#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: E00011 Uniform title: kāllotara Main title: kālottaratantra Secondary title: kālottarāgama Manuscript : NGMPP Reel No. - B 118/7 manuscript no. 5-4632 Description: This manuscript contains various versions of kāllotaratantra they are: 1) jñānapañcāsikā 2) śatikam also called kālajñāna- One Hundred Verse Kālottara 3) kālottaram sārddhaśatikam - One Hundred and Fifty Verse Kālottara 4) dviśatikam - Two Hundred Verse Kāalottara 5) adhyuṣṭaśatikam Three Hundred and Fifty Verse Kālottara 6) saptaśatikam - Seven Hundred Verse Kālottara 7) trayodaśaśatikam - Thirteen Hundred Verse Kālottara Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Feb. 16, 2013 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### प्. १अ) ओं नमः शिवाय || शिवादिस्थापने यागे दीक्षायां च विशेषतः | सर्वेषामपि वर्णानामनुग्रहकरः परः || लक्षकोटितस्राणिविंशतिरर्वुदानि च | कोटिखर्वाब्दवृन्दं च मंत्रा ईशाद् विनिर्गताः || द्वासप्तति सहस्राणि कोटिलक्षं तथार्बुदम् | अयुतानि च पंचाशन्मंत्रावक्त्रांद्विनिःसृताः || त्रिंशत्कोटिसहस्राणि सप्ताष्टकशतानि च | नियुतानि च षड्त्रिंशन्मंत्रारुद्राद् विनिर्गताः || नवकोटिसहस्राणि पंचाशीत्ययुतानि च | कोटिशतानि पंचाशन् मंत्रा वामाद् विनिःसृताः || सप्तकोटिसहस्राणि सप्तत्रिंशच्छतानि च | शतं सहस्रलक्षं च सद्योजाताद् विनिर्गताः || पंचवक्त्रोद्भवैर्मैन्त्रैः शिवोक्तैः सिद्धिमुक्तिदैः || सद्वक्त्रागादि संस्थाप्यं नान्यैर्वेदादि चोदितैः || ईशं वक्त्रं तथाघोरं गुह्यं वा जातसंज्ञकम् | पञ्चवक्त्राणि देवस्य पञ्चाङ्गमधिसूक्तये || कामिहं योगर्जचिन्त्यं कारणं वाजितं तथा | दीप्तं सूक्ष्मं च स्रहस्रंमंशुमन् सुप्रभं दश | शिवभेदा समाख्याता रुद्रभेदस्ततः परम् || विजयं पारमेश्वर्यनिःश्वासोद्गीतसंज्ञकम् | प्रोद्गीतं मुखबिम्बं तु सिद्धं सन्तानमेव च || नृसिंहं चंद्रहासं च वीरं स्वायंभु रौरवम् | माकोटं किरिणं चैव त्वस्वितं वीरसं परम् || रुद्रभेदाः समाख्याता दशाष्टदशयोर्द्धूगाः | हरं हुंकारकं चैव बिंदुसारं कलामृतम् || देवत्रासं च सूयासं सावरं कालसावरम् | पक्षिराजं शिखायोगं शिखासारं शिखामृतम् || १ब्) पञ्चभूतविभागं च शून्यभेदं विनिर्णयम् | नीलकण्ठं च कालागं कालकूटं पटदुमम् || कम्बोजं कंवलं कंकं कालतुण्डं कटाहकम् | सुवर्णरेखं सुग्रीवं त्रोत्तलं त्रोत्तलोत्तरम् || गारुडस्य त्विमे भेदा अष्टाविंशतिरीरिताः | स्वच्छन्दभैरयं चण्डं क्रोधमुन्मत्तभैरवम् || असितांगं रुरुं चैव कापालीशं समुच्चयम् | अघोरं घोरासं घोरं निस्वासं चारदुर्मुखम् || भीमांसं डामरारावं भीमवेतालवर्द्धकम् | उच्छूष्मं वाहिकं बेलं शेखरं पुष्पमद्वयम् || त्रिशिरं चैकपादं तु सिद्धयोगेश्वरीमतम् | पञ्चामृत प्रपञ्चं च योगिनीजालसंवरम् || विश्वारिकंठसंकोचं तिलकोषा?नभैरवम् | एवं द्वात्रिंशतंत्राणि सोत्तराणि च तद्वयम् || चतुःषष्ठिप्रमारामविरुक्षिंप्त्य? स्योद्भवानि च | नयं नयोत्तरं मूकं संमोहं मोहनामृतम् || करपूजाविधानं तु वीणातत्वं तदुत्तरम् | जयं च विजयं चैव अजितं चापराजितम् || सिद्धनित्योदयं ज्येष्ठं चिंतामणिमहोदयम् | वाग्भवं कुब्जकं चैव कामधेनुकदम्बकम् || आनन्दरुद्र रुद्राक्षं किंकरा किंकरानुगम् | अनन्तविजयं सौकं दौर्वासे भीजभेदकम् || वामदं वामदेवोक्तं चतुर्विंशतिभेदगम् | हात्वाहत्वं हयंग्रीवं करकोटं कटंकटम् || करोटं मुण्डमालं च कर्कोटं खररामणम् | चण्डासिद्वारहुंकारं हाहाकारं शिवारवम् || घोराटहासमुच्छिष्टं घुर्घुरं दुष्टत्रासकम् | प्. २अ) विमलं विकटं चैव सुवरेण महोत्कटम् | यमघंटं च भूतांकं विंशद्भेदमजातजम् || इत्येवं शैवसूत्राणां चतुषष्ट्युत्तरंशतम् | पुनर्लक्षविभेदेन प्रभिन्नः शास्त्रसंग्रहः || शिषादुदस्ततो देवा देवेभ्यो ऋषयस्तथा | ऋषिभ्यो मानुषाः शिष्याः सर्वशास्त्रावतारकाः || कार्तिकेय उवाच || अतिविस्तरयोगेन नाथ ज्ञातुं न शक्यते | वाथुलायां महादेव बहुधा संप्रकाशितम् || केवलं मूर्धमार्गस्थमवतारेषु चोदितम् | गोपितं दक्षिणं मार्गं वाममार्गं तथैव च || संक्षेपात् तत्त्वसद्भावं यथार्थं मोक्षसाधनम् | भूतिप्रदं सिद्धिकरं कथयस्व महेश्वर || ईश्वर उवाच || पृथिव्यापर तथा तेजो वायुराकाशमेव च | पञ्चतन्मात्रकं चान्यद् बुद्धिकर्मेन्द्रियात्मकम् || मनोहंकारबुद्धिस्तु गुणाख्यं लयसंज्ञिकम् | पुरुषश्च कलाकालो विष्वारागो नियामिका || एतत् कंचुकमित्युक्तं मंत्रस्तारविभेदकम् | मायाकंचुकवज्ज्ञेया तुषव च कलादिकम् || शिवेच्छाविधिसंसिद्धा मायेव सहजो मलः | पृथिव्यादिप्रधानां तमेकमायात्मकं नयः || द्वितीय मायायोगेन बन्धनं तु निगद्यते | योनिश्चैव तथा माया परा संवेदनी तु या || ईश्वरो प्रमदाख्यश्च कुटिला शर्वधारिणी | सूक्ष्मप्राकृतजालं तु विघ्नाविघ्नान्तराणि च || तस्मात् सूक्ष्मतरो ग्रन्थिर्पासां सूक्ष्मास्तु कीर्तिताः | तत्परस्तु शिवो देवस्तं ज्ञातान्मुच्यते ग्रह || सांतो नियुक्तः षष्ठे च शन्त्यंतं यावदुच्चरेत् | प्. २ब्) भुक्तिमुक्तिप्रदो देव एकवीरः शिवो व्ययः || या मुद्रा बलसंज्ञा तु सा देया परमेश्वरे | प्रोक्ष्मानाघ तथाभ्यर्च्य आत्मस्थं यावदन्ततः || एकया चैव आहुत्या दीक्षितो भवते नघ | व्योमस्थां रसं चा?कृत्या परमामृतसंभवम् || तदाभिषिं? चेधन्मति?मान्मंत्रसिद्धिप्रसिद्धये | सूर्याधारेभियिस्तस्तु? आचार्यत्ये नियोजयेत् || आदौ तु प्रथमं यच्च वायव्यैर्वेष्टितं कुरु | वायुध्वानात् स योगीन्द्रो वायुरूद्ध्रो? न संशयः || एवं दीर्घैस्तु वह्निस्थं वह्निमंडलवेष्टितम् | तदा तु भवते वह्निः साधको वह्निमण्डले || कलशस्य तु विन्यासे वारुणैः संप्रवेष्टितम् | वारुणत्वं प्रजायेत शिवं मध्ये नियोजयेत् || अथ मृत्युंजये युक्तः कलैः षोडशभि स्थितम् | अष्टपत्रे तु हुंकारं बाह्ये ज्ञेयं द्विनाडिकम् || कंघमध्यगतं देवं शक्तिस्थममृतो भवेत् | ह्रस्वा वायुस्वराः प्रोक्ताः दीर्घा वाह्ये?यसंज्ञकाः || उत्क? माहेन्द्रो विजेयो अं अः वारुणमुच्यते | वर्गौढ्यै वाययौ प्रोक्तौ वाह्रेयाश्त्रिं? प्रकीर्तिताः || माहेन्द्रा परत्व वाख्याताः शेया ज्ञेयास्तु वारुणाः | विद्वेषे काकपक्षास्तु उलूकस्य च संभवात् || वर्णानां च विरोधेन तन्मण्डलनियोजनात् | विद्विष्टं कुरुते सर्वं यदि शक्रसमो भवेत् || यस्येत् कंटकैः शीघ्रमस्थिहोमेन फट्कृतम् | विसंधटं जलं वह्निं स्तम्भभेदमृतमध्यतः || चन्द्रे चन्द्रामृतं योज्यं कुरुते ह्यविचारतः | प्. ३अ) अथ हंसप्रयोगेन विषमाघ्रायमण्डले | रविस्थो रेचकेनासुः संहरेत किमद्भुतम् || कार्तिकेय उवाच | किदृशं यजनं देव प्रसादस्य निगद्यताम् | तन्मयाचक्ष्व देवेश प्रसादान्मम शूलिनः || ईश्वर उवाच बीजाख्यात्मासने योज्या पद्यरूपेण संस्थिता | कर्णिकायामृतं योज्य ततो देवं न्यसेत् पुनः || सकलादिविभागेन अष्टतत्पादत्व? तयाः | महामुद्रान्वितं देवं शरीरे संप्रयोजयेत् || अङ्गानां व्यस्तयोगेन न्यासं विन्यस्य मंत्रवित् | एतत् ते यजनं प्रोक्तमग्निकार्यमतः शृणु || प्रोक्षयेदर्च्चयेत् कुण्डं वचं वा चतुरश्रकम् | सकलेन हुतयः पंच अनलस्य प्रसिद्धये || होमयेदर्च्चयेद् देवं दीक्षामेकाक्षरीं पराम् | विषुवेन तु योगेन योजयेत् परमे शिवे || ब्रह्महत्यादिभिर्दोषैर्न कदाचिद् विभेतिसु | सत्यं सत्यं महासेन मुक्तो सौ जन्मबन्धनात् || प्रयोगेन तु सूक्ष्मेण गुरुवक्त्रागतेन तु | शिवशक्तिनिपातेन मोचको भवते ग्रह || न स्नानं मलशंका वा न क्वचिद् विचिकित्सितम् | मुक्त एव हि युक्तात्मामस्मतत्यं हृदि स्थितम् || ज्ञानानि क्रमजातानि भिन्नेन्द्रियकृतानि तु | एकवेदकवेद्यानि इति मे निश्चितं मनः || अंतरा?धिष्ठिता वृत्तिरक्षाणां तु स्वगोचरे | द्योतयन्त्री प्रमाणं स्यात् प्रत्यक्षं दोषवर्जितम् || अथ नादात्मकं रूपं जपेन्मंत्री समाहितः | तन्मनां मत् पुरो भूत्वा नादे तद्गतचेतसः || षड्मासा सिद्धिमाप्नोति दिव्यरूपां ह्यनिंदिताम् | प्. ३ब्) नादमध्यगतं देवं विचिंत्य दिव्यसाधने || व्योममध्यगतं दिव्यं पश्येद् व्योमसु * ल * | व्योमवद् भवते मुर्ध्नी शिवतत्वप्रभावतः || यस्य यस्य तु देवस्य आदिमं तु यदक्षरम् | दशधा भेदितं कृत्वा शिवं तस्योपरि स्थितम् || स देवो भवते वश्यो वत्सरान्नात्र संशयः | काषामकारपर्यन्ताः पञ्चविंशात्मके पथि || प्रधानान्ते भवेत् सर्वं साधकस्य वशे स्थितम् | याद्यावकारपर्यन्ता भूतानां चैव साधने || शाध्यहकारपर्यन्ताः पातालतत्वसाधने | श्मशाने भष्मसंगृह्य कृष्णायां तु चतुर्दशीं || एचा?वष्टशतं जप्त्वा श्मशाने त्वु भयावहे | ग्रामस्य नगरस्यापि मध्ये स्थित्वा सुयन्त्रितः || महायोगीशमार्गेण प्रक्षिपेत् तन्तु सर्वतः | निष्क्रमन्ति हि योगिन्यो भैरवस्य प्रभावतः || यस्योपरि तवेच्चित्तं षोडशेन तु भूषितम् | चित्तं कृत्वा ग्रसेत् तत्र अधरं भावसंयुतम् || यो ह्य तेन प्रयोगेन न मृत्युवसगो भवेत् | एकखण्डकपालं तु पुरुषस्य यथा भवेत् || गृहीत्वा तु जपेत् तस्मिन् प्रसादं भैरवात्मकम् | षण्मासादुत्पतेद् वत्स तस्य योगप्रभावतः || रात्रौ पर्यटनं कार्यं पटहिकां हनेत् त वै | चतुष्पथे नदीतीरे देवस्या पतते शुभे || हाहाकारं तु कर्तव्यं तत्र वै देवतान्वितम् | दर्शनं तु भवेद् वत्स नात्र कार्य विचारणा || मद्यं मांसं तिलां कृष्णां तत्यूक्तां होमये नले | श्मशानारन्ये तु वत्सेश आहृष्टि परमोत्तमाः || अथवा तुंबुरुं देवं चतुर्वक्त्रधरं ग्ररूम् | प्. ४अ) अष्टबाहुं महावीरं चतुर्भिर्योगिनिर्वृतम् || मातृकासनसंस्थं तु षोडशेन तु येष्टितम् | मध्ये प्रसादविन्यस्तं यजेत् तन्मातृमण्डले || ंंंंंंंंंं सिध्यते मासमात्रेण यदि तत्वपरो भवेत् | ब्रह्माण्यायास्तु योगिन्यो योगीशान्तगणान्विता || प्रसादे स्वरविन्यस्ते सिद्ध्यंते दिवि देवताः | भूतप्रेतपिशाचानां राक्षसानां च साधने || एम ते कथितो न्यासो वाथुलायां न संशयः | जानपंचादशिका वत्स न देया यस्य कस्यचित् || वाथुलायां महासेन सद्भावं परमं महत् | शियस्यानादिरूपस्य उपायो नास्त्यतः परम् || सर्वतत्वप्रयोगेन मन्त्रयोगेन सुव्रत | कथितं तव वत्सेश संप्रदायं परं महत् || ये यत्र संस्थिताः सत्वास्तेषां मंत्र शिवो नघ | चिन्तामणिसमप्रख्यो ज्ञातव्यां नास्त्यतः परः || एयं ज्ञात्वा महासेन मुच्यते ह्यविचारतः | संप्रदायं मया तुभ्यं पुत्रस्नेहात् प्रकाशितम् || सत्यं सत्यं पुनः सत्यं कथितं तव सुव्रत | इति कालोत्तरे ज्ञानपञ्चासिका समाप्ता || [शतिकम्] ईश्वर उवाच || अतः परं प्रवक्ष्यमि इमामिष्टिमनुत्तमाम् | नाथा कालोत्तरे तन्त्रे दध्नो घृतमिवोद्धृतम् || मधुवच्च यथा पुष्पात् साराणरतरं शुभम् | नादाख्यं यत् परं बीजं सर्वभूतेष्ववस्थितम् || तं विदित्वा महासेन देशिकः पाशहा भवेत् | अलध्वा पशवस्तेन शिवं यात्यमनामयम् || किमन्यैर्बहुभिर्बीजैश्चित्तव्यासंगकारकैः | बीजेनैकेन तत् सर्वं बहूनां प्राप्यते फलम् || प्. ४ब्) प्रयोगेण तु सूक्ष्मेण योगदृष्टेन मन्त्रवित् | मुद्राबीजसमायोगाच्चिन्तयेद् बीजमुत्तमम् || न तीथिर्न च नक्षत्रं नोपवासो विधीयते | देवाग्निगुरुभक्ताय मात्सर्य रहिताय च || अनुगृह्णाति तत् तत्वं शिवं यष्ट्वा विधानतः | मानसे स्थण्डिले वापि यत्र वा रोचते मनः || द्विःप्रकारं मया प्रोक्तमिदं संस्कारमुत्तमम् | स्थण्डिलेनुपशोभार्थमानसे मोक्षदम्परम् || हंसबीजं करे न्यस्य मुद्रां बन्धे द्विचक्षणः | योगमुद्रां ततो बद्ध्वा करणेन तु साधकः || हस्ताभ्यां संस्पृशेत् पादौ द्वौ हस्तौ यावन्मस्तकम् | एषामुद्रा समाख्याता शिवस्य परमात्मनः || कार्तिकेय उवाच | कथयस्व महादेव येन मोक्षो ध्रुवं भवेत् | सापेक्षं त्यज देवेश निरपेक्षं कथयस्व मे || येन विज्ञातमात्रेण पशुं मोचयते क्षणात् | ईश्वर उवाच | शृणु षण्मुख तत्वेन प्रयोगं तु सुदुर्लभम् | सकृदुच्चारयेद् बीजं परापरमव स्थितम् || यथात्मनि तथा शिष्ये योजयेत विधानतः | पश्चाद्धोमं प्रयुञ्जीत प्रसादेन तु बुद्धिमान् || शतमष्टोत्तरं हुत्वा दद्यात् पूर्णाहुतिं ततः | स्थण्डिले तु विधिर्ह्येय मानसे मानसं भवेत् || अज्ञात्वा तु परं तत्वं दीक्षां कुर्वन्ति मानवाः | मृधा परिश्रमस्तेषां नैव तत्फलमाप्नुयात् || मार्गत्रयं विदित्वा तु विभागेन विचक्षणः | गुरुः सर्वस्य जगतोऽनुगृह्णाति मानवात् || यं यं स्पृशति हस्तेन यं यं पश्यति चक्षुषा | प्. ५) शिवी भवति तत् सर्वं शिवेन्दुकिरणाहतम् || इति कालज्ञाने प्रथमः पटलः || ईश्वर उवाच अतः परं प्रवक्ष्यामि प्रासादस्य तु लक्षणम् | ह्रस्वं दीर्घं प्लुतं चैव लक्षयेन्मन्त्रवित्सदा || ह्रस्वोदहति पापानि दीर्घो मोक्षप्रदो भवेत् | आप्यायने प्लुतः प्रोक्तो मूर्द्ध्नि बिंदुसमन्वितः || जपे ध्याने तथा होमे आयतं चिन्तयेद् बुधः | शान्तिकर्मणि सर्वेषु वश्याश्चैव * युज्यते || प्रणवादि प्रयुक्तेन नमस्कारान्तयोजितम् | कर्मकाले प्रयोक्तव्या अन्यथा सन्ति रूपिणः || सिध्यन्ति सर्वकर्माणि यथेष्टं साधकस्य तु | एवं विधिविधानज्ञः सिद्ध्यते नात्र संशयः || इति कालज्ञाने द्वितीयः पटलः || यजनं संप्रवक्ष्यामि यथावदनुपूर्वशः | ओंकारं कर्णिकापद्मं धर्मज्ञानादिमेव च || वैराग्यं चैवमैश्वर्यं केसारे शक्तमस्तथा | अष्टत्रिंशत्कलोपेतं प्रणवं परिकीर्तितम् || आवाहयेत् तते दिवं प्रणवेन विचक्षणः | सान्निध्यं चार्यपाद्यं च स्नानं च प्रणवेन तु || गन्धपुष्पाक्षतं धूपं दीपं च प्रणवेन तु | बलिं चैव तु नैवेद्यं हैमं च कटिसूत्रकम् || वस्त्रालङ्कारदानैश्च प्रणवेन प्रदापयेत् | प्रणवेन तु सर्वं स्याद् यत् किञ्चिद् विधिचोदितम् || एवं यष्ट्वा विधानेन साधकस्तु समाहितः | ब्रह्मघ्नो पि लभेत् सिद्धिं विधिमेतत् समारभेत् || प्रसादं येन बुध्यन्ति न ते बुध्यन्ति शूलिनः | ज्ञानमन्त्रेण बीजेन न पुनर्जन्मतां व्रजेत् || इति कालज्ञाने तृतीयः पटलः || प्. ५ब्) ईश्वर उवाच || अग्निकार्यं प्रवक्ष्यामि तन्मे निगदितः शृणु | उलिख्या * * * कुण्डं प्रणवेन विचक्षणः || गर्भाधानादिकं कृत्वा निष्कृतिं चाप्यपश्चिमाम् | प्रणवेन सर्व ** न्यविधिचोदितम् || पश्चात् पद्मविधानं तु प्रागुक्तं परिकल्पयेत् | य एवं जुहुयान्मन्त्री सदाकालं समाहितः || लभते सर्वकामित्वं शिवलोकं स गच्छति | जपहोमेन संयुक्ताः सिद्ध्यन्ते नात्र संशयः || इति कालज्ञानेऽग्निकार्यः पटलश्चतुर्थः || अतः परं महाभूतधारणालक्षणं परम् | संप्रवक्ष्यामि ते स्कन्द सर्वकर्मावभासकम् || पार्थिवा वर्णसंयुक्तां परापरविभागशः | पञ्चोघ्नातप्रयुक्तां तु पार्थिवीं धारयेत् सदा || मनोपवनसंयुक्तां नगरायतनसंकुलाम् | देशान्वितपुरग्रामतोरणासरलसंयुताम् || कठिनामचलां ध्यायेद् वायवग्निभोविवर्जिताम् | निम्बोन्नतां समां चैव वत्सिभिः संप्रवेष्टिताम् || सर्वस्तंभप्रयोगेषु पौष्टिकेषु प्रयोजयेत् | भूतशुद्धिं च प्रकुरुते दीक्षाकाले सुनिश्चितम् || आगर्जितमहामेघ धारां मुशलवर्षिणीम् | प्लावितामरलोकांनां वार्यंवर * खेतलम् || विषानलमहाज्वाल कालपाशां न नाशिनी | शान्तिकर्मकरो ह्येषा वारुणार्णवयोजिताम् || कालानल शिखारोपज्वालिताशेषरातलम् | निर्दग्धं तोयसंधानं भस्मकूटव्यवस्थितम् || आग्नेयाक्षरभूयिष्ठाधासुग्ममग्निसंज्ञिता | नागोद्धारेरिहूत्सादेबाधा विनाशिनी ||? प्. ६अ) प्रचण्डमारुतोद्धूतं विघट्टितदिगंबरम् | रजसा चिन्तयेत् सर्वमापूरीतनभस्तलम् || चिंतयेत् स्वभावशून्यं मात्मानन्तव्यवस्थितम् | तत्रस्थं भगवन् देवं तत्त्वं सकलनिष्कलम् || वर्षन्तं तमभि ध्यायेदमृतं साधकोत्तमः | आपूरितं ततस्तेन आयोगकमलान्तिकम् || तद्योगकमलान्तस्थो आत्मानं लिङ्गरूपिणम् | सुसूक्ष्मं यत् परं धाम प्रसादस्य महात्मनः || एमा मृत्युंजयो नामधारणायोगिनां सदा || इति कालज्ञाने पञ्चमः पटलः || ईश्वर उवाच || अतः प्रतिलोमं वक्ष्ये तन्मे निगदतः शृणु | अहंकारेण क्षुब्धानां तन्मात्राणां पृथक् पृथक् || खं वायुरग्निरुदकं क्षितिश्चैव हि जायते | क्षितेः कठिनधारित्वमपां द्रवत्वसंग्रहः || तेजे तु पचनं प्रोक्तं प्रकाशकरणं परम् | अनित्वं व्यूहनं प्रोक्तं तथा चैव तु शोषणम् || व्योम्नि तथावकाशित्वमधिकारित्वमेव च | एवं भूताः प्रतिष्ठास्तु एकैकं पञ्चधा युतः || शरीरेष्वपि भिद्यंते प्राणिनो देहसंभवा | मेदोमांसंस्तथास्थी नित्य च स्नायूनि चैव हि || पृथिवी पञ्चधा भिन्ना शरीरेषु शरीरिणाम् | अहंकाराद् विजायन्ते क्रमेणैकैकशः पुनः || शब्दलक्षणमाकाशं शवं स्पर्श तथानिले | शब्दः स्पर्शः स्वरूपं च तेजस्यैते त्रयो गुणाः || शब्द स्पर्शश्च रूपं च रसश्च सलिले गुणाः | शब्दस्पर्शश्च रूपं च रसो गन्धश्च पंचमः || गुणैस्तु पञ्चभिर्युक्ता पृथिवी परिपठ्यते | प्. ६ब्) पृथिव्याधारणं कर्षयोधधीनां च रक्षणम् || आष्यायनशरीराणाममृतीकरणं परम् | स्वेदशोणितमज्जा च वसा श्लेष्मा तथैव च || सलिलं पञ्चधा भिन्नं शरीरेयु शरीरिणाम् | कामः क्रोधश्चतुष्या च क्रुधा तेजश्च पंचमः || अग्निस्तु पञ्चधाभिस्तुः शरीरेयु शरीरिणाम् | प्राणो पानः समानश्च दानो व्यान एव च || अनिलं पञ्चधा भिन्नं शरीरेयु शरीरिणाम् | सुरसवोवं? नासा च हृदयमुदरं तथा || आकाशं पञ्चधा भिन्नं शरीरेयु शरीरिणाम् | एतत् स्थूलशरीर सूक्ष्मं तन्मात्रसम्भवम् || तन्मात्रास्तु इमे ज्ञेया विषयाश्चैव कीर्तिताः | जीवयोनिमबुद्धा तु अन्तर्यामी स उच्यते || सर्वभूतप्रदो भूतो जीवः क्षेत्रज्ञ उच्यते | स नन्दति सदा क्षेत्रे विषयानन्दलक्षणे || तदावासः स्मृतो यस्मात् तद्भावगुणरञ्जितः | छिन्नं? भिन्नंनपिशस्त्रैर्व्याधिभिश्च प्रपीडितं || दुःखेन त्यजते देहं न विरागं कथञ्चन | विरागं च पुनर्गच्छेत् ज्ञानशक्त्या प्रचोदितः || दृष्ट्वा देहं जुगुप्से हं महोमायासुमोहितः | यो हमस्मिन् मलाकीर्णे रमाभिक्षणधङ्कुरे || नानाव्याधिसमाकीर्णे विषये रागदूषिते | मदोन्मादिर्विमुह्यन्ते विषयोरगतस्करैः || कामक्रोधममैस्तापैर्मुहुर्मुहुः सुतापिते | अत्यंतक्लेशबहुलेर्जरामृत्युसमाकुले || चिन्ताशोकसुसंपूर्णे अहो देवे च दुःखिते | चर्मबन्धे सुदुर्गन्धे शुक्रशोणितसंभवे || विण्मूषरेतःसंकीर्णै कथं नाम रमाम्यहम् | प्. ७) दर्पणेषु यथा द्वाया चित्रे रूपं यथा स्थितम् || अनर्थानिमनो ज्ञानि तद्वदेतच्छरीरकम् | एवं विरागमापन्नो ज्ञानसिद्धिं समीहते || ज्ञानसिद्धिर्विमोक्षाय विनयायनयाय च | उभयार्थमिदं शास्त्रं कालज्ञानं शिवोद्भवम् || इति कालोत्तरे षष्ठमः पटलः || अतः परं भवेत् प्राणो दशधा संव्यवस्थितः | प्राणाद्याः वायवः पंच नायाघ्नाश्च तथैव च || प्राणोपानः समानश्च उदानो व्यान एव च | नागः कूर्मोथ कृकरो देवदत्तो धनंजयः || मातृ * * तृजं चैव शरीरं द्विविधं स्मृतम् | शुक्रशोणितसंयोगात् षट्कौशिकमुदाहृतम् || रोमकोट्यो भवेत् तिस्रो उर्द्धकोटिस्तथोत्तरा | द्वात्रिंशद्दशनां प्रोक्तां नखाविंशत् प्रकीर्तिताः || मांसंपलसहस्रैकं रक्तं पलशतं स्मृतम् | पलानि दश मेदस्य त्वचं चैव तु तत्समम् || मज्जा च द्वादशपला महारक्तं पलत्रयम् | शुक्रं द्विकुडयं ज्ञेयं पित्तस्य कुडवं स्मृतम् || अर्द्धाटकं च श्लेष्मस्य विण्मूत्रं चाप्रमाणतः | वायवः पंच ये प्रोक्ताः शृणु तेषां प्रविस्तरम् || प्राणस्तु प्रथमो वायुर्नवानामपि स प्रभुः | प्राणः प्राणमयः प्राणाः विसर्गाः पूरणो प्रति || नित्यमापूरयत्येय प्राणिनामुरसिस्थितः | निच्छ्वासोच्छासकासैस्तु प्राणो जीवसमासृतः || प्रयाणं कुरुते यस्मात् तस्मात् प्राणः प्रकीर्तितः | अपान यत् पपात्तस्तु आहारमनुज्ञामधः || शुकमूत्रवहो वायुरपानस्तेन कीर्तितः | पीतं भक्षितमाघ्रातं रक्तपित्तकफानित्वम् || $$$ प्. ७ब्) समं नयति पात्रेषु समानो नाममारुतः | स्पन्दयत्य धरं वक्रमेत्रमात्रप्रकोपनम् || उद्वेजपतिगात्राणि उदानोनाममारुतः | व्यानो विनामयत्संगं व्यानोव्याधिप्रकोपनः || प्रीतिर्विनाशकथितो वार्द्धिक्यं व्यान उच्यते | प्राणाघ्ना वयवः प्रोक्ता नागाघ्नाः प्रोच्यतेधुना || उद्गारे नाग इत्युक्तः कूर्मध्वोन्मीलने स्थितः | कृकरः क्षुधिते चैव देवदत्तो विजृंभणे || धनञ्जय स्थितो षोषे मृतस्यापि न मुञ्चति | वायु वृंदं समाख्यातं समासेन तु षण्मुख || इति कालोत्तरे सप्तमः पटलः || देहचारं प्रवक्ष्यामि अहोरात्रायनाति च | संक्रान्तिं विषुवं चैव जनरात्रोधिमासकम् || शक्तिसमरसंज्ञेयं मिडाया दक्षिणायनम् | मध्यदेशे यदा ह्यात्मा विषुवन्तं विदुर्बुधाः || चूलितो गच्छते चैव मध्य देशे यदा पुमान् | उत्तरे दक्षिणे चापि संक्रान्तिः सा विधीयते || क्षुधिते जनरात्रं तु अधिमासो विजृंभके | उर्द्ध्वप्राणो अहश्चैव अपानो रात्रिरेव च || व्यापिनी सर्वभूतानां शक्तिश्चैव निबोधमे | तृतीये चैव आयामे द्विपूर्वषष्ठबिन्दुकम् || श्रूयते च यदाशक्तिः श्रुत्वा बुध्वा च मानवः | लीयते च शिवे देये भिन्ने देहे शिवं व्रजेत् || न शक्ति रहितामंत्रा दीक्षानुग्रहकारिणः | शक्तिहीना न सिद्ध्यन्ति न ते यान्ति परां गतिम् || शिवः सर्वगतो ज्ञेयो नामरूपविवर्जितः | चिन्मात्र पुरुषो ज्ञेयः शिवो व्याप्यव्यवस्थितः || प्. ८अ) भावयेत्समरसत्वेन शिवेन सहसंयुतः | एवं समरसोभूत्वा गच्छते शिवमन्ययम् || अथवात्म निरालंबं मूर्ध्निमालम्ब्य यत्नतः | यागं योगं जपं ध्यानं सर्वकर्माणि कारयेत् || शिवमाधाय कर्माणि कुर्वन्नपि न लिप्यते | योगसिद्धिमवाप्नोति शिवसा युज्यतां व्रजेत् || ज्ञानयोगं मया प्रोक्तं अक्लेशात्सिद्धि मोक्षदम् | अपरिक्ष्य न दातव्यमब्दत्नय? निवासिने || ब्राह्मणे वृत्तसंपन्ने क्षत्रिये धर्मशीलिने | वैश्ये चैव दयायुक्ते शूद्रे युक्षु?य तत्परे || अन्यथा दुष्टमर्त्यानां निन्दातर्कानुवर्त्तिनाम् | न देयं शिवसद्भावमन्यायपथवर्त्तिनाम् || शिवभक्तिविहीनाय गुरुभक्ति विवर्जिते | जिज्ञासा कौतुकार्थिभ्यो न देयं तत्वमुत्तमम् || इति कालज्ञानेऽष्टमः पटलः || ईश्वर उवाच || देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः | आप्तोय देशगम्योसौ सर्वतः किमपि स्थितः || प्रपंच रहितं शान्तं निगूढं च परंगुह | कार्यकारणभावेन सर्वत्रैवव्यवस्थितम् || स एव भगवान्व्यापीतित्वे तैलमिव स्थितम् | गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतोमुखम् || स्वयमुच्चरते यस्मात् स्वदेहावस्थित शिवः | तस्मात् तत्व विदां पुसां तदेव जयमुच्यते || प्राणस्यांतर्विदित्वा तु तदन्तं द्वादशांगुलम् | तत्रान्तस्थं विजानीयात् सर्वव्यापी निरंजनम् || नीयते शक्तिना जीवस्तस्मिन्साप्य निवर्तते | प्. ८ब्) गमागमं विदित्वा तु मुच्यते नात्र संशयः || एवं व्यापी स भगवान् करिष्यति गमागमम् | व्यापि त्वाद्गमनं नास्ति तत्रस्थो व्याययेत् प्रभु || हंसहंसेति योयाद्धंसो देवः सदाशिवः | मातृमोदकन्यायेन ग्रहितव्यं विचक्षणैः || देवयानस्य पूर्वे तु पितृमानस्य चोत्तरे | मध्ये तु सेतु बन्धस्य गत्वाभूयो न जायते || मनोप्य न्यन्ननिक्षिसंदृष्टिरन्यन्नपातिता | तथापि योगीनां योगो अव्युच्छिन्नः प्रवर्तते || अविछित्वेन संयुक्तं देयं तं विद्धितत्वतः | कथितं तु मयावत्स निःसंदिग्धमविस्तरम् || अतः परतरं नास्ति शिवात्परतरं शिवम् | ब्रह्महत्यादिकैः पापैर्न च लिप्यति तत्ववित् || असिद्धो तत्वविच्चैव देहपाते शिवान्तिकम् || इति कालज्ञाने शतिकं समाप्तम् || [कालोत्तरम् सार्द्धशतिकम्] प्. १अ) ओं नमः शिवाय || नमस्ते कालबोद्धाय कालान्तर नमोस्तुते | कालाधिप नमस्तेस्तु सर्वकालप्रवर्तक || कलशे कालरूपेण कलाभिर्विश्वरूपिणः | विश्वेश्वरे नमस्तेस्तु आदि कालप्रवर्तकः || एवं स्तुत्वा महादेवं भक्त्या च परमेश्वरम् | विज्ञापयाम्यहं देव प्रसादोभवशूलधृक् || कार्तिकेय उवाच || अष्टभेदं त्वया देव पूर्वं हि कथितं मम | सूचनात् सूत्रमात्रेण द्विशते कालसंज्ञिके || निर्णयं तस्य देवेश वक्तुमसि शङ्कर | विषुवं तु त्वया प्रोक्तं दीक्षाकाले ह्युपस्थिते || अष्टानां चैव तत्वानां रूपकं च महेश्वर | देह न्यास विभागं तु योगविभागं यथा भवेत् || ईश्वर उवाच || सकलं पञ्चवर्णस्थं निष्कलं कुन्द स प्रभम् | भावमात्रं स्मृतं शून्यं वर्णातीतं षडानन || कलाष्वं कुंकुमाभासं दिव्यसिद्धिप्रदायकम् | ऊर्द्ध्व दिग्गोचरावस्थमभ्यासाद्योगदं स्मृतम् || शुद्धस्फटिकसंकाशं तत्वं तु खमलंकृतम् | क्षपसां तु समाख्यातं सिन्दूरारुण स प्रभम् || आकर्षणे सदायोज्यं दिव्यभोगेषु षण्मुखः | पुष्करं वर्णसंस्थं तु यद्वत्तोयन्तु दृश्यते || अन्तःस्थं तद्विजानीयात् हृत्पद्मांतर्गतं प्रभुम् | यादृशेन तु भावेन कण्ठौष्ठ्यं चिन्त्यते बुधैः || तादृशं तस्य रूपं हि विज्ञेयं कृत्तिका सुत | कण्ठौष्ठं सर्वगात्रेषु सकलं हृदि विन्यसेत् || शून्यं मूर्द्धनि संचिन्त्य शिखायां क्ष्पणं तथा | नेत्रयो खमलं न्यस्य कला खमल मुत्तमम् || अन्तस्थं वक्त्रमध्ये तु निष्कलं बहिरं ततः | प्. १ब्) चतुर्दश स्वराक्रान्तं षष्ठेन तु समन्वितम् || प्रसादं दीर्घमुच्चार्य यावन्निष्कलतां गतः | अनेनैव प्रयोगेण निष्कलं सर्वतो न्यसेत् || अङ्गन्यासं तु पूर्वोक्तं हृदि अस्त्रांतसंयुतम् | एवं विन्यस्य विधिवयवजनं योगमेव च || कर्तव्यं देशिकेंद्रेण यथा भवति तच्छृणु | यागं तु पूर्ववत्प्रोक्तं दीक्षा च परिनिष्ठिता || योगञ्च विषुवं कृत्वा सा युज्यं तु विधीयते | प्रसादं नाद संस्थं तु स्मृत्वा नादान्त गोचरम् || समाने नैव संरुध्य शक्ति युग्मं हि यावतः | मध्यतोया स्थितारौद्री तया नादं प्रमुञ्चयेत् || नादान्तावस्थिता शक्तिः शिवाख्या कामरूपिणी | चतुर्थी सा परानित्या रौघ्न?तीता महेश्वरी || तस्योर्द्धे तु स्थितो देवः शिवः परमकारणः | किञ्चिद्विधृतवक्त्रस्तु शून्याधारे महेश्वरः || संस्मृत्य प्रक्षिपेत्पूर्णां शिष्ये चैव तु देशिकः | एवं तु विषुवं ज्ञात्वा मुच्यते पशुबन्धनात् || दीक्षितो विषुवे नापि किं पुनस्तत्व विन्नरः | तस्मात् सर्व प्रयत्नेन विषुवस्थः सदा भवेत् || अष्टानां चैव तत्वानां न्यासः सिद्धार्थकारणम् | न चात्मयाग योगेन वर्णन्यासविभागशः || आसनं हृदये नैव पूर्ववत्परिकल्पयेत् | कूटं तु मध्यतो न्यस्य तत्तत्वं तु शिवात्मकम् || सदाशिवन्तु पूर्वेण आग्नेययामीश्वरं न्यसेत् | विघ्ना याम्ये तु संपूज्य मायां नैर्-ऋति गोचरे || कालन्तु वारुणे भागे नियतिं वायवे तथा | पुरुषं चोत्तरेपन्ने प्रकृतिमीशगोचरे || प्. २अ) एवं विन्यस्यविधि * *? नयेत् हृदयेन तु | आवाहनादिकं कर्म अनेनैव तु कारयेत् || एवं कृत्वा तु मन्त्रज्ञो यत्तत्वं साधयेन्नरः | अष्टानां चैव तत्वानां तत्सिध्यति न संशयः || द्रव्याणां चाप्यलाभेन हृत्पद्मे वा प्रकल्पयेत् | प्रकल्पमानसं सर्वं ततो योगं समभ्यसेत् || अष्टानां चैव तत्वानां विकाराननु पूर्वशः | जाग्रस्थं सकलं विन्घ्नादंतस्थं स्वप्नमाश्रितम् || सुषुप्ते शून्यमानन्तु तुर्ये तु खमलङ्कृतम् | निष्कलं द्वादशोर्धे तु कलाढ्यं विशुवे स्थितम् || क्षपणं दुःखनाशाय कण्ठोष्ठ्यं तत्व धर्मतः | शुद्धाशुद्धेषु भावेषु विकारा कुरुते प्रभुः || पिण्डस्थं सकलं विन्द्यान्निष्कलं तु समाश्रितम् | द्वादशोर्द्ध स्थितं देवं भवबन्धविभेदकं || उभाभ्यामंतरे तत्वं शून्यं नाम प्रकीर्तितम् | भावितव्यं प्रयत्नेन साधकैर्मोक्षकाङ्क्षिभिः || इडापिङ्गलमध्यस्थं सुषुम्णान्तर्व्यवस्थितम् | यदा भवति विश्लेषं कलाढ्यं लक्षये तदा || रेचकस्य प्रवृत्तस्य यच्छेषं परिकीर्तितम् | तत्रस्थं तद्विजानीयात्तत्वं तु खमलंकृतम् || विजृम्भिका स्वरूपेण हाकारं कुरुते यदा | क्षपणं तु समाख्यातं तत्वं विद्धि विमोक्षदम् || रेचकं तु परित्यज्य पूरकं तु यदा भवेत् | किञ्चिन्निर्वाणमायातं मन्तस्थं मृत्युनाशनम् || सप्तानां तु समाख्याता ये विकाराः षडानन | कण्ठोष्ठस्य तु ते प्रोक्ताः किन्तु उत्क्रांतिकारकाः || प्. २ब्) पादान्मूर्द्धादिकं यावद्विन्यसं परमेश्वरम् | आसनं पद्मकं बध्वा यथा सुखमथापिवा || मूर्द्ध्नि चित्तं समाधाय मनसोच्चाहयेद्वरम् | शनैः शनैः समाकृष्य ब्रह्मनाढ्यं व्यवस्थितः || रुद्रशक्त्याग्रतोऽयाभेदात्मनमरूणप्रभम् | यावत्तद्घण्टिका मार्ग ततो हिक्कान्तु कारयेत् || संपूर्यप्रक्षिपेत् स्कन्द वायुंश्चोते व्यवस्थितं | निष्पीड्योर्द्धं प्रकूर्वीत यावत्ताल्यन्तिकं गतम् || सदाशिवं तु तस्योर्द्ध्वं बिन्दुनादं तत्रोपरि | बिन्दुनादं परित्यज्य ततः शक्तिमनुक्रमात् || शक्तिं त्यक्त्वा व्रजेच्छान्तं शिवं परमकारणम् | यत्र गत्वा न जायन्ते प्रतिश्य समपुत्रक || इति संक्षेपतः प्रोक्तमुत्क्रान्तिस्तवसुव्रतः | स्वशिष्याय प्रदातव्यं भक्तियुक्ताय नित्यशः || शिवाद्गुरुतरी यस्य गुरौभक्तिर्व्यवस्थिता | तस्मैरेयमिदं ज्ञानं नान्यस्यै तु कदाचन || कार्तिकेय उवाच | अष्टभेदं समाख्यातं त्वया देव महेश्वर | अधुनाश्रोतुमिच्छामि संक्रान्तिर्विषुवं तथा || यथा कलयेते देवः कालसंख्या च या स्मृता || ईश्वर उवाच | षष्टिसंवत्सराः प्रोक्ता अहोरात्रे सा योगिनाम् | शतत्रयप्रमाणानां षष्ठ्याधिकं तु षण्मुखः || साधका घटिका प्रोक्ता तायत् संख्याप्रकीर्तिता | एवं संवत्सराः प्रोक्ता बाह्ये तु घटिका तु या || आध्यात्मिकेन चरेण कथितन्तु तथा नघ | प्राणो भवेदहोरात्रं द्विस्थं तु विषुवं भवेत् || विषुवन्तु परित्यज्य यदा तु चलते प्रभुः | किञ्चिद्विचलिते देवे संक्रान्ति परिपठ्यते || प्. ३अ) कार्तिकेय उवाच || अघ्नापि भ्रमते देव आस्था हि विषुवं मम | यथा विज्ञायते तं च तथा कथयशङ्कर || ईश्वर उवाच || अहोरात्रं तु यत्सत्कीर्तितं हि मया तव | एवसंवत्सरः प्रोक्तस्तन्त्रे कालाख्यसंज्ञके || तदेव भाजितं कृत्वा द्वादशांशं तु त्रिंशति | षड्भिर्भाज्यं त्रिभिर्हार्यं परापर विकल्पितम् || तत्रस्थः प्रक्षिपेत्पूर्णां मुच्यते ह्यविचारतः | एषो हि मुक्तिदः प्रोक्तो लीलयापत्सु मोचने || ये न्येपि विषुवाख्याता मुक्ति सायुज्यदायिन | कालेन लक्षयेत्तेपि भेदैरेतैर्ह्यनेकधा || अथ धातु महासेन संक्षेपात्कथयामिते | यत्पूर्वं तु मयाख्यातं तदन्तं द्वादशाङ्गुलम् || तस्योपरि महेशानं द्वादशान्ते तु सुव्रत | अतीत सर्वभावानां कारणं ह्युपरिस्थितम् || कारणं तु भवेद् बिन्दुर्नादशक्तिलयं तथा | लयं तु परमं तत्रन्निरुपाख्यं निरामयम् || तं गत्वा सर्वगं देवं न भूयः प्रतिपठ्यते | सर्वभावमयं देवं विश्वेस्मिन्स चराचरे || कलते कालरूपेण विश्वमूर्तिर्महेश्वरः | दक्षिणं चोत्तरं ज्ञेयं वामदक्षिणसंज्ञितम् || सौम्य * * प्रभेदेन कालस्तु परिकीर्तितः | भास्कर ग्रहणं बाह्ये सौम्यं रात्रौ प्रकीर्तितम् || पूर्वोदितं तु यत्कालं घटिका सा व्यवस्थिता | मासस्त्रिंशत्स्मृताः प्राणा योगिनां काल वेदिनाम् || सहस्राण्येक विंशस्तु षड्शतानि तथैव च | अहोरात्रेण बाह्ये न प्राणसंख्या प्रकीर्तिता || प्राणसंख्या तु या प्रोक्ता अहोरात्रेणषण्मुख | प्. ३ब्) संवत्सरेण सा ज्ञेया संख्या वै घटिकात्मिका || बाह्ये नैव तु कालेन अध्यात्ममेकतः कुरु | बाह्यकालं परित्यज्य अध्यात्मं तु निरूपयेत् || अध्यात्मेन तु सर्वाणि काले नैव समारभेत् | विषुवे मुक्ति कामस्य यजनं परिकीर्तितम् || शान्त्यर्थं सोम्यनाद्यायाः प्रवहन्ते महेश्वरे | यजनं विहितं स्कन्द अनित्वामभि चारुके || एवं ज्ञात्वा तु मन्त्रज्ञो मुच्यते भवसागरात् | सिध्यते चापि मन्त्रज्ञो यदि सिद्धिं समीहते || नान्यथा सिद्धिर्मुक्तिस्याघ्नदि कालं न वेत्तिसः | कार्तिकेय उवाच || योगीनेयु यथा विघ्ना न भवन्ति हि तत्वतः | कथयस्व यथा न्यायं पूर्वादिभिः क्रमात् || ईश्वर उवाच | परमेश्वरस्य देवस्य हंसाख्यस्य महात्मनः | ज्ञात्वा तु तस्य सद्भावं ततो योगं समभ्यसेत् || शिवी कृत्वा तु चात्मानं पूर्वमुक्तं यथा मया | ततो योगस्य चाभ्यासं कर्तव्यं च न चान्यथा || अस्त्रं पाशुपतं ध्यात्वा ततः कर्मसमारभेत् | ओं श्लीं पशूं हूं फट्ऽस्येवं तारकाघ्नन्तु ह्यस्त्रनुत्तमम् || नाम्ना पाशुपतं प्रोक्तं रक्षाहेतोर्व्यवस्थितम् | साधने योगसिद्धौ तु विघ्नमुच्चाटनं प्रति || प्रासादशीधनार्थं च भूपरिग्रहणेपिवा | रक्षोरगभये चैव देवासुर स गुह्यकैः || रक्षते ह्यस्त्र राजस्तु प्राकारादि नियोजितः | स्मरणात्सर्वविघ्नानि विनाशयति अस्त्रराट् || अस्य यागं यथा न्यायं शृणुषण्मुख तत्वतः | प्रणवं हृदये न्यस्य श्लींकारं शिरसि तथा || मकारं तु शिखां तस्य शूतद्? वर्मप्रकीर्तितम् | प्. ४अ) अस्त्रहुंकारयुक्तेन फट्कारेणसमन्वितम् || हुंकारेण स्मृतं नेत्रं नेत्रयोः परिकल्पयेत् | सकृन्मत्त्रं समुच्चार्य शरीरे विन्यसेद्बुधः || अङ्गानि विन्यसेत्पश्चादोंकादि नमोंतिकम् | ततो यागं प्रकुर्वित्त विघ्नोपशमनाय च || ध्यात्वा तु मानसं पद्ममष्टपत्रं स कर्णिकम् | अथवा रजसा लेख्यं मण्डलं सार्वकामिकम् || प्रणवासनसमारूढं तस्मिन्मंत्रं विचिन्तयेत् | दशबाहुंमहात्मानं दशकर्णमहाबलम् || नेत्रैः पञ्चदशैर्युक्तं स्फुरन्तं दीप्ततेजसम् | दंष्ट्रैः करकरायन्तं मुक्तनादं सुदुर्जयम् || शीर्षैः पञ्चभिरत्युग्रं सूर्यकोट्ययुतप्रभम् | लेलिहानं दुराधर्षं रूपं तस्य मनुं स्मरेत् || कर्णिकाशिखरस्थं हि पूजयेत् परमेश्वरम् | बिन्दुनादनियुक्तेन सर्वकर्माणि कारयेत् || प्रथमं तैजसे पत्रे विन्यसेदक्षरेश्वरम् | द्वितीयमीशपत्रे तु नैर्-ऋत्यान्तु तृतीयकम् || चतुर्थं वायवे पत्रे हुं देवस्य तु नेत्रयोः | अस्त्रं चैव स फट्कारमैंद्रादिषु व्यवस्थितम् || विन्यसेद्विधिवत्सर्वं ततो ह्येमं समारभेत् | न चात्मकस्य चाहुत्यैर्नवभिः संस्कृते नले || घृतमध्वादि युक्तेन दध्ना सह नियोजिते | अस्त्रराजस्य चाहुत्या जुहुयादष्टोत्तरंशतम् || यष्ट्वा तु विधिवत् भक्त्या बलिभिर्विविधैस्तथा | अकालमूलकलशं संपूर्णमुदकेन तु || शताष्टोत्तरजप्तेन अस्त्रमस्त्रेणसाधकः | अभिषिञ्चेतप्रतिमान्ध्यात्वा रूपं तु पूर्ववत् || प्. ४ब्) एवं कृते प्रणश्यन्ति एतस्य द्विद्रकारकाः | विनायकाश्च विविधाये च विघ्ने व्यवस्थिताः || तेषां कुर्यादिदं यागं नश्यन्ते नात्र संशयः | आत्मनो वा प्रकुर्वीत उपसर्गे ह्युपस्थिते || उपसर्ग भयं सर्ग? विनाशयति अस्त्रराट् | इति सर्वसमाख्यातमस्त्रयागं मया तव || सांप्रतं परमेशस्य शिवस्य परमात्मनः | पिण्डे शस्याति गुह्यस्य सर्वमन्त्रमयस्य च || येनोच्चारितमात्रेण सर्वपापैः प्रमुच्यते | धर्माधर्मैश्च विविधैर्मुच्यते नात्रसंशयः || अस्य स्मरमात्रेण दीक्षितो भवते क्षणात् | प्रयत्नान्मुच्यते मर्त्यो दीक्षितः शिवशासने || अस्य देवस्य माहात्म्यं शृणु षण्मुख तत्वतः | जन्मकोटि सहस्राणि जन्मकोटि शतानि च || अनन्तस्त्व प्रमेयस्तु संसारपरिकीर्तितः | तस्मिन् संसारमानेन यत्पापं समुपार्जितम् || तत्सर्वं नाशयेद् देव सकृद्दुच्चारितोपि यः | तस्योद्धारं प्रवक्षामि तन्मे निगदितः शृणु || हंसंहंससमारूढं स्वतत्वोपरिसंस्थितम् | भुजार्द्ध सुस्थिराघ्नेन युक्तं तस्याधो विन्यसेत् || आघ्नं द्वितीय वर्गस्य एकविंशत्तथा पुनः | ग्रन्थिस्तस्याधः संयोज्य कालममृतमूर्द्धनि || ग्रन्थ्यधस्तात्समायोज्य द्विपिण्डममृतासनम् | शोषक ममृताधस्तातलस्योपरि संस्थितम् || शोषकं शक्तिबीजेन युक्तं कुर्यादधः पुनः | उपरिष्टात्समाक्रान्तं बिन्दुनाकारयेच्छिवम् || ओंकारमूर्ध्निसहितं नादान्तं तु विचिन्तयेत् | एषते परमं तत्वं सर्वपापनिकृन्तनम् || सर्वतत्वेश्वरं शान्तं व्योमव्यापी परंशिवम् | प्. ५अ) सहस्राक्षरदेवस्य हृदयं परिकीर्तितम् || अनेन सकृद्जप्तेन देव देवेन शम्भुना | मन्त्राणां सप्तकोट्यस्तु जप्ता एवं भवन्ति हि || बीजानां परमं बीजं तत्वानां परमं स्मृतम् | उत्क्रान्ति साधने चैव सर्वपातकशोधने || योज्यं परं शरीरे तु आचार्यैस्तु हितैषिभिः | अङ्गानि चास्य देवस्य शृणु स्कन्द यथाक्रमम् || प्राणाः पुंवह्नि चलनं द्वितीयेन समन्वितम् | संपूर्णतिलकाक्रान्तं हृदयं परिकीर्तितम् || एवं मध्यमसंयोगाद्वह्निना च तथा पुनः | चलनेन समायुक्ता अङ्गाह्येते क्रमेण तु || चतुर्थेन पुनः षष्ठे द्वादशेन तु भूषितम् | द्वात्रिंशकं तु प्रथमं सप्तमस्य द्वितीयकम् || तस्यैव प्रथमं गृह्य अधस्तात्परिकल्पयेत् | पूर्वपञ्चमसंयोगात्सविसर्गेण मन्त्रवित् || शिवास्त्रं परमं गुह्यं सर्वकिल्विषनाशनम् | सर्वविघ्नहरं नाथं दुर्जयं तत्सुरैरपि || सूर्यकोटि सहस्रैस्तु तेजसा वृत्य तिष्ठति | तेजोरूपं दुराधर्षं रक्षाहेतोप्रयोजयेत् || भवबन्धान्यनेकानि स्मरणान्नाशयेत् तु सः | अघोरं नाममेवन्तु अस्त्रं भूतभयावहम् || यागे तु प्रणवं योज्य मासनार्थायमन्त्रवित् | हामिति परमेशस्य धर्मादिषु नियोजयेत् || वामाघ्नाशक्तृयो यास्तु तेन चैव तु कारयेत् | महाशिवं समुच्चार्य पिण्डेशं प्रभुरव्ययम् || नादान्ते शक्तिमार्गेण सुषुण्नां तं स्थितं यदा | तदा संस्थापनं कुर्यात् सिद्धिमुक्तिफलार्थिना || आग्नेययां हृदयं न्यस्य शिरश्चैशान दिक्स्थितम् | प्. ५ब्) नै-ऋत्यां तु शिखां न्यस्य कवचं वायु गोचरे || ऐं * * दि विन्यसेत् ह्यस्वं पूजयेत्परमेश्वरम् | नित्ययागः स्मृतो ह्येष वैशेषिकमतः शृणु || संस्कारार्थं पशूनां च यदा कुर्वन्ति देशिकाः | एक हस्तात् समारभ्य यावद्धस्तानि षोडश || मण्डलं चतुरस्त्रं तु चतुर्द्वारो पशोभितम् | मध्ये पद्मं तु विकचं कर्णिका केसरोज्ज्वलम् || तव देवं प्रतिष्ठाप्य हृदयेन महाशिवम् | पूर्वोक्त विधिना पूज्य हृदयाघ्नस्त्रसंयुतम् || आग्नेयादिषु पत्रेषु दिग्विदिक्षुक्रमेण तु | पूज्ययेत्पत्रमध्ये तु मूलस्थाने व्यवस्थितम् || पवमध्ये तु विघ्नेषाः संपूर्णतिलकान्वितम् | शान्तं तु चलत्वारूढमनन्ताघ्ना महौजसाम् || अग्रे तु गणसुरम्याश्च नाडी बीजे व्यवस्थिताः | द्वितीयेन समाक्रान्त दिव्यादि षण्मुखावधि || लोकपाला महास्त्रैस्तु इन्द्राघ्नास्तु यथाक्रमम् | इन्द्रादि सुरपतयेन प्र *? राघ्नमस्त्रसंयुताम् || कथिता लोकपालाश्च स्वकरायुध पाणयः | पूजान्ते च प्रयोक्तव्या मुद्रा ह्येयामतः परम् || वज्रादिका त्रिशूलांता अस्त्रमुद्रा क्रमान्न्यसेत् | यो यस्य च स्मृतो ह्यत्र सा तु मुद्रा तदात्मिका || महामुद्रा नमस्कारं विघ्नेषान् गणनायकान् | योजयेत्परमां मुद्रा नाम्ना चैव महाशिवम् || शिवस्य मंत्रराजस्य मुद्रालक्षणमुच्यते | उत्तानौ तु करौ कृत्वा कन्यसे योज्यमेकतः || अनामिका तथैवेह मध्यमौ ह्यूर्द्ध निसृतौ | अङ्गुष्ठौ मध्यमाशक्तौ तर्जन्यौ निःसृता वुभौ || प्. ६अ) संशक्तावग्रतश्चैव मध्यमा पृष्ठयोजितौ | एषा मुद्रा महामुद्रा सर्वबन्धनिकृन्तनी || मातेयं सर्वमुद्राणां मन्त्राणां च महेश्वरी | शिवस्य मन्त्रराजस्य पूजा काले नियोजयेत् || विधिसंपूरणी ह्येषा धर्माधर्मविनाशिनी | गोपितव्यं प्रयत्नेन प्राणवत्सततं बुधैः || हृदि चालभनं कुर्याच्छिष्यस्या पादमूर्द्धनि | शिवहस्तादिकं कर्म षड्भिः पिण्डैर्विधानतः || पिण्डेन हृदयाख्येन सर्वात्मनेन सर्वतः | कर्म कुर्याघ्नथा?