#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: T00242 Uniform title: kālikārahasya Manuscript : IFP/EFEO transcript T00900 Description: Notes: Copied from IFP?EFEO transcript T00900 which itself is a copy of Adyar library manuscript 1273. Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Sept. 18, 2011 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### कालिकारहस्य शुभमस्तु || अविभमस्तु || श्री कैलासधराग्रसौधनिलयं शीतांशु बिम्बस्फुरन्माणिक्य स्फुटसत्किरीटमभवन् मन्दारमालान्वितम् | शोभन्तं प्रमदैर्महाबलयुतै शेषासुराश्चासुरैः गौरीमन्त्ररहस्य वित्तममजं पञ्चाननं शङ्करम् | * व्येषु मन्त्रकोटिषु वरदां फलदायकम् | जपतां शृण्वतां चापि मनोभीष्टफलप्रदाः | सन्त्यागमोक्ता निगमचोदिता मोक्षदायकाः | गायत्री बगला बला श्यामला नकुली तथा | धेनुवागेश्वरी चैव वाराही कविराजराजेश्वरी चैव तथा त्रिपुरसुन्दरी धूमावति तथेन्द्राक्षि यक्षिणीति प्रकीर्तिता शाक्तेयमन्त्रराजश्च | कार्तवीर्यस्य सिंह्वका दक्षिणे मूर्तिमन्त्रश्च तथा पञ्चाक्षरी स्मृतम् | द्वादशाक्षरमन्त्रञ्च तथा षोडशकं तथा | सुदर्शनं वैनतेयं हनुमन्तं च भैरवम् | अष्टाक्षरं चैकवर्णं तथा प्रत्यंगिरादयः | एते बहुविधा मन्त्राः शिव वैष्णव देवताः | तेषु तेषु मन्त्रेषु भुक्ते मुक्ति फलप्रदम् | प्. २) सर्वपातकनिर्घातं सर्वशत्रुनिवारणम् | दुस्वप्ननाशनं चैव सर्वलोकवशीकरम् | स्तंभनं मोहनञ्चैव वाग्भवबलान्वितम् | पावनं फलदं श्रेष्ठं भक्तानाञ्च वशीकरम् | मारणाकर्षणञ्चैव कलिदोष निवारणम् | यच्छीघ्रफलदं श्रेष्ठं तन्मे ब्रूहि महेश्वर | ईश्वरः - शृणु देवि प्रवक्ष्यामि मन्त्राणामुत्तमोत्तमम् | वक्ष्ये चायुष्करं सर्वसम्पत्करमनुत्तमम् | न देयं मूढचित्ताय गुरुवित्तापहारिणे | भक्तिहीनाय हिंस्राय प्राणत्यागेपि पार्वति | सिद्धसाध्यसुसिद्धारीन् चक्रं सुपरिशोध्य च | वाशिकोष्ठञ्च नक्षत्र कोष्ठं ऋण ऋणी तथा | भूकोष्ठञ्च विज्ञेय देयं शिष्याय दीयते | शुभे दिने शुभे नक्षत्रे मुहूर्ते तु तथाविधे | चन्द्रताराबलयुते माते शून्ये विवर्जिते | माघे वा कार्तिके वापि वैशाखे वा विमूढके | उपदेशञ्च कर्तव्यं गुरुपरम धार्मिकः | रहस्यं सर्वमन्त्रेषु वेदवेदांग सम्मतम् | गोपनीयं प्रयत्नेन त्मवाङ्मनस गोचरम् | सद्गुरुं पूजयित्वा तु भक्तिपूर्वं सदक्षिणम् | प्. ३) उपोष्य रजसमेकां पञ्चगव्यादिकैश्शुचिः | दिग्बन्धनादिकं कृत्वा अष्टशक्तिरनुस्मरन् | गुरुत्रपञ्च