#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: E00012 Uniform title: kāllotara Main title: kāllotara mahātantra Secondary title: bṛhadkālottara Manuscript : NGMPP Reel No. B 29/59 Manuscript No. pra - 89 Description: A version of the Kālottara called Bṛhadkālottara - the Great Kālottara, so called because of it size. Called Mahātantra in the collophon, Notes: Revision 0: Feb. 16, 2013 Part 1 Revision 1: Dec. 16, 2013 Part II added (now complete) Internet publisher : Muktabodha Indological Research InstituteMuktabodha Publication year : 2013 Publication city : Publication country : United States #################################################### ओं नमः परशिवाय || कार्तिकेय उवाच सर्वज्ञाय नमस्तुभ्यं सर्व्वकर्त नमोस्तु ते | अविलुप्तस्वरूपाय चिन्मात्राय नमोस्तु ते || अविलुप्तस्वरूपाय चिन्मात्राय नमोस्तु ते | प्रमाणातीतदेहाय नमः शान्ताय तेजसे || सत्संवित्करणातीत हानादानान्तरात्मने | अनादिनिधनेशाय शिवाय परमात्मने || न(?)मस्तत्वसमारूपाय विभागायामितात्मने | ज्ञानि ज्ञातृ तथा ज्ञेय व्यतिरिक्ताय वै नमः || ज्ञप्तिमात्रस्वरूपाय आनन्दब्रह्मणे नमः | अविद्याव्यतिरिक्ताय विद्यादेहाय वै नमः || भगवन् देवदेवेश सर्व्वानुग्रह शङ्कर | कथितन्तु महातन्त्रं विस्तरेणाशिवापहं | अल्पायुषस्त्वमी मर्त्याः अल्पसत्वाल्पबुद्धमः | अविद्या दुर्ग्रहग्रस्ताश्वि?द्धं वानन्दवञ्चिताः || अतस्तस्नानमादाय ? सूत्रवत् कथय प्रभो | येन विज्ञातमात्रेण शिवसायोज्ययेतां व्रजेत् || मन्त्राणां लक्षणं ब्रूहि स्नानपूजादि विस्तरं | १ब्) नित्यहोमविधानं तु कुण्डलक्षणमेव च || अपि वा सद्विधानं तु आहुतीनां विनिर्ण्णयं | सामान्येन विशेषेण ब्रूहि मे अथ लक्षणं || दीक्षाकर्मविधानञ्च कथयस्व विशेषतः | उत्पत्ति मयि तन्त्राणामवतारं विशेषतः || लक्षणसमयानाञ्च आश्रयाणां च वर्त्तनं | लक्षणं मण्डलानाञ्च आयुधानाञ्च वर्त्तनम् || सरस्वतीविधानञ्च व्याख्यापटलमेव च | अनध्यायविधानञ्च साधकाचार्यलक्षणं || घंटासूत्रविधानञ्च कमण्डलुविधिं तथा | प्रायश्चित्तविधानञ्च विहितानाञ्च लंघने || मृत्युंजयविधानञ्च प्रासादस्य च लक्षणं | अंशकस्य विचारन्तु सिद्धिसाधनमेव च || लिङ्गस्थापनं चैव भूपरिग्रहपूर्व्वकं | प्रामादपिण्डिकानाञ्च प्रतिष्ठां बहुधा पुनः || पवित्रारोहणं यत्नाद् ब्रूहि वृषभलक्षणं | महास्नान प्रमाणं च लिङ्गद्वारविधिं तथा || अन्तेष्टिलिङ्गधूरञ्च व्रतानां लक्षणं तथा | पुष्पाध्यायं तथा शान्तिं धारणा च लक्षणं || एवमाद्यानि देवेश क्रमेण कथयस्व मे | प्. २अ) इति कालोत्तरे महातन्त्रे प्रथमः पटलः || ईश्वर उवाच परं शान्तं निरोग * * *? सं नित्यानन्दमयात्मकं | दशधा तत्स्वरूपन्तु ज्ञातव्यं क्रौञ्चसूदन || अनिर्देशमनादिञ्च सूक्ष्मं ध्रुवमनामयं | विज्ञेयं च तथा नित्यमीश्वर सर्वगं शिवं || परस्यैवंविधं रूपं वाक्पथातीतगोचरं | सर्वप्रमाणरहितमर्धतर्द्धत ? सूदनं || परस्यैवापररूपमद्द? शेन्यच्यते मया | सकलनिष्कलशून्यं कलाढ्यं? खमलंकृतं || क्षपणं क्षपमन्तु कण्ठोष्ठञ्च धूमं स्मृतं | इत्यष्टधा पराख्यस्य स्वराख्य ? कथितन्मया || सदाशिवाख्यदेवस्य शब्दरूपस्य षण्मुख | तस्याष्टधा स्वरूपन्तु ज्ञातव्यं भुक्तिमुक्तये || अन्यथा भवपाशैस्तु कथं मुक्तिमवाप्नुयात् | ज्ञात्वा सदाशिवतत्व शिवं यान्ति निरंजनं || अच्युतमव्ययं शान्तं नित्यानन्दनिरामयं | साधको विमलशुद्धं तस्मात् सकलमभ्यसेत् || शब्दराशिमयं देव सकल परिपठ्यते | प्. २ब्) अमृतश्चासुमांश्चेन्द्रश्वेश्वरश्चोग्र ऊहकं || एकपादैन उजाख्ये? उपमीश्चांसुमानशशी | आदिस्वरा वाचकास्तु वाच्यामी परिकीर्तिताः || व्यंजनानां तु ये वाच्यास्तान् शृणुष्व शिखिध्वज | कामदेवः शिखण्डी च गणेशः कौले शङ्करी || एकनेत्रो द्विनेत्रश्च त्रिशिखो दीर्घवाहुकः | एकपादोर्ध्वचन्द्रश्च वलयो योगिनीप्रियः || शक्षीश्वरो महाग्रन्थि तथैकस्थाद् तद्वद्वन्तुम्वा? | निधशो नदीं पद्मश्च तथान्यः शाकिनीप्रियः | ग्रस्न?विश्वा?भीषणश्च कृतान्तः प्राणसंज्ञकः || तेजश्वी शक्र उदधिः श्रीकण्ठः सिंह एव च | शशाङ्कौ विश्वरूपी च नरसिंहस्तथान्तिमः || एते रुद्राः समाख्याताः अधिकारपदे स्थिताः | शाब्दं रूपं समाश्रित्य जंतूनां शिवदायिनः || विश्वरूपं परं बीजं विश्वात्मा प्रभुरव्ययं | परस्य वाचक ज्ञेयं विश्वमावृता तिष्ठति || चिदचित्तत्व संतानतो तः प्रोतमनेन तु | विश्वरूपमतो यत्नाद् योगिभिः यच्यु? *? स्यते | अनुलोम प्रतिलोम || प्. ३अ) सृत्य?मात्रा समाक्रान्त विश्वरूपन्तु कारयेत् | अशुमन्संयुतं कृत्वा शशिबीजं विन्यसेत् || सकलस्य प्रवक्ष्यामि मन्त्रोद्धरं * *? स्थितं | ईशान मो? * *? क्रान्तै प्रथमन्तु समुह्ययेत्? || तृतीयं पुरुषं विद्धि दक्षिणं पञ्चमं तथा | सप्तमं वामदेवन्तु सद्योजातेन ततः परम् || * * *? तु नवमं पञ्च ब्रह्माणि कीर्तिताः | ओंकारदीपिता मन्त्रा नमस्कारान्तसंयुताः || कर्तव्या सिद्धिदा पुंसा भुक्तिमुक्तिप्रदायिनः | * * * * * *? तीय हृदयश्चाशुमाङ्कितं || ? चतुर्थन्तु शिरो विद्धि ईश्वरं नामनामतः | उहकन्तु शिखा ज्ञेया विश्वरूपसमन्विताः || तमुत्रगष्टसंख्यातनेत्रन्तु दशमं मतं | अस्त्र शशी समाख्यातं शिवसंज्ञं शिखिध्वज || नमः स्वाहा तथा वौषट् हूं वषट् फट् क्रमेण तु | जात षट्क हृदादीनां क्रमेण विनियोजयेत् ||? ओंकारदीपिता मन्त्रा जातियुक्ता फलप्रदाः | एवं ब्रह्माणि चाङ्गानि कथितानि मया तव || शिवमन्त्रमतो वक्ष्ये प्रसादं नामनामतः | शशीना * * * * * * * * * शुरञ्जितं || ३ब्) ओषधाक्रान्त शिरसमूहकस्योपरिस्थितं | अर्धचन्द्राधनादश्च बिंदुद्वितयमध्यगः || तदस्तं विश्वसर्वन्तु? कुटिलन्तु * *? ततः | एव प्रसादमन्त्रस्य देवदेवेन भाषित || सकृत्स्ना?रण मात्रेण सर्वपापक्षयो भवेत् | सप्तधा वर्तयेद् यस्तु सर्वतीर्थफलं भवेत् || अस्त्रज्ञ * * * * * * * *? स्नातको भवेत् | साष्टोत्तरशतं जप्त्वा त्रिःसंध्यं परिवर्तयेत् || पितृन् पितामहाश्चैव तथैव प्रथित * *? हान | अक्षयं शिवलोकन्तु याति तस्य प्रभावतः || एतदर्थं महासेन प्रशस्यं शिवयोगिनां | अथ चित्रं पवित्रञ्च शिवदृष्ट्या करोत्य *? || * * * * *? दीक्षायां विघ्नानां नाशने पुनः | विनायकोपतप्तानां वक्ष्ये पाशुपतं पुनः || शिखाबीजसमुद्धृत्य फट्कारान्तन्तु वै? फटं | अर्धचन्द्रासनं ज्ञेयं कामदेव स तर्पकं || महापाशुपतास्त्रन्तु न शरीरे नियोजयेत् | इत्येकाचरणं ख्यात सकलभुक्तिमुक्तिदं || ब्रह्मणोङ्गानि? च शिवं महापाशुपतं तथा | ४अ) लोकपालास्त्रसंयुक्तं दीक्षाकाले शिवं यजेत् || ओंकारादिनमोन्ताश्च लोके? शास्त्राणि कल्पयेत् | सद्योजातं मूर्तिमन्त्रं प्रसादस्य प्रकल्पयेत् || प्रसादं सकलं प्रोक्तं निष्कलं कथ्यते धुना | इति कालोत्तरे महातन्त्रे प्रसादोद्धरपटलः || अधुना निष्कलख्यस्य प्रोद्धारः कथ्यते मया | सोषधं विश्वरूपन्तु रुद्राख्यं सूर्यमण्डलं (बोत्तोम् ओf थे पगे: विसर्गरहितं विन्दु) || चन्द्रार्धनादसंयोगं विसंज्ञं कुटिलन्ततः | निष्कल परमं मन्त्रं शिवं साक्षात् सदाशिवं || भुक्तिभुक्तिप्रदं पुंसां पंचाङ्गसहितं विभुं | साशुमानविरूपन्तु स बिन्दुं हृदयं महत् || अंशुमान् विश्वरूपन्तु सेश्वरन्तु शिरो मतं | षष्ठमेन शिखाज्ञेयास्तत्रतश्चाष्टमं भवेत् || शशिनाविश्वरूपन्तु फडन्तमस्त्रमुच्चरेत् | प्रणवादि नमोन्तानि शिवाङ्गानि प्रकल्पयेत् || मूर्तिमन्त्रन्तु हृद्बीजं पूजाकाले प्रकल्पयेत् | एकावरणमेतन्तु सर्वकामार्थसाधकं || इति कालोत्तरे निष्कलमन्त्रपटलः || प्. ४ब्) शून्योद्धरं प्रवक्ष्यामि महापातकनाशनं | सकृत्स्मरणमात्रेण सर्वावस्थो पि साधकः || शिवदेहे लयं याति क्षीरक्षीरं यथा?स्थितं | अशूमान् विश्वरूपन्तु सामृतं शून्यसंज्ञकं || ब्रह्माङ्गरहितं यस्मात् तेन शून्यं प्रकीर्तितं | प्रणवं मूर्तिविन्यासे फडन्तं विघ्नशान्तये || एतद्रहस्य परमं नाख्येयं यस्य कस्यचित् | वालवालिसमृद्धानां स्त्रीणां व्याधितात्मनां || भोगिनां योगिनां चैव शून्यमुक्तं शिखिध्वज | कर्मकाण्डविरक्तानां नानास्त्रोतास्ति साङ्करि || पूजनाज्जपनाद्ध्यानार्धं धनार्त्तारयेच्छिवः | शून्यलक्षणमाख्यातं प्राणवज्जापयेत् सदा || इति कालोत्तरे शून्यमन्त्रोद्धरपटलः || कलाढ्यस्य प्रवक्ष्यामि क्रमप्राप्तस्य लक्षणं | अंशूमान् विश्वरूपाख्यमूहकस्योपरिसंस्थितं || कलाढ्यन्तु विजानीयात् सर्वदुःकृतनाशनं | प्रणवादि नमोन्ताञ्च कलाढ्यपटसंयुतं || पदे तत्परमं बीजं भवबन्धविनाशनं | सकलस्य यथाङ्गानि तद्वद्वक्त्रानि चादिशेत् || ५अ) महापाशुपतं * र्धत्? मूर्तिमन्त्रं तदेव हि | एकावरणमेतन्तु कलाढ्यसर्वकामदं || इति कालोत्तरे कलाढ्यमन्त्रपटलः || खमलं कृत देवस्य मन्त्रोद्धरं वदामिते | नरसिंहकृतान्तस्थं तेजसंप्राणमूर्ध्वगं || अंशूमानूहकाक्रान्तमधोर्द्धं खमलं कृतं | चन्द्रार्धनादनादान्तं ब्रह्म विष्णुविभूषितं || खमलं कृतमन्त्रन्तु प्रणवादि नमोन्तगं | अस्य ब्रह्माणि चाङ्गानि क्रमेण कथयामि ते || उदधि नरसिंहं च सूर्यमात्राविभेदितं | यदाकृतं तदा तस्य ब्रह्माणांगानि चोद्धरेत् || प्रथमं तृतीयं चैव पञ्चमं सप्तमं तथा | सद्योजातन्तु नवमं मूर्ध्वादीशादि संस्थिता || द्वितीयन्तु चतुर्थञ्च षष्ठं चैवाष्टगन्तथा | दशमं द्वादशं चेति हृदाद्याजातिसंयुता || पौर्वमीशं महामन्त्र गायत्री इन्दुलाञ्छिता | सावित्री ईश्वरा क्रान्ता वा माया हृदयेन तु || सद्योजातेन मूर्ति स्यात् खमलं कृतमुद्धृतं || इति कालोत्तरे खमलं कृतमन्त्रपटलं || क्षपणस्य प्रवक्ष्यामि मन्त्रोधारं यथास्थितं | प्. ५ब्) पापानां चैव विघ्नानां क्षपणात् क्षपणं मतं || ओजाख्यमंशुमद्युक्तं प्रथमं वर्णमुद्धरेत् | अशूमानांशुमाक्रान्तं द्वितीयं मन्त्रनामकं || अशूमानीश्वरं तद्वत् तृतीयं मुक्तिदायकं | उहकमंशुमानक्रान्तं वरुणं प्राण ओजसं || पञ्चमं तु समाख्यातं कृतांतं तु ततः परं | आशूमानुदकं प्राणं सप्तमं वर्णमुद्धरेत् || पद्ममिन्द्रसमाक्रान्तं नंदीशमेकपाद दृक् | प्रथमचान्ततोयोज्यं मन्त्रमेतद्दशाक्षरं || दशबीजं महामन्त्रं क्षपणं नामनामतः | स्व?स्याद्यं तृतीयं चैव पञ्चमं सप्तमं तथा || सद्योजातन्तु नवमं द्वितीयाद्धृदयादिकं | दशार्णं प्रणवं यन्तु फडन्तमस्त्रमुद्धरेत् || नमस्कारयतानात्र ब्रह्माणांगानि नान्यथा | द्वितीयादष्टमं यो वै दष्टौ विद्येश्वरामताः || अनन्ते शश्च सूक्ष्मश्च तृतीयश्च शिवोत्तमः | एकनेत्रैकरुद्रश्च त्रिमूर्तिरपरस्तथा || श्रीखण्डश्च शिखंडी च विद्येशाष्टौ प्रकाशिताः | शिखंडितोष्यनन्तान्तं मन्त्र चक्रगणेश्वरे || ६अ) मूर्तिमन्त्रन्तु प्रणवं क्षपणस्य प्रकाशितं || इति कालोत्तरे क्षपणाख्यमन्त्रोद्धरपटलं || क्षयमन्त्रस्थ मन्त्रस्य प्रोद्धारः कथ्यते मया | द्याक् पदं प्रणवं तस्य एकवर्णं शिवात्मकं || व्योमव्यापि चतुर्थ्यन्तं द्वितीयं पञ्चवर्णकं | तृतीयं व्योमरूपाय पंचार्णमपरं तथा || सर्वव्यापि चतुर्थ्यन्तं शिवायेत्पथपञ्चमं | त्र्यक्षरं तद्विजानीयात् पञ्चैतानि शिवास्य तु || अङ्गान्युक्तानि शास्त्रेस्मिन् तेषां नामानि मे शृणु | सर्वात्मानं शिरश्चैव ज्वालिनी पिङ्गलस्तथा || क्रमाच्छिवास्त्रमस्त्रस्य उक्तसंक्षेपतो मया | अनन्तायेत्यनन्तस्य वाचकं चतुरक्षरं || अनाथायेति सूक्ष्मस्य पदं स्याच्चतुरक्षरं | अनाश्रितायपञ्चार्णं पदंशिवोत्तमस्य च || ध्रुवाय त्र्यक्षरमन्त्रं एकरुद्रस्य तत्पदं | शाश्वताय चतुर्वर्णमेक नेत्रस्य कीर्तितं || संस्थितायपदं ज्ञेयं योगपीठपुरस्सरं | अष्टार्णन्तु विजानीयाद्वाचकन्तु त्रिमूर्तितः || श्रीकण्ठस्य पदं नित्यं योगिने पञ्चवर्णकं | ६ब्) ध्यानाहाराय पंचार्णं पदमेतच्छिखण्डिनः || चतुर्थ्यन्तानि सर्वानि विद्येशानां महात्मनां | नमः शिवायेति पदं षडर्णं प्रणवादितः || चतुर्थ्यन्तं हि गायत्र्या वाचकं सर्वकामदं | सर्वप्रभुश्चतुर्थ्यन्तं पंचार्णमन्त्रसन्ततौ || सावित्र्या तद्विजानीयाद्दीक्षा कर्मणि पूजने | शिवाय पदमन्यच्च चतुर्थ्यन्तं त्रिवर्णयुक् || विद्येश्वराणां विज्ञेयमुपचारविधौ सदा | पदमीशानमूर्धाय षडर्णं कृत्तिकासुत || तदीशानस्य बोद्धव्यं सप्तार्णं पुरुषस्य तु | स्यात् तत्पुरुषवक्त्राय अघोर हृदयाय च || सप्तार्णवहुरूपस्य तद्वद्वामस्य कीर्तितं | यद्वामदेवगूहाय सद्य स त * *? कीर्त्यते || अक्षरैः सप्तभिस्तद्धि स्यात् सद्योजातमूर्तये | पञ्चैतानि पदानि स्युः चतुर्थ्यन्तानि ब्रह्मणां || प्रोक्तानि मन्त्रमुख्यस्मिन् सर्वनाग? मया तव | पंचार्णमपरं सिद्धं चण्डीशस्य नमो नमः || प्रणवादि प्रयोक्तव्यं सिद्धयेऽध्वरकर्मणि | गुहातिगुहायपदं षडर्णं हृदयं प्रभो || गोप्त्रवर्णद्वयं तस्य शिरः प्रोक्तं सनातनं | ७अ) चतुर्वर्णाशिखाज्ञेया निधनायपदंहितं || सर्वविद्याधिपायेति कवचं सप्तवर्णकं | ज्योतीरूपायपंचार्णमस्त्रमुक्तं महोजसं || नेत्रमष्टात्मकं प्रोक्तं परमेश्वरपूर्वकं | परायचण्डनाथस्य षडङ्गानि शुभानि तु || चतुर्थ्यन्तानि सर्वानि नेत्रान्तानि पदानि तु | सप्तार्णमासन तस्य यत्पदं चेतनात्मकं || अचेतनाचेतनेति पूजाकाले प्रकल्प्यतां | व्योम व्योमपदं योज्यं चतुर्वर्णं तथापरं || व्यापिन् व्यापिन् पुनर्योज्य षडर्णं परमं पदं | तथारूपि तद्द्विरभ्यस्तं षडर्णं परमं तथा || प्रथमेतिर्द्विरभ्यासाद्बोद्धव्यं कृत्तिकासुत | तेजस्तेज इति प्रोक्तं चतुर्वर्णं पदं विभो || ज्योतिर्ज्योति पदं तद्धिविज्ञेयं चतुरक्षरं | सप्तेतानिच्चिरभ्यासात्पिदा?न्युक्तानि साधने || चण्डीशस्योसनं मुक्त्वा षडन्यानि पदानि तु | आसने संप्रयोज्यानि देवदेवस्य नित्य स || धर्मज्ञानञ्च वैराग्यं ऐश्वर्यं कर्णिका तथा | अनन्तेन सहेतानि षट्पदानि क्रमेण तु || त्र्यर्णं पदमरूपाख्यं ततोनग्नि पदं शुभं | तृतीयं * *? द धूमाख्यमभस्माख्यमतः परं || ७ब्) पदं वा नादिसंज्ञेयं नानानेति पदंपरं | धूत्रयेण च यत्प्रोक्तं त्र्यक्षराणि शिवस्य तु || निर्देशे वेदितव्यानि सम्यक् सप्त पदानि तु | ओं भूस्तद्व्यक्षरं ज्ञेयं त्र्यक्षरं वाप्यथो भुवः || निधनाख्यं त्र्यक्षरं स्यात् पदंव्योमशरीरिणः | पञ्चाक्षराविजानीत्यात् पदं यन्निधनोत्भवं || द्व्यक्षरस्याच्छिवपदं द्व्यर्णसर्वपदं ततः | परमात्मपदंज्ञेयं समासाच्चतुरक्षरं || महेश्वरेति तङ्कच्च महादेवपदंहितं | असद्म?वेश्वर एवोक्तं पञ्चार्णक्रौञ्च सूदन || महातेजः पदंप्रोक्तं पदंवर्णचतुष्टयं | पदंपञ्चाक्षरं ज्ञेयं योगाधिपतिसंज्ञिकं || आमन्त्रणपदं तद्धि प्रयोगाद्धिनियोजयेत् | (ओं स्वावर्णर्द्धये नात्र पदमन्यत् प्रकीर्तिअं || त्रीण्येतान्यपि निर्देशे पदान्युक्तानि शासने | अनिधनपदं ज्ञेयं चतुर्वर्णं षडानान || ठेसे थ्रेए लिनेस् इस् बोत्तोम् ओf पगे) अनिधनात् पदाद्यावद्योगाधिपतिसंज्ञकं | पदानाम भवेत् संख्या दशैकञ्च न संशयः || आमन्त्रणपदानान्तु तन्त्रे कालोत्तरा चात्मके | ८अ) मुञ्च मुञ्च चतुर्वर्णं षडर्णं प्रथथात्मकं || सर्वसर्वपदं तंत्रे बोद्धव्यचतुरक्षरं | भवयुग्मपदं तद्वच्चत्वार्येतानि शासने || द्विरभ्यास पदानि सार्धार्द्धद्व्यानि? शिखिध्वज | भवोद्भवपदंसिद्धं वर्णानां तु चतुष्टयं || पदमष्टाक्षरं चान्यत् सर्वभूतसुखप्रदं | सर्वसान्निध्यशब्दाद्यं करान्तं पदमन्य तु || सप्ताक्षरं विजानीयात् परमष्टाक्षरं पदं | तद्धिरुद्रपरान्तस्य ब्रह्मविष्णुपुरस्सरं || एतान्यपि हि चत्वारि संबोधनपदानि तु | अनचितद्विरभ्यस्तमष्टार्णं पदमुच्यते || असंस्तुतमपि तथा तथा पूर्वस्थितं पदं | पूर्वस्थितपदं यावद रूपाख्यात्मकं क्रमात् || द्वा त्रिंशद्विनियोज्यानि केशराण्यासने विभोः | साक्षिन् साक्षिन् चतुर्वर्णं द्विरुक्त्यापदसंततौ || बोद्धव्यं कमलंसौ तद्वाचकं पदमुत्तमं | तुरुशब्दपदंप्रोक्तं विरुक्त्याचतुरक्षरं || पतङ्गमपि षड्वर्णं परस्यात् पूर्ववस्थितं | चतुर्वर्णं द्विरुचान्यपिङ्गाख्यमुदितपदं || ८ब्) तद्वज्ज्ञानपदं ज्ञेयं शब्दशब्दपदं तथा | सूक्ष्मसूक्ष्मपदस्यापि संख्याशब्दपदात्मिका || द्व्यक्षरं स्याच्छिवपदं तच्च संबोधनात्मकं | तुर्वादौ सर्वपर्यन्तान् पदान्यष्टौ शुभानि तु || शक्रादावीशपर्यन्तन्तं दिक्पालानां महात्मनां | वाचकानि महासेन यज्ञकर्मण्यनुक्रमात् || त्र्यक्षरं सर्वदपदं सदाविद्याधिपः स्मृतः | आमन्त्रणपदन्तच्च बोद्धव्यं शास्त्रचिन्तकैः || पंचाक्षरं ब्रह्मशिरः प्रणवादि नमो नमः | तृतीयमपि तद्वर्णं रुद्राण्यावाचकं पदं || शिवायप्रणवाद्यं यच्चतुर्वर्णं पुरुष्ट्रतः | नमो नमः पाशुपतं पदं स्याच्चतुरक्षरं || चतुर्थ्यन्तानि शक्त्यगं पञ्चैतानि पदानि तु | एकवर्णपदं चान्ते वज्रादीनां विधौस्थितं || एकत्रवसमंतानि एकाशीति पदानि तु | अष्टषष्टाधिकं प्रोक्त वर्णानी तु शतत्रयं || अर्चा तु देवदेवस्य समस्तव्यस्तरूपिणः | लक्षणमन्त्रमुख्यानां न च व्यासाय युज्यते || एकोपि वर्णो देवस्य वाचकः परिकीर्तितः | सर्व ह्येकस्य युज्यन्ते यतस्ते शिवमूर्तयः || ९अ) सर्वकर्मकराः सर्व सर्वसर्वार्थसाधकाः | सर्वरूपधराः सर्व सर्वकामोघशक्तयः || शिवदेहोद्भवाः सर्व नमीमांस्याल्पबुद्धिभिः? | प्रमाणमागमं ज्ञात्वाशुद्धाकार्या विमुक्तये || सिद्धये च महासेन साशुद्धातन् फलं क्वचित् | प्राप्तं तच्चाल्पमप्यत्र किं पुनः शिवतां परां || इति कालोत्तरे महातन्त्रे क्षयमन्त्रसंज्ञके व्योमव्यापिनि मन्त्रोद्धरपटलः || ईश्वर उवाच शृणु षण्मुख तत्वेन कण्ठोष्ठस्य तु लक्षणं | विश्वरूपं समुद्धृत्य तेजस्युपरिसंस्थितं || नरसिंहं ततोऽधस्तात् कृतान्तं तदधो न्यसेत् | तस्याधशक्रवर्णन्तु रसं तु तदधो न्यसेत् || प्राणा तु तदधः कृत्वा ऊहकं तदधः पुनः | अंशुमान्विश्वमूर्तिस्थं कण्ठोष्ठपरिकीर्तितं || प्रणवादि नमोन्तञ्च तेन स्याच्चतुरक्षरं | विश्वरूपं वकारस्थं कृत्वा सूर्यकलाहितं || प्रथमन्तु तृतीयं च पञ्चमं सप्तमं तथा | सद्योदेवा तु नवमं द्विचतुषट्तथाष्टमं || दशमद्वादशं चैव हृदाद्या जातिमण्डिताः | ९ब्) कंठोष्ठं परमं मन्त्रं विश्वभूतार्तिसामकं || विषभूतार्तिशमनं दुष्टहिंसकमर्दकं | सर्वं तत्भेदकं मन्त्रं ज्ञेयं चिन्तामणिर्यथा || इति मन्त्राष्टकं ख्याकं शास्त्रेस्मिन् कालसंज्ञके | सप्तकोट्यस्तु मन्त्राणां एकैकस्यासनं स्थितं || इति कालोत्तरे कण्ठोष्ठमन्त्रोद्धारपटलः || ईश्वर उवाच || अथातः सम्प्रवक्ष्यामि सौचं लेसेन तत्ततः | बाह्यावयवसंशुद्धिरङ्गिःशस्तमृदासह || सत्येनववसः शुद्धिरिन्द्रियाणां यमादिभिः | सत्वस्य समतादृष्ट्वा शुद्ध्यर्थमविचारतः || बुद्धिरपि महासेन सद्योगात् परिकीर्तिता | प्राणाः शुद्ध्यन्ति विधिवत् प्राणायामबलात् सदा || ध्यानाच्छुद्धिः समादिष्टाप्रधानस्य गुणात्मनः | चिच्छक्त्याः शुद्ध्यते ह्यात्मा यथोक्तं परमेष्टिना || गृहीत्वा वेणवं दण्डं मूर्धानमवगुण्ठ्य च | ततो यायात्वहिर्मन्त्री विजनं शलिलाश्रयं || माषरेन श्मशाने च त्रिपथे वा चतुष्पथे | माकुले राजमार्गे वाचने चोपवने तथा || देवता यतने वज्र्यं गोरथ्यायां विशेषतः | १०अ) वर्चा मूत्रादिकं वज्र्यं यस्माद्धीकांति कृतनं || कर्णे कृत्वा पवित्रञ्च विट्मूत्रं कारयेत् सदा | उदग्वक्त्रेण तु दिवारात्रौ च दक्षिणाननः || एवमावश्यकं कृत्वा पायुं लोष्टेन मजयेत् | नावलोक्यं स्वकं वचनं चाकाशं निरीक्षयेत् || गन्धलेपापनोदार्थमुचितं शौचमाचरेत् | वस्त्रपुतेन तोयेन निर्मलेनाविकारिणा || गृह्णस्मशिकता शस्ताः कृमिकेशादि वर्जिताः | प्रसन्नदेशसंभूतां सुगन्धावितृणां शुरां || लिङ्गमादौ च संगृह्यति सृभिवाम पाणिना | मृदंभस्य क्षालयेत् प्राज्ञः पाणावष्यं तरांतरं || तावत्य एव दातव्याः पश्चात्पाणि द्वयोरपि | पुरीषस्याप्यथोत्सर्गे कृते शौचं विधीयते || पायोः सप्तमृदो देयाः साक्षामात्राविपश्चिता | तिस्रस्ति स्रोत्तरे पाणौ पश्चाच्चरो भयोरपि || सप्तदत्वा महासेन क्षालयेच्च मृदम्भसा | ततोत्छाय? कटिश्चोरुं जंघे च चरणौ शनैः || शोधयेत् मृदमादाय वामहस्तेन पञ्चधा | करो च मणिवन्धौ? च मृत्तोयेन विशोधयेत् || शौचमेतत् गृहस्थानां द्विगुपश्चिमां मध्यमां | १०ब्) मध्यगे चार्क यत्नात् संध्यासमभ्यसेत् || उत्थितः पूर्वसंध्यायामर्घं पूर्वाननेन तु | आदित्याय प्रदातव्यं जपं चैवोन्छितेन तु || मध्याह्न समये तद्वद्दद्याद्दक्षिणाननेन तु | सायाह्नात्तिष्ठद्दत्वार्घमुपविस्य जपेत्तदा || पुरा तु वेदिकी संध्या सैवी हृदयं शिवं | महामुद्रौ ततो बध्वाक्षमस्वेति विसर्जयेत् || एवं संध्या पुरा तत्र स्नानपूर्वसमाचरेत् | इति कालोत्तरे संध्यापटलं || ईश्वर उवाच || नित्य नैमित्तिकादीनां स्नापमादौ समाचरेत् | तदिदानीं क्रमेणैव शृणु षण्मुख तत्वतः || सर्वकामप्रदं पुंसां शास्त्रेस्मिन् कालसूत्रके | न्यासार्चनादिकं कृत्स्ना विधिस्नानपुरस्सरं || यस्मात्तस्मान्तु सामान्यमादौ स्नानं प्रवक्ष्यते | नदीनदप्रवाहेषु पल्वलेषु सरस्म वा || तडागे दीर्घिकायां वा देवख्याते तथा शुभे | ११अ) पुष्करिण्यां विविक्तायां गृहे वा स्नानमाचरेत् || नक्तये कारयेत् स्नानं कार्यमुद्धृत्यदूरतः | स्नायात्कर्म प्रसिद्ध्यर्थ मृदंसंगृह्यपूर्ववत् || भूः संशोध्यासिना हृद्याशुचि देशि निधापयेत् | द्वाभागादञ्जलिं कृत्वा तीरदेशे गृहेऽथवा || आद्यं भागं मलस्नाने विधिस्नाने परम्मतं | पादौ जंघारु च कटिपायुलिङ्गं स्फिं च द्वयं || हस्तौ प्रक्षाल्यविधिवत् समाचम्य च पूर्ववत् | मृदमुद्धृत्य चास्त्रेण विमर्द्य कचयो द्वयोः || शिरः प्रभृति पादान्तं प्रयत्ने नालभेन् सुधीः | निमर्ज्जनन्तु कर्तव्यं मलस्नान कृते तदा || उत्तिराच्चलमध्यान्त्र संस्पृश्यपूर्ववत्ततः | पितृणां तर्पनं कार्यं ये तु दीक्षाविवर्जिताः || करन्यासं पुराकृत्वा विधि स्नानं समाचरेत् | अस्त्र मनुस्मृत्य मृदं संगृह यत्नतः || भागत्रय पृथक् कुर्यात् हृदयेण यथाक्रमं | अस्त्र जप्तं तथा पूर्व ब्रह्मजप्तं तु मध्यमं || ११ब्) तृतीयं शिव जप्तं तु सकृतमन्त्रेण मन्त्रयेत् | अस्त्र जप्तेन भागेन दिग्बंधं तत्र कारयेत् || शिव जप्तेन तीर्थन्तु वर्तुलं बाह्यसंस्थितं | उत्तराभिमुखो भूत्वा शिवतीर्थन्तदा स्मरेत् || जटाजूटान्नियतितं गाङ्गयं पापनाशनं | ब्रह्माङ्गजप्तभागेन शरीरमवगुष्ठ च || शिवमंत्रमनुस्मृत्य शिवतीर्थस्य मध्यतः | मज्जमेन्मज्जनकुर्माच्छिवतीर्थमनु स्मरेत् || चक्रवत्क्षपचारेण समन्वा मलकादिभिः | तत्रादौ कारयेत् स्नानविधिस्नानमतः परं || विधिस्नानं ततः कार्यमुत्प्लुत्यार्कन्निरीक्षयेत् | तीर्थन्तीरे समाकृष्य हृदां चाकुशमुद्रया || स्नानं मेवं विधं कृत्वा कौपीनं परिवर्तयेत् | द्वादशाङ्गुलविस्तीर्ण दीर्घपट्त्रिंशदङ्गुलं || शतार्द्धसूत्रकं रज्जुः कौपीनं त्र्यंशलंवितं | अच्छिद्रं सुशितं सूक्ष्मं वाससी गृहिणोहितं || सोत्तरीयो पवीतञ्च त्रयाणां ब्रह्मसूत्रकं | उत्तरीयन्तु शूद्राणां ततोधार्यन्न चान्यथा || यावत्पूजा वसानन्तु न चोर्द्ध धारयेत् क्वचित् | अग्रमध्यापसव्यास्तु देवविप्रपितॄन् क्रमात् || १२अ) नमः स्वाहा स्वधा चेति क्रमात् तेषां प्रतर्पणं | संहितां तर्पयेत् पूर्वं लोकपालां ग्रहांस्तथा || यमायधर्मराजाय मृत्यवे चान्तकाय च | वैवस्वताय कालाय सद्यः प्राणहराय च || अत्रिश्चैव भरद्वाजो विश्वामित्रश्च गालवः | पुलस्त्यश्चक्रतुश्चैव तर्पिताः सांतिदाः सदा || पितर भार्ययेत् पश्चान् मातृकान् पैतृकान् पुनः | ततस्तीर्थं समाहृत्य कर्तव्यं तु हृदाहृदि || सितपुष्पाणि सिद्धार्थः नीलदूर्वाकुरांस्तथा | स्नात्वा सिरशि दातव्यास्तिलकं रोचनाहिता || किल्वियं निर्द्दहेत्तीव्रमलक्ष्मी प्रतिहन्यते | विधिस्नानं समाख्यातं उद्देशेन तु षण्मुख || इति कालोत्तरे विधिस्नानपटलः || ईश्वर उवाच || भस्मस्नानं ततः कार्यं जलस्नानादनन्तरं | जलस्नानं विनाकार्यमशक्तः पापनाशनं || भस्ममुष्टिं समादाय संहिता मंत्रमंडितां | मस्तकात् पादपर्यन्तं मलस्नानं पुराहितं || हृन्मन्त्रेण च कर्तव्यं विधिस्नानमतः परं | ईशानं पञ्चधा भस्म विकिरेन्मूर्द्ध्नि यत्नतः || मुखे चतुर्द्धावक्त्रेण घोरेणैवाष्टधा हृदि | १२ब्) वामेन गुह्य देशे तु त्रिदशस्थानभेदतः || अष्टा बन्धेन सद्येन पादानुद्धुल्य? यत्नतः | सर्वाङ्गार्द्द्वलनं कार्यं सद्योजातेन तत्वतः || द्विजस्याद्धूलनं प्रोक्तं राजन्यस्या न्यथाहितं | मुखं विना? तु तत्सर्वमुद्धृल्प?क्रमयोगतः || ललाटमात्रमुर्द्धृल्य? वैश्याः सूद्रैस्त्रिपुण्ड्रकं | अथवा तिलकं कार्यं जपभेदाग्रतः शृणु || प्रख्याल्प हस्तपादौ तु समाचम्य च पूर्ववत् | संध्या पूजादिकं कारौ जपध्यानादि षण्मुख || इति कालोत्तरे भस्मस्नानविधिपटलः || ईश्वर उवाच || यजनं संप्रवक्ष्यामि यथाविधानुपूर्वशः | द्विविधं तच्च विज्ञेयमधिकारानुरूपतः || यतीनां योगिना चैव बाह्यो परत शक्तिषु | अन्तर्यागन्तु विहितं बाह्यपूजा परेषु च || स्नात्वा प्राग्विधिनामन्त्री शिवार्पितमना सुधीः | मायाद्वाक्समयमं कृत्वा स्पर्शं च परिहृत्य वैः || ऐशानं दिशि संस्थं तु पूजागारं मनोरमं | द्वात्रिंशद्वस्तमानं तु विंशद्वस्तमथापरं || वह्यस्तम्भसमायुक्तं चतुर्द्वारं सतोरणं | १३अ) सुगुप्तं विजनं रम्यं प्रकीर्णकुसुमं शुभं || सुधूपामौदगंधायं चर्चितं चन्दनादिभिः | विना?नोपरिसंच्छन्नं मुक्तादामावलंबितं || सितवस्त्रपताकाढ्यं सुविचित्र ध्वजोच्छ्रितं | कुंकुमोदकसंसिक्तं कपूरक्षोदधूसरं || निष्कम्पार्चि प्रदीपाढ्यं दर्पणांशुप्रपूरितं | इति नित्यार्चने शस्तं मन्दिरं भुक्तिमुक्तिदं || एवं विधः संभवतो ह्यभावाच्च मनोरमं | तत्रादावर्घपात्रन्तु कर्तव्यं प्रणवेन तु || चतुःशृङ्गथवृत्ते वा सूर्यायार्घम्प्रकल्पयेत् | शिवगायत्रिमन्त्रेण प्रणवेन हृदाथवा || सूर्यायार्घं प्रदातव्यं सकृन्नित्यं प्रपूजयेत् | अर्घपुष्पादि गन्धैश्च धूपदीपपुरःसरैः || पूजितव्यं प्रयत्नेन क्षमस्वेति विसर्जयेत् | गन्धपुष्पाक्षतोपेतं पुनः पात्रं पूरयेत् || द्वारदेशे च शाखायां द्वारपालान् प्रपूजयेत् | द्वारदक्षिणशाखायां नन्दीश्वर *? नी यजेत् || महाकाल च यमुनंच्चारस्योत्तरशाखगं | सरस्वतीं गणेशं च श्रीरूर्चादुग्वरेच्चयेत् || पुष्पार्घगन्धध्वर्यश्च? वलिना पूज्य षण्मुख | ततः पाशुपतास्त्रेण पुष्पं नाना? च वत्क्षिपेत् | १३ब्) च्छोटिका त्रितये नैव ताल्मपार्ष्णिहतित्रयं | दिव्यान्तरिक्षभोमानान्तेन शान्तिः प्रजायते || कृत्वास्त्रेण दिशाबंधं कवचैनावगुठनं | उत्तराभिमुखोभूत्वा रुचिरासनसंस्थितः || करो शोध्यशिवास्त्रेण भूतशुद्धिं समाचरेत् | ध्वजमुद्रां ततो बुध्या नासाग्रमवलोकयेत् || * * *? प्रदेशविस्तीर्य?वह्निकार्यो क्रमात् श्लगौ? | कंधराशङ्कुवत् कुर्यात् स यूगंचितमस्तकः || पृष्ठवंशं समुन्नास्य दन्तदन्तान्नसंस्पृशेत् | जिह्वाग्र किञ्चिदुन्न्यनातिलंम्नोष्ठलोचनः? || करावस्त्रेणसंशोध्य ब्रह्माङ्गानि क्रमान्यसेत् | कनिष्ठामादितः कृत्वा यावदंगुष्ठगोचरं || ईशादीनि विन्यस्य जेष्ठादि हृदयादिकं | अस्त्रं च तलिकायां तु शिवं हस्ततलद्वये || कूर्ममुद्रां ततो बध्वा तत्रात्मानं तु धारयेत् | अशुद्धं स्वमरुद्र *? भूतशुद्धिंसमाचरेत् || अक्षेशमिन्द्रियमतं क्रमेणैवा नयेत् ततः | आत्मनात्मनि कर्तव्यमात्मनऽशोधनं क्रमात् || मलमाया कलारूपं शोधयेद्देह? पादपं | १४अ) शोधयेत् प्रणवै वत्स प्राणायामैस्तु पञ्चभिः || रेचकेन सकृद्दग्व माया च मस्तकांवधि | तद्भस्मात् प्लवनं तच्च प्लावयेदाशुभस्मकं || शकृदौ कारतो येन रेचकात्थशिखिध्वज | आधारशक्तिं विन्यस्य शक्त्या पद्मं ततो न्यसेत् || आत्मानं रेचके नैव ताराभं तत्र विन्यसेत् | विद्यामुष्टिःस्ततः कार्या ब्रह्मैव स्वग्नि गोचरा || ईशमूर्द्धासंप्रवक्ता घोरहृद्वामगुह्यकः | सर्वाङ्गसिद्धये सद्योमूर्तिस्ते नैव कल्पयेत् || सकलस्तु भवेद् देव पञ्चवक्त्रः सदाशिवः | सुधामयं तथौकारं कुंभाभं कमलामलं || संक्षोभारेचके नैव वौषट्कारान्तजातिना | तेनापूरितमात्रेण संपूर्णा स्वतनुं स्मरेत् || ततः परं समाबाह्य स वाह्याभ्यन्तरं शिवं | मूलेन वौषडन्तेन सूर्यायुतसमप्रभं || व्यापकत्वेन विन्यस्य ब्रह्माङ्गानि पुरान्यसेत् | महामुद्रां ततो बध्वा पञ्चवक्त्र तनुर्भवेत् || उच्चाटनं ततः कार्य तालव्या तु शिवाशिना | तर्जनास्त्रीवलोकेन कुर्यादाशाविरेचनं || १४ब्) वर्मणा यागभूमिं तु वस्त्रवदवगुण्ठ्य च | ततोर्घपात्रमादाय हेमं मृत्मयगोचरं? || अष्टार्णं कारयेद् यत्नात् तदभावतांपरितं? | संहितां मंत्रितं कुर्याद् धेनुमुद्रामृती कृतं || शोधयेदस्त्रमन्त्रेण पुर्यवर्मावगुण्ठितं | शिवब्रह्माङ्गमंत्रश्च पूजयेत् पुष्पसंचयः || आत्मानं पूजयेत् पश्चात् स्थान? शुद्धि समाचरेत् | ततो द्रव्यगणं साध्यं सकृद भुक्षणेन तु || तत्रादौ स्थण्डिले पूज्यं वायव्यां गणनायकं | अर्घचन्दनधूपा * *? रकेन नगीयजा ||? ओं नमः शिवादिभ्य इति गुरुभ्यस्तदनन्तरं | स पीठलिङ्गमस्त्रेण सह्य देवविरेचयेत् || षडक्षरेणमन्त्रेण तथा लिङ्गं प्रपूजयेत् | वस्त्रपुष्पाङ्गरागादि दिशीशान्यां निवेशयेत् || शिवास्त्रे जप्तकुम्भेन स्नापयेद् विघ्नशान्तये | लिङ्गवेदीविनिष्क्रान्त तच्च स्रोसप्रकल्पयेत् || अर्घं स कुसुमं दत्वा लिङ्गव्याप्तिं तु भावयेत् | आधारशक्तिविन्यासं विधिवत् प्रणवेन तु || कंदबन्धधरातत्व कालान्तं पद्मनालकं | पञ्चासद्भावसूत्रन्तु तथा भुवनं कंटकं || १५अ) मायातत्व महाग्रन्थि विद्यां विद्यरविंदकं | वामाद्याः केशरस्थाश्च पूर्वादि हृदयाणुना || मनोन्मनीकर्णिकायां तस्यार्द्धमूर्तिकल्पनात् | धर्माद्यान् बुद्धितत्वे तु सिंहरूपास्त्र पूजयेत् || धर्मज्ञानं च वैराग्यमैश्वर्य वह्नितो न्यसेत् | सितरक्तपीतकृष्णा स्वपृष्ठमवलोकितः || बीजांकुराख्यानन्तञ्च धर्मादीनि यथाक्रमं | इत्यात्मतत्वपीठाधो ब्रह्मस्थाने प्रपूजयेत् || पद्मञ्च कर्णिका पत्रे वामाध्याः कर्णिकोपरि | मनोन्मनी पीठपृष्ठे विद्या तत्वान्तगोचरं || आधारशक्ते वारभ्य मनोन्मन्यन्तमासनं | संपूज्यगन्धपुष्पाद्यैरासनपरमेष्ठिनः || ईश्वराच्छक्तिपर्यन्तं मूर्तिः स्याद्रुद्रसंज्ञके | ततःपरं समाबाह्य व्यापकं लिङ्गमूर्धनिः || इति लेसेन गदितां वशेषेणावधारय | विद्यात्मभेदतो मूर्तिं विन्यस्या भयरूपिणीं || शिरांसि पञ्चभिः पञ्च स देशानेन कल्पयेत् | ततस्तत्पुरुषेणैव वदनानि विभोः स्मरेत् || नाभि हृज्जठरं ग्रिवां पृष्ठं व्यापयथाक्रमं | १६ब्) अंशद्वयं तथा चैव वक्ष्यश्च बहुरूपिणं || कटिश्चैव तथा पार्श्वे स्फिचौमेढ्रंगुदस्तथा | ऊरूद्वितयमेवं स्याज्जातनी च यथाक्रमं || जंघे च क्रमसः पश्चाद् वामदेवेन कल्पयेत् | हस्तद्वयं तथा पादौ बाहुयुग्म स नाशिकं || शिरश्चैव विभोन्नित्यं सद्योजातेन कल्पयेत् | सकलस्तु भवे देवमन्यथा निष्कलः शिवः || ईश्वरः स तु मन्तव्यो विश्वमूर्तिरनेकधा | संस्थितो योगसामर्थ्यान्न च सीदति कर्मणा || क्रीडतः परमेशस्य मूर्तिरेषा ह्यनिन्दिता | शुद्धस्फटिकसंकाशं स्वाङ्गात्थ? किरणोज्वलं || चिन्तयेत् पञ्चमुर्द्धानं देवदेव महेश्वरं | त्रिपंचनयनं सौम्यं पञ्चास्य वारुणाचनं? || दशबाहुविशालाक्षं नागयज्ञे पवीतिनं | नीलनीरजनारा च खड्गाक्षवलया भयं || स त्रिशूलं हरस्याक्तं दक्षिणपञ्चवाहवः | बीजपूरं धनुश्चर्म वरदञ्च कमण्डलुं || वामे तु देवदेवस्य वाहवः पञ्चकीर्तिताः | ईशानं शुद्धकुन्दाभं पूर्वकुंकुमवन्नरं || दक्षिणेऽञ्जनवत् घोरं वामदेवं सदोत्तरे | १६अ) दाडिमीकुसुमप्रख्यं सद्यः पश्चिम दिग्गतं || हिमरासिवयाकारं पञ्चवक्त्रं सदाशिवं | अङ्गुष्ठपर्वमात्रं तु ध्यातव्यं कर्णिकोपरिः || एवं मन्त्रतनुं कल्प्य ततस्तैजोनिवेशयेत् | गुरुवक्त्रापदेशेन कर्तव्यं करणं ततः || सामरस्यं समासाद्य शक्तिमन्त्रात्मशङ्करं | हृत्पुण्डरीकमध्यान्तु सौसुम्नः प्राणवत्सना || द्वादशान्तात् परावृत्य रेचकेन न्यसेत् क्रमात् | शान्तमुद्रासमासाद्य व्यंजयेत् प्रतिबिम्बवत् || सकलयोजयेच्छक्त्या निष्कलं शाश्वतं परं | आत्ममूर्तिरियं प्राहु विद्यामूर्तौ नियोजयेत् || अधिष्ठे यतया तत्र परां मूर्तिं प्रकल्पयेत् | पद्ममुद्रां पुराक्रम्य शिवस्यासनकल्पनं || आवाहन्या तथावाहु नमस्कारेणवन्दनं | स्थापनं शशिकर्ण्या च निरोधिनिष्ठुराहिताः || तद्रूपापरविघ्नानां कालकर्ण्याप्रचाटनं | (आवाहन्या तथाबाहु) मूर्तिमूर्तिमतांरेक्यं संचिन्त्यरविरश्मिवत् | लिङ्गाख्यासन्निधानेन हृदादीनि ततो न्यसेत् || अस्त्रं कराभ्या विन्यस्य कर्तव्यं स्वागतं विभोः | १६ब्) पद्भ्यां पाद्यं प्रदातव्यं मुखेष्ठा च मनं ततः || तत्रार्घसन्मुखं देयं शिवात् सद्योवधि क्रमात् | मलस्नानं ततः कार्यं गन्धतैलामलादिभिः || निर्मच्छयवचूर्णिन ततः सानं समाचरेत् | पयसा स्नापयेद्दध्नाघृतेन मधुना ततः || स्नानं हृदाप्रकर्तव्यं प्रत्येकांतरवारिणा | पुष्पधूपान्तरे देयं सर्वगन्धास्व पश्चिमं || शतं साष्टोत्तरं देयं मडुकानां क्रमेण तु | वामहस्त तले कार्यं मन्त्रकं लिङ्गमस्तकात् || पुष्पं यतपूर्वविन्यस्तं तदार्घेणविसर्ज्जयेत् | गड्डुकामूलमन्त्रेण पताके नाथ कंबुना || जलं देयं लिङ्गमूर्ध्नि शेषं वेद्यांविनिक्षिपेत् | शतंचाष्टोत्तरं सार्धं तत्राधोष्टौ स देव हि || गड्डुकानि प्रदेयानि यथाविधिरनुक्रमात् | शुक्लहेमं सुगन्धञ्च सुरत्नफलं पुष्पकं || किटकङ्कनहाराद्यै नानारत्नविभूषयेत् | सर्वोषधियतधान्यं स्नापयेत् क्र?मसोष्टभिः || द्रव्यालाभे मानसं तु द्रष्टव्याद्रव्यरूपिणी | न वामेन स्पृशि लिङ्ग न कार्यं सून्यमस्तकं || पुष्पवत् पूर्वविन्यस्तं तदर्घेणविसर्जयेत् | वाससा मृदुशुद्धेन विधियं शिवमार्जनं || १७अ) श्रीखण्डकुंकुमेणैव शशिग्रन्थाविलेपयेत् | कटकङ्कं न हारादि नानारत्नैविभूषयेत् || रत्नैः सुवर्णै वस्त्रैश्च ततः पूजां प्रकल्पयेत् | पुष्पार्घगन्धपुष्पैश्च संपूज्यपरमेश्वरं || गन्धपुष्पार्घ दीपादीन् सद्योजातेनकल्पयेत् | प्राणाङ्गरहितं देयमत्रधूपादिकं विभोः || वस्त्रालङ्कारताम्बूल वामदेव न कल्पयेत् | जपहोमार्चनादीनि तृतीयेन समर्पयेत् || नैवेद्यं पुरुषेणैव पूर्वस्यां दिशि विन्यसेत् | ईशाने न विभोः कल्प्याछत्रमानामनादिकं || यान्यनुक्तानिकर्माणि बहुरूपेण कल्पयेत् | निवर्त्येवं विभोः पूजामीशानमीशकोणगं || गोक्षीरधवलं ध्यात्वा पूजयेत् कुसुमादिभिः | कर्णिकारदलप्रख्यं प्राग्दले पुरुषं न्यसेत् || अघोरं दक्षिणस्यां तु भिनाञजन च यो पमं | दाडिमीपुष्पसंकासं वामदेव सद्योत्तरे || पश्चिमस्या मजातन्तु संखकुंदेन्दुसन्निभं | स्नानायां? हृदयं पूज्यं मुक्ताफलसमद्युतिं || स्वच्छवैडूर्यसंकासमीशान्यां तु शिरोहितं | शिखां तु नै-ऋते भागे तडित् रूपं? समप्रभां || कृष्णवर्णन्तु कवचं वायव्यं दिशिविन्यसेत् | १७ब्) नेत्रन्तु पुरतो देयं सोमसूर्याग्नि स प्रभं || दलाग्रेषु न्यसेदस्त्रं ज्वलत्पावक स प्रभं | एवं वक्त्रानि चाङ्गानि भोगस्थानेषु विन्यसेत् || प्रतिबिम्बस्वरूपाणि विभूतो विभुवद्यजेत् | पाद्यमाचमनं चार्घं दद्याद्वा चाष्टपुष्पिका || पूज्यं नीलोत्पलाद्यैश्च कुंदवंपकजातिभिः | कुब्ज?धूतूरकवकैः करवीर स पाटलैः || कदम्बदमनाद्यैश्च अखण्डेरगु?प्सितैः | नैवेद्यं विविधं दद्यान्नानापात्रेषु भक्तितः || पायसं सघृतान्मिश्र फलमुलाशुकं दधि | खंडखाद्यान्यनेकानि मुङ्गमाल्योदनं? तथा || अशोकवर्ति सष्कुल्या?पूपिकांघातिकां तथा | कंदमूलानि शुद्धानि व्यञ्जनानि बहूनि च || घनं स्निग्धं सुशीतञ्च क्षीरं देवाय दापयेत् | वक्त्राङ्गानां पृथक् देयमभावादेकतोपि वा || अनन्ताद्यादलाग्रेषु विद्येशानस्तत्र पूजयेत् | पीठकण्ठे गणेशांस्तु लोकेशानपीठपादतः || तदस्त्रां स्थिति देशे तु स्थिरे ब्रह्मशिलोपरि | एवं स्वव्याप्तिभेदेन विभोरावरणं न्यसेत् || एवं संपूज्यविधिवत् मुखवासं विभोददेत् | स चन्द्र चैव तांबूलं हस्तोद्वर्तनमेव च || दीपमालातु पूर्वस्यां धूपं दद्यात् ततः क्रमात् | १८अ) ततोनिर्मत्सनं कार्यमर्घपाद्यादिकं क्रमात् || ततो ध्यानं प्रकर्तव्यमेकाग्रमनसा सुधीः | ब्रह्माङ्गैरावृतं देव मनन्तेन्द्रास्तु गोचरैः || प्राणवर्ति तिरोधेन जपं कार्यन्तु मानसं | न ध्याता न तथाध्येयं विकल्पातीतगोचरं || लोलीभावं यदाप्राप्तं तदस्ति परमार्थतः | मानसं मनसाकार्यं भाषान्तालोष्ठघा ततः || रुद्राख्यमालां संगृह्य शतसाष्टोत्तरां शुभां | अभिन्नैः कारयेत् तान्त्र प्रत्यग्रैः कण्ठकान्वितैः || एकवक्त्रेस्तिवक्त्रैश्च श्वतुर्वक्त्रैविशेषतः | षट्वक्त्रैः सर्वसिद्ध्यर्थं पञ्चवक्त्रैस्तथैव च || सप्ताष्टनववक्त्रैश्च दशैकादशवक्त्रकैः | अक्षसूत्रं प्रकर्तव्यंमक्षमालाथ षण्मुख || हृदासंपूज्यसूत्रं च चन्दनरवगुण्ठ्य च | अङ्गुष्ठेनामिकामध्ये तर्जन्या वा विवर्तयेत् || ततोग्रे?वविसाने तु नागेन्द्रपरिवर्तनं | शतमष्टोत्तरं जाप्यं यदास्यात्मक लंघनं || नासंख्यं न परिभ्रान्त जप्यं कुर्यात् कदाचन | अष्टोत्तरं शतं यत्नात्मूलमंत्रं जपेत् सुधीं || दक्षजानुंक्षितौ कृत्वा जपं तु विनिवेदयेत् | शिवेन शिवसव्ये तु गन्धासमाख्यातं यथावदनुपूर्वशः || १८ब्) विलोमं नात्रकर्तव्यं नन्यूनं नाधिकं क्वचित् | यथोक्तं कारयेत् समाकर्मा?देहान्तं षडानन || समयी पुत्रकाचार्य साधकेनविशेषतः | नित्यमेवप्रकर्तव्यं यावज्जीवं शिवाज्ञया || इति कालोत्तरे अर्जनविधिपटलः || ईश्वर उवाच || पूर्वस्यां कारयेत् कुंडं वेदाश्रं हस्तसम्मितं | एकत्रिमेखलं वापि पञ्च वा स्थंडिलेहितं || आरण्यसंभवो ह्यग्नि द्विजमंदिरयोथ वा | सूर्यकान्तात्भये वापि तथा वाधो कुलाहतं || पात्रे कृत्वा शिवा प्रोक्षु वेष्टयेत् कवचेन तु | अस्त्रेणोल्लेखनं कुर्यात् समिदग्रेणमंत्रिणा || तिस्रः पूर्वमुखारेखा रेखका चोत्तरामुखा | अङ्गुष्ठानामिकाग्रेण कृत्वान् किरणमेव च || निकुट्टनन्तथा कार्य वर्मणास्थक्षणन्ततं | चतुष्पथमथास्तीर्य गायत्री विष्टरे न्यसेत् || हृदासंपूज्य गायत्रीं गन्धपुष्पश्रगादिभिः | मृत्पात्रे ताम्रपात्रे वा ग्राहयेज्जातवेदसं || १९अ) स्वचूलुकैः स्त्रिभिः | मूलमन्त्रदशांसेन ब्रह्माङ्गानि जपेत् ततः | निवेद्य हृदयादीनां शिवं संप्रार्थ्य यत्नतः || अग्न्यागारं ततो गत्वा होमं कुर्याद्विधानतः | अग्नि कार्यन्तु निर्वर्त्य दिक्षुदेयो बहिर्वलिः || दशदिक्ष्विन्द्रपूर्वाणां सर्वान्न हविषा सुतः | समाचम्यापसंस्पृश्य करन्यासन्तु कारयेत् || शिववक्त्रगसहितं शिवकार्यन्तु कारयेत् | प्रदीपधूपनैवेद्य वलोहोमे विशेषतः || स्वाहाकारः प्रकर्तव्यः शेष चैव नमस्कृतिः | स्तोत्रैस्तुत्वा प्रणमाशं क्रियां तस्मै समर्पयेत् || विलोमार्घं ततो दत्वा चिन्त्ययेत् तारका कृतिं | वह्ने विसर्जनं कार्यं तत्र चान्यत्र धारणं || ईशान्यां चडनाथं तु हूं फडन्तेन पूजयेत् | वस्त्रान्नगन्धपानार्घनिर्माल्यादि पवित्रकैः || विसर्ज्यचार्घपात्रं च समाचम्यापसंस्पृशेत् | न्यासं कार्यं यथाशक्त्या जप्तव्या शिवसंहिता || शिवार्चनं कुण्डबाह्ये त्रिधा ज्ञात्वा? ध्रुवेणैवावतारयेत् | १९ब्) योनौ तु बीजवत् क्षिप्त्वा सद्व्योमस्थं शिवं स्मरन् || सद्योजातेन च हृदादद्यादाहुतिपंचकं | मर्त्यधानं भवेद् एतत् ततः पुंसवधां भवेत् || शिरसा वामदेवेन कुशाग्र लवकं क्षिपेत् | पुरुषो जायते तेन स्त्री न च नपुंसकं || कृत्वा पुंसवनं ह्येवं शीमन्तं कारयेत् ततः | वक्त्राणां कल्पनां कार्या पंचानामनुपूर्वशः || कल्पनानिः कृतिः प्रोक्ताः शास्त्रेस्मिन् कृत्तिका सुत | देह कृष्टिस्ततः कार्या साष्टत्रिंशत्कलात्मिका || मुखष्याणाक्षिकर्णा च समादा मनसा स्मरेत् | शिखयाघोरमंत्रेण कार्यं कर्म त्रयं तथा || वक्षणि?कल्प्यदेहं च सस्यं दत्वक्रमात्त्रयं | इति कर्मत्रयं नाम सीमन्तमष्टमेहितं || वक्त्राणानिः कृतिः क्लिप्तिरुद्घाटं कृत्तिका सुत | ततोरजातकर्मञ्च कार्यं वक्त्रेण वर्मणा || ततोग्नि वक्त्रवक्त्रेण कुर्यान्नालापनोदनं | अनलञ्च तथा प्रोक्ष्य सद्यः सूतकशुद्धये || रक्षार्थं जात मे? भस्मदर्भास्तरणमारभेत् | पूर्व च दक्षिणे चैव तथा चोत्तरपश्चिमे || ततः परिधयो देयाः सत्वरो पलाशवृक्षजा | बाहुमात्रमाणेन विष्टरं वा दशाङ्गुलं || २०अ) ब्रह्मविष्णुहरेशानं विष्टरस्थं प्रपूजनं | लोकेशाः परितः पूज्याः स्वास्त्रवाहनसंयुताः || आधानाज्जन्मपर्यन्तं तिलेनाहुतयो ददेत् | जातकर्मसमाख्यातं नामकर्म ततः परं || आज्येन तत प्रकर्तव्यंमाज्यशुद्धिरथोच्यते | प्रताप्य श्रुक्श्रुवा वर्मा वच्छिन्नाग्रैः कुशैः स्पृशेत् || अग्रमग्रेणमध्यञ्च मूलं मूलेन च क्रमात् | त्रिःकृत्वेवं शिवास्त्रेण स्वदिक्षु दक्षिणतो न्यसेत् || प्रतापयेदग्नि कुण्डे गोघृतं ताम्रभाजने | निरीक्षणं ततः कार्यं मानौसंस्थापयेत् ततः || दर्भकांडौ समादाय नामप्यशकृतास्पदौ | अङ्गुष्ठानांमिकाभ्यां तु प्लवनं तत्र कारयेत् || वाचत्रयसंमुखं स्यात् संप्लवं तु पराङ्मुखं | ततोदर्भात्मकं गृह्य त्रिःप्रभ्राम्य क्षिपेदधः || नीराजनं समाख्यातमवद्यातन्त्र द्योतनं | तदुल्मुकं क्षिपेदद्यापयग्नि करणं शृणु || उल्मुकं चैव त्रीन् वारान् प्रक्षिपेदाज्य मध्यतः | पर्यग्निकरणं प्रोक्तं हृदासर्व प्रकल्पयेत् || धेनुमुद्रां ततो बध्वा पतन्तममृतं स्मरेत् | वक्त्राभिघोरसंधाने वक्त्रे क्ष?ञ्च समाचरेत् || २०ब्) पश्चिमादीशपर्यन्त स्वमंत्राहुति योगतः | वक्त्राभिघोरं कथितं वक्त्राणां दीपनं परं || शिवाणुता तु संधानं द्वाभ्यां तु परिकल्पयेत् | पुरुषाघोरवक्त्राभ्यामुत्तरपश्चिम द्वये || एकैकाहुतिहोमेन संधानं तत्र कल्पयेत् | द्वाभ्यां चैव तु वक्त्राभ्यामाहुत्येकं प्रदापयेत् || पञ्चाहुति प्रयोगेन वक्त्रसंधानमीरितं | ईशानैमक्षयं होमं पुरुषे अणिमादिकं || प्रायश्चित्तादिकेघोरं तथा वै क्रूरं कर्मणि | वश्याकर्षण होमे तु वामदेवेन होमयेत् || नित्यकर्मविधानन्तु वक्त्रेस्मिन् पश्चिमेहितं | एवं ज्ञात्वा महासेन संकल्पं कुंडमानतः || वन्धकीकरणं ह्येवं नान्यथाकारयेत् युत | मुख्यभूतास्य होतव्यं गौणानान्यमुखानि तु || नामकर्म च कर्तव्यं शिवाग्निरिति तत्वतः | शेषसंस्कारसंसिद्ध्यै पश्चात् पूर्णां प्रपातयेत् || निःक्रामनान्नप्रासञ्च व्रतबन्धनमेव च | चूडागोदानपर्यन्तं व्रताहं पूर्णया कृतं || अथवान्यप्रकारेण शिवाग्निं कारयेत् क्रमात् | आत्मविद्या शिवाख्यं च त्रिधापूर्णाप्रदापयेत् || शिवाग्नि जायते तेन सर्वसंस्कारवर्जितः | ज्ञानाग्नि जनयेद्वाथ सर्वकर्मसुसिद्धिदं || २१अ) हृत्पुण्डरीकमध्या तु सौसुम्नेन यथासुतः | सूर्यायुत प्रतीकाशं निक्षिपेत् कुण्डमध्यगं || नित्यनैमित्तिके काम्ये ज्ञानाग्निं तु शिवप्रदं | वागीश्वरीश्वरश्चैव हृत्मन्त्रेणविसर्जयेत् || आज्यपात्रं समादाय श्रुवेणाहुतयो ददेत् | सूर्यायेति च सोमाय ताभ्यां स्वाहान्तसंयुतं || अग्नये स्विष्ट कृतये स्वाहेति पदमुच्चरन् | जुहुयात्? कर्मसंसिद्ध्यै आहुतीनां चतुष्टयं || ततो हृदयमन्त्रेण शिवाग्ने स्वहृदि न्यसेत् | आसनं कल्पयेत् पश्चात् कुण्डमध्ये यथाविधिः || कर्माशयानुरूपेण मूर्तिवक्त्रं प्रकल्पयेत् | हृदम्बुजात्परं शान्तमाधेयत्वेन विन्यसेत् || पुष्पार्घगन्धधूपाद्यैः सकृदेवात्र पूजयेत् | महामुद्रां ततो बध्वा नमस्कारन्तु कारयेत् || ततो मूलेन होमन्तु यथाशक्त्या तु कारयेत् | ब्रह्माङ्गानां दशांसेन स्वाहान्तं होमयेत् सदा || घृतेन पयसा वाथ तैलैर्वा घृतमिश्रितैः | यवैर्वा ब्रीहिभिर्वाथ गुग्गुलेन घृतेन वा || नित्यहोमः प्रकर्तव्यः काम्यहोममथोच्यते | दूर्वाघृताज्यं शान्त्यर्थं समिधंस्ति मधु प्लुताः || जातीचम्पकपद्मानि श्रीपत्राणि फलानि च | श्री कामानां हितहोमं करंवीरं च मे हितं || २१ब्) राजिकालवणं तद्वत् पीतपुष्पाणितम्भने | तिलाज्यं कर्षमात्रं तु होतव्यं कर्मसिद्धये || तिलान् मृग्याथ जुहुयात् यवादीन् कम्बुमुद्रया | मुष्टिना तण्डुलान्येन पुष्पादीन् कुम्भकेन तु || पायसंव्यञ्जनादीनि पताकेन तु होमयेत् | कर्क्कधूकप्रमाणेन गुग्गुलं होमयेत् सदा || घृताक्तं गायसं होमं हस्तार्द्धमात्रप्रमाणतः | ग्रासमात्रसदाहोम्य मोदनस्याहुति त्रयं || श्रुवमात्रं व्यंजनानां भक्षाहोम्यास्वमानतः | हपरामलवद्धाम्या लावणं कर्षमात्रकं || लाजा सिद्धार्थका होम्यामुष्टिमात्रप्रमाणतः | फलानां कुसुमानां च स्वप्रमाणमभीप्सितं || कंदमूलफले स्वेवं संस्कृतेषु षडानन | कंदमूलफलान्येवं नित्ये काम्ये च शस्यते | भगदरनिवृत्यै तु राजयक्षणि शक्तुना | उच्चाटने त्रयकंबुकेशास्थानि च होमयेत् || तीक्ष्णतैलेन समिधो विभीतकसमुद्भवाः | चिन्त्यद्धप्राणि? सर्वाङ्गः होमो विद्वेषकर्मणि || ऊर्ध्वं शुक्लस्तु? कर्तव्यस्तरुभिः कृतनिश्चयः | प्रेतदारुश्मशानात्करसृग्मिस्रंस्तु शस्यते || उच्चाटयति शुक्रस्य नात्र कार्याविचारणा | कट्टकण्टकिनोवृक्षा ज्ञातव्या ह्यविचारके || २२अ) शान्तपुष्टिवशाकर्षे क्षीरिणभारं स्मृताः | मधुः प्रशम्यते होमैः श्रुवमात्र चैव साधने || चतुष्पदानां सर्वेषां मायषि शम्यते पयः | पलनात्रञ्च मधुरं सदोत्कृष्टापल द्वयं || सर्वाप्याय न सिद्ध्यर्थं होतव्यं त्रिमधुना सह | निर्द्धूमे होमकर्मस्तु प्रशस्तं नान्यथा शुभं || प्रदीप्त?दक्षिणावर्ते होमः सर्वार्थसिद्धिदः | अन्यवर्णाञ्च गत्वाश्च शब्दाश्चाकृतयस्तथा || विकाराश्च शिखाश्चैव ज्ञातव्याः साधकेन तु | पद्मरागद्युतिः श्रेष्ठो लाक्षीरसयमप्रभः? || बालार्कवर्ण्यहृतन्तुक जयार्थं शम्यते नृणां | इन्द्रगोपकसंकाशा हितोभोगेथपावकः || शक्रचापनिभः शस्तः कुंकुमाषुनिभस्तथा | रक्तवर्णं सदावाग्निः प्रशस्तः सर्वसिद्धिदः || तप्तचामिकरप्रख्या हरितालनिभश्चयः | हरिद्रामनशील नटीवर्णारोचनाभश्च शम्यते || स्तंभने पीतवर्णस्तु रक्तानशाविधौहितः | पठ्यदाञ्जननिस्त्रिंश तुलावर्णे न सिद्धिदः || मारणोच्चाटनोच्छेदे कर्मणास्मिन् सदाहितः | शंखस्फटिकुंदेंदु वर्णाद्यायमुसिद्धिदः || शान्तैके पौष्टिके चैव सोभनः सर्वदाननः | २२ब्) मार्जाराक्षतितः शस्तः शुकपिच्छाभ एव च || मयूरकण्ठसदृशस्तथा पारावतोपसः | विचित्रो हयमानो यः सहसैव प्रजायने || ज्ञात्वा कर्मानुरूपंस्याद् यस्ययस्यानुरूपतः | कर्मणः सततं ग्राह्यस्त्याज्यावा तद्विलोमतः || सुगन्धद्रव्यगन्धौग्नि घृतगन्धाऽथसोभनः | आयुषः पद्मगन्धश्च बिल्वगन्धश्च षण्मुख || उग्रगन्धाभिचारे तु प्रशस्तः सर्वदा नलः | नीलोत्पलसमागन्धः सोभाग्यसस्यते सदा || हूयमानायदावह्निः मुरजाम्बुदनिःस्वनः | तदाहो तु विजानीयात् कर्मसिद्धि समीप्सितां || जीमूतवल्लभीसंखमृदंगंध्यतिरूपकः | सद्योमिः सिद्धये हेतुरतोन्यश्च विपर्ययः || च्छत्राकरभृगुः श्रिष्टोध्वजचामरसन्निभः | वृषकुञ्जरयोनेन तुल्योग्निः पुष्टिदः सदा || विमानादि वितानाना प्रासादानाञ्च यो भवेत् | आकारे च हंसानां मयूराणाञ्च शस्यते || सिंहाकृतिर्यदावह्निः सद्यः सिद्धिकरः स्मृतः | घनाः स्निग्धाः पण्डिताश्च निर्द्धुमाश्चाति भास्वराः || भृगवः सर्वदाशस्ताद् सिद्धाये सर्ववस्तुनः | २३अ) रूक्षश्चटचटाशब्दस्तथासिमिसिमिध्वनिः || खरोष्ट्रमहिषादीनां रूपमंत्रमसिद्धये | स्निग्धः प्रदक्षिणावर्तः सुशब्दश्चश्चापि यो भवेत् || वेद्यः सार्थप्रदासिद्ध्यर्थमन्यथा निस्फलो भवेत् | घनाः स्निग्धाः पिण्डिताश्च निर्द्धुमाश्चापि भास्वराः || एवं विधाः प्रशम्यन्ते भृगवो नात्र संशयः | उल्लिखेद्धमुध्यंयश्चयश्चाधः शिख एव च || नहेतद्भुक्तिमुक्त्यर्थं शास्त्रकालोत्तरात्मके | पूर्णां ततस्तु निक्षिप्य शकृन्स्मृत्वा तु संहितां || पुष्पाञ्जलि क्षिपेद्वह्नौ क्रमात् मुद्रा प्रदर्शयेत् | भस्माता तिलकं कृत्वा फलं संहारमुद्रया || पूरकेन हृदिकृत्वा शिवहस्ते प्रदापयेत् | पूजयेत् परया भक्त्या पुष्पार्घ्यादि विलेपने || स्तोत्रैस्तुत्वा महादेवं आगमान्तैः शिवात्मिकैः | दक्षजानुं न्यसेद् भूमौ धार्यपुष्पाञ्जलिं हृदि || संहितान्तु समुच्चार्य शिवैकाहितचेतसा | पूजाजपाग्निकार्याद्यं सुकृतं यत्मयार्जितं || तत्फलं परमेशान मया तुभ्यं समर्पितं | कर्मणामनसा वाचा त्वंगति महेश्वरः || एवमुक्त्वा स्वशब्देन विभोः संव्यसमर्प्ययेत् | पराङ्मुखं ततश्चार्घं सद्योजाताच्छिवावधिः || २३ब्) अस्त्राद्धृदये पर्यन्त गन्धधूपश्रगादिभिः | मुद्राष्टकं क्रमाद् देयं शिवस्यात्रविसर्जने || ब्रह्माङ्गानि ततोलिङ्गे प्रवेष्टानि विचिन्तयेत् | क्षमस्वेति महादेवं संस्थाप्यं च समुत्सके || चलाचले विधिह्येषः फडिले तु विशेषतः | किंतु स्नानविधिहीनन्तु प्रागुक्तं स्थण्डिलेहितं || गणेशस्य गुरोस्तद्वत् ततः कार्यं विसर्जनं | शिवाग्नेर्द्वारणं पुंण्यं तस्मादुद्धृत्यवाहितं || विसर्जयेथ वा वह्नौ ततश्चार्घविसर्जयेत् | सर्वगन्धपहारैश्च ऐशान्यां यागमन्दिरे || वस्त्रान्नगन्धनैवेद्य शिवोत्थानि सर्प्ययेत् | नमश्चण्डीश्वरायेति विसृज्यहृदिनाहृदि || क्षीरोदनाज्यसात्मश्रैर्व्यञ्जनेश्च निसमियेः | वाह्यभूतवलिदेयः सर्वदेवार्चनेषु च || समाचम्यापसंस्पृश्य संहितां तु सहृत्स्मरेत् | इति नित्यार्चनविधिः कथितास्ते मयासुत || इति कालोत्तरे नित्यावह्निकपटलः || ईश्वर उवाच || अथातः सम्प्रवक्ष्यामि कुंडानां लक्षणं क्रमात् | मेखलानां श्रुक्श्रुवाभ्यां तु प्रमाणं कृत्तिकासुतः || चतुरस्रं तु पूर्वस्यां कुण्डंसाम्राज्यसिद्धिद्धं | २४अ) शत्रूणां स्तापने शस्तं योन्याख्यमग्निकोणगं || अर्धचन्द्रन्तु याम्यायां शत्रूणां मारणे स्थितं | त्रिकोणं नैर्-ऋतेकोणे विधूणां व्याधिवर्द्धनं || वायव्यां तु षडश्रं हि शत्रूणां चालनेहितं | सौम्यायां पद्मसंज्ञं तु श्रीमेधापुष्टिदं नृणां || सर्वकामप्रदं कुण्डमीशान्यामष्टकोणकं | हास्तिस्तंकं निहोमे तु वृत्तं वा चतुरश्रकं || पूर्वस्यां पश्चिमस्यां वा योगपीठान् प्रकल्पयेत् | नित्यहोमे तु कर्तव्यं तथैवेशानगोचरे || नन्यूनानाधिकाकार्या पुनरुक्ता च गर्हिता | संपूर्णाफलदापुंसाशबलागहिता तथा || क्रियाक्रियाज्ञैः कर्तव्या स्वशास्त्रे तु यथोदिता | आद्यावेदाङ्गुला कार्या त्र्यङ्गुलाद्व्यङ्गुला ततः || गांभीर्यं मुखवत् कुंण्डे योनिवर्द्धन विस्वृता | नदाङ्गुलान्तु दैर्घैण गजोष्टाकारसन्निभा || नाभिरङ्गुलमानेन मेखलाधोत्तरे स्थिता | कुंडरूपानुसारेण योनिः कार्याः न चान्यथा || योनावभान्तरेवाथ कुण्डरूपेण कल्पयेत् | इति नित्यविधौ कुण्डं नैमित्तिकमथोण्डते || सहश्रायुतहोमे तु हस्तहस्त द्वयं मतं | चतुष्टरं लक्षहोमे दशलक्षे तु षट्करं || अष्टहस्तं कोटिहोमेनोर्द्धमस्मात् परं भवेत् | २४ब्) द्विकरस्यात्र कुंडस्य मेखला षडङ्गुला || वेदाङ्गुला मध्यमा तु अन्तिमात्रिभिरङ्गुलैः | चतुष्टरस्य कुण्डस्य पूर्वानेम्यङ्गुलाष्टकं || षड्भिरमध्याङ्गुलैः शस्ता तथैवात्याङ्गुलेस्त्रिभिः | तत्राद्या मेखलाकार्या षट्करस्य दशाङ्गुला || अङ्गुलैरष्टभिश्चान्या वाह्यनेमिः षडङ्गुला | करार्धेनाष्टहस्तस्य मेखलाद्या तु कारयेत् || द्वितीया तृतीया तस्या दशाष्टाङ्गुलिसम्मिता | सर्वेषा चैव कुण्डानां योनिः स्याद्वास्तिके यथा || द्व्यङ्गुला द्वयङ्गुलावृद्धि विस्तारायामतोहिता | विभागः कुण्डयोगनीनां लक्षणं लेशतः शृणु || समन्त्र चतुरस्रन्तु वेदाश्रनामनामतः | तुर्याग्रेनार्द्धकोणार्द्ध तुर्यत्यागपरिभ्रमात् || स्वक्षेत्राष्टौ शतोग्रे तु दद्यात् तत् तत्क्षत्रसंगमात् | होतासनं मतं कुण्डं शक्तिमंत्रेषु जुतिदं || विकारभक्त्रं वेदाश्रं पुरुतांशद्द्वयं विना | मनुभागसमं सूत्रं भ्रामयेदर्द्ध चन्द्रवत् || अर्द्धचन्द्रमतं कुण्डं रौदमंत्रेषु सिद्धिदं | तुर्याश्रं पूर्ववत् कृत्वा षडर्शपुरतो नयेत् || लान्च्छयेत् तेन मानेन क्षेत्रार्द्धान्मीन तुर्यतः | २५अ) षट्सूत्रपातनात् स्पष्टं षट्कोणं जायते तदा || वायव्यानां तु मंत्राणां शक्तानां फलसिद्धिदं | षट्कोणार्धं त्रिकोणं तु रौद्राणां सर्वसिद्धिदं || अर्द्धकोणार्द्धकोणे तु वस्वं सत्यागतो भ्रमात् | वर्तुलं सर्वमंत्राणां सिद्धिदं नानृतं वचः || पद्मंपद्माकृतिं कुर्यात् वृत्तमानेन षण्मुख | मध्यनेम्यां? तु पत्राणि पूर्वतत्र कर्णिका || आप श्री कीर्तिदारोग्यं सर्वमंत्रेषु शस्यते | विकारांशपरित्यागात् कोणादग्रं तु लान्छयेत् || दिक्षुसंस्फालयेत् सूत्रमष्टाम्रन्तेन जायते | कुण्डानां लक्षणं प्रोक्तं श्रूक्श्रूत्वालक्षणं मतः || वाहुमात्राप्रकर्तव्या श्रुवावै कङ्कती मता | शालचन्दनशाकोन्छाशिंशपासरलोत्भवा || खादिराश्वच्छजावाथ कार्या वै श्रुक्श्रुवस्तथा | वेदिकाष्टाङ्गुलीकार्या तत्खातं त्र्यंगुलं मतं || पञ्चाङ्गुलन्तु विस्तारान् कण्ठमङ्गुष्टमानतः | विस्तारा त्र्यङ्गुलं कण्ठे वेदिवष्वापवेदिका || सप्ताङ्गुलाथवा कार्या तत् मुखं पादवाहितं | कनिष्ठिका परीणाहमाज्यनिर्गमनं हितं || दण्डविशाङ्गुलं कार्यं मूले श्रुतांगुले घटं | दण्डाग्रे वेदिका कार्याद्व्यङ्गुला चतुरङ्गुला || विस्तराद्व्यङ्गुलादण्डं परीणाहं षडङ्गुलं | २५ब्) एकं श्रुक् स्यात् श्रुवस्तेजो हास्तिकागुष्ठ गर्भिकं || अवटंगोः पदाकारं कर्पापूरितपुष्करं | मूलाग्रं मंडिकाक्रांतं दण्डं नालाकृतिं शुभं || अवटं गजकुंभाभं श्लक्ष्णदण्डेन वायुतं | श्रुक्श्रुवौ कथितौ लेशात् शात्रेस्मिन् कालसंज्ञके || इति कालोत्तरे कुंडोत्पादकरणपटलं || ईश्वर उवाच || अथातः संप्रवक्ष्यामि मुद्रालक्षणमुत्तमं | प्रयुज्यन्तेर्चनविधौ होमे जपविधौ वलौ || आसने पद्ममुद्रान्तु कल्पने दर्शयेत् सदा | आवाहन्या प्रकर्तव्यं शिवस्यावाहनं सदा || पाद्यार्घ्याचमनादीति धूपान्तञ्च प्रकल्पयेत् | स्थापनं शशिकर्ण्ण्या च शिरोबीजमनु स्मरन् || सन्निधाने महामुद्रामादिसंध्या ततो न्यसेत् | निरोधि निष्ठुरा देया देवदेवस्य यत्नतः || कालकर्णा तथामुद्रा विघ्नध्वंसे तु बंधयेत् | लिङ्गाख्यामंत्रसंधाने कलानां विनियोजयेत् || नमस्कारात्मिकामुद्रा मंत्रानां वन्दने हिता | इति मुद्राष्टकं भक्त्या त्रिधाशम्भोः प्रदर्शयेत् || उत्तानौ तु करो कृत्वा हृद्देशे तु समाहितः | अङ्गुष्ठाविनिपीड्ये तु मध्यतो विनताङ्गुली || २६अ) आवाहनी प्रयोक्तव्या देवदेवस्य चार्चने | तर्जन्यग्रन्तु जेष्ठाग्रे प्रयत्नाद् विनियोजयेत् || उत्तानो तु करो कृत्वा दर्शयेच्छशिकर्णिकां | वामस्य मणिवन्धे तु सव्यंपृष्ठ ततो न्यसेत् || मध्यमांगुष्ठसंव्योद्व्यानमुद्रा प्रकीर्तिताः | ताथवान्यप्रकारेण वामाङ्गुष्ठापरी ततः || गृहीत्वा तर्जनीवामामुष्टिना दक्षिणेन तु | हृद्धे कृत्वा तदङ्गुष्ठं वामांगुष्ठाङ्गुलि ध्वजः || सर्वासां चैव मुद्राणां शिवमन्त्रं समुच्चरेत् | आसने पद्ममुद्रां तु ध्वजाख्यां ध्यानकर्मणि || हस्ताभ्यां संस्पृशेत् पादादूर्द्धं यावत् समस्तकं | तथा पादावधिं यावत् महामुद्रा तदा स्मृता || संनिधाने सदा यो आदिमध्यावसानतः | निपीडयेत् तथाङ्गुष्ठै हस्तयोरुभयोरपि || उभौ चाङ्गुलि गभस्थौ निष्ठुरान्तां प्रदर्शयेत् | विभौ निरोधने यत्नात् मंत्रग्रामस्य नित्यशः || अङ्गुष्ठा चोन्नतौ कृत्वा हस्तयोरुभयोरपि | उभौ वा विमुखा कृत्वा कालकर्णा प्रदापयेत् || विघ्नानां ध्वंसनाथं तु देवदेवस्य यत्नतः | अङ्गुष्टामुंनतं कृत्वा मुष्टिं पाणौ तु दक्षिणे || प्रक्षिपेद्वस्त मध्ये तु वामहस्य मन्त्रवित् | दक्षिणे तु तथा पाणौ शेषाः कार्याः तथोपरि || २६ब्) लिङ्गमुद्रा महावीर्या प्रयोज्यालिङ्गपूजने | हृद्देशे विनिपीड्यत हस्तयोरूभयोस्तलौ || नमस्कारस्स्वकर्तव्यो मन्त्राणामंत्रवन्दनै | प्रसार म्रेढ्रभौ हस्तौ * द्देशे विनियामिता || अङ्गुल्या विस्तृताः कार्याः मध्येङ्गुष्ट द्वय न्यसेत् | शिवस्यासन विन्यासे पद्ममुद्राम्प्रदर्शयेत् || इति मुद्राष्टकं ख्यातं तंत्रे कालोत्तरात्मके | यथार्चने तु हवने जपध्यान विधौ तथा || मुद्राष्टक प्रयत्नेन हृत्मन्त्रेणाथ दर्शयेत् | पटान्तरित मुद्रास्तु दर्शयेच्च शिवाग्रतः || पटावगुंठिते नैव ध्यानान्तर्या समाचरेत् | धारणाभूतशुद्धिस्तु यत् किञ्चित् मनसोदितं || इति कालोत्तरे मुद्रापटलः || अथातः संप्रक्ष्वमितधिवासविधिक्रमं | तिथिनक्षत्रयोगाश्च यज्ञोपकरणानि च || देशंभूदेवसंयुक्तं मनास्तिकमनिन्दितं | सरद्धमंतयो योगा दीक्षाकर्मविधौ वचः || तयोरसं भवे वर्षां विनान्यत्रापि शस्यते | दीक्षायामभिषेके च तथा मन्त्रपरि ग्रहं || व्रतग्रह न मोक्षे च द्रव्यालभन कर्मणि | कार्तिक्यां चैव वैशाख्यां स्वर्भा *? रपि दर्शने || २७अ) महेन्द्रे मलये सह्ये श्रीशैले हिमवत् गिरौ | पारियातेषुदेविंध्ये शुक्षिमानृक्षपर्वते || गंगायमुनयोधोत्वन्तर्वेद्यां च कारयेत् | सरस्वत्यां द्वयद्वत्यां गोदावर्या मयान्निधौ || नर्मदाकृष्णवेण्यां च सिंधौ पञ्च नदे तथा | तुंगभद्रोपकण्ठे च चन्द्रभागोपकण्ठतः || गुहायतनतीर्थेषु नदीनां संगमेषु च | भुवनेषु च रम्येषु वनेषू पवनेषु च || भूमिं तत्र परीक्ष्येत वक्ष्यमाण क्रमेण तु | भूमेस्तु ग्रहणं कृत्वा लिखेत् मण्डलमुत्तमं || चतुर्थ्यामथवाष्टम्यां चतुर्दश्यां तथैव च | पूर्णमास्यां प्रकर्तव्यं भूतिकामैः शिते सदा || मुक्तिकामैः कृष्णपक्षे यत् किञ्चित् कर्ममाचरेत् | दिनच्छिद्रादि मुक्ताश्च याश्चान्यास्तिथयः स्मृताः || चन्द्रसूर्यापरागे तु षडासीति मुखेषु च | ग्रहनक्षत्र योगेषु विषुवै मुत्सवेषु च || अयनेषु च सर्वेषु यागं सर्वार्थसिद्धिदं | त्रीण्युत्तरा तथा कार्ये सोम्यञ्च गुरुदेवतं || यजमानानुकूलेन्येसुतीरे निरुपप्लवे | उच्च स्थितेषु सौम्येषु क्रूरे नीच स्थिते सति || यज्ञद्रव्याण्यशेषाणि समाहृत्य प्रयत्नतः | २७ब्) पूर्वोक्तेन विधानेन स्नात्वा सम्यक् सयन्त्रितः || विद्याक्रिया तथा योग चर्यापादार्थ तत्ववित् | शिवः शक्तिस्तथात्मा च पाशशु त्रिविधः किल || भोगमोक्षौ षट्पदार्थान यो वेत्यवंसदेशिकः | शितचन्दनलिप्ताङ्गः श्वेतमाल्यविभूषितः || सुश्लक्ष्णसितवस्त्राढ्य सुधूपागोद एव च | मुकुटेन विचित्रेण स्फुरमौणि कृतेजसा || मुक्ताफलयमे शुभे कुमूले रुक्तासंयुते | चित्रे कर्णावलम्बे तु कण्ठमध्ये विभूषितं || सुकृताभरणं भद्र ब्रह्मसूत्रञ्च मोक्तिकं | निर्मितेर्वर्तुलैर्भद्रैः कटिसूत्रञ्च कारयेत् || रेणुकेन विचित्रेण मध्ये नीले न वर्चसा | पद्मरागमये नाथ लक्षणैर्लक्षितेन च || कटके च शुभे धार्ये वज्रपंक्तिषु चर्चिते | धार्यं दक्षिण हस्तु रत्नाढ्यं यङ्गुलीयके || ज्वारं संपूज्यविधिवत् विघ्नानुच्छादयेत् तथा | दिग्बंधं तत्र कर्तव्यं कवचेनावगुण्ठितं || पिंडदाहस्ततः कार्यममृतीकरणं ततः | विद्यां तु मानसं कल्प्य करन्यासं पुरागतं || देहन्यासं प्रकर्तव्यं कलाकलितविग्रहं | २८अ) परमीकरणं चैव अंतर्यागं ततः परं || मुद्राबन्धं ततः कार्यं मर्घपात्र प्रकल्पनं | स्थानशुद्धिं द्रव्यशुद्धिं ततः पश्चात् समाचरेत् || गणेशगुरुपूजां च वायव्यां शिवात्मिति | मध्ये तु वास्तुपुरुषमेकोच्चारेण पूजयेत् || पञ्चगव्यविधानञ्च कार्यं मन्त्रगणेन तु | गोमयं चैव गोमूत्रं दधिक्षीरं घृतं क्रमात् || सद्योजातेन वामेन घोरेण पुरुषेण च | ईश्यानचक्रमात्मन्त्रा शिवेनैव कुशोदकं || व्यस्ताभिमन्त्रणं कृत्वा पश्चादेकत्रकंरयेत् | गौवर्णे राजते ताम्रे पात्रे वा गृत्मयेथवा || भूयोभिमन्त्रणशतं मन्त्रसंहितया सकृत् | शिववद्भावयेन्नित्यं मात्मानं देशिकोत्तमः || सुगन्धगन्धगन्धाढ्यं करं कृत्वा तु दक्षिणं | तन्मध्ये विन्ययेद् यत् सद् ब्रह्माङ्गसहितं शिवं || गन्धपुष्पपवित्राद्यैः पूजयेत् परमेश्वरं | तस्मिन् तेजः परं ध्यात्वा सर्वकर्माणि कारयेत् || शिवहस्तमिति प्रोक्तं पाशानां नाशने शुभं | अनेनालच्च मात्रास्तु पशवः पाशगोचराः || निःक्रान्ताः शिवतां यान्ति स्वच्छन्दाविगतक्षराः | भवन्ति मन्त्रसामर्थ्याच्छास्त्रकालोत्तरात्मके || २८ब्) दीक्षाद्रव्याणि पश्चान्तं संप्रोक्ष्य च शिवाम्भसा | तिलालाजायवश्चैव दूर्वाः सिद्धार्थकादयः || कुसुमानि च वस्त्राणि रत्नान्या चरणानि च | नैवेद्यपानगन्धाढ्या शिवहस्तेन संस्पृशेत् || तदा पवित्रभूतानि भवन्ति फलसिद्धये | स्वच्छपानीयसंयुक्तं रत्नगर्भं भरितं || शिववस्त्रपरीधानमर्चाषिधिसमन्वितं | मन्त्रैवालभ्यविधिवत् कलसं कांचनं शुभं || शिववच्च समभ्यर्च्य स्थापयेदीशकोणगं | टङ्कनीं? च? शिवास्त्रेण? तस्य दक्षिण मान्यसेत् || विकिरं कारयेत् पश्चाद् बीजैः सिद्धार्थमिश्रितैः | पूर्वादिशानपर्यन्तं महापाशुपतं पठन् || विकिरं चैकतः कार्यं क्रमादीशानगोचरे | ईशकोणाअत्समारभ्य प्रदक्षिणमथां नयेत् || अविश्रान्तासंभो * गं यावत् कर्णन्तशांकरं | शितवस्त्रकृताटोपे कलसस्य समीपतः || स्थापयेदस्त्र कलशं मृणन् पाशुपतं वरं | गन्धपुष्पार्चनं कृत्वा तयोः शान्तेनथतः || प्रणिपातश्च सुप्रीत्यामस्मिन्सन्निधी भव | विज्ञाप्येवं शिवं शान्तं कलषो? वीचमीश्वरं? || २९अ) कलशस्य निवेशे तु निमितान्युपलक्षयेत् | देवाविमानदृश्यन्ते निमित्तं तच्छुभं मतं || कुसुमानि विचित्राणि यदाव्योम्नः यतन्ति च | शस्यतेन्द्र धनुः पुंसां सौम्यवृष्टिर्विशेषतः || उल्कपातेथ भूकंपे निर्घाते केतु दर्शने | महावायुप्रवृत्तिश्च धूमनीहारदर्शनं || पांशुचातालिवर्षं वा आकाशे शकुनारुतं | शिखिहंसशुकादीनामधूरालापन ईष्यते || भानुरश्मि समायोगा दंभः स पतनं शुभं | शंखदुन्दुभिजीमूत वल्लकीनां ध्वनिः शुभा || आचार्यविप्रनारीणा नरेन्द्राणाञ्च दर्शनं | भौमं तु तत् सदाशस्तं मधुमांसादि यत्नतः || अंबुजानां च पुष्पानां वृषभस्य च दर्शनं | हयहस्ति वनं? शस्तं दशनं चाति शस्यते || खरोष्ट्रमहिषव्यालव्रतनग्नादयोऽशुभाः | वाक्यशस्तं सदाशस्तं वाग्द्रष्टं नेष्यते ध्वनिः || अकस्मात् कलहो नेष्टः प्रमादाद् दारुणो रवः? | प्रामादागारवृक्षाणां साधूनां दर्शनन्तथा || यागः कागः शुभेष्ठेवमसुभेरघृतस्य? तु | अघोरेण शतं होम्यं फट्कारान्तेन शान्तये || ततोर्धनं विभोः कार्यं पूर्ववज्र्यव्यसंदयैः? | २९ब्) अनन्तेन शश्च सूक्ष्मश्च तृतीयश्च शिवोत्तमः || एकनेत्रैकरुद्रश्च त्रिमूर्तिरपरस्तथा | श्रीखकण्डश्च शिखण्डी च पूर्वतश्चेश्वरान्तिकाः || एक्मिन्द्रादिसंपूज्यस्ततो वज्रादयः क्रमात् | स्वदिक्पतीनां वर्णेन ध्यातव्या हि महात्मभिः || दंष्टाकरालविकटैराकारैस्त्व? * नायकाः | लयेदमतीमनक्त्रास्ताम्र? नेत्रामहाबला || पिङ्गभ्राणाश्रुलोमामावामनाश्च महाद्भिजाः |? लंवोष्टा चिपिटघ्राणास्तडित्पञ्जवयोपमाः || स्वायधाकरशिवसः सर्वयमोग्गशक्तयः |? अस्त्रानां नायकाः पूज्या नित्यं पाशुपतेन च || अस्त्रानि विधिवत् पूज्य भक्षपानस्रगादिभिः | वित्तसाठ्यविनापूजा सर्वकामफलप्रदा || अस्त्रान्नां? कालकर्णा तु मुद्राविघ्नानि सूदनी | विद्येश्वराणां लिङ्गाख्या लोकेशानां तथाञ्जलिः || कृत्वेवं सकलं कर्म गुरुर्यज्ञविसारदः | गन्धाग्नि कुण्डसामीप्यं विघ्नानस्त्रेण कारयेत् || उल्लेखन मृत्किरणं कुट्टनाभ्युक्ष्य विस्तरं | वागीशान्या स पूजा च गर्भधारणमेव च || ततः पुंश्रवनं कार्यं सीमन्तोन्नयनन्तथा | ३०अ) जातकर्म च कर्तव्यं श्रुक्श्रुवाभ्यां प्रतापनं || ततश्वाक्यस्य? संस्कारस्तथाहुति चतुष्टयं | हुत्वा तु संस्कारविधौपूर्णामेकां प्रदापयेत् || एवं कृते ततः पश्चाच्छिवाग्नि स्वह्यविन्यसेत् | अग्निकुंडाहतश्चाग्निमुद्धृत्यान्यत्र धारयेत् || चरुंपार्यं पुरोडाशं वह्निता तेन नान्यथा | शुद्धान्तमासनं पश्चान् न्यस्त्वा मूर्तिं न्यसेत् ततः || हृत्प्रदेशाच्छिवाग्नौ तु व्यापकत्वेन विन्यसेत् | संपूज्यगन्धपुष्पाद्यैः मुद्रावन्धनपूर्वकं || पूर्वोक्तविधिना तत्र होमकर्म समाचरेत् | चरुं साध्य यथान्यायं शिवाङ्गैः ब्रह्मभिः सहः || चरुं ताम्र मयं शस्तं तदन्तावात् पक्वमृन्मयं | क्षालयदश्त्रमन्त्रेण सद्योजातेन पूजयेत् || कण्ठदेशे तथाकौशां वध्नीयात् तस्य कण्ठकं | घृतेन मृज्यवामेन ततः कर्मसमारभेत् || गव्येन पयसा पुराशुशुभेः शालितंडुलैः | तदभावाद्यवैः क्षुन्नर्गाधूमीवादली कृतः || श्यामाकतंडुलर्वाथ नीवारैर्वा षडाननः | सुघोरं कवचं स्मृत्वा शनैर्मृद्धग्निना पचेत् || न चातिशेथिलः पाचो न चाति वहु शश्यते | तुल्यां स्थितस्य यत्नेन शिवाङ्गैनभिघारणं || ३०ब्) संपाताहुतयो देया अवतार्य चरुं ततः | ऊर्ध्ववक्त्र मनुस्मृत्य परितः क्षालयेत् शनैः || संपाताहुतयो देयाः ब्रह्मभिः स्पन्दिराश्रुवा? | सघृतं काञ्चने कायं मृन्मये वाप्य भावतः || हुत्वाभागं शिवे सम्यक् शेषं वै साधकात्मसु | पिधाय स्थापयित्वा तु ततः शिष्यान् प्रवेशयेत् || ब्राह्मणानुक्रमेणैव प्रार्थनानुक्रमेण वा | परीक्षितान् प्रयत्नेन भक्तियुक्तान् हृदव्रतान् || न शरीरस्य संस्कारान् जातेन च कर्मणः | आत्मनैः कारयेद् दीक्षामनादिमलगुण्ठिनः || निरोधंस्तस्य कर्तव्यो मन्त्रैश्च विषशक्तिवत् | दीक्षैव मोक्षदा पुंसां चिदभिव्यक्तिकारिणी || श्रद्धयाभक्तितः सा तु दीक्षा प्राप्यान चान्यथा | असत्यं सत्यतां याति यावन्ना विन्दते परं || दीक्षाया विदिते तत्वे असत्यं मन्यते जगत् | षडध्वदीक्षयात्मा च परानिर्वृत्तिमाप्नुयात् || शिष्याश्चोपाषिताः स्नाताः श्रुचयो विनयान्विता | शिरस्तु शिवहस्तेन शिरसाशिरवारिणा || प्रोक्षयित्यशिवास्त्रेण ताडयेद् भस्मनाशनैः | नवेश्योपरिदर्भानां ततश्चालभनं कुशैः || ३१अ) उदङ्मुखेनस्य गुरुणा पूर्वास्येन सुमेधसा | सर्वात्मना प्रकर्तव्यं करन्यासस्तु पूर्ववत् || ब्रह्मभिः सकलीकृत्वा हृन्मन्त्रेणार्च्चयेत् पशुं | गन्धपुष्पपवित्रैश्च धूपामोदसमन्वितैः || कार्यमस्यार्चनं पश्चात् तं देवाय प्रदापयेत् | अर्चयित्वा ततः पश्चात् कुंडस्याथ समीपतः || कृत्वाधः शिरसं शिष्यं संपातांश्च प्रतापयेत् | सर्वै मन्त्रा यथान्याययं वह्नौ पूर्णा प्रदापयेत् || एके कस्य तु मन्त्रस्य सन्निधाय समर्पिषा | त्रिस्रः त्रिस्रः प्रदातव्याः मन्त्रैराहुतयः क्रमात् || स्वाहान्ते वौषडन्तेन तत्र पूर्णा प्रपातयेत् | पाशविश्लेषणमोक्षफडन्तं मन्त्रमुच्चरेत् || एवं कृते ततः पश्चाच्छिष्यामनुपूर्वशः | पञ्चगव्यं चरु चैव दन्तकाष्ठं ततो ददेत् || राज्यग्रन्थव्रणं? शस्तं क्षीरवृक्षसमुद्भवं | कनिष्ठाङ्गुलिवत् स्थौल्यं दीर्घवे द्वादशाङ्गुलं || उदग्वक्त्रेण सनकैर्द्दृतान् संघृष्य लेशतः | मुखं प्रख्याल्प संत्यज्य नातिदूरं व्रजेद् यथा || प्रत्येकप्रागुदमीशोर्ध्व वक्त्रं स्यात् सिद्धयः क्रमात् | शिष्येषु दिग्विभागेषु पतिते होममाचरेत् || प्. ३१ब्) होमं तु सर्पिषाकार्यमस्त्रेणाहुतयः शतं | अधोवक्त्रे ध्रुवं मृत्युरुर्द्ध्व वक्त्रे जयं सदा || पूर्वास्य शान्तिमाप्नोति संतापमग्निदिग्गते | याम्या यामरणविद्यरिभयं नै-ऋतानने || पश्चिमवक्त्रे ध्रुवं लाभः पुष्टिश्चैवोप जायते | उच्चाटनन्तु वायव्यामैशानं सर्वसिद्धये || उदग्वक्त्रे निपतित्वे चक्रवर्तित्व माप्नुयात् | देशिकस्याप्यभिष्ट स्यात् स्वस्वसंतान वृद्धये || शिष्यः सार्द्धन्तु गुरुणा स्वयेद्धे? यागमन्दिरे | नीलदंभे प्रविस्तीर्णे कृतरक्षे सुधूपिते || सुगन्धगन्धसंसिक्ताशु शुक्ते कुसुमोज्वले | सकलीकृत सर्वाङ्गा मौनमास्थाय देशिकः || षट्पकारं ततोध्वानं शिष्याणान्तु त * स्मरेत् | आपादतलमस्तकं संप्रधार्याथ निर्मलं || सुसूक्ष्मां व्यापिनीं देवीं सर्वतत्वावतासितां | संहिता तु जपेत् पश्चात् वध्वमंट्राष्टकं पुनः || अथवा व्योमदेवं तु यावन् निद्रा न जायते | उत्थायावश्यकं कृत्वा स्नात्वा रम्य च पूर्ववत् || हस्तौ पादौ च प्रख्याल्य संध्यावन्धत पूर्ववत् | शितवस्त्राः सुसंवीताः कृतशौ च मुमुक्ष्ववः || ३२अ) हृष्टाः वाक्संयताः स्नाताः पुष्पहस्ताः सुभाविताः | गुरोः पादान् समभ्यर्च्य भूतल्पे चोपविश्य च || प्रणम्य शिरसासर्व गुरुवाक्यानुवर्तिनः | आचारोणापि प्रष्टव्यः सुस्वप्नः स्निग्धयागिरा || इति कालोत्तरे दीक्षाधिवासपटलः || ईश्वर उवाच || अथातः संप्रवक्ष्यामि सर्वसाधरणं विधिः | आहुतीना प्रमाणं तु षडध्वनि यथास्थितं || पदाध्वा भुवनाध्वारतत्वाध्वा च ततः परं | वर्णाध्वा मन्त्रसंज्ञाध्वा तदनु क्रमात् || प्रताध्वनि प्रकर्तव्यं वागीस्या वाहनार्चनं | पशुनां चैव संस्कारा दशपञ्च यथाक्रमं || प्रोक्षणं ताडनं चैव च्छेदना कर्षणं ग्रहं | संयोजनं प्रकर्तव्यं गर्भनिप्यत्तिरेव च || जतनं चाधिकारं च भोगं चैव लयं तथा | पाशच्छेदं प्रकर्तव्यं श्रोतः शुद्धिविशेषतः || तत्रादौ स्थापनं कार्यं तत्वादीनां यथाक्रमं | आश्रावणं प्रकर्तव्यं माभूयो वध्यतामिह || प्रत्यध्वनि प्रकर्तव्यो संस्कारा दशपञ्च च | पशूनां पाश निवृत्तौ नान्यथा मुक्तिमाप्नुयात् || त्रयो नव पदाज्ञेया व्योमव्यापि समुद्भवाः | भुवनानां प्रमाणं तु नवतिर्द्ध्यधिका मता || ३२ब्) चतुत्रिंशति तत्वानि तथा वर्णानि षण्मुख | अष्टौ मन्त्रा अनन्ताद्याः कालविद्यावधि स्थिताः || सममाहुति दानन्तु भुवनाध्व पदाध्वनोः | तत्ववर्णाध्वनो होमः समंत्वाहुति योगतः || चतुर्गुणं तु सकले तत्वाध्वनि समादिशेत् | पक्त्याहुति प्रमाणं तु प्रतिकर्मणि षण्मुख || मन्त्राध्वनि विजानीयाद् विगुणा तु कलाध्वनि | अध्वन्यन्ते शिवेनैव दद्यादाहुति चाष्टकं || लेसेन कथिता संख्या विस्तरेणोच्यते पुनः | एकैकाहुतिदानेन कमेकवं हृदा हुनेत् || शिवेनाहुतयश्चाष्टौ तदन्ते संप्रदापयेत् | एकत्राहुतिसंख्या तु पदाध्वनि निगद्यते || त्रिरुत्तरं सहश्रं स्यात् तथाशत चतुष्टयं | एवं भुवनमालायां दद्यादाहुतयः क्रमात् || द्विगुणाहुतयो देया भुवनेच्चि नवात्मके | आहुतीनां भवेत् साम्यं पदाध्व भुवना ध्वनोः || द्विराहुति प्रदानेन कर्मकैकं तु कारयेत् | त्रिपञ्च कर्मणि च यं वर्ण तत्वाध्वनि स्थितं || सदाशिवे परे तत्वे तत्वाध्वनि चतुर्गुणः | अष्टपंचाशत्ममिश्रं सहश्रं तात्विके ध्वनि || वर्णाध्वनि तथा प्रोक्तामाहुतीनां विनिश्चयः | ३३अ) शिवेनाहुतयश्चाष्टौ तदंते संप्रदापयैत् || महाध्वन्युच्यते संख्या कलाध्वनानुपूर्वशः | एकैकस्मिंस्तु संस्कारे दद्यादाहुतया दश || शिवेनाहुतयश्चाष्टौ तदन्ते संप्रदापयेत् | सहश्रं द्वेशते चाष्टौ मन्त्राध्वनि विकल्पितः || मन्त्राध्वनि च यो होमाद् विगुणः सकलाध्वनि | विंशाहुति प्रदानन्तु प्रतिकर्मणि जायते || शिवेनाहुतयस्तद्वदष्टौ देयाः समासतः | एवं संख्या कलामार्गे कथिता कृत्तिकासुत || इत्याहुति प्रमाणं तु कथितं चाध्व शोधने || इति कालोत्तरे सामान्याहुति पटलं || पदसंख्या प्रमाणेन भुवनाध्वा निगद्यते | मुख्याये भुवनेशानां शोधनीयाः प्रयत्नतः || तैः शुद्धैर्गौणभूतास्तु शुद्धिंयाति न संशयः | न्यासकात् सर्द्धने होमे सृष्टान्यासं फलप्रदं || व्युत्क्रमेण तु दीक्षायामध्वसंध्यतमाचरेत् | अथ कालानलो रुद्रः प्रणवाक्षरसंस्थितः || तस्योर्द्ध्व नरकं घोरंमवीची चलमः पदं | नमो पदे महाघोरं कुंभीपाकं व्यवस्थितं || राजराजेश्वरं तस्माद् रौरवञ्च शिवाय च | महातलं च विख्यातं प्रथमं नतिसंस्थितं || ३३ब्) नागाश्व दानवास्तत्र निवसन्ति सहश्रसः | नमो पदेन संशोध्यं तदूर्ध्वस्तु रसातलं || तलातलं ध्रुवेनैव शिवाय सुतलं स्थितं | नितलं नतिसंस्थं तु चितलं ध्रुवसंमतं || तलं सर्वदसंस्थं तु पातालं सप्तमं शुभं | ततः सर्वपदेनैव भूर्लोकं परिकल्पयेत् || शिवेन च भुवो लोकं शोधितव्य (?) क्रमानुगं | सूक्ष्मसूक्ष्मपदेनैव स्वर्लोकशोधयेच्छिशौः || महः शब्दपदेनैव ज्ञानज्ञानजनात्मकः | पिङ्गपिङ्ग तयो विद्धि पतङ्गे सत्वसंज्ञकः || ब्रह्मब्रह्मसुताद्याश्च विमानस्था नमः पुनः | इदानी मंत्रवाह्येषु भुवनेशान प्रचक्षते || पदप्रमाणयुक्तास्तु प्रधानानेतरे पुनः | अनन्ताद्ब्रह्मणान्तञ्च रुद्राणां संस्थितं शतं || तत्र शोध्या महासेन दशपूर्णा? षडानन | अनन्तः पालको वीरो वितले स पति वृषः || वृषध्वत् (?) सुमन्यः शुभ्रो लोहितः सर्वतोमुखः | अनन्तबलमाश्रित्य प्रभुशक्तिसमन्विताः || विचरन्ति महादेवा नागराजत्प्रपूजिताः | तुरुतुरुपदेनैव अनन्तं तत्र पूजयेत् || तेन शुद्धेन शुद्धास्तु भवन्ति नव सुव्रतः | एवमन्यत्रबोद्धव्यं शोधनात् क्रमं सुत || ३४अ) मातृवृतः पिङ्गलाख्यो भूतपालोवलि प्रियः | सर्वविद्याविधाता च सुखदुःखकरस्तथा || ऐशान्यां संस्थिताः रुद्रा दशेते बलशालिनः | ईशस्यबलमाक्रम्य प्रभुशक्ति समन्विताः || विचरन्ति महादेवा ईशानेन प्रबोधिताः | साक्षिन् साक्षिन् पदेनात्र ईशानं शोधयेत् ततः || जटामकुटधारी च नानारत्नधरस्तथा | निधीशो रूपवानधन्यः सोम्यदेहः प्रमर्दनः || सुप्रमाद प्रकाशश्च कामरूपी च सुप्रियः | सोमस्य बलमाक्रम्य प्रभुशक्तिसमन्विताः || विचरन्ति महादेवा यक्षराक्षसपूजिताः | पूर्वस्थितपदेनैव यक्षेशानन्तु शोधयेत् || शीघ्रालघुर्वायुवेगः सूक्ष्मतीज्ञक्षयांतकः | पंचान्तकः पञ्चशिखः कपटीमेघवाहनः || वायोबलं समाक्रम्य प्रभुशक्ति समन्विताः | विचरन्ति महादेवा वायुराजसुपूजिताः || वायोराहुतयो देया तत्रार्च्चित पदेन तु | बलश्चाति बलश्चैव पाशहस्ता बाहाबलः || श्चेतश्च स्वेतभद्रश्च दीर्घबाहुजलान्तगः | वडवामुख भीमश्च वारुण्यो दिशिसंस्थिताः || विचरन्ति महादेवा जलराजसुपूजिताः | ३४ब्) अनर्चित पदेनैव शोधनीया प्रयत्नतः || नै-ऋते मारणाहन्त्य क्रूरदृष्टिर्भयानकः | ऊर्ध्वशेहोविरूपाक्षा धूम्रमाहित दंष्ट्रचान् || नै-ऋतेबलमाक्रम्य प्रभुशक्ति समन्विताः | विचरन्ति महादेवा रक्ष्यराजप्रपूजिताः || ब्रह्मविष्णुरुद्रपरपदेनैव प्रतर्पयेत् | योग्यामृत्कंहरोध्य?