#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00133 Uniform title: kāmadhenutantra Editor : r m caṭṭopādhyāya Description: Transcribed by the staff of Muktabodha. Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Sept. 22, 2008 Publisher : unknown-pree 1900 Bengali Script Publication year : Publication city : Publication country : India #################################################### ओं नमः परदेवतायै कामधेनुतन्त्रम् प्रथमः पटलः श्रीपार्वती उवाच देवदेव महादेव सर्वागमविशारद | अधुना देवदेवेश पञ्चाशद्वर्णमुत्तमम् || १/१ || तत्त्वरूपं महादेव कथयस्व दयानिधे | कृपया कथयेशान यद्यहं तव वल्लभा || १/२ || श्रीमहादेव उवाच अधुना संप्रवक्ष्यामि रहस्यमतिगोपनम् | येन विज्ञातमात्रेण जीवन्मुक्तो भवेन्नरः || १/३ || अज्ञात्वा मन्त्रतत्त्वानि महाविद्यां जपेत्तु यः | सर्वं तस्य वृथा देवि किं तस्य जपपूजनैः || १/४ || ध्यानावधारणे चैव तथा योगसमाधिना | वर्णज्ञानं यदा नास्ति किं तस्य जपपूजनैः || १/५ || मम कण्ठे स्थितं बीजं पञ्चाशद्वर्णमद्भुतम् | नानावर्णयुतं शुद्धं तन्त्राणां सारमुत्तमम् || १/६ || पञ्चाशन्मातृकां देवीं नानाविद्यामयीं सदा | नानाविद्यामयीं देवीं महाविद्यामयीं तथा || १/७ || सर्ववर्णमयीं देवीं सर्वदेवमयीं पराम् | सर्वदेवमयीं सौम्यां ब्रह्माण्डजननीं पराम् || १/८ || प्रणम्य बहुधा भक्त्या निगदामि शृणु प्रिये | अकारादिक्षकारान्ता मातृका बीजरूपिणी || १/९ || विसर्गश्चैव बिन्दुश्च त्रिशक्तिब्रह्मविग्रहः | वर्णात्तु जायते ब्रह्मा तथा विष्णुः प्रजायते || १/१० || रुद्रश्च जायते देवि जगत्संहारकारकः | मम कण्ठस्थिता या सा शारदा वामलोचना || १/११ || तस्या गर्भस्थिता देवि बीजानि विविधानि च | विधृत्य कण्ठदेशे तु शिवोऽहं कमलानने || १/१२ || शृणु तत्त्वमकारस्य अतिगोप्यं वरानने | शरच्चन्द्रप्रतीकाशं पञ्चकोषमयं सदा || १/१३ || पञ्चदेवमयं वर्णं शक्तित्रयसमन्वितम् | निर्गुणं त्रिगुणोपेतं स्वयं कैवल्यमूर्तिमान् || बिन्दुतत्त्वमयं वर्णं स्वयं प्रकृतिरूपिणी || १/१४ || इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे प्रथमः पटलः || द्वितीयः पटलः श्रीमहादेव उवाच आकारं परमाश्चर्यं शङ्खज्योतिर्मयं प्रिये | ब्रह्मविष्णुमयं वर्णं तथा रुद्रं स्वयं प्रिये || २/१ || पञ्चप्राणमयं वर्णं स्वयं परमकुण्डली | इकारं परमानन्दं सुगन्धकुसुमच्छविम् || २/२ || हरिब्रह्ममयं वर्णं सदा रुद्रयुतं प्रिये | सदा शक्तिमयं देवि गुरुब्रह्म स्वयं तथा || २/३ || सदाशिवमयं वर्णं परंब्रह्म समन्वितम् | हरिब्रह्मात्मकं वर्णं गुणत्रयसमन्वितम् || २/४ || इकारं परमेशानि मूर्तिर्वै कुण्डली स्वयम् | ईकारं परमेशानि स्वयं परमकुण्डली || २/५ || ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं सदा | पञ्चदेवमयं वर्णं पीतविद्युल्लताकृतिम् || २/६ || चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयं सदा | उकारं परमेशानि तार कुण्डलीनी स्वयम् || २/७ || पीतचम्पकसंकाशं पंचदेवमयं सदा | पञ्चप्राणमयं देवि चतुर्वर्गप्रदायकम् || २/८ || अकारं देवदेवेशि बीजं परमदुर्लभम् | शङ्खकुन्दसमाकारं स्वयं परमकुण्डली || २/९ || पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा | पञ्चप्राणयुतं वर्णं तथा त्रयगुणात्मकम् || २/१० || बिन्दुत्रययुतं वर्णं पीतविद्युल्लता यथा | धर्मार्थकाममोक्षं च सदा सुखप्रदायकम् || २/११ || ऋकारं परमेशानि कुण्डली मूर्त्तिमान् स्वयम् | अत्र ब्रह्मा च विष्णुश्च रुद्रश्चैव वरानने || २/१२ || सदाशिवयुतं वर्णं सदा ईश्वरसंयुतम् | पञ्चप्राणमयं वर्णं चतुर्ज्ञानमयं सदा || २/१३ || रक्तविद्युल्लताकारं ऋकारं प्रणमाम्यहम् | ॠकारं परमेशानि स्वयं परमकुण्डली || २/१४ || पीतविद्युल्लताकारं पञ्चदेवमयं सदा | चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयं सदा || २/१५ || त्रिशक्तिसहितं वर्णं प्रणमामि सदा प्रिये | ऌकारं चञ्चलापाङ्गि कुण्डली परदेवता || २/१६ || अत्र ब्रह्मादयः सर्वे तिष्ठन्ति सततं प्रिये | पञ्चदेवमयं वर्णं चतुर्ज्ञानमयं सदा || २/१७ || पञ्चप्राणयुतं वर्णं तथा गुणत्रयात्मकम् | बिन्दुत्रयात्मकं वर्णं पीतविद्युल्लता यथा || २/१८ || ॡकारं परमेशानि पूर्णचन्द्रसमप्रमम् | पञ्चदेवात्मकं वर्णं पञ्चप्राणात्मकं सदा || २/१९ || गुणत्रयात्मकं वर्णं तथा बिन्दुत्रयात्मकम् | चतुर्वर्गप्रदं देवि स्वयं परमकुण्डली || २/२० || एकारं परमं दिव्यं ब्रह्मविष्णुशिवात्मकम् | बन्धूककुसुमप्रख्यं पञ्चदेवमयं सदा || २/२१ || पञ्चप्राणात्मकं वर्णं तथा बिन्दुत्रयात्मकम् | चतुर्वर्गप्रदं देवि स्वयं परमकुण्डली || २/२२ || इति श्रीकामधेनुतन्त्रे द्वितीयः पटलः || तृतीयः पटलः ऐकारं परमं दिव्यं महाकुण्डलिनी स्वयम् | कोटिचन्द्रप्रतीकाशं पञ्चप्राणमयं सदा || ३/१ || ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं प्रिये | सदाशिवमयं वर्णं बिन्दुत्रयसमन्वितम् || ३/२ || ओकारं चञ्चलापाङ्गि पञ्चदेवमयं सदा | रक्तविद्युल्लताकारं त्रिगुणात्मानमीश्वरम् || ३/३ || पञ्चप्राणमयं वर्णं नमामि देवमातरम् | एतद्वर्णं महेशानि स्वयं परमकुण्डली || ३/४ || रक्तविद्युल्लताकारं औकारं कुण्डला स्वयम् | अत्र ब्रह्मादयः सर्वे तिष्ठन्ति सततं प्रिये || ३/५ || पञ्चप्राणमयं वर्णं सदाशिवमयं सदा | सदा ईश्वरसंयुक्तं चतुर्वर्गप्रदायकम् || ३/६ || अंकारं बिन्दुसंयुक्तं पीतविद्युत्समप्रभम् | पञ्चप्राणात्मकं वर्णं ब्रह्मादिदेवतामयम् || ३/७ || सर्वज्ञानमयं वर्णं बिन्दुत्रयसमन्वितम् | शक्तित्रयमयं वर्णं स्वयं परमकुण्डली || ३/८ || अःकारं परमेशानि विसर्गसहितं सदा | अःकारं परमेशानि रक्तविद्युत्प्रभामयम् || ३/९ || पञ्चदेवमयो वर्णः पञ्चप्राणमयः सदा | सर्वज्ञानमयो वर्ण आत्मादितत्त्वसंयुतः || ३/१० || बिन्दुत्रयमयो वर्णः शक्तित्रयमयः सदा | किशोरवयसः सर्वा गीतवाद्यादितत्पराः || शिवस्य युवती एता मूर्त्तिमत् कुण्डली स्वयम् || ३/११ || अधुना संप्रवक्ष्यामि कारतत्त्वमुत्तमम् | रहस्यं परमाश्चर्यं त्रैलोक्यानां च संशृणु || ३/१२ || वामरेखा भवेद् ब्रह्मा विष्णुर्दक्षिणवीथिका | अधोरेखा भवेद्रुद्रो मात्रा साक्षान्महेश्वरी || ३/१३ || कुण्डली अङ्कुशाकारा मध्ये शून्यः सदाशिवः | जवायावकसंकाशा बामरेखा वरानने || ३/१४ || शरच्चन्द्रप्रतीकाशा दक्षरेखा च मूर्तिमान् | अधोरेखा वरारोहे महामारकतद्युतिः || ३/१५ || शङ्खकुन्दसमा कीर्तिर्मात्रा साक्षात् सरस्वती | कुण्डली अङ्कुशा या तु कोटिविद्युल्लताकृतिः || ३/१६ || कोटिचन्द्रप्रतिकाशा मध्ये शून्यः सदाशिवः | शून्यगर्भे स्थिता काली कैवल्यपददायिनी || ३/१७ || ककाराज्जायते सर्वं कामं कैवल्यमेव च | अर्थश्च जायते देवि तथा धर्मश्च नान्यथा || ३/१८ || ककारः सर्ववर्णानां मूलप्रकृतिरेव च | ककारः कामदा कामरूपिणी स्फुरदव्यया || ३/१९ || कामिनी या महेशानि स्वयं प्रकृतिसुन्दरी | माता सा सर्वदेवानां कैवल्यपददायिनी || ३/२० || ऊर्ध्वकोणे स्थिता कामा ब्रह्मशक्तिरितीरिता | वामकोणे स्थिता ज्येष्ठा विष्णुशक्तिरितीरिता || ३/२१ ||] दक्षकोणे स्थितो बिन्दू रौद्रीसंहाररूपिणी | ज्ञानार्था सातु चार्वङ्गि केन चतुष्टयात्मिका || ३/२२ || इच्छाशक्तिर्भवेद् ब्रह्मा विप्णुश्च ज्ञानशक्तिमान् | क्रियाशक्तिर्भवेद् रुद्रः सर्वं प्रकृतिमूर्त्तिमान् || ३/२३ || आत्मविद्याशिवैस्तत्त्वैः सदासाराप्रतिष्ठितैः | आसनं त्रिपुरादेव्याः ककारं पञ्चदेवताम् || ३/२४ || ईश्वरो यस्तु देवेशि त्रिकोणे तस्य संस्थितिः | त्रिकोणमेतत् कथितं योनिमण्डलमुत्तमम् || ३/२५ || केवलं प्रपदे यस्याः कामिनी सा प्रकीर्त्तिता | ओं शयनागारसिन्दूरसदृशीं कामिनीं पराम् || ३/२६ || चतुर्भुजां त्रिनेत्राञ्च बाहुवल्लीविराजिताम् | कदम्बकोरकाकारस्तनद्वयविभूषिताम् || ३/२७ || रत्नकेयूराङ्गदैश्च भूषणैरुपशोभिताम् | रत्नहारैः पुष्पहारैः शोभितां परमेश्वरीम् || ३/२८ || एवं हि कामिनीं ज्ञात्वा ककारं दशधा जपेत् | प्रफुल्लञ्च ततो ध्यात्वा जपस्य फलभाग् भवेत् | एतत्ते कथितं देवि ककारतत्त्वमुत्तमम् || ३/२९ || इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे तृतीयः पटलः || चतुर्थः पटलः श्रीमहादेव उवाच ककारं परमेशानि कुण्डलीत्रयसंयुतम् | खकारं परमाश्चर्यं शङ्खकुन्दसमप्रभम् || ४/१ || कोणत्रययुतं शून्यं बिन्दुत्रयसमन्वितम् | गुणत्रययुतं देवि पञ्चदेवमयं सदा || ४/२ || त्रिशक्तिसंयुतं वर्णं खकारं प्रणमाम्यहम् | गकारं परमेशानि पञ्चदेवात्मकं सदा || ४/३ || निर्गुणं त्रिगुणोपेतं निरीहं निर्मलं सदा | पञ्चप्राणमयं वर्णं सर्वशक्त्यात्मकं प्रिये || ४/४ || अरुणादित्यसङ्काशं कुण्डलीं प्रणमाम्यहम् | घकारं चञ्चलापाङ्गि चतुष्कोणात्मकं सदा || ४/५ || पञ्चदेवमयं वर्णं अरुणादित्यसन्निभम् | निर्गुणं त्रिगुणोपेतं सदा त्रिगुणसंयुतम् || ४/६ || सर्वगं सर्वदं शान्तं घकारं प्रणमाम्यहम् | ङकारं परमेशानि स्वयं परमकुण्डली || ४/७ || सर्वदवमयं वर्णं त्रिगुणं लोललोचने | पञ्चप्राणमयं वर्णं ङकारं प्रणमाम्यहम् || ४/८ || चवर्णं शृणु सुश्रोणि चतुर्वर्गप्रदायकम् | कुण्डलीसहितं देवि स्वयं परमकुण्डली || ४/९ || सततं कुण्डलीयुक्तं पञ्चदेवमयं सदा | पञ्चप्राणमयं वर्णं पञ्चप्राणात्मकं सदा || ४/१० || त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं प्रिये | छकारं परमाश्चर्यं स्वयं परमकुण्डली || ४/११ || सततं कुण्डलीयुक्तं पञ्चदेवमयं सदा | पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा || ४/१२ || त्रिबिन्दुसहितं वर्णं सदा ईश्वरसंयुतम् | पीतविद्युल्लताकारं छकारं प्रणमाम्यहम् || ४/१३ || जकारं परमेशानि या स्वयं मध्यकुण्डली | शरच्चन्द्रप्रतीकाशं