#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00132 Uniform title: kāmākhyātantra Editor : r m caṭṭopādhyāya Description: Transcribed by the staff of Muktabodha. Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Sept. 22, 2008 Publisher : unknown-pree 1900 Bengali Script Publication year : Publication city : Publication country : India #################################################### || ओं नमः परदेवतायै || कामाख्यातन्त्रे प्रथमः पटलः श्रीदेवी उवाच भगवन् सर्वधर्मज्ञ सर्वविद्याप्रिय प्रभो | सर्वदानन्दहृदय सर्वागमप्रकाशक || १ || श्रुतानि सर्वतन्त्राणि यामलानि च भूरिशः | विद्यास्ताः सकला देव फलानि त्वत्प्रसादतः || २ || सारात् सारतरं तन्त्रं जानासि किं वद प्रभो | अतीवेदं रहःस्थानं तेनाहं श्रवणोद्यता || ३ || श्रीशिव उवाच शृणु देवि मुदा भद्रे मदीये प्राणवल्लभे | योनिरूपा महाविद्या कामाख्या वरदायिनी || ४ || वरदाऽऽनन्ददा नित्या महाविभववर्द्धिनी | सर्वेषां जननी सापि सर्वेषां तारिणी मता || ५ || रमणी चैव सर्वेषां स्थूला सूक्ष्मा सदा शुभा | तस्यास्तन्त्रं प्रवक्ष्यामि सावधानाऽवधारय || ६ || निखिलासु च विद्यासु ये ये सिध्यन्ति साधकाः | यत्र कुत्रापि केनापि कामाख्या फलदायिनी || ७ || कामाख्याविमुखा लोका निन्दिता भुवनत्रये | विना कामात्मिकां कापि न दात्री सिद्धिसम्पदाम् || ८ || कामाख्या च सदा धर्मः कामाख्या चार्थ एव च | कामाख्या कामसम्पत्तिः कामाख्या मोक्ष एव च || ९ || निर्वाणं सैव देवेशि सैव सायुज्यमीरिता | सालोक्यं सहरूपं च कामाख्या परमा गतिः || १० || शिवता ब्रह्मता देवि विष्णुता चन्द्रतापि च | देवत्वं सर्वदेवानां निश्चितं कामरूपिणी || ११ || सर्वासामपि विद्यानां लौकिकं वाक्यमेव च | कामाख्याया महादेव्याः स्वरूपं सर्वमेव हि || १२ || पश्य पश्य प्रिये सर्वं चिन्तयित्वा हृदि स्वयम् | कामाख्यां न विना किञ्चिद् विद्यते भुवनत्रये || १३ || लक्षकोटिमहाविद्यास्तन्त्रादौ परिकीर्तिताः | सारात् सारतमा देवि सर्वेषां षोडशी मता || १४ || तस्याश्च कारणं देवि कामाख्या जगदम्बिका | चन्द्रकान्तिर्यथा देवि जायते लीयते पुनः || १५ || स्थावराणि चराणीह नित्याऽनित्यानि यानि च | सत्यं सत्यं पुनः सत्यं विना तां नैव जायते || १६ || || इति श्रीकामाख्यातन्त्रे देवीश्वरसंवादे प्रथमः पटलः || १ || अथ द्वितीयः पटलः श्रीशिव उवाच मन्त्रोद्धारं प्रवक्ष्यामि शृणु देवि परात् परम् | यज्ज्ञात्वा साधयेत् सिद्धिं देवानामपि दुर्लभाम् || १ || मन्त्रस्यास्य प्रतापेन मोहयेदखिलं जगत् | ब्रह्मादीन् मोहयेद् देवि बालकं जननीं यथा || २ || देवदानवगन्धर्वकिन्नरादीन् सुरेश्वरि | मोहयेत् क्षण्मात्रेण प्रजासु नृपतिर्यथा || ३ || मन्त्रस्य पुरतो देवि राजानं सचिवादयः | अन्ये च मानवाः सर्वे मेषादिजन्तवो यथा || ४ || मोहयेन्नगरं राज्ञः सहस्त्यश्वरथादिकम् | ऊर्वश्याद्यास्तुस्वर्वेश्या राजपत्न्यादिकाः क्षणात् || ५ || स्तम्भनं मारणं देवि क्षोभणं जृम्भणं तथा | द्रावणं भीषणं चैव विद्वेषोच्चाटने तथा || ६ || आकर्षणं च नारीणां विशेषेण महेश्वरि | वशीकरणमन्यानि साधयेत् साधकोत्तमः || ७ || अग्निः स्तम्भति वायुश्च सूर्यो वारिसमूहकः | कटाक्षेणैव सर्वाणि साधकस्य न चान्यथा || ८ || जगज्जयति मन्त्रज्ञः कामदेवो यथा जयी | तस्याऽसाध्यं त्रिभुवने न किञ्चित् प्राणवल्लभे || ९ || जृम्भणान्तं त्यक्तपाशं यात्रावारणरोहकम् | व्यङ्गवर्णयुतं देवि नादबिन्दुयुतं पुनः || १० || एतत् तु त्रिगुणीकृत्य कल्पवृक्षमनुं जपेत् | एकं वापि द्वयं वापि चतुर्थं वा जपेत् सुधीः || ११ || कामाख्यासाधनं कार्यं सर्वविद्यासु साधकैः | अन्यथा सिद्धिहानिः स्याद् विघ्नस्तेषां पदे पदे || १२ || किं शाक्ता वैष्णवाः किं वा किं शैवा गाणपत्यकाः | महामायाव्रताः सर्वे तैलयन्त्रे वृषा इव || १३ || अस्याश्च साधनं देवि शाक्तानामेव सुन्दरि | नात्र चक्रविशुद्धिस्तु कालादिशोधनं न च || १४ || कृते च नरकं याति सर्वं तस्य विनश्यति | क्लेशशून्यं परं देवि साधनं द्रुतपोषकम् || १५ || श्रीदेवी उवाच कालीतारामन्त्रदाने चक्रचिन्तां करोति यः | का गतिस्तस्य देवेशः निस्तारो विद्यते न वा || १६ || श्रीशिव उवाच वयमग्निश्च कालोऽपि ये ये याता महेश्वरि | किं ब्रूमो देवदेवेशि कालिकातारिणीमनुम् || १७ || अज्ञानाद् यदि वा मोहात् कालीतारामनौ प्रिये | कृते चक्रादिगणने शूनीविष्ठाकृमिर्भवेत् || १८ || कल्पान्ते च महादेवि निस्तारो विद्यते न च | अस्याः पूजां प्रवक्ष्यामि त्रैलोक्यसाधनप्रदाम् || १९ || हठाद्धठाच्च देवेशि या या सिद्धिश्च जायते | प्राप्यते तत्क्षणेनैव नात्र कार्या विचारणा || २० || सिन्दूरमण्डलं कृत्वा त्रिकोणं च समालिखेत् | निजबीजानि तन्मध्ये योजयेत् साधकोत्तमः || २१ || चतुरस्रं लिखेद् देवि ततो वज्राष्टकं प्रिये | अष्टदिक्षु यजेत् तां तु न्यासजालं विधाय च || २२ || अक्षोभ्यश्च ऋषिः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतम् | कामाख्या देवता सर्वसिद्धये विनियोजिता || २३ || कराङ्गन्यासकं चैव निजबीजेन कारयेत् | षड्दीर्घभाजां ध्यायेत् तु कामाख्यामिष्टदायिनीम् || २४ || रक्तवस्त्रां वरोद्युक्तां सिन्दूरतिलकान्विताम् | निष्कलङ्कां सुधाधामवदनामलकोज्ज्वलाम् || २५ || स्वर्णादिमणिमणिक्यभूषणैर्भूषितां पराम् | नानारत्नादिनिर्माणसिंहासनोपरिस्थिताम् || २६ || हास्यवक्त्रां पद्मरागमणिकान्तिमनुत्तमाम् | पीनोत्तुङ्गकुचां कृष्णां श्रुतिमूलगतेक्षणाम् || २७ || कटाक्षैश्च महासम्पद्दायिनीं परमेश्वरीम् | सर्वाङ्गानिन्दितां नानाविद्याभिः परिवेष्टिताम् || २८ || डाकिनीयोगिनीविद्याधरीभिः परिशोभिताम् | कामिनीभिर्युतां नानागन्धाद्यैः परिगन्धिताम् || २९ || ताम्बूलादिकराभिश्च नायिकाभिर्विराजिताम् | समस्तसिद्धवर्गाणां प्रणतानां प्रतीक्षणाम् || ३० || त्रिनेत्रां मोहनकरीं पुष्पचापेषु बिभ्रतीम् | भगलिङ्गसमाख्यानां किन्नरीभ्योऽपि शृण्वतीम् || ३१ || वाणी - लक्ष्मी - सुधा - वाक्य - प्रतिवाक्य - समुत्सुकाम् | अशेषगुणसम्पन्नां करुणासागरां शिवाम् || ३२ || आवाहयेत् ततो देवीमेवं ध्यात्वा च साधकः | पूजयित्वा यथोक्तेन विधानेन हरप्रिये || ३३ || कुङ्कुमाद्यै रक्तपुष्पैः सुगन्धिकुसुमैस्तथा | जवा - यावक - सिन्दूरैः करवीरैर्विशेषतः || ३४ || करवीरेषु देवेशि कामाख्या तिष्ठति स्वयम् | जवायां च तथा विद्धि मालत्यादिसमीपके || ३५ || करवीरस्य माहात्म्यं कथितुं नैव शक्यते | प्रदानात् तु जवायाश्च