तां कर्तृसंज्ञकः || कालोधर्माप्यधर्मश्च संयोक्ताश्च वियोक्तव | यमस्य बलमाक्रम्य प्रभुशक्ति समन्विताः || विचरन्ति महातेजायमराजसुपूजिताः | सर्वसान्निध्यमुच्चारायमं तत्र प्रपूजयेत् || अग्निरुद्राहुतासी च पिङ्गलः खादकोहरः | ज्वलनोदहनो वक्रभस्मान्तक क्षयान्तकः || अग्नेर्बलं समाक्रम्य प्रभुशक्ति समन्विताः | विचरन्ति महादीप्ताः सर्वभूतपदार्च्चिताः || कपालीशो ह्यजोबुद्धो वज्रदेहप्रमर्द्धकः | विभूतिरव्ययः सास्तापिनाकीत्रिदशार्चितः || इन्द्रस्य बलमाक्रम्य प्रभुशक्ति समन्विताः | विचरन्ति महात्मानो भवोत्भवपदार्चिताः || विद्याधिपोथसर्वज्ञ ज्ञानभुग्वेदपारगः | सुरेशः सर्ववित् ज्येष्ठः भूतपालावलि प्रियः || प्. ३५अ) ब्रह्मणो बलमाक्रम्य प्रभुशक्ति समन्विताः | विचरन्ति महादेवा ब्रह्मांज्ञापरिपालकाः || संतर्प्य तत्र ब्रह्माणं नित्यं भव पदेन तु | धरातत्वं ककारस्थं षोडशस्वर भेदितं || कलानिवृत्तिरेवास्तु शिखण्डी मन्त्रनायकाः | सद्योजातं तु हृदये मन्त्रौ द्वौतत्र योजयेत् || सर्वत्रे वास्तु मन्त्रं तु ताडनादौ प्रकल्पयेत् | श्रीकण्ठमाप्यतत्वे तु तदूर्ध्व क्रमसंस्थितः || त्रिमूर्तिप्राकृते तत्वे एकनेत्रस्तु रंजके | एकरुद्रस्तु पुरुषे कलातत्वे शिवोत्तमः || मायायं सूक्ष्मरुद्रस्तु शुद्धा चानन्तसंज्ञकः | मन्त्रमंत्रेश्वराणां तु विनियोगामयादितः || ब्रह्माङ्गसंयुतश्चात्र कथ्यमानं क्रमात् शृणु | उदके खस्थितं विद्धि सर्व सर्व पदस्थितं || अमरेशं प्रभासं च नैमिषं पुष्करन्तथा | आषाढीसं च डिंडीसं भारभूतिं सलोकुलं || भुवनेशाना मे तेषाममरेशं तु शोधयेत् | तेजस्तत्वं गवर्णञ्च प्रथमप्रमथ पदं || हरिश्चन्द्रश्च श्रीशैलं जल्पमाम्रातिकेश्वरं | मध्यमं समहाकालं केदारं भैरवं तथा || गुह्यानि च गुह्यमे तन्तु हरिश्चन्द्र पुरस्सरां | प्. ३५ब्) वायुतत्वं घकारस्थं मुञ्च मुञ्च पदान्वितं || गयां चैव कुरुक्षेत्रं नाखलं कनखलं तथा | विमलं चाट्टहासञ्च माहेन्द्रं भीमकेश्वरं || गुह्याष्टकं समाख्यातं गयां तत्र प्रयोजयेत् | उंवर्णं व्योमतत्वं तु योगाधिपतिकं पदं || वस्त्रापदं रुद्रकोटि अविमुक्तं महालयं | गोकर्णं भद्रकर्णञ्च स्वर्णाख्यं स्थाणुमष्टकं || पवित्राष्टकमे तन्तु पूज्यं वस्त्रापदं सदा | गन्ध तत्मात्र तत्वं तु ववर्णंच्छमलण्डकं || महातेजोधिपतिकं पदमत्र प्रकल्पयेत् | च्छगलण्डं द्विरण्डञ्च माकोटंमण्डलेश्वरं || कालिंजरस्तथा तत्र संकुकर्णंस्थलीश्वरं | स्थूलेश्वरञ्च प्रथितच्छमलंडं तु शोधयेत् || कस्थं तुरसतत्मात्रं सद्भावेश्वर भूषितं | पिशाच भुवनेशञ्च सद्भावाख्या न शोधयेत् || जवर्णं रूपतत्वं तु महादेव पदान्वितं | राक्षसं तत्र संपूज्य भुवनेशं महाबलं || महेश्वर पदेनैव सवर्णस्पर्शात्मस्थितं | याक्ष्यं तत्र क्रमात् पूज्यं भुवनेशं महाबलं || शब्दतत्वं ऌ? वर्णञ्च परमात्म पदन्ततः | प्. ३६अ) गन्धर्व भुवनेशानं शोधितव्यं तु देशिकैः || टवर्णस्थमुपस्थं तु ठान्तस्थ पायुसंज्ञकं | पादतत्वं डकारस्थं पायुतत्वं ढसंमतं || वाकतत्वं णकारान्तं तत्र सर्वपदस्थितं | विभूति तत्र भुवनं ज्ञातव्यं कृत्तिकासुत || घ्राणजिह्वा तथोवर्णा चक्षुत्वक् दधवर्णकौ | श्रोततत्व नकारन्तु पवर्णं मनस्थितं || ज्ञेयं शिवपदं तच्च सौम्यञ्च भुवनेश्वरं | अहंकारेफवर्णञ्च पदञ्च निधनोद्भवं || प्राजेशं भुवनेशानं ववर्ण बुद्धितत्वगं | निधनाख्यं पदं तत्र ब्रह्मा च भुवनाधिपः || भवर्णं प्रोक्षते तत्वे तथा ज्ञेयं पदाष्टकं | अनिधनेति पदस्वश्च ध्रुवं भुवं ध्रुवन्तथा || प्रणवं भूत्रिधाधूश्च प्रतिष्ठा तु कलामताः | त्रिमुर्तिं प्राकृते तत्वे स्वपदैस्तत्र योजयेत् || अकृतञ्च कृतञ्चैव भैरवं ब्राह्ममेव च | वैष्णवं स्वथकौमारं सोमं श्रीकण्ठमेव च || ततोर्ध्व पौरुषं तत्वं मवर्णं षोडशेश्वरं | षद्वाञ्च भुवनैस्तद्वदेकमूर्ति समन्वितः || नानावेति पदमनादाभस्माधूम च | प्. ३६ब्) अनग्निश्च अरूपञ्च षट्पक्षः (?) परिकीर्तिताः | वामोभीमस्तथा चोग्रं सर्वशानश्च वीरकः || प्रचण्डश्च प्रतिष्ठायां वामदेवशिरस्तथा | अथवा एकनेत्रस्तु मन्त्रस्यात् पौरुषे ध्वनि || रागतत्वं प्रतिष्ठाया संस्थितं पदपञ्चके | षोडशस्वर संयुक्तं गवर्णं तत्र संस्थितं || एवं शेषाणि तत्वानि वेष्टितानि पृथक् पृथक् | रादिक्षांतस्थिते नैव बीजव्यूहेन पूर्ववत् || ज्योतिज्योति पदं पूर्व्व तेजस्तेजः पदं तथा | प्रथमं प्रथमं चैव अरूपिख्यापि मेव च || उमाकांत गजौवुश्च अनन्तैकशिवस्तथा | भुवनेशामताः पञ्च अविद्याकथ्यतेधुना || रेफावर्णः कलाविद्या मन्त्रश्चात्रशिवोत्तमः | अघोरं वा शिखायुक्तं पदद्वय समन्वितं || व्योमिन् व्योमिन् प्रदं पूर्व चेतनाचेतनं परं | क्रोधेश्वरश्च चंडश्च भुवनेशौ स्थितौ क्रमात् || ततो निपतितत्वं तु लवर्णे पूर्ववत् स्थितं | सूक्ष्मरुद्रः स्थितो मन्त्रः कलातत्र व्यवस्थिता || पदमेकञ्च भुवनं सर्वयोगाधिपतेति च | पञ्चान्तकैक भुवनं कलातत्वं ततः परं || प्. ३७अ) वकारं षट्कजस्थं तु पदद्वय समन्वितं | परमेश्वर पदं पूर्वं ज्योतिरूपाथ चात्परं || ज्योतिपिङ्गा भुवनेशं कलामन्त्रश्च पूर्ववत् | कालतत्वं शवर्णस्थं पिदाष्टक विभूषितं || नमो नमो ध्रुवश्चैव द्विपदं भुवनद्वयं | गोप्तगुह्यातिगुह्याय शिखिदश्चैकवीरकः || कलाविद्यास्थिता तत्र मंत्रसूक्ष्मश्च पूर्ववत् | मायातत्वं यकारस्थं पद्व्यष्टकं विभूषितं || नमो नमो ध्रुवश्चैव विज्ञेव्यञ्च पदत्रयं | सद्यो जातं वामदेवमघोरं पुरुषं क्रमात् || ईशानमूर्ध्वपर्यन्तं पञ्चकं सप्तवर्णकं | महातेजा वामदेवो भवसर्वार्थपिङ्गलः || भुवनेशो मतः षष्टा विद्यातत्वे निगद्यते | विद्यातत्वं सकारस्थं पदपञ्चकभूषितं || भुवनेशैस्तथायुक्तमनन्तमनुनांचितं | शिवायसर्वप्रभवे शिवाय नम उं इति || रुद्रव्याहे ज्ञव्याहश्च राज्ञीव्याहस्तृतीयकः | विग्रहव्यूहसंज्ञश्च विद्याव्यूहश्च पञ्चमः || हवर्णमीश्वरं तत्व पदाष्टकं विभूषितं | रुद्राष्टकसमायुक्तं कलाध्वाशान्तिसंस्थितं || पुरुषं कवचं चात्र मंत्रौ द्वौ तत्र कल्पयेत् | प्. ३७ब्) ध्यानाहारपदेनित्यं शिखंडी भुवनाधिपः || नित्यं योगिनिसंज्ञे तु श्रीकण्ठो भुवनाधिपः | योगपीठ त्रिमूर्तिस्तु एकरुद्रस्तु शाश्वते || एकनेत्रो ध्रुवाख्ये च अनास्रिते शिवोत्तमः | अनाथाय पदं सूक्ष्म भुवनाधिपतिर्मतः || अनन्ताय पदे ज्ञेया अनन्तश्चात्र नायकः | ततः सदाशिवं तत्वं क्षवर्णोदरसंस्थितं || कलाशान्तिः स्थिता तत्र त्रिव्यूहञ्च चतुःपदं | पदं शिवाय प्रथमं सर्वव्यापि पदं ततः || वामाज्येष्ठा च रौद्री च व्यूहनांद्यंत्रयेन च | व्योमव्योमादिके ज्ञेयं ज्ञानशक्ति क्रिया तथा || सर्वव्यापि पदेनैव शिवायेति पदद्वयं | संस्थितं क्रमसस्तत्रं सद्योजातादि पञ्चकं || व्योमव्यापि पदस्थस्तु मञ्च मंत्र महातनुः | शिवतत्वं तदूर्द्धेन उकारं पदभूषितं || अप्रमेयेक भुवनं शाश्वतं ध्रुवमव्ययं | शांतातीतकलाध्वा च षोडशश्वर वेष्टितं || ईशाननेत्र मत्राभ्यां संयुतं परमेश्वरं | सामान्येनां स्वसंधानं कथितंते शिखिध्वजः || इति कालोत्तरे महातन्त्रे सामान्य सर्वाध्वपटलं || ३८अ) ईश्वर उवाच || अतः परं प्रवक्षामि दीक्षां शिवफलप्रदां | स बीजा चैव निर्बीजा द्विविधा प्रकीर्तिताः || सबीजा सासदा? ज्ञेया? देहमात्रेण भोगतः | प्रागजितफलं तत्र दग्धबीजत्वतां नयेत् || अमामिकं ततस्तस्य निरोध्यं विषशक्तिवत् | आरब्ध तनुनातस्य भोगाच्छिवपदं व्रजेत् || स बीजा तेन संप्रोक्ता कर्मले सानुवर्तनं | निर्बीजादेहपातेन शिवत्वं पूर्णमाप्नुयात् || त्रिवन्धनक्षयात् तस्य मायासहजकर्मतः | सबीजापास्तु समयान् समर्थश्रावयेद्गुरुः || वालवालि सवृद्धानां भोगिनां व्याधितात्मनां | तेषानिर्बीजिका दीक्षा समयः परिवर्जिताः || दरिद्राणामनाथाना दीक्षा वै मानसी मता | वैकल्पं वाचिकी कार्या प्रशस्ता भावितात्मनां || स्पर्शाद्वा शिवहस्तेन स्पृष्टान् शिवपदं नयेत् | एकतत्वा त्रितत्वा वा पञ्चतत्वा वात्मिका || षट्त्रिंशत् तत्वजातावा षट्प्रकाराध्वसंगता | शिवतत्व परं ज्ञात्वा पशूनां पाशहा भवेत् || अन्यथा नैव मुच्यन्ते पशवः पाशसंचयात् | ३८ब्) अथ संक्षेपतो लेसात् तद्विधानमथोच्यते || अधिवासं पञ्चगव्यञ्च चरु वै दन्तधावनं | क्रमेण यत्नतो देय स्वप्नान्ते कर्म आरभेत् || सद्योधिवासो वा कार्यः पञ्चगव्यञ्चरुं विना | स्नानं कृत्वा तु विधिवत् ततो देवान् पितृन् यजेत् | द्वारेशान पूज्यविधिवत् प्रविशेत् पश्चिमेन तु || दिग्बन्धं तत्र कर्तव्यमुपविश्यासने ततः | पिण्डदाहं ततः कार्यं तत्वस्यासं ततः परं || अमृतीकरणं पश्चादासनं चिन्तयेत् ततः | करन्यासविधिः कार्यो देहन्यासस्ततः परं || सकलकरणं पश्चात् वक्त्रेरग्नानि कल्पयेत् | देहपूजां विनिवृत्य ततो न्तर्यागमारभेत् || मुद्रावत्यर्घ(?)पात्रञ्च द्वितय तत्र कल्पयेत् | अचलाख्यं शिवस्याग्रे चलं पशुविशोधने || स्थानशुद्धिं पुराकृत्वा द्रव्यशुद्धिं ततः पुनः | अर्घपात्रोदकेनैव सकृत् संप्रोक्ष्य शोधयेत् || गणेशगुरुपूजां च कलशद्वितयं यजेत् | मण्डलं शोधयेत् पश्चात् रजोदेयं मुक्तये || शिवाम्बसा तथान्यानि प्रोक्षयेद् अस्त्रवारिणा | शिव संपूज्य तत्रस्थं होमं कुर्या तु पूर्ववत् || ३९अ) ततश्चानीयतं शिष्यं वाह्ये प्रोक्ष्यशिवासिना | भस्मनास्त्रे संताड्य कुशैरालभातं त्रिधा || प्रवेश्याभ्यन्तरं तस्मात् दक्षिणामूर्तिगं विभोः | आधाराच्छिवपर्यंत कल्पयेद् दक्षिणे करे || ब्रह्माङ्गानि न्यसेत् तत्र पुष्पं गन्धादिकं तथा | तद्वस्तं शिवमुच्चार्य स्तस्य मूर्द्ध्नि प्रदापयेत् || सदाशिवशिवप्राप्तं सापेक्षं निरपेक्षकं | शिवहस्तप्रदानाच्च समग्नीजातये तदा || श्रवणाध्यायने स्पर्शे योग्यः स्यात् नान्यथा सुत | शिवहस्तात् परं तस्य भस्मव्रतं समाचरेत् || तस्मिन् दिने परे वाथ नेत्रबन्ध तु कारयेत् | पट्टनेत्रट्टकूलेन क्षोमकार्पासिकेन वा || नेत्रपट्टेन पट्टाभ्यां नेत्रमंत्रेण वन्धनं | पश्चाद्वारमथानीय पुष्पाञ्जलिसमन्वितं || उङ्मुखं क्षिपेत् पुष्पं तत्पातं नाम तत्कुलं | वह्निस्थानं नयेच्छिष्यं दक्षिणाङ्गस्थमात्मनः || न्यासं कृत्वा विशेषेण शक्त्याविष्टरसस्य तु | कर्तव्यं यत्पुरा प्रोक्तं ततः कार्यमनुग्रहं || द्विजातिप्रक्रमेणैव परिपक्वकथा यतः | कुशाग्रे स्पर्शनं कृत्वा पञ्चधा संस्कृतस्य तु || हृदि नाम चतुर्थ्यन्तं तत्र वागीश्वरी न्यसेत् | ३९ब्) ततः शिष्यस्य संस्काराः कार्याश्च क्रमसो खिलाः || दश पञ्च प्रयत्नेन प्रागुक्ताहुतियोगतः | षडध्वनि प्रकर्तव्यो कालरुद्रान्विता यजेत् || श्रावयेत् कालरुद्रन्तु नेह वंध्यस्त्वया क्वचित् | यतस्व(?) भुवने तेन भुक्ता भोगालयं गतः || शिवाज्ञया पुनस्तस्य तवन्ध कल्प्यते त्वया | अनेन क्रमयोगेन संशोध्यसकलावधिः || शुद्धे तु सकले तत्वे लयं कुर्यात् परे पदे | समयीपुत्रकाभ्यां तु साधकाचार्ययोस्तथा || लयं शिवे प्रकर्तव्यं चतुर्णामविशेषतः | च्छिखाच्छेदन्तु मायाया तत स्नानं तु कारयेत् || ततोर्द्ध शुद्धमध्वानं विद्येश्वर सदाशिवं | शोधयेत् पूर्वविधिनाप्रागुक्ताहुतियोगतः || परे शिवे लयंस्तेषां कर्तव्यो विषुवेन तु | विषुवत्संप्रयोगेण देशिको मोचयेत् पशून् || योगं तु विषुवं प्राप्य कोनमुच्येत बन्धनात् | शिष्यात्मा चित्स्थितिं कृत्वा वाच्यं तु वाचकं तथा || शक्तिमतोरिति सर्वमेका कारेण भावयेत् | इति घो?जनिका कार्या चित्स्यंदानन्दमंदिरे || अधिकारपदं तेषा पृथक् तत्वेषु भावयेत् | समयी गहने भोक्ता अधिकारितया स्थितः || ४०अ) पुत्रकः शिवतत्वे तु समयाचारवर्जितः | होतव्यास्तस्य समयादीक्षा काले क्रमेण तु || सामर्थ्यात् पालयेद् वाथ शिवे नित्ये सदा स्थितः | शिवे लयं साधकस्य भोगतस्य श्वरे पदे || शिवे लयं देशिकस्य भोगस्तस्य शदाशिवे | ज्ञात्वेवं योज्य गुरुणा तत्वे तत्वे ह्यनुक्रमात् || पूर्ण शिवे त दातव्या सर्वेषा वै शिवेन तु | वर्ज्यमन्यत्र युक्तेन अधिकारं ततः क्रमात् || सद्योनिर्वाणदा चान्यो देहान्ते चापरामता | सवीजावीजाभेदेन द्वितीया च द्विधा स्थिता || निबीजासमयेहिना सबीजा नैव समन्विताः | आचार्यत्वं द्वितीयायां निर्बीजायां शिवं यजेत् || निर्बीजाशिवधर्माख्या सबीजालोकधर्मिणी | एवं सपाप्यते दीक्षा समयान् श्रावयेत् ततः || दीक्षैव मोक्षदा पुसामामूलात् मलकृन्तनी | गणेशगुरुविश्वेशपूजाकारी भवेत् तदा || ध्यानधारणयोगेन ज्ञाने शाश्वति ते तथा | दीक्षयैव हि जायन्ते पुंसो जन्मना पश्चिमे || इति कालोत्तरे दीक्षापटलं || ईश्वर उवाच || समयीपुत्रकाभ्यां तु साधकस्य विशेषतः | ४०ब्) नित्यक्रमेण कथितं यावज्जीवं शिवाज्ञया || स्नानं पूजा जपो ध्यानं होमं चैव तु पञ्चमं | इति नित्यं सदाकुर्यान्नित्यान् संप्रोच्यते पुनः || अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि | पञ्चदश्यां दिनध्वंसे संक्रान्तौ दक्षिणायने || मासवृद्धौ दिनाधिक्षे षडशीति मुखेष्वपि | रवीन्द्रग्रहने चैव द्विगुणाच्चाजपादिकं || इति नित्याङ्गमेवोक्तं नैमित्तिकमथोच्यते | दीक्षाचैव प्रतिष्ठा च ज्ञेय नैमित्तिकं द्विधा || नित्यनैमित्तिकं काम्यमाचार्यस्याअदि तं त्रयं | गुरुणापि त्रयं कार्यं स्थापनेन निना सुत || नित्यादित्रितयं कार्यं व्याख्यानं देशिकेन तु | नित्यं काम्यं साधकस्य स्वशास्त्रोक्तं षडानन || समयीपुत्रकाभ्यां तु नित्यमेव प्रकीर्तीतं | स्वशास्त्रोक्तं प्रकर्तव्यं परशास्त्रं विवर्जयेत् || गुरुभ्रातृ मतन्नित्यं कर्तव्यं पुत्रकेन तु | समयस्थेन वा कायन्न कार्यं साधके तु || सरूजे भेषजाशन्तै वौरराजभये तथा | सूतक्षा सह संस्पर्शान्तदा पूजा प्रयत्नतः || परं नित्यं प्रकर्तव्यं गुरुणा साधकेन वा | न काम्यं निसुनैणैः कार्यं प्रायश्चित्तं समाचरेत् || गुरु च शिववत् पूज्यं न च कर्मणि योजयेत् | ४१अ) नित्येवाप्यथकाम्ये वा प्रायश्चित्ते जपार्चने || पूज्यनीयं महादेवं नापरं मनसा स्मरेत् | गुरुवद् गुरुभार्यासु तत्पुत्रेषु प्रवर्तनं || नग्नां न पश्येद् वनितां कमारीं पूजयेत् सदा | परिहासो न कर्तव्यो गुरुदेवाग्निसन्निधौ || विड्मूत्रष्टी च नादीनिस्तदंभस्तत्र वर्जयेत् | वामाचारानुरक्तानां निदा यत्नेन वर्जयेत् || हीनाङ्गमधिकाङ्गानां जातिविद्याश्रुतात्मनां | समं हास्यं तथा निदां यत्नात् तेषु विवर्जयेत् || यतिस्त्री नैव भुञ्जीयात् भङ्गुराङ्गी विशेशतः | वीरभार्यां न भुंजीत तथा चैव रजस्वलां || ऋतुकालाभिगामी स्यात् पर्वकालेषु वर्जयेत् | शिवमेव पूज्यं न पूज्यं चापरं क्वचित् || नानात्वं नैव कर्तव्यं शिवस्य परमात्मनः | नित्यहानिर्न कर्तव्या संध्यालोपं विवर्जयेत् || चित्तोन्मादं प्रमादञ्च कामक्रोधञ्च साहसं | विचिकित्सा परं धैर्यं कुहकं जिह्मूतां तथा || अनुद्योगमनुत्साहं नास्तिकत्वञ्च संभ्रमं | नास्तिकं भिन्नमर्यादं शिवशास्त्रस्य दूषकं || महापातकदुष्टानां संभासं नैव कारयेत् | लोल्यं दर्प्य तथा भ्रान्ति लोकयात्रां विवर्जयेत् || प्. ४१ब्) न वामहस्तेन पूजां कर्तव्या मनसा अपि | वामहस्तेन लिङ्गन्तु न संस्पृशेत् कदाचन || वामाचार न कर्तव्यं अतोवाम? फलप्रदं | न वामां क्षोभयेत्मंत्रीतासुहास्यं विसर्जयेत् || व्रतपूजादिकं यच्च परोक्तं परिवर्जयेत् | स्वशास्त्रोक्तं प्रकर्तव्यं क्रियाकाण्डमलुप्तकं || सहयत्न तथालष्म वर्जयेत् साधयेत्तत | ननिंद्यात्कारणं देवं न शास्त्रं शिवभाषितं || पैशून्य यत्नतो वर्ज्यं लिङ्गहायां? न लंघयेत् | ऋतुमत्या तु षत्पृस्थं? पक्वमन्नं विवर्जयेत् || पर्यकं खट्वामुषलं देहली मार्जिनी तथा | कंडनींये मना चैव चूल्लीपभ्यां न संस्पृशेत् || द्विजातीन् प्राणिनागाश्च पादेनन च संस्पृशेत् | निर्माल्यं देवदेवान्धनाम्नीयात्? न विलंघयेत् || देवद्रव्यं गुरुद्रव्यं नचात्मन्युपयोजयेत् | उपेक्षाप्यथवादान रक्षितव्यं प्रयत्नतः || गुरुदेवाग्नि कार्याणि विरुद्धान्यविकारयेत् | पूजाहोमादिकं कर्म न चात्मन्युपयुज्यते || शङ्करं तार्चितं यावत् तावन्नान्यं समाचरेत् | शिवतत्वे स्थिताये तु सेव्याशृविबुधैः शिव || ४२अ) वस्थिववक्त्रास्तु द्रष्टव्याः शिवमिच्छता | भयदारिद्र्य रागेभ्यो रक्षितव्याः प्रयत्नतः || सा पराधाश्च पतया निर्वास्या नैव कारयेत् | नरात्रौ तु बहियासा * * * * * * * न || श्मशाने देवतागारे नदीकूपतटेथवा | रान्यागारे तथारन्ये आश्रयं तत्र वर्जयेत् || नाना तपत्रानां दण्डीन वृक्षं? * * * * * | नाभि * * प्रकर्तव्य नाभिकङ्क? सकंवदेत् || पुत्रकाचार्यपुरतोन्य सत्यं भावयेत् सदा | अशिलेश्चापद्मतमालैः कवेला? * * * * || * * * * * * * * * स्फुटनं निरर्थकं | वस्त्रसययासन कुर्यात् पृथकमानोचित शुभं || ज्ञापैश्च दीप्यसुत्रैश्च संगमेन विवर्जयेत् | क्रूरै * * * * * * * * समविवर्जयेत् || देवमाब्राह्मणानाञ्च वन्दनकारयेत्सदा | ब्राह्मणस्वं न कर्तव्यं राजस्वं स्थापनद्भवं || परं स्वं यतीतो च * * * * * विवर्जयेत् | अधीरत्व ममस्वादं दुःखैर्दुःखं विवर्जयेत् || कृत *? तां च मात्भार्यै कार्याणां परिवर्जयेत् | निर्गमत्वमहं कार प्राणि हिंसाञ्च * * *? त् || ४२ब्) पशुशांस्त्रं क्षतु?सिद्धिं भूतवादं न कारयेत् | निर्लज्जत्वं न कर्तव्यं सर्वयोगापजीवनं || विषगोनाशतोपादिशस्त्र क्रीडां विवर्जयेत् | स्वशास्त्रेगोपय * * * * * * * *? तथा? || स्वय स पालयन्नित्य परधमै? विवर्जयेत् | चौरराजकध्यपुर्वं दूरतः परिवर्जयेत् || प्रमोदं साहसं चैव तथालिंगायजीवनं | अन्यलिङ्ग * * *?वर्जयेच्च भिय? * * * || तदितिं न स्वं प्राणै चवरं नैव संसये? | अदीक्षितस्य संस्पर्शं पूजाकालेविवर्जयेत् || शयननैव कर्तव्यं दिवानिद्राविवर्जयेत् | * * पूजा कलिजपहोममलात्सर्गविशेषतः ||? स्नानतोजनकाले च मौनं मलेन वारयेत् | दाक्षायास्यां प्रतिष्ठां च संपस्तवर्जयेत् सदा ||? चतुर्थाश्रमसंप्राता सि * * *? तयो मतं | यातित्तामुभयोर्जायेन्वर्तुः कारायकस्य च || द्ध?योरनुग्रहः कार्या व्याख्यान स्थापन सदा | एवमादीनि चान्यानि तु मया अत्रि? पालयेत् || प्राणि हिंसां प्रयत्नेन मनसापरिवर्जयेत् | प्राणिनां प्रति कूलं वेत्मनमानैवकारयेत् || एतदेव परधग्न एतदेव परं तपः | न शून्यमस्तकं लिङ्गं दृष्ट्वा यायात्कदाचन || ४३अ) इति कालोत्तरे समयपटलः || ईश्वर उवाच || दीक्षान्ते च प्रतिष्ठान्ते पवित्रान्तेथकारयेत् | योगं चण्डेश्वरस्यैव शृणु षण्मुख तत्वतः || तुर्याश्रं पञ्चहस्तं तु क्षेत्रं द्वादशांधाभजेत् | एकेकं संत्यजेद् भागं तस्य तत्पार्श्वयोर्द्वयोः || मध्यतो भ्रामयेत् सूत्र चन्द्रपुरं भवेत् | हस्तमात्रं तु तत्मध्ये कमलं चाष्टपत्रकं || एकदारं प्रकर्तव्यं शुक्लमजां भुजंहितं | आपीतमर्द्धचन्द्रं तु वेदाश्रं गगनप्रभं || द्वारं सिंदूरसंयुक्तं कर्णिकाकनकप्रभां | योगपीठपदेनैव पीठं चन्द्रस्य कल्पयेत् || अथवातारकेणैव षडुत्थं मनसास्मरेत् | पूर्वोक्तेणैव मन्त्रेण चंडेशं पूज्य यत्नतः || संपूज्यगन्धपुष्पाद्यैः भक्ष्यभोज्यविभूषणैः | तर्प्ययेदाज्यशेषेण शतमष्टोत्तरेण तु || विंशत्याहुति होमेन हृदादींस्तर्पयेत् क्रमात् | यद्दत्तं देवदेवाय तच्चंडाय प्रकल्पयेत् || लोहं भुवर्जयेत् यत्नात् द्विपदाश्च चतुष्पदाः | मनयोरत्ननिचयं देव स्वंपरिकीर्तितं || शेषं चण्डायदातव्यं यत् किञ्चिच्छिवकल्पितं | रजोरेखा स्वदूरस्थं मनसा नैव लंघयेत् || ४३ब्) चण्डेशाय तु यद् दत्तमगाधाम्भसि निक्षिपेत् | भस्मारशेषं वा कार्य तदेयं नैव भक्षयेत् || अतो न्यथा प्रवृत्तानां शिवाज्ञां भङ्गकारिणां | शास्ता चण्डेश्वरस्तेषा दीक्षितानामपि प्रभुः || चंडेश्वरप्रयत्नानां न भयं विद्यते क्वचित् | तस्मादाराधकानां तु शैवं पन्थानमाश्रिताः || शूलटङ्कधवं ध्यायेत्कडमडत्वक्षसूत्रिकं | महाभुजं महोरस्कं भिन्नाञ्जन च योपमं || एव वक्त्रं त्रिनेत्रञ्च टङ्काक्षमभयप्रदं | व्यक्ताव्यक्तादिके लिङ्गे मण्डले स्थण्डिले नले || चले स्थिरे तथा रत्ने मणि चित्रादिके तथा | गन्धान्नसंभवेल्लिङ्गे सृङ्गश्मफलकल्पिते || तथापुष्प मये लिङ्गे चण्डपूजानियामिका | ततोयागसमाप्तौ तु भूदेशे स्वस्तिकाङ्किते || कुर्यादवभृथस्नानमात्मने दीक्षितस्य च | भूरमङ्गलनिर्घोषं कर्तव्यं स्वस्तिवाचनं || आत्मद्यवन्दिनिर्घोषं स्तोत्रमन्त्रात्पठेत् वहून् | कलसेन शिवस्थेन सर्वदुःखनिवारिणा || स्नातः संपुजयेत् पश्चात् देशिकञ्च गुरुन्तथा | देशिके दक्षिणां दद्याद् यथाशक्त्या गजादिकं || विपर्यं वा कूट्टन्? ग्रामान् ग्रामं वा क्षेत्रमेव च | ४४अ) आचार्यानातदूर्द्धेन साधकानां तदर्द्धकः || पुत्रकाणां तु पादेन यथाशक्त्या परेषु वा | दीक्षिता पूजितां व्यास्तु पशवो भोजयेत् सदा || लिङ्गाग्नि गुरुदेवस्य नान्तरमनसास्मरेत् | प्रत्यक्ष पूजनं कार्यं गुरोरेवं मयोदितं || परोक्षे वा गुरोः पूजा कर्तव्यामन्त्रपूर्विका | हस्त्यश्च रथयोधाना सेचनं चास्त्रवारिणां || कर्तव्यं विघ्नशमनं संग्रामे जयकारणं || इति कालोत्तरे चण्डयागपटलं || ईश्वर उवाच || आचार्यस्याभिषेकार्थ न च नाभं तु वर्तयेत् | काम्यानां चैव सर्वेषां न च नाभं फलप्रदं || ऐशान्यादिशिकर्तव्यं यजनं परमेष्टिनः | चतुष्पादार्थ कुशलं षट्पदार्थैक वैदिनं || तथा साहसिकं वीरं सर्वभूतहिते रतं | गुरुभामभिसिञ्चेत चीर्णविद्या व्रतं नरं || शिवं ब्रह्माणि चाङ्गानि जप्तव्याः प्राक् शिवालये | सन्निवेस्मेन्द्रियग्रामवर्षमेकं शुचिष्मता || नित्यंभिक्षाभुजोभूत्वा कुशसंस्तरशायिनः | पूजाग्नि हवनोद्युक्तश्चेतसाभावितात्मना || विद्यालवस्तं? लक्षेण समाप्तमण्डले गुरुः | ४४ब्) नवपद्मकृते ह्येवं यजनीयं तु पूर्ववत् || ततोभिषेक योग्यः स्यात् नान्यथा विद्यते क्वचित् | शापानुग्रह सामर्थ्याद् गुरुस्तेन प्रशस्यते || व्रतमेतत्परं पुण्यं सिद्धावपि नियोजयेत् | साधकस्यात्मसिद्ध्यर्थमिदानीसंविधीयते || मूलार्कयागमिंदौर्वा श्रवणेन सहैकतः | शुक्लपक्षे च सुतिथौ सुयोगे चोत्तरायणे || अष्टम्यां वा चतुर्दश्यामभिषेकप्रशस्यते | मण्डलस्य शदिग्भागे स्नानार्थं भद्रपीठकं || द्विहस्तवेदिकापृष्ठे स्थाप्यमष्टांगुलोच्छते | वितानोपरिसंच्छन्ने पुष्पमालावलंविते || परितावैजयंतीभिदूषितयागमण्डपं | पुष्पाक्षततिलालाजा सिद्ध्यर्थप्रकरान्विते || विचित्रपवित्रवल्लिभिः स्वस्तिकाद्यैः सुशौभिते | कल्वयेत् तत्र पीठन्तु षट्त्रिंशाङ्गुलसम्मितं || वेदाश्रं तत् प्रकर्तव्यं चतुः पादाक्षलांच्छतं | चतुर्भागो च्छृतं शस्तं तथा पादे प्रविस्तरं || पत्रवल्लीसमायुक्तं मध्ये पद्मं समुत्किरेत् | क्षीरवृक्षात् सवं शस्तं कायवासुत्समोद्भवं || चतुरङ्गुलहान्या तु साधकादि प्रकल्पयेत् | ४५अ) कलसैरम्बुसंपूर्णैः श्रुक्मूत्र कृतकण्टकैः || संखस्वस्तिकपद्मद्वैः रत्नगर्भैः मनोरमैः | संपूज्यदश कृष्ताश्च? शिवास्त्रे मध्यतस्थिते || अष्टानां विन्यसेद् यत्नादनन्त्यद्यष्टकं क्रमात् | मण्डलपूज्यजुहुयाच्छिवं यागं विधानवित् || संस्नाप्य विधिना मन्त्रीचक्रवृत्युपचारकैः | शितवस्त्रोत्तरीयं च सर्वभुषणमदूषतं || मुकुटंनाङ्गहारैश्च केयुरकटकादिभिः | रमणीयकुण्डलोपेतं रश्मभद्राङ्गुलीयकं || संखदुंदुभिनिघोषि विनावादितनिस्वनैः | गतिश्च जयशब्दैश्च वंदिभ्यस्तपनादिकैः? || स्थापयेद् भद्रपीठं तु मण्डलस्य तु पश्चिमे | मंत्रपीठत्वमापन्नैकशपुष्पाक्षतोत्तरे || अधिकारपदे तस्मिन् नपवेश्यतमच्चयेत् | सकलीकृत्यविधिवत् शिवहस्तं प्रकल्पयेत् || वस्त्रश्रग्गन्धधूपाद्यैः संपूज्य च विधानतः | योगपट्टाक्षसूत्रञ्च संहिता पुस्तकं ददेत् || अष्टाङ्गुलाकर्तरी च दातव्या करणी तथा | सूत्रं सखट्टिका देया च्छत्रं वै पादुके शुभै || व्यजनं चामरं चैव यानं रम्यं यथारुचिः | एवं संपूजयेच्छिष्यमधिकारसमर्पितं || ४५ब्) ततोऽभिवादयेच्छिष्यमाचार्यः प्रददौ गुरुः | प्रवेश्य मण्डलं पश्चाद् दक्षिणां मूर्तिमाश्रितः || अद्यप्रभृति कर्तव्यं शिवज्ञानानुराशिनां | सुचिष्मतां विनीतानां शिवैकाकाहितमानसां || प्रगल्भमति युक्तानां शिवैकाहित चेतसां | इत्थं गुणरतामेव मुमुक्षूणामनुग्रहः || कर्तव्यस्त्व विकल्पेन शिवाज्ञानुविधायिना | अद्यप्रभृतिसंक्रान्तो हृधिकारो मया त्वयि || स कर्तव्य त्वया तावद् यावत् संक्रामितोन्यतः | प्रणम्यपुरतो देवं प्रतिपद्ययथोदितं || *? योद? विघ्नतो स्माकमिदमस्तुत्वदिच्छया | होमं पश्चात् प्रकुर्वीतमशेत्तरपदाध्वरं || पूर्णाशिवेन दातव्या ब्रह्माङ्गै होममाचरेत् | त्रिराहुति प्रदानं तु कर्तव्यं गुरुणा ततः || ततः शिवे लयं कुर्यादधिकारं सदाशिवं | अधिकारेर्पिते तस्मिन् वानः प्रस्थत्वमभ्यगात् || आहुतीनां सहश्रं तु जुहुयाद्वा शिवेन तु | अधिकारं पुनर्दत्तं शिवेन परमात्मना || त्वया पुनः प्रकर्तव्यः अधिकारं यदिच्छया | यावद् देहांत पर्यन्तं कर्तव्यं वा यथारुचिः || आचार्य व्रतमाचर्यश्चरेत् सर्वव्रतोत्तमं || ४६अ) इति कालोत्तरे आचार्याभिषेकपटलं || ईश्वर उवाच || समयी पुत्रकाभ्यां तु दीक्षान्ते चाभिषेचनं | पूर्वोक्तेन विधानेन यागपूर्वादिकं भजेत् || होमं तु पूर्वत् कार्यं पदाध्वनि यथोदितं | शिवाङ्गानां च होमं तु लयं तत्वे च कारयेत् || पूर्वोक्तविधिनात्मभ्यामधिकारं पुनः शृणुः | माया तत्वे तु समयी शिव तत्वे तु पुत्रकं || साधकश्चेश्वरे तत्वे देशिकस्तु सदाशिवे | इत्येतदधिकारं तु दीक्षितानां तु कारयेत् || शतार्द्धञ्च शतंसार्द्धं द्विशतञ्च स्थितं हुनेत् | सर्पिषा श्रुवमापूर्य ततः पूर्णा प्रदापयेत् || एवं कृतेधिकारत्वं शिवपूजोपजायते | समयी पूजकाभ्यां तु साधकोमन्त्रसाधने || अविघ्नोयं भवत्वद्यपूजानां सिद्धिसाधनं | स्वाज्ञां तु दापयेत् पश्चादभिषेस्वाः क्रमेण तु || आचार्या क्रमशः ख्याताः शास्त्रेस्मिन् कालसंज्ञकै || इति कालोत्तरे महातंत्रे समयीपुत्रकसाधकाभिषेकपटलं || ईश्वर उवाच || शिवतत्वापराच्छांतात् पारंपर्य यथास्थितं | तंत्राणां दशसंख्यानां क्रमणैवावधारयः || ४६ब्) कामिकं यागजं च? नादचिंतांकारणाजितं | दीप्तसूक्ष्मं च साहश्रमंशुमांशुप्रभं तथा || उर्द्धवत्काद्धिनिः क्रान्तं दशधा तंत्रसंचयं | शिवभेदाभ्यमीख्याता विशेषमेव धारय || एकैकस्य प्रमाणं तु त्रिंशन्नक्षाणि षण्मुख | शांत्यतीतः कामिकाख्यं शांत्येवे योगजं विभोः || अचिंत्यं विद्धि विद्यातः प्रतिष्ठाकारणात्मकं | निवृत्तिरजितं नाम शिवस्य वदनानि तु || दीप्तं शिवस्य हृदयं सूक्ष्माख्यं तु शिरस्तथा | साहश्रं तु शिख्यशंभारंशुमास्यान्तनुत्रकं || सुप्रभं लोचनं ज्ञेयं सोमसूर्याग्निसंधितं | अथारतारकान् वक्ष्ये क्रमेणैव गुरुक्रमं || कामिकं प्रणवाख्यस्य सुधाख्यस्य तु योगजं | दीप्ताभ्यां स्यादचिंत्यं तु कारणाख्यस्य कारणं || व्यजितं च शिवाख्यस्य दीप्तमीशस्य भाषितं | सूक्ष्मसूक्ष्मस्य कालस्य सहश्राख्यप्रकाशितं || शुप्रभं तदशेशस्य अंशुसंज्ञस्य अंशुमान् | सदाशिवेन तंत्राणि कथितान्येषु तत्वतः || एवं प्राथमिकः प्रोक्तः पुनरुन्या गुरुक्रमः | ४७अ) प्रणवात्रिकलः प्राप्तं कामिकं त्रिकलाद्धरः || शुधां स्याद्? यागजं तंत्रं भस्मसंज्ञंस्ततः प्रभुः | दीप्तरुद्रादचिंत्यं तु गोपतेश्च ततोम्बिका || कारणात् कारणं सर्वस्ततः प्राप्तः प्रजापतिः | अजितं सुशिवः प्राप्तं उमयाप्यच्युतस्ततः || ईशाद् दीप्तात् त्रिमूर्तिस्तु ततः प्राप्ता हुताशनः | सूक्ष्मसूक्ष्माद् भवः प्राप्तः तस्मात् प्राप्तः प्रभञ्चनः || कालसंज्ञात् सहश्रार्द्धं भीमो वायुस्ततः पुनः | दशेशात् सुप्रभं तत्र विग्रहीशस्ततः शशी || अंशुमानंशुसंज्ञा तु प्राप्तोग्रस्ततो रवि | एवमेते समाख्याताः शिवभेदा दशैव तु || सूत्राणि चात्र वक्ष्यामि तंत्राणां दशसंख्यया | अथातो मंत्रतत्वार्थ क्रियासंग्रहलक्षणं || ईशानस्य समासेन आदितन्त्रे प्रदर्शितं | आदिसूत्रमिदं तन्त्र कामिकाख्ये प्रकाशितं || द्वात्रिंशच्चैव लक्षाणि मन्त्राणाममितौजसां | षट्त्रिंशच्चैव तत्वानि नित्यनैमित्तिकी क्रिया || सारेतरविभागञ्च स्तस्मिन् स्तन्त्रे प्रदर्शितं || १ || अथातस्तत्वसद्भावं पुरुषस्योच्यते धुना || भुक्तिमुक्तिप्रदं पुंसां मुद्रामण्डललंकृतं | ४७ब्) इत्येवं योगजं सूत्रं कथितं परमेष्ठिना || विवेको यत्र तत्वानां पुरुषस्यात्र विद्यते | महादेव स्वरूपं तु मुद्रामण्डललंकृतं || द्वात्रिंशच्च सहश्राणि मुद्राणां मण्डलात्मना | भुक्तिमुक्तिप्रदं पुंसां योगजे सूत्रमीरितं || अथोग्रमंत्रसंतप्ताः पुंमायाऽन्यत्र कुण्ठिताः | शिवशक्तिप्रभावेन मंत्राराधनपूर्वकं || इदं सूत्रमचिन्त्ये तु कथितं मन्त्रपूर्वकं | उग्रमघोरमित्याहुस्तज्जपात् मापसंचयं || अविद्यायास्तु दीर्याति संविज्ञान प्रजायते | मुद्राणां चैव मंत्राणां लक्षमात्रं प्रदर्शितं || अचिन्त्ये तु महातन्त्रे सूत्रमेव प्रदर्शितं | अथ वामानुरक्तानां वामशक्त्या ददेदधः || विवेकं जनयेत् जुया येन योगं प्रवर्तते | इदं तु कारणं सूत्र प्रागुक्तं शङ्करेण तु || वामाचारानुरक्तानां वामदेवो नियामकः | कालान्तरवसाद् भूयो विवेकान् प्राप्नुयात् परं || सिद्धिसाधनमन्त्राणां मुद्रामण्डलजातिषु | दशलक्षाणि चोक्तानि तन्त्रे स्मिन् कारणात्मके || अथ सत्कर्मरक्तानां शिवतत्वं प्रदर्श्यते | मन्त्रमुद्रागणेनैव मण्डलार्चनपूर्वकं || ४८अ) आदिसूत्रमिदं तंत्रे अजिताख्ये प्रकीर्तितं | समाधिध्यानयुक्तानां पूजाहोमरतात्मनां || प्राणिहिंसाविरक्तानां तत्वज्ञानं प्रजायते | येन जातेन भूयोपि नाविद्या वाध्यते क्वचित् || मुद्रामण्डलमंत्राणां दशलक्षाः प्रदर्शिताः | अजितं नामयं तंत्रं तस्मिन् यत्नात् प्रकीर्तितं || अथ सर्वात्मना तत्वमात्मनात्र प्रदश्यते | योगसंभवतो विद्धि तत्वं तत् पारमेश्वरं || आदिसूत्रमिदं ज्ञेयं दीप्ताख्य? तंत्रनायके | यत्र सर्वात्मना प्रोक्तं पवत्मात्मविवेचनं || येनाभिव्यज्यते पुंसां विवेकं तत्वलक्षणं | धारणा वद्व लक्षस्य पराव्याप्तिः प्रजायते || लक्षमेकं समासेन धारणानां प्रदर्शितं | मन्त्राणां तत्सदेवात्र करणानां तथैव च || आदिसूत्रस्य यद् व्याख्या दीप्ताक्षस्य प्रदर्शिता || ६ || अथ सर्वात्मनो योगः सर्वदः कथ्यते मया || सत्यं कुरु प्रयत्नेन तत्र तत्र सदैव हि | आदिसूत्रमिदं ज्ञेयं सूक्ष्माख्ये तंत्रनायके || सर्वात्मना चिन्त्य तु कथ्यमाना मयाधुना | तत्रास्था यत्नतः कार्या स्वरूपप्रतिपत्तये || कुरु कुरु पदेनैव शिरोमंत्रपरिग्रहः | ४८ब्) मंत्राणां मण्डलानां च मुद्राणां कारणात्मना || लक्षद्वयं समाख्यातं सूक्ष्माख्य तंत्र सत्तमे | अथातो ज्वालिनी ज्ञानात् शिवस्य परमात्मनः || धारणानां द्विलक्षेण मंत्रमण्डलसंचयात् | आदिसूत्रमिदं तत्रे साहश्रे कृत्तिकासुत || ज्वालिनी परमाशक्तिः शिवस्याशिवहारिणी | अविलुप्तस्वरूपा सा धारणाध्यानयोगतः || मुद्रावधं क्रमेणैव मोक्षमक्षयकतृणां | मुद्रामंडलमंत्राणां धारणानां विशेषतः || लक्षैकैकं समाख्यातं साहस्रे तंत्रसंज्ञके | अथ सर्वज्ञदेवस्य तनुं संचिंत्य तत्वतः || तत्मयस्तल्लयो भूत्वा तत्स्वरूपपदं विशेषत | आदिसूत्रमिदं विद्धि अंशुमानन्तन्त्रसंज्ञके || एकादेवा द्वितीयास्ति कश्चिदेकमुष्टण्वत्तिः सर्वसे चैकः |? एका देवाभाति भेदप्रवृत्यास्वस्थश्चन्द्रादर्पणे चाथ रूपे | तनुशब्देन कवच प्राकृतं मोहपञ्जरं | तद्विचारात्मविज्ञानमंशुसंज्ञप्रकीर्तितं || अथातस्तेजसं सर्व यत् किंचिच्चिदन्मतं | सदशद्रूपकल्पं वा विज्ञेयं तच्छृणुष्वतः || आदिसुत्रमिदं ज्ञेयं सुप्रभे तंत्रसंज्ञके | सोमसूर्यात्मकं सर्व जगत्स्थावरजंगमं || ४९अ) चिदचित्तत्वसंतानं विद्याविद्यामयं स्फुटं | हेयोपादेयता तत्र ज्ञातव्या देशिकेन तु || निष्कलं कथितं ज्ञानं सुप्रभे तंत्रसंज्ञके | इत्येतद्दशतंत्राणि शिवकार्योत् सतानि च || १० || पञ्च ब्रह्माणि चाङ्गाणि तानिशंभोः स्थितानि च | तेषां चैव तु सूत्राणि त्वत्प्रीत्या दर्शिता मया || व्याख्याकाले प्रदश्यामि शिष्याणां स्थिरमेधसां | इति कालोत्तरे महातंत्रे शिवभेदपटलं || ईश्वर उवाच || अष्टादशप्रमाणेन संख्यया शृणु षण्मुखे | त्रयस्त्रिंशति लक्षाणि प्रत्येकं संख्यया स्थितं || विजयं पारमेशं च निस्वासं परतस्थितं | प्रोद्गीतमथ विम्वाख्यं सिद्धं सन्त्य न संज्ञकं || नारसिंहं तथाख्यातं चन्द्रहासमतः परं | वीरभद्रं ततः पश्चात् स्वयं भुवनमन्तरं || विसरं रौववाख्यं च माकोटं किरणाह्वयं | ललितं च नलं चैव पराख्यां चांतिमं स्मृतं || रुद्रभेदास्त्वमी ख्याता भुक्तिमुक्त्यास्तु साधकाः | मूर्धतो विजयं जातं ललाटात् पारमेश्वरं || नेत्रेभ्यश्चैव निस्वासं त्रिखंडं निर्गतं पुरा | श्रवणाभ्यामथोद्गीत द्विखंडं भुक्तिमुक्तये || ४९ब्) त्रिंशत् प्रकारं विज्ञेयं मुखोर्द्धमुखबिंबकं | त्रिस्कन्धं तु तथा सिद्धं ग्रीवाशाभ्यां समुत्थितं || द्विकांडं चैव संतानं कक्षदेशाद् विनिर्गतं | एकभेदं नारसिंहं वक्षदेशाद् विनिर्गतं || स्तंनाभ्यां चन्द्रहासाख्यं द्विभेदं निर्गतं विभोः | हृद्ग्रीवाद् वीरभद्राख्यं तत् द्विभेदं प्रचक्षते || आग्नेयं वाथुलाज्ञंयतजठरादेकभेदकं | स्वायंभुवनाभिरेशाद् भेदेकेन विसर्पितं || विसरं पार्श्वयोजातं विभेदं शिवकायतः | रौरवं पृष्ठदेशान्तु भेदैकेन व्यवस्थितं || माकोटं कटितो जातं त्रिभेदं तच्च शांकरि | एकभेदं तु किरणं प्रजनां तु विनिर्गतं || कुवयश्मान्तु ललितं सिद्ध्यंतं तद्धि भेदजं | द्विभेदं सौरभं पञ्च जानुभ्यां परमेष्ठिनः || अष्टादशैते विज्ञेया पधानास्तंतु नायकाः | तत्संज्ञा एवयो द्वयोः ज्ञानानां तु प्रकाशकाः || ज्ञानैः सह तथोत्पन्नाः संख्याताष्टदशात्मकाः | रुद्रवच्छात्र संज्ञा तु विज्ञातव्याः परस्परं || उपभेदा हि वहव कथ्यन्ते लेशतो मया | विजय वृषभरौद्रं मोहनं पद्मसंकुकं || विजयं पञ्चधाख्यातं सप्तधा पारमेश्वरं | पौष्करं हंसमातङ्गं यक्षिणी वामदेवकं || ५०अ) दधीचिः सप्तमं ज्ञेयं प्रतिष्ठा पारमेश्वरं | निःस्वासं त्रिप्रकारं तु त्रिकाण्डन्तु विधीयते || निःस्वासकारिका चैव उत्तरत्रितयं स्मृतं | उद्गीतं प्रथमं तंत्रं प्रोद्गीतं तदनन्तरं || त्रिंशद्सदविभिन्नन्तु संस्थितं मुखबिंबकं | मुखबिंबं हयग्रीवं विकटं ज्ञानपुंजकं || अर्णरं मोहचूर्णाख्यं विमलं भासुरं तथा | पतह्रुकं नं गुह्यं ववनतेयकं || अतिगुह्य ततोत्साह विश्वरूपं विभावसं | धूलिभेदं महोच्छ्वासं संतानाख्यं तथामृतं || केशरं तिलकं कम्बु कोटिसंज्ञं तु मानसं | मुखबिम्बस्य भेदानि कथितानि मया तव || सिद्धं च वासुकिश्चैव चण्डाख्यं सिद्धनिर्गतं | संतानं रुद्रसंतानं सन्तानं द्विविधमतं || एकभेदं सदा ज्ञेयं नारसिंहि शिखिध्वज | सूर्यभेदं चन्द्रहासं चन्द्रहासं द्विभेदजं || महाकाल वीरभद्रं द्विभेदं वीरभद्रकं | एकभेदं तथाग्नेया वाथुलाहुं तु यत् स्मृतं || तथा स्वायंभुवं ज्ञेयं भेदकेन व्यवस्थितं | विशरं केशराहुञ्च विसरञ्च द्विधा मतं || रौरवमेकभेदं तु माकोटन्तु त्रिभेदजं | माकोटं ब्रह्मपीठञ्च तथा निर्वान संज्ञकं || ५०ब्) एकभेदं तु किरणाख्यं द्विभेदं ललितं मतं | ललितं तु वनाख्यञ्च द्विभेदं ललितं स्थितं || व्याख्याकाले तु गुरवः तत्राणाञ्च प्रकाशयेत् | सौरभेद पराख्यं च द्विविधं च पराह्वयं || (ठिस् लिने तोप् ओf पगे) अन्यथा कृतकानां तु प्रामाण्यं सम्प्रजायते | ज्ञानप्रकाशकास्तत्र सजाता शिवदेहतः || ज्ञानैः सह तथोत्पन्नाः कथयन्त्यनुपूर्वशः | अनादि सूर्यो भगवान् विजयस्य प्रकाशकः || श्रीरूपः पारमेशस्य निस्वासस्य दशाक्षरः | प्रोद्गीतस्य तु रुद्राख्यः प्रशमो मुखबिम्बके || बिन्दुध्यायीति सिद्धस्य सन्ताने शिवसंज्ञकः | सौम्यं तु नारसिंहस्य चन्द्रस्यानन्तसंज्ञकः || सर्वात्मा वीरभद्रस्य व्योमाच्चाग्नेयसंज्ञिकं | निधनस्य स्वयंभुवं विसरं तेजसः स्मृतं || रौरवं ब्रह्मणेशस्य शिवाख्यस्य तु माकुटं | * * * * * * * * व्योम अग्नेय संस्थितं || विद्यालया तु ललितं भैरवः समाप्तवान् | किरणदेव पितृतोलेभे संवर्तको मुनिः || सौरभे यं देव पतेद्धर्मो देवामुवाप्तवान् | अष्टादशानां तंत्राणांमितिज्ञानावतारकाः || गुरवः कथनीयास्तु व्याख्यारंभे सदा ध्रुवं | ५१अ) चतुष्पंचासत्संख्यास्तु व्याख्ययास्ते सु मेधसां || १ || अष्टादशानां तंत्राणां क्रमेण शृणु षण्मुख | आदिसूत्राणि यत्नेन यस्तंत्रार्थ विधारणं || षट्पदार्थाश्च सूत्रे तु तंत्रे प्रदर्श्यते | अथानन्तेश्वरं देवं सर्वज्ञानोत्तरेश्वरं || आदिसूत्रमिदं तंत्रे विजयेसन् प्रकीर्तितं | अत्रानं तेति शब्देन पदस्य तु परिग्रहः || व्योमव्यापि समुत्थस्य यतः तत्पद मुच्यते | अनन्तायेति तद्देहः शिवस्य परिपठ्यते || तथा चेश्वर शब्देन पदं शाभातमेव च | संग्रह कथितस्तत्रे विज्य(?)प्राख्य षडानन || २ || अथातः सर्वयोगेश गणमातृनिमेवितं | सर्वमन्त्र महायोग विधिं वक्ष्यामि शास्वतं || आदिसूत्रमिदं तत्रं भाषितं परमेश्वरं | सर्वयोगेश शब्देन गृहीतं तंत्र कारणं || पतिशब्देन तत्वं तु गृहीतमीश्वरात्मकं | तथाशास्व शब्देन पदं शास्वत मेव च || ईश्वराच्छिव तत्वातं सूत्रेणानेन दर्शितं | अथातः सर्वविज्ञान सूति कृत्प्रमथाश्रयं || प्रवक्षामि महातंत्रं योगयोगेश्वराचितं | ५१ब्) आदिसूत्रमिदं तन्त्रे निस्वासे परिभाषितं || विज्ञानसूतिवचनाद् विद्यातत्व परिग्रहः | प्रमथोश्रपशब्दात्व योगपीठपदस्य च || विद्याविद्यात्मकं सर्व विद्ययामृतमाप्नुयात् | योगपीठपदेनैव साविभोगसनेस्थितां || ३ || अथातः सर्वमन्त्राणां प्रेरितारं प्रकल्पकं | निधनान्तकरं देवं प्रणिपत्य स्वयं भुवं || आदिसूत्रमिदं तन्त्रे प्रोद्गीतेसं प्रभाषितं | निधनान्तक शब्देन कालतत्व परिग्रहः || पदस्य निधनायेति निधनान्त्या परिग्रहः | सर्वज्ञ सद्यकर्ता च सूत्रेणानेन कीर्तितः || ४ || एवं त्रिंशति ये कल्पयोगि योगी महेश्वरः | उमयासहितं शान्तं देवासुरगणार्चितं || आदिसूत्रमिदं तन्त्रे स्तपितं मुखबिम्बके | अत्र कल्पस्य सम्बन्वादात्म तत्व परिग्रहः || तथा च योगि सम्बन्वाजित्यं योगिपदस्य च | इति सूत्र निर्गदितं बिम्बाख्य मुखबिम्बके || ५ || अथातः शिवजं सूत्रं प्रवक्ष्याम्यन्तराश्रयं | मुक्तिदः साधकः श्रीमान् सर्वशक्तिभृतात्मनां || आदिसूत्रमिदं तन्त्रे प्रोक्तं सिद्धे महोदये | ५२अ) अत्रापि शिवशब्दाक्त्या शिवतत्वपरिग्रहः || मुक्तिदं साधकोक्त्या च व्योमव्यापि पदस्य तु | शिव तत्वान् युक्तानां व्योमरूपां तनुं व्रजेत् || अथातः सर्वतो भद्र गुणनिर्वाणरूपकं | शिवात्मकं महाज्ञानं प्रवक्ष्यामि हितार्थवैः || आदिसूत्रमिदं तन्त्रे सन्ताने सम्प्रभासितं | सर्वतो भद्रशब्दोक्त्या माया तत्व परिग्रहः || तथा च शिवशब्दोक्त्या योगपीठ परिग्रहः | त्रिगुणा तु मतामाया यतोऽविद्या प्रकीर्तिताः || शिवशब्दपदेनैव तज्ज्ञानाद्विलयं व्रजेत् || ७ || अथातः कर्मविज्ञप्ति सर्वमुक्त्यर्थकारणं | ज्ञानोदयं महाप्राप्तिः पशुनाम शिवापहं || आदिसूत्रमिदं तन्त्रे नारसिंहे प्रकाशितं | कर्मविज्ञप्ति शब्देन तन्न्यासं कारयेत् क्रमात् || ज्ञानोदयं प्रजायेत सर्वमुक्त्यर्थ कारणं | तत्वं सदाशिवोद्गीतं क्रियाशान्तिश्च कर्मतः || सर्वयोग पदं चैतत्संगृहीतं शिवस्य तत् || ८ || अथानलवपुर्देवं सर्वज्ञानात्मक वाचकं | प्रवक्ष्य तन्त्रधातार योगमुक्ति विभूतिदं || आदिसूत्रमिदं तन्त्रे वीरभद्रे प्रभासितं | ५२ब्) तत्रानलवपुत्वेन तत्वमुक्तं सदाशिवं || योगमुक्ति विभूत्युक्त्या व्योमव्यापी पदग्रहः || ९ || अथातः सर्वविज्ञान बीजकल्पनिर्दर्शनं | युगमन्वंतरं संध्याकाल संकल्पिताश्रयं || आदिसूत्रमिदं तन्त्रे चन्द्रहासे प्रकाशितं | तत्रापि कालतत्वस्य ज्ञानबीज परिग्रहात् || पदं तदेव निर्याख्य सर्वविज्ञान दर्शनात् || १० || अथात् स्वाविमलोवद्धं पुनर्मुक्तस्त दीक्षया | विज्ञेयः स त्रिधावस्थः केवलः सकलो मलः || परमा तत्र संगृह्य अविद्यया वृतः परः | कमलावधाते सैव त्रिवन्धान् मुच्यते पुनः || आत्मा चतुर्विधः प्रोक्तः परमात्मा परिग्रहात् || ११ || अथ मन्त्राम्बुजासीनं नवनाभं महाशिवं | शिवाख्यमतुलं वक्त्रं प्रवक्ष्याम्युत्तराश्रयं || आदिसूत्रमिदं तन्त्रे विसरे विरजा ह्वये | अस्मिन् शिवाख्य शब्देन शिवतत्व परिग्रहः || तथा च मन्त्र शब्देन व्योमव्यापी पदस्य तु || १२ || अथातो नादिमध्यान्त पशुपाशाज्जितात्मनां | तद्विच्छित्ये परं शैवं महाज्ञानासिमुत्तमं || आदिसूत्रमिदं तन्त्रे रौरवे सम्प्रभाषितं | ५३अ) अत्रापि पाशशब्दोक्त्या पाशत्रय परिग्रहः || आत्मा च त्रिविधो वद्धः पशुशब्द परिग्रहात् | अनादि पदशब्देन प्रोक्तः पद परिग्रहः || १३ || अथ शान्ति वियोगाख्यं सिद्धिमुक्ति प्रदायकं | ज्ञानं शिवाननाद्गीतं प्रवक्ष्याम्य धरोत्तरं || आदिसूत्रमिदं तन्त्रे माकोटे मुकुटीह्वये | अत्राधरोत्तरोक्त्या तु तत्वस्य नियते ग्रहः || तथा च मुक्त्युक्ता ध्यानाहार पदस्य तु || १४ || पशुपाशपतिज्ञान विचार प्रतिपादकं | क्रियाचर्या समोपेतं योगभूमि शरावहं || आदिसूत्रमिदं तन्त्रे किरणाख्य प्रभाषितं | चतुष्पाद षट्पदार्थ ज्ञानमात्मप्रकाशकं || योगशब्दपरोक्त्या तु गृहीतं परमं पदं || १५ || अतः परं महाज्वालं रश्मिसक्ताच्च विग्रहं | शिवात्मकं महाज्ञानं सर्वज्ञानोत्तरोत्तरं || आदिसूत्रमिदं तन्त्रे सिद्धान्ते ललिताह्वये | तत्र ज्वालार्थ सम्वन्धान् तत्वं प्रोक्तं सदाशिवं || एवं सर्वात्मकोक्त्या तु सर्वव्यापि प्रकीर्तितं || १६ || नादाख्यं यत्परं बीज सर्वभूतेष्ववस्थितं | मुक्तिदं परमं दिव्यं सर्वसिद्धिप्रदायकं || ५३ब्) आदिसूत्रमिदं तन्त्रे आग्न्येया वाथुलाह्वये | अत्र नादाख्य शब्देन सर्वप्रभवता विभोः || मुक्तिशब्द पदेनैव कर्ताज्ञातो सदाशिवः | इदमेवादिसूत्रं तु शास्त्रेस्मिन् कालसंज्ञैकं || १७ || अथावान्त महालिङ्गं पुरुषातीत वाचकं | ज्ञानं शिवात्मकं सूक्ष्मं सर्वविज्ञप्तिकारणं || आदिसूत्रमिदं ज्ञेयं सौरभेये पनाह्वये | अथाव्यक्तं महालिङ्गं प्रोक्ता तत्वं गुणात्मकं || तथा शिवात्मकोक्त्या तु शिवमेव पदं स्मृतं | तस्य वारस्य ये मन्त्रा वाचकाः शक्तिरूपिणः || अत एतत् पदेनोक्तं पुरुषातीत वाचकं || १८ || इत्यष्टादशसूत्राणि रुद्राख्यानि तु षण्मुख | व्याख्याकाले प्रदर्श्यानि शिष्याणां भावितात्मनां || इत्येतच्छिवकायं तु दशाष्टादशधास्थितं || १९ || इति कालोत्तरे महातन्त्रे तन्त्रोत्पत्ति व्याख्या पटलं || ईश्वर उवाच || प्रवक्ष्ये शिवसद्भाव पदं शान्त प्रकासकं | ओमित्येकाक्षरं ब्रह्म मन्त्रतन्त्रादि लक्षणं || महदादि विशेषान्त व्यापकं पदमध्ययं | ओतप्रोतं जगत् तेन मात्राभिः सर्वतो भृशं || त्रिभिः पदैस्तु विभुना स देवासुरमानुषं | ५४अ) दानयज्ञतपोध्यान वेदाध्ययनकर्मषु || ओंकाराद्यभिसम्वन्धा मन्त्रवद्भिः प्रकीर्तितः | तस्मादिहापि प्रणवमग्रे मन्त्रपदं विभोः || न्यस्य पश्चात् कलानीकवर्जितं व्योम उच्यते | व्योमत्याकाशसंज्ञेयं निमित्तात् परिभाष्यते || व्यापकत्वादमेयत्वाद्व्योम इत्यभिधीयते | तद्व्यापयति यस्मात् स भगवान् परमेश्वरः || शक्तिरश्मि समूहेन तस्माद् व्यापी सदाशिवः | तदेव रूपं भगवान् विभर्ति प्रभुरव्ययः || तेन धर्मेण युक्तत्वात् व्योमरूपेति चोच्यते | तस्मै शिवाय महते सर्वगाय महात्मने || व्यापिने व्योमरूपाय परायप्रभवे नमः | सर्वनिरवशेषं यत् व्योम उक्तं परापरं || ततं यस्मात् भगवता सर्वव्यापी ततो भवः | शान्तत्वात् सर्वकर्तृत्वं भावात् परमकारणात् || शिव उक्तो महातन्त्रे मन्त्रविद्भिः सदाशिवः | तस्मै शिवाय गुरवे वीतरागकलाप वै || अमेयत्वादनन्ताय अजत्वाच्च प्रकीर्त्यते | अनादि शिव सद्भाव युक्तत्वात् परमेश्वरः || सर्वेषां स्वामिभावाच्च अनाथ इति शाश्वते | अनाश्रितः स्वाश्रयत्वादन्याश्रयनिवर्जितः || आश्रयानसमत्वाच्च अनाश्रित इति स्मृतः | वैनासिकत्वात् सर्वेषां भुवनानां सदाशिवे || ५४ब्) ध्रुवेति संज्ञितं नाम सदानित्यत्व लक्षणं | प्रशास्ति कारणत्वेन शाम्या यस्मान् न कस्यचित् || अतीतशास्वतत्वाच्च शास्वतो भगवान् शिवः | योगास्य शिवसद्भावः सदाशिवमनामयं || तस्मिन् व्यवस्थितो यस्मात् योगपीठस्थ उच्यते | अनादि शिवसद्भाव योग उक्तः सदाशिवः || मन्त्रयोगमये पीठे तत्रस्थस्तेन चोच्यते | अव्युच्छिन्नेन योगेन शाश्वते नानुरंजितः || नित्यं योगीति तेनोक्तः शिवतत्वार्थको विदैः | ध्यानं चिन्ता भावनार्थ कल्पना मनसः क्रिया || मनसः परिपूर्णत्वात् परितृप्तो भवोद्भवः | स्वस्थत्वात्सु प्रशान्तत्वात् परनिर्वाणमुत्तमं || ध्यानाहारं भगवतिनि तृप्तस्य लक्षणं | प्रणवं पूर्वमुद्दिश्य संशयच्छेदकारकं || नमः शिवाय शान्ताय जगतः प्रभवाय च | इति संभाव्य देवेशं गुणैः पूर्वमुदाहृतैः || तनुं पञ्चमहामन्त्रं लक्षणां संप्रवक्षते | इष्ट अग्रे स भगवानीशानीभिः शिवो व्ययः || जगत् कृष्णं महातन्त्र शक्तियोग मरीचिभिः | ईशानमुर्द्ध्ना तेनायं युक्तामन्त्रेण कारणं || महामायोत्थजालेन व्यये ततनुरीश्वरः | परमं वचति ज्ञानं यत् तत् पूरकमुत्तम || सर्वज्ञ शिव सद्भाव प्रकाश करणं परं | ५५अ) तेन मन्त्रेण मन्त्रे मन्त्रकृत् परमेश्वरः || प्रयुक्तं पूरयेत् कृत्स्नं तेन तत् पुरुषः स्मृतः | तस्मै पुरुष वक्त्राय अघोर हृदयाय च || अघोहरण शीलत्वात् हृदयं चोच्यते बुधैः | अघोरं शान्तमित्युक्तं सद्भावो हृदयं प्रभोः || तेन चान्द्रेण युक्तत्वादघोर हृदयः शिवः | वामोथ विपरीतत्वात् संसारोद्धरणादपि || सर्वभावेषु गूढत्वाद् गुह्य इत्यभिधीयते | देवो दिवि स्थित त्वात् कृदीव्यदि यस्माच्च तेन वा देवः || परमति गुह्यात गुह्य अत एवोक्तं शिवो नाम | मन्त्रेण तेन युक्तोयं गुह्य इत्यभिधीयते || सद्यः प्रसादानाक्तक्षिप्रमरमाशुरिति पर्यायाः | गहनेन जायतेस्मिन् प्रधान पुरुषान्तिके घोरे || यस्मात् तस्मात् स भगवान् जात इति चोच्यते देवः | सद्यो जातेन मन्त्रेण युक्तत्वात् परमेश्वरः || शिवमूर्तिविधानज्ञः स मूर्तिरिति पठ्यते | एते मन्त्रै महागुह्यैर्मूर्ति भगवतः प्रियां || निगूयं सर्वतत्वेषु ध्यायेन् नित्यं समाहितः | दुर्विज्ञेयं पदाथानां तत्वानां गहनस्य च || स्थित्युत्पत्ति विनाशानां गुह्याद्गुह्येति वर्णितः | गुह्याति शयं युक्तत्वादति युक्ता महेश्वरः || ५५ब्) प्रकृते गोपत्य गोप्तासंसारस्य सदाशिवः | निधनं नाशमित्युक्तं तस्य कर्ता सदाशिवः || तेनोक्तं निधनेत्येवं जगतः परमेश्वरः | सर्वासामेव विद्यानां विद्याराज्ञां तथैव च || विधाता परमेशानो यस्मात् तस्माच्छिवोधिपः | ज्योतिप्रकाशरूपाणां दर्शनाकृतिलक्षणं || अशेषोहासकरणात् ज्योतीरूपा शिवो व्ययः | परमेश्वर रुद्राणां स्थितिसंहारकर्मिणां || कारणेच्छाप्रवृत्ति त्वात् परस्तस्मात् महेश्वरः | तस्मै देव्यति देवाय पराय परमाय च || याथा तथा गुणोघन युक्ताय परमात्मने | चेतना सर्वभूतानां सुखदुःखादि लक्षणा || सावेन्न विद्यते यस्मात् तेन देवो ह्यचेतनः | अचेतनो ह्यविन्द्वत्वात् सूक्ष्मत्वाच्चाप्य चेतनः || चेतनामगत्वादचेतन इति स्मृतः | द्विरभ्यास पदं चास्यसंशयच्छेदकारणं || व्योमादिष्वपि बोधव्यं द्विरभ्यास पदेषु वैः | ध्याने हि पूर्वमेवोक्तं गगनाख्यं समासतः || तेन धर्मेण युक्तत्वाद् भगवान् व्योम उच्यते | परं व्योमा परं चैव तन्त्रे स्मिन् समुदाहृतं || मायातीतं परं व्योम सांजनत्वं परं स्मृतं | विरंजन पदं व्योम्नि नित्यस्थः कारणोव्ययः || ५६अ) सांजनैः शक्तिकिरणैरधिष्टयति शङ्करं | व्योमव्योमेति तेनोक्तः कारणेन सदाशिवः || व्यापकत्वाच्च सर्वस्य व्यापी स परिकीर्तितः | रूपिणां परमेशानां ब्रह्मादीनां सदाशिवः || ज्ञानगम्योमहामन्त्र योगयोगी महेश्वरः | स्रष्टत्वात् सर्वभूतानां सर्वज्ञत्वाच्च कारणात् || अनादिमत्वाद् भगवान् प्रथमस्तु निरुच्यते | सर्वेषां तेजसागादि विधिवत् भगवान् शिवः || प्रकाशकरणत्वाज्य तेजस्तेज इति स्मृतः | यदिं धनादि संयोगान् सोमार्क मणिजञ्चयत् || तेजस्तस्मात् सुसंपूर्णं कारणं ज्योतिरुत्तमं | तद् दूमभस्म रहितं तेजसामनुरंजकं || सैवं परमनुनिर्वाणमाद्यतं ज्योतिषां विदुः | अनादिनिधनाभावान् नित्य त्वात् तेजसां निधिः || अनादिरिति विज्ञेयं वामदेवस्य शाश्वतं | नानामति च यत् प्रोक्तं गुह्यमंत्र पदं विभोः || परमेश्वर क्षेत्रज्ञ पितामह इति त्रिकं | ना इति पुरुषस्याख्या प्रथिता परमेश्वरस्य देवस्य | पूरयति पोषयति च यस्मात् तस्माच्छिव ख्यातः || पुरुषः धु धु धू संहारः प्रोक्तः पुरुष त्रयकारणस्य देव * *? गुह्ये मंत्रपदे स्मिन् संहारकरपदप्रोक्तं || ओं भूः महावावीत्व पदं तद्वत् धीमहेति पदन्ततः | ५६ब्) धियो महेति व्याख्येयं तत्पदं पूर्ववद् भवेत् || अस्माकं नः पदं प्राहुः रुद्रः कर्तरि योजयेत् | प्रचोदयाच्चत्तर्वर्णं पदं पद विदो विदुः || गायत्र्याच्छन्दः कथितं पदाष्टक महाद्युति || एकादश पदं ज्ञेयं मघोरं घोरनाशनं | पञ्चम्यन्त पदानिस्युः षडेवाथा व्ययपदं || अव्ययं चात्रमन्त्रव्यं सर्वत्या मन्त्रणे हितं | नमः कर्तरि वक्तव्यं स्वकर्मणि नियोजितं || अनुष्टुपच्छन्दवृत्तेन संस्थितं मन्त्रनायकं || वाम देवाय पदं चेति चतुर्थान्तं समादिशेत् | नमः पदं द्व्यक्षरं स्याज्ज्येष्ठायेति पदं तथा || त्र्यक्षरन्तच्चतुर्थान्तं नमः शब्दपदन्ततः | ज्येष्ठायेति चतुर्थ्यन्तं नमोन्तं कारयेत् तथा || रुद्रायेति चतुर्थ्यन्तं नमोन्तं तद्व देव हि | कालायेति पदं तद्वन्नत्यंतं समुदाहरेत् || कलविकरणाय पदं सप्तार्ण नतिभूमितं | बलविकरणाय पदं चतुर्थ्यन्तं नति युतं || बलप्रमथनायेति सप्तार्णं नतिनायुतं | अष्टाक्षरं चतुर्थ्यन्तं सर्वभूतदमनाय नमः | ततपदं पश्चात् मनोन्मनायां न संयुतं || नमस्कारं ततः पश्चाद् वामदेव स्वयं प्रभुः | अष्टादश पदप्राहुः चतुर्थ्यन्तानि पूर्वशः || ५७अ) नमः शब्द पदान्यत्र तव संख्याऽपराणि तु | सद्योजातं कर्मपदं चतुर्थं समुदीरितं || प्रपद्यामि चतुर्वर्णं पदं तन्त्र क्रियात्मकं | सद्योजातायशब्दन्तु पञ्चार्णं तत समादिशेत् || चेति पातं समाख्यातं नमः शब्दपदं ततः | भवे भवे पदं प्रोक्तं चतुरक्षरसम्मितं || नेति निपीतमाख्यातं तथा चाति भव पदं | भजन्यति पदं चान्यत्मां कर्मपदमीरितं || भवोद् भवेति च पदमामन्त्रण पदं स्मृतं | एकादशपदं प्रोक्तं सद्योजातं पदेश्वरं || इत्ये तत् कथितं लेशात् ब्रह्मणा लक्षणं स्फुटं | अधुना चाङ्ग षट्कस्य पदसंख्या निगद्यते || प्रणवाख्यं पदं पूर्वं नमः शब्दमतः परं | पञ्चाक्षरं चतुर्थ्यन्तं पदं स्यात् परमात्मने || परायेति पदं चान्य त्र्यक्षरं स्याच्चतुर्थकं | परमेश्वर शब्दन्तु परायाष्टाक्षर पदं || योगाय त्र्यर्णमुद्दिष्ट षडर्णं योगसम्भव | चतुर्थ्यन्त पदं कार्य करेति युग्मसंयुतं || कुरुयुग्म पदं तत्र तथा सद्य पदं द्विधा | भवेति च द्विधायोज्यं भवोद्भव पदं ततः || वामदेव पदं लिख्य सर्वकार्याक्षरान्वितं | तथा प्रशमनं योज्यं सदाश्व पदं ततः || प्रसन्नेति ततः कृत्वा नमोस्तुते तन्त्रज्ञैः | प्. ५७ब्) साक्षात् सर्वपशूनां धर्माधर्मादिकं कृतं कर्म || साक्षीव सर्वताक्षः पश्यति भगवान् तः साक्षी | त्वरितं शिवसा योज्यं प्रयच्छते साधकस्य देवेशः || भुविति मन्त्रास्वीयं? क्षिप्रचान्वदेवदेवस्य | तेजोमर्त्यभिधान पतङ्ग शृति मन्त्रलक्षणं प्रोक्तं || पिङ्गात्पति तेजस्थं रूपं प्रवदन्ति मन्त्र तन्त्रज्ञः | ज्ञानं शिवपदे बोधः सम्यक्षेदं परापरं || रूपं तच्चान्यस्मिन् तन्त्रेण विद्यते सर्वदाशत्वात् | यावान् वर्णविवेकः संयोग विभागलक्षणः सूक्ष्मः || श्रोत्रेन्द्रियार्थः परमः शब्दासौकारणैश्यतः | सूक्ष्मा ह्यचिन्त्य रूपो व्याख्यातः पूर्वमेव तन्त्रेस्मिन् || द्विरभिहितः परम शिवः संशयविनिवृति दर्शिभिः सर्वः | सर्वशः सर्वपरः सर्वशः कृत्स्न तंत्रश्च || सर्वात्मा सर्वेषां प्रभवस्थिति वल्लयक्षच्छिवः | परमः सर्वमिति निरवशेषं परापर ज्ञानमूत्तमं गुह्यं || माथोवन्धविमोक्षं ददाति सर्वस्तस्मात् | शिव इति समात्मकत्वा च्छान्तत्वादीश्वर शिवः प्रोक्तः || तस्मै शिवाय कुरुते नम इति शान्ताय देवाय | नम इति प्रहृतृ अयं धात्वर्थः प्रोच्यते विचारज्ञैः || कार्यकारण विभागन्तु? कृते? परमेश योगञ्च | ५८अ) युग्मायुग्मं प्रोक्तं तंत्रैकं कारणस्य देवस्य | कार्यत्व वियोगकरं कुरुते विनिवृत्ति हेत्वर्थं || एवं ब्रह्मादीनां युग्मायुग्मं पुनर्नमस्कारः | कारणकार्यविभागच्छिनत्ति मायाजनं सर्वं || अन्यत् संयोगकरं नम इति परस्य देवस्य | अथ ब्रह्मपदानान्तु संख्याकल्पं निगद्यते || ईशानः प्रथमान्तत्र पदत्र्यर्णन्तकर्तरि | परतः सर्वविद्यानां पंचार्णं द्वितीयं पदं || अत्र निर्दारणे षष्ठीव्याख्यया मन्त्रवार्तिके | ईश्वरः कर्तरि प्राहुपदं त्र्यर्णं प्रकीर्तितं || परतः सर्वभूतानां पञ्चार्णां पदमादिशेत् | षष्ठी निर्द्धारणे चात्र क्रियाजाति गुणात्मिका || ब्रह्मणश्चेति सम्बन्ध पुनश्चाधिपति क्रिया | द्व्यक्षरं ब्रह्मशब्दञ्च शिवः कतृ पदन्ततः || मेति कर्म पदं कार्यं मस्त्वित्येवं क्रियापदं | आगन्तु पदं तन्तु विज्ञेयन्तु सदाशिवः || एकादशपदं ज्ञेयं मनुष्टम्वृत्तमेककं | ईशानो लेशतः ख्यातः पुरुषन्तु निगद्यते || पदं तत् पुरुषायेति चतुर्थ्य तं समादिशेत् | विद्महेति पदं पश्चाद् द्वितीयं त्र्यक्षरं स्मृतं || क्रियापदं पुराख्यातं महादेवाय कथ्यते | चतुर्थ्यन्तं त्र्यहं मन्त्र पदमुदाहृतं द्विरभ्यस्तं || ५८ब्) प्रमथति पाशान्व ह्यशः प्रमथेत्यभिधीयते तेन | रारणार्थेनामशून्यं भ्राता महतो भयाद्यतः || सर्वशरणचरणाच्च देवः सर्व इति भाव्यते तज्ञाः | भवभवभवोद् भवेति च भावयितव्या भव प्रकृति कर्ता || आमन्त्रणावियुक्त गुह्यपदैः स्तूयते शम्भुः | सर्वेषां भूतानां संसारनियोजकं परं सूक्ष्मं || सुख * * न्तिकमसकृतमनुपमपुपयच्छते देवः | यान्निध्यमन्त्रोयं स्मृति मात्रसाधकस्य शिवलिङ्गे || कुरुते यस्मात् तस्मात् सान्निध्य करः शिरः प्रोक्तः | ब्रह्माविष्णुश्च रुद्रश्च स्त्रयोषि सर्वस्य कारणं जगतः || तेभ्यः परापरज्ञैः परमशिवः प्रोच्यते कर्ता | सूक्ष्माणां सूक्ष्मत्वाद् विकरणधर्मेषु विकरणो भगवान् || गुह्येष्वपि गुह्यत्वादचिन्त्यभावो ह्यचिन्तत्वात् | ज्ञानानां सर्वेषामप्रगमत्वादनर्चितो देवः || तस्मादनर्चित इति भगवानुक्तश्च मन्त्रे स्मिन् | नस्तूयते स्तुतो वा ब्रह्मादिभिरप्यदृष्टपूर्वत्वात् || तस्मादसंस्तुत इति च भगानुक्तश्च तन्त्रे स्मिन् | न स्थाप्यते स्थितो वा नित्यत्वच्छिवः परे व्योम्नि || पूर्व स्थितोप्यभिहितः परमेशो मन्त्रस्तित्व पदार्थ वाचकः शब्दः | ५९अ) शिवमन्त्रपदार्थानां संश्रय विनिवृत्ति हेत्वर्थः | ओं भुव इति यत्प्रोक्तं भुवनानि यथाक्रमं || शुद्धाशुद्धात्य शेष्यणि निधनेशवसानि तु | ओं स्वः प्रभोः पदमिदं परमं यत्प्रकीर्तितं || तद्व्ययं योगिभिर्नित्यं शिवतत्वार्थको विदैः | अनिधन इति यत्प्रोक्तं तन्नित्यं सुखं वदन्ति देवस्य || न विनश्यतीति भगवान् निधन इति तेन देवशः | संहृदति देवदेवा विसृजति यस्माच्च सर्वभूतानि शिवतत्वविधानज्ञरुक्त्यनिधनोद्भवो रुद्रः | शिवः सर्वति यदुक्तत्व शिवाभावाच्छिवस्य देवस्य | परमात्मनि स्थितत्वात् सर्वेषां तेन परमात्मा | महतां परमेशानां सर्वेषां प्रलयस्वर्गकर्तृणां | पूज्यश्वरश्च भगवान् तेनेह महेश्वरः शम्भुः | महान् भवति सर्वेषां पूज्यत्वाद्योगिनां शिवः | देवादिविस्थित्वाच्च महादेवस्ततो भवः | सर्वश्वर प्रसङ्गादनीश्वरेपीश्वराभिधानाच्च | सद्भावेश्वरशब्दः सदाशिवः सूरिभिः प्रोक्तः | महतामयि सर्वेषां परमशिवस्तेजसां महातेजः | योगी च योगिनामपि योगाधिपतिर्भवत् तस्मात् | मुञ्चति गहनविवन्धान्माया विषयत्वयोक्तवन्धन | मायाभिज्ञा भगवान् दीक्षानि पुनेन हस्तेन | मुञ्चेति तेन समन्वितं | ५९ब्) सप्तमान्तं ततः स्वाहा हृदयं सर्वसिद्धिदं | सर्वात्मा हृदयं प्रोक्तं सप्तत्यक्षरसंयुतं || ओंकारं प्रथमोद्धृत्य सशिवञ्च शिवन्तथा | नमस्कार समायुक्तं शिरश्चाष्टाक्षरं मतं || वेदाद्यं शिवमुद्धृत्य हृदये ज्वालिनिस्तथा | स्वाहान्तन्तु शिवं प्रोक्तं शिखा चैकादशाक्षरं || शिवात्मकं पदं पूर्वं महातेज पदं ततः | सर्वङ्गञ्च ततः पश्चात् प्रभुरव्ययमेव च || आवर्तयेत् महाघोरं कवचं पिङ्गलन्तथा | आयाहि पिङ्गलपदं महाकवचसंयुतिं || शिवाज्ञया पदं पश्चाच्छदयं वन्धवन्ध च | पूर्णपूर्णपदं योज्यं तथा ककिककीति च || सूक्ष्मसूक्ष्मपदं तस्मात् तथा वज्रधरं पदं | वज्रपाशधरं तस्मात् तथा वज्रासनीति च || पुनर्वज्र शरीरञ्च तथा मम शरीर च | अनुप्रविश्य पदं योज्यं सर्वदुष्टपदन्ततः || स्तम्भयेति द्विधा कृत्वा हूंकारान्तं ततः क्रमात् | अक्षराणां तु कवचं शतं पञ्चाक्षराधिकं || नेत्रन्तु त्र्यक्षरं प्राहुराज्यं सः इति कीर्तितं | उद्धरेत् प्रणवं पूर्व प्रस्फुरस्फुरमुच्चरेत् || घोरघोरतरं पश्चात् तनुरूपपदं ततः | चटशब्दं द्विधा कृत्वा तथा प्रचटमुद्धरेत् || कहेति च द्विधा कार्या वमेति च द्विधा मता | घातयेति द्विधा * * * * * * * * * * || ६०अ) पगे ५९अ इस् नोत् च्लेअर् ६१ब्) * * * * * * स्तेषां डातृणां? कीर्तितः क्रमात् | गुरोरप्यग्रतस्तेषां ज्येष्ठानां देयमासनं || यथानुक्रमशुश्रऽषां वन्दनादीनि चादरात् | कार्यान्यान्यसंहृष्टैः परोक्षन्तु गुरोः सदा || समयी पुत्रकाभ्यां तु साधकाव्यययोस्तथा | लयः शिवे तु सर्वेषामधिकारोभिलासतः || मायाधिकारी समयीनित्यकर्मैकपेशलः | पुत्रकः शिवतत्वे तु नियुक्तः * * * * *? || ध्वस्ताधिकारविषयो वीतरागश्च सर्वय | साधकश्चाभिलापी स्यान्नियुक्तश्चैश्वरे पदे || गुरुश्चैवाधिकारी तु नियुक्ता गुरुणा पुरा | भोग * * * * * *? लयस्तस्य परे पदे || एतेषां शिवभक्तैश्तु भक्तिः कार्या यथाक्रमं | शिवध्यान परोभूत्वा कर्मणा मनसा शिवा || नाशक्तः सर्वदा तिष्ठेत् क्षणमेकमपि क्वचित् | शक्तिः पञ्चप्रकारे स्मिन् बोद्धव्या शिवसाशने || योगाभ्यासो जपः शास्त्रं लिङ्गाराधनमेव च | आचार्यौ पास न चान्यत् पञ्चमुपरि कीर्तितं || वज्र * *? तु संप्रोक्तं चतुर्णामप्यनिक्षितं | तन्मूलानि यतो न्यानि तस्माद् यत्न परे नरैः || गुरुनित्यं समाराध्यो यत्प्रसादात् परं पदं | प्राप्यते चापरं चिन्त्यं नना ऋद्धिगुणांन्वितं || ६०अ) चतुर्णामाश्रमाणां तु वर्तनं कथयामिते | संक्षेपेण महासेन येन याति परं पदं || समयी सर्वदा यत्ता गुरोः सर्वात्मनास्फुटं | यदास्तदा समुक्तात्मा नान्यथा मुच्यते भवान् || गुरुकुले दासवन्नित्यं दीक्षामाश्रित्यमोक्षदां | प्रागुक्त समयस्तस्य चर्यातो मुच्यते स्फुटं || सामान्याचारसम्पन्ना गुरुदेवाति तत्परः | यत्र तत्र स्थितः शान्तः सपुत्रक इति स्मृतः || दीक्षा प्रतिष्ठा व्याख्याश्च सत्वानामनुकम्पनं | कर्तव्यं गुरुणासम्यक् सिद्धान्तोक्तं समाचरेत् || गुरुश्च देशिकश्चैव तथाचार्यस्तृतीयकः | त्रयाणां स विशेषेण विभागं लेशतः शृणु || दीक्षां करोति कृपया जंतुनां भुक्तमुक्तये | गुरुरेवं विधः ख्यातः शिववत् पूजयेत् सदा || व्याख्या प्रतिष्ठा यत् किंचित् तेन चर्या प्रयत्नतः | दीक्षोपदेश कृद्यस्माद् गुरुस्तेन प्रकीर्तितः || व्याख्यानं कुरुते पुंसां देशिकस्तेन कथ्यते | व्याख्यादीइक्षाप्रतिष्ठादि करोति च विना सदा || आचार्यः कथ्यते तेन प्रतिशिष्यो पदेशतः | इत्येतन्त्रिविधं प्रोक्तमाचार्यमिहतत्वतः || न नियोज्यान्य कर्मेषु दीक्षाकृत कुत्रक्र्मसु | त्रयोदशविधं स्यास्य तस्य लक्षणमुच्यते || ६०ब्) व्याख्याकाले तु गुरुणा शिष्यं ज्ञेयं प्रयत्नतः | शिष्यं ज्ञात्वा प्रयत्नेन ततो व्याख्या समारभेत् || आच्चालको निराधारः प्रमादी तामसो परः | क्षतधृग्वाधकश्चैव पालको गोलकस्तथा || घोरेयानुपतिश्चैव पावकोन्धुश्च कीर्तितः | विचारधीश्च विज्ञेयाः शिध्याश्चात्र त्रयोदश || सर्वमन्त्रार्थमागे स्मिन् प्रविश्याथा च गाहनात् | इतश्चेतश्च सम्बन्धादसम्बन्ध चमेक्तिषु || प्रविश्याड्वालमेद्यो साबुक्तं शाड्बालकः शिषुः || १ || गृहीतस्याप्यथार्थस्य स्थातुं नास्ति समाश्रयः | प्रोक्ता ह्याधारदोर्बल्यान्निराधारः शिखिध्वज || २ || नोन्मृजेत्यक्तमालस्या च्छ्रोतुंनैवाविनिश्चयात् | प्रमादीत्युच्यते तन्त्रे शिष्यः कारणात् कीर्तितः || ३ || प्रयत्नादपि युक्तोयः श्रोतुं निद्रावसः सदा | तिष्ठेत्यापूर्णयोनापि सशिष्यस्तामसो मतः || ४ || आदावप्यन्ते निपुन योज्ञात्वा शास्त्रमीश्वरं | नमच्छिद्रमनुप्राप्य विधानं प्रतिवक्तियः || सज्ञेयः क्षतं धृकच्छिष्यः पञ्चमः शिष्यसन्तनु || ५ || प्रक्रान्तवत्मनोन्यत्र च्युतमर्थस्थितो गतः | ६१अ) पृच्छ * * *? कः प्रोक्तः शिष्यः साधकवर्त्मनि || ६ || तूष्णीं नित्यं विजानन्यः योगेकमपिनिकचं | न पृच्छेत् स्वल्प मन्यत्र यान्ति माश्रित्य दतानि? || मध्यनक? इति * * * * *? यनिरक्षणात् || ७ || अनधार्यगुरोः गुरो सम्यकशास्त्रमादायदर्शनात् | नमया किञ्चिदप्य स्माच्छ्रतं स्यात् शालकः शिव || ८ || * * * * * * * * * * * *##? उत्कृष्टवाच्य मानेधि स्वत्वा पौरेयकस्तु सः || ९ || पृष्ठावाप्यथ वापृष्ठ पिच्छकारार्थयोरपि | अजानंपा चैवं स्या *? याव *? पतिः सदा || १० || ? अथोक्तं गुरुणासर्वमविचार्याग्नि वत्सदा | ग्रसते राज्यमार्गेण स शिष्यः पावको मतः || ११ || नीयते तेन * * * * * * *? र्थ विचारतः | प्रयात्यकृष्टवदनः सोन्धुरन्धुरिवस्थितः || १२ || ? प्रविचार्य विधौ सम्यक् गृह्यात्यर्था गुरोः सदा | विद्यावधीः समुद्दिष्टः प्रवरः शिष्यसंततौ || १३ || इति शिष्यासमाख्याताः गुरोरत्र महात्मनः | मुमुक्षुणां स एकस्यात् तथा तन्त्र विदां सदा || येन येन प्रकारेण यो * * * * * * * *? | ६१ब्) तस्य तस्य तदा व्याख्या कर्तव्या गुरुणा सदा || वैसम्यो वर्णते यत्र कोटिद्वय पद क्रमात् | दृश्यते तेन तत्रार्थ वस्तुनः सामाता व्रजेत् || तन्मार्गस्थ त *? रं पदं * * * * * * *? | * * * * * * * * * * * *##? कृष्ण? द्वितान्तं? कर्तव्यं नि *? हं दशधा ततः | प्रथमं मध्यमं चैव चोत्तरा पुरुषविधा || वचन त्रय योगे * * * * * * * * *? | * * * * * * * * * * *? दिमध्यमं ततः || अस्मद्युत्तमं विनासाधा तु मादौ निरूपयेत् | पञ्चार्थं प्रातिपतिकं त्रिकतां स्फुट * * *? || * * * * * * * * * * * * * * * * |? आत्मने पदनिर्द्देशं परस्मै उभयात्मकं || विभक्तयस्तथा सप्त प्रत्येकाभि विधा मता | एक द्वि त्रि बहुसंख्य * * * * * * * *? || * * *? मात्रे सवेमा? तथा वा मन्त्रणे हितं | शिष्यः कर्मणि करणे संप्रदाने प्रकल्पयेत् || अषादाने तु पञ्चमी सम्बन्धे षष्ठीनिर्द्धार | * * *? विषये सप्तमी योज्या ज्ञात्वा चार्थस्य संगतिं || अपेक्षातः कारकाणां नियोगो दर्श्यते तदा || स्यादित्याद्यैस्तु कर्तव्य विभक्तिनी गुरुत्तमैः | षष्ठ्यर्थे सप्तमी योज्या सप्तम्यर्थे तु सा पुनः || ६२अ) अनेन क्रमयोगेन वाभिचारं समाचरेत् | अर्थानुसारतो योज्याः कारकाः सप्तकर्मभिः || श्रुतेनानुमितेनैव तथा व्याह रतः सदा | शाख्याकार्याप्रयत्नेन पदे वाक्य पुरोहितं || नाग्नाः समासः कर्तयो युक्तार्थेन तु नान्यथा | उपसमोविधिर्नाभि स दूवावाक्यमेव वा || तुल्याधि * * * * * * * * *? कर्मधारयः | संख्यापूर्वादिर्गुज्ञयः तथा तत्पुरुष द्वयं || वज्रव्रीहिस्तथा ज्ञेया अव्ययी पूर्वगौरवात् | एवं तावत् प्रकर्तव्यं * * * * * * * *##? * * * * *? निखिलः सम्यगर्थ्येवधाचितः | सुखमेवविचारोक्त्या यथोक्तं शासने मया || तं तथैव प्रकर्तव्यं व्याख्याता युक्तिदः स्फुटं | द्वेधा *? संस्मृ *? न गच्छे द्वयो पादेयनागमी || विरुद्धवाक्यं सन्दिग्धमयुक्तं विषगं समं | शास्त्रयुक्त्या प्रकर्तव्यं तस्याभिप्रापतो दिशेत् || शिष्येण गुरुणाकायं षट्पदार्थप्रसाधनं | प्राक्सचिताद्विरोधोक्त्या विवृणोति पदा गुरुः || तदा प्रष्टरदोषोस्ति सूत्रजाश्निक्षते गुरौः | प्रसिद्धा * * * * * * * *? त्र्य निदर्शनात् || ६२ब्) द्विरुद्धमन्यथानीय संयोजयति कुत्रचित् | तस्मिन् नपि न दोषास्ति प्रष्ट्रः षण्मुख तत्वतः || प्रकृताज्यस्तु यत्र विचार्यते | असम्बन्धविरोधोक्त्या प्रष्टमं प्रयत्नतः | नवप्रकरणे पूर्वं प्रकृतोर्थांधुनान्यथा || किमर्थवक्तिभगवतं तत्सामेन नयेद्गुरुः | नान्यथास्य पदस्यार्थो गच्छत्येवं कदाचन || किमर्थं भगवन् स्पृष्टं चान्यर्थेवं प्रभाषते | पदप्रभोक्षवे तत्र नदेषोस्ति? कदाचन || अध्याये स्मिन्यथारत्वं? वस्तसंतानमादरात् | विहायवलतो नात्र सम्बम्धाजित वत्सना || नेत्रमुत्सहतेत्युक्त्या तत्प्रश्नं पटलात्मकं | पदवाक्यप्रमाणं च सम्बन्धं पटलन्तथा || एताः पञ्चप्रकारेभ्यो यः पृच्छतान्यथा शिशुः | तद्धन्तु? शक्षते नेत्रं तं तथैव विचार्यते || येषां विरोधतः सर्वं यातितंत्रे शिवात्मकं | तथाचार्येण वक्तव्यं नान्यथा कृत्तिकासुतः || समाप्ते तु गुरोः वादास्रणनाशिरसासुधाः |? हृत्वा च वाङ्गशुश्रख्यां समाक्षमाययेद्गुरुं || एवं कुरुते व्याख्यां प्रसस्ते वदनः सदा | स गुरुस्तारयेच्छिष्यात् स्तस्मात् संसारी सागरात् || ६३अ) यश्चैनं शृणु पाद्भक्त्या शिवार्पित मनः सदा | स योग्या गुरुसंतान मार्गं पालयितुं क्षमः || इति कालोत्तरे व्याख्यापटलं || ईश्वर उवाच || दीक्षा विशेषया पूर्वं प्रतिष्ठायां विशेषतः | कस्मानमेषु? सर्वेषु नानासिद्धिप्रसाधने || गणेशं पूजयेद् यत्नान् निर्विघ्ना नान्यथा भवेत् | सर्वग्रहाय तप्ताना सिद्धियेषु न जायते || कर्मच्छिद्रं भावयेद् येषां तैः पूजो विघ्ननायकः | विजये चैव योतायां? कन्यायां चरणे तथा || पुत्रकामैः सदा पूज्यो विघ्नशोविघ्नमर्दकः | त्रिहस्ते तु पुन्यक्षेत्रे समंतादर्क्ष्वभाजिते || चतुष्पदं त्रिकोणे तु त्रिदलं कमलं लिखेत् | तत्पृष्ठापदिका वीथी भागिकर्तृ दलाक्षयुक् || वसु वेद पुतेश्चाष्टे स्त्रिदलैः पदमुष्टिकाः | ततोर्ध वेदिका देया भागमात्रप्रमाणतः || द्वारं पद्ममितं कण्ठां दुपकण्ठविवर्तितः | द्वारोपद्वाररचितं मण्डलं विघ्नसूदनं || आरक्तं कमलं मध्ये वाहे पद्मानि तद्बहिः | शिता तु वीथिका कार्या द्वारकाणि यथेच्छया || कर्णिकापीतवर्णा तु केशराणि तथा पुनः | गणेशस्य प्रियन्नित्यं मण्डलं विघ्नं मर्दनं || मध्ये गणे पतिं पूज्यं नामाद्यं संवरांकितं | ६३ब्) देवाशत्रु समाक्रातां पुरुषेण शिरोहतं || मन्त्रमेतत् महादीप्तं ध्रुवाद्यं नतिना युतं | विघ्नश्वराद्याः पुरतः पूजनीया विशेषतः || विघ्नेश्वरं गणेशञ्च गजास्यं गजवाहनं | गजाक्षं गजशीर्षन्तु गाङ्गेयं गणनायकं || त्रिधा तु गगणं गौणं गोपतिं पूर्वयक्तिगं || १२ || विघ्नत्रासं महाकायं लंबोष्ठं लंबकर्णकं | लंबोदरं महाभीमं विक्षतं पार्वती प्रियं || उग्रं भयावहं भद्रं भयघ्नं भयसूदनं | द्वादशैते पूजितव्या दक्षिणां पंक्तिसंस्थिताः || १३ || देवत्रासं महानादं भासुरं उद्भटस्वनं | सूडं सौडं महाभीमं मन्मथं मधुसूदनं || सुदरंरविसंघ्रष्टं पश्चिमस्थान् प्रपूजयेत् || १३ || ब्रह्मेश्वरं ब्रह्मनाभीं निवृत्तिं प्रलयं लयं | नृत्य प्रियं तथा लौल्यं विकर्णकर्मवत्सलं || कृतांतः कालदण्डश्च कीनाशश्चोत्तरां दिशि | इत्येते पूजितव्यास्तु पुष्पगन्धार्घविस्तरैः || पूर्ववत् स्थापयेत् कुम्भं संपूज्यविधिविस्तरैः | अयुतं तु जपेन्मन्त्रं होमयेच्च दशांशतः || शेषाणां तु दशाहुत्या जपाद्वो मन्त्रकारयेत् | पूर्णौदत्वाभिषेकत्व कर्तव्यं सिद्धिमिच्छता || ६४अ) सर्वत्रो प्रतिशक्तिस्तु दुर्द्धर्ष्य त्रिदशैरपि | अभिषेकं ततः काये गुरु संपूज्य भक्तितः || गजाश्वबाहनाद्यैश्च भूमिहेम मयोपमैः | एवं कृतेन गणां तु सिद्धयः संभवन्ति हि || सर्वत्रैवाधिकारी स्यान् नास्यै पीत्र्ये तदुस्प्रभेः? | कर्मारम्भैषु सर्वेषु महासिद्धिश्च षण्मुख || इति कालोत्तरे गणपतिपूजापटलः || ईश्वर उवाच || मण्डलं संप्रवक्ष्यामि वाक्सिद्धि न जायते | इहरं कालसंयुक्तं मनुं चन्द्रसमायुतं || निशयोपीशरं कार्यं मनुनाचन्द्रसूर्यवत् | त्र्यक्षरं परमं मन्त्रं न देयं यस्य कस्यचित् || षत्रून्छमासनं मन्त्रं प्रणवेन समादिशेत् | धत्वाकुंदेन्दु संकासां त्रिनेत्रां चारुहासिनीं || सुरूपां सौम्यवदनां पद्मस्थां मुकुटोज्वलां | पञ्चासद्वर्णमालां तु मुक्तामुग्दौमभूषितां || वरदाभयसंयुक्तां सूत्रप्रभाकमण्डितां | एवं विधां भगवतीं वागीशीं वाक्सुसिद्धिदं || शुचिनालक्षजापं तु कर्तव्यं मानसं सदा | मस्तका स्कन्धपर्यन्तं प्रविशन्तीं विचिन्तयेत् || ६४ब्) अकारादि क्षकारान्तं वर्णमालां विभावयेत् | मुक्तामणि च पप्रख्यां प्राणवल्लिंस्सदा स्मरेत् || करन्यासं पुरुकार्यं सकृत्मन्त्रेण मन्त्रिणा | मूर्ध्नि हृद्गुह्यदेशे तु क्रमाद् वर्णत्रयं न्यसेत् || यक्षदुचारणेनैव सूविन्यासं समादिशेत् | मन्त्रग्रहणकाले तु मण्डलं तत्र कारयेत् || तुर्यास्रमिन्द्र भक्तं तु भागाभ्या कमलं हितं | वीथिकार्यादकाजान्यत्र? वल्लीबिभूषिता || चतुष्पदानि पद्मानि ततोष्टौ तत्र वर्तयेत् | वीथिकापटिकावाह्ये द्वाराणि द्विपदानि तु || पद्ममानमेतदेव कपालमन्त्रतानि? तु | उपद्वाराणि तद्वच्च कोणवन्धद्विपट्टकं || शितानि नवपद्मानि कर्णिकाकनकप्रभाः | केशराणि विचित्राणि कोणरक्तेन पूरयेत् || व्योमरेखांतरं कृष्णं द्वाराणिन्द्रानु मानतः | मध्यपद्म सदापूज्या नाम्ना चैव सरस्वती || वागेश्वरी पूर्वकजे हृल्लेखां वह्नि पङ्कजे? | चित्रवागेश्वरीयाम्ये गायत्री नै-ऋतेकजे || विश्वरूपान्तु वारुण्यो पश्चिमे शांकरी न्यसेत् | मनिसंज्ञ? तु वायव्य व्यमा मोदकमल धृतिं || सावित्री सर्वकपले भ्यस्तव्या वाक्सुसाधने | ६५अ) सरश्वत्यादि बीजस्तु स्वसंज्ञानतिसंयुतं || ध्यातव्यास्तद्वद् देवताश्चतुर्द्धा वाक्प्रसाधने | होमे दशांशतः कार्यं कापिलेन घृतेन तु || संस्कृतं प्राकृतं चैव करोति ललितं स्फुटं | सालंकारं महाकार्यं सर्वशास्त्र विदो भवेत् || इहरहस्य परमं न देयं यस्य कस्यचित् | शिष्याणां वाक्प्रसिद्ध्यर्थं दातव्यं नान्यथा सुत || इति कालोत्तरे महातन्त्रे वागीश्वरी