#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00239 Uniform title: kāmaratnatantra Editor : Hemachandra Goswami Tattabhusan Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Sept. 18, 2011 Publisher : Assam Government Press Publication year : 1928 Publication city : Shilong Publication country : India #################################################### || श्रीगणेशाय नमः || अथ कामरत्नम् हिन्दीव्याख्याविभूषितम् प्रथमोपदेशः मङ्गलाचरणम् यस्येश्वरस्य विमलं चरणारविन्दं संसेव्यते विबुधविद्धमधुव्रतेन | निर्वाणसूचकगुणाष्टकवर्ग पूर्णं तं शंङ्करं सकलदुःखहरं नमामि || १ || देव्युवाच ज्ञातं तव प्रसादेन यथा कालस्य बन्धनम् | मन्त्रस्य सारसंभूतमिदानीमौषधं वद || औषधान्यप्यनेकानि मनुजानां हिताय वै | पूर्वं तु यत्त्वया प्रोक्तं प्रत्यक्षं कथयस्व मे || १ || ईश्वर उवाच कामरत्नमिदं चित्रं नानातन्त्रार्णवान्मया | वश्यादियक्षिणीमंत्रसाधनान्तं समुद्धृतम् || १ || तिथिनक्षत्रवारेण ऋतुभेदैः परिग्रहः | खननोत्पाटनं मन्त्रैः कारयेद्वै चिकित्सकः || २ || औषधं कालयोगेन गृह्णाति परमं बलम् | शरद्धेमान्तिके देवि त्वचो मूलपरिग्रहः || ३ || शिशिरे च फलं सम्यङ्मूलं सारसमन्वितम् | वसन्ते पुष्पपत्रे च ग्रीष्मे च फलबीजके || ४ || स्वकाले बलवन्तोऽपि वर्षासु तरवः सदा | मूले शुष्के बलं चार्द्धं मलादौ भिषजे तथा || ५ || ग्रीष्मवार्षिकयोरेतच्छरत्संपूर्णता भवेत् | वृक्षादीनां फलं बीजं स्वकीये चार्तवे तथा || ६ || फलपुष्पलता ह्येते स्वकाले बलिनस्तथा | निशायां वनजा वीर्या जलजा बलिनो दिवा || ७ || षट्कर्माणि शान्तिवश्यस्तम्भनानि द्वेषणोच्चाटने तथा | मारणान्तानि शंसन्ति षट्कर्माणि मनीषिणः || १ || वश्याकर्षणकर्म्माणि वसन्ते योजयेत्प्रिये | ग्रीष्मे विद्वेषणं कुर्यात्प्रावृषि स्तम्भनं तथा || २ || शिशिरे मारणञ्चैव शान्तिकं शरदि स्मृतम् | हेमन्ते पौष्टिकं कुर्यादुक्तकर्मविशारदैः || ३ || वसन्ते चैव पूर्वाह्णे ग्रीष्मे मध्याह्न उच्यते | वर्षा ज्ञेयाऽपराह्णे तु प्रदोषे शिशिरस्तथा | अर्द्धरात्रे शरत्काले उषा हेमन्त उच्यते || ४ || ऋतवः कथिता ह्येते सर्वे ह्येव क्रमेण तु | तद्विहीना न सिद्ध्यन्ति प्रयत्नेनापि कुर्वतः || अनन्यकरणात्ते हि ध्रुवं सिद्ध्यन्ति नान्यथा || ५ || इति ऋतुनिर्णयः अथ तिथिनिर्णयः वशीकरणकर्माणि सप्तम्यां साधयेद् बुधः | तृतीयायां त्रयोदश्यां तथाकर्षणकर्म वै || ६ || उच्चाटनं द्वितीयायां षष्ठ्याञ्चैव प्रकारयेत् | स्तम्भनञ्च चतुर्दश्यां चतुर्थ्यां प्रतिपद्यपि || ७ || मोहनन्तु नवम्याञ्च तथाष्टम्यां प्रयोजयेत् | द्वादश्यां मारणञ्चैवमेकादश्यां तथैव च || ८ || पञ्चम्यां पौर्णमास्याञ्च योजयेच्छान्तिकादिकम् | सर्वविद्याप्रसिद्ध्यर्थं तिथयः कथिताः क्रमात् || ९ || इति तिथिनिर्णयः | अथ वाराः शुक्रे लक्ष्मीः शनौ वश्यं रवौ मारणकर्म च | उच्चाटनं बुधे भौमे विद्वेषादि शुभं भवेत् || १ || स्तम्भनं मोहनञ्चैव वशीकरणमुत्तमम् | माहेन्द्रे वारुणे चैव कर्त्तव्यमिह विद्धिदम् || विद्वेषोच्चाटनं वह्निवायुयोगेन कारयेत् || २ || ज्येष्ठा चैवोत्तराषाढा ह्यनुराधा च रोहिणी | माहेन्द्रमण्डलास्थाश्च प्रोक्ताः कर्मप्रसिद्धिदाः || ३ || स्यादुत्तराभाद्रपदा मूला शतभिषा तथा | पूर्वाभाद्रपदाश्लेषा ज्ञेया वारुणमध्यगाः | पूर्वाषाढा च तत्कर्म्मसिद्धिदा शम्भुना स्मृताः || ४ || स्वाती हस्तो मृगशिराश्चित्रा चोत्तरफाल्गुनी | पुष्य पुनर्वसुर्वह्निमण्डलस्थाः प्रकीर्तिताः || ५ || अश्विनी भरणी चार्द्रा धनिष्ठा श्रवणं मघा | विशाखा कृत्तिका पूर्वाफाल्गुनी रेवती तथा | वायुमण्डलमध्यस्थास्तत्तत्कर्मप्रसिद्धिदाः || ६ || इति माहेन्द्रादिनिर्णयः | शान्तिकं पौष्टिकञ्चैव ह्यभिचारिक कर्म्म च || ७ || तर्जन्यादिसमारूढं कुर्याद्यत्नात्क्रमं सुधीः | तत्राङ्गुष्ठासमारूढा सर्वकर्म ह्युभे तथा || ८ || इति अङ्गुलिनिर्णयः | अथ औषधीनांबलाबलविचारः विधिमन्त्रसमायुक्तमौषधं सफलं भवेत् | विधिमन्त्रविहीनं तु काष्ठवद्भेषजं भवेत् || ९ || एकान्ते तु शुभारण्ये तिष्ठत्येव यदौषधम् | कार्यविद्धिर्भवेत्तेन वीर्यमस्ति च तत्र वै || १० || वल्मीककूपरथ्यातरुतलदेवालयश्मशानेषु | जाता विधिना विहिता ओषधयः सिद्धिदा न स्युः || ११ || जलजीर्णमग्निकवलितमकालजातं कृमिक्षतशरीरम् | न्यूनं तथाधिकं वा द्रव्यमद्रव्यं जगुर्भिषजः || १२ || इति औषधीनांबलावलविचारः | अथ मूलिकाग्रहणविधिः | भूतादियुक्तमभ्यर्च्य गिरीशं प्रातरुत्थितैः | श्राद्धैरुपासितैर्वापि संग्राह्यं सर्वमौषधम् || १ || इत्येवं सर्वमूलानां विधिर्मन्त्रश्च कथ्यते | आदौ वृक्षस्य मूलञ्च गत्वा तमभिमंत्रयेत् || २ || ओं वेतालाश्च पिशाचाश्च राक्षसाश्च सरीसृपाः | अपसर्पन्तु ते सर्वे वृक्षादस्माच्छिवाज्ञया || ३ || ततो नमस्कारः ओं नमस्तेऽमृतसम्भूते बलवीर्यविवर्द्धिनि | बलमायुश्च मे देहि पापान्मे त्राहि दूरतः || ४ || ततः खननम् येन त्वां खनते ब्रह्मा येन त्वां खनते भृगुः | येन हीन्द्रोऽथ वरुणो येन त्वामपचक्रमे || ५ || तेनाहं खनयिष्यामि मन्त्रपूतेन पाणिना | मा पातेमानि पतिते मा ते तेजोन्यथा भवेत् || ६ || अत्रैव तिष्ठ कल्याणि मम कार्यकरी भव | मम कार्ये कृते सिद्धे ततः स्वर्गं गमिष्यसि || ७ || उत्खनन मंत्र अनेन मन्त्रेणादित्यवारे पुष्यनक्षत्रे वा पुष्यार्कयोगे वा सर्वा औषधीरुत्पाटये | ओं ह्रीं क्षौं फट् स्वाहा अनेन मूलिकां छेदयेत् | इति मूलिकाग्रहणविधिह् | ओं ह्रीं चण्डे हूं फट् स्वाहा | ओं ह्रीं क्षौं फट् स्वाहा | ओं ह्रीं चण्डे हूं फट् स्वाहा इति मूलिकाग्रहणविधिः | अथ बन्दाग्रहणविधिः मन्त्रः ओं वनदण्डे महादण्डाय स्वाहा | ओं शूद्री (सूत्री)कपालमालिनी स्वाहा प्रत्येकं सप्तधा जप्त्वा बन्दा ग्राह्या | ततः कार्यसिद्धिः | इति बन्दाग्रहणविधिः | इत्येवं सर्वविद्यानां सिद्धये कालनिर्णयः | कथितं चात्र यत्नेन मूलिकाग्रहणादिकम् || ८ || अथ वशीकरणम् तत्र सर्वजन वशीकरणम् वर्णानामुत्तमं वर्णं मन्त्रस्थानं तथैव च | ओङ्कारशिरसं चापि ओङ्कारशिरसं ततः || १ || अधोभागे च रेफञ्च दत्त्वा मन्त्रं समुद्धरेत् | निरामिषान्नभोक्ता च जप्तव्यो मन्त्र एव च || २ || क्रों प्रों व्रों अनेन मन्त्रेण- असाध्याश्चापि राजानः पुत्रमित्राश्च बान्धवाः | ये मे गोत्रसमुत्पन्नाः पशवो ये च सर्वतः || ३ || ते सर्वे वशतां यान्ति सहस्रार्द्धस्य जापनात् | पृष्ट्वा दृष्ट्वा च ये साध्या गृहीत्वा नाम तत्र वै || ४ || इत्यादिकाः सर्वमन्त्रा ग्राह्या भक्त्या गुरोस्तदा | सिद्ध्यन्ति सर्वकार्याणि नान्यथा सिद्धिभाग्भवेत् || ५ || मन्त्रः ओं नमः कटविकटघोररूपिणीस्वाहा || अनेन मन्त्रेण सप्ताभिमन्त्रितं भक्त पिडं यस्य नाम्ना सप्ताहं खाद्यते स ध्रुवमेव वश्यो भवति || ओं नमः कटविकटघोररूपिणी स्वाहा | मन्त्रः ओं वश्यमुखी राजमुखी स्वाहा || अनेन मुखप्रक्षालनात्सर्वे वश्या भवन्ति || मन्त्र श्लोक ओं राजमुखि वश्यमुखि स्वाहा || वामहस्तेतैलं संस्थाप्य अनामिकया त्रिधा आमन्त्र्य पुनर्मूलमन्त्रं त्रिधा पठित्वा प्रातःकाले शययायां स्थित्वा मुखकेशादौ विलेपयेत् | तदा सर्वेजना वश्या भवन्ति व्याघ्रोपि न खादति || मन्त्रः ओं चामुण्डे जय जय स्तम्भय स्तम्भय जंभय जंभय मोहय मोहय सर्वसत्त्वान्नमः स्वाहा अनेन पुष्पाण्यभिमंत्र्य यस्मै दीयते स वश्यो भवति || ओं चामुण्डे जय जय स्तम्भय स्तम्भय जम्भय जम्भय मोहय मोहय सर्व सत्त्वानमह् सवाहा | एकचित्तस्थितो मन्त्रीमन्त्र जप्त्वायुतत्रयम् | ततः क्षोभयते लोकान् दर्शनादेव साधकः || ६ || भूताख्यवटमूलं च जलेन सह घर्षयेत् | विभूत्या संयुतं मन्त्रं तिलकं लोकवश्यकृत् || ७ || पुष्ये पुनर्नवामूलं करे सप्ताभिमन्त्रितम् || बद्ध्वा सर्वत्र पूज्यः स्यान्मन्त्रस्तवत्रैव कथ्यते || ऐं रौं डं क्षोभय भगवति त्वं स्वाहा | मन्त्रभिममुक्तयोगस्य पूर्वमयुतद्वयं जपेत्ततः || ८ || अपामार्गस्य मूलन्तु पेषयेद्रोचनेन च | ललाटे तिलकं कुर्याद्वशी कुर्याज्जगत्रयम् || ९ || ओं ऐं रौं डं क्षोभय भगवति त्वं स्वाहा | ओं नमः कन्दर्पशरविजालिनिमालिनि सर्वलोकवशंकरि स्वाहा || इति मन्त्रयुक्तयोगस्याष्टोत्तरसहस्रं जपेत्ततः सिद्धिः || ओं नमः कन्दर्पशर विजालिनिमालिनि सर्वलोकवशंकरि स्वाहा | कृष्णपक्षे चतुर्दश्यामष्टम्यां वाह्युपोषितः | बलिं दत्त्वा समुद्धृत्य सहदेवीं सचूर्णयेत् || ताम्बूलेन तु तच्चूर्णं दत्तं वश्यकरं ध्रुवम् | स्नाने लेपे च तच्चूर्णं योज्यं वश्यकरं भवेत् || १० || रोचनासहदेवीभ्यां तिलकं लोकवश्यकृत् | शिरसा धारेत्तच्च चूर्णं सर्वत्र वश्यकृत् || ११ || मुखे क्षिप्त्वा च तन्मूलं कट्यां बद्ध्वा च कामयेत् | यां नारीं सा भवेद्वश्या मन्त्रयोगेन कथ्यते || ओं नमो भगवतिमातङ्गेश्वरी सर्वमुखरञ्जिनि सर्वेषां महामाये मातङ्गि कुमारिके लहलहजिह्वे सर्वलोकवशंकरि स्वाहा || सहस्रं जप्त्वा उक्तयोगानां सिद्धिः || १२ || श्वेतपराजितामूलं चन्द्रग्रस्ते समुद्धृतम् | रञ्जिताक्षो नरस्तेन वशीकुर्याज्जगत्रयम् | तन्मूलं रोचनायुक्तं तिलकेन जगद्वशम् || १३ || ओं नमो भगवतिमातङ्गेश्वरि सर्वमुखरञ्जिनि सर्वेषां महामाये मातङ्गि कुमारिके लहलहजिह्वे सर्वलोक वशंकरि स्वाहा ग्राह्यं कृष्णत्रयोदश्यां श्वेतगुञ्जीयमूलकम् | ताम्बूलेन प्रदातव्यं सर्वलोकवशंकरम् || १४ || शिलारोचनाताम्बूलं वारिणा तिलके कृते | संभाषणेन सर्वेषां वशीकरणमुत्तमम् | स्वर्णेन वेष्टितं कृत्वा तेनैव तिलके कृते || १५ || दृष्टमात्रे वशं याति नारी वा पुरुषोऽपि वा | ओं वज्रकिरणेशिवेरक्षभवेममाद्य अमृतं कुरु कुरु स्वाहा | इमं मंत्रमुक्तयोगेन सहस्रं जपेत्ततः सिद्धिः || १६ || ओं वज्रकिरणे शिवे रक्ष भवेममाद्य अमृतं कुरु कुरु स्वाहा | हृत्पादचक्षुर्नासानां मलं पूगे प्रदापयेत् | तत्पूगं खाद्यते येन यावज्जीवं वशीभवेत् || १७ || मंत्राभिमंत्रितं कृत्वा दण्डेन्दीवरमूलकम् | रोचनाभिस्ताम्रपात्रे मृष्ट्वा नेत्रद्वयाञ्जनात् || प्रियो भवति सर्वेषां दृष्टमात्रे न संशयः || १८ || तन्मूलं मधुसंयुक्तं ललाटे तिलके कृते | ताम्बूले वा प्रदातव्यं वशीकरणमुत्तमम् || १९ || तन्मूलं रञ्जनोत्थं वा मूलं पिष्ट्वा प्रयोजयेत् | ताम्बूलेन तु तद्भुक्ते ध्रुवं वश्यं समानयेत् | ओं पिङ्गलायै नमः अनेन मंत्रेणाभिमन्त्र्योक्तयोगान् साधयेत् || २० || ओं पिङ्गलायै नमः रक्तगृध्रोभयं नेत्रं नेत्रं वा कृष्णपेचकम् | कृष्णपेचिकमाहृत्य तत्तैलेन प्रदीपकम् || २१ || कृत्वा च मधुना लिप्त्वा वर्ति कज्जलपातने | तेन नेत्राञ्जनं कृत्वा त्रैलोक्यं वशमानयेत् || २२ || देवदाली च सिद्धार्थं गुटिकां कारयेद् बुधः | मुखे निःक्षिप्य सर्वेषां प्रियो भवति नान्यथा || २३ || भृङ्गमूलं मुखे क्षिप्त्वा सर्वैः संपूजितो भवेत् | रोहिण्यां वटवन्दाकं सङ्ग्राह्य धारयेत्करे | वश्यं करोति सकलं विश्वामित्रेण भाषितम् || २४ || कुङ्कुमं तगरं कुष्ठं हरितालं समं त्रयम् | अनामिकाया रक्तेन तिलकं लोकवश्यकृत् || २५ || विष्णुक्रान्ता शुभा भृङ्गी श्वद्रंष्ट्रा मूलरोचनाम् | पिष्ट्वा तु वटिकां कृत्वा तिलकं वश्यकृत्परम् || २६ || पुष्योद्धृतं श्वेतभानुमूलं मूत्रैरजाभवैः | वटिकां कारयेत्प्राज्ञस्तिलकेन जगद्वशम् || २७ || अजारक्तेन तन्मूलं पुष्यार्के पेषयेद् बुधः | कज्जलं पातयित्वा तु चक्षुषी रञ्जयन्नरः || त्रैलोक्यं वशतां यांति दृष्टमात्रे न संशयः || २८ || मूलन्तु श्रवणा-ऋक्षे पिण्डीतगरसंभवम् | संग्राह्य धारयेद्वश्यं कुरुते सकलं जगत् || २९ || कृष्णापराजितामूलं पुष्येणोद्धृत्य चूर्णयेत् | गोघृतेन समालोड्य कज्जलं धारयेद् बुधः || तेनैवाञ्जितमात्रेण वशीकुर्याज्जगत्त्रयम् || ३० || पुत्रजीवकपत्रं च तिलकं रोचनायुतम् | प्रियो भवति सर्वेषां नरः कृत्वा ललाटके || ३१ || श्वेतापराजितामूलं तथा श्वेतजवाग्रजा | नासाग्रे तिलकं कृत्वा वशीकुर्ययान्न संशयः || ३२ || मञ्जिष्ठयदवचाशितसूर्यमूलैः स्वीयाङ्गशोणितयुत्तैः समकुष्ठकैश्च | कृत्वा ललाटफलके तिलकं कृतज्ञो लोकत्रयं वशयति क्षणमात्रकेण || ३३ || शम्भोर्ज्जलं च मधुकं च कृताञ्जलिञ्च हव्यं समं निजशरीरमलेन मिश्रम् | आलेपभक्षणविधौ तिलके कृते वा योगोऽयमेवभुवनानि वशीकरोति || ३४ || मूलं जटा तगरमेषविषाणिकानां पञ्चाङ्गजं निजशरीरमलं तथैव | एकीकृतानि मधुना दिवसे कुजस्य कुर्वन्ति वक्रतिलकेन वशं जगन्ति || ३५ || भृङ्गस्य पक्षयुगलं शुकमांसयुक्तं स्वानामिकारुधिरकर्णमलं स्वबीजम् | एतानि लेपविधिनाप्यथ भक्षणाद्वा कुर्वन्ति वश्यमखिलं जगदप्यकस्मात् || ३६ || तालीशकुष्ठतगरेः परिलिप्य वर्ति सिद्धार्थतैलसहितां दृढपट्टवस्त्राम् | पुंसः कपालफलके विनिपातितेन तेनाञ्जनेन वशतां किल याति लोकः || ३७ || गोरोचना पद्मपत्रं प्रियङ्गु रक्तचन्दनम् | एकीकृत्याञ्जयेन्नेत्रं यं पश्यति वशी भवेत् || ३८ || नासानेत्रमलं पादमलं गुवाकमिश्रितम् | मंत्रितं दीयते यस्मै वशीभवति निश्चितम् || ३९ || ओं पिङ्गलायै नमः अथ राजवशीकरणम् कुंकुमं चन्दनञ्चैव रोचनं शशिमिश्रितम् | गवां क्षीरेण तिलकं राजवश्यकरं ध्रुवम् || १ || ओं ह्रीं सः अमुकं मे वशमानय स्वाहा || पूर्वमेव सहस्रं जप्त्वाऽनेन मंत्रेण सप्ताभिमंत्रिततिलकं कार्यम् || ओं ह्रीं सः अमुकं मे वशमानय स्वाहा | चंपकस्य तु वन्दाकं करे बद्ध्वा प्रयत्नतः | संगृह्य भरणी-ऋक्षे पुष्यर्क्षे वा विधानतः || २ || राजानं तत्क्षणादेव मनुष्यो वशमानयेत् | करे सुदर्शनामूलं वद्ध्वा राजप्रियो भवेत् || ३ || इति राजवशीकरणम् | अथ स्त्रीवशीकरणम् पुष्ये पुष्पं च संगृह्य भरण्यां तु फलं तथा | शाखां चैव विशाखायां हस्ते पत्रं तथैव च || १ || मूले मूलं समुद्धृत्य कृष्णोन्मत्तस्य तत्क्रमात् | पिष्ट्वा कर्पूरसंयुक्तं कुंकुमं रोचनासमम् || तिलाकात् स्त्री वशं याति यदि साक्षादरुन्धती || २ || काकजङ्घा वचा कुष्ठं शुक्रशोणितमिश्रितम् | तद्दत्ते भोजने बाला श्मशाने रोदिति सदा | ओं नमो भगवते रुद्राय चामुण्डे अमुकीं मे वशमानय स्वाहा | उक्तयोगानामयमेव मंत्रः || ३ || ओं नमो भगवते रुद्राय ओं चामुण्डे अमुकीं मे वशमानय स्वाहा | प्रातर्मुखन्तु प्रक्षाल्य सप्तावाराभिमंत्रितम् | यस्या नाम्ना पिबेत्तोयं सा स्त्री वश्या भवेद् ध्रुवम् || ४ || ओं नमः क्षिप्रकामिनि अमुकीं मे वशमानय स्वाहा | ओं नमः क्षिप्रकामिनी अमुकीं मे वशमानय स्वाहा || ४ || कृष्णापराजितामूलं ताम्बूलेन समायुतम् | अवश्यायै स्त्रियै दद्याद्वश्या भवति नान्यथा || ओं हूं स्वाहा | अनेनाभिमन्त्र्य दद्यात् || ५ || साध्यसाधकनाम्ना तु कृत्वा सप्ताभिमन्त्रितम् | दीयते कुसुमं यस्यै सा वश्या भवति ध्रुवम् || ६ || सुसाधितो ह्ययं मन्त्रं अवश्यं फलदायकः | तस्मादिमं प्रयत्नेन साधयेमन्त्रमुत्तमम् || ७ || ओं हूं स्वाहा विशाखायान्तु वन्दाकं मङ्गले च समाहरेत् | हस्ते बद्ध्वा तु कुरुते वशगां वरयोषितम् || ८ || ओं पाते वज्राय स्वाहा कृष्णोत्पलं मधुकरस्य च पक्षयुग्मं मूलं तथा तगरजं सितकाकजङ्घा | यस्याः शिरोगतमिदं विहितं विचूर्णं दासी भवेज्झटिति सा तरुणी विचित्रम् || ९ || सव्येन पाणिकमलेन रतावसाने या रेतसा निजभवेन विलासिनीनाम् | वामं विलिम्पति पदं सहसैव यस्या वस्यैव सा भवन्ति नात्र विकल्पभावः || १० || सिन्धूत्थमाक्षिकपोत्तमलानि पिष्ट्वा लिङ्गं विलिप्य तरुणीं रमते नवोढाम् | साऽन्यं न याति पुरुषं मनसापि नूनं दासी भवेदिति मनोहरदिव्यमूर्त्तिः || ११ || गोरोचनाशिशिरदीधितिशंभुबीजैः काश्मीरचन्दनयुतैः कनकद्रवैश्च | लिप्त्वा ध्वजं परिरमत्यबलां नरो यां तस्या स एव हृदये मुकुटत्वमेति || १२ || पुष्ये रुद्रजटामूलं मुखस्थं कारयेद् बुधः | ताम्बूलादौ प्रदातव्यं वश्या भवति निश्चितम् || १३ || तथैव पाटलामूलं ताम्बूलेन तु वश्यकृत् | त्रिपत्रभण्टिकामूलं पिष्ट्वा गात्रे तु संक्षिपेत् | यस्याः सा वशतां याति बिन्दुमात्रेण तत्क्षणात् || १४ || स्वकीयकाममादाय कामदेवं स्मरेत्पुनः | तरुण्या हृदये दत्तं तत्क्षणात्स्त्री वशा भवेत् || १५ || गिलित्वा पारदं किंचिद्रम्यते नायिका यदि | प्राणान्तेऽपि च सा नारी तं नरं न विमुञ्चति || १६ || कामाक्रान्तेन चित्तेन मासार्द्धं जपते निशि | अवश्यं कुरुते वश्यं प्रसन्नो विश्वचेटकः || ऐं पिं स्थां क्लीं कामपिशाचिनी शीघ्रं अमुकीं ग्राहय ग्राहय कामेन मम रूपेण नखैर्विदारय नखैर्विदारय विद्रावय विद्रावय स्नेहेन बन्धय बन्धय श्रीं फट् | अयुत द्वयेन सिद्धिः || १७ || नागापुष्पं प्रियङ्गुञ्च तगरं पद्मकेशरम् | जटामांसीं समं निम्बं चूर्णयेन्मंत्रवित्तमः || १८ || ऐं पिं स्थां क्लीं कामपिशाचिनी शीघ्रं अमुकीं ग्राहय ग्राहय कामेन मम रूपेण नखैर्विदारय नखैर्विदारय विद्रावय विद्रावय स्नेहेन बन्धय बन्धय श्रीं फट् | स्वाङ्गं तु धूपयेत्तेन भजते कामवत्स्त्रियः | धूपमन्त्रः ओं मूली मूली महामूली सर्व संक्षोभय संक्षोभय एभ्य उपद्रवेभ्यः स्वाहा | इति || पानीयस्याञ्जलीन् सप्त कृत्वा विद्यामिमां जपेत् | सालङ्कारां नरः कन्यां लभते मासमात्रतः || १९ || ओं विश्वावसुर्नामगन्धर्वः कन्यानामधिपतिस्सुरूपां सालंकृतां कन्यां देहि नमस्तस्मै विश्वावसवे स्वाहा कन्या गृहे शालकाष्ठं क्षिपेदेकादशांगुलम् | ऋक्षे च पूर्वफाल्गुन्यां यस्तां कन्यां प्रयच्छति || २० || अथ पतिवशीकरणम् खञ्जरीटस्य मांसं तु मधुना सह पेषयेत् | अनेन योनिलेपेन पतिर्दासो भवेद् ध्रुवम् || पञ्चाङ्गं दाडिमं पिष्ट्वा श्वेत सर्षपसंयुतम् | योनिलेपात्पतिं दासं करोत्यपि च दुर्भगा || १ || कर्पूरं देवदारुं च सक्षौद्रं पूर्ववत्फलम् | ओं कामकाममालिनि पतिं मे वशमानय ठः ठः | उक्त योगानां सप्ताभिमंत्रिते सिद्धिः || २ || ओं कामकाममालिनि पतिं मे वशमानय ठः ठः | रोचनां मत्स्यपित्तं च पिष्ट्वापि तिलके कृते | वामहस्तकनिष्ठायां पतिर्दासो भवेद् ध्रुवम् | स्वशोणितं रोचनया तिलकं पतिवश्यकृत् || ३ || चित्रकस्य तु पुष्पाणि मधुयुक्तानि कारयेत् | खाने पाने प्रदातव्यं पतिवश्यकरं भवेत् | भूर्जपत्रं च मधुना योनिलेपे पतिर्वशः || ४ || जलौकसां मुखे देयं शम्बूशंखादिचूर्णकम् | तच्चूर्णं तु समागृह्य ताम्बूलेन समायुतम् | दातव्यं स्वामिने भोक्तुं वश्यो भवति नान्यथा || ५ || गोरोचनानलदकुंकुमभावितायास्तस्याः सदैव कुरुते तिलकं वशित्वम् | वात्स्यायनेन बहुधा प्रमदाजनानां सौभाग्यकृत्यसमये प्रकटीकृतोऽसौ || ६ || सम्भोगशेषसमये निजकान्तमेढ्रं या कामिनी स्पृशति वामपदाम्बुजेन | तस्याः पतिस्सपदि विन्दति दासभावं गोणीसुतेन कथितः किल योगराजः || ७ || इति पतिवशीकरणम् इति श्रीनित्यनाथविरचिते कामरत्ने वशीकरणं नाम प्रथमोपदेशः || १ || द्वितीयोपदेशः अथाकर्षणम् चतुर्थवर्णमाकृष्य द्वितीयवर्गसंस्थितम् | कृत्वा त्रिविधहां हांतं तदन्तं हे द्वितीयकम् || १ || अंकारशिरसं कृत्वा प्रत्यक्षरप्रजापनम् | मन्त्रम् झां झां झां हां हां हां हें हें || सहस्रार्द्धस्य जापेन फलं भवति शाश्वतम् || २ || मानुषासुरदेवाश्च सयक्षोरगराक्षसाः | स्थावरा जङ्गमाश्चैव आकृष्टास्ते वराङ्गने || ३ || ओं झां झां झां हां हां हां हें हें | हान्ते रेफं समादाय यकारस्तु विशेषतः | अक्षरत्रितयं तच्च द्विधा कृत्वा प्रजापयेत् | भक्ष्यं द्रव्यं स्वहस्तेन कृत्वा मंत्रविभावनम् || ४ || दीयते यस्य भक्ष्यं तत्सर्वेषां प्राणिनां शुभे | ते सर्वे यत्र नीयन्ते तत्र गच्छन्ति तत्क्षणात् || ५ || ह्रींकारे मन्त्रयेत्पाशं हूंकारेणाङ्कुशं तथा | त्रिफलं वामगं पाशं दक्षिणे ज्वलिताङ्कुशम् | संधार्य स्वकरे मंत्री ततो मन्त्रमिमं जपेत् || ६ || मंत्र ओं ह्रीं रक्ष रक्ष चामुण्डे तुरु तुरु अमुकीमाकर्षय अमुकीमाकर्षय ह्री अस्य मंत्रस्य पूर्वमेवायुतं जपेत्ततः सिद्धिः | ओं चामुण्डे ज्वल ज्वल प्रज्वल प्रज्वल स्वाहा | अमुं मंत्रं स्त्रियं दृष्ट्वा जपेत्तत्क्षणात् सा स्त्री पृष्ठतः समागच्छति पूर्वमयुतं जपेत्ततस्सिद्धिः || ७ || ओं रक्ष रक्ष चामुण्डे तुरु तुरु अमुकीमाकर्षय अमुकीमाकर्षय ह्री | ओं चामुण्डे ज्वल ज्वल प्रज्वल प्रज्वल स्वाहा | आश्लेषायां समादाय अर्ज्जुनस्य तु बृन्दकम् | अजामूत्रेण संपिष्य स्त्रीणां शिरसि दापयेत् | पुरुषस्य पशूनां वा क्षिपेदाकर्षणं भवेत् || ८ || साध्यावामपदस्थां तां मृत्तिकामाहरेत्ततः | कृकलासस्य रक्तेन प्रतिमां कारयेत्ततः || ९ || साध्यानामाक्षरं तस्यास्तद्रक्तैविलिखेद्धृदि || १० || मूत्रस्थाने च निखनेत्सदा तत्रैव मूत्रयेत् | आकर्षयेत्तु तां नारीं शतयोजनसंस्थिताम् || ११ || सूर्यावर्तस्य मूलं तु पञ्चम्यां ग्राहयेद् बुधः | ताम्बूलेन समं दद्यात्स्वयमायाति तत्क्षणात् || १२ || रतिकर्म्मकरौ ग्राह्यौ भ्रमरौ यत्नतो बुधैः | भिन्नौ कृत्वा दहेत्तौ तु चिताकाष्ठैस्तयोः पुनः || १३ || वस्त्रेण बन्धयेद्भस्म पृथग्वै पुट्टलीद्वयम् | तयोरेकामजाशृङ्गे दृढं बद्ध्वा परीक्षयेत् || १४ || यां यां याति च सा मेषी सा पृथग्गृह्यते बुधैः | तद्भस्म शिरसि न्यस्तं क्षणादाकर्षयेत्स्त्रियः | अपरं रक्षयेद्वस्त्रे नोचेन्नायाति कामिनी || १५ || ओं कृष्णवर्णाय स्वाहा | इमं मन्त्रं पूर्वमेकायुतं जपेत् | ततः उक्तयोगमभिमन्त्र्य सिद्धिः || १६ || इति श्रीनित्यनाथविरचिते कामरत्ने आकर्षणं नाम द्वितीयोपदेशः || २ || तृतीयोपदेशः अथ जयः हकारं स्वरसंयुक्तमुकारेण सुपूजितम् | ओंकारेण च संपूज्य अग्रे फट् विनियोजयेत् | ओं हुं फट् जेयाग्रे शतजापेन जितो भवति नान्यथा || १ || जेयनाम हृदि न्यस्य चक्षुषा तन्निमील्य च | स्पृष्ट्वा च मन्त्रजापेन तत्क्षणाज्जितवानसौ || २ || गोजिह्वाशिखिमूली वा मुखे शिरसि संस्थिता | कुरुते सर्ववादेषु जयं पुष्ये समुद्धृता || ३ || मार्गशीर्षस्य पूर्णायां शिखिमूलं समुद्धरेत् | बाहौ शिरसि वा धार्यं विवादे विजयी भवेत् || ४ || गिरिकर्णीं शमीं गुञ्जां श्वेतवर्णां समाहरेत् | चन्दनेनान्वितं सर्वं तिलकेन जयी भवेत् || ५ || कनकार्कवटो वह्निर्विद्रुमः पञ्चमस्तथा | तिलकं कुरुते यस्तु पश्येत्तं पञ्चधा रिपुः || ६ || कृष्णसर्पकपाले तु वसामृत्तिकयान्विते | सितगुञ्जां वपेत्तत्र तस्या मूलं समाहरेत् || ७ || कृततिलकं तदा दृष्ट्या पश्येत्स्वं सम्भृतं रिपुः || ८ || श्वगणैर्भक्ष्यमाणं च पतितं च ततो भुवि | औषधी सिंहिकानाम तया घृष्टो महारसः || ९ || सिंहीकपर्द्दिकामध्ये क्षेप्यस्तन्मूलसंयुतः | पिधाअय वदनं तस्या सिक्थकेन समन्वितः || १० || तस्यां वक्रस्थितायां तु सिंहवज्ज्ञायते नरः | रणे राजकुले द्यूते विवादे चापराजितः | मदोन्मत्तो गजस्तस्य दर्शनेन पराङ्मुखः || ११ || व्याघ्रीरसेन संघृष्टः पारदो मूलसंयुतः | पूर्ववत्साधयेद्व्याघ्रीफलं चैव तथाविधम् || १२ || करे सुदर्शनामूलं बद्ध्वा राजकुले जयी | जयामूलं राजकुले मुखे संस्थं जयप्रदम् || १३ || आर्द्रायां वटवन्दाकं हस्ते बद्ध्वापराजितः | तदृक्षे चूतवन्दाकं गृहीत्वा धारयेत्करे || संग्रामे जयमाप्नोति जयां स्मृत्वा जयी भवेत् || १४ || कोकाया नयनं वामं गुडलोहेन वेष्टयेत् | मुखे प्रक्षिप्य च नरः सर्ववादे जयी भवेत् || १५ || कृत्तिका च विशाखा च भौमवारेण संयुता | तद्दिने घटितं शस्त्रं संग्रामे जयदायकम् || १६ || अपामार्गरसेनैव यानि शस्त्राणि लिप्यते | जायन्ते तानि संग्रामे वज्रसाराणि निश्चितम् || १७ || पूर्वोक्तमंत्रराजेन तानि सर्वाणि मंत्रयेत् | सर्वेषामुक्त योगानां सिद्धिर्भवति ते ध्रुवम् || १८ || हस्तेऽर्कलाङ्गलीमूलं मूलमन्त्राभिमंत्रितम् | तच्चूर्णोद्वर्त्तनान्मल्लो मल्लान्मोहयते बहून् || मन्तः ओं नमो महाबलपराक्रम शस्त्रविद्याविशारद शारद अमुकस्य भुजबलं बन्धय बन्धय दृष्टिं स्तम्भय स्तम्भय अङ्गानि धूनय धूनय पातय पातय महीतले हूं || १९ || ओं नमो महाबलपराक्रम शस्त्रविद्याविशारद शारद अमुकस्य भुज-बलं बन्धय बन्धय दृष्टिं स्तम्भय स्तम्भय अन्गानि धूनय धूनय पातय पातय महीतले हूं || १८-१९ || इति जयप्रकरणम् | अथ सौभाग्यकरणम् पुष्योद्धृतं सितार्कस्य मूलं वामेतरे भुजे | बद्ध्वा सौभाग्यमाप्नोति स्वामिनो दुर्भगापि सा || २० || रक्त चित्रकमूलन्तु सोमग्रस्ते समुद्धृतम् | क्षौद्रैः पिष्ट्वा वटीः कुर्यात्तिलकैस्सुभगाङ्गना || २१ || कुङ्कुम गोरोचनालक्तेन यस्य नाम संलिख्य | मधुमध्ये स्थापयेत् सौभाग्यं भवति || २२ || कुङ्कुमालक्तकाभ्यां बिल्वपत्रे यस्य नाम संलिख्य | मधुमध्ये स्थापयेत् सप्ताहात् स सौभाग्यवान् भवति || २३ || इति सौभाग्यकरणम् | अथेश्वरादीनां क्रोधोपशमनम् (ईश्वरीय कोपशान्तिकरणम्) ओं शान्ते प्रशान्ते सर्वक्रुद्धोपशमनि स्वाहा अनेन मन्त्रेण त्रिसप्तधा जप्तेन मुखमार्जनात् क्रोधोपशमनं भवति | प्रसादपरो भवति || २४ || ओं शान्ते प्रशान्ते सर्वक्रुद्धोपशमनि स्वाहा | कण्टकेन तालपत्रे नामाभिलिख्य कर्दमेस्थापयेत् | कुपितः प्रसन्ना भवति || २५ || गोरोचना भूर्जे यस्य नाम समालिख्य पयोमध्ये स्थापयेत् कुपितः प्रसन्नो भवति || २६ || इति क्रोधोपशमनम् | अथ गजनिवारणम् गृहीत्वा शुभनक्षत्रे चूर्णयेत्तां छुछुन्दरीम् | तल्लेपेन गजो याति दूरेण खलु सम्मुखम् || २७ || बिल्वपुष्पस्य चूर्णं तु छुछुन्दर्याश्च तत्समम् | तल्लिप्ताङ्गं नरं दृष्ट्वा दूरे गच्छति कुञ्जरः || २८ || मूलं मर्कटवल्याश्च बाहौ बद्धं च मूर्द्धनि | दुष्टदन्तिहरं दूरं चित्रं संयाति जायते || २९ || श्वेतापराजितामूलं हस्तस्थं वारयेद् गजम् | मूलं त्रिशूल्या वक्रस्थं गजवश्यकरं ध्रुवम् || ३० || इति गजनिवारणम् | अथ व्याघ्रनिवारणम् मुखस्थं बृहतीमूलं हस्तस्थं व्याघ्रभीतिजित् || ३१ || मन्त्रम् ह्रीं ह्रीं श्रीं द्रौं द्रौं हि एति अथवा क्रीं ह्रीं ओं ह्रीं ह्रीं || इत्यष्टाक्षरमन्त्रेणलोष्टं पठित्वा क्षिपेत् तदा मुखं न चालयति गन्तुमशक्ताः || ह्रीं ह्रीं श्रीं द्रौं द्रौं हि एति अथवा क्रीं ह्रीं ओं ह्रीं ह्रीं | मूलं कृष्णचतुर्दश्यां ग्राहयेल्लाङ्गलीभवम् | हस्तस्थं व्याघ्रसिंहादिभयहृत्परिकीर्तितम् || ३२ || इति श्रीनित्यनाथविरचिते कामरत्ने विजयादिव्याघ्रनिवारणं नाम तृतीयोपदेशः || ३ || चतुर्थोपदेशः अथ शत्रूणां मुखस्तम्भनम् मेघनादस्य मूलं तु मुखस्थं तारवेष्टितम् | परवादी भवेन्मूकोऽथवा याति दिगन्तरम् || १ || श्वेतगुञ्जोत्थितं मूलं मुखस्थं पुष्टतुण्डजित् || ओं ह्रीं रक्ष चामुण्डे तुरु तुरु अमुकं मे वशमानय स्वाहा | अयं चामुण्डामन्त्र उक्तयोगयोः सिद्धिकरः || २ || ओं ह्रीं रक्ष चामुण्डे तुरु तुरु अमुकं मे वशमानय स्वाहा | पुष्यार्के मधुवन्दाकं गृहीत्वा प्रक्षिपेद् बुधः | सभामध्ये च सर्वेषां मुखस्तम्भः प्रजायते || ३ || अर्कपत्रे हरितालरसेन यस्य नामाभिलिख्य उद्यानमध्ये ईशानकोणे स्थापयेत् तस्य मुखबन्धन स्तम्भनं भवति || ४ || इति मुखस्तम्भनम् | अथ निद्रास्तम्भनम् मूलं बृहत्या मधुकं पिष्ट्वा नस्यं समाचरेत् | निद्रास्तम्भनमेतद्धि मूलदेवेन भाषितम् || ५ || इति निद्रास्तम्भनम् | अथ नौकास्तम्भनम् भरण्यां क्षीरिकाष्ठस्य कीलं पञ्चाङ्गुलं क्षिपेत् | नौकामध्ये तदा नौकास्तम्भनं जायते ध्रुवम् || ६ || इति नौकास्तम्भनम् अथ शस्त्रस्तम्भनम् अङ्कुली च जटा पाठा विष्णुक्रान्ता च पाटली | श्वेतापराजिता पुंसा स (ह) देवी काकजङ्घिका || ७ || पुष्यर्क्षेण समुद्धृत्य वक्रे शिरसि संस्थिता | एकैकं वारयत्येव शस्त्रसङ्घट्टने नृणाम् || ८ || बद्ध्वा तु व्याघ्रभूपालचौरशत्रुभयं जयेत् | जातीमूलं मुखे क्षिप्तं शत्रुस्तम्भनमुत्तमम् || ९ || सूर्यस्य ग्रहणे चेन्दोर्मूलं चोत्तरगो हरेत् | पुङ्खाया पाटलाया वा मुखस्थं काण्डशस्त्रहृत् || १० || कपित्थस्य च वन्दाकं कृत्तिकायां समुद्धरेत् | वक्रसंस्थं तदेव स्यात्खड्गस्तम्भकरं परम् || ११ || करे सुदर्शनामूलं बद्ध्वास्त्रस्तम्भनं भवेत् | केतकीमस्तकं नेत्रे तालमूलं मुखे स्थितम् || खर्ज्जूरं च रणे हस्ते खड्गस्तम्भः प्रजायते || १२ || एतानि त्रीणि मूलानि चूर्णितानि घृतैः पिबेत् | त्र्यहं रात्रौ ततस्सर्वैर्यावज्जीवं न बाध्यते || १३ || सर्वेषामुक्तयोगानां कुम्भकर्णः प्रसीदति | आयान्तं सैन्यकं शस्त्रसमूहं विनिवारयेत् | ओं अहो ? कुम्भकर्ण महाराक्षस कैकसीगर्भ-संभूत परसैन्यं स्तम्भय महाभगवान् रुद्रः आज्ञापयति स्वाहा | सर्वयोगानामष्टोत्तरशतं जपेत्सिद्धिः || १४ || ओं अहो कुम्भकर्ण महाराक्षस कैकसी (निकषा) गर्भसम्भूतं पर-सैन्यं स्तम्भय महाभगवान् रुद्रः आज्ञापयति स्वाहा || १३-१४ || वक्री चक्री तथा वज्री त्रिशूली मुशली तथा | देहस्था समरे पुंसां सर्वायुधनिवारिणी || १५ || गृहीतं शुभनक्षत्रे ह्यपामार्गस्य मूलकम् | लेपमात्रेण वीराणां सर्वशस्त्रनिवारणम् || १६ || खर्जूरी मुखमध्यस्था कट्यां बद्ध्वा च केतकीम् | भुजदण्ड स्थितश्चार्कस्सर्वशस्त्रनिवारणम् || १७ || पुष्यर्क्षे श्वेतगुञ्जा या मूलमुद्धृत्य धारयेत् | हस्ते काण्डं भयं नास्ति संग्रामे च कदाचन || १८ || त्रिलोहवेष्टितं कृत्वा रसं वज्राभ्रसंयुतम् | वक्रस्थञ्चकरस्थञ्च सर्वायुधनिवारणम् || १९ || ब्रह्मदण्डी च कौमारी ईश्वरी वैष्णवी तथा | वाराही वज्रिणी चान्द्री महालक्ष्मीस्तथैव च || २० || एताश्चौषधयो दिव्यास्तथैता मातरः स्मृताः | स्मृत्वा चैव करे बद्ध्वा सर्वशस्त्र निवारणी || २१ || इति शस्त्रस्तम्भनम् | अथ अग्निस्तम्भनम् ओं शङ्कर हरहर अग्नि स्तम्भय स्तम्भय अनेनाग्नौ फूत्कारं दत्त्वा अग्निं स्तम्भयति || ओं शंकर हरहर अग्निं स्तम्भय स्तम्भय | जप्त्वा जटीं नरो देवीं तारां महिषमर्दिनीम् | खदिराङ्गारमध्ये तु प्रविष्टोऽसौ न दह्यते || २२ || ओं मत्कटिं तच्छयघनेशेकटीय मनीय श्री-अलिप्यप्रायम्बुदीये वशनरकीर्य मन्त्री क्रीं फट् || १ || ओं क्रीं महिषवाहिनी जम्भय जम्भय मोहय मोहय भेदय भेदय अग्निं स्तम्भय स्तम्भय ठः ठः || २ || कुमारीशूरणं पिष्ट्वा लिप्तहस्तो नरो भवेत् | दीप्ताङ्गरैस्ततो लोहर्मन्त्रयुक्तेर्न दह्यते || २३ || कुमारीरसकं पिष्ट्वा लिप्तहस्तो नरो भवेत् | दीप्ताङ्गारैस्तप्तलोहैर्मन्त्रयुक्तेर्न दह्यति || मन्त्रस्तु पूर्ववत् || २४ || करे सुदर्शनामूलं बद्ध्वाग्निस्तम्भनं भवेत् | अत्र मंत्रलेखनं पूर्ववत् || २५ || इति अग्निस्तम्भनम् | अथ जलस्तम्भनम् पद्मकं नाम यद्द्रव्यं सूक्ष्मचूर्णन्तु कारयेत् | वापीकूपतडागेषु निःक्षिपेद्वन्धयेज्जलम् || २६ || ओं नमो भगवते रुद्राय जलं स्तम्भय स्तम्भय ठः ठः ठः | क्षणार्द्धेन घटं भिद्याज्जलं तत्रैव तिष्ठति || २७ || ओं नमो भगवते रुद्राय जलं स्तम्भय स्तम्भय ठः ठः ठः | देवदालीयमूलं तु मण्डूकरसयोजितम् | लेपयेद्धस्तपादौ तु जलस्तम्भनमुत्तमम् || २८ || श्लेष्मान्तकस्य पिष्टेन कर्त्तव्यं पादुकाद्वयम् | गोधाचर्ममयं बद्धं कृत्वारूढो भवेज्जले || २९ || श्लेष्मान्तकफलं चूर्ण मर्द्दयित्वा लिपेद् घटम् | घनमङ्गुलमात्रं तु शोषयेत्पूरयेज्जलैः || ३० || शिरीषमूलमादाय रविवारे तु पूर्वजम् | उदकेन सहाघृष्टं ललाटे तिलके कृते || ३१ || इति जलस्तम्भनम् | अथ दिव्यस्तम्भनम् तप्तदिव्ये तथा सर्वकृतदोषो विमुच्यते | उत्तराभिमुखं ग्राह्यं मेघनादस्य मूलकम् | भक्षयेद्धारयेद्वस्त्रैर्दिव्यस्तम्भकरं परम् || ३२ || श्वेतगुञ्जोत्थितं मूलमृक्षे उत्तरभाद्रके | उत्तराभिमुखं ग्राह्यं दिव्यस्तम्भकरं मुखे || ३३ || भृङ्गीमूलं रोचनां च पिष्ट्वा पाणौ प्रलेपयेत् | ललाटे तिलकं कृत्वा तप्तदिव्यजयी भवेत् || ३४ || मरीचं मागधी चैला चर्विता गिलिता सती | रवितण्डुलजैर्दिव्यैः कृतदोषो विमुच्यते || ३५ || आज्यं शर्करया पीत्वा चर्वित्वा नागरं वचाम् | तप्तलोहं लिहेत्पश्चात्कृतदोषो विमुच्यते || ३६ || मण्डूकरससंपिष्टैर्लज्जामूलैर्वनक्तकैः | लिप्तपाणिर्नरः सत्ये तप्तदिव्ये विशुद्ध्यति || ३७ || लौह द्रव्यस्तम्भन मन्त्रः ओं अग्नीदहंती कोधरै मैधरो जातीनाभावाछुछि निददोदिव्यपतितस्तम्भे ईश्वरो महेशः || एतेन स्तम्भनम् | श्रीमहादेवकी आज्ञा | अमुं मन्त्र- मयुतं जपेद्दिव्यसिद्धिर्भवति || ओं अग्नीदहन्ती कोधरै मैधरो जातीनाभावाछुछि निददो दिव्यपतितस्तम्भे ईश्वरो महेशः | ओं लोहा प्रज्वल को-इलाके भानुहौ चण्डकेदारकापडी लोहापडौतुषार | इति दिव्यस्तम्भनम् | अथ गजगोमहिष्यादिस्तम्भनम् उष्ट्रास्यस्थि चतुर्दिक्षु निखनेद्भूतले ध्रुवम् | गोवाजिमेषीमहिषीः स्तम्भयेत्करिणीमपि || ३८ || इति गजगोमहिष्यादिस्तम्भनम् | अथ मनुष्यस्तम्भनम् काली कराली अमुकं स्तम्भय स्वाहा | अनेन मंत्रेण साध्यनाम हृदि धृत्वा स्पृष्ट्वा वा दर्शनाज्जपतः स्तम्भितो भवति क्षिप्रम् || ३९ || मनुष्यस्तम्भनयन्त्राणि काली कंकाली अमुकं स्तम्भय स्वाहा | इति मनुष्यस्तम्भनम् | अथ मनःस्तम्भनम् चर्मकारस्य कुण्डानि रजकस्य तथैव च | कुण्डान्मलं समुद्धृत्य चाण्डाल्या ऋतुवाससम् || बन्धयेत्पोटलीं प्राज्ञो यस्याग्रे तां विनिःक्षिपेत् | तस्योत्थाने भवेत्स्तम्भः सिद्धयोग उदाहृतः || ४० || इति मनःस्तम्भनम् | अथ आसनस्तम्भनम् श्वेतगुञ्जाफलं वाप्यं नृकपालेऽपि मृत्सह | निशि कृष्ण चतुर्दश्यां त्रिदिने तत्र जागरेत् || ४१ || नित्यं सिञ्चेज्जलेनैव मन्त्र पूजां च कारयेत् | तस्याः शाखा लता ग्राह्या शुभ-ऋक्षे स्वमन्त्रतः || ४२ || क्षिपेद्यस्यासने तां तं स्तम्भयेत्तत्क्षणाद् ध्रुवम् || ४३ || ओं रुद्रेभ्यो नमः | ओं वज्ररूपाय वज्रकिरणाय शिवे रक्षभवे समामृतं कुरु कुरु स्वाहा | अयं पूजामन्त्रः || इत्यासनस्तम्भनम् | सर्वभूतबुद्धिस्तम्भनम् भृङ्गराजो ह्यपामार्गसिद्धार्थं सहदेविकाम् | तुल्यं तुल्यं वचाश्वेताद्रव्यमेषां समाहरेत् || ४४ || लोहपात्रे विनिक्षिप्य द्विदिनान्तं समुद्धरेत् | तिलकैः सर्वभूतानां बुद्धिस्तम्भकरो भवेत् || ४५ || इति सर्वभूतबुद्धिस्तम्भनम् | अथ शत्रुबुद्धिस्तम्भनम् ओं नमो भगवते विश्वामित्राय नमः | सर्वमुखीभ्यां विश्वामित्राय विशामित्र आज्ञापयति शक्त्या आगच्छ आगच्छ स्वाहा || उक्तयोगस्यायं मन्त्रः | ओं नमो भगवते विश्वामित्राय नमः | सर्वमुखीभ्यां विश्वामित्राय विश्वामित्र आज्ञापयति शक्त्या आगच्छ आगच्छ स्वाहा | ओं अङ्गुलीलात्रिधा आशय आगल स्वाहा अनेन मन्त्रेण नदीं प्रविश्य अष्टोत्तरशताञ्जलींस्तर्पयेत् | शत्रूणां बुद्धिस्तम्भो भवति | कर्पूरेण चिताङ्गारे नाम लिखित्वा तदुपरि मृत्तिकां दद्यात् तत्र शत्रोर्मुखबन्धो भवति | इति शत्रुबुद्धिस्तम्भनम् | अथ चौरगतिस्तम्भनम् ओं नमो ब्रह्मद्वेषिणी शिवे रक्ष रक्ष ठः ठः | अनेन मन्त्रेण सप्तपाषाणखण्डानि श्मशानाद् गृहीत्वा त्रीणि कट्यां बद्ध्वा पराणि मुष्टिभ्यां धारयेच्चौराणां गतिस्तम्भो भवति | इति || ओं नमो ब्रह्मद्वेषिणी शिवे रक्ष रक्ष ठः ठः | इति चौरगतिस्तम्भनम् अथ गर्भस्तम्भनम् गृह्य कृष्ण चतुर्दश्यां धत्तूरस्य तु मूलकम् | कट्यां बद्ध्वा रमेत्कान्तां न गर्भं धारयेत्क्वचित् || मुक्तेन लभते गर्भं पुरा नागार्ज्जुनोदितम् | तन्मूलचूर्ण योनिस्थं न गर्भं सम्भवेत्क्वचित् || ४६ || सिद्धार्थमूलं शिरसि बद्ध्वा कान्तं रमेत्तु या | न गर्भं धारयेत्सा स्त्री मुक्तेन लभते पुनः || ४७ || इति गर्भस्तम्भनम् | अथ शुक्रस्तम्भनम् इन्द्रवारुणिकामूलं पुष्ये नग्नः समुद्धरेत् | कटुत्रयैर्गवां क्षीरैः सम्मिष्य गोलकीकृतम् | छायाशुष्कं स्थितं चास्ये वीर्यस्तम्भकरं नृणाम् || ४८ || नीलीमूलं श्मशानस्थं कट्यां बद्ध्वा तु वीर्यधृक् || ४९ || कृष्णोन्मत्तवचामूलं मधुपिष्टं प्रलेपयेत् | लिङ्गे तदा रमेत्कान्तां स्वभावाद्द्विगुणं नरः || ५० || भृङ्गीविषं पारदं च प्रत्येकं तु द्विगुञ्जकम् | वराटाक्षं क्षिपेद्विन्दुः स्थिरः स्याच्छिरसा धृतम् || ५१ || रक्तापामार्गमूलं तु सोमवारे निमन्त्रयेत् | भौमे प्रातः समुद्धृत्य कट्यां बद्ध्वा तु वीर्यधृक् || ५२ || दुन्दुभीनामकं सर्पं कृष्णवर्णं समाहरेत् | तस्यास्थि धारयेत्कट्यां नरो वीर्ययं न मुञ्चति | विमुञ्चति विमुक्तेन सिद्धियोग उदाहृतः || ५३ || नखास्थीनि समादाय मार्जारस्य सितस्य च | कृकलासस्य पुच्छाग्रमुद्रिकाप्रेत तन्तुभिः || ५४ || वेष्ट्या कनिष्ठिका धार्या नरो वीर्यं न मुञ्चति || ५५ || पुष्योद्धृतं श्वेतपिकाक्षबीजं कटीतटे लोहितसूत्र बद्धम् | बीजच्युतिं धारयति प्रसङ्गे ख्यातः सदायं किल योगराजः || ५६ || श्वेतान्युपुष्टाख्यतरोः फलानि क्षीरेण पिष्ट्वा वटपादपस्य | करञ्जबीजोदरमध्यगानि स्तम्भन्ति वीर्यं वदने धृतानि || आदित्यवारोद्धृतसप्तपर्णवृक्षस्य बीजं विनिधाय वक्रे | जयेदकाण्डं सुरतावतारे पुमान् पुरन्ध्रीः स्मरतीव्रवेगाः || ५७ || नागकेशरकर्षं तु गोघृते पातयेद् बुधः | भुक्त्वा रमेच्च रमणीं तदा बिन्दुः स्थिरो भवेत् || ५८ || श्वेतेषुपुङ्खाचरणं गृहीत्वा पुष्यार्कयोगे पुरुषस्य कट्याम् | कुमारिकाकर्तितसूत्रकेण बद्धं जयत्याशु मनोजबीजम् || ५९ || बीजमीश्वरलिङ्गस्य सूतं वृश्चिककण्टकम् | क्षिपेत्पूगफलं चास्मिंस्त्रिलोहैस्तं च वेष्टयेत् | जिह्वोपरि स्थिते तस्मिन्नरो वीर्यं न मुञ्चति || ६० || सहदेवीबीजमूलं संमिश्र्यं पद्मकेसरैः | मध्वाज्यसहिताल्लेपान्नरो वीर्यं न मुञ्चति || ६१ || नीलोत्पलसिताम्भोजकेसरं मधुशर्करम् || ६२ || अमीभिर्नाभिलेपेन चिरं रमति कामुकः || ६३ || आदाय कृष्णेतरकाकजङ्घामूलं सिताम्भोरुहकेसरञ्च | क्षौद्रेण पिष्ट्वा परिलिप्य नाभिं स्तम्भं प्रपद्येत् पुरुषस्य बीजम् || ६४ || छाग्येडकादुग्धपिष्टं लज्जामूलं प्रलेपयेत् | हृदये पादयोर्वीर्यं द्रवते न कदाचन || ६५ || मूलं वा श्वेतपुङ्खायाः सक्षौद्रं नाभिलेपनात् | मधुना पद्मबीजस्य तद्वल्लेपेन वीर्यधृक् || ६६ || इन्द्रवारुणिकामूलमुन्मत्ताजस्य मूत्रतः | भावयेत्सप्तवारं तं लिङ्गलेपेन वीर्यधृक् || ६७ || उन्मत्ताजस्य मूत्रेण पेषयेद्वानरीशिफाम् | लिप्त्वा लिङ्गं नरो वीर्यं चिरकालं न मुञ्चति || ६८ || कर्पूरं टङ्कणं सूतं तुल्यं मुनिरसं मधु | मर्दयित्वा लिपेल्लिङ्गं स्थित्वा यामं तथैव च || ६९ || ततः प्रक्षालयेल्लिङ्गं रमेद्रामां यथोचितम् | वीर्यस्तम्भकरं पुंसां सम्यङ्नागार्जुनोदितम् || ७० || कौसुम्भतैलेन विलिप्य पादौ यदृच्छया दीव्यति वृद्धवीर्यः | पुनर्नवाचूर्णविलेपनाच्च जहाति बीजं न कदाचिदेतत् || ७१ || कर्पूरसंपाकमहेशबीजैः सार्धं तु बीजं पुरुषस्य नाभौ | विलिप्य कान्ताजघने च कान्ते न लभ्यते शुक्रमधः कदापि || ७२ || भूलतासिक्थकं चैव कुसुम्भस्य च तैलकम् | वीर्यधृक्पादलेपेन तटकाण्डस्य लेपनात् || ७३ || नवनीतेन युक्ताभ्यां शययां पद्भयाञ्च न स्पृशेत् | श्लेष्मान्तस्य कुरण्टस्य बीजं कारञ्जकस्य च | भेडीक्षीरेण तं पिष्ट्वा कर्षं भुक्त्वा तु वीर्यधृक् || ७४ || सुदर्शनाभवं मूलं ताम्बूलैस्सह पेषयेत् | भक्षत्याज्यं प्रयत्नेन शुक्रस्तम्भनमुत्तमम् || ७५ || श्वेतार्कतूलकैर्वर्तीदीपः सूकरमेदसा | यावज्ज्वलति दीपोऽयं तावद्वीर्यं न मुञ्चति || ७६ || मूलं वराहक्रान्ताया अजाक्षीरेण पेषयेत् | लिङ्गलेपेन चानेन वीर्यस्तम्भकरं भवेत् || ७७ || पुष्योद्धृतं श्वेतहयमारमूलं कटीतटे | बद्धं विन्दुस्थिरकरं मुक्ते तु च्यवते पुनः || ७८ || वक्रीरसं तदूर्ध्वगेन पात्रेण ग्राह्ययेद्रवौ | संपिष्य वटिकां कृत्वा संशोष्य च विनिक्षिपेत् | आत्ममूत्रेण तल्लिप्यं लिङ्गमूलं तु वीर्ययधृक् || ७९ || पूतीकरञ्जबीजं च श्वेतबन्धूकमण्डयोः | मूलं पिष्ट्वा तु लिङ्गाग्रे लेपयेच्चन्दनैस्सह || ८० || तथा करतले दद्याद्वामे बिन्दुः स्थिरो भवेत् || ८१ || लज्जालुमूलं भटिकां पिष्ट्वा ताम्रस्य भाजने | कृत्वाञ्जनं च तेनाञ्जज्यादर्द्धरात्रं स्थिरो भवेत् || ८२ || कृष्णधूर्त्तं महाकालं शनिवारे निमन्त्रयेत् | रविवारे समानीय चादत्तारमणीकृतैः || ८३ || सूत्रैर्गुणत्रयैर्बद्धं करे वामे प्रयत्नतः | उपविश्यासने खण्डत्रयैर्यामत्रयं ततः | बिन्दुः स्थिरत्वमाप्नोति मुक्ते स्खलति तत्क्षणात् || ८४ || हेमह्वालोचनं तुल्यं कृष्णधत्तूरबीजकम् || ८५ || वटक्षीरेण संमर्द्य कुबेराक्षस्य बीजकैः | क्षिप्त्वा तद्धारयेद्वक्रे वीर्यस्तम्भकरं भवेत् || ८६ || इति श्रीनित्यनाथविरचिते कामरत्ने शत्रुमुखस्तम्भनादिवर्णनं नाम चतुर्थोपदेशः || ४ || पञ्चमोपदेशः अथ मोहनम् कन्यावरे युवतिसंगमने नराणामालोकने नरपतेः क्रयविक्रयादौ | प्रज्ञाविधौ सकलकर्मणि कौतुके वा धूपः सदैव कृतिभिर्विनियोजनीयः || १ || शृङ्गीवचानलदसर्जरसं समानं कृत्वा त्रुटिं मलयजे च षडेव नित्यम् | या धूपयेन्निजगृहं वसनं शरीरं तस्यास्तु दास इव मोहमुपैति लोकः || २ || भृङ्गराजः केशराजो लज्जा च सहदेविका | एभिस्तु तिलकं कृत्वा त्रैलोक्यं मोहयेन्नरः || ३ || त्रिदलं कुसुमं यस्य धत्तूरस्य कृताञ्जलिः | भृङ्गराजेन साज्येन तिलकं मोहयेन्नरः || ४ || तालकं कुनटीं चैव भृङ्गपक्षं समंसमम् | कृष्णोन्मत्तस्य कुसुमं वटिकां कारयेद् बुधः | तेनैव तिलकं कृत्वा त्रैलोक्यं मोहयेन्नरः || ५ || आदौ सप्तस्वरा ग्राह्यो अन्ते हुंकारसंयुताः | ओंकारं शिरसि कृत्वा हूं अन्ते फडिति न्यसेत् || ६ || मन्त्रः ओं अं आं इं ईं उं ऊं ऋं हूं फट् || ५-६ || अनेनैव तु मन्त्रेण कृत्वा ताम्बूलभावनम् | मुखे साध्यस्य निःक्षिप्ते मोहमायाति तत्क्षणात् || ७ || ओं भीं क्षां भीं मोहय मोहय || ओं नमो भगवतीपादपंकजपरागेभ्यः || अस्य मंत्रस्य वारत्रयजपान्मोहमाप्नुवन्ति जनाः || ८ || ओं भीं क्षां भीं मोहय मोहय | ओं नमो भगवती पादपंकजपरागेभ्यः || ७-८ || शुभामूलं तथा बीजं रक्तचन्दनसंभवम् | त्रुटिबीजं समं पिष्ट्वा ताम्बूलादौ प्रयोजयेत् || ९ || भोक्तुं देयं स्वहस्तेन मोहमाप्नोति चेश्वरः || १० || वृश्चिकोद्भवचूर्णेन धूपो मोहयते नृणाम् || ११ || गरलं धूर्त्तपञ्चाङ्गं महिषीशोणितं कणा | निशायां कुरुते मोहं धूपो गुग्गुलुसंयुतः || १२ || हलिनी विषधत्तूरशिखिविष्ठाभिरन्वितम् | तथा धूपः समं भागं मोहयत्येव निश्चितम् || १३ || छुछुन्दरी सर्पमुण्डं वृश्चिकस्य तु कण्टकम् | हरितालं समं धूपो मोहयेत् सकलान्नराम् || १४ || अथ शत्रुमोहनम् अधः पुष्पीशिखा चैव श्वेतं च गिरिकर्णिका | गोरोचनसमायोगे तिलकं शत्रुमोहनम् || १५ || तालकोन्मत्तबीजानि पाने शत्रोश्च दापयेत् | तत्क्षणान्मोहमाप्नोति चोन्मत्तो जायते नरः || १६ || मोहशमनम् समाक्षिकैः सिताम्भोजेः स्वस्थः पानाद्भवेन्नरः || १७ || इति शत्रुमोहनम् अथ रञ्जनम् तत्र देहरञ्जनम् अत्राङ्गरागः पुरुषेण कार्यः स्त्रियाश्च संभोगसुखाय गात्रे | तस्मादहं गन्धविधानमादौ विलासिनः सर्वमुदीरयामि || १८ || हरीतकीलोध्र मरिष्टपत्रं सप्तच्छदं दाडिमवल्कलं च | एषोऽङ्गनायाः कथितः कवीन्द्रैः शरीरदौर्गन्ध्यहरः प्रलेपः || १९ || हरीतकी श्रीफलमुस्तचिञ्चाफलत्रिकं पूतिकरञ्जबीजम् | कक्षादिदौर्गन्ध्यमपि प्रभूतं विनाशयत्याशु निदाघकाले || २० || हरीतकीचन्दनमुस्तनागैरुशीरलोध्रामयरात्रितुल्यैः | स्त्रीपुंसयोर्घर्मजगात्रगन्धं विनाशयत्याशु विलेपनेन || २१ || कदम्बपत्रं लोध्रं च अर्जुनस्य तु पुष्पकम् || २२ || पिष्ट्वा गात्रोद्वर्तनाच्च दुर्गन्ध च विनाशनम् || २३ || सचन्दनोशीरकरञ्जपत्रेः कोलाक्षमज्जागुरुनागयुक्तैः | लिप्त्वा शरीरं प्रमदा तु तेन चिरप्रसूतं विनिहन्ति गन्धम् || २४ || सदाडिमत्वङ्मधुलोध्रपद्मैः पिष्टस्समानैः पिचुमर्दपुत्रः | विलिप्य गात्रं तरुणी निधाघे दुर्गन्धघर्माम्बुचयं निहन्ति || २५ || सकेशरोशीरशिरीषलोध्रैश्चूर्णीकृतैरङ्गविलेपनेन | ग्रीष्मे नराणां न कदापि देहे घर्म्मच्युतिः स्यादिति भोजराजः || २६ || तिलसर्षपरजनीद्वयदूर्वागोरोचनकुष्ठैः | अजमूत्रतक्रपिष्टैरुद्वर्तितमङ्गमनुपमं भवति || २७ || हरीतकीतोयदतुल्यभागैर्वनेरुहंस्यापि चतुर्थभागः | तदर्धभागः कथितो नखस्य स्यादेष गन्धो मदनप्रकाशः || २८ || एलाशटीपत्रकचन्दनानि तोयाभयाशिग्रुघनामयानि | ससौरभोऽयं सुरराजयोग्यः ख्यातः स गन्धो नरमोहनाख्यः || २९ || धत्तूरकाश्मीरघनाम्बुलोहनिशाकरोशीरसमानि पिष्ट्वा | लेपः प्रियोऽयं सुरमानवानामुदीरितः पूर्वकवीन्द्रधीरैः || ३० || उशीरकृष्णागुरुचन्दनानि पत्राम्बुतुल्यानि समानि पिष्ट्वा | एतानि गात्रेषु विलासिनीनां श्रीखण्ड तुल्यं प्रकरोति गन्धम् || ३१ || इति देहरञ्जनम् | अथ मुखरञ्जनम् रसालजम्बूफलगर्भसारः सकर्कटो माक्षिकसंयुतश्च | स्थितो मुखान्ते पुरुषस्य रात्रौ करोति पुंसां मुखवासमिष्टम् || ३२ || गुडत्वगेलानखजातिशिह्लैः स्वर्णान्वितैः क्षुद्रवटी विधेया | ताम्बूलगर्भा दिवसे च रात्रौ करोति पुंसां मुखवासमिष्टम् || ३३ || चूर्णं मुराकेशरकुष्ठकानां प्रातर्दिनान्ते परिलेढि या स्त्री | अप्यर्द्धमासेन मुखस्य गन्धः कर्पुरतुल्यो भवति प्रकामम् || ३४ || यः कुष्ठचूर्णं मधुना घृतेन पिकाक्षबीजान्वितमत्ति नित्यम् | मासैकमात्रेण मुखं तदीयं गन्धायते केतकगन्धतुल्यम् || ३५ || गोजलैः क्वथिता पथ्या मिशिकुष्ठकणान्विता | वदनस्य दुरामोदं निहन्ति परिशीलिता || ३६ || तिलं जातीफलं पूगं भक्षयित्वा पिबेदनु | शीततोयं पलार्द्धं तु आस्यदुर्गन्धनाशनम् || ३७ || घृतकाञ्जिकगण्डूषं परितो भक्षयेच्छटीम् | तथाकृते भवेदास्ये दुरामोदविनाशनम् || ३८ || गोमूत्रैः क्वाथयेत्कुष्ठं बालकं सहरीतकीम् | सर्वं पिष्ट्वा वटीं कुर्यान्मुखदुर्गन्धनाशनम् || ३९ || कटुतिक्तकषायेण दन्तकाष्ठेन नित्यशः | दुर्गन्धं हन्ति नो चित्रं क्षौद्रैर्वा कुष्ठचूर्णकम् || ४० || सिन्धूत्थसिद्धार्थकसारिवानां त्वचा युतानां परिलेपनेन | स्त्रीपुंसयोर्यौवनयोर्हठेन विनाशमायाति मुखस्थगन्धः || ४१ || पिष्ट्वा मसूरं घनसावरेण मुहुर्मुहुस्तेन विलिप्य वक्त्रम् | नश्यन्ति गण्डाः पिटकाः प्ररूढा मासार्द्धमात्रेण विलासिनीनाम् || ४२ || यः कण्टकान् शाल्मलिपादपस्य क्षीरेण पिष्ट्वाष्टदिनं विलिप्य | गण्डप्रदेहाः पिटकास्त्र्यहेण प्रयान्ति नाशं पुरुषस्य तन्व्याः || ४३ || धान्यं वचा सावरतुल्यभागं पिष्ट्वा लिपेत्तेन मुखं नितान्तम् | मुखोद्भवा यौवनजा नराणां नश्यन्ति नूनं पिटकाः क्रमेण || ४४ || सिद्धार्थबीजद्वितयं तिलं च क्षारेण पिष्ट्वा परिलिप्य वक्त्रम् | सप्ताहमात्रेण मुखस्थनीलीं निहन्ति कृष्णामिति रन्तिदेवः || ४५ || निशाद्वयं गैरिकशोणयष्टिरम्भाम्बुमाहेन्द्रयवोत्तमानि | निघ्नन्ति नीलिं त्रयवारमात्राच्चन्द्रेण तुल्यं वदनं भवेच्च || ४६ || मरिचं रोचनायुक्तं संपेष्य मुखमालिपेत् | तरुण्याः पिटकाः सर्वा नश्यन्ति मुखसम्भवाः || ४७ || व्यङ्गेषु चार्जुनत्वग्वा मञ्जिष्ठा वा समाक्षिका | एता लिप्तास्त्र्यहं यावद्भवेत्पद्मोपमं मुखम् || ४८ || मातुलुङ्गजटा सर्पिः शिला गोशकृतो रसः | मुखकान्तिकरो लेपः पिटकातिलकालजित् || ४९ || रक्तचन्दनमञ्जिष्ठाकुष्ठलोध्रप्रियङ्गवः | वटाङ्कुरमसूराश्च व्यङ्गघ्ना मुखकान्तिदाः || ५० || मञ्जिष्ठा मधुकं लाक्षा मातुलुङ्गं सपिष्टकम् | कर्षप्रमाणैरेतैस्तु तैलस्य कुडवं पचेत् || ५१ || अजापयस्तद्द्विगुणं शनैर्मुद्वग्निना पचेत् || ५२ || नीलिका पीटिका व्यङ्गा अभ्यङ्गादेव नाशयेत् | मुखप्रसन्नेऽपि हितं नीलकर्कशवर्जितम् || ५३ || सप्तरात्रप्रयोगेण भवेत्काञ्चनसंनिभम् | अत्र द्विरुक्तत्वाद्यष्टीमधुकर्षद्वयं तथा || ५४ || मनःशिला तथा लोध्रं द्विनिशासर्षपाः समाः | वारिपिष्टो हितो लेपो वदने श्यामिकां हरेत् || ५५ || महिषीक्षीरसंयुक्तं रजनीरक्तचन्दनम् | कृते लेपे निहंत्याशु श्यामिकां वदनाश्रिताम् || ५६ || उभे हरिद्रे मञ्जिष्ठा घृतं गौराश्च सर्षपाः | पेष्यं गैरिकसंयुक्तमजाक्षीरेण पाचितम् || ५७ || एतेनैव भवेद्वक्त्रमुदयादित्यवर्चसम् | वचा लोध्रमुशीरं च सर्पिस्सर्जरसः पयः || ५८ || पीतानि वटपत्राणि रजन्या सह पेषयेत् | लेपोऽयं मुखपादाभ्यां पद्मवत्कुरुते भृशम् || ५९ || मसूरान् मधुना सार्धं पिष्ट्वा तैर्मर्दयेन्मुखम् | सप्तरात्रप्रयोगेण पुण्डरीकदलप्रभम् || ६० || इति मुखरञ्जनम् | अथ केशरञ्जनम् स्रग्गन्धधूपाम्बरभूषणानां न शोभतेशुक्लशिरोरुहाणाम् | यस्मादतो मूर्द्धजरागसेवां कुर्याद्यथैवाञ्जनभूषणानाम् || ६१ || आम्राण्डेनोत्थितं तैलं कान्तपाषाणचूर्णितम् | काकतुण्डीफलं कृष्णं चूर्णयित्वा प्रयत्नतः || ६२ || धान्यराशौ विनिःक्षिप्य मासोर्द्ध्वं शिरसि क्षिपेत् | नस्यं दिनत्रयं तेन केशरञ्जनकं भवेत् | वर्षार्द्धं तिष्ठते कृष्णभ्रमराञ्जनसन्निभम् || ६३ || त्रिफलालोहचूर्णं तु नीली भृङ्गीसमूलकम् || ६४ || एतच्चूर्णमिडामूत्रे दिनमेकं विभावयेत् | तेनैव मर्दयेच्छीर्षे रञ्जते भ्रमरोपमम् || ६५ || गुञ्जाबीजस्य चूर्णन्तु कुष्ठैला देवदारुकम् | तुल्यांशं भावयेच्चूर्णं दिनैकं भृङ्गजद्रवैः || ६६ || चूर्णाच्चतुर्गुणे तैले पाचयेन्मृदुवह्निना | तेनाभ्यङ्गाद्घनाः केशा रञ्जनं