न्यायं संस्कारार्थ तु देशिकः || पृथिव्यादीनि तत्वानि हृच्छिरः शिखावर्मणि | व्योमं महाशिवे नैव शोधयेद्देशिकोत्तमः || प्रायश्चित्तादिकं कर्म अस्त्रपिण्डेन होमयेत् | तत्वे तत्वे भवेत् पूर्णा पाशानां? विहिताग्रह | अथवा चैकमाहुत्या परमेशेन षण्मुख | योजयेद्विषुवस्थेन मुच्यते पशुबन्धनात् || देहपाते शिवं यान्ति निरूपाख्यं निरामयम् | गणयागं वास्तुयागं च चण्डीशं हृदयेन तु || एतत्सर्वसमाख्यातं विधानं पारमेश्वरम् | अष्टभेदप्रसङ्गेन अनाख्येयं कथंचन || शैवी तु परमाशक्तिर्नित्यानुग्रहकारिणी | यस्य सा पतने पुंसः सोत्रसंस्कारमाप्नुयात् || नान्यथा प्राप्नुयादीक्षां महाशिव पदानुगाम् | इत्येतत्परमं ज्ञानं कथितं तव षण्मुख || सुपरीक्षित शिष्या यदातव्यं तु दयान्विते | अन्यथा दुष्टमर्त्येभ्यो अमृतं न प्रकाशयेत् || इति कालोत्तरे स्युर्धशतिकं समाप्तमिति || द्विशतिकम् प्. १अ) ओं नमः शिवाय || कार्तिकेय उवाच || अल्पायुषास्त्विमे मर्त्या अल्पवीर्यपराक्रमाः | अल्पसत्वाल्प वित्ताश्च लोभ मोहसमन्विताः || अल्पग्रन्थमहार्थञ्च पदार्थानेकसंकुलम् | वक्तुमर्हसि देवेशानुग्रहार्थं मम प्रभो || ईश्वर उवाच || अथातः संप्रवक्ष्यामि शास्त्रसद्भावमुत्तमम् | नाम्ना उत्तरे तन्त्रे दध्नोघृतमिवोद्धृतम् || तथेदं सर्वशास्त्राणां मुद्धृतं परमामृतम् | मधुवच्च यथा पुष्पात् सारात् सारमिदं शुभम् || नादाख्यं यत्परं बीजं सर्वभूते व्यवस्थितम् | तं विदित्वा महासेन देशिकः पाशहा भवेत् || आगोपालांगनावालाम्लेच्छाः प्राकृतभाषिणः | अन्तर्जलगता सत्वास्तेपि नित्यं ध्रुवन्तितम् || स्थूलं सूक्ष्मं परं ज्ञात्वा कर्मकुर्याद् यथेप्सितम् | स्थूलंशब्दमिति प्रोक्तं सूक्ष्मं चिन्तामयं भवेत् || चिन्तया रहितं यच्च तत्परं परिकीर्तितम् | एवं ज्ञात्वा तु मन्त्रज्ञः सर्वपापक्षयो भवेत् || य वर्गाश्चाष्टमं बीजं मात्रैर्द्वादशभिस्थितम् | अक्षरान्तरितं कृत्वा षडङ्गः स शिवो भवेत् || प्रथमं हृदयं विघ्नाद्द्वितीयं तु शिवः स्मृतम् | तृतीया तु शिखा देवी चतुर्थं कवचं भवेत् || पञ्चमं तु शिवं विघ्नात् षष्ठमस्त्रं विसर्गजम् | षडङ्गमेतत्कथितं शिवेन परमात्मना || ईश्वर उवाच || अस्य मुद्रां प्रवक्ष्यामि येन सिध्यंति साधकाः | हस्ताभ्यां संस्पृशेत्पादौ द्वौ हस्तौ यावमस्तकम् || एषामुद्रा महामुद्रा सर्वकामार्थसाधिका | करन्यासं पुराकृत्वा दर्शयेत्तु विचक्षणः || प्. १ब्) इति कालोत्तरे द्विशतिके प्रथमः पटलः || ईश्वर उवाच || यजनं संप्रवक्ष्यामि यथा वदनुपूर्वशः | हृदयं कर्णिका पद्मं धर्मज्ञानादिमेव च || वैराग्यं चैवमैश्वर्यं हृदयेप्रभवान्न्यसेत् | केसरै शक्तयो व्यूहं हृदयेन तु कारयेत् || आवाहयेत् तयो देवं हृदयेन तु साधकः | स्थापनं चार्धयाघ्नं च आचमनीयञ्च मंत्रवित् || स्नपनं पूजनं चैव हृदयेन तु कारयेत् | हृदयेन तु सर्वस्याद्यत्किञ्चिद्विधिचोदितम् || एकावरणमेतन्तु सर्वकामार्थसाधकम् | सर्वतन्त्रेषु सामान्यं सर्वज्ञानेषु सम्मतम् || इति कालोत्तरे द्विशतिकेऽर्चनद्वितीयः पटलः || ईश्वर उवाच || अतः परं प्रवक्ष्यामि अग्निकार्यविधिक्रमम् | उल्लेखनन्तु चास्त्रेण कवचेनाभ्युक्षणं स्मृतम् || शक्ति न्यासं ततो मंत्री हृदयेन तु कारयेत् | हृदिना शक्तिगर्भे तु प्रक्षिपेज्जातवेदसम् || गर्भाधानादितः कृत्वा निष्कृतिं चाप्य पश्चिमाम् | हृदयेन तु तत्वज्ञः सर्वकर्म्मणि कारयेत् || पश्चात्पद्मविद्या?नं तु प्रागुक्तं परिकल्पयेत् | होमयेत्तु शिवं साङ्गं सर्वसिद्धिप्रदायकम् || इति कालोत्तरे द्विशतिकेऽग्नि कार्यस्तृतीयः पटलः || ईश्वर उवाच || अतः परं प्रवक्ष्यामि मण्डलं सार्वकामिकम् | सूत्रेण सुस्मितं कृत्वा चतुरस्रं समंततः || मध्ये पद्मं प्रतिष्ठाप्य अष्टपत्रं स कर्णिकम् | एकहस्तं द्विहस्तं वा चतुरष्टमथापिवा || एकावरणमेतत्तु सर्वकामार्थसाधकम् | प्. २अ) पश्चिमे बाहयेद्द्वारं सिद्धिकामः समाहितः || आग्नेययां कारयेत्कुण्डं हस्तमात्रं समं ततः | यज्ञकर्म विधिं कुर्यात्सुसमं द्विहुताशने || आग्नेय हृदयं न्यस्य ऐशान्यां च शिरो न्यसेत् | नैर्-ऋत्यां तु शिखां दघ्ना द्वापर्या कवचं न्यसेत् || अस्त्रंदिसासु विन्यस्य कर्णिकायां सदाशिवम् | संक्षेपेण मयास्कन्द विधानं परिकीर्तितम् || अनुक्तं मद् भवेत् किञ्चित् तत् सर्वं मूलमाश्रयेत् | एवं विधिविधानज्ञो बुधा कर्म समारभेत् || इति कालोत्तरे द्विशतिके चतुर्थो मण्डलः पटलः | अथ दीक्ष्यं प्रवक्ष्यामि पञ्चतत्वैर्व्यवस्थिताम् | पृथिव्यापस्तथा तेजो वायुराकाशमेव च || एते पंचमहातत्वायैर्व्याप्तमखिलं जगत् | सर्वे तत्वास्तु तत्रस्था द्रष्टव्य दिशिकोत्तमैः || अविदित्वात्विमांज्ञात्वा यो दीक्षां कर्तुमिच्छति | वृथा परिश्रमं तस्य नैवं तत्फलमाप्नुयात् || निवृत्ति पृथिवी ज्ञेया प्रतिष्ठा आप उच्यते | विद्या तेजो मयी प्रोक्तायायुः शांतिश्च कीर्तिता || शान्त्यातीतं परं व्योमं तत्परं शान्तमव्ययम् | तं विदित्वा महासेन स्थावराण्यपि दीक्षयेत् || निवृत्ति हृदये नैव प्रतिष्टां च शिरेण तु | विघ्ना? तत्वं शिखायां तु शान्तिर्वै कवचेन तु || शान्त्यातीतं परंशान्तं प्रसादेन तु यों?दयेत् | एकैकस्य शतं जुहुयाच्छतान्वैयं च होमयेत् || पश्चात्पूर्णाहुतिं दघ्नात्प्रसादेन तु षण्मुख | प्रायश्चित्त विशुद्ध्यर्थमेकैकायाहुतिं क्रमात् || अस्त्रबीजेन मंत्रज्ञो होमयेच्च पूर्वसः | प्. २ब्) एवं समाप्यते दीक्षा जननादि विवर्जिता || हुते नैव मुच्यंते साधकाजन्मबन्धनात् | अप्रकास्यमिदमिष्टिं गोपनीयं प्रयत्नतः || रहस्यं सर्वतन्त्राणामिदं संस्कारमुत्तमम् | एवं संस्कारशुद्धस्य शिवत्वं जायते ध्रुवम् || कार्तिकेय उवाच || विस्तरं त्यज देवेश संक्षेपात्कथयस्व मे | येन विज्ञात मात्रेण पशुं मोचयते क्षणात् || ईश्वर उवाच | शृणु षण्मुख तत्वेन येन मोक्षो भवेद् धुवम् | प्रयोगेण तु सूक्ष्मेण योग दृष्टेन मंत्रवित् || योगमार्गेण दिव्येन प्रेर्यते स तु शक्तिताः | तं विदित्वा महासेन जीवं वायु मयं बुधः || विषुवेन तु योगेन विन्यसेत् शाश्वते पदे | योगं तु विषुवं प्राप्य कोन मुच्यते बन्धनात् || इति कालोत्तरे द्विशतिके पञ्चमः पटलः || ईश्वर उवाच | नाडी चक्रमिदं सूक्ष्मं प्रवक्ष्याम्यनुपूर्वशः | नाभेरधस्ताघ्नकन्दः कुरास्तत्रनिर्गताः || द्वासप्तति सहस्राणि नाभि मध्ये व्यवस्थिताः | तिर्यगूर्ध्वमधश्चैव व्यापितै तैस्तु सर्वतः || चक्रवत्संस्थितामर्धाः प्रधानादशनाडयः | इडा च पिंगला चैव सुषुम्ना च तृतीयका || गान्धारी हस्ति जिह्वा च पूषा चैव यमात्तथा | अलंबुषा कुहूश्चैव शंखिनीदशमी स्मृता || दशप्राणवहा ह्येता नाडयः परिकीर्तिताः | प्राणोपानः समासश्च उदानो व्यान एव च || नागः कूर्मोथ कृकरो देवदत्तो धनंजयः | प्राणस्तु प्रथमो वायुर्नवानामपि स प्रभुः || प्राणप्राणमयः प्राणो विसर्गात्पूरणं प्रति | प्. ३अ) नित्यमापूरयत्येय प्राणीनामुरति स्थितः || निश्वासो च्छ्वासकासैस्तु प्राणोजीव समाश्रितः | प्रयाणं कुरुते यस्मात्तस्मात्प्राणः प्रकीर्तितः || अपानयत्यपानस्तु आहारमनुजामधः | शुक्रमूत्रवहो वायुरपानस्तेन कीर्तितः || सीतं भक्षितमाघ्रातं रक्षपित्तकफानित्वम् | शमं नयति गात्रेषु समानो नाममारुतः || स्पंद यत्यवरं वक्त्रं नेत्रमात्रप्रकोपनम् | उद्वेजयतिमर्माणि उदानो नाममारुतः || व्यानो विनाशयत्यंगं व्यानो व्याधि प्रकोपनः | प्रीतिर्विनाशः कथितो वार्द्धिक्यं व्यानमुच्यते || प्राणाघ्नावायवः प्रोक्ता नागाघ्नाः प्रोच्यतेधुना | उद्गारे नाग इत्युक्तः कूर्म उन्मीलने स्थितः || कृकरः क्षुदिते चैव देवदत्तो विजृम्भते | धनंजयः स्थितो घोषे मृतस्यापि न मुञ्चति || इत्येतद्वायुवृन्दं हृदि ह्रदनिहितं नाडिचक्रे प्रतिष्ठं | निच्छ्वासोच्छ्वसकासैः श्वसनसुरमधः कंपिताघूर्णितैश्च नित्यं नित्याल्पजन्माव्यसनमतिषु वा यौवने बाल्यभावादाक्रान्तोवायुरेको विधुननषरणैः क्रीडते सर्वसत्वैः || नाडीचक्रं यथावस्थं कथयामि तवाखिलम् | दशारं चक्रमेतं तु विभागो ज्ञायते यथा || तथाते कथयिष्यामि तन्मे निगदितः शृणु | चक्रवद्भ्रमते जीवो दशस्थानेष्वनुक्रमात् || स जीवो जीव लोकस्य नैवबुध्यंति मोहिताः | दशधा गच्छते येन तेन चक्रं प्रकीर्तितम् || नाडीचक्रमितिख्यातं य च संकमते ह्यसौ || प्. ३ब्) कार्तिकेय उवाच || स जीवो जीवलोकस्य यथा * *? जितस्वनः | संशयो मे महादेव प्रसादीम * *? कर || ईश्वर उवाच | जीवस्य पुरुषाख्यस्य दर्शनं शृणु षण्मुख | कथयामि न सन्देह पुत्रस्नेहाद्विशेषतः || संक्रान्तिविषुवश्चैव अहोरात्रायनानि च | अधिमाससृणं चैव ऊनरात्रं धनं तथा || ऊनरात्रभवेच्छिक्त्वा अधिमासो विजृम्भिका | भस्मं च भवते काशो निश्वासोधनमुच्यते || दक्षिणमुत्तरं ज्ञेयं वामदक्षिणसंज्ञकम् | मध्ये तु विषुवं प्रोक्तं मुदद्वयविनिःसृतम् || संक्रान्तिपुनरस्यैव स्वरयानात्स्यान एव च | इडा चैव सुषुम्ना च प्रमा? चैव समन्विता || सुषुम्ना मध्यमे ह्यङ्गे इमा? * * प्रतिष्ठिता | * * * दक्षिणे ह्यङ्गे एतत्स * * * * * ते || ? ऊर्द्ध्वप्राणोऽहश्चैव अपानो रात्रिरेव च | विभागादशयो वेत्ति स * वेद विदुच्यते || प्राणायामं समासेषु कथयामि तवाधुना | * * * यीत प्रणवं स्वरेणैके न योगवित् || उदरं पूरयित्वा तु वायुना यावदीक्षितम् | * * * * * * * * * * * * * * * * || * * * * * * * णिनि छ्वासोछ्वासवर्जितः | संपूर्णकुम्भवत्तिष्ठेत् प्राणायामः स कुम्भकः || युज्यतेद्वायुं? ततोर्द्धे तु निश्वासे * * * * | निश्वासयोगयुक्तं वर्द्धं वायुं विरेचयेत् || रेचकस्त्येयविख्यातः प्राणसंशयकारकः | योसौ हृदि स्थितः पद्म * * * * * * व्यवस्थित || प्. ४अ) * * * * सते पद्मः पूरकेन तु पूरितः | ऊर्ध्वश्रोतो भवेत् पद्मकुम्भकेन तु रोधितः || रेचके न तु आक्षिप्तः सघ्नः प्राणहरे भवेत् | * * हृदयपद्मं तु जीव ऊर्द्ध्वं व्यवस्थितः || रेचितो गच्छते ऊर्द्ध्वं भित्वा ग्रन्थिं क्षणेन तु | भित्वाकपालद्वारं तु जीव ऊर्ध्व तु रेचितः || सदाशिव पदं गत्वा न भूयो जन्ममाप्नुयात् | आयामः क्रियते तस्य नान्यस्य च कदाचन || स जीवो जीव लोकस्य मया प्रोक्तः समासतः | स्वयमुच्चरते यस्मात् स्व * हावस्थितः शिवः || तस्मात्तत्वविदानां तु तदेव जप उच्यते | अयुतेब्दे सहस्रैकं षट्शतानि तथैव च || अहोरात्रेण योगिन्द्रो जपः संख्यां करोति सः || इति कालज्ञाने द्विशतिके नाडिचक्रसप्तमः पटलः || ईश्वर उवाच || अथातः संप्रवक्ष्यामि शास्त्रसद्भावमुत्तमम् | येन विज्ञातमात्रेण गृह्णाति न पुनस्तनुम् || देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः | आप्तोपदेश गम्यो सौ सर्वतः किमपि स्थितः || हंसहंसेति यो ब्रूयाद्धंसो देवः सदाशिवः | गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतो मुखम् || तिलानां तु यथा तैलं पुष्पे गन्धः समासृतः | पुरुषस्य शरीरेस्मिन्स बाह्याभ्यन्तरे स्थितः || उल्काहस्तो यथा कऽस्चिद् द्रव्यमालोक्य तांत्यजेत् | ज्ञानेन ज्ञेयमालोक्य तदा ज्ञानं परित्यजेत् || पुष्पं तु सकलं विंघ्नाद्गंधं तस्यैव निष्कलम् | वृक्षं तु सकलं विन्द्याच्छायं तैस्यैव निष्कला || सकलनिष्कलभावेन सर्वत्रैव व्यवस्थितः | प्. ४ब्) सकले सकलं विंघ्नन्निष्कले निष्कलं तथा || त्रिमात्रश्च द्विमात्रश्च एकमात्रस्तथैव च | अर्द्धमात्रापरासूक्ष्मा तस्याप्यूर्द्धं परापरम् || ब्रह्मविष्णुश्च रुद्रश्च ईश्वरः शिव एव च | पञ्चधापंच दैवत्यं सकलं परिपठ्यते || ब्रह्मणो हृदये स्थानं कण्ठे विष्णुः स्मासतः | तालु मध्ये स्थितो रुद्रो ललाटस्थो महेश्वरः || नाशाग्रे तु शिवं विंघ्नात्तस्यान्ते तु परापरम् | परात्परतरं नास्ति इति शास्त्रस्वनिश्चयः || कार्तिकेय उवाच | गमागमं कथं तस्य केन वा नीयते तु सः | संशयो मे महादेव कथयस्व यथार्थतः || ईश्वर उवाच | नीयते शक्तिना जीवस्तस्थित्प्राप्यनिवर्तते | तस्यां तं प्रवक्ष्यामि शृणु षण्मुख तत्त्वतः || देहातीतं तु तं विन्ध्यान्नदन्तं द्वादशाङ्गुलम् | अन्तस्थं तद्वीजातीयात् तत्रस्थो व्यापयेत् प्रभुः || मलोप्य न्यत्रनिक्षिप्तं दृष्टिरन्यत्रपातिता | तथापि योगीनां योगो अव्युच्छिन्नप्रवर्तते || एतत्तु परमं गुह्यमेतत्तु परमं पदम् | एतत्तत्परमं ब्रह्म एतद्धि परमाक्षरम् || नातः परतरं किञ्चिन्नातः परतरं शिवम् | नातः परतरं ज्ञानमित्याह भगवान् शिवः || शिवज्ञानामृतं प्रोक्तं संक्षेपान्न तु विस्तरात् | अवाप्त देवदेवेश परमाक्षरनिर्णयम् || एतद्धि शिव सद्भावं शिववक्त्राद्विनिसृतम् | गुह्याद्गुह्यतरं गुह्यं गृहितव्यं प्रयत्नतः || नाशिष्याय प्रदातव्यं ना पुत्राय कथंचन | गुरुदेवाग्नि भक्ताय शान्ताय च तपस्विने || प्. ५अ) शिवामृतं समाख्यातं सत्यं सत्यं मया तव | एवं ज्ञात्वा तु मेधावी विचरस्व यथासुखम् || गृहस्थो ब्रह्मचारी वा वानप्रस्थोथ भिक्षुकः | यत्र तत्र स्थितो ज्ञानी परमाक्षरवित्सदा || विषयैर्विषयासक्तो यान्ति देहान्तिकं शिवम् | ज्ञानादेवास्य शास्त्रस्य पापासक्तोपि मानवः || ब्रह्महत्याश्वमेधाघ्नैः पु * पापैर्न लिप्यते | चोदके *? रथकेश्चैव मोक्षकश्च परः स्मृतः || इत्येते त्रिविधाज्ञेया आचार्यास्तु महीतले | चोदको दर्शयेन्मार्गं बोधकः स्थानमादिशेत् || मोक्षकस्तु परं स्थानं यं गत्वा न निवर्त्तते || इति कालोत्तरे द्विशतिकेऽष्टमः पटलः || ईश्वर उवाचः || अग्नि मध्ये रविस्थानं रविमध्ये तु चन्द्रमा | तन्मध्ये चाङ्कुरं दिव्यं ततः सृष्टिः प्रवर्तते || सृष्टि न्यासं न्यसेत् तत्र द्विरभ्यास पदेरितम् | श्रवन्तं चिन्तयेत् तस्मिन् न मृतं साधकोत्तमः || अग्निषोमात्मकं सर्वं जगत्स्थावरजङ्गमम् | विपरीतं चिन्तयेत् तस्मिन् सिद्धिकामः समाहितः || स्वदेहं चिन्तयेद्विशन्दिव्यरूपमतौपमम् | यस्य यत्कर्ममुद्दिष्टं तत्कर्मं चिन्तयेद्बुधः || यो भ्यसेत इदं ध्यानममृतं सर्वतोमुखम् | अचिरेणैव कालेन स सिद्धिफलभाग् भवेत् || सृष्टिन्यासमविज्ञाय कथं युंजन्ति साधकाः | हनते मुष्टिनाकासं तुषा?त्कन्दयते तु सः || इति कालोत्तरे द्विशतिकेऽग्नि व्यो?मियो नवमः पटलः || ईश्वर उवाच || अतः परंप्रवक्ष्यामि प्रसादेनोत्थाप्य नादं सततं जपते यदि | प्. ५ब्) षण्मासाज्जायते सिद्धिर्योगयुक्तो न संशयः || गमागमस्य जाप्येन सर्वपापक्षयो भवेत् | अणिमादिगुणैश्वर्य षड्भिर्मासै न संशयः || तत्वयस्तन्मयो भूत्वा षण्मासात्सिद्धिमाप्नुयात् | स्थूलं सूक्ष्मं परं चैव प्रसादः कथितो मया || प्रसादं येन जानन्ति न ते बुध्यन्ति शंकरम् || इति कालज्ञाने द्विशतिके दशमः पटलः || ईश्वर उवाच || अतः परं प्रवक्षामि प्रसादस्य तु लक्षणम् | ह्रस्वोदीर्घः प्लुतश्चैव लक्षयेन्मन्त्रवित्सदा || ह्रस्वो दहति पापानि दीर्घो मोक्षप्रदो भवेत् | आप्यायने प्लुतं चैव बिन्दुमूर्द्ध्निसमन्वितम् || स्थूलभेदास्त्रयः प्रोक्ता वश्योच्चाटनमारणे | प्लुतेन तु सदावस्यं कुरुते नात्र संशयः || दीर्घोच्चाटयते क्षिप्रं फट्कारेण तु संयुतः | आदिरन्ते च ह्रस्वस्य फट्कारो मारयेद्भृशम् || आदिरन्ते च हृदयं प्रयोगाकर्षणे स्मृतः | आकर्षयेद्ध्रुवं युक्तो योजनानां शतैः स्थितम् || एवमाकर्षयेत्साध्यं नामं विज्ञायतत्वतः | साधकस्य भवेद् वह्वी न्यूनासाध्यस्य कीर्तिता || एवं विज्ञायमेधावी आकर्षं कुरुते ध्रुवम् | अविज्ञाय इदं सम्यक् नैव सिध्यन्ति साधकाः || यागं कृत्वा तु पूर्वोक्तं मन्त्रस्यार्घं प्रदापयेत् | अर्घं दत्वा तु म्रतस्य? जपं कुर्याद्विचक्षणः || देवस्य दक्षिणे भागे पञ्चलक्षां स्थितो जपेत् | जपान्ते * * होमस्तु दशसाहस्रिको भवेत् || एवमाप्यायितो मन्त्रः कर्मयोग्यो भवेत् तनः | उक्ता च ये मयाकर्माः सिध्यन्ते नात्र संशयः || प्. ६अ) दशलक्षं जपेघ्नस्तु जनाः स्वस्थानवासिनः | यश्यमायान्ति वै क्षिप्रसिति?शास्त्रस्य निश्चयः || लक्षान्यं च दशाञ्ज पूत्वादशग्रामनिवासिनः | ते जनावशमायान्ति आत्मना च धनेन च || पञ्चविंशतिभिर्लक्षैर्विषयं वशमानयेत् | त्रिंशल्लक्षं जपेत् यस्तु मण्डलिको वशी भवेत् || पञ्चत्रिंशतिभिर्लक्षैः पृथिवीं वशमानयेत् | चत्वारिंशतिभिर्लक्षैरीक्षते हाटकेश्वरम् || लक्षान्यं चाशनाम्जप्त्वा? तु विघ्नाधरसमो भवेत् | तत्रैव मोदते मन्त्री यावदाहूतसंप्लवम् || इति कालोत्तरे द्विशतिके एकादशः पटलः || कार्तिकेय उवाच | अघ्नापि संशयो देव ज्ञानविज्ञानयोः प्रभो | कथं ज्ञायतितज्ज्ञानं कथं वा ज्ञेय उच्यते || ईश्वर उवाच || आधारं पूर्वविज्ञाय पश्चाद्व्ये?यन्तु षण्मुख | आधाराधेय वित्प्राज्ञः समर्थः सर्वकर्मसु || आधारं मु?रमित्युक्तं माधेयस्त्वीशमुच्यते | ईशिन्या ईशते यो हि सोस्म ईश इति स्मृतः || ईशं विज्ञायमेधावी यः स्वयं नदते सदा | पुर्यष्टकसमायुक्तोऽधश्चोर्द्ध्वं च गच्छति || शब्दः स्पर्शश्च रूपं च रसोगन्धश्च पञ्चमः | बुद्धिर्मनस्त्वहंकारः पुर्यष्टकमिति स्मृतम् || यावदेतैर्न मुच्यंते कथं मुच्यन्ति बन्धनात् | शब्दः स्पर्श त्यजे ब्रह्मे रसं वै केशवे त्यजेत् || रूपगन्धौ त्यजेद्रुद्रे बुध्यहंकारमीश्वरे | मनोबिन्दुं शिवे त्यज्य एभिर्मुक्त शिवो भवेत् || इति कालोत्तरे द्विशतिके द्वादशः पटलः || प्. ६ब्) कालचक्रविधानं तु प्रवक्ष्याम्य तु पूर्वशः | कालचक्रेति विख्यातं येन कालं प्रबुध्यति || इडाहोरात्राचारेण चन्दांस्त्रीणि? स जीवति | दा?वहोरात्रचारेण अब्द द्वयं स जीवति || तृराय?होरात्रचारेण अब्दमेकं स जीवति | अब्दमेकं च * *? स्तु ए * *? कां तथैव च || षण्मासाज्जायते मृत्युरिति शास्त्रस्य सिद्धयः? | यागद्वयस्य चारेण अहोरात्रं स जीवति || * * * * * * * * मध्यस्य च तथा भवेत् | कालचक्रं समाख्यातं पुत्रस्नेहान्नसंशयः || इति कालोत्तरे द्विशतिके त्रयोदशः पटलः || तथा? वहतु? मार्गौ? तु? * * * *? भजन्तितौ | एकासंयुज्यते योगे द्वितीया दुःखमाप्नुयात् || संयोगा यत्सुखं भद्रे तत्सुखं कथयस्व मे | कथयामि त्वहं भद्रे यत्सुखं संप्रवर्तते || पुनश्चागमनं दृष्ट्वा परि * जति सोत्सुका | यत्त्वया पूर्वमुद्दिष्टं सांप्रत्रं जप * * *? || अ अस्य मेतत्कथितं * * * * * * सुखम् | ततः सा ब्रुवते त्रुकोकिं? त्वया सत्यवादिमि || ईदृशं तादृशं चैव सौपम्यं? प्रत्ययं यतः | लयोगिकं? यत्सुखंस्या? चैव * * * * * *? || अन्यथा वदमानस्य प्रत्ययो नैव जायते | अव्युत्पन्नं सुखं यस्मात् कथितुं वै वशक्यते? || अचिरेणैव कालेन संशयं? तत्सुखं तथा | यत्त्वया कथितं भद्रे तत्तथैव न संशयः || अज्ञान सुखमोहेन यदुक्रं चा प्रियं मया | * * * * प्रियं भद्रे यथा भजा * * * || इति कालोत्तरे द्विशतिके चतुर्दशः पटलः || प्. ७अ) कार्तिकेय उवाच || पूर्वदेव प्रतिज्ञातं शिव भेदोष्टधाविभो | कथं स भिघ्नते देव प्रसादी भवशूलिनः || ईश्वर उवाच | सकलं निष्कलं शून्यं कलाघ्नं खमलं कृतम् | क्षेपणं क्षयमन्तस्थं कण्ठोष्ठ्यं चाष्टमं स्मृतम् || प्रसादं षष्टसंयुक्तं षडङ्गे च समन्वितम् | सकलं सर्वभूतस्थं शिवतत्त्वं प्रकीर्तितम् || स्वयं निष्क्रमते देवो देहं त्यक्त्वा समारुतः | निष्कलं तद्विजानीयात्यद्वर्णरहितः शिवः || निच्छ्वासोच्छ्वसनं भित्वा स्थितं देहन्तु काष्ठवत् | शून्यं तं तु विजानीयाद् हृदयेन तु भावयेत् || चुम्बाकारेण वक्त्रेण यत्तत्वं धूमते भुवि | कलाद्यं तद्विजानीयादाकाशस्थं तु मे शृणु || ऊर्द्ध्वनादस्य क्षीणस्य यदं तं परिकीर्तितम् | तत्रस्थं तु विज्ञानी पादाकाशेन अलंकृतम् || व्यावृत्तेन तु वक्त्रेण श्रुत्वा देवं जगद्गुरूम् | दुःखक्षपणमित्युक्तं तत्क्षयात्क्षपणात्स्मृतः || आदौ नादस्य क्षीणस्य पदन्तं परिकीर्तितम् | अन्तस्थं तद्विजानीयादनुच्चार्यं प्रकीर्तितम् || अष्टवर्गाष्टमं कोटि सप्तमस्य द्वितीयकम् | वर्गातीतं षडं तं च सप्तमे त्रिचतुर्थकम् || आदिमं तु पुनर्योज्यं षष्ठं वै प्रथमस्य तु | खशेखरसमायुक्तं कण्ठोष्ठं चाष्टमं स्मृतम् || एते भेदाः समाख्याता अणिमादि प्रसाधने | अनुच्चार्यमसंदिग्धं मोक्षमित्यभिधीयते || इति कालोत्तरे द्विशतिके पञ्चदशः पटलः || कार्त्तिकेय उवाच || प्. ७ब्) कथं व्यापी अधश्चोर्द्ध्वं तिर्यक् चैव कथं भवेत् | एतन्मे ब्रूहीं सद्भावं यथा वदनु पूर्वशः || ईश्वर उवाच || यावद्देहे स्थितो जन्तु मावद्व्याप्य व्यवस्थितः | निर्गतो व्यापयेत्तिर्यगंतस्थः सर्वतः स्थितः || त्रिमार्गावस्थितो जन्तुः सर्वदेहे व्यवस्थितः | अविदित्वा तु मुच्येतपघ्नपि तत्सयो भवेत् || त्रिमार्गं त्रिरधिष्ठानं सर्वदेहे व्यवस्थितम् | यो वेत्ये च मिमां व्याप्तिं स व्यापी तु न संशयः || तावद्भ्रमन्ति संसारे यावद्व्याप्तिं न विन्दति | विदित्वा व्यापीनं देवं मुच्यते नात्र संशयः || यथा तृणजलूका तु तृणाग्रं यावदागता | उपरिष्ठान्निरालम्बा तद्वज्जिवो व्यवस्थितः || ऊर्द्ध्वं शून्यमधः शून्यं मध्ये शून्यं निरामयम् | त्रिशून्यं यो विजानाति मुच्यते स ध्रुवं ग्रह || व्याप्तिश्चास्य मया प्रोक्ता संक्षेपान्न तु विस्तरात् | अतः परतरं नास्ति व्यापकस्य तु व्यापकम् || इति कालोत्तरे द्विशतिके षोडशः पटलः || अतः परं प्रवक्ष्यामि अष्टधा प्रत्ययो यथा | अनग्नेर्ज्वलनं चैव वृक्षस्या लभनं तथा || पाशानां स्तोभनं चैव महापातकनाशनम् | विषसंहरणं चैव निर्जीवीकरणं तथा || ज्वरग्रहविनाशं च प्रत्ययोष्टविधः स्मृतः | एवं ज्ञात्वा विधिं सम्यक् ख्यातिः सर्वत्र जायते || ओं ह्रं ह्रौं ह्रूं नमः | अग्निश्रोते प्रयोक्तव्यं प्रयोयोऽग्निं ज्वालने || सहस्वोद्धोमयुक्तेन ज्वलते नात्र संशयः | ओं ह्रूं ह्रौं ह्रूं नमः || अयमप्यग्निश्रोतेषु प्रयोगः संप्रकीर्तितः | शतैः पञ्चभिरुद्घातैरालब्धो म्रियते ध्रुवम् || प्. ८अ) पुनश्चाप्यायनं तस्य वारुणे स्येतसिस्थिते | ओं हां हौं हीं नमः || स जीवति पुनर्वृक्षो यथा पूर्वं तथैव सः | ओं ह्रीं ह्रौं ह्रीं नमः || (प्रयोगो विषुवे काले पाशानां स्तोभकारकः | शतैः पञ्चभिरुद्घातैः पतते नात्र संशयः ||) ओं ह्यं ह्रौं स्वं नमः | घटस्पशेहणे प्रोक्तं गुरुत्वं चैव जायते | * * * * * इति श्लोकोऽन पटितव्या || ओं हं हें स्थें नमः || तुला पुरुषप्रयोगोय सहधातायुतसंख्यया || ओं ह्यां ह्यौं ह्यीं नमः | विषसंहरणे चैव प्रयोगो वारुणेन तु | उद्घाताष्टशते नैव विषं संहरते ध्रुवम् || यथाग्नि ज्वलने प्रोक्तं निर्वीजीकरणे तथा | शतैः पञ्चभिरुद्घातैर्विशेषोऽत्रविधीयते || ओं ह्रं ह्रौं ह्रं नमः || ग्रहान्नाशयते क्षिप्रं प्रयोगो वारुणे स्थितम् | उद्घाताष्टशतैः प्रोक्तं ग्रहाणान्नाशने तथा || ओं हुं फट् || ओं ह्रों फट् || हुं फट् || वारुणेन तु स्त्रोतेन क्षिप्रं नाशयते ज्वरम् | उद्घाताष्टशते नैव प्रयोगोज्वरनाशनः || अष्टानां प्रत्ययानां तु प्रयोगो कथितो मया || इति कालोत्तरे द्विशतिके सप्तदशः पटलः || कार्तिकेय उवाच || प्रसादः किंदृशो ज्ञेयो व्याप्तिस्तस्यैव किंदृशी | प्रसूतिः किंदृशी तस्य कथयस्व महेश्वरः || ईश्वर उवाच | प्रसादं येन जानन्ति पञ्चमंत्रमहातनुम् | अष्टत्रिंशत्कलैर्युक्तं न स आचार्य उच्यते || प्रसादं सम्यगज्ञात्वा दीक्षां यः कुरुते गुरुः | अधस्ताच्छिष्यमात्मानं नयते नात्र संशयः || प्. ८ब्) प्रसादा *? शिखान्तस्थो यस्तु दीक्षां प्रकुर्वति | आचार्यः सहशिष्यैस्तु शिव सा युज्यतां व्रजेत् || देवदानवगन्धर्वाः स यक्षोरगराक्षसः | सिद्धाश्च ऋषयश्चैव सर्वे प्रासादसंभवाः || ब्रह्माविष्णुस्तथा रुद्र ईशश्चेन्दुः प्रजापतिः | बृहस्पतिस्तथादित्यः शुक्रः स्कन्दो भृगुस्तथा || ये चान्ये ग्रहगणाः केचित् सर्वे प्रासादसंभवाः | एते चान्ये च वहव ऋषयः संशितः व्रताः || ध्यायन्ति परमं हंसं प्रासादं नामनामतः | विभागं तस्य वक्ष्यामि यं ज्ञात्वामृतमश्नुते || सद्यं कलाष्टकसंयुक्तामकाराक्षरजं विदुः | विध? *? कारजं वाममघोरं तु मकारजम् || बिंदुजं पुरुषं ज्ञेयमीशानं तु शिखात्मकम् | एवं मत्रास्त्वयं चैते प्रासादा वा समुद्भवाः || शतकोटिसहस्राणि मन्त्रणाममितौजसाम् | प्रसादे नैकेन यष्टेन सर्वे यष्टा न संशयः || मारुतानलशक्राघ्ना ये मन्त्राः परिकीर्तिताः | प्रसादान्तसमुत्पन्ना सर्वे चामोघशक्तयः || सद्य * पृथिवी ज्ञेया वामोह्यापः प्रकीर्तितः | अघोरस्तेज इत्युक्तो वायुस्तत्पुरुषस्मृतः || आकाशन्तु भवेदीशः स्वयं देवो महेश्वरः | सद्यो जातस्तु ऋग्वेदो वामदेवो * *? मृतः || सामवेदो ह्यघोरस्तु तत्पुरुषोऽथर्व उच्यते | पञ्चमं यत्परं सूक्ष्मं व्योमव्यापी महेश्वरम् || सद्योजातस्तु वै ब्रह्मा वामो विष्णुः प्रकीर्तितः | अघोरो देवरुद्रश्च पुरुषश्चेश्वरः स्मृतः || प्. ९अ) ईशानं शिवदैवत्यमधिदेवास्त्विमे स्मृताः | षष्ठन्तु यत्परं तत्त्वमसा दृश्यगुणैस्थितम् || तस्य देहो न वक्तव्यः प्राकृतैर्गुणसंभवैः | ज्ञात्वापरमनिःश्रेणीं पञ्चमस्थानगामिनीम् || ज्ञानं ज्ञातं सकृद्येन विस्मिते नान्तरात्मना | तत्काल एव मुक्तोसौ यादाज्ञातं हि तत्पदम् || इति कालोत्तरे द्विशतिकेऽष्टादशः पटलः || शुभं भूयात् || अध्युष्ट शतिकम् प्. १अ) ओं नमः शिवाय || कार्तिकेय उवाच || भगवन्देव देवेश लोकनाथ जगत्पते | मन्त्रं तन्त्रं त्वया प्रोक्तं विस्तरं वस्तु साधनम् || अल्पायुषा स्त्विमे मर्त्या अल्पवीर्यपराक्रमाः | अल्पसत्वाल्पवित्ताश्च लोभमोहसमन्विताः || अल्पग्रन्थं महार्थं च पदार्थानेक संकुलम् | वक्तुमर्हसि देवेशाऽनुग्रहार्थं प्रभो मम || ईश्वर उवाच || अथातः संप्रवक्ष्यामि शास्त्रं परमदुर्लभम् | नाम्ना तु वातुले तन्त्रे कालाख्यमिति संज्ञकम् || सर्वतः सारमादाय दध्नोघृतमिवोद्धृतम् | मधुवच्च यथा पुष्पात्सारात्सारमिदं शुभं || नादाख्यं यत्परं बीजं सर्वभूते व्यवस्थितम् | मुक्तिदं परमं दिव्यं सर्वसिद्धिप्रदायकम् || तं विदित्वा महासेन देशिकः पाशहा भवेत् | आगोपालांगाना बालाम्लेच्छाः प्राकृतभाषिणः || अन्तर्जलगतां सत्वास्तेपि नित्यं ब्रुवन्तितम् | स्थूलं सूक्ष्मं परं ज्ञात्वा कर्म कुर्याद्यथेप्सितम् || (न स निप्यति पापेन स्फटिकं पांशुभिर्यथा इति पुस्तकान्तरोधिका पाठ)? स्थूलं शब्दमिति प्रोक्तं सूक्ष्मं चिन्ता मयं भवेत् | चिन्तया रहितं यच्च तत्परं परिकीर्तितम् || एवं ज्ञात्वा तु मन्त्रज्ञः सर्वपापक्षयो भवेत् | सान्तं सर्वगतं शून्यं मात्रैर्द्वादशभिः स्थितम् || अक्षरान्तरितं कृत्वा स षडङ्गं शिवो भवेत् | (प्रथमं हृदयं न्यस्य नेत्रं तु पञ्चमं विद्यात् |) ह्रस्वा ब्रह्मासमाख्याता दीर्घाह्यंगाषडानन || सानुस्वारं भवेन्नेत्रं सर्वेषां चोपरिस्थितम् | स विसर्गं भवेदस्त्रमनुस्वार विवर्जितम् || षष्ठं त्रयोदशान्तं च पञ्चमे विनियोजयेत् | शिवं तं तु विजानीयान्मन्त्रमूर्ति सदाशिवम् || षष्ठस्य *? द्वितीयं तु चतुर्थाद्येनसंयुतम् | द्वितीये पंचमे चैव आदिमं योजयेत्पुनः || प्. १ब्) सर्वविघ्नं शिवास्त्रेण शिखयामुक्तिदः स्मृतः | एतत्पाशुपतं दिव्यं सर्वपाशनिकृन्तनम् || पञ्चब्रह्मशिवं साङ्गं नेत्रं पाशुपतं च यत् | समासात्कथितं सर्वं मन्त्रोद्धारमिदं शुभम् || अस्य मुद्रां प्रवक्ष्यामि साधकानां हिताय वै | हस्ताभ्यां संस्पृशेत्पादौ द्वौहस्तौ यावत्मस्तकम् || एषामुद्रा महामुद्रा सर्वकामार्थसाधिका | करन्यासं पुराकृत्वा मुद्राबन्धं तु कारयेत् || नलिके हस्त पृष्टौ तु अस्त्र बीजेन शोधयेत् | कनिष्ठामादितः कृत्वा अङ्गुष्टं चाप्य पश्चिमम् || यथा ब्रह्मा तथा ह्यैङ्गा विन्यसे तत्प्रयत्नतः(चानुपूर्वशः पा० मन्त्रोद्धारा) | प्रसादं विन्यसेत्पश्चाद्व्यापिनं सर्वतोमुखम् || करन्यासमिदं वत्स अस्मिन्तन्त्रेन संशयः || इति कालोत्तरेऽध्युष्ठशते प्रथमः पटलः || ईश्वर उवाच || अन्तःकरण विन्यासं संभूतशुद्धिं तथैव च | भूतशुद्धिं पुराकृत्वा पश्चान्तं करणं कुरु || हृद्बीजं पार्थिवे युक्तं पार्थिवोधारयेत्सदा | शिरो स्वाप्ने? शिखातेज कवचं वायुना सह || अस्त्रं तु शिवसंयुक्तं ह्याकाशीं धारयेत्सदा | फडन्तेन पटलं भित्वा भित्वा चोर्द्ध्वं विशेषतः || दीक्षाकाले यथा वक्ष्ये तत्प्रयोगं समाचरेत् | पश्चोद्धाताय तत्प्रश्व * श्वद्वयमेकतः ||? शून्यं सर्वनिरालम्बं विज्ञानं केवलं स्थितम् | प्रकृयान्तस्थममृतं स्रवन्तं चिन्तयेत्ततः ||? ओमित्यनेन कमलं योगपीठं तथा भवेत् | सूर्यमण्डलसंकाशमकारं ह्यात्मसम्भवम् || विघ्नातत्वमुकारन्तु शिव तत्वं मकारजम् | (हूं फडन्तेन पटलं भित्वा पूर्वविशेषत. इत्येक पुस्तके पाठः | बोत्तोम् ओf पगे) प्. २अ) पुर्यष्टकन्तु तन्मात्रं तुर्यातीतं सदाशिवम् | चिन्तयेत् परमं धाम सुषुम्णाभिन्नमस्तकम् || तेन प्लावितमात्मानं मापूर्यन्तं विचिन्तयेत् | इदं यो भ्यसते नित्यं समाधिं मृत्युनाशिनीम् || न तस्य जायते मृत्युरिति शास्त्रस्य निश्चयः | पश्चादाचार्य साधकानां मूर्त्तेस्तु ग्रहणं भवेत् || ईशानाघ्नास्तु सघ्नान्ता मूर्ध्निमारभ्यविन्यसेत् | नेत्रं दत्वा तु आवाह्य देवदेवं सदाशिवम् || सर्वज्ञत्व तयोन्मानं चिन्तयेत विचक्षणः | हृदयं च शिरश्चैव शिखा कवचमेव च || अस्त्रं चैव तु मन्त्रज्ञो यथा स्थानं नियोजयेत् | हृदयैर्वा विधानं तु नाभौ होमप्रकल्पयेत् || ललाटे चेश्वरं ध्यायेद्वरदं सर्वतोमुखम् | यथर्चने तथा ह्यग्नौ ध्याने चैव तथैव हि || यथा देवे तथा देहे अग्नौ होमे तथैव च | अन्तःकरणमिदं ज्ञात्वा पश्चाद्बाह्यं तु षण्मुख || स बाह्याभ्यन्तरं कृत्वा पश्चाघ्नजनमारभेत् | इति कालज्ञाने वातुले तन्त्रेऽध्युष्टशते द्वितीयः पटलः || ईश्वर उवाच || अथातः संप्रवक्ष्यामि स्नानं पापहरंपरम् | सकृज्जरो न चास्त्रेण मृदं गृह्यविचक्षणः || मलस्नानं पुराकृत्वा स कृज्जप्त्वा तु संहिताम् | तामेव मृत्तिकां वत्स अभिमन्त्र्य सकृत्सकृत् || भागत्रयं ततः कृत्वा एकं चास्त्रेण भालयेत् | द्वितीयं पञ्चभिर्ब्रह्मैः शिवजप्तं तृतीयकम् || अस्त्र जप्तेन भागेन दिशाबन्धन्तु कारयेत् | शिवजप्तेन तीर्थं तु ब्रह्म जप्तेन चात्मनि || गुंडयित्वा ततः स्नायात् शिव तीर्थस्य मध्यतः | प्. २ब्) (यथा देवे तथा देहे चिन्तयित्वा विचक्षणः | कृत्वान्तः करणं ह्येतत्पश्चाद्बाह्यन्तु षण्मुख || पाठान्तरम् | टोप् ओf पगे) चक्रवत्युपचारेण सुगन्धामलकादिभिः || उपस्पृश्य विधानेन सन्ध्यां वन्देदनुक्रमात् | मन्त्रैः सर्वैः सकृद्वत्स उपस्थानन्तु कारयेत् || अभिषेकं पुराकृत्वा पश्चात्सन्ध्यां समाचरेत् | अस्त्रंति योजयेद्देहे क्षिपेद्बाह्ये विचक्षणः || शरीरं शोषयेद्वत्स(धयेत्तसः) ते नात्मनि नियोजयेत् | विघ्नेषु पाशजालेषु सदायोज्यं विचक्षणैः || हृदयेन ततो विद्वान् पितृदेवांश्च तर्पयेत् | संहारं तस्य तीर्थस्य प्रसादेन तु षण्मुख || इति कालोत्तरेऽध्युष्टशते तृतीयः पटलः ईश्वर उवाच || भस्मस्थानं प्रवक्ष्यामि संक्षेपेण तु षण्मुख | सर्वमन्त्रैः सकृद्वत्स अभिमन्त्र्य यथाक्रमम् || मलस्नानं पुराकृत्वा अस्त्रबीजेन षण्मुखः | विधिस्नानं ततः पश्चान्मूर्द्ध्निमारभ्य विन्यसेत् || ईशानेन्येद्धूल्य शिरोंमुखं चक्रेणमन्त्रवित् | हृदयाङ्गं अघोरेण गुह्यं वै गुह्यकेन तु || सर्वाङ्गञ्चैव संघेन अभिषेकन्तु पञ्चभिः | उपरिष्ठाद्येनादेन पश्चात्कुर्वीत षण्मुख || इति कालोत्तरे वातुले तन्त्रेऽध्युष्टशते चतुर्थः पटलः || ईश्वर उवाच || यजनं संप्रवक्ष्यामि यथावदनुपूर्वशः | बीजाङ्कुरं पुरा * * त्या पश्चादनन्तमासनम् || अन्ते चानन्तिकं कुर्यात्क्रमेण षडानन | हृदयं कर्णिका पद्मं धर्मज्ञानादिमेव च || वैराग्यं नैव ऐश्वर्यं हृदयं प्रभवा न्यसेत् | केसरैः शक्तयो व्यूहं हृदयेन तु कारयेत् || आवाहयेत् ततो देवं हृदयेन तु षण्मुखः | प्. ३अ) (शिवादि सर्वमन्त्रैश्च होमयेच्चानु पूर्वशः | तोप् ओf पगे) स्थापनं चार्घ पाद्यं च आचमनीयं च मंत्रवित् || स्नपनं पूजनं चैव हृदयेन तु कारयेत् | उक्तानुक्तं च यत्किञ्चित्तत्सर्व हृदयेन तु || एकावरणमेतद्धि सर्वकामार्थसाधनम् | सर्वमंत्रेषु सामान्यं सर्वज्ञानेषु चोत्तमम् || इति कालज्ञाने वातुले तन्त्रेऽध्युष्टशते पञ्चमः पटलः || अथातः संप्रवक्षामि अग्निकार्यविधिक्रमम् | अस्त्रेणोत् ह्ये?खनं कुर्यात् कवचेनाभ्युक्षणं तथा || शक्ति न्यासं ततो मन्त्री हृदयेन तु कारयेत् | हृदि वै शक्ति गर्भं तु प्रक्षिपेज्जातवेदसम् || गर्भाधानादिकं कृत्वा निकृतिं चाप्य पश्चिमाम् | हृदयेन तु मन्त्रज्ञः सर्वकर्माणि कारयेत् || पश्चात्पद्मविधानं तु प्रागुक्तं परिकल्पयेत् || इति कालोत्तरेऽध्युष्टशते षष्ठः पटलः || अतः परं प्रवक्ष्यामि मण्डलं सार्वकामिकम् | भूमेः संसोधनं कृत्वा शास्त्रदृष्टेन कर्मणा || अधिवासनं ततः कुर्यान्नक्षत्रे शकुनान्विते | आलिखेन्मण्डलं प्राज्ञः सर्वसिद्धिप्रदं शुभम् || सूत्रेण सुमितं कृत्वा चतुरस्त्रं समंततः | मध्ये पद्मं प्रतिष्ठाप्य अष्टपत्रं स कर्णिकम् || एकहस्तं द्विहस्तं वा चतुरष्टमथापि वा | लिखेदावरणं त्रीणि स्वतन्त्रं विहितांगुह || पश्चिमे वाह्येद्वारमाचार्य सुसमाहितः | आग्नेयां कारयेत्कुण्डं हस्तमात्रं प्रमाणतः || यज्ञकर्मविधिं कुर्यात् सुसमिद्धे हुतासने | पूर्वादारभ्य वक्त्रादीन् विन्यसेच्चानु पूर्वशः || पवित्राणिपुरान्यस्य शिवाङ्गानि न्यसेत्ततः | आग्नेयां हृदयं न्यस्य ईशान्यां शिरो न्यसेत् || (वर्तुलञ्चतुरस्रकश्चन्द्र मेखलशोभितम् | सर्वकामप्रवदिष्टां हुन्ताग्नेयां? स लक्षणम् || यज्ञाङ्गानि समाधाय कुर्याद्भूम्याधिपासनम् | बोत्तोम् ओf पगे) प्. ३ब्) (संक्षेपेण मयास्कन्द विधानं परिकीर्तितम् | अनुक्तं यद् भवेत् किञ्चित् तत् सर्वं हृदयेन तु || एवं विधि विधानज्ञो बुध्वाकर्मसमारभेत् || तोप् ओf पगे) नै-ऋत्यां तु शिखां दघ्नाद्वायव्यां कवचं न्यसेत् | अस्त्रं दिशासुविन्यस्य कर्णिकायां सदाशिवम् || गर्भ न्यासे विधिर्ह्येष द्वितीयावरणं शृणु | पूर्वादारभ्य विधिना लोकपालांश्च पूजयेत् || तृतीये लोकपालास्त्रां अस्त्रेणैकेन पूजयेत् | इति कालोत्तरे वातुले तन्त्रेऽध्युष्टशते सप्तमः पटलः || ईश्वर उवाच || अथ दीक्षां प्रवक्षामि पञ्चतत्वैर्व्यवस्थिताम् | पृथिव्या परन्तथा तेजो वायुराकाशमेव च || एते पञ्च महातत्वायैर्व्याप्तमखिलं जगत् | सर्वतत्वास्तु तत्रस्याद्रष्टव्या साधकोत्तमैः || नाध्नाः सन्धानयोगेन संयोज्यांहुतिभिः क्रमात् | ब्रह्माण्डं तु निवृत्या वै शत रुद्रा व्यवस्थिताः || प्रतिष्ठायां तदूर्द्धंत यावद व्यक्तगोचरम् | (कवचं तु प्रतिष्ठायां यावद व्यक्त गोचरम् बाह्य लक्ष | रिघ्त् ओf पगे) ततो विघ्नानि युञ्जीत यावद्विघ्नेश्वरान्तिकम् || शान्त्यातदूर्ध्वमध्वानं शान्त्यातीतं शिवं यजेत् | तदा प्राप्य शिवं भूय न पुनर्जन्मनां व्रजेत् || अविदित्वा इमांस्तत्वान् यो दीक्षां कर्तुमिच्छति | वृथापरिश्रमं तस्य नैव तत्फलमाप्नुयात् || निवृत्तिः पृथिवी ज्ञेया प्रतिष्ठा चाप उच्यते | विघ्ना तेजो मयी प्रोक्ता वायुः शान्तिश्च कीर्तिता || शान्त्यातीतं भवेद् व्योम तत्परं शान्तमव्यम् | तं विदित्वा महासेन स्वयं चान्यपि दीक्षयेत् || निवृत्तिं हृदये नैव प्रतिष्ठां वै शिरेण तु | विघ्ना चैव शिखायां तु शान्तिं वै कवचेन तु || शान्त्यातीतं परं व्योम प्रसादेन तु होमयेत् | एकैकस्य शतं जुहुयात् शतं वै पञ्च होमयेत् || प्. ४अ) पश्चात्पूर्णाहुतिं दघ्नात्प्रासादेन तु षण्मुख | प्रायश्चित्तं विशुध्यर्थमेकैकाष्टाहुतिं क्रमात् || अस्त्र बीजेन मन्त्रज्ञो होमयेज्ज्ञातु पूर्वशः | एवं समाप्यते दीक्षा जननादि विसर्जिता || हुते नैव तु मुच्यन्ते साधकाजन्मबन्धनात् | अप्रकाश्यामिमामिष्टिं गोपनीयं प्रयत्नतः || रहस्यं सर्वतन्त्राणामिदं संस्कारमुत्तमम् | एवं संस्कारशुद्धस्य शिवत्वं जायते ध्रुवम् || कार्तिके उवाच || (स्कन्द उवाच || सकलो ह्येतदुद्दिष्टं पूर्णाहुत्वा तु निष्कलम् | एवं संयोजितस्तस्मिन्प्रासादेन महेश्वर || इत्येक पुस्तकेऽधिकः पाठः || टोप् ओf पगे) योनि न्यासादितः कृत्वा उद्धारं चाप्य पश्चिमम् | सोधनानु क्रमं देव कथयस्व यथाविधि || ईश्वर उवाच || दशसप्त च ये प्रोक्ता पृष्टास्ते वै त्वया गुह | यस्य यद्विहितं बीजं कथयाम्यनु पूर्वशः || योनिबीजं तु हृदयं कल्पपीत यथाक्रमम् | अर्चनं प्रोक्षणं चैव ताडनं च तथैव हि || संहारं चैव संयोगं निक्षेपं हि तथैव च | अर्चनं च पुनः कुर्याद्गर्भधारणमेव च || जननं चाधिकारं च भोगश्चैव लयतथा | स्वतत्वे शतमाहुत्या हृदयेन तु षण्मुख || पाशद्भेदं तथास्त्रेण पूर्णाहुत्या च पूर्ववत् | हृदयेन ततोद्वारं कर्तव्यं चानुपूर्वशः || अकारादि ऋकारान्तं नपुंसकविवर्जिताः | आत्मतत्व स्वराश्चैते पञ्चयुग्माः प्रकीर्तिताः || शोधनीयाः पुरावत्स भूतादिभिरनुज्ञया | भूताभावास्तथा तत्वा गन्धादिश्च यथाक्रमम् || गन्धोरसस्तथा रूपस्पर्शः शब्दश्च पञ्चमः | तन्मात्र संस्थिताश्चैते होमयेच्चानुपूर्वशः || गन्धभूतानि होतव्यं रसो भावात्षडानन | प्. ४ब्) तेजस्तत्वा समाख्याताः स्पर्शबीजानि होमयेत् || शब्दे शब्दस्तु संयोज्य हृदिना संपुटीकृता | उद्धारे प्रोक्षणे चैव ताडने च तथैव हि || हुंफट्कारसमायुक्तं कर्तव्यं चानु पूर्वशः (संहारं तु तथापरम् पाठान्तरम्) | संहारं चैव तत्वानां कर्तव्यं तु यथाक्रमम् || तत्वे तत्वे त्विदं कर्म एष एव विधिक्रमम् | यस्य यद्बीजं विहितं तस्य एव विधिक्रमम् || एभिः संसोधितैर्वत्स विधिमाप्नोति पुष्कलम् | अन्यथा नैव मुच्यन्ते विधिहीनाः षडानन || पूर्णाहुति प्रदानन्तु कर्तव्यं धारणायुतम् | अमृतं यत्परं वत्स स्रवन्तं मनसा स्मरेत् || (तेनाप्यायन्तिते सर्वे देवा ह्यग्निः मुखं गताः | भवन्ति शिवदाः सर्वे शिवयज्ञस्य योजनाः || टोप् ओf पगे) दीक्षा प्रकरणे ह्येषा योज्या सर्वत्र सर्वदा | लिङ्गोद्धारविधाने तु सर्वसंस्कारकर्मसु || कार्तिकेय उवाच || पशोर्यहं तथा मोक्षं यत्त्वयोक्तं पुरामम | पाशा मे भ्यन्तरा बाह्याः कस्मिन् स्थाने व्यवस्थिताः || कस्मिन् स्थाने च तं द्वेघ्नां सघ्नोत्कान्तिश्च कीदृशी | पशवः के च निर्देशं कथयस्व महेश्वर || ईश्वर उवाच || आदिमस्य द्वितीयेन गृह्य * * *? चात्मनि | मुष्टिना यावत्तत्स्थानं नीयते तु विचक्षणः || विषुवेन तु * * * हर्मद्यं स शिवानिकं | एकत्र समतां यान्तिं अन्यथा च पृथक् पृथक् || * * *? ते तु *? त्तव्याः शिवास्त्रेण तु संयुताः | तदास्य योज्यतां यान्ति समयेत्परिवर्जिताः || अनिर्देश्यमसंज्ञं च (असंदिग्धमिति पुस्तकान्तरे पाठः) यत्कृतं तद्वृथा भवेत् | समुद्दिश्य कृतं कर्म मोक्षदं नैव संशयः || यथा कामं समुद्दिश्य कौतुकाघ्नानि कुर्वते | प्. ५अ) तथाफलानितद्भुङ्क्ते अनिर्दिष्टन्तु मोक्षदम् || सूर्यस्य ग्रहणे वत्स विषुवेन तु संयुतम् | आयामांते यदाछिन्नं तदा चोत्क्रामयेत् ध्रुवम् || अनेन ग्रन्थिताः पाशाः सूत्रे मणि गणा इव | हृसध्याघ्नावत्तत्पद्मं मनस्तं तु सुतानितम् || तं दृष्ट्वा छेदनं कुर्यान्मनोवृत्या मनश्छिनेत् | मनसा तु मनश्छिन्नं जीवः केवलतां व्रजेत् || कार्तिकेय उवाच || विस्तरं त्यज देवेश संक्षेपं कथयस्वमे | येन विज्ञानमात्रेण पशुं मोचयते क्षणात् || ईश्वर उवाच || शृणु षण्मुख तत्वेन येन मोक्षे ध्रुवं भवेत् | प्रयोगेण तु सूक्ष्मेण योगदृष्टेन मन्त्रवित् || दिव्येन योगमार्गेण प्रेर्यते मन्त्रशक्तिना | तं विदित्वा महासेन जीवं वायुमयंबुध || विषुवेन तु योगेन विन्यसेच्छाश्वतं पदं | योगं तु विषुवं प्राप्य कोन मुच्येत बन्धनात् || पृथिव्याघ्नन्तु नाघ्ना वै शब्दादि गुणवायुभिः | मन्वाधि देवतात्मा च ज्ञात्वामुच्यति मोचकः || नाडी विवरसंबद्धादूर्धनासो ह्यधोमुखाः | ग्रन्थि द्वय युताः सर्वे हुंफडद्वारान्तरेन्विताः || ततश्चोर्द्धं त्वमायान्ति मन्त्रनाद पदेरिता | दीक्षाकाले तु संयोज्य उघ्यातैः पूर्ववद्बुधः || क्ष्माघ्नालोक्यमनसा स बाह्याभ्यंतरं ग्रह | तत्वे तत्वे तु कर्तव्या वियुक्तानि रहंकृताः || ब्रह्माध्नां श्रावयेद्वत्स न पुनर्जन्मतां व्रजेत् | चेता चेतोद् द्विरभ्यस्य मन्त्रवादपदेरितम् || दीक्षा काले तु संयोज्य आयामे भास्करस्य तु | सर्वमार्गाश्रितं जीवं नाशाग्रे द्वादशाङ्गुलम् || ताडयित्वा पुरावत्स ग्रहणं पूर्वद् भवेत् | प्. ५ब्) (भित्वागत्वां न्यसेज्ज्योतिं तत्वं तत्वेन शोधयेत् | इत्येक पुस्तके पाठः | टोप् ओf पगे) भित्वागत्वां न्यसेघ्नोनिं तत्वं तत्वे तु सन्धयेत् || शक्तिनासं पुटीकृत्य वौषडन्तेन निक्षिपेत् || इति कालाख्यप्रकरणे वातुले तन्त्रेऽध्युष्टशतेऽष्टमः पटलः || ईश्वर उवाच || अभिषेकं प्रवक्ष्यामि संक्षेपान्न तु विस्तरात् | हिताय साधकेंद्राणां शिववक्त्राद्विनिःसृतम् || मृन्मयं कलशं ह्येक चन्दनेन विलेपितम् | ब्रह्मपत्रपुटे नाथ पद्मपत्रेण वा भवेत् || सर्वौषधि युतं कृत्वा सर्वगन्धीपशोभितम् | सर्वरत्नं मयं कुम्भ सर्वरत्नोपशोभितम् || शतमष्टोत्तरं जप्त्वा निनादं सर्वतो मुखम् | याग कृत्वा तु पूर्वोक्तमभिषेकं समाचरेत् || शुभे नक्षत्र दिवसे मुहूर्ते शकुनान्विते | वहुमङ्गलघोषैश्च शंखवादि अनिःश्वनैः || ब्रह्मघोषैश्च विविधैर्नृत्यगेय समन्वितैः | अनुज्ञातोभिषिक्तश्च आचार्यपाशहा भवेत् || इति कालोत्तरेऽध्युष्टशते नवमः पटलः || ईश्वर उवाच || नाडी चक्रमिदं सूक्ष्मं प्रवक्ष्याम्यनुपूर्वशः | नाभेरधस्ताप्र?