संस्कृत्य गणेशं भैरवं तथा | पीठत्रवादि संयुक्तं नत्वा च गुरुमण्डलम् | भूशुद्धिं भूतशुद्धिञ्च मातृकान्यासमाचरेत् | अंगन्यासं करन्यासं देहन्यासं ततः परम् | मन्त्रादौ नियतः कृत्वा स्थिति न्यासं समाचरेत् मध्यान्हेर्वार्धरात्रे वा नद्यां देवालयेपि वा | अश्वत्थमूलमाश्रित्य ग्रहणेषु च सर्वसु | एतन्मन्त्रं सुसंगृह्य दाससोपरिसंस्थिताः | कलशं सन्निधौ स्थाप्य यथासंस्कारपूर्वकम् | विमलैर्वारुणैर्मन्त्रैर्मार्जयित्वा तदम्बुना | खड्गमुण्डञ्च वरदं अभयञ्च किरीटकम् | मकरञ्चेति विख्याताः मुद्राषट्कं प्रदर्शयेत् | उष्णिक्छन्दोभिसंज्ञातं भैरवोर्षिसमन्वितम् | मायाबीजानु बीजंश्च गगनाक्षरशक्तिकम् | द्वेषबीज परिस्पष्टं कीलकं मोक्षदायकम् | दक्षिणा कालिका मन्त्रक्रमं वक्ष्ये प्रयत्नतः | वामाक्षीवन्ह्यनुस्वारमाद्या त्रिगरलं क्रमात् | प्. ४) द्वेषद्वयं द्वितीयं स्यात् त्रिमूर्तिर्बिन्दुसंयुतम् | अष्टादशं चतुर्थं स्यात् पञ्चाशत्पञ्चमं स्मृतम् | तद्गोविन्द समायुक्तं ब्रह्मादिपरिसेवितम् | पूष्णोपरिस्थ वर्णं स्यात् त्रिमूर्तियुतमष्टमम् | आदिमदशमज्ञेयं पुराप्रोक्तं विधानतः | एकादशं द्वितीयवत् द्वादशन्तु तृतीयवत् | अन्ते स्वाहा समायुक्तं एतन्मन्त्रं मनोहरम् | ब्रह्मादिभिरनुद्धेयं वेदवेदांग संयुतम् | सप्तकोटिमहामन्त्रराज * तत्प्रकीर्तितम् | तव स्नेहात्प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् | त्रिषु लोकेषु विख्यातं नान्यमन्त्रमितः परम् | शीघ्रमारस्वतः प्राप्तिः पाण्डित्यं च सखान्तरे | यो नित्यं जपते मर्त्यः सोप्यतत्फलमश्नुते | इति श्री महाभैरवतन्त्रे कालिकारहस्ये उमामहेश्वरसंवादे ईश्वरप्रोक्तो नाम तृतीयः पटलः || पार्वत्युवाच - विभो शंकर मन्नाथ त्वन्मुखब्जविनिस्सृतम् | अस्य मन्त्रस्य माहात्म्यं धृत्वा समोदमाप्नुयात् | प्. ५) ध्यानं कथं महादेयाः पुनश्चरणादिकं कथम् | होमञ्च तर्पणविधिं विप्रभोजनमेव च | पूजाविधानं के पुष्पैः कथं कुर्यात्कियत्कियत् | एतन्मे ब्रूहि विस्तार्य सर्वमन्त्रविधां वर | ईश्वरोवाच - ध्यानक्रमं प्रवक्ष्यामि शृणु शैलेन्द्र नन्दने | करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् | कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् | सव्यछिन्नशिरखड्गवामोर्ध्वज कराम्बुजाम् | अभयं वरदञ्चैव दक्षिणा दोर्धपाणिकाम् | महामेघप्रभां श्यामां तथैव च दिगम्बराम् | कणवलिसक्तमुण्डालिंगलद्दधिरचर्चिताम् | कर्णावतंसतां नीता शवयुग्म भयानकम् | घोरदंष्ट्रा करालाञ्च