सदा त्रिगुणसंयुतम् || ४/१४ || पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा | त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं प्रिये || ४/१५ || झकारं परमेशानि कुण्डली मोक्षरूपिणी | रक्तविद्युल्लताकारं सदा त्रिगुणसंस्थितम् || ४/१६ || पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा | त्रिबिन्दुसहितं वर्णं त्रिशक्तिसहितं सदा || ४/१७ || सदा ईश्वरसंयुक्तं ञकारं शृणु सुन्दरि | रक्तविद्युल्लताकारं स्वयं परमकुण्डली || ४/१८ || पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा | त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा || ४/१९ || टकारं चञ्चलापाङ्गि स्वयं परमकुण्डली | कोटिविद्युल्लताकारं पञ्चदेवमयं सदा || ४/२० || पञ्चप्राणयुतं वर्णं गुणत्रयसमन्वितम् | त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा || ४/२१ || ठकारं चञ्चलापाङ्गि कुण्डली मोक्षरूपिणी | पीतविद्युल्लताकारं सदा त्रिगुणसंयुतम् || ४/२२ || पञ्चप्राणात्मकं वर्णं पञ्चप्राणमयं सदा | त्रिबिन्दुसहितं वर्णं त्रिशक्तिसहितं सादा || ४/२३ || डकारं चञ्चलापाङ्गि सदा त्रिगुणसंयुतम् | पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा || ४/२४ || त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा | चतुर्ज्ञानमयं वर्णं आत्मादितत्त्वसंयुतम् || ४/२५ || पीतविद्युल्लताकारं डकारं प्रणमाम्यहम् | ढकारं परमाराध्यं या स्वयं कुण्डली परा || ४/२६ || पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा | सदा त्रिगुणसंयुक्तं आत्मादितत्त्वसंयुतम् | रक्तविद्युल्लताकारं ढकारं प्रणमाम्यहम् || ४/२७ || णकारं परमेशानि स्वयं परमकुण्डली | पीतविद्युल्लताकारं पञ्चदेवमयं सदा || ४/२८ || पञ्चप्राणमयं देवि सदा त्रिगुणसंयुतम् | आत्मादितत्त्वसंयुक्तं महामोहप्रदायकम् || ४/२९ || इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे चतुर्थः पटलः || पञ्चमः पटलः श्रीमहादेव उवाच तकारं चञ्चलापाङ्गि स्वयं परमकुण्डली | पञ्चदेवात्मकं वर्णं पञ्चप्राणम्यं तथा || ५/१ || त्रिशक्तिसहितं वर्णमात्मादितत्त्वसंयुतम् | त्रिबिन्दुसहितं वर्णं पीतविद्युत्समप्रभम् || ५/२ || थकारं चञ्चलापाङ्गि कुण्डली मोक्षरूपिणी | त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा || ५/३ || पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा | अरुणादित्यसंकाशं थकारं प्रणमाम्यहम् || ५/४ || दकारं शृणु चार्वङ्गि चतुर्वर्गप्रदायकम् | पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा || ५/५ || त्रिशक्तिसहितं देवि त्रिबिन्दुसहितं सदा | आत्मादितत्त्वसंयुक्तं स्वयं परमकुण्डली || ५/६ || रक्तविद्युल्लताकारं दकारं हृदि भावय | धकारं परमेशानि कुण्डली मोक्षरूपिणी || ५/७ || आत्मादितत्त्वसंयुक्तं पञ्चदेवमयं सदा | पञ्चप्राणमयं देवि त्रिशक्तिसहितं सदा || ५/८ || त्रिबिन्दुसहितं वर्णं धकारं हृदि भावय | पीतविद्युल्लताकारं चतुर्वर्गप्रदायकम् || ५/९ || नकारं शृणु चार्वङ्गि रक्तविद्युल्लताकृतिम् | पञ्चदेवमयं वर्णं स्वयं परमकुण्डली || ५/१० || पञ्चप्राणात्मकं वर्णं हृदि भावय पार्वति | अतः परं प्रवक्ष्यामि पकारं मोक्षदायकम् || ५/११ || चतुर्वर्गप्रदं वर्णं शरच्चन्द्रसमप्रभम् | पञ्चदेवमयं वर्णं स्वयं परमकुण्डली || ५/१२ || पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा | त्रुगुणै रहितं वर्णमात्मादितत्त्वसंयुतम् || ५/१३ || महामोक्षप्रदं वर्णं हृदि भावय पार्वति | फकारं शृणु चार्वङ्गि रक्तविद्युल्लतोपमम् || ५/१४ || चतुर्वर्गप्रदं वर्णं पञ्चदेवमयं सदा | पञ्चप्राणमयं वर्णं सदा त्रिगुणसंयुतम् || ५/१५ || आत्मादितत्त्वसंयुक्तं त्रिबिन्दुसहितं सदा | बकारं शृणु चार्वङ्गि चतुर्वर्गप्रदायकम् || ५/१६ || शरच्चन्द्रप्रतीकाशं पञ्चदेवमयं सदा | पञ्चप्राणात्मकं वर्णं त्रिबिन्दुसहितं सदा || ५/१७ || त्रिशक्तिसहितं वर्णं सदा चामृतनिर्मितम् | स्वयं कुण्डलिनी साक्षात् सततं प्रणमाम्यहम् || ५/१८ || भकारं शृणु चार्वङ्गि स्वयं परमकुण्डली | महामोक्षप्रदं वर्णमरुणादित्यसन्निभम् || ५/१९ || पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा | त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं प्रिये || ५/२० || मकारं शृणु चार्वङ्गि स्वयं परमकुण्डली | अरुणादित्यसंकाशं चतुर्वर्गप्रदायकम् || ५/२१ || त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा | आत्मादितत्त्वसंयुक्तं हृदिस्थं प्रणमाम्यहम् || ५/२२ || यकारं शृणु चार्वङ्गि चतुष्कोणमयं सदा | पलालधूमसंकाशं स्वयं परमकुण्डली || ५/२३ || पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा | त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं तथा || ५/२४ || प्रणमामि सदा वर्णं मूर्तिमान् (?)मोक्षमव्ययम् | इति श्रीकामधेनुतन्त्रे देवद्वीसंवादे पञ्चमः पटलः || षष्ठः पटलः श्रीमहादेव उवाच रकारं चञ्चलापाङ्गि कुण्डलीद्वयसंयुतम् | रक्तविद्युल्लताकारं पञ्चदेवात्मकं सदा || ६/१ || पञ्चप्राणमयं वर्णं त्रिबिन्दुसहितं सदा | त्रिशक्तिसहितं देवि आत्मादितत्त्वसंयुतम् || ६/२ || सर्वतेजोमयं वर्णं सततं प्रणमाम्यहम् | लकारं चञ्चलापाङ्गि कुण्डलीत्रयसंयुतम् || ६/३ || पीतविद्युल्लताकारं सर्वरत्नप्रदायकम् | पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा || ६/४ || त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं हि सा | आत्मादितत्त्वसहितं हृदि भावय सर्वदा || ६/५ || वकारं चञ्चलापाङ्गि कुण्डली मोक्षमव्ययम् | पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा || ६/६ || त्रिबिन्दुसहितं वर्णमात्मादितत्त्वसंयुतम् | पञ्चदेवमयं वर्णं पीतविद्युल्लतोपमम् || ६/७ || चतुर्वर्गमयं वर्णं सर्वसिद्धिप्रदायकम् | त्रिशक्तिसहितं देवि त्रिशक्तिसहितं सदा || ६/८ || शकारं परमेशानि स्वर्णवर्णं शुचिस्मिते | रक्तवर्णप्रभाकारा स्वयं परमकुण्डली || ६/९ || चतुर्वर्गप्रदं देवि शकारं ब्रह्मविग्रहम् | पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं प्रिये || ६/१० || रजःसत्त्वतमोयुक्तं त्रिबिन्दुसहितं सदा | त्रिशक्तिसहितं वर्णमात्मादितत्त्वसंयुतम् || ६/११ || षकारं शृणु चार्वङ्गि कोणषट्कमयं सदा | रक्तचन्द्रप्रतीकाशं स्वयं परमकुण्डली || ६/१२ || चतुर्वर्गप्रदं वर्णं सुधानिर्मितविग्रहम् | पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा || ६/१३ || रजःसत्त्वतमोयुक्तं त्रिबिन्दुसहितं परम् | सर्वदेवमयं वर्णं हृदि भावय पार्वति || ६/१४ || सकारं शृणु चार्वङ्गि शक्तिबीजं परात्परम् | कोटिविद्युल्लताकारं कुण्डलीत्रयसंयुतम् || ६/१५ || पञ्चदेवमयं देवि पञ्चप्राणमयं सदा | रजःसत्त्वतमोयुक्तं त्रिबिन्दुसहितं सदा || ६/१६ || त्रिशक्तिसहितं वर्णमात्मादितत्त्वसंयुतम् | प्रणम्य सततं देवि हृदि भावय सुन्दरि || ६/१७ || हकारं शृणु चार्वङ्गि चतुर्वर्गप्रदायकम् | कुण्डलीत्रयसंयुक्तं रक्तविद्युल्लतोपमम् || ६/१८ || रजःसत्त्वतमोयुक्तं पञ्चदेवमयं सदा | पञ्चप्राणात्मकं वर्णं त्रिशक्तिसहितं सदा || ६/१९ || त्रिबिन्दुसहितं वर्णं हृदि भावय सुन्दरि | क्षकारं शृणु चार्वङ्गि कुण्डलीत्रयसंयुतम् || ६/२० || चतुर्वर्गमयं वर्णं पञ्चदेवमयं सदा | पञ्चप्राणात्मकं वर्णं त्रिशक्तिसहितं सदा || ६/२१ || त्रिबिन्दुसहितं वर्णमात्मादितत्त्वसंयुतम् | शरच्चन्द्रप्रतीकाशं हृदि भावय सुन्दरि || ६/२२ || अकारादिक्षकारान्तं स्वयं परमकुण्डली | सर्वं चराचरं विश्वं वर्णात्तु जायते ध्रुवम् || ६/२३ || नानाशास्त्रं पुराणञ्च इतिहासञ्च सुन्दरि | वेदञ्च स्मृतिशास्त्रञ्च अन्यानि यानि कानि च || ६/२४ || अक्षराज्जायते सर्वं परं ब्रह्म स्वयं प्रिये | इति कामधेनुतन्त्रे देवदेवीसंवादे षष्ठः पटलः || सप्तमः पटलः श्रीमहादेव उवाच रहस्यं परमाश्चर्यं सदाअ मम हृदि स्थितम् | अतः परं प्रवक्ष्यामि मन्त्रतत्त्वं पृथक् पृथक् || ७/१ || मातृकाया वरारोहे सावधानावधारय | अतः परं जपेन्मन्त्रं पञ्चाशन्मातृकां पृथक् || ७/२ || अतस्त्वमधिकारी स्यान्नात्र कार्या विचारणा | इति ते कथितं देवि प्रयोगं मन्त्रमुत्तमम् || ७/३ || एतन्मन्त्रं विना देवि इष्टं मन्त्रं जपेन्नरः | सर्वं तस्य भवेद्व्यर्थं सर्वं व्यर्थकदर्थनम् || ७/४ || एतन्मन्त्रं प्रथमतो दशधा प्रजपेत् प्रिये | ततस्तु प्रणवं दत्त्वा मातृकां प्रजपेत् पृथक् || ७/५ || प्रयोगं परमाश्चर्यं सावधानावधारय | तद्यथा - ओं, अ/ ओं, ओं आं ओं, ओं इ/ ओं, ओं ई/ ओं, ओं उ/ ओं, ओं ओं ओं, ओं ऋ/ ओं, ओं ऋ/ ओं, ओं ऌ/ ओं, ओं ॡ ओं, ओं ए/ ओं, ओं ऐ/ ओं, ओं ओ/ ओं, ओं औ/ ओं, ओं अं ओं, ओं अः ओं, ओं कं ओं | एवं क्षकारपर्यन्तं प्रणवैः पुटितं सदा | प्रत्येकमेवं चार्वङ्गि दशधा दशधा जपेत् || ७/६ || प्रत्येकं जपमात्रेण प्रत्येकं ध्यानमाचरेत् | अथवा सर्ववर्णानामेकीकृत्य वरानने || ७/७ || प्रजपेद् दशधा मन्त्रं स्वमन्त्रं प्रजपेत्ततः | तथा च सर्ववर्णानां ध्यानं वक्ष्यामि संशृणु || ७/८ || कोटिचन्द्रपतीकाशां पुण्डरीकोपरिस्थिताम् | भ्रमद्भ्रमरलीलाभां नयनत्रयराजिताम् || ७/९ || नानाशास्त्रप्रवक्त्रीं च विद्याभ्यासमयीं सदा | नानावाद्यमयीं देवीं श्वेतांशुकपरिष्कृताम् || ७/१० || शुक्लाभरणदीप्ताङ्गी शुक्लवस्त्रोत्तरीयिणीम् | ब्रह्माण्डं दर्पणे यस्या वामहस्तस्य पार्वति || ७/११ || तद्वच्छुकशिशुं प्रेक्ष्य क्षुद्रदर्पणमुच्यते | एवं ध्यात्वा जगद्धात्रीं मातृकां जगदम्बिकाम् || ७/१२ || प्रजपेद्दशधा मन्त्रमेकधा वा जपेत्तु यः | सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा || ७/१३ || एषा ते कथिता विद्या मातृका परमात्मिका | यत् कृत्वा साधको याति