पूजापटलः || ईश्वर उवाच || मण्डलानि शिवस्याष्टौ वक्ष्यहंते शिखिध्वज | सर्वतो भद्र संज्ञञ्च नरनाभं ततः परं || महामण्डलसंज्ञं च पंचाक्षं सर्वकामदं | विघ्नविध्वंसनं नाम अरिष्टघ्नति कथ्यते || अघोनिर्माचनं कार्यम्बु द्व्याधारं तथाष्टमं | विशोध्यामवनीमादौ कारयेद् दर्प्पणाहतिं || शंज्यना साधयेत् प्राचीमिष्टच्छायां च वैष्णवीं | चित्रस्वाभ्यन्तरेणाथ दृष्टिसूत्रेण वा पुनः || पूर्वापरायतं सूत्रमास्फाल्य मध्यतो ह्ययेत् | कोटद्वयं तु तत्मध्या दहयेद् दक्षिणोत्तरं || मत्स्य द्वय प्रकर्तव्यस्कालयेत् दक्षिणोत्तरं | मनक्षेत्रार्ध मानेन कोणसंपातमानयेत् || एवं वै सूत्र तुर्यस्य स्फालनाच्चतुरस्रक | जायते तत्र कर्तव्यं भद्रं वेदकरं शुभं || ६५ब्) वसुभक्ते पुराक्षेत्रै कमलं द्विपदं मतं | वीथिका तत्र भागेन द्वारं द्विपदिकं हितं || पद्ममानेन तत्कार्यं कपोलेन विभूषितं | कोणवन्धं ततः तत्कार्यं द्विपदं तत्र वर्तयेत् || शुक्लवर्णन्तु कमलं कर्णैका कांचनप्रभा | केशराणि विचित्राणि मूलसंध्या ततो लिखेत् || लोकपालानुरूपेण द्वाराणि परिपूरयेत् || व्योमरेखान्तरालन्तु कार्यवैडुर्यसन्निभं | अरुणं कोणवन्धन्तु पीतं व्ययसितं हितं || इति भद्रं समाख्यातं शिवस्याधारमीश्वरं | नित्ये नैमित्तिके कार्य भद्रं भद्रप्रसिद्धये || अथ पद्मविधानं तु लेशतः कथ्यते मया | असंसक्तं तु संशक्तं कमलं द्विःप्रकारकं || भुक्तिमुक्तिप्रदं पुंसामसंशक्तं सदा हितं | मुमुक्षणा हितं नित्यं संशक्तं पार्वतीसुत || तच्चेकैकं त्रिधा ज्ञेयं गुरुणा कर्मवेदिना | वाले प्रवाथवृद्धश्च नामतः फलसिद्धिदा || इति मत्वा ततः पद्म वर्तयेदनुपूर्वशः | पद्मक्षेत्रे तु सूत्राणि दिग्विदिक्षु विनिक्षिपेत् || वृत्तानि पञ्चकल्पानि पद्मक्षेत्रसमानि तु | प्रथमे कर्णिका तत्र पुष्करैर्नवभिर्युता || ६६अ) केशराणि द्वितीये तु चतुर्विंशतिसंख्यया | दलसन्धिस्तृतीये तु गजकुम्भां कृतिः सदा || चतुर्थे तु दलाग्राणि ष्यामरूपन्तु पञ्चमे | व्योमरेखा तदन्ते तु न स्थुला न कृशा हिता || संशक्तं कमलं प्रोक्तंमसंशक्तमथोच्यते | असंशक्तं दलाक्रातं दिग्भागे विस्तरा त्यजेत् || भागद्वयपरित्यागात् वस्वंशैवर्तयेद् दलं | सन्धिविस्तरसूत्रेण तन्मात्राक्ताच्छयेद् दलं || सव्यासव्यक्रमेणैव वृद्धपद्मं भवेत् तदा | अथवा सन्धिमध्यात् तत्रामयेदर्द्धचन्द्रवत् || सन्धिद्वयोग्रसूत्रं वाचालपद्मं तदा भवेत् | सन्धिसूत्राङ्गमानेन पृष्टतः परिवर्तयेत् || तीक्षणाग्रं तु युवा तेन कमलं भुक्तिमुक्तिदं | मुक्तये वृद्धं पूत्रन्तु कालं वस्या दिशिद्द्विसु || युवादलं प्रयत्नेन सर्वकर्म प्रशम्यते | चतुर्भुमं वा कर्तव्यं संशक्तं व्योमवर्जितं || व्योमरेखान्तु किन्त्वत्र दलाग्रान्ते विवर्तयेत् | इति लेशेन कमलमष्टपत्रं प्रदर्शितं || सर्वसाधारणा ज्ञेयं विनाविघ्नेशमण्डलं || मण्डलं नवनाभाख्यं कथ्यमानं शृणुष्ठ तत | अष्टहस्तं पुराक्षेत्रं दशहस्तमथा श्रिये || ६६ब्) दिग्संख्यास्यात्मकैर्भागैः समन्ताद् वर्तयेत् पुनः | समन्तात् षष्ठिभागं तु मध्ये म्बु कमलं भवेत् || पदिका वीथिका कार्या द्वाराणि पद्माननः | कण्ठोपकण्ठयुक्तानि कण्ठांवर्त्यद् विषट्रिकं || इत्येतत्मध्य कमलं वीथिद्वारसमन्वितं | कथिते तं समासेन तद्बाह्ये वीथिका मता || पञ्चभागमिता सा तु समन्ताद् दशभागिका | दिग्विदिक्षु ततः कार्य पूर्ववत् कृत्तिकासुत || पद्माष्टकं विधानेन द्वारपद्म सवीथिकं | तद्वाह्ये पञ्चपदिका वीथिका पत्रभूषिता || पद्मवत् गारकथिन्तु पदिकमुपकण्ठकं | कपालं पदिकं कार्यं दिक्षु द्वारत्रयं स्फुटं || कोणवन्धं त्रिपट्टं तु द्विपट्टं वज्रवत् भवेत् || मध्ये तु कमलं शुक्लं मायीतं पूर्वगोचरे | आम्रेययां रक्तवर्णं तु नीलाक्षं दक्षिणे स्थितं || नैर्-ऋत्या पीतकृष्णं तु शुक्लं वारुणदिक्स्थितं | आधूम्रं वायुकोणे तु रक्तपीतं तथोत्तरे || ईशाने मौक्तिकप्रख्य शुक्लं वा नवषट्कजं | पद्मगौरमथो वापि रक्तगौरमथापि वा || व्योमव्यापि शिवस्यैव न वाध्वरविधौहितं | नवनाभं समाख्यातं प्रसादाख्यं शिवस्य वा || ६७अ) मध्यपद्मशिवं पूज्य लोकेशांश्चापरेषु च | अस्त्राणि बाह्यवीथौ तु भक्त्यासंपूज्ययत्नतः || अश्वमेधसहस्राणि राजसूयशतानि च | यो स्मिन् मण्डलमध्ये तु पूज्ययेत् परमेश्वरं || नासौ लिप्यति पापेन पद्मपत्रमिवाम्भसा | नित्ये नैमित्तिके काम्ये कर्तव्या भुक्तिमुक्तये || महामण्डलं संज्ञन्तु वक्ष्येहं सर्वसिद्धिदं | अष्टहस्तं पुराक्षेत्रं विंशभागं विवर्तयेत् || द्विपदं कमलं मध्ये वीथिकापदिका हिता | दिग्विदिक्षुस्ततोष्टौ च नीलाक्तानिविवर्तयेत् || मध्यपद्मप्रमाणेन विंशत्पत्रसमानि च | दलसन्धि विहीनानि नीलैंदीवनकानि च || तत्पृष्ठे पदिकावीथी स्वस्तिकानि तदूर्ध्वतः | द्विपदानि तथा चाष्टौ कृतिभाग कृतानि तु || वर्तयेत् स्वस्तिकांस्तत्र गुरोराज्ञाविधानतः | वीथिकापूर्ववद् बाह्ये द्वारकानि कमलं तथा || उपकण्ठ युतान्यैव कोणबन्धं स पट्टिकं | मध्याह्नं हि मकुन्दाभं कर्णिका पीतकेशरं || असंशक्तं दलं शस्तं व्योमवद्व्योम कल्पनं | कोणानि सोणवर्णानि वीथिका कनकप्रभा || श्यामरूपान्युत्पलानि कर्णिकाकारकर्णिकं | ६७ब्) नारावर्णास्वस्तिकास्यु वीथिकापत्रवर्तिता || नानाविधानि द्वाराणि रजसा परिपूर्य च | महामण्डलं संज्ञं तु शिवस्य हृदय प्रियं || पवित्रा ये हणेशस्तं दीक्षायां च विशेषतः | सर्वान् कामान् वाप्नोति महामण्डलपूजनात् || पञ्चाक्षं सम्प्रवक्ष्यामि व्रतानां तु समर्पणे | लिङ्गोद्वारे च कर्तव्यं अणिमादिषु सिद्धये || पञ्चहस्ते समे क्षेत्रे समन्ता बिन्दुभाजिते | द्विपदं कमलं मध्ये वीथिकापदिका ततः || द्विक्षपद्म चतुष्टं च मध्यवत् परिवर्तयेत् | तत् पृष्ठे पदिकावीथी द्वाराणि द्विपदानि तु || कण्ठोपकण्ठयुक्तानि विचित्रं कोणसंगमं | मध्याब्जं ससितं नित्यं पितकर्णिकेशरं || आपीतं पूर्वपद्मं तु वैडूर्याभं तु दक्षिणं | उत्तरं स्फटिकभञ्च कुन्दाभं वारुणंकजं || रक्ताभाकाञ्चन प्रख्या वीथिका प्रथमा परा | लोकेशप्राप्तति रूपाणि द्वाराणि शिखिवाहन || पञ्चाक्ष मण्डलमिदं कथितं तवसुव्रतः || सर्वकामप्रदं वक्ष्ये मण्डलं सर्वकामदं | विकारवक्ते तुर्यास्रे समन्ताद् दशभिः करैः || ६८अ) पदिकावीथिका बाह्ये द्वाराणि द्विपदानि तु | पद्ममानेन कार्याणि स कण्ठानि तु वर्तयेत् || असंशक्तं कोणबन्धं मारक्तं पूरयेत् सुधीः | पीतं कृष्णं सितं रक्तं द्वाराणि तत्र पूरयेत् || वीथिकाकाञ्चनप्रख्या पत्रवल्ली विभूषिता | शितवर्णन्तु कमलं नाना शोभासमन्वितं || सर्वकामपुरं शस्तं प्रसादस्य महात्मन | सर्वान् कामान् वाप्नोति प्रसादस्य तु पूजनात् || सर्वकामप्रदं पुंसा सर्वकर्म सुपूजितं || मण्डलञ्चैव मे वात्र विघ्नध्वंस्येति शस्यते | किन्तु वीथौ स्वस्तिकास्युररिष्टध्वंसनात्मकं || अरिष्टान् ध्वंसयेद् यस्मादरिष्टध्वंसनात्मके | अरिष्टान् ध्वंसयेद् यस्मादरिष्टध्वंसनं तदा || कथितं देवदेवेन शिवेन परमात्मना || चतुर्हस्तं पुराकृत्वा वृत्तं चैव करद्वयं | वीथिकाहस्तमात्रा तु द्वारबन्धं करात्मकं || प्राग्वृत्तस्य वृत्तं तु मर्म स्यात् सोडषाङ्गुलं | तथैव दिक्षु वृत्तानि कमलैः सहितानि च || पद्मानि पञ्चशुक्लानि श्यामं वृत्तान्तरं हितं | कोणानि पावकाभानि वीथिकाकाञ्चनप्रभा || द्वाराणि लोकपालै व? विचित्राण्यथ वर्तयेत् | ६८ब्) मध्ये तु निष्कलं पूज्यं हृदयादीनि पूर्वतः || अस्तं विदिक्षु न्यस्तव्यं नेत्र ब्रह्म विना शिवं | पञ्चाङ्गन्तु शिवं पूज्यं प्राग्वद् द्वारादि वर्जितं || मण्डले स्मिन् स चापूज्यं निष्कलाअख्यं परं शिवं | निष्कले परमेशाने नान्यस्याधारमादिशेत् || सर्वकामपदं नृणां मघनिर्मा च नार्चितं | अघनिर्माचनं दृष्टा सद्यः पापाद् विमुच्यते || अश्वमेधसहश्राणि कलालार्घन्ति षोडशीं || बुद्व्याधारमतो वक्ष्ये शतभाग कृते पुरे | समन्तात् तिथिभागे तु कमलं तत्र वर्तयेत् || तद्बाह्ये दिक्षु लिङ्गानि क्रमादष्टौ विवर्तयेत् | मेखलायुगसंयुक्तं कण्ठ द्विपदिकं हितं || त्रिभिः पदैस्तु भद्रं स्यात् कोणेभंगलतात्मकं | वीथीद्वारविहीनं तु वीथीद्वार युतं क्वचित् || लता इन्दु विमानैस्तु लतास्तम्भैः क्वचित् मतं | लताविमानलिङ्गं वा बुद्व्याधारं प्रकल्पयेत् || आचार्यबुद्धिमाश्रित्य नानारूपत्वमागतं | बुद्व्याधारं तदाज्ञेयं सर्वकामफलप्रदं || सर्वेषां चैव मन्त्राणां पीठत्वे परिकल्पितं | इति मण्डलवृत्ता तु कथितं तव लेशतः || ६९अ) इति कालोत्तरे महातन्त्रे मन्त्रपटलं || अस्त्राणां संप्रवक्ष्यामि दशानां वर्तने स्फुटं | न विभक्ते तु तुर्यास्रे विकारैः कमलं मतं || तत्पृष्टापार्श्वयोरग्रे कुर्याच्चतुर्भ्रमेण तु | पदार्द्धात् पदमध्यान्तु खण्डचन्द्र द्वयं द्वयं || भागत्रयोच्छ्रितं भागे तं च्छृसं द्विगुणं लिखेत् | एवं शृङ्ग द्वयं वर्त्य सुतीक्ष्णाग्रं वहिभ्रमात् || मध्यशृङ्गस्य मूलन्तु पदार्द्धेन तु विस्तृतं | तत्मध्य पदिकं कार्यं तदग्र तीक्ष्णवर्जसं || इत्येवं मध्यशृङ्गं तु कार्यमुत्पल पत्रवत् | अनेन विधिना वत्स कर्तव्यं तु चतुर्मुखं || शेषसूत्राणि लोप्याणि मध्येन्दु हिमवर्चसं | शृङ्गानि कृष्णवर्णानि तन्मध्यमरुणप्रभं || चतुर्मुखं महावज्रमिन्द्रास्त्रं तु प्रकाशितं | अग्न्यास्त्रं शक्तिसंज्ञं तु कथ्यमान शृणुष्व तत् || चतुरस्रं चतुर्भक्तं समंतात् कारयेत् पुरं | भागत्रय परित्यागात् शक्तिक्षेत्रं प्रजायते || तस्योर्द्ध्वभागं तद्वच्च समन्ताद् भाजयेत् पुरः | तत्मध्याद् भ्रामयेद् वृत्तमग्राभागद्वयं विना || हीनचन्द्राकृति येन जायते सुपरिस्फुटं | तदन्तरे भ्रमं चान्यन्तीक्ष्णवक्त्रं तु कारयेत् || वृत्तं तदन्तरे कार्यं चतुष्पादं स चन्द्रवत् | त्रिकोणशृङ्गं कर्तव्यं मध्यशृङ्गं शिखिध्वज || ६९ब्) चतुष्पदंत्ततदधो वेदिका कमलान्विता | विस्तृताभागमात्रेण तदधो दण्डकल्पना || शक्तिशृङ्गत्रयं कृष्णं तत्मध्यं पावकप्रभं | कमलपीतवर्णन्तु दण्डंविद्रुसमं निभं || अग्न्यस्त्रं शक्तिसंज्ञं तु कथितं लेशतो मया || समास्त्रं चैव कंकालं कथ्यमानं शृणुष्व तत् | चतुरस्रे चतुर्भागे भागत्रयविवर्तयेत् || यमास्त्रवर्तयेत् तत्र तद्भागाद् वचनं लिखेत् | ललाटनाशाचिबुकाः कर्णनेत्रमुखध्रुवः || स्मश्रु मूर्धज्वालं च द्रंष्ट्रालं भीमवक्त्रकं | तत्पदात् तदधो दण्डं कर्तव्यं काञ्चन प्रभं || इषत् कृष्णकरालं च यमास्त्रं कथितं मया || खड्गस्तु लक्षणं वक्ष्ये तुर्यास्रे वेदभाजिते | त्रिहान्योदशधाभागं कर्तव्यं खड्गसिद्धये || तत्क्षेत्रं यच्चतुर्द्धा तु तत्मूलं तद्विभाजयेत् | ऊर्ध्वभागिकां चार्द्धात् पदाच्च तलिकां लिखेत् || प्रग्रहं सार्द्धभागेन कर्तव्यं तद्यवाकृतिं | पादेनाधो लिखेत् तत्र तलिका वायता मता || तस्यै न मूलभागं तु चतुर्थान्तं तथा भजेत् | द्विभागं तुल्य यवकं तद् भागेन तु विन्यसेत् || अर्द्धचन्द्रन्तु तदूर्ध्वे तत् मध्यात् परिवर्तयेत् | ७०अ) चैवं? * * * *? काद्यं? * *? ज्ञें वर्तयेत् ततः || पद्भागा तु चतुर्भिस्तु विस्तारं तस्य कल्पयेत् | यावदग्रे तु विस्तारं तत्मात्रेण तु चूलिका || प्रग्रहस्य तु मध्ये तु कमलं काञ्चनं प्रभं | ऊर्ध्वन्तु तलिकाश्रुत्का तथाद्ये * *? लं लिखेत् || पवोदरं? चार्धचन्द्रं च हेमाभं पूरयेत् सदा | तदूर्धश्याममायाभं खड्गास्त्रं राक्षसार्चितं || पाशाख्यं वारुणास्त्रं तु कथ्यते कृतिकासुत | हस्तमात्रं तु वेदाश्रं विस्ताराद् रविवत् भवेत् || ऊच्छ्रयं? तु तदर्द्धेन पाशांगानि विवर्तयेत् | विस्ताराद्रविभागस्य मध्ये नाभि त्रयं भजेत् || उच्छ्रयाख्य दीपं जीवं मूलार्द्धं वाङ्गजोद्भवः | भागोर्द्धेन भ्रमं तस्मात् तस्माद् भागेन चापरं || तदूर्धं भागभागेन वृत्तन्तु त्रितयं मतं | यथोर्ध्वसंधित्रितयं मूलसंधिस्तैथा त्रयं || वृत्तत्रयं परिभ्राम्य स्वबुद्व्यालो पयेत् ततः | अधः युच्छं प्रकर्तव्यं निर्गमं वलनोद्भवतः || स्वक्षेत्रात् पादतो वक्त्रं नेत्रभ्रानासिकान्वितः | नान्यतावर्तयेद् यस्तं यथासव्यं तथेतरं || तत्सूत्रेण मुखं तस्य वर्त्यपिप्पलपत्रवत् | अक्षिणी आदिसूत्रे तु पुच्छं स्याद्विगुण ह्यवः || तच्च कुण्डलवत् कार्यं क्रमात् * *? न? यन्सुत? | वक्षनेत्रं नितिं? वक्त्रं कृष्णाङ्गं मण्डलांकितं || ७०ब्) वारुणास्त्रं महावीरं पाशाख्यं कथितं मया || वायव्यमकुशास्त्रं तु संक्षेपेणावधारय | वेदास्रं वसुव * * * * * * * * * *? || अष्टमं संज?सूर्यच्चन्द्रं पादहीनं तथोत्तरे | तदधोमलसारन्तु भासार्द्धेन विनिर्द्दिशेत् || मूले तु कलसं तस्य दण्डमङ्गुष्ठवद् भवेत् | आकृष्णमंकुशाकायं मण्डि * * * * * *? || आरक्तं काञ्चनाभं च दण्डं वा हेमवर्चसं | वायव्यास्त्रं समाख्यातमंकुशं नामनामतः || चतुरस्रे चतुर्भक्त्रे भागत्रयविवर्जनात् | शम्नं बुद्धिव * * * * * गे * यथो भजेत् ||? मूलभागे पुनर्व? चैर्भुक्त्वामुक्तिं? विवर्तयेत् | भागमात्रोर्द्धतलिका विस्ताराह्ये? *? तोगिनिः? || चतुर्भागेर्ध चन्द्रन्तु तेन वृत्ताश्रियं भजेत् | विस्ताराच्छ्रयेतग्राह्ये? पदिकंच्चिपदं? क्रमात् || यचोदराकृतिः कार्या तदधश्चर्कलं लिखेत् | सार्द्धभागेन मध्यान्तु वर्तयेदर्द्ध चन्द्रवत् || गदा तु द्विपदादर्घ्या तास्तकं तत्र वर्तयेत् | तन्मध्याद् वर्तयेदूर्द्ध्वं खण्डचण्डा कृतिं शुभं || नवपर्वा गदाकार्या नानारत्न समुज्वला | कुबेरास्त्रं गदानाम शङ्करास्तु मतः परं || ७१अ) यदा श्राद्धं ततोगृह्य विस्तारादंकभिर्भजेत् | तदूर्द्धाधस्तथा कृत्वा भागं भागं तु पार्श्वयोः || तदधो भागमेकन्तु पुरासंख्यानिगद्यते | मनुसंख्यानिभागानि नारकार्द्धन्तु विस्तृतं || विम्बभावविभक्तं तु मूलादूर्द्धं समुच्छृतैः | वायु नैर्-ऋतकोणाभ्यां द्वावृत्यै पञ्चभागिका || अभ्यां मन्तक्षयं कार्यं त्रिपदानुपरिभ्रमात् | ततो भागाष्टकं मध्यादुत् भजेदर्द्ध चन्द्रवत् || अन्तर्मुखं तु कर्तव्यं द्वितीयं पदिकं ततः | किंतु नवपदं भ्राम्य त्रिपदान्त भ्रमावधि || चन्द्रार्धकोटितोनेयमूर्द्धजीवं चतुर्थकं | बहिर्भ्रमाच्छालसृंगं ततोप्यंतरतोपरं || यथैकं पार्श्वशृगन्तु वर्तयेदपरं तथा | निवर्त्यपक्षशृंगौ तु पदावर्तन वर्तयेत् || मूलार्द्धपदं स्यार्द्ध मध्यशृंगं समानभेत् | वेदिका वृत्तमध्यस्था पददीर्घ्या द्विपदोच्छृता || चतुःपदं तु कमलं तत्र कार्य सवीथिकं | वीथिकयोर्द्धरेखा तु वृत्त द्वितयमन्तगा || त्रिगुणं द्विगुणं वाथ दण्डस्याच्छुलमानतः | द्विभागविस्तृतं दण्डं तदधो मूलवर्तना || भागभागं तु तत्पार्श्वे दत्वासूत्रं ततोग्रतः | समसूत्रं त्रिकोणन्तु शूलमूलन्तु वर्तयेत् || मूलाग्रे परितः कार्यं द्विरेखं खंड चन्द्रकं | ७१ब्) शूलाचकाग्रदेशे तु खण्डचन्द्र द्वयंशितं || शृङ्गत्रयं सदाकृष्णं तन्मध्यवरुणं हितं | चन्द्ररेखाशिताशस्ता वेदिकाकनकप्रभा || पद्मं कुंदेन्दु वर्णाभं दण्डकृष्णांजनं प्रभं | शूलं पावकसकाशं रुद्रास्त्रं कथितं मया || ब्रह्मास्त्रं कमलं ज्ञेयं लक्षणं तस्य कीर्तितं || विष्णोरस्त्रमथोवक्ष्ये नाम्ना चैव सुदर्शनं | पद्मक्षेत्रन्तु दशधा वृत्तवत् कल्पयेत् पुरा || प्रथमे कर्णिका कार्या केशराणि दलानि च | दलसन्धि दलाग्राणि व्योमरेखा युतानि च || शुद्धकुन्देन्दु संकाशं कमलं पञ्चभागिकं | वक्त्रनाभिस्तु भागेन नेमिबाह्ये तु भागिका || चक्रारकाणिकार्याणि त्रिपदानि क्रमेण तु | द्वादशादं लिखेच्चक्रमेकैकं नवभागिकं || द्वादशारं लिखेच्चक्रं समन्ताद् वेदवर्जितं | क्षेत्रमारकसंस्थं तु त्रिशृंगादानकं लिखेत् || अरक्तस्य तु यत् कण्ठं समन्ताद् द्विपदं हितं | अर्द्धचन्द्रा तु तद्बाह्ये भ्रमादन्तर्मुखौ स्थितौ || विस्तारात् पदिकाकार्या व्रच्छ्रयात् पदिको मतौ | अर्द्धचन्द्रं ततः कार्यमधरोर्द्धस्य मध्यतः || ७२अ) वक्त्रारकं भवेत् येवं परश्वध समाकृति | अर्द्धादर्द्धारकं कार्यं दक्षिणावर्तमंतगं || अथच्चारकहीनन्तु चक्रं कार्यजनार्द्धने | अवविन्दं शितं मध्ये नाभिं कनकवर्द्धितो | रात्रावर्तेन पूर्याणि सदाचक्रारकाणि तु || नेमीदरदसंच्छिन्ना विष्णुस्त्रं चक्रमीरितं || इति कालोत्तरे महातंत्रे मस्त्रवर्तनपटलं || ईश्वर उवाच || अस्त्रयागं पुराकार्यं सर्वकर्मसुसिद्धिदं | सर्वेषां चैव पाशानां मादौकार्यं शिवप्रदं || चतुर्हस्तं पुराक्षेत्रं समन्ताद्वेदवर्तितं | भागाभ्यां द्वितीय जीवाद् ब्रह्मसूत्रात् परिभ्रमात् || क्षेत्रमध्येन्द्र चन्द्रं तु भ्रमेणात् संप्रजायते | ऊर्द्धाधो भागसंयोगं यथा तत्र प्रजायते || चतुष्.काष्टमतं पद्मं द्वारकण्ठं तदर्द्धतः | विस्तरेण तु कर्तव्यं विशेषमवधारय || कण्ठं चैव कपोलं वा भागार्द्धेन विनिर्दिशेत् | शुक्लवर्णं भवेत् पद्मं चन्द्रार्धमञ्जन प्रभं || पीतद्वारं कर्णिका च टंकाख्यो स्मिन् प्रपूजयेत् | एवं निष्पाद् पपीठन्तु प्रणवे नाशनं न्यशेत् || मध्ये पूज्यं शिवास्त्रन्तु वज्रादीन् पूर्वतः क्रमात् | वक्त्रं नैर्-ऋतः पत्रे तु पद्ममीशान पत्रके || ७२ब्) ओंकारसंज्ञानतिना चतुर्थ्यन्तेन चार्चनं | पुष्पगन्धार्घदीपाद्यैः पूजनीयाः प्रयत्नतः || मुद्रा वै कालकर्णी तु वध्वा चैव प्रयत्नतः | ध्यानं पूर्वादितं कार्यं वज्रादीनां क्रमेण तु || अथ पाशुपतस्यैव लेशाद्व्यानं शृणुष्वतत् | पञ्चवक्त्रं महाघोरं दशाबाहुं त्रिलोचनं || विकृतं भासुरं चोग्रं पिङ्गभ्रूस्मेश्रुमूर्ध्वजं | खड्गखेटकनारा च धनुः सूत्रकमण्डलुः || शक्तिशूलं परशुञ्च ब्रह्मदण्डकरान्वितं | एकपादं द्विपादं वा समपादं सुजाज्वलं || सर्वाङ्गभुजसम्पन्नं नामयज्ञोपवीतिनं | ध्यातव्यं साधकेन्द्रेण प्रणतार्तिविनासनं || कर्मच्छिद्रे समुत्पन्ने भये वा कलह स्थितौ | अस्त्रयागाभिशेषेकेण सर्वविघ्नव्यपोहनं || इति कालोत्तरे महातंत्रे अस्त्रयागपटलं || ग्रहणां मण्डले पूजा कर्तव्या तु चतुष्करे | भूतभक्ते पुराक्षेत्रे पदिकं कमलं भवेत् || कमलानाञ्च मध्ये तु त्यक्त्वा तत्राङ्गुल द्वयं | नवपद्मानि कल्पानि द्वाराणि कमल यथा || द्वारभागं द्विधा कृत्वा कण्ठादि रचनान्वितं | ७३अ) पद्मानि ग्रहरूपेण प्रपूर्याणि गुरूत्तमैः || आरक्तं भास्करं पद्मं भूमिजस्य तथा हितं | शुक्लमिन्दोर्भार्गवस्य पीतं चन्द्र सूतस्य च || तथा देवगुरोः शस्तं सौचस्य कृष्णवर्चसं | रक्तस्यामं देवश औधूमाभं केनवेहितं || स्ववर्णेनार्घगन्धादीन् पुष्पनैवेद्यकानि च | भानुर्मध्ये शशीपूर्वमाहेयं वह्नि दिग्गतं || दक्षिणस्यां बुधः शुक्रस्तु नैर्-ऋत्यां भृगुनन्दनः | कविवारुणदिग्भागे शनिं स्याद् वायु गोचरे || शीर्षशेषमुत्तरस्यां केतुरीशान गोचरे | संतापं कृन्तयेन्मध्ये तत्स्थाने पूजयेद् रविं || एकैकस्याहुतीनां तु शतं गव्येन होमयेत् | सर्व एकादशस्थास्तु भवन्ति ग्रहपूजनात् || हेमवस्त्रान्नगचितं तथाश्वं दापयेद् गुरोः | यात्रारंभे विष?देव सर्वोत्पाते शिव प्रदां || ग्रहशांतिः प्रकर्तव्याः ग्रहाणां विधुरे सति | इत्ये तत् ग्रह योगन्तु संक्षेपात् कथितं तव || इति कालोत्तरे महातंत्रे ग्रहयागपटलं || अस्त्रशान्ति ततो वक्ष्ये यथाविधानुपूर्वशः | दिव्यान्तरिक्षभौमानामुत्पातानां विशेषतः || ग्रहलुतादि समने ज्वरापस्मारवञ्चने | ७३ब्) परराष्ट्रभये कार्या महाव्याधि प्रकोपने || विनायकोप तप्तैश्च शान्ति कुर्यात् प्रयत्नतः | अघोरास्त्रं पुराजप्त्वा लक्षमात्रंन्तु सुव्रतं || वस्वादित्य ग्रहादीनि क्रोधोभूमानि योजयेत् | लक्षजापेण दिव्यानामुत्पातानां विनाश कृत् || तिलाज्याहुति होमेण तत्संखेन शिखिध्वजं | तदद्वाद्व्योमजातानां विनाशयेत् || केवलेन घृतेनैव तत्रष्ठीमाच्छिखिध्वज | लक्षपादेन होमेन उत्पातानाविनाशयेत् || घृतगुगुलहोमेन नाशयेदनृतं वचः | भूर्वामृताज्यहोमेन सर्वव्याधीर्न्निकृन्तयेत् || लक्षपादजपाद् वत्स हवनात् पार्वती सुत | सहस्रेण तु दुःस्वप्नं घृतहोमेन नाशयेत् || अयुतात् ग्रहदोषांश्च यवैर्घृतविमिश्रितैः | विनायकार्तिसमनमयुतेन घृतस्य तु || वेतालोत्थापने शान्ति द्व्यायुतां गोघृतेन तु | महावृक्षस्य भङ्गे तु ध्वजभङ्गे विशेषतः || स्वजनानां विरोधे च व्यालकाक गृहे स्थिते | अरंण्यानां प्रवेशेण गृध्रभासादिके गृहे || दूर्वामृताज्यहोमेन त्र्ययुतां च्छन्तिमादिशेत् | दारुणे भूमिकम्पे च उल्कापाते शिखिध्वज || अयुतान्तिलहोमेन न सघृते शान्तिकं भवेत् | ७४अ) श्रवन्ति रुधिरं पत्र शून्यदेव द्रुमादयः || ध्वनन्ति चारुदन्त्यत्र नृत्यन्ति च हसन्ति वा | अयुताद् यङ्गुले नैव शान्तिकं नान्यथा भवेत् || ग्रहणे चन्द्रसूर्याभ्यां प्रतिबिम्बविशेषतः | द्व्ययुतात् घृतहोमेन शान्तिकं तद्रकारयेत् || अकालफलपुष्पाणां पक्षिणां दर्शनेथवा | अयुतादमृताहोमाच्छान्तिकं तत्र जायते || ऌताभये समुत्पन्ने च्छिन्नया सघृतेन तु | अयुत द्वय होमेन शान्तिकं तत्र जायते || लक्षेणराष्ट्रभङ्गे तु तिलाज्येन न शान्तिकं | मारीप्रजायते यत्र परराष्ट्र चतुष्पदे || त्र्ययुतान् घृतहोमेन शान्तिकं तत्र जायते | द्विपदानां पदामारीदुर्भिक्ष्यं वा प्रजायते || लक्षार्धेन महाशान्तिरासु यत्र घृतेन तु | हस्तिमारीप्रसात्यर्थ तथाहोमं प्रकल्पयेत् || करिणीदन्तवृद्धौ तु हास्तिनीमददर्शने | कवन्धदर्शने रात्रौ स्वप्ने होमं यथापुरा || अयुतादाशुशान्तिः स्याच्छास्त्रे स्मिन् कालसंज्ञके | अकालभंगर्भयाने? तु घृतहोमेन शान्तिकं || कन्या प्रजा भवेद् यत्र शततं तत्र शान्तिकं | अयुता कृति होमेन मार्जगुग्गुलहोमतः || येषां वकुलहानि स्यात् स्त्री वा गर्भं न गृह्णति | ७४ब्) नपुंसकं वाजायेजातं यत्र विनश्यति || क्षीरामृताज्यहोमेन शान्तिकं नान्यथा भवेत् | विकृता यत्र जायंते रुडं वा जायते क्वचित् || विजातयो विवर्ल्लोश्चकेविच्चा? पशुरूपिणः | तत्रायुत घृतेनैव शान्तिकममृतासह || महाव्याधि भयं यत्र महामारीथवा भवेत् | सर्वार्थ घृतलाजादिः शान्तिकं तत्र कारयेत् || कर्मलोपे तु वर्णानां स्वजनानां विरोधतः | तत्रा युतेन शान्तिः स्यात् पौर्वे होमेन षण्मुख || यात्राकाले युतं होम्यं कापिलं घृतसम्मितं | तिलाज्यहोमकारणादुत्तमासिद्धिसाधने || मध्यमायां तदर्धेन तत्पादादधमासुच | यथाजायतथाहोमः शस्त्रशान्तौ प्रकल्पयेत् || अघोरास्त्रप्रपन्नानां विघ्नायान्ति दिशोदशः | अघोरास्त्रं महास्त्रं तु ज्ञेयं पाशुपतस्य च || तस्मात् सर्वप्रयत्नेन अघोरास्त्र समभ्यसेत् | अङ्गन्यासैः पुराकार्या हृदयादि प्रभेदतः || हृदयं शिरसं चैव शिखां कवचमेव च | अस्त्र प्रकल्पयेद् यत्नादेकवृद्व्यादितः क्रमात् || जाति योगं प्रकर्तव्यं षडऽऽगञ्चैततो न्यसेत् | नेत्रवेदमयवर्णं सार्द्धं शिवमुखात्मतं || ७५अ) जप्तव्यं साधकेन्द्रेण न्यासं कृत्वा तु पूर्वशः | ध्यातव्यं पञ्चमूर्द्धानं दशवाहुं सुतेजसं || भिन्नाजेन वये प्रख्यं पिङ्गत्रास्मश्रुमूर्धजं | गोणासाभरणं देवं व्यालयज्ञे पवीतिनं || हिमकुन्देन्दु दशनं कोटराक्षं सुभीषणं | खड्गचर्मधरं देवं सरचापसमन्वितं || परश्वधगदावज्रशूलग्रहणोद्यतं | दंडाकुंशधरं देवं प्रणतार्त्तिविनाशनं || एवं विधं सदा ध्येयं पूजितव्यं प्रयत्नतः | जप्तव्यं परया भक्त्या होमं कुर्यादहर्निशं || यावद् भूरित शान्ति स्याद् यावद् वा सिद्धिसाधनं | तावज्जपार्चनं होमं कर्तव्यं सिद्धिमिच्छता || अस्त्रजापी भवेद् यत्र तत्र शान्तिः सदाभवेत् | सर्वबाधाप्रशमनं तत्र तत्र प्रजायते || अस्त्रजापी सदापूज्यो यथौ वै भगवच्छिवः || इति कालोत्तरे महातन्त्रे अस्त्रपटलं || अथ पाशुपतास्त्रेण शान्तिकं कारयेद् यथा | कथयामि समासेन संक्षेपेणावधारयः || दिव्यान्तिरिक्षभौमानामुत्पातानां शिखिध्वज | नाशयेल्लक्षजापेण तथा होमेन षण्मुख || पूर्वोक्तोत्पातशसने तथा होमाजपः स्मृतः | किंतु पंक्ति गुणं कार्यं तदोत्पातनिवारणं || ७५ब्) महापाशुपते नाथ कर्तव्यं पादतः सदा | साष्टौत्तरं शत यस्य ह्रद्धरुणि? व्यवस्थितं || तस्यापुनैकहोमेन कृन्तयेत् सकला पदः | तदर्थं सम्प्रवक्ष्यामि मन्त्रमाला यथा स्थितं || ओं नमो भगवते पाशुपताय अतुलबलवीर्यपराक्रमाय त्रिपञ्च नयनाय नानारूपाय नानाप्रहरणोद्पताय सर्वाङ्गवक्त्राय भिन्नांजनदयप्रख्याय शाशनवेतालप्रियाय सर्वविघ्ननिकृतं नार्हाय सर्वसिद्धिप्रदाय भक्तान् कम्पिने | असंख्यवक्त्रभुजपादाय | पठितसिद्धय वेतालविडासिने | साकिनीक्षोभजनकाय व्याधिनिग्रहकारणे | पापभक्षाय सोमसूर्याग्नि नेत्राय विष्णुकवचाय इन्द्रवज्रहस्ताय यमदण्डाय वरुणपाशारुद्रत्रिशूलाय ज्वलनजिह्वाय सर्वरोगविद्रावनाय ग्रहनिग्रहकारणे दुष्टनागक्षयकारिणे | ओं कृष्णपिङ्गलाय फट् | क्रूराय फट् | वज्रहस्ताय फट् | इन्द्राय फट् | शक्तये फट् | अग्नये फट् | दण्डाय फट् | यमाय फट् | खड्गाय फट् | नैर्-ऋताय फट् | वरुणाय फट् | पाशाय फट् | ध्वजाय फट् | अंकुशाय फट् | ७६अ) वायवे फट् | गदायै फट् | कुबेराय फट् | त्रिशूलाय फट् | ईशानाय फट् | मुद्गराय फट् | चक्रायै फट् | पद्माय फट् | नागास्त्राय फट् | खादकास्त्राय फट् | मुण्डास्त्राय फट् | कङ्कालाय फट् | इशानास्त्राय फट् | पिच्छकास्त्राय फट् | क्षुरिकास्त्राय फट् | मात्रास्त्राय फट् | ब्रह्मास्त्राय फट् | शक्त्यस्त्राय फट् | गणास्त्राय फट् | सिद्धास्त्राय फट् | पिलिपिच्छास्त्राय फट् | गन्धर्वास्त्राय फट् | पूर्वास्त्राय फट् | दक्षिणास्त्राय फट् | वामास्त्राय फट् | पश्चिमास्त्राय फट् | मात्रस्त्राय फट् | साकिण्यस्त्राय फट् | योगिन्यस्त्राय फट् | डाकिन्यस्त्राय फट् | डामरिकास्त्राय फट् | लोमास्त्राय फट् | शिवास्त्राय फट् | ईशानास्त्राय फट् | तत्पुरुषास्त्राय फट् | अघोरास्त्राय फट् | वामास्त्राय फट् | सद्योजातास्त्राय फट् | हृदयास्त्राय फट् | शिरीस्त्राय फट् | शिखास्त्राय फट् | कवचास्त्राय फट् | नेत्रास्त्राय फट् | महास्त्राय फट् | गरुडास्त्राय फट् | पुरुषास्त्राय फट् | राक्षसास्त्राय फट् | दानवास्त्राय फट् | ग्रहास्त्राय फट् | हः अस्त्राय फट् | ७६ब्) क्षः नरसिंहास्त्राय फट् | वाराहास्त्राय फट् | सर्वास्त्राय फट् | वः फट् | ल फट् | यः फट् | मः फट् | त्रिं फट् | प्रों फट् | प्रीं फट् | भूः फट् | भुवः फट् | स्वः फट् | महः फट् | जनः फट् | तपः फट् | सत्यलोक फट् | सर्वमाभास फट् | सर्वतत्व सर्वप्राणै फट् | सर्वनाडी फट् | सर्वकारण फट् | सर्वदेव फट् | ह्रीं फट् | हूं फट् | क्रौं फट् | लं फट् | भैरवास्त्राय फट् | मायास्त्राय फट् | कामास्त्राय फट् | कायास्त्राय फट् | क्षेत्रापालास्त्राय फट् | क्रूरास्त्राय फट् | भास्करास्त्रायै फट् | चन्द्रास्त्राय फट् | विघ्नेश्वरास्त्राय फट् | खां खौं फट् | क्षां क्षीं फट् | भ्रामय भ्रामय फट् | संतापय २ फट् | च्छेद्य २ फट् | उन्मूलय २ फट् | त्रासय २ फट् | संजीवय २ फट् | विद्रावय २ फट् | सर्वदुरितं नाशय २ फट् | सर्वदावर्तनादेवसर्वविघ्नान्विनाशयेत् | महास्त्रेण महाशान्तिर्जायते | नेत्र संशयः कूष्माण्डाय यान्तध्यानाश्च दुम्बराये विनायकाः | शतावर्तन तेषां तु शान्तिर्भवति नान्यथा | ज्वरऌतादयो दोषाः परखाखोदकादयः | सप्तावर्तनयां सान्ति तपः? सूर्यादये यथा | ७७अ) उत्तमाधमसिद्धीनां जप्तव्यं सिद्धिमिच्छता | अस्य लक्षार्द्ध जापेन रुद्रतुल्यो भवेन्नरः || निग्रहानुग्रहे शक्तः संभवेन्नान्यथा सुत | होमस्तु जपवत् कामः शस्त्रजापेषु सर्वसु || तदासमर्थो भवति साधकः सिद्धि साधने | दिव्यान्तरीक्षभौमानां मुत्पातानां विमर्दने || नाशयेत् नात्रसंदेहः नमः सूर्योदये यथा | गुग्गुलेन घृतेनैव सहस्राहुति योगतः || नासयेत् सर्वदुरितानस्त्रराजप्रभावतः | य इदं पठते नित्यं सकृद्विघ्नै न बाध्यते || इति कालोत्तरे महातन्त्रे पाशुपतास्त्रपटलं || अथातः पाशुपतेर्महापाशुपतास्त्रं प्रवक्ष्यामि तद्यथा | ओं हः फट् | ओं श्लीं हूं फट् | क्षू फट् | क्ष फट् | ज्ञ फट् | ह्रः फट् | श्रीं फट् | स्रः फट् | स्त्रीं फट् | स्त्रः फट् | रीं फट् | रः फट् | ल्रीं फट् | ल्रः फट् | व्रीं फट् | व्रः फट् | स्रीं फट् | स्रः फट् | भ्रीं फट् | भ्रः फट् | व्रीं फट् | ब्रः फट् | ह्रीं फट् | ह्रः फट् | प्रीं फट् | प्रः फट् | त्रीं फट् | त्रः फट् | द्रीं फट् | द्रः फट् | ध्रीं फट् | ध्रः फट् | द्रीं फट् | द्रः फट् | ह्रीं फट् | ह्रः फट् | ७७ब्) ब्रीं फट् | ब्रः फट् | च्छ्रीं फट् | च्छ्रः फट् | ज्रीं फट् | ज्रः फट् | ग्रीं फट् | ग्रः फट् | क्रीं फट् | क्रः फट् | ख्रीं फट् | ख्रः फट् | ग्रीं फट् | ग्रः फट् | घ्रीं फट् | घ्रः फट् | ह्रीं? फट् | ऊः फट् | अं फट् | आं फट् | इ फट् | ई फट् | उं फट् | ऊं फट् | ऋं फट् | ॠं फट् | ऌ फट् | ॡ फट् | एं फट् | ऐं फट् | ओं फट् | औं फट् | अं फट् | अः फट् | हा हा फट् | क्ष्रं फट् | क्ष्रां फट् | स स्रा फट् | श श्रा फट् | च्छ्रृक् २ फट् | क्ष्रीं क्ष्रौ च्छृक् २ | ज्रीं ज्रौं च्छृक २ | च्छृक च्छृक फट् ५ | ह्रीं २१ फट् २० फट् हूं हूं फट् हूं १२० | औं औं क्षः फट् फट् २० | फट् हः २० छट ह्रौं २० फट् ह्रैं २० फट् १० ग्रों २० फट् २० स्रौः ११ फट् ११ ह्रीं ह्रं फट् | ह हा ह हा ह हा ह ह ह ह ह ह ह हा ह हा हा हा हा हा हा हा हा फट् ८ | हूं प्रैं फ १० हन हन फट् १० दह २ फट् २ पच २ फट् २ मथ २ फट् २ सर्वान् दुष्टान् चूर्णय २ फट् २ घातय २ फट् २ सर्वदुरितान्विध्वंसय २ फट् २ सर्वग्रहान् मर्दय २ फट् २ | सर्वविघ्नान् वित्रासय २ फट् २ सर्व पापान् भस्मसात् कुरु २ फट् २ सर्वव्याधीन् भक्षय २ फट् | ७८अ) सर्व ज्वरान् पातय पातय फट् | सर्वापस्मारान् दह २ फट् २ सर्वनागान् निर्विषं कुरु २ फट् सर्वान् मादान् द्रावय २ फट् | २ | सर्व कुहकान् च्छिन्द २ फट् | २ | परयंत्रान् ग्रस २ फट् २ पर कृत्यान् चूर्णय २ फट् फट् परमन्त्रान् विदारय फट् | परध्यानान् भस्मं कुरु २ फट् सर्वज्ञदह २ फट् २ शिरोवेदना कर्ण वेदना चक्षुर्वदना हृद्वेदना पार्श्ववेदना कोष्ठै वेदनापायु वेदना पादवेदनानि कृंतय २ फट् २ | रुद्र सत्येन विष्णुसत्येन ब्रह्मसत्येन सर्वदुष्टांस्तप्तय २ भंजय २ मार्जय २ पातय २ फट् ५० ओं महापाशुपताय त्रिनयनाय पञ्चाशद्वर्णदेहाय सोमसूर्यद्रंष्ट्राय दिग्भुजाय नमः स्वाहा | वषट् वौषट् हूं फट् प्रहरणाय यमभुजङ्गहाराय रुद्रहृदयाय ब्रह्मशिरो रुहाय विष्णुकवचाय देवदैत्यदानव नागयक्षराक्षसपिशाचप्रेतभूतडाकिनी साकिनी सिद्धविद्याधराणां समयव्युतानां पातय २ फट् १०८ य इदं पठ मानस्य समीहित विघ्नकारिणां मन्त्रबलं ध्यानबलं द्रव्यबलं स्वाहा बलं भस्मसात् कुरु ३ ७८ब्) पः फट् १०८ हूं फट् २० शिवास्त्राय फट् १० ह्रीं हूं मुंडास्त्राय फट् १० ओं ह्रुं ह्रौं ब्रह्मशिरे फट् १० हेत्रौपिच्छिकास्त्राय अप्रतिहतमतिवीर्यपराक्रमाय फट् ज्ञं अघोरास्त्राय फट् | ५० ओं श्लीं पशूं ज्ञं फट् हाः २० हं २० महास्वादकास्त्राय फट् | ओं क्षां क्षौं दक्षः स्वौं गरुडास्त्राय फट् | २० ओं वर्ग २ मुदर्शन महाचकराजाय पर ऋत्याच्छिन्द २ फट् २० ओं आं वैनायकास्त्राय हूं फट् २० ओं गन्धर्वास्त्राय फट् | ६० | ओं हुं ह्रं नागास्त्राय फट् २० ओं ह्रं ह्रीं हललं दैत्यास्त्राय फट् २० लामास्त्राय फट् २० हूं डं मं रं कंकालास्त्राय फट् २० हा हां हां हूं हूं हुं क्षः नरसिंहास्त्राय फट् प्रं क्रः प्रं क्रः रेख ३ स्वुः ३ पिच्छिकास्त्राय फट् २० हंसाय फट् परमहंसाय फट् | छ्रक फट् हूं ओं नमो भग्वते पठित सिद्धाय महापाशुपतास्त्राय नमो नमः | ब्रह्मास्त्राय च्छगलास्त्राय रूपास्त्राय सर्वेषां दुष्टानां निपातयः २ गर्भान् पातय देवासुराणां मर्त्यानां समयस्थितानां भस्मशात् कुरु २ फट् फट् || य इदं पठते नित्यं त्रिकालं सिवसं निधौ | सर्वान् कामान् वाप्नोति विना विघनिश्च षण्मुख | ७९अ) दिव्यान्तरिक्षभौमानां मुत्पातानां विनाशकृत् || सर्वोत्पातेषु मन्त्रोयं नाशनेन परं परं | सर्वारम्भं परित्यक्त्वा अस्त्रजापं समारभेत् || इति कालोत्तरे महातन्त्रे महास्त्रकथनपटलं || शिवशान्तिं प्रवक्ष्यामि समासात् क्रौंच सूदन | दिव्योत् पातेषु सर्वेषु व्योमजेषु विशेषतः || भौमात् पातेषु सर्वेषु दूर्न्निमित्तेपि शाकरि | चतुर्हस्ते पुरे भद्रे चतुर्चणौ पशोभिते || पूजयेत् तत्र देवेश कुंभे वै मण्डले तथा | ईशानं कर्णिकायान्तु ब्रह्माङ्ग सहितं न्यसेत् || पुरुषं पूर्वपत्रेषु अघोरं दक्षिणे दले | वामं वामदले पूज्यं ब्रह्माङ्ग सहितं शिवं || सद्योजातं वारुणे तु हृदयाद्यास्त्रकोणगाः | सर्वस्यो दिशि नेत्रन्तु रक्षणं सर्वदिक्षु च || चन्द्रनेत्रेन्दु कलिकान् मन्त्रान् सूत्रप्रपूजयेत् | एकैकस्याहुतीनाञ्च सहश्रार्द्धन्तु होमयेत् || घृतेन गुग्गुलेनैव दिव्योत् पातेषु शान्तये | तदर्धादन्तरिक्षोत्थ दुरितानां विमर्दने || अमृताघृतहोमेन भूतपत्रे घृतेन वा | तदर्द्धा होमजानां तु तिलैर्घृतविमिश्रितैः || शान्तिः प्रजायते वत्स ग्रहदोषे तथैव च | विनायकोप तप्तानां व्योमवच्छाति कल्पना || महावृक्षस्य भङ्गे तु ध्वजभङ्गेषु तेन तु | आरण्यानां प्रवेशेन वामव्यालादिकेषु च || अयुतमाहुतीनां तु तिलाज्येन तु कारयेत् | हस्तिपाते महाशान्ति दिव्यवच्च समाचरेत् || लूतागर्दभरिस्फोटे अयुतं त्रिमधुप्लुतं | काकोलूककषालादि प्रविष्टे मन्दिरे क्वचित् || अयुतद्वय होमेन शान्तिकं घृततण्डुलः | उल्कापाते तु निर्घाते ग्रहणे चन्द्रसूर्ययोः || भौमाङ्गमे महासेन गन्धर्वाणां तु दर्शने | गन्धर्वनगरे तद्वत् ध्वजभङ्गे विशेषतः || महाद्रुम प्रभङ्गे च कीलोल श्रवणेन च | रक्त वृष्टौ वसा वृष्टौ वज्रपाते मुदारुणे || रिक्षता यत्र जायंते युग्मरुंडाण्डजस्तथा | कुमार्यः शततं यत्र जायंते वान पुंसकाः || जाता यत्र न कल्पन्ति द्विपदा वा चतुः पदा | मारी प्रजायते यत्र भयं वा राक्षसेषु च || शिवशान्तिस्तदा तत्र कर्तव्या सिद्धिमिच्छता | दिव्यानां लक्षहोमेन शान्तिकन्तु जपन्तथा || व्योमजानां तदर्धेन जपेन हवनेन च | तदर्द्धा हौमजानां च तत् सद् वा दारुणेषु च || दिव्यानां तु तिलाजेन व्योमज्येनां घृतगुग्गुलं | मधुप्लुतदूर्वया भौमजानां तु शान्तिकं || ८०अ) पञ्चमं तु तनु श्रीमां तत्र * * * शान्तिके || हों ईशानाय * *? | ओं हों ईशानवक्त्र तत्पुरुषाय * *? | ओं हां ईशानवक्त्राया अघोराय * *? | ओं हां ईशानवक्त्राय वामदेवाय * *? | ओं फों ईशानवक्त्रसद्योजाताय * *? | इति ईशानब्रह्माणि अनेनैव तथाङ्गानि | स्ववर्णैश्चैव सर्वेषां ब्रह्माण्यङ्गानि कल्पयेत् | आसनं प्रणवेनैव मूर्ति ते नैव वै द्विधा || पाद्याचमनपूर्वाणि दातव्या भारकेण तु | एवं ज्ञात्वा महासेन शिवशान्तिं समारभेत् || इति कालोत्तरे महातन्त्रे शिवशान्तिपटलं || ईश्वर उवाच || अथातः संप्रवक्ष्यामि रहस्य परमाद्भुतं | यन्न कस्य चिदाख्यातं तदिदानी निगद्यते || मन्त्रराजविधानन्तु समासात् क्रौञ्च सूदन | मन्त्रराजं महामंत्रं सर्वपापक्षयंकरं || सप्तकोट्यस्तु मंत्राणां यस्यासन गता स्थिताः | भवान्तकं दुःखहरं महाभागा प्रदं शुभं || उत्तमाधम मध्यानां विघ्नानां ध्वंसनं परं | विविधौत् पातसमनं सर्वव्याधिनिकृंतनं || सर्वपापहरं देवं सर्वदुष्कृतनाशनं | ८०ब्) प्रायश्चित्तेषु सर्वेषु समर्थामंत्रराट् स्वयं || ग्रहाणां ग्रसनं देवं नागानागर्भकृन्तनं | पिशाचब्रह्मवेताल डाकिनीनां भयप्रदं || दुष्टारिमर्दनकरं कृत्या घोघोथनाशनं | सर्वकामप्रदं देवं सर्वमारीविनाशनं || भुक्तिदं भुक्तिकामानां मुक्तिकामेषु मोक्षदं | बहुनात्र किमुक्तेन मन्त्रचिन्तामणि नृणां || सौभाग्यं दुर्भगानान्तु अलक्ष्मीविनिवारणं | सर्वापासहरं देवं तस्य कल्पं निगद्यते || द्वात्रिंशदक्षरं घोरं यत् पुराकथितं तव | तारकाढ्यं तु मंतव्यमेकवीरं शिवप्रदं || ब्रह्माङ्गरहितं देवमघोरंघोरनाशनं | सकृत्कराभ्यां विन्यस्य करन्यासं तदा भवेत् || आपादात् मूर्ध्नि पर्यन्तं सकृन्न्यस्त्वा शुचिर्भवेत् | मस्तकात् पादपर्यन्तं सकृद् देहे तु विन्यसेत् || देहन्यासे कृते पश्चादन्तर्यागं समारभेत् | पूजाजपादि हवनं कर्तव्यं वाह्यमेव च || ध्यातव्यं पञ्चमूर्द्धानं दशधाह्विन्दु? मालिनं | साधकाशयरूपेण तस्य ध्यानं न चान्यथा || शान्तिके पौष्टिके शुक्लं रक्तं वस्येरशस्यते | स्तम्भने पीतवर्णन्तु धूम्रमुच्चाटने हितं || मारणे * *? वर्णे कर्षणे कपिलं हितं | ८१अ) मोहने तद्व देव स्यात् ज्ञात्वा कर्मं विचिन्तयेत् || बुद्व्याप्रणवंमुच्चार्य सकृत् पुष्येण वासनं | आशक्तेः शक्तिपर्यन्तं व्याप्त्या तत्र प्रकल्पयेत् || ततोर्ध परमामूर्ति द्वात्रिंशार्णि न कल्पयेत् | ईश्वराच्छक्तिपर्यन्तं कलाकालतविग्रहं || शतो न मन्त्रराजेन परमादाहयेत् ततः | आवाह्य पूर्वविधिना तथा संपूज्य भक्तितः || मन्त्रस्य पूर्वसवा तु कर्तव्याशेक पूर्वकं | अघोराक्षरलक्षन्तु जप्तव्यं साधकेन तु || दक्षिणां मूर्तिमाश्रित्य होमं कुर्याद् दशा मतः | गुग्गुलेन घृतेनैव कापिलेन षडानन || मन्त्रसिद्धिस्तथा सिद्धः करोति जन्मनेप्सितं | उत्तमाधममध्यास्तु साधयेन्नानृतं वचः || सिद्धयो घोररूपेण साधयेत्मनसेप्सितं | यान् यान् कामयते कामान् स्तां स्तान् कामान् वाप्नुयात् || उत्तमा लक्षजापेन सिद्धयः साधयेद् ध्रुवं | तथा गुग्गुलहोमेन तदर्द्धात् मध्यमा सुच || लक्षपादातृन्यसास्त्रसिद्धयो जपहोमतः | साधयेन्नात्रसंदेहः सत्यं सत्यं महातपः || त्रिविधौत् पातशमनमेवमेव प्रकल्पयेत् | सर्वोत्पातप्रशमने नान्यत्रातास्ति शाङ्करि || ८१ब्) अघोरान्नापरं मन्त्रं प्रायश्चित्तेषु दृश्यते | अघोरान्नापरं मन्त्रं मुखं संपादयिष्यति || अघोरान्नापरं मन्त्रं कलिमासाद्य सिद्धिदं | सिद्धिमन्त्रमघोरन्तु न चात्राशंक्षं कल्पना || तस्मात् सर्वप्रयत्नेन अघोरं सर्वदाभ्यसेत् | तिष्ठन् जाग्रन् जपन् गच्छन् भुजानो मैथुने रतः || अघोरापित चेतस्को मुक्तिभाक् स च नान्यथा | अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् || सकृत् स्मरणमात्रेण सर्वपापक्षयो भवेत् | आवर्त्य पञ्चवारन्तु सर्वतीर्थफलं लभेत् || सर्वयज्ञफलं याति सप्तवारानु वर्तयेत् | त्रिसप्तवारमावर्त्यपूजान्ते निषमेन तु || पूजाफलं समस्तन्तु प्राप्नयाच्छास्त्रभाषितं | सर्ववादान् परित्यज्य मन्त्रवादं समभ्यसेत् || मन्त्रमूलानि वादानि तस्मान् मन्त्र परो भवेत् | तत्राप्य घोरजापं तु कर्तव्यं मन्त्र चिन्तकः || दिव्यान्तरिक्ष भौमानां विघ्नानां विनिचारणं | अघोरास्त्रेण कर्तव्यं सर्वोत् पातेषु वारणं || द्वाविमोमन्त्रराजानौ सूर्यस्या परिसंस्थितौ | द्वात्रिंशारक्षरकं घोरमघोरास्त्रं विशेषतः || तस्मात् सर्वप्रयत्नेन मन्त्रद्वितयमभ्यसेत् | पूर्वमेवा प्रकर्तव्या यत्नात् मन्त्र द्ववस्य तु || ८२अ) तदादहेत विघ्नांश्च यथाकालः स्वयं शिवः | ऊपांशुमानसं भाष्यं जपयज्ञं त्रिधा स्थितं || मानसमुत्तमं ज्ञेयं सात्विकं तु जपंवरं | उपांशु मध्यमं विद्धि राजसं पार्वती सुत || अधमन्त्रमतं भास्यं तामसं तेन कीर्तितं | उत्तमाधममध्यानां सिद्धीनामेवसाधने || कर्तव्यं सुप्रयत्नेन अघोरास्त्र पुरःसरं | भावितव्यं प्रयत्नेन यत्नात् मन्त्रवरे पुरा || पूर्वं सेवा तु निर्वत्य सिद्धयः साधयेत् ततः | सिद्ध्यन्ति तस्य कर्माणि नान्यथा क्रौंच सूदन || विद्यातत्वे तु यो भाग उत्तमो सिद्धिरिष्यते | मध्यमाख्य चरत्वं तु अधमाञ्जनपादुके || अधमाधमसिद्धीश्च वस्याकर्षणमोहणं | साधयेन् नात्रसंदेहो मन्त्रराजप्रभावतः || मन्त्रराजमव्ज्ञाय सिद्धयोयस्तु साधयेत् | हवने मुष्टिनाकाशं क्षुद्धर्तः कण्ठयेत् तुषान् || तस्मात् सर्वप्रयत्नेन अघोरसाधयेत् सदा | यैः केचित् मन्त्रसिद्धास्तु देवगन्धर्वदानवा || सर्वते वसगास्तस्य घोरसिद्धस्य संस्थिताः | मन्त्रसिद्धाः कदाचिच्च कालतो निर्धनं गताः || अघोरमन्त्रसिद्धायेत् मक्षयामिततेज्ससः | ८२ब्) अतिरस्कृतवीर्यास्ते सर्ववामोघशक्तयः || भवन्ति साधकेन्द्रास्तु सर्ववामोघशक्तयः | मन्त्रास्तु तस्य सिद्ध्यन्ति यस्तु पूजारतः सदा || सिद्धयस्तेषु सिद्ध्यन्ति येषु पूजारतः सदा | सिद्धयस्तेषु सिद्ध्यन्ति नित्यं ये मन्त्रजापिनः || मन्त्रास्तु फलदास्तेषां हवने कृत बुद्धयः | पूजाहोमं जपं नैव तस्मान्त्रितयमभ्यसेत् || ज्ञात्वा तु परमं रूपमघोरस्य महात्मनः | ज्ञानप्रपद्यते योगी ज्ञेयाशपरिवर्जयेत् || शन्तात्संचिन्मयं ब्रह्म निर्विकल्पमरूपकं | सर्वप्रमाणरहितं स्वसंवेद्यमवाचकं || श्रद्धयातपसाभक्त्या जपहोमार्चनादिभिः | महापुरुषसंपक्कष्टिं? ज्ञानात्तीर्था न सेचनात् || उपदेशात् तथाभ्यासा नियमैः स व्रतस्तथा | प्राप्यते परमं रूपं स च सत्यदवर्जितं || नाद्वैतं न तथाद्वैतं न द्रव्यं न गुणं तथा | न तद् ब्रह्मादयो देवाः पर्युपासतनित्यसः || तदर्थं ज्ञापयेज्जंतु तर्पयन्ति अहर्निशं | सीदन्ति च महामोहाज्जायन्ति च म्रियन्ति च || ८३अ) तस्मात् सर्वप्रयत्नेन निष्कलं पर्युपास्यते | येन स्मारितमात्रेण न भूयो जन्ममाप्नुयात् || नाघोरः पूजयेत् घोरं नाघोरो मुक्तिभाग्भवेत् | सर्वदा सर्वथदा सर्वथाघोरं सर्वावस्थासु यः स्मरेत् || प्राप्यते परमं स्थानं ना पुनरावृत्ति लक्षणं || इति कालोत्तरे महातन्त्रे अघोरकल्पं शान्तिपटलं || ईश्वर उवाच || रुद्रशांत्या महाशान्ति यत्नेन क्रियतेथ वा | अत्र यागं महासेन समासात् कथितं तव || अरिष्टं ध्वंसनं कार्यं मण्डलं यत् पुरोहितं | पञ्चहस्तं चतुर्हस्तं वसुहस्तमथापि वा || रुद्रपूजाविलोमेन कर्तव्या कृत्तिकासुत | वस्वग्निसंखारुद्रास्तु रुद्रशान्तिं प्रकल्पयेत् || रुद्रञ्च वृक्षं चैव अविमुक्तमसम्भवं | पुरुषञ्चेति पञ्चेतानी शान्यां प्रकृतो न्यसेत् || ५ || उत्तरे तु दले पञ्च रूपान्तात् क्रमसोचयेत् | विश्वाख्यन्तु महाविश्वं करालं विकृतं तथा || ८३ब्) अन्ते वा विकृताख्यं तु पञ्चामी पुरुषे स्थिताः || ५ || चत्वारि पिङ्गलाख्यानि निपतो वायुपत्रगाः | एकश्वेतः स्तथाकृष्ण चतुर्थो मधु संज्ञकः || ४ || अनन्तश्च तथाद्रश्च शुष्कश्चावपरोगणः | कालतत्वे तु वारुण्यां स्थितारुद्र महाबलाः || ४ || करालविकराला च मायायां नैर्-ऋते दले २ | चतुः सहस्रं विद्यायां याम्य पत्रे व्यवस्थितं || शीर्षाख्यं वक्त्रसंज्ञं च कराख्यं चरणान्वितं | लिङ्गात्मकं चतुर्थन्तु नास्तव्यं तत्व वेदिना || ४ || एकद्वित्रिजटांताश्च रुद्रावह्नेश्वरे स्थिताः | स्वाहास्वधावषट्कार हो?त्ररुद्र त्रयं पुनः || ६ || षट्जात्यं ताश्च पूर्वस्यां रुद्रा स्युः सकले ध्वनि | भूततंत्रं महाभूतं पशुं तत्र उमापतिं || सर्वभूत तथाकालं षट्पूज्याः शिखिवाहन || ६ || उमामहेश्वरो मध्ये पूज्या तत्व शिवात्मके || २ || शितपुष्पैः सुगन्धैश्च चन्द्रनाढ्यै विलेपनैः | संपूज्यविधिवद्रुद्रां पायसेन घृतेन च || तत्वेश्वरां सिखंड्यादि विलोमेनार्चयेत् ततः | अनन्तातं शिवं मध्ये नवतत्वं शृणुष्वतः || प्रणवात् ध्रुवप्रयन्तं शिवपदपीठं महाभुवं मध्ये || १ || ८४अ) शाश्वत तत्पुरुषान्तं पीठं सदाशिवं प्राक्संस्थे | ईश्वरपीठमघोरं ज्योतीरूपावधिर्ज्वलन दिक्संस्थं || परमेशादि ज्योतिर्विद्यापीठं तु स्थितं च तद्व्योमा | मायापीठमरूपं भुवः पदान्तं निशा चरावस्थं || ५ || स्वः पदतो देवान्तं पीठकालात्मकं जलदसंस्थं | सद्भावतः सुखान्तं पवनाशासंस्थितं नियति पीठं || ७ || सा निध्यात् पिशान्तं पीठं सम्यक् स्थितं तथा पाक्षं || ८ || ज्ञानात् मुक्ति पदान्तं पीठं प्रकृतिस्थितं दिशी शान्यां || ९ || इति पद महाध्वरोयं संपूज्यो न्यासमात्रेण | एकैक पद विभागादमृतपुटान्तस्थिताः शिवा || सर्वज्यंकारपरिमण्डलपरिगणिताः | प्रणवसंदीप्ताः | सर्वावसानतनयस्त्वा रूढाः पूर्वपीठपादे तु | पूर्वस्थितविनिविष्टाः पूज्याश्चानच्चितपदेन | प्रह्वेन स्तोतंव्याः सर्वरुद्राः क्रमादिताः पूर्व || आज्यं क्षीरं दधिमधुफलादयो ब्रीहयोमखास्नाताः | खण्डकृतो भक्षगणः पयसा पूर्वान्नवर्गश्च | स चरुः स पुरोडाशः प्रविभागप्रदर्शितः || ८४ब्) संख्यास्तवविभागञ्च द्रव्यमाहुतिलक्षणाः | तत्राद्यखण्डै कथितं द्वितीयैस्तुतिरुच्यते || स्त्रेसतसा भगवती मन्त्रखण्डं तृतीयकं | खण्डद्वयन्तु पद्य न मन्त्र गद्येन कथ्यते || विभागखण्डादपरः स्तुति खण्डं निगद्यते || रुद्रशान्ति प्रवक्ष्यामि शिवां सर्वार्थसाधनी | मानुषाणां हिमर्थाय समं रुद्रेण भावितां || सर्वविघ्नाः प्रणश्यन्ति श्रुत्वैनां पापनाशनी | दुःस्वप्ना व्याधयश्चैव ग्रहाश्चैव दिशोदशः || बहुरूपाय सर्वाय विश्वरूपहं रूप च | पार्वत्या सहितायै वसहनंदीश्वराय च || रुद्रशान्ति नमस्यामि वेतालानां विनाशनीं | नगणामुपसृष्टानां देवाय ततवेश्मसु || येषां न गर्भसंभूतिः कुलहानिश्च जायते | यत्र जाता विनश्यंति भवंति च नपुंसकाः || मारीचोत्पद्यते यत्र सततं च गृहे ग्रहाः | गर्भः पतत्य काले च रुडं वा यत्र जायते || दुर्भिक्षेणैव पीड्यन्ते राष्ट्रात्पातश्च दारुणैः | गणा यत्र विरुध्यन्ते डातरश्चाप्यनेकशः || पितामातास्तथा चैव कन्दलोपहते गृहे | पश्यन्ति च कपिं स्वप्ने बीजं क्षेत्रेण रोहति || यो वाथ पशवश्चैव दा * *? कर्मकरास्तथा | ८५अ) गृहेस्थिता विरुध्यन्ते तत्रशान्तिं प्रयोजयेत् || कूपो वा गर्जते यत्र प्ष्ठवंशश्च भिद्यते | तरवोनाहुताश्चैव स्रवन्ति रुधेन बहुः || देव * * * * * * * * * * * * * * *? | अकालं पुष्पिता वृक्षाः फलिताश्चाष्यनेकशः || उल्कापाताश्च जायंते भूमिकम्पाश्च दारुणाः | निमित्तेरशुभैरेतिरन्यश्चाग्नि सदा * *? || * * * * * *? भूत्वा तत्र शान्तिपयोजयेत् | रुद्रशान्तिसमुत्पत्तौ कथां वक्ष्यामि तत्वतः || गिरिसंजनको नाम शैलराजस्य मुर्द्धनि | नाना * * * * * * * * * * * * *? तत् || स्थना स्थितं रुद्रं परं तु तहिते रतः षणा |? यक्षराक्षसकूष्माण्डैर्वृतं भूतैंरनेकशः || ततो देवगणाः सर्व * * * * * * * *? | ब्रह्मासमग्र * * *? सर्वयान्ति महेश्वरंः || ऋस्यज्यः? सोमभिः स्तोत्रै पवित्रैश्च वरप्रदैः | उमयासहितं स्तुत्वा नीलकण्ठवृषध्वजं || * * * * * * * * * * * *##? विदितं तैस्तु देवेशः मानवी दुःखिता प्रजा || तस्याः शान्तिं प्रयच्छत्वं सर्वग्रहविमोचनी | देवानां वचनं श्रुत्वा हरस्त्रिच्च वनेश्वरः || * * * * * *? सर्वान् क्षिप्रमानयतान् ग्रहान् | ८५ब्) अग्निर्वायुश्च भगवान् लोकपालान् विशेषतः || सर्ववैजनपालाश्च राष्ट्रपालाश्च दुर्जयाः | देव्यभूतगणायक्षा गन्धर्वारगराक्षसाः || कूष्माण्डादारूणाघोरां गुह्यकाश्च धनुर्धराः | देवायतन पालाश्च भूतग्रामनिशाचराः || कालकर्णा महाकाला ये चान्य हिमकाग्रहाः | अहस्मा * * * * * * * * *? ग्रहास्तथा || हृद्रायोः? कुक्षिरोगाश्च मुखरोगा ज्वराक्षयाः | शिरो रोगा मात्ररोगा नायकाश्च सुदारुणाः || एते चान्य देवहवो व्याधयः परिकीर्तिताः |? ते ग्रहाः स्वगणैः सार्द्धमुपनीतं हरान्तिकं || विज्ञापयंति देवेशं प्रणिपत्य मुहुर्मुहुः | तेजः सार्दुमशक्तास्मः किं पुनर्या समीक्षितुं ||? तीक्ष्ण?पयमहादेव किं कर्तव्य तवाज्ञया |? अनुवाद महादेवः क्रोधसंरक्तलोचनः || मानुषादुःखिताः केन कस्य दोषेनदापुनः |? तेषा? * * *? मः प्राहवाक्षं लोकेश्वराग्रतः || ८६अ) एषा वृत्तिरिहास्माकं ब्रह्मदत्तो हयंवरः | ये ग्रस्तास्तमसा लोके मानुषाः पापकारिणः || अत्यर्थं हंतु कामाश्च बलिकामाश्च ये ग्रहाः | हर्षिता दुःखिताश्चैव नष्टभ्रष्टांश्च मानवान् || नाना चिंताभि कृत्यांस्तु च्छिद्रमीक्षा विंशतिते | एतत् ते कथितं देव प्रसीदभगवन् मम || आज्ञापयसुरश्रेष्ठ कर्तव्यं किमतः परं | एवमुक्तस्तु भगवान् स्त्रोवकः? परमेश्वरः || रुद्रशान्तिमिमाप्राह वरदो भूतवाहनः | यस्त्रं विद्यामिमा श्रुत्वा ह्यकोन निवर्तते || सप्तधा स्फुटते मुर्द्ध्ना रुद्रदण्डेन हन्यते | सप्तजन्मसहश्राणि चौरवे पच्यते ग्रहः || पुनश्च स महाघोरे योमं विद्यां व्यति क्रमेत् | एव मुक्तास्तु भगवान् ग्रहाणामग्रतः स्थितः || समयान् श्रावयित्वा तु प्राहविद्यां मिमां प्रभुः | इदं स्तुत्वा महादेवं भवानीं ब्रह्मणा पुराः || अप्रमेयाय धृष्याय नमः स्वस्ति परायण | ८६ब्) ओंकाराथ वषट्कारो ब्रह्मस्वाहा स्वधास्तथा || सावित्री भूत सावित्री रुद्रसावित्रि एव च | रुद्राणी ब्रह्मसावित्री दैवी चैव सरश्वती || उमाकृष्णा शिवा चैव यो नित्या हृदिसंस्थिताः | सुरासुरमनुष्येषु स्थावरेषु चरेषु च || स्तुत्वैवं पुरतो देवा जग्मुः स्वभुवनानि च | कथा स्तोत्रे तु कथिते मन्त्रखण्डानि गद्यते || पूजने तु नमस्कारं स्वाहान्तं हवने हितं | आप्यायने वषट्कारं प्रष्टौ वौषट् नियोजयेत् || ठकार द्वितय स्थाने जातियोगं तु कारयेत् | इति सांकेतिकं प्रोक्तं स्थानं नाम्ना यतो हितं || ओं रुद्राय नमः * *? | ओं वृषभाय नमः * *##? ओं अविमुक्ताय नमः * *? | ओं असंभवाय नमः * *? | ओं पुरुषाय नमः * *? | ईशान पत्रे रुद्रपञ्चकं || ओं विश्वरूपाय नमः * *? | ओं महाविश्वरूपाय नमः * *? | ओं करालरूपाय नमः * *? | ओं विकृतरूपाय नमः * *? | ओं अविकृतरूपाय नमः * *? | उत्तरपत्रे पौरुषे पञ्चरूपानां रुद्राः || ओं एकपिङ्गलाय नमः * *? | ओं स्वेतपिङ्गलाय नमः * *? | ओं कृष्णपिङ्गलाय नमः * *? | ८७अ) ओं मधुपिङ्गलाय नमः * *? | ओं नियतौ वायुपत्रे || ओं अनन्ताय नमः * *? | ओं आद्राय नमः * *? | ओं श्रुष्काय नमः * *? | ओं पयोगणाय नमः * *? | कालतत्वे वारुणां चत्वारः || ओं करालाय नमः * *? | ओं विकरालाय नमः * *##? ओं सहश्रषीर्षाय नमः * *? | ओं सहश्रवक्त्राय नमः * *? | ओं सहश्रकरचरणाय नमः * *? | ओं सहश्रलिङ्गाय नमः * *? | चतुःसहश्रसंज्ञा विद्यातत्वे दक्षिणदले || ओं एकजटाय नमः * *? | ओं द्विजटाय नमः * *##? *? | ओं स्वधाकाराय नमः * *? | ओं वषट्काराय नमः * *? | वह्नि पत्रे || ईश्वरतत्वस्थिता षट्रुद्राः || ओं भूतपतये नमः * *? | ओं महाभूतपतये नमः * *? | ओं पशुपतये नमः * *? | ओं उमापतये नमः * *? | ओं सर्वभूतपतये नमः * *? | ओं कालाधिपतये नमः * *? | सदाशिवतत्वे षट्पूर्वदले || ओं उमायैक रूपधारिणे नमः * *? | ओं कुरु २ रुण्डिनि २ रुद्रोसि देवानां देवदेवविशाख हनहन दह दह पच २ मथ २ कुरु २ मुरु २ रुद्रशान्ति मनुस्मरकृष्णपिङ्गल अकालपिशाचाधिपतये विश्वेश्वराय नमः | इत्युमामहेश्वरौ कर्णिकायां शिव तत्वे || ओं व्योमव्यापिने व्योम रूपाय सर्वव्यापिने शिवाय अनन्ताय अनाथाय अनाश्रिताय ध्रुवाय इति शिवतत्वे नव पदानि || शाश्वताय योगपीठसंस्थिताय नित्यं योगिने ध्यानाहाराय ओं नमः शिवाय | सर्वप्रभव ईशानमूर्द्धाय तत्पुरुषवक्त्राय पूर्वदले सादाख्ये || अघोरहृदयाय वामदेवगुह्याय सद्योजातमूर्तये ओं नमो नमः | गुह्याति गुह्याय गोप्ते अनिधनाय सर्वयोगाविकृताय ज्योतीरूपाय ईश्वरतत्वेऽग्नि दले || परमेश्वर पराय अचेतना चेतनव्योमिन् २ व्यापिन्? २ अरूपिन् २ प्रथम २ तेजस्तेजज्योति ज्योति विद्यातत्वयाम्यदिग्दले || अरूप अनग्नि | अधूम अभस्म अन्यदेन् नानाना धू धू धू ओं भूः ओं भुवः श्रधातत्वे? नैरा? दले || ओं स्वः अनिधननिधननिधनोद्भवशिवसर्वपरमात्मन महेश्वर महादेवकालतत्वे वारुणदले || ८७अ) सद्भावेश्वर महातेज योगाधिपतये मुञ्च २ प्रमथ २ सर्व २ भव २ भवोद्भव सर्वभूतसुखप्रद व्ययव्यदले नियति तत्वे || सर्वसानिध्य करब्रह्म विष्णुरुद्र पर अनर्चित अनर्चित असंस्तत्र २ पूर्वस्थित | साक्षि २ तुरु २ पतंग २ पिङ्ग २ पुरुषतत्वे उत्तरदले || ज्ञान २ शब्द २ सूक्ष्म २ शिवसर्वद ओं नमः शिवाय | ओं नमो नमः शिवाय नमो नमः ओं प्रकृतितत्वमीशानदले || रुद्रशान्ति जपं नित्यं सर्वपापैः प्रमुच्यते | उपद्रवेषु सर्वेषु सर्वोत्पातेषु षण्मुख || मुच्यते नात्रसंदेह सत्यं सत्यं शिखिध्वज | स्थापनार्चन कर्मादि दीक्षांचारभ्ययो बुधः || पश्चान् न कुरुते साक्षादिष्टापूतवियुज्यते | रोगात् पयनिमित्ताप्तौ देशशान्त्या कर्मसु || श्मशानेषु च नित्येषु मारियावत् प्रवर्तयेत् | शान्ति नष्टो तथा कर्षे वस्योच्चाटनमारिणे || नायैक्षणियः कालस्याद् भातिके? नापि नित्यशः || इति कालोत्तरे महातन्त्रे रुद्रशान्तिपटलः || दीक्षितानां क्रमेणैव शिवावारं निगद्यते | ८७ब्) किं वर्ज्यं किं च कर्तव्यं शिवमार्ग स्थितेष्वथ || अष्टम्यां च चतुर्दश्यां पक्षयोरुभयो यथा | व्यतीपातेषु सर्वेषु दिनवृद्धादि नक्षये || संक्रान्त्या च पनान्यां? तु षडगीति मुखेष्व च | द्विगुणं पूजनं होमं जाग्रं नष्ण? न वर्तनं || भितेषु रक्षणं कायं वान्च्छुलाञ्च? तपस्विषु | कारुण्यं सर्वभूतेष्व क्षमासत्यमवापलं || अनृतं गुरुदेव्यर्थं न दोषायप्रकल्पने | अदण्डस्या सहायस्य नादनं शयनं क्वचित् || रुद्राख्य कटकं कार्यं विसमं वा समंदृढं | एकत्रिपञ्चवदनं प *? लाभं तु धारयेत् || द्विचतुः षण्मुखं शस्तमव्रणं तीक्षणकण्टकं | सव्रणं क्रिमि ज्यष्ठं च कटकै रहितं तथा || वक्त्राधारं निघृष्टञ्च रुद्राखयं नैवधारयेत् | दक्षबाहु शिखायां द्व्यधार्यन्तु चतुरूणनं || अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् | रुद्राक्षस्मरणे नैव रुद्रलोके महीयते || वाङ्मनः कायिकं पापं दहत्यग्नि निबन्धनं | तस्मात् सर्वप्रयत्नेन रुद्राख्यं धारयेत् सदा || अधारणात् महायेषः सिद्धयस्तस्य दूरतः | रुद्राक्षं धारणीयं तु दीक्षितैश्चाप्य दीक्षितैः || ८८अ) नित्यं हेममयाधार्या मुद्रिका दक्षिणे करे | पद्मरागान्निकार्यानीलै नर चताथवा || धार्याविचित्ररुष्माद्यैः कुण्डले रवितान्विते | न च सप्तदसार्द्ध स्यात् त्रिरूरं देशिकादितः || त्रिसूत्रं तृवृत्तं तं वृत्तं घृष्टं सुवर्तितं | द्विगुणं कपि बध्वेन नयेदामस्तकान्तिकं || तस्मात् तद्विगुणं कुर्यात् ग्रंथि तस्य विवेष्टनात् | उपवीतं नृपादीनां तं त्रिद्व्येकसरं क्रमात् || पूजा तत् मात्रकं धार्यं नोर्द्धं तेषां विधारणं | शिवसंज्ञा द्विजस्यैव कवचाख्या नृपस्य च || वैश्यानां देवसंज्ञा च मुद्राणां च गणान्तिकं | पुष्पपातानुसारेण संज्ञा तत् मात्रतो हिता || अनार्थं दुर्बलं भीतं दुर्गस्थं न परित्यजेत् | गवामुन्थापनं कार्यं मग्नानां कर्दमादिषु || चतुर्णामपि वर्णानामाचार्यन्ध मिहोदिदं | सर्वेषां चैव वर्णानां द्विजोनुग्रह कृन्मतः || त्रयाणां क्षत्रियां द्वाभ्यां वैश्यः शूद्रैः स्वयोनिजे | संस्पर्शात् कारुकादीनां होतृस्तु परिवर्जयेत् || ८८ब्) एवं चानुग्रहः कार्यःश्चतुर्भिरपि देशिकैः | द्विजस्या श्रमधर्मित्वं चतुर्धा परिकीर्तितं || ब्रह्मचारी गृहस्थश्च वानं प्रस्थायति क्रमात् | गृहस्थश्रमधर्मित्वं क्षत्रियाणां न चापरं || भायस्यं? वा पुनस्तेषां ब्रह्मचर्याद्विधीयते | आश्रमाणा तु भेदोस्ति निष्ठाभेदो न विद्यते || एकः फलं द्वयं भुंक्ते मोक्षं साधारणं द्वयोः | ब्रह्मचारी द्विधा प्रोक्ता भातिको नैष्ठिकोऽपरः || भौतिकस्त्रिविधो ज्ञेयः संक्षेपेणोच्यते यथा | विद्या स्नातक एवाद्या व्रतस्नातकश्चापरः || उभयस्नातकश्चान्यो भौतिकस्त्रिविधोपि हि | विद्यानुतसमाप्तौ तु गृहित्वं तस्य कीर्तितं || द्वितीयो नैष्ठिकः प्रोक्ता देहान्तं तस्य वर्तनं | सुमेखली जटीदंडी मुंडी वा तिक्षुकः शुचिः || नित्यं गुरुकुले वासः संयमी सत्य भाषिता | त्रिकाला स्नापिता क्रोधः क्षान्तिर्या ब्रह्मचारिणे || निवर्तनं नैष्ठिकस्य अघोरायुतवर्तनात् | कृत्वा व्रतेश्वरं योगं व्रतमोक्षस्तदा भवेत् || स्नानं देवार्चनं होमं दानं च पितृतर्पणं | स्वदाररक्षणं कार्यं प्रीति वै शाश्वती तथा || ८९अ) चतुर्विधौ गृहस्थस्तु बोद्धव्यः पार्वती सुत || वने नासाग्नि हवनं शुद्धमूलफलाशनं | भूशययाजितधारित्वं प्रतिग्रहविवर्जनं || त्रिकालं प्लवनं होमं पूजाध्यानमहर्निशे | सर्वेन्द्रिय निरोधश्च वृत्तिरेषा च न स्थिते || सर्वक्रिया परित्यागो विवासाकथवल्कली | सर्वत्र समदर्शित्वं सुखदुःखादि कारिता || सवाहाभ्यन्तरं शौचमरुण्ये ध्याननित्यता | प्रियाप्रियपरित्यागो यतिवृत्तिरुदाहृता || चतुष्कमेतत् कथितं एकैकं तु चतुर्विधं || इति कालोत्तरे महातन्त्रे आशमपटलं || ईश्वर उवाच || पुनरेव प्रवक्ष्यामि चतुर्द्धा शिव गोचरं | शिवः शिखा तथा ज्योतिः सावित्र्यश्चेति गोचराः || गोचरन्तु कुलं ज्ञेयं तेन ज्ञेयस्तु दीक्षितः | तच्चिह्नता शैवाः शेषाः या मण्डिनो मता || चतुर्द्धा शिव देहन्तु गोचरत्वे प्रकल्पयेत् | मन्त्रवाच्यं शिवकुलं नादं चन्द्र कलाशिखा || बिन्द्वर्द्धचन्द्र ज्योत्याख्यं सावित्रीमीश्वरं ततः | आशिवादीश्वरान्तन्तु ज्ञेया वा गोचर स्थितिः || शिवावरणविज्ञानं नाभिर्मात्रं यदा तदा | वाग्वीरमात्मविजानवीजयुक्तं शिवागमे || ८९ब्) नित्या नन्दात्मकं ज्ञेयं तत्कुलं शिवं संज्ञके | नादशक्तिस्ततो तात्मपरमं? ब्रह्मणः पदं || आनाविद्धादशान्तं वा नादसूर्यविभेदितं | मन्त्रमुक्ता कलायन्त्र शिखया प्रोतमातरं || शिखा कुलं तदा ज्ञेयं नादतत्वाबलम्बनात् | संस्थानं बिन्दु तत्वे तु पदसादा शिवात्मके || पशुपाशबलाद्वस्त्रं विरामे? ज्योतिसंज्ञके | व्यामिश्रं तन्त्र सर्वेषां कुले सावित्रि संज्ञके || शिवः शक्तिश्च सकलं भूदधश्चैश्वरात्मकं | तत्र तत्र च भोक्तं त्वात्तकस्य तस्य हि तत्कुलं || शिवः शिखा तथा ज्योति देयं सावित्रिकं कुलं | एकैकस्य चतुर्द्धान्या बलिभेदोति गृद्यते? || प्राजापत्या महीपालः कपोता ग्रन्थिकस्तथा || एते भेदाः समाख्याताः गोचरे शिवसंज्ञके | कुटिलाश्चैव वेताला पद्मौहं सा शिखाकुले || ९०अ) धृतराष्ट्रा वकाकं कागोपाला ज्योति संज्ञके | कुटिलामाठराश्चैव गुडिकादंडिनो परे || सावित्रि गोचरे प्रोक्ता वृत्तिरेषां शृणुष्व तत् || अहिंसा गुरुशुश्रुषा स्वाध्यायः सौचसंयमः | सत्यमस्तेय मेतद्धि प्राजापत्य मतं हितं || क्षयपुष्ट्यर्थ विद्वेष कर्मभिः शान्तिकादिभिः | पालयन्ति महीं यस्मात् महीपालास्तु साधकाः || पतितात् ये कणान् भूमौ संहरन्ति कपोतवत् | तद्धृत्या जीवितं तेषा कषोतास्ते तु साधकाः || वृहत् कृत्वा तु संग्रन्थं सहसैव त्यजंति ये | ह्यतभुग्देवतार्थन्तु ग्रन्थिकाः साधका मताः || सरिंत्सागर कुलास्ते कुंटि कृत्वा स्थितास्तु | कुटिलाः साधका ज्ञेयाः शिवाराधन तत्पराः || तीर्थाशक्ताः सपत्नीकाः यथालच्चापजीविनः | महासाहससंयुक्ता वेतालास्ते तु साधकाः || संयताः कमला शक्ता राज्य कामार्थ साधकाः | ९०ब्) पद्मास्ते साधकाः ख्याता भिक्षाचर्यारताः सदा || ज्ञानयोगसमायुक्ता दैत्यव्यरैस्थितास्तु ये | हंसास्ते साधकाः ख्याताः स्वयमुत्पन्नसंविदः || ब्रह्मचर्येण सत्येन तथालब्ध तथापि च | जितंजगत्समस्तं वै धृतराष्ट्रा मतास्तुते || सदाश्चरन्ति? ये ज्ञानं व्रतधर्ममथापि वा | स्वार्थैक गतिनिष्ठासु वकास्ते साधका मता || जलाश्रयं समाश्रित्य स्थिताश्चोत्कृष्टसिद्धये | विससृंगाटका हारास्ते वैकंकास्तु साधकाः || गाभिः सार्द्धं व्रजंत्यत्र गोष्ट च निवसंति ये | पञ्चमव्यासनाये तु गोपालास्ते तु साधकाः || कृच्छ्रचान्द्रायणाद्यैश्च क्षपयन्ति स्वकं वपुः | तुटिमात्रासिनस्ते तु तुटिलाः साधका मताः || कंदमूलफला कृत्वा कुशमयी पत्नी मेधया गृह मेधनी | भैक्षवृत्तिरताः शुद्धा माठरास्ते तु साधकाः || ग्रासमात्रसमानाभिरथाष्टरभिः सुयन्त्रिताः | कंदमूलफलान्थाभिर्गुडिकास्ते तु साधकाः || स्वदेहदण्डने युक्ता रात्रौ वीरासने रता | ९१अ) दण्डिनः साधकाख्याताः सवं मेतत् तवोदितं || सामान्या वा विशेषस्था व्रतिनो गृहिणोपि वा || इति कालोत्तरे महातन्त्रे गोचरपटलं || ईश्वर उवाच || ब्रह्मचारी गृहस्थश्च देशिकस्तु द्विधामः | तयोर्वर्ज्यं सर्वज्य वा कथयामि तवाखिलं || मांसमुद्रं वराश्वच्छं हरिद्रापानवर्जनं | तथास्त्रीरंग संस्कार गीतवादित्र नर्तनं || शिवसम्बन्धिनं मुक्त्वा गीतं तौर्यादि नृत्तकैः | विकाले भोजनं दान व्रतिनां वर्जनं हितं || मालालंकारगन्धाश्च वर्जयेद् यागवर्जनं | मध्वापत्सु न दुष्येन मानशस्त्रादि फल्गुषं || ब्रह्मचर्यरतः शुद्धा न व्रती श्नातको मते | ते न्यप्येवं विधं वस्तुरर्जनीयं पुरोदितं || सोप्युक्तो देशिकस्तंत्रे पदिनो सिद्धिसाधकः | नैष्ठिकस्य व्रतं कष्टं तन्निषिद्धं तु भौतिके || गुरुस्त्रिगमनं चौर्यं पुण्यकाले रति क्रिया | क्षुरक्रिया घृताभाद्यं? गृहिणो वर्जनं मतं || पुष्पालंकारगन्धाढ्यं स्वतो वापि तथा बला | ९१ब्) रोगगन्धा न दुष्यन्ति भोजनं शक्ति कारणं || हस्तमात्रं तु वेदास्रं चतुरेखन्तु मण्डलं | आचार्यस्य तु कर्तव्यं भोजनार्थेन नित्यशः || एकैक रेखाहीनं तु साधकादिषु कीर्तितं | केशानां धारणां शस्तं मुण्डनं वा यथैच्छया || जटाधरास्तु पतयो भस्माङ्कित शरीरिणः | जटानां वेष्टनं कुर्यात् शिरोमुण्डं न वेष्टयेत् || ताश्वकायो हि भोगानां वृत्ताव्यवेणिकाथ वा | कनकाख्यास्तु वृत्ताश्च जटाकार्या विजानता || विषमानागभोगाभां नवषट्कैक षोडशः | इतरास्तु पथिच्छाअतो यथाशास्त्र स्थितिस्तथा || तत्ववर्ण कलाज्ञान पदस्थानादि कल्पिता | क्षेत्रं सुवर्तितं कृत्वा कूटिलस्तत् पूर्वजेन तु || भस्माश्रय कर्तव्याः दृढवोच्छाणकोपि वा | वितस्त्या यामतः शस्तः सूत्रजेष्टाङ्गुलोच्छृतः || उत्तरीयो च्छ्रयात् कार्यं द्वादशाङ्गुलसम्मितं | चतुरङ्गुलविस्तीर्णं तस्य मध्ये सुसंगः प्रतं || अथवालाबुकं कार्यं षोडशाङ्गुलसम्मतं | ९२अ) भस्माधारं प्रयत्नेन वर्जयेत् भाद्यसंभवं || दण्डमात्मसमं कार्यं स्थुलमङ्गुष्ठवत्समं | अथवा हस्तमात्रं वारांसंखादिरशैशवं || २ || द्वादशाङ्गुलविस्तीर्ण मृच्छपादङ्गुलाष्टकं | भिक्षापात्रं प्रकर्तव्यं ताम्रं वा पत्र कल्पिता || पलाशमधु पत्रैश्च कदम्बाम्रैश्च चम्पकैः | वर्जयेन्तु वटाश्वत्थः पिशाचार्कादि केश्वरं || चातुर्वर्णं चरैर्सैक्षं अभिशस्तं विवर्जयेत् | तथा पतित संभूतं भिक्षाकार्या यथाविधिं || दण्डस्त्रं हृदयं पात्रे न्यम्बायायात्? शिवं स्मरन् | पात्रै प्रपतितं रैक्ष्यं भुंजीयात् भूगतं त्यजेत् || स्थातव्यं न चिरंकारंलं निवर्त च निवर्तनं | मौनं प्रयत्नतः कार्यं पात्रपुरणतोथ वा || कणभिक्षाथ वा कार्या वहुदेवसिकानवा | भिक्षामानीयतामेव स्थाप्य स्थाने शिते शमे || हस्तपादादिकं क्षाल्य पूर्ववद्वाचमेद्बुधः | हृदासंप्रोक्षतं दद्याच्छिवाय गुरवे पुनः || ९२ब्) भोजनं परतः कार्यं त्र्यक्षरेणाभि मन्त्रितं | तदामृतं भवत्यासु तत्ख्यता मृत्युजिम्भवेत् || मौनमास्थाय भोक्तव्यं न रात्र्यानु विधारोधकृत | एवं भिक्षाटनं प्रोक्तं सर्वसामान्यलक्षणं || नास्ति भिक्षासमं पुण्यं नास्ति भिक्षा समं तपः | सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलं || यत्फलं सर्वदानेषु तथा चान्द्रायणादिषु | तत्फलं कोटिगुणितं भिक्षासीप्राप्नुयान्नरः || पाके निवर्तिते यत्रा तिथिर्याति पराङ्मुख | देवाश्च पितरः सर्वेषान्ति तस्मात् पराङ्मुखा || प्राप्ते काले तु दातव्य विचारेण प्रयत्नतः | कुलानुद्धरते सो हि दशपूर्वान् दशापरान् || सर्वेषा चैव पात्राणां पात्रं चैवातिथिः परं | हीनाङ्गमथ वा पूर्णाङ्गं न व्रतं जातिरेव वा || अविचारेण पूज्यस्तु सोश्वमेधफलं लभेत् | संप्राप्तकाले यो भैक्ष्यं दूरतः परिवर्जयेत् || तस्य पुण्य फलं सर्वं गृहीत्वा याति या तिथिः | ९३अ) अनिष्पन्ने यदापाके प्रार्थयेदविचारतः || ब्रह्मघ्नः कथ्यते सोहि वहुरूप शताच्छ्रुचिः | एवं ज्ञात्वा प्रयत्नेन कार्यं भिक्षाटनं सदा || सिद्धयस्तस्य सिद्ध्यन्ति भिक्षासी यो जितेन्द्रियः | सर्वप्रतिग्रहाः प्रोक्ता विनाभिक्षां शिखिध्वज || इति कालोत्तरे महातन्त्रे समयपटलं || कार्तिकेय उवाच || गुरुद्वयं द्वयोः प्रोक्तं भौतिकं नैष्ठिकं क्रमात् | अनुग्राह्यविभागं तु न ज्ञानं तत्वतो मया || ईश्वर उवाच || शृणु षण्मुखतत्वेन मोक्षं भोगं यथा स्थितं | ब्रह्मचारी गृहस्थश्च द्विविधो देशको मतः || दीक्षाप्रतिष्ठयोरेता वुभावप्यधिकारिणौ | किन्तु मोक्षैक चित्तानां विभूति विमुखात्मनां || ब्रह्मचारी गुरुज्ञेयो गृहीस्याच्च द्वयार्थिनां | पूर्ववर्णाश्रमानां हि स्वे स्वे कर्मणि तिष्ठतां || उत्पन्नतत्व तज्ञानानां मोक्षः साधारणः स्मृतः | पतीनां तु पतित्व वे गृहस्थैरेवमाद्रिते || ९३ब्) गृहस्थ एवतैरेव यज्ञार्थिभिरुपास्यते | गृहस्थादितरेषां तु नास्ति भोगाधिकारिता || तस्मात् गृही गुरुः कार्या भोगमोक्षाभयार्थिभिः | लिङ्गिनां तु नमस्कारात् सा सहश्रफलं लभेत् || गो सहश्र फलं याति स्वगुरोः पाद वन्दनात् | ते नासौ प्राप्नुयात् सज्यं यद् वृत्तं शिव लिंगिने || तेन तृप्तेन तृग्नं तु जगतसर्वं चराचरं | तेन तुष्टेन तुष्टस्तु भवद् देव सदाशिवः || तस्मात् सर्वप्रयतेन पूजयेच्छिवलिङ्गनः | बौद्धवैष्णपंचार्थ शौरकालमुखादिषु || शैवः सर्वाधिकारी स्यान्न शैवेमी कथंचनः | वासना तत्र भेदेन बोद्धव्याः पशवस्त्विह || दीक्षितानां प्रवक्ष्यामि विभागं ऋच्छसंभवं || गृहस्थो ब्रह्मचारी च दीक्षताद्विविधो मतः | पितुरभावात् पुत्रास्तु दापादास्युः शिखिध्वजः || ऋएपेअत् पगे ९४ ं ९५ ९४अ) उरसात्समभागेन तद्वत् कन्याविशेषतः | ऋच्छेश्रेष्ठतरो जेष्ठस्तथान्ये समवर्तिनः || पिताहरेदपुत्रस्य माता च तदभावतः | पितृव्यास्तदभावे तु तथान्ये पिण्डदायिनः || पितृपक्षोद्भवाः? केचित् स्वगोत्रप्रभवा यदा | अभावात् पितृपक्षस्य रिच्छिनो मातृपक्षजाः || तदभावाद्वरेद्राजा वित्तं पक्षद्वयं विना | एवं मातामहादीनां पौत्रादौ ऋच्छिनः स्मृताः || विवाहिता प्रजानारी भर्तृपक्षकुलं विना | पितृपक्षोद् भवैः ऋच्छं प्रार्थितव्यं प्रयत्नतः || प्रभुत्वादं मेवोत्थं हि वित्तं ग्राह्यं समासतः | एवं ग्राम्यजनानां तु तथा शक्तात्तरात्मनां || सत्स्वपत्येषु तेषां तु ग्राह्यं षड्भागमानतः | विधानसंभवद्रव्ये राजाभागीन चेतरः || महार्थदं तिनोस्वादीन् नृपतेस्तु समर्पयेत् | न ग्राह्यं द्रविणं विप्राच्चतुर्वर्णवहिःकृतं || ९४ब्) कैवर्तकादिकं ग्राह्यमुपस्पर्शि समुद्भवं | तत्न? प्लाव्युद्भवं वाथ चैलप्लावीचिनाहरेत् || इत्यष्टा दशधा ऋच्छं शास्त्रबुद्व्या विभावयेत् | प्रकल्पामन्तरङ्गत्वं वहिरङ्गत्वमेव च || पिण्डदातृत्व सारेणदापादाः स्युर्न चान्यथा | गृहस्थ ऋच्छं कथितं प्रोच्यते ब्रह्मचारिजं || ब्रह्मचार्युद्भवे ऋक्षरिक्षिनस्तु स्वसततौः || स्वसंततेरभावाच्च दायादाश्चान्यसंततेः | एवं तु ऋच्छिनः प्रोक्ता वर्जयेत् तदलिंगिनः || स्वसंततेरभावाच्च तथा वा परमं ततेः | चित्तं हनति वै राजा न तेन ऋणवान् भवेत् || लिखितं साक्षिणो भुक्ति ऋणिनां त्रिविधा प्रमा | न प्रमाणं विना भुक्ति प्रमाणं साक्षिणं विना || स्त्रीबालनृपजं द्रव्यं नभो सेनापहीयते | यत्र भोगविहीनं तु त्रिंशवर्षं विना हितं || श्रावितं लेख्यविधिना नृपाग्रे चित्तहृत्पुनः | ९६अ) निरीक्षसाक्षिणो यत्नादुभयानुमते सति || वाग्दण्डस्तेययुद्धेषु न परिक्षाश्च साक्षिणः | व्यवहारे प्रतिज्ञान्तु सारभूतां विचारयेत् || तयाहीनो हतोवादी तया दृष्टे जयी भवेत् | धर्मशास्त्रार्थ कुशलै विवादानि परिक्षयेत् || पुनरेव प्रवक्ष्यामि विचारं तस्य षण्मुख || उपकुर्चाषणकानां तु शिवज्ञानविधौयिनां | ब्रह्मचारी पदे स्थित्वा कृत्वा चैव प्रतिग्रहं || वित्त भूम्यादिकं वत्स गृहस्थाश्रममभ्यगात् | तेषां रिक्षविभागं तु कल्पनीयं गृहस्थवत् || मातृपुत्रादिभ्रातृणां प्रविभागं प्रकल्पयेत् | त्रिविधेन प्रमाणेन साक्षिपूर्वसमं ततः || अष्टादश पदं चात्र व्यवहारं परीक्षयेत् | इत्ये तत् प्रविचारं तु संक्षेपान्ते प्रदर्शितं || श्रुतेन वयसा जात्या समायुक्तोथ कन्यसः | तत्राभावाद्या यत्नेन गुरुवत् पूर्वदीक्षितः || ९६ब्) प्रतीक्षणी यो ज्येष्ठेन गुरुवच्चाभिवादयेत् | स पूज्यः परया भक्त्या स्वगुरुवद्दिने दिने || तदभावान्तु तद्भार्याः पूजनीयाः प्रयत्नतः | न गुरुः स्त्री क्वचित् काव्या न तस्माद् ग्राहयेदणून् || समया स्त्री समोदेयाः न कार्या लिङ्गिनः क्वचित् | न तां नमेत् कदाचिच्च न नग्ना न बलोकयेत् || जेष्ठा भ्राता सदा पूज्यः शास्त्रगन्धयेत् ततः | अथवान्यतमाच्छास्त्रं श्रोतव्यं कर्मसिद्धये || गुरुवत् पूजयेन् नित्यं नान्यत्वं परिवर्जयेत् | वादको वोधकश्चैव मोक्षदस्तु तृतीयकः || शिववत् पूजयेत् सर्व यतस्त मोक्षदा नृणां | यः प्रेरयति जंतूनां शिवे परमकारणे || प्रेरणाच्चोदकः प्राहु गुरुद्धौरेय उत्तमः | दीक्षागुरु मोक्षदंस्तु बोधकः शास्त्रदर्शकः || बोधकस्तु प्रयत्नेन पूजितव्यः सदैव हि | इत्ये तत् कथितं लेशान्नियोगं गुरुसंस्थितं || इति कालोत्तरे महातन्त्रे गुरुविचारपटलं || ९७अ) ईश्वर उवाच || अंशकं संप्रवक्ष्यामि साधकानां फलप्रदं | विचारं चानुकर्तव्यं मन्त्राणामंशकेन तु || अंशकेन विनामन्त्रा निर्बीजाः फलवर्जिताः | यथाबिजैमकाले तु फलदं नैव दृश्यते || उषरेप्यथनिक्षिप्त बीजं फलविवर्जितं | तद्धदंशकहीनं तु न मन्त्रं वाजियेत् क्वचित् || अतोशकात्रिधावक्ष्ये ज्ञात्वा तु सिद्ध्यर्हो भवेत् | भूमौ तु मातृकां लिख्य कूटषटविवर्जितं || मन्त्राक्षराणि विश्लेषा अनुस्वारं नयेत् पृथक् | साधकस्य तु या संज्ञा तथा विश्लेषणं तथा || मन्त्रस्यादौ तथा चान्ते साधकार्णानियोजयेत् | सिद्धः साध्यः सुसिद्धारिः संज्ञातो गणयेत् क्रमात् || मन्त्रस्यादौ तथान्ते च सिद्धिदं स्याच्छुभांशतः | सिद्धांदिश्चांत सिद्धश्च तत्क्षणादेव सिद्ध्यति || सुसिद्धादि सुसिद्धान्तं सिद्धवत् परिकल्पयेत् | अरिनामादौ तथान्ते च दूरतः परिवर्जयेत् || ९७ब्) सिद्धः सुसिद्धश्चैकार्थै अरिः साध्यस्तथैव च | आदौ सिद्धस्थितो मन्त्रे तदन्ते तद्वदेव हि || आदौ सुसिद्धो वा विद्धि तदन्ते तद्वदेव हि | मध्ये रिपु सहस्राणि न येषाय भवन्ति हि || सिद्धः सिद्धत्य संदेहादुदासिनो द्वितीयकः | सुसिद्धः फलदः क्षिप्रमरिनाशकरो ध्रुव || आद्यन्नारि समाकान्तं मृत्युदन्तेन वर्जयेत् | अर्यन्तश्च सुसिद्धादि सिद्धान्त्येऽरिपुनः पुरा || इत्ये तदंशकं ज्ञात्वा मंत्रं शिष्याय चार्घयेत् | प्रसादप्रणवाभ्यां तु माद्यावर्णस्य षण्मुख || नवात्मघोरदेवाभ्यां नाशकं परिकल्पयेत् | सर्वानुग्राहकाह्येते मंत्रराजेश्वरा मताः || समर्थाः सर्वकार्येषु नांशकं तेषु कल्पयेत् | अथवान्य प्रकारेण अंशकं कल्पयेत् सुधीः || ब्रह्मविष्णीशशक्रा हि यक्षगन्धर्वराक्षसाः | दैत्यविद्याधराः क्षुद्रा ज्ञेया शुद्धस्तदंशकाः || प्रातस्नायी द्विजाशक्त शौच कृत्स्नं यतोघृणी | ९८अ) ब्रह्मविद्यात्म संयुक्ता ज्ञेयो ब्रह्मांशकः स च || मायी सत्व युतो वीरः स्त्री प्रियोमत्सरी दृढः | कार्योपायसदाभिज्ञो ज्ञेयोसौ वैष्णवांशकः || रुद्रभक्तोढ्यमीवीरः पिशाचनिलयानयं | महाव्रतप्रियः प्राज्ञ ज्ञेयारुद्रांशको नरः || गीतनृत्यातपत्राश्च दन्तिदर्शन तत्परः | तदैश्वर्य कथाशक्तो ज्ञेयः पौरन्दरांशकः || क्षीराजीवानिलोद्यान? गुडखंडोदन प्रियः | स्तव्वाक्षो नागकन्यार्थी ज्ञेयो नागांशको नरः || कटकांगदहारैश्च भूषाभूपण भावितः | सत्वयुक्ताङ्गसम्पन्ना ज्ञेया यक्षेश्वरांशकः || गीत्यनृत्य प्रियो माल्य वस्त्रसग्गंधसुंदरः | तदैश्वर्याभिलाषी यो गन्धर्वासनरोत्तमः || क्रव्यासग्गन्धदशी च स वरां रसन प्रियः | भृकुटीभङ्गभीमाख्या ज्ञेयासौ राक्षसांशकः || गम्भीराच्चिवदक्षोभ्या धरारन्ध्रनिवधधीः | ९८ब्) महाहव कथालापी ज्ञेयो दैत्यांशको नरः || रोचनं जननिं स्त्रिंशविद्यासिद्धिसमीहकः | तद्दृढ चेताः स्वोत्कर्षी ज्ञेया विद्याधरांशकः || दीनाभितामलाक्रान्तः प्रतिगन्धामिष प्रियः | स क्षुद्राती वरन्व्रार्तिः पिशाचांशः स उच्यते || शुद्धांशकाः समाख्याताः मिश्रांश कथ्यते पुनः | सुरक्त नखश्रज्ञाग्र प्रभामंडलमंडितं || गूढगुन्हाङ्गुलीपर्व कूर्मपृष्ठ पदः पुनः | सुवृत्तजं प्राजान्धग्ररंभास्तम्भसमोरुकः || नितम्बतटविस्तीर्णस्त्रिबली भङ्गभङ्गुरः | आक्षाममध्य देशान्त विस्तीर्णकमलालयः || कम्बुकण्ठ सुबिम्बोष्ठ प्रलम्बभुजपंजरः | प्रोतुङ्गसमनासाग्र विलोल चपले क्षणः || स्वदन्तरस्मिशुद्धास्यः कार्मुकद्रूपुमाङ्कितः | ललाटतदविस्तारः शिरच्छत्रसुशोभितः || महामयूरपिच्छाग्र नीलवक्त्र शिरोरुहः | ९९अ) सत्वबुद्धि बलाक्रान्तः क्षान्ति प्रीति समन्वितः || उत्साहहर्षसम्पन्नो रुद्रभक्तानि वर्तकः | मिश्रांशक युतो धन्यः सर्वाहः सर्वसिद्धिषु || प्रतिपत्पूर्णिमा तन्त्र सकलाद्या द्विधा स्थिताः | कण्ठोष्ठान्तु सकृत्मध्ये पक्षयोर्मातृभिः सह || एवं ज्ञात्वांशकं दद्यात् मंत्रं तस्य यथा हितं | एकाक्षरं समारभ्य षडंतं मन्त्र उच्यते || सप्ताक्षराद् भवेद् विद्या यावत् पञ्च दशाविधः | सप्ताक्षरा भवेद् बाला यावद्धिशाक्षरावदि || ततोर्द्धन्तु युवाविद्या वर्णाद् द्वात्रिंशदङ्गतान्तगाः | तदूर्धंस्थनिरोज्ञेया यावद्वर्ण शतत्रयं || शतत्रयांत कुमारी स्याच्छतानां तु चतुष्टयं | ततः सहश्रवर्णान्तं वृत्सविद्या प्रकीर्तिताः || सहश्रात् परतो विद्या दण्डंकेति प्रकीर्तिताः | द्विसहश्रं स्तवं विद्धि सक्षंज्जप्तेन सिद्ध्यति || पूर्वासंध्या तु वालानां जपहोमार्चने हिताः | ९९ब्) सूर्योदये कुमारीणां प्रहरे योवनस्थितां || मध्याह्नस्थविराणां तु वृद्धानां मपराह्निकं | दण्डकानान्तु संध्यायां नक्तेशेषेषु पूजनं || मन्त्राणां चैव पूर्वाह्ने जपहोमादिकं हितं | अन्यथा कुरुते यस्तु विघ्नैः सर्वभिभूयते || न सिद्ध्यति मनान्तस्य यत् साधयितु मीहते | नैवेद्यं चैव सर्वेषां पायसं स घृतंदधिं || मोदकानि विचित्राणि खण्डखाद्यान्यनेकशः | कालं ज्ञात्वा प्रयत्नेन सिद्धिदा नानृतं वचः || ककारादि हकारान्ता क्रमात् पक्षाशिताशिती | आदि पक्षस्तु ॠ? ॡ? णैर्हीनो वत्स निगद्यते || एवं दशस्वरान् विद्धि नपुंसक विवर्जितान् | अनुस्वरविसर्गेण विनामात्रा त्रिधा न्यसेत् || ह्रस्वाः शुक्लाः समादिष्टाः दीर्घाः कृष्णास्तु वै त्रिधा | प्रतिपत्प्रमुखास्तत्र तिथयः परिकल्पयेत् || बाल्यकुमारायुवती वृद्धांचांतकरी तथा | १००अ) तिथयः पञ्चविज्ञेयाः प्रतिपक्षे त्रिधा स्थिताः || जन्महानिविनाशं च क्रमादेकैक पञ्चकं | उदितोदमितः संध्या भ्रामितोस्तमितस्तथा || उदये शान्तिकादीनि कर्माणि हसिते तथा | वस्याकर्षण स्तंभञ्च संध्याकाले प्रकल्पयेत् || विद्विषोच्चाटने शस्तं भ्रामितं पार्वती सुतः | अस्तमस्तमिते शस्तं ज्ञात्वा कालं प्रसिद्ध्यति || एकैकस्य तु कालस्य ज्ञेयाः षट्कृत्तिकादयः | तत्राप्यभ्यंतरं कालं विज्ञेयञ्च त्रिधास्थितं || शान्तिकादीनि कर्माणि इडाचारेण सिद्धिदा | वस्याकर्षणमोहानि पिङ्गलेन प्रसिद्ध्यति || मारणोच्चाटनादीनि विषुवस्थेन भावयेत् | एकैकं पञ्चधा ज्ञेयं नाडीचारं प्रयत्नतः || पृथिव्यापस्तथा तेजो वायुराकाशमेव च | अधः स्पृक् प्रवहे यस्मात् पृथिवीनामनामतः || ऊर्द्धं तेजः प्रवहति ताभ्यां मध्ये द्रवो मतः | रंधपार्श्वे वहे वायुः सर्वव्याप्य वहेश्वरं || १००ब्) स्तंभनं पार्थिवे मार्गे शान्तिकं वारुणे हितं | वस्याकर्षणमोहादींस्तेजसेन न संशयः || भ्रमणं वायुमार्गेण समरं शून्यगेण तु | इत्ये तल्लेशतः ख्यातं कालस्य कलनं मया || अनेन तु विनावत्स न किंचिदपि सिद्ध्यति | तस्मात् सर्वप्रयत्नेन कालज्ञानं समभ्यसेत् || इति कालोत्तरे महातंत्रे अंशककाललक्षणपटलं || ईश्वर उवाच || अथातः संप्रवक्ष्यामि गौरीसद्भावमुत्तमं | यन्न कस्य चिदाख्यातं तव स्नेहात् षडानन || सर्वसौभाग्यमतुलं श्री मेधाकान्ति पुत्रदं | भूतिकामैः सदामेवामायुपुष्टिविवर्द्धनं || मंत्रध्यानं मण्डलञ्च मुद्रासाधानमेव च | पञ्चप्रकारं संक्षेपात् कल्पंते कथयाम्यहं || चित्रभानुं शिवं कालं महाशक्तिसमन्वितं | उहाढ्यं परतो धृत्य स देवमधिकारिणं || द्वितयतारकाक्रान्तं गौरिनति पदान्वितं | चतुर्थ्यतं प्रकर्तव्यं गौर्यातस्वर्णवाचकं || १०१अ) तत्राढ्य त्रितये नैव जातियुक्ताङ्ग षट्ककं | आसनं प्रणवेणैव षोढाविद्यान्तमुच्चरेत् || इश्वरा च्छक्ति पर्यन्तं मूर्ति स्वहृदयेन तु | गौरीमंत्रं समाख्यातं शिवमंत्रमथोच्यते || उहकश्च तथाकालं शिवबीजं समुद्धरेत् | प्राणं दीर्घश्वराक्रान्तं षडङ्गं जातिसंयुतं || आसनं प्रणवेनात्र षडुत्थं तु सकृन्न्यसेत् | मूर्तिन्यासं हृदाचात्र धूपदीपादिकन्तथा || यामलं कथितं वत्स एकवीरमतः शृणु | व्यापकं शृष्टिसंयुक्तं वह्निमाया कृषाणुगं || शिवशक्तिमयं बीजं हृदादि विधिवर्जितं | सर्वकामप्रदं वत्स बीजंबीजपरं विदुः || ध्यानमन्त्रं प्रवक्ष्यामि यथावदनुपूर्वशः | द्व्यङ्गुलां तु समारभ्य यावद् रत्नागुलावधिः || गृहे तु यत्नतः कार्या वहिप्रासादमानतः | हेमरौप्यमयीशास्ता पित्तलामधुकाष्ठजा || श्वेतचन्दनश्रीवासदेव दारुमपी शुभा | १०१ब्) अव्यक्ता यत्नतः कार्या पञ्चपिण्डि शिवान्विता || कोणेषु पञ्चवृत्तानि तदूर्ध्वे पञ्चमं भवेत् | ललिता शुभगा गौरी क्षोभणी शक्तिरेव च || आग्नेयी रक्षवायव्यैरोशानी वृत्तवद् भवेत् | वामाजेष्ठाक्रियाज्ञानी दिक्षुपूर्वादिनो न्यसेत् || स पीठावरणैर्युक्ता वामभागे शिवः स्थितः | अव्यक्तं तु शिवं कुर्याल्लक्ष्मरेखाविवर्जितं? || एतदव्यक्तरूपं तु शिवयोः परिकीर्तितं | भुक्तिमुक्तिप्रदं ज्ञेयं स्त्रीणां चैव विशेषतः || व्यक्तरूपामतो वक्ष्ये सर्वसाधारणां शिवां | द्विनेत्रां वा त्रिनेत्रा वा शुद्धां वा शंकरान्वितां || समांघ्रिविष्टापङ्कज संस्थिता द्विचतुर्भुजा | पद्मपीठ द्वयस्था वा सिंहधर्मस्थितापि वा || गौरी यथायथं स्थाप्या तत्राद्या द्विभुजा सती | श्रुगक्षसूत्रकलिकाः सलाकात् पलपिण्डिकाः || सरंवर वा सव्येन पाणिनान्यत् मंवहं | वामेन पुस्तताम्बूलददण्डाभयकमण्डलुं || १०२अ) गणेशदर्पणेष्ठासांदद्याद्वेकैकशः क्रमात् | अष्टानां सद्यहस्तानांमेकैकस्य तरेस्थिते || मूर्छनादंष्ट्रभिर्भेदैः स्याच्चतुषष्ठिवद्विदौः | यथोक्तयोरष्टकयोः प्रतिपार्श्वद्वयं द्वयं || विभ्रती तु चतुर्हस्ता भेदाष्टगिरिभेदतः | प्रत्यष्टकं हि युग्मानि स्युरष्टपञ्चसंख्यया || तेषामन्योन्यमूर्च्छायामुक्तासंख्याप्रवर्तते | मुखदश्यामदृश्यां वा व्यक्तं वाध्वप्रकल्पयेत् || लिङ्गवत् सा तु बोद्धव्या व्यक्ताव्यक्तो भयात्मिका | अव्यकं रूपसौर्यायत् अव्यक्तं कारयेच्छिवं || अव्यक्तं वा शिवं कुर्याद् वाक्ता वा परमेश्वरी | व्यक्तरूपं द्वयं वाथ कर्तव्यं लक्षणान्वितं || अष्टतालोच्छ्रिता गौरी नवताल शिवो भवेत् | ह्रस्वासन कृषाकार्या विकृता वा शिवप्रदा || अर्द्धनारीश्वरं वाथ कर्तव्यं सुप्रमाणतः | इति ध्यानं समाख्यातं मुद्रा वै कथयामिते || आसने पद्ममुद्रान्तु प्रागुक्तां परिकल्पयेत् | १०२ब्) लिङ्गमुद्रा शिवस्योक्ता मुद्रा वा वाहनी द्वयोः || गौर्या वै शक्तिमुद्रा तु योनिमुद्रा तु या स्मृताः | अन्योन्यांगुलि सश्लेषादङ्गुष्टौ मध्यमो न्यसेत् || तर्जनी चोच्छते चोभे शक्तिमुद्रा शिवप्रदा | क्षोभणी सर्वसत्वानां मन्त्रपूर्वा षडानन || मण्डलं सम्प्रवक्ष्यामि यथावदनु पूर्वशः | चतुरश्रं चतुर्हस्तं समन्ताद् वसुभाजितं || मध्ये कोष्ठचतुष्ठे तु त्रिदलं परिकल्पयेत् | त्र्यश्रोर्ध चान्द्रचन्द्रन्तु विपदं द्विगुणं क्रमात् || द्विपदं दारकंथन्तु द्विगुणमुपकंठतः | एवं द्वारचतुष्कन्तु वर्तितव्यं प्रयत्नतः || द्वाराभ्यां कोणदेशं तु द्विपदं वज्रवत्मतं | पार्श्वे द्वारर्ध पस्यात्र कण्ठसार्द्धपदं विना || त्रिकोणमध्ये कमलं साष्टपत्रं स कर्णिकं | शुद्धकुन्देन्दु वर्णाभं त्रिकोणं रक्तवर्चसं || अर्द्धचन्द्रं तदूर्धेन पीतं काञ्चन सप्रभं | द्वाराणि पीतं कृष्णानि कोणं वज्राञ्जन प्रभं || १०३अ) एवं निवर्त्यदिधत् मण्डलं भाग्यवर्द्धनं | अथवा सर्वतो भद्रं मण्डलं परिकल्पयेत् || पूजयेत् तत्र विधिवत् स्थण्डिले वा सुसोभने | आह्वानं कारयेत् तत्र स्थापनं रोधनं तथा || सन्निधानं प्रकर्तव्यं संमुखी करणं ततः | अहन्यहनि कर्तव्यं स्थंडिलन्तु प्रयत्नतः || धरा विद्या वधिं यावदासनं तु सकृन् स्मरेत् | इश्वराच्छक्ति पर्यन्तं ततोषे मूर्ति कल्पना || परमावाहयेच्छत्र शक्तितत्वं परापरं | इत्येषा वाहना कार्या प्रतिमादिषु साधकः || ध्यातया साधकेन्द्रेण स्त्रिया वा भाग्यसिद्धये | पञ्चामृतादि नाग्नाप्या विलिप्यं कुंकुमादिभिः || रक्तवस्त्राणि देयानि कुसुमानि विशेषतः | सुगन्धानि शुक्लानि गन्धयुक्तानि वा परे || धूपकृष्णा गुरुर्देयः शिह्नकं वा शशी युतं | खंडखाद्यानि देयानि पवित्राणि वहूनि च || कथितं खंडसंमिश्रं क्षीरपानं प्रदापयेत् | कन्दमूलफलादीनि पदात् मनसि रोचते || १०३ब्) तांबूलं चन्द्रसंहितं नाना भोगं समर्पयेत् | उत्तराभिमुखो भूत्वा पूजयेत् परमेश्वरीं || स पूज्य परया भक्त्या जपं कार्यं प्रयत्नतः | साष्टोत्तर सहस्रे तु शतं वा प्रत्यहं सुत || होमे तद्वत् प्रकर्तव्यमङ्गानां तु दशाशतः | स्वशक्त्या तु शिवे जापः तथा होमश्च शाङ्करि || पद्माभे हवनं शस्तं तुर्यास्रे तदभावतः | हस्तमात्रे समे कुंडि मेखला त्रितयान्विते || अर्घपात्रादके नैव शकृन् कुण्डन्तु प्रोक्षयेत् | श्रुकश्रुवोहोमद्रव्याणि सिद्धिदानि न चान्यथा || ज्ञानाग्निं कल्पयेत् तत्र हृदयाम्बुजसंस्थितं | सौसुम्नवत्मनान्यस्य संपूज्य च विधानतः || गौरी रूपे शतद्व्यात्वा पश्चात् पूर्णां प्रदापयेत् | श * *? संभवेद् देव नित्यनैमित्तिकादिषु || सर्वान् कामान् वाप्नोति ज्ञानाग्नेर्हवनातसुत || अहन्यहनि होमं तु जाती पुष्पैस्तु कल्पयेत् | चंपकैर्वा पलासैर्वा करवीरैर्घृतप्लुतः || १०४अ) कमलैर्नीलपद्मैर्वा श्रीफलैर्मदनैरध | पूगैर्जाति फलैर्होमैः कुंकुमैः केशरेण वा || कर्पूरेण प्रकर्तव्यं चन्दनेन विशेषतः | कपिलाघृतहोमस्तु तथा गुग्गुलुसंयुतः || दूर्वाहोमस्तथा शस्ता लाजाहोमाविशेषतः | कन्दपुष्पैहितो होमो जातीपुष्पैर्विशेषतः || सुमनापुष्पहोमस्तु उन्मत्त वर्जयेत् सदा | दूर्वामृताज्य होमस्तु त्रिमधुः शस्यते पुनः || तथा सिद्धार्थकै होमा ब्रह्मवृक्षस्य कुद्मलैः | तत्पार्श्वे कोमलैः पत्रै शाखासः कोमलासु च || वस्ये लवणहोमन्तु स जिह्वातैलसंस्थितैः | आकर्षणे तथा चैते होमज्ञो होममाचरेत् || नागकेशरचूर्णेन स्तम्भने होममिष्यते | आप्यायने शुक्लवर्णा रक्तावस्ये प्रशस्यते || स्तम्भने पीतवर्णा कृष्णा वै कूरकर्मणि | पूर्णा पश्चात् प्रदातव्या त्रिपुंड्रं कारयेत् ततः || होमं समर्पयेद् देव्या नमस्कृत्य पुनः पुनः | अस्त्रात् भूलावधिं? यावत् विलोमार्घ प्रकल्पयेत् || १०४ब्) प्रतिमायां प्रकर्तव्यं नैव तत्र विसर्जनं | विसर्जने स्थण्डिलेग्नौ मण्डलेग्नौ प्रकल्पयेत् || पश्चाद् भूत बलिर्देयः क्षेत्रे शस्य तथा बहि | समाचम्ये कृतन्यासः संस्मरेच्छक्तिमव्ययं || सप्तवारं प्रयत्नेन आचार्यादींश्च तर्पयेत् | कुमारी पूजयेद् यत्नात् पञ्चसप्ताष्ट वा सदा || स्त्रियः प्रयत्नतः पूज्या भर्तृयुक्ताः शिखिध्वज | देव्यादंत्तं तु यत् किंचित् कुमारीभ्यः प्रदापयेत् || शिवभक्तेषु वा दद्यात् तास्नीयात् तत् स्वयं क्वचित् | इत्ये तत् स रहस्यन्तु सुभगा यागमीरितं || जयार्था जयमाप्नोति पूत्रार्था लभते सुतान् | कन्यार्था लभते कन्यां धनार्थी चाप्नुयाद्धनं || दुर्भया सुभगत्वं च प्राप्नुयाच्चाप्यखण्डितं | अखण्डित प्रतापञ्च जपमाप्नोति भूपतिः || विलभेदवनी सर्वा नवखंडा समागरूं? | सप्तलक्ष कृते जाप्ये यदा सिद्धि प्रजायते || १०५अ) वसं न पति चेन्द्रादीन् मानवादिषु का कथा | इत्यस्या पूर्वसे वा तु कर्तव्या साधकेन तु || स्त्रीणां वा पुरुषाणां वा दीक्षां कृत्वा तु दापयेत् | अस्मिन् मंत्रवरे वत्स नांशकं परिकल्पयेत् || कल्पभिः कारयेद् दीक्षां शताहुत्या यथाक्रमं | पञ्च पञ्च कल्प होम्याः शक्तौ पूर्णानियोजनं || समयी पुत्रकाभ्याश्च साधकाचार्यकांस्तथा | सर्वेषां योजना कार्या शक्तितत्व शिखिध्वज || माया तत्वे तु समयी शक्ति तत्वे तु पुत्रकः | इश्वरे साधको भोगः आचार्यः सकले स्थितः || एवं ज्ञात्वा प्रयत्नेन लयभागौ प्रकल्पयेत् | अज्ञात्वा लयभागौ तु यो दीक्षां कुरुते गुरुः || आचार्यः सहशिष्यस्तु नरके रौरवे पचेत् | देशिकेन प्रयत्नात् तु ज्ञात्वा दीक्षां समाचरेत् || दीक्षांते समयाः स्राव्याः साधकावर योषितः | कल्पास्त्री देव विप्राणां गुरुणां च विशेषतः || १०५ब्) शास्त्राग्नि साधकादीनां निंदा यत्नेन वर्जयेत् | परिहासो न कर्तव्यो नापमानं कदाचन || द्रव्यापहरं वैरञ्च मनसा परिवर्जयेत् | चापलां च तथालोल्य गुर्वाज्ञा लंघनं तथा || न स्त्रीतो ग्राहयेद् दिक्षा व्रतंस्त्रीषु विवर्जितं | सिद्धमंत्रं प्रयत्नेन सर्वतो ग्राहयेत् सदा || न चात्रकालनियमो नांशकं तत्र कल्पयेत् | रक्तवस्त्राणि धार्याणि कज्जलं पावकं तथा || कज्जलाक्तौ सदानेत्रा पादौलक्तकरञ्जितौ | सुगन्धिपुष्पैशिरसिध्यरितव्यं प्रयत्नतः || मुखं तांबुलसंयुक्तं ग्रीवांग्रैवेयकान्वितां | हस्ताभ्यां कङ्कणौधार्या कुण्डलौ चाङ्गुलीयकौ || सुगन्धं रक्तवस्त्राणि धारितव्यानि सर्वदा | रमणं तु दिवावर्जं तथा पर्वसु सर्वदा || रजस्वलाया कर्तव्य मन्तर्यागं प्रयत्नतः | परोच्छिष्ट न भुंजीयात् भुन्नं न दोषभाक् || शययासनादि पानञ्च पादुके परिवर्जयेत् | गुरुं दृष्ट्वा प्रयत्नेन गावोदूराभुवं दयेत् || १०६अ) त्रिकालपूजनं कार्यमेककालमथापि वा | यावन् न पूजिता गौरी न तावद् भक्षणं हितं || तांबुलवस्त्रगन्धाढै पूजयित्वा तु धारयेत् | प्रभात समये भक्त्या भवानीं पूजयेत् सदा || नानात्वं नैव कर्तव्यं मूर्तौ मंत्रं कदाचन | कण्डनीं पीषणीं ब्रल्ली? मार्जनीं देहलीं तथा || कन्या स्त्री बालखड्गञ्च शस्त्रंमग्नि द्विजं गुरुं | स्थविरं कर्करीं रत्नं वस्त्रं पादेन न स्पृशेत् || वामहस्तेन पूजा तु वर्जनीया शिखिध्वज | तैलमांसादिकं वत्स वर्ज्यं पर्वणि पर्वणि || अष्टम्यां च चतुर्दश्यां पूर्णमास्यां विशेषतः | संक्रान्तौ ग्रहणे चैव षडसीति मुखेषु च || विशेषपूजा कर्तव्या आचार्यं पूजयेत् सदा | तृतीयायां गरः कार्यः चतुर्थ्यां पूजनं तथा || देव्यादत्तं तु नैवेद्यं कुमारीषु प्रदापयेत् | अदीक्षितानां पुरतः पूजनं परिवर्जयेत् || परिवार्यः कुमार्यस्तु तदभावान्तु योषितः | सुरक्ताः सुभगाः कार्या तिलकं सेचना हितं || १०६ब्) शितपुष्पाणि सिद्ध्यर्था नीलदूर्वाङ्कुरस्तथा | नित्यं शिरसि दातव्या देव्यामंत्रेणमंडिताः || आदर्शधारयेन्नित्यं न चितिं न शवं स्पृशेत् | न चलनं तथा पुष्पं मृतपुष्पाश्च वे सुत || न स्पृशेत् भर्तृहीनां तु कापिला वाथकाञ्चनं | कुण्ठिनं कहखंजाटंकेकरं कटिनाशयं || ? लिङ्गायजीभिनं रज्यं तथा भस्मांकरोद्भवं | त्रिकर्णसूदलिङ्गञ्च मुष्णीमरमसत् क्रियां ||? हैतुकं वेतितं चैव शिवनिन्दारताश्च ये | नास्तिकाभिन्न पर्याय न पूजा मनसा क्वचित् || मद्यमांसानि पादानि प्रयत्नात् परिवर्जयेत् | खण्डखाद्यानि देयानि लेहये यानि यत्नतः || अपर्युषित भक्षाणि दातव्यानि प्रयत्नतः | तैलपक्वानि वर्ज्यानि भक्षदीर्घानि यत्नतः || रक्तास्तु वर्तयो देया रक्तपुष्पाणि यत्नतः | सुगन्धानि च शुक्लानि कमलानि मरुन्तथा || रक्ताशोकसापुष्पैस्तु करवीरैस्तु पूजयेत् | १०७अ) खण्डखाद्यां तु यत् पक्वं नैव पर्युषित भवेत् || कूथितं शितलं देयं क्षीरं चैव दधि तथा | कर्पूरं युक्तमुदकं वस्त्रपूतं प्रदापयेत् || पूतं वै वा गमोत्थं तु कर्तव्यं नेतरद्वितं | भट्राज्ञा पालनं कार्यं कर्मणा मनसा गिरा || पूजाव्रतादिकं त्यक्त्वा भट्राज्ञा शिरसार्चयेत् | न भर्त्य सदुशो? वत्स स्त्रीणां वै तारको गुरुः || धर्मार्थकाममोक्षेषु भर्ता वै को गुरुर्विदुः | भर्तज्ञा पालनाद्धर्माश्चार्थो भर्त्यज्ञपालभेत् || भर्तृतश्च भवेत् कामो मोक्षोष भर्तृ सेचनात् | एवं ज्ञात्वा प्रयत्नेन भर्ताज्ञां नैव लंघयेत् || अनया पूज्यमानया सुभगत्वं प्रजायते | पालनात् समयानां तु प्राप्नुयात् मनसेप्सितं || लंघनात् समयानां तु दौर्भाग्यं प्रतिपद्यते | दारिद्रं दुःखसंतापं वियोगं वान्धवैः सह || तस्मात् सर्वप्रयत्नेन समयात् पालयेत् सदा | निभं यत्वममर्यादा सत्यं साहस्रकं तथा || १०७अ) दैनामक्लीवहास्यं च शयनं शून्य वेश्मसु | वापी कूप महावृक्ष देवता यतनेषु च || शयनं रोदनं चैव भोजनञ्च विशेषतः | न रात्रौ पूजनं शस्तं भोजनञ्च विशेषतः || अट्टहासो न कर्तव्यो दूषणं मनसा क्वचित् | प्राणिहिंसा न कर्तव्यो परच्छिद्रं न दर्शयेत् || दीर्घसूत्रैस्तथा मुखैः संगमं परिवर्जयेत् | तपस्विषु सदादानं शिवभक्तेषु नान्यथा || न पठेत् पशुशास्त्रं तु भूतवादं विवर्जयेत् | दया तु सर्वदा कार्या भूतानामभयं तथा || अभयात् परतरः पुण्यं न भूतं न भविष्यति | सत्यमभय दानं तु न दानं चान्द्रायनादिकं || तत् स्नानमभयं नामन भुजाङ्गविसेवनं | ? ज्ञानिनां परमं ज्ञानमहिंसा सर्वजन्तुषु || सर्वयज्ञादि तीर्थानि तपांसि नियमा यसा | दानानि पूजा होमादि कलानार्घन्ति षोडशीं || अभयस्य प्रदाने हि न भूसनां कृत्तिकासुत | तस्मादहिंस्या भूतानि शास्त्रे स्मिन् काल सूत्रके || इदं गौरी विधानं तु कथितं ते समासतः | १०८अ) नादीक्षितेषु दातव्यं ना भक्तेषु कथंचन || इति कालोत्तरे महातंत्रे गौरीयागपटलं || ईश्वर उवाच || मृत्युंजयं प्रवक्ष्यामि यथाविधानपूर्वशः | वेदाश्रस्यार्ध कोणं तु कृत्वा वेदे स्त्रि हानितः || वृत्तवत् कारयेत् कुम्भं स वक्त्रं वासनान्वितं | पश्चिमं वाहयेद् द्वारं तन्मुखं पश्चिमा ननुं || पूर्वामुखेन कर्तव्यं पीठंज्यंकार कृप्तितः | कर्णिकायां ततो मूर्तिं प्रणवेन प्रकल्पयेत् || ओं जुं स त्र्यक्षरेणैव परं तत्वं निवेशयेत् | वौषडन्तेन मंत्रेण कुम्भमुद्रां तु दर्शयेत् || विघ्नानां सनं पुत्र अस्य होमात् प्रजायते | मृत्युंजयति सर्वेषां ये नित्यं भक्ति संयुताः || अथवा स्थंडिले कार्यं यजनं कृत्तिकासुत | आचार्ये मूर्तियश्चैव अस्त्रजापी तृतीयकः || शुक्लावरधराः सर्व यागदेवकृतार्चना | अयुतन्तु जपेन् सम्यक् तथा होमं समारभेत् || होमयेत् क्षीर दूर्वाज्यममृताञ्च पुननवां | १०८ब्) पायसं च पुरोडाशं समिधः क्षीरवृज्यजा || चतुर्मुखं चतुर्बाहुं चन्द्रमण्डलमध्यगं | कलशं धारिणं द्वाभ्यां वरदाभयभूषितं || कर्पूरक्षोदविश्वाङ्ग पुष्पस्रग्गन्धविग्रहं | एवं ध्यात्वा प्रयत्नेन ततो मुद्रा प्रदर्शयेत् || वामहस्त तले योज्यमुष्टिं दक्षस्य शोभनं | कुम्भमुद्रासमाख्याता तत्से कोष्टशतेन तु || एवं मृत्युहरं देवं जप्तव्यं तु दिने दिने | आरोग्यं पुष्टिरैश्वर्यं वृद्धिस्तस्यायुः सुत || ओषधं यागपूर्वन्तु रसायनविधौ परं | मृत्युंजयं समाख्यातं मृत्युरोगहरपरं || इति कालोत्तरे महातंत्रे मृत्युंजयपटलं || व्रतेश्वराः स्मृताः पञ्च तेषां पञ्चाहकं परं | कथितं स विशेषेण मण्डलं भूतिवर्धनं || इशानादीनि वक्त्राणि कथितानि मयापुरा | सकलस्याङ्ग भूतानि कलाढ्यस्य तथैव च || खमलं कृतमंत्रस्य दुःखक्षपण कस्य च | कठोष्ठस्य समासेन ब्रह्माणि कथितानि तु || १०९अ) एतेषां चैव मध्या तु पञ्चपूजाश्च भक्तितः | शुद्धविद्यावधिं यावत् प्रणवे नासनं न्यसेत् || पूजा तु पूर्ववत् तेषां कर्तव्यानुक्रमेण तु | त्रिनेत्रं शुद्धकुंदाभमीशानमध्यमांबुजे || कमण्डलुधरं देवमक्षसूत्रकरार्घितं | ध्यातव्यं परमेशानं प्रणतार्ति विनाशनं || कुंकुमाभन्तु पुरुषं पूर्वस्यां पङ्कजे न्यसेत् | त्रिशूलाभयहस्तञ्च जंतुनामभयप्रदं || एकवक्त्रं त्रिनेत्रञ्च करालं कृष्णवर्चसं | कपालमालावरणं खड्गखेटकधारिणा || दक्षिणे कमले पूज्यमघोरं घोरनाशनं | दाडिमी कुसुमप्रख्यं जवासिंदुर स प्रभं || नीलोत्पलधरं देवं बीजपूरकरार्घितं | कमले वामदेवं तु सौम्यायां दिशिविन्यसेत् || हिमाभ्रधवलं देवं त्रिनेत्रं द्विभुजं विभुं | नारा च कार्मुकधरं सौम्याम्यं चारुलोचनं || सद्योजातं स्मरान्नकुंदाभं वारुणेकजे | द्विभुजाश्चैक वक्त्राश्च त्रिनेत्राः पद्ममध्यगाः || १०९ब्) ध्यातव्योः साधकेन्द्रेण स्ववर्णैर्दिक्षुसंस्थिताः | त्रिपञ्चनयना वाथ तदादश भुजा स्मरेत् || स्वेन स्वेन तु वर्णेन तेषु वक्त्राणि कल्पयेत् | एवं व्रतेश्वराः प्रोक्ताः पूजनीयास्तु पूर्ववत् || एकैकस्य तु वक्त्रस्य जपे दृष्टशतं शतं | तर्पयेत् तु तिलाजेन तद्वदष्टशतं शतं || तर्पयित्वा प्रणम्यशं व्रतमेषां समर्घयेत् | जटासमर्पणं कार्यमीशानस्य प्रयत्नतः || दण्डं चैव तु कौपीनं पुरुषाय समर्पयेत् | भस्माधारमघोराय भिक्षापात्रं सदोत्तरे || ब्रह्मदण्डं प्रयत्नेन सद्योजातायनिर्विशेत् | व्रतं समर्पयित्वाच्च स्वेन स्वेन विसर्जनं || जटावतारणं यच्च कृतं तीर्थे विनिक्षिपेत् | मुद्राष्टकं क्रमेणैव प्रतिवक्त्रे प्रदर्शयेत् || मुद्रां दत्वा क्रमेणैव क्रमात् तेषां विसर्जनं | इत्ये तत् क्रमशः प्रोक्तं व्रतेशानां विसर्जनं || कुर्वीत् * * * * * * * * * * * * * *? | ११०अ) एवं कृते वाहादि कर्तव्यं जाति सम्मतं || इति कालोत्तरे महातन्त्रे व्रतेश्वरपटलं || ईश्वर उवाच || गुरुधामं * * * * * * * * * * * *? | * * * * * * * * * * *? सिद्धिसाधने || विवाहयात्रासमये दुष्टदुस्वप्नदर्शने | स्वप्नप्राप्तैर्तथा मंत्र यागारर * * * *? || * * * * * * * * * * * * * * * *? | * * * * * * * * * * * *##? षट्त्रिंशाङ्गुलमानन्तु योगपीठं पुरोहितं | तस्यामनं तु संकल्प्य मूर्ति * * * * * * *##? * * * * * * * * * * * *##? युधागन्धादिभिः पूज्य हृन्मंत्रेण प्रयत्नतः || शिवं साष्टोत्तरं जप्त्वा तथा होमं समाचरेत् | गुरुं * * * *? ध्यात्वा प्रणिपत्य पुनः पुनः || हस्ताश्च ग्रामे निवसंदीक्षान्मानपुनर्वदेत् | करोमि त्वत् पुरो देव मंडलं परमेष्ठिने || आदि त्वत् प्रसादेन येन सिद्धं लभाम्यहं | ११०ब्) विधानमेतत् कथितं गु *?ः शिवपरे मते || अथसन्निहितं वाथ पूर्ववत् पूजयेत् गुरुं | आज्ञां गृहीत्वा यत्नेन ततः कर्मसमारभेत् || इति कालोत्तरे महातंत्रे गुरुयागपटलं || ईश्वर उवाच || अनध्यायान् प्रवक्ष्यामि संक्षेपान् क्रौञ्च सूदन | पूर्णारिक्ताष्टमी ज्ञता षष्ठी च प्रतिपद्द्वयं || व्यतीपातेषु संक्रांतौ तथा तिस्रोष्टकासु च | संध्यास्तनितनिर्घाते दिशादाहे विशेषतः || मृते मुनिजने सिद्धे मृते महति राजति | तारकोल्कानि पाने च धूमकेतु निदर्शने || नीहारेति वलवायोस्तथाकालप्रवर्षणे | हकलं साखमांडुकमार्जारश्चान्तरे कृते || अनध्या योगते सर्प त्रिरात्रं दानपूजनं | चन्द्रार्क ग्रहणे तद्वत् तथा शक्रोन् सवेष्ट च || पवित्रारोहणे सप्तकर्तव्यं दानपूजनं | अथान्या लक्षणकान् वक्ष्ये संक्षेपणावधारय || तपस्वीजनसंमर्द योगजाश्च प्रमर्द *? | १११अ) * * * * * * * * * * * *? प्रचोदने || दुष्टनृपे तथा क्रूरे कान्तकाणां च दर्शने | स दूरा स्वागते इष्टे गोषुनृपानमवेषु च || क्षणिकारंग गीते च वांति शान्ति तथोत्तरे | अनध्याखिला ज्ञेया बोद्धव्यमर्चनं द्विधा || इति कालोत्तरे महातंत्रे अनध्यायनपटलं || १११अ) ईश्वर उवाच || अतः परं प्रवक्ष्यामि पवित्रारोहणमुत्तमं | दीक्षाङ्गं सम्मृतं नित्यं नित्यं तु तृतयात्मकं || द्रव्यमन्त्रक्रियोपेतं विकलं विफलं नृणां | अतो नित्यांगमेवाहुः पवित्रारोहणं यत् || उक्तं वै कल्पते घोरात्युनात्येव पवित्रकं | तस्मात् काले प्रकर्तव्यं प्रागुक्तं परमेष्ठिना || तेन सास्वत्सरीपूजां संपूर्णा जायते स्फुटं | यस्तु संपूज्ययेत् भक्त्या दिनैकं परमेश्वरं || तस्य पुण्यफलं वक्तु न शक्नोमि शिखिध्वज | ब्रह्मोपेन्द्रादिभि देवैः मनसा पूजितं पुरा || आराध्य परमं स्थानं तस्मात् को वा न पूजयेत् | ण्Oट्E ईट् आPPEआऋष् ट्ःआट् ट्ःEऋE ईष् आ डृOP Oऊट् ःEऋE. ट्ःE ḻईण्E आट् ट्ःE Eण्ड् OF ट्ःE PऋEVईOऊष् FOḻईO ईष् चोंPḻEट्E, ःEऋE ःOWEVEऋ ईट् BEङीण्ष् आBऋऊPट्ḻY ईण् ट्ःE ंईड्ड्ḻE OF आ ḻईण्E १११ब्) * * * * * * * * * * यत्नेन कल्पयेत् | तत्वभेदेन लिङ्गानां ग्रन्थयो नान्यथा हिताः || यस्मिन् तत्वे तु यस्यैव प्राप्ति वक्ष्यामि चाग्रतः | तत्ववर्णकलामन्त्रै पदैर्वा भुवनैस्तथा || तत्संख्यया पवित्राणां ग्रन्थयः परिकल्पयेत् | एकाङ्गुलात् करातन्तु व्याप्तिर्व्याप्तिक्रमेण तु || धरादिप्रकृतिप्रात तत्वन्यासं समादिशेत् | एवं वै हस्तलिङ्गानां पुरुषान्तं शिवान्तिकं || तत्वन्यासं समाख्यातं स्थापने तत् प्रकल्पनं | लिङ्गमानेन संकल्प्यं पवित्रं स्थंडिले तथा || चित्रे वै गन्धलिङ्गे तु तद्वर्तात् कालिके हितं | कलसे वा जले वह्नौ हस्तमात्रं प्रकल्पयेत् || तृतयं मूर्द्ध्नि लिङ्गानां शिवविद्यात्मसंज्ञकं | लिङ्गमूर्द्ध्ना परीणाहं यथा चैवात्मकं तथा || विद्यात्मकस्य परिणाहं तथा भाग द्वयं विना | तस्मात् भागद्वयं न्यूनं शिवाख्यं यत् पवित्रकं || मस्तकात् पिण्डिकान्तन्तु चतुर्थसार्वदैवतं | याष्टोत्तरशतेनैव तदर्द्धेन तदर्धतः || ११२अ) मूर्द्ध्नि त्रयं प्रदातव्यं सर्वेषां सार्वसिद्धिदं | तृतयं वाथ कर्तव्यं नित्यं साष्टशतेन तु || अर्द्धात् पादेन वा कार्यं त्रितयं वित्तकर्जितैः | एवं च व्यक्तलिङ्गेषु यथा व्यक्तं तथा हितं || दशद्वादशवृद्धिः स्यात् तंतूनां दशहस्ततः | भूतवेदकरैस्तंतु व्यक्ताच्चायास्तदंतिकं || यथाऽव्यक्ते पवित्रं तु व्यक्ताव्यक्ते तथा हितं | मस्तकाज्जानुपर्यन्तं चतुर्थन्तु पवित्रकं || चतुर्थं पीठपर्यन्तं शिवात् कालाग्निगोचरं | व्यक्ते त्रयं द्वयं वाथ पञ्चकं वा प्रकल्पयेत् || अस्याङ्गात् केवलं यावत् महान्तं तदनन्तरं | सूत्रकण्ठ द्वयं द्वेयमेक वा नवतन्तुयुक् || स्वविग्रहे तथैकञ्च गुरोर्भ्रातृगणस्य च | चण्डिशक्षेत्रपालाभ्यां लोकेशवसुरन्ध्रभिः(?) || घंटाक्षसूत्रयोस्तद्वत् पवित्रं चतुरङ्गुलं | पात्रादीनां त्रिमूत्या तु वेष्टनं कारयेत् सदा || गृहलिङ्गानलं स्थान्यं त्यागं स्यात् मृन्मयात्मनां | श्रुक्श्रुवाभ्यां यत्रयोगः पाट्टके योगपट्टकौ || वितानच्छपात्रानां परित्यागो विधीयते | ११२ब्) सूत्रकेन तु संवेष्ट्रं स्वगृहं वा शिवालयं || एवं कृतेर्व्यपात्रेण नित्यकर्मसमारभेत् | तत्रादौ पूजयेत् सूर्यं नित्यवद् विधिपूर्वकं || तस्मिन् गन्धपवित्रं तु दत्वा वै वक्षमापयेत् | द्वारेशान् पूज्यगर्भे तु विघ्नानुन्मादयेत् क्रमात् || नाराचवत् क्षिपेत् पुष्प गृहमध्ये शिवाशिना | द्वारेण पश्चिमे नैव प्रविशेन्नेतरेण तु || तालापार्ष्णि क्रमेणैव शत्रमन्त्रमनुस्मरन् | दिक्षु न्यसेत् चास्त्रन्तु कवचेनावगुण्ठनं || भूतसुद्धिं धारणाभिः सकलीकरणं तथा | अन्तर्यागं वहिः पूर्वं मन्त्रैश्चैवार्घकल्पना || अष्टाङ्गमर्घपात्रं तु कार्यमाचमनादिकं | भूमेः परिग्रहः कार्यः शास्त्रदृष्टेन वन्धनं || दहनाप्यायने कार्य अमृतकरणाच्छुचिः | द्रव्याणां प्रोक्षणं कार्यमर्घपात्रोदकेन च || ताडनं चास्त्रमन्त्रेण कृत्वा प्रोक्षणं हितं | आप्यायनं प्रकर्तव्यं धेनुमुद्रां प्रदर्शयेत् || ११३अ) वायव्ये पूजयेत् सर्वान् गणेशांश्च यथा क्रमात् | ऐशान्यां च गुरु पूज्य शकृत् पुष्पादिभिः क्रमात् || ततः पाशुपतास्तन्तु कोणे नैशाचरेर्चयेत् | विकिरं कारयेत् पश्चात् लाजासिद्धार्थकादिषु || आराक्षसात्कपर्यन्तं दशदिक्षु यथा क्रमात् | ऐशान्यां कलशं पूज्य अस्तं तस्याग्रतः स्थितं || पुष्पगन्धाक्षतै ह्यद्यै नैवेद्यै खण्डकल्पितैः | समभ्यर्च्य नमस्कृत्य मुद्रा वध्वा तु पूर्ववत् || पूर्वादिक्रमयोगेन लोकेशान् कुम्भगा न्यसेत् | यथा गन्धप्रदीपाद्यैर्भक्त्या संपूज्य यत्नतः || नैर्-ऋत्यां विन्यसेद् वित्क्रमशान्यां कमलोद्भवं | अव्युच्छिन्नां ततो धारा कलसेष्वन्तस? ददेत् || प्रावृत्य शिवकुम्भञ्च शस्त्रकुम्भस्य पृष्ठतः | शिवाज्ञया तु लोकेशान् गुरुणा प्रतिबोधयेत् || यज्ञसंरक्षणार्थाय विघ्नानां ध्वंसनाय च | यूयं स्ववाहनास्त्रेस्तु? सन्नद्धा स्युः शिवाय च || ततो विकिरपृष्ठे तु कर्करी तु निधापयेत् | भूतिसिद्धार्थ दर्भस्तु प्राकार परिकल्पयेत् || ११३ब्) * * * * * * * * *? पूज्यविधिविस्तरैः | मुद्राप्रदर्शनं कार्य लिङ्गं संस्त्रापयेत् ततः || पूर्वोक्तविधिना सर्व कर्तव्यं च यथोदितं | * * * * * * * * * * * * * * * * ||? Fओलिओ ११३ब् - ११४ब् उन्च्लेअर् ११५अ) * * * * * * *? न्तु स्थाप्यमन्यत्र रक्षितं | तत्र व्याह्यतिं होमन्तु कार्यं व्यस्तसमस्तकैः | निरोधन्तु तत्रैव कार्यनिष्ठुरमुद्रया || कुण्डस्थमनलं शेषं नमस्कृत्य विसर्जयेत् | अहन्यहनि कर्तव्यं कुण्डस्याल्लेखनन् ततः || शिवाग्नेर्जनन वर्ज्यं विधृतं तत्र निक्षिपेत् | यत् किञ्चित् पूजितं तत्र शिववेश्मनि चोदरात् || विसर्जनेन कर्तव्यं लङ्घनं वाथ कारयेत् | वाह्ये मण्डयैकं कार्यं कपिलागोमयेन तु || प्रासयेत् पञ्चगव्यन्तु समाचम्पाय? संस्पृशेत् | स्यामाकं क्षीरसंसिद्धं घृतखण्डपरिप्लुतं || आघारद्वयसम्पन्नं चरुं प्रास्य ततः शुचिः | समाचम्य ततः पश्चात् दण्डकाष्ठन्तु कारयेत् || समाचम्यापसंस्पृश्य न्यासं कृत्वा तु पूर्ववत् | कुशशययां समारुह्य पूर्वदक्षिणमूर्ध्वगं || रात्रौ जागरणं कार्यं नानातोट्यादिनर्तनैः | ततः प्रभाते चोत्थाय स्नानं कृत्वा तु पूर्ववत् || नित्यं निवर्तयेत् पूर्वशास्त्रदृष्टेन कर्मणा | विशेषपूजा कर्तव्या कर्तव्यं वह्नि तर्पणं || ११५ब्) शिवविद्यात्मसूत्राणि तुर्यं तु कलसे न्यसेत् | कर्कर्या अस्त्रमन्त्रेण विभोः पश्चात् समर्पयेत् || गन्धपुष्पादिसंयुक्तं पवित्रं शिवमत्रितं | शतमष्टोत्तरं जप्त्वा शिवमूर्द्ध्नि प्रदापयेत् || दातव्यं सृष्टिमार्गेण सुधाकल्लोलसंन्निभं | विद्यात्मकं तदर्द्धेन पादात्माख्यपवित्रकं || मुमुक्षुभिर्विलोमेन आत्मविद्याशिवात्मकं | चातुर्मास्य चरेत् तत्र व्रतं चैव शिवात्मकं || स्वशक्त्यावाथ कर्तव्यं भौतिकैर्व्रतमुत्तमं | मासद्वयं तु पक्षं वा अथवा दिनसप्तकं || पवित्रकं समुत्तार्यं शुचिदेशे निधापयेत् | ततः पूजावसाने तु लिङ्गं मूर्द्ध्नि निधापयेत् || पवित्रकं समारोप्य अहन्यहनि यत्नतः | पूजाहोमादिकं सर्वं व्रतान्ते द्विगुणं भवेत् || न्यूनाधिकविशुद्ध्यर्थमसिना होममाचरेत् | व्रतं समर्प्ययेच्छम्भारस्तु मे यद्धृदि स्थितं || मुमुक्षूणामकामेन शिवाय विनिवेदयेत् | ११६अ) ततस्तु पूजयेत् सम्यक् आचार्य साधकादयः || शिवभक्तानि चान्यानि स्वकुट्टम्बगणं च यत् | हेम भूवस्तु यानानैर्यथाशक्त्या प्रपूजयेत् || शिल्पिनोदासभृतकादास्यो वै कर्मजीविनः | नरेश्वराः प्रयत्नेन पूजितव्या मणीषिणा || सदाशिवः प्रसन्नास्तु क्रियापूर्णा भवन्विति | पवित्रारोहणान्ते तु चण्डयागं समाचरेत् || पूर्वोक्तविधिना पूज्यं पुरे वेदकरान्विते | ऐशानीदिशमाश्रित्य कर्तव्यादि समन्वितं || संपूज्य शिववद् भक्त्या पश्चादवभृथं चरेत् | सर्वयज्ञेषु तत् पुण्यं सर्वतीर्थेषु यत् फलं || सर्वदानेषु यत् पुण्यं तपः सर्वेषु यत् फलं | तत् फलं कोटिगुणितंमभिषेकादवाप्यते || सर्वविघ्नानि नश्यन्ति ग्रहा वै व्याधयस्तथा | विनायकोपघाताश्च कृत्य खाखोदकादयः || भस्मसाद् यान्ति ते सर्व स्नानस्यास्य प्रभावतः | स्नानां ते च गुरुं देवान् यथाशक्त्या तु दक्षयेत् || आतोद्यवन्दिघोषेण नमस्कृत्य गुरूत्तमान् | ११६ब्) अभीष्टफलमाप्नोति पवित्रारोहणेन ततः || इति कालोत्तरे महातन्त्रे पवित्रारोहणपटलं || ईश्वर उवाच || मार्गस्थाः साधकाद्याश्च लुप्ताचारा व्रजंत्यधः | पालनीयस्ततस्तस्मादाचारं शिवभाषितं || दैवाद्रोमात् तथा मोहाद्यदिदोषमुपागतं | स्नानं जयोपवासं च होमं वै गड्डुकानि च || पञ्चगव्यासनं दानं मलदुःकृतनाशनं | दमेनापि महासेन ज्ञात्वा कर्मवलावलं || अत्यन्तसरुजे देहे चोरराजभये तथा | अग्निवारि भये चैव सूतके च तथा पुनः || गुरुदेवाग्निकार्ये च नित्यहानिर्न दोषभाक् | समयी पुत्रकाभ्या तु नित्यमुक्तं शिवेन तु || स्वकीयं परकीयं वा कार्यं श्रोतसिसंस्थितं | नित्यादि त्रिकयं कायं गुरुणा साधको द्वयं || गुरुस्तु भक्तितः पूज्यो न च कर्मणि योजयेत् | प्रायश्चित्ते तथा नित्ये स्वगुरुर्यदि योजितः || प्रायश्चित्तं तदा कार्यं लक्षैकं दक्षिणस्य तत् | ११७अ) तस्मात् सर्वप्रयत्नेन स्वगुरुं न नियोजयेत् | स्वगुरो यो भवेद् भ्राता गुरुपुत्रं विशेषत् || आज्ञादानेन तेषां तु लक्षपादेन शुद्ध्यति | दीक्षांतैरैव कर्तव्या पवित्रारोहणं तथा || गुरुपुत्रं यदायोग्यं त्यक्त्वान्यं परिकल्पयेत् | निष्फला तस्य वै दीक्षा महाकल्पं व्रजंत्यधः || गुरोरुच्चासने नैव मनसा चारुहेत् क्वचित् | खट्वायां पादुके वाध्व शयनं नैव कारयेत् || अशीलवचनोङ्गारे तथा मायादि वञ्चने | अपुत्राद् घोरजापेन तथा नक्तेन शुद्ध्यति || गुरोराज्ञामतिक्रम्य द्व्ययुतान् नान्यथा शुचिः | प्रणामपुष्पपातेन प्रयत्नात् पूजयेद् गुरुं || गो सहस्रफलं प्राप्यं गुरोः पादादि वंदनात् | कुलीनः स्वक्रियायुक्ति शास्त्राभ्यासे रतो गुरुः || अहंकारविनिर्मुक्तः परदारविवर्जितः | शुद्धमार्गैकसंशक्त दप्यदाक्षिण्यसंयुतः || परापवादनिमुक्तसत्वयुक्तो दृढव्रतः | तीर्णविद्याव्रतः स्नातः सिद्धिसाधन तत्परः || ११७ब्) निभीतश्च प्रसन्नात्मा शिवभक्तेषु वत्सलः | एवं विधो गुरुः कार्या विपरीतस्त्व शोभनः || गुरुःपितासमाख्याता आराध्यादेशिकादयः | आराध्यश्च तथाचार्या ज्येष्ठा भ्राताथसाधकः || बंधुश्च पुत्रकः प्रोक्ता भ्रातृत्वे समयी हितः | उत्तरोत्तरभावेन कल्पयेच्चोत्तरोत्तरं || ग्रहस्था ब्रह्मचारी च प्रायश्चित्ती द्विधास्थितः | भौतिकस्य प्रवक्ष्यामि नैष्ठिकस्य विशेषतः || सकाम्यकामभेदेन प्रत्येकं द्विविधं भवेत् | निस्कामस्य तु या शुद्धिः सकामे द्विगुणा मता || स कामस्य तु या शुद्धि भौतिकस्य प्रकीर्तिता | निस्कामनैष्ठिकस्यापि शुद्धिरुक्ता कपर्दिना || द्विगुणा तु स कामस्य नित्यादीनामति क्रमात् | एककालं त्रिकालं वा पूजनीया महेश्वरः || प्रातमध्याह्न समये अष्टमे प्रहरार्दके | अस्तं यातेरवो पूजा न कर्तव्यो कदाचन || ११८अ) विना * *? ग्रहवत्स तथा वै साधकेषु च | एकाह पूजा लोपे तु? सहश्रं दक्षिणं जपेत् || प्रमादे सति संपाते प्रायश्चित्तमकामतः | द्विगुणं कामतः कार्य द्विगुणं पूज * * *? || * * * * *? कानां तु प्रायश्चित्त प्रकल्पयेत् | देवाद्रोगात् तथा मोहाजौरराजभये तथा || एभिर्दोषैरकामत्वा शेषज्ञेयं तु कामतः |? एकाहं * * * * * * * * *? दिनावधिः || वर्धयेत् त्रिशतं तस्मात् पूजाहोमादिकं तथा | एकादशदितादूर्द्धं यावत् मक्षं समाप्यते || तावद् विलोपये मन्त्रज्ञः दक्षिण त्र्ययन्तं? *? | * * *? पक्षा ऋतुषवर्चयेद युतायुतं || उर्द्धस्य सादृता वृत्यै अब्दान्ना युतायुतं | कुर्याद्वा दशमासान्तंमघोरं परिवर्तनं || होमलोपेत्वेवमेव? प्रायश्चित्तं समादिशेत् | अष्टम्यादिषु या पूजा द्विगुणापरिकीर्तिता || चतुर्गुणं तु तल्लोपे प्रायश्चित्तं तु नित्यशः | पवित्रारोहणं चैव माषाढादि त्रये कृतं || ११८ब्) लक्षद्वयमघोरस्य तथा चान्द्रायणाच्छुचिः | पूजासंध्या जपं होममजीर्णवर्जयेत् सदा || प्रमादात् कुरुते यस्तु सहश्रं दक्षिणं जपेत् | दूनायातोनिः? महायोद्धा युतं दक्षिणं जपेत् || * *? हाय चतुर्थासंसंयुतं प्रविसेत् गृहं |? संध्याविलाषे तु सकृत् सद्योजात शताच्छुचिः || अकामतः समाख्यातं कामतो द्विगुणं वरेत् | भौतिके समाख्यातं नैष्ठिके द्विगुणं ततः || चतुर्गुणं कामस्य नैष्ठिकस्य प्रकल्पितं | द्वित्र्य ह्यादितिलो यत्र सहश्रं दक्षिणं जपेत् ||? *? हृदे * * * * * * * * *##? स्वयं कर्तु मे शक्तो यः प्रायश्चित्त स दुष्करं || भ्रातृबांधवमित्रैश्च कर्तव्यं द्विगुणं पुनः | गुरुणा गुरु पुत्रेण प्रायश्चित्तं तु शेष्यजं || न कर्तव्यं महासेन शेषतञ्चैव कारयेत् | फलमूलं तथा पुष्पमन्नवायच्चरे चयेत् || तत्तदादौ गुरु देयं पश्चादात्म नियोजयेत् | ११९अ) सामान्यसिधारक्षार्थं प्रायश्चित्तादिके पुनः | सर्वार्थेषु न योक्तव्यः स्वमन्त्रः पार्वतीसुत || गारुडं भूतकर्मा च लोभान् मोहान् न कारयेत् | प्रमादात् कुरुते यस्तु दक्षवक्त्रा युताछुचिः || ये कुर्वन्ति गुरोर्निन्दां समयी पुत्रकादिषु | तस्मात् स्थानात् व्रजेद्दूरं सद्योजातशतं स्मरेत् || कर्मना मनसा वाचा न कुर्यात् परदारिकः | शुद्धिर्लक्षार्द्धजापेन मोहाद्यदि समाचरेत् || कन्या या द्विगुणं कार्यं तथा वर्णान्तरेषु च | अज्ञात्वा भक्षितं येन पश्चात् ज्ञातं षडानन || स्पृष्टमन्नादिकं चैव मदिरासवकादिभिः | रेतो मूत्रपुरिषोत्थं काकश्वानावलीदितं || विच्चराह तथा गृधः गोमायुकपि कुकुटैः | संस्पृष्टसंत्यजेन्यपि शूद्राद्युच्छिष्टदूषितं || अभोज्यान्न तु वा भुक्त्वा सेचितान्यस्त्रिया तु वा | स्नात्वा कृत्वात्वहोरात्र पञ्चगव्यं समाचरेत् || सहश्रं प्रतिसंध्या या द्वात्रिंशार्णसमभ्यसेत् | ११९ब्) त्रिदिनं नक्त भोजी स्यात् त्रिस्नायी ध्यान तत्परः | यद्वा देयं चतुर्थेह्नि सहश्रं होमयेत् ततः || पूर्ववत् भोजनं दत्वा नक्तासी शुद्ध्यते तदा | शिवार्पितैक चिन्तस्तु नृपस्यैवं विधीयते || त्रिधा स्नानं वैश्यस्य सकृच्छूद्रस्य कीर्तितं | कामतो द्विगुणं कार्यं सर्वेषां परिकीर्तितं || स्नात्वा तु पञ्चगव्यं तु प्रत्येकं शतकल्पितं | पातव्यं वै त्रिरात्रं तु द्वात्रिंसार्णं समभ्यसेत् || तस्य निर्णासमायाति महापातकसंचयं | स्तेयं परस्त्री संभोगं सुरापानादिकञ्च यत् || कामतो ब्राह्मणान् हत्वा गवा मध्य स्थितं जपेत् | सुयन्त्रितमघोरन्तु अनिसंवत्सर द्वयं अयं || चितान्नलङ्घसीत्रिस्नायी न्यास कृत् सदा | संवत्सर द्वितयस्यान्ते शिवक्षेत्रं तदा व्रजेत् || तत्र कुर्याद् व्रतं शक्त्या कृच्छ्रचान्द्रायणं क्वचित् | व्रतान्ते पूर्ववद् दीक्षा ग्राह्य पञ्चाब्ज पूर्ववत् || सर्वस्वं च गुरोर्दद्याद् देशिका चार्ययोस्तथा | सुरापीत्वा तु वमनं कर्तव्यं स विशेषकं || १२०अ) त्र्यहमुष्णं पिबेत् तोयं सघृतं घोरजापिनं | शिवायतनमासाद्य तृतयं त्र्ययुतं जपेत् || स्तेयं वा कामतः कृत्वा हेमरुक्मादिकं तु वै | पञ्चायुत प्रमाणेन विजनस्थः समाहितः || त्र्ययुतं वहुरूपस्य जपेत् ते नान्यथा शुचिः | पयोमूलफलाहार शुद्धिर्ये त्वर्च्चने हुतौ || कामतः संत्यजेद्भूयो द्रव्यमेतत् समाचरेत् | द्विगुणं तदभावाच्च जापं पूर्वोदितं चरेत् || गुरुस्त्री गमने चैव प्रायश्चित्तं न विद्यते | तथा शिव व्रतचरे देशिके साधके तथा || तेषां तुक्त पातैन लक्षजापेन शुद्ध्यति | दंडघातादिके नैव यदा रक्तं न दृश्यते || तदर्द्धा छुध्यते मन्त्री पार्थयेत् तापयेत् ततः | स्पृष्टं रजस्वलाष्यन्नं भुंक्ते यद्यप्य कामतः || शुद्ध्यत्य युत जापेन निराहारेण नान्यथा | कामतो द्विगुणं चैव स्नात्वा होमाद् विशुद्ध्यति || यत् किञ्चित् स्वयमग्नीयान्ना? दत्वा परमेष्ठिनः | गुरवे वा प्रमादेन तथा व्यष्ट शतं जपेत् || मृतके सूतके वाथ भक्षितं मृतसूतके | १२०ब्) कामतोघोरमस्त्रस्य सहश्रं परिवर्तयेत् || गणान्नं गणिकान्नञ्च पतितानां परं तथा | सीमन्तो नयने चैव नामधेये तथा पुन || अन्नप्रासन काले तु भुंक्ते पञ्च शतं जपेत् | यः पञ्चत्वं प्रपातस्य भुक्त्वा सम्बरादिपि || सद्यः श्राद्वात् समारभ्य दक्षिणस्या युतं जपेत् | कामादकामतो वापि सकृच्छुद्रे चतुर्गुणं || वृक्षारामवापी कूपपुष्करिणी शिवालये | विवाहे तु वृषोत्सर्गे गोदानेष्ट शतं जपेत् || निवेधान्मांसमध्यादौ प्रसादाद् भक्षतं यदा | अघोरस्यायुतं जप्त्वा तदाशुद्धिमवाप्नुयात् || मैथुन्यहारपानानां नियमस्याप्यरक्षणात् | अभ्यङ्गपातवस्त्रयै सज्ञांशार्द्धेन शुद्ध्यति || भक्षान्न भोगलोपाच्च शुद्धि स्यात् पञ्चभिः शतैः | अधः शयनसंकल्पलोप्यदस्त्रं जपेच्छतं || ग्रहभूतपिशाचादि विच्छेदे तु कृते सति | शत त्रयमघोरस्य जपेत् तु नानापा? शुचिः || १२१अ) उपरोधात् तथाग्नेहात कृत्वा शान्तिक पौष्टिकौ | शतत्रयाद् भवेच्छ्रुचिः सूतके पूजनं विना || शिवधर्मस्थितानां तु प्रायश्चित्तमुदीरितं | लोकधर्मस्थितानां च मृतके पूजिते थवा || अन्तर्यागन्तु तैरेव कर्तव्यं तद्विदा तथा | उच्चाटनादयः कृत्वा अघोरस्या युता शुचिः || न मारणं तु मंत्रेण कुर्यात् मंत्री न कस्यचित् | देवप्रतिष्टा दीक्षां च कृत्वा क्षेत्रादिषु त्रिषु || अघोरस्या युताच्छुद्धिः निराहारै कृतः शुचिः | पट्टकाप्यां? समौर्द्धं रक्षौममुंजन्तु वेष्टनं || चर्म प्रतिग्रहं चैव गृहीतं यत्र वा क्वचित् | जप्तव्यं स विशेषेण त्रिशतं दक्षिणस्य तु || क्षीरं दधिघृतं चैव मधुमासादिकञ्च यत् | लवणं तैलतीक्ष्णादि गन्धानि विविधानि च || त्रिशतं दक्षिणं स्यैव जपतः शुध्यते तदा | रजतमणयो हेमविद्रुमं मोक्तिकं तथा || गवाश्च वृषभो हस्ती स्त्रियं वाश्चतरं वरः | रम्या शिवालयः सर्व वहुरूपा युताच्छ्रुचिः || मठप्रतिग्रहे कुर्याज्जापं घोरार्द्धलक्षतः | पापानामप्यनेकानां संकरे सति षण्मुख || द्वात्रिंशाक्षरकं जाप्यं तदा शुद्धिमवाप्नुयात् | अन्नसंकर दोषाच्च भाण्डसंकरकस्तथा || शतत्रयंमघोरेण अयुताद् योनिसंकरात् | काष्ठात्पल तृणादीनाहरणाच्छ ततः शुचिः || स्वेदक प्राणिघाते तु निरर्थक हतेपि वा | सद्योजात शतं जाप्यमकामान्तु तदर्द्धतः || आखुतश्च शतनैव मार्जारे तु सहश्रतः | स्वसृगालवधे चैव द्विगुणं कपिकुकुटे || सर्पाद्मण्डजघाते तु हंसादिषु कृमिष्वपि | सिंहादि मृगहाना तु अजादि पशु घातने || तथा चतुःशतास्त्रं तु वहुरूपस्य वै जपेत् | स्वसृगालादि सर्प्यर्वा यदि दष्टः प्रमादतः || स्नात्वा सिताबुनाप्यस्त्रमघोरं चापतं जपेत् | स्वपच म्लेच्छ चाण्डाल बौद्ध? कापालिकैः सह || वाक्कसःस्यसद्यै हृदाय श्मशानद्रुम स्पर्सनात् |? कृत्वा स्नान स चैलं तु दक्षिणस्य शतं जपेत् || वामात् स स्पन्दने चैव तथा दुस्वप्न दर्शने | १२१अ) अनिष्ट चिन्तने चैव भासनाद नृतस्य च | कर्मणा मनसा वाचा सहस्रं हृदयं जपेत् || अकामतः प्रसुप्तस्य शुक्रादि स्पन्दने सति | स्नात्वा पुरा स चैलन्तु अस्त्र मन्त्र शतं जपेत् || कामतो गर्भ पाते च तृतीयस्या युतं जपेत् | धेनुं प्रसादत्वा लक्षार्द्धेन तु शुद्ध्यति || धेनूनां तु शतं देय लक्षार्द्धं जपतः शुचिः | भुंक्ते पंक्तौ तु सुद्रस्य सहश्रात् कामतः शुचिः || कर्मणा मनसा वाचा साधकादिषु खेदने | समाचरेत् तथा किञ्चिन्निवेदं येन जायते || कृत्वा पुरा त्रिरात्रं तु द्वात्रिंशार्णा युताच्छुचिः | देवालये तु यः कुर्यात् पुरीषं मुत्रमेव वा || देवता यतने रामे शिवक्षेत्रे विशेषतः | सहश्रमेकं जप्तव्यं कामाच्च द्विगुणाच्छुचिः || स्त्रीसूद्रवालकं हत्वा कामतो वाथ कामतः | द्वे युते चायुतान्यष्टौ जप्त्वा घोरेण शुद्ध्यति || नाधिकारी ह्यनुष्ठाने दशाहं तु भवेद्विजः | द्वादशाहं नृपस्यैवैश्यपञ्चदशस्तथा || १२१ब्) निवर्तते जपध्याने शुद्रो मासं प्रयत्नतः | निर्वाण दीक्षानां तु सूतकं नैव विद्यते || विद्यते सूतकं तेषा लोकदीक्षानुसारतः | शिखाच्छेदो नयत्रास्ति सा दीक्षा लोकिकी मता || अन्तर्यागं प्रकर्तव्यं लोकिकैरपि दीक्षितैः | जपप्रदक्षिणादीनि कर्तव्यानि प्रयत्नतः || स्वजाते दीक्षितस्याथ उच्छिष्टाच्छिष्टसंकरात् | स्नात्वा जपेत्मूल मन्त्रं शतमष्टोत्तराङ्कितं || कारुकादि गृहे भुक्त्वा तडागारामस्थापने | तथान्य लिङ्गिनां भुक्त्वा सहश्रं दक्षिणं जपेत् || ब्रह्मचारी गृहस्थश्च भोज्यान्नौनापरौ क्वचित् | वानप्रस्थ यतीनां तु पूर्ववद्दक्षिणं जपेत् || द्विजातेश्चोपवासे तु विहतस्तादृशो जपन् | योगोहाच्चैव पापिष्टो गुरूणां स पथं कृतं || ददाति चान्यो दुष्टात्मा ताबुभौ नरकं व्रजेत् | संकरेषु च सर्वेषु चेतसैः शुद्धिकारणात् || अघोरमन्त्रो जप्तव्यो यावच्चित्तं प्रसीदति | जपान्ने तीर्थसेवायाः शिवाराधन योगतः || १२२अ) गड्डुकानां प्रदानेन तिलाज्य हवनेन तु | आचार्य सन्निधानेन संहिता श्रावणेन च || देव गो द्विज सेवायां किल्विषं शतसो नयेत् | मेघमुक्ता यथा भानुस्तद्वल्लोके विराजते || तस्मादघनिवृत्यर्थं प्रायश्चित्त समाचरेत् | सर्वदा कीर्तिशांत्यर्थं लोकेधरो व्यवस्थितः || इति कालोत्तरे महातंत्रे प्रायश्चित्तपटलं || ईश्वर उवाच || लिङ्गाश्रयमतो वक्ष्ये प्रायश्चित्तं शिखिध्वजं | लिङ्गं तु त्रिविधं प्रोक्तं व्यक्तो भया कृतिः || लिङ्गं भेदो न कर्तव्यः प्रायश्चित्त विधिं प्रति | तुल्यं त्रयाणां तत्वं तु देशिकेन प्रतिष्ठितं || प्रायश्चित्त निमित्तं तु लिङ्गभेदो न विद्यते | यागेश्वरं चलं विद्धि स्थिरं चैव द्वितीयकं || प्राक्सिद्धं च तथा स्थाप्यं द्विविधं लिङ्गमादिशेत् | साद्यानुरोपितं पूर्वमपरं तद्विना स्थितं || अद्वैतं च तथा द्वैतलिङ्गन्तु द्विविधं भवेत् | अथासाधारणं पूर्वमन्यत् साधारणं विना || १२२ब्) स्वयं वस्वष्टलिङ्गे तु अपराधि विशोधनं | परैकृतेपराधि तु शुद्धिस्तत्र विधीयते || स्वेष्टलिङ्ग साधके च द्वय स्यात्र विशोधनं || अपराधो द्विधा ज्ञेय स्वकृत्यश्चापरैः कृतः | एकैकं द्विविधं ज्ञेयं स कामाकामभेदतः || द्विविधः शोपि विज्ञेयो भौतिकौ नैष्ठिकस्तथा | भौतिको द्विविधो ज्ञेयः समययादिश्च देशिकः || लिङ्गापराधकर्तृणां शोधनं कथ्यते पुनः | चलस्थाप्यादप्य चले स्थाप्ये द्विगुणशोधनं || पूर्वसिद्धे चले शुद्धिं द्विगुणापरिकल्पयेत् | स्थिरे चतुर्गुणा शुद्धिः प्राक् सिद्धे शुद्धिमादिशेत् || साधारणात् तथा साध्ये द्विगुणा शुद्धिरीरिता | द्वैता द्वैत संज्ञे तु द्विगुणां शुद्धिमादिशेत् || या तु साधारणे शुद्धिर्द्विगुणाद्विगुणो मता | स्वेष्टलिङ्गापराधं तु परेण च कृतं यदा || द्विगुणं स्वकृतं प्राहुः प्रायश्चित्त विशुद्धये | निष्कामस्य सकास्य स्वयमेव परोपि वा || १२३अ) ज्ञात्वा ज्ञात्वा प्रकर्तव्यं प्रायश्चित्तं शिखिध्वज | साधकेभ्यो देशिकस्य शोधनं द्विगुणं मतं || भौतिका नैष्टिकानां तु शोधनं द्विगुणं हितं | वर्णेषु वर्णवाह्येषु दुष्टे लिङ्गविशोधनं || तथैव स्पर्शिते लिङ्गे शोधनं पुरतः शृणु | चतुर्वर्णात्मको वर्गा नटकै वर्तको परः || उपस्पर्शाद् भवेच्छुद्दि वर्गात द्वितयो मतः | काकादि वर्गस्तृतीयः स्नानं येनोपजायते || स्वपचादिश्चतुर्थस्तु स चैलं जलतो विशेत् | संस्पर्शेन महासेन चतुर्वर्गः प्रकीर्तितः || लिङ्गाश्रितानां दोषाणां प्रमाण कथ्यते पुनः | येषु संजात मात्रेषु प्रायश्चिती भवेन्नरः || पातकं प्रथमं प्रोक्तं लिङ्गच्छायानु लङ्घनं | शतत्रयेण शुद्धिः स्यादघोरपरिवर्तनात् || परिवर्तितो लिङ्गे तु सहश्रा घोरतः शुचिः | त्रिचतुर्लुंठिते लिङ्गे विवर्तित महीतले || शुद्धिश्चैवा युते नैव लक्षा अभ्रच्युते शुचिः | अभिघाते तु संयाते द्व्ययुताच्छुद्धिमादिशेत् || १२२ब्) अदूरादयुतेनैवा अभिघाताच्छुद्धिदं भवेत् | पादस्पर्शे लङ्घने च त्र्ययुताच्छुद्धिमादिशेत् || तथा पादरजस्पर्शे शुद्धिरुक्ताकपर्दिना | त्र्ययुताच्छूष्म दुष्टे तु द्व्ययुताच्चतदम्भस्य || सूत्रसुत्रोदकेणैव लक्षपादं विना शुचिः | रक्तशुक्ररजः स्पर्शाल्लक्षाच्छुद्धिरुदाहृता || तत्संशिक्तोदकस्पर्शात् पादेन्यलक्षितः शुचिः | विष्ठास्पर्शाद् द्विलक्षान्तु पादेनात्र तदंभसा || निर्माल्य गर्त्यल्लक्षेण पतनाच्छुद्धिमादिशेत् | विष्ठागर्ते निपाताच्च सार्द्धलक्षाच्छुचिर्मता || स्थिरस्यान्मूलनाल्लक्षाच्छुद्धिः स्यास्थापने पुनः | समुत्सकान्नरस्थे तु समुत्सक विवर्जिते || समुत्सक लिङ्गे तु हस्तात् प्रपतिते सति | अयुतं हस्त मात्रेण कला तूनाधिकं ततः || समुत्सक विहीने तु हस्तात् प्रपतिते शिवे | हस्तमात्र प्रमाणाच्च पूर्वोक्ताद् द्विगुणाच्छुचिः || अयुतादग्निनालीदे तु यदिकान्ति न हीयते | कान्तिहीने शुचिर्लक्षात् परित्यागे कृते परे || १२३अ) व्यङ्गिते प्यथविच्छाये नदी गर्तादि पाततः | हते नष्टे निपतिते महागर्त प्रमादतः || स्वकाकालीदिते लिङ्गे नीते वा गृध्रचाक्ष्मभिः | हतैराज्ञातस्करैर्वा स्वपचैर्वाथ सेचिते || विरुद्धवर्गद्वितय स्पृष्टे त्यागो विधीयते | लक्षैकं तु पयेद् यत्नात् तद्रूपं स्थापयेत् पुनः || तदा शुद्धिमवाप्नोति साधकोदग्ध किल्विषः | अन्यथा नैव मुच्येत विधि वैकल्पसंभवात् || एवं चैवाक्षसूत्रस्य प्रायश्चित्तं समारभेत् | किन्तु लिङ्गादि तार्द्धेन शुद्धिमत्रमादिशेत् || लिङ्गं पादेन घंटायामपराधेषु लिङ्गवत् | प्रायश्चित्तं प्रदातव्यं गुरुणातंत्र वेदिना || ब्राह्मणादि चतुर्वणैः शिवदीक्षा विवर्जितैः | स्वेष्टलिङ्ग यदादुष्टे प्रायश्चित्तं समाचरेत् || एकद्वित्रिचतुश्चान्तैः शतैः शुद्धिरुदाहृता || कैवर्तवर्गैः संदृष्टे स्वेष्टलिङ्गे प्रमादतः | १२३ब्) अयुताच्छुद्धिमाप्नोति साधको नान्यथा शुचिः || स्पृष्टे काकादि वर्गस्तु स्त्र्ययुताच्छुद्ध्यते नरः || वेदायुतेनसंशुद्धिः दुष्टे तु स्वपचादिभिः | एवं संस्पर्शिते लिङ्गे सार्द्ध द्विगुणतः शुचिः || स्वश्रोतो दीक्षितै लिङ्गे स्पृष्टे तत्र न दोषभाक् | वामदक्षिणमार्गस्थैः स्पृष्टं लिङ्गं प्रमादतः || अयुता च्छुध्यते मंत्री महास्नानेन नान्यथा | वामदक्षिणमार्गस्थं संपर्कं परिवर्जयेत् || शते नैव तथा लायाद् द्विशतान् स्पर्शतः शुचिः | पञ्च पातकं युक्तानां दर्शनं परिवर्जयेत् || आलापादयुताच्छुद्धिः द्विगुणात् स्पर्शतः शुचिः | शयनान्त्रायुताच्छुद्धिर्भोजनाल्लक्षतः शुचिः || बौद्धचार्वाकसंस्पर्शात् शिवनिंदा परेषु च | स च्छास्त्र दूषकाये च पतितानां विशेषतः || संपर्कयत्नतो वर्ज्यं संस्पर्काद्विशता च्छुचिः | कौलिकापालिकानां तु संपर्कं परिवर्जयेत् || १२४अ) पञ्चार्थ कालवक्त्रानां विवादं नैव कारयेत् | संभासनं तथा स्पर्शं दूरतः परिवर्जयेत् || तथा सांख्यमताचार्यैः स सत्कार्यानु बुद्धिभिः | विवादो नैव कर्तव्य तद्वच्च पशुलोलुपै || दिगम्बरैः स्वेत पदैः संस्पर्शं परिपरिर्जयेत् | तथा भागवतै सार्द्धं वक्तव्यं नैव कारयेत् || वर्जितानां तु मूढात्मा यः करोत्येव संगतिं | वृथापरिश्रमस्तस्य न तच्छिव पदं लभेत् || न च द्वेषः प्रकर्तव्यो नैव वादः कदाचन | यः करोति हि मृदात्मासौ युताच्छुद्धि माप्नुयात् || लक्षार्द्धं जपेल्लिङ्गस्य महास्नानं समाचरेत् | द्व्ययुतान्तु महापूजा कर्तव्या स्वेष्ट पूजिते || यत्र वै लक्षजापं तु तत्र भूयोनुरोपणं | पयोदधिघृतादीनां सहस्राष्टोत्तर द्वये || महास्नानं पलादीनां फलानामंपि तत् समं | जातीपूगफलानाञ्च सहस्रद्वितयेन च || कक्कोलाजातिपुन्नाग श्रीफलानां तथैव च | १२४ब्) रक्तावर्ति युता सा तु दिव्यगन्धसमन्विता | महावर्ति तद्वदेव शिवस्याग्रे प्रकल्पयेत् || महास्नानं समाख्यातं महापूजा तदर्द्धतः | अयुते चोपवासं तु प्रत्येकं परिकल्पयेत् || दशांसेन जपाद्धोमं विंशत्यंशेन गडुकां | सत्यं व्रतं ब्रह्मचर्यं भूशययां नक्त भोजनं || तैलाभ्यङ्ग परित्यागः सत्य वाक् स्नान तत्परः | कर्तव्यं शास्त्र निपुणैः जपान्तं यावदेव हि || प्रायश्चित्त समाप्तौ तु देशिकान् पूजयेत् क्रमात् | भूहेमवस्त्रपानाद्यैर्यथाशक्त्याथतोषयेत् || प्रायश्चित्तं यदा कश्चित् कर्तुं नो शक्नुयात् क्वचित् | प्रार्थ्यान्यैश्च प्रकर्तव्यं यथोक्ताद् द्विगुणं पुनः || न प्रार्थ्यं नैव कर्तव्यं गुरुणा मन्त्र वेदिना | शिववत् पूजयेत् किंतु स्वगुरुं शिवसासने || वालवालिशवृद्धानां भौगिनां व्याधितात्मनां | स्त्रीणां वै कारुकादीनां प्रायश्चित्तं न विद्यते || यतो निर्बीजिकादीक्षा तेषु कार्या न चापरा | १२५अ) समयाचार रहिता दीक्षैव मोक्षदा स्मृता | निरपेक्षा तु सा दीक्षा सा पेक्षा वीजसंयुता || भक्तानां सुसमर्थानां स बीजादेशिकेष्वपि | स्त्रीवालाभक्तितो वाथ लिङ्गार्चनरतो यदा || व्यतिक्रमे समुत्पन्ने प्रायश्चित्तं प्रदापयेत् | प्रागुक्ता पादतस्तेषां प्रायश्चित्तेन शोधनं || विशेषपूजनं दानं दातव्यं नान्यथा शुचिः | लिङ्गवद्धोमलोपे तु प्रायश्चित्तं समाचरेत् || मासत्रयान्तरे देवादकृत्वा तु पवित्रकं | लक्षद्वयं जपेद्घोर शुद्धि चान्द्रायणेन तु || अत्यंत पीडिते देहे नृप चौर भये तथा | सूतके वा न कर्तव्यं पूजनं नाति दोषभाक् || किं त्वत्र मानसं कार्यं यागं सर्वार्थसाधकं | पूजयेत्सौन्यततैस्तु समयी पुत्रकोचितैः || स्वश्रोतः संस्थितैः पूज्यं न पूज्यं वामदक्षिणैः | स्वगुरुर्न नियोक्तव्यः पूजन जाप्यादि कर्मसु || शिववच्च गुरुः पूज्यं पितृवद्देशिकः पुनः | साधकास्तद्वदेवाहुः पुत्रकाः भ्रातृवत्सदा || १२५ब्) मित्रवत्समयस्थाश्च द्रष्टव्या शिवमिच्छता | सात्यर्थे देशिका योज्याः प्रतिष्ठायां विशेषतः || साधने च तथा योज्यः साधकास्त?ष्ठभावतः | स्वकीय परकीयो वा नियोज्यस्तु शिवार्चने || समयी पुत्रको वाथ नास्नीयात् पूजनं विना | अतश्च परतो देव संपूज्यमृतके सति || गृहिणी सूतसंयोगात् सूतकी तेन नान्यथा | परपाकी विशेद्दुरे तदा योग्यस्तु पूजने || सूतके यदिवेद्सुज्ञ? संस्पर्शाद्वाथ सूतकी | अन्तर्यागन्तु तत्रापि सूतके सनिकारयेत् || प्रणामस्तोत्रकाद्यैश्च संतोष्यः परमः शिवः | शोधने चैव मायायाः शिखाच्छेदे कृते सति || सूतकं मृतकंस्तेषां न कल्पं पूजने | पूजाकाले तु देवस्य विप्रुषोङ्ग पतन्ति च || प्रायश्चित्तं तदा कल्प्यं क्रमेणैव षडानन | आपादाज्जानु पर्यन्तं सद्योजातं तु सप्तधा || संसारेद्विधिवत्मंत्री ततः शुद्धो भवेत् नरः | १२६अ) जानुतो गुह्य पर्यन्तं विप्रुपोत्स पतति चेत् | त्रिसप्तवारं वामन्तु स्मरणादेव शुद्ध्यति || आगुह्यन्तु हृदयान् तन्तु वहुरूपं तथा स्मरेत् | हृदयात् मस्तकान् तन्तु शिक्तंवेत्स्थानमाचरेत् || कित्विशम्यगे? तं जाप्यं शुद्ध्यते तेन नान्यथा | अकामा भौतिकौ यस्तु कुर्यान्तिर्माल्यलङ्घनं || तस्यायुतेन शुद्धिस्याच्छेशेषु त्रिषु पूर्ववत् | देवचण्डगुरुद्रव्यलक्षयित्वा ह्यकामतः || भोतिको लक्षपादेन शुचिः शेषन्तु पूर्ववत् | यत् निर्माल्येन संस्पृष्ट तद्भुञ्जन पुरुषेण वा || पादोन्नन्तत्र शुद्धिः स्यात् स्पर्श लङ्घन भक्षणे | अनुमत्स प्रविष्टं यच्चन्दनादि प्रमादतः || तत्र पादेन निर्माल्या च्छुद्धिलिङ्गादि शोधनं | देवद्रव्यं गुरुद्रव्यं चण्डद्रव्यं श्वरस्य च || भक्षयेक्षा प्रदानाच्च प्रायश्चित्ती भवेन् नरः | प्रदाने लंघने तुल्यमुपेक्षयां तदर्द्धतः || गुरुदेव तदर्द्ध तद्विजातीर्ना द्रव्यं यत्नेन वर्जयेत् | अद्वैतं पूजयेद् यस्तु द्वैतं लिङ्गप्रमादतः || १२६ब्) अकामाल्लक्षपादन्तु तृतीयेष्वपि पूर्ववत् | एवं वै द्वैतमन्त्रे तु निराचारे विवर्जयेत् || अविसर्जतेर्घपात्रे तु भग्ने वाथ प्रवर्तते | द्विशताच्च सहस्रञ्च क्रमाद् वै पञ्चभिः शुचिः || कीटामिपादिने वेद्य प्रदर्शने शततः शुचिः | वातारिघातौ चोत्पन्ने सामान्ये कृत्तिकासुत || नृपारितोयह्यतभुक सकासात्तस्करस्य च | तत्राप्य द्विशतं जाप्यमघोरं घोरशान्तये || देशं कालवलं ज्ञात्वा प्रायश्चित्तं प्रदापयेत् | त्रिपञ्चसप्तदशभिराचार्यैः शास्त्रपारगैः || न मूर्खैर्दीर्घसूत्रैर्वा नास्तिकैर्वापि हेतुकैः | स्वशास्त्र नियताभ्यासैः प्रायश्चित्तं प्रदापयेत् || यथाशास्त्रोपदिष्टं तु न न्यूनं नाधिकं क्वचित् | न्यूनाधिक प्रदानेन देशिकः पापभाग् भवेत् || तस्मात् सर्व प्रयत्नेन शास्त्राचारं समाचरेत् || इति कालोत्तरे महातन्त्रे प्रायश्चित्तपटलं || १२७अ) ईश्वर उवाच || अक्षसूत्रविधानन्तु कथ्यमानं शृणुष्वतः | शतेनाष्टोत्तरेणैव उत्तमं परिकीर्तितं || तदर्द्धात्मध्यमं शस्तं तदर्द्धात्कनाशंहितं | रुद्राक्षजं महाभृत्यै मुक्तिदं परमं शुभं || एकवक्त्रैस्त्रिवक्त्रैश्च चतुर्वक्त्रैश्च पञ्चभिः | षट्वक्त्रैर्वाध्वकर्तव्यं स्तस्मात्मिश्रैस्तु वर्जयेत् || मुखै मुखं प्रकर्तव्यं मुखं मूले विवर्जयेत् | एवं वै सर्वरत्नानां वृक्षजेषु जलेषु च || पुत्रजं पुत्रजीवार्थं पद्मजं चाणिमादिषु | इंद्राक्षं राज्यदं सूत्रंश्चक्राक्षं तद्वदेव हि || अरिष्टसमनेशस्तं मारिष्टं सूत्रनायकं | हेमतारमयं भूतो शेषलोहोच्छित पुनः || त्रपुसीसायसंयोज्यं महाशंखं च मारणै | आप्यायने संखसूत्रमौक्तिकं पुत्रवर्द्धनं || स्फाटिकं भूतिदं पुंसां वस्ये विद्रुमसम्भवं | मृत्मयं तदभावान्तूच्चाटे राजवर्तनं || सर्वकामप्रदं पुंसां सूत्रंमणिमयं हितं | रत्नजं भुक्तिमुक्त्यर्थं शस्यजं शस्यवृद्धये || अथवातूत्थितं शस्तं रस्यस्यैव तु साधने | अथवा सर्वजनैवकर्तव्यं वन्धितेन तु || अर्चने यक्षमातृणां साधने गुह्यकेषु च | सूत्रद्रव्यं मयाप्रोक्तं प्रमाणं कथ्यते पुनः || धात्रीफलप्रमाणेन जेष्ठमेतदुदाहृतं | वचराण्डप्रमाणेन चणकात्मध्यमाधमं || नवत्रितन्तुना प्रोक्तं कर्तव्यं पूर्ववच्छुभं | नागपाशं तु सावित्रं रुद्राक्षं वाथ ग्रन्थनं || ग्रन्थार्धकन्तु मेवाख्यं कर्तव्यं नैव लंघयेत् | क्षालयेत् सद्योजादेवेन वामे देवेन घर्षयेत् || धूपयेद्बहुरूपेण लेपयेन् पुरुषेण तु | मन्त्रयेत् पञ्चमे नैव प्रत्येकं तु शतं शतं || मेरुं च पञ्चमे नैव तथाघोरेण मन्त्रयेत् | मुद्राष्ट प्रदर्शितव्यं प्रत्येकं पूजयेत् क्रमात् || मेरुं च पञ्चभिः पूज्यं पूर्ववच्च यथाशिवं | अनामाङ्गुष्ठा व्युक्रमाजापं कुर्यात् तु मानसं || १२८अ) साष्टोत्तर शतैनैव फलं कोटिगुणं भवेत् | मध्यमाङ्गुष्ठा वा क्रम्य जापं कुर्यादुपांशुकं || तदलक्षफलं तस्य शतजापान् प्रजायते | तर्जन्यंगुष्ठ चाक्रम्य जपं भाष्यं तु कारयेत् || अक्षराक्षरसंतानं न द्रुतं न विलंवितं | फलं सहस्र गुणितं प्राप्नुयान्नानृतं वचः || भुक्तये सृष्टि मार्गेण कर्षयेदक्षसूत्रकं | ऊर्द्धमार्गेण मुक्त्यर्थं कर्षयेच्च शनैशनैः || मेरु न लङ्घयेत् मन्त्री लङ्घनाद् दोष भाग् भवेत् | सहश्रं बहुरूपस्य जप्तव्यं तेन शुद्ध्यति || प्रमादात् पतिते भूमौ जप्तव्यं तु शतद्वयं | पादाभ्यां पतनान्तस्य सहस्रैकं जपेत् तदा || वस्त्रे वा पतितं तच्च शतैकाच्छुद्धिमाप्नुयात् | यथालिङ्ग तथा तस्य प्रायश्चित्तं पुरोहितं || किन्तु पादेन प्रकर्तव्यं नान्यथा सिद्धिमाप्नुयात् | मेरुहीनाक्ष माला तु कर्तव्या वा प्रयत्नतः || तस्य शतं गुणं पुण्यं तदाकार्याक्षमालिका | १२८ब्) तस्या न लंघने दोषो यतो मेरु विवर्जिता | पतने च तथान्येषु प्रायश्चित्तं तु सूत्रवत् || इति कालोत्तरे महातन्त्रे अक्षसूत्रमालापटलं || ईश्वर उवाच || अथातः संप्रवक्ष्यामि घण्टालक्षणमुत्तमं | यस्याः शब्देन विघ्नास्तु यान्ति सर्वदिशोदशः || व्याधयो दुर्ग्रहाः सर्व तथोग्राश्च विनायकाः | दुस्वप्नराक्षसा दुष्टाः वेताला भैरवाः शिवा || डाकिन्यो भूतसर्पाश्च सर्प्याः कर्कोटकादयः | वलिकामाहन्तु कामारतिकामास्तथा परे || घण्टानिनादश्रवणाद्वतवीर्या भवन्ति च | तस्मात् सर्वप्रयत्नेन पूजाकाले सदाहनेत् || तस्यामानं प्रतिष्टा च कथयामि तथाधुना | वेदाश्रं त्रिगुणं कृत्वा प्रत्यश्रं चाष्टधा भजेत् || रवक्षेत्रमधोभागे मध्यक्षेत्रे ग्रहः स्मृतः | त्रिशूलं वृषभं वाथ यथाशास्त्रं प्रकल्पयेत् || १२९अ) अर्द्धचन्द्रं रवक्षेत्रे मध्यादूर्द्धविवर्द्धयेत् | वस्वंशपार्श्वतो दत्वा तन्मुखा मूलतोपि च || विपरीतेन पृष्टे तु चन्द्रलेखे ववर्तयेत् | अष्टांशाल्लालनं शस्त्रं निर्गमं चाष्टमांशतः || मध्यक्षेत्रं तु निर्वर्त्य प्रग्रहं कारयेत् ततः | सारकं द्विपदं शस्तं विस्तृतञ्च चतुष्पदं || उच्छ्रयेण समं श्लक्षु? ततोर्द्धमलसारकं | चतुष्पदन्तु विस्तारा द्विपदं तत् समुन्नतं || तदूर्द्धं कारयेच्छुलमथपाशुपतंवरं | वृषं वाथ प्रकर्तव्यं कमलं वा सुशोभनं || एवं घण्टा प्रकर्तव्या पञ्चलोहसमुद्भवा | रवक्षेत्रोद्भवं कार्यं तारजं वाथ हेमजं || नानारत्नमयं शस्तं ललनं तीक्षणलोहजं | निर्वर्त्येवं प्रयत्नेन क्षालयेद् भस्म वारिणा || पञ्चगव्येन संप्रोक्ष स्नापयेद् गन्धवारिणा | अघोरेणैव संपूज्य पुष्पधूपार्घविस्तरैः || सहश्राष्टोत्तरेणैव वहुरूपेण मन्त्रयेत् | १२९ब्) सर्वेषां चैव दुष्टानां भ्रासं तु जनयेत् सदा | प्रीणाति सर्वमन्त्राणां शस्त्रमस्त्रेण चालयेत् || धूपदाने चालितव्या तद्रुता न विलंविता | पूजान्ते यत्नतः स्थाप्या यथाभङ्गं न जायते || लंघनादि प्रमाहे तु प्रायश्चित्तं तु लिंगवत् | किं त्वष्टांशेन कर्तव्यं स्थापितायां न चान्यथा || स्थापिता यास्तु घंता या न सा दुष्टविमर्दिनी | किंतु तालिकानान्तु विघ्नानां द्रावणी परा || यदा भूमौ पतेत् कस्मात् तदा घोरशतं जपेत् | भग्न या तु सहश्रन्तु जप्त्वान्यां कारयेत् तदा || तन् मध्ये नापरेणैव पूजयित्वा तु कारयेत् | सर्वान् कामानवाप्नोति घंटा पाश्चालनेन तु || इति कालोत्तरे महातन्त्रे घंटालक्षणपटलं || ईश्वर उवाच || पुष्पाध्यायं प्रवक्ष्यामि यथावदनु पूर्वशः | हितायसाधकानाञ्च सर्वकामफलाप्तये || (द्यदाद्यत्मनि? तुल्यञ्च डमरुं वाद्यते शुभं | तथालयनिवृताञ्च पुजानपूर्यनमादिशेत् || ठिस् त्wओ लिने इस् बोत्तोम् ओf पगे) प्रत्यग्रैः कुसुमैः पूज्यमखण्डरज्यगुप्सितैः | १३०ब्) वकपुष्पैः सदापूज्यः शिवः सर्वाथकामदः || न मेरुपत्रैश्च फलैस्तथा कुंकुमकेशरैः | सुगन्धपुष्पैर्यत्नेन ब्रह्मपद्मैर्विशेषतः || इत्युत्तमेः प्रयत्नेन पुष्पैः पूज्यो महेश्वरः | तेषां पर्युषितत्वंच्च स्थितं सम्वत्सरावधि || पद्मानि शितरक्तानि कुमुदान्युत्पलानि च | शुक्लपद्मानि पीतानि पुन्नागं विल्वपत्रकं || इति प्रधानपुष्पाणि मध्यमानि प्रकीर्तितं | एषां पर्युषिताशंका कार्या पञ्चदिनोर्द्धतः || कुन्दकुब्जकद्रारमल्लिकागस्त्य किंसुका | अर्कधुतूरभृङ्गाख्या सुरभीदुम्विका तथा || तिलकाशोकजाती च मालती जाति चम्पकाः | मन्दारं मरुवं चैव वर्द्धरीकाष्टचंपकं || मदनं दमनं चैव द्रोणाहं पाटला द्वयं | युथिका पारवं चैव तमालं कर्णिकारकं || आढरूपं समी चैव कुशा वै संखपुष्पिका | द्विधा कदम्बपत्रं च सुमना केशरं तथा || १३०ब्) जयंती च वलामोढा चतुर्थी विजयी तथा | स्थलनीलोत्पलं शस्तं तथान्यस्थल पङ्कजं || गैरिका ब्रह्मपुष्पाणि तगरिका विनाकिलं | गोविन्दपुष्पदातव्यं तथा कर्पूरपत्रिका || गोपालसूर्यं सूर्य कि त्वत् स्वप्नञ्च मध्यमं | काशायं कर्कटीपुष्पं केरली दापयेत् सदा || वर्जयेत् केतकी पुष्पं कुष्माण्डं निम्बसम्भवं | पैशाचं शाल्मली जातं गिरिकर्णिकसम्भवं || इति पुष्पाणि देयानि प्रत्यग्राणि षडानन | दिव्योषधीनां पत्राणि पुष्पाणि च फलानि च || दातव्यानि प्रयत्नेन कुशपुष्पाणि यत्नतः | रूपघ्राणयुतान्यानि दातव्यानि प्रयत्नतः || रूपघ्राणि विहीनानि प्रागुक्तानि विनासुच | वर्जितानि प्रयत्नेन अप्रसिद्धानि षण्मुख || भुक्तये गन्धपुष्पाणि रूपयुक्तानि मुक्तये | उक्तेभ्यो न्यतमग्राह्यं सिद्धार्थसाधकेन तु || इति कालोत्तरे महातंत्रे पुष्पपटलं || १३१अ) ईश्वर उवाच || अष्टपुष्पी विधानन्तु शृणु षण्मुख तत्वतः | अष्टापुष्पाणि देयानि शिवस्य परमेष्ठिनः || पुष्पाष्टकप्रदानेन पूजितो भवति शिवः | अहिसो प्रथमं पुष्पमिन्द्रियाणान्तु निग्रहं || क्षान्तिपुष्पं दयापुष्पं ज्ञानपुष्पं परं मतं | तपः पुष्पं मत्यपुष्प भावपुष्पं तथाष्टमं || वरस्थितानां कथितां यतीनां चाष्टपुष्पिका | अनया ज्ञातमात्रेण जीवनमुक्तित्वमाप्नुयात् || मुष्टपुष्पी विधानन्तु पुनरेव निराद्यते | वारुणं शलिलं पुष्पं सोम्यघृत पयोदधि || प्राजापत्य तथान्नादि आग्नेयधूपदीपनं | फलपुष्पादिकञ्चैव वानस्पत्यन्तु पञ्चमं || पार्थिवं कन्दमूलादिर्वायव्यं गन्धचन्दनं | श्रर्द्धाख्यं शिवपुष्पं तु कथिता चाष्टपुष्पिका || आद्यानां सर्वदा शस्तं समवस्थित चेतसां || १३१ब्) पुनरेव प्रवक्ष्यामि अष्टपुष्पी यथास्थितां | आसने प्रथमं पुष्पं दातव्यं शुद्धचेतसा || मूर्तिदानं हृदाकार्यं पुष्पैणेवा परेण तु | पञ्चप्रष्टं प्रदानेन पंचाङ्गानि प्रकल्पयेत् || शिव तथाष्टमे नैव कथिता चाष्टपुष्पिका | अथवा तस्य दातव्यं ब्रह्माङ्गैः पञ्चपुष्पकं || ईशानं नेत्रमन्त्रेण तनु तत् पुरुषेण च | अघोरं शिखया युक्तं वा मन्त्रशिरसान्वितं || सद्योजातन्तु हृन्मन्त्रं पुष्पं वै पञ्चमं मतं | शेषमासनमूर्त्याख्यं परं चैवामुंमं पुनः || मूलपुष्पाणि पद्माद्या वक्त्राङ्गरहितं विभोः | एतानि चाष्टपुष्पाणि सर्वसाधारणानि च || सर्वसिद्धि प्रदाने च तथा सर्वाश्रमेषु च | सर्वेषां चैव वर्णानां सर्वसाधारणानि च || एककालं द्विकालं वा त्रिकालं पूजयेच्छिवं | प्रातर्मध्याह्न समये तथा चास्तमितेरवौ || पूजयेत् परया भक्त्या अष्टपुष्पा विधानतः | १३२अ) दरिद्राणामनाथाना वालस्त्री वालिशेषु च | भोगिनां व्याधि पुष्टानां तथा ध्यानार्पितात्मनां || शिवशास्त्रानुरक्ताना नानासिद्धि हितात्मनां | अनुरक्तविरक्तानां कथिता चाष्टपुष्पिका || इति कालोत्तरे महातन्त्रे अष्टपुष्पिकापटलं || ईश्वर उवाच || अथातः संप्रवक्ष्यामि व्रतानि तु यथाक्रमं | अष्टम्यां तु चतुर्दश्यां पक्षयोरुभयोस्तथा || उपोष्य सयतो भूत्वा त्रिविधिनान्तरात्मनां | ततो परेह्नि शुचिना विशेषान् पूजयेच्छिवं || पूर्वोक्तेन विधानेन जपहोमादि माचरेत् | पूजयेत् परया भक्त्या गुरुं वा साधकादिकं || ततश्च पञ्चगव्यन्तु प्रासयेच्चुलुकैस्ततः | समाचम्पोपसंस्पृश्य हविष्यान्नेन वर्तनं || अनेन विधिना यत्नाद् यावज्जीवं व्रतं चरेत् | पितृन् पितामहं चैव तथैव प्रपितामहं || वासयेच्छिव लोकेस्तु व्रतस्यास्य प्रभावतः | १३२ब्) एतच्छिव व्रतनामव्रतानामुत्तमोत्तमं | अशक्तानां तु नक्तञ्च व्रतं पापहरं परं || ब्रह्मचर्यमधः शयया स्नानं तैलादि वर्जनं | हविष्यमन्नं सत्यञ्च व्रतस्थे नैव कारयेत् || एतद् व्रतं परं वत्स यतीनां सर्वदाहितं | अष्टंम्यां च चतुर्दश्यां षडशीति मुखेषु च || गृहस्थानि यमेनैव नक्तं समास चरेत् | पुनरेव प्रवक्ष्यामि व्रतानां परमं व्रतं || कर्तव्यं परया भक्त्या महापापक्षयंकरं | शिवसा योज्यदं यस्मात् तस्माद् यत्नात् समाचरेत् || माघशुक्लत्रयोदश्यामुपोष्य च प्रयत्नतः | नित्यकृत्यन्तु निर्वर्त्य भद्रं यत्नेन वर्तयेत् || मंडपे वेदिका मध्ये वितानध्वजशोभिते | वैजयन्ती समायुक्ते नाना स्रग्कन्धमंडिते || पूजयेत् तत्र देवेशं यथा विभवविस्तरैः | मात्राष्टक त्रयं पूर्वमुद्धृत्य च सतारकं || शिवाय स नमोन्तन्तु मन्त्र चैतन्नवाक्षरं | १३३अ) अनेन पूजयेत् तत्र शिवं परमकारणं || कुन्दपुष्पायुते नैव लक्षनाथ प्रपूजयेत् | यथासम्भवतो वाथ कुन्दपुष्पैः प्रपूजयेत् || अगुरुं मलयं चन्द्रं कुंकुमन्तु रसं ददेत् | दीपानां तु शतं दद्यात् महावर्ति चतुष्टयं || नैवेद्यानि विचित्राणि फलमूलानि भूरिसः | आद्रकं क्षीरपानं च शिवस्याग्रे प्रदापयेत् || सहश्रं चैव जप्तव्यं प्रोक्तमन्त्रं च षण्मुखः | होमे तथा प्रकर्तव्यं गुग्गुलेन घृतेन च || रात्रौ जागरणं कार्यं नाना तोरवेण तु | ततः प्रभात समये नित्यं कृत्वा ततोर्द्धतः || शिवं संपूज्य तत्रस्थं प्रागुक्तेन क्रमेण तु | होमस्तु पूर्ववत् कामः शिवस्याग्रै व्रजेत् ततः || ब्रह्मोक्तं तन्त्रि भागन्तु शिवाय विनिवेदयेत् | तथान्नहेमपात्रे तु आचार्याय प्रदापयेत् || सुवर्णपशु गोभूमिस्तस्मै देयं यथाक्रमं | व्रतं समर्पयेद् भक्त्या शिवाय नियमेन तु || विसर्ज्य परमेशानं तथाम्नो संप्रपूजितं | १३३ब्) ततः संप्रासनं कुर्यात् नक्तकालेन चान्यथा | ब्रह्मकुर्चावशेषन्तु हविष्यान्नेन वर्तनं || व्रतमेतत् समाखातमायुः श्रीकीर्ति पुत्रदं | देहान्ते शिवलोके तु मोदते पितृभिः सह || चैत्रशुक्लचतुर्दश्यांमुपोष्य व्रतमाचरेत् | वर्तयेत् सर्वभद्रं च प्रागुक्ते यागमण्डपे || विशेषस्नपनं कार्यं नित्यकृत्यादनन्तरं | साधकेन पुराकार्यं शिवस्य च विशेषतः || तत्र कुम्भोष्टके नैव यथानु क्रम योगतः | साधकेन प्रकर्तव्यमभिषेकं यथाक्रमं || स देवभूतजटाभ्या तथैव च शतावर | अभया सहसंयुक्तं कलसं प्रथमेद् भवेत् || सद्योजाताभि ज्यप्तेन तेन स्नाया तु साधकः | स्वेत चन्दन युक्तेन वाममन्त्राभिषेचनं || कुंकुमोदक कुंभेन शतावर्तन पारतः | पुरुषेण तथा स्नानं मृगसिद्धार्थ रोचनैः || पञ्चमं शशि संमिश्रं सेचनं पञ्चमेन तु | फलकुंभेन च हृदा ह्येकः कार्या विजानता || १३४अ) शिरसा हेमगर्भेण शिखा वज्रोदकेन तु | स्नानमेवन्तु निवर्त्य कामायागं समारभेत् || फलानान्तु सहस्रेन महास्नपन मारभेत् | साष्टोत्तरशते नाथ फलानां वा षडानन || पयसा च तथा दध्ना घृतेन मधुना क्रमात् | गन्धोदकेन संस्नाप्य रोचनायाः फलेन तु || पल्यर्धेणैव चन्द्रेण फलपुष्पोदकेन च | समालभ्य ततो भक्त्या वस्त्रैराच्छाद्यशोभनैः || दीपमाल्यग्रतो देया नैवेद्यं पानकानि च | ततो दमनकैः पूज्यः शिवः परमकारणः || धूपं कृष्णाऽगुरुं दद्याच्चन्द्रकुंकुमकेशरं | वानरं वानमेरुं संधयं स्याद् वायुगोचरे || एवं कृत्वा जपं कार्यं सहस्रं भावितात्मना | होमं तथा गुगुलेन मुलमन्त्रेण कल्पयेत् || होमं कृत्वा यथा न्यायं शिवाय विनिवेदयेत् | आचार्यान् साधकाद्यांश्च समयी पुत्रकांस्तथा || पूजयेत् परया भक्त्या वस्त्रहेमानुपूर्वकैः | रात्रौ जागरणं कार्यं प्रासनं तत्र कथ्यते || १३४ब्) कापिलं प्रासयेत् क्षीरमखण्डं स घृतान्वितं | एतद् व्रतोत्तमं नाम तत्र पुण्यफलं शृणु || अश्वमेध सहश्राणि वाजपेय शतानि च | व्रतस्यास्य महासेन कलानार्घन्ति षोडशीं || कुलान्युद्धरते यस्माद् दशपूर्वं दशापरं || वैशाखमासे कर्तव्यं व्रतमेवं यथोदितं | किन्तु धुत्तूरपुष्पैस्तु पूजयेत् परमेश्वरं || अनेन व्रत पुण्येन शिवस्यानुचरो भवेत् | ज्येष्ठशुक्लत्रयोदश्यां रथयात्रां प्रकल्पयेत् || फाल्गुणे वा तथा चैत्रे कार्तिके सर्वसिद्धिदं | शितपक्षे तथाष्टम्यां चतुर्दश्यांमथापि वा || मातृणां शुक्लपक्षे तु नागदैत्य ग्रहेष्वपि | सप्तम्यां च त्रयोदश्यां कुर्यात् कुण्डलवर्द्धनं || महापटं विचित्रन्तु समस्तं भ्रामयेत् पुरे | किंकिनी दामसंयुक्तं रचनां वामरान्वितं || गुरूणां घोरमन्त्रेण शतं जप्तं तु कारयेत् | द्वारस्याग्रे तु संस्थाप्य कार्यं वादित्र नर्तनं || १३५अ) महापटं तथान्यं च वाह्यदेशे तु कारयेत् | पौराणिकी कथालापं तत्र सीतादि वर्तनं || एवं कृते द्वितीयेह्नि पूजां कृत्वा विशेषतः | पूजितव्यं प्रयत्नेन भौतिके नैष्ठिकैः क्रमात् || आचार्याः साधकौन्द्राश्च समयी पुत्रकादयः | ततोन्ते रथयात्रा तु कर्तव्या साधकेन तु || नानावस्त्रैः सुरचितं पताकाध्वजमण्डितं | किंकिणी चामरैर्युक्तं वृषमालापटान्वितं || द्वारेषु द्वारपालांश्च पटस्थां तत्र कारयेत् | वज्रादीनि तथास्त्राणि साकाराणि प्रकल्पयेत् || पंचायतन युक्तापि न वा यतनतोपि वा | अथैका यतनं कार्यं वृषभाग्रविभूषितं || वृषभैर्बीजिभिर्वाथ कुंजरैः कर्षयेद् रथं | नृत्यं गीतं तदग्रे तु धूपं नाना विधं ददेत् || यजमानेन संप्रार्थ्य पभ्राम्यो नगरे रथः | रथयात्रा वसाने तु रथस्थं परमेश्वरं || उत्तार्य भद्रपीठि तु शिवस्याग्रे तु निधापयेत् | १३५ब्) ततः संपूज्य यत्नेन पुष्पधूपान्तकैः क्रमात् | रथयात्रा फलं शम्भोः शक्ति हस्ते समर्पयेत् || रात्रौ जागरणं कार्यं गीतवादित्र नर्तनै | इतिहासपुराणोत्थ कथाभिः क्रौञ्चसूदन || विशेषपूजा कर्तव्या तृतीयेह्नि प्रयत्नतः | संपूज्य परया भक्त्या देशिकैः शिवयोगिभिः || देवस्य पुरतः कार्यं प्रयत्नाद् वलिमण्डलं | रुद्रादि क्रमयोगेन नाना भक्षस्तु पूजयेत् || पक्वाग्नैः सुविचित्रैश्च पिष्टसंकल्पसालिभिः | शितपीतादि वर्णत्वे शालयस्तत्र कल्पयेत् || निर्वर्त्य परया भक्त्या शिवाय वलिमण्डलं | इतिहासपुराणोत्थ नान्दीशब्दं समुच्चरेत् || मोदन्ते पितरस्तस्य नान्दीघोषेण नान्यथा | नान्दी घोषं प्रयत्नेन शिवाय विनिवेदयेत् || पितृन् पितामहाश्चैव तथैव प्रपितामहान् | पुत्रपौत्रान् प्रपौत्राश्च तारयेत् किमतः परं || १३६अ) सा लुप्त पिण्डाये केचित् तदा किञ्च हता पुनः | पितिता वाथ दग्धा वा नन्दीघोषं प्रकल्पयेत् || वस्त्रोनुपानगन्धैश्च तथा वै द्रविणेन च | पानैर्नानाविधैश्चैव तापयेत् तत् प्रयत्नतः || आषाढस्य चतुर्दश्याशिताष्टम्यां विशेषतः | स्नापयेत् परमेशानं पञ्चगव्येन भूरिणा || प्रलिप्य चन्दने नैव धूपं दद्याच्च गुग्गुलुं | पायसं घृतसंयुक्तं शिवाय विनिवेदयेत् || संपूज्यपरया भक्त्या पद्मानामयुतेन च | सहस्रेण तदर्द्धेण यथा संभवतोऽथवा || होमं पद्मै प्रकर्तव्यं प्रयत्नाच्च घृत प्लुतेः | व्रतं पद्मात्मकं शम्भोः सव्य हस्ते समर्पयेत् || गव्यजानुं न्यसेद् भूमौ सव्ये पुष्पं तु कारयेत् | संहितां तु सकृत् स्मृत्वा देवाय विनिवेदयेत् || आचार्यान् शिवभक्ताश्च भूवस्त्रादिभिरर्चयेत् | प्रासनं गोघृते नैव कर्तव्यं चुलुक त्रयं || सर्वकामप्रदं नाम व्रतं ब्रह्मात्मसंज्ञकं || १३६ब्) श्रावणे शुक्लपक्षे तु चतुर्दश्यां विशेषतः | स्नापयेत् परया भक्त्या शिवं पञ्चामृतेन तु || विलेपयेत् कुंकुमेण वस्त्रैराच्छादयेत् ततः | दीपानां तु शतं दद्यात् महावर्ति चतुष्टयं || शतेकैकेण कल्पास्तु रक्तवस्त्रास्तु वर्तयः | खण्डखाद्यान्यनेकानि फलमूलानि कल्पयेत् || घनं पक्वं ददेत् क्षीरं सीतलं चन्द्रसंयुतः | नीलोत्पलैः तत् पूज्यश्चायुतेन प्रयत्नतः || यथालाभेन वा पूज्यं जापः साहश्रिको भवेत् | तथ्यहोमः प्रकर्तव्यस्तिलैर्घृतविमिश्रितैः || व्रतं निवेदयेत् पश्चाच्छिवाय विधिपूर्वकं | अनेन व्रतमुख्येन प्रीयतां मे सदाशिवः || ततस्तु देशिकाद्यांश्च यथाशक्त्या प्रपूजयेत् | प्रासनं कलिंपिलाजेन कर्तव्यं सिद्धिमिच्छता || श्रीकामैः पुत्रकामैश्च प्रीतिकामैश्च कारयेत् | राजसूय फलं याति व्रतस्या स्यानु सेचनात् || एवं भाद्रपदं कुर्यात् कनवीरैः प्रपूजनं | स्नानं संपूजनप्राग्वदर्चनं प्रासनं तथा || १३७अ) प्रीतिकामः सदा कुर्यात् चक्रवर्तित्व माप्नुयात् || न मेरुवकपुष्पर्वामासि आश्वयुजे यजेत् | स्नपनं पञ्चगव्येन सेचनानु विलेपनं || पूजयेत् मल्लिका पुष्पैः सुमना संभवे रथ | दध्ना तु प्रासनं तत्र पुत्रकामेन कारयेत् || अश्वमेधफलं याति व्रतस्यास्य प्रभावतः | कार्तिकीमासिसंप्राप्ते चतुर्दश्यां शिते दिने || उपोष्यमशुचिर्भूत्वा पूजयेत् परमेश्वरं | महास्नानं प्रकर्तव्यं सहश्रैकेन मानतः || पयसा च तथा दध्ना घृतेन मधुना तथा | तथा गन्धोदके नैव संपूज्य च विधानतः || विल्वपत्रैस्तु संपूज्य कुंकुमे केशरेण च | दातव्यादीपमाला तु मालावति चतुष्टयं || धूपं कृष्णागरुं देयं स चन्द्रं कुंकुमान्वितं | भक्षाणि विविधान्यत्र शाकमूलफलानि च || दातव्यानि प्रयत्नेन सहश्रं परिवर्तयेत् | तथाहोमः प्रकर्तव्यः गुग्गुलेन घृतेन तु || १३७ब्) आचार्यास्तत्र वै पूज्या दशद्वादशपञ्च वा | सुवर्णरत्नवस्त्रैश्च भूमियानैर्विशेषतः || रात्रौ जागरणं कार्यं प्रभाते पूजयेत् तथा | व्रतं समर्पयेत् पश्चाच्छिवाय परमात्मने || प्रासयेद् ब्रह्मकूर्चन्तु क्रमप्राप्तं निरुच्यते | गोमूत्रं गोमयं क्षीरं दधिसर्पिकुशोदकं || ग्राह्यं वै कापिलं यत्नात् पञ्चब्रह्माभिमंत्रितं | गोमुत्र गोपलमात्रं वामदेवाभिमन्त्रितं || कर्षार्द्धं गोमयन्यैव सद्योजाताभिमंत्रितं | अष्टधा घोरदेवन्तु पलमात्रे घृते न्यसेत् || पुरुषेण प्रयत्नान्तु त्रिपलं दधि मन्त्रयेत् | ईशानेन पलान्यष्टो क्षीरस्येवाभि मन्त्रयेत् || कुशोदकं शिवे नैव शतावर्त्य पलद्वयं | परितो होमकुंडाय वेकैकन्तु क्रमान् न्यसेत् || साष्टोत्तरशतं नैव तत्र सर्वाभि मंत्रयेत् | तंत्रिभागं समुद्धृत्य शिवाय विनिवेदयेत् || आचार्यायतद्वच्च हेमपात्रे समर्पयेत् | १३८अ) स व्रतो भूमिं संयुक्तौ वराश्वं हेमसंयुतं | दानशोपं ततस्त्रांशं पूजान्ते ब्रह्ममंत्रितं || अतीत्य पश्चिमां संध्या संप्राप्य ब्रह्मकूर्चकं | ब्रह्मभिः कल्पितं यस्माद् ब्रह्महत्यां व्यपोहति || तेनायं ब्रह्मकूर्चेति ख्यातं ब्रह्मादि सेवितं | मुच्यते पञ्चपापेभ्य इहजन्माद्यसंचितं || दीक्षान्ते च प्रतिष्ठान्ते पवित्रान्ते च कारयेत् | आषाढे कार्तिके वाथ चैत्रमाघेथ फल्गुने || यः पिबेत् प्रयतो भक्त्या शिवसा योज्यतां व्रजेत् || इति कालोत्तरे महातंत्रे ब्रह्मकूर्चविधिः || ईश्वर उवाच || चतुर्दश्यां विशेषेण मार्गशीर्षस्य षण्मुख | स्नापयेत् पूर्वविधिना वित्तसाध्यं विनायुत || सुगन्धिपुष्पः संपूज्यं चंपकैर्वा विशेषतः | जपहोमादिकं कर्म प्रागुक्तं च समाचरेत् || गोमेकां दक्षिणां दद्यादाचार्याय प्रयत्नतः | प्रासनं ब्रह्मकूर्चन्तु कर्तव्यं पूर्ववत् सुत || पौष्पे चैव शिवं पूज्य अर्कपुष्पैस्तु लक्षतः | स्नपनं प्रासनं दानं कार्तिके तु यथा तथा || य एवं कुरुते यत्नाद् विद्या तत्व पतिर्भवेत् | यावज्जीवं प्रकर्तव्यं प्रतिसम्वत्सरं सुत || समर्पयेद् व्रतं तज्ञा मोक्षमक्षयमिच्छता | आगमोत्थित कार्याणि व्रतानि नियमानि च || परतंत्रादि तान्यस्मिन् वर्जनीयानि यत्नतः || इति कालोत्तरे महातंत्रे व्रतयात्रापटलं || ईश्वर उवाच || दरिद्राणामनाथानांमक्षमाणां विशेषतः | वालवृद्धानां तुराणां च भोगिणां स्त्रीषु वालिषु || विधानं तेषु वक्ष्यामि यथामुच्यन्ति षण्मुख | भूतायां फाल्गुने कुर्यान्नित्यकृत्यत्वनन्तरं || रात्रौ विशेष पूजान्तु महास्नपनसंभृता | महादीप द्वयं देयं शतमष्टोत्तरं पुनः || स घृतं गुग्गुलं धूपं शिवं पशुपतिं यजेत् | खण्डखाद्यान्यनेकानि भक्षाणि विविधानि च || शुद्धानि मृदुमष्टानि शालिभक्षाणानेकशः | संपूज्यपरमेशानं शिवं परमकारणं || १३९अ) शिवभक्तास्त्रये विप्राः पूजितव्याः शिवाग्रतः | यथासामर्थ्यतो भक्त्या वित्तसाठ्यं विनासुत || रात्रौ जागरणं कार्यं शिवस्याग्रं शिवं यजेत् | एवं व्रतवरं शम्भोः प्रभाते पूज्य निवर्तयेत् || शिवोदाता शिवोभोक्ता शिवः सर्वमिदं जगत् | शिवो यजति सर्वत्र यः शिवः मोहमेव च || कर्मणा मनसा वाचा दुष्कृतं यन्मयाकृतं | न्यूनाधिकं महादेव द्रष्टव्यं च क्रियात्मकं || तत्सर्व परमेशान गृहाणपरमेश्वर | नित्यं नैमित्तिकं काम्यं यत्कृतं तु मयाशिव || तत्सर्वं परमेशान मयातुभ्यं समर्पितं | कालात्मना त्वया देव स्थितोसि चिदचित्यते || क्लिष्टमक्लिष्टमेवास्त्र साम्ययात्वधिकं पुनः | कृपया सर्वभूतानां कुरु देव जगत्पते || न कृतं तु मया किंचिद् व्रतं दानादिकं क्वचित् | अनेन व्रतमुख्येन सर्वसंपादितं मया || व्रतदानादिकं शंभोः त्वत् प्रसादान् त्वदाज्ञया | इदं व्रतवरं देव मयातुभ्यं समर्पितं || १३९ब्) परिद्रेश्च परीतैश्च यतिभिर्योगिभिस्तथा | वालवालिशवृद्धैश्च स्त्रीनरैर्व्याधि पीडितैः || प्रयत्नान् फाल्गुने कार्यं शिवस्याग्रे तु जागरं | ये तस्मिन् भूतदिवसे विशेषान्नार्चयन्ति च || शास्तो भूतपतिस्तेषां भूतैश्च परिभूयते | फाल्गुने चैव भूतानां तस्मात् भूतमति जयेत् || अष्टम्यां तु चतुर्दश्यां व्रतान्युक्तानि पूर्ववत् | तानि सर्वाणि ते नैव व्रतान्येव कृतानि च || इति कालोत्तरे महातंत्रे फाल्गुणकृष्णचतुर्दशीव्रतपटलं || ईश्वर उवाच || चैत्रशुक्लान् समारभ्य व्रतार्थमथवोच्यते | उपोष्यशुचिना षष्ठ्याम्विशेषात् षण्मुख यजेत् || मृदयां प्रतिमां कृत्वा पटे कुर्याद् विशेषः | षण्मुख द्वादशभुजं वालवत् काञ्चन प्रभं || मयूरवाहनं देवं सर्वलावण्यपूरितं | शक्तिघण्टपताकाक्षपाशकुर्कुटभूषितं || १४०अ) दण्डाभयौसवरदं विट्केषुविसराजितं? | संपूज्यपरया भक्त्या शुक्लपुष्पापचारतः || नैवेद्यगन्धवस्त्रादीन् शुक्लान्येव प्रदापयेत् | ब्राह्मी रसं समादाय कापिलाज्य पलं तथा || गरश्वत्यानुना मन्त्रा सहश्राष्टोत्तरेण तु | आचार्य पूज्ययेद् भक्त्या वस्त्र हेमान्नवाहनैः || ब्राह्मीरसं घृतं पश्चाद् व्रतान्ते प्रासनाहतं | मासि मासि प्रकर्तव्यं यावत् सम्वत्सरावधिः || ब्रह्मचर्येण शुचिना अष्टमेकं यदाचरेत् | महाकविर्भवेत् सोहि भुवि वाचस्पतिर्यथा || शकृद् गृह्नाति शास्त्राणि वादिनां मूर्द्ध्नि तिष्ठति | रक्षो विनायकास्तस्य ग्रहा नाना विधास्तथा || डाकिन्या डामरिकास्तेषा न हिंसन्ति कदाचन | स्कन्द ग्रहा महाघोरास्तथा पस्मार दुग्रहाः || न हिंसन्ति महासेन व्रतस्यास्य प्रभावतः | इदं व्रततमश्रेष्ठं कर्तव्यं भूतिवर्द्धनं || षण्मुख पार्वती पुत्र स्कन्धं गुह्यं कुमारकं | १४०ब्) कार्तिकेयं तथा वालं तथान्यं क्रौञ्च सूदनं | तारकाराति संज्ञञ्च तथान्यं कृतिकासुत || वैशाखञ्च विशाखञ्च मासि मासि प्रपूजयेत् | सूर्यं सूर्यकलायुक्तं शशिना मूर्द्ध्नि भूषितं || क्रमेण मन्त्रा बोद्धव्या द्वादशानां शिखिध्वज || इति कुमारव्रतं || चैत्रशुक्लनवम्यां तु मातृव्रतं समाचरेत् | चतुःषष्टिस्तु संपूज्या भैरवेण समन्विताः || स्रग्गन्धवस्त्रनैवेद्यैः प्रभूतैः सुशितैः शुभैः | कन्यापि वरमाप्नोति वहुपुत्रास्ति यो भवेत् || राजाविजयमाप्नोति भुंक्ते राज्यमकंटकं | ब्राह्मणाः क्षत्रिया वैश्याः ये चान्ये सूद्रजातयः || सर्वत्रजयमाप्नोति भये न्यापि विवर्जिताः | मातरश्चैव संपूज्या यथाशक्त्या प्रयत्नतः || तदग्रे शिवभक्तांस्तु व्रताचाराविशेषतः | एवं कृत्वा विधानेन सर्वत्र जपमाप्नातियात् || ब्रह्माणी चैव माहेसी कौमारी वैष्णवी तथा | वाराही ऐन्द्री चामुण्डा योगेशी गौरी चाम्बिका || १४१अ) आग्नेयी वारुणी चैव वायव्या व्योमसंज्ञका | (भुरुंण्ठा? च तथा रात्रिः सुप्तरात्रि?) लं पदागजवक्त्रा गारुडी च जयां जयेत् | विजया च जयंती च तथा चान्या पराजिता || सिद्धारक्ता तथा शुक्ला उत्पलां पूजयेत् तथा | भुरुण्ठा च तथा रात्रिः सुखरात्रिस्तथा पुनः || कालरात्रि महाकाली मृत्युदुती विशेषतः | शिवदूती वर्षकर्णा पूजितव्याघघोदरी || पूजितव्या गलगर्जा तथा उल्कामुखी पुनः | हंसवक्त्राश्च वक्त्रा च सिंहव्याघ्रमुखी तथा || जीचूलूकमुखा देवी मार्जारी-ऋक्षवानरी | उष्ट्रमुखी वा नवमुखी गोमुखी सुमुखी तथा || भैरवी चैव संपूज्या तथा वै कृष्णरैवती | शुष्करैवति संज्ञा च तथा संकु न रैवती || लंकेश्वरी भद्रकाली श्रीघोणा सिद्धिरेव च | घंटाकर्णी तथा निद्रा मातरः परिकीर्तिताः || नवम्यां पूजयेद् यस्तु मासि वाश्व युजे यदा | अखण्डित प्रभावास्तु भवन्तै नात्रसंशयः || १४१ब्) अहन्यहनि यो भक्त्या स्मरेत् पूजा वसानतः | ग्रहदोषान्नवाधन्ते परकृत्या विशेषतः || दुःस्वप्नाव्याधयो भूता हिंसकाश्च विनायकाः | स्कन्ध ग्रहा पूतनाश्च डा*?