त्कन्दमंकुरास्तवनिर्गताः || द्वासप्तति सहस्राणि नाभिमध्ये व्यवस्थिता | तिर्यगूर्ध्वमधश्चैव व्याप्तं तैस्तु समन्ततः || चक्रवत्संस्थिता ह्येताः प्रधानादशनाडयः | इडा च पिङ्गला चैव सुष्ठरा च यथा भवेत् || गान्धारी हस्तजिह्वा च पूषा चैव यशा स्मृताः | अलंबुषा कुहूश्चैव शंखिनीदशमी तथा || दशप्राणवहां ह्येता नाडयः परिकीर्तिताः | प्. ६अ) प्राणोपानसमाश्च उदानो व्यानमेव च || नागकूर्मोथ कृकरो देवदत्तोधनञ्जयः | प्राणश्च प्रथमोर्नवानामपि स प्रभुः || प्राणः प्राणमयः प्राणो विसर्गाः पूरणं प्रति | नित्यमापूरयत्येय प्राणिनामुरसि स्थितः || निश्वासो ह्यसकासैश्च प्राणोजीवः समाश्रितः | प्रयाणं कुरुते यस्मात्तस्मात्प्राणः प्रकीर्तितः || अपानयत्यपानस्तु आहारमनुजामधः | शुक्रमूत्रवहोवायुरपानस्तेन कीर्तितः || पीतं भक्षितमाघ्रातं रक्तं पित्तकफानिलम् | समं नयति गात्रेषु समानो नाममारुतः || स्पन्दयत्यधरं वक्त्रं नेत्रगात्रे प्रकोपनम् | उद्वेजयति मर्माणि उदानो नाममारुतः || व्यानोविनाशयत्यङ्गं व्यानो व्याधि प्रकोपनः | प्रीतिर्विनाशः कथितो वार्धिक्यं व्यान उच्यते || प्राणाघ्नावायवः प्रोक्ता नामाघ्नाः कथयामिते | उद्गारे नाग इत्युक्तः कूर्मश्चोन्मीलने स्थितः || कूकरः क्षुभिते चैव देवदत्तो विजृम्भते | धनंजयः स्थितो घोषे मृतस्यापि न मुञ्चति || इत्येतद्वायुं वृन्दं हृदहृदि निहितं नाभिचक्रे प्रतिष्ठं निःश्वासोछ्वासकासैःस्वसनमुरमधः कम्पिता घूर्णितैश्च नित्यं नित्याल्पजन्मा व्यसनपतिपशुं यौवने चाल्प भावादाक्रान्तो वायुवृन्दैविधुननमणौः क्रीडते सर्वसत्वै * *? डी चक्रं यथावस्थं कथयामि तवाखिलम् || दशारं चक्रमेतन्तु विभागो ज्ञायते यथा || चक्रवद्भ्रमते जीवो दशस्थानेष्वनुक्रमात् || प्. ६ब्) स जीवोजीव लोकस्य नैव बुध्यन्ति मोहिता | दशधा गच्छते येन तेन चक्रं प्रकीर्तितम् || नाडीचक्रेति विख्याता येन संक्रमते ह्यसौ | हृद्व्योममध्य पङ्कजमष्टदलं कर्णिका च तस्यान्ते || अर्केन्दु हिरण्यघ्नोताभः शक्तियः स्तस्मिनुपरिचराखलु | शक्तिस्तासां प्राग्भाविनी शिवस्य तदवस्थांशच्छिव तुष्टयपङ्कजमध्ये पुरुषस्तषसंलीनः || शून्यं मरुत्संदंशकगृहीतकरणात्मक उभयतोपि || स पाति पत्र नीयते सुष्कदलं मारुते नैव | भ्रामति पङ्कजमध्ये कला च स्वोद्भूपांशसंबद्धः || गोलकहेनाहत इव उत्पतननिपतनं सदा कुरुते | ईश्वर योगाद्विषु वंसंकान्तिश्चैव सव्यसंयोगात् || सौरनियोगाद्दक्षिणमुदगयनं वाहाजन्मसंयोगात् | अयनौ सव्यापसव्यौ द्वौपुटकौ युग्मतो विषुवमाहुः || संक्रान्तिरितश्चेतश्चेतद्विदैश्च समाख्याता | सौरः सभ्यो मार्गश्चान्द्रमराश्चेतरसमाख्यातः || धन्यामभिषेचनोंदोसौरः खलु वह्नि सन्धाने ध्यानाघ्नावियुषाख्ये प्रागुललसंस्थं नृपाबलेपि स्यात् || तेजस्वी तृ इवुभुक्षापीडासंजायतेतिग्नि दिक्पत्रे | याम्ये याम्यं भागं नैर्-ऋत्ये राक्षसं समुद्दिष्टम् || वारुणं वरुणं संस्थं मारुतपत्रे गते मरुद्भावम् | सौम्ये याक्षं भावमीऽसे ईशं समाख्यातम् || ब्राह्मे ब्राह्मां भावं तदध उरगेन्द्र समुष्टितम् | यस्यां दिशं विगच्छत्यखिलं भावं तस्य संयाति || पत्रान्तरालसंयोगाच्छून्यदामात्मानमाभाति | प्. ७अ) इति खलु पुद्गलचारं नाडीसंचारमण्डले मुख्यं कथितमिह * *? हेतोर्बोद्धव्यं यत्नतः सिद्धैः || कार्तिकेय उवाच || स जीवोजीवलोकस्य येन जानन्ति तत्वतः (यथा ज्ञायाति इति पाठान्तरम्) | संशयो मे महादेव प्रसादी भव शूलधृक् || ईश्वर उवाच || जीवस्य पुरुषाख्यस्य दर्शनं शृणु षण्मुख | कथयामि न संदेह पुत्रस्नेहाद्विशेषतः || संक्रान्तिर्विषुवं चैव अहोरात्रायुनानि च | अधिमासं ऋणं चैव ऊत रात्रं धनं तथा || ऊन रात्रं भवेच्छिक्का अधिमासो विजृम्भिका | ऋणं च भवते कासो निश्वासो धनमुच्यते || उत्तरं दक्षिणं ज्ञेयं वामदक्षिणसंज्ञकम् | मध्ये तु विषुवं प्रोक्तं पुटद्वयविनिःसृतम् || चत्वारो विषुवाः प्रोक्ता योगिनां दिने दिने | मध्याह्ने चार्द्धरात्रे च उदयास्तमने तथा || संक्रामं पुनरस्यैव स्वस्थानास्थानमेव च | इडा चैव सुषुम्णा च अमा चैव समन्विता || सुषुम्णा मध्यमे ह्यङ्गे इडा वामे प्रतिष्ठिता | अमा वै दक्षिणे ह्यङ्गे एतत्संक्रान्ति मुच्यते || ऊर्द्ध्व प्राणो अहश्चैव अपानो रात्रिरेव च | विभागा दश प्राणस्य यो वेत्येवं स वेदवित् || आयामो देह मध्यस्थः सोमग्रहणमिष्यते | देहातीतं तु तं विंघ्नादादित्यग्रहणं विदुः || स्वयमुच्चरते यस्मात् स्वदेहावस्थितः शिवः | तस्मात् तत्व विदां पुंसां तदेव जप मुच्यते || अयुते द्वे सहस्रं तु षड्शतानि तथैव च | अहोरात्रेण योगीन्द्रो जपसंख्यां करोति हि || प्राणायामं समासेन कथयामि तवाऽखिल | प्. ७ब्) उक्तस्येत? प्रणवं स्वरेणैकि? न योगवित् || उदरं भू?यित्वा तु वायुना यावदीप्सितम् | प्राणायामो भवत्येय पूरके दिहपूरकः || पिधाय सर्वद्वाराणि निःश्वासोछ्वासवर्जितः | संपूर्णकुम्भवत्तिष्ठेत् प्राणायामस्तु कुम्भकः || सुश्चे?द्वायुं ततोर्द्धन्तु श्वासे नैकेन योगवित् | निःश्वासयोगयुक्तस्तु ऊर्द्ध्ववायुश्चरे चयेत् || रेचकस्त्वेष विख्यातः प्राणः संशय कारकः | योसौ हृदिस्थं पद्मस्तु अधोमुखव्यवस्थितः || स वै विकसते पद्मः पूरकेण तु पूरितः | ऊर्द्ध्व स्त्रोतो भवेत् पद्मः कुम्भकेन तु रोधितः || रेचकेण तु आक्षिप्तः सघ्नः प्राणहरेण तु | मुत्का हृदय पद्मं तु ऊर्ध्वस्त्रोतो व्यवस्थितः || रेचितो गच्छते ह्यूर्ध्वं ग्रन्थिं भित्वा क्षणेन तु | भित्वा कपाल द्वारतजीव? ऊर्द्ध्वन्तु रेचितः || सदाशिव पदं गत्वा न भूयो जन्मतां व्रजेत् | आयाम? कृयते तस्य नान्यस्य तु कदाचन || स जीवो जीवलोकस्य मया प्रोक्तः समासतः || इति कालोत्तरेऽध्युष्ट इति ज्ञानभेदो दशमः पटलः || चन्द्राग्निरविसंयुक्ता आघ्नाकुण्डलिनी तु या | हृत्पद्म देशे तु सा ज्ञेया अङ्कुराकारसंस्थिता || सृष्टि न्यासं न्यसेत् तत्र द्विरभ्यास पदेरितम् | स्रवन्तं चिन्तयेत् तस्मिन्नमृतं साधकोत्तमः || अग्नीसोमात्मकं सर्वं जगत्स्थावरजङ्गमम् | चिन्तयेद्विपरीतन्तु सिद्धिकामः समाहितः || स्वदेहं चिन्तयेद्विद्वान्दिरूपमनौपमम् | ऊद्दिष्टं यस्य यत्कर्म तस्य तत्कर्म चिन्तयेत् || प्. ८अ) चतुरस्रार्द्धचन्द्रन्तु त्र्यंशवर्तुलशून्यकम् | वज्रान्तं शृंगाटं बिन्दुशून्यं चेति प्रकीर्तितम् || पीतं शुक्ल च रक्त्रं च कृष्णं च सर्वकामिकम् (स्यामवर्ण पा०) | यो वेत्येवमिमं तत्वं स तत्ववित्षडानन || समस्तव्यस्तभावेन समाधिं यो भ्यसेद्गुह | इहामुत्रफलं तस्य अचिरेण न संशयः || पंचावस्थां स्वतत्वस्थां स्वभावां तेजसान्विता (भावतेजसमन्विताम् पा०) | ध्यात्वा ह्येतां ब्रजेन्मूर्द्ध्नि तस्मिंश्चित्तं नियोजयेत् || स्तम्भनाप्यायनोत्कर्म विद्वेषोच्चाटनादि च | प्रीति संजननं सौम्यं यद्दिष्टं ते षडानन || बिन्दुस्थं त्रितयं ध्यायेत् सिद्धिकामं समाहितः | आत्मानमीश्वरं चैव एकीकृत्य षडानन || इदमभ्यसते ध्यानममृतं सर्वतोमुखम् | अचिरेणैव कालेन स सिद्धिफलभाग् भवेत् || सृष्टि न्यासमविज्ञाय कथं युञ्जन्ति साधकाः | आकाशं हनते मुष्ट्या कुर्वते तु षडाननः || इति कालोत्तरेऽध्युष्टशते एकादशः पटलः || ईश्वर उवाच || पुनरेव प्रवक्ष्यामि सृष्टिं विस्तरतः क्रमात् | यथा तु सकलो देवो निष्कलेन स * न्वितः || कला युत्पाद या मास सर्वमन्त्र प्रवर्तिकाम् | ओंकार मूर्द्ध्निमध्यस्थं ओंकारो व्याप्य सर्वतः || ओंकारः प्रथमो रेखा अंकारः सृजते प्रभुः | विंघ्नानामकला सा तु वर्णे वर्णे व्यवस्थिता || ओंकारस्य तु ओंकारोभाकला या तु दृश्यते | प्रतिष्ठानाम सा ज्ञेया ओंकाराक्षरक्षरसंभवा || मूर्द्ध्नि तस्य भवेघ्ना तु सूक्ष्मामूर्तिनिरञ्जना || मकारः संभवस्तस्या निवृत्तिर्नाम सा कला | प्. ८ब्) ओंकारं बिन्दुसंयुक्तं लय ओंकारमूर्द्ध्नि || रेखैवव्योम्नि निर्वाणा सा कला शान्तिरुत्तमा | संयोगात्संप्रकाशेत निष्कले सकले? स्थितः || मूर्द्ध्नि ओंकारस्त? ओंकारं ओंशब्दस्य तु जायते | सा शान्ति परमा सूक्ष्मा बिन्दुना सह जायते || दीपादि दिवयते तेजो विस्फुङ्गशिखान्वितः | तन्नियतं त्रिधा याति शिवविघ्नात्पलां हलाम् || शान्ति विघ्ना प्रतिष्ठा च निवृत्तिश्चैव सा कला | या कला रेखिणी तत्र पतिता बिन्दुना सह || स विश्वेशः शिवः प्रोक्तो देवदेवो महेश्वरः | प्रथमं यस्य यद्बीजं बिन्दुनादेति कीर्तितम् || न त्यजेत् परमं स्थानं सास्वतं ध्रुवमव्ययम् | बिन्दुं चोदरे क्षिप्य मातृवत्परिरक्षति || तस्योर्द्ध्वे वामपार्श्वे तु विष्णुबीजं प्रकीर्तितम् | तस्य दक्षिण पार्श्वे तु ब्रह्मबीजं प्रकीर्तितम् || वामदक्षिण योनिस्थमेकमेवं त्रिधा भवेत् | पार्श्वे बिन्दु द्वये चैव या रेखा मध्यमा स्थिता || तत्र देवः शिवः सूक्ष्मो गूढस्तिष्ठति शङ्करः | एतद्बीजं परं देव शक्तिगर्भे महेश्वरम् || यतः प्रवर्तते सूक्ष्मं मन्त्रं तन्त्रं चराचरम् | अव्यक्तं परमं सूक्ष्मं शक्तिदेहनिरञ्जनम् || शिवमनादि निधनं या बुध्वानाभि जायते | दक्षिणस्यं तु यद्बीजं ज्ञानशक्ति परा हि सा || तद्बीजं परमं ब्रह्म यत्रगूढः स तिष्ठति | वामस्थं यत्परं बिन्दुं क्रियाशक्ति परा हि सा || तत्र विष्णु स्वबीजेन गूढः सूक्ष्मो निरञ्जनः | एष देवो विसर्गस्थ विसृष्टो यो हि शंभुना || प्. ९अ) निगूढ्ं तं न पश्यन्ति येन सृष्टं चराचरम् | विसर्गाज्जायते सृष्टिरीश्वरः प्रभुरेव स || विसृष्टं येन सद्बीजं विसर्गस्तेन सोच्यते | तेन वा पूरितं सर्वं जगत्स्थावरजङ्गमम् || शक्तिरश्मिन्समूहेन शतशोथसहस्रसः | सृजते ग्रसते चैव संयोजकवियोजकः || ज्ञानशक्त्या तु भगवान तु गृह्णाति देहिनम् | विसर्गाज्जायते सृष्टिः संहारं बिन्दुना सह || निर्वाणतत्वविज्ञानं न तु विस्तरगोचरम् || इति कालज्ञानेऽध्युष्टशते द्वादशः पटलः || ईश्वर उवाच || संहारः संपुटान्तस्थमादिरन्ते षडानन || मातृकान्ते तथा हुत्वा एकैकस्य पृथक्पृथक् || कार्तिकेय उवाच || संहारं चैव सृष्टिश्च सर्वनिगदितं विभोः || दीक्षितानां गतिभ्रंशस्तत्वतः कथयस्व मे || ईश्वर उवाच || मायान्विते शठे क्रूरे निःसत्ये कलहप्रिये | गतिभ्रंशकरोयोग तत्वतः शृणु षण्मुखः || बिन्दुयुक्तं यदा नादं तत्वानां च षडानन | वामाज्येष्ठा तथा रौद्रीमाकर्षसन्वयेद्रुतम् || विधाय मूर्द्ध्नि संक्षिप्य आयामेन शिवस्य तु | पूर्ववत्मनसा लोक्य गतिस्ते स्वनिवर्तते || गतिभ्रं शकरोयोगोवत्स यद्व?दुदाहृतः || इति कालज्ञानेऽध्युष्टशते त्रयोदशः पटलः || ईश्वर उवाच || प्रसादेनोत्थाप्य नादं सतजं जपते यदि | षण्मासाज्जायते सिद्धिर्योगयुक्तो न संशयः || गमागमस्य जाप्येन सर्वपापक्षयो भवेत् | अणिमादि गुणैश्वर्यं षड्भिर्मासैर्न संशयः || गमागमं विदित्वा तु मुच्यते नात्र संशयः | प्. ९ब्) तन्मयस्तत्सद्यो भूत्वा षण्मासात् सिद्धिमाप्नुयात् || सूक्ष्मस्थूलं परं चैव प्रसाद कथितो मया | प्रसाद येन बुध्यन्ति न ते बुध्यन्ति शङ्करम् || इति कालोत्तरेऽध्युष्टशते चतुर्दशः पटलः || ईश्वर उवाच || अतः परं प्रवक्ष्यामि प्रसादस्य तु लक्षणम् | ह्रस्वं दीर्घं प्लुतं चैव लक्षयेन्मन्त्रवित्सदा || ह्रस्वो दहति पापानि दीर्घी मोक्षप्रदो भवेत् | आप्यायने प्लुतश्चैव मूर्द्ध्निबिन्दुसमन्वितः || स्थूलभेदास्त्रयः प्रोक्तावश्योच्चाटनमारणे | प्लुते नैव सदा वश्यं कुरुते नात्र संशयः || दीर्घे उच्चा?टने प्रोक्तं फट्कारेणसमन्वितम् | फट्कारेणसमायुक्तो मारयेन्नात्रसंशयः || आदिरन्ते तु ह्रस्वस्य? फट्कारो मारणे स्मृतः | (ठिस् लिने इस् टोप् ओf पगे) आदिरन्ते च हृदयं प्रयोगाकर्षणे स्मृतम् (गंण तु कर्षयेत् | पा०) | आकर्षयेद्ध्रुवं युक्तो योजनानां शतादपि || एवमाकर्षयेत्साध्यं नामविज्ञाय तत्वतः | साधकस्य भवेद् वह्नी न्यूनासाध्यस्य कीर्तिताः || एवं ज्ञात्वा तु मेधावी आकर्षं कुरुते ध्रुवम् | अविज्ञाय इदं सम्यग् नैव सिध्यन्ति साधकाः || यागं कृत्वा तु पूर्वोक्तं मन्त्रस्यार्घं प्रदापयेत्? | अर्घं दत्वा तु मन्त्रस्य जपं कुर्याद्विचक्षणः || देवस्य दक्षिणे भागे (मूर्तौ पा०) पञ्चं लक्षां स्थितो जपेत् | जपान्ते घृत होमस्तु दशसाहस्रिको (कं हुनेत्) भवेत् || एवमाप्यायितोमन्त्र कर्मयोग्यो भवेत् ततः | उक्ताश्च ये मयामन्त्राः सिध्यन्ते नात्र संशयः || दशलक्षां जपेद्यस्तु ज्ञनास्व स्थानवासिनः | वशमायान्तिते क्षिप्रमिति शास्त्रस्य निश्चयः || प्. १०अ) त्रिपञ्चलक्षां जप्त्वा तु दशग्रामनिवासिनः | तेजनावशमायान्ति आत्मना द्रविणेन च || पञ्चविंशतिभिर्लक्षैर्विषयंवशमाप्नुयात् | त्रिंशत्लक्षांजपेघ्नस्तु मण्डलेशो वशो भवेत् || पञ्चत्रिंशज्जपेल्लक्षां पृथिवीवशमानयेत् | चत्वारिंशतिभिर्लक्षैरीक्षतेह महेश्वरम्? || पञ्चाशल्लक्षजापेन विघ्नाधरसमो भवेत् | तत्रैव मोदते मन्त्री यावदाहूतसंप्लवम् || कोटिंजप्त्वा तु मतिमाञ्शङ्करं पश्यते ध्रुवम् || इति कालोत्तरे कालज्ञानेऽध्युष्टशते पञ्चदशः पटलः || कार्तिकेय उवाच || अघ्नापि संशयो देव ज्ञानविज्ञानयोः प्रभोः | कथं जानन्ति तं ज्ञानं कथं वा ज्ञेयमुच्यते || ईश्वर उवाच (ठिस् लिने इस् टोप् ओf पगे) आधारं पूर्वं विज्ञाय पश्चाद्धोमं तु षण्मुख | आधाराधेय (द्ध्येयं) वित्प्राज्ञः समर्थः सर्वकर्मसु || आधारंपुरमित्युक्तमाधेयमीश (मीशोध्ये यस्तुव) मुच्यते | ईशान्यामीशते यो हि सोत्र (यो यस्य ईशते ईशः सोऽस्य पा०) ईश इति स्मृतः || ईशं विज्ञायमेधावी यः स्वयं नदते सदा | पुर्यष्टकसमायुक्तंमधश्चोर्द्ध्वं च गच्छति || शब्दः स्पर्श स्वरूपं (श्च मनोबुधि) च रसोगन्धश्च पञ्चमः | बुद्धिर्मनस्त्वहंकारः पुर्यष्टकमिति स्मृतं || यावदेतैर्न मुच्यन्ते कथं मुच्यन्ति बन्धनात् | शब्दस्पर्शं त्यजेद्ब्रह्मे रसं वै केशवे त्यजेत् || रूपं गन्धं त्यजेद्रुद्रे बुद्ध्यहंकारमीश्वरे | मनोबिंदु शिवे त्यज्य एभिर्मुक्तः शिवी भवेत् || इति कालोत्तरेऽध्युष्टशते षोडशः पटलः || ईश्वर उवाच || कालचक्रविधानं तु प्रवक्ष्याम्यनुपूर्वशः | कालचक्रेति विख्यातं येन कालं प्रबुध्यति || प्. १०ब्) इडाहोरात्र चारेण अब्दांस त्रीणि जीवति | द्व्यहोरात्र चारेण अब्दद्वयं स जीवति || त्रीरापहोरात्र चारेण अब्दमेकं स जीवति | अहमेकं चरेघ्नस्य य?त्रिमेकां षडानन || षण्मासाज्जायते मृत्युरितिशास्त्रस्य निश्चयः | यागद्वयस्य (द्विमासस्यतु) चारेण अहोरात्रं स जीवति || यथा वामा तथा वामा मध्यमा च तथैव च | कालचक्रं समाख्यातं पुत्रस्नेहाद्विशेषतः || इति कालज्ञानेऽध्युष्टशते सप्तदशः पटलः || कार्तिकेय उवाच || विमुक्ता ये स्थिता देव शिवतुल्यपराक्रमाः | अत्यन्तरमुखं तेषां श्रोतुमिच्छामि तत्वतः || ईश्वर उवाच || यथा द्वौ बृहत्कुमार्यौ प्रीत्या न्योन्यं भजन्तितौ | एकासंयुज्यते योगे अन्या (द्वितीया पा०) दुःखमाप्नुयात् || सांयोगिकं तु यत्सुखं तत्सुखं कथयस्व मे | कथयामि तव (त्वया०) भद्रे (द्र) यत्सुखं संप्रवर्तते || पुनश्चैवागतां (वं त्वया) दृष्ट्वा परिष्वजति सोत्सुकाः | यत्त्वया पूर्वमुद्दिष्टं सांप्रतं कथयस्व मे || असत्य(शक्य०)मेतत्कथितं(तुं) यत्त्वया परिपृच्छितम् | ततः सा ब्रुवते क्रुद्धा किं त्वया सत्य वादिनि (सन्धानि० पा०) || ईदृशं तादृशं चैव ऋपम्यं प्रत्ययेन तु | संयोगाघ्नत्सुखं भद्रे(द्र०) नैव जानन्ति चान्यथा || अन्यथा वदमानस्य (नामा० पा०) प्रत्ययो नैव जायते | अव्युत्पन्नं सुखं यस्मात् कथितुं नैव शक्यते || अचिरेणैव कालेन संप्राप्तं(प्यं) तत्सुखं त(म)या | मन्त्वया कथितं भद्रे(द्र) तत्तथैव न संशयः || अज्ञाना सुखमोहेन यदुक्तं चा प्रिय मया | तत्क्षमस्वाप्रियं भद्रे(द्र०) यथापूर्वं भजस्वमाम् || इति कालोत्तरेऽध्युष्टशतेऽष्टादशः पटलः || कार्तिकेय उवाच | कालज्ञानं त्वया प्रोक्तं स्वाङ्गादि कृतलक्षणम् | प्. ११अ) तत्वात्म वेद विहितं परे यांहितलक्षणम् || आत्मवत्सर्वभूतानि यथावेद्मि तथावद || ईश्वर उवाच || शृणु षण्मुख तत्वेन प्राणीनां जीवितं ध्रुवम् | शुष्यते दन्तमेकन्तु शेषास्निग्धा स्वभावतः || त्रिवर्ष जीवितं प्रोक्तं मानवस्य न संशयः | द्वे चाब्दे दशने द्वे च अब्दैकं दशन त्रये || अधिकेन तु षण्मासं स जीवेन्नात्र संशयः | मासपञ्चसु कथ्यन्ते पञ्चदन्ताः स्वभावतः || दन्तषट्केन सन्देहो मासद्वयायु यो नरः | दन्तपङ्क्ति यदा सर्वा नरस्य परिशुष्यति || मासमेकञ्च निर्दिष्टं जीविते नात्र संशयः | पङ्क्ति द्वयं यदा शुष्येज्जीवितं चार्द्धसंख्यया || अधरं यदि शुष्येत सा एव दशनावली | दिक्संख्याजीवितं प्रोक्तं पञ्चाहं स यतो नरः || दन्तोष्ठौ तालुजिह्वा च मुखं च परिशुष्यति | सद्य एव भवेन्मृत्युर्नात्र कार्य विचारणा || इति संक्षेपतः प्रोक्तं कालज्ञानं मया तव | कथितं स रहस्यन्तु मोक्षमार्गे विशोधनम् || यथात्मनि परे चैव ज्ञातव्यं तदनु क्रमात् || कार्तिकेय उवाच || कथं व्यापी अधश्चोर्द्धं तिर्यग् चैव कथं विभो | एतन्मे ब्रूहि सद्भावं कारुण्यात्परमेश्वर || ईश्वर उवाच || यावद्देहे स्थितो जन्तुस्तावधस्ताद्व्यवस्थितः | निर्गतो व्यापयेत्तिर्यगन्तःस्थः सर्वतः स्थितः(प्रभुः० पा०) || त्रिमार्गावस्थितो जन्तुः सर्वदेहेष्ववस्थितः | अविदित्वा न मुच्येत यघ्नपि तल्लयो भवेत् || त्रिमार्गं त्रिरधिष्ठानं सर्वदेहेषु वर्त्तते || यो वेन्त्येवमिमां व्याप्तिं स व्यापीतिनं संशयः | प्. ११ब्) न तस्य गर्भसंभूतिर्यथा(रेवं) देव प्रभायते || तावद्भ्रमति संसारे यावद्व्याप्तिं न विन्दति | विदित्वाव्यापि तं देवं मुच्यते नात्र संशयः || यथा तृणजलूका तु तृणाग्रं यावदा गता | उपरिष्टानिरालम्बा तं द्वञ्जीवोव्यव(त्तर० पा०)स्थितंः || ऊर्ध्वशून्यमधः शून्यं मध्यशून्यं निरामयम् | त्रिशून्यं यो विजानाति मुच्यते स ध्रुवंगुह || व्याप्तिश्चैव(स्तस्य०) मया प्रोक्तं संक्षेपान्न तु विस्तरात् | अतो नास्त्यपरः कश्चिघ्नापक? स्यापि व्यापकम् || इति कालोत्तरेऽध्युष्टशते एकोनविंशः पटलः || ईश्वर उवाच || अतः परं प्रवक्ष्यामि अष्टधा प्रत्ययो यथा | अनग्नि ज्वलनं चैव वृक्षालंभनमेव च || पाशानां(प्राण) स्तोभनं चैव महापातकनाशनम् | विषयं क्रामणं चैव निर्बीजीकरणं तथा || ग्रहज्वरविनाशं च प्रत्ययोष्टविधरमृतः | एवं ज्ञात्वा तु मन्त्रज्ञः ख्यातिः सर्वत्र जायते || प्रणवे नाग्निमध्यस्थो हुंकारो ह्रौ तथैव च | आदि बहुं नमश्चान्तेरग्नि ज्वलनेरितम् || ओं ह्रौं ह्रीं नमः || अग्निं श्रोते प्रयोक्तव्यं सहश्वोद्घातसंयुतम् | अग्निमण्डलमध्यगम् पञ्चाक्षरप्रयोगेण ज्वलते नात्र संशयः || उकारः सर्वतोधस्ताद्रकारश्चोर्द्धसंयुतम् | रु?कारमध्यमे युक्तः प्रणवाघ्नंतदीपितम् || पूर्ववत्संयुक्तोयं प्रयोगो भुवि दुर्लभः | ओं ह्रौं उं नमः || शक्तैः पञ्चभिरूध्वातैरालब्दैर्प्र?(र्वृक्षश्च)यते ध्रुवम् | भूयश्चाप्यायनं तस्य वारुणे * *? संस्थिते(स्रोतः संस्थितः) || स जीवति पुनर्वृक्षो यथा पूर्वं तथैव स | ऊकारः पूर्ववदधस्तात् हकारश्चोर्द्धसंस्थितः | इति पुस्तकान्तरे पाठः | ठिस् लिने बोत्तोम् ओf पगे) प्. १२अ) तादृशे च(न) पुनः सो हि(स्तस्य) किन्तु रेफविवर्जितः || ओं हौं ओं नमः | आप्यायनविधिर्ह्येष पञ्चधाबिन्दुदीपितम् | ईकारादि सहौमध्ये वह्निमध्ये तथा पुनः || प्रयोगो विषुवे काले पाशानां स्तोभकारकः | ओं ह्रीं ह्रौं ह्रीं नमः | शतैः सप्तभिरुद्घातैः पतन्ते नात्रसंशयः || पुनश्चोत् गमनं तस्य यथा भवति तच्छृणु | ह्रींकाराघ्नन्त युक्तेन उक्तमध्ये नियोजितः || प्राणानुस्वा(प्रणवादिस्व)रदीये?त नमोन्ते न च वह्निजं | ओं ह्रीं ह्रौं ह्रीं नमः || उत्थापने प्रयोक्तव्यः सर्वभूतेषु मन्त्रवित्? || ल बीजं जीवसंविष्टं हकाराघ्नन्तसंस्थितः | पूर्ववन्मध्यसंस्थं तु नमस्कारोत्तयो जीवितम्(वायुबिन्दुसमन्वि०) || ओं ह्रीं स्वां ह्रीं नमः || घटस्यारोहणे प्रोक्तो गुरुत्व जायते यथा | आदिमंते तथा वायुश्च उक्रमध्ये नियोजितः || लघुत्वकरणं ह्येत कुर्यात्तु मयुतेन तु | स्वयकारो हकारश्च ईकारेण तु दीपितम् || आदिरन्ते प्रकुर्वीत ओंक्र मध्ये नियोजितः | उद्घाताष्टशते नैव विषयसम्बरध्रुवम् || यथाग्नि ज्वलने प्रोक्तो निर्बीजीकरणे तथा | शतैः पञ्चभिरुद्घातैर्विशेषोऽत्रविधीयते || ओंकारमादितः कृत्वा हुंकारस्तदनन्तरम् | ह्रौं ह्रूं फट् नमश्चान्ते ग्रहणं नाशते हितम् || प्रयोगो वारुणे मार्गे उद्घाताष्ट शतेन तु | प्रणवादि तथा ह्रौं फट् तथा फट् पुनर्हुहु फट् पटेति च || वारुणेन तथा श्रोत्रे क्षिप्रं नाशयते ज्वरम् | उद्घाताष्ट शतेनैव प्रयोगो ज्वरनाशने || प्. १२ब्) अष्टानां प्रत्ययानां तु प्रयोगः कथितो मया || इति कालज्ञानेऽध्युष्टशते विंशतितमः पटलः || सकलं निष्कलं शून्यं कलात्मं खमलं कृतम् | क्षपणं क्षयमंतस्थं कण्ठोष्ठं चाष्टमं स्मृतम् || प्रसादं षट्कसंयुक्तं षडन्तेन समन्वितम् | सकलं सर्वभूतस्थं शिवतत्वं प्रकीर्त्तितम् || स्वयं निष्क्रमते देवो देहं त्यक्त्वा समाहृतंः | निष्कलं तं विजानीयात् षड्वर्णरहितं शिवम् || निःश्वासोच्छ्वासनं भित्वा स्थितं देहे तु काष्ठवत् | शून्यं तन्तु विजानीयाद्धृदयेन तु कारयेत् || चुम्बाकारेण वक्त्रेण यत्तत्वं श्रूयते भुवि | कलाध्वन्तं विजानीयादाकाशस्थ हि मे शृणु || ऊर्द्ध्वनादस्य क्षीणस्य यदन्त परिकीर्तितम् | तत्रस्थं तु विजानीयादाकाशे खमलंकृते || व्यावृते नैव वक्त्रेण श्रुत्वा देवं जगद्गुरुम् | दुःक्ष?पणमित्युक्तं तत्क्रियाक्षपणः स्मृतः || अधोनादस्य क्षीणस्य यं दन्तं परिकीर्तितम् | अन्तस्थं तु विजानीयादनुच्चार्य इति स्मृतः || अष्टवर्गाष्टमं कोटि सप्तमस्य द्वितीयकम् | वर्गातीतं षडन्तं च सप्तमे त्रिचतुर्थकम् || आदिमं तु पुनर्योज्य षष्ठं वै प्रथमस्य तु | खशेखरसमायुक्तं कण्ठोष्ठ्यं चाष्टमं स्मृतम् || एते भेदासमाख्याता अणिमाध्वादि साधने | अनुच्चार्यमसंदिग्धं मोक्षमित्यभिधीयते || इति कालोत्तरेऽध्युष्टशते एकविंशतितमः पटलः || प्. १३अ) कार्तिकेय उवाच || प्रसादः कीदृशोदेव व्याप्तिस्तस्यैव कीदृशी | शरीरं कीदृशं तस्य कथयस्व महेश्वर || ईश्वर उवाच | प्रसादं येन बुध्यन्ति पञ्चमन्त्रमहातनुम् | अष्टत्रिंशत्कलायुक्तं न स आचार्य उच्यते || प्रसादं सम्यगज्ञात्वा दीक्षां य कुरुते गुरुः | अधस्ताच्छिष्यमात्मानं नयते नात्र संशयः || प्रसादाब्जशिखां तस्यो दीक्षां यः कुरुते गुरुः | आचार्य सह शिष्यैस्तु शिवसायुज्यतां यजेत् || देवदानवगन्धर्वाः स यक्षोरगराक्षसाः | किन्नराप्सरसः सिद्धाः सर्वे प्रासादसम्भवा || ब्रह्माविष्णुश्च रुद्राश्च चन्द्र इन्द्रप्रजापतिः | बृहस्पतिस्तथादित्यः शुक्रमन्दभृगुस्तथा || ये चान्ये प्राणिनः केचित्सर्वे प्रासादसम्भवा | एते चान्ये च वहव ऋषयः शंशितव्रताः || ध्यायन्ति परमं हंसं प्रसादं नामनामतः | विभागं चास्य वक्ष्यामि यं ज्ञात्वा मृतमश्नुते || सघ्नश्चाष्ट कलायुक्तं अकाराक्षरजं विदुः | विघ्नादुकारंजं वाममघोरन्तु मकारजम् || बिन्दुजं पुरुषं ज्ञेयमीशानं तु शिखा(वा)त्मजम् | एवं मत्रास्तु पञ्चैते स्मृताः प्रासादसंभवाः || दश(शत)कोटि सहस्राणि मन्त्राणाममितौजसाम् | प्रसादेन तु षष्ठेन सर्वे षष्ठा(तुष्टाः) न संशयः || मारुतानलशक्राघ्ना ये(स) मन्त्राः परिकीर्तिताः | प्रासा *? ब्जसमुत्पन्ना सर्वे चामोघशक्तयः || सघ्नश्च पृथिवीज्ञेया वामो आपः प्रकीर्तितः | अघोरस्तेज इत्युक्तो वायुस्तत्पुरुषः स्मृतः || प्. १३ब्) आकाशं तु भवेदीशः स्वयं देवो महेश्वरः | सघ्नोहजातश्च ऋग्वेदो वामदेवो यजुस्मतः || सामवेदो ह्यघोरस्तु पुरुषोथर्व उच्यते | पञ्चमं यत्परं सूक्ष्मं व्योमव्यापी सदाशिवं || सघ्नो जातश्च वै ब्रह्मा वामोविष्णुः प्रकीर्तितः | अघोरे रुद्र देवत्यं पुरुषश्चेश्वरः स्मृतः || ईशानं देवदेवत्यमादि देवं प्रतिष्ठितम् | षष्ठन्तु यत्परं तत्वमसादृश्य गुणैस्थितम् || तस्य देहो न वक्तव्यः प्राकृतैर्गुणसम्भवैः | ज्ञात्वा परमनिःश्रेणी पञ्चसंस्कारगामिनी || ज्ञातं ज्ञेयं सकृघ्नेन विस्मिते नान्तरात्मना | तदा एवं विमुक्तोसौ यदाज्ञातं हि तत्पदम् || इति कालोत्तरेऽध्युष्टशते द्वाविंशतितमः पटलः || ईश्वर उवाच || शृणु षण्मुखतत्वेन ज्ञानं परमदुर्लभम् | यन्न कस्य चिदाख्यातं तदर्थं(अनाख्यां) कथयामिते || देहस्थ सकलो ज्ञेयो निष्कलो देहवर्जितः | आप्नोपदेशगम्योसौ सर्वतः किमपि स्थितम् || हंसं हंसेति यो ब्रूयाद्धंसो देवः सदाशिव | गुरुवक्त्रात्तु लभ्येन प्रत्यक्षं सर्वतो मुखम् || तिलानाञ्च यथा तैलं पुष्पे गन्धः समाश्रितः | पुरुषस्य शरीरेस्मिन् स बाह्याभ्यन्ते स्थितः || उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्य तां(तं) त्यजेत् | ज्ञानेन ज्ञेयमालोक्या ततोज्ञानं परित्यजेत् || पुष्पं तु सकलं विघ्नाद्गन्धस्तस्यैव निष्कलः | वृक्षं तु सकलं विघ्नाच्छाया तस्यैव निष्कला || सकलनिष्कलभावेन सर्वत्रैवं व्यवस्थितः | प्. १४अ) सकले सकलं विन्घ्वान्निष्कले निष्कलं तथा || त्रिमात्रश्च द्विमात्रश्च एकमात्रं तथैव च | अर्धमात्रापरासूक्ष्मा तस्याप्यर्द्धं परापरम् || ब्रह्मविष्णुश्च रुद्रश्च ईश्वरः शिव एव च | पञ्चधापञ्च दैवत्यं सकलं परिपठ्यते || ब्रह्मणो हृदये स्थानं कण्ठे विष्णुः समाश्रितः | तालुमध्ये स्थितो रुद्रो ललाटेस्थो महेश्वरः || नासाग्रे तु शिवं विघ्नात्तस्यान्ते तु परापरम् | परात्परतरं नास्ति इति शास्त्रस्य निश्चयः || इति कालोत्तरेऽध्युष्टशते त्रयोविंशतितमः पटलः || कार्तिकेय उवाच | गमागमं कथं तस्य केन वा नीयते तु सः | संशयो मे महादेव कथयस्व यथार्थतः || ईश्वर उवाच || नीयते शक्तिनाजीवस्तस्मिन्प्राप्यनिवर्तते | तस्यान्तं संप्रवक्ष्यामि शृणु तत्वेन षण्मुख || देहातीतं तु तं विन्घ्नान्नासाग्रे द्वादशांगुलम् | तदन्तं तु विजात्तत्रस्थो व्यापयेत् प्रभुः || मनोप्यन्यत्र निक्षिप्तं दृष्टिरन्यत्र पातिता | तथापि योगिनां योगो अव्युच्छिन्न प्रवर्तते || एतत्तत्परमं गुह्यं मेतत्परमं पदम् | एतत्परमं ब्रह्म एतत्तु परमाक्षरम् || नातः परतरं किञ्चिन्नातः परतरं शिवम् | नातः परतरं ज्ञान(ज्ञेय)मित्याहभगवाञ्छिव || शिवज्ञानामृतं ह्येतत्संक्षेपान्न तु विस्तरम् | कथितं देवदेवेन परमाक्षरनिर्णयम् || एतत्ते शिवसद्भावं शिववक्त्राद्विनिसृतम् | गुह्याद्गुह्यतरं गुह्यं गुहितव्यं(गोपनीयं) प्रयत्नतः || नाशिष्याय प्रदातव्यं नापुत्राय कदाचन | प्. १४ब्) देवाग्नि गुरुभक्ताय शिवशास्त्र(वार्चन)पराय च || प्रदातव्यमिदं ज्ञानं नेतरेषां कदाचन | दातारो नरकं यांति न सिद्ध्येत कदाचन || शिवामृतं समाख्यातं सत्यं वत्समया तव | एवं ज्ञात्वा तु मेधावी विचरस्व यथासुखम् || गृहस्थो ब्रह्मचारी वा वानप्रस्थोथ भिक्षुकः | यत्र तत्र स्थितो ज्ञानी(योगी) परमाक्षरवित्सदा || विषयैर्विषयाशक्तो याति देहान्तिकं शिवम् | ज्ञानादेवास्य शास्त्रस्य पापाशक्तोपि मानवः || ब्रह्महत्या स्वमेधाढ्यैः पुण्यपापैर्न लिप्यते | चोदको बोधकश्चैव मोक्षकेस्तु परः स्मृतः(द्वितीयकः) || इत्येते त्रिविधाज्ञेया आचायास्तु महीतले | चोदको दर्शयेन्मार्गं बोधकः स्थानमादिशेत् || मोक्षद(क)स्तु परं स्थानं(तत्वं) यज्ज्ञात्वा न निवर्तते || इति कालोत्तरेऽध्युष्टशते त्रयोविंशतितमः पटलः || ईश्वर उवाच || प्रत्यक्षं यजनं दक्षे संक्षेपान्न तु विस्तरात् | यं यष्ट्वा(क्ष्ये) तु नरायान्ति शाश्वतं पदमव्यम् || नाभिमेढो?तिके(दृन्तरे)स्कन्द उ(ओं)काराख्या प्रतिष्ठिता | आधारः सर्वनाडीनां स च हंसेन संयुता || द्वासप्तति सहस्राणि याऽ?यस्त अनिर्ग(संस्थि)ताः | तासां मध्ये महानाडीराजनाडीति विश्रुता || तस्या मध्ये स्थिताः स्कन्द पञ्चपद्मा अधोमुखाः | ग्रन्थि द्वय समायुक्ताः सर्वे दैवतसंयुताः || ऊर्द्ध्वी(र्द्धं)कृत्वा तु तान्पद्मा शिवशूलेन भेदयेत् | शिवशूलहतात्कृत्वा ऊर्द्धवायुश्च रेचयेत् || रेचकेन समायुक्तो जीवो गच्छति वै शिवम् || एतत्सर्वसमाख्यातं संक्षेपान्न तु विस्तरात् | प्. १५अ) सन्धानं चैव उर्द्धन्तु पूर्ववत्कथितयं मयां || स्वयमेव तु तं पश्येद्देही बिन्दुं चतुष्कलम् | अयने द्वे विषुवे चैव मार्गवित्पश्यते सदा || कृत्वा योगं पुरावत्सपूरकुम्भक रेचकैः | सकली कृत्य विधिना शिवाङ्गैस्तु शिवी भवेत् || सर्वमन्त्रानि जापञ्च देहं त्यक्त्वा तु सम्भवेत् | शरीरस्थं न्यसेन्मध्ये सद्वीजं परमं हि तत् || शिरसि निधनाश्त्रं तु ध्यात्वा तस्मिन् नियोजयेत् | कारणन्तु शिवं तत्वं न्यस्त्वातः प्रतिपूजयेत् || कालकालार्मुकैः पुष्पैरूर्द्धस्थं संप्रपूजयेत् | पूजाशतसहस्रस्य कृताभवतिशास्वती || अहं देव शिवश्चैव सर्वतत्वैर्न संशयः | अनन्तादि शिवान्तस्य तत्वग्रामस्य कृ * तः || कृत्वा पूजाभवत्येवं गन्धपुष्प * * त्रकैः | माया शेषविधिः ख्यातः शिवशाशनपारगः || पूर्वतोभयमुच्चार्य रेचयेत्तदनुक्रमात् | नातः परतरं किञ्चित् पूजास्थानं परं स्मृतम् || नमस्कारेण योगान्ते मूर्द्ध्निमालम्ब्यदापयेत् | आदित्यग्रहणे वत्स प्रत्यक्षमर्चनं भवेत् || इति कालोत्तरेऽध्युष्टशते चतुर्विंशतितमः पटलः || कार्तिकेय उवाच || शिवाग्नौ पञ्चवक्त्राणि शिवसद्भावमुत्तमम् | कस्मिन् कस्मिन् कदावक्त्रे आचार्यः पशुपाशहा || कस्मिन् करोति संस्कारान् कस्मिन् पापानि जुह्णति | कस्मिन् करोति यजनं कस्मिन् पूर्णाहुतिः स्मृताः || कस्मिन् वक्त्रे पुनः पापा(हुतेपाशां)दात्मानं च विशोधयेत् | एतत्सर्वं समासेन भगवन्वक्तुमर्हसि || प्. १५ब्) ईश्वर उवाच || पाशाः पाशेषु सर्वेषु पूर्ववक्त्रं प्रकीर्तितम् | संस्काराश्चोत्तरे कुर्याद्यजने पश्चिमेन तु || प्रायश्चित्त विधानन्तु वक्त्रेस्मिन् दक्षिणे स्मृतम् | ऊर्द्ध्ववक्त्रे महासेन तस्मिन्प्राणाहुतिः स्मृताः || न पाणिपादपृष्ठे तु आहुतिं संप्रदापयेत् | वक्त्रसंस्कारतत्वज्ञ आचार्यो मुक्तिकारकः || एवं संस्कारसंदिग्ध(सिद्ध) आचार्यस्तु न मोक्षदः | पुनरायान्ति सम्स्कारं सत्यं वत्स न संशयः || इति कालोत्तरेऽध्युष्टशते षट्विंशतितमः पटलः || ईश्वर उवाच || लिङ्गौद्धारं प्रवक्ष्यामि नैष्ठिकानां तु षण्मुख | पञ्चरात्रं त्रिरात्रं वा क्षपयित्वाधिवासयेत् || पूर्वोक्तन्तु विधिं दृष्ट्वा संन्यासं संनिवर्त्तयेत् | योनिचक्रं न्यसेत् तत्र विधिदृष्टेन कर्मणाः || अष्टारचक्रमालिख्य नाभिद्वयसमन्वितम् | विपरीतं योजयित्वा जनयेत् तत्र नैष्ठिकम् || पञ्चपञ्चाहुतिं दघ्नादरकेषु यथाक्रमम् | हृन्मात्रेण तु दातव्यं संहारेण तु बुद्धिमान् || एवं कृत्वा यथा पूर्व जनयेत् तत्र नैष्ठिकम् | सृष्टिसंहारकास्कन्द कृत्वा वै नैष्ठिकस्य तु || सृष्टिसंहार न्यायेन यष्ट्वाशुध्यति नैष्ठिकः | आशक्त विषयैर्वापि कर्मदोषैर्न लिप्यते || इति कालोत्तरेऽध्युष्टशते षड्विंशतितमः पटलः || ईश्वर उवाच || अन्तेष्टिं संप्रवक्ष्यामि यथा वदनु पूर्वशः | शिवाग्निं जनयित्वा शिवं पश्चाद्विशोधयेत् || मृण्मयेनाम्भसाशोध्य भस्मस्नानं यथा पुरा | प्. १६अ) गन्धपुष्पैरलंकृत्य अस्त्रबीजेन शोधयेत् || इष्टिं संहारिकां कृत्वा उद * दैर्निवेशयेत् | दर्भास्तरणं पुरा कृत्वा अस्त्रं विन्यस्य सर्वतः || अस्त्रेण ज्वालयेदग्निं समन्तात्सुसमाहितः | चन्दनागुरुकाष्ठैश्च तिलैराज्यसमन्वितैः || विद्यमाने तु कर्तव्यमितरेषां यथेप्सया | आग्नेयीं धारणां ध्यात्वा दहेदस्त्रेणमन्त्रवित् || दीक्षितोत्तरकाले तु समयान्यदि लङ्घयेत् | देवस्य स्वगुरोश्चैव महापातकमेव च || अमुक्त संशया ये च ये चान्येशवलात्मकाः | तेषां पापापनोदार्थमंगेष्टि?