गाणपत्यमवाप्नुयात् || ३६ || पूजयेदम्बिकां देवीं पञ्चतत्वेन सर्वदा | पञ्चतत्त्वं विना पूजामभिचाराय कल्पयेत् || ३७ || पञ्चतत्त्वेन देव्यास्तु प्रसादो जायते क्षणात् | पञ्चमेन महादेवि शिवो भवति साधकः || ३८ || पञ्चतत्त्वसमं नास्ति नास्ति (किञ्चित्) कलौ युगे | पञ्चतत्त्वं परं ब्रह्म पञ्चतत्त्वं परा गतिः || ३९ || पञ्चतत्त्वं महादेवि पञ्चतत्त्वं सदाशिवः | पञ्चतत्त्वं भुक्तिमुक्ती महायोगः प्रकीर्तितः || ४० || पञ्चतत्त्वेन देवेशि महापातककोटयः | नश्यन्ति तत्क्षणेनैव तूलराशिमिवानलः || ४१ || यत्रैव पञ्च तत्त्वानि तत्र देवी वसेद् ध्रुवम् | पञ्चतत्त्वविहीने तु विमुखी जगदम्बिका || ४२ || मद्येन मोदते स्वर्गे मांसेन मानवाधिपः | मत्स्येन भैरवीपुत्रो मुद्रया साधुतां व्रजेत् || ४३ || परेण च महादेवि सायुज्यं लभते नरः | भक्तियुक्तो यजेद् देवीं तदा सर्वं प्रजायते || ४४ || स्वयम्भूकुसुमैः शुक्लैः कुण्डगोलोद्भवैः शुभैः | कुङ्कुमाद्यैरासवेन चार्घ्यं देव्यै निवेदयेत् || ४५ || नानोपहारनैवेद्यैरन्नादिपायसैरपि | वस्त्रभूषादिभिर्देवीं प्रपूज्यावरणं यजेत् || ४६ || इन्द्रादीन् पूजयेत् तत्र तेषां यन्त्राणि शाङ्करि | पार्श्वयोः कमलां वाणीं पूजयेत् साधकोत्तमः || ४७ || अन्नदा धनदा चैव सुखदा जयदा तथा | रसदा मोहदा देवि ऋद्धिदा सिद्धिदापि च || ४८ || वृद्धिदा शुद्धिदा चैव भुक्तिदा मुक्तिदा तथा | मोक्षदा सुखदा चैव ज्ञानदा कान्तिदा तथा || ४९ || एताः पूज्या महादेव्यः सर्वदा यन्त्रमध्यतः | डाकिन्याद्यास्तहा पूज्याः सिद्धयो यत्नतः शिवे || ५० || षडङ्गानि ततो देव्या यजेत् पुष्पाञ्जलीन् क्षिपेत् | यथाशक्ति जपेन्मन्त्रं शुद्धभावेन साधकः || ५१ || जपं समर्प्य वाद्याद्यैस्तोषयेत् परदेवताम् | पठेत् स्तोत्रं च कवचं प्रणमेद् विधिनाऽमुना || ५२ || ततश्च हृदये देवीं संयुज्य शेषिकां प्रति | निर्माल्यं निक्षिपेदैशे त्रिकोणं परिकल्पयेत् || ५३ || निर्माल्यं साधकैः सार्धं गृह्णीयाद् भक्तिभावतः | विहरेत् पञ्चतत्त्वेन यथाविधि स्वशक्तितः || ५४ || शक्तिमूलं साधनं च शक्तिमूलं जपादिकम् | शक्तिमूला जपाश्चैव शक्तिमूलं च जीवनम् || ५५ || ऐहिकं शक्तिमूलं च परत्र शक्तिमूलकम् | शक्तिमूलं तपः सर्वं चतुर्वर्गस्तथा प्रिये || ५६ || शक्तिमूलानि सर्वाणि स्थावराणि चराणि च | अज्ञात्वा पापिनो देवि रौरवं यान्ति निश्चितम् || ५७ || तस्मात् सर्वप्रयत्नेन साधकैश्च शिवाज्ञया | शक्त्युच्छिष्टं पीयते हि नान्यथा यान्ति रौरवम् || ५८ || शक्त्यै यद् दीयते देवि तत् तु देवार्पितम् भवेत् | सफलं कर्म तत् सर्वं सत्यं सत्यं कुलेश्वरि || ५९ || शक्तिं विना कौलचक्रं करोति कारयेदपि | स याति नरकं घोरं निस्तारो न हि विद्यते || ६० || एवं तु पूजयेद् देवीं यं यं चोद्दिश्य साधकः | तं तं कामं करे कृत्वा प्रिये जयति निश्चितम् || ६१ || पुरश्चरणकाले तु लक्षमेकं जपेत् सुधीः | तद्दशांशं हुनेदाज्यैः शर्करामधुपायसैः || ६२ || तर्पयेद्धुदिग्भागैर्जलैश्चन्दनमिश्रितैः | गन्धाद्यैः साधकाधीशस्तत्कुशैरभिषेचयेत् || ६३ || अभिषेकदशांशेन भोजयेच्च द्विजोत्तमान् | मिष्टान्नैः साधकान् देवि देवीभक्तांश्च पञ्चमैः || ६४ || एवं पुरस्क्रियां कृत्वा सिद्धो भवति साधकः | प्रयोगेषु ततो देवि योग्यो भवति निश्चितम् || ६५ || एतत् पूजादिकं सर्वं कामाख्याप्रीतिकारकम् | महाप्रीतिकरी पूजा योनिचक्रे कुलेश्वरि || ६६ || योनिपूजां महापुजा तत्समा न हि सिद्धिदा | तत्र देवीं यजेद् धिमान् सैव देवी न चाऽन्यथा || ६७ || आवाहनादिकर्माणि न तत्र सर्वथा प्रिये | लेपयेत् तां तु गन्धाद्यैः पूजयेद् विविधेन च || ६८ || महाप्रीतिर्भवेद् देव्याः सिद्धो भवति तत्क्षणात् | योनिपूजासमा पूजा नास्ति ज्ञाने तु मामके || ६९ || चिम्बनाल्लेहनाद् योनौ कल्पवृक्षमतिक्रमेत् | दर्शनात् साधकाधीशः स्पर्शनात् सर्वमोहनः || ७० || लिङ्गयोनिसमाख्यानं कामाख्याप्रीतिवर्द्धनम् | तदेव जीवनं तस्या गिरिजे बहु किं वचः || ७१ || तस्मात् सर्वप्रयत्नेन योनिपूजां समाचरेत् | परस्त्रीयोनिमासाद्य विशेषेण यजेत् सुधीः || ७२ || वेश्यायोनिः परा देवि साधनं तत्र कारयेत् | त्रिरात्रादेव सिध्यन्ति नात्र कार्या विचारणा || ७३ || ऋतुयुक्तं लतामध्ये साधयेद् विधिवन्मुदा | अचिरात् सिद्धिमाप्नोति देवानामपि दुर्लभाम् || ७४ || सारात् सारतमं योनिसाधनमीरितम् | विना तत् साधनं देवि महाशापः प्रजायते || ७५ || योनिनिन्दां घृणां देवि यः करोति नराधमः | अचिराद् रौरवं याति देवि सत्यं शिवाज्ञया || ७६ || योनिमध्ये वसेद् देवि योगिन्याश्चिकुरे स्थिताः | तस्मान्न निन्दयेद् योनिं यदीच्छेदात्मनो हितम् || ७७ || योनिनिन्दां प्रकुर्वाणः स वंशेन विनश्यति | योनिस्तुतिपरो देवि शिवः स्यात् तत्क्षणेन च || ७८ || किं ब्रूमो योनिमाहात्म्यं योनिपूजाफलानि च | चाञ्चल्याद् गदितं किञ्चित् क्षन्तव्यं कामरूपिणि || ७९ || || इति श्रीकामाख्यातन्त्रे देवीश्वरसंवादे द्वितीयः पटलः || २ || अथ तृतीयः पटलः वरमन्त्रं प्रवक्ष्यामि सादरं शृणु पार्वति | यस्य प्रसादमात्रेण ब्रह्मविष्णुशिवा अपि || १ || इन्द्राद्या देवताः सर्वा भवन्ति कामनायुताः | गन्धर्वाः किन्नरा देवि तथा विद्याधरादयः || २ || यत्प्रसादं समागत्य स्वकीयविसयान्विता | योगिनी - डाकिनी - विद्या - भैरवी - नायिकादिकाः || ३ || कामाख्यामन्त्रमासाद्य भजन्ति योग्यता पराम् | स्वर्गे मर्त्ये च पाताले ये ये सिध्यन्ति साधकाः || ४ || निजबीजत्रयं देवि क्रोधद्वयमतः परम् | वधूबीजत्रयं चैव कामाख्या च पुनर्वदेत् || ५ || प्रसीदेति पदं चैव पूर्वबीजानि कल्पयेत् | ठद्वयान्ते मनुः प्रोक्तः सर्वतन्त्रेषु दुर्लभः || ६ || [क्रीं क्रीं क्रीं हुं हुं स्त्रीं स्त्रीं कामाख्ये प्रसीद | क्रीं क्रीं क्रीं हु/ हु/ स्त्रीं स्त्रीं स्वाहा ||] प्रणवाद्या महादेवि त्रैलोक्ये चातिदुर्लभा | चतुर्वगप्रदा साक्षान्महापातकनाशिनी || ७ || स्मरणादेव मन्त्रस्य सर्वे विघ्नाः समाकुलाः | नश्यन्ति दहने दीप्ते पतङ्गा इव पार्वति || ८ || मन्त्रग्रहणमात्रेण जीवोन्मुक्तो भवेन्नरः | भुक्तिर्मुक्तिः करे तस्य सर्वेषां प्रियतां व्रजेत् || ९ || आवृणोति स्वयं लक्ष्मीर्वदने गीः सदा वसेत् | पुत्राः पौत्राः प्रपौत्राश्च भवन्ति चिरजीविनः || १० || पृथिव्यां सर्वपीठेषु कामाख्यादिषु शङ्करि | लिपिश्चलति तस्यैव नात्र कार्या विचारणा || ११ || तस्य नाम च संस्मृत्य प्रणमन्ति सभाजनाः | नाम श्रुत्वा वारमेकं पलायन्ते च हिंसकाः || १२ || यावन्त्यः सिद्धयः सन्ति स्वर्गे