डमरिकास्तथा || स्मरणात् तस्य नश्यन्ति मारीदुर्भिक्षं कल्मषं | उलूकं काकवन्द्या च सुपूजा चैव जायते || इति मातृव्रतं || चैत्रशुक्लत्रयोदश्यां अनंमंतु पटे लिखेत् | नीलदूर्वाकुरस्यामहस्ते मात्रं प्रमाणतः || रति प्रीत्यो भवोर्मध्ये योष्यशायकदापधृक | प्रयकसंस्थितः कार्यः सर्वतुल्य न मध्यतः || नान पुष्पैस्तु संपूज्य वस्त्रनैवेद्य दीपकैः | धूपैर्नाना विधै हृदौर्नाना तोद्यरवेण तु || पुष्पमण्डल मध्ये तु रम्याद्याने तु पूजयेत् | आचार्यानि विधया शक्त्या पूजितव्यः प्रयत्नतः || तस्तु हेमान्नघनैश्च यथाशक्त्या तु भक्तितः | पुमान् कामत्व माप्नोति सर्वस्यैव प्रियो भवेत् || सौभाग्यं प्राप्नुयान्नारी इहलोके परत्र च | १४२अ) मासि मासि यजेद् वाथ यथानुक्रमयोगतः | एकस्मिन् वादिने वत्स वत्सरे तु समर्चयेत् || मदनंचित्त भू कामं मन्मथं तु रति प्रियं | अनग्नं चैव कन्दर्प्यं संपूज्य मकरध्वजं || कुसुमायुधसंज्ञञ्च तथा पूज्यमनो भवं | तथा विषमवाणं च द्वादशं तु रति प्रियं || मासि भाद्रपदे यत्नादनग्नं पूजयेत् सदा | इत्येतन्नियमे नैव कामव्रतं समाचरेत् || इति कामव्रतं || गौरीव्रतमतो वक्ष्ये स्त्रीणां सौभाग्यवर्द्धनं | चैत्रशुक्लतृतीया या गौरीव्रतं समाचरेत् || उपोष्य तत् प्रयत्नेन विधानमिदमाचरेत् | रक्तांवरवरोभूत्वा क्रोधलोभविवर्जितः || स्थण्डिले हस्तमात्रं तु कर्तव्यं गन्धमण्डलं | कुंकुमेन्दु सुशीतेन वर्तुलं परिवर्तयेत् || तत्र मध्ये पूजितव्या प्रतिमालोहसम्भवा | मधुजातदभावान्तु सुराङ्के नाथ निर्मिता || रक्तचन्दनजावाथ कर्तव्या सा प्रमाणतः | पञ्चवृताथवा पूज्य चैत्रमासे विधानतः || १४२ब्) रक्तपुष्पैस्तु संपूज्य जाती चम्पकसंयुतैः | पाटलैः करवीरैश्च रक्तपद्मैर्यथा तथा || पारितै मल्लिकाकुक्षै तथा रक्तोत्पलैरलं | स्थलपद्मैः किंसुकैश्च सुमनोत्पलकंटकैः || एवं पुष्पैर्न चान्यैश्च पूजनीया प्रयत्नतः | इन्दुना कुंकुमे नैव भूयो भूयः समालभेत् || नाना विधानि रत्नानि मुकुटं कटकानि च | कुण्डला भरणा नात्र रचनादीनि दापयेत् || भक्षाणि यत्नतो दद्यात् घृतखण्डयुतानि च | शीतलञ्च घनं दुग्धं तथा शिखरिणीं पुनः || पानकं चैव पानीयं स चन्द्रं दापयेत् ततः | रक्तवस्त्राणि देयानि खानपानानि वा पुनः || आचार्यं चैव पूजान्ते पूजनीयं प्रयत्नतः | हेमवस्त्रान्न पानैश्च चित्तसाठ्यं विनासुत || * * * * * * * * * * * * * * * * |? देवीनामानि वक्ष्यामि मासि मासि यथाक्रमं || * * * * * * * * * *? वदनुपूर्वशः | १४३अ) गौरी उमा च ललिता सुभगाभगमालिनी | मनोन्मनी भवानि च कामदा भोगवर्द्धिनी || अंबिका च तथा कृष्णा रुढाली पूजयेत् क्रमात् | इत्येताः शितपक्षे तु कृष्ण पक्षे तथा शृणु || रतिः प्रीतिर्द्धृतिवृद्धि मति यृष्टिश्च? कीर्तिताः | प्रज्ञामेधा तथा चर्या श्रीरक्षा कीर्तिरेव च || सितासिताभ्यां पक्षाभ्यां व्रतं यत्नात् समाचरेत् | अशक्तत्वादभावाच्च द्रव्याणां च शिते हितं || मासि मासि प्रकर्तव्यमभावाच्च द्वत्सरे हितं | प्रासनं तत्र कर्तव्यं शास्त्रोक्ते नैव वर्त्मना || प्रतिमासि प्रवक्ष्यामि शुक्लपक्षे क्रमेण तु | क्षीरं दधिघृतं चैव गोमूत्रं च कुशोदकं || विल्वपत्रोदकं चैव तथान्यं चन्दनोदकं | तथा तिलोदकं चैव पद्मकेशरमेव च || नागकेशरसंज्ञञ्च लवङ्गं शशिमेव च | शुक्लपक्षे तु कथितं चैत्रात् प्रभृति षण्मुखः || कृष्णपक्षे प्रासनं तु कथमानं शृणुष्वतः | वलां कक्कोलकं चैव प्रासयेत शतावरीं || १४३ब्) * * * सुरदारुञ्च मारिचा शंखपुष्पिकां | शैरीसंसुरभिर्युक्तं रक्तञ्च मौक्तिकं तथा || तारोदकं द्वादशमं प्रासनं कथितं तव | इति गौरी व्रतख्यातं सौभाग्यं स्त्रीषु पुत्रदं || आयुरारोग्यवत् स्त्रीणामिहलोके परत्र च | इदं व्रतं वरं त्यक्ता स्त्रीषु नानां व्रतं हितं || तस्मात् सर्व प्रयत्नेन गौरीव्रतसमाचरेत् | अर्चनं रक्तवस्त्रञ्च तांबुलं कुंकुमं तथा || दर्पणं व्यजनं च्छत्रमासनं पानमुत्तमं | गृहोपकरणं सर्वं हेमजं वाथ ताम्रजं || तावन्ति चैव दातव्यमाचार्या च प्रयत्नतः | स्त्रीणां चैव कुमारीणां वस्त्रान्या भरणानि च || दातव्यानि प्रयत्नेन यदिच्छेद्भूतिमात्मनः | इत्येतत् सव *? स्यं? कुमारीव्रतमुदाहृतं || इति गौरीव्रतं || नक्षत्रतिथियागञ्च ग्रहयोगमतः शृणु | अष्टम्यां तु चतुर्दश्यां पक्षयोरुभयोस्तथा || अश्विनी रोहिणीति *? मघास्वाति तथैव च | श्रवणरैवती चैव यदा भवति षण्म्ख || १४४अ) भास्करं चन्द्रमादित्यं कविः सोमसतो गुरुः | नक्षत्राणि क्रमेणैव यदि स्युस्तिथितः सुत || सुश्विन्यादित्य वारे तु यदि शुक्लाचतुर्दशी | स्नानं विशेषतः कार्यं शिवस्य परमात्मनः || अङ्गराद्यं रोचनाया रक्तपुष्पैः प्रपूजयेत् | कपिलाज्यं तथाक्षीरं नैवेद्यं परिकल्पयेत् || दीपमालाघृते नैव तिलतैलेन वाहितं | घृताक्तं गुग्गुलुं धूपं शिवस्याग्रे प्रकल्पयेत् || शिवभक्ताय विप्राय हेमदानं प्रकल्पयेत् | आसनं कुंकुमे नैव कर्तव्यं साधकेन तु || एतत् सूर्यव्रतं कार्यं भक्त्या पुत्रार्थे भिन्नरैः | पुत्रास्तुस्तस्य जायन्ते सर्वलक्षणसंयुता || इति सुर्यव्रतं || चन्द्राष्टम्यां रोहिणी स्यात् तदा चन्द्रव्रतं चरेत् | शिवं संपूज्य विधिवत् स्नानैः पंचामृतादिभिः || विलेपनन्तु चन्द्रेण चन्दनेन तु वाहितं | शुक्लवस्त्रैस्तथा पुष्पै पूजयेत् परमेश्वरं || नैवेद्यं क्षीरकुंभैस्तु सितसर्करा युतं | १४४ब्) प्रासनं चन्दने नैव रात्रौ जागरणहितं | आयुः कामैः सदाकार्यं कीर्तिश्री साधने हितं || इति चन्द्रव्रतं नामहारदानेन जायते | इति सोमव्रतं || शुक्लपक्षे चतुर्दश्यां यदा तिथ्यार्कसंभवं | पूजयेत् पूर्वविधिना सोपवासे न लिंगिनां || कुंकुमेनांगरागं तु गन्धपुष्पैः प्रपूजयेत् | पायसं सघतं देयं शिवाय प्रस्थमानतः || भूमिदानं प्रकर्तव्यं शिवभक्ताय यत्नतः | अनेन व्रतमुखेन पृथ्वीपतित्वमाप्नुयात् || एतद् भूमिव्रतं नाम पृथ्वीपालस्तु कारयेत् || इति भूमिव्रतं || वृहस्पतिमघायोगं चतुर्दश्यां यदा भवेत् | उपोष्य पूजयेत् तस्या देवदेवं महेश्वरंः || महास्नान प्रचारेण महावर्ति पुरःसरैः | अङ्गरागं चन्दनेन शुक्लपुष्पैः प्रपूजयेत् || धूपं * * * लं देयं लघुना चन्द्रसम्मितं | शितवस्त्राणि चाश्वञ्च आचार्याय प्रदापयेत् || १४५अ) जाती फलौः? प्रासनञ्च रात्रौ जागरणं हितं | एतदेवव्रतं नाम आयुश्री कीर्तिवर्द्धनं || इति देवव्रतं || बुधस्वात्यात्मकं योगं यदाष्टम्यां प्रजायते | उपोषितेन विधिना महास्नान पुरःसरं || पूजयेत् विरूपाक्षमङ्गरागं चतुःसमं | महावर्ति द्वयं देयं दीपं साष्टोत्तरं शतं || लघुकुंकुमधूपन्तु शितपुष्पैश्च पूजयेत् | खंडखाद्यान्यनेकानि नैवेद्यं तु प्रकल्पयेत् || आचार्याय शिवस्याग्रे देयञ्च मुकुटादिकं | रसना कुंडलं चैव कङ्कणं मुद्रिका द्वयं || वाहनं वेगदण्डन्तु तदभात्रा द्वयोत्तमं | संपूज्य परया भक्त्या अन्नं ससर्करं घृतं || राजराजेश्वर पदं प्राप्नुयाद्रोमसंख्यया | राजराजेश्वरं तेन व्रतमेतत् प्रकाशितं || राजराजेश्वरव्रतं || शुक्रश्रवण योगन्तु यदाष्टम्यां प्रजायते | चतुर्दश्यामथोवत्स तदाव्रतं समाचरेत् || उपोषितेन विधिना महास्नानं समाचरेत् | १४५ब्) अङ्गरागं चन्दनेन गोरोचनाकुंकुमेन च | महादीपं चतुष्टयं धूपं कृष्णागुरुंहितं || नैवेद्यं घृतभूयिष्ठं पावकेन समन्वितं | भोगानि विविधान्यत्र शिवस्याग्रे प्रकल्पयेत् || आचार्यं पूजयित्वा तु वस्त्र हेमान्न भूषणैः | प्रत्यग्रं कुंजरं तस्मै शिवस्याग्रे प्रकल्पयेत् || ऋग्यजुःसामथर्वाणमेकैकं तद्वदेव हि | इदं महाव्रतं नाम मया ते परिकीर्तितं || विलसेदवनीं सर्वां सप्तद्वीपां स सागरां | रात्रौ जागरणं कार्यं महाविभवसंयुतं || पितॄन् पितामहांश्चैव तथैव प्रपिता महान् | पुत्रं पौत्रान् प्रपौत्राश्च शिवलोकेन यत्फलं || इदं महाव्रतं नाम कर्तव्यं पृथिवीश्वरैः || इति महाव्रतं || रैवती चन्द्रयोगे तु शिताष्टम्यां यदा भवेत् | भूतायां वा महासेन तदा व्रतमिदं शृणु || महास्नानं प्रकर्तव्यं नित्यकृत्यादनन्तरं | चन्द्रेणैवाङ्ग रागं तु रत्नपूजां प्रकल्पयेत् || १४६अ) शितपुष्पाणि देयानि भूषणानि वहूनि च | चन्द्रमे च दहेद्धूपं नैवेद्य पायसं घृतं || श्वेताश्वं तरुणं सौम्य शिवाय विनिवेदयेत् | अश्वाष्टकं कुंजरञ्च आचार्याय प्रदापयेत् || ऋग्यजुः सामथर्वाणां प्रत्यश्वं कुंजरं तथा | राज्यार्थी लभते राज्यं यावदा भूमिं स प्लवं || पुत्रार्थी लभते पुत्रान् वसुकुला परा क्रमात् | भोगार्थी लभते भोगान् विद्यातत्वे तु शास्वतान् || यायान् कामयते मन्त्री अनतान् कामान् वाप्नुयात् | विश्वरूपमिदं तेन व्रतमेतदुदाहृतं || कुशोदकं प्रासनन्तु रात्रौ जागरणं ततः || इति विश्वरूपव्रतं || नक्षत्रतिथि योगेन तिथीनां ग्रहयोगतः | पुनरेव प्रवक्ष्यामि व्रतानि तु यथास्थितं || रोहिण्या चाष्टमी योगं यदा भवति तत्वतः | विशेषपूजा कर्तव्या पुत्रकामैः प्रयत्नतः || पौषशुक्लचतुर्दश्यां गुरुयोगं यदा भवेत् | अथ वा सोमसंयोगाद् विशेषा पूज्यशङ्करं || १४६ब्) पायसं घृतसंमिश्रं शिवाय विनिवेदयेत् | धूपदीपौ पहाराद्यैः पूर्ववत् पूजयेच्छिवं || प्रासनं तु घृतं कार्यं सर्वकामव्रतंमिदं | आदित्य रैवती योगं चतुर्दश्यां यदा भवेत् || अष्टम्यां तु मघायोगा च्छिवं संपूज्य पूर्ववत् | विल्वन्तु प्रासने शस्तमादित्यव्रतमीरितं || आरोग्यं जायते तस्य पुत्रवन्धु गणैः सह | रोहिणी चन्द्रयोगञ्च चतुर्दश्यां यदा भवेत् || अष्टम्यां मृगसंयोगात् तदा चन्द्रव्रतं चरेत् | प्रागुक्तेन विधानेन शिवं पूज्यविधानतः || दधिक्षीरं तु नैवेद्यं प्रासनं क्षीरमेव च | कीर्तिमारोग्यमैश्वर्यं प्राप्नुयान्नानृतं वचः || अश्विनी भौमसंयोगं चतुर्दश्यां यदा भवेत् | अष्टम्यां भरणी योगात् तदा सोमव्रतं चरेत् || संपूज्य परया भक्त्या शिवं पंचोपचारतः | रक्तोत्पल प्रासनं तु साम्राज्यं प्राप्नुयात् सुत || रोहिणी बुधसंयोगं चतुर्दश्यां यदा भवेत् | १४७अ) अष्टम्यां वा महासेन बुधव्रतं समाचरेत् | शिवं पूज्यविधानेन महास्नानपुरःसरं || महावर्ति समोपेतं प्रासनं पायसं घृतं | पुत्रार्थी दारपशुवत् तस्य वर्द्धति चान्यथा || रैवती गुरुसंयोग चतुर्दश्यां यदा भवेत् | अष्टम्यां तिथि योगाद् गुरुव्रतं तदा चरेत् || प्रासनं कपिलाज्यन्तु ब्राह्मी रससमन्वितं | वागीशत्वमवाप्नोति व्रतस्यास्य प्रभावतः || श्रवणं भार्गव युतं चतुर्दश्यां यदा भवेत् | शुकव्रतं तदा विद्धि पुनर्च अष्टमी यदा || संपूज्यपरमेशानं यथाविभवविस्तरैः | प्रासनं मधु चैवात्र महाज्ञानमहाप्नुयात् || भरणीशनियोगन्तु चतुर्दश्यां यदा भवेत् | एतच्च योगं तथाष्टम्यां तदा व्रतमिदं चरेत् || शिवं संपूज्यविधिवत् प्रासनं शम्यगे वच | शनिरेकादशस्थं हि फलं ददाति शोभनं || विरुद्धं शोभनं वत्स तदर्थन्तु व्रतं चरेत् | हेमरुक्मं प्रवालञ्च क्रोकरं मुक्तिरेव च || १४७ब्) शंखं सतारं लोहञ्च क्रमाद् यत्नेन दापयेत् | यथासंभवतो वत्स आचार्याय प्रयत्नतः || इति कालोत्तरे महातन्त्रे ग्रहव्रतपटलं || कार्तिकेय उवाच || व्रतानि स विशेषेण मासि मासि वद प्रभो | यावद्वैवत्सरं कृत्सं प्राणिनाग्नेह वत्स || ईश्वर उवाच || कृष्णाष्टम्यां मार्गशीर्षे नक्तभोजी यदा भवेत् | संकरं नाम वै रुद्रं भवान्या सह पूजयेत् || इहरं विन्दुना देवीं महतूशंकरं ममः | स्वमन्त्रौ परिपूजा तु विशेषणैव कारयेत् || अग्निष्टोमस्य यज्ञस्य फलं शतगुणं लभेत् | गोमुत्रचुलुकं पीत्वा हविष्यान्नं तु कारयेत् || संभुरुद्रञ्च सर्वाण्यपोष्यसंपूज्यपूर्ववत् | शिवभक्तास्तु संपूज्य कृष्णाष्टम्या शिखिधवज || आचार्य पूजान्निर्वर्त्य गोघृतं त्रिपलं पिबेत् | हविष्यान्नं ततो भुक्त्वा वाजपेय फलं लभेत् || माघमासेश्वरं नाम कृष्णष्टम्यां प्रपूजयेत् | १४८अ) अंबिका सहसंयुक्तं पूर्ववत् मंत्रसंयुतं | शैवाचार्या न पूजयित्वा क्षीरप्राशापलत्रयं || गोमेधशतपुण्यन्तु प्राप्नुयान्नात्रसंशयः | फाल्गुणस्या शिताष्टम्यां महादेवं समर्चयेत् || मालिनी सहसंयुक्तं नित्यकृत्यादनन्तरं | शिवभक्तायभूर्देया तिलसंप्रासयेत् पलं || राजसूया युतफलं लभन्ते शिवयोगिनः | चैत्रे स्थाणुमिन्द्राणीं कृष्णाष्टम्यां प्रपूयेत् | शिवभक्तं विशेषेण प्रत्यष्टम्यां प्रपूजयेत् | सुवर्णवस्त्रे भूम्याद्ये वित्तसाठ्यं विना ततः || ईशदृग्बंधवं प्रास्य अश्वमेध फलं लभेत् | वैशाख शिवनामानं शक्त्या सहसमर्चयेत् | पूर्वोक्तेन विधानेन शिवभक्तं सदार्चयेत् | कुशोदकं रसं प्रास्य नरमेधफलं लभेत् || जेष्ठपशुपति पूज्य पार्वत्या सहितं सदा | नित्यं निर्वर्त्य तत्रैव संपूज्यविधिनासुत || गोविषाणोदकं प्रास्य गोमेधफलमाप्नुयात् || १४८ब्) आषाढे चोग्ररुद्रन्तु मनोन्मन्या महार्चयेत् | कुशोदकं तु संप्रास्य राज्यसूयफलं लभेत् || श्रावणे सर्वनामानं वामशक्त्या महार्चयेत् | पद्माक्षन्तु संप्रास्य सर्वयज्ञफलं लभेत् || मासि भाद्रपदेष्टम्यां त्र्यंबकं नामपूजयेत् | ज्येष्ठाशक्ति समायुक्तं प्रागुक्तेन विधानतः || प्रासयेद्धित्व पत्रन्तु गुरुपूजादनन्तरं | सम्यक् क्रतुशतं तेन कृतं भवति नान्यथा || मासि आश्व पुरुपूज्यं ईश्वरं कांतयो सह | रत्नोदंकं तु संप्रास्य पौण्डरीका युतं लभेत् || कार्तिके रुद्र नामानं मनोन्मन्या महार्चयेत् | गुरुं संपूज्यविधिवत् प्रासयेत् तु गव्यं दधि || अग्निष्टोमायुतं तेन इष्टं भवति षण्मुख | वर्षान्ते भोजयेद् विप्रान् शिवभक्ति परायणान् || भूमिकुंजर पानैश्च रत्नद्रविणविस्तरैः | पूजयेत् परया भक्त्या व्रतानां यो गुरुर्भवेत् || १४९अ) वित्तसाठ्यात्महासेन न तत्फलमवाप्नुयात् | पौषमासे तु संप्राप्ते पक्षयोरुभयोः सुत || चतुर्दश्यामथाष्टम्यां पूर्णमास्यामथापि वा | नित्यं निर्वर्त्यविधिवत् ततः काम्यं समाचरेत् || विशेषपूजा तत्रैव कर्तव्या शुद्धचेतसा | नैवेद्यपावकप्रस्थं खण्डक्षीरादि संस्कृतं || रुद्रसंख्या तु वै विप्रान् भोजयेच्चैव दक्षयेत् | वितस्तिमात्रप्रकृतिं यवाष्टकविनिर्मिता || सशृङ्गखुरलांगुल्यं कृतभूषां तु कारयेत् | शिवाय तु प्रदातव्या कपिला गुरवे ततः || सवानसमायुक्ता व्रतपुण्यमतः शृणु | सूर्यकोटिप्रतिकाशै विमानैः सार्वकामिकैः || रुद्रवृन्दसमाकीर्णैः रुद्रकन्यासमावृत्तैः | वृषभस्य *?नैर्युक्त नानागीतरवान्वितं || त्रिसप्तकुलसंयुक्तं योत्यसौ यत्रशङ्करैः | यावत्तद्रोमसंख्यानं तत्प्रसूति कुलेषु च || १४९ब्) तावद्युगसहश्राणि रुद्रलोके महीयते | सामीपं तु समासाद्य सा योज्यं याति चां ततः || अनेन विधिना मायाखड्गं पिष्टमयं शिवे | समर्प्य च विधानेन चक्रवर्ति पदं लभेत् || फाल्गुने तु यथा चक्रं निवेद्य इन्द्र पदं लभेत् | चैत्र? श्रुवं पिष्टमयं निवेद्य च शिवाग्रतः || समुच्यते ब्रह्महस्तत्यां शिवलोकमवाप्नुयात् | वैशाखे मासि दण्डास्त्रं शिवस्याग्रे निवेदयेत् || हस्तोर्द्धं पिष्टकं कार्यं पूजान्ते विनिवेदयेत् | मुच्यते पञ्च पापेभ्यो रुद्रलोके महीयते || जेष्ठपिष्ठ मयं चक्रं शिवाय विनिवेदयेत् | मुच्यते तु कृत *? त्वात् रुद्रलोकञ्च गच्छति || आषाढे पिष्टजं पाशं शिवाय विनिवेदयेत् | मुच्यते दुःकृतैः पर्वैरिहजन्मोन्यसञ्चितैः || ध्वजं पिष्टमयं यस्तु शिवस्याग्रे निवेदयेत् | श्रावणे तु विधानेन मोक्षयं मोक्षमाप्नुयात् || १५०अ) मासि भाद्रपदे यस्तु गदांपिष्ट मयीं ददेत् | निधीशत्वं तु संप्राप्य शिवलोके महीयते || मासि आश्वयुजेशूलं हस्तार्द्धं पिष्टसंभवं | शिवाय पुरतोदेयं भ्रूणहत्यां व्यपोहति || कार्तिके तु यदा चक्रं शिवस्याग्रे समर्पयेत् | सप्तजन्मकृतं पापं दहत्यग्निरवेन्धनं || मासि वै मार्गशीर्षे तु कमलं पिष्टसम्भवं | शिवाय विनिवेद्येवं सर्वेश्वर्यमवाप्नुयात् || सर्वेषा चैव नक्तं तु व्रतानां कीर्तितं | मयानित्य पूजा तु निर्वर्त्य काम्यपूजां तु कारयेत् || मासि मासि गुरो पूजा कर्तव्यं तु प्रतिघणं | महापूजा वत्सरान्ते कर्तव्यं तु विधानतः || गुरवो दक्षितव्यास्तु हेमवस्त्रान्न वाहनैः | ततः फलमियात् पूर्णं यथोक्तं कृतिकासुत || वित्तसाठ्यात् महासेन इष्टामूर्तैवियुज्यते | अश्वं वै मार्गशीर्षे तु यश्च षिष्टमयं ददेत् || शिवसंपूज्यविधिवत् सूर्यलोके महीयते | १५०ब्) दिव्यं वर्षसहश्रं तु तदेन्ते स्यात् महीपतिः | पौष्यपिष्ट मयी दन्तौ शिवस्याग्रे निवेदयेत् || त्रिसप्तकुलसंयुक्तः शिवलोके महीयते | दिव्यं वर्षसहश्रं तु तदन्ते स्यात् महीपतिः || चक्रवर्ती महावीरः सर्वैश्वर्य समन्वितः | माघराश्वरथं यस्तु शिवायविनिवेदयेत् | उद्धरेत् सोहि नरकात् पितरौ रौरवादितः || शिवलोके तु वसते दिव्यं वर्षायुत त्रयं | तदन्ते तु महीं कृत्स्नां नवखण्डपतिर्भवेत् || फाल्गुने वृषयूथं तु पिष्टोत्थं रुद्रसंख्यया | नैवेद्यन्तु शिरस्याग्रे त्रैलोक्याधिपतिर्भवेत् || दिव्यं वर्षसहश्रन्तु तदन्ते स्यात् महीपति | चैत्रे गृहमिक्षु मयं दासदासिसमन्वितं || गृहोपकरणैर्युक्तं विचित्रा *? लचर्चितं | पूजान्ते परया भक्त्या शिवाय विनिवेदयेत् || दिव्यवर्ष शतान्यष्टो रुद्रलोके महीयते | जाति स्मरतदन्तेषु चक्रवर्ति पदं तियात् || १५१अ) मासि वैशाखसंज्ञे तु सप्तव्रीहि सरावकान् | शिवाय पुरतो दद्यात् पूजान्ते प्रीति रेवसा || सयांति शिवयोज्यं च रंध्रभिः सहितो नरः | पलानां द्वेशते यस्तु गुग्गुलं तु दहेत् सुधीः || ज्येष्ठमासे शिवस्याग्रे पूजांते भक्तिसंयुतः | त्रिसप्तकुलसंयुक्तः शिवलोके महीपते || तदंतेषु पृथिवी भुंक्ते नवखण्डां स सांगरां | वर्तिमण्डलकं कार्यं आषाढे सूलपाणिनः || नानाभक्षैर्विरचितं नानास्यल्पोपशोभितं | नानाचित्रसमाकीर्णं कर्तव्यं बलिमण्डलं || संपूज्यपरमेशानं ततस्तस्य निवेदयेत् | पितृपितामहांश्चैवं तथैव प्रपितामहान् || पुत्रपौत्रासमायुक्तः शिवलोके महीपते | दिव्यवर्षसहस्राणि तदन्ते पृथिवीपतिः || श्रावणे मासि देवस्य विमानं पुष्पसंभवं | पूजावसानेः दातव्यं विचित्ररचनाकुलं || वर्षायुतप्रमाणं तु रुद्रलोके महीपते | योगीशो जायते चांते येनमोक्षं व्रजिष्यति || मासि भाद्रपदे यस्तु रुद्रपूजान्तरे यदा | १५१ब्) गुग्गुलुं प्रथमं धूपं सुरदारुं ततो दहेत् || विल्वमज्जाघृतं तद्वं तथा नानाघृतान्वितम् | पंचमं अगुरुं देयं धूपं सर्वात्मना विभोः || मासमेकं दहेद् यस्तु नैरन्तर्येण षण्मुख | यातिसां योज्यतां शंभोः स पुत्र पशुवान्धवैः || यस्त्वेकं यत्र पुटकं पूरये क्षीरसर्पिषा | मासमश्वयुजं शंभोः नैरन्तर्येण भक्तितः || तस्य पुण्यफलं वक्तु न शक्नोस्मि षडाननः | तत्कुलोपतिता ये तु डिंवाडिवाहताः पुनः || ते प्रयांति महामेरौ रुद्रलोके यथासुखं | वर्षायुतायुतं साग्रं तदंते तु नरेश्वराः || जायन्ते शिवभक्ताश्च ज्ञानिनो वीतकिल्विषां | शिवदीक्षासमासाद्य ते यांति परमागतिं || वस्त्राधृतमिक्षुरसं पुटकं तु शिवाग्रतः | पूजांते दापयेद् यस्तु मासमात्रं निरंतरं || देहान्ते रुद्रलोके तु मोदते वांधवैः सह | व्रतांते चैव संपूज्य शिवभक्ता यथाविधिः || हेमवस्त्रा न पानै विन्नसाध्यविनासुत | अथातः संप्रवक्ष्यामि मेरुदातं यथाक्रमं || १५२अ) कार्तिकां तु समारभ्य मेरुव्रतसमाचरेत् | कार्तिक्यां रत्नमेरुस्तु दातव्यस्तु शिवाग्रतः || सर्वेषां चैव मेरूणां प्रमाणं क्रमतः शृणु | वज्रपद्म महानील स्फाटिकं नीलसंज्ञकः || पुष्पमारकतं मुक्त्वा ग्राह्याः स्वविभवेन तु | प्रस्थमात्रास्तु संग्राह्या प्रस्थस्यार्द्धार्द्धमेव च || यंथाशक्त्याथवा देया वित्तसाठ्यं विनासुते | मेरोर्विभागं वक्ष्यामि शिवस्याग्रे यथार्चयेत् || कर्णिकायां न्यसेत् मेरुं ब्रह्मविष्ण्वीशभूषितं | तत् पूर्वमाल्यवानौगै? पर्वतं पूजयेत् तदा || तत्पूर्वे भद्रसंज्ञस्तु अश्ववक्षाभातः? परं | मेरुतः पूर्वदिग्भागे पूर्वपूर्वतर त्रयं || कथितं स विशेषेण दक्षिणस्यांस्ततः परं | निषधं हेमकूटं च हिमवांश्च तथा त्रयं || एवमुत्तरभागे तु नीलः श्वेतश्च शृंगरात् | पश्चिमे गंधमाल्याख्यं केतुं वै केतु माल्यकं || एवं द्वादशसंयुक्तं तु मेरुं पर्वतनायकं | सोपवासः शुचिर्भूत्वा विशेषात् पूजयेच्छिवं || महास्नानं प्रकर्तव्यं म्हापूजामथापि वा | पूजान्ते देवदेवाग्रे रत्नमेरुं प्रकल्पयेत् || दातव्यं शिवविप्राय शिवमंत्रं सदा स्मरन् | १५२ब्) वस्त्राश्च सहितं मेरुं तत्र पुण्यफलं शृणु | लक्षयोजन मानस्य मेरोर्यै परमाणतः || तावत् कल्पसहस्राणि शिवलोके महीयते | उद्धरे नरकात् सोहि त्रिसप्तकुलसंततिं || तदत्वयकृताये तु डिंवा डिंवाहता नराः | महापातकि नश्वानो तथा विश्वा स घातकाः || गुरुद्रोह कृता ये तु भ्रूणहा पितृघातकाः | प्रशवे तु मृतानारी कुमारि सूलदूषिता || ते तु रुद्रस्य सामीप्यं सतयत मेरुदा ततः | मेरुदानं च मनसा यः स्मरे तु शिवाग्रतः || यात्यसौ शिवलोकं तु देहान्ते धौतकिल्विषः | हेममेरु प्रमाणं तु फलं चैव शृणुष्वतः || पलानां तु सहस्रेण मध्यमेरुं प्रकल्पयेत् | शृंगत्रयसमायुक्तं ब्रह्मविष्णुहरान्वितं || एकैकं पर्वतं तस्य शतैकैकेन कारयेत् | मेरुणा सहपूर्वे च विख्याता सूत्रषोदश || एवं शिवाग्रतो मेरु दातव्यस्तु प्रयत्नतः | अयनेषु च सर्वेषु ग्रहणेषु विशेषतः || आचार्याय प्रदातव्यं संहिता पारगाय च | पूर्वोक्तस्य महामेरोः सनगस्य महात्मनः || शिवलोके वसे शोहि यावन्तः परमाणवः | १५३अ) पितृन्पितामहांश्चैव तथैव प्रपिता महान् | पुत्रान् पौत्रान् पौत्रांश्च तारयेत् किमतः परं || भोगां भुक्त्वा महीं कृत्स्नां भुक्ते शिव विभाषितः | दरिद्रारौप्य मेरुं तु हेममानेन कारयेत् || पर्वता द्वादश तथा संकल्पो रचनान्विताः | उत्तरे हृयभेदे तद् द्वयं वा ग्रहण द्वय || प्रागुक्तं तु फलं तस्य भवते नात्रसंशयः | भूमि मेरुप्रमाणं तु कथ्यमानं शृणुष्वथ || विषयं मण्डलं वाथ ग्रामं वा पर्वतं स्मरेत् | शेषास्तु दशमासेन नगा स्युः परिसंख्यया || भूमिपर्वतपुण्यं तु को वा वर्णयितुं क्षमः || परमाणु वषं? यावक्षितशो भवते सुत | तावत् कोटि सहस्राणि शिवलोके महीयते || भोगान् भुक्त्वा ततो राजा जायते योगिनां कुले | ज्ञानप्राप्त्या तदा तस्य पुनर्जन्म न विद्यते || हस्ति मेरुमतो वक्ष्ये संक्षेपात् पार्वतीसूत | न वृद्धा न तथो वाला दंतपुच्छसुशोभिताः || शूरं सर्वगुणो पेतं घंटाचामरभूषितं | नक्षत्रमालासंयुक्तं शास्त्रं ध्वजविभूषितं || दिव्यवस्त्रसमायुक्तं सुवर्णरचनायुतं | सूर्यस्य ग्रहणं देयं गुरवे तु शिवाग्रतः || १५३ब्) ते तदन्ते न दंतन्तु लक्षयोजनपर्वतं | गुरुत्रयसंयुक्तं पर्वत द्वादशान्वितं || मुच्यते सर्वपापेभ्यः शिवस्य योज्यता व्रजेत् | पितरस्तस्य मोदन्ते रुद्रलोके समं ततः || एतत् समासतः ख्यातं हस्तिदानं मया सुतः | अथाश्च मेरुं वा देयं यद्दन्तं रचिणा पुरा || स्वेतैर्विनीतैः न वालः कल्पयेत् य च संख्यया | मध्यमेरुं कल्पितव्यं रविसंख्यंस्तु पर्वताः || स वस्त्रहेय पारैश्च सप्तयध्वजभूषितैः | वैशाख्यां वाथ कार्तिक्यां दातव्यं तु शिवाग्रतः || विप्राय शिव भक्ताय संहिता पारगाय च | तस्मै देयं यथों च हेयमेरु विधानतः || संपूज्यपरया भक्त्या हेमकंकणकुण्डलैः | रसना मुकुटे नैव अंगुलीद्वयमेव च || सर्वेषां चैव दानानां भूषणैर्भूषयेत् तदा | अकृत्त्रिमैर्भुषणैस्तु राजामेरौ विभूषयेत् || अश्वमेरु प्रदानेन रुद्रलोके महीयते | यावन्त्यश्चेषु रोमाणि तावद्वर्षा युतानि च || महाकल्प सहस्राणि रुद्रलोके महीयते | अश्वा भावाच्च दारिद्रो गोमेरुं वा प्रकल्पयेत् || १५४अ) अश्वप्रमाणेन फलं वै तत्समं लभेत् | अथवा वस्त्र मेरुस्तु दातव्यस्तु शिवाग्रतः || दिव्यैर्श्वर्य पदैर्याति नाना वर्णैस्तु पर्वतं | मध्यमेरुः कल्पनीयो वस्त्रैः शेषांस्तु कल्पयेत् || भाववस्त्रस्य मानेन ननावर्णैः सुशोभनैः | प्रत्येकं पर्वतं कल्पां हेमं सृंगं सुवर्णकं || शिवभक्ताय विप्राय दातव्यं तु शिवाग्रतः | दिव्यैश्वर्य पदं याति सहस्रकुलसंभवं || दिव्यं वर्षशतं सम्यक् कुर्याद् भागं यथेप्सया | चक्रवर्तित्व सम्प्रति ज्ञानव्यक्तायते तदा || शिवे लयं ततो याति न भूयो जन्ममाप्नुयात् | अथवा घृतमेरुस्तु दातव्यः कथ्यते मया || मेरुः पलानां मध्ये तु सहस्रे पंचभैर्हितः(?) | शतैः पंचभिरेकैकं पर्वतं तत्र कल्पयेत् || तृशृंगं तृपलं मेरुं कांचनं देवतान्वितं | एकैकं पलिकं शेषं पर्वतावस्त्रभूषिताः || कृत्वा पूजाविशेषेण शिवस्याग्रे प्रकल्पयेत् | (पंचखारिमितं मेरुं धामानपरिकल्पयेत् || एकैकखारि) शिवभक्ताय विप्राय दातव्यं शिवमिच्छता | १५४ब्) कुलमुद्धरते सोहि मातृकान् पितृकान् तथा | दिव्यं वर्षशतं साग्रं रुद्रलोके महीयते || भारते पृथिवी खण्डे पतिर्भवति नान्यथा | एवं विखण्डमेरुं तु शितखण्डेन कल्पयेत् || रुद्रलोके पदं याति पितृभिः सह मोदते | अथ वा धान्यमेरुं तु शिवस्याग्रे प्रकल्पयेत् || पंचखारि मितं मेरुं धाम्य न परिकल्पयेत् | एकैक खारि मात्रेण पर्वतं शेषनिर्दिशेत् || पूर्ववद्वेमशृंगं च स वस्त्रं परिकल्पयेत् | शिवपूजावसाने तु शिवविप्राय दापयेत् || कल्पकोटिसहस्राणि शिवलोके महीयते | पितरस्तस्य मोदन्ते ब्रह्मलोके तथाचिरं || एतदष्ट्रांशमातेन तिलमेरुं प्रकल्पयेत् | शृंगाणि पूर्ववत् तस्य तथाचान्य नमेषु च || तिलमेरुः प्रदातव्यः शिवस्याग्रे गुरुः सदा | प्रजाति शिवसायोज्यं वंधुभिः सहितो नरः || दशकोटिसहश्राणि भुक्तभोगान्यथेच्छया | समस्ते मेदिनीं भुक्ते शिवे पश्चात् प्रलीमते || इति द्वादशसंख्याताः पर्वता कथितास्तवः | अत्रमंत्रं तथा कालं ज्ञात्वा मेरुं प्रदापयेत् || १५५अ) अयनेषु च सर्वेषु ग्रहणे तु विशेषतः | मेरुप्रदानं कर्तव्यं उपोष्य शुचिना सदा || नमः कांचन देहाया द्विप्रवदाय? वै नमः | ब्रह्मविष्ण्विश शृंगाय धरानाभि स्थिताय च || नगद्वादशनाथाय सर्वपापापहारिणे | शिवभक्ताय शुद्धाय त्राणं मे कुरु सर्वथा || निःपापः पितृभिः सार्द्धं शिवं गच्छामि हूं नमः | त्वं शिवस्तु शिवस्यार्थे शिवोहं च शिवाय च || निवेदयामि भक्त्या तु पितृणां तारणाय च || इति मंत्रमेरुदानं समाप्तम् || पृथिवी दानमेवाथ शृणु लेशेन षण्मुख | उत्तमा मध्यमा कन्या पृथिवी विविधा मता || शतकोटिर्योजनानां उत्तमापरिकीर्तिताः | सप्तदीपा वसानां तु मध्यमासमुदाहृता || जंबूदीपावधिः कन्याः त्रिविधं परिकल्पयेत् | उत्तमापंचभिर्भारैः कांचनेन प्रकल्पयेत् || तदर्द्धात्तारजं कूर्मं तथा पद्मं समादिशेत् | उत्तमा कथिता पृथ्वी त्र्यंसेन मध्यमा मता || कन्यसात त्रिभागेन त्रिहार्यो कूर्मपंकजे | समाज्यः सामर्थानां तु शिवभक्तेषु निवर्तयेत् || १५५ब्) चतुःपदां षट्पदार्था संहिता पाठिताय च | तस्य पादं प्रदातव्यं पृथ्वीकूर्मकजेषु च || सेषेषु च यथान्यायं ज्ञानं ज्ञात्वा निवेदयेत् | सूर्यस्य ग्रहणे वत्स शिवस्याग्रे प्रदापयेत् || मेरुवत् कल्पयेत् तत्र पर्वताश्च त्रयोदशः | सहस्रेण पलानां तु तत्र मेरुं प्रकल्पयेत् || सहस्र द्वितये नैव कल्प्या द्वादश पर्वताः | चतुशतसमायुक्ता प्रत्येकं * गुहाः शत || तथा वै दीशयः कल्प्य नक्षत्राणि तदर्द्धतः | द्वीपास्तु ग्रहवत् कल्प्या जाम्बूसंज्ञास्तु तत्वतः || आराद्यास्तु? तथा सप्त देवपित्रष्टकं तथा | मृगाद्याश्च तथा षट्कं प्लुतं ब्रह्मादयस्त्रयः || पातालसप्तकं कल्प्यं दूर्लोकाश्चैव सप्त च | सहस्रखण्डकूर्मं च नवखण्डं कजोद्भवं || एवं कल्पशिवस्याग्रे शिवविप्रेषु दापयेत् | अहीनांगसुवृत्तेषु वेदसिद्धान्त वेदिषु || दातव्या पृथिवी तेषां वहुरूपं स्मरं तदा | राहुणा गृह्यमानस्य सूर्यविंबस्य निर्वपेत् || पृथ्वीदानं प्रकर्तव्यं यथानुक्रमयोगतः | सम्यक् समे च दातव्या तथा पूर्वादिता नगाः || ग्रहायक्षारासयस्तु द्विपास्तु क्षारवृत् तथा | १५६अ) एवं संकल्पाविधिवच्छिवस्याग्रे प्रदापयेत् | परमाणु वयं यावद् ब्रह्माण्डस्य भवन्तिह? || तावत् कल्प सहस्राणि शिवलोके महीयते | पितरस्तस्य नंदन्ते *? गं? याति यथासुखं | रुद्रायुर्यावत्तावते? रुजलोके वसंति च || महीभुजस्तदन्ते तु शिवभक्ता भवंति हि | प्रजायत तेषां शिवभावानु दीक्षया || इत्ये तत्पृथिवी दानं कथितं ते मया शुत | यः पश्यति महादानं सोपि स्वर्गे वसत्पलं || कल्पपादं दानं वा कर्तव्यं तु शिवाग्रतः | पलानां तु सहस्रैकं कल्पयेत् कल्पपादपं || मूलं दण्ड स पत्रं च फलपुष्पे समन्वितं | पंचस्कन्धं तु संकल्प्ये पंचानां दापये शुधीः || सद्योजातेन मंत्रेण देयं ग्राह्यं शिवाग्रतः | दिव्यैर्विमानैर्देहाते शिवलोके महीयते || यथेप्सिताल्लभेन्कामान् कल्पपादपदानतः | पितरस्तस्य मोदंते सत्यलोके यथासुखं || दिव्यं वर्षसहस्रं तु नानाभागसमन्विताः | एतदर्थं हि पितरः शंशंति कुलसंततिं || शिवभक्ताश्च दातारो भविष्यंति कदाचन | तारयंति पितृन् सर्वात्कल्प? पादपदानतः || १५६ब्) कल्पपादपदानंत ये पश्यंति? महात्मानः | स्वर्गस्थाने महाभोगांते लभन्ते निरन्तरं || शिवाग्रे कामधेनुं तु तुलानां पंचभिः शतैः | यो ददाति महासेन रा * *? दिताक्षरं? || तेन दंतं भवेत् सर्वमाब्रह्म भुवनांतिकं | देवतास्तच्छरीरे तु यथातिष्ठंति तच्छृणु || शृंगमुले स्थिता देवा ब्रह्मविष्णुमहेश्वराः | शिरो मध्ये महादेवः * *? त्रेव समन्वितः || ललाटाग्रेजमा?देवीनाशी देशेषडानान | कंचनाश्वतरौ? नागौ नाशापुटसमाश्रितौ || कर्णाभ्यांमश्विनौ विद्धि चक्षुभ्यां शशिभास्करौ | वसवोदंतदेशे तु त्रि *? यां गरुणस्थितः || वागीश्वरी च हुंकारे यमयुक्रश्च गण्डयोः | ओष्ठोसाध्यसहस्रो क्षोमो ग्रीवायां सदा स्थितः || ऋक्षाणि वक्त्रदेशे च संध्याचोरसिं संस्थिताः | जंघायां संस्थितो धर्मः चतुष्का च समन्वितः || खरमध्ये च गंधर्वा खराग्रेषु पन्नगाः | खुराणां सन्धिमार्गेषु गणाश्चाप्सरसंस्थिताः || रुद्रैकादशिका पृष्टे च शरः सर्वसन्धिषु | योनौ तु सर्व पि * * * * * * * * * *? || Fओलिओ १५७ उन्च्लेअर् १५८अ) * *? त्सर्वा प्रयत्नैन भूमिदानं तु पालयेत् | व्रतानि तु दरिद्राणां शृणु तत्वेन षण्मुख || माघशुक्लचतुर्दश्यामुपोष्य नियमस्थितः | शिवाय पौर्णमास्यां तु दातव्यं घृतकंवलं || कृष्णगोमिथुनं पश्चात् स्वरूपं विनिवेदयेत् | दिव्यं वर्षशतं सार्द्धं शिवलोके महीयते || फाल्गुणे एकभक्तं तु नियमस्थेन कारयेत् | स्यामाकक्षीरनीवारैजितक्रोधो जितेंद्रियः || चतुर्मास्यमथाषाढ्यामुपवासरतो भवेत् | पौर्णमास्यां तु संस्नाप्य शिवं भक्त्या विधानतः || मृदाष्टकेन विधिना पंचगव्येन यत्नतः | संपूज्य च विधानेन रक्त्रौ गो मिथुनं ददेत् || प्रयाति शिवसा योज्यं वंधुभिः सहितो नरः || चैत्रमासे तु संप्राप्ते यः कुर्यादेक भोजनं | पिष्टकं पयसा युक्तं भुंजानो विजितेंद्रियैः || दद्या गो मिथुनं शंभोः पूजांते सर्वकर्मसु | या या च्छिवपुरं रम्यं सुप्राप्य सुकृतात्मभिः || वैशाखमासे प्राप्ते यः कुर्यादेक भोजनं | माल्योदनं तु स क्षीरं भुंजीयामुजितेंद्रियः || संपूज्यपरमेशानं दद्या गोमिथुनं शुभं | प्रयाति शिवसा योज्यं वंधुभिः सहितो नरः || १५८ब्) ज्येष्ठमासे तु संप्राप्ते यः कुर्यानक्त भोजनं | शास्यादनेन भुंजीयादाज्यक्षीरपरिप्लुतं || उपोष्यपूर्णमास्यां तु शिवं पूज्यविधानतः | धूम्रवर्णं तु गो युग्मं शिवाय विनिवेदयेत् || शिवलोके मवाप्नोति क्षयेन परिवर्जितं | आषाढमासे संप्राप्ते कर्तव्यमेकभोजनं || जितेंद्रियेण कर्तव्यं शक्त्र?गोरसभोजनं | दद्या गोमिथुनं गौरं शिवापालं कृतं शुभं || अणिमादि गुणैः स्वर्यैः शिवलोके महीयते | संप्राप्ते श्रावणे मासि यः कुर्यान्नक्त भोजनं || जितेंद्रियेण भोक्तव्यं पयसाषष्टकोदनं | श्वेताग्रपादपौ वदद्या गो मिथुनं विभोः || त्रिसप्तकुलसंव्यक्तः शिवलोके स तिष्ठति | प्राप्ते भाद्रपदेमासि कर्तव्यं नक्तभोजनं || हविः शेष तु भुंजीयाच्छिरपूज्यविधानतः | उपवासं चतुर्दश्यां पूर्णमास्यां शिवं यजेत् || नीलं गो मिथुनं देयं रुद्रसायोज्यतां व्रजेत् | मासि चाश्व युजे प्राप्ते एकभक्तं तु कारयेत् || घृतोदनं तु भुंजीयात् ब्रह्मचर्येण वर्तनं | १५९अ) पूजान्ते पूर्णमास्यां तु कृष्णं गोमिथुनं ददेत् || मुच्यते पंचपापेभ्यो रुद्रलोके मवाप्नुयात् | संप्राप्तकार्तिके मासि कर्तव्यं नक्तभोजनं || क्षीरोदनं तु भुंजीयाद् ब्रह्मचर्यं दृढव्रतः | दद्या गोमिथुनं रक्तं शिवलोके मवाप्नुयात् || मासे वै मार्गशीर्षे तु यः कुर्यां नक्तभोजनं | यवानं पयसा युक्तं भुक्तान्नं संयतेंद्रियः || दद्या गोमिथुनं धूम्रं शूलं च समलंकृतं | शिवसायोज्यमायाति वंधुभिः सहितो नरः || पौषमासे तु संप्राप्ते कर्तव्यं नक्तभोजनं | गोमूत्रपावकं साध्यं भोक्तव्यं तु जितेंद्रियेः || उपोष्यमास्यां तु शिवं पूज्यविधानतः | दद्यागोमिथुनं रक्तं सालंकारं शिवाय च || प्राप्तोत्ये स्वर्यमतुलं रुद्रतुल्य पराक्रमः | आचार्याय व्रतांते च प्रतिमास शिवाग्रतः || भूहेमवस्त्ररत्नादि दातव्यानि प्रयत्नतः | नियम्य पश्चाद् यत्नेन शिववच्च क्षमापयेत् || मंत्रपूजाविहीनं तु यत्कृतं विधिवर्जितं | निःफलं भवते पुंसा सुसंपूर्णसमाचरेत् || उमामहेश्वरं नामव्रतं शृणुसमासतः | १५९ब्) भर्तृ युक्तासुनारीषु न व्रतं नोपचासनं | पार्वत्या पृच्छितः संभु व्रतं मे ब्रूहि शंकर || तेन संप्रीत मनसा व्रतं मे तदुदाहृतं | शृणु देवि प्रवक्ष्यामि व्रतानां परमं व्रतं || स्त्रीभिः प्रयत्नतः कार्यं प्रयत्नां तु तदा ज्ञया | पूर्णमास्याममावास्यां चतुर्दश्यांष्टमीषु च || नक्तमब्दं प्रकुर्वीत हविष्यांते न वर्तनं | ब्रह्मचर्यं प्रकर्तव्यं तिलांजन विवर्जितं || भूमिशायी तथा सत्यं प्रतिमासमुदाहृतं | उमामहेश्वरौ कार्यौ सुरूपौ हेमसंभवौ || अभावान्तारजौ कार्यौ वितस्ति वा तदर्द्धतः | चतुर्भुजः शिवः कार्यं द्विभुजा परमेश्वरी || वृषारूढो प्रकर्तव्यौ सुरूपौ न च यौवनौ | कार्तिके वामभागे गणेशं शिवदक्षिणे || नदी मध्य गतः कार्यः सूलहस्तस्त्रिलोचनः | एवं संपूज्यविधिवत् ताम्रभाजनमध्यगं || रक्तवस्त्रा वृत्तं कृत्वा संपूज्य विधिना ततः | समुपाष्य चतुर्दश्यां पूर्णमास्यां समर्चयेत् || १६०अ) रात्रौ जागरणं कार्यं व्रतानां कृतिकासुत | संपूज्यपरयाभक्त्या शिवं परमकारणं || गन्धमालैरलं कृत्य रक्तवस्त्रैश्वशोभनैः | भक्षभोज्यैर्विशेषेण वितानध्वजदर्पणेः || चामरैर्व्यजनैश्चैव नानाभोगैर्विधानतः | संपूज्य शिवभक्त्याश्च रुद्रसंख्याश्च युग्मसः || भोजनं ते प्रदातव्यं युग्मं वाथ प्रतर्पयेत् | यथाशक्त्या दक्षिणा च दातव्या साध्यवर्जिता || ताम्रपात्रस्थिता देव पात्रं वस्त्रेण गुंठयेत् | शिरस्या पायतं पात्रं वितानच्छात्रशोभितं || शंखवादित्रघोषेण शिवस्या यतनं व्रजेत् | लिंगमूर्तिर्महेशस्य व्रतमेतत् समर्पयेत् || प्रदक्षिणीकृत्य शिवं प्रणिपत्यमापयेत् | उमामहेश्वरं नाम हितं स्त्रीषु व्रतोत्तमं || वैशाख्यं वाथ कार्तिक्यां व्रतारंभ प्रकल्पयेत् | व्रतस्यास्य महासेन को गुणां वर्णितुं क्षमः || किंतु वक्ष्यामि संक्षेपा च्छृणुष्वैक मनासुत | * *? न् भोगानवाप्नोति शुद्ध विद्याष्टमध्यगां || सर्वैश्वर्यं गुणोपेतान् सत्भिरेव महातपः | १६०ब्) सर्वज्ञाता तृप्तिरनाविबोधः स्वतंत्रता नित्यमलुप्तशक्तिः | अनन्तशक्तित्वमवाप्य यत्नानिरामयं यस्तु पदं प्रयाति || अथलिंगव्रतं नाम क्रमप्राप्तं निगद्यते | संस्नाप्य देवदेवेशं यत्नात् पंचामृतेन तु || शितचन्दनतोयेन स्नाप्यलिंगं विलिप्य च | श्वेतैर्विकशितै पद्मैः संपूज्यप्रणिपत्य च || नैवेद्यादि ततो दयात् खण्डक्षीराज्यसंयुतः | घारिकं किरणं चैव लावकं मोदकं तथा || पूरयेच्च शिवाग्रं तु ततो विधि समाचरेत् | पंकजे विमले शुद्धे निच्छिद्रे पुष्पिते शुभे || कर्णिकायां तु संस्थाप्य लिंगं वै गंधसंभवं | अंगुष्ठनात्रप्रमितं पीठनालकभूषितं || स्थाप्य दक्षिणमूर्तौ तु विल्वपत्रै समर्चयेत् | अगुरुं दक्षिणे पार्श्वे मनसिला ब्रह्मसंस्थिता || वैष्णव्या चंदनं स्थाप्य विष्णुकान्ता पूर्वदिग्गतं | सुगन्धैश्च विचित्रैश्च कुंकुमैः पूजयैच्छिवं || अगरुं सिल्फकं चंद्रं सुरक्तं धूपमीरितं | विकेशानि विचित्राणि सूक्ष्मवासांसि दापयेत् || महावर्ति चतुष्कं तु दीपं साष्टोत्तरं तथा | निवेद्य शिव मंत्रेण त्रिःकृत्वा तु प्रदक्षिणं || १६१अ) सर्वोपहारं स युक्तं लिंगं लिंगे समर्पयेत् | इदंते देवदेवेश तुल्यं लिंगं समर्पितं || एतल्लिंगव्रतं नाम व्रतानांमुत्तमोत्तमं | अनेन विधिना देवा ब्रह्मविष्णुत्थतां गताः || व्रतेनानेन देवत्वं प्राप्तं च मनसेप्सितं | अमावास्यां विशेषेण पूजयित्वा महेश्वरं || नक्तं तु चरते यस्तु यावज्जीवं शिवाज्ञया | गुरुं पूज्यविधानेन वस्त्र हेमान्नपानकैः || रात्रौ जागरणं कार्यं शिवस्याग्रे प्रयत्नतः | एतच्छितव्रतं नाम शिवत्वं जायते नृणां || ब्रह्मचारि सहस्रेभ्यो वेदाध्यायी विशिस्यते | वेदध्यायि सहस्रेभ्यो ह्यग्निहोत्रांविशिष्यते || अग्निहोत्रिसहस्रेभ्यो यज्ञयोज्जी विशिष्यते | यज्ञयोजि सहस्रेभ्यो मंत्रयोजी विशिष्यते || मंत्रयोजि सहस्रेभ्यो सत्रयोज्यधिकामतः | सत्रयोजि सहस्रेभ्यो सर्वविद्या गमः परः || सर्वविद्यार्थ कोटीनां शिवभक्तो विशिष्यते | तस्मै देयं प्रयत्नेन ततोग्राह्यं विधानतः || भक्त्यादेवं शिवं तस्मादर्चयेच्छांत मानसः | पृथिव्यां योनिः तीर्थानां पुण्यान्यायतनानि च || वसंति लिंगमूले तु तस्माल्लिंगं समर्चयेत् | १६१ब्) एककालं त्रिकालं वा चतुःकालमथापि वा | अपूज्यपरमेशानं भुंक्तै यस्तु प्रमादतः || प्रायश्चित् प्रकर्तव्यमन्यथा नरकं व्रजेत् | पूजालोप्य न कर्तव्यः सूतकेमृतकेथवा || जनवुद्बुदवज्जीवास्तस्माल्लिंगं सदार्चयेत् | गीतनृत्योपहारेण संखत्रादित्र निःस्वनैः || विधूयसर्वपापानि शिवलोके स गच्छति | योगांपयस्विनीं दद्यातरुणीं भूषणान्वितं || दक्षिणामूर्तिमासाद्य शिवभक्ताय भक्तितः | कार्तिक्यां वाथ वैशाख्यां तस्य पुण्यफलं शृणु || पृथिवीम्तनदन्ता तु स सैलवनकानना | वृषोन्सर्गं तु कार्तिक्यां कर्तव्यं विषुवे तथा || नीलवृषे समुसृज्य प्राप्नोति परमागतिं | नंदंति पितरस्तस्य ब्रह्मलोके न संशयः || अथ लिंगव्रतान्यत्र शृणुलेसेन षण्मुख | कार्तिक्यां तु समारभ्य व्रतं वै संसित व्रतः || कार्तिकस्य चतुर्दश्यां शुक्लायां पूजयेच्छिवं | महास्नानं प्रकर्तव्यं महापूजाथवा पुनः || लिंगव्रतानां सर्वेषां तथा नक्तेन वर्तनं | पूजा कृत्वा प्रयत्नेन वस्त्रनैवेद्यकादिभिः || १६२अ) शालिपिष्टमयं लिंगं कुर्याद्रत्निप्रमाणतः | तिलप्रस्थं सुवर्णं च लिंगस्यो परिसंन्यसेत् || धूपं वै कंदुरुं देयं चंदनं वागुरुं तथा | शिवरूपाय दातव्यं शिवं यदक्षयं तदा || संपूज्य पूर्ववल्लिंगं महास्नानेन तत्वतः | विलेप्य कुंकुमे नैव शिवं ते नैव पूजयेत् || स्वेतचंदन लिंगं तु कर्तव्यं पूर्वमानतः | सुवर्णं तंडुलं प्रस्थं पुष्पेधार्यं शिवाग्रतः || कर्पूरे च धूपं तु चतुर्दिक्षु प्रकल्पयेत् | महावर्ताष्टकं देयं दधिपात्रे शताष्टकं || एवं कृत्वा विधानेन लिंगं लिंगायनिर्वपेत् | इशानरुद्रसंज्ञाय आचार्याय प्रयोजयेत् || शिवसा योज्यतां याति व्रतेनानेन षण्मुख | पौष्यशुक्लचतुर्दश्यां दूर्ववत् पूजयेच्छिवं || पूजांते गुग्गुलुं शुभ्रं शिवस्य पुरतो दहेत् | पायसंघृतसंमिश्रं सखण्डं प्रस्थसम्मितं || नैवेद्यं पुरतो देयं पताका शक्तिसंख्यया | ध्वजं तथा पुनः श्वेतं लिंगं वै शालिपिष्टजं || तिलाढकं सुवर्ण च लिंगदक्षिण दिक् न्यसेत् | शंकराख्यस्य रुद्रस्य व्रतमेतत् समर्पयेत् || १६२ब्) माघशुक्लचतुर्दश्यां शिवं संपूज्यपूर्ववत् | शाल्योदनं कृतं लिंगं तिलप्रस्थं सुवर्णकं | शिवस्य दक्षिणे भागे धारितव्यं प्रयत्नतः || स्थं? गोदनं घृतं चैव पूर्वस्यां प्रस्थसम्मितं | अगुरुंसिल्हकं चंद्रं दहेद्धूपं शिवाग्रतः || व्रतंमेकं विधानेन उग्ररुद्राय निर्वपेत् | व्रतांते तु गुरुं भक्त्या यथाशक्त्या प्रपूजयेत् || फाल्गुनशुक्लचतुर्दश्यां शिवं पूज्यविधानतः | गुग्गुलं सघृतं धूपं महावर्ति चतुष्टयं || मोदकानि विचित्राणि क्षीरिदेया घृतप्लुता | चोक्तेन? विधानेन तथा लिंगं निवेदयेत् || सर्वावयवतपूज्यमाचार्यं भूरिदक्षिणं | एवं कृत्वा महासेन प्राप्नोति न *? नं क्वचित् || चैत्रशुक्लचतुर्दश्यां शिवं पूज्यविधानतः | रोचनापलमात्रेण तेन लिंगं विलेपयेत् || नैवेद्यं पायप्रस्थं खण्डलडुकसंयुतं | स घृतं गुग्गुलुं देयं पलानां तु शतं * *? || निवेदयेत् पिष्टलिंगं तिलप्रस्थं स हेमं युक् | शिवदक्षिणदिग्भागे स्थापितव्यं प्रयत्नतः || भवरुद्राय निवर्त्य आचार्यं पूजयेत् ततः | एवं कुर्यात् प्रयत्नेन मोक्षमक्षयमिच्छता || चतुर्दश्यां शुक्लपक्षे वैशाखस्य प्रयत्नतः | १६३अ) शिवं पूज्यविधानेन महास्नपनं पूर्वकं | विलिप्य कुंकुमे नैव दमनैरर्चयेच्छिवं || लिंगं पिष्टमयं कृत्वा हेमपुष्पविभूषितं | तिलप्रस्थं सुवर्णं च लिंगं दक्षिणं दिक् न्यसेत् || महावर्ति द्वयं देयं दीपमालाघृतेन तु | स घृतं गुग्गुलं देयं पलानां तु शतद्वयं || अगुरुं सिल्फकं चंद्रं प्रत्येकस्य पलं दहेत् | ततो दमनपुष्पैस्तु शिवं संपूज्य भक्तितः || सुवर्णं तिललिंगं च भवरुद्रायनिर्वपेत् | रुद्रसंख्यास्तु गुरवो दक्षितव्या प्रयत्नतः || भूदानवस्त्रदानैश्च सुवर्णादिषु विस्तरैः | एतद् व्रतोत्तमं नाम प्रतिसम्बत्सरे * *? || एवं यः कुरुते भक्त्या गच्छते शाश्वतं पदं | पितरस्तस्य नंदंति भाद्रलोके यथासुखं || दिव्यं वर्षायुतं साद्यं ततस्तेषु धनेश्वराः | प्राप्तज्ञानाः पुनस्तेषु शिवे नित्ये लयं ययुः || यः करोति महासेन शिववत् स हि पूज्यते | ज्येष्ठशुक्लचतुर्दश्यां नित्यं कृत्वा शिवं यजेत् || विलिप्य चंदने नैव जातीपुष्पैश्च पूजयेत् | कुंकुमं लघुचंद्रं च धूपं देयं शिवाग्रतः || दीपमाला तु सकटानि विचित्राणि भक्ष्याणि विविधानि च | १६३ब्) चित्राणि चित्रयुक्तानि प्रेक्षणानि वहूनि च || वादित्रवादिवर्गाश्च विमानानि शुभानि च | सायुधानि तयाण्यायाष्टी कानि विशेषतः || वीराणि मल्लयुद्धानि कृत्वा काष्ठ मृगानि च | वर्णकैरंजयित्वा तु शिवस्याग्रे निवेदयेत् || महावर्ति द्वयं देयं शिवपूजादनंतरं | दक्षिणामूर्तिमाश्रित्य गौरेका वै शिवाय च || दातव्या तु प्रयत्नेन वस्त्र हेमसुमण्डिता | वृषोत्सर्गं ततः कार्यं शिवस्याग्रे विधानतः || शिवभक्ताय विप्राय देया वै दक्षिणा शुभाः | सर्वेषां चैव यज्ञानां तीर्थानां यत्फलं शुभं || तत्फलं कोटिगुणितं प्राप्नोत्यैश्वर्यं संभवं | कुलानुद्धरतो सौहि दशपूर्वान् दशापरान् || सुविप्राणां विनीतानां भक्तानां भावितात्मना | दानं समासतः ख्यातं सर्वदानसमन्वितं || शिवदीक्षामनुप्राप्य रक्षितव्यो प्रयत्नतः | यमैश्च नियमैश्चैव व्रतचर्यादिभिस्तथा || सफला जायते तेन रक्षिता तु कृषिर्यथा | अन्यथा यक्षिणो वृंदैः निर्मूला क्रियते तदा || १६४अ) सापेक्षति न रक्षाणि व्रतानि द्विविधानि च | मुक्तये कामहीनानि स कामानि तु भुक्तये || दीक्षैव मोक्ष वा पुंसां कर्मसस्या तु सा भवेत् | तत् प्रेरकः शिरः साक्षाच्छक्तिपात वसान तु || शक्तिपातश्चतुद्धा तु तीव्रमदा विभेदतः | शक्तिपाते स्मृतं चिह्नं शिवभक्तिश्च निश्चला || औदार्यशास्त्रशक्तिश्च लिंगाराधन तत्परः | समत्वं सर्वभूतेषु दयाकारुण्यसंयुतः || क्षमासत्यं शुचित्वं च सर्वभूत दया तथा | अस्तित्व मार्जवत्वं च चिह्नान्येतानि वै विदुः || दीक्षया श्रवणै योग्या दीक्षया पूजने क्षमः | दीक्षया श्रमधर्मास्तु प्रवर्तते यथाहतः || दीक्षया प्राप्यते ज्ञानं दीक्षयासिद्धयो भवेत् | मुक्तिदा तेन वै दीक्षा ज्ञानदावात नंगिणी || शिवदीक्षाभिसिक्ताये सर्वत्रवाधिकारिणः | कौलपाशुपतादीनं शौरसाख्यमतेषु च || शिव सर्वाधिकारी तु नासेवी तु कथंचनः | शिवमूलान्यागमिश्रूतयश्च विशेषतः || तत्सद्भावेऽनुसारं तु सामान्यसुदृढं मतं | द्व्यणुकाज्जायते सर्व अणुत्वात् प्रेरकैः शिवः || Fओलिओ १६४ब् - १६५अब् उन्च्लेअर् १६६अ) निष्कलस्य प्रवक्ष्यामि व्याप्तिं लेशेन षण्मुख | आत्मतत्वं उकारं तु अविद्या तत्वमादिशेत् || शिवतत्वमकारं तु निःकलंते प्रकाशितं | पुनरेव प्रवक्ष्यामि प्रसादस्य तु निर्णयं || ह्रस्वदीर्घं प्लुतं चैव लक्षयेत् मंत्रवित्सदा | ह्रस्वो दहति पापानि दीर्घो मोक्षप्रदो भवेत् || आप्यायने प्लुतश्चैव त्रिमात्रः परमेश्वरः | स्थूल भेदास्तु यः प्रोक्ता वस्योच्चाटननारणे || प्लुतेन तु सदावंस्य ह्रीकाराद्यंत योजनात् | दीर्घमुच्चाटने क्षिप्रं फट्कारेणोचयाकितं || आदावंते स रेफांक फंटकारं मारणेहितं | आकर्षये *? वं युक्तो योजनानां शतैः स्थितैः || एवमाप्यायनादीनि नामज्ञात्वाम्रयोजयेत् | उदितानु क्रमेणैव स्वरवर्णानु रूपतः || साध्यसाधक यो ज्ञात्वा स्वरभेदं पुरोहितं | अविज्ञायत्विदं कर्म नैव सिद्ध्यंति साधकाः || योगं कृत्वा तु पूर्वोक्तं मंत्रस्यार्घं प्रदापयेत् | अर्घं दत्वा तु मंत्रस्य जपं कृत्वा विचक्षणः || देवस्य दक्षिणे भागे पंचलक्षं स्थितो जपेत् | जपांते घृत होमं तु दशांशेन प्रकल्पयेत् || एवमाप्यायितो मंत्रः कर्मयोग्यो भवेत् ततः | उक्तानि यानि कर्माणि सिद्धिं यांति न संशयः || १६६ब्) दशलक्षं जपेद् यस्तु जनाःभ्य स्थानवासिनः | वसमायांति वै क्षिप्रमिति शास्त्रस्य निश्चयः || त्रिपंचलक्षणजप्त्वा तु दशग्रामनिवासिनः | तेजनावसमायांति आत्मना वधनेन च || पंचविंशति लक्षैस्तु विषयं च समानयेत् | त्रिंशल्लक्षं जपेद् यस्तु वसीलोको भवेत् तु वै || पंचत्रिंशस्तु लक्षाणि पृथिवीं वसमानयेत् | चत्वारिंशज्जयाच्चैव प्रविषेद्वादकेश्वरं || लक्षपंचाशकं जप्त्वा विद्याधर समो भवेत् | तत्रैव मोदते मंत्री यावदाहूतसंप्लवं || साध्यराधेयविज्ञाना साधको मुच्यते तदा | आधारं पुरमिस्कंक्तंधरां मायान्त गोचरं || आधेयं परमं शांतं प्रमाणातीत गोचरं | एकं नित्यमजं व्यापी सर्वानंदमयं शिवं || पुर्यष्टकसमोयोगा दध्व उर्ध्वं स गच्छति | शब्दस्पर्शश्च रूपश्च रसो गन्धश्च पंचमः || बुद्धिर्मनस्त्वहंकारः पुर्यष्टकमुदाहृतं | यावदेतैर्न मुच्येत कथं मुच्येत वंधनात् || गंध ब्रह्मणि संयोज्य केशवे तु रसं तथा | रुद्रे रूपं ततः स्पर्शं बुद्ध्यहंकारमीश्वरे || शब्दस्मनश्च शकले लयं षष्ठि शिवेहितं || इति कालोत्तरे महातंत्रे साधनासंवित्तिपटलं || १६७अ) ईश्वर उवाच || नाडीचक्रं प्रवक्ष्यामि सूक्ष्मं यत्नेन लेशतः | नाभेरधस्ताद्य स्कंदं अंकुरास्तत्र निर्गताः || द्वासप्तति सहस्राणि नाभिमध्ये व्यवस्थिताः | तिर्यगूर्ध्वमधश्चैव व्याप्तं ताभिः समं ततः || चक्रवत् संस्थिता ह्येताः प्रधानादशनाडयः | इडा च पिंगला चैव सुषुम्ना च तथैव हि || गांधारी हस्तिजिह्वा च पूवो चैव यसा तथा | अलंबुषा तु *? चैव शंखिनी दशमी मता || दशप्राणवहा ह्येता नाडयः परिकीर्तिताः | प्राणोपानः समानश्च उदानो व्यान एव च || नागः कुर्मोध्व कृकरो देवदत्तधनं ययौ | प्राणस्तु प्रथमो वायुर्दशानामपि स प्रभुः || प्राणः प्राणमयः प्राण विसर्गापूरणं प्रति | नित्यमापूरयत्येष प्राणिनामुरसि स्थितः || निश्वासोच्छ्वासकामैस्तु प्राणोजीवसमाश्रितः | प्रयाणं कुरुते यस्मात् तस्मात् प्राण प्रकीर्तितः || अपानसहा?पानस्तु आहारं च नृणामधः | सूत्रशुक्रवहोवायुरपानस्तेन कीर्तितः || पीतं भक्षितमाघ्रातं रक्तपितकफानिलं | समं नयति मात्रेषु समानो नाममारुतः || १६७ब्) स्पदं यभ्यधरं वक्त्रं नेत्रगात्र प्रकोपनः | उद्वेजयति मर्माणि उदातो नाममारुतः || व्यानो विना मयत्यंगं व्यानो व्याधि प्रकोपकः | प्रीते चिनासी कथितो वाद्धिक्यात् व्यान उच्यते || उत्सारे? नाम इत्युक्तः कुर्म आमीलने स्थितः | कृकरः क्षुरिते चैव देवदंतो विजृंभते || धनंजयन् स्थितो घोषे मृतस्यापि न मुंचति | नादिस्थं वायुवृंदं तु नाभिपद्मवने स्थितं || नाडीचक्रं यथा * *? कथयामि तवाखिलं | दशारं चक्रमेनं तु विभागो ज्ञायते तथा || चक्रवद् भ्रमते जीवो दशस्थाने स्वनुक्रमात् | स जीवो जीवलोकस्य वृद्ध्यन्ते नैव मोहिताः || जीवः प्रयाति दशधा तेन चक्रं प्रकीर्तितं | नाडीचक्रमिति प्रोक्तं येन संक्रमयत्यसौ || हृद्यब्जकर्णिका *? नां नाडी तृतयमुल्लसेत् | अक्षे * *? र्मीति विख्याताः स्वस्थानैवर्द्धसोष्टधा || ततो वै शक्ति तत्वे तु तासां निवंधनं स्थितं | आन्यभिः सक्तितत्वातं प्राणश्चरति देहिनां || शून्यके ह्यंतराले तु तत्फलनियतंत्फलं | गोलकमिव हेलाहतं उत्पतनियतं सदा कुरुते || ईश्वर योगाद् विषुवत् संक्रांतिश्चैव मध्यमं | १६८अ) सौरि नियोगाद् दक्षिणमुदगयनं चंद्र स योगात् | अयने सवाप? सव्यै द्वौ पुटौ युग्मतो विषुच माहुः || संक्रांतिरितश्चेतश्च गच्छतश्च समाख्यातं | सौरः सव्यो मार्गश्चांद्रमसेरतः समाख्यातः || पतते वाभियेकमिदौः सौरं खलुवंह्नि संधाने | ध्यानाद्याविषु चेति प्राग्दलसंस्था नृपावयवी स्यात् || तेजस्वी तृ इट्टवुभुक्षायीद्राजायते अग्निदिकपत्रे | याम्ये याम्यो भाव्ये नैर्-ऋते नै-ऋता वि?निर्दिष्टः || वारुणे पत्रै सौम्यासौ वायव्ये तपश्व पारुष्ये सौम्यचार्थ समीहामै रौद्रे ज्ञातवलेपि च | यां यां दिशमभि गच्छति तं तं भावं समस्त मायाति | पत्रांतरालयोगाच्छुन्यमिवात्मानमाभाति | इति खलुपुंगलचारे नाडीसंचारमण्डलं गुह्यं कथितमिहसिद्धिहेतुर्वोद्धव्यं यत्नतः सिद्ध्यै || इति कालोत्तरे महातंत्रे नाडीचक्रोद्देशपटलं || ईश्वर उवाच || अथातः संप्रवक्ष्यामि कालज्ञानं सुदुभं | नाभेधरस्तात् कंदं तु नाडीनामा लयं मतं || तिर्यगूर्द्धमधश्चै ततो वै नाडयः स्थिताः | द्वासप्तति सहश्राणि पलासदलवत्सुतः || १६८ब्) दशप्रधानास्तासां तु इडाद्यास्तु त्रयस्ततः | आकंय द्वादशातं तु जीवै वायुना सह || गमागमं करोत्येवं यंत्रं वाहनमीरितं | एति द्वादशांगुलो उर्द्धमधपत्नी दशेन तु || गमागमो गृहे तस्य अहोरात्राद्युपासनः | स्नस्थस्य मध्य च यसोनरस्यै न महात्मनः || यन्ममांच्छ्वसनं भावौ च्छ्वासां सुचतिमेषणं? | तेन लघ्वक्षरोच्चारः तदद्धर्द्धि प्रमाणतः || यस्तुटि यथाशून्यं तुटिस्तद्द्वितयं मतं | तुटि द्वयं लयस्ताभ्यां मात्राकाले प्रकीर्तिताः || द्विमातृको गुरुस्ताभ्यां काष्ठो सायं गुणाकला | सार्द्ध कला द्वयः प्राणः स षष्ठिश्वाससंख्यया || त्रिंशच्छ्वासैर्गमस्तस्य त्रिंशच्च पुनरागमः | तेना होरात्रमासाश्च द्वादशयवप्ति वत्सराः || हृत्कण्ठतालुनासाग्र द्वादशांतां तरालजाः | प्राणस्यार्द्धमतिरहो यासारात्रिरधोगतिः || उद्यदिवाकरः प्राणो हिमाद्रौ निवसन्नधः | अभिजिद्युतिः सतत्स्थुः स्तासालुक ईश्वरः || अधो निशादौ दिनस्यांते भुक्तिमुक्ती प्रसिद्ध्यतः | १६९अ) शिवार्चनं जपं ध्यानं दानादिभिरसंशयः || हृत्तालु द्वादशांते तु ब्रह्मविष्णु हरा स्थिताः | संध्या पूर्वोदितः कालः स संध्यायाः प्रकीर्तितः || अहोरात्रं पुनर्वक्ष्य वहिः कृष्णानि शाशुचिः | श्वास द्वयं अहोरात्रं यत्रापि स्थितिरीदृशी || गुरुभिः पंचदशभिः कृष्णपक्ष उदाहृतः | शुक्लपक्षोपि तैरेव तथैव सामवस्थितैः || पक्षस्याते तिथिच्छेदारकस्य शशि योगतः | शशिनो कामनो योगां ग्रहणं रवि चंद्रयोः || तत्र स्नानं जपं ध्यान दानपूजाग्नि कर्मभिः | अनंतं पुण्यमाप्नोति विकल्परहितः पुनः || पंचभिः पंचभिः श्वासै मेषाद्याराशयः क्रमात् | दिनोत्तरापणं तत्र स्याद्रात्रै दक्षिणायनं || द्वादशांते हृदि स्याता मयने दक्षिणोत्तरे | एहिकामुष्मिकं पुण्यमेतयोरक्षयं क्रमात् || पूर्वोक्तं फलते तस्मात् तालुस्थं विषुवद्वयं | मेषस्यादौ तुलायां च तदुक्तं तत्वदर्शिभिः || व्यतीपाताष्टकं पक्षः प्रपंचोरात्रापि संस्थितः | अनेनैव दिशाज्ञेयाः स्वयं निपुनबुद्धिभिः || मासाद्वादश मे प्रोक्ताः ते तु द्वादश वत्सरोः | अत्रापि पूर्ववज्ज्ञेया दिनमासायमक्रमः || १६९ब्) षष्ठिश्वासैः पुनः षष्ठिः पक्षास्ते परिकीर्तिताः | पूर्वोक्तक्रमयोगेन तस्मादत्रान्तरादिकं || एकः प्राणः शिवेनायं प्रोक्तः पाणविनिर्णयः | तन्मयो निविकल्पगे योगी तत् तत्पदं व्रजेत् || जीविता जीवितं तस्य लाभालाभं जयाजयं | आत्मनश्च परेषां च स एव ज्ञातु मर्हति || शुभे देशे समासीनः स्वस्थान् मास्यदवे नरैः | अरिक्तपाणिभिः पृष्टो देतमीक्षेत तत्ववित् || आगमोक्त क्रमाणादावालोचित्त शुभाशुभं | ब्रूयादपि तथा चान्यं यथो द्वेगो न जायते || इडापि गो षुसुम्नाख्या वामदक्षिणमध्यमाः | नाद्योमृतविषोन्मिश्राः सोमसूर्यो नलात्मकाः || स्थिरास्थिर द्विरूपाश्च ताः स्त्रीपुंक्लीव स्वरूपकाः | जीवधातु मूलाख्या ब्रह्मविष्णु हरात्मकाः || तृप्तिशोषणसंहार सौम्यक्रूरो भयार्थदाः | जीवेन वेष्टिताः पूर्णा रिक्तास्तेन विवर्जिताः || पूर्णायां पृच्छतः सिद्धिः रिक्तायां रिक्तता भवेत् | प्रथमोक्ता द्वितीयोजये वाच्यस्तयोः क्रमात् || यस्यां दिशिवहेद्धेव तत्र पूर्णवलं भवेत् | १७०अ) बाहुल्येन तदन्यत्र प्रदारादि क्रमादिशेत् | समनामाजयेद्वामे दक्षिणे विषमाक्षरः || वामदक्षिणयोश्वरे विज्ञेयाः स्थायि स्थायिनोः | सामाश्रिते मखंनष्टलब्धिः शांतिक पौष्टिकं || तृप्तिलोभोथ जायेत भूस्त्रिजयांतर जीवितं | मंत्रतंत्र क्रिया वृद्धि शिवयात्रादि मंगलं || सिद्ध्यंति सौम्ययत् किंचित् प्रस्नानु घनं? योः सदा | व्याधि दुःखं विषं वैरं हानि युद्धभयं नृभिः || नात्रकिंचिद् भवेद्वारं किंतु दष्टो न जीवति | जीवेदप्रस्तदन्यत्र युंजंन्मनसि संगमः || व्यायोमं भोजनं शुद्धं स्त्रीभोगं विभवक्षयः | द्युतमुच्चाटनं भीम कर्मद्वैषप्रवेशनं || मृत्युच्छद्वेग रोगादि सर्वक्रूरं भवेदिह | ग्रहलुताक्षर प्रेत भूतवेतालराक्षसाः || न शान्ति ज्वलिते भानौ तमांसी वसमं ततः | चंद्रै सूर्यमृतविषं पर्यायग्नि फलं नृणां || पश्चात् किंचित् फलं दद्यात् सूर्ये सोमे विषामृतं | योगो विद्याव्रतं दीक्षा मोक्षो ज्ञानं गुरोनतिः || सुषुम्ना या सदा सिद्धिः प्रसूतिः क्लीवयुग्मयोः | दक्षिणोक्तं न वामेस्मि वामोक्तं नैव दक्षिणे || १७०ब्) वामान्तं दक्षिणोक्तं च मध्ये नैव? प्रसिद्ध्यति | वामदक्षिणमध्ये तु प्रवेशः सफलो यतः || चिंत्यप्रस्नादिकं सर्व निर्गमे निःफलं तृषु | निर्गमं च प्रवेशं च घटी चारेण लक्षयेत् || अग्रस्थे वामचंद्रस्थः पृष्ठस्थे दक्षिणोयमः | प्राणो वासरसं चारी सितप्रतिपदादितः || त्र्यहं सोमः त्र्यहं सूर्यः संक्रामति पुनः पुनः | एवमेवासिते सूर्य सोमांयाति त्र्यहत्र्यहं || द्वित्र्यहा विपर्यायात् कलहादिकमादिशेत् | एकद्वित्रिकपक्षाणा विपर्या सा क्रमाद् विदुः || व्याधिवंधुविनाशं रमरणं चार्थ वार्षिकं | यामादि वृद्धितो याम्या मात्रा सा इति मात्रकं || मात्रद्वयेस्तथा रोगो दौस्थ्यं योत्रधनक्षयौ | वर्षत्रयमहारात्रं द्विरात्रं तु द्विवार्षिकं || वर्षमेकं त्र्यहोरात्राज्जिवेदस्यार्द्धतो दिनं | मासपदधेकं परंस्तस्मादिनोर्द्धादेक वासरं ||? उत्तरोत्तरमेतेषां लक्षयेत् * *? निश्चयः | विषुवक्षणसंप्राप्ते स्पंदते यस्य लोचनै || तस्यानाशं विजानीयादहोरात्रान्नसंशयः | ऋतुनां शिशिरादि नामादौ पंचाहकाहिनी || त्र्यश्वामष्टोदशप्राणान् क्रमाजीवे त्रिवृद्धित | १७१अ) तेष्ट? कृत्रि त्रिचतुरो वायुश्च दिवसान् वहेत् | अब्दं भागवसादाययर्वृद्धिरत्र प्रजायते || मासमेकं वहेद्वायुः सदैव निशिसूर्ययोः | आवेदयताहोरात्रादर्थनाशादिकं क्रमात् || द्वयोरेव दशाहं च संक्रान्ति रहितो वहेत् | तदासंक्रमणान् मृत्युरह्रार्द्ध च त्रिमार्गकः || संक्रांति पंचकं यस्य मुखे नैव वहेत् मरुत | उद्वेगनास्यस्यान्तस्या न्यत्राथवा गतिः || मंदवारी सुषुम्नायां धर्मैश्वर्य मुखप्रदः | इतश्चेतश्च संचारी ग्रहः पूजा प्रदो मरुत || गमागमे सदालीनस्तदे तत् ज्ञातु मर्हति | अन्यथा त्रिप्रकारेण जानीयात् कालवंचनं || समसप्त गते सूर्यै चिह्नवत्ययनेथवा | सिंहे वानुसंयुक्ते तथा वाधनुषि स्थिते || मेरुरोदयवेलायां जन्मक्षे चंद्रमायदि | कालोसौ प्राष्टनामेति मृत्यु निर्णय कारकैः || तदारभ्य वद्वायु रेकत्रार्द्ध दिनं यदि | चतुर्दशभिनावेष्टे वत्सरेर्मरणं तदा || दिनमेकमहारात्रं यष्टेकत्र वहेन् मरुत् | तदा द्वादशभिर्वषैर्दशभिर्मरणं क्रमात् || अहोरात्र द्वयं वासुरहोरात्र त्रयं यदि | १७१ब्) वात्येकत्र तदाष्टाभि वार्षैः षड्भिर्भिवेद्मतिं | वहेदेकत्र वेद्वायु रहौरात्र चतुष्टयं || ध्रुवमादेयेन् मृत्युमब्दिसंवत्सरैः क्रमात् | ययरात्रि समेतानि दिनान्येक्रत्रमारुतः || वहेत् पञ्च * *? मृत्युस्त्रिभिर्वर्षैभू?संशयः | दशपञ्चदशाहानि नाद्येकत्र यदामरुत् || वत्सराभ्यां तदेकेन वर्षणमरणं क्रमात् | दिनानाविंशति पञ्चविंशतिं च मरुद्यदा || वात्येकत्र तदा षड्भिः त्रिभ्र्मासैः क्रमागतिः | षड्विंशति यदा सप्त विंशतिश्च क्रमान्मरुत् || वहव्येकत्रसामान्यां मासेन मरणं तदा | अष्टविंशतिमेकोन्नत्रिंशति मरुदेकतः || वाह्येतन्मरणं पंच दशभिर्दशभिर्दिनैः | एकत्रत्रिंशति चाति यद्येक त्रिंशत मरुत् || पंचभिस्त्रिदिनैर्मृत्युर्भवे पुंसां क्रमेण तु | द्वात्रिंशतिर्यथो चात्रि तपस्त्रिंशद्दिनानि तु || तदा द्वाभ्यां दिने केन मृत्युः सूर्य पथे क्रमात् | भुक्तमात्रो नरः स्वस्थः आहारं च्छेदते यदि || प्राग्गंधं नाभि जानाति दीपं गंधं न जिघ्रति | दृष्टदेशेपि दिग्जातो जीवेन्मास चतु * *? || Fओलिओ १७२ उन्च्लेअर् १७३अ) को मतः सूक्ष्मः स्थुलो वै लोकिको मतः निमेषस्य चतुर्भागः तुटिः स्यात्त द्वयं लवः | लवद्वय निमेषः स्या काष्ठा तै दशपंचभिः | त्रिंशत् काष्ठा कला प्रोक्ता त्रिदशद्वकला क्षणं || क्षण द्वयं मुहूर्तस्याच्चतुर्भिर्घटिका मता | अष्टभिः प्रहरस्ताभिर्वस्त्रभिस्तैरहर्निशं || पक्षः पंचदशाहानि मासः पक्षद्वयोद् भवेत् | मासद्वयोदृतुः प्रोक्तः त्रिभिस्तैरयनं मतं || अयन द्वयाद्भवेदब्दं शौरमानमिदं मतं | दक्षिणसर्वरी ज्ञेया देवानां मुत्तरं दिनं || तेन पानेन वर्षाणां युगः कालप्रवर्तते | कृतस्तत्संख्यया ज्ञेयं सहस्राणां चतुष्टयं || कृतं त्रेतायुगाढ्यं तु संधीसधो चतुष्टयं | त्रेताद्वापरसंख्या तु द्वापरा पारतः कलिः || एषः क्रमः क्रमादेष सहस्रशतसंज्ञितः | एकसति भेदस्तु ज्ञेयं गन्धं तरं गणं? || (तैश्चतुर्दशभिः कल्प्या ब्रह्मणस्तदिनं मतं | ठिस् पगे बोत्तोम् ओf पगे) एतस्मिन्नंतरे शक्रा मृताजाता पुनः पुनः | शतत्रयं दिनं षष्ठिस्तस्यैवमब्द रुच्यते || तत्संख्यया शतं यावत् तावद्वर्षा हरेर्मतः | तेन मानेन वर्षाणां शतं यावद्वरे स्थितैः || १७३ब्) एतस्मिन्नन्तरे काले द्विजाजाता मृतावहून् | ममवर्षा भवेत् तावद् विष्णुर्याति तदाक्षयं || वर्षाणां मेशतं यावन् मेवसानाक्षयोद् भवा | दिनमेकं यदीससाममशान्ति ततो भवेत् || एतस्मिन्नन्तरे काले मृता वयं पुनः पुनः | सदाशिवनिमेषाच्च तदा तस्यापि संक्षयः || परया तुटिः सूक्ष्मा तदासौ याति तल्लयं | स्थूलः स सकलः कालः ख्यातः सूक्ष्ममतः शृणु || मर्मवामस्तन्य भ्यासे तत्र यत् पूरणं भवेत् | त्रिभिः काल ततस्तैस्तु त्रिशक्तिः प्राण उच्यते || प्राण द्वयेण विज्ञेयमहोरात्रं तु योगिनां | ऊर्द्ध प्राणोदिनं ख्यातं स एकधो गतो निशि || पक्षस्तैः पंचदशभिस्तद्वयात्मा स उच्यते | त्रिंशत् प्राणैः स विज्ञेयो मासे द्वादशभिः समाः || स शतानि त्रिषष्टिश्च प्राणानां घटिका मता | कलये प्रहरे संख्या सहस्राणां द्वयं द्वयं || पुनसप्तसशतानास्य चतुर्भिस्तैः रहः स्मृतः | तावती रात्रि रुद्दिष्टा सासंख्या प्रोच्यतेखिला || तत्र षष्टि समायांति प्राणसंख्याधुना शृणु | १७४अ) अयुते द्वे सहस्रं च षट्शताति तथैव च | अहोरात्रेण योगेंद्रो जपसंख्या करोति च || *? सोच्छ्वास त्रयेणैव सकलस्य तु यो लयः | न भवो न मृतिर्कस्य शिवतत्व स्थितस्य च || विभागं पुनरेवात्र संक्षेपेण निगद्यते | संक्रांति विषुवे चैव अहो * त्र युनानि च || अधिमासं ऋणं चैवं ऊनरात्रधनं तथा | ऊनरात्रं भवेच्छिक्का अधिमासं विजृंभिका || ऋणं च कामो विज्ञेया निःश्वासो धनमुच्यते | उत्तरं दक्षिणं ज्ञेयं वामदक्षिणसंज्ञितं || समे तु विषुवं प्रोक्तं पुटद्वय विनिःसृतं | संक्रांति पुनरम्यैव स्वस्थानात् स्थानमेव च || इडा चैव सुषुम्ना च पिंगला दक्षिणे स्थिता | सुषुम्ना मध्य भागे तु इडावामे प्रतिस्थिता || नाडीनाड्यन्तरं याति तदा संक्रांतिरुच्यते | ऊर्द्धप्राणो ह्यहश्चैव अपानो रात्रिरुच्यते || एकः प्राणोपि दशधा यो वेत्ति सदवेदवित् | आयामो देहगन्धस्थः सोमग्रहणमिष्यते || देहातीतं त्वहर्विद्यादादित्य ग्रहणं विदुः | प्राणायामं समांसेन कथयामि तवाधुना || १७४ब्) मंत्रस्याच्चारणं कारणं स्वरैक क्रमयोगतः | उतरं पुरयित्वा वै वायुना तु क्रमेण तु || प्राणायामो भवेदेष पूरको देहपूरकः | पिधाय सर्वद्वाराणि भिःश्वासोच्छ्वासवर्जितः || संपूर्णः कुंभवतिष्टेत् प्राणायामः य कुंभकः | मुंचेद्वायुं ततश्चोर्द्धं श्वासोमेकेन योगवित् || निःश्वासयोगयुक्तस्य ऊर्द्धवायुं स रेचयेत् | रेचकस्वषविख्यातः प्राणं स यमकारकः || युत्तद्वृदि स्थितं पद्म मध्ये मुख व्यवस्थितं | विकसत्येय पूर्वं? तु पुरकेन तु पुरितं || ऊर्द्धश्रोतो भवेत् पद्मं कुंभकेन निरोधितं | रेचकेन तथा क्षिप्तः सम्यक् प्राणहरेण तु || मुक्ता हृदय पद्मं तु ऊर्द्धश्रोतो व्यवस्थित | रेचितो गच्छति हृद्धं प्रक्षिभित्वा क्षणेन तु || भित्वा कपाल द्वार तु जीवो ह्यर्द्धं सरेचित | सदाशिव पदं गत्वा न भूयो जन्ममाप्नुयात् || आयामं त्रिपते तस्य नानास्य तु कदाचन | स जीतो जीव लोकस्य मया प्रोक्तः समासतः || यथानुक्रमयोगेन सृष्टिं रुद्देशतोच्यते | १७५अ) चंद्राग्निरिद्धिसंयुक्ता आद्याकुण्डलिनी तु या | हृत्प्रदेशे तु सा ज्ञेया अंकुराकारसंस्थिता || सृष्टिन्यासं भवेत् तत्र स विसर्गा वलंवनात् | स्रवंतं चिंतये तस्मिन् न मृतं साधकोत्तमः || अग्निमात्मकं यवं जगत्स्थावरजंगमं | इत्येवं नियतस्था तु चिंतयेत् साधकोत्तमः || स्वदेहं चिंतयेद् विद्वान् दिव्यरूपं मनोहरः | शिवाच्छक्तिश्च सकलमीश्वरं तदनंन्तरं || शुद्धविद्या पंच पंच शुद्धतत्वं प्रकीर्तितं | माया कालश्च सकला नियतिं रागमेव च || अविद्या पुरुषं तस्मात् प्रकृतिस्त्रि प्रणात्मिका | मनोबुद्धिरहंकारस्तथा बुद्धिंद्रियाणि च || कर्मेन्द्रियाणि विषयो भूतानि क्रमसो भवेत् | इदं योभ्यसते ह्येवं अमृतं सर्वतो मुखं || अचिरेणैव कालेन सा सिद्धिफलभाग् भवेत् || इति कालोत्तरे महातंत्रे कालाधिकरणपटलं || ईश्वर उवाच || न बुद्ध्यति प्रसादं यः पंचमंत्रं महातनुं | अष्टत्रिंशकलोपेतं नर आचार्य उच्यते || १७५ब्) प्रसादं सम्यगज्ञात्वा दीक्षां यः कुरुते गुरुः | अधस्ताच्छिष्यमान्मानं नयते नात्रसंशयः || प्रसात्मक? शिखां तस्थो यस्तु दीक्षां करोति सः | आचार्यः सह शिष्येण शिवसा योज्यतां व्रजेत् || देवदानवगन्धर्वा स यक्षोरगराक्षसाः | किन्नराप्सरसः सिद्धा प्रसादात् संभवंति हि || ब्रह्माविष्णुश्च रुद्रश्च इंद्रश्चंद्रो बृहस्पतिः | प्रजापतिस्तथा दैत्याः शुक्रः स्कंदो भृगुस्तथा || ये चान्ये प्राणिनः केचित् सर्व प्रोक्ताः प्रसादजाः | एते वाम्य? च वहवो ऋषयः संशित व्रताः || व्यायंति परमं हंसं प्रसादं नामनामतः | विभागं वाम्य?