कथिता गुह || स्वसंज्ञश्च असंज्ञश्च स मयं यदि लङ्घयेत् | कन्यादत्वमवाप्नोति समयस्य च लङ्घने || तेना संज्ञसमायोगात्ग्रहणं पूर्ववद् भवेत् || इति कालोत्तरेऽध्युष्टशते सप्तविंशतितमः पटलः || ईश्वर उवाच || अस्त्रयागञ्च छिद्रघ्नं प्रवक्ष्याम्यनुपूर्वशः | पूर्वोक्ते भूतले शुद्धे गोमयेनोपलेपिते || गन्धद्रव्यसमायुक्तं कलशं पारिपूरितम् | ईशान्याः स्थापयेदिक्षु अविघ्नकणम् शुभम् || ततः पङ्कजमालिख्य स्थण्डिले वा समर्चयेत् | रजे तु वहवो विघ्नानिर्विघ्ना स्थण्डिले गुह || तस्मात् सर्वप्रयत्नेन शस्त्र यागन्तु स्थण्डिले | सर्वत्र विहितं शास्त्रात्किञ्चिदस्त्र यागं तु स्थण्डिले || प्राकारे कर्णिकापद्म धर्मज्ञानादिमेव च | वैराग्यञ्चैव ऐश्वर्यं शक्तयश्च तथैव च || * * * * * * * * यजेत विधिवत्सदा | प्. १६ब्) ततः कुर्वीतमतिमान्प्राकारे समन्वितम् || अस्त्रं पाशुपतं दिव्यं स्थापयेत्कर्णिकोपरि | अष्टविंशत्कलैर्युक्तो * * * * * * * * || पूर्वादीञ्शास्त्रविन्यस्य प्राकारं विदिशैः क्रमात् | विदिक्षुस्थापयेदस्त्रं प्राकारं सार्वकामिकम् || अस्त्रपीठमिदंश्रेष्ठमच्छिद्रकरणं परम् | बाह्ये * * * * * * दशदिक्षु समन्ततः || वज्रं दण्डञ्च खड्गञ्च पाशांकुशं तथैव च | गदास्त्रिशूल चक्रञ्च पद्मं चैव यथा क्रमम्? || न्यसेत् पाशुपते नैव प्राकारे * * * * * | * * * * * * * * दिशाभागः प्रकीतितः || * * कुर्वीत कुण्डस्तु तथैव चतुरस्रकम् | चतुर्नाभित्समायुक्तं हस्तमात्रं समन्ततः || * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * लक्षणम् || सोधनं तस्य कुर्वीत प्राकारेण तु षण्म्खः | जननं निष्कृतिं चैव विधिं कुर्याद्यथा * * || * * * * * * * * * * * * * * * * | * * * * * तं पूर्वं प्राकारं पूर्वमेव च || व्रज्राद्यं तु ततो हुत्वाभागैः पूर्वोपकल्पितैः | हुं फट् वौषट् अ * * * * * * * * * * * || * * * * * * * * * * * ने विचक्षणः | तत्रस्थाः कर्षयेत् तेन प्राकारेण न संशयः || अधिकारादि होमे तु आहुत्या * * * * * | * * * * * * * * * * * * * * * * || * * दीक्षा समाप्येवं सर्वछ्रिद्र निकृन्तनी | योजनी शिवतत्वस्य निर्वाणकरणीपरा || प्. १७अ) ततोमिये * * * * * * * * * * * * | * * * * * * * * * * * * * * शयः || आकारः प्रथमो रेखा द्वितीया चार्द्धचन्द्रिका | तृतीयाङ्कुशाकारा चतुर्थी वह्निसम्भवाः || प * * * * * * * * * * * * * * * | * * * * * * * * * * * * * व्यापिकाः || नवमी उपराज्ञेया यत्रेदं स चराचरम् || इति कालोत्तरेऽध्युष्टशतेऽष्टाविम्शतितमः पटलः || सप्तशतिकम् प्. १अ) ओं नमः शिवाय || स्कन्द उवाच | भगवन्देवदेवेश लोकनाथ जगत्पते | मन्त्रतन्त्रं त्वयाप्रोक्तं विस्तराद्वस्तु साधनम् || १ || अल्पायुषास्त्विमे मर्त्या अल्पवीर्य पराक्रमाः | अल्पसत्वा अल्पवित्ताश्च लोभमोहसमन्विताः || २ || अल्पग्रन्थं महार्थञ्च पदार्थानेक संकुलम् | वक्तुमर्हसि देवेशानुग्रहार्थञ्च मे प्रभो || ३ || ईश्वर उवाच || अथातः संप्रवक्ष्यामि शास्त्रं परमदुर्लभम् | कालाख्यं वाथुलेतन्त्रे दध्नोघृतमिवोद्घृतम् || ४ || मधुवच्च यथा पुष्पात्सारात्सारमिदं शुभम् | नादाख्यं यत्परं बीजं सर्वभूतेष्ववस्थितम् || ५ || मुक्तिदं परमं दिव्यं सर्वसिद्धिप्रदायकम् | तं विदित्वा महासेन देशिकः पाशहा भवेत् || ६ || आगोपालांगनाबाला म्लेच्छाप्राकृतभाषिणः | अन्तर्जलगताः सत्वास्तेऽपि नित्यं ब्रुवन्तितम् || ७ || स्थूलं सूक्ष्मं परं ज्ञात्वा कर्मकुर्याद्यथेप्सितम् | स्थूलं शब्दमिति प्रोक्तं सूक्ष्मं चिन्तामयं भवेत् || ८ || चिन्तयारहितं यच्च तत्परं परिकीर्त्तितम् | एवं ज्ञात्वा तु मन्त्रज्ञः सर्वपापक्षयो भवेत् || ९ || शान्तं सर्वगतं शून्यं मन्त्रैर्द्वादशभिः स्थितम् | अक्षरान्तरितं कृत्वा षडङ्गं स शिवो भवेत् || १० || प्. १ब्) प्रथमं हृदयं तस्य द्वितीयन्तु शिरः स्मृतम् | तृतीयं वै शिखा चैव चतुर्थं कवचं भवेत् || ११ || पञ्चमन्तु शिवं विद्याः षष्ठमस्वविसर्गजम् | षडङ्गमेतत्कथितं शिवेन परमात्मना || १२ || कथितं गुह्य सद्भावं सादाख्येन महात्मना | मया तु कथितं तुभ्यं सद्यो मुक्ति प्रदायकम् || १३ || दीर्घयुक्तं शिवस्याङ्गं हृदयाद्यं यथा स्थितम् | सद्यादि क्रमयोगेन ह्रस्वे ह्रस्वं प्रकीर्त्तितम् || १४ || सानुस्वारं भवेन्नेत्रं सर्वेषां चोपरिस्थितम् | स विसर्गं भवेदस्त्रं सानुस्वारविखर्मितम् || १५ || * * * द्वादशाङ्गं तु षष्ठे नैव विभूषितम् | शिवतत्वं विजानीयान्मन्त्रमूर्त्ति परंशिवम् || १६ || षष्ठस्य द्वितीयश्च चतुर्थाद्येन संपुनः | द्वितीये पञ्चमञ्चैव आदिमं योजयेत्पुनः || १७ || सर्वविघ्नाः शिवास्त्रेण शिखायां मुक्तिदाः स्मृताः | एवं पाशुपतं दिव्यं सर्वपाशनिकृन्तनम् || १८ || पञ्चब्रह्मशिवस्याङ्गं नेत्रं पाशुपतं च यत् | समासात्कथितं सर्वं मन्त्रोद्धारमिदं शुभम् || १९ || अस्य मुद्रां प्रवक्ष्यामि साधकानां हिताय वै | हस्ताभ्यां संस्पृशेत्पादौ द्वौ हस्तौ पादमस्तकम् || २० || एषामुद्रा महामुद्रा सर्वकामार्थसाधनी | करन्यास पुटां कृत्वा अङ्गुष्ठं च म पश्चिमम् || २१ || प्. २अ) ब्रह्माङ्गाभ्यां यथा न्यासं विन्यसेत प्रयत्नतः | तल्लिकाहस्त पृष्ठौ तु अस्त्रबीजेन शोधयेत् || २२ || कनिष्ठामादितः कृत्वा अङ्गुष्ठं च म पश्चिमम् | ब्रह्माङ्गाभ्यां यथा न्यासं विन्यसेत प्रयत्नतः || २३ || प्रासादं विन्यसेत्पश्चाद्व्यापिनं सर्वतोमुखम् | करन्यासमिदं वत्स अस्मिन्तन्त्रेन संशयः || २४ || एवं मुदाख्ये च्छम्भुं पशुं चैव न दीक्षयेत् | नवकोट्यास्तु मन्त्रणां मुद्राकोट्यास्तु संख्यया || २५ || सर्वं ते निखिलं यष्ट्वा शिवतत्वं मयाख्यति | कायिकं वाचिकं कर्ममनसा चैव यद् भवेत् || २६ || दृष्ट्वा बुद्धा महामुद्रां शुद्धदेहस्तु सो भवेत् | ये चान्ये शुद्धयः प्रोक्ता विस्तरेण महागुहम् || २७ || त्रैमुद्रा अस्य सर्वेषां भवन्ति स विशेषिकः | मन्त्रोद्धार विधानंन्तु इज्यते शृणु तत्त्वतः || इति कालोत्तरे महातन्त्रे सप्तशतिके मन्त्रोद्धारः प्रथमः पटलः || कार्त्तिकेय उवाच || अन्तःकरण विन्यासं भूतशुद्धिस्तथैव च | भूतशुद्धिं पुरा कृत्वा पश्चादन्तःकरणां कुरु || आप्यायनं कथं तेषां कथयस्व यथार्थतः || ईश्वर उवाच || चैतन्यं योजयेत्पूर्वं दहनं तदनन्तरम् | आप्यायनं तृतीयं तु प्राणायामास्त्रयः स्मृताः || ह्रस्वेन दहनं प्रोक्तं प्लुते नाप्यायनं भवेत् | प्. २ब्) दीर्घेण कठिनाधाराः पद्मस्योपरि विन्यसेत् || हृद्बीजैः पार्थिवे युक्तं पार्थिवीत्वानयेत्सदा | शिरस्याद्यशिखा तेजः कवचं वायुना सह || अस्त्रं तु शिववद्युक्तमाकाशं तेन धारयेत् | हूं फडन्ते बलंभित्वा पूर्वं विद्यास्य यत्नतः || दीक्षायान्तु यथावक्ष्ये तत्प्रयोगं समारभेत् | पञ्चोद्घाता चेतस्त्रश्च त्रयश्च द्वयमेव च || शून्यं सर्वनिरालम्बं विज्ञान केवलं स्थितम् | प्रकृयान्तस्थममृतं स्रवणं चिन्तयेत्सदा || ओंऽमित्यनेन कमलं योगपीठं प्रकल्पयेत् | सूर्यमण्डलसंकाशंमाकाशं ह्यात्मसम्भवम् || विद्यातत्वमुकारं तु शिवतत्वं मकारजम् | पुर्यष्टकं तु तन्मात्रं तुर्यातीतं सदाशिवम् || चिन्तयेत्परमं धमं सुषुम्नाभिन्नमस्तकम् | तेनाप्यायनमात्मानंमापूर्यतं विचिन्तयेत् || इदं योज्यसते नित्यं समाधि मृत्युनाशनी | न तस्य जायते मृत्युरिति शास्त्रस्य निश्चयः || अथाचार्य साधकाय मूर्त्यैश्च ग्रहणं भवेत् | ईशान्याद्यास्तु सद्यान्तामूर्ध्नि आरभ्य विन्यसेत् || नेत्रं दद्यात्तथाचाद्यं देवदेवं सदाशिवम् | सर्वज्ञत्वं तदात्मानं चिन्तयेत विचक्षणः || हृदयं च शिरश्चैव शिखा कवचमेव च | अस्त्रं चैव तु मन्त्रज्ञः पञ्चस्थाने ह्यनुक्रमात् || प्. ३अ) हृदयेद्वा विधानन्तु नासौ होमं विधीयते | ललाटे वै श्वरं ध्यायेद्वरदं सर्वतोमुखम् || यथार्चने तथा चाग्नौ ध्यानकालविशेषतः | अन्तःकरणमिदं कृत्वा पश्चाद्बाह्यं तु षण्मुख || स बाह्याभ्यन्तरं कृत्वा पश्चाद्यजनमारभेत् | इति कालोत्तरे सप्तशतिकेऽन्तःकरणोनाम द्वितीयः पटलः || अतःपरं प्रवक्ष्यामि स्नानं पापहरंपरम् | स कृज्जप्तेन चास्त्रेण मृदं गृह्य विचक्षणः || मलस्नानं पुरा कृत्वा स कृज्जप्तानु संहिताम् | तामेवमृत्तिकां वत्स अभिमन्त्र्य सकृत्सकृत् || भागत्रयं ततः कृत्वा एकमस्त्रेण चालभेत् | द्वितीयं तु प्रजप्तेन शिवजप्तं तृतीयकम् || अस्त्रजप्तेन भागेन दिशाबन्धं प्रकारयेत् | शिवजप्तेन तीर्थे तु ब्रह्मजप्तेन चात्मनि || गुंडयित्वा ततः स्नायेत् शिवतीर्थस्य मध्यतः | चक्रवत्युपचारेण सुगन्धामलकादिभिः || उपस्पृश्य विधानेन सन्ध्यावन्दे ह्यनुक्रमात् | सर्वमन्त्रैः सकृत्प्राज्ञ उपस्थानं तु कारयेत् || अभिषेकं पुरा कृत्वा पश्चात्सन्ध्यां समाचरेत् | अस्त्रं नियोजयेद्देहे क्षिपेद्बाह्यं विचक्षणः || सर्वतीर्थ फलं तस्य निनांदेन तु षण्मुख | शरीरं सोधयेद्वत्स तेनात्मनि नियोजयेत् || प्. ३ब्) विघ्नेषु पाशजालेषु स तु योज्यं वि * क्षणः | हृदयेन ततो देवं पितृदेवांश्च तर्पयेत् || संहारं सर्वतीर्थस्य निनादेन तु षण्मुख | इति कालोत्तरे सप्तशतिके तृतीयः पटलः || ईश्वर उवाच || भस्मस्नानं प्रवक्ष्यामि सङ्क्षेपेण तु षण्मुख | सर्वमन्त्रै सकृत्प्राज्ञ अभिमन्त्र्य यथा क्रमम् || मलस्नानं पुराकृत्वा अस्त्रबीजेन षण्मुख | इति कालोत्तरे सप्तशक्तिके भस्मस्नानं चतुर्थः पटलः || ईश्वर उवाच || यजनं संप्रवक्ष्यामि यथावदनु पूर्वशः | वीजाङ्कुरं पुराशत्वा पश्चादानन्त्यमासनम् || अनन्तं चान्तरे दद्यात्क्रमेण तु षडानन | हृदयं कर्णिकापद्मं धर्मज्ञानादिमेव च || वैराग्यश्चैवमैश्वर्यं हृदये प्रधवं न्यसेत् | केशवे शक्तयोर्व्यूहं हृदयेन तु कारयेत् || आवाहयेत्ततो देवं हृदयेन तु षण्मुख | स्थापनं चार्घपात्रं च अर्चनीयं तु मन्त्रवित् || स्नापनं पूजनञ्चैव हृदयेन तु कारयेत् | उक्तानुक्तं च यत्किञ्चित् तत्सर्वं हृदयेन तु || इति कालोत्तरे महातन्त्रे सप्तशक्तिके यजनविधिः पञ्चमः पटलः || अतःपरं प्रवक्ष्यामि अग्निकार्यं विधि क्रमात् | अस्त्रेणोल्लेखनं कुर्याद्दर्भेणाभ्युक्षणं स्मृतम् || शक्तिन्यासं ततो मन्त्री हृदयेन तु कारयेत् | प्. ४अ) हृदिनाशक्तिगर्भस्य प्रक्षिपेज्जातवेदसम् || गर्भाधानादिकं कृत्वा निष्कृतिं च म पश्चिम | हृदयेन तु मन्त्रज्ञः सर्वकर्माणि कारयेत् || पश्चात्पद्मविधानं तु प्रागुक्त परिकल्पयेत् | शिवादि सर्वमन्त्रेषु होमयेच्चानु पूर्वशः || इति कालोत्तरे सप्तशतिकेऽग्निकार्यविधिः षष्ठः पटलः || ईश्वर उवाच || अतःपरं प्रवक्ष्यामि मण्डलं सर्वकामदम् | भूमिं संशोध्य यत्नेन शास्त्रदृष्टेन कर्मणा || अधिवासं ततः कृत्वा नक्षत्रे सत्कृतान्विते | आलिखेन्मण्डलं प्राज्ञः सर्वसिद्धिप्रदं शुभम् || सूत्रेणसूत्रितं कृत्वा चतुरस्रं समन्ततः | मध्ये पद्मं प्रतिष्ठाप्य अश्वपत्रं सकर्णिकम् || एकहस्तं द्विहस्तं वा चतुर्हस्तमथापि वा | त्रीण्यावरणयुक्तं स्वतन्तु विदितं गुह || पश्चिमं वाहयेद्वारंमाचार्यविहितं शुभम् | कुशं तु वारुणे कुर्याद्धस्तमात्रं प्रमाणतः || यज्ञकर्मविधिं कुर्यादसमिद्धे हुताशने | पूर्वद्वारेभ्य वज्रादीन्विन्यसेच्चानु पूर्वशः || ब्रह्माङ्गानि पुरान्यस्य शिवाङ्गं विन्यसेत्ततः | आग्नेययां हृदयं न्यस्य ईशान्यान्तु शिरो न्यसेत् || नैर्-ऋत्यां तु शिखां न्यस्य वायव्यां कवचं न्यसेत् | अस्त्रं दिशासु विन्यस्य कर्णिकायां सदाशिवम् || गर्भन्यासविधिर्ह्येष द्वितीयं वरणं शृणु | पूर्वद्वारेभ्य हृदिना लोकपालं प्रपूजयेत् || प्. ४ब्) तृतीये लोकपालास्त्रं शस्त्रेणैकेन पूरयेत् | संक्षेपेण मया स्कन्द विधानं परिकीर्त्तितम् || अनुक्तं यद् भवेत् किंचित् तत् सर्वं हृदिना बुध | एवं विधिविधानज्ञो ब्रह्मकर्मसमारभेत् || ब्रह्माविष्णुः सुराः सर्वे उपसन्नास्तु ये सुराः | ते मया दीक्षिता सर्वे अस्मिन्मण्डल उत्तमे || अस्मिन्मण्डले दृष्टे तु देवदेवेन निर्मिते | तं यान्ति परमंस्थानं निर्मलाय शिवं पदम् || एवं मण्डलमाख्यातं बिन्दु देवेन भूषितम् | न चान्यं बिन्दते किञ्चिदस्माद्गुह्यतरं परम् || इति कालोत्तरे महातन्त्रे मण्डलराज सप्तमः पटलः || ईश्वर उवाच || अथ दीक्षां प्रवक्ष्यामि पञ्चतत्वे व्यवस्थितम् | पृथिव्यापस्तथा तेजो वायुराकाशमेव च || एते पञ्चमहातत्वायैर्व्याप्तमखिलं जगत् | सर्वे तत्वास्तु तत्रस्था द्रष्टव्याः साधकोत्तमैः || नान्ये सत्वा न योगेन संयोज्याहुतिभिः क्रमात् | ब्रह्माण्डं सुविनिःसृत्य शतरुद्रावहिः स्थिताः || तदूर्द्ध्वं तु प्रतिष्ठाप्यं यावदव्ययगोचरे | ततो बीजानि युञ्जीत यावद्विद्येश्वरान्तिकम् || शान्तेस्तदूर्द्ध्वमन्थानं शान्त्या चैव शिवं न्यसेत् | अविदित्वामिमं तत्वं यो दीक्षां कर्तुमुद्यते || वृथा परिश्रमस्तस्य नैषतत्फलमाप्नुयात् | निवृत्तिः पृथिवी ज्ञेया प्रतिष्ठा आप उच्यन्ते || प्. ५अ) विद्या तेजोमयी प्रोक्ता वायुः शान्ति प्रकीर्त्तितम् | शान्तातीतं परं व्योमं तत्परं परमव्ययम् || तं विदित्वा महासेन स्थावराणांनु दीक्षयेत् | एते पञ्चमहाते * यद्देहं सकलस्य तु || स्थावराणां चराणां च * त्यापश्यन्ति विग्रहम् | न चान्य देवता काचिद्व्यतिरिक्तस्तु दृश्यते || एतैर्यष्टाभवेद् यष्टामेतैः शुद्धासुशोधितम् | एते पञ्चप्रकाराणि देवतानि सुसंस्थिताः || ब्रह्माविष्णुस्तथारुद्र ईश्वरश्च सदाशिवः | एते तत्वाः स्थिताः पञ्च निर्वाणं सर्वतादृशम् || निवृत्ती हृदये चैव प्रतिष्ठा शिरसि न्यसेत् | विद्या चैव शिखायां तु शान्ति वै कवचेन तु || शान्तातीतं परं व्योम प्रासादेन तु होमयेत् | एकैकस्य शतं जुहुयाच्छत वै पञ्चहोमयेत् || पश्चात्पूर्णाहुतिं दद्यात्प्रासादेन तु षण्मुख | प्रायश्चित्तविशुद्ध्यर्थं एकैकाष्ठाहुतिं क्रमात् || अस्त्रबीजेनमन्त्रज्ञो होमयेच्चानु पूर्वशः | आत्मा शिष्य शिवं चेति सर्वमेक त्रयोजयेत् || दत्वापूर्णाहुतिं प्राज्ञः शून्ये शून्यमिवस्थिताः | परेण सहमेकत्वमेकः समरसो भवेत् || नष्ठे शून्ये तथा शून्य एवं शून्यं समन्ततः | तद्वदात्मा तथा शिष्यः शिवमेकसमं नयेत् || एवं समाप्यते दीक्षा जननादि विवर्जितः | हुतेनैव विमुच्यन्ते साधकाजन्मबन्धनात् || प्. ५ब्) अप्रकाशमिदं गुह्यं गोपनीयं प्रयत्नतः | रहस्यं सर्वमन्त्राणामिदं संस्कारमुत्तमम् || एवं संस्कारशुद्धिस्तु शिववज्जायते ध्रुवम् | कार्त्तिकेय उवाच || यानि न्यासादितः कृत्वा उद्धारं चाप्य पश्चिमम् | साधना तु क्रमाद्देव कथयस्व यथाविधि || ईश्वर उवाच || दशसप्तं तु योध्या पृच्छतां नित्यया गुह | यस्य यद्बीजविहितं कथयाम्यनुपूर्वशः || योनिबीजं तु हृदयं कल्पयेत यथाक्रमम् | अर्चनं प्रोक्षणञ्चैव ताडनञ्च तथैव हि || संहारं चैव स योगं निक्षेपश्च तथैव हि || अर्चनञ्च पुनः कुर्याद्गर्भधारणमेव च | जननं चापि कारं च भोगं चैव लयं तथा || स्वतत्वं शतमाहुत्या हृदयेन तु षण्मुख | पाशच्छेदं यथास्त्रेण पूर्णाहुंत्याश्च पूर्ववत् || हृदयेन ततो विंशन्कर्त्तव्यश्चानु पूर्वतः | उद्धारप्रोक्षणञ्चैव ताडनञ्च यथैव हि || हूं फट्कारसमायुक्तं कर्त्तव्यं चानुपूर्वशः || संहारं चैव तत्वानां कर्त्तव्यञ्च यथाकथम् | तत्वैस्तत्वैरिदं कर्म एष एषविधिः स्मृतः || एभिस्तु शोधयेद्वत्स विधिं प्राश्चेति?पुष्कलम् | अन्यथा नैव मुच्यन्ते विधिहीनाः षडानन || संपूर्णाहुतिधारं तु कर्त्तव्यं धारणान्वितम् | अमृतं यत्परं वत्स स्रवतं मनसास्मरेत् || दीक्षाप्रकरणो ह्येष योस्र सर्वत्र सर्वदा | प्. ६अ) लिङ्गोद्धारविधानं तु सर्वसंस्कार कर्मसु || कार्त्तिकेय उवाच || पशुग्रहणमोक्षञ्च यत्प्रोक्तं तु पुरानघ || पाशंयोरभ्यन्तरं बाह्य कस्मिं स्थाने कथं स्थितः | कस्मि देशे तु ते छेद्या सद्योक्तन्ति कीदृशी || पशोश्चैव हि निर्देशं कथयस्व महेश्वर || ईश्वर उवाच || आमंत्रयं द्वितीयेन गृह्यमात्मर्न यत्नतः | षष्ठिना यावतः स्थानं नयते तु विचक्षणः || विशुद्धेन तु योगेन ब्रह्माद्यस्तु शिवान्तकम् | एकन्तु समयायान्ति अन्यथा तु पृथक्पृथक् || द्वादशान्तेन च्छातव्या स्वरशास्त्रेणसंयुताः | तदासौ याज्यतां यान्ति समद्यैः परिवर्जितः | अनिर्द्दिश्यं तु संज्ञं तु यत्कृतं तद्वृथा भवेत् || तमुद्दिश्य कृतं कर्म मोक्षदन्तु न संशयः | सूर्यग्रहणञ्च वैवत्स विशुद्धेन तु संयुतः | आयामंत्र यदाच्छिन्नं तदाचोक्तमते ध्रुवम् || अनेन ग्रन्थिताः पाशा सूत्रेमणिगणा इव | हृत्पद्मं यावत्पद्मं मनास्त्रं तु सुतानि च || तं दृष्ट्वा छेदनं कुर्यान्मनोवृत्तिर्मनः शिवः | मनसा तु मनश्छिन्नं जीवः केवलतां व्रजेत् || कार्त्तिकेय उवाच || विस्तरं त्यजदेवेश संक्षेपात्कथस्व मे | येन विज्ञातमात्रेण पशुं मोचयते क्षणात् || ईश्वर उवाच || शृणु षण्मुख तत्त्वेन योगमोक्षं ध्रुवं लभेत् | प्रयोगेण तु सूक्ष्मेण योगदृष्टेन मन्त्रिणा || प्. ६ब्) दिव्येन योगमार्गेण प्रेर्यते च तु शक्तिना | तं विदित्वा महासेन जीवो वायुमयं बुधः || विषु?वेन तु योगेन योजयेच्छाश्वतं पदम् | योगन्तु विषुवं प्राप्य कोन मुञ्चति बन्धनात् || पृथिव्याद्याज्जनाद्यो वै शब्दादि गुणवायुभिः | मन्त्रादि देवतात्मा तु ज्ञात्वामुच्येत बन्धनात् || नाडी विवरसत्वामूर्द्धनाला अधोमुखाः | ग्रन्थिद्वययुताः सर्वे हं फट्कारेण चेतनाः || ततश्चोर्द्ध्वत्वमायान्ति उद्घातौ पूर्ववद्बुधः | क्ष्माद्यामालोक्यमनसा स बाह्याभ्यन्तरं गुह || तत्वे तत्वे तु वक्तव्याविमुक्तानिरहंकृताः | ब्रह्माधामा?वयद्वत्स न पुनर्जन्मतां व्रजेत् || एताश्वेतो द्विरम्यस्य मन्त्रं नादपदेरितम् | दीक्षाकाले तु संयोज्य आयामं भास्करस्य तु || ताडयित्वा पुरावत्स ग्रहणं पूर्ववद् भवेत् | भित्त्वागलान्यवद्यानि तत्व तत्वेनसनयेत् || शक्तिभिसंपुटीकृत्य वौषडान्तेन निःक्षिपेत् | एषा दीक्षा समासेन संसारार्णवतारणी || यस्मिन्मन्त्राश्च दीक्षाश्च मुद्रामण्डलशोभना | निर्मलानि? महासेन शक्तयो भुवनं तथा || स एष मोक्षदो जन्तुर्विशुद्धस्यो महेश्वर || इति कालोत्तरे महातन्त्रे सप्तशतिके दीक्षाप्रकरणोऽष्टमः पटलः || प्. ७अ) (मभिषेकं समाचरेत् | शुभ्रं न * र देवं स मुहूर्तकरात्मवित् || वज्रपरालघातैश्च यं स्ववाविहगे खचे? | * * * * * * विचिनत्य मतसमन्वितैः || यत्यज्ञातोऽभिषकं च आचार्यः पशुपाशहा || इति कालोत्तरेऽभिषेको नवमः पटलः || ईश्वर उवाच || नाडिचक्रमिदं सूक्ष्मं प्रवक्ष्याम्यनुपूर्वशः || नाभेरधस्ताद्यत्सूक्ष्मं करो (तत्र * * * *) || टोप् ओf पगे) ईश्वर उवाच || अभिषेकं प्रवक्ष्यामि संक्षेपेन तु विस्तरात् | हिताय साधकेन्द्राणां शिववक्त्राद्विनिःसृताः || मृण्मयं कलशं ह्येवं चन्द्रसेनोपशोधितम् | * * पत्रपुटे नापि पद्मपत्रपुटेन वा || सर्वौषधि समायुक्तं सर्वगन्धो?पशोभितम् | शतमष्टोत्तरं जप्त्वा निजदे सर्वतोमुखम् || * * * * * * * * * * * * * * * नि | तानि वस्त्राणि द्वासप्तत्यस्त्वमूर्त्तिस्तु || तिर्यगूर्द्धमधश्चैव व्यापिनं चैस्तु सर्वतः | चक्रवत्संस्थिता ह्येते प्रधानादशनाड्यः || इडा च पिङ्गला चैव सुषुम्ना च तृतीयका | गान्धारी हस्तिजिह्वा च पूषा चैव यशास्तथा || अलंबुषा कुहू चैव शङ्खिनी दशमी स्मृता | दशप्राणवहा ह्येते नाडयः परिकीर्त्तिताः || प्राणापानौ समानश्च उदानो व्यान एव च | नागः कूर्मोऽथ कृकरो देवदत्तोधनंजयः || प्राणश्च प्रथमो वायुर्नवानामपि स प्रभुः | प्राणग्लामयाप्राणो विसर्गाः पूरणं प्रति || नित्यमापूरयेदेष प्राणिनामुरसि स्थितः | निःश्वासोच्छ्वासकास्तु प्राणोजीवसमाश्रितः || प्रयाणं कुरुते यस्मात्तस्मात्प्राणः प्रकीर्त्तितः | अपानयत्यपानस्तु आहारामनुजाबुधाः || शुक्रमूत्रवहोवायुरपानः स प्रकीर्त्तितः | पीतभक्षितमाध्रातरक्तपित्तकफलानिलम् || प्. ७ब्) समं नयति गात्रेषु समानो नामतः स्मृतः | स्पन्दयत्यधराक्तं नेत्रगात्रप्रकोपनम् || उद्वेजयति मर्माणि उदानो नाममारुतः | व्यानो विनाशत्यङ्गं व्यानो व्याधिप्रकोपनः || प्रीतिनाशकरैश्चैव व्याधिस्यं व्यान उच्यते | प्राणाद्यावायवः प्रोक्ता नागाद्याः प्रोच्यतेऽधुना || उद्गारो नागमित्युक्तं कूर्मोन्मीलने स्थिता | कृंकरोक्षुभिले चैव देवदत्तो विजृम्भति || धनंजया स्थितो घोषे मृतस्यापि न मुञ्चति | इत्येते वायुवृन्दे हृदिह्लदनिहितं नाडिचक्रे प्रतिष्ठं निश्वासोच्छ्वासकासैः श्वसनमुखधः कम्पितैर्घूर्णितैश्च | नित्यनित्याल्पजन्मा व्यसनसियुवायौवने बालभावे आक्रान्तो वायुरेको विदुजनमरणैः क्रीड्यते सर्वसत्वैः || नाडीचक्रं यथावस्थं कथयामि तथाखिलम् | दशारं चक्रमेतन्तु विभोगोज्ञायते यथा || चक्रवद्भ्रमते जीवो दशस्थानेष्वनुक्रमात् | स जीवो जीवलोकस्य नैव बुध्यन्ति मोहिताः || दशधा गच्छते येन तेन चक्रं प्रकीर्त्तितम् | नाडीचक्रेति विख्याता यच्च संक्रमते ह्यसौ || हृद्व्योम मध्यपंकजमष्टदल कर्णिका च यस्यान्ते तस्यार्द्धे केन्दुबह्रिहिरणधोताभाः शक्तयस्तस्मिन्नुपरिचरेखलु शक्तीनां शक्ति प्राग्भाविनी शिवस्यैव तदवस्था शक्तिचतुष्टय पंकज प्. ८अ) मध्ये पुरुषास्तु संलीनाः शून्यमरुसंदंशकगृहीत्वा करणात्मकोनुभयतोऽपिशयाचायति नियतं शुष्कदले मा कुरुते नैव मोष्यति पङ्कजमध्ये कलाचतस्राणां पाशसंबन्धः || गोलकहेलाहत इव उत्पतनियतेदा कुरुते | ईश्वर संगाद्विषुवं संक्रान्तिं चैव संयोगात् || अनियोगादक्षिणमुदयं न गमने उत्तराद्संयोगाः | अयनौ सव्यासव्यौ द्वौ पुटाकौ युग्मकौ विषुवः || आहुः संक्रान्तिरिति तश्चेतश्चैव हि गच्छतः | तद्वित्तैः स समाख्यातं | सौरं सृव्यंगार्गं चन्द्रमसंरेतरं समाख्यातम् | धन्यमर्हिषवरेदोसौरं खलु वह्नि सत्वाते || ध्यानाद्याविशुवाख्याप्राग्दले संस्थनृपावलेपः स्यात् | तेजस्वी क्षुभितात्मा पीतावाजयेतेऽग्निदिष्टत्रे | याम्ये याम्यो भावो नैर्-ऋते राक्षसाश्चैव || वारुणे वारुनः संस्थे मरुत्पत्रे मरुद्भवम् | सौम्यसाद्यक्षभावं | ईशे ईशं समाख्यातं ब्रह्मे ब्रह्मभावं ह्युरगे तु ह्युरगेंद्वं | यस्याभिसमभि गच्छति | तस्यान्ते भावमायाति | पात्रान्तेरालयोगात् | शून्ये वामासमाभाति || इति खलु पुद्गलचारं नाडीसंचारमण्डलं मुख्ये कथितमिहसिद्धिहेतोर्बोद्धव्यं यत्नतः सिद्धे || कार्त्तिकेय उवाच || स जीवो जीवलोकस्य यथान्येन तत्वतः || संशयो मे महादेव प्रसादात्तवशूलिनः || प्. ८ब्) ईश्वर उवाच || अहो प्रलापसेस्कन्द वात्मवान्तषुन्न्यसे | कथयामि पटज्ञाने भूयोभूयः प्रयच्छति || जीवस्य पुरुषाख्यस्य दर्शनं शृणुषण्मुख | कथयामि न सन्देहः पुत्रस्नेहाद्विशेषतः || संक्रान्तिं विषुवं चैव अहोरात्रायनानि च | अधिमास ऋणञ्चैव * * * * * * * * | अनरात्रं भवेच्छिकाः अधिमासो विजृंभिका || ऋणञ्चकाशो विज्ञेयो निश्वासो धन उच्यते | उत्तरं दक्षिणं ज्ञेयं वामं दक्षिणसंज्ञकः | मध्येषु विषुवं प्रोक्तं पुटद्वयविनिसृतम् || संक्रान्तिं पुनरस्यैव स्वस्थानं स्थानमेव च | इडा चैव सुषुम्ना च अमा चैव समन्विताः || सुषुम्ना दक्षिणे ह्यङ्गे इडा वामे प्रतिष्ठिता | अमायामध्यमे ह्यङ्गे एतत्संक्रान्तिरुच्यते || ऊर्द्ध्व प्राणो ह्यधश्चैव अपान्यरात्रिरुच्यते | विभागं दशप्राणस्य यो वेत्येवं स वेदवित् | आयामो देह मध्यस्यं सोमग्रहणमिष्यते || देहातीतं तु तद्वाध्यादादित्यग्रहणं विदुः | अयुते द्वे सहस्रं तु षट्शतानि तथैव च || अहोरात्रेण योगीनां जपसंख्यां करोति सः || कार्त्तिकेय उवाच || पूरकं कुम्भकं चैव रेचकं च प्रशान्तकम् | करणं च यथा न्याया देवमेतन्महेश्वर || ईश्वर उवाच || शृणु षण्मुख तत्वेन ज्ञाने परमदुर्लभम् | न कस्यचिन्मयाख्यातं वक्ष्यते शिखिवाहन || प्. ९अ) प्राणायामं समासेन कथयामितवाखिलम् | उच्चारयेत प्रणवं स्वरेणैकेन योगवित् || उदरं पूरयित्वा तु वायुना यावदीप्सितम् | प्राणायामो भवेदेष पूरको देह पूरकः || विहाय सर्वद्वाराणि निःश्वासोच्छ्वासवर्जितः | संपूर्णकुम्भवज्जेष्ठे प्राणायामो हि कुंभवत् || मुञ्चेद्वायु ततश्चोर्द्ध्वं श्वासोनैकेन योगवित् | निश्वास योगयुक्तस्तु ऊर्द्ध्ववायुं च रेचयेत् || रेचकस्त्वेष विख्याता प्राणसंशयकारकः | यो सौ हृदि स्थितं पद्मं अधोमुखव्यवस्थितम् || स वै विकसते पद्म पूरकेण तु पूरितः | अर्धमात्रा तु वै पद्मकुम्भकेन निरोधिताः || रेचकण तु भाक्षिप्तं सद्यः प्राणहरेण तु | भित्त्वा हृदयं पद्मं तु ऊर्द्ध्वस्रोते व्यवस्थितम् || रेचको गच्छते ह्यूर्द्ध्वं ग्रन्थित्वा क्रमेण तु | भित्त्वा कपालद्वारन्तु जीव ऊर्द्ध्वं तु रेचिताः || सदाशिव पदं गत्वा न भूयो जन्मतां व्रजेत् || आयामो क्रियते तस्य नान्यस्य तु कदाचन | चिन्तां निवर्त्तयेत् तत्र मध्ये यत्र विवर्जितम् || अनाद्यन्नं पदेलीनं प्रशान्तत्वात्प्रशान्तकः | स जीवो जीवलोकस्य मया प्रोक्तं समासतः || स्वयमुच्चरते यस्तु स्वदेहावस्थितः शिवः | तथेतविदोनित्यं स देवं जयरुच्यते || अयुतं द्वे सहस्रैकं षट्शतानि तथैव च | प्. ९ब्) अहोरात्रेण योगीनां जपसंख्या करोति सः || न विघ्नं जायते तस्य नाक्षसूत्रं न रोधन | न कालश्चक्र या वापि न साध्यसिद्धिरेव च || इति कालोत्तरे महातन्त्रे सप्तशक्तिके नाडीसंचारदशमः पटलः || ईश्वर उवाच || चन्द्राग्नि संयोगान्नाड्याः कुण्डलिनी तु या | हृत्प्रदेशे तु सा ज्ञेया अंकुराकरसंस्थिता || सृष्टिन्यासं न्यसेत् तत्र द्विरभ्यासं पदेरितम् | स्रवतं चिन्तयेद्यस्मादमृतं साधकोत्तमः || अग्निसोमात्मकं सर्वं जगत्स्थावरजङ्गमम् | विपरितं चिन्तयेत्तस्मै सिद्दिकामसमाहितः || स्वदेहे चिन्तयेद्विद्वान्दिव्यरूपमनोपमम् | यस्य यत्कर्मनोद्दिष्टं तत्कर्मचिन्तयेद्बुधः || योऽभ्यसेत इदं ज्ञानममृतं सर्वतोमुखम् | अचिरेणैव कालेन सिद्धिः सत्फलभाग् भवेत् || सृष्टि न्यासमविज्ञाय कथं युञ्जन्ति साधकाः | हन्यते मुष्टिनाकाशं तुषाणांकंडनानि च ||? इति कालोत्तरे सप्तशतिकेऽग्नि सोमात्मको*मैकादशः पटलः || ईश्वर उवाच || पुनरेवं प्रवक्ष्यामि सृष्टिं विस्तरतः क्रमात् | यथा सकलो देवे निष्कलेन समन्वितः || कलानुत्यादयामास सर्वतन्त्रेषु वर्जिताः | उकारं पूर्वमध्यस्थं ऊकारं व्याप्य सर्वतः || उकार प्रथमारेखा लोकानां सृजते प्रभुः | प्. १०अ) विद्या तत्व व्यवस्थे च सा तु वर्णे व्यवस्थिता || उंकारस्यमकाराभायःकलं प्रदृश्यते | पूतिनाम तु सा ज्ञेया आकाराक्षरसंभवाः || मूर्ध्निन्तस्य भवेद् यामासूक्ष्ममूर्त्तिर्निरञ्जना | मकारमभवातत्र निर्वृत्तिं नाम सा कला || उंकारं बिंदुसंयुक्तं लयं उंकारमूर्धनि | रेखा तु व्योम्नि निर्वाणा सा कलाशान्तिरुच्यते || स योगं संप्रकाशेनं निष्कलः सकलः स्थिताः | मूर्ध्निमाक्रान्तमोंकारं उ शब्दस्यनुजायते || सा शान्ति परमासूक्ष्मं बिन्दुना सहितं पदे | दीपादीपस्वभावेन विस्फुलिंगसमन्वितम् || निपतन्ति त्रिधायान्ति शिववद्यान्त्यंजाः कलाः | शान्ति विद्या प्रतिष्ठा च निवृत्तिं चैव सा कला || यावत्कलारेखिष्टो सा तु पतिता विनासहसह || स विद्येशः शिवः प्रोक्तो देवदेवो महेश्वरः | प्रथमं तस्य यद्बीजं बिंदुनादेन कीर्त्तितम् || न त्यजेत्परमं स्थानं शाश्वतं ध्रुवमव्ययम् | बिन्दु च ह्युदरे क्षिप्य मन्त्रेव परित्परिक्ष्यते || तस्योर्ध्वं वामपार्श्वे तु विष्णुबीजं प्रकीर्त्तितम् | दक्षिणं वामयोनिंस्थं एक एव त्रिधा भवेत् | पार्श्वे बिन्दु द्वये नैव यो रेखा मध्यतः स्थिताः || तत्र देवः शिवः सूक्ष्मो गूढोस्तिष्ठतिशङ्करः | प्. १०ब्) यद्बीजं परमो देवं शक्तिगर्भं महेश्वरम् || यतः प्रवर्त्तते हंसः शतुवन्तं चराचरम् | अव्यक्तं परमं सूक्ष्मं शक्तिदेहं निरञ्जनम् || शिवं अनादि निधनं यं विधानोभिजायते | दक्षिणस्थं तु यद्बीजं ज्ञानशक्ति परा हि सा || तद्बीजं परमं ब्रह्म यत्र गूढं स तिष्ठति | मस्थं यत्परं बीजं क्रियाशक्ति परा हि सा || तत्र विष्णु बीजेन गूढसूक्ष्मनिरञ्जनः | एष देवो विसर्गस्तु षष्थस्तु योनिसंभुन || निर्गूढं तत्र पश्यन्ति येन सृष्टिं चराचरम् | विसर्गाज्जायते सृष्टिरीश्वरः प्रभुरेव च || विसृष्टते न यद्बीजं विसर्गान्तेन चोच्यते | तेन चापूरितं सर्वं जगत्स्थावरजङ्गमम् || शक्तिरश्मि समूहेन शतशोऽथसहस्रशः | सृजते गृह्णते चैव संयोजयवियोजयेत् || ज्ञानशक्तिस्थभगवाननु गृह्णाति देहिनाम् | विसर्गाच्च भवेत् सृष्टिः संहारं बिंदुना सह || निर्वाणतत्वविज्ञानं न तु विस्तारगोचरम् || इति कालोत्तरे सृष्टिसंहारको द्वादशः पटलः || कार्त्तिकेय उवाच || संहारं चैव सृष्टिं च सर्वनिगदितं प्रभो | दीक्षितानां गतिभ्रंशं तत्वतः कथयामिमाम् || ईश्वर उवाच || मायाविनं शठं क्रूरो सदा तु कलहप्रियः | गतिभ्रंशकरो योगस्तत्त्वतः शृणु षण्मुख || विद्धाय सर्वद्वाराणि आयामे शशिनं तथा | सर्ववमं न सा लोक्य गतिं तस्य निवर्त्तयेत् || प्. ११अ) संहारं संपुटं कृत्वा आदावन्ते षडानन | मातृकास्ते तथा हुत्या एकैकस्य पृथक् पृथक् | गतिभ्रंशकरो योगो यथा वत्समुदाहृतः || इति कालोत्तरे महातन्त्रे सप्तशतिके गतिभ्रंशकरो नामत्रयोदशः पटलः || ईश्वर उवाच || प्रासादेरोस्थाप्य जापं सततं जपते यदि | षण्मासाज्जायते सिद्धिर्योगयुक्तो न संशयः || समागम्य जापेन सर्वपापक्षयो भवेत् | अणिमादि गुणैश्वर्यं षड्भिर्मासैर्नसंशयः || गमागमं विदित्वा तु मुच्यते नात्र संश्यः | तन्मनस्तल्लयोभूत्वा षण्मासात्सिद्धिमाप्नुयात् || गच्छन्तिष्ठन्स्वपञ्जाग्रं उद्विग्नो भयविह्वलः | मृत्युरासन्नकालेऽपि स्वयं वा तत्प्रवर्त्तते || यदा प्रवर्त्तते देवं स्वच्छन्दगति लीलया | अमनस्कं तु तं जापं अनुत्पन्ननिरामयम् || स्थूलसूक्ष्मपरञ्चैव प्रसादं कथितं मया | प्रासादं येन बुध्यन्ति तेन बुध्यन्ति शङ्करम् || इति कालोत्तरे प्रसादनिर्दशनो नामचतुर्दशः पटलः || ईश्वर उवाच || अतः परं प्रवक्ष्यामि प्रासादस्य तु लक्षणम् | ह्रस्वं दीर्घं प्लुतंञ्चैव लक्षयेन्मन्त्रवित्सदा || ह्रस्वो दहति पापानि दीर्घो मोक्ष प्रदोभवेत् | प्लुत आप्यायनञ्चैव बिन्दुमूर्ध्निसमन्वितम् || स्थूलभेदाम्त्रयः प्रोक्ताः वश्योच्चाटनमारणे | प्. ११ब्) प्लुतेन तु सदावश्यं कुरुते नात्र संशयः | दीर्गोच्चाटयते क्षिप्रं हूंफट्कारसमन्वितम् || आदिरन्ते च ह्रस्वस्य फट्कारो मारणे स्मृतः | आदिरन्ते च हृदयं प्रयोगाकर्षणः स्मृतः || सवमाकर्षणं सर्वं नामविज्ञायतत्वतः | साधकस्य भवेद् वङ्का न्यूनासाध्यस्य कीर्त्तिता || एवं निर्दिश्य मेधावी आकर्षं कुरुते ध्रुवम् | अविज्ञाय इदं सम्यक् नैव सिध्यन्ति साधकम् || यागं कृत्वा तु पूर्वोक्तं मन्त्रस्यार्धप्रदापयेत् | अर्थं दत्वा तु मन्त्रस्य जपं कुर्याद्विचक्षणः || मन्वाभिषेचनं कृत्वा साधकानां समाहितः | देवस्य दक्षिणे मूर्त्तौ पञ्चलक्षं जपे स्थितः || जापान्तेर्घूहोमेन दशसाहसिको भवेत् | एवमाप्यायितो मन्त्रः कर्मयोग्यो भवेत्ततः || उक्तानि यानि कर्मणि सिध्यन्ति नात्रं संशयः | दशलक्षं जपेद्यस्तु जनास्वस्था न वासिनाम् || वशत्वं यान्ति वै क्षिप्रमात्मनेन धनेन वा | त्रिपञ्चलक्ष जत्वा तु दशङ्ख्यामनिवासिनाम? || व?शतां यान्ति वै क्षिप्रमिति शास्त्रस्य निश्चयः | पञ्चविंशतिभिर्लक्षै विषयं वशमानयेत् || त्रिंशल्लक्षं जपेद्यस्तु मण्डलोकोवशं नयेत् | पञ्चविंशतिभिर्लक्षैः पृथिवीवशमानयेत् || चत्वारिंशतिभिर्लक्षैरीक्षते हाटकेश्वरम् | प्. १२अ) लक्षं पञ्चाशत्कं जप्त्वाविद्याधरसमोभवेत् || प्. १२अ) तत्रैवमोदते मन्त्री यावदाहुतसंप्लवम् | इति कालोत्तरे महातन्त्रे प्रासादलक्षणोनाम पञ्चदशः पटलः || कार्त्तिकेय उवाच || प्रासादं कीदृशं ज्ञानं व्याप्तिस्तस्य च कीदृशी | शरीरं कीदृशं तच्च कथयस्व महेश्वर || ईश्वर उवाच || प्रसादं येन बुध्यन्ति पञ्चमन्त्रमहानव | अष्टात्रिंशत्कलैर्युक्तं न स आचार्य उच्यते || अविदित्वा प्रसादं तु दीक्षायंः कुरु *** | अधस्ताच्छिष्यमात्मानं नीयते नात्र संशयः || प्रासादाब्ज शिखान्तस्थो यस्तु दीक्षां प्रकुर्वते | आचार्यः सह शिष्येण शिवसायुज्यतां व्रजेत् || देवदानवगन्धर्वाः स यक्षोरगराक्षसाः | किन्नराप्सरसः सिद्धाः सर्वे प्रासादसंभवाः || ब्रह्माविष्णुश्च इन्द्रश्च तथा चन्द्रोबृहस्पतिः | प्रजापतिस्तथादित्याः शुक्रः स्कन्दो गुरुस्तथा | ये चान्ये प्राणिनश्चेति सर्वे प्रासादसंभवाः || एते चान्ये च वहव ऋषयः संशितव्रताः | ध्यायन्ति परमं हंसं प्रासादं नामनामतम् || विभागं तस्य वक्ष्यामि यज्ज्ञात्वामृतमश्नुते | सद्यः कलाष्टकां युक्तं अकाराक्षरजं विदुः || विन्द्यादुकारजं वाममघोरं च मकारजम् | बिन्दुजं पुरुषं ज्ञेयं ईशानं तु शिवात्मकम् || प्. १२ब्) एवं मन्त्रश्च पञ्चैते सर्वे प्रासादसंभवाः | शतकोटिसहास्राणां मन्त्राणामपि तेजसाम् || प्रासादेन तु यष्टेन सर्वे यष्टा न संशयः | मारुता नलशक्राद्या ये मन्त्रापरिकीर्त्तिताः || प्रासादाब्जसमुत्पन्नाः सर्वोश्चामोघशक्तयः | सद्यस्तु पृथिवी ज्ञेया वामो ह्यापः प्रकीर्त्तिताः || अघोरस्तेज इत्याहर्वायुस्तत्पुरुषः स्मृतः | आकाशस्तु भवेदीशः स्वयं देवः सदाशिवः || सद्यो जातस्तु ऋषिदोवामदेवो यजुः स्मृतः | सामवेदौ ह्यघोरस्तु पुरुषोऽथर्व उच्यते || पञ्चम तत्परं सूक्ष्मं व्योमव्यापि निरञ्जनम् | उकारं तु स्थितो मूर्ध्नि शक्तिरूपं स बिन्दुकम् || एवमेव मयाख्यातं शिवतत्वं परं विदुः | सद्योजातस्तु वै ब्रह्मा वामो विष्णुः प्रकीर्त्तितः || अघोरो रुद्रदैवत्यः पुरुषश्चेश्वरः स्मृतः | ईशानं शिवदेवश्च अधिदैवतसंस्थितः || षष्ठं तत्परंबीजमसादृश्यगुणान्वितम् | तस्य देहो न वक्तव्यः प्राकृतागुणसंभवः || ज्ञात्वा परमनिश्रेणी पञ्चस्थानानुगामिनी | ज्ञानंज्ञेयं सकृद्ये न विस्मृतेऽपि हि देव हि || तत्काल एव मुक्तोऽसौ यदाज्ञानं तं पदम् || स्कन्द उवाच || श्रुत्वाज्ञानं यदाकश्चिन्ज्ञात्वार्थ न प्रबुध्यते | मोहिता विषये मूढाः पापानि तु समाचरेत् || अथ वा सङ्गदोषेण पशुज्ञानं प्रशंसति | विनिन्दितं परं ज्ञानं कं गतिं प्रजाते तु सः || प्. १३अ) ईश्वर उवाच || यदा वै तद्ध्रुवं ज्ञात्वा ज्ञानवानार्थवारितम् | स च धार्यापुनस्त्यक्तं निन्दितं च पुनः पुनः || तदा ए वहिमुक्तोऽसौ यदानन्दः प्रयत्नवान् | न तस्य पुण्य पापोऽस्ति अतीतागतोऽपि वा || ज्ञानं प्रथमं काले तु मनोऽहङ्कारबुद्धयः | स्वेस्वेषु लयं यान्ति न ते बुध्यन्ति बन्धनात् || सर्वेषु मर्मविच्छन्ने प्राणाः कण्ठगता यदा | मुक्ते तु परमं ज्ञानं कथमेतमनुस्मरेत् || ईश्वर उवाच || अतः परं प्रवक्ष्यामि शृणुस्वैकमनाधुना | सर्वेषु मम विच्छिन्ने प्राणे कण्ठगतेऽपि वा || तदासौ परमो नादः स्वयं ज्ञानं प्रवर्त्तते | गच्छन्तिष्टत्स्वपञ्जाग्रनुद्विम्नोभयविह्वला || मृत्युरासन्न कालेऽपि स्वयं वा तत्प्रवर्त्तते | दीक्षितोदीक्षिता शुद्धौ देही यत्किञ्चिदा चरेत् || वेदे दाहे न दग्धास्ते तद्दग्धो दह्यते पुनः | विपरीत तथा मूढौमग्नौ विषयादाचरेत् || दीक्षितं तन्नलिप्येत कर्मणापातकेन वा | वाचाअमनस्तथाकायत्रिविधं कर्म उच्यते || न तेन प्रतिबध्या स शुभेन अशुभेन वा || इति कालोत्तरे प्रासादविचोणोनामषोडशः पटलः || कार्त्तिकेय उवाच || अद्यापि संशयो देव ज्ञानविज्ञानयोः प्रभो | कथं ज्ञायन्ति तज्ज्ञानं कथं वा ज्ञेय उच्यते || ईश्वर उवाच || प्. १३ब्) आधारं पूर्वं विज्ञाय पश्चाद्धेयं तु षण्मुख | आधाराधेय विप्रज्ञः समर्थः सर्वकर्मसु || आधारमित्युक्तमाधेयस्त्वीया उच्यते | ईशेन ईशिता योऽयं सौम्य ईश इति स्मृतः || ईशं विज्ञाय मेधावी * * * नरते सदा | कलाष्टकसमायुक्तमधश्चोर्द्धश्च गच्छति || शब्दः स्पर्शश्च रूपश्च रसोगन्धश्च पञ्चमः | शेषाबुद्धिरहङ्कारा एते सूर्याष्टका स्मृतः || यावदे तेन मुञ्चन्ति कथमुच्यन्ति बन्धनात् | शब्दस्पर्शौ त्यजेद्ब्रह्मा रसं वै केशवस्त्यजेत् || रूपं गन्धञ्च रुद्रो वै बुद्ध्यहङ्कारमीश्वरः | मनोबिन्दु शिवस्त्यज्य एभिर्युक्तः शिवोभवेत् || इति कालोत्तरे आधाराधेयविचारणोनामसप्तदशः पटलः || कार्त्तिकेय उवाच || कथं व्यापी अधश्चोर्द्धे भिन्नश्चैव कथं भवेत् | एतन्मे ब्रूहि सद्भावं कारुण्यं तु महेश्वर || ईश्वर उवाच || यावद्देह स्थितो जन्तुः सर्वदेहे व्यवस्थितम् | निर्गतो व्यापिनीति च गतस्थः सर्वतः स्थितः || त्रिमार्गावस्थितो जन्तुस्तावद्वै ऊर्ध्वसंस्थितः | अविदित्वा न मुच्यन्ते यद्यपिस्याल्लयोभवेत् || त्रिमार्गेण प्रविष्टानां सर्वादेरव्यवस्थितम् | यो यान्येवमिमां व्याप्तिः सव्यापीतिं न संशयः | न तस्य गर्भसंभूति यथा देव प्रभाष्यते || तावद्भ्रमन्ति संसारे यावद्व्याप्तिं न विन्दति | विदित्वा व्यापिनं देवं मुच्यते घोरबन्धनात् || यथा तृण जलुका वै तृणाग्रे यावदायतः | प्. १४अ) उपरिष्टान्निरालम्बस्तद्वज्जीवो व्यवस्थितः || ऊर्ध्वशून्यमधः शून्यं मध्ये शून्यं निरामयम् || त्रिशून्यं योऽभिजानाति समुक्तोगुणबन्धनात् | व्याप्तिस्तस्य मया प्रोक्ता संक्षेपेण तु विस्तरात् || अतः परतरं नास्ति व्यापिकस्य तु व्यापकम् | इति कालोत्तरे महातन्त्रे व्यापनिदर्शनोनामाष्टादशः पटलः || कार्त्तिकेय उवाच || सकलं निष्कलञ्चैव देवदेव महेश्वर | विज्ञातव्य कथंभूयः अमनस्कं परं पदम् || ईश्वर उवाच || शृणुषण्मुख तत्वेन ज्ञानं परमदुर्ल्लभम् | यन्न कस्य चिदाख्यातमनाख्यं भवगामिने || देहस्थं सकलं ज्ञेयं निष्कलं देहवर्जितम् | आप्तोपदेशगम्योऽसौ सर्वतः किमपि स्थितम् || हंसहंसेति यो ब्रूयाद्धंसो देवः सदाशिवः | शुद्धो बुद्धो निरालम्बो ध्रुवः सूक्ष्मः सदाव्ययः || गुरुवक्त्रात्तु लभ्येत प्रत्यक्षे सर्वतोमुखं | तिलेषु च यथातैलं पुष्पे गन्धः समाश्रितः || पुरुषस्य शरीरेऽस्मिन् स बाह्याभ्यन्तरे स्थितः | उल्कहस्तो यदा कश्चिद्द्रव्यमाक्यतां व्रजेत् || ज्ञानेन ज्ञेयमालोक्य तदाज्ञानं परित्यजेत् | पुष्पं तु सकलोज्ञेयो गन्धं तस्यैव निष्कलः || वृषं तु सकलं विद्याच्छाया तस्यैव निष्कला | प्. १४ब्) रसं तु सकलं ज्ञेयमास्वादं तस्यैव निष्कलम् || सकलं निष्कलञ्चैव सर्वतन्त्रे व्यवस्थितम् | सकले सकलं विद्यान्निष्कलं बिन्दुरुच्यते || त्रिमात्रञ्च द्विमात्रञ्च एकमात्रा तथैव च | अर्धमात्रापरं सूक्ष्मं तस्याप्यर्धं परात्परम् || ब्रह्माविष्णुश्च रुद्रश्च ईश्वरः शिव एव च | पञ्चधा पञ्चदैवत्याः सकलं परिपठ्यते || शिवसंतोषगायत्री पञ्चमात्रात्मिका न तु | सकलं देवदेवेश स मूर्त्ति तु समायुतम् || सकलं निष्कलं चैव तथा सकलनिष्कलम् | सूक्ष्मोभिन्न कलाभिन्न शिवोज्ञेयोऽथपञ्चधा | यो वर्णसकलो देवो वर्णयुक्तस्तु निष्कलः || साक्षरो सकलो देवो निष्कलस्तु निरक्षरः | संयुक्तश्च वियुक्तश्च शिरोभित्त्वालला वा || सूक्ष्मावर्त्ति प्रवर्त्तते | सानयेच्छाश्वतं पदम् | तेन सूक्ष्ममिहोच्यते || कनच्छेदवर्णाभाः यदातेजः प्रवर्त्तते | संदृष्ट्वामुच्यते योगी केन किं कनकोच्यते || ब्रह्मणे हृदये स्थानं कण्ठे विष्णुः समाश्रितः | तालुमध्ये स्थितो रुद्रो ललाटे तु महेश्वरः || नासाग्रे तु शिवं विद्यात्तस्यान्ते तु परापरम् | परस्य परतरं नास्ति इशास्त्रस्य निश्चयः || कार्त्तिकेय उवाच || लयं तु कीदृशी तस्य बोद्धव्यं तत्त्व वेदिभिः | समागमः कथं तस्य केन वा नीयते तु सः || संशयो मे महादेव कथयस्व यथार्थतः || प्. १५अ) ईश्वर उवाच || नीयते मायतत्वेन लयमायाति ब्रह्मणः | ब्रह्माऽपि लीयते विष्णोरिन्द्रे विष्णुः प्रलीयते || अहमेव प्रलीयं तु ईश्वरे तु लयं व्रजेत् | ईश्वरोऽपि ततो भूयः सा तु लीयेत षण्मुख || यस्मिन् स्काने तु यो याति शिवतत्वः स उच्यते | शिवतत्व परिज्ञानी साधकस्तत्र लीयते || अविशेषः शिवेनैव शून्याशून्यव्यवस्थितः | एषते कथितं वत्स संसारार्णवतारणी || नीयते शक्तिना जीवस्तस्मि प्राप्यनिवर्त्तते | तस्यान्तं संवक्ष्यामि शृणु तत्वेन षण्मुख || देहातीतं तु तं विन्द्यान्नासाग्राद्वादशाङ्गुलम् | नादान्तं तं विजानीयात् तत्रस्थो व्यापयेत्प्रभुः | मनोऽप्यन्यत्र निक्षिप्य चक्षुरन्यत्र पातिता || तथापि स्तुतिनायोगमव्युच्छिन्नं प्रवर्त्तते | एतत्परतरं गुह्यमेतत्परतरं पदम् | एतत्परतरं ब्रह्म एतद्धि परमामृतन् || एतद्धि सकलं देवमेतद्धि परमाक्षरम् | नातः परतरं ज्ञानं नातः परतरं शिवम् || अतः परतरं किञ्चिदित्याह भगवाञ्शिवः | शिव ज्ञानामृतं प्रोक्तं संक्षेपेण तु विस्तरात् || कथितं देवदेवेन परमाक्षरनिर्णयम् || एतद्धि शिवसद्भावं शिववक्त्राद्विनिःसृतम् | गुह्याद्गुह्यतरं गुह्यं गोपनीयं प्रयत्नतः | न शिष्याय प्रदातव्यं न पुत्राय कदाचन || गुरुदेवाग्नि भक्ताय सर्वप्राणि हिताय च | प्रदातव्यमिदं शास्त्रमन्येषां तु न दापयेत् || प्. १५ब्) दातारो नरकं यान्ति सिद्धिं न तु कदाचन | शिवामृतसमाख्यातं सत्यं सत्यं मया तव || एवं ज्ञात्वा तु मेधावी विचरस्व यथासुखम् | गृहस्थो ब्रह्मचारी वा वानप्रस्थस्तु भिक्षुकः || यत्र तत्र स्थितो मन्त्री परमाक्षरवित्सदा | विषयी विषयो सक्तो याति देहान्तिके शिवम् || यथेष्टं क्री * यित्वा तु भुत्वा भोगान्यथेष्टयम् | ज्ञानादेवस्य शास्त्रस्य पाप स जयि मानवः ||? ब्रह्महत्याश्वमेधाद्याः पुण्यपापेर्न लिप्यते | चोधको बोधकश्चैव मोक्षकस्तु परः स्मृतः || इत्येते त्रिविधा ज्ञेया आचार्यस्य महोतले | चोदकादर्शयेन्मार्गो बोधकानमादिशेत् || मोक्षकस्तु परं तत्त्व यो ज्ञात्वा न निवर्त्तते | चोदकस्तु ह्यह ईश बोधकस्तु सदाशिवः || मोक्षकस्तु परं तत्वं यो ज्ञात्वा न निवर्त्तते | इत्येते त्रितयः प्रोक्ता वन्दनीया ह्यनु क्रमात् || त्रिस्थानं च स्वयं देवः पूज्यं गृह्णति सर्वतः | पूज्यं गृह्णाति निर्गस्थो च हि तिर्हतेत् | देशिकं मूर्तिमास्थाय यसो वक्ष्यन्तते? शिवः ||? इति कालोत्तरे महातन्त्रे सप्तशतिके तत्वनिर्णयोनामैकोनविंशति पटलः || कार्त्तिकेय उवाच || पूर्वमेव इति ज्ञातं शिवभेदन्नुचाष्टधा | कथं विन्द्यति तं देवं कथयस्व यथार्थतः || ईश्वर उवाच || तत्तत्वंभिद्यते शैवे शक्तिभेदमिहोच्यते | कथयामि त्वयावत्स अस्मिन्वस्तु न संशयः || प्. १६अ) सकलं निष्कलं शून्यं कलाद्यं खमलंकृतम् | क्षपणोक्षपमन्तःस्थः कण्ठोष्ठं चाष्टमं स्मृतम् || प्रासादं शङ्करेणोक्तं षडन्तेन समन्वितम् | सकलं सर्वदेहस्थं शिवतत्वं प्रकीर्त्तितम् || स्वयं निष्क्रमते देवो देहं त्यक्त्वा समारुतः | निष्कलं तं विजानीयात् षड्वर्णरहितः शिवः || निःश्वासोच्छ्वसनं हित्वा स्थितं देहेषु काष्ठवत् | शून्यं तं तु विजानीयाद्धृदयेन तु भावयेत् || चुंबाकारेण वक्त्रेणमतत्वं श्रूयते भुवि | कलाढ्यं तं विजानीयादाकाशस्थं च मे शृणु || ऊर्ध्वनादस्य क्षीणस्य यदन्तं