मर्त्ये रसातले | साधकानां परिचर्यां कुर्वन्ति नात्र संशयः || १३ || तं दृष्ट्वा साधकेन्द्रं च वादी स्खलति दर्शनात् | सभायां कोटिसूर्याभं पश्यन्ति सर्वसज्जनाः || १४ || जिह्वाकोटिसहस्रैस्तु वक्त्रकोटिशतैरपि | वर्णितुं नैव शक्नोमि मन्त्रमेतन्महेश्वरि || १५ || न्यासपूजादिकं सर्वं पूर्वमुक्तं वरानने | पुरश्चर्याविधौ किन्तु षट्सहस्रं मनुं जपेत् || १६ || यथाविधि षट्शतानि होमादींश्च समाचरेत् | सिद्धो भवति मन्त्रज्ञः प्रयोगेषु ततः क्षमः || १७ || ध्यानं शृणु महादेव्या धनधान्यसुतप्रदम् | दारिद्र्यहननं देवि क्षणेनैव न चान्यथा || १८ || अतिसुललितवेशां हास्यवक्त्रां त्रिनेत्रां जितजलदसुकान्तिं पट्टवस्त्रप्रकाशाम् | अभयवरकाराढ्यां रत्नभूषातिभव्यां सुरतरुतलपीठे रत्नसिंहासनस्थाम् || १९ || हरिहरविधिवन्ध्यां बुद्धिवृद्धिस्वरूपां मदनशरसमाक्तां कामिनीं कामदात्रीम् | निखिलजनविलासोल्लासरूपां भवानीं कालिकलुषनिहन्त्रीं योनिरूपां भजामि || २० || गुह्याद् गुह्यतरं देवि ध्यानं दारिद्र्यनाशकम् | गोपितं सर्वतन्त्रेषु तव भावात् प्रकाशितम् || २१ || स्वयम्भूकुसुमेनैव तिलकं परिकल्प्य च | तूलिकायां महादेवि कुलशक्तिं समाविशेत् || २२ || कर्पूरितमुखः स्वादु साधकश्चुम्बयेन्मुदा | तस्याधरो यथा भृङ्गो नीरजव्याकुलः प्रिये || २३ || दन्तक्षतिवितानां च परमं तत्र कारयेत् | आलिङ्गयेन्मदोन्मत्तः सुदृढं कुचमर्दनम् || २४ || नखाघातैर्नितम्बे च रमयेद् रतिपण्डितः | पुनः पुनश्चुम्बनं च योनौ कुर्यात् कुलेश्वरि || २५ || शुक्रं तु स्तम्भयेद् वीरो योनौ लिङ्गं प्रवेशयेत् | आघातैस्तोषयेत् तां तु सन्धानभेदतः प्रिये || २६ || ततो लिङ्गे स्थिते योनावाज्ञां तस्याः प्रगृह्य च | अष्टोत्तरशतं मन्त्रं जपेद्धोमादिकाङ्क्षया || २७ || दिनत्रयं महाधीरः प्रजपेद् ध्यानतत्परः | प्राप्यते मानसं वस्तु नात्र कार्या विचारणा || २८ || ऋतुयुक्तलतां देवि निवेश्य तूलिकोपरि | करवीरप्रसूनं च तस्या लिङ्गोपरि न्यसेत् || २९ || तद् वीक्ष्य देवदेवेशि जपेच्चाऽष्टसहस्रकम् | दिनत्रयं ततो देव्याः प्रीतिः स्यादचला प्रिये || ३० || धनं विन्दति तस्यैव लक्षसङ्ख्यं न संशयः | आनन्दं वर्द्धयेन्नित्यं साधकस्य महात्मनः || ३१ || अष्टोत्तरशतं योनिं संचुम्ब्य पूज्य सज्जनः | पुनर्लिङ्गे स्थिते योनौ जपेच्चाष्टसहस्रकम् || ३२ || काङ्क्षा पञ्चगुणं वित्तं प्राप्यते सर्वदा सुखी | नित्यं तस्य महेशानि नायिकासङ्गमो भवेत् || ३३ || वेश्यालतां समानीय कुलचक्रं विधाय च | तस्या योनौ यजेद् देवीं हृष्टचित्तेन साधकः || ३४ || भगलिङ्गसमाख्यानं सुस्वरेण समुच्चरेत् | योनिं वीक्ष्य जपेन्मन्त्रं सप्तरात्रमतन्द्रितः || ३५ || प्रत्यहं त्रिशतं कृत्वा सोऽपि सिद्धीश्वरः कलौ | आज्ञां गृह्णाति धनदस्तस्य देवि न संशयः || ३६ || सद्गुरोः स्मरणं कृत्वा योनेश्च साधनं यदि | तदा सिद्धिमवाप्नोति चान्यथा हास्यमेव हि || ३७ || || इति श्रीकामाख्यातन्त्रे देवीश्वरसंवादे तृतीयः पटलः || अथ चतुर्थः पटलः श्रीदेवी उवाच गुरुतत्त्वं महादेव विशेषेण वद प्रभो | दुर्वहा गुरुता या तु सम्भवेन्मानुषे कथम् || १ || तत्रैव सद्गुरुः को वा भ्रष्टः को वा वद प्रभो | दूरीकुरु महादेव संशयं मे महोत्कटम् || २ || इति देव्या वचः श्रुत्वा प्रोवाच शङ्करः प्रभुः | शृणु सारतरं ज्ञानं साधूनां हितकारणम् || ३ || गुरुः सदाशिवः प्रोक्त आदिनाथः स उच्यते | महाकाययुतो देवः सच्चिदानन्दविग्रहः || ४ || सदातनः परं ब्रह्म श्रीधर्मस्त्रिगुणः प्रभुः | त्वत्प्रसादान्महादेवि शिवोऽहमजरामरः || ५ || अत एव गुरुर्नैव मनुजः किन्तु कल्पना | दीक्षायै साधकानां च वृक्षादौ पूजनं यथा || ६ || मन्त्रदातुः शिरः पद्मे यद् ध्यानं कुरुते गुरोः | तद् ध्यानं शिष्यशिरसि चोपदिष्टं न चान्यथा || ७ || अत एव महेशानि कुतो हि मानुषो गुरुः | मानुषे गुरुता देवि कल्पना न तु तथ्यता || ८ || अखण्डमण्डलाकारं व्याप्तं येन चराचरम् | तत् पदं दर्शितं येन तस्मै श्रीगुरवे नमः || ९ || प्रसिधमिति यद् देवि तत् पदं दर्शको नरः | अत एव नरे देवि गुरुता कल्पनैव हि || १० || न तु स्वयं गुरुर्नीच मूर्खता चोभयोरपि | अयं गुरुरिति ज्ञानं शिष्योऽयं खलु मे यदा || ११ || दर्शकः पठनस्यैव स्वयं मानुषो गुरुः | मोक्षो न जायते सत्यं मानुषे गुरुभावनात् || १२ || यथा भोक्तरि भोज्यं हि स्वर्णादिपात्रकेण च | दीयते तत् तथा देवि तस्मै सर्वं समर्पणम् || १३ || यदि चिन्त्य च तत् पात्रं भग्नं वापि महेश्वरि | तदा त्यजेत् तु तत् पात्रमन्यपात्रेण तोषयेत् || १४ || अतो हि मनुजं लुब्धं दुष्टं शिष्योऽपि सन्त्यजेत् | असम्मतस्तु लोकैर्यस्तत्र रुष्टः सदाशिवः || १५ || राजस्वं दीयते राज्ञे प्रजाभिर्मण्डलादिभिः | यथा तथैव तस्मै तु शिष्यदानं समर्पणम् || १६ || अत्रैव ग्राहका हिंस्रा मण्डलाद्याः स्मृता यदि | अन्यद्वारेण दातव्यं तांस्तान् सन्त्यज्य सर्वदा || १७ || सर्वेषां भुवने सत्यं ज्ञानाय गुरुसेवनम् | ज्ञानान्मोक्षमवाप्नोति तस्माज्ज्ञानं परात् परम् || १८ || अतो यो ज्ञानदाने हि न क्षमस्तं त्यजेद् गुरुम् | अन्नाकाङ्क्षी निरन्नं च यथा सन्त्यजति प्रिये || १९ || ज्ञानत्रयं यदा भाति स गुरुः शिव एव हि | अज्ञानिनं वर्जयित्वा शरणं ज्ञानिनो व्रजेत् || २० || ज्ञानाद् धर्मो भवेन्नित्यं ज्ञानादर्थो हि पार्वति | ज्ञानात् काममवाप्नोति ज्ञानान्मोक्षो हि निर्मलः || २१ || ज्ञानं हि परमं वस्तु ज्ञानात् सारतरं न हि | ज्ञानाय भजते देवं ज्ञानं हि तपसः फलम् || २२ || मधुलुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् | ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुवन्तरं व्रजेत् || २३ || गुरवो बहवः सन्ति शिष्यवित्तापहारकाः | दुर्लभः सद्गुरुर्देवि शिष्यसन्तापहारकः || २४ || अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया | चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः || २५ || इति मत्वा साधकेन्द्रो गुरुतां कल्पयेत् सदा | ज्ञानिन्येव शिष्यभक्ताः केवलं निश्चितं शिवे || २६ || शान्तोदान्तः कुलीनश्च शुद्धान्तःकरणः सदा | पञ्चतत्त्वार्चको यस्तु सद्गुरुः स प्रकीर्तितः || २७ || सिद्धोऽसाविति चेत् ख्यातो बहुभिः शिष्यपालकः | चमत्कारी दैवशक्त्या सद्गुरुः कथितः प्रिये || २८ || अश्रुतं सम्मतं वाक्यं वक्ति साधु मनोहरम् | तन्त्र मन्त्रं समं वक्ति य एव सद्गुरुश्च सः || २९ || सदा यः शिष्यबोधाय हिताय च समाकुलः | निग्रहानुग्रहे शक्तः सद्गुरुर्गीयते बुधैः || ३० || परमार्थे सदा दृष्टिः