वर्गे ज्योतीषिं देवाश्च चतुर्वेदास्तदन्तरे || १२४ || सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः | सदा स्थिताः पद्ममध्ये परं तत्त्वं तथैव च || १२५ || आत्मतत्त्वं तत्र संस्थमूर्ध्वच्छदनमूर्धतः | अधोऽधश्छदनं तत्र केशराग्रे स्थितं पुनः || १२६ || सूर्याग्निचन्द्रमरुता मण्डलानि क्रमात् ततः | शावासनं योगपीठे सुखासनमतः परे || १२७ || आराध्यासनमस्माच्च ततश्च विमलासनम् | मध्ये विचिन्तयेत् सर्वं जगद्वै सचराचरम् || १२८ || ब्रह्मविष्णुशिवांश्चैव भागत्रयविनिश्चितान् | आत्मानं चिन्तयेत् तत्र पूजने समुपस्थितम् || १२९ || मण्डलं योगपीठं तु पद्मं पद्मं तु चिन्तयेत् | शावादीन्यासनानीह चत्वार्यपि विचिन्तयेत् || १३० || योगपीठं पृथग्ध्यात्वा मण्डलेन सहैकताम् | पुनर्ध्यात्वा ततः पश्चात् पूजयेदासनं ततः || १३१ || ध्यानेन योगपीठस्य यथा यद्दीयते जलम् | नैवेद्यपुष्पधूपादि तत् स्वयं चोपतिष्ठते || १३२ || सर्वे देवाः सगन्धर्वाः सचराचरगुह्यकाः | चिन्तताः पूजिताश्च स्युर्योगपीठस्य पूजने || १३३ || अभीष्टदेवतापूजां विना यस्य विचिन्तनात् | लभते वै चतुर्वर्गं तुष्टिः पुष्ठिश्च जायते || १३४ || आवाहनानन्तरतः पाणिभ्यामवतारयेत् | प्रागुत्तानौ करौ कृत्वा ऊर्ध्वमुत्क्षिप्य सान्तरौ || १३५ || निरन्तरावधः कुर्यान्नामयन् पूजकस्तथा | हेरम्बस्य तु बीजेन तस्मादवतरेति च || १३६ || आम्रेडितेन चाभीष्टदेवानां लम्बनाय वै | नासिकावायुनिःसाराद्वियत्स्था देवना भवेत् || १३७ || एवं कृते मण्डले तु स्थितिस्तस्य प्रजायते | स्वान्तः शुद्धांशुबिन्दुभ्यां हैरम्बं बीजमुच्यते || १३८ || नाशनं विघ्नबीजानां धर्मकामार्थसाधनम् | गन्धपुष्पे तथा धूपदीपौ नैवेद्यमेव च || १३९ || यदन्यद् दीयते वस्त्रमलङ्कारादिकं च यत् | तेषां दैवतमुच्चार्य कृत्वा प्रोक्षणपूजने || १४० || उत्सृज्य मूलमन्त्रेण प्रतिनाम्ना निवेदयेत् | वरुणस्य तु बीजेन तेषां प्रोक्षणमाचरेत् || १४१ || ष्टेन मूलमन्त्रेण तथोत्सर्गनिवेदने | लपरश्चन्द्रबिन्दुभ्यां बीजं वारुणमुच्यते || १४२ || विलोकनं पूजनं च तथा दानं पृथक् पृथक् | जपकर्मणि मालायाः प्रतिपत्तिरिदं त्रयम् || १४३ || इष्टमन्त्रेण मालायाः प्रोक्षणं परिकीर्तितम् | बीजं गाणपतं पूर्वमुच्चार्यं तदनन्तरम् || १४४ || अविघ्नं कुरु माले त्वं गृह्णीयादित्यनेन च | जपान्ते शिरसि न्यासो मालायाः परिकीर्तितः || १४५ || स्रजमादाय पाणिभ्यां श्रीबीजेन तथार्चयेत् | अन्त्यदन्त्यान्तमात्राभ्यां चादिवर्गतृतीयकौ || १४६ || परतः परतः पूर्वं श्रीबीजं बिन्दुनेन्दुना | मालाया अवतारस्तु शिरसः क्रियते तदा || १४७ || तां समादाय पाणिभ्यां कुर्यात् सारस्वतेन वै | श्रीबीजानामाद्यमाद्यं बिन्दुचन्द्रार्धसंयुतम् || १४८ || एतच्चतुष्टयं बीजं सारस्वतमुदीरितम् | पौराणिकैर्वैदिकैश्च मूलमन्त्रेण चैव हि || १४९ || प्रदक्षिणां प्रणामं च कुर्याद्धर्मार्थसाधकम् | भूमिं वीक्ष्य तथाभ्युक्ष्य क्षितिबीजेन पूर्वतः || १५० || स्पृशंस्तां शिरसा भूमिं प्रणमेदिष्टदेवताः | समाप्तिहीनं बाराहं बीजं बिन्द्विन्दुसंयुतम् || १५१ || क्षितिबीजं विजानीयाच्चतुर्वर्गप्रदायकम् | दर्पणं व्यजनं घण्टां चामरं प्रोक्षयेत् पुनः || १५२ || नैवेद्यालोकमन्त्रेण पूर्वप्रोक्तेन भैरव | नामाक्षराणि चाद्यानि चैतेषां बिन्दुनेन्दुना || १५३ || तस्मै नम इति प्रान्ते गहणे मन्त्र उच्यते | निवेदनमथैतेषामिष्टमन्त्रेण चाचरेत् || १५४ || वाग्भवस्य द्वितीयेन कामबीजेन भैरव | मुद्राया बन्धनं कार्यं मूलमन्त्रेण दर्शनम् || १५५ || परित्यागं तु मुद्रायास्ताराबीजेन चाचरेत् | प्रान्तादिश्चन्द्रबिन्दुभ्यां षष्ठस्वरसमन्वितः || १५६ || ताराबीजमिति प्रोक्तं धर्मकामार्थसाधनम् | मुदं ददाति यस्मात् सा मुद्रा तेन प्रकीर्तिता || १५७ || दर्शितायां तु मुद्रायां भवेत् पूजासमापनम् | कामं मोक्षं तथा धर्ममर्थमोदयुता स्वयम् || १५८ || ददाति साधकायाशु देवता गन्तुमुत्सुका | मुद्रान्ते तु महामन्त्रान् षडिमान् समुदीरयेत् || १५९ || यद् दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् | आवेदितं च नैवेद्यं तद्गृहाणानुकम्पया || १६० || आवाहनं न जानामि न जानामि विसर्जनम् | पूजाभावं न जानामि त्वं गतिः परमेश्वरि || १६१ || कर्मणा मनसा वाचा त्वत्तो आन्यं गतिर्मम | अन्तश्चरेण भूतानां त्वं अतिः परमेश्वरि || १६२ || मातर्योनिसहस्रेषु येषु येषु व्रजाम्यहम् | तेषु तेष्वच्युता भक्तिरच्युतेऽस्तु सदा त्वयि || १६३ || एवी दात्री च भोक्त्री च देवी सर्वमिदं जगत् | देवी जयति सर्वत्र या देवी सोऽहमेव च || १६४ || यदक्षरपरिभ्रष्टं मात्राहीनं च यद् भवेत् | तत्सर्वं क्षम्यतां देवि कस्य न स्खलितं मनः || १६५ || मन्त्रेषु पठितेष्वेषु स्वयमेव प्रसीदति | दातुं देवीं चतुर्वर्गं न चिरादेव भैरव || १६६ || ऐशान्यां मण्डलं कुर्याद् द्वारपद्मविवर्जितम् | विसर्जनार्थं निर्माल्यधारिण्याः पूजनाय वै || १६७ || पाद्मादिभिः पूजयित्वा ध्यात्वा निर्माल्यधारिणीम् | निःक्षिप्य तस्मिन् निर्माल्यं मन्त्रेण तु विसर्जयेत् || १६८ || गच्छ गच्छ परं स्थानं स्वस्थानं परमेश्वरि | यत्र ब्रह्मादयो देवा न विदुः परमं पदम् || १६९ || विसृज्य मन्त्रेणानेन ततः पूरकवायुना | ध्यायंस्तु मन्त्रेणानेन नत्वा तां स्थापयेद्धृदि || १७० || तिष्ठ देवि परे स्थाने स्वस्थाने परमेश्वरि | यत्र ब्रह्मादयः सर्वे सुरास्तिष्ठन्ति मे हृदि || १७१ || तत एकजटाबीजैरिष्टदेवीं धिया स्मरन् | निर्माल्यं मूर्ध्नि गृह्णीयाद् धर्मकामार्थसाधनम् || १७२ || मण्डलप्रतिपतीं तु ततः कुर्याद् विभूतये | सर्वाङ्गुलीनामग्रौधैः पद्ममष्टदलान्वितम् || १७३ || निर्मन्थेत् क्षितिबीजेन मण्डलं चापि भैरव | ततस्तु मूलमन्त्रेण सर्ववश्येन वा पुनः || १७४ || अनामिकानामग्रेण ललाटमपि संस्पृशेत् | समाप्तिसहितः प्रान्तस्ताराबीजं ततः परम् || १७५ || स्मरबीजं विसर्गेण परतः परतः परम् | भबेदेकजटाबीजं धर्मकामार्थसाधनम् || १७६ || ततो भास्करबीजेन सहितेनात्मना पुनः | मन्त्रेण भास्करायार्धमच्छिद्रार्थं निवेदयेत् || १७७ || नमो विवस्वते ब्रह्मन् भास्वते विष्णुतेजसे | जगत्सवित्रे शुचये सवित्रे कर्मदायिने || १७८ || ततः कृताञ्जलिर्भूत्वा पठित्वा मन्त्रमीरितम् | एकाग्रमनसा वाग्भिरच्छिद्रमवधारयेत् || १७९ || यज्ञच्छिद्रं तपश्छिद्रं यच्छिद्रं पूजने मम | सर्वं तदच्छिद्रमस्तु भास्करस्य प्रसादतः || १८० || ततस्तु पुष्पनैवेद्य तोयपात्रादिकं च यत् | देवीबीजेन तत्सर्वं पुनरेव विलोकयेत् || १८१ || हस्तेन चक्षुषा वापि यत्र यत्र कृतः पुरा | मन्त्रन्यासस्तत्र तत्र विसृष्टिरमुना भवेत् || १८२ || प्रान्तादिपञ्चमो वह्निबीजषष्ठस्वराहितः | तथोपान्तं वाग्भवाद्यं दुर्गाबीजं प्रचक्षते || १८३ || स्थण्डिले ज्वलदग्नौ च तोये सूर्यमरीचिषु | प्रतिमासु च शुद्धासु शालग्रामशिलासु च || १८४ || शिवलिंगे शिलायां तु पूजा कार्या विभूतये | सर्वत्र मण्डलन्यासं कुर्यादेकाग्रमानसः || १८५ || योगपीठस्य बीजेन स्थण्डिलादिषु साधकः | वासुदेवस्य रुद्रस्य ब्रह्मणो मिहिरस्य च || १८६ || कुर्यात् सर्वत्र पूजासु प्रतिपत्तिमिमां बुधः | एवं यः पूजयेद् विष्णुममीभिः प्रतिपत्तिभिः || १८७ || चतुर्वर्गप्रदस्तस्य न चिराज्जायते हरिः | शिवो वा मिहिरो वापि येऽन्ये लम्बोदरादयः || १८७ || प्रसीदन्ति सुराः सर्वे पूजाया विधिनामुना | विशेषतो महादेवी महामाया जगन्मयी || १८९ || प्रतिपत्तिमिमां नित्यं स्पृहयत्येव पूजने | एवं यः कुरुते पूजां सम्यक् स फलभाग्भवेत् || १९० || एतैर्विहीना या पूजा अतोऽल्पाल्पं फलं भवेत् | अङ्गहीनस्तु पुरुषो न सम्यग्याझिको यथा || १९१ || अंगहीना तथा पूजा न सम्यक् फलभाग्भवेत् | इदं रहस्यं परममिदं स्वस्त्ययनं परम् | मन्त्रवेदमयं शुद्धं सर्वपापप्रणाशनम् || १९२ || यः श्रावयेद् ब्राह्मणसन्निधाने श्राद्धेषु यज्ञे सुरपूजनेषु | सम्यक् फलं तस्य लभेत् स कर्मणो विनापि पूजां तदनन्तमश्नुते || १९३ || इति श्रीकालिकापुराणे उत्तरतन्त्रे अप्तपञ्चाशोऽध्यायः || ५७ || अष्टपञ्चाशोऽध्यायः श्रीभगवानुवाच देव्यास्तन्त्रं विशेषेण शृणुतं साम्प्रतं युवाम् | येन चाराधिता देवी नचिराद्वरदा भवेत् || १ || ऊर्वतन्त्राद्विशेषेण तथा वै तन्त्रमुत्तरम् | विशेषेण च सामान्यात् कथितं भवतोः पुरा || २ || पुनर्देव्या विशेषेण पूजायां भक्तिकर्मणि | यानि अन्त्राणि शेषाणि तानि वक्ष्याम्यहं पुनः || ३ || यः कुर्यात् तु महामायाभक्तिमेकाग्रमानसः | अङ्गिना आङ्गिमन्त्रेण तेन कार्यमिदं शुभम् || ४ || फलं पुष्पं च ताम्बूलमन्नपानादिकं च यत् | अदत्त्वा तु महादेव्यै न भोक्तव्यं कदाचन || ५ || पथि वा पर्वताग्रे वा सभायामपि साधकः | यथा तथा निवेद्यैव स्वमर्थमुपकल्पयेत् || ६ || दृष्ट्वैव मदिराभाण्डं रक्तवर्णास्तथा स्त्रियः | सिंहं शवं रक्तपद्मं व्याघ्रवारणसङ्गमम् || ७ || गुरुं राजानमथवा महामायां ततो नमेत् | पतिव्रतायां भार्यायां सदैव ऋतुसङ्गमः || ८ || क्रियते चण्डिकां ध्यात्वा तदा कार्यो विभूतये | शान्तिकं पौष्टिकं वापि तथेष्टापूर्तकर्मणी || ९ || यदा कुर्यात् तदा नत्वा देवीयात्रां समाचरेत् | तौर्यत्रिकं यदा पश्येत् केवलं गीतमेव वा || १० || तच्च देव्यै निवेद्यैव कर्तव्यं स्वोपयोजनम् | यदेव भूषणं वासो मलयोद्भवमेव वा || ११ || स्वकाये परियुञ्जीत तत्र मन्त्रं धिया न्यसेत् | व्यायामे च विधाने च सभायां वा जले स्थले || १२ || यत्र यत्र स्वयं गच्छेत् तत्र देवीं सदा स्मरेत् | यद् यत् कर्म तु पूजाङ्गं तत्तन्मन्त्रेण चाचरेत् || १३ || मन्त्रहीनं पूजनाङ्गं कर्म यत् तत्तु निष्फलम् | यस्मिन् कर्मणि योद्दिष्टो मन्त्रर्पूजासु भैरव || १४ || नैवेद्यालोकमन्त्रेण तत् तत् कर्म समाचरेत् | देव्यास्तु मण्डलन्यासमिष्टमन्त्रेण चाचरेत् || १५ || पूजान्ते मण्डलं लिप्त्वा तिलकं तेन कारयेत् | सर्ववश्येन मन्त्रेण धर्मकामार्थदायिना || १६ || बलिदाने बलिं छित्वा खड्गस्थै रुधिरैः स्वकैः | सर्ववश्येन मन्त्रेण ललाटे तिलकं न्यसेत् || १७ || जगद्वशे भवेत् तस्य चतुर्थः कस्य वह्निना | षष्ठस्वरेण संयुक्तः कलाबिन्दुसमन्वितः || १८ || अथोपान्तस्थकारान्तः सपरोऽपि तथा पुनः | द्विर्मोहीति अकारास्य तुर्यो द्विस्वरसंयुतः || १९ || तृतीयवर्ग-प्रान्तेन तृतीयस्वरसंज्ञिना | पूरितान्तो विधा वर्णस्तथा आदिचतुर्थकः || २० || स्वरो द्वितीयश्च तथा क्षोभशब्दः पुरः सरः | पुरेति सहितः सोऽपि मित्र्ऽम् शत्रुश्च राक्षसः || २१ || अक्षप्रजा तथा राजा सर्वशास्त्र इति श्रुतः | विनापि पूजनं कुर्याद् यो रहस्तिलकं नरः || २२ || मन्त्रेणानेन सततं सर्वं तस्य वशे भवेत् | राजा वा राजपुत्रो वा स्त्रियो वा यक्षराक्षसाः || २३ || सर्वे तस्य वशं यान्ति भूतग्रामाश्चतुर्विधाः | प्रवासे पथि वा दुर्गे स्थानाप्राप्तौ जलेऽपि वा || २४ || कारागारे निबद्धो वा रायोवेशगतोऽपि वा | कुर्यात् तत्र महामायापूजां वै मानसीं बुधः || २५ || अनोभये समुत्पन्ने सिंहव्याघ्रसमाकुले | परचक्रागमे वापि कुर्यान्मानसपूजनम् || २६ || मनसा हृदयस्यान्तर्ध्यात्वा योगाख्यपीठकम् | तत्रैव पृथिवीमध्ये पूजां तत्र समाचरेत् || २७ || मैत्रं प्रसाधनं स्नानं दन्तधावनकर्म वै | अन्यच्च सर्वं मनसा कृत्वा कुर्याच्च पूजनम् || २८ || अश्चात् पुष्पादिभिः पूजा बहिर्देशे विधीयते | तथा हृद्यपि कर्तव्या सर्वाश्च प्रतिपत्तयः || २९ || अष्टम्यां सततं देवीयाजकः स्यात् सदा व्रती | नवम्यां तु तथा पूजा कर्तव्या निजशोणितैः || ३० || लिङ्गस्थां पूजयेद् देवीं पुस्तकस्थां तथैव च | स्थण्डिलस्थां महामायां पादुकाप्रतिमासु च || ३१ || इत्रे च त्रिशिखे खड्गं जलस्थां वापि पूजयेत् | पञ्चाशदङ्गुलं खड्गं त्रिशिखं च त्रिशूलकम् || ३२ || शिलायां पर्वतस्याग्रे तथा पर्वतगह्वरे | देवीं सम्पूजयेन्नित्यं भक्तिश्रद्धासमन्वितः || ३३ || वाराणस्यां सदा पूजा सम्पूर्णफलदायिनी | ततस्तद्द्विगुणा प्रोक्ता पुरुषोत्तमसन्निधौ || ३४ || ततोऽपि द्विगुणा प्रोक्ता द्वारावत्यां विशेषतः | सर्वक्षेत्रेषु तीर्थेषु पूजा द्वारावतीसमा || ३५ || विन्ध्ये शतगुणा प्रोक्ता गङ्गायामपि तत्समा | आर्यावर्ते मध्यदेशे ब्रह्मावर्ते तथैव च || ३६ || विन्ध्यवत् फलदा पूजा प्रयागे पुष्करे तथा | ततश्चतुर्गुणा प्रोक्ता करतोया नदीजले || ३७ || तस्माच्चतुर्गुणफला नन्दिकुण्डे च भैरव | ततश्चतुर्गुणा प्रोक्ता जल्पिषे(भे)श्वरसन्निधौ || ३८ || तत्र सिद्धेश्वरीयोनौ ततोऽपि द्विगुणा स्मृता | ततश्चतुर्गुणा प्रोक्ता लोहित्यनदपाथसि || ३९ || तत्समा कामरूपे तु सर्वत्रैव जले स्थले | सर्वश्रेष्ठो यथा विष्णुर्लक्ष्मीः सर्वोत्तमा यथा || ४० || देवीपूजा तथा शस्ता कामरूपे सुरालये | देवीक्षेत्रं कामरूपं विद्यतेऽन्यत्र ततत्समम् || ४१ || अन्यत्र विरला देवी कामरूपे गृहे गृहे | ततः शतगुणा प्रोक्ता नीलकूटस्य मस्तके || ४२ || ततोऽपि द्विगुणा प्रोक्ता एरुके शिवलिङ्गके | ततोऽपि द्विगुणा प्रोक्ता शैलपुत्र्यादियोनिषु || ४३ || ततः शतगुणा प्रोक्ता कामाख्यायोनिमण्डले | कामाख्यायां महामायापूजां यः कृतवान् सकृत् || ४४ || स चेह लभते कामान् परत्र शिवरूपताम् | न तस्य सदृशोऽन्योऽस्ति कृत्यं तस्य न विद्यते || ४५ || वाञ्छितार्थमवाप्येह चिरायुरभिजायते | वायोरिव गतिस्तस्य भवेदन्यैरबाधिता || ४६ || सङ्ग्रामे शास्त्रवादे वा दुर्जयः स च जायते | वैष्णवीतन्त्रमन्त्रेण कामाख्यायोनिमण्डले | सकृत् तु पूजनं कृत्वा फलं शतगुणं लभेत् || ४७ || मूलमूर्तिर्महामाया योगनिन्द्रा जगन्मयी | तस्यास्तु वैष्णवीतन्त्रं मन्त्रं प्राक् प्रतिपादितम् || ४८ || अन्या या मूर्तयः प्रोक्ता शैलपुत्र्यादयोऽपराः | तस्या एव विभागास्तास्तच्छरीरविनिर्गताः || ४९ || निःसरन्ति यथा नित्यं सूर्यबिम्बान्मरीचयः | देव्यास्तथोग्रचण्डाद्या महामायाशरीरतः || ५० || तासामेवाङ्गरूपाणि वक्तव्यानि मया तव | एकैव तु महामाया कार्यार्थं भिन्नतां गता || ५१ || कामाख्या तु महामाया मूलमूर्तिः प्रगीयते | पीठैर्भिन्नाह्वया सा तु महामाया प्रगीयते || ५२ || क एव यथा विष्णुर्नित्यत्वाद् हि सनातनः | जनानामर्दनात् सोऽपि जनार्दन इति श्रुतः || ५३ || तथैव सा महामाया कामार्थ सङ्गता गिरौ | कामाख्येति सदा देवैर्गद्यते सततं नरैः || ५४ || यथा हि पुरुषः कोऽपि च्छत्रो च्छत्रग्रहाद् भवेत् | स्नापकः स्नानकाले वै कामाख्यापि तथाह्वया || ५५ || महामायाशरीरं तु कामार्थं समुपस्थितम् | लोहितैः कुङ्कुमैः पीतं कामार्थमुपयोजितैः || ५६ || खड्गं त्यक्त्वा कामकाले सा गृह्णाति स्रजं स्वयम् | यदा तु त्यक्तकामा सा तदा स्यादसिधारिणी || ५७ || कामकाले शिवप्रेते न्यस्तलोहितपङ्कजे | अमते त्यक्तकामा तु सितप्रेतोपरि स्थिता || ५८ || तथैवेतस्ततो गत्या सिंहस्था कामदा भवेत् | कदाचित् सा सितप्रेते कदाचिद्रक्तपङ्कजे || ५९ || कदाचित् केशरीपृष्ठे रमते कामरुपिणी | यदा लोहितपद्मस्था अथाग्रे केशरी चरः || ६० || यदा प्रेतगता देवी तदाग्रेऽन्यं निरीक्षते | महामायास्वरूपेण यदा सा वरदा भवेत् || ६१ || पूजाकाले तदा प्रेतपद्मसिंहोपरि स्थिता | रक्तपद्मे यदा ध्यायेत् तदाग्रे चिन्तयेद्धरिम् || ६२ || यदा ध्यायेद्धरौ चान्यद्वयमग्रे विचिन्तयेत् | त्रिषु ध्यातेषु युगपत् प्रेतपद्महरौ क्रमात् || ६३ || स्थितेषु कामदा देवी तेषु ह्यायेत कामदाम् | एकैकस्मिन्नपि तथा यथावच्छिन्तयेच्छिवाम् || ६४ || एका समस्ता जगतां प्रकृतिः सा यतस्ततः | विष्णुब्रह्मशिवैर्देवैर्ध्रियते सा जगन्मयी || ६५ || सितप्रेतो महादेवो ब्रह्मालोहितपङ्कजम् | हरिर्हरिस्तु विज्ञेयो वाहनानि महौजसः || ६६ || स्वमूर्त्या वाहनत्वं तु तेषां यस्मान्न युज्यते | तस्मान्मूर्त्यन्तरं कृत्वा वाहनत्वं गतास्त्रयः || ६७ || यस्मिन् यस्मिन् महामाया प्रीणाति सततं शिवा | तेन तेनैव रूपेण आसनान्यभवंस्त्रयः || ६८ || सिंहोपरि स्थितं पद्मं रक्तं तस्योर्ध्वगः शिवः | तस्योपरि महामाया वरदाऽभयदायिनी || ६९ || एवं रूपेण यो ध्यात्वा पूजयेत् सततं शिवाम् | ब्रह्मविष्णुशिवास्तेन पूजिताः स्युरसंशयम् || ७० || एवं सदा महामाया कामाख्या चैकरूपिणी | ध्यानतो रूपतो भिन्ना तस्मात्तां तत्र पूजयेत् || ७१ || एवं विशेषतन्त्राणि दुर्गायाः कथितानि वाम् | अङ्गमन्त्राणि तस्यास्तु श्रूयतां अरसत्तमौ || ७२ || इति श्रीकालिकापुराणे ष्टपञ्चाशोऽध्यायः || ५८ || एकोनषष्टितमोऽध्यायः श्रीभगवानुवाच अङ्गमन्त्राण्यहं वक्ष्ये चण्डिकाया विशेषतः | यैः समाराधिता देवी चतुर्वर्गप्रदा भवेत् || १ || तालव्यान्तो युतः षष्ठस्वरबिन्द्विन्दुवह्निभिः | तथोपान्तः स्वरस्त्वेते बाह्यं वाग्भवमेव च || २ || नेत्रबीजं चण्डिकायास्त्रयमेतत् प्रकीर्तितम् | वामललाटदाक्षिण्यनेत्रेषु त्रितयं क्रमात् || ३ || धर्मार्थकाममोक्षाणां सर्वदा कारणं परम् | मन्त्रमेतन्महागुह्यं दुर्गाबीजमिति स्मृतम् || ४ || यदा कात्यायनमुनेराश्रमेषु दिवौकसाम् | तेजोभिर्धृतकायाभूद् देवी देवौघसंस्तुता || ५ || तदा नेत्रत्रयाद् देव्या मूलमूर्तिर्विनिःसृता | तेजोमयी जगद्धात्री महिषासुरघातिनी || ६ || तेजोभिः सर्वदेवानां सा धृत्वा वपुरुत्तमम् | अस्त्राण्यनेकान्यादाय देवैर्दत्तानि भागशः || ७ || सगणं सानुवन्धं च सामात्यबलवाहनम् | ब्रह्माद्यैः संस्तुता देवी जघान महिषासुरम् || ८ || हते तु महिषे देवी पूजिता त्रिदशैस्ततः | अनेनैव तु मन्त्रेण लोके ख्यातिं च सा गता || ९ || ततः प्रभृति सा मूर्तिः सर्वैः सर्वत्र पूज्यते | मूलमूर्तिः सुगुप्ताभूत् स्वमूर्त्या ख्यातिमागता || १० || देवानां वरदानेन ब्रह्माद्यैरुपयोजनात् | यन्मूर्तिः पूज्यते सर्वैस्तां मूर्तिं शृणु भैरव || ११ || जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम् | लोचनत्रयसंयुक्तां ऊर्णेन्दुसदृशाननाम् || १२ || तप्तकाञ्चनवर्णाभां सुप्रतिष्ठां सुलोचनाम् | नवयौवनसम्पन्नां सर्वाभरणभूषिताम् || १३ || सुचारुदशनां तीक्ष्णां पीनोन्नतपयोधराम् | त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् || १४ || मृणालायतसंस्पर्शदशबाहुसमन्विताम् | त्रिशूलं दक्षिणे देयं खड्गं चक्रं क्रमादधः || १५ || तीक्ष्णबाणं तथा शक्तिं बाहुसंघेषु सङ्गताम् | खेटकं पूर्णचापं च पाशं चाङ्कुशमूर्धतः || १६ || घण्टां च परशुं चापि वामेऽधः प्रतियोजयेत् | अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् || १७ || शिरश्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम् | हृदि शूलेन निर्भिन्नं इर्यदन्त्रविभूषितम् || १८ || रक्तरक्तीकृताङ्गं च रक्तविस्फुरितेक्षणम् | वेष्टितं नागपाशेन भ्रुकुटीकुटिलाननम् || १९ || सपाशवामहस्तेन धृतकेशं च दुर्गया | वमद्रुधिरवक्त्रं च देव्याः सिंहं प्रदर्शयेत् || २० || देव्यास्तु दक्षिणं पादं समं सिंहोपरि स्थितम् | किञ्चिदूर्ध्वं तथा वाममङ्गुष्ठं महिषोपरि || २१ || उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका | चण्डा चण्डवती चैव चामुण्डा चण्डिका तथा || २२ || आभिः शक्तिभिरष्टाभिः सततं परिवेष्टिताम् | चिन्तयेत् सततं देवीं धर्मकामार्थमोक्षदाम् || २३ || एतस्याश्चाङ्गमन्त्रं तु दुर्गातन्त्रमिति श्रुतम् | शृणुष्वैकमना भूत्वा धर्मकामार्थसाधनम् || २४ || वह्निभार्या स्वरः षष्ठो हान्तः प्रान्तोऽग्निरेव च | दुर्गादिरिति सोङ्कारं दुर्गामन्त्रं मिति श्रुतम् || २५ || रवौ मकरराशिस्थे या भवेत् सितपञ्चमी | तस्यामनेन मन्त्रेण सम्पूज्य विधिवच्छिवाम् || २६ || शुक्लाष्टम्यां पुनर्देवीं पूजयित्वा यथाविधि | नवम्यां बलिदानानि प्रभूतानि समाचरेत् || २७ || सन्ध्यायां च बलिं कुर्याग्निजगात्रासृगुक्षितम् | एवं कृते तु कल्याणैर्युक्तो नित्यं प्रमोदते || २८ || पुत्रपौत्रसमृद्धस्तु धनधान्यसमृद्धिभिः | (न तस्य जायते शोको न च पारी प्रजायते | दीर्घायुः सर्वसुभगो लोकेऽस्मिन् स च जायते || २९ || सिताष्टम्यां तु चैत्रस्य पुष्पैस्तत्कालसम्भवैः | अशोकैरपि यः कुर्यान्मत्रेणानेन पूजनम् || ३० || न तस्य जायते शोको रोगो वाप्यथ दुर्गतिः | ज्यैष्ठे तु शुक्लपक्षस्य अष्टाम्यां समुपोषितः || ३१ || नवम्यां सतिलैरन्नैर्यावकैरथ मोदकैः | क्षीरैराज्यस्तथा क्षौद्रैः शर्कराभिः सपिष्टकैः || ३२ || नानापशूनां रुधिरैर्मांसैरपि च पूजयेत् | ततो दशम्यां शुक्लायामद्भिस्तु तिलमिश्रितैः || ३३ || दुर्गातन्त्रेण मन्त्रेण दातव्यमञ्जलित्रयम् | एवं कृते दशम्यां तु यत्पापं दशजन्मभिः || ३४ || कृतं तत्प्रलयं याति दीर्घायुरपि जायते | आषाढे शुक्लपक्षस्य याष्टमी श्रावणस्य च || ३५ || पवित्रारोपणं कुर्याद् देवीप्रीतिकरं परम् | दुर्गातन्त्रेण मन्त्रेण दुर्गाबीजेन भैरव || ३६ || ऐष्णवीतन्त्रमन्त्रेण दुर्गाबीजेन भैरव | वैष्णवीतन्त्रमन्त्रेण पवित्रारोपणं चरेत् | विशेषाच्छ्रावणं प्राप्य देव्याः कुर्यात् पवित्रकम् || ३७ || सर्वेषामेव देवानां पवित्रारोपणं चरेत् | आषाढे श्रावणे वापि संवत्सरफलप्रदम् || ३८ || प्रतिपद्धनदस्योक्ता पवित्रारोपणे तिथिः | द्वितीया तु श्रियो देव्यास्तिथीनामुत्तमा स्मृता || ३९ || तृतीया भवभाविन्याश्चतुर्थी तत्सुतस्य च | पञ्चमी सोमराजस्य षष्ठी प्रोक्ता गुहस्य च || ४० || सप्तमी भास्करस्योक्ता दुर्गायाश्च तथाष्टमी | मातृणां नवमी प्रोक्ता वासुकेर्दशमी मता || ४१ || एकादशी ऋषीणां च द्वादशी चक्रपाणिनः | त्रयोदशी त्वनङ्गस्य मम चैव चतुर्दशी || ४२ || ब्रह्मणो दिक्पतीनां च पौर्णमासी तिथिर्मता | पवित्रारोपणं यो वै देवानां न समाचरेत् || ४३ || तस्य सांवत्सरीपूजाफलं हरति केशवः | तस्माद् यत्नेन कर्तव्यं पवित्रारोपणं परम् || ४४ || कृते बहुफलप्राप्तिस्तत्पूजा सफला भवेत् | पवित्रं येन सूत्रेण यथा कार्यं विजानता || ४५ || तच्छ्रणुष्व प्रमाणं तु वचनान्मम भैरव | प्रथमं दर्भसूत्रं च पद्मसूत्रं ततः परम् || ४६ || ततः क्षौमं सुपुण्यं स्यात् कार्पासकमतः परम् | पट्टसूत्रं तथान्येन पवित्राणि न कारयेत् || ४७ || विचित्राणि पवित्राणि कर्तव्यानि तु यत्नतः | गन्धमाल्यैः सुरभिभिः रचितानि यथोदितम् || ४८ || कन्या च कर्तयेत् सूत्रं प्रमदा च पतिव्रता | विधवा साधुशीला वा दुःखशीला न कर्तयेत् || ४९ || यत्सूचिभिन्नं दग्धं च भस्मधूमाभिगुण्ठितम् | तद्वर्जनीयं यत्नेन सूत्रमस्मिन् पवित्रके || ५० || उपयुक्तं चाखुजग्धं मद्यरक्तादिदूषितम् | मलिनं नीलरक्तं च प्रयत्नेन विवर्जयेत् || ५१ || सूत्रैः पवित्रं कुर्वीत कनिष्ठोत्तममध्यमम् | कनिष्ठं यत् पवित्रं तु सप्तविंशतितन्तुभिः || ५२ || मर्त्यलोके यशः कीर्तिः सुखसौभाग्यवर्धनम् | चतुःपञ्चाशता प्रोक्तं तन्तूनां मध्यमं परम् || ५३ || दिव्यभोगावहं पुण्यं स्वर्गमोक्षरदायकम् | उत्तमं चैव तन्तूनामष्टोत्तरशतेन वै || ५४ || तद्दत्वा तु महादेव्यै शिवसायुज्यमाप्नुयात् | उत्तमं वासुदेवाय दद्याद् यदि पवित्रकम् || ५५ || तदा याति हरेर्लोकं साधको नात्र संशयः | अष्टोत्तरसहस्रं तु रत्नमालेति गीयते || ५६ || पवित्रं सु महादेव्या भुक्तिमुक्तिप्रदायकम् | रत्नमाल्यां तु यो यच्छेन्महादेव्यै पवित्रकम् || ५७ || कल्पकोटिसहस्राणि स्वर्गे स्थित्वा शिवो भवेत् | एतत् तु नागहाराख्यं शङ्करस्य पवित्रकम् || ५८ || अष्टोत्तरसहस्रेण तन्तुना सुमनोहरम् | यः प्रयच्छति मह्यं तु स यावांस्तन्तुसञ्चयः || ५९ || तावत्कल्पसहस्राणि मम लोके प्रमोदते | अष्टोत्तरसहस्रेण वनमाला हरेः स्मृता || ६० || तन्तूनां तस्य दानेन विष्णुसायुज्यमाप्नुयात् | यत् कनिष्ठं पवित्रं तु नाभिमात्रं भवेत् तु तत् || ६१ || द्वादशग्रन्थिसंयुक्तमात्ममानेन योजयेत् | ऊरुप्रमाणं मध्यं स्याद् ग्रन्थीनां तत्र योजयेत् || ६२ || चतुर्विंशतिमप्यस्य मानमात्मन एव च | पवित्रमुत्तमं प्रोक्तं जानुमात्रं च भैरव || ६३ || षट्त्रिंशत्तन्तुग्रन्थीनां योजयेदात्ममानतः | शतमष्टोत्तरं कार्यं ग्रन्थीनां सुविधानतः || ६४ || नागहाराह्वयं तद्वदन्येषु च विधानतः | पवित्रं क्रियते येन सूत्रेण ग्रन्थयः पुनः || ६५ || तदन्यवर्णसूत्रेण कर्तव्या लक्षणान्विता | ग्रन्थिं तु सप्तभिः कुर्याद् वेष्टनैस्तु कनिष्ठके || ६६ || द्विगुणैर्मध्यमे कुर्यात्त्रिगुणरुत्तमे तथा | अधिवास्य पवित्राणि पूर्वस्मिन् दिवसे ततः || ६७ || मन्त्रन्यासं पवित्रे तु कुर्यात् तत्रापरेऽहनि | दुर्गाबीजेन मन्त्रेण मन्त्रन्यासं द्विजश्चरेत् || ६८ || वैष्णवीतन्त्रमन्त्रेण कुर्युरन्ये च भैरव | प्रतिग्रन्थि स्वयं कुर्यान्मन्त्रन्यासं विचक्षणः || ६९ || अङ्गुष्ठाग्रेण जपनं मालायामिह भैरव | यावन्तो ग्रन्थयश्चात्र तावन्त्येव च सन्न्यसेत् || ७० || मन्त्राणि तस्य तेन स्यादेवाङ्गोपनियोजनम् | दुर्गातन्त्रेण मन्त्रेण तत्त्वन्यासं तु कारयेत् || ७१ || एकत्र न्यस्य सकलं यज्ञपात्रे पवित्रकम् | तस्मिन् निधाय गन्धादि पुष्पाणि च सुशोभनम् || ७२ || तत्त्वन्यासं ततः कुर्यादङ्गुल्यग्रेण भैरव | विष्णोस्तु मूलमन्त्रेण तत्त्वन्यासं तु कारयेत् || ७३ || इदं विष्णुरिति प्रोक्तं मन्त्रन्यासं द्विजस्य हि | शूद्राणां मन्त्रविन्यासे मन्त्रो वै द्वादशाक्षरः || ७४ || प्रासादेन तु मन्त्रेण तत्त्वन्यासो मम स्मृतः | अनेन मन्त्रन्यासं च दानं चानेन कारयेत् || ७५ || कुङ्कुमोशीरकर्पूरै श्चन्दनादिविलेपनैः | पवित्राणि विलिप्याथ तत्त्वन्यासं तु योजयेत् || ७६ || सम्पूज्य मण्डले देवीं विधिवत् प्रयतो नरः | वैष्णवीतन्त्रमन्त्रेण दुर्गातन्त्रेण भैरव || ७७ || दुर्गाबीजेन दद्यात् तु देव्या मूर्ध्नि पवित्रकम् | यस्य देवस्य यः प्रोक्तस्तस्य तेनैव मण्डलम् || ७८ || यस्य यस्य तु यो मन्त्रो यथा ध्यानादिपूजनम् | तत् तत् तेनैव मन्त्रेण पूजयित्वा प्रयत्नतः || ७९ || तस्यैव बीजमन्त्राभ्यां मूर्ध्नि दद्यात् पवित्रकम् | पवित्रं मम यो दद्याद् देवेभ्यश्च पवित्रकम् || ८० || सर्वेषामेव देवानां सम्पूर्णार्थश्च भैरव | अग्निर्ब्रह्मा भवानी च गजवक्त्रो महोरगः || ८१ || स्कन्दो भानुर्मातृगणो दिक्पालाश्च नवग्रहाः | एतान् घटेषु प्रत्येकं पूजयित्वा यथाविधि || ८२ || पवित्रं मूर्ध्नि चैकैकं दद्यादेभ्यः समाहितः | पञ्चगव्यचरुं कृत्वा देव्यै दत्त्वाहुतित्रयम् || ८३ || तेनैव विष्णवे दत्त्वा शम्भवे च यथाविधि | आज्यैरष्टोत्तरशतं तिलैराज्यैस्तथैव च || ८४ || अष्टोत्तरशतं दद्यान्महादेव्यै च साधकः | एवमेव विधानेन विष्ण्वादीनां च साधकः || ८५ || पवित्रारोपणं कुर्याद् धर्मकामार्थसिद्धये | नैवेद्यैर्विविधैः पेयैर्वटपिष्टकमोदकैः || ८६ || कूष्माण्डैर्नारिकेलैश्च खर्जूरैः पनसैस्तथा | आम्रदाडिमकर्कारुद्राक्षादिविविधैः फलैः || ८७ || भक्ष्यभोज्यादिभिः सर्वैर्मत्स्यैर्मांसैस्तथौदनैः | गन्धैः पुष्पैस्तथा धूपैर्दीपैश्च सुमनोहरैः || ८८ || वासोभिर्भूषणैश्चैव भवानीसाधको यजेत् | नटनर्तकसङ्घैश्च वेश्याभिश्चैव भैरव || ८९ || नृत्यगीतः समुदितो जागरं कारयेन्निशि | भोजयेद् ब्राह्मणांश्चापि ज्ञातीनपि द्विजातिभिः || ९० || पवित्रारोपणे वृत्ते दक्षिणामुपदापयेत् | हिरण्यं गां तिलघृतं वासो वा शाकमेव वा || ९१ || इमं मन्त्रं ततः पश्चात् साधकः समुदीरयेत् | मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः || ९२ || इयं सांवत्सरी पूजा तवास्तु परमेश्वरि | ततो विसर्जयेद् देवीं पूजाभिः प्रतिपत्तिभिः || ९३ || एवं कृते पवित्राणां दाने देव्या यथाविधि | संवत्सरस्य या पूजा सम्पूर्णा वत्सराद् भवेत् || ९४ || कल्पकोटिशतं यावद् देवीगेहे वसेन्नरः | तत्रापि सुखसौभाग्यसमृद्धिरतुला भवेत् || ९५ || इति श्रीकालिकापुराणे कोनषष्टितमोऽध्यायः || ५९ || षष्टितमोऽध्यायः श्रीभगवानुवाच दुर्गातन्त्रेण मन्त्रेण कुर्याद् दुर्गामहोत्सवम् | महानवम्यां शरदि बलिदानं नृपादयः || १ || आश्वनस्य तु शुक्लस्य भवेद् या अष्टमी तिथिः | महाष्टमीति सा प्रोक्ता देव्याः प्रीतिकरी परा || २ || तनोऽनु नवमी या स्यात् सा महानवमी स्मृता | सा तिथिः सर्वलोकानां पूजनीया शिवप्रिया || ३ || अनयोर्वत्स पूजायां विशेषं शृणु भैरव | सम्पूज्य मण्डले देवीं विधिवत् प्रयतो नरः || ४ || वैष्णवीतन्त्रमन्त्रेण दुर्गातन्क्षेण भैरव | मूर्तिभेदे यथा देवी पूजां गृह्णाति भूतये || ५ || कन्यासंस्थे रवौ वत्स शुक्लामारभ्य नन्दिकाम् | अयाचिताशी नक्ताशी एकाशी त्वथ चापदः || ६ || प्रातःस्नायी जितद्वन्द्वस्त्रिकालं शिवपूजकः | जपहोमसमायुक्तो भोजयेच्च कुमारिकाः || ७ || बोधयेद् बिल्वशाखासु षष्ट्यां देवीफलेषु च | सप्तम्यां बिल्वशाखां तामाहृत्य प्रतिपूजयेत् || ८ || पुनः पूजां तथाष्टम्यां विशेषेण समाचरेत् | जागरं च स्वयं कुर्याद् बलिदानं महानिशि || ९ || प्रभूतबलिदानं तु नवम्यां विधिवच्चरेत् | ध्यायेद् दशभुजां देवीं दुर्गातन्त्रेण पूजयेत् || १० || विसर्जनं दशम्यां तु कुर्याद् वै साधकोत्तमः | कृत्वा विसर्जनं तस्यां तिथौ नक्तं समाचरेत् || ११ || यदा तु षोडशभुजां महामायां प्रपूजयेत् | दुर्गातन्त्रेण मन्त्रेण विशेषं तत्र वै शृणु || १२ || कन्यायां कृष्णपक्षस्य एकादश्यामुपोषितः | द्वादश्यामेकभक्तं तु नक्तं कुर्यात् परेऽहनि || १३ || चतुर्दश्यां महामायां बोधयित्वा विधानतः | गीतवादित्रनिर्घोषैर्नानानैवेद्यवेदनैः || १४ || अयाचितं बुधः कुर्यादुपवासं परेऽहनि | एवमेव व्रतं कुर्याद् यावद्वै नवमी भवेत् || १५ || ज्येष्ठायां च समभ्यर्च्य मूलेन प्रतिपूजयेत् | उत्तरेणार्चनं कृत्वा श्रवणान्ते विसर्जयेत् || १६ || यदा त्वष्टादशभुजां महामायां प्रपूजयेत् | दुर्गातन्त्रेण मन्त्रेण तत्रापि शृणु भैरव || १७ || कन्यायां कृष्णपक्षस्य पूजयित्वार्द्रभे दिवा | नवम्यां बोधयेद् देवीं गीतवादित्रनिस्वनैः || १८ || शुक्लपक्षे चतुर्थ्यां तु देवीकेशविमोचनम् | प्रातरेव तु पञ्चम्यां स्नापयेत् तु शुभैर्जलैः || १९ || सप्तम्यां पत्रिकापूजा अष्टम्यां चाप्युपोषणम् | पूजाजागरणं चैव नवम्यां विधिवद्बलिः || २० || सम्प्रेषणं दशम्यां तु क्रीडाकौतुकमङ्गलैः | नीराजनं दशम्यां तु बलवृद्धिकरं महत् || २१ || यदा वै वैष्णवी देवीं महामायां जगन्मयीम् | पूजयेत् तत्र च तदा विशेषं शृणु भैरव || २२ || कन्यासंस्थे रवौ पूजा या शुक्ला तिथिरष्टमी | तस्यां रात्रौ पूजितव्या महाविभवविस्तरैः || २३ || नवम्यां बलिदानं तु कर्तव्यं वै यथाविधि | जपं होमं च विधिवत् कुर्यात् तत्र विभूतये || २४ || सम्पूजयेन्महादेवीमष्टपुष्पिकया नरः | रामस्यानुग्रहार्थाय रावणस्य वधाय च || २५ || रात्रावेव महादेवी ब्रह्मणा बोधिता पुरा | ततस्तु त्यक्तनिद्रा सा नन्दायामाश्विने सिते || २६ || जगाम नगरीं लङ्कां यत्रासीद्राघवः पुरा | तत्र गत्वा महादेवी तदा तौ रामरावणौ || २७ || युद्धं नियोजयामास स्वयमन्तर्हिताम्बिका | रक्षसां वानराणां च जग्ध्वा सा मांसशोणिते || २८ || रामरावणयोर्युद्धं सप्ताहं सा न्ययोजयत् | व्यतीते सप्तमे रात्रौ नवम्यां रावणं ततः || २९ || रामेण घातयामास महामाया जगन्मयी | यावत्तयोः स्वयं देवी युद्धकेलिमुदैक्षत || ३० || तावत् तु सप्तरात्राणि सैव देवैः सुपूजिता | निहते रावणे वीरे नवम्यां सकलैः सुरैः || ३१ || विशेषपूजां दुर्गायाश्चक्रे लोकपितामहः | ततः सम्प्रेषिता देवी दशम्यां शार्वरोत्सवैः || ३२ || शाक्रोऽपि देवसेनाया नीराजनमथाकरोत् | शान्त्यर्थं सुरसैन्यानां देवराज्यस्य वृद्धये || ३३ || रामरावणबाणेन युद्धं चावेक्ष्य भोतिदम् | तृतीयायां तु लङ्कायाः पूर्वोत्तरदिशि स्थितम् || ३४ || स्वातीनक्षत्रयुक्तायां भीतं सुरबलं महत् | शान्त्यर्थं वरयामास देवेन्द्रो वचनाद् हरेः || ३५ || ततस्तु श्रवणेनाथ दशम्यां चण्डिकां शुभाम् | विसृज्य चक्रे शान्त्यर्थं बलनीराजनं हरिः || ३६ || नीराजितबलः शक्रस्तत्र रामं च राघवम् | सम्प्राप्य प्रययौ स्वर्गं सह देवैः शचीपतिः || ३७ || इतिवृत्तं पुराकल्पे मनोः स्वायम्भुवेऽन्तरे | प्रादुर्भूता दशभुजा देवी देवहिताय वै || ३८ || नृणां त्रेतायुगस्यादौ जगतां हितकाम्यया | पुराकल्पे यथावृत्तं प्रतिकल्पं तथा तथा || ३९ || प्रवर्तते स्वयं देवी दैत्यानां नाशनाय वै | प्रतिकल्पं भवेद्रामो रावणश्चापि राक्षसः || ४० || तथैव जायते युद्धं तथा त्रिदशसंगमः | एवं रामसहस्राणि रावणानां सहस्रशः || ४१ || भवितव्यानि भूतानि तथा देवी प्रवर्तते | पूजयन्ति सुराः सर्वे बलं नीराजयन्त्यपि || ४२ || तथैव च नराः सर्वे कुर्युः पूजां यथाविधि | बलनीरजनं राजा कुर्याद् बलविवृद्धये || ४३ || दिव्यालङ्कारयुक्ताभिर्वारुणीभिः प्रवर्तनम् | कर्तव्यं नृत्यगीतानि क्रीडाकौतुकमङ्गलैः || ४४ || मोदकैः पिष्टकैः पेयैर्भक्ष्यभोज्यैरनेकशः | कूष्माण्डैर्नारिकेलैश्च खर्जूरैः पनसैस्तथा || ४५ || द्राक्षामलकशाडिल्यैः प्लीहैश्च करुणैस्तथा | कशेरुक्रमुकैर्मूलैः सजम्बुतिन्दुकादिभिः || ४६ || गव्यैर्गुडैस्तथा मांसैर्मद्यैर्मधुभिरेव च | बालप्रियैश्च नैवेद्यैर्लाजाक्षतफलादिभिः || ४७ || इक्षुदण्डैः सिताभिश्च लवलीनागरङ्गकै | अजाभिर्महिषैर्मेषैरात्मशोणितसञ्चयैः || ४८ || पक्ष्यादिबलिजातीयैस्तथा नानाविधैर्मृगैः | पूजयेच्च जगद्धात्रीं मांसशोणितकर्दमैः || ४९ || रात्रौ स्कन्दविशाखस्य कृत्वा पिष्टकपुत्रिकाम् | पूजयेच्छत्रुनाशाय दुर्गायाः प्रीतये तथा || ५० || होमं च सतिलैराज्यैर्मांसैरपि तथा चरेत् | उग्रचण्डादिकाः पूज्यास्तथाष्टौ योगिनीः शुभाः || ५१ || योगिन्यश्च चतुःषष्ठिस्तथा वै कोटियोगिनीः | नवदुर्गास्तथा पूज्या देव्याः सन्निहिताः शुभाः || ५२ || जयन्त्यादिर्गन्धपुष्पैस्ता देव्या मूर्तयो यतः | देव्यः सर्वाणि चास्त्राणि भूषणानि तथैव च || ५३ || अङ्गप्रत्यङ्गयुक्तानि वाहनं सिंहमेव च | महिषासुरमर्दिन्याः पूजयेद् भूतये सदा || ५४ || पुराकल्पे महादेवी मनोः स्वायम्भुवेऽन्तरे | नृणां कृतयुगस्यादौ सर्वदेवैः स्तुता सदा || ५५ || महिषासुरनाशाय जगतां हितकाम्यया | योगनिद्रा महामाया जगद्धात्री जगन्मयी || ५६ || भुजैः षोडशभिर्युक्त्या भद्रकालीति विश्रुता | क्षीरोदस्योत्तरे तीरे बिभ्रती विपुलां तनुम् || ५७ || अतसीपुष्पवर्णाभा ज्वलत्काञ्चनकुण्डला | जटाजूटसखण्डेन्दुकुटत्रयभूषिता || ५८ || नागहारेण सहिता स्वर्णहारविभूषिता | शूलं चक्रं च खड्गं शङ्खं बाणं तथैव च || ५९ || शक्तिं वज्रं च दण्डं च नित्यं दक्षिणबाहुभिः | बिभ्रती सततं देवी विकाशिदशनोज्ज्वला || ६० || खेटकं चर्म चापं च पाशं चाङ्कुशमेव च | घण्टां पर्शुं च मुषलं बिभ्रती वामपाणिभिः || ६१ || सिंहस्था नयनै रक्तवर्णैस्त्रिभिरतिज्वला | शूलेन महिषं भित्त्वा तिष्ठन्ती परमेश्वरी || ६२ || वामपदेन चाक्रम्य तत्र देवी जगन्मयी | तां दृष्ट्वा सकला देवाः प्रणम्य परमेश्वरीम् || ६३ || नोचुः किञ्चन तं दृष्ट्वा निहतं महिषासुरम् | ततः प्रोवाच देवांस्तान् ब्रह्मादीन् परमेश्वरी || ६४ || स्मितप्रभिन्नवदना विकाशिवदनोज्ज्वला | गच्छन्तु भोः सुरगणा जम्बुद्वीपान्तरं प्रति || ६५ || हिमवत् पर्वतासन्ने वरं कात्यायनाश्रमम् | तत्रैव भवतां साध्यं भविष्यति न संशयः || ६६ || इत्युक्त्वा सा महादेवी तत्रैवान्तरधीयत | देवा अपि तदा जग्मुः कात्यायनमुनेः पुरम् || ६७ || आश्रमं प्रति ते गत्वा विस्मयाविष्टमानसाः | निहतो महिषो देव्या दिष्टोऽस्माभिर्यदर्थतः || ६८ || स्तुता चैषा महादेवी जगद्धात्री जगन्मयी | किमर्थमाह सा देवी गन्तुं कात्यायनाश्रमम् || ६९ || किमन्यद् वाञ्छितं कार्यमस्माकं वा भविष्यति | इति ब्रुवन्तस्ते सर्वे गच्छन्ति स्म परस्परम् || ७० || हिमवत्-पर्वतासन्नं मुनि-कात्यायनाश्रमम् | ततः सेन्द्राः सदिक्पाला ब्रह्मविष्णुशिवास्तथा || ७१ || निषेदुः सुचिरं प्रीता दुर्गादर्शनलालसाः | ततो रुद्रगणाः सर्वे महिषासुरचेष्टितम् || ७२ || आगत्य कथयामासुर्देवलोकपराभवम् | ततस्तत्र महाकोपं ब्रह्मविष्णुशिवादयः || ७३ || चक्रुः कोऽन्योऽस्ति महिषो हतो देव्या स दानवः | पुनर्येनेह क्रियते जगद्विध्वंसनं भृशम् || ७४ || इति प्रकुप्यतां तेषां शरीरेभ्यः पृथक् पृथक् | निश्चक्रमुश्च तेजांसि शक्तिरूपाणि तत्क्षणात् || ७५ || तत्तेजोभिर्धृतवपुर्देवी कात्यायनेन वै | सन्धुक्षिता पूजिता च तेन कात्यायनी स्मृता || ७६ || ततस्तेनैव मन्त्रेण दशबाहुयुतेन वै | पश्चाज्जघान महिषं जगद्धात्री जगन्मयी || ७७ || यदा स्तुता महादेवी बोधिता चाश्विनस्य च | चतुर्दशी कृष्णपक्षे प्रादुर्भूता जगन्मयी || ७८ || देवानां तेजसां मूर्तिः शुक्लपक्षे सुशोभने | सप्तम्यां साऽकरोद् देवी अष्टम्यां तैरलङ्कृता || ७९ || नवम्यामुपहारैस्तु पूजिता महिषासुरम् | निजघान दशम्यां तु विसृष्टान्तर्हिता शिवा || ८० || मार्कण्डेय उवाच श्रुत्वेमां सगरो राजा देव्याः सङ्गतिमुत्तमाम् | संशयालुश्च तद्रूपे पुनरौर्वमपृच्छत् || ८१ || सगर उवाच यदि पश्चान्महादेवी जघान महिषासुरम् | कथं पूर्वं हद्रकाली-रूपाभून्महिषासुरम् || ८२ || तथाहि दर्शनं तस्याः पादाक्रान्तश्चकार च | हृदिशूलेन निर्भिन्नं ददृशुः सकलाः सुराः | एवं तु संशयं छिन्धि मुनिश्रेष्ठ समाधुना || ८३ || और्व उवाच शृणु त्वं नृपशार्दूल भद्रकाली यथा पुरा | प्रादुर्भूता महामाया महिषेण सहैव तु || ८४ || महिषासुर एवासौ निद्रायां निशि पर्वते | स्वप्नं प्रददृशे वीरो दारुणं घोरदर्शनम् || ८५ || महामाया भद्रकाली छित्त्वा खड्गेन मे शिरः | पपौ तस्य च रक्तानि व्यादितास्यातिभीषणा || ८६ || ततः प्रातर्भययुतः स दैत्यो महिषासुरः | तामेव पूजयामास सुचिरं सानुगस्तदा || ८७ || आराधिता तदा देवी महिषेणासुरेण वै | प्रादुर्भूता भद्रकाली भुजैः षोडशभिर्युता || ८८ || ततः प्रणम्य महिषो महामायां जगन्मयीम् | उवाचेदं वचो नम्रमूर्तिर्भक्तियुतोऽसुरः || ८९ || महिष उवाच देवि खड्गेन सञ्छिद्य शोणितानि शिरो मम | त्वया मुक्तानि दृष्टानि मया स्वप्नेन निश्चितम् || ९० || अवश्यं तु त्वया कार्यं मया ज्ञातं प्रमाणतः | एतद्रुधिरपाअं मे तत्रैकं देहि मे वरम् || ९१ || वध्यस्तवाहं नात्रास्ति संशयः परमेश्वरि | ममापि तत्र नो दुःखं नियतिः केन लङ्घ्यते || ९२ || किन्तु त्वयैव सहितः शम्भुराराधितः पुरा | मम पित्रा मदर्थेन जातः पश्चादहं ततः || ९३ || मयाप्याराधितः शम्भुः प्राप्ताश्चेष्टास्तथाविधाः | मन्वन्तरत्रयं यावदासुरं राज्यमुत्तमम् || ९४ || अकण्टकं मया भुक्तमनुतापो न विद्यते | कात्यायनेन मुनिना शप्तोऽहं शिष्यकारणात् || ९५ || सीमन्तिनी विनाशं ते करिष्यति न संशयः | पुरा मुनिं तपस्यन्तं रौद्राश्वं नाम सत्तमम् || ९६ || मुनेः कात्यायनाख्यस्य शिष्यं हिमवदन्तिके | दिव्यस्त्रीरूपमतुलं कृत्वाहं कौतुकात् तदा || ९७ || मया सम्मोहितो विप्रोऽत्यजत् सद्यस्तदा तपः | नदूरात् संस्थितेनाहं मुनिना कात्यसूनुना || ९७ || ज्ञात्वा मायां तदा शप्तः शिष्यार्थे क्रोधवह्निना | यस्मात् त्वया मे शिष्योऽयं मोहितस्तपसश्च्युतः || ९९ || कृतस्त्वया स्त्रीरूपेण तत् त्वां स्त्री निहनिष्यति | इति मां शप्तवान् पूर्वं मुनिः कात्यायनः स्वयम् || १०० || तस्य शापस्य कालोऽयमागत्य समुपस्थितः | देवेन्द्रत्वं मया प्राप्तं भुक्तं त्रिभुवनं समम् || १०१ || किञ्चिन्न शोच्यं मेऽत्रास्ति वाञ्छनीयं हि यन्मया | तस्मात् त्वां वै प्रपन्नोऽहं प्रार्थ्यं शेषं हि यन्मम | यदूदेहि देवि दुर्गे त्वं भूयस्तुभ्यं नमो नमः || १०२ || देव्युवाच प्रार्थनीयो वरो यस्ते तं वृणुष्व महासुर | दास्यामि ते वरं प्रार्थ्यं संशयो नात्र विद्यते || १०३ || महिष उवाच यज्ञभागमहं भोक्तुमिच्छामि त्वत्प्रसादतः | यथा मखेषु सर्वेषु पूज्योऽहं स्यां तथा कुरु || १०४ || त्वत्पादसेवां न त्यक्ष्ये यावत्सूर्यः प्रवर्तते | एवं वरद्वयं देहि यदि देयो वरो मम || १०५ || देव्युवाच यज्ञभागाः सुरेभ्यस्तु कल्पिता वै पृथक् पृथक् | भागो न विद्यते चान्यो यं दास्यामि तवाधुना || १०६ || किन्तु त्वयि मया युद्धे निहते महिषासुर | नैव त्यक्ष्यसि मत्पादं सततं नात्र संशयः || १०७ || मम प्रवर्तते पूजा यत्र यत्र च तत्र ते | पूज्यश्चिन्त्यश्च तत्रैव कायोऽयं तव दानव || १०८ || इति श्रुत्वा वचस्तस्याः प्रत्यूषे महिषासुरः | वरं प्राप्येह मुदितः प्रसन्नवदनस्तदा || १०९ || उग्रचण्डे भद्रकालि दुर्गे देवि नमोऽस्तुते | प्रभूता मूर्तया देवि भवत्या सकलात्मिकाः || ११० || काभिस्ते मूर्तिभिः पूज्यो यज्ञेऽहं परमेश्वरि | तत् समाचक्ष्व यदि मे भवत्येह कृपा कृता || १११ || देव्युवाच यानि नामानि प्रोक्तानि त्वयेह महिषासुर | तासु मूर्तिषु संपृष्टः पूज्यो लोके भविष्यसि || ११२ || उग्रचण्डेति या मूर्तिर्भद्रकाली ह्यहं पुनः | यया मूर्त्या त्वां हनिष्ये सा दुर्गेति प्रकीर्तिता || ११३ || एतासु मूर्तिषु सदा पादलग्नो नृणां भवान् | पूज्यो भविष्यति स्वर्गे देवानामपि रक्षसाम् || ११४ || आदिसृष्टावुग्रचण्डामूर्त्या त्वं निहितः पुरा | द्वितीयसृष्टौ तु भवान् भद्रकाल्या मया हतः || ११५ || दुर्गारूपेणाधुना त्वां हनिष्वामि सहानुगम् | किन्तु पूर्व न गृहीतस्त्वं मया पादयोस्तले || ११६ || अधुना प्रार्थितवरो ग्रहीतः पूर्वकामयोः | ग्रहीतव्यश्च पश्चात् त्वं यज्ञभागोपभुक्तये || ११७ || और्व उवाच इत्युक्त्वा सा महामाया उग्रचण्डाह्वयां तनुम् | दर्शयामास च तदा महिषायासुराय वै || ११८ || या मूर्तिः षोडशभुजा भद्रकालीति विश्रुता | तथैव मूर्ति बाहुभ्यामपराभ्यां तु बिभ्रती || ११९ || दक्षिणाधो गदां वामपाणिना पानपात्रकम् | सुरापूर्णं च शिरसा मुण्डमालां विलेशयम् || १२० || भिन्नाञ्जनचयप्रख्या प्रचण्डा सिंहवाहिनी | रक्तनेत्रा महाकाया युक्ताऽष्टादशबाहुभिः || १२१ || उग्रचण्डा भद्रकाली देव्या मूर्तिद्वयं तथा | महिषः प्रणनामाशु दृष्ट्वा विस्मयमागतः || १२२ || ततो यथा पदाक्रम्य निहतो महिषासुरः | तथैव जगृहे पादतले देवीद्वयं तु तम् || १२३ || हृदि शूलेन निर्भिन्नं माहिषं विशिरस्ककम् | गुहीतकेशं देव्या तु इर्यदन्त्रविभूषितम् || १२४ || वमद्रक्तं महाकायं दृष्ट्वा पूर्वतनुं स्वकम् | भयं प्राप्यासुरः सोऽथ शुशोच च मुमोह च || १२५ || ततस्तु क्षणमात्मानं संस्तभ्य स तु दानवः | प्रणम्य वचनं देवीमिदमाह स गद्गदम् || १२६ || महिष उवाच यदि देवि प्रसन्नासि यज्ञभागाश्च कल्पिताः | तदा ममान्यदा नाश एवमेतद् भवेन्न हि || १२७ || यथाहं न सुरैः सार्धं करिष्ये वैरमद्भुतम् | तथा मां कुरु भो देवि न जन्म प्रलभे यथा || १२८ || देव्युवाच आराधिताऽहं भवता वरो दत्तो मया तव | वध्यश्च त्वं ममैवेह नात्र कार्या विचारणा || १२९ || यत् त्वया प्रार्थितं चापि सर्वैः सुरगणैः सह | विरोधो मे सदा मा भूदिति चापि भविष्यति || १३० || मत्पादतलसंस्पर्शाच्छरीरं तव दानव | यज्ञभागोपभोगाय विशीर्णं न भविष्यति || १३१ || तव जीवात्मभिः प्राणाः सर्व एव महासुरः | हरस्य पादसंयोगाच्चिरं स्थास्यति केवलम् || १३२ || कल्पकोटिसहस्राणि त्रिंशत् त्वं महिषासुर | शतानि चाष्टावन्यानि जन्म ते न भविष्यति || १३३ || इति देवी वरं दत्त्वा महिषायासुराय वै | प्रणता तेन शिरसा तत्रैवान्तरधीयत || १३४ || महिषोऽपि निजस्थानं अयौ संमोहितः पुनः | मायया चासुरं भावमादाय नृप पूर्ववत् || १३५ || सगर उवाच अनेके निहिता दैत्या मायया लोकभूतये | न ते पुनः प्रगृहीतास्तेभ्यो दत्त्वा वराञ् शुभान् | एन वा कारणेनायं प्रगृहीतो वरः कथम् | दत्तास्तस्मै समाचक्ष्व मम सम्यग् द्विजोत्तम || १३६ || और्व उवाच आराधितो महादेवो रम्भेण सुरवैरिणा | चिरेण स च सुप्रीतस्तपसा तस्य शङ्करः || १३७ || अथ तुष्टो महादेवः प्रत्यक्षं रम्भमुचिवान् | प्रीतोऽस्मि ते वरं रम्भ वरयस्व यथेप्सितम् || १३८ || एवमुक्तः प्रत्युवाच रम्भस्तं चन्द्रशेखरम् | अपुत्रोऽह महादेव यदि ते मययनुग्रहः || १३९ || मम जन्मत्रये पुत्रो भवान् भवतु शङ्कर | अवध्यः सर्वभूतानां जेता च त्रिदिवौकसाम् || १४० || चिरायुश्च यशस्वी च लक्ष्मीवान् स च शङ्कर | एवमुक्तस्तु दैत्येन प्रत्युवाच वृषध्वजः || १४१ || भवत्वेतद्वाञ्छितं ते भविष्यामि सुतस्तव | इत्युक्त्वा स महादेवस्तत्रैवान्तरधीयत || १४२ || रम्भोऽपि यातः स्वस्थानं हर्षोत्फुल्लविलोचनः | पथि गच्छन् स रम्भोऽथ ददर्श महिषीं शुभाम् || १४३ || त्रिहायणीं चित्रवर्णां सुन्दरीमृतुशालिनीम् | स तां दृष्ट्वाथ महिषीं रम्भः कामेन मोहितः || १४४ || दोर्भ्यां गृहित्वा च तदा चकार सुरतोत्सवम् | तयोः प्रवृत्ते सुरते तदा सा तस्य तेजसा || १४५ || दधार महिषी गर्भं तदाऽभून्महिषासुरः | तस्यां स्वांशेन गिरिशस्तत्पुत्रत्वमवाप्तवान् || १४६ || ववृधे स तदा राम्भिः शुक्लपक्षशशाङ्कवत् | तं च कात्यायनमुनिः शप्तवान्महिषासुरम् || १४७ || दुर्नयं वीक्ष्य शिष्यार्थे शिष्यानुग्रहकारकः | कात्यायनेन शप्तं तं विज्ञाय महिषासुरम् || १४८ || ईश्वर उवाच देवी कात्यायनेनायं शप्तोऽद्य महिषासुरः | योषिद्विनाशक्र्त्रीति भवितेति जगन्मये || १४९ || निःसंशयमृषेर्वाक्यं भविष्यति न संशयः | मदीयो माहिषः आयो देवि कार्यस्त्वया त्वयि || १५० || हन्तव्यः सततं योगयुक्तः पूर्वे परेऽपि च | हरिर्हरिस्वरूपेण न त्वां वोढुं क्षमोऽधुना || १५१ || ममायं माहिषः कायस्तव वोढा भविष्यति | इति पूर्वं महादेवो देवीं प्रार्थितवान् पुरा || १५२ || तेन देवी महादेवं जग्राह महिषासुरम् | त्रिषु जन्मसु पुत्रोऽभूद्रम्भस्य भगवान् हरः || १५३ || सृष्टित्रये स रम्भोऽपि रम्भ एव व्यजायत | आसुर तादृशं तेपे तपह् परमदारुणम् || १५४ || तथैवाराधितः शम्भुः पुत्रार्थे प्रददौ वरम् | तथैव महिषीं भेजे प्रथमं सुरताय सः || १५५ || तस्यां तथाऽभवद्वीरो दानवो महिषासुरः | तथैव शेपे भगवान् मुनिः कात्यायनस्तु तम् || १५६ || इति प्रवृत्ते पूर्वेऽस्मिन् परस्मिन् स तु जन्मनि | महिषः पूजयित्वाऽथ देवीं वरमयाचत || १५७ || तृतीये जन्मनि वरं प्राप्य कल्पानशेषतः | नेह मे जन्म भवितेत्येवं वरमयाचत || १५८ || तेन देवीपादतले तिष्ठत्येषोऽसुरोऽधुना | नोत्पत्तिरपि तस्याथ संवर्तान्तादभून्नृप || १५९ || एवं देवीप्रसादेन महादेवांशसम्भवः | परामवाप सततं प्रतिपत्तिं महासुरः || १६० || इति ते कथितं राजन् यथा स महिषासुरः | देवीपादतलं प्राप्य यथा सोऽद्यापि मोदते | प्रस्तुतं शृणु भो राजन् कथयामि नृपोत्तम || १६१ || मार्कण्डेय उवाच इति वः कथितं राजा सगरः सहितो यथा | और्वेण चक्रे संवादं देवीमहिषयोजने || १६२ || पुनर्यदाह भूयोऽपि सगराय महात्मने | तच्छृण्वन्तु मुनिश्रेष्ठा गुह्याद् गुह्यतरं परम् || १६३ || इति श्रीकालिकापुराणे महिषासुरोपाख्यानो नामसष्टितमोऽध्यायः || ६० || एकषष्टितमोऽध्यायः और्व उवाच यथाह भगवान् देवो भैरवाय महात्मने | वेतालाय नृपश्रेष्ठ तथा त्वं प्रस्तुतं शृणु || १ || श्रीभगवानुवाच उग्रचण्डा च या मूर्तिरष्टादशभुजाऽभवत् | सा नवम्यां पुरा कृष्णपक्षे कन्यां गते रवौ || २ || प्रादुर्भूता महामाया योगिनीकोटिभिः सह | आषाढस्य तु पूर्णायां सत्रं द्वादशवार्षिकम् || ३ || दक्षः कर्तुं समारेभे वृताः सर्वे दिवौकसः | ततोऽहं न वृतस्तेन दक्षेण सुमहात्मना || ४ || कपालीति सती चापि तज्जायेति च नो वृता | ततो रोषसमायुक्ता प्राणास्तत्याज सा सती || ५ || त्यक्तदेहा सती चापि चण्डमूर्तिस्तदाऽभवत् | ततः प्रवृत्ते यज्ञेऽपि तस्मिन् द्वादशवार्षिके || ६ || नवम्यां कृष्णपक्षे तु कन्यायां चण्डमूर्तिधृक् | योगनिद्रा महामाया योगिनीकोटिभिः सह || ७ || सतीरूपं परित्यज्य यज्ञभङ्गमथाकरोत् | शङ्करस्य गणैः सर्वैः सहिता शङ्करेण च || ८ || स्वयं बभञ्ज सा देवी महासत्रं महात्मनः | ततो देव्या महाक्रोधे व्यतीते त्रिदिवौकसः || ९ || पूजयाञ्चक्रुरतुलां देवीं पूर्वोदितेन वै | पूर्वोदितविधानेन पूजामस्या दिवौकसः || १० || कृत्वैव परमामापुर्निवृतिं दुःखहानये | एवमन्यैरपि सदा कार्यं देव्याः प्रपूजनम् || ११ || विभूतिमतुलां प्राप्तुं चतुर्वर्गप्रदायिकाम् | यो मोहादथवाऽलस्याद् देवीं दुर्गां महोत्सवे || १२ || न पूजयति दम्भाद् वा द्वेषाद्वाऽप्यथ भैरव | क्रुद्धा भगवती तस्य कामानिष्टान्निहन्ति वै || १३ || परत्र च महामाया - बलिर्भूत्वा प्रजायते | अष्टम्यां रुधिरैश्चैव महामांसैः सुगन्धिभिः || १४ || पूजयेद्बहुजातीयैर्बलिभिर्भोजनैः शिवाम् | सिन्दूरैः पट्टवासोभिर्नानाविधविलेपनैः || १५ || पुष्पैरनेकजातीयैः फलैर्बहुविधरपि | उपवासं महाष्टम्यां पुत्रवान् न समाचरेत् || १६ || यथा तथैव पूतात्मा व्रती देवीं प्रपूजयेत् | पूजयित्वा महाष्टम्यां नवम्यां बलिभिस्तथा || १७ || विसर्जयेद् दशम्यां तु श्रवणे शावरोत्सवैः | अन्त्यपादो दिवाभागे श्रवणस्य यदा भवेत् || १८ || तदा सम्प्रेषणं देव्या दशम्यां कारयेद् बुधः | सुवासिनी कुमारीभिर्वेश्याभिर्नर्तकैस्तथा || १९ || शङ्खतूर्यनिनादैश्च मृदङ्गैः पटहैस्तथा | ध्वजैर्वस्त्रैर्बहुविधैर्लाजपुष्पप्रकीर्णकैः || २० || धूलिकर्दमविक्षेपैः क्रीडाकौतुकमङ्गलैः | भगलिङ्गाभिधानैश्च भगलिङ्गप्रगीतकैः || २१ || भगलिङ्गादिशब्दैश्च क्रीद्ऽयेयुरलं जनाः | परैर्नाक्षिप्यते यस्तु यः परान्नक्षिपेद् यदि || २२ || क्रुद्धा भगवती तस्य शापं दद्यात् सुदारुणम् | आदिपादो निशाभागे श्रवणस्य यदा भवेत् || २३ || तदा देव्याः समुत्थानं नवम्यां न पुनर्दिवा | अन्त्यपादो निशाभागे श्रवणस्य यदा भवेत् || २४ || तदा देव्याः समुत्थानं नवम्यां दिनभागतः | विसर्जनमनेनैव मन्त्रेण वत्स भैरव || २४ || कर्तव्यमम्भसि स्थाप्य विसृज्य च विभूतये | उत्तिष्ठ देवि चण्डेशे शुभां पूजां प्रगृह्य च || २६ || कुरुष्व मम कल्याणमष्टभिः शक्तिभिः सह | गच्छ गच्छ परं स्थानं स्वस्थानं देवि चण्डिके || २७ || यत् पूजितं मया देवि परिपूर्णं तदस्तु मे | व्रज त्वं स्रोतसि जले तिष्ठ गेहे च भूतये || २८ || निमज्ज्याम्भसि सन्त्यज्य पत्रिकावजिते जले | पुत्रायुर्धनवृद्ध्यर्थं स्थापितासि जले मया || २९ || इत्यनेन तु मन्त्रेण देवीं संस्थापयेज्जले | सर्वलोक-हितार्थाय सर्वलोकविभूतये || ३० || दुर्गा-तन्त्रेण मन्त्रेण पूजितव्ये उभे अपि | भद्रकालीमुग्रचण्डां महामायां महोत्सवे || ३१ || नेत्रबीजं तु सर्वासां पूजने परिकीर्तितम् | योगिनीनां तु सर्वासां मूलमूर्तेस्तथैव च || ३२ || मन्त्रं तथोग्रचण्डायाः पृथक् त्वं शृणु भैरव | आद्यद्वयं नेत्रबीजं मन्त्रस्योपान्तमन्तरे || ३३ || वह्निनाऽन्तःस्वरेणेन्दुबिन्दुभ्यां तन्त्रमौग्रकम् | नेत्रबीजं द्वितीयं तु द्विधावर्तितमुच्यते || ३४ || भद्रकाल्यास्तु मन्त्रोऽयं धर्मकामार्थसिद्धये | यदा तु वैष्णवी देवी महामाया जगन्मयी || ३५ || पुज्यते वैष्णवी देवी तन्त्रोक्ता अष्टयोगिनीः | ताः प्रोक्ताः शैलपुत्र्याश्च पूर्वकल्पे च भैरव || ३६ || उग्रचण्डादयश्चाष्टौ दुर्गातन्त्रस्य कीर्तिताः | भद्रकाल्यास्तु मन्त्रेण भद्रकालीं प्रपूजयेत् || ३७ || पूजयेद् भूतिवृद्ध्यर्थमेता एवाष्टयोगिनीः | जयन्तीं मङ्गलां कालीं भद्रकालीं कपालिनीम् || ३८ || दुर्गां शिवां क्षमां धात्रीं दलेष्वष्टसु पूजयेत् | यदोग्रचण्डातन्त्रेण सा देवो तत्र पूज्यते || ३९ || योगिन्यस्तत्र पूज्याः स्युरष्टावन्याश्च भैरव | कौशिकी शिवदूती च उमा हैमवतीश्वरी || ४० || शाकम्भरी च दुर्गा च सप्तमी च महोदरी | उमायाः सौम्यमूर्तेस्तु तन्त्रं त्वं शृणु भैरव || ४१ || पादिः समाप्तिसहितः फडन्तो नान्त एव च | एकाक्षरस्त्र्यक्षरश्य उमामन्त्र इति स्मृतः || ४२ || सुवर्णसदृशीं गौरीं भुजद्वयसमन्विताम् | नीलारविन्दं वामेन पाणिना बिभ्रतीं सदा || ४३ || शुक्लं तु चामरं धृता भर्गस्याङ्गेऽथ दक्षिणे | विन्यस्य दक्षिणं हस्तं तिष्ठन्तीं परिचिन्तयेत् || ४४ || विनापि शम्भुं रुद्राणीं भक्तस्तु परिचिन्तयेत् | द्विभुजां स्वर्णगौराङ्गीं पद्मचामरधारिणीम् || ४५ || व्याघ्रचर्मस्थिते पद्मे पद्मासनगता सदा | एतस्याः पूजने प्रोक्ता अष्टौ वेतालभैरव || ४६ || योगिन्यो नायिकाश्चापि पृथक्त्वेन व्यवस्थिताः | जया च विजया चैव मातङ्गी ललिता तथा || ४७ || नारायण्यथ सावित्री स्वधा स्वाहा तथाऽष्टमी | पूर्वं शुम्भो निशुम्भश्च दानवौ भ्रातरावुभौ || ४८ || बभूवतुर्महासत्त्वौ महाकायौ महाबलौ | अन्धकस्य सुतौ द्वौ तौ दन्तिनाविव दुर्मदौ || ४९ || मया विनिहते तस्मिन्नन्धकाख्ये महाबले | ससैन्यवाहनौ तौ तु पातालतलमाश्रितौ || ५० || अतस्तप्त्वा तपस्तीव्रं ब्रह्माणन्तौ महासुरौ | सम्यक् तदाऽतोषयतां स सुप्रीतो वरं ददौ || ५१ || तौ ब्रह्मवरदृप्तौ तु समासाद्य जगत्त्रयम् | इन्द्रत्वमकरोच्छुम्भश्चन्द्रत्वं च निशुम्भकः || ५२ || सर्वेषामेव देवानां यज्ञभागानुपाहरत् | स्वयं शुम्भो निशुम्भश्च दिक्पालत्वं च तौ गतौ || ५३ || सर्वे सुरगणाः सेन्द्रास्ततो गत्वा हिमाचलम् | गङ्गावतारनिकटे महामायां प्रतुष्टुवुः || ५४ || अनकेशः स्तुता देवी तदा सर्वामरोत्करैः | मातङ्गवनितामूर्तिर्भूत्वा देवानपृच्छत || ५५ || युष्माभिरमरैरत्र स्तूयते का च भामिनी | किमर्थमागता यूयं मातङ्गस्याश्रमं प्रति || ५६ || एवं ब्रुवन्त्या मातङ्ग्यास्तस्यास्तु कायकोषतः | समुद्भूताऽब्रवीद् देवी मां स्तुवन्ति सुरा इति || ५७ || शुम्भो निशुम्भो ह्यसुरौ बाधैते सकलान् सुरान् | तस्मात् तयोर्वधायाहं स्तूये तैः सकलैः सुरैः || ५८ || विनिःसृतायां देव्यां तु मातङ्ग्याः कायकोषतः | भिन्नाञ्जननिभा कृष्णा साऽभूद् गौरी क्षणादपि || ५९ || कालिकाख्याऽभवत् सापि हिमाचलकृताश्रया | तामुग्रतारामृषयो वदन्तीह मनीषिणः || ६० || उग्रादपि भयात्त्राति यस्माद् भक्तान् सदाम्बिका | एतस्याः प्रथमं बीजं कथितं त्रयमेव च || ६१ || एषैवैकजटाख्या तु यस्मात्तस्माज्जटैकिका | शृणुतं चिन्तनं चास्याः सम्यग्वेतालभैरवौ || ६२ || यथा ध्यात्वा महादेवीं भक्तः प्राप्नोत्यभीप्सितम् | चतुर्भुजा कृष्णवर्णां मुण्डमालाविभूषिताम् || ६३ || खड्गं दक्षिणपाणिभ्यां इभ्रतीं चामरं त्वधः | कर्त्रीं च खर्परं चैव क्रमाद्वामेन बिभ्रतीम् || ६४ || द्यां लिखन्तीं जटामेकां बिभ्रतीं शिरसा स्वयम् | मुण्डमालाधरां शीर्षे ग्रीवायामपि सर्वदा || ६५ || वक्षसा नागहारं तु बिभ्रतीं रक्तलोचनाम् | कृष्णवस्त्रधरां कट्यां व्याघ्राजिन-समन्विताम् || ६६ || वामपादं शवहृदि संस्थाप्य दक्षिणं पदम् | विन्यस्य सिंहपृष्ठे तु लेलिहानां शवं स्वयम् || ६७ || साट्टहासां महाघोरां रावयुक्तातिभीषणाम् | चिन्त्याग्रे तारा सततं भक्तिमद्भिः सुखेप्सुभिः || ६८ || एतस्याः सम्प्रवक्ष्यामि या अष्टौ योगिनीः स्मृताः | महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च || ६९ || घोरा च भ्रामरी चैव महारात्रिश्च सप्तमी | भैरवी चाष्टमी प्रोक्ता योगिनीस्ताः प्रपूजयेत् || ७० || या कायकोषान्निःसृता कालिकायास्तु भैरव | सा कौशिकीति विख्याता चारुरूपा मनोहरा || ७१ || निःसृता हृदयाद् देव्या रसनाग्रेण चण्डिका | नैतस्याः सदृशी मूर्त्या चारुरूपेण विद्यते || ७२ || त्रिषु लोकेषु कान्त्या वा नास्त्यास्तुल्या भविष्यति | योगनिद्रा महामाया या मूलप्रकृतिर्मता || ७३ || तस्याः प्राणस्वरूपेयं देवी या कौशिकी स्मृता | नेत्रबीजं तथैतस्या बीजं तु परिकीर्तितम् || ७४ || अन्त्रमस्याः प्रवक्ष्यामि मूर्तिरूपं च भैरव | समाप्तिनान्त्यदन्त्यस्तु षड्वर्गादि-सबिन्दुभिः || ७५ || षष्ठस्वरेण संस्पृष्ठो बिन्दुना समलङ्कृतः | कौशिकीमन्त्रतन्त्रोऽयं सर्वकामार्थदायकः || ७६ || तस्यास्तु सम्प्रवक्ष्यामि या मूर्तिरिह भैरव | शृणुष्वैकमना भूत्वा जगदाह्लादकारकम् || ७७ || धम्मिल्लसंयतकचां विधोश्चाधोमुखीं कलाम् | केशान्ते तिलकस्योर्ध्वे दधती सुमनोहरा || ७८ || मणिकुण्डलसंघृष्टगण्डा मुकुटमण्डिता | सज्ज्योतिः कर्णपूराभ्यां कर्णमापूर्य सङ्गता || ७९ || सुवर्णमणिमाणिक्यनागहारविराजिता | सदा सुगन्धिभिः अद्मैरम्लानैरतिसुन्दरी || ८० || मालां बिभर्ति ग्रीवायां रत्नकेयूरधारिणी | मृणालायतवृत्तैस्तु बाहुभिः कोमलैः शुभैः || ८१ || राजन्ती कञ्चुकोपेत-पीनोन्नतपयोधरा | क्षीणमध्या पीतवस्त्रा त्रिवलीप्रख्यभूषिता || ८२ || शूलं वज्रं च बाणं च खड्गं शक्तिं तथैव च | दक्षिणैः पाणिभिर्देवी गृहीत्वा तु विराजिता || ८३ || गदां घण्टां च चापं च चर्म शङ्खं तथैव च | ऊर्ध्वादिक्रमतो देवी दधती वामपाणिभिः || ८४ || सिंहस्योपरि तिष्ठन्ती व्याघ्रचर्माणि कौशिकी | बिभ्रती रूपमतुलं ससुरासुरमोहनम् || ८५ || एतस्याः शृणु वत्स त्वं याः पूज्या अष्टयोगिनीः | ताः पूजिताश्च कुर्वन्ति चतुर्वर्गं नृणां सदा || ८६ || ब्रह्माणी प्रथमा प्रोक्ता ततो माहेश्वरी मता | कौमारी चैव वाराही वैष्णवी पञ्चमी तथा || ८७ || नारसिंही तथैवैन्द्री शिवदूती तथाऽष्टमी | एताः पूज्या महाभागा योगिन्यः कामदायिकाः || ८८ || देव्या ललाटनिष्क्रान्ता या कालीति च विश्रुता | तस्या मन्त्रं प्रवक्ष्यामि कामद शृणु भैरव || ८९ || समाप्तिसहितो दन्त्यः प्रान्तस्तस्मात् पुरःसरः | षष्ठस्वराग्निबिन्द्विन्दुसहितः सादिरेव च || ९० || कालीमन्त्रमिति प्रोक्तं धर्मकामार्थदायकम् | एतन्मूर्तिं प्रवक्ष्यामि वत्सैकाग्रमनाः शृणु || ९१ || नीलोत्पलदलश्यामा चतुर्बाहुसमन्विता | खट्वाङ्गं चन्द्रहासं च बिभ्रती दक्षिणे करे || ९२ || वामे चर्म च पाशं च ऊर्ध्वाधोभागतः पुनः | दधती मुण्डमालां च व्याघ्रचर्मधरा वराम् || ९३ || कृशाङ्गी दीर्घदंष्ट्रा च अतिदीर्घातिभीषणा | लोलजिह्वा निम्नरक्त-नयना नादभैरवा || ९४ || कबन्धवाहनासीना विस्तार-श्रवणानना | एषा ताराह्वया देवी चामुण्डेति च गीयते || ९५ || एतस्या योगिनीश्चाष्टौ पूजयेच्चिन्तयेद् यदि | त्रिपुरा भीषणा चण्डी कर्त्री हर्त्री विधायिनी || ९६ || कराला शूलिनी चेति अष्टौ ताः परिकीर्तिताः | एषाऽतिकामदा देवी जाड्यहानिकरी सदा || ९७ || एतस्याः सदृशी काचित् कामदा न हि विद्यते | कौशिक्या हृदयाद् देवी निःसृता ध्यायतो हरेः || ९८ || शिवदूतीति सा ख्याता या च देवशतैर्वृता | मन्त्रमस्याः प्रवक्ष्यामि धर्मकामार्थदायकम् || ९९ || यच्छ्रुत्वा साधको याति दुर्लभं शिवमन्दिरम् | यामाराध्य महादेवीं शिवदूतीं शिवात्मिकाम् || १०० || नचिराल्लभते कामान् नरः सर्वजयी भवेत् | अन्तः समाप्तिसहितो बिन्द्विन्दुभ्यां दशावरः || १०१ || स्वरेणोपान्तदन्त्येन संस्पृष्टोऽन्तेन पूर्वशः | स एव बिन्दुयुगलपूर्वस्थोपान्तपावकः || १०२ || षष्ठस्वरकलाशुन्यैः सहितः प्रथमस्थितः | मन्त्रोऽयं शिवदूत्यास्तु शिवदूतीजयप्रदः || १०३ || रूपमस्याः प्रवक्ष्यामि शृणु वत्सैकसम्मतः | चतुर्भुजं महाकायं सिन्दूरसदृशद्युति || १०४ || रक्तदन्तं मुण्डमाला-जटाजूटार्धचन्द्रधृक् | नागकुण्डलहाराभ्यां शोभितं नखरोज्ज्वलम् || १०५ || व्याघ्रचर्म-परिधानं दक्षिणे शूलखड्गधृक् | वामे पाशं तथा चर्म बिभ्रदूर्द्व्हापरक्रमात् || १०६ || स्थूलवक्त्रं च पीनोष्ठं तुङ्गमूर्ति भयङ्करम् | निक्षिप्य दक्षिणं पादं सन्तिष्ठत् कुणपोपरि || १०७ || वामपादं शृगालस्य पृष्ठे फेरुशतैर्वृतम् | ईदृशीं शिवदूत्यास्तु मूर्तिं ध्यायेद् विभूतये || १०८ || ध्यानमात्रादथैतस्या नरः कल्याणमाप्नुयात् | पूजनादचिराद् देवी सर्वान् कामान् ददाति च || १०९ || यः शिवाविरुतं श्रुत्वा विशदूतीं शुभप्रदाम् | प्रणमेत् साधको भक्त्या तस्य कामाः करे स्थिताः || ११० || यदा जघान जगतां रक्तबीजं हिताय वै | महादेवी महामाया तदास्याः कायतः सृताः || १११ || दूतं प्रस्थापयामास शिवं शुम्भाय साम्बिका | तेन सा शिवदूतीति देवैः सर्वैः प्रगीयते || ११२ || क्षेमकारी च शान्ता च वेदमाता महोदरी | कराला कामदा देवी भगास्या भगमालिनी || ११३ || भगोदरी भगारोहा भगजिह्वा भगा तथा | एता द्वादश योगिन्यः पूजने परिकीर्तिताः || ११४ || एता द्वादश योगिन्यः शिवदूत्याः सदैव हि | विचरन्ती स्वयं देवी यत्र तत्रैव गच्छति || ११५ || योगिन्यो ह्यथ सख्यः स्युर्यथान्यासां तथा पुनः | चण्डिकायास्तु योगिन्यः सख्योऽत्र च प्रकीर्तिताः || ११६ || इति ते त्वङ्गमन्त्राणि कथितानि समासतः | कामाख्यायाश्च महात्म्यं कल्पमात्रं वदामि वाम् || ११७ || इति श्रीकालिकापुराणे कामाख्यामाहात्म्ये एकषष्टितमोऽध्यायः || ६१ || द्विषष्टितमोऽध्यायः भगवानुवाच कामार्थमागता यस्मान्मया सार्धं महागिरौ | कामाख्या प्रोच्यते देवी नीलकूटे रहोगता || १ || कामदा कामिनी कामा कान्ता कामाङ्गदायिनी | कामाङ्गनाशिनी यस्मात् कामाख्या तेन चोच्यते || २ || एतस्याः शृणु माहात्म्यं कामाख्याया विशेषतः | या सा प्रकृतिरूपेण जगत्सर्वं नियोजयेत् || ३ || मधुकैटभनाशाय महामायाविमोहितः | यदा संयुयुधे विष्णुस्तदैषामोहयद्धरिम् || ४ || दैनन्दिने तु प्रलये प्रसुप्ते गरुडध्वजे | तस्य श्रवणविड्जातावसुरौ मधुकैटभौ || ५ || कूर्मपृष्ठे स्थिता देवी विशीर्णेवाभवज्जलैः | तां विशीर्णां योगनिद्रा महामाया व्यलोकयत् || ६ || तां वै दृढतरां पृथ्वीं कर्तुं प्रति तदेश्वरी | उपायं चिन्तयामास कथं पृथ्वी भवेद्दृढा || ७ || इदानीमाज्यवत् पृथ्वी प्रवृत्ता कोमला जलैः | सृष्टिकाले जनान् सोढुं कथं शक्ता भविष्यति || ८ || इति सञ्चिन्त्य सा माया जगतां सृष्टिरूपिणी | उपगम्य तदा विष्णुमाससाद सुनिद्रितम् || ९ || तं तु सुप्तं समासाद्य जगन्नाथं जगत्पतिम् | वामहस्तकनिष्ठाग्रं तस्य कर्णे न्यवेशयत् || १० || निवेश्य नखराग्रेण प्रोद्धृत्य श्रावणं मलम् | चूर्णीचकार सा देवी योगनिद्रा जगत्प्रसूः || ११ || तत्कर्णमलचूर्णेभ्यो मधुर्नामासुरोऽभवत् | ततो दक्षिणहस्तस्य कनिष्ठाग्रं तु दक्षिणे || १२ || कर्णे न्यवेशयद् देवी तस्मादप्युद्धृतं मलम् | तच्चापि क्षोदयामास करशाखाद्वयेन तु || १३ || ततोऽभूत् कैटभो नाम बलवान् सोऽसुरो महान् | उत्पन्नः स च पानार्थं यस्मान्मृगितवान्मधु || १४ || ततस्तस्य महादेवी मधुनामाकरोत्तदा | उत्पन्नः कीटवद्भाति महामायाकरे यतः || १५ || ततोऽस्य कैटभं नाम महामाया तदाकरोत् | आवुवाच महामाया युध्यतां हरिणा सह || १६ || युवां नो श्रद्धयेवात्र भवन्तौ निहनिष्यति | युवां यदा प्रभाषेथे आवां विष्णो वधान भो || १७ || तदैवायं युवां हन्ता नान्यथा हरिरप्यथ | महामायामोहितौ तौ विष्णुगात्रं तदा गतौ || १८ || भ्रममाणौ ददृशतुर्नाभिपद्मोत्थितं विधिम् | तमूचतुस्तौ धातारं हनिष्यावोऽद्य त्वामिह || १९ || तं जागरय वैकुण्ठं यदि जीवितुमिच्छसि | ततो ब्रह्मा महामायां योगनिद्रां जगत्प्रसूम् || २० || प्रसादयामास तदा स्तुतिभिर्बहुभिर्भयात् | चिरं स्तुताथ सा देवी ब्रह्मणा जगदात्मना || २१ || प्रसन्ना तरसा व्यग्रमुवाच च यथाविधि | किमर्थं संस्तुता चाहं किं करिष्याम्यहं तव || २२ || तद् वद त्वं महाभाग करिष्याम्यहमद्य ते | ततस्तेन महामाया प्रोक्ता धात्रा महात्मना || २३ || प्रबोधय जगन्नाथं यावत्रो मां हनिष्यतः | सम्मोहय दुराधर्षावसुरौ मधुकैटभौ || २४ || इत्युक्ता सा तदा देवी ब्रह्मणा जगदात्मना | बोधयामास वैकुण्ठं मोहयामास तौ तदा || २५ || ततः प्रबुद्धः कृष्णस्तु ददर्श भयशालिनम् | ब्रह्माणं तौ तदा घोरावसुरौ मधुकैटभौ || २६ || ततस्ताभ्यां स युयुधे ह्यसुराभ्यां जनार्दन | नाशकद्धारितुं वीरावसुरौ मधुकैटभौ || २७ || अनन्तोऽपि फणाग्रेण तान्नो धर्तुं क्षमोऽभवत् | युध्यमानान् महावीरान् वैकुण्ठ मधुकैटभान् || २८ || अथ ब्रह्मा शिलारूपां स्थितिशक्तिं तदाकरोत् | अर्धयोजनविस्तीर्णामर्धयोजनमायताम् || २९ || तस्यां शिलायां गोविन्दो युयुधे नृपसत्तम | सह ताभ्यां शिला सा तु प्रविवेश जलान्तरम् || ३० || तस्यां तु शक्त्यां मग्नायां तोये स युयुधे हरिः | पञ्चवर्षसहस्राणि बाहुयुद्धैर्निरन्तरम् || ३१ || यदा वै नाशकद् हन्तुं तौ विष्णुर्जगतां पतिः | परां चिन्तां तदावाप विधातापि भयात् ततः || ३२ || ततस्तावेव तं विष्णुमूचतुर्बलदर्पितौ | पुनः पुनर्जगन्मातृ-महामाया-विमोहितौ || ३३ || तुष्टौ स्वस्त्वन्नियुद्धेन वरं वरय माधव | तवेष्टं सम्प्रदास्यावः सत्यमेतद् ब्रुवोऽधना || ३४ || तयोस्तद्वचनं श्रुत्वा माधवो जगतां पतिः | उवाच तौ युवां वध्यौ भवतां मे महाबलौ || ३५ || इति देहि वरं मह्यं दातव्यं यदि विद्यते | तौ तदा प्राहतुर्नाशस्त्वत्तो नौ शोभनोऽधुना || ३६ || तत्रावां जहि नो यत्र तोयं सम्प्रति विद्यते | तयोस्तद्वचनं श्रुत्वा माधवो जगतां पतिः || ३७ || ब्रह्माणं मां च शीघ्रेण प्राहेदं चात्मसंज्ञया | ब्रह्मशक्तिशिलां शीघ्रमुद्धृत्य ध्रियतां यथा || ३८ || तत्र स्थित्वा महाघोरौ हनिष्यामि महाबलौ | ततो ब्रह्मा ह्यहं चैव उद्दधार शिलां तु ताम् || ३९ || तस्यां मध्ये पूर्वभागे ह्यह पर्वतरूपधृक् | ऊर्ध्वे स्थित्वा शिलां भित्त्वा प्रविवेश रसातलम् || ४० || ऐशान्यामभवत् कूर्मः पर्वतश्चाग्रहीच्छिलाम् | वायव्यां तथानन्तो नैर्-ऋत्यां च सुरेश्वरी || ४१ || महामाया जगद्धात्री शैलरूपप्रधारिणी | आग्नेययां च तथा विष्णुरेकरूपेण संस्थितः || ४२ || ब्रह्मशक्तिशिलां गृह्णन् भगवान् परमेश्वरः | मध्ये ब्रह्मा त्वहं चैव वराहश्च तथापरः || ४३ || ततो वराहपृष्ठस्य चरमे जगतांपतिः | स्थित्वा शिलामवष्टभ्य ब्रह्मशक्तिमधोगताम् || ४४ || वामोरुजघने यत्नादारोप्य शिरसी तयो | जगदाधारभूतः स सर्वयत्नेन संयुतः || ४५ || सर्वर्बलैः समाक्रम्य चिच्छेद च पृथक् पृथक् | मधुकैटभयोः सम्यग् ग्रीवयोः पृथिवीमृते || ४६ || तस्य चाक्रमत स्थेम्ना ब्रह्मशक्तिरधोगता | ध्रियमाणापि देवौघैर्यत्नादपि मुहुर्मुहुः || ४७ || ततस्तयोस्तु मृतयोः शरीरे जगतां पतिः | ब्रह्मशक्तिं समुद्धृत्य न्यधात् तस्यां प्रयत्नतः || ४८ || उद्धृतायां पृथिव्यां तु तयोर्मेदोविलेपनैः | सुदृढामकरोत् पृथ्वीं क्लेदितां तोयराशिभिः || ४९ || मेदोविलेपनाद् यस्माद् गीयते मेदिनी च सा | अद्यापि पृथिवी देवी देवराक्षसमानुषैः || ५० || अथ काले बहुतिथे व्यतीते प्राणिसर्जने | अगृह्णां दक्षतनयां भार्यार्थेऽहं वधूं वराम् || ५१ || सा मेऽभूत् प्रेयसी भार्या प्रादाय समयं पितुः | अनिष्टकारी त्वं चेत् स्याः प्राणांस्त्यक्ष्ये तदा त्वहम् || ५२ || ततो यज्ञे समस्तांस्तु स च वव्रे चराचरम् | न मां नापि सतीं वव्रे तदानीष्टान्मृता तु सा || ५३ || ततो मोहं समाक्रान्ततामादाय मृतामहम् | प्रातः पीठवरं तं तु भ्रममाण इतस्ततः || ५४ || तस्यास्त्वङ्गानि पर्यायात् पतितानि यतो यतः | तत् तत् पुण्यतमं जातं योगनिद्राप्रभावतः || ५५ || तस्मिंस्तु कुब्जिकापीठे सत्यास्तद्योनिमण्डलम् | पतितं तत्र सा देवी महामाया व्यलीयत || ५६ || लीनायां योगनिद्रायां मयि पर्वतरूपिणिः | स नीलवर्णः शैलोऽभूत्पतिते योनिमण्डले || ५७ || स तु शैलो महातुङ्गः पातालतलमाविशत् | तस्या आक्रमणाद्गाढं ह्यन्तस्थं द्रुहिणो ह्यधात् || ५८ || स तु पूर्वं ब्रह्मशक्तिं शिलां धर्तुं चतुर्मुखः | शैलरूपोऽभवत् तेन शैलरूपेण मामधात् || ५९ || ब्रह्मा पर्वतरूपी स मयि पर्वतरूपिणि | स शक्तोऽधोऽगमद् गाढमाक्रान्तो मायया विधेः || ६० || उद्धृतायां पृथिव्यां तु तयोर्मेदोविलेपनैः | सुदृढामकरोत् पृथ्वीं क्लेदितां तोयराशिभिः || ४९ || मेदोविलेपनाद् यस्माद् गीयते मेदिनी च सा | अद्यापि पृथिवी देवी देवराक्षसमानुषैः || ५० || अथ काले बहुतिथे व्यतीते प्राणिसर्जने | अगृह्णां दक्षतनयां भार्यार्थेऽहं वधूं वराम् || ५१ || सा मेऽभूत् प्रेयसी भार्या प्रादाय समयं पितुः | अनिष्टकारी त्वं चेत् स्याः प्राणांस्त्यक्ष्ये तदा त्वहम् || ५२ || ततो यज्ञे समस्तांस्तु स च वव्रे चराचरम् | न मां नापि सतीं वव्रे तदानीष्टान्मृता तु सा || ५३ || ततो मोहं समाक्रान्ततामादाय मृतामहम् | प्रातः पीठवरं तं तु भ्रममाण इतस्ततः || ५४ || तस्यास्त्वङ्गानि पर्यायात् पतितानि यतो यतः | तत् तत् पुण्यतमं जातं योगनिद्राप्रभावतः || ५५ || तस्मिंस्तु कुब्जिकापीठे सत्यास्तद्योनिमण्डलम् | पतितं तत्र सा देवी महामाया व्यलीयत || ५६ || लीनायां योगनिद्रायां मयि पर्वतरूपिणिः | स नीलवर्णः शैलोऽभूत्पतिते योनिमण्डले || ५७ || स तु शैलो महातुङ्गः पातालतलमाविशत् | तस्या आक्रमणाद्गाढं ह्यन्तस्थं द्रुहिणो ह्यधात् || ५८ || स तु पूर्वं ब्रह्मशक्तिं शिलां धर्तुं चतुर्मुखः | शैलरूपोऽभवत् तेन शैलरूपेण मामधात् || ५९ || ब्रह्मा पर्वतरूपी स मयि पर्वतरूपिणि | स शक्तोऽधोऽगमद् गाढमाक्रान्तो मायया विधेः || ६० || ततो वराहः संसक्तो मयि मां स तु माधवः | शैलरूपः शैलरूपं धर्तुं समुपचक्रमे || ६१ || सोऽप्यधोऽयान्मया सार्धं तदा पर्वतरूपिणी | आक्रम्य देवीं पृथिवीं स्थितो भुवि निखानितः || ६२ || शतं शतं योजनानां तुङ्गमासीद् गिरित्रयम् | तदाक्रान्तं महादेव्या सर्वमेव ह्यधोगतम् || ६३ || क्रोशमात्रस्थितं तुङ्गशेषं तत्त्रितयस्य तु | एका समस्तजगतां प्रकृतिः सा यतस्ततः || ६४ || ब्रह्मविष्णुशिवैर्देवैर्धृता सा जगतां प्रसूः | तत्र पूर्वो ब्रह्मशैलः श्वेत इत्युच्यते सुरैः || ६५ || मद्रूपधारी शैलस्तु नील इत्युच्यते तथा | स तु मध्यगतः पीठस्त्रिकोणोलूखलाकृतिः || ६६ || विभ्राजमानः सततं मध्ये ब्रह्मवराहयोः | वराहः शैलरूपो यः स चित्र इति कथ्यते || ६७ || सर्वेषां संस्थितः पश्चाद् दीर्घः सर्वेभ्य एव तु | ऐशान्यां योऽभवत् कूर्मः शैलरूपो महाद्युतिः || ६८ || मणिकर्णः स नाम्ना तु ख्यातो देवौघसेवितः | योऽनन्तरूपः शैलस्तु वायव्यां समवस्थितः || ६९ || मणिपर्वतसंज्ञोऽसौ पर्वतो माधवप्रियः | महामाया गिरिर्यस्तु नैर्-ऋत्यां समवस्थितः || ७० || स गन्धमादनो नाम्ना सर्वदा शङ्करप्रियः | वराहपृष्ठचरमे यतश्छिन्नौ महासुरौ || ७१ || हरिणा तत्र संयातः पाण्डुनाथ इति स्मृतः | ब्रह्मशक्तिशिलायास्तु पूर्वभागे तु मध्यतः || ७२ || यस्तु पर्वतरूपोऽहं स तु भस्मचलाह्वयः | एवं पुण्यतमे पीठे कुब्जिकापीठसंज्ञके || ७३ || नीलकूटे मया सार्धं देवी रहसि संस्थिता | सत्यास्तु पतितं तत्र विशीर्णं योनिमण्डलम् || ७४ || शिलात्वमगमच्छैले कामाख्या तत्र संस्थिता | संस्पृश्य तां शिलां मर्त्यो ह्यमरत्वमवाप्नुयात् || ७५ || अमर्त्यो ब्रह्मसदनं तत्स्थो मोक्षमवाप्नुयात् | तस्याः शिलाया माहात्म्यं यत्र कामेश्वरी स्थिता || ७६ || अद्भुतं यस्य गुह्ये तु लोहं भस्म भवेद्गतम् | सा चापि प्रत्यहं तत्र पञ्चमूर्तिधराभवत् || ७७ || मोहार्थं सर्वलोकानां ममापि प्रीतये शिवा | अहं पञ्चमुखेनाशु पञ्चभागे व्यवस्थितः || ७८ || ईशानः पूर्वभागस्थः कामेश्वर्याः प्रधानतः | ऐशान्यां वै तत्पुरुषो ह्यघोरस्तस्य सन्निधौ || ७९ || सद्योजातोऽथ वायव्यां वामदेवस्तु सङ्गतः | देव्याश्चापि नरश्रेष्ठ पञ्चरूपाणि भैरव || ८० || शृणु वेताल गुह्यानि देवैरपि सदैव हि | कामाख्या त्रिपुरा चैव तथा कामेश्वरी शिवा || ८१ || शारदाथ महालोका कामरूपगुणैर्युता | मयि लिङ्गत्वमापन्ने शिलायां योनिमण्डले || ८२ || सर्वे शिलात्वमगमच्छैलरूपाश्च निर्जराः | यथाहं निजरूपेण रेमे वै सह कामया || ८३ || शिलारूपप्रतिच्छन्नास्तथा सर्वास्तु देवताः | शिलारूपप्रतिच्छन्नाः शैले शैले व्यवस्थिता || ८४ || रमन्ते च स्वरूपेण नित्यं रहसि सङ्गताः | ब्रह्मा विष्णुर्हरश्चात्र दिक्पालाः सर्व एव ते || ८५ || अन्येऽप्यत्र स्थिता देवाः सानुकूलाः सदा मयि | उपासितुं तदा देवीं कामाख्यां कामरूपिणीम् || ८६ || नीलशैलस्त्रिकोणस्तु मध्यनिम्नः सदाशिवः | तन्मध्ये मण्डलं चारु त्रिंशच्छक्तिसमन्वितम् || ८७ || उहा मनोभवा तत्र मनोभवविनिर्मिता | योनिस्तस्यां शिलायां तु शिलारूपा मनोहरा | वितस्तिमात्रविस्तीर्णा एकविंशाङ्गुलीयुता || ८८ || क्रमसूक्ष्मविनम्रा सा भस्मशैलानुगामिनी | अहामाया जगद्धात्री मूलभूता सनातनी || ८९ || सिन्दूरकुङ्कुमारक्ता सर्वकामप्रदायिनी | तस्यां योनौ पञ्चरूपा नित्यं क्रीडति कामिनी || ९० || तत्राष्टौ योगिनीर्नित्या मूलभूताः सनातनीः | पूर्वोक्ताः शैलपुत्र्याद्याः स्थिता देव्याः समन्ततः || ९१ || तासां तु पीठनामानि शृणु चैकत्र भैरव | गुप्तकामा च श्रीकामा तथान्या विन्ध्यवासिनी || ९२ || कोटीश्वरी वनस्था तु पाददुर्गा तथापरा | दीर्घेश्वरी क्रमादेव प्रकटा भुवनेश्वरी || ९३ || स्वयोगिन्यः पीठनाम्ना ख्याता अष्टौ च देवताः | सर्वतीर्थानि चैकत्र जलरूपाणि भैरव || ९४ || स्थितानि नाम्ना सौभाग्यसरस्यल्पापि पुण्यदा | विष्णुस्तु तीरे तस्यास्तु नाम्ना कमल इत्युत || ९५ || कामुकाख्यस्तु वटुकः कामाख्याभ्यर्णसंस्थितः | लक्ष्मीः सरस्वती देव्यौ देव्याः सङ्गे व्यवस्थिते || ९६ || ललिताख्याभवल्लक्ष्मीर्मातङ्गी तु सरस्वती | गणाध्यक्षः पूर्वभागे तस्य शैलस्य संस्थितः || ९७ || सिद्धः स नाम्ना विख्याता द्वारे देव्याः प्रियः सुतः | कल्पवृक्षः कल्पवल्ली तिन्तिडी चापराजिता || ९८ || भूत्वा तस्मिन् महाशैले स्थितो देव्या धृतः प्रिये | वराहः पाण्डुनाथाख्यः स्थितस्तत्र हरिर्यतः || ९९ || जघने शिरसी कृत्वा जघान मधुकैटभौ | तस्यासन्ने ब्रह्मकुण्डं ब्रह्मणा निर्मितं पुरा || १०० || ईशानाख्यः शिवो यत्र तत् सिद्धेश्वरसंज्ञकम् | शिलारूपं सिद्धकुण्डं मध्यस्थं विद्धि भैरव || १०१ || क्रमसूक्ष्मविनम्रा सा भस्मशैलानुगामिनी | अहामाया जगद्धात्री मूलभूता सनातनी || ८९ || सिन्दूरकुङ्कुमारक्ता सर्वकामप्रदायिनी | तस्यां योनौ पञ्चरूपा नित्यं क्रीडति कामिनी || ९० || तत्राष्टौ योगिनीर्नित्या मूलभूताः सनातनीः | पूर्वोक्ताः शैलपुत्र्याद्याः स्थिता देव्याः समन्ततः || ९१ || तासां तु पीठनामानि शृणु चैकत्र भैरव | गुप्तकामा च श्रीकामा तथान्या विन्ध्यवासिनी || ९२ || कोटीश्वरी वनस्था तु पाददुर्गा तथापरा | दीर्घेश्वरी क्रमादेव प्रकटा भुवनेश्वरी || ९३ || स्वयोगिन्यः पीठनाम्ना ख्याता अष्टौ च देवताः | सर्वतीर्थानि चैकत्र जलरूपाणि भैरव || ९४ || स्थितानि नाम्ना सौभाग्यसरस्यल्पापि पुण्यदा | विष्णुस्तु तीरे तस्यास्तु नाम्ना कमल इत्युत || ९५ || कामुकाख्यस्तु वटुकः कामाख्याभ्यर्णसंस्थितः | लक्ष्मीः सरस्वती देव्यौ देव्याः सङ्गे व्यवस्थिते || ९६ || ललिताख्याभवल्लक्ष्मीर्मातङ्गी तु सरस्वती | गणाध्यक्षः पूर्वभागे तस्य शैलस्य संस्थितः || ९७ || सिद्धः स नाम्ना विख्यातो द्वारे देव्याः प्रियः सुतः | कल्पवृक्षः कल्पवल्ली तिन्तिडी चापराजिता || ९८ || भूत्वा तस्मिन् महाशैले स्थितो देव्या धृतः प्रिये | वराहः पाण्डुनाथाख्यः स्थितस्तत्र हरियतः || ९९ || जघने शिरसी कृत्वा जघान मधुकैटभौ | तस्यासन्ने ब्रह्मकुण्डं ब्रह्मणा निर्मितं पुरा || १०० || ईशानाख्यः शिवो यत्र तत् सिद्धेश्वरसंज्ञकम् | शिलारूपं सिद्धकुण्डं मध्यस्थं विद्धि भैरव || १०१ || तस्यासन्ने गयाक्षेत्रं क्षत्रं वाराणसी तथा | योनिमण्डलसंकाशं कुण्डं भूत्वा व्यवस्थितम् || १०२ || तत्रैवामृतकुण्डं तु सुधासङ्घप्रपूरितम् | मम प्रियार्थमिन्द्रेण स्थापितं सह निर्जरैः || १०३ || वामदेवाह्वयं शीर्षं श्रीकामेश्वरसंज्ञकम् | कामकुण्डं महापुण्यं तस्यासन्ने व्यवस्थितम् || १०४ || केदारसंज्ञकं क्षेत्रं मध्यस्थं सिद्धकामयोः | दीर्घं चतुर्दशव्यामच्छायाच्छत्राह्वयं तु तत् || १०५ || तस्यासन्ने शैलपुत्री गुप्तकामाह्वया तु सा | गुप्तकुण्डस्य मध्यस्था कामेशग्रावणि सङ्गता || १०६ || कामेश्वरशिलासक्ता कामाख्यासंज्ञिता सदा | पूर्वभागेण संसक्ता योनेस्तु परमार्गतः || १०७ || कामकामाख्ययोर्मध्ये कालरात्रिर्व्यवस्थिता | पीठे दीर्घेश्वरो नाम्ना सीमाभागे प्रचण्डिका || १०८ || कामाख्याप्रस्तरप्रान्ते कूष्माण्डी नाम योगिनी | पीठे कोटीश्वरी नाम्ना योनिरूपेण संस्थिता || १०९ || यच्चाघोराह्वयं शीर्षं तत्कामायास्तु दक्षिणे | पीठे भैरवनामा तु गदिते परमार्थिभिः || ११० || चामुण्डा भैरवी नाम्ना भैरवासन्नसंस्थिता | नायिका कामदा भक्तेश्चण्डमुण्डविनाशिनी || १११ || कामाभैरवयोर्मध्ये स्वयं देवी सुरापगा | हिताय सर्वजगतां देव्यास्तु प्रीतये सदा || ११२ || सद्योजाताह्वयं शीर्षं पीठे त्वाम्रातकेश्वरम् | भैरवाख्ये गह्वरे तु स्थितं देवर्षिसेवितम् || ११३ || विद्धि तत्रैव दुर्गाख्यां नायिकां योनिरूपिणीम् | सिद्धकामेश्वरी नाम्ना ख्याता देवेष नित्यशः || ११४ || अजीर्णपत्रः सुच्छायो वृक्षस्तत्र सुसंस्थितः | आम्रातकः कल्पवृक्षः कल्पवल्लीसमन्वितः || ११५ || पीठे तु सिद्धगङ्गाख्या स्वयं गङ्गा समुत्थिता | आम्रातकस्य निकटे मम प्रीतिविवृद्धये || ११६ || पुष्कराख्यं तु तत्क्षेत्रं पीठे त्वाम्रातकाह्वयम् | ऐशान्यां तत्पुरुषाख्यं मम शीर्षं व्यवस्थितम् || २१७ || भुवनेश्वरनाम्ना तु पीठे ख्यातं च भैरव | गह्वरं भुवनेशस्य भुवनानन्दसंज्ञकम् || ११८ || तस्यासन्ने तु सुरभिः शिलारूपेण संस्थिता | कामधेनुरिति ख्याता पीठे कामप्रदायिनी || ११९ || योऽसौ शरभमूर्तिर्मे मध्यखण्डप्रचण्डकः | महाभैरवनामाभूत् कोटिलिङ्गाह्वयस्तु सः || १२० || मूर्तिभिः पञ्चभिः पञ्चभागेषु समवस्थितः | अहं पश्चादतिप्रात्या भैरवाख्यः स्थितो धरे || १२१ || महागौरी तु या देवी योगिनी सिद्धरूपिणी | सा ब्रह्मपर्वते चास्ते शिलारूपेण चोर्ध्वतः || १२२ || अतीवरूपसम्पन्ना नाम्ना सा भुवनेश्वरी | यत्र ब्रह्मा तु संसक्तो मयि पर्वतरूपिणि || १२३ || कल्पवल्ली तु तत्रास्ते नाम्ना सा त्वपराजिता | कामधेनुरदूरस्था पूर्वभागे महेश्वरी || १२४ || श्रीकामाख्या योनिरूपा चण्डिका सा तु योगिनी | आग्नेययां विद्धि तां संस्थां सर्वकामप्रदां शुभाम् || १२५ || योगिनी चण्डघण्टाख्या पीठेऽभूद् विन्ध्यवासिनी | योगिनी स्कन्दमाता तत्पीठेऽभूद् वनवासिनी || १२६ || कात्यायनी पीठनाम्ना पाददुर्गेति गद्यते | नैर्-ऋत्यां नीलशैलस्य प्रान्ते सा संस्थिता शिवा || १२७ || योऽसौ नन्दी मम तनुः स तु पाषाणरूपधृक् | संस्थितः पश्चिमद्वारि हनुमान् पीठनामतः || १२८ || और्व उवाच इति तस्य वचः श्रुत्वा शम्भोरमिततेजसः | भैरवस्य तु पप्रच्छ वेतालोऽपि समुत्सुकः || १२९ || वेतालभैरवावूचतुः श्रुतः पीठक्रमस्तात देव्याः पूजाक्रमस्तथा | श्रोतुमिच्छामि मूर्तीनां पञ्चानामपि शङ्कर || १३० || रूपाणि पञ्चमूर्तीनां मन्त्राणि च समन्ततः | तत्र मन्त्राणि तन्त्राणि वद नौ वृषभध्वज || १३१ || ईश्वर उवाच शृणु वक्ष्यामि वेताल मन्त्रं तन्त्रं पृथक् पृथक् | कामाख्यापञ्चमूर्तीनां रूपं कल्पं च भैरव || १३२ || कामस्थं काममध्यस्थं कामदेवपुटीकृतम् | कामेन कामयेत् कामी कामं कामे नियोजयेत् || १३३ || ज्येष्ठं तु व्यञ्जनं ब्रह्मन् परः शान्तं तदुच्यते | प्रथमं क्रमतः कुर्यात्तत्संसक्तं सुधामयम् || १३४ || प्रजापतिस्तथा शक्रबीजं संस्थादिसंयुतम् | चन्द्रार्धसहितं बीजं कामाख्यायाः प्रचक्ष्यते || १३५ || इदं धर्मप्रदं काममोक्षार्थानां प्रदायकम् | इदं रहस्यं परममन्यत्र तु सुदुर्लभम् || १३६ || श्रोत्रेणोद्यम्य शृणुयाद् गुरुवक्त्रान्नरोत्तमः | स कामानखिलान् प्राप्य शिवलोके महीयते || १३७ || श्रुतिसकलितसारं देवकण्ठौघहारं सकलकलुषहारि श्रीधरानन्दकारि | सुनयसुभगगोभिभ्राजयेद्यद्यशोभि- स्तदिह शिवसमस्तं विघ्नहन्त्रीङ्गितार्थम् || १३८ || नयनकरभकारि ध्यानिनां चोपकारि प्रणयिसुनयसंस्थं देवसत्याह्निकस्थम् | परमपदविशीर्णं सर्वदौर्भाग्यजीर्णं शृणु शिवपदरूपं कामदेव्याः स्वरूपम् || १३९ || श्रवणगगनमात्रा चार्दितं यस्य नाम प्रभवति बहुभूत्यै नीतिमार्गैकधाम | सुरगणगणनायां कुण्डली यस्य शक्ति- स्तदिह परमरूपं चिन्तनीयं हताशैः || १४० || रविशशियुतकर्णा कुङ्कुमापीतवर्णा मणिकनकविचित्रा लोलकर्णा त्रिनेत्रा | अभयवरदहस्ता साक्षसूत्रप्रशस्ता प्रणतसुरनरेशा सिद्धकामेश्वरी सा || १४१ || अरुणकमलसंस्था रक्तपद्मासनस्था नवतरुणशरीरा मुक्तकेशी सुहारा | शवहृदि पृथुतुङ्गस्तन युग्मा मनोज्ञा शिशुरविसमवस्त्रा अर्वकामेश्वरी सा || १४२ || विपुलविभवदात्री स्मेरवक्त्रा सुकेशी अलितनखरदन्ता सामिचन्द्रावनम्रा | मनसिजदृषदिस्था योनिमुद्रालसन्ती अवनगमनशक्ता संश्रुतस्थानहागा || १४३ || चिन्त्या चैवं विद्युदग्निप्रकाशा धर्मार्थाद्यं साधकैर्वाञ्छितार्थैः | कल्प्यन्तु त्रीण्यर्यतदं सम्यगर्यं वेताल त्वं भैरव श्रीप्रतिष्ठम् || १४४ || तस्मिन्नर्धं मण्डलं यद्धि पश्चात् कार्यं चैतच्चन्दनैः पुष्पयुक्तैः | पर्यायो यो लेखने पूर्वमुक्तो देवीतन्त्रे सोऽत्र पूर्व विधेयः || १४५ || इति श्रीकालिकापुराणे कामाख्यापूजातन्त्रे विषष्टितमोऽध्यायः || ६२ || त्रिषष्टितमोऽध्यायः ईश्वर उवाच वैष्णवीतन्त्रमन्त्रस्य यथापूर्वं मयोदितम् | मण्डलं प्रतिपत्त्या तु पर्यायो मण्डलस्य यः || १ || स एवं प्रथमं कार्यः शिलायां पुष्पचन्दनैः | पात्रादीनां प्रतिष्थानं तथैवात्रापि योजयेत् || २ || वैष्णवीतन्त्रमन्त्रस्य प्रोक्ता याः प्रतिपत्तयः | अत्र ताः सकला योज्या आसनाद्यैश्च पूजनम् || ३ || तेभ्योऽन्यो यो विशषोऽत्र तद् वक्ष्ये शृणु भैरव | प्रथमं भास्करायार्घ्यं प्रदद्याच्श्वेतसर्षपैः || ४ || पुष्पचन्दनसंवीतैः सगणाय महात्मने | आसनार्चनशेषे तु पठोक्ताः सर्वदेवताः || ५ || पीठनाम्ना तु संयोज्या मण्डलस्य तु मध्यतः | ध्यानस्वरूपं भिन्नं तद् वैष्णव्या सह भैरव || ६ || कामायाः सर्वमन्यत् तु महामायास्तवोदितम् | योगिनीस्तु चतुःषष्टिः पूजयेच्च पृथक् पृथक् || ७ || गुहां मनोभवां चापि महोत्साहां तथा सखीम् | अनन्तरं पूजयेत् तु दिक्पालांश्च नवग्रहान् || ८ || रूपतस्तान् समुद्दिश्य पूजयेदिष्टसिद्धये | पूर्वद्वारे गणपतिं प्रथमं तु प्रपूजयेत् || ९ || नन्दिनं च हनूमन्तं पश्चिमद्वारि पूजयेत् | भृङ्गी चोत्तरतः पूज्यो महाकालस्तु दक्षिणे || १० || एते मम द्वारपाला देव्या द्वारे प्रपूजयेत् | पात्रामृतीकृतिविधौ कुर्याद् वै काममुद्रया || ११ || भूतापसारणं कुर्यात् पूर्वं तालत्रयेण तु | वामहस्ते दक्षिणेन पाणिना तालमाहरेत् || १२ || हूं हूं फडितिमन्त्रेण वेतालादींश्च सारयेत् | सर्वमुत्तरतन्त्रोक्तं तन्त्रं कुर्यात् तु साधकः || १३ || अत्रोक्तेन स्वरूपेण प्राणायामं तथा चरेत् | स्नापयेत् प्रथमं देवीं मूलमन्त्रेण पूजकः || १४ || मधुक्षीराज्यदधिभिर्गोमूत्रैर्गोमयैस्तथा | रत्नोदकैः शर्कराभिर्गुडरत्नकुशोदकैः || १५ || सितसर्षपमुद्गाभ्यां तिलक्षीरैस्तथा यवैः | रक्तचन्दनपुष्पैश्च दूर्वाभी रोचनायुतैः || १६ || नवभिर्वितरेदर्घ्यं शिलायां योनिसन्निधौ | आसनं पाद्यमर्घ्यं च तत आचमनीयकम् || १७ || मधुपर्कं स्नानजलं वस्त्रं चन्दनभूषणम् | पुष्पं धूपं च दीपं च नेत्राञ्जनमतः परम् || १८ || नैवेद्याचमनीये च प्रदक्षिणनमस्कृती | एते षोडश निर्दिष्टा उपचारास्तु पीठतः || १९ || आवाहयेन्महादेवीं गायत्र्या कामयोगया | तामेव विद्धि वेताल गुह्यं भैरवदैवतम् || २० || कामाख्ये त्वमिहागच्छ यथावन्मम सन्निधौ | पूजाकरणि सान्निध्यमिह कल्पय कामिनि || २१ || कामाख्यायै च विद्महे कामेश्वर्यै तु धीमहि | ततः कुर्यान्महादेवी ततश्चानु प्रचोदयात् || २२ || एषा तु कामगायत्री पूजयेदनया शुभाम् | पूजावसाने च बलीन्देव्याः प्रीत्यै निवेदयेत् || २३ || रुद्राक्षमालया जाप्यमादायैव समाचरेत् | त्रयक्षरैर्मूलमन्त्रस्य त्रिधा वृत्तः प्रपूजयेत् || २४ || कामाख्यायाः षडङ्गानि आह्वानानन्तरे तथा | वैष्णवीतन्त्रमन्त्रस्य कराङ्गन्यासयोश्च ये || २५ || स्वराः प्रोक्तास्तैः स्वरैस्तु सार्धचन्द्रैः सबिन्दुकैः | मूलमन्त्राद्यक्षराभ्यां युगपत्तु नियोजितैः || २६ || कनिष्ठादिक्रमेणैव ह्यङ्गन्यासं समाचरेत् | अङ्गन्यासकरन्यासौ कृत्वा पश्चात्तु साधकः || २७ || हृच्छिरस्तु शिखावर्मनेत्रास्योदरपृष्ठतः | बाह्वोः पाण्योर्जङ्घयोश्च पादयोश्चापि विन्यसेत् || २८ || अभयं वरदं हस्तमक्षमालां च सूत्रकम् | पूजयेच्छशिनं सूर्यं शिरश्चान्द्रकलां तथा || २९ || रक्तपद्मं शवं चैव लौहित्यं ब्रह्मपुत्रकम् | मनोभवां शिलां तत्र शक्तिस्थां शवमध्यतः || ३० || देव्याः प्रपूजयेद्भक्तः कारवालं च पार्श्वतः | पीठादिदेवतास्तत्र यजेत् कामेश्वरीं शुभाम् || ३१ || त्रिपुरां पूजयेन्मध्ये पीठप्रत्यधिदेवताम् | शारदां च महोत्साहां मध्य एव प्रपूजयेत् || ३२ || चण्डेश्वरी महादेवी देव्या निर्माल्यधारिणी | योनिमुद्रा समाख्याता कामाख्या विसर्जने || ३३ || इदं द्रव्यं तु सिन्दूरचन्दनागुरुकुङ्कुमैः | इति यो हि मया प्रोक्तो विशेषः परिपूजने || ३४ || एभिर्विशेषैः सहितं वैष्णवीतन्त्रगोचरम् | सर्वं कल्पं समासाद्य कामाख्यां परिपूजयेत् || ३५ || अनेनैव विधानेन कामाख्यां यस्तु पूजयेत् | मनोभवगुहामध्ये स याति परमां गतिम् || ३६ || ब्रह्माणी चण्डिका रौद्री गौरीन्द्राणी तथैव च | कौमारी वैष्णवी दुर्गा नरसिंही च कालिका || ३७ || चामुण्डा शिवदूती च वाराही कौशिकी तथा | माहेश्वरी शाङ्करी च जयन्ती सर्वमङ्गला || ३८ || काली कपालिनी मेधा शिवा शाकम्भरी तथा | भीमा शान्ता भ्रामरी च रुद्राणी चाम्बिका तथा || ३९ || क्षमा धात्री तथा स्वाहा स्वधापर्णा महोदरी | घोररूपा महाकाली भद्रकाली भयङ्करी || ४० || क्षेमकरी चोग्रचण्डा चण्दोग्रा चण्डनायिका | चण्डा चण्डवती चण्डी महामोहा प्रियङ्करी || ४१ || कलविकरिणी देवी बलप्रमथिनी तथा | मदनोन्मथिनी देवी सर्वभूतस्य दामनी || ४२ || उमा तारा महानिद्रा विजया च जया तथा | पूर्वोक्ताः शैलपुत्र्याद्या योगिन्यष्टौ च याः क्रमात् || ४३ || ताभिरेभिश्च सहिताः चतुःषष्टिं च योगिनीः | पूजयेन्मण्डलस्यान्तः सर्वकामार्थसिद्धये || ४४ || नानाविधं तु नैवेद्यं पानं पायसमेव च | मोदकापूपपिष्टादि देव्यै सम्यक् प्रदापयेत् || ४५ || एवं तु पूजयेद् देवीं कामाख्यां वरदायिनीम् | भक्तियुक्तो नरो यस्तु सर्वान् लभते प्रियान् || ४६ || महोत्साहा तु या देवी महामाया तु सा स्मृता | वैष्णवीतन्त्रमन्त्रेण सा पूज्या योनिमण्डले || ४७ || तदेव मण्डलं चास्य ह्यङ्गन्यासं तथैव च | सा एव पूजापर्याये तद्ध्यानं सैव दैवता || ४८ || तन्त्रं तदेवमुक्तं तु तस्मान्नान्यं तु किञ्चन | मण्डलादिविसृष्ट्यर्थं महामायामहोत्सवे || ४९ || यत्प्रोक्तं तेन तां देवीं महोत्साहां तु मण्डले | स्नानपूर्वं पूजयेत्तु मध्वाज्यादिभिरासवैः || ५० || शृणुतं त्रिपुरामूर्तेः कामाख्यायाः प्रपूजनम् | एतस्या मूलमन्त्रं तु पूर्वमुत्तरतन्त्रके || ५१ || युवयोरिष्टयोः सम्यक् क्रमात् तत् प्रतिपादितम् | वाग्भवं कामबीजं तु डामरं चेति तत्त्रयम् || ५२ || सर्वधर्माथकामादिसाधकं कुण्डलीयुतम् | त्रीण्यस्मात् पुरतो दद्याद् दुर्गा ध्याता महेश्वरी || ५३ || त्रिपुरेति ततः ख्याता कामाख्या कामरूपिणी | तस्यास्तु स्नापनं यादृक्कामाख्यायाः प्रकीर्तितम् || ५४ || तेनैव स्नापनं कुर्यान्मूलमन्त्रेण पूजकः | रिकोणं मण्डलं चास्यास्त्रिपुरं तु त्रिरेखकम् || ५५ || मन्त्रं तु अक्षरं ज्ञेयं तथा रूपं त्रयं पुनः | त्रिविधा कुण्डली शक्तिस्त्रिदेवानां च सृष्टये || ५६ || सर्वं त्रयं त्रयं यस्मात् त्रिपुरा तेन सा स्मृता | उदीच्याद्यथ पूर्वान्ता रेखाः कार्यास्तु मण्डले || ५७ || त्रिस्त्रिरेखास्तु कर्तव्यास्ता एव पुष्पचन्दनैः | ऐशान्यमथ नैर्-ऋत्यां मन्त्रं कृत्वा तु संलिखेत् || ५८ || नै-ऋत्यां चैव वायव्यां ततो ह्यैशान्यगां पुनः | एवं त्रिकोणं विलिखेन्मण्डलस्यान्तरे पुनः || ५९ || इशान्याद्यास्तु या रेखा सा तु शक्तिर्निगद्यते | नैर्-ऋत्यां वायवीं याता ततो ह्यैशान्यगा तु या || ६० || सा तु शम्भुः समाख्याता शक्त्या शम्भुं विभेदयेत् | शक्त्या विभिन्नं भूतेशं वेष्टयेत् कमलेन तु || ६१ || अष्टपत्रेण तां ध्यात्वा त्रिवर्णां प्राक् प्रपूजयेत् | त्रिभिस्त्रिभिस्तु रेखाभिः शक्तिं शम्भुं च वेष्टयेत् || ६२ || स्थानस्याभ्युक्षणं सम्यद्ध मार्जनं लिखनं तथा | अस्त्रमन्त्रप्रयोगाणां भूतानामपसारणम् || ६३ || वैष्णवीतन्त्रमन्त्रोक्तं तथैवोत्तरतन्त्रके | यत् प्रोक्तं तत् तु सामान्यं प्राक् कुर्यात् साधको नरः || ६४ || त्रिपुराया विशेषेण सहितं पूजनक्रमम् | एतत् त्रिकोणं देवानां त्रयाणां स्थानमिष्यते || ६५ || ऐशान्यां तु तथेशानो नैर्-ऋत्यां चतुराननः | वायव्यां तु तथा ब्रह्मा षट्कोणेषु प्रकीर्तिताः || ६६ || दलं त्वेकपुरं प्रोक्तं केशरं चापरं पुरम् | पुरं शेषं त्रिकोणं तु त्रिकोणं मण्डलं स्मृतम् || ६७ || दलेषु केशरे चापि त्रिकोणे च त्रिधा त्रिधा | रेखास्तु विहिताः सम्यक् कुर्यात् तत्र पुनः पुनः || ६८ || उत्तरं तद् भवेद् द्वारं तस्य वै धनुराकृतिः | पूर्वद्वारं तु षट्कोणं चतुष्कोणं तु दक्षिणे || ६९ || पश्चिमं तोरणाकारं यथा चान्यत्र मण्डले | ऐशान्यां पञ्चबाणांस्तु लिखेद् वह्नौ च तद्धनुः || ७० || नैर्-ऋत्यां पुस्तकं चापि वायव्यामक्षमालिकाम् | एवं कृत्वा मण्डलं तु धृत्वा वामेन पाणिना || ७१ || वाग्वेश्मने नम इति मण्डलं पूजयेत् ततः | पूजयित्वा ततो भूतान् नालिकात्रितयेन तु || ७२ || मूलमन्त्रेण पूर्वोक्तैर्मन्त्रैरपि अमाचरेत् | नवभिश्छोटिकाभिस्तु त्रिधा कृत्वा तु वेष्टनम् || ७३ || अभ्युक्षणं ततः कुर्याद् भूतानामपसारणम् | प्रतिपत्तिस्तु पात्रस्य अर्घ्यार्थं नवधा पुनः || ७४ || पूर्ववत् साधकः कुर्याद् दहनं प्लवनं तथा | अमृतीकरणं कुर्यात् प्रथमं धेनुमुद्रया || ७५ || योनिमुद्रां ततः कुर्यात् पात्रतोयं तु त्रिः स्पृशेत् | मार्तण्डभैरवायार्घ्यं दूर्वाभिः सिद्धसर्षपैः || ७६ || रक्तपुष्पैश्चन्दनैश्च सगणाय निवेदयेत् | पाणिकच्छपिकां कृत्वा चिन्तनं योनिमुद्रया || ७७ || आदौ मध्ये च कर्तव्यं क्रमाद् वेतालभैरव | अस्त्रमन्त्रेण पात्रस्य स्थापनार्थं तु मण्डलम् || ७८ || षट्कोणं तु लिखेत् पूर्वं तन्मन्त्रस्थापनेऽपि च | ऐं आं क्लीमिति मन्त्रेण त्रिधा पात्रे जलं क्षिपेत् || ७९ || त्रिधा गन्धं च पुष्पं च त्रिधा दूर्वाक्षतं पुनः | रां ह्रीं ह्रूं ह्रैं ह्रौमिति च अङ्गुष्ठादि क्रमान्न्यसेत् || ८० || ओं ह्र इत्यस्त्रमन्त्रेण पाणिपृष्ठतले तथा | हृदयादिक्रमात् पश्चान्न्यासं कुर्यात् त्रिधा त्रिधा || ८१ || संयोज्य पाण्योः क्रमतश्चाङ्गुष्ठादि द्वयं द्वयम् | त्रिधा त्रिधा पृथक् कुर्याच्छेषाङ्गानि च विन्यसेत् || ८२ || कर्णरन्ध्रे तथा ब्रह्मद्वारं केशतलं तथा | नासिकारन्ध्रयुगलं जानुयुग्मं पदद्वयम् || ८३ || त्रिधा त्रिधा न्यसेदेभिः षड्भिर्मन्त्रैः पृथक् पृथक् | प्राणायामं ततः कुर्यात् पूरकैः स्तम्भकैस्तथा || ८४ || रेचकेनापि त्रिपुरामूर्तिं देवीं विचिन्तयेत् | दहनप्लवनं कृत्वा आद्यां मूर्तिं विचिन्तयेत् || ८५ || त्रिधादृत्याथ हृदये तां मूर्तिं शृणु भैरव | सिन्दूरपुञ्जसंकाशां त्रिनेत्रां तु चतुर्भुजाम् || ८६ || वामोर्ध्वे पुष्पकोदण्डं धृत्वाधः पुस्तकं तथा | दक्षिणोर्ध्वे पञ्चबाणानक्षमालां दधात्यधः || ८७ || चतुर्णां कुणपानां तु पृष्ठेऽन्यं कुणपान्तरम् | निधाय तस्य पृष्ठे तु समपादेन संस्थिताम् || ८८ || जटाजूटार्धचन्द्रेण समाबद्धशिरोधराम् | नग्नां त्रिवलिभेदेन चारुमध्यां मनोहराम् || ८९ || सर्वालङ्कारसम्पूर्णां सर्वाङ्गसुन्दरी शुभाम् | स्रवद्द्रविणसन्दोहां सर्वलक्षणसंयुताम् || ९० || एनां तु प्रथमं ध्यात्वा त्रिधात्मानं तु चिन्तयेत् | अद्रूपं च ततः पश्चात् पुष्पं तद्वाग्भवेन तु || ९१ || स्वमस्तके पुनर्दद्यादङ्गन्यासं पुनस्तथा | मन्त्रद्वयं त्रिधा जप्त्वा वाग्भवाद्यं तु साधकः || ९२ || अर्घ्यपात्रस्य तोयेषु तैस्तोयैः सेचयेच्छिरः | पजोपकरणं चापि त्रिरभ्युक्ष्य तथैव तु || ९३ || कामपीठं ततो ध्यात्वा पूजयेत् क्रमतस्त्विमान् | गणेशं च गणाध्यक्षं गणनाथं तथैव च || ९४ || गणक्रीडं च पूर्वादिद्वारे मन्त्रेण पूजयेत् | हैरम्बबीजमेतेषां मन्त्रस्तु परिकीर्तितः || ९५ || विद्याशान्तिनिवृत्तिश्च प्रतिष्ठा द्वारपालकाः | कलान्ताः पूजयेत् सम्यक् पूर्वादिक्रमतस्तथा || ६९ || सिद्धपुत्रं ज्ञानपुत्रं तथा सहजपुत्रकम् | शेषं समयपुत्रं तु पूजयेद् बटुकानिमान् || ९७ || प्रत्येकं तु श्रियं देवीं बटुकानां परे वरे | श्रीमित्यनेन मन्त्रेण पूर्वादौ पूजयेत् क्रमात् || ९८ || सिद्धस्य सहजस्याथ ज्ञानस्य समयस्य च | कुमारीं पूजयेत् कोणे ऐशान्यादौ तु मण्डले || ९९ || योरटं डामरं चैव लोहजङ्घं तथैव च | भूतनाथं क्षेत्रपालमीशानादौ प्रपूजयेत् || १०० || मण्डलस्य च मध्ये तु पञ्चबाणान् प्रपूजयेत् | द्रावणं शोषणं चैव बन्धनं मोहनं तथा || १०१ || आकर्षणं च मध्येन मन्त्रेणैव प्रपूजयेत् | ततस्त्रिष्वथ कोणेषु पूजयेत् तु त्रियोगिनीः || १०२ || भगं च भगजिह्वां च भगास्यामुत्तरादिकम् | क्रमात्तु पूज्यास्तिस्रोऽन्या अन्या मध्ये त्रिकोणके || १०३ || भागमालिनीं तु प्रथमे द्वितीये तु भगोदरीम् | तृतीये भगरोहां तु योगिनीं कामरूपिणीम् || १०४ || अनङ्गकुसुमां देवीं तथैवानङ्गमेखलाम् | अनङ्गमदनां चैव ह्यनङ्गमदनातुराम् || १०५ || अनङ्गवेशां चानङ्गमालिनीं मदनातुराम् | दलकेशरमध्ये तु ह्यष्टमीं मदनाङ्गकुशाम् || १०६ || शैलपुत्र्यादयश्चाष्टौ त्रिपुरापूजनक्रमे | एतन्नामभिरव्यग्रा बभूवुः कामयोगिनीः || १०७ || वाग्भवेन तथा दुर्गां नेत्रबीजान्तकेन तु | अङ्गन्यासं समन्त्रैस्तु षड्भिरष्टाविमान् पुनः || १०८ || पूजयेत् क्षेत्रपालांस्तु मव्ये किञ्जल्कपत्रयोः | हेतुकं विपुरघ्नं च अग्निजिह्वं तथैव च || १०९ || अग्निवेतालसंज्ञं च कालं चाथ करालकम् | एकपादं भीमनाथमुत्तरादिक्रमेण तु || ११० || एभिरेवाष्टभिर्मन्त्रैः कामराजेन संयुतैः | नवैतानसिताङ्गादीन् नायकान् पूजयेत् क्रमात् || १११ || मण्डलस्य चतुर्दिक्षु द्वौ द्वौ पूर्वादिषु क्रमात् | पद्ममण्डलयोर्मध्ये शेषमेकं तु पूजयेत् || ११२ || असिताङ्गी रुरुश्चण्डः क्रोधोन्मत्तौ भयङ्करः | कपाली भीषणश्चैव अंहारश्चेति वै नव || ११३ || ऐशान्यादिक्रमाद् द्वे द्वे नायिकां पूजयेन्नरः | पद्ममण्डलयोर्मध्ये अग्नौ द्वे च प्रपूजयेत् || ११४ || ब्रह्माणीं भैरवीं चैव तथा माहेश्वरीमपि | कौमारीं वैष्णवीं चैव नारसिंहीं तथैव च || ११५ || वाराहीं च तथेन्द्राणीं चामुण्डां चण्डिकां तथा | आधारशक्तिप्रभृतीन् मण्डलस्य तु मध्यतः || ११६ || वैष्णवी तन्त्रकल्पोक्तान् सर्वान् भैरव पूजयेत् | शिवस्य पञ्च याः प्रोक्ताः सद्योजातादयः पुरा || ११७ || मूर्तयस्ताः पद्ममध्ये पञ्चप्रेतत्वमागताः | ताः पञ्च पूजयेन्मध्ये रक्तपद्मं शवं तथा || ११८ || सिंहं च पूजयेत् तत्र जगदाधारसंज्ञितम् | जयन्तीं मङ्गलां कालीं भद्रकालीं कपालिनीम् || ११९ || दुर्गां क्षमां शिवां धात्रीं स्वधां स्वाहां च पूजयेत् | उग्रचण्डा प्रचण्डा चण्डोग्रा चण्डनायिका || १२० || चण्डा चण्डवती चैव अण्डरूपातिचण्डिका | एताः सम्पूजयेन्मध्ये मण्डलस्य विशेषतः || १२१ || आदित्यादीन् ग्रहान् सर्वान् रूपतो ह्यस्त्रसंयुतान् | क्रमात् प्रत्येकमुद्दिश्य पार्श्वे पार्श्वे प्रपूजयेत् || १२२ || दिक्पालानां तु मन्त्रेण तथा सर्वांस्तु दिक्पतीन् | अस्त्रमन्त्रैस्तु तान् सर्वांस्तेषां मन्त्राणि भैरव || १२३ || नाथं कामेश्वरं तत्र एकवत्रं चतुर्भुजम् | भस्मश्वेतं मध्यहृदि रक्तपुष्पैस्तु कुङ्कुमैः || १२४ || त्रिशूलं च पिनाकं च वामहस्तद्वये स्थितम् | उत्पलं बीजपूरं च दक्षिणद्वितये तथा || १२५ || श्वेतपद्मोपरिस्थं च ध्यात्वा मध्ये प्रपूजयेत् | कामाख्यां मूर्तितो ध्यात्वा कामाख्यामपि पूजयेत् || १२६ || कामेश्वरीं तत्र देवीं पूजयेत् परमेश्वरीम् | वक्ष्यमाणेन रूपेण तत्र वेतालभैरवी || १२७ || करालं क्षेत्रपालं च कर्त्रिखर्परधारिणम् | पूजयेदीशमत्यर्थं दंष्त्राभिन्नाधरं भयम् || १२८ || तिन्तिडीं कल्पवृक्षं च सुच्छायं रत्नभूषितम् | त्रिकूटं कृष्णवर्णं च नीलशैलं महाद्युतिम् || १२९ || मनोभवां गुहां तत्र पञ्चव्यामायतां शुभाम् | रत्नमण्डलसंयुक्तां रक्तवर्णां सुवर्तुलाम् || १३० || अपराजितां च वल्लीं च व्यामत्रयसुविस्तृताम् | आरक्तवर्णां सततं कुसुमैरूपशोभिताम् || १३१ || बटुकं कम्बलाख्यं तु स्वर्णगौरं गजासनम् | द्विभुजं दक्षिणे दण्डपाणिं वामे कपालकम् || १३२ || बिभ्रतं पुरतो देव्याः पूज्यो विघ्नविपत्तये | भैरवः पाण्डुनाथश्च रक्तगौश्चतुर्भुजः || १३३ || गदां पद्मं च शक्तिं च चक्रं चापि करेषु च | बिभ्रद् देव्याः पुरोभागे पूज्योऽयं विष्णुरूपधृक् || १३४ || श्मशानं हेरुकाख्यं च रक्तवर्णं भयङ्करम् | असिचर्मधरं रौद्रं भुञ्जानं मनुजामिषम् || १३५ || तिसृभिर्मुण्डमालाभिर्गलद्रक्ताभिराजितम् | अग्निनिर्दग्धविगलद्दन्तप्रेतोपरिस्थितम् || १३६ || पूजयेच्चिन्तनेनैव शत्रस्वाहनभूषणम् | महोत्साहां योगिनीं तु महामायास्वरूपिणीम् || १३७ || ध्यानतो रूपतस्तां तु देव्या अग्रे प्रपूजयेत् | पुरीं चन्द्रवतीं देव्या नीलपर्वतपूर्वतः || १३८ || योजनद्वयविस्तीर्णामर्धयोजनमायताम् | उच्चैरनेकप्रासाद सौधसद्मविभूषिताम् || १३९ || मणिरत्नसुवर्णौघजातप्रासादविस्तृताम् | क्रीडासरोवरैः सद्भिः सञ्छन्नां विकचैः कचैः || १४० || संयुतां पूजयेत् तत्र देव्या अग्रे समन्त्रकम् | लौहित्यं रक्तगौराङ्गं नीलवस्त्रविभूषितम् || १४१ || रत्नमालासमायुक्तं चतुर्बाहुसमन्वितम् | पुस्तकं श्वेतपद्मं च बिभ्रतं दक्षिणे करे || १४२ || वामे शक्तिध्वजं चैव शिशुमारस्थितं शुभम् | पीठेश्वरानिमान् मध्ये मन्त्रेरेतैः प्रपूजयेत् || १४३ || नाथ कामेश्वरं देवं प्रासादेन प्रपूजयेत् | कामेश्वर्यास्तु मन्त्रेण यजेत् कामेश्वरी शुभाम् || १४४ || द्वावुपान्तौ बलेनैव मदनान्ते च तत्क्रमात् | योजयेन्नादबिन्दुभ्यां आयाकरणमन्त्रकम् || १४५ || चण्डिकानेत्रबीजस्य यच्छेषमक्षरं तु तत् | कल्पं तिन्तिडिकावृक्षमन्त्रमेतत् प्रकीर्तितम् || १४६ || उग्राया मध्यबीजं तु नीलशैलस्य मन्त्रकम् | मनोभवस्य बीजं तु महादेवेन संहितम् || १४७ || अदिस्थेनेन्दुना बिन्दुयुक्तं वान्तेन योजितम् | मनोभवगुहायां तु मन्त्रमेतत् प्रकीर्तितम् || १४८ || वैष्णवीतन्त्रमन्त्रस्य यच्छेषं बीजमस्वरम् | तदधो वान्तसंश्लिष्टं चतुर्थस्वरसंयुतम् || १४९ || चन्द्रबिन्दुसमायुक्तं तन्मन्त्रञ्चापराजितम् | हयग्रीवस्वरूपस्य विष्णोर्यद्बीजमुत्तमम् || १५० || कम्बलस्य तु तन्मन्त्रं पूजनं परिकीर्तितम् | केवलः सप्ररोहादिषष्ठस्वरसमन्वितः || १५१ || चन्द्रबिन्दुसमायुक्तं हयग्रीवस्य बीजकम् | भैरवं पाण्डुनाथं च वनमालिस्वरूपिणम् || १५२ || वाराहेण तु बीजेन पूजयेत् तु विधानतः | सपरौ द्वावनुस्वारविसर्गाभ्यां तु संयुतौ || १५३ || महाभैरवमन्त्रेण भैरवान्तेन पूजयेत् | महोत्साहां महामायां द्वितीयाष्टाक्षरेण तु || १५४ || देवीतन्त्रोदितेनैव पूजयेद् भूतिवृद्धये | आद्याक्षरं तु सामीन्दुबिन्दुभ्यां समलङ्कृतम् || १५५ || स्वनाम्नश्चन्द्रवत्यास्तु पूजामन्त्रं प्रकीर्तितम् | सर्वलक्षणसम्पूर्णं सर्वालङ्कारभूषितम् || १५६ || लौहित्यनदराजस्य ब्रह्मपुत्रस्य भूतिदम् | ब्रह्मबीजं तु मन्मत्रं वह्निभार्यान्तमिष्यते || १५७ || द्वितीयं त्रिपुरारूपं तथैव तु तृतीयकम् | आवाहनार्थं देव्यास्तु चिन्तयेद् योनिमुद्रया || १५८ || बन्धूकपुष्पसङ्काशां जटाजूटेन्दुमण्डिताम् | सर्वलक्षणसम्पूर्णां सर्वालङ्कारभूषिताम् || १५९ || उद्यद्रविप्रभां अद्मपर्यङ्केषु सुसंस्थिताम् | मुक्तारत्नावलीयुक्तां पीनोन्नतपयोधराम् || १६० || वलिविभङ्गचतुरामासवामोदमोदिताम् | नेत्राह्लादकरीं शुभ्रां क्षोमणीं जगतां तथा || १६१ || त्रिनेत्रां योनिमुद्रायामीषद्धाससमायुताम् | नवयौवनसम्पन्नां ऋणालाभचतुर्भुजाम् || १६२ || वामार्धे पुस्तकं धत्ते अक्षमालां तु दक्षिणे | वामेनाभयदां देवीं दक्षिणार्धे वरप्रदाम् || १६३ || स्रवद्रक्तौघसूर्याभां शिरोमालां तु बिभ्रतीम् | आपादलम्बिनीं कल्पद्रुममासाद्य संस्थिताम् || १६४ || कदम्बोपवनान्तस्थां कामाह्लादकरीं शुभाम् | द्वितीयां त्रिपुरां ध्यायेदेवंरूपां मनोहराम् || १६५ || तृतीयं त्रिपुरारूपं शृणु वेतालभैरव | जवाकुसुमसङ्काशां मुक्तकेशीं शुभाननाम् || १६६ || सदाशिवं हसन्तं तु प्रेतवद् विनिधाय वै | हृदये तस्य देवस्य ह्यर्द्धपद्मासनस्थिताम् || १६७ || रक्तोत्पलैर्मिश्रितां तु मुण्डमालां पदानुगाम् | ग्रीवायां धारयन्तीं तु पीनोन्नतपयोधराम् || १६८ || चतुर्भुजां तथा नग्नां दक्षिणार्धेऽक्षमालिनीम् | वरदां तदधो वामे जगन्मायां तथाभयाम् || १६९ || अधस्तु पुस्तकं धत्ते त्रिनेत्रां हसिताननाम् | स्रवद्रुधिरभोगार्तां तथा सर्वाङ्गसुन्दरीम् || १७० || एवंविधं तृतीयं तु रूपं ध्यायेत् तु पूजकः | आद्यं तु वाग्भवं रूपं द्वितीयं कामराजकम् || १७१ || डामरं मोहनं चापि तृतीयं परिकीर्तितम् | एकैकं तु त्रिरूपाणि प्राग्विचिन्त्यार्थसाधकः || १७२ || मन्त्रत्रयेण प्रत्येकं हृदि षोडशकैस्तथा | पूजयेदुपचारैस्तु बहिर्यद्वत्तथैव च || १७३ || मन्त्रत्रयं तथैकत्र कृत्वा च मनमूर्तयः | कर्तव्या एकतस्तत्र मध्यरूपे निवेशयेत् || १७४ || नासापुटेन निःसार्य दक्षिणेनाथ तां पुनः | अवतार्य कराभ्यां तु देवीमावाहयेत् त्रिधा || १७५ || गायत्रीत्रयमुचार्य स्नापयेत् प्रथमं तु ताम् | आवाहने तु मन्त्रोऽयं पठितव्यश्च साधकैः || १७६ || एहि देवि शुभावर्ते यज्ञेऽस्मिन् मम सन्निधौ | अव्युच्छिन्नां ततः शुभ्रां वाचं कण्ठस्य देहि मे || १७७ || एह्येहि भगवत्यम्ब त्रिपुरे कामदायिनि | इमं भागबलिं गृह्य सान्निध्यमिह कल्पय || १७८ || नारायण्यै च विद्महे आग्मयायै च धीमहि | एवमुक्त्वा ततः पश्चात् तन्नो देवी प्रचोदयात् || १७९ || नारायण्यै विद्महे त्वां चण्डिकाय च धीमहि | शेषभागे प्रयुञ्जीत तन्नः कुब्जि प्रचोदयात् || १८० || महामायायै विद्महे त्वां सम्मोहिन्यै च धीमहि | पश्चादेवं प्रयुञ्जीत तन्नाश्चण्डि प्रचोदयात् || १८१ || एतास्तु त्रिपुरादेव्या गायत्र्यः परिकीर्तिताः | प्रत्येकं स्नापनं कुर्यात् त्रिपुराणां च तिसृभिः || १८२ || वाग्भवेन तु मन्त्रेण प्रथमं पूजयेच्छिवाम् | कामराजेन वै पश्चाड्डामरेणापि पूजयेत् || १८३ || पश्चादेनां त्रिभिर्मन्त्रैरेकत्रैव तु पूजयेत् | ततो मन्त्रेण वै दद्यादुपचारास्तु षोडश || १८४ || कामाख्यातन्त्रगदितान् सम्पूज्याङ्गाक्षरान् पुनः | अङ्गन्यासस्य यन्मत्रैर्देव्या अङ्गानि पूजयेत् || १८५ || शेषं तु मूलमन्त्रेण चाष्टाङ्गानां प्रपूजनम् | एकैकं प्रक्रमं पूज्य त्रिपुरायै अमस्ततः || १८६ || नवधा पूजयेद् देवीं त्रिपुरां कामरूपिणीम् | उत्तरादिचतुष्पत्रे पद्मस्यैतान् प्रपूजयेत् || १८७ || ब्रह्माणं माधवं शम्भुं भास्करं च तथैव च | ऐशान्यादिषु तेष्वेवं क्रमाद् देव्याः प्रपूजयेत् || १८८ || जयन्तीं प्रथमं पश्चाद् वायव्यामपराजिताम् | नैर्-ऋत्यां विजयां चैव तथाग्नेययां जयाह्वयाम् || १८९ || त्रिकोणे केशरस्यान्ते कामं प्रीतिं रतिं तथा | पूजयेत् पञ्चबाणांश्च पुष्पं चापं च पुस्तिकाम् || १९० || अक्षमालां अञ्चशरान् रत्नपर्यङ्कमेव च | प्रेतपद्मशिवं चैव सम्यक् तत्रैव पूजयेत् || १९१ || सम्पूज्य पूर्ववन्मालां स्फाटिकामेव भैरव | आदायाथोत्तरीयेण तामाच्छाद्य प्रयत्नतः || १९२ || पूर्वोद्धृतं जपेत् सम्यक् साधकस्त्रिपुरामनुम् | जप्त्वा स्तुतिं पठित्वा च प्रणम्य च मुहुर्मुहुः || १९३ || त्रिपुरायै बलिं दद्यात् सम्भवात् तत् त्रिजातिकम् | सफेनैस्तोयसंयुक्तैः शर्करामधुसैन्धवैः || १९४ || अभ्युक्ष्य रुधिरं दद्यात् कामराजेन भैरव | छेदयेद् वाग्भवेनैव डामरैर्विहरेच्छिरः || १९५ || यत्र यत्र बलिं दद्यात् साधको देवतार्चने | वैष्णवीतन्त्रकल्पोक्तमादद्यात् पूजने बलिम् || १९६ || ततो देव्यै वलीन् दद्यादेतद्वर्णक्रमात् पुनः | गोक्षीरं ब्राह्मणो दद्याद् गव्यमाज्यं तु राजजः || १९७ || वैश्यस्तु माक्षिकं दद्याच्छूद्रः पुष्पासवादिक्रम् | घ्रात्वा पुष्पमथैशान्यां निर्माल्यं निक्षिपेद् बुधः || १९८ || निर्माल्यधारिणी चास्या देवी त्रिपुरचण्डिका | विसृज्यादौ योनिमुद्रां पद्ममुद्रां तथैव च || १९९ || अर्धमुद्रां त्रिमुद्रां च प्रत्येकमपि दर्शयेत् | निर्माल्यमथ गृह्णीयात् कामराजह्वयेन तु || २०० || एवं यः पूजयेद् देवी त्रिपुरां कामरूपिणीम् | स कामानखिलान् प्राप्य देवीलोकमवाप्नुयात् || २०१ || इति श्रीकालिकापुराणे त्रिपुरापूजने रिषष्टितमोऽध्यायः || ६३ || चतुःषष्टितमोऽध्यायः मार्कण्डेय उवाच देव्याः कामेश्वरीं मूर्तिं शृणु वक्ष्यामि भैरव | यस्याश्चिन्तनमात्रेण साधको लभते प्रियान् || १ || तन्त्रं तस्याः प्रथमतस्ततोऽनुध्यानगोचरम् | ततः पूजाक्रमं वक्ष्ये क्रमाद् वेताल भैरव || २ || प्रजापतिस्ततो वह्निरिन्द्रबीजं ततः परम् | चूडाचन्द्रार्धसहितं चतुर्थस्वरसंयुतम् || ३ || इदं कामेश्वरं बीजमन्त्रं सर्वार्थसाधनम् | स्थानाभ्युक्षणयन्त्रादि पात्रन्यासादिकं यथा || ४ || भूतापसारणादींश्च वैष्णवीतन्त्रभाषितान् | तथोक्तानुत्तरे यन्त्रे गृह्णीयात् साधकोत्तमः || ५ || प्राणायामत्रयं कुर्याद् दहनं प्लवनं तथा | विशेषमण्डलं चास्याः शृणु वेताल भैरव || ६ || षट्कोणं मण्डलं कुर्याद्रक्तवर्ण तु चिन्तयेत् | विभेद्य शक्त्या शम्भुं तु त्रिपुरातन्त्रवद् बुधः || ७ || ततः शक्तिं शम्भुनापि भेदयेत् क्रमतः सुधीः | ऐशान्यादिनैर्-ऋतान्तां रेखां कृत्वाथ दक्षिणे दक्षिणे तु कामरूपं तु पूर्वतः || ११ || देव्या द्वादशगुह्यानि यानि द्वादशभिः करैः | लिखेन्मण्डलकोणेषु तानि दिक्षु त्रयं त्रयम् || १२ || षड्भिः षड्भिस्तु रेखाभिः कर्तव्यो मण्डलक्रमः | अन्यदुत्तरतन्त्रोक्तं वैष्णवीतन्त्रभाषितम् || १३ || मण्डलस्य क्रमं सर्वं विद्धि वेताल भैरव | ओं क्लीं मण्डलतत्त्वाय नम इत्यत्र मण्डलम् || १४ || पूजयेत् प्रथमं ध्यात्वा मण्डलं योगपीठकम् | पीठे शिलायां विलिखेन्मण्डलं योनिमण्डलम् || १५ || त्रिकोणं विलिखेत् पश्चाद् वेष्टयेत् कमलेन तु | रूपं तु चिन्तयेद् देव्याः कामेश्वर्या मनोहरम् || १६ || प्रभिन्नाञ्जनसङ्काशां नीलस्निग्धशिरोरुहाम् | षड्वक्त्रां द्वादशभुजामष्टादशविलोचनाम् || १७ || प्रत्येकं षट्सु शीर्षेषु चन्द्रार्धकृतशेखराम् | मणिमाणिक्यमुक्तादिकृतमालामुरःस्थले || १८ || कण्ठे च बिभ्रतीं नित्यं सर्वालङ्कारमण्डिताम् | पुस्तकं सिद्धसूत्रं च पञ्चबाणं तु तं तथा || १९ || खड्गं शक्तिं च शूलं च बिभ्रतीं दक्षिणैः करैः | अक्षमालां महापद्मं कोदण्डं चाभयं तथा || २० || चर्म पश्चात् पिनाकं च बिभ्रतीं वामपाणिभिः | शुक्लं रक्तं च पीतं च हरितं कृष्णमेव च || २१ || विचित्रं क्रमतः शीर्षमैशान्यां पूर्वमेव च | दक्षिणं पश्चिमं चैव तथैवोत्तरशीर्षकम् || २२ || मध्यं चेति महाभाग क्रमाच्छीर्षाणि वर्णतः | शुक्लं माहेश्वरीवक्त्रं कामाख्यारक्तमुच्यते || २३ || त्रिपुरा पीतसङ्काशा शारदा हरिता तथा | कृष्णं कामेश्वरीवक्त्रं चण्डायाश्चित्रमिष्यते || २४ || धम्मिल्लसंयतकचं प्रतिशीर्षं प्रकीर्तितम् | सिंहोपरिसितप्रेतं तस्मिंल्लोहितपङ्कजम् || २५ || कामेश्वरी स्थिता तत्र ईषत्प्रहसितानना | विचित्रांशुकसंवीतां व्याघ्रचर्माम्बरां तथा || २६ || एवं कामेश्वरीं ध्यायेद् धर्मकामार्थसिद्धये | पीठेऽन्यत्राथवादेव्याः पूजायां कथ्यते क्रमः || २७ || पीठे विशेषो वक्तव्यः सामान्ये त्वन्यदिष्यते | अङ्गुष्ठादिक्रमादेव संयोज्याथ युगं युगम् || २८ || मूलमन्त्रस्याक्षरेण दीर्घस्वरयुतेन च | षड्भिराद्यैर्न्यसेत् पूर्वमङ्गुलीयकमेव च || २९ || हृच्छिरस्तु शीर्षवर्मनेत्रास्त्राणि पुनस्तथा | न्यसेद् दक्षिणहस्तेन षड्भिर्मन्त्रैस्तथा क्रमात् || ३० || आस्यं