वक्ष्यामि यं ज्ञात्वा मृतम्स्नुते || सद्यश्चाष्ट कलायुक्तमकाराक्षरजंविदुः | विद्यादुकारजं वाममघोरं तु मकारजं || विंदुजः पुरुषो ज्ञेयः ईशानं च शिखात्मकः | प्रणवस्य प्रसादस्य नान्तरं कल्पयेत् क्वचित् || सद्यः अकारवर्णान्त निवृत्ति ब्रह्मणा युता | इत्येवं पार्थिवं तत्वं पंचधासंव्यवस्थितं || १७६अ) उकारं वामदेवं तु वरुणं विष्णुदैवतं | प्रतिष्ठां तु कला तत्र पंचधा तत्र कल्पयेत् || अर्द्धचन्द्र तथाघोरं विद्यारुद्रमथा नलं | तत्वमेवमकारं तु पंचैधा परिकल्पयेत् || विंदु तत्पुरुषं शांति कलावायुमथेश्वराः | पंचधा कल्पयेदूर्द्ध नादं विंदु द्वयतगं || नादं बीजमथोंकारं ईशानां तु समुत्थितं | सदाशिवं तथा काशः शांत्यतीत कला स्थिता || ब्रह्मणौ हृदयं स्थानं कण्ठे विष्णु व्यवस्थितः | तालुदेशे स्थितो रुद्रः काकभ्यामीश्वरं स्थितः || सदाशिवं ब्रह्मरंद्र यावच्छक्त्यन्त गोचरं | तदूर्द्धद्वादशांते तु शिवः साक्षाद् व्यवस्थितः || सद्योस्याष्टकला युक्तं लकाराक्षरं संभवं | विद्याद्वकारजं वाममघोरं चरसंभवं || दशत्रिकलवामं तु वहुरूपं कलाष्टभिः | जिंद्रजं पुरुषं विद्धि चतुष्कलमिदं हरं || षट् प्रमेयमथेशानं कलापंच पराजितं | षष्ठं तु यत्परं तत्वमसादृशागुणैः स्थितं || तस्य देहो न वक्तव्यः प्राक्ततैर्गुणसंभवैः | १७६ब्) ज्ञात्वा परमतिश्रेणी पंचसंस्थान यामिनी | ज्ञातमेव सकृद्येन विस्मृतेषित देवता || तत्काल एवमुस्य?सौ यदा ज्ञातं हि तत्पदं | प्रसाद प्रणवाभ्यां विभागः कथिता मया || प्रसाद प्रणवाभ्यां तु नांतरं कल्पयेत् क्वचित् | प्रणवं येन जानंति ये भ्रमन्ति भवान्तरे || ज्ञात्वा प्रणव सद्भावं कोनमुच्यते बन्धनात् || इति कालोत्तरे प्रसादप्रणवव्याप्तिपटलं || ईश्वर उवाच || अथातः संप्रवक्ष्यामि शिवज्ञानं यथा स्थितं | देहस्थः कंसकलो ज्ञेयो निष्कलो देहवर्जितः || आप्तोपदेश समाप्तौ? सर्वतः किमपि स्थितः | हंसहंसति यो ब्रूयाद् वसो देवः सदाशिवः || गुरुवक्त्रा तु लभ्येत प्रत्यक्षं सर्वतो सुखं? | तिलैषु च यथा तैल पुष्पैगंधं समाश्रितः || पुरुषस्य शरीरेस्मिन् स वाह्याभ्यंतरे स्थितः | उल्काहस्तो यथा कश्चिद्रव्यमालो कृतां व्रजेत् || ज्ञानेन ज्ञेय मालोक्य तदाज्ञानं परित्यजेत् | पुष्पं तु *?तुलं विंद्या गंधस्तस्य तु निष्कलः || १७७अ) वृक्षं तु सकलं विद्या च्छायास्तस्य तु निष्कला | सकला निष्कलो भावः सर्वत्रै व्यवस्थितः || सकलै सकलं ज्ञेयं निष्कलै निष्कलं तथा | देहातीतं परं विद्या नाभाग्रद्वादशांगुल || तदतं तु विजानीयात् तत्रस्थो व्यापयेत् प्रभुः | ननोप्यन्यत्र मे क्षिप्तं चक्षुरनात्र पाती || तथापि ज्ञानिनां योगो अव्युच्छिन्नः प्रवर्तते | एतं तु परमं गुह्यं मित्येतत् परमाक्षरं || नातः परतरं किंचिन् नातः परतरं शिवः | शिवज्ञाना मृतं ह्येतत् संक्षेपां न तु विस्तरात् || कथितं देवदेवेन परमाक्षर निर्णयं | एतंते शिवसद्भावं शिववक्त्राद्विनिःसृतं || गुह्यांगुह्यतरं गुह्यं गूहितव्यं प्रयत्नतः | ना शिष्याय प्रदातव्यं ना पुत्राय कदाचन || गुरुदेवाय भक्ताय नित्यं भक्तिरताय च | प्रदातव्यमिदं शास्त्रमितरेषां न दापयेत् || दातारो नरका यांति न सिद्ध्यंति कदाचनः | शिवामृतमिदं ख्यातं सत्यं सत्यमिदं तव || एवं ज्ञात्वा तु मेधावी विचरेत् स्वं यथासुखं | गृहस्थो ब्रह्मचारी च वानप्रस्थोपभिक्षुकः || १७७ब्) यत्र तत्र स्थितो ज्ञानी परमाक्षर किं सदा | विषयी वियया शक्तो याजि? देहादिके? शिवं || ज्ञानादेवाश्च शास्त्रस्य ययं? वस्थापि? मानवः | ब्रह्महत्याश्च मेध्यभ्यां पापपुण्येन लिप्यते || पुनरेवं प्रवक्षामि प्रत्यक्ष यजनं क्रमात् | सूर्यया ग्रहणे वत्सं प्रत्यक्षं यजनं स्मृतं || वाक्यथातीत विषयं प्राप्यशान्त परं पदं | सोमादयेत् हृत्पद्मै प्रत्यक्षं यजनं तथा || ज्ञातव्यं साधकेंद्रेण संज्ञामात्रमनन्तकं || इति कालोत्तरे महातंत्रे प्रत्यक्षयजनपटल || ईश्वर उवाच || लिंगोद्धारं प्रवक्ष्यामि नैष्ठिकानां तु षण्मुख | पंचार्थ काल वक्त्रानां सर्वपाषण्डिकेषु च || त्रिरात्रं पंचरात्रं वा क्षपयित्वाधि वासयेत् | हृत्मंत्रेण तु कर्तव्यं व्रतसंहारमुद्रया || मात्रिकां विन्यसेत् तत्र विधि दृष्टेन कर्मणा | अष्टपन्नं लिखेत् पद्मं वीथिका द्वारभूषितं || संहार क्रम योगेन मत्रिकां तत्र पूजयेत् | पूजयित्वा विधानेन सर्वतोद्धोममाचरेत् || १७८अ) पंचपंचाहुती दद्यात् प्रतिवर्णे यथा क्रमात् | हृत्मंत्रेण तु कर्तव्यं संहारेणाथ बुद्धिमान् || एवं कृत्वा यथापूर्व जनयेत् तत्र नैयिकं | इष्टि संहारिणीं स्कंद कृत्वा वै नैष्ठिकै * *? || सृष्टि संहार योगेन कृत्वा शुद्ध्यंति नैष्ठिकाः | आशक्ता विषयोनं कर्मदोषै न लिप्यते || इति पाषण्डिकानां तु यतीनां भावितात्मनां | लिंगोद्धारं प्रकर्तव्यं गृहस्थो पादनाय तु || इति कालोत्तरे महातंत्रे लिंगोद्धारपटलं || ईश्वर उवाच || उक्ताति योगाभ्यासरतात्मनां | आत्मनो न वधः कार्य फलमुद्दिश्यमंत्रिणा | न च दुःखेन तत्कार्यं न च कामानु रोधतः || यदि निर्वेदमापन्नः प्राप्तभोगोथ वा नरः | धारणानु क्रमेणैव शिवे प्राणा परित्यजेत् || नियम्य विषया यत्नात् शब्दाद्या निंद्रियाणि तु | नियमा इंद्रिय ग्राममनसा बुद्धि गोचरे || अंहंकारपदं त्यक्ता कारणादि क्रमेण तु | अहं ब्रह्मादि भावेन यावत् सकल गोचरं || वाडं च करणं कार्य सेतुं युक्त्या विलंघयेत् | मात्राशतं मरुत् प्राप्य कुंभयेत् तद्वदेव हि || १७८ब्) विरे च ब्रह्मरंधं तु रेचये रचत्सनैः | भेदयित्वा कपालोर्द्ध याति जीवः परे पदे || न भूयो जन्ममाप्नोति रसविद्धमि चारकं | ततोन्तैष्टिः कर्तव्या समयादि चतुष्टये || अयुक्तसंशयानां विशेषतः | शास्त्रान्तर प्रपनानां तथा तृप्ति क्रियेषु च || अनेष्टिर्यत्नतः कार्या नान्यथा परमाप्नुयात् | आचार्येण चतुर्णां तु साधकेन त्रयस्य तु || द्वाभ्यां तु पुत्रकेणैव समयज्ञैः स्वसंततौ | अभावाच्चैव? सर्वेषां समयज्ञे न कारयेत् || नदीतीर समासाद्य गोमये नोपलेपयेत् | कलसं वास्तु कलसं संपूज्यविधिवत् ततः || स्थण्डिले हस्तमात्रं तु शिवं संपूज्य तर्पयेत् | तद्वद्धोमं प्रकर्तव्यं शिवसंपूज्यपूर्ववत् || मृद्भस्म गोमयो घृष्टं सोधितव्यं सिवासिना | सवमहृत्य तत्राग्नौ दक्षिणस्या दिशि न्यसेत् || प्रोक्षितस्याद्दूलित स्याथ चिंतयेत् प्रणवं हृदि | सकलीकृत्य संपूज्य ततो होमं समाचरेत् || १७९अ) तदा व्यानं शिवं ध्यात्वा तं देवाय निवेदयेत् | प्रतिगृह्णी स्वभावेन शाध्यामेनां महाहुतीं || एवमुक्ता शिवं देवमुभयस्थं वि * * र | ततस्तमिंधने नाग्निं प्रशक्तेन नये च्छिवं || अव्युच्छिंनां ततो धारामस्त्रं कुंभेन दापयेत् | अखण्डमण्डलाकारं शिवमस्तु तवाधुना || स्नात्वौदकं ततो दद्यात् पुनः स्नात्वा शिवं यजेत् | पश्चिमान्तेन्त पर्यन्तमावर्त्यशवसोधने || शिष्यैर्वा गुरुसंवंधा गुरुसंबंधिनस्तथा | जपहोमादिकं कर्म कर्तव्यं च परस्परं || पुत्रः शिष्यस्तु विज्ञेयो भ्राता वै पुत्रको मतः | नित्यं समय निष्ठश्च पुत्रकश्च तथा मतः || साधकाः पुत्रको भ्राता समयी पुत्रपौत्रकः | आचार्यस्तु पिता तत्र सर्वेषां तु क्रियावतां || दिनैकं सावकं तेषां शावा शौच निमित्ततः | गृहस्थो लोकमार्गं तु मनसापि न लंघयेत् || लोकिक्या चारानुक्षयेण सूतकं याति सम्मतं | परमार्थ तया पुंसा सूतकं न भवेत् क्वचित् || ते सा दंतेष्टि कर्मात्र समासात् कथितं मया || इति कालोत्तरे महातंत्रे उक्त्रात्या अन्तेष्टिपटलं || १७९ब्) ईश्वर उवाच || अथातः संप्रवक्ष्यामि निःसंशानां तपश्विनां | यतीनां यात विघ्नानां सूतकाय हतात्मनां || वाह्यो परत शक्तीनां मानसयागमीरितं | कार्तिकेय उवाच || दीक्षितानां महादेव सूतकं विद्यते कथं | येद्यस्ति चेत् तदा तेषां दीक्षया किं कृतं विभौ || न जातेन शरीरस्य दीक्षा प्रोक्ता पुरात्मनः | यदासौ दीक्षितः कस्य सूतकं कथयस्व मे || ईश्वर उवाच || सबीजा चैव निर्बीजा दीपप्रोक्ता द्विधा पुरुः | मोक्षदा देह पातेन स बीजा बीजतः स्थिताः || सद्यो निर्वाण दीक्षा तु कर्म साम्यात् पुरोदिता | बालादीनां तु निर्बीजा समयाचार वर्जिताः || स बीजा चैव शक्तानां समयाचार संयुताः | द्विविधायामपि तथा दीक्षितानां शिखा हुनेत् || या प्राग्वत् खण्डसंयुक्ता दीक्षा सा शिव धर्मिणा | शिखा च्छेदं विना तद्व ज्ञेयो मालोकधर्मिणी || नित्यहानिर्न तेषां तु येषां स्यास्थिवधर्मिणी | वसिन्तत्र पृथक् पाक्या स्नाना तत्र्य युता च्छुचिः || १८०अ) तदन्नत्वस्वतंत्राच्छुद्धि नान्यतो न्यथा क्वचित् | अहन्यहनि कर्तव्यमंतर्यागं दिनत्रयं || चतुर्थेहनि नित्यं तु कर्तव्यं तेन पूर्ववत् | लोकधर्मात्मिका दीक्षा कृता येषां षडानन || तेषां वै सुतके पूजा विनिवर्तते शांकरि | तैरेव संप्रकर्तव्यमंतर्यागं यथार्चितं || प्रमाणैर्गीतकैस्तोत्रै संतोष्यः परमेश्वरः | अतोन्यथा पिशाचत्वं योत्यसौ कतिकासुत || तस्मात् सर्वप्रयत्नेन मानसं यागमाचरेत् | न केवलं ध्यान तिष्ठयंतिभिः पर्युपास्य ते || यावत् संपात विघ्नं च मानसं यागमभ्यसेत् | उपविश्यासने शुद्धे द्वात्रिंशागुलसम्मितं || त्र्यंशोच्छते चतुःपादे मृदुपट्टादि सह्यते | तत्रासनाष्टकानां तु मध्यादेकं तु वंधयेत् || स्वस्तिकं पद्मसंज्ञं तु वीरचंद्रार्द्धमेव च | प्रसारितं योगपट्टं च पर्यकं च यथासुखं || द्विगुणं पृष्ठतो नीत्वा वामपादस्य दक्षिणं | तिर्यक्तं द्विगुणं कृत्वा जंघालग्नं तु स्वस्तिकं || न्यसेद्विगुणमन्योन्यं पादमेकं तथोत्तरं | पद्ममेवं विद्धि चंद्रार्द्धं लेशतः शृणु || १८०ब्) तद्वत् पाद द्वयं कृत्वा स्वतलान्योन्य संस्थितं | चंद्रार्द्धमेवं कथितं वीरासनमतः शृणु || द्विगुणं पातितं वामं पदं दक्षं तदूर्द्ध्वतः | कृत्वा न्योन्य तलस्थं तु वीराख्यं पदमुच्यते || द्वौपादौ द्विगुणो कृत्वा तिर्यदूर्द्धं यथाक्रमं | न्यासीत्याली यथा पट्टं श्रितश्लिष्टागुलीयकौ || पादद्वयं प्रसार्याथ सम्मुखं सुप्रणामितं | पृष्ठतो ययधानस्थं प्रसार्याथ करद्वयं || पर्यंकं तत्समाख्यातं यथासंस्थं यथासुखं | अभ्यस्तं मासनं वद्धामयूरांचितमस्तकः || जिह्वातालुतले कृत्वा दंतैर्दन्तान्न शंस्पृशेत् | कूर्ममुद्रा ततो वध्वा लिंगाख्या वा ध्वजात्मिकां || अक्षं समानयेत् पूर्वमिंद्रियार्थ गतं शतैः | तस्यस्थिर्यं तदा कार्य मानसं प्रणवं स्मरेत् || ततो देहतरोः कार्या शोषण दहनं क्रमात् | उद्दुषनं रेचकेन तेनैवात् प्लननं तथा || आधारशक्तः शक्त्यंत मानसं प्रणभं स्मरेत् | विद्यात्म वेदरूपेण मूर्तिन्तत्र प्रकल्पयेत् || प्रणवामृत कुंभे च न पंच ब्रह्ममयेन च | शिवाबु पूरिते नैव संशिक्तं मनसा स्मरेत् || १८१अ) परमा वाह्य तत्रैव व्यापकं वहिरन्तरं | तत्र हृत्पुण्डरिके तु कर्णिकोपरिचिंतयेत् || सूर्यायुतसमप्रख्यं सकलाकलरूपतः | आह्वानं स्थापनं चैव संनिधानं निवेशनं || पापमाचमैनं स्नानं वस्त्रं पूपस्रमादिभिः | दिव्यैर्विलेपनैर्वस्त्रैर्भूषणैरर्चयेत् तथा || वितानध्वजच्छत्रैश्च नरयातै अदर्प्यणैः | दिव्योपचारैः संपूज्य संपूर्णै मानसैः शुभैः || जपं तु मानसे कार्यं सूत्रं चैव प्रदक्षिण | पूजामेवं तु निर्वर्त्य होमागारं ततो व्रजेत् || वृषवष्कं तु राले तु स्थितं कुण्डं त्रिमेखलं | त्रिकोणं वर्तुलं मतः सोमाग्निरवि मेखलं || विकल्पाहुति होमस्तु शक्ति हस्तेन कारयेत् | इंद्रियाहुतयः पंच जुहुया सर्वसंयुताः || मंत्रिणो स्थाप्य नादं तु मनोधारां विभिक्षियेत् | मानमस्य पदं प्राप्य ब्रह्मादीनाम गोचरं || प्राणोदयं समाश्रित्य त्रिमुष्णातं क्रमाद् व्रजेत् | सोमसूर्यलयं यत्र तत्र स्थित्वा यथासुखं || ततो भ्रूद्धारमाशृत्य मंत्रवीर्यं समाक्रमेत् | तदा क्रम्य वलं मंत्री सर्वैश्वर्य पदं लभेत् || न ध्यानं न तथा ध्येयं न ध्याता तत्र विद्यते | १८१ब्) नम्रमाता प्रमाणं वा प्रमेयं नात्र विद्यते || किंतु प्रतीति मात्रं तु तत्र सत्ता प्रजायते | पूजाध्यानं तथा होमं ततः संभोः समर्पयेत् || इत्येवं मानसं योगं सर्वेषां सर्वकामदं | अकृतिमं प्रधानं तु तेनान्तर्यागमारभेत् || वाहुयाग स्मृतं वत्स अंतर्यागा तु सारतः | अंतर्यागस्य पुरतो कलानार्घन्ति षोडशीं || वाह्ययागं महासेन वहिरं संप्रकीर्तितं | यो यथे च समर्थश्च वहियोगं प्रकल्पयेत् || सकृत्सम्यगाथा शक्त्यायः पूजयति वै शिवं | अनंते सत्वमाप्नोति विद्याभोगपरिस्फुटं || किंतु देहावासनं तु यः पूजयति भक्तितः | स शिवः सर्वकृद्यद्वज्जीव? अन्तश्च कथ्यते || यस्या यस्यामवस्था या तस्या तस्या स्मरेच्छिव | तिष्ठन् गच्छन् स्वपन् जाग्रन् भुंजना मैथुनै रतः || यः शिवार्पित चेतस्थो मुक्तिभाक् मन चान्यथा | मुद्रामण्डलमंत्राश्च शिवदेहाद् विनिर्गताः || सर्वशिवमयं ज्ञेयं यत्किंचित् स चराचरं | शिव तत्वमविज्ञाय मंत्रविद्यादि मण्डलं || १८२अ) मृत्पिण्डवं तु विज्ञेयः पतित्वं तु भवेत् तथा | तस्मात् सर्व प्रयत्नेन मंत्रवीर्यं समाक्रमेत् || वाच्यवाचकयोरैक्यं ज्ञात्वा क्षय फलप्रदं | वाच्यं मंत्रा स्थिताः सर्व तस्माद् वाक्यं समाश्रयेत् || रात्रौ संपूजयेद् देवं दिवा होमं प्रकल्पयेत् | संध्यासु च तथा ध्यानं दिवा रात्रौ जपः स्मृतः || दिवा तु नाम संकुर्या जपं रात्रौ तु राजसं | संध्याया सात्विकः प्रोक्तो जपः सर्वार्थसाधकः || विस्यष्टस्तोमसः प्रोक्ता राजसो पांशु रुच्यते | मनसा सात्विकः प्रोक्तो जपः सर्वार्थसाधकः || तामसं क्रूरकर्मादौ वस्यादिषु च राजसं | सात्विकं दिव्यभिद्व्यानां जपं योज्यं प्रयत्नेनः || प्राण वृत्ति निरोधेन तज्जपं सात्विकं मतं | मनः चिच्छक्तिमंत्राश्च प्राणाश्चैव शिवं तथा || लैलीभूतं यदा वत्स जपं तत् परमं मतं | संज्ञावीर्यमथाश्रित्य जपं सर्वार्थसिद्धिदं || नपुंसि न परे मंत्रः फलदः किंतु शक्तिगः || इति कालोत्तरे महातंत्रे अन्तर्यागपटलं || ईश्वर उवाच || योगाभ्यासः प्रकर्तव्य सुसहायः समावृत्तः | १८२ब्) असहायो यदा चैकः कर्तव्यं तु कमण्डलुं || हस्तोतारमयं शस्तं शल्वजं वाथयाथावं | बीजपूराहृतिं कार्यं द्वादशांगुलमुर्च्छितं || त्र्यंगुलं मूलजा द्वेशा त्र्यंगुलं कंठदेशत् | वेदागुलोच्छिता ग्रीवा परिणाहात् तथा मता || तदूर्द्ध त्र्यंगुलं च्छत्रं तदर्द्ध्यंबुं वकं मतं | उच्छ्रयेण च विस्तारात् सुसूक्ष्णं तत्र नालकं || साविस्त्री त्र्यंगुला कार्या जठरस्योपरिस्थिताः | पूरयेत् तेन मार्गेण यावद्वै गलकावधि || पंचपानीयसंसोध्य पंचगव्येन भस्मना | शिवेनाष्टोत्तरं जप्त्वा जृसंस्थापयेच्छुचौ || निवेदयेदघोराय ततः संप्राधारयेत् | नित्यं त्रिकटिकायां तु न भूमौ ना शुचौ क्वचित् || यथा न स्पर्शयेत् तत्र स्पर्शात् यागां विधीयते | अथवापि पिवेद् भूयो मंत्रये पूर्ववत् क्रमात् || शौचं तेन स्वयं कुर्यान्न भ्रांतिं तेन कारयेत् | असहायैः प्रकर्तव्यं नियमेन कमण्डलुं || न गृहस्थैः प्रकर्तव्यं शौचं कार्यं स्वयं क्वचित् | कमण्डलु विधानं तु संक्षेपेण प्रकाशितं || इति कालोत्तरे महातंत्रे कमण्डलुपटलं || १८३अ) कार्तिकेय उवाच || गृहस्थाना विशेषेण संस्कारं वक्त्र मर्हसि | मृतोद्धारं तथा दीक्षा कथं केषु प्रकल्पयेत् || क्रमात् संक्षेपतो देव जंतूनां हितकाम्यया | ईश्वर उवाच || मृतं तु दीक्षितं ज्ञात्वा प्रार्थितव्यो महागुरुः | स्नेहेन कृपया वाथ सह शिष्यै महात्मभिः || स्वनित्यं कारयेद् यत्नात् ततो या या प्रयत्नतः | ततो मृतसमुत्थाय स्थानाद् यत्र मृतः पुरे || अस्त्रं मत्राभिजप्तेन गोमयेन मृदंभसा | सुगंधा मलकैः स्नाप्य सर्वोषध्योदकेन तु || चंदनेन समालभ्य नाना पुष्पैश्च वेष्टयेत् | सुरक्तै वासिते तत्र वाससी ह्यधरोत्तरे || परिधायो पवीतं च सोत्तरी तथा नवं | उत्तरीयं तु शूद्राणां किंतु सूत्र विवर्जितं || पवित्रक द्वयं तस्मिन् दाभ्यं योज्यांगुलि द्वये | पुष्पैः सुभूषितं कृत्वा स्थितं यंत्रे पटा वृत्ते || गृहत्वाथ स्वजातीयै दीक्षितैर्न ह्यदीक्षितैः | नये तु संस्कृतं स्थानमस्थु गारादि वर्जितं || उपलिप्यपुरात द्वै समीकृत्य यथाविधिः | भिक्षापात्रं तथा चण्डं स्रुक्स्रुवं राक्षसूत्रकं || १८३ब्) पादुके त्वासनं चैव घंटा वे योग पट्टकं | भद्रपीठादिकं सर्वमर्घपात्रकमण्डलुं || मात्रोपकरणं सर्वं तदीयंशपतादिकं | हिरण्यवस्त्रशास्त्रं तु च्छत्रमानादिकं तथा || तच्छ्राद्धकाले दातव्यं गुरुणा भावितात्मनां | नये तस्याग्रतः पूर्वमर्घांबु कुसुमादिकं || उषयोगां हि यत्तद्युरर्चनेत् होमकर्मणि | तत्र वैशान दिग्भागे मासाद्यौ परिसंगुरुः || सकलीकृत्य चात्मानमंतर्यागादि चार्चनं | परिशिस्यस्य चान्यस्य आचार्यस्यापि कस्यचित् || समयी पुत्रकाभ्यां तु देशिकस्य तु कारयेत् | शासनस्थस्य भक्तस्य मंत्रै वा विदिते सति || प्रणवेन तु कर्तव्यं प्रसादे नाथ षण्मुख | प्रणवेन तु पुरापीठं विद्यांतं तु संकृ? न्यसेत् || तत्रार्चयेत् महेशानं कलसे स्थण्डिले तथा | तथा वह्नौ तु संपूज्य ततः कर्मसमारभेत् || मूलमंत्रं शतंसाष्टं तिले नाग्नेन वै यथा | संहारक्रम योगेन स्मृत्वा मंत्र ततो ह्यगं || दत्वा पूर्णाहुतिं वत्स ततश्चार्घांवुना तु वै | तच्छवं प्रोक्षणीयं च नाडयित्वा वलोक्य च || १८४अ) चक्षुषाज्ञानसूत्रेण कारणकारणानु गतेन तु | दत्वार्घं पुष्पं शिरसि दूरस्थश्चाप्यसंस्पृशेत् || आनाया पृष्ठ देशे तु कलसाभ्यां शिखिध्वज | आसनस्था तु कृत्स्नं तु तं शवं येन केनचित् || तद्वीक्ष्य कुण्डदेशस्थं सधायोपविशेत् ततः | प्राक्कर्मापरिशूद्धं तु मृत्ति संस्कार वर्जितं || जीवं च केवल्ली भूतं सामीप्य पवीगतः | मंत्रेणाहुपदेशहस्थं कृत्वा तदनु योजयेत् || पूर्वावस्थं च पिण्डे च रत्नदीपो ज्वलप्रभं | प्रणवांते शिखाबीजं संज्ञां तदनु योजयेत् || तदतं तु शिखाबीजं प्रणवातं न्यसेत् पुनः | आगच्छा वाहने तस्य पूरेण्याथ नियोजयेत् || एवं स्वस्थानगे कृत्वा जीवं शुग्रमतं ततः | व्यापारशक्तिसंप्लुष्टं लुप्तं स्वकाष्टंमिवपावकः || दीक्षयीत क्रमेणास्य लयहोमं तु केवलं | कर्तव्यं गुरुणा सम्यक् पृथिव्यादि क्रमेण तु || परे तत्वे ध्वसंयोज्य पूर्णाहृत्या तु पूर्ववत् | दक्षिणे नात्मनावाथ संप्रोक्षास्त्रोदकेन तु || तिलैः सिद्धार्थकैरन्यैर्मिश्रीभूतैस्तु षण्मुख | नास्ति नेमि विहीनं तु कालचक्रं समारभेत् || वामावर्तं द्विषट्कोणं वद्वहिः कारयेत् परः | १८४ब्) कारवर्णज्वालांकं स्वस्तिक त्रितयान्वितं | तद्वहिश्चतुरश्रं तु पंचरंगो ज्वलं शुभं || पंचरेखान्वितं कार्यं वज्राष्टक विभूषितं | विलोम गत्या वामेन पणिना पातयेद् रजः || विमानवच्चितिं काष्ठै विचित्यतां पुरोहितैः | गोमयैर्वाथ संशुद्धैर्मुक्तये काष्ठसंयुतैः || अंतकाशादिता वाथ नै-ऋत्यां वाथ शंकरः | रोपणीयास्तथा * * *? त्रिरावर्तन वेष्टयेत् || पूजाद्रव्यं समस्तं तु नैवेद्या *? च षण्मुख | उपसंबाह्यतौ? * * *? वह्नौ कुण्ड गते ततः || विसर्जमंत्रं कुंभस्थं शास्त्रं पीण्डाग्नि मध्यगं | खत्वा तु सिंचयेद् भूमिं कुंभस्थेनांभसा यथा || शासनं च ततः सर्वं दक्षिणाभि मुखं ततः | चितामुर्द्ध्नि स्थित कुर्यां तस्य कुण्डे विनिक्षिपेत् || चिततं योगपट्टं च दक्षिणे वाक्षसूत्रकं | वामहस्तेग्नि पात्रं तु प्रणीतं च कमण्डलुं || वामतः पादुके च्छन्नमुष्णीयं दक्षिन्यसेत् | अग्रतो भद्रपीठं च सूत्रं मुद्रा गणं च यत् || संपूज्यपुष्पधूपाद्यैश्चंदनेन तु तांचितिं | प्रज्वाल्यदर्भ विद्यालं कुण्डस्थेन तु वह्निना || ज्वालयेद् दक्षिणा शाच वीक्षमाणस्तुता चितिं | १८५अ) गुरुरभिमुखे स्थित्वा तस्य पूर्णाहुतिं क्षिपेत् || आमूर्द्धाद् वक्त्र विचरेत् यजेत् तत्रैव श्रुक् श्रुवौ | ततः कुंभसमादाय वरुणा शादितः सुतः || क्षिपेत् नामौदकी धारां वामतश्च परिद्रमेत् | निक्षिप्यै दक्षिणं स्यादीक कलसं गगनोपरि || तत्र संसंरक्षकं दत्वा गुरुर्मालाज्जयाश्रयं | सदैले जलमाविश्य मनसा चोपसंहरेत् || पूर्वोक्तं विग्रह न्यासं स्नात्वाथ विधिना ततः | न्यासमाचमनाद्यस्तु कृत्वा दद्याज्जलांजलीं || उत्तरीयं परिधाया नामं वरं शुंचि निर्मलं | उदङ्मुखासने स्थित्वा मंत्रराजं ततो जयेत् || सहस्रं वा शतं साष्टं ध्यान युक्तेन चेतसा | नेतारस्तु तदर्द्धं तु तदर्द्धं भाण्डवाहकाः || प्राप्ते नक्ते जपांते वा विशेषेण शिवं यजेत् | जपहोमा वसाने तु समस्तीयां ततो गुरुः || तद्वादेवैः(?) स शिष्यस्तु संवृत्तः शोकशातये | अस्थिसंचयनं कार्यं तृतीयेह्नि समागते || यष्ट्वा पित्रीश्वरं रूपं पूष्पार्घ वलि धूपनैः | विमलांभसिनिक्षिप्य अगाधे वा नदी जले || भूमावथ कृते खाते ह्यस्ताद् विनिवेश्य च | १८५ब्) न दीक्षितानां यत्नेन क्षिपेदस्थीनि कुत्रचित् | इत्येतच्छिव भक्तानां संस्कारयेद् यथोदितं || रहस्यं परमं ख्यातमपवर्ग फलप्रदं | अनुष्ठेयमतस्तस्मा च्छिष्याणां गुरुणा सदा || विष्येण?वा गुरूणां रस्त्रीणामथ विशेषतः | दीक्षितानां महायागे मंत्रोपकरणं विना || संस्कारमखिलं मात्रं गुरुणापि तु नाथवा | सुतेन पतिना वापि कार्यं नादीक्षिते क्वचित् || कृपया घातितानां च संदग्धानां विशेषतः | यति धर्माश्रितानां च कर्म संन्यासिनाः तु वै || दाहमात्रं तु विहितं मंत्रपूजा विवर्जिताः | परोक्षते विपन्नानां विधानमधुनोच्यते || येन यांति पदं शंभो न सद्योनान्तर स्थिता | यश्चैव दीक्षितस्तिष्ठेन्नासनेस्मिन् मयोदिते || किंतु ये तु दीक्षिताः पूर्वं न नि *? ढं शिवार्चने | म्रियंते वा कृतार्थाश्च समयज्ञाथ पुत्रकाः || ते स्व कर्म वसाद्यांति कंचित् स्थानमसास्वतं | भूयस्तस्मार्च्चिरणैव केन विद्धि ग्रहात्मना || काले शुभे शुभे देशे उत्पद्यते शुभेन वा | पुण्यं कुर्वीत पापं च देशकाल तये वसात् || १८६अ) शुभेन कर्मणा मोक्षमशुभेन प्राप्नुवंत्यधः | एवं संस्थितिमाप्नोति ह्यष संनोस्त्वदीक्षतः || मृतश्चापि परोक्षे तु यदा वै गुरुणा तथा | कृपारपासमर्थेन कार्यं उद्धरणं महत् || शरीरधर्मं संस्थेन यथा तदवधारय | विधिवत् मरणं ज्ञात्वा पुराभक्तस्य कस्य स्नानादि होमपर्यंतमादौ कुर्यात् तथाह्निकं || संस्कृतस्तौ तु सिद्धान्तौ तु सिद्धान्ते घृतक्षीर समुप्लवे | आहूयपरया भक्त्या देशिकाश्च क्रियावता | त्रयश्चौदन्मुखान्नापी च न्यास क्रमेण तु || ईशः सदाशिव शिवौ तृतीयं तत्र कल्पयेत् | द्वावादौ पूर्ववक्त्रौ तु विनिवेश्यासन द्वये || कालाग्निं त्वथवानन्तं द्वावेवं परिकल्पयेत् | आपादा मूर्द्ध्नि पर्यंतं द्वाभ्यां तु मंत्र देहगं || अक्षतैः पुष्पधूपश्च द्वयमादौ प्रपूजयेत् | तत्राज्ञानं प्रकर्तव्यमीशस्य पितृसंज्ञया || सदाशिवाख्य मंत्रैश्च कल्पयेच्च पितामहं | प्रपितामह संज्ञा तु शिवमंत्रेण कल्पयेत् || विविधानु क्रमेणैव अर्घपुष्पादिभिर्यजेत् | प्रार्थयित्वा ततोनुज्ञा मंत्रेशं लिंग वा यजेत् || १८६ब्) निभवेनार्चयित्वा दुत्मानाद्येन महात्मना |? चंदना भरणैः स्रग्भिः वस्त्रैर्स्रयै तथार्चनैः || दीपेन च भक्त्याद्यैश्च पानैः शुद्धैः प्रपूरयेत् | स्तोत्र मन्त्र नमस्कारैः मुस्वनाभिरनन्तरं || तमेवानलमीधातु सन्निधी कृत्य पूजयेत् | ततोस्त्र मंत्र जप्तेन पात्रमुद्धृत्य भक्तितः || पितृयन्धान सिद्ध्यर्थ नैवेद्यं तृतयं ददेत् | व्यंजनादि समायुक्तं मध्वादि तिल भाविता || संप्रोक्ष्यवास्त्रमंत्रेण क्रमात्रि निवेदयेत् | संहारक्रमयोगेण एकैकस्य निवेद्य च || एवं स्मृत्वा ततो ध्यात्वा मंत्रैः सवैः पृथक् पृथक् | नामगोत्रादिना प्राग्वच्छिवं संप्रीणयेत् ततः || तथा वह्नौ तु संतर्प्य प्रीणनं कारयेत् तथा | भोजनं च ततो दद्यात् पूजितानां पुरा युत || यथा कामं ततः पृच्छे तृप्तिरस्तु परं तव | स्वधा नामा ततो दद्या च्छिवस्याग्रेथ दक्षिणां || ततः पूर्णाहुतिं दद्यात् कृत्वा हृदिस्थं मंत्रराट् | प्राग्वन् मध्ये सन्निवेद्य मूलमंत्राभिमंत्रित || १८७अ) सा तु पुत्रं जनयति वहुकन्या प्रसूयिनी | जनयेच्छां करं पुत्रं लक्ष्मी सौभाग्य भाजनं || ज्ञान धर्म क्रिया शक्तं सत्यव्रत परायणं | पादार्घमात्रमुद्धृत्य हृत्मंत्रेण तु वै पुरा || स्वमन्त्रेण पितृन् सर्वान् तत्र स्थान गता स्मरेत् | अथते नोदके नैव नेत्रमंत्रेण लोचने || अपमार्गोदकं तद्वै स्थाने निक्षिप्य पावने | इति मंत्र मयं श्राद्धं ज्ञानध्यानसमन्वितं || समयज्ञातिकैः कोपं गुरूणां मंत्रसिद्धये | पित्रादीनां च स्वसुतैः गुरुः शिष्या प्रकंपया || समय व्रतपूर्वाणां शिष्याणा भावितात्मनां | यद्यत्राप्य तु योग्य स्यात् स्राधं सद्दीक्षितस्य च || स्वकाह्निका वसेने? तु जयेत् पूर्माक्तवत्? प्रभुं | विशेष विहिते नैव कर्तव्यं वह्नि तर्पणं || ततः श्वेत मृदालोद्य पंचगव्येण चांभसा | द्वादशांगुलमात्रं तु मूर्ति कुर्यात् तदा कृत्तिं || आपादचूलिभातं च सर्वावयवान्वितं | पलाशाश्वक्षजे नैव दारुणा च नवेन वा || तामग्रे कुण्डदेशस्थां कृत्वा मंत्र वृतां पुरा | प्रणवेन तथास्त्रेण प्रोक्षयेत् सप्तधावुना || अर्घपात्राद्धृते नैव पंचधा सप्तधा तथा | १८७ब्) फडंतेन विधाताड्य तृतीये नार्घ चार्चयेत् | कुसुमैरथपत्रैर्वा दर्भकांड युगेन तु || ततो वलोकनं कुर्यात् मंत्रविज्ञान चक्षुषा | साधिभूतादिनां ध्यात्म स्वरूपं तत्व संग्रहं || तत्र सृष्टि क्रमेणैव विनियोज्य यथा पुरा | स्थाने लक्ष कर्मणापि ध्यानमार्गेण देशिकः || होमं कृत्वा यथा न्यायं त्रिद्येका हुतिभिस्तथा | तत्वार्थमभिधा युक्तं मूलसंपुट योगतः || आया हि पद शम्मिश्रं ज्ञातुं तावद्धि गंधयेत् | तत्वं तत्वं क्रमेणैव प्रागुक्त विधिना सुत || हृत्पुण्डरीकस्थं मंत्रधायेच्च सर्वगं शिवं | तज्जीवा नयने सम्यबंधकस्थमिव स्थितं || करुणानंदसंपूज्यं महामानिक्य दीपितां | विज्ञाप्य मनसा तूर्णं त्रिधा स्मृत्वा पुरा शिवं || महाविभूति पालं चितिशरीरं महेश्वरं | हृदंते मूलमंत्रं तु संस्मरेद् ब्रह्मसंयुतं || यत्र कुत्र वि * *(?) कार्यपदं वस्थितं ततः | तदंते मृतजीवं तु व्योमेशेनाहतं स्मरेत् || आनयन्तद्विधा योज्यांतःस्थंज्ञं तदनु द्विजः | नमस्कारान्वितं चैव मंत्रंतं रेचेत् तद्वहिः || स्मरेशं पूरितं तेन पदधोर्द्ध्वे च विद्यते | १८८अ) तिर्यक् क्षिप्ते पुरस्ता च आब्रह्मं भुवनातिकं || स तेजसा समाकृष्य जीवं दुरस्थितं शुचिः | मयाजाल क्रमेणैव ग्राहयेत् क्रमयोगतः || चतुर्दश विधेनैव ग्रहणं तस्य कारयेत् | मृगादि रुद्र पर्यन्तं शोधितो ग्राह्येत् तदा || क्षिप्रं वसे स्वसामर्थ्यात् यंतंगं पातको यथा | ततस्तु मात्म सा कुर्यात् मंत्रं जीव समन्वितं || मंत्रमात्मनि संरोप्य जीवं विंवे नियोजयेत् | प्राग्वत् संधान योगेन योजयेत् स्वास्वते? पदे || ततस्तस्य विधानेन त्वदीक्षां समाचरेत् | षडच्च क्रम योगेन योजयेत् परमे पदे || पूर्णाहुति प्रदानेन प्रायश्चित्तं तु होमयेत् | महापाशुपतास्त्रेण शतं शाष्टोत्तरं हुनेत् || अदर्शने मृतानां तु गजाश्वे पतितात्मनां | स्वपर्यद्धरितानां च विषव्यालादि यंतिते || डिंभततूनां सर्वेषामन्यथानां विशेषतः | स्त्रीणां प्रसवकाले तु विपंनानां विशेषतः || स्त्रीणां प्रसवकाले तु विपंनानां विशेषतः | कुलजानां दरिद्राणां पापिष्ठानां तथैव च || महापातक युक्तानां तस्करैर्घातितात्मनां | व्रतविप्लवमनस्कानामिष्टसंपरिकल्पयेत् || १८८ब्) मृतोद्धारविधानाख्या शिवतत्वा पादना यत् || इति कालोत्तरे महातंत्रे अंतेष्टिमृतोद्धारपटलम् || ईश्वर उवाच || अथातस्य क्रिया कार्या साश्रये वा जलाश्रये | उत्तराभिमुखा चुल्लि तथास्त्रेणा तलं क्षिपेत् || स्थानीं निवेशाते नैव उदकं तंदुलादिकं | मधुक्षीराज्यसंमाध्यं सिद्धमुत्तारेन्ततः || मण्डलं भूतले कुर्यात् केशकं ढादिवर्जिताः | कृत्वार्घ पात्रं तदनु प्रोक्षयेत् तज्जलेन तु || तत्र भद्रासने चैव अवतार्यास्त्रमंत्रितं | तत्रोपरि यथार्थे तु मंत्रपीठं प्रकल्पयेत् || हृत्मंत्रे स्वसंज्ञाते पूजयेत् परमेश्वरं | अर्घपुष्पादि * *? वं विनान्यास क्रमेण तु || वह्नि पूजा तथांते हि कार्यान्तद्वन्न विस्तरं | वह्नि पूजा तथांते हि कार्यांत्तद्वनं विस्तरं || राजते ताम्रपात्रे वा चरुमु * * * *? दाः | कुक्कु * * * * * *? स तिलं पिण्डकल्पनं || संस्थाप्यं तु शिवस्याग्रे हृत्मंत्रेण तु षण्मुख | ततो नैवेद्य दीपादीन् प्रदद्याद्धृदयेन तु || स्वंधातेन स्व *? म्वा वै पूजयेत् तदनन्तरं | १८९अ) पुष्पार्घगंधधूपैश्च वस्त्रदीपादिभिस्तथा | पयसादधिक्षीराद्यैरन्यैर्नानाविधिस्तथा || वतस्तिलै न मधुना घृतगंधोदकेन तु | पूरयित्वांजलिं पात्रं राजतं वाथ खड्गजं || नैवेद्यस्यापसव्येन परितः प्रोक्षयेद् वहिः | नमस्कृत्य तथान्याध्यक्षगोस्वति? विसर्जयेत् || मुद्रया सहमंत्रेण पूर्वोद्दिष्टेन षण्मुख | पूर्णं हृदं समाकृत्वा कलसं स तिल सुत || आचार्याय प्रदातव्यं स वस्त्रं कांचनान्वितं | जले पिण्डं विनिक्षिप्य वह्नौ वा तदभावतः || ततस्तिलोदकं जप्त्वा हृत्नाम्ना च स्वधा | प्रस्थाल्य पाणिना पादौ आचम्य च तदनन्तरं || संहृत्य पीठन्यासं तु वह्निस्थं च विशेषतः | प्लावित्वा परिलिप्याथ कृत्वा न्यासं विशङ्सृं || स पूर्वकृतपक्षस्तु भुंजीयात् पावनं लघुं | पूर्वाननेन गुरुणा उदग्वक्त्रैश्च साधकैः || समयी पुत्रकै वै न भुंजीयात् पश्चिमाननैः | एकपंक्ति सदा वर्ज्या भिन्नजातिषु षण्मुख || चतुस्रिद्व्यखरेख तु विप्रादीनां च मण्डलं | शुक्लेन रजसा कार्यं भुंजानार्थं तु षण्मुख || पूर्वोदिताः सनेस्थित्वा हृतवाथ कुशकल्पिते | १८९ब्) द्वादशांगुलमात्रे वा वृत्तै वै द्वादशांगुले | अघोरं भोजनाते तु यथाशक्त्या तु संजपेत् || दिनांतेस्त्रेण सिद्धार्थं क्षिप्त्वा शयन माचरेत् | विधानमेतदखिलं कर्तव्यं तु प्रयत्नतः || दिनानि दशमेधावी प्रेतानुग्रहकाम्यया | हृदयेङ्नेत्र पर्यन्तं दिनानि पंचकारयेत् || सद्योजातादि वक्त्रैश्च ततोर्द्धं दीनपंचकं | दशाहमेवं निर्वर्त्य प्राप्ते त्वेकादशे दिने || श्रार्द्ध कर्मं तु वै कुर्यात् संयंने त्वाह्निके गति | तदर्थमभार्द्ध गुरुं गुरुपुत्रं तु वा ततः || साधकं तदरावान्न पुत्रकं समयी तु वा | प्रायुक्तं यति पूर्वं वा शिवभक्तमथैककं || प्रक्षालितां शिखा चांतः कृत्वा तं संप्रवेश्य च | दत्वासनं तु संस्थाप्य उत्तराभिमुखं तुतं || पूजयेच्च ततो देवं ब्रह्मागांदि विभूषितं | आचार्यस्य ततो वत्स कुर्यामण्डलकं शुभं || तस्यासन वरं दद्यात् संपूज्य व्याप्ति भाषितं | विनिवेश्याथ वै तत्र प्राहनामनिमंत्रं तं || पूर्वोक्तेन विधानेन न्यासस्य वाहनं मतं | अर्घपाद्ये तथा दशां नामगोत्रसमन्वितं || १९०अ) पुष्पधूपार्चितं कृत्वा यथाशक्त्या स्वरादिभिः | मृतोपकरणं सर्वं तस्मै सर्वं निवेद्य च || अनुज्ञां पूर्ववल्लध्वा पित्रार्थं यागमारभेत् | प्रागुक्तेन विधानेन पूरेव विधिमाचरेत् || नैवेद्यं पिण्डयत्नेन शिवमंत्रेण दापयेत् | पिण्डमर्घाविधानेन संपूज्यं भक्ति पूर्वकं || मुद्रावध्वा जपं कुर्या वह्निस्थै चाग्रतो हरेत् | तद्भोजना वसाने तु मंत्रपीठस्य चाग्रतः || अर्घपात्रेण यत्नेन भूयोदद्यां तिलोदकं | भुक्तशेषं तु सिद्धान्नं गृहीत्वार्घोदकान्वितं || भूतानां तर्प्यनार्थाय विकिरेत् पूर्ववद्बलिं | सनास्य चाग्रतश्चैव कृत्ये त्वेव प्रयत्नतः || परमेश्वर पूर्वेण नियुक्तेन मयादिना | संपन्नमिति पृच्छादद्यादाचमनं ततः || उच्छिष्टमपि संहृत्य अस्त्रेणाभ्युक्षयेत् शिव | संप्रीणनं कुर्यां गृहीत्वा दक्षिणां तु वै || वह्निसंस्थस्य मंत्रस्य दद्यात् पूर्णाहुतिं ततः | हृद्यब्ज कर्णिका मध्ये तेजः पूर्णप्रभं मतं || मंत्रिणं मुपसंहृत्य पीठपिण्डाग्नि मध्यगां | १९०ब्) विधिना तेन वै कुर्यान् मासि मासि शिखिध्वज | निष्पन्ने वत्सरे चैव प्राप्ते मासे त्रयोदश || प्रेतत्वमुपशात्यर्थं पितृश्रार्द्धं समाचरेत् | क्रियाशक्तेन तत्रापि कार्यमात्म हिताप्तये || दीक्षामयमिदं श्राद्धं कुरुते सुगतेः पदं | कर्तव्यं दीक्षितानां तु योग यज्ञे तु शांकरे || देशे काले तथा पात्रे श्राद्धकर्म समाचरेत् || इति कालोत्तरे महातंत्रे श्राद्धपटलं || ईश्वर उवाच || लिंगमाश्रित्यसिद्ध्यंति मानवा नान्यथा क्वचित् | तस्माल्लिंगाश्रिता ज्ञेया सिद्धयोत् मनसेप्सिताः || तात्कालिकं दरिद्रैस्तु कृत्वा संपूज्य भक्तितः | पूज्यं गंधमयं लिंगं त्रिकलां तु मुखावधि || चंद्रेण चंदनौ नाथ कुंकुमेन च ग्रंथिना | चतुः समे न वा कार्यं लघुना केवलेन वा || एवं वै गंधलिंगं तु कृत्वा संपूज्य भक्तितः | प्रयाति शिवसा योज्यं वंधुभिः सहितो नरः || अथवा गुगुलुत्थं तु कार्यं लिंगं सुशोभनं | लाक्षाकंदुकसम्मिश्रं स्थिरं वा संकल्पयेत् || अंगुलद्वारहस्तैश्च प्रतिमां प्रतिकल्पयेत् | १९१अ) अनंतैश्वर्यमाप्नोति शिवे पश्चाल्लयं व्रजेत् || अथपंचानज लिंगं कर्तव्यं चान संभवेत् | अंगुलद्वस्त पर्यंतं कर्तव्यं तु यथारुचिः || गुणतत्व पदं प्राप्यश्चाच्छिव समो भवेत् | एव तुलजं कार्य लिंगं भोग विवर्द्धनं || पुंतत्वाधिपतिर्भूत्वा ततः शिवपदं व्रजेत् | कार्यगुडमयं लिंगं कलातो द्वादशांगुलं || प्राप्नोत्यैश्वर्यमतुलं मोक्षमक्षयमेव च | कल्पं हलमयंमिज्यया परमं पदं || कार्यम्भष्य मयं लिंगं धूपघ्राणसमन्वितं | नवखण्डाधरा भुक्ता गणेसाधिपतिर्भवेत् || भिर्निर्मित्तं लिंगं यः पूजयति भक्षितः | विद्या तत्व पदं प्राप्य पश्चाच्छिव समो भवेत् || मुमुक्षुभिर्भस्मलिंगं तु संपूज्य च यथारुचिः | श्रीकामो गोशकृल्लिंगं महन्यहनि पूजयेत् || स्वस्थेन कपिले नैव कर्तव्यं भोगवर्द्धनं | कार्यं पिष्टमयं लिगं यवगोधूमशालिकैः || श्रीकामैः पुष्टिकामैश्च पुत्रकामैश्च पूजयेत् | कीर्तिकामैर्दर्पणं च संपूज्यं परमेश्वरं || तस्य लवणजं लिंगं तालत्रिकटुन्वितं | १९१ब्) ण्Oट्E ईट् आPPEआऋष् ट्ःआट् ट्ःEऋE ईष् आ डृOP Oऊट् ःEऋE. ट्ःE ḻईण्E आट् ट्ःE Eण्ड् OF ट्ःE PऋEVईOऊष् FOḻईO ईष् चोंPḻEट्E, ःEऋE ःOWEVEऋ ईट् BEङीण्ष् आBऋऊPट्ḻY ईण् ट्ःE ंईड्ड्ḻE OF आ ḻईण्E दातव्या घारिकां किरणी वहून् || लावणान् गोलवांश्चैव क्षीरिणीं घृतसंयुतं | खण्डपात्राणि देयानि घृतपात्राणि तद्वहिः || सुवर्णतिललिंगं च पिष्टजं तु समर्पयेत् | सर्वरुद्राय भक्त्या तु नमःस्कृत्य पुनः पुनः || आचार्य पूजां कर्तव्या हेमवस्त्रान्न पानकैः | एवं यः कुरुते भक्त्या मोक्षमक्षय निच्छता || कुलामुद्धरते सोहि दशपूर्वानु दशापरान् | आषाढस्य चतुर्दश्यां शुक्लपक्षे विशेषतः || शिवं पूज्यविधानेन महास्नपनपूर्वकं | विलिप्य चंदनैर्वेवं प्रयत्नां तु चतुःसमैः || चंद्रचंदनकास्मीरं ग्रंथिना च शिखिध्वज | एतच्चतुः समं नाम अंगरागं शिव प्रियं || स्पृककुंकुमकर्पूर लघुं चन्दनसंयुतं | धूपं तु पुरुतो देयं नैवेद्यं किरणा वहून् || घारिकां लडुकां चैव घृतं पूरं पदतृकं | *? द्यक्षीरपानं च महादेवं परामयं || पिष्टलिंगं सुवर्णं च पूगपात्रं च निर्वपेत् | वितानं च पताकाश्च व्यजनं दर्पनं तथा || आचार्यं पूजयेत् पश्चा वस्त्रहेमां न वाहनैः | एवं यः कुरुते सम्यक् स याति परमं पदं || १९२अ) पितरस्तस्य मोदन्ते रुद्रलोके समं ततः | कल्पकोटि सहस्राणि कल्पकोटि शतानि च || श्रावणस्य चतुर्दश्यां शुक्लपक्षे व्रतं चरेत् | नित्यं नैमित्तिकं कृत्वा ततः काम्यं समाचरेत् || स्नानं पूजा जपो ध्यानं होमं चैव तु पंचमं | इति नित्यं समाख्यातमहन्यहनि षण्मुख || अष्टम्या हि निमित्तेषु या पूजा द्विगुणा तथा | पवित्रा रोहणं तद्वत नित्यागं निवे *? स्थितं || दीक्षा चैव प्रतिष्ठा च ग्रहण चायने तथा | षडासीति मुखान्येवं नैमित्तिकमुदाहृतं || काम्यं व्रतास्तु विज्ञेयाः कर्तव्या द्वितयात् परं | संपूज्य परमेशानं पूर्ववच्च विलेप *? त् || वाननं तु हिमधूपं नैवेद्यं पायसं घृतं | वस्त्रपूतोदकं पानं देवाय परिकल्पयेत् || तांवूलपिष्टकं लिंगं ससुवर्णं समर्पयेत् | व्यजनं पादुके पट्ट गंधधूपसमुद्गकं || निवेद्यं विधिवद् भक्त्या भीमरुद्राय भक्तितः | आचार्य पूजा परतः कर्तव्या साध्यवर्जिता || अनेन व्रतमुख्येन शिवे याति लयं परे | कुलानुद्धरते सोहे दश पूर्ववद्विशापरान् || पितरस्तस्य नंदंति पितृलोके यथा सुखं | १९२ब्) दिव्यवर्षा युतान्यष्टौ ततो याति दिवौकसं || मासि भाद्रपदे शुक्ले चतुर्दश्यां व्रतं चरेत् | स्नानं पंचामृते नैव लघुना तु विलेपनं || धूपं तु चपलं देयं शशिना लफतेन च | धूपांवरसमायुक्तं तदभावा लतान्वितं || खण्डखाद्यान्यनेकानि मोदका किरणानि च | घारिकां वटकां चेति तथा शिखरिणी शुभा || सालितण्डुल प्रस्थं तु पिष्टलिंगं सुवर्णकं | तांवूल निचयं तद्वत् व्यजनासन पादुके || जानुनी भूमिगे कृत्वा निवेद्य च पिताकिने | पूर्ववद् गुरु पूजा च कर्तव्या साध्य वर्जिता || प्रयाति शिवसा योज्यं वक्ष?भिः सहितो नरः | पितरस्तस्य मोदन्ते रुद्रलोकेषु रुद्रवत् || शुक्लपक्षे चतुर्दश्यां मासि चाश्व पूजे व्रतं | स्नानं पंचामृते नैव रोचनायाः पलेन तु || विलेपनं तु श * *? उन्मत्तैस्तु समर्चयेत् | दीपमाला शते नैव भक्ष्यं शाल्योदनं घृतं || पूयखण्डानि सिद्धानि क्षीरपातं घृतं शुभं | पलाकक्कोल पात्रं तु जातिपूगफलानि च || गंधलिंगं सुवर्णं च शिवाय विनिवेदयेत् | प्. १९३अ) आचार्यः परतः पूज्यं हेमवस्त्रा न वाहनैः || शिवसा योज्यतां याति पितृभिः सह शांकरि | चतुदश्यां कार्तिकस्य शुक्लपक्षे व्रतं शृणु || महास्नानं पुरा कार्यं लेपनं तु चतुःसमैः | दीपमाला शते नैव महावर्ति चतुष्टयं || द्वारे ध्वजा वैजयंत्यो मध्ये दिक्षु विदिक्षु च | पटे तु चंद्रकं देयं दिक्षु धूप समुत्सका || लघु वा नरसीतं च रक्तचंदनसंयुतां | विदिक्षु गुग्गुलु घृतं शतैकैकेन धूपनं || सालिपिष्टेन वृषभं पूर्वस्या द्रोणकल्पितम् | तत्पृष्ठे पिष्टजं लिंगं द्वादशांगुलमीप्सितं || हेममाला समायुक्तं मुक्तास्रग्दामभूषितं | * *? द्य परया भक्त्या शाश्वताय प्रयत्नतः || भुक्त्यर्थं वाथमुक्त्यर्थं तस्मिन् स्वात्मार्थमेव च | इदंतेस्तु महादेव इदमेवास्तु सिद्धिदं || निवेद्यं विधिवत् सम्यक् व्रतं सम्यग् यथोदितं | प्राप्नोत्यैश्वर्यमतुलं मोक्षमक्षयमिच्छता || कृतप्सो? ब्रह्महा चैव सोपि रुद्र पदं लभेत् | पूजांते परया भक्त्या गुरुं संपूज्य यत्नतः || हेमवस्त्रान्न पानैश्च मणिभिसृक्ते कादिभिः | हस्तिदानं प्रदातव्यं अभावादग्ध संभवं || १९३ब्) एवं कृते न संपूज्य लिंगव्रतं कृतं भवेत् | अधुना संप्रवक्ष्यामि प्रतिमा व्रतं मनुत्तमं || महास्नानं महावर्ति दीपमाला शतं तथा | विलेपनं कुंकुमेन धूपं वै गुग्गुलेन तु || शतेनाष्टोत्तरेणैव निवेद्यं पयसाघृतं | तालमात्रा चतुर्वक्त्राभि नेत्रानु चतुर्भुजा || शुलासिधनुवाणांगां नानाभरणभूषिता | शालिपिष्टमयं कार्यं वृषं पिष्टेन शोभनः || चामयैर्चायमानं तु शिवं तत्र प्रकल्पयेत् | दर्पणं चैव तांबूलं व्यजनं पादुकासनं || वैजयन्ती ध्वजं यानमाचार्याय प्रयत्नतः | मासि मासि प्रकर्तव्यं चतुर्दश्यां शितेहनि || कातिकं तु समारभ्य द्यावदाश्च पुजावधिः | एतद् व्रतोत्तमं नाम प्रतिमा व्रतमीरितं || ब्रह्महा गुरुहायस्तु पंचपातकसंयुतः | मित्रघ्नश्च कृतघ्नश्च योपि विश्वास घातकः || सोपि रुद्र पदं याति त्रिसप्त कुरु?संयुतैः | कोटि कोटि सहस्रं तु शिवलोके तु मोदते || तदंते जायते राजा स एको वीर्यं वा सुचीः | ज्ञात्वैश्वर्यमवाप्नोति शिवदीक्षाप्रभावतः || पदं पदमवाप्नोति येन भूयो न जायते | १९४अ) एवं चोपदिशेत् तस्य भूमिदानं तु कारयेत् | मोदते तत्र भवने दिव्यवर्षा युत त्रयं || तदंते प्राप्नुयाद् योगं शिवं येन ध्रुवं व्रजेत् | कार्तिकन्तु समारभ्य यस्तु नक्तेन वर्तते || महागजं महाश्वं वा महायानमथापि वा | दातव्यस्तु प्रयत्नेन तदा तद् व्रतमाप्नुयात् || दूरिद्राणां मनाथानां व्रतानि शृणु लेशतः | कार्तिकं तु समारभ्य एक भुक्तं तु कारयेत् || यावदाश्व पूजान्तं तु तत्र पुण्यफलं शृणु | दिव्यं वर्षशतं सार्द्धं रुद्रलोके महीयते || कार्तिकं तु समारभ्य यावदाश्व पुजावधिं | संध्याकाले चरेन् मौनं यावत् तारानु दीक्षणं || प्रयांति रुद्रलोकं तु देहान्ते वन्धुभिः सह | यावदाश्व पूजांतं तु तस्य पुण्यफलं शृणु || वर्षायुतषटं तत्र रुद्रलोके च सत्यनं | तदंते ज्ञानयोगेन सर्वेश्वर्य पदं लभेत् || कार्तिके शुक्लपक्षे तु चतुर्दश्यां व्रतं चरेत् | निराहारमथामौनं प्रतिमासि समावधि || रुद्रलोके वसेन् सोहि यावद् ब्रह्म चतुर्भुजं | उभयोश्च चतुर्दश्यां निराहारेण वर्तते || कातिकं तु समारभ्य यावदाश्वयुजावधि | १९४ब्) रुद्रलोके वसेन् सो हि यावद् ब्रह्मायुषः शतं | कार्तिकं तु समारभ्य यावन् संवत्सरावधि || शुक्लाष्टम्यां सोपवासस्तस्य पुण्यफलं शृणु | रुद्रलोके वसेन् सोहि यावदिंद्राश्चतुर्दश || एवं वै कृष्णपक्षे तु योऽष्टम्यां तस्य तत्फलं | द्वाभ्यां पौषवसे भक्त्या तस्यो शतगुणं फलं || एवं कृष्ण चतुर्दश्यां फलं तु शिववद् भवेत् | द्वाभ्यां सहस्रं गुणितं फलं प्राप्नोति मानवः || मासि मासि व्रतं कार्यं प्रयत्नाच्छिवमिच्छता | फलं वाप्यथ वा साकं वस्त्रशययांगमेव वा || कुंकुमा गुरुतांबूल चंद्रमासन वाहनं | तथा सा भरणं रम्यै शययां वापन्मनेप्सितं || मासि मासि शिवश्याग्रे न्यस्तव्यं शिवमिच्छता | अक्षयंतमवाप्नोति यावद् ब्रह्मदिशोदश || व्रतं कृत्वा फलयस्तु शिवाय विनिवेदयेत् | मुमुक्षुणा प्रकर्तव्यं शाश्वतं तेन वाप्यते || यद्रव्यं यच्च सुस्वादनं यदृश्यं यच्च दुर्लभं | यत् पवित्रं तु तत्पाद्य मासं वा वत्सरावधिं || व्रतांते शिवभक्ताय दत्वा भूयस्तदश्नियात् | कृतं तु नियमं येन न याति नियमावधिं | व्रतभंगे समुत्पन्न वाप्नोति येन भूयो न जायते || १९५अ) एवं चोपदिशेत् तस्य भूमिदानं तु कारयेत् | मोदते तत्र भवने दिव्यवर्षा युत त्रयं || तदंते प्राप्नुयाद् योगं शिवं येन ध्रुवं व्रजेत् | कार्तिकन्तु समारभ्य यस्तु नक्तेन वर्तते || महागजं महाश्वं वा महायानमथापि वा | दातव्यस्तु प्रयत्नेन तदा तद्व्रतमाप्नुयात् || दूरिद्राणांमनाथानां व्रतानि शृणु लेशतः | कार्तिकं तु समारभ्य एकभुक्तं तु कारयेत् || यावदाश्व युजान्तं तु तत्र पुण्य फलं शृणु | दिव्यं वर्षशतं सार्द्धं रुद्रलोके महीयते || कार्तिकं तु समारभ्य यावदाश्व पुजावधिं | संध्या काले चरेन् मौनं यावत् तारानु दीक्षणं || प्रयांति रुद्रलोकं तु देहान्ते बन्धुभिः सह | यावदाश्व पुजांतं तु भुम्यपुण्यफलं शृणु || वर्षा युतषतं तत्र रुद्रलोके वसत्यनं | तदंते ज्ञानयोगेन सर्वैश्वर्य पदं लभेत् || कार्तिके शुक्लपक्षे तु चतुर्दश्यां व्रतं चरेत् | निराहारमथा मौनं प्रतिमासि समावधि || रुद्रलोके वसेन् सोहि यावद् ब्रह्म चतुर्भुजं | उभयोश्च चतुर्दश्यां निराहारेण वर्तते || कार्तिकं तु समारभ्य यावदाश्व युजावधि | १९५ब्) रुद्रलोके वसेन् सोहि यावद् ब्रह्मायुषः शतं || कार्तिकं तु समारभ्य यावत् संवत्सरावधि | शुक्लाष्टम्यां सोपवासस्तस्य पुण्यफलं शृणु || रुद्रलोके वसेन् सोहि यावदिंद्राश्चतुर्दश | एवं वै कृष्णपक्षे तु योऽष्टम्यां तस्य तत्फलं || द्वाभ्यां पौषवसे भक्त्या तस्याशतगुणं फलं | एवं कृष्णचतुर्दश्यां फलं तु शितवत् भवेत् || द्वाभ्यां सहस्रं गुणितं फलं प्राप्नोति मानवः | मासि मासि व्रतं कार्यं प्रयत्नाच्छिवमिच्छता || फलं वा प्राथवा साकं वस्त्रशययां गमेव वा | कुंकुमा गुरुतांबूल चंद्रमास न वाहनं || तथा सा भरणं रम्यं शययां वापन्मनेप्सितं | मासि मासि शिवश्याग्रे न्यस्तव्यं शिवमिच्छता || अक्षयंतमवाप्नोति यावद् ब्रह्म दिशोदश | व्रतं कृत्वा फलं यस्तु शिवाय विनिवेदयेत् || मुमुक्षुणा प्रकर्तव्यं शाश्वतं तेन वाप्यते | य द्रव्यं यच्च सुस्वादनं यदृश्यं यच्च दुर्लभं || यत् पवित्रं तु तत्पाद्यमासं वा वत्सरावधिं | व्रतांते शिवभक्ताय दत्वा भूयस्तदश्नियात् || कृतं तु नियमं येन न याति नियमावधिं | व्रतभंगे समुत्पन्न प्रायश्चित्ती तदा भवेत् || १९६अ) आचार्यं पूज्यविधिवच्छुद्धया द्रविणेन तु | शिवस्याग्रे विधानेन तद् वाक्यं कारयेत् सदा || विचार्य तेस्तु वक्तव्यं येन श्रेयो भयं भवेत् | विचारहीनं यो वक्ति सतस्या शुभ मश्नुते || न स्नेहान्न तथा लोभान्न द्वेषो मोहतोथवा | धर्मचिन्ता प्रकर्तव्या यथाशास्त्रानु सारतः || यः स्वशास्त्रमति क्रम्य परशास्त्रेण वर्ततै | वृथोपरि श्रमस्तस्य न तत्फल मवाप्तयात् || शिवस्याग्रे प्रयत्नेन प्रतिमास्वां प्रकल्पयेत् | तच्चिन्ता दीपका हस्तां तन्मुखां मे हसंभवा || त्रैलोक्ये दानमैश्वर्यं तत्फलं प्राप्नुयान्नरः | वित्तहीनसुविमृस्वः? शिवस्याग्रे निवेदयेत् || नानाविधानि चास्त्राणि काष्ठजानि शुभानि च | नानाविधानि चिह्नानि ध्वजानि विविधानि च || पक्षीनि च विचित्राणि कुसुमानि विशेषतः | दासीदाशाश्व वहवः कुंजरास्तु रगादयैः || मिथुनानि तु सर्वाणि पर्वता सरितस्तथा | नाना विद्याधरी चान्या ब्रह्मविष्णु महेश्वराः || लोकपालाः ग्रहाः सर्व तोरणानि ग्रहानि च | देवालयानि वृक्षाश्च आरामो पवनानि च || १९६ब्) वचाघृतमयं लिंगं संपूज्यं बुद्धिवर्द्धनं | भूतये वस्त्र लिंगं तु दुष्टघ्नं शार्षपं शिव || इति तात्कालिकान्याहुरहन्यहनि पूजयेत् | भूयश्चित्रं पुनर्वत्स विज्ञेयं तच्चलावणं || चलाचलानि चान्यानि लिंगानीह शृणुष्वतः | मृत्मयं द्विविधं कार्यं पक्वं वा पक्वमेव वा || अपक्वात् पक्वजे पुण्यं ज्ञेयदशगुणं ततः | पक्वाद्यरुमयं पुण्यं ज्ञेयं दशगुणं च्युतं || दारुजा च्छैलजं पुष्पं ज्ञेयं दशगुण ततः | मुक्ताशैलमयं तस्मात् फलं दशगुणं स्मृतं || तस्माच्छतगुणं लोहे त्रपुसी सादृते फलं | महाभूति प्रदं हेम तारजं पुत्रवर्द्धनं || कीर्तिदं काम्यजं लिंगं ताम्रं पूजा विवर्द्धनं | पैत्तलं भुक्ति मुक्त्यर्थं सीसायसंरिप्रक्षयं || चंगमायुः प्रदं लिंगं चित्रजं सर्वसिद्धिदं | ततः सहस्रगुणितं लोहाद्रत्नमये फलं || रत्नात्ताणि मयं लिंगं फलं लक्षगुणं मतं | उत्तमाधम मध्यानां रत्नानामुत्तरोत्तरं || दीप्तिप्रधानामणयो रत्नाग्राह्यास्तथा पुनः | मणिलिंगोद्रत्नलिंगे फलं कोटि गुणं भवेत् || संस्थाप्य वानलिंगं तु सर्वकामानवाप्नुया | १९७अ) रसलिंगे ततो वाणात् फलं कोटि गुण भवेत् | के गुणात्र स लिंगस्य वक्त्रशक्नोति शांकरि || सिद्धयो रस लिंगै तु अणिमाद्यास्तु संस्थिताः | रसलिंगे तथा मुक्तिः गुण्या शिवसमप्रदा || तस्माद्रसमयं लिंगं संस्थाप्यं तु प्रयत्नतः | सकृद्रसमयं लिंगं भक्त्यासंपूजयेद् यदि || अनंतेश पदं गच्छत् कौवातु अद्धवान् भवेत् | रस लिंगे तु वै पूज्ये सर्वेषां पक्षयो भवेत् || सर्वेण दूरितं हंति नमस्कारेण दुर्ग्रहात् | संपूज्यरसलिंगं तु प्राप्यते परम पदं || सर्वात्कामानवाप्नोति रसलिंगस्य पूजनात् | मानोन्माद प्रमाणादि न तस्य परिकल्पयेत् || पूजयेद्रसलिंगं तु द्वित्राज्ञि यस्तु भक्तितः | तेणिमादि गुणैश्वर्यर्यज्ञा यांति परं पदं || डिंवाहतानां क्रिययां रसलिंगं प्रपूजयेत् | डिंवाहता विमुच्यंते याति मुक्तिं परापरं || तस्मात् प्रयत्नतः कार्य रसलिंग शिखिध्वजः | वाथलोक्तेन विधिना रसवंधं तु कारयेत् || रसोपरसं लोहादि रत्नगर्भं तु वंधयेत् | अथवा वलिलेशक्त्या वज्रलेपन वंधयेत् || १९७ब्) दीप्तोषधीरसौघेन मूर्च्छयेद् वंधयेत् तदा | सिद्धयस्तत्र तिष्ठन्ति विघ्नसंघ वहिः कृता || रसलिंगं तु संप्राप्य कोनयाति मनोप्सितं | अथवा रस विमद्वा? तु मुद्रिकां धारयेत् करे || तत्तदक्षय माप्नोति तददानिज्यहोति वा | ये प्रदग्धानराके विन्ये च पिण्ड विवर्जिताः || डिंवाहतास्तथा चान्ये मृताये गर्भ हेतुतः | तन्मुद्रिका करेणैव वदंतांतषु प्रतिष्ठितं || तस्माद्रसमयं लिंगं कर्तव्यं भूतिमिच्छता | सर्वेषां चैव लिंगानां क्षेत्रमानं शृणुष्वतः || रगवाण स्वयंभूनां समन्ताद् योजनेहितं | मणिरत्नोच्छितानां च तद्धर्द्धं क्षेत्रमीरितं || तदर्द्धखरुलोहानां पार्थिवानां तद्वहिः | ऋषिदैत्यार्थितानां च नागगंधर्ववारणैः || सिद्धर्वास्थापितानां च सुराप्सर नरोत्तमैः | न तेषां रुपामानं तु न ग्राह्यं वाणवद्यथा || स्वेच्छया कारयेत् तेषां पीठप्रासाद कल्पना | जीर्णदोषैर्न ते योज्या यथावाण स्वयं प्रभुः || यथा स्वयंभु क्षेत्रं तु तथा तेषु विदुः सुत | महानदीनां क्षेत्रं तु विज्ञेयं स्वायंभुवं वत् || धनुस्थं सच्चलानां तु काष्ठमृद्वत् कसैलजं | १९८अ) द्विगुणं लोहजाना तु द्विगुणं द्विगुणं ततः | रत्नजे मणिलिंगं तु वाणे रसमये ततः || एवं वै क्षेत्रमानं तु साधकानां मुदिरितं | जपं प्रति तथोक्त्रास्तौ दाने चाप्यायने तथा || पुनरेव प्रवक्ष्यामि प्रमाणं तु यथास्थितं | क्षेत्रं तु पंचधा कृत्वा पद्मवत् परिकल्पयेत् || प्रथमं कर्णिका ज्ञेया द्वितीयं केशराणि तु | तृतीयं चैव पत्राणि दलाग्राणि चतुर्थकं || वाह्यं तु पञ्चमं भागं क्षेत्रेषु परिकल्पयेत् | प्रागुक्तं तु फलं तत्र पंचधा परिकल्पयेत् || पूज्याधाराणि वक्ष्यामि समासात् कृतिकासुत | स्वमूर्तिपूजनं कार्यं पूजारंभे प्रयत्नतः || योगिनां वा स्वमूर्तौ तु पूजनं विहितं सदा | योगारंभे सदा पूजा गुरुमूर्तौ प्रकल्पयेत् || आशिवादवनीयावत् सकृच्चैव शिवं यजेत् | विद्यापीठे तु यागांते पूजा कार्या सदैव हि || विद्यापीठान् कोटिनात्रं पूजयेद् वा स्वसंहितां | जले सदाशिवः पूज्यः स्नानांतेषु स कृत्सुत || अग्नौ पूजावसाने तु यष्ट्वा होमं समाचरेत् | निर्विघ्नार्थं स्थण्डिले तु शिवसंपूजयेत् सदा || स्थण्डिलेपि हि मंत्राणां सिद्धिश्चासु प्रजायते | १९८ब्) शिवं वा स्थण्डिले पूज्य जले यत्कलसेहितं | स्थिरलिंगे सदाकार्यं सिद्धिः कामैः प्रयत्नतः || भुक्ति मुक्ति प्रदं पुंसां चललिंगे शिवार्चनं | पूजयेत् सूर्यबिंबस्थं दर्पणप्रतिबिंबिते || तद् वद् वै सोमबिंबं तु पूजयेत् मृत्यु वंचने | सर्वत्र संस्थितं पूज्यं सर्वाधारेषु सर्वदा || तत्रापि लिंगे भगवान् पूजां गृह्णाति धूर्जटिः | असंपूर्णा कृता पूजा मंत्रद्रव्यक्रियो गुणैः || तथापि लिंगे पूर्णा तु पूजा भवति षण्मुख | न न्यूनानाधिका कार्या पूजा वै स्थण्डिले सुत || न्यूनाधिका तु षा पूजा फलहीना प्रकीर्तिताः | एतस्मात् कारणाद् वत्स लिंगाराधनमारभेत् || इति कालोत्तरे महातंत्रे लिंगवर्णनपटलं || ईश्वर उवाच || उत्तमाधम मध्यानां सिद्धीनामालयं शिवः | दक्षिणामूर्तिमाश्रित्य साधयेत् सिद्धयस्तथा || सिद्धयो लिंगगायस्मात् तस्माल्लिंग शृणुष्वथ | लयनात् सर्वभूतानां तेषां वै सृजनं पुनः || तेन लिंगमिति प्रोक्त मध्ययं परमं शिवं | मृन्मयं शैलजं लिंगं दारुलिंगानि सांभवं || १९९अ) मणिजं रत्नजं चित्रं गंधाज्यादि क्रमाच्छृणु | हस्तान्तरावधिः सैलमृन्मयं तद्वदेव हि || दारुजं षट्करंष्टर्तं तदर्द्धासहसंभवं | स्थास्यस्त्रिहानतो मध्यं तद्वनात्कन्य साधिकं || कन्य स मध्यमं जेष्ठं नदधापरिकल्पयेत् | शिलपृत्करपर्यन्तं दारुजं षोडशातिकं || अष्टांगुलं तु लोहं स्यात् परमन्यद्विकल्पयेत् | कन्य सस्य तु पादेन तदूर्द्धं ये क्रमात् || सप्ताविंशति संख्यानि लिंगानां कथितानि तु | कन्य सम्योग्र पादं तु ष्वष्वाग्रेपि निवेदयेत् || षट्त्रिंशच्चैव लिंगानि कथितानि संख्यया | त्रिविधिनांगुले नैव ज्ञातव्यानि षडानन || षट्शष्मोष्ट? वयंज्ञेयं कन्य स मध्यमोत्तमं | त्रिविधे नांगुले नैव हस्तं वेदषमांगुलैः || एकहस्तादितः कृत्वा नवातं कथितं मया | मृच्छैलजं समासेन दारुजं स्यात् त्रिभिर्विना || तदर्द्धाल्लोहजं वा ग्राहस्तमानेन कीर्तितं | प्रासादगर्भमानेन पीठमानेन चोच्यते || भूतरंध्राच्छि भक्ते तु गर्भ चैव समं ततः | ब्रह्मभूतात्म भागेस्तु ज्येष्ठमध्याधमं शिवं || तेषां मध्ये तथा द्वे द्वे कन्ययाधो तथा द्वयं | प्रासादगर्भमानेन तवलिंगानि संति हि || एकैकं तु त्रिधा भुंक्ता सासंख्यातेन जायते | १९९ब्) लिंगानां गर्भमानेन पीठमानेन तत्तथा | हस्तादधस्तु लिंगानि चतुरंगुल हानितः || षट्त्रिंशतेन जायंते लिगानि करसंख्यया | हस्ताधस्ताच्च लिंगं तु प्रासादे परिवर्जयेत् || किंतु रौद्रं यवाकं तु श्मशाना यैव मारणे | षोडशांगुल पर्यन्तं प्रासादे दारुजंहितं || अष्टांगुलं तथा लोहं तदधः भ्यगृहे हितं | न शैलं दारुजं वापि स्वगृहे परिवर्जयेत् || भुक्तिमुक्ति प्रदं लोहं वपुसी सायसंविना | महाभुक्ति प्रदं हेमं मध्यमं तारसंभवं || अधिमं भुक्तिदं शेषमंगुलां तु नवावधि | एकांगुलात् समारभ्य चतुर्विंत्सांगुलावधि || लिंगानि कथितान् पूर्वं नामानि शृणुषण्मुख | शिवं सर्वविभुंशांतं धूर्जटि नील लोहितं || स्थाणुं महेश्वरं सत्यं कषटीमेघवाहनं | उमाकांतं विशालाक्षं शंकरं कारणेश्वरं || विसरं लकुलीशं द्रवरूपशपतिं तथा | भूतनाथ भयंमुग्रं रुद्रं वै भैरवं तथा || एक त्र्यंगुलतो ज्ञेयं चतुर्विंशागुलावधि | ततो वै हस्तलिंगानां पुरुषां तं शिवावधि || हस्तादीरंध्रपर्यंतं विभागं कथितं मया | तथाशांतरलिंगेषु विभागं देवता तथा || २००अ) एतद् च्छ्रुयमानं तु विस्कारः कथ्यते पुनः | लिंगायामधिकारांशेः क्रमाद्धृत्व द्विपंचभिः || स त्रिभागैस्तु लिंगानां विस्कारः कथिता मया | आद्यंत् पुरायितं चैव तथा? नाद्यं? तृतीयकं || अन्यत्सर्वसमं लिंगं विभागेन प्रकीर्तितं | मुखलिंगं तु तत्कार्यं नावाक् संमुक्तिदा नृणां || त्रयोभागास्तु सर्वष्यं ब्रह्मविष्णुशिवात्मकाः | चतुरस्रं तथाष्टाम्रं वृत्तंस्याह्रधमं? कं || कोणार्द्धादि तरत्यागादष्टास्रंविष्णुसंज्ञकं | अस्त्रिलोषक्रमेणैव वृत्ताख्यं रुद्रतां भयेत् || क्षत्रत्रय संचंद्रार्द्धं चतुर्थां कुक्कुटांडकं | चतुर्धाच्छत्रमुर्द्धानं फलभेदेन कथ्यते || लिंगमस्तकविस्तारं नवसुभक्त तु कारयेत् | अन्त्य भागं चतुर्धा तु विस्तारो च्छ्रायतो भवेत् || चत्वारि तत्र च्छत्राणि भागभागानु पातनं | पुण्डरीकं तु भागेन कोणवत् स्थापयेत् सुत || यशो दीप्ति प्रदं पुंसां प्रथमं परिकीर्तितं | विशालात् कं प्रकर्तव्यं त्रिभागात् कोणसाततं || विपुलं श्रीपदं पुंसां विशालं तेन संस्मृतं | कोणसुत्र? क्रमेणैव त्रिपदोर्द्धपरिच्युते || तदा श्रीवत्ससंज्ञा तु सर्वेषा सर्वकामदं | चतुकोणोर्द्धतः त्यागात् कोणवत् कृत्तिकासुत || च्छत्रं चतुर्थं विख्यातं नाम्ना वै शक्र मर्दनं | च्छत्रं चतुर्द्धा कथितं सदा सर्वासनेहितं || * * * * * * * * * *? राङ्कस्य न चान्यथा | चतुर्भागात्मके लिंगे चतुर्थांश परिक्षयात् || पुनरन्यद् भवेल्लिंगं योदशारक्षेतुसंस्त्रिके | भाग द्वय परित्यागात् त्रयुयं मस्तकं तथा || * * * * * * * * * *? स्य तु षडानन | कं त्रिधा भजेत् कण्ठे? पार्श्वभागार्द्ध विच्युतेः || कोणसूत्र क्रमेणैव भ्रमणादर्द्धचंद्रकं | आद्यस्यैव तु कर्तव्यं क्षयभक्तस्य षण्मुख || * * * * * * * *? लिंगमस्तकलक्षणं | लोकपालार्चितानां तु लक्षणं कथ्यते पुनः || शत्रूणां स्तंभने शान्तहीताशंस्ततानं * *? |? याम्यं तु मारणे योज्यं *? र्त्यं क्रुरकर्मणि || पुष्ट्यर्थं वारुणं त्विमं उच्चाटे वायु पूजितं | योज्यं द्रव्य प्रसिद्ध्यर्थमैशानं भुक्तिमुक्तिदं || प्रजे सत्व पदं ब्राह्मं वैष्णवं भुक्तिमुक्तये |? यत्तत्पर्वमयं लिंगं तदैवैद्रंदानि कीर्तितं ||? २०१अ) षडस्रं रुद्रभागं स्याच्छक्रमर्दनमस्तकं | दलमर्कैः पुराभुंक्ता हौतासं सप्त विस्तृतं || सप्तास्रं तु प्रकर्तव्यं नापने भ्यादिसंविना | नाहार्द्धं रंध्रभक्तं तु पंचभिश्चोर पृष्ठकं || भुजो भाग त्रयेणैव यमाख्यं माराणेहितं | अष्टास्रं नवभिर्भागैः कृत्वा वेदद्दिशानतं || राक्षसं वह्निवत् कृत्वा दशास्रं मस्तकं यदा | ग्रहभक्तं दलं कृत्वा विस्तारं वेदविद् भवेत् || शिरोर्द्धचंद्रं कर्तव्यं शांति पुष्टि प्रयोधने | यथाष्यं सौम्यजंद्वत्कितु स्यातं गुरुदरं || गदाचिह्नातितं शस्तं पाशांक वारुणं मतं | कृष्णदीर्घं च वायव्यं यथासुरगणार्चितं || किंतु ध्वजसमायुक्तं शत्रूणामुच्चाटनेहितं | रौद्रमनाद्यावत्कार्य रुद्रं त्र्यश्री समन्वितं || कुक्कुटांडमूर्द्धानं ज्ञानुसंम्राज्य साधनं | त्रिशूलोकं प्रकर्तव्यं मग्रे शस्य तु लांच्छनं || स्थितं यावत् सर्वसमं लिंगं वक्त्रांक विष्णुवं तदा | पद्माकं ब्रह्मसंज्ञं स्यात् कुक्कुटांडमूर्द्धजं || दंडमस्तक याम्यं तु दंडलांच्छनलांच्छितं | यं तु दाढ्यं पुराख्यातं सहस्रांकं प्रकल्पयेत् || सर्वकामप्रदं यस्मा सहस्राकं तदा मतं | रुद्रवद्रुद्र भक्तं तु उच्छ्रयेण च कारयेत् || चंद्ररंध्रै समं तत्र विस्ताराद् विभजेत् पुनः | २०१ब्) सहस्रैकोत्तरं तेन लिंगानां जायते स्फुटं | विषमस्वेन कार्याणि उपर्युपरिवर्जयेत् || लख्यरेखाविहीनानि संयुक्तान्यथ विन्यसेत् | पयोधरा सहस्रांके च्छत्रमस्तकमस्तकं || साष्टोत्तरशतं चान्यल्लिंगं सुरगणार्चितं | उच्छ्रयं वेदवत् कृत्वा तिस्कारं सप्तलोचनैः || तेन साष्टोत्तरं लिंग कर्तव्यं चैव? वत्सुत | पक्वापक्वविभागेन मृत्मयं द्विविधं हित || अपंक्वं वज्रयुत्कार्यं पक्वं हेमारुणातरं | मुखलिंगं तथा कार्यं नितांसमं शुभं || नाद्ये नाद्ये प्रकर्तव्यं न च शस्तं सुरार्चितं | न च सर्वसमं शस्तं केवलं स्थापने सुत || किंतु तद्वक्षमाणं? तु प्रकर्तव्य तु यथा त्रयं | प्रतिहस्ते अंगुलं देयं तच्चैकादशजितां || वृषशंकरचंद्रं च क्रमाद्ब्रह्मादितः क्षिपेत् | परिमाणं तदालिंगं भुक्तिमुक्ति विवर्द्धनं || परिमाणं विमाणं विना वत्स दुःखायं केवलं परं | स प्रमाणं समं स्थाप्यं लिंगं वा मुखलांच्छितं || मुखलिंगप्रमाणं तु लेसेन चोच्यते मया | चतुस्त्रिरेक वदनं कर्तव्यं देशिकेन तु || पूजा भागं? प्रकव्यं ऋत्वग्नि पदकल्पितं | २०२अ) अशका पूर्वतास्त्यक्ता षट्स्थानानि वर्तयेत् | शिरोभूतिः प्रकर्तव्या ललाटं नासिकां ततः || चंदनं च तथा ग्रीवा चतुर्भागे भुजो स्थितिः | कराभ्यां मुकुलीं कृत्वा वक्ष्यमाण प्रमाणतः || मुखं प्रतियमः कार्यो विस्तरादष्टमांशतः | चतुर्मुखं मयाख्यातं त्रिमुखं प्रोच्यते तथा || किंतु पादाधिकास्तस्य ललनादीनि निर्दिशेत् | भुजो चतुर्भिभागैस्तु कर्तव्यो तस्य नान्यथा || विहीनं पश्चिमं वक्त्रं विमुखं वेन कारयेत् | विस्तारात् सप्तमांसेन मुख्यानां प्रतिनिर्गमः || एकवक्त्रं तथा कार्यं पूर्वास्यं सौम्य लोचनं | कं ललाटं नासिकां च वक्त्रग्रीवां विवर्तयेत् || भुंजांशं पंचमासेन भुजहीनं विवर्तयेत् | विस्तारस्य षडंशेन मुखनिर्गमनंहितं || सर्वेषां मुखलिंगानां त्रपुषं वाथ कुक्कुटं | पूर्वाननं तु पुरुषमघोरं दक्षिणं मुखं || उत्तरं वाम देवं तु सद्योजातं तु पश्चिमं | वर्ण भावानुरूपेण मुखलिंगानिवर्तयेत् || हस्तमानेन तेषां तु संख्याचाव्यक्तवद् भवेत् | प्रासदगर्भमानेन पीठमानेन कल्पयेत् || षट्तृंशत् परिमाणेन व्यक्ताव्यक्तानि निर्दिशेत् | एवं स्वयभुवाणानां मणिरत्नमयेषु च || २०२ब्) प्रासादपीठगर्भादौ नियमात विधीयते | स्वेच्छया कारयेत् तेषा स्वेष्टमंत्रेण शंकरं || वज्रलिंगेमरिच्छेदे मद्मरागं विभूतिदं | पुष्यनीलं तथा नीलं महानीलं विशेषतः || मौक्तिकं संखजं मौक्तं धूली सरकतं तथा | स्फाटिकं त्रिविधं ज्ञेयं सूर्यचंद्रमसात्मकं || रेखा वै वर्णसंहृत्य तुषारकणिकादिभिः | कलंकशर्कराविंदु दोषाकांतं विवर्जयेत् || सर्वेषां चैव रत्नानां लक्षणं कथितं मया | सर्वरत्नं महाभूत्यै गणयभार्द्ध देव हि || अनन्ताद्याः स्मृता हृष्टौ गणयो विद्युत् ज्वलाः | रात्रौ प्रकाशकाः सर्व विषघ्नो जयकारिणः || नाना वर्णास्तु विज्ञेया रसगंधानु रूपतः | वज्राद्यो स्फाटिद्याश्च रत्ना वै भुक्तिमुक्तिदा || अयस्कातं चतुर्धा तु ज्ञेयं सामान्य सिद्धिषु | वेवकं कट्टकं चैव भ्रामकं चुंबकं तथा || एवं वै कांतसंज्ञेयं महावलि तथा पुनः | भीमं चतुर्विध ज्ञेयं रक्ताख्यं तद्वदेव हि || मयूरकंठ शदृशं सम्पर्कसस्य वृद्धयेत् | तथा मारकतं लिंगं धूलीमरकतं तृधा || शूलजिच्छुल रत्नं तु तथार्ष व्याधि नाशनं | पुलकं शक्रदमनं वैरसंत्रामं संभवं || एवमादीनि रत्नानि ज्ञात्वा स्थाप्यानि षण्मुख | २०३अ) विशेषास्छैलजं मुक्त्यै भुक्तये चानुषंगतः | पार्थिवं भुक्तये शस्तं मुक्तये चानुषंगतः || एवं वै दारुजं ज्ञेयं चित्रलिंगं तथा पुनः | महाभूति प्रदहैमं तारजं भूति वर्द्धनं || आरकूटं तथा काम्यं सुल्वं सामान्य भुक्तिदं | वपुसी सायसं लिंगं शत्रूणां नाशनेहितं || गंधपुष्पमयं लिंगं तथा नादि विनिर्मितं | सर्वकामप्रदं पुंसां लिंगं तत्कालिकं मतं || महानदी समुद्भूतं सिद्धक्षत्रादिसंभवं | पाषाणं परया भक्त्या लिंगवत् पूजयेत् सदा || उत्पत्तिं वाणलिंगानां लक्षणं शेषतः शृणु | नर्मदा देविकायां च गंगायमुनयोस्तथा || सहिषुणा नदीनां च वाणलिंगानि षण्मुख | इंद्रादि पूजितान्येव तचिह्नैच्चिह्नितानि तु || आपीतानि षडास्राणि वज्रागानि विशेषतः | इंदुलिंगानि तान्याहुः साम्राज्यार्व प्रदानि तु || अशांतहिमकीलालंमुष्णंस्पर्शात् करोत्पलं | आग्नेयं शक्तिसंकाशमथवा शक्ति लाच्छितं || इदं लिंगवरं स्थाप्य तेजसो विपति भवेत् | दंडाकारं मतं याम्यंमथवारसना कृतिं || यदाभ्यंगमुहूर्तेन निर्मितं जायते तदा | शत्रूणां निधनं तेन क्रियते स्थापितेन तु || २०४ब्) राक्षसं खड्गसदृशं ज्ञानयोगफलप्रदं | शर्करादि प्रलिप्तं तु कट्टकत्वं नयेत् तदा || वारुणं वर्तुलाकारं पाशांकं वाति वर्च्चसं | वृद्धिस्रग्वाद्वस्वच्छत्व मायो याक्त्यापमध्यगाः || कृष्णं धूपं तु वायव्यं सधूमं ध्वजभूषितं | मस्तके स्थापितास्तस्य चलंति विततं तवः || निवाते तु चलं शत्रूणामुच्चाटनेहितं | गदाकारमध्यगुरुद्विकृत्स्नस्य मध्यगं || दिनं वाप्यर्य वारात्रं सस्यानां वृद्धिवर्द्धनं | त्र्यस्रं शूलांकितं रौद्रं हिमकुंदेंदु वर्चसं || चतुर्वर्णं मयं वापि विषुवं जायतेग्रत्रः | वैष्णवचक्रसंख्यांकं दाब्जादि विभूषितं || श्रीवत्स कौस्तुभ्यक्तांतं कालसिंहासनाकितं | वैनतेषसमाकारं तथाविष्णु पदांतिकं || वैष्णवं नाम तत्प्रोक्तं सर्वश्वर्य फलप्रदं | सालप्रामादि संस्थं तु संख्यकं श्रीविवर्द्धनं || पुष्पाकं स्वस्तिकाकं च श्रीवत्साकं विभूतये | अश्वाकं कालसिहांकं पादांकं राज्यवर्द्धनं || उक्तांकं श्रेयसो योज्यं शेषमत्रविवर्जयेत् | पद्मवर्णं तु यल्लिंगं पद्माकं वा कमण्डलुं || दण्डाक्षसूत्र चिह्नं वा ब्रह्मज्ञानाप्तिदंदमतं | समवर्णं महाकालं नंदीशं पद्मरागभं || पुष्यरागनिर्भंसार्थंमुभसिद्धपूजितं | मौक्तिकाभं नीलनिभं रुद्रादित्यप्रपूजितं || वसूदैत्यंद्रयक्षैश गुह्यकैर्यातु धानकैः | नानावर्ण लोहवर्णमब्जनीलोत्पलं प्रभं || इत्येतल्लक्षणं प्रोक्तं परीक्षं तत्वको विदैः | त्रिपंचवारयस्यैव तुलासाम्यं न जायते || तदाधारं समाख्यातं शेषपाषाण संभवं | नाद्यां वा प्रक्षिपेद् भूयो यदातमुपलभ्यते || वाललिंगं तदा विद्धि शेषं दुःख विवर्द्धनं | इति संक्षेपतः प्रोक्तं वाणलिंगेषु लक्षणं || लोहरत्नमयं लिंगं शृगिणां तु गृहेहितं | अंगुलां तु वितस्त्यं तु न ऊर्द्धं नापि भूतये || रत्नजे नियमो नास्ति यस्वालाभं प्रपूजयेत् | तेजोत् कटत्वं रत्नानां गणानां शस्यते सदा || प्रशस्तकाष्ठसंभूतं संसारं दारवं हितं | चंपकानदवीभत्स चंदनदितयोद्भवं || साकतालतमालोत्थं खदिराशौककिंशुकं | अश्वत्थ वटश्रीपर्ण विंदुविल्वगा वलस || जीर्णपादपज्रं वज्र्यं चिति वल्मीकसंभवं | त्रिचतुष्पथं जनद्धन्तथा ग्रामा * *? तं तरुं || २०३ब्) कीटभक्तितवृक्षशुष्कं तथोपसेवितं | सव्रणं ग्रथिनं व्यंगं सारहीनं विवर्जयेत् || शिला तु त्रिविधा प्रोक्तास्त्रिपुंरूपा नपुंसका | वालायुवा तथा वृद्धा सा वै कात्रिविधा स्थितः || योनि लिंगो भयाकावस्त्रीपुं नपुंसकैस्तथा | टंकघाता सहावृद्धा वालातीक्ष्णस्वनान्विता || वर्जनीया तथा वृद्धा रुक्षीरा च विवर्जिता | गंभीरवृद्धागंभीराग्निमुच्छाया मनोरमा || जलो स्थिता स्थिता गुर्वी समासौम्यायाधोमुखी | मूठच्छाया सुगंधा च स्निग्धा तु सरलाहृदा || शिताविवर्णा वर्णानां हीनरेखा विगर्हिताः | उत्तमाया हीन रेखा वर्जनीयास्तु विंदव || हीनाया चोत्तमो रेखा शंशिता विंदवस्तथा | अवक्त्रापि तथा च्छिंना प्रशस्ता कृत्तिका सुत || एवं विधाशिलाग्राह्या कीलार्मि पुटवर्जिता | वद्धरेखा हिनरेखा व्यंगरेखा सुसंपुटा || स स्फोटवर्ण स वलारूक्षा काकपदान्विताः | अशुचि स्थान संस्था च युन्थाकायोतसंनिभा || प्रद्मपारावतप्रख्या हासवापकाकोष्टभा | अग्निमाजिष्ठ वर्णाभा अहिमंडूसदृशा || २०४अ) सिंहव्याघ्रोरमार्जारश्वाभातत्पदलांच्छितां | वंसकर्दमधूमाभाधूसरामाभिनन्निषा || यागाराविमलै युक्ता यावदुर्गन्धसंज्ञिता | कृतासूर्यकरैस्तथा वहुदोषा परित्यजेत् || निर्दोषा तु ग्राह्या गुणाढ्या सर्वसिद्धिदा | व्यक्ताव्यक्तादिके लिंगे पीठे पुंसैलमीरितं || स्त्रीरूपां तु पिण्डानां स्त्रीशिलाना पराहिता | गौरीश्वरं तृतीयेन द्वारप्रासादसिद्धये || च्छेदने तक्षणे वाथ घर्षणेथ विशेषतः | स गर्भं मथनिर्गर्भं निर्देश्यं लक्षणेन तु || विकृतं तु यदा यस्य मंडल वा स्वरं क्वचित् | तदा स गर्भ विज्ञेयं लेपपूर्वं परिक्षयेत् || कासी संहरितालं च आश्वघ्नं विषमेव च | ऋद्धिषुष्य समायुक्तं वक्त्रांगा वज्रकंदकं || पिष्टारनाल स योगाद्रात्रौ लिंगावभासकं | स गर्भं विकृतिर्ज्ञेयं धारापातेन लक्षयेत् || यस्मान्नव्यवते लेपं तत्रदोषं विनिर्दिशेत् | मृदु वै मण्डले नाथ शब्देन विकृतेन वा || मांजिष्ठ वर्णे मंडूकं गोधायिते विनिर्दिशेत् | जीवस्यामवर्णे त्रि चित्रै वृश्चिकं भवेत् || अरुणे कृधा नाशः स्यान्निर्स्त्रिशांभे जलं भवेत् | स्यामचापे नृपक्षी स्याद् भुजंगं कृष्णवर्चसे || अग्निवर्णेर्दानरस्तु मुभेवाषमादिशेत् | कपिले मूषकं ज्ञेयं वर्णे द्वितयं भवेत् || नाना वर्णं समस्तं स्यात् भस्मांभेसितायं च | एवमादीनि चान्यानि विज्ञेयानि समासतः || साणादीघर्षितं कृत्वा चिह्नानि प्रविलोकयेत् | शुभवर्णैः शुभाकारैः शुप्रसिद्धैः शुभप्रदं || अशुभाकारवर्णैश्च विपरीत फलप्रदं | लिंगपीठशिलाद्याश्च गृहीतव्या यथोदिता || इति कालोत्तरे महातंत्रे लिंगपटलं || ईश्वर उवाच || व्यक्तलिंगे कमाद्वक्ष्यै संक्षेपात् कृत्तिका सुत | त्रिविधं तत्क्रमा ज्ञेयंमगुलद्वारहस्तजं || एकांगुलात्समारभ्य वितस्त्यंतं गृहेहितं | पीठहीनं स पीठं तु कर्तव्यं त्रिकलाधिकं || प्रासादद्वारमानेन प्रासादानां विशेषयेत् | भूतं दुहस्तैरालभ्य भूताध्यस्ता वहिर्मता || तत्मानं नवधा भाज्यं वसुदिग्भ्यः श्रुति क्षयात् | मुखं विना त्र्यतालैषु हासः कार्यो विजानता || २०५अ) अर्द्धागुलादि वेदांत प्रतितालं निपातयेत् | नवलिंगानि व्यक्तानि जायन्ते न्यत्रसंशयः || एकैकस्य त्रिधाभेदं गणितज्ञैः प्रकल्पते | षट्त्रिंशं तेन लिंगानि सुव्यक्तानि भवंति हि || द्वारमानेन वा कार्यं स व्यक्तं घटनान्वितं | द्वारोच्छ्रायं तु नवधा चतुर्भिर्वा त्रिधा भजेत् || भागहान्यासपीठा वा ज्येष्ठा मध्या तु कन्यसा | षट्त्रिंशत् प्रविभागेन व्यक्तलिंगानि कल्पयेत् || अंगुलद्वारगर्भषुन द्रव्य नियमा मतः | हस्तमानेन लिंगानां द्रव्येषु नियमोदितः || मृच्छैलदारुलोहानां स व्यक्ते नियमं न हि | यजमानेच्छया कार्यं वेथास्थानेषु षण्मुख || गृहे अंगुलैस्तु प्रतिमाधारमानेन धामसु | हस्तमाने मतो वाह्ये स्वेच्छयातं गृहं मतं || अंगुलद्वारहस्तानां यत्प्रमाणं मुदीरितं | तदुच्छ्रायं तु नवधानंरांशंरविभिर्भजेत् || द्वारशांशोगुलं ज्ञेयमंगप्रत्यंग वर्तनं | कर्तव्यं तेन यत्नेन संज्ञा भेदो *? गद्यते || विद्येश्वरैस्तु लोकेशै ब्रह्मरंगैस्ततः पुनः | संज्ञा भेदं प्रकर्तव्यं प्रतिमादौ प्रसाधने || मुखं हृन्नाभि जठरमुखमानेन कारयेत् | मुखयुग्मैनडूरूस्योतां जंघे द्विवदने मते || गुल्फजानु तथा ग्रीवा कर्तव्या चतुरंगुला | २०५ब्) एतदुच्छ्रायमानं तु शोभागविकृतिं विना | ब्रह्माविष्णुश्च रुद्रश्च कर्तव्यो नेतरे क्वचित् || अंगेन पंचमूर्द्धानं दशतालं प्रशस्यते | भैरवं नरसिंहं च वराहाकं विनायकं || द्विकलं रुद्रनामं तु प्रमाणं तेषु कल्पयेत् | अनन्ताद्या पुनः कार्या मध्ये ज्येष्ठ प्रमाणतः || दैत्यदानवयक्षाद्याः सिद्धविद्याधरादयः | कन्यसमध्यसमानेन कर्तव्यो नान्यथा शुभा || अन्ये मुख्याश्च क्षेत्रेशा किंकरा कन्यसा धराः | एवं तत्वानुसारेण तत्तद्भावानु योगतः || शास्त्रादि रसदृष्ट्या च स्थानं काश न मण्डलैः | गतिप्र?