परमार्थं प्रकीर्तितम् | गुरुपादाम्बुजे भक्तिर्यस्यैव सद्गुरुः स्मृतः || ३१ || इत्यादि गुणसम्पत्तिं दृष्ट्वा देवि गुरुं व्रजेत् | त्यक्त्वा क्षमं गुरुं शिष्यो नात्र कालविचारणा || ३२ || केवलं शिष्यसम्पत्तिर्ग्राहको बहुमारकः | व्यङ्गितश्च समक्षे यो लोकैर्नित्यो गुरुर्मतः || ३३ || कायेन मनसा वाचा शिष्यं भक्तियुतं यदि | दृष्ट्वाऽनुमोदनं नास्ति तस्य तद् वस्तु कामतः || ३४ || कर्मणा गर्हितेनैव हन्ति शिष्यं धनादिकम् | शिष्याहितैषिणं लोकं वर्जयेत् तं नराधमम् || ३५ || महाविद्यां समादाय वीराचारं ददाति च | स याति नरकं घोरं शिष्योऽपि पतितो ध्रुवम् || ३६ || पशुभावस्थितो यो हि कालिका तारिणी मनुम् | तत्त्वाऽऽचारं वदेन्नैव नरकान्न निवर्तते || ३७ || तस्मात् पशुगुरुस्त्याज्यः साधकैः सर्वदा प्रिये | पशोर्दीक्षाऽधमा प्रोक्ता चतुर्वर्गविघातिनी || ३८ || यदि दैवात् पशोर्विद्यां लभते शक्तिमान्नरः | कौलात् तु कौलिकीं प्राथ्य तन्मनुं पुनरालभेत् || ३९ || तदा विद्या प्रसन्ना स्यात् फलदा जननई समा | अन्यया विमुखी देवी कुतस्तस्यैव सद्गतिः || ४० || पूर्वोक्तदोषयुक्तश्च दिव्यो वा वीर एव वा | तयोरपि न कर्तव्या शिष्येण गुरुभावना || ४१ || किन्तु भाव्यं हितैषित्वं गुरुताकल्पनां त्यजेत् | दिव्ये वीरवरे वापि न दोषोऽत्र शिवाज्ञया || ४२ || श्रीदेवी उवाच दिव्यतो वीरतो देव पशुतः किं विशेषकः | वद मे परमेशान श्रोतुं मे चित्तमुत्सुकम् || ४३ || श्रीशिव उवाच शृणु देवि जगद्वन्द्ये यत् पृष्टं तत्त्वमुत्तमम् | दिव्यः सर्वमनोहारी मितवादी स्थिरासनः || ४४ || गभीरः श्लिष्टवक्ता च शतावधानकः सुखी | गुरुपादाम्बुजे भीरुः सर्वत्र भयवर्जितः || ४५ || सर्वदर्शी सर्ववक्ता सर्वदुष्टनिवारकः | सर्वगुणान्वितो दिव्यः सोऽहं किं बहुवाक्यतः || ४६ || निर्भयोऽभयदो वीरो गुरुभक्तिपरायणः | वाचालो बलवान् शुद्धः पञ्चतत्त्वे सदा रतिः || ४७ || महोत्साहो महाबुद्धिर्महासाहसिकोऽपि च | महाशयः सदा देवि साधूनां पालने रतः || ४८ || तमोमयः सदा वीरो विनयेन महोत्सुकः | एवं बहुगुणैर्युक्तो वीरो रुद्रः स्वयं प्रिये || ४९ || पशून् शृणु महादेवि सर्वदेवबहिष्कृतान् | अधमान् पापचित्तांश्च पञ्चतत्त्वविनिन्दकान् || ५० || केचिच्छागोपमा देवि केचिन्मेषोपमा इह | केचित् खरोपमा भ्रष्टाः केचिच्च शूकरोपमाः || ५१ || इत्याद्याः पशवो देवि ज्ञेया दुष्टा नराधमाः | एषां देव्यार्चनं सिद्धिर्गणनं वा कुतो भवेत् || ५२ || अतो हि पशवश्छेद्या भेद्याः खाद्याश्च वीरकैः | वर्जिताः सर्वथा भद्रे परमार्थबहिष्कृताः || ५३ || श्रीदेवी उवाच किञ्चित् तु कथितं नाथ सन्देहः प्रचलीकृतः | क्षुद्रो हि पशुभावश्च गदितो यत् स्वयं सदा || ५४ || अर्चितं पशुभावेन वरं साधारणं वद | देवता नैव जानाति तस्मात् समर्पितं न हि || ५५ || भञ्ज भञ्जाशु सन्देहं करुणासागर प्रभो | सूर्यो यथा समाहन्ति चान्धकारं क्षणादपि || ५६ || श्रीशिव उवाच भद्रमुक्तं त्वया विज्ञे तत्त्वं तु शृणु संस्कृतम् | य उक्तः पशुभावो हि कलौ कस्तस्य पालकः || ५७ || पञ्चतत्त्वं न गृह्णाति तत्र निन्दां करोति न | शिवेन गदितं यत् तु तत् सत्यमिति भावयन् || ५८ || निन्दायाः पातकं वेत्ति पाशवः स प्रकीर्तितः | तस्याचारं वदाम्याशु शृणु संशयनाशकम् || ५९ || हविष्यं भक्षयेन्नित्यं ताम्बूलं न स्पृशेदपि | ऋतुस्नातां विना नारीं कामभावेन हि स्पृशेत् || ६० || परस्त्रियं कामभावाद् दृष्ट्वा स्वर्णं समुत्सृजेत् | संत्यजेन्मत्स्यमांसानि पाशवो नित्यमेव च || ६१ || गन्धमाल्यानि वस्त्राणि चीराणि प्रभजेन्न च | देवालये सदा तिष्ठेदाहारार्थं गृहं व्रजेत् || ६२ || कन्यापुत्रादिवात्सल्यं कुर्यान्नित्यं समाकुलः | ऐश्वर्यं प्रार्थयेन्नैव यद्यस्ति तत् तु न त्यजेत् || ६३ || सदा दानं समाकुर्याद् यदि सन्ति धनानि च | कार्पद्रोहान् क्षिपेत् सर्वानहङ्कारादिकांस्ततः || ६४ || विशेषेण महादेवि क्रोधं संवर्जयेदपि | कदाचिद् दीक्षयेन्नैव पाशवः परमेश्वरि || ६५ || सत्यं सत्यं पुनः सत्यं नान्यथा वचनं मम | अज्ञानाद् यदि वा लोभान्मन्त्रदानं करोति च || ६६ || सत्यं सत्यं महादेवि देवीशापः प्रजायते | इत्यादि बहुधाऽऽचाराः क्वचिद् ब्रूमः पशोर्मतः || ६७ || तथापि च न मोक्षः स्यात् सिद्धिश्चैव कदाचन | यदि चंक्रमणे शक्तः खङ्गधारे सदा नरः || ६८ || पश्वाचारं सदा कुर्यात् किन्तु सिद्धिर्न जायते | जम्बूद्वीपे कलुअ देवि ब्राह्मणो हि कदाचन || ६९ || पशुर्न स्यात् पशुर्न स्यात् पशुर्न स्यात् शिवाज्ञया | सत्ये क्रमेच्चतुर्वर्गैः क्षीराज्यमधुपिष्टकैः || ७० || त्रेतायां पूजिता देवी घृतेन सर्वजातिभिः | मधुभिः सर्ववर्णैश्च पूजिता द्वापरे युगे || ७१ || पूजनीया कलौ देवी केवलैरासवैः शवैः | नानुकल्पः कलौ दुर्गे नानुकल्पः कलौ युगे || ७२ || नानुकल्पो ब्राह्मणानां शूद्रादीनां कलौ युगे | न सन्देहो न सन्देहो न सन्देहः कलौ युगे || ७३ || सत्यमेतत् सत्यमेतत् सत्यमेतच्छिवोदितम् | सद्गुरोः शरणं नीत्वा कुलाचारं भजेन्नरः || ७४ || दिव्यत्वं लभते किं वा वीरत्वं लभते शुभे | असाध्यं साधयेद् दिव्योऽप्यनायासेन यद् भुवि || ७५ || वीरस्तं क्लेशतो देवि प्राप्नोतीह न चान्यथा | पशुः कल्पशतैर्वापि साधितुं न च तत्क्षमः || ७६ || लङ्घितुं नैव शक्नोति यथा पङ्गुर्गिरिं क्वचित् | अतिगुह्यमिदं प्रोक्तं रहस्यं त्वयि सुन्दरि | गोपनीयं गोपनीयं गोपनीयं सदाऽनघे || ७७ || || इति श्रीकामाख्यातन्त्रे देवीश्वरसंवादे चतुर्थः पटलः || ४ || अथ पञ्चमः पटलः श्रीदेवी उवाच कस्या देव्याः साधकानामेकान्तनिन्दनं महत् | न कृत्वा पञ्चतत्त्वैश्च पूजनं परमेश्वर || १ || श्रीशिव उवाच कलौ तु सर्वशाक्तानां ब्राह्मणानां विशेषतः | पञ्चतत्त्वविहीनानां निन्दनं परमेश्वरि || २ || तन्मध्ये कालिका तारा साधकानां कुलेश्वरि | मध्यं विना साधनं च महाहास्याय कल्पते || ३ || यथा दीक्षां विना देवि साधनं हास्यमेव हि | तथानयोः साधकानां ज्ञेयं तत्त्वं विना सदा || ४ || शिलायां सस्यवापैश्च न भवेदङ्कुरो यथा | अनावृष्ट्या क्षितौ देवि कर्षणं च यथा न हि || ५ || ऋतुं विना स्त्रियां देवि कुतोऽपत्यं प्रजायते | गमनं च विना क्वापि ग्रामप्राप्तिर्यथा न च || ६ || अतो देव्याः साधनेषु पञ्चतत्त्वं सदा लभेत् | पञ्चतत्त्वैः साधकेन्द्रावर्चयेद् विधिना मुदा || ७ || मद्यैर्मांसैस्तथा मत्स्यैर्मुद्राभिर्मैथुनैरपि | स्त्रीभिः सार्द्धं सदा साधुरर्चयेज्जगदम्बिकाम् || ८ || अन्यथा च महानिन्दा गीयते पण्डितैः सुरैः | कायेन मनसा वाचा तस्मात् तत्त्वपरो भवेत् || ९ || कालिकातारिणीदीक्षां गृहीत्वा मद्यलेहनम् | न करोति नरो यस्तु स कलौ पतितो भवेत् || १० || वैदिकीं तान्त्रिकीं सन्ध्यां जपेद्धोमबहिष्कृतः | अब्राह्मणः स एवोक्तः स एव हस्तिमूर्खकः || ११ || शूनीमूत्रसमं तस्य तर्पणं यत् पितृष्वपि | अतो न तर्पयेत् सोऽपि यदीच्छेदात्मनो हितम् || १२ || कालीतारामनुं प्राप्य वीराचरं करोति न | शूद्रत्वं तच्छरीरे तु प्राप्तं तेन न चान्यथा || १३ || क्षत्रियोऽपि तथा देवि वैश्यश्चाण्डालतां व्रजेत् | शूद्रो हि शूकरत्वं च याति याति न संशयः || १४ || अवश्यं ब्राह्मणो नित्यं राजा वैश्यश्च शूद्रकः | पञ्चतत्त्वैर्भजेद् देवीं न कुर्यात् संशयं क्वचित् || १५ || पञ्चतत्त्वैः कलौ देवि पूजयेद् यः कुलेश्वरीम् | तस्यासाध्यं त्रिभुवने न किञ्चिदपि विद्यते || १६ || स ब्राह्मणो वैष्णवः स शाक्तो गाणपतोऽपि च | सौरः स परमार्थी च स एव पूर्णदीक्षितः || १७ || स एव धार्मिकः साधुर्ज्ञानी चैव महाकृती | याज्ञिकः सर्वकर्मार्हः स हि देवो न चान्यथा || १८ || पावनानीह तीर्थानि सर्वेषामिति सम्मतम् | तीर्थानां पावनः कौलो गिरिजे बहु किं वचः || १९ || अस्यैव जननी धन्या धन्या हि जनकादयः | धन्या जातिकुटुम्बाश्च धन्या आलापिनो जनाः || २० || नृत्यन्ति पितरः सर्वे गाथां गायन्ति ते मुदा | अपि कश्चित् कुलेऽस्माकं कुलज्ञानी भविष्यति || २१ || तदा योग्या भविष्यामः कुलीनानां सभातले | समागन्तुमिति ज्ञात्वा सूत्सुकाः पितरः परे || २२ || कुलाचारस्य माहात्म्यं किं ब्रूमः परमेश्वरि | पञ्चवक्त्रेण देवेशि सनातन्याः फलानि च || २३ || श्रीदेवी उवाच साधनं वद कौलेश साधकानां सुखावहम् | दिव्यं रम्यं मनोहारि सर्वाभीष्टफलप्रदम् || २४ || श्रीशिव उवाच शृणु कामकलाकान्ते साधनं तु सुखावहम् | यत् कञ्चिद् गदितं पूर्वं विस्तृतं तद् वदाम्यहम् || २५ || अतिसुललितदिव्यं स्थानमालोक्यं भक्त्या हृदि च परमदेवीं संविभावैकचित्तः | मधुरकुसुमगन्धैर्व्याप्तमाहृत्य साधु - स्तदुपरि खलु तिष्ठेत् साधनार्थी कुलज्ञः || २६ || जयवति यतमानः शब्दपुष्पं क्षिपेत् तत् स खलु करकबीजान्यत्र दुर्गे ततो हि | चिरभवबकपुष्पं वर्जयित्वाऽर्चयित्वा यदि जपति विधिज्ञस्तत्क्षणात् सोऽप्यहं च || २७ || उपवनपरियुक्ते शुद्धरम्यालये यो विधिकृतबरलिङ्गं लेपयित्वा सुगन्धैः | विविधकुसुमधूपैर्धूपयित्वा लतां संप्रति जपति सुभक्त्या त्वत्सुतोजायते सः || २८ || अचलशिखरमध्ये शीघ्रमालम्बयित्वा कनककुसुमसार्धं शब्दपुष्पं निवेद्य | कृतबहुविधिपूजाः स्वं गुरुं भावयित्वा जपति यदि विलासी विष्णुरेव स्वयं सः || २९ || परिचरति स साधुः सिद्धवर्गः सशङ्कः परवधूलतानां वक्त्रपद्मोपभोगी | जयति भुवनमध्ये निर्जरश्चामरोऽपि व्रजति तमनु नित्यं सार्वभौमो नृणां सः || ३० || अभिनवशुभनीरं रक्तपद्मप्रकीर्णं विविधकमलरम्यं भ्रष्टमीनप्रयुक्तम् | अपरविहितवस्तु व्याप्तमीशेश्वरोऽपि विगतजनसमूहे प्राप्य देवि प्रकोणे || ३१ || घनजनितसुशोभे विद्युदादीप्तिरम्ये हृदि च परमदेवीं चिन्तयित्वा सुभक्त्या | विधिविहितविधानैः स्नानपूजां समाप्य प्रतिजपति निशायां गह्वरे ब्रह्म कः स्यात् || ३२ || इह च गुरुवराज्ञां प्राप्य शीर्षे निधाय त्वयि भजति कुलज्ञो भावभेदात् कुलेशि | सुरगुरुरिह को वा कोपि चन्द्रो दिनेशो व्रजति भुवनमध्ये दिक्पतित्वं च कोऽपि || ३३ || इति च परमदेव्याः साधनं यन्मयोक्तं यदि पठति सुभव्यो गद्गदो वासनाभिः | अभिमतफलसिद्धिः सर्वलोकैर्वरेण्यो भवति भुवनमध्ये पुत्रदारैर्युतोऽपि || ३४ || अचलधनसमूहस्तस्य भोगे वसेत् तु प्रतिदिनमभिपूजा देवताया गृहे च | परिजनगणशक्तिः सर्वदा तत्र तिष्ठेत् सदसि वसति राज्ञः सादरः सोऽपि वन्द्यः || ३५ || इति श्रीकामाख्यातन्त्रे पार्वतीश्वरसंवादे पञ्चमः पटलः || ५ || अथ ष्ष्ठः पटलः श्रीदेवी उवाच श्रुतं रहस्यं देवेश कामाख्याया महेश्वर | महाशत्रुविनाशाय साधनं किं वद प्रभो || १ || श्रीशिव उवाच अतिगुह्यतरं देवि तव स्नेहाद् वितन्यते | महाधीरः साधकेन्द्रः प्रयोगं तु समाचरेत् || २ || पूजयित्वा महादेवीं पञ्चतत्त्वेन साधयेत् | महानन्दमयो भूत्वा साधयेत् साधनं महत् || ३ || स्वमूत्रं तु समादाय कूर्चबीजेन शोधयेत् | तर्पयेद् भैरवीं घोरां सकलं वा पिबेत् स्वयम् || ४ || दश दिक्षु महापीठे प्रक्षिपेदाननेऽपि च | नग्नो भूत्वा रमेत् तत्र शत्रुनाशो भवेद् ध्रुवम् || ५ || शुक्रशोणितमूत्रेषु वीरो यदि घृणी भवेत् | भैरवी कुपिता तस्य सत्यं सत्यं वदाम्यहम् || ६ || दृष्ट्वा श्रुत्वा महेशानि निन्दां करोति यो नरः | सहसा नरकं याति यावच्चन्द्रदिवाकरौ || ७ || वीराचारं महेशानि न निन्देन्मनसापि च | वीरो यस्तु महादेवि स्वेच्छाचारी सदा शुचिः || ८ || मृत्पात्रं तु समादाय साध्यनाम लिखेच्छिवे | वायुना पूरितं कृत्वा स्वमूत्रं तत्र निक्षिपेत् || ९ || मायाबीजं महेशानि अष्टोत्तरशतं जपेत् | भैरव्यै दर्शयेद् देवि मारणोच्चाटनं भवेत् || १० || स्वमूत्रं च समादाय वामहस्तेन शङ्करि | शोधित्वा भैरवीगात्रे निःक्षिपेत् साधकोत्तमः || ११ || उन्मादो जायते शत्रोर्म्रियते वा महेश्वरि | मोहितः क्षोभितो वापि वश्यो वापि भवेद् ध्रुवम् || १२ || मूत्रसाधनमात्रेण सहस्राक्षसमं रिपुम् | नाशयेत् साधको वीरो नात्र कार्या विचारणा || १३ || श्रीदेवी उवाच शुक्रशोणितमूत्राणि शुद्धानीह कथं प्रभो | श्रीशिव उवाच शृणु देवि रहस्यं च महाज्ञानं वदाम्यहम् | शुक्रोऽहं शोणितस्त्वं हि द्वयोरेवाखिलं जगत् || १४ || शुद्धं सर्वशरीरं तु शुक्रशोणितजं ततः | एवं भूतशरीरे तु यद् यद् वस्तु प्रजायते || १५ || अशुद्धं तु कथं देवि पामरो निन्दति ध्रुवम् | ब्रह्मज्ञानमिदं देवि मया ते गदितं किल || १६ || अतः शुद्धं जगत् सर्वं स्वकायस्थे तु का कथा | ब्रह्मज्ञानं विना देवि न च मोक्षः प्रजायते || १७ || ब्रह्मज्ञानी शिवः साक्षाद् विष्णुर्ब्रह्मा च पार्वति | शरीरो दीक्षितः शुद्धो ब्राह्मणो वेदपारगः | क्रोडे तस्य वसन्तीह सर्वतीर्थानि निश्चितम् || १८ || || इति श्रीकामाख्यातन्त्रे पार्वतीसंवादे षष्ठः पटलः || ६ || अथ सप्तमः पटलः श्रीदेवी उवाच महादेव जगद्बन्धो करुणासागर प्रभो | पूर्णाभिषेकं कौलानां वद मे सुखमोक्षदम् || १ || श्रीशिव उवाच शृणु देवि महाप्राणवल्लभे परमाद्भुतम् | पूर्णाभिषेकं सर्वाशापूरकं शिवताप्रदम् || २ || आगत्य सद्गुरुः सिद्धो मन्त्रतन्त्रविशारदः | कौलः सर्वजनख्यातश्चाभिषेकविधिं चरेत् || ३ || अतिगुप्तालये शुद्धे रम्ये कौलिकसम्मते | वेश्याङ्गनाः समानीय तत्त्वानि च सयत्नतः || ४ || विशिष्टकौलिकान् भक्त्या तत्रैव