बाहुयुगं कुक्षि गुह्यं जानुयुगं तथा | पादयुग्मं क्रमात् तेस्तु षड्भिर्मन्त्रैन्यसेत् तथा || ३१ || अष्टधा मूलमन्त्रं तु जप्त्वाथार्घाहिते जले | तेनोपकरणं देयं चाभ्युक्ष्य क्रममारभेत् || ३२ || दैशिकः पूजयेद् देवीं पीठेनादैशिकः क्वचित् | तस्यैव हि करस्पर्शाद् देवी नोद्विजते शिवा || ३३ || यदि देशान्तराद् यातः पीठं देशान्तरं प्रति | तद्दैशिकोपदेशेन तदा पूजां समारभेत् || ३४ || यद्यन्यतः समायाता कामरूपादृते नरः | तद्देशजोपदेशेन सम्पूज्यफलमाप्नुयात् || ३५ || यस्मिन् देशे तु यः पीठ ओड्रपाञ्चालकादिषु | तद्देशजोपदेशेन पूज्यः पीठे सुरो नरैः || ३६ || इतोऽन्यथा पूजने न सम्यक् फलमवाप्नुयात् | महाविभवसम्पूर्णैर्विहितेनैव भैरव || ३७ || अनुक्तो यः क्रमश्चात्र वैष्णवीतन्त्रगोचरे | तथैवोत्तरतन्त्रेऽपि प्रोक्तो ग्राह्यस्तु साधुकैः || ३८ || पूर्वद्वारि प्रथमतः कामतत्त्वं प्रपूजयेत् | दक्षिणे प्रीतितत्त्वं तु रतितत्त्वं च पश्चिमे || ३९ || उत्तरे मोहनं तत्त्वं क्रमादेतानि पूजयेत् | ऐशान्यां पूजयेद् देव गणेशं द्वारपालकम् || ४० || अग्नौ तु चाग्निवेतालं नैर्-ऋत्यां कालमेव च | वायव्यां नन्दिनं चापि पूजयेत् क्रमतस्त्विमान् || ४१ || चतुष्कं पञ्चकं षट्कं चतुष्कं पञ्चकं चतुः | षट्कारं चैव यो वेद स योग्यः पीठपूजने || ४२ || ओड्राख्यं प्रथमं पीठं द्वितीयं जालशैलकम् | तृतीयं पूर्णपीठं तु कामरूपं चतुर्थकम् || ४३ || ओड्रपीठं पश्चिमे तु तथैवोड्रेश्वरी शिवाम् | कात्यायनीं जगन्नाथमोड्रेशं च प्रपूजयेत् || ४४ || उत्तरे पूजयेत् पीठं प्रशस्तं जालशैलकम् | जालेश्वरं महादेवं चण्डीं जालेश्वरीं तथा || ४५ || दीर्घिकां चोग्रचण्डां च तत्रैव परिपूजयेत् | दक्षिणे पूर्णशैलं तु तथा पूर्णेश्वरीं शिवाम् || ४६ || पूर्णनाथं महानाथं सरोजामथ चण्डिकाम् | पूजयेद् दमनीं देवीं शान्तामपि तथा शिवाम् || ४७ || कामरूपं महापीठं तथा कामेश्वरीं शिवाम् | नीलं च पर्वतश्रेष्ठं नाथं कामेश्वरं तथा || ४८ || पूजयेद् द्वारि पूर्वे तु क्रमादेतांस्तु भैरव | औड्रादीनां तु पीठानां क्षेत्रपालान् गुरूंस्तथा || ४९ || अन्यांस्तु द्वारपालादीन् स्वे स्वे स्थाने प्रपूजयेत् | विशेषात् कामरूपस्य कामेश्वरीं प्रपूजयन् || ५० || आनेव नीलशैलस्थान् शृणु वेताल भैरव | नाथः कामेश्वरो देवो देवी कामेश्वरी तथा || ५१ || करालः क्षेत्रपालाश्च चिञ्चावृक्षस्तथैव च | त्रिकूटे नीलशैलस्तु गुहा चापि मनोभवा || ५२ || बटुकः कम्बलो नाम वल्ली चैवापराजिता | भैरवः पाण्डुनाथश्च श्मशानं हेरुकाह्वयम् || ५३ || योगिनी च महोत्साहा तथा चन्द्रवती पुरी | लौहित्यो नदराजश्च प्रान्ता दिक्करवासिनी || ५४ || जल्पीशाख्यस्तु वायव्यां केदाराख्योऽथ राक्षसे | एतान् सम्पूजयेद् द्वारि तथा देव्यास्तु मण्डले || ५५ || द्वारपालो योगिनी च बटुकाद्या यथा तथा | कामरूपे पीठवरे ओड्रादिष्वथ तत् तथा || ५६ || मध्ये तु मण्डलस्याथ द्रावणं शोषणं तथा | बन्धनं मोहनं चैव तथैवाकर्षणाह्वयम् || ५७ || मनोभवस्य बाणांस्तु पश्चैतान् परिपूजयेत् | षट्कोणाग्रेषूत्तरादौ भगादिषट्कमेव च || ५८ || त्रिपुरातन्त्रमन्त्रोक्तं पूजयेत् क्रमतः सुधीः | गणाक्रीडादिकं तद्वत् तथा विद्याकलादिकान् || ५९ || बटुकान् सिद्धपुत्रादीन सिद्धाद्याश्च कुमारिकाः | चतुश्चतुष्कमित्येतच्चतुष्कमिति चोच्यते || ६० || कामं रतिं च प्रीतिं च अनङ्गमेखलादिकम् | सप्त वै त्रिपुरघ्नाद्या असिताङ्गादयो नवे || ६१ || माहेश्वर्यादिका देव्यो दशभिः पञ्चभिगणैः | द्वितीयं पञ्चकं प्रोक्तं पीठे कामफलप्रदम् || ६२ || आधारशक्तिमुख्या ये नित्यं तत्र प्रतिष्ठिता | धर्माद्याश्च तथैवाष्टौ तथा सत्त्वादिका गुणाः || ६३ || एकत्र ग्रहदिक्पालाश्चतुष्कमपरं स्मृतम् | देव्यास्तथोग्रचण्डाद्या नायिकाः परिपूजयेत् || ६४ || पूर्वोक्तदेशे मन्त्रेण भक्त्या वेताल भैरव | आवाहनं षोडशोपचाराणां प्रतिपादनम् || ६५ || जपं च बलिदानं च अङ्गास्त्राणां प्रपूजनम् | मुद्रा पूर्वा विसृष्टिश्च षट्कमेतत् प्रकीर्तितम् || ६६ || एतानि सप्त जानाति प्रकारान् पूजकः सुधीः | स एवोड्रादिपीठानि सम्पूजयितुमर्हति || ६७ || योऽज्ञात्वा सम्यगेतानि कुरुते पीठपूजनम् | न सम्यक् फलमाप्नोति हीनायुरपि जायते || ६८ || त्रिपुरातन्त्रमन्त्रोक्तस्थानेष्वेतेषु भैरव | पूजयित्वा प्रथमतः पूजयेत् परमेश्वरीम् || ६९ || कामेश्वरि इहागच्छ सम्मुखी भव चेश्वरि | चिन्तयित्वाथ मनसाऽभ्यर्च्य कामेश्वरीं हृदि || ७० || मानसैर्गन्धपुष्पाद्यैस्ततो दक्षिणनासया | निःसार्य वायुं तत् पुष्पमारोप्य मण्डलान्तरे || ७१ || आवाहयेन्महादेवीं सर्वकामेश्वरेश्वरीम् | कामेश्वरि इहागच्छ सम्मुखी भव सन्निधौ || ७२ || कामेश्वरि विद्महे त्वां कामाख्ययै च धीमहि | तन्नः कुब्जि महामाये ततः पश्चात् प्रचोदयात् || ७३ || एह्येहि भगवत्यम्ब लोकानुग्रहकारिणि | कामेशे कामरूपे त्वं कामकान्ते प्रसीद मे || ७४ || ततस्तु प्रथम स्नानं जलं दत्त्वा तु पूजकः | मूलमन्त्रेण वितरेदुपचारांस्तु षोडश || ७५ || पूजयेन्मध्यभागे तु षडङ्गानि ततोऽर्चयेत् | अङ्गन्यासे तु ये मन्त्राः क्रमे पूर्वं तु भाषिताः || ७६ || तैरेव मन्त्रैरङ्गानि देव्या अपि च पूजयेत् | पूर्वाद्यष्टदलेष्वेता योगिनीः परिपूजयेत् || ७७ || यथाक्रमेण कामानां सिद्ध्यर्थं कामदायिकाः | गुप्तकामां तु श्रीकामां तथैव विन्ध्यवासिनीम् || ७८ || कोटेश्वरीं वनस्थां तु योगिनीं पादचण्डिकाम् | दीर्घेश्वरीं तु प्रकटां भुवनेशीं क्रमाद् यजेत् || ७९ || वैष्णवीतन्त्रमन्त्रस्य यान्यष्टावक्षराणि तु | तानि बिन्द्बन्दुयुक्तानि मन्त्रन्यासांश्च च प्रक्षते || ८० || मन्त्रेषु षण्णां कोणानां षडिमाः परिपूजयेत् | ऐशान्यादिक्रमेणैव कामाख्यां त्रिपुरां तथा || ८१ || शारदां च महोत्साहां प्रकटां भुवनेश्वरीम् | सिद्धकामेश्वरीं चापि देव्या रूपाणि भैरव || ८२ || अष्टपुष्पिकया देवीं पुनः सम्पूज्य चाष्टधा | जप्त्वा स्तुत्वा बलिं दत्त्वा नत्वा मुद्रां प्रदर्श्य च || ८३ || देव्यास्तु सिद्धचण्ड्या वै निर्माल्यं प्रतिपाद्य च | विसृज्य मण्डलाद् देवीं स्थापयेद् योनिमण्डले || ८४ || एतत् कामेश्वरीतन्त्रं कथितं युवयोः सुतौ | शारदाया महातन्त्रं समन्त्रं शृणु भैरव || ८५ || इति श्रीकालिकापुराणे त्रिपुरापूजनं नाम चतुःषष्टितमोऽध्यायः || ६४ || पञ्चषष्टितमोऽध्यायः श्रीभगवानुवाच शरत्काले पुरा यस्मान्नवम्यां बोधिता सुरैः | शारदा सा समाख्याता पीठे लोके च मानव || १ || तस्यां तु नेत्रबीजाख्यं मन्त्रं प्राक् प्रतिपादितम् | दुर्गातन्त्रं च तन्मन्त्रमङ्गमन्त्रं पुरोदितम् || २ || ताभ्यामेव तु मन्त्राभ्यां पूजयेत् तां जगन्मयीम् | तृतीयं पीठमन्त्रं तु शारदाया अनुत्तमम् || ३ || शृणुतं चैकमनसा चतुर्वर्गप्रदयाकम् | चतुर्थस्वरसंयुक्तमुपान्तो वह्निना युतः || ४ || कामराजं तथा नान्तमुपान्तस्वरसंयुतम् | वह्निना चापि सन्दीप्तः सर्वबिन्द्बिन्दुसंयुतः || ५ || हादिः समाप्तिसहित एतद्बीजं चतुर्थकम् | चतुर्भिरेभिः कथितो मन्त्रोक्तैश्च षडक्षरैः || ६ || अयं तृतीयो मन्त्रस्तु शारदायाः प्रकीर्तितः | अनेन पूजयेत् पीठे सर्वसिद्धिमवाप्नुयात् || ७ || रूपमस्याः पुरा प्रोक्तं सिंहस्थं दशबाहुभिः | तत्र पूजाक्रमं सम्यक् शृणुतं पुत्रकौ मम || ८ || चतुर्द्वारमण्डलं तु कुर्यात् तत्र विभूतये | महामायामण्डलं तु शारदायस्तु मण्डलम् || ९ || वैष्णवीतन्त्रकल्पोक्तैर्मन्त्रस्थानादिमार्जनम् | कृत्वा तु नेत्रबीजेन मण्डलं प्रस्तरे लिखेत् || १० || योनावष्टदलं कृत्वा त्रिकोणं मध्यतो न्यसेत् | अयं विशेषः कथितो वैष्णवीमण्डलात् पुनः || ११ || मण्डलोल्लेखनं चैव तथा भूतापसारणम् | पात्रस्य प्रतिपत्तिस्तु अमृतीकरणं तथा || १२ || गन्धपुष्पाम्भसां क्षेप आत्मासनप्रपूजनम् | प्राणायामश्च त्रिविधो भूतिशुद्धिप्रवेशनम् || १३ || दहनप्लवने चैव पाणिकच्छपिका तथा | योगपीठस्य च ध्यानं वैष्णवीतन्त्रभाषितम् || १४ || तथैवोत्तरतन्त्रोक्तं कुर्याद् देव्याः प्रपूजनम् | अमृतीकरणं कुर्यात् सलिले धेनुमुद्रया || १५ || रूपं त्वेवं दशभुजं पूर्वोक्तं तु विचिन्तयेत् | अङ्गन्यासकरन्यासौ दुर्गातन्त्रेण भैरव || १६ || नवाक्षरेण वै कुर्यादङ्गुष्ठादि क्रमेण तु | हृदयादिक्रमात् पश्चाद् वक्त्रादावपि पूर्ववत् || १७ || एतदेवार्धपात्रे चाष्टधा मन्त्रं जपेत् सुधीः | तत् तोयैः सेचयेच्छीर्षं पुष्पगन्धादिकं तथा || १८ || एवं पूजाक्रमं तत्र कुर्याद् देव्यास्तु मण्डले | आदित्यं चण्डिकारूपं ध्यात्वा पूर्वे शिलातले || १९ || तस्मै निवेदयेदर्घ्यं सिद्धार्थाक्षतपुष्पकैः | आधारशक्तिप्रभृतीन् क्लीं मन्त्रेण च साधकः || २० || पूजयेत् प्रथमं मध्ये धर्मादीनपि पूर्ववत् | सत्त्वादीन् गुरुपादान्तान् पूर्वतन्त्रोदितान् बुधः || २१ || पूजयेन्मध्यपद्मे तु सुमेरुमपि मध्यतः | पूर्वभागे मण्डलस्य देव्याः शक्तीः प्रपूजयेत् || २२ || नाथकामेश्वरादींस्तु लौहित्यान्तान् विशेषतः | सर्वान् वै पीठदेवांस्तु मण्डलस्योत्तरे यजेत् || २३ || मणिकर्णं चित्ररथं भस्मकूटं तथैव च | श्वेतं नीलं च चित्रं च वाराहं गन्धमादनम् || २४ || मणिकूटं नन्दनं च पश्चिमे पूजयेदिमान् | जल्पीशमथ केदारं देवीं दिक्करवासिनीम् || २५ || धात्रीं स्वधां तथा स्वाहां मानस्तोकापराजिते | दक्षिणे पूजयेदेताश्चतुःषष्टिं च योगिनीः || २६ || ग्रहांश्च दशदिक्पालान् पूर्वाद्युक्तक्रमेण तु | पूर्ववत् पूजयेद् धीमान् भैरव भैरवीमपि || २७ || ततः कच्छपिकां बद्ध्वा पुनरेव तु पूजकः | ध्यायेच्च पूर्ववद् देवीं हृदिस्थां मनसापि च || २८ || मानसैर्गन्धपुष्पाद्यैः पूजयित्वा हृदि स्थिताम् | नासापुटेन निःसार्य दक्षिणेनाथ मण्डले || २९ || पुष्पमारोप्य कामाख्यां शारदामाह्वयेन्मुहुः | एह्येहि परमेशानि सान्निध्यमिह कल्पय || ३० || पूजाभागं गृहाणेमं मखं रक्ष नमोऽतु ते | दुर्गे दुर्गे इहागच्छ सर्वैः परिकरैः सह || ३१ || पूजाभागं गृहाणेम मखं रक्ष नमोऽस्तु ते | नारायण्यै विद्महे त्वां चण्डिकायै तु धीमहि || ३२ || शेषभागे तु गायत्र्यास्तन्नश्चण्डि प्रचोदयात् | दत्त्वा स्नानमनेनैव दुर्गा तन्त्रण वै पुनः || ३३ || नेत्रबीजेन च तथा पीठमन्त्रेण चान्तरम् | चतुरक्षरेण शेषेण त्रिभिर्मन्त्रैः प्रपूजयेत् || ३४ || चतुरक्षरमन्त्रेण पाद्यादीनथ षोडश | वितरेदुपचारांस्तु पूर्वोक्तांस्तांस्तु भैरव || ३५ || दुर्गातन्त्रेण मन्त्रेण देव्यङ्गानि प्रपूजयेत् | दुर्गेत्यनेन हृदयं पुनर्दुर्गेत्यनेन कम् || ३६ || शिखाकवचनेत्रञ्च पादपादांश्च पञ्चभिः | वादिपञ्चाक्षरैः शेषैः पूजयेत् क्रमतः सुधीः || ३७ || पूर्वाद्यष्टदलेष्वेताः पूजयेन्नाधिकक्रमात् | जयन्तीं पूर्वपत्रे तु आग्नेययादौ तु मङ्गलाम् || ३७ || कालीं च भद्रकालीं च तथा चैव कपालिनीम् | दुर्गां शिवां क्षमां चैव क्रमादेव तु नामतः || ३८ || केशवस्य तु मध्ये तु अष्टावेतास्तु नायिकाः | नेत्रबीजस्य मन्त्रेण बीजेन षट्सु नायिकाः || ४० || अमीषां च तथवासौ षड्भिरेतान्तराहितैः | ह्रां ह्रां श्रीमित्युपान्तां तु प्रान्तामाद्यस्वरेण वै || ४१ || उग्रचण्डां प्रचण्डां च चण्डोग्रां चण्डनायिकाम् | चण्डां चण्डवतीं चैव चण्डरूपां च चण्डिकाम् || ४२ || त्रिकोणकेशरान्तं च कामं प्रीतिं रतिं तथा | पञ्चबाणान् पुष्पधनुः पूजयेत् काममन्त्रकैः || ४३ || अष्टपुष्पिकया पश्चात् सम्पूज्य परमेश्वरीम् | देव्यास्तु करगृह्याणि शस्त्राण्यस्त्राणि वाहनम् || ४४ || पञ्चाननं केशरं च देव्यग्रे तु प्रपूजयेत् | पीठदेवीं शारदां तु कामाख्यामधिदेवताम् || ४५ || त्रिपुराख्यां महादेवीं पीठमत्यधिदेवताम् | कामेश्वरीं महोत्साहां मध्य एव प्रपूजयेत् || ४६ || चतुरक्षरमन्त्रेण दद्यात् पुष्पाञ्जलित्रयम् | जप्त्वा स्तुत्वा बलिं दत्त्वा नमस्कृत्यावगुण्ठ्य च || ४७ || योनिमुद्रां प्रदर्श्याथ निर्माल्यं दिशि शूलिनः | चण्डेश्वर्यै नमः इति निक्षिप्य च विसर्जयेत् || ४८ || ततस्तु भास्करायार्घ्यं दद्याच्छिद्रावधारणम् | देवीं च हृदये स्थाप्य स्थापयेद् योनिमण्डले || ४९ || एवं देवी तु कामाख्यां योनिमुद्रां जगन्मयीम् | शारदाख्यां महादेवीं योगेन विधिना यजेत् || ५० || सर्वकामान् सुसम्प्राप्य शिवलोकमवाप्नुयात् | यदि पीठं विनान्यत्र पूजयेत् कामरूपिणीम् || ५१ || नीलकूटे तदाप्येतत् सर्वमेव समाचरेत् | यदान्यत्र यजेद् देवीं जले वा स्थण्डिलेऽपि वा || ५२ || शिलादिषु च वह्नौ वा देवपीठे यथेच्छया | यजेद् वा न यजेद् वापि पीठेऽवश्यं प्रपूजयेत् || ५३ || एवं यः पञ्चभिर्मन्त्रैः पञ्चमूर्तिधरां शिवाम् | एकैकेनाथ वा तस्य स्वयं स्याद् वरदायिका || ५४ || विघ्ना न तस्य जायन्ते नाधयो व्याधयस्तथा | न तस्य सदृशोऽन्यः स्याद् धनधान्यसमृद्धिभिः || ५५ || गवां कोटिप्रदानात् तु यत्फलं जायते नृणाम् | तत्फलं समवाप्नोति कामाख्यां पूजयन्नरः || ५६ || दशपूर्वान् दशपरान् वंशानुद्धृत्य पापतः | सकृत् सम्पूजनेनैव मम लोकमवाप्नुयात् || ५७ || द्विः सम्पूज्य महादेवीं कामाख्यां योनिमण्डले | शतं वंश्मान् समुद्धृत्य देवीलोकमवाप्नुयात् || ५८ || यस्त्रिवारान् पूजयेत् तु विधिनानेन मानवः | नीलपर्वतमारुह्य कामाख्यां योनिमण्डले || ५९ || स सहस्रं तु वंशानामुद्धृत्य पापकोषतः | इहलोके सुखैश्वर्यचिरायुष्यमवानुयात् || ६० || देहान्ते मद्गृहं प्राप्य गणानामधिपो भवेत् | यस्यां कस्यामथाष्टम्यां नवम्यां वापि साधकः || ६१ || पञ्चरूपां तु कामाख्यां पञ्चमन्त्रैः सतन्त्रकैः | पूजयेद् वरदां देवीं मण्डलैश्च पृथक् पृथक् || ६२ || ध्यात्वा तु पञ्चरूपाणि जप्त्वा मन्त्रांश्च पञ्च वै | कल्पकोटिसहस्राणि मम लोके च मानवः || ६३ || स्थित्वा देवीप्रसादेन परे निर्वाणमाप्नुयात् | इह लोके वाञ्छितार्थं सुखं प्राप्य यशस्तथा || ६४ || रिपूञ्जित्वा स धर्मात्मा मातङ्गानिव केसरी | चिरायुः पुत्रपौत्रैश्च विभवैश्च समन्वितः || ६५ || क्रीडयित्वा ह्यमरवद् युवतीभिश्च सादरात् | यक्षरक्षःपिशाचानां नेता भवति नित्यशः | सर्वान् कामानवाप्यैव द्विजराजसमो भवेत् || ६६ || इति श्रीकालिकापुराणे पञ्चषष्टितमोऽध्यायः || ६५ || षट्षष्टितमोऽध्यायः और्व उवाच एतत्तन्त्रं समस्तं तु श्रुत्वा वेतालभैरवौ | पप्रच्छतुस्त्र्यम्बकं च हर्षोत्फुल्लविलोचनौ || १ || वेतालभैरवावूचतुः कामाख्यायाः श्रुतं तन्त्रं साङ्गं युष्मत्प्रसादतः | नमस्कारं तथा मुद्रां बलिदानं तथैव च || २ || तथैव मातृकान्यासं पूजायां चान्यतः क्रमम् | एतत् सर्वं समाचक्ष्व विस्तरेण जगत्प्रभो | शृण्वतो नहि नौ तृप्तिर्जायते मोदभूमिषु || ३ || श्रीभगवानुवाच वक्ष्यामि यदहं पृष्टो भवद्भ्यां पुत्रकोत्तमौ | शृणुतं नरशार्दूलावेकाग्रमनसाधुना || ४ || त्रिकोणमथ षट्कोणमर्धचन्द्रं प्रदक्षिणम् | दण्डमष्टाङ्गमुग्रं च सप्तधा नतिलक्षणम् || ५ || ऐशानी वाथ कौबेरी दिक् कामाख्याप्रपूजने | प्रशस्ता स्थण्डिलादौ च सर्वमूर्तेश्च सर्वतः || ६ || त्रिकोणादिव्यवस्था तु यदि पूर्वमुखो यजेत् | पश्चिमाच्छाम्भवीं गत्वा व्यवस्थां निर्दिशेत् तदा || ७ || यदोत्तरामुखः कुर्यात् साधको देवपूजनम् | तदा याम्यां तु वायव्यां गत्वा कुर्यात् तु संस्थितिम् || ८ || दक्षिणाद् वायवीं गत्वा दिशं तस्माच्च शाम्भवीम् | ततोऽपि दक्षिणां गत्वा नमस्कारस्त्रिकोणवत् || ९ || त्रिकोणाख्यो नमस्कारस्त्रिपुराप्रीतिदायकः | दक्षिणाद् वायवीं गत्वा वायव्याच्छाम्भवीं ततः || १० || ततोऽपि दक्षिणां गत्वा तां त्यक्त्वाग्नौ प्रविश्य च | अग्नितो राक्षसीं गत्वा तत्पश्चादुत्तरां दिशम् || ११ || उत्तराच्च तथाग्नेयीं भ्रमणं द्वित्रिकोणवत् | षठ्कोणोऽयं नमस्कारः प्रीतिदः शिवदुर्गयोः || १२ || दक्षिणाद् वायवीं गत्वा तस्मादावृत्य दक्षिणम् | गत्वा योऽसौ नमस्कारः सोऽर्धचन्द्रः प्रकीर्तितः || १३ || सकृत् प्रदक्षिणं कृत्वा वर्तुलाकृति साधकः | नमस्कारः कथ्यतेऽसौ प्रदक्षिण इति द्विजैः || १४ || त्यक्त्वा स्वमासनस्थानं पश्चाद् दुर्गानमस्कृतिः | प्रदक्षिणं विना यातु निपत्य भुवि दण्डवत् || १५ || दण्ड इत्युच्यते देवैः सर्वदेवौघमोददः | पूर्ववद् दण्डवद् भूमौ निपत्य हृदयेन तु || १६ || चिबुकेन मुखेनाथ नासया हनुकेन च | रह्मरन्ध्रेण कर्णाभ्यां यद्भूमिस्पर्शनं क्रमात् || १७ || स चाष्टाङ्ग इति प्रोक्तो नमस्कारो मनीषिभिः | प्रदक्षिणत्रयं कृत्वा साधको वर्तुलाकृतिः || १८ || ब्रह्मरन्ध्रेण संस्पर्शः क्षितेर्यस्मान्नमस्कृतौ | स् उग्र इति देवौघैरुच्यते विष्णुतुष्टिदः || १९ || नदानां सागरो यद्वद् द्विपदां ब्राह्मणो यथा | नदीनां जाह्नवी यादृग् देवानामपि चक्रधृक् || २० || नमस्कारेषु सर्वेषु तथैवोग्रः प्रशस्यते | त्रिकोणाद्यैर्नमस्कारैः कृतैरेव तु भक्तितः || २१ || चतुर्वर्गं लभेद् भक्तो नचिरादेव साधकः | नमस्कारो महायज्ञः प्रीतिदः सर्वतः सदा || २२ || सर्वेषामेव देवानामन्येषामपि भैरव | योऽसावुग्रो नमस्कारः प्रीतिदः सतत हरेः || २३ || महामायाप्रीतिकरः स नमस्करणोत्तमः | उक्तास्तत्र नमस्काराः शृणुतं परतो युवाम् || २४ || मुद्राणां परिसंख्यानं स्वरूपं च यथाक्रमम् | धेनुश्च सम्पुटश्चैव प्राञ्जलिबिल्वपद्मकौ || २५ || नाराचो मुण्डदण्डौ च योनिरर्धं तथैव च | अन्दनी च महामुद्रा महायोनिस्तथैव च || २६ || भगश्च पुटकश्चैव निषङ्गोवाऽर्धचन्द्रकः | अङ्गश्च द्विमुखं चैव शङ्खमुद्रा च मुष्टिकः || २७ || वज्रं चैव तथा रन्ध्रं षड्योनिर्विमल तथा | घटः शिखरिणीतुङ्गः पुण्ड्रोऽथ ह्यर्धपुण्ड्रकः || २८ || सम्मिलनी च कुण्डश्च चक्रं शूलं तथैव च | सिंहवक्त्रं गोमुखं च प्रोन्नामोन्नमनं तथा || २९ || इम्बं पाशुपतं शुद्धं त्यागोऽथोत्सारिणी तथा | प्रसारिणी चोग्रमुद्रा कुण्डलीव्यूह एव च || ३० || त्रिमुखा चासिवल्ली च योगो भेदोऽथ मोहनम् | बाणो धनुश्च तूणीरं मुद्रा एताश्च सत्तमाः || ३१ || अष्टोत्तरशतं मुद्रा ब्रह्मणा याः प्रकीर्तिताः | तासां तु पञ्चपञ्चाशदेता ग्राह्यास्तु पूजने || ३२ || शेषास्तु यास्त्रिपञ्चाशन्मुद्रास्ताः समयेषु च | द्रव्यानयनसंकेत नटनादिषु ताः स्मृताः || ३३ || देवानां चिन्तने योगे ध्याने जप्ये विसर्जने | आद्यास्तु पञ्चपञ्चाशन्मुद्रा भैरव कीर्तिता || ३४ || मुद्रां बिना तु यज्जप्यं प्राणायामः सुरार्चनम् | योगो ध्यानासने चापि निष्फलानि च भैरव || ३५ || प्रत्येकं लक्षणं तेषां शृणुतं तनयौ युवाम् | दक्षिणामध्यमाग्रेण सव्यहस्तस्य तर्जनीम् || ३६ || योजयेत् सव्यम्ध्यां तु तर्जन्या दक्षिणेन वै | तथा दक्षिणानामिकया वामहस्तकनिष्ठिकाम् || ३७ || अनामिकां तु वामस्य दक्षिणस्य कनिष्ठया | योजयेद् भक्तिमान् सम्यग् दक्षिणावर्तनेन तु || ३८ || धेनुमुद्रा समाख्याता सर्वदेवस्य तुष्टिदा | संयोज्य द्वौ तलौ सर्वाण्यंगुल्यग्राणि हस्तयोः || ३९ || संयोज्य पाश्वतोऽङ्गुष्ठौ सम्पुटः प्रोच्यते सुरैः | सर्वेषामथ देवानां सम्पुटः प्रीतिदायकः || ४० || ध्यानचिन्तनयोगादौ सम्पुटः शस्यते सदा | निकुब्जयुगलं पाण्योस्तं संयोज्यार्ध एव च || ४१ || मध्यशून्यः पुटाकारः प्राञ्जलिः परिकीर्तितः | अङ्गुष्ठमन्तरं कृत्वा पाण्योमुष्टिं विधाय च || ४२ || संयोज्य बिल्ववत्ते तु बिल्वमुद्रा प्रकीर्तिता | मणिबन्धादाकरभं संयोज्य करयोर्दयोः || ४३ || अङ्गुष्ठे चापि संयोज्य तथैव च कनिष्ठिके | तिस्रस्तिस्रस्तयोः पाण्योरङ्गुलोर्विरलास्तथा || ४४ || पद्ममुद्रा समाख्याता चतुर्वर्गफला नृणाम् | अङ्गुष्ठाग्रेण तर्जन्या संयोज्याथोर्ध्वरेखया || ४५ || अन्याङ्गुलीस्तथानम्य नाराचः स्यात् प्रसार्य ते | मम चैव शिवायाश्च प्रीतिदेयं प्रियङ्करी || ४६ || नाराचमुद्रा सततं प्रीत्यै वेतालभैरव | अन्तराङ्गुष्ठमुष्टिं च कृत्वा वामकरस्य तु || ४७ || मध्यमाया दक्षिणस्य तथानम्य प्रयत्नतः | मध्यमेनाथ तर्जन्या अङ्गुष्ठाग्रं नियोज्य च || ४८ || दक्षिणं योजयेत् पाणिं वाममुष्टौ च साधकः | दर्शयेद् दक्षिणे भागे मुण्डमुद्रेयमिष्यते || ४९ || इयं तु गणनाथस्य प्रीतिदा मुद्रिकोत्तमा | सर्वेषामपि देवानां तुष्टिदा सर्वकर्मसु || ५० || अङ्गुष्टमध्यमादींश्च सम्यगानम्य तर्जनीम् | प्रसार्य दण्डमुद्रेति दक्षिणस्य करस्य च || ५१ || सर्वाङ्गुलीस्तु संयोज्य करयोरुभयोरपि | संवेष्ट्य रज्जुवद् वेति पाण्योरपि कनिष्ठिके || ५२ || वामस्यानाममूले वै उदग्रं विनियोजयेत् | दक्षस्य मध्यमामूले तथाग्रं वाममेव च || ५३ || योजयेद् योजनात् पश्चादावर्त्य करशाखिकाः | योन्याकारं तु तन्मध्यं योनिमुद्रा प्रकीर्तिता || ५४ || कामाख्यायाः पञ्चमूर्तेर्दुगाया अपि भैरव | प्रीतिदा योनिमुद्रेयं मम कामस्य च प्रिया || ५५ || संसक्ता अङ्गुलीः सर्वाः प्रसार्याङ्गुष्ठपर्वणा | अग्रेण च कनिष्ठाया अग्रेणापि च योजयेत् || ५६ || करस्य दक्षिणस्यैवमर्धयोनिः प्रकीर्तिता | महायोनिस्तु कथिता वैष्णवीतन्त्रणे वरे || ५७ || सम्पुटं प्राञ्जलिं वापि यदि शीर्षे प्रदर्शयेत् | वन्दनीया समख्याता मुद्रा विष्णुप्रमोदिनी || ५८ || सैव चेच्छ्रवणासक्ता महामुद्रा प्रकीर्तिता | दक्षिणाङ्गे तु सा सक्ता वैष्णवी परिकीर्तिता || ५९ || महायोनिस्तु कथिता वैष्णवी तन्त्रगोचरे | द्वयोस्तु मूलेऽङ्गुष्ठाग्रमङ्गुलीं च कनिष्ठयोः || ६० || नियोज्य प्रसृतीकृत्य दौ पाणी योजयेत् पुनः | भगमुद्रा समाख्याता लक्ष्मीवाणीशिवप्रिया || ६१ || सर्वाङ्गुलीनामग्रौघं दक्षिणस्य च | संयोज्यैकत्र पुरतो निर्देशः पुटकः स्मृतः || ६२ || कनिष्ठानामिकाङ्गुष्ठाङ्गुलीना योजयेद् बुधः | अग्राण्येकत्र मध्यां तु तर्जनीं च प्रसार्य वै || ६३ || कुब्जिकृत्य करद्वन्द्वं पृथगग्रे निदर्शयेत् | निःसङ्गनाममुद्रेयं नरसिंहवराहयोः || ६४ || कनिष्ठानामिकाध्यमाकुञ्चन् दक्षिणेन तु | करस्य तर्जन्यङ्गुष्ठे प्रसार्य क्रियते तु या || ६५ || सा मुद्रा ह्यर्धचन्द्राख्या ग्रहाणां प्रीतिदायिनी | ऊर्ध्वीकृत्य तथाङ्गुष्ठं करस्य दक्षिणस्य तु || ६६ || कृत्वा मध्यां तदङ्गुष्ठं वाममुष्टिं तथोर्ध्वतः | ऊर्ध्वाङ्गुष्ठां तथा कुर्यादङ्गमुद्रा प्रकीर्तिता || ६७ || एतस्या एव मुद्रायाः कनिष्ठादिवियोगतः | अष्टौ मुद्राः समाख्याता नाम तासां पृथक् शृणु || ६८ || द्विमुखं चैव मुष्टिं च वज्रमाबद्धमेव च | विमलश्च घटश्चैव तुङ्गः पुण्ड्रस्तथैव च || ६९ || नवानां विष्णुमूर्तिनां सार्धसङ्गेन मुद्रिकाः | क्रमान्नव समाख्याता नायिकानां तथैव च || ७० || संयोज्य करयोः पृष्ठे तथावर्त्य तु वै समम् | प्रसार्य तर्जनीयुग्मं संयुक्तं सर्वतः पुनः || ७१ || अङ्गुष्ठौ च तथासक्तौ शङ्खमुद्रा प्रकीर्तिता | उत्तानमञ्जलिं कृत्वा अङ्गुष्ठे द्वे कनिष्ठयोः || ७२ || मूले निक्षिप्य तु करौ संयोज्याथ प्रदर्शयेत् | सा योनिरिति विख्याता मुद्रा देवौघतुष्टिदा || ७३ || मुष्टिर्दक्षिणहस्तस्य यदोर्धाङ्गुष्ठिका भवेत् | सा स्याञ्छिखरिणीमुद्रा ब्राह्मीसूर्यप्रिया च सा || ७४ || अनामिके कनिष्ठे च संयोज्य वायुना पुनः | मध्यमा तर्जनीनां तु धेनुमुद्रेव बन्धनम् || ७५ || सार्धधेनुरिति ख्याता चन्द्रप्रीति विवर्धिनी | करयोरङ्गुलीनां तु सर्वाग्राण्येकतः स्थिता || ७६ || नियोज्य द्वे तले चैव तदधोऽपि नियोज्य च | कनिष्ठानामिकाङ्गुष्ठाङ्गुलीना योजयेद् बुधः | अग्राण्येकत्र मध्यां तु तर्जनीं च प्रसार्य वै || ६३ || कुब्जीकृत्य करद्वन्द्वं पृथगग्रे निदर्शयेत् | निःसङ्गनाममुद्रेयं नरसिंहवराहयोः || ६४ || कनिष्ठानामिकाध्यमाकुञ्चन् दक्षिणेन तु | करस्य तर्जन्यङ्गुष्ठे प्रसार्य क्रियते तु या || ६५ || सा मुद्रा ह्यर्धचन्द्राख्या ग्रहाणां प्रीतिदायिनी | ऊर्ध्वीकृत्य तथाङ्गुष्ठं करस्य दक्षिणस्य तु || ६६ || कृत्वा मध्यां तदङ्गुष्ठं वाममुष्टिं तथोर्ध्वतः | ऊर्ध्वाङ्गुष्ठां तथा कुर्यादङ्गमुद्रा प्रकीर्तिता || ६७ || एतस्या एव मुद्रायाः कनिष्ठादिवियोगतः | अष्टौ मुद्राः समाख्याता नाम तासां पृथक् शृणु || ६८ || द्विमुखं चैव मुष्टिं च वज्रमाबद्धमेव च | विमलश्च घटश्चैव तुङ्गः पुण्ड्रस्तथैव च || ६९ || नवानां विष्णुमूर्तिनां सार्धसङ्गेन मुद्रिकाः | क्रमान्नव समाख्याता नायिकानां तथैव च || ७० || संयोज्य करयोः पृष्ठे तथावर्त्य तु वै समम् | प्रसार्य तर्जनीयुग्मं संयुक्तं सर्वतः पुनः || ७१ || अङ्गुष्ठौच तथासक्तौ शङ्खमुद्रा प्रकीर्तिता | उत्तानमञ्जलिं कृत्वा अङ्गुष्ठे द्वे कनिष्ठयोः || ७२ || मूले निक्षिप्य तु करौ संयोज्याथ प्रदर्शयेत् | सा योनिरिति विख्याता मुद्रा देवौघतुष्टिदा || ७३ || मुष्टिर्दक्षिणहस्तस्य यदोर्धाङ्गुष्ठिका भवेत् | सा स्याञ्छिखरिणीमुद्रा ब्राह्मीसूर्यप्रिया च सा || ७४ || अनामिके कनिष्ठे च संयोज्य वायुना पुनः | मध्यमा तर्जनीनां तु धेनुमुद्रेव बन्धनम् || ७५ || सार्धधेनुरिति ख्याता चन्द्रप्रीति विवर्धिनी | करयोरङ्गुलीनां तु सर्वाग्राण्येकतः स्थिता || ७६ || नियोज्य द्वे तले चैव तदधोऽपि नियोज्य च | अग्रैरग्रैयोजयेत् तु मुद्रा सम्मीलनी तु सा || ७७ || भौमभूमिमुनीशानामियं प्रीतिविवर्धिनी | सर्वाङ्गुलीस्तु संयोज्य दक्षिस्य करस्य च || ७८ || कियद्भागं तथानम्य तलं कुर्यात् तु कुण्डवत् | समाख्याता कुण्डमुद्रा बुधवाणीशिवप्रिया || ७९ || सर्वाङ्गुलीनां मध्यं तु वामहस्तस्य चाङ्गुलीः | प्रसार्याङ्गुष्ठयुगलं संयोज्याग्रेण भैरव || ८० || तदङ्गुष्ठद्वयं कार्य सम्मुखं वितरेम् ततः | चक्रमुद्रा समाख्याता गुरुविष्णुशिवप्रिया || ८१ || अङ्गुष्ठं मध्यमां चैव नामयित्वा करस्य तु | दक्षिणस्य परास्तिस्रो योजयेदग्रतः पुनः || ८२ || शूलमुद्रा समाख्याता मम शुक्रग्रहप्रिया | निकुब्जीकृत्य तु करौ वामङ्गुलिगणस्य तु || ८३ || अग्राणि योजयेन्मध्ये तलस्यासव्यहस्ततः | अधःकृत्वा वामहस्तं मुद्रा सिंहमुखी स्मृता || ८४ || इयं प्रीत्यै तु दुर्गायाः सूर्यपुत्रस्य चक्रिणः | भगमुद्रा कर्णमूले गोमुखाख्या प्रकीर्तिता || ८५ || मम विष्णोस्तथा राहोः सर्वदा प्रीतिदायिनी | मुष्टिद्वयमथोत्तानं कृत्वा संयोज्य पार्श्वतः || ८६ || दक्षिणस्य कनिष्ठादीन प्रसार्य क्रमतः पुनः | तथा वामकनिष्ठाभ्यामेकैकेन प्रसारयेत् || ८७ || अष्टौ मुद्राः समाख्याता नामतः क्रमतः शृणु | प्रोल्लासोन्नमनं चैव विम्बं पाशुपतं तथा || ८८ || शुद्धं त्यागः सारणी च तथा चैव प्रसारणी | आकुञ्चकरशाखास्तु दक्षिणा सा तु मुद्रिका || ८९ || उग्रमुद्रा समाख्याता स्वहस्तस्य विपर्ययात् | इन्द्रादिलोकपालानां दशमुद्राः प्रकीर्तिताः || ९० || सर्वेषामेव देवानां परमप्रीतिवर्धनाः | अङ्गुष्ठाग्रं तु तर्जन्या अग्रे भागेन योजयेत् || ९१ || आकुञ्चमध्यमाद्यास्तु दक्षहस्तस्य चाङ्गुलीः | दशयेत् कुण्डलाकारं कुण्डलीशक्तितुष्टिदम् || ९२ || सर्वेषामपि देवानां यथा तुष्टिकरं महत् | अङ्गुष्ठतर्ज्नीमध्या अग्रभागं नियोज्य च || ९३ || मध्यमां च कनिष्ठां च आकुञ्च्य दक्षिणे करे | त्रिमुखाख्या समाख्याता विश्वदेवप्रिया सदा || ९४ || केतोः प्रियेयं सतत मातृणामपि तुष्टिदा | तर्जन्यङ्गुष्ठयोरग्रभागौ संयोज्य चाऽऽगुलीः || ९५ || अन्या आकुञ्चयेत् तिस्रः साऽसिवल्ली प्रकीर्तिता | पितृणामथ साध्यानां रुद्राणां विश्वकर्मणः || ९६ || सर्वदा प्रीतिजननी साऽसिवल्ली प्रकीर्तिता | पादौ तलाभ्यां संयोज्य तदङ्गुष्ठद्वयं यतः || ९७ || ऊर्ध्वं संयोजयेन्नाभौ तस्योपरि तथाञ्जलिः | योगमुद्रा समाख्याता योगिनां तत्त्वदायिनी || ९८ || सर्वेषामपि देवानां पूजने चिन्तने तथा | योगमुद्रा समाख्याता तुष्टप्रीतिकरी सदा || ९९ || प्राञ्जलिर्नाम् मुद्रा तु ऊर्ध्वाधो भावयोजिता | विभिद्य दर्शयेद्धस्तौ ऊर्ध्वाधः प्रसृतीकृतौ || १०० || भेदमुद्रा समाख्याता मम विष्णोविधेः प्रिया | अङ्गुष्ठे द्वे तु निक्षिप्य करयोरुभयोरपि || १०१ || अग्रेण योजयेत् पश्चात् कनिष्ठायुगलं ततः | उभयोर्हस्तयोश्चान्यास्तर्जन्याद्याश्च योजयेत् || १०२ || अग्राग्रैस्तु पृथक्कृत्य दर्शयेत् तु कनिष्ठिकाम् | मुद्रा सम्मोहनं नाम कामदुर्गारमाप्रिया || १०३ || सर्वेषामिह देवानां मोहनं प्रीतिदं स्मृतम् | आनम्यासव्यहस्तस्य मध्यमानामिके तथा || १०४ || तयोः पृष्ठे सुसंयोज्य अङ्गुष्ठाग्रं ततः परम् | कनिष्ठां तर्जनीं चैव अग्रेणायोजयेत् ततः || १०५ || बाणमुद्रा समाख्याता सर्वदेवस्य तुष्टिदा | सर्वाङ्गुलीस्तु सङ्कोच्य अङ्गुष्ठमथ तर्जनीम् || १०६ || प्रसार्य करयोः पश्चादङ्गुष्ठाग्रं तु योजयेत् | अछ्गुष्ठाग्रेण तर्जन्या अग्रेणापि च तर्जनीम् || १०७ || यथाशक्ति प्रसार्यापि धेनुमुद्रा प्रकीर्तिता | सर्वाङ्गुलीनामग्राणिब्राह्मे तीर्थे नियोजयेत् || १०८ || अनामिकायाः पृष्ठे तु अङ्गुष्ठाग्रं नियोज्य च | शून्यं तूणीरवत् कृत्वा तेषामन्तस्तु भैरव || १०९ || तूणीरमुद्रा चाख्याता सर्वेषां प्रीतिवर्धिनी | मुद्रासु संस्थिता पूजा सर्वेषु परिचिन्तनम् || ११० || मुद्रासु संस्थिता योगा मुद्रा मोदकरास्ततः | यदा यदा पुजनेषु चिन्तने ध्यानकर्मणि || १११ || यज्ञादौ स्तवने वापि हस्तकृत्यं न विद्यते | तदा मुद्रान्वितं कुर्यादिष्टापूर्ते करद्वयम् || ११२ || यज्ञकृत्येषु चेच्छक्तो हस्तो मुद्रासु च क्षमः | तदा मुद्रां विधायैव तत्तत् कृत्यं समाचरेत् || ११३ || मुद्राविमुक्तहस्तं तु क्रियते कर्म दैविकम् | कृत्वा तन्निष्फलं यस्मात् तन्मान्मुद्रान्वितो भवेत् || ११४ || विसर्जने तु देवानां यस्य या परिकीर्तिता | मुद्रां तां पूजनादौ तु तस्य नैव प्रयोजयेत् || ११५ || विसृज्योक्तामृते मुद्रां मुद्रायुक्तः समाचरेत् | पूजनादि समस्तं तु कर्मवृद्धौ विचक्षणः || ११६ || अतो मुद्रा परं नाम मुद्रा पुण्यप्रदायिनी | देवानां मोददा मुद्रा तस्मात् तां यत्नतश्चरेत् || ११७ || अर्धयोनिर्महायोनिर्योनिर्ब्राह्मी च वैष्णवः | मुद्रा विसर्जने प्रोक्ता शिवात्रिपुरयोः सदा || ११८ || दुर्गायाः सर्वरूपेषु मुद्रा एताः प्रकीर्तिताः | योनिं च सम्पुटं चैव महायोनिं तथैव च || ११९ || वर्जयित्वा व्यस्तभावादुक्तादन्यत्र योजयेत् | भवेद् यास्तु त्रिपञ्चाशदन्या मुद्राः समन्ततः || १२० || ता व्यस्तभावाद् वामाः स्युर्मुद्रा मोदकराः पराः | एवं वां कथिता मुद्राः पूजने पूज्यतुष्टिदा | क्रमस्तु बलिदानस्य शृणु वेतालभैरव || १२ || इति श्रीकालिकापुराणे मुद्राकथने षट्षष्टितमोऽध्यायाः || ६६ || सप्तषष्टितमोऽध्यायः श्रीभगवानुवाच क्रमस्तु बलिदानस्य स्वरूपं रुधिरादितः | यथा स्यात् प्रीतये सम्यक् तद् वां वक्ष्यामि पुत्रको || १ || वैष्णवीतन्त्रकल्पोक्तः क्रमः सर्वत्रः सर्वदा | साधकैर्बलिदानस्य ग्राह्यः सर्वसुरस्य च || २ || पक्षिणः कच्छपा ग्राहा मत्स्या नवविधा मृगाः | महिषो गोधिका गावश्छागो रुरुश्च शूकरः || ३ || खड्गश्च कृष्णसारश्च गोधिका शरभो हरिः | शार्दूलश्च नरश्चैव स्वगात्ररुधिरं तथा || ४ || चण्डिकाभैरवादीनां बलयः परिकीर्तिताः | बलिभिः साध्यते मुक्तिर्बलिभिः साध्यते दिवम् || ५ || बलिदानेन सततं जयेच्छत्रून्नृपान् नृपः | मत्स्यानां कच्छपानां तु रुधिरैः सततं शिवा || ६ || मासैकं तृप्तिमाप्नोति ग्राहैर्मासांस्तु त्रीनथ | मृगाणां शोणितैर्देवी नराणामपि शोणितैः || ७ || अष्टौ मासानवाप्नोति तृप्तिं कल्याणदा च सा | गोधिकानां ओरुधिरैर्वाषिकीं तृप्तिमाप्नुयात् || ८ || कृष्णसारस्य रुधिरैः शूकरस्य च शोणितैः | प्राप्नोति सततं देवी तृप्तिं द्वादशवार्षिकीम् || ९ || अजाविकानां रुधिरैः पञ्चविंशतिवार्षिकीम् | महिषाणां च खड्गानां रुधिरैः शतवार्षिकीम् || १० || तृप्तिमाप्नोति परमां शार्दूलरुधिरैस्तथा | सिंहस्य शरभस्याथ स्वगात्रस्य च शोणितैः || ११ || देवी तृप्तिमवाप्नोति सहस्रं परिवत्सरान् | मांसैरपि तथा प्रीति रुधिरैर्यस्य यावती || १२ || कृष्णसारं मृगं खड्गं तथा मत्स्यं च रोहितम् | वार्धीणसयुगं चापि फलं तेषां पृथक् पृथक् || १३ || कृष्णसारस्य मांसेन तथा खड्गेन चण्डिका | वर्षाणां च शतान्येव तृप्तिमाप्नोति केवलम् || १४ || रोहितस्य तु मत्स्यस्य मांसैर्वार्ध्रीणसस्य च | तृप्तिं प्राप्नोति वर्षाणां शतानि त्रीणि मत्प्रिया || १५ || ऋप्नुवन्त्विन्द्रियक्षीणं स्वेतं वृद्धमजापतिम् | वार्ध्रीणसः प्रोच्यतेऽसौ हव्ये कव्ये च सत्कृतः || १६ || नीलग्रीवो रक्तशीर्षः कृष्णपादः सितच्छदः | वार्ध्रीणसः स्यात्पक्षी च मम विष्णोरपि प्रियः || १७ || नरेण बलिना देवी सहस्रं परिवत्सरान् | विधिदत्तेन चाप्नोति तृप्तिं लक्षं त्रिभिर्नरैः || १८ || नरेणेवाथ मांसेन त्रिसहस्रं च वत्सरान् | तृप्तिमाप्नोति कामाख्या भैरवी मम रूपधृक् || १९ || मन्त्रपूतं शोणितं तु पीयूषं जायते सदा | मस्तकं चापि तस्यात्ति मांसं चापि तथा शिवा || २० || तस्मात् तु पूजने दद्याद् बलेः शीर्षं च लोहितम् | भोज्ये होमे च मांसानि नियुञ्जीयाद् विचक्षणः || २१ || पूजासु नाममांसानि दद्याद् वै साधकः क्वचित् | ऋते तु लोहितं शीर्षममृतं तत्तु जायते || २२ || कूष्माण्डभिक्षुदण्डं च मद्यमासवमेव च | एते बलिसमाः प्रोक्तास्तृप्तौ छागसमाः सदा || २३ || चन्द्रहासेन कर्त्र्या वा छेदनं मुख्यमिष्यते | दात्रासिधेनुक्रकचशंकुलाभिस्तु मध्यमम् || २४ || क्षुरक्षुरप्रभल्लैश्च वाधम परिकीर्तितम् | एभ्योऽन्यः शक्तिबाणाद्यैर्बलिश्छेद्यः कदापि न || २५ || नात्ति देवी बलि तत्तु दाता मृत्युमवाप्नुयात् | हस्तेन छेदयेद् यस्तु प्रोक्षित साधकः पशुम् || २६ || अक्षिणं वा ब्रह्मवध्यामवाप्नोति सुदुःसहाम् | नामन्त्र्य खण्डं तु बलिं नियुञ्जीत विचक्षणः || २७ || खड्गस्यामन्त्रणे मन्त्रा यावन्तः कथिताः पुरा | महामायाबलौ ते वै योज्यास्तत्रोदिता बुधैः || २८ || तैः सार्धमेते मन्त्रास्तु योज्याः खड्गादिमन्त्रणे | पूजने शारदादीनां कामाख्याया विशेषतः || २९ || द्विः कालीति ततो देव्या वज्रेश्वरिपदं ततः | ततोऽनु लौहदण्डायै नमः शेषे तु योजयेत् || ३० || सम्पूज्यानेन मन्त्रेण खड्गमादाय पाणिना | कालरात्र्यास्तु मन्त्रेण तं खड्गमभिमन्त्रयेत् || ३१ || नेत्रबीजस्य मध्यं तु द्विरावर्त्य प्रयोजयेत् | ततोऽनु कालिकालीति करालोष्ठी ततः परम || ३२ || हान्तादींश्च तृतीयेन स्वरेणैकादशेन वै | योजिता नादबिन्दुभ्यां द्वौ तत् पश्चान्नियोजयेत् || ३३ || फेत्कारिणिपदं तस्मात् खादयच्छेदयेत्यतः | सर्वान् दुष्टानिति ततो द्विर्मारय लुलायकम् || ३४ || खड्गेन छिन्धि छिन्धीति ततः किलकिलेति वै | ततः चिकिचिकीत्येवं ततः पिबपिबेति च || ३५ || ततोऽनु रुधिरं चेति स्फैं स्फैंकिरि किरीति च | कालिकायै नम इति काल रात्र्यास्तु मन्त्रकम् || ३६ || इत्यनेन तु मन्त्रेण करवालेऽभिमन्त्रिते | कालरात्री स्वयं तत्र प्रसीदत्यरिहानये || ३७ || बलेः पूर्वोदिता मन्त्रा नित्यं गुह्यास्तु साधकैः | अयं मन्त्रस्तु वक्तव्यस्तस्य हत्याविहानये || ३८ || यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा | अतस्त्वां धातयिष्यामि तस्माद् यज्ञे वधोऽवधः || ३९ || ततो दैवतमुद्दिश्य काममुद्दिश्य चात्मनः | छेदयेत् तेन खड्गेन बलिं पूर्वाननं तु तम् || ४० || अथवोत्तरवक्त्रं तं स्वयं पूर्वमुखस्तथा | पूर्वोक्तान् सैन्धवादींस्तु वक्त्त्रेऽवश्यं नियोजयेत् || ४१ || सौवर्णं राजत ताम्रं रैत्यं पत्रपुट च वा | माहेयं कांस्यमथवा यज्ञकाष्ठमयं च वा || ४२ || पात्रं रुधिरदानाय कर्तव्यं विभवावधि | न लौहे वल्कले वापि वैत्रे राङ्गेऽथ सैसके || ४३ || दद्याद्रक्तं बलीनां तु भूमौ स्रुचि स्रुवे तथा | न घटे भूतले वापि देयं क्षुद्रे न भाजने || ४४ || रुधिराणि प्रदद्यात्तु भूतिकामो नरोत्तमः | नरस्य तु सदा रक्तं माहैये तैजसेऽथ वा || ४५ || दद्यान्नरपतिस्तत्तु न पत्रादौ कदाचन | हयमेधमृते दद्यान्न कदाचिद्धयं बलिम् || ४६ || तथा दिक्पालमेधे तु गजं दद्यान्नराधिपः | न कदाचित् तदा देव्यै प्रदद्याद्धयहस्तिनौ || ४७ || हयाकर्षे चामरं तु बलिं दद्यान्नराधिपः | सिंहं व्याघ्रं नरं चापि स्वगात्ररुधिरं तथा || ४८ || न दद्यात् ब्राह्मणो मद्यं महादेव्यै कदाचन | सिंहं व्याघ्रन्नरं दत्वा ब्राह्मणो नरकं व्रजेत् || ४९ || इहापि स्यात् स हीनायुः सुखसौभाग्यवर्जितः | स्वगात्ररुधिरं दद्याच्चात्मवध्यामवाप्नुयात् || ५० || मद्यं दत्त्वा ब्राह्मणस्तु ब्राह्मण्यादेव हीयते | न कृष्णासारं वितरेद् बलिं तु क्षत्रियादिकः || ५१ || ददतः कृष्णसारं तु ब्रह्महत्या भवेद् यतः | यत्र सिंहस्य व्याघ्रस्य नरस्य विहितो वधः || ५२ || ब्रह्मणोक्ता तु बल्यादौ तत्रायं विहितः क्रमः | कृत्वा घृतमयं व्याघ्रं नरं सिंहं च भैरव || ५३ || अथवा पूपविकृतं यवक्षोदमयं च वा | घातयेच्चन्दहासेन तेन मन्त्रेण संस्कृतम् || ५४ || प्रभूतबलिदाने तु द्वौ वा त्रीन् वाग्रतः कृतान् | पूजयेत् प्रमुखान् कृत्वा सर्वान् मन्त्रेण साधकः || ५५ || सामान्यपूजा कथिता बलीनां पूर्वतो मया | विशेषो यत्रः यत्रास्ति तन्मत्तः शृणु भैरव || ५६ || महिषं प्रददेद् देव्यै भैरव्यै भैरवाय वा | अनेनैव तु मन्त्रेण तदा तं पूजयेद् बलिम् || ५७ || यथा वाहं भवान् द्वेष्टि यथा वहसि चण्डिकाम् | तथा मम रिपून् हिंस शुभं वह लुलायक || ५८ || यमस्य वाहनस्त्वं तु वररूपधराव्यय | आयुर्वित्तं यशो देहि कासराय नमोऽस्तु ते || ५९ || खड्गस्य तु यदा दानं क्रियते तन्त्रमन्त्रकम् | जलेनाभ्युक्ष्य कुर्वीत गुहाजातेति भाषयन् || ६० || दैवे पैत्रे च शुभगः खड्गस्त्वं खड्गसन्निभः | छिन्धि विघ्नान् महाभागे गुहाजात नमोऽस्तु ते || ६१ || प्रदाने कृष्णसारस्य मन्त्रोऽयं परिकीर्तितः | कृष्णसार ब्रह्ममूर्ते ब्रह्मतेजोविवर्धन || ६२ || चतुर्वेदमयं प्राज्ञ प्रज्ञां देहि यशो महत् | तथा शरभपूजायां मन्त्रमेतत् प्रकीर्तितम् || ६३ || त्वमष्टपादो विभ्रष्टचन्द्रभागसमुद्भव | अष्टमूर्ते महाबाहो भैरवाख्य नमोऽस्तु ते || ६४ || यथा भैरवरूपेण वराहो निहतस्त्वया | तथा शरभरूपेण रिपून् विघ्नान् निषूदय || ६५ || हरिस्त्वं हररूपेण यथा वहसि चण्डिकाम् | तथा शुभानि मे नित्यं बहुविघ्नांश्च सूदय || ६६ || त्वं हरिः सिंहरूपेण जगत्प्रत्यूहरूपिणम् | जघान येन सत्येन हिरण्यकशिपुं हरन् || ६७ || इत्येवं सिंहपूजायां क्रम उक्तो मयानघ | नरे स्वगात्ररुधिरे पर्यायं शृणु भैरव || ६८ || पीठे चेद् दीयते मर्त्यो बलिं दद्यात् श्मशानके | श्मशानं हेरुकाख्यं तु तत्पूर्वं प्रतिपादितम् || ६९ || कामाख्यानिलये शैले ओडादौ विद्धि तत् क्रमम् | मम रूपं श्मशानं तद् भैरवाख्यं च कथ्यते || ७० || तत्राङ्गत्वं तपःसिद्धौ त्रिभागां तु भविष्यति | पूर्वाङ्गे भैरवाख्ये तु समुत्सृष्टिर्नरस्य तु || ७१ || दक्षिणाङ्गे शिरो दद्याद् भैरव्या मुण्डमालया | रुधिरं पश्चिमाङ्गे तु हेरुकाख्ये नियोजयेत् || ७२ || दत्त्वा सम्पूज्य तु नरं विसृज्यागमनक्रमे | पीठश्मशानेषु बलिं नेक्षेत्तु बलिदीपकम् || ७३ || अन्यत्रापि यतो यत्र दीयते यन्महाबलिः | तत्राप्यन्यत्र चोत्सृज्यच्छित्वान्यत्र शिरोऽमृतम् || ७४ || नियोजयेत् साधकस्तु विसृज्य न विलोकयेत् | सस्नातं मनुजं दीप्तं पूर्वाह्णनियताशनम् || ७५ || मांसमैथुनभोग्येन हीनं स्रक्चन्दनोक्षितम् | कृत्वोत्तरामुखं तं तु तदङ्गेष्वङ्गदेवताः || ७६ || पूजयेत् तं तु नाम्ना तु दैवतेन च मानुषम् | तद्ब्रह्मरन्ध्रे ब्रह्माणं तन्नासायां च मेदिनीम् || ७७ || कर्णयोस्तु तथाकाशं जिह्वायां सर्वतोमुखम् | ज्योतींषि नेत्रयोर्विष्णुं वदने परिपूजयेत् || ७८ || ललाटे पूजयेच्चन्द्रं शक्रं दक्षिणगण्डतः | वामगण्डे तथा वह्निं ग्रीवायां समवर्तिनम् || ७९ || केशाग्रे निर्-ऋतिं मध्ये भ्रूवोश्चापि प्रचेतसम् | नासामूले तु श्वसनं स्कन्ध चापि धनेश्वरम् || ८० || हृदये सर्पराजं तु पूजयित्वा पठेदिदम् | नरवर्यं महाभाग सर्वदेवमयोत्तम || ८१ || रक्ष मां शरणापन्नं सपुत्रपशुबान्धवम् | सराज्यं मां सहामात्यं चतुरङ्ग समन्वितम् || ८२ || रक्ष परित्यज्य प्राणान्मरणे नियते सति | महातपोभिर्ज्ञानैश्च यज्ञैर्यत् साध्यतेऽमृतम् || ८३ || तन्मे देहि महाभाग त्वं चापि प्राप्नुहि श्रियम् | राक्षसाश्च पिशाचाश्च वेतालाद्याः सरीसृपाः || ८४ || नृपाश्च रिपवश्चान्ये न मां ते ध्नन्तु त्वत्कृते | त्वत्कण्ठनालगलितैः शोणितैरङ्गसंयुतैः || ८५ || आप्यायस्वात्मवन्मृत्वा मरणे नियते सति | एवं सम्पूज्य विधिवत् पूर्वतन्त्रैश्च पूजयेत् || ८६ || पूजितो मत्स्वरूपोऽयं दिक्पालाधिष्ठितो भवेत् | अधिष्ठितस्तथान्यैश्च ब्रह्माद्यैः सकलैः सुरैः || ८७ || कृतपापोऽपि मनुजो निष्पाप्मा स तु जायते | तस्य निष्कलुषस्याशु पीयूषं शोणितं भवेत् || ८८ || प्रीणाति च महादेवी जगन्माता जगन्मयी | सोऽपि कायं परित्यज्य मानुषं नचिरान्मृतः || ८९ || भवेद् गणानामधिपो मयापि बहुसत्कृतः | इतोऽन्यथा पापयुक्तं मलमूत्रवसायुतम् || ९० || तं बलिं न हि गृह्णाति कामाख्यान्यापि नामतः | अन्येषां महिषादीनां बलीनामथ पूजनात् || ९१ || कायो मेध्यत्वमायाति रक्तं गृह्णाति वै शिवा | अन्येभ्योऽपि च देवेभ्यो यदा यत्तु प्रदीयते || ९२ || तदर्चितं र्पदद्यात् तु पूजिताय सुराय वै | काणं पङ्गुं चातिवृद्धं रोगिणं च गलद्व्रणम् || ९३ || क्लीबं हीनाङ्गमथवा वृद्धलिङ्गं कुलक्षणम् | श्वित्रिणं चातिह्रस्वं च महापातकिनं तथा || ९४ || अद्वादशकवर्षीयं शिशु सूतकसंयुतम् | ऊर्ध्वं संवत्सराच्चापि महागुरुनिपातिनम् || ९५ || बलिकर्मणि चेतांस्तु वर्जयेत् पूजितानपि | पशूनां पक्षिणां वापि नराणां च विशेषतः || ९६ || स्त्रियं न दद्यात् तु बलीन् दत्त्वा नरकमाप्नुयात् | सङ्घातवलिदानेषु योषितं पशुपक्षिणः || ९७ || बलिं दद्यान्मानुषीं तु त्यक्त्वा सङ्घातपूजितम् | न त्रिमासीयकान्यूनं पशुं दद्याच्छिवाबलिम् || ९८ || न च त्रैपक्षिकान् न्यून प्रदद्याद् वै पतत्त्रिणम् | काणव्यङ्गादिदुष्टं तु न पशुं पक्षिणं तथा || ९९ || देव्यै दद्यात् तथा मर्त्यं तथैव पशुपक्षिणौ | छिन्नलाङ्गूलकर्णादीन् भग्नदन्तांस्तथैव च || १०० || भग्नशृङ्गादिकं वापि न दद्यात् तु कदाचन | न ब्राह्मणं बलिं दद्याच्चाण्डालमपि पार्थिव || १०१ || नोत्सृष्टं द्विजदेवेभ्यो भूपतेस्तनयं तथा | रणेन विजितं दद्यात्तनयं रिपुभूभृतः || १०२ || स्वपुत्रं भ्रातरं वापि पितरं चाविरोधिनम् | विट्पतिं च न दद्यात्तु भागिनेयं च मातुलम् || १०३ || अनुक्तान्नापि दद्यात् तु तथाज्ञातान् मृगद्विजान् | उक्तालाभे प्रदद्यात्तु गर्दभं चोष्ट्रमेव च || १०४ || लाभेऽन्येषां न वितरेद् व्याघ्रमुष्ट्रं खरं तथा | सम्पूज्य विधिवन्मर्त्यं पशुं पक्षिणमेव वा || १०५ || सञ्छिन्नं चापि मन्त्रेण मन्त्रेणैव निवेदयेत् | नारं मर्त्यशिरोरक्तं देव्याः सम्यग् निवेदयेत् || १०६ || छागं तु वामतो दद्यान्माहिषं वितरेत् पुरः | पक्षिणं वामतो दद्यादग्रतो देहशोणितम् || १०७ || क्रव्यादानां पशूनां तु पक्षिणां तु शिरोऽसृजम् | वामे निवेदयेत् पार्श्वे जलजानां च सर्वशः || १०८ || कृष्णसारस्य कूर्मस्य खड्गस्य शशकस्य च | ग्राहाणामथ मत्स्यानामग्र एव निवेदयेत् || १०९ || सिंहस्य दक्षिणे दद्यात् खड्गिनोऽपि च दक्षिणे | पृष्ठदेशे न दद्यात् तु शिरो वा रुधिरं वलेः || ११० || नैवेद्यं दक्षिणे वामे पुरतो ने तु पृष्ठतः | दीपं दक्षिणतो दद्यात् पुरतो वा न वामतः || १११ || वामतस्तु तथा धूपमग्रे वा न तु दक्षिणे | निवेदयेत पुरोभागे गन्धं पुष्पं च भूषणम् || ११२ || मण्डले चेन्मध्यभागे वामदक्षादिपूर्ववत् | मदिरां पृष्ठतो दद्यादन्यत् पानं तु वामतः || ११३ || अवश्यं विहित यत्र मद्यं तत्र द्विजः पुनः | नारिकेलजलं कांस्ये ताम्रे वा विसृजेन्मधु || ११४ || नापद्यपि द्विजो मद्यं कदाचिद् विसृजेदपि | ऋते पुष्पासवादुक्ताद गृञ्जनाद् वा विशेषतः || ११५ || राजपुत्रस्तथामात्यः सचिवः सौप्तिकादयः | दद्युर्नरबलिं भूप सम्पत्त्यै विभवाय च || ११६ || नृपाननुमते मर्त्यं दत्त्वा पापमवाप्नुयात् | उपप्लवे रणे वापि यथेच्छं वितरेन्नरम् || ११७ || यः कश्चिद्राजपुरुषो नान्यस्त्वपि कदाचन | बलिदानदिनात् पूर्वं दिवसे तु बलिं नरम् || ११८ || मानस्तोकेति मन्त्रेण देवीसूक्तेन येन च | गन्धद्वारेत्यनेनापि खड्गं शीर्षे निधाय च || ११९ || तस्मिन् खड्गे सुगन्धादि दत्त्वा तेनाधिवासयेत् | गन्धादिकं तु खड्गस्थं गले तस्य प्रदापयेत् || १२० || अम्बेऽम्बिकेति मन्त्रेण रौद्रेण भैरवस्य च | एवं तु संस्कृते मर्त्ये देवी रक्षति तं बलिम् || १२१ || न तस्य व्याधयश्चापि क्षुण्णतारजसी न च | न सूतकं दूषयेत्तज्ज्ञात्युत्पत्तिमृतादिकम् || १२२ || छिन्नं नरस्य शीर्षं तु पतितं यत्र यत्र च | यच्छुभं चाशुभं वापि पश्वादीनां च तच्छृणु || १२३ || छिन्नं शिरस्तथैशान्यां नारं दिश्यथ राक्षसे | पतितं राज्यहानिं च विनाशं च विनिर्दिशेत् || १२४ || पूर्वाग्नियाम्यवारुण्य-वायव्यादिगतं क्रमात् | श्रियं पुष्टिं भयं लाभं पुत्रलाभं धनं तथा || १२५ || क्रमाद् विनिर्दिशेन्नारं छिन्नशीर्षं तु भैरव | उत्तरादिक्रमादेव महिषस्यापि मस्तकः || १२६ || पतितो वायुकाष्ठान्ते सूचयेद् यच्छृणुष्व तत् | भाग्यं हानिन्तथैश्वर्य वित्तं रिपुजयं भयम् || १२७ || राज्यलाभं श्रियं चापि क्रमाद् विद्धि तु भैरव | पशूनां चैव सर्वेषां छागादीनामशेषतः || १२८ || एवं फलं क्रमाद् विद्यादृते जलजवाण्डजौ | जलजानां पक्षिणां तु याम्यनैर्-ऋत्ययोर्भयम् || १२९ || अन्यत्र तु श्रियं दद्यात् पतितं शातितं शिरः | यः स्यात् कटकटाशब्दो दन्तानां छिन्नमस्तके || १३० || नराणां पशुपक्ष्यादिग्राहादीनां च रोगदः | लोतकं चक्षुषोर्जातं यदि स्रवति मस्तके || १३१ || छिन्ने नरस्य राज्यस्य ता हानिं विनिर्दिशेत् | माहिषे मस्तके नेत्राद् यदि स्रवति लोतकम् || १३२ || छिन्ने निवेदितं वैरिभूपमृत्युं तदादिशेत् | अन्येषामथ पश्वादिवलीनां शिरसोऽर्दितात् || १३३ || निर्गतं लोतकं धत्ते परां भीतिं गदं तथा | हसति च्छिन्नशीर्षं चेन्नारं स्यात् तु रिपुक्षयः || १३४ || श्रीवृद्धिरायुषो वृद्धिः सदा दातुरसंशयः | यद् यद्वाक्यं निगदति तथा भवति चाचिरात् || १३५ || ऊङ्काराद्राज्यहानिः स्याच्छूलेष्मस्रावाच्च पञ्चता | देवानां यदि नामानि भाषते छिन्नमस्तकः || १३६ || विभूतिमतुलां विद्यात् षण्मासाभ्यन्तरे तदा | रुधिरादानकाले तु शकृन्मूत्रे यदि स्रवेत् || १३७ || कायं तदाधश्चोर्ध्वं वा दातुः स्यान्मरणं तदा | आक्षेपाद् वामपादस्य महारोगः प्रजायते || १३८ || अन्यदाक्षेपचलनैः कल्याणमुपजायते | माहिषस्य तु रक्तस्य मानुषस्य तु साधकः || १३९ || अङ्गुष्ठानामिकाभ्यां तु किंचिदुद्धृत्य भूतले | महाकौशिकमन्त्रेण निक्षिपेद् बलिमुत्तमम् || १४० || देवेभ्यः पूतनादिभ्यो नैर्-ऋत्यां दिशी पूर्वतः | महिषः पञ्चवर्षीयः पञ्चविंशतिवार्षिकः || १४१ || बलिर्देयो नरो देव्यै तस्य रक्तं तु भूतये | नेत्रबीजत्रयं कामबीजं हन्ता प्रजापतिः || १४२ || वह्निबीजं षट्स्वराभ्यां संपृक्तश्च तथा परः | स एवैतास्तथैतावदादिवर्गान्तसंयुतः || १४३ || षष्ठस्वरशिखाबिन्दुश्चन्द्रयुक्तस्थापरः | विर्मासिकाबीजकान्तः कौशिकीत्यभिमन्त्रणम् || १४४ || एष बलिः स्वाहेति मन्त्रोऽयं कौशिकी स्मृतः | नृपो वैरिबलिं दद्यात् खड्गमामन्त्र्य पूर्वतः || १४५ || महिषं चाथ छागं वा वैरिनाम्नाभिमन्त्र्य च | सूत्रेण वदने बद्धं त्रिधा तस्य तु मन्त्रकैः || १४६ || छित्त्वा तस्योत्तमाङ्गं तु देव्यै दद्यात् प्रयत्नतः | यदा यदा रिपोर्वृद्धिर्वलिदानं तदा परम् || १४७ || दद्यात् तदा शिरश्छित्त्वा रिपोस्तस्य क्षयाय च | प्राणप्रतिष्ठां च रिपोः कुर्यात् तस्मिन् पशावय || १४८ || तस्मिन् क्षीणे रिपोः प्राणाः क्षीयन्ते विपदा युताः | आदौ विरुद्धरूपिणि चण्डिके च ततः परम् || १४९ || वैरिणन्त्वमुकं चेति याहीत्याम्रेडितं पुनः | वह्निभार्या ततः पश्चात् खड्गमन्त्रं प्रकीर्तितम् || १५० || स्वयं स वैरी यो द्वेष्टि तमिमं पशुरूपिणम् | विनाशय महामारी स्फें स्फें खादय खादय || १५१ || इत्यनेन तु मन्त्रेण वद्व्यः शिरसि पुष्पकम् | दद्यात् ततस्तद्रुधिरं द्व्यक्षराभ्यां निवेदयेत् || १५२ || महानवम्यां शरदि यद्येवं दीयते बलिः | तदा तदष्टाङ्गभवैर्मांसैर्होमं समाचरेत् || १५३ || दुर्गातन्त्रेण मन्त्रेण प्रणीते दहने शुचौ | एवं दत्त्वा बलिं मर्त्यो रिपुक्षयमवाप्नुयात् || १५४ || नाभेरधस्ताद्रुधिरं पृष्ठभागस्य च श्रिये | स्वगात्ररुधिरै दद्यान्न कदाचन साधकः || १५५ || नोष्ठस्य चिबुकस्यापि नेन्द्रियाणां च मानवः | कण्ठाधो नाभितश्चोर्ध्वं बाह्वोः पाणिमृते तथा || १५६ || प्रदद्याद्रुधिरं घातं नातिकुर्याच्च साधकः | गण्डयोश्च ललाटस्य भ्रुवोर्मध्यस्य शोणितम् || १५७ || कर्णाग्रस्य च बाह्वोश्च गलयो रुदरस्य च | कण्ठादो नाभितश्चोर्ध्वं हृद्भागस्य यतस्ततः || १५८ || पार्श्वयोश्चापि रुधिरं दुर्गायै विनिवेदयेत् | न गुल्पतोऽसृक्प्रदद्यान्न जत्रोर्नापि वक्त्रतः || १५९ || न च रोगबिलादङ्गान्नान्यघाताच्च भैरव | तदर्थे च कृताघातः सश्रद्धोऽक्षुब्धमानसः || १६० || श्रुते रक्तं प्रदद्यात्तु पद्मपुष्पस्य पत्रके | सौवर्णे राजते कांस्ये लौहे फाले न वा नरः || १६१ || निधाय देव्यै दद्यात् तु तद्रक्तं मन्त्रपूर्वकम् | खननं क्षुरिकाखड्गशङ्कुलादि यदस्त्रकम् || १६२ || घातेन बृहदस्त्रस्य महाफलमवाप्नुयात् | पद्मपुष्पस्य पत्रं तु यावद् गृह्णाति शोणितम् || १६३ || तत्प्रमाणे चतुर्भागाधिकं रक्तं तु साधकः | न कदाचित् प्रदद्यात्तु नाङ्गच्छेदमथाचरेत् || १६४ || यः स्वहृदयसञ्जातमांसं माषप्रमाणतः | तिलमुद्गप्रमाणाद् वा देव्यै दद्यात् तु भक्तितः || १६५ || षण्मासाभ्यन्तरे तस्मात् काममिष्टमवाप्नुयात् | बाह्वोस्तु स्कन्धयोर्वापि यो दद्याद् दीपवर्तिकाम् || १६६ || हृदये वा स्नेहपात्रं विना भक्त्या तु साधकः | क्षणमात्रेण तद्दीपप्रदानस्य फलं शृणु || १६७ || भुक्त्वा च विपुलान् भोगान् देवीगेहे यदृच्छया | कल्पत्रयं तु संस्थाय सार्वभौमो नृपो भवेत् || १६८ || महिषस्य शिरश्छिन्नं सप्रदीपं शिवापुरः | हस्ताभ्यां यः समादाय अहोरात्रं तु तिष्ठति || १६९ || स चिरायुः पूतमूर्तिरिह भुक्त्वा मनोरमान् | भोगान्ते मद्गृहगो गणानामधिपो भवेत् || १७० || नरस्य शीर्षमादाय साधको दक्षिणे करे | वामेन रौधिरं पात्रं गृहीत्वा निशि जाग्रतः || १७१ || यावद्रात्रं स्थितो मर्त्यो राजा भवति चेह वै | मृते मम गृहं प्राप्य गणानामधिप् भवेत् || १७२ || क्षणमात्रं वलीनां यः शिरोरक्तं करद्वये | गृहीत्वा चिन्तयेद् देवीं पुरस्तिष्ठति मानवः || १७३ || स कामानिह सम्प्राप्य देवीलोके महीयते | महामाये जगन्नाथे सर्वकामप्रदायिनि || १७४ || ददामि देहरुधिरं प्रसीद वरदा भव | इत्युक्त्वा मूलमन्त्रेण नतिपूर्व विचक्षणः || १७५ || स्वगात्ररुधिरं दद्याद् मानवः सिद्धसन्निभः | यनात्ममांसं सत्येन ददामीश्वरि भूतये || १७६ || निर्वाणं तेन सत्येन देहि हं हं नमो नमः | इत्यनेन तु मन्त्रेण स्वमांसं वितरेद् बुधः || १७७ || सौभाग्यं सुखसम्पन्नं प्रदीपं परमं रुचिः | दीपयेन्मांसमिह तं दीपं ह्नौं ह्नौं नमो नमः || १७८ || इत्यनेन तु मन्त्रेण दीपं दद्याद् विचक्षणः | महानवम्यां शरदि रात्रौ स्कन्दविशाखयोः || १७९ || यवचूर्णमयं कृत्वा रिपुं मृन्मयमेव वा | शिरश्छित्त्वा बलिं दद्यात् कृत्वा तस्य तु मन्त्रतः || १८० || अनेनैव तु मन्त्रेण खड्गमामन्त्र्य यत्नतः | रक्तं किलिकिली घोर घोराधारविहिंसकः || १८१ || ब्रह्मशिष्याम्बिकाशिष्यममुकं चारिसत्तमम् | आन्तो विसर्गसहितः स च बिन्दुयुतोऽपरः || १८२ || शिरश्छित्त्वा वलिं दद्यात् कृत्वा तस्य तु मन्त्रतः | अनेनैव तु मन्त्रेण बिन्दुना च समन्वितः || १८३ || ब्रह्माग्निर्योगचन्द्रेण बिन्दुना च समन्वितः | फडन्तो वलिषु प्रोक्तः खड्गः स्कन्दविशाखयोः || १८४ || रक्तद्रव्यैः शोचयित्वा कृत्रिमं तं वलिं रिपुम् | कुचन्दनस्य तिलकं ललाटे विनिवेश्य च || १८५ || रक्तमाल्याम्बरं कृत्वा रक्तवस्त्रधरं तथा | कण्ठे बद्ध्वा रक्तसूत्रैर्नाभौ शल्यं च कृत्रिमम् || १८६ || दत्त्वोत्तरशिरः स्कन्धं कृत्वा खड्गेन छेदयेत् | शिरस्तस्य ततो दद्यात् स्कन्दमन्त्रेण मन्त्रितम् || १८७ || चतुर्दशस्वराग्निभ्यां सम्पृक्तः स्तात् पुरःसकम् | परतः परतः पूर्वं चन्द्रबिन्दुसमन्वितम् || १८८ || स्कन्दस्य मूलमन्त्रोऽयं तेन तस्मै बलिं सृजेत् | चतुर्दशस्वराग्निभ्यां तृतीयं तु च पूर्ववत् || १८९ || प्रोक्तो विशाखमन्त्रोऽयं तेन तस्मै बलिं सृजेत् | कुटिलाक्षो कृष्णपिङ्गवर्णौ रक्ताङ्गधारिणौ || १९० || त्रिशूलं करवालं च पाणिभ्यां दक्षिणे तथा | बिभ्रतौ नृकपालं च कत्रिकां चाति वामतः || १९१ || त्रिनेत्रौ नरमुण्डानां मालामुरसि बिभ्रतौ | विकटौ दशनैर्भीमैर्गणेशौ द्वारपालकौ || १९२ || ध्यानेन चिन्तयेद् देव्याः पुरतः संस्थितौ सदा | चैत्रे मास्यसिते पक्षे चतुर्दश्यां विशेषतः || १९३ || वलिभिर्महिषैश्छागैः मां च भैरवरूपिणम् | तोषयेन्मधुमिर्मांसैस्तेन तुष्याम्यहं सुतौ || १९४ || चण्डिका वलिदाने तु वलिशीर्षं जलेन च | अभिषिच्य तु मन्त्रेण मूलेनैव निवेदयेत् || १९५ || ईषत्प्राणं तु बहुधा चलितं पूर्वमर्चितम् | वीक्षेत्कायसमृद्धिं तु सिद्धभावं च साधकः || १९६ || सितप्रेतो रथस्तेषां योगपीठस्य सन्निभः | ध्यायाम्यस्मिन् महामाये सिद्धिं बोधयते नमः || १९७ || अनेनामन्त्रितं शीर्षं न चिराद् यदि वेपते | तत्कार्यस्य तदा सिद्धिरसिद्धिस्तु विपर्ययात् || १९८ || एवं ददद् वीरो यथोक्त विधिनाऽमुना | वलिदानादेव चतुर्वर्गमाप्नोत्यसंशयम् || १९९ || एवं वलिप्रदानस्य क्रमो रूपं तथैव च | कथितो रुधिराध्याय उपचाराञ् शृणुष्व मे || २०० || इति श्रीकालिकापुराणे वलिदानविवरणं नाम अप्तषष्टितमोऽध्यायः || ६७ || अष्टषष्टितमोऽध्यायः श्रीभगवानुवाच उपचारान् प्रवक्ष्यामि शृणु षोडश भैरव | यः सम्यक् तुष्यते देवो देवोऽप्यन्यो हि भक्तितः || १ || आसनं प्रथमं दद्यात् पौष्ण्यं दारवमेव वा | वास्त्रं वा चार्मणं कौशं मण्डलस्योत्तरे सृजेत् || २ || यदैव दीयते पद्मे मण्डलस्य तदुत्सृजेत् | वाक्पुष्पतोयैः कुसुमं विना यच्छादकं भवेत् || ३ || पद्मस्य तद्बहिर्देशे द्वारादौ विनिवेदयेत् | अर्घ्यं पाद्यं चाचमनं स्नानीयं नेत्ररञ्जनम् || ४ || मधुपर्कं च गन्धं च पुष्पं पद्मे निवेदयेत् | प्रतिमासु च यद्योग्यं गात्रे दातुं च तत् तनौ || ५ || दद्याद् योग्यं तु पुरतो नैवेद्यं भोजनादिकम् | पौष्पासनं यद् विहितं यस्य तद् यदि गर्भकम् || ६ || निवेदयेत् तदा पद्मे विपुलं द्वारि चोत्सृजेत् | पौष्पं पुष्पौघरचितं कुशसूत्रादिसंयुतम् || ७ || अतिप्रीतिकरं देव्या ममाप्यन्यस्य भैरव | यज्ञकाष्ठसमुद्भुतमासनं मसृणं शुभम् || ८ || नोच्छ्रायं नातिविस्तीर्णमासनं विनियोजयेत् | अन्यद् दारुभवं चापि दद्यादासनमुत्तमम् || ९ || सकण्टकं क्षीरयुत दारुसारविवर्जितम् | चैत्यश्मशानसम्भूतं वर्जयित्वा विभीतकम् || १० || वल्कलं कोषजं शाणं वस्त्रमेतत् त्रयं मतम् | रोमजं कम्बलं ऐतदनेन तु चतुष्टयम् || ११ || अनेन रचितं दद्यादासनं चेष्टभूतये | इंहव्याघ्रतरक्षूणां छागस्य महिषस्य वा || १२ || गजानां तुरगाणां च कृष्णसारस्य चर्मणः | सृमरस्याथ रामस्य मृगाणां नवभेदिनाम् || १३ || चर्मभिः सर्वदेवानामासनं प्रीतिदं श्रुतम् | वस्त्रेषु कम्बलं शस्तमासनं देवतुष्टये || १४ || राङ्कवं चार्मणं श्रेष्ठं दारवं चन्दनोद्भवम् | यच्चासनं कुशमयं तदासनमनुत्तमम् || १५ || सर्वेषामपि देवानामृषीणां च यतात्मनाम् | योगपीठस्य सदृशमासनं स्थानमुच्यते || १६ || आसनस्य प्रदानेन सौभाग्यं मुक्तिमाप्नुयात् | शम्बरो रोहितो रामो न्यङ्कुरङ्कुशशा रुरुः || १७ || एणश्च हरिणश्चेति मृगा नवविधा मताः | हरिणश्चापि विज्ञेयो अञ्चभेदोऽत्र भैरव || १८ || ऋष्यह् खड्गो रुरुश्चैव पृषतश्च मगस्तथा | एते वलिप्रदानेषु चर्मदानेषु कीर्तिताः || १९ || सर्वेषां तैजसनां च आसनं श्रेष्ठमुच्यते | आयसं वर्जयित्वा तु कांस्यं सीसकमेव वा || २० || शिलामयं मणिमयं तथा रत्नमयं मतम् | आसन देवताभ्यस्तु भुक्त्यै मुक्त्यै समुत्सृजेत् || २१ || अत्रैव साधकानां च आसनं शृणु भैरव | यत्रासीनः पूजयंस्तु सर्वसिद्धिमवाप्नुयात् || २२ || ऐन्धनं चार्मणं वास्त्रं तैजसं च चतुष्टयम् | आसनं साधकानां च सततं परिकीर्तितम् || २३ || अत् सर्वमासनं शस्तं पूजाकर्मणि साधके | न यथेष्टासनो भूयत् पूजाकर्मणि साधकः || २४ || काष्ठादिकासनं कुर्यात् सितमेव सदा बुधः | चतुर्विंशत्यङ्गुलेन दीर्घं काष्ठासनं मतम् || २५ || षोडशाङ्गुलविस्तीर्णमुच्छ्रायं चतुरङ्गुलम् | षडङ्गुलं वा कुर्यात् नोच्छ्रितञ्चात आचरेत् || २६ || पूर्वोक्तं वर्जयेद् वर्ज्यमासनं पूजनेष्वपि | वस्त्रं द्विहस्तान्नो दीर्घं सार्धहस्तान्न विस्तृतम् || २७ || न र्यङ्गुलात् तथोच्छ्रायं पूजाकर्मणि संश्रयेत् | यथेष्टं चार्मणं कुर्यात् पूर्वोक्तं सिद्धिदायकम् || २८ || षडङ्गुलाधिकं कुर्यान्नोच्छ्रितं च कदाचन | काम्बलं चार्मणं शैलं महामायाप्रपूजने || २९ || प्रशस्तमासनं प्रोक्तं कामाख्यायास्तथैव च | त्रिपुरायाश्च सततं विष्णोश्चापि कुशासनम् || ३० || बहुदीर्घं बहुंच्छ्रायं तथैव बहुविस्तृतम् | दारु भूमिसमं प्रोक्तमश्मापि सर्वकर्मणि || ३१ || पृथक् पृथक् कल्पयेत् तु बहिर्द्वारि तथासनम् | न पत्रमासनं कुर्यात् कदाचिदपि पूजने || ३२ || न प्राण्यङ्ग-समुद्भूतमस्थिजं द्विरदादृते | मातङ्गदन्तसञ्जातं कामिकेष्वासनं चरेत् || ३३ || चार्मं पूर्वोदितं ग्राह्यं तथा गन्धमृगस्य च | सलिले यदि कुर्वीत देवतानां प्रपूजनम् || ३४ || तत्राप्यासन आसीनो नोत्थितस्तु कदाचन | तोये शिलामयं कुर्यादासनं कौशमेव वा || ३५ || दारवं तैजसं वापि नान्यदासनमाचरेत् | आसनारोपसंस्थानं स्थानाभावे तु पूजकः || ३६ || आसनं कल्पयित्वा तु मनसा पूजयेज्जले | यद्यासितुं न संस्थानं विद्यते तोयमध्यतः || ३७ || अन्यत्र वा तदा स्थित्वा देवपूजां समाचरेत् | इत्येतत् कथितं पुत्र पूज्यपूजकसङ्गतम् || ३८ || आसनं पाद्यमधुना शृणु वेताल भैरव | पादार्थमुदकं पाद्यं केवलं तोयमेव तत् || ३९ || तत् तैजसेन पात्रेण शङ्खेनापि प्रदापयेत् | धर्मार्थकाममोक्षाणां सस्थानं पाद्यमिष्यते || ४० || तदासनोत्तरं दद्यान्मूलमन्त्रेण सर्वतः | कुशपुष्पाक्षतैश्चैव सिद्धार्थैश्चन्दनैस्तथा || ४१ || तोयैर्गन्धैर्यथालब्धैरर्घ्यं दद्यात् तु सिद्धये | अर्घ्येण लभते कामानर्घ्येण लभते धनम् || ४२ || पुत्रायुःसुखमोक्षाणि दानादर्घ्यस्य वै लभेत् | न दद्याद् भास्करायार्घ्यं शङ्खतोयैर्विचक्षणः || ४३ || तथा न शुक्तिपात्रेण विष्णवेऽर्घ्यं निवेदयेत् | दद्यादाचमनीयं तु सुगन्धिसलिलैः शुभैः || ४४ || कर्पूरवासितैर्वापि कृष्णागुरुविधूपितैः | यथा तथा सुगन्धैर्वा प्रसङ्गैः फेनवर्जितैः || ४५ || तत् तैजसेन पात्रेण शङ्खेनापि प्रदापयेत् | उदकं दीयते यत् तु प्रसन्नं फेनवर्जितम् || ४६ || आचमनाय देवेभ्यस्तदाचमनमुच्यते | केवलं तोयमात्रेण तद् वा दद्यान्न मिश्रितम् || ४७ || वासितं तु सुगन्धाद्यैः कर्तव्यं यदि लभ्यते | आयुर्बलं यशोवृद्धिं प्रदायाचमनीयकम् || ४८ || लभते साधको नित्यं कामांश्चैव यथोत्थितान् | दधिर्सर्पिर्जल क्षौद्रं सिता ताभिश्च पञ्चभिः || ४९ || प्रोच्यते मधुपर्कस्तु सर्वदेवौघतुष्टये | जलं तु सर्वतः स्वल्पं सितादधिघृतं समम् || ५० || सर्वेभ्य श्चाधिकं क्षौद्रं मधुपर्केप्रयोजयेत् | तद् दद्यात् कांस्यपात्रेण रौक्मश्वेतमयेन वा || ५१ || ज्योतिष्टोमाश्वमेधादौ पूर्ते चेष्टे च पूजने | मधुपर्कः प्रदिष्टोऽयं सर्वदेवौघतुष्टिदः || ५२ || धर्मार्थकाममोक्षाणां साधकः परिकीर्तितः | मधुपर्कः सौख्यभोग्य-तुष्टि-पुष्टि-प्रदायकः || ५३ || पिष्टातकोऽथ कस्तूरी रोचनं कुङ्कुमं तथा | गुडः क्षौद्रं पञ्चगव्यं सर्वौषधिगणस्तथा || ५४ || सिता निर्णेजनं तैलं स्निग्धस्तेहेन तत्तिलाः | प्रान्ते तोयमिति प्रोक्तं स्नानीयं कल्पकोविदैः || ५५ || स्वर्णरत्नोदकं चैव कर्पूराद्यधिवासितम् | तैजसैः कांस्यपात्रैर्वा शङ्खैर्वा तन्निवेदयेत् || ५६ || अण्डले केशरे देयमादित्यप्रतिमासु च | शिवलिङ्गे तथा भोगे पीठे देवतनौ तथा || ५७ || अद्यःस्निग्धं ऋन्मयं वा सर्पिःसिन्दुरजे तथा | श्रीचन्दनप्रतिष्ठे वा लेपयेत् प्रतिमातनौ || ५८ || वस्तिकस्थापिते खड्गे स्नापयेद् दर्पणेऽथ वा | एवं दद्यात् तु स्नानीयं महादेव्यै विशेषतः || ५९ || अवि विष्णुशिवेभ्यो वा यत्र तत्र प्रपूजने | पूजकः स्नानदानात् त चिरायुरुपजायते || ६० || सम्यक् स्नानप्रदानात् तु कल्पान्तं स्वर्गभाग्भवेत् | यदेव दीयते पाद्यं गन्धपुष्पादिकं तथा || ६१ || उपाचारांस्तथा सर्वानर्घ्यपात्राहितैर्जलैः | अमृतीकरणाद्यैस्तु संस्कृतैस्त्वभिषिच्य तैः || ६२ || प्रदद्यादिष्टदेवेभ्यो गृह्णाति च ततः स्वयम् | अर्घ्यपात्राणि तैस्तोयैर्विना यद्विनिवेदनम् || ६३ || दीयते चेष्टदेवेभ्यः सर्वं तन्निष्फलं भवेत् | रागाल्लोभात् प्रमादाद् वा ह्यर्घ्यं पात्रामृतीकृतम् || ६४ || तोयं स्रुतं स्यात् पात्रात् तु पुनः कुर्यात् तदा मृतम् | स्वल्पावशेषतोये तु पात्रस्थे ह्यमृतीकृते || ६५ || तत्रान्यदुदकं दद्यात् तत्तैनैवामृतं भवेत् | बहूनि यदि पुष्पाणि माला वा प्रचुरा यदि || ६६ || दीयन्ते चार्घ्यपात्रस्थैर्जलैः संसिच्य चोत्सृजेत् | अन्यतोयैर्यदुत्सृष्टमर्घ्यपात्रस्थितेतरैः || ६७ || तन्न गृह्वातीष्टदेवो दत्तं विधिशतैरपि | संस्कृते त्वर्घ्यपात्रे तु नवभिः प्रतिपत्तिभिः || ६८ || तिष्ठन्ति सवतीर्थानि पीयूषाणि च सर्वतः | तस्मात् तत्र स्थितैस्तोयैरभ्युक्ष्योपचारानुत्सृजेत् || ६९ || न योग्यमर्घ्यपात्रेषु निधाय विनिवेदयेत् | इदं ते भैरव प्रोक्तं षट्कं चैवासनादिकम् | वस्त्रादि दश वक्ष्यामि शृणु विज्ञानवृद्धये || ७० || इति श्रीकालिकापुराणे अष्टषष्टितमोऽध्यायः || ६८ || एकोनसप्ततितमोऽध्यायः | श्रीभगवानुवाच | कार्पासं कम्बलं बाल्कं कोशजं वस्त्रमिष्यते | तत्पूर्वं पूजयित्वैव मन्त्रैर्देवाय चोत्सृजेत् || १ || निर्दशं मलिनं जीर्णं छिन्नं गात्राअलिङ्गितम् | परकीयं ह्याखुदष्टं सूचीविद्धं तथोषितम् || २ || प्तलेशं विधौतं च श्लेष्ममूत्रादिदूषितम् | प्रदाने देवताभ्यश्च दैवे पित्र्ये च कर्मणि || ३ || वर्जएत् स्वोपयोगेन यज्ञादावुपयोजने | उत्तरीयोत्तरासङ्गैर्निचोलो मोदचेलकः || ४ || परिधानं च पञ्चैतान्यस्यूतानि प्रयोजयेत् | साण वस्त्रं निशारं च तथैवातपवारणम् || ५ || चण्डातकं तथा दृश्यं पञ्च स्यूतान्यदुष्टये | पताकाध्वजदण्डादौ स्यूतं वस्त्रं प्रयोजयेत् || ६ || अन्यत्रावरणादौ च तद्विनाशस्य तेन तत् | रक्तं कौशेयवस्त्रं च महादेव्यै प्रशस्यते || ७ || पीतं तथैव कौशेयं आसुदेवाय चोत्सृजेत् | रक्तं तु कम्बलं दद्याच्छिवाय परमात्मने || ८ || विचित्रं सर्वदेवेभ्यो देवीभ्योंऽशु निवेदयेत् | कार्पासं सर्वतोभद्रं दद्यात् सर्वेभ्य एव च || ९ || नैकान्तरक्तं दद्यात् तु वासुदेवाय चैलकम् | तथा नैकान्तनीलं तु शिवाय विनिवेदयेत् || १० || नीलीरक्तं तु यद्वस्त्रं तत् सर्वत्र विवर्जितम् | दैवे पित्र्ये तूपयोगे वर्जयेत् तु विचक्षणः || ११ || नीलीरक्तं प्रमादात्तु यो दद्याद् विष्णवे बुधः | निष्फला तस्य तत्पूजा तदा भवति भैरव || १२ || विचित्रे वाससि पुनर्लग्नं नीलीविरञ्जितम् | वस्त्रं दद्यान्महादेव्यै नान्यस्मै तु कदाचन || १३ || द्विपदां ब्राह्मणो यद्वद्देवानां वासवो यथा | तथा भूषणवर्गेषु वस्त्रमुत्तममुच्यते || १४ || वस्त्रेण जीर्यते लज्जा वस्त्रेण हीयते त्वधम् | वस्त्रात् स्यात् सर्वतः सिद्धिश्चतुर्वर्ग प्रदं च तत् || १५ || वस्त्रं ते कथितं पुत्र सर्वप्रीतिप्रदायकम् | भोग्यं भूषोत्तमं नित्यं भूषणानि शृणुष्व मे || १६ || किरीटं च शिरोरत्नं कुण्डलं च ललाटिका | तालपत्रं च हारश्च ग्रैवेयकमथोर्मिका || १७ || प्रालम्बिकारत्नसूत्रमुत्तङ्गोतर्क्स्ऽमालिका | पार्श्वद्योतो नखद्योतो ह्यङ्गुलीच्छादकस्तथा || १८ || जूटालकं मानवको मूर्धतारा खलन्तिका | अङ्गदो बाहुवलयः शिखाभूषण इङ्गिका || १९ || राग्दण्डबन्धमुद्भासनाभिपूरोऽथ मालिका | सप्तकी शृङ्खलं चैव दन्तपत्रं च कर्णकः || २० || ऊरुसूत्रं च नीवीं च मुष्टिबन्धं प्रकीर्णकम् | पादाङ्गदं हंसकश्च नूपुरं क्षुद्रघण्टिका || २१ || सुखपट्टमिति प्रोक्ता अलङ्काराः सुशोभनाः | चत्वारिंशदमी प्रोक्ता लोके वेदे तु सौख्यदाः || २२ || अलङ्कारप्रदानेन चतुर्वर्गप्रसाधनम् | एतेषां पूजनं कृत्वा प्रदद्यादिष्टसिद्धये || २३ || तेषां दैवतमुच्चार्य पूजयेत् तु विचक्षणः | शिरोगतानि वा दद्यात् सौवर्णानि तु सर्वदा || २४ || चूडारत्नादिकानीह भूषणानि तु भैरव | ग्रैवेयकादिहंसान्तं सौवर्णं राजतं च वा || २५ || निवेदयेत् तु देवेभ्यो नान्यत् तैजसम्भवम् | ईतिरङ्गादि संजातं पात्रोपकरणादिकम् || २६ || दद्यादायसवर्जं तु भूषणं न कदाचन | घण्टाचामरौम्भादिपात्रोपकरणादिकम् || २७ || तद्भूषणान्तरे दद्यादयस्त्मात् तदुपभूषणम् | सर्वं ताम्रमयं दद्याद् यत् किंचिद् भूषणादिकम् || २८ || सर्वत्र स्वर्णवत् ताम्रमर्घ्यपात्रे ततोऽधिकम् | पूजार्घ्यपपात्रनैवेद्याधारपात्रं च पानकम् || २९ || औदुम्बरं सदा विष्णोः प्रीतिदं तोषदं तथा | ताम्रे देवाः प्रमोदन्ते ताम्रे देवाः स्थिताः सदा || ३० || सर्वप्रीतिकरं ताम्रं तस्मात् ताम्रं प्रयोजयेत् | स्वोपयोगे नरः कुर्याद् देवानामपि भैरव || ३१ || ग्रीवोर्ध्वदेशे रौप्यं तु न कदाचिच्च भूषणम् | प्रावारः पानपात्रं च गण्डको गृहमेव च || ३२ || पर्यङ्कादि यदन्यच्च सर्वं तदुपभूषणम् | योमयमृते कांस्यमृते यद्भूषणं भवेत् || ३३ || स्वर्णरौप्यस्य चाभावे त्वधः काये नियोजयेत् | एतेषां भूषणादीनां यद् दातुं शक्यते नरैः || ३४ || तत् तद् दद्यात् सम्भवे तु सर्वमेव प्रदापयेत् | चतुर्वर्गप्रदं वित्थं भूषणं सर्वसौख्यदम् || ३५ || तुष्टिपुष्टिप्रीतिकरं यथाशक्तीष्टये सृजेत् | इदं वा भूषणं प्रोक्तं सर्वदेवस्य तुष्टिदम् || ३६ || गन्धं च सम्यक् शृणुतं पुत्रौ वेतालभैरवौ | चूर्णीकृतो वा घृष्टो वा दाहाकर्षित एव वा || ३७ || रसः सम्मर्दजो वापि प्राण्यङ्गोद्भव एव वा | गन्धः पञ्चविधः प्रोक्तो देवानां प्रीतिदायकः || ३८ || गन्धचूर्णं गन्धपत्रं चूर्णं सुमनसस्तथा | प्रशस्तगन्धयुक्तानां पत्रचूर्णानि यानि तु || ३९ || तानि गन्धवहानि स्युः सगन्धः प्रथमः स्मृतः | घृष्टो मलयजो गन्धः सचूर्णीकृतमेरुणा || ४० || अगुरुप्रभृतिश्चापि यस्य पङ्कः प्रदीयते | गन्धो दृष्ट्वामघृष्टोऽयं द्वितीयः परिकीर्तितः || ४१ || देवदार्वगुरुपद्मगन्धसारान्त चन्दनाः | प्रियादीनांच् अ यो दग्ध्वा गृह्यते दाहजो रसः || ४२ || सदाहाकर्षितो गन्धस्तृतीयः परिकीर्तितः | सुगन्धकरवीबिल्वगन्धीनि तिलकं तथा || ४३ || प्रभृतीनां रसो योऽसौ निष्पीड्य परिगृह्यते | ससम्मर्दोद्भवो गन्धः सम्मर्दज इतीष्यते || ४४ || मृगनाभिसमुद्भूतस्तत्कोषोद्भव एव वा | गन्धः प्राण्यङ्गजः प्रोक्तो मोददः स्वर्गवासिनाम् || ४५ || कर्पूरगन्धसाराद्याः क्षोदे घृष्टे च संस्थिताः | चन्द्रभागादयश्चापि रसे पङ्के च सङ्गताः || ४६ || गन्धसारं अर्वरसं गन्धादौ च प्रयुज्यते | मृगनाभिर्भवेद् घृष्टश्चूर्णोऽप्यन्यस्य योगतः || ४७ || एवं सर्वं तु सर्वत्र गन्धो भवति पञ्चधा | घृष्टादिभावादन्योन्यं गन्धः प्रीतिकरं परः || ४८ || गन्धस्य विस्तरो भेदः प्रोक्तः कालीयकादयः | सर्वः पञ्चविधेष्वेव प्रविष्टो भवति क्षणात् || ४९ || गन्धो मलयजो यस्तु दैवे पित्र्ये च सम्मतः | तस्य पङ्को रसो वापि चूर्णो वा विष्णुतुष्टिदः || ५० || सर्वेषु गन्धजातेषु प्रशस्तो मलयोद्भवः | तस्मात् सर्वप्रयत्नेन दद्यान्मलयजं सदा || ५१ || कृष्णागुरुः सकर्पूरः सहितो मलयोद्भवैः | वैष्णवीप्रीतिदो गन्धः कामाख्यायाश्च भैरव || ५२ || कुङ्कुमागुरुकस्तूरीचन्द्रभागैः समीकृतैः | त्रिपुराप्रीतिदो गन्धस्तथा चण्ड्याश्च शस्यते || ५३ || दैवतोद्देशपूर्वेण गन्धं सम्पूज्य साधकः | देवायेष्टाय वितरेत् सर्वसिद्धिप्रदं सदा || ५४ || गन्धेन लभते कामान् गन्धो धर्मप्रदः सदा | अर्थानां साधको गन्धो गन्धे मोक्षः प्रतिष्ठितः || ५५ || अयं वां कथितो गन्धः पुत्रौ वेतालभैरवौ | पुष्पाणि देव्या वैष्णव्याः प्रियाणि शृणु सम्प्रति || ५६ || बकुलैश्चैव मन्दारैः कुन्दपुष्पैः कुरुण्टकैः | करवीरार्कपुष्पैश्च शाल्मलैश्चापराजितैः || ५७ || दमनैः सिन्धुवारैश्च सुरभी कुरुवकैस्तथा | लताभिर्ब्रह्मवृक्षस्य दूर्वाङ्कुरैश्च कोमलैः || ५८ || मञ्जरीभिः कुशानां च बिल्वपत्रैः सुशोभनैः | पूजयेद् वैष्णवीं देवीं कामाख्यां त्रिपुरां तथा || ५९ || अन्याश्च या शिवाप्रीत्यै जायन्ते पुष्पजातयः | ता इमाः शृणु कथ्यन्ते मया वेताल भैरव || ६० || मालती मल्लिका जाती यूथिका माधवी तथा | पाटला करवीरश्च जवा तर्कारिका तथा || ६१ || कुब्जकस्तगरश्चैव कर्णिकारोऽथ रोचना | चम्पकाभ्रातकौ बाणो बर्बरा मल्लिका तथा || ६२ || अशोको लोध्रतिलकौ अटरूषशिरीषकौ | शमीपुष्पं च द्रोणश्च पद्मोत्पलबकारुणाः || ६३ || श्वेतारुणस्त्रिसन्ध्ये च पलाशः खदिरस्तथा | वनमालाऽथ सेवन्ती कुमुदोऽथ कदम्बकः || ६४ || चक्रं कोकनदं चैव तण्डिलो गिरिकर्णिका | नागकेशरपुन्नागौ केतक्यञ्जलिका तथा || ६५ || दोहदा बीजपूरश्च नमेरुः शाल एव च | त्रपुषी चण्डबिल्वश्च झिण्टी पञ्चविधास्तथा || ६६ || एवमाद्युक्तकुसुमैः पूजयेद् वरदां शिवाम् | अपामार्गस्य पत्रं तु ततो भृङ्गारपत्रकम् || ६७ || ततोऽपि गन्धिनोपत्रं वलाहकमतः परम् | तस्मात् खदिरपत्रं तु वञ्जुलस्तवक स्तथा || ६८ || आम्रं तु बकगुच्छं तु जम्बुपत्रं ततः परम् | बीजपूरस्य पत्रं तु ततोऽपि कुशपत्रकम् || ६९ || दूर्वाकुरं ततः प्रोक्तं शमीपत्रमतः परम् | पत्रमामलकं तस्मादामलं पत्रमन्ततः || ७० || सर्वतो बिल्वपत्रं तु देव्याः प्रीतिकरं मतम् | पुष्पं कोकनदं पद्मं जवा बन्धुक एव च || ७१ || पत्रं बिल्वस्य सर्वेभ्यो वैष्णवीतुष्टिदं मतम् | सर्वेषां पुष्पजातीनां रक्तपद्ममिहोत्तमम् || ७२ || रक्तपद्मसहस्रेण यो मालां सम्प्रयच्छति | भक्तियुक्तो महादेव्यै तस्य पुण्यफलं शृणु || ७३ || कल्पकोटिसहस्राणि कल्पकोटिशतानि च | स्थित्वा मम पुरे स्रीमांस्ततो राजा क्षितौ भवेत् || ७४ || पत्रेषु बिल्वपत्रं तु देवीप्रीतिकरं मतम् | तत्सहस्रकृता माला पूर्ववत् फलदा भवेत् || ७५ || किंचात्र बहुनोक्तेन समान्येनेदमुच्यते | उक्तानुक्तैस्तथापुष्पैर्जलजैः स्थलसम्भवैः || ७६ || पत्रैः सर्वैर्यथालाभं सर्वौषधिगणैरपि | वनजैः सर्वपुष्पैश्च पत्रैरपि शिवां यजेत् || ७७ || पूजयेत् परमेशानीं पुष्पाभावेऽपि पत्रकैः | पत्राणामप्यभावे तु तृणगुल्मौषधादिभिः || ७८ || औषधीनामभावे तु तत्फलैरपि पूजयेत् | अक्षतैर्वा जलैर्वापि तदभावे तु सर्षपैः || ७९ || सितैस्तस्याप्यलाभे तु मानसीं भक्तिमाचरेत् | आजिदन्तकपत्रैश्च पुष्पौघैरपि पूजयेत् || ८० || तुलसीकुसुमैः पत्रैरर्चयेच्छ्रीविवृद्धये | पुरश्चरणकार्येषु बिल्वपत्रयुतैस्तिलैः || ८१ || साक्षतैः सघृतैर्वापि शिवामुद्दिश्य यत्नतः | जुहुयादनलं वृद्धं संस्कृतं कामवृद्धये || ८२ || संकल्पितः कामसिद्ध्यै संख्यया यः कृतो जपः | तदन्ते पूजनं यत्तु विहितं क्रियते द्विजैः || ८३ || पुरश्चरणसंज्ञं तु कीर्तितं द्विजसत्तमैः | तस्मिन् पुराणके पूर्वं पूर्वोक्तैर्विस्तरोदितैः || ८४ || विधानैः पूजयेद् देवीं कामाख्यां वैष्णवीमपि | यथासम्भवमेवात्र दद्यात् षोडश साधकः || ८५ || उपचारांस्तथैवोक्तान् विधिकृत्यान्न लंघयेत् | सम्पूर्णं पूजनं कृत्वा कल्पोक्तं शतधा जपेत् || ८६ || जपान्ते जुहुयादग्निं होमान्ते तु बलित्रयम् | त्रिजातीयं तु वितरेत्तौर्यत्रिकमतः परम् || ८७ || पत्नी स्वयं वा भ्राता वा गुरुर्वा विनियोजयेत् | नैवेद्यादीनि सर्वाणि स्वपुत्रः शिष्य एव वा || ८८ || यज्ञावसाने दद्यात् तु गुरवे दक्षिणां शुभाम् | चामीकरं तिलान् गाञ्च तदशक्तौ तु चेलकम् || ८९ || अष्टम्यां शुक्लपक्षस्य ब्रह्मचारी जितेन्द्रियः | नवम्यां वा चतुर्दश्यां महादेव्याः पुरश्चरेत् || ९० || आदद्याद् गुरुवक्त्रात् तु विधिना विस्तरेण तु | कल्पोदितेन सम्पूज्य तिथिष्वेतासु भैरव || ९१ || सम्पूर्णपूजां नो कृत्वा नादद्यान्मन्त्रमीप्सितम् | न पुरश्चरणं वापि कुर्यात् कृत्वाऽवसीदति || ९२ || नित्यपूजा सा तु पुनः सम्पूर्णा यदि शक्यते | कल्पोदितं पूजयितुं तदा कुर्यादतन्द्रितः || ९३ || न चेद् विस्तरशः कर्तुं देव्याः पूजां तु भैरव | कल्पोक्तां वाऽन्यदेवस्य तत्रायं विधिरुच्यते || ९४ || मार्जनाद्यैस्तु संस्कृत्य स्थण्डिले मण्डलं लिखेत् | पात्रस्य प्रतिपत्तिं तु कृत्वा दाह प्लवं तथा || ९५ || ध्यायेदात्मानमथ च संस्कृत्याङ्गस्वरूपतः | अङ्गुष्ठाद्यस्त्रपर्यन्तं द्वादशाङ्गस्य शुद्धये || ९६ || अर्घ्यपात्रेऽष्टधा जप्त्वा उपचारान् प्रसेचयेत् | आधारशक्तिप्रमुखं मूलवर्णान् प्रयुज्य च || ९७ || हृदिस्थां देवतां ध्यात्वा बहिःकृत्यं च वायुना | आरोप्य मण्डले दद्यादुपचारान् यथाविधि || ९८ || पूजयित्वा षडङ्गानि तथाष्टौ दलदेवताः | पुष्पाञ्जलित्रयं दत्त्वा जप्त्वा स्तुत्वा प्रणम्य च || ९९ || मुद्रामग्ने प्रदर्श्याथ ततः पश्चाद् विसर्जयेत् | सर्वेषामेव देवानामेष एव विधिः स्मृतः || १०० || सम्यक् कल्पोदिता पूजा यदि कर्तुं न शक्यते | उपचारांस्तथा दातुं पञ्चैतान् वितरेत् तदा || १०१ || गन्धं पुष्पं च धूपं च दीपं च नैवेद्यमेव च | अभावे पुष्पतोयाभ्यां तदभावे तु भक्तितः || १०२ || संक्षेपपूजा कथिता तथा वस्त्रादिकं पुनः | पुरश्चरणकृत्ये च प्रदीपं शृणु भैरव || १०३ || दीपेन लोकाञ्जयति दीपस्तेजोमयः स्मृतः | चतुर्वर्गप्रदो दीपस्तस्माद् दीपैर्यजेच्छ्रियम् || १०४ || सततं पुष्पदीपाभ्यां पूजयेद् यस्तु देवताम् | ताभ्यामेव चतुर्वर्गः कथितो नात्र संशयः || १०५ || पुष्पैर्देवाः प्रसीदन्ति पुष्पे देवाश्च संस्थिताः | चराचराश्च सकलाः सदा पुष्परसाः स्मृताः || १०६ || किंचाति बहुनोक्तेन पुष्पस्योक्तिर्मतल्लिका | परं ज्योतिः पुष्पगतं पुष्पेणैव प्रसीदति || १०७ || त्रिवर्गसाधनं पुष्पं तुष्टिश्रीपुष्टिमोक्षदम् | पुष्पमूले वसेद् ब्रह्मा पुष्पमध्ये तु केशवः || १०८ || पुष्पाग्रे तु महादेवः सर्वे देवाः स्थिता दले | तस्मात् पुष्पैर्यजेद् देवान्नित्यं भक्तियुतो नरः || १०९ || उच्चारितं नाममात्रं जायते सर्वभूतये | घृतप्रदीपः प्रथमस्तिलतैलोद्भवस्ततः || ११० || सार्षपफलनिर्यासजातो वा राजिकोद्भवः | दधिजश्चान्नजश्चैव दीपाः सप्त प्रकीर्तिताः || १११ || पद्मसूत्रभवा दर्भगर्भसूत्रभवाऽथवा | शणजा बादरी वापि फलकोषोद्भवा तथा || ११२ || वर्तिका दीपकृत्येषु सदा पञ्चविधाः स्मृताः | तैजसं दारवं लौहं मार्तिक्यं नारिकेलजम् || ११३ || तृणध्वजोद्भवं वापि दीपपात्रं प्रशस्यते | दीपवृक्षाश्च कर्तव्यास्तैजसाद्यैस्तु भैरव || ११४ || वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन | सर्वसहा वसुमती सहते न त्विदं द्वयम् || ११५ || अकार्यपादघातं च दीपतापं तथैव च | तस्माद् यथा तु पृथ्वी तापं नाप्नोति वै तथा || ११६ || दीपं दद्यान्महादेव्यै अन्येभ्योऽपि च भैरव | कुर्वन्तं पृथिवीतापं यो दीपमुत्सृजेन्नरः || ११७ || स ताम्रतापं नरकं प्राप्नोत्येव शतं समाः | सुवृत्तवर्तिः सुस्नेहः पात्रमग्नः सुदर्शनः || ११८ || सूच्छ्राये वृक्षकोटौ तु दीपं दद्यात् प्रयत्नतः | लभ्यते यस्य तापस्तु दीपस्य चतुरङ्गुलात् || ११९ || न स दीप इति ख्यातो ह्योघवह्निस्तु स श्रुतः | नेत्राह्लादकरः स्वर्चिर्दूरतापविवर्जितः || १२० || सुशिखः शब्दरहितो निर्धूमो नातिह्रस्वकः | दक्षिणावर्तवर्तिस्तु प्रदीपः श्रीविवृद्धये || १२१ || दीपवृक्षस्थिते पात्रे शुद्धस्नेहप्रपूरिते | दक्षिणावर्तवर्त्या तु चारुदीप्तः प्रदीपकः || १२२ || उत्तमः प्रोच्यते पुत्र सर्वतुष्टिप्रदायकः | वृक्षेण वर्जितो दीपो मध्यमः परिकीर्तितः || १२३ || विहीनः पात्रतैलाभ्यामधमः परिकीर्तितः | शाणं वा दारवं वस्त्रं जीर्णं मलिनमेव वा || १२४ || उपयुक्तं च नादद्याद् वर्तिकार्थं तु साधकः | उपादद्यान्नूत्नमेव सततं श्रीविवृद्धये || १२५ || कोषजं रोमजं वस्त्रं वर्तिकार्थं न चाददेत् | न मिश्रीकृत्य दद्यात् तु दीपे स्नेहघृतादिकान् || १२६ || कृत्वा मिश्रीकृतं स्नेहं तामिस्रं नरकं व्रजेत् | वसामज्जास्थिनिर्यासैः स्नेहैः प्राण्यङ्गसम्भवैः || १२७ || प्रदीपं नैव कुर्यात् तु कृत्वा पङ्केऽवसीदति | अस्थिपात्रेऽथ वा पच्येद् दुर्गन्धास्थिपवासिनि || १२८ || नैवं दीपः प्रदातव्यो विबुधैः श्रीविवृद्धये | नैव निर्वापयेद् दीपं कदाचिदपि यत्नतः || १२९ || सततं लक्षणोपेतं देवार्थमुपकल्पितम् | न हरेज्ज्ञानतो दीपं तथा लोभादिना नरः || १३० || दीपहर्ता भवेदन्धः काणो निर्वापको भवेत् | उद्दीप्तदीपप्रतिमं काष्ठकाण्डसमुद्भवं || १३१ || बिल्वेघ्मोद्भवमेवाथ दीपालाभे निवेदयेत् | उल्मुकं नैव दीपार्थे कदाचिदपि चोत्सृजेत् || १३२ || प्रसन्नार्थं तु तं दद्यादुपचाराद् बहिष्कृतम् | एवं वां कथितो दीपो धूपं च शृणुतं सुतौ || १३३ || नासाक्षिरन्ध्रसुखदः सुगन्धोऽतिमनोहरः | दह्यमानस्य काष्ठस्य प्रयतस्येतरस्य च || १३४ || परागस्याथवा धूमो निस्तापो यस्य जायते | स धूप इति विज्ञेयो देवानां तुष्टिदायकः || १३५ || राशीकृतैर्न चैकत्र तैर्द्रव्यैः परिधूपयेत् | तुषाग्निवर्तुलां कृत्वा न तत् फलमवाप्नुयात् || १३६ || श्रीचन्दनं च सरलः शालः कृष्णागुरुस्तथा | उदयः सुरथस्कन्दो रक्तविद्रुम एव च || १३७ || पीतशालः परिमलो विर्मदी काशलस्तथा | नमेरुर्देवदारुश्च बिल्वसारोऽथ खादिरः || १३८ || सन्तानः पारिजातश्च हरिचन्दनवल्लभौ | वृक्षेषु धपाः सर्वेषां प्रीतिदाः परिकीर्तिताः || १३९ || अरालः सह सूत्रेण श्रीवासः पट्टवासकः | कर्पूरः श्रीकरश्चैव परागः श्रीहरामलौ || १४० || सर्वौषधीप आतीच वराहश्चूर्णं उत्कलः | जातीकोषस्य चूर्णं च गन्धः कस्तूरिका तथा || १४१ || क्षोदे वृत्ते च गदिता धूपा एते उदाहृताः | यक्षधूपो वृक्षधूपः श्रीपिष्टोऽगुरु झर्झरः || १४२ || पत्रिवाहः पिण्डधूपः सुगोलः कण्ठ एव चः | अन्योन्ययोगा निर्यासा धूपा एते प्रकीर्तिताः || १४३ || एतैर्विधूपयेद् देवान् धूमिभिः कृष्णवर्त्मना | येषां धूपोद्भवैर्घ्राणैस्तुष्टिं गच्छन्ति जन्तवः || १४४ || निर्यासश्च परागश्च काष्ठं गन्धं तथैव च | कृत्रिमश्चेति पञ्चैते धूपाः प्रीतिकराः पराः || १४५ || न यक्षधूपं वितरेन्माधवाय कदाचन | न रक्तं विद्रुमं मह्यं सुरथं कद्र्लं तथा || १४६ || यक्षधूपः पुत्रिवाहः पिण्डधूपः सुगोलकः | कृष्णागुरुः सकर्पूरो महामायाप्रियः स्मृतः || १४७ || वृक्षधूपेन वा देवीं महामायां प्रपूजयेत् | मेदोमज्जासमायुक्तान् न धूपान् विनियोजयेत् || १४८ || परकीयांस्तथाघ्रातांस्तेऽपि कृत्याभिमर्दितान् | पुष्पं धूपं च गन्धं च उपचारांस्तथापरान् || १४९ || घ्रात्वा निवेद्य देवेभ्यो नरो नरकमाप्नुयात् | न भूमौ वितरेद् धूपं नासने न घटे तथा || १५० || यथातथाधारगतं कृत्वा तद् विनिवेदयेत् | रक्तविद्रूमशालौ च सुरथः सुरलस्तथा || १५१ || सन्तानको नमेरुश्च कालागुरुसमन्वितः | जातीकोषाक्षसंयुक्तो धूपः कामेश्वरीप्रियः || १५२ || त्रिपुरायास्तथैवायं मातृणामपि नित्यशः | सर्वेषां पीठदेवानां रुद्रादीनां च पुत्रकौ || १५३ || एष वां कथितो धूपः शृणु तन्नेत्ररञ्जनम् | येन तुष्यति कामाख्या त्रिपुरा वैष्णवी तथा || १५४ || सौवीरं यामुनं तुत्थ्रं मयूरग्रीवकं तथा | दर्विका मेघनीलश्च अञ्जनानि भवन्ति षट् || १५५ || स्रवद्द्रुमं च सौवीरं यामुनं प्रस्तरं तथा | मयूरग्रीवकं रत्नं मेघनीलस्तु तैजसम् || १५६ || घृष्ठानि ग्राह्य चैतानि शिलायां तैजसेऽथ वा | प्रदद्यात् सर्वदेवेभ्यो देवीभ्यश्चापि पुत्रक || १५७ || घृततैलादियोगेन ताम्रादौ दीपवह्निना | यदञ्जनं जायते तु दर्विका परिकीर्तिता || १५८ || सर्वाभावे तु तद् दद्याद् देवीभ्यो दाहजाञ्जनम् | महामाया जगद्धात्री कामाख्या त्रिपुरा तथा || १५९ || आप्नुवन्ति महातोषं षड्भिरेभिः सदाञ्जनैः | विधवा नाञ्जनं कुर्यान्महामायार्थमुत्तमम् || १६० || नादत्ते त्वञ्जनं देवी वैष्णवी विधवाकृतम् | त मृत्पात्रे योजयेत् तु साधको नेत्ररञ्जनम् || १६१ || न पूजाफलमाप्नोति मृत्पात्रविहिताञ्जनैः | चतुर्वर्गप्रदो धूपः कामदं नेत्ररञ्जनम् || १६२ || तस्माद् द्वयमिदं दद्याद् देवेभ्यो भक्तितो नरः | इति वां गदितो धूपस्तथोक्तं नेत्ररञ्जनम् | नैवेद्यं तु महादेव्याः शृण्वैकाग्रमनाः पुनः || १६३ || इति श्रीकालिकापुराणे एकोनसप्ततितमोऽध्यायः || ६९ || सप्ततितमोऽध्यायः श्रीभगवानुवाच निवेदनीयं यद् द्रव्यं प्रशस्तं प्रयतं तथा | तद्भक्ष्याद्यं पञ्चविधं नैवेद्यमिति गद्यते || १ || भक्ष्यं भोज्यं च लेह्यं च पेयं चोष्यं च पञ्चमम् | सर्वत्र चैतन्नैवेद्यमाराध्येष्टे निवेदयेत् || २ || तेषु प्रियतरं देव्याः कथये शृणुतं तु वाम् | भक्ष्यादिपञ्चकैर्देवी दत्तैरेवाभितुष्यति || ३ || नादत्ते विधिवत् किंचिद् दत्तं चैतन्न विद्यते | नागरं च कपित्थं च द्राक्स्.आं क्रमुकमेव च || ४ || करकं वरदं कोलं कुष्माण्डं पनसं तथा | बकुलं च मधूकं च रसालाम्रातकेशरम् || ५ || आक्षोडं पिण्डखर्जूरं करुणं श्रीफलं तथा | औदुम्बरं च पुन्नागं माधवं कर्कटीफलम् || ६ || जाम्बवं पिण्डखर्जूरं बीजपूरं च जाम्बवम् | हरीतकीमामलक षड्विधं नागरङ्गकम् || ७ || देवकं मधुकं शीतं पटोलं क्षीरवृक्षजम् | पाटलं शालजं वृन्तमग्निजं कदलीफलम् || ८ || तिन्दुकं कुसुमं पीतं कारविन्दं करूषकम् | गर्भावर्तं च तत्पुष्पं क्षीरस्राव्यमनङ्गजम् || ९ || कुमुदानां पङ्कजानां फलानि विविधानि च | वन्यानां सकलैर्देवीं फलैः पुष्पैः प्रपूजयेत् || १० || ऋते श्लेष्मातकं बिम्बशैलकं वैष्णवीं तथा | सर्वेषां फलजातीनां मध्ये देवीप्रियं फलम् || ११ || लाङ्गलं मातुलुङ्गं च करमर्दं रसालकम् | एवं फलानि देयानि कामाख्यायै च भैरव || १२ || त्रिपुरायै तथा सम्यक् पीठदेवीभ्य एव च | शृङ्गाटकं कशेरुं च शालूकं च मृणालकम् || १३ || शृङ्गवेरं काञ्चनं च स्थूलं कन्दं बकुलकम् | एवमादीनि कनानि देव्यै सर्वाणि चोत्सृजेत् || १४ || परमान्नं पिष्टकं च यावकं कृशरं तथा | मोदकं पृथुकादीनि कन्दुपक्वानि चोत्सृजेत् || १५ || हविःशाल्योदनं दिव्य माज्ययुक्तं सशर्करम् | निवेदयेन्महादेव्यै सर्वाणि व्यञ्जनानि च || १६ || क्षीरादीन्यथ गव्यानि माहिष्याणि च सर्वशः | अजाविकमृगाणां च क्षीरादीनि निवेदयेत् || १७ || मध्वादीनि च सर्वाणि गुडधानाः सितां तथा | अन्नानि चैव पानानि मांसानि विनिवेदयेत् || १८ || सर्वं सुरभिगन्धाढ्यं व्यञ्जनं सुमनोहरम् | शाकमांसादिसम्भूतं माहादेव्यै निवेदयेत् || १९ || आमिषं परमान्नं च दधिसर्पिः सशर्करम् | महादेव्यै निवेद्याथ वाजिमेधफलं लभेत् || २० || सितासम्मिश्रितां दत्त्वा सुरां मधुसमन्विताम् | देवीलोके चिरं स्थित्वा राजा क्षितितले भवेत् || २१ || लाङ्गलं क्रमुकं दत्त्वा रुचकं करमर्दकम् | सौभाग्ममतुलं प्राप्य देवीलोके महीयते || २२ || माषान् मुद्गान् मसूरांश्च-तिलान् भङ्गास्तथैव च | यवादीन्यथ सर्वाणि यथायोग्यं निवेदयेत् || २३ || यथा यथा भवेद्भक्ष्यं यथा द्रव्यं तथा तथा | संस्कृत्य वेशवाराद्यैर्महादेव्यै निवेदयेत् || २४ || महावीरो मुनिर्वापि ब्राह्मणश्चेतरोऽथ वा | यद् यद् भक्ष्यं स्वमर्थं तु प्रकल्प्यं स्याद् यथा यथा || २५ || तथा तथा महादेव्यै भक्तियुक्तो निवेदयेत् | संस्कार्याण्यथ संस्कृत्य यथा संस्कारकं भवेत् || २६ || संस्कार्यश्च यथा तस्यास्तत्तद् दद्यात्तथा तथा | यत्पूतिगन्धसंयुक्तं दग्धं भोज्यंविवर्जितम् || २७ || तदुक्तमपि नो दद्यान्महादेव्यै कदाचन | ताम्बूलं गन्धसंयुक्तं कर्पूराद्यधिवासितम् || २८ || सञ्चूर्णेर्जलजानां च संस्कृतं विनिवेदयेत् | वलिदानेषु विहिता य एव मृगपक्षिणः || २९ || तेषां मांसानि मत्स्यानां मांसानि निवेदयेत् | खड्गवार्ध्रीणसच्छागमांसैर्मिश्रीकृतैः कृतम् || ३० || व्यञ्जनं स्वादुगन्धाढ्यं पासितं सुमनोहरम् | सकृद् दत्त्वा महादेव्यै सार्वभौमो नृपो भवेत् || ३१ || मूलकैरेणमांसेन लोहपात्रे सुसंस्कृतम् | व्यञ्जनं गन्धिनं दत्त्वा देवीलोकमवाप्नुयात् || ३२ || खर्जूरं पिण्डखर्जूरं यवचूर्णं च साज्यकम् | वैष्णव्यै विनिवेद्यैव राजसूयफलं लभेत् || ३३ || कृशरान्नप्रदानेन सौभाग्यमतुलं भवेत् | दत्त्वैव नारिकेलाम्बु वह्निष्टोमफलं लभेत् || ३४ || जाम्बवं लवली-धात्री-श्रीफलानि निवेद्य च | वह्निष्टोमफलं लब्ध्वा देवीलोकमवाप्नुयात् || ३५ || द्राक्षां सितासमायुक्तां नागरङ्गकसंयुताम् | विनिवेद्य महादेव्यै लक्ष्मीवान् रूपवान् भवेत् || ३६ || धान्यं च पृथुकं देव्यै दत्त्वा श्रियमवाप्नुयात् | इक्षुदण्डं मुद्गमण्डं नवनीतं निवेद्य च || ३७ || सौभाग्यमुत्तमं प्राप्य देवीलोके महीयते | नवनीतसमायुक्तं तिलं देव्यै निवेद्य च || ३८ || इह कामानवाप्यैव मृतो मोक्षमवाप्नुयात् | अभक्ष्यवर्ज्यं सर्वान्नं व्यञ्जनेन समन्वितम् || ३९ || भोज्यवत् परिकल्प्याथ महादेव्यै निवेदयेत् | रत्नतोयसमायुक्तं सलिलं नारिकेलजम् || ४० || क्षीराज्यमधुभिर्मिश्रं सितादधिसमन्वितम् | यस्तैजसेन पात्रेण पेयं देव्यै निवेदयेत् || ४१ || भक्तिप्रवणचित्तेन तस्य पुण्यफलं शृणु | कल्पकोटिसहस्राणि कल्पकोटिशतानि च || ४२ || स्थित्वा देवीपुरे धीरः सार्वभौमो भवेत् क्षितौ | ततः परं तु कैवल्यमाप्नोति च यथेच्छया || ४३ || कलायं च सनीवारं क्वथितं दधिसंयुतम् | महादेव्यै निवेद्यैव काममिष्टमवप्नुयात् || ४४ || मरिचं पिप्पलीकोलं जीरकं तन्तुभं तथा | संस्कारे च समक्षे च महादेव्यै निवेदयेत् || ४५ || तिन्तिडीं खण्डसंयुक्तां भक्तियुक्तो निवेद्य च | ज्योतिष्टोमफलं लब्ध्वा देवीलोकमवाप्नुयात् || ४६ || राजमाषं मसूरं च पालङ्कं चाथ पोतिकाम् | कालशाकं कलायं च ब्राह्मीमूलकमेव च || ४७ || वास्तूकं च कलम्बीं च कञ्चुकं हिलमोचिकाम् | चक्रं विद्रुमपत्रं च तथैव च पुनर्नवाम् || ४८ || शाकानेतान् महादेव्यि योजयेद् भक्तिसंयुतः | सोऽतुलां श्रियमाप्नोति मम लोके महीयते || ४९ || श्रद्धापरीष्टिसंस्कारभक्तिद्रव्याभिसम्भ्रमम् | रागाधिक्यात् फलाधिक्यं हीनाद् वै हीनतां व्रजेत् || ५० || मन्त्रकालविरुद्धानि नैवेद्यानि कदाचन | देवेभ्यो नोपयुञ्जीत गुरुताविहितानि च || ५१ || राजते वाऽथ सौवर्णे ताम्रे वा प्रस्तरेऽपि च | पद्मपत्रेऽथवा दद्यान्नैवेद्यं मत्प्रियाप्रियम् || ५२ || तैजसेषु च पात्रेषु सौवर्णं ताम्रमेव वा | प्राशनार्थमुपादद्यादर्घ्यपात्रार्थमेव वा || ५३ || यज्ञदारुमयं वापि पात्रः मध्यममिष्यते | सर्वालाभे तु माहेयं स्वहस्तघटितं यदि || ५४ || एतद् वां कथितं पुत्रौ नैवेद्यं वैष्णवीप्रियम् | कामाख्यायास्तथा देव्यास्त्रिपुराया विशेषतः | प्रदक्षिणनमस्कारौ साम्प्रतं शृणुतं युवाम् || ५५ || इति श्रीकालिकापुराणे सप्ततितमोऽध्यायः || ७० || एकसप्ततितमोऽध्यायः श्रीभगवानुवाच प्रसाय दक्षिणं हस्तं स्वयं नम्रशिराः पुनः | दक्षिणं दर्शयन् पार्श्वं मनसापि च दक्षिणः || १ || सकृत् त्रिर्वा वेष्टयेयुर्दैव्याः प्रीतिः प्रजायते | स च प्रदक्षिणो ज्ञेयः सर्वदेवौघतुष्टिदः || २ || अष्टोत्तरशतं यस्तु देव्याः कुर्यात् प्रदक्षिणम् | अ सर्वकाममासाद्य पश्चान्मोक्षमवाप्नुयात् || ३ || मनसापि च यो दद्याद् देव्यै भक्त्या प्रदक्षिणम् | प्रदक्षिणाद् यमगृहे नरकाणि न पश्यति || ४ || कायिको वाग्भवश्चैव मानसस्त्रिविधिः स्मृतः | नमस्कारः श्रुतस्तज्ज्ञैरुत्तमाधममध्यमः || ५ || प्रसार्य पादौ हस्तौ च पतित्वा दण्डवत् क्षितौ | जानुभ्यामवनिं गत्वा शिरसास्पृश्य मेदिनीम् || ६ || क्रियते यो नमस्कार उत्तमः कायिकस्तु सः | जानुभ्यां च क्षितिं स्पृष्ट्वा शिरसास्पृश्य मेदिनीम् || ७ || क्रियते यो नमस्कारो मध्यमः कायिकः स्मृतः | पुटीकृत्य करौ शीर्षे दीयते यद् यथा तथा | अस्पृष्ट्वा जानुशीर्षाभ्यां क्षिति सोऽधम उच्यते || ८ || या स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः | क्रियते भक्तियुक्तेन वाचिकस्तूत्तमस्तु सः || ९ || पौराणिकैर्वैदिकैर्वा मन्त्रैर्वा क्रियते नतिः | स मध्यमो नमस्कारो भवेद् वाचनिकः सदा || १० || यत् तु मानुष्यवाक्येन नमनं क्रियते सदा | स वाचिकोऽधमो ज्ञेयो नमस्कारेषु पुत्रकौ || ११ || इष्टमध्यानिष्टगतैर्मनोभिस्त्रिविधं पुनः | नमनं मानसं प्रोक्तमुत्तमाधममध्यमम् || १२ || त्रिविधे च नमस्कारे कायिकश्चोत्तमः स्मृतः | कायिकैस्तु नमस्कारैर्द्वास्तुष्यन्ति नित्यशः || १३ || यमेव नमस्कारो दण्डादिप्रतिनामभिः | प्रणाम इति विज्ञेयः स पूर्वं प्रतिपादितः || १४ || नैवेद्येन भवेत् सर्वं नैवेद्यनामृतं भवेत् | धर्मार्थकाममोक्षाश्च नैवेद्येषु प्रतिष्ठिताः || १५ || सर्वयज्ञमयं नित्यं नैवेद्यं सर्वतुष्टिदम् | ज्ञानदं कामदं पुण्यं सर्वभोग्यमयं तथा || १६ || मनसापि महादेव्यै नैवेद्यं दातुमिच्छति | यो नरो भक्तियुक्तः सन् स दीर्घायुः सुखी भवेत् || १७ || महामायां सदा देवीमर्चयिष्यामि भक्तितः | नानाविधैस्तु नैवेद्यैरिति चिन्ताकुलस्तु यः | स सर्वकामान् सम्प्राप्य मम लोके महीयते || १८ || मनसापि च यो दद्याद् देव्यै भक्त्या प्रदक्षिणम् | स दक्षिणे यमगृहे नरकाणि न पश्यति || १९ || देवमानुषगन्धर्वा यक्षराक्स्ऽसपन्नगाः | नमस्कारेण तुष्यन्ति महात्मानः समन्ततः || २० || नमस्कारेण लभते चतुर्वर्गं महामतिः | सर्वत्र सर्वसिद्ध्यर्थं नतिरेव प्रशस्यते || २१ || नत्या विजयते लोकान्नत्यायुरपि वर्धते | नमस्कारेण दीर्घायुरच्छिन्ना लभते प्रजाः || २२ || नमस्कुरु महादेव्यै प्रदक्षिणमथो कुरु | नैवेद्यं देहि नितरामिति यो भाषते मुहुः | सोऽपि कामानवाप्येह मम लोके प्रमोदते || २३ || विदधाति च नैवेद्यं महादेव्यै सुभक्तिमान् | दातुं प्रति नरः सोऽपि देवीलोकमवाप्नुयात् || २४ || इति वां कथिताः सम्यगुपचारास्तु षोडश | किमन्यद्रुचितं वां तत् कथयिष्यामि पृच्छतोः || २५ || इति श्रीकालिकापुराणे षोडशोपचारनिर्णये एकसप्ततितमोऽध्यायः || ७१ || द्विसप्तितमोऽध्यायः श्रीभगवानुवाच कामाख्यायाश्च माहात्म्यं शृणुतं च वदामि वाम् | साङ्ग तद् सरहस्यं च शृणु वेताल भैरव || १ || एकदा गरुडेनाशु विष्णुर्विष्णुपरायणौ | गच्छन् देवीं तु कामाख्यां नीलस्थामाससाद ह || २ || आसाद्य तं गिरिश्रेष्ठमवज्ञाय स केशवः | गच्छ गच्छेति गरुडं चोदयामास तं गतौ || ३ || तं च देवी महामाया कामाख्या जगतां प्रसूः | गरुडेन समं कृष्णं स्तम्भयामास रोदसी || ४ || स तु गन्तुं महामाया-मायया परिमोहितः | न गन्तुमथ वागन्तुमशकद् बद्धवत् स्थितः || ५ || अशक्तं गरुडं दृष्ट्वा गमने गरुडध्वजः | क्रुद्धस्तं पर्वतश्रेष्ठमुत्सारयितुमुद्यतः || ६ || ततः कराभ्यां तं शैलं क्रोडीकृत्य जगत्पतिः | अभूत् क्षमश्चालयितुं मनागपि न केशवः || ७ || तं चिचालयिषुं शैलं कामाख्या क्रोधतत्परा | सिद्धसूत्रेण वैकुण्ठं बबन्ध गरुडेन हि || ८ || तं बद्द्वा सिद्धसूत्रेण ग्राहाग्रे लवणार्णवे | चिक्षेप हेलया देवी संक्षेपात् प्रापतत् तलम् || ९ || तं सागरतलं प्राप्तं पुनरेव स्वमायया | यन्त्रयित्वा समाक्रम्य जग्राहाब्धितल स्थितम् || १० || स प्रयत्नेन महता नोत्प्लुतिं कर्तुंमिष्टवान् | महायत्नं प्रकुर्वाणः पुनरुन्मज्जने हरिः || ११ || तस्यासारं प्रसारं च कामाख्या प्रतिषेधयेत् | ज्ञानोद्गमनमप्यस्य सा देवी प्रतिषेधयेत् || १२ || ततः प्रज्ञानरहितः प्रसारासारवर्जितः | गरुडेन समं तोयतले शीर्णमभूच्चिरम् || १३ || मार्गमाणस्तु तं स्रष्टा सागरान्तरसंस्थितम् | हरिमासादयामास विशीर्णं प्राकृतं यथा || १४ || तमासाद्य सतार्क्ष्यं तु स्रष्टा लोकपितामहः | हस्ताभ्यां त समादाय वोत्प्लावयितुमिष्टवान् || १५ || तमुत्प्लावयितुं शक्तो नाभूल्लोकपितामहः | स्वयं च देवीमावाभिर्बद्धः सन् विम्सयन् स्थितः || १६ || मार्गमाणास्तु ते सर्वे देवाः शक्रपुरोगमाः | चिरेण चाथ कालेन समासे दुर्जलान्तरे || १७ || तावासाद्य ततः सर्वे सुराः शक्रपुरोगमाः | समुत्प्लावयितुं यत्नं चक्रुर्नाशक्नुवंश्च ते || १८ || ततः सर्वेऽपि ते देवा मोहिता मायया भृशम् | विधिंविष्ण स्थितौ यद्वत् तद्वत् ते तत्र संस्थिताः || १९ || मार्गमाणोऽथ तान् सर्वान् देवान् देवगुरुस्तदा | बृहस्पतिंर्महादेवं हिमवत् सानुसंस्थितम् || २० || समासाद्य स देवानां वृत्तान्तं देवपूजितः | पृष्टवान् सादरं सम्मक् स्तुत्वा नत्वा यथाविधि || २१ || गुरुरुवाच - महादेव जगद्धाम जगत्प्रशमकारण | शक्रादीन्मार्गमाणोऽहं देवांस्त्वां समुपस्थितः || २२ || ब्रह्मा विष्णुश्च न ब्रह्मसदने नापि नाकतः | संस्थितौ नापि कुत्रापि ज्ञायेने ह्यन्यदा यथा || २३ || तमिमं संशयं देव च्छिन्धि त्वं देवदेवताः | कुत्र तिष्ठन्ति कस्माद् वा तथा भूत्वा ह्यवस्थिताः || २४ || अनुयास्यामि तान् सर्वानुपदेशात् तव प्रभो | तेषां स्थितिं त्वं कथय यदि ते वर्तते दया || २५ || तस्य तद् वचनं श्रुत्वा तदुद्देशमहं पुनः | तत् सर्वमुक्तवान् कर्म यथा बद्धाश्च मायया || २६ || अवज्ञाता महादेवी महामाया जग्गन्मयी | तेन तन्मायया बद्धो विष्णुस्तिष्ठति सागरे || २७ || तं मार्गमाणास्त्रिदशा ब्रह्माद्या मायया पुनः | निबद्धा निकटे तस्य स्थिताश्चात्यर्थसंयताः || २८ || तांस्तु मार्गयितुं यासि यदिह त्वं मया विना | बद्धस्तथैव त्वं चापि नायातुं भविता प्रभुः || २९ || तस्माद् गच्छाम्यहं तत्र यत्रास्ते गरुडध्वजः | ब्रह्मेन्द्राद्यास्तथा गुप्तान्मोचयिष्ये च तान् क्रमात् || ३० || इत्युक्त्वा गरुणा सार्धं सम्भूय स वृषध्वजः | देवौघा यत्र तिष्ठन्ति गतस्तत्र महेश्वरः || ३१ || तत्र गत्वा महादेवो विष्णुमाभाष्य वेधसम् | सर्वांस्तान् परिपप्रच्छ किमर्थं संस्थितास्त्विह || ३२ || गतागतविहीनाश्च जडवज्ज्ञानवर्जिताः | किमर्थमभवन् देवास्तन्मे भाषन्तु सम्प्रति || ३३ || तस्य तद्वचनं श्रुत्वा महादेवस्य केशवः | शनैर्भर्गमुवाचेदं ब्रह्मादीनां पुरस्तदा || ३४ || श्री भगवाननुवाच नीलकूटस्य शिखरादूर्ध्वभागेन गच्छता | वियता गरुडस्थेन मया नीलो महागिरिः || ३५ || धृतः करेण चोद्धर्तुं गरुडागतिवारणे | तत्र मां सा महामाया कामाख्या कामरूपिणी || ३६ || योगनिद्रा स्वयं धृत्वा चिक्षेपाम्बुधिपुष्करे | ततोऽहं तलमासाद्य तोयराशेः सवाहनः || ३७ || पतितो निवसाम्यत्र चिरमन्धकसूदन | निवसामि चिरं चाहमत्र सागरतोयके || ३८ || नाद्यापि सा महामाया नुदते मां महेश्वर | मदर्थमागता देवा ब्रह्मेन्द्राद्याः समन्ततः || ३९ || तेऽपि बद्धा महादेव्या मायापाशेन वै हठात् | तस्मान्नो ह्यनुगृह्णीष्व नयेदानीं शिवालये || ४० || तां च प्रसादयिष्यामः सम्यग्बन्धविहिंसया | हरेस्तद्वचनं श्रुत्वा ह्यहं च करुणायुतः || ४१ || उवाच परमप्रीत्या विधिविष्णू प्रति स्वयम् | ईश्वर्याः कामपूर्वायाः कवचं सुमनोहरम् || ४२ || बद्ध्वा शरीरे चाप्लाव्य पश्चाद् गच्छन्तु तां प्रति | अहं निबद्धकवचस्तेनाहं मायया त्विह || ४३ || न बद्धो मम संसर्गात् तथा चेह बृहस्पतिः | तस्माद् यूयं तु कवचं शृणुध्व अचनान्मम || ४४ || येन सौख्यात् समुत्प्लुत्य द्रक्ष्यामः परमेश्वरीम् | ओं कामाख्याकवचस्यर्षिर्बृहस्पतिः स्मृतः || ४५ || देवी कामेश्वरी तस्य अनुष्टुप्छन्द इष्यते | विनियोगः सर्वसिद्धौ तं च शृण्वन्तु देवताः || ४६ || सिरः कामेश्वरी देवी कामाख्या चक्षुषी मम | सारदा कर्णयुगलं त्रिपुरावदनं तथा || ४७ || कण्ठे पातु महामाया हृदि कामेश्वरी पुनः | कामाख्या जठरे पातु शारदा मां तु नाभितः || ४८ || त्रिपुरा पार्श्वयोः पातु महामाया तु मेहने | गुदे कामेश्वरी पातु कामाख्योरुद्धये तु माम् || ४९ || जानुनोः शारदा पातु त्रिपुरा पातु जङ्घयोः | महामाया पादयुगे नित्यं रक्षतु कामदा || ५० || केशे कोटेश्वरी पातु नासायां पातु दीर्घिका | भैरवी दन्तसंघाते मातंग्यवतु चाङ्गयोः || ५१ || बाह्वोर्मां ललिता पातु पाण्योस्तु वनवासिनी | विन्ध्यवासिन्यङ्गुलिषु श्रीकामा नखकोटिषु || ५२ || रोमकूपेषु सर्वेषु गुप्तकमा सदावतु | पादाङ्गुलिपार्ष्णिभागे पातु मां भुवनेश्वरी || ५३ || जिह्वायां पातु मां सेतुः कः कण्ठाभ्यन्तरेऽवतु | लः पातु चान्तरे वक्ष हः पातु जठरान्तरे || ५४ || सामीन्दुः पातु मां अस्ताविन्दुबिन्द्वन्तरेऽवतु | अकारस्त्वचि मां पातु रकारोऽस्थिषु सर्वदा || ५५ || लकारः सर्वनाडीषु ईकारः सर्वसन्धिषु | चन्द्रः स्नायुषु मां पातु विन्दुमज्जासु सन्ततम् || ५६ || पूर्वस्यां दिशि चाग्नेययां दक्षिणे नैर्-ऋते तथा | वारु.एन् चैव वायव्यां कौबेरे हरमन्दिरे || ५७ || अकाराद्यास्तु वैष्णव्या अष्टौ वर्णास्तु मन्त्रगाः | पान्तु तिष्ठन्तु सततं समुद्भवविवृद्धये || ५८ || ऊर्ध्वाधः पातु सततं मां तु सेतुद्वयं सदा | नवाक्षराणि मन्त्रेषु शारदामन्त्रगोचरे || ५९ || नवस्वरं तु मां नित्यं नासादिषु समन्ततः | वातपित्तकफेभ्यस्तु त्रिपुरायास्तु त्र्यक्षरम् || ६० || नित्यं रक्षतु भूतेभ्यः पिशाचेभ्यस्तथैव च | तत्सेतू सततंपातां क्रव्याद्भ्यो मान्निवारकौ || ६१ || नमः कामेश्वरी देवीं महामायां जगन्मयीम् | या भूत्वा प्रकृतिर्नित्यं तनोति जगदाद्यताम् || ६२ || कामाख्यामक्षमालाभयवरदकरां सिद्धसूत्रैकहस्तां- श्वेतप्रेतोपरिस्थां मणिकनकयुतां कुङ्कुमापीतवर्णाम् | ज्ञानध्यानप्रतिष्ठामतिशयविनयां ब्रह्मशक्रादिवन्द्यामग्नौ बिन्द्वन्तमन्त्रप्रियतमविषयां नौमि सिद्ध्यै रतिस्थाम् || ६३ || मध्ये मध्यस्य भागे सततविनमिता भावहावावलीया- लीला लोकस्य कोष्ठे सकलगुणयुता व्यक्तरूपैकनम्रा | विद्याविद्यैकशान्ता शमनशमकरी क्षेमकर्त्री वरास्या नित्यं पातात् पवित्रप्रणववरकरा कामपूर्वैश्वरी नः || ६४ || इति हरकवचं तनुस्थितं शमयति वै शमनं तथा यदि | इह गृहाण यतस्व विमोक्षणे सहित एष विधिः सह चामरैः || ६५ || इत्ययं कवचं यस्तु कामाख्यायाः पठेद् बुधः | सकृत् तं तु महादेवी त्वनुव्रजति नित्यदा || ६६ || नाधिव्याधिभयं तस्य न क्रव्याद्भ्यो भयं तथा | नाग्नितो नापि तोयेभ्यो न रिपुभ्यो न राजतः || ६७ || दीर्घायुर्बहुभोगी च पुत्रपौत्रसमन्वितः | आवर्तयञ्छतं देवी-मन्दिरे मोदते परे || ६८ || यथा तथा भवेद् बद्धः संग्रामेऽन्यत्र वा बुधः | तत् क्षणादेव मुक्तः स्यात् स्मरणात् कवचस्य तु || ६९ || ईश्वर उवाच इति श्रुत्वा तु कवचं हरिर्ब्रह्मा सुरास्तथा | शक्रोऽपि कवच देहे न्यासं चक्रुः पृथक् पृथक् || ७० || ते तु विन्यस्तकवचा महामायाप्रभावतः | उत्प्लुप्य सागरस्याम्भ आसेदुः क्षितिमञ्जसा || ७१ || आसाद्य पृथिवीं सर्वे ब्रह्मविष्णवादयः सुराः | नीलकूटं समासाद्य कामाख्यां द्रष्टुमागताः || ७२ || दृष्ट्वा कामेश्वरीं देवी केशवस्तां जगन्मयीम् | इदमाह स्वयं ज्ञात्वा प्रभावं तत् प्रतिष्ठितम् || ७३ || त्वमेव प्रकृतिर्देवी त्वमेव पृथिवी जलम् | त्वमेव जगतां माता त्वमेव च जगन्मयी || ७४ || त्वं कर्त्री सर्वजगतां विद्या त्वं मुक्तिदायिनी | परापरात्मिका देवी स्थूलसूक्ष्मात्मिका तथा || ७५ || प्रसीद त्वं महादेवि प्रसन्नायां शुभे त्वयि | देवाः सर्वे प्रसीदन्ति चतुर्वर्गप्रदेऽनघे || ७६ || रत्यक्षरूपा कामाख्या केशवस्य महात्मनः | प्रत्यक्षरूपा कामाख्या हरिमाभाष्य चाब्रवीत् || ७७ || देव्युवाच - केशव ब्रह्मणा सार्धं सर्वैर्देवैस्तथा गणैः | मद्योनिसलिलेष्वद्य स्नानं पानं कुरु द्रुतम् || ७८ || ततस्त्वं निरहङ्कारः परवीर्यसमन्वितः | आरुह्य गरुडं याहि त्रिदिवं सह वेधसा || ७९ || एवमुक्तो महादेव्या केशवः सह एधसा | योनिमण्डलतोयेषु स्नानं पानं चकार ह || ८० || कृतप्लावास्ततो देवाः कृतस्नानश्च केशवः | गता देव्याश्च सम्मत्या त्रिदिवं प्रति हर्षिताः || ८१ || गच्छन्तस्ते देवगणाः सहिताः केशवेन च | ब्रह्मणा च तदाद्राक्षुः कामाख्यां तां वियद्गताम् || ८२ || नीलकूटसहस्राणि योनिभिः सह तद्गतै | ऊर्ध्वाधोभागयोगेन ददृशुः संस्थितानि च || ८३ || तानि प्रत्येकतो देवा आरुह्यारुह्य तत्क्षणात् | अपुः सस्नुः पूर्ववत् ते प्रीतिमापुस्तथातुलाम् || ८४ || निरामयास्तथा जग्मुर्विस्मयाक्लिष्टचेतनाः | स्तुवन्तः प्रस्तुवन्तश्च कामाख्यायोनिमण्डलम् || ८५ || ततो देवगुरुं नत्वा मां स्तुत्वा च मया पुनः | विसृष्टास्त्रिदिवं याता हर्षोत्फुल्लविलोचनाः || ८६ || माहात्म्यमीदृशं देव्याः कामाख्यास्तु भैरव | कवचं चेदृशं प्रोक्तं तत्त्वमासाद्य पुत्रक || ८७ || यथेष्टविनियोगेन तमासाद्य सुखी भव | कामाख्यायाश्च माहात्म्यं किमन्यत् कथयामि ते || यस्या योनिशिलायोगाल्लोहाद्या यान्ति स्वर्णताम् || ८८ || यद्योनिमण्डले स्नात्वा सकृत् पीत्वा च मानवः | नेहोत्पत्तिमवाप्नोति परं निर्वाणमाप्नुयात् || ८९ || इति श्रीकालिकापुराणे कामाख्याकवचमाहात्म्यवर्णनं नाम विसप्ततितमोऽध्यायः || ७२ || त्रिसप्ततितमोऽध्यायः श्रीभगवानुवाच - मातृकान्यासमधुना शृणु वेताल भैरव | येन देवत्वमायाति नरोऽपि विहितेन वै || १ || वाग् ब्रह्माणीमुखा देव्यो मातृकाः परिकीर्तिताः | तासां मन्त्राणि सर्वाणि व्यञ्जनानि स्वरास्तथा || २ || चन्द्रबिन्दुप्रयुक्तानि सर्वकाम प्रदानि च | ऋषिस्तु मातृमन्त्राणां ब्रह्मैव परिकीर्तितः || ३ || प्रोक्तश्छन्दश्च गायत्री देवता च सरस्वती | शरीरशुद्धिमुख्ये तु सर्वकामार्थसाधने || ४ || विनियोगः समुद्दिष्टो मन्त्राणां न्यूनपूरणे | अकारेण समं कादिर्वर्गो यः प्रथमः स्मृतः || ५ || तैश्चन्द्रबिन्दुसंयुक्तैस्तत्रस्थैरक्षरैर्बहिः | आकारं च तथोच्चार्य अङ्गुष्ठाभ्यां नमस्तथा || प्रथमं मातृकामन्त्रमङ्गुष्ठद्वयतो न्यसेत् || ६ || परे वर्गाः स्वरैः सार्धं ये वान्ये न्यासकर्मणि | ते सर्वे चन्द्रबिन्दुभ्यां युक्ताः कार्यास्तु सर्वतः || ७ || ह्रस्वेकारश्चवर्गेण दीर्घेकारान्तकेन तु || ८ || तर्जन्योर्विन्यसेत् सम्यक् स्वाहान्तेन तु पूर्ववत् | ह्रस्वोकारष्टवर्गेण दीर्गोकारान्तकेन तु || ९ || मध्यमायुगले सम्यग्वषडन्तेन् विन्यसेत् | एकारादितवर्गन्तु ऐकारान्तेन चैव हुम् || १० || न्यसेदनामिकायुग्मे नियतं तत्र भैरव | कारादिपवर्गं तु औकारान्तमशेषतः || ११ || वौषडन्तं कनिष्ठायां विन्यसेत् कार्यसिद्धये | अंकारादियकारादिवर्गेण क्षान्तकेन तु || १२ || अ इत्यन्तेन वलयोर्विन्यसेत् पाणिपृष्ठयोः | वषट्कारं शेषभागे अंगत्रन्यासे नियोजयेत् || १३ || हृदयादिषडङ्गेषु पूर्ववत् क्रमतो न्यसेत् | अङ्गुष्ठाद्युक्तवर्गैस्तु क्रमात् षड्भिस्तथाविधैः || १४ || पुनस्तथा पादजानुसक्थिगुह्येषु पार्श्वयोः | वस्तौ च विन्यसेन्मन्त्रान् क्रमात् पूर्ववदक्षरैः || १५ || बाह्वोः पाण्योस्तथा कट्यां नाभौ च जठरे तथा | स्तनयोरपि विन्यासं तथा षड्भिः समाचरेत् || १६ || वक्त्रे च चिवुके गण्डे कर्णयोश्च ललाटके | अंसे कक्षे च षड्वर्गैः पूर्ववन्न्यासमाचरेत् || १७ || रोमकूपे ब्रह्मरन्ध्रे गुदे जङ्घायुगे तथा | नखेषु पादपार्ष्ण्योश्च तथा पूर्ववदाचरेत् || १८ || एवं तु मातृकान्यासं यः कुर्यान्नरसत्तमः | स सर्वयज्ञपूजासु पूतो योग्यस्तु जायते || १९ || नातः परतरं मन्त्रं विद्यते क्वचिदेव हि | यत्सर्वकामदं पुण्यं चतुर्वर्गप्रदं परम् || २० || वाग्देवतां हृदि ध्यात्वा मूर्तिसर्वाक्षराणि च | त्रिधा च मातृकामन्त्रैः सक्रमैश्च पिबेज्जलम् || २१ || स वाग्मी पण्डितो धीमान् जायते च वरः कविः | चन्द्रबिन्दुसमायुक्तान् स्वरान् पूर्वं पठेद् बुधः || २२ || व्यञ्जनानि तु सर्वाणि केवलानि पठेत् ततः | अकारादिक्षकारान्तान्येवं श्वासैश्च पूरकैः || २३ || जलं करतले गृह्य पठित्वाक्षरसंख्यकम् | अभिमन्त्र्य तु तत् तोयं प्रथमं पूरकैः पिबेत् || २४ || कुम्भकेन द्वितीयं तु तृतीयन्त्वथ रेचकैः | एवं सकृत् त्रिवारं तु पीत्वा तोयं विचक्षणः || २५ || दृढाङ्गः पण्डितो भूयात् पुत्रपौत्रसमन्वितः | त्रिसन्ध्यमथ पीत्वैव मातृकामन्त्रमन्त्रितम् || २६ || तोयं कवित्वमाप्नोति सर्वान् कामांस्तथैव च | सततं कुरुत यस्तु मातृकामन्त्रमन्त्रितम् || २७ || तोयपानं महाभाग पूरकुम्भकरेचकैः | स सर्वकामान् संप्राप्य पुत्रपौत्रसमृद्धिमान् || २८ || भूत्वा महाकविर्लोके बलवान् सत्यविक्रमः | सर्वत्र वल्लभो भूत्वा चान्ते मोक्षमवाप्नुयात् || २९ || राजानमथवा राजपुत्रं भार्यामथापि वा | वशीकरोति नचिरान्मातृकामन्त्रपानतः || ३० || न्यासक्रमे क्रमः प्रोक्तो वर्गक्रम इहैव तु | अक्षराणां क्रमेणाथ तोयपानं समाचरेत् || ३१ || ये ये मन्त्रा देवतानामृषीणामथ रक्षसाम् | ते मन्त्रा मातृकामन्त्रै र्नित्यमेव प्रतिष्ठिताः || ३२ || सर्वमन्त्रमयश्चायं सर्ववेदमयस्तथा | चतुर्वर्गप्रदश्चायं मातृकामन्त्र उच्यते || ३३ || इति ते कथितं पुत्र मातृकान्यासमद्भुतम् | विभागमथ मुद्राणां शृणु वेताल भैरव || ३४ || इति श्रीकालिकापुराणे मातृकान्यासवर्णने रिसप्ततितमोऽध्यायः || ७३ || चतुःसप्ततितमोऽध्यायः श्रीभगवानुवाच - या योनिमुद्रा कथिता मुद्राविभजने पुरा | अष्टधा योनिमुद्रा स्यात् प्रथमा सा तु कीर्तिता || १ || द्वितीया खेचरी मुद्रा कामाख्यायास्तु भैरव | तां विद्धि चाद्भुतं गुह्यं येन तुष्यति चण्डिका || २ || अनामिकां दक्षिणस्य तर्जन्यां वामतो न्यसेत् | वामानामां दक्षिणस्य तर्जन्यां विनिवेशयेत् || ३ || ते द्वे तथा तर्जनीभ्यां वेष्टयेदग्रतोऽग्रतः | मध्ये द्वयं तु विन्यस्य चोर्ध्वभागे त्वनामयोः || ४ || तदग्राग्रेण संयोगात् तथैव च कनिष्ठिके | अग्रेणैव च संयुक्ते तन्मूलेऽङ्गुष्ठके न्यसेत् || ५ || इयं ते खेचरी योनिर्योनिमुद्रा तु कामदा | एषैवाधः कनिष्ठे द्वे नियोज्य यदि युज्यते || ६ || उह्ययोनिस्तु सा ख्याता कामेश्वर्यास्तु तुष्टिदा | संवेष्ट्य पूर्ववत् पाण्योर्द्वे कनिष्ठे त्वनामिके || ७ || अधोभागे नियोज्याथ मध्यमे चोर्ध्वतस्तथा | तासां परस्परश्चाग्रैरन्योऽन्यं योजयेद् यदि || ८ || मध्यां मध्ये तथाङ्गुष्ठे निःक्षिप्याग्रे नियोजयेत् | ओनिस्त्रिशाङ्करी प्रोक्ता त्रिपुरा तुष्टिदा सदा || ९ || मध्ये द्वे च तथा वेष्ट्या पूर्ववच्चाप्यनामिका | कनिष्ठाभ्यां पुरो न्यस्य अङ्गुष्ठौ मूलयोस्तयोः || १० || मुद्रेयं शारदी प्रोक्ता शारदायास्तु तुष्टिदा | मूलयोनिस्तु कथिता वैष्णवीतन्त्रगोचरे || ११ || तर्जन्यनामिकं मध्ये कनिष्ठेऽपि क्रमादपि | करयोर्योजयित्वैव कनिष्ठामूलदेशतः || १२ || अङ्गुष्ठाग्रं तु निःक्षिप्य महायोनिः प्रकीर्तिता | अङ्गुष्ठौ चाथ संवेष्ठ्य संयुज्याथ कराङ्गुलीः || १३ || अग्रभागैर्मध्यशून्यं तत्र कुर्यात् करद्वयम् | इयं तु योगिनीयोनिर्योगिनीनां प्रियंकरी || १४ || एता अष्टौ समाख्याता योन्यः कामेश्वरीप्रियाः | मूर्तिभेदेन चान्येषां देवानामपि तुष्टिदाः || १५ || यात्रायां युद्धविषये वाग्वादे कलहे तथा | अष्टौ योन्यः स्मरेद् यस्तु जयस्तस्य सनातनः || १६ || विसर्जने पूजने च स्मरणे कर्मभेदतः | एता योन्यः समाख्याताश्चण्डिकापूजनेषु च || १७ || एतास्तु कथिता योन्यः क्रमात् क्रमविसर्जने | रहस्य वामदाक्षिण्यं मन्त्रशुद्धिं शृणुष्व मे || १८ || मन्त्रेण क्रियते यत् तु शारीरं मन्त्रमुत्तमम् | तद्रहस्यमिति प्राहुर्मन्त्रेषु मन्त्रकोविदाः || १९ || कामाख्यायास्तु षट्कोणं मण्डलस्य दलान्तरे | त्रिधा लिखेन्मूलमन्त्रमूर्ध्वं त्रिष्वपि सन्धिषु || २० || अधस्त्रिसन्धिषु पुनर्विधिं शक्रं हरं तथा | सहितं मदनेनैव लिखेद् भूर्जत्वचि त्रिधा || २१ || अन्तुमादाय साहस्रं दक्षिणेन करेण वै | मालामपि समादाय संजपेदुत्तरामुखः || २२ || अद्भुजे दक्षिणे धार्यं बाहौ वा साधकोत्तमैः | जपान्ते लिखितं यन्त्रं तेन सर्वजयी भवेत् || २३ || दीर्घायुः सर्ववशकृद्घनधान्यसमृद्धिमान् | मृतो देवीगृहे याति यन्त्रयन्त्रितबुद्धिमान् || २४ || षट्कोणानन्तरकृतं वेष्टिताष्टकलेष्वथ | लिखित्वा भूर्जपत्रेषु विलीनैर्यावकोदकैः || २५ || उत्तरादिक्रमेणैव वैष्णवीतन्त्रसङ्गतान् | अष्टौ वर्णान्मध्यभागे पूर्ववत् कामराजकम् || २६ || त्रीन् वर्णान् नेत्रबीजस्य त्रिकोणस्याग्रतो लिखेत् | एवं त्रिधाकृतं यन्त्रं कृत्वा वामकरे स्थितः || २७ || जपेत् त्रीणि सहस्राणि मालामादाय दक्षिणे | जपान्ते वैष्णवीरूपध्यानं कुर्यादतन्द्रितः || २८ || प्राणायामसहस्रं तु ततस्तं लिखितोत्तमम् | ग्रीवायां धारयेद् यन्त्रं तेन सर्वजयी भवेत् || २९ || राजपुत्रो भवेद्राजा तदन्यः सचिवो भवेत् | द्विजराजो भवेद् विद्वान् कविर्वाग्मी च वा भवेत् || ३० || राक्षसेभ्यः पिशाचेभ्यो भूतेभ्यश्चापि चान्यतः | साधु संविद्यते तस्य न कदाचित् पराजयः || ३१ || दीर्घायुर्बलवान् प्राज्ञो मृते मोक्षमवाप्नुयात् | सम्पूर्णं मण्डलं कृत्वा अष्टपत्रसमन्वितम् || ३२ || भूर्जत्वचि श्रीफलस्य निर्यासैस्तस्य मध्यतः | षट्कोणं विलिखेत् तस्य प्रागग्रेष्वथ त्रिष्वपि || ३३ || विलिखेत् त्रिपुरावर्णानधो बीजं तु नेत्रकम् | दलेष्वष्टासु तु पुनर्वैष्णवीतन्त्रसङ्गतान् || ३४ || अष्टौ वर्णास्तु विलिखेत् तथा द्वार्षु चतुर्ष्वपि | षट्कोणेषूत्तराकोणक्रमेणैकाग्रमानसः || ३५ || तद्धृत्वा दक्षिणकरे वैष्णवीतन्त्रमन्त्रकम् | जपेत् त्रिर्भिर्दिनैरेवायुतं संयतमानसः || ३६ || प्राणायामसहस्राणि त्रीणि कृत्वा तु हर्षितः | सन्ध्याकाले नवम्यां तु शीर्षेण धारयेद् बुधः || ३७ || शतायुः सर्वदमनो मतिमान् पण्डितोत्तमः | बलवीर्यधनैश्वर्ययुक्तः पार्थिव एव वा || ३८ || प्रत्यक्षतो महामायां कामाख्यां त्रिपुरामपि | नित्यं पश्यति मेधावी महोच्छवासां च शारदाम् || ३९ || सिंहव्याघ्रौ भुजङ्गो वा येऽन्ये वा तस्य हिंसकाः | सर्वे तस्य तनुं प्राप्य विषीदन्ति न संशयः || ४० || जयहेतुरतोऽन्यस्मात् संग्रामे शास्त्रवादतः | न विद्यते त्रिभुवने तस्मात् कुर्यात् तु यन्त्रकम् || ४१ || अन्ते देवीगृहं प्राप्य ततो मोक्षमवाप्नुयात् | महामाया शारदाख्या कामाख्या त्रिपुरा तथा || ४२ || महोत्साहा तथैतेषां मन्त्राणां यो गणो भवेत् | मण्डलं चाष्टदलकं तन्मध्ये विलिखेत् पुनः || ४३ || लिखित्वा पूर्ववत् पूर्वं प्रोक्तं मन्त्रगणं समम् | अन्यद्वयं द्वारदेशे ओष्ठेष्वक्षरतो लिखेत् || ४४ || शुक्लकौशैयवस्त्रेषु रसैर्वह्निशिखस्य तु | उत्तरीयं तु तद्वस्त्रं कृत्वा जप्यं समाचरेत् || ४५ || कृतोपवासः शुद्धश्च मातृकान्यासपूर्वकम् | पञ्चानामपि वर्गाणां सहस्राणि तु पंच वै || ४६ || दिवसैः पञ्चभिर्जप्त्वा तदन्ते च समाचरेत् | प्राणायामसहस्राणि पंच वै पंचभिर्दिनैः || ४७ || अन्ते तु कवचन्यासं कात्यायन्याः समाचरेत् | ततस्तु मातृकामन्त्रैः श्वासरोधनपूर्वकम् || ४८ || त्रिः पिबेत् कपिलाक्षीरं जागृवांश्च तदा निशि | एवं यः कुरुते यन्त्रं शरीरे शुक्लवाससा || ४९ || सोऽत्र सिद्धिमवाप्नोति देवीलोकं च गच्छति | य उत्तरीयं बिभृयाद् वस्त्रं मन्त्रेण मन्त्रितम् || ५० || नित्यमेव महाभाग प्रभावं तस्य वै शृणु | न तस्य देहे शस्त्राणि प्रवेक्ष्यन्ति कदाचन || ५१ || नाग्निर्दहति तत्कायं नापः संक्लेदयन्ति च | राक्षसाश्च पिशाचाश्च भूताद्या ये तु हिंसकाः || ५२ || ते तं दृष्ट्वा महाभागं भुवं गच्छन्ति वै भिया | गच्छेदवारितः सोऽपि सर्वत्र साधकोत्तमः || ५३ || वशीकरोति देवांश्च नृपानन्यांश्च योषितः | उत्सहेद् यदि मेधावी वाग्मी राजा च वै भवेत् || ५४ || चिरजीवी महाभागो धनधान्यसमृद्धिमान् | कविः प्रज्ञासमायुक्तः सोऽभेद्यो जायतेऽरिभिः || ५५ || यस्मिन् पुरे स निवसेद् वज्रपातो न तत्र वै | रसः शरीरं शस्त्राणि दृढहस्तोज्झितान्यपि || ५६ || एतं न घ्नन्ति सततं जयः सर्वत्र भैरव | अपराध्यन्ति सततं तस्य सर्वत्र भैरव || ५७ || नाधयो व्याधयस्तस्य जायन्ते तु कदाचन | देवीपुत्रः स मतिमान् मृतो मोक्षमवाप्नुयात् || ५८ || यन्त्रता स्वामिना यन्त्रं या दधाति पतिव्रता | पुत्रैश्वर्यमवाप्नोति दीर्घायुः सा वधुर्भवेत् || ५९ || प्रत्येकमेकं संहत्यावर्धनासहितेन च | क्रमाद् विंशतियन्त्राणि कथितानि मयेह वै || ६० || तानि प्रत्येकतो बुद्ध्वा यो न्यसेत् सर्वदा हृदि | लिखित्वा सर्वयन्त्राणि बिभृयाद्योऽथ वा गले || ६१ || देवेन्द्रो जायते सोऽत्र प्रभावेणेह भूतले | पूर्वोक्तानि समस्तानि फलान्याप्नोति तत्क्षणात् | पिहितः सर्वलोकांस्त्रीन्नित्यमेव प्रपश्यति || ६२ || एवं सार्धं यन्त्रवर्गैः समस्तै- रष्टाभिर्यत् पूर्वमुक्तं सहस्रम् | शुक्ले वस्त्रे संलिखित्वा स्वदेहे धृत्वा नित्य प्राप्नुयाद् वै समस्तम् || ६३ || यः क्षत्रजाहिर्हृदये स कुर्यात् संग्रामकाले कवचेष्टधाम्नि | मन्त्राक्षराण्यादिकृतानि देव्या अष्टौ बहिर्गात्रविशेषतश्च || ६४ || गले हरि वक्षसि वै लिखेद् विधिं स्तनद्वये पुत्रयुतं महेश्वरम् बाह्वंगसन्ध्योश्च हरं च वैष्णवीं बाह्वोस्तु लक्ष्मीं च सरस्वतीं च || ६५ || एवं रणाष्टाङ्गमिदं विधाय गात्रे सवर्मण्यनुचिन्तयेच्छिवाम् | लिखेल्ललाटे तिलकान्तरे नरः समस्तमन्त्रक्षरयन्त्रमुत्तमम् || ६६ || ततो जपेदष्टधा तु पाणिं दत्त्वाष्टधामसु च | वैष्णवीतन्त्रमन्त्रं तु ततो गच्छेद्रणाजिरम् || ६७ || स तु वीरो मम समः संग्रामेषु च जायते | तृणानीव परास्त्राणि जायन्तेऽग्नौ तथात्मनि || ६८ || विनिःसरन्ति रिपवो याचका धनिनि धनम् | सिंहाग्र्यान्नरशार्दूलो वीर्यवान् बलवान् भवेत् || ६९ || इदं रहस्यं कथितं कामाख्यायास्तु भैरव | वैष्णवव्यास्तन्त्रमुख्येषु त्रिपुरायास्ततः शृणु || ७० || तस्यास्तु सर्वमन्त्राणि त्रयोदशयुतानि वै | विंशतिं तु सहस्राणां तत्राद्यं वाग्भवं स्मृतम् || ७१ || द्वितीयं कामराजाख्यं मोहनं च तृतीयकम् | आम्रेडितं वाग्भवं तु चतुर्थं परिकीर्तितम् || ७२ || नेत्रबीजं द्वितीयं तु द्विरुक्तं वाग्भवं तथा | आद्यं तत्पंचमं प्रोक्तं चतुर्भिरपि चाक्षरैः || ७३ || नेत्रबीजं द्वितीयं तु प्रथमं परिकीर्तितम् | द्वितीयं कामबीजं तु तृतीयं वाग्भवं तथा || ७४ || एभिस्त्रिभिस्तु यन्मन्त्रं तत् षष्ठं परिकीर्तितम् | नेत्रबीजं द्वितीयं तु वाग्भवं तेन सप्तमम् || ७५ || तदेवं वाग्भवाद्यं तु अष्टमं परिकीर्तितम् | वाग्भवं कामबीजं तु नेत्राभ्यां नवमं स्मृतम् || ७६ || कामबीजं तथैवाद्यं दशमं चैव मोहनम् | एकादशमिदं प्रोक्तं डामराद्यं तु वाग्भवम् || ७७ || द्वादशं कीर्तितं मन्त्रं शेषतस्त्रैपुरं महः | तन्महस्त्रैपुरं मन्त्रं शृणुष्वैकमनास्त्विदम् || ७८ || प्रान्तादिस्तस्य चाप्यादिर्वह्निर्वाग्भवसन्धितः | आद्यं त्रिपुरभैरव्या बीजमाद्यं प्रकीर्तितम् || ७९ || उपान्तश्च तदादिश्च वह्निशेषस्वरस्तथा | चतुर्थस्वरबिन्द्विन्दुयुताश्चैतत् द्वितीयकम् || ८० || उपान्तश्च तदादिश्च वह्निशेषस्वरस्तथा | समाप्तिर्बिन्दुसहिता सहितस्तु तृतीयकः || ८१ || एतत् तत्त्वं विजानाति यो नरो भुवि भूमणिः | सिद्धविद्याधरेभ्यस्तु सोऽधिकस्तत्समो भवेत् || ८२ || एते त्रयोदश प्रोक्ता मन्त्रा मन्त्रेषु चोज्ज्वलाः | विंशतेस्तु सहस्रेभ्यः पराश्चैते प्रकीर्तिताः || ८३ || विंशतेस्तु सहस्राणामाद्यमेतत् प्रकीर्तितम् | त्रिपुरायास्तु बालाया मन्त्रं तच्छृणु भैरव || ८४ || वाग्भवं कामराजस्तु उपान्तादिः सबिन्दुकः | शेषस्वरसमाप्तिभ्यां मन्त्रमेतत् प्रकीर्तितम् || ८५ || एषा तु त्रिपुरा बाला मध्या प्रोक्ता पुरैव हि | शेषा तेजस्विनी प्रोक्ता येयं त्रिपुरभैरवी || ८६ || मध्यायाः पूजनं प्रोक्तं बालायाः शृणु साम्प्रतम् | तथा त्रिपुरभैरव्याः सर्वसिद्धिप्रदायकम् || ८७ || विभिद्य शक्त्या शम्भुं तु शक्तिं चापि विभेदयेत् | शम्भवे वर्णषट्कोणं केशरं तत्र संलिखेत् || ८८ || मध्यायास्त्रिपुरायास्तु यादृशे द्वारमण्डले | तादृशेऽत्रापि कर्तव्यं कोणेषु लिखितं तथा || ८९ || पापोत्सारणकर्माणि भूम्यादीनां विशोधनम् | पूर्वमुत्तरतन्त्रोक्तं त्रिपुरापीठभाषितम् || ९० || कामाख्यापूजने प्रोक्तं सर्वं कुर्यात् तु साधकः | दहनप्लवनादीनि प्रतिपत्तिं च पात्रके || ९१ || सर्वं तु पूर्ववत् कार्यं कामाखयापूजने यथा | कृत्वाऽत्र देहन्यासं तु मन्त्रवर्णैस्तथाक्षरैः || ९२ || सर्वैः स्वरैस्तथा काद्यैस्ततो रूपं विचिन्तयेत् | चतुर्भुजां रक्तवर्णां रक्तवस्त्रविभूषिताम् || ९३ || दक्षिणोर्ध्वे स्रजं चाधो बिभ्रतीं पुस्तकोत्तमम् | अभयं वामहस्ताभ्यां वरं च दधतीं तथा || ९४ || सहस्रसूर्यसंकाशां त्रिनेत्रां जगगामिनीम् | पीनतुङ्गस्तनयुगां सितप्रेतासनस्थिताम् || ९५ || स्मितप्रसन्नवदनां सर्वालंकारसंयुताम् | तिसृभिर्मुण्डमालाभिः शिरोवक्षःकटीषु च || ९६ || त्रिगुणां त्रिगुणीभूतैः प्रत्येकं परिभूषिताम् | मदिराघूर्णनयनां रक्तदन्तच्छदद्वयाम् || ९७ || चिन्तयेद् वरदां देवीमेवं त्रिपुरभैरवीम् | बालायास्त्रिपुरायस्तु रूपं पूर्वं प्रपूजने || ९८ || उक्तः क्रमः पीठयोगे तन्त्रादि शृणु भैरव | पुष्पबाणांस्तु पाशं च धत्ते पौष्पं शरासनम् || ९९ || पाशं च कुणपारूढा सा बाला त्रिपुरा स्मृता | मन्मथे त्रिपुरे देवीं विद्महे पदमादितः || १०० || कामेश्वरीं धीमहि त्वां तन्नः क्लिन्ने प्रचोदयात् | एषा त्रिपुरगायत्रीत्यावाहनविशेषतः || १०१ || स्नानाद्यैः पूजयेत् सम्यग् बालामन्यां च भैरवीम् | अस्याः क्रमे विशेषो यो न्यासे चोत्तरकर्मणि || १०२ || तत्सर्वं सह मन्त्रौघैः शृणु वेताल भैरव | ब्राह्मे मुहूर्ते उत्थाय चिन्तयेत् परमं गुरुम् || १०३ || ततोऽनु स्वगुरुं शुद्धं ततस्त्रिपुरभैरवीम् | चतुर्भुजां शुक्लवर्णां वरदाभयपुस्तकाम् || १०४ || अक्षमालां च क्रमतो धत्ते वामे च दक्षिणे | सुवर्णरत्नखचिते संस्थितां प्रवरासने || १०५ || सौवर्णमुत्तरीयं तु धत्ते सौवर्णकुण्डले | स्वगुरुं वर्णतो ध्यानात् तथैव परिचिन्तयेत् || १०६ || भैरवीं चिन्तयित्वा तु तत उत्थाय चाचरेत् | मैत्रमाचमनं चैव दन्तानां शोधनं तथा || १०७ || प्रातःस्नानं ततः कुर्यात् त्रैपुरं योजयन् क्रमम् | सर्वत्र देवीमन्त्रेषु वैदिकेष्वपि भैरवीम् || १०८ || त्रिपुरां चिन्तयेन्नित्यं देवमन्त्रेषु च क्रमात् | त्रिभिस्तु त्रिपुराबीजैस्त्रिधा मज्जनमाचरेत् || १०९ || देवानामपि सर्वेषु भैरवेषु अदं सदा | कुर्याद् विशेषणं नित्यं नोच्चार्यं निर्विशेषणम् || ११० || अपः पुनन्तु पृथिवीमुक्त्वा त्रिपुरभैरवीम् | कुर्यादाचमनं विप्रो द्रुपदायां तथाचरेत् || १११ || इदं विष्णुर्भैरवस्तु विचक्रम इतीरितम् | मृदालम्भनकृत्येषु नित्यमेवाप्युदीरयेत् || ११२ || गायत्रीं त्रिपुराद्यां तु भैरवीमाह्वयेच्छिवाम् | मार्तण्डभैरवायेति सूर्यायार्घ्यं निवेदयेत् || ११३ || उदुत्यं जातवेदसं देवं वहन्ति केतवः | दृशे विश्वाय सूर्यं शेषे भैरवमीरयेत् || ११४ || तर्पणादौ प्रयुंजीत तृप्यतां ब्रह्मभैरवः | आवाहने स्वयं पितृन् भैरवानिति कीर्तयेत् || ११५ || तृप्यतां भैरवीमातः पितर्भैरव तृप्यताम् | आदौ च त्रिपुरापूर्वं तर्पणेऽपि प्रयोजयेत् || ११६ || ज्योतिष्टोमाश्वमेधादौ यत्र यं यं प्रपूजयेत् | तत्र भैरवरूपेण देवीमपि च भैरवीम् || ११७ || मदिरापात्रमालोक्य रक्तवस्त्रां स्त्रियं तथा | शिरो नरस्य दृष्ट्वा तु भैरवीं चिन्तयेद् द्विजः || ११८ || स्त्रियो दृष्ट्वा ह्यथैकत्र युवतीः सुमनोहराः | ताभ्यस्त्रिपुरभैरव्याः प्रीतये वन्दनादिकम् || ११९ || दद्याद् भक्त्या तु मनसा चिन्तयन्नथ भैरवीम् | भैरवीं प्रतिगृह्णामि भैरवोऽहं प्रतिग्रही || १२० || कन्यायां भावयेद् धीमांस्त्रिपुरायाः प्रपूजकः | भैरवाय ददाम्यद्य देवीं त्रिपुरभैरवीम् || १२१ || इतीरयेत् प्रदाने तु कन्यायास्त्रिपुरां ततः | तस्याः पूजोपकरणपात्रादि नान्यपूजने || १२२ || आसवाद्यं च सततं नोपयोज्यं कदाचन | सकृत् तु दापयेदन्यैर्मदिरां साधको द्विजः || १२३ || शूद्रादयस्तु सततं ददयुरासवमुत्तमम् | एवं तु वामभावेन यजेत् त्रिपुरभैरवीम् || १२४ || बालां तु वामदाक्षिण्यमार्गाभ्यामपि पूजयेत् | श्मशानभैरवीं देवीमुग्रतारां तथैव च || १२५ || उच्छिष्टभैरवीं चण्डीं तथा त्रिपुरभैरवीम् | एतास्तु वामभावेन पूज्या दक्षिणतां विना || १२६ || ऋषीन् देवान् पितृश्चैव मनुष्यान् भुतसञ्चयान् | यजेत् पंचभिर्यज्ञैर्-ऋणानि परिशोधयेत् || १२७ || विधिवत् स्नानदानाभ्यां कुर्वन् यद्विधिपूजनम् | क्रियते सरहस्यं तु तद्द्दाक्षिण्यमिहोच्यते || १२८ || सर्वे च पितृदेवादौ यस्माद् भवति दक्षिणः | देवी च दक्षिणा यस्मात् तस्माद् दक्षिण उच्यते || १२९ || या पुनः पूज्यमाना तु देवादीनां च पूर्वतः | यज्ञभागं स्वयं धत्ते सावामा तु प्रकीर्तिता || १३० || पूजकोऽपि भवेद् वामस्तत्रैव सततं सुत | पंचयज्ञान् न वा कुर्याद् यद् वा वाम्यप्रपूजने || १३१ || अन्यस्य पूजाभागं हि यतो गृह्णाति वापिका | यत्पूजयेद्वामभावैर्न तत् स्यादृणशोधनम् || १३२ || पितृदेवनरादीनां जायते च कदाचन | सोऽभ्यस्य त्रिपुरायोगं तेन योगेन संयुतः || १३३ || जायते यदि सुप्राज्ञस्तदा मोक्षमवाप्नुयात् | स च मोक्षश्चिरेणैव जायतेऽत्र पुनः पुनः || १३४ || ऋणाशोधनजैः पापैराक्रान्तश्चैव भैरव | इह लोके सुखश्वैर्ययुक्तः सर्वत्र वल्लभः || १३५ || मदनोपमकान्तेन शरीरेण विराजता | सराष्ट्रकं च राजानं वशीकृत्य समन्ततः || १३६ || मोहयन् वनिताः सर्वाः सर्वाश्च मदविह्वलाः | सिंहान् व्याघ्रान् स्तरक्षूंश्च भूतप्रेतपिशाचकान् || १३७ || वशीकुर्वन् विचरति वायुवेगोद्यतस्ततः | बालां वा त्रिपुरां देवीं मध्यां वाप्यथ भैरवीम् || १३८ || यो यजेत् परया भक्त्या यश्च बाणोपमाकृतिः | कामेश्वरीं तु कामाख्यां पूजयेत् तु यथेच्छया || १३९ || दाक्षिण्याद् वामभावाद् वा सर्वथा सिद्धिमाप्नुयात् | महामायां शारदां च शैलपुत्रीं तथैव च || १४० || यथा तथा प्रकारेण दाक्षिण्यादेव पूजयेत् | यो दाक्षिण्यं विना भावं महामायां समर्चति || १४१ || स पापः स्वर्गलोकेभ्यश्च्युतो भवति रोगधृक् | अन्यास्तु शिवदूत्याद्या देव्यो याः पूर्वमीरिताः || १४२ || तास्तु वां पान्तु दाक्षिण्यात् पूजितव्यास्तु साधकैः | किन्तु यः पूजको वामः सोऽन्यासां परिवर्जितः || १४३ || सर्वासां पूजकः स्यात् तु दक्षिणस्तेन उत्तमः | अथ त्रिपुरभैरव्या न्यासं च शृणु भैरव || १४४ || येन वै न्यासमात्रेण देववज्जायते नरः | भैरवीतन्त्रमन्त्रस्य ऋषिर्दक्षिण उच्यते || १४५ || छन्दः पंक्तिः समाख्याता देवी त्रिपुरभैरवी | कामार्थयोः साधने च विनियोगः प्रकीर्तितः || १४६ || हकारं विन्यसेन्नाभौ सकारं वस्तितो न्यसेत् | वकारं शेफे विन्यस्य एकारं च गुदे तथा || १४७ || पुनरूर्वोस्तथैवाद्यं जानुयुग्मे द्वितीयकम् | तृतीयं जङ्घयोर्न्यस्य चतुर्थ पादयोर्न्यसेत् || १४८ || त्रिविधं विन्यसेद् देवं नाभ्यादेः पादसङ्गतम् | द्वितीयस्य तु बीजस्य आद्यं ह्यद्येव विन्यसेत् || १४९ || वामे स्तने द्वितीयं तु तृतीयं दक्षिण स्तने | चतुर्थमुदरे न्यस्य पंचमं पार्श्वयोर्न्यसेत् || १५० || षष्ठं नाभौ परिन्यस्य न्यसेचापि त्रिधा त्रिधा | तृतीयस्य तु बीजस्य मूर्ध्नि चाद्यं तु विन्यसेत् || १५१ || द्वितीयं न्यस्य केशान्ते तृतीयं वदने न्यसेत् | चतुर्थं हृदये न्यस्य यथा स्यात् तु त्रिधा त्रिधा || १५२ || आद्याद्यं दक्षिणाङ्गुष्ठे द्वितीयं तर्जनीं पुनः | तृतीयं च मध्यमायामनामायां चतुर्थकम् || १५३ || द्वितीयाद्यं कनिष्ठायां वामाङ्गुष्ठे द्वितीयकम् | तृतीयं वामतर्जन्यां चतुर्थं मध्यमातनौ || १५४ || अनामायां पंचमं तु षष्ठं शेषे तु विन्यसेत् | एवं त्रिधा तु विन्यस्य द्वितीयमथ बीजकम् || १५५ || उभयोर्हस्तयोः कृत्वा अङ्गुष्ठाद्यं युगं युगम् | तृतीयं बीजवर्णांस्तु विन्यसेत् क्रमतो बुधः || १५६ || पिण्डितं सर्वबीजं तु विन्यसेत् तु कनिष्ठयोः | आद्य तु तलयोर्न्यस्य पृष्ठयोश्च द्वितीयकम् || १५७ || तालत्रयं ततो दत्त्वा तृतीयेन तु वेष्टनम् | कर्णयोश्चिबुके गण्डे मुखे दृङासयोस्तथा || १५८ || स्कन्धयोश्च कफोणौ च जठरे शिश्नमूर्धनि | पादयोः पार्श्वयोश्चैव हृदये स्तनयुग्मके || १५९ || कण्ठदेशे च न्यस्तव्या मन्त्रवर्णक्रमात् पुनः | लिङ्गे रत्यै नम इति वाग्भवाद्येन विन्यसेत् || १६० || ओं क्लीं प्रीत्यै नम इति हृदये विन्यसेत् ततः | मनोभवायेति ततो भ्रुवोर्मध्ये तृतीयकम् || १६१ || विन्यसेत् त्रिपुराबीजं सद्यो देवत्वसिद्धये | ओं ईं ईशानरूपाय ततो मनोभवाय वै || १६२ || नम इत्यन्ततः प्रोक्तो मूर्ध्नीशानं न्यसेत् पुनः | वक्त्रे तत्पुरुषं चापि बीजेन मकरध्वजम् || १६३ || हृदये घोरकन्दर्पमाद्यबीजेन वै न्यसेत् | शिश्ने वा वामदेवं तु मन्मथं चापि विन्यसेत् || १६४ || सद्योजातं पादद्वये कामदेवं च विन्यसेत् | ओकारं च हकारं च रेफमेकत्र सन्धितम् || १६५ || प्रान्तस्वरं वाग्भवाद्यं स्वरैर्ह्रस्वैस्तु पञ्चभिः | एभिस्तु पञ्चभिर्मन्त्रैरीशनादीनि विन्यसेत् || १६६ || वक्त्राणि पूर्वमुक्तानि स्वमुखोर्ध्वे तु पूर्वतः | दक्षिणोत्तरयोः पश्चात् पश्चिमे चापि विन्यसेत् || १६७ || हृदयादिषडङ्गानि दीर्घैराद्यस्वरैः पुनः | न्यसेत् ततः पञ्चबाणान् मूर्धादिष्वथ विन्यसेत् || १६८ || ओं ह्रीं क्लीं सौं द्रावणाय न्यसेन्मूर्ध्नि ततः पुनः | ओं ह्रीं क्षोभणबाणाय पद्भ्यां नम इतीरयेत् || १६९ || ओं क्लीं क्लीं ह्रीं समाप्यन्तु षट्कारान्तार्धचन्द्रकैः | वक्त्रे वशीकृतं लिङ्गे सम्मोहनमथो न्यसेत् || १७० || आकर्षणं तथा बाणं हृदि मन्त्रैः क्रमान्न्यसेत् | वाग्भवाद्यन्तकारान्तो वषट्कारसमन्वितः || १७१ || त्रिःशेषस्वर एवात्र चन्द्रार्धो बिन्दुसंयुतः | एभिस्तु पञ्चभिर्मन्त्रैरष्टशक्तीः क्रादिमाः || १७२ || एतेषु चाष्टस्थानेषु विन्यसेन्मन्त्रवित् पुनः | सुभगां च भगां देवीं तृतीयां भगरूपिणीम् || १७३ || भगमालां चतुर्थीं तु अनङ्गकुसुमां ततः | अनङ्गमेखलां पश्चादनङ्गमदनां तथा || १७४ || अष्टमीं च तथा देवीं मदविभ्रममन्थराम् | रूपतो ध्यान्तश्चैता यथा त्रिपुरभैरवी || १७५ || ललाटभ्रूमध्यभागमुखकर्णातकण्ठके | हृन्नाभिलिंगेष्वेवात्र न्यस्तव्या अष्टशक्तयः || १७६ || शिरोललाटभ्रूयुग्मकर्णनेत्रद्वयेषु च | गण्डयोरथ नासायां दन्तवीथ्या मुखे तथा || १७७ || चतुर्दशपदेष्वेषु न्यसेच्चतुर्दशस्वरान् | चिबुके त्वथ ग्रीवायां कण्ठेदेशे तु पार्श्वयोः || १७८ || स्तनयोः कक्षयोश्चापि कफोण्योर्हस्तयोस्तथा | तत् पृष्ठयोस्तथा नाभौ लिङ्गे चोरुद्वये तथा || १७९ || अष्ठीवतोर्जङ्घयोस्तु स्फिचोस्तु पदमूलयोः | चरणाङ्गुष्ठयोः कादिमात्रान् वर्णास्तु विन्यसेत् || १८० || मेखलायां कण्ठदेशे बाहुभूषणभागतः | आरे स्रजि कुण्डले च केशबन्धे तथैव च || १८१ || चूडामणौ च न्यस्तव्या यकाराद्याः क्रमात्पुनः | मन्त्राक्षराणि त्रीण्येव सन्धितानि पुनस्तथा || १८२ || प्रातिलोम्येन विन्यस्य मत्रैमूर्ध्नि त्रिधा त्रिधा | अमृतां योगिनीं विश्वयोगिनीं चाक्षरक्रमात् || १८३ || ततो बीजत्र्यक्षराणि मूर्ध्नि बाहौ तथा हृदि | विन्यस्य पूर्ववत् पूजामारभेन्मन्त्रविद् बुधः || १८४ || पूर्ववत् पूजयेद् देवीं पीठदेवविवर्जिताम् | विशषतो ह्यष्टशक्तीः क्राम्त् तु सुवभगादिकाः || १८५ || मण्डलस्याष्टदिग्भागे पूर्वादौ परिचिन्तयेत् | त्रिकोणाग्रेऽमृताद्यास्तु सम्पूज्यास्तु त्रिनोनयः || १८६ || मध्येऽष्टभूषणान्येव पूजयेत् तु ततः पुनः | ईशानादीनि वक्त्राणि मम भैरव मध्यतः || १८७ || पूजयेत् तु तथा तत्र मनोभवमुखानपि | अन्यच्च पूजने तत्र क्रमः पूर्वोदितश्च यः || १८८ || स एव सततं ग्राह्यः त्रिपुरापरिपूजने | निर्माल्यधारिणी देवी चैतस्याः शृणु भैरवी || १८९ || विसर्जनं चोत्तरस्यां त्यक्त्वा निर्माल्यमाचरेत् | त्रिमूर्ति पूजयेत् तां तु देवीं त्रिपुरभैरवीम् || १९० || न जपेत् त्रिंशता न्यूनं साधकस्तु कदाचन | अङ्गुष्ठमध्यमानामाङ्गुलीभिस्तिसृभिः पुनः | सदा पुष्पादिकं दद्यान्मालां तु त्रिगुणां चरेत् || १९१ || चर्मासनमधिष्ठाय पश्चात् कृत्वा पदद्वयम् || १९२ || पुजयेन्निर्जने देशे साधकोऽनन्यमानसः | आसादयेत् तु पुष्पादि नैवेद्यादि च यद् भवेत् | तद् वामहस्तमुख्येन सततं साधको बुधः || १९३ || त्रिच्छिद्रा त्रिपुरा प्रोक्ता न सम्यक्पूजिता यदि || १९४ || शरीरे निन्दितो व्याधिर्जायतेऽवश्यमेव हि | अवश्याः पुत्रदाराश्च भृत्याद्याश्च भवन्ति हि || १९५ || अस्त्राघातो भवेत् स्वस्य प्राणत्यागो न संशयः | त्रिच्छिद्रदायिनी चैवमन्यथा पूजिता यदि || १९६ || इतः प्रकारां सततं सम्यग् वेताल भैरव | एषा च त्रिपुरादेवी याश्चान्याः पूर्वभाषिताः || १९७ || सर्वास्तु माया भैरव्या योगनिद्रा जगत्प्रसूः | तस्याः प्रपंचरूपैस्तु बहुभिः सैव क्रीडति || १९८ || महामाया मूलभूता ततस्तु शारदा पुरा | उमा ततः शैलपुत्री मत्प्रियायास्ततस्त्विमाः || १९९ || उग्रचण्डा प्रचण्डाद्यास्त्रिषुराद्यास्तथैव च | तासां चापि सदैवाहं महाभैरवरूपधृक् || २०० || नायकः सुतरां ताभिर्नित्यं नित्यं वसेद् बुधः | मम भैरवरूपस्य मन्त्रः पूर्वं मयोदितः || २०१ || रूपं चोक्तं पूजनेषु त्रिपुरायाः क्रमः स्मृतः | महाभैरवं विद्महे कालरुद्राय धीमहि || २०२ || तन्नः कामो भैरवस्तु क्लेदिन् नित्यं प्रचोदयात् | एषा भैरवरूपस्य गायत्री मे प्रतिष्ठिता || २०३ || यथेष्ठमांसमद्यादि भोजनार्थं मया धृतः | महाभैरवकायोऽयं तथा स्त्रीरतिसङ्गमे || २०४ || अयं तु वाम्यभावेन पूज्यो मद्यादिभिः सदा | वामः कायो ब्रह्मणोऽपि मांसमद्यादिभुक्तये || २०५ || कृतो महामोहनामा चार्वाकादिप्रवर्तकः | विष्णोर्वामात्मिका मूर्तिर्नरसिंहाह्वया भवेत् || २०६ || सा तु दाक्षिण्यवामाभ्यां पूजनीया सदा बुधैः | तथैव बालगोपालमूर्तिर्जरायुवेष्टिता || २०७ || मद्यमांसाशनो भोगी लोलुपः स्त्रीषु सर्वदा | वह्व्यस्तु चण्डिकादेव्याः वामिका मूर्तयः स्मृताः || २०८ || लक्ष्म्यास्तु वामिकामूर्तिरुक्ता दहनभैरवी | याग्निदाहं पुरग्राममन्दिरेष्वकरोदियम् || अपूजिता महालक्ष्मीर्देहल्यां तां तु पूजयेत् || २०९ || वाग्भैरवी सरस्वत्या वामिकामूर्तिरीरिता || २१० || तस्या मन्त्रं पुरा प्रोक्तं शुक्लवर्णा तु सा स्मृता | मध्यायास्त्रिपुरायास्तु रूपं ध्यानमिहोच्यते || २११ || पूजाक्रमस्तथैवोक्तः सर्वत्रैव तु भैरव | मार्तण्डभैरवो नाम मूर्तिः सूर्यस्य कीर्तिता || २१२ || गणेशस्याग्निवेतालः कथितो वामनामकः | एते वाम्येन भावेन पूजनीया विशेषतः || २१३ || त्रिधाद्यस्तु यथापूर्वं नमयैर्रलवैस्तथा | वान्तैर्द्विरेफैः सर्वत्र यथा कृत्वा तथा तथा || २१४ || अनुस्वारविसर्गाभ्यां प्राक्शेषौ परिकीर्तितौ | मध्ये तु केवलाः पूर्वं सानुस्वारविसृष्टिभिः || २१५ || पश्चाद् द्वित्रिक्रमाद् यस्तु वर्णैरेकेन चैव हि | व्यस्तैः समस्तैरपि च दकारादिषु संयुतैः || २१६ || आद्यायास्त्रिपुरायास्तु मन्त्रवद् योजितैस्तथा | तथा त्रिपुरभैरव्या मन्त्रवच्चाक्षरैरपि || २१७ || त्रिश्चतुर्दशभिः कृत्वा डादींस्त्रींस्तु विशारयेत् | द्वितीयं द्विगुणं कृत्वा शेषेऽत्रादौ च योजयेत् || २१८ || विंशतिस्तु सहस्राणि शेषे चापि त्रयोदश | आद्यमाद्यं ततः प्रोक्तं वाग्भवाद्यं तृतीयकम् || २१९ || एवं च परमप्येतन्मन्त्राणां च चतुष्टयम् | एतज्ज्ञात्वा नरः कामानखिलान् प्राप्य सङ्गतः || २२० || मृते देवीपुरं याति क्रमादेव तु भैरव | यः सकृत् तु जपेदेतत् सकलं मन्त्रसञ्चयम् || २२१ || प्रथमं कामतो न्यस्य साधकस्तु त्रिभिर्दिनैः | चिन्तयन्मनसा देवीं सम्यक् त्रिपुरभैरवीम् || २२२ || स कामानखिलान् प्राप्य स्वरूपे मदनोपमः | धार्मिको नृपतिर्भूयाद् ब्राह्मणो द्विजराड् भवेत् || २२३ || वाधितशरीरस्तु पिशाचाद्यैः सदैव हि | नीरोगश्च चिआयुश्च वलवानपि जायते || २२४ || एवं त्रिपुरभैरव्या मया प्रोक्तस्त्वयं क्रमः | वैष्णव्यास्तु महादेव्याः सहस्राणि तु षोडश || २२५ || शृणु भैरव मन्त्राणि शिवैकाग्रमनाः पुनः | अष्टोत्तरसहस्रं तु चतुःषष्टिस्तथा त्रयः || २२६ || मन्त्राः प्रोक्ता महादेव्या मूर्तिभेदेन ताः पुनः | अनुस्वारविसर्गाभ्यां द्विगुणास्ते पुनः समाः || २२७ || कादिव्यञ्जनसंयोगादूर्ध्वाधो व्यस्तभावतः | द्वाभ्यां त्रिभिश्च सततमुद्धरेन्मन्त्रवित् पुनः || २२८ || अष्टावष्टौ ततः कृत्वा समस्तव्यस्तसंयुतैः | विस्वरैः सस्वरैश्चापि सानुस्वारविसर्गकैः || २२९ || केवलैरपि तत्रैव द्विव्यस्तैरन्तरैस्तथा | एवमष्टोत्तरं यावत् संयोगयोगभावतः || २३० || देव्यास्तु षट्सहस्राणि सहस्राणि तथा दश | मन्त्रास्तु संख्यया ख्याताः क्रमाद् वेताल भैरव || २३१ || समस्तव्यस्तरूपेण वैष्णव्या ये मयोदिताः | आञ् ज्ञात्वा मानवो याति ममैव सदनं प्रति || २३२ || अष्टम्यां च नवम्यां च सहस्राणि तु षोडश | यो जपेन्मन्त्रबीजानि सकृदेव तु भैरव || २३३ || ध्यायंस्तु वैष्णवीं मूर्तिं तदेकाग्रमनाः शृणु | नरराजो भवेद् भूमौ पण्डितश्चातिहर्षितः | चिरायुः सुखभोगी स्यादुद्रिक्तो बलवाहनैः || २३४ || तान्येव चाष्टधा जप्त्वा सार्वभौमो नृपो भवेत् | गणाध्यक्षो मृते स स्यात् ततो मुक्तिमवाप्नुयात् || २३५ || इति सकलगुणौघैरस्तदोषस्तु नित्यं भवति कलुषहन्ता श्रीविवृद्ध्यै सुमन्त्रः | सततमखिलवेत्ता यो भवेदेतयोस्तु स च भवति जितारी रोगशोकप्रमुक्तः || २३६ || इति श्रीकालिकापुराणे त्रिपुरभैरवीबालात्रिधाकल्पे चतुःसप्ततितमोऽध्यायः || ७४ || पञ्चसप्ततितमोऽध्यायः श्रीभगवानुवाच - निष्पल्लवोद्वादशभिर्लक्षैर्मन्त्रजपिस्तथा | पुरश्चरेत् साधक्स्तु काममिष्टाप्तिहेतवे || १ || जातीपुष्पं च बकुलं मालतीपुष्पमेव च | नन्द्यावर्त पाटलं च सितपद्ममतः परम् || २ || आज्यमन्नं पायसं च दधिक्षीरं तथा मधु | लाजाश्चापि सकर्पूरा अमी एव चतुर्दश || ३ || पुरश्चरणसम्भूता त्रिपुरायाः प्रकीर्तिताः | द्वादशष्वेव लक्षेषु जप्तेष्वपि च साधकः || ४ || एतानि सर्वद्रव्याणि जुहुयादनलोज्ज्वले | लक्षत्रयं तु यो जप्त्वा पुरश्चरणमाचरेत् || ५ || स तु साज्यं सकर्पूरं जुहुयात् तु चतुष्टयम् | दशभिर्नवलक्षेषु द्रव्यैर्मन्त्री पुरश्चरेत् || ६ || जप्तेषु चाष्टभिः षट्सु सर्वैः सर्वत्र चाचरेत् | हस्तमात्रं तु कुण्डं स्यात् षट्कोणं त्र्यङ्गुलाधिकम् || ७ || त्रिपुरायास्तु मध्याया बालायाश्च सदैव हि | तथा त्रिपुरभैरव्याः कुण्डमानं प्रकीर्तितम् || ८ || चतुष्कोणं भवेत् कुण्डं हस्तमात्रद्वयेषु च | अष्टाङ्गुलाधिकं प्रोक्तं वैष्णव्यास्तु पुरश्चरे || ९ || त्रिकोणं हस्तमात्रं तु कामाख्यायास्तु कुण्डकम् | एवं सर्वप्रपञ्चानामासामपि तथा तथा || १० || संस्कुर्यादनलं वृद्धं विधिवद् वैष्णवीकृतौ | कामाख्यायास्तथा कुर्याज्ज्योतिष्टोमादि मत्सुत || ११ || आदौ त्रिपुरभैरव्याश्चतुर्भिर्दशभिस्तथा | जुहुयादनले वृद्धे आहुतीश्च चतुर्दश || १२ || पश्चात् तु मूलमन्त्रेण अष्टोत्तरशतत्रयम् | होमं यन्पन् वा तेन शतानि नव वाऽथवा || १३ || जपान्ते तु बलिं दद्याद् वैष्णव्या बलिदानतः | रत्नकर्पूरकनकान् यत्रैव गुरुदक्षिणाः || १४ || अलाभे दधिपुष्पाज्यलाजैर्देव्याः पुरश्चरेत् | लाभे चतुर्दशद्रव्यैर्जुहुयाद् विधिपूर्वकम् || १५ || अस्या यन्त्रं रहस्येन शृणु वेतालभैरव | यत्कृत्वैवाखिलान् कामांल्लभते नरसत्तमः || १६ || षट्कोणं मण्डलं कृत्वा तत् तु कोणत्रये लिखेत् | मन्त्रं त्रिपुरभैरव्यास्त्रिवर्णं तु ततस्त्वधः || १७ || आद्यायास्त्रिपुरायास्तु त्रिबीजानि लिखेदनु | मध्यबीजत्रयं मध्ये लिखित्वा पीठयन्त्रके || १८ || सर्वैस्तु आतृकावर्णैस्त्रिधा संवेष्टयेदनु | लाक्स्.आरसैर्लिखित्वा तु त्रिलोहैर्वेष्टयेत् ततः || १९ || तद् धार्यं मूर्ध्नि सततं तेन सर्वजयी भवेत् | रूपवान् बलवान् वाग्मो धनरत्नयुतः सदा || २० || दीर्घायुः कामभोगी च सुप्रजः स च जायते | मध्ये बीजं लिखित्वैकं मूर्ध्नि चाधस्तथापरम् || २१ || आद्यायास्त्रिपुरायास्तु भैरव्यास्तद्वदेव हि | इमानि षट्कमन्त्राणि क्रमाद् वेतालभैरव || २२ || पूर्ववत् संल्लिखित्वैकं संवेष्ट्याथ त्रिलोहकैः | वामे बाहौ दक्षिणे च हृदि कण्ठे करे तथा || २३ || मूर्ध्नि धार्याणि क्रमतः फलमेतच्च तद्भवम् | सम्पत्सौभाग्यसंस्तम्भ-वशीकरणमोहनम् || २४ || कवित्वमथ सर्वत्र भवेदेतन्न संशयः | यन्त्रमन्त्राणि तन्त्राणि त्रैपुराणि तु भैरव || २५ || स पञ्च षट् सहस्राणि मन्त्रौघैस्त्रिगुणीकृतैः | तज्ज्ञात्वा पूजको धीमान् परत्रेह न सीदति || २६ || मन्त्रौघैस्तन्त्रमन्त्रैरविचलितपदं त्रैपुरं यत् प्रधानं यद्विप्राद्यैरदेयं विगतभयपदं यत्कवित्वप्रदातृ | त्रैवर्गीयं त्रिरूपं त्रिदिवमथ सुरा यत्र सन्ति त्रयोऽपि तज्ज्ञानौघैः सुभूतं सकलशुभफलं यन्महस्त्रैपुराख्यम् || २७ || कवचं त्रिपुरायास्तु शृणु वेताल भैरव | यज्ज्ञात्वा मन्त्रवित् सम्यक् फलमाप्नोति पूजने || २८ || उपचाराः पुरा प्रोक्ता येन एवात्र पूजने | प्रतिपत्तिस्तु सैवात्र कीर्तिता नित्यपूजने || २९ || कवचस्य च माहात्म्यमहं ब्रह्मा न केशवः | वक्तुं क्षमस्त्वनन्तोऽपि बहुजिह्वः कदाचन || ३० || क्रव्याद् भयं न लभते तथा तोयपरिप्लवे | कवचस्मरणादेव सर्वं कल्याणमाप्नुयात् || ३१ || ओं त्रिपुराकवचस्यास्य ऋषिर्दक्षिण उच्यते | छन्दश्चित्राह्वयं प्रोक्तं देवी त्रिपुर भैरवी || ३२ || धर्मार्थकाममोक्षाणां विनियोगस्तु साधने | यथाद्यात्रिपुराख्याया बीजानि क्रमतः सुत || ३३ || नामतो वाग्भवादीनि कीर्तितानि मया पुरा | तथा त्रिपुरभैरव्या बीजानामपि नामतः || ३४ || वाग्भवः कामराजश्च तथा त्रैलोक्यमोहनः || ३५ || अवतु सकलशीर्षं वाग्भवे वाचमुग्रां निखिलरचितकामान् कामराजोऽवतान्मे | सकलकरणवर्गमीश्वरः पातु नित्यं तनुगतबहुतेजो वर्धयन् बुद्धिहेतुः || ३६ || कुटैस्तु पञ्चभिरिदं गदितं हि यन्त्रम् मन्त्रं ततोऽनु सततं मम तेज उग्रम् | तेजोमयं महति नित्यपरायणस्थं तन्त्रो हृदि प्रविततां तनुतां सुबुद्धिम् || ३७ || आधारे वाग्भवः पातु कामराजस्तथा हृदि || ३८ || भ्रुवोर्मध्ये च शीर्षे च पातु त्रैलोक्यमोहनः || ३९ || विततकुलकलाज्ञा कामिनी भैरवी या त्रिपुरपुरदहाख्या सर्वलोकस्य माता | वितरतु मम नित्यं नाभिपद्मे सकुक्षौ गणपतिवनिता मां रोगहानिं सुखं च || ४० || योगैर्जगन्ति परिमोहयतीव नित्यं जागर्ति या त्रिपुरभैरवभामिनीति | सायं च भावकलिता मम पञ्चभागे नासाक्षिकर्णरसनात्वचि पातु नित्यम् || ४१ || आद्या तु त्रिपुरेयं या मध्या या कामदायिनी || ४२ || त्रिधा तु ह्यवतां नित्यं देवी त्रिपुरभैरवी || ४३ || उदयदिशि सदा मां पातु बाला तु माता यमदिशि मम मध्याभद्रमुग्रं विदध्यात् | वरुणपवनकाष्ठामध्यतो भैरवी मा- मवतु सकलरक्षां कुर्वती सुन्दरी मे || ४४ || अहामाया महायोनिर्विश्वयोनिः सदैव तु | सा पातु त्रिपुरा नित्यं सुन्दरी भैरवी च या || ४५ || ललाटे सुभगा देवी पूर्वस्यां दिशि कामदा | नित्यं तिष्ठतु रक्षन्ती सदा त्रिपुरसुन्दरी || ४६ || भ्रुवोर्मध्ये तथाग्नेययां दिशि मां त्रिपुरा च या | वर्धयन्ती भगगणान् पातु त्रिपुरभैरवी || ४७ || वदने दक्षिणस्यां च दिशि मां भगसर्पिणी | त्रिपुरा यमदूतादीन् वारयन्ती सदाऽवतु || ४८ || कर्णयोः पश्चिमायां च दिशि मां भगमालिनी | अयोनिजा जगद्योनिर्बाला मां त्रिपुराऽवतु || ४९ || अनङ्गकुसुमाकण्ठे प्रतीच्यां दिशि सुन्दरी | त्रिपुराभैरवई माता नित्यं पातु महेश्वरी || ५० || हृदि मारुतकाष्ठायां देवी चानङ्गमेखला | नाभावुदीच्यां दिशि मां मातङ्गी त्रिपुरापरा || ५१ || अनङ्गमदना देवी पातु त्रिपुरभैरवी | ऐशान्यां दिशि लिङ्गे च मदविभ्रममन्थरा || ५२ || वाग्वादिनी रक्षतु मां सदा त्रिपुरभैरवी | गुदमेढान्तरे पातु रतिस्त्रिपुरभैरवी || ५३ || हृदयाभ्यन्तरे प्रीतिः पातु त्रिपुरभैरवी | भ्रूनासयोर्मध्यदेशे नित्यं पातु मनोभवः || ५४ || रावणी मां ग्रहत् पातु वाणी मां दुर्गमूर्धनि | क्षोभणा मां सदा पातु क्रव्याद्भ्योऽनिष्टभीतितः || ५५ || वशीकरणवाणी मामग्नितः पातु राजतः | आकर्षणाह्वया वाणी मां पातु सस्त्रघाततः || ५६ || मोहनः सर्वभूतेभ्यः पिशाचेभ्यो जलात्तथा | नित्यं पातु महाबाणस्तन्वानः काममुत्तमम् || ५७ || माला मां शास्त्रबोधाय शास्त्रवादे सदाऽवतु | पुस्तकं पातु मनसि सङ्कल्पं वर्धयन् मम || ५८ || वरः पातु सदा धाम्नि हामतेजो विवर्धयन् | अभयं ह्यभयं धत्तां सर्वेभ्यो भूतिभावनम् || ५९ || ऊर्ध्वाधोभावभूतस्थितरकरणै रक्तकीर्णा सुचक्रा कालाग्निप्रख्यरोचिः सकलसुरगणैरर्चिता मुण्डमाला | ज्ञानध्यानैकतानप्रबलबलकरं तत्त्वभूतप्रतिष्ठं पातादूर्ध्वं तथाधः सकलभयभूतो भोगभीरोस्तु विद्या || ६० || अः पातु हृदि मां नित्यं सः शीर्षे पातु नित्यशः | रः पातु गुह्यदेशे मां सौः पातु कण्ठपार्श्वयोः || ६१ || रकारो मम नाडीषु शिरः सौः पातु सर्वदा | शक्रः पातु सदाकाशे ब्रह्मा रक्षतु सर्वतः || ६२ || विद्या विद्याभाविनी कामरूपा स्थूला सूक्ष्मा मायया यादिमाया | ब्रह्मेन्द्राद्यैरर्चिता भूतिदात्री रक्षां कुर्यात् सर्वतो भैरवी माम् || ६३ || आद्या मध्या भाविनी नीतियुक्ता सम्यग्ज्ञानज्ञेयरूपापरा या | आदावन्ते मध्यभागे च तारा पायाद् देवी त्रैपुरी भैरवी या || ६४ || यन्मन्त्रभागतन्त्राणां यन्त्राणामपि केशवः | ब्रह्मा रुद्रश्च जानाति तत्वं नान्यो नमोऽस्तु तान् || ६५ || त्वं ब्रह्माणी भवानी विश्वभवितुर्लक्ष्मीरतिर्योगिनी | त्वं वाग्मी सुभगा भवायुतयुतं मन्त्राक्षरं निष्कलम् | वर्णास्ते निखिला स्तनावचलितस्त्वं कामिनीकामदा त्वं देवी त्रिपुरे कवित्वममलं सौभाग्यमुच्चैः कुरु || ६६ || इदं तु कवचं देव्या यो जानाति स मन्त्रवित् | नाधयो व्याधयस्तस्त न भयं च सदा क्वचित् || ६७ || इति ते परमं गुह्यमाख्यातं कवचं परम् | तद्भजस्व महाभाग ततः सिद्धिमवाप्स्यसि || ६८ || इदं पवित्रं परमं पुण्यं कीर्तिविवर्धनम् | त्रिपुरायास्त्रिमूर्तेस्तु कवचं मयकोदितम् || ६९ || यः पठेत् प्रातरुत्थाय स प्राप्नोति मनोगतम् | लिखितं कवचं यस्तु कण्ठे गह्वाति मन्त्रवित् || ७० || न तस्य गात्रं कृन्तन्ति रणे शस्त्राणि भैरव | संग्रामे शास्त्रवादे च विजयस्तस्य जायते || ७१ || इदं कवचमज्ञात्वा यो जपेत् त्रिपुरां नरः | स शस्त्रघातमाप्नोति भैरवीं सुन्दरीमपि || ७२ || बीजमुच्चारयेत् स्वस्थो गतवाग् दोषनिश्चितः | संयोगबोधः प्रत्येकभेद-श्रवणगोचरः || ७३ || यथैव जायते अम्यग्यज्ञादिदोषवर्जितः | यस्योच्चारणरणकृत्ये तु संयोगो बोधदूषणम् || ७४ || प्रत्येकभिन्नताबोधः स कुष्ठी जायते नरः | न्यासानां प्रचुरत्वे तु फलानामपि भूरिता || ७५ || उक्तन्यासो न हि त्याज्यो ह्यधिकं तु समाचरेत् | मयोक्तन्यासमज्ञात्वा न कृत्वा वा प्रमादतः || ७६ || यः कुर्यात् पूजनं देव्या आप्नुयात् स महापदम् | मन्त्राक्षरस्य विन्यासः सर्वमन्त्रेषु कीर्तितः || ७७ || वैष्णवे चाथवा रौद्रे महाभागेऽथवा पुनः | मन्त्रे कलेवरगते महामायाप्रपूजने || ७८ || मन्त्रन्यासे न वा कुर्यात् वान्यत्र वाचरेत् | अङ्गरागेषु सिन्दूरं पानेषु मदिरा तथा || ७९ || वस्त्रं रक्तं तु कौशेयं त्रिपुराप्रीतिदं मतम् || त्रयो दीपाः प्रदातव्याः पञ्च वा सप्त भैरव || ८० || इतो न्यूनान् न पदद्यात् त्रिपुरायै कदाचन || मल्लिकामालतीकुन्दं वको द्रोणः सिताम्बुजम् || ८१ || शुक्लपुष्पाणि त्रिपुराप्रीतिदानि तु भैरव | रक्ताम्बुजं जवा रक्ता करवीरोऽथ कोमलः || ८२ || रक्तं त्रिपुरभैरव्याः प्रीतिदा स्नेहकाञ्चनैः | इदं ते कथितं पुत्र संक्षेपादेव भैरव || ८३ || अवाप्य सिद्धिं परमां स्वयं विस्तारयिष्यसि | आराध्य त्वं महामायामवाप्य च गणेशताम् || ८४ || कल्पमन्त्रौघमन्त्राणां भविष्यसि वितानक | अस्यास्त्रिपुरभैरव्याः शुक्लरूपाणि यानि तु || ८५ || तानि सारस्वताख्यानि मन्त्राः सम्यगुदीरिताः | सरस्वती तु या देवी वीणापुस्तकधारिणी || ८६ || स्रक् कमण्डलुहस्ता च दक्षिणे शुक्लपर्णिका |महाचलस्य पृष्ठस्था सितपद्मोपरिस्थिता || ८७ || शुक्लवर्णा शुक्लवस्त्रा शुक्लाभरणभूषिता | तस्यास्तु वाग्भवाद्याभ्यां नेत्रबीजं द्वितीयकम् || ८८ || कृत्वान्ते विनियोज्यैव मन्त्रं प्राक्प्रतिपादितम् | वरदाभयहस्ता च मालापुस्तकधारिणी || ८९ || शुक्लपद्मासनगता सा परा वाग् सरस्वती | बालाबीजाद्यक्षरं तु द्विरुक्तं चार्धचन्द्रकम् || ९० || मन्त्रमस्याः पुरा प्रोक्तं तन्त्रं सामान्यमीरितम् | एषा तु या रक्तवर्णा मुण्डमालाविभूषिता || ९१ || तस्याः प्रोक्तः पुरा मन्त्रः सा तु वृद्धा सरस्वती | षष्ठमन्त्रस्तथैतस्यास्त्रयोदशनिरूपणे || ९२ || एषा कवित्वशास्त्रौघ-तत्त्ववादविनिश्चये | सुखसम्प्त्करा प्रोक्ता नित्यमेव तु भैरव || ९३ || अस्या व्यस्तसमस्तैश्च शुक्रक्तादिभेदतः | चतुःषष्टिमूर्तयश्च त्रैपुरादुत वाग्भवम् || ९४ || महामाया योगनिद्रा मूलभूता जगत्प्रसूः | जगन्माता जगद्धात्री विद्याविद्यापरात्मिका || ९५ || तस्या एव महाभाग त्रिपुराद्या विभूतयः | प्रस्तुताः कथिता नित्यं ताः स्वयंगत एव हि || ९६ || इति ते कथितं पुत्र महादेव्या मनोहरम् | रहस्यं वामदाक्षिण्यं मन्त्रसिद्धिं शृणुष्व मे || ९७ || इति श्रीकालिकापुराणे त्रिपुराकवचं नाम पञ्चसप्ततितमोऽध्यायः || ७५ || षट्सप्ततितमोऽध्यायः श्रीभगवानुवाच - मन्त्रशुद्धिमवेक्ष्यैव गृह्णीयान्मन्त्रमुत्तमम् || १ || तत्र सिद्धं सुसिद्धं च साध्यं शात्रवमेव च | मन्त्रं चतुर्विधं प्रोक्तं तद्विद्ध्यक्षरभेदतः || २ || वर्णक्रमः शाश्वतस्तु यो मया भाषितः पुरा | तत्रादौ भैरव ज्ञात्वा पश्चाच्चक्रं शृणुष्व मे | वर्णानां तु मुखादीनां वैष्णवीतन्त्रसंज्ञक || ३ || यः प्रोक्तोऽभून्महामन्त्रस्तस्यासन्नक्षराणि तु | मूलभूतानि तान्येव ततोऽन्यानपि वर्धयेत् || ४ || अकारश्च ककारश्च चटकारौ तथैव च | तपकारौ यकारश्च वर्गाद्याः परिकीर्तिताः || ५ || आ इ ई उ ऊ ऋ ॠ ऌ ॡ एतेऽदीर्घदीर्घकाः | ऐ ओ औ विसर्गश्च बिन्द्वादिर्याज्ञिकस्तथा || ६ || ह्वनेरन्तरजाश्चेति कीर्तितास्तु स्वरा अमी | खकराश्च गकाराश्च घ ङो वर्गः प्रकीर्तितः || ७ || यञ्जनकारादिछजौ टकारः परमस्मृतः | उकराश्च डकारश्च भैरवशब्दादिरेव च || ८ || णकारान्तस्तृतीयोऽयं वर्गोष्ठादिः प्रकीर्तितः | थकारश्च दकारश्व धर्मशब्दादिरेव च || ९ || नवशब्दस्य चैवादिश्चतुर्थो वर्ग उच्यते | फलशब्दस्य यश्चादिर्बहुशब्दादिरेव च || १० || भकारो मनःशब्दादि पञ्चमो वर्ग उच्यते | यकारश्च रकारश्च लकारो वस्तथैव च || ११ || एभिश्चतुर्भिर्वर्गाऽयं षष्ठो भैरव उच्यते | शषसा हः क्षकारश्च संयोगः परिवेदकः || १२ || पञ्चभिः शेषवर्गोऽयं सप्तमः परिकीर्तितः | संयोगयोगसंलोमप्रतिलोमैरिमे सुत || १३ || वर्णाः स्युर्मन्त्रनामादौ वाङ्मात्रेऽपि च भैरव | चतुर्वर्गप्रदा वर्णाः सुखदुःखकरास्तथा || १४ || रोगं च तेजसम्पूज्यपूजकाः परिकीर्तिताः | अहंः विष्णुश्च ब्रह्मा च गायत्री ब्रह्ममातृकाः || १५ || अपरं ब्रह्मवर्णा ये परब्रह्मसुखप्रदम् | अपरं ब्रह्मकुशलः परब्रह्माधिगच्छति || १६ || सिसृक्षुरीश्वरो वर्णाज्ज गन्ति स्वेच्छया पुनः | ससर्ज मम वक्त्रे तां ब्रह्मवक्त्रे च वै न्यधात् || १७ || अहं तु सकलान् वर्णान् न्यस्य भैरव तन्त्रकम् | अकार बहुलं पुत्र ज्ञानमार्गं विवर्धयन् || १८ || य इमे गदिता वर्णा मया वर्णविनिश्चये | मन्त्रशुद्धिविवेकार्थं वर्णचक्रं ततः शृणु || १९ || शक्तिशम्भुस्वरूपिण्यो रेखे द्वे प्रथमं न्यसेत् | तन्मध्यतः उनारेखे विष्णुलक्ष्मीतले तथा || २० || तयोस्तु रेखयोर्मध्ये द्वे रेखे समतो न्यसेत् | तस्य चक्रस्य चारेषु रेखास्तु परिसंख्यया || २१ || चतस्रस्तु प्रदातव्याः स्वरमध्ये तु भैरव | भिन्नानां च तथा वर्णाः सन्धयोऽष्टौ प्रकीर्तिताः || २२ || नेमयस्तु चतस्रोऽस्य सन्धिमध्येषु कीर्तिताः | अष्टारसंयुतं चक्रं चतुर्नेमिसमन्वितम् || २३ || बहिर्वेष्टनसंयुक्तं वर्णचक्रं प्रकीर्तितम् | मेषादीनां च राशीनामुदयास्तप्रतिज्ञया || २४ || इदमेव भवेच्चक्रं ज्ञानश्रीवृद्धि-कारकम् | इदं चक्रं लिखित्वा तु समभूमावुदङ्मुखः || २५ || प्राङ्मुखो वा लिखेद् वर्णांच्छुचिरिष्टं नमन् गुरुम् | प्रदक्षिणं लिखेत् तस्मिन् वर्णास्तेष्वेव तु क्रमात् || २६ || उरो नेमेवकारं तु रकारं चापि वै लिखेत् | अकारं वर्जयेद् दीर्घमीकारं च स्वरेषु वै || २७ || अकरादिक्षकारान्त झ ट ञ ण वर्जितम् | प्रदक्षिणक्रमादेव लिखित्वा वर्णसञ्चयम् || २८ || स्बनामाद्यक्षरं गृह्य कुर्यात् तु गणनक्रमम् | मन्त्रस्याद्यक्षरं यावत् सिद्धाद्यं तत्र योजयेत् || २९ || नवैकपञ्चके सिद्धः साध्यः षड्युग्मपङ्किषु | त्रिसप्तैकादशेष्वेव सुसिद्धः परिकीर्तितः || ३० || द्वादशाष्टचतुर्थेषु हात्रवः परिकीर्तितः | सिद्धेनैवाचिरात् सिद्धिः साध्यः कालेन सिध्यति || ३१ || क्रामान्नाशयते शत्रुः सुसिद्धः सिद्धिदोऽचिरात् | यो यो वर्णक्रमः प्रोक्तो मन्त्रे दक्षिणगोचरे || ३२ || वाम्याराधनमन्त्रेषु क्रमं शृण्विह भैरव | ऋऌ द्वयं ङ ञ ण ना वर्ज्याश्च वर्णगोचरे || ३३ || लिखेद् वामक्रमेणैव तत्र वर्णास्तु मन्त्रवित् | नृसिंहार्कवराहाणां प्रसादप्रणवस्य च || ३४ || एकाक्षरद्व्यक्षराणां न सिद्धादिविचिन्तनम् | बीजेषु चापि सर्वेषु दीक्षार्थेषु च भैरव || ३५ || सिद्धादिचिन्ता नो कार्या ग्राह्यास्तु दश वश्यकम् | सुसिद्धं कामदं ग्राह्यं साध्यसिद्धविचारणात् || ३६ || न ग्राह्यः शात्रवो धीरैर्गृहीत्वाप्नोति चापदम् | यो यस्यैकाक्षरो मन्त्रस्तन्नाम्ना स निगद्यते || ३७ || सहितश्चन्द्रबिन्दुभ्यां तद्बीजमिति गद्यते | तथा शक्रो सकारः स्यात् सार्धचन्द्रः सबिन्दुकः || ३८ || स एव शक्रबीजं स्यात् तथान्यत्रापि योजयेत् | मन्त्रोद्धारेषु सर्वत्र परतः परतः पुरः || ३९ || पूर्वतोऽपि परे कार्यमनुक्तः पूर्वपक्षकः | यदा षोडशसाहस्रं वैष्णव्या मन्त्रसञ्चयम् || ४० || चक्रे निरीक्ष्यते तत्र षोडशारं तु चक्रकम् | विंशतिस्तु सहस्राणि त्रिपुराया यदीक्षते || ४१ || द्वात्रिंशारं तत्र चक्रं लेखनीयं सदा बुधैः | इदमेव महाचक्रं षोडशारादिकं कृती || ४२ || कुर्यादधिकरेखाभिर्मन्त्रशुद्ध्यन्तरे सुत | इयं ते कथिता पुत्र मन्त्रसिद्धिरभीष्टदा || ४३ || जानाति सम्यक् य इमां स जयी काममाप्नुयात् | रहस्यं परमं पुत्र प्रयोगादिप्रकारतः || ४४ || वक्ष्यामि तत् समासेन शृणु वेताल भैरव | दन्तः पक्षविडालस्य तत्त्वचा परिवेष्टितः || ४५ || निर्माल्येन तु वैष्णव्या तत् संवेष्ट्य गुणत्रयम् | तत् तद् वा वामसूत्रस्य तत्तन्मन्त्रेण मन्त्रितम् || ४६ || गृहीत्वा दक्षिणे पाणौ मन्त्राणां शतमादितः | सञ्चयेदथ वैष्णव्या अष्टम्यां नियतेन्द्रियः || ४७ || ततस्तु दक्षिणे बाहौ धार्यं यन्त्रोत्तमं बुधैः | ततो द्वादशसिद्धिः स्याद्धर्ताचेन्नात्रितित्तिलीम् || ४८ || जयः संग्रामवादेषु शरीरस्याप्यरोगिता | वशकृद्राजपुत्राणां राज्ञामपि च सन्ततम् || ४९ || भूतप्रेतपिशाचाश्च नो यान्ति नेत्रगोचरम् | योषितां समदानां तु वशकृच्चिन्तनात् सकृत् || ५० || रुधिराणां श्लेष्मणा च धातूनां स्तम्भनं तथा | तेजसां स्तम्भकं चैव चक्षुस्तेजःप्रदं तथा || ५१ || मूर्ध्नि पक्षविडालस्य हस्तं दत्त्वा शतत्रयम् | वैष्णवीतन्त्रमन्त्रं तु जप्त्वा तं स्थापयेद् गृहे || ५२ || तं विडालं तु या पश्येन्मलिनी वनिता सुत | नापुत्रा सा भवित्री तु कदाचिदपि भैरव || ५३ || तादृक् पक्षविडालस्तु यस्य तिष्ठति मन्दिरे | मृतापत्यापि तद्गेहे जीवत्पुत्रा प्रजायते || ५४ || कोकिलो भृङ्गराजो वा चकोरो वा शुकोऽथवा | वैष्णवीतन्त्रमन्त्रेण मन्त्रितो यत्र तिष्ठति || ५५ || विघ्नं न मन्दिरे तस्य भवितृ सुप्रजा भवेत् | न सर्पास्तत्र गच्छन्ति गताः खादन्ति नो नरान् | नारी न बन्धकी तस्य मन्दिरेऽपि प्रजायते || ५६ || पञ्चमूर्तेश्चण्डिकाया निर्माल्यानि च पञ्चमः || ५७ || तेषां वलीनां मांसेन स्थाल्यां पक्त्वा दिनत्रयम् | अष्टम्यां तत्पुनर्देव्यै दत्त्वा तन्मन्त्रमन्त्रितैः || ५८ || तोयैरभ्युक्ष्य भुञ्जीयान्मनसा चिन्तयेच्छिवाम् | तस्मिन् भुक्ते तु दीर्घायुर्जरा शोकविवर्जितः || ५९ || तेजस्वी शत्रुदमनः कविर्वाग्मी च जायते | ललाटे मूर्ध्नि कण्ठे च बाह्वोः पाण्योस्तथा हृदि || ६० || वैष्णवीतन्त्रमन्त्रस्य यानि चाष्टाक्षराणि च | लिखित्वा तानि चैतेषु स्थानेषु मन्त्रविद् बुधः || ६१ || कुङ्कुमं क्षीरमलयजातपङ्कः सुयावकैः | अष्टम्यां संयतो भूत्वा नवम्यां प्रथमं नरः || ६२ || प्रतिष्ठाने न्यस्य करमष्टावष्टौ जपेद् बुधः | आवर्तनेन मन्त्राणां ततोऽनु पूजयेच्छिवाम् || ६३ || ततस्तस्मिन् दिने देव्यै विजातीयं वलित्रयम् | दत्त्वा सहस्रं मन्त्रस्य संख्यया जपमारभेत् || ६४ || जपान्ते तु हविर्भुक्त्वा संयतो रजनीं नयेत् | एवं सकृत्कृते पुत्र रणे तस्य पराजयः || ६५ || कदाचिदपि नो भूयान्न च वादेषु शास्त्रतः | इधिमेवं सकृत्कृत्वा रणकाले यथा तथा || ६६ || सदा लिखेत् क्षत्रियस्तु विजयाय रणेषु च | अपरं तु रणाष्टाङ्गं गुह्यमेतत् प्रकीर्तितम् || ६७ || अनेनैव तु गुह्येन विजयी त्वं भविष्यसि | इति नौ कथितं सर्वं गुह्याद् गुह्यतरं शुभम् || ६८ || सुखसम्पत्करं मन्त्रं यन्त्रतन्त्रसमन्वितम् | यच्छ्रोतुं त्रिदशाः सर्वे नित्यं वाञ्छन्ति चामृतम् || ६९ || तदिदन्ते समाख्यातं पुत्र वेताल भैरव | एतत् सर्वं नदो ज्ञात्वा तत्त्वतः पुत्र भैरव || ७० || स कामानखिलान् प्राप्य नित्यं कैवल्यमाप्नुयात् | शृणोति यःसकृदिदं कथ्यमानो दिव्जोत्तमैः || ७१ || न तस्य विघ्ना जायन्ते नापुत्रः स च जायते | दीर्घायुर्बलयुक्तश्च नित्यं प्रमुदितः कृती | वाञ्छितार्थमवाप्नोति देवीगृहमवाप्नुयात् || ७२ || गच्छतं कामरूपान्तःपीठं नीलाचलाह्वयम् || ७३ || कामाख्यानिलयं गुह्यं कुब्जिकापीठसंज्ञकम् | आकाशगङ्गा यत्रास्ति तज्जलैरभिषिच्य च || ७४ || तत्राराधयतं पुत्रौ महामायां जगन्मयीम् | सा प्रसन्नाचिराद् देवी वरदा नौ भविष्यति || ७५ || और्व्य उवाच - इत्युक्त्वा वृषभारूढस्तदा वेतालभैरवौ | स पुत्रौ तु परित्यज्य तत्रैवान्तरधीयत || ७६ || ततस्तौ नाटकं शैलं परित्यज्य तपस्विनौ | आसेदतुर्महात्मानं वसिष्ठं ब्रह्मणः सुतम् || ७७ || स तु सन्ध्याचलगतस्तौ दृष्ट्वा समुपस्थितौ | सभाजयामास मुनिः शिष्यवत् तौ हरात्मजौ || ७८ || ततस्तस्योपदेशेन वसिष्ठस्य महात्मनः | जग्मतुस्तौ महाशैलं नीलं कामाख्ययागतम् || ७९ || तत्र गत्वा महात्मानौ वैष्णवीतन्त्रगोचरम् | आदाय जातां तां देवीं महामायां जगन्मयीम् || ८० || भैरवाख्यस्य लिङ्गस्य निक्ऽतस्थौ शिवात्मनः | आकाशगङ्गामाप्लाव्य स्थण्डिले मण्डलोत्तमम् || ८१ || विधाय नरशार्दूलौ जपेतुर्मन्त्रमुत्तमम् | तौ जप्त्वा विधिवन्मन्त्रं सिद्धमष्टाक्षरात्मकम् || ८२ || वेतालस्य तथासाध्यमष्टलक्षाणि संख्यया | त्रिभिर्वर्षैस्तु लक्षाणां चतुर्णामन्ततस्ततः || ८३ || त्रिधा पुरश्चरणं च तौ भक्त्या समकुर्वताम् | यद्यदुत्तरतन्त्रोक्तं कल्पोक्तं पूजने कृतम् || ८४ || तत्सर्वं चक्रतुस्तौ तु तं त्रिहायणसंवृतौ | कामाख्या त्रिपुरादीनामन्यासामपि पूजनम् || ८५ || सकृत्कृत्वा पीठयात्रां चेरतुर्विधिवत् तदा | एवं तौ बद्धकवचौ कृतन्यासौ हरात्मजौ || ८६ || सुप्रीता चानुजग्राह महामायाठ तौ तदा | ध्यानस्थयोस्तु जपतोर्यजतोश्च जगन्मयो || ८७ || शिवलिङ्गं विनिर्भिद्य तदा प्रत्यक्षतां गता | तस्यां विनिर्गतायां तु शिवलिङ्गं त्रिधाऽभवत् || ८८ || भैरवो भैरवी चेति हेरुकश्च तथा त्रयः | तां ददर्श तदा देवीं वेतालो भैरवस्तदा || ८९ || यथा ध्यानगता दृष्टा बहिश्चापि तथा तथा | तां दृष्ट्वा चारुसर्वाङ्गी पीनोन्नतपयोधराम् || ९० || वरदाभयहस्तां च सिद्धसूत्रासिधारिणीम् | रक्तपद्मप्रतीकाशां सितप्रेतासनस्थिताम् || ९१ || निमील्य नयनद्वन्द्वं तदा वेतालभैरवौ | त्राहि त्राहि महामाये ऊचतुस्तौ मुहुर्मुहुः || ९२ || ततस्तया महादेव्या तेजसाप्यायितौ तु तौ | पस्पर्श वरहस्तस्य चाग्रभागेन वैष्णवी || ९३ || आप्यायितौ ततस्तौ तु स्पृष्टावपि तथा पुनः | आसेदतुश्च देवत्वं मनुष्यत्वं विहाय च || ९४ || देवभूतौ तदा तौ तु महामायां जगन्मयीम् | स्तुतिभिर्नतिभिश्चेति तदा तुष्टुवतुः शिवाम् || ९५ || वेतालभैरवावूचतुः- जय जय देवि सुरगणार्चितपङ्कजे विश्वस्य भूतिभाविनी शशिमौलि- केलिभाविनि गिरिजे | नेत्रत्रयनिर्जितविवस्वद्विधुवह्लिकान्तितुलितकमलजे मध्यनेत्रनतभ्रूभङ्गभक्तरक्तमतिचयज्वायकविमलजे || ९६ || आज्ञाचक्रान्तशान्तनवकोटि- करोटितुल्यकान्त शान्तशशधरे | बहुमायकायभोगयोगतरङ्ग- आरस्य पद्मवसुचरे || ९७ || रिनाडिनीतमध्यबधविष्किर- वल्लभशुभसुषुम्नसमाधारपरे | इबुधरत्नविमोदिविश्वमूर्ति- महोमयानवसि षट्चक्रधरे || ९८ || आदिषोडशचक्रचुम्बितचारुदेहपीनतुङ्ग- कुचाचलालिंगितभूमिमध्यनागशाकगते | सिद्धसूत्रवराभयासिशान्तपातक पङ्कजातकमूलमणिचतुर्बाहुयुते | ज्ञानतालकमन्त्रतन्त्रयोगियोग- निबद्धसारसूतभङ्ग विनोदकृते | आत्मतत्त्वपरैकशाररत्नहारक- मुक्तिसूक्तिविवेकसितप्रेतरते || ९९ || रत्नसारसमस्तसङ्गतरंगराग- वियोगिमन्त्रशान्तपुरविशेषकृते | योगिनीगणनृत्यभृत्यभावन- निबद्धनद्धहारकङ्कणमुख्यभूषणपते | साट्टहासविनोदमोदितमुक्त- केशसुरेशनिबद्धदेहपुटे | देहि देवि शोकशोचनबन्ध- मोचनपापशातनशुद्धमते || १०० || सर्वविद्यात्मिकां गुह्यां मन्त्रयन्त्रमयीं शिवाम् | प्रणमामि महामायां लोके वेदे च कीर्तिताम् || १०१ || परापरात्मिकां नित्यां साध्याधारैकसंस्थिताम् | कामाह्लादकरीं कान्तां त्वां नमामि जगन्मयीम् || १०२ || प्रपञ्चपरमव्यक्तं जगदेकविवर्धिनि | प्रभावेनार्धरक्तांगि देवि तुभ्यं नमोऽस्तु ते || १०३ || कामाख्या नित्यरूपाख्या महामाया सरस्वती | या लक्ष्मीर्विष्णुवक्षःस्था नमावो ह्यच्युतां शिवाम् || १०४ || मन्त्राणि यस्यास्तन्त्राणि सहस्राणि च षोडश | मन्त्रयन्त्रात्मके तुभ्यं नमोऽस्तु मम पार्वति || १०५ || और्व उवाच - इति स्तुता ततस्ताभ्यां महामाया जगत्प्रसूः | उवाच मुदिता चेति वरं वरयतं युवाम् || १०६ || प्रत्यक्षतो महामायां पूर्ववद् ध्यानगोचराम् | तौ दृष्ट्वा भर्गतनयौ प्राहतुश्चेदमुत्तमम् || १०७ || वैतालभैरवावूचतुः | देव्यनेन शरीरेण भवत्याः शङ्करस्य च | प्रार्थये शाश्वतीं सेवां नित्यं यावद्रविः शशी || १०८ || नान्यं वरं सोधयावओ माये त्वत्तो जगन्मयी | अन्यथा तव भक्त्यैव स्थास्यावो गिरिकन्दरे || १०९ || और्व उवाच - एवमुक्ता ततस्ताभ्यां महामाया जगन्मयी | एवमस्त्विति चोवाच भवत्येवं मुहुर्मुहुः || ११० || एवं इद्धिर्जगद्धात्री प्रोक्ता स्वस्याथ चूचुके | निष्पीड्य आरयामास क्षीरधाराद्वयं शिवा || १११ || ततस्तु निःसृतं क्षीरं पाययामास भैरवम् | वेतालं च महाराज पिबतस्तौ च तत् तदा || ११२ || पीत्वा तौ च तदा क्षीरं देवत्वं प्राप्य शाश्वतम् | अजरौ चामरौ भूतौ महातेजस्विनौ शुभौ || ११३ || तस्यास्तु क्षीरममृतं तत् पीत्वा तौ महाबलौ | पीयूषपानात् सजातौ ततस्तौ प्राह वैष्णवी || ११४ || गणानां देवदेवस्य भवतस्चाधिपौ युवाम् | द्वाःस्थौ च नित्यमासन्नौ नन्दिवद् भवतं सुतौ || ११५ || इत्युक्त्वा हरसम्मत्या महामाया जगन्मयी | योगिनीगणसंयुक्ता तत्रैवान्तरधीयत || ११६ || अन्तर्हितायां तस्यां तु तदा वेतालभैरवौ | मुदितौ परमप्रीतौ कृतकृत्यौ बभूवतुः || ११७ || अथागच्छद् देवगणैः सार्धं सप्रमथो हरः | सभाजयितुमत्यर्थं पुत्रौ वेतालभैरवौ || ११८ || तावासाद्य महादेवस्तदा नीलाह्वयं गिरिम् | सकलं दर्शयामास पीठं तु स्थानभेदतः || ११९ || प्रत्यक्षतो महामायां पूर्ववद् ध्यानगोचराम् | तौ दृष्ट्वा भर्गतनयौ प्राहतुश्चेदमुत्तमम् || १०७ || वैतालभैरवावूचतुः | देव्यनेन शरीरेण भवत्याः शङ्करस्य च | प्रार्थये शाश्वतीं सेवां नित्यं यावद्रविः शशी || १०८ || नान्यं वरं सोधयावो माये त्वत्तो जगन्मयि | अन्यथा तव भक्त्यैव स्थास्यावो गिरिकन्दरे || १०९ || और्व उवाच - एवमुक्ता ततस्ताभ्यां महामाया जगन्मयी | एवमस्त्विति चोवाच भवत्येवं मुहुर्मुहुः || ११० || एवं सिद्धिर्जगद्धात्री प्रोक्ता स्वस्याथ चूचुके | निष्पीड्य आरयामास क्षीरधाराद्वयं शिवा || १११ || ततस्तु निःसृतं क्षीरं पाययामास भैरवम् | वेतालं च महाराज पिबतस्तौ च तत् तदा || ११२ || पीत्वा तौ च तदा क्षीरं देवत्वं प्राप्य शाश्वतम् | अजरौ चामरौ भूतौ महातेजस्विनौ शुभौ || ११३ || तस्यास्तु क्षीरममृतं तत् पीत्वा तौ महाबलौ | पीयूषपानात् सजातौ ततस्तौ प्राह वैष्णवी || ११४ || गणानां देवदेवस्य भवतस्चाधिपौ युवाम् | द्वाःस्थौ च नित्यमासन्नौ नन्दिवद् भवतं सुतौ || ११५ || इत्युक्त्वा हरसम्मत्या महामाया जगन्मयी | योगिनीगणसंयुक्ता तत्रैवान्तरधीयत || ११६ || अन्तर्हितायां तस्यां तु तदा वेतालभैरवौ | मुदितौ परमप्रीतौ कृतकृत्यौ बभूवतुः || ११७ || अथागच्छद् देवगणैः सार्धं सप्रमथो हरः | सभाजयितुमत्यर्थं पुत्रौ वेतालभैरवौ || ११८ || तावासाद्य महादेवस्तदा नीलाह्वयं गिरिम् | सकलं दर्शयामास पीठं तु स्थानभेदतः || ११९ || कामाख्याया गुहां तत्र दर्शयित्वा मनोभवाम् | ततः स्वीयां कामगुहां छायाच्छत्रं स्वमालयम् || १२० || स्वकीयं पञ्चमूर्तीनां संस्थानं चाप्यदर्शयत् | कामरूपस्य सकलं पीठं देवमयं तथा || १२१ || प्रत्येकं दर्शयामास क्रमतस्त्रिपुरान्तकः | प्रथमं करतोयाख्यां सत्यगङ्गा सदाशिवाम् || १२२ || पुण्यतोयमयीं शुद्धां दक्षिणाब्ध्येकगामिनीम् | इति श्रीकालिकापुराणे वेतालभैरवयोः सिद्धिलाभो नाम षट्सप्ततितमोऽध्यायः || ७६ || सप्तसप्ततितमोऽध्यायः और्व उवाच - ततस्तु कामरूपस्य वायव्यां त्रिपुरान्तकः | आत्मनो लिङ्गमतुलं जल्पीशाख्यं व्यदर्शयत् || १ || यत्र नन्दी समाराध्य महादेवं जगत्पतिम् | अभिन्नेन शरीरेण गाणपत्यमवाप्नुयात् || २ || नन्दिकुण्डं महाकुण्डं यत्र नन्दी पुराऽकरोत् | अभिषेकं लब्धवरं पीतं तोयमनुत्तमम् || ३ || तत्र स्नात्वा च पीत्वा च कृतकृत्यो नरोत्तमः | हरस्य सदनं याति नन्दिनोऽपि महाश्रियः || ४ || तस्यासन्ने महादेवीं नातिदूरे व्यवस्थिताम् | सिद्धेश्वरीं योनिरूपां महामायां जगन्मयीम् || ५ || त्र्यम्बको दर्शयामास भैरवाय महात्मने | यत्र नन्दी महामायामाज्ञया शशिधारिणः || ६ || स्तुतिभिर्नतिभिः पूज्य गाणपत्यमवाप्नुयात् | सुवर्णमानसस्तत्र नदमुख्यो मनोहरः || ७ || नन्दिनोऽनुग्रहायाशु मानसाख्यं अरस्तु तत् | आगतं चाज्ञया शम्भोः पूर्वमेव तपस्यतः || ८ || जटोद्भवा तत्र नदी हिमवत्प्रभवा शुभा | यस्यां स्नात्वा नरःपुण्यमाप्नोति जाह्नवीसमम् || ९ || गौरीविवाहसमये सर्वैर्मातुगणैः कृतः | जलाभिषेको भर्गस्य जटाजूटेषु यः पुरा || १० || तैस्तओयैरभवद्यस्माज्जटोदाख्या नदी ततः | चैत्रे मासि सिताष्टम्यां स्नात्वा यस्यां नरो व्रजेत् || ११ || पूर्णायुर्वै नरश्रेष्ठ शिवस्य सदनं प्रति | द्वापरस्य तु या गङ्गा त्रिःस्रोताख्या सरिद्वरा || १२ || हिमवत्प्रभवा शुद्धचन्द्रविम्बाद् विनिर्गता | यस्यां स्नात्वा महामाध्यां मातृयोनौ न जायते || १३ || चन्द्रसूर्यग्रहे स्नात्वा कैवल्यं प्राप्नुयान्नरः | सितप्रभा नाम नदी महादेवावतारिता || १४ || हिमवत्प्रभवा सापि सिता दक्ष समुद्रगा | तस्यां दशहरायां तु दशम्यां शुक्लपक्षके || १५ || स्नात्वा विष्णुगृहे याति नरो वै मुक्तपातकः | नवतोया नाम नदी ततः पूर्वस्थिता पुरा || १६ || नवं नवं नवं नित्यं कुर्वन्ती सा पुनाति हि | नवतोया ततः प्रोक्ता हिमवत्प्रभवैव सा || १७ || तस्यां स्नात्वा महामाघ्यां नरो गच्छति देवताम् | सम्पूर्णं माघमासं तु स्नात्वा विष्णुगृहं व्रजेत् || १८ || तासां नदीनां तु पतिरगदो नाम वै नदः | पीठपूर्वे स्थितः पुण्यो ब्रह्मपादसमुद्भवः || १९ || हिमवत्प्रभवः सोऽपि देवगन्धर्वसेवितः | तत्र स्नात्वा च पीत्वा च नरो ब्रह्मगृहं व्रजेत् || २० || कार्तिकं सकलं मासं योऽगदाख्ये महानदे | स्नानं करोति मौजस्तस्य पुण्यफलं शृणु || २१ || इह लोके त्वरोगः स प्राप्य चैवोत्तमं सुखम् | शेषे ब्रह्मगृहं प्राप्य ततो मोक्षमवाप्नुयात् || २२ || नन्दिकुण्डे नरः स्नात्वा भक्तं कुर्यात् तदा निशि | ततः परस्मिन् दिवसे गच्छेज्जल्पीशमन्दिरम् || २३ || तत्र स्नात्वा महानद्यां जल्पीशं प्रतिपूज्य च | तस्यां निशि हविष्याशी संयतस्तां निशां नयेत् || २४ || ततोऽनुदिवसे प्राप्ते गच्छेत् सिद्धेश्वरीं शिवाम् | तां पूजयेत् तथाष्टम्यामुपवासं तथाचरेत् || २५ || चतुर्भुजा तु सा देवी पीनोन्नतपयोधरा | सिन्दूरपुञ्जसङ्काशा धत्ते कर्त्री च खर्परम् || २६ || दक्षिणे वामबाहुभ्यामभीतिवरदायिनी | जटामण्डितशीर्षा च अक्तपद्मोपरिस्थिता || २७ || पंचाक्षरजपान्तादिर्मन्त्रेऽस्याः परिकीर्तितः | कामख्यातन्त्रमेवास्याः पूजने तन्त्रमीरितम् || २८ || एवं कृत्वा नरो धीरः पुनर्योनौ न जायते | जामदग्न्यभयाद् भीताः क्षत्रियाः पूर्वमेव ये || २९ || लेच्छच्छद्माण्युपादाय जल्पीशं शरणं गताः | ते म्लेच्छवाचः सततमार्यवाचश्च सर्वदा || ३० || जल्पीशं सेवमानास्ते गोपायन्ति च तं हरम् | त एव तु गणास्तस्य महाराजमनोहराः || ३१ || तोषयित्वा तथा सर्वान् जल्पीशं पूजयेन्नरः | वरदाभयहस्तोऽयं द्विभुजः कुन्दसन्निभः || ३२ || तत्पुरुषस्य तु मन्त्रेण पूजयेद् देवमुत्तमम् | एवं पुण्यकरः पीठो जल्पीशस्य महात्मनः | एवं ज्ञात्वा नरो याति शंकरस्य परं प्रति || ३३ || इति श्रीकालिकापुराणे सप्तसप्ततितमोऽध्यायः || ७७ || अष्टसप्ततितमोऽध्यायः मार्कण्डेय उवाच - एतच्छ्रुत्वा तु संवादमुत्तमं शंकरस्य च | भैरवस्य तु वेतालसहितस्य महात्मनः || १ || भूयश्च सगरो राजा मुनिमौर्वं महामतिम् | पप्रच्छ मोदसंहृष्टः सूनृतं चेदमुत्तमम् || २ || सगर उवाच - विचित्रमिदमाख्यातं भगवन्मुनिसत्तम | कामरूपस्य पीठस्य संस्थानं निर्णयं तथा || ३ || भूयश्च श्रोतुमिच्छामि विस्तरेण महामते | वायव्यस्याथ मध्यस्य पूर्वभागस्य निर्णयम् || ४ || यथा यस्मिन् निष्ठितोऽस्ति महादेवोऽम्बिका तथा | तत्सर्वं मुनिशार्दूल कथय श्रोतुमुत्सहे || ५ || और्व उवाच - उक्तो वायव्यभागस्य निर्णयो नृपसत्तम | नैर्-ऋत्योत्तरमध्याद्रेः शृण्विदानीं विनिर्णयम् || ६ || बहुरोक्ता नाम ननी करतोया प्रदक्षिणे | उत्तरश्रावणी चास्ते तत् पूर्वं कामरूपकम् || ७ || सुरसो नाम जीमूतः कामरूपं ततः स्थितः | निःसृता बहुरोकेति नदी तस्माद् वृषप्रदा || ८ || आसन्ने सुरसाख्यस्य शिवलिङ्गो महावृषः | माहेश्वरी तत्र देवी योनिमण्डलरूपिणी || ९ || स्नात्वा तु बहुरोकायामारुह्य सुरसाचलम् | महावृषं पूजयित्वा महादेवीं महेश्वरीम् || १० || धूतपापो जितद्वन्द्वः पुनर्योनौ न जायते | चतुर्भूजो वृषारूढो वरदाभयशूलधृक् || ११ || शुद्धस्फटिकसंकाशो जटावान् स महावृषः | अघोरस्य तु मन्त्रेण पूजाऽस्य परिकीर्तिता || १२ || कामेश्वर्याः स्वरूपं तु माहेश्वर्याः प्रकीर्तितम् | पूजापि यद्वदेवास्यास्तद्वत्फलप्रदायिका || १३ || तत्र वसिष्ठकुण्डं तु वसिष्ठमुनिसेवितम् | यत्र स्थितो वसिष्ठस्तु नरकेण निवारितः || १४ || अप्राप्य गन्तुं जीमुतं नीलाख्यं वाशपत्तुतम् | स्वस्नानार्थं कृतं तत्र कुण्डं देवगणार्चितम् || १५ || तत्र स्नात्वा नरो याति नाकपृष्ठं यथेच्छया | सुरसस्य च पूर्वस्यां कृत्तिवासाह्वयो गिरिः || १६ || कृत्तिवासाः स्वयं तत्र सत्या सहावसत् पुरा | चन्द्रिकाख्या नदी यत्र तस्यां स्नात्वा दिवं व्रजेत् || १७ || चन्द्रिकायां नरः स्नात्वा सम्पूज्य कृत्तिवाससम् | भाद्रशुक्लचतुर्थ्यां तु निष्कलङ्को भवेन्नरः || १८ || पूर्णभाद्रपदं मासं चन्द्रिकायां नरोत्तमः | स्नात्वा गच्छति भूतेशं दृष्ट्वै कृत्तिवाससम् || १९ || उत्तरस्राविणी नित्यं चन्द्रिकाख्या सरिद्वरा | नातिदूरे चन्द्रिकायाः पूर्वस्यां दिशि फेनिला || २० || संज्ञया च सरिच्छ्रेष्ठा शतानन्दावतारिता | ब्रह्मणो दुहिता स तु गङ्गा पर्वतसम्भवा || २१ || फेनिलायां नरः स्नात्वा ब्रह्मोत्थानदिने पुनः | फाल्गुने मासि नरकं जित्वा स्वर्गमवाप्नुयात् || २२ || ततः सिताह्वया पूर्वं सरिदुत्तरगामिनी | तस्यां स्नात्वा महाचैत्र्यां गङ्गास्नानफलं लभेत् || २३ || ततः पूर्वं सुमदना योजनद्वितयान्तरे | नदी जनकराजेन समाराध्य वृषध्वजम् || २४ || हिताय भैरवाख्यस्य सुतीक्ष्णादवतारिता | सुतीक्ष्णं गिरिमारुह्य स्नात्वा सुमदनाजले || २५ || माघशुक्लचतुर्थ्यां तु पूजयित्वा महेश्वरम् | संप्राप्य सकलान् कामान् शिवलोकाय गच्छति || २६ || एता नद्यः कामरूपे नैरृत्यामुत्तरस्रवाः | पीठस्य पूर्वतस्तत्र त्रिपुरा यत्र पूज्यते || २७ || एवं ते कथितं राजन् महापुण्यदमुत्तमम् | कामरूपस्य नैर्-ऋत्यां यत्र शम्भुः सदाम्बिका || २८ || उनरेव महाराज या नद्यो दक्षिणस्रवाः | हिमवत्प्रभवा याताः क्रमशः शृणु भूपते || २९ || अगदस्य नदस्योर्ध्वं भद्राख्या तु महानदी | भाद्रे कृष्णचतुर्दश्यां यस्यां स्नात्वा दिवं व्रजेत् || ३० || ततः पूर्वं सुभद्राख्या नदी पुण्यतमा सदा | वैशाख्यस्य तृतीयायां यस्यां स्नात्वा दिवं व्रजेत् || ३१ || ततस्तु मानसा नाम नदी पुण्यतमा मता | सरसो मानसाख्यात् तु तणबिन्द्ववतारिता || ३२ || वैशाखं सकलं मासं तस्यां स्नात्वा नरोत्तमः | विष्णुलोकमवाप्यैव ततो मोक्षमवाप्नुयात् || ३३ || हिमवन्निकटे शैलो विभ्राटः स महाद्युतिः | यस्मिन् वसति भूतेशः सदा भैरवरूपधृक् || ३४ || तस्मात् तु भैरवी नाम नदी पुण्योदका शुभा | प्राङ् मानसाद्या स्रवति गङ्गेव फलदायिनी || ३४ || यस्यां वसन्तसमये स्नात्वा गच्छति वे दिवम् | यस्यां सम्पूज्य कामाख्यामिष्टं ज्ञानमवाप्नुयात् || ३६ || सम्पूज्याथ महामायां द्विगुणं प्राप्नुयात् फलम् | ऊर्ध्वं ततो देवगङ्गा वर्णासाख्या सरिद्वरा || ३७ || हिमवत्प्रभवा नित्यं फलदा मानसोपमा | सुभद्राद्यास्तु याः प्रोक्ता वर्णासान्ताः सरिद्वराः || ३८ || हिमवत्प्रभवास्तास्तु सर्वा एवोत्तरप्लवाः | पूर्वे तु मदनायास्तु ब्रह्मक्षेत्रस्य पश्चिमे || ३९ || रविक्षेत्रं यत्र देव आदित्यः सततं स्थितः | भैरवस्य हितार्थाय यत्र सर्वेश्वराः स्थिताः || ४० || कामरूपे महापीठे ब्रह्मेन्द्रवरुणादयः | तदा अत्त्वाह्वये शैले श्री सूर्योऽपि व्यवस्थितः || ४१ || त्रिस्रोता नाम यस्यास्ति नदी पूर्वदिशि स्थिता | कपोतकरणं पश्चादस्य कुण्डद्वयं स्थितम् || ४२ || कपोतकुण्डे विधिवत् स्नात्वा करणकुण्डके | तत्त्वाचलं समारुह्य सम्पूज्य च दिवाकरम् || ४३ || सकृदेव नरो याति भास्करस्य गृहं प्रति | सूर्यरश्मिसमुद्भूतं कपोतकरणामृतम् || ४४ || पुण्यतोयसमाख्यातं पापं कपोत मे हर | इत्यनेन तु मन्त्रेण स्नात्वा कपोतपुष्करे || ४५ || करणं समुपस्पृश्य तत्त्वशैले रविं यजेत् | त्रिविधं ब्रह्मबीजं तु सहस्रपदमन्ततः || ४६ || रश्मयेऽपि चतुर्थ्यं तु देवोजाया तु चेष्टतः | अङ्गबीजमिदं प्रोक्तमादित्यस्यातिकामदम् || ४७ || पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः | सप्ताश्वः सप्तरज्जुश्च द्विभुजो भास्करः सदा || ४८ || वर्तुलं मण्डलं चास्य अष्टपत्रसमन्वितम् | अङ्गुष्ठाग्राङ्गुलीनां च हृदादीनां तथा च षट् || ४९ || अङ्गमन्त्रेण सहित उपान्ते वह्निसंयुतः | सर्वन्यासे समुद्दिष्टो मन्त्रः सर्वफलप्रदः || ५० || हृच्छिरस्तु शिखावर्मनेत्रास्योदरपृष्ठतः | बाह्वोः पाण्योर्जङ्घयोस्तु पादयोश्चापि विन्यसेत् || ५१ || जघने च समस्तानि क्रमान्मन्त्राक्षराणि च | रमाच्चोत्तरतः प्रोक्तः पूजने परिकीर्तितः || ५२ || विसर्जनं तथैशान्यां विद्याद्या दलशक्तयः | निर्माल्यधृक् तत्त्वचण्डो माठराद्यास्तु पार्श्वयोः || ५३ || बीजमुत्तरतन्त्रस्य पूर्वतः प्रतिपादितम् | अनेन विधिना तत्त्वे पूजयित्वा नरोत्तमः || ५४ || स कामानखिलान् प्राप्य इहलोके प्रमोदते | सुखी शेषे तथा गच्छेद् भास्करस्यालयं प्रति || ५५ || नातिदूरे भास्करस्य दक्षिणस्यां शुभाह्वयः | तस्योर्ध्वसानौ वसति लिङ्गं शांकरमुत्तमम् || ५६ || परिवार्य सदा यान्ति महाकायास्तु वानराः | परिवार्यावतिष्ठन्ते सेवमानाश्च शङ्करम् || ५७ || त्रिस्रोतायां नरः स्नात्वा यः पश्येत् तु शुभाचले | महात्मानं महादेवं काममिष्टं लभेन्नरः || ५८ || ततः पूर्वं सुरनदी नाम्ना सुकुममालिनी | क्षीरोदाख्यापरा तस्मात् ते गते दक्षिणस्रवे || ५९ || एते अपि महाराज पुण्यतोयेऽमृतस्रवे | तयोः स्नात्वा नरो याति शङ्करस्यालयं प्रति || ६० || ततोऽपि पूर्वतो देवी लीलाख्या चापरा नदी | यस्यां स्नात्वा महानद्यां शिवलोकाय गच्छति || ६१ || ततः पूर्वं शिवा चण्डी चण्डिकाख्या महानदी | निर्याति धवलाख्यात् तु पर्वतात् सुमनोहरात् || ६२ || शिवलिङ्गद्वयं तत्र नातिदूरे व्यवस्थितम् | गोलोकं चाथ शृङ्गं च क्रोशमात्रान्तरे स्थितम् || ६३ || चण्डिकायां नरः स्नात्वा आरुह्य धवलेश्वरम् | दक्षिणं सागरं वीक्ष्य पृष्ट्वा गोलोकसंज्ञकम् || ६४ || ततोऽवतीर्य च पुनः शृङ्गिणं भूमिपीठकम् | शिवपूजाविधानेन पूजयित्वा महेश्वरम् || ६५ || अश्वमेधस्य यज्ञस्य फलं सम्प्राप्य मानवः | सर्वान् कामानवाप्येह देहान्ते शिवतां व्रजेत् || ६६ || एता याः कथिता नद्यः सर्वा वै दक्षिणस्रवाः | तस्मादीशानकाष्ठायां पर्वतो गन्धमादनः || ६७ || यत्र भृङ्गाह्वयं लिङ्गं शिवस्यास्ते महत्तरम् | स एव पर्वतश्रेष्ठः प्राप्तः क्षेत्रस्य पश्चिमे || ६८ || धृत्वा ब्रह्मशिलां देवीं सावित्रं प्रतिगामिनी | गन्धमादनकस्यान्ते भृङ्गेशस्य पदद्वयम् || ६९ || स्रवद्गङ्गाजलं चास्ते कुण्डं तत्रान्तरालकम् | अन्तरालककुण्डे तु स्नात्वा पीत्वा च तज्जलम् || ७० || भृङ्गेशस्य ततो दृष्ट्वा शिलासंस्थं पदद्वयम् | पूजयित्वा महाभृङ्गं गाणपत्यमवाप्नुयात् || ७१ || शम्भुपादसमुद्भूतमन्तरालदृशाकरम् | वृषध्वजपदानां त्वं संयोजय महावृष || ७२ || इत्यनेन तु मन्त्रेण स्नानं कृत्वान्तराजले | भृङ्गदेवं ततः पश्येत् कुब्जपीठान्तवासिनम् || ७३ || मणिकूटस्याथ गिरेर्गन्धमादनकस्य च | मध्ये स्रवति लौहित्यो ब्रह्मणाग्निसमुत्थितः || ७४ || अर्णाशाया दक्षिणस्यां लौहित्यो नाम सागरः | मणिकूटः स्थितः पूर्वे हयग्रीवो हरिर्यतः || ७५ || स हयग्रीवरूपेण विष्णुर्हत्वा ज्वरासुरम् | निहत्य स हयग्रीवः क्रीडायै यत्र संस्थितः || ७६ || हत्वा ज्वरं तथा विष्णुस्तत्र वासमथाकरोत् | नरदेवासुरादीनां यथा भवति वै हितम् || ७७ || ज्वरेणापीडित तनुर्ज्वरं हत्वा महासुरम् | सर्वलोकहितार्थाय सोऽगदस्ना नमचरेत् || ७८ || अगदस्नानसम्भूतं संजातं च अहासरः | तस्य स्वयं हयग्रीवो नाम चक्रेऽपुनर्भवम् || ७९ || न पुनर्जायते यस्मात् तत्र स्नात्वा नरोत्तमः | अपुनर्भवसंज्ञं तत् सरस्तु परिकीर्तितम् || ८० || मणिकटाचले विष्णुर्हयग्रीवस्वरूपधृक् | शतव्यामप्रमाणेन विस्तरेणैव शोभितम् || ८१ || तस्मात् पूर्वे भद्रकामः पर्वतस्तु त्रिकोणकः | यत्र कालहयो नाम शिवलिङ्गो व्यवस्थितः || ८२ || तस्यासन्ने दक्षिणस्यामपुनर्भवकुण्डकम् | अपुनर्भूःसरस्तीरे पर्वते भद्रकामदे || ८३ || हरवीथीति विख्याता शिला ब्रह्मस्वरूपिणी | तत्र योगी महादेवो योगज्ञो ध्यानतत्परः || ८४ || यं दृष्ट्वा योगवान् मर्त्यो मृतो मोक्षमवाप्नुयात् | तस्यामेव शिलायां तु गोकर्णो नाम शङ्करः || ८५ || गोकर्णो निहतो येन अन्धकस्य सखा पुरा | गोकर्णस्य तथैशान्यां केदारः शम्भुरन्ततः || ८६ || ततोऽन्धकसमः प्रोक्तः कमलाकरभोगधृक् | यत्रास्ति शम्भुः केदारः स गिरिर्मदनाह्वयः || ८७ || तत्रैव कमलः प्रोक्तः स महात्मालयप्रदः | स्नात्वाऽपुनर्भवजले दृष्ट्वा गोकर्णयोगिनौ || ८८ || केदारकमलौ दृष्ट्वा मुक्तिर्माधवदर्शने | दृष्ट्वा तु माधवं देवं ततः कामं विलोकयेत् || ८९ || कामं विलोक्य तत्रस्थो निरीक्षेदपुनर्भवम् | एवं कृत्वा पीठयात्रामनेन क्रमयोगतः || ९० || सप्त पूर्वान् सप्त परानात्मानं दश पञ्च च | पितृनुद्धृत्य त्रिदिवं नयेत् स पुरुषोत्तमः || ९१ || विष्णुस्थानसमुद्भुता पुनर्भवहरीश्वर | पापं हर स्वर्गहेतोर्जितसङ्गमहोदधे || ९२ || अनेनैव तु मन्त्रेण स्नायाद् वीरोऽपुनर्भवे | हयग्रीवस्य तन्त्रं तु पुरैव प्रतिपादितम् || ९३ || रूपं शृणु महाराज चिन्तयेत् तस्य यादृशम् | कर्पूरकुन्दधवलः सितपद्मोपरिस्थितः || ९४ || चतुर्भुजः कुण्डलादिनानालङ्कारभूषितः | वरदाभयहस्तस्तु वामहस्तद्वयेन तु || ९५ || पुस्तकं सितपद्मं च धत्ते हस्तद्वयेऽपरे | श्रीवत्सकौस्तुभोरस्कः क्वचिच्च गरुदासनः || ९६ || सर्व उत्तरतन्त्रोक्तः क्रमो ग्राह्यः प्रपूजने | विष्वक्सेनो हयारेस्तु निर्माल्यधृग्विसर्जने || ९७ || शिलारूपर्पतिच्छन्नः सदास्ते गरुडध्वजः | क्रीडमानोऽथ गन्धर्वैः स्थितो लोकहिताय च || ९८ || हयग्रीवस्य मन्त्रस्य सिद्धिर्लक्षद्वयेन तु | यावकैः पायसैराज्यैर्होमं कुर्वन् पुरश्चरेत् || ९९ || एकेनैव तु राजेन्द्र पुरश्चरणकर्मणा | इष्टसिद्धिमवाप्येह विष्णुलोकमवाप्नुयात् || १०० || मन्त्रैस्तु पञ्चवक्त्राणां पञ्चमूर्तीः सदार्चयेत् | पूर्वे तत्पुरुषादीनां कामादीन् पूजको द्विजः || १०१ || कामस्तत्पुरुषो ज्ञेयो योगीशानः प्रकीर्तितः | अघोरो ह्यथ गोकर्णः केदारो वामदेवकः || १०२ || सद्योजातस्तु कमलामन्त्रैस्तैस्तैः प्रपूजयेत् | पर्वतश्चैव केदारः शिवगङ्गा तु तु कालिका || १०३ || हयग्रीवस्य पूर्वस्यां केदारस्य तु पश्चिमे | छायाभोगाह्वयस्थानं पुरी भोगवती तथा || १०४ || यो गच्छेन्मणिकूटाख्यात् कौतुकाच्च पुनर्भवम् | स सर्वतीर्थयात्राणां फलमाप्नोति मानवः || १०५ || ज्यैष्ठे मासि सिते पक्षे पञ्चदश्यष्टमीषु च | स्नात्वाऽपुनर्भवजले यः पश्येद् विधिवद्धरिम् | स सर्वं कुलमुद्धृत्य विष्णुसायुज्यमाप्नुयात् || १०६ || ज्येष्ठं तु सकलं मासं नित्यं पश्येत् तु यो हरिम् | हरौ विलीनतां याति स सर्वैः सहितः कुलैः || १०७ || एतत् ते कथितं पुण्यं मणिकूटाह्वयं परम् | वाराणसीतो ह्यधिकं सिद्धविद्याधरार्चितम् || १०८ || यः पठेच्छृणुयाद्विप्रो मणिकूटस्य निर्णयम् | स सर्ववेदस्य फलं प्राप्नोत्येव न संशयः || १०९ || इति श्रीकालिकापुराणे अष्टसप्ततितमोऽध्यायः || ७८ || एकोनाशीतितमोऽध्यायः और्व उवाच - ततः पूर्वं महाराज दर्पणो नाम पर्वतः | कुबेरो यत्र वसति धनपालैः समं सदा || १ || यस्मिन्नास्ते मध्यभागे रोहितो रोहिताकृतिः | यस्मिंल्लोहादिकं स्पृष्टं स्वर्णतां याति तत्क्षणात् || २ || यत्रातिदूरे स्रवति दर्पणो नाम वै नदः | हिमाद्रिप्रभवो नित्यं लौहित्यसदृशः फलैः || ३ || समुत्पन्नं हि लौहित्यं सर्वैर्दैवगणैर्हरिः | सर्वतीर्थोदकैः सम्यक् स्नापयामास तं सुतम् || ४ || तस्य स्नानसमुद्भूतः पापदर्पस्य पाटनः | तेनायं दर्पणो नाम पुरा देवगणैः कृतः || ५ || तस्मिन् स्नात्वा नदवरे योऽर्चयेद् दर्पणाचले | कुबेरं प्रतिपत्तिथ्यां कार्तिके शुक्लपक्षके || ६ || स याति ब्रह्मसदनमिह भूतिशतैर्युतः | दर्पणाद् दिशि पूर्वस्यामग्निमालाह्वयौ गिरिः || ७ || सर्पाकारः सप्तशतव्यामदीर्घोदर्ध विस्तृतः | तत्र तिष्ठति वै वह्निरूर्ध्वभागेऽग्निमण्डले || ८ || सिन्दूरपुञ्जसङ्काशे चारुदारूशिलातले | तस्मिन्निरिन्धनो वह्निर्नित्यमद्यापि काशते || ९ || भैरवस्य हितार्थाय कामाख्यापरिसेवने | पूर्वमेव स्थितस्तत्र साक्षाद् वह्निर्गणैः सह || १० || लौहित्यपाथसि स्नात्वा त्वग्निमालाह्वयं गिरिम् | आरुह्य वह्निं सम्पूज्य मोदते विष्णुमन्दिरे || ११ || पुरस्तादग्निमालस्य कुण्डकं वारुणाह्वयम् | तस्य तीरे गिरिश्रेष्ठो नाम्ना कंसकरः स्मृतः || १२ || वरुणस्तत्र वसति नित्यमेव जलाधिपः | तस्मिन् कंसकरे सम्यक् पूजयित्वा प्रचेतसम् || १३ || स्नात्वा च वारुणे कुण्डे वारुणं लोकमाप्नुयात् | आद्यं व्यञ्जनमेवात्र पञ्चमस्वरसंयुतम् || १४ || शम्भुचूडाशिखायुक्तं कौवेरं बीजमुच्यते | सप्तमो यः पकारस्य बिन्दुश्चन्द्रार्धसंयुतः || १५ || वह्निबीजमिति ख्यातं तेन वह्नि प्रपूजयेत् | मकारपञ्चमः सोमबिन्दुना वारुणः स्मृतः || १६ || एभिर्मन्त्रैरिमान् देवान् नित्यमेव प्रपूजयेत् | वायुकूटो नाम गिरिः पूर्वस्यां वरुणाचलात् || १७ || द्विखण्डो वायुबीजेन मण्डलेन समन्वितः | वायुलोकस्थितश्चन्द्रो यस्मान्निःसृत्य मारुतः || १८ || ऊर्ध्वाधोभागमासाद्य नित्यं वहति भूपते | तत्र वायुं समभ्यर्च्य वायुलोकमवाप्नुयात् || १९ || पूर्वं वायुगिरेः शैलश्चन्द्रकूट इति स्मृतः | त्रिकोणश्चन्द्रसङ्काशस्तदूर्ध्वे चन्द्रमण्डलम् || २० || द्वितीयवर्गस्याद्यं तु बिन्दुना समलङ्कृतम् | चन्द्रबीजमिति प्रोक्तं तेन चन्द्रं प्रपूजयेत् || २१ || अद्यापि प्रतिदर्शे तु पर्वतं तं निशापतिः | प्रदक्षिणीकरोत्येव दशाभिश्चापि खेचरैः || २२ || तस्यैव पूर्वभागे तु सोमकुण्डाह्वयं सरः | तत्र स्नात्वा च पीत्वा च नरः कैवल्यमश्नुते || २३ || स्वर्गादवतरच्चन्द्रः कामाख्यासेवने यदा | तदा तद्रश्मिसङ्घातान्निःसृतास्तोयराशयः || २४ || तैस्तोयैर्वासवः कुण्डमकरोदिन्द्रचन्द्रयोः | मध्ये पुण्यतमे स्थाने स्वयं ब्रह्मशिलोपरि || २५ || चन्द्ररश्मिसमुद्भुत चन्द्रकुण्दमहोदधे | यं यं भावं समासाद्य त्वं चन्द्र कलुष हर || २६ || सुधास्रवणमाह्लाद त्वं चन्द्र कलुषं हर | इत्यनेन तु मन्त्रेण यः स्नात्वा चन्द्रपाथसि || २७ || चन्द्रकूटं समारुह्य पूजयेद् यस्तु तं नरः | अविच्छिन्ना सन्ततिस्तु सुकान्ता तस्य जायते || २८ || परत्र चन्द्रभवनं भित्त्वा याति परं पदम् | तीरे तु चन्द्रकूटस्य नन्दनो नाम वै गिरिः || २९ || तस्मिन् वसति शक्रस्तु कामाख्यासेवने रतः | पञ्चभावं समासाद्य सर्वदेवेश्वरो हरिः | सेवितुं त्रिदशेशानीं सततं वर्तते नरः || ३० || चन्द्रकूटगिरेर्याम्यभागे गिरिजनार्दनः | तस्य याम्ये त्वधोभागे अश्वक्रान्ताह्वयं सरः || अ || न तस्य सदृशं तीर्थमस्ति ब्रह्माण्डगोचरे | जले स्थले मृता येऽत्र यान्ति ब्रह्म सनातनम् || ब् || जनार्दनगिरौ विष्णुः कूर्मरूपस्वरूपधृक् | शिलां भित्त्वा स्थितस्तत्र देवगन्धर्वसेवितः || च् || अश्वक्रान्तजले स्नात्वा पूजयित्वा जनार्दनम् | वंशकोटिं समुद्धृत्य स्वयं स्यात् पुरुषोत्तमः || द् || चन्द्रकूटस्य तु गिरेर्नन्दनस्य तथा गिरेः | प्रतिदर्शं तथा चन्द्रः प्रदक्षिणयति त्रिधा || ३१ || चन्द्रकूटजले स्नात्वा समारुह्याथ नन्दनम् || ३२ || आराध्य शक्रं लोकेशं महाफलमवापुयात् | नन्दनात् पूर्वभागे तु भस्मकूटो महागिरिः || ३३ || यः स्वयं भर्गरूपः स सदा चेच्छान्तमुत्तमम् | दक्षिणे भस्मकूटस्य देवी पीयूषधारिणी || ३४ || उर्वशी नाम विख्याता शक्रप्रीतिकरी सदा | देवैर्यत् स्थापितं पूर्वमभृतं भोजनाय वै || ३५ || कामाख्यायास्तदादाय स्वयं तिष्ठति चोर्वशी | शिलारूपो हरस्तां तु समावृत्यैव तिष्ठति || ३६ || सा चैवामृतराशिं तु कृत्वा किंचन किंचन | उपस्थापयते नित्यं कामाख्यायोनिमण्डले || ३७ || सुधाशिलान्तरस्था तु उर्वशीकुण्डवासिनी | उर्वशीभस्मकूटस्य मध्ये कुण्डं सदावृतम् || ३८ || द्वात्रिंशद्धनुराकीर्णं पञ्चाशद्धनुरायतम् | तत्र स्नात्वा च पीत्वा च नरा मोक्षमवाप्नुयात् || ३९ || कामाख्यायोनिरैशानीं दिशं याति सदैव हि | भस्मकूटे प्रविशति उर्वशीमपि योगिनी || ४० || आप्यायिता चामृतेन नित्यं देवी प्रमोदते | मोदयुक्ता महादेवी कामेन मोदते सदा || ४१ || भस्मकूटस्य चैशान्यां मणिकूटो महागिरिः | मणिकर्णो नाम हरस्तत्र तिष्ठति लिङ्गकम् || ४२ || स सद्योजातरूपस्तु मणिकर्ण इतीरितः | सद्योजातस्य मन्त्रेण पूजितव्यः सदाशिवः || ४३ || चन्द्रतीर्थजले स्नात्वा दृष्ट्वा चन्द्रं सवासवम् | मणिकर्णेश्वरं दृष्ट्वा मुक्तिर्भस्माचलं गते || ४४ || श्वेतः श्वेताम्बरधरो दशाश्वो हेमभूषितः | गदापाणिर्द्विबाहुश्च कर्तव्यो बरदः शशी || ४५ || सहस्रनेत्रो गौराङ्गो द्विभुजो वामहस्तगम् | वज्रं गदांकुशं धत्ते दक्षिणेनापि पाणिना || ४६ || ऐरावतगजस्थस्तु बाणतूणीरबन्धनः | धनुश्च कक्षे गृह्णाति सेवमानो महेश्वरीम् || ४७ || वकारानन्तरो वर्णश्चन्द्रबिन्दुसमन्वितः | शक्रबीजमिति प्रोक्तं शक्रं तेन प्रपूजयेत् || ४८ || नदी सुमङ्गला नाम हिमपर्वतनिर्गता | पूर्वस्यां मणिकूटस्य सदा स्रवति शोभना || ४९ || मणिकूटं समारुह्य यस्तां पश्यति वै नदीम् | स गङ्गास्नानजं पुण्यमवाप्य त्रिदिवं व्रजेत् || ५० || मणिकूटाचलात् पूर्वं मत्स्यध्वजकुलाचलः | निर्दग्धो यत्र मदनो हरनेत्राग्निना पुनः || ५१ || शरीरं प्राप तपसा समाराध्य वृषध्वजम् | तत्र मत्स्यस्वरूपस्तु कामदेव समंस्थित || ५२ || अधित्यकायां पृथिवीं बीक्षमाणः समन्ततः | नदी तु शाश्वती नाम तत्रास्ते दक्षिणस्रवा || ५३ || सरः कामसरो नाम तत्र शैले व्यवस्थितम् | शाश्वत्यां विधिवत्स्नात्वा पीत्वा आमसरोऽम्भसि || ५४ || बिमुक्तपापः शुद्धात्मा शिवलोके महीयते | गन्धमादनपूर्वस्यां सुक्रान्तो नाम पर्वतः || ५५ || तत्प्रान्ते वासवं कुण्डं वासवामृतभोजनम् | यत्र स्थित्वा दक्षिणस्यां पुरा शक्रः शचीपतिः || ५६ || अमृतं श्रान्तदेहस्तु कामरूपान्तरे पपौ | स्नात्वा तु वासवे कुण्डे समारुह्य सुकान्तकम् || ५७ || वासवस्य प्रियो भूत्वा शक्रलोकमवाप्नुयात् | पूर्वस्यां तु सुकान्तस्य रक्षःकूटाह्वयो गिरिः || ५८ || यत्रास्ते सततं देवो निर्-ऋती राक्षसेश्वरः | खड्गहस्तो महाकायो वामे चर्मधरस्तथा || ५९ || जटाजूटसमायुक्तः प्रांशुः कृष्णाचलोपमः | द्विभुजः कृष्णवासास्तु गर्दभोपरिसंस्थितः || ६० || प्रान्तोपान्तौ बिन्दुचन्द्रसहितावादिरेव च | नैर्-ऋत्यं कथितं बीजं तेन तं परिपूजयेत् || ६१ || रक्षःकूटं समारुह्य नि-ऋतिं राक्षसेश्वरम् | यः पूजयेद् विधानेन चण्डिकां राक्षसेश्वरीम् || ६२ || न तस्य राक्षसेभ्योऽस्ति भयं नृप कदाचन | राक्षसाश्च पिशाचाश्च वेताला गणनायकाः || ६३ || तं दृष्ट्वा पुरुषं राजन् सर्वदैव प्रबिभ्यति | रक्षःकूटात् पूर्वदिशि भैरव नाम माधवः || ६४ || पाण्डुनाथ इति ख्यातो ग्रावरूपेण संस्थितः | तं पाण्डुनाथं सततमष्टाक्षरभवोत्तरम् || ६५ || तेनैव पूजयेद् देवं पाण्डुनाथाह्वयं हरिम् | वर्णेन रक्तगौराङ्गं गदापद्मधरं करे || ६६ || दक्षिणे चक्रशक्ती च बाहुभ्यामपि बिभ्रतम् | चतुर्भुजं रक्तपद्मसंस्थितं मुकुटोज्ज्वलम् || ६७ || कुण्डले बिभ्रतं शुद्धे श्रीवत्सोरस्कमुत्तमम् | नमो नारायणायेति मूलबीजेन वा हरेः || ६८ || एवं सम्पूजयेद् भूप चतुर्वर्गस्य सिद्धये | पाण्डुनाथस्योत्तरस्यां ब्रह्मकूटाह्वयं सरः || ६९ || ब्रह्मणा निर्मितं पूर्वं स्नानार्थं स्वर्गवासिनाम् | आयामेन शतव्यामं विस्तीर्णं त्वतदर्धकम् || ७० || सर्वपापहरं पुण्यं देवलोकात् समागतम् | कमण्डलुसमुद्भूत ब्रह्मकुण्डामृतस्रव || ७१ || हर मे सर्वपापानि पुण्यं स्वर्गं च साधय | इत्यनेन तु मन्त्रेण स्नात्वा तस्मिन् सरोजले || ७२ || पाण्डुनाथं च सम्पूज्य विष्णुसायुज्यमाप्नुयात् | ब्रह्मकुण्डजले स्नात्वा पूजयित्वा उमापतिम् || ७३ || वायुकूटं समारुह्य मुक्तिमेवाप्नुयान्नरः | पाण्डुनाथात् पूर्वदिशि गिरिश्चित्रहरो हरिः || ७४ || सततं यत्र रमते विष्णुर्वाराहरूपधृक् | ततस्तु नीलकूटाख्यं कामाख्यानिलयं परम् || ७५ || तत्पूर्वभागे वसति ब्रह्मा ब्रह्मगिरिः पुनः | ब्रह्मशैलस्य पूर्वस्यां भूमिपीठे व्यवस्थितम् || ७६ || चारुनिम्नशुभावर्तं कामाख्यानाभिमण्डलम् | अत्रोग्रतारारूपेण रमते परमेश्वरी || ७७ || तत्र तेनैव रूपेण पूजितव्या शुभात्मिका | तस्यास्तु बीजं पूर्वस्मिन्नुत्तरे प्रतिपादितम् || ७८ || रूपं शृणु नरश्रेष्ठ येन ध्येया सदा शिवा | कृष्णा लम्बोदरी दीर्घा विरला रक्तदन्तिका || ७९ || चतुर्भुजा कृशाङ्गी तु दक्षिणे कर्तृखर्परौ | खड्गं चेन्दीवरं वामे शीर्षे चैकजटा पुनः || ८० || वामपादं शवस्योर्वोर्निधायाङ्घ्रिं तु दक्षिणाम् | शवस्य हृदये न्यस्य साट्टहासं प्रकुर्वती || ८१ || नागहारशिरोमालाभूषिता कामदा परा | त्रिकोणं मण्डलं चास्या हुङ्कारं मध्यबीजकाम् || ८२ || द्वारेशानां योगिनीनां नामान्यस्यास्तु तन्त्रके | ज्ञेयानि नरशार्दूल यत् प्रोक्तं वाम्यगोचरे || ८३ || उर्वश्यां विधिवत् स्नात्वा स्पृष्ट्वा पाण्डुशिलां तथा | नीलकूटं समारुह्य पुनर्योनौ न जायते || ८४ || पुरन्दरपुरायाते वाराणस्याः हलाधिके | सुधासंकीर्णतोयौघैः पाप हर ममोर्वशि || ८५ || अमृतस्राविणी देवी सुधौघपरिपूरणी | अमृतेनामृतं मेऽद्य देहि देवि ममोर्वशि || ८६ || पुरन्दरप्रिये देवि वाराणस्याः सदाम्धिके | लोहित्यह्रदसंकीर्णे पापं हर मनोर्वशि || ८७ || इत्येभिः स्तुतिभिर्मन्त्रैः स्नात्वा पुण्योर्वशीजले | सर्वपापविनिर्मुक्तो विष्णुलोके विचेष्टते || ८८ || उर्वशी द्विभुजा प्रोक्ता स्वर्णकङ्कणधारिणी | सौवर्णपात्रममृतस्रावणाय बिभर्ति च || ८९ || शुक्लवस्त्रा गौरवर्णा पीनोन्नतपयोधरा | सर्वाङ्गसुन्दरी शुद्धा सर्वाभरणभूषिता || ९० || एतन्नामाद्यक्षरं तु मन्त्रमस्याः प्रकीर्तितम् | उमातन्त्रे तु गदितं मन्त्रमस्याः प्रकीर्तितम् || ९१ || गणेशः पूर्वद्वारस्थः कामाख्यापर्वतस्य तु | तत्रैव चाग्निवेतालः स्थितो द्वारि मनोहरः || ९२ || तयो रूपं च मन्त्रं च यथोक्तं शम्भुना पुरा | तदहं प्रतिवक्ष्यामि महाराज शृणुष्व मे || ९३ || ओं नम उल्कामुखायेति मूलबीजादिसङ्गतम् | मन्त्रं सिद्धगणेशस्य द्वारस्थस्य प्रकीर्तितम् || ९४ || रूपं तस्य प्रवक्ष्यामि गजवक्त्रं त्रिलोचनम् | लम्बोदरं चतुर्बाहुं व्यालयज्ञोपवीतिनम् || ९५ || शूर्पकर्ण बृहद्गण्डमेकदन्तं पृथूदरम् | दक्षिणे तु करे दण्डमुत्पलं च तथापरे || ९६ || लड्डुकं परशुं चैव वामतः परिकीर्तितम् | बृहत्त्वाक्षिप्तगगनं पीनस्कन्धाङ्घ्रिपाणिनम् || ९७ || युक्तं बुद्धिकुबुद्धिभ्यामधस्तान्मूषकान्वितम् | अन्त्रस्तु यादृशः प्रोक्तः पञ्चवक्त्रस्य पूजने || ९८ || स एव तन्त्रो ग्राह्यस्तु तादृग्विधिनिषेधनम् | द्विभुजः पीनवदनो रक्तनेत्रो भयङ्करः || ९९ || छुरिकां दक्षिणे पाणौ वामे रुधिरपात्रकम् | दंष्ट्राकरालवदनं कृशो धमनिसन्ततः || १०० || जटां दीर्घां मूर्ध्नि बिभ्रद्घोररावयुतस्तथा | पचतुर्थोऽग्निबीजेन षष्ठस्वरविभूषितः || १०१ || अग्निवेतालबीजोऽयं सर्वत्र भयनाशकः | पूजयेदग्निवेतालं सर्वत्र भयवारणम् || १०२ || यः पूजयेत् तस्य पुनर्भूतादिभ्यो भयं नहि | अष्टानामथ मन्त्राणां योगिनीनां क्रमन्नृप || १०३ || शैलपुत्रीप्रमुख्याणां मन्त्राण्यष्टाक्षराणि तु | वैष्णवीतन्त्रसंस्थानि पूर्वप्रोक्तानि तानि तु || १०४ || शैलपुत्र्यास्तथा चाङ्गमन्त्रं प्राक् प्रतिपादितम् | रूपं तु नरशार्दूल योगिनीनां विशेषतः || १०५ || प्रत्यक्षरेण बीजेन दुर्गातन्त्रेण वा त्विमाः | नेत्रबीजेनैव पूज्या योगिन्यो नृपसत्तम || १०६ || कात्यायनीं पाददुर्गां दुर्गातन्त्रेण पूजयेत् | तदेव पूजनं रूपं तत्पूर्वं प्रतिपादितम् || १०७ || कालरात्र्यास्तु मन्त्रेण कालरात्रिं प्रपूजयेत् | कालरात्र्या रूपमन्त्रौ पुरैव प्रतिपादितौ || १०८ || महामायातन्त्रमन्त्रैः पूजयेद् भुवनेश्वरीम् | एताः सर्वास्तु योगिन्यः कामाख्यावत् फलप्रदाः || १०९ || विशेषो यत्र नैवोक्तो रूपे तन्त्रे च पूजने | दुर्गातन्त्रेण मन्त्रेण तत्र पूजां समाचरेत् || ११० || प्रत्येकं योगिनीं यस्तु पूजयेन्नरसत्तमः | स सर्वयज्ञस्य फलं प्राप्नोति नरसत्तम || १११ || नीलशैलस्य पूर्वस्मिन् स्वरूपं प्रतिपादितम् | नाभिमण्डलपूर्वस्यां भस्मकूटस्य दक्षिणे || ११२ || पूर्वस्यां कर्पटो नाम पर्वतो यमरूपधृक् | तत्र याम्यशिला कृष्णा नीलाञ्जनसमप्रभा || ११३ || अधित्यकायां राजेन्द्र व्यामपञ्चसुविस्तृता | पूजयेत् तत्र शमनं पाणौ दण्डं सदैव यः || ११४ || धत्ते तु पाणिना नित्यं प्राणिदण्डस्य साधनम् | कृष्णवर्ण तु द्विभुजं किरीटमुकुटोज्ज्वलम् || ११५ || दधतं चासिपुत्रीं च वामपाणौ सदैव हि | कृष्णवस्त्रं स्थूलपादं बहिर्निःसृतदन्तकम् || ११६ || हयाभयप्रदं नित्यं नृणां महिषवाहनम् | पूजयेत् परया भक्त्या याम्यबीजेन साधकः || ११७ || उपान्तवर्गस्यादिर्यो वर्णो बिन्द्विन्दुसंयुतः | यमबीजमिति ख्यातं यमस्य प्रीतिदायकम् || ११८ || अनेनैव तु मन्त्रेण शमनं पूजयेत् तु यः | कर्पटाख्येऽचलवरे नापमृत्युमवाप्नुयात् || ११९ || पूर्वस्यां कर्पटाख्यात् तु शैलाच्चित्र इति स्मृतः | यः पूर्वभागप्रान्तेऽभूद्दिश्याग्नेययामवस्थितः || १२० || पीठस्तु ब्रह्मग्रावस्तु स प्राक् पर्वत उच्यते | तस्मिन् वसन्ति सततं ग्रहा नव यथेच्छया || १२१ || तत्र तान् पूजयेद् यस्तु स नाप्नोत्यापदं क्वचित् | रूपं मन्त्रं च सूर्यस्य चन्द्रस्य प्रतिपादितम् || १२२ || सप्तानामितरेषां तु मन्त्रं रूपं शृणुष्व मे | रक्ताम्बरधरः शूली शक्तिमांश्च गदाधरः || १२३ || चतुर्भुजो मेषरथो वरदो मङ्गलो मतः | पीताम्बरधरः शूली पीतमाल्यानुलेपनः || १२४ || हड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः | स्वर्णगौरः पीतवासाः स्वर्णपर्यंकसंस्थितः || १२५ || मालां कमण्डलुं दण्डं वामेन वरदायकम् | चतुर्भुजं च सर्वज्ञं चिन्तयेद् देवतीर्थकम् || १२६ || सर्वैर्देवगणैर्नित्यं अम्यमानं मनोहरम् | शुक्लवस्त्रं शुक्लवर्णं शङ्खनागोपरिस्थितम् || १२७ || चतुर्भुजं पाशमालां पुस्तकं च वराभये | क्रमाद् दक्षिणवामायां धत्ते दैत्यगुरुः सदा || १२८ || इन्द्रनीलनिभः शूली वरदो गृध्रवाहनः | आशबाणासनधरो ध्यातव्योऽर्कसुतः सदा || १२९ || कामदेवस्यबीजं तु मन्त्रं भौमस्य कीर्तितम् | दुर्गाया नेत्रबीजस्य यत्तु मध्यावरं शुभम् || १३० || तन्मन्त्रं शशिपुत्रस्य सर्वकामफलप्रदम् | अंकारपञ्चमादिस्तु चतुःषट्स्वरसंयुतम् || १३१ || गणेशबीजान्तमिदं गुरोर्मन्त्र प्रकीर्तितम् | बिन्द्विन्दुसंयुतं चापि पूर्ववर्णद्वयं पुनः || १३२ || सप्तमस्वरसंयुक्तो मकारस्त्वादिरन्तरम् | प्रान्तवर्गाद्यक्षरं तु बिन्द्विन्दुभ्यां समन्वितम् || १३३ || भवेच्छुक्रस्य बीजं तु सर्वकामसमृद्धिदम् | प्रान्तवर्गाद्यक्षरं तु चन्द्रबिन्दुसमन्वितम् || १३४ || आद्यमन्त्रस्वरोपेतं तदेवेत्यादिसंयुतम् | शनैश्चरस्य मन्त्रोऽयं सर्वदोषविनाशनः || १३५ || बिन्दुचन्द्रसमायुक्तं नामाद्यक्षरमेव वा | तेषां सर्वग्रहाणां वै मन्त्रमङ्ग प्रकीर्तितम् || १३६ || शान्तिके पौष्टिके कृत्ये एभिर्मन्त्रैर्ग्रहानिमान् | पूजयेत् सर्वदा धीरो भूतिकामो महामतिः || १३७ || वरदाभयहस्तश्च खड्गचर्मधरस्तथा | सिंहासनगतः कृष्णा राहुर्धीरः प्रचक्ष्यते || १३८ || धूम्रवर्णो विशालाक्षः पुच्छरूपी चतुर्भुजः | खड्गचर्मगदाबाणपाणिः केतुः शवासनः || १३९ || उपान्तादिर्द्वादशेन स्वरेण सहितः पुनः | उपान्तः पञ्चमेनेन्दुबिन्दुभ्यां सहितावुभौ || १४० || मन्त्रोऽयमनुलोमेन राहोः केतोर्विलोमतः | आद्यक्षरं पूर्ववद् वा मन्त्रयुक्तमथैतयोः || १४१ || एवं चित्रे शैलवरे पूजयित्वा नवग्रहान् | अभीष्टाल्लंभते कामान्तरः शान्तिं तथोत्तमाम् || १४२ || चित्रकूटात् तु पूर्वस्यां कज्जलाचल उत्तमः | सर्वविद्याधराद्यास्तु सन्त्यस्मिन् देवयोनयः || १४३ || तं पर्वतं समारुह्य प्रणम्य सकलान् सुरान् | स्वर्गं यान्ति नरश्रेष्ठ इह चाप्यतुलां श्रियम् || १४४ || कज्जलाचलशैलात् तु पूर्वस्मिञ्छुभपर्वतः | शच्या सार्धं पुरा रेमे यत्र सक्रः सुरेश्वरः || १४५ || तत्पूर्वस्यां महादेवी नदी कपिलगङ्गिका | तस्यां स्नात्वा नरो गङ्गास्नानजं फलमाप्नुयात् || १४६ || कामाख्यानिलयात् पूर्वं दक्षिणस्यां तथा दिशि | विद्यते महदावर्तं भुवि ब्रह्मबिलं महत् || १४७ || पंचविंशतिमानेन योजनानां नरेश्वर | तस्मादायाति सुनदी सिताम्भोऽपम ओयभाक् || १४८ || को ब्रह्मा कीर्तितो देवैर्यस्मात् तस्य बिलात् सृता | गंगेव फलदा यस्मात् तस्मात् कपिलगंगिका || १४९ || स्नात्वा कपिलगङ्गायां सर्वमन्वन्तरेषु च | नरः स्वर्गमवाप्यादौ ब्रह्मलोक ततो व्रजेत् || १५० || अतीत्य तां नदीं पूर्वभागे दमनिकाह्वया | नदी महाकृष्णतोया पापस्य दमनी तथा || १५१ || ततो वृद्धाह्वया चाभूदपरा सरिदुत्तमा | तस्या नद्याः पूर्वभागे गङ्गावत् फलदायिनी || १५२ || माघं तु सकलं मासं स्नात्वा मुक्तिमवाप्नुयात् | तथा दमनिकायां च परं निर्वाणमाप्नुयात् || १५३ || ततः पूर्वे परा देवी नाम्ना सा सरिदुत्तमा | महती दिव्ययमुना यमुनावत् फलप्रदा || १५४ || दक्षिणाद्रिसमुद्भूता दक्षिणोदधिगामिनी | तस्यां तु कार्तिकं मासं स्नात्वा मुक्तिमवाप्नुयात् || १५५ || इह चैवोत्तमान् भोगान् भागधेयान् प्रतिष्ठितान् | तन्मध्ये भैरवो देवो भर्ग सम्भोगसम्भवः || १५६ || उर्जयाख्ये वरगिरावस्त्युपत्यकभूतिगः | योऽसौ शरभरूपस्य मध्यखण्डोऽतिभैरवः || १५७ || स एव भैरवाख्योऽयं पञ्चवक्त्रस्य मन्त्रकैः | सम्पूज्य तत्र मतिमान् स याति शिवलोकताम् || १५८ || कामेश्वरस्य या पूजा कथिता नीलनिर्णये | सम्पूज्य पर्वतश्रेष्ठे दुर्जये चाचलोत्तमे || १५९ || तत्र भैरवगङ्गास्ति सरो वै भैरवाह्वयम् | तयोः स्नात्वा नरो याति शिवलोकं सनातनम् || १६० || दुर्जयाख्यस्य पूर्वस्यां पुर नाम वरासनम् | तद्दक्षिणे महाशैलः क्षोभको नाम नामतः || १६१ || तस्मिन् गिरौ शिलापृष्ठे रक्तदेवी व्यवस्थिता | पञ्चपुष्करिणी नाम्ना पञ्चयोनिस्वरूपिणी || १६२ || अञ्चभिर्दुर्गायोनिभिः पूजयेत् पंचवक्त्रकम् | स्थिता रमयितुं तत्र नित्यमेव हिमाद्रिजा || १६३ || तच्छैलपूर्वभागे तु कान्ता नाम महानदी | दक्षिणं सागरं याति प्रथमं चोत्तरस्रवा || १६४ || दिव्यं कुण्डं महाकुण्डं अच्छैलोपत्यकाक्षितौ | संस्थितं तत्र स्नात्वा तु तां देवीं परिपूजयेत् || १६५ || दिव्यकुण्डे नरः स्नात्वा पञ्चपुष्करणीं शिवाम् | यः पूजयेन्महाभागः स योनौ न हि जायते || १६६ || पञ्चयोन्यः पुष्करिणीः पंचैव परिसंस्थिताः | यतस्ततः पञ्चरूपा पञ्चपुष्करिणी मता || १६७ || अथाबकुल-पुष्पाणि तथैताः पञ्चयोनयः | पञ्चपुष्करिणीदेव्यः प्रचण्डाः सर्वकामदाः || १६८ || त्रिपुरायास्तु तन्त्रेण ताः पूज्याः साधकोत्तमैः | कामेश्वरीतन्त्रमन्त्रैरथवा पूजयेच्छिवाम् || १६९ || बालायास्त्रिपुरायास्तु मन्त्रमस्याः प्रकीर्तितम् | कामेश्वर्यास्तु वा मन्त्रं पूजनेऽस्याः प्रकीर्तितम् || १७० || उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका | चण्डा चेति च योगिन्यः पञ्चास्याः परिकीर्तिताः || १७१ || शिवलिङ्गं च तत्रास्ति शिलायां हेरुकाह्वयम् | देवीदक्षिणपूर्वस्यां नायकं तं तु पूजयेत् || १७२ || भैरवस्य तु मन्त्रेण पूजयित्वा दिवं व्रजेत् | निर्माल्यधारिणी देवी चण्डगौरीति कीर्तिता || १७३ || एतस्यां नरशार्दूल पुरा भर्गेण भाषिता | कान्तायां सलिले स्नात्वा वसन्ते मानवोत्तमः || १७४ || रूपवान् गुणवान् भूत्वा शिवलोकाय गच्छति | क्षोभकाख्याद् महाशैलादैशान्यां पर्वतोत्तमः || १७५ || तुंगसन्ध्याचलो नाम वसिष्ठो यत्र शप्तवान् | निमिनाम्नस्तु राजर्षेः शापाद् ब्रह्मसुतः पुरा || १७६ || वसिष्ठो ह्यशरीरोऽभूत् तच्छापाच्च निमिस्तथा | ततो ब्रह्मोपदेशेन निर्जने कामरूपके || १७७ || सन्ध्याचले तपस्तेपे तस्य विष्णुरभूत् तदा | प्रत्यक्षस्तस्य देवस्य बरदानान्महामुनिः || १७८ || अमृतान्यवतार्याशु कुण्डं कृत्वा गिरेस्तटे | तत्र स्नात्वा च पीत्वा च शरीरं प्राप पूरितम् || १७९ || तस्मादमृतकृण्डाच्च सन्ध्या नाम नदीवरा | निःसृता तत्र चाप्लुत्य चिरायुरगदो भवेत् || १८० || तस्मात् पूर्वं तु ललिता ललिताख्या सरिद्वरा | सागराद् दक्षिणात् पूर्वं महादेवावतारिता || १८१ || वैशाखशुक्लपक्षस्य तृतीयायां नरस्तु यः | कुर्याद् वै ललितास्नानं स शम्भुसदनं व्रजेत् || १८२ || ललितायाः पूर्वतीरे भगवान्नाम पर्वतः | स्वयं विष्णुर्लिङ्गरूपी तत्रास्ते भगवान् हरिः || १८३ || ललितायां नरः स्नात्वा द्वादश्यां शुक्लपक्षके | भगवन्तं समारुह्य यो यजेत् परमेश्वरम् || १८४ || स याति विष्णुसदनं शरीरेण विराजता | एताः पूर्वोदिता नद्यः सर्वाश्चैवोत्तरस्रवाः || १८५ || क्रमात् तु दक्षिणं यान्ति सागरं जाह्नवीसमाः | कामाख्यां प्रथमं दृष्ट्वा स्नात्वा चैवोर्वशीजले | य एतासु चरेत् स्नानं स तु मुक्तिमवाप्नुयात् || १८६ || इति श्रीकालिकापुराणे एकोनाशीतितमोऽध्यायः || ७९ || अशीतितमोऽध्यायः और्व उवाच शाश्वती कथिता या तु नदी मत्स्यध्वजासिता | तस्याः पूर्वे समाख्याता नदी दीपवती मता || १ || एषा च हिमवज्जाता छिन्दन्ती दीपवत्तमः | तेन देवमनुष्येषु नदी दीपवती स्मृताः || २ || दीपवत्याः पूर्वतस्तु शृङ्गाटो नाम पर्वतः | तत्र देवस्य भर्गस्य लिङ्गमेकं प्रतिष्ठितम् || ३ || सरित् तु सिद्धा त्रिःस्रोता दक्षिणोदधिगामिनी | शृङ्गाटकस्य सततं स्रवन्ती सा तु पादतः || ४ || दक्षिणं सागरं याति भर्गस्य प्रियकारिणी | सलिले यो नरः स्नात्वा त्रिःस्रोताया नरोत्तमः || ५ || शृङ्गाटकं समारुह्य पूजयेल्लिङ्गशङ्करम् | स दीप्तकायः शुद्धात्मा प्राप्य कामानिहातुलान् || ६ || अन्ते भर्गगृहं याति ततो मोक्षमवाप्नुयात् | हरस्तु द्विभुजस्तस्मिन् सदा वृषभवाहनः || ७ || उमया रमते सार्धं वामदेवस्य मन्त्रकैः | तन्त्रैश्च पूजयेद् देवमुमामन्त्रेण चण्डिकाम् || ८ || तत्-पूर्वतो निम्नगा तु नाम्ना तु वृद्धवेदिका | तस्यां स्नात्वा फलं मर्त्यो देदिकास्नानजं लभेत् || ९ || ततो भट्टारिका नाम हिमशैलसमुद्भवा | महानदी देवगणैर्या सदोपास्यते सुखम् || १० || तस्यां यः कुरुते स्नानं युगादिषु चतुर्ष्वपि | स याति परमं स्थानं तद्विष्णोः परमं पदम् || ११ || अस्ति नाटकशैले तु सरो मानससन्निभम् | यत्र सार्धं शैलपुत्र्या जलक्रीडां सदा हरः || १२ || कुरुते नरशार्दूल स्वर्णपङ्कजशोभिते | तस्य पश्चान्मध्यपूर्वभागेभ्यस्तु सरित्-त्रयम् || १३ || अवतीर्णं प्रयात्येव दक्षिणं सागरं प्रति | तस्य पश्चिमभागे तु नदी दिक्करिकाह्रया || १४ || दिग्गजक्षतसंजाता तेन दिक्करिकाह्वया | मध्यभागात् सृता या तु शङ्करेणावतारिता || १५ || वृद्धगंगाह्वया सा तु गंगेव फलदायिनी | या निःसृता पूर्वभागात् तस्माद् गिरिवरान्नदी || १६ || सुवर्णश्रीरिति विख्याता सा गङ्गासदृशीफले | कुर्वत्याः सरसि स्नानं पार्वत्याश्च शरीरतः || १७ || निःसृताः स्वर्णकणिकास्ता वहन्ति अलैरिमाः | क्रीडार्थं शम्भुना गात्रे कणिकाभिः समाचिताः || १८ || स्वस्थानात् तत्र संलग्नास्ततश्चन्दनबिन्दवः | ता उमायाः शरीरात् तु संस्रवन्ति जलैः सह || १९ || ततः स्वर्णवहा नाम स्वर्णश्रीः सर्वतोऽधिका | एतासु चैत्रमासं तु स्नात्वा मर्त्यो नरर्षभः || २० || कृष्णपक्षे चतुर्दश्यां त्रिकालं यत्र मानवः | इरं देवीगृहे स्थित्वा शेषे ब्रह्मगृहं व्रजेत् || २१ || भूमाववगतः पश्चात् सार्वभौमो नृपो भवेत् | वृद्धगङ्गाजलस्यान्तस्तीरे ब्रह्मसुतस्य वै || २२ || विश्वनाथाह्वयो देवः शिवलिङ्गसमन्वितः | विश्वदेवी महादेवी योनिमण्डलरूपिणी || २३ || हयग्रीवेण युयुधे तत्र देवो जगत्पतिः | हयग्रीवं यत्र हत्वा मणिकूटं पुरागतम् || २४ || तत्र यः पूजयेद् दुर्गां शारदां तन्त्रमन्त्रकैः | हयग्रीवस्य मन्त्रेण तन्त्रेण गरुडध्वजम् || २५ || कामेश्वरस्य तन्त्रेण मन्त्रेणापि च शङ्करम् | यो यजेत् परया भक्त्या द्वादश्यां समुपोषितः || २६ || अष्टम्यां च चतुर्दश्यां तस्य पुण्यफलं शृणु | कल्पकोटित्रयं स्थित्वा सिवगेहे गृहे हरेः || २७ || तावन्तं संस्थितः कालं तावन्तं च शिवागृहे | शेषे भुवं समासाद्य वेदविद् ब्राह्मणो भवेत् || २८ || अद्याः स्वर्णश्रियः पूर्वं नदी कामाह्वया शुभा | कामायाः पूर्वभागे तु नदी ओमाशनाह्वया || २९ || ओमाशनायाः पूर्वस्यां नदी नाम्ना वृषोदका | ततः पूर्वे कामरूपं पीठं ते जगतां प्रसूः || ३० || जगन्मयी महामाया देवी दिक्करवासिनी | एता याः कथिता नद्यः सकला दक्षिणस्रवाः || ३१ || तासु स्नात्वा च पीत्वा च स्वर्गलोकमवाप्नुयात् | प्रान्ते दिक्करवासिन्याः सदा वहति स्वर्णदी || ३२ || सितगङ्गाह्वया लोके साक्षाद् गङ्गाफलप्रदा | सा भूमिपीठसंस्था च देवी दिक्करवासिनी || ३३ || अन्तर्जले प्लावयन्ती याति प्रत्यक्षतां सुरैः | सितगङ्गाजले स्नात्वा दृष्ट्वा शम्भुं हरिं विधिम् || ३४ || इष्ट्वा ललितकान्ताख्यां पुनर्योनौ न जायते | लिङ्गस्वरूपी भगवाञ्छम्भुस्तत्र स्वयं स्थितः || ३५ || विष्णुः शिलास्वरूपेण ब्रह्मलिङ्गस्वरूपधृक् | पीठे दिक्करवासिन्या द्विरूपा रमते शिवा || ३६ || तीक्ष्णकान्ताह्वया त्वेका योग्रतारा प्रकीर्तिता | परा ललितकान्ताख्या या श्रीमङ्गलचण्डिका || ३७ || तस्यास्तु सततं रूपं तीक्ष्णकान्ताह्वयं नृप | कृष्णा लम्बोदरी या तु सा स्यादेकजटा शिवा || ३८ || तेन रूपेण तां देवीं सततं परिपूजयेत् | अङ्गमन्त्रं च रूपं च तस्याः प्राक्प्रतिपादितम् || ३९ || त्रिकोणं मण्डलं चास्यः कर्तव्यं मन्त्रपूर्वकम् | आदौ रेखे ततः पश्चात् सुरेखेति पदं ततः || ४० || तथा पदं चाधिगम्य तिष्ठन्तिवति पदं ततः | मण्डलस्यास्य मन्त्रोऽयं तीक्ष्णायाः परिकीर्तितः || ४१ || नरत्रिपुरदेवादियमवेतालदुर्धराः | अणश्रमेत्यन्तकान्ता द्वारपालाः प्रकीर्तिताः || ४२ || एतांस्तु पूजयेत् सम्यङ्मण्डलस्याष्टदिक्षु वै | आदौ सम्बोधनं कृत्वा वज्रपुष्पं ततः परम् || ४३ || अह्निजायं ततः पश्चान्मन्त्रमेषां प्रकीर्तितम् | पात्रोपकरणादीनां थानस्यान्यस्य सर्वतः || ४४ || सर्वमुत्तरतन्त्रोक्तं उह्यं रूपद्वयेऽपि च | चामुण्डा च कराला च सुभगा भीषणा भगा || ४५ || विकटेति च योगिन्यः प्रोक्ता यस्यास्तवैव षट् | ए भगवत्येकजटे विद्महे पदमन्ततः || ४६ || विकटदंष्ट्रे धीमहि तन्नस्तारे प्रचोदयात् | एषा तु तीक्ष्णगायत्री पीठदेव्याः प्रकीर्तिता || ४७ || निर्माल्यधारिणी चास्या देवी विकटचण्डिका | माला तु मृन्मयी प्रोक्ता रुद्राक्षसम्भवापि वा || ४८ || विशेष एष देव्यास्तु पूजने परिकीर्तितः | उपचारादिकं कृत्यं बलिदानं जपादिकम् || ४९ || अर्वं तु पूर्ववद् ग्राह्यं कामाख्यापूजने यथा | आनेषु मदिरा शस्ता नरो वलिषु पार्थिव || ५० || ओदको नारिकेलं च मांसव्यञ्जनमैक्षवम् | ऐवेद्येषु प्रियकरास्तीक्ष्णायाः परिकीर्तिताः || ५१ || यषा ललितकान्ताख्या देवी मङ्गलचण्डिका | वरदाभयहस्ता सा द्विभुजा गौरदेहिका || ५२ || रक्तपद्मासनस्था च मुकुटोज्ज्वलमण्डिता | अक्तकौशेयवसाना स्मितवक्त्रा शुभानना || ५३ || नवयौवनसम्पन्ना चार्वङ्गी ललितप्रभा | उमाया भाषितं मन्त्रं यत् पूर्वं त्वेकमक्षरम् || ५४ || मन्त्रमस्यास्तु तज्ज्ञेयं तेन देवीं प्रपूजयेत् | नारायण्यै विद्महे त्वां चण्डिकायै तु धीमहि || ५५ || तन्नो ललितकांन्तेति ततः पश्चात् प्रचोदयात् | एषा ललितगायत्री देव्या इष्ट्यै प्रकीर्तिता || ५६ || लोहितांगस्य दिवसः प्रियोऽस्याः परिकीर्तितः | कालो वसन्तकालश्च स्वरश्चापि तु पञ्चमः || ५७ || अष्टम्यां च नवम्यां त्र पूजा कार्या विभूतये | निर्माल्यधारिणी चास्या देवी ललितचण्डिका || ५८ || दूर्वाङ्कुरैः समायुक्तमक्षतं प्रीतिदं परम् | अयमस्या विशेषस्तु पूजने परिकीर्तितः || ५९ || वैष्णवीतन्त्रमन्त्रस्य अन्त्रं ग्राह्यं तु पूजने | उपचारो बलिश्चास्या विहितो यः क्रमः पुरा || ६० || महामायामहादेव्यास्तद्ग्राह्यं परिपूजने | स्वगात्ररुधिरं दद्यादात्मनश्च हिताय वै || ६१ || पटेषु प्रतिमायां वा घटे मङ्गलचण्डिकाम् | यः पूजयेद् भौमादिने शुभर्दूर्वाङ्कुरैः शिवाम्ः || ६२ || सततं साधकः सोऽपि काममिष्टमवाप्नुयात् | एवं दिक्करवासिन्याः कथितः पूजनक्रमः || ६३ || यच्छ्रुत्वा नाशुभं किञ्चिदाप्नोति श्रवणे रतः | दिक्करस्त्वरुणः प्रोक्तस्तथा शम्भुश्च दिक्करः || ६४ || तस्मिन्नध्युषिता देवी तस्माद् दिक्करवासिनी | जगत्त्रयेऽपि यस्यास्तु सदृशी क्वापि सुन्दरी || ६५ || नान्यास्ति ललिता तेन देवी ललितकान्तिका | शङ्करस्य पुरा प्रोक्तो ग्राह्यो वै पूजनक्रमः || ६६ || शृणु राजन्नवहितो ब्रह्मणः पूजनक्रमम् | ब्रह्मबीजं पुरा प्रोक्तं तन्मन्त्रं सर्वतश्चरेत् || ६७ || तेनैव तं तु सम्पूज्य परं निर्वाणमाप्नुयात् | एतस्य चाङ्गमन्त्रं तु यथा भर्गेण भाषितम् || ६८ || वेतालभैरवाभ्यां तु रूपं च शृणु भूमिप | अस्तृतीयश्च वह्निश्च शेषस्वरसमन्वितः || ६९ || चन्द्रबिन्दुसमायुक्तो ब्रह्ममन्त्रं प्रकीर्तितम् | अनेनैव तु मन्त्रेण ब्राह्मणं यः प्रपूजयेत् || ७० || स काममिष्टं संप्राप्य ब्रह्मलोकेषु मोदते | ब्रह्मा कमण्डलुधरश्चतुर्वक्त्रश्चतुर्भुजः || ७१ || कदाचिद्रक्तकमले हंसारूढः कदाचन | वर्णेन रक्तगौराङ्गः प्रांशुस्तुङ्गाङ्ग उन्नतः || ७२ || कमण्डलुं वामकरे सुर्च हस्ते च दक्षिणे | दक्षिणाधस्तथा मालां वामाधश्च तथा स्रुवम् || ७३ || वाज्यस्थाली वामपार्श्वे देवाः सर्वेऽग्रतः स्थिताः | सावित्री वामपार्श्वस्था दक्षिणस्था सरस्वती || ७४ || सर्वे च ऋषयो ह्यग्रे कुर्यादेवं विचिन्तनम् | चतुष्कोणं अतुर्द्वारमष्टपत्रसमन्वितम् || ५ || चतुष्कोणेष्वङ्कितं तु रक्कमण्डलुस्रुक्स्रुवैः | सम्मार्जनादिकं सर्वं याश्चान्याः प्रतिपत्तयः || ७६ || दृष्ट्वाश्चोत्तरतन्त्रोक्ता योगपीठेऽङ्गिकादिकाः | आधारशक्तिप्रमुखांस्तथा सर्वांस्तु पूजयेत् || ७७ || अष्टपत्रेषु अद्मस्य दिक्पालांश्च प्रपूजयेत् | पद्मासनाय विद्महे हंसरूढाय धीमहि || ७८ || तन्नो ब्रह्मन्निति पदं ततः पश्चात् प्रचोदयात् | एषा तु ब्रह्मगायत्री पूजयेदनया विधिम् || ७९ || निर्माल्यधारी चैतस्य सनत्कुमार उच्यते | उपचाराः पूर्ववत् तु एत्राञ्जनविवर्जिताः || ८० || रक्तकौशेयवस्त्रं तु ब्रह्मप्रीतिकरं परम् | अन्नं सपायसं सर्पिस्तिलयुक्तं च भोजनम् || ८१ || सितरक्तसमायुक्तं चन्दनं परिकीर्तितम् | पार्श्वयोः शंकरं विष्णुं ऊजने पूजयेत् पुरः || ८२ || स्रुवादीन् करसंस्थांस्तु मण्डले परिपूजयेत् | सरस्वतीं च सावित्री हंस पद्मं तथैव च || ८३ || अयं विशेषः कथितः प्रणामश्चास्य दण्डवत् | पद्मबीजभवा माला जपकर्मणि कीर्तिता || ८४ || पूर्णादर्शौ तिथी ग्राह्यौ पूजाकर्मणि सर्वदा | क्षीरेणार्घ्यं प्रदद्यात् तु सर्वदा ब्रह्मणे नृप || ८५ || अयं ते कथितो भूप यथा भर्गेण भाषितः | दर्शयता स्वपुत्राभ्यां कामरूपाह्वयं शुभम् || ८६ || यत्र तत्र विधिञ्चैव साधकः परिपूजयेत् | पीठे सम्यक् पूजयित्वा परं निर्वाणमाप्नुयात् || ८७ || कथिता ब्रह्मणः पूजा पूजनं शृणु वैष्णवम् | बीजं तु वासुदेवस्य पुरैव प्रतिपादितम् || ८८ || तदङ्गमन्त्रं राजेन्द्र द्वादशाक्षरमुच्यते | अमो भगवते पूर्वं वासुदेवाय वै परम् || ८९ || अङ्गमन्त्रमिदं चैव वासुदेवस्य कीर्तितम् | अस्य रत्यङ्गरूपं तु दधिवामनसंज्ञकम् || ९० || तस्य मन्त्रं नरश्रेष्ठ शम्भुना भाषितं शृणु | ओं नमो विष्णवे पूर्वं पदं तस्य प्रकीर्तितम् || ९१ || पदं च सुरपतये चतुर्थ्यन्तं महाबलम् | स्वाहान्तं हृदयासन्नं प्रत्यङ्गवैष्णवं मतम् || ९२ || अन्त्रत्रयं तु यो वेद बीजं प्रत्यङ्गसंज्ञकम् | स पुमान् देवकायस्तु न स भूयोऽभिजायते || ९३ || सर्व उत्तरतन्त्रोक्तः क्रमो ग्राह्यः प्रपूजने | त्रिषु मन्त्रेषु च सदा विशेषं शृणु भूपते || ९४ || रूपं तु बीजमन्त्रस्य प्रथमं शृणु भूपते | पूर्णचन्द्रोपमः शुक्लः पक्षिराजोपरिस्थितः || ९५ || चतुर्भुजः पीतवस्त्रैस्त्रिभिः संवीतदेहभृत् | दक्षिणोर्ध्वे गदां धत्ते तदधो विकचाम्बुजम् || ९६ || वामोर्ध्वे चक्रमत्युग्रं धत्तेऽधः शङ्खमेव च | श्रीवत्सवक्षाः सततं कौस्तुभं हृदि चांशुमत् || ९७ || धत्ते कक्षे ह्यधोवामे तूणीरं बाणपूरितम् | दक्षिणे कोषगं खड्गं नन्दकं अशरासनम् || ९८ || शीर्षे किरीटं सूद्योतं कर्णयोः कुण्डलद्वयम् | आजानुलम्बिनीं चित्रां वनमालां गले स्थिताम् || ९९ || दधानं दक्षिणे देवीं श्रियं पार्श्वे तु विभ्रतम् | सरस्वतीं वामपार्श्वे चिन्तयेद् वरदं हरिम् || १०० || बीजमन्त्रस्य रूपं च कथितं तव पार्थिव | द्वादशाक्षरमन्त्रस्य रूपमेतच्छृणुष्व मे || १०१ || नीलोत्पलदलश्यामं तथैव च चतुर्भुजम् | दक्षिणोर्ध्वस्थितं पद्मं गदां चाथ प्रयोजयेत् || १०२ || वामेऽधश्चक्रमतुलमूर्ध्वे शंखं च बिभ्रतम् | चिन्तयेद् वरदं देवं सर्वमन्यच्च पूर्ववत् || १०३ || अष्टादशाक्षरस्यास्य प्रत्यङ्गस्य च चिन्तनम् | शृणु राजन्नवहितो दारिद्र्यभयनाशनम् || १०४ || पूर्णेन्दुसदृशं कान्त्या शुक्लवर्णं विचिन्तयेत् | करे विचिन्तयेद् वामे पीयूषापूरितं घटम् || १०५ || दध्यन्नखण्डसंयुक्तं दक्षिणे स्वर्णभाजनम् | पद्मासनगतं देवं चन्द्रमण्डलमधगम् || १०६ || शुक्लवस्त्रधरं देवं प्रमाणाद् वामनं सदा | ईषद्धाससमायुक्तं त्रिलोकेशं त्रिविक्रमम् || १०७ || चिन्तयेद् वरदं देवं सर्वकामफलप्रदम् | दहनप्लवनादौ च पूर्वतन्त्रोदिता यथा || १०८ || तथा मन्त्राः परिग्राह्यास्तथा चोत्तरतन्त्रगाः | मण्डलस्य क्रमं तस्य शृणु भर्गेण भाषितम् || १०९ || रेखया नित्यपूजासु रजोभिः पंचभिस्तथा | नैमित्तिके यथा कार्यं भेदाभेदेन साम्प्रतम् || ११० || अस्तमात्रं चतुर्द्वारं वत्लाम्बुजसन्निभम् | चतुष्कोणे चतुर्भिस्तु शङ्खैर्युक्तं मनोहरम् || १११ || अद्धद्वारं दिक्पतीनामायुधैः करणैस्तथा | अष्टासु दिक्षु निहितं सबहिर्वेष्टपद्मकम् || ११२ || एवं यथा रजोभिस्तु कार्यं तच्छृणु पार्थिव | सितैः पीतैस्तथा रक्तैः श्यामैश्च हरितैः क्रमात् || ११३ || रजोभिर्मण्डलं कुर्यादन्यथा न समाचरेत् | चतुर्हस्तं त्रिहस्तं च द्विहस्तं हस्तमात्रकम् || ११४ || सर्वत्र मण्डलं कुर्याद् यथोक्तं वाधिकं पुनः | राजसूयाश्वमेधादौ चतुर्हस्ताधिकं मतम् || ११५ || कल्पानतिक्रमाद् भूप यथोक्तं यत्र यत्र च | दिक्पालायुधपद्मानां पूर्ववल्लिखनक्रमः || ११६ || सितै रजोभिः कर्तव्यं मध्ये पद्मं सुवर्तुलम् | कर्णिका पीतवर्णास्य केशराग्रं तथारुणम् || ११७ || रक्तैः पीतैः पूरयेत् तु बहिः पद्मस्य सर्वतः | वज्रं शक्तिं लोहदण्डं खड्गं पाशाङ्कुशं गदाम् || ११८ || शूलमष्टदिगीशानामायुधानि क्रमात् पुनः | शम्भुर्गौरी तथा ब्रह्मा रामः कृष्णस्तथैव च || ११९ || एतास्तु सततं पूज्याः संस्थिताः पञ्चदेवताः | न कदाचिदबुधः कुर्याच्छम्भुगौर्यो वियोजनम् || १२० || वियोगे तु कृता पूजा निष्फला तस्य जायते | विच्छिन्नं मूर्ध्नि भूतं तु पूजितं शक्तमेव च || १२१ || न्यासे तु मण्डलस्यास्य रजोदोषं विवर्जयेत् | सर्वत्र मण्डलं कार्यं वासुदेवस्य पूजने || १२२ || एवमेव नृपश्रेष्ठ निष्फलं चान्यथेतरत् | बलभद्रश्च कामश्च ह्यनिरुद्धस्तदुद्भवः || १२३ || नारायणस्तथा ब्रह्मा विष्णुः षष्ठः प्रकीर्तितः | नरसिंहो वराहश्च ओगिन्नोऽष्टौ प्रकीर्तिताः || १२४ || पूर्वाद्यष्टदले श्वेतान् रूपतो मन्त्रतः पृथक् | पूजयेत् कर्णिकामध्ये वासुदेवं तु नायकम् || १२५ || विमला नायिका तस्य वासुदेवस्य कीर्तिता | बलभद्रमुखानां तु योगिनीः शृणु पार्थव || १२६ || आदावुत्कर्षिणी ज्ञेया ज्ञाना पश्चात् क्रियापरा | योगा प्रह्वी तथैशानी अनुग्राही तथाष्टमी || १२७ || सर्व चतुर्भुजाः प्रोक्ताः शङ्खचक्रगदाधराः | योगिनो बलभद्र तु कामं विधिमृते तथा || १२८ || इधे रूपं तु पूर्वोक्तं हलं च मुषलं बलः | हड्गं चक्रं च धत्ते यो गदां पार्श्वे स्थितां सदा || १२९ || कामस्तु पुष्पकोदण्डं धत्ते वामेन पाणिना | अदां