भ्रमरोपमम् || ६७ || हस्तिदन्तस्य दग्धस्य समांशेन रसं समम् | अजाक्षीरेण तं पिष्ट्वा लेपनात्केशरञ्जनम् || ६८ || त्रिफलालोहचूर्णन्तु इक्षुभृङ्गरसस्तथा | कृष्णमृत्तिकया सार्धं भाण्डे मासं निरोधयेत् | तल्लेपाद्रञ्जयेत्केशश्चतुर्मासं स्थिरो भवेत् || ६९ || लोहकिट्टं जपापुष्पं पिष्ट्वा धात्रीफलं समम् | त्रिदिनं लेपयेच्छीर्षं द्विमासं केशरञ्जनम् || ७० || भृङ्गराजरसप्रस्थं तैलं कृष्णतिलात्समम् || ७१ || मर्दयेत्प्रहरैकं तु तैलाप्तं नीलिकारसम् | तल्लेपं त्रिदिनं कुर्ययात्केशरञ्जनकं भवेत् || ७२ || चूर्णं सर्जयवक्षारं सिद्धार्थं चारनालकैः | नागपुष्पं दिने मध्ये तल्लेपात्केशरञ्जनम् || ७३ || काकमाचीयबीजानि समं कृष्णतिलांस्ततः | तत्तैलं ग्राहयेद्यन्त्रे तन्न्यस्येत्केशरञ्जनम् || ७४ || गोघृतं भृङ्गजद्रावं मयूरशिखया सह | अग्निना मृदुना पाच्यं तं न्यस्येत्केशरञ्जनम् || ७५ || काकमाचीयबीजानि समं कृष्णतिलांस्ततः | जपापुष्परसं क्षौद्रं कर्षैकं न्यस्यमाचरेत् || सप्ताहं रञ्जयेत्केशान् सर्वन्यस्ये त्वयं विधिः || ७६ || त्रिफलालोहचूर्णं तु वारिणा पेषयेत्समम् | द्वयोस्तुल्येन तैलेन पचेन्मृद्वग्निना क्षणम् || ७७ || तैलतुल्यं भृङ्गरसं यावत्तैलं च पाचयेत् | स्निग्धं भाण्डगतं भूमौ स्थितं मासात्समुद्धरेत् || ७८ || सप्ताहं लेपयेल्लिप्त्वा कदल्याश्च दले शिरः | निर्वाते क्षीरभोजी स्यात्क्षालयेत्रिफलाजलैः || ७९ || नित्यमेवं हि कर्त्तव्यं सप्ताहे रञ्जनं भवेत् | यावज्जीवं न सन्देहः केशाः स्युर्भ्रमरोपमाः || ८० || महाकालस्य बीजानि वाकुचीबीजतत्समम् || ८१ || चूर्णं द्रव्यैश्च निर्गुण्ड्यां भावयेत्तु चतुर्दिनम् | जपापुष्पद्रवैरेवं ततः पातालयन्त्रके || ८२ || तैलं ग्राह्यं तु तल्लेपे पत्रैरेरण्डजैश्शिरः | वेष्टयेत्क्षीरभोजी स्याद्वातातपविवर्जितः || ८३ || एवं सप्तदिनं लेप्यं तण्डुलान् धारयेन्मुखे | कृष्णवर्णाः प्रजायन्ते तथा भवति प्रत्यहम् || ८४ || मोहोग्रं कर्द्दमे क्षिप्त्वा षण्मासात्तु समुद्धरेत् | तद्द्रुतं जायते कृष्णं कर्षैकं शिरसि क्षिपेत् || ८५ || केशाः कृष्णाः प्रजायन्ते भ्रमरीकुलसन्निभाः | कपालरञ्जनं ख्यातं यावज्जीवं न संशयः || ८६ || सनीलिकां सैन्धवपिप्पलीभिघृतानुयुक्तैरुपलिप्य केशम् | क्रमेण शंखोपममाशु कृष्णं शिरोरुहं मेचकतामुपैति || ८७ || फलान्वितं चूततरोः प्रसूनं पिण्डारकं पाण्डुरनीलिके वा | प्रस्थप्रमाणं च तिलस्य तैलं पचेदमोभिर्विदितोपदेशः || ८८ || तस्मिंश्च मध्ये यदि हंसपक्षः क्षिप्तो भवेन्मेचकवर्णयुक्तः | पाकस्तदैवास्य नरैर्विधेयः ख्यातं पृथिव्यामपि नीलतैलम् || ८९ || एतन्निलिप्तं पलितं नराणां शंखावदातं सकलं त्रिरात्रम् | पुष्पं न श्रेयांसि समानयुक्तं चिरंभवेदृष्ट इति प्रयोगः || ९० || शतावरी कृष्णतिलेन युक्ता गोरोचना काकमुखाभिधा च | अमीभिरालिप्य पुनः सुकेशान् करोति शुक्लानपि कृष्णवर्णान् || ९१ || मदन्तिकाया रसकल्कसिद्धं तिलोद्भवं तैलमिदं नराणाम् | अकालजातं पलितं सरौक्ष्यं केशस्य कारुष्यमलं निहन्ति || ९२ || मुत्थं च सर्षपं चैव ह्युशीरं च तथैव च | हरीतक्याश्च क्वाथेन आमलक्यास्समं ततः || ९३ || केशमूलं समालेप्य मेघतुल्यो भवेत्कचः || ९४ || इति केशरञ्जनम् | अथ स्नानार्थसुगन्धिद्रव्यम् सूक्ष्मैलाजीमूतनखैः सचूतैः स्वर्णामसीपत्रकसंयुतैश्च | सौरभ्यकान्ती किल मूर्द्धजानां स्नात्वा नरो विन्दति सर्वदैव || ९५ || स्वर्णाम्बुदोशीरनखीयुतानां पथ्यान्वितानां च विलेपने च | स्नात्वा नरः सौरभमर्द्धमासं वैकल्पमाप्नोति शिरोरुहस्य || ९६ || पथ्यावसानामलकीफलानामजस्तु जीमूतरसामयानाम् | मांसीयुतानां परिलेपनेन स्नात्वा नरः सौरभकान्तिमेति || ९७ || इति स्नानार्थसुगन्धिद्रव्यम् | अथ यूकलिख्यादिनिवारणम् विडङ्गगन्धोत्पलकल्कयोगाद्गोमूत्रसिद्धं कटुतैलमेतत् | अभ्यङ्गयोगेन शिरोरुहाणां यूकादिलिक्षाप्रचयं निहन्ति || ९८ || गोमूत्रसारिवामूलं लेपाद्यूकानिवारणम् | पारदं मर्दयेन्निष्कं कृष्णधत्तूरजैर्द्रवैः || ९९ || नागवल्लीद्रवैर्वापि वस्त्रखण्डं विलेपयेत् | तद्वस्त्रं वेष्टयेन्मौलौ धार्यं यामत्रयं तथा | यूकाः पतन्ति निश्शेषं मस्तकान्नात्र संशयः || १०० || द्विनिशानवनीतेन लेपान्मौलेः प्रकण्डुनुत् || १०१ || नीलोत्पलं तिलं यष्टिसर्षपा नागकेशरम् | धात्रीफलं समं पिष्ट्वा लेपो यूकाविनाशक || १०२ || निशागन्धकगोमूत्रं विडङ्गं कटुतैलकम् | पारदेन समं मर्द्य लेपो यूकाविनाशकः || १०३ || लाक्षा भल्लातकं मुस्ता कूटगुग्गुलुसर्षपाः | विडङ्गेन समं लेपाद्धूमो यूकानिवारकः || १०४ || बिल्वमूलं सगोमूत्रं लेपाद्यूकाविनाशनम् || १०५ || इति यूकलिख्यादिनिवारणम् | अथ केशस्येन्द्रलुप्तादिनिवारणम् गुञ्जाफलैः क्षौद्रयुतैर्विलिप्य शिरः प्रदेशे सकलेन्द्रलुप्तम् | अनेन योगेन सदैव केशा रोहन्ति कृष्णाः कुटिला विशालाः || १०६ || मातङ्गदन्तस्य मसीं विधाय श्वेताञ्जनंतुल्यतया सुपिष्टम् | लिप्येदनेनैव महेन्द्रलुप्तं केशाः प्ररोहन्त्यपि हस्तमध्ये || १०७ || कुङ्कुमं मरिचैस्सार्द्धं पिष्ट्वा तैलेन लेपयेत् | इन्द्रलुप्तं निहन्त्याशु किंवा जम्बीरजद्रवैः || १०८ || सुदग्धं हस्तिदन्तं तु छागदुग्धं रसाञ्जनम् | पिष्ट्वा लेपात्प्रजायन्ते केशाः करतलेष्वपि || १०९ || जातीपुष्पं दलं मूलं कृष्णागोमूत्रपेषितम् | लेपोऽयं सप्तरात्रेण दृढकेशकरः परः || ११० || शृङ्गाट त्रिफलाभृङ्गीनीलोत्पलमयोरजः | सूक्ष्मं चूर्णं समं कृत्वा पचेत्तैले चतुर्गुणे | तल्लेपेन दृढाः केशाः कुटिलाः सरला अपि || १११ || कीटभक्षितकेशं तु स्थानं स्वर्णेन घर्षयेत् | यावत्सुतप्ततां याति तावल्लेपमिमं कुरु || ११२ || भल्लातकं च बृहती गुञ्जामूलफलं तथा | मधुना सह लेपेन वायुक्षीरोटकप्रणुत् || ११३ || भल्लातकं कृष्णतिलं कण्टकारीफलं समम् | पिष्टं तण्डुलतोयेन लेपोऽयं तं विनाशयेत् || ११४ || जपापुष्पैश्च तं हन्यात्कृष्णागोमूत्रलेपनात् || ११५ || तिलप्रसूनं सह गोक्षुरेण सलावणं गव्यघृतेन पिष्टम् | सप्ताहमात्रेण शिरः प्रलेपाद्भवन्ति दीर्घाः प्रचुराश्च केशाः || ११६ || शाल्मलीतालमूल्योश्च मूलं पद्मसमुद्भवम् | छागदुग्धे समं पिष्टं लेपयेन्मुण्डितं शिरः || त्रिदिनं भक्षयेत्तच्च केशवर्धनमुत्तमम् || ११७ || इति केशस्येन्द्रलुप्तादिनिवारणम् | अथ केशशुक्लीकरणम् वज्रीक्षीरेण सप्ताहं तच्छेषं भावयेत्तिलम् | तत्तैललिप्ताः केशाश्च शुक्लाः स्युर्न्नात्र संशयः || ११८ || रोगामलकचूर्णं तु वज्रीक्षीरेण सप्तधा | भावयेत्तस्य लेपेन शुक्लतां यान्ति मूर्द्धजाः || ११९ || अजाक्षीरेण सप्ताहं भावयेदभयाफलम् | तच्चूर्णं सह तैलेन लेपाच्छुक्ला भवन्ति हि || १२० || इति श्रीनित्यनाथविरचिते कामरत्ने मोहनादिवर्णनं नाम पञ्चमोपदेशः || ५ || षष्ठोपदेशः अथ वाजीकरणम् बलेन नारी परितोषमेति न हीनवीर्यस्य कदापि सौख्यम् | अतो बलार्थं रतिलम्पटस्य वाजीविधानं प्रथमं विदध्ये || १ || अश्विन्यां वटवृन्दाकं क्षीरैः पीत्वा महाबलः | पुष्योद्धृतं पिबेन्मूलं श्वेतार्कस्य प्रयत्नतः | सप्तरात्रं तु गोक्षीरैर्वृद्धोऽपि तरुणायते || २ || चूर्णं विदार्याः स्वरसेन तस्या विभावितं भास्कररश्मिजालैः | मध्वाज्यसंमिश्रितमेव लीढ्वा दश स्त्रियो गच्छति निर्विशङ्कः || ३ || भूयो विभाव्यामलकस्य चूर्णं रसेन तस्यैव सिताज्यमिश्रम् | सक्षौद्रमालेढि निशामुखे यो नूनं स वृद्धस्तरुणत्वमेति || ४ || कर्षप्रमाणं मधुकस्य चूर्णं क्षौद्राज्यसंमिश्रितमेव लीढ्वा | क्षीरानुपानाद्रमते तु तावद्यावन्नराणामुदरस्थमेतत् || ५ || सितपिकतरुबीजं तण्डुला यष्टिकानां सघृतमधुसमेतं प्रत्यहं योऽवलेढि | जठरकुहरमध्ये याति पाकं न यावद्रमयति कृशदेहोप्यङ्गनानां समहम् || ६ || वृद्धशाल्मलिमूलस्य रसं शर्करया पिबेत् | एतत्प्रयोगात्सप्ताहाज्जायते रेतसोऽम्बुद्धिः || ७ || लघुशाल्मलिमूलेन तालमूलीसचूर्णितम् सर्पिषा पयसा पीत्वा रतौ चटकवद्भवेत् || ८ || घृतेन मासं मसृतानि भूयो सुभावयित्वा रविशोषितानि | क्षीरेण संसाध्य च भक्षयित्वा स याति नारीशतमुग्ररेताः || ९ || यो वर्त्तकीलावकपिञ्जलानां मांसं तथा वेश्मविहङ्गमस्य | हव्येन सिद्धं सह सैन्धवेन महाबलः स्यादुपयुज्यमानः || १० || विदारीकन्दकल्कं तु घृतेन पयसा नरः | उदुम्बरसमं खादेद्वृद्धोऽपि तरुणायते || ११ || पिप्पलीनां रसोपेतौ बस्ताण्डौ क्षीरसर्पिषा | साधितौ भक्षयेद्यस्तु स गच्छेत्प्रमदाशतम् || १२ || बस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान् | यः खादेत्स नरो गच्छेत्स्त्रीनां शतमपूर्ववत् || १३ || गोक्षुरकः क्षुरकः शतमूली वानरिनागबलातिबला च | चूर्णमिदं पयसा निशि पेयं यस्य गृहे प्रमदाशतमस्ति || १४ || अश्वत्थफलमूलत्वक् छुङ्गासिद्धं पयो नरः | स पीत्वा शर्कराक्षौद्रं कलिङ्ग इव हृष्यते || १५ || घृतं शतावरीगर्भं क्षीरे चतुर्गुणे पचेत् | शर्करापिप्पलीक्षौद्रयुक्तं तद्वृष्य मुच्यते || १६ || नृसिंहचूर्णम् शतावरीरजः प्रस्थं प्रस्थं गोक्षुरकस्य च | वाराह्या विंशतिपलं गुडूच्याः पञ्चविंशतिः || १७ || भल्लातकानां द्वात्रिंशच्चित्रकाणां दशैव तु | तिलानां निस्तुषाणां तु प्रस्थं दद्यात्सुचूर्णितम् || १८ || त्रिफलस्य पलान्यष्टौ शर्करायाश्च सप्ततिः | माक्षिकं शर्करार्द्धेन माक्षिकार्द्धेन वै घृतम् || १९ || शतावरीसमं देयं विदारीकन्दजं रजः | एतदेकीकृतं चूर्ण स्निग्धभाण्डे निधापयेत् || २० || पलार्द्धमुपमुञ्जीत यथेष्टं चास्य भोजनम् | मासैकमुपयोगेन जरां हन्ति रुजामपि || २१ || वलीपलितखालित्यहेमपाण्ड्वाद्यपीनसान् | हन्त्यष्टादशकुष्ठानि तथाष्टार्बुदराणि च || २२ || भगन्दरं मूत्रकृच्छ्रं गृध्रसीं सहलीमकम् | क्षये चैव महाव्याधिं पंचकासान् सुदारुणान् || २३ || अशीतिवातजान्नागांश्चत्वारिंशच्च पैत्तिकान् | विंशतिसूक्ष्मरोगांश्च संसृष्टान्सान्निपातिकान् || २४ || सर्वानर्शोगदान्हन्याद्वृक्षमिन्द्राशनिर्यथा || २५ || सकाञ्चनाभो मृगराजविक्रमस्तुरङ्गमं चाप्यनुयाति वेगतः | स्त्रीणां शतं गच्छति सातिरेकं प्रहृष्टपुष्टं च यथा विहङ्गम् || २६ || पुत्रान्संजनयेद्धीमान्नरसिंहनिभांस्तथा | नारसिंहमिदं चूर्णं सर्वरोगहरं नृणाम् || २७ || इति नृसिंहचूर्णम् | मदनमोदकः त्रैलोक्यविजयापत्रं सबीजं घृतभर्जितम् | त्रिकटु त्रिफला कुष्ठंभृङ्गी सैंधवधान्यकम् || २८ || चव्यं तालीशपत्रं च कट्फलं नागकेशरम् | अजमोदा यवानी च यष्टी मधुकमेव च || २९ || मेथी जीरकयुग्मञ्च गृहीता समभागतः | च्यवन्त्येतानि चूर्णानि तावदेव तदौषधम् || ३० || सम शिलातले पिष्ट्वा चूर्णयेदतिचिक्कणम् | तावदेव सिता देया यावदायाति बन्धनम् || ३१ || घृतेन मधुना मिश्रं मोदकं परिकल्पयेत् | घृतभर्जिततिलचूर्णं मोदकोपरि विन्यसेत् || त्रिसुगन्धिसमायुक्तं कर्पूरेणाधिवासितम् | स्थापयेद्घृतभाण्डे तु श्रीमन्मदनमोदकम् || ३२ || भक्षयेत्प्रातरुत्थाय वातश्लेष्मभयापहम् | प्रवृद्धमग्निं कुरुते मन्दमग्निं प्रदीपयेत् || ३३ || कृशानामतिरूक्षाणां स्नेहनं स्थौल्यकारणम् || ३४ || कासघ्नं सर्वशूलघ्नमामवातविनाशनम् | सर्वरोगहरं ह्येतत्संग्रहग्रहणीहरम् || ३५ || एतस्य सतताभ्यासाद् वृद्धोऽपि तरुणायते || ३६ || ब्रह्मणश्च मुखाच्छ्रुत्वा वासुदेवे जगत्पतौ | एष कामस्य वृद्ध्यर्थं नारदेन प्रकाशितः | येन लक्षैर्वरस्त्रीणामरंस्त यदुनन्दनः || ३७ || इति मदनमोदकः | कामकलारसः मृतसूताभ्रकं स्वर्णवाजिगन्धावचारसैः | मुशली कदलीकन्दद्रवैश्च मर्दयेद्दिनम् || ३८ || लाक्षालघुपुटैः पच्यान्मर्दयेत्पूर्ववद्द्रवैः | पुटं देयं पुनर्मर्द्यमेवमष्टपुटैः पचेत् || ३९ || शाल्मलीजातनिर्यामैश्चतुर्मासांस्तु भक्षयेत् | गोदुग्धं मर्कटीबीजैः पलार्द्धं पाचयेदनु || ४० || रसः कामकलाख्योऽयं रमते स्त्रीसहस्रकैः | सर्वाङ्गोद्वर्त्तनं कुर्यात्स्वरसैः शाल्मलीरसैः || ४१ || इति कामकलारसः | अनङ्गसुन्दरीवटिका शुद्धसूतसमं गन्धं त्र्यहं कह्लारजैर्द्रवैः | मर्दितं वालुकायन्त्रे यामं संपुटगं पचेत् || ४२ || रक्तागस्त्यद्रवैर्भाव्यं दिनमेकमिव द्रुतम् | यथेष्टं भक्षयेच्चान्नं कामयेत्कामिनीशतम् || ४३ || पलद्वयं द्वयं शुद्धं पारदं गन्धकं तथा | मृतहेम्नस्तु कर्षैकं पलैकं च मृताभ्रकम् || ४४ || मृत्तताम्रं चतुर्निष्कं सर्व पंचामृतैर्दिनम् | रुद्रैर्गजपुटैः पच्याद्दिनैकान्ते समुद्धरेत् || ४५ || पिष्ट्वा पञ्चामृतैः कुर्याद् वटिकां बदराकृतिम् | अनङ्गसुन्दरीं खादेद्रमेद्वामाशतत्रयम् || ४६ || शाल्मलीमूलं चूर्णं तु भृङ्गराजस्य मूलकम् | पलैकं सितया चान्नं भक्षयेत्कामयेच्छतम् || ४७ || इत्यनङ्गसुन्दरी वटी | अथ महाकामेश्वररसः सूतपादं ताम्रचूर्णं खल्वे पिष्टं प्रकारयेत् | निक्षिप्य कदलीकन्दे पुनर्लेप्यं च गोमयैः || ४८ || शुष्कं गजपुटैः पच्यात्तथा कन्दे पुनः क्षिपेत् | एवं सप्तपुटैः पच्यात्कन्दैः कन्दं पृथक्पृथक् || ४९ || दत्त्वा तत्र घृतं चूर्णं वस्त्रे बद्ध्वा तु पाचयेत् | दोलायंत्रे च संयुक्तं छागीदुग्धे पुनः पचेत् || ५० || गूडूच्याथ शतावर्या वानर्या गोक्षुरैस्तथा | गजपिप्पलिका लाजा कदल्या कोकिलाक्षकैः || ५१ || सितय पाचयेदेव द्विगुणं लघुवह्निना | उद्धृत्य चूर्णयेत्स्वच्छं भक्षयेद् गुञ्जाचतुष्टयम् || ५२ || सितायुक्तं सदा सेव्यं महाकामेश्वरो रसः | कामिनीनां सहस्रैकं क्षोभयेन्निमिषान्तरे || ५३ || गोक्षुरं वानरं बीजं गुडूची गजपिप्पली | कोकिलाक्षस्य बीजानि फलं गुणशतावरी || ५४ || कर्कशाबीजमज्जा च सर्वं तुल्यं विचूर्णयेत् | चूर्णतुल्या सिता योज्या मधुना पिण्डितं लिहेत् | पलार्द्धमनुपानं स्यात्किंचित्पेयं गवां पयः || ५५ || इति महाकामेश्वरसः | अथ मदनोदयरसः शुद्धसूतसमं गन्धं रक्तोत्पलदलद्रवैः | याममेकं पुनर्गन्धं पूर्वादर्द्धं विनिक्षिपेत् || ५६ || तद्द्रवैर्मर्द्दयेच्चाङ्गं पूर्वगन्धं च मर्द्दनम् | पूर्वद्रावैर्दिनैकं तु काचकुप्या निरुध्य च || ५७ || दिनैकं वालुकायन्त्रं पक्वमुद्धृत्य भक्षयेत् | पञ्चगुञ्जासितासार्द्धं रसोऽयं मदनोदयः || ५८ || कोकिलाक्षस्य बीजं च मुसली शर्करासमम् | गवां क्षीरेण तत्पेयः पलार्द्धमनुपानकम् || ५९ || इति मदनोदयरसः | अथ कामाङ्गनायकचूर्णम् वानरीकोकिलाक्षस्य बीजं श्यामतिलं समम् | मूलं गोक्षुरमासाभ्यां शुष्कचूर्णं प्रकल्पयेत् || ६० || चूर्णतुल्यं मृतं चाभ्रं सर्वतुल्या सिता भवेत् | कर्षमेकं गवां क्षीरैः पेयं कामाङ्गनायकम् || ६१ || तैलेन पक्वं चटकं खादेद्भोजनपूर्वतः | भोजनान्ते पिबेत्क्षीरं रामाः कामयते शतम् || ६२ || इति कामाङ्गनायकचूर्णम् अथ कामामृतयोगः अश्वगन्धा वह्निमूलं शाल्मली च शतावरी | विदारी मुशलीकन्दं कोकिलाक्षस्य बीजकम् || ६३ || तत्तुल्यं वानरीबीजं सुष्टु चूर्णं तु कारयेत् | चूर्णतुल्यं मृतं चाभ्रं सर्वतुल्या सिता भवेत् | गवां क्षीरैः पिबेत्कर्षं रमयेत् कामिनीशतम् || ६४ || अश्वकर्कटमांसं तु भक्षयेच्च पिबेत्पयः | योगः कामामृतः ख्यातो बलायुर्वीर्यवर्द्धकः || ६५ || इति कामामृतयोगः | अथ धात्रीलोहम् धात्रीफलस्य चूर्णं तु भावयेत्तत्फलद्रवैः || ६६ || एकविंशतिवारं तु शोष्यं पेष्यं पुनः पुनः | चूर्णपादं मृतं लोहं मध्वाज्ये शर्करान्वितम् || ६७ || पलैकं भक्षयेन्नित्यं सिताक्षीरं पिबेदनु | कामयेत्स्त्रीशतं नित्यं धात्रीलोहप्रभावतः || ६८ || इति धात्रीलोहम् | अथ कामेश्वररसः वानरीबीजचूर्णं तु निस्तुषं माषचूर्णितम् | नारिकेलोदकैर्भाव्यं यामान्तं पेषयेत्समम् || ६९ || पिष्टस्य विंशद्विंशेन मृतमभ्रं नियोजयेत् | तद्वत्तैर्वटिका कार्या मध्वाज्याभ्यां तु भक्षयेत् || ७० || पीत्वा क्षीरं सितायुक्तं रम्या रामा रमेच्छतम् | सताम्बूलं शतामूलमनुपानं निरन्तरम् || ७१ || ऊर्णनाभिभवं बीजं मधुना वह पेषयेत् | तेन नाभिप्रलेपेन बन्धः सद्यो विमुञ्चति || ७२ || अन्तरिक्षेण संग्राह्य यत्नाद्वा गुटिकामलम् | तेन लिङ्गप्रलेपेन रमेद्रामाशतं नरः || ७३ || सम्यङ्मारितमभ्रकं कट्फलं कुष्ठाश्वगन्धामृता | मेथी मोचरसं विदारमुशली गोक्षूरमिक्षूरकम् | रम्भाकन्दशतावरी ह्यजमुदा माषस्तिला धान्यकं | यष्टी नागबला कचूरमदनं जातीफलं सैन्धवम् || ७४ || मार्गीकर्कटशृङ्गभृङ्गकटुकं जीरद्वयं चित्रकं चातुर्जातपुनर्नवा गजकणा ब्राह्मी निशावासकम् | बीजं मर्कटिशाल्मलं फलत्रिकं चूर्णं समं कल्पये- च्चूर्णंसंविजयासिताद्विगुणिता मध्वाज्ययोः पिंडितम् || ७५ || कर्षार्द्धं वटिका विलेह्यमथवा सेव्यं मुदा सर्वदा पेयं क्षीरसितानुवीर्यकरणे स्तम्भेप्ययं कामिनीम् | वामावश्यकरं परं च सुखदं प्रौढाङ्गनाद्रावकं क्षीणे पुष्टिकरं गदक्षयकरं हन्त्याशु सर्वामयम् || ७६ || कासश्वासमहातिसारशमनं मन्दाग्निसंदीपनं अर्शः संग्रहणीप्रमेहनिचय श्लेष्मातिरक्तप्रणुत् | नित्यानन्दकरं विशेषकविता वाचां विलासोत्तमं धत्ते सर्वगुणं हठात्स्ववदशाध्यानप्रधानं पुनः || ७७ || अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरात् सर्वेषां हितकारको निगदितः श्रीनित्यनाथेन सः | वृद्धानां मदनोदयोदयकरः प्रौढाङ्गनासंगमे सिद्धोऽयं समदृष्टप्रत्ययकरी राज्ञा सदा सेव्यताम् || ७८ || यत्किञ्चिन्मधुरस्निग्धं जीवनं बृंहणं गुरु | हर्षणं मनसश्चैव तत्सर्वं वृष्यमुच्यते | नरो वीर्यकरान्योगान्सम्यक् शुद्धो निरामयः || ७९ || इति कामेश्वररसः | अथ वाजीकरणकालः आसप्ततेः प्रकुर्वीत वर्षादूर्द्ध्वं च षोडशात् | न पूर्वं षोडशाद्वर्षात्सप्तत्याः परतो न च || ८० || अथ वाजीकरणफलम् आयुःकामो नरः स्त्रीभिः संयोगं कर्तुमर्हति | कल्पेनादग्धवयसो वाजीकरणसेवितः || ८१ || आयुष्मन्तो मन्दजरावपुर्वीर्यबलान्विताः | स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयुताः || ८२ || अथ स्त्रीसंगमकालः त्रिभिस्त्रिभिरहोभिश्च सेवेत प्रमदां नरः सर्वर्तुषु च ग्रीष्मेषु पक्षात्पक्षाद्व्रजेद् बुधः || ८३ || योगं कृत्वा सुसेव्यं सुशृतमपि पयः शीतलं चाम्बु पीत्वा गच्छेन्नारी सुरूपां स्मशरवशगां कामुकः कामलीलः | रत्या हृष्टः प्रहृष्टो व्यपगतसुरतः सन्धये नित्यनित्यं कान्तासंगाद्दिवापि ह्यसकृदपि नरो धातु बैषम्यमेति || ८४ || अथ अन्यथास्त्रीसङ्गमे दोषाः ग्लानिः कम्पोरुदौर्बल्यं धात्विन्द्रियबलक्षयः | क्षयवृद्ध्युपदंशाद्या रोगाश्चातीव दुर्जयाः || अकालमरणं चैव भजतः स्त्रियमन्यथा || ८५ || शोषकासज्वरार्शांसि श्वासकार्श्यातिपाण्डुता | अतिव्यवायाज्जायन्ते रोगाश्च क्षयकादयः || ८६ || असेवनान्मोहमदौ ग्रन्थिरग्नेश्च मार्दवम् | त्यजेच्चिन्ताद्यशुचितां शोकाध्यक्षं च मैथुनम् | जरायाश्चिंतया शुक्रं व्याधिभिः कर्मकर्षणात् || ८७ || क्षयं गच्छत्यनशनात्स्त्रीणां चैवातिसेवनात् | क्षयाद्भयादविश्वासाच्छोकस्त्रीदोषदर्शनात् | नारीणामवसन्नत्वादभिघातादसेवनात् || ८८ || अथ वाजीकरणी या नारी रूपयौवनसौन्दर्यलक्षणैर्या विभूषिता | या वश्या शिक्षिता या च सा स्त्री बृष्यतमा मता || ८९ || अथ वाजीकरणयोग्याः स्त्रीषु क्षयं गतवतां वृद्धानां चरितश्रिताम् | क्षीणानामल्पशुक्राणां स्त्री क्षीणाश्च ये नराः || ९० || विलासिनामर्थवतां यौवने बलशालिनाम् | बहुपत्नीवतां नृणां योगा वाजिकरा हिताः || ९१ || इति श्रीनित्यनाथविरचिते कामरत्ने वाजीकरणं नाम षष्ठोपदेशः || ६ || सप्तमोपदेशः अथ गाढीकरणम् तत्र भक्ष्यनिषेधः तत्र भक्ष्यनिषेधः अत्यन्तमूलकटुतिक्तकषायमम्लं क्षारं च शाकखदिरं लवणाधिकं च | कामी सदैव रतिनान्वनिताभिलाषी नो भक्षयेदिति समस्तजनप्रसिद्धः || १ || प्रौढाङ्गनाया नवसूतिकायाः श्र्लथं वराङ्गं न सुखाय यूनाम् | तस्मान्नरैर्भेषजतो विधेया गाढी क्रिया मन्मथमन्दिरस्य || २ || निशाद्वयं पङ्कजकेशरञ्च निष्पीड्य देवद्रुमतुल्यभागम् | अनेन लिप्तं मदनातपत्रं प्रयाति संकोचमलं युवत्याः || ३ || सधातकीपुष्पफलत्रिकेण जम्बूत्वचा साररसं घृतेन | लिप्त्वा वराङ्गं मधुकेन तुल्यं वृद्धापि कन्येव भवेत् पुरन्ध्री || ४ || पिकाक्षबीजेन मनोजगेहं विलिप्य योषा नियमं चरन्ति | हठेन गाढं लभते तदङ्गं दृष्टं नरैरेष हठेन योगः || ५ || मृणालपद्मं पयसा सुपिष्य दृढा समाङ्गी गुटिका विधेया | यस्या वराङ्गे निहिता क्षणेन कन्यात्वमेत्याह स मूलदेवः || ६ || इक्ष्वाकुबीजं स्नुहिसारवेण पिष्ट्वा वराङ्गं परिलिप्य तेन | नवप्रसूतापि हठेन नारी कन्या भवेत् संयमतो न चित्रम् || ७ || इन्दीवरव्याघ्रिवचोषणानां तुरङ्गमारासनयामिनीनाम् | लेपेन नार्याः स्मरसद्मरन्ध्रं संकोचयत्याशु हठेन योगः || ८ || या शक्रगोपं स्वयमेव पिष्ट्वा विलिम्पति स्त्री च वराङ्गदेशम् | आहत्य तस्याः कठिनं च गाढं भवेन्न चात्रास्ति विचारचर्या || मदनकथनसारः क्षौद्रतुल्यैर्वराङ्गं शिथिलितमपि यस्याः पूरितं भूय एव | भवति कठिनमुच्चैः कर्कशं कामिनीनामिति निगदति योगं रन्तिदेवो नरेन्द्रः || १० || अश्वगन्धैर्लिपैर्घोनिं गाढीकरणमुत्तमम् || इति गाढीकरणम् | अथ स्त्रीद्रावणम् यद्यप्यष्टगुणाधिको निगदितः कामोऽङ्गनानां सदा नो याति द्रवतां तथापि झटितिस्त्री कामिनां संगमे | तस्माद्भेषजसंप्रयोगविधिना संक्षेपतो द्रावणं किञ्चित्पल्लवयामि नीरजदृशां प्रीत्या परं कामिनाम् || ११ || सिन्दूरचिञ्चाफलमाक्षिकाणि तुल्यानि यस्या मदनातपत्रे | प्रलिप्य तासां पुरुषप्रसङ्गात्प्रागेव वीर्यच्युतिमातनोति || १२ || व्योषं रजः क्षौद्रसमन्वितं वा क्षिप्तं यदि स्यात्स्मरयंत्रगेहे | द्रुता भवेत्सा सहसैव नारी दृष्टः सदायं किल योगराजः || १३ || सुपक्वचिञ्चाफलघोषमूली गुडं तथा माक्षिकतुल्यभागम् | अमीभिरालिप्य पुनः सुलिङ्गं बीजं करोत्याशु नितम्बिनीनाम् || १४ || सटी कणा क्षौद्रमहेशबीजैः कर्पुरतुल्यैरुपलिप्य लिंगम् | शतं नरो यः सविलासिनीनां रेतः प्रपातं कुरुते हठेन || १५ || पारावतपुरीषं च मधुना सैन्धवैर्युतम् | लिंगस्य लेपनात्तेन स्त्रीणां द्रावणमुत्तमम् || १६ || गोक्षुवार्ताक्यपामर्गरसेन लिंगलेपनात् | तत्क्षणाद्द्रवते नारी पद्मपत्रे यथा पयः || १७ || पिप्पली चन्दनं चैव बृहती पक्वतिन्तिडी | एतैर्लिङ्गप्रलेपेन द्रवेन्नारी न संशयः || १८ || अगस्तिपत्रद्रवसंयुतेन मध्वाज्यसंमिश्रितकंटकणेन | लिप्त्वा ध्वजं यो रमतेऽङ्गनानां स शुक्रमाकर्षति शीघ्रमेव || १९ || सलोध्रधत्तूरकपिप्पलीनां क्षुद्रोषणक्षौद्रविमिश्रितानाम् | लेपेन लिंगस्य करोति रेतश्च्युतिं विपक्षप्रमदाजनस्य || २० || तुरगसलिलमध्ये भावितं क्षेत्रमाषं मरिचमधुकतुल्यां पिप्पलीं पेषयित्वा | परिरमति विलिप्य स्वीयलिङ्गं नरो यः प्रभवति वनितानां कामकल्लोल मानः || २१ || बिल्वपुष्पं सुकर्पूरं मुण्डीपुष्पं च पेषितम् | लिंगलेपेन रामाणां द्रावो भवति संगमे || २२ || बृहतीफलमूलानि पिप्पल्यो मरिचानि च | मधु रोचनया सार्द्धं लिङ्गलेपे द्रवन्ति ताः || २३ || क्षौद्रगंधकलेपेन शिलायुक्तेन तत्फलम् | उपहारपशो रक्तं गृह्णीयादन्तरिक्षतः || २४ || तच्छुष्कं चूर्णितं स्थाप्यं पुष्पे रक्ताश्वमारजे | तत्पुष्पं धारयेद्वस्त्रे तर्जन्यङ्गुष्ठयोगतः | आर्वर्त्य सम्मुखं स्त्रीणां दृष्टमात्रे द्रवन्ति ताः || २५ || जम्बीरफलमध्ये तु मूलं वृश्चिककण्टकम् | क्षिप्त्वा बद्ध्वा स्त्रियै दद्याद्घ्राणमात्रे द्रवन्ति ताः || २६ || आहरेद्वामजङ्घां तु टिट्टिभस्य तु दक्षिणः || २७ || तन्मध्ये प्रक्षिपेद्भूर्ज्ज्जपत्रमोङ्कारलेपितम् | रक्ताश्वमारपुष्पेण मुखं तस्य निरोधयेत् | कर्णोपरि स्थितं तेन दृष्ट्वा स्त्री द्रवति ध्रुवम् || २८ || जलेन लाङ्गलीमूलं पिष्ट्वा हस्ते प्रलेपयेत् | हस्तेन स्त्रीकरस्पर्शे द्रवत्यग्नौ घृतं यथा || २९ || मरिचकनकबीजैः पिप्पलीलोध्रयुक्तै- र्विमलमधुविमिश्रैर्मानवो लिप्तलिङ्ग | स्मरति रतिविलासे कष्टसाध्यां च नारी समुचितरतिरागां संविदध्यादवश्यम् || ३० || सर्वेषां द्रवयोगानां मन्त्रराजं शिवोदितम् | जपेदष्टोत्तरशतं तत्र योगस्य सिद्धये || ३१ || मन्त्र ओं नमो भगवते रुद्राय उड्डामरेश्वराय द्रावय द्रावय स्त्रीणां मदं पातय पातय स्वाहा ठः ठः || इति || ३२ || ओं नमो भगवते रुद्राय उड्डामरेश्वराय द्रावय द्रावय स्त्रीणां मदं पातय पातय स्वाहा ठः ठः || ३१-३२ || इति द्रावणम् | अथ कामध्वजस्थूलीकरणम् (दृढीकरणम्) सकुष्ठमातङ्गबलाबलानां वचाश्वगन्धागजपिप्पलीनाम् | तुरङ्गशत्रोर्नवनीतयोगाल्लेपेन लिङ्गं मुसलत्वमेति || ३३ || दिनेदिने यदा ह्येवं सुधीः