दुर्लभं मोक्षमव्ययम् || ७/१४ || प्रत्येकेनाथवा देवि एकैकैव वरानने | रहस्यं शृणु चार्वङ्गि सुगोप्यं भुवनत्रये || ७/१५ || इष्टविद्यां सकृत् स्मृत्वा मनसा परमेश्वरि | यस्य मन्त्रस्य यद्ध्यानं कृत्वा देवि प्रयत्नतः || ७/१६ || तन्मन्त्रं दशधा जप्त्वा इष्टध्यानं ततः प्रिये | इष्टमन्त्रं प्रजप्त्वा वै सर्वसिद्धिं ततो लभेत् || ७/१७ || अनेन विधिना देवि मन्त्रश्चैतन्यमाप्नुयात् | चैतन्यरहितं मन्त्रं विद्या वा सुरपूजिते || ७/१८ || सर्व व्यर्थं भवेद्देवि बिफलं स जपो भवेत् | श्रीमाहदेव उवाच अपरं शृणु चार्वङ्गि वर्गाष्टकमनुत्तमम् || ७/१९ || वर्गाष्टकं विना देवि कोटिपुरश्चरं यदि | सर्वं तस्य वृथा देवि अन्ते च नरकं ब्रजेत् || ७/२० || अकचटतपयशा इत्येतदष्टवर्गकम् | मन्त्रस्यादौ च अन्ते च अकारं बिन्दुसंयुतम् || ७/२१ || दत्त्वा तमेव भक्त्या च अष्टोत्तरशतं जपेत् | अनेन विधिना देवि आदित्याभं समाचरेत् || ७/२२ || तावज्जपेद् वरारोहे यावल्लक्षं समाप्यते | ततो मन्त्रं वरारोहे ध्रुवं जीवत्वमाप्नुयात् || ७/२३ || जीवत्वं हि विना देवि न पुरश्चरणं चरेत् | जीवत्वं हि विना देवि यदि कुर्यात् पुरश्चरम् || ७/२४ || विफला तस्य सा सर्वा पूर्वपुण्यं विनश्यति | वर्गाष्टकेन सहितं प्रत्यहं प्रजपेत् शतम् || ७/२५ || सदैव सहसा भद्रे सर्वं मन्त्रञ्च सिध्यति | किं तस्य ध्यानपूजायां पुरश्चर्याञ्च किं पुनः || ७/२६ || कृत्वा तु जीवं मन्त्रस्य विद्याञ्च वरवर्णिनी | विद्यायाश्च तथा देवि यः कुर्यात् प्राणनिर्णयम् || ७/२७ || तत्क्षणाद् यान्ति चार्वङ्गि पुरश्चर्यां शतं शतम् | विशेषतः कलियुगे जम्बूद्वीपस्य भारते || ७/२८ || प्राणन्यासं विना देवि न जपेत् साधकः क्वचित् | वैष्णवेषु च मन्त्रेषु शैवेषु शक्तिमन्त्रके || ७/२९ || गणेशसौरमन्त्रे च प्राणन्यासः प्रशस्यते | किं तस्य जपपूजासु होमादिषु च किं प्रिये || ७/३० || प्राणतत्त्वं महेशानि यो जानाति स पूजकः | प्राणतत्त्वं विना देवि देहन्यासं करोति यः || ७/३१ || स भ्रष्टः स च पापिष्ठो रौरवं नरकं व्रजेत् | आलोक्य तन्मुखं देवि सूर्यदर्शनमाचरेत् || ७/३२ || इति कामधेनुतन्त्रे देवदेवीसंवादे सप्तमः पटलः अष्टमः पटलः श्रीमहादेव उवाच एतत्ते कथितं भद्रे रहस्यं परमाद्भुतम् | यन्नोक्तं सर्वतन्त्रेषु मातृकायाः पृथक् पृथक् || ८/१ || पञ्चाशद्वर्णसंकेतं पञ्चाशत्तत्त्वमुत्तमम् | सर्वदेवमयं तत्त्वं सर्वज्ञानमयं तथा || ८/२ || बिन्दुतत्त्वमयं देवि अहंतत्त्वमयं तथा | सर्वशक्तिमयं तत्त्वं सर्वप्राणमयं तथा || ८/३ || गर्भतत्त्वमयं देवि केवलं कलिका तथा | कुसुमस्य यदा देवि कलिकां गन्धसंयुताम् || ८/४ || अदृश्यं सर्वभूतानां तथा गन्धं सुचिस्मिते | पुष्पस्य कलिकामध्ये यथा ज्योतिः प्रदीप्यते || ८/५ || तथैव कलिकाबीजे नवतत्त्वञ्च विद्यते | कोटिविद्युत्प्रतीकाशां मातृकां प्रणमाम्यहम् || ८/६ || निराबाधां निर्गुणाञ्च गुणानां गुणमातृकाम् | माता सा सर्वविद्यानां सर्वागमप्रतिष्ठिता || ८/७ || सर्वासां वेदविद्यानां ब्रह्माण्डानाञ्च पार्वति | माता सा गीयते देवि पञ्चाशन्मातृका च सा || ८/८ || मन्त्रतत्त्वञ्च विद्याञ्च सर्ववर्णविनिश्चयम् | पञ्चाशद्युवतीरूपा मातृका शवमव्यया || ८/९ || मातृका परमेशानि काली साक्षान्न संशयः | कुतो ब्रह्मा कुतो विष्णुः कुतो रुद्रश्च ईश्वरः || ८/१० || सदाशिवः कुतो देवि ते सर्वे शववत् प्रिये | शववत् सर्वदेवाश्च ब्रह्माण्डं शववत् सदा || ८/११ || अत एव वरारोहे विष्णुमन्त्रं यथा तथा | शिवमन्त्रं यथा देवि गणेशं सौरमेव च || ८/१२ || शक्तिमन्त्रञ्च विद्याञ्च पञ्चाशद्युवतीमयम् | पुराणञ्च तथा वेदं स्मृतिशास्त्रं तथैव च || ८/१३ || एतत्तत्त्वं वरारोहे युवतीरूपमद्भुतम् | ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || ८/१४ || ते सर्वे चञ्चलापाङ्गि मातृकाज्जायते (?) प्रिये | समस्तजननी देवि मातृका जननी परा || ८/१५ || कटाक्षलक्षसंयुक्ता महाशक्तिः प्रगीयते | मातृकावर्णरहितं ब्रह्माण्डं शववत् प्रिये || ८/१६ || गीतं वाद्यं श्रुतिर्नाट्यमालापं वरवर्णिनी | सर्वं हि युवतीरूपं ध्यानमार्गे प्रतिष्ठितम् || ८/१७ || एतत्ते कथितं देवि कालिकाबीजमुत्तमम् | उभयोः संगमं देवि प्रफुल्लं भवति प्रिये || ८/१८ || बहवः सङ्गमे देवि प्रफुल्लं मोक्षमव्ययम् | यन्न मन्त्रेषु विद्यासु प्रफुल्लं भवति ध्रुवम् || ८/१९ || प्रफुल्लं शृणु चार्वङ्गि जपयज्ञं समाचरेत् | प्रफुल्लरहितं देवि विद्यामन्त्रं यदि प्रिये || ८/२० || केवलं कालिकाबीजं वर्णैर्वर्णैः पृथक् पृथक् | ध्यात्वा सिद्धिमवाप्नोति नान्यथा सुरपूजिते || ८/२१ || प्रफुल्लात् कलिकाद्वापि कृष्णादि जायते ध्रुवम् | युवती या समाख्याता सा महाकुण्डली परा || ८/२२ || वर्णरूपमयी देवी कुण्डली परदेवता | पञ्चाशद्वर्णतत्त्वं च विद्यामन्त्रं जपेत्तु यः || ८/२३ || सर्वं हि विफलं तस्य शववत् तज्जपो भवेत् | चैतन्यरहितं देवि तज्जपं शवमेव तत् || ८/२४ || ज्ञात्वा प्रणम्य कुर्वीत जपपूजादिकं प्रिये | हरिर्हि निर्गुणः साक्षात् सगुणा परकुण्डली || ८/२५ || तस्मात्तु युवतीदेहात् हरेरुत्पत्तिरेव च | सर्वासां देवदेवीनां बीजं जन्मस्थलं सदा || ८/२६ || बीजात्तु जायते ब्रह्मा शून्यरूपी सनातनः | अत एव महेशानि ब्रह्मणः कारणं परा || ८/२७ || ज्ञात्वा तन्त्रमिदं देवि जपपूजां करोति यः | प्राणन्यासविधिं कृत्वा जपपूजां करोति यः || ८/२८ || स शिवः परमं ब्रह्म स एव पुरुषोत्तमः | स एव दिव्यो वीरश्च स एव भैरवः स्वयम् || ८/२९ || स एव धन्यो देवेशि त्रैलोक्ये सचराचरे | स सूर्यो देवि पूज्यश्च सद्गुरुश्च न चान्यथा || ८/३० || उद्धर्तुं चैव संहर्तुं समर्थः सोऽपि नान्यथा | अज्ञात्वा तन्त्रमेतत्तु जपयज्ञं करोति यः || ८/३१ || सर्वं तस्य वृथा देवि पशुरेव न संशयः | सर्वेषु च गुरुर्देवि शिष्योऽपि पशुवत् सदा || ८/३२ || श्रुत्वा तस्य मुखे विद्यां मन्त्रं वा नगनन्दिनि | सिक्तो भवति चार्वङ्गि किं तस्य जपपूजनैः || ८/३३ || एवं विधं गुरुं त्यक्त्वा श्रुत्वा पशुमुखात् प्रिये | पूर्वमन्त्रं परित्यज्य गृह्णीयाद् गणनापरम् || ८/३४ || स भ्रष्टः स च पापिष्ठः कथं मन्त्रमुपास्महे(?) | मन्त्रस्य गणनाद्देवि यत् पापं प्राप्नुयान्नरः || ८/३५ || तत् पापं शृणु चार्वङ्गि नरकञ्चोत्तरोत्तरम् | यत् पापं प्राप्नुयाद् देवि स्वयंभूलिङ्गचालने || ८/३६ || तत् पापं कोटिगुणितं गणनाद्देवमन्त्रयोः | तस्मात्तु गणनां देवि वर्जयेन्मतिमान्नरः || ८/३७ || त्यक्त्वा शैववैष्णवेषु सौरे गाणपते तथा | अन्यत् सर्वासु विद्यासु गणनां वर्जयेन्नरः || ८/३८ || इति श्री कामधेनुतन्त्रे देवदेवीसंवादे अष्टमः पटलः || नवमः पटलः श्रीमाहादेव उवाच अधुना संप्रवक्ष्यामि रहस्यं गुह्यमुत्तमम् | यज्ज्ञात्वा साधको याति दुर्लभं ब्रह्ममन्दिरम् || ९/१ || इडया पूरयेद् वायुं सुषुम्नान्तर्गतं ततः | रेचयेत् पिङ्गलामार्गे प्राणायामक्रमात् प्रिये || ९/२ || अनुलोमेन चार्वङ्गि मातृकां युवतीं स्मरेत् | पञ्चाशन्मातृकावर्णं सबिन्दुं नादसंयुतम् || ९/३ || उच्चार्य पूरकेणैव तत इष्टं समुच्चरेत् | ततस्तु मातृकावर्णं विलोमेन जपेत् प्रिये || ९/४ || सुषुम्नामध्यदेशे तु चित्रिणी सुवरानने | अनुलोमविलोमेन मातृकां युवतीं स्मरेत् || ९/५ || इष्टमन्त्रं ततो जप्त्वा विलोमं कुरु यत्नतः | अनेनैव विधानेन रेचयेत् पिङ्गलापथे || ९/६ || एवं द्वादशधा कृत्वा प्रत्यहं वरवर्णिनि | त्रिसन्ध्यां चञ्चलापाङ्गि यः कुर्यात् कमलानने || ९/७ || जीवन्यासं भवेत्तस्य मन्त्रसिद्धिश्च नान्यथा | एकधा वा महेशानि कलौ संख्या चतुर्गुणा || ९/८ || प्रत्यहं दशधा कृत्वा शिवतुल्यो भवेन्नरः | इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे नवमः पटलः || दशमः पटलः श्रीमहादेव उवाच ललाटतत्त्वं चार्वङ्गि अकारं सर्वदा प्रिये | आकारं मुखतत्त्वन्तु शृणुष्व वरवर्णिनि || १०/१ || इकारं दक्षनेत्रञ्च ईकारं वामनेत्रके | उकारं दक्षकर्णे स्यादूकारं वामकर्णके || १०/२ || ऋकारं दक्षनासा च ऋकारं वामनासिके | ऌकारं दक्षगण्डं स्यात् ॡकारं वामगण्डकम् || १०/३ || एकारं अधरं तत्त्वं ऐकारं ओष्ठ एव च | ओकारं ऊर्ध्वदन्तं स्यात् औकारश्चाधोदन्तकम् || १०/४ || अंकारं शिरसस्तत्त्वं अःकारं मुखमण्डलम् | ककारादि पञ्चतत्त्वं दक्षबाहौ प्रशस्यते || १०/५ || वामबाहौ चकारादि पञ्चतत्त्वञ्च तिष्ठति | दक्षपादे टकारादि पञ्चतत्त्वं वरानने || १०/६ || तकारादि पञ्चतत्त्वं वामपादे पशस्यते | पकारं दक्षपार्श्वञ्च फकारं वामपार्श्वके || १०/७ || बकारं पृष्ठतत्त्वञ्च भकारं नाभिरेव च | मकारं उदरं तत्त्वं यकारं हृदयं तथा || १०/८ || रकारं स्कन्दतत्त्वञ्च लकारं वाममेव च | घटितत्त्वं वकारञ्च शकारं दक्षबाहुषु || १०/९ || वामबाहौ षकारञ्च सकारं दक्षपादकम् | वामपादं हकारञ्च क्षकारं शिरसोपरि || १०/१० || अकारं बीजतत्त्वञ्च तकारं प्रणवेन च | मकारञ्च सकारञ्च मण्डितं हि तथैव च || १०/११ || अहङ्कारः पकारं स्यात् फकारो मनसस्तथा | नकारं शब्दतत्त्वञ्च दं धं रूपं प्रशस्यते || १०/१२ || गकारं पादतत्त्वञ्च छकारोपस्थमेव च | उकारमाकाशतत्त्वञ्च ऊकारं श्रोत्रमेव च || १०/१३ || त्वक्तत्त्वञ्च जकारः स्याद् झकारः पादमेव च | ककारः पृथ्वीतत्त्वं खकारो ज्ञानतत्त्वकम् || १०/१४ || शकारं हृत्पुण्डरीकं षकारं तत्त्वमण्डलम् | सकराञ्च तथा चन्द्रं रकारं वह्निमण्डलम् || १०/१५ || परमेष्ठि तथा तत्त्वं षकारः सुरपूजिते | लकारं पृथ्वीतत्त्वं हकारञ्च शिरस्तथा || १०/१६ || यकारं वायुतत्त्वञ्च ककारं स्वर्गमेव च | एतयोर्योगमासाद्य क्षकारं तत्त्वविग्रहम् || १०/१७ || तेन अ त म स प फ न द ध ग छ उ ऊ ज झ क ख श ष स र य ल ह क्ष || अकारादिक्षान्तवर्णं तत्त्वञ्च पञ्चविंशतिः | सर्वतत्त्वमतिगुह्यं परमात्मा सुलोचने || १०/१८ || मातृकाया वरारोहे क्रमान्नामानि संशृणु | ब्रह्माणी चण्डिका रौद्री गौरीन्द्राणी तथैव च || १०/१९ || कौमारो वैष्णवी दुर्गा तथैव नारसिंहिका | कालिका मुण्डमाला च शिवदूती तथा परा || १०/२० || वराही कौषिकी चैव तथा माहेश्वरी प्रिये | शङ्करी च जयन्ती च मंगला कलिमर्दिनी || १०/२१ || पालिका चैव मेधा च शिवरूपा च शाम्भवी | भीमा शान्ता च उग्रा च भ्रामरी रुद्ररूपिणी || १०/२२ || अम्बिका बहुरूपा च क्षेमा क्षेमङ्करी तथा | धात्रीरूपा स्वधा स्वाहा तथैव वह्निरूपिणी || १०/२३ || अपर्णा च तथा माया घोररूपा प्रियंवदा | ब्रह्माण्डवाणी ब्राह्मी च पञ्चाशन्मातृकाः स्मृताः || १०/२४ || इत्येतत् कथितं सम्यक् केवलं तव भक्तितः | एतास्तु मातृकादेव्यो ब्रह्माण्डं सचराचरम् || १०/२५ || व्याप्य तिष्ठन्ति चार्वाङ्गि नानामूर्त्तिधराव्ययाः | शक्तिमन्त्रे विष्णुमन्त्रे शैवे सौरे च पार्वति || १०/२६ || अन्यसर्वेषु मन्त्रेषु गणेशे वरवर्णिनि | मातृका युवतीरूपा मन्त्रविग्रहरूपिणी || १०/२७ || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | ते सर्वे चञ्चलापाङ्गि निश्चलाश्च निरिन्द्रियाः || १०/२८ || देवादीनां वरारोहे मन्त्रं नास्ति कदाचन | शब्दब्रह्म यदा याति तन्त्रं मन्त्रं तदा भवेत् || १०/२९ || पञ्चाशद्युवती सर्वा शब्दब्रह्मस्वरूपिणी | ब्रह्मणः कारणं नास्ति प्रकृतेरस्ति भाविनि || १०/३० || प्रकृतेर्या वरारोहे सा दीक्षा सर्वसम्मता | दीक्षायां चञ्चलापाङ्गि प्रशस्ता युवतीकला || १०/३१ || पञ्चाशन्मातृका या सा युवती परिगीयते | युवतीरहितं देवि कुतो विद्या कुतो मनुः | निर्गुणं परमं ब्रह्म प्रधाना युवतीगणाः || १०/३२ || इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे दशमः पटलः || एकादशः पटलः श्रीशिव उवाच यथा जले सूर्यतत्त्वं तथा मन्त्रे प्रतिष्ठितम् | देवीनां ज्योतिषः पुञ्जो वर्तन्ते प्रकृतेः कलाः || ११/१ || अथान्तरात्मा परमं ज्ञानात्मा सुवरानने | वर्तन्ते युवतीरूपाः षोडश प्रकृ(तिः?तेः) पराः || ११/२ || प्रकृतिं हि विना देवि ज्ञाता ब्रह्मा सनातनः | अत एव वरारोहे स एव श्रीसदाशिवः || ११/३ || जाग्रत् स्वप्नसुषुप्तिर्या तुरीया वरवर्णिनि | तास्ताः सर्वा वरारोहे युवती परमापरा || ११/४ || कार्यकारणकाले च गणनीया वरानने | शून्यात् शून्यं परं शून्यं शून्यरूपं निरञ्जनम् || ११/५ || कोटिसूर्यप्रतीकाशं निर्मलं ज्ञानमुत्तमम् | हृदि भावय चार्वङ्गि तेजःपुञ्जं महाप्रभम् || ११/६ || दलिताञ्चनपुञ्जाभं वर्णराजं वरानने | त्रिभङ्गललिताकारं चारुचूडाविराजितम् || ११/७ || शिखिपुच्छयुतं चूडं भ्रमरैः शोभितं परम् | पीतांशुकपरीधानं वनमालाविभूषितम् || ११/८ || रत्नकुण्डलसंयुक्तं स्फुरद्गण्डमनोहरम् | कदम्बकुसुमोपेतं श्रवणं जनमोहितम् || ११/९ || श्रीवत्सकौस्तुभोद्दीप्तं आजानुबाहुराजितम् | आरक्तनयनद्वन्द्वं कोटिविद्युत्समद्युतिम् || ११/१० || आरक्तचरणद्वन्द्वं नूपुरारावसंयुतम् | आरक्तकरतलस्वच्छं गुञ्जमालाविराजितम् || ११/११ || शब्दब्रह्ममयं विष्णुं इकारं शब्दजल्पितम् | एवंरूपं समुत्पन्नं हृदि मध्ये वरानने || ११/१२ || जायते कामबीजात्तु शून्यमध्ये सुलोचने | शून्यमध्ये स्थिता देवि कामबीजस्वरूपिणी || ११/१३ || लकारसंयुता या सा कृष्णमाता प्रगीयते | सर्वेषु विष्णुमन्त्रेषु कामबीजं परात्परम् || ११/१४ || हृदि शून्ये महेशानि विष्णोर्मन्त्रं जपेत् प्रिये | ततो वै कामबीजात्तु जायते विष्णुविग्रहम् || ११/१५ || अतं काममयं विष्णुं हृदि भावय पार्वति | कामिनी या महेशानि विष्णुमाता प्रगीयते || ११/१६ || अतो विष्णुमातृवर्णं वर्णराजमवाप्नुयात् | ककारः कामिनी साक्षाद् लकारः पृथिवीश्वरी || ११/१७ || रतिस्तु मर्दिनी साक्षाद् नादस्तु योनिरूपिणी | बिन्दुः कुण्डलिनीरूपं शिवशक्तिमयं प्रिये || ११/१८ || इदं बीजं महेशानि विष्णुमाता पराक्षरा | निरक्षरो विष्णुदेवो ह्यक्षराज्जायते ध्रुवम् || ११/१९ || अत एव वरारोहे ब्रह्मणः कारणं परा | क्लींकारबीजरूपा या सा परा परिगीयते || ११/२० || परात्परतरा साऽपि वह्निमण्डलसंयुता | कामिनी सा महेशानि पृथिवी तस्य आसनम् || ११/२१ || कदाचित् पृथिवीमध्ये कदाचिद् वह्निमण्डले | वसते कामिनी देवी बिन्दुत्रयसमन्विता || ११/२२ || जन्मलब्धा महाविष्णुः कूर्चबीजं जपेत् प्रिये | अनेन प्रजपेन्मन्त्रं हुंकारं वरवर्णिनि || ११/२३ || विष्णोर्विग्रहणे तत्तु स्वयं प्रकृतिमूर्तिमान् | प्रकृतिः परमाराध्या देवानां नगनन्दिनि || ११/२४ || हुंकारं परमाश्चर्यं बीजरन्तं शृणु प्रिये | षष्ठस्वरः परिचयो वियद्बीजं शशिप्रभम् || ११/२५ || तस्योपरि वरारोहेसदाबिन्दुं विभावय | काममन्मथकन्दर्पम् अक्षरध्वजसंज्ञकम् || ११/२६ || मीनकेतुर्महेशानि पञ्चबीजं प्रकीर्तितम् | मायाकूर्चं वधूबीजं लक्ष्मीबीजञ्च पार्वति || ११/२७ || प्रणवञ्च महेशानि स्वयं चतुर्दशं तथा | सपिण्डवत्तथा देवि येषु यासु च विद्यते || ११/२८ || तन्मन्त्रमतिसिद्धं स्यात् परः प्रकृतिरूपिणी | एवं बीजं सकृद् ध्यात्वा सर्वासां भवति प्रियः || ११/२९ || तन्मन्त्रं प्रजपेद्देवि बीजध्यानं पुनः प्रिये | एवं हि दशधा कृत्वा मन्त्राणां बीजसाधनम् || ११/३० || तस्माद् बीजात् समाकृष्य देवतारूपमुद्भवम् | देवध्यानं ततः कृत्वा इष्टमन्त्रं ततो जपेत् || ११/३१ || पुनर्ध्यानं देवतायाः पुनर्जापं कुरु प्रिये | एवं हि दशधा कृत्वा देवाधिष्ठानमेव च || ११/३२ || ततः सप्तच्छदां जप्त्वा कुल्लुकां दशधा जपेत् | आद्यन्ते सेतुमन्त्रञ्च दत्वा अष्टोत्तरं जपेत् | तन्मन्त्रं प्रजपेद्देवि एवं सिद्धिमुपालभे || ११/३३ || इति कामधेनुतन्त्रे देवदेवीसंवादे एकादशः पटलः || द्वादशः पटलः श्रीमहादेव उवाच अपरैकं प्रवक्ष्यामि रहस्यमतिगोपनम् | अकृत्वा ध्यानतत्त्वञ्च अष्टतत्त्वं तथैव च || १२/१ || अकृत्वा व्यर्थतां याति नात्र कार्या विचारणा | ततो जीवत्वमाप्नोति मन्त्रः सिध्यति तत्क्षणात् || १२/२ || अथवा परमेशानि मन्त्रवर्णं यथा तथा | प्रणवपुटितं कृत्वा अनुलोमविलोमतः || १२/३ || तदैव परमेशानि जीवत्वं प्राप्यते मनुः | एकधा वा त्रिधा कृत्वा यदि कुर्याद् वरानने || १२/४ || तदा सिद्धिमवाप्नोति नान्यथा सुरपूजिते | जीवत्वं हि विना देवि यदि मन्त्रं जपेत् सुधीः || १२/५ || तज्जपं चञ्चलापाङ्गि शवमेव न संशयः | सदा निद्रातुरो मन्त्री जीवहीनश्च पार्वति || १२/६ || श्रीं क्लीं ह्रीं हुं स्त्रीं श्रीं ओम् | कथं सिद्धिमवाप्नोति निद्रायां वरवर्णिनि | जीवन्यासेन चार्वङ्गि निद्राभङ्गो भवेद् ध्रुवम् || १२/७ || बिन्दुतत्त्वं प्रजप्याथ ज्ञानतत्वञ्च सुन्दरि | प्राणतत्त्वञ्च चार्वङ्गि देवतत्त्वं तथैव च || १२/८ || जपतत्त्वं मन्त्रतत्त्वं ध्यानतत्त्वं सुलोचने | अक्षरे अक्षरे देवि अज्ञात्वा प्रजपेद् यदि || १२/९ || संयोगं यद् भवेद् योगं प्रफुल्लं तदुदाहृतम् | केवलं कलिकाबीजं तद्वर्णं सुरपूजिते || १२/१० || आगतं मम वक्त्राद् यद् गतं तव मुखे सदा | मतं श्रीवासुदेवस्य इति ते कथितं प्रिये || १२/११ || एतन्मन्त्रं महागुह्यं ईशानमुखसंयुतम् | एतन्मन्त्रप्रभावाद्धि कालकूटं पिबाम्यहम् || १२/१२ || एतास्तु मातृका वर्णाः सुषुम्नामध्यवर्तिनः | एते वर्णा वरारोहे महायोगमयाः सदा || १२/१३ || अक्षरं हि विना देवि न योगो जायते मम | योगमार्गे भक्तिमार्गे मुक्तिमार्गे च सुन्दरि || १२/१४ || ध्यानमार्गे तु पूजायां जपमार्गे तथैव च | एतास्तु युवतीवर्णाः कार्यकारणरूपिणः || १२/१५ || एतन्मन्त्रमविज्ञाय न जप्तव्यं कदाचन | एतन्मन्त्रमविज्ञाय पुराणं संहितां स्मृतिम् || १२/१६ || पठन्नरकमाप्नोति पितृभिः सह नान्यथा | सर्वधर्मेषु यत्कर्म सर्वयज्ञेषु यत्फलम् || १२/१७ || सर्वदानेषु तीर्थेषु यत्फलं प्राप्नुयाद् द्विजः | तत्फलं समवाप्नोति वर्णानां ध्यानमात्रतः || १२/१८ || वर्णध्यानमविज्ञाय वर्णतत्त्वं तथैव च | पुराणवाचको यस्तु ध्रुवं नरकमाप्नुयात् || १२/१९ || कोटिवंशान् समादाय स द्विजो नरकं ब्रजेत् | यथा वक्ता तथा श्रोता द्वयोरपि फलं समम् || १२/२० || कथमज्ञानतो मूर्खोऽज्ञात्वा वर्णविनिर्णयम् | पुराणानि पठित्वा वै निश्चयं नरकं व्रजेत् || १२/२१ || निश्चयञ्च महेशानि दारिद्र्यं घोरमाप्नुयात् | निश्चयं रोगमाप्नोति जम्बूद्वीपस्य भारते || १२/२२ || स स्यात् सनातनो देवो वाणी त्रिपुरसुन्दरी | सर्वासां युवतीनाञ्च भवानी चाधिदेवता || १२/२३ || ध्यायेद् देवीं महामायां मातृकां जगदीश्वरीम् | रक्तपद्मासनगतां रक्तांशुकपरिष्कृताम् || १२/२४ || रक्तचन्दनलिप्ताङ्गीं रक्तवस्त्रोत्तरीयिणीम् | रक्तबिम्बफलाभासां राकाचन्द्रमुखीं पराम् || १२/२५ || भ्रमद्भ्रमरलीलाभनयनत्रयराजिताम् | कटाक्षशतसंयुक्तां चारुचूडाविनोदिनीम् || १२/२६ || रक्तालङ्कारसुभगां त्रिभङ्गिललिताकृतिम् | हास्ययुक्तां प्रफुल्लास्यां ज्योत्स्नाजालसमच्छविम् || १२/२७ || मृणालसदृशाकारबाहुवल्लीविराजिताम् | कञ्चुलीसंयुतां रम्यां कदम्बकोरकस्तनीम् || १२/२८ || नखानां किरणोद्योतैर्भुवनं परिमोहयन् | एवं ध्यात्वा महामायां भवानीं शिवमोहिनीम् || १२/२९ || अपरैकं प्रवक्ष्यामि रहस्यं प्रमाद्भुतम् | हृत्पद्मे द्वादशदले वराहोपरि भावयेत् || १२/३० || यस्यदेवस्य यद्बीजं प्रफुल्लकलिकां तथा | ध्यात्वादेवीं यथाशक्त्या तस्मादाविर्भवेत् स्वयम् || १२/३१ || शक्तिर्वा विष्णुदेवो वा शिवो वा सूर्य एव वा | बीजादुत्पद्यते देवि परंब्रह्म निरञ्जनम् || १२/३२ || बीजध्यानं विना देवि कथमुत्पद्यते हरिः | सदाशिवो महादेवः कथमुत्पद्यते स्वयम् || १२/३३ || सदाशिवस्य जननी बीजरूपा सनातनी | इति यो वेत्ति स ज्ञानी स एव वीरसत्तमः || १२/३४ || गुरुर्योग्यः स एव स्यात् स एव परमः शिवः | सर्वेषाञ्चैव बीजानामेवं ध्यानं समाचरेत् || १२/३५ || शुक्लविद्युत्समाकारां नयनत्रयधारिणीम् | कटाक्षविशिखैर्युक्तां