चक्रं च पुष्पं च धत्तेऽन्यैः पाणिभिः पुनः || १३० || पार्श्वे पद्मं तथा धत्ते सर्वमन्यच्च पूर्ववत् | चक्रं शङ्खो वराहस्य दक्षिणे परिकीर्तितौ || १३१ || नृसिंहस्य पुनश्चक्रशङ्खौ दक्षिणवामयोः | शङ्खं पद्मं तथा विष्णोः पाण्योर्दक्षिणयोः स्थितम् || १३२ || शंखो गदा वामतस्तु नारायणकरस्थितौ | दक्षिणाधो गदां धत्ते ह्यनिरुद्धो अरोत्तम || १३३ || इतरक्तस्तथा पीतो भिन्नाञ्जननिभस्तथा | नीलोत्पलदलश्यामस्तथा रक्तघनप्रभः || १३४ || भ्रमरश्यामलः पिङ्गः स्वर्णगौरः क्रमादिमे | वर्णतो योगिनः प्रोक्ता वासुदेवस्य पार्थिव || १३५ || यादृग्वर्णश्च ध्यानं च यस्य यस्य च योगिनः | आदृशींयोगिनीं तस्य चिन्तयेत् तत्समीपगाम् || १३६ || आधारशक्तिप्रमुखाः सर्वा आसनदेवताः | ग्रहाश्च सर्वे दिक्पाला ध्यानतो मन्त्रतस्तथा || १३७ || पूजनीया यथोद्देशे मण्डलस्य क्रमान्नृप | देवस्य चिन्तितं यद्यच्छरीरे कमलादिकम् || १३८ || धृतास्त्रं वज्रशक्त्यादिगरुडादींश्च पूजयेत् | वर्णमालां शम्भुमतामासाद्य क्रमयोगतः || १३९ || आद्यद्वितीयक्रमतो गदादीनां तु मन्त्रकम् | पञ्चरात्रोदिते भागे नारदेन यथोदिताः || १४० || मन्त्राश्चक्रगदादीनां ग्राह्याः सर्वत्र पूजने | गरुत्मान् सूर्यसङ्काशो गदा कृष्णायसी पुनः || १४१ || सरस्वती शुक्लवर्णा लक्ष्मीर्हेमप्रभा सदा | मध्याह्नसूर्यप्रतिमं चक्रं तु परिकीर्तितम् || १४२ || सम्पूर्णचन्द्रप्रतिमः शङ्खस्तु परिकीर्तितः | कौस्तुभो ह्यरुणः प्रोक्तः श्रीवत्सो ह्यरुणद्युतिः || १४३ || आरक्तकौस्तुभो ज्ञेयो माला चित्रा प्रकीर्तिता | विद्युत्प्रभा सर्वबाणाः शक्रचापप्रभं धनुः || १४४ || स्वर्णचूर्णप्रकाशं तु वस्त्रमस्य प्रकीर्तितम् | बालसूर्यप्रतीकाशे कुण्डले द्वे श्रवोगते || १४५ || सूर्यस्य सदृशं शीर्षे किरीटं परिकीर्तितम् | शृणु न्यासं ततो भूप यैर्न्यासैर्विष्णुरूपधृक् || १४६ || साधको हि भवेन्नित्यं स्वर्गमोक्षप्रदायकम् | न्यासं तु प्रथमं कुर्यान्मन्त्रविद् द्वादशाक्षरैः || १४७ || वासुदेवस्य बीजेन बीजं चैवाथ योगिनाम् | ततों न्यसेन्महामन्त्रै स्ततश्चाष्टादशाक्षरैः || १४८ || ततस्तु हृदयादीनां षड्भिर्मन्त्रंद्विधा पुनः | एवं चतुर्भिर्न्यासैस्तु पूजामेकां समाचरेत् || १४९ || प्रथमं दक्षिणाङ्गुष्ठे न्यसेदाद्यक्षरं बुधः | वादशाक्षरमन्त्रस्य शेषबीजानि तु क्रमात् || १५० || अर्जन्यादौ दक्षिणस्य वामाङ्गुष्ठान्तमेव च | शेषाक्षरद्वयं पश्चाद् न्यसेत् पाणितलद्वये || १५१ || हृदि शीर्षे शिखायां च स्कन्धयोर्दृक्पिचण्डयोः | ऋष्ठे तु भुजयोः पाष्योर्जंघयोः पादयोः क्रमात् || १५२ || द्वादशाक्षरमन्त्रस्य बीजानि च ततो न्यसेत् | अङ्गुष्ठयोस्तु प्रथमं वासुदेवस्य तत्त्वकम् || १५३ || तर्जन्यादौ योगिनां तु बीजान्यष्टौ द्वयोर्न्यसेत् | सिरोदृगा स्यकण्ठोरोनाभिगुह्येषु जानुनोः || १५४ || पादयोर्वासुदेवस्य योगिबीजानि विन्यसेत् | मन्त्राणि हृदयादीनां यान्युक्तानि पुरा नृप || १५५ || तानि न्यस्याङ्गुष्ठमूलेऽङ्गुलीजाते द्वये द्वये | वामदक्षिणपाण्योस्तु शेषं तु तलयोन्यसेत् || १५६ || हृदयाद्यस्त्रपर्यन्तं पुनस्तानि क्रमान्न्यसेत् | अष्टादशाक्षरस्यादिनववर्णान् न्यसेद् बुधः || १५७ || शिरोनेत्रादिपूर्वोक्ते नवबीजस्य गोचरे | शेषान् वर्णान् सङ्कीर्णंपार्श्ववस्तिषु शेफसि || १५८ || कट्यामूर्वोर्जङ्घयोश्च न्यसेत् पादाङ्गुलीषु च | यस्य मन्त्रस्य या पूजा तन्त्रैस्तु यत्र चोदिता || १५९ || तस्य तन्त्रस्य तत्रैव न्यासं मन्त्री समाचरेत् | अथ चैकत्र सर्वेषां न्यासं कुर्याद् विचक्षणः || १६० || चतुर्विधैः कृतैर्न्यासैः पूतात्मा धूतकल्मषः | साक्षाद् विष्णुर्भवेन्मन्त्री सम्यक् पूजाफलं लभेत् || १६१ || विनापि पूजनं यस्तु न्यासं कुर्याच्चतुर्विधम् | स धीरो विष्णुसायुज्यमाप्नोति परमं पदम् || १६२ || योगपीठं ततो ध्यात्वा गरुडं चक्रंशङ्खं च | गदां लक्ष्मीं तथा पद्मं क्रमादेतेषु विन्यसेत् || १६३ || पूर्वदक्षिणकौबेरपश्चात् कोणेषु वै क्रमात् | दक्षिणे चोत्तरे वापि विन्यसेन्मन्त्रविद् बुधः || १६४ || वनमालां पद्ममध्ये श्रीवत्सं कौस्तुभं मणिम् | विन्यस्य दक्षिणे तस्य न्यसेच्छार्ङ्गं शरासनम् || १६५ || तणीरयुगलं वामे खड्गं दक्षिणतो न्यसेत् | वामे चर्म निधायाश तत्र कुर्यात् सरस्वतीम् || १६६ || पूजयित्वा च सर्वाणि ततो मुद्रां प्रदर्शयेत् | मुद्राः पुटाद्या याः प्रोक्ता विष्णुर्याश्चापि योगिनाम् || १६७ || ग्रहाणां दिक्पतीनां च मुद्रास्ता दर्शयेत् पृथक् | शेषमन्त्राः पुरा प्रोक्ता अच्छिद्रस्यावधारणे || १६८ || तन्मन्त्रान् संपठित्वैव सूर्यायार्घ्यं निवेदयेत् | निर्माल्यधारी विष्णोस्तु विष्वक्सेनश्चतुर्भुजः || १६९ || शङ्खचक्रगदापाणिर्दीर्घश्मश्रुजटाधरः | रक्तपिङ्गलवर्णस्तु सितपद्मोपरिस्थितः || १७० || यत् तृतीयस्वरान्तेन संयुक्तो बिन्दुनेन्दुना | कीर्तितस्तस्य मन्त्रोऽयं तेन तं परिपूजयेत् || १७१ || विसर्जनं तथा विष्णोरैशान्यां परिकीर्तितम् | अन्येषां मनसा कुर्याद् बलादीनां विसर्जनम् || १७२ || एवं यः कुरुते पूजां विष्णोः शम्भोर्विधेः क्वचित् | पीठे दिक्करवासिन्याः स याति परमं पदम् || १७३ || यत्र यत्र भवेद् विष्णोः पूजनं नृपसत्तम् | तत्र तत्रैव तन्त्रोऽयं ग्राह्यो वै वैष्णवैर्बुधैः || १७४ || सङ्क्षेपेणैव तत्रैव पूजयेद् दधिवामनम् | हृदयाद्यङ्गपूजा तु न कर्तव्याऽस्य पूजने || १७५ || संक्षेपैर्विस्तरैर्वापि वासुदेवं प्रपूजयेत् | रक्तं कोशेयवस्तं च पीतं शुक्लं तथैव च || १७६ || प्रीतिदं वासुदेवस्य वस्त्रमेतत् प्रकीर्तितम् | घृतप्रदीपो दीपेषु गन्धेषु मलयोद्भवः || १७७ || पानार्घ्यभोज्यपात्रेषु ताम्रं प्रीतिकरं मतम् | किरीटं कुण्डल हारो भूषणं विष्णुतुष्टिदम् || १७८ || शङ्खः स्नानीयपात्रेषु धूपेष्वगुरुरेव च | प्रीतिदो वासुदेवस्य सतत परिकीर्तितः || १७९ || कदम्बं कुब्जकं जाती मल्लिका मालती तथा | पङ्कजं चेति पुष्पाणि तद् विष्णोः प्रीतिदान्युत || १८० || इर्जनं स्थण्डिलं स्थानं तीर्थं तोयमथापि वा | तद् विष्णोरिति मन्त्रस्तु स्तुतिः पुरुषसूक्तकम् || १८१ || पुत्रञ्जीवोद्भवा माला प्रशस्ता विष्नुपूजने | तिथिश्च द्वादशी प्रोक्ता वसन्तः काल उत्तमः || १८२ || शाल्योदनं हविष्यान्नं यावकं पायसं घृतम् | कृशरान्नं तथान्नेषु पानेषु क्षीरमिष्यते || १८३ || दलेषु तुलसीपत्रं बैल्वमामलमेव च | हरेः प्रीतिकराणि स्युरेतानि नृपसत्तम || १८४ || सर्वाणि परकीयाणि यानि तानि च वर्जयेत् | एवं यः पूजयेद् विष्णुं सततं नरसत्तमः || १८५ || कुलकोटिं समुद्धृत्य स स्वयं स्याज्जनार्दनः | इदं ते कथितं भूप वासुदेवस्य मन्त्रकम् || १८६ || पीठस्य कामरूपस्य सङ्क्षेपान्निर्णयं तथा | इति सर्वं कामरूपपीठं शम्भुरदशयत् || १८७ || पुत्राभ्यां स पुनस्ताभ्यां कैलासं प्रययौ गिरिम् | तत्र गत्वा यथायोगं निधाय तनयौ स्वकौ || १८८ || विमुक्तशापास्ते जाताः शम्भुर्गिरिसुता तथा | वेतालो भैरवश्चेति नृपसत्तम निर्जराः || १८९ || इदं यो महदाख्यानं शृणोत्येकाग्रमानसः | शापभीतिर्न तस्यास्ति व्याधयस्तस्य नाधयः || १९० || पुत्रपौत्रधनैश्वर्ययुक्तः सर्वत्र वल्लभः | सर्वकल्याणसंयुक्तो दीर्घकालं स जीवति || १९१ || कामरूपं महापीठं यो जानाति नरोत्तमः | स दिव्यज्ञानसम्पन्नः परं निर्वाणमाप्नुयात् || १९२ || यः कामरूपे सकले पीठयात्रां समाचरेत् | आसाद्य सकलान् पीठान् पूजयेत् सर्वदेवताः || १९३ || दशपूर्वान् दश परानात्मानं चैकविंशतिम् | दिव्ये ज्ञाने विधायाशु सर्वं मुक्तिमियात् सह || १९४ || इति श्रीकालिकापुराणेऽशीतितमोऽध्यायः || ८० || एकाशीतितमोऽध्यायः और्व उवाच - कामरूपे महापीठे स्नात्वा पीत्वा च देवताः | पूजयित्वा च इपुला लोकाः स्वर्गं पुरा ययुः || १ || केचिद् भेजुश्च निर्वाणं केचिद् यान्ति स्म शम्भुताम् | न यमस्तान् वारयितुं नेतुं च निजमन्दिरम् || २ || क्षमोऽभून्नरशार्दूल शिवाया जातसाध्वसः | यमदूतं तत्र यान्तं बाधन्ते शंकरा गणाः || ३ || न तद्भिया तत्र यान्ति यमदूताः प्रचोदिताः | तथा दृष्ट्वाथ शमनः स्वक्रियापरिवर्जितः || ४ || विधातारं समासाद्य वचनं चेदमब्रवीत् | इधातः कामरूपेऽस्मिन् स्नात्वा पीत्वा च मानवः || ५ || कामाख्यागणतां याति तथा शम्भुगणेशताम् | तत्र मे नाधिकारोऽस्ति न तान् वारयितुं क्षमः || ६ || विधत्स्वात्रोचितां नीतिं युज्यते यदि गोचरे | तस्य तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः || ७ || जगाम विष्णुभवनं सहैव समवर्तिना | तमासाद्य तथा प्राह इष्णुंवै यमभाषितम् || ८ || यथावत् सर्वलोकेशः स च तद्वाक्यमग्रहीत् | सह ब्रह्मयमाभ्यां तु इष्णुः शम्भुं अयौ ततः | सत्कृतस्ततेन पृष्टश्च प्राहेदं यमभाषितम् || ९ || श्रीभगवानुवाच - सर्वदेवैः सर्वतीर्थैः सर्वक्षेत्रैस्तथैव च | एतद् व्याप्तं कामरूपं नातोऽन्यद् विद्यते परम् || १० || इदं पीठं समासाद्य देवत्वं यान्ति मानवाः | अमृतत्वं गणत्वं च तत्र शक्तो यमो नहि || ११ || अथा कुरु महादेव यथा तत्र क्षमो यमः | यमो निरस्तो यत्रास्ति मर्यादा न रदृश्यते || १२ || और्व उवाच - एतद् विष्णुवचः श्रुत्वाः विधिना सहितस्य तु | अङ्गीचकार हृदये तद्वचः साध्यसाधने || १३ || विसृज्य तान् ब्रह्मविष्णुयमान् वृषभवाहनः | आदाय स्वगणान् सर्वान् कामरूपान्तरं यमौ || १४ || उग्रतारां ततो देवीं गणं च प्राह शङ्करः | उत्सारयन्तु सकलान्निमांल्लोकान् गणा द्रुतम् || १५ || उग्रतारे महादेवि त्वं चाप्युत्सारय द्रुतम् | ततो गणाः कामरूपाद् देवी चाप्यपराजिता || १६ || लोकानुत्सारयामासुः पीठं कर्तुं हरस्यकम् | उत्सार्यमाणे लोके तु चतुर्वर्णद्विजातिषु || १७ || सन्ध्याचलगतो विप्रो वसिष्ठः कुपितो मुनिः | सोऽप्युग्रतारया देव्या उत्सारयितुमीशया || १८ || गणैः सह धृतः प्राह शापं कुर्वन् सुदारुणम् | यस्मादहं धृतो वामे त्वयोत्सारयितुं मुनिः || १९ || तस्मात् त्वं वाम्यभावेन पूज्या भव समन्त्रिका | ह्रमन्ति म्लेच्छवद् यस्माद् गणानां मन्दबुद्धयः || २० || भवन्तु म्लेच्छास्तस्माद् वै भवन्तः कामरूपके | महादेवोऽपि यस्मान्मां निःसारयितुमुद्यतः || २१ || तपोधनं मुनिं दान्तं म्लेच्छवद् वेदपारगम् | तस्माद् म्लेच्छप्रियो भूयाच्छङ्करश्चास्थिभस्मधृक् || २२ || एतत् तु कामरूपाख्यं म्लेच्छैर्गुप्तं मदत्वरम् | स्वयं विष्णुर्न चायाति यावत् स्थानमिदं पुनः || २३ || विरलाश्चागमाः सन्तु य एतत्प्रतिपादकाः | विरलं यस्तु जानाति कामरूपागमं बुधः || २४ || स एव प्राप्ते कालेऽपि सम्पूर्णं फलभाप्स्यति | एवमुक्त्वा वसिष्ठस्तु तत्रैवान्तरधीयत || २५ || ते गणा म्लेच्छतां याताः कामरूपे सुरालये | वामाऽभूद्रुग्रतारापि शम्भुर्म्लेच्छरतोऽभवत् || २६ || आगमा विरलाश्चासन् ये च मत्प्रतिपादकाः | वेदमन्त्रविहीनं तु चतुर्वर्णविवर्जितम् || २७ || कामरूपं क्षणाज्जातं यद् यमेनानुसाश्तिम् | आगतेऽपि हरौ मुक्ते शापात् पीठे फलप्रदे || २८ || यथा न सम्यक् स्थास्यन्ति तत्पीठे देवमानुषाः | गुप्तये सर्वकुण्डानां ब्रह्मोपायं तथाऽकरोत् || २९ || अपुनर्भवकुण्डस्य सोमकुण्डस्य चोभयोः | ब्रह्मोर्वशीकुण्डयोस्तु नदीनामपि भूरिशः || ३० || नदीनां पूर्वमुक्तानामनुक्तानां च गुप्तये | सर्वस्यैकफलज्ञाने ब्रह्मोपायं तथाऽकरोत् || ३१ || अमोघायां शान्तनोस्तु भार्यायां तनयं स्वकम् | जलरूपं समुत्पाद्य जामदग्न्येन धीमता || ३२ || अवतारयदव्यग्रं प्लावयन् कामरूपकम् | स तु ब्रह्मसुतो धीरः प्लावयन् कुण्डसञ्चयान् || ३३ || आच्छाद्य सर्वतीर्थानि भुवि गुप्तानि चाकरोत् | लौहित्यमात्रं ये केचिज्जानन्ति तत्र वै नराः || ३४ || ते लौहित्यस्नानफलं प्राप्नुवन्ति सुनिश्चितम् | न जानन्ति च कुण्डानि नापि तीर्थानि चान्यतः || ३५ || वसिष्ठशापादेतत् तु प्रवृत्तं तीर्थगोपनम् | यः कश्चित् तत्र जानाति तीर्थानां च विशेषताम् || ३६ || समवाप्नोति तत् स्नानफलं सम्यग् नरोत्तम | सर्वा नदीः समाप्लाव्य सर्वतीर्थानि सर्वतः | लौहित्यो ब्रह्मणः पुत्रो याति दक्षिणसागरम् || ३७ || एवं ते कथितं राजन् कामरूपस्य कीर्तनम् | यदन्यद्रोचते तुभ्यं तत् पृच्छ निगदामि ते || ३८ || इति श्रीकालिकापुराणे एकाशीतितमोऽध्यायः || ८१ || द्व्यशीतितमोऽध्यायः मार्कण्डेय उवाच और्वस्य वचनं श्रुत्वा सगरस्तं मुनिं पुनः | पप्रच्छेदं द्विजश्रेष्ठां हर्षसंप्लुतमानसः || १ || सगर उवाच अमोघायां कथं यज्ञे लौहित्यो ब्रह्मणः सुतः | कथं शान्तनुजायायां रतः स कमलासनः || २ || पारस्त्रैणेयपुत्रो वा कथं जज्ञे पितामहात् | तत् सर्वं श्रोतुमिच्छामि कथयस्व द्विजोत्तम || ३ || और्व उवाच शृणु त्वं राजशार्दूल कथयामि महत्तरम् | आख्यानं ब्रह्मपुत्रस्य लौहित्यत्य महात्मनः || ४ || हरिवर्षे महावर्षे शान्तनुर्नाम नामतः | मुनिरासीन्महाभागो ज्ञानवान् स तपोरतः || ५ || तस्य भार्या महाभागा अमोघाख्या महासती | हिरण्यगर्भस्य मुनेस्तृणबिन्द्वाश्रमोद्भवा || ६ || तया सार्धं स कैलासं मर्यादापर्वते वसन् | लोहिताख्यस्य सरसस्तीरे वै गन्धमादने || ७ || एकदा स तपोनिष्ठो निजपुष्पादिगोचरम् | जगाम वनम्ध्यं तु चिन्वन् बहुफलानि च || ८ || तस्मिन्नवसरे ब्रह्मा सर्वलोकपितामहः | तत्राजगाम यत्रास्ति अमोघा शान्तनोः प्रिया || ९ || तां दृष्ट्वा देवगर्भायां युवतीमतिसुन्दरीम् | मोहितो मदनेनाशु तदाऽभूद् दूषितेन्द्रियः || १० || उदीरितेन्द्रियो भूत्वा जिघृक्षुस्तां महासतीम् | अथाधावत् ततो ब्रह्मा सम्मुखो मदनार्दितः || ११ || धावमानं विधातारं दृष्ट्वाऽमोघा महासती | नैवं नैवमिति प्रोक्त्वा पर्णशालां व्यलीयत || १२ || इदं चोवाच धातारममोघा कुपिता तदा | पर्णशालान्तरं गत्वा द्वारमावृत्य तत्क्षणात् || १३ || अकार्यं न मया कार्यं मुनिपत्न्या विगर्हितम् | बलात् प्रमथ्या चहां चेत् त्वया त्वां च शपाम्यहम् || १४ || अमोघया चैवमुक्ते विधातुश्च तदा नृप | रेतश्चस्कन्द तत्रैव आश्रमे शान्तनोर्मुनेः || १५ || च्युते रतसि धातापि हंसयानं समुत्थितः | लज्जयाऽतिपरीतात्मा द्रुतं वै स्वाश्रमं ययौ || १६ || गते वेधसि शान्तनुश्च निजमाश्रममागतः | आगत्य दृष्ट्वा हंसानां पदक्षोभं तदा भुवि || १७ || तेजश्च पतितं भूमौ विधातुर्ज्वलनोपमम् | अमोघां परिपप्रच्छ पर्णशालान्तरस्थिताम् || १८ || किमेतदत्र सुभगे प्रवृत्तं दृश्यते तु यत् | पक्षिणां च पदक्षोभं तेजश्चेदं च कीदृशम् || १९ || सा तस्य वचनं श्रुत्वा शान्तनुं मुनिसत्तमम् | अमर्षितैव न्यगददाकुला विकलाननां || २० || हंसयुक्तस्यन्दनेन कोऽप्यागत्य चतुर्मुखः | कमण्डलु करोऽतीव रतिं मां समयाचतं || २१ || अतो मया तर्जितः स उटजान्तरलीनया | प्रच्याव्य तेजः संयातो मम शापभयार्दितः || २२ || कुरु तत्र प्रतीकारं यदि शक्नोषि शान्तनो | न हीमां धर्षणां सोढुं कश्चिच्छक्नोति जीवभृत् || २३ || स तस्या वचनं श्रुत्वा स्वयं ब्रह्मा समागतः | इति निश्चित्य अनसा अदा ध्यानपरोऽभवत् || २४ || दिव्यज्ञानेन स ज्ञात्वा देवकार्यमुपस्थितम् | तीर्थावतरणं चापि हिताय जगतां मुनिः || २५ || ज्ञात्वोदर्कं चिन्तयित्वा स्वभार्यामिदमब्रवीत् | इदं तेजो ब्रह्मणस्त्वं पिबामोघं ममाज्ञया || २६ || हिताय सर्वजगतां देवकार्यार्थसिद्धये | भवत्या निकटं ब्रह्मा स्वयमेव समागतः || २७ || त्वामप्राप्य महत् कृत्यमावयोः स समर्प्य च | गतो निजास्पदं तत् त्वं कर्तुमर्हसि तद् वचः || २८ || तच्छ्रुत्वा शान्तनोर्वाक्यममोघातीव लज्जिता | सान्त्वयन्तीव तं प्राह पतिं नत्वा महासती || २९ || नान्यस्य तेजो धास्यामि न च ते विमनस्कता | अवश्यं यदि कर्तव्यं पीत्वा त्वं मयि चोत्सृज || ३० || ततस्तस्या वचः श्रुत्वा युक्तं तथ्यं च शान्तनुः | स्वयं पीत्वा तु तत् तेजः वभार्यायां न्यसे.चयत् || ३१ || संक्रामितैः शान्तनुना तेजोभिर्ब्रह्मणः सती | गर्भं दधारामोघाख्या हिताय जगतां ततः || ३२ || तस्याः काले तु सम्प्राप्ते नासातो जलसञ्चयः | तन्मध्ये तनयश्चापि नीलवासाः कीरीटधृक् || ३३ || रत्नमालासमायुक्तो रक्तगौरश्च ब्रह्मवत् | चतुर्भुजः पद्मविद्याध्वजशक्तिधरस्तथा || ३४ || शिशुमारशिरस्थश्च तुल्यकायो जलोत्करैः | तज्जातं च तथाभूतं शान्तनुर्लोकशान्तनुः || ३५ || चतुर्णां पर्वतानां च मध्यदेशे न्यवीविशत् | कैलासश्चोत्तरे पार्श्वे दक्षिणे गन्धमादनः || ३६ || रारुधिः पश्चिमे शैलः पूर्वे संवर्तकाद्वयः | तेषां मध्ये स्वयं कुण्डं पर्वतानां विधेः सुतः || ३७ || कृत्वाऽतिववृधे नित्य शरदीव निशाकरः | तं तोयमध्यगं पुत्रमासाद्य द्रुहिणः सुतम् || ३८ || क्रमतस्तस्य संस्कारानकरोद् देहशुद्धये | अथ काले बहुतिथे व्यतीते ब्रह्मणः सुतः || ३९ || तोयराशिस्वरूपेण ववृधे पञ्चयोजनान् | तस्मिन् देवाः पपुः सस्नुर्द्वितीय इव सागरे || ४० || सितामलजले हृद्ये दिव्यैश्चाप्सरसां गणैः | तस्मिन्नवसरे रामो जामदग्न्यः प्रतापवान् || ४१ || चक्रे मातृवधं घोरमयुक्तं पितुराज्ञया | तस्य पापस्य मोक्षाय स्वपितुश्चोपदेशतः || ४२ || स जगाम महाकुण्डं ब्रह्माख्य स्नातुमिच्छया | तत्र स्नात्वा च पीत्वा च मातृहत्यामपानयन् | वीथीं परशुना कृत्वा तं मह्यामवतारयवत् || ४३ || सगर उवाच जमदग्नेः सुतो रामः किमर्थं निजमातरम् | जघान तस्य माता च किन्नाम्नो कस्य चात्मजा || ४४ || मुनेः पुत्रः कथं जातस्तथा क्रूरो महाबलः | यो युद्धकुशलो वीरो राजन्यान् समपोथयत् || ४५ || तदहं श्रोतुमिच्छामि तत्त्वतो मुनिसत्तम | कथयस्व महाभाग यदि गुह्यं तथापि मे || ४६ || और्व उवाच शृणु राजन्नवहितो जमदग्नेः सुतस्य वै | चरितं स यथा जघ्ने प्रसूं क्रूरतरश्च सः || ४७ || ब्रह्मपुत्रो भृगुर्नाम ऋचीकस्तत्सुतोऽभवत् | स भार्यार्थी चरन् भूमौ कान्यकुब्जं गतः पुरा || ४८ || ददर्श चारण्यगतं जह्नोर्वंशसमुद्भवम् | कुशिकस्य सुतं गाधिं तपःस्थं नृपसत्तम || ४९ || अरण्यस्थस्य तस्याथ पुत्रकामस्य भूभृतः | सभार्यस्य सुता जज्ञे देवकन्यासमा गुणैः || ५० || ऋचीको भृगुपुत्रस्तां भार्यार्थं समयाचत | दातूं योग्या सुता मेऽद्य तद्विधाय महामुने || ५१ || किं त्वेकः कुलधर्मो मे विद्यते शुल्कसंग्रहे | एकत्र ऋष्णवर्णानामश्वानां चन्द्रवर्चसाम् | सहस्रमेकं यो दद्यात् तस्मै पुत्री प्रदीयते || ५२ || ऋचीक उवाच दास्याम्यश्वसहस्रं वै तव राजंस्तथाविधम् | किंचित् कालं प्रतीक्षस्व यावत् तदहमानये || ५३ || एवमस्त्विति त गाधिरुवाच भृगुसूनवे | गङ्गातीरं कान्यकुब्जं सोऽगच्छद्धयसाधने || ५४ || तत्राराध्य भृगोः पुत्रो वरुणं यादसां पतिम् | तेन दत्तं तदा लेभे सहस्रं वाजिनां मुनिः || ५५ || तेन यत्र तदा लब्धा अश्वान् नृपतिसत्तम | तदश्वतीर्थं विख्यातं महाफलकरं परम् || ५६ || गङ्गाजलादुत्थितं तु दत्तं सम्यक् प्रचेतसा | आदायाश्वसहस्रं तु मुनिर्गाधिमथाम्ययात् || ५७ || तानश्वान् गाधिरादाय पुत्रीं सत्यवतीं सुताम् | ऋचीकाय ददौ लक्ष्मीं केशवायेव सागरः || ५८ || ऋचीको गाधितनयां लब्ध्वा भार्यामनिन्दिताम् | मुदितः स तया रेमे यथाकामं स्वकाश्रमे || ५९ || कृतदारं सुतं श्रुत्वा द्रष्टुं पुत्रं स्नुषां भृगुः | अथाजगाम मतिमान् स्नुषां दृष्ट्वा ननन्द च || ६० || दम्पती तं समासीनं भृगुं देवगणार्चितम् | पूजयित्वा यथान्यायं तस्थतुस्तौ कृताञ्जली || ६१ || ततो भृगुः स्नुषां स्वीयां सुप्रीत इदमब्रवीत् | वरं वृणीष्व दास्यामि वाञ्छितं वरवर्णिनि || ६२ || अदेयं दुष्करं वापि यत्र ते विद्यते स्पृहा | ततः सत्यवतीं पुत्रं तप आम्नाय-पारगम् || ६३ || मातुश्च वीरमतुलं पुत्रं वरमयाचत | स चैवमस्त्वित्युक्त्वैव भूत्वा ध्यानपरस्तदा || ६४ || विश्वमाधृत्य मनसा यत्नाच्छ्वासं ससर्ज सः | तस्य निःश्वासवातात् तु निःसृतं वै चरुद्वयम् || ६५ || तस्यै तद्द्वितयं दत्त्वा भृगुस्तामिदमब्रवीत् | चरुद्वयं गृहाणेदं स्नुषे सत्यवति स्वयम् || ६६ || स्नात्वा ऋतौ ऋतौ माता स्नुषे त्वं च करिष्यथः | आलिंग्याश्वत्थवृक्षं ते माता पुंसवनाय वै || ६७ || चरुमारक्तकं चेमं सा भोक्ष्यति सुतस्ततः | त्वं चोदुम्बरवृक्षं तु समालिंग्यासितं चरुम् || ६८ || भोक्ष्यसे तव पुत्रस्तु भविष्यति सनातनः | एवमुक्त्वा भृगुर्यातो यथेच्छं सापि संमुदम् || ६९ || अवाप मात्रा सहिता भर्त्रा पित्रा च भामिनी | अथ स्नानदिनेऽश्वत्थमालिंग्यारक्तकं चरुम् || ७० || आदात् सत्यवती तस्या माता फल्गुं सितं चरुम् | परिवर्तं तु तज् ज्ञात्वा दिव्यज्ञानो भृगुर्मुनिः || ७१ || अथागत्य स्नुषां तां तु वचनं चेदमब्रवीत् | विपर्ययस्त्वया भद्रे वृक्षालिङ्गनकर्मणि || ७२ || तथा अरुप्राशने तु अत्रेदं ते भविष्यति | ब्राह्मणः क्षत्रियाचारस्तव पुत्रो भविष्यति || ७३ || क्षत्रियो ब्राह्मणाचारो मातुस्ते भविता सुतः | इत्युक्त्वा भृगुणा साध्वी तदा सत्यवती भृगुम् || ७४ || पुनः प्रसादयामास पौत्रो मेऽस्त्विति तादृशः | एवमस्त्विति स प्रोच्य तत्रैवान्तर्दधे भृगुः || ७५ || अथ काले सुतं दीप्तं जमदग्निं च गाधिजा | सुषुवे जननी तस्या विश्वामित्रं तपोनिधिम् || ७६ || जमदग्निस्ततो वेदांश्चतुरः प्राप मा चिरम् | प्रादुरासीद् धनुर्वेदः स्वयं तस्मिन् महात्मनि || ७७ || विश्वामित्रोऽपि सकलान् वेदानाप् तथाऽचिरात् | धनुर्वेदं तथा कृत्स्नं विप्रश्चाभूत् तपोबलात् || ७८ || जाज्वल्यमानस्तेजस्वी जमदग्न्र्महातपाः | वेदैस्तपोभिः स मुनिनत्यक्रामच्च सूर्यवत् || ७९ || इति श्रीकालिकापुराणे व्यशीतितमोऽध्यायः || ८२ || त्र्यशीतितमोऽध्यायः | और्व उवाच अथ काले व्यतीते तु जमदग्निर्महातपाः | विदर्भराजस्य सुतां प्रयत्नेन जितां स्वयम् || १ || भार्यार्थं प्रतिजग्राह रेणुकां लक्षणान्विताम् | सा तस्मात् सुषुवे षत्रांश्चतुरो वेदसम्मितान् || २ || रुषण्वन्तं सुषेणं च वसुं विश्वावसुं तथा | पश्चात् तस्यां स्वयं जज्ञे भगवान् मधुसूदनः || ३ || कार्तवीर्यवधायाशु शक्राद्यैः सकलैः सुरैः | याचितः पंचमः सोऽभूत् तेषां रामाह्वयस्तु सः || ४ || भारावतरणार्थाय जातः परशुना सह | सहजं परशुं तस्य न जहाति कदाचन || ५ || अयं निजपितामह्याश्चरुभुक्तिविपर्ययात् | ब्राह्मणः क्षत्रियाचारो रामोऽभूत क्रूरकर्मकृत् || ६ || स वेदानखिलान् ज्ञात्वा धनुर्वेदं च सर्वशः | सततं कृतकृत्योऽभूद् वेदविद्याविशारदः || ७ || एकदा तस्य जननी स्नानार्थं रेणुका गता | गङ्गातोये ह्यथापश्यन्नाम्ना चित्ररथं नृपम् || ८ || भार्याभिः सदृशीभिश्च तलक्रीडारतं शुभम् | सुमालिनं सुवस्त्रं तं तरुणं अन्द्रमालिनम् || ९ || तथाविधं नृपं दृष्ट्वा सञ्जातमदना भृशम् | रेणुका स्पृहयामास तस्मै राज्ञे सुवर्चसे || १० || स्पृहायुतायास्तस्यास्तु संक्लेदः समजायत | विचेतनाम्भसा क्लिन्ना त्रस्ता सा स्वाश्रमं ययौ || ११ || अबोधि जमदग्निस्तां रेणुकां विकृतां तथा | धिग् धिक्काररतेत्येवं निनिन्द च समन्ततः || १२ || ततः स तनयान् प्राह चतुरः प्रथमं मुनिः | उषण्वत्प्रमुखान् सर्वानेकैकं क्रमतो द्रुतम् || १३ || छिन्धीमां पापनिरतां रेणुकां व्यभिचारिणीम् | ते तद्वचो नैव चक्रुर्मूकाश्चासन् जडा इव || १४ || कुपितो जमदग्निस्ताञ्छशापेति विचेतसः | (गाधिं नृपतिशार्दूलं स चोवाच नृपो मुनिम्) || १५ || भवध्वं ऊयमाचिराज्जडा गोबुद्धिगर्धिताः | अथाजगाम चरमो जामदग्न्येऽतिवीर्यवान् || १६ || तं च रामं पिता प्राह पापिष्ठां छिन्धि मातरम् | स भ्रातृंश्च तथाभूतान् दृष्ट्वा ज्ञानविवर्जितान् || १७ || पित्रा शप्तान् महातेजाः प्रसूं परशुनाच्छिनत् | रामेण रेणुकां छिन्नां दृष्ट्वा विक्रोधनोऽभवत् || १८ || जमदग्निः प्रसन्नः सन्निति वाचमुवाच ह | प्रीतोऽस्मि पुत्र भद्र ते यत् त्वया मद्वचः कृतम् || १९ || तस्मादिष्टान् वरान् कामांस्त्वं वै वरय साम्प्रतम् | स तु रामो वरान् वव्रे मातुरुत्थानमादितः || २० || वधस्यास्मरणं तस्या भ्रातृणां शापमोचनम् | मातृहत्याव्यपनयं युद्धे सर्वत्र वै जयम् || २१ || आयुः कल्पान्तपर्यन्तं क्रमाद् वै नृपसत्तम | सर्वान् वरान् स प्रददौ जमदग्निर्महातपाः || २२ || सुप्तोत्यितेब जननी रेणुका च तदाभवत् | वधं न चापि सस्मार सहजा प्रकृतिस्थिता || २३ || युद्धे जयं चिरायुष्यं लेभे रामस्तदैव हि | मातृहत्याव्यपोहाय पिता तं वाक्यमव्रवीत् || २४ || न पुत्र वरदानेन मातृहत्यापगच्छति | तस्मात् त्वं ब्रह्मकुण्डाय गच्छ स्नातुं च तज्जले || २५ || तत्र स्नात्वा मुक्तपापो नचिरात् पुनरेष्यसि | जगद्धिताय पुत्र त्वं ब्रह्मकुण्डं व्रज द्रुतम् || २६ || स तस्य वचन श्रुत्वा रामः परशुधृक् तदा | उपदेशात् पितुर्घातो ब्रह्मकुण्डं वृषोदकम् || २७ || तत्र स्नानं च विधिवत् कृत्वा धौतपरश्वधः | शरीरान्निःसृतां मातृहत्यां सम्यग् व्यलोकयत् || २८ || जातसंप्रत्ययः सोऽथ तीर्थमासाद्य तद्वरम् | वीथीं परशुना कृत्वा ब्रह्मपुत्रमवाहयत् || २९ || ब्रह्मकुण्डात् सृतः सोऽथ कासारे लोहिताह्वये | कैलासोपत्यकायां तु न्यपतद् ब्रह्मणः सुतः || ३० || तस्यापि सरसस्तीरे समुत्थाय महाबलः | कुठारेण दिशं पूर्वामनयद् ब्रह्मणः सुतम् || ३१ || ततः परत्रापि गिरिं हेमशृङ्गं विभिद्य च | कामरूपान्तरं पीठमावहद्यदमुं हरिः || ३२ || तस्य नाम स्वयं चक्रे विधिर्लोहितगङ्गकम् | लोहितात् सरसो जातो लोहिताख्यस्ततोऽभवत् || ३३ || स कामरूपमखिलं पीठमाप्लाव्य वारिणा | गोपयन् सर्वतीर्थानि दक्षिणं याति सागरम् || ३४ || प्रागेव दिव्ययमुनां स त्यक्त्वा ब्रह्मणः सुतः | पुनः पतति लौहित्ये गत्वा द्वादशयोजनम् || ३५ || चैत्रे मासि सिताष्टम्यां यो नरो नियतेन्द्रियः | चैत्रं तु सकलं मासं शुचिः प्रयतमानसः || ३६ || स्नाति लौहित्यतोये तु स याति ब्रह्मणः पदम् | लौहित्यतोये यः स्नाति स कैवल्यमवाप्नुयात् || ३७ || इति ते कथितं राजन् यदर्थं मातरं पुरा | अहन् वीरो जामदग्न्यो यस्माद् वा क्रूरकर्मकृत् || ३८ || इदं तु महदाख्यानं यः शृणोति दिने दिने | स दीर्घायुः प्रमुदितो बलवानभिजायते || ३९ || इति ते कथितं राजञ्छरीरार्धं यथाद्रिजा | शम्भोर्जहार वेतालभैरवौ च यथाह्वयौ || ४० || यस्य वा तनयौ जातौ यथा यातौ गणेशताम् | किमन्यत् कथये तुभ्यं तद्वदस्व नृपोत्तम || ४१ || मार्कण्डेय उवाच इत्यौर्वस्य च संवादः सगरेण महात्मना | योऽसौ कायार्धहरणं शम्भोर्गिरिजया कृतः || ४२ || सर्वोऽद्य कथितो विप्राः पृष्टं यच्चान्यदुत्तमम् | सिद्धस्य भैरवाख्यस्य पीठानां च विनिर्णयम् || ४३ || भृङ्गिणश्च यथोत्पत्तिर्महाकालस्य चैव हि | उक्तं हि वः किमन्यत् तु पृच्छन्तु द्विजसत्तमाः || ४४ || इति सकलसुतन्त्रं तन्त्रमन्त्रावदातं बहुतरफलकारि प्राज्ञविश्रामकल्पम् | उपनिषदमवेत्य ज्ञानमार्गैकतानं स्रवति स इह नित्यं यः पठेत् तन्त्रमेतत् || ४५ || इति श्रीकालिकापुराणे त्र्यशीतितमोऽध्यायः || ८३ || चतुरशीतितमोऽध्यायः ऋषय ऊचुः - कथितो भवता सर्गः संशयश्चापि शातिताः | त्वत्प्रसादान्महाभाग कृतकृत्या वयं गुरो || १ || भूयश्च श्रोतुमिच्छामो वयमेतद् द्विजोत्तम | कोऽन्यो भृङ्गी महाकाओ जातौ वेतालभैरवौ || २ || वेतालं च महाकालं भैरवं भृङ्गिणं तथा | शृणुमो द्विजशार्दूल कथमेषां चतुष्टयम् || ३ || मार्कण्डेय उवाच - भुवं गते महाकाले मानुष्यस्थे च भृङ्गिणि | वेतालभैरवाख्ये च तयोर्भूते द्विजोत्तमाः || ४ || वरलब्धे च वेताले भैरवे तेन सङ्गते | अन्धकं तपसा युक्तं भृङ्गिणं चाकरोद्धरः || ५ || अन्धकस्तु हरं पूर्वं विरुध्यापदमागतः | पश्चाद्धरं समाराध्य पुत्रोऽभूत् तस्य सोऽसुरः || ६ || भृङ्गिस्नेहाद् भृङ्गिणं तं संज्ञया चाकरोद्धरः | स्नेहेन तु महाकाले बाणं बलिसुतं हरः | विष्णुना छिन्नबाहुं तु महाकालमथाकरोत् || ७ || एवं मुनिवरस्तेषां संयतं च चतुष्टयम् | वेतालभैरवौ भृङ्गिमहाकालौ ह्यनुक्रमात् || ८ || ऋषय उवाच यत् पृष्टं सगरेणैव मुनिमौर्व महाधियम् | नीत्या योज्या यया भार्या सुत आत्माऽथवा गुरो || ९ || राजनीतौ सतां नीतौ सदाचारे च ये स्थिताः | विशेषास्तेन ये प्रोक्ता और्वेण सुमहात्मना || १० || विशेषेण द्विजश्रेष्ठ श्रोतुं सम्यक् तपोधन | इच्छामस्तान् महाभाग कथयस्व जगद्गुरो || ११ || मार्कण्डेय उवाच ये ये विशेषाः कथिता और्वेण सुमहात्मना | तद् वः सर्वं प्रवक्ष्यामि शृण्वन्तु मुनिसत्तमाः || १२ || श्रुत्वैवं सगरो राजा मन्त्रकल्पादिकं पुनः | विशेषं परिपप्रच्छ नीत्यादीनां महामुनिम् || १३ || सगर उवाच - यया नीत्या प्रयोक्तव्यः सुत आत्मा प्रिया तथा | तेषां विशेषैः सहितं सदाचारं वदस्व मे || १४ || और्व उवाच - क्रमेण शृणु राजेन्द्र यया नीत्या नियोजिताः | आत्मा सुतो वा भार्या वा तद्विशेषं शृणुष्व मे || १५ || ज्ञानविद्यातपोवृद्धान् वयोवृद्धान् सुदक्षिणान् | सेवेत प्रथमं विप्रानसूयापरिवर्जितान् || १६ || तेभ्यश्च शृणुयांन्नित्यं वेदशास्त्रविनिश्चयम् | यदूचुस्ते च तत् कार्यं प्राज्ञं चैव नृपश्चरेत् || १७ || पञ्चेन्द्रियाणि पञ्चाश्वाः शरीरं रथ उच्यते | आत्मा रथी कशा ज्ञानं सारथिर्मन उच्यते || १८ || अश्वान् सुदान्तान् कुर्वीत सारथिं चात्मनो वशम् | कशा दृढा सदा कार्या शरीरस्थिरता तथा || १९ || अदान्तांस्तु समारुह्य सैन्धवान् स्यन्दनी यथा | अश्वानामिच्छया गच्छन्नुत्पथं प्रतिपद्यते || २० || तत्रावशः सारथिस्तु स्वेच्छया प्रेरयन् हयान् | नयेत् परवशं सम्यग् रथितं वीरमप्युत || २१ || तथेन्द्रियाणि नृपतिर्विषयाणां परिग्रहे | स्ववश्यानि प्रकुर्वीत मनो ज्ञानं दृढं तथा || २२ || ज्ञाने दृढे कशायां च दृढायां नृपसत्तम | सारथिः स्ववशो दान्तानीशः प्रेरयितुं हयान् || २३ || अतो नृपः स्वेन्द्रियाणि वशे कृत्वा मनस्तथा | ज्ञानमार्गमधिष्ठाय प्रकुर्वीतात्मनो हितम् || २४ || भोक्तव्यं स्वेच्छया भूयो न कुर्याल्लोभमासवे | द्रष्टव्यमिति द्रष्टव्यं न द्रष्टव्यं च स्वेच्छया || २५ || श्रोतव्यमिति श्रोतव्यं नाधिकं श्रवणे चरेत् | शास्त्रतत्त्व मृते धीरः श्रुतिवश्यो भवेन्न हि || २६ || एवं घ्राणं त्वचं चापि वशीकृत्येच्छया नृपः | स्वेच्छया नोपभुञ्जीत नोद्दामं विषयं व्रजेत् || २७ || एवं यदि भवेद्राजा तदा स स्याज्जितेन्द्रियः | जितेन्द्रियत्वे हेतुश्च शास्त्रवृद्धोपसेवनम् || २८ || अवृद्धसेव्यशास्त्रज्ञो नृपः शत्रुवशो भवेत् | तस्माच्छास्त्रमधिष्ठाय भवेद्राजा जितेन्द्रियः || २९ || धृतिः प्रागल्भ्यमुत्साहो वाक्पटुत्वं विवेचनम् | दक्षत्वं धारयिष्णुत्वं दानमैत्रीकृतज्ञता || ३० || दृढशासनता सत्यं शौचं मतिविनिश्चयम्ः | पराभिप्रायवेदित्वं चरित्रं धैर्यमापदि || ३१ || क्लेशधारणशक्तिश्च गुरुदेवद्विजार्चनम् | अनसूया ह्यकोपित्वं गुणानेतान्नृपोऽभ्यसेत् || ३२ || कार्याकार्यविभागश्च धर्मार्थो काम एव च | सततं प्रतिबुध्येत कुर्यादवसरेऽपि तत् || ३३ || सामदानं च भेदश्च दण्डश्चेति चतुष्टयम् | ज्ञात्वोपायांस्तु तत्काले तदुपायान् प्रयोजयेत् || ३४ || साम्नस्तु विषये भेदो मध्यमः परिकीर्तितः | दानस्य विषये साम योग्यमेवोपलक्ष्यते || ३५ || दानस्य विषये दण्डो ह्यधनः परिकीर्तितः | दण्डस्य विषये दानं तदप्यधममुच्यते || ३६ || साम्नस्तु गोचरे दण्डो ह्यधमादधमः स्मृतः | सौजन्यं सततं ज्ञेयं भूभृतो भेददण्डयोः || ३७ || साम्नो दानस्य च तथा सौजन्यं याति गोचरे | कामः क्रोधश्च लोभश्च हर्षो मानो मदस्तथा || ३८ || एतानतिशयान् राजा शत्रूनिव विशातयेत् | सेव्याः काले संयुक्तौ ते लोभगर्वौ विवर्जयेत् || ३९ || तेज एव नृपाणां तु तीव्रं सूर्यस्य वै यथा | तत्र गर्वं रोगयुक्तं कायवांस्तं तु संत्यजेत् || ४० || आखेटकाक्षौ स्त्रीसेवा पानं चैवार्थदूषणम् | वाग्दण्डयोश्च पारुष्यं सप्तैतानि विवर्जयेत् || ४१ || परस्त्रीषु विरक्तासु सेवामेकान्ततस्त्यजेत् | सतीषु निजनारीषु युक्तं कुर्यान्निवेशनम् || ४२ || रतिपुत्रफला दारास्तांस्तु नैकान्ततस्त्यजेत् | तयोः सिद्धयै स्त्रियः सेव्या वर्जयित्वातिसक्तताम् || ४३ || मृगयां तु प्रमादानां स्थानं नित्यं विवर्जयेत् | अक्षांस्तथा न कुर्वीत सत्कार्यासक्तिनाशनम् || ४४ || अन्यैः कृतं कदाचित् तु सेवेत नात्मनाचरेत् | अकार्यकरणे बीजं कृत्यानां च विवर्जने || ४५ || अकालभेन्त्रभेदे च कलहे सत्कृतिक्षये | वर्जयेत् सततं पानं शौचमाङ्गल्यनाशनम् || ४६ || अर्थक्षयकरं नित्यं त्यजेच्चैवात्मदूषणम् | अभिशस्तेषु चोरेषु घातकेष्वाततायिषु || ४७ || सततं पृथिवीपालो दण्डपारुष्यमाचरेत् | नान्यत्र दण्डपारुष्यं कुर्यान्नृपतिसत्तमः || ४८ || वाक्पारुष्यं च सर्वत्र नैव कुर्यात् कदाचन | रक्षणीयं सदा सत्यं सत्यमेकं परायणम् || ४९ || क्षमां तेजस्वितां चैव प्रस्तावान्नृप आचरेत् | यानासनाश्रयद्वैधसन्धयो विग्रहस्तथा || ५० || अभ्यसेत् षड्गुणानेतांस्तेषां स्थानं च शाश्वतम् | यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये || ५१ || कोषे जनपदे दण्डे न स राज्येऽवतिष्ठते | कोषे जनपदे दण्डे चैकैकत्र त्रयं त्रयम् || ५२ || प्रस्तावाद्विनियुञ्जीत रक्षेन्नैकांस्ततस्त्विमान् | मित्रे शत्रावुदासीने प्रभावं त्रिष्वपीरयेत् || ५३ || उत्साहो विजिगीषायां धर्मकृत्येऽष्टवर्गके | शरीरयात्रानिर्वाहे क्रियेत सततं नृपैः || ५४ || मन्त्रनिश्चयसम्भूतां बुद्धिं सर्वत्र योजयेत् | अमात्ये शात्रवे राज्ये पुत्रेष्वन्तःपुरेषु च || ५५ || कृषिं दुर्गं च वाणिज्यं खड्गानां करसाधनम् | आदानं सैन्यकरयोर्बन्धनं गजवाजिनोः || ५६ || शून्ये सद्ममुखानां च योजनं सततं जनैः | रयाणां सारसेतूनां बन्धनं चेति चाष्टमम् || ५७ || एतदष्टसु वर्गेषु चारान् सम्यक् प्रयोजयेत् | कार्याकार्यविभागाय चाष्टवर्गाधिकारिणाम् || ५८ || अष्टौ चारान्नियुञ्जीयादष्टवर्गेषु पार्थिवः | दश शून्येषु युञ्जीत क्रमतः शृणु तानि मे || ५९ || स्वामी सचिव-राष्ट्राणि मित्रं कोशो बलं तथा | दुर्गं तु सप्तमं ज्ञेयं राज्याङ्गं गुरुभाषितम् || ६० || उर्गमुक्तं चाष्टवर्गे चारान्नात्मनि योजयेत् | तस्मादिमानि शेषाणि पंच चारपदानि च || ६१ || शुद्धान्तेषु च पुत्रेषु सऊययादौ महानसे | शत्रदासीनयोश्चापि बलाबलविनिश्चये || ६२ || अष्टादशसु चैतेषु चारान् राजा प्रयोजयेत् | न यत्प्रकाशं जानीयात् तत् तच्चारैर्निरूपयेत् || ६३ || निरूप्य तत्-प्रतीकारमवश्यं छिद्रतश्चरेत् | यथानियोगमेतेषां यो यो यत्रन्यथाचरेत् || ६४ || ज्ञात्वा तत्र नृपश्चारैदण्डयेद् वा वियोजयेत् | चारांस्तु मन्त्रिणा सार्धं रहस्ये संस्थितो नृपः || ६५ || प्रदोषसमये पृच्छेत् तदानीमेव साधयेत् | स्वपुत्रे चाथ शुद्धान्ते ये तु चारा महानसे || ६६ || नियुक्तास्तान्मध्यरात्रे पृच्छेत् स्वोऽपिच मन्त्रिणि | एतांश्चारान् स्वयं पश्येन्नृपतिर्मन्त्रिणा विना || ६७ || अन्यांस्तु मन्त्रिणा सार्धं निरूप्य प्रदिशेत् फलम् | नैकवेशधरश्चारो नैको नोत्साहवर्जितः || ६८ || संस्तुतो नहि सर्वत्र नातिदीर्घो न वामनः | सततं न दिवाचारी न रोगी नाप्यबुद्धिमान् || ६९ || न वित्तविभवैर्हीनो न भार्यापुत्रवर्जितः | कार्यश्चारो नृपतिना तत्त्वगुह्यविनिर्णये || ७० || अनेकवेशग्रहणक्षम भार्यासुतैर्युतम् | अहुदेशवचोऽभिज्ञं पराभिप्रायवेदकम् || ७१ || दृढभक्तं प्रकुर्वीत चारं शक्तमसाध्वसम् | अभितिष्ठेत् स्वयं राजा कृषिमात्मसमैस्तथा || ७२ || वणिक्पथे तु दुर्गादौ तेषु शक्तान्नियोजयेत् | अन्तःपुरे पितुस्तुल्यान् धीरान् वृद्धान्नियोजयेत् || ७३ || षण्ढान् पण्डांस्तथा वृद्धां स्त्रियौ वा बुद्धितत्पराः | शुद्धान्ते द्वारि युञ्जीयात् स्त्रियो वृद्धा मनीषिणीः || ७४ || नैकः स्वपेत् कदाचित् तु नैको भुञ्जीत पार्थिवः | नैकाकिनीं तु महिषीं ब्रजेन्मैत्राय नैककः || ७५ || अमात्यानुपधाशुद्धान् भार्याः पुत्रांस्तथैव च | प्रकुर्यात् सततं भूपः सप्रसादं समाचरन् || ७६ || धर्मार्थकाममोक्षैश्च प्रत्येकं परिशोधनैः | उपेत्य धीयते यस्मादुपधा सा प्रकीर्तिता || ७७ || अर्थकामोपधाभ्यां तु भार्यापुत्रांश्च शोधयेत् | धर्मोपधाभिर्विप्रांस्तु सर्वांभिः सचिवान् पुनः || ७८ || एभिर्यज्ञैतस्था दानैरिहैव नृपतिर्भवेत् | तस्माद् भवांस्तु राज्यार्थी धर्ममेवं समाचरेत् || ७९ || अनेनैवाभिचारेण यज्ञैर्वां पार्थिवो ह्ययम् | प्राणांस्त्यजति राजा त्वं भविष्यसि न संशयः || ८० || इति धर्मो नृपस्यैव अश्वमेधादिकश्च यः | स्वयं न कुरुते भूपस्तस्मात् त्वं कुरु सत्तम || ८१ || एवं मन्त्रैर्मन्त्रयित्वा नृपः कार्यान्तिकाद् द्विजात् | ऐरज्ञातान् स्वयं ज्ञात्वा गृह्णीयात् तस्य तैर्मनः || ८२ || यदि राज्याभिलाषेण सचिवोऽधर्ममाचरेत् | नृपतौ भाधकं कुर्याद् धर्मं तं हीनतां नयेत् || ८३ || आभिचारिकमत्यर्थं कुर्वाणं तु विघातयेत् | प्रवासयेद् ब्राह्मणं तु पार्थिवश्चाभिचारिकम् || ८४ || एषा घर्मोपधा ज्ञेया तैरमात्यान् सताञ्जयेत् | एतादृशीं तथैवान्यामुपधां धर्मतश्चरेत् || ८५ || कोशाध्यक्षान् समामन्त्र्य राजामात्यान् प्रतारयेत् | पुत्रानन्यान् प्रति तथा मन्त्रसंवरणाक्षमान् || ८६ || अयं हि प्रचुरः कोषो मदायत्तो नरोत्तम | आनये तव संमत्या तद् यदि त्वं प्रतीक्षसि || ८७ || तवार्थलग्नादस्माकं जीवनं च भविष्यति | त्वं चापि प्रचुरैः कोषैः किं किं वा न करिष्यसि || ८८ || एवमन्यैः कोषगतैरुपायैर्नृपसत्तमः | पुत्रामात्यादिकान् सर्वान् सततं परिशोधयेत् || ८९ || कोषदोषकरान् हन्यात् कर्तुमिच्छन् विवासयेत् | द्वैधचित्तान् विमन्येत कुर्याद् वै कोशरक्षणम् || ९० || दासीश्च शिल्पिनीर्वृद्धा मेधाधृतिमतीः स्त्रियः | अन्तर्बहिश्च या यान्ति विदिताः सचिवादिभिः || ९१ || ता राजा रहसि स्थित्वा भार्यादिभिरलक्षितः | अभिमन्त्र्याथ संमन्त्र्य प्रेषयेत् सचिवान् प्रति || ९२ || ता गत्वा हृदयं बुद्धा स्त्रियो विज्ञानतत्पराः | महिषीप्रमुखा राज्ञस्त्वां वै कामयते शुभा || ९३ || तत्राहं योजयिष्यामि यदि ते विद्यते स्पृहा | सचिवस्त्वां कामयते त्वद्योग्यो वरवर्णिनि || ९४ || तं संगमयितुं शक्ता यदि श्रद्धा तवास्त्यहम् | इत्यनेन प्रकारेण नानोपायैस्तथोत्तरैः || ९५ || भार्याः पुत्रदुहित्रीश्च स्नुषाश्च प्रस्नुषास्तथा | शोधयेत् सचिवान् पुत्रान् पौत्रादीन् सेवकांस्तथा || ९६ || कामोपधाऽविशुद्धांस्तु हातयेदविचारयन् | स्त्रियस्तु योज्या दण्डेन ब्राह्मणांस्तु प्रवासयेत् || ९७ || मोक्षमार्गावसक्तं तु हिंसापैशुन्यवर्जितम् | क्षमैकसारं नृपतिः सचिवं परिवर्जयेत् || ९८ || मोक्षमार्गविरक्तांस्तु दण्डयानपि न दण्डयेत् | समबुद्धिस्तु सर्वत्र तस्मात् तं परिवर्जयेत् || ९९ || इति सूत्रं चोपधानामुपधा बहुधा पुनः | विवेचिता चोशनसा तच्छास्त्रे तत्र बोधयेत् || १०० || विग्रहं सततं राजा परैर्न सम्यगाचरेत् | भूवित्तमित्रलाभेषु निश्चितेष्वेव विग्रहाः || १०१ || सप्ताङ्गेषु प्रसादश्च सदा कार्यो नृपोत्तमैः | कोषस्य सञ्चयं रक्षां सततं सम्यगाचरेत् || १०२ || मन्त्रिणस्तु नृपः कुर्याद् विप्रान् विद्याविशारदान् | विनयाज्ञान् कुलीनांश्च धर्मार्थकुशलानृजून् || १०३ || मन्त्रयेत् तैः समं ज्ञानं नात्यर्थं बहुभिश्चरेत् | एकैकेनैव कर्तव्यं मन्त्रस्य च विनिश्चयम् || १०४ || यस्तैः समस्तैश्चान्यस्य व्यपदेशैः समन्ततः | सुसंवृतं मन्त्रगृहं स्थलं वारुह्य मन्त्रयेत् || १०५ || अरण्ये निःशलाके वा न आमिन्यां कदाचन | शिशूञ्छाखामृगान् पण्डाञ्छुकान् वै सारिकास्तथा || १०६ || वर्जयेन्मन्त्रगेहे तु मनुष्यान् विकृतांस्तथा | दूषणं मन्त्रभेदेषं नृपाणां यत् तु जायते || १०७ || न तच्छक्यं समाधातुं दक्षैर्नृपशतैरपि | दण्ड्यांस्तु दण्डयेद् दण्डैरदण्यान् दण्डयेन्नहि || १०८ || अदण्डयन् नृपो दण्ड्यान्नदण्ड्यांश्चापि दण्डयन् | नृपतिर्वाच्यतां प्राप्य चौरकिल्विषमाप्नुयात् || १०९ || दुर्गे तु समतां कुर्यात् प्राकाराट्टालतोरणैः | भूषितान्नगराद्राजा दूरे दुर्गाश्रयं चरेत् || ११० || दुर्गं बलं नृपाणां तु नित्यं दुर्गं प्रशस्यते | शतमेको योधयति दुर्गस्थो यो धनुर्द्धरः || १११ || शतं दशसहस्राणि तस्माद् दुर्गं रशस्यते | जलदुर्गं भूमिदुर्गं वृक्षदुर्गं तथैव च || ११२ || आरण्यंमौदुर्गं च शैलजं अरिखोद्भवम् | दुर्गं कार्यं नृपतिना यथा दुर्गंस्वदेशतः || ११३ || दुर्गं कुर्वन् पुरं कुर्यात् त्रिकोणं धनुराकृति | वर्तुलं च चतुष्कोणं नान्यथा नगरं चरेत् || ११४ || ऋदङ्गाकृतिदुर्गं तु सततं कुलनाशनम् | यथा राक्षसराज्यस्य लङ्का दुर्गान्विता पुरा || ११५ || वलेः पुरं शोणिताख्यं तेजो दुर्गैः प्रतिष्ठितम् | तद् यस्माद् व्यजनाकारं मनोभ्रष्टः शिवावलिः || ११६ || सौभाग्यं साल्वराजस्य नगरं पंचकोणकम् | दिवि यद् वर्तते राज्यं तच्च भ्रष्टं भविष्यति || ११७ || यच्चायोध्याह्वयं भूप पुरमिक्ष्वाकुभूभृताम् | धनुराकृति तचापि ततोऽभूद् विजयप्रदम् || ११८ || दुर्गभूभौ यजेद् दुर्गां दिक्पालांश्चैव द्वारतः | पूजयित्वा विधानेन जयं भूपः समाप्नुयात् || ११९ || अतो दुर्गं नृपः कुर्यात् सततं जयवृद्धये | न ब्राह्मणान् सदा राजा केनाप्यवमनीकृतान् || १२० || अवमन्य नृपो विप्रान् प्रेत्येह दुःखभाग् भवेत् | न विरोधस्तु तै कार्यः स्वानि तेषां न चाददेत् || १२१ || कृत्यकालेषु सततं तानेव परिपूजयेत् | नैषां निन्दां प्रकुर्वीत नाभ्यसूयां तथाचरेत् || १२२ || एवं नृपो महाबुद्धिस्तत्त्वमण्डलसंयुतः | अप्रभादी चारचक्षुर्गुणवान् सुप्रियंवदः || १२३ || प्रेत्येह महतीं सिद्धिं प्राप्नोति सुखभोगवान् | यैर्गुणैर्योजितश्चात्मा तैः पुत्रानपि योजयेत् || १२४ || ऋपस्य च स्वतन्त्रत्वं सततं स्वं विनाशयेत् | स्वतन्त्रो भूपतनयो विकारं याति निश्चितम् || १२५ || निर्विकाराय सततं वृद्धांश्च परियोजयेत् | भोजने शयने याने पुरुषाणां च वीक्षणे || १२६ || वियोजयेत् सदा दारान् भूपः कामविचेष्टने | अस्वतन्त्राः स्त्रियः कार्याः सततं पार्थिवेन तु || १२७ || ताः स्वतन्त्राः स्त्रियो नित्यं हानये सम्भवन्ति हि | तस्मात् कुमारं महिषीमुपधाभिर्मनोहरैः || १२८ || शोधयित्वा नियुञ्जीत यौवराज्यावरोधयोः | अन्तःपुरप्रवेशे तु स्वतन्त्रत्वं निषेधयेत् || १२९ || भूपपुत्रस्य भार्याया बहिःसारे तथैव च | अयं विशेषः संक्षेपान्नृपधर्मो मयोदितः || १३० || पुत्राणां गुणविन्यासे भार्याणामपि भूपते | उशना राजनीतीनां तन्त्राणि तु बृहस्पतिः || १३१ || चकारान्यान् विशेषांस्तु तयोस्तन्त्रेषु बोधयेत् | एवं राजा महाभागे राजनीतौ विशेषताम् | कुर्वन्न सीदति सदा भूयसीं श्रियमश्नुते || १३२ || इति श्रीकालिकापुराणे नृपधर्मकथने अतुरशीतितमोऽध्यायः || ८४ || पञ्चाशीतितमोऽध्यायः और्व उवाच सदाचारेषु राजेन्द्र विशेषाञ् शृणु सम्प्रति | यानबश्यं नृपः कुर्यात् तान्मत्तः सकलाञ् शृणु || १ || साधवः क्षीणदोषाश्च सच्छब्दः साधुवाचकः | तेषामाचरणं यत् तत् सदाचारः स उच्यते || २ || आगमेषु पुराणेषु संहितासु यथोदितान् | समुद्दिष्टसदाचारान् गृह्णीयात् तान् गृहस्थवत् || ३ || ऋषीन् यजेद् वेदपाठैर्देवान् होमैः प्रपूजयेत् | श्राद्धैः पितृंस्तर्पयेत् तु भूतानि वलिभिस्तथा || ४ || मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् | सर्वं गृहस्थवत् कुर्यान्निषेकाद्यं विधिं तथा || ५ || षट्कर्मसु नियुञ्जीत राजा विप्रान् समन्ततः | तथैव क्षतिर्यादींश्च स्वे स्वे हर्मे नियोजयेत् || ६ || यः स्वधर्मं परित्यज्य परधर्मं समाचरेत् | तं शतेन नृपो दण्डं पुनस्तस्मिन् नियोजयेत् || ७ || सांवत्सरेषु कृत्येषु विशिष्यैतान् समाचरेत् | वश्यं पार्थिवो राजन् तान् विशेषाञ् शृणुष्व मे || ८ || शरत्काले महाष्टम्यां दुर्गायाः परिपूजनम् | नीराजनं दशम्यां तु कुर्याद् वै बलवृद्धये || ९ || पौषे मासि तृतीयायां कुर्यात् पुष्याभिषेचनम् | पूजयित्वा श्रियं देवीं अञ्चम्यां ऋपतिश्चरेत् || १० || श्रीयज्ञं धनधान्यस्य वृद्धये नृपसत्तम | ज्यैष्ठे दशहरायां तु विष्णोरिष्टिं तथाचरेत् || ११ || रवौ हरिस्थे द्वादश्यां शक्रपूजां समाचरेत् | विशिष्यैतांस्तु नृपतिः कुर्याद् यज्ञान् बहुव्ययैः || १२ || एभिः कृतैर्बलं राज्यं कोषश्चापि विवर्धते | अकृतेष्वेषु यज्ञेषु दुर्भिक्षं मरणं तथा || १३ || जायन्ते चेतयः सर्वा विशिष्यैतांस्ततश्चरेत् | शरत्काले महाष्टम्यां दुर्गायाः पूजने विधिः || १४ || पुरा प्रोक्तस्तु विधिना तेन कार्यं तु पूजनम् | विधिं नीराजनस्य त्वं शृणु पार्थिवसत्तम || १५ || कृतेन येन चाश्वानां गजानामपि अर्धनम् | आश्विने शुक्लपक्षै तु तृतीया स्वातीयोगिनी || १६ || ऐशान्यां स्वपुरस्यैव गृह्णीयात् स्थानमुत्तमम् | नीराजनं ततः कुर्यात् संप्राप्ते दिवसेऽष्तमे || १७ || नीराजनस्य कालस्तु पूर्वमुक्तो मया तव | विधानमात्रं शृणु मे कृतकृत्यो भविष्यसि || १८ || एकं हयं महासत्त्वं सुमनोहरमेव च | पूजयेत् सप्तदिवसान् गन्धपुष्पांशुकादिभिः || १९ || तृतीयादौ पूजयित्वा नयेत यज्ञमण्डलम् | चेष्टां निरूपयंस्तस्य जानीयात् तु शुभाशुभम् || २० || परराष्ट्रावमर्दः स्यादश्वो यदि पलायते | रियते राजपुत्रस्तु यदि चाश्रूणि मुञ्चति || २१ || नीयमानो न गच्छेत् तु महिषीमरणं ततः | तथैव मुखनासाक्षि शब्दं कुर्याद्धयो यदि || २२ || यः काष्ठाभिमुखः कुर्यात् तत् काष्ठायां जयेद्रिपून् | उत्क्षिप्य दक्षिणाग्रं तु पदमश्वो भवेत् पुरः || २३ || तदा यदि समस्तांश्च नृपतिर्विजयेद्रिपून् | प्रातर्नीराजनं कुर्याद् दशम्यां नृपसत्तम || २४ || तदप्राप्तौ च द्वादश्यां तस्यामेव समाचरेत् | कार्तिके पंचदश्यां वा तत्राभावे तु पार्थिव || २५ || ऐशान्यां स्वपुरस्योच्चैर्हस्तमानेन षोडश | दशहस्तं तु विपुलां कुर्याद् वै तत्र तोरणम् || २६ || द्वात्रिंशद्धस्तमात्रं तु हस्तषोडशविस्तृतम् | यज्ञार्थं मण्डलं कुर्यान्मध्ये वेदिं विनिर्दिशेत् || २७ || वेद्याश्चोत्तरतश्चाश्व वेदिं कुर्यादनुत्तमाम् | यत्र संस्थाप्य चाश्वश्च पूजितव्यः पुरोहितैः || २८ || सर्जोदुम्बरशाखानामर्जुनस्याथवा नृप | मत्स्यशङ्खाङ्कितैश्चक्रैर्ध्वजैश्चाप्यभिभूषयेत् || २९ || तोरणं कनकरत्नेस्तथा नानाविधैः फलैः | भल्लातकं शालिकुष्ठं सिद्ध्यर्थं सैन्धवस्य तु || ३० || कण्ठदेशे निबध्नीयात् पुष्टिशान्त्यर्थमेव च | वैष्णवं मण्डलं कृत्वा दिक्पालांश्च नवग्रहान् || ३१ || विश्वेदेवांस्तु मन्त्रेण विष्णुमुख्यान् प्रपूजयेत् | आज्यैस्तिलैश्च पुष्पैश्च मिश्रीकृत्य पुरोहितः || ३२ || रवेस्तु वरुणस्यैव प्रजेशस्य तथैव च | पुरुहूतस्य विष्णोश्च होमं सप्ताहमाचरेत् || ३३ || एकैकस्य सहस्रं वा अष्टोत्तरशतं च वा | कुर्यात् तु प्रत्यहं होमं चतुर्वर्गस्य सिद्धये || ३४ || समिधश्चापि होतव्याः पालाशाः खादिरास्तथा | औदुम्बर्यश्च काश्मर्या आश्वत्थाश्च पुरोधसा || ३५ || सौवर्णान् राजतान् वापि मार्तिकान् वा यथेच्छया | कुर्यात् तु कलशानष्टौ फलाम्राम्वरयोजितान् || ३६ || क्षिपेत् तेषु घटेष्वेव समङ्गहरितालकम् | चन्दनं च तथा कुष्ठं प्रियङ्गुं च मनःशिलाम् || ३७ || ञ्जनं च हरिद्रां च श्वेतां दन्तीं तथैव च | भल्लातकं पूर्णकोशं सहदेवीं शतावरीम् || ३८ || वचां सनागकुसुमां सोमराजीं सुगुप्तिकाम् | उत्थं च करवीरं च तुलसीदलमेव च || ३९ || एतानि निक्षिपेन्मध्ये कलशानां पुरोहितः | कनकरम्बुजैर्यज्ञदारुभिः स्रुक्स्रुवौ तथा || ४० || कर्तव्ये शान्तिकामेन नीराजनविधौ नृप | एवं सप्ताहपर्यन्तं पूजाभिर्हवनैस्तथा || ४१ || पूर्वोक्तान् पूजयित्वा तु नृपः सप्ताहमाचरेत् | यावन्नीराजनं कुर्यात् तावद्राजा वसेद् गृहे || ४२ || रात्रौ न यज्ञभूमौ तु निवसेच्छान्तिमिच्छुकः | नारोहयेत् तुरङ्गं तं गजं वा तत्र पार्थिवः || ४३ || यावत् सप्ताहपर्यन्तं यानेनान्येन वै व्रजेत् | भक्ष्यैर्नानाविधैश्चैव मधुपायसयावकैः || ४४ || मोदकैर्वा बलिं कुर्यादन्नव्यञ्जनसम्भवैः | पूर्वोक्तानां तु देवानां सप्ताहं यावदुत्तमम् || ४५ || सप्तमेऽह्नि तु रेभन्तं पूजयेत् तोरणान्तरे | सूर्यपुत्रं महाबाहुं द्विभुजं कवचोज्ज्वलम् || ४६ || ज्वलन्तं शुक्लवस्त्रेण केशानुद्ग्रथ्य वासवा | कशां वामकरे बिभ्रद् दक्षिणं तु करं पुनः || ४७ || स खड्गं न्यस्य आमायां सितसैन्धवसंस्थितम् | एवंविधं तु रेभन्तं प्रतिमायां घटेऽपि वा || ४८ || सूर्यपूजाविधानेन पूजयेत तोरणान्तरे | पूजयित्वा तु रेभन्त द्विरदं तुरगं तथा || ४९ || अहताम्बरसंवीतं स्रक्चन्दनसमन्वितम् | सुवर्णविद्धनिस्त्रिंशं विचित्रं कवचादिभिः || ५० || युक्तं तु होमकुण्डस्य ऐशान्यामश्ववेदिकाम् | पूर्वं कृतां नयेदश्वगजपालौ पृथक् पृथक् || ५१ || नीयमाने गजे चाश्वे पूर्वोक्तं तु निमित्तकम् | यत्नाद् वीक्षेत नृपतिः फलं चैवावधारयेत् || ५२ || होमकुण्डस्योत्तरस्यां वैयाघ्रे चर्मणि स्थितः | एदविदा चाश्वविदा सहितो वीक्ष्य सैन्धवम् || ५३ || नीताय तुरगायाशु भक्तपिण्डीं सुगन्धिनीम् | दद्यात् पुरोहितस्तत्र संमन्त्र्य शान्तिमन्त्रकैः || ५४ || भक्षणाद् यदि जिघ्रेत् तदश्नीयाद् वा हयः सच | तदा स्यात् सर्वकल्याणं विपरीतमतोऽन्यथा || ५५ || शाखामौदुम्बरीमाम्रीं सकुशां च घटोदके | आप्लाव्याप्लाव्य तुरगान् गजान् भूपं च सैनिकान् || ५६ || रथांश्च संस्पृशेन्मन्त्रैः शान्तिकैः पौष्टिकैस्तथा | सेचयेत् सहितैर्विप्रैश्चतुरङ्गं पुरोहितः || ५७ || दिक्पालानां ग्रहाणां च मन्त्रैश्च वैष्णवैस्तथा | बहुधा चाभिषिच्याथ ततः सौवर्ण अर्पणम् || ५८ || वीक्षयित्वा नृपं चर्त्विक् ततो मन्त्रिणमेव च | राजपुत्रं तथामात्यानन्यानपि च सैनिकान् || ५९ || कम्पयन् द्विजशार्दूलः सर्वानेव तु दर्शयेत् | चतुरंगस्य स्वस्यापि कृत्वैवं शान्तिपौष्टिके || ६० || मृन्मयं शात्रवं कृत्वा चाभिचारिकमन्त्रकैः | हृदि शूलेन विध्वा तं शिरं खड्गेन छेदयेत् || ६१ || आचार्यः कविकां पश्चादभिमन्त्र्य हयाय वै | ऐन्द्रैः प्राभाकरैर्मन्त्रैर्दद्याद् वक्त्रे स्वयं पुनः || ६२ || तमनेन तु मन्त्रेण समारुह्य नृपस्तदा | गच्छेदुत्तरपूर्वां तु दिशं सर्वैर्बलैर्युतः || ६३ || ऋत्विक् पुरोहिताचार्याः सर्व एव नृपं तदा | अनुगच्छेयुरन्यानि निमित्तानि विलोकितुम् || ६४ || वादित्रघोषैस्तुमुलैरातपत्रैर्वृतस्तथा | गच्छेन्निराजने राजा दारयन्निव मेदिनीम् || ६५ || मणिविद्रुममुक्तादि-स्वर्ण-रत्नैरलङ्कृतः | क्रोशमात्रं ततो गत्वा पूर्वद्वारेण पार्थिवः || ६६ || स्वपुरं प्रविशेद् विप्रैर्यज्ञं यायात् पुरोहितः | तत्र गत्वा दक्षिणां तु हिरण्यं गां तथा तिलम् || ६७ || दत्त्वा पश्चाद् द्विजेभ्यस्तु दद्याद् दानानि शक्तितः | एवं नीराजनं कृत्वा बलानांच् अ महीक्षितः || ६८ || प्रेत्येह सुस्थिरां लक्ष्मीं नृपतिः प्राप्नुयात् तथा | त्वमश्वामृतसञ्जात सागरोद्भव सैन्धव || ६९ || येन सत्येन बहसे शक्रं तेनेह मां वह | येन सत्येन रेभन्तं येन सत्येन भास्करम् || ७० || वहसे तेन सत्येन विजयाय वहस्व माम् | आभ्यां तु भूप मन्त्राभ्यामश्वारोहणमाचरेत् || ७१ || आरुह्याग्रे महिष्यास्तु शुद्धान्ते लम्बयेत् ततः | महिषी च ततो भूपं पर्यङ्कोपरि संस्थितम् || ७२ || दूर्वाक्षतैः ससिद्धार्थैः स्त्रीभिः सह तमर्चयेत् | कृते तु भूमिग्रहणे तृतीयायां निराजने || ७३ || सूतकं यदि जायेत तत्र दुष्यति केवलम् | सूतकी मृतकी वापि पार्थिवस्तु यथा तथा || ७४ || बलनीराजनं कुर्यात् तन्मात्रं च विशेषतः | सद्यः शौचं भवेद्राज्ञो व्यवहारविलोकने || ७५ || तथाधिवासने यज्ञे परराष्ट्रविमर्दने | अयं ते कथितो राजन्नीराजनक्रमो मया | पुष्यस्नानविधानं तु पार्थिव शृणु साम्प्रतम् || ७६ || इति श्रीकालिकापुराणे पञ्चाशीतितमोऽध्यायः || ८५ || षडशीतितमोऽध्यायः और्व उवाच - शृणु राजन् प्रवक्ष्यामि पुष्यस्नानविधिक्रमम् | येन विज्ञानमात्रेण विघ्ना नश्यन्ति सन्ततम् || १ || पौषे पुष्यर्क्षगे चन्द्रे पुष्यस्नानं नृपश्चरेत् | सौभाग्यकल्याणकरं दुर्भिक्षमरणापहम् || २ || विष्ट्यादिदुष्टकरणे व्यतीपाते च वैधृतौ | वज्रे शूले हर्षणादौ योगे तु यदि लभ्यते || ३ || तृतीयायुक्तपुष्यर्क्सं रविशौरिकुजेऽहनि | तदा समस्तदोषाणां तत् स्नानं हानिकारकम् || ४ || ग्रहदोषाश्च जायन्ते यदि राज्येषु चेतयः | तदा पुष्ये तु नक्षत्रे कुर्यान्मासान्तरेऽपि च || ५ || इयं तु ब्रह्मणा शान्तिरुद्दिष्टा गुरवे पुरा | शक्रादिसर्वदेवानां शान्त्यर्थंच् अ जगत्पतिः || ६ || तुषकेशास्थिवल्मीक-कीटदेशादिवर्जिते | शर्कराकृमिकुष्माण्ड-बहुकृष्टविवर्जिते || ७ || काकोलूकैश्च कङ्कैश्च काकालैर्गृध्रशौनकैः | बर्जिते कण्टकिवने विभीतकविवर्जिते || ८ || शिग्रुश्लेष्मातकाभ्यां तु जलौकाद्यैर्विवर्जिते | स्वस्थाने अम्पकाशोक-वकुलादिविराजिते || ९ || हंसकारण्डवाकीर्णे सरस्तीरेथवा शुचौ | पुष्यस्नानाय नृपतिर्गृह्णीयात् स्थानमुत्तमम् || १० || ततः पुरोहितो राजा नाना वादित्रनिःस्वनैः | प्रदोषसमये गच्छेत् तत् स्थानं पूर्ववासरे || ११ || तस्य स्थानस्य कौवेर्यां दिशि स्थित्वा पुरोहितः | सुगन्धचन्दनैः पानैः कर्पूराद्यधिवासितैः || १२ || गोरोचनाभिः सिद्धार्थैरक्षतैः सफलादिभिः | गन्धद्वारेत्यादिभिर्मन्त्रैः सर्वाधिसिक्तकैः || १३ || अधिवास्य तु तत्स्थानं पूजयेत् तत्र देवताः | गणेशं केशवं शक्रं ब्रह्माणं चापि शङ्करम् || १४ || उमया सहितं देवं सर्वाश्च गणदेवताः | मातृश्च पूजयेत् तत्र नृपतिः सपुरोहितः || १५ || मङ्गलान् कलशान् कृत्वा नानानैवेद्यसञ्चयान् | प्रदद्यात् पायसं स्वादुफलं मोदकयावकौ || १६ || अधिवास्य च तत् स्थानं दूर्वासिद्धार्थकाक्षतैः | तत्स्थानाच्चापि भूतानि सारयेन्मन्त्रमीरयन् || १७ || अपसर्पन्तु ते भूता ये भूता भूमिपालकाः | हूतानामविरोधेन स्नानकर्म करोम्यहम् || १८ || ततः करौ पुटीकृत्य मन्त्रेणानेन पार्थिवः | आवाहयेदिमान् देवान् पूज्यान् पुष्याभिषेकतः || १९ || आगच्छन्तु सुराः सर्वे येऽत्र पूजाभिलाषिणः | दिशो हि पालकाः सर्वे ये चान्येऽप्यंशभागिनः || २० || ततः पुष्पाञ्जलिं दत्त्वा पुनर्मन्त्रं पठेदिमम् | अद्य तिष्ठन्तु विबुधाः स्थानमासाद्य मामकम् || २१ || स्वपूजां प्राप्य पातारो दत्त्वा शान्तिं महीभुजे | ततस्तां नृपती रात्रिं नयेत् तु सपुरोहितः || २२ || स्वप्ने शुभाशुभं विद्यान्नृपस्तु सपुरोहितः | कृत्वा पूजां तु देवानां रात्रौ स्थाने नृपः स्वपेत् || २३ || शुभाशुभफलं स्वप्ने ज्ञेयं ओषज्ञसम्मते | दुःस्वप्नदर्शनं चेत् स्यात् तदा पुष्याभिषेचने || २४ || होमं चतुर्गुणं कुर्याद् दत्त्वा चापि गवां शतम् | गोवाजिकुंजराणां तु प्रासादस्य गिरेस्तत्रोः || २५ || आरोहणं शुभकर्ऽम् राज्यश्रीवृद्धिकारकम् | दधिदेवसुवर्णानां राह्मणस्य प्रदर्शनम् || २६ || वीणादूर्वाक्षतफलं पुष्पच्छत्रविलेपनम् | शीतांशु अक्रशंखानां पद्मस्य सुहृदस्तथा || २७ || लाभाः क्षयकराः शत्रौ रत्नाकरस्य भूभृतः | दर्शनं चोपरागस्य निगडेन च बन्धनम् || २८ || मांसस्य भोजनं चैव पर्वतस्य विवर्तनम् | आभिमध्ये तरूत्पत्तिर्मृतं प्रत्यनुरोदनम् || २९ || अगम्यागमनं कूप पङ्कगर्भावतीर्णता | पर्वतस्य तथा नद्याः रोतसां लङ्घनं तथा || ३० || स्वपुत्रमरणं चैव पानं रुधिरमद्ययोः | भोजनं पायसस्यापि मनुष्यारोहणं तथा || ३१ || कल्याणसुखसौभाग्य-राज्य-शत्रुक्षयं तथा | एते स्वप्नाः प्रकुर्वन्ति नृपस्य नृपसत्तम || ३२ || खरोष्ट्रमहिषाणां च आरोहो राज्यनाशनः | नृत्यं गीतं तथा हास्यं पाठश्चाप्यशुभप्रदः || ३३ || रक्तवस्त्रपरिधानं रक्तमालानुलेपनम् | रक्तां कृष्णां स्त्रियं चैव कामयन् मृत्युमाप्नुयात् || ३४ || कूपान्तरे प्रवेशः स्याद् दक्षिणाशागतिस्तथा | पङ्के निमज्जनं स्नानं भार्यापुत्रविनाशनम् || ३५ || लाभस्तस्य भवेत् स्वप्नेअप्यरुत्पत्तिर्नृपभ्य च | आदाय गर्भनाडीं तु सकुनो यातिहञ्जनः || ३६ || स तु राज्यान्तरं प्राप्य महाकल्याणमाप्नुयात् | दीर्घं विंशतिहस्तं तु हस्तषोडशविस्तृतम् || ३७ || कुर्यात् तु लक्षणोपेतं यज्ञमण्डलमुत्तमम् | ततोऽपरेऽह्नि पूर्वाह्णे मातृणां पूजनं चरेत् || ३८ || कुड्यलग्नां वसोर्धारां वृद्धिश्राद्धं तथैव च | चन्दनागुरुकस्तूरीधूमकर्पूरचूर्णकैः || ३९ || सम्पूज्य मण्डलस्थानं तस्मिन् ह्रौं शम्भवे नमः | अस्त्राय हुं फडित्येवं लिखेन्मन्त्रद्वयं बुधः || ४० || मन्त्रविन्मण्डलज्ञश्च सूत्रैः कम्बलसम्भवैः | कौशेयैर्वा स्वस्तिकाख्यं प्रथमं मण्डलं लिखेत् || ४१ || चतुर्हस्तप्रमाणं तु मण्डलं विलिखेत् ततः | हस्तप्रमाणं पद्मं तु मण्डलस्य प्रकीर्तितम् || ४२ || द्वाराणि सार्धहस्तानि कर्णिकाकेशरोज्ज्वलम् | सितं रक्तं च पीतं च कृष्णं हरितमेव च || ४३ || शालिचूर्णैश्च कौसुम्भैर्हारिद्रैर्हरिदुद्भवैः | कुर्यात् तथाञ्जनैश्चूर्णै राजा मण्डलवृद्धये || ४४ || पद्मान्ततः समाअभ्य तालं पश्चिमगामिनम् | पश्चिमद्वारमध्ये च सतपत्रं विनिर्दिशेत् || ४५ || प्रत्येकं द्वारमध्ये तु पद्मं चैवाष्टपत्रकम् | कुर्यान्मण्डलभागज्ञश्चूर्णैरेव पृथक् पृथक् || ४६ || चूर्णैस्तु मण्डलं कृत्वा सूत्राण्युत्सारयेत् ततः | उत्सार्य सूत्रं प्रथमं मण्डलं पूजयेत् ततः || ४७ || हवनाय नम इति ततो हस्तं वियोजयेत् | सव्यावलम्बहस्तं तु रजःपात्रं समाचरेत् || ४८ || मध्यमानामिकाङ्गुष्ठैरुपरिष्टाद् यथेच्छया | अधोमुखाङ्गुलीः कृत्वा पातयेच्च विचक्षणः || ४९ || समारेखा तु कर्तव्या विच्छित्रा पुष्परञ्जिता | अङ्गुष्ठपर्वनैपुण्यात् समा कार्या विजानता || ५० || संसक्तविषमं स्थूलं विच्छिन्नं कृसरकृतिम् | पर्यन्तमर्पितं ह्रस्वमालिखेन्न कदाचन || ५१ || संसक्ते कलहं विद्यादूर्ध्व रेखे तु विग्रहम् | अतिस्थूले भवेद् व्याधिर्नित्यं पीडाविमिश्रिते || ५२ || बिन्दुभिर्भयमाप्नोति शत्रुपक्षान्न संशयः | कृशायां चार्थहानि स्याच्छिन्नायां मरणं ध्रुवम् || ५३ || वियोगो वा भवेत् तस्य इष्टद्रव्यसुतस्य वा | अविदित्वा लिखेद् यस्तु मण्डलं तु यथेच्छया || ५४ || सर्वदोषानवाप्नोति ये दोषाः ऊर्वमीरिताः | सितसर्षपदूर्वाया रेखाः कार्या विजानता || ५५ || विमलं विजयं भद्रं विमानं शुभदं शिवम् | वर्धमानं च देवं च शताक्षं कामदायकम् || ५६ || रुचिकं स्वस्तिकं चैव द्वादशैते तु मण्डलाः | यथास्थानं यथायज्ञं योजनीया विचक्षणैः || ५७ || सागरे मध्यमाने तु पीयूषार्थं सुरोत्करैः | पीयूषधारणार्थाय निर्मिता विश्वकर्मणा || ५८ || कलां कलां तु देवानामसित्वा ते पृथक् पृथक् | यतः कृतास्तु कलसास्ततस्ते परिकीर्तिताः || ५९ || नवैव कलसाः प्रोक्ता नामतस्तान्निबोधत | गोह्योपगोह्यो मरुतो मयूखश्च तथापरः || ६० || मनोहाचार्यभद्रश्च विजयस्तनु दूषकः | इन्द्रियघ्नोऽथ विजयो नवमः परिकीर्तितः || ६१ || तेषामेव क्रमाद् भूप नव नामानि यानि तु | शृणु तान्यपराण्येव शान्तिदानि सदैव हि || ६२ || क्षितीन्द्रः प्रथमः प्रोक्तो द्वितीयो जलसम्भवः | पवनाग्नी ततो द्वे तु यजमनस्ततः परः || ६३ || कोषसम्भवाम्ना तु षष्ठः स परिकीर्तितः | सोमस्तु सप्तमः प्रोक्त आदित्यस्तु तथाष्टमः || ६४ || विजयो नाम कलसो योऽसौ नवम उच्यते | स तु पंचमुखः प्रोक्तो महादेवस्वरूपधृक् || ६५ || घटस्य पञ्चवक्त्रेषु पञ्चवक्त्रः स्वयं तथा | यथाकाष्ठां स्थितः सम्यग् वामदेवादिनामतः || ६६ || मण्डलस्य तु पद्मान्ते पञ्चवक्त्रं घटं न्यसेत् | क्षितीन्द्रं पूर्वतो न्यस्य पश्चिमे जलसम्भवम् || ६७ || वायव्ये वायवं न्यस्य आग्नेये ह्यग्निसम्भवम् | नैर्-ऋत्ये यजमानं तु ऐशान्यां कोषसम्भवम् || ६८ || सोममुत्तरतो योज्यं सौरं दक्षिणतो न्यसेत् | न्यस्यैवं कलसांश्चैव तेषु चैतान् विचिन्तयेत् || ६९ || कलसानां मुखे ब्रह्मा ग्रीवायां शङ्करः स्थितः | मूले तु संस्थितो विष्णुर्मध्ये मातृगणाः स्थिताः || ७० || दिक्पाला देवताः सर्वा वेष्टयन्ति दिशो दश | कुक्षौ तु सागराः सप्त सप्तद्वीपाश्च संस्थिताः || ७१ || नक्षत्राणि ग्रहाः सर्वे तथैव कुलपर्वताः | गङ्गाद्याः सरितः सर्वा वेदाश्चत्वार एव च || ७२ || कलसे संस्थिताः सर्वे तेषु तानि विचिन्तयेत् | अत्नानि सर्वबीजानि पुष्पाणि च फलानि च || ७३ || वज्रमौक्तिकवैदूर्यमहापद्मेन्द्रस्फाटिकैः | सर्वधाममयं बिल्वं नागरोदुम्बर तथा || ७४ || बीजपूरकजम्बीरकाश्मीराम्रातदाडिमम् | यवं शालिं च नीवारं गोधूमं सितसर्षपम् || ७५ || कुङ्कुमागुरुकर्पूरमदनं रोचनं तथा | चन्दनं च तथा मांसीमेलां कुष्ठं तथैव च || ७६ || अस्तूरीपत्रचूर्णं च जलनिर्यासकाम्बुदम् | शैलेयं बदरं जातीपत्रपुष्पे तथैव च || ७७ || कालशाकं तथा पृक्का देवीपर्णकमेव च | वचां धात्रीं समञ्जिष्ठां तुरुष्कं मङ्गलाष्टकम् || ७८ || दूर्वां मोहनिकां भद्रां शतमूलीं शतावरीम् | अर्णानां सरलां क्षुद्रां सहदेवीं गजाह्वयाम् || ७९ || पूर्णकोषां सितां पीठां गुञ्जां शिरसिकानलौ | व्यामकं गजदन्तं च शतपुष्पं पुनर्नबाम् || ८० || ब्राह्मीं देवीं शिवां रुद्रां सर्वसन्धानिकां तथा | समाहृत्य शुभानेतान् कलसेषु निधार्पयेत् || ८१ || कलसस्य यथादेशं विधिं शम्भुं गदाधरम् | यथाक्रमं पूजयित्वा शम्भु मुख्यतया यजेत् || ८२ || प्रासादेन तु मन्त्रेण शम्भुं तन्त्रेण शङ्करम् | प्रथमं पूजयेन्मध्ये नाना नैवेद्यवेदनैः || ८३ || दिक्पालानां घटेष्वेव दिक्पालानपि पूजयेत् | पूर्वं बहिः स्थापितेषु ग्रहाणां कलसेषु च || ८४ || नवग्रहान् पूजयेत् तु मातृर्मातृघटेषु च | सर्वे देवा घटे पूज्या घटास्तेषां पृथक् पृथक् || ८५ || नवैव तत्र पूर्वोक्ताः स्मृता मुख्यतया नृप | भक्ष्यैर्भोज्यैश्च पेयैश्च पुष्पैर्नानाविधैः फलैः || ८६ || यावकैः पायसैश्चैव यथासम्भवयोजितैः | पुष्यस्नानाय नृपतिः पूजयेत् सकलान् सुरान् || ८७ || दक्षिणे मण्डलस्याथ कुण्डं निर्माय पायसैः | समिद्भिः शालिसिद्धार्थैर्घृतैर्दूर्वाक्षतैस्तथा || ८८ || केवलैश्च तथैवाज्यैः पूजितान् सकलान् सुरान् | होमेन तोषयेद् वृद्ध्यै नृपः सत्विक्पुरोहितः || ८९ || होमान्ते मण्डलोदीच्यां वेदिकायां सपट्टकम् | रोचनाख्यमलंकारांस्तथा सर्वान् नियोजयेत् || ९० || वृद्धावङ्गुलमङ्गुल्या षड्विंशाङ्गुलिकावधि | वृत्तं वा चतुरस्रं वा पद्मं त्रिकोणसंज्ञकम् || ९१ || रत्नेशान् पद्ममध्ये तु गोमुष्टिकविनायकैः | श्रीश्रीवृक्षवरारोहामुमादेवीं शुभान्विताम् || ९२ || रत्नैः सर्वैरलङ्कारैः पट्टं कार्यं द्विहस्तकम् | हस्तविस्तारमुच्छ्रायं नवहस्तं दशाङ्गुलम् || ९३ || स्नानार्थं सार्धहस्तं च पट्टं वृत्तं गुणान्वितम् | शयया चतुर्गुणा दीर्घा धनुर्मानं तु पीठकम् || ९४ || गजसिंहकृताटोपं हेमरत्नविभूषितम् | सिंहाख्यं सार्धविस्ताराद् दण्डासनमथापि वा || ९५ || व्याघ्रचित्रकपट्टैर्वा उपधानानि कारयेत् | अन्यैर्वा निर्मितां चर्ममृदुतूलकपूरिता || ९६ || शयया दीर्घार्घविस्तीर्णा चतुर्हस्ता सुलक्षणा | वितस्त्यधिकमिच्छन्ति नृपस्य गुरुविद्यया || ९७ || अर्धचन्द्रसमं कुर्यादासनं चतुरस्रकम् | उपधानानि शययायाः कर्णादिमूलभेदतः || ९८ || षोडशैवात्र कार्याणि वर्णचित्रयुतानि च | यानं सिंहासन पट्टं शययोपकरणादिकम् || ९९ || राज्ञो नूतनयोग्यं तद् वेद्या उत्तरतो न्यसेत् | तेषां तु पश्चिमे स्वर्णरत्नौघखचिते वरे || १०० || पर्यङ्के यज्ञदार्वौघनिर्मिते महदास्तरे | र्धाच्छादनसंयुक्ते चर्मावृतचतुष्टये || १०१ || वृषभस्य तथोर्णायाः सिंहशार्दुलयोरपि | पादपीठे रत्नयुते पादावारोप्य पार्थिवः || १०२ || अस्मिन् पर्यङ्कपीठस्थे चर्मावृतचतुष्टय | नानालङ्कारभूषाढ्यं नृपतिं रत्नशालिनम् || १०३ || स्नापयेद् ब्राह्मणैः सार्धं राजानं सुखसङ्गतम् | संवितकम्बलं कृष्णं अहुवस्त्रैश्च शौभितम् || १०४ || कलसेवलिपुष्पाद्यैः सालिचूर्णैश्च स्नापयेत् | ष्टौ षौडश विंशाष्टशतमधिकं च वा || १०५ || कलसानां समाख्याता अधिकस्योत्तरोत्तरम् | जयकल्याणदैर्मन्त्रैर्मङ्गलोत्थैश्च शाम्भवैः || १०६ || वैष्णवैरथ दिक्पालैर्ग्रहमन्त्रैश्च मातृकैः | आज्यं तेजः समुद्दृष्टमाज्यं पापहरं परम् || १०७ || आज्यं सुराणामाहारप्राज्ये लोकाः प्रतिष्ठिताः | हौमान्तरिक्षं दिव्यं वा यत् ते कल्पमषमागतम् || १०८ || सर्वं तदाज्यसंस्पर्शात् प्रणाशमुपगच्छतु | ततोऽपनीयगात्रात् तु कम्बलं वस्त्रमेव च || १०९ || कलसैः स्नापयेद् भूपं पुष्पस्नानीयपूरितैः | एभैर्मन्त्रैर्नरश्रेष्ठ तनुतत्त्वार्थसाधकैः || ११० || उरास्त्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः | ब्रह्मा विष्णुश्च रुद्राश्च साध्याश्च समरुद्गणाः || १११ || आदित्या वसवो रुद्रा अश्विनौ यो भिषग्वरौ | अदितिर्देवमाता च स्वाहा लक्ष्मीः सरस्वती || ११२ || कीर्तिर्लक्ष्मीर्घृतिः श्रीश्च सिनीवाली कुहूस्तथा | दितिश्च सुरसा चैव विनता कद्रुरेव च || ११३ || देवपत्नयश्च याः प्रोक्ता देवमातर एव च | सर्वास्त्वामषिञ्चन्तु सिद्धाश्चाप्स्रसां गणाः || ११४ || नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्रसन्धयः | संवत्सरा निमेषाश्च कलाः काष्ठाः क्षणा लवाः || ११५ || सर्वे त्वामभिषिञ्चन्तु कालस्यावयवस्तथा | वैमानिकाः सुरगणा मनवः सागरैः सह || ११६ || सरितश्च महानागा नागाः किंपुरुषास्तथा | वैखानसा महाभागा द्विजा वैहायसाश्च ये || ११७ || सप्तर्षयः सदाराश्च ध्रुवस्थानानि यानि तु | मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः || ११८ || भृगुः सनत्कुमारश्च सनकश्च सनन्दनः | सनातनश्च दक्षश्च जैगीषव्योऽभिनन्दनः || ११९ || एकतश्च द्वितश्चैव त्रितो जावालिकाश्यपौ | दुर्वासा दुर्विनीतश्च कण्वः कात्यायनस्तथा || १२० || मार्कण्डेयो दीर्घतमाः शुनःशेफो विदूरथः | और्वः संवर्तकश्चैव च्यवनोऽत्रिः पराशरः || १२१ || द्वैपायनो यवक्रीतो देवरातः सहात्मजः | एते चान्ये च बहवो वेदव्रतपरायणाः || १२२ || सशिष्यास्तेऽभिषिञ्चन्तु सदाराश्च तपोधनाः | पर्वतास्तरवो नद्यः पुण्यान्यायततनानि च || १२३ || प्रजापतिः क्षितिश्चैव गावो विश्वस्य मातरः | वाहनानि च दिव्यानि सर्वे लोकाश्चराचराः || १२४ || अग्नयः पितरस्तारा जीमूताः खं दिशो जलम् | एते चान्ये च बहवः पुण्यसंकीर्तनाः शुभाः || १२५ || तोयैस्त्वामभिषिञ्चन्तु सर्वोत्पातनिबर्हणैः | इत्येवं शुभदैरेतैर्दिव्यर्मन्त्रैस्तथापरैः || १२६ || सोरैर्नारायणै रौद्रैर्बह्मशक्रसमुद्भवैः | आपोहिष्ठा हिरण्येति सम्भवेति सुरेति च || १२७ || मानस्तोकेति मन्त्रेण गन्धद्वारेत्यनेन च | सर्वमंगलमांगल्ये श्रीश्च ते ग्रहयोगिभिः || ११८ || इत्येवं स्नानमासाद्य गात्रमावृत्य कम्बलैः | सर्वमंगलमन्त्रेण वस्त्रं कार्पासकं ध्रियात् || १२९ || आचम्य च ततो देवान् गुरुं विप्रांश्च पूजयेत् | ध्वजच्छत्रं चामरं च घण्टां चाश्वान् गजांस्तथा || १३० || मन्त्रं जप्त्वा धारयेत् तु ततो गच्छेद्धुताशनम् | तत्र गत्वा वह्निमध्ये वह्नेः श्रीर्वीक्ष्य पार्थिवः || १३१ || इमित्तान्यनिमित्तानि लक्षयेत् तत्र बिन्दुभिः | दैवज्ञकञ्चुक्यमात्यवन्दिपौरजनैर्वृतः || १३२ || वादित्रघोषैस्तुमलैस्तथा तौर्यत्रिकैः शुभैः | कृत्वा शेषे पुनः शान्तिमाशीर्वाच्य च वै द्विजान् || १३३ || पूर्णां विधाय विधिवद् दक्षिणां कनकान्विताम् | धान्यानि चाथ वासांसि दत्त्वा कुर्याद् विसर्जनम् || १३४ || ततः शेषजलैः सर्वानमात्यादीन् पुरोहितः | सेचयेच्चतुरङ्गं च बलं चापि सराष्ट्रकम् || १३५ || एवं कृत्वा नृपः पश्चात् त्रिरात्रं संयतो भवेत् | मांसमैथुनहीनश्च कुर्यान्माङ्गल्यसेवनम् || १३६ || पुष्यनक्षत्रयुक्ता तु तृतीया यदि लभ्यते | तस्यां पूज्या सदा देवी चण्डिका शंकरेण ह || १३७ || पाञ्चालिकाविहाराद्यैः शिशूनां कौतुकैस्तथा | वैवाहिकेन विधिना मोहयेच्चण्डिकां शिवाम् || १३८ || चतुष्पथेषु सर्वेषु देवदेवीगहेषु च | पताकाभिरलं कुर्यादेवं कुर्वन्न सीदति || १३९ || एवं कृत्वा शान्तियागं तथा पुष्याभिषेचनम् | चतुरङ्गैः समं राजा भार्यभिस्तु नरैः सह || १४० || राज्यमण्डलसंयुक्तः परत्रेह न सीदति | नातः परतरो यज्ञो नातः परतरोत्सवः || १४१ || नातः परतरा शान्तिर्नातः परतरं शिवम् | अनेनैव विधानेन नृपतेरभिषेचनम् || १४२ || युवराज्याभिषेकं च कुर्याद्राजपुरोहितः | नृपाभिषेककरणमादौ यदि समाचरेत् || १४३ || अनेनैव विधानेन स्थिरः स्यान्नृपतिस्तदा | अयं यज्ञः समुद्दिष्टः शक्रार्थं ब्रह्मणा पुरा | एवं यज्ञं नृपः कृत्वा परत्रेह न सीदति || १४४ || इति श्रीकालिकापुराणे षडशीतितमोऽध्यायः || ८६ || सप्ताशीतितमोऽध्यायः और्व उवाच - अथातः शृणु राजेन्द्र शकोत्थानं ध्वजोत्सवम् | यत् कृत्वा नृपतिर्याति न कदाचित् पराभवम् || १ || रवौ हरिस्थे द्वादश्यां श्रवणेन विडौजसम् | अराधयेन्नपः सम्यक् सर्वविघ्नोपशान्तये || २ || राजोपरिर्चरो नाम वसुनामापरस्तु यः | नृपस्तेनायमतुलो यज्ञः प्रावर्तितः पुरा || ३ || प्रावृट्काले च नभसि द्वादश्यामसितेतरे | पुराहितो वहुविधैर्वाद्यस्तूर्यैः समन्वितः || ४ || प्रथमं शककेत्वर्थ वृक्षमामन्त्र्य वर्धयेत् | आंवत्सरो वार्धंकिश्च कृतमङ्गलकौतुकः || ५ || उद्याने देवतागारे श्मशाने मार्गमध्यतः | ये जातास्तरवस्तांस्तु वर्जयेद् वासवध्वजे || ६ || बहुवल्लीयुतं शुष्कं बहुकण्टकसंयुतम् | कुब्जं वृक्षादनीयुक्तं लताच्छन्नतरुअं त्यजेत् || ७ || पक्षिवाससमाकीर्णं कोटरैर्बहुभिर्युतम् | पवनानलविध्वस्तं तरुं यत्नेन वर्जयेत् || ८ || नारीसंज्ञाश्च ये वृक्षा अतिह्रस्वा अतिकृशाः | तान् सदा वर्जयेद् धीरः सर्वदा शक्रपूजने || ९ || अर्जुनोऽप्यश्वकर्णश्च वटः प्रियकोषक श्च | औदुम्बरश्च पंचैते केत्वर्थे ह्युत्तमाः स्मृताः || १० || अन्ये च देवदार्वाद्याः शालाद्यास्तरवस्तथा | प्रशस्तास्तु परिग्राह्या नाप्रशस्ताः कदाचन || ११ || धृत्वा वृक्षं ततो रात्रौ स्पृष्ट्वा मन्त्रमिमं पठेत् | यानि वृक्षेषु भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः || १२ || उपहारं गृहीत्वेमं क्रियतां वासवध्वजम् | पार्थिवस्त्वां वरयते स्वस्ति तेऽस्तु नगोत्तम || १३ || ध्वजार्थं देवराजस्य पूजेयं प्रतिगृह्यताम् | ततोऽपरेऽह्नि तं छित्त्वा मूलमष्टांगुलं पुनः || १४ || जले क्षिपेत् तथाग्रस्य छित्वैव चतुरङ्गुलम् | ततो नीत्वा पुरद्वारं केतुं निर्माय तत्र वै || १५ || शुक्लाष्टम्यां भाद्रपदे केतुं वेदीं प्रवेशयेत् | द्वाविंशद्धस्तमानस्तु अधमः केतुरुच्यते || १६ || द्वात्रिंशत् तु ततो ज्यायान् द्वाचत्वारिंशदेव च | ततोऽधिकः समाख्यातो द्वापञ्चाशत् तथोत्तमः || १७ || कुमार्यः पञ्च कर्तव्याः शक्रस्य नृपसत्तम | शलमययस्तु ताः सर्वा अपराः शक्रमातृकाः || १८ || केतोः पादप्रमाणेन कार्याः शक्रकुमारिकाः | मातृकार्धप्रमाणास्तु यन्त्रं हस्तद्वयं तथा || १९ || एवं कृत्वा कुमारीश्च मातृकाः केतुमेव च | एकादश्यां सिते पक्षे यष्टिं तामधिवासयेत् || २० || अधिवास्य ततो यष्टिं गन्धद्वारादिमन्त्रकैः | द्वादश्यां मण्डलं कृत्वा वासवं विस्तृतात्मकम् || २१ || अच्युतं पूजयित्वा तु शक्रं पश्चात् प्रपूजयेत् | शक्रस्य प्रतिमां कुर्यात् काञ्चनीं दाखीं च वा || २२ || अन्यतैजससम्भूतां सर्वाभावे तु मृन्मयीम् | तां मण्डलस्य मध्ये तु पूजयित्वा विशेषतः || २३ || ततः शुभे मुहूर्ते तु केतुमुत्थापयेन्नृपः | वज्रहस्त सुरारुघ्न बहुनेत्र पुरन्दर | क्षेमार्थं सर्वलोकानां पूजेयं प्रतिगृह्यताम् || २४ || एह्येहि सर्वामरसिद्धसङ्घैरभिष्टुतो वज्रधरामरेश | समुत्थितस्त्वं श्रवणाद्यपादे गृहाण पूजां भगवन्नमस्ते || २५ || एवमुत्तरतन्त्रोक्तैर्दहनप्लवनादिभिः | इति मन्त्रेण तन्त्रेण नानामैवेद्यवेदनैः || २६ || अपपैः पायसैः पानैर्गुडैर्धानाभिरेव च | भक्ष्यैर्भोज्यैश्च विविधैः पूजयेच्छ्रीविवृद्धये || २७ || घटे तु दशदिक्पालान् ग्रहांश्च परिपूजयेत् | साध्यादीन् सकलान् देवान् मातृः सर्वा अनुक्रमात् || २८ || ततः शुभे मुहूर्ते तु ज्ञानिवर्धकिसंयुतः | केतूत्थापनभूमिं तु यज्ञवेद्यास्तु पश्चिमे || २९ || विप्रैः पुरोहितैः सार्धं गच्छेद्राजा सुमंगलैः | रज्जुभिः पंचभिर्बद्धं यन्त्रश्लिष्टं समातृकम् || ३० || कुमारीभिस्तु संयुक्तं दिक्पालानां च पट्टकैः | बृहद्भिरतिकान्तैश्च नानाद्रव्यैः सुपूरितैः || ३१ || यथावर्णैर्यथादेशे योजितैर्वस्त्रवेष्टितैः | युक्तं तं किङ्किणीजालैर्बृहद्घण्टौघचामरै || ३२ || भूषितं मुकुरैरुच्चिअर्माल्यैर्बहुविधैस्तथा | बहुपुष्पैः सुगन्धैश्च भूषितं रत्नमालया || ३३ || चितमाल्याम्बरैश्चैव चतुर्भिरपि तोरणैः | उत्थापयेन्महाकेतुं राजकीयै शनैः शनैः || ३४ || तमुत्थाय महाकेतुं पूजितं मण्डलान्तरे | प्रतिमां तां नयेन्मूलं केतोः शक्रं विचिन्तयन् || ३५ || यजेत् तं पूर्ववत् तत्र शचीं मातलिमेव च | जयन्तं तनयं तस्य वज्रमैरावतं तथा || ३६ || ग्रहांश्चाप्यथ दिक्पालान् सर्वाश्च गणदेवताः | अपूपाद्यैः पूतयेत् तु वलिभिः पायसादिभिः || ३७ || पूजितानां च देवानां शश्वद्धोमं समाचरेत् | होमान्ते तु बलिं दद्याद् वासवाय महात्मने || ३८ || तिलं घृतं चाक्षतं च पूष्पं दूर्वां तथैव च | एतैस्तु जुहुयाद् देवान् स्वैः स्वैर्मन्त्रैर्नरोत्तम || ३९ || ततो होमावसाने तु भोजयेद् ब्राह्मणानपि | एवं सम्पूजयेन्नित्यं सप्तरात्रं दिने दिने || ४० || ब्राह्मणैः सहिता राजा वेदवेदांगपारगैः | सर्वत्र शक्रपूजासु यज्ञेसु परिकीर्तितः || ४१ || त्रातारमिति मन्त्रोऽयं वासवस्य प्रियः परः | एवं कृत्वा दिवाभागे शक्रोत्थापनमादितः || ४२ || श्रवणर्क्षयुतायां तु द्वादश्यां पार्थिवः स्वयम् | अन्त्यपादे भरण्यां तु निशि शक्रं विसर्जयेत् || ४३ || सुप्तेषु सर्वलोकेषु यथा राजा न पश्यति | षण्मासान्मृत्युमाप्नोति राजा दृष्ट्वा विसर्जनम् || ४४ || शक्रस्य नृपशार्दूल तस्मान्नेक्षेत तन्नपः | विसर्जनस्य मन्त्रोऽयं पुराविद्भिरुदीरितः || ४५ || सार्धं सुरासुरगणैः पुरन्दर शतक्रतो | उपहारं गृहीत्वेम महेन्द्रध्वज गम्यताम् || ४६ || सूतके तु समुत्पन्ने वारे भौमस्य वा शनैः | भूमिकम्पादिकोत्पाते वासवं न विसर्जयेत् || ४७ || उत्पाते सप्तरात्रं तु तथोपप्लवदर्शने | व्यतीत्य शनिभौमौ च ह्यन्यर्क्षेऽपि विसर्जयेत् || ४८ || सूतके त्वथ संप्राप्ते व्यतीते सूतके पुनः | यस्मिन् तस्मिन् द्ने चैव सूतकान्ते विसर्जयेत् || ४९ || तथा केतुं नृपो रक्षेत् पतन्ति शकुना यथा | न केतौ नृपशार्दूल यावन्नहि विसर्जनम् || ५० || शनैः शनैः पातयेत् तु यथोत्थापनमादितः | कृतं तथा यथा भग्ने केतौ मृत्युमवाप्नुयात् || ५१ || विसृष्टं शक्रकेतुं तु सालङ्कारं तथा निशि | क्षिपेदनेन मन्त्रेण त्वगाधे सलिले नृप || ५२ || तिष्ठ केतो महाभाग यावत् संवत्सरं जले | भवाय सर्वलोकानामन्तराय विनाशक || ५३ || उत्थपयेत् तूर्यरवैः सर्वलोकस्य वै पुरः | रहो विसर्जयेत् केतुं विशेषो यः प्रपूजने || ५४ || एवं यः कुरुते पूजां वासवस्य महात्मनः | स चिरं पृथिवीं भुक्त्वा वासवं लोकमाप्नुयात् || ५५ || न तस्य राज्ये दुर्भिक्षं नाधयो व्याधयः क्वचित् | स्थास्यन्ति मृत्युर्नाकाले जनानां तत्र जायते || ५६ || तत्तुल्यः कोऽपि नान्योऽस्ति प्रियः शक्रस्य पार्थिव | तस्य पूजा सर्वपूजा केशवाद्याश्च तत्रगाः || ५७ || सकलकलुषहारि व्याधिदुर्भिक्षनाशं सकलभवनिवेशं सर्वसौभाग्यकारि | सुरपतिगृहगाभिर्वार्चनं शक्रकेतोः प्रतिशरदमनेकैः पूजयेच्छ्रीविवृद्धयै || ५८ || इति श्रीकालिकापुराणे सप्ताशीतितमोऽध्यायः || ८७ || अष्टाशीतितमोऽध्यायः और्व उवाच - ज्येष्ठ दशहरायां तु विष्णोरिष्टिं नृप शृणु | येन वा विधिना कुर्यादिष्टिं विष्नोर्नृपः सदा || १ || प्रत्यब्दं पार्थिवः कुर्यात् प्रतिमां काञ्चनीं हरेः | अन्यतेजीमयीं वापि दारवीं वा शिलामयीम् || २ || तां प्रतिष्ठाप्य विधिना मानोन्मानैस्तु शिल्पिभिः | प्रतिष्ठां विधिवत् तस्याः कुर्याद् विप्रैः पुरोहितैः || ३ || तां संस्थाप्य सुरागारे स्वयं वा यत्नतः कृते | वासुदेवस्य बीजेन पूर्वोक्तविधिना तथा || ४ || सर्वोपचारैर्भक्त्या नु वासुदेवं प्रपूजयेत् | पूजान्ते संस्कृते वह्नौ कुण्डमध्ये स्थितो द्विजः || ५ || आज्यैः सहस्रं जुहुयादाहुतीनां हरेः प्रियम् | संपूज्य वासुदेवं तु होमं कृत्वा ततो द्विजः || ६ || नृपस्यानुमते तां तु प्रतिमां मण्डलं नयेत् | प्रतिमायाः कपोलौ द्वौ स्पृष्ट्वा दक्षिणपाणिना || ७ || प्राणप्रतिष्ठां कुर्वीत तस्यां देवस्य वै हरेः | कृतायां तु प्रतिष्ठायां प्राणानां नृपसत्तम || ८ || विष्णुप्राणास्तां प्रतिमामायान्ति नियतं स्वयम् | प्राणेष्वथागतेष्वस्यां देवत्वं नियतं भवेत् || ९ || अकृतायां प्रतिष्ठायां प्राणानां प्रतिमासु च | यथापूर्वं तथाभावः स्वर्णादीनां न विष्णुता || १० || अन्येषामपि देवानां प्रतिमास्वपि पार्थिव | प्राणप्रतिष्ठा कर्तव्या तस्या देवत्वसिद्धये || ११ || सुवर्णं तु सुवर्णं स्याच्छिला दारु तथा शिला | अन्यच्च स्वस्वरूपं स्यात् प्राणस्थानमृते सदा || १२ || वासुदेवस्य बीजेन तद् विष्णोरित्यनेन च | तथैवाङ्गाङ्गिमन्त्राभ्यां प्रतिष्ठामाचरेद्धरेः || १३ || तथैव हृदयेऽङ्गुष्ठं दत्त्वा शश्वच्च मन्त्रवित् | एभिर्मन्त्रैः प्रतिष्ठाप्य हृदयेऽपि समाचरेत् || १४ || अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु यत् | असौ देवत्वसंख्यायै स्वाहेति यजुरुच्चरन् || १५ || अङ्गमन्त्रैरङ्गिमन्त्रैर्वैदिकैरित्यनेन च | प्राणप्रतिष्ठां सर्वत्र प्रतिमासु समाचरेत् || १६ || प्रतिमापूजने कुर्यादात्मन्यपि च मन्त्रवित् | प्राणप्रतिष्ठां प्रथमं पूजाभागविशुद्धये || १७ || अस्मिन् प्राणप्रतिष्ठां तु प्रतिमापूजनादृते | न कश्चित् तु बुधः कुर्यात् कृत्वा मृत्युमवाप्नुयात् || १८ || विष्णोरिष्टिमिमां कृत्वा दशम्यां पार्थिवोत्तमः | तस्यामेव तु पूर्णायां प्रतिमां स्थापयेत् ततः || १९ || एवं दशहरायां तु कृत्वेष्टिं पार्थिवो हरेः | सर्वान् कामानवाप्नोति निर्विघ्नोऽपि स जायते || २० || श्रीपंचम्यां श्रियं देवीं कुन्दैः संपूजयेत्सदा | वासवं गजराजस्थमुपहारैस्तथोत्तमैः || २१ || लक्ष्म्यास्तन्त्रं महामन्त्रं वासवस्य पुरोदितम् | अत्रापि पूजने ग्राह्यं मण्डलादि यथाक्रमम् || २२ || एवं कृते पूजने तु श्रीपंचम्यां विशेषतः | श्रीयुतो नृपतिर्भूयान्न श्रीहानिमवाप्नुयात् || २३ || सदाचारविशेषोऽयं कथितस्तव पार्थिव | निषेधे तु विशेषांश्च शृणु येन श्रियेष्यते || २४ || असंपूज्य तथा विष्णुं शिवमग्निं पुरन्दरम् | अदत्त्वा च तथा दानं न भुञ्जीत नृपः क्वचित् || २५ || हावयेदग्निहोत्रं तु नित्यमेव पुरोहितैः | अकृत्वा चाग्निहोत्रं तु भुञ्जन्नरकमाप्नुयात् || २६ || नारक्षिते गृहे राजा रत्नदीपविवर्जिते | स्वपेत् तथा स्त्रिया सार्धं न कदाचन संविशेत् || २० || भुक्त्वान्नं श्रीफलं नाद्यात् तथा धात्रीफलं नृपः | बुद्धिक्षयकरा ह्येता माष आसवमृत्तिकाः || २८ || निम्बाटरूषच्युताश्च बुद्धिवृद्धिकरा मताः | बुद्धिक्षयकरान् नित्यं त्वजेद्राजा च भोजने || २९ || भक्षयेदन्वहं बुद्धिवृद्धिहेतुं नृपोत्तमः | न पर्यायविहीनं तु प्रारोहेदासनं नृपः || ३० || न यानं न गजं नाश्वमारोहेद्धीनमासनैः | नैकस्तु विचरेद्राजा कदाचिदपि निर्जने || ३१ || मदहेतुं न भुंजीयात् कदाचिदपि भोजने | कदाचिन्नापि सेवेत ह्यष्टम्यां मांसमैथुने || ३२ || दर्शश्राद्धं गयाश्राद्धं तिलैस्तर्पणमेव च | न जीवत्पितृको भूप कुर्यात् कृत्वाघमाप्नुयात् || ३३ || न क्षेत्रजादींस्तनयान् राज्ये राजाभिषेचयेत् | पितृणां शूद्धये नित्यमौरसे तनये सति || ३४ || औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च | गूढोत्पन्नोऽपविद्धश्च भागार्हास्तनया इमे || ३५ || कात्तीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा | स्वयंदत्तश्च दासश्च षडते पुत्रपांसुलाः || ३६ || अभावे पूर्वपुर्वेषां परान्त् समभिषेचये | पौनर्भवं स्वयंदत्तं दासं राज्ये न योजयेत् || ३७ || दत्ताद्याश्चापि तनया निजगोत्रेण संस्कृताः | आयान्ति पुत्रतां सम्यगन्यबीजसमुद्भवाः || ३८ || पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथिवीपतेः | आचूडान्तं प पुत्रः न पुत्रतां याति चान्यतः || ३९ || चूडाद्या यदि संस्कारा निजगोत्रेण संस्थिताः | दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते || ४० || ऊर्ध्वं तु पंचमाद् वर्षाद् दत्ताद्यांश्च सुतान्नृप | गृहीत्वा पंचवर्षीयं पुत्रेष्टिं प्रथमं चरेत् || ४१ || पौनर्भवं तु तनयं जातमात्रं समानयेत् | कृत्वा पौनर्भवष्टोमं जातमात्रस्य तस्य वै || ४२ || सर्वांस्तु कुर्यात् संस्कारान् जातकर्मादिकान्नरः | कृते पौनर्भवष्टोमे सुतः पौनर्भवः स्मृतः || ४३ || एकोद्दिष्टं पितुः कुर्यान्न श्राद्धं पार्वणादिकम् | क्रीता या वनिता मूल्यैः सा दासीति निगद्यते || ४४ || तस्यां यो जायते पुत्रो दासः पुत्रस्तु स स्मृतः | न राज्ञो राज्यभाक् स स्याद् विप्राणां नापि श्राद्धकृत् || ४५ || अधमः सर्वपुत्रेभ्यस्तं तस्मात् परिवर्जयेत् | पुराणं धर्मशास्त्राणि संहिताश्च मुनीरिताः || ४६ || नाध्यापयेन्नृपः शूद्रैर्विहितानि यदृच्छया | यस्य राज्ये सदा शूद्राः पुराणं संहितां तथा || ४७ || पठन्ति स्यात् स हीनायुः राजा राष्ट्रेण सान्वयः | मोहाद् वा कामतः शूद्रः पुराणं संहितां स्मृतिम् || ४८ || पठन्नरकमाप्नोति पितृभिः सह पापकृत् | शूद्रेभ्यो विहितं यत् तु यश्च मन्त्र उराहृतः || ४९ || तद्विप्रवचनाद् ग्राह्यं द्वयं शूद्रैः सदैव हि | य योजयेन्नृपः शूद्रं व्यवहारस्य दर्शने || ५० || नियोज्य तत्र तं भूपस्तामिस्रे तेन पच्यते | हीनायुश्च भवेल्लोको राजा वापि सहायजः || ५१ || का.ङ्म् व्यङ्गमपुत्रं या नाभिज्ञमजितेन्द्रियम् | न ह्रस्व व्याधितं वापि नृपः कुर्यात् पुरोहितम् || ५२ || कृपणस्य घनं राजा न गृह्णीयात् कदाचन | न द्विजानां तथा दद्याद् धनानि विपुलान्यपि || ५३ || नारोहेत् कामुकोन्मत्तगजं राजा कदाचन | आरुह्य कामुकस्तं तु परत्रेह विषीदति || ५४ || अनायुष्यं न कुर्यात् कर्म भूपः कदाचन | सततं चायुषो वृद्ध्यै यतेत सकलैर्धनैः || ५५ || न क्रूरवारे नाष्टम्यां न षष्ठ्यां च नृपोत्तमः | अञ्जनाभ्यञ्जने कुर्यात् ताम्बूलस्यापि भोजनम् || ५६ || अतिसूक्ष्मं तथा पूर्णं ग्रहणं चन्द्रसूर्ययोः | नालोकयेत् स्वयं राजा रक्तं सूर्यं तथैव च || ५७ || उत्पातं जायते यत्तु दिव्यं भौमं च नाभसम् | नेक्षेत यत्नान्नृपतिर्दृष्ट्वा नाद्यात् त्र्यहं पुनः || ५८ || सर्वदा मङ्गलं रत्नं धारयेत् सह दूर्वया | अवस्त्राच्छादितं गात्रं न विप्रेभ्यः प्रदर्शयेत् || ५९ || न तोयेषु मखं पश्येन्नाद्यान्मांसानि पर्वसु | नारोहयेत् खरं चोष्ट्रं न वामामपि गुर्विणीम् || ६० || एवं नययुतो राजा चतुरङ्गं विवर्धयन् | आत्मानं सततं रक्षन् सदा वीर्यं विवर्धयेत् || ६१ || बीजक्षयकरन्नित्यं भक्ष्यं भोज्यं च पानकम् | वर्जयेत् क्षारशाकाद्यान् बह्वम्लं बहुतिक्तकम् || ६२ || कांस्य-राजतपात्रस्थं तोयं नद्याश्च वर्धनम् | मूत्रवृद्धिकरं वीर्यक्ष्यकारि विवर्जयेत् || ६३ || ताम्रायःस्वर्णशीसानां पात्रस्थं फलचर्मणोः | शुक्रवृद्धिकरं तोयं तदुपासीत यत्नतः || ६४ || सर्वमूलेषु कृत्येषु सदाचारेषु तिष्ठतः | भुक्त्वेह विविधान् भोगानैन्द्रं स्थानं व्रजेत् परम् || ६५ || मार्कण्डेय उवाच - एवमौर्वस्तु सगरं शशास मुनिपुङ्गवः | शास्त्राणि चैव सर्वाणि सदाचारांश्च गृह्यकान् || ६६ || बहुशः कथयामास सगराय महात्मने | तन्नास्ति यत् पुरौर्वेण कथितं सगराय न || ६७ || राजनीतिः सतां नीतिर्यच्चान्यच्छास्त्रसम्भवम् | संहितासु पुराणेषु यच्चागमचये स्थितम् || ६८ || सर्वं शुश्राव सगरो मुखादौर्वस्य धीमतः | तेषां तु कथितं किंचिदुद्धृत्य द्विजसत्तमाः || ६९ || विष्णुधर्मोत्तरे पूर्वं मया रहसि भाषितम् | राजनीतिं सदाचारं वेदवेदाङ्गसङ्गतम् || ७० || रहस्यं सततं विष्णोर्वीक्षध्वं द्विजसत्तमाः | यच्चान्नदितमन्यत्र गदितं वा ससंशयम् || ७१ || संशयच्छेदनं तेषु युष्मभ्यं कथितं द्विजाः | अनुक्तसंशयच्छेदि पुराणं कालिकाह्वयम् | योऽभ्यसेत् सततं विप्रः स वेदानां फलं लभेत् || ७२ || इति श्रीकालिकापुराणे अष्टाशीतितमोऽध्यायः || ८८ || एकोननवतितमोऽध्यायः ऋषय ऊचुः संक्षेपतः सदाचारो विशेषो राजनीतिषु | श्रुतस्त्वद्वचनादौर्वः सगराय यथोक्तवान् || १ || विष्णुधर्मोत्तरे तन्त्रे बाहुल्यं सर्वतः पुनः | द्रष्टव्यस्तु सराचारो द्रष्टव्यास्ते प्रसादतः || २ || भूयो न संशयो योऽस्ति तदनुक्तं त्वया पुरा | छिन्धि विप्रेन्द्र पृच्छामः परं कौतूहलं हि नः || ३ || अपुत्रस्य गतिर्नास्ति श्रूयते वेदलोकयोः | वेतालभैरवो यातौ पुरा वै तपसे गिरिम् || ४ || पूर्वस्त्वकृतदारौ तौ तयोः पुत्रा न च श्रुताः | न जाता अथवा जाता यदि नाना द्विजोत्तम | तेषां तु सम्यगिच्छामि श्रोतुं स स्थानमुत्तमम् || ५ || मार्कण्डेय उवाच = अपुत्रस्य गतिर्नास्ति निश्चितं चेति सत्तमाः | स्वपुत्रैर्भ्रातृपुत्रैर्वा पुत्रवन्तो हि स्वर्गताः || ६ || जातापत्यौ च तौ विप्रा धीरौ वेतालभैरवौ | तयोर्वशान् प्रवक्ष्यामि शृण्वन्तु च महर्षयः || ७ || सम्यक् सिद्धिमवाप्यैव यदा वेतालभैरवो | हरस्य मन्दिरं प्राप्तौ कैलासं प्रतिहर्षितौ || ८ || तदा हरस्य वचनान्नन्दी तौ रहसि द्विजाः | प्राहेदं वचनं तथ्यं सान्त्वयन्निवं बोधकृत् || ९ || नन्द्युवाच अपुत्रौ पुत्रजनने भवन्तौ शङ्करात्मजौ | यततां जातपुत्रस्य सर्वत्र सुलभा गतिः || १० || पुन्नाम नरकं पुत्रविहीनः परिपश्यति | न तपोभिर्न धर्मेण तन्मोचयितुमीश्वरः || ११ || केवलात् पुत्रजननात् तस्मान्मोक्षः प्रजायते | तदुत्पादयतां पुत्रं भवन्तौ देवयोनिषु || १२ || अमर्त्यता तु युवयोः क्षीरपानादजायत | कात्यायन्यास्ततः पुत्रानमर्त्याः स्वसमा यतः || १३ || तस्माद् यथा तथा पुत्रानुत्पाद्य सुरयोनिषु | प्रियौ भवन्तौ शिवयोर्भवनं न चिरादिति || १४ || मार्कण्डेय उवाच - तस्येति वचनं श्रुत्वा नन्दिनः प्रीतमानसौ | एवमेव करिष्यावो नन्दिनं चेत्यभाषताम् || १५ || ततस्तौ सततं कृत्वा नन्दिनौ वचनं हृदि | अचेष्टतां स्वपुत्रार्थे व्रजन्तौ तावितस्ततः || १६ || अथैकदा भैरवोऽसौ उर्वशीमप्सरोवराम् | हिमवत्-पर्वतप्रस्थे ददर्श सुमनोहराम् || १७ || अथ तां कामुको भूत्वा ययाचे सुरतोत्सवम् | वेश्याभावाच्च सुप्रीता सा यथेच्छमुवाच तम् || १८ || ततस्तस्यां भैरवस्तु चकार सुरतोत्सवम् | प्रीतायामुर्वशीदेव्यां सुप्रीतोऽभूच्च केलिभिः || १९ || सुप्रीतायामथोर्वश्यां तेजोभिर्भैरवस्य तु | सद्योजातोऽभवत् पुत्रो बालसूर्यसमप्रभः || २० || तं तु पुत्र परित्यज्य ययौ स्वस्थानमुर्वशी | आदाय तनयं पश्चाद् भैरवः स्वपदं ययौ || २१ || संस्कृत्य तनयं तं तु भैरवो मोदसंयुतः | उवेशमिति तन्नाम चकार सगणाधिपः || २२ || अथ तं जातवयसं शक्रसूर्यसमप्रभम् | विद्याधराधिपत्ये तु उवेशमभ्यषेचयत् || २३ || स तु विद्याधराध्यक्षस्तनयामतिसुन्दरीम् | येमे गन्धर्वराजस्य धृतराष्ट्राह्वयस्य च || २४ || तस्यां तस्य सुतो जज्ञे रुरुर्नाम मनोहरः | रुरोस्तु तनयो बाहुर्मैनाक्यामभ्यजायत || २५ || बाहोस्तु पुत्राश्चत्वारस्तपनोऽङ्गद ईश्वरः | कुमुदोऽभूत् कनीयांस्तु चार्वत्यां तु मनोहरः || २६ || कुमदस्य सुतो जज्ञे देवसेनो महाबलः | स देवसेनः पृथिवीमवतीर्य मनोहरः || २७ || मान्धातुर्यौवनाश्वस्य तनयां केशिनीं मुहुः | वरयामास भार्यार्थे मृद्वङ्गीमप्सरःसमाम् || २८ || यौवनाश्वोऽपि मान्धाता शक्रस्य वचनाद् ददौ | केशिनीं तनयां स्वीयां देवसेनाय वाञ्छया || २९ || केशिनीमुपयम्याथ देवसेनस्तया सह | वाराणस्यां शम्भुपुर्यां हरमाराधयच्छिवम् || ३० || आराधितो हरः प्रीतस्तस्येष्टं प्रददौ वरम् | सोऽप्याददे हरात् तस्मादिष्टमेव वरत्रयम् || ३१ || यावच्च सूर्यो भविता तावत् स्थास्यति संततिः | अस्यामेव नगर्यां ये मद्वंशस्यापि राजता || ३२ || प्रसन्नो मम वंशे त्वं नित्यमेव भविष्यसि | इत्यादाय वरं सोऽपि देवसेनो महाकृती || ३३ || शङ्करस्य प्रसादेन चिरं तां बुभुजे पुरीम् | देवसेनोऽथ केशिन्यां जनयामास पुत्रकान् || ३४ || यूयं शृणुत सप्तैतान्नामतः कीर्तितांस्तथा | सुमना वसुदानश्च ऋतुधृग् यवनः कृती || ३५ || नीलो विवेकी ह्येते वै सर्वशास्त्रविशारदाः | सर्वे वंशकराः पुत्रा देवसेनस्य सत्तमाः || ३६ || अथ काले तु संप्राप्ते देवसेनोऽपि भार्यया | पुत्रेष राज्यं निःक्षिप्य यातो विद्याधरक्षयम् || ३७ || ततस्ते तस्य तनयाः कृत्वा सुतनसं नृपम् | वसुदानादयः सर्वे बुभुजुश्चोत्तमां श्रियम् || ३८ || जाताः सुमनसः पुत्रास्त्रयः शूरा महाबलाः | सुमतिश्च विरूपश्च सत्यः शास्त्रार्थपारगाः || ३९ || सुमतेरभवत् कन्या सुतः सत्यस्य डिण्डिमः | विरूपस्याभवद् गाधिर्गाधेर्मित्रोऽभवत् सुतः || ४० || तेषां कल्पोऽभवद्राजा कल्पात् तु विजयोऽभवत् | यो विजित्य क्षितिं सर्वां पार्थिवान् भूरितेजसः || ४१ || शक्रस्यानुमते चक्रे खाण्डवं शतयोजनम् | यत् सव्यसाची ह्यदहत् पाण्डुपुत्रः प्रतापवान् | आवहत् परमां प्रीतिं ज्वलनस्य महात्मनः || ४२ || ऋषय ऊचुः - कथं स खाण्डवं चक्रे विजयः शतयोजनम् | तद् वयं श्रोतुमिच्छामः कथयस्य तपोधन || ४३ || मार्कण्डेय उवाच - सोमवंशेऽभवद्राजा महाबलपराक्रमः | धीरः सुदर्शनो नाम चारुरूपः प्रतापवान् || ४४ || स वै हिमवतो नातिदूरे भङ्क्त्वा महावनम् | सिंहान् व्याघ्रान् समुत्सार्य क्वचिच्चापि तपोधनान् || ४५ || खण्डवीं नाम नगरीमकरीत् तत्र शोभनाम् | त्रिंशद्योजनविस्तीर्णामायतां शतयोजनाम् || ४६ || उच्चप्राकारसंयुक्तां साट्टालम्बुदतोरणाम् | निम्नाभिरतिदीर्घाभिः परिखाभिः समावृताम् || ४७ || अघृष्यामपरैर्वीरैर्नानाजनसमावृताम् | दीर्घिकाभिश्चोपवनैर्बहुभिश्चाप्सरोगणैः || ४८ || आकीर्णां च तथारामैरुत्तैरपि मानवैः | सोत्सवाः सततं यत्र जना देवान् दिवि स्थितान् || ४९ || स्पर्धन्ते स्म मुदा युक्ता आद्या-भोगसमन्विताः | स वै सुदर्शनो राजा खात्वा भूमिं विदार्य च || ५० || गङ्गां कनखलां देवीं वाहयामास खाण्डवीम् | संप्लाव्याखाण्डवीमध्यं तेन खातैश्च वर्त्मभिः || ५१ || वक्रानुवक्रगा भूत्वा याति सीतां नदीं प्रति | स जित्वा सकलान् भूपान् वित्तान्याहृत्य भूरिशः || ५२ || वशीचकार खाण्डव्यां मध्ये रत्नैरनेकशः | अन्येषां नगरेभ्यस्तु जनानानीय भूपतिः || ५३ || खाण्डव्यां वासयामास हठादपि सुदर्शनः | देवदानवगन्धर्वाञ् जित्वा जित्वा युधा कृती || ५४ || देववृक्षं देवरत्नं देवीं चापि तथौषधिम् | खाण्डव्यां रोपयामास स भूपालः सुदर्शनः || ५० || विष्णुस्तोऽपि वै विष्णुर्नृपतिं तं सुदर्शनम् | कृतापकारं च बहुधा देवानां च तथा नृणाम् || ५६ || वाराणसीपतिं वीरं विजयं जयशालिनम् | युद्धाय कृतसाचिव्यं तद्वैरे समयोजयत् || ५७ || विजयो विवरं प्राप्य महाबलपराक्रमः | सुदर्शनस्य नृपतेरवस्कन्दमथाकरोत् || ५८ || नासहत् स ह्यवस्कन्दं विजयस्य सुदर्शनः | चतुरङ्गबलेनाशु युद्धायाभिमुखोऽभवत् || ५९ || विजयो रथमारुह्य नियोज्य चतुरङ्गिणीम् | ततः सुदर्शनं योद्धुं सम्मुखोऽभवदञ्जसा || ६० || तदा महायुद्धमासीद्विजयेन महात्मना | सुदर्शनस्य नृपतेर्वृत्रवासवयोर्यथा || ६१ || सुदर्शनस्य सेनानां रुमण्वान्नाम वीर्यवान् | कांचनं रथमारुह्य विजयसंमुखोऽभ्ययात् || ६२ || अक्षौहिण्यस्तु सप्तास्य परिवायं समन्ततः | व्यधमत्तां शत्रुसेनां यावतीमुद्यतायुधः || ६३ || विजयस्य च सेनानीः सञ्जयः स रिपुञ्जयः | नागानीकेन जग्राह रुमण्वन्तं ससैनिकम् || ६४ || तयोर्महदभूद् युद्धं सेनान्योर्वीरयोर्महत् | ववर्ष शरवर्षेण रुमण्वानथ संजयम् || ६५ || कुर्वंश्चापि महानादं गजं दृष्ट्वैव केशरी | रुमण्वानथ विशत्या बाणैर्विध्वाथ सञ्जयम् || ६६ || क्षुरप्रेण धनुस्तस्य चिच्छेद कृतहस्तवत | सोऽपि कार्मुकमादाय तदाऽन्यत् संजयस्त्रिभिः || ६७ || बाणैर्विव्याध भल्लेन धनुश्चिच्छेद तत्क्षणात् | शतान्यष्टौ च नागानां सहस्राणि च पंचषट् || ६८ || पत्तीनां वाजिनां त्रीणि सहस्राणि समन्ततः | संजयो निर्जघानाशु बाणवर्षैः सुदारुणैः || ६९ || अथान्यद् धनुरादाय रुमण्वान् कुपितो भृशम् | भल्लेन सारथेरस्य शिरः कायादपाहरत् || ७० || हयांश्चास्य चतुर्भिस्तु बाणैर्निन्ये यमक्षयम् | चतुरः पंचभिर्बाणैरविध्यच्चापि शञ्जयम् || ७१ || संजयोऽप्यतिवेगेन गमामादाय तत् क्षणात् | अवतीर्य रथोपस्थाद्रुमण्वन्तमधावत || ७२ || स धावन्तं सञ्जयं तं रुमण्वान् द्रुतहस्तवत् | शरवर्षेण सञ्छाद्य वारयामास संजयम् || ७३ || गदाया भ्रामणेनासौ निवार्य शरवर्षणम् | आससाद रुमण्वन्तं केसरीव महागजम् || ७४ || आसाद्य तां गदां गुर्वीमाविध्यातीव सञ्जयः | एकेनैव प्रहारेण सरथं तं व्यपोथयत् || ७५ || स पपात महावीरः पृथिव्यां गदया हतः | वज्रहतो यथा शालः प्रफुल्लो वनमध्यगः || ७६ || रुमण्वन्तं निपतितं दृष्ट्वा राजा सुदर्शनः | शोक-कोपसमाविष्टः सधूम इव पावकः || ७७ || जज्वालाकुलदेहोऽपि क्रोधेनातीव संयुतः | आरुह्य जवनैरश्वैर्युक्तं वैयाघ्रकृत्तिना || ७८ || रथं कांचन-चित्रांगं सिंहध्वज-विभूषितम् | आमुक्तो धनुरादाय विस्फार्य च पुनः पुनः || ७९ || ससैन्यः सञ्जयं राजा समाद्रवत वेगवान् | अथास्य निशितैः शस्त्रैः सेनामग्रगतां भृशम् || ८० || न्यहनत् सकलां राजा मृगानिव मृगाधिपः | एकामक्षौहिणीमग्रगामिनीं विपुलौजसाम् || ८१ || क्रोशद्वयेन न्यहनत् तमांसीव दिवाकरः | हत्वा चाक्षौहिणीमेकामासाद्य संजयं नृपः || ८२ || बाणैः षष्ट्या तु विव्याध ध्वजमेकेन चिच्छिदे | संजयोऽप्यथ विंशत्या हृदि विद्ध्वा सुदर्शनम् || ८३ || ललाटे त्वेकबाणेन प्राविध्यत् कृतहस्तवत् | क्षुरप्रेणास्य कोदण्डं छित्त्वा राज्ञः प्रतापवान् || ८४ || सारथिं दशभिर्बाणैः पुनर्विव्याध सञ्जयः | कोदण्डमन्यमादाय तदा राजा सुदर्शनः || ८५ || शरवर्षेण तीव्रेण ववर्षातीव सञ्जयम् | तयोर्महद्भूद् युद्धं मुनिविस्मयकारकम् || ८६ || शस्त्रैरस्त्रैर्भृशं तीक्ष्णैर्बलिवासवयोरिव | ततः सुदर्शनो राजा भल्लेनास्य दृढं धनुः || ८७ || चिच्छेद सारथिं चास्य जघान निशितैः शरैः | स्वयं संयम्य वाहान् स सञ्जयः परवीरहा || ८८ || धनुरन्यत् समादाय परिवार्य सुदर्शनम् | विव्याध दशभिर्बाणैर्धनुरप्यच्छिनद् दृढम् || ८९ || शरासनान्तरं राजा समादाय सुदर्शनः | सञ्जयस्य चतुर्वाहाञ्छरैर्निन्ये यमक्षयम् || ९० || मुष्टौ धनुश्च चिच्छेद तं च विव्याध पंचभिः | विरथश्छिन्नवाहश्च सञ्जयः खड्गचर्मणी || ९१ || आदाय सम्मुखं राज्ञोऽभ्यद्रवत् कुपितो भृशम् | तस्य चापं ततः खड्गं क्षुरप्रेण सुदर्शनः || ९२ || द्विधा चिच्छेद भल्लेन चर्म चाप्यच्छिनत्तदा | अथ द्रुतं तदोपेत्य सञ्जयः स्यन्दनोत्तमम् || ९३ || सुदर्शनस्य सूतं तु कराभ्यां पातयत् क्षितौ | रथाभ्याशे गतस्यास्य सञ्जयस्य सुदर्शनः || ९४ || शिरश्चिच्छेद खड्गेन ततोऽसौ न्यपतद् भुवि | स पपात तदा तस्य रथाभ्याशे महाबलः || ९५ || कृत्तः परशुनाऽरण्ये पुष्पितः शालवृक्षवत् | सञ्जयं पतितं दृष्ट्वा विजयः क्रोधमूर्च्छितः || ९६ || महता शङ्खनादेन नादयंस्तु नभःस्थलम् | रथेन स्वर्णचित्रेण व्याघ्रचर्मविराजिना || ९७ || केतुना वृषभेणाथ योजनार्धोच्छ्रितेन च | नादयन् ककुभः सर्वा रथौघपरिवेष्टितः || ९८ || विमुञ्चञ्छरवर्षाणि ससाद च सुदर्शनम् | आसाद्यं तं नृपं भूपो विजयः परवीरहा || ९९ || हृदि विद्ध्वा त्रिभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत् | सुदर्शनोऽपि विजयं नदन्तं कुंजरोपमम् || १०० || दशभिर्निशितैर्बाणैर्विदध्वा चिच्छेद तद् धनुः | अथैनं छिन्नधन्वानं जत्रुदेशे त्रिभिः शरैः || १०१ || निर्भिद्याथ महानादं ननाद स सुदर्शनः | सोऽन्यद्धनुः समादाय कंकपत्रैस्त्रिभिः शरैः || १०२ || विव्याध हृदये वीरो विजयोऽपि सुदर्शनम् | ततस्तन्नृपमुद्दिश्य महाशक्तिं सुदीपिताम् || १०३ || नागकन्यां कोपयुक्तां लेलिहानामिवातुलाम् | स्वर्णदण्डां सुतीक्ष्णाग्रां तैलधौतां सुनिर्मलाम् || १०४ || समुद्यम्याथाचिक्षेप विजयः शात्रवं प्रति | सुदर्शनस्य हृदयं सा शक्तिः प्रविवेश ह || १०५ || स विह्वलो रथोपस्थे ह्यधोवक्त्र उपाविशत् | तस्मिन् मोह-समापन्ने नृपतौ च सुदशने || १०६ || तस्याग्रतस्तथा पार्श्वे ये स्थितास्तत्र सैनिकाः | तान् सर्वानहनद्राजा क्षणमात्राद् द्विजोत्तमाः || १०७ || रथान् दशसहस्राणि तावन्त्येव च दन्तिनाम् | पंचविंशसहस्राणि वाजिनां च तरस्विनाम् || १०८ || लक्षद्वयं तु पत्तीनां क्षणमात्रादपोथयत् | स तु लब्ध्वा ततः संज्ञां धनुरादाय वै दृढम् || १०९ || शरवर्षेण विजयं ववर्ष स सुदर्शनः | निवार्य शरवर्षेण विजयं तु सुदर्शनः || ११० || भल्लेन कार्मुकं सज्यं तस्य चिच्छेद तत्क्षणात् | सारथेस्तु शिरः कायाद् भल्लेनापाहरत् ततः || १११ || हयांश्च चतुरश्चास्य प्रेषयामास मृत्यवे | अथैवं विरथं भूपं दशभिः कङ्कपत्रिभिः || ११२ || विव्याध हृदये भूयो ननाद च सुदर्शनः | स च्छिन्नधन्वा विरथो गदामादाय वेगवान् || ११३ || विजयो विजयाकाङ्क्षी सुदर्शनमधावत | आपतन्तं महावीरं बाणवर्षिः सुदर्शनः || ११४ || ववर्ष वर्षासु यथा वारिदः पृथिवीधरम् | विजयः शरवृष्टिं तां प्राच्छाद्य स्वशरेण वै || ११५ || गदया तं रथारूढमाससाद तु तत्क्षणात् | आसाद्य तं महावीर्यं विजयोऽथ सुदर्शनम् || ११६ || शीर्ष प्रहृत्य गदया पातयामास भूतले | गिरेः शृङ्गं यथा तुङ्गं वज्राशनिविदारितम् || ११७ || तथा सुदर्शनो राजा दारितो गदयाऽपतत् | तस्मिन्निपतिते वीरे सेनाभिस्तस्य सैनिकाः || ११८ || भयात् संप्राद्रवंस्तस्माद् दिशश्च प्रदिशस्तथा | नष्टेषु तस्य सैन्येषु विजयः खाण्डवीं पुरीम् || ११९ || प्रविश्य ददृशे तत्र राशीभूतान् गिरीनिव | सुवर्णानां च रत्नानां संचयान् बहुशः पुनः || १२० || दृष्ट्वा सरांसि तत्रैष प्रफुल्लकमलानि च | हंसकारण्डवानादैर्नादितानि समन्ततः || १२१ || राशीन् सुवर्णरत्नानां पर्वतानिव विस्तृतान् | पुष्पितान् देववृक्षांश्च भ्रमद्भ्रमरभूषितान् || १२२ || प्रासादान् विपुलाञ्छुभ्रान् कैलाससदृशान् गजान् | प्रस्फुटांश्च सुगन्धाढ्यान् प्रतिगेहे व्यवस्थितान् || १२३ || उत्फुल्लनयनो राजा विजयः परवीरहा | मेनेऽमरावतीं तां तु पुरीम् क्षितिगतामिव || १२४ || तं वाक्षन्तं नरपतिं नगरीं तां सुरेश्वरः | समेत्य विजयं प्राह सान्त्वयन् श्लक्ष्णया गिरा || १२५ || इन्द्र उवाच - राजन् महावनमिदमासीद् देवगणावृतम् | अ च्च गन्धर्वयक्षाणां मुनीनां च मनोहरम् || १२६ || सर्वानुत्सार्य देवादीन् मम चाप्यप्रिये रतः | भङ्क्त्वा वनमिदं गुह्यमुत्साद्य च तपोधनम् || १२७ || खाण्डवीं नगरीं चक्रे हठाद्राजा सुदर्शनः | तदिदं पुनरेव त्वं वनं कुरु नरोत्तम || १२८ || तत्राहं विहरिष्यामि तक्षकेण समं रहः | मुनीनां च तपः स्थानमतुलं ते प्रसादतः | भविष्यति च यक्षाणां किन्नराणां च पार्थिव || १२९ || मार्कण्डेय उवाच - एतच्छ्रत्वा वचस्तस्य शक्रस्य विजयस्तदा | वनमेवाकरोत् तान्तं खाण्डवीं शक्रगौरवात् || १३० || गच्छन्तु भो यथास्थानं प्रजाः सर्वा यथेच्छया | येषां वाञ्छास्ति लोकानां मद्राज्यगमने पुनः || १३१ || वाराणसीं ते गच्छन्तु मयैव प्रतिपालिताम् | ततस्तस्य वचः श्रुत्वा जनाः केचिन्निजास्पदम् || १३२ || जग्मुर्वाराणसीं केचिद् विजयेनाभिपालिताम् | ततो धनानां तान् राशीन् रत्नानां च पृथक् पृथक् || १३३ || मणीनां कनकानां च कुप्यानां विजयस्तथा | विविधैर्वारयामास पुरीं वाराणसीं प्रति || १३४ || गन्धर्वाणां च देवानां यदानीतं हठात् पुरा | रत्नदार्वादिकं यत् तु विजयं तत् प्रसाद्य च || १३५ || तैस्तैर्नीतं च खाण्डव्याः स्वस्थानं प्रतिहर्षितैः | त्रिंशद्योजनविस्तीर्णां शतयोजनमायताम् || १३६ || तां पुरीं विजयश्चक्रे नचिरादेव वै वनम् | तस्मिञ्छक्रस्य सम्मत्या तक्षकः सहितो गणैः || १३७ || उवास सुचिरं तत्र ततोऽभून्निर्जनं वनम् | तत्र देवाः सगन्धर्वाः क्रीडन्तेऽप्सरसां गणाः || १३८ || आशंसन्तश्च विजयं रणेषु विजयावहम् | प्राप्तेऽष्टाविंशतितमे युगे द्वापरशेषतः || १३९ || वह्निर्ब्राह्मणरूपेण भिक्षां जिष्णुममाचत | दातुमङ्गीकृते भिक्षां तदा पाण्डुसुतेन वै || १४० || वह्निः स्वरूपमास्थाय जिष्णुं वचनमब्रवीत् | अहमग्निः पाण्डुपुत्र अज्ञभागातिभोजनात् || १४१ || व्याधितोऽहं ततो व्याधिं मम त्वं नाशयाधुना | खाण्डवं नाम विपिनं सपत्रिमृगराक्षसम् || १४२ || यदि त्वं मां भोजयितुं शक्रोषि श्वेतवाहन | तदा मम ह्यसौ व्याधिरपयास्यति नो चिरात् || १४३ || पुरा तु विजयो राजा खाण्डवीं नाम तां पुरीम् | भङ्क्त्वा वन यतश्चक्रे तेन तत् खाण्डवं वनम् || १४४ || मदर्थं देवविहितं वनं तु श्वेतवाहन | विरोधात् तत् तु शक्रस्य न स्वयं भोक्तुमुत्सहे || १४५ || तस्मात् त्राहि महाभाग वने तस्मिन्नियोजय | यथाहं सकलं भोक्त्तुं शक्नोमि तत्प्रसादतः || १४६ || तस्य तद्वचनं श्रुत्वा सव्यसाची महाबलः | दाहयामास विपिनं तत्सर्वं प्राणिसंयुतम् || १४७ || देवकीतनयेनासौ वासुदेवेन पालितः | खाण्डवं दाहयामास ज्वलनस्य हिते रतः || १४८ || सुप्रीतः प्रददौ तस्मादर्जुनाय महात्मने | वह्निर्धनुश्च गाण्डीवं वारुणं देवनिर्मितम् || १४९ || अक्षयये चेषुधी दिव्यें रूपाढ्यांश्चतुरो हयान् | हनूमताधिष्ठितं तु महान्तं वानरध्वजम् || १५० || खड्गं च त्रिशिखं तीक्ष्णं दहनः सव्यसाचिने | नीरोगश्चाभवद् वह्निस्तथा जिष्णुप्रसादतः || १५१ || तैर्बाणैस्तेन धनुषा तेन खड्गेन केतुना | तदश्वस्यन्दनेनापि विजिग्ये फाल्गुनो रिपून् || १५२ || एवं भैरववंशेषु सञ्जातो विजयो नृपः | खाण्डवं नाम विपिनं चकार सुमहाकृती || १५३ || विजयस्य सुता जातास्त्रयोदश महाबलाः | द्युतिमान् सौम्यदर्शी च भूरिः प्रद्युम्न एव च || १५४ || क्रतुस्तुण्डो विरूपाक्षो विक्रान्तोऽथ धनंजयः | प्रहर्षः प्रबलः केतुस्तथोपरिचरोऽपरः || १५५ || एषां राजाऽभवद् वीरः शेषोपरिचरस्तु यः | वाराणस्यां नगर्यां यो यज्ञलक्षं पुराऽकरोत् || १५६ || लक्षयज्ञकरः कोऽपि नासीन्नापि भविष्यति | राजा क्षितौ महाभागो यथोपरिचरस्तथा || १५७ || एषां सूतिप्रसूतैश्च व्याप्तं सर्वमिदं जगत् | चिरेण तान् कः संख्यातुं शक्नोति भुवि मानुषः || १५८ || क्रमाद् भैरववंशेन व्याप्तं लोकत्रयं त्विदम् | एतद् वः कथितं विप्राः सन्तानं भैरवस्य तु || १५९ || येषां श्रुत्वा कथामात्रं नापुत्रो जायते नरः | इदं यः कीर्तयेत् पुण्यं चरितं विजयस्य तु || १६० || सततं विजयस्तस्य जायते न पराभवः | एकाग्रमनसा यस्तु शृणुयादिदमुत्तमम् | तस्य वंशस्य विच्छेदो न कदाचिद् भविष्यति || १६१ || इति श्रीकालिकापुराणे एकोननवतितमोऽध्यायः || ८९ || नवतितमोऽध्यायः मार्कण्डेय उवाच - वेतालस्य च सन्तानं शृण्वन्तुं मुनिसत्तमाः | यच्छ्रुत्वा सर्वपापेभ्यस्तत्क्षणादेव हीयते || १ || दक्षस्य तनया चाभूत् सुरभिर्नाम नामतः | गवां माता महाभागा सर्वलोकोपकारिणी || २ || तस्यां तु तनया जज्ञे कश्यपात् तु प्रजापतेः | नाम्ना सा रोहिणी शुभ्रा सर्वकामदुघा नृणाम् || ३ || तस्यां जज्ञे शुनःशेफान्मुनेरतितपोधनात् | कामधेनुरिति ख्याता सर्वलक्षणसंयुता || ४४ || सा सिताभ्रप्रतीकाशा चतुर्वेदचतुष्पदा | स्तनैश्चतुर्भिर्धर्मार्थकामप्रसवकारिणी || ५ || सा सुवर्णशरीरा तु कालेन महाता सती | निर्मलं यौवनं प्राप कामधेनुर्मनोहरम् || ६ || तां चरन्तीं मेरुपृष्ठे चारुरूपां सुलक्षणाम् |ददर्श स तु वेतालः कामुकश्चाभ्यपद्यत || ७ || तं कामुकं च वेतालं विदित्वा कामधेनुका | पशुधर्मात् स्वयं भेजे तं पुत्रं शशभृद्भृतः || ८ || सोऽवाप तस्यां परममामोदं शङ्करात्मजः | सा चापि परमां तस्मिन् मुदमापातिहर्षिता || ९ || तयोः प्रवृत्ते सुरते तस्यां गर्भोऽभवत् तदा | काले प्राप्ते तु सुषुवे कामधेनुर्महावृषम् || १० || सोऽचिरेणैव कालेन सुमहान् वृषभोऽभवत् | महाककुदसंयुक्तश्चारुशृङ्गसमन्वितः || ११ || उत्क्षिप्य विचलत्-कर्णयुगलो दीर्घबालधिः | ककुदेन च शृङ्गाभ्यां कर्णाभ्यां स सिताभ्रवत् || १२ || विचलन् ददृशे देवैः शृङ्गैरिव सिताचलः | वेतालस्त्वकरोत् तस्य नाम शृङ्ग इति द्विजाः || १३ || स तु शृङ्गो ज्ञानशाली समाराधयदीश्वरम् | सोऽपि तुष्टो वरं तस्मै ददाविष्टं हरः प्रभुः || १४ || तमेव वाहनं चक्रे कृत्वा देवतनुं वृषम् | सुचिरायुऽस्च बलवान् पृथिवीधारणे क्षमः || १५ || शृङ्गो नाम महातेजाः केतुः सोऽप्यभवत् प्रभोः | शृङ्गो भूत्वा मतो यस्माच्छङ्करस्य महात्मनः || १६ || अतः शृङ्ग इति ख्यातिमथ प्राह महेश्वरः | स तु शृङ्गी महादेवे ध्यानासक्ते क्वचित् क्वचित् || १७ || वरुणस्य गृहं गत्वा सुरभेस्तनयास्तु याः | रूपयौवनसम्पन्ना भेजेऽलं सुरतेन ताः || १८ || वरुणस्य गृहे गावः सर्वलक्षणसंयुताः | तिष्ठन्ति सततं विप्रास्तासु तास सुताः पुनः || १९ || वह्व्यस्तु च समुत्पन्नास्तेषां सूतिप्रसूतिभिः | सर्वं जगदिदं व्याप्तं तेभ्यो यज्ञं प्रवर्तते || २० || आज्येन देवास्तुष्यन्ति यज्ञा आज्ये प्रतिष्ठिताः | यज्ञाधीनमिदं सर्वं जगत् स्थावरजङ्गमम् || २१ || तदाज्यं तु गवाधीनं ततः सर्वं गवि स्थितम् | तदिदं सकलं विश्वं गवाधीनं द्विजोत्तमाः || २२ || वेतालस्य च ता गावो वंश्याः सर्वप्रियाः सदा | य इदं शृणुयान्नित्यं वेतालस्य महात्मनः || २३ || वंशानां जन्म विप्रेन्द्राः स सुखी बलवान् भवेत् | न गावो नापि विभवास्तस्य नश्यन्ति वै क्वचित् || २४ || न च भूतपिशाचाद्यास्तं पश्यन्ति कदाचन | वेतालः सततः तस्य रक्षामाचरति स्वयम् || २५ || इति वः कथितं विप्रा यथा वेतालभैरवौ | जनयामासतुः पुत्रान् विच्छिन्नाः संशयाश्च वः || २६ || यथा च कालिका देवी मोहयामास शंकरम् | यथोत्पन्ना शरीरार्धं कृतं शम्भोर्यथा तथा || २७ || कालिकायै नमस्तुभ्यमिति यो भाषते स्वयम् | तस्य हस्ते स्थिता मुक्तिस्त्रिवर्गस्तु वशानुगः || २८ || इति वः कथितं पुण्यं पुराणं कालिकाह्वयम् | मन्त्रयन्त्रमयं शुद्धं ज्ञानदं कामदं परम् || २९ || इति गुह्यतमं लोके वेदेषु च तथा द्विजाः | देवगन्धर्वसिद्धाद्यैः स्पृहणीयमिदं सदा || ३० || अधीतं च श्रुतं मत्तो वसिष्ठेन महात्मना | इदं पुराणममृतं कालिकाह्वयमुत्तमम् || ३१ || तेन गुप्तमिदं सर्वं कामरूपे सुरालये | तमिदानीं समाख्यातं व्यक्तीकृत्य महर्षयः || ३२ || युस्माभिरपि नो देय गोप्यं लोकेषु सर्वदा | शठाय चलचिंत्ताय नास्तिकायाजितात्मने || ३३ || भक्तिश्रद्धाविहीनाय न दातव्यं कदाचन | इदं सकृत् पठेद् यस्तु पुराणं कालिकाह्वयम् || ३४ || स कामानखिलान् प्राप्य शेषेऽमृतमवाप्नुयात् | मन्दिरे लिखितं यस्य पुराणमिदमुत्तमम् || ३४ || सदा तिष्ठति नो तस्य विघ्नः संजायते द्विजाः | योऽधीतेऽहन्यहन्येतद् गुह्यं तन्त्रमिदं परम् || ३६ || अधीताः सकला वेदास्तेनेह द्विजसत्तमाः | तस्मान्नैवाधिकोऽन्योअस्ति कृतकृत्यो विचक्षणः || ३७ || स सुखी बल्लवांल्लोके दीर्घायुरपि जायते || ३८ || यो लोकमीशःसततं बिभर्ति यः पालयत्यन्तकर स्तथान्ते | इदं समस्तं भ्रममभ्रमं वा अदीयरूपं च नमोऽस्तु तस्मै || ३९ || प्रधानपुरुषो यस्य प्रपञ्चो योगिनां हृदि | यः पुराणाधिपो विष्णुः प्रसीदतु स वः शिवः || ४० || यो हेतुरुग्रः पुरुषः पुराणः सनातनः शाश्वत ईश्वरः परः | पुराणकृद् वेदपुराणवेद्यः प्रस्तौमि तन्नौमि पुराणशेषे || ४१ || इति सकलजगद् बिभर्ति यासां मधुरिपुमोहकरी रमास्वरूपा | रमयति च हरं शिवास्वरूपा वितरतु वो विभवं शुभानि माया || ४२ || इति श्रीकालिकापुराणे नवतितमोऽध्यायः || ९० || इति श्रीकालिकापुराणं समाप्तम् | ########### END OF FILE #######