सन्निवेशयेत् | अर्चयेदभिषेकार्थं गुरुं वस्त्रादिभूषणैः || ५ || प्रणमेद् विधिवद् भक्त्या तोषयेत् स्तुतिवाक्यतः | प्रार्थयेच्छुद्धभावेन कुलधर्मं वदेति च || ६ || कृतार्थं कुरु मां नाथ श्रीगुरो करुणानिधे | अभिषिञ्च साधकञ्च सेवार्थं शरणं गतम् || ७ || ततोऽभिषिच्य ? तत्त्वानि शोधयेच्छुक्तिमान् मुदा | स्थापयित्वा पुरः कुम्भं मन्त्रमुद्रादिभिः प्रिये || ८ || वितानैर्धूपदीपानां कृत्वा चामोदितं स्थलम् | नानापुष्पैस्तथा गन्धैः सर्वोपकरणैर्यजेत् || ९ || समाप्य महतीं पूजां तत्त्वानि सन्निवेद्य च | आदौ स्त्रीभ्यः समर्प्यैव प्रसादाल्पं भजेत् ततः || १० || शुभचक्रं विनिर्माय आगमोक्तविधानतः | अभिषेक्ता साधकांश्च पाययेत् तु स्वयं पिबेत् || ११ || भुञ्जीरन् मत्स्यमांसाद्यैश्चर्व्यचोष्यादिभिश्च ते | रमेरन् परमानन्दैर्वेश्यायां च यथासुखम् || १२ || वदेयुः कर्मकर्तुश्च सिद्धिर्भवतु निश्चला | अभिषेचनकर्माशु निर्विघ्नं चेति निश्चितम् || १३ || चक्रालयान्निःसरेन्न जन एकोऽपि शङ्करि | प्रातःकृत्यादिकर्माणि कुर्यात् तत्रैव साधकः || १४ || दिनानि त्रीणि संव्याप्य भक्त्या तांस्तु समर्चयेत् | शिष्यश्चादौ दिवारात्रमभिषिक्तो भवेत् ततः || १५ || अनुष्थानविधिं वक्ष्ये सादरं शृणु पार्वति | न प्रकाण्डं न हि क्षुद्रं प्रमाणं घटमाहरेत् || १६ || ताम्रेण निर्मितं वापि स्वर्णेन निर्मितं च वा | प्रवालं हीरकं मुक्तां स्वर्णरौप्ये तथैव च || १७ || नानालङ्कारवस्त्राणि नानाद्रव्याणि भूरिशः | कस्तूरीकुङ्कुमादीनि नानागन्धानि चाहरेत् || १८ || नानापुष्पाणि माल्यानि पञ्चतत्त्वानि यत्नतः | विहितान् धूपदीपांश्च घृतेन परमेश्वरि || १९ || ततः शिष्यं समानीय गुरुः शुद्धालये प्रिये | वेश्याभिः साधकैः सार्धं पूजनं च समाचरेत् || २० || पटलोक्तविधानेन भक्तितः परिपूजयेत् | पूजां समाप्य देव्यास्तु स्तवैस्तु प्रणमेन्मुदा || २१ || ततो हि शिवशक्तिभ्यो गन्धमाल्यानि दापयेत् | आसनं वस्त्रभूषां च प्रत्येकेन कुलेश्वरि || २२ || ततः शङ्खादिवाद्यैश्च मङ्गलाचरणैः परैः | घटस्थापनकं कुर्यात् क्रमं तत्र शृणु प्रिये || २३ || कामबीजेन संप्रोक्ष्य वाग्भवेनैव शोधयेत् | शक्त्याकलशमारोप्य मायया पूरयेज्जलैः || २४ || प्रवालादीन् पञ्चरत्नान् विन्यसेत् तत्र यत्नतः | आवाहयेच्च तीर्थानि मन्त्रेणानेन देशिकः || २५ || ओं गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च | सर्वे समुद्राः सरितः सरांसि जलदा नदाः || २६ || हृदाः प्रस्रवणाः पुण्याः स्वर्गपातालभूगताः | सर्वतीर्थानि पुण्यानि घटे कुर्वन्तु सन्निधिम् || २७ || रमाबीजेन जप्तेन पल्लवं प्रतिपादयेत् | कूर्चेन फलदानं स्याद् गन्धवस्त्रहृदात्मना || २८ || ललनयैव सिन्दूरं पुष्पं दद्यात् तु कामतः | मूलेन दूर्वां प्रणवैः कुर्यादभ्युक्षणं ततः || २९ || हुं फट् स्वाहेति मन्त्रेण कुर्याद् दर्भैश्च ताडनम् | विचिन्त्य मूलपीठं तु तत्र संयोज्य पूजयेत् || ३० || स्वतन्त्रोक्तविधानेन प्रार्थयेदमुना बुधैः | तद्घटे हस्तमारोप्य शिष्यं पश्यन् गुरुश्च सः || ३१ || उत्तिष्ठ ब्रह्मकलश देवताभीष्टदायक | सर्वतीर्थाम्बुसंपूर्ण पूरयास्य मनोरथम् || ३२ || अभिषिञ्चेत् गुरुः शिष्यं ततो मन्त्रैश्च पार्वति | मङ्गलैर्निखिलैर्द्रव्यैः साधकैः शक्तिभिः सह || ३३ || पल्लवैराम्रकाद्यैश्च नतिमच्छिष्यमेव च | आनन्दैः परमेशानि भक्तानां हितकारिणी || ३४ || अस्याभिषेकमन्त्रस्य दक्षिणामूर्तिः ऋषिः, अनुष्टुष् छन्दः, शक्तिर्देवता, अमुकस्य सर्वसङ्कल्पसिद्धये विनियोगः | ओं राजराजेश्वरीशक्तिर्भैरवी कालभैरवी श्मशानभैरवी देवी त्रिपुरानन्दभैरवी || ३५ || त्रिकुटा त्रिपुरा देवी तथा त्रिपुरसुन्दरी | त्रिपुरेशी महादेवी तथा त्रिषुरमालिका || ३६ || त्रिपुरानन्दिनी देवी तथैव त्रिपुरातनी | एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || ३७ || छिन्नमस्ता महादेवी तथैवैकजटेश्वरी | तारा च जयदुर्गा च शूलिनी भुवनेश्वरी || ३८ || त्वरिताख्या महादेवी तथैव च त्रिखण्डिका | नित्या च नित्यरूपा च वज्रप्रस्तारिणी तथा || ३९ || एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा | अश्वारूढा महेशानि तथा महिषमर्दिनी || ४० || दुर्गा च नवदुर्गा च श्रीदुर्गा भगमालिनी | तथा भगन्दरी देवी भगक्लिन्ना तथा परा || ४१ || सर्वचक्रेश्वरी देवी तथा नीलसरस्वती | सर्वसिद्धिकरी देवी सिद्धगन्धर्वसेविता || ४२ || उग्रतारा महादेवी तथा च भद्रकालिका | एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || ४३ || क्षेमङ्करी महामाया चानिरुद्धसरस्वती | मातङ्गिनी चान्नपूर्णा राजराजेश्वरी तथा || ४४ || एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा | उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका || ४५ || चण्डा चण्डवती चैव चण्डरूपाऽतिचण्डिका | एतास्त्वाममिषिञ्चन्तु मन्त्रपूतेन वारिणा || ४६ || उग्रदंष्ट्रा महादंष्त्रा शुभदंष्ट्रा कपालिनी | भीमनेत्रा विशालाक्षी मङ्गला विजया जया || ४७ || एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा | मङ्गला नन्दिनी भद्रा लक्ष्मीः कीर्तिर्यशस्विनी || ४८ || पुष्टिर्मेधा शिवा साध्वी यशा शोभा जया धृतिः | श्रीनन्दा च सुनन्दा च नन्दिनी नन्दपूजिता || ४९ || एतास्त्वामभिषिञ्चन्तु मन्तपूतेन वारिणा | विजया मङ्गला भद्रा धृतिः शान्तिः शिवा क्षमा || ५० || सिद्धिस्तुष्टिरुमा पुष्टिः श्री ऋद्धिश्च रतिस्तथा | दीप्ता कान्तिर्यशोलक्ष्मीरीश्वरी बुद्धिरेव च || ५१ || चक्री जयावती ब्राह्मी जयन्ती चाऽपराजिता | अजिता मानवी श्वेता दितिश्चाऽदितिरेव च || ५२ || माया चैव महामाया मोहिनी क्षोभिणी तथा | कमला विमला गौरी शरण्यम्बुधिसुन्दरी || ५३ || दुर्गा क्रियाऽरुन्धती च घण्टाकर्णा कपालिनी | रौद्री काली च मायूरी त्रिनेत्रा चाऽपराजिता || ५४ || सुरूपा बहुरूपा च तथैव विग्रहात्मिका | चर्चिका चापरा ज्ञेया तथैव सुरपूजिता || ५५ || वैवस्वती च कौमारी तथा माहेश्वरी परा | वैष्णवी च महालक्ष्मीः कार्तिकी कौषिकी तथा || ५६ || शिवदूती च चामुण्डा मुण्डमाला विभूषिता | एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || ५७ || इन्द्रोऽग्निश्च यमश्चैव नि-ऋतिर्वरुणस्तथा | पवनो धनदेशानौ ब्रह्माऽनन्तो दिगीश्वराः || ५८ || एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा | संवत्सरश्चायनौ च मासाः पक्षौ दिनानि च || ५९ || तिथयश्चाऽभिषिञ्चन्तु मन्त्रपूतेन वारिणा | रविः सोमः कुजः सौम्यो गुरुः शुक्रः शनैश्चरः | राहुः केतुश्च