वारसं सुद्ध्यं प्रतिमा वर्तयेच्छुभां || रसभादीनुविद्धाया हस्तदृष्टि लयांकिता | हसंती विवभावेन जल्पंत्यभि नयेन च || वल्लती च सुगत्या च कायन्यासै विशुद्धितः | एवं विधा तु प्रतिमाङ्काधिष्ठे यत योगताः || रसहीना तु या चापि भावदृष्टिविवर्जिताः | स्थानमण्डलहीना च चारिगतिवहीः कृता || करणैरंगस्तहारैश्च हस्तिका कुवहिः कृताः | तादृशी प्रतिमा वर्ज्या यतः क्रूरैरधिष्ठिता || २०६अ) अष्टांगुलं ललाटं तु विस्तारेण विधीयते | द्विकलसंखदेशं स्यात् भ्रावेत् मुलसंगमं || तन्मध्यमंगुलं त्यक्ता चतुरंगुलमायते | द्विपरं मूलदेशा तु क्रमात् तीक्ष्ण शिते मते || दातज्या दण्डसदृशे नेत्रे नेत्रांतर स्थिते | नेत्रे नेत्र समे मध्ये तारकं त्र्यंशतो भवेत् || तत्पंचमासतो ज्यातिः कविरौ यवसंगतौ | द्वियवं नेत्र पर्यंतं नेत्रंमीतोदरंहितं || चापमश्य निभं नेत्रं तथा चोत्पलपत्रकं | पद्माभं सारनयनं नेत्रपंचविधंहितं || त्रियवैः पंचभिः षट्भिर्नवभिर्दशभिः परं | विस्तारं कल्पयेत् तेषां यथायोगा तु सारतः || कापाकारं भवेत् नेत्रं योगभूमौ निरीक्षणै | निर्विकारे तु मत्स्याभं शिवस्य परमात्मनः || उत्पलाभं स कामानां पद्माभं तु तथाद्भुते | रोषसारनिभं नेत्रं शेषस्वगुलिविस्तृतं || रसभावानुसारेण दृष्टयः परिकल्पयेत् | नासावंसं च वदनं द्विकलं द्विकलं भवेत् || नासोच्छ्रायं तु सकलं द्वियवं सहविस्तृतं | मूलशस्त्रांशहीनां तु मध्यं तु मांतु कारयेत् || पुटमूलं कलायास्तु स्त्र्यंशे नैवोच्छ्रितं हि तत् | २०६ब्) शेषणमांसलं चैव पुटाभ्यां समवर्तयेत् | जातीपुष्पाअ कृतिर्नासा कार्तव्यामान चित्तकैः || नेत्रार्रेकविरौकोट्याः स्मर्पर्येण प्रमाणतः | नासापुटं च कविरं समसूत्रं तु कारयेत् || अक्षिप्रांता तु कर्णातमयांगे द्विकलं भवेत् | कर्णौ तथोच्छ्रितौ कार्यौ विस्तृतौ ययवार्द्धतः || वर्ता तु द्विपवार्त्य स्थुली तद्वदेव हि | खल्वपात्रं कत्वार्धे भद्रं डुकं नत्र? देव हि ||? अर्द्धांगुलेन ककुनी कार्या सष्कुली मूलगाः | घनत्वं द्वियवं कार्यं कर्णस्यैव समन्ततः || इत्थंतिर्यग्गतं कार्यं तत्र वै लक्षण शृणु | मूलमध्यावसाने तु कालया व्यर्थयोहितं || वृत्तायतं हितं कर्णं पाशं कार्यं यथारुचिः | हन्त त्रिगोलकौ कार्यै संधानं द्व्यंगुल तयोः || घतत्व तद्वदेवात्र मण्डदेशं त्रिरंगुलं | उन्नतं तत्प्रकर्तव्यं चक्षुः कोषं यवैन तु || वेदांगुलं मुखं देर्व्याद्द्विकलार्द्धेन विस्तृतं | सौम्याना विकृतानां तु त्र्यंगुलं व्यातमादिशेत् || अंगुलेना प्रमेष्ठं तु तदर्द्धादुर्तरंहितं | पादेनैवास्यगोजी स्यान्मृक्कणी तद्वदेव हि || २०७अ) अद्ध्वोंगुष्ठांगुलार्द्धेन कुर्यात् तत्र समीरिता | कर्णभ्यागंतरं वत्स सार्द्धै नैवमुखेन तु || षट्त्रिंशदंगुलमानेन षष्टनं मस्तकेहितं | ग्रीवाष्टांगुलविस्तीर्ण स्कंधदेश द्वयं तथा || स्कंधविस्तारमेवं स्यात् ग्रीवाधो ह्रासयेत् क्रमात् | त्रिकलं स्कंधदेशंस्या स्कंधप्रांतं प्रातं षडंगुलं || कंचुवत्कारये ग्रीवा द्विशंकुपरिणाहतः | वाहूपवाहुकर्तव्यो क्रम्यद्वस्तुक्कमोकलैः || कुर्परे मणिवंधे तु संधिश्चोर्द्ध कलामताः | हस्तमुखसमायात तलं सस्तांगुलं मतं || पंचागुलं तथातिर्यमध्यमा तद्वदेव हि | आयुर्विद्याधनाख्याति रेखाभिः खलितं कलं || संखस्वस्तिकं पद्मादिह्निश्चित्तं तलं | तर्जन्यनामिके मध्या विनार्द्धांगुलमुच्छ्रिते || कलार्द्धेन विनाकन्या चांगुष्ठस्त्रांगुलं स्मृतः | तर्जनी मूलगः कार्यः पदस्पर्शी प्रकल्पते || द्विपर्वः स यवः कार्यः षटपंचचतुरंगुलः | मूलमध्यातरादग्राद्धीनहीनतरं नयेत् || मध्यमायास्तु पर्वाणि तिथिमष्वीश्वरीर्यतैः | २०७ब्) तर्जन्यनासितद्वत् किंतु पंक्तिं विना हिता | वेदांशहीना कन्यायाः क्रमात् पर्व त्रयं भवेत् || प्रात्नपर्कार्द्धमानेन खाःख्युकुंदसंनिभाः | अंगुल्यो मांसलाः शस्त्या सिरासंधे विवर्जिताः || मध्यांगुले स्त्रांगुलं तु तन्मध्ये तु यवं विना | सवत्रयं विनाश्रांते नाहमानमुदाहृतं || पंक्तिहीनं ततो द्वाभ्यां कन्याया वेदवर्जितं | वाह्यशीर्षे तथा मध्ये प्रांते विस्तार मध्यते || रसभूताधिविकलैर्नाहं स्यात् त्रिगुणां ततः | वदनव्रत्रको कुर्यादंतरं तु तयोस्तथा || पक्षौ तु त्रिकलौस्तस्मात् मण्डल द्वितयान्वितं | यवमध्यं वुच्चकं तु समस्तं पंचभिर्यवैः || त्रिगुणं परिणाहे न युत्वाद्वेन समुन्नतं | त्रिकलार्द्धा यतौ पक्षौ कर्तव्ये नान्यथा हितौ || षट्त्रिंशांगुल विस्तीर्णं स्कंधदेशं षडाअनन | कक्षांतरं द्वितालं तु कटिदेश तथा भवेत् || चुच्चुकाभ्यां प्रदेशे तु विस्तारं षोडशांगुलं | विशांगुलं तु हृदये तदधस्ताद्विसप्तकं || द्वितालं शांगुलं कार्यं विस्तारं नाभि देशतः | त्रिगुणं परिणाहे न चिपिटं परिवर्तनं || वृषणो द्व्यंगुलं वृत्यै त्रिकलं स्यात् प्रजाहितं | २०८अ) विस्तार्य द्व्यंगुलं कार्य ऊर्धारंभ मुखेन तु | पुरतस्त्रिकलं शस्त्रं जंघारंभस्तथा पुनः || सप्तांगुलं जानुनी स्यात् जंघो मध्यस्तथा मतं | पंचांगुलं तथा प्रांतं त्रिगुणं परिणाहतः || चतुरंगुलामतापार्ष्णी चरणं मुखवद् भवेत् | तत्रस्थ त्र्यंगुलांगुष्ठो यवश्रेष्ठो प्रदेशिनीं || पंचांगुलं तु विस्तारात् पादाग्रं तु प्रकल्पयेत् | प्रदेशि प्रमाणं तु पादपादोजितास्त्रयः || नाहांगुष्ठस्य मूले तु मध्ये चाग्रे तथैव च | पंचवेद तथा भूतं त्रिकलार्द्ध समन्वितं || अंगुष्ठनाह्नं कर्तव्यं नखा तत्रापि पूर्ववत् | तर्जनी मूलमध्याग्रे विकलं च कलाहितं || परिणाहं कर्तव्यं त्रियवं सयवं पुनः | पादमध्ये सदापद्मं चक्रं वा कल्पलांच्छनं || एवंविधा तु प्रतिमा कथिता ते समासतः | घाटिमा लेप्यजा कार्याः प्रतिमा त्वथ चित्रजा || ऋद्धी यत्नेन कर्तव्या साची यत्नेन वर्जयेत् | अर्द्ध ऋक्षा तथा वर्जा तथा छाया गता पुनः || भिंती वै गण्डभीत्ति च वर्ज्या चैव तु क्षिप्तिका | ईषदर्द्धोत्थिता वर्जा वर्जा चैव परामुखी || २०८ब्) अश्वधा प्रतिमा लेप्या कार्या वै घाटि मानतः | मौलि तथा कर्तव्या तथाप्यु देशतोच्यते || स्वस्तिकस्त्रि शिखश्चैव तथा स्त्राकार एव च | मौलि किरीटिपद्मं च षडेते मुकुटाः स्मृताः || कुमुयेष्टलः कार्यः त्रिपंचैकशिख तथा | मुक्तालतामणिवातसंयुक्तं परिकल्पयेत् || देवानां मौलिरादेश्या नागानाअं स्वस्तिकस्तथा | दैत्यदानवयक्षाणां मस्त्र्यकारं विवर्तयेत् || इंद्रादीनां कि चीडे? तु पद्मं विद्येश्वरेषु च | इत्येषा प्रतिमा ख्याता संक्षेपेण मया तव || इदानीं स्त्रीप्रमाणं तु लेशे नैवावधारय | मुखं तस्या मुखे नैव शेषाणि गोलकं विना || सस्यं दूपदकाक्रान्त द्विकलं तृतीयं भवेत् | गुल्फजानु तथा ग्रीवा च मत्यंगुलोच्छ्रिता || षन्नवत्यंगुलास्त्रीतेनाधोरार्द्धे शिवप्रदा | षडंगुलस्कंध देशमंशौ च द्विकलं भवेत् || सप्तांगुला मता ग्रीवा विस्तारेणाग्रतः सुत | हस्तपादौ तु हीनौ स्या सप्तमांसेन पूर्ववत् || पंचांगुलं चतुरस्त्रीणी वाहुमध्ये कहाषिके | पादपृष्ठ स्फिवाभ्यां तु वृद्धिः स्यादंगुलेन तु || २०९अ) दशषट्पंचभिश्चोर्वो जीमूरू परिकल्पनं | जंघामध्यं तथा प्रांतं गजहस्ते च वर्तयेत् || षडगुलमतं गुह्यं कूर्मपृष्ठे मलोमसं | द्विरष्टवर्षा नारी च कर्तव्या सुमनोहराः || अष्टात्रिंशांगुलं कार्यं स्कंधदेश विस्मृतः | अष्टादशांगुलं कार्यं कक्षाभ्यामन्तरं सदा || स्तनभूमेस्तु विस्तारो विज्ञेयस्तु कलाष्टकं | त्रिकलौ त्रिकलौ कार्यौ चूचुकौ विल्वसंनिभौ || मुखं स नेत्रं तदधः स्तनाभ्यां विस्तरेण तु | मुखं स नाभिदेशं तु कटिर्द्धि वदने हिता || त्रिगुणा परिताहेन स्त्रीकाया पार्वतीसुत | वस्त्रमाल्यां वरादीनि भूषणानि विशेषतः || तथा रूपानि कार्याणि शयनान्यासनानि च | इति स्त्रीमानं कथितं षन्नयत्यंगुलोछ्रितं || सदाशिव प्रमाणं तु विशेषेणावधारय | विशत्यंगुलमानेन शतेनैव सदाशिवं || स्वकीयेनांगुलेनैव दशतालं प्रकल्पयेत् | वक्त्रं वक्त्रं समंतस्य कलार्द्धतो परेण तु || गुल्फजानुगलं तस्य द्वेकालेन मुखेन तु | कर्तव्यं तु प्रयत्नेन विस्तारं पूर्ववत् मतं || वाह्य एवाह्य कर्तव्यो दशेकादश युग्मसः | २०९ब्) कलामात्रामतः संधि रूप संधिस्तथामवा || षडंगुलं स्कंधशीर्ष पाणि वै द्वादशांगुलं | आजानु वाह्यस्ते नायं कर्तव्यः परमेश्वरः || वज्रास्थितो यदा भूत्वा करैः स्पृशति जानुनी | आजानु वाह्यष्टे नायं कथितः कृतिकासूत || पंचाननं प्रकर्तव्यं त्रिपंच नयनावृत्तं | ऊर्ध्ववक्त्रं कलाहीनं समंतात् परिवर्तयेत् || त्र्यंगुला चंद्ररेखा तु जटादक्षिणकोटिमा | पंचांगुलं जटाजूटमीशानस्य प्रकल्पयेत् || कृत्वा दक्षिण नक्षस्य कपाला हि विभूषणं | सुनाशं सुमुखं शुभ्र मंत्र सिंहासन स्थितं || दशवाहुं दशालाक्षं राजिवायत लोचनं | ईशानमूर्ध्व वक्त्रं तु ध्यानाशक्तं हिमप्रभं || कुंकुमाभं तु पुरुषं सदा पूर्वाननं विभौः | विकृतिं व्यालजूटं च भिन्नाजन समन्वितं || अघोरं दक्षिणस्यां तु दिशि शंभो सदा स्थितं | दाडिमी कुसुम प्रख्यं लाक्षाहिंगुलकद्युतिं || भूषणैर्वहुभिर्युक्तं वाममुत्तरदि स्थितं | हिमकुदेंदु सदृशं सकपोल स्मिताधरं || पश्चिमस्यां सदाकार्यं सद्योजातं सदैव हि | २१०अ) ईशानेन सदैवं हि मूलद्वारावलोकनं || सदा पूर्वाननं स्थाप्यं स्थाप्यं वा पश्चिमाननं | सिंहानं तु वेदाश्रमष्टतालं समंततः || तदर्द्धादुच्छ्रितं कार्य षट्टतालासन पंकजं | वामादि शक्ति खचितं देवदेवं सदाशिवं || इदानीं भैरवादीनां प्रमाणमधुनोच्यते | द्विगोलकावधिं वक्त्रं भैरवस्य समंततः || शेषमुच्छ्रायमानं तु भैरवस्य तु पूर्ववत् | सप्तषट्पंचविस्तारं वाह्य कर्परमूलतः || वक्षो हृन्नाभिजठरं कटिदेष क्रमेण तु | हस्तद्वयं द्विवदनं सकलं तद्वदेव हि || मुखद्वयं मुखार्द्धं च कटिः त्रिमुखात्मिका | ऊरुमूलं जानुनी च जंघामध्यं तदग्रकं || द्विकलसकलसार्द्धं कलार्द्धेनाधि भवेत् | पूर्वमानां तु विस्तारं त्रिगुणापरिणाहतः || दंष्ट्राकोशं कलामानं शितं शुक्लं सुवर्तुलं | कुर्चं तु त्र्यंगुलं कार्यं वर्चरंभासुरं तथा || उत्तरोष्ठ स्थितं कुर्चं त्र्यंगुलं समुदाहृतं | भ्रुवमंगुलविस्तीर्णं कुटिलभासुरं तथा || व्यात्तं तु त्र्यंगुलं तस्य दंतमानमुदीरितं | २१०ब्) जिह्वा पद्मदलकारा त्र्यंगुला रक्तवर्चसा || साराभं नेत्रं कर्तव्यं भैरवं भैरवी सह | अष्टताला तु सा कार्या वन्यनाधिका पुनः || एवं गौरी तथा लक्ष्मी दुर्गा चैव सरस्वती | गायत्री चैव सावित्री तथान्या मातरः पुनः || सूकरीनारसिंही च चामुण्डा च कृशोदरी | ऋक्षकर्णीलंपटाक्ष च गलगजा विशेषतः || वैनायकी गारुडी च तथान्या विकृतानन | त्रिगोलकाधिकं वक्तुं सर्वासां समुदाहृतं || शेषान्यैव तु तालानि विधालान्यादिशे शुधीः | विकृतस्त्री प्रमाणं तु शतेनोच्छ्रायमादिशेत् || कल्पोक्ते नैव विधिना भुजायुध विकल्पनं | कार्तिकेपस्तथा नंदी गणेशाद्यागणेश्वराः || किंकरा क्षेत्रपालाश्च दुत्योमरिका पुनः | साकारहेतिनि च प्रकर्तव्यम तु पूर्वशः || जानुमात्रा प्रकर्तव्याः ऊर्द्ध्वत्वे च? तु षण्मुख | शूलं कुतं तथा दण्डं च्छत्रमात्मसमानि तु || सरंसारंगमुसलं कृपाणं तोमरं तथा | हलं परशुदण्डं च शक्तिखट्वागंशूलकं || ध्वजा गदा च सुंडी च पाशप्राशं तथा कुशं | २११अ) वृक्षं वीणादयः कार्या चतुर्वक्त्राणि शांकरि || कमण्डल्वक्ष सूत्रं च पुस्तकांश्य पात्रकं | चंद्रार्कौ अर्घपात्रं च पद्मचक्रं फलं तथा || घण्टा च छुरिकामुण्डमेवमाद्या मुखात्मिका | निर्मासा चैव चामुण्डा विस्तारार्द्धेन वर्तयेत् || पंचप्रेताः पिशाचास्तु भृंगीशाद्याश्च भूरिसः | कर्तव्यास्तु प्रयत्नेन यदिच्छदात्मनः शिवं || नामास्तु पुरुषाकाराः फलाचक्रेण शोभिताः | द्वितालं तु फणाचक्रमुच्छ्रायेण समादिशेत् || फणत्रया समारभ्य सहस्रांतं समादिशेत् | न्यभ्यधः सर्पसदृशा पद्मकुंभः करांकिताः || फणैकास्यानामाः स्फूर्चिता धूम्रवर्चसः | गणेश वामनादीनां लक्षणं लेशत उच्यते || संक्रवत्स प्रतिष्ठं तु वदनं तेषु निर्दिशेत् | हृत्नाभिजठरं चैव कार्यमष्टांगुलात्मकं || जरूजघे द्विवदने जानुगुल्मसमन्विते | द्व्यगुला तु हिताग्रीवा वामन्ये च्छ्रायमीरितं || स नेत्रा पंचताला तु प्रतिमा कथितो मया | वाहुपवाहू कर्तव्या मुखवत् संधिसंयुतौ || वस्वंगुलैः कसै पादौ वक्षस्त्रिवदनं भवेत् | २११ब्) एवं वै वामनं कार्यं गणेशं गजवक्त्रयवत् || अष्टांगुलौ मतंतां तु कर्णो तस्य समालिखेत् | शिरालोकौ मलोस्निग्धौ घंटा चामरभूषितौ || कुंभेते तत्र कामानि ताभ्यां मध्येकत्वाहितं | करं तु त्रिमुखं तस्य मूलादस्त्यंगुलां भवेत् || आघ्राद्वेदांगुलं शस्तं दन्त तस्य षडंगुलं | सकलं तु शिवं शस्त पद्मस्थं कारये *? णं || सिंहस्थमुंडुरुस्थं वा पीठस्थं सर्वसिद्धिदं | स्वदत्तं लडुकापात्रं कुठारवलयान्वितं || कुब्जा एवं विधाकार्या नाभिहीना स्वार्था *? मात् | तेन कुब्जाः प्रजायंते विकृतास्तेन वर्जयेत् || गृहे सौम्यः प्रकर्तव्यः स्तथैवाथतनेषु च | रौद्रचितत्स्यहास्यं तु तथा चैव भयानकं || अद्भुतं वर्जयेद्यत्नान्प्रतिनादेशिकेन तु | गौरीश्वरं प्रकर्तव्यं लावन्याभिभयोज्वलं || ईश्वरस्य प्रमाणेन गौरीतंत्र प्रकल्पयेत् | न तु गौर्ययाः प्रमाणेन शंकरं परिकल्पयेत् || एवं शंकरदेहार्द्ध विष्णुः शंकरवद् भवेत् | लोकेशानां तु मातृणा वाहनानि विनिर्दिशेत् || २१२अ) पंचतालं गजंहस्तं हयंतालं विनाहितं | मयूरत्रिमुखं शस्त चतुर्वक्त्र वृष हितं || पंचतालं तु महिषं तथा कर्तव्यो यथा देवस्तु भैरवः | त्रिवक्त्रानंदि रुद्रः स्यात् सूर्यसमप्रभाः || त्रिनेत्रं दण्डहस्तं च दक्षवक्त्रं कपिश्वरं | षण्मुखः कार्तिके यस्तु मुखोन्यस्य षडस्रवत् || कर्तव्यानि समासेन एकवक्त्रोपवाश्रीये | निर्मासा वयवो भृंगी गंगा कार्या प्रयत्नतः || तद्वच्च यमुना कार्या किंतु कृष्णा षडानन | षन्नवत्यंगुलान्येव स्त्रीकार्या नान्यधा हिता || मुखमात्रा तु काच्चिच हृन्मात्रागुह्यकांतिका | जाल्वता गुल्फनात्रा वा समस्वा वाथ कल्पयेत् || रथ भावानु विद्धास्तु कार्या लोकोपचारतः | न विष्टार्द्धोच्छिता वापि ज्ञात्वा ज्ञात्वा प्रयोजयेत् || पूरिणामं घाटिमं लेप्यं पुरा वृत्तादि गर्भितं | निविष्टेषु छितं वापि प्रसादे वा गृहे ऋजुं || इति कालोत्तरे महातंत्रे प्रतिमापटलं || ईश्वर उवाच || अथ शैले न वक्ष्यामि मातृ भैरव लक्षणं | चतुर्मातृगुणं कार्यं अथ वा गतं भवेत् || २१२ब्) विकार मातृगं कार्यं द्विगुणं वा चतुर्गुणं | संज्ञारूपं प्रवक्ष्यामि मातृणां कृत्तिकासुत || चतुर्भुजा चतुर्वक्त्रा सौम्याहं सोपरिस्थिता | कमण्डल्वक्ष सूत्रं च ब्राह्मी वै दण्डसुता || नृत्यंतीचारीमार्गेण नानाभाव रसान्विता | माहेश्वरी वृथा रुढा सौम्या शूलकरान्विताः || नानामण्डल चारीभिः नृत्यमाना समं ततः | वर्हिसंस्था तु कौमारी शक्तिहस्ता महौजसा || सिंदूरवर्णा नृत्यंती चारीस्थानक रेचकै | वैष्णवी गरुडा रुद्रा शंखचक्राक्षलांछिता || नृत्यमाना तु कर्तव्य नीलोपितां चरान्विता | ताराहीनहिषारुढा खड्गशंख करान्विताः || धूम्रवर्णा महाकाया नृ?त्यमानाथ कारयेत् | इंद्राणी तु गजारुढा वज्रांकुशकरार्पिता || नृत्यंती चारिमार्गेण सहस्र नयनाशुभा | अतिपूर्णा तु चामुण्डा खड्गकाद्य समुद्यता || सवा ऋढा नृत्यमाना शवस्रग्दाममण्डिता | स्रस्थायोगेश्वरी कार्या कृष्णारक्ताशवोपरि || २१३अ) कर्तरी काद्यहस्ता तु नरां तु रुधिरायनी | खड्गशूलधरा देवी शरसारंग भूषिता || चक्र कृतं प्रहरणी महाप्रेतविघातिनी | विकृतांतिमवदन्य रौद्राद्भूत भयानका || एवं विधा तु योगेशी शिरालाविकृतानना | अथ दारिद्रा दमनी कर्तव्या वा समप्रभा || पद्महस्ता खड्गहस्ता च शूलप्रहरणोद्यता | दारिद्र्यं पुरुषाकारं कार्यशूल विभेदितं || संतुष्टा सा तु कर्तव्या हास्य शृंगारवर्तिनी | अस्वाकांकारयेच्छारी पद्मद्वयकरार्पिता || पद्मध्वजकराक्रांता नृत्यमाना समंततः | नानालूष पदोपेता पदाचार्यः प्रकल्पयेत् || सुरूपा सौम्य वपुषो चांद्रीनृत्यपरायणा | नीलंयंवरकुंभांका शुक्लगौरां हयान्विता || तारानक्षत्रसंयुक्ता राशियोगसमाकुला | नानातोद्यरतासेतु कर्तव्याः कान्ति संयुताः || आग्नेयी रक्त वपूषा श्रूत्यक् कृपाण करान्विता | मेषस्था नृत्यमानानु नागगंधर्वसंयुता || वारुणी पाशहस्ता तु वामवाषस्यामासु रूपिणीं | २१३ब्) नृत्यमाना तु कर्तव्या नृत्यहस्त समन्विता || वायव्या कुशहस्ता तु व्यावृतास्या तु रूपिणी | भौमचारी त्रिधारिष्टा विष्टपस्थाय भूषिता || नृत्यमाना तु कर्तव्या दिव्यवस्त्र करान्विता | नाभस्वती कृष्णवर्णा व्योमचारी समंधिता || पद्महस्तासुनयना कांता दृष्टि विनायिता | चामुण्डा च लंपटाख्या कर्तव्या क्रव्य लंपटा || नृत्यमाना महोग्ना च वृत्तस्याकेकरा च दृक् | वैनायकी च मजाकारा लडूपात्र कुठार वृक् || लंबोदरा नृत्यमाना मूषकस्थां तु कारयेत् | गारुडीगरुडाकारा दण्डकुंभ करार्पिता || लंबोदरी सर्पहस्ता नागकंकणमण्डिता | नृत्यमाना महाभीमागहुहस्तासस्विनी || चतुर्भुजा चतुर्वक्त्रा जपाकुंदेंदुसंनिभा | ईषुकोदण्डसंयुक्ता प्रेतस्था नृत्य तत्परा || एवं तु विजयाकार्या रक्ता भाश्वोपरिस्थिता | एवं जयंती वीभत्स्य सूर्यभीमपरिस्थिता || मोहस्था चोत्पताकारा नृत्यंती कृष्णवर्चसी | अपराजिता प्रकर्तव्या नानातोद्यानु वर्तिनी || २१४अ) प्रतस्था चैव निर्मांसा सिद्धा कुंडेंदु संनिभा | खड्गचर्मधुरा देवीज्जरिकामुण्ड भूषिता || एवं रक्ता किंतु भुक्तां शुष्कां कांतिं तु कारयेत् | उत्पल प्रभवादाता उत्पलांगोत्पलस्थिता || मलिनीपत्रसदृशा सुकायानव यौवना | चतुर्भुजा षट्भुजा वा भुरुडा नागमंडिता || प्रतस्था वृषभस्था वा भुजाष्टादशभूषिता | स्वेता वा रक्तवपुषात्मास्मतांडव तत्परा || धूम्रवर्णासुरूपा च कुंभाकारात्रिदिशेत् | नृत्यमाना विशालाक्षी मुकुलेक्षण भूषिता || दिव्यशयया समारूढा रात्रि चैवं विचिंतयेत् | वहुषाशधरा कृष्णा कालरात्रिं समादिशेत् || आत्मीद्वस्थानकस्था तु व्रत्यालीढविसर्पिणी | भयानकरसाक्रांता द्रष्टादृष्ट्या समाकुला || स्रग्दाम हस्ता कर्तव्यासुरात्री तु सुशोभना | प्रसंनवदना काया कार्या स्निग्ध दृष्टि विभूषिता || नानाभावसमायुक्ता प्रसंना रक्तवर्चसा | सुखरात्रिः प्रकर्तव्या समयंति सुखं यतः || २१४ब्) ताम्रचूडकरासौम्या मंडला दृष्टि संयुता | खड्गपात्रधरा देवी नृत्यमाना समंततः || एवमश्वमुखी द्विवैशाखासनरंजिता | कपोलहस्तसंच्छन्ना वर्धमानेन रेचिता || सिंहासना सिंहमुखी स्थूलाकांचन सुप्रभा | प्रत्यालीढैकरसिका वैष्णवा रससंस्थिता || तानि चोत्संगसंपना व्यात्तास्या चक्रधारिणी | शंखखड्गधरा देवी महापिसितलंपटा || तथा व्याघ्रमुखी कार्या पासप्रासगदावरा | भूपटा वाथगंरताम्ररूढकरार्पिता || कृष्णा भीमा सारनेत्रा क्षुरिका पात्र भूषिता | एवं जंवूक वक्त्रा तु अपक्रान्तोरुवर्तिना || वर्द्धमानकरो पेताक्षुरिका मुण्डमंडिता | उलूकवक्त्राताविद्युद् भ्रांता विसर्पिणी || कर्कटा प्रविचारेण नृत्यमानाति भीषणा | खड्गमुंडधरा देवी पानोन्नत पयोधरा || एवं मार्जार वक्त्रा तु भीमानूपुरवाटिका | भ्रमराक्षेषहस्ता च खड्गासि प्रहरार्पिता || भक्ष्व च दृक्ष कर्णिस्या भीमा कृष्णांजनसमप्रभा | २१५अ) वद्यद् भ्रांत्या विलसिता वहिः कृकर कल्पिता || दंडमांसकरा देवी नृत्यमाना प्रकल्पयेत् | पंचवानर वक्त्रा तु दंडवादैक तत्परा || हंसपक्षकरा सा तु क्रूरश्वाने क्षणासिता | उष्ट्रवक्त्र सुविकृता खड्गघंटा भूषिता || भुजंग भ्रासचर्या तु वहिः करण रेचिता | सारमेयमुखी कार्या द्वित्तचारीन् तत्परा || कर्तरी मुखहस्ता च कर्तरी मुखधारिणी | गोमुखी विकृतां भीमा समोपदित मर्तली || खड्गकट्या करा देवी कर्तरी मुखरेचिता | भीमाभीममुखी कार्या समपादा तु वर्तिनी || यागांकुशधरा देवी कर्तरी क्रूर रेचिता | वृद्धावृद्धमुखी शुभा खड्गपाश करार्पिता || अक्षिपे चाट संयुक्ता केकरा दृग्विभूषिता | सिंहारुढा नागमुखी भुजाष्टादश भूषिता || दशदूंति समायुक्ता त्वरिता नामनामतः | चक्रवाकमुखी कार्या चक्रवाकसमन्विता || खड्गपात्रधरा देवी महाषिसिललंपटा | सुमुखी सौम्यवदना सुमुखाचारु भाविनी? || २१५ब्) कर्मणैश्चादुहारैश्च? संयुक्तानाद्यकोविदा |? रैवती चाति शुष्का तु वीभत्सा मासवर्जिता || क्षुरिकामुखहस्ता तु तथोत्मंगी च? संयुता | मातुली चारिसंयुक्ता तदा * * * *? वती || अती कृष्णा महाभीमो क्षपाकं कलिधारिणी | स्थितावर्ता समाक्रान्ता नरात्र ग्रासं लंपटा || चतुर्णाष प्रतारेण * * * * * * * *? | * * * * *? चैव नृत्यमाना तु कारयेत् || नाना हुंकारसंयुक्ता नाना करणभूषिता | अवद्धया च क्रमितानामास्थानकासींनायुता || खड्ग कुंभवना देवी कार्यासन्क्रांत * वती | वहूवक्र वहुभुजा कार्यालंकेश्वरी सदा || अ आ तु दशभुजा सा तु सौम्या पद्मा परिस्थिता | एवं वै भद्रकाली * किंतु कृष्णा विवर्तयेत् || आलीढस्था संकासीन्य नादैत्यविमर्दिनी | रक्तपात्रधरा सिद्धिः दिव्यकुंभसमन्विता || पद्मासनस्था कर्तव्या सौम्या चारु? भुषितं | स्थापयेद्यः प्रयत्नेन सोपि पुत्रानवाप्नुयात् || २१६अ) अरणी नाम या देवी कार्यापंच शिरो रुहा | दशवाहु युता सा तु नानावाद्य समुद्यता || अविद्धवार्या संयुक्ता सौम्या दृष्ट्या विराजिता | गोवृंदामध्यसंस्था तु गोमूत्र च न वर्द्धनीं || पंच वक्त्रादशबुजा नाना प्रहरुणाद्यता | प्रसंनवदना देवी नागकेशरमंडिता || तस्या पूर्व मुखं भीमं गरुडाभं तु कारयेत् | शेषाणि सौम्य वक्त्राणि स रूपाणि शतानि च || श्रीघाणार्द्वानौ? मातृणां प्रधानासुखवर्द्धनी | आ * दशभुजा कार्या सरूपा नवयौवना || नानातोद्यलये नैव नाना भागैर्विसर्पिता | सप्तधातोद्य वाद्यस्तु दष्टधा भुजं नात्मकः || कोणारस्याष्टदशधा विनाणावं सविनादवत् | भूतमध्यविलंवेन लयं भेद त्रयेण तु || गोमूत्राद्या गतश्च दुपुटं चांचु पुटं तथा | वादित्र नंदी रूपेण गर्जवं विघ्नजज्वरं || साम्यताल चतुर्द्धा तु विकारैः पटहं तथा | मार्गदेशि क्रमान्तद्वर्धधानं भेदयेत् पुनः || चतुःषष्टिकरोपेता चारीद्वात्रिंशरंजिता | पंक्त्यासुदृष्टिसंपना नवस्थापि रसाकुला || २१६ब्) नानाभावसमायं नानानामंडलमंडिता | नाना महारसं पंनासामान्याभिनया कुला || गतिप्रचार चतुरादि व्यकाक्षुपरिच्छ्ररा | नानामेयैकरलिङ्गा स्वस्थांन * * * * *? || * * * * * * * * * * * *##? शस्त्रप्रचार चतुरात् सरत्यादि क्रमेण तु || सर्वायकर्मणि पुण्यमापास्थाप्यौ सु *? नना | निद्राशयनास * * * * * * * * * *? || * * * * * *? कार्यं मातृ भैरवनायकम् | इति कालोत्तरे महातंत्रे मातृभैरववदनापटलः || ईश्वर उवाच || अधुना संप्रवक्ष्यामि * * * * * * ? क्रमात् | सीठं क्रियात्मकं ज्ञेयं लिंगज्ञानात्मकं मतं || तेनपीठमविष्वेवं शिवस्य मात्मनः | उमा देवी महापीठं लिंगं चैव सदाशिवं || * *? खंडं स्मृतं पीठं वहुखंडा तु पिंडिता | लिंगानां प्रतिमानां तु कथयामि समासतः || लिंगोच्छ्रय प्रमाणेन पीठदैर्घ्यं समं ततः | उच्छ्रायं विष्णु पर्यन्तं व्यक्ताव्यक्त तथा भवेत् | २१७अ) आयता प्रतिमा यास्तु पिण्डिकां परिकल्पयेत् | अर्चा तुल्या तु सा दैर्घ्यात्तदर्द्धा? विस्तरोच्छ्रिता || अथ वा स्कन्धमानेन नाभिमानेन सिद्धिदा | जंघां वसानता दैर्घ्या उच्छ्रिता विस्तरार्द्धतः || उपविष्टा तु सा कार्या चतुरस्रा न चायता | आद्ये पयोपराशस्ता सहश्राच्छ तथा मता || नित्यं सर्वसमे कार्या मुखलिङ्ग विशेषतः | अनाद्यसंस्थिता वज्रा तथा चन्द्रकला पुनः || सुराङ्के चामृता कार्या पद्मासंवर्तका मता | नन्दावर्ता पुनः कार्या नान्येषा पार्वतीसुतः || एक खण्डन्तु सर्वेषां वहुखण्डमथापि वा | मुखलिङ्गे द्विखण्डा च वहुखण्डा च कल्पयेत् || ताम्रकालैस्तु वध्नीयात् तारा हेममयैरथ | नाप * शैः पीठवन्धः स्यात् कार्यस्वा? क्षुद्र सिद्धये || आयता संस्मृता वापी प्रतिमाषु प्रकीर्तिता | तथान्येषां विघनं तु कथयामि समासतः || चतुरश्रां सहेन्द्रस्य कर्तव्या राज्यसिद्धये | योन्याख्या वह्नि लिङ्गे तु शस्त्राणां तापने हिता || २१७ब्) नालकं वाम भासेत्तभ्रामस्याद्धान्तरे स्थितं | अर्द्धचन्द्रा तु याम्यस्य वृत्तार्द्धं पृष्ठतो भवेत् || तडान्तरे नालकं स्याच्छरवद्वन्नसङ्गतं | त्रिकोणं राक्षसं पीठ प्रणालं वामकोणगं || वारुणं पूर्णचन्द्राभं पीठं स्यात् पञ्चमेखलं | तद्वन्नालं प्रकर्तव्यं स कण्ठं चरणान्वितं || षडश्रं वा प्रलिङ्गे तु नालकं चोत्तरां दिशि | पृष्ठाग्रे चास्रि सम्वन्ध भुजाभ्याश्रियुग्मकं || उच्चाटने तु शत्रुणां षडश्रं परिकल्पयेत् | अष्टाश्रं पक्ष लिङ्गस्य प्रणालं पूर्वदिग्गतं || वृत्तं शूलाङ्कितं रौद्रे नालकं पूर्वसंस्थितं | ब्रह्मलिङ्गे मता पद्मा विष्णो चन्द्र कलामता || पयोपरा सहश्राङ्के तथा साष्टोत्तरे हिता | पद्मादीना विभागेन लक्षणं कथयामिते || सर्वेषां चैव पीठानां विना लिङ्गा श्रयं भवेत् | उर्द्धमानं तु विस्तारं तत्र वै लक्षणं शृणु || उच्छ्रयात् षोडशांशेन विस्तारात् तद्वदेव हि | जलादार प्रकर्तव्यं पीठानां भुक्तिमुक्तिदं || २१८अ) नालके मेखला तद्वत् कर्तव्या शास्त्रको विदः | मध्ये लिङ्गोश्रयत्यक्त्वा पीठं तिथिपदैर्भजेत् || इन्दुधामाहुनन्तेः धातपङ्कजांवूञ्च कर्णिका | कण्ठे शिवोत्तमे नैव प्रवेशो द्विपदैः क्रमात् || अनन्ताद्गीन्दु? भागैस्तु कर्णिकाब्ज भ्रमं भवेत् | एषा पद्मा समाख्याता मुक्तये भुक्तये तथा || विकाररक्तेनन्तवर्म अग्नेन्दु स च्छिखा | पादञ्च जगती चैव घटे वेदीगलं क्रमात् || पदैकैक प्रदेशेन वर्तयेत् यैस्तु निर्गमः | पयोधरा समाख्याता वेदाश्रा भुक्तिमुक्तिदा || मुखलिङ्गेषु कर्तव्याः सहश्राङ्के शतार्द्धके | आयता व्यक्ति लिङ्गस्य वापी काया न वा परा || पीठक्षत्रेर्क भक्ते तु कगखेः कखयोस्तथा | प्रवेशः पदिकः कार्या निगमोनन्त सूक्ष्मयोः || दलितं वा अनन्तेशं कर्तव्यं कृतिकासुतः | वज्रा षडश्रा कथिता मुक्तिसाम्राज्य सिद्धिदा || अष्टभिः कलितेः पीठे कखकैखैक देशतः | २१८ब्) निर्गमस्तु प्रकर्तव्यो नन्ते सिन्दुपदै पुनः || दलितानन्तनाथस्य पूर्वार्धसाश्रिभूषितं | तदा चन्द्र कला वृत्ताव्यश्रिपट्टा मृतामतां || सौभाग्य मुक्तिदा यस्मात् तदा चन्द्रकला स्मृता | अमृता सर्वसिद्ध्यर्थ मुक्तिदा स विशेषतः || षण्मेखलं प्रवेशन्तु पीठार्द्धं वर्तयेत् सुधी | श्रीकण्ठेन भवेत् कण्ठ महादूर्द्धं प्रकीर्तितं || निर्गमं त्रिपदं कार्यं संवर्तायाः समासतः | विकारभक्त क्षेत्रे तु कण्ठं तत्पुरुषेण तु || त्रिमूर्ति मेखलवाधः कण्ठोर्द्ध तद्वदेव हि | नन्दावर्त्य समाख्याता सर्वकाम प्रसाधनी || त्रिमूर्ति मेखला वाथ ऊर्द्धाधः सम्प्रतिष्ठिता | नन्दावर्ता प्रकर्तव्या वेदास्राथ सुवर्तुला || आयता प्रतिमायास्तु त्र्यश्राष्टा जीविवर्ज्जयेत् | परस्पर प्रभेदेन भूयस्त्वं कल्पयेत् पुनः || संस्थान रचना योगात् परिसंख्या न विद्यते | २१९अ) पूर्वपश्चिमलिङ्गानांमुत्तरस्यां प्रणालकं || उदग्दक्षिण वक्त्राणां प्राग्भागे नालकं हितं | लोकपालार्चितानान्तु कथितं स विशेषतः || सर्वेषां चैव लिङ्गानां विधानं कथितं मया | विस्तारस्य त्रिभागेन नालकं पुरतोर्द्धतः || वेदभूतांशतो वापि रसांशेनोत्तमेषु च | त्रिपञ्चद्वित्रिहस्तायाः प्रतिमाया निगद्यते || वसुरन्ध्रकरैः शस्ता पंक्तिभिश्चोत्तमा सदा | वारि निर्गमनार्थन्तु नालके खातमुच्यते || पञ्चकैः श्लक्ष्णनिर्याश मूलदेशे षडानन | पंक्तिभिः पुरतोर्द्धेन विस्तारान् खातमुद्दिशेत् || एवं प्रणालकं ख्यातं द्विगुणाग्रगभीरता | सर्वेषां चैव पीठानां उच्छ्रायः षोडशांशतः || विस्तराच्चः जलादारं द्विगुणं मूलदेशतः | विस्तारवद् भवेत् खातं सुत्रान्तमुन्नतन्नयेत् || मृताये मृत्मयं पीठं दारुजे दारुजं हितं | लोहजे लोहजं कार्यं रत्नजे रत्नजं तथा || २१९ब्) मणिजे मणिजं शस्तं वाणे सर्वम्प्रतिष्ठितं | निराधारं प्रयत्नेन वाणं नान्यं प्रपूजयेत् || पट्टभद्रासनादौ च वस्त्रे वाध्व समुद्भवे | पुष्पपीठे ध्ववा पूज्यं निराधारं न पूजयेत् || स्वयोनि रेतलोहान भिन्नयोनि मनिष्टदं | मणिरत्नोद् भवानाञ्च पीठं हेममयं हितं || तारजं हेमजानातु तारजानां तु पित्तलं | स्फाटिके ताम्रपीठं स्याद्वन्धनं तारसंभवं || रत्नानां हेमजं पीठं तारजं रत्नजेष्वपि | वन्धनं चैव सर्वेषां तारजं वाथ हेमजं || रत्नवाणादि लिङ्गानां पञ्चधापरिकल्पयेत् | अंशद्वयं न्यसेत् खाते पञ्चमांसमथापि वा || लिङ्गप्रासादपीठानां यावन्तः परमाणवः | तावच्चैव महाकल्प कर्ताभोगभुजो भवेत् || अपक्वात्पक्वलिङ्गे तु फलं दशगुणं भवेत् | पार्थिवाद् दारुजे पुण्यं ततो दशगुणं भवेत् || दारुजाच्छैलजं तद्वत् तद्वल्लोहं तु रत्नजे | ततो मणिमये तस्मात् पुण्यं दशगुणं स्मृतं || २२०अ) अप्रमेय फलावाप्ति वाणलिङ्गस्य कल्पनात् | सर्वकामप्रदं तद्वत् सहस्रांकं शिखिध्वज || द्रव्यमानेन लिङ्गानां परिसंख्या न विद्यते | चतुःप्रकृतिकं लिङ्गं सिलामद्दारुलोहजं || पट्टसप्ताष्ट यवं तस्य मितौ त्रिविधमङ्गुलं | कन्यसान्तस्य चारेण त्र्यंशेन चरणेन च || तत्त्रिविघाद्विद्धिरामाद्विरामाद्धाष्ट पृष्ठतः | षट्भाषड्रच्छृति ज्ञेया कन्यसान्तस्य प्रादतः || वेदाः सामान्यविस्कम्भा आद्यसर्वसमादयः | दिग्पाललिङ्गविस्कम्भाः दश एवं चतुर्दशः || शतमष्टोत्तरं सैकं सहस्रं वक्त्र भूत्त्रिधा | अव्यक्तमेक संस्थानं तद्भेदा षट् प्रचक्षुते || इति द्रव्यागुलोच्छ्रायः व्याससंस्थान भेदतः | लिङ्गानां हस्तं संख्यानामष्टासीत्यधिकेशते || षट्त्रिंशच्च सहश्राणि संख्या स्यात् परिमण्डिता | आदो नाद्ये च रुद्राशं ह्रासयेद् वर्द्धयेद्विधिं || अतो विपर्ययाद्वृद्धि ह्रासे कुर्याच्छुरार्चिते | २२०ब्) तदेवमर्वाच्छे * न पिण्डिका पक्षविस्तृतिः || प्रमाणसाम्यां * च्छाया लंघनं स्यात् परस्परं | प्रासादगर्भमानेन लिङ्गसंख्यैवमेव हि || पीठमानेन लिङ्गानां लिङ्गसंख्या यथा पुरा | पीठानांमेवमेवात्र संख्याभेदं प्रकल्पयेत् || आद्ये लिङ्गं सहश्रा * कर्तव्यं नापरे हितं | शतमष्टोत्तरं लिङ्गं सुराङ्कं कल्पयेत् स्तत || वेदभागेरनाद्ये यत्केवलं भुक्तिमुक्तिदं | मुखलिङ्गं प्रकर्तव्यं नित्यं सर्वसमस्तत || परिमाणं पुरा कृत्वा मुखलिङ्ग ततो भजेत् | आयुदोषात्मिका शट्का तदा कासा न शाङ्करि || व्यक्ताव्यक्तमये लिङ्गे लक्षणन्तत्र कल्पयेत् | शक्राकात् पक्षसूत्राभ्यां निर्गमन्तत्र वर्तयेत् || मूले भागद्वयंत्वल्का रेखाभ्यां सङ्गमो भवेत् | मुक्तिदा केवलं पुंसामाद्य लिङ्ग चतुष्टयं || प्रागुक्तेन क्रमेणैव भुक्तिमुक्ति प्रदानि तु | आयुःश्री कान्तिमैश्वर्यमेधाकीर्ति प्रदानि तु || २२१अ) आज्ञत्वा विनियोगन्तु यश्चलिङ्गं तु कारयेत् | अनिष्टं जायते तस्य ज्ञात्वा सम्यक् प्रकल्पयेत् || इति कालोत्तरे महातन्त्रे पीठपटलं || क्षेत्रपालं भूपरीक्षा वास्तुयागो निरुच्यते | एकद्वित्रिशतं क्षेत्रं हीनमध्येमचोत्तमं || कोदण्डानां प्रमाणेन शोधनीयं शिखिध्वज | शितारक्ता तथा पीता कृष्णा विप्रादिषु स्थिताः || प्रदक्षिणोदकाशस्तासु पुष्पद्रूम भूषिता | रम्यासुगन्धामधुरा हीनसत्वविवर्जिता || अन्त्यज्यष्टा परित्याज्या * षराधशिकता कुला | दुष्टप्राणि वृता त्याज्या तथा सुद्ररोदकान्विता || आवारि दर्शनात् साध्या शल्यहीनाथ वा यथा | उद्वी? तथा विधा कार्या कुट्टयेद्वस्ति पादकैः || उदकपूर्वप्लवा शस्ता तथा पुष्पोदकान्विता | दर्पणोदरसंकाशा कर्तव्या शिल्पि पुद्भवे || २२१ब्) तत्रादौर्गणयागन्तु कार्यं क्षेत्रपरिग्रहे | दिगीशेभ्यो वलिं दत्वा ततो होमं समाचरेत् || होमावसाने चिह्नानि ज्ञात्वा शल्यं समुद्धरेत् | दिव्यान्तरिक्ष चिह्नानि ज्ञात्वा सम्यक् विधानतः || दुष्टं शल्यं विजानीयात् पापे होरागते सति | ध्वजो रविः समाविष्टो देहिनां मूर्ध्ने संस्थितः || संस्पर्शाच्छुभ शल्यं तु स्थपत्याचार्य कर्तृषु | मुखौ धूमो मतौ भौमः शल्यमस्थितायं वदेत् || सिंहस्तु भार्गवो ज्ञेयो भुजाभ्यां वक्षुसि स्थितः | श्वावुधः क्रोडगः पुण्यं लिंगजीवो वृषात्मकः || खरः शनिस्तु विज्ञेयो क * रूभ्यां व्यवस्थितः | गजं चन्द्राधि देवत्यं जङ्घाभ्यां च व्यवस्थितं || ध्वांक्षे राहुः समादिष्टः पदाभ्यां तृषु संस्थितः | यदंगं स्पृशते तत्र तदङ्गे शल्यमादिशेत् || ध्वांक्षगर्दभधूमेषु अस्थिशल्यं समादिशेत् | ध्वजे गजे शुभं शल्यं सिंहे मध्यं वृषे शुभं || अधमं वुध २२२अ) णोत् च्लेअर् २२२ब्) वज्रप्रासधरः श्रीमान् चर्मपाशधरस्तथा | द्विनेत्रश्चैक वक्त्रश्च तप्तचामीकर प्रभः || प्रत्यालीढसमाविष्टा नानाभूषणभूषितः | विवस्वान् दक्षिणे भागे पदे तु वास्तु देहगः || एकवक्त्रस्त्रिनेत्रश्च भिन्नाञ्जनसमद्युतिः | द्विभुजो महिषारुढो दण्डव्याशकरार्पितः || पश्चिमे वास्तु देहस्तु षट्पदे मित्र नायकः | हिमकुन्देन्दुसंकाश त्रिनेत्रश्च चतुर्भुजः || पाशांकुशधरो रौद्रः कुन्तहस्तो महाबलः | आलीढस्थानसंच्छंनो भृत्यकोटिसमन्वितः || पृथिवीधरसंज्ञास्तु वास्तुरुत्तरदिग्गतः | चतुर्भुजैकवक्त्रश्च त्रिनेत्रो मुकुटान्वितः || चन्द्रगौरो महाप्राणो वैष्णवासनपद्मधृक् | शरसारङ्ग हस्तश्च तथा मुषलभूषिताः || नानाभरणसम्पन्नः सदा भीम स सैन्यक | ईषदिग्पदिकोह्यापस्त्रिवक्त्रः षड्भुजस्तथा || २२३अ) रन्ध्रलोचनपद्माभश्चक्रकुन्तगदाधरः | शरसारङ्गसन्नद्धः कोटिप्रमथसंयुतः || आपवत्सस्तथा ज्ञेयः तदिगान्तस्य दिक्स्थितः | चन्द्रगौरविभ किंतु मण्डलस्थानकस्थितः || तथा दृष्टन्त सारेण सरसभावकरान्वितः | आपवदापवत्सश्च वक्त्रायुध विकल्पनं || सविता पदिको ज्ञेयः सावित्री पदिकस्तथा | इन्द्र-इन्द्रजयौ तद्वद् राक्षस्यां दिशि संस्थितौ || वायव्ये रुद्रदासश्च रुद्रश्च पदिकस्तथा | दिगीशौ शर्वपदिकौ खकृशाण्वग्निकोष्टकौ || मृगश्च पतीनै-ऋत्या रोगवायुपदार्द्धगौ | पर्जन्याद्यांश्च पदिका कथयामि क्रमेण तु || मर्ज्यन्यजयमाहेन्द्र सूर्यसत्यतृशास्तथा | पूर्वस्यां संस्थिता ह्येते दक्षिणस्यां निगद्यते || पूषावितथ संज्ञश्च तथा चैव गृहक्षतः | यमो गन्धर्व भृङ्गश्च दक्षिणस्यांदिशि स्थिताः || दौवारिकश्च सुग्रीवः पुष्पदंतः प्रचेतसः | २२३ब्) असुरः शोषसंज्ञश्च पश्चिमस्यां दिशि स्थिताः || नागमुख्याथ भल्वाढः सोमा ऋगादितिस्तथा | एते तु पदिका ज्ञेया ध्यानमासां निगद्यते || सविता रक्तवर्णाभः खड्गपाशकरार्पितः | सावित्री संज्ञकस्तद्वत् कुशपिञ्जलकान्वितः || इन्दुः काञ्चनवर्णाभः त्रिनेत्रः कुलिसान्वितः | नीलेन्दवरहस्तश्च योधकोटिसमन्वितः || तथैवेन्द्रजयः कार्यः खड्गपाशकरार्पितः | वाह्यावरणसंस्थाऽऽच कथयामि शिखिध्वज || रुद्रः कृष्णाञ्जन प्रख्यः शूली खड्गी त्रिलोचनः | तथा रुद्रजयः कार्यः शरदण्डकरः सदा || मध्यावरणसंस्थाश्च कथितास्ते समा * तः | वाह्यावरणसंस्थाश्च कथयामि शिखिध्वजः || ईशं त्रिनेत्रं शूलासि चर्मपङ्कजधारिणं | एकवक्त्रं त्रिनयनं कुंतासिशितवर्णकं || नानाचारी कृताभ्यासं पर्जन्यं मेघवाहनं | जयश्च पद्मवर्णाभो धनुर्वाणासि चर्मधृक् || २२४अ) इन्द्रः सहश्र नेत्रस्तु कुलिशांकुशभूषितः | सूर्यः सिन्दूरवर्णाभो रस्मिपद्मकरार्पितः || सत्यपद्मध्वजाक्रान्तं कुन्तञ्चागकरे स्थितं | सत्यं चतुर्मुखं ज्ञेयं पद्मरागसमप्रभं || सुरूपं यौवनोपेतं वृषवक्त्रन्तु पञ्चमं | कमण्डलु धरं देवं दण्डाक्ष वलयान्वितं || राजीवास न संस्थं तु राजीवेकरकल्पितः | दाडिमी कुसुमप्रख्यं भृषमाश्चर्य रूपिणीं || त्रिसप्तवदनं देवं शतार्द्धकरकल्पितं | दिङ्मुखन्तत्प्रकर्तव्यमुपर्युपरि वक्त्रकं || उपर्युपरिवक्त्राणां कलया ह्रासमादिशेत् | पुरुष पूर्ववक्त्रं तु भैरवं दक्षिणं मतं || उत्तरं वामदेवं तु सद्योजातं तु पश्चिमे | दिग्रूपाणि भृशस्यैव वक्त्राणि कथितानि तु || अथर्ववेदं पूर्वस्यां सामवेदं तु दक्षिणं | उत्तरस्यां यजुर्वेदं ऋग्वक्त्रं पश्चिमं मतं || प्रागुक्त वक्त्रमानानि विकलानि मुखानि तु | २२४ब्) वैकुण्ठं पूर्ववदनं नरसिंहं तु दक्षिणं || उत्तरं चैव वाराहं पश्चिमं कापि स्थितं | इत्येवं वक्त्रह्रासं तु अष्टाङ्गुलानि सर्वाणि युग्महान्या भवन्ति हि || इन्द्रं यमं कुवेरञ्च वरुणं पश्चिमं मुखं | हानिरत्रापि कर्तव्या कलया कृतिकासुतः || आदित्यं पूर्ववदनं आग्नेयं दक्षिणं मुखं | उत्तरं चन्द्रवदनं पार्थिवं पश्चिमं मुखं || चतुरंगुलं मानानि कलाहान्याद्भवन्ति हि | कलामेकं व्योमवक्त्रं सर्वेषामुपरि स्थितं || इत्येवं रक्तह्रासं तु कार्यमन्येषु सण्मुख | खड्गकुन्त सरप्रासधनुश्चक्रासिखेटकं || पद्मपत्राक्ष सूत्रञ्च वीजपूरं कमण्डलुंः | हलं शक्तिगदापाश दण्ड चैव परश्वधं || वीणा च वल्लकीवंस वृक्षचन्द्रार्कपट्टिसं | पुस्तकं श्रुक्श्रुवौभंडी डमरुं ध्वजमेव च || कंकालास्त्रं महास्त्रञ्च ब्रह्मास्त्रं पिच्छिकं तथा | खादकास्त्रमघोरा शंखभेरी समन्वितं || २२५अ) एवमाद्यानि चान्यानि भृषस्य संप्रकल्पयेत् | नृत्यमानमथो वापि कर्तव्यं परमेश्वरं || नृत्यहस्त समायुक्तं रसभावान्वितं हरं | गतिप्रचारसम्पन्नं स्थानकाक्रान्तमण्डलं || नानाङ्गहारसम्पन्नं नानाचारी विवर्तितं | लास्यताण्डव भेदेन नानातोद्य समन्वितं || नानास्वरसमुल्लासैस्तंवुरादिषु संस्थितं | इन्द्र पटादिसंमिश्रं जगतीत्य पदैः पुनः || चिह्नचिह्नति संछाद्दैः? नानाप्रस्तार भेदतः | षड्जमध्यमगान्धारराषभ चैव नादितं || स्वांगान्थ प्रविचारैस्तु लयभङ्गानुसारतः | इत्येतद्विश्वरूपं तु भृशाख्यं ते प्रकाशितं || भिन्नाञ्जननिभाकारामन्तरिक्ष प्रकल्पयेत् | शूलासिमुद्गरवरं व्यालचर्मावरप्रियं || शक्तिहस्तो भवेदग्निः शुकपर्यङ्कगाथ वा | चंद्रं गौरनिभः पूषा धनुर्वाणकरार्पितः || विवस्वान् धूम्रवर्णाभः कृतान्तसमतेजसा | प्रेतारूढस्तथा दण्डी कार्या दिग्वसनः सदा || २२५ब्) विकरालं महाकायमेवमेव गृहक्षतं | सहस्यङ्किन्तु कर्तव्यं यमं भिन्नाञ्जन प्रभं || शुक्लवस्त्रपरीधानं दण्डपाशकरार्पितं | व्याधिकोटिसमायुक्तं भीमोग्रनरका वृतं || गन्धर्वं शंखवर्णाभं पट्टिशांकुशसंयुतं | गन्धर्वकोटिसंयुक्तो भृङ्गशुक्लाब्जसन्निभः || एकवक्त्रश्चतुर्थ्याहः शरसूत्रधनुर्द्धरः | मृगदूर्वांकुर श्यमश्चर्मासि करकल्पितः || पिताक्षशतरः कार्या दण्डविस्तरमण्डितः | पितराख्यश्च देवैश्च कोटिसंख्यैश्च संवृतः || दौवारिको दण्डहस्तो विकटश्चिपिटाननः | पाशधृक् विशिनी पत्रमुङ्गश्यामोथ? वा भवेत् || हेमाभश्चैव सुग्रीव सुमुर्त्तिष्टकदण्ड धृक् | पुष्पदण्डः सूतेजाढ्या भुसुण्डिकरसंयुतः || प्रचेतामासवर्णाभः पाशांकुश करार्पितः | नागोपरिस्थितः कार्या नागकोटिसमावृतः || असुरः खड्गहस्तश्च कृष्णाभश्चर्म भूषितः | २२६अ) शेषाः कृशतमः कार्या राजावर्तनियमः || उल्काहस्तस्तथा दण्डी व्याधिकोटिसमन्वितः | रोगो वज्रमुखः कार्या षष्टिच्छत्रकरार्पितः || नानारोगसमाकीर्णो नानाव्याधि समावृतः | वायुः कापात वर्णश्च सपर्यधूजमण्डितः || श्येनः पद्मनिभः कार्या नानाप्रहरणान्वितः | नागकोटिसमायुक्तो मुखास्तु हि न सन्निभः || चापशूलधरः श्रीमान् तर्जन्यातर्जने रतः | ऋशि * स्तित्तिरासाभा सोदण्डाक्ष || भल्वाटो हिमसंकाशः शक्तिघण्टा समन्वितः || षण्मुख द्वादशभुजोमयूरकृतवाहनः | सोमामृतमयो विद्धि कलसाभि समन्वितः || ऋग्गिक्ष्णस्तित्तिराभासो दण्डाक्षवलयान्वितः | दर्भपिच्छवरो धीमान् कमण्डलु करार्पितः || लम्बक्रूरोदिति विद्धि मालापद्माङ्किते जगः | दितिश्च रक्तगौराभः शंखचक्रधरः सदा || ब्रह्मा चतुःपदो मध्ये तस्य ध्यानं प्रकाशितं | २२६ब्) समरीचो विवश्वांश्च मित्रघ्नः पृथिवी धरः || षट्पदास्तु समाख्यातास्तेषां ध्यानमुदीरितं | आपश्चैवाप वत्सश्च पदिकः पदिकः स्थितः || सावित्रः सविता तद्वदिन्द्ररिंद्रजयस्तथा | रुद्रा वै रुद्रदाशश्च पदिकाः परिकीर्तिताः || अष्टांकोणगता देवा विज्ञेयास्तु पदस्थिताः | शेषास्तु पदिका ज्ञेयाः संक्षेपाद् गृह वास्तुतः || स्कन्धो यामाजम्भकश्च पिलिपिच्छस्तु पूर्वतः | चरन्ती च विदारी च पूतना पाप राक्षसी || ईशकोणान् समारभ्य राक्षस्या वाह्यतः स्थिताः | शितरक्त पीतकृष्णाश्च स्कंदाद्या विकृताननाः || वज्रासि दण्डशूलं च पाशकाद्यगदाशिरः | स्कन्दाद्याः कथिताः सम्यक् च रक्ताद्याः शृणुष्व || खड्गकाद्यासिक्षुरिका मुण्डघण्टासि कर्तरी | क्रमेण संयुताः कार्या विकृताश्च कृपाः पुनः || वास्तु देहे स्थिता देवाः कथितास्ते मयानघः | विना ध्यानाद् भवेत्येन्दुं राष्ट्रभंगं समादिशेत् || २२७अ) दुर्भिक्षं वलहीने तु होमहीने शुभे क्षयः | तस्माद्यत्नात् प्रकर्तव्यं ध्यानद्रव्य क्रियान्वितं || इति सर्वेषु योगेषु विधानं परिकीर्तितं | एकाशीति पदं वास्तुं गृहानां सुप्रजात्मकं | देवानां प्रीतिदं नाम पदाष्टाष्टक वर्तितं || नित्यं शतपदं विद्धि सुस्थिराख्यं सुसिद्धिदं | मठ दुर्गपुराट्टाल नगरग्रामखेटके || शययासनविमानेषु तथा दलगृहेष्वपि | सिद्धिस्थाने तथा हर्मयागार्द्धा परिकल्पयेत् || वापीकूपतडागादौ वनेषु पवनेषु च | उक्तातुक्तेषु सर्वत्र कुर्मात् शतपदंस्तत || पञ्चविंशत्पदं पत्र वेतालाख्यं चितौ मतं | अमराणां तु संस्थाने पञ्चधा परिकल्पयेत् || आचारिदर्शने पूज्य समपृष्ठे तथा पुनः | तथा ब्रह्मशिलान्यासे द्वारकभ्ये निवेशने || सूत्रसंस्थापने पूज्य वास्तु देहं षडानन | पदे तु सुस्थिरं नाम भूपृष्टे पुरतो नयेत् || २२७ब्) लांक्षयेत् तेन मानेन तद्धिनामन्सक त्रयं | तदा सप्तं त्रिकोणं तु क्षेत्रमानेन जायते || गृहकुण्डंमण्डपं वा कार्यमेतत् सुरालये | स मंत्रिमेखलापेतं कर्तव्यं देवता पदं || क्षेत्रं षड्भागतः कृत्वा भागार्द्धं पुरतः क्षिपेत् | लांक्षयेत् तेन मानेन क्षेत्र्यर्द्धान् मीनतुर्यतः || षट्सूत्रयातनात्साष्टं षट्सूत्रं क्षेत्रवद् भवेत् | अर्कांशहीनान् पूर्वार्द्धादग्निपदोज्रितान् || अर्द्धचन्द्रसमाख्यातं प्रयोर्द्धा स परिभ्रमात् | योनिस्तु पूर्ववत् कार्या क्षेत्रमानेन जायते || कोणार्द्धाष्टांशतस्त्याशाच्चतुरश्रंध प्रकल्पयेत् | प्रास्कर्णार्द्धासाचाष्टश्रं? दिक्षु न्यासात् प्रजायते || एवं वै षोडशाश्रंच्च द्वात्रिंशादवपि क्रमात् | कल्पयेत् क्रमसो वत्स यथा वृत्तं प्रजायते || चतुरश्र प्रमाणेन यथा क्षेत्र प्रजायते | तथेह कल्पीनीयास्तु त्र्यश्राद्या नान्यथाहितं || गृहे गृह प्रमाणं तु वास्तु देहं प्रकल्पयेत् | २२८अ) णोत् च्लेअर् २२८ब्) णोत् च्लेअर् २२९अ) * *? क्षीरोदकं तेषां यान मुक्तं शिवेन तु सिद्धान्तोक्तेन विधिना पूज्यं सिद्धान्तको विदैः | रामाचारैः स्वकैर्द्रव्यैः पूजाकार्या क्रमेण तु || सिद्धान्तोक्तं न वामे तु वामाचारं न दक्षिणे | यो यत्रैव विधिः प्रोक्तः सतत्रैव फलप्रदः || क्रव्यादल्वं तु स वलात् सिद्धापि नरकं व्रजेत् | तस्मात् सर्वप्रयत्नेन स्वनयोक्तेन संचरेत् || इति कालोत्तरे महातन्त्रे वास्तुयागपटलं || ईश्वर उवाच || अधुना संप्रवक्षामि कुंभानां स्थापनं क्रमात् | समपृष्ठे सदा कुर्याद् वास्तु यागं सदोदितं || पूजिते तर्पिते वास्तौ ततोद्धे कुंभसंस्थितिः | हेमतारे मयाः कुंभाः तदभावान्तु ताम्रजा || हास्तिकेष्टाङ्गुलाः शस्ताः त्रिपञ्चपलमानतः | हस्ते हस्ताङ्गुला वृद्धिः पलानां पंचभिस्तथा || विचित्र रचना युक्ता लोकपालास्तु लांछिताः | हस्तमात्राः शिलाः कार्यास्तदर्द्धाद्विस्तरोच्छ्रिताः || आधाराख्यास्तथा मूर्द्ध कलसेषु प्रकल्पयेत् | शिलाभ्यां मध्य देशे तु गर्तकुम्भार्द्धतो हितं || २२९ब्) वज्रादि लांछनं तत्र कर्तव्यं शिल्पिना शुभं | चतुरस्रं पुरं कृत्वा प्रासादस्य प्रमाणतः || शिलाकुम्भसमूहं तु पञ्चगव्येन साधयेत् | मृदष्टकेन संशोध्य कषायैर्गन्धवारिणा || विद्येश्वराष्टकं तत्र संपूजं तु क्रमेण तु | होमं कृत्वा विधानेन शिलान्यासं समारभेत् || मध्यपूर्वादितो न्यास शिलानामीशमन्तिमं | आधारशक्ति रूपां तु मध्यमा ब्रह्मगां न्यसेत् || तन्मात्रान्तमात्मतत्वं विद्यातत्वं मनोवधिः | वुद्व्यहंकारपर्यन्तं शिवतत्वं प्रकल्पयेत् || यथा वै मध्य कलसे तथा वै दिग्विदिक्षु च | शत सहस्रमर्द्धं वा तन्मंत्रे होममाचरेत् || गुरुणा नवभिर्वाथ ह्येमं कृत्वा निरोधयेत् | ततः कुम्भोपरिशिला दातव्या पूजयेत् तथा || निरोध्य विधिवत् पूज्य पश्चाद् भूतवलिं क्षिपेत् | समाचाम्याषसंस्पृश्य न्यासं कृत्वा तु पूर्ववत् || हेमवस्त्रादि पानार्द्यैर्देशिकान् पूजयेत् ततः | २३०अ) न्यूनाधिक विशुद्ध्यर्थं होमं कार्यं शिवादिता || एवं कृत्वा यथा न्यायं प्रासादं वर्तयेत् ततः | वेदादि वेदवृद्धा तु रसाग्नि करमंतिमं || पञ्चादि पञ्चवृद्ध्या वा पञ्चार्थि करमंतिमं | पंक्त्यादि? पञ्चवृद्ध्या वा विपङ्गत? करावधिः || चतुर्हस्तादधो नैव गृहं शम्भोः क प्रकल्पयेत् | शतार्धा नापरं हस्तं शेषं भूत गृहं मतं || मच्छलदारुलोहानां व्यक्तानां नियमो न हि | प्रासाद द्वारमादाय कर्तव्यानि षडानन || व्यक्ताव्यक्ता भयानां च दारु शैलं मृदात्मनां | साधारं नैव कर्तव्यं प्रासादं कर्तिकासुत || हेमरत्नमयानाञ्च नियमोनेह विद्यते | एवं वै वाणा लिङ्गानां स्वयंभूनां विशेषतः || प्रासादमानात्पीठानां गर्भानां लक्षणं शृणु | द्वाराणां स विशेषण लेशतः कथ्यते मया || अष्टभक्त कृते क्षेत्रे पीठं भाग चतुष्टयात् | गर्भा द्वादशभागैस्तु भित्तिर्भागद्वयेन तु || पीठवद्वारविस्तारमुच्छ्रायं द्विगुणं ततः | २३०ब्) जंघाविस्तारमानेन जंघाच्छ्रायमुदीरितं || द्विगुणं शिखरं तस्माच्चलकान्तं प्रकल्पयेत् | रंध्रभक्ते तथा क्षेत्रे पीठं भागसमं भवेत् || गर्भं पदेन कर्तव्यं गर्भभित्ति पदेन तु | शुषिरं भागमानं तु वाह्यभित्तिः यदात्मिका || पीठविस्तारमानेन दिन्दुद्वारचतुष्टयं | द्विगुणं वाह्यभित्यन्द्र सार्द्धभागेन वा भवेत् || विस्ताराद्विगुणं छ्रायं सार्धं द्विगुणमेव वा | जंघा शिखरमानं तु कर्तव्यं पूर्ववद्यथा || पंक्त्यादि भूत वृद्धानां कररासि द्विपा भवेत् | लिङ्गादैर्घ्येण पीठ स्यात् तद्वदावरणत्रयं || स भागं लिङ्गमानन्तु तेन वाह्यं प्रकल्पयेत् | लिङ्गवद्द्वारविस्तारमूर्च्छ्रय द्विगुणं तत || जंघ्राच्छ्रायं प्रकर्तव्यं जंघाविस्तार सम्मितं | गर्भमानेन नासायो नाम्यगर्भञ्च नान्यथा || शिखरागार्द्धगाशस्ता नासामञ्जरि संवृता | गर्भाधान सृतानासा गर्भवत्मण्डपं विना || वेदभूत रसांशेन निर्गता तु समण्डपे | इत्येतल्लक्षणं प्रोक्तं सामान्यं कृतिकासुत || २३१अ) विशेष प्रवक्ष्यामि प्रासादानां तु लक्षणं | मेरुपञ्चाशत् हस्तन्तु मन्तितं पञ्चभिर्विना || विपद्दे?दकरं कार्यं कैलासंशङ्करं प्रिये | चतुर्द्धा सर्वतो भद्रं पञ्चत्रिंशत् करे हितं || त्रिंशद्वस्तं? विषानं तु द्वितयं तद्वदेव हि | श्रीवत्सभैप्रश्रत्नारः? पञ्चविंशत्करैर्मताः || करीकैलासवत् कार्यं नोर्द्धन्तु परिकल्पयेत् | हंसः शुपर्णकमलमष्टाशषोडशाश्रकं || द्विपंक्तितो परमं च कर्तव्यं भूतिमिच्छता | गृहराजं प्रकर्तव्यं त्रिपञ्च करसम्मितं || नापः सक्तिकराः शस्ताहसाष्टाश्राक्षाकास्तथा | वलभी भूतहस्ता तु यावत् पंक्तिच्च यावधि || लिङ्गमानेन कार्याणि प्रासादानि प्रमाणतः | चतुर्हस्तादधो नैव कर्तव्यानि कदाचन || मारणोच्चाटनादौ तु चतुर्हस्तादधौहितं | किंतु भूत गृहं प्रोक्तं कर्तव्यं भूत गोचरं || विकार सूर्यवस्वंशंजेष्ठमघाधमेषु च | विस्तारः पार्श्वतो दत्वा विस्तारोच्छ्रपितः समं || तलच्छ्रंन्दन्तु तत्रैव वर्तितव्यं विधानतः | २३१ब्) तलच्छंदानु सारेण ऊर्द्धक्षत्वं विवर्तयेत् || ऊर्धछन्दं नयेत् तावद् यावद् वै वेदिकावधिः | शिखामानं चतुर्थासं वर्जयित्वा तु वर्तयेत् || ग्रीवा कुंभादिकं तत्र चतुर्थांसे प्रकल्पयेत् | भागत्रयं मंजरी * * * * * * * * * ? || जंघा तु सप्तधा कृत्वा विभागं परिकल्पयेत् | मसूरकं तु भागेन जंघा स्यात् पंच भागिता || कपोतं यागमात्रं तु त्रिभागं तत्र वर्तयेत् | मसूरकंद? तु * * * * * * * * * * ? || * *? भागेन कर्तव्यं त्रिपट्टन्तु तु तदुर्द्धतः | ग्रीवादकल्पयेत् तच्च मध्ये भाग प्रवेशतः || भागमात्रं ततोवर्त त्रिपदं पूर्ववर्ततः | मसूरकं समाख्यातं जंघालक्षणं मुच्यते || नागरी च तथा लाढी वै राढी द्रावडी तथा | शुद्धा तु नागरी जंघापरिकर्म विवर्जिताः || स्त्रीपुं युग्मयुता लाढीवैरूढी पत्र संकुला | मंजरी वहुला कार्या जंघा वज्रानि त्रीसदा || नागरी मध्यदेशे तु लाढी लाढे प्रकीर्तिता | द्राविडी दक्षिणे भागे वैराढीं सर्वदेशजः || इति जंघाविभागन्तु सामान्यं कवितं मया || कपोतपाल्या यद्रूपं संक्षेपेणावधारय | २३२अ) कपोतपाली भागन्तु दशपट्टं विभाजयेत् || पत्रं पद्मानि नलिनी शून्यं पत्राणि पद्मिनी | हंसं प्रभा तथा हंसां नलिनी रचना युता || आमं सूरा कपोतान्त कथितंते समासतः | भूमिका ह्रासवृद्धिस्तु सर्वसाधारणोच्यते || भूमिकायास्तु यत्क्षेत्रं विषमं विभजेत् ततः | मध्यमां भूमिकात्य * *? गणयेदूद्ध भूमिकां || यावती जायते संख्या तथा शंतु समाहरेत् | गृहीत्वा पर भूमेश्च अधो भूमो नियोजयेत् || सर्वेषां भूमिकानां तु क्षयवृद्धी प्रकाशिता | अष्टलक्षणसंयुक्तां भूमिका परिकल्पयेत् || भूमिकायाः समुच्छ्रयं त्रिधा कृत्वा निवर्त्तयेत् | भागे जंघा प्रकर्तव्या समसूर कपोतिका || भागद्वयेन शिखरं स चूलामलसारकं | भूमिका शिखराणां तु परिलेखा विवर्तयेत् || मल्लककोसलं चैव पञ्चशृंखलकस्तथा | षट्विंदुमौषधलेख्यं पुष्करं चन्द्रसालकं || २३२ब्) अर्द्धपुष्करि संज्ञा च कर्णं स शिखं लिखेत् | विशुद्धान्यथ मिश्राणि ज्ञात्वा ज्ञत्वा नियोजयेत् || भूमिका लक्षणं ख्यातमाघाटानां पुनः शृणु | सूलमंजरि रूपेण आघाटानि समालिखेत् || प्रासादानां तु सर्वेषांमिदं सामान्यतो हितं | विशेष लक्षण वक्ष्ये संज्ञ भेदनिवन्धनं || नेत्रं देकरं विभक्तं मेरुक्षेत्र समन्ततः | वस्वर्क षोडशां संवात्रिधा विस्तरतो भवेत् || शेषेण जंघामध्यञ्च ततस्तु परिवर्तयेत् | नवभाग च्युते कोणात कोणवन्धं वृषाङ्ककं || रन्ध्रं वृषाङ्क दहनं निर्गमं तत्र वर्तयेत् | ताराजि दहनस्तत्र प्रवेशं निर्गमं ततः || प्रवेशं मध्यगं मेरोः? सूर्यादिग्रसके क्रमात् | तलच्छन्दं तु यावन्त मूर्धच्छन्दं तथा भवेत् || यावद् वै वेदिका हेतुं ततः छंदं समाप्यते | चतुर्द्वारश्चतुर्नामो विचित्र रचना कुलः || पंचोघाटः स्मृतो मेरुस्तथा षोडश भूमिकः | २३३अ) नखैर्विकारैर विभिर्वसुभिस्तथा || चतुःषष्ठिच्छदान्येवं पञ्चाघातेषु कीर्तितं | पञ्चक भूमि मानेन वेदाग्नि नयनस्तथा || द्वयं द्वयं प्रकर्तव्यं दिशि यत्नात् षडानन | वेदाधिक शतानां तु छन्दानां मेरुमादिशेत् || अव्यक्तानां च वेदाश्रं व्यक्ताव्यक्तात्मनां तथा | सार्द्धं पादाधिकं वापि व्यक्तलिङ्गेषु सिद्धिदं || मन्दरं सम्प्रवक्ष्यामि संक्षेपात् कृतिकासुत | समुद्रवस्तु भागेस्तु क्षेत्रं कृत्वा समं ततः || गुणकोणमयं तस्य कोण वन्धं सपट्टिकं | रसवेदै प्रवेशस्तु निर्गमश्च तथा भवेत् || रसैश्च वसुभिर्मध्ये निर्गमं मन्दरं हितं | तलच्छन्दं यथा प्रोक्तं मूर्द्धच्छन्दं तथा भवेत् || चतुरा घाटकं कार्यं युगेंद्र भूमिकान्वितं | आद्या?ऽपरिमाणेन द्विक्षुकूट द्वयं द्वयं || अष्टाशीति च्छदान्येवं मूलनासा विवर्तितं | शतं पंक्ति विहीनं तु सारकानां प्रजायते || चतुर्नामश्चतुर्द्वारो मन्दिरः सर्वसिद्धिदः | २३३ब्) कैलाशस्य प्रवक्ष्यामि वर्त * लेशतः क्रमात् || षडग्निभिर्भजेद्दैर्घ्याद्विस्तारञ्च त्रिभिर्भवेत् | वसुभिर्मध्यरथकं निर्गत तस्य वर्तयेत् || त्रिचतुर्थह्रि? वेदैश्च संवेशं पदिकं हितं | पृथक् च रथकैर्युक्तं कैलासं चतुश्रकं || वेदाघाटे प्रकर्तव्यं भूमिका द्वादशान्वितं | भूतवेदक्षणेंदुश्च भूमिकाः संप्रकल्पयेत् || नखैर्थिकारवसुभि वेदेश्चैव च्छदानि तु | प्रागुक्त क्रमयोगेन दिक्षु कूट द्वयं द्वयं || द्वात्रिंशत् तेन कूटानि जायन्ते नात्र संशयः | आघाटमानतः कूटं मूलायतन रूपकं || त्रिपद्वसु प्रमाणानि च्छंदान्यत्र विवर्तयेत् | शंकरस्य प्रकर्तव्यं कैलासं नापरस्य तु || विमानस्य प्रवक्ष्यामि वर्तना क्राञ्च सूदनः | त्रिसप्तवर्तिते क्षेत्रे भूतेर्मध्यम निर्गमं || वेदैर्वेशः प्रकर्तव्य स्तंभो भागेन वर्तयेत् | स्तम्भतो संपरित्यज्य कोणं द्विपदिकं ततः || विमानं तु समाख्यातं एकद्वारं शिव प्रियं | २३४अ) महाविमानं कर्तव्यंमेवमेव शिवालयं || पञ्चभिर्मध्य रथकं वेशं वेदैः प्रकल्पयेत् | भागेन स्तम्भविन्यासं कोणदेशं त्रयेण तु || महाविमानं कर्तव्यं भुक्तिमुक्तिप्रदं शिवे | तिराघाज्यं? विमानं स्यात् शक्तिभूमिकभूषितं || वेदाग्नि नेत्रै कर्तव्या भूमिकाघाटसंमता | विकार रविवस्वंशैश्छदानि क्रमसो लिखेत् || पूर्ववत् कूटसाराणि षट्विंशत् कलितानि तु | नासायां मध्य कूटन्तु संख्यावे कथ्यते पुनः || त्रिसप्तकलिकान्येवं च्छन्दानि कथितानि तु | श्रीवत्सानां तु भद्रानां तथान्येषां शिखिध्वज || आघाटभूमिकानां तु च्छंदानां मानमीरितं | विभागं तेषु वक्ष्यामि तलच्छंदोर्द्धं संगतं || चतुरस्रैः पुराक्षेत्रे द्वरसुनेत्र विभाजिते | कर्णदेशास्त्रयं त्यक्त्वा कोणवंधैरसंहितं || द्वित्रिषड्भिः पदे नैव निर्गमं तस्य कल्पयेत् | भद्रमेवं समाख्यातं सर्वगा धारणं हितं || चतुर्द्वारं प्रकर्तव्यं साधारं सर्वसिद्धिदं | २३४ब्) आघाट भूमिकानां तु छंदाणां लक्षणं तथा || विमानवत् स्मृतं भद्रे भद्रसिद्धि प्रदं सदा | एवं वै सर्वतो भद्रं शिखरैर्वहुभिर्वृतं || अष्टभक्ते पुराक्षेत्रे कोणं भागद्वयेन तु | यदीयान् भद्रमाख्यातं नलिर्नलितं भवेत् || आघाट भूमिकासारं कल्पितव्यं विमानवत् | किंत्वा घाटै विमानैश्च विमानं तत्र वर्तयेत् || श्रीवत्स वर्द्धमानस्य विभागं कथ्यते पुनः | पंक्तिभक्तेषुराक्षेत्रे रथोमध्ये त्रिभिर्मतः || सार्द्धेन च द्वये नैवं श्रीवत्सो भूमि वर्द्धनः | संपूर्णशालं वक्ष्यामि प्रासादमर्क भाजितं || तथा कोणद्वये नैव त्रिभिर्मध्यमनिर्गमं | सार्द्धभागद्वये नैव तयोर्मध्ये कपोलकं || संपूर्ण सालं कथितं शत्रूणां खंडनाय तु | रुद्रभक्ते पुराक्षेत्रे खंडशालं विवर्तयेत् || श्रीवत्सवद् भवेत् कोणमध्ये तु रथकास्तथा | कपोलं सार्द्धभागेन तोयवाहः पदार्द्धतः || २३५अ) खण्डशालसमाख्यातः शत्रूणां खंड * परः | विकारभक्ते क्षेत्रे तु वर्तमानं विवर्तयेत् || चतुर्भिर्मध्य रथकं निर्गमं तस्य वर्तयेत् | पानीयान्तरक तस्मात् सार्द्धभागेन कल्पयेत् || सार्द्धेनोपरथ तद्वत् कोणभाग त्रयेण तु | पानीयान्तरहीनानां कपोलन्तत्र वर्तयेत् || चतुःकपोलं कर्तव्यं स कोणं नन्दि वर्द्धनं | सर्वकामप्रदं यस्मात् पूर्णत्वान्नन्दिवर्द्धनं || आघाटभूमिकानां तु च्छंदानां लक्षणं पुनः | विमानवत् प्रकर्तव्यं यथा शोभमथापि वा || इत्येते चतुश्रास्तु पद्मकैर्वहुभिर्युताः | ग्वावृक्षो वृत्त एव स्यात् षडर्श्रा गरुडः स्मृतः || कुम्भः कुम्भो कृतिः शश्तो गजर्द्धवक्तु युक्त | वेदाश्रं द्विगुणं कृत्वा पंक्ति विद्धि भजेत् तथा || तच्चतुर्भिस्तु विस्तारं मध्य क्रोडं स वर्तुलं | गर्भं चतुःपदं तस्य पक्ष गर्भा तथा पुनः || पदिका तु भवेद् भित्ति हंसे संज्ञास्य षण्मुखः | २३५ब्) ब्रह्मामध्ये तु संस्थाप्य पक्षाभ्यां शिवकेशवौ || विभिन्नमंजरीकं तु हंसं श्रीवत्स भद्र युक् | पूर्वाननः प्रकर्तव्यः साकारः परमेश्वरः || वर्जयेत् संमुखो देवौ तथा चान्योन्य पृष्ठतः | पृथाग्रतस्तथा वक्षे कोदण्ड त्रिंशतेन तु || प्राक्प्रणी तस्य यत्नेन पूरतः स्थापनं मतं | किं भूतरं प्रदेशं तु संस्थाप्यं वेध वर्जितं || उभये द्विगुणां सीमां त्यक्ता चोच्छ्रयसम्मितं | प्रासादाद्यास्तु य विद्वानते स्फुटदुःखकारिणः || अन्यथा जायते दुःख कर्तुकाराय कस्य तु | महान्तस्तथजारथ्या चक्रं कूपादि संभवेत् ||? गोरथ्या त्रिपथं कापि महाशिलादि वेदितं | कर्तुं मृत्युर्पदं यस्मात् तस्माद् विविधं परित्यजेत् || यगन ग्रामखेटादौ संमुखं तु प्रतिष्ठयेत् | प्रासङ्मुख स्थितं * * * * * * शुभप्रदं || तस्मात् संमुखं शस्तं न मध्येन पराङ्मुखं | २३६अ) देशस्य मध्यमं देवं परचक्र भयप्रदं || तस्मान्न स्थापयेत् मध्ये न तु तद् दक्षिणं भवेत् | वामदेशे तु देशस्य तस्माच्छस्तं तु पश्चिमं || साम्राज्यं पूर्वदिग्भागे तापमाग्नेय गोचरे | मारी तु दक्षिणे भागे पीडा नै-ऋत्य गोचरे || वृद्धिः पश्चिमदेशस्थ वायव्योच्चाटने स्थितं | उत्तरे अर्थसिद्धिः स्यादैशान्यां सर्वसिद्धये || महादेवं विशाखं च विष्णुं वै पूर्वतो हितं | हुतासनन्तथा ब्रह्मा आग्नेययां क्रोञ्च सूदन || मातरो भैरवे शाद्या गुह्यका दक्षिणे हिताः | राक्षस्यां क्षेत्रपालाश्च किङ्करा विकृतास्तथा || पश्चिमास्यां हिता सर्व ग्रामस्य नगरस्य च | क्षेत्रपालाथ वायव्यां उत्तरस्यां तु मातरः || ऐशान्यां योगिनं देवं मृत्युजिह्वाथटंकिनं | विनायकमथो वापि वायुं च वायु गोचरे || नै-ऋत्यां ग?स्करं स्थाप्य दुर्गा वायव्यगोचरे | प्रामादानां प्रकर्तव्यं यत्नात् गुण गृहेषु च || २३६ब्) नगरग्राम खेटादा वे * मैवं तु चान्यथा | प्रासादवृक्षकूपादिषु || छायाक्रान्तं गृहं त्याज्यं यस्मात् मृत्युप्रदं ध्रुवं | प्राकारातरितं कार्यं यथाच्छाया न वाधते || इत्येतल्लक्षणं प्रोक्तं क्रमप्राप्तं शिखिध्वज | आयतावलभी कार्या द्विगुणा त्रिगुणाथ वा || विस्तारम्पञ्चभिस्तस्माद्दैर्घ्यं वै पंक्ति संमितं | भित्तिश्च पदिका तस्या द्वारभागं * *? न तु || पदिकानिर्गमाना सा विस्तीर्णा द्विपदैस्तु सा | स पाद द्विगुणा कार्या वलभीचोच्छ्रयेण तु || देवी संभरण तस्याः सखं वद्वाथ वर्तयेत् | अष्टाश्र षोडशी स्राणां लेशतो लक्षणं शृणु || क्षेत्राक्षोणास योगाद् दिक्षु कोणस्थितं नयेत् | एवं वैलांच्छयित्वा? तु जंघायां पद्मसंज्ञकैः || शिल्पिवुद्व्या प्रकर्तव्यं पद्माख्यं कमलं यथा | श्रीकण्ठं सम्प्रवक्ष्यामि प्रासादं वहुधा स्थितं || दिक्षु भद्राणि कार्याणि तथा चैव विदिक्षु च | २३७अ) एकं द्वित्रिकपोलानि रचनारचितानि च || अन्तरे तु कपोलानां साश्रयः परिवर्तयेत् | रथकाकारं सदृशाः कर्तव्यास्मश्रयस्तथा || वृत्तवन्तु प्रकर्तव्यं श्रीकण्ठन्नामनामतः | इति लेशेन गदितं ततोर्द्दच्छंदलक्षणं || मंजरी वर्तनां वक्ष्वे ग्रीवामलक्र लक्षणं | शिखरं वेदवत् कृत्वा वेदाश्रं वेदवद् भवेत् || कण्ठं भागेन कर्तव्यं सारकं तद्वयोच्छ्रितं | चूलकं भागमानेन लिङ्गाकारं विवर्तयेत् || चूलकं कुंभ सदृशं पद्माङ्कं मातुलङ्गिनं | चतुर्गुणेन सूत्रेण त्रिगुणानां तु वर्तिनं || सार्द्ध द्विगुण देहानां त्रिगुणेन तु वर्तनं | सार्द्ध द्विगुण सूत्रेण द्विगुणस्य तु संवृत्तिः || समाश्रित्य श्रिदेहानांमेवमेव विवर्तनं | स्कंधे तु दशधा भक्ते पञ्चभक्तेथ वा पुनः || द्विभागभागहान्या तु स्कन्ध विस्तारमादिशेत् | २३७ब्) वर्तितं पञ्चभिश्चाथ वैदी विस्तारमीरितं || द्विभगे मेकभागं वा नवधा तद्विभाजयेत् | जंघोच्छ्रायं तथा भक्त्या कपोताद्वेदिकावधिः || भागं भागं परित्याज्यं विस्तारादुर्च्छयास्तथा | गणितेनाथ वा ह्रासस्तच्च त्रैराशिकेन तु || खण्डियो वापि भागेन विषमासान् प्रकल्पयेत् | भागभागपरित्यागा च्छिल्पिवुद्व्याविनिर्दिशेत् || शूलाग्रं नैव कर्तव्यं शूलाग्रं क्षयकारकं | शुका * स वृति कार्या विना स्कंधेन षण्मुखं || नीलोत्पल दलं प्रख्यं नाशायाः संवृत्तिः स्मृताः | कण्ठं वेद्यर्द्धतः कार्यं सारकं पञ्चभागिकं || भागद्वयेन सार्द्धेन कण्ठकाच्चूलकोन्नतिः | विस्तृतं च त्रिभागेन कार्यं वा लिङ्गमानतः || तद्वद्भागद्वयं तस्य विष्णुब्रह्म समं भवेत् | विष्णुर्द्वसारके क्षिप्यं सार्द्धभागोन्नतिं भवेत् || एवमाकाशलिङ्गन्तु कथितं कृतिकासुतः | २३८अ) विनालक्षेण कर्तव्यं प्रतिष्ठाप्यं तु लिङ्गवत् || वलभ्यां केशरी कार्यः शङ्करस्य वृषस्तथा | करीश्रियायाः कर्तव्यः सूर्यस्य कमलन्तथा || नासिकोर्द्धेन यत्नेन स्वायुधं सारकोपरि | भागत्रयेन कर्तव्यं सारकस्य प्रमाणतः || शंकरस्य त्रिशूलन्तु देवतानां विशेषतः | चक्रं हरे तु लोकेशा स्वायुधं परिकल्पयेत् || नेताद्रिरन्ध्रभागेन विस्तारात्मंजरी गता | चन्द्रशाला प्रकर्तव्यो स्थिरस्या पादनाय तु || भूकम्पाद्येर्महावातैः प्रासादा न पतंति च | ध्वजाधार प्रकर्त्व्यो वेदिकादण्डमानतः || कन्यसानां सरांसेन हीनां भित्तिः प्रकल्पयेत् | गर्भं वदाधिकं कार्यं न लिङ्गं लघुतान्नयेत् || लिङ्गमानेन पीठस्या द्वारपीठसमं भवेत् | लिङ्गच्छाया पदा पीठे क्रान्ता दोषो तदा भवेत् || पीठच्छाया तथा लिङ्गे सन्क्रान्ता मृत्युदा नृणां | तस्मात् सर्वप्रयत्नेन समंहितं || २३८ब्) आद्ये नाद्ये च रुद्राशं ह्रासयेद्वर्द्धयेद् विधिं | अतो विषया वृद्धि ह्रासौ कुर्यात् सुरार्चिते || तदेवमर्चाच्छेदेन पिण्डिका पक्ष विस्तृतिः | प्रमाणसाम्यान्न च्छाया लंघनं स्यात् पुरःसरं || भित्तेर्वस्वं शतः कार्यं सुषिरं विस्तृतं द्विधा | ततोपि द्विगुणोच्छ्रेयं दिक्षु देवालयं भवेत् || द्वारविस्तारपादेन द्वाः शाख्य विस्तरं मतं | ऊर्ध्वाधो दुष्वरं कार्यं ह्रारार्धेन षडानन || शाखापादेन द्वारेशा उच्छ्रायेन प्रकल्पयेत् | पूर्वे नैन्द्री महाकाला नन्दी वेदक्ष शाखगः || दक्षिणदक्षशाखस्था भृङ्गी दर्भ तथोत्तरे | पश्चिमद्वारशाखायां दक्षिणाया वृषन्नयेत् || षण्मुखं चोत्तरस्यां तु स्वधुनी चोत्तरे सदा | यमुना वाम शाखायां उत्तरद्वारसंस्थिता || पद्मश्रग्दाम हस्ताश्च तथा कलषपाणयः | पुरुषास्तत्र कर्तव्या स्त्रियो भूषणभूषिता || २३९अ) वीणा हस्ता तु गन्धर्वा माला विद्या धरास्तथा | गोहस्ति वाजियुग्मञ्च तथा मैवादि युग्मकं || ज्येष्ठानां नवशाखन्तु सप्तशाखं तु मध्यमं | पञ्चत्रिशाखमधमं द्वारं कार्यं विभूतिदं || पत्र स्वस्तिक वल्लीभिः द्वारशाखां विवर्तयेत् | शाखा विस्तारतः कार्यं वाहुल्यं तु तदर्द्धतः || द्वाराग्रे चार्द्धचन्द्रन्तु वाहुल्यन्तु तदर्द्धतः | इरिद्वारं समाख्यातं सांधारे वान्यतः शृणु || वियदिन्द्राङ्गुलै ज्येष्ठं पंक्तिहान्या तु सप्तकं | अधमं द्वार विस्तारं विषय ह्यांगुलै हितं || उच्छ्रितं द्विगुणं कार्यं विस्तृतेस्तु षडानन | शाखादुम्बरविन्यासं कर्तव्यं स्वप्रमाणतः || गणेशो दुंबरिकायां ग्रहाष्टौम्यतरस्तथा | तथा नाट्येश्वरं कार्यं वाल्मीकव्याससंयुतं || द्वाराग्रे चार्द्धचंद्रं तु द्वारविस्तारतो हितं | सारकाः परतः कार्याः कपिच्छाख्याः षडंशतः || शाखायाश्चार्द्ध देशे तु कर्तव्यं चागलं हृदं | २३९ब्) लिङ्गानां पीठधाम्नाञ्च गणना च ध्वजा युना || शुद्धिः प्रयत्नतौ न्येषा द्वाराणां तु स्वरा युना | शयनासनयानानां साधनं भूतसंज्ञकैः || वापीकूपतडागानां शुद्धिरग्न्या युनाहिता | स्थैर्यं दाहं महाधैर्यं दैत्यं यत संचयं || क्लेशः सर्वार्थ सम्प्राप्तिर्व्याधिश्चैव ध्वजादिषु | ध्रुवमाघायनं दाहाच्चाटनं पञ्चता क्रमात् || भूतजानां गुणाः प्रोक्ताः अग्नायूतां निगद्यते | ज्ञानं वा संक्षयं चेति वक्ष्यायानां गुणाः स्मृताः || स्त्रियो धनं समृद्धि च पतित्व गहितं तथा | विषदण्डमहाभूतिः फलसप्त स्वनोद् भवं || इत्येवं प्रतिभागं तु ज्ञात्वा ज्ञात्वा समाचरेत् | लिङ्गार्था द्वार पीठानां गृहेष्वपि भागाधिकं || आयदानं प्रकर्तव्यं न्यूनत्वं वा प्रकल्पयेत् | आयुशुद्धि यथा जायेत् तथा शुद्धि समाचरेत् || नक्षत्रं नाधिकं न्यूनं द्वारं तं परिवर्जयेत् | २४०अ) कवादौ यत्नतः कार्यौ हृददारु समुद्भवौ || कूजन्वीत्कार सहितौ तथा वस्वयमुर्द्धतौ | कपाटौ यत्नतः कार्यौ वहु खण्डौ गृहे तथा || वलिपीठ तथा कार्यं मूलायतनसम्मितं | स त्रिशूलां वृषाका वा ध्वजयष्टिं प्रकल्पयेत् || शिखरस्य चतुर्थाशात् कल्पयेत् तत्प्रदक्षिणां | मुख्ये देवालयार्द्धेन त्र्यंशेन चरणेन च || कन्यसादि विभागेन ततो देवालयानि च | प्रासादाभि मुखान्येव कर्तव्यानि षडानन || पंचालयान्समारभ्य यावच्चैव शतावधि | मूलप्रासादरूपेण गणायतन कल्पना || प्रासादाग्रे मण्डपानां विभागं लेशतः शृणु | चतुर्द्वारे तु प्रासादे दत्वा मण्डपा मताः || एकद्वारे प्रकर्तव्यं एक एव तु मण्डपः | गर्भस्तु पक्षयोः कृत्वा चतुर्वक्त्रे गृहे हितं || एवं प्रयत्नतः कुर्याच्चतुर्मुखमण्डपाः | गर्भं भित्यन्त शुषिरात् समस्ताद्वा विवर्तयेत् || २४०ब्) समस्तं पक्षयोः कृत्वा दैर्घ्यं तस्य प्रकल्पयेत् | दैर्घ्यान्त्रांश विहीनं तु विस्तारं मण्डपे हितं || एकवक्त्रस्य विन्यासस्त्रिवक्त्रस्यादितं पुरा | स्तम्भतो मंडपानां च संज्ञाभेदो निगद्यते || हरः शिवस्तथानन्तो पद्मो देवः शिखी शशी | प्रियो महाप्रियश्चेति नवप्रोक्तास्तु मण्डपाः || नियोज्याः कन्यसानां तु द्वादशेभ्यो विवृद्धितः | मध्यमानां पुनर्वक्षे वसुनेत्रोर्द्धतः शुभः || सुनन्दा नन्दनश्चैव वरिष्टा वरदस्तथा | विशालश्च सुशीलश्च श्रुतीशि हरितदकौ || मध्यमानां विवृद्व्या तु षट्चत्वारिंश दन्तिकाः | जयश्च जयभद्रश्च वुद्धिवुद्धि वरस्तथा || आनन्दो नन्दनश्चैव पुष्प भद्रोथ पुष्पकः | रुद्रश्चैव विवृद्ध्या तु चतुःषष्ठान्तिकावधि || दिगष्ट षट् चतुस्तम्भा मण्डपामिश्रकाधमाः | शुकन्यसाग्रतो देवो स्तम्भा द्वौ च कुमारिका || २४१अ) पुनरेव प्रवक्ष्यामि नरानां गृहलक्षणं | राज्ञां हस्तशतं साष्टं सा पदं दैर्घ्यतो गृहं || विस्तारात् पादह्रासश्च मध्यपञ्च गृहाणि च | प्रत्येकाष्टकसं * * * * * पूर्वतो हिताः || दिक्षुतोर्द्धेन कोणेषु गृहाणि परिकल्पयेत् | चतुःशालानि पञ्चैव द्वित्रिकान्यथ वा लभेत् || पञ्चविंशति गृहाण्येवं शुद्धानि कथितानि च | द्वासप्ततेः सप्तहान्या पञ्चमूलानि कीर्तिताः || दिग्विदिक्षु तथान्यानि कर्तव्या कोश रक्षणे | वेदषट्काद्रसापाये पञ्चमध्ये गृहानि तु || दिक्षु द्वै सप्तहान्या तु कोणाद्वा पूर्ववन्नव | एकशालादि भेदेन वहुत्वान्न प्रदर्शिताः || पूर्वराजगृहण्याहुः स विशेष निगद्यते | चतुर्हान्या चतुःषष्टि गृहाणि पञ्चवर्तयेत् || पुरोहितद्विजातीनां यषिष्टां परिकल्पयेत् | चतुःशालानि सर्वाणि शालिन्दानि षडानन || नेत्रार्मिताश्चतुर्हान्या द्विज?पञ्चगृहाणि तु | २४१ब्) राजन्यादि त्रयाणां तु द्वित्रि *? र्य गृहाणि तु || त्रिद्येकपरिहान्या तु मूलपञ्च गृहाणि तु | तदाष्टांशं विनादि तदर्द्धात् कोणतो भवेत् || देवागारं स दैशान्यां सभास्थानं च पूर्वगं | पाक स्थानं तथाग्नेययां शयनं दक्षिणा दिशि || तथावान्तः पूरन्तत्र कर्तव्यं नान्यथा हितं | मलापायं तु राक्षस्यां तेष्कागारं? पश्चिमे || वायव्यां कडन स्थानं तथा चोपस्कराचितं | कोषागारं तु सौम्यायां मंक्षेपात् कथितं मया || चतुःशालं गृहराज्ञा मध्ये तस्य व्यवस्थितः | त्रिशालं वा द्विशालं वा नैकशालं नृपे गृहं || नन्द्यावर्ते सुस्थिरे वा नवमं चाश वीथिकाः | अन्तर्वहिश्च कर्तव्या कर्तव्या चोपरिस्तथा || कार्यं हिरण्यनाभाख्यं हीनमूत्ररशालया | पूर्वशाला विहीनं तु सुक्षेत्रं वृद्धिदं नृणां || विवा दक्षिणयाशाला चूल्लीदुःखंकरं सदा | २४२अ) शालापश्चिम याहीनं यक्षष्यं? मृत्युदं नृणां || यासामाध्य समायुक्तं सिद्धार्थं तु सिद्धिसालकं | उदकप्रादीसमायोगाद्यमश्वर्यं महान्त कृत् || प्राक् दक्षिणा *? दण्डाख्य पुंसां दण्ड समं भवेत् | उदकं पश्चिमया युक्तं वाताख्यं कलह प्रियं || पूर्वपश्चिम * * * * * * * * * * * ? | उदकदक्षिणशालाभा कदाख्यं तु वि * *? कृत् || गृहोद्भवाङ्कराशिञ्च वसुभक्तस्तु कारयेत् | ऋक्षोद्धृत्ये भवेदृक्ष ऋक्षाद्राश्यंशकोदयं || शतं हस्तान् समारभ्य शतार्द्धसप्त भूमिकं | द्विजालयं पञ्चभूमिं शेषाणां क्रमशो भवेत् || अन्त्यानां भूमिकाहीनं गृहं मान विवर्जितं | यावत् संख्यानि विस्ताराद्वस्ताद्वास्तु भविष्यति || तावत् संख्यानागुलानि सप्तत्या सहितानि तु | द्वारस्यो च्छ्रयमानं तु विस्तारन्तु तदर्द्धतः || द्वारविस्तारवद्भित्ति गृहाणां परिकल्पयेत् | भूतादिताना रुद्राखै स्त्रिरेक तिथिहास्तिकैः || विस्ताराद्द्विगुणोच्छ्रायो व्राह्मणादि चतुष्टये | २४२ब्) वसुवत् पाद दीर्घाणि विस्तारा कृत्समानि च || अलिदवामतः * *? शाल्यतो नवमांशतः | सोपान पद वीदेयाऽलिढं भूमेः सदोद्समं || तैरेव गमनंकारां अलिंदेवाह्यतोत्तरे | भूमिकानां तथा वाह्येऽभ्यंतरे मध्यतस्तथा || अलिन्दाः कल्पनीयास्तु दारुजा भूमिकोपरि | ऊर्द्ध्वाग्र स्तंभ पंक्त्या तु युक्ता द्वारैस्तथोत्तरे || अलिन्दास्तम्भ हीनास्तुस्तथा पाश्रय वर्जिताः | अथमास्ते समाख्याताः श्वपवादिषु कीर्तिताः || पुनरेव प्रवक्ष्यामि द्वाराणां लक्षणं क्रमात् | ईशेभयं स्त्री चलत्वं विजयश्री प्रताप कृत || धर्मञ्च कलहं सूर्यं पूर्वस्यां दक्षिणे शृणु | दाहं सुखञ्च दुःखञ्च मृत्युः क्षयं सुशीलता || दैन्यमश्रीदक्षिणस्यां पश्चिमस्यां तथोस्तते | २४३अ) अनापुष्पं व्रतवन्धं कृषिसौख्यं शस्य वृद्धिदं || अर्थक्षयं च शोषञ्च रोगमुच्चाटनन्तथा | पश्चिमस्यां निगदिता उत्तरस्या मतः परं || कदृष्यञ्च प्रपालने? धनसमाक्षरन्तथा | दैन्यं वायुः क्षयं ह्रासः सौम्ययां दिक्स्रुवोदिताः || जयमाहेन्द्रसंज्ञास्तु पूर्वस्यां यत्यं? संज्ञकः | पूषागन्धर्वदक्षाणां पश्चिमस्यां तथा त्रयं || सुग्रीवः पुष्पदन्तश्च वरुणाख्यस्तृतीयकः | मुख्यभल्वाट सोमश्च सौम्यायां त्रितयं शुभं || ईशे तु कृतिका ऋक्षं पर्जन्य पूर्वफाल्गुनी | जेष्टाजये विशाखा च माहेंद्रे तु विनिर्दिशेत् || पुनर्वसुस्तथा सूर्ये सत्येऽत्येषां तु विनिर्दिशेत् | हस्तोभशिखसांद्रां? * * * * * *? संस्थितं || अनुराधाम्नि संस्था तु विशाखा पूष्णिसंस्थिताः | वितत्थे रेवती ज्ञेया मूलमेव गृहक्षते || यम तु भरणी विद्धि गन्धर्व पूर्वशाटिका | २४३ब्) अश्वनी भृंगदेवे तु मृगे चित्रा समादिशेत् || मघा तु पितरि ज्ञेयादौवारिपूर्वभद्रकं | पूर्वाषाढा तु सुग्रीवे फाल्गुनी पुष्पदन्तके || रोहिणी वरुणे शस्ता शताख्या वासरे मता | शोषेऽश्विनी तिष्य? रोगे आषाढानिल देवता || स्वाति नागे तथा मुख्य नित्यमूर्तरभतुकं | भल्वाढेषुभिजिंना * * * * * * * * * ? || राक्षसंज्ञं श्रवणं विद्धि धनिष्टा वादिति स्थिता | दितावुत्तर भद्रा च कथिता कृतिकासुत || चन्द्रतारानुकूलं तु ज्वारं का * * * * * ? | * * * * * * * * * * * * * * * * ? || ऐशान्यां याग भवनं चतुर्द्वारं हितप्रदं | तुलोपतुलसंयुक्तमत्तचारण वर्जितं || विस्तारात् षोडशांशे न स्तम्भ विस्तरमादिशेत् | स्तम्भा छ्रायं * * वृद्धा? द्विपदं स्तम्भशापकं##? स्तम्भाधारं तथा कार्यं निर्गमं पार्श्वयोस्तथा | इत्येतत्कथितं सम्यक् प्रासादानां तु लक्षणं || इति कालोत्तरे महातंत्रे प्रासादलक्षणपटलं || २४४अ) ईश्वर उवाच || प्रासादाग्रेऽधिवासं स्यान्न दूरे नापि पार्श्वतः | न पृष्ठे नापि वै कोणेऽधिवासनमंडपं || हास्तिके विष्करं कार्यं मण्डपं तु चतुर्मुखं | द्विहस्तवृद्ध्या चान्येषां व्यक्ताव्यक्ता भयात्मनां || तदर्द्धेन तु पूर्वस्यां ऐशान्यां स्थानमण्डपः | मण्डलार्थन्तत् प्रमाणं संव्यवस्थानमेव च || मूलेन सह चत्वारो मण्डपान्तत्र कारयेत् | मूले चतुस्करा वेदि तथा वस्वंगुलोच्छता || वितानं तत्प्रमाणेन किंकिणी जालमण्डितं | नाग्रोपंचै तत्पूर्वस्यां दक्षिणस्यां मुदुम्वरं || अश्वच्छमुत्तरस्यां तु प्लक्षं पश्चिम तोरणं | धारिकं तद्व देवान्नं मण्डपस्य प्रकल्पयेत् || हास्तिके पञ्चहस्तञ्च षट्सप्तं द्वित्रिहास्तिके | सत्र्यंशहस्तवृद्ध्या तु मध्यानां द्वार कल्पना || स पादहस्त वृद्ध्या तु जेष्ठानां तोरणं हितं | हस्तमात्रं त्रिहस्तान्त तोरणं भूमिगं भवेत् || २४४ब्) त्र्यंशवृद्धार्द्धमानेन पादार्द्धेण परेण च | उच्छ्रायस्य प्रमाणेन विस्तारं नान्यथा हितं || अष्टांगुलं मतं शल्यं यावद्वै षोडशा वधिं | विस्तारं तद्वदेवा तु शाखास्याद्दुम्वरे तथा || विस्तारात् पञ्चमासेन पक्षमूलानि वर्तयेत् | मध्ये पूर्वसंस्थे तु स्वस्तिकं दक्षिणे स्थिते || उत्पलं वाम संस्थे तु पद्मं पश्चिमसंस्थिते | शाखाधो द्वारपालास्तु कर्तव्याः पूर्ववत् स्ततः || सप्तहस्ताः पताकास्य सप्तमांशेन विस्तृताः | लोकपालानुवर्णेन नवमा तु हिमप्रभा || शितरक्तादि वर्णेन पञ्चहस्ता प्रजाः स्मृताः | त्रिपञ्चदण्डहस्तस्तु वंशजैः संयुतानि तु || अष्टमूर्त्यात्मके न्यासे नव कुण्डं प्रकल्पयेत् | हास्तिके हस्तमात्रं कुण्डन्तु परिकल्पयेत् || ततोच्चाङ्गुल वृद्ध्या तु शेषेषु क्रमसो भवेत् | नवमं कारयेत् कुण्डं वेदीशं कुण्डमध्यमं || सप्तविंशति दर्भैस्तु विस्तरा वाह्य मात्रगाः | २४५अ) हस्तार्द्धा समिधाः शस्ताः पलाशार्कात्थ पिप्पलाः || अपामार्गाथ खदिराः शमीदूर्वान्दं वरात्मकाः | शाष्टोत्तरशतं यत्नादैककानां प्रकल्पयेत् || वाह्यमात्राः परिधयो वृत्ता वा कृत्तिकासुतः | आसनं व्यंजनं चैव श्रूक्श्रूवा वग्नि भाजनं || अर्घपात्र द्वयघण्टा पाद्यञ्च धूपनं तथा | घृतं तिलाश्च दारुणे व्रीहयः पुष्पसंचयं || धूपं विलेपनं मार्ज्यं साष्टाङ्गं पञ्चगव्यकं | प्रतिकुण्डे तु दातव्यं दीपाश्च वहवस्तथा || स्नानार्थ मृत्तिकाग्राह्या कषायं तोयसंचयं | औदुंवर वटाश्वत्थमाम्रजाल्बूलकसंभवं || तीर्थवल्मीकशरजा क्षेत्र मध्यात् गजाह्वयात् | नदीनगसमुद्भूता रोचनाहिमचन्दनं || नैवेद्यानि विचित्राणि सुशुद्धानि वहुनि च | तद्वत् पानानि रम्यानि खण्डखीरमयानि च || भद्रपीठं प्रकर्तव्यं सारकाष्ठ समुद्भवं | २४५ब्) द्विगुण ब्रह्म्ण भागात् विस्तृतं कमलाङ्कितं || स नालं तु चतुःपादं मेखलाधारभूषितं | खट्वाञ्च तूलिकां तद्वदेकहस्तार्द्ध विस्तृतां || स पटांसोपधानाञ्च पर्यङ्कञ्च पतङ्गृहं | दर्पणं समरं च्छत्रं व्यंजनं पादुके तथा || खड्गञ्च छुरिका चैव खेटकं शमरं धनुः | कर्पूरभाजनं हेम शलाका द्वितयन्तथा || दार्वा?