परिकीर्त्तितम् | तत्रस्थं तं विजानीयादाकाशेन समन्विता || व्यावृत्ते नैव वक्त्रेण श्रुत्वा देवो जगद्गुरुः | दुःखं क्षणमित्युक्तं तत्क्षयोक्षपणः स्मृतः || अधोनादस्य क्षीणस्य यदन्तं परिकीर्त्तितम् | अन्तस्थं तं विजानीयादनुचार्यः प्रकीर्त्तितः || अष्टवर्गाष्टमं कोटिसप्तमस्य द्वितीयकम् | वर्गातीतं षडन्तंश्च सप्तमेन्ति? चतुर्थकम् || आदिमं च पुनर्योज्यः षष्ठं वै प्रथमस्य च | खसेखरसमायुक्तं कण्ठोष्ठं चाष्टमं स्मृतम् || अतिस्थूलमिदं ज्ञेयं कलाभरणभूषितम् | अतिभारं तु तत्त्वानां तस्मिन् देहे व्यवस्थितम् | एते भेदाः समाख्याता अणिमाद्यादि साधने || अनुचार्यसमादिश्च मोक्ष इत्यभिधीयते | प्. १६ब्) एवं ज्ञा * * * * * दीक्षयेत् स्थावरान्यपि || इति कालोत्तरे सप्तशतिकेऽष्टभेदोनामविंशतितमः पटलः || ईश्वर उवाच || तदेव * * * * * विवरे मारुतो यथा | हंसवर्णेन देहेन उकारश्चरणेन तु || इडा सुषुम्नया युक्तं देहस्थं वहते यदा | बिन्दुना सह संयुक्तं सर्वप्राणिषु संस्थितम् || हंसो जीवः स विज्ञेयः सकलं सर्वजन्तुषु | वायुमात्रस्थितो देहे ज्ञायते नादिभिस्तथा | वहन्तं सकलं ज्ञेयं बीजञ्चेह विजृम्भते | सकलस्य तु संक्रान्ति षडद्वर्णरहितं शिवः || हंस देहे पुनर्वक्ष्ये क्षेत्रज्ञाः सर्वदेहिनाम् | निष्कलञ्च पुनर्वक्ष्ये षड्वर्णरहितं शिवः || उकारं बिन्दुसंयुक्तं वहन्ति तिष्ठते यदा | ग्रन्थिस्थाने स विज्ञेया सर्पवत्कृत कुण्डली || इडा सुषुम्नया युक्तं बिन्दुनादविवर्जितम् | यथात्मनि तथा शिष्ये विज्ञेया निष्कला सदा || निष्कलस्य तु संक्रान्ति षड्वर्णरहितं शिवः | हंसज्ञानं पुनर्वक्ष्ये शून्योऽयं यत्र जायते || मेघदुन्दुभिशब्देन ज च शब्दकृतेन तु | गजवाजिनः शब्देषु नानाशब्दनिनादिते | तत्र शून्यं विजानीयाद् देहे तिष्ठन्ति काष्ठवत् || काष्ठलोष्ठं च पाषाणे अचेतन सुकथ्यते | निश्चलं तिष्ठते सोहि यत्र नोच्छ्वसते पुनः || अथ शब्दं यदा कर्णे तदा शून्यं प्रकीर्त्तितम् | प्. १७अ) शून्यस्य तु च संक्रान्तिर्हयग्रीवस्य निर्दिशेत् || एकपाद स्थितो नित्यं कलाढ्यं परिकीर्त्तितं | सुषुम्ना पदस्थिते हेतु हुंकारे तु न संशयः || अग्नीनाञ्च तथैवेह वक्रवक्रान्तसंस्थितम् | वर्द्धते खादते चैव आकाशस्थो मुहुर्मुहुः || आकाशं पिबते नित्यं आकारं सर्वदेहिनाम् | कलाढ्यं खं तु संक्रान्तिर्हयग्रीवस्य निर्दिशेत् || स्वभावो यत्र जायन्ते * * * * * * * * | पशुमन्त्रस्य भेदस्य बिन्दुना सहितस्य च || रिक्ताभावस्य काष्ठस्य यदा आपूरये शुभाः | खमलं कृत वै ज्ञेया कण्ठस्थाने स्थिता सदा || महाप्रयाणकाले तु लोकासकृशेखरम् | उच्छ्वसन्तं न किज्ज्ञ आकाशस्थिलम् || खमलं कृतस्य संक्रान्तिर्हयग्रीवस्य निर्दिशेत् | हयग्रीवस्य पुनर्भेदः संसारार्णवतारणः || प्रत्यक्षयेन सिध्यन्ति न ते तत्वं विदोजनाः | व्यावृत्ते नैव * क्रेण श्रुत्वा देवं जगद्गुरुम् | देवक्षपणमित्युक्तं तत्क्षयात्क्षपणः स्मृत || महाशब्दस्तु क्षपणो महादेवैस्तवस्य च | मात्रा मात्रा यदा कश्चिदुत्कोशयति जन्तवः || महाविनायको यत्र महाकालः करोति च | हसते गायते चैव हाहाकारस्तथैव च || वेदारण्या च विज्ञेया महाकालादि देवतम् | यत्र यत्र महाशब्दं तत्र वै क्षपणं स्मृतम् || क्षपणस्य तु संक्रान्तिर्हयग्रीवस्य निर्दिशेत् | प्. १७ब्) क्षपणस्य तु तद्वक्ष्ये संक्रान्तिर्या दृशी भवेत् || अहो यत्र यतेर्यस्तु ग्रन्थिनादाय कण्ठयोः | जिह्वातालुककोष्ठाभ्यां क्वदेहे तत्र जायते || उदरे मध्यमं विंद्या जायते नादितः सदा | क्षयस्य तत्र संक्रान्तिः क्षयः संसारसारणम् || ग्रन्थिस्थो बोधयेत् सर्वं ग्रन्थिस्थात्ररिमण्डले | लिख्यते सर्वशास्त्रेषु देहस्थ एव जायते || योसौ ऊर्ध्वगता नादा हयग्रीवस्तथात्मकः | त्रिकोणक शिरो यत्र अकारो यत्र जायते || क्षपमध्ये सदा तस्य हयग्रीवताल्वोष्ठयोः | खादते पिबते चैव अधो नादेन संहरेत् || इडा ऊर्ध्व गता तस्य अमृताश्च सुषुम्नया | ज्ञायते च अधस्थाथः? सुषुम्नार्द्ध गतास्तु वा || तुर्यातीत मनौपम्य सादृश्यञ्च परापरम् | सुषुम्नाय पुनर्देवी श्यामवर्णाः प्रकीर्त्तिताः || गङ्गायां तु इडा देवी गङ्गा तुर्णा प्रकीर्तिता | तस्यैव तु पुनर्भेदः कोटिदेशोनुवर्त्तुला || तिर्यङ्नाडी मणिमध्या सृष्टिर्जायति तत्क्षणात् | सद्य बीज शिवो हंसः क्षेत्रज्ञः सर्वदेहिनाम् || शिवतत्वमविज्ञाय दीक्षिता नाड्करिष्यति | वेलकालं तथा जीवः शिवभक्ति शिवं च यत् || निर्मिता ज्वलनी धूम्रा कृष्णा च विद्युता तथा | शर्करी बालमित्रा च सुमति प्रति बोधनीम् || निर्मिता षड्गुणा ज्ञेया ज्वलिनि द्विगुणा भवेत् || धूम्रा च त्रिगुणा प्रोक्त कृष्णाज्ञेया चतुर्गुणा | प्. १८अ) विद्या पञ्चगुणाश्चैव ज्ञेया सर्करि षड्गुणाः || बालसप्तगुणा चैव मित्राष्टं च गुणाभवेत् | सुमित्रा नवगुणां ज्ञेया बोधनी दशमी भवेद् इति || इति कालोत्तरे सप्तशक्तिके संक्रान्तिनिर्णय एकविंशतितमः पटलः || ईश्वर उवाच || संक्रान्तिश्चाष्टधा ज्ञेया पुनज्ञेया सहस्रधा | पुनः पुनस्तथा ज्ञेया शतमष्टकसङ्ख्यया || तज्ज्ञात्वा बहुभिर्भेदैः संसाराद्धि प्रमुच्यते | कूटशक्ति स्थितो हंसो वश्योच्चारे हि मोचयेत् || तदासौ दीक्षिता सा हि अन्यथा न विधीयते | हंस ज्ञाने शरीरस्य येन विन्दन्ति तत्वतः || न तेषां मोक्षमादाय सिद्धिस्तेषां न विद्यते | ग्रन्थिस्थश्चलते हंसो विमुच्यते विनिर्द्दिशेत् || संक्रान्तिर्नासिकाग्रे तु शक्ति वाचा शिवात्मिका | कूटशक्तिस्तु विज्ञेया हयग्रीव स कम्पयोः || यदा मन्त्रयते किञ्चिदुच्छ्वसन्तं यदा भवेत् | शक्तिभि सहीतो हंसः शक्तिः समरसोभवेत् || इडा सुषुम्नया युक्तं यदा वहति मारुतः | समरसं तु यदा ज्ञेयं नासिकाग्रे विदुर्बुधाः || सप्तसप्तति जानीयाज्जाग्राजाग्र तु इष्यते | छेदकश्चैव विज्ञेयस्तत्त्वाख्य ईश्वरात्मकः || योजकस्तु भवेद् रुद्रः शिवतत्त्वस्तथैव च | अक्षमीविग्रहादेवः श्रीकण्ठोक्षेप उच्यते || अनन्ताकर्षण सो हि देविरज उच्यते | प्. १८ब्) पाशच्छेदस्तु विज्ञेय आचार्याच्छिव तत्ववित् || त्रासितो शिव तत्वज्ञो हंस ज्ञान सुभाषितैः | हंस ज्ञानं विजानीयादाचार्यो मोचयेद्ध्रुवम् || इति कालोत्तरे सप्तशक्तिके शक्तिसमरसो द्वाविंशतितमः पटलः || ईश्वर उवाच || यथा बृहत्कुमार्यादौ प्रीत्यान्योन्यं भवन्ते | कथयामि न सन्देहस्तत्सुखं संप्रपद्यते || अन्योन्यं भजते योग एकासंजायते सुखम् | अन्योन्य रहितं ताभ्यां नृसुखं संप्रवर्त्तते || पुनश्चैवा गमं दृष्ट्वा परिष्वजतिसोत्सुकाः | यत्त्वया पूर्वमुद्दिष्ठं साम्प्रतं कथस्वमाम् || आशङ्ख्य एव कथितं यत्त्वया परिपृच्छितम् | तत्तस्माद्ध्रुवते क्रुद्धाः किं त्वया सत्यसंसिनी || ईदृशं तादृशं चैव जपस्य प्रत्ययात्मकम् | संयोगाय सुखं भद्रे नैव ज्ञेत चान्यथा || अन्यथा वदमानस्य प्रत्ययो नैव जायते | अभ्युपेय सुखं तस्य कथितुं नैव शक्यते || अचिरेणैव कालेन संप्राप्तं यत्सुखं त्वया | यत्त्वया कथितं भद्रे तत्तथैव न संशयः || अज्ञान सुखमोहेन उक्ता चैव प्रियं वचः | क्षमयस्व प्रियं भद्रे यदा पूर्वं भजस्वमाम् || संयोगेन सुखं भद्रे योगिज्ञानसमागमम् | युज्यते तस्य वर्त्तते सुखमानन्दलक्षणम् || इति कालोत्तरे महातन्त्रे सप्तशक्तिके कुमारिकाप्रकणोनामत्रयोविंशतितमः पटलः || १९अ) ईश्वर उवाच || कालचक्र विधानं तु प्रवक्ष्याम्यनुपूर्वशः | कालचक्रेति विख्याता येन कालं प्रबुध्यति || इडा होरात्रचारेण वर्षत्रीणि स जीवति | द्वावहोरात्रचारेण वर्षद्वयं संजीवति || त्रीण्यहोरात्रचारेण वर्षमेकं स जीवति | चतुरहोरात्रचारेण षण्मासानि स जीवति || पञ्चाहोरात्रचारेणमासत्रीणि स जीवति | षडहोरात्रचारेण द्विमासानि स जीवति || सप्ताहोरात्रचारेण मासमेकं स जीवति | अष्टाहोरात्रचारेण अर्द्धमासं स जीवति || नवाहोरात्रंचारेण दशाहः स जीवति | दशाहोरात्रचारेण दिनानि पञ्च जीवति || एकादशाहोरात्रेण दिनानि त्रीणि जीवति | द्वादशाहोरात्रेण दिनद्वयं स जीवति || त्रयोदशाहोरात्रेण दिनमेकं स जीवति | चतुर्दशाहोरात्रेण दिनमर्द्धं स जीवति || पञ्चदशाहोरात्रेण मुहूर्तानि स जीवति | अहरेकं चरेद्वस्तु रात्रौनार्द्धं तथैव च || षड्भिर्मासैर्भवेन्मृत्युरितिशास्त्रस्य निश्चयः | यामद्वयस्य चारेण अहोरात्रं स जीवति || यथा यामास्तथा चामा मध्यमा च तथा भवेत् | कालचक्रं समाख्यातं पुत्रस्नेहाद्विशेषतः || इति कालोत्तरे सप्तशतिके कालचक्रश्चतुर्विंशतितमः पटलः || ईश्वर उवाच || प्रत्यक्ष यजनं वक्ष्ये संक्षेपेन तु विस्तरात् | प्. १९ब्) यं दृष्ट्वा तु नरायान्ति शाश्वतं पदमव्ययम् || नाभ्यां मध्यन्तरे यस्तु उकाराख्यः स तिष्ठति || आधार सर्वनाडीनां स तु हंसेन संयुतः? | द्वासप्तति सहस्राणि नाडयस्तत्र कीर्त्तिताः || तासां मध्ये महानाडी राजनाडिति विश्रुता | तयस मध्य स्थिता स्कंद पञ्चपद्मा ह्यधोमुखा || ग्रन्थिद्वय युताः सर्वे देवदैवत संयुताः | ऊर्ध्वं कृत्वा तु तान् पद्मान् शिवमूलेन भेदयेत् || शिवमूलं स्थूलं? कृत्य? ऊर्ध्ववायुञ्च रेचयेत् | रेचकेन तु संयुक्तो जीवो गच्छति वै शिवम् || एतत्सर्वं समाख्यातं संक्षेपेन तु विस्तरात् | सत्त्वानाञ्चैव ऊर्ध्वत्वं पूर्वंते? कथितं मया || स्वयमेव तु तां पश्येद्देही विश्वचतुष्कलम् | अयनौ द्वौ तु विषुवौ मार्गवित्पश्यते सदा || कृत्वा योगे पुरावत्स पूरकः कुम्भरेचकः | पूर्वतो भयमुच्चार्य अर्चयेत ह्यनुक्रमात् || नमस्कारेण यागान्ते मूर्ध्निक्षारभ्यदापयेत् | सूर्यस्य ग्रहणे वत्स प्रत्यक्षं ह्यर्चनं स्मृतम् || इति कालोत्तरे प्रत्यक्षयजनोनामपञ्चविंशतितमः पटलः || कार्त्तिकेय उवाच || शिवाग्नौ पञ्चवक्त्राणि शिवसद्भावमुत्तमम् | कस्मिं कस्मिंस्तदाववक्त्रे आचार्य पशुपाशहा || कथं कथं तु संस्कारं कस्मिन्यायानि जुह्णति | कस्मिन्करोति यजनं कस्मिन्पूर्णाहुतिः स्मृतः || प्. २०अ) कस्मिन् वक्त्रे पुनः पापमात्मानं च विशोधयेत् | एतत्सर्वं समासेन भगवान्वक्तुमर्हसि || ईश्वर उवाच || पाशः पाशेषु यत्प्रोक्तः पूर्ववक्त्रं प्रकीर्त्तितम् | संस्कारं चोत्तरे वक्त्रे जननं पश्चिमेन तु || प्रायश्चित्त विधानं तु वक्त्रेऽस्मिन्दक्षिणे स्मृतम् | ऊर्ध्ववक्त्रे महासेन तस्मिन्पूर्णाहुतिं स्मृतम् || न पाणिपादपृष्ठेषु आहुत्यां संप्रदापयेत् | वक्त्रसंस्कार तत्वज्ञा आचार्या मोक्षकारकाः || एवं संस्कारसंदिग्धे आचार्यस्तु न संस्कृतः | पुनरायन्त्य संस्काराः सत्यं वत्स वदाम्यहम् || इति कालोत्तरे शिवाग्निसंस्कारो नाम षड्विंशतितमः पटलः || अतः परं प्रवक्ष्यामि अष्टधा प्रत्ययो यथा | अग्निप्रज्वलनञ्चैव वृक्षालभनमेव च || पक्षानां स्तोभनं चैव महापातकनाशनम् | विषसंक्रामणञ्चैव निर्बीजीकरणं तथा || ज्वरग्रहविनाशं च प्रत्यया अष्टविधाः स्मृताः | एवं ज्ञात्वा विधानेन ख्यातिः सर्वत्र जायते || प्रणवाद्यग्नि मध्यस्थो हकारो ह्रौ तथा पुनः | आदिमन्तं पुनश्चान्ते अनाग्नेर्ज्वलनं हितम् || अग्निं स्रोतसि संयोज्य सहस्रोद्घातसंयुतम् | पञ्चाक्षर प्रयोगेण ज्वलत्येवं न संशयः || उकारः सर्वतोधस्तादोकारश्चार्धसस्थिताः | होकारमध्य युक्तस्तु प्रणवाद्यन्त पीडितम् || प्. २०ब्) पूर्ववत्संप्रयोक्तव्यं प्रयोगाभुविदुर्लभाः | शनैः सप्ततिरुद्घातैर्गलं चाम्रियतेद्रुमः || भूयश्चाप्यायनं तस्य वारुणश्रोत्रसंस्थितम् | स जीवति पुनर्वृक्षो यथा पूर्वे तथैव सः || तादृशैव पुनश्चास्य किन्तुरेक विवर्जिता | आप्यायन विधिर्ह्येष पञ्चधा बिन्दुदीपिताः | ईश हकारादि शम्भो मध्ये वह्निस्तथा परा || प्रयोगो विषुवे काले पाशानां स्तोभकर्मणि | शतैः सप्ततिरुद्घातैप्रतत्येव न संशयः || पुनश्चोत्थापनं तस्य यथा भवति तच्छृणु | इकाराद्यन्त युक्तेन ह्येमध्ये तु नियोजिता || प्रणवाद्यं बिन्दुसंयुक्तं नमोन्तेन तु वारुणे | उत्थापने प्रयोक्तव्यं सर्वभूतेषु तत्त्ववित् || सन्निविष्ट स हूं बीजा हकाराद्यन्तसंस्थितम् | पूर्ववन् मध्यं संस्थस्य वायुबिन्दुसमन्वितः || ददस्यारोहणे प्रोक्ता गुतुवं जायते यथा || श्रूय एव प्रवक्ष्यामि लघुत्वं येन जायते | उकार सहकारश्च ह्यैकारेहं नमस्तथा || तुला पुरुष योगोय मुद्घातेना युतेन तु | सहकार यकारश्च ईकारेण तु दीपितम् || ह्रो ह्रो मध्ये ह्री नमश्चान्ते वारुणेन तु बुद्धिमान् | उद्घाताष्टमनेनैव विषसंक्रमणं ध्रुवम् || यथाग्नि ज्वलने दृष्ट्वा निर्बीजीकरणं तथा | शनैः पञ्चभिरुद्घातैर्विशेषोऽत्रविधीयते || उंकारमादिनं कृत्वा हूंकारं तदनन्तरम् | ह्रौं ह्रं पूर्वं नमश्चान्ते ग्रहाणां नाशने हितम् || प्. २१अ) योगन्तु विषुवे काले उद्घाताष्टशते तु | प्रणवादि ततो हूं च फट् हौं फट् तथा पुनः || हूं फट् तथा फट् भूयः फट् फडेति च वारुणे | उद्घाताष्टशते नैव क्षिप्रं नाशयते ज्वरम् || अष्टानां प्रत्ययामान्तु प्रयोगं कथितं मया | एवं ज्ञात्वा तु मेधावी कर्मकुर्याद्यथेप्सितम् || पूज्यते शिव लोकेशः प्रत्यक्षश्च सदाभवेत् | प्रत्ययो नैव मोक्षं वै ज्ञात्वा सिध्यन्ति नान्यथा || इहलोवेत्सिद्धिर्भिन्नदेहः शिवं व्रजेत् || इति कालोत्तरे सप्तशतिकेऽष्टप्रत्ययो नाम सप्तविंशतितमः पटलः || कार्त्तिकेय उवाच || नैष्ठिकानान्तु सर्वेषां विधिं ब्रूहि महेश्वर | निवर्त्तनं कथं तेषां कथयस्व यथार्थतः || ईश्वर उवाच || लिङ्गोद्धारं प्रवक्षामि नैष्ठिकानां तु षण्मुख | निवर्त्तनं हि तत्तेषां प्रवक्ष्यामि समासतः || त्रिरात्रं पञ्चरात्रं वा क्षपयित्वाधिवासयेत् | पूर्वोक्तं तु विधि कृत्वा न्यसन्तु निवर्त्तयेत् || योनिचक्रं न्यसेत्तत्र विधि दृष्टेन कर्मणा | अष्टारं चक्रमालिख्य नाभिद्वयसमन्वितम् || विपरीतं योजयित्वा जपेन्मन्त्रं तु नैष्ठिकम् | पञ्चपञ्चाहुतिं दद्यान्नैष्ठिके तु यथाक्रमम् || हृन्मन्त्रेण तु दातव्यं संहारेण तु बुद्धिमान् | प्. २१ब्) एवं कृत्वा यथा पूर्वं यजनं तत्र नैष्ठिकम् || इष्टसंहारिका स्कन्दत्स तत्वा वै नैष्ठिकस्यत् | सृष्टिसंन्तु कृत्वा सिध्यन्ति नैष्ठिकाः || आसक्तो विषयी वापी कर्मदोषैर्न लिप्यते | इदं ते कथितं वत्स संन्यासं तु विशेषः || उपसन्नास्तु ये चान्ये तैषां चैव निवर्त्तनमिति || इति कालोत्तरे महातन्त्रे नैष्टिविधिरष्टाविंशतितमः पटलः || ईश्वर उवाच || अच्छिष्टिकं प्रवक्ष्यामि यथावदनुपूर्वशः | शिवाग्निं जलयित्वा तु शिव पश्चाद्विशोधयेत् || शृङ्गो? मयाम्बुभिशोध्यं भस्मस्नानं यथापुरा | गन्धैपुष्पैरलङ्कृत्य अस्त्रबीजेन शोधयेत् || इष्टसंहारिकं कृत्वा ऊर्ध्व पादौ निवेशयेत् | दर्भास्तरं पुरा कृत्वा अस्त्रं विन्यस्य सर्वतः || अस्त्रेण ज्वालयेद्वह्निः समन्तात्सुसमाहितः | चन्दनागरुकाष्ठेन तिलसर्पिः समन्विता || विद्यमानेन स सर्वमितेषु यथेष्टया | आग्नेयी धारणाद्ध्यात्वा देहे अस्त्रेया मन्त्रवित् || दीक्षितोत्तर काले तु समयाघो विलङ्घयेत् | देवस्याथ गुरोर्वापि महापातकमेव च || अमुक्ताः संशयायेऽपि ये चान्ये समलात्मकाः | तेषां पापापनुदये अ * ष्ट कथितं गुह || स्वसंज्ञालयमापद्ये समयायेषु लङ्घने || चैसाः संज्ञाश्च संयोगो ग्रहणं पूर्वद्भवेत् | प्. २२अ) एवमन्तेष्टि यस्येह क्रियतेष्टि विधानतः || सर्वपापविनिर्मुक्तः शिवं याति विशुद्धवत् | इति कालोत्तरे महातन्त्रे सप्तशतिकेऽन्तेष्टिकोनत्रिंशत्तमः पटलः || अतः परं प्रवक्ष्यामि अस्त्रयागं समासतः | अस्त्रयागं तु छिद्रघ्नं प्रवक्ष्याम्यनुपूर्वशः || पूर्वोक्ते भूतले शुद्धे गोमयेनानु लेपिते | मन्त्र द्रव्य समायुक्तं कलशं वारि पूरितम् || ईशान्या स्थापयेद्विक्षु निर्विघ्नकरणं शुभम् | ततः पद्मं समालिख्य स्थण्डिले वा समर्चयेत् || रजांसि वहवो विघ्न निर्विघ्नं स्थण्डिले गुह | तस्मात् सर्वप्रयत्नेन अस्त्रयागं तु स्थण्डिले || सर्वत्र विहितं शान्तं स्थण्डिले यागमुत्तमम् | प्राकारं कर्णिका पद्मे धर्मज्ञानादिमेव च || वैराग्यं चैवमैश्वर्यं शक्तयश्च तथैव हि | गन्धपुष्पोपहाराद्यैर्भक्तेन विधिवत्सदा || तेन कुर्वीत मतिमान्प्राकारेण सुसंयुतः | अस्त्रं पाशुपतं दिव्यं स्थापयेत्कर्णिकोपरि | अष्टात्रिंशत्कलैर्युक्तं पुराकृत्वा तु विन्यसेत् || अस्त्रं दिशासु विन्यस्य प्राकारं विदिशा क्रमात् | अस्त्रपीठमिदं श्रेष्ठं निच्छिद्रकरणं परम् || बाह्ये कुर्वीत वज्राद्या दशदिक्षु सम * न्तः | वज्रं शक्तिं च दण्डं च खड्गः पाशं तथा क्रमम् || गदात्रिशूलश्चक्रञ्च पद्मं चैव यथाक्रमम् | प्. २२ब्) न्यसेत्पाशुपते नैव प्राकारेण समन्ततः || पूजनं चाग्नि कार्यंन्तु? दिशाभागं प्रकीर्त्तितम् | वृत्तकुर्वीत कुण्डं तु तस्योर्द्धं चतुरङ्गुलम् || चतुरस्रसमायुक्तं हस्तमात्रं समन्ततः | सर्वकर्मकधृत्तं तु अस्त्रयागं विशेषतः | स्थण्डिले रजपाते च कुण्डं कुर्यात् स लक्षणम् | शोधनं तस्य कुर्वीत प्राकारेण तु षण्मुख | जननं निष्कृतिं चैव विधिं कुर्याद्यथा क्रमम्? || होमं कुर्वित मतिमान्शास्त्रदृष्टेन कर्मणा | महापाशुपतं दिव्यं प्राकारं पुण्यमेव च || वज्राद्यास्तु ततो हुत्वा भगे पूर्वप्रकल्पिते | हुं फट् वौषडन्तेन पूर्णहुत्यां प्रकल्पयेत् || न्यसेत्प्राकारजां योनिं बिन्दुस्थाने विचक्षणः | तत्रस्था कर्षणेन प्राकारेण न संशयः || अधिकारादि होमं तु आहुत्या विंशत्रिंशति | शतमष्टोत्तरं पूर्णं महास्त्रेण तु पातयेत् || अस्त्र दीक्षा समाप्येत सर्वच्छिद्रनिकृन्तनी | योजयेच्छिवतत्त्वस्य निर्वाणकरणपरा || ततोभिषेकयेत्कुम्भैः पूर्वोक्तस्य प्रकल्पितैः | विनायकग्रहादीनि नश्यन्ते नात्र संशयः || इति कालोत्तरे महातन्त्रे सप्तशतिकेऽस्त्रयागस्त्रिंशत्तमः पटलः || प्. २३अ) चतुरस्रार्धचन्द्रश्च त्र्यंशंवर्त्तुलकं तथा | शून्यं वजाङ्क शृङ्गाटा शून्यञ्चैव प्रकीर्त्तितम् || पीतं रक्तं तथा शुक्लं कृष्णं चेति यथाक्रमम् | यो वेत्येवमिमां तत्त्वां तत्त्वविद्भिः स *? त्तरैः || समस्त व्यस्तभावेन समाधिं योऽभ्यसेद्गुह | इहोष्म न फलं तस्य अचिरेण न संशयः || पञ्चावस्था सुतत्त्वज्ञाः स्वभावस्तेजसंयुतः | ध्यात्वा मेता व्रजेन्मूर्ध्नि तस्मिंश्चित्तं निवेदयेत् | स्तम्भना व्यापनोत्कर्ष विद्वेषोच्चाटनानि च || प्रीति संजननं सौम्यं यत्तिष्टन्ति षडानन | बिन्दुस्थं त्रितयं ध्यायेत् सिद्धिकर्मसमाहितः || आत्मनः पञ्च ईशञ्च एकोकृत्य षडानन | आकाराद्या उकारान्ता नपुंसकविवर्जिताः || आत्म तत्त्वेश्वरा ह्येते पञ्चयुग्मः प्रकीर्त्तितः | शोधयित्वा पुरावत्स भूतादिति चतुष्टयम् || भूतभावं तथा तत्त्वं बीजं चैव यथाक्रमम् | गन्धं रूपं रसं चैव शब्दं स्पर्शं च पञ्चमम् || तन्मात्रा सहिता ह्येते होमयेच्चानुपूर्वशः | गन्धभूतानि होतव्या रसोभाव षडानन || तेजस्तत्वाः समाख्याताः स्पर्श बीजानि होमयेत् | शब्दं शब्दे तु संपाद्य हृदिनामपुटीकृतम् | स्वमानसर्वतत्वानां होमयेच्चानु पूर्वशः | प्. २३ब्) क्षित्याद्याश्चैव धर्माद्या आकाराद्यास्तथा स्वराः || विहितं सर्वतन्त्रेषु इदं संस्कारमुत्तमम् | ह्रां ह्रींमिति प्लावयेत् | ह्रीं ह्रमिति शोधयेत् | ह्रूं ह्रीमिति प्लावयेत् | ह्यैं ह्लामिति स्थिरोभवेत् || मित्राविभेदनत्स्येषामेवं? कृत्वा इदं कर्मग्रन्थभेदा समाधा? क्रमात् | वामयायोजनं कृत्वा ज्येष्ठा यास्तु वियोजनम् || रौद्रं चोत्कर्षयेदूर्ध्वं विन्यसेच्चानुपूर्वशः || इति कालोत्तरे महातन्त्रे सप्तशतिके एकत्रिंशत्तमः पटलः || कार्त्तिकेय उवाच || कथं हंसस्य संचार देहमध्यव्यवस्थितम् | एतत्सर्वं समासेन कथयस्व यथार्थतः || ईश्वर उवाच || शृणुस्कन्दप्रवक्ष्यामि हंसचारविधिक्रमम् | इडा वै वामनेत्रन्तु सुषुम्ना दक्षिणेन तु || कर्ण नासिकादन्त्य?स्थिकपाले पिङ्गलास्मृता | हस्तपादहृदिजङ्गस्तनपादभुजद्वये || गान्धारी कुरुते नित्य सर्वयोरुभयोरपि | हस्तिनी वृषणे लिङ्गे पूषा च उदरे गुदे || यशा च नख सर्वेषु रोमकूपेत्वलंबुषा | कूर्म चैव कटिपृष्ठेधध्विनीति कृकाटिकाः | अस्थिमज्जेकं चैव वसेदन्ते च शङ्खिनी || इडायां जाग्रतो चैव विपुलास्वयते गुरु | सुषुम्ना पश्यते स्वप्नं दक्षिणं नेत्रमाश्रिताः || रेतोमुञ्चति गान्धारी मूत्रञ्चैव तु हस्तिनी | पुरीषञ्चैव पूषा च रतिं काले यथा तथा || अलंबुषा कुहूश्चैव वक्त्राणां पिपासिता | प्. २४अ) शङ्खिनी पिबते तोयं सद्योनि सर्व एव हि || इडायां कर्षणे चैव कोयं चैव तु पिङ्गला | विशादन्तु सुषुम्ना च गान्धारी भयमाश्रिता || हस्तिनी हसते चैव पूषा च शब्दमाश्रिता | पश्यते च यशा नाडी रसं चैव अलंबुषा || पुरीषं मरुद्वक्त्रा च गन्धमाघ्रातशङ्खिनी | इडा नाडी स्थिता प्राणे अपाने चैव पिङ्गला || समाने तु सुषुम्नाया गान्धारी तु उदानजा | व्याने तु हस्तिनी नाम नागे पूषा समाश्रिता || कूर्मं चैव कुहूनाम कृकरे तु अलंवुषा | देवदत्तो मरुद्वक्त्रः शङ्खिनी तु धनञ्जयः || मृत्युकाले च वै नाशश्वसते च मुहुर्मुहुः | दीर्घो घुरुघुरा शब्दं देवदत्तो विजृम्भति || धनञ्जयः स्थितो घोषे मृतस्यापि न मुञ्चति | इत्ये तद्वायुवृन्दस्तु हृदि सर्वस्य संस्थितः || पूयाकारसमानन्तु अधोनाडी व्यवस्थितः | इडायां पितृलोकं तु पिङ्गलायान्तु चन्द्रमाः || सुषुम्नायां सर्वलोकं गान्धारी कृमिकीटजा | हस्तिन्यां रक्षसां लोकं पूषायां नरकं ध्रुवम् || खरोष्ट्राश्चैव जायन्ते भानोल * * * * * | शूली?हंसचालं तु मोक्षद्वारप्रदायिका | हकाराग्नि प्रदीप्यन्ते वज्रेण हंसवर्त्तते | कुद्वशमिवशैलकालाग्नि रथचेदिणी || चालयेद्वैत्रिभुवनं पुनर्वैभवबन्धनात् | सुषुम्ना देवतायानः पिङ्गला असुरं पुरम् || इडायां मानुषं लोकं गान्धारी कृमि संभवा | प्. २५) हस्तिनी प्रेतलोकं वै प्लवाचनरकं ध्रुवम् | इत्ये तेषां गतिर्भावं मोक्षभावश्चमेकतः || अत ऊर्ध्व न विद्यन्ते सद्यद्वारं प्रशस्यते || कुर्यावस्थस्य देवीनां अजानादीनियं बुधः | न भूयोजन्मसंभवः || इति कालोत्तरे महातन्त्रे सप्तशतिके हंसाचारो नाम द्वात्रिंशत्तमः पटलः || प्. २६) ओं नमः शिवाय || सर्वज्ञस्तृप्तिमान्नित्यं बोध स्वातन्त्र्यसंयुतः | अलुप्तविभवोऽनन्त शक्तिर्विजयते शिवः || अथ नित्यादिकं वक्ष्ये संक्षेपादल्पधीर्हितम् | तत्र प्रातः समुत्थाय हृदिध्यात्वा महेश्वरम् || बहिर्गत्वा शुचौ देशे तृणाच्छन्नमहीतलेः | विसृजेन्मलमूत्रादि गुर्वादी नामसन्मुखः || दिवोत्तराननोमौनीरजन्यां दक्षिणान *? | दक्षकर्णोपवीतश्च नासाग्रो व्यग्रलोचनः || पायुं विसृज्यलोष्ठाद्यैः शौचं कुर्यान्मृदाजलैः | एकालिङ्गे गुदे पञ्च दशवामकरे मृदः || उमयोः सप्तसंयोज्याः पादे हस्ते सकृत्सकृत् | आचम्य शोधयेद्दन्ताचिहितैर्दन्तधावनैः || मुक्तयेष्टाङ्गुलं तच्च भुक्तये * *? शाङ्गुलम् | यद्वा ब्राह्मणराजन्य वैश्य शूद्रान्त्यजन्मनाम् || दिशा नरास्त मुनिडू? पर्वभिर्द्दन्तधावनम् | प्रतिपन्नवमीषष्ठीषु नुदतैर्नतैः || यद्वास्यं रविगण्डूषैः संशोध्यस्नानमाचरेत् | तच्च वारुणमाग्नेयं माहेन्द्रमारुतं तथा || पार्थिवं गौरवं मान्त्रे कापिलं मानसंमतम् | अथोदशशतिकम् प्. १अ) ओं नमः शिवाय || कार्तिकेय उवाच || अल्पग्रन्थं महार्थश्च पदार्थानेकसंकुलम् | त्वयोक्तं पार्वतीशान सूत्रमात्रं प्रभो मम || न ज्ञातं तत्वतो देव तत्वं कालाख्य * * * | अल्पग्रन्थं महार्थत्वादति गुह्यव्यवस्थितम् || मनुजानां हितार्थाय ब्रूहि मे परमेश्वर | महामोहभिभूतानां क्षुत्तृष्णां च परिप्लुताम् || संज्ञामात्रेण मुग्धानां पशूनां पार्थि * पतेः | नेत्रस्योन्मीलनं शंभो तत्वार्थे न कुरुष्वमे || मन्त्रार्थञ्च यथावस्थं यथा स्थाने च ये स्थिताः | स्वरमात्रा विभागेन न्यस्यन्ते तत्वसंयुताः || तत्वं तु कथयशंभो कस्मिन्स्थाने तु संस्थितम् | पुनः सर्वगतं देवं कथितं व्यापकं त्वया || ब्रह्मस्थं च शिवाङ्गस्थं भूतस्थं परमेश्वर | अस्त्रस्थं तु विनिर्दिष्टं कथितंनावधारितम् || शान्तं सर्वगतं शून्यं व्यापिनं बहुधा स्थितम् | एकन्तु बहुधा देव कथितं तत्वमीश्वरम् || पञ्चोद्धातास्त्वया शम्भो पृथग्भूताश्च वर्णिताः | शोधनं तेषु कर्तव्यं भूतेषु परमेश्वर || पञ्चैव चतुरश्चैव अयश्च द्वयमेव च | शून्यं सर्वं निरालम्बं विज्ञानं केवलं स्थितम् || एतन्मोहकरं देव प्रश्नार्थं परमेश्वर | प्रस्फुटी कुरुष्व सर्वज्ञ स्वल्पग्रन्थार्थ मोहिताम् || कथं शून्यं निरालम्बं विज्ञानस्थं भवेत्प्रभो | विज्ञानं सकलं प्रोक्तं मत्रमे संशयो महान् || प्रकृयान्तस्थ ममृतं श्रवन्तं चिन्तयेत्कथम् | अमृतं प्रक्रियायान्तु यत्रस्थं स व्यवस्थितम् || कतरासा महादेव प्रकृया परमेश्वर | प्. १ब्) यस्यान्ते संस्थितं सोथ अमृतं मृत्युनाशनम् || मृत्युश्च परमेशान कतिधासंव्यवस्थिताः | यं किन्तु नाशयते देव प्रकृयान्त स्थितः प्रभुः || श्रवन्तं कुरु देवेश चिन्तितव्यन्तु साधकैः | एतद्गुह्यतरं शंभो कथयस्व प्रसादतः || हृत्पद्मस्य च विन्यासं सूचितं परमेश्वर | संज्ञा भेदेन देवेश ओमित्यक्षरसंस्थितम् || न ज्ञातं तेषु भेदोयं मुद्वातानां? पृथक्पृथक् | सूत?शुद्धि विधानेन आयामेन महेश्वर || अकारञ्च उकारञ्च मकाराक्षरमेव च | पूर्यष्टकञ्च तन्मात्रं भेदितं न प्रकाशितम् || अकारं कतिधा ज्ञेयमुकारं च महेश्वर | मकारं तत्वतो ब्रूहि प्रत्यवस्थं ह्युमापते || तुर्यातीतं परं देवं चतुर्थं यत्प्रकीर्तितम् | तस्योपरि स्थितं शान्तं नादरूपं सदाशिवम् || एतेषां प्रविभागन्तु ब्रूहि मेतज्जगदीश्वर | येन जानाम्यहं शम्भो समाधिं मृत्युनाशनीम् || मूर्त्तेश्च ग्रहणं ब्रूहि काव्यमूर्त्तिः प्रपठ्यते | स्थूलं सूक्ष्मं परं देवं न्यायकं कथितं पुरा || स्थूलं शब्दमिति प्रोक्तं सूक्ष्मं चिन्तामयं भवेत् | चिन्तया रहितं देवं कथितन्तु परापरम् || स्थूलं कतिविधं ज्ञेयं शब्दमुच्चार * * मे | * * * परमेशान चिन्तया यत्प्रवर्तते || चिन्ता कति विधा देव रूपं तत्वं च कीदृशम् | रूपलक्षणहीनंस्य ग्रहणं चिन्तया कथम् || चिन्तया रहितं चान्यं कथं विज्ञोयते प्रभो | एतत्सर्वं सुरेशान पदार्थार्थं महार्णवम् || कथयस्व विशेषेण भक्ताय परमेश्वर | प्. २अ) स्नानाध्यायं त्वया चोक्तं भस्मकर्पूरणं प्रभो || कथितं लोकनाथेश नमया चावधारितम् | यजनं देवदेवस्य संक्षेपेण तु वर्णितम् || अनन्तं कमलं शंभो धर्माद्यैर्विधृतं परम् | कथितं देवतानन्द विधिपूर्वं विशेषतः || शक्तिव्यूहं च मे ब्रूहि स्पष्टार्थेन सुरेश्वर | एतानि सर्वतत्वानि कथं हृदय संस्थिता || यजन्ते परमेशान गुह्यमेतद्ब्रवीहि मे | बीजाङ्कुरं पुराशक्त्या ह्यनन्त कमलं ततः || पुराशक्तिस्तु का ज्ञेया बीजाङ्कुर विसर्पिणी | मया कुर्वीत देवेश अनन्तं कमलं प्रभो || अत्येप्येवं पठन्तीह सुत्रं सुत्र विदोजनाः | बीजाङ्कुरं पुराशक्त्या अनन्त कमलं भवेत् || पादद्वयस्य देवेश निर्णयं ब्रूहि मे प्रभो | अन्ते चानन्तकं कुर्यात्क्रमेण कथितं प्रभो || कीदृशोनन्तक सुत्रयत्क्रमेण विधीयते | अग्निकार्यविधिश्चैव संक्षेपेण तु वर्णितः || उल्लेखनादिकं कर्म तथा चाभ्युक्षणं पुनः | गर्भाधानादि जननं संक्षेपेण तु वर्णितम् || आहुतीनां प्रयोगन्तु बहुधा संव्यवस्थितम् | न ज्ञातं स्वल्पमुक्तत्वाद्बहुकर्म्मकरः प्रभुः || आप्यायन विधिं चैव त * * * * * शेदि | पुष्ट्यर्थञ्च विशेषेणमारणोच्चाटमोहने || स्तम्भने चैव साध्यानां आवेशग्रहमासने | दीक्षाकाले च पाशानां कथमन्त्रा भवन्तिते || दीपनं बोधनं चैव ताडनं मलनाशनम् | मन्त्रणां तु कथं देव विभागं भवते प्रभोः || स्वल्पत्वान्न तु विज्ञातं मन्त्रावह्वर्थ जातयः | प्. २ब्) कर्मनानाविधेस्ते तु यजान्ते? साधकादिभिः || एकरूपाश्च ते शंभो कथं कामफलः प्रदाः | मण्डलस्य प्रमाणन्तु द्वारकोशसमन्वितम् || गर्भपद्मपुराव्योम किं * * * * * द्विभो | दलोपदलमान्तन्तु केसराणां विनिर्णयम् || कर्णिकायां प्रमाणेन कथं ते तु व्यवस्थिताः | विध्यन्तर प्रमाणन्तु रजसां लक्षणं कथम् || पातनीयं विशेषेण पुष्ट्यर्थे शान्तिमारणे | स्थूलं सूक्ष्मतरं देव हीना रेखिका यदा || गुणदोषौ भवेत्तस्य कश्चात्र परमेश्वर | कथं दीक्षा प्रकर्तव्याः साधकादिषु देशिकैः || एक तत्वे स्थिताः पञ्च तत्वं वै पार्थिवादयः | न ज्ञातस्ते महादेव दीक्षाकाले ह्युपस्थिते || पृथिव्याः कतरं तत्वं मयां चैव तथोत्तरे | तेजो वायुः खमूर्त्तीनां के बीजाः परिकीर्तिताः || कथं सर्वाणि तत्वानि तेषु वै संव्यस्थिताः | न जानामिवदेशान व्याकुलत्वादुमापते || दीक्षाकाले कथं साध्यास्तत्वा तत्वान्तरे स्थिताः | वलावत्वे तु तत्वानां कथं भवति शङ्कर || सर्वे सर्वगताः प्रोक्ताः सर्वे सर्वज्ञभाविता | व्यापका विमलाशुद्धाः कथं तेषां तु शोधनम् || अशुद्धाके समुद्दिष्टाः शुद्धावाके महेश्वर | आगोपालाङ्गनावस्थं व्यापिनं कथितं त्वया || नादान्ते परमं देवं कथं वा शुद्धसंस्थितम् | एतन्मोहकरं देव प्रश्नार्थ वद मे प्रभो || कथं शुद्धमशुद्धश्च मन्त्रत्वं च? कथं भवेत् | प्. ३अ) येन जानाम्यहं दीक्षां निर्वाणफलदायिकम् || सर्वे शुद्धा विनिर्दिष्टास्तत्वास्तत्वेश्वरेश्वराः | अशुद्धास्तु पुनस्ते वै कथं युज्यन्ति चाध्वरे || निवृत्तिः पृथिवी प्रोक्ता भूताख्या सा प्रकीर्तिता | सघ्नो जात इति प्रोक्त ब्रह्मत्वे संव्यवस्थिताः || कथं वा शुद्धमित्युक्तं शुद्धा देवी महेश्वरी | हृदयेन समाख्याता त * * * महाप्रभोः || ब्रह्मतत्वस्य देवेश कथं शुद्धिर्विधीयते | ह्रस्वबीजं भवेद् ब्रह्म ह्रस्वाकारं तया प्रभोः || कथं लोकस्य मुक्त्यर्थं पृथ्वी बीजं महेश्वर | को विशेषो भवेद् देव बीजानां सुरसत्तम || निवृत्तिः पृथिवी सद्यरात्मतत्वश्च गीयते | वर्णितं बहुभिर्भेदैस्तत्वभेदं सुरेश्वर || प्रतिष्ठा भवते आपो भूत शक्तिस्तु संस्थिता | शिरसा सा तु होतव्या कथितं परमेश्वरा || वामदेवं बिजानीयाद्ध्रस्वमीकारसंस्थितम् | कथं संशोधनीयस्तु शुद्धो देवो निरञ्जनः || विध्यतेऽतो मयीख्याता कलासंभूतसंस्थिता | अघोरं पञ्चमं विद्धि होतव्यं षट्कसंयुतम् || कथितं पार्वतीशान सा शिखापरमेश्वरी | कथं विशोधनीयं स्वंदीक्षाकाले ह्युपस्थिते || वायुशान्तिः समाख्याता भूतशान्ती व्यवस्थितम् | पुरुषं तं विजानीयादेकाराक्षरसंस्थितम् || होतव्यं कवचे नैव कथितं परमेश्वर | शान्त्यतीतं परं व्योममाकाशं परिकीर्तितम् || तथापि देवतानन्दनमया चावधारितम् | प्रसादः कीदृशो देव सर्वज्ञः परमेश्वरः || प्. ३ब्) व्यापिनं व्यापकं शुद्धं महाशुद्धन्तु तत्स्मृतम् | वह्वक्षरं प्रभेदेन बहुधा कथितं त्वया || न विज्ञातं मया शंभो तस्य देवस्य निर्णयम् | प्रसादेति च देवेश संज्ञायै किं विभाव्यते || अनामकस्य देवस्य नामकैः किं प्रयोजनम् | कोकिला?स्तत्र संस्थातुं केवर्णाः परमेश्वर || किं रूपाः संभवंत्येते दीक्षाकाले ह्युपस्थिते | सकलं परमं तत्वं सर्वव्यापी जगत्प्रभुम् || कथितं लोकमुक्त्यर्थं परमेशं महाप्रभो | पशुं तत्वं त्वया प्रोक्तं प्रतितत्वं च शंकर || एतन्मोहकरं देव वाक्यं दुर्भेद्यमुत्तमम् | एकैकस्य शतं होम्यं बीजानां परमेश्वर || चतुर्णां सप्तवर्गन्तु जननादि विवर्जिताः | पञ्चमी चैव होतव्या प्रसादेन तु वर्णिताम् || एवं पञ्चशतान्याहुः कथितानि पुरा विभोः | ज्ञानेन देवदेवेन देशिकस्य तु शङ्कर || प्रायश्चित्तं कथं तस्य प्रवर्ततीति दक्षह | एतच्चित्रकरं प्रश्नं मां प्रबोधय सर्वदा || अस्तु बीजेन देवेश होमयेच्चानु पूर्वशः | कथं वै योजनेन्तेषु मन्त्रेषु संप्रवर्तते || अल्पाक्षर महार्थत्वात्कथं भाव धारितम् | एकैकस्य शतं होम्यं शतानि पञ्च होमयेत् || पश्चात्पूर्णाहुतिं दघ्नात्प्रसादेन महेश्वर | प्रायश्चित्त विशुद्ध्यर्थं एकैकाष्टाहुतिः क्रमात् || अस्तु बीजेन संयुक्ता होमयेच्चानुपूर्वशः | एवं समाप्यते दीक्षा जननादि विवर्जिता || हुते नैव तु मुच्यन्ते साधका जन्म बन्धनात् | एतच्चित्रकरं देव वाक्यमेतदुदाहृतम् || प्. ४अ) ज्ञाने नैव तु देवेश प्रसादे व्यापके शिवे | प्रायश्चित्ताः प्रजायन्ते एतन्मे ब्रूहि शङ्करः || कथं बीजास्त्र योगेन युज्यन्ते स महेश्वर | भूतस्थञ्च महेशान ब्रह्मस्थश्च महाप्रभो || अङ्गस्थः सर्वधं देव युज्यते च शिवाध्वरे | एते सप्तदशोक्ता वै त्वया शोध्या महेश्वर || न ते ज्ञाता महादेव यथा मुच्यन्ति चाध्वरे | हुते नैव तु मुच्यन्ते साधकाः पाशमोक्षिताः || रहस्यं कथितं सर्वं मन्त्राणां परमेश्वर | सर्वसंस्कारशुद्धस्य शिवत्व प्रतिपाटनात् || तथापि न भवेच्छुद्धिर्यावद्योगं न विन्दति | विदिते परमे योगे तदा मोक्षो विद्धिंयति || एवं वै व्याकूलं चित्तं प्रश्नादुपहतेंद्रिये | तथा वदत्वं मे नाथ यथा निःसंशयो भवेत् || सप्तदशानां साध्यानां स्वबीजाके प्रकीर्तिताः | येन शुद्धिर्भवेत्तेषामुपाशितां तु शङ्कर || एकैकस्य तु मन्त्रस्य शोधनं बहुधा प्रभोः | कथितं देवतानन्द न मे ज्ञातं हि तत्वतः || अर्चनं प्रोक्षणं चैव ताडनं च तथैव हि | संहारं चैव संयोगं निक्षेपश्च महेश्वर || उद्धारं चैव पाशानां मेकस्य प्रकीर्तितम् | हृदयेन महादेव उक्तं ते पार्वतीपते || तथापि न भवेद् व्यक्तिस्तत्व दीक्षा विशोधने | स्व तत्वे चाहुति शतमुक्तं ते परमेश्वर || स्व तत्वं न मया ज्ञातं संदिग्धार्थं ह्युमापते | यस्याहुति शतं देव होतव्यं तु शिवाध्वरे || हृदयेन ततोद्धारं कथितन्तु मनुक्रमात् | तदेवानुक्रम ब्रूहि येन जानाम्यहं प्रभो || प्. ४ब्) शिवाध्वर विधानेन पशुपाशविभेदकम् | उद्धारं प्रोक्षणं चैव ताडनश्च विशेषतः || संहारेण समायुक्तं कथितं चानुपूर्वशः | एतद्भान्तिकरं योगं न मया चावधारितम् || पूर्वं हृदय मुक्तं तु सर्व कर्मकरं प्रभोः | प्रसादश्च पुनश्चोक्तं फट्कारं तदनन्तरम् || अभिन्न भेदनं चैव मन्त्राः सप्तादश प्रभोः | येन विज्ञायते या शुद्धिर्वै पारमेश्वरी || तत्वे तत्वे स्थितं कर्म व्याख्यातं नावधारितम् | अल्पबुद्धा न मे सर्वे सर्व तत्वार्थ शोधनम् || न ज्ञातं परमेशान स्वल्पसंज्ञार्थ मोहनात् | कथं पञ्चसु भूतेषु धारणासंहितेषु च || ब्रह्माक्षरविभेदेन प्रसादोर्थ युतेन च | पूर्णाहुतिस्तु दातव्या मया मोक्षो विधियते || एवं व्यवस्थितो देव उच्चाटन भवस्थितम् | कथं बुद्धाम्यहं शम्भो बीजानां तत्व कल्पना || ये भूता धारणास्ते तु कलास्ताः वक्तसंस्थिताः | ब्रह्मत्वश्च पुनस्तेषां कथं भवति शङ्करः || शुद्धाब्रह्माः समुद्दिष्टा अशुद्धा भूतजातयः | पूर्वतत्वे समाख्यातास्त्वयैव परमेश्वर || कलास्ता व्यक्तसंज्ञास्तु तासां शुद्धि कथं भवेत् | ये नोक्तन्तु त्वया सर्व षडङ्गेन तु शोधनम् || अङ्गास्तु सकलाः प्रोक्ताः कलाः सूक्ष्मा निरञ्जनाः | एवं विलोम कथितं स्वल्पप्रज्ञायु तस्य मे || यास्ताः कलाः पूराशम्भो मोक्षदाः सर्ववर्णिताः | तैस्तु तत्वं स्थितं देव सर्वव्यापी सदाशिवम् || भूताधारमिदं सर्वं भूताश्च द्विविधाप्रभो | प्. ५अ) स्थूल सूक्ष्मा विनिर्दिष्टात्पूर्वतन्त्रे महेश्वर || पञ्चरूपा समाख्याता पृथिवी च स्वधारिणी | आपश्चतुर्गुणाः प्रोक्तास्तेजश्च त्रिगुणाः प्रभो || वायु द्विगुणमित्याहुराकाशश्चैक रूपधृक् | एते स्थूला समाख्याता भूताभूतेस्वरेश्वराः || सूक्ष्माः कलास्थ निर्दिष्टा निवृत्यादिषु शान्तगाः | तत्रस्थास्ते महाभागाः कथिता ह्यव्ययाक्षया || स्थूलाविनाशं गच्छन्ति चतुर्दश गुणोत्कटाः | सूक्ष्मास्तु विष्कत्वा ज्ञेयाः सर्वज्ञाः सर्वगाः पराः || महाशुद्धाश्च भूताश्च निष्ठा परमतात्विकाः | एतन्निर्वाणमाख्यातं चतुष्कन्तु सदाशिवं || तस्य शुद्धिर्विनिर्दिष्टा हृदयेन महेश्वर | एतस्मात्कारणाद्देव महामोह परंगतम् || विबोधय महादेव स्पष्टज्ञातार्थ चोदनात् | उक्तं त्वयैव मधुनायोगः पाशनिकृन्तकम् || विषुवं च महायोगं संप्राप्यकोन मुच्यते | येन विज्ञात मात्रेण पशुपाश क्षयो भवेत् || पृथिव्याद्यञ्जनाद्यं वै शब्दादि गुणवायुभिः | मन्त्राधि देव चात्मा च ज्ञात्वा मुच्यति बन्धनात् || मन्त्रास्तु धारणाख्याताः शक्राद्या वायुमन्तगाः | एते स्थूलाविनिदिष्टा अधिदैवाः कलाः स्मृताः || आदि तन्त्रे समाख्याता अस्मिन्तन्त्रे तु अन्यथा | एतस्मान्मोहजाभावाज्ञाता वै परमेश्वर || पृथ्वीमालोक्य भावेन सर्वगेन विशुध्यति | निरहंकृत योगेन पुनः कस्मात् प्रचोदितम् || चेताचेतसि संयोज्य द्विरभ्यासि पदोरितम् | दीक्षाकाले महादेव आयामे भास्करस्य तु || प्. ५ब्) मुचति नात्र संदेहो त्वयोक्तं परमेश्वर | चेता चेतो न विजानं द्विरभ्यास पदं तथा || आयामं चिअव देवस्य भास्करस्य महाप्रभो | येन मोक्षो भवे क्षिप्रं सर्वप्रशम्यहं शुभं || सूर्यस्य ग्रहणं देव कथं भवति शङ्कर | विषेवेन तु संयुक्तं मायामांसं पदेस्थितम् || तदा चोत्क्रमते तन्तुर्यदि सम्यक् प्रयुज्यते | एतत्प्रसार्ध? कर्तव्यं सम्यगोधाय ईश्वर || मनसा ग्रन्थिता पाशाः पुत्रे? मणि? गणा इव | *? णयुः? केतु विज्ञेययसत्यं? वा किं महेश्वर || हृत्पद्माद्या * * * *? मनस्तं तु सुतान्वितम् |? एतत्सर्व * * * * *? दत्वात्पार्वति *? र ||##? हृत्पद्माद्या वृतत्पद्मं * * * *? विधीयते | एतन्मोहकरं सर्व * * * * * *? प्रभो || प्रयोगेण तु सूक्ष्मेण योग? *? देवशङ्कर | दिव्येन योगमार्गेण प्रेर्यते स तु व्यक्तिना ||? तं विदित्वा मह * * * * * *? वायुमयं * *? | विषुवेन तु योगेन * * * * * * * * || * * * * * *? प्राप्यकोन? * * * * * *? | यद्येवं भवते सर्व दिक्षया हि? प्रयोजनम् || दीक्षा वह्ने विधा देव वि * * * * * * *? | * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * |? * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * |? * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * |? * * * * * * * * * * * * * * * * ||? कथं तेषां भवेन् मुक्तिरज्ञात्वा विधि पूर्वकम् | प्. ६अ) विधिर्नानाविधः प्रोक्तं सिद्धान्ते बहुविस्तरः || नमया विदिते देन महाम्नाया विमोहकृत् | सत्रयाग विभेदेन मण्डलानां विकल्पना || कथितं परमेशान नानारूप गुणाकृतिः | कृत्वा तु परमां दीक्षां पश्चात्तत्वे नियोजयेत् || एवमुक्तं त्वया शम्भो पश्चात् किं तत्व योजनात् | यदि दीक्षा न शुद्धिस्तु भवते जन्मनाशनी || तदा तत्वे तु देवेश किन्न पूर्वप्रयुज्यते | तं तु सर्वगतं सूक्ष्मं निष्कलं हृदि संस्थितम् || व्यापिनं मोक्षदं देवं कथितं पार्वतीपते | न तत्वेन विना मुक्तिर्न तत्वेन विनागतिः || न तत्वे विना तत्वं याति वै साधकेश्वर | तस्मात्तत्वं मयं सर्वं यदुद्भूतं चराचरम् || ते चैव किन्न कुर्वीत आदौ दीक्षो सूरेश्वर | येनोक्तं ते महादेव मन्त्र तत्व विशोधनम् || पूनर्दीक्षां प्रवर्तेत योगजा तु कलाध्वरे | योगन्तु विषुवं प्राप्य कोन