सततमभिषिञ्चन्तु ते ग्रहाः || ६० || नक्षत्रं करणं योगोऽमृतं सिद्धिस्ततः परम् | दग्धं पापं तथा भद्रा योगा वाराः क्षणास्तथा || ६१ || वारवेला कालवेला दण्डराश्यादयस्तथा | अभिषिञ्चन्तु सततं मन्त्रपूतेन वारिणा || ६२ || असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः | कपाली भीषणाख्यश्च संहारोऽष्टौ च भैरवाः || ६३ || अभिषिञ्चन्तु सततं मन्त्रपूतेन वारिणा | डाकिनीपुत्रकाश्चैव राकिणीपुत्रकास्तथा || ६४ || लाकिनीपुत्रकाश्चान्ये काकिनीपुत्रकाः परे | शाकिनीपुत्रका भूयो हाकिनीपुत्रकास्तथा || ६५ || ततश्च दक्षिणीपुत्रा देवीपुत्रास्ततः परम् | मातॄणां च तथा पुत्रा ऊर्ध्वमुख्याः सुताश्च वै || ६६ || अधोमुख्या सुताश्चैव उन्मुख्याश्च सुताः परे | अभिषिञ्चन्तु ते सर्वे मन्त्रपूतेन वारिणा || ६७ || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | एते त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || ६८ || पुरुषः प्रकृतिश्चैव विकाराश्चैव षोडश | आत्माऽन्तरात्मा परमज्ञानात्मानः प्रकीर्तिताः || ६९ || आत्मनश्च गुणाश्चैव स्थूलाः सूक्ष्माश्च येऽपरे | एते त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || ७० || वेदादिबीजं हुंबीजं स्त्रीबीजं मीनकेतनम् | शक्तिबीजं रमाबीजं मायाबीजं सुधाकरम् || ७१ || चिन्तामणिर्महाबीजं नारसिंहं च शाङ्करम् | मार्तण्डभैरवं दौर्गं बीजं श्रीपुरुषोत्तमम् || ७२ || गाणपत्यं च वाराहं कालीबीजं भयापहम् | एतानि चाभिषिञ्चन्तु मन्त्रपूतेन वारिणा || ७३ || गङ्गा गोदावरी रेवा यमुना च सर्वस्वती | आत्रेयी भारती चैव सरयूर्गण्डकी तथा || ७४ || करतोया चन्द्रभागा श्वेतगङ्गा च कौशिकी | भोगवती च पाताले स्वर्गे मन्दाकिनी तथा || ७५ || एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा | भैरवो भीमरूपश्च शोणो घर्घर एव च || ७६ || सिन्धुश्चैव हृदश्चैव तथा पातालसम्भवाः | एते त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || ७७ || यानि कानि च तीर्थानि पुण्यान्यायतनानि च | तानि त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || ७८ || मतिश्च वल्लभा वह्नेर्वषट्कूर्चमतः परम् | वौषट्कारं तु फट्कारमभिषिञ्चन्तु सर्वदा || ७९ || जम्बुद्वीपादयो द्वीपाः सागरा लवणादयः | अनन्ताद्यास्तथा नागाः सर्पा ये तक्षकादयः || ८० || एते त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा | नश्यन्तु प्रेतकूष्माण्डा राक्षसा दानवाश्च ये || ८१ || पिशाचा गुह्यका भूता अभिषेकेण ताडिताः | अलक्ष्मीः कालकर्णी च पापानि च महान्ति च || ८२ || नश्यन्तु चाभिषेकेण ताराबीजेन ताडिताः | रोगाः शोकाश्च दारिद्र्यंदौर्बल्यं चित्तविक्रिया || ८३ || नश्यन्तु चाभिषेकेण वाग्बीजेनैव ताडिताः | तेजोह्रासो बलह्रासो बुद्धिह्रासस्तथैव च || ८४ || नश्यन्तु चाभिषेकेण शक्तिबीजेन ताडिताः | विषाऽपमृत्युरोगाश्च डाकिन्यादिभयं तथा || ८५ || घोराभिचाराः क्रूराश्च ग्रहा नागास्तथा परे | नश्यन्तु चाभिषेकेण कालीबीजेन ताटिताः || ८६ || नश्यन्तु विपदः सर्वाः सम्पदः सन्तु सुस्थिराः | अभिषेकेण शाक्तेन पूर्णाः सन्तु मनोरथाः || ८७ || ततो गुरुः प्राप्तमन्त्रं दीक्षयेत् पुनरेव हि | तदा सिद्धिर्भवेत् सत्यं नान्यथा वचनं मम || ८८ || ततो देवीं गुरुं चैव प्रणमेद् बहुधा मुदा | दक्षिणां गुरवे दद्यात् स्वर्णकाञ्चनमानतः || ८९ || नानावस्त्रैरलङ्कारैर्गन्धमाल्यादिभिस्तथा | तोषयेत् स्तुतिवाक्यैश्च प्रणमेत् पुनरेव हि || ९० || कायेन मनसा वाचा गुरुः कुर्यात् तथाशिषः | वात्सल्यैर्विविधैः शिष्यं ग्राहयेत् तत्त्वमुत्तमम् || ९१ || गुरुश्च भैरवैः सार्धं शक्तिभिर्विहरेन्मुदा | भैरवाः शक्तयश्चापि कुर्युराशीः सुयत्नतः || ९२ || तथा त्रिदिवसं व्याप्य भोजयेद् भैरवान् बुधः | अष्टमे दिवसे शिष्यं पुनः कुर्यात् तु सेचनम् || ९३ || ताम्रपात्रोदकैर्देवि विद्यां राज्ञां जपन् सुधीः | कुन्दुकांश्च तथा सप्तसम्पत्तिहेतवे प्रिये || ९४ || शक्तिभ्यो भैरवेभ्योऽपि ततो वस्त्रादिभूषणम् | दद्यात् प्रयत्नतः साधुर्विद्धि देवि समापनम् || ९५ || श्रीदेवी उवाच श्रुतं रहस्यं देवेश चाभिषेचनकर्मणि | गुरुः कौलाधिकारी स्यादत्र तन्मे वद प्रभो || ९६ || श्रीशिव उवाच महाज्ञानी कौलिकेन्द्रः शुद्धो गुरुपरायणः | निग्रहानुग्रहे शक्तः शिष्यपालनतत्परः || ९७ || पुत्रदारादिभिर्युक्तः सज्जनस्तु प्रपूजितः | श्रद्धावानागमे नित्यं सोऽधिकर्ता न चान्यथा || ९८ || अन्धं खञ्जं तथा रुग्णं स्वल्पज्ञानयुतं पुनः | सामान्यकौलं वरदे वर्जयेन्मतिमान् सदा || ९९ || उदासीनं विशेषेण वर्जयेत् सिद्धिकामुकः | उदासीनमुखाद् दीक्षा वन्ध्या नारी यथा प्रिये || १०० || अज्ञानाद् यदि वा मोहादुदासीनं तु पामरः | अभिषिक्तो भवेद् देवि विघ्नस्तस्य पदे पदे || १०१ || किं तस्य जपपूजाभिः किं ध्यानैः किं च भक्तितः | सर्वं हि विफलं तस्य नरकं याति चान्तिमे || १०२ || कल्पकोटिशतं देवि भुङ्क्ते स नरकं सदा | ततो हि बहुजन्मभ्यो देवीमन्त्रमवाप्नुयात् || १०३ || ततो हि विहितं शुद्धं गृहस्थं गुरुमालभेत् | अभिषेचनकर्माणि पुनः कुर्यात् प्रयत्नतः || १०४ || सफलं हि सदा कर्म सर्वं तस्य भवेद् ध्रुवम् | विद्यापि जननी तुल्या पातितं सततं प्रिये || १०५ || यथा पशुं परित्यज्य कौलिकं गुरुमालभेत् | उदासीनं परित्यज्य तथाऽभिषेचनं शतम् || १०६ || अभिषिक्तः शिवः साक्षादभिषिक्तो हि दीक्षितः | स एव ब्राह्मणो धन्यो देवीदेवपरायणः || १०७ || तस्यैव सफलं जन्म धरण्यां शृणु पार्वति | तस्यैव सफलं कर्म तस्यैव सफलं धनम् || १०८ || तस्यैव सफलो धर्मः कामश्च सफलो मनुः | दीक्षा हि सफला देवि क्रिया च सफला तनुः || १०९ || सर्वं हि सफलं तस्य गिरिजे बहु किं वचः | यत्र देशे वसेत् साधुः सोऽपि वाराणसीसमः || ११० || तस्य क्रोडे वसन्तीह सर्वतीर्थानि निश्चितम् | सत्यं सत्यं महामाये पुनः सत्यं मयोदितम् || १११ || उक्तानि यानि यानीह सेचनानि च पार्वति | सर्वतन्त्रेषु तान्यस्य कलां नार्हन्ति षोडशीम् || ११२ || योग्यं गुरुं तथा शिष्यं विनैतत् पटलं न हि | जायते देवदेवेशि सत्यं सत्यं मयोदितम् || ११३ || इदं तु सेचनं देवि त्रिषु लोकेषु दुर्लभम् | गणेशः पात्रमत्रैव कार्त्तिकेयोऽपि पार्वति || ११४ || मम तुल्यो ब्रह्मतुल्यो विष्णुतुल्योऽत्र भाजनम् | पञ्चवक्त्रैश्च शक्तो न वर्णितुं परमेश्वरि || ११५ || इति ते कथितं गुप्तं सेचनं परमं महत् | गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः || ११६ || यथा रतिर्गोपनीया तथाभिषेचनं परम् | निखाते