कुर्यात्प्रयत्नतः | तदास्थूलं भवेल्लिङ्गं निश्चितं नात्र संशयः || ३४ || सलोध्रकाश्मीरतुङ्गगन्धा मातङ्गगन्धापरिपाचितेन | तैलेन वृद्धिं खलु याति लिङ्गं वराङ्गनालोकमनोहरं तत् || ३५ || भल्लातकास्थिजलशूकमथाजपत्रमन्तर्विदाह्य मतिमान् सह सैन्धवेन | एतद्विरूढबृहती फलतोयपिष्टमालेपनं महिषवद्विमलीकृतेऽङ्गे || स्थूलं महत्तरतुरङ्गमतुल्यमाशु शेफः करोत्यभिमतं न हि संशयोऽस्ति || ३६ || सूतकं मरिचं कुष्ठं नागरं कण्टकारिका | अश्वगन्धा तिलं क्षौद्रं सैन्धवं श्वेतसर्षपाः || ३७ || अपामार्गो यवा माषाः पिप्पलीं पेषयेज्जलैः | लेपोऽयं कुरुते वृद्धिं लिङ्गस्य दृढतां ध्रुवम् | मासमात्रं सदा लिप्त्वा मर्दयेच्च दिवानिशम् || ३८ || वराहवसया लिङ्गं मधुना सह लेपयेत् | स्थूलं दृढं च दीर्घं च मासाल्लिङ्गं प्रजायते || ३९ || अश्वगन्धा वचा कुष्ठं बृहती च शतावरी | तिलं तैलेन संपक्वं तल्लेपः स्थूललिङ्गकृत् || ४० || अश्वगंधा वरी कुष्ठं मांसी सिंहीफलान्वितम् | चतुर्गुणेन दुग्धेन तिलतैलं विपाचयेत् | स्तनलिङ्गकर्णपाणिवर्द्धनं भक्षणादितः || ४१ || टङ्कणं च महाराष्ट्री जम्बूसूकरतैलकम् | मधुना सह लेपेन लिङ्गं स्यान्मुसलोपमम् || ४२ || महिषीनवनीतं च मुशलीचूर्णमिश्रितम् || ४३ || धान्यराशिस्थितं भाण्डे सप्ताहाच्च समुद्धरेत् | तेन प्रलेपयेल्लिङ्गं मासैकाद् वर्द्धते ध्रुवम् || ४४ || मुशली शीतला भक्ष्या लिङ्गवृद्धिकरी मता | मारणोत्थं कृमि चैव कण्टकारीफलं जलैः || ४५ || पिष्ट्वा लिंगप्रलेपेन स्थूलं भवति निश्चितम् | तद्वच्च मुशली साज्या लेपाल्लिंगस्य दार्ढ्यकृत् || ४६ || पिप्पलीलवणक्षीरसितालेपोऽपि दीर्घकृत् | मांसी वाक्षफलं कुष्ठमश्वगंधा शतावरी | तैले पक्त्वा प्रलेपेन लिङ्गंस्थौल्यकरं ध्रुवम् || ४७ || रोहितामत्स्यपित्तं तु जलौका लाङ्गली सदा | अनेन मर्दयेल्लिङ्गं वर्द्धते मुसलोपमम् || ४८ || सूतको ह्यश्वगन्धा च रजनी गजपिप्पली | सितायुक्तं जलैः पिष्ट्वा मासैकं लेपयेत्तदा || ४९ || अद्भुतं वर्द्धयेल्लिङ्गं योनिकर्णस्तनानि च || ५० || यो मर्कटीमूलमजाजलेन व्यालुप्तकोशः शयने निशायाम् | पिष्ट्वा ध्वजं लिम्पति तस्य कामं भवेदयोदण्डमिव क्षणेन || ५१ || हयारिपत्नीनवनीतमध्ये वचाबलाभागरसामयैश्च | लेपेन लिङ्गं सहसैव पुंसां लोहोपमं स्यादिति दृष्टमेतत् || ५२ || कृष्णापराजितामूलं ग्राह्यं खदिरकीलकैः | कृष्णसूत्रैः कटिं बद्ध्वा ऊर्ध्वलिङ्गं करोति च || ५३ || देवदालीरसं धात्री क्षीरपानत्स्थिरो ध्वजः | इत्येवं सर्वयोगानां मन्त्रराजः शिवोदितः | अनेन मंत्रितं कृत्वा मासैकं लेपयेत्ततः || ५४ || ओं नमो भगवते उड्डामरेश्वराय सव सव प्रसव कुरु कुरु स्वाहा ठः ठः || दृढीकरणं तु विना मंत्रेण कार्यम् | इति लिङ्गस्थूली करणम् (दृढीकरणम्) | इति कामध्वजस्थूलीकरणम् | अथ स्तनवर्द्धनम् कुचोत्थापनं च मातङ्गकृष्णाप्यधवाजगन्धा वचायुता पर्युषिताम्बुमिश्रा | हयारिपत्नीनवनीतयोगात्कुर्वन्ति पीनं कुचकुम्भयुग्मम् || ५५ || तैलं वचादाडिमकल्कसिद्धं सिद्धार्थजं लेपनतो नितान्तम् | नारीकुचौ चारुतरौ च पीनौ कुर्यादसौ योगवरः प्रदिष्टः || ५६ || श्रीपर्णिकाया रसकं तु सिद्धं तिलोद्भवं तैलवरं प्रदिष्टम् | लेपेन वक्षोजयुगे च शीघ्रं वृद्धि प्रयातः पतिते रमण्या || ५७ || प्रथमकुसुमकाले नस्ययोगेन पीतं सनियममथवा स्यात्तन्दुलाम्भो युवत्याः | कुचयुगलसपीनंक्वापि नो याति पातं कथित इति पुरैवं चक्रदत्तेन योगः || ५८ || शालितन्दुलोकदं कर्षमात्रं वामदक्षिणा नासाभ्यां नस्यं देयम् || मुण्डीचूर्णं दशपलं तोयैश्चतुर्गुणैः पचेत् | अर्द्धशेषं हरेत्क्वाथं क्वाथार्द्धं तिलतैलकम् || ५९ || तैलशेषं पचेत्तेन नस्यं पानं च कारयेत् | पतितं यौवनं स्त्रीणां मासादुत्तिष्ठते ध्रुवम् || ६० || श्यामा निशा बला लाजा लवणं क्वाथयेत्समम् | तोये चतुर्गुणे पाच्यं पादशेषं समाहरेत् || ६१ || तिलतैलं क्वाथपादं तैलार्द्धं महिषीघृतम् | स्नेहशेषं पचेत्तैलं नस्येन मासमात्रतः || ६२ || बालास्त्रीवृद्धनारीणां यौवनं कुरुतेऽद्भुतम् || ६३ || एरण्डतैलं शकुलस्य तैलं तथामबिल्वस्य रसं गृहीत्वा | संमर्द्दयेदूर्ध्वगहस्तकेन तदा स्तनं स्यात्पतितं नवं वै || ६४ || श्रीपर्णीरसकर्काभ्यां तैलं सिद्धं तिलोद्भ्वम् | तत्तैलं तिलके नापि स्तनस्योपरि दापयेत् || ६५ || काठिन्यं वृद्धतां यातः पतितौ चोत्थितौ च तौ | वृद्धायाः कन्यकाया वा ह्यबलायाः पयोधरौ || ६६ || श्वेतोब्दकुसुमं नित्यं कृष्णधेनुपयोयुतम् | पिष्ट्वा स्तनयुगे देयं भवेत्पीनपयोधरा || ६७ || वचाश्वगन्धासंयुक्ता चाश्वारिपत्रकं तथा | गजपिप्पलिकायुक्तं सद्योभिन्नजलेन च || ६८ || पेषयित्वा विधानेन लेपयेत्स्तनमण्डले | नयत्ते तु कदाचिद्वै ताम्रतालफलं तथा || ६९ || गंभारिपत्रसुरसं तत्समं तिलतैलकम् | समानं जलभागं च दत्त्वा पाकं समाचरेत् || ७० || तैलशेषं परिज्ञाय वस्त्रेण शोधयेत्कुचौ | दिवाप्रलेपनादेव लोहत्वं जायतेऽचिरात् || ७१ || इति स्तनवर्द्धनं कुचोत्थापनम् | अथ योनिसंस्कारः प्रक्षालयेन्निम्बकषायतोयैर्निशाज्यकृष्णागुरुगुग्गुलूनाम् | धूपेन योनिं निशि धूपयित्वा नारी प्रमोदं विदधाति भर्तुः || ७२ || प्रक्षाल्य निम्बस्य जलेन भूयस्तस्यैव वल्केन विलेपयेच्च | त्यजेच्च रत्याश्चिरकालभूतं गन्धं वराङ्गस्य न संशयोऽत्र || ७३ || इति योनिसंस्कारः | अथ लोमपातनविधिः पलाशभस्मान्विततालचूर्णे रम्भाम्बुमिश्रैरुपलिप्य भूयः | कन्दर्पगेहं मृगलोचनानां रोमाणि रोहन्ति कदापि नैव || ७४ || एकः प्रदेयो हरितालभागः पञ्च प्रदेया जलजस्य भागाः | सवस्तरोर्भस्मन एव पञ्च प्रोक्ताश्च भागाः कदलीजलार्द्राः || ७५ || संसिद्धपात्रेषु च सप्तघस्रं कृत्वा स्मरागारविलेपनं च | रोमाणि सर्वाणि विलासिनीनां पुनर्न रोहंति कदाचिदेव || ७६ || रम्भाजलैस्सप्तदिनं विभाव्य भस्मानि कम्बोर्मसृणानि पश्चात् | नलेन युक्तानि विलेपनेन रोमाणि निर्मूलयति क्षणेन || ७७ || तालकं शङ्खचूर्णं तु मंजिष्ठाभस्म किंशुकम् | समभागप्रलेपेन रोमखण्डनमुत्तमम् || ७८ || तालकं शंखचूर्णं तु पिष्ट्वा च क्षारतोयकैः | तेन लिप्त्वा कचा घर्मे स्थिते गच्छन्ति तत्क्षणात् || ७९ || पूगवृक्षस्य पत्रोत्थद्रवैः पिष्ट्वा तु गन्धकम् | तेन लिप्त्वा स्थिते घर्मे रोमखण्डनमुत्तमम् || ८० || नराणां खण्डकेशानां छुच्छुन्दर्याश्च तैलतः | न निर्यान्ति पुनर्लेपात्रिसप्ताहे कृते सति || ८१ || कुसुम्भतैलतप्तानां सप्तवारं तथा गुणम् || ८२ || सद्योजातस्य महिषीवत्सस्य मलमाहरेत् | तल्लिप्त्वा वेष्टयेद्रात्रौ केशान्वातारिपत्रताः || प्रातस्तप्तोदकैः शष्पाः पतन्त्यामूलतोत्थिताः || ८३ || पिपीलिकानां कृष्णानां स्थूलानां भूगृहं हरेत् | छायाशुष्कं च तच्चूर्णं पञ्चाहं लेपयेत्सदा || ८४ || पूर्ववत्खण्डकेशानां न पुनः रोहणं भवेत् || ८५ || शंखं तालं यवं गुञ्जां काञ्जिकैः पेषयेत्सदा | लेपात्पतन्तिरोमाणि पक्वपत्रमिव द्रुमात् | लेपानाद्धन्ति केशांश्च कटुतैलैर्मनश्शिला || ८६ || इति लोमपातनविधिः | इति श्रीनित्यनाथविरचिते कामरत्ने गाढीकरणादिलोमपातनं नाम सप्तमोपदेशः || ७ || अष्टमोपदेशः अथ षण्ढीकरणम् तच्छमनं च नरो मूत्रयते यत्र कृष्णं तत्र तु वृश्चिकम् | निखन्याज्जायते षण्ढ उद्धृते तु पुनः सुखी || १ || अजामूत्रेण संभाव्यं निशि षड्बिन्दुचूर्णितम् | खानपानप्रयोगेण षण्ढत्वं जायते नृणाम् || २ || तिलगोक्षुरयोश्चूर्णं छागदुग्धेन पाचितम् | शीतलं मधुना युक्तं पिबेत् षण्ढत्वशान्तये || ३ || जलौकादग्धचूर्णं तु नवनीतेन भक्षितम् | यावज्जीवं न सन्देहः षण्ढत्वं प्राप्नुयान्नरः || ४ || धत्तूरपुष्पभक्ष्येण पुनः संपद्यते सुखम् || ५ || यो गोविषाणं पतितं च घृष्ट्वा लिपेद्रतौ स्वस्य मनोभवास्त्रे | एकान्तकं तत्कुरुतेऽन्यपत्न्या नोत्तिष्ठते तामपहाय पत्नीम् || ६ || अत्युन्नतं चापरगोविषाणं घृष्ट्वा पुनस्तेन विलिप्य लिङ्गम् | प्रयाति भूयः प्रकृतं तदङ्गं दृष्टो नरैरेष सदा प्रयोगः || ७ || निशाविचूर्णं घनसारचूर्णं समीकृतं बस्तपयोवियुक्तम् | || भक्तं निपीतं कुरुते निकामं नरस्य षण्ढत्वमिति प्रसिद्धम् || ८ || तिलस्य दण्डाविटपस्य चूर्णं प्रसाधि रम्भापयसोऽर्द्धमासम् | सयावकं शर्करयान्वितं च पीत्वा हरेत् षण्ढकतामवाप्य || ९ || इति षण्ढीकरणं तत्साम्यञ्च | अथ दुष्टास्त्रीकृतध्वजपातोत्थापनम् | भूमिचम्पकमूलं च सगुवाकं समं तथा | तद्भक्षणाद्भवेत्सद्यो लिङ्गोत्थानं न संशयः || १० || रक्तशाल्मलिमूलं तु शिवं दुर्गां विनायकम् | सम्पूज्य विविधैर्द्रव्यैर्निमन्त्र्य निशि संयतः || ११ || प्रातस्त्वचं हरेत्सम्यक् शुष्कं कुर्याच्च चूर्णकम् | घृतेन पेषितं कृत्वा सैन्धवेन सदा रुचिः || १२ || प्रातर्भुक्त्वा च किंचित्तु भोक्तव्यं प्रहरावधि | पतितस्य भवेल्लिङ्गंस्योत्थानं नात्र संशयः | अयोमयं भवेल्लिङ्गं कोद्रवान्नं विवर्जयेत् || १३ || इति दुष्टास्त्रीकृतध्वजपातोत्थानम् | अथ योनिबन्धनं मोक्षणं च पूर्वोत्थं लांगलीमूलं वामपादस्य पांसुकम् | एकत्र कारयेद्धीमान्द्वयेन शुक्तिसंपुटे || लेपयेद्भगबन्धः स्यात्तक्रैः प्रक्षाल्यमुच्यते || १४ || श्मशानचैलमादाय वामपादस्य पांसुकम् | सन्ध्यायां बन्धयेत्तेन पोटली भगबन्धनी || १५ || ओं अमुकीभगं बध्नामि विस्फुरय रन्ध्रशोणितम् | मयाकृतं भगबन्धं नास्ति लोके चिकित्सकाः || १६ || पतिर्वा पतिमन्त्रो वा येचान्ये भगमर्दकाः | सर्वे वै विमुखं यान्ति वर्जयेत्कामुकैस्तथा || १७ || ओं चिठिचिठिखचिटिखचिटि ठः ठः प्रयोगद्वयस्यायं मंत्रः | ओं चिठिचिठिखचिटिखचिटि ठः ठः | प्रयोगद्वयस्यायं मंत्रः | वचैलाचन्दनक्षीरैः प्रक्षाल्यामर्द्दयेद् भगम् | यन्त्रमन्त्रादितन्त्रेण यत्किञ्चिच्छत्रुणा कृतम् || १८ || तत्तस्यैव भवेद्येन सिद्धिमन्त्रस्स उच्यते | सप्तभिर्मंत्रितं तोयं शुद्धं पूतं पिबेत्तु यः | तस्य शत्रुकृतो दोषः शत्रुगेहे भविष्यति || १९ || मंत्र ओं वज्रमुष्टि वज्रकीबाडी वज्रबान्धौ दशद्वार वज्रपाणीपिबेच्चाङ्गे डाकिनी डापिनी रक्षोव सर्वाङ्गे मंत्रजयो शत्रुभयो डाकिनीवावों जानुवायौ कालि कालि शामनते ब्रह्माकी धीशुसाशु डाकिनी मिलिकरि वरयो मोरो जीडुभातकरेती पत्ने पानीकरे गु-आ करे याने करे सूते करे परिहासेकर नयन कटाक्षि करे आपोन हाथे परहाते जियति संचारे किलनी पोतनि अनिन्तुषवरीकरे एते विज्ञान अहिननगेयो मोहिकरेत्साराकुठितित्स्केमसरूपद्रे | ओं मोसिद्धि गुरूरपायस्वीलिंगं महादेवकी आज्ञा || एलाफलं वासवगोपचूर्णं गुप्तं क्षिपेद्योषिदुस्यस्थमार्गे | तस्यैव लिंगस्य वरप्रवेशं स्यात्तत्र नान्यस्य कदाचिदेव || २० || गव्येन दध्ना मथितं विधाय प्रक्षालयेत्तेन तदङ्गमुच्चैः | भवेद्वराङ्गं प्रकृतं युवत्या इत्याह कर्त्ता हरमेखलायाः || २१ || आकाशदेशे पतितं गृहीत्वा योषिन्नखं दन्तमलं सुपिष्ट्वा | लिप्त्वा ध्वजं तेन रमेत्ततो यां तस्याविनाशः पुरुषान्तरेण || २२ || निर्घातलोहस्य जलेन भूयः प्रक्षालनं कामगृहस्य कुर्यात् | पुनः समासादयति प्रदृष्टं नारी तदङ्गं खलु पूर्वरूपम् || २३ || मुहुर्मुहुर्या मथितेन नारी प्रक्षालयेत्सप्तदिनानि यत्नात् | तस्यास्तदङ्गं पुनरेव भूयात्पूर्वानुरूपं न हि संशयोस्ति || २४ || इति योनिबन्धनं मोक्षणम् च | अथ गृहकोदारकनिवारणम् वधूटनीयमूलं तु तस्या हस्तेन बन्धनात् | गृहकोदारकं न स्याद्यावद्धस्ते बन्धनम् || २५ || इति गृहकोदारकनिवारणम् | अथ नष्टपुष्पायाः पुष्पकरणम् ज्योतिष्मतीकोमलपत्रमग्नौ भृष्टं जपायाः कुसुमं च पिष्टम् | गृहाम्बुना पीतमिदं युवत्याः करोति पुष्पं स्मरमन्दिरस्य || २६ || लाङ्गलीकन्दचूर्णं वा अपामार्गस्य मूलकम् | इन्द्रवारुणिकामूलं योनिस्थं पुष्पबन्धनुत् || २७ || पारावतपुरीषं च मधुना संपिबेत्तु यः | रजस्वला भवेन्नारी मूलदेवेन भाषितम् || २८ || तिलमूलकषायं तु ब्रह्मदण्डीयमूलकम् | यष्टी त्रिकटुकं चूर्णं क्वाथयुक्तं च पाययेत् | पुष्परोधे रक्तगुल्मे स्त्रीणां सद्यः प्रशस्यते || २९ || तिलक्वाथे गुडं त्र्यूषं तिलभागयुतं पिबेत् | क्वाथं रक्तभवे गुल्मे नष्टपुष्पे च योजयेत् || ३० || दूर्वादलं तन्दुलतुल्यभागं निष्पिष्य पिष्टं परिपाचितञ्च | तद्भक्षयित्वा वनिता प्रनष्टं पुष्पं लभेत स्वबलानुरूपम् || ३१ || इति नष्टपुष्पायाः पुष्पकरणम् | अथ गर्भस्रावणम् तत्राभिनवगर्भस्रावणम् कृते जारे क्षिपेद्योनौ तिलतैलाक्तसैन्धवम् | द्रवते तत्क्षणादेव शुक्रपुष्पं स्रवत्यपि || ३२ || इति गर्भस्रावणम् | अथ गर्भपातनम् काण्डमेरण्डपत्रस्य योनावष्टाङ्गुलं क्षिपेत् | चातुर्मास्यो भवेद् गर्भः स्रवते तत्क्षणादपि || ३३ || देवदालीयचूर्णं तु कर्षैकं तोयपेषितम् | पिबेद्गर्भवती नारी गर्भं स्रवति तत्क्षणात् || ३४ || धत्तूरमूलिका पुष्ये गृहीता कटिसंस्थिता | गर्भं निवारयत्येव रण्डावेश्यादियोषिताम् || ३५ || राजिकां तिलतैलञ्च पिष्ट्वा नारी ऋतो पिबेत् | त्रिदिनं तेन गर्भस्य सम्भवो नैव जायते || ३६ || बब्बूलस्य तु पुष्पाणि गोदुग्धेन पिबेदृतौ | या नारी गर्भसम्भूतिः पुनस्तस्या न जायते || ३७ || पिबेत्प्रसूतिसमये काञ्जियुक्त जयाभवम् | पुष्पं न सा प्रसूतिं च धत्ते नो गर्भसंभवः || ३८ || गृहीतं रेवती-ऋक्षे पिप्पलस्य च वन्दकम् | गोदुग्धे सोऽपि भोक्तारं महागर्भं निवारयेत् || ३९ || निर्गुण्डीद्रवसंपिष्टं चित्रमूलं मधुप्लुतम् | कर्षं भुक्त्वा पातयति गर्भं रण्डाकुलोद्भवा || ४० || इति गर्भपातनम् | अथ रक्तनिवारणम् धात्रीं च पथ्यांच रसाञ्जनं च कृत्वा विचूर्णं सजलं निपीतम् | अत्यन्तरक्तोत्थितमुग्रवेगं निवारयेत् सेतुनिवाम्बुपूरम् || ४१ || शेलुत्वचा मिश्रिततन्दुलेन विधाय पिष्टं विनियोजनीयम् | कन्दर्पगेहे मृगलोचनाया रक्तं निहन्त्याशु हठेन योगः || ४२ || मूलं तु शरपुङ्खायाः पेषयेत्तन्दुलोदकैः | पाययेत्कर्षमात्रं तदतिरक्तप्रशान्तये || ४३ || कुशस्य मूलं कदलीदलं वा बला सिफा वा बदरीफलं वा | गुडूचिका तण्डुलवारिपीता स्त्रीणामनेकं रुधिरं जयेच्च || ४४ || कुरण्टकस्य मूलानि मधुकः श्वेतचन्दनम् | युक्त्या पिष्ट्वाक्षमात्रं तु पाययेत्तन्दुलाम्बुना || ४५ || सकृत्पीत्वा माषयूषं प्रदरात्परिमुच्यते | घृतभृष्टं माषयूषभोजनं श्वेतचन्दनम् || ४६ || चन्दनं क्षीरसंयुक्तं सघृतं पाययेद्भिषक् | शर्करामधुसंयुक्तमसृक्स्रावविनाशनम् || ४७ || दार्वीरसाञ्जनवृषाब्दकिरातबिल्वभल्लातकैरथ कृतो मधुना कषायः | पीतो जयत्यतिबलं प्रदरं सशूलं पीतं वितारुणविलोहितनीलकृष्णम् || ४८ || अशोकस्य त्वचा सिद्धं क्षीरं रक्तहरं पिबेत् | पेटारिकायाः पत्रं च माषचूर्णेन संयुतम् || ४९ || रम्भादलैर्वेष्टयित्वा दाहयेच्च प्रयत्नतः | तस्य भक्षणमात्रेण ह्यतिरक्तनिवारणम् || ५० || तन्मूलं तन्दुलैः पिष्ट्वा पिष्टकं भर्ज्जयेद् बुधः | तस्य भक्षणमात्रेण रक्तादिविकृतिं हरेत् || ५१ || तस्य वल्कलचूर्णं तु भृष्टतन्दुलचूर्णकम् | भक्षणादेव तद्रक्तं स्त्रीणां शमयति ध्रुवम् || ५२ || शतावर्यास्तु मूलस्य निजद्रावं समाहरेत् | चत्वारिंशत्पलान्येवं वस्त्रपूतं प्रयत्नतः || ५३ || द्रवतुल्यगवां क्षीरं क्षीरस्य द्विगुणं घृतम् | जीवन्तिकोलमन्दारा अतसी क्षीरकाकुली || ५४ || मुद्गपर्णी माषपर्णी महामेदा शतावरी | द्राक्षापारशुकोयष्टिजीरकं प्रतिकार्षिकम् || ५५ || पलार्द्धं मधुकं पुष्पं सर्वमेकत्र पाचयेत् | घृतशेषं समुत्तार्य शीते जाते च निक्षिपेत् || ५६ || पलाष्टकं कणाचूर्णं क्षौद्रं वा पिप्पलाष्टकम् | सितादशपलं योज्यमिदं शतावरीघृतम् || ५७ || लेह्यं कर्षं शमेदाशु दुस्साध्यमतिरक्तजम् | दोषं क्षयं च मन्दाग्निं हृद्रोगं ग्रहणीग्रहम् | कामलां वातरोगांश्च अश्मरीं च शिरोग्रहम् || ५८ || इति रक्तनिवारणम् | अथ वन्ध्यानां गर्भधारणम् जन्मवन्ध्या काकवन्ध्या मृतवत्सा क्वचित्स्त्रियः | तासां पुत्रोदयार्थाय शम्भुना सूचितं पुरा || ५९ || जन्मवन्ध्या चिकित्सा समूलपत्रां सर्पाक्षीं रविवारे समुद्धरेत् | एकवर्णगवां क्षीरे कन्या हस्तेन पेषयेत् || ६० || ऋतुकाले पिबेद्वन्ध्या पलार्द्धं तद्दिनेदिने | क्षीरशाल्यमुद्गं च लघ्वाहारं प्रदापयेत् || ६१ || एवं सप्तदिनं कुर्याद् वन्ध्या भवति गर्भिणी | उद्वेगं भयशोकं च दिवानिद्रां विवर्ज्जयेत् || ६२ || न कर्म कारयेत्किञ्चिद्वर्ज्जयेच्छीतमातपम् | न तया परमां सेवां कारयेत्पूर्ववत्क्रियाम् | पतिसङ्गाद्गर्भलाभो नात्र कार्या विचारणा || ६३ || एकमेव तु रुद्राक्षं सर्पाक्षीकर्षमात्रकम् || ६४ || पूर्ववच्च गवां क्षीरैर्-ऋतुकाले प्रदापयेत् | महागणेशमन्त्रेण रक्षां तस्यानुबन्धयेत् || ६५ || एवं तप्तदिनं कुर्याद् वन्ध्या भवति पुत्रिणी | ओं ददन्महागणपते रक्षामृतं मत्सुतं देहि || ६६ || पत्रमेकं पलाशस्य गर्भिणीपयसान्वितम् | पीत्वा च लभते पुत्रं रूपवन्तं न संशयः | पथ्यमुक्तं यथापूर्वं तद्वत्सप्तदिनावधि || ६७ || ओं ददन्महागणपते रक्षामृतं मत्सुतं देहि | देवदालीयमूलं तु ग्राहयेत्पुष्यभास्करे || ६८ || निष्कत्रयं गवां क्षीरैः पूर्ववत्क्रमयोगतः | वन्ध्या च लभते पुत्रं देयं पथ्यं यथापुरा || ६९ || शीततोयेन संपिष्टं शरपुंखीयमूलकम् | कर्षं पीत्वा लभेद् गर्भं पूर्ववत्क्रमयोगतः || ७० || मुस्ता प्रियंगुसौवीरं लाक्षाक्षौद्रं समं पिबेत् | कर्षं तन्दुलतोयेन वन्ध्या भवति पुत्रिणी | पथ्यमुक्तं यथापूर्वं तद्वत्सप्तदिनं पिबेत् || ७१ || समूलां सहदेवीं च संगृह्य पुष्यभास्करे || ७२ || छायाशुष्कं च तच्चूर्णमेकवर्णगवां पयः | पूर्ववत्पिबते नारी वन्ध्या भवति गुर्विणी || ७३ || मूलं शिफा वा किल लक्ष्मणाया ऋतौ निपीय त्रिदिनं पयोभिः | क्षीरान्नचर्या नियमेन भुङ्क्ते पुत्रं प्रसूते वनिता न चित्रम् || ७४ || सपिप्पलीकेशरशृङ्गवेरं क्षुद्रोपणं गव्यघृतेन पीतम् | वन्ध्यापि पुत्रं लभते हठेन योगस्तु सोऽयं मुनिभिः प्रदिष्टः || ७५ || तुरङ्गगन्धा घृतवारिसिद्धमाज्यं पयः स्नानदिने च पीत्वा | प्राप्नोति गर्भं नियमं चरन्ती वन्ध्या च नूनं पुरुषप्रसङ्गात् || ७६ || पुष्यार्कयोगोद्धृतलक्ष्मणाया मूलं तथा वज्रतरोश्च पिष्ट्वा | अप्येकवर्णापयसा निपीतं स्त्रियः स्मृतं पुत्रकरं मुनीन्द्रैः || ७७ || कन्दमूलं घृतैः पिष्ट्वा ऋतौ सा गर्भिणी भवेत् || ७८ || पुष्योद्धृतं लक्ष्मणामेव चूर्णं पुंसा निपिष्टं सघृतं निपीतम् | क्षीरोदनं प्राश्य पतिप्रसङ्गाद् गर्भंविदध्यात्तरुणी न चित्रम् || ७९ || कृष्णापराजितामूलं बस्तक्षीरेण संपिबेत् | ऋतुस्नाता त्रिधा या तु वन्ध्या गर्भधरा भवेत् || ८० || नागकेशरकं चूर्णं नूतनं गव्यदुग्धतः | पिबेत्सप्तदिनं दुग्धं घृतैर्भोजनमाचरेत् | तदृतौ लभते गर्भं सा नारी पतिसंगता || ८१ || पुत्रजीवकपत्रैकं पिबेत्क्षीरैर्-ऋतौ च या || ८२ || पतिसङ्गाच्च सा नारी सत्यं पुत्रवती भवेत् | तस्य मूलं चैकवर्णाक्षीरैः पीत्वा च पुत्रिणी || ८३ || काकोल्यौ लक्ष्मणामूलं षष्टिकस्य च तन्दुलम् | नार्येकवर्णापयसा पीत्वा गर्भवती ऋतौ || ८४ || अश्विन्यां बोधिवृक्षस्य वन्दाकं ग्राहयेद् बुधः | गोक्षीरैः पानमात्रेण वन्ध्या पुत्रवती भवेत् || ८५ || तिलरसगुडकं वै गोपुरीषाग्नियोगात् | तरुणवृषभमूत्रं प्रस्थयुक्तं विपक्वम् | ऋतुदिवसविमध्ये सप्तवारैश्च पीतं जनयति सुतमेकं निश्चितं पुष्पितैव || ८६ || कदम्बपत्रं श्वेतं च बृहतीमूलमेव च | एतानि समभागानि ह्यजाक्षीरेण पेषयेत् || ८७ || त्रिरात्रं पञ्चरात्रं वा पिबेदेतन्महौषधम् | ऋतौ निपीयमाने तु गर्भो भवति निश्चितम् || ८८ || गोक्षुरस्य तु बीजं च पिबेन्निर्गुण्डिकारसैः | त्रिरात्रं सप्तरात्रं वा वन्ध्या भवति पुत्रिणी || ८९ || कर्कोटबीजचूर्णं तु एकवर्णं गवां पयः | ऋतौ निपीयमाने तु गर्भो भवति निश्चितम् || ९० || भगाख्ये चैव नक्षत्रे वटवृक्षस्य मूलकम् | हस्ते बद्ध्वा लभेत्पुत्रं सुन्दरं कुलवर्द्धनम् || ९१ || अश्वत्थस्य तु वन्दाकं पूर्वेद्युः सुनिमंत्रितम् | ऋतुस्नाते तु पीतं स्यादपि वन्ध्या लभेत्सुतम् || ९२ || एकवर्णसवत्साया गोः क्षीरेण सुपेषितम् | भावितं वटवन्दाकं पीतं वन्ध्या सुतं लभेत् || ९३ || इति जन्मवन्ध्याचिकित्सा | अथ काकवन्ध्याचिकित्सा पूर्वं पुत्रवती या सा क्वचिद्वन्ध्या भवेद्यदि | काकवन्ध्या तु सा ज्ञेया चिकित्सास्यास्तु कथ्यते || ९४ || विष्णुक्रान्ता समूलां तु पिष्ट्वा दुग्धैस्तु माहिषैः | महिषीनवनीतेन ऋतुकाले तु भक्षयेत् || ९५ || एवं सप्तदिनं कुर्यात्पथ्यमुक्तं च पूर्ववत् | गर्भं सा लभते नारी काकवन्ध्या सुशोभनम् || ९६ || अश्वगन्धीयमूलं तु ग्राहयेत्पुष्यभास्करे || ९७ || पेषयेन्महिषीक्षीरैः पलार्द्धं भक्षयेत्सदा | सप्ताहाल्लभते गर्भं काकवन्ध्या चिरायुषम् || ९८ || इति काकवन्ध्याचिकित्सा | अथ मृतवत्साचिकित्सा गर्भं संजातमात्रेण पक्षान्मासाच्च वत्सरात् | म्रियते द्वित्रिवर्षाद्वा यस्याः सा मृतवत्सका | तत्र योगः प्रकर्त्तव्यो यथा शङ्करभाषितम् || ९९ || मार्गशीर्षेऽथवा ज्येष्ठे पूर्णायां लेपिते गृहे || १०० || नूतनं कलशं पूर्णं गन्धतोयेन कारयेत् | शाखाफलसमायुक्तं नवरत्नसमन्वितम् || १०१ || सुवर्णसूत्रिकायुक्तं षट्कोणमण्डले स्थितम् | तन्मध्ये पूजयेद्देवीमेकान्तीं नाम विश्रुताम् || १०२ || गन्धपुष्पाक्षतैर्धूपैर्दीपैर्नैवेद्यसंयुतैः | अर्चयेद्भक्तिभावेन मद्यमांसैः समत्स्यकैः || १०३ || ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही च तथेन्द्राणी षट्सु पत्रेषु मातरः || १०४ || पूजयेन्मन्त्रबीजैश्च फैंकारैर्नामविश्रुतैः | पूजामंत्रः ओं ह्रीं फैं एकान्तिदेवतायै नमः | अनेन मन्त्रेण पूजा जपश्च कार्यः || दधिभक्तैश्च पिण्डानि सप्तसंख्यानि कारयेत् || १०५ || षट्संख्याः षट्सु पत्रेषु मातृभ्यः कल्पयेत्पृथक् | बिल्वाभं सप्तमं पिण्डं शुचिस्थाने बहिःक्षिपेत् || १०६ || ओं ह्रीं फैं एकान्तिदेवतायै नमः तद्भुक्त्वा गृहमागच्छेच्चक्राग्रे यागमाचरेत् | कन्यका योगिनी वामा भोजयेत्सकुटुम्बकैः || १०७ || दक्षिणां दापयेत्तासां देवताग्रे च नान्यथा | विसृज्य देवतां चाथ नद्यांतत्कलशोदकम् || १०८ || सकुलं वीक्षयेद्धीमाञ्छुभेन शुभमादिशेत् | विपरीते पुनः कार्यं यावत्तावत्सुसिद्धिदम् || १०९ || प्रतिवर्षमिदं कुर्ययार्द्दीर्घजीवीसुतं लभेत् || ११० || प्राङ्मुखी कृत्तिका-ऋक्षे वन्ध्याकर्कोटकीं हरेत् | तत्कन्दं पेषयेत्तोयैः कर्षमात्रं सदा पिबेत् | ऋतुकाले तु सप्ताहं दीर्घजीवी सुतो भवेत् || १११ || या बीजपूरद्रुममूलमेकं क्षीरेण सिद्धं हविषावमिश्रम् | ऋतो तु पीत्वा सुपतिं प्रयाति दीर्घायुषं सा तनयं प्रसूते || ११२ || इति वन्ध्यानांगर्भधारणम् | अथ फलघृतम् मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला | मेदा पयस्या काकोली मूलं चैवाश्वगन्धजम् | अजमोदा हरिद्रेद्वे हिंगुः कटुकरोहिणी || ११३ || उत्पलं कुमुदं द्राक्षा काकोल्यौ चन्दनद्वयम् | एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत् || ११४ || शतावरीरसं क्षीरं घृतं देयं चतुर्गुणं | सर्पिरेतन्नरः पीत्वा नित्यं स्त्रीषु वृषायते || ११५ || पुत्राञ्जनयते नारी मेधाविप्रियदर्शनात् | या चैवास्थिरगर्भा स्याद्या नारी जनयेन्मृतम् || ११६ || अल्पायुषं वा जनयेद्या च कन्यां प्रसूयते | योनिदोषे रजोदोषे गर्भस्रावे च शस्यते || ११७ || प्रजावर्द्धनमायुष्यं सर्वग्रहनिवारणम् | नाम्ना फलघृतं ह्येतद्रहस्यं परिकीर्तितम् || ११८ || जीवद्वत्सैकवर्णाया घृतमत्र तु दीयते | अरण्यगोमयेनात्र वह्नेर्ज्वाला प्रदीयते || ११९ || इति फलघृतम् | अथ गर्भस्रावरक्षा अकस्मात्प्रथमे मासि गर्भे भवति वेदना | गोक्षीरैः पेषयेत्तुल्यं पद्मकोशीरचन्दनम् | पलमात्रं पिबेन्नारी त्र्यहाद्गर्भः स्थिरो भवेत् || १२० || अथवा मधुकं दारु शाकवृक्षस्य बीजकम् | संपिष्य क्षीरकाकोली पिबेत्क्षीरैस्तु गोभवैः || १२१ || नीलोत्पलं मृणालं च यष्टी कर्कटशृङ्गिका | गोक्षीरैस्तु द्वितीये च पीत्वा शाम्यन्ति वेदनाः || १२२ || अथवाश्वत्थवल्कं च तिलं कृष्णं शतावरीम् | मञ्जिष्ठासहितां पिष्ट्वा पिबेत्क्षीरैश्चतुर्गुणैः || १२३ || श्रीखण्डं तगरं कुष्ठं मृणालं पद्मकेशरम् | पिबेच्छीतोदकैः पिष्टं तृतीये वेदनावती || १२४ || अथवा क्षीरकाकोलीं बलां पिष्ट्वा पयः पिबेत् || १२५ || नीलोत्पलं मृणालानि गोक्षुरं च कशेरुकम् | तुर्यमासे गवां क्षीरैः पिबेच्छाम्यति वेदना || १२६ || अथवा मधुकं रास्ना श्यामा ब्राह्मणयष्टिकाः | अनन्तां पेषयित्वा तु गव्यक्षीरैश्च संपिबेत् || १२७ || पुनर्नवां सकाकोलीं तगरं नीलमुत्पलम् | गोक्षुरं पञ्चमे मासे गर्भक्लेशहरं पिबेत् || १२८ || अथवा बृहतीयुग्मं यज्ञाङ्गं कुट्मलं वरम् | गोघृतं क्षीरसंयुक्तं पिबेत्पिष्ट्वा च पञ्चमे || १२९ || सितां कपित्थमज्जां च शीततोयेन पेषयेत् | षष्ठे मासि गवां क्षीरैः पिबेत्क्लेशनिवृत्तये || १३० || अथवा गोक्षुरं शिग्रुमधुकं पृश्निपर्णिकाम् | बलायुक्तं पिबेत्पिष्ट्वा गोदुग्धैः षष्ठमासके || १३१ || कशेरुं पौष्करं मूलं शृङ्गाटं नीलमुत्पलम् | पिष्ट्वा च सप्तमे मासि क्षीरैः पीत्वा प्रशाम्यति || १३२ || अथवा मधुकं द्राक्षा शृङ्गाटञ्च कशेरुकम् | मृणालं शर्करायुक्तं क्षीरैः पेयं तु सप्तमे || १३३ || यष्टी पद्माक्षकं मुस्तं केशरं गजपिप्पलीम् | नीलोत्पलं गवां क्षीरैः पिबेदष्टममासके || १३४ || अथवा बिल्वमूलं तु कपित्थं बृहतीफलम् | इक्षुपटोलयोमूलमेभिः क्षीरं प्रसाधयेत् || १३५ || तत्क्षीरमम्भसा पीत्वा गर्भे शाम्यति वेदना || १३६ || विशालाबीजकंकोलं मधुना सह पेषयेत् | वेदना नवमे मासि शान्तिमाप्नोति नान्यथा || १३७ || अथवा मधुकं श्यामा ह्यनन्ता क्षीरकाकुली | एभिः सिद्धं पिबेत्क्स्.