मुच्येत बन्धनात् || भित्वार्गत्वां न्यसेद् योनिं तत्वे तत्वं तु संधयेत् | शक्त्या तु संपुटीकृएत्य वौषडन्तेन निःक्षिपेत् || एवं तु सकला दीक्षा पञ्च तत्वात्मिका प्रभो | कथयस्व विशेषन्तु येन भ्रान्तिर्न विद्यते || स्पष्टेन परमेशान आगमेन विबोधमे | येन जानामि तं तत्वं दीक्षास्तु बहुधा स्मृताः || पशोर्ग्रहण मोक्षस्तु यस्त्वयोक्तं पूरा नघा | पाशाभ्यन्तरबाह्याश्च कस्मिन्स्थाने सुसंस्थिताः || कस्मिन् स्थाने तु तेच्छेद्या सद्योत्क्रान्तिश्च कीदृशी | पशूनां च विनिर्दोषं कथयस्व महेश्वर || प्. ६ब्) संज्ञा मात्रेण देवेश न मे ज्ञातं सुराधिप | तथा वदस्व मे नाथ यथा संप्रत्ययो भवेत् || त्वयोक्तं पार्वतीशान मुक्तिना पाशसंग्रहम् | पाशाञ्च ग्रहणं कृत्वा न येत्तत्वान्तिकं पदम् || विषुवेन तु योगेन ब्रह्माद्याश्च शिवान्तिकाः | एकत्र समतां यान्ति भन्यथा तु पृथक्पृथक् || एकत्वे नैव जानामि देवानान्तु शङ्कर | श्रयाणां परमेशान विषुवेन तु संयुताम् || पुनश्छेदं विनिर्दिष्टं शरास्त्रेण त्वया प्रभो | कतम * रास्त्रन्तु येन विच्छेदयेत् पशुम् || शराहतं पूर्वमाख्यातं सन्तनि न व्यवस्थितम् | द्वादशोन्ते अधो नादे अत्र मे मुह्यते मतिः || तेन हीना न यास्यन्ति अन्यथा तु पृथक्पृथक् | तदा सा युज्यतां यान्ति समयै परिवर्जिता || समयास्तु पुराशम्भो शास्त्रान्ते परिभाषित | तेन हीना कथं यान्ति एतन्मे ब्रूहि शङ्कर || अनिर्दिश्यमविज्ञानं आगमेन विवर्जितम् | यत्कृतं भवने शंभो व्यर्थं वै नात्र संशयः || आगमात्परिपत्तव्यं त्वयोक्तं पूर्वशङ्कर | तच्चागमं भवेच्छार्वं पाशविच्छेदकारकम् || एवं स्थिते महादेव कि मुक्तं तु त्वया विभो | मूच्यते नात्र सन्देहः समयैः परिवर्जितः || तदुद्दिश्य कृतं कर्ममोक्षदं तन्नसंशयः | तदुद्देशकं भवेच्छास्त्रं कथं वाक्य द्वये स्थितम् || उद्देशक कृतो मोक्षस्तेन हीनो विपर्ययः | अथवा विधिवाक्यं वा न जाने पार्वतीश्वर || प्. ७अ) अथ वादं भवेद् देव त्वयोक्तं भवति प्रभो | विधिवाक्यमिति प्रोक्तं सर्वज्ञत्वान्महेश्वर || सूत्रद्वयस्य हेतुत्वात्प्रश्नद्वयमुदाहृतम् | अवापराधो देवेश न कर्तव्यः कदाचन || संसारस्य विमुक्त्यर्थं व्याकुलेन्द्रिय गोचरम् | पृच्छामित्वां महादेव अज्ञानोपहते मने || उत्क्रान्ति नैव जानामि येन चोक्त्व मते क्षणात् | उत्क्राम परमं सौख्यं मृत्युकाले तु जायते || यदा स्वच्छन्दतः प्राणा गच्छन्ते परमेश्वर | तदा परमदुःखेन न तु गृह्येति सर्वदा || एतस्मात्कारणाद्देव उत्क्रान्तिं ब्रूहि शङ्कर | यथा जानाम्यहं तत्वं तथा वद सुराधिप || उक्तं ते सूत्रमात्रेण नमया चावधारितम् | हृत्पद्माभ्यावत्तत्पद्ममन तन्तुं चितानितम् || तं दृष्ट्वा छेदनं कुर्यान्मनोवृत्यामनं छिनेत् | एतद्वै सुत्रं मात्रं तु उक्तं तेन मयावृतम् || मनसे वमनं छित्वा जीवः केवलतां व्रजेत् | कथं मनस्य मनसा छेदो वै संप्रवर्तते || जीवोयं कश्च देवेश एतन्मे ब्रूहि दुःखद्वा | जीवश्च निष्कलः प्रोक्तः स च देवः परात्परः || सर्वगः सर्वतो व्यापी गच्छते कुत्र शङ्कर | एतन्मया न विदितं संक्षेपार्थं महाप्रभो || सर्वपश्न विबोधार्थं कुरुष्व परमेश्वर | अमिका * द पश्चान्ये सत्वाना * व धारिताः || सूक्ष्मादीनां पुनः शंभो पदार्थानां वदस्वमे | एतच्छ्रुत्वा महार्थस्तु प्रश्नानां परमेश्वर || विहस्य वदते देव परिष्वज्य च षण्मुख | अहो गूढतमं प्रश्न पृच्छतोहं त्वया गुह || त्वत्तस्त्वन्यकुतस्तात पृच्छे देवं षडानन | प्. ७ब्) अवागीशस्य पुत्रेण कथं प्रश्नार्थसंग्रहः || इदृशं संप्रवर्तेत मु * * * पार्वती सुत || इति कालोत्तरे त्रयोदशसतिके प्रश्नाध्यायः || ईश्वर उवाच || शृणुवत्स महार्थन्तु कालज्ञानं याथास्थितम् | सूत्रमात्रस्य हे स्कन्द भेदनं प्रव्रतीमिते? || यत्तदक्षरमित्युक्तं भावाभावविवर्जितम् | वहिरन्तः स्थितं शून्यं सर्वतः प्रभुरव्ययम् || तस्य देवस्य निर्देशं नानावर्णमहोदयम् | स्थूलं सूक्ष्मं कृशं तन्तु अदेहं देहसंस्थितम् || अविभक्तं विभक्तं च तं तुभ्यं निगदाम्यहम् | विसर्गान्त स्थितं शून्यं शान्तं च परमेश्वरम् || सान्तं क्षान्तं च संस्थानं कृतं तेन महात्मना | अथवा सर्ववर्णेषु अवर्णरहितः स्थितः || तदा भवति तं देवं निष्कलं यन्न गृह्यते | गृहीतश्चैक तत्वेन सप्तवर्णादिमेन तु || तत्रस्थ प्रवहे देवो यन्न भूतेषु गृह्यते | वदते सर्वगो देवो वाचया रहितः प्रभुः || शरीरस्थ स्वशक्तिस्थो ज्ञायते सौ शिवेच्छया | तस्येच्छा चोदितः स्कंद बुध्यते प्रभुरव्ययः || अन्यथा नैव जानन्ति अप्रसन्ने शिवे गुह | तदेवादि पुराकृत्वा कुटिलावर्णवर्जिता || पश्चाद्भवत्ययं योगो अपूर्वशिरसिस्थितः | एवमोंकारंमुत्पन्नमव्यक्तत्वान्महेश्वरात् || अकाराघ्नाः समुत्पत्तिः षोडशांत मिवस्थिताः | तदन्ते यत्परं तत्त्वं तस्मात्सृष्टिः प्रवर्तते || विसर्गाश्चाय ते सर्व पञ्चवर्गानु गोचरम् | यावत्तंत्पश्चयानां? योनि तत्वं प्रकीर्तितम् || प्. ८अ) तदन्ते भविकोदेवः सोपि सृष्टिप्रवर्तकः | वायुश्चैव तथा ह्यग्निः शक्रश्चैव जलेश्वरः || एताः कलाः समाख्यातास्तत्वाधारास्तु सर्वदा | भूताश्चैव विनिर्दिष्टा धारणाश्च सुराधिप || तेषां चन्द्रश्च सूर्यश्च यजमानो स्वरस्तथा | अस्वरान्नपरं किञ्चित्प्रवर्तन्ते षडानन || एवं सृष्टि समाख्याता संक्षेपात्ते षडानन | एवं सृष्ट्यास्सकासात्तु ज्ञायते तत्वगोचरम् || एतस्मात्कारणाद्वत्स आदौ सृष्टिविनिर्णयम् | कथितं पार्वती पुत्र येन जानासि तत्वतः || संक्षेपेण त्विदं पुत्र सृष्टेः प्रभवलक्षणम् | विस्तरात्कथयिष्यामि अग्रतोत्पत्ति लक्षणम् || मन्त्राणां लक्षणं वक्ष्ये शिवज्ञाने शिवात्मकम् | नान्यैस्तु पशुरुक्तैस्तु लक्षणैर्लक्ष्यते शिवः || आदिमन्तु भवेत्सद्यस्तृतीयं वाम मुच्यते | बहुरूपं समाख्यातं पञ्चमं कृत्तिका सुत || एकादशं भवेद् वक्त्रं स्थितं चन्द्रकलासृतम् | सप्तमं भास्करांवस्थं तदेव परिगीयते || ईशानं भवते स्कन्द अघोरान्नवसंपदम् | गणितं चन्द्रयोगेन भास्करेण तु पञ्चमम् || एवं ते कथिता ब्रह्मा अङ्गा शृणु अतः परम् | आद्यस्य मुद्द्वितीयं तु हृदयं तत्प्रकीर्तितम् || सर्वगं परमं देवं सर्वकर्मकरः प्रभुः | शिवश्चतुर्थविज्ञेयं तस्यैव न गजात्मज || वामदेवाद्द्वितीयन्तु मूर्द्धनिं तु न संशयः | शिखा चान्तस्थिता तस्य बहुरूपस्य शाङ्करी || परमाविमला शुद्धा सर्वतत्वविभेदिका | कवचं तु चतुर्थं स्यादीशानादि व्यवस्थितम् || प्. ८ब्) अभेद्यं तु विनिर्दिष्टं शिववर्मषडानन | वर्मस्यान्ते चतुर्थन्तु यत्पदं बिन्दुसंज्ञितम् || तन्नेत्रं नेत्र मध्यस्थं तस्यान्ते ह्यस्त्रमादिसेत् | स चास्त्रमिति विज्ञेयं षडङ्गं च न संशयः || पञ्चब्रह्म समाख्यातां षडङ्गं च स लक्षणम् | पुनश्चान्यं महाभाग लक्षणं शृणु तत्वतः || प्रसादस्य महाबाहो येन विज्ञायते पदम् | यत्तच्छून्यं निरालम्बं आकाशं परिकीर्तितम् || पञ्चमं तन्तु विज्ञेयं नाद तत्वं द्विकुञ्जकम् | तस्मिन्सद्यन्यसेद्वत्स शिरस्थं परमेश्वरम् || शिरोपरिभवे देवमीशानान्त स्थितः प्रभुः | अधस्तात्तच्छिखा भिन्नं कर्तव्यं परमेश्वरम् || सर्वोपरिस्थितं शान्तं देवं योन्यन्तसंस्थितम् | एवमन्त्रे स्वरः स्कन्दः प्रसादः परमेश्वरः || यं विदित्वा विमुच्यन्ते सप्तजन्मकृतैरपि | भूतानां लक्षणं वक्ष्ये पृथिव्याद्यां व्रताधिप || येन विज्ञायते पुत्र शरीरं पञ्चभौतिकम् | तत्वस्यादौ भवेत् षष्ठं यत्पदं तु सुराधिप || पृथिवी सा समुद्दिष्टा पञ्चरूपास्तु सा स्मृता | कला तु सा निवृत्तिः स्याज्ज्ञातव्या तत्ववेदिभिः || तस्यान्तेयद्वितीयन्तु जलेसं पञ्चमं प्रभुम् | द्वितीयं तत्समाख्यातं भूतं भूतेस्वरेश्वरम् || प्रतिष्ठा सा विनिर्दिष्टा चतूरूपा उदाहृता | तृतीयं भवते तत्वं यकाराद्य द्वितीयकम् || स तु वह्निः समाख्याता स्त्रिगुणः परमेश्वरः | विद्या कला तु सा ज्ञेया शिरस्था भव कृन्तनी || वायु तत्वं भवेद् वायुं पञ्चवर्गान्तसंस्थितम् | द्विगुणं तं तु विज्ञेयं शान्तिश्चैव कलास्मृता || प्. ९अ) तस्यातीतं भवे *? मं पञ्चमं यत्प्रकीर्तितम् | एकरूपं भवेत्तं तु शब्दस्थं परमेश्वरम् || एते भूताः समाख्याता देहाधारव्यवस्थिताः | एतां विज्ञाय मेधावी मुच्यते जन्मबन्धनात् || सप्तादश महामन्त्रा अस्त्रपाशनिकृन्तनम् | नाम्ना पाशुपतं दिव्यं शृणु लक्षणतो गुह || सृष्टि तत्वस्य यच्चादौ चतुर्थ परिकीर्तितम् | तस्योपरिष्टाद्यत्तत्वं द्वादशं भवते गुह || आदौ तु प्रथमं कृत्वा द्वितीयं चापरं भवेत् | तृतीयं योनि माद्यं तु चतुर्थादिमवस्थितम् || योन्यादौ यच्चतुर्थं तु वर्णं तु भवते गुह | तस्याधस्तात्तु तत्कुर्यात्सान्तं यत्परिकीर्तितम् || शिखयासंयुतं कृत्वा आदौमन्त्रं षडानन | मुक्तिदो भवते सोथ अस्त्रं पाशुपतं गुह || एतत्पाशुपतं प्रोक्तं सर्वतत्वविभेदकम् | अप्रमेयं प्रभालोकं संवर्त्तार्कसमप्रभम् || उक्ता ह्येते पुरावत्स मन्त्राः सर्वार्थसाधकाः | कार्यमन्यतमं वक्ष्ये शृणुष्वावहितो गुह || शिखायां तु समाख्याता षष्ठं बीजं स्वरादितः | भवेत् सा योजनीस्थाः स्युः केवलापार्वती सुत || शिव तत्वेन संयुक्ता मुक्तिदा सा प्रकीर्तिता | प्रेरिका भवते वत्स अस्त्रस्य तु महात्मना || यावन्न प्रेरको देवो भवते विश्वतो मुखः | तावन्मंत्रगणाः सर्वे भवन्त्य विदितात्मनः || तेन युक्ता सहैकं त्वे * * * * रववर्म्मणि | भवन्ति मुक्तिदास्कन्द नात्र कार्य विचारणात् || तस्यादौ लक्षणं प्रोक्तं पूर्वसूत्रे षडानन | तं ज्ञेयं सर्वबीजज्ञैः संसारार्णव मीरुभिः? || प्. ९ब्) तदुक्तं तु पुरावत्स भूतानां शोधनं परम् | दीक्षाकाले पशूनां च ग्रन्थिभेदे उदाहृतम् || तत्सर्वं कथयिष्यामि तन्त्रसारं महोदयम् | यदुक्तं तु मयासूत्र आदिमे सुद्धसूचितः? || निवृजिर्हृदये नैव शुद्ध्यते तच्छृणुष्वमे | निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च || स्थिकत्वात्मका? भूताश्चतुर्धा परिकीर्तिता | भूतस्थो स्थूलमित्युक्तां कलाख्यां सूक्ष्मजातयः || तेषां विबोधनं वक्ष्ये भूतानां वे तु कलैस्सह | हृदयं तु भवेन्मात्रा दीर्घा ह्याकारसम्भवाः || तया विशुद्ध्यते बीजं पार्थिवं सुरसत्तमः | प्रतिष्ठा तु विशुध्येत * * * * *? संयुताम् || विद्या तु शोधनीया स्युः शिख * तेजसंभवाः | शान्तिं कवच भुक्तास्तु भवेच्छुद्धानु शाङ्करी || आकाशस्थेन देवेन खं? तेन परिशोधयेत् | एतद्वाक्यं समाख्यातं शोधनं दक्ष आत्मज? || एवं न शुद्धिमायान्ति मन्त्रास्तस्थ? विवर्जिताः | पूर्वमुक्तं मयास्कन्द संज्ञाभेदेन गोपीतम् || सर्वज्ञता वियुक्तेन भेदितं तत्वमुत्तमम् | यथाभूतं * * * * * * * *? समन्विता || तेषां शृणुश्च? पुत्रेश येन निःसंशयो भवेत् | आदिमं यद्भवेत्तत्वं मनसा परिवर्जितम् || शून्यं व्योमगतं सूक्ष्मं तं विद्यात्परमं पदम् | पूर्वतन्त्रे समाख्यातं ब्रह्मादीनां तु संस्थितम् || तस्याधस्ताभवेच्छक्रं पार्थिवं पञ्चभिर्युतम् | तस्योपरिष्ठाद्यदादीर्घं भावतत्वं हृदिस्थितम् || दीपितं बिन्दु देवेन शुद्धिरेषा तु पार्थिवी | अन्यथा न भवेच्छुद्धिरयुक्तस्तस्य गोचरे || प्. १०अ) आपस्य संप्रवक्ष्यामि शुद्धिर्वै भवते यथा | लक्षणेन महाबाहो शृणुत्वं कृत्तिका सुत || आदौ तु विन्यसेत् तत्वं व्यापिनं व्योमरूपिणम् | भावतत्वं समायुक्तं तस्याधस्ताश्चलं न्यसेत् || चतुर्गुणं समाख्यातं तत्तत्वं वारिसंज्ञितम् | तस्योपरि चतुर्थं तु शिरस्तत्वं तु दुर्जयम् || बिन्दुयुक्तं तु कर्तव्यं मे तच्छुद्धिर्जलस्य तु | विद्याकलाग्नि बीजन्तु त्रिगुणं परिकीर्तितम् || तस्य शुद्धिः समाख्याता शिखा बीजेन सुव्रत | पूर्वं नियोजयेत्तत्वं तत्वान्ते यद्व्यवस्थितम् || भावितं भावदेवेन तदा योज्यं तु चालनात् | पार्वती पुत्र तस्याधस्तात् शिखा भवेत् || सुदीर्घ क्रियते सा तु सन्तानेन महात्मनः | बिन्दुयुक्तं शिरं तस्य कर्तव्यं परमस्य तु || एवं शुद्धिर्विनिर्दिष्टा अ * * * * सर्वदा | वायु तत्वस्य सर्वज्ञ शृणु शुद्धिर्विपश्चिताः || शून्यं सर्वगतं तत्वं आदौ तु विनियोजितम् | तस्याधस्ताद्भवेद् वायुर्द्विगुणं परमेश्वरम् || ईशानादे स्थितं चैव कवचं यत्प्रकीर्तितम् | तेन दीप्तन्तु कर्तव्यं बिन्दुयुक्तं तु तत्वतः || एवं शुद्धिर्भवेत्तस्य वायुतत्वस्य सुव्रत | आकाशस्य समाख्याता शुद्धिर्वै निष्कलेन तु || निष्कलं पूर्वमाख्यातं व्यापिनं परमेश्वरम् | पञ्चस्थान स्थितं देवं ज्ञातव्यं मोक्षवादिभिः || सर्वान्त स्थितवर्णानां शुद्धाशुद्धेन कर्मणा | लक्षणं तस्य वक्ष्यामि येन विज्ञायते शिवम् || प्. १०ब्) मातृकादौ स्थितं यच्च व्यापिनं मण्डलान्वितम् | षोडशान्ते तु वर्णानां विसगान्तर्वह्नि स्थितम् || अष्टादशान्तमित्युक्तं निष्कलं भाववर्जितम् | चतुर्विंशत्पदं चान्यं अस्यैव परिकीर्तितम् || भान्तं तत्पूर्वमित्युक्तं यस्यान्तेनोपलभ्यते | तृतीयं कथितं स्थानं निष्कलस्य महात्मनः || चतुर्थं संप्रवक्ष्यामि स्थानं पञ्चमदुर्लभम् | यं विदित्वा विमुच्यन्ते भवसंसारबन्धनात् || शान्तं यत्कथितं वत्स क्षकारां तस्य संस्थितम् | बिन्दुद्वयविनिष्क्रान्तं यत्तत्वं श्रूयते सदा || अनाहत मनुच्चार्यं तत्तत्वं पारमेश्वरम् | न तस्य उपमा स्कन्द वक्तुं शक्यं कदाचन || द्विरोष्ठ निसृतं देवं दुर्विज्ञेयं शुत्तैरपि | ज्वलनस्य यथा शब्दं ज्वलमानस्य सुव्रत || मारुतस्य च पुत्रेण यो ध्वनिः संप्रवर्तते | तत्तत्वं परमेशन्तु कथितं पार्वती सुत || अकथ्यं परमं योगं तत्वस्थान्तर्गतस्य तु | स्पृशतो यो ध्वनिस्तस्य तद्विचिन्त्य षडानन || पुत्र स्नेहात्समाख्यातं पुनरन्यं ब्रवीमिते | न तत्वं न च वर्णाश्च न रूपं न च गोचरम् || न मन्त्रा न च तत्वास्तु तद्ब्रवीमि हिताय वै | प्रथमादौ स्थितं यत्तद्विभजामि शृणुष्वमे || मात्राः षट्कद्विकं वत्स कथितं पूर्वतो मया | पुनर्भेदेन तं वक्ष्ये यथा भवति निश्चयम् || आकारस्य विशुद्धस्य चार्थां संविकल्पयेत् | द्विकुम्भं? यद्भवेत्तत्वं शिवस्य तु महात्मनः || शिरयुक्तं तु गृह्णीयात् षट्काधो भेदितं कुरु | तस्यार्द्धं नाद * * * * * * दौ संप्रकीर्तितम् || प्. ११अ) मध्यस्थं वेष्टितं तन्तु तं बिन्दुं पारमेश्वरम् | वेष्टनीया स्मृता चान्ये तन्नादं परमेश्वरम् || एवं भिन्नं परं तत्वं मोक्षदं परिकीर्तितम् | * * * तस्य तत्वस्य विभागं कथयामिते || पूर्वं पूर्वे नियुञ्जीत षट्कं बिन्दु समन्वितम् | एवमेतत्समाख्यातं द्वितीयं परमेश्वरम् || तृतीयं सांप्रतं वक्ष्ये तत्वं कलाख्यमुत्तमम् | विभक्ता वयवं देवं तत्प्रवक्ष्यामितेऽधुना || शिरोर्द्धे बिन्दुकं देवं कथितं तत्परमं शिवम् | ऊर्द्ध्वबाहु स्थितायां तु नादं तत्परिकीर्तितम् || पूर्वोक्तं संयुतं कृत्वा सोप्येवं मुक्तिदं भवेत् | पूर्वोक्तं शान्तमित्युक्तं शिखया तु विभेदितम् || दातव्यं शिरसि बिन्दु नादौ * * षडानन | एवं तु भवते वत्स मुक्तिदः परमेश्वरः || चतुर्थं कथितं स्थानं निष्कलस्य शिवस्य तु | शान्तं वै पूर्वमाख्यातं मोक्षदं भवनाशनम् || सर्ववर्णसमायुक्तं ज्ञातव्यं तत्व वेदिभिः | पञ्चमं क्षान्तमित्युक्तं पूर्वलक्षणसंयुतम् || भवते परमे * * मोक्षदः पाशकृन्तनः | अथवा तस्य मध्ये तु क्षकारस्य महात्मनः || ज्ञातव्यः परमो हंस भावयुक्तस्तु केवलः | क्षान्तमेतत्समुद्दिष्टं द्विभेदेन तु षण्मुखः || क्षकारं भवते वत्स शरीरं सर्वजन्तुषु | ज्ञातव्यं तत्र विद्वांसैर्मोक्षकाम हितैषिभिः || पञ्चमं कथितं स्थानं परमस्य शिवस्य तु | सर्ववर्णगुणैस्तं तु तदेव परीगीयते || एवं ज्ञात्वा महासेन स्वपंचार्यपि दीइषयेत् | एवं शुद्धिः समाख्याता भूतानां तत्व वेदिभिः || नान्यथा भवते शुद्धिस्तत्वहीनस्य सुव्रत् | प्. ११ब्) अङ्गाप्येवं विशुध्यन्ते यदि तत्वे वियोजिताः || सद्यो जातश्च वामश्च बहुरूपस्तृतीयकः | पुरूषन्तु महाभाग ईशानं शान्तमयमम् || एते युक्ताः परे तत्वे निष्कले भाववर्जिते | तदा तु भवते वत्स * * ब्रह्मनि योजिताः || तत्व हीना भवेद् भूता येषां शुद्धिः पुराकृता | तेपि शुद्धाः कलाः प्रोक्ताः कला वै ब्रह्म उच्यते || ब्रह्म तत्वमिति प्रोक्तं तत्वं बलं शिवमनामयम् | शिवस्य व्यापकं नाम व्यापकं शुद्ध उच्यते | * * न्तु विरजं प्रोक्तं निरजं निर्गुणं स्मृतम् || निर्गुणं नामरहितं अनामं ध्रुवमेव च | ध्रुव * * लमित्युक्तमपलंसाश्वतं पदं || एतत्ते कथितं सर्वस्तत्वं चैव परापरम् | शोधकं तेषु शोध्येयु पूर्वोक्तेषु षडानन || एकादशेषु वत्से * * * * *? वर्णितम् | न शोध्यैः शुध्यते किञ्चिच्छा *ः परमेश्वरः || न तस्य शोधनं कुर्यात् सुशुद्धः परमो गुह | एतत्ते कथितं सर्वं पञ्चभेदं वरानने || अशोध्य?स्य कुतः साध्यशोध्यानां शोधकस्तु सः | एतत्ते कथितं गुह्यं अकथ्यं गूहीतं मया || त्वयापि * * *? वेदं * * * * * * चन | ऊद्धातानां प्रवक्ष्यामि लक्षणं पार्वती सुत | यैस्तु विज्ञान मात्रैस्तु देह शुद्धिर्भवेन वै | पञ्चो * * * * * * * * * * * * * * || आपस्य चतुरः प्रोक्तास्ते तस्य तु गुणत्रयम् | वायोस्तु द्वयमुद्दिष्टा आकाशस्यैकमेव च || पृथग्भूता प्रवक्ष्यामि भूता *? सर्व * * वाः | यत्तत्पार्थिवं बीजं तु मकाराद्यं प्रकीर्तितम् || प्. १२अ) तत्व युक्तं तु कर्तव्यं ततः शुद्धं भवेद् गुह | उद्घातस्तु भवेत्प्राणो यस्मादायामितं भवेत् || प्रथमं पूरकं कुर्याद्द्वितीयं कुंभकं भवेत् | रेचकस्तु तृतीयः स्यात्प्राणे प्राणे तु पूरयेत् || यावत्तत्पञ्चकं भद्र एष दृष्टो विधिः परः | एवं पञ्चदशः प्रोक्ताः प्राणायामस्तु वह्निजः || जातीयात्तु क्रमेणैव शेषास्तु चतुरोपराः | वरुणस्य द्विषट्के च वह्नेश्चैव नवस्तथा || वायोश्च द्विस्त्र यत्प्रोक्ताः प्राणायामं सुरान्तकृत् | त्रिविधेन तु योगेन आकाशन्तु निगद्यते || एकत्र गुणितं भद्र चत्वारिंशच्च पञ्च च | पूरकादि प्रयोगेण कथितं सर्वतो गुह || पञ्चानां चैव भूतानां शुद्धिस्ते कथिता मया | शिवेन न षडङ्गेन भूतस्थेन तु योगतः || एतं शान्तं च अन्तं च एष प्रथमपञ्चकः | पार्थिवस्तु सम्प्रख्या योगोयं भूतशुद्धये || लान्तं शान्तं च वामान्तं द्वितीयं योगमुत्तमम् | वारुणं तु समाख्यातं चतुर्गुणविशुद्धये || यान्तं घोरान्तं शान्तं च तृतीयं वह्निजं गुह | योगोयं विगुणः प्रोक्तः सर्वलक्षणशोधितः || मकारान्तं च शान्तञ्च पुरुषांते नियोजितम् | वायुलक्षणमाख्यातं द्विगुणं पार्वती सुत || सोपि पूर्वक्रमेणैव शोधनीयं प्रयत्नतः | ईशानान्ते च यत्तत्वं अघोरान्ते च सुव्रत || तयोर्युक्तं हि कर्तव्यं एवं शुद्धिर्विपश्चिता | सर्वे दीप्तास्तु कर्तव्या अस्त्राद्यन्तेषु चोपरि || एवं भूता विशुद्ध्यन्ते नेकजन्मगुणान्विताः | भूतः शुद्धिं ततः कृत्वा पञ्चान्तः करणं कुरु || प्. १२ब्) अन्तःकरण विर्यासं कथितं पूर्वतो मया | तथापि कथयामीह त्वहृ? वत्याशरितात्मज्ञ || यत्तच्छून्यं निरालम्बं विज्ञानं पूर्वचोदितम् | तदन्तः करणं प्रोक्तं विज्ञानं तन्निगद्यते || तत्सूक्ष्मं परमं देवं हृद्व्योमस्थं परापरम् | हृद्व्योमं कथितं तु स्वे आदिमे हिमजा सुत || नाड्याभेदसहस्रेण? शक्तियोगे विचारितम् | तस्योपरिपरभ्यायेदमृतं प्रक्रियान्तगम् || अमृतं चामृते कुर्यात्प्रयोन गुहेश्वर | प्रयोगं प्रक्रियान्त्रस्थं तदन्तस्थे नियोजयेत् || प्रक्रियां शृणु प्रवेशयेन विज्ञायते सृयम्? | संज्ञामात्रेण ते ख्यातस्था कप्यगादिता मया ||? तां विभागेन वक्ष्यामि अमृतं ये * * *? से | ओमित्यनेन कमलं योगपीठं यथा भवेत् || तथा ते संप्रवक्ष्यामि यथा निःसंशयो भवेत् | सूर्यमण्डलसंकाशं अकारं ह्यात्मसंभवम् || विधातत्व मुद्रास्तु शिवतत्वं मकारजम् | बिन्दुतत्वं विजानीयाद्देवं चैव सदाशिवम् || बिन्दु देवात्परंशान्तं नादं परमदुर्लभम् | नादान्ते अमृतं ज्ञेये यं विदित्वामृती भवेत् || एषा ते कथिता वत्स प्रक्रिया मृत्युनाशिनी | तस्या विभागं वक्ष्यामि तत्वाधानं व्यवस्थितम् || सद्यः कलाष्टसंयुक्तं मकाराक्षरज्ञं? विदुः | आत्मतत्वं विजानीयाच्चतुर्विंशति पङ्कजम् || कन्दनालं भवेत्सोथ आधारं परिकीर्तितम् | वाममुकारजं विद्धिरत्रयोदशकलान्वितम् || विद्या तत्वं विनिर्दिष्ठं शिवस्याधारसंस्थितम् | प्. १३अ) यत्र केसर मध्ये तु कर्णिकायां व्यवस्थितम् || शिवतत्वमकारं तु पूर्यष्टकसमन्वितम् | बहुरूपं समाख्यातं कर्णिकान्ते प्रतिष्ठितम् || सुषिरं तत्समाख्यातं तत्र बिन्दुं व्यवस्थितम् | चतुष्कलं विजानीयात् पुरुषं लोकतारकम् || तस्योपरि शिखा दिव्या नादरूपा व्यवस्थिता | ईशानं तत्समाख्यातं पञ्चधा संव्यवस्थितम् || अष्टात्रिंशत्कला ह्येताः पञ्चतत्वेषु संस्थिताः | तेषां विभागं वक्ष्यामि शृणुष्वावहितो गुह || नादबिन्दुः समुत्पन्ने बिन्दुदेवात् सदाशिवः | स च तत्व त्रयोवत्स ज्ञातव्यः परमेश्वरः || सदाशिवश्च ईशश्च विद्यातत्वं तृतीयकम् | एभिस्तत्वत्रयेस्नात् स्थितो देवः सदाशिवः || ईश्वरं द्विविधं विन्द्या ह्येकां षडानन | बिन्दु तत्वं समाख्यातं मकारं शृणुसांप्रतम् || मायाकालश्च नियतिर्मकारो व्याप्यसंस्थितः | * तु त्वावस्थितं तन्तु बोधकः परमेश्वरः || कालतत्वं द्विधावस्थं नियतिश्चैक रूपधृक् | मकारन्तु समाख्यातं शिवतत्वं तु तामसम् || उकारं सांप्रतं वक्ष्ये राजसं विष्णु? संस्थितम् | विद्यातत्वं तु तयोक्तं शृणु तस्याप्यनुक्रमम् || पुरुषं प्राकृतिश्चैव व्यक्तं चाहं कृतो गुणाः | त्रिधा तत्पौरुषं तत्वं कथितं शङ्करात्मज || अव्यक्तं द्विविधं विद्याद्व्यक्तेन सहसंयुतम् | तन्मात्राश्चैकधाज्ञेया आधारं शृणु सांप्रतम् || त्रिमात्रासनमित्युक्तं श्रोत्राधारो द्वितीयकम् | पृथिव्यादि पञ्चकं चैव एकधा परिकीर्तितम् || प्. १३ब्) सात्विकं तु समाख्यातं आत्मतत्वं तु सुव्रत | आत्मतत्वे स्थितः सद्यो विद्यातत्वे विलोमजः || अघोरं शिवतत्वे तु बिन्दुतत्वे सदाशिवम् | सदाशिवात्परो देवो नादः परमदुर्लभः || नादान्तोवस्थितं तन्तु अमृतं यदुदाहृतम् | सृष्टिरेयाः समाख्याता प्रक्रिया च वरानन || पञ्चतत्वे स्थिता भद्र कथिता मृत्युनाशिनी | पुनः संक्षेपतश्चैव कथयिष्यामि तेनघ || तत्वैस्तु नवभिश्चैव संस्थिता? सर्वतो मुखा | प्रकृतिः पुरुषश्चैव नियतिः काल एव च || मायान्ताः पञ्चभूतानि अकारे तु समासृताः | विद्यायामीश्वरे तत्वे स्थितः सकलनिष्कलः || सदाशिव शिवाश्चैव संस्थितो निष्कलः शिवः | तत्वायेत् नवप्रोक्तास्त्रयस्तत्वाश्च ते स्मृताः || पुनरेकं भवेत्तत्वं शिवतत्वं महाप्लुतम् | विभागं तस्य वक्ष्यामि मात्रावस्थो यथा भवेत् || मात्रा तु भवते वत्स चतुर्थं भागसंयुतम् | अक्षरस्य विभागं तु यथा भवति तवशृणु? || अक्षरं पूर्वमित्युक्त अकारोकामन्तगम् | तेषां वत्स विभागन्तु शृणुष्वा वहितो गुह || शिरश्चन्द्रार्धदण्डाश्च त्रयोभागा ह्यकारजाः | द्विकुब्जं यद्भवेच्चान्यं तत्वभागे चतुर्थकम् || तन्मध्ये योजनीयन्तु विद्यातत्वं प्रतिष्ठितम् | प्रतिष्ठा सा तु विज्ञेया कलामात्रा निगद्यते || अकाराद्यंसका ह्येते कथितन्तु समासतः | उकारस्य तु पुत्रेश चतुर्थांशब्रवीमिते || शिरदण्डश्च चक्रं च शेषभागयुतं च यत् || प्. १४अ) वक्त्र? भागतस्तदूर्द्धमधस्तात्तस्य धीमतः | मकारस्यं शकं? वक्ष्ये मस्तकं चार्द्धतिर्यगम् || ऊर्द्धभागं शकं वक्ष्ये मस्तकं चार्द्ध तिर्यगम् | ऊर्द्धभागं तथा चापि तिर्यगं शिरस्थितम् || शिवत्वं तु तं विद्धि द्विमात्रो परिसंस्थितम् | पदमष्टादशातीतमर्धमात्रं निगद्यते || तस्याधो बिन्दुकं विद्या सर्वव्यापि महेश्वरः | तेषामुपरिसंस्थं तु मात्रायोगस्य सुव्रत || बिन्दोर्द्ध्व सा भवेत् सूक्ष्मा निष्कला या उदाहृता | * * * *? च शक्तिश्च नादश्च परिपठ्यते || धनञ्जयश्च सर्वज्ञ शिवेन सहधीमता | एकत्र संस्थिता ह्येते ज्ञातव्याप्तत्य चिन्तकैः || यत्रैव तु लयं यान्ति तत्स्थानममृतं ग्रह | प्रयोगं तस्य वक्ष्यामि येन मृत्युर्न विद्यते || स्रवन्तं चिन्तयेत् तन्तु मूर्द्ध्नि भागे षडानन | अधोमुखं महातत्वं सुषुम्णान्तर्गतं कुरु || क्षीरधारा सहस्रौद्यैः स्रवन्तं चिन्तयेत्सदा | तस्योपरि महाप्राज्ञ हृद्व्योमान्त स्थितस्य तु || एवं विचिन्त्य मनुष्य तत्वे तत्वार्थितः सदा | जीवते सोपि पुत्रेणयोऽपिनीतोयमालयम् || किं पुनः साधकेन्द्रस्तु परिज्ञान बलेन तु | ध्यायते परमेशो हि स कथं मृत्युमाविशेत् || योगी च भवते शीघ्रं सर्वज्ञश्च महेश्वर | स्रष्टावे दृग्विधानं च अण्डानां च भवेत्सदा || क्षयकारी च पाशानां यो ह्येवं विधिमाचरेत् | एतत्ते कथितं भद्र अमृतं मृत्युनाशनम् || इति कालज्ञाने त्रयोदशसतिके सूत्रभेदो द्वितीयः || भूयस्ते संप्रवक्ष्यामि मूर्त्तेश्च ग्रहणं गुह || प्. १४ब्) साधकाचार्ययोर्यद्वद्भवतेत तथा शृणु | मूर्त्तिस्तु द्विविधा दृष्टा परा चैवा परा गुह || परा सूक्ष्मा समाख्याता या कला षोडशांवगा | तया विकल्प्यते मूर्त्तिरादौ चैतन्यसंयुता || चैतन्यं भावमुद्दिषं तत्र तत्वं व्यवस्थितम् | तत्व चैतन्य योगेन भवते देहपञ्जरम् || स तु पूर्वं समाख्यातं प्रक्रिया देहमुत्तमम् | अव्यक्तात्तत्समुद्भूतं यच्च व्यक्तं शिवात्मकम् || तस्मादेव तदाकाश आकाशाद्वायुमीश्वरम् | वायोस्तेजः समुत्पन्नंस्तेजादापः प्राजायते || आपस्तु पृथिवी जाता सा च पञ्चगुणाः स्मृताः | एकाशाहीना शेषास्तु चतुरः पूर्वचोदिताः || सं *? मूर्त्तिः समुत्पन्ना तत्वस्थाद्यंशकस्य तु | तस्या भूताः प्रजायते पञ्चये पूर्वचोदिताः || परामूर्त्तिः समाख्याता सर्वप्राणिषु संस्थिताः | अपराभूतसंज्ञा तु ब्रह्माख्याया उदाहृता || तस्या प्रजायते शेषं सेंद्रियग्रामगोचरम् | तत्वमाला समायुक्तं त्रिततं यत्प्रकीर्तितम् || नानारूप विभागेन तेन व्याप्तं तु सर्वदा | संदग्धं भूतसंघातं स्वेंद्रिय ग्रामगोचरम् || विज्ञानेन महाबाहो पञ्चोद्घातस्थितेन तु | अमृते नाभिषिंसिच्य? पूर्वसुक्ते न सुव्रत || ततस्तु गृह्णयेन्मूर्त्ति पञ्चब्रह्मात्मजांशुभाम् | अपराया समुद्दिष्टा भूताख्या तु महागुह || ईशानं मूर्द्ध्नि भागे तु वक्त्रे तत्पुरुषं न्यसेत् | हृदये तु महाघोरं गुह्ये वामं प्रकल्पयेत् || सद्यं तु विन्यसेत् पादौ सर्वाङ्गेषु व्यवस्थितम् | आदि सृष्टिं न्यसे देवं अन्येषां सद्यमादिकम् || प्. १५अ) पादाद्यं यावन् मूर्द्धान्तं ब्रह्मन्यासं प्रकल्पयेत् | वामदेवं न्यसेद्गुह्ये बहुरूपं हृदिन्यसेत् || वक्त्रे तत्पूरूषं देवमीशानं मूर्ध्नि योजयेत् | ब्रह्मन्यासं पुरा कृत्वा पश्चादङ्गानिकल्पयेत् || नेत्रं न्यस्य तथा पूर्वं हृदयाद्यन्ततो न्यसेत् | मन्त्रोद्धारे तु ये प्रोक्ता मन्त्रा वै ब्रह्मलक्षणा || तेषां न्यासं तु कर्तव्यमंगस्थानेषु सुव्रत | हृदयं हृदये न्यस्य ये न्यस्य शिरसि न्यसेत् || शिखायां तु शिखां दद्यान् नेत्रं पूर्वविकल्पितम् | कवचं सर्वगात्रेषु दातव्यं देहरक्षणम् || अस्त्रन्तु विन्यसेद्धस्ते दिशासु विदिशा सु च | एषा मूर्त्तिः समाख्याता परापर व्यवस्थिता || येन कृत्वा यजेद् देवं सकलं निष्कलं प्रभुम् | येन यष्टा महासेन न पुनर्गृह्णते तनुः || अथवा भावशुद्धेन मनसावायद्धिवम्? | स बाह्याभ्यन्तरं कृत्वा पश्चाद्यजनमारभेत् || बाह्ये भूताः समुद्दिष्टास्त्रितत्वाभ्यन्तरे विदुः | स बाह्याभ्यन्तरं स्कन्द कथितं तव पृच्छतः || देहशुद्धिं पुराकृत्वा मन्त्रवारि मृदायुताः | विधानेन विधानज्ञ पश्चात्पूर्वं समारभेत् || भस्मना च विशुद्धेन सर्वमन्त्राभिमन्त्रितम् | आत्मनोद्धूलनं कृत्वा साङ्गोपाङ्गेषु मन्त्रवित् || ब्रह्माद्यङ्गाः समुद्दिष्टामूर्द्धाद्यं यावसादतः | तेषां स्थानविभागन्तु प्रवक्षोहं ह्यनुक्रमात् || मूर्द्ध्नि मुद्धूल्य ईशेन वक्त्रं तत्पुरुषेण तु | हृदयं तु अघोरेण गुह्यं वै गुह्यकेन तु || पादौ सद्येन वत्सेश एषाह्यङ्ग विकल्पना | प्. १५ब्) उपाङ्गानां विभागन्तु शृणु तेषां यथाक्रमम् | हृदयं हृदये नैव शिरं वै शिरसेन तु || उद्धूलयेन् महाप्रोक्तः शिखया तु शिखां तथा | नेत्रवेक्त्रें समुद्धूल्य सर्वाङ्गं कवचेन तु || अस्त्रेणक्ष्यालयेद्धस्तौ ताला *? क्षेसु कारयेत् | उपाङ्गानां तु विन्यासं कथितं कृत्तिका सुत || ब्रह्माणि तु समुद्दिश्य उपाङ्गास्ते भवन्ति तु | अन्यथा न भवेद्धङ्गां सर्वशास्त्रेषु मन्त्रवित् || एवं अङ्गातुषांगश्च पुमाङ्गा? ब्रह्मभिस्सह | एव सुद्धूलनं कृत्वा सन्ध्या वन्दे पवित्रकैः || कृतायां चैव संध्यायां यो विधिः पूर्वकल्पितः | तं नियोजय विप्रेन्द्र येन पूजयसे शिवम् || एवं व्यस्तं समस्तं तु कथितं पार्वती सुत | पुत्र स्नेहान्महाभाग गोप्तुं ते नैव शक्यते || स्नेहेन चैव विज्ञाना भावनाभावितस्य च | अर्चनंते प्रवक्ष्यामि पंचशुद्धिर्व्यवस्थिता || दशसंस्कारविज्ञानं कर्तव्यं सर्वदेशिकैः | प्रासादमात्म शुद्धिश्च द्रव्यमन्त्र शिवस्य च || एतास्तु शुद्धयः प्रोक्ताः शिवेन परमात्मना | आत्मशुद्धिः समाख्याता भूताद्युद्घातसंस्थिताः || प्रासादशुद्धिः कर्तव्या प्रासादेन षडानन | चक्षुषी न्यस्य तं देवं प्रासादं तु निरीक्षयेत् || ततः प्रासादशुद्धिः स्याद् भवते नात्र संशयः | द्रव्यशुद्धिस्तु ते नैव प्रासादेनविशोधयेत् || यज्ञोपकरणं यच्च तद्द्रव्यं परिकीर्तितम् | तोयाभिमन्त्रितं कृत्वा तेन शुद्धिं विनिर्दिशेत् || मन्त्रशुद्धिः समाख्याता पूर्वमेव तवानघ | तत्व युक्तास्तु ते वत्स शुद्ध्यन्ते मन्त्रनामकाः || प्. १६अ) अन्यथा नैव शुध्यन्ते तत्वहीना वरानन | तत्वं सर्वगतं विद्धि वर्णे वर्णे व्यवस्थितम् || संप्रदा येनासौ देवोज्ञातव्यः साधकोत्तमैः | अन्यथा नैव जानन्ति प्रयोगेन विना गुह || यथा क्षीरे स्थितं सर्पिर्नाशक्यं मन्थितुं जनैः | प्रयोयोगेण विना भद्र तद्वद्देवो निरञ्जनः || प्रयोगो भवते तस्य क्षीरस्य तु महातपः | दध्नाभावं यथा याति रज्जुसंधानसंयुतम् || मंथकस्य वशादेवं तदा सर्पिः प्रजायते | एवं शिवोपितं अज्ञेर्जायते तत्व गोचरात् || बीजमन्थान योगेन वैकारिक गुणैः सह | नवयेत्प्रकृतिं वत्स पुरुषः पञ्चविंशकः || केचिद्युक्ता वियुक्ताश्च वर्णास्त्व न्योन्यसंस्थिताः | चतुर्विधेन योगेन सर्ववर्गेण सुव्रत || एवं तत्वं विजानीयान्मन्थ्यमन्थानसंयुतम् | पञ्चानामधिकस्त्वेको विसर्गान्तस्य मूर्द्धनि || द्वितीयं तं विजानीयात्तृतीयं यो निरंततः | एवं यथास्थितं तत्वं दुर्विज्ञेयं सुरैरपि || प्रथमं रुद्रतत्वं तु द्वितीयं निष्कलं शिवम् | भावयुक्तं महासेन तृतीयं कालमूर्द्धनि || कालं बिन्दुविजानीयाद्भाव तत्वो परिस्थितम् | एवन्तु भवते तत्वं सर्वमन्त्रविशोधनम् || भावहीनास्तु ये वर्णा बिन्दुमात्राविवर्जिताः | स्वभावशुद्धा कर्तव्यास्तदा ते निष्कलाः स्मृताः || तत्वे तत्वे त्विदं योगं ज्ञातव्यं सिद्धि तत्परैः | प्रणवादि नमोन्ताश्च पूजान्यासादि योजिताः || स्वाहान्ताः प्रणवाद्याश्च अग्निकार्ये प्रयोजयेत् | प्. १६ब्) वौषडन्ताश्च कर्तव्याः पुष्टि *? प्यायनेषु च || हुंफट्कारसमायुक्ताः पाशानां छेदनं कुरु | वायव्याग्नेय माहेन्द्रैर्वारुणैर्वारुणात्मकैः || कर्तव्यास्ते येथान्यायं कार्योद्दिश्यविधानवित् | वश्याकर्षणकर्मेषु स्तोभस्तम्भादि मारणे || उच्चाटे चैव विद्वेषे प्रष्ट्यर्थे शान्ति कर्मणि | मोक्षसिद्धिफलावाप्तिं कामाकामितसाधने || कुर्वन्त्येते महात्मानो यदि युक्ता च तुष्टये | रक्तमाकर्षयेत्तूर्णं राक्तो वह्निं प्रकीर्तितः || वायुर्वरुणसंयुक्त एवमाकर्षणे हितम् | स्तोभे तु बिन्दु हीनन्तु वायुरग्नि समन्वितम् || स्तोभनं कुरुते स्यात्पुनहताभूवरारायपि | शक्रेण युक्त स्तम्भन्तु पीतरूप युतेन || उच्चाटये महासेन यदि युक्तस्तु मारुते | उद्भान्तं गमनं सर्वशाल्मली तूलसंनिभम् || धूम्रवर्णेन दीव्येन हितमुच्चाटनं परम् | वारुणेन तु शान्त्यर्थं पुष्ट्यर्थं च विशेषतः || मारणे कृष्णवर्णन्तु हुंफट्कारान्त *? द्बुधः | साध्यस्य तु पदानाम तदा भवति मांरुणम् || षडन्ताश्च कर्तव्या आप्यायन विधौ सदा | एतास्तु धारणा ज्ञेयाः सर्वसिद्धि फलप्रदाः || हुंफट्कारसमायुक्तामन्त्राये दश संज्ञय | दीक्षाकाले प्रयोक्तव्याः पाशानां तु निकृन्तेने || एषा तत्व विशुद्धिस्तु कथिता तव शाङ्करि | लिङ्गशुद्धिं प्रवक्ष्यामि साधकानां हिताय वै || येन शुद्धेन वै क्षिप्रं मन्त्रसिद्धिं प्रयच्छति | प्. १७अ) त्रिविधास्तु गणाः प्रोक्ता लिङ्गमाश्रित्य ये स्थिताः || तेषां प्रोत्सारणं कुर्याद्येन शुद्धिर्भवेतवै | भूतजा मन्त्र देहास्तु मुक्त देहास्तथैव च || विषु स्थानेषु तिष्ठन्ति लिङ्गमाश्रित्य ते गणाः | प्रासादे भूतजाः सन्ति मन्त्रदेहाश्च पिण्डके || मुक्त देहास्तु वै लिङ्गे ह्युपजीवन्ति शङ्करम् | तेषां प्रोत्सारणं कृत्वा प्रसादास्वनियोजनात् || प्रणश्यन्ति ततो विघ्ना आचार्यास्तु विलुम्भकाः? | ततः पूजां प्रकल्पीत दशसंस्कारसंस्कृताम् || सद्यो जातेन देवेन मूर्त्तिं तस्या नयेद्भृशम् | शिवस्य तु महाभाग शिरस्थेन प्रयोगतः || अन्यथा न भवेत्पूजा मूर्त्तिहीनस्य शङ्करे | वामदेवं ततः स्मृत्वा योगपीठे निवेशयेत् || बहुरूपेण मन्त्रेण सन्निधानं प्रकल्पयेत् | तेन सान्निध्यतां याति मन्त्रमूर्त्ति महेश्वरः || हृदयेनानुरुन्धीयाच्छिरसार्धं प्रकल्पयेत् | शिखया तु भवेत्पाद्यं कवचे नावगुण्ठयेत् || अमृतत्वं तु चास्त्रेण वक्त्रेण चमनं तथा | पुष्पाञ्जलिं तु ईशाने मूर्द्ध्निस्थाने प्रकल्पयेत् || एतत्ते कथिता वत्स दशसंस्कारजातयः | एवमेवं विधिं कृत्वा ततो पूजां प्रकल्पयेत् || शुद्धयः पञ्चयाः प्रोक्तास्तासामन्ते विधिं स्मृतः | धर्मज्ञानादि वैराग्यमैश्वर्यं च चतुष्टयम् || विन्यसेत महासेन विदिक्षु तु समासतः | हृदयेन विधानज्ञः पद्मकेसरकर्णिकाम् || कर्णिकायां न्यसेद्देवं प्रसादं व्योमरूपिणम् | केसरैः शक्तयोर्व्यूहं हृदयेन प्रकल्पयेत् || प्. १७ब्) बीजाङ्कुरं पुराशक्त्या अनन्तकमलं न्यसेत् | प्रसादं कथितं पूर्वं शक्तिबीजाङ्कुरं परम् || अन्ते चानन्तकं कुर्याद्यदन्तं परिवर्जितम् | दशसंस्कारशुद्धिस्तु यस्मरा? तु मयेरिता || तां समासेन तत्कुर्याद्धृदयेन महात्मनः | आवाहनं स्थापनं च सान्निध्यं सन्निरोधनम् || स्नपनं पूजनं चैव धूपनं च विलेपनम् | भोजनं पाद्यंमर्घ्यञ्च हृदयेन विसर्जनम् || हृदयं पूर्वमाख्यातं शिवतत्वं तु आपतम् | बिन्दुयुक्तन्तु कर्तव्यं तेन सर्वं तु कारयेद् || अर्चा ह्येषा समाख्याता अग्निकार्यविधिं शृणु || इति कालोत्तरे त्रयोदशसतिके तृतीयः पटलः || तृप्ते ख नादिकर्मन्तु तथा चाभ्युक्षणं पुनः | अस्त्रेण कारयेत्प्राज्ञो अथवा हृदयेन तु || वर्मणा वाथ विप्रेंद्र शक्तिगर्भे निपातयेत् | हृदयेन शिखिं देवं जातकर्मञ्च तेन वै || षडष्टकसमायुक्तं गर्भाधानादिकं हुनेत् | त्रयपञ्चाष्ट वा हुत्या दातव्या वह्नि गोचरे || प्रत्येक शस्तु दातव्याः संस्कारविधि संभवे | चत्वारिंशाष्टमित्युक्ताः संस्कारा ब्रह्मजातिषु || ब्रह्मत्वे योजयित्वा तु हृदयेन तु सर्वदा | पश्चात्सर्व भवेद् ब्रह्म यो विधि सूत्र चोदितः || पद्मन्यासादि योगेन होमयेच्छानले सदा | घृतेन कापिले नैव पाशानां शोधनाय वै || अथवा पूर्वसुक्तस्तु मन्त्रस्यां ये * * * *? | तेन होमस्तु कर्तव्यो दशसप्तैस्तु तत्वतः || प्. १८अ) एवन्ते वह्नि कार्यन्तु कथितं पाशदाहकम् | ततोनन्तरमे वाथ मण्डलानु क्रमं वदेत् || सर्वकर्मकरं शुद्धं सर्वसिद्धिप्रदायकम् | सर्वलक्षणसंयुक्तं कथयामीहते गुह || इति कालज्ञाने त्रयोदशशतिकेऽष्टपुष्पिकाग्निकार्यः पटलः || भूमि संशोधयित्वा तु खनयित्वा प्रमाणतः | भस्मेष्टाङ्गारमस्थीनि सर्करा च कपालिकाः || काष्टकेशादि मुद्गारं कर्मासु विशोधितम् | स शल्यायां न कर्तव्यं यागं प्रासादगोपुरम् || बहुदोष करस्तेन तस्माच्छल्यं विवर्जयेत् | हस्ति शल्ये भवेन्मृत्युर्यदि श्वान? कृतो भवेत् || पौरुषे कुलमुत्सादं काकेनोच्चाटनं भवेत् | मार्जार न कुलादीनां गृध्रगोमायुमूषिकान् || एतेषां यदि भवेच्छल्प तन्तु व्याधिकरं भवेत् | भस्मे विद्वयेमित्युक्तं केशेष्वल्पायुः प्रजाः || अङ्गारे अग्निदापस्तु शर्करागों? विनाशिनी | काष्ठेन भवते धान्यं गर्भस्रावं कपालिके || शल्ये तु भवते वत्स तस्माच्छल्पं विवर्जयेत् | अशल्याया भवेद् भूमिर्निम्नाकोटरवर्जिता || सुस्निग्धा च सुपुष्टा च सा भूमिः सर्वकामदा | तृणोदक फलैराष्टापुष्पवत्या पवित्रिणी || सुशीतला चरम्या च सा ज्ञेया शोभना मही | पूर्व प्लवान्तरत ईशान्या चैव शोभना || अन्यप्लवान गृह्णीयाद्वहुदोषकरा स्मृता | उन्नता करिकराकारा कूर्माकारा च वह्निज || शोभनाता विजानीया * * ति पुष्टि विवर्द्धनी | उष्ट्राकृतिः स्वामिहतात्पूर्याधान्यविनाशनी || प्. १८ब्) यवमध्याशस्य हानी अनपत्यापि पीलिका | त्रिकोणादोषवहुत्वा वर्जनीया विचक्षणैः || श्वेतारक्ता च पीता च कृष्णाज्ञेया चतुर्विधा | वर्णानुक्रमयोगेन ग्राह्या धात्री तु सर्वदा || मधुरा च कमाया? च अल्पा च कदुका तथा | एते चैव रसा * *? व्रर्जनीया प्रयत्नतः || अन्ये वर्ज्या प्रयत्नेन रसा वै दोषदायकाः | विशुद्धा सा विजानीयादशल्पादोषवर्जिताः || अथवा क्षिप्रकाले तु राष्ट्रभङ्गेन च?