स्थाली मार्जनी च यन्त्रिका पेषनी तथा | उलूखलं च मूषलं तथा चाभरणानि च || गृहोपकरणान्यन्ये हेमतारमयानि तु | अर्घपात्र त्रयं हेमं तारजं ताम्रसंभवं || उत्तमं मध्यमं चैव अधमताम्रसंभवं | द्वादशाङ्गुलविस्तीर्णं पाद्यपात्रं तथा भवेत् || हेममभ्यङ्ग पात्रं च तद्वच्च मधुपर्कजं | हेमजं शिवकुम्भन्तु शिवास्त्र कलशन्तथा || ताम्रजादित्युतीनां तु कलशा न दशकल्पयेत् | द्वारे द्वौ द्वौ तु दातव्यौ स वस्त्रौ पुष्पसंयुतौ || शान्तिकुम्भाष्टकं तद्वद्वेदिकातिकसंस्थितं | २४६अ) स्नानार्थं गडुका कार्याः सप्तविंशत्पलानुगाः || नित्ये नैमित्तिके शस्ता अथवाष्ट शताङ्किताः | सर्वोषधौ हरिद्रा च गन्धगन्धान सर्षपाः || लाजातीर्थोदकादीनि स्नानानि विविधानि च | मण्डलार्थन्तु करणी खटिकां च रजांसि च || तत्र कूर्मशिलाग्राह्या ब्रह्माद्द्विकलाधिका | समन्ताच्चतुश्र तु नवकूपसमन्विता || कूपिकाद्व्यंगुला कार्या विस्तृतार्द्धगभीरकं | अर्द्धपादमष्टाशं ब्रह्मभागन्तु निक्षिपेत् || तत्र ब्रह्मशिलामध्येस्थि चत्वं येन जायते | तेन कूपेषु यत्नानि न्यस्तव्यानि षडानन || पूर्ववज्रं ततः सूत्रमिन्द्रनीलं तु दक्षिणे | नीलन्तु मौक्तिकं चैव पुष्परागं समीरणे || पद्मरागं तु वैडूर्यं पूर्वतः क्रमशो न्यसेत् | हेमं ताम्रं तथा लोहवङ्गता रावकूटजं || द्य?निनापन्नगं चैति लोहाष्टौ पूर्वतो न्यसेत् | तालंशिला तथा काक्षी हेम माक्षिक सूचकं || २४६ब्) सुवर्णगैरिकाचेति गन्धकमभ्रकन्ततः | उशीरमत्यूताक्रान्ताशोणं चन्दनमेव च || अगरुमारि वा कुष्ठं तथैव शंखपुष्पका | व्रीहिगोधूममायीश्च तिलानि पद्ममेव? च || यवनी वारश्यामाका व्रीहयः पूर्वतो न्यसेत् | कूर्मपृथ्वीं तथा पद्मं हेमजं शुक्रमध्यगं || रत्नाभावे न्यसेद् वज्र लोहाभावे तु काञ्चनं | वीजां भावे यवाः शस्ता धात्व भावे तु तालकं || औषधीनाम भावे तु सहदेवा विनिक्षिपेत् | सर्वा भावे तु द्रव्यानां रसं कूपेषु विन्यसेत् || पट्खण्डं पायसं च * * * * * * ? लालसं | मूर्तिधरो न वक्त्रे युग्मं जापिनां तच्च देव हि || वस्त्रयुग्मं गुरो देयं पट्ट खण्डादि संभवं | कुण्डभौ चाङ्गुलीये च मूर्तिपेषु प्रदापयेत् || दक्षिणो द्वारकाले तु हेमपात्र द्वयहितं | शलाके हेमजे शस्ते चतुरङ्गुलमानतः || मुकुटं चैव केयूरौ कुण्डले वटुकौ तथा | २४७अ) मुक्तावली च रसना गुरोर्देया प्रयत्नतः || सहेमां च सवासां च गामेकां लक्षणे गुरौः | लिङ्गपीठशिलानां तु लक्षणेति युगान्त्रयं || अधिवासे द्वयं चान्ते हेमालङ्कारसंयुतं | रथं तु रथयात्रायां नानावस्त्रविभूषितं || वुद्धदैश्च मरैर्युक्तं किंकिणीदाम मण्डितं | रथयात्रा समारभ्य प्रतिष्ठान्ते समासतः || वस्त्र हेमादि रत्नानि भूर्दन्ती दापये गुरोः | जायिनां मूर्तिपानाञ्च साधकानाञ्च दापयेत् || यथा योग्यानुसारेण वित्तसाठ्यं विवर्जयेत् | वस्त्रकाञ्चन पात्राणि क्डिप्रेद्रन्न करम्बकं || रथभ्रमणकाले तु नानातोद्यं समाचरेत् | पितृपितामहांश्चैव तथैव प्रपिता महान् || पुत्रान् पौत्रान् प्रपौत्राश्च तारयेन्तूरघोषतः | औषध्यो व्रीहयो वृक्षाधातवोथ फलानि च || देवदेवोपयुक्तानि पदं गच्छत्यनामयं | इति कालोत्तरे महातंत्रेऽधिवासनपटलः || २४७ब्) ईश्वर उवाच || सुस्नातश्च विशुद्धात्मा क्रोधपारुष्य वर्जितः | मूर्तिपैर्गुरुणा कार्यं पापाद् देवालयं क्रमात् || आचार्यं पूजयेत् पूर्वं पूजयेच्छिववत् ततः | मूर्तिपांश्च क्रमेणैव तथा वै मन्त्रजापिनः || नांदीश्राद्धं ततः कार्यं देशिकैर्दीक्षितै रथ | एवं कृत्वा विधानेन कन्कणं तस्य वन्धयेत् || महापाशुपतास्त्रेण शतजप्तेन हेमजं | पट्टवन्धं प्रकर्तव्यं गुरुणा तस्य तेन तु || शुद्धकायेन गुरुणा न्यासं कृत्वा तु पूर्ववत् | पूर्वादि क्रमयोगेन द्वारपालान् पूजयेत् || कुम्भेषु तोरणान्येवं वक्त्रेस्तत्पुरुषादिभिः | प्रविशेत् पश्चिमैव विघ्नानुच्छादयेत् ततः || उपविश्यासने शुद्धे पिण्डदाहं तु कारयेत् | सकली करणं पश्चात् मनसयागमेव च || सर्वतत्वमयं हस्तं कर्तव्यं कृतिकासुतः | स्थानशुद्धि सुतः कुर्याद् दहनाप्यायनेन तु || सम्प्रोक्षपञ्चगव्येन तथा चार्घादकेन तु | २४८अ) अस्त्रेणविकरक्षेपं राक्षसाद्वरुणान्तिमं || क्षेपस्य संह्यतिः कार्या च मरणे शिवासिना | ईशकोणे वेदिकायां शिवकुम्भं प्रपूजयेत् || तद्दक्षे चास्त्रकलसं संवेश्यं द्वारसंमुखं | ततः संपूज्य लोकेशान् कुंभस्थान् शास्त्रवाहनात् || पताकाः शक्तिमंत्रैश्च ध्वजीश्च वदनैस्तथा | तेषुधारावटीदेया ततः कुम्भौ प्रपूजयेत् || पूर्ववद्योग पट्टेन गणेशगुरु पूजनं | आसनं शुद्धविद्यान्तं मूर्तिमूर्त्यन्तगान्न्यसेत् || परस्या वाहनं कुर्याद् व्यापकस्य षडानन | मुद्रावन्धरूपकं च पाद्यमाचमनीयकं || अर्घप्रदानं कर्तव्यं स्नानं चैव विलेपनं | पूजनं गन्धपुष्पाद्यै वक्त्राङ्गा चरणन्तथा || दीपमाला गतो देया नैवेद्यं पानकानि च | तत आचमनं देयं संपूज्यञ्च जपन्तथा || ततः संपूजयैद्भक्त्या होमागारं ततो व्रजेत् | अस्त्रेल्लेखनं कार्यं वर्मणाभ्यूक्षणं ततः || २४८ब्) ज्ञानानलं विन्यसेत् तत्र सूर्यायुतं समप्रभं | हृत्पुण्डरीक मध्यान्तु सौसुम्ने न यथा सकृत् || तेन विन्यस्त मात्रेण सर्वकर्मारहो भवेत् | गर्भाधानादिकं कर्म निष्कृति चाप्य पश्चिमं || ज्ञानानिलाग्नि पुरतः कलानार्घन्ति षोडशी | नित्ये नैमित्तिके कार्यं काम्ये ज्ञानानलार्चनं || सकृत्प्रोक्षणमात्रेण श्रुकसंस्कारं कृतं भवेत् | एवं घृतस्य कर्तव्यंमर्घपात्रोदकेन तु || सर्व संस्कार सम्पन्नं सर्वकर्म करो भवेत् | पूर्णाहुति प्रदानञ्च कर्तव्यं धारणान्वितं || वर्वर्थं? धूपदीपार्थं मुद्वत्याऽम्नं तु रक्षयेत् | पूर्वोक्तेन विधानेन शिवसंपूज्य भक्तितः || पुष्पार्घगन्धधूपश्च पूजयेन् मुद्रया सह | शिववक्त्राङ्गसंयुक्तं तर्पयेच्च घृतेन तु || ततश्च मूर्त्तिपै होमं कर्तव्यं तु स्वकासनैः | होमं निवेदयित्वा तु पापाद्वै स्नानमण्डपं || वेदी द्वयं प्रकर्तव्यं प्रयत्नात् स्नानमण्डपे | २४९अ) स्नानन्तु प्रथमायां तु लक्ष्मक्लिप्तिस्ततोन्यतः || शिल्पिदौष निवृत्यर्थं स्नानं मृद्भश्मगो मयैः | कषाये गन्धतोयै शिवास्त्रेण षडानन || संपूज्यगन्धवस्त्रैपुष्पे नाना विधैस्तथा | ततोद्धृत्यविधानेन वेदिकायां तु स्थापयेत् || तूलिकोपरि चोत्तानं कृत्वा लक्षण मुद्धरेत् | लिङ्गौछ्रण्व विकाराशं त्रिभक्तं भागसातनात् || रेखान्तरुन्तु लिङ्गानां सर्वसाधारणमतं | चतुर्विंशां शतो वाथ लिङ्गो च्छायात् स विस्तरं || यवाष्टकोत्तमे लिङ्गं रेखा गम्भीर विस्तृता | स रेखलक्ष्मविस्तारं ज्येष्ठरुद्राङ्गुलात्मकं || लक्ष्मरेखा समुत्कार्या पक्षरेखा तथा पुनः | कन्यसे सय वा रेखा नवमांसाद्विनाहिता || रुद्रभाग विकाराग सन्त्याज्यं भागपञ्चकं | रुद्रभागे रुद्रभागं वध्नाथि? नयनैर्भजेत् || स त्रिभागं स पादञ्च सार्द्धं दिग्भागमुन्नतं | लक्षणं कथितं सम्यक अनाद्यादासुरार्चितं || २४९ब्) तदर्द्धात्पक्ष्न रेखाभ्यां निर्गतं चान्यथा भवेत् | वसुरन्ध्राग्नि भक्ते तु लम्वोषट्ट उरगैः क्रमात् || भागद्वयै न सार्द्धे न सुराद्याद् येसु सिद्धिदं | अथवा कृत्ति भक्ते तु त्यक्त्वा भागद्वयं ह्यथः || रन्ध्रार्केन्द्रैः क्रमात् पक्षौ सर्वसाधारण त्रयं | रेखाभ्यां सङ्गमः कार्यो नागपाशमथापि वा || भाग प्रमाणं षष्ठे तु यवाकारं क्वचिद्वितं | पक्षहीनसपक्षं वा गजाख्यां सप्तमे हितं || एकरेखं सुसंपूर्णं विष्णुभागावसानिकं | लम्वरेखा त्रिधाकार्या प्रथमे द्वितीयेथ वा || लोकपालाच्चिते लिङ्गं पक्षरेखारतारणं | सहश्राङ्कं समे प्रोक्तं यवाङ्गं वाङ्गं लक्षणं || दृगुन्मीलनमर्चाणां स भद्रमभयात्मनां | नवाणे रत्नजे लिङ्गे न लोहे पार्थिवे तथा || किंतु पक्षे प्रकर्तव्यं न तु गन्धोद् भवो भवेत् | पिण्डिकायां भगाकारं लक्षणरन्ध्रमध्यगं || २५०अ) गुरुणा चाङ्किते पूर्व ततः शिल्पी समुद्धरेत् | कृते तु लक्षणो द्वारे पूर्यं मृत्युजयेन तु || घृतेन मधुना यस्मात् संस्नाप्यं भद्रपीठगं | पञ्चगव्य कषायैश्च मृद्भिः सुगन्धसञ्चयैः || फलपुष्पादिकैश्च वक्ष्याराद्यैः कलशाष्टकैः | विलेपरक्तचन्द्राख्य रक्तवस्त्रेण वेष्टयेत् || पिण्डिका च शिला तत्र संस्नाप्य च विलिप्य च | अर्घ दत्वा तु तिलकं रोचना या तु कारयेत् || दूर्वांकुराश्च सिद्धार्था मूर्ध्नि देयाः शिता कृताः | रथेषु यन्त्रितं कृत्वा पुरभ्रमणमाचरेत् || पुष्पहेमसमायुक्तं क्षिपेद्रत्न करम्बकं | यजमानः स पत्नीकः सर्वबन्धुरगुनै व्रजेत् || पदे पदेश्च मेधानां कोटीनां फलमाप्नुयात् | पञ्चवातकिनो ये च ते यान्ति परमाङ्गतिं || यागमण्डप द्वाराग्रे पूर्वस्यां संप्रवेशयेत् | भद्रपीठ स्थितं कार्यं शययामास्तरयेत् ततः || पूर्वस्यां दक्षिणस्यां वा शिरस्तस्य प्रकल्पयेत् | २५०ब्) घृतक्षौद्र समं पात्रं पद्भ्यां कुम्भ शिरो हितं || गृहोपकरणयंतु प्रागुक्तं तत्प्रकल्पयेत् | निवेद्य भोगान् दत्वा च ततो मूर्तिं तु विन्यसेत् || व्रह्मातो रुद्रभागं तु मूर्तिन्यासं प्रकल्पयेत् | क्ष्मामूर्तिरधियस्तत्र सर्वशः परिकीर्तितः || मन्त्रेश्वरः शिखंडी च मूर्ति येन त्रयन्न्यसेत् | रुद्रेशानश्च श्रीकण्ठे न्यस्तव्यं वह्नि मूर्तिना || यजमानं पशुभृत् त्रिमूर्ति गुरुणा न्यसेत् | अर्काग्रश्चैक रुद्रश्च नै-ऋतस्थेन योजयेत् || जलंभवमेक नेत्रं तु योमेकत्र योजयेत् | वायुरीशः शिवोत्तम वायुस्थ गुरुणा न्यसेत् || इन्द्रश्चैव महादेवः सूक्ष्मस्तत्र महेश्वरः || उत्तराशास्थिते नैव गुरुणा तृतयंन्न्यसेत् | खंभीमश्च तथानन्त ईशगेन त्रयन्न्यसेत् || न्यस्तव्यं ब्रह्मभागेन आत्मतत्वा वलम्बनं | तथैव विष्णु भागे तु विद्या तत्वावधिं * *? || २५१अ) * *? भागे तु विन्यस्य शिवतत्वाय गोचरं | पीठे क्रमान्तु संयोज्य आत्मविद्याथ गोचरं || मूर्ति वा पञ्चधा योज्या संक्षावादि दहनानिला | खञ्च व्रह्मा दयश्चैव मूर्तिपाः * * * * * ? || मूर्ति मृत्तींश्वराश्चान्ये सद्योजाता दयः क्रमात् | यो यार्चा स्थापनै चाष्टौ प्रवक्ष्यामानुपूर्वशः || धारिका दीप्ति मत्युग्राज्यान्साचैता * * * * ? | धात्रीरिभी? च वामाद्या मूर्त्ये शत्वे व्यवस्थिताः || वामाद्या पञ्चधा योज्याः संक्षेपात् कथ्यते मया | वामा ज्येष्ठा क्रिया चैव ज्ञानी चेच्छा तु पञ्चमी || विना * * * *? पञ्च कथिताः निःकले स्थिता | उग्राच्चानां प्रवक्ष्यामि मूर्तिन्यासं क्रमेण तु || तमाख्या घोरसंज्ञा च मोहाख्या रति संज्ञका | अपज्वरा पञ्चमी तु मू * * * * * * * ? || संवेशश्चान्तक चैव मोहकृद्रविनायकः | दिप्तिरुग्रः पञ्चमस्तु पञ्च मूर्तीश्वराः स्मृताः || अष्टपापञ्च पावाथ? मूर्तिन्या सन्तु कारयेत् | २५१ब्) * * * * * * शान्तं गुरुणा तदनु गन्धयेत् | साधारणेन मन्त्रेण प्रणवेन शिवेन वा || एवं कृत्वा यथा न्यायं पूजयेत् क्षयमादिभिः | निरोधञ्च निरायिन्या क * * * * * * * ? || त्रिनाडि कल्पनं कार्यं देवता त्रितमुन्न्यसेत् | एवं क्रमेण कर्तव्यं तर्पयेत् मूर्तिपैः सह || दिग्विदिक्षु क्रमेणैव ब्रह्माणाङ्गा * * * * ? | समयं वाथ निगर्भं जपं कार्यं तथापरैः || स गर्भं ध्यानसहितं निगर्भं केवलं जपेत् | महापाशुपतं पूर्वं अघोरास्त्रन्तु दक्षिणे || * * * * * * * *? ब्रह्मास्त्रं पश्चिमांदिशि | एवं क्रमेण कर्तव्यं अस्त्रजापन्तु रुत्तमः || भूतिना च तिलैरेवं प्राकारं परिकल्पयेत् | शास्त्रा * * * * * *? लोकेशान् प्रक्षिवापयेत् || एवं कृत्वा यथा न्यास्यं ततो होमं समाचरेत् | मूर्ति मूर्तीश्वरै चैव तथा मूर्ति महेश्वरे || एकैकस्य शतं होम्यं घृताक्तेन तिलेन तु | २५२अ) आत्मतत्वं तथात्मान्तं विद्याविद्यान्तगोचरं || रागान्तं शिवतत्वं तु त्रितत्वं ब्रह्मणे न्यसेत् | आत्मतत्वं नियत्यन्तं विद्या तत्वं कलान्तिमं || शिवाख्यं शुद्धविद्यान्तं विष्णुभागे त्रितत्वगं | आत्मतत्वं तथैशान्तं विद्याख्यं सकलावधि || शक्त्यन्तं शिवतत्वं तु रुद्राख्ये तु त्रितत्वकं | एवं वै प्रतिमायान्तु त्रितत्वं प्रतिकल्पयेत् || आत्माख्यं नाभिपर्यन्तं विद्याख्यं तालुनि स्थितं | शिवाख्यमस्तकान्तन्तु प्रतिमायाः प्रकल्पयेत् || आत्मविद्याद्वयं पीठे तथैव परिशोधयेत् | आधारभूतां कूर्माख्यां तथोपरि च शोधयेत् || न्यासहोमादिभिश्चैव मूर्तिपैस्तत्वको विदैः | कर्तव्यं सप्तरात्रन्तु पञ्चरात्रमथापि वा || त्रिरात्रमेकरात्रं वा तदधौ नैव कारयेत् | महोत्सवश्च कर्तव्या होमपूजाजपस्तदा || लोकेशानां वलिर्देयः कुल्माषदधि विस्तरैः | २५२ब्) इति कालोत्तरे महातंत्रे अधिवासनपटलं || ईश्वर उवाच || व्यक्ताव्यक्ताभयानां च प्रतिष्ठा कथ्यते धुना | स्थापनं चैव द्वारादौप्यानादौ स्थिति स्थापरि || औस्थापनं तु जीर्णानी व्यंसा?दीनां विशेषतः | आपै स्थापनं पुनस्तेषां प्रतिष्ठा पञ्चधा मता || चलाचलस्य वक्ष्यामि प्रतिष्ठा क्रौञ्च सूदन | कृताह्निके न गंतव्यं प्रासाद मंत्रमुच्चरन् || विघ्न प्रोच्चाटनं कार्यं तत्र पाशुपतेन तु | ब्रह्मस्थानञ्च संत्यज्य यवमर्द्धयवं क्रमात् || उत्तरादिशिमाश्रित्य तत्र कूर्मशिला न्यसेत् | न मध्ये स्थापयेद्वेवं व्यक्ताव्यक्तो भया कृतिं || नैवमध्य परित्यज्य स्थंपनं सुखदं त्रिषु | किंत्वत्र यवमात्रेण चालनात् सुखमश्नुते || पार्थिवं वीजमुच्चार्य तत्र कूर्म शिला न्यसेत् | रत्न न्यासं ततः कार्यं पायसेनोपलिप्य च || नेत्र पट्टेन संस्थाद्य रक्षा कुर्याच्छिवासिना | २५३अ) ततो लिङ्गान्तिकं गत्वा बोधयित्वा महेश्वरं || लब्धानुज्ञेन गुरुणा चालयेच्छिल्पिभिः सह | तूरमङ्गलशब्देन नानास्त्रोत्र रवेण च || द्वारबन्धं विना लिंगं व्यक्ताव्यक्तो भयाकृति | प्रवेशितव्यं यत्नेन द्वारवन्धे कृतेऽथवा || द्वारेन च प्रवेष्टव्यं किंत्वा काशेन वेशयेत् | एवं वै जीर्ण लिङ्गे तु प्रवेशमूर्द्ध सम्मतं || यदा प्रवेशयेत् मृढो द्वारेण परमेश्वरं | मरणं यजमानस्य त्यागः स्यात् स्थापकादिशु || स्वभ्र स्थाने च विश्राम्य जितहस्तैर्विवेशयेत् | यन्त्रे कृत्वा तु विन्यस्य लम्बसूत्रैः स्फुटी कृतं || ततोर्द्धपीठवन्धं तु सृष्टिमार्गेण कारयेत् | आधारमन्त्रसंस्मृत्य क्रियाशक्तिं तु विन्यसेत् || चालने त्वत्र शान्तिस्तु कर्तव्या घृत गुग्गुलैः | वज्रलेपन तत्सन्धिं पूरणीया प्रयत्नतः || स्नापयेच्छान्ति कुम्भैस्तु घृतक्षौद्रैर्जलान्तरैः | विकर्षयित्वा कर्तव्यं मन्त्रन्यासस्वकोचितं || आसनन्तत्र पादान्तं पिण्डिकायां निवेशयेत् | २५३ब्) ब्रह्मंगे मूलमंत्रञ्च रुद्रभागे समर्पयेत् || मुद्रा प्रदर्शनं कार्यं निरोधार्घं प्रदापयेत् | अनन्तादीनि विन्यस्य पीठदेशेन चान्यथा || लोकेशान्यं तथास्त्राणां मूलदेशे निवेशनं | गणावरण विन्यासं विष्णुभागे शिखिध्वज || ततस्नानं प्रकर्तव्यं यथा विभव विस्तरैः | पूजानाना विधा कार्या नैवेद्यानि वहूनि च || तथा जागरणं कार्यं यावद् दिन चतुष्टयं | दक्षिणां भोजनं यानं देशिकानां प्रदापयेत् || भक्षणे लंघने दाने नास्ति दोषादि न त्रयं | चतुर्थे दिवसे स्नाप्य पूजनीयं विधानतः || स्नाणं समर्चयेत् तत्र तथा साधारणं क्वचित् | शतेन स्वपनं तत्र कर्तव्यं देशिकेन तु || पूर्णौ दत्वा तु चंडीशं कल्पितव्यं नियामकं | ऐशान्यां दिशि संस्थाप्यं स्थाप्यं वा लिङ्गमस्तके || स्थिरे चले तथा रत्ने मृद्वारुशैल कल्पिते | लोहे चित्रमये लिङ्गे स्थितं चण्ड नियामकं || २५४अ) सिद्धान्ते नेतरे तंत्रे न वामेन च दक्षिणे | चण्डद्रव्यं गुरुद्रव्यं देवद्रव्यं तथैव च || रौरवे पच्यते सोहि मनसा यस्तु भुंजते | इत्येवं स्थापनं कार्यं भौतिकै नैष्ठिकैःस्ततः || सदा पाशुपतै वर्ज्या सोमसिद्धान्त संस्थितैः | तथा कालामुखैर्वर्ज्या चतुर्थाश्रयसंस्थितैः || इत्येतैः स्थापितं लिङ्गं नार्चयेन्नाभिचादयेत् | सन्यस्तोस्ते समाख्यताः स्थापनादौ विगर्हिताः || एवं चले प्रतिष्ठा तु कर्तव्या द्विविधा सदा | रत्नन्यासं पृथक्पीठे स पीठे तद्विना हितं || मूर्तिमूर्ति प्रविन्यासं मूर्ताशांस्तत्व संचयं | चण्डादिकं तथा कुर्याद् द्वारादीनां पुनः शृणु || अत्रार्थ मूर्तिमूर्तीशं न्यासं कार्यं तु पूर्ववत् | अथवा तु सहश्रेण होमं कृत्वानुनापरं || अन्ते पूर्णाहुतिं दत्वा व्यक्तार्चाना तु पूर्ववत् | व्याप्ति सन्धान योगेन तत्व न्यासं तु कारयेत् || व्यक्ताव्यक्तो भयानाञ्च चण्डन्यासं तु पूर्ववत् | व्यक्ताव्यक्तात्मकं वत्स लिङ्ग स्थापनमीरितं || २५४ब्) द्वारादि स्थापनं पश्चात् कर्तव्यं लेशतः शृणु | द्वारशाखासु कर्तव्यं लिङ्गवत् पूर्वमेव हि || द्वारस्थनेर्च्चयेद्वास्तुं ततोर्द्धा दुम्बरं न्यसेत् | रत्न कुम्भमध्या? भागे तदूर्द्ध क्रमशः शृणु || हेमतार मयेर्वाथ कलशं रत्नगर्भकं | यव सिद्धार्थका क्रान्ततिलारम्ब धरोचना || सहदेवा लक्ष्मणा च तथा पारद पूरितं | ऊर्ध्वादुम्बरके स्थाप्य प्रणवेन शिवेन वा || माया तत्वं तु देहल्यां मात्मतत्वं तु विन्यसेत् | विद्या तत्वं तु शाखाभ्यां शिवज्ञान क्रियात्मकं || ऊर्द्धादुम्बरसंस्थं तु व्यापकत्वेन विन्यसेत् | न्यास होमादिकं सर्वं पूर्ववन्तु समाचरेत् || एवं द्वारप्रतिष्ठा तु कथिता ते समासतः | प्रासादस्य प्रतिष्ठा तु कर्तव्यं नासिकांतिके || मूर्ति भूतं न्यसेत् तत्र कलशं पञ्च रत्नकं | अष्टाङ्गुलन्तु कलशं हास्तिकं काञ्चनोद्भवं || मनसात्माविदिमन्त्रमेकाकारं विचिन्तयेत् | २५५अ) रेचकेन न्यसेत् तत्र कलशं चेश्वरात्मकं || शरीरं कल्पयेत् तस्य मायातत्वान्तरा वधि | अनुलोमेन तत्सनां विन्यासः सेश्वरं न्यसेत् || इडान्या नाडयो योज्याः प्राणाद्या वायरोदश | प्रागुक्तेन क्रमेणैव मूर्ति मूर्तीश्वरं न्यसेत् || होमं तु शतिकं कृत्वा प्रतितत्वे निरोधनं | निरोधनं ततः कुर्याल्लोक भृङ्ग्या? वलिंकिरेत् || वेदीबन्धं ततः कार्य कण्ठं वामल सालकं | सम्पाद्येवं प्रयत्नेन चूलकं तु निवेशयेत् || लिङ्गोक्तेन विधानेन लक्षणोद्धरणं विना | शिवतत्वं तु चूडायां कुम्भे विद्यात्मसंस्थितः || ब्रह्मणोर्द्धेन संवेश्य स्थिरत्वा पादनाय तु | मूर्तिमन्त्रं न्यसेत् तत्र ब्रह्माङ्गेन समन्वितं || एवं कृते ततः पश्चात् क्रियाद्यानं प्रकल्पयेत् | आत्मतत्वं तु जंघान्तं विद्यां विद्यान्तगोचरं || ततोर्द्धे शिवतत्वञ्च क्रमां तु त्रितयं स्मरेत् | होमं साहश्रिकं कार्यं ततोन्ते व्यापकं न्यसेत् || २५५ब्) चूडा प्रतिष्ठा कथिता समासेन मया तव | ध्वज प्रतिष्ठां वक्ष्यामि संक्षेपात् क्रौञ्च सूदनं || दण्डं जंघासमं जेष्ठं तदर्द्धात् मध्यमं गतं | कन्यसम्पादतो ज्ञेयं ध्वजं तद्वत् प्रकल्पयेत् || श्वेतं शान्तिप्रदं नित्यं रक्तं रशाप्रसाधने | पीतं तु स्तम्भने योज्यं कृष्णन्तु स्तम्भने हितं || वैणवं विहितं दण्डं समग्रन्थिकमव्रणं | खंजादि दोष रहितं मन्यं वा दृढ दारुजं || दण्डध्वजौ शिवास्त्रेण प्रोक्षितव्यो प्रयत्नतः | शिवास्त्रेण तु संपूज्यो देवस्योपरिविन्यसेत् || तूलिकायां विशेषेण वस्त्रेणाच्छादयेत् तथा | आत्मविद्या शिवं यत्नात् त्रिखण्डाद्या न्यसेत् क्रमात् || मूर्तिमूर्तीश्वराश्चैव तथा मूर्ति महेश्वराः | न्यास होमादिकं तत्र कर्तव्यमखिलन्ततः || अस्त्रमन्त्रेण कर्तव्यं नान्येन तु शिखिध्वज | आधारपङ्कज दण्डे मूर्तिभूतं ध्वजं न्यसेत् || २५६अ) नित्यं पाशुपतास्त्रेण साङ्गं वक्त्रेण षण्मुखं | ध्वजं पाशुपते नैव अघोरास्त्रेण वा न्यसेत् || पुष्पार्घगन्धदीपादीन् नैवेद्यानि विशेषतः | दद्याद्विधानतस्तस्य ध्यायेत् सूर्यायुत प्रभं || विकृतं दन्तुरं कृष्णं पिङ्गं भ्रूश्मश्रू मूर्ध्वजं | चतुर्भुजं त्रिनेत्रञ्च चन्द्रार्द्ध कृत शेखरं || सर्प्य यज्ञोपवीती च शूलासिवरदण्डिनं | देवासुराणां दृष्टानां नागानां भयसूदनं || ध्वजस्या रोहनं प्रोक्तं पुण्यं शिव फलप्रदं | ध्वजस्या रोहनं दृष्ट्वा सर्वपापक्षयो भवेत् || सर्वयज्ञ फलन्तस्य सर्वतीर्थ तपः फलं | ध्वजस्या रोहनं दृष्ट्वा सर्वपापक्षयो भवेत् || सर्वयज्ञ फलन्तस्य सर्वतीर्थ तपः फलं | ध्वजस्या रोहनं दृष्ट्वा प्राप्नुयात्नानृतं वचः || मुच्यते सर्व पापेभ्यः शिवलोके महीयते | एवं तु पार्थिवे लिङ्गे चित्रजे स्थापने हितं || २५६ब्) किंतु स्नानादिकं कृत्स्नं दर्पणे संप्रकल्पयेत् | न्यासहोमादिकं कार्यं धूपमात्रं न दोषभाक् || विद्यापीठ प्रतिष्ठा तु कर्तव्या कृतिकासुत | न्यासहोमादिकं सर्वं कर्तव्यं लिङ्गवत् सदा || एवं प्रतिष्ठिते शास्त्रे लिङ्गाच्छत गुणं फलं | अहन्यहनितच्छास्त्रं व्याख्येयं साधकादिषु || देवालयं मठष्वापि विद्यापीठस्य कल्पयेत् | इत्येतत् कथितं लेशात् स्थापनं स विशेषतः || इति कालोत्तरे महातन्त्रे स्थापनपटलः | ईश्वर उवाच || जीर्णोद्धारम्प्रवक्ष्यामि संक्षेपात् क्रमशो खिलं | जीर्णोद्धारे कृते भूयः प्राप्यते मौलिकं फलं || अजीर्णं रक्षयेद् यत्नात् जीर्णन् नैव तु धारयेत् | अजीर्णमुद्धरेद् यस्तु मोहादाज्ञानतोथवा || यवाते रौरवे घोरे महाकल्पायुषत्रयं | तस्मात् सर्व प्रयत्नेन अजीर्णं पालयेत् सदा || २५७अ) जीर्णं प्रयत्नतश्चैव उद्धृतान्यं निवेदयेत् | नृपतस्करवद्न्या?यभपादनात्र धारयेत् || न विरोधोस्ति लिङ्गानां लक्षार्द्धा ज्ञापतः शुचिः | स्थापनन्तेषु चान्यत्र कर्तव्यं पूर्ववत् क्रमात् || स्थाप्यमानं स्थितं वापि यदाव्यङ्ग प्रपूजयेत् | ब्रह्मभागं क्वचिद् विष्णुं रुद्रभागमथापि वा || लंबनं पक्षरेखा वा मस्तकं भ्रूलताथवा | क्रोडं पृष्ठं तथा पार्श्वे मूर्ध्वानमशिरे रवा || पीठं वा मेखला वाथ नालकं नालकान्तरं | अथ कूर्मशिला वाथ द्वारं प्रासादमेव वा || चूलकं कलशं वाथ भग्नं जीर्णमथापि वा | अङ्गुलमङ्गुलार्द्धं वा तदर्द्धं मासतो ददेत् || मौलिनासा मुखं कर्ण चिवुकं गण्डकुण्डले | स्कन्धवाहुप्रकोष्ठञ्च प्रवाहुकर संचयं || कटकाङ्ग दहराणि आयुधान्यासनानि च | हृद्वक्षः कटिपृष्ठञ्च जंघोरु च पदाङ्गुली || प्रभामण्डलकं तद्वत् केशादीनि प्रसादतः | २५७ब्) स्थितानां स्थापमानानां खण्डितानि यदास्तत || तत्तदोर्द्धृत्य चान्यन्तु स गुणं स्थापयेत् तथा | तत् रूपं तन्मयं चान्य स्थापयेन् नान्यथा शिवं || अपक्वात् पक्वजं स्थाप्यं पार्थिवाद्दारुजं हितं | दारुजाच्छैलजं शस्तं शैलजाल्लोहजं हितं || लोहजाद्रत्नजं शस्तं रत्नजात्मणिजं हितं | एवं ज्ञात्वा प्रयत्नेन जीर्णमुद्धृत्य योजयेत् || कान्तिहीनं तथा रत्नमग्नि पृष्ठं समुद्धरेत् | श्वपचैः सेरितं चाथ वहुकाल स पूजितं || विधिहीनं तथोद्धृत्य स गर्भन्तु विशेषतः | ईषद्व्यङ्गं तथा दग्धं मानहीनं तथोद्धरेत् || मानाषिकं स व्रणं च मानन्यूनं तथोद्धरेत् | तन्मान विस्तरेणैव परिणाहेन वास्ततः || कर्तव्य हीनं यल्लिङ्गं व्यक्ताव्यक्तो भया कृतिः | पाषण्डिभिः स्थापितं तु यतिभिर्वान सेवितं || उद्धृत्यानान्तु संस्थाप्यनाराध्यं कृतिकासूत | जीर्णञ्च दोषदुष्टञ्च लिङ्गन्भूतालयं मतं || २५८अ) तमाश्रित्य महाभूताः पिशाचा ब्रह्मराक्षसा | व्याधयश्चैव दुर्वाराज्यरापस्मारकादयः || दुर्भिक्षं च तथा मारी दुःस्वप्नं दुर्निमित्तकं | प्रजापीडा गर्भपीडा नृपपीडा द्विजातिषु || निर्घात चातस्पर्शादि भयं देशे प्रजायते | उल्कापातं प्रजायेत दिशां निर्घातमेव च || एवमादानि चान्यानि दोषाणि प्रभवन्ति च | तस्मात् सर्वप्रयत्नेन जीर्णलिङ्गं समुद्द्धरेत् || अजीर्णे चोद्धृते लिङ्गे पीठप्रासाद चूडके | मण्डपे च महासेन तदादोषः प्रजायते || तस्मत् सर्वप्रयत्नेन सुस्थितं नैव चालयेत् | दुःस्थितं पारयेन्नैव ज्ञात्वा ज्ञात्वा समुद्धरेत् || तस्योद्धारं प्रवक्ष्यामि यथा वदनुपूर्वशः | आचार्या न भोजयेत् पूर्व पायसेन घृतेन च || हेमरत्नादिकं तेषां दातव्यं वाहनादिकं | देवस्य दक्षिणे भागे कलशं तत्र पूजयेत् || तथैव स्थण्डिले पूजा कर्तव्या नित्य वर्ततः | होमं कृत्वा प्रयत्नेन वहिश्चान्त वलिंकयेत्? || २५८ब्) भागे भागेस्त्र मन्त्रेण आहुतीनां सहश्रकं | कुशैर्भ्यंगं संस्पृश्य अस्त्र मन्त्रं जपेन्पुनः || सहश्र वा तदर्द्धन्तु इत्याद्यं कृतिकासूत | * * * *? ततो देवं विसृज्यान् मूर्तिमूर्तिपान् || यथा वै ब्रह्मभागे तु हरोगै रुद्रे तथा हितं | एवं पीठे शिलाया तु द्वारङ्गेषु तथा पुनः || प्रासादे चूलके वाथ कर्तव्यं तु विसर्जनं | प्रणवे नैव सर्वेषां संहारं कारयेत् ततः || त्रिखण्डं मूर्तिमूर्तीशं शिवं साङ्गं विसर्जयेत् | तथा चण्डेश्वरं देवं व्यक्ताव्यक्तं नियामकं || हेमयुक्तं फले नैव वृषस्कन्ध गतेन तु | वन्धयेच्च?म पार्श्वेस्तु प्रोद्धृत्य च वहिर्नयेत् || शिल्पिभिस्थण्डिलं नेयं रथे पश्चात् समर्पयेत् | जले शैलं परिक्षिप्य दारुजं वह्निनां दहेत् || जले लोहं विनिक्षिप्य पुनर्वाथ विलोपयेत् | रत्नजं निहतं चैव जले क्षिप्त्वा च पार्थिव || चित्रजं तु जले क्षिप्य शिवाग्नो वाथ निर्दहेत् | २५९अ) * * * * * * * * * * * ? स्थापनावधि || पूर्वोक्तेन विधानेन पुनरन्यं निवेशयेत् | विगुणं यदि चेल्लिङ्गं तदा लिङ्गं विशोधयेत् || निगुणं यदि चेत्पीठं तथा पीठ * * * * ? | * * * *? तथैव स्यात् प्रासादे चूलके तथा || विगुणं तु परित्यज्य सगुणं रक्षयेत् तथा | पूजितव्यं सदा यत्नात् मध्ये वास्तै? महेश्वरं || अपरं सगुणं शीघ्रं संस्थाप्यं भूतिमिच्छता | प्राप्नोति परमेश्वरां जीर्णानां पालने सत || इति कालोत्तरे महातन्त्रे जीर्णोद्धारपटलं || ईश्वर उवाच || साधारणेषु लिङ्गेषु नृपः कार्या न चान्यथा | स्थापनं लिङ्गवत् तस्य क्रियाशक्तन्त गोचरं || लिङ्गात्र्यांशाच्छतं द्विगुणं चायत्? भवेत् | समसूत्रं तथा ला*? पीठं * *? समं तथा || वृषः समुच्छ्रितः कार्यः लिङ्गमस्तक मस्तकः | अर्चिवस्वण? विच्छिन्नं वृषदैर्घ्यं षडानन || तदं समंगुलं तस्य द्विगुणा तु कला भवेत् | २५९ब्) अलं उप * * * * * * *? शं तु तारकं | खण्डद्विभारं विख्यातं समस्ताल द्वयं मतं || षोडशाङ्गुल मानेन मुखन्तु वृषभस्य तु | तथा वै शृङ्गदेशे तु विस्तारं तस्य कल्पयेत् || * * * * * * * * * * * *##? सृक्षणां? *? थ मध्ये तु विस्तार षट्कल? भवेत् || * * * * *? न्तरं तस्य द्विकलं परिकल्पयेत् | दशा * * * * * * * * * * * * * *? || कपोलदेशं त्रिकलं न्यासो? नेत्रार्चता? क्रमात् | नेत्रे नेत्र समे कार्ये किन्तु तारादिके मते || तथा समेत्रिभि * स्ति नि * * * * * * *? | विस्तारमङ्गुले नैव चन्द्रलेखो यमे शुभे || शृङ्गपिण्डी कलार्द्धेन शृङ्गे नेत्र द्वयोच्छते | शृङ्गं प्रान्त * * * * * * * * * * * *? || शृजान्तरालं द्विकलं त्रिकलं पिण्डेकान्वितं | कर्णोपंचागुलोदैर्घ्यान्मुलाद्वृत्तो कलान्वितौ || पंचाङ्गुलं तु कर्णस्य मध्ये विस्तारमादिशेत् | २६०अ) परतश्च कृपौ कर्णौ कर्तव्यौ त्रियवौ घनो | नाहं तु त्रिकलं मूले ऋजु रेखा समन्वितौ || ककुत्प्रदेशं त्रिकलं वृत्तोर्द्धस्तु द्विमेखलं | अष्टनेत्रा मताग्रीवा सव्यसव्य हरो तथा || पञ्चनेत्रे ततो जंघे संधिरेखागुलेन तु | अष्टाङ्गुलोपसन्धी च गुल्फो तु त्र्यङ्गुलौ हितौ || खरो वेदाङ्गुलो शस्मे उच्छ्रायः कथ्यते पुनः | खरातफरावधिं यावत् सार्द्धं त्रिवदनोच्छ्रितं || मस्तकमष्टनेत्रं तु तथा ग्रीवा तु विस्तृता | त्रिनेत्रं ककुदो नेत्रं मूलं त्रिनेत्रं पृष्ठतो भवेत् || अष्टादशकलं पृष्ठं विस्तृतं त्रिकलं विना | ततः प्रच्छावधिं यावत् दैर्घ्या द्वेषट्कलं भवेत् || आमस्तकात् प्रच्छमूलं द्विगुणं विस्तृतं भवेत् | इत्युद् देशेन कथितं पुनरेवाच्यते मया || जंघारम्भे परीणाहं कलार्द्धं षोडशाङ्गुलं | चतुर्दशाङ्गुलं मूले संधिः पञ्चदशाङ्गुलं || ततः सप्तकलं नाहं मुपजंघा गतं भवेत् | २६०ब्) एकादशांगुलं गुल्फो पृष्ठदेशे क्रमात् शृणु || प्रच्छमूलं द्विनेत्रं तु प्रान्तो अङ्गुल विस्तृतं | प्रच्छन्तु वमराकारं प्रलम्बन्तु मुखत्रयं || पृष्ठ देशस्य विस्तारं मूलमध्यात् ततः शृणु | दशाष्ट सप्तनेत्रस्तु मूलमध्यान्त विस्तृतिः || नाहश्चतुर्गुणो मूले उदवाख्य षडानन | अप्यान्तयोस्तु त्रिगुणं परिणाहं प्रकीर्तितं || मध्यदेशे भवेन् नाभे द्विकलं कम्वलन्तथा | नाभ्यन्ते वृषणो कार्यो प्रलम्बौ द्विकलौ घमौ || दशाङ्गुला पराजंघा उपजंघाषु?रेन तु | ताभ्यां सन्धिस्तु द्वे नेत्रे गुल्फं वेदाङ्गुलं भवेत् || खुरं पञ्चाङ्गुलं सार्द्धं खुरंकाद्व्यङ्गुला भवेत् | अङ्गुनग्रतः कार्या खुरिकारचनान्विता || जंघे मूल परीणाहं द्वाविंशत्यङ्गुलसुत | तत्प्रान्तेष्टकलौ नाहो सन्धौ साङ्गुलमेव च || तिथ्यंगुलोपजंघा तु गुल्फौ विंशाङ्गुलैर्महत् | यथा शोभानुसारेण अङ्गं प्रत्यङ्गवर्तनं || एवं निष्पाद्य वृषभमधि वास्या यथा विधिः | २६१अ) राजयोगे तु संस्थाप्य मौलिकं फलमाप्नुयात् || अकालमृत्युशमनमुपसर्गेनु वाध्यते | राजा च विजयं याति वर्णानन्दन्ति नित्यशः || वृषभस्य समासेन पुत्रलक्षणमीरितं | प्रतिष्ठापञ्चकोपेतं कथितं ते समासतः || इति कालोत्तरे महातन्त्रे वृषभलक्षणपटलं || ईश्वर उवाच || अथातः सम्प्रवक्ष्यामि यथा विधानुपूर्वशः | प्रत्याहारस्तथा ध्यानं प्राणासामाथ धारणा || तर्कश्चैव समाधिश्च षडङ्गा योग उच्यते | अङ्गभ्यो न्याति रिक्तश्च योग इत्युपवर्ण्यते || उपेयस्योषलब्ध्यर्थमुपायोपाधि विर्यवान् |? अथाङ्गानि वरिष्टानि योगस्यामित तेजसः || समासतोभिधास्यामि शृणुष्वेक मनाः सुतः | स्वप्नस्वेषु प्रवृत्तानि इन्द्रियानि नियोगतः || शब्दादिष्वभिभाषेण त्वधिष्ठान वले रणात् | निषण्णानि समाकृष्य स्वेन स्वेन तु वर्त्मना || २६१ब्) मनः सूत्रेण संप्रो * प्रतिहस्त समाश्रिता | असंख्ययार्थमालेयं हृत्पद्मापदमूर्तिना || चित्तं प्रतिसत्यहृत्य दलितं सुहृदा श्रयात् | सम्यक् समाश्रयो यतः प्रत्याहारः स उच्यते || आहारः प्रोषणं प्रीतिः प्रसादः संप्रजायते | संतोषार्थ समूदां तु प्रतिपक्त्य विखण्डिता || तदा हृत्यनिरोधश्च प्रत्याहार दस उच्यते | ध्यानं न्यम न गौणेन चक्षुषा दिव्यमूर्तिना || लक्षं प्रतिचर्या प्रीति यथा याग वले रणात् | प्रज्ञावानपि सौभाग्य शक्त्या कृष्टानि वारितः || कांताशक्तापसंपात्या न निवारयितुं क्षमः | तद्ध्यानं ध्यापिनां प्रोक्तं ध्यानमार्ग फल प्रदं || प्राणो वायुरितिख्यातः स च संचारवत्मनि | चेतः * * * * * * * ? विभागेन लक्षते || तद्गते सन्निरोधायः प्राणायामः स उच्यते | सोह्यस्मिन् त्रिविधः प्रोक्तः शास्त्रे वर्णवलोत्कटे || पर्यङ्कं कमलं भद्रं स्वस्तिकं वा चलं दृढं | २६२अ) वध्वा प्रागेव विधिना यथा यस्य तु वन्धनं || कूर्म मुद्रां ततो वद्ध्वा नासाग्रमवलोक्य च | शरीरं दण्डवत् कार्यं मूर्द्धानं पृष्ठमेव च || निस्तर्वां सुदृढा गृह्यी नातिस्तर्वां? न कुञ्चितां | ग्रीवा विधारयेद् यत्नाच्छिरः कार्यं समं तदा || द्यावा पृथिव्याभिमुखो दृग्नासाग्र समाश्रितः | किञ्चिन् निमीलयेन् नेत्रे दन्तेर्दन्तान्नसंस्पृशेत् || तालुमध्यगते नैव जिह्वाग्रेण षडानन | करणं योगमार्गस्थं यथावत् परिकल्पयेत् || एवमादौ सुनिःकम्पं करणेनैव कारयेत् | संस्थितस्य यथान्याययं प्राणायामोपवर्ण्यते || पूरणात् पूरणं प्रोक्तं धारणा कुम्भकं मतं | विरेच्य नासिग्रे काण प्राणायामस्तु रेचकः || आग्नेयी वारुणी चैव ऐशानी चामृता तथा | चतश्रो धारणाः सिद्धाः कर्मभेदाद्धि षण्मुख || राह्वासिखा ह्यद्यक्षस्था कर्तव्या देशिकेन तु | रस्मिभिर्विकरं दिव्यं शूलाग्रं यैपयेच्छुभं || २६२ब्) पादांगुष्ठात् कपालान्तं रस्मिमण्डलमावृतं | तिर्यक्ताधोर्द्धभागेभ्यः प्रयाता तीव्र तेजसा || चिन्तयेत् साधकेन्द्रस्तु यावत् सर्वं षडानन | भस्मीभूतं शरीरस्थं तथैवोपसंहरेत् || अनया योगिनः पायशीतश्लेष्मादयः क्षणात् | विघ्नोप्यथं? समायाति ये चान्ये दुष्ट जातयः || धारयैत् प्रत्ययार्थं वा निर्वीजाग्नि विधावपि | शत्रोर्वासरणे दाहे श्रेयसेवत्मनः सदा || तुलासे हविर्धाने वा हौतासीं धारणां स्मरेत् | वारुणीं धारणा वक्ष्ये समासेन यथा स्थिता || शिरो वीजं वकारञ्च कण्ठे चात्रकजे स्मरेत् | ध्यायेदचिद्ध चिन्त्यात्मा पयो भूतेन वत्मना || स्फुरच्छीत्कार संस्पर्श प्रभूति हितमगामिभिः | धाराभिरखिलं विश्वमापूर्यंत विचिन्तयेत् || ब्रह्मरन्ध्राब्ज संक्षोभाद्यावदाधारमण्डलं | सुषुस्मान्तर्गतो भूत्वा संपूर्णदुकृतालयं || संलोड्यहिमसंस्पर्शस्तोयेना मृतमूर्तिना | २६३अ) क्षुत्पिपासाक्लमप्रायः मन्तापपरिपीडितः || धारयेद्धारणां मन्त्री पुष्ट्यर्थं वाप्यतंद्रिवत् | ईशानी संप्रवक्ष्यामि संक्षेपाद्धारणांसुत || व्योम्नि ब्रह्ममये पद्मे प्राणापानक्षयं गते | प्रसादं चिन्तयेत् तत्र यावद्धृद्वीक्षयं गता || महाभावन्ततो जायेत् सर्वव्यापकवत्मकं | अर्द्धतं परमं शान्तं निराभासं निरञ्जनं || असत्यं सत्यमाभाति तावत् सर्वं चराचरं | यावत्सुस्पन्द रूपन्तु न दृष्टं गुरुवक्त्रतः || दृष्टे तस्मिन् परे तत्वेन्सुसद्रूपं चराचरं | प्रमातृमानामेयञ्च ध्यान हृत् परिकल्पनं || मातृसोदकवत्सस्वं? जपहोमार्चनादिकं | ऐशानीधारणा सम्यक् कथिता ते समासतः || अमृताख्या क्रमाद्ध्याये धारणाममृतोपमा | संपूर्णेन्दु निभं ध्यायेत् कमलं तु त्रिमुष्णिगं || खस्थं तु चिन्तयेद् यत्नाच्छशाङ्कायुतं वर्चसं | पूर्णमण्डलकं व्योम्नि शिवकल्लोल घूर्मितं || २६३ब्) तथा हृत्कमलै ध्यायेत् तत् मध्ये स्वंतनुं स्मरेत् | पूरिता विमतक्लेशो जायते साधकोत्तमः || चतस्रो धारणाः प्रोक्ता योगिन्ये भासतः सदा | लब्धभूमेर्विरक्तस्य तज्जयो जायते सुत || उहोनाम वितर्कोक्तिः प्रविचारेणात्मिका | उहोवितर्कः कथित ऊह्ये लक्षणमुच्यते || यदृद्धित्वमविद्यामाविषवहयेत् सदा | अद्वैतं परमं शान्तं न्यायकं विश्वरूपकं || अमृतं परमं प्रोक्तं वितर्का देव लभ्यते | न देवादर्चितं कर्तु ततो ब्रह्म अवाप्यते || आपूरवादनुमतं सिद्धान्तेस्मिन् षडानन | अत्रो दाहरणं प्रोक्तमाग्नेये शास्त्रसंज्ञके || वाथुलाख्ये महासेन तद्वक्ष्यामि तवाधुना | आस्ते यथार्थमिति नैव षयोव कीर्णस्तत्वं || रसोपि चलितं खलुलोमजालं लोमापि नैव मनवोनतदिच्छमेतन्नृनं शिवः कचकचायति एवमेवं || २६४अ) हार्द्धं भगवान वयवाः किमुकिंत्वशेषालोमानि किन्नुकिमुशुक्रमथो क्रियार्थ किम्वा क्रिया प्रसर एष विविक्त विश्वः || संज्ञा विचित्र रचना त्वमिहासि कस्मात् | इति सूत्रद्वये सम्यक् वितर्कः कथितो मया || इति कालोत्तरे महातन्त्रे योगपटलं || ईश्वर उवाच || अथातः सम्प्रवक्ष्यामि भूतानां रूपवर्णनं | दीपार्णवगिरिप्राया पृथिवी साधि देवता || ध्यातव्या योगसिद्ध्यर्थं हेमाभा ब्रह्मदेवता | देहतत्व समापन्ना तस्या मारोर्प्य वै मनः || कूर्माङ्गानीव संकोच्य तल्लयस्तत्परायणः | रूपमभ्यसतस्तस्य पार्थिवं यत्स्वकं व्रजेत् || व्यक्तिव्यक्ति मायात्य संदेहात्सापि दैवतयान्वितं | पीतां वा गन्ध तन्मात्र गुणे समवेष्टितं || व्यक्तिमायातितं प्रीत्या योगेनात्ममुखी कृता | योगिनी लब्द वीर्यस्य पंचोद् घात प्रयोगतः || २६४ब्) पार्थिवं तत्व देवं तु स यदाप्यभ्यमेत्तदा | तत्राप्याद्यो? विधिरयं किन्तु तच्छे तमभ्यसेत् || रसतन्मात्र संयुक्तमर्द्धचन्द्राब्जलांछितं | द्रावयत्यध्युङ्गमैः? त्रैलोक्यं स चराचरं || निर्जित्याभो विशेदग्नो यज्जयाज्ज्वलति क्षणात् | रूपाणा रूपितां यान्ति यान्ता रूपाणि रूपितां || तदिच्छावसवतीनि विचित्राणात् कटानि च | जित्वाग्निम्व्रजते चोर्द्धं वायुः स्वनैव तेजया || प्रभूत वलवीर्येण चलदण्डेन साधुना | तन्मनस्यास्यदैर्युक्तं निर्विकल्पेन चेतसा || अनानात्वं गुणोपेतं निरुद्घातेन जायते | तत्कुलैर्यज्जगत्सर्वं सहरेल्लीलयै वसः || व्योम्नि चित्तं समारोप्य यदि सम्यग्विलीयते | व्योमरूपन्तदा योगी जगद् यस्मिन् विचेतसा? || २६५अ) अथोद्घात विधानेन ग्रन्थयो भेद्य यत्नतः | तदा सु विश्वरूपं तु लभ्यते नान्यथा सुत || उर्ध्वेघात यतिव्यक्तमुद्घातस्तेन कथ्यते | उद्घाटनार्सग्रन्थीइनां मूङ्गता परिभाव्यते || योगयुक्तस्तु कर्माणि सर्वाण्येवं करोति हि | तज्जयोजितवीर्येण समभ्यस्य मुहुर्मुहुः || येनात्म वसगे नासौ प्राप्नोति फलमीप्सितं | इति कालोत्तरे महातन्त्रे उद्घाटोद्देशपटलं || ईश्वर उवाच || तदिदानी समासेन जपलक्षणमुच्यते | जपन्तु त्रिविधं कुर्यादक्षसूत्रं करार्पितः || वाचकं क्षुद्रकर्मेषु उपाशुक्ष सिद्धिकर्मणि | मानसं भुक्तमुक्त्यर्थं सर्वकालं तु कारयेत् || अक्षसूत्रं शुभं ग्राह्यं स्वकरेणाथ कल्पयेत् | जपं समारभेत्पश्चाददृश्यमितरैर्ज्जनैः || करणं वाङ्मनश्चैव मन्त्रेण परमात्मना | २६५ब्) चेतसो यदुपारूढं जप्तषं? तच्च भाग्भवेत् || यस्तुयुक्तं तु चेतन्यं वा यथातीत षण्मुख | समारुहेत्कर्म पदे विकारत्वे शनैशनैः || एवं हि वर्तते मन्त्री यन्मन्त्रं तज्जपं शिवं | ब्रह्माद्यं जानुपर्यन्तं पुनरत्रैव सन्धयेत् || व्यापकं यत्परं ब्रह्म शक्तिः षेवी पराहिसा | सा एव परिणामेन तु साखां भवते परं || तुर्यं शुशुप्ततामेति सुसुप्तस्वप्नतां व्रजेत् | जाग्रत्वं स्वप्नमायाति एवं जाग्रदितः पुनः || भगवन् शक्तिपर्यन्तं स * * * * * * ? | वाच्यं च वाचकं चैव शक्तिरात्मा मनस्तथा || कृत्वैव मन्त्रसन्धानं प्रारभेत जपं पुनः | हृत्पुण्डरीकमध्यस्थं सा रूपं परमेश्वरं || निर्मलं स्फटिक प्रख्यं प्रस्फुरन्तं स्वतेजसं | तस्य शब्दमयी शक्तिर्ज्वाले चनिसृता महत् || तद्धर्मधर्मिणी शुद्धात् तस्माद् वै वर्णिसंतति | २६६अ) निःसृता मन्त्रजननी तदग्राच्चैव मन्त्रराट् || निःसृतं च यथा पुष्पं लता ग्राच्छङ्कर प्रियं | एवमेवाक्ष सूत्रञ्च तदितं चक्रवत् संस्मरेत् || हृन्मयं तल्लयं कुर्या हृन्मयस्य च तत्तथा | एकस्य मन्त्रनाथस्य अन्तव्रीह्यार्च्चितस्तथा || यदैक्षात्तज्जपं ख्यातं लक्षसंख्याभिदं भवेत् | विषुवंद्योगमाश्रित्य अक्षयत्वं समाहरेत् || महाप्राणो दयेनैव निष्ठाङ्कं याददेव हि | ततः प्रदक्षिणं कुर्यात् मेरु मूर्द्ध्नि स्थितस्य च || ग्रन्थि रूपस्य च विभोरमलस्य महात्मनः | पृष्ठेन लंघनं यत्नाद् वर्जनीयं षडानन || शान्तिके स्फटिकाभं तु तथाध्येयश्च पौष्टिके | वस्ये किं सृकापुष्पाभमाकृष्टो नृपशैलवत् || मारणेकज्जलाभं तु विद्वेषे चाथ पक्षभं | उच्चाटने तु धूम्राभं शिवं ध्यायेज्जपेत् सदा || परापरस्य रूपेण जपस्तु त्रिविधः स्मृतः | २६६ब्) स्थानाष्टकेन निर्वर्त्यं शब्दं आभास्य ईष्यते || सगर्भा वाथ निर्गर्भा भाग्य यज्ञः प्रकाशितः | स गर्भ ध्यान सहितं निर्गर्भं ध्यानवर्जितं || निर्गर्भं तु स गर्भे च फलं शतं गुणं भवेत् | आरुरुक्षौ प्रकर्तव्यं सर्वसिद्धिषुसिद्धिदं || शाक्तं चलं समाश्रित्य उपांशु जपमारभेत् | द्विविधाशक्ति रुद्धिष्टा सूर्यसोम मयासुत || हृदयान्त त्रिषुष्ठान्तं चरते पक्षवर्तिनी | दिने सूर्योदये प्राणे जप्तव्यं मुक्तिकाक्षिणं || चन्द्रोदये निशायां तु जप्तव्यं भुक्तिमिच्छता | गमागमौ तु विज्ञाय जपः कार्यो न चान्यथा || सौसुसृस्थेन मरुता जपः सर्वार्थसिद्धिदः | भास्करे स्तमिते व्योम्नि चन्द्राशुर्नोदितो यदा || चित्मात्रं तत्पदं ज्ञेयं त्यागग्रहणवर्जितं | सर्वप्रमाण रह्तिअं संज्ञासन्तामयं विदुः || एतत् कालोत्तरं ज्ञानं कथितं ते समासतः | २६७अ) तथा हृत्कमले ज्ञानं सत्तामात्रं प्रजायते || एतद्रहस्यं परमं नाख्येयं यस्य कस्यचित् | गुरुवक्त्रो पदेशस्थं ज्ञानं चैतत् सुदुर्ल्लभं || परिपक्व कषायेषु दातव्यं नान्यथासुत | इडाहोरात्रचारस्थो यदा प्राणवहो भवेत् || तत्र तत्स्पर्शमासाद्यभौक्तिकेस्तु जपेत् सदा | भुक्तिमुक्तिस्तु कामान्यं जप यज्ञास्तु शाङ्करि || पिङ्गला संस्थिते जीवे मुक्तिकामैर्जपेत् तदा | सुषुम्नान्तरसंस्थेन जप्तव्यं भुक्तिमुक्तये || इडा तु शान्तिके शस्ता पौष्टिका घायने तथा | पिङ्गला चैव संग्रामे भोजने मैथुने पुनः || सुषुम्ना सर्वकार्येषु विज्ञेया कृतिकासुत | स गर्भं तु जपेत्मन्त्री नाम ज्ञात्वा तु कारयेत् || व्याप्तिं चात्र प्रवक्ष्यामि संक्षेपात् क्रौञ्च सुदन | अग्निमध्ये रविस्थानं रविमध्ये तु चन्द्रमाः || मुष्टि त्रयाच्च दहने सूर्यशक्तिलयं व्रजेत् | २६७ब्) रविस्थानं हृत्प्रदेशं तत्र सोमेलयंगतः || तत्वानामं कुराकारा चान्द्रीशक्तिरुदाहृता | एवं ज्ञात्वा प्रयत्नेन जपकार्यो विजानता || धारणा वाथ स्मर्तव्या सिद्ध्यर्थं वाध्व साधने | एवं मत्वा जपेद् यस्तु सुसिद्ध फलभाग् भवेत् || अप्रकाश्यमिदं वत्स गोप्तव्यं प्राणवत् सदा | नाशिष्याय प्रदातव्यं नाभक्ताय कदाचन || इत्येतत् स विशेषेण जपस्तु स्त्रिविधः स्मृतः | परदेह प्रवेशञ्च तत्वानां पूरणात् सुत || सिद्ध्यर्थं क्रूरकर्माणां जपोज्योतिर्मयः स्मृतः | तत्रान्तः क्षीरममलं शब्दं तु परिभावयेत् || भुक्तिमुक्ति प्रसिद्ध्यर्थं दोषदुःखक्षयंकरं | शान्तौ तु सर्वकार्याणा सिद्ध्यर्थमविचारतः || सुखसौभाग्यं सिद्धार्थ तथा ध्यायन कर्मणि | जपं भवति शब्दाख्यं तत्रातस्थं तु भावयेत् || निशांबुकणसंकाशं मुक्त्वा शात्मकं सर्वगं | २६८अ) हृत्पद्मां तु स्वमन्त्रेण भावयेच्छब्दमुच्छ्रितं || नित्योदिते शतेनैव प्रयत्नेन रहितेन तु | प्राणापानपदस्थेन भावना मिश्रितेन च || जपमानस्तु वै मन्त्रं सर्वकामफलप्रदं | अथवा यत्नजनितुंशब्दं मुक्त्वाथ षण्मुख || केवलन्तु स्वमन्त्रेण तद्वलक्षा तु पूर्ववत् | अक्षराक्षरसंतानं न ह्रुतं न विलम्वितं || चित्तविक्षे परहितं सत्प्रकृष्टं तयान्वितं | पूर्वाह्ने मध्यभागे च अपराह्ने दिनस्य तु || क्रमान्तु साधकादीनां चैलात्र समुदाहृतं | एवं स्नानार्चनं होमं रात्रौ यत्नेन वर्जयेत् || मारणोच्चाटने पूजा? विद्वेषे तु सा हिता | ध्यान वै सर्वकालं तु कर्तव्यं सर्वसद्विवं || मानसं तु जपं तद्वत् कर्तव्यमविसंकितैः | इति कालोत्तरे महातन्त्रे जपपटलं || ईश्वर उवाच || ब्रह्माण्डस्य प्रमाणं तु संक्षेपेणोच्यते मया | २६८ब्) कदम्बगोलकाकारं विस्तारोच्छ्रायतः समं || शतकोटिमितं विद्धि त्रिगुणं परिणाहतः | कटाहं पिडनाकोटिः कालरुद्र गृहं तथा || दशकोटिमितौ धूम्रः पञ्चकोटितमस्ततः | द्वात्रिंशत नरकास्तत्र उपर्युपरिसंस्थिता || नवनवति लक्षाणि प्रत्येकस्याच्छ्रितिर्मिताः | प्रत्येकस्यान्तरालन्तु लक्षमात्रं शिखिध्वज || नरकाः सान्तरालाश्च द्वात्रिंशत्कोटयो मता | नवनवति लक्षाणि कूष्माण्ड भुवनोच्छ्रितः || पाताल सप्तकं तस्मात् उच्छ्रायं तत्र कथ्यते | योजनानां सहस्राणि प्रत्येकं रन्धसंख्यया || अनन्तरालसहस्रैकं प्रत्येकस्य षडानन | त्रिःशतसहस्रैरुच्छ्रायो भूवर्मणि षडानन || आकटाहं तु भूपृष्टं पञ्चाशत्कोटि रुच्छृतं | कटाहं कालरुद्रश्च धूमश्चैव तमस्तथा || नरकासान्तरालाश्च कूष्माण्ड भुवनन्तथा | २६९अ) पाताल सप्तकं चैव भूवर्मावधि गोचरं || शतकोट्यर्द्धमानेन उच्छ्रितङ्कथितं मया | कटाहंकाल रुद्रश्च स्वर्लोकाच्चमहल्लोकं यावत् कोटिमुपस्थितं || पञ्चासीतिस्तु लक्षाणि तत्राध्वा कलितं भवेत् | अष्टकोटि जनाख्यन्तु तयो द्वादशकोटयः || विकारकोटि सत्यं तु श्रीकण्ठं दशकोटयः | कटाहोर्द्धस्य घनता संस्थिता कोटिमानतः || परतो ब्रह्माण्डं तु पञ्चासत् कोटिरुच्छ्रितं | कालाग्नितोण्ड पर्यन्तं शतकोटि समुच्छ्रितः || भूपृष्ठाद्ब्रह्मण्डोण्डस्य विस्तारः कथते पुनः | मेरुर्भूमध्यमो ज्ञेयः शतसहस्रमुर्च्छितः || विकारै संप्रविष्टं तु चतुरासीतिरुच्छ्रितं | पण्डिन्दु योजनानां तु सहस्रैर्मूलविस्तृतं || ऊर्द्धतो द्विगुणं विद्धि त्रिशृङ्गो वर्तुला कृतिः | इलावृतप्रदेशं तु तुर्याश्रमेरुतः स्थितं || योजनानां सहस्राणि नवसंख्या क्रमेण तु | २६९ब्) सहस्र विस्तृतं सर्वमालावान् मेरुतः स्थितं || रुद्रश्चैवाश्च वर्षश्च द्वित्रिसाहस्र विस्तृतो | मालावान् चतुरासीति पंक्तिभिश्च विनाद्वयोः || योजनानां सहस्रैस्तु विस्तारः पादमूर्छित | मेरोः पश्चिमदिग्विभागे सहस्रं गन्धमादनं || केतुश्च केतुमालाश्च द्वित्रिसाहस्र विस्तृतौ | यथा पूर्वनशानां तु दैर्घ्याच्छ्रायश्च विस्तृतिः || तथा पश्चिमनगानां तु वामदक्षगेष्वपि | एवञ्च पश्चिमस्यान्तु मेरोदक्षिणतोच्यते || योजनानां सहस्राणि नवसंख्या इलावृतं | ततस्तु निषधं ज्ञेयं पर्वतं नामनामतः || हरिवर्षन्ततः पश्चात् सहस्र नवसंस्थितं | द्विसहस्रं हेमकूटं कथितं विस्तृतं मया || योजनानां सहस्राङ्कि ततः किं पुरुषात्मकं | ततस्तु हिमवान्नाम द्विसहस्रन्तु विस्तृतं || योजनानां सहस्रं तु नवसंख्या व्यवस्थिता | २७०अ) भारतं नाम वर्षन्तु नवखण्डसमन्वितं || धन्वाकारं नवं द्वीपं नवसागरसंयुतं | स्थलं पञ्चशतान्यर्द्ध जलं पञ्चशतानि तु || हिमवत् सानु देशे तु नाम्ना विन्दुःसरः स्थितं? | गुणाकारं कुमारी तु इन्द्रधन्वा कृतिः स्थितं || इन्द्रकसेरुताम्रञ्च गभस्तिमार्ग्य सौम्यकः | गन्धर्व वरुणश्चैव कुमारी नवमं मतं || कुमारी हिमवत् मानौ संस्थितं प्रथमंवरं | पर्वता सप्तवैत कुमारी द्वीपसङ्गताः || महेन्द्रो मलयः सह्य सुक्तिमान्दक्ष पर्वतः | विन्ध्यऽऽच पारियातश्च प्रधानाः सप्तपर्वताः || यथा कुमारी तद्वच्च जलं पञ्चशतानि च | क्षारद्वीपा तु प्रविष्टन्तु विज्ञेयं सागरात्मकं || कुमार्या मलयद्वीपं वराहाद्यास्ततः परं | कुमुदः स्वाखवलयवागौप्रान्तसङ्गतौ || मलयं मलय द्वीपे त्रिकूटं वा परिस्थितं | त्रिकूटपाद देशै वै लंका राक्षसालयं || २७०ब्) उत्तरस्यां पुनर्मेरोः पूर्ववच्च इलावृतः | नीलं तु पर्वतन्तत्र रम्यंसानु नवात्मकं || द्विसहस्रमतं श्वेतं हिरण्यं नवसंख्यया | योजनानां सहौश्राणि शृङ्गवान् परतः स्थितः || कुरुवर्षन्ततः पश्चात् श्वेतवत् परिमानतः | एवं वै चोत्तर कुरुमेरोर्यत्नेन कीर्तितः || लवणोदधिमध्ये तु संस्थितादश पर्वताः | द्व्यधिकास्तु महासेन पूर्वतः कथयामिते || ऋषयोदुन्दुभिर्द्धूम्रः पूर्वभागत्रयः स्मृताः | चन्द्रश्च कङ्कप्राणश्च उत्तरस्यांदिशि त्रयः || अशोकश्च वराहश्च पश्चिमस्यां स्वनन्दनः | चक्रमैनाकवलिहं दक्षिणस्यां त्रयोदिशि || चक्रमैनाकयोर्मध्ये संस्थितो वडवानलः | लक्षयोजनमानं तु जम्वूषडं प्रकाशितं || जम्वूशाकः कुशः क्रौञ्चः शालालिश्चेति सुव्रतः | गोमेदः पुष्कराहुश्च सप्तद्वीपगणो मतः || एकं द्विश्च चतुश्चाष्टौ षोडशद्विगुणानि च | २७१अ) चतुःषष्टिस्तु लक्षाणि प्रमाणे नोभव स्थितः || क्षारः क्षीरदधिः सर्पि इक्षुश्च मदिरस्तथा | स्वादूदः सप्तमस्तत्र समुद्रः प्रातसंस्थितः || द्वीपवच्च समुद्राणां विस्तारं कल्पयेत् सुधीः | सौवर्णा परतो भूमि दशकोटिमिता स्थिताः || दशयोजनसहस्रं लोकालोकं तु विस्तृतं | कोटि योजनं मानं तु गर्भादश्च समुद्रराट् || सप्ताविंशच्च लक्षाणि वृत्तत्वे समवस्थितं | ततोर्द्धत्ततमो ज्ञेयं पञ्चत्रिंशं तु कोटयः || प्रमाणेन महासेन लक्षणो कोन विंशतिः | कटाहस्य तु वाहुल्यं कोटियोजनसंमितं || इत्येतत् स रहस्यं तु प्रमाणं ते प्रकाशितं | ब्रह्माण्डस्य समासेन किं भूयपरिपृच्छंसि || इति कालोत्तरे महातन्त्रे ब्रह्माण्डनर्तनन्नामपटलः || ईश्वर उवाच || अप्तत्वादि प्रमाणं तु पुनरेवोच्यते मया | धरा तत्वाब्दशगुणं वारुणं तत्वमीरितं || २७१ब्) ततो दशगुणा वृद्धि यावत् तत्वे कलात्मके | कालशतगुणं तस्मात् सहश्रगुणितं ततः || मायातत्वं महासेन विद्यालक्षगुणानि ततः | ऐश्वरं कोटिगुणितं स कालमर्वुदावुदं || अब्दसंख्या वुदानां तु शक्तितत्वं शिखिध्वज | असंख्यं शिवतत्वं तु निर्गुणं निःक्रियात्मकं || निरोपम्य निराभासं प्रमाणातीत गोचरं | संविक्षयात्मकं विद्धि क्रियाकालविवर्जितं || नासन्नसन्नसदशन्ना किञ्चित्किचिदेवता | नास्ति तथास्ति यच्चास्ति तदस्ति परमार्थतः || यन्नतन्तु मसीरूपमरूपं सर्वगं विभुं | नेदं नेदेति वक्तव्यं परिशिष्टं सदाच्युतं || आपूरं वादंनोविद्धि सिद्धान्तेस्मिन् महातप | वेदवादो पदेशेन परतत्वं प्रकास्यते || न पूजा न तथा स्नानं न जपं न च धारणा | न ध्यानं कारणं नैव मुद्रावन्धं न चैव हि || प्रोदतत्वस्य पुरतो विज्ञेयं कृतिकासुत | तदानानि च यज्ञानि न व्रतानि तथां शिवा || २७२अ) मातृमोदक वज्ञेयं ज्ञान तत्वस्य चाग्रतः | यथा रहित फलं वत्स वर्णितुं नैव शकृते || तद्वदानक्ष सद्भावं वाचावा *? न शक्षते | नष्ट प्राप्तस्य * * * * * * * * * * * ? || अन्याप्त बन्धुवर्गस्य वर्शनानुद्भवोङ्गमः | न चापि स्फुरते वक्तुं वागीशस्यापि तत्वतः || एवं वै शिवतत्व तु वर्णितं चैव धार्यते? | यथात्व लंवेयं नव करिणं गृह्यते मुदा ||? पादं कैश्चिद्गृहीतं तु कैश्चित् पुच्छं समाहृतं | हस्ता तु कैश्चित् तथादन्तात् कर्णपृष्ठे ग्रहा परैः || एकैकावयवं तेषा दंतिनं पीषु वर्तते | नैकावयवदन्ती तथा तत्वं विनिर्दिशेत् || सर्वावयव संयुक्तं सर्वावयववर्जितं | अरूपं निगुणं शान्तं स्वरूपं सकलं शिवं || यथा तु पानकादीना विचित्रा तु चमत्तकृतिः | मयूराण्डरसस्वन संस्थितं सकले ध्वनि || तथा सर्वेषु भावेषु संस्थितं तिलतैलवत् | २७२ब्) छाया जय? विभागेन सकला कलना मता | अविभागेन सर्वत्र संस्थितं तिलतैलवत् || तिलन्तु सकलं विद्धि निष्कलं तैलमीरितं | आधाराधेय भावन्तु न कल्पं वा शिवस्य तु || सर्वस्या धार भूतन्तु? * *? यं परमं शिवं | एवमादि स्वकारैस्तु विज्ञेयं परमं मतं || एत्येतत् स रहस्यं तु नाख्येयं यस्य कस्यचित् | * * * * * * * * * * * * * * * *? || * * * * * * * * * * * *##? ईश्वर उवाच || व्रतग्रहण काले तु व्रतमोक्षवि *? तथा | उत्तमा *? म सिद्धीनां प्रारम्भे * * * * *##? * * * * * * *? नं विशेषेण फल प्रदं | कर्मसिद्धिं समाप्नोति विशेषाद्या *? मारबेत् || प्रागुक्तमण्डलानां तु मध्यादेकं विवर्तयेत् | महा * *? प्रकर्तव्यं सहश्रा * * *? न तु || दधिक्षीराज्यमधु तथा गन्धोदकेन तु | काश्मीर चन्दने नैव कर्पूरेण विलेपनं || * * * *? शिवं पूज्य नैवेद्यं पुरतो वदेत् | २७३अ) खण्डक्षीराज्य संयुक्तं क्षीरपान समन्वितं | दीपमाला तु पुरतो महावर्ति समन्विता || दातव्या तु प्रयत्नेन जपं द्विगुणमाचरेत् | यथा शक्त्या च होमन्तु कर्तव्यं वाजपान्तगं || आचार्या सायकाद्या च तथान्ये शिवदीक्षिताः | पूजनीयाः प्रयत्नेन वित्तशाठ्यं विना सुत || वित्तसाठ्यात् महासेन व्रतभङ्गो हि जायते | तस्मात् सर्व प्रयत्नेन वित्तशाठ्यं विवर्जयेत् || पश्चाद् व्रतादिकं सर्वं शिवाय विनिवेदयेत् | दिव्यस्य जानुनी भूमौ पुष्पं संगृह्य हस्तयोः || स्वमन्त्र मनसा कृत्वा शिवहस्ते समर्पयेत् | भोगार्थी भोगसिद्ध्यर्थं मोक्षार्थी मोक्ष सिद्धये || सव्येन पाणिना सव्ये शकृत् स्मृत्वा समर्पयेत् | पुष्पांजलिं क्षिपेत् नमस्कृत्वा च दण्डवत् || अन्नदानं ततः कार्यं शिवभक्तेषु सर्वदा | कोधलोभादिक त्यक्त्या सर्वसिद्धार्थता भवेत् || एवं समासतः प्रोक्तं व्रतस्य च समर्पणं | २७३ब्) सिद्धीनां साधने वत्स विधानमिदमुत्तमं || अर्घदानं प्रकर्तव्यं सेचनं विधिनासुत | आज्ञां गृहीत्वा तत्वेन ततः सिद्ध्यर्हता भवेत् || परं तत्वमविज्ञाय यस्तु दीक्षां करोति च | आचार्यः सहशिप्येस्तु रौरवे पच्यते सुत || अतस्तत्वं तु विज्ञेयं पारंपर्य क्रमेण तु | आज्ञा गृहीत्वा परतौ भूतशेषं षडानन || मन्त्रस्य वोदयं कृत्वा लयं मन्त्रस्य सुव्रत | शिवशक्त्यारभेदं च तदा सिद्धिः करे स्थिता || स्वयं गृहीत मन्त्राश्च न सिद्ध्यन्ति कदाचन | गुरुहा पितृहा वाथ मातृहा सिद्ध्यति क्वचित् || स्वयं गृहीतमन्त्राश्च न सिद्ध्यन्ति षडानन | एवं ज्ञात्वा प्रयत्नेन पारंपर्यं शिवप्रदं || पारंपर्य विहीनाये ते गृहीना सर्वकर्मसु | सोमसूर्याग्नि रूपेण एकाशक्तिस्त्रिधा स्थिता || इडापिङ्गा सुषुम्ना च सोमसूर्याग्नि वर्चसा | ब्रह्माविष्णुश्च रुद्रश्च आत्मविद्या शिवात्मकं || २७४अ) वादकं तु समाश्रित्य स्फुटं वाक्यं प्रजायते | अपरं वाचकं रूपं परं वाच्यं प्रवर्तितं || मन्त्रात् मनसा योज्य शक्ति तत्वो षडानन | यतो वै मन्त्रपातां तु शिवभक्तः शिवेन तु || चित्साब्द? मन्दिरे स्थित्वा हानादान विवर्जिते | भावाभाव विनिर्मुक्ते ध्यानध्येय विवर्जिते || एतन्त परमं ज्ञानं रहस्यन्ते प्रकाशितं | इति कालोत्तरे महातंत्रे मन्त्रार्पणपटलः || ईश्वर उवाच || सिद्धिकामेन विधिना कार्यः क्षेत्र परिग्रहः | पुष्पोदक युतं शस्त दुष्टप्राणि विवर्जितं || सद्रूमोदकसंकीर्णमेकलिङ्गं विशेषतः | वाणलिङ्ग स्वयंभुं वा किन्नराप्सर सेचितं || नामदैत्याश्रितं वाथ महानृप सदार्च्चिते | द्वैतलिङ्गं सदाशस्तं शास्त्रेस्मिन् पारमेश्वरे || द्वैतनाद्वैतलिङ्गं तु पूजयेत् सिद्ध हेतुना | नाद्वैतद्वैतमंत्रन्तु पूजितं फलदं क्वचित् || २७४ब्) तस्मात् सर्व प्रयत्नेन द्वैतद्वैतं शिव प्रदं | अद्वैते तु निराचारे अद्वैतं फलदं भवेत् || मातृस्थाने स वृषभे वहुलिङ्ग नरासृते | वहुसाधकसंयुक्ते क्षेत्रपाला विकीलिते || गीत नृत्य समायुक्ते दुष्टनारी समाकुले | योगिनी सेविते क्षेत्रे न सिद्धिर्जायते क्वचित् || दक्षिणोत्तर दिग्द्वारे वर्जयेत् सिद्धिसाधन | भुजिवं? पश्चिमं द्वारं मुक्तिदं पश्चिमंसुत || विद्वेशोच्चाटने शस्तं दक्षिणामुत्तरं तथा | जये महेन्द्रे सूर्ये वा पूर्वात्मकं हितं || पश्चिमं कारयेद् द्वारं पुष्पदन्ते प्रचेतसि | भृङ्गगं दक्षिणद्वारं सोमममुत्तरेहितं || चतुर्मुखैक वक्त्रं वा द्विमुखं त्रिमुखंविना | पञ्चाननैक वक्षं तु सिद्धागारं समाहरेत् || दक्षाः प्रगल्भा निगुणाः शास्त्रज्ञाः सिद्धि तत्पराः | धीराः सत्यव्रताः शुद्धा दशादाक्षिण्यसंयुताः || सहायाः सर्वदा कार्याः सप्तपञ्चत्रयोथ वा | २७५अ) नासहायेन कर्तव्यं साधनं मध्यमोत्तमं || खादिराः संकवोष्टौ तु दिग्विदिक्षु विरेचयेत् | जप्तपाशुपास्त्रेण स्पष्टेन निखनेत् सुधीः || ततः पूजा प्रकर्तव्या होमं चैव विशेषतः | वलिं तथान्यतो तद्यात् लोक भूद्भ्यो? यथा क्रमं || क्षेत्रपाल त्रयस्यापि राक्षस्यां दिशि पूजनं | मातृकानु क्रमेनैव षद्वाद्यं क्षेत्रवर्णकं || तेन तत्र समं पूज्यं तद्वर्गेश्वरमेव च | अनन्तमाद्रमिन्दुश्च ईश्वर उग्र ऊषरः || ऋद्धि ऋशो ऌ? गु ॡ? कौ एकास्या ऐरढिस्तथा | उजौ * षध अम्बुश्च अस्कारः परमेश्वरः || करङ्कं खगसंज्ञश्च गलामर्घरमेव च | उडुश्चण्डीच्छटी चैव जटी ऋ ॠ रमेव च || काकाटकीठ संज्ञश्च डामरोढट्टनन्दनः | नागस्थ * च्छस्थटी दक्षो धनदो नन्दिवर्द्धनः || पंकवृकफलफलाश्च वलभस्मीमरप्रियः | यक्षौरोगालयांतश्च वर्वर शक्तिसंज्ञकः || २७५ब्) मठसंकर्पणोहंसः कृपणःश्चांतिमः स्मृतः | अवर्गेनन्तसंज्ञं तु पूर्वस्यांदिशि संस्थितं || एवं कवर्णे सूक्ष्मश्च आग्नेययां दिशि संस्थितं | च वर्गादि क्रमेणैव संस्थिता शिवोत्तमाः || नामभ्रष्टान्तथा ज्ञेयाः प्रयत्नाच्च चतुर्दश | एकलिङ्गे महादेव श्मशाने भृङ्गिनायकं || नदी तटे महासेन संगमे नन्दिकेश्वरं | गवांगोष्ठ महाकालं ब्रह्माणं तु चतुष्पथि || एकवृक्षे स्थितो दण्डा निधि स्थाने विनायकं | मातृस्थाने पिङ्गलञ्च जम्भलञ्च रसाश्रये || संग्रामे वीरभद्रन्तु पर्वते वृषभ स्थितं | कामदेवो वने पूज्य रति प्रीति समन्वितः || आरामै तु वसंताख्यो दण्डहस्तो महावलः | दधिक्षीराज्य खण्डेन क्षीरेणैव प्रतर्पयेत् || शुक्लपुष्पशुभै दूपै प्राणाङ्गरहितैः सुतः | प्रणवाद्यं नमोन्ते च संज्ञाशब्दैर्वेनादिके? || २७६अ) स्वाहा होमे प्रकर्तव्यं क्षेत्रेशानां षडानन | इति ते स रहस्यं तु क्षेत्रग्रहणमीरितं || इति कालोत्तरे महातन्त्रे क्षेत्रग्रहणपटलं || ईश्वर उवाच || अतः परं प्रवक्ष्यामि सिद्धयस्त्रिविधाः क्रमात् | उत्तमा ह्यणिमाद्याश्च मध्यमोक्षे चरादपः || अधमाः सिद्धयः प्रोक्ताः वस्याद्याः समनास्तिकाः | दक्षिणां मूर्तिमाश्रित्य लक्षं पाशुपतं जपेत् || होमं दशांशतः कृत्य सर्वसिद्ध्यरुहो भवेत् | विघ्नप्रोत्सारणे कल्पः साधको नान्यथा क्षमः || दिग्विदिक्षु स्वमन्त्रीण षडावर्ते न षण्मुख | साष्टेन क्षीरवृक्षोक्तां कीलकान् निखनेत् सुधी || पूर्वादि क्रमयोगेन यावदीशान्त गोचरं | यावत् पर्यटते मन्त्री तावदिक्षु प्रकीलयेत् || एवं कृते वलि दत्वा दिक्पतीनान्तु पूर्ववत् | मन्त्रस्यार्घं प्रदातव्यं दक्षिणां मूर्तिमाश्रितं || स्वयंभू वाणलिङ्गं वा सिद्ध्यर्थं स्थापितं नरैः | अ*? रक्षा ततः कार्या मन्त्ररक्षा ततः परं || २७६ब्) करं न्यासं प्रकर्तव्यं देहन्यासं क्रमेण तु | उभयोश्चन्द्रयोर्मध्ये स्वदेहं चिन्त्ययत्नतः || तेनामृतमयं देहमवध्यं त्रिदशैरपि | आत्मरक्षा समाख्याता मन्त्ररख्या निगद्यते || शक्तिगर्भे न्यसेत् मन्त्रं तत्स सिद्धिः प्रजायते | न शिवेन तथा पुंसि मन्त्रा योज्या फले * ना || अशक्ताः पुरुषस्थाश्च शिवस्थाः शान्तचेतसः | तस्माच्छक्ति गतामन्त्राः सिद्धान्तेनानृतं वचः || शक्तिराद्या परा विभीशैवी शिवफलप्रदा | शिवेप्य? भिन्ना सा ज्ञेया यथा तु रचिरस्मिवत् || मन्त्रमाह पराशक्ति राद्या कुण्डलिनी तु सा | हृत्प्रदेशे स्थिता सा तु रवि च*?ग्नि स प्रभा || एकात्रिधा तु विज्ञेया इडापिङ्गादि भेदतः | सुसुम्नान्तर्गतां रूढां ज्ञात्वा गुरुमुखेन तु || आनार्भे द्वादशान्तं तु व्याप्य प्राणिषु वर्तते | त्रिशूलमार्गतो यान्ति द्वादशान्तेन योगिनां || २७७अ) गमागम प्रभेदेन याति सा शाङ्करे पदे | परं भावं समाश्रित्य पर्यनन्द समश्नुते || इति शक्रोदयं ज्ञात्वा मन्त्ररक्षा क्षमो भवेत् | नदान्तं ताडनं मोहदीपनं नोपयुज्यते || नानाविधासिद्धयस्तु शक्तिस्थः साधये वलं | इति कालोत्तरे महातन्त्रे शक्तिवर्णनपटलं || ईश्वर उवाच || दक्षिणामूर्तिमाश्रित्य जप्तव्याः पञ्चकोटयः | होमं दशांशतः कृत्वा गव्याज्येन तिलेन तु || सिद्धयो ह्यणिमाद्याश्च तस्य सिद्ध्यन्ति नान्यथा | कोटिजापेन मध्यास्तु घृताक्तं गुग्गुलं हुनेत् || खेचरत्व मवाप्नोति दशांश हवनेन तु | अन्तर्धानेकापिलेन केवलेन फलप्रदं || निर्वीजी करणे चैव पाशक्षोभे विशेषतः | महाज्वरविनासे च वृक्षस्या लभने तथा || धटा च रोहने वत्स अनग्नि ज्वलने पुनः | विषसंक्रमणं चैव विषस्यैव निवारणे || पूर्वसे वाथ कर्तव्याः ततः कर्म समारभेत् | २७७ब्) सिद्धयस्तस्य सिद्ध्यन्ति तद्विना नैव सिद्धिभाक् || तस्मात् सर्वप्रयत्नेन पूर्वसे वा समाचरेत् | इति कालोत्तरे महातन्त्रे पूर्वसेवापटलं || ईश्वर उवाच || पूर्वाह्ने शान्तिकं कर्म पौष्टिकं तद्वदेव हि | वष्याकर्षणकर्मन्तु मध्याह्ने साधयेत् सुधीः || स्तम्भनं मोहनञ्चैव स्थिते सूर्ये तु साधयेत् | रात्रौ चास्तमनं कार्यं मरीनां नान्यथा क्वचित् || साधकस्य यदा वहुहीना साध्येतिर्युदा? | नामज्ञात्वा प्रयत्नेन तदा सिद्धिं तु साधयेत् || स वषडौसज्ञंसश्च साध्यसंज्ञा तु संपुटेत् | शितपुष्पैश्च नैवेद्यैः शितगन्धानु लेपनैः || स्थण्डिले पूजयेद् यत्नात् ब्रह्माङ्ग सहितं शिवं | साङ्गेन वौषडन्तेन ब्रह्माणाङ्गानि कल्पयेत् || ह्रस्वैर्ब्रह्माणि दीर्घस्तु जात्यन्तेरङ्गं कल्पना | २७८अ) पीठंज्यंकारमन्त्रेण मूर्तिः स्यान्त्र्यक्षरेण तु || शिवेन त्र्यक्षरेणैव वषडन्ते परां न्यसेत् | दूर्वा मृता त्रिमध्वक्ता होमयेच्छान्ति कर्मणि || लक्षाहुति प्रयोगेन शांति पुष्टि प्रसाधयेत् | अथता प्रणवेणैव मायया वा षडानन || प्रागुक्तमूलमन्त्रैर्वा शान्तिर्भवति शाश्वती | दिव्यान्तरिक्ष भौमेथ महोत्पातेषु सुव्रत || शान्ति प्रजायते तेन रुद्रशान्त्याथ वा सुत | प्रागुक्तम्पञ्चधा योज्य पौष्टिके सम्पुटेन तु || आदिमध्यावसाने च त्रिधा योज्यन्तु पौष्टिके | पुष्टौ दूर्वा त्रिमध्वक्ता होमं पुष्टाहुत द्वयात् || छेदनं परमन्त्राणां रहस्यं कथयामि ते | आज्ञातो मन्त्रछेदन्तु कर्तव्यं तु महाद्भुतं || उग्रांगारै विलोमेन मातृका पुत्रकं लिखेत् | मूर्ध्नि संहारवीजं तु हंकारं वदनं न्यसेत् || सर्पो नेत्रौ विजानीयात् शव्यैकर्णि व्यवस्थितौ | लरौनाशौपुटौ तस्य यमावोष्ठ द्वयं विदुः || २७८ब्) भंतालु रसतावं रफ * गण्ड द्वयो न्यसेत् | भ्रूयुग्मं च नधौतस्य दक्षस्कन्धे वेद विन्यसेत् || * वाहौ वाहुसंधोतण करेट कराङ्गुलौ | एवं डादि ऋकारान्तं वागवाद्यै नियोजयेत् || ऊरुजानुनि जंघायां गुल्फ पादाङ्गुलीषु च | जादिगान्तं क्रमान् न्यस्य वा मेखन्तु पश्चिमे || ऐ योज्यं दक्षिणे पार्श्वे एवामे ऌ? तु पृष्ठगं | ऌ क्रोडं ऋ तथा मांसे ऋरक्षेङ्गन्धक विन्यसेत् || उकारं कीकदेशे तु ईशुक्रे इकहे तथा | आमा * पूर्वमन्त्रन्तु नास्तव्यं कृतिकासुत || एवं तु पुत्रकं लिख्य शून्यागारेथ भीषणे | अथ मातृ गृहे वाथ वै भीतक फलै तथा || साहोत्र फलके लिख्य मृतवत् प्रतिलिखेत् तथा | त्रिसन्ध्यं पूजविधिवदैकैकं पूजयेत् क्रमात् || अस्त्रमन्त्रेण शस्त्रमन्त्रेण यावत् सप्तदिनानि तु | आज्ञा ध्यानं तथा विद्या मंत्रं वा क्रौञ्च सूदन || छेदयेन् नात्र संदेहः शूलीभूमौ निपातयेत् | एतद् रहस्यं परमं नाख्येयं यस्य कस्यश्चित् || २७९अ) कूर्यत् माया तयेत् सर्वांस्तस्माद् यत्नेन रक्षयेत् | अथ वा गलमार्गे तु शस्त्रं नाडी त्रयं न्यसेत् || चिन्तयेत् पावकाभासं ध्यान युक्तो दिन त्रयं | आज्ञा ध्यानं तथा मंत्रं ज्ञाने नानेन? छेदये तु || इत्येतत् स रहस्यन्तु मन्त्रछेदं प्रकाशितं | अन्तर्ध्यानकरी विद्या क्रमप्राप्ता निगद्यते || तारकं स नमोन्तन्तु योज्यं भगवतेः *?दं | गाङ्गं पदं ततोन्ते * * * * * * * ? न्यसेत् || महाकालि पदं पश्चात् मांसशोणितभोजनि | रक्तकृष्णमुखी देवि पदं चाष्टाक्षरं न्यसेत् || मामपश्यं तु तस्यांते मानुषाश्च पदं ततः | स्वाहान्तं चैव विख्या?या कर्तव्यन्तारकान्ततः || लक्षजापं प्रकर्तव्यं स वर्णाज्य तु होमयेत् | दशांशेन महासेन सिद्धा कर्मकरी भवेत् || मोहयेत् पृथिवीं सर्वातमनेत्रा सुदमानुषात् |? रसं नयति शक्रस्य मानुष्येष्वत्र का कथा || अलं वै गृहपत्येषा सिद्धानामपि शांकरि | अन्तर्द्धानकरीविद्या मोहनीज * *? तथा || २७९ब्) णोत् च्लेअर् २८०अ) सुखं जनयते तस्मात् भैलखी तेन सा स्मृता | दुर्गादुत्तारयेद् यस्मात् तेन दुर्गा तु सा मता || विद्या राज्ञी मया ख्याता शिववक्त्राव्रजोद्भवा | लेशात् समासतः ख्याता पुनरेवोच्यते मया || कासस्वासनिवृत्यर्थं सिद्धाविद्यावदामिते | ओंकाशशमनायत्वं * * * * हि वरुणं || अनेनैव तु मन्त्रेण कं हस्ते ग्राहयेत् सुधीः | तारकममृतायेति पदामुद्धृत्य यत्नतः || तथा चामृतरूपाय पदन्तु द्वितीयं मतं | अमृत सम्भवाय पदममृतं त्वं ततः परं || अमृतत्व महात्मा च मन्त्रोयं पापनाशनः | एकवृद्ध्यादि नान्यष्टौ सु?लुकानि क्रमात् पिवेत् || दिनाष्टकादुपरिपिवेदष्टावेव प्रभा ततः | चुलुकानि महासेन कासस्वास निवृत्तये || इयं पठित सिद्धा तु विद्याकामदुघा मता | कासस्वासेषु सर्वेषु नान्यत्रा तास्ति शांकरि || ओंकाशसमयत्वं हि || २८०ब्) वरुण अनेन तुदकं दक्षिण हस्ते गृहीयात् | अमृताय अमृत संभवाय अमृत तत्वममृतमाहात्मां || अथातस्तस्करज्ञानं येन मन्त्रेण जायते | तदर्थकथयिष्यामि साधनं मन्त्रनायकं || रक्तोष्ठी पदमाद्यन्तु मातङ्गी तदनन्तरं | पदं तृतीयं पैशाचं भूतोभ इति नियोजयेत् || अवतरेति पदं द्वेषो हे वर्णं तदनन्तरं | अदर्शपदमन्यच्च तथा दर्शावहिर्न्यसेत् || चौरं गृह्णापय पदन्तथा वार्ष्पय पश्चिमं | अनेन मन्त्र मुख्येन कुमार्याज्ञानमाचरेत् || ततोन्य दिवसे मन्त्री स्नात्वा कर्म समाचरेत् | स्ववामाङ्गुष्ठमज्ञान पुरा चैव विमर्द्धयेत् || ततो लक्षमादाय वामाङ्गुष्ठन्तुरं जयेत् | संशोध्यतिलतैलेन पुनरेव विमर्द्दयेत् || उत्तराभिमुखोभूत्वा कुमारीं मन्त्रयेत् ततः | मूर्ध्नि पुष्पाणि तस्यास्तु तत्वाङ्गुष्ठं प्रदर्शयेत् || मध्याह्न समये कार्यं निरभगगने सुत | २८१अ) पूर्वानना कुमारी तु पश्यत्याखिलमद्भुतं || चौरं प्रदर्शयेत् सा तु कथयेत् तत्स्वरूपकं | अधिकल्पनमिदं वत्स शिवेन कथितं पुरा || रक्तोष्ठी मातङ्गी भूतोभ ई अवतर २ एहि २ | अदर्शिदशां वहि चौरं गृह्रायय एषा || अनेन मन्त्रेण कुमारी द्वयस्य मूर्द्धि पुष्पाणा मन्त्रणदिने देयानि | द्वितीयेह्नि मध्याह्नसमये स्नात्वा शुचिनोत्तरा मुखेनाम्ल द्रव्येन स्वमन्त्रेण स्ववामाङ्गुष्ठं विमर्द्य तदनु घनालक्तेनोपलिप्य भूयसा कुमारी द्वयस्यानेन मन्त्रेण शिरसि पुष्पाणि दत्वाङ्गुष्ठं दर्शयेत् | चौरं कथयति || पुनरन्य प्रवक्ष्यामि सिद्धविद्या षडानन | ह्रीं चण्डकापालिनि दन्तकिटिक्किटि शुष्केषु || अनेन मन्त्रराजेन क्षालयित्वा तण्डुलान् त्रिसप्त परिजप्तान्तु तच्चौरेषु प्रदापयेत् | दन्तदलितानि चौरवक्त्रात्पत? रक्तानि च | २८१ब्) शेषेषु शुक्लवर्णानि सुपिष्टानि पतंति च || इति चौरज्ञानं || भूतविद्राणं कार्यं भूततन्त्रविसारदैः | आदौ तु वलिदानं तु क्षेत्रेषालस्य कारयेत् || अनुलोम विलोमेन मन्त्रन्यासन्ततः परं | ताडनं चैत भूतस्य सिद्धार्थे कारयेत् ततः || ततो मुचात्य वश्यन्तु सद्यः प्रत्ययकारकं | ओं ज्वलन्त जिह्व ज्वलन्त लोचन कपिल जटाभासूर महासूर विद्रावण त्रैलोक्य डामर रुद्र भ्रम २ आकट्य २ त्रोड २ मोह २ पच २ एवं शुद्ध रुद्रो ज्ञापयति स्वाहा | यदि गृहगतः स्वर्ग लोकं वा देवलोकं वा नागलोकं वा आरामविहारं वेश्मकुलं तथा वर्तयिष्यामि वलिं गृह्न २ ददामिते स्वाहा | अनेन मन्त्रेण प्रथमतः क्षेत्रपाल वलिर्दातव्यः | पश्चादनेन मन्त्रेण करन्यास देहन्यासानुलोमविलोमेन कर्तव्यङ्कर्त २८२अ) निष्ठाङ्गुष्ठ पर्यन्तं अङ्गुष्ठान्त कनिष्ठामिति करन्यासः | मूर्ध्नि वक्त्रे हृदिनाभौगुह्ये पद्मामित्यनुलोमे | पादगुह्यनाभि हृत्वक्त्रमूर्द्धान्तमिति देहन्यासः | एवमनुलोमविलोमेन न्यासं कृत्वा पश्चादातुरं सिद्धार्थे ताडयेत् | भूतं भाव्यं सर्वकथयति | मुञ्चति कदृष्ट प्रत्ययः | स्वाहा | अनेन करन्यास देहन्यासान्तरं ताडनं || इति भूतविद्रावणं || वाक् स्तंभं सम्प्रवक्ष्यामि दृष्टानां शुभवादिनां | प्रेताङ्गारेण तत्पात्रे चान्त संज्ञा ससा लिखेत् || स्ववर्च्चः पुटमंकार्यं क्षिप्तगर्ते शिलान्यसेत् | स्तम्भयेद्वाक् नांशेष चान्येषु का कथा || अथ हंसप्रयोगेन विषमाघ्राय वह्निना | रविस्था रेचकां कुर्यात् संहरेत् तत्किमद्भुतं || अथान्यत् संप्रवक्ष्यामि परिच्छेदञ्च संग्रहं | दूतोत्तरीयं यत्नेन मापयेत् सुकरेण तु || न्यासं ततोन्ते कर्तव्यं करदेहमयात्मकं | २८२ब्) पूर्व २ यस्याङ्ग ज्वलनं देहं शिरं वा वविसेषत || असक्तारपशूनाथानराणा च विशेषत | जमलो जाति विद्यन्ते नात्र कार्य विचारणात् || सत्य सत्य न सन्दे वर्षमेकान्तरेषु च || २८३अ) ईश्वर उवाच || अक्षसूत्रविधानन्तु कथ्यमानं शृणुष्वतः | शतेनाष्टोत्तरैणैव उत्तमं परिकीर्तितं || तदर्द्धात् मध्यमं शस्तं तदर्द्धात् कन्यशं हितं | रुद्राक्षजं महाभृत्यै मुक्तिदं परमं शुभं || एकवक्त्रैस्त्रिवक्त्रैश्चतुर्वक्त्रैश्च पञ्चभिः | षट्वक्त्रैर्वाध्व कर्तव्यं तस्मात्मित्रैश्रैस्तु वर्जयेत् || मुखे मुखं प्रकर्तव्यं मुखं मूले विवर्जयेत् | एवं वै सर्वरत्नानां वृक्षजेषु जलेषु च || पुत्रजं पुत्रजीवार्थं पद्मजं वाणिमादिषु | इंद्राक्षं राज्यदं सूत्रं शक्राक्षं तद्वदेव हि || अरिष्टसमनेशस्तंमारिष्टं सूत्रनायकं | हेमतारमयं भूत्यै शेषलोह्येत्थित पुनः || त्रपुसीमायसंयोज्यं महासंखं च मारणे | २८३ब्) णोत् च्लेअर् २८४अ) णोत् च्लेअर् २८४ब्) णोत् च्लेअर् २८५अ) णोत् च्लेअर् २८५ब्) * * * * * *? नैव पीठं नवपदात्मकं | अनुलोमेन तत्पूज्यं रुद्राश्चैव विलोमतः | सप्तपञ्चभिः संख्या वा एकैकामाहुतिं ददेत् || इति नित्यो विधि प्रोक्ता विशेष पूर्ववर्द्धनेत्? || * * * *? निमित्ता वामैकै? कस्य? सहश्रकं | अन्तरिक्ष निमित्तायं तदर्द्धा निःकृतिर्भवेत् || भौमानां शतिको होमा कण्ठाणा? पदेषु च | उत्पातेषु च सर्वेषु महोत्पाते * *? हुतीः || सर्वरोग गृहीतानां? ग्रहेश्चोर्द्धे? कृतात्मनां | उपसर्ग? गृहीतानां विघ्नेषै? वलितात्मनां || अ * *? राति तप्तानां शान्तिमेना प्रयोजयेत् | अभिषेकश्च कर्तव्यः संपाताहुति मन्त्रितैः || नवभिः कलसैर्न्नित्यं शतविंशोत्तराधिकं | एकन्यूनन्तु मन्त्राणां न्यस्तव्यं चाभिषेचनं || अहन्यहनि कर्तव्यं स्मर्तव्यं व्यजयेत् हुनेत् | अभिषिक्ताय दादव्यः स चरुः परिकल्पितः || तेन प्रासित मात्रेण सर्वरिष्टौर्न वाद्यते | खण्डरुद्रशान्तिश्च कथिता परमेष्ठिना || रुद्राणां च पदानाञ्च पीठे पीठे यथोदितः | २८६अ) पाठ्यः होम्यो नवावदानः तुरगखरोतुंगपरीणाहं | पूर्वाकृष्णतिलाज्यान्य मृतानि चूत पत्राणि || होतव्याः सिद्धार्थाः लाजावजीसु गन्धपुष्पाणि | क्षीरतरो पत्राणि च समिधो यत् तंडुलादीनि || एकैकस्य तु रुद्रस्य आहुतीनां सहश्रकं | आज्येन यत्नतो देयं तदभावाद्यथोदितैः || एकैकस्य पदस्यैव सहश्र परिवर्तनं | सिद्धानसंप्रपन्नैस्तु?श्चामाचारैर्विवर्जयेत् || वामाचार प्रपन्नाये शास्त्रेस्मिंस्तु विगर्हिताः | गुप्ताचारास्तु ये केचित् वर्जनीयास्तु ते सदा || सिद्धान्त सम्प्रपन्ना ये शुद्धाचारा दृढव्रताः | निग्रहा च? ग्रहे शक्तादकलं तेपि दुर्द्धराः || गुरुशुद्धिं पुराज्ञात्वा पश्चाच्छान्ति समारभेत् | अहन्यहनि कर्तव्या उत्पन्ने वा महद्भुते || प्रोक्तानि त्रिंशदष्टौ च देवैस्तैरियमिज्यते | विलोमेनानुलोमेन रुद्रैर्व्योमशिवेन च || एकाशीति पदे चतुःपञ्चशत्पदिका आपाद्यष्टौरसाग्निभिः | २८६ब्) ईशानाद्या नवपदा द्वात्रिंशत् परिकल्पयेत् || वीथिका भागमानेन राक्षसा तदनन्तरं | स्कन्दार्यमाजम्भकश्च पिलिपिच्छका ग्रहोत्तमः || सतिकोक्तक्रमान्तास्या वहिः सार्व? द्विपंक्तिषु | चरक्षाद्यास्तद्वदेव तथा वं स द्वयं पुनः || रक्षाष्टकं क्रमाद् देयं तथा नवपदे पुराः | नवभिस्तु पदैरस्मिन् पदमेकं विनिर्मितं || एवं वै देशवास्तन्तु कथितन्ते समासतः | मण्डलाङ्कमेवमेव मण्डले सम्प्रकल्पयेत् || किंतु दशसहश्रैस्तु कोष्ठकै विभजेत्ब् परं | न्यासे नवगुणन्तत्र कर्तव्यं देशवास्तुवत् || अथान्यं सम्प्रवक्ष्यामि वास्तूनां लक्षणं पुनः | षडश्र त्र्यश्रवृत्ताक्ष योन्याष्टा श्रार्द्धचन्द्रवत् || तत्वदैवास्तु वा कार्या रजुवंशविवर्जितः | मध्ये तु चतुरश्रं तु सर्वेषां वा प्रकल्पयेत् || रजुरंशसिरान्यास पूर्ववत् तेषु कल्पयेत् | चतुरश्रं त्रिधा कृत्वा त्र्यंशं तु वास्तुसंज्ञकं || २८७अ) ब्रह्मपीठादधो वृद्धं सरके विघ्नमर्द्दकं | सूत्राधो धर्मदण्डाख्यंश्चक्रपादञ्च मन्दिरे || रज्वष्टकञ्च सर्वेमां वास्तूनां समवस्थितं | वंसद्वयं कोणगतं दुर्जयं नामदुर्द्धरं || चतुष्टयस्तु रज्जुनां षट्पदं द्विपदन्तथा | वक्त्रगुल्फ प्रकोष्ठाभ्यां द्विपदं स्याच्चतुष्टयं || हृदिगुह्ये तथा कुक्षौ षट्पदं स्याच्चतुष्टयं | एवं नवपदे देयं त्रिपदं पद्मकं क्रमात् || यदा सुरालये न्यासे मन्दिरे तद्वदेव हि | मध्ये ब्रह्मा नवपदे मरीच्याद्यास्तु पूर्ववत् || आपाद्या द्विपदा ज्ञेयाः पदिका वाह्य देवताः | यथा देवालये न्यासे तथा शतपदे हितः || ग्रहास्कन्दादयस्तत्र विज्ञेयाश्चचतुःपदा | दरक्षाद्या? भूतपदा रङ्ग? वंशादि पूर्ववत् || देशसंस्थापने वास्तु चतुःत्रिंशच्छिवं भवेत् | एकाशीति पदो ब्रह्मामध्यस्थाने प्रकल्पयेत् || मरीचयो विवश्वांश्च मित्रश्च पृथिवी धरः | २८७ब्) णोत् च्लेअर् २८८अ) क्षेत्रस्या च विविरक्षायां? पुनः पूर्ववत् पञ्चम्या भाव्यमेव क्षेत्राङ्ग कारयतीति | अन्तर्लोपवधान निमित्तं व्यवहिताः जपनामकवामीति || णोत् च्लेअर् ########### END OF FILE #######