चतुर्बाहुसमन्विताम् || १२/३६ || त्रिभङ्गललिताकारां चारुचूडाविराजिताम् | पुण्डरीकोपविष्टाञ्च राकाचन्द्रमुखीं पराम् || १२/३७ || नानागन्धप्रलिप्ताङ्गीं सुगन्धिमाल्यसंस्कृताम् | नानाभरणदीप्ताङ्गीं मेघांशुकपरिष्कृताम् || १२/३८ || वीणावाद्यविनोदेन उल्लसन्तीं जगत्त्रयम् | आद्यां ब्रह्ममयीं देवीमिष्टबीजस्वरूपिणीम् || १२/३९ || ब्रह्माद्या देवता यस्याश्चरणे पतिता भुवि | भजेऽहं मातृकादेवीं वेदमाता सनातनीम् || १२/४० || अनेन विधिना ध्यात्वा सर्वासां भवति प्रियः | बीजमेतन्महेशानि प्रथमं दशधा जपेत् || १२/४१ || तन्मन्त्रं चञ्चलापाङ्गि आनन्दपटले स्थितम् | ततो ध्यात्वा पुनर्जप्त्वा दशधा वरवर्णिनि || १२/४२ || एतत्तत्त्वमविज्ञाय प्रजपेद् यदि पार्वति | सर्वपापमयः सोऽपि भवेत् शूकरवद् द्विजः || १२/४३ || तत्त्वमेतन्महागुह्यं योगमार्गे स्थितं सदा | तव भक्त्या मयाख्यातमतिगुह्यं सुलोचने || १२/४४ || तन्त्राणां सारमेतत्तु सर्वसिद्धिप्रदायकम् | स योगी योगवेत्ता च योगात्मा योगनायकः || योगाचार्यो योगमाया योगानन्दप्रदायकः || १२/४५ || इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे द्वादशः पटलः || त्रयोदशः पटलः श्रीमहादेव उवाच अधुना संप्रवक्ष्यामि आनन्दपटलं प्रिये | शृणु तत्त्वं प्रवक्ष्यामि सुन्दरं सुमनोहरम् || १३/१ || हृत्पद्मे द्वादशदले विद्युत्कोटिसमन्विते | भावयेन्मन्त्रबीजानि यस्य या इष्टदेवता || १३/२ || भावयेत् प्रथमं बीजं वराटोपरि पार्वति | अन्यानि सर्वबीजानि पत्रमध्ये पृथक् पृथक् || १३/३ || एवं हि दशधा जप्त्वा क्रमाद् बीजं जपेत् प्रिये | दशधा दशधा देवि प्रजपेद् बीजमुत्तमम् || १३/४ || ततस्तु बीजमध्ये तु ध्यायेदिष्टं सुलोचने | तस्माद् बीजाद् वरारोहे देवता जायते ध्रुवम् || १३/५ || तस्य देवस्य चार्वङ्गि निरीक्ष्य देहसुन्दरम् | चरणात् केशपर्यन्तं नानावेशमयं प्रिये || १३/६ || निरीक्ष्य मनसा भक्त्या पुनर्ध्यानं समाचरेत् | ततस्तु प्रजपेद् बीजं वर्णानन्दस्वरूपिणम् || १३/७ || प्रजपेत् प्रथमं बीजं बीजध्यानं ततः परम् | एतत्तु प्रथमं बीजं साधनं दुर्लभं प्रिये || १३/८ || सर्वेषां बीजवर्णानां यदि जानाति साधकः | ध्यानं परमकल्याणं वर्णे वर्णे पृथक् पृथक् || १३/९ || अज्ञात्वा चञ्चलापाङ्गि मातृकाध्यानमाचरेत् | तदेवं सहसा देवि सर्वासां जायते ध्रुवम् || १३/१० || यस्य मन्त्रस्य यद्वर्णं तस्य ध्यानं पृथक् पृथक् | बीजात्तु जायते विष्णुरवतारवरः प्रिये || १३/११ || बीजात्तु जायते रामो बीजात् कृष्णः प्रजायते | स्थावरं जङ्गमं देवि सर्वं बीजात् प्रजायते || १३/१२ || आज्ञाचक्रे विशुद्धौ च मूलाधारे ततः प्रिये | स्वाधिष्ठाने ततो देवि मणिपूरे च पार्वति || १३/१३ || अनेन विधिना देवि कुर्यात् साधकसत्तमः | प्रत्यहं कुरुते यस्तु स सिद्धः शिव एव सः || १३/१४ || प्रत्यहं चञ्चलापाङ्गि षट्चक्रं भ्रामयेत्तु यः | साधनाच्च महेशानि तस्मात् कुसुमवत् प्रिये || १३/१५ || नित्यञ्च हृदये कुर्यादवश्यं वद किं प्रिये | बीजस्य चञ्चलापाङ्गि ध्यानं मन्त्रं पृथक् पृथक् || १३/१६ || साक्षात् श्रीः प्रकृतिर्देवी बीजरूपा सनातनी | सनातनस्य जननी सर्ववर्णमयी प्रिये || १३/१७ || जपस्य प्रथमे काले बीजस्य तत्त्वमुच्चरेत् | ततस्तु प्रजपेन्मन्त्रं ससेतु वरवर्णिनि || १३/१८ || बीजतत्त्वमविज्ञाय प्रजपेद् यदि कोटिधा | सर्वं तस्य वृथा देवि अरण्ये रोदनं यथा || १३/१९ || तत्त्वत्रयं प्रवक्ष्यामि मन्त्राणां शृणु सुन्दरि | विभाव्य नाभिपद्मेषु वायुबीजं सबिन्दुकम् || १३/२० || मन्त्रस्य प्रथमं वायुबीजं मध्ये विचिन्त्य वै | ध्यात्वा बीजं महेशानि प्रजपेद् बीजमुत्तमम् || १३/२१ || दशधा प्रजपेद् बीजं दशधा ध्यानमेव च | दशतत्त्वयुतं मन्त्रं तदैव सहसा भवेत् || १३/२२ || संशोष्य बीजं चार्वङ्गि वह्निबीजे विचिन्त्य वै | हृत्पद्मे वह्निमध्ये तु ध्यात्वा बीजं हुताशनम् || १३/२३ || दशधा प्रजपेन्मन्त्रं दशधा ध्यानमेव च | विंशतत्त्वयुतं मन्त्रं तदैव सहसा भवेत् || १३/२४ || मातृस्वरात्ततो देवि गलितामृतधारया | आप्लाव्य बीजं चार्वङ्गि सर्वावयवसंयुतम् || १३/२५ || तदैव सहसा कृत्वा ललाटे वरुणालये | वरुणस्य तु मध्ये तु तद्बीजं भावयेत् प्रिये || १३/२६ || दशधा च जपित्वा वै बीजञ्च दशधा स्मरेत् | तदामृतमयं बीजं सहसा भवति प्रिये || १३/२७ || विष्णुमन्त्रेषु देवेशि चन्द्रबीजेषु भावयेत् | अन्यत् सर्वेषु मन्त्रेषु भावयेद् वरुणालये || १३/२८ || त्रिंशत्तत्त्वयुतं मन्त्रं तदैव भवति प्रिये | तत्त्वातीतं स्वधातीतं वाचा विद्यां जपेत् प्रिये || १३/२९ || अनेन विधिहीनञ्च तज्जपं विफलं सदा | तत्त्वहीनं जपेद्यस्तु विफलं सततं प्रिये || १३/३० || शोषणं दहनं देवि अमृतं ज्ञानसंज्ञकम् | एतत् तत्त्वमयं भद्रे शीघ्रं सिद्धिप्रदायकम् || १३/३१ || यो जपेत्तत्त्वरहितं तस्य हानिः पदे पदे | तस्मात्तत्त्वं शुभाराध्य तस्मान्मन्त्रं जपेत् सुधीः || १३/३२ || अनेन विधिना देवि सर्वतत्त्वमयं मनुम् | कृष्णमन्त्रेषु रामेषु अवतारवरेषु च || १३/३३ || सौरे गणपतौ देवि शक्तिमन्त्रे स्वयं प्रिये | शिवमन्त्रेषु चार्वङ्गि अन्यतन्त्रे तथैव च || १३/३४ || त्रिंशत्तत्त्वयुतं कृत्वा मन्त्रं बीजं सुलोचने | एवमेव विधानेन बीजे जीवत्वमाप्नुयात् || १३/३५ || तस्माद् बीजाद् वरारोहे रामकृष्णादयश्च ये | उत्पद्यन्ते वरारोहे नान्यथा वरवर्णिनि || १३/३६ || एतन्मन्त्रं सकृत् कृत्वा प्रजपेदनिशं मनुम् | प्रजपेदनिशं विद्यां शौचाशौचं न चाचरेत् || १३/३७ || मन्त्रे अक्षरबुद्धिः स्याद् गुरौ तु मानवः प्रिये | देवतायां वरारोहे प्रतिमाबुद्धिर्जायते || १३/३८ || किं तस्य जपपूजायां सर्वं व्यर्थं कदर्थनम् | इति ते कथितं देवि बीजतत्त्वं सुगोपनम् || १३/३९ || कस्यचिन्नैव वक्तव्यं यदि कल्याणमिच्छसि | एतज्ज्ञानमविज्ञाय स कथं गुरुतां व्रजेत् || १३/४० || इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे त्रयोदशः पटलः || चतुर्दशः पटलः श्रीमहादेव उवाच देवदेव महादेव संसारार्णवतारक | कृपया कथयेशान वकारतत्त्वमुत्तमम् || १४/१ || श्रीमहादेव उवाच पूर्वोक्तं चञ्चलापाङ्गि गायत्रीतत्त्वमुत्तमम् | गायत्री या वरारोहे चतुर्वकारसंयुता || १४/२ || कान्तं शेषवकारञ्च वरुणं हृदि भावय | यवर्गं वायुबीजञ्च हृदि भावय पार्वति || १४/३ || यवर्गं यत्तु देवेशि वायुबीजं तदुच्यते | यकारस्य चतुर्थो यो वायुबीजं प्रकीर्तितम् || १४/४ || यवर्गञ्च वायुबीजं मयैतन्निश्चितं प्रिये | सर्वविद्यासु मन्त्रेषु वरुणं भावय प्रिये || १४/५ || वह्निजायायुतानाञ्च पवर्गं हृदि भावय | गायत्री संस्थिता देवि पापोच्चाटनकर्मणि || १४/६ || पूर्वोक्तध्यानमार्गेण भावना परिकीर्त्तिता | ध्यानभेदेन चार्वङ्गि वकारं भावय प्रिये || १४/७ || अधुना संप्रवक्ष्यामि ककारध्यानमुत्तमम् | विशेषं शृणु वक्ष्यामि ककारस्यातिदुर्लभम् || १४/८ || यन्नोक्तमानन्दपटले अधुना कथयामि ते | तद् ध्यात्वा साधको याति दुर्लभं मोक्षमव्ययम् || १४/९ || येन ध्यानप्रकाशेन मन्त्रं तन्त्रञ्च सिध्यति | एवं तद्ध्यानमात्रेण शिवतुल्यो भवेन्नरः || १४/१० || ककारध्यानमात्रेण सर्ववर्णं हि सिध्यति | ककारभावनाच्चैव सर्वासां भावना भवेत् || १४/११ || तस्मात् सर्वप्रयत्नेन ककारं हृदि भावय | ओम् प्रातरादित्यसंकाशां सिंहपृष्ठोपरिस्थिताम् || १४/१२ || रक्तपद्मोपविष्टाञ्च रक्तवस्त्रपरीवृताम् | चतुर्भूजां त्रिनेत्राञ्च पञ्चबाणधनुर्धराम् || १४/१३ || वरदाभयदात्रीञ्च पीनतुङ्गपयोधराम् | मृणालसदृशाकारचतुर्बाहुपरीवृताम् || १४/१४ || शङ्खकङ्कणकेयूरैरङ्गदैः परिशोभिताम् | सुगन्धिमल्लिकाहारैः कबरीमध्यशोभिताम् || १४/१५ || त्रिभङ्गललिताकारां चारुचूडाविराजिताम् | शिखिपुच्छयुतां चूडां नानारत्नसमन्विताम् || १४/१६ || ईषधास्यप्रसन्नास्यां मुक्तारञ्जितनासिकाम् | माणिक्यकिरणोद्योतदन्तपङ्क्तिविराजिताम् || १४/१७ || पूर्णचन्द्रसमाभासनखपङ्क्तिमनुत्तमाम् | स्वर्णसूत्रयुतहाररत्नचारुविनिर्मिताम् || १४/१८ || कटाक्षविशिखोद्दीप्तभ्रूलतापरिशोभिताम् | तीर्थत्रययुतां रम्यां नयनत्रयराजिताम् || १४/१९ || रामरम्भासमाकार - ऊरुद्वयविराजिताम् | बृहल्लतासुसंयुक्तरत्नकिञ्जल्कशोभिताम् || १४/२० || अष्टवर्गैः सेविताञ्च अष्टवर्गैः प्रपूजिताम् | सिन्दूरतिलकोदीप्तामञ्जनाङ्कितलोचनाम् || १४/२१ || ललाटपट्टिकाशुभ्रामर्द्धचन्द्रपरीवृताम् | ब्रह्मादिदेवतावृन्दैः शिरसि धार्यते च या || १४/२२ || किमाख्यां कामिनीं साक्षात् ककारवररूपिणीम् | एवं ध्यात्वा वरारोहे प्रजपेद् यदि साधकः || १४/२३ || तदैव सहसा सिद्धिर्जायते तस्य सुन्दरि | वर्णज्ञानं विना देवि न जपेत् पाशवः क्वचित् || १४/२४ || किं तस्य ध्यानपूजायां पुरश्चर्याशतं शतम् | किं तस्य जपहोमेन चन्द्रसूर्यस्य पर्वणि || १४/२५ || वर्णज्ञानं विना देवि वैष्णवः शैव एव वा | एकदा नोच्चरेद्देवि अज्ञात्वा व्र्णदीपनीम् || १४/२६ || सर्वासां मन्त्रविद्यानां दीपनी या प्रकीर्तिता | सर्वेषां शास्त्रमध्ये तु प्रशस्ता वर्णदीपनी || १४/२७ || शक्तिमन्त्रे तथा सौरे गणेशमर्च्यते सदा | ज्ञात्वा तन्त्रं प्रकुर्वीत दीक्षां पूजां शुचिस्मिते || १४/२८ || श्रीमहादेव उवाच रहस्यं तत्र वक्ष्यामि अत्यन्तगोपनं शृणु | यत्कृत्वा साधको याति परमं पदमुत्तमम् || १४/२९ || ललाटे तिलकं कृत्वा चन्दनेन सुगन्धिना | कर्पूरागुरुकस्तूरीरोचनाकुङ्कुमैः प्रिये || १४/३० || तिलकं धारयेद् यत्नादेकीकृत्य मनोहरम् | त्रिकोणं सुन्दरं स्वच्छं तिलकं जनमोहनम् || १४/३१ || एकीकृत्य पृथग् वापि नानावस्तुषु कारयेत् | राज्यार्थी रक्तवर्णेन मोक्षार्थी श्वेतचन्दनैः || १४/३२ || वश्ये रोचनया देवि तिलकं कारयेत् सुधीः | मोहने चञ्चलापाङ्गि अगुरुकुङ्कुमादिना || १४/३३ || कृष्णगन्धं वरारोहे शत्रोर्मारणकर्मणि | ललाटे बाहुमूले च तथा स्कन्धद्वयेषु च || १४/३४ || हृत्पद्मपार्श्वयुगले पृष्ठे नाभौ च सुन्दरि | ऊरुद्वये गण्डयुग्मे अधः पादद्वयेषु च || १४/३५ || विलिखेद् यत्नतो देवि ककारवर्णमुत्तमम् | चन्द्रविन्दुयुतं कृत्वा विलिखेद् वरवर्णिनि || १४/३६ || तदैव सहसा देवि विद्या मन्त्रञ्च सिध्यति | मोहयेदखिलान् लोकान् वशयेदिष्टदेवताम् || १४/३७ || इष्टदेवं वशं कृत्वा एकदा प्रजपेद् यदि | तत्क्षणाच्चञ्चलापाङ्गि देवत्वमुपजायते || १४/३८ || देवत्वं हि विना देवि कुतः पूजा कुतो जपः | अन्यथा प्रेतवत् पूजा वैष्णवे च विशेषतः || १४/३९ || ललाटे तिलकं कृत्वा रोचनासु शुचिस्मिते | तन्मध्ये विलिखेद् वर्णं ककारं सुमनोहरम् || १४/४० || सामान्यमेतत् कथितं तिलकं जनमोहनम् | एतत्तु तिलकञ्चैव वशयेदपि केशवम् || १४/४१ || जपासनं दशम्यान्तु तदारभ्य च प्रत्यहम् | एतद्वर्णमविज्ञाय विषये समुपास्महे | स भ्रष्टः स च पापिष्ठो रौरवं नरकं व्रजेत् || १४/४२ || इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे चतुर्दशः पटलः || पञ्चदशः पटलः श्रीदेवी उवाच देवदेव महादेव नीलकण्ठ त्रिलोचन | हृत्तत्वं कथयेशान यद्यहं तव वल्लभा || १५/१ || श्रीमहादेव उवाच शृणु देवि प्रवक्ष्यामि ज्ञानं परमदुर्लभम् | येन विज्ञानमात्रेण विष्णुः स्याद् वैष्णवः प्रिये || १५/२ || हृत्पद्मे द्वादशदले स्वविद्यां भावयेत् सुधीः | ककारं भावयेदादौ वराटोपरि पार्वति || १५/३ || पत्रे पत्रे ततो देवि स्वविद्यां प्रजपेत् सुधीः | मन्त्राणां प्रथमं बीजं ध्यात्वादौ प्रजपेत् सुधीः || १५/४ || तस्मान्मन्त्रात्ततो देवि जायते देवविग्रहम् | देवताञ्च ततो ध्यात्वा तन्त्रोक्तध्यानवर्त्मना || १५/५ || ध्यानञ्च त्रिविधं देवि समानफलदायकम् | कृत्वा ध्यानत्रयं देवि हृत्पद्मे परमेश्वरि || १५/६ || सहस्रदलपद्मान्तर्मध्यस्थाने गुरोर्मुखात् | स्वविद्यां भावयेद्देवि कोटिविद्युत्समाकृतिम् || १५/७ || भावयेदनिशं भक्त्या सिद्धो भवति तत्क्षणात् | जायन्ते देवि बीजात्तु रामकृष्णादयश्च ये || १५/८ || ते सर्वे चञ्चलापाङ्गि बीजात्तु प्रभवन्ति वै | ज्ञात्वा सनातनं तत्त्वं आनन्दपटले स्थितम् || १५/९ || पूजा कार्या च चार्वङ्गि सर्वसिद्धिमयो भवेत् | इदं सनातनं तत्त्वमज्ञात्वा नरकं व्रजेत् || १५/१० || शूद्रः शूद्रमुखाच्छ्रुत्वा विद्यां वा मन्त्रमुत्तमम् | रौरवं नरकं यं यं तं तमाप्नोति निश्चितम् || १५/११ || न शूद्राय मतिं दद्याद् न च शूद्रं कदाचन | उभयोर्नरकं देवि कोटिकुलसमायुतम् || १५/१२ || अनाचारो द्विजो यस्तु शूद्राणां गुरुरेव सः | यदि शूद्रो भवेद्देवि सत्यवादी जितेन्द्रियः || १५/१३ || स धर्मे निरतो भूत्वा श्रुत्वा द्विजगुरोर्मुखात् | सर्वसिद्धिमवाप्नोति शीघ्रं देवमवाप्नुयात् || १५/१४ || यद्देशे विद्यते शूद्रः पातकी मन्त्रविक्रयी | तद्देशं पतितं मन्ये तस्य राजा च पातकी || १५/१५ || स कथं चञ्चलापाङ्गि जिह्वायां प्रजपेन्मनुम् | तस्य जिह्वा वरारोहे मूत्रशोणितविड्यथा || १५/१६ || तन्मुखं मूत्रविट्कूपमन्नं विष्ठासमं सदा | तज्जलं शोणितं साक्षाच्चाण्डालसमजातिषु || १५/१७ || पृथिव्यां यानि तीर्थानि सर्वदेवमयानि वै | आलोक्य तन्मुखंतीर्थं तत्स्थानं त्यज्य(?)गच्छति || १५/१८ || तीर्थ कोटिः पलायन्ते दृष्ट्वा तन्मुखमण्डलम् | गङ्गाजलं परित्यज्य द्रुतं स्वस्थानमवाप्नुयात् || १५/१९ || महापातकिनो ये च ब्रह्महत्यादिसंयुताः | त्रैलोक्यपावनी गङ्गा तान् पुनाति न संशयः || १५/२० || मन्त्रविक्रयिणः शूद्राः सदा नरकगामिनः | कलौ तु भारते वर्षे भविष्यन्ति न संशयः || १५/२१ || मन्त्रविक्रयिणः शूद्रा जायन्ते व्याघ्रयोनिषु | तत्संसर्गश्च यो विप्रश्चर्मकारः स एव हि || १५/२२ || चाण्डालसदृशः सोऽपि स एव वर्णसङ्करः | स्वधर्मनिरतः सूद्रो विद्यामन्त्रं शृणोति यः || १५/२३ || स धन्यः पृथिवीमध्ये स एव वैष्णवोत्तमः | स शाक्तः शिवभक्तश्च गाणेशः सौर एव च || एतत्ते कथितं देवि वर्णज्ञानविनिर्णयम् || १५/२४ || इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे ज्ञानानन्दे पञ्चदशः पटलः || षोडशः पटलः श्रीमहादेव उवाच अपरैकं प्रवक्ष्यामि रहस्यं परमाद्भुतम् | यत्कृत्वा चञ्चलापाङ्गि रावणाद्या निशाचराः || १६/१ || अवाप्यमतिवृद्धिञ्च त्रैलोक्याधिपतिः प्रभुः | सांकेतं परमं गुह्यमक्षराणां पृथक् पृथक् || १६/२ || एतत्तत्त्वं विजानाति हरिर्ब्रह्मा पुरन्दरः | पञ्चाशद्वर्णसङ्केतं सावधानावधारय || १६/३ || अकृत्वा साधको याति रौरवं नरकं व्रजेत् | रौरवं नरकं याति पुनरावृत्तिदुर्लभम् || १६/४ || विशेषं विष्णुमन्त्रेषु कुर्याद् वैष्णवसत्तमः | अकृत्वा वैष्णवो याति नरकं कोटिकोटिशः || १६/५ || मासि मासि वरारोहे शनिभौमदिने प्रिये | प्रातः स्नानं समासाद्य कृत्वा सन्ध्यां समाप्य च || १६/६ || सूर्यायार्घ्यं ततो दद्यात् पादप्रक्षालनाय च | यागमण्डपमासाद्य भूतशुद्धिं विधाय च || १६/७ || कुर्यान्न्यासं मातृकायाः प्राणायामं ततः परम् | न्यासानन्यांस्ततः कुर्यात्तन्त्रमार्गेण पार्वति || १६/८ || शुक्लाम्बरधरः स्रग्वी गन्धलिप्तकलेवरः | रक्तासनं समासाद्य कुशासनमथापि वा || १६/९ || प्रलिप्य ताम्रपात्रेषु सिन्दूरं रक्तचन्दनम् | विलिख्य मातृकावर्णं ह्यस्मिन् पात्रे पृथक् पृथक् || १६/१० || अकारादिक्षकारान्तं सबिन्दुं चन्द्रसंयुतम् | महापद्मान्तरस्थानादानीय ब्रह्मवक्त्रकम् || १६/११ || वामनासापथेनैव श्वासं पुष्पाञ्जलौ क्षिपेत् | तत्पुष्पं चञ्चलापाङ्गि कुर्यात् पुष्पस्य सञ्चयम् || १६/१२ || ध्यात्वा तु पूजयेद्दवीं क्रमेणैव पृथक् पृथक् | गन्धैर्नानाविधैर्देवीं पुष्पैर्नानाविधैस्तथा || १६/१३ || धूपैर्नानाविधैर्देवि दीपैर्नानाविधैस्तथा | नैवेद्यं विविधं देवि चतुर्विधमयं तथा || १६/१४ || दत्त्वा नानाफलादींश्च पूजयेत् परमेश्वरीम् | नानापुष्पमयैर्हारैः शुक्रादिगन्धसंयुतम् || १६/१५ || महापद्मवनान्तस्थमष्टोत्तरशतं जपेत् | प्रजपेद् मातृकावर्णं वर्णे वर्णे पृथक् पृथक् || १६/१६ || प्रतिपद्मे जपेन्मन्त्रं यस्मिन् पद्मे तु यत् स्थितम् | तस्मिन् पद्मे वनान्तस्थः स्वविद्यां प्रजपेच्छतम् || १६/१७ || सुप्रसन्ना मातृका स्यात् तदैव सहसा प्रिये | अकृत्वा मातृकापूजां मासि मासि वरानने || १६/१८ || इष्टविद्यां जपेद्यस्तु तस्य हानिं शृणु प्रिये | चित्रानाडीगता भूत्वा मातृका जगदीश्वरी || १६/१९ || सर्वेषां वैष्णवानाञ्च शाक्तानां वरवर्णिनि | शैवानाञ्च महेशानि अन्येषाञ्चैव सुन्दरि || १६/२० || हरन्ति वैष्णवाअदीनां नान्यथा वचनं मम | प्रशस्ता मातृकापूजा दीक्षा या मत्त एव हि || १६/२१ || पुरश्चर्या हि चार्वङ्गि पूजनीया पृथक् पृथक् | माता सा सर्वविद्यानां मन्त्राणाञ्च पृथक् पृथक् || १६/२२ || यस्मादुत्पद्यते विद्या मन्त्रञ्च सुरवन्दिते | तस्मात्तु यत्नतो देवि तासां पूजा विधीयते || १६/२३ || नान्यथा निष्फला पूजा संवत्सरकृता च या | अनेन विधिना देवि पूजयेद् यदि मातृकाम् || १६/२४ || प्रसन्ना मातृका देवि पुत्रत्वेनानुकल्पते | रहितो मातृकापूजां जपपूजनतत्परः || १६/२५ || तस्य सर्वं महामाया मातृका जगदीश्वरी | हरन्ति मन्त्रतेजांसि आयुर्विद्यायशोबलम् || १६/२६ || अपरैकं प्रवक्ष्यामि रहस्यं परमाद्भुतम् | अनुलोमविलोमेन कथितं शृणु पार्वति || १६/२७ || अनुलोमविलोमञ्च तथैव हि महेश्वरि | सर्वेषां जपयज्ञानां सहसा फलभाग् भवेत् || १६/२८ || सहसा सिद्धिमाप्नोति सहसा धर्ममाप्नुयात् | सहसा अर्थमाप्नोति सहसा मोक्षमाप्नुयात् || १६/२९ || पौर्णमास्याममावस्यां मासि मासि प्रयत्नतः | यः करोति प्रसन्नात्मा स एव श्रीसदाशिवः || १६/३० || ज्ञात्वा संदीपनीं विद्यां आनन्दपटले स्थिताम् | अज्ञात्वा दीपनीं विद्यां चतुर्वर्गफलप्रदाम् | रहस्यमेतदन्यच्च सर्वञ्च विफलं व्रजेत् || १६/३१ || इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे षोडशः पटलः || सप्तदशः पटलः श्रीमहादेव उवाच एतत्तत्त्वमविज्ञाय न भावो जायते प्रिये | न देवो विद्यते काष्ठे न पाषाणे च पार्वति || १७/१ || भावेषु विद्यते देवि भावो मोक्षस्वरूपधृक् | दिव्यभावो वीरभावः सदैव सहसा भवेत् || १७/२ || अन्यथा चञ्चलापाङ्गि पशुभावमयः सदा | स्वभावेन विना देवि कथं सिद्धिर्भवेत् प्रिये || १७/३ || तस्मात् प्रयत्नतो देवि वीरभावमयो भवेत् | अनेनैव विधानेन मातृकां पूजयेत्तु यः || १७/४ || स एव दिव्यभावः स्याद् वीरभावः स एव हि | स धनी गुणी लोके मातृकां यस्तु पूजयेत् || १७/५ || श्रीमहादेव उवाच अपरैकं प्रवक्ष्यामि सामान्यं वरवर्णिनि | पूर्वोक्तध्यानमाचर्य प्रजपेन्मातृकामनुम् || १७/६ || ककारध्यानमात्रेण सर्वसिद्धिः प्रजायते | जप्त्वा ककारं चार्वङ्गि सर्वासां भवति प्रियः || १७/७ || सर्वासां मातृकां जप्त्वा ककारं केवलञ्च वा | ककारं सर्ववर्णानां मूलप्रकृतिरूपिणीम् || १७/८ || तस्मात् प्रयत्नतो देवि ककारं पूजयेत् प्रिये | प्रत्यहं पूजयेद्देवीं प्रथमं पूजयेत् सुधीः || १७/९ || सर्वासां फलमाप्नोति तदा भावमयो भवेत् | ककारपूजनाद् भद्रे सर्वासां पूजनं भवेत् || १७/१० || प्रत्यहं कुरुते यस्तु प्रतिमासि वराअनने | दिव्यवीरः स एव स्यात् सर्वपूजाफलं लभेत् || १७/११ || अकृत्वा चञ्चलापाङ्गि मनसापि च संस्मरेत् | सर्वपूजामयः सोऽपि सर्वभावमयः सदा || १७/१२ || भावतत्त्वमविज्ञाय विष्णुमन्त्रं कथं जपेत् | शक्तिमन्त्रं महेशानि स कथं पामरो जपेत् || १७/१३ || शिवमन्त्रञ्च सौरञ्च गाणेशं स कथं जपेत् | भावतत्त्वं विना देवि प्रजपेद्यदि कोटिधा || १७/१४ || सर्वं तस्य वृथा देवि नरकञ्च पदे पदे | स कथं चञ्चलापाङ्गि दिव्यवीरगुरुर्भवेत् || १७/१५ || पशुवत् सर्वदा देवि स एव पशुगुरुः प्रिये | भावतत्त्वेन रहितः स कथं पञ्चमं यजेत् || १७/१६ || वैष्णवस्तु वरारोहे मकारं पञ्चमं यजेत् | देवताया