ईरं नवमे वेदनावती || १३८ || शर्करा गोस्तनी द्राक्षा सक्षौद्रं नीलमुत्पलम् | पाययेद्दशमे मासि गवां क्षीरैः प्रशान्तये || १३९ || अथवा शुण्ठिसंसिद्धं गोक्षीरं दशमे पिबेत् | अथवा मधुकं दारु शुण्ठिक्षीरेण संपिबेत् || १४० || सामान्य चिकित्सा धात्र्यञ्जनं सावरयष्टिकाक्यं त्र्यहं निपीतं प्रमदा हठेन | सप्ताहमात्रं विनियोज्य नारी स्तभ्नाति गर्भ चलितं न चित्रम् || १४१ || क्षौद्रं वृक्षं चन्दनसिन्धुजातं महेन्द्रमाज्यं पयसा सुपिष्टम् | गर्भं क्षरन्तं प्रतिहन्ति शीघ्रं योगोऽयमुक्तः किल मूलदेवैः || १४२ || कुलालहस्तोद्भवकर्दमस्य वत्सीपयः क्षौद्रयुतस्य मात्रम् | गर्भच्युति शूलमयीं निवार्य करोति गर्भं प्रकृतं हठेन || १४३ || कशेरुशृङ्गाटकजीरकाणि पयोघनैरण्डशतावरीभिः | सिद्धं पयःशर्करया विमिश्रं संस्थापयेद् गर्भमुदस्य शूलम् || १४४ || कन्दं कौमुदकस्य माक्षिकयुतं क्षीराज्यमिश्रं पिबेत् सप्ताहं सितया सुपक्वसबलाशीतीकृतं वायुना | गर्भस्रावमरोचकं सपवनं शोकं त्रिदोषं वमिं शूलं सर्वविधं निहन्ति नियमादेवं च यत्तत्स्मृतम् || १४५ || ह्रीबेरातिविषामुस्तामरिचैः संशृतं जलम् | दद्याद्गर्भे प्रचलिते प्रदरे कुक्षिरुज्यपि || १४६ || कुवलयकन्दं सतिलं पीत्वा क्षीरेण मधुसितायुक्तम् | गुरुतरदोषैश्चलितं गर्भं संस्थापयेदाशु || १४७ || नीलोत्पलमृणालानि मधुकं शर्करातिलाः | द्रवमाणेषु गर्भेषु गर्भेस्थापनमुत्तमम् || १४८ || इति गर्भस्रावरक्षा | अथ गर्भशुष्कनिवारणम् गोक्षीरं शर्करायुक्तं गर्भशुष्कप्रशान्तये | पिबेद्वा मधुकं चूर्णं गम्भारीफलचूर्णकम् | समांशं गव्यदुग्धेन गुर्विणी तत्प्रशान्तये || १४९ || इति गर्भशुष्कनिवारणम् | अथ सुखप्रसवविधिः श्वेतपुनर्नवामूलचूर्णं योनौ प्रवेशयेत् | क्षणात्प्रसूयते नारी गर्भेणातिप्रपीडिता || १५० || उत्तराभिमुखं ग्राह्यं श्वेतगुञ्जीयमूलकम् | कट्यां बद्ध्वाविमुक्तं च गर्भपुत्रं तु तत्क्षणात् || १५१ || वासकस्य तु मूलं तु चोत्तरस्थः समुद्धरेत् | कट्यां बद्ध्वा सप्तसूत्रैः सुखं नारी प्रसूयते || १५२ || उत्तरे च समालोड्यं श्वेतगुञ्जाफलं कियत् | सुखप्रसवमाप्नोति तत्क्षणान्नात्र संशयः | योनिं वा लेपयेत्तेन सा सुखेन प्रसूयते || १५३ || सहदेव्याश्वमूलं वा कटिस्थं प्रसवेत्सुखम् || १५४ || अपामार्गस्य मूलं तु ग्राहयेच्चतुरङ्गुलम् | नारी प्रवेशयेद्योनौ तत्क्षणात्सा प्रसूयते || १५५ || तोयेन लाङ्गलीकन्दं घृष्ट्वा योनिं प्रलेपयेत् | नाभिं च लेपयेत्तेन तत्क्षणात्सूयते ध्रुवम् || १५६ || गुञ्जाफलार्द्धखण्डं च तोयपूगं तथार्द्धकम् | पिबेद्वा तोयपिष्टं च सा सुखेन प्रसूयते || १५७ || गुञ्जातरोमूलयुगं विधानादुत्पाट्य पुष्ये च रवौ निबद्धम् | कटीतले मूर्द्धनि नीलसूत्रैः शीघ्रं प्रसूतिं कुरुतेऽङ्गनायाः || १५८ || अगारधूमं गृहवारिणा वा पीत्वाऽबला शीघ्रतरं प्रसूते | अलम्बुषामूलमथो निबद्धं योगद्वयं भूपतिरित्यवादीत् || १५९ || समातुलुङ्गं मधुकस्य चूर्णं मध्वाज्यमिश्रं प्रमदा निपीय | व्यथाविहीनं प्रसवं हठेन प्राप्नोति नैवात्र विकल्पबुद्धिः || १६० || अत्र मातुलुङ्गस्य मूलं योज्यम् न तु फलम् क्वाथयित्वा पेयम् | दशमूलीशृतं तोयं घृतसैन्धवसंयुतम् | शूलातुरा पिबेन्नारी सा सुखेन प्रसूयते || १६१ || सुखप्रसवमन्त्रः ओं मन्मथ ओं मन्मथ ओं मन्मथ मन्मथवाहिनि लम्बोदर मुञ्च मुञ्च स्वाहा अनेन मन्त्रेण जलं सुतप्तं पातुं प्रदेयं शुचिना नरेण | तोयाभिपानात् खलु गर्भवत्या प्रसूयते शीघ्रतरं सुखेन || १६२ || ओं मन्मथ ओं मन्मथ ओं मन्मथ मन्मथ वाहिनि लम्बोदर मुञ्च मुञ्च स्वाहा | ओंकारं च हंकारं च अकारेण सुपूजितम् | ओंकारं शिरसं कृत्वा अन्ते नमस्त्रिमूर्तये || १६३ || अं ओं हां नमस्त्रिमूर्तये | अनेनैव तु मन्त्रेण जप्तव्यं सूतिकागृहे | सुखं प्रसवमाप्नोति सा पुत्रं लभते ध्रुवम् || १६४ || इति सुखप्रसवविधिः | अथ बालानां सूतिकायाश्च भूत-प्रेतादिकनिवारणम् बिल्वमूलं देवदारुं गोशृङ्गं च प्रियङ्गु च | मार्जारस्य मलं कुष्ठं वंशत्वगजमूत्रकैः || १६५ || पिष्ट्वा धूपो निहन्त्याशु ग्रहभूतज्वरादयः | ओंद्रावितं तापे ठं ठः स्वाहा अनेन धूपं दद्यात् | डाकिनी राक्षसाः प्रेता पिशाचा ब्रह्मराक्षसाः || ऐकाहिको द्व्याहिकश्च ज्वरो नश्यति तत्क्षणात् || १६६ || ओं द्रावितं तापे ठं ठः स्वाहा | श्रीवासं सर्षपं कुष्ठं वचा तैलं घृतं वसा | धूपो बालग्रहे देयो बालानां ग्रहशान्तये || १६७ || शिरीषनिम्बयोः पत्रं गोशृङ्गस्य त्वचा वचः | वंशत्वक् शिखिपिच्छं च कंगुना च समं घृतम् || १६८ || धूपो बालग्रहान् हन्ति स्वयं मन्त्रेण मन्त्रयेत् | धूपमन्त्रः ओं द्रुतं मुञ्च मुञ्च उड्डामरेश्वर आज्ञापयति स्वाहा || || १६९ || पुनर्नवानिम्बपत्रसर्षपघृतविरचितो धूपः | गर्भिण्या बालानां सततं रक्षाकरः कथितः || १७० || ओं द्रुतं मुञ्च मुञ्च उड्डामरेश्वर आज्ञापयति स्वाहा | दाडिमस्य तु वन्दाकं ज्येष्ठा-ऋक्षे समुद्धरेत् | द्वारे बद्धं तु बालानां सर्वग्रहनिवारणम् || १७१ || पुष्यार्के श्वेतगुञ्जाया मूलमुद्धृत्य धारयेत् | बालानां कण्ठदेशे च डाकिनीभयनाशनम् || १७२ || श्वेतापराजितापत्रं जयापत्रं द्वयो रसम् | नस्यं कुर्ययात्पलायन्ते डाकिनीदानवादयः || १७३ || सर्पत्वक्शिखिजारिष्टपल्लवं रजनी वचा | रसोनं हिंगु गोलोमशृङ्गीमरिचमाक्षिकैः | धूपः सर्वज्वरघ्नोऽयं कुमाराणां ज्वरापहः || १७४ || छुच्छुन्दरी मलं मांसं हरिद्राबिल्वपत्रकम् || १७५ || इन्द्रजं सर्षपं पत्रं धूपयोगेन योजितम् | निहन्ति रोदनं रात्रौ बालस्याशु न संशयः || १७६ || मत्स्यराजस्य पित्तेन मरिचे भावयेद् बुधः | रविवारे रौद्रशुष्कमञ्जनात्सर्वभूतहृत् || १७७ || नरसिंहस्य मन्त्रं तु सकृदुच्चरितं हरेत् | डाकिनीग्रहभूतानि तमः सूर्ययोदये यथा || १७८ || नृसिंहमन्त्रः ओं नरसिंहाय हिरण्यकशिपुत्रवक्षः स्थलविदारणाय त्रिभुवनव्यापकाय भूतप्रेतपिशाचडाकिनीकुलोन्मूलनाय स्तम्भोद्भवाय समस्तदोषान् हर हर विसर विसर पच पच हन हन कम्पय कम्पय मथ मथ ह्रीं ह्रीं ह्रीं फट् फट् ठः ठः ठः एहि एहि रुद्र आज्ञापयति स्वाहा || ओं ह्रीं ह्रीं ह्रीं ह्रूं ह्रूं ह्रूं फट् स्वाहा | अनेन सर्षपमभिमन्त्रितं कृत्वा रोगिणं प्रहारयेत् तदा सर्वे ग्रहाः पलायन्ते || बालग्रहाभिभूतानां बलिं यत्नेन कल्पयेत् | शुचि पक्त्वा तु सप्ताहं मत्स्यं मांसं सुराफलम् || १७९ || पुष्पधूपाक्षतं गन्धं दीपं च दक्षिणोदिकम् | चतुष्पथे क्षिपेदात्रौ शुद्धे नूतनखर्परे || शनौ वा कुजवारे वा बालदोषोपशान्तये || १८० || बलिदानमन्त्रः ओं सर्वभूतेभ्यो बलिं गृहाण गृहाण स्वाहा | अथ बालस्याहितुण्डिकादिरोगनिवारणम् चन्द्रग्रस्ते शिखीमूलं विधानेनोद्धरेद् बुधः | बद्धं गले च जघने बालोऽहितुण्डिकां जयेत् || १८१ || श्वेतार्कमूलं संगृह्य गृहस्तम्भे च बन्धयेत् | पुष्यार्के वा रवेर्वारे बालोऽहितुण्डिकां जयेत् || १८२ || उदुम्बरभवं मूलं शिशुकट्यां च बन्धयेत् | बृहत्कूष्माण्डवृत्तं वा तेनाहितुंडिकां जयेत् || १८३ || इति बालस्याहितुण्डिकारोगानिवारणम् | अथ स्त्रीणां पुष्परक्षा पलाशराजादनयोः फलानि पुष्पाण्यथो शाल्मलिपादपस्य | आज्येन मासार्द्धनिदं पिबन्ति रक्षा भवेन्निश्चितमेव पुष्पे || १८४ || तुषाम्बुना पावकवृक्षमूलं निःक्वाथयित्वा नियमं चरन्ती | ऋत्वन्तकाले त्रिदिनं पुरन्ध्री रक्षा भवेदामरणान्तमेव || १८५ || फलं कदम्बस्य च माक्षिकानि तुषोदकेन त्रिदिनं सकृद् वा | स्नानावसाने नियमेन पीत्वा रक्षामवश्यं कुरुते हठेन || १८६ || त्रैहायनं वा गुडमत्ति नित्यं पलप्रमाणं वनितार्द्धमासम् | जीवान्तिकं निश्चितमेव तस्या वन्ध्यात्वमुक्तं कविपुङ्गवेन || १८७ || कर्षद्वयं राक्षसवृक्षबीजं सप्ताहमात्रं सितशालिधान्यम् | ऋतौ निपीतं मृगशावकाक्ष्या रक्षार्थमेतन्नियतं प्रदिष्टम् || १८८ || इति स्त्रीणां पुष्परक्षा | अथ दुर्भगाकरणम् ज्येष्ठानक्षत्रे निम्बवन्दाकं यस्या अङ्गे दीयते सा दुर्भगा भवति || १८९ || इति दुर्भगाकरणम् | दातृशक्तिप्रदायक यन्त्रे अथ कलहकरणम् विभीतकं तु शाखोटमूलपत्रेण संयुतम् | स्थापयेद्यद्गृहद्वारे तस्य वै कलहो भवेत् || १९० || मार्जारमूषिकद्विजदिगम्बराणां लोमभिर्धूपात् | आर्द्रायां यत्र गृहे तत्र वै जायते वैरम् || १९१ || विशाखा नक्षत्रे निम्बवृक्षस्योत्तरमूलं विवस्त्रो विमुखीभूय उत्पाट्य मुखेन यस्य च आलये क्षिपेत्तस्य गृहे प्रत्यहं कलहो भवति || शाखोटमूलं पत्रं च एकीकृत्य स्थापयेत् | तथा दूरीकृते तु तद्गृहे भद्रं भवति | तन्नक्षत्रे शाखोटबदरीबीजद्वयमेकीकृत्य यस्य गृहे स्थापयेत्तस्य नित्यं कलहो भवति || १९२ || ब्रह्मदण्डीं समूलां च काकमाचीसमन्विताम् | जातीपुष्परसैः पिष्ट्वा सप्तरात्रं पुनः पुनः || १९३ || एष धूपः प्रदातव्यः शत्रुगोत्रस्य मध्यतः | यथागोत्रं समाघ्राति पिता पुत्रैः समं कलिः || १९४ || इति श्रीनित्यनाथविरचिते कामरत्ने षण्ढीकरणादि कलहकरणान्तं नामाष्टमोपदेशः || ८ || नवमोपदेशः अथ सर्वारिष्टविनाशार्थं रक्षाविधिः ईश्वरेण पुरा देव्यै यद्यत्तत्कथितं तथा | कादिद्विरवसानं च ह्यक्षरं स्वरसंयुतम् || १ || ईकारेणापि संपूज्य अधो रेफत्रयान्वितम् | ओंकार शिरसं कृत्वा जप्तव्यं सिद्धिमिच्छता || २ || स्वसंयमनमन्त्रोऽयं शतार्द्धं जपमात्रतः | अशेषारिष्टनाशः स्यादित्याह पुरसूदनः || ३ || ओं ह्रीं ह्रीं ह्रीं ओं ह्रीं क्रीं ख्रीं वा ओं क्रीं ख्रीं क्षीं ओं ठ्रीं थ्रीं फ्रीं ह्रीं कपरं चपरं चैव ठपरं तपरं तथा | पपरं वर्णमाहृत्य इकारेण सुपूजितम् | अधोरेफसमायुक्तमोंकारशिरसं तथा || ४ || मन्त्र ख्रूं छ्रं ठ्रं थ्रं फ्रं ह्रम् | वा ओं ख्रीं छ्रीं ठ्रीं थ्रीं फ्रीं ह्रीं (शुद्धम्) श्रद्धया तु महामन्त्रं ये पठन्ति सदा मुने | सर्वथा तस्य पुंसः स्यात्सर्वारिष्टविनाशनम् || ५ || ओं ख्रीं छ्रीं ठ्रीं थ्रीं फ्रीं ह्रीं (शुद्धम्) | हस्तेन रक्तपुष्पेण ग्रथितया च मालया | अभिमन्त्र्य शतेनापि दद्याद्देव्यै सदानघे || ६ || यावज्जीवं शुभं तस्य सर्वलाभो दिनेदिने | न गृहेऽनिष्टपातः स्याल्लिखित्वा स्थापनेऽपि च || ७ || अक्षराणामन्त्यवर्णांल्लिखित्वा पञ्चधाऽनघे अधोरेफसमायुक्तमोङ्कारशिरसं तथा || ८ || हकारेण च सम्पूज्यमन्ते फडक्षरं स्मृतम् | ईकारेन च सम्पूज्य अन्ते फडक्षरान्तिम् | ओं क्षीं क्षीं क्षीं क्षीं फट् || मन्त्रोऽयं मम रूपस्य ध्यान जापं तथैव च | ममैव हृदयं तस्य सदा तद्गतमानसः || ९ || ओं क्ष्रीं क्ष्रीं क्ष्रीं क्ष्रीं क्ष्रीं फट् | सदा स्यात्तद्गृहे क्षेमं सहस्रार्द्धस्य जापनात् | त्रैलोक्ये तत्समो नास्ति नित्यं फलमवाप्नुयात् || १० || जन्मान्तरे सुखी प्राणी शृणु देवि महाफलम् | नित्यं सम्पद्यते राज्ञा पत्न्या पुत्रेण बान्धवैः || ज्ञातिभिः सज्जनैश्चापि शत्रुभिश्च विशेषतः || ११ || अन्तद्वयं समागृह्यमधोरेफसमन्वितम् || १२ || ओंकारसंयुतं कृत्वा रेखाबिन्दुसमायुतम् || १३ || ओं क्षौ क्षौं | अनेनैव तु मन्त्रेण ये जपन्ति महाजनाः | ते सर्वे क्षेममायान्ति सततं तस्य जापनात् || १४ || श्वेतार्कमूलं पुष्यार्के समुद्धृत्य विधारयेत् | बाहुभ्यां व्याधयो न स्युस्त्वरिष्टानि विशेषतः || १५ || तद्दर्शनेन नश्यन्ति डाकिनीदानवादयः | तद्धूपेन पलायन्ते प्रेताद्या दूरतो ध्रुवम् || १६ || पूर्वाभाद्रपदा-ऋक्षे वन्दाकं तु शिरीषजम् | संगृह्य शिरसि क्षिप्ते ह्यभयं भवति ध्रुवम् || १७ || विष्णुक्रांताभवं मूलं हस्तस्थं चौरभीतिजित् | नरसिंहस्य मन्त्रेण सकृदुच्चरिते हरेत् | डाकिनीग्रहभूतानि तमः सूर्योदये यथा || १८ || ओं ह्रीं ह्रीं ह्रीं ह्रूं ह्रूं ह्रूं फट् स्वाहा | भूतप्रेतपिशाचादिभये स्मृत्वा नरोऽभयः | भैरवीं तु महापूर्वीं भवेदेव न संशयः || १९ || इति सर्वारिष्टविनाशार्थं रक्षाविधिः | अथ निद्राकरणम् निगडे चौरिकायां च पठेद् वारत्रयं मनुम् | सर्वे प्रहरिका यान्ति निद्राया वशमेव च || २० || मन्त्रः ओंकालकालिका महिषासुरनाशिनी योगनिद्राणी अमुकारपुरियादेवी कालिकामालायोगनिद्राणी उदयपाना || नन्दीकाल मायाधरी नागनिद्राणी या अमुकारपुरीदण्डपहरी भूपै लोटै कालिकार आज्ञा गडागडी पीठे कालिकार आज्ञा || इति लौकिकमन्त्रः | अथ निगमोक्तम् (शास्त्रोक्त) ओं ह्रीं चण्डाचण्ड उग्रचण्डारिका कालिका निद्रय निद्रय | इति मन्त्रेण महानिद्रा भवति || एतन्मन्त्रं पठित्वा तस्य गृहे वा पठित्वा धूलिंकृत्वा क्षिपेत् | ओं ह्रीं चण्डाचण्ड उग्रचण्डारिका कालिका निद्रय निद्रय | कालिका विद्या काल मोहै देवासुरनरके हो स्थिर लहै || कालिका त्रिभुवन जगत कालिकार दासी पहरि | जागंतालि निद्र गेल महि मन्द्रभे यशी | कालिकार आज्ञा निद्राली लागे उदय देषि आनिंद्रभागे || गुवाकं खादित्वा तस्यावशिष्टं विवरं कृत्वा संयोज्य तत्र प्रस्रावयेत् | तस्मिन् वाटिकायामायाति तस्यानेन मन्त्रेण निद्रां करोति || २१ || काकजंघाजटा निद्रां जनयेच्छिरसि स्थिता | मूलं वा काकमाच्याश्च कृष्णायास्तद्गुणं स्मृतम् || २२ || मुनिखण्डकशाकं वा शययास्थाने खनेदथ | करञ्जमूलं शिरसि बंधनात्कुरुते तथा || २३ || निद्राकरणमन्त्रः ओं शुद्धे शुद्धे महायोगिनि महानिद्रे स्वाहा ओं शुद्धे शुद्धे महायोगिनि महानिद्रे स्वाहा | नीलोत्पलं समरिचं नागकेशरमूलकम् | पिष्ट्वा तद्रञ्जयेच्चक्षुर्निद्रामाप्नोत्यसंशयम् || २४ || इति निद्राकरणम् | अथ निद्रानाशनम् कूष्माण्डं महिषीशृङ्गं पिष्ट्वा तत्समभागकम् | लेपयेद्दक्षिणे पृष्ठे तस्य निद्राक्षयो भवेत् || २५ || शोभाञ्जनस्य बीजानि नीलोत्पलसुपुष्पकम् | समनागेश्वरं पिष्ट्वा निद्रां मुञ्चति चाञ्जनात् || २६ || बृहतीपक्वफलकं पिष्ट्वा च मधुयष्टिभिः | यस्य नेत्रेऽञ्जनं दद्यान्निद्रा तस्य विनश्यति || २७ || कनकधत्तूरमूलं मृताभ्रकेतकीपुष्परजः | एतानि पिष्ट्वा कपटवेषेन खादयेन्निद्राभञ्जनं भवति || २८ || इति निद्रानाशनम् | अथ बन्धनमोचनम् मार्गशीर्षस्य पूर्णाया शिखिमूलं समुद्धरेत् | बन्धनान्मुच्यते तेन शिखाबद्धो न संशयः || २९ || बन्धनमोचनमन्त्रः ओं नमः कनकपिङ्गले रुद्रहृदयांशे रौद्रास्थिधारिणि तिष्ठ तिष्ठ सर सर सर्वान्मोहय सर्वान्मोहय भगवति शिखिजे तिमिरे महामाये स्वाहा || अष्टोत्तरशतं जप्त्वा शिखायां पूर्वौषधं बन्धयेत्ततः सिद्धिः | प्लक्षांशेन ककारान्तं लिखेद् बन्धनमोचनम् || ३० || ओं नमः कनकपिंगले रुद्रहृदयांशे रुद्रास्थिधारिणी तिष्ठ तिष्ठ सर सर सर्वान् मोहय मोहय भगवति शिखिजे तिमिरे महामाये स्वाहा | सुखनामा पिशाची अमुकं हन हन पच पच शीघ्रं वशमानय स्वाहा | अथ निगडादिभञ्जनम् हस्तार्के सेन्दुवारस्य मूलं चोत्तरगं हरेत् | स्पर्शनं बन्धविच्छेदं कुरुते शीघ्र मारुतः || ३१ || मांसी रक्तोत्पलं तुल्यं कृकलासे च भोजयेत् | तन्मलैर्गुटिकास्पर्शात्तालयन्त्रं भिनत्यलम् || ३२ || सुपक्वमिष्टिकां कृष्णवज्री ग्राह्यस्तु योगिभिः | सूक्ष्मचूर्णं तु तां कृत्वा लोहकिट्टमथापि वा || ३३ || सूत्रै रज्जुं दृढीकृत्य तिलतैलेन लेपितम् | तच्चूर्णं लोडितं कृत्वा महालोहं भिनत्त्यलम् || ३४ || निगडभञ्जनमंत्राः ओं नमो भगवते रुद्राय उड्डामरेश्वराय बहुरूपाय नानारूपधराय हस हस नृत्य नृत्य तुद तुद नानाकौतुकेन्द्रजालदर्शकाय ठः ठः स्वाहा | अनेन सर्वयोगाभिमन्त्रणात् सिद्धिर्भवति || ३५ || ओं नमो भगवते रुद्राय उड्डामरेश्वराय बहुरूपाय नानारूपधराय हस हस नृत्य नृत्य तुद तुद नानाकौतुकेन्द्रजालदर्शकाय ठः ठः स्वाहा | वाघवाहिनी सिंहे या कालि कालि कत्वामिका आर्यादेवी मन्त्रितोरदासरणे मन्त्रितोरदासरणे नाहिथिलशतो इदवीत्रिभुवनमातु चौसष्ठिमि निबन्धन भागि आपला चण्डाचण्डचामुण्डीचामुण्डविकटकालिकामादशन आगे अमुकाबन्धनभाङ्गिया आपलां बान्धव बान्धव थायापायेनिश्चलचौसष्ठीबननविरकाली कामाछांडे हुंकारः चौसष्ठीबन्धनकाचारंभागीभ-इलल्या इखमकालिकार आज्ञा | अथवा जा आजा देविमैचिंतोवदासरसेवानना-हिविनासन्तोम्बी देवी त्रिभुवनरणरमापाचौसृष्टिबन्धनभागी अम्बेला | चण्डाचण्डचा- मुण्डाविकट्ट- कालिकामादन आगे अमुकारबन्धभागी आंफेलावबाधवाघपायात्रनियन चौसष्ठीबन्धन मैलविरलाकालिकामाछडे हुंकार चौशठिबन्धनकाठारभाद्रिभरलक्षारस्वारकालिकार आज्ञा | अथवा ओं अग्निमुखीपिपाची अमुकं हन हन पच पच शीघ्रं मे वशमानय स्वाहा एतन्मत्र द्वयं पूर्वमष्टोत्तरशतं जप्त्वा सप्तवारं जप्ते नानाविध बन्धनच्छेदो भवति | ओं वाघ वाहिनि सिद्धे पाकादि लिका लायि | आ-आ जा देवी में चिन्तो वदा सरसे बान नाहिं विनाशं तोम्बिदेवी त्रिभुवन रणरमा पाचौ सृष्टि-बन्धन भागी आभ्पेला चण्डा चण्ड चामुण्डा विकट कालिका मादन आगे अमुकार वन धन भायी आफेला व वाघ वाघ पायात्रनि पन चौसठि बन्धनमल विरला कासिका माछडे हूंकार चौसठि बन्धन कार ठार भाद्रि भाल क्षार स्वार कालिका आज्ञा || ओं दं हुं ओं एतन्मंत्रं पठित्वा कराङ्गुल्या प्रहारे द्वारि दत्ते द्वारं मुक्तं भवति | आय आय चिञ्चिठि चिठि हांला वज्रनन्दिका कालिका || अनेन मंत्रेण श्वेतसर्षपं श्वेतोदुम्बरपुष्पं त्रिःपठित्वा प्रथमद्वारे क्षिपेत् सर्वद्वाराणि भञ्जन्ति || ३६ || इति निगडभञ्जनम् | अथ गृहक्लेशनिवारणम् तक्रपिष्टेन तालेन लेपयेत्पुत्रिकाकृतिम् | तामाघ्राय गृहाद्यान्ति मक्षिका नात्र संशयः || ३७ || श्वेतार्कदुग्धकुल्माषं तिलचूर्णसमन्वितम् | अर्कपत्रेषु विन्यस्तं मूषकान्तकरं गृहे || ३८ || तालकं छागविण्मूत्रं पलाण्डुं सह पेषयेत् | आलिप्य मूषिकं तेन जीवितं च विसर्जयेत् | तं दृष्ट्वा च गृहं त्यक्त्वा पलायन्ते हि कौतुकम् || ३९ || मार्जारस्य मलं तालं पिष्ट्वा मूषिकमालिपेत् | तमाघ्राय गृहं त्यक्त्वा सद्यो निर्यान्ति मूषिकाः || ४० || गन्धकं हरितालं च ब्राह्मीत्रिकटुसंयुतम् | छागलीमूत्रतः पिष्ट्वा पूर्ववन्मूषिकं लिपेत् || ४१ || मघायां ब्रध्नकं क्षेत्रे स्थापयेन्मधुकोद्भवम् | मक्षिकामूषकानां च जायते तुण्डबन्धनम् || ४२ || मूषकाकर्षको दीपः सावरीगुडतैलजः || ४३ || पूर्वे ब्रह्मा मे बद्धः पश्चिमे विष्णुर्मे बद्धः उत्तरे रुद्रो मे बद्धः दक्षिणे यमो मे बद्धः पाताले वासुकी मे बद्धः फणिसहस्रे बद्धः ह्रूं अङ्गुष्ठाय नमः | करसम्पुटं कृत्वा तालत्रयं दद्यात् | ततो मूषिकमशकनिवारणं भवति || ४४ || पूर्वे ब्रह्मा मे बद्धः पश्चिमे विष्णुर्मे बद्धः उत्तरे रुद्रो मे बद्धः दक्षिणे यमो मे बद्धः पाताले वासुकी मे बद्धः फणिसहस्रे बद्धः ह्रूं अङ्गुष्ठाय नमः | रोहिषतृणपुष्पं तु वर्तिमध्ये निवेशयेत् | तद्दीपदर्शनादेव क्षिप्रं नश्यन्ति मत्कुणाः || ४५ || अर्कतूलमयीवर्ति भावयेत्तावकेन च | दीपं तत्कटुतैलेन निश्शेषा यान्ति मत्कुणाः || ४६ || अर्ज्जुनस्य फलं पुष्पं लाक्षा श्रीवासगुग्गुलुम् | श्वेतापराजितामूलं भल्लातकविडङ्गकम् || ४७ || धूपं सर्जरसोपेतं प्रदेयं गृहमध्यतः | सर्पाश्च मत्कुणा मूषा गन्धाद्यांति दिशो दश || ४८ || गुडश्रीवासभल्लातविडङ्गं त्रिफलायुतम् | लाक्षारसोऽर्कपुष्पं च धूपो वृश्चिकसर्पहृत् || ४९ || मुस्तासिद्धार्थभल्लातकपिकच्छूफलं गुडम् | चूर्णं भानुफलोपेतं दहेत्सर्जरसैः समम् || ५० || मत्कुणा मशकाः सर्पा मूषिका विषकीटकाः || पलायन्ते गृहं त्यक्त्वा यथा युद्धेषु कातराः || ५१ || सर्ज्जरसः शक्रमेदोर्ज्जुनमूलमरुबककेतकनखबद्धः | एतैर्धूपो रचितः कीटभुजगमशकमक्षिकादिहरः || ५२ || राजवृक्षफलं बद्धं खट्वायां मत्कुणापहम् | लाक्षासर्ज्जरसोशीरं सर्षपः पत्रकं परम् || ५३ || सोमराजस्य वृक्षस्य पल्लवाग्रेण वर्तिकाम् | कृत्वा दीपं प्रकुर्वीत मत्कुणञ्च विनश्यति || ५४ || भल्लातकविडङ्गानि विश्वकं पुष्करं तथा | जम्बुलो मशकं हन्ति धूपाद्वा गृहमध्यतः || ५५ || इति गृहक्लेशनिवारणम् | अथ क्षेत्रोपद्रवनाशनम् अथ क्षेत्रस्य शस्यानां सर्वोपद्रवनाशनम् | वालुकाश्वेतसिद्धार्थान् प्रक्षिपेत् क्षेत्रमध्यतः || ५६ || शलभाः सर्पकीटाश्च वराहमृगमूषिकाः | मशकास्तत्र नो यान्ति मन्त्रविद्याप्रभावतः || ५७ || मन्त्रः ओं नमः सुरेभ्यः बलजः जपपरि परि परि रज परि परि मिलि स्वाहा | ओं सुरेभ्यो नमः || नमस्कृत्य इमां विद्यां प्रयोजयेत् | विद्या प्रयोजयामीति विद्या मे सिद्ध्यतु स्वाहा | अखिलजम्बूकानां मृगाणां शशकानामन्येषां प्राणिनां शलभादीनामन्येषां प्राणिनां तुण्डबन्धनं करोमीत्यत्र प्राणे कृतघ्नस्य तेन पापेन लिप्यते यत्र मन्त्रं व्यतिक्रमति स्वाहा || एतन्मन्त्रद्वयेन वालुकाभिः सह श्वेतसर्षपान्सप्तवारमभिमन्त्र्य क्षेत्रमध्ये क्षिपेत्सर्वोपद्रवो नश्यति || मूषकजम्बूकीटानां कुरुते तुण्डवेधनम् | ओं नमः सुरेभ्यः बलज जप परि परि परि रज परि परि मिलि स्वाहा ओं सुरेभ्यो नमः | विद्यां प्रयोजयामीति विद्या मे सिद्ध्यतु स्वाहा | अखिल जम्बूकानां मृगाणां शशकानामन्येषां प्राणिनां शलभादीनामन्येषां प्राणिनां तुण्डबन्धनं करोमीत्यत्र प्राणे कृतघ्नस्य तेन पापेन लिप्यते यत्र मन्त्रं व्यतिक्रमति स्वाहा | एतन्मन्त्रद्वयेन बालुकाभिः सह श्वेतसर्षपान् सप्तवारमभिमन्त्र्य क्षेत्रमध्ये क्षिपेत् सर्वोपद्रवो नश्यति | मूषजम्बूककीटानां कुरुते तुण्डवेधनम् | विद्यामङ्कुशनाथस्य मन्त्रं वा भैरवस्य च || नमोनगरनाथाय हयहरहरशिल हयहरहरशिल सर्वेषां प्राणिनां तुण्डबन्धनं कुरु कुरु ह्रुं फट् स्वाहा | उज्जयनीनगरी भैरवबोले महादेवभण्डारफूलबोले हनुमन्तसाक्षी अस्ति-अस्तु | अनेन मन्त्रेण सप्ताभिमंत्रितं चन्दनं बाटिकामध्ये निःक्षिपेत् | पुष्पफलं समस्तं निरुपद्रवं भवति || ५८ || ओं नमो नगरनाथाय हय हरहर शिलशिल सर्वेषां प्राणिनां तुण्डबन्धनं कुरु कुरु ह्रुं फट् स्वाहा | उज्जयिनीनगरी भैरव बोले महादेवभण्डार फूल बोले हनुमन्तसाक्षी अस्ति अस्तु | देवदालीं च सिद्धार्थं गुटिकां कारयेद् बुधः | क्षेत्रमध्ये तु निक्षिप्य सर्वपक्षिभयं हरेत् || ५९ || पूर्वाषाढाख्य-ऋक्षे तु वन्दां विभीतवृक्षजाम् | शस्यमध्ये क्षिपेत्तेन शस्यवृद्धिर्भवेद्ध्रुवम् || ६० || इति क्षेत्रोपद्रवनाशनम् | अथ गोमहिष्यादिदुग्धवर्द्धनम् ओं हुंकारिणीप्रसव ओं शीतलम् अनेन सप्तवारं तृणादिकमभिमन्त्र्य भोक्तुं दद्यात् तदा बहुलं दुग्धं प्रसवति || ६१ || ओं हुंकारिणीप्रसव ओं शीतलम् | इति गोमहिष्यादिदुग्धवर्धनम् | इति श्रीनित्यनाथविरचिते कामरत्ने अरिष्टनाशादिशस्योपद्रवनाशनं गोमहिष्यादिदुग्धवर्धनं नाम नवमोपदेशः || ९ || अथ दशमोपदेशः अथ उच्चाटनम् मङ्गलवारे रात्रौ श्मशानाङ्गारं कृष्णवस्त्रेण कृत्वा रक्तसूत्रेण संवेष्ट्य यस्य गृहोपरि क्षिपेत्सप्ताहाभ्यन्तरे तस्योच्चाटनं भवति || पञ्चाङ्गुलं चित्रकस्य कीलं ग्राह्यम् पुनर्वसौ सप्ताभिमन्त्रितं गेहे खनेत् | उच्चाटनं भवेत् | ओं लोहितमुखे स्वाहा अस्य अष्टोत्तरसहस्रजपेन पुरश्चरणम् || १ || भरण्यामङ्गुलैकं तु उलूकस्यास्थिकीलकम् | सप्ताभिमन्त्रितं यस्य खनेदुच्चाटनं भवेत् | मन्त्रः ओं दहदह हलहल स्वाहा || २ || काकोलूकस्य पक्षांस्तु हुत्वा ह्यष्टोत्तरं शतम् | यन्नाम्ना मन्त्रयोगेन समस्तोच्चाटनं भवेत् || ओं नमो भगवते रुद्राय दंष्ट्राकरालाय