तुरे | कर्तव्या न परीक्षा तु अशक्त्या तु षडानन || कर्तव्या तु सदाकालं दीक्षा वैल्केकतारणी | कटितिशोधनं तस्याः कर्तुं वै नैव शक्यते || तस्माद्विशोधनं तस्याः कर्तव्यं तत्वजं गुह | अस्त्रेण शोधयेत्पूर्वं पश्चाद्भूतैस्तु शोधनम् || ब्रह्मभिश्च तथा शोध्या एवं शुद्धिः सदा भवेत् | सुकुडिमां ततः कृत्वा पालाशैर्मुद्गरैः शुभैः || उपलेपनं ततः कुर्यात्पञ्चगव्येन धीमतः | तस्योपरिष्टात्तु कर्तव्यं गोमयेनोपलेपनम् || गोमयानन्तरं वत्स चन्दनेनोपलेपनम् | अन्यैस्तु विविधैर्गन्धै * * जेद्रज योगजैः || लेपनं विधिवत्कुर्यात्पुष्पप्रकरसंयुतम् | घर्ययेद्विल्वं पत्रैश्च ततो मन्त्रैश्च शोधनम् || दपकार सदृशां कारयेत्स्फटिकोपमाम् | तस्य मध्ये लिखेद्व्योमं आचार्य शुद्धकल्मषः || तन्त्रज्ञश्च सदादास्त ऋजुमौनै समाहितः | सुत्रं वै कर्तयेत्पूर्व त्रिगुणं च कुमारिजम् || प्. १९अ) कार्पासं वार्क्ष्यजं क्षौमं अन्यं वायच्छुभं भवेत् | दर्भादिस्तु समारभ्य गृह्णीयात्पुष्टिवये || सर्वकामप्रदं ज्ञेयं कार्पासं वार्क्ष्यजं गुह | अहमात्रं भवेत्सूत्रं पञ्चव्यामांगमायतम् || यद्व्यामं तु द्विहस्तस्य मण्डपस्य प्रकीर्तितम् | चतुहस्ते भवेद् व्याम्यः सप्तं वै तन्त्र चोदिताः || त्रिहस्तं पञ्च नवकं कर्तव्यं न कदाचन | बहुदोषकरास्ते तु मारणोच्चाटनेहिताः || तस्माद्विषयमानन्तु मण्डलानां कारयेत् | षट्काष्टौ दशहस्तां वा द्वादशाष्टद्विकस्तथा || अत ऊर्द्धं न कर्तव्यं अल्पारम्भ तु वर्जितम् | क्रिया विस्तारसंयुक्तं बहुविघ्नकरं भवेत् || एतेषां चैव कर्तव्यं सूत्रं न्यायायलक्षणम् | दशद्वादश विंशश्च पञ्चविंशश्च उन्नतम् || न कर्तव्यमतः सुत्रं तच्च दोषकरं भवेत् | त्रिगुणं? पूर्वं कर्तव्यं वृत्तं चोर्द्धमुखं शुभम् || पुनस्तु त्रिगुणी कृत्य ऊर्द्धजेन क्रमेण तु | तन्तु वस्तु नवः प्रोक्ता पुनस्त्रिगुणमारभेत् || सप्तविंशतिमित्युक्ता तं तवः शास्त्र चोदिताः | सोपि चोर्द्धवृत्तः कार्यस्त्रिगुणैर्तवतन्तुजः || त्रिवृत्तमेतदाख्यातं देवताः प्रवदाम्यहम् | धरित्री वारितेजश्च मरुद्व्योमश्च पञ्चमः || गन्धश्च रसरूपश्च स्पर्शशब्दश्च ते नघ | कर्णत्वक्चक्षु यो चैव जिह्वानासा च पञ्चमी || वाचा हस्तौ च पादौ च गुदोपस्थं च शाङ्करि | एते वै कर्मकृज्ज्ञेयाः प्रथमा बुद्धिवेदना || विंशतिश्च समाख्याता मनश्चाहन्विमस्तथा | अव्यक्त पुरुषो वत्स ईश्वरश्च सदाशिवः || प्. १९ब्) एता वै देवताः ख्याताः सूत्रे मण्डलकारकैः | योजानाति तां देवा सूत्रस्यां सूत्रचोदिताम् || नासौ कुर्याद्विधानन्तु सार्वजं पाशकृन्तनम् | काष्ठेन लोष्ठेन नाङ्गारेणनखेनवा || नालिखेत्करणिं प्राज्ञः कुद्रव्यान्येन केनचित् | शुद्धा बिन्दुसमुद्भूता निष्कला या प्रकीर्तिता || तया तु आलिखेत्प्राज्ञो मण्डलाधानसंवराम् | तया विस्मन किञ्चित्स्यात्प्रवर्तति सुरेश्वर || बोधत कर्म जातिश्च मातृका प्रसवं तथा | खटिकायाः प्रजायेते तेन सा शिवजा स्मृता || आचार्यस्तु भवेन्नाद * * * * * * * *? | लोकस्यानुग्रहं भद्र करोति विधि संस्थितः || अन्यथा बोधनं तांत न बोधाय प्रवर्तते | न या विनाग्नि जन्मेश तस्मात् सा परमा स्मृता || महेन्द्रे मलये सह्ये शुक्तिमानृक्षपर्वते | पारियात्रे च विन्ध्ये च हिमवत्ते महागिरौ || श्रीशैले अर्बुदे चैव खटिका शोभनास्मृता | अन्ये ये गिरयः पुण्याः प्रदेशा शुभलक्षणाः || तस्मात्सानु गृहीतव्या खटिका सार्वकामदा | सुविशुद्धासिद्धासिता स्निग्धानिर्मला दोष वर्जिताः || गृहीतव्या प्रयत्नेन शुभे नक्षत्रवासरे | अथवा पुष्पयोगेन सोपवासे न धीमता || सुरक्षीकृत कायेन बलि धूपार्च्चनादिभिः | कर्तव्या विधिवत्पूजा विघ्नमातृगणादिषु || शिवस्य च महापूजामादौ कृत्वा षडानन | प्रोक्षयेतां पवित्रैस्तु यत्र गृह्णि द्विजोत्तमः || प्. २०अ) सह्येन स्पर्शनं कुर्याद्गुह्येनाभ्युक्षण गुह | अघोरेणसमुद्धृत्य पुरुषेणाभिमन्त्रयेत् || ईशाने मुष्टिबन्धन्तु शिवास्त्रेण तु रक्षयेत् | खातं ते नैव कर्तव्यं आदौ तस्याः प्रयत्नतः || दिशा बन्धन्तु ते नैव दशधा परिकल्पयेत् | कवचेनाव गुण्ठीत हृदयेन निवेशयेत् || समुद्रके महाप्राज्ञः शिखायामस्त्र स्मरेत् तदा | शिवं तस्मिन्निवेशेत बिन्दु देवेनसंयुतम् || एवं संस्थापनीयातु गृहीतव्या क्रमेण तु | उद्घाटयित्वा चास्त्रेण बिन्दुदेवं स्मरेत्तदा || हृदयेन समायुक्तं विधिमेतत्समाचरेत् | एवं गृहीता सा देवी सिद्धिदा भवते गुह || मोक्षकामस्य मोक्षंस्याच्छ्रीकामस्य च श्रीसदा | भ्रामयेच्चैव सव्येन वृत्ताकारेण मन्त्रवित् || एवमष्टाङ्गुलाख्याता कर्णिका शिवधारिणी | केसरादलमानन्तु तथा चोपदलानि तु || भ्रामयेत्त क्रमेणैव त्रयस्ते पार्वती सुत | अष्टद्वादश योगेन षोडशेन विपश्चितः || वृत्ताकारः स्वरूपेण भ्रामयेत्तांतुजांगुह | चतुरश्चतुरश्चैव तथा द्विचतुरः पुनः || एकमानं स्मृतं ह्येत दिशासु विदिशासु च | कर्णिका केसर दलां तथा चोपदलेषु च || पद्मं द्वात्रिंशति प्रोक्तंमङ्गुलानि प्रमाणतः | पीतां तु कर्णिकां कुर्याच्छ्वेतारक्तास्तु केसराः || दला वैश्वे तरूमस्य पुराणिधन भोगाभि वर्द्धनम् | अथवा सर्वकामानि प्रयच्छेद्विधिनाहृता || तया तु कारयेत्सर्वं मण्डलं सर्वकामदम् | सुरेखं शङ्कु मध्यस्थं बिन्दुं वा पतये तदा || प्. २०ब्) शङ्कुविद्धे भवेद् दोषे मु?स्माच्छङ्कुं न पातयेत् | यत्र बिन्दुकृतं कर्म तं विद्यात्सर्वकामदम् || * * * * * *? पायुरक्ताश्चोपबलाः स्मृताः | प्रतिवारस्य रेखा तु कर्तव्यास्तु शिवाबुधैः || गर्भमेतत्समाख्यातं द्विहस्तस्य प्रमाणतः | चतुर्भागप्रमाणेन द्वारादिशि प्रकल्पयेत् || पूर्वदक्षिणपश्चात्तु उत्तरेशा च वह्नितः | रक्षेसादनिलादि क्षुरष्टौ होतादिशः स्मृताः || * * * * *? पातं तु कुर्याद्वीरो विचक्षणः | दिशा न चलते यत्र विदिशा चैव षण्मुख || तत्सूत्रं कथितं तन्त्रे सर्वकामफलप्रदम् | ग?र्भतुल्या भवेद् वीथी अर्द्धेनावरणानि च || बाह्यतो मण्डपस्यैव अस्त्रोणि विनिवेशयेत् | चतुर्विधाः समाख्याता रेखाः शैव? समाश्रिताः? || तेषु मध्ये भवेद् वारं पादभागोपकल्पितम् | शोभास्तत्तुल्य भागस्तु द्वारस्य तु गुहेश्वर || शोभार्द्धेन भवेत्तत्रं कपोलौ? क्रौञ्च मर्दनः | उपशोभा तु तत्तुल्याकपोलेन न संशयः || पट्टयेत्तां समग्रेण द्वारां रेखासु सूत्रितात् | उत्तरे दक्षिणे चैव पूर्वपश्चाग्रते ग्रह || प्. २१अ) शेषमन्यद्वयं चैव दिशिवरुणेंद्रसंस्थिते | शेषामायामतः कार्यापूर्वद्वारक्रमेण तु || पूर्वेण पश्चिमं हो * * * * दक्षिणेन तु | उद्घाटयेद्दिशावस्थं द्वारं पश्चिमसंस्थितम् || एतत्ते सर्वमाख्यातं संक्षेपेण तु लक्षणम् | लोकपालास्त्र भेदं च कथितं पूर्वतो मया || मन्त्रयुक्तास्तु ते वत्स दातव्या विघ्नरक्षकाः | एवं वै सूत्रयित्वा तु पातयेत रजः सदा || चतुर्विधं सुसूक्ष्मं तु पातितव्यं रजो बुधैः | वायव्याग्नेय माहेन्द्रं वारुणं चादि दैवतम् || श्वेतं तु वारुणं विन्द्यादुक्तं वर्णन्तु वह्निजम् | कृष्णवर्णो भवेद् वायुः पीतवर्णस्तु देवराट || श्वेतो ब्रह्मा विजानीयाद्रक्तवर्णो जनार्दनः | कृष्णवर्णो भवेद् रुद्रः पीतवर्णसहसृ दृक् || रजानान्तु महासेन अधिदेवाः प्रकीर्तिताः | वश्यार्थे मुष्टियोगेन पातयेत रजैर्गुरुः || अग्रांगुलीषु पातव्यं पुष्टिशान्ति विवर्धने | अपसव्य प्रयोगेण सर्वकामार्थसाधने || पातयेत्सुस्थिरांगुल्यैर्यथा दोषो न जायते | रेखाञ्चैव विशुद्धान्तु पातयेत् सर्वदा गुह || न स्थूला न कृषान निम्नविकटान्योन्यपीडिता | विच्छिन्ना पुरुषा न बिन्दु वितताव्याकुब्ज वक्त्रोन्नता || कर्तव्या विहितैरजोभिस्मलैरङ्गुष्ठमात्राशुभा | एतानित्यमनाकुलेन गुरुणा पैनाकिने मण्डले || विच्छिन्नामस्त्रांकृशापतिभयं व्याधिश्च निम्नोन्नता | संश्लिष्टा कलहा शुभं च पुरुषा वक्त्रासुहृन्नाशनी || प्. २१ब्) स्थूलोपद्रवमर्थहानिमतुलं चालङ्कृता बिन्दुकैः | रेखास्मिन्विषम्य करोत्य रूचितं कामद्विषो मण्डले || विन्यासं संप्रवक्ष्यामि भितिरावरणै स्थितम् | मन्त्राक्षरप्रभेदेन लक्षणेन यथार्थतः || धरित्रीं विन्यसेत्पूर्वमापो ज्योतिमरुस्तथा | आकाशञ्च क्रमेणैव न्यसनीयं प्रयत्नतः || तेषामुपरिविन्यासं भूतानां चैव मत्सुत | प्रसादं ब्रह्मभिर्युक्तं साङ्गोपाङ्गञ्च ईश्वर || सद्यो वामो ह्यघोरश्च पुरुषेशानमेव हि | शिवस्य संविन्यसेद्देहे मूर्तयस्ते उदाहृताः || शान्तस्य पार्वती पुत्र पञ्चब्रह्मा समासतः | न्यसनीयास्तु विद्धांसैर्येन गृह्णाति पूजनम् || अन्यथा नैव गृह्णाति निष्कलः परमेश्वरः | सद्योजातं न्यसेत्पादौ सर्वमात्रेषु सुव्रतः || गुह्ये वै गुह्यके देशे बहुरूपं हृदि स्थितम् | वक्त्रदेशे न्यसेद्वक्त्रं ईशानं शिवमूर्धनि || अष्टविंशकस्वा युक्तं शिवं विग्रहरूपिणम् | यजेत सततं देवं मोक्षकामफलप्रदम् || सद्यंस्त्वष्टकमलैर्युक्तं भितिर्दशमि गुह्यकम् | हृदयं चाष्टभिर्वक्त्र संस्थितम् || ईशानस्य कत्वाः पञ्चबिजाः पञ्च उदाहृताः | हृच्छिरशिखा वर्मास्त्र अङ्गोपाङ्गेषु विन्यसेत् || हृदये हृदयं न्यस्य शिरः शिरसि योजयेत् | शिखास्थाने शिखा चैव नैर्-ऋतेषु संस्थितम् || धर्म वै सर्वगात्रेषु अस्त्रं हस्तदिशि स्थितम् | एवं विन्यस्य सकलं प्रसादं पुष्पसंयुतम् || प्. २२अ) तस्मिन्निवेशयेद्भद्रं कर्णिकायां सदाशिवम् | हंसवर्णेन कायेन ऊकारचरणानि तु || बिन्दुनादशिरोग्रीवान्संयोगात्पुरुषः स्मृतः | एवं स्थाप्य विधानेन देवं सकलनिष्कलम् || ततः पूजाविधानं तु कर्तव्यं सिद्धिमिच्छता | सद्यं पश्चिमभागे तु वामं चोत्तरतः स्थितम् || दक्षिणे बहुरूपन्तु पुरुषं पूर्वतो न्यसेत् | ईशानं मूद्ध्निभागे तु पञ्चधा परिकल्पयेत् || अङ्गानां संप्रवक्ष्यामि हृदयादि यथाक्रमम् | वह्निजे हृदयं न्यस्य दलेशाने शिरो न्यसेत् || नै-ऋत्यां तु विक्ष्या? देवी वायव्यां तु पुरुष्टुतम् | नेत्र स्थाने न्यसेन्नेत्रमस्त्रपूर्वदलादिके || दक्षिणे पश्चिमे चैव उत्तरे च निवेशयेत् | द्वितीयावरणागोप्ता लोकानां चैव विन्यसेत् || शक्राग्नि पद्म नै-ऋत्यां वारिवायवेन्दु शङ्करे | पूर्वादारभ्य योगिन्द्र विन्यसेद्यावद्रौद्रजाम् || तृतीया वरणास्त्रीणि योज्यास्तु दशदिक्षु च | वज्रं शक्तिस्तथा दण्डं अंसि पाशाङ्कुशं गदा || शूलं चैवाष्टमं प्रोक्तं पद्मश्चक्रं च ते दश | तेपि ते नैव योगेन पूर्वोक्तेन तु योजयेत् || चक्रपद्मौ न्यसेद्वत्स अधरोत्तरतो दिशि | चक्रन्तु चाधरे भागे नैर्-ऋते तु नियोजयेत् || पद्मश्चैवेश भागे तु एष दृष्टो विधिः पुरा | अनुक्तेष्वथ सर्वेषु हृदयं संप्रयोजयेत् || कृतात्कृतं भवेत्सर्वं पुरितन्तु न संशयः | बीजमुद्रानियोगेन कर्तव्यं तंत्र चोदितम् || देशिको नरकं याति विधिमेतदजानतः | इति कालज्ञाने त्रयोदशशतिके मण्डलविधानपटलः || प्. २२ब्) अथ दीक्षां प्रवक्ष्यामि या पूर्वं चोदितामया | मयाविदितमात्रा या मोक्षसिद्धिः प्रजायते || पञ्चतत्वै स्थितं स्कन्द शरीरं सर्वजन्तुषु | शोधितव्यं प्रयत्नेन दीक्षाकाले उपस्थिते || पृथिव्या पखरव्या? तेजोवायुराकाशमेव च | पञ्चौतानि तत्वानियैर्व्याप्तं सकलं जगत् || सर्वतत्वानि तत्रैव द्रष्टव्यानि समासत | पृथिव्या * * वांतश्च व्याप्य एते तु संस्थिताः || निवृत्तिस्तु वराज्ञेया प्रतिष्ठा वारि उच्यते | तेजसी भवते विद्या शान्तिश्चानिल?संस्थिता || शान्त्यातीतं परंव्योमं सर्वगं पाशमोचकम् | तं विदित्वा महासेन स्वपचानपि दीक्षयेत् || तेषां विभागं वक्ष्यामि शृणुष्वावहितो गुह | येन विज्ञायसे दीक्षां महासंसारमोचिकाम् || * * * *? महातत्वं धारकं परिकीर्तितम् | एकांशस्तस्य इत्युक्तं गन्धत्सेश्वरेश्वरम् || सा प्रतिष्ठा भवेत्तत्र सा कलाभूत उच्यते | तस्यान्तावस्थित चान्यं तत्वमाप्यायकं स्थितम् || चतुर्गुणं समाख्यातं शुद्धमेक गुणं भवेत् | रसरूपं च जायेत निवृत्तितां विजानथ || सा कस्य तु भवेत्स्कन्द भूताख्या वा सम्भवा | त्रिगुणं वह्नि भूतं तु सोपि शुद्धस्तु रूपतः || शस्यां? त्यक्तो भवेच्छुद्धः? कला शेषप्रजायते | अनित्यापि संशुद्धि शब्दसुक्ती विशुध्यति || स्पर्शरूपं (वारिन्ते) विजानीयात्त्रैलोक्याधिपतिं हरिम् | प्. २३अ) पञ्चावस्थं स्थितं तन्तु कलामयसमन्वितम् || शोधनं तस्य कर्त्तव्यं यावद्देकोशसंस्थितम् | च तस्यैव गुणं वै शान्ति लक्षणम् || शान्त्यतीतं परं व्योमं निःशब्दं शुध्यते गुह | नादान्तं तं विजानीयाच्छिवधामसनानतम् || नादं शब्दमिति प्रोक्तं आकाशगुणलक्षणम् | दीक्षया शुध्यते ह्येवं विज्ञानेन तु तत्वतः || एषा शुद्ध्स्तु तत्वानां सकला निष्कला गुह | सकलाभूतसंस्थातु निष्कलास्तु कलाः स्मृताः || परिज्ञानमिदं वत्स कथितं भूतशुद्धये | दीक्षाप्रयोगसागान्ते प्रवदिव्यामिते नघ || निवृत्तिर्हृदये नैव प्रतिष्ठा शिरसिस्थिता | शिखायां तु ततो विद्यां शान्तिं वै कवचेन तु || शान्त्यातीतं परं देवं प्रसादेन तु होमयेत् | पूर्वमेव समाख्यातं मन्त्रोद्धारे विशेषतः || शोधनन्तु यथा तेषां तथाते कथितं मया | एकैकस्य शतं होम्यं शतं वै पञ्चकीर्तिताः || आहुतीनां घृते नैव कापिलेन वरानन | अन्ते पूर्णाहुतिं दद्यात्प्रसादेन तु षण्मुख || प्रायश्चित्तविशुद्ध्यर्थं एकैकाष्ठाहुतिं क्रमात् | शिखास्त्र योगे विप्रेन्द्र होमयेच्चानुपूर्वशः || दीक्षां एताः समाख्याता जननादि विवर्जिताः | हुते नैव तु मुच्यन्ते साधका जन्मबन्धनात् || एषा तु प्रथमा दीक्षा भूताख्या परिकीर्तिताः | मया शुद्धा भवन्त्येते कलारूपधरास्तु यैः || अङ्गानां तु विशुद्ध्यर्थं द्वितीयं कथयामिते | प्. २३ब्) हुं फट्कारसमायुक्ता भूतशुध्यानुशोद्धयेत् || एकैकस्य शतं तेषां क्रमेणैव तु होमयेत् | षड्कृताश्च समाख्याता आहुतीनां विचक्षणः || अन्ते पूर्णाहुतिं तेन प्रसादेन तु होमयेत् | एकैकस्य? शतं तेषां क्रमेणैव तु होमयेत् || तृतीयं ब्रह्मभिश्चैव कथितं शिवसंयुतम् | होमन्तु गदितं वत्स सर्वपापक्षयापहम् || तस्याप्यन्ते तु दातव्या आहुतिर्या उदाहृता | तस्य होमं प्रकर्तव्यं शतानि पञ्च वै सुत || अथवा हृदयं तेषां होमयेत्तदनु क्रमात् | षोडशैव * शून्याहुस्तेषां शुद्धिर्विनिर्दिशेत् || अथवा शक्तियोगेन शिवजेन तु तत्वतः | होमयेत् संपुटीकृत्य एकैकं वीजमन्त्रवित् || आहुत्यानुक्रमं पूर्व यदुक्तं शास्त्रकल्पितम् | एवं दीक्षा समाख्याता सर्वपाशापहाशुभा || योनिन्यासादितः कृत्वा उद्धारं चाप्य पश्चिमम् | शोधनानु क्रमं चैव कर्तव्यं तु सदा बुधैः || योनि न्यासं समाख्यातं पूर्वमेव मया तव | निष्कलं परमं तत्वं सा योनिः सर्वदेहिनाम् || देहोयं कथितः पूर्वं सप्तभिर्दशेभिस्तथा | पञ्चभूतां समुद्दिष्टाः पञ्चब्रह्मास्तुते नघ || षडङ्गं च तथा चान्यं योनिपूर्वं षडानन | न योनिना विनाभूता ब्रह्मानाङ्ग जातया? || तस्मात् सर्व प्रयत्नेन योनिन्यासं विजानथ | या सा मात्रा कला वत्स सा ह्यंते च व्यवस्थिता || पराशक्तिः समाख्याता बीजाङ्कुरविसर्पिणी | सा योनिः सर्वभूतानां माता प्रसवकारिणी || प्. २४अ) तया युक्तास्तु ते वत्स दशसप्त प्रकीर्तिताः | अन्यथा न भवेत्तेषामुत्पत्तिर्योनिवर्जिताः || सा नियुक्तास्तु कर्तव्या हृदयेन समासतः | तेन सर्वं प्रकुर्वीत विधानं शिवभाषितम् || अर्चनं प्रोक्षणं चैव संहारं ताडनं तथा | संयोगं चैव विक्षेपमर्चनं च पुनस्तथा || गर्भाधारण कर्मञ्च कतव्यञ्चानुपूर्वशः | जननं चाधिकारं च भोगञ्चैव लयं तथा || स्रुतत्वे चाहुति शतं हृदयेन तु कारयेत् | पाशछेदं तथास्त्रेण दद्यात्पूर्णाहुति क्रमात् || हुं फट्कारसमायुक्तंमुद्धारं चानु पूर्वशः | वार्थिवानु क्रमेणैव ब्रह्मचाङ्गादिषु क्रमात् || संहारं चैव कर्तव्यं तत्वानां प्रतिवर्द्धनम् | मन्त्रतत्वे वयं योगोऽनुपूर्वेणकारयेत् || मन्त्राः सप्तदश प्रोक्तास्तत्वां सप्तदशाव्ययाः | हुंफट्कारसमायुक्ता ह्येतव्यास्तु शिवाध्वरे || तत्वे तत्वे विनिर्दिष्टं कर्ममेतन्मया तवः | एवं विशोधितैर्वत्स न पुनर्गृह्णते तनुं || अन्यथा नैव मुच्यन्ते विधिहीनास्तु साधकाः | ईशानमादितः कृत्वा शिवास्त्रान्तमतः परम् || वर्णे वर्णे तु कर्तव्य अंवरादिक यान्तिकम् | पूर्णाहुति वयोदद्यादन्ते चैव चतुर्थिका || स्वरान्ते एक उद्दिष्टा कादिभांते द्वितीयका | यादिशान्ते तृतीया तु क्षान्ते चैव चतुर्थिका || एवं दीक्षाः समाख्यातास्तत्वमार्गव्यवस्थिताः | कथितामन्त्रयुक्तास्तु पूर्वमेव मया नघ || पञ्चधा तु समाख्याता दीक्षा ते पाशमोचनी | भूतैस्तु प्रथमा दीक्षा ब्रह्मभिश्च द्वितीयका || प्. २४ब्) तृतीया चाङ्ग दीक्षा तु चतुर्थी तात्विकी भवेत् | पञ्चाशान्ते समुद्दिष्टा साज्ञेया तात्विकी गुह || कलैस्तु पञ्चमी प्रोक्ता प्रसादेन तु संयुता | पञ्चमि सा विनिर्दिष्टा निर्वाणफलदायिका || न कलैस्तु विना भद्र प्रसादेशः प्रवर्तते | प्रतिष्ठा कुब्जिका ज्ञेया सा क्रिया तु द्विकुब्जिका || तान्तु मध्यगतां कृत्वा तस्याधस्ताज्जलेरागा | निवृत्तिर्वारुणी ज्ञेया शिखाया तु रुदाहृता || विद्याग्नेयी भवेद् वत्स द्विकुब्जस्योपरिस्थिता | शान्ति बिन्दुः समाख्याता अनिला तत्व वाहिनी || तस्यातीतं परं व्योमं नादं वैयदुदाहृतम् | एषा वै कथितं स्कन्द प्रसादस्तु कला युता || पञ्चमी सा विनिर्दिष्टा दीक्षा निर्वाणगामिनी | पूर्णाहुत्यन्त काले तु अमृतं चिन्तयेत्ततः || श्रवन्तं मूर्द्ध्नि भागे तु हृदिमाप्याय बिन्दुकम् | दीक्षा प्रकरणे ह्येवंमेष दृष्टोविधिः परः || अमृतं पूर्वमाख्यातं प्रक्रियान्ते मया तव | योनिरेखा समाख्याता शक्तिस्तु लक्षणान्विता || विस्तरः कथितस्तात् क्रिया पूर्व मयोदिता | संक्षेपात् कथयिष्यामि यथा ज्ञास्यसि तद्धुवम् || विषुवेन तु योगेन लभते परमं पदम् | योगन्तु विषुवं प्राप्य कोन मुच्येत बन्धनात् || पृथिव्याद्यञ्च? नाद्यो वै शब्दादि गुणवायुभिः | मन्त्राधि देवताः ख्याताः कलायाः पूर्वचोदिताः || एते पूर्वसमाख्याता पार्थिवाद्या महातपाः | व्यापकाः परमा बीजास्तेषां व्याप्तिं शृणुष्वमे || प्. २५अ) हृदयान्ते समुद्दिष्टास्तत्वान्ते च प्रकीर्तिताः | ब्रह्मादीनां विभागेन ते चैव परिनिष्ठिताः || तेषां स्वरूपमाख्यातं समासेन तु षण्मुख | संज्ञा मात्रं पुरा वत्स कथितन्तु मया तव || विस्तरं प्रवदिष्यामि येन विंदन्ति तत्वतः | विषुवं यत्समुद्दिष्टं मोक्षदं परयाप्रदम्? || निष्कलं परमं शुद्धं तत्वमैशं निगद्यते | मूर्द्धांतं यात्यसौ देवे विषुवेन योगतः || आकाशाद्भवते बिन्दु स च वायुः प्रकीर्तितः | तन्त्रान्ते तत्समुद्दिष्टं सदाशिव पदं ध्रुवम् || बिन्दोर्विद्या समुत्पन्ना अग्नितत्वं विभाव्यते | अग्नेरापः समुत्पन्ना आपात्पृथिवी संभवः || एतैस्तु हृदयं प्रोक्तं जगतस्तु महामते | जगतस्तु मातृकान्ते या यथा लीना तु मे शृणु || या कलाः पूर्वमाख्याता निवृत्त्याद्या मया तव | प्रतिष्ठा तेज बिन्दुश्च तस्मादुपरिसंस्थिताः || तासां विभागं वक्ष्यामि कलानान्तु सुरैः सह | सद्यं चैवादितः कृत्वा शिरं यावदवस्थितम् || शान्ता ह्येते समुत्पन्नाः स्वरा वै क्रमशः पुरा | सद्यं च हृदयं वामं शिरं चैव चतुर्थकम् || बिन्दुदेवाः समुत्पन्नाश्चत्वारो बीजमुत्तमं | अघोरं च शिखा देवी पुरुषं वर्ममेव च || विद्या ह्येते विजानीयाश्चतुरस्तेजसम्भवाः | ईशानं च प्लुतं देवं नेत्रं चास्त्रञ्च धीमतः || निवृत्त्यास्तु स्थिता ह्येते चत्वारस्तत्वमुत्तमाः | नपुंसकास्तु चत्वारः क्रुधामृत्युजरास्तु ये || व्याधिरन्ते विजानीयात् प्रतिष्ठायां विजानतः | पुनरन्ये च मार्गेण कन्या जन्मवरानन || प्. २५ब्) निवर्त्तिर्वारुणी ज्ञेया उकाराख्या वरानन | प्रकृतिः सा विजानीयाच्चतुर्विंशति नायिका || वारुणी सा समुद्दिष्टा * * * *? शक्रजां विदुः | द्विकुब्जा सा भवेद् वत्स हकाराक्षरसम्भवाः || विद्याग्नेयी विजानीयादुकाराक्षरलक्षणा | एकारस्था विजानीयाद्भावस्था च तथा पुनः || भावमकारमित्युक्तं शतार्धव्यापकं प्रभुम् | शिशकं संविजानीयाच्छिवस्य परमात्मनः || शान्तिर्मरुत्समुद्भूता बिन्दुतत्वं कलात्मकम् | एता वै कथिता स्कन्द कलास्तत्वे व्यवस्थितम् || पृथिव्यापस्तथा तेजो वायुराकाशमेव च | कथिताः पञ्चभूतास्तु स्वरैस्तु सह संयुताः || पुनर्विभागं वक्ष्यामि सर्वतन्त्रेषु सम्मतम् | स्वराणाञ्च कलानाञ्च यो योयं सर्वसिद्धिदा || अकारादि विसर्गान्तं स्वरा वै? षोडशः स्मृताः? | शान्त्या तु आदितः कृत्वा चतुरश्चतुरः स्मृताः || अकारादि शिरं यावच्छान्त्या देहसमुद्भवाः | पञ्चमं दीर्घमूकारं ऋ ॠ वर्णौ तथैव च || विद्या समुद्भवा ह्येते ज्ञातव्याः सिद्धि तत्परैः | ऌकारमादितः कृत्वा ऐकारान्तमवस्थिताः || प्रतिष्ठाः सम्भवा ह्येते ज्ञेयाश्चैव निवृत्तिजाः | निवृत्तिः कथितास्त्वन्यै रूकाराख्या तु वारुणी || निवृत्तिः पार्थिवीः ज्ञेया प्रतिष्ठा वारुणी स्मृताः | द्वितीयं कथितं भेदं कलास्वरसमन्वितम् || तृतीयं संप्रवक्ष्यामि भेदं परमदुर्लभम् | स्वराणाञ्च कलानाञ्च भूतानाश्चाप्यवस्थितः || प्. २६अ) आदिरन्तौ स्वरौ वत्स प्रोक्तौ विद्या समुद्भवौ | चत्वारस्ते विजानीया अ आ बिन्दु बिन्दु विसर्गजम् || ईकारद्वयमेवोक्तौ ए ऐ तत्वे च ते नघ | एतेऽपि चतुरः प्रोक्ताः प्रतिष्ठा देहसमुद्भवाः || द्विरोष्ठ वदनौ वर्णौ चत्वारः परिकीर्तितौ | निवृत्ति सम्भवास्ते तु ज्ञातव्या सिद्धि तत्परैः || नपुंसकास्तु चत्वारः कलस्य कथयामिते | ऋकारः सान्त्यया जातः ॠकारः शीशकोद्भवः || ऌकारस्तु प्रतिष्ठाभूः ॡकारस्तु निवृत्तिजः | एवं स्वराः समुत्पन्नाः समस्तव्यस्तसंभवाः || ततोत्पन्नाविजानीयात्ततस्ते कामदा स्मृताः | स्पर्शानान्तु वक्ष्यामि योगोयं भूतसंयुतः || कवर्गं शान्त्यया जाते विद्याजातञ्च वर्गजः | ट वर्गस्तु समुद्भूतः प्रतिष्ठायां गुहेश्वर || तवर्गो वारिजो ज्ञेयो निवृत्तिः प्रभवो नघ | पृथिर्वी केचिदिच्छन्ति निवृत्तिं पार्वती सुतं || प्रतिष्ठा तु जलं विद्धिरस्मिन्तन्त्रेन संशयः | अन्य तन्त्रे समुद्दिष्ठा प्रतिष्ठा शक्रजा गुह || निवृत्तिर्वारुणी ज्ञेया भेदद्वयमिदं स्मृतम् | प्रतिष्ठा शिवपत्नी तु शान्तिं माहेश्वरी स्मृता || विद्या तु वैष्णवी प्रोक्ता निवृत्तिर्ब्रह्मवादिनी | जगद्बीजं भवेद् ब्रह्मा विष्णुर्योनिर्न संशयः || बीजी माहेश्वरश्चैव शिवश्चैव नपुंसकः | एतच्चतुष्कं सर्वस्वं देवैरपि सुदुर्लभम् || गोपनीयं प्रयत्नेन शिव सद्भावमुत्तमम् | प्रतिष्ठा शिव तत्वन्तु सर्वतन्त्रे उदाहृतम् || द्विकुब्जं यद्भवेद् देवं तत्तत्वं परमेश्वरम् | पृथिवी सा समुद्दिष्टा योनिरेषा परापरा || प्. २६ब्) विद्या तत्वं समाख्यातं शिवतत्वस्य मस्तके | आत्मतत्वं निवृत्तिस्तु कथिताभवभीरु समः? || नाददेहात्समुत्पन्नं पञ्चमं वर्गशेखरम् | य वर्गमेतदित्युक्तं यस्यान्ते तत्वमीश्वरम् || मकारं नामयेत्प्रोक्तं बिन्दुतत्वं स* * *म्? | मोक्षदं दुःखनाशञ्च करोति परमेश्वरः || एवं स्पर्शाः समाख्याताः कला देहसमुद्भवाः | अन्तस्थाः कथिता वत्स कला देहेषु संस्थिताः || वायव्यां कथिता शान्त्या विद्याग्नेयी प्रकीर्तिता | प्रतिष्ठानाममाहेन्द्री निवृर्त्तिर्वारुणी स्मृता || पूरकादि प्रयोगेण तत्व त्रयमवस्थितम् | सकारः पूरकः प्रोक्तः प्रकारः कुम्भकः स्मृतः || रेचकस्तु सभाकारो वै प्राणायां मस्त्रयः स्मृताः | ऋकारं कथितं सर्व वाङ्मयं स चराचरम् || भूतानां व्याप्ति रेष्ठते? कथिता सर्वतो मया | अज्ञात्वैतानि तत्वानि हकारस्थानि सुव्रत || नासौ मोचयते पाशान्ना चार्यश्च महीतले | विषुवन्तु समाख्यातं धारणाभिः समन्वितम् || प्राणायाम त्रयेणैव विषुवं भवते गुह | एभिर्युक्तो महेशानः सुप्तभिर्धातुभिः सदा || देहोद्देहद्भ्रमेद्वत्स? व्यापकः परमेश्वरः | धातवः सप्तमुद्दिश्य मरुच्छान्त्यादि? कीर्तिताः || एतद्देहं शिवं संशय? भ्रमते सर्वजन्तुषु | क्रमात्क्रमण योगेण वामदक्षिणतः स्थितः || प्राणायाम समायुक्ता क्रमे *? निष्कल? शिवः | पूरयेद्देहमध्यस्थः पुनस्तिष्ठेत निश्चलः || क्षणयेकं शिवोदेहे रमते वंशगोचरे | प्. २७अ) दक्षिणे चोत्तरे चैव रेचकः परिकीर्तितः || दक्षिणे चोत्तरं विन्द्याद्वामे दक्षिणमाविशेत् | अयनौतौ समाख्यातौ सङ्क्रमे ते परस्परम् || विषुवन्ते समं वत्स सङ्क्रमः परिकीर्तितः | तेन योगेन तत्कुर्याद्येन मोचयते पशुम् || नाडी विवरसम्बन्ध ऊर्ध्वनाला ह्यधोमुखाः | ग्रन्थिद्वययुताः सर्वे हुं फट्कारान्तजापिताः || पार्थिवाद्याः समाख्याता ग्रन्थि योगे पुरामया | द्विमुखास्ते विजानीयादधोर्ध्व प्रवहाः सदा || पादौ सद्यं स्थितं देवं गुह्ये वामं प्रतिष्ठितम् | अघोरं हृदयावस्थं वक्त्रे वक्त्रं प्रतिष्ठितम् || ईशानं मूर्द्ध्निभागस्थं पञ्चस्थाना प्रकीर्तिताः | अधोमार्गवहा ह्येते ग्रन्थव्यः पञ्चसंस्थिताः || अज्ञानीनां महासेन ज्ञानिनामूर्द्धगामिनः | ज्ञानमेषां प्रवक्ष्यामि येनोर्द्धं प्रवहन्ति ते || ये ब्रह्मास्ते भवेद् भूता ये भूतास्ते पुनर्विदुः | ब्रह्मा वै नात्र संदेहां तेषां भेदं ब्रवीमिते || सद्यस्तु पृथिवी ज्ञेया वामोह्यापः प्रकीर्तितः | अघोरः शिखिमित्युक्तं वायुस्तत्पुरुषः स्मृतः || ईशानन्तु भवेद् व्योमं एवं भूताः प्रतिष्ठिताः | ब्रह्मस्था मोक्षदा ज्ञेया भूतस्था बन्धका विदुः || कलामय समुद्भूतास्ते भूताः परिकीर्तिताः | भवन्ते भवमित्युक्ता भूता भूते व्यवस्थिताः || चतुर्दशान्ते संसारे तेन भूतास्तु ते स्मृताः | देवमष्टविधं प्रोक्तं तिर्यग्जातिषु पञ्चधा || मानुष्यमेक जन्मन्तु क्रमते भूतगोचरे | सा *? तु पृथिवी प्रोक्ता वकारो वरुणः स्मृतः || प्. २७ब्) रकारस्तु भवेद् वह्निरनिलश्चापि मारुतः | आकाशस्तु भवेत् स्कन्द विनादः परमेश्वर || एते भूतात्वकाबीजां ब्रह्मस्थां शृणु तत्वतः | बिन्दुनादान्तगं तत्वं सद्योजातः प्रकीर्तितः || तस्य तृतीयं वामं तु पञ्चमं बहुरूपकम् | अघोराद्य? तृतीयन्तु देवं तत्पुरुषात्मकम् || ईशानं ओमिति ज्ञेयं एवं ब्रह्मा प्रतिष्ठिताः | कला विज्ञा योगेन तेषां भेदं ब्रवीमिते || अकाराद्यं शका मध्ये सद्यां संप्रकीर्तितम् | अधिदेवं भवेच्छक्रः पृथिवी सा निगद्यते || इकारन्तु भवेद् वामं द्विकुब्जं प्रथमस्य तु | सोप्यंरमे वामदेवस्य वारुणं तत्प्रकीर्तितम् || अधिदेवो भवेत्सोथ तृतीयं प्रवदाम्यहम् | अघोरं तेजमित्युक्तं द्विकुब्जस्योर्द्धसंस्थितम् || वह्निस्तु देवता तस्य पुरुषः शिरसि स्थितः | अधिदेवं विजानीयादनिलं सर्वगं प्रभुम् || ईशानं व्योममित्युक्तं विषन्तस्याधिदेवताम् | बिन्दुरूपं तु स रूपस्य बिन्दुकं प्रणवं स्मृतम् || एताः कलाः समाख्याता ब्रह्मवृत्तिसमन्विताः | पञ्चतत्व समायुक्तं कथयामीहते सुत || ब्रह्मानि वृत्तिरियुक्तश्च तु विंशति नायकः | पञ्चकस्तु चतुर्विंश नायकः षट्क उच्यते || एतद्योगं समाख्यातं दुर्लभं स्यात्म?वेदिनाम् | प्रतिष्ठा भवते विष्णुर्यत्र तत्वं प्रतिष्ठितम् || अनाख्ये मम वर्णश्च रूपगोचरवर्जितम् | यद्वर्ण रहितं शान्तं यस्मिन्नेव प्रतिष्ठितम् || पूर्वमुक्तं मयावत्स शक्तिरन्ते शिवं स्थितम् | प्. २८अ) शक्तिस्तु वैष्णवी प्रोक्ता प्रतिष्ठा गदिता तु या || तत्रस्थः परमेशाने यं विदित्वा मृती भवेत् | तस्योपरिष्ठाद्भेदोयं प्रवदिष्यामि सुव्रत || अष्टभेदैः स्थितं स्कन्द कथयिष्यामि निष्कलम् | शिवतत्वं भवेद् विद्यान्मस्तकं यदुदाहृतम् || सर्ववर्णगतं तन्तु ज्ञातव्यं मोक्षकाङ्क्षिभिः | अन्यथा न भवेत्स्कन्द संसारस्य प्रवर्तनम् || न वर्णा न च मन्त्राश्च नादाश्च न च देवताः | न भूता सूस?सङ्घाश्च न भावा विषयास्तथा || नाहङ्कारे मनश्चैव नन्वधीः संप्रवर्तते | नाव्यक्तः पुरुषश्चैव नियतिर्नैव विद्यते || न कालो न च माया च न विद्या च व्रतेश्वर | शिवतत्वस्य चैतानि प्रकुर्वन्तिमनेकधा || शान्तस्योपरिपरिर्द्री?शन्तु मोक्षकः परमेश्वरः | तेन क्षुधास्तु वै कर्णा व्यक्तिं यान्ति यथेच्छया || तस्योपरि पदं देवं नादरूपं सदाशिवम् | स मोक्षः स च मूक्तिश्च तत्क्षयं ध्रुवमेव च || तत्परं कारणं शान्तमजरं नित्यमव्ययम् | सदाशिवमिति प्रोक्तं नित्यस्थमचलं ध्रुवम् || तत्परन्तु परं प्रोक्तं परं यस्य न विद्यते | नादान्तरञ्जिनी यावत्पदमष्टादशान्तगम् || एतत्ते कथितं स्कन्द विज्ञानं ग्रन्थिभेदकम् | पुनरन्यं प्रवक्ष्यामि दीक्षायोगव्यवस्थितम् || धरित्री मनसा युक्ता कर्तव्या मन्त्रसंयुता | येन ग्रन्थिमधोवाहं मित्वा याति परं शिवं || शाक्रंबीजमधो न्यस्य शान्तस्य च महातप | प्. २८ब्) दीर्घाकारसमायुक्तं बिन्दुयुक्तं तु कारयेत् || सप्लुतमादितो न्यस्य अन्ते चास्त्रं शिखान्वितम् | सुदीर्घं क्रीयते मन्त्रं यावत्पूर्णं समन्ततः || दिर्घाकारेण विप्रेन्द्र पूरकेन प्रयोगतः | कुम्भकश्च समां तिष्ठेत्प्राणं मोक्षप्रदायकम् || यावद्देहं सुसंपूर्णं तावद्वै पूरयेद्बुधः | तस्यान्तेन तु देवेन शिखास्त्रेण परेण तु || छेदनं तस्य कर्तव्यं अंते रेचकसंयुतम् | पार्थिवस्य तु तत्वस्य उद्घातैः पञ्चभिर्बुधः || शोधनं कथितं भद्र स बाह्याभ्यन्तरं गुह | तत्वे तत्वे तु द्रष्टव्या वियुक्तानिरङ्कुताः || एवं सर्वगता पृथ्वी वेदितव्यामुमुक्षुभिः | *? चेता चेतसिसंयोज्य द्विरभ्यासपदेरितम् || अवधानं स्मृतं चित्तं चेता बोधः प्रकीर्तितः | तेन चायामनं कुर्याद्येन चोर्द्धमुखं भवेत् || एवं जलेक्ष तत्वस्य प्रयोगमिदमारभेत् | शिवाङ्गयुक्ता कर्तव्या शेषास्तु चतुरोपराः || यथा पूर्वप्रयोगेन पृथिव्यादि क्रमेण तु | चतुर्भिश्चैव उद्घातैर्वारितत्वं विशोधयेत् || त्रिभिस्तेजो विजानीयाद्द्वाभ्यां तु मरुतः स्मृताः | एकेन शोधयेद्व्योमं प्रसादेन न संप्रयः || विशुद्धेन तु कर्तव्यं भूतार्गल?विशोधनम् | तेन पञ्चसुविप्रेन्द्र शिखास्त्रे ताडनं शुभम् || येन दग्धकरो हन्ति भूता वै सारितामजः | एतद्गुह्यं सष्मंसमतं? भूतार्गलविभेदकम् || येन भूयो न भूयस्तु भवते भूतसम्भवः | भित्वार्गलां न्यसेद्योनिं तत्वे तत्वे तु संधयेत् || प्. २९अ) शक्त्या तु संपुष्टि? कृत्य वौषडन्तेन निक्षिपेत् | शक्तिस्तु भवते तत्वं न तत्वं शक्तिवर्जितम् || शक्तिरन्ते स्थितं तत्वं दुर्विज्ञेयं सुरैरपि | तया तु संपुटं कृत्वा चतुरः पूर्ववत्क्रमात् || तेषामेको विधिः प्रोक्तः सन्धानेन व्यवस्थितः | सन्धानं संप्रवक्ष्यामि येन यास्यति तत्पदम् || उकारः प्रलयं याति कुटिलायां षडानन | ऊकारः कुटिला चैव तामसे संव्यवस्थितौ || तामसस्त्वहमे बाहुर्विद्या देह समाश्रितः | विद्यादेहसमाख्याता लयं यान्ति स शान्तया || शान्तापि प्रलयं यान्ति भक्षयित्वा चराचरम् | बिन्दु तत्वं विजानीयान्नाद तत्वं सुदुर्लभम् || नादात्परतरं देवं शिवं परमकारणम् | तत्र गत्वा महासेन सन्धानेन तु योगिनः || नपुर्गृह्णते जन्तुर्भूताख्यं यत्प्रकीर्तितम् | एतत्संधानमित्युक्तं सर्वपाश निकृन्तनम् || अनाख्येयमिदं योगं दुष्टशीलायमानवे | शुद्धिशुद्धायदान्ताय हिताय नियतात्मने || तस्याख्येयमिदं योगं नान्यस्य तु कदाचन | संधानमेतदाख्यातं द्वितीयं परमं शृणु || आदिमन्तु द्वितीयेन गृह्णेद्देहांस्तु देहिनम् | मुष्टिना तु समासेन आयामं कारयेच्छिवे || यत्तद्बीजं परं तत्वं हृदयस्थन्तु तिष्ठति | हृदयान्ते परं स्थानं वीवस्य तु षडानन || तेन चाकर्षये क्षिप्रं मुष्टियोगेन सर्वजः | तावन्न मोक्षयेन्मुष्टिं यावत्पूर्णं पुरं ततः || पुरिते तु पुरेक्षेप्या या मुष्टिः पूर्ववेष्टिता | स चास्त्रेण महाभाग द्वादशान्त स्थितेन तु || प्. २९ब्) समरात्र महायोगे निष्कले भववर्जिते | तत्रयुज्यान्ततो देही येन भूयो न जायते || एवं सायुतां यान्ति समयैः परिवर्जिताः | समयस्तु दशप्रोक्ता यमाद्यायै प्रकीर्तिताः || नियमास्तु तथा चान्ये तेषां संज्ञानिबोधये | अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता || अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् | अप्रमादश्च पञ्चैते नियमाः परिकीर्तिताः || यमास्तु पूर्वजा ज्ञेया एता वै दशकीर्तिताः | समयास्तु ईमे ख्यातादृशधर्मस्य जातयः || धृतिक्षमादयः स्तेय शौचमिन्दिय निग्रहम् | ह्रीविद्यासस्यमक्रोधो दशकं धर्मलक्षणम् || एतैस्तु वर्जिता ये तु नराः पापरायान्विताः | तेपि यान्ति महासेन सन्धानेन शिवं पदम् || यदुक्तं पूर्वसूत्रे तु साधकस्य विमोक्षणम् | प्रयान्ति परमं स्थानं समयैः परिवर्जिताः || अनिर्देश्यमविज्ञातं यत्कृतं तद्वृथा भवेत् | तमुद्दिश्य कृतं कर्म मोक्षदो भवते गुह || शिवी भूतं जगत्सर्वं विचिन्त्येत चराचरम् | सर्वकर्मसुवर्तन्तं चिन्तितव्यं मुहुर्मुहुः || अशिवात्मकं यत्कर्म कुरुते मूढचेतसः | तेन कर्मस्वरूपेण गृह्ये ते शतशोनरः || तस्मात्कर्मसु सर्वेषु चिन्तितव्यं सदाशिवम् | येन कर्म फलावाप्तिर्भवने साधकस्य तु || इति कालोत्तरे त्रयोदशतिके दीक्षापटलः समाप्तः || उत्क्रान्तिं चैव वक्ष्यामि येन चोत्क्रमते ध्रुवम् | सूर्यस्य ग्रहणं कृत्वा आयामं कारयेद्बुधः || प्. ३०अ) आयामान्ते तदा वत्स च्छेदनं कारयेत्सदा | क्षरास्त्रेण सुतीक्ष्णेन तदा चोत्क्रमते ध्रुवम् || सूर्यश्च्च सकलं तत्वं विषुवेन तु संयुतम् | सन्तानेन सुदिर्घेण योजयेत् परमेश्वरे || वक्त्रं पिधापयित्वा तु उच्चरेच्छिवमक्षरम् | पूरयित्वा समुच्येत विसर्गेणपुटद्वयम् || एवञ्चोत्क्रमते शीघ्रं तत्वी तत्वार्थ वेदिनः | द्वितीयान्ते प्रवक्ष्यामि उत्क्रान्तिं पाशदायिकाम् || यया चोत्क्रमं शीघ्रमसंयुक्तोपि साधकः | सद्य उत्क्रमणह्येतत् कथयामि सुनिश्चितम् || मनसाग्रन्थिताः पाशाः सूत्रेमणि गणा इव | हृत्पद्माद्यावत्तत्पद्मं मनस्तन्तु सुतानितम् || मणयः पूर्वमेवोक्ता भूता ये समुदाहृता | ग्रन्थयस्ते च इत्युक्तामणयश्च विशेषतः || पाशाश्च बन्धकास्ते तु वेदितव्या प्रयत्नतः | भेदनन्तेषु कर्तव्यमनेनं तु महात्मनः || तन्तुकः स तु आख्यात वेधकः परमेश्वरः | हृत्पद्माद्या वत्तत्पद्मं याति सन्तान चोदितः || धरित्री याति आपे तु आपोयाति गुणत्रयम् | गुणत्रयोऽनिले याति अनिलश्च वियद्विशेत् || वियच्च परतो याति शिव धामे सनातने | एषो वै तन्तुकः ख्यातो मणीनां वेधकः परः || हृत्पद्माद्यावत्तत्पद्मं कथितं ते शिवात्मकम् | तं दृष्ट्वाच्छेदनं कुर्यान्मनोवृत्यामनंच्छिदेत् || मनसैव मनंछित्वा नान्यस्य प्रभवं सदा | न वाचा न च भूतास्तु नेन्द्रियाविययास्तदा || एते सर्वे निवृत्तास्तु भूते चानिलसम्भवे | प्. ३०ब्) एतच्च गन्धानिजानितरसस्यं? न तेजसः || विज्ञान रहितं स्थर्य? रहितं स्पर्शनस्य तु | शब्दादि रहितं यच्च तत्पदं परिकीर्तितम् || एके विच्छेदकस्तत्र मानसः संप्रकीर्तितः | तस्य छेदं सकृत्कृत्वा तन्तुकस्य मनेन तु || तं च्छिसा? विनिवर्तेत मनसः परमेश्वर | निवृत्तेस्तु मने वत्स जीतः केवल *? जेत् || स्यान्मोक्षकरं गुह्यं य कथ्यं कथितं तव | स्वेहेमकुष्टेनतेकस? कथितं परमं पदम् || एतत्संधानयोगन्तु विविधं परिकीर्तितम् | भूतजं प्रथमं योग मुक्तासिद्धि? विध्वंरतम्? || तृतीयं मनयोगन्तु मनसैव समारभेत् | दीक्षा प्रकणि ह्येतत्कथितं पाशदाहकम् || अविज्ञायमिदं योगं यो दीक्षां कर्ममुत्सहेत्? | स पच्यते ह्यवी * न्तेसुं चिरंकालमक्षयम् ||? अनाख्ययमिदं ज्ञानं दुष्टशीलायमानवे | सुशीलाय प्रदातव्यंमन्तज्ञानोत्तमोत्तमम् ||? इति कालोत्तरे वयो?