वरारोहे शरीरं जायते ध्रुवम् || १७/१७ || एवं मन्त्रं प्रवक्ष्यामि आनन्दपटले स्थितम् | कालीं छिन्नादिविद्याञ्च त्रिंशद्वर्णमयीं सदा || १७/१८ || तदा सिद्धिमयं सोऽपि अन्यथा विफलं सदा | इष्टध्यानं ततः कृत्वा हृदि मध्ये निरीक्षणम् || १७/१९ || प्रथमं कामिनीं ध्यात्वा प्रफुल्लां तदनन्तरम् | प्रफुल्लाध्यानमात्रेण जायते देवविग्रहम् || १७/२० || पफुल्ला जायते देवि यस्य या इष्टदेवता | तदिष्टं भावयेद् देवि मन्त्रोक्तध्यानवर्त्मना || १७/२१ || देवतायाः शरीरञ्च बीजादुत्पद्यते ध्रुवम् | मन्त्रस्य प्रथमाद्बीजाज्जायते नगनन्दिनि || १७/२२ || पञ्चाशन्मातृका या सा सर्वा युवतिरूपिणी | तस्मात्तु युवतीदेहाज्जायते कृष्णविग्रहम् || १७/२३ || रामः पद्मपलाशाक्षः प्रफुल्लो जायते ध्रुवम् | बीजादुत्पद्यते देवि परं ब्रह्म सनातनम् || १७/२४ || बीजसंयोगमात्रेण शब्दब्रह्म सनातनम् | अपरैकं प्रवक्ष्यामि रहस्यं परमाद्भुतम् || १७/२५ || पञ्चाशद्वर्णसंकेतं पञ्चाशत्तत्त्वमद्भुतम् | वर्णतत्त्वं विना देवि प्रजपेद्यदि कोटिधा || १७/२६ || सर्वं तस्य वृथा देवि हानिस्तस्य पदे पदे | हृत्पद्मे द्वादशदले वराटोपरि कामिनीम् || १७/२७ || ध्यात्वा प्रयत्नतो देवि तद्गर्भे वर्णभावनम् | अकारादिक्षकारान्तं त्रिकोणमध्यमण्डले || १७/२८ || अनुलोमविलोमे न कामिन्या गर्भपञ्जरे | एकैकं भावयेद् देवि प्रतिवर्गे पृथक् पृथक् || १७/२९ || सर्वांसां देवदेवीनां ककारं सुरपूजिते | ध्यात्वा प्रयत्नतो देवि अनुलोमविलोमतः || १७/३० || पञ्चाशत्तत्त्वसङ्केतं पञ्चाशद्वर्णमेव हि | यः करोति नरो ज्ञात्वा शीघ्रं विद्या प्रसीदति || १७/३१ || किमसाध्यं वरारोहे यस्मै विद्या प्रसीदति | षट्चक्रे परमेशानि रहस्यं स्थानमुत्तमम् || १७/३२ || सहस्रारे गुरोः पादे पद्मं ध्यात्वा प्रयत्नतः | पञ्चाशद्वर्णसङ्केतं यः कुर्यान्मानवः प्रिये || १७/३३ || केशवं वशयेद्देवि रहस्येनाधुना ध्रुवम् | मोहयेच्चञ्चलापाङ्गि रुद्रं कालानलप्रभम् || १७/३४ || सर्वञ्चराचरं विश्वं सहसा मोहमानयेत् | एतत्ते कथितं देवि वर्णमोहनमुत्तमम् || १७/३५ || अज्ञात्वा मोहनं तत्त्वं प्रजपेद् यदि पार्वति | तस्मै लोका गन्धर्वाश्च वैरभावं ब्रजन्ति वै || १७/३६ || प्रत्यक्षरमयं देवि कथितं वर्णमोहनम् | अज्ञात्वा मोहनं तत्त्वं यः कुर्यादन्यमोहनम् || १७/३७ || सर्वं तस्य वृथा देवि नान्यथा तु कदाचन | एतत्तत्वप्रभावाद्धि अचिरात् सिद्धिमाप्नुयात् || १७/३८ || गर्भमध्ये जपेन्मन्त्रं अनुलोमविलोमतः | जपित्वा वर्णमेकञ्च स्वस्थानमानयेच्च तम् || १७/३९ || पुनर्वर्णं समाकृष्य कामिनीगर्भमध्यतः | प्रजपेदक्षरं देवि चन्द्रबिन्दुसमन्वितम् || १७/४० || पञ्चाशदक्षरञ्चैव भावयेच्च पृथक् पृथक् | अनेन विधिना देवि यो जपेन्मन्त्रमुत्तमम् || १७/४१ || तस्य शीघ्रं भवेत् सिद्धिरन्यथा विफला भवेत् | सम्भावं लिखितं देवि यथा भवति अक्षरम् || १७/४२ || तत्तदेव वरारोहे जपपूजा निरर्थकम् | विशेषमन्त्रं वक्ष्यामि आनन्दपटले स्थितम् || १७/४३ || मन्त्रं श्रीमोहनं नाम पञ्चाशद्वर्णसंज्ञकम् | ज्ञात्वा यः कुरुते देवि तस्य सिद्धिरदूरतः || १७/४४ || अन्यथा विफलं सर्वं रहस्यं सफलं नहि | इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे सप्तदशः पटलः || अष्टादशः पटलः श्रीमहादेव उवाच अथान्यत् संप्रवक्ष्यामि रहस्यं परमाद्भुतम् | अज्ञात्वा वैष्णवो याति रौरवं वरवर्णिनि || १८/१ || एवं तत्त्वयुतं देवि यो जपेत् परमेश्वरीम् | नवतत्त्वमयीं विद्यां यदा जपति पार्वति || १८/२ || तदैव सहसा सिद्धिर्जायते सुरसुन्दरि | नवतत्त्वयुतं मन्त्रं ज्ञात्वा यः प्रजपेत् सकृत् || १८/३ || तदैव सहसा देवि विष्णुतुल्यो भवेद् ध्रुवम् | प्रथमं कामिनीं ध्यात्वा हृत्पद्मे कमलेक्षणे || १८/४ || उच्चरेत् प्रथमं बीजं कामिनीं तदनन्तरम् | पुनर्बीजं द्वितीयञ्च उच्चरेद् यत्नतः सुधीः || १८/५ || कामिनीञ्च ततो ध्यात्वा तृतीयं बीजमुच्चरेत् | अनेन विधिना देवि कामिनीध्यानसंपुटम् || १८/६ || पुनर्ध्यानं ककारस्य अनुलोमेन पार्वति | अनुलोमं यथा देवि विलोमञ्च तथा कुरु || १८/७ || एवं क्रमेण देवेशि यद्यदक्षरकं प्रिये | कृत्वा यत्नाद् वरारोहे सर्वसिद्धीश्वरो भवेत् || १८/८ || सर्वेषां मन्त्रवर्णानां ध्यात्वा ध्यात्वा पृथक् पृथक् | आद्यन्ते कामिनीं ध्यात्वा शिवशक्तिमयो भवेत् || १८/९ || अथवा चञ्चलापाङ्गि हृत्पद्मे कमलानने | आदौ मध्ये तथा चान्ते बीजं दत्त्वा जपेत् प्रिये || १८/१० || तदैव सहसा देवि जायते देवविग्रहम् | सदा निद्रातुरो मन्त्रः कलिकाले च भारते || १८/११ || रहस्यनेन चार्वङ्गि निद्राभङ्गो तदा भवेत् | जपेदादौ वरारोहे त्रिवारमनुलोमतः || १८/१२ || विलोमेन त्रिवारञ्च ध्यात्वा जप्त्वा हृदम्बुजे | अथान्यत् संप्रवक्ष्यामि निद्राभङ्गस्य लक्षणम् || १८/१३ || प्रथमं कामिनीं ध्यात्वा अन्ते च तदनन्तरम् | दशधा प्रजपेन्मन्त्रं निद्राभङ्गाय पार्वति || १८/१४ || ततस्तु प्रजपेद् देवि प्रफुल्लं विश्वमोहनम् | रहस्यनेन चार्वङ्गि जायते विष्णुविग्रहम् || १८/१५ || शङ्खचक्रधरं देवं शुद्धतत्त्वात्मकं प्रिये | पीताम्बरधरं शान्तं प्रसन्नं मुखपङ्कजम् || १८/१६ || आजानुलम्बितकरं वनमालाविराजितम् | त्रिभङ्गललिताकारं चारुचूडाविभूषितम् || १८/१७ || श्रीवत्सकौस्तुभोद्दीप्तं जायते विष्णुविग्रहम् | अवतारं स्वयं कृष्णं ललिताञ्जनचिक्कणम् || १८/१८ || गोपीमण्डलमध्यस्थं नानासुखमयं हरिम् | अथवा जायते देवि तस्माद्बीजाच्छुचिस्मिते || १८/१९ || कामिनीध्यानमात्रेण देवता जायते ध्रुवम् | रहस्यमेतच्चार्वङ्गि कर्तव्यं हृदि मध्यतः || १८/२० || रहस्यानाञ्च सर्वेषां सारमेतन्न संशयः | अथान्यत् संप्रवक्ष्यामि रहस्यं परमाद्भुतम् || १८/२१ || ध्यात्वा तु कामिनीनारीं प्रथमं हृदि मध्यतः | तद्गर्भे भावयेन्मन्त्रं मनसा नगनन्दिनि || १८/२२ || तद्गर्भे भावयेद् देवं ध्यानमार्गेण सुन्दरि | पुनश्च कामिनीं ध्यात्वा तस्मादाविर्भवेद् हरिः || १८/२३ || हरिरित्युपलक्षणं देवि सर्वेषामेव निर्मितम् | निद्रायुक्तं महेशानि विद्यामन्त्रं भवेत् सदा || १८/२४ || तस्मात्तु निद्रारहितं प्रजपेद् यदि एकदा | जपात् कोटिगुणं भद्रे सहसा लभते ध्रुवम् || १८/२५ || वामबाहोर्यदा वाहस्तदा निद्रातुरो मनुः | चलते च यदा बाहोर्दक्षिणे वरवर्णिनि || १८/२६ || तदैव चञ्चलापाङ्गि त्यक्तनिद्रः सदा मनुः | अत एव वरारोहे त्यक्तनिद्रं जपेत् सुधीः || १८/२७ || श्रीदेवी उवाच पूजाकाले महादेव यदि निद्रातुरो भवेत् | तत्कथं सिध्यते मन्त्रः किं कर्तव्यं तदा प्रभो || १८/२८ || प्रजपेत् केन विधिना न जपेद्वा वद प्रभो | श्रीमहादेव उवाच रहस्यमन्त्रं वक्ष्यामि आनन्दपटले स्थितम् || १८/२९ || द्वादशार्णमयं मन्त्रं निद्राभङ्गस्य दीपनम् | रहस्यमन्त्रं चार्वङ्गि अज्ञात्वा विफलं भवेत् || १८/३० || इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे अष्टादशः पटलः || ऊनविंशः पटलः श्रीमहादेव उवाच सन्देहो नैव कर्तव्यः पूजाकाले शुचिस्मिते | सहसा कामिनीं ध्यात्वा तुरीयकूटमुच्चरेत् || १९/१ || तदैव सहसा देवि त्यक्तनिद्रो भवेन्मनुः | प्रजपेद् दशधा देवि हृदये मनसापि वा || १९/२ || पूजाकाले महेशानि संत्यजेद् यदि दक्षिणम् | प्रायश्चित्तं भवेत्तस्य मन्त्रस्य वरवर्णिनि || १९/३ || प्रायश्चित्तमिदं देवि कृत्वा मन्त्रं जपेद् यदि | किं तस्य दक्षिणो बाहुस्तस्य निद्रातुरेण किम् || १९/४ || रहस्यमन्त्रं चार्वङ्गि पूजाकाले विनिर्णयम् | रहस्यमेतच्चार्वङ्गि सर्वनिद्रासु मङ्ग्लम् || १९/५ || वामबाहोर्यदा वायुर्यदा च दक्षिणावहः | रहस्यमेतच्चार्वङ्गि कृत्वा तु प्रजपेन्मनुम् || १९/६ || तदैव त्यक्तनिद्रा सा विद्या मन्त्रञ्च नान्यथा | योगनिद्रामयी विद्या योगनिद्रामयो मनुः || १९/७ || विशेषमन्त्रं वक्ष्यामि आनन्दपटले स्थितम् | अष्टाक्षरीं महाविद्यां दीपनीं मोक्षरूपिणीम् || १९/८ || सर्वसिद्धिमयो भूत्वा रहस्यफलमाप्नुयात् | प्रजपेद् यदि निद्रायां किं तस्य जपपूजने || १९/९ || रहस्यनेन चार्वङ्गि निद्रां त्यक्त्वा सनातनी | सुषुम्णामध्यमार्गेषु संस्थिता ब्रह्मरूपिणी || १९/१० || रहस्यमेतच्चार्वङ्गि अज्ञात्वा योजपेन्मनुम् | तस्य पापमहं वक्ष्ये सावधानावधारय || १९/११ || शूद्रेण लिखितं देवि पटलं यत्तु पठ्यते | यं यं नरकमाप्नोति तं तं प्राप्नोति मानवः || १९/१२ || द्वात्रिंशत्कोटिमध्येषु नरकेषु क्रमेण हि | कोटिवंशान् समादाय पच्यन्ते मनुजाधमाः || १९/१३ || विप्रो वा क्षत्रियो वापि वैश्यो वा नगनन्दिनि | पच्यन्ते नरके घोरे शूद्रस्य लिखनात् प्रिये || १९/१४ || तस्मात्तु शूद्रलिखितं पटलं न जपेत् सुधीः | तस्मादावश्यकं देवि कामिनीध्यानमुच्चरेत् || १९/१५ || ततः सिद्धो भवेद् देवि विद्या मन्त्रं न चान्यथा | कामिनीध्यानमात्रेण सर्वसिद्धिमयो भवेत् || १९/१६ || एकेनैव कृतार्थं स्याद् बहुभिः किमुपासते | तव भक्त्या मयाख्यातं यद्गोप्यं भुवनत्रये || १९/१७ || कामधेनुमिदं ज्ञत्वा यदि पूजां समाचरेत् | सफला सा भवेत् पूजा जपञ्च सफलं सदा || १९/१८ || अन्यथा प्रेतवद् दीक्षा पूजा च प्रेतवत् सदा | प्रथमं कामिनीं ध्यात्वा जपपूजां समाचरेत् || १९/१९ || कामधेनोः फलं लब्ध्वा सदाशिवमयो भवेत् | विष्णुरूपी स एव स्यान्महामाया स एव हि || १९/२० || शिवमन्त्रे विष्णुमन्त्रे शक्तिमन्त्रे शुचिस्मिते | कामधेनुमिदं मन्त्रं प्रशस्तं सुरपूजिते || १९/२१ || एतत्ते कथितं देवि सारात्सारं परात्परम् | यत् कृत्वा साधको याति दुर्लभं मोक्ष्मन्दिरम् || १९/२२ || विशेषमन्त्रं वक्ष्यामि विद्यां श्रीकामरूपिणीम् | अज्ञात्वा कामिनीध्यानं सहसा व्यर्थतामियात् || १९/२३ || तद्ध्यानं चञ्चलापाङ्गि आनन्दपटले स्थितम् | तस्मादवश्यं जप्तव्यं सततं कामदीपनीम् || १९/२४ || इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे ऊनविंशः पटलः || विंशतितमः पटलः श्रीदेवी उवाच मन्त्रसमर्पणं तत्त्वं कथ्यतां देवपूजित | कस्मै समर्पयेन्मन्त्रं वद देव पुरातन || २०/१ || अर्पयेन्मन्त्रतेजांसि देवेश यदि शूलधृक् | निस्तेजा साधको देव तदैव सहसा भवेत् || २०/२ || किं जप्येन च पूजायां पुरश्चर्येण किं पुनः | तन्मे वद महाभाग कृपया परमेश्वर || २०/३ || श्रीमहादेव उवाच साधु पृष्टं त्वया भद्रे अधुना कथयामि ते | जपित्वा चञ्चलापाङ्गि ध्यायेत् परमकामिनीम् || २०/४ || मन्त्रवर्णं वरारोहे कामिनीगजगह्वरे | चन्द्रबिन्दुयुतं कृत्वा एकैकं दशधा जपेत् || २०/५ || अनुलोमे यथा देवि विलोमेन तथा कुरु | अतः परं वरारोहे ज्ञात्वा तु कामिनीं पराम् || २०/६ || वियद्ब्रह्म महेशानि कामिनीं दशधा जपेत् | कामिनीगर्भमध्ये तु वियद्वह्नियुतं प्रिये || २०/७ || प्रजपेद् दशधा भक्त्या बीजतत्त्वं तदा भवेत् | ततस्तु कामिनीतत्त्वं ललाटे परिचिन्त्य वै || २०/८ || एवञ्च मातृकास्थाने कामिनीं भावयेत् प्रिये | पञ्चाशन्मातृकास्थाने प्रजपेन्मातृकामनुम् || २०/९ || बीजस्य ज्योतिःपुञ्जेषु कामिनीं सत्वरं कुरु | दशधा प्रजपेद् देवि कामिनीबीजमुत्तमम् || २०/१० || कामिनीगर्भमध्ये तु ज्योतिस्तत्त्वे जपं कुरु | ज्योतिस्तत्त्वं वरारोहे स्वयं जीवः सनातनः || २०/११ || कामिनीजीवतत्त्वं च कृत्वा वै साधकः सुधीः | सहस्रारे महापद्मे संस्थाप्य कामिनीं पराम् || २०/१२ || गुह्यातिगुह्यगोप्त्री त्वमिति मन्त्रेण मन्त्रवित् | देवस्य दक्षिणे हस्ते बाह्यपूजादि चार्पयेत् || २०/१३ || देव्या वामे वरारोहे समर्प्य फलभाग् भवेत् | जपस्य सर्वतेजांसि देवहस्ते यदि प्रिये || २०/१४ || समर्प्य परमेशानि तेज(स्य? स्वी) साधको भवेत् | किं तस्य पूजने भद्रे किं जापेन वरानने || २०/१५ || यत्किञ्चिद् दीयते देवि सर्वं ब्रह्मणि लीयते | विद्यामन्त्रं जपेद् देवि तत्तेज उपजायते || २०/१६ || जीवतत्त्वं विना देवि देवहस्ते कदाचन | नार्पयेच्चञ्चलापाङ्गि देव्या हस्ते विशेषतः || २०/१७ || तस्मात् प्रयत्नतो देवि जीवतत्त्वं कुरु ध्रुवम् | जीवतत्त्वं विना देवि यदि देवं समर्पयेत् || २०/१८ || जपञ्च विफलं देवि पूजा च विफला भवेत् | गन्धपुष्पादिकं यद्यत् सर्वं देवे समर्पयेत् || २०/१९ || जपतत्त्वं वरारोहे सर्वतेजोमयं सदा | यदि तेजो वरारोहे देव्यै देवाय अर्पयेत् || २०/२० || यस्तेजः सततं जीवः कथं सिद्धिः प्रजायते | यस्तेजस्त्वर्पयेद् देवि पुनरागमनं प्रिये || २०/२१ || दुर्लभं चञ्चलापाङ्गि तत्तेजः साधकस्य च | वृथा भयं वरारोहे कुरुते नरपामरः || २०/२२ || समर्पणमविज्ञाय प्रजपेद् यदि कोटि वा | देवतातेजमध्ये तु तत्तेजोपविशेत् प्रिये || २०/२३ || भावयेद् बहुयत्नेन यथा सर्वस्वसंपुटम् | एतत्ते कथितं देवि जीवतत्त्वं सुदुर्लभम् || २०/२४ || यत् कृत्वा साधको याति दुर्लभं ब्रह्मविग्रहम् | श्रुत्वा तन्त्रमिदं देवि रहस्यफलमाप्नुयात् | तन्त्रमेतद् वरारोहे शृणुयात् साधकः प्रिये || २०/२५ || इति कामधेनुतन्त्रे देवदेवीसंवादे विंशतितमः पटलः || एकविंशतितमः पटलः श्रीमहादेव उवाच चन्द्रसूर्योपरागे च प्रजपेद् यदि कामिनीम् | तदैव सहसा सिद्धिर्जायते नात्र संशयः || २१/१ || प्रथमं कामिनीं जप्त्वा स्वविद्याः प्रजपेद् यदि | ततस्तु कामिनीं जप्त्वा सर्वसिद्धीश्वरो भवेत् || २१/२ || अज्ञात्वा कामिनीतत्त्वं न जपेद् ग्रहणे प्रिये | न जपेद् ग्रहणे भद्रे अज्ञानाद् यदि मूढधीः || २१/३ || सर्वं तस्य वृथा देवि पूर्वधर्मो विनश्यति | चन्द्रपर्व सूर्यपर्व न विचार्यं कदाचन || २१/४ || सूर्यपर्व वरारोहे न पश्येद् यदि पामरः | अस्तु तावत् परो धर्मः पूर्वधर्मो विनश्यति || २१/५ || न पश्येद् यदि अज्ञानात् सर्वारिष्टमवाप्नुयात् | सर्वारिष्टमयः सोऽपि सर्वपापमयः सदा || २१/६ || तस्मादवश्यं कर्तव्यं चन्द्रपर्वनिरीक्षणम् | सूर्यपर्व तथा देवि निरीक्ष्यमोक्षमाप्नुयात् || २१/७ || अज्ञात्वा यदि मूढात्मा राश्यादिगणनं प्रिये | विचार्य चञ्चलापाङ्गि न पश्येद् ग्रहणं यदि || २१/८ || पूर्वपूर्वार्जितं पुण्यं तत्क्षणादेव नश्यति | चन्द्रसूर्योपरागञ्च तस्माद् यत्नान्निरीक्षयेत् || २१/९ || किं तस्य कामिनीं भद्रे रम्याणि च पुनश्च किम् | ग्रासादिमुक्तिपर्यन्तं जप्त्वा सिद्धीश्वरो भवेत् || २१/१० || न जपेद् यदि चार्वङ्गि रौरवं नरकं व्रजेत् | तत्काले चञ्चलापाङ्गि परंब्रह्मस्वरूपिणी || २१/११ || तस्मिन् काले वरारोहे क्षत्रादिजातिभेदतः | आचण्डालप्रभृतयो द्विजतुल्या भवन्ति हि || २१/१२ || द्विजास्तु चञ्चलापाङ्गि साक्षाद् ब्रह्म न संशयः | तत्र का गणना देवि चाण्डालानां वरानने || २१/१३ || तस्माद् यत्नेन कर्तव्यं चन्द्रपर्वनिरीक्षणम् | चन्द्रकोटिगुणं देवि सूर्यो दशगुणं भवेत् || २१/१४ || तत्र यद् यत् कृतं कर्म जपहोमादिकं प्रिये | अक्षयं तद् भवेद् देवि वचनं मम निश्चितम् || २१/१५ || राश्यादिगणनं त्यक्त्वा यवनैर्दृश्यते यदि | यवनस्य तथा सिद्धिर्जायते पृथिवीतले || २१/१६ || दीक्षितोऽदीक्षितो वापि दृष्ट्वा स्नानं समाचरेत् | तदेवमक्षयं स्नानं गङ्गास्नानं भवेत् प्रिये || २१/१७ || विष्ठाकूपस्थितं तोयं गङ्गोदकसमं स्मृतम् | प्रशस्तं ग्रहणे काले नान्यथा वचनं मम || २१/१८ || षष्ठमासाधिको बालो यदि स्याद् वरवर्णिनि | ग्रहणे चन्द्रसूर्यस्य तस्य स्नानं प्रशस्यते || २१/१९ || अकृत्वा स्नानदानञ्च सहसा नरकं ब्रजेत् | स भ्रष्टः स च पापिष्ठः सहसा सूकरः प्रिये || २१/२० || तस्यान्नमुदकं देवि मूत्रं शोणितवत् प्रिये | जायते नात्र सन्देहो मम वाक्यं वरानने || २१/२१ || ब्राह्मणोऽब्राह्मणो वापि चन्द्रपर्वणि पार्वति | चाण्डालप्रभृतिः सर्वो ब्रह्मगोत्रे प्रवर्तते || २१/२२ || ब्रह्मेति नाम सर्वेषां राश्यादिगणनं कुतः | तस्मात्तु चञ्चलापाङ्गि संकल्पं नैव कारयेत् || २१/२३ || मासपक्षतिथीनां च निमित्तानि च पार्वति | न विचार्यं वरारोहे ग्रहणे चन्द्रसूर्ययोः || २१/२४ || ग्रासादिमोक्षकाले तु कुतो मासः कुतस्तिथिः | स कालः परमं ब्रह्म सर्वेषामक्षिगोचरम् || २१/२५ || तत् कथं पामरो लोको राश्यादिगणनं प्रिये | उपरागं परित्यज्य यश्चान्यं परिचिन्तयेत् || २१/२६ || स भवेद्रौरवे मग्नो ब्रह्मणश्चानुमानतः | रौरवात् पुनरागत्य पापयोनौ प्रवर्त्तते || २१/२७ || निष्कृतिर्नास्ति चार्वङ्गि तस्यापि च कदाचन | तस्मात् सर्वं परित्यज्य चन्द्रपर्वनिरीक्षणम् || २१/२८ || चन्द्रपर्वे यथा देवि सूर्यपर्वे तथा प्रिये | तत्र श्राद्धादिकं त्यक्त्वा विद्यां मन्त्रं जपेत् प्रिये || २१/२९ || अन्यथा नरकं याति पितॄन् सप्त नयत्यधः | अपरैकं प्रवक्ष्यामि रहस्यं शृणु सुन्दरि || २१/३० || अकारादिक्षकारान्तं प्रतिपद्मे निरीक्षयेत् | ततस्तु प्रजपेत् शून्यं चन्द्रबिन्दुकसंयुतम् || २१/३१ || ततस्तु हृदयाकाशे शून्ये ज्योतिर्मयेषु च | अनुलोमविलोमेन मातृकां प्रजपेत् सुधीः || २१/३२ || ततस्तु साधकश्रेष्ठो वराटोपरि मातृकाम् | पद्मबीजं यथा देवि वर्णबीजं प्रभावयेत् || २१/३३ || चन्द्रबीजं पुटं कृत्वा जपेद् वर्णं प्रसन्नधीः | अनुलोमविलोमेन जप्त्वाऽमृतमयो भवेत् || २१/३४ || केवलं कामिनीं ध्यात्वा प्रफुल्लवदनान्तरम् | बीजादुत्पद्यते देवो देवी वा कमलेक्षणे | ततस्तु देवतां ध्यात्वा निरीक्ष्य देवविग्रहम् || २१/३५ || इति श्रीकामधेनुतन्त्रे महादेवमहादेवीसंवादे एकविंशतितमः पटलः || त्रयोविंशतितमः पटलः (ग्रन्थपातः) ....ष्यां च वरारोहे गङ्गायां स्नानमित्यहम् || २२/१० || करिष्ये इति सङ्कल्प्य शिरःस्नानं समाचरेत् | अर्को धर्मपयो देवि अमाद्यर्थश्च मूर्तिमान् || २२/११ || श्रवणञ्च महेशानि साक्षात्कामश्च मूर्तिमान् | व्यतीपाते महेशानि स्वयं मुक्तिः प्रगीयते || २२/१२ || माद्यस्तु चञ्चलापाङ्गि स्वयमेवेश्वरः प्रिये | एतत्तु कथितं देवि पञ्चयोगं परात्परम् || २२/१३ || कायिकं वाचिकं चैव मानसं पापमुत्कटम् | तत्सर्वं नाशमायाति गङ्गादर्शनमात्रतः || २२/१४ || कोटिजन्मार्जितं पापं जलस्पर्शाद्विनश्यति | ततस्तु मौशलं स्नानं कोटिसूर्यग्रहैः समम् || २२/१५ || फलमाप्नोति चार्वङ्गि नात्र कार्या विचारणा | आचम्य चञ्चलापाङ्गि वासं कुर्याद् विशालधीः || २२/१६ || इति कामधेनुतन्त्रे त्रयोविंशतितमः पटलः | चतुर्विंशतितमः पटलः श्रीमहादेव उवाच मालारहस्यं योगेन्द्र कथयस्व कृपानिधे | यदि पुच्छं जपेन्मन्त्रं हरेत्तेजांसि तन्मुखम् || २३/१ || मुखाद् यदि जपेन्मन्त्रं पुच्छं च चञ्चलं भवेत् | चञ्चले सति चार्वङ्गि तज्जपं निष्फलं भवेत् || २३/२ || श्री-ईश्वर उवाच पञ्चाशदक्षरं देवि ग्रथितं चित्रनाडिषु | स्थाप्याक्षराणि पूर्वे वै सुमेरुं पुच्छं तर्पिणम् || २३/३ || सुमेरुं च परिचार्यय अकरादिकमाज्जपेत् | मालारहस्यं चार्वङ्गि सुगोप्यं भुवनत्रये || २३/४ || जातिभेदं जीवभेदं सुगोप्यं च यथा प्रिये | जीवमन्त्रं प्रवक्ष्यामि सावधानावधारय || २३/५ || जीवमन्त्रं जातिमन्त्रं समानमिति निर्णयः | यथा ध्यानं महेशानि समानं याति जीवने || २३/६ || तद्ध्यानं शृणु चार्वङ्गि सावधानावधारय | द्विभुजां स्वर्णगौराङ्गीं पीतपट्टपरिच्छदाम् || २३/७ || नानाभरणदीप्ताङ्गीं किशोरीं नवयौवनाम् | कृष्णगन्धप्रलिप्ताङ्गीं सूर्यासनकृताश्रयाम् || २३/८ || तनुदीर्घाङ्गुलीं भास्वन्नखचन्द्रविराजिताम् | कदम्बकोरकाकारस्तनद्वयविराजिताम् || २३/९ || कर्पूरसकलोन्मिश्रताम्बूलपूरिताननाम् | कटाक्षलक्षसंयुक्तभूलतापरिशोभिताम् || २३/१० || सिन्दूरतिलकोद्दीप्तां कुटिलालकमण्डिताम् | सर्वत्रैवं महेशानि जीवं तिष्ठति सर्वदा || २३/११ || द्विजादीनां च सर्वेषामानन्दपटले स्थिताम् | एतत्ते कथितं सर्वं कामधेनोर्मतं प्रिये || २३/१२ || इति श्रीकामधेनुतन्त्रे देवीश्वरसंवादे चतुर्विंशतितमः पटलः || समाप्तमिदं कामधेनुतन्त्रम् ########### END OF FILE #######