अमुकं सपुत्रबान्धवैः सह हन हन दह दह पच पच शीघ्रं उच्चाटय उच्चाटय हुं फट् स्वाहा ठः ठः || ३ || ओं दह दह हल हल स्वाहा | ओं नमो भगवते रुद्राय दंष्ट्राकाअलाय अमुकं सपुत्रबान्धवैः सह हन हन दह दह पच पच शीघ्रं उच्चाटय उच्चाटय हुं फट् स्वाहा ठः ठः || २-३ || ओं तारे तारे ओं तुरे स्वाहा लेपयेत्काकपित्तेन कीलमङ्गुलसम्भवम् | निखनेद्यस्य भवने तस्योच्चाटनं भवेत् | ओं ह्रीं दण्डिन् दण्डिन् महादण्डिन्नमोऽस्तु ते ठः ठः || ४ || ओं ह्रीं दण्डिन् दण्डिन् महादण्डिन् नमोऽस्तु ते ठः ठः || ४ || नरास्थिकीलकं द्वारे निखन्याच्चतुरंगुलम् | मन्त्रयुक्तमरेर्द्वारे सत्यमुच्चाटनं भवेत् || ओं नमो भगवते रुद्राय अमुकं गृह्ण गृह्ण पच पच त्रासय त्रासय त्रोटय त्रोटय नाशय नाशय पशुपतिराज्ञापयति ठः ठः || ५ || ओं नमो भगवते रुद्राय अमुकं गृह्ण गृह्ण पच पच त्रासय त्रासय त्रोटय त्रोटय नाशय नाशय पशुपतिराज्ञापयति ठः ठः || ५ || मृतकस्य पुरुषस्य निर्माल्यं चैलमेव च | प्रेतालयात् समागृह्य यस्य गेहे निधापयेत् || अष्टम्यां च चतुर्द्दश्यां तस्यैवोच्चाटनं भवेत् | एष योगो मया ख्यातो विना मन्त्रेण सिद्ध्यति | उद्धृते सति शान्तिर्भवति || ६ || श्वेतलाङ्गलिकामूलं स्थापयेद्यस्य वेश्मनि | निखनेत्तु भवेत्तस्य सद्यः उच्चाटनं ध्रुवम् || ७ || सिद्धार्थं शिवनिर्माल्यं यद्गेहे निखनेद् बुधः | उच्चाटनं भवेत्तस्य ह्युद्धृते तु पुनः सुखी || ८ || संगृह्य वृक्षात्काकस्य निलयं प्रदहेच्च तम् | चिताग्नौ भस्मतः शत्रोर्दत्तं शिरसि सुन्दरी || ८ || तमुच्चाटयते देवि शृणु योगमनुत्तमम् | उच्चाटनं भवेत्तस्य उद्धृते च पुनः सुखी || ९ || कीलमौदुम्बरं शिन्या मन्त्रितं चतुरङ्गुलम् | तं यस्य निखनेद् गेहे तस्यैवोच्चाटनं भवेत् || १० || ओं शिनि शिनि स्वाहा | अथ उच्चाटनप्रकारान्तरमाह उच्चाटनविधिं वक्ष्ये यथोक्तं श्रीमतोत्तरे | निम्बपत्रे लिखेन्नाम महिषाश्वपुरीषकैः | काकपक्षस्य लेखन्या लेखनीयमनन्तरम् | मन्त्रस्तु ओं काकतुण्डिधवलामुखि देवि अमुकमुच्चाटय अमुकमुच्चाटय हुं फट् स्वाहा || ११ || एतन्मन्त्रं महादेवि लिखित्वा पूर्ववस्तुभिः निम्बवृक्षस्थितं सर्वं काकगेहं खनेदथ | श्मशानवह्निमानीय धतूरकाष्ठदीपितम् | वह्निं कृत्वा महातैलैरथवा कटुवस्तुभिः | पूर्वोक्तमनुना तस्य होमयेद्विधिपूर्वकम् || १२ || ओं काकतुण्डिधवलामुखि देवि अमुकमुच्चाटय अमुकमुच्चाटय हुं फट् स्वाहा | धवलामुखीं च संपूज्य पञ्चोपचारयोगतः | तस्माद्भस्म प्रक्षिपेच्च शत्रोश्च मन्दिरोपरि | उच्चाटनं भवेत्तस्य सपुत्रपशुबान्धवैः || १३ || धवलाध्यानम् धूम्रवर्णां महादेवीं त्रिनेत्रां शशिशेखराम् | जटाजूटसमायुक्तां व्याघ्रचर्मपरिच्छदाम् | कृशाङ्गीमस्थिमालां च कर्त्रिकां च तथाम्बुजाम् || १४ || कोटाराक्षीं भीमदंष्ट्रां पातालसदृशोदराम् | स्वान्ते ध्यात्वा पूजयैद्वै योगध्यानपरो जनः | एष योगविधिः ख्यातो वीरतन्त्रे महेश्वरी || १५ || इत्युच्चाटनम् | अथ विद्वेषणम् कपिरोमहिंगुदार्वीखरचर्माणि चूर्णयेत् | तच्चूर्णं मन्त्रसंजप्तं नामकर्मविदर्भितम् | त्रिसहस्रं पुनस्तेन स्निग्धयोरन्तरात्मनोः | धूपैरतीव विद्विष्टौ स्निग्धावपि भविष्यतः || १६ || तालपत्रे लिखेन्मन्त्रं नामकर्मविदर्भितम् | कृतप्राणप्रतिष्ठान्तं प्रजप्तं त्रिसहस्रकम् | विषालिप्तं द्विधा कृत्वा निखनेत्सिन्धुरोधसि | स्निग्धयोराशु विद्वेषः स्यादुमेशानयोरपि || १७ || एकहस्ते काकपक्षमुलूकस्य तथापरे | मन्त्रयित्वा मिलित्वाग्रं कृष्णसूत्रेण बन्धयेत् || १८ || अञ्जलिं च जले चैव तर्पयेद्धस्तपक्षकैः | एवं सप्तदिनं कुर्यादष्टोत्तरशतं जपेत् | विद्वेषो जायते तत्र महाकौतुकमद्भुतम् || १९ || ओं देवदत्त यज्ञदत्तयोस्तु स्वाह | काकोलूकीये यादृशं वैरं तादृशं वैरं देवदत्त यज्ञदत्तयोर्भवतु स्वाहा | मार्जारमूषिकाविष्ठासाध्यपुत्तलिका कृता | नीलवस्त्रेण संवेष्ट्य मन्त्रयित्वा शतेन च | विद्वेषो जायते तत्र भ्रातरौ तातपुत्रकौ | मन्त्रः ओं नमो महाभैरवाय च श्मशानवासिन्यै अमुकामुकयोर्विद्वेषं कुरु कुरु क्रूं फट् || २० || ओं नमो महाभैरवाय च श्मशानवासिन्यै अमुकामुकयोर्विद्वेषं कुरु कुरु क्रूं फट् ओं नमो महाभैरवाय च श्मशानवासिन्यै अमुकामुकयोर्विद्वेषं कुरु कुरु क्रूं फट् | एकहस्ते च काकपक्षमुलूकस्य तथापरे | दर्भेण धारयेद्यत्नात् त्रिसप्ताहं जलाञ्जलिम् | रक्ताश्वमारपुष्पैकं मन्त्रयुक्तं जलाञ्जलिम् || २१ || नित्यं नित्यं प्रदातव्यमष्टोत्तरसहस्रकम् | परस्परं भवेद्द्वेषः सिद्धयोग उदाहृतः || २२ || ओं नमः कटीटनी प्रमोटनीकी गौरी गौरी अमुकस्यामुकेन सह काकोलूकादिवत् कुरु कुरु स्वाहा | इति विद्वेषणम् | अथ व्याधिकरणम् तन्निवारणं च ओं अमुकं हन हन स्वाहा अनेन मन्त्रेण कटुतैलाक्तं त्रिकटुं जुहुयात्तदा शत्रुर्बधिरो भवति || २३ || भल्लातकरसैर्गुञ्जां कुर्यादतिसुचूर्णिताम् | क्षिपेद्गात्रे भवेत्कुष्ठं सिताक्षीरं पिबेत्सुखी || २४ || ओं अमुकं हन हन स्वाहा | वानरीफलरोमाणि विषं भल्लातचूर्णकम् | गुञ्जायुतं क्षिपेद्गात्रे स्याल्लूता वेदनान्विता || उशीरं चन्दनं चैव प्रियंगु रक्तचन्दनम् | तगरं पेषयेत्तोयैर्लेपाल्लूतादिनाशनम् || २५ || इति व्याधिकरणम् | अथ ज्वरानयनम् ओं चामुण्डे हन हन दह दह पच पच मथ मथ चल्ह चल्ह अमुकं गृह्ण गृह्ण स्वाहा अनेन कटुतैलेनाक्तनिम्बपत्राणि यस्य नाम्ना हूयन्ते तस्य शीघ्रं ज्वरो भवति | चित्रकपुष्पसहस्रं हुनेत् चातुर्थिकज्वरो भवति | लवणमष्टाधिकसहस्रं हुनेत् दाहज्वरो भवति || २६ || ओं चामुण्डे हन हन दह दह पच पच अमुकं गृह्ण गृह्ण स्वाहा अनेन मन्त्रेण निम्बपत्रकटुतैलं साध्यनाम गृहीत्वा जुहुयात् स ज्वरेण गृह्यते | अनेन लवणाहुतीरष्टसहस्रं जुहुयात् स शूलेन गृह्यते || २७ || ओं चामुण्डे हन हन दह दह पच पच अमुकं गृह्ण गृह्ण स्वाहा | तेनैव वेत्रपत्रमष्टसहस्रं जुहुयात् स चतुर्थज्वरेण गृह्यते | रक्तपुष्पचित्रकरसेन यस्य नामाभिलिख्य भूर्जे | अर्कलतिकायां स्थापयेत्स दाहज्वरेण गृह्यते || मन्त्रः ओं नमः श्रीनृसिंहाय देवाय दनुजारये नमः कृष्णाय || २८ || स्नुक्पयोलेपनेनैव पानेन श्वेतकुष्ठकृत् | ताम्बूले इन्द्रगोपं च दत्त्वासौ श्वेतकुष्ठजित् | पीत्वा यत्ने यथापूर्वं भक्षेद्वा सोमराजिकाम् | ओं नमो भगवते रुद्राय उड्डामरेश्वराय अमुकं रोगेण गृह्ण गृह्ण पच पच ताडय ताडय क्लेदय क्लेदय हूं फट् स्वाहा ठः ठः उक्तयोगानामयं मन्त्रः || २९ || ओं नमः श्रीनृसिंहाय देवाय दनुजारये नमः कृष्णाय | ओं नमो भगवते रुद्राय उड्डामरेश्वराय अमुकं रोगेण गृह्ण गृह्ण पच पच ताडय ताडय क्लेदय क्लेदय हूं फट् स्वाहा ठः ठः | क्षिपेदृक्षे मृगशिरे तिन्तिकाष्ठस्य कीलकम् | पञ्चाङ्गुलं रिपोर्गेहे वह्निमान्द्यं प्रजायते || ३० || सामुद्रं लवणं वह्नि केवलं वा समुद्रजम् | बन्धक्या उदरं न्यस्तं सर्वमंतः पुटे पचेत् || ३१ || इति ज्वरानयनम् | अथाक्षिरोगजननम् करवीरार्द्रकाष्ठेन तमादाय सुचूर्णयेत् | खाने पानेऽर्पयेद्यस्य तस्य चक्षुः प्रणश्यति || ३२ || दृष्टिं स्तम्भयितुं तस्य मरिचाक्षफलं वचा || ३३ || करवीरपुष्पमष्टसहस्रमुक्तमन्त्रेण हुनेत् | अक्षिरोगो भवति || ३४ || उल्लूकमस्तकं ग्राह्यं लवणेन प्रपूरयेत् | मृत्पात्रस्थं सप्तवस्त्रमक्षकाष्ठेन चालयेत् || ३५ || ओं नमो भगवते रुद्राय उड्डामरेश्वराय अमुकं रोगेण गृह्ण गृह्ण पच पच ताडय ताडय क्लेदय क्लेदय हूं फट् स्वाहा | इति अक्षिरोगजननम् | अथ शत्रुभ्रामणम् अश्वत्थकीलमश्विन्यां यस्य गेहे दशाङ्गुलम् स्थापयेद्दिर्घयात्रा स्यात्तस्यापि न हि संशयः || ३६ || शृगालस्यास्थिकीलं च स्थाप्यं स्याच्चतुरङ्गुलम् | रिपोर्गेहे सोम-ऋक्षे दीर्घयात्रा च तस्य वै || ३७ || इति शत्रुभ्रामणम् | अथ उन्मत्तीकरणम् | तालकं धूर्तबीजं च घनचूर्णं तु भक्षयेत् | दत्त्वोन्मत्तो भवेच्छत्रुः सिताक्षीरैः पुनः सुखी || ३८ || तालकं लशुनं मूर्ध्नि क्षिप्तं यस्य पिशाचकृत् | सुरामांससिताक्षीरं भक्षणाच्च सुखावहम् || ३९ || मध्वाज्याभ्यां स्वर्णमाक्षीं पिष्ट्वा तत्कृतकज्जलम् | दत्तं यस्याञ्जनं नेत्रे उन्मत्तोऽसौ प्रजायते || ४० || गोघृतं सैन्धवं तुल्यं वराहस्य तु पित्तकम् | अजाक्षीरेण संयोज्यं पानेनोन्मत्तनाशनम् || ४१ || मयूरपारावतकुक्कुटानां ग्राह्य पुरीषं कनकं च तालम् | तन्मूर्ध्नि दत्तं कुरुते पिशाचवन्निवर्त्तते मुण्डितमस्तकेन || ४२ || गुडं करञ्जबीजं च घनचूर्णं समंसमस् | फलस्यान्ते प्रदातव्यमुन्मत्तो भक्षणाद् भवेत् || ४३ || शर्कराशतपुष्पाज्यक्षीरपाने सुखावहम् || ओं नमः उन्मत्तकारिणी विद्ये ठः ठः | उक्तयोगानामयमेव मन्त्रः || ४४ || ओं नमः उन्मत्तकारिणी विद्ये ठः ठः | इति उन्मत्तीकरणम् | अथ मारणम् नरास्थिकीलकं पुष्ये गृह्णीयाच्चतुरङ्गुलम् | निखनेद्यस्य गेहे तु भवेत्तस्य कुलक्षयः || ४५ || ओं ह्रूं ह्रीं फट् स्वाहा | अश्वास्थिकीलमश्विन्यां निखनेच्चतुरङ्गुलम् | शत्रुगेहे निहन्त्याशु कुटुम्बं वैरिणां कुलम् || हुं हुं फट् स्वाहा सप्ताभिमन्त्रितं शत्रुगेहे निखनेत् कुलक्षयं याति || ४६ || ओं ह्रूं ह्रीं फट् स्वाहा | ओं हुं हुं फट् स्वाहा | ओं डं डां डिं डीं डुं डूं डें डैं डों डौं डं डः अमुकं गृह्ण गृह्ण हुं हुं ठः ठः अनेन नरास्थिकीलकं सहस्राभिमन्त्रितं चितामध्ये निखनेत् स ज्वरेण नश्यति || ओं णं णां णिं णीं णुं णूं णें णैं णों णौं णं णः ठः ठः ओं सुरेश्वराय स्वाहा सर्पास्थ्यङ्गुलमेकं तु चाश्लेषाया रिपोर्गृहे | निखनेत्सप्तधा जप्तं मारयेद्रिपुसन्ततिम् || ४७ || ओं सीं शोषणे स्वाहा निम्बषड्बिन्दुकौ ग्राह्यौ विषं त्वग्वानरीफले | एतच्चूर्णं प्रदातव्यं शत्रुशययासनादिषु | जायन्ते स्फोटकास्तीव्रा दशाहान्मरणं भवेत् || ४८ || ओं सुरेश्वराय स्वाहा | स्नानभूमूत्र भूमृत्स्नां सर्पवक्रे विनिःक्षिपेत् || ४९ || वेष्टयेत्कृष्णसूत्रेण मार्गमध्ये ह्यधोमुखम् || निखनेन्म्रियते शत्रुस्समुत्थाने सुखी भवेत् || ५० || वामदन्तं कुलीरस्य ह्यधोभागस्य चाहरेत् | शराग्रे फलकं कुर्याद्धनुषश्चित्रकेन्धनैः || ५१ || गवां शिरागुणं कृत्वा शत्रुं कुर्याच्च मृन्मयम् | तद्वज्जातेन बाणेन म्रियते तत्क्षणाद्रिपुः || ५२ || आर्द्रायां निम्बवन्दाकं शत्रोः शयनमन्दिरे | निखनेन्म्रियते शत्रुरुद्धृते च पुनः सुखी || ५३ || तथा शिरीषवन्दाकं पूर्वोक्तेनोडुना हरेत् | शत्रोर्गेहे स्थापयित्वा रिपोर्नाशो भविष्यति || ५४ || कृष्णवृषभरक्तेन गङ्गामृत्तिकया सह | तिलकं भालदेशे च कृत्वा सम्भावयेत्तु यम् | विद्धः स्यात्तत्क्षणादेव प्रोञ्छिते च शुभं भवेत् || ५५ || कृष्णछागाश्वपादस्य खुरस्थं रोमकं हरेत् || ५६ || कृष्णकुक्कुटकाकस्य ग्राह्यं पक्षचतुष्टयम् | सर्वं दग्ध्वा तु भाण्डान्तस्तद्भस्म जलसंयुतम् || ५७ || ललाटे तिलकं कृत्वा वामहस्तकनिष्ठया | यं शिरो नम्यते तस्य वेधो भवति निश्चितम् || ५८ || ऊर्णनाभिश्च षड्बिन्दुः समांशं कृष्णवृश्चिकम् | यस्याङ्गे तत्क्षिपेच्चूर्णं सप्ताहात्स्फोटकं भवेत् | मयूरपुच्छनीलाब्जं पिष्ट्वा लेपैः सुखावहम् || ५९ || रिपुविष्ठां वृश्चिकं च खनित्वा भुवि निःक्षिपेत् || ६० || आच्छाद्य प्रावरेणाथ तत्पृष्ठे मृत्तिकां क्षिपेत् | म्रियते मलरोधेन उद्धृते च पुनः सुखी || ६१ || ओं ह्रीं क्षः अमुकं क्षम् | अनेन मन्त्रेण राजिकालवणशिवनिर्माल्यानि कटुतैलेन सहस्रहोमात् शत्रोर्वधः || ६२ || ओं ह्रीं क्षः अमुकं क्षम् | इति मारणम् | अथ अश्वनाशनम् कृष्णजीरकचूर्णेन अञ्जिताश्वो न पश्यति | तक्रेण क्षालयेच्चक्षुः सुस्थो भवति घोटकः || ६३ || घ्राणे छुछुन्दरीचूर्णं दत्ते पतति घोटकः सुस्थश्चन्दनपानेन नस्यं प्राप्य न संशयः || ६४ || अश्वास्थिकीलमश्विन्यां कुर्यात्सप्तांगुलं पुनः | निखनेदश्वशालायां मारयत्येव घोटाकान् || ६५ || भरण्यामुक्तमन्त्रेण चितिकाष्ठस्य कीलकम् | अष्टांगुलं तु निखनेदश्वशाला विनश्यति || ६६ || मन्त्रः ओं नमो भगवते रुद्राय ओं अश्वान् हन हन स्वाहा | ओं पच पच स्वाहा | ओं नमो भगवते रुद्राय ओं अश्वान् हन हन स्वाहा ओं पच पच स्वाहा | इति अश्वनाशनम् | अथ सस्यनाशनम् पुनर्वसौ चित्यकाष्ठकीलकं त्र्यंगुलं क्षिपेत् | शताभिमन्त्रितं क्षेत्रे सस्यं तत्र विनश्यति || ६७ || ओं लोहितमुखे स्वाहा | आर्द्रायां निःक्षिपेत्कीलं भल्लूकस्यास्थिसम्भवम् | क्षेत्रमध्ये तदा शत्रोः शस्यं सर्वं विनश्यति || ६८ || ओं लोहितमुखे स्वाहा विशाखायां कालिकाष्ठकीलमष्टांगुलं क्षिपेत् | कदलीवाटिकामध्ये नाशयेत्कदली फलम् || ६९ || इति सस्यनाशनम् | अथ रजकस्यवस्त्रनाशनम् पूर्वाफाल्गुनिनक्षत्रे जातिकाष्ठस्य कीलकम् | अष्टांगुलप्रमाणं तु निखनेद्रजकस्थले | शताभिमन्त्रितं तेन तस्य वस्त्राणि नाशयेत् || ७० || ओं कुम्भं स्वाहा | इति रजकस्यवस्त्रनाशनम् | अथ धीवरस्य मत्स्यनाशनम् संग्राह्य पूर्वफाल्गुन्यां बदरीकाष्ठकीलकम् | अष्टांगुलं च निखनेन्नाशयेद्धीवरे गृहे || ७१ || ओं जले स्वाहा || ओं मत्स्यिका स्वाहा || मन्त्रद्वयस्य तुल्यं फलम् | सप्तांगुलं मघा-ऋक्षे भल्लातं काष्ठकीलकम् || ७२ || गृहीत्वा दाशगेहे तु देयं मत्स्यान् विनाशयेत् | कृत्तिकायामर्ककाष्ठकीलकं त्र्यंगुलं क्षिपेत् | शत्रोर्वापीह्रदादौ च मत्स्यस्तत्र विनश्यति || ७३ || इति धीवरस्य मत्स्यनाशनम् | अथ कुम्भकारस्य भाण्डनाशनम् हस्ते वै त्र्यंगुलं कीलं करवीरस्य काष्ठजम् | निखनेत्कुम्भकारस्य शालायां भाण्डनाशकृत् || ७४ || पञ्चांगुलं निम्बकीलं तदृक्षे पूर्ववत्फलम् || ७५ || गोक्षुरं मेषशृङ्गं च बीजं वा कोकिलाक्षकम् | शूकरस्य मलं वाथ मूलं वा श्वेतगुञ्जकम् | पाकस्थाने तु भाण्डानां क्षिप्तं स्फोटयते ध्रुवम् || ७६ || तालं करञ्जबीजं च टङ्कणेन समन्वितम् | कृत्वा भाण्डारस्फुटंत्येव मुक्तानां मन्त्र उच्यते || ७७ || ओं मद मद स्वाहा || ओं गुरु हर स्वाहा अथवा ओं दमन्य दमन्य स्वाहा मन्त्रत्रयस्यतुल्यं फलम् || इति कुम्भकारस्य भाण्डनाशनम् | अथ तैलिकस्य तैलनाशनम् मधुकस्य तु कीलं तु चित्रायां चतुरंगुलम् | निखनेत्तैलशालायां तैलं तत्र विनश्यति || ७८ || ओं दह दह स्वाहा सहस्रजपः || भल्लातकाष्ठं चित्रायां निखनेत्तैलिके गृहे | अष्टांगुलं तदा तत्र ग्राहको नहि गच्छति || ७९ || इति तैलिकस्य तैलनाशनम् | अथ गोपानां गवांक्षीरनाशनम् निक्षिपेदनुराधायां जम्बुकाष्ठस्य कीलकम् | अष्टांगुलं गोपगेहे गोदुग्धं च विनश्यति || ८० || इति गोपानां गवांक्षीरनाशनम् | अथ ताम्बूलपर्णनाशनम् नवांगुलं पूगकाष्ठकीलकं निक्षिपेद् गृहे | ताम्बूलिकस्य क्षेत्रे वा ऋक्षे शतभिषाह्वये | तदा तस्य च ताम्बूलं नाशमायाति निश्चितम् || ८१ || इति ताम्बूलपर्णनाशनम् | अथ शाकनाशनम् गन्धकं चूर्णकं तत्र क्षिपेज्जलयुतेन वै | नश्यन्ति सर्वशाकानि शेषाण्यल्पबलानि च || ८२ || इति शाकनाशनम् | अथ तन्तुवायस्य सूत्रनाशनम् अश्विन्यां जाम्बिरं काष्ठं तन्तुवायगृहे क्षिपेत् | द्वादशांगुलमानं तु सूत्रं तत्र विनश्यति || ८३ || इति तन्तुवायस्य सूत्रनाशनम् | अथ शौण्डिकस्य मदिरानाशनम् कृत्तिकायामर्ककाष्ठं षोडशांगुलकं क्षिपेत् | शौण्डिकस्य च गेहे च मदिरा तत्र नश्यति || ८४ || इति शौण्डिकस्य मदिरानाशनम् | अथ कर्मकारस्य लौहनाशनम् रोहिण्यां बदरीकाष्ठं कीलमेकादशांगुलम् | कर्मकारगृहे क्षिप्तं लोहं तप्तं भवेन्नहि || ८५ || इति कर्मकारस्य लौहनाशनम् | शरीरवेधमोचनमंत्रः अत्र पारीशसम्भ्रमणकाय वेधच्छेदकज्ञानविज्ञान ना फूटै | अमुकारकायं हूंकलिका- चण्डीतु-इमारेमशिलपाथरपडे अमुकारगामे नारससमारै पुत्रीमारौं तारक-उलटावेधे विरूपाक्षरिवानी उलटावेधे पित्र पानी जे मोर पिडे करे घा-उलटावेधे ताककतातुजी खा फोटफोकटण्डीविरूपाक्षेर आज्ञा वारत्रयं पठित्वा प्रतिप्रातः त्रिगण्डूषजलं पेयम् यदि केनापि विद्धं स्यात् शरीरं तदैव तेन कार्यमिति || ८६ || मंत्र अमु पानीरा शम्भुकाय वेध छेदक ज्ञानविज्ञान ना फूटै अमुकारकायं हूं कालिका चंडीतु इमोरमा शिल पाथरपडे अमुकार गामे नार- ससमारै पुत्री मारौं तारक उलटा वेधे विरूपाक्ष रिबानी उलटावेधे पित्र पानी जे मोर पिण्डे करे | घा-उलटा वेधे ताक ताकतुजी खा फोट फोट डण्डी विरूपाक्षेर आज्ञा | इति श्रीनित्यनाथविरचिते कामरत्ने उच्चाटनादि कर्मकारलौहनाशनं नाम दशमोपदेशः || १० || एकादशोपदेशः अथ विविधकौतुकम् शिखिनस्तु शिखाचूर्णं भोजयेद्दिनसप्तकम् | तद्विष्ठालिप्तहस्तस्य द्रव्यं लुप्यति तत्क्षणात् || १ || सप्ताहं तिलतैलेन भावयेदातपे खरे | अङ्कोलिबीजचूर्णं तु योज्यं पेष्यं पुनः पुनः || २ || तत्तैलं ग्राहयेद्यत्नात्तैलकारस्य यन्त्रतः | अथवा कांस्यपात्रे द्वे तेन कल्केन लेपयेत् || ३ || उत्थाप्य स्थापयेद्घर्मे सम्मुखन्तु परस्परम् | तयोरधः कांस्यपात्रे पतितं तैलमाहरेत् || ४ || इदमेवाङ्गुलीतैलं विद्धं सर्वत्र योजयेत् | लिप्तमङ्गुलितैलेन मण्डितं तत्क्षणाद्दिशेत् | सफलो जायते वृक्षस्तत्क्षणान्नात्र संशयः || ५ || पद्मिनीबीजचूर्णं तु भव्यमङ्गुलितैलतः | न्यस्तं जले महाश्चर्यस्तत्क्षणात्पद्मसम्भवः || ६ || यानि कानि च बीजानि जलजस्थलजानि च | अङ्गुलीतैललिप्तानि तानि तान्युद्भवन्ति च || ७ || यत्किञ्चित्काण्डमूलोत्थं पत्रपुष्पफलादिकम् | अङ्गुलीतैललिप्तं तु तुल्यरूपं भवेद् ध्रुवम् || ८ || गुञ्जाफलाम्बुपिष्टं च लेपयेत्पादुकाद्वयम् | विना क्लेशं नरो गच्छेत् क्रोशमेकं न संशयः || ९ || लघु दारुमयं पीठं गुञ्जापिष्टेन लेपयेत् | शुष्कमन्तर्जलैः सार्द्धमुपविष्टं न मज्जति || १० || गुञ्जाबीजं त्वचोन्मुक्तं चूर्णं भाव्यं नृमूत्रकैः | सप्तवारं ततः काष्ठं लिप्तमङ्गुलिसम्भवम् || ११ || तैलमादाय तल्लिप्तं पूर्ववत्पादुकागतिः || १२ || वर्तिस्सर्ज्जरसैः पूर्णा तैललिप्ता जले स्थिता | ज्वालिता दीपवर्तिस्तु ज्वलत्येव न संशयः || १३ || कटुतुम्ब्युत्थतैलेन पारावतचटोद्भवम् | मलं च शिखिमूलं च पेषितं गर्दभास्थिनाम् || १४ || ललाटे तिलकं तेन कृत्वा संदृश्यते पुनः | दशास्यो नात्र सन्देहो यथा लङ्केश्वरो नृपः || १५ || शिग्रुबीजोत्थितं तैलं पारावतपुरीषकम् | वराहस्य वसायुक्तं शिखिमूलं समं समम् || १६ || ललाटे तिलकं तेन यः करोति स वै जनः | दृश्यते पञ्चवक्रोऽसौ यथा साक्षान्महेश्वरः || १७ || रात्रौ कृष्णचतुर्दश्यां मयूरास्ये विनिःक्षिपेत् | भृङ्गीबीजमदः कृष्णां कृष्णभूमौनिवापयेत् || १८ || तज्जातभार्ङ्गीं संगृह्य तया कुर्यात्तु रज्जुकम् | तद्रज्जुबद्धः पुरुषो मयूरो दृश्यते जनैः || १९ || तद्योगे कृष्णमार्जारवक्रे वैरण्डबीजकम् | तज्जातैरण्डबीजानामेकवक्रेण धारयेत् | तं प्रपश्यन्ति मार्जारं मनुष्या नात्र संशयः || २० || शृगालश्वानमेषांश्च यद्दिने वापयेत्पृथक् | मयूरास्ये यथा भार्ङ्गी याति सिद्धिश्च तादृशी || २१ || रक्तगुञ्जाफलं वाप्यं स्त्रीकपालेऽथ सेचयेत् | जातं फलं क्षिपेद्वक्रे स्त्रीरूपो दृश्यते पुमान् || २२ || नरादिसर्वजन्तूनां ग्राह्यं सद्योहतं शिरः | तच्च कृष्णचतुर्दश्यां सर्वबीजान्वितं वपेत् || २३ || भृङ्गीधत्तूरबीजानि गुञ्जानीवैकसंयुतम् | निखनेत्कृष्णभूम्यां तु बलिपूजासमन्वितम् || २४ || सेचयेत्फलपर्यन्तं यावद्वीजानि चाहरेत् | तत्तद्बीजे कृते वक्रे तत्तद्रूपं भवेद् ध्रुवम् || २५ || इत्येवं कौतुकं लोके नानारूपस्य दर्शनम् | मुक्तबीजो भवेत्स्वस्थो नात्र कार्या विचारणा || २६ || हरितालं शिलाचूर्णमंगुलीतैलभावितम् | तल्लिप्तवस्त्रं शिरसि स्थितं पश्यति वह्निवत् || २७ || तथैव वाङ्कोलतैलेन स्फुरत्येव न संशयः || २८ || सिन्दूरं गन्धकं तालं समं पिष्ट्वा मनश्शिलाम् | तल्लिप्तवस्त्रधृक् चासौ रात्रौ संदृश्यतेऽग्निवत् || २९ || दूरेऽपि स्थितलोकैश्च रात्रौ तु कौतुकं महत् | खद्योतभूलताचूर्णे ललाटे तिलके कृते | रात्रौ संदृश्यते ज्योतिस्तस्मिन्स्थाने तु कौतुकम् || ३० || मुनिपुष्परसैः पुष्पैर्घृष्ट्वा श्वेताञ्जनं ततः | अञ्जिताक्षो नरः पश्येन्मध्याह्ने तारकामयम् || ३१ || वाप्यं वार्त्ताकुबीजं च नृकपाले मृदा सह || ३२ || तज्जातबीजमूलं वा मुखं प्रक्षिप्य मानवः | शतयोजनपर्यन्तं पश्येत्सर्वं यथान्तिकम् || ३३ || वारि मक्षिकया सार्धं तज्जलं यस्य भक्षणे | दीयते निःसरेत्तस्य ह्यधोवायौ तु कौतुकम् || ३४ || अनेन सर्वयोगानामभिमन्त्रणे सिद्धिः अष्टोत्तरशतजपेनपुरश्चरणम् || ३५ || ओं नमो भगवते रुद्राय उड्डामरेश्वराय बहुरूपाय नानारूपधराय हस हस नृत्य नृत्य तुद तुद नानाकौतुकेन्द्रजालदर्शकाय ठः ठः स्वाहा || इति विविधकौतुकम् | अथ खड्गस्तम्भनम् सिद्धि + वस्तु सुमति मोहरमाचान्द्र सुरज मोहोवरभा-ई मोहो वरं आगे कोप खाण्डा फूटै रक्षाकर देवी कालिका चण्डी आ-ई चान्दसुरज तुजि मलेमुजि फूटै रामेर आज्ञा सिद्धि | अनेन वारत्रयाभिमन्त्रितम् धूलिना प्रोक्षिते गात्रे कृपाणधारा रेखा भवति नान्यथा || ३६ || इति श्रीनित्यनाथविरचिते कामरत्ने विविध कौतुकंनामैकादशोपदेशः || ११ || द्वादशोपदेशः अथ काम्यसिद्धिः पुष्यार्के तु समागृह्य मूलं श्वेतार्कसम्भवम् | अङ्गुष्ठप्रमितां तस्य प्रतिमां तु प्रपूजयेत् || १ || गणनाथस्वरूपां च भक्त्या रक्ताश्वमारजैः कुसुमैश्चापि गन्धाद्यैर्हविष्याशी जितेन्द्रियः || २ || पूजयेन्नाममन्त्रैश्च तद्वीजानि नमोऽन्तकैः | यान्यान्प्रार्थयते कामान्मासैकेन तु लभ्यते || ३ || प्रत्येकं काम्यसिद्ध्यर्थं मासमेकं प्रपूजयेत् || ४ || गणेशबीजमाह | पञ्चान्तकं ओं अन्तरिक्षायस्वाहा | अनेन पूजयेत् | पञ्चान्तकं गणेशशशिधरं बीजं गणपतेर्विदुः | ओं ह्रीं पूर्वदयां ओं ह्रीं फट् स्वाहा | अनेन मन्त्रेण रक्ताश्वमारपुष्पाणि घृतक्षौद्रयुतानि जुहुयात् वाञ्छितं ददाति || ओं ह्रीं श्रीं मानसेसिद्धिकरि ह्रीं नमः | अनेन मन्त्रेण रक्तकुसुममेकं जपित्वा नद्यां क्षिपेत् | एवं लक्षं जपेत्ततो भगवती वरदा अष्टगुणानामेकं गुणं ददाति | इति काम्यसिद्धिः | अथ वाक् सिद्धिः कृत्तिकायां स्नुहीवृक्षवन्दाकं धारयेत्करे | वाक्यसिद्धिर्भवेत्तस्य महाश्चर्यमिदं स्मृतम् || ५ || मन्त्रेण ग्राहयेत्स्वातीनक्षत्रे बदरीभवम् | वन्दाकं तत्करे धृत्वा यद्वस्तु प्रार्थ्यते नरैः || ६ || तत्क्षणात्प्राप्यते सर्वं मन्त्रमत्रैव कथ्यते || ७ || ओं अन्तरिक्षाय स्वाहा || इति वाक् सिद्धिः | अथ गुप्तधनगुप्तवेशचौरादिप्रकाशनम् धनानि यत्र वा सन्ति ये वा चौरादिकास्तथा | गुप्तवेषा महात्मानो गन्धर्वां यक्षिणीश्वराः || ८ || जन्तुर्धातुश्च वृक्षाद्या मर्त्यलोके स्थिता ध्रुवम् | प्रकाशं जायते सर्वं तच्छृणुष्व समाहिता || ९ || वन्दा शाखोटचूतस्था गोक्षुरं लवणं पदम् | अजाक्षीरेण संपेष्य ललाटे तिलके कृते | गुप्ता प्रकाशमायान्ति तत्क्षणान्नात्र संशयः || १० || आश्लेषायां शनेर्वारे सायं दाडिमबीजकम् | रसं संगृह्य तुवरीं कृष्णाष्टम्यां तु भूमिजे | पद्ममूलं मङ्गलेऽहन्यञ्जनं कारयेत्सुधीः | प्रकाशं पूर्ववत्सर्वं जायते नात्र संशयः || ११ || इति गुप्तधनगुप्तवेशचौरादिप्रकाशनम् | अथ धनुर्विद्या इन्द्रेण पुरार्जुनं प्रति या विद्या कथिता सा सप्तविंशत्यक्षरा- ओं कालायुता रक्ताघोरा ओंकार शतगुण आधारे एकादशशतसहस्र इन्द्र आज्ञा | एतन्मन्त्रेण शरं धृत्वा नवधा पठित्वा आकर्णपूरितेधनुषि शरं मेलयेत् | सहस्रधा भवति | कलौ दशधा | महादेवेन इन्द्रं प्रति या कथिता सा सप्तदशाक्षरा | चान्द्रधनुर्गुणरेखा काण्डब्रह्मज्ञान ओं ओं ओं एतन्मन्त्रं पठित्वा पञ्चवारं तदा क्षिपेत्पूर्ववद्भवति || १२ || कालायुता रक्ताघोरा ओंकार शतगुण आधारे एकादशशत सहस्र इन्द्र आज्ञा | चान्द्रधनुर्गुणरेखाकाण्ड ब्रह्मज्ञान ओं ओं ओं | सर्पैः कवलितं भेकमर्धमात्रं समुद्धरेत् | छित्त्वा सर्पस्य मुण्डं च आतपे शोषयेत्पृथक् || १३ || पिष्ट्वा पृथग्वटी कार्या लक्ष्यलाभप्रदा स्मृता | लक्ष्ये तु भेकतिलकं शराग्रे सर्पमुण्डजम् || १४ || दत्त्वा तिलकमाकर्णं गुणं धनुषि वेधयेत् | लक्ष्यस्य तिलकं बाणो विन्दत्येव न संशयः || १५ || ओं रक्ते धनुरक्ते काण्डरक्ते हलिजा मा मारो अमुकार अमुक-आंग आमुकटा-ई मारो त्रिदशदेवगणरुद्रासाक्षी अमुकार मारो देवेन राखी अर्जुन कृष्णभवानीर आज्ञा || एतन्मन्त्रं पठित्वा यस्य यदङ्गे मारयेत्तदङ्गं विध्यति | किन्तु प्रथमपरीक्षायां शनिमङ्गलाहनि मृतस्य ब्राह्मणस्य वंशमानीय धनुः