धनमागत्य गोपयेत् तु यथा नरः || तथैव तु महामाये गोपनीयं ममाज्ञया || ११७ || || इति श्रीकामाख्यातन्त्रे पार्वतीश्वरसंवादे सप्तमः पटलः || ७ || अथ अष्टमः पटलः श्रीदेवी उवाच मुक्तितत्त्वं महादेव वद मे करुणानिधे | यस्मिन् षड्दर्शनानीह चोपहास्यगतानि च || १ || श्रीशिव उवाच शृणु देवि शुभे विज्ञे यत् पृष्टं तत्त्वमुत्तमम् | एतन्मर्म च देवेशि अहं वेद्मि तथा हरिः || २ || मोदकेन यथा लोकः प्रतारयति बालकान् | लगुडेन यथा देवि बध्नाति दुर्जनं नृपः || ३ || तथानङ्गीकृतो लोके दर्शनैर्बर्बरो मया | दुर्जने यदि मुक्तिः स्याच्छङ्कीयति शुभानने || ४ || षड्दर्शनमहाकूपे पतिताः पशवः प्रिये | परमार्थं न जानन्ति दर्वीपाकरसं यथा || ५ || न सारः कदलीवृक्षे नैरण्डे तु शुभानने | दर्शनेषु तथा मुक्तिर्नास्ति देवि मयोदितम् || ६ || यथा मरीचिकायास्तु निर्वर्तन्ते पुनर्मृगाः | दर्शनेभ्यो निवर्तन्ते तथा मुमुक्षवः पुनः || ७ || श्रीगुरोश्च प्रसादेन मुक्तिमादौ सदा लभेत् | विचरेत् सर्वशास्त्रेषु कौतुकाय ततः सुधीः || ८ || मुक्तितत्त्वं प्रवक्ष्यामि सादरं शृणु पार्वति | शरीरधारणं यस्य कुर्वन्तीह पुनः पुनः || ९ || आदावनुग्रहो देव्याः श्रीगुरोस्तदनन्तरम् | तदाननात् ततो दीर्घा भक्तिस्तस्याः प्रजायते || १० || ततो हि साधनं शुद्धं तस्माज्ज्ञानं सुनिर्मलम् | ज्ञानान्मोक्षो भवेत् सत्यमिति शास्त्रस्य निर्णयः || ११ || मुक्तिश्चतुर्विधा प्रोक्ता सालोक्यं तु शुभानने | सारूप्यं सहयोज्यं च निर्वाणं हि परात् परम् || १२ || सालोक्यं वसतिर्लोके सारूप्यं तु स्वरूपता | सायुज्यं कलया युक्तं निर्वाणं तु मनोलयः || १३ || श्रीदेवी उवाच सम्यग् लयो जनस्यैव निर्वाणं यत् तु कथ्यते | तत् किं वद महादेव संशयं लयसात् कुरु || १४ || श्रीशिव उवाच व्यक्तिर्लयात्मिका मुक्तिरसुराणां दयानिधे | दुर्जनत्वाल्लोपयित्वा क्रीडयामि सुरानहम् || १५ || मनोलयात्मिका मुक्तिरिति जानीहि शङ्करि | प्राप्ता मया विष्णुना च ब्रह्मणा नारदादिभिः || १६ || सालोकी केवलं यत् तु याति सारोप्ययुक् द्वयम् | त्रिधा सायोज्यवानेति निर्वाणी सर्वमेव हि || १७ || नीलोत्पलदलश्यामा मुक्तिर्द्विदलवर्तिनी | मुक्तस्यैव सदा स्फीता स्फुरत्यविरतं प्रिये || १८ || सनातनी जगद्वन्द्या सच्चिदानन्दरूपिणी | परा च जननी सैव सर्वाभीष्टप्रदायिनी || १९ || इष्टे निश्चलसम्बन्धः स च निर्वाणमीर्तितम् | मुक्तिज्ञानं कुलज्ञानं नान्यज्ञानं कुलेश्वरि || २० || साधूनां देव देवेशि सर्वेषां विद्धि निश्चितम् | स्वर्गे मर्त्ये च पाताले ये ये मुक्ता भवन्ति हि || २१ || बभूवुश्च भविष्यन्ति सर्वेषां मुक्तिरीदृशी | तथा च साधनं ज्ञेयं पञ्चतत्त्वैश्च मुक्तिदम् || २२ || अनुग्रहस्तु देव्या यः कुलमार्गप्रदर्शकः | दीक्षा कुलात्मिका देवि श्रीगुरोर्मुखपङ्कजात् || २३ || कुलद्रव्येषु या भक्तिः सा मोक्षदायिनी मता | ज्ञात्वा चैवं प्रयत्नेन कुलज्ञानं भजेद् बुधः || २४ || यदि भाग्यवशाद् देवि मन्त्रमेतत् तु लभ्यते | मुक्तेश्च कारणं तस्याः स्वयं ज्ञातं न चान्यथा || २५ || अश्रुतं मुक्तितत्त्वं हि कथितं ते महेश्वरि | आत्मयोनिर्यथा देवि तथा गोप्यं ममाज्ञया || २६ || || इति श्रीकामाख्यातन्त्रे पार्वतीश्वरसंवादे अष्टमः पटलः || अथ नवमः पटलः श्रीदेवी उवाच कामाख्या या महादेव कथिता सर्वरूपिणी | सा का वद जगन्नाथ कपटं मा कुरु प्रभो || १ || कुर्यास्तु कपटं नाथ यदि मे शपथस्त्वयि | रतौ का कामिनी योनिं सम्यक् सन्दर्शयेत् पतिम् || श्रुत्वैतद् गिरिजावाक्यं प्रहस्योवाच शङ्करः || २ || श्रीशिव उवाच शृणु देवि मम प्राणवल्लभे कथयामि ते | या देवी कालिका माता सर्वविद्यास्वरूपिणी || ३ || कामाख्या सैव विख्याता सत्यं सत्यं न चान्यथा | सैव ब्रह्मेति जानीहि संज्ञार्थं दर्शनानि च || ४ || विचरन्ति चोत्सुकानि यथा चन्द्रे चकोरकाः | अस्या हि जायते सर्वं जगदेतच्चराचरम् || ५ || लीयन्ते पुनरस्यां च सन्देहं मा कुरु प्रिये | स्थूला सूक्ष्मा परा देवी सच्चिदानन्दरूपिणी || ६ || अमेयविक्रमश्यामा करुणासागरा मता | मुक्तिमयी जगद्धात्री सदानन्दमयी तथा || ७ || विश्वम्भरी क्रियाशक्तिस्तारा चैव सनतनी | यथा कर्मसमाप्तौ च दक्षिणा फलसिद्धिदा || ८ || तथा मुक्तिरसौ देवि सर्वेषां फलदायिनी | अतो हि दक्षिणाकाली कथ्यते वरवर्णिनि || ९ || कृष्णवर्णा सदा काली आगमस्येति निर्णयः | उक्तानि सर्वतन्त्राणि तन्त्रेणानेन निश्चितम् || १० || कृत्वा सङ्कल्पसिद्धौ तत् कामेषु पाठयेद् बुधः | पठित्वा श्रावयेद् वापि शृणोति पूजयेद् यदि || ११ || तं तं काममवाप्नोति श्रीमत्कालीप्रसादतः | यथास्पर्शमणिर्देवि तथैतत् तन्त्रमुत्तमम् || १२ || यथा कल्पतरुर्दाता तथा ज्ञेयं मनीषिभिः | यथा सर्वाणि रत्नानि सागरे सन्ति निश्चितम् || १३ || तथाऽत्र सिद्धयः सर्वा भुक्तिर्मुक्तिर्वरानने | सर्वदेवाशयो मेरुर्यथा सिद्धं तथा पुनः || १४ || सर्वविद्यायुतं तन्त्रं शपथेन वदाम्यहम् | यस्य गेहे स्थितं देवि तन्त्रमेतद् भयापहम् || १५ || रोगशोकपातकानां लेशो नास्ति कदाचन | तत्र दस्युभयं नास्ति ग्रहराजभयं न च || १६ || न चोत्पातभयं तत्र न च मारीभयं तथा | न पराजयमेषां हि भयं देवि मयोदितम् || १७ || भूत - प्रेत - पिशाचानां दानवानां च रक्षसाम् | न भयं क्वापि सर्वेषां व्याघ्रादीनां तथैव च || १८ || कूष्माण्डानां भयं नैव वह्न्यादीनां भयं न च | विनायकानां सर्वेषां गन्धर्वाणां तथा न च || १९ || स्वर्गे मर्त्ये च पाताले ये ये सन्ति भयानकाः | हिंस्रा विघ्नकराश्चैव न तेषां भयमीश्वरि || २० || यमदूताः पलायन्ते विमुखा भयविह्वलाः | सत्यं सत्यं महादेवि शपथेन वदाम्यहम् || २१ || सम्पत्तिरतुला तत्र तिष्ठेत् तु साप्तपौरुषम् | वाणी तथैव देव्व्यास्तु प्रसादाचल ईरितः || २२ || एतत् ते कथितं देवि न प्रकाश्यं कदाचन | गोपनीयं गोपनीयं गोपनीयं सदा प्रिये || २३ || पशोरग्रे विशेषेण गोपनीयं प्रयत्नतः | भ्रष्टानां साधकानां च सान्निध्ये न वदेदपि || २४ || न दद्यात् काणखञ्जेभ्यो विगीतेभ्यस्तथैव च | उदासीनजनस्यैव सान्निध्ये न वदेदपि || २५ || दाम्भिकाय न दातव्यमभक्ताय विशेषतः | मूर्खाय भावहीनाय दरिद्राय ममाज्ञया || २६ || दद्यात् शान्ताय शुद्धाय कौलिकाय महेश्वरि | कालीभक्ताय शैवाय वैष्णवाय शिवाज्ञया || २७ || अद्वैतभावयुक्ताय महाकालप्रजापिने | सुरा - स्त्री - वन्दकायाऽपि शिवाबलिप्रदाय च || २८ || ||इति श्रीकामाख्यातन्त्रे पार्वतीश्वरसंवादे नवमः पटलः समाप्तः || ९ || समाप्तश्चायं ग्रन्थः | ########### END OF FILE #######