दशंशतिके दीक्षापटलः || कार्तिकेय उवाच || दीक्षितस्य तु देवेश महाशुद्धस्य? साधके | शिव तस्ये? नियुक्तस्य अभिषेकं कथं भवेत् || न ग्रहान्मे? *? सर्यास्तु विष्णुयान्विविनायका |? दीक्षितस्तु महादेव यत्वया पार्वतीश्वर || शिवस्य कीदृशो देव अभिषेको विधीयते | विमुक्त सर्वबन्धैस्तु * *? देहस्तु तिष्ठति || शेषवृत्ति नियोगेन क्षीणदेहे शिवं व्रजेत् | कथं तस्यु तु कर्तव्यं दीक्षितस्यभिषेचनम् || प्. ३१अ) ईश्वर उवाच || शृणु पुत्र महाप्राज्ञ यत्त्वया चोदितं वचः | तस्याहं कथयिष्यामि प्रश्ननिर्णयकारणम् || विद्यातत्वनिमित्तार्थे अभिषेको विधीयते | त्रिविधश्चाभिषेकोऽस्य कर्तव्यः साधकेश्वरे || अभिषेके कृते पूर्वमुक्तिं दीक्षा विधीयते | विद्यादीक्षा द्वितीया तु यत्र विद्याप्रदीयते || साधकस्य द्विजश्रेष्ठ उपसर्गे तृतीयकम् | एवं त्रिविध उक्तो वै अभिषेको मया तव || विभागन्तेषु वक्ष्यामि येन भ्रान्तिर्न विद्यते | विद्याभिषेकं प्रथमं कर्तव्यं साधकादिभिः || विद्यादीक्षां पुराकृत्वा ततो विद्याभिषेचनम् | पाशानां छेदनं यत्र क्रियते साधकस्य तु || मुक्तिदा सा भवेत् स्कन्द दीक्षानिर्वाणदायिका | विद्यया न तु दह्यन्ते दीक्षया पाशगोचरम् || विद्यान्ते च पुनर्यस्मात्तेन विद्या इहोच्यते | शिवतत्वे येन युक्ताः शिवतत्वेन धीमता || छिन्ना नैव शरास्त्रेण ते पाशास्तु भवन्ति हि | विद्या दीक्षानन्तरतो भवते पाशदाहिका || तया दग्धा न रुह्यन्ते पाशा वै सरितात्मज | शेषवृत्त्या तु भावेन त्रैलोक्यफलगामिनी || विद्या दीक्षा भवेत्तत्र शृणु तस्यापि निर्णयम् | अनेनैव तु देहेन यत्फलं भुज्यते गुह || विद्या तत्वं समुत्थन्तु नात्रकार्यविचारणात् | पातालश्चोर्द्धगमनं गुटिकासिद्धिलक्षणम् || अज्जनं हरितालञ्च पादुकै रोचनं तथा | विद्याधरपदावाप्तिं योगिन्यैश्च सहैकता || प्. ३१ब्) भूलोकस्य च राज्यं स्याद्यथेष्टं क्रमशो द्विजः | अणिमाद्याष्टकं भागं शेषवृत्तिरियं स्मृता || भक्ष्य भोज्य विचित्राश्च चतुर्धा तु रसानि षट् | एवं भुक्त्वा ततः सम्यक् साधकस्तु न संशयः || यात्यसौ परमं स्थानं न पुनर्गर्भगोचरम् | भिन्ने देहे फलं तस्य भुज्यते पाशमुक्तये || अनेनैव तु देहेन विद्याया भुज्यते गुह | तस्या यागं प्रवक्ष्यामि सुविशुद्धे महीतले || विद्या तु मण्डलं कार्यं रजोभिर्विमलैशुभैः | चतुष्कोणं तु कर्तव्यं चतुर्द्वारोप शोभितम् || तस्य मध्ये शितं पद्मं लिखेच्चाष्ट दलान्वितम् | कर्णिका केसरैर्युक्तं सुप्रभं तेजशोत्कटम् || पूर्वोक्तेन विधानेन पातयेत रजं क्रमात् | पातयित्वा रजं वत्स पूर्वन्यासार्च्चनं कुरु || आह्वानमर्घपाद्यं च पूजनं स्नपनं तथा | धूपगन्धं पवित्रञ्च नैवेद्यं त्रदिशावलिम् || एवं सर्वविधानन्तु कर्तव्यं तु यथाविधि | अग्निकार्यं यथोक्तन्तु पूर्वमेव मया तव || ते नैव विधिना कार्यमग्निकार्यन्तु तत्ववित् | विद्या दीक्षा समाख्याता सकला भोगदायिका || विद्या दीक्षा विशुद्धस्य मुक्तिदीक्षा विधीयते | मण्डलानां विभेदोयं प्रवादिष्यामि तत्वतः || सर्वकामप्रदं देवं माहेन्द्रमण्डलोत्तमम् | वारुणं भुक्तिमुक्त्यर्थ यागं कुर्यात्तु देशिकः || नवनाभं तु कर्तव्यं यागं चास्त्राभिषेजने | मारणे तु त्रिकोणं स्यात् स्तम्भने धनुषाकृतिः || प्. ३२अ) उच्चाटे वर्तुलं ज्ञेयं विद्वेषे पञ्चकोणकम् | एते वै मण्डप्रोक्ताः स्वतन्त्रविहिता गुह || पूर्वोक्ते चतुरस्रे च मण्डलेसार्व कामिके | दिव्यसिद्धि प्रदे दिव्ये तत्र विद्याभिषेचनम् || कर्तव्यं देशिकेन्द्रैश्च शिष्यानां हितकारणात् | ईशान्यां दिशिमास्थाय सकलं लक्षणान्वितम् || पञ्चाशदलसंयुक्तं पद्मं कुर्यात्स कर्णिकम् | मतृकाक्षरबीजानि विन्यसेत्पूर्ववत्क्रमात् || यदन्ते बीजमुख्यन्तु अष्टवर्गाद्विनिर्गतम् | घटस्थं क्रयते तन्तु बिन्दुयुक्तं मयोदयम् || कर्णिकान्ते तु कलशं स्थापयेद्बीजमुद्रया | सर्वलक्षणसंयुक्तं निर्व्रणं ऋजुतः शुभम् || निर्मलं विरजं चित्रं शितं वा रक्तमेव वा | विशालं कण्ठकर्णश्च बृहत्कुक्षि महोदरम् || सुपक्वं नातिदग्धञ्च नापक्वं चैव कारयेत् | आवर्त रहितं कार्यमकृष्णञ्च सुमङ्गलम् || पूरितं हेमरत्नाघैरोषधीभिश्च शोभनैः | सवणी च मुखोद्गारं नद्योत्थाम्भः प्रपूरितम् || सुगन्धगालितं कृत्वा चन्दनेन्दु विमिश्रितम् | चर्चितं बाह्यतस्तच्च चन्दनागरुकुङ्कुमैः || दुकूलेन विचित्रेण स दशेन नवेन तु | वेष्टयेत्तस्य कण्ठन्तु अलाभेक्षौमजेन वा || शुक्रेन तेन दिव्येन कर्पासेन नवेन तु | एवं कृत्वा पुराभद्र पश्चान्न्यासो विधीयते || अङ्गैश्च ब्रह्मभिश्चैव भूतैश्चैवाभि मन्त्रयेत् | अक्षसूत्रेण विप्रेन्द्र विधिना चाहृतेन तु || कुर्यादष्ट शतं तस्य मणीनां च विशेषतः | प्. ३२ब्) तत्र विद्यां न्यसेत् स्कन्द साधकः प्रार्थयेत्तुयाम् || ब्रह्म विद्यां तु पद्माक्षैर्वैष्णवी शंखजानति | रुद्राक्षै रुद्र विद्यान्तु इन्द्राक्षैश्च महेन्द्रिका || भास्करी या भवेद् विद्या स्फटिकैस्तां न्यसेत्सदा | विद्याधरी तु या विद्या मौक्तिकैस्तु तां प्रकल्पयेत् || यक्षविद्या महासेन सुवर्णरजतादिभिः | गान्धर्वी वकुलैश्चैवं कदम्बैश्च जपेत्सदा || राक्षसी निम्बरिष्टैस्तु कर्तव्यामालिका सदा | मातरश्चन्द्र कान्तिस्तु इच्छन्ते पुष्टिवर्द्धनम् || गणाश्चैव तु नागाश्च * * * * * * * * | * * काम प्रदातास्तु पुत्रं जीवास्तु पुत्रका || स्फाटिकैः पुष्टिकामन्तु मौक्तिकैः | कुलमुत्सादनार्थन्तु निम्बारिष्टैस्तु कारयेत् || सौवर्णमालिकां चैव वश्यार्थे कारयेत्सदा | विद्वेषेकदुतिक्तानां फलानां मालिका स्मृता || पद्मक्षैर्ब्रह्मविद्या तु क्षिप्रमेव प्रसिध्यति | वैष्णवी यायवेद्विद्या साशखैः? सिध्यते ध्रुवम् || रुद्राक्षैर्मोक्षमिच्छन्ति जपतस्त्वथ धारणे | रुद्राक्षधारणा वत्स मयापस्पृदात्ते? क्वचित् || * * * * * * * * * * * *##? न मातरोपि हिंसन्ति रुद्राक्षं यस्तु धारयेत् || किं पुनर्जपते मन्त्रं रुद्राक्षै रुद्रजं गुह | कोटि कोटि गुणं पुण्यं सकृदावर्तनाल्लभेत् || न्यायतोये धरिष्यन्ति रुद्राक्षकरसंस्थितम् | मन्त्रयुक्तैस्तु वै वत्स ते रुद्राः पर्यटन्ति वै || नारुद्रो वहते स्कन्द रुद्राक्षं रुद्रवत्सदा | रुद्र लिङ्गसहसेसु अर्वाङ्कुवन्तिते सदा || प्. ३३अ) पापावस्थोपि यो वत्स रुद्राक्षं धारयेत्सदा | तेपि मुक्ताविदेहास्तु शिवं यान्ति तनुक्षये || सुकण्टकं? सुविपुलं निर्व्रणञ्च गुरुं सदा | धारयेद्यस्तु योगीन्द्र गुरुणापित निर्मलम् || सोपवाराविशुद्धेन गृह्णीयान्न्यायतः शुद्धि? | मुखं मुखेन योक्तव्यं अपानं पनगोचरे || प्रोक्तं कार्पास सूत्रेण अथवा दर्भजे शुभे | वल्कलेषा विशुद्धे तु ग्रन्थयेत गणे त्रिकाम् || मन्त्र कल्पोक्त विधिना कारयेन्मालिकां तदा | येन सर्वफलावाप्तिर्भवते साधकस्य तु || औदुम्बरे महापीठे निर्व्रणे चाथ दान्तिके | स्थापयेत द्विजश्रेष्ठ प्राङ्मुखोदङ्मुखोपि वा || अभिषिञ्च्य तदा शिष्यं वारिणा शुचिना बुधः | मन्त्र जप्तं तु तच्छुद्धं शतमष्टोत्तरं क्रमात् || ते नाभिषेकं कर्तव्यं सुगन्धामलधारिणा | श्रीफलैर्जातिकुसुमैः सुगन्धैर्हरितैः शुभैः || पूरितमोषधीभिश्च सुवर्णरजतैस्तथा | सुवाससैर्विचित्रैश्च अण्डजैर्वोण्डजैः सितैः || सुधूपितैर्विकेक्षैस्तु घटकण्ठं तु वेष्टयेत् | ब्रह्मघोषैस्तु कर्तव्यं वादि अस्वननाद्रितम् || तन्त्रीगीत जयशब्दैः पठमानैश्च वन्दिभिः | आख्यानैर्विविधाकारैः श्रुतिपौराणसंभवैः || शंखनादैश्च पणवैर्मृदंगैर्मधुरस्वरैः | एवं समर्पयेद्विद्यां अक्षसूत्रसमायुताम् || तां प्रणम्य तु गृह्णीयाच्छिरसा भक्तितः शुचिः | रोमाञ्चोद्गत गात्रेण हृष्ट तुष्टेन बुद्धिमान् || प्. ३३ब्) धरणायं दण्डवत्पातः कर्तव्यं गुरुरग्रतः | त्वत्प्रसादान्महात्मान सिद्धिर्मे भवतु सदा || एवमस्त्विति चोक्त्वावै तदा उत्थापयेद्गुरुः | ततोऽनन्तरतः कार्यं पूजनं गुरवस्य तु || स्वधनं जीवितं दासं पुत्रपौत्राश्च ये पि हि | तेन्यदीया द्विजेन्देशं यावत्प्राणाधियन्तिमे || एवं निवेदयित्वा तु आत्मानं देशिके गुह | ततो वश्यं महासत्व सिद्धिं प्राप्नोति उत्तमाम् || एवमेतेन विधिना दातव्यं देशिकेन तु | विद्याभिषेकं विप्रेन्द्र ततस्तत्वाभिषेचनम् || विद्याभिषेकं ब्रह्मैस्तु कर्तव्यं देशिकेन तु | तत्त्वाभिषेकं तत्वेन दातव्यं भुक्तिसिद्धये || सर्वमन्त्रैश्च मन्त्रज्ञोऽभिषेकं शिवात्मकम् | आचार्यत्वे तु दातव्यं छत्रपीठसमन्वितम् || उष्णीषं कर्तरी युक्तं हस्ते च कटकं स्मृतम् | हेमजरौप्यजं वापि रुद्राक्षं वाथ धारयेत् || विद्याभिषेकं कर्तव्यं छत्रं पीठविवर्जितम् | नोष्णीयं तेन कर्तव्यं कर्तर्याग्रहणं न तु || अस्त्राभिषेकश्चास्त्रेण यदि विघ्नैरभिद्रुतः | तेषां प्रोत्सारणार्थाय अस्त्रयागन्तु कारयेत् || अस्त्र यागे कृते भद्र ततोऽस्त्राभिषेचनम् | एवमेते समुद्दिष्टा अभिषेकाः पृथक् पृथक् || विद्याभिषेकं प्रथमं द्वितीयं तात्त्विकं स्मृतम् | तृतीयं देशिकं तत्वं चतुर्थ ह्यस्त्रजं गुह || कथितं द्विस्वराद्वत्स विधानं साधकादिषु || इति कालज्ञाने त्रयोदशशतिकेऽभिषेकः पटलः || कार्तिकेय उवाच || प्. ३४अ) नाडीचक्रं परादेव जीवसंक्रमणं तथा | कथितं क्षिप्रयोगेन न मे ज्ञातुं सुराधिप || नाडयः कति देवेश वायवश्च कति स्मृताः | कस्मिन् सधाने च तं शंभोः प्रवहन्ति अहर्निशि || जीवसंक्रमणं चैव जीवो वा को विभाव्यते | कुत्रस्थश्चरते सो थ व्यापकः परमेश्वरः || सर्वगत्वाच्च भूतेषु चरते वायुषु कथम् | कथं देहविभक्तश्च अविभक्तकैः स्थितः || सप्तजन्मकृतं पपं कथं गृह्णाति स प्रभुः | जन्माष्टके विनिर्दिष्टा एतन्मे ब्रूहि शङ्कर || ईश्वर उवाच || नाडीचक्रं प्रवक्ष्यामि दशधा यद्व्यवस्थितम् | अनेकाभिश्च नाडीभिर्व्याप्तंताभिस्तु सर्वदा || देहमध्ये भवेन्नाभिः कन्दं तत्र व्यवस्थितम् | अवर्णस्थः परो देवो व्यापकः शिरसि स्थितः || तस्य देहाद्विनिष्क्रान्ता बीजा वै ह्यङ्कुरोपया | षोडशस्ते विजानीयाद्वात्रिंशश्च तथापरे || आराष्टकविभेदेन षट्वर्णाः संप्रकीर्तिताः | ऋविसर्गो जकारश्च तरु सा अक्षराणि तु || क्रियते गुणसंख्यानं शेषमन्यत् परापरम् | स जीवः सर्वसत्वानां वर्णास्तु त्र्यर्णविग्रहाः || अकारः प्रभवाः सर्वे ज्ञातव्या वहिरन्ततः | नाडयस्ते समुद्दिष्टा वायवश्च षडानन || विभागं तेषु वक्ष्यामि चक्रस्थं भ्रमते यथा | अष्टारं यत्समुद्दिष्टं चक्रं हृदयसंस्थितम् || नाडीभिर्दशभिः सूक्ष्मैः समन्तात्परिवारितम् | ईडा च पिङ्गला चैव सुषुम्णा च तृतीयकम् || गांधारी हस्ति जीह्वा च पूषा चैव मसा तथा | प्. ३४ब्) अलंबुषा कुहूश्चैव शङ्खिनी दशमी स्मृताः || दशप्राण ब्रह्म?ह्येता नाडयश्चक्र संस्थिताः | ईडा तु वामतः प्रोक्ता दक्षिणे पिङ्गलाः स्मृताः || तयोर्मध्ये सुषुम्णा तु सृष्टिः प्रभवकारिका | शेषाणां तु महासेन नाडीनां प्रवदाम्यहम् || कालचक्रस्थितानाञ्च अष्टंधातु क्रमेण तु | अन्याभिधानयोगेन प्रवक्ष्याम्यनुपूर्वशः || दशदिक्षु स्थितानाञ्च * * * * दि युत्क्रमात् | ज्वालिनीतपनधूम्राकामदा विजया तथा || अमूला बहुमूला च पक्षिणी ह्यूद्धगामिनी | अलम्बु माता तु जिह्वा च दशैताः प्राणनाडयः || एतेषां प्रविभागं तु शृणु वत्ससमाहितः | ज्वालिनी वायुतत्वं तु तपना वह्नि रुच्यते || धूम्राकालं विजानीयात्कामदावारुणी स्मृता | विजयायां तु ईकार अमूलानाप उच्यते || बहुमूला भवेद्धृत्स रुद्र तत्वं न संशयः | पक्षिणी प्रणवं विद्धिमत्तत्व तु अलंबुषा || तालु जिह्वा समाख्याता दशमं वर्गशेखरम् | समासात् कथिता ह्येता विभागं शृणु साम्प्रतम् || जया च विजया चैव गान्धारीतलवाहिनी | हरितजिह्वासमाख्याता वहन्ति प्राणपञ्चके || बुद्धिर्मन स भूतादि स्वेता जीवाश्च पंचमः | बुद्धिपञ्चकमित्येषं प्राणादीन्सन्विरोधकः || जया वायु विजानीद्यकारं नामनामतः | विजया ईशमुद्दिष्टा गान्धारीं शक्रजा विदुः || प्. ३५अ) तलवाही कुहूज्ञेया जलेशं नामनामतः | हस्ति जिह्वा भवेद् रौद्री प्राणस्था प्राणपञ्चके || बुद्धिपञ्चकमादौ तु सद्योबीजमुदाहृतम् | मनं मकारतत्त्वं तु भूतादि व्यापकं स्मृतम् || चेतो वह्निः समाख्यातः जीवः संहार उच्यते | बुद्धिपञ्चकमेतन्तु कथितं नाडी गोचरे || एतानि चैव जानीयाद्व्यस्ता तु कथयामिते | नाडीचक्रे महाभाग प्रतिष्ठा निद्धि नाडिषु || पिङ्गलाया इडायास्तु वामदक्षिणसंस्थितौ | संक्रान्ति विषुवादीनां सञ्चारं चक्रगोचरे || वामदक्षिणयोगेन अर्द्धयामक्रमेण तु | रुद्रतत्वं च तत्पूर्वं पिङ्गलायाः प्रकीर्तितम् || वहते दक्षिणावस्थामायमाश्रित्य सुव्रत | इडा तु वामतो ज्ञेया वारुणी तु कुहू स्मृता || आभिः सर्वमिदं व्याप्तं नाडिभिश्चक्रगोचरे | वामदक्षिणयोगेन अर्द्धयामक्रमेण तु || कला विभाग योगेन अष्टधातु क्रमेण तु | अकारादिन्सकारान्तं ह्रस्वदीर्घाक्षराः स्मृताः || प्रवहन्ति सदाकालं हृदिस्थाश्चकगोचरे | सकलस्य भवेच्चारः प्रदोषे भास्करोदये || माघमासं तु आख्यातं योगीनांबलवर्द्धनम् | वहते सकलस्तत्र आदित्येन सहैकतः || दीर्घाकारं च वर्णे शमनन्तंश्चैव नागराट् | प्राणस्थो वहते वायू रविस्थं वहते सदा || अर्द्धयामं न सन्देहमभिन्नस्तु यदा भवेत् | भेदं त्रिविधमाख्यातं वातपित्तखफादिकम् || क्षणमेकं भवेत्तेषां भेदोयं पार्वती सुत | यः पुनश्चन्द्रसूर्याभ्यां संभेदः संप्रवर्तते || प्. ३५ब्) ते च कालं विजानीयान्न वातादि प्रलोपयेत् | अस्वरं वामतो ज्ञेयं चारं वै निष्कलस्य तु || वासुकिश्चैव सोमश्च एक * वहते सदा | अपानश्च समाख्यातो निशा चैव तु शाङ्करी || पूर्वार्द्धे च तु इत्युक्तः प्राणेन सह धीमता | प्रहरं तु समाख्यातं बाह्यचारे सुराधिप || * * * * * * * * दक्षिणेयव्यवस्थिता | अर्द्धधामं द्वितीयस्य प्रहरस्य न संशयः || सापि ते चक्रमेतौव? चन्द्रादित्यात्मजेन तु | शून्यचारं समुद्दिष्टं ग्रहश्चाङ्गारकः? स्मृतः || तक्षकस्तु समाख्यातः समानेन समायुतः | अभिन्नो * * *? देव इकारो दक्षिणेन तु || अर्द्धयामं महासेन पिङ्गलायां ध्रुवा वहे | ईकारस्तु युवो? ज्ञेयः कलाद्यस्थं सदाशिवम् || उदानेन समायुक्तः कर्कोटेन धीमता | द्वितीयं प्रहरं प्रोक्तं बाह्यचारेन संशयः || चन्द्रजेन तु मार्गेण वामेन कथितं तव | अमायां व्यापकं जीवं दक्षिणां दिशिसंस्थितम् || बृहस्पति ग्रहस्तत्र? पद्मश्चैव तु नागराट् | खमलं कृत देवस्य वारं ध्यानसमन्वितम् || उकारस्वरयोगेन नाडयो व्यापकाः स्मृताः | पिङ्गलस्था विजानीयदर्द्धयामं तु पञ्चमम् || उकारः शुक्रमाख्यातो नागोवायुः प्रकीर्तितः | महापद्मश्च तत्रैव चारं च क्षपणस्य तु || दक्षिणायनमित्युक्तं निशा चैव तु शाङ्करी | तृतीयं प्रहरं वत्स कथितं बाह्यतो मया || इडावस्थं समाख्यातं चक्रेस्मिन्स्वरमण्डले | प्. ३६अ) गान्धारी शक्रजा देवी नैर्-ऋत्यां दिशिमाश्रिताः || कूर्मारस्तु समाख्यातः क्षयान्त सहितो वहेत् | शनिस्तत्रग्रहो ज्ञेयः शङ्खपालश्च नागराट् || ऋकारो वहते तत्र स्वरं दीर्घे तु दक्षिणे | पुटेन तु महाभाग अभिन्नो वहते सदा || सप्तमन्तु समाख्यातमर्द्धयामं क्रमोदितम् | पिङ्गलस्थं समाख्यातं योगोयं दीर्घसंयुतम् || इडा ऋकारमित्युक्तं ॠकारेणसमायुतम् | कुलिकस्तु समाख्यातः कण्ठोष्ठेन तु धीमतः || राहुर्ग्रहसमाख्यातः प्रहरार्द्धन्तु चाष्टमम् | दिनं तु कथितं भद्रं बाह्यन्तु तव सुव्रत || अन्तश्चरे महासेन अहोरात्र चतुष्टयम् | भवते नात्र संदेहो यदि रुद्धान नाडयः || शुद्धास्तु प्रवहन्त्येते अर्द्धयाम क्रमेण तु | चत्वारो दक्षिणावस्था नाडयश्चक्रसंस्थिताः || पिङ्गला च ध्रुवा चैव अमागन्धारिरेव च | स्वरा ह्येष्टौ तथा चान्ये प्रतिनाडिषु संस्थिताः || आकारादिक्षुकारान्ता दिनचारे विनिर्दिशेत् | ये ह्रस्वास्ते भवन्तीह वामे चन्द्रकलास्मृताः || सूर्यस्य तु महाभाग दीर्घादक्षिणसंस्थिताः | तासां संज्ञा विधाने तु नाडीनां तु शृणुष्व मे || पूषायुसासु? मनसा प्रीति तुष्टिरतिस्तथा | धृतिर्धृतिकरी चैव कलाह्यष्टौ व्यवस्थिताः || पिङ्गलाद्यादि गान्धारी अन्ते चक्रमशो न्यसेत् | द्वे द्वे चतुर्महाभाग ह्रस्वदीर्घादि योगतः || नागाह्यष्टौ न्यसेद्भाग व्युत्क्रमेण महातप | अनन्तं दीर्घमित्युक्तं ह्रस्वं वासुकि उच्यते || प्. ३६ब् ) तक्षकस्तु पुनर्दीर्घ कर्कोटो ह्रस्वके स्थितः | दीर्घं पद्मं भवेद् वत्स महापद्मश्च ह्रस्वके || शङ्खपालं पुनर्दीर्घः कुलिकं ह्रस्वमादिशेत् | ग्रहाह्येवं भवन्त्येते आदित्यादि क्रमेण तु || भास्करोङ्गारकश्चैव गुरुश्चैव शनिस्तथा | एते दीर्घा विजानीयाद्वहास्तु रविमण्डले || सोममण्डलमध्यस्था वहन्ति अनिवारिताः | प्राणापानसमानश्च उदानो व्यानमेव च || नागः कूर्मोथ कृकरो वहन्ति क्रमशः सदा | आदित्यः प्राणमित्युक्तोऽपानः सोम उच्यते || समानोङ्गारकोज्ञेय उदानस्तु बुधः स्मृतः | व्यानो बृहस्पतिर्ज्ञेयो नागः शुक्रमिहोच्यते || कूर्मारस्तु विजानीयाच्छ निश्चैव ग्रहेश्वरः | कृकरो राहुराख्यातश्चक्रेस्मिन्माडिगोचरे || देवदत्तो महाभाग अनिलः कालसंस्थितः | धनञ्जयस्तु वर्गेश कथितं पूर्वतो मया || विषुवेन महायोगे शुषुम्नायावहेति च | नाद्यं प्रवहमुद्दिष्टस्तस्य देवस्य धीमता || शिनीवानी कुहुश्चैव ज्ञातव्या क्षीणयोगतः | दक्षिणे चैव वामे च अमावास्येति कीर्तिताः || चन्द्रसूर्यवुभावेतौ शेइनी वाली लयं गतौ | या सा षोडशमि प्रोक्ता? चन्द्रस्था निष्कला कला || शिनी सा तु विजानीयाद्वाली वै सूर्यमण्डले | द्वादशान्ते तु साज्ञेयादेकतस्ताभवन्ति तु || क्षीणे तु प्रवहे वत्स दक्षिणे वामगोचरे | सुरेचित पुटे स्कन्द शेषं यत्किञ्चित् संस्थितम् || शिनी वाली तु सा ज्ञेया अमावास्येति कीर्तिता | तां विदित्वापि मुच्यन्ते यदि युक्तास्तु शाङ्करी || प्. ३७अ) एतत् समरसं प्रोक्तं धनञ्जय शिवस्य तु | एकत्रैवव्रजन्त्यासु शक्तिर्वै या निलास्मृताः || प्रवहं सकलं प्रोक्तं यस्मिन्यस्मिन् प्रवर्तते | अन्यत्र निष्कलो ज्ञेयः क्षीणं योगं सुराधिप || वहते समरसे नैव अनामाप्रभुरव्ययः | यथाक्षीरे स्थितं सर्पिर्न दृश्येद प्रयोगतः || तथा धनञ्जयावस्थो न दृश्येत शिवः सदा | पदेतत् प्रवहेत् सर्वं स जीव सर्वगोव्ययः || प्राणेन सहितो भद्र नाडी मुखे व्यवस्थितः | संक्रमते सदाकालं यावन्न त्यजतेति च || शेषं वृत्ति स्वरूपेण वहते वाम मध्यतः | यस्मिन्त्यजति कालेन पञ्जरं दोष कृद्वहुम् || तदा चोर्द्ध्वं प्रवाहेन अन्तस्थश्चरते गुह | निशाप्येवं समाख्याता वातनागग्रहोदिता || शिवाष्टकप्रभेदेन येन योगेन वर्णितम् | नाडीनाञ्च स्वराणाञ्च पुनर्भेदो विधीयते || गान्धर्वा च जया चैव विजया च तृतीयका | कुहू चैव समाख्याता शिनीवाली च मध्यमा || गान्धर्वा पश्चिमे प्रोक्ता अकारं बीजमुत्तमम् | जयावायव्यसंस्था तु यकार स्थानमाश्रिता || विजया सोम दैवत्या इकारेणोत्तराश्रिता | कुहू ईशान भागेन वारुणाक्षरसंस्थिता || शिनी वाली च कालस्था सुषुम्णास्थो धनञ्जय | ऌ ॡ स्वरौ तु गान्धर्वौ ए ऐ वायव्यगोचरे || ओ औ तु विजयावस्थौ कुहा बिन्दुविसर्गजः | दीर्घा दक्षिणतो ज्ञेया ह्रस्वा वामेन संस्थिताः || स्वरा वै वाम मध्ये तु कथितास्तपवर्द्धनः | गान्धर्वा प्रथमे यामे द्विश्रोत्र प्रवहेन तु || प्. ३७ब्) स्वरजेन समाख्याता निशायां निशिचिन्तकः | जया द्वितीय यामे तु पूर्वोक्ते नैव योगतः || विजयापि तृतीये तु यामे तु वहते सदा | पूर्वयामं समारभ्य द्विश्रोत्र प्रवहेन तु || कुहू इडस्या विज्ञेया चतुर्थयामकं भवेत् | पूर्वोक्त क्रमयोगेन वर्णितं योगिनां हितम् || सकलादि समारभ्य कण्ठोष्ठ्यं यावत्पश्चिमम् | नागाग्रहाश्च प्राणाश्चक्रमन्ति क्रमशः सदा || पूर्वयामं समारभ्य द्विश्रोत्रेण क्रमेण तु | द्विनाद्यस्ता समाख्यातास्तासां नामानि मे शृणु || पूषामसा तथा सौम्या मरीचीत्वं सु मां तथा | शङ्खिनी ह्यङ्गिरा चैव छायासंपूर्णमण्डले || अमृता षोडशी ज्ञेया निशान्ते या व्यवस्थिता | गान्धर्वा पिङ्गलावस्था प्राप्तो न सहसंयुता || दीर्घजेन तु वर्णेन वहते व्युत्क्रमेण तु | ह्रस्वेन सा तु वामस्था इडस्था वहतेति च || भावजातुसमाख्याता स्वप्नं भावितमुच्यते | दिवाकृतं तु यत्कर्ममन्त्रितं चक्रितं च यत् || भावस्थः पश्यते तन्तु निशायां प्रथमे पदे | जयायां वातिकं विन्द्यात्स्वप्नं स्यात्कृत्तिका सुत || वैत्तिकं च तृतीयांशे विजयायां तु तिष्ठति | पश्चिमे चैव यामोर्द्धे स्वप्न श्लेष्मिक उच्यते || सन्निपातात्मिकमेतदविछिन्नं प्रवर्तते | अर्धप्रहरशेषायां उषायान्त स उच्यते || व्यामिश्रं वितथं विन्द्याद्वातादेः पश्यते तु यः | भाव्यन्तु द्विविधे ज्ञेयं श्रेयाश्रेयमवस्थितम् || इडायां श्रेयसं विन्द्यदन्यथा तु विपर्ययः | प्. ३८अ) सर्वासामेव नाडीनां इडा नाडीसु या? वहा || कालनाडी समाख्याता पिङ्गला दक्षिणेन तु | तस्मिञ्चरे यदा प्राणस्तदाकालं परिक्षयेत् || समस्तव्यस्तयोगेन तदा प्राणं चरेद्धृदि | नाडीनां सहितं स्कन्द यथा भवति तच्छृणु || यस्मिन्वर्णे समाश्रित्य चरते नाडिभिः सह | तत्तद्रूपं भवेत्तस्य ईश्वरस्यामितौजसः || आमायां पर्यटेत्प्राणः पस्योदाकाण्शमेव हि | अक्षरादि कृतं चित्तं ब्राह्मणवेदपारगाः || पश्यते तानि सर्वाणि गान्धर्वायां गुहेश्वर | मन्सायां? वल्भनं युद्धं चित्राणि तु वरस्त्रिय || दिव्यं माल्यां वरादींश्च विजयायां प्रपश्यति | नग्नां पाशुपतां मुण्डां जटिलां शिवलिङ्गिनाम् || पिङ्गलायान्तु रुद्रेस्मिन्पश्यते क्रमगोचरे | पक्षिवदुजते? ध्यानं प्रलापश्च प्रलापनम् || आरोहणं प्रवेशञ्च जयायां पश्यते गुह | अग्निदाघं ब्रुवायान्तु क्षुत्पिपासातुरं भवेत् || पश्यनात्रसंदेहो शिवं चानलसंस्थितम् | सुतृप्तं च शरीरस्य शुक्रोत्सर्गं सहर्षिणन् || हस्सरचरथयानानिद्वत्र? सिंहासनानि च | पश्यते तानि सर्वाणि गान्धारी सह संयुतः || जलवृष्टिं कुहूसंस्थः समुद्रांशलिलाश्रयाम् | शीतादि अशनीं चैव सोद्वेगं फणिनागणम् || पश्यते तु सदा जीवो जलनाडी समाश्रितः | यमस्य सदनं पश्ये शिनी वाली समाश्रितः || बहूंश्च नरकां रौद्रां निग्रहानुग्रहस्थिताम् | कालस्थ पश्यते तानि स्वनसञ्चार गोचरे || प्. ३८ब्) सुषुस्मामाश्रितप्राणः पश्यते परमं शिवम् | अभिन्न पश्यते जीवो नाडि * * * * * *? || दक्षिणेन चरेद्वत्स नाडीचक्रं समाश्रितः | न पश्यन्ति दुरात्मानस्तत्वं तत्वार्थ वर्जिता || एकत्रैव विलीनास्तु नाडयो यत? प्रकीर्तिता? | * * * *? महासेन नवधायाश्च षोडशः || सुषुम्नान्त स्थितो जीवः कर्णिकारं धुमाश्रितः? | नाडीमुखेषु सा देवश्चरते * * * * *? || तेन * * * * * * *? चैतन्यं प्रवतते | जाग्रस्थं यदाचेतो व्यापयेत्कार्यपञ्जरम् || सरोमकूपमार्गेषु क्रमतेऽहर्निशं शिवः | षष्ठ? स्थाने * * * * * * *? नासिकोपरि || तुर्यस्थाने गतो देवः प्रबुध्यति सदाशिवः | अभिन्नेषु समाख्यातो भिन्नस्य * * * * *? || * * * * * * * * * *? दि गृह्यते गुह | न दोषो तेषु वै दद्यादित्याह परमेश्वरः || मात्राभेदो यदावत्स भवते * * * * *? | * * * * * * * * * * * * * *? यिनः || प्रहरं वहते यस्य पिङ्गलायां गुहेश्वर | तदा भिन्नं विजानीयात् * * * * * * * *##? * * * * * * * * * * * * * *? यित | येन तु मासेन अधिकं सन्निवेदयेत् || उद्वेगन्तु समासेन * * * * * * * *? | * * * * * * * * * * * * * * भवेत् ||? चतुर्थे *? र्थ हानिस्तु भवते कृत्तिका सुत | पञ्चमे तु निशायामे विभिन्नं वहते यदा || तदार्थानान्तु? विच्छिन्नो? भवते नात्र संशयः | प्. ३९अ) षष्ठे गोत्रक्षयं विन्द्यात्सप्तमे निश्चला भवेत् | अहोरात्रं वहेनैव मृत्युर्ज्ञेयोवर्यत्रये || अहोरात्रं द्वये नैव पिङ्गलायां वहे यदा | तदा तस्य भवेत् स्कन्द मृत्युर्ज्ञेयो द्विवार्षिकः || त्रिरात्रं वहते यस्य दक्षिणेन सदाशिवं | वर्षमेकं स जीवे तु देहिनस्तु न संशयः || रात्रिमेकां वहेद्यस्तु दिनश्चाथ सुरेश्वरः | षड्भिर्मासैर्भवेन्मृत्युरिति शास्त्रस्य निश्चयः || यामं द्वयं चरेद्यस्तु अधोरात्रं स जीवति | पिङ्गला तु विनिर्दिष्टा कालनाडी वरानन || कालं सूर्यं विजानीयाद्दक्षिणेन वहत्यसौ | जीवितं ध्रुवमाचष्टे तस्मिन्ते ववरेन? तु || सौम्या नाडी इडा प्रोक्ता वारुणा वामतः स्थिताः | विभिन्ना वहते यस्माद्रविमात्रैस्तु सुव्रत || तदा तेन क्रमेणैव पूर्वज्ञेन विनिर्दिशेत् | प्रहरं वहते सा तु इडा भास्कर भेदिता || ये दोषास्तत्र जायन्ते उपशाम्यन्ति ते सदा | मन्त्रहोमप्रयोगेन दाने वाथ सुकल्पिते || या वा कालविकल्पेन सुखी स शिविदो भवेत् | सोमायां ये प्रजायन्ते भेदो वै साधकेश्वर || प्रशमं यान्ति ते तस्य इति रुद्रः प्रभायते | कालजेन च मार्गेण ये दोषाः संप्रकीर्तिताः || ते मृत्युं सन्निवेदन्ते क्रमेण क्रमशः सदा | यावदायुः क्षयं प्राप्तं दिनमेकन्तु शाङ्करी || वारुणे चोपसंसर्गाशाम्यन्ते विधिपूर्वकैः | प्रहरे प्रहरे ज्ञेयास्वस्वल्पदुःखप्रदायिनः || द्वितीयमधिकं विद्धि तस्य व्याधि तृतीयके | चतुर्थे पुत्रदाराणां विनाशं भवते गुहं || प्. ३९ब्) पञ्चमे तु महापीडा प्राणस्यान्तकरी भवेत् | षष्ठे समाष्टमे चैव प्रहरे शक्रमर्दनम् || जीवितं केवलं तिष्ठे दन्येषां तु विपर्ययः | उच्चाटयति पश्चाप्ता वारुणायां दिशि स्थिता || बन्धनं विविधं चैव कर्णनासा निकृन्तनम् | शत्रूणां वशमायाति दशाहा प्रवहेन तु || एतैस्तु न भवेन्मृत्युरा पदाश्च सुदुस्तराम् | यथाशक्त्याथ वादानं पात्रकालयपेक्षया || शान्तिहोमं जपादींश्च ससिविन्दः सुखी भवेत् | एवं ते कथितं भद्र नाडीनान्तु परस्परम् || नाडी चक्र विधोनेन? कालचक्रे मयोदितम् || इति कालज्ञाने कालचक्रपटलं त्रयोदशशतिकमष्टमम् || कालचक्रं प्रवक्ष्यामि अङ्गप्रत्यङ्गसंस्थितम् | मणिबन्धं भवेद् यत्र प्रकोष्ठ स्थानसंस्थितम् || न चलते यदा देवो मृत्युर्वासैर्विनिर्दिशेत् | एकादशैर्न संदेहो बाहुमध्ये द्विपञ्चके || मासैश्चैववरेशान कक्षमध्येन त्रैस्मृतः | अष्टभिर्गुल्फ देशे तु सप्तभि *? रु मध्यतः || जानुनी च महासेन षड्भिर्मासैस्तु जायते | पञ्चभिः पायुरानन्द मध्येन चलते यदा || भवते तु तदा मृत्युः स्पष्टन्तु कथितं तव | चतुर्थे शङ्खदेशे तु न स्पन्दति गुहेश्वर || श्रोत्रमूले त्रिभिर्मासैर्मानं वै विनिवेदयेत् | ग्रीवायां तु द्विभिर्मासैस्तव देशे तु मासतः || अर्धमासं हृदिस्थाने पञ्चाहं हृदयादधः | अहोरात्रं भवेन्मृत्युः कण्ठे तु न चले यदा || प्रहरं जीवते वत्स उदरे ह्यचलनेन तु | प्. ४०अ) नेत्रो परिगता या तु नाडीबिन्दु सुभागता || स जीवसर्वमाख्यातस्तस्थान? त्यजते प्रभुः | प्रहरार्द्धार्द्धमानन्तु जीवः सर्वगतो भवेत् || स भित्वा तत्त्वसंघातं चेन्द्रियग्रामगोचरम् | वायुनाडी निबद्धन्तु त्यक्त्वायाति परंशिवम् || मूर्द्धयेन तु मार्गेण अन्तस्थ परमेश्वरः | व्रजते तु स्वकं स्थानं पुनरागमवर्जितम् || अज्ञानिनां वरेशान उदरान्तमधो व्रजेत् | पापिष्ठा ये समाख्याताः कर्मदोषसमन्विताः || तेषामियं गतिः प्रोक्ता अपानेन न संशयः | यष्टं महामस्वैर्यैस्तु श्रुतिस्मार्तोदितैः क्रमात् || तेषाञ्चक्र गतिः प्रोक्ता ब्रह्मज्ञानं तु वामतः | क * न तु महाभाग सांख्यज्ञानन्तु दक्षिणे || उत्तरायणमित्युक्तं गतिर्ज्ञेया निवर्तिका | विषुवेन तु मार्गेण गच्छन्ते शिववेदिनः || येन भूयो न भूयस्तु जन्म लाभो न विद्यते | एषते सर्वमाख्यातः कालचक्रविधिस्तव || पुत्रस्नेहान्महाभाग कथितं जीवसञ्चरम् | त्वयापि सहसानेदं कथनीयं कदाचन || रक्षणीयं प्रयत्नेन न?स्कराणां धनं तथा || इति कालज्ञाने त्रयोदशशतिके मर्माध्यायः समाप्तः || कालचक्र प्रयोगेन जीवसञ्चारगोचरम् | कथितं वह्निजन्मेश लोकानां हितकारणात् || कार्तिकेय उवाच || यदेतत्परमेशान कथितं जीवसञ्चरम् | नाडिभिर्दशभिः सूक्ष्मैर्वायुभिश्च समायुतम् || न मे ज्ञातं महादेव जीवतत्वं सनातनम् | प्. ४०ब्) यदेतद्धन ते देहे स्पन्दते च समन्ततः || नाडिभिर्मर्मदेशेषु स वायुः परिपठ्यते | जीवंस्त कुत्र देवेश एतन्मे ब्रूहि तत्वतः || स्वरवर्ण विहीनन्तु रूपगोचरवर्जितम् | निधिन्द्रियं? यदातीतं बुद्ध्यहङ्कावर्जितम् || तत्त्वान्तरविनिर्मुक्तं स जीवो ज्ञायते कथम् | नरसेन न शब्देन न रूपेण नानिलेन च || न गन्धेन स देवेशो गृह्यते प्रभुरव्ययः | एवं ते कथितं पूर्वं जीवतत्त्वं ह्युमापते || कथयस्व महेशान येन जानन्ति निश्चयात् | दशसंचारयोगेन ऊनरादिषु क्रमात् || यथासञ्चरते देही नाडिचक्रे हृदिस्थिते | अपृष्टान्यपि मानीह प्रज्ञा हीनस्य मे प्रभो || तेपि कथ्यास्त्वया नाथ अनुकम्पार्थकारणात् || ईश्वर उवाच || साधु साधु महासेन पृष्टं ते च महाद्भुतम् | चित्रमेतन्महा * ह्मंत्वा भुक्त्वाकोन्यः पृच्छति || यदेतत् कथितं पूर्वं जीवाख्यं नाडीगोचरे | प्रक्रियायां विनिर्दिष्टं तदेव परमेश्वरम् || तस्याहंते प्रवक्ष्यामि निर्णयं तत्व वेदिनाम् | यत्तच्चतुष्कलं प्रोक्तं व्यापकं तत्वमुत्तमम् || तस्मिन् मध्ये स तिष्ठेत जीव परमकारणम् | अनिर्देश्यमनाख्यञ्च वायुस्थो वहते यथा || एकादशमाकथितो दशानान्तु परोहि सः | यस्मिन्स्थाने स्थितस्ते तु उदयेन तु सर्वदा || वायुवाहनमार्गस्थं निर्द्धूतं परमं शिवम् | स जल्यं तं सदा देहे तत्तत्वं कथयामिते || भ्राम्यति पङ्कज मध्ये कलाव्रत? विनियोगात् | प्. ४१अ) गोलकहेलाहत इव उत्पतनिपतन सदा कुरुते || एतत्तत्त्व शरीरं तु चतुष्कं यत्प्रकीर्तितम् | तस्य मध्ये गतं देवं कथैष्यामि ते नघ || स्पष्टेन तु विचित्रेण प्रयोगेण शुभेन तु | कथयिष्यामिते तत्वं यथा विन्दसि तत्वतः || प्रोत्सारयित्वा सर्वाणि तत्रस्था ये महासदाः | कथयामास तत्सर्वं वृत्तान्तं जीवितस्य तु || यदेवच्छ्वस *? पुत्रकलाशान्ता तु ता स्मृता | वायव्या सा पुराख्याता तत्रस्थः प्रवहेत्तु सः || शक्तिना तु समायुक्तो वह्निना तु तथैव तु | माहेन्द्री शक्तिरुद्दिष्टा पूर्वनिगदिता तुष्ठा? || तया तु धार्यते सोथ जीवः सर्वगतः प्रभुः | सा चाग्निनावृता देवी परिवार्यसमं ततः || अग्निमण्डलमित्युक्तः शक्तिश्चैव स्वेस्थिता | मण्डले तु महासेन तेषां सोमस्तु वाह्यते || निवृत्तिः सा विजानीयाद्वा हृदा?क्षरसम्भवा | एवं चतुष्कलावस्थं तत्वराजन्सुराधिप || पुरंशरीरमित्याहुश्चतुष्कं यत्प्रकीर्तितम् | तस्य मध्य गतो देवो जाति सर्वेश्वरः प्रभुः || व्यावृत्तेन तु वक्त्रेण यो देवस्तत्र सञ्चरेत् | सा शान्ता तु विजानीयादाग्नेयाधारणाद्विदुः || रेचकस्तु समाख्यातः प्राणायामस्तृतीयकः | तस्मिन्नेवश्च निर्या तु स्पृशते तु यदक्षरम् || तदा सा वारुणी ज्ञेया पूरकेणसमन्विता | वारुणी तु न सन्देह कथितं तव पृच्छतः || मध्यस्थस्तिष्ठते देहे कुम्भकेन निरोधितं | साङ्गर्द्धं वहते देवी णन्ता तत्त्वसमन्विता || मूर्ध्नान्तेन चरेशानमन्यत्प्रवहवर्जितां | प्. ४१ब्) सा तत्वं प्रवहेद्वत्स? स पूर्वां यदुदाहृतम् || घोषः स तु समाख्यातः श्रूयते यो हृदिस्थितः | सा तत्वं व्याहरेद्देवीमाहृदि? सा विजानतः || सप्तधातुकमेतन्तु कथितं तत्वविग्रहम् | चत्वारो धारणाश्चैव कलायास्तु उदाहृता || प्राणायाम त्रयं चान्यं पूरकादि प्रकीर्तितम् | सप्तधातुकमेतद्धि न ज्ञातमकृतात्मभिः || पिधापि तेन वक्त्रेण स दैवसरतेत्यसौ | नासिकामूलरन्ध्रेषु यावद्वै द्वादशाङ्गुलम् || तदेव संस्पृशेच्छ्रोत्रे ध्वनिर्वै पारमेश्वरी | गोरम्भं सदृशो देवी श्रूयते शक्तिसंवृते || वक्त्रेण तु महाभाग सा तत्त्वं वहते गुह | दशभिस्तु प्रयोगैस्तु ऊनरात्रादि सञ्चरे || ऊनरात्रं भवेच्छिक्का अधिमासो विजृम्भिका | ऋखस्तु? भवते काशो निश्वासोधन उच्यते || उत्तरं दक्षिणं ज्ञेयं वामं दक्षिणसंज्ञितम् | मध्ये तु विषुवं प्रोक्तं पुटद्वयविनिसृतम् || संक्रांतिश्च तथा ज्ञेया स्वस्थानात्स्थान एव हि | ऊर्द्धप्राणौ अधश्चैव अपानो रात्रिरेव हि || शक्तिसञ्चारमेतन्तु दशधा संव्यवस्थितम् | सप्तकेन न तु योगेन पूर्वमेव प्रभाषितम् || अकथ्य कथितं पुत्रस्नेहानुग्रहकारणम् | संप्रदायमिदं प्रोक्तं गुरुपारंपरागतम् || नाम?मस्वच्च? वै वत्स प्रमाणादिषु वर्जितम् | दृष्टानुमानं हेतूनां अगम्यः परमेश्वरः || पूर्वमेव समाख्यातं गुरुवक्त्रा तु लभ्यते | संप्रदायं समाख्यातं गुरुवक्त्रे निवेशितम् || प्. ४२अ) गुरुवक्त्रं समाख्यातं यथा वै पार्वती सुत | वक्त्रं तु प्रथमं प्रोक्तं श्वेत बन्धद्विभिर्युतम् || मूर्द्धान्ते तु चतुर्थं स्यादेते वक्त्रा अजस्य तु | अजस्तु स गुरुः प्रोक्तो वक्त्र मध्ये तु सञ्चरेत् || गुरुवक्त्रं समाख्यातं संप्रदायविभेदितम् | तात्वार्द्धार्द्ध प्रमाणेन सञ्चरेत सदा प्रभुः || एभिर्वक्त्रैर्महासेन शक्त्याधारव्यवस्थिता | न तस्य ग्रहणं शक्यं कर्तुं केनापि सुव्रत || उपदेशेन सौगम्य स्वभावेन च धीमतः | अन्यथा न तु गृह्येत सूक्ष्मदेहः सदाशिवः || दृष्टातं संप्रवक्ष्यामि तत्वग्रहणकारणम् | समाधिर्येन जायेत निः * * * करी गुह || यथातौ पूर्वमुक्तौ तु बृहत्कन्यौ युवानकौ | अजातं पौरुषं भोगं सुखासुखकरं सुत || अन्योन्यं भजतां भिस्तु एकायुक्ता सुखेन तु | सा मृच्छेत्तां द्वितीया तु कन्यानां कल्पकां तदा || कीदृशन्ते तु सुभगे सुखं चानङ्गसम्भवम् | यथा जानाम्यहं भद्रे तथा वचसु मध्यमे || एवं पृष्टा तु सा कन्या कथये तत्सुखोत्तमम् | ईदृशन्तादृशञ्चैव सुखं ते सखि सत्तमैः || एवमुक्तेतिरुषिता कन्याया तु सुखार्थिनी | क्षुद्रत्वात् तेन आख्यातं दौर्जन्याद्वाथ गोपितम् || पिशुनत्वादथ दुष्टत्वादसङ्गत्वा भवा शुभे | एवं सा ताडिता कन्या द्वितीया या षडानन || मात्वं प्रकोप माया हि कथितं न तु शक्यते | सत्यं सत्यं पुनः सत्यं नेदृशं तत्सुखोत्तमम् || (द्वितीया तु ऋ भावस्था तत्सुखन्तु न विन्दति | बोत्तोम् ओf पगे) प्. ४२ब्) तथापि न विजानाति अव्यक्तत्वात्तु सा कला | अचिरेणैव कालेन तया प्राप्तन्तु तत्सुखम् || स्वयं वेद्य तया ज्ञातंमुपदेष्टुं न शक्यते | सा तुष्टा कन्यका तस्य व्यर्थ तु रुषितं मया || स्वसंवेद्यमिदं सौख्यं कशक्यं कथितुं सखे | एवं जीवविचारस्तु स्वनिगू *? स्थितं गुह || कथितुं नैव शक्येत प्रत्यक्षेण प्रमाणतः | संप्रदायेन सौ देवो ज्ञातव्यः प्रभुमण्डितैः || तालार्द्धस्थश्च खस्थ खशक्तिस्थश्च महेश्वर | संप्रदाय त्रये नाथ गृह्यतेसौ हृदिस्थितः || अष्टधातु क्रमेणैव सकस्यादि प्रयोगतः | वहते परमेशान अष्टाष्टकसमन्वितः || चतुः षष्ठिरिति प्रोक्ता गतयस्ते शिवात्मिकाः | न विज्ञाता कुतर्कैस्तु हेतुजालसमुद्भवैः || निमेषं तालिका प्रोक्ता उन्मेषेण तु संयुता | तस्याश्चतुर्थं यद्भागं तुटिः सा तु निगद्यते || सञ्चारस्य प्रमाणन्तु शिव तस्य तु भाषितम् | खस्थं पूर्वं समाख्यातं सुखं यद्व्यावतं गुह || तस्यान्ते वहते शक्तिः सप्तधातु समन्विता | तस्याप्यन्त स्थितं सोथ जीवो दुर्लक्षलक्षिते? || लक्षणैका सावात्मा तालिकामुख शक्तिना | एतत्प्रमाणं कथितं जीवतत्त्वं च वर्णितम् || त्व * * * * *? नन्दस्पष्टन्ते कथितं सुत | आज्ञासिद्धिकरं ह्येतन्यद्वाक्यमसुरान्त कृत् || न चान्यैर्हेतुजालैस्तु शक्यते विनिवर्तितुम् | यत्तत्प्रमाणरहितं वाक्यद्वय विवर्जितम् || प्. ४३अ) सिद्धासिद्धिकरं चैव पशुवाक्यं द्विधा स्थितम् | दशधा तु समाख्यातं शिववाक्यं सलक्षणैः || सिद्धिवञ्च सुगम्भीरं सुदृढं सुस्थिर शिवम् | विरजं विमलं शान्तं आज्ञासिद्धिश्च सुव्रत || विधिवादमिति प्रोक्तं नार्थवाद शिवात्मकः | रागाज्ञानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत् || ते चेश्वरेन विद्यन्ते ब्रूयात् स कथमन्यथा | अजाता शेषदोषेण सर्वज्ञेन शिवेन तु || प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः | पशु वाक्यानि क्लिष्टानि अस्थिराणि लघूनि च || संकीर्णानि अशुद्धानिमिध्या? युक्ति स्थितानि तु | हेतुजाला च मुख्यानि अनुमानाङ्गुलानि च || न तेषां विद्यते किञ्चित् सत्यं वै कृत्तिका सुत | परमो हकरास्ते तु वञ्चकाः कलिकारकाः || तत्त्वस्य रक्षणार्थन्तु महाविघ्नास्तु कल्पिताः | प्रत्यक्षं यत्प्रवर्तेत तच्चागममिहोच्यते || प्रत्यक्षेण विनाभद्र मिथ्याज्ञाना भवन्ति तु | मन्त्रस्य जातयोनेका वीजानेकास्तु ते स्मृताः || प्रत्यक्षं तेषु विज्ञानं परोक्षं न च षण्मुखम् | प्रत्यक्षेण परोक्षन्तु सिद्ध्यते यत्पदं गुह || तत्पदं ह्यविकल्पन्तु भवते साधकस्य तु | यथा जात्यन्धकस्याथं श्वेत रक्तन्तु दुर्घटम् || न शक्यं व्यक्तितः कर्तुं गुणाः श्वेतादि रक्तकः | तथा प्रत्यक्ष हीनानां पशूनां स्वर्गगोचरम् || तुलायाः शोधनं चैव अनग्नेर्ज्वलनं तथा | प्. ४३ब्) बीजनिर्बीजकं चैव दग्धानां च प्ररोहणम् || स्वस्थामावेशकरणं साध्यानां स्तंभनं तथा | विद्वेषोच्चाटनं चैव ग्रहराक्षस नाशनम् || विष विक्षेप संहारं नागाकर्षणामेव च | पर्वतोद्धरणं चैव दिव्यकन्या निवेषणम् || गुटिकाकारागमनं महीविस्फोटनं तथा | अदृश्यता च कायस्य दिव्यवाचा प्रवर्तनम् || अनागतार्थ विज्ञानं अणिमादि प्रवर्तनम् | एवमाद्यानि चान्या वहूनि विविधानि च || शिवशास्त्रे निविष्टानि प्रमाणानि सहस्रशः | प्रत्यक्षाणि न सन्देहे य * * *? शिवस्य तु || सर्वे अवि? तथास्तातवितथाः पशु भाषिताः | तस्माच्छास्त्र परज्ञानं प्रत्यक्षं युक्तिदं गुह || अनेनैव तु देहेन सिद्धि प्राप्ता नरेश्वराः | न चान्यैः पशु तन्त्रैस्तु सिध्यते तु नराधमाः || तस्माच्छुद्धा तु महती कर्तव्या शिवसेदिते | शास्त्रे शास्त्रार्थ वेतारो? येन यास्यन्ति तत्पदम् || पशूनान्तु कुतो मुक्तिर्मायोपहत चेतसाम् | शिवशास्त्र परिरवा? कृतारक्षा महागुह || दुर्गमा? *? स्तरा चैव दुर्भेद्या दुरति क्रमा | अन्याय ग्राहकलुषा सत्यमेवाल सङ्कुला || विषयोर्मि भिराक्रान्ता तिमिरा * * *? यिनी? | अहङ्कारमगाधन्तु बुद्धिर्जल विसर्पिणी || त्रिगुणावर्त कलिका भूतेन्द्रिय सुटङ्किता | तडिद्भिश्च विशालाभिरव्यक्तं कृत मेखला || प्. ४४अ) एवं वै परिखा वत्स शिव तत्वस्य संस्थिता | येन तत्वं न जानन्ति सर्वसिद्धि प्रदायकम् || तयाग्रस्ता ध्रुवं ते तु मनुजा धर्म तत्पराः | एतस्माद्दुर्भिदं तत्वं प्रसादं जन्मतारकम् || कथितं निष्कलावस्थं हंसस्थं परमेश्वरम् | क्रियाकारण निर्मुक्तं दृष्टादृष्टविवर्जितम् || अगम्यम प्रतर्क्यञ्च देहस्थं देहवर्जितम् | यथामणिस्थो तेजस्तु काष्ठस्थो वाहुतारानः || क्षीरस्थस्य यथासर्पिस्तथा शक्तिस्थमीश्वरः | यथापृथिव्यां गन्धस्तु आपेवारससंस्थितः || अनिले स्पर्शनं स्कन्द तथा शक्ति गतः शिवः | आकाशे पक्षिणो गच्छन्पदं नैवोपलभ्यते || तथा कायस्थितो देवो न ज्ञायति सुरेश्वर | प्रयोगेण तु सूक्ष्मेण ज्ञायते साधकेश्वरैः || प्रयोगं संप्रवक्ष्यामि येन विज्ञायसे शिवम् | अष्टत्रिंशत्कलोपेतं चतुर्भेदं पञ्चभूतजम् || पञ्चब्रह्मसमायुक्तं विज्ञायपरमेश्वरम् | निवृत्ति पृथिवी ज्ञेया प्रतिष्ठा आप उच्यते || विद्याग्नेयी विनिर्दिष्टा वायुः शान्तिश्च कीर्तिताः | शान्त्यतीतं परं व्योमं नादं वै यदुदाहृतम् || पञ्चभूताः समाख्याता ब्रह्म शृणु अतः परम् | निवृत्तिः सद्यमित्युक्तं प्रतिष्ठा वाम उच्यते || विद्यास्त्वघोरजा ज्ञेया शान्तिर्ज्ञेया तु पौरुषी | आकाशे नादभित्युक्तं पञ्चब्रह्माः प्रकीर्तिताः || सद्यमष्टकलं ज्ञेयं त्रिदशं गुह्यकं विदुः | अघोरं पुनरष्टाभिः पुरुषञ्च चतुष्कलम् || प्. ४४ब्) ईशानं पञ्चभिश्चैव अष्ट त्रिंशत्कलाः स्मृताः | ऋग्वेदस्तु निवृत्याहुः प्रतिष्ठा यजुषा स्मृताः || सामवेदं स्मृता विद्या बिन्दुश्चाथर्व उच्यते | यत्तच्छान्तं परं देवं पञ्चमं परिपठ्यते || व्यापकं योनिमित्याहुराकाशञ्च निगद्यते | तनु नादं विजानीयाद्यस्मात्सर्वं विनिसृतम् || पञ्चभेदाः समाख्याता युगास्तु शृणु साम्प्रतम् | कलिस्तु प्रथमो ज्ञेयो द्वितीयो द्वापरः स्मृतः || तृतीयं त्रेतमुद्दिष्टञ्चतुर्थं कृत उच्यते | महायुगं समाख्यातं पञ्चमं नादसंस्थितम् || अगम्यं तत्समाख्यातं युगं काल व्यवस्थितम् | अचलं शाश्वतं दिव्यं प्रमाणागमवर्जितम् || निवृत्यादि समारभ्य कल्पयेदनु पूर्वशः | ब्रह्मा विष्णुस्तथा रुद्र कैलाशान्ता च षण्मुख || नादं वै पञ्चमं विद्धि अधिदेवाः प्रकीर्तिताः | ब्रह्मानिवृत्तिरुद्दिष्टा विष्णुर्ज्ञेयो द्विकुब्जकः || रुद्रोमकारमारुढो विद्याया तामसी स्मृता || रजस्तु भवते शान्ता कुटिला सत्व उच्यते | निर्गुणस्तु समाख्यातः पुरुषोयः प्रकीर्तितः || सदाशिव परं यत्तत्पञ्चमं परिकीर्तितम् | नाददेहं महाभाग तच्छान्तः शाश्वतो ध्रुवः || कालाग्नि नरकाश्चैव सप्तपातालका स्मृताः | भूर्लोकश्च भुवश्चैव स्वर्लोकश्च महस्तथा || जनस्तपस्तथा सत्यं सप्तलोकाः प्रकीर्तिताः | तेषामुपरि रुद्रास्तु शतधा संव्यवस्थिताः || दशधा दशधा चैव दिग्विदिक्षु तथोपरि | अधस्तात्तु समाख्याताः शत रुद्रास्तु धीमतः || एतद्ब्रह्माण्डमित्युक्तं पार्थिवावरणे स्थितम् | प्. ४५अ) निवृत्ति प्रभवं सर्वमशुद्धाध्वान उच्यते || पञ्चाष्टकं तथा चान्यं तेषामुपरि संस्थितम् | आपतत्वादितः कृत्वाऽहङ्कारावरणं ततः || तस्योर्द्ध देवयोन्यष्ट्यं बुध्यावरणसंस्थितम् | योगाष्टक परं तस्य गुणाषरण भूषितम् || क्रोधेशाश्च तथा देवास्तेपि अष्टविधा स्मृताः | अव्यक्ता वरणास्ते तु स्थिता वै सिद्धिदायकाः || गुरुपङ्क्ति स्वय धान्यं धातारस्तु मनादयः | भस्मिणस्य तथा दिवारागावरणसंस्थिताः || प्रमाणमष्टकं यत्तद्विद्याष्टक समन्वितम् | विद्यावरणसंस्था तु कथिता वक्त्रजा गुह || मूर्त्तिरष्ट पदं यच्च द्वे विद्ये आशनं तथा | कलावरणसंस्थं तु विद्या देह समुद्भवम् || सकल प्रभवं सर्वं त्रितत्वं यत्प्रकीर्तितम् | यत्तदन्यतमं वत्स परतः संप्रतिष्ठितम् || अकथ्यं तत्समाख्यातं पदं शान्तं सनातनम् | शान्या तु परमं तन्तु नादं परमदुर्लभम् || निर्वाणं तत्समाख्यातं तं शिवं परमं पदम् | तस्यापि परतरं यत्तु गुरुवक्त्रे निवेशितम् || अन्यथा नैव जानन्ते गुरुवक्त्र विवर्जिताः | एतत्प्रसादमित्युक्तं सकलं निष्कलं गुह || कथितं नात्र सन्देहे विकल्पमतिं कुरु | येन त्वं ज्ञायसे मोक्षं निःसंशय करं गुह || शिवशास्त्रे समाख्यातं शिव तत्वं गुहेश्वर | अन्य तन्त्रे न विज्ञातं पशुवक्त्रस्तु सर्वदा || यदाकाशे तु पक्षिभ्य आलयं क्रियते गुह | तदा शिवमयं तत्वं पशुज्ञानैस्तु विद्यते || प्. ४६अ) यदा मेघैर्विना भद्र वृष्टिञ्चैव प्रवर्तते | पशुज्ञानात्तदा वत्स शिव तत्वस्तु लभ्यते || शिक्तायान्तु यदा तैलं लभते पार्वती सुत | पशुज्ञानेषु वत्से शतदा विज्ञायते शिवम् || पुरुषेण विना नारि यदा जनयते सुतम् | तदा शिवं पशुज्ञानैः प्राप्यते कृत्तिका सुत || सर्पिषा तु यदाक्षीरं पुनः सम्भवते गुह | तदा पशूक्तं तन्त्रेषु भवते ज्ञान देहिताम् || मृत्पिण्डा तु यदा लोकाः पटं कुर्वन्ति संहितम् | तन्तुभ्यो वा घटं वत्स्व तदा हेतु विदैः शिवम् || मुष्टिनाहत ते व्योमं पिबते मृग तृष्णिकाम् | यः शिवे ज्ञान रहितः शिवं वै ज्ञातुमिच्छति || न शिवेन विना मुक्तिर्न शिवेन विनागतिः | न शिवेन विना सौख्यं दुर्विज्ञेयश्च य शिवः || शिवात्सर्वमिदं लोके प्राप्नुवन्तीह मानवाः | तस्माच्छिवं तु विज्ञेयं दुःखस्यान्तो भविष्यति || इति कालोत्तरे त्रयोदशशतिके दशमः पटलः समाप्तः || ########### END OF FILE #######