पीनोन्नतपयोधराम् | सबाणकरसंधातै कृतकांचिहसन्मुखी | सृक्द्वयगलाद्युक्ता धारा विस्फुरितानताम् | घोराखां महारौद्रीं श्मशानालय वासिनीम् | दक्षिणाकालिकां दिव्यां मुक्तलम्बकच्चोच्चयाम् |? शवरूपमहादेव हृदयोपरि संस्थिताम् | शवाभिघोरारवाभिश्च चतुर्दिक्षुसमन्विताम् | प्. ६) महाकालेन च समं विपरीतरतातुराम् | मुखप्रसन्नवदनां घोरानन वरोरुहाम् | योगिनी चक्रसहितां कालिकां ध्यायेत्सदा | एवं प्रवक्ष्यामि मन्त्राणा मुत्तमोत्तमम् | वक्ष्ये चायुत्परं सर्वसम्पत्करमनुत्तमम् | न देयं मूढचित्ताय गुरुवित्तापहारिणे | भक्तिहीनाय हिंस्राय प्राणत्यागेपि पार्वति एवं सञ्चिन्तयेत्कालीं श्मशानालय वासिनीम् | इति श्री महाभैरवतन्त्रे कालिकारहस्ये ईश्वरप्रोक्तो नाम चतुर्थोध्यायः || एवमादौ परं ध्यात्वा ततो मन्त्रं समुच्चरेत् | श्मशाने वेदिकां कृत्वा दिग् चद * * विधानतः | तस्यामेकाग्रचित्तस्सन् एकाकी विजितेन्द्रियः | दिगम्बरो मुक्तकेशः बाह्यदृष्टिविसर्जयेत् | मरिच्व सर्षपाञ्चैव पलमेकं दिने दिने | गोक्षीरं सहितं भुञ्जन् गोघृतं च ततः परम् | पिबन् पलद्वयं नित्यं कुंकुमागरुलेपनम् | जपेन्मण्डलपर्यन्तं निश्चलं कंबलानले | प्. ७) चतुस्सहस्स्रं नित्यं वै वीरासन परिग्रह | ततो देवि कृपायुक्तो प्रत्येकं भवति ध्रुवम् | जपस्य दशमांशन्तु होमतर्पणमाचरेत् | क्षीरान्नेनार्क समिधैः मालामन्त्र मनुस्मरन् | घृतेन मधुना चैव जुहुयाद्वेदिकानले | भोजनं विप्रसंख्यानां दशांशं कारयेत्सुधीः | सुवासिनी मु ममुच्चार्य यथा वित्तं समाचरेत् | इदं ते देविं समावाह्य शक्ति मन्त्रविधानता | रक्तासितैश्च कुसुमैः नीलगन्धाक्षतै स्तथा | सम्यक् पूजां प्रकुर्वीत नित्यं भक्तिरतंद्रितः | सहस्रनामं कवचं पञ्जरन्तु भुजंगकम् | अष्टोत्तरशतञ्चैव परंस्तवमकारयेत् | एवं संपूजिता देवि प्रसन्ना वरदा भवेत् | य इदं पठते नित्यं श्रावयेद्वा समाहिताः | दक्षिणा कालिका देव्याः सभक्तो भवति ध्रुवम् | याचष्टे चाशृतंशास्त्र तनुते काव्यवाटकम् | तस्य गेहे महालक्ष्मी सान्निध्यं कुरुते सदा | तस्य कात्यायनी देवि प्रसन्ना वरदा भवेत् | आन्ध यो व्याधयश्चैव न भवन्ति कदाचन | प्. ८) न तु नाशयते क्षिप्रं कालमृत्युमपि ध्रुवम् | जपेदवश्यं काम्यार्थी ग्रहणे चन्द्रसूर्ययोः | अनेन स्तवराजेन पापनिर्मालकारिणः | दक्षिणा कालिका देवि दतुष्टान्भिष्टान् ददाति च | इति श्री महाभैरवतन्त्रे श्री कालिकारहस्ये उमामहेश्वरसंवादे ईश्वरप्रोक्तो नाम पञ्चमः पटलः || ########### END OF FILE #######