काण्डं सज्जीकृत्वा तत्प्रमाणं गुणं दत्त्वा तत्र तत्समये वा पुष्पहारमेकं दत्त्वा मुष्टिस्थाने हंसजीवमेकं भञ्जयित्वा एकनारिकेलजलेन प्रक्षाल्य काण्डत्रयेण लक्ष्यं विद्ध्वा साधयेत् | यदा द्रुतं धनुःकाण्डेन लक्ष्यं शत्रोरङ्गसमीपे वेधयेत्तदा वृथा न स्यात् || ओं रक्ते धनुरक्ते काण्डरक्ते हलिजा मा मारो अमुकार अमुक-आंग आमुकटा-ई मारों त्रिदशदेवगणरुद्रासाक्षी अमुकार मारो देवेन राखी अर्जुन कृष्णभवानीर आज्ञा || इति धनुर्विद्या | अथ धनधान्याक्षयकरणम् ऋक्षे च पूर्वफाल्गुन्यां दाडिमीवृक्षसम्भवम् | वृक्षादनी धने देयमक्षये भवति ध्रुवम् | वन्दाकं तु मघा-ऋक्षं बहुवारकवृक्षजम् | धान्यागारे प्रदातव्यमक्षयं भवति ध्रुवम् || १६ || शेफालिकायां वन्दाकं हस्तर्क्षे च समुद्धरेत् | धान्यमध्ये तु संस्थाप्यं तद्धान्यमक्षयं भवेत् || १७ || भरण्यां कुशलवन्दाकं गृहीत्वा स्थापयेद् बुधः | सम्पूर्णं धनधान्यान्तस्थः करोत्यक्षयं ध्रुवम् || १८ || उदुम्बरस्य वन्दाकं रोहिण्यां ग्राहयेद् बुधः | स्थापयेत्संचितार्थं तु सदा भवति चाक्षयम् | मन्त्रेण मन्त्रितं कृत्वा मंत्रोप्यत्रैव कथ्यते | ओं नमो धनदाय स्वाहा || १९ || इति धनधान्याक्षयकरणम् | अथ श्रुतिधरविद्यादिकरणम् पथ्या पाठा कणा शुण्ठी सैन्धवं मरिचं वचा | शिग्रु प्रतिपलं चूर्णं द्वात्रिंशतिपलं घृतम् || २० || घृताच्चतुर्गुणं क्षीरं दत्त्वा सर्वं विपाचयेत् | घृतशेषं समुत्तार्यय लिहेद् वाग्बुद्धिदायकम् || २१ || अथ ब्राह्मीघृतम् वचा ब्राह्मी फलं कुष्ठं सैन्धवं तिलपुष्पिका | चूर्णयित्वा द्रवैर्भाव्यं मण्डूकीब्राह्मिसम्भवैः || २२ || दिनमेकं ततः पाच्यं कल्काच्चतुर्गुणं घृतम् | घृताच्चतुर्गुणं देयं क्षीरं ब्राह्मीनियोजितम् | घृतशेषं समुत्तार्य लिहेद्वाग्बुद्धिदायकम् || २३ || इति ब्राह्मीघृतम् | द्वे हरिद्रे वचा कुष्ठं पिप्पली विश्वभेषजम् | अजाजी चाजमोदा च यष्टीमधुकसंयुतम् || २४ || एतानि समभागानि शुष्कचूर्णानि कारयेत् | तच्चूर्णं सर्पिषा लेह्यं कर्षैकं वाक्यशुद्धिकृत् | भक्षयेन्मासमेकं तु बृहस्पतिसमो भवेत् || २५ || ब्राह्मी मुण्डी वचा शुण्ठी पिप्पली समचूर्णकम् | मधुना भक्षयेत्कर्षं स्पष्टवाग्जायते ध्रुवम् || २६ || वचास्थि कारवी गुन्द्रा मुशली मधुकं बला | अपामार्गस्य पञ्चाङ्गं क्षौद्रेण पूर्ववत्फलम् || २७ || अपामार्गवचाशुण्ठी विडङ्गं शङ्खपुष्पिका | शतावरी गुडूची च समं चूर्णं हरीतकी | घृतेन भक्षयेत्कर्षं नित्यं ग्रन्थसहस्रधृक् || २८ || अश्वगन्धाजमोदा च पाठा कुष्ठं कटुत्रयम् || २९ || शतपुष्पी विश्वबीजं सैन्धवं च समं समम् | एतदर्द्धं वचा चैव चूर्णितं मधुसर्पिषा || ३० || भक्षयेत्कर्षमात्रं तु जीर्णान्ते क्षीरभोजनम् | सहस्रग्रन्थधारी स्यान्मूकोऽपि वाक्पतिर्भवेत् || ३१ || लिहेज्ज्योतिष्मतीतैलं बलया वचया सह | स्तोकं स्तोकं क्रमेणैव यावन्निष्कचतुष्टयम् || निर्वाते मधुसेवी स्याद्ब्रह्मचारी कविर्भवेत् || ३२ || सूर्यस्य ग्रहणे वेन्दोः समन्त्रामाहरेद्वचाम् | चूर्णितां सघृतां भुक्त्वा सप्ताहे वाक्पतिर्भवेत् || ३३ || इत्येवमादि योगानां मन्त्रराजः शिवोदितः | जप्त्वायुतं च सिद्धिः स्यात्पश्चात्तैरेव भक्षयेत् || ३४ || ओं ह्रूं हयशीर्षवागीश्वराय नमः | धात्रीफलरसैर्भाव्यं वचाचूर्णं दिनावधि | घृतेन लेहयेन्निष्कं वाक्शुद्धिस्मृतिबुद्धिकृत् || ३५ || ओं ह्रूं हयशीर्षवागीश्वराय नमः | वचाचूर्णं क्षिपेत्क्षीरे पुनर्मन्त्रेण मन्त्रितम् | भोज्यं क्षीरेण शाल्यन्नं सप्ताहे वाक्पतिर्भवेत् || ३६ || सप्तमे अष्टमे चैव साक्षाच्छुतिधरो भवेत् | वचाचूर्णं पीबेत्क्षीरैर्घृतैः क्षोद्रैश्च यत्पुनः | सप्ताहक्रमयोगेन लेह्यं स्यात्पूर्ववत्फलम् || ३७ || पुष्यार्कयोगे संगृह्य श्वेतार्कस्य तु मूलकम् | छायाशुष्कं च तच्चूर्णं मन्त्रेणैवाभिमंत्रितम् || ३८ || कर्षमर्द्धं पलं वापि प्रातरुत्थाय संपिबेत् | ओं महेश्वराय नमः अनेन मन्त्रेणाभिमन्त्र्य पिबेत् || तक्रेण सर्पिषा वापि जीर्णान्ते क्षीरभोजनम् || ३९ || एवं सप्ताहमात्रेण कविर्भवति बालकः || ४० || इति श्रुतिधरविद्यादिकरणम् | अथ किन्नरीकरणम् हरिद्रा च वचा कुष्ठं पिप्पली च यवानिका | मरिचं सैन्धवं शुण्ठी चैषां चूर्णं तु कारयेत् | मधुना सहितं चूर्णं पेषयित्वा शिलातले || ४१ || दिनैश्च सप्तभिश्चैव भक्षितव्यं निरन्तरम् | जायते सुस्वरः पुंसां किन्नरैः सह गीयते || ४२ || विभीतकं कणा शुण्ठी सैन्धवं त्वक्समं समम् | गोमूत्रेण पिबेत्कर्षं किन्नरैः सह गीयते || ४३ || जातीपत्रं कणा लाजा मातुलुङ्गदलं मधु | पलं लेह्यं भवेन्नादः किन्नराधिक एव च || ४४ || देवदारुकणाव्योषं शताह्वा पत्रकं निशा | वचा सैन्धवशिग्रूत्थं मूलं पेष्यं समं समम् || ४५ || कर्षैकं मधुसर्पिर्भ्यां मासमात्रं सदा लिहेत् || कण्ठशुद्धिर्भवेत्तस्य किन्नरैः सह गीयते || ४६ || शुण्ठी च शर्करा चैव क्षौद्रेणसह संयुता | कोकिलस्वर एव स्याद्गुटिकाभुक्तिमात्रतः || ४७ || आर्द्रकं भृङ्गकोरण्टवासा ब्राह्मी वचा तथा | वचा चूर्णं समांशेन पलैकं वारिणा पिबेत् || ४८ || मासि मासि चतुर्दश्यां कृष्णपक्षे द्विसप्तकम् | गन्धर्वसदृशं गानं कोकिलानां स्वरो यथा || ४९ || निर्गुण्डीमूलचूर्णं तु तिलतैलेन यो लिहेत् | कण्ठशुद्धिर्भवेत्तस्य किन्नरैः सह गीयते || ५० || बिभीतकं कणा शुण्ठी सैन्धवं त्वक् समं समम् | गोमूत्रेण पिबेत् कर्ष किन्नरैः सह गीयते || ५१ || इति किन्नरीकरणम् | अथ चक्षुष्यनिर्मलीकरणम् वर्षाकाले काकमाची समूला तैलपाचिता | खादेत्समासतश्चक्षुर्गृध्रदृष्टिसमं भवेत् || ५२ || श्वेतं पुनर्नवामूलं घृतघृष्टं सदाञ्जयेत् | जलस्रावं निहंत्याशु तन्मूलं तु निशायुतम् || अञ्जने चक्षुरोगाश्च न भवन्ति कदाचन || ५३ || द्विनिशा सैन्धवं त्र्यूषं बीजं कारञ्जकं समम् | भृङ्गीद्रवैर्युतं वापि तिमिरं पटलं हरेत् || ५४ || शम्बूकं वा वराटं वा दग्धं शुष्कं विचूर्णितम् | अञ्जयन्नवनीतेन हन्ति पुष्पं चिरन्तनम् || ५५ || अजामूत्रेण भूधात्रीभूलं पिष्ट्वा च वर्तिका || ५६ || नवनीतसमायुक्ता हन्ति पुष्पं चिरन्तनम् | अञ्जनान्नाशयेत्पुष्पं क्षौद्रैर्वा स्वर्णमाक्षिकम् || ५७ || मरिचैर्मर्दने रक्ते वर्ती रात्र्यन्धताञ्जयेत् | जयन्ती वाभया वाथ घृष्ट्वा स्तन्यैर्निशान्धहृत् | शोणितं चर्मकोपं च मांसवृद्धिं च नाशयेत् || ५८ || कृष्णाजस्य च मांसान्तः पिप्पलीं मरिचं क्षिपेत् || ५९ || कारयित्वा घृते पच्याद् घटिकान्ते तमुद्धरेत् | मध्याज्यस्तन्यसंपिष्टं रात्र्यन्धहरमञ्जनम् || ६० || अजापित्तगतं व्योषं धूमस्थाने विशोषयेत् | चिरबिल्वरसैर्घृष्टं रात्र्यन्धहरमञ्जनम् || ६१ || घृतेन पुष्पं मधुनाश्रुपातं तैलेन कण्डूं तिमिरं जलेन | रात्र्यन्धकं काञ्जिकया निहन्ति पुनर्नवा नेत्रपुनर्नवङ्करी || ६२ || हरीतकी वचा कुष्ठं पिप्पली मरिचानि च | विभीतकस्य मज्जा च शंखनाभिर्मनश्शिला || ६३ || सर्वमेतत्समं कृत्वा गव्यक्षीरेण पेषयेत् | नाशयेत्तिमिरं कण्डूं पटलान्यर्बुदानि च || ६४ || अपि द्विवार्षिकं पुष्पं मासैकेनैव नाशयेत् | अधिकानि च मांसानि यश्च रात्रौ न पश्यति || ६५ || वर्तिश्चन्द्रोदया नाम नृणां दृष्टिप्रसादिनी | छायाशुष्का वटी कार्या नाम्ना चन्द्रोदया वटी || ६६ || यस्त्रैफलं चूर्णमपथ्यवर्ज्यं सायं समश्नाति हविर्मधुभ्याम् | सम्युच्यते नेत्रगतैर्विकारैर्भृत्यैर्यथा क्षीणधनो मनुष्यः || ६७ || इति चक्षुष्यनिर्मलीकरणम् | अथ कर्णस्य बधिरत्वनाशनम् शिखरिक्षारजलेन तत्कृतकल्केन साधितं तिलजम् | अपहरति कर्णनादं बाधिर्यं चापि पूरणात् || ६८ || दशमूलकषायेण तैलप्रस्थं विपाचयेत् | एतत्कल्कं प्रदायैव बाधिर्ये परमौषधम् || ६९ || नीलीब्रध्नरसस्तैलं सिद्धकाञ्जिकसंयुतम् | कदुष्णपूरणात्कर्णे निश्शेषकृमिनाशनः || ७० || दन्तेन चर्वयेन्मूलं नन्द्यावर्त्तपलाशकम् | तन्नालीपूरिते कर्णे ध्रुवं गोमक्षिकाञ्जयेत् || ७१ || ताम्बूलभक्षणं कृत्वा तत्र सन्दापयेद् बुधः | तत्र स्थितास्तु कृमयो नाशमायान्ति निश्चितम् || ७२ || मूषलीबाकुचीचूर्णं खादेद् बाधिर्यशान्तये | मनःशिलापामार्गोऽथ चूर्णं मधुप्लुतम् | भक्षयेत्कर्षमात्रं तु बधिरत्वप्रशान्तये || ७३ || लशुनामलकं तालं पिष्ट्वा तैले चतुर्गुणे || ७४ || तैलाच्चतुर्गुणं क्षीरं पाच्यं तैलावशेषितम् | तत्तैलं निक्षिपेत्कर्णे बाधिर्यं च विनाशयेत् || ७५ || इति कर्णस्यबधिरत्वनाशनम् | अथ कर्णपालीवर्द्धनम् सिद्धार्थं बृहती चैव ह्यपामार्गं समं समम् | छागी क्षीरैः प्रलेपोऽयं कर्णपाली विवर्द्धयेत् || ७६ || मूषलीकन्दचूर्णं च महिषीक्षीरसंयुतम् | लोडयेत्स्निग्धभाण्डे तु धान्यराशौ निवेशयेत् | सप्ताहादुत्थिते लेप्यं कर्णपाली विवर्द्धते || ७७ || गुञ्जामूलकृतं चूर्णं महिषीक्षीरसंयुतम् || ७८ || शृतं दधि ततः कुर्यान्नवनीतं तदुद्भवम् | कर्णयोर्लेपयेन्नित्यं वर्द्धयेन्नात्र संशयः || ७९ || अश्वगन्धा वचा कुष्ठं गजपिप्पलिका समम् | महिषीनवनीतेन लेपात्कर्णो विवर्द्धते || ८० || वराहोत्थेन तैलेन लेपः कर्णविवर्धनः | चर्मचटकस्य रक्तेन लेपात्कर्णो विवर्द्धते || ८१ || इति कर्णपालीवर्धनम् | अथ दन्तदृढीकरणम् यमचिञ्चाजयापुङ्खामूलं वा हयमारजम् | चलदन्ता दृढायन्ते प्रत्यहं दन्तधावनात् || ८२ || ताम्रपात्रे क्षणं पाच्यमभया चूर्णकं मधु | पिष्ट्वा च गुटिका कार्या दन्तैर्धार्या कृमीन् हरेत् || ८३ || दन्तैर्धार्यं स्नुहीमूलं कृमिनाशं करोत्यलम् | काशीशं घृतसंपक्वं धार्यं दन्ते व्यथापहम् || ८४ || विशालयोः पलं चूर्णं तप्तलोहे परिक्षिपेत् | तद्धूमस्पृष्टदन्तानां कीटपातो भवन्त्यलम् || ८५ || जातिकोरकपत्रं च चर्वयेत् प्रातरुत्थितः | स्थिराः स्युश्चलिता दन्तास्तत्काष्ठैर्दन्तधावनात् || ८६ || गुंजामूलं तु कर्णाभ्यां बद्धं दन्तकृमिप्रणुत् | त्रिसूतं रौप्यमेकं तु जम्बीररसमर्दितम् | जम्बीरफलमध्यस्थं वस्त्रैर्बद्ध्वात्र्यहं पचेत् || ८७ || क्षीरमध्ये समुद्धृत्य गुटिकां तां ततः पुनः | भावितं भानुदुग्धेन तालकं सूक्ष्मपेषितम् || ८८ || तन्मध्ये गुटिकां क्षिप्त्वा वस्त्रे बद्ध्वा दिनत्रयम् | मधुभाण्डगतं पश्चादुद्धृता चास्यधारिता | घर्षणाच्चलितान् दन्तांस्तत्क्षणात्कुरुते दृढान् || ८९ || तालकं भानुदुग्धेन दिनमेकं विमर्दयेत् | तद्गर्भरसहोमोत्थां पिडिकां तारसंयुताम् || ९० || जम्बीरफलमध्यस्थां दोलायन्त्रे त्र्यहं पचेत् || ९१ || तैलक्षौद्रयुते भाण्डे समुद्धृत्य विधारयेत् | दन्तरोगान् हरेत्सर्वान् घर्षणाच्चलिता दृढाः || ९२ || चलद्दन्तस्थिरकरं कार्यं बकुलचर्वणम् | बकुलस्य तु बीजं तु पिष्ट्वा कोष्णेन वारिणा | मुखे च धारयेद्धीमान् दन्तदार्ढ्यं करं परम् || ९३ || बकुलस्य त्वचा क्वाथमुष्णं वक्रेण धारयेत् | दृढाः स्युश्चलिता दन्ताः सप्ताहान्नात्र संशयः || ९४ || इति दन्तदृढीकरणम् | अथ गण्डमालानिवारणम् कर्कन्धुकोलामलकप्रमाणैः कक्षांसमन्यागलवंक्षणेषु | मेदःकफाभ्यां चिरमन्दपाकैः स्याद्गण्डमाला बहुभिश्च गण्डैः || काञ्चनारत्वचः क्वाथः शुण्ठीचूर्णेन संयुतः | माक्षिकाढ्यः सकृत्पीतः क्वाथो वरुणमूलकः | गण्डमालां हरत्याशु चिरकालानुबन्धिनीम् || इति गाण्डमालानिवारणम् | अथ आहारकरणम् ब्रध्नकेनापि वृक्षस्य पीठं कृत्वा शनैः स्थितः | योऽसौ भुङ्क्ते घृतैः सार्द्धं भोजनं भीमसेनवत् || ९५ || संध्यायामाम्रवृक्षस्य कर्त्तव्यमभिमंत्रितम् | प्रातः पुष्पाणि संगृह्य मालां शिरसि धारयेत् || कौपीनं संपरित्यज्य भुङ्क्तेऽसौ भीमसेनवत् || ९६ || उद्भ्रांतपत्रमादाय कपिला श्वानदन्तकम् | कट्यामेव द्वयं बद्ध्वा भुङ्क्तेऽसौ भीमसेनवत् || ९७ || गृहीत्वा मन्त्रितान् मन्त्री विभीततरुपल्लवान् | आक्रम्य दक्षिणां जङ्घां विंशत्याहारभुग्भवेत् || ९८ || ओं नमः सर्वभूताधिपतये ग्रस ग्रस शोषय शोषय भैरवी आज्ञापयति स्वाहा | उक्तयोगानामयं मन्त्रः | अधरं कृकलासस्य शिखास्थाने विबन्धयेत् | वायुपुत्र इवाश्चर्यमसौ भुङ्क्ते न संशयः || ९९ || ओं नाभिवेगेन उर्वशी स्वाहा | इति आहारकरणम् | अथानाहारकरणम् अन्त्राणि कृकलासस्य मज्जां कारञ्जबीजकम् | पिष्ट्वा तद्गुटिकां कुर्यात् त्रिलोहेन तु वेष्टिताम् || १०० || तां वक्रे धारयेद्यस्तं क्षुत्पिपासा न बाधते | ओं सांसांशरीरममृतमाकर्षय स्वाहा | पद्मबीजमहाशाली छागीदुग्धेन पाचयेत् | साज्यं च पायसं भुक्त्वा द्वादशाहं क्षुधापहम् || १०१ || ओं सां सां शरीरममृत्माकर्षय स्वाहा | उदुम्बरस्य जम्बीरशालिशिम्बीशिरीषजम् | बीजं संचूर्ण्य चाज्येन भुक्त्वा पक्षं क्षुधापहम् || १०२ || उदुम्बरफलं पक्वमिङ्गुदीतैलभावितम् | भुक्त्वा मासं क्षुधां हन्ति पिपासां च न संशयः || १०३ || अपामार्गस्य बीजानि त्वग्वर्ज्यानि प्रपाचयेत् | पायसं छागलीक्षीरैर्भुक्तं मासक्षुधापहम् || १०४ || ओं नमो भगवते रुद्राय अमृतार्कमध्ये संस्थिताय मम शरीरे अमृतं कुरु कुरु सः स्वाहा उक्तयोगानामयं मन्त्रः || १०४-१०५ || इत्यानाहारकरणम् | अथ पादुकासाधनम् अश्वनालांगुलीतैलैः पेषयेच्छ्वेतसर्षपम् | तल्लिप्तपादहस्तस्तु योजनानां शतं व्रजेत् || १०६ || अङ्कोलस्य तु मूलं तु तिलतैलेन पाचयेत् | पादौ तु जानुपर्यन्तं लिप्त्वा दूराध्वगो भवेत् || १०७ || ओं ह्रीं नमः ओं नमश्चण्डिकायै गगनं गगनं चालय चालय वेशय हिलि हिलि वेगवाहिनी ह्रीं ह्रीं स्वाहा | उक्तयोगद्वयस्यापमेव मन्त्रः || काकस्य हृदयं नेत्रे जिह्वा चैव मनश्शिलाम् | गैरिकं सिन्धुजं चैव अजामारी च मालती || १०८ || समं रुद्रजटा चैव विदार्या सह पेषयेत् | तल्लिप्तपादः सहसा सहस्रं योजनं व्रजेत् || १०९ || वलीपलितनिर्मुक्त यावदाभूतसंप्लवम् || ११० || काकजिह्वा ब्रह्मचारी गुडलोहेन वेष्टयेत् | मुखे प्रक्षिप्य गच्छन्ति योजनं शतमेव च || १११ || आगच्छन्ति तदा तूर्णं ते नरा नात्र संशयः || ११२ || ओं नमो भगवते रुद्राय नमो हरितगदाधराय त्रासय त्रासय क्षोभय क्षोभय चालने चालने स्वाहा | अङ्कोलतैलसंपिष्टां श्वेतसर्षपलेपिताम् | पादुकामुष्ट्रचर्मोत्थां समारुह्य शतं व्रजेत् || ११३ || इति पादुकासाधनम् | अनावृष्टिनिवारणम् ह्रूं ह्रीं (अथवा) हुं श्रीं हुं | इमं मन्त्रं जल मध्ये प्रविश्य यदि जपेत् तदा अनावृष्टि हरेत् | महावृष्टिर्भवति || इति श्रीनित्यनाथविरचिते काम्यसिद्धयादि अनावृष्टिनिवारणं नाम द्वादशोपदेशः || १२ || त्रयोदशोपदेशः अथ निधिदर्शकमञ्जनम् अञ्जनानां तु सर्वेषां मन्त्रं साध्यमघोरकम् | विना मन्त्रेण विद्याश्च नाशयन्ति पदे पदे || १ || अम्बिकायन्त्रमाश्रित्य जपेदष्टसहस्रकम् | ततः सर्वविधानानि सुसाध्यानि च प्रारभेत् || २ || ओं सिद्धो लिं नमः ओं शं शो लिं न्मः ओं कं को लिं नमः ओं कं को लिं नमः ओं खिद खिद विन्द विन्द जोलीनमहान मद मद महाधरणवर्णने नमः सर्वसुखदाराय धरण मड तो रोमा धरण ओं ह्रीं अम्बिके ओं ह्रीं अम्बिके नमः | ओं अम्बे अम्बाले अम्बिके अवतारय ठः ठः स्वाहा | ह्रूं ह्रूं ह्रीं क्षौं यूं क्लीं | ओं बहुरूपं विश्वरूपं विद्याधरमहेश्वरम् | जपाम्यहं महादेवं सर्वसिद्धिप्रदायकम् || ३ || ओं बहुरूपं विश्वरूपं विद्याधर महेश्वर | ओं नमो रुद्राय रुद्ररूपाय नमो बहुरूपाय नमो विश्वरूपाय नमो विश्वात्मने नमः तत्पुरुषयक्षाय नमो यक्षरूपाय नमः एकस्मै नमः एकाय नमः एक रौरवाय नमः एकयक्षाय नमः एकेक्षणाय नमो यक्षाय नमो वरदाय नमः तुद तुद स्वाहा | कज्जलानां पातनार्थे ग्राह्यो यत्नेन पावकः | दीक्षितस्य गृहे श्रेष्ठं चितायां तु विशेषतः | रजकस्य गृहद्वापि तस्करस्य गृहाच्च यः || ४ || ओं ज्वलितविद्युद्धूमाय स्वाहा || अयमग्निग्रहणमन्त्रः | वा ज्वलितविद्युते स्वाहा ओं नमो भगवते वासुदेवाय बन्ध बन्ध श्रीपतये स्वाहा | अनेन मन्त्रेण वर्तिमभिमन्त्रयेत् || ओं नमो भगवते सिद्धसाधकाय ज्वल ज्वल पच पच पातय पातय बन्धय बन्धय संहर संहर दर्शय दर्शय निधि नमः | अनेन दीपं ज्वालयेत् | ओं ऐं मन्त्रः सर्वसिद्धेभ्यो नमो विश्वेभ्यः स्वाहा || अनेन कज्जलं ग्राह्यम् | ओं कालि कालि महाकालि रक्षेदमञ्जनं नमो विश्वेभ्यः स्वाहा | अनेन मन्त्रेण यत्किञ्चिदञ्जनद्रव्यमभिमन्यत्रयेत् || ओं सर्वे सर्वहिते क्लीं सर्वे सर्वहिते सर्वौषधि प्रयाहि ते || विरते नमो नमः स्वाहा || अनेन मन्त्रेणाञ्जनयोग्यां मूलिकामभिमन्त्रयेत् | आदौ केवलहेमशलाकया नेत्रमञ्जयित्वा ततस्तयैव शलाकया अञ्जनद्रव्यमञ्जयेत् || अञ्जयित्वाञ्जनं पश्चात्सप्तधारस्य पत्रकम् | बन्धयेत् प्रतिनेत्रं तु अच्छिद्रं तदधोमुखम् || ५ || ओं ज्वलितविद्युद्धूमाया स्वाहा ओं नमो भगवते वासुदेवाय धर धर बन्ध बन्ध श्रीपतये स्वाहा ओं नमो भगवते सिद्धसाधकाय ज्वल ज्वल पच पच पातय पातय बन्ध बन्ध संहर संहर दर्शय दर्शय निधिं नमः ओं ऐं मन्त्रः सर्वसिद्धेभ्यो नमो विश्वेभ्यः स्वाहा ओं कालि कालि महाकालि रक्षेद मञ्जनं नमो विश्वेभ्यः स्वाहा ओं सर्वे सर्वहिते क्लीं सर्वे सर्वहिते सर्वौषधि प्रियाहि ते विरते नमो नमः स्वाहा तस्योपरि सितं वस्त्रं पट्टजं चापि बन्धयेत् | नाञ्ज्यादधिकहीनाङ्गं श्वदष्टं चाग्निदग्धकम् || ६ || सम्पूर्णाङ्गं शुचि स्नात्वा द्विदिनं नक्तभोजनम् | भोक्तव्यं क्षीरशाल्यन्नं त्रिदिनान्ते ततोऽञ्जयेत् || ७ || अञ्जितस्य शिखाबन्धं कर्त्तव्यं मन्त्र उच्यते || ८ || ओं नमो भगवते रुद्राय तुल तुल महेश्वर माहेश्वर नुज्वल नुज्वल विज्वल विज्वल मिज्वल मिज्वल हर हर यक्षरक्षपूजिते यक्षकुमारि सुलोचने स्वाहा || ओं नमो भगवते रुद्राय ओं नन्न नन्न महेन्नविहेन्न विहेन्नमिहेन्न विहेन्नमिहेन्न हरहर रक्ष हरहर रक्ष पूजिते यक्षकुमारिसुलोचने स्वाहा | यक्षाणां मूर्तिमाश्रित्य उदयास्तं मनुं जपेत् | पूर्वमेव समाख्यातं शिखाबन्धं शिवोदितम् || ९ || इदं सर्वाञ्जने ज्ञातव्यम् | ओं नमो भगवते रुद्राय तुल तुल महेश्वर माहेश्वर नुज्वल नुज्वल विज्वल विज्वल मिज्वल मिज्वल हर हर यक्षरक्षपूजिते यक्षकुमारि सुलोचने स्वाहा | ओं नमो भगवते रुद्राय ओं नन्न नन्न महेन्नविहेन्न विहेन्नमिहेन्न विहेन्नमिहेन्न हरहर रक्षरक्ष पूजिते यक्षकुमारिसुलोचने स्वाहा | शरत्काले तु संग्राह्या भूतला रक्तवर्णका | सिन्दूरपूरितां कृत्वा वर्ति तूलेन वेष्टयेत् || १० || अतिकृष्णतिलातैलं ग्राहयेद्रक्षयेत्सुधीः | तैलवर्त्योः प्रयोगेण कज्जलं चोत्तरायणे || ११ || ग्राहयित्वाञ्जनं चक्षुर्निधिं पश्यति साधकः | प्रमाणं च विजानाति गृह्णाति च यथेप्सितम् || १२ || अतिकृष्णस्य काकस्य जिह्वामांसं समाहरेत् | वेष्टयद्रवितूलेन वति तेनैव कारयेत् || १३ || अजाघृतेन दीपं तु प्रज्वाल्यादाय कज्जलम् | अञ्जिताक्षो नरस्तेन निधिं पश्यति पूर्ववत् || १४ || सप्तधा पद्मसूत्राणि भावयेदिक्षुजै रसैः | उद्धृत्य ज्वालयेद्दीपमङ्गुलीतैलसंयुतम् || १५ || ग्राह्यं कृष्णत्रयोदश्यां कज्जलं निधिदर्शकम् | सर्वाञ्जनमिदं सिद्धं शम्भुना परिकीर्तितम् || १६ || दीपकज्जलयोः पात्रं कर्त्तव्यं नरमुण्डजम् | सर्वेषां कज्जलानां तु सत्यं स्याच्छिवभाषितम् || १७ || रक्तेन कृकलासस्य भावयित्वा मनशिःलाम् | तेनैवाञ्जितनेत्रस्तु निधिं पश्यति पूर्ववत् || १८ || गृहीत्वा चानुराधायां वन्दां शाखोटवृक्षजाम् | गोरोचनसमं पिष्ट्वा त्वञ्जनं निधिदर्शकम् | एतत्सर्वाञ्जनं ख्यातं प्रसिद्धं शिवभाषितम् || १९ || अगस्त्यवृक्षजां कुर्यात्पादुकां निधिदर्शकाम् | पादुकाञ्जनयोगेन सिद्धयोगा भवन्ति वै || ओं नमो भगवते रुद्राय उड्डामरेश्वराय शिलि शिलि धूमरे नागवेतालिनी स्वाहा || अनेन पादुकामभिमंत्रयेत् || २० || तुलसीमूलिकां पुष्ये शनिवारे समुद्धरेत् | निष्पिष्य काञ्जिकेनाथ मधुना पुनरञ्जयेत् || २१ || पादजातं कुमारं वा कन्यकां वा तदा निधिः | दृश्यते नात्र संदेहः पातालं गतवानपि || २२ || खन्यमाने च सर्पाश्च निस्सरन्ति पदे पदे || २३ || औषधेन विना तेभ्यो भयं स्यान्मन्त्रिणामपि | तस्मादौषधयोगेन पादलेपेन ताञ्जयेत् || २४ || ओं नमो भगवते रुद्राय कज्जललेपाञ्जनं दर्शय दर्शय स्वाहा ठः ठः | अर्कस्य करवीरस्य पनसस्य तु मूलिकाम् | पिष्ट्वा पादप्रलेपाच्च दूरे गच्छन्ति पन्नगाः || २५ || इति निधिदर्शकमञ्जनम् | अथ अदृश्यकरणम् चतुर्लक्षमिमं मन्त्रं श्मशाने प्रजपेच्छुचिः | नग्नवृत्तिस्ततस्तुष्टा पटं यच्छति यक्षिणी || २६ || तेनावृतो नरोऽदृश्यो विचरेद्वसुधातले | निधिं पश्यति गृह्णाति न विघ्नैः परिभूयते || २७ || ओं ह्रां ह्रीं स्फें श्मशानवासिनी स्वाहा | निशाचरीं निशि ध्यात्वा जप्त्वा वामेन पाणिना | अदृश्यकरिणीं विद्यां लक्षजाप्ये प्रयच्छति || २८ || ओं ह्रां ह्रीं स्फें श्मशानवासिनी स्वाहा | रात्रौ कृष्णचतुर्दश्यां श्मशानान्तः शिवालये | बलिना चोपहारेण कुर्यादर्चनमुत्तमम् || २९ || ततो दीपाङ्गुलीतैलैर्वर्तिः स्यादर्कतन्तुभिः | प्रज्वाल्य नृकपाले तु तत्पात्रे धृतकज्जलम् | अञ्जयेन्नेत्रयुगलं देवैरपि न दृश्यते || ३० || ओं नमो निशाचरमहामहेश्वर मम पर्यटतः सर्वलोकलोचनानि बन्धय बन्धय देव्याज्ञापयति स्वाहा | ओं नमो निशाचरमहामहेश्वर मम पर्यटतः सर्वलोकलोचनानि बन्धय बन्धय देव्याज्ञापयति स्वाहा | अर्कशाल्मलिकार्पासपट्टपद्मजतन्तुभिः || ३१ || पञ्चभिर्वर्तिकाभिश्च नृकपालेषु पञ्चसु | नवनीतेन दीपाः स्युः कज्जलं नृकपालतः || ३२ || ग्राहयेत्पञ्चभिर्यत्नात्पूर्ववच्च शिवालये | पञ्चस्थानीयजातं तु एकीकुर्यात्तु तं पुनः | मन्त्रयित्वाञ्जयेन्नेत्रे देवैरपि न दृश्यते || ३३ || ओं हूं फट् स्वाहा कालि कालि महाकालि मांसशोणितभक्षिणि रक्तकृष्णमुखे देवी मा मे पश्यतु मानुषेति ओं हूं फट् स्वाहा || एतन्मन्त्रायुतजपात्सिद्धिर्भवति || उक्तादृश्यप्रयोगाणामयमेव मंत्रः | अनेन मन्त्रेणाष्टोत्तरशताभिमन्त्रिताङ्गुलितैल प्रयोगात्सिद्धा भवन्ति || ३४ || ओं हूं फट् स्वाहा कालि कालि महाकालि मांसशोणितभक्षिणि रक्तकृष्णमुखे देवी मा मे पश्यतु मानुषेति ओं हूं फट् स्वाहा || अङ्गुलीतैलसंसिक्ता यवाः सप्तदिनावधि | त्रिलोहवेष्टितास्तेषां गुटिकां कारयेच्छुभाम् | अदृश्यकारिणी सा तु मुखस्था नात्र संशयः || ३५ || तत्तैले सर्षपाः श्वेतास्त्रिलोहेन तु वेष्टिताः गुटिका मुखमध्यस्था साऽदृश्यकरिणी मता || ३६ || कृष्णकाकस्य रुधिरं पित्तं गोमायुसम्भवम् | काकारिनखचञ्च्वापि समभागं विचूर्णयेत् || ३७ || ऋक्षे पुनर्वसौ वर्ति कृत्वा नेत्रे च रञ्जयेत् | अदृश्यो भवति क्षिप्रे सर्वकार्यप्रसाधकः || ३८ || कृष्णकुक्कुटपुच्छाग्रं निर्माल्यं मृतकस्य च | काकनेत्रं च मरिचं पिष्ट्वा कार्यं च मूत्रकैः || ३९ || कलायार्द्धप्रमाणेन वटीं कृत्वा प्रशोषयेत् | तेनैवाञ्जितनेत्रस्तु अदृश्यो भवति ध्रुवम् || ४० || कृष्णमार्जारान्तरस्थं रक्तं संगृह्यभावयेत् | नक्तमालस्य तैलेन तत्र श्वेतार्कसूत्रजाम् || ४१ || वर्ति प्रज्वाल्य वज्रस्य दले संगृह्य कज्जलम् | तेनाञ्जनेन मनुजस्त्वदृश्यो भवति ध्रुवम् || ४२ || सुकृष्णं चैव मार्जारं मारयित्वा चतुष्पथे || ४३ || प्रोक्षणं कारयित्वा तु दिनानां पञ्चविंशतिः | तत्संगृह्य प्रयत्नेन क्षालयेच्छीतवारिणा || ४४ || यदस्थि च श्रोत्रभेदि स्याद्ग्राह्यं यत्नतोऽभयम् | पूजयित्वा महाकालीं गोरोचनसमन्वितम् || ४५ || नकुलस्य तु पित्तेन भावयित्वा प्रपेषयेत् | तद्वर्तितिलकादेव नरोऽदृश्यो भवेद् ध्रुवम् || ४६ || नृमांसं च शिवामांसं यत्नतो ग्राहयेद् बुधः || प्रथमरजस्वलायाश्च रुधिरेण वटीं कुरु || त्रिलोहवेष्टिता सा तु मुखस्थाऽदृश्यकारिणी || ४७ || कृष्णमार्ज्जारमुण्डे तु कृष्णगुञ्जां प्रवापयेत् | तत्फलं वदनस्थं हि साक्षाददृश्यकारकम् || ४८ || कोकाया नयनं वामं त्रिलोहेन प्रवेष्टयेत् | सा वटी मुखमध्यस्था अदृश्यं कुरुते ध्रुवम् || ४९ || दिवाभीतस्य नयनं त्रिलोहेन प्रवेष्टयेत् | मुखस्थं कुरुतेऽदृश्यं यथेच्छं विचरेन्महीम् || ५० || ऋक्षे चैवानुराधायां वन्दां रासलवृक्षकाम् | मुखे प्रक्षिप्य च नरोऽदृश्यः स्यान्नहि संशयः || ५१ || शाखोटस्य च वन्दाकं नक्षत्रे मृगशीर्षके | गृहीत्वा पानपात्रेण अदृश्यो जायते नरः || ५२ || भरण्यां तु समागृह्य वन्दां कार्पाससम्भवाम् || ५३ || हस्ते बद्ध्वा ह्यदृश्यः स्यात्स्वात्यां वा निम्बवृक्षजाम् | पिबेदुत्तरषाढायामशोकवृक्षसम्भवाम् || ५४ || वन्दां तदा अदृश्यः स्यादश्विन्यां बिल्ववृक्षजाम् | वन्दाकं वा करे धृत्वा अदृश्यो जायते नरः || ५५ || इति अदृश्यकरणम् | अथ मृतसञ्जीवनी मृतसञ्जीवनीविद्यां प्रवक्ष्यामि समासतः | लिङ्गमङ्कोलवृक्षाधः स्थापयित्वा प्रपूजयेत् || ५६ || नवं घटं च तत्रैव पूजयेल्लिङ्गसंनिधौ | वृक्षं लिङ्गं घटं चैव सूत्रेनैकेन वेष्टयेत् || ५७ || चतुर्भिस्साधकैर्नित्यं प्रणिपत्य क्रमेण तु | एवं द्विद्विदिनं कुर्यादघोरेण समर्चयेत् || ५८ || ओं अघोरेभ्योथ घोरेभ्यो घोरघोरतरेभ्यः | सर्वतः सर्व सर्वेभ्यो नमस्ते रुद्र रूपेभ्यः || उक्त योगानामयं मन्त्रः | पुष्पादिफलपाकान्तं साधनं कारयेद् बुधः | फलानि पक्वान्यादाय पूर्वोक्तं पूरयेद् घटम् || ५९ || तद्घटं पूजयेन्नित्यं गन्धपुष्पाक्षतादिभिः | तुषवर्ज्जं ततः कुर्याद्बीजानां घट्टयेन्मुखम् || ६० || तन्मुखं बृहणं वृत्तं किञ्चित् किञ्चित्प्रलेपयेत् | विस्तीर्णमुखभागान्तः कुम्भकारकरोद्भवाम् || ६१ || मृत्तिकां लेपयेत्तत्र तानि बीजानि रोपयेत् | कुंडल्याकारयोगेन यत्नादूर्ध्वमुखानि वै || ६२ || शुष्कं तं ताम्रपात्रोर्द्ध्वं भाण्डं देयमधोमुखम् | आतपे धारयेत्तैलं ग्राहयेत्तं च रक्षयेत् || ६३ || मासार्द्धं चैव तत्तैलं मासार्द्धं तिलतैलकम् | नस्यं देयं मृतस्यैव कालदष्टस्य तत्क्षणात् || ६४ || अथवा- पुंशुक्रं पारदे तुल्यं तेन तैलेन मर्दयेत् | नस्यं देयं मृतस्यैकं कालदष्टस्य वा क्षणात् || ६५ || तत्कृत्वा जीव्यते सत्यं गतेनापि यमालयम् | रोगापमृत्युसर्पादिमृतो जीवति हि स्वयम् | जीवमायाति नोचित्रं महादेवेन भाषितम् || ६६ || पुष्यभास्करयोगेन गुडूचीमूलमाहरेत् | कर्षमुष्णजलैः पीतो मृते मृत्युहरो भवेत् || ६७ || इति श्रीनित्यनाथविरचिते कामरत्ने निधिदर्शनाञ्जनादि मृत्युसञ्जीवनी कथनं नाम त्रयोपदेशः || १३ || चतुर्दशोपदेशः अथ विषनिवारणम् शम्भुनोक्तं समासेन विषं स्थावरजङ्गमम् | कृत्रिमं योगजं चैव वृश्चिकाद्यं तु सम्भवम् || १ || क्रमाल्लक्षणमेतेषां मन्त्रयुक्तं वदाम्यहम् | नाम वक्ष्ये विषाणां तु शम्भुना कीर्तितं पुरा || २ || दरदो वत्सनाभश्च मुस्तकं पुष्करं विषम् | क्रूरं शठं कर्मठं च हरिद्रं कालकूटकम् || ३ || इन्द्रबीजं चित्रबीजं हरितं गालवं विषम् | शृङ्गी कर्कटशृङ्गी च मेषशृङ्गी हलाहलम् || ४ || शाकूटं रक्तशृङ्गी च ह्यञ्जनं पुण्डरीककम् | संकोचं मधुपाकं च रोहिणं मेदुरं तथा || ५ || पञ्चविंशतिभिर्भेदैर्विज्ञेयं स्थावरं विषम् | एतन्मध्ये ह्यतिक्रूरं संकोचं कालकूटकम् || ६ || भृङ्गी मुस्तं वत्सनाभं पञ्चमं तु विषाद्विषम् | एषां देहप्रविष्टानां शृणु लक्षणमुच्यते || ७ || वान्तिमूर्च्छातिसारं च भ्रान्तिश्शूलं च कम्पनम् | कासश्वासौ तीव्रदाहो लक्षयेद् गद्गदस्वरम् || ८ || पुत्रजीवफलामज्जां शीततोयेन पेषयेत् | भोजने चाञ्जने पाने लेपे सर्वविषापहम् || ९ || स्थावरं जङ्गमं क्रूरं कृत्रिमं योगजं तथा | निष्कमात्रं न सन्देहः कालदष्टोऽपि जीवति || १० || शाड्वलं कङ्कणं तुत्थं कट्फलं रजनी वचा | नरमूत्रेण संपीत्वा एकैकं तु विषं हरेत् || ११ || समूलपत्रां सर्पाक्षीं तथैव देवदालिकाम् | गिरिकण्याश्च वा मूलं नरमूत्रेण पूर्ववत् || १२ || त्रिकटुं देवदालिं च नस्ये सर्वविषापहम् | ब्रह्मदण्डीयमूलं तु मधुना सह भक्षयेत् || १३ || श्वेताङ्कोलस्य मूलं तु मुखस्थे तिलकेऽथवा | मुखस्थैरण्डमूलं वा छायाशुष्कं विषापहम् || १४ || टङ्कणं देवदालिं च जलैः पाने विषापहम् | नीलसर्पस्य पुच्छं तु कृकलासस्य पुच्छकम् || १५ || ताम्रेण वेष्टितं कृत्वा मुद्रिकां तां च धारयेत् | तया स्पृष्टजलं पीतं स्थावरं जङ्गमं हरेत् || १६ || मन्त्रः आतरथाकी यातरथा श्लातोहाते उपजीलो वृक्षमुंचचुलु करपापियो सिंदूरसावाणी कालकूटविष श्रीगोरक्षेर वाणीमुखे दिले हये अमृतवाणी विषखा-उ विषजारो विषकरोति भर विषहरि आछे त्रिदशर ईश्वर महादेवेर आज्ञा गोरक्षेर वाणी || १ || सिन्दूरसार वाणी कालकूट विषशरीरमध्ये हयापानी श्रीगोरक्षेर आज्ञा || २ || खेदाय गुरु आदम सिख आमुकारे कान्देनाही कालकूट विष || ३ || महादेवेर आज्ञा गोरक्षेर वाणी कालकूट विष शरीरमध्ये हयापानी कालकूटविष दृष्टि हन हन ओं पार्णा | मन्त्राभ्युक्षितं विषं मंत्रेण वारत्रयमभिमन्त्रितं भक्षयेत् || ४ || आतरथाकी यातरथा इलाता हारत उपजीले वृक्षमुंजि चलुक चिजा पिजो सिन्दूर सारणी कालकूट विष शरीरमध्ये हयापानी श्रीगोरक्षेर आज्ञा | विष उखाड विषाजारो विषाकरोति भर विषहारी आछे त्रिदश ईश्वर महादेवेर आज्ञा गोरक्षेर वाणी सिन्दूर सारवाणी कालकूट विष शरीरमध्ये हयापानी भूनागसत्त्वसंजातां मुद्रिकां धारयेत्करे | न तस्याक्रमते सत्यं विषं स्थावरजङ्गमम् | तत्स्पृष्टोदकपानेन विषं सर्वं विनश्यति || १७ || शिरीषबध्नकं ग्राह्यं रेवत्यां चन्दनान्वितम् | तद्घृष्टं मर्दितं गात्रे तस्याङ्गे विषनाशनम् || १८ || वराहगोधानकुलशशकुक्कुटपित्तकम् | श्वेत्ताया गिरिकर्ण्याश्च फलमूलं विपेषयेत् || १९ || पाने सर्वविषं हन्ति मृतोप्युत्तिष्ठते क्षणात् | नाम्ना चामृतयोगोयं पुरा रुद्रेण भाषितः || २० || पणवं पटहं चैव ह्यनेनैव प्रलेपयेत् | मृतोऽपि विषयोगेन श्रुत्वा वाद्यं प्रबुध्यते || २१ || श्वेतापराजितामूलं पीत्वा दुग्धेन मानवः | स्थावरं च विषं हन्ति उदरस्थं न संशयः || २२ || ससिन्धुकाञ्जिकं पीत्वा स्थावरादिविषं हरेत् || २३ || विषनिवारक मन्त्र ओं नमो भगवते उड्डामरेश्वराय कुञ्चितामृत मर्चतजटाय ठः ठः स्वाहा | इति विषनिवारणम् | अथ (जङ्गम) सर्पविषनिवारणम् जातीनां नाम रूपं च जंगमानामिहोच्यते | ब्राह्मणाः श्वेतवर्णाः स्युः क्षत्रिया रक्तवर्णकाः || वैश्यास्तु पीतवर्णाश्च कृष्णवर्णास्तु शूद्रकाः || २४ || सर्पविषहरणमन्त्रः ओं मेघमालेधिमाले हरहरविषवेगं हाहाहहासवारिहं अम्बे अम्बे सर्वविषनाशिनि महामाये हूं हूं लं सः ठः ठः स्वाहा | जः जः जः सर्वविषनाशिनीमेघमाला नाम विद्या ओं प्रौठः नीलकण्ठाय स्वाहा | ओं नमो भगवति रक्ताङ्गे रक्तलोचने कपिलजटे कपिलशरीरे कट्कट्कहकहभञ्जभञ्जशूलाग्रपाणि उग्रचण्डतर्पेमहातर्पे कृष्णे अतिकृष्णे इदं मानुषं शरीर मनुप्रविश्य भ्रम भ्रम भ्रम भ्रम भ्रामय भ्रामय नृत्य नृत्य बहुरूपे विलासिनिभक्ते कृष्णाङ्गी पूरय पूरय वेशय वेशय विश्वरूपिणी रक्तपट्टिरुद्रे आज्ञापयति हूं फट् ठः ठः एषा स्वास्थावेषाविद्या ओं नमो भगवते पार्श्वयक्षाय ह्रीं ह्रीं ह्रूं ह्रूं धेनु धेनु कम्प कम्प पुराणं दृष्ट्वा मावेशय मावेशय स्वाहा || || २५ || अनन्तः कुलिकश्चैव वासुकी शङ्खपालकः | तक्षकश्च महापद्मः कर्कोटः पद्म एव च | कुलनागाष्टकं ह्येते तेषां चिह्नं शिवोदितम् || २६ || श्वेतपद्ममनन्तस्य मूर्ध्नि पृष्ठे च दृश्यते | शङ्खं शेषस्य शिरसि वासुकेः पृष्ठ उत्पलम् || २७ || त्रिनेत्राङ्कस्तु कर्कोटस्तक्षकः शशकाङ्कितः | ज्वलत्रिशूलचन्द्रार्द्धं शङ्खपालस्य मूर्द्धनि || २८ || राजवत्तु समो बिन्दुर्महापद्मस्य पृष्ठतः | पद्मपृष्ठे च दृश्यन्ते सुरक्ताः पञ्चबिन्दवः || २९ || एवं यो वेत्ति जात्यादीन्नाम बिन्दुं शिवोदितम् | तस्य मन्त्रौषधान्येव सिद्ध्यन्ते नान्यथा पुनः || ३० || दूरतस्तस्य सर्पाद्याः पतन्ति गरुडे यथा | कालाख्या नामतश्चिह्नं शिवेनोक्तं यथापुरा || ३१ || ज्ञेयो दशविधो दंशो भुजङ्गानां भिषग्वरैः | भीतोन्मत्तः क्षुधार्तश्च आक्रान्तो विषदर्पितः || ३२ || आहारेच्छुः क्षुधार्तश्च स्वस्थानपरिरक्षणः | नवमो वैरिसन्धानो दशमः कालसंज्ञकः || ३३ || स्थानभेदेन दशफलम् उद्याने जीर्णकूपे च वटशृङ्गाटचत्वरे | शुष्केवृक्षे श्मशाने च प्लक्षश्लेष्मातशिग्रुके || ३४ || देवतायतनागारे तथा च शाकवृक्षके | एषु स्थानेषु ये दष्टास्ते न जीवन्ति मानवा || ३५ || भ्रूमध्ये चाधरे मूर्ध्नि जङ्घे नेत्रे भ्रुवौ तथा | ग्रीवाचिबुककण्ठेषु करमध्ये च तालुके || ३६ || स्तनयोः संधयोः कुक्षौ लिङ्गवृषणनाभिषु | मर्मसन्धिषु सर्वत्र सर्पदष्टो न जीवति || ३७ || रवौ भौमे शनेर्वारे सर्पदष्. न जीवति | अष्टमी पञ्चमी पूर्णा ह्यमावास्या चतुर्दशी | अशुभास्तिथयः प्रोक्तास्सर्पदष्टो न जीवति || ३८ || कृत्तिका श्रवणं मूलं विशाखा भरणी तथा | पूर्वास्तिस्रस्तथा चित्राश्लेषाभेषु न जीवति || ३९ || मध्याह्ने सन्ध्ययोश्चैव ह्यर्द्धरात्रे निशात्यये | कालवेला वारवेला सर्पदष्टो न जीवति || ४० || सर्पस्य तालुमध्ये तु यो दन्तोऽङ्कुशसन्निभः | विमुञ्चति विषं घोरं तेनायं कालसंज्ञकः || ४१ || चक्राकृतिश्च वा दंशः पक्वजम्बूफलाकृतिः || ४२ || सुनीलः श्वेतरक्तो वा त्रिदशोऽपि न जीवति | स्रवेन्मूत्रपुरीषं वा हृच्छूलं छर्दिदाहकृत् || ४३ || सानुनासिकया वाक्यं सन्धिभेदमथापि वा | ताम्राभं नेत्रयुगलमथवा काकनीलकम् | वियोगो देवदष्टाख्यं तं विद्यात्कालपाशगम् || ४४ || सेचनादुदकेनाङ्गे शीतलेन मुहुर्मुहुः | रोमाञ्चा न भवेद्यस्य तं विद्यात्कालपाशगम् || ४५ || वेदना दंक्षमूले वा नष्टदंशोऽथवा भवेत् | तत्क्षणात्तीव्रदाहश्च सोऽपि कालेन भक्षितः || ४६ || सोमं सूर्यं यदा दीप्तं न पश्यति च तारकम् || ४७ || दर्पणे सलिले वाथ घृततैलेन वा मुखम् | न पश्येद्वीक्ष्यमाणोऽपि कालदष्टो न संशयः || ४८ || ज्ञात्वा कालमकालं च पश्चाद्भेषजमाचरेत् | सर्पदंशे विषं नास्ति कालदष्टो न जीवति || ४९ || तस्य तत्रापि कर्त्तव्या चिकित्सा जीवनावधि | रसदिव्यौषधीनां तु प्रभावात्कालजिद्भवेत् || ५० || विषचिकित्सा सूतकं गन्धकं तुल्यं टङ्कणं रजनीसमम् | देवदाल्या द्रर्वेर्मथ्यं दिनं निष्कं तु भक्षयेत् || ५१ || कालशैलाशनिर्नाम रसः सर्वविषापहः | नरमूत्रं पिबेच्चानु कालदष्टोपि जीवति || ५२ || श्वेतापराजितामूलं देवदालीयमूलकम् | वारिणा पेषितं नस्यं कालदष्टोपि जीवति || ५३ || दधिमधुनवनीतं पिप्पलीशृङ्गवेरं मरिचमपि च कुष्ठं चाष्टमं सैन्धवं स्यात् || यदि दशति सरोषस्तक्षको वासुकिर्वा समसदनगतः स्यादानयेत्तत्क्षणेन || ५४ || कुटकी मुशलीमूलं पीत्वा तोयैर्विषापहम् | वृश्चिका वीरणामूलं लेपात्सर्वविषापहम् || ५५ || वारिणा टङ्कणं पीतमथवार्कस्य मूलकम् | सैन्धवं वा नृमूत्रेण प्रत्येकं विषनाशनम् || ५६ || इन्द्रवारुणिमूलं तु शुक्ला चाथ पुनर्नवा | वन्ध्याकर्कोटकीमूलं मुशलीशिखिमूलकम् | तण्डुलोदक पानेन प्रत्येकं विषनाशनम् || ५७ || गौक्षीरै रजनी कुष्ठं क्वाथपानं विषापहम् || ५८ || भृङ्गराजस्य मूलं तु त्रिशूलिन्यास्तु मूलकम् | तोयैर्वा तण्डुलीमूलं प्रत्येकं विषजिद्भवेत् || ५९ || सोमराजीबीजचूर्णं सकृद्गोमूत्रभावितम् | चराचरविषघ्नं तन्मृतसञ्जीवनं पिबेत् || ६० || कटुतुंब्युद्भवं मूलं सूक्ष्मं गोमूत्रपेषितम् | छायाशुष्कवटी मूत्रैः पानैर्लेपैर्विषापहा || ६१ || गोमूत्रैर्नरमूत्रैर्वा पुराणेन घृतेन वा | हरिद्रापानमात्रेण विषं हन्ति चराचरम् || ६२ || दशवर्षात्परं सर्पि पुराणमिति कथ्यते | तत्पानादञ्जनाद्वापि हरत्येव न संशयः | यदि सर्पविषार्तानां सर्वस्थानगतं विषम् || ६३ || गोक्षीरैरजनीक्वाथं पिबेत्सर्वविषापहम् | हरिद्राकुष्ठमध्वाज्यं भुक्तं सर्वविषापहम् || ६४ || मूलं तु श्वेतगुञ्जाया वक्त्रस्थं विषनाशनम् | पुष्योद्धृतं तस्य मूलं नस्येन विषनाशनम् || ६५ || पाठाद्रवेण तन्मूलं पाने स्यात्कालकूटजित् | अर्कमूलेन संलिप्य दंशं विषहरं महत् || ६६ || रक्त चित्रेन्द्रगोपाभ्यां तथा विषविनाशकम् | सर्प हरितवर्णं च पुच्छाग्रे पाटयेच्छिरः || ६७ || शुक्लं कृष्णं पृथक्कार्ययं नस्यं सर्वविषापहम् | शुक्लं शुक्ले दक्षिणाङ्गे कृष्णं कृष्णे च वामके | मृतसञ्जीवनं ह्येतत्कालदष्टोपि जीवति || ६८ || तिक्तकोशातकीक्वाथं मध्वाज्यसंयुतं पिबेत् | तत्क्षणाद्वमयेद्यस्तु विषयोगाद्विमुञ्चति || ६९ || कुटकी जम्बुमूलं वा तक्राम्लैर्वा पिबेज्जलम् | तत्क्षणाद् वमते शीघ्रं विषयोगाद्विमुच्यते || ७० || राजवृक्षत्वचं ग्राह्यं शुक्लं कृष्णं पृथक् पृथक् शुक्लवृक्षे तु शुक्लान्तां चतुर्विंशतिभिः सह || ७१ || मरिचैः पाननिष्ठस्य कृष्णे कृष्णत्वचं तथा | पीत्वा तैर्निर्विषो दष्टः कथितं हरमेखले || ७२ || कुङ्कुमालक्तकं लोध्रं शिला चैवाथ रोचना | गुटिकालेपनाद्धन्ति विषं स्थावरजङ्गमम् || ७३ || द्वे हरिद्रे शिला तालं कुङ्कुमं कुष्ठकं जलैः | गुटिका लेपमात्रेण विषं हन्ति महाद्भुतम् || ७४ || पूतीकरञ्जबीजस्य मज्जानं कारवेल्लजम् | पिष्ट्वा पिबेत्ससर्पिष्कं विषं हन्ति न संशयः || ७५ || पिप्पलीं मरिचं कुष्ठं गृहधूमं मनःशिलाम् | तालकं सर्षपाः श्वेता गवां पित्तेन लोडयेत् || ७६ || गुटिकाञ्जन नस्येन पानाभ्याञ्जनलेपनात् | तक्षकेणापि दष्टस्य निर्विषी कुरुते क्षणात् || ७७ || पथ्या क्षौद्रं मरिचं च पत्रं हिङ्गु शिला वचा | जलेन गुटिकां नस्येत्कालदष्टोऽपि जीवति || ७८ || अश्वगन्धा मेघनादो गोमूत्रं महिषाक्षकम् | गृहधूमेन वा लेपः शिरःकण्ठविषं हरेत् || ७९ || पञ्चाङ्गमश्वगन्धायाश्छागीमूत्रेण पेषयेत् | लेपे पाने न सन्देहो नानाविषविनाशनम् || ८० || शिला हिंगु वचा व्योषमभयात्वक् च पत्रकम् | नस्ये वासुकिदष्टस्य निर्विषं शीतवारिणा || ८१ || पुत्रजीवफलान्मज्जां गवांक्षीरेण पेषयेत् | लेपनाञ्जन नस्येन कालदष्टोऽपि जीवति || ८२ || कृष्णधत्तूरमूलस्य चूर्णं ग्राह्यं पलोन्मितम् | करञ्जतैलकर्षेण वटीं कृत्वा तु धारयेत् | जम्बीरस्य रसैः पीत्वा रौद्रीविषनिवारणम् || ८३ || लज्जालुमूलं नील्यां वा मूलं स्वच्छेन वारिणा | पीत्वा रौद्रीविषं हन्ति लेपाद्गुञ्जाबलां नतः || ८४ || गृहधूमं हरिद्रे द्वे समूलं तन्दुलीयकम् | अपि वासुकिना दष्टाः पिबेद्दधिघृतान्वितम् || ८५ || तन्दुलीयकमूलं तु पीतं तन्दुलवारिणा | तक्षकेणापि दष्टस्य निर्विषं कुरुते ध्रुवम् || ८६ || कुलिकामूलनस्येन कालदष्टोऽपि जीवति | ओं आदित्यचक्षुषा दृष्टोऽहं हर विषं स्वाहा || अनेन मन्त्रेणोक्तयोगानभिमन्त्रयेत् || ८७ || अपराजितामूलं तु घृतेन त्वग्गतं विषम् | पयसा रक्तगं हन्ति मांसगं कुष्ठचूर्णतः || ८८ || ओं आदित्यचक्षुषा दृष्टः दृष्टोऽहं हर विषं स्वाहा | अस्थिगं रजनीयुक्तं मेदोगं लाङ्गलीयुतम् | मज्जगं पिप्पलीयुक्तं चण्डालीमूलसंयुतम् | शुक्रगं हन्ति लौहित्यं तस्माद्देयापराजिता || ८९ || इति भावो भवेद्यस्य आत्मरूपमिदं जगत् | तत्सर्वैर्विषकीटाद्यैर्भक्ष्यमाणो न बाध्यते || ९० || सद्यः सर्पेण दष्टस्य वामनासिकया कृतः | लेपः कर्णमलेनापि नृमूत्रैः सेचनेन वा || ९१ || स्तम्भते गरलं तेन नोर्द्ध्वं धावति धातुषु | वराहकर्णिकामूलं हस्ते बद्धं विषापहम् || ९२ || शिरीषपुष्पस्वरसैः सप्ताहं मरिचं सितम् | भावितं सर्पदष्टानां पाने नस्येऽञ्जने हितम् || ९३ || स्वच्छन्दभैरवी विद्या कथ्यते विषनाशिनी | ओं नमो भगवती स्वच्छन्दभैरवी महाभैरवी कालकूटविषं स्फोटय स्फोटय विस्फारय विस्फारय खादय खादय अवतारय अवतारय नास्ति विषहालाहलविषकृत्रिमं विषं संयोगविषं ह्यत्युग्रविषं स्थावरं विषं जङ्गमं विषं कालचञ्चुयायरा-इष्टमन्त्रस्तडदर्घायण इथय इथय ओं कालाय महाकालाय कालमर्द्ददेवी अमृतगर्भदेवी ओं ओं फट् फट् स्वाहा | अनेन मन्त्रेण मन्त्रयेत् || सप्तधा नवधा जलमभिमन्त्र्य तेनाभिषिच्य तज्जलं पाययेच्च निर्विषंस्यादियं स्वच्छन्दभैरवी विद्या || ओं ह्रूं ह्रूं संस्वः हंसः || वा ओं क्रूं क्रूं संस्वः हंसः | अनेन मन्त्रेणाभिमंत्रित पानीयपाननापि मार्ज्जनेन वा निर्विषः स्यात् || ओं नमो भगवतीस्वच्छन्दभैरवी महाभैरवी कालकूटविषं स्फोटय स्फोटय विस्फारय विस्फारय खादय खादय अवतारय अवतारय नास्ति विष हालाहलविषं कृत्रिमं विषं संयोगविषं ह्यत्युग्रविषं स्थावरंविषं जंगमंविषं कालचञ्चु यायरा-इष्टमन्त्रस्तडदर्घायण इथय इथय ओं कालाय महाकालाय कालमर्ददेवी अमृतगर्भदेवी ओं ओं फट् फट् स्वाहा | ओं ह्रूं ह्रूं संस्वः हंसः | अथवा ओं क्रूं क्रूं संस्वह् हंसः | देवदारु चित्रकं च करवीरार्कलाङ्गली | मूलानि वारिणा पिष्ट्वा कालदष्टहरं पिबेत् || ९४ || मन्त्रौषधिप्रयोगेण यदि दष्टो न जीवति | छेदयत्तीक्ष्णशस्त्रेण दंशस्थानं भिषग्वरः | स्थावरं तु विषं दद्याद्दष्टो दष्टेन हन्यते || ९५ || यस्तु संरोषितः सर्पो धूमं वक्राद्विमुञ्चति | तुण्डाग्रे पिशितं भुक्त्वा बहुशस्तेन दंशितः || ९६ || अशक्यमगदैरन्यैर्विषेणैव चिकित्सयेत् || ९७ || क्षीरक्षौद्रघृतैर्युक्त द्विगुञ्जं पाययेद्विषम् | विषेण लेपयेद्दंशं कालदष्टोऽपि जीवति || ९८ || मृतसञ्जीवनं ख्यातं निर्गुण्डी तगरं विषम् | पिण्डीतगरमूलं च पुष्येणोत्पाट्य योजितम् | दंशे देशं मृतस्यापि दष्टो जीवति तत्क्षणात् || ९९ || सर्पदष्टो यदा वीरस्तं सर्प दंशते स्वयम् | मुक्तोऽसौ म्रियते सर्पः स्वयं निर्विषतां व्रजेत् || १०० || यद्वा तद्वा फलं दन्तैस्सर्पभावेन भक्षयेत् || १०१ || दन्तैर्वा दंशयेद्भूमिं दण्डवत्पतितो नरः | सर्पभावे न सन्देहो न तस्य क्रमते विषम् || १०२ || अत्यन्तविषयोगार्त्तं जलमध्ये विनिक्षिपेत् || १०३ || मूलं तन्दुलवारिणा पिबति यः प्रत्यङ्गिरासम्भवं निष्पष्टं शुचि भद्रयोगदिवसे तस्याहि भीतिः कुतः | दर्पादेव फणी यदा दशति तं मोहान्वितं मानवं स्थाने तत्र स एव याति नियतं चक्री यमस्याचिरात् || १०४ || आषाढशुक्लपञ्चम्यां कट्यां शिरीषमूलकम् | तन्दुलोदक पानेन सर्पदंशो न जायते | भ्रमाद्वा दशते सर्पस्तदा सर्पो विनश्यति || १०५ || पुष्ये श्वेतार्कमूलं तु श्वेतवर्षाम्बुमूलकम् || १०६ || संगृह्य पेयं तदृक्षे स्नात्वा तन्दुलवारिणा | सर्पभीतिविनाशार्थं प्रतिसंवत्सरं नरैः || १०७ || मसूरनिम्बपत्राभ्यां खादेन्मेषगते रवौ | अब्दमेकं न भीतिः स्याद्विषार्तस्य न संशयः | अतिरोषान्वितस्तस्य तक्षकः किं करिष्यति || १०८ || कृकलासस्य दन्तांश्च श्वेतसूत्रेण वेष्टयेत् | बाहौ बद्ध्वा विषं हन्ति विषं भुक्त्वा न बाध्यते | सर्पवृश्चिकमूषाणां मुखस्तम्भः प्रजायते || १०९ || ओं शबरी कीर्त्तय सञ्जाव सञ्जाव स्वाहा | सहस्रजपात्सिद्धिः | अनेन मन्त्रेण हस्ते बन्धयेत् || ११० || पातालगारुडीमूलं लम्बमानं गृहे स्थितम् | दृष्ट्वा गच्छन्ति ते दूरं सर्पाद्या विषकीटकाः || १११ || ओं शबरी कीर्तय सञ्जाव सञ्जाव स्वाहा | ओं प्लः सर्पकुलाय स्वाहा || इति सर्पविषनिवारणम् | अथ वृश्चिकविषनिवारणम् शिरीषबीजं गोमेदं दाडिमस्य तु मूलकम् | अर्कक्षीरयुतं हन्ति धूपो वृश्चिकजं विषम् || ११२ || मयूरपारावतकुक्कुटानां ग्राह्यं पुरीषं सह भानुमूलैः || धूपौ निहन्त्याशु विषं समस्तं चतुर्विधं वृश्चिक वृश्चिकसर्पजातम् || ११३ || रजनीचूर्णधूपेन विषं वृश्चिकजं हरेत् | वस्त्रेणाच्छाद्य गात्राणि धूपधूपं च पाययेत् | दंशं च धूपयेच्छीघ्रं सर्वधूपेष्वयं विधिः || ११४ || तोयैर्वा नागरं नस्यं पिबेद्वा सैन्धवं घृतम् | अर्कधत्तूरमूलं वा जलपाने विषापहम् || ११५ || पुत्रजीवफलान्मज्जां पलाशोत्थां करञ्जाम् | मज्जां तोयः प्रलेपोऽयं हन्ति वृश्चिकजं विषम् || ११६ || हिङ्गु वा जललेपेन वृश्चिकोत्थं विषं हरेत् | तिलमात्रं विषं खादेल्लेपाद्वा नाशयेद्विषम् || ११७ || घृतार्कदुग्धलेपेन यष्ट्या वा धूपितेन वा | बीजपूरकमूलस्य लेपाद्वापि हरीतकी || ११८ || सिक्थकं सप्तधा भाव्यं स्नुह्यर्कपयसाऽतपे | तत्तप्तं वह्निना स्पृष्टं दंशस्थाने विषं हरेत् || ११९ || लेपो जातीगुडाभ्यां वा हरिद्रालेपनेन वा | वृश्चिकस्य विषं हन्ति प्रत्येकं नैव संशयः || १२० || मातुलुङ्गस्य मूलं तु रविवारे समुद्धरेत् | उत्तराभिमुखेनैव ह्रूं (क्रूं) मन्त्रोच्चारणात्स्पृशेत् || १२१ || वामाङ्गे दक्षिणे दष्टे वामे दष्टे च दक्षिणे | मार्जनेन विषं हन्यात्सदंशं दृष्टप्रत्ययम् | सप्तधा मार्जनेनैव विषं वृश्चिकजं हरेत् || १२२ || असगन्धीयमूलं तु मूलं श्वेतपुनर्नवा | रविवारे समुद्धृत्य द्वाभ्यां वृश्चिकदंशनम् || १२३ || मार्जनेन विषं हन्त्यात्स्वदृशा ह्यनुभावितम् | कर्पासमूलं चर्वित्वा विषजित्कर्णफूत्कृते || १२४ || ग्राह्यं हंसपदीमूलं प्रातरादित्यवासरे | मुखस्थं फूत्कृतं कर्णे विषं वृश्चिकजं हरेत् || १२५ || ओं क्षः फट् स्वाहा | अनेनापोमार्जयोन्निर्विषो भवति | [आदित्यरथवेगेन विष्णोर्बाहुबलेन च | गरुडपक्षनिपातेन भूम्यां गच्छ महाविष || ओं ठः ठः ठः जः जः जः | ओं श्रीपक्षयोगिपादाज्ञा इति मन्त्रः | हिमवत्युत्तरे पार्श्वे कपिलो नाम वृश्चिकः | तेनाहं प्रेषितो दूतो गच्छ गच्छ महाविष | क्लीं क्लीं स्वाहा | डाकिनी स्वाहा फट् इति || अथवा शांखा मांखा साहीं खौंहीं अनेन गरुडमन्त्रेण वृश्चिकदष्टे करवीरकाष्ठेनापोमार्जयेन्निर्विषो भवति ||] ओं झं हुं क्रङ् वं वं लं क्षं एं ऐं ओं औं हं हः इति मन्त्रेण अभिमन्त्र्यप्रलेपयेत् | हां हीं मं चं ओं इति मन्त्रेण ओलवृन्तमभिमंत्र्य तेन मार्जनात् वृश्चिकविषनाशो भवति | अयं शिवेन भाषितो योगो नावहेलनीयः || बकुलत्वचबीजं वा निष्पीड्य दंशनस्थले | प्रलेपादवृश्चिकविषहरणं चाभिमंत्रितात् || १२६ || इति वृश्चिकविषनिवारणम् | अथ शतपदी विषनिवारणम् दीपकोत्सृष्टतैलं तु दंशस्थाने प्रलेपयेत् | धूपं दत्त्वा गुग्गुलेन अर्कपत्रं च वेष्टयेत् || १२७ || अथ मूषकविषनिवारणम् शिलातालककुष्ठं च भाव्यं निर्गुण्डिकाद्रवैः | पानं मूषिक दष्टानां दत्तं तीव्रं विषं हरेत् || १२८ || गृहगोधां समादाय पिष्ट्वा तन्दुलवारिणा | लेपादाखुविषं हन्ति पिबेद्वा क्षीरपाचिताम् || १२९ || सर्षपं कुङ्कुमं तक्रं समभागं घृतं पिबेत् | विषं मूषिकदष्टानां शममाप्नोति तत्क्षणात् || १३० || चिञ्चाफलसमायुक्तं गृहधूमं पलार्द्धकम् | पुराणाज्येन सप्ताहं लिहेदाखुविषं हरेत् || १३१ || इति मूषकविषनिवारणम् | अथ श्वानविषनिवारणम् शिरीषस्य च बीजं वै स्नुहीक्षीरेण घर्षितम् | तल्लेपेन वरारोहे नश्येत्कुक्कुरजं विषम् || १३२ || गुडं तैलार्कदुग्धं च लेपाच्छ्वानविषं हरेत् | पिष्ट्वापामार्गमूलं च कर्षैकं मधुना लिहेत् | श्वानदष्टविषं हन्ति लेपात्कुक्कुटविष्ठया || १३३ || उन्मत्तश्वानदंष्ट्राणां कुमारीदलसैन्धवम् | सुखोष्णं बन्धयेत्पिण्डं त्रिदिनान्ते सुखावहम् || १३४ || ओं हडवड कुत्ता खडवड दांत कुत्ते की बांधो सातौडाढ आवै न लोहू पाकै न घाव कुत्तेका विष उतर जाव वीरहनुमन्तकी दुहा-ई रामलछमनकी दुहा-ई फुरोमन्त्र ईश्वरोवाच || इति श्वानविषनिवारणम् | अथ मत्स्यभेकादिविषनिवारणम् शिरीषफलत्वक्क्षीरं पिबेद्भेकविषापहम् | त्र्यूषमाज्यं मेघनादो भेकमत्स्यविषापहम् || १३५ || शृङ्गीमत्स्यविषं स्वेदाघृतचिक्कां सपिण्डिताम् || १३६ || गृहगोधाविषं हन्यात्काश्मीरीफलनस्यतः | पिबेन्मधुसितायुक्तं गृहगोधाविषं हरेत् || १३७ || इति मत्स्यभेकादिविषनिवारणम् | अथ व्याघ्रविषनिवारणम् वृकव्याघ्रशृगालाख्यभल्लूकद्विपवाजिनाम् | रुधिरं स्रावयेद्दंशाद्दहेल्लोहशलाकया || १३८ || लेपात्सर्पविषं हन्ति मूलं श्वेतपुनर्नवा | किमत्र बहुनोक्तेन तत्क्षणाद्विषनाशनम् || १३९ || विडङ्गस्य च पानेन व्याघ्रव्यालविषं हरेत् | धत्तूरपत्रतोयेन चूर्णं त्रिकटुसम्भवम् || १४० || उदरस्थं विषं हन्ति व्याघ्रव्यालसमुद्भवम् | करञ्जतैललेपेन ज्वालां व्याघ्रनखाद्भवाम् || १४१ || गोजिह्वामूलिकां पिष्ट्वा जलेन मधुना सह | लेपो हि सर्वजन्तूनां नखतुण्डविषं हरेत् || १४२ || तथा निम्बवचा चैव शमी वृक्षत्वचं तथा | उष्णोदकेन लेपः स्यान्नखतुण्डविषापहः || १४३ || तथा दारुहरिद्राया लेपो दन्तविषापहः || १४४ || इति व्याघ्रविषनिवारणम् | अथ कीटविषनिवारणम् आज्येन तन्दुलीमूलं तुलसीमूलिकापि वा | तन्दुलोदकपानेन कीटकोत्थं विषं हरेत् || १४५ || लाङ्गल्याः कटुतुम्ब्या वा देवदारु निशापि वा | मूलं बीजं काञ्जिकेन लेपः कीटविषापहः || १४६ || तिलं च सर्षपं कुष्ठं बीजं करञ्जसम्भवम् | उद्वर्त्तनात्प्रलेपाद्वा सर्वकीटविकारजित् || १४७ || करञ्जबीजं सिद्धार्थं तिलैर्लेपो विषापहः | एरण्डतैललेपो वा सर्वकीटविषापहः || १४८ || निशा दारुनिशा चैव मञ्जिष्ठा नागकेशरम् | एषां लेपो निहन्त्याशु विषं लूतादिसम्भवम् || १४९ || इति कीटविषनिवारणम् | अथ सर्वजन्तूनां विषनिवारणम् पुत्रजीवफलान्मज्जां शीततोयेन पेषिताम् | लेपनाञ्जननस्यैस्तु पानाद्वा निष्कमात्रतः || १५० || व्याघ्रमूषकगोनासवृश्चिकादिविषं हरेत् | दुस्सहं यद्विषं चाशु विस्फोटं च विनाशयेत् || १५१ || बन्ध्याकर्कोटकीकन्दं जलैः पिष्ट्वा प्रलेपयेत् | सर्पमषकमार्ज्जारवृश्चिकादिविषं हरेत् || १५२ || इति सर्वजन्तूनां विषनिवारणम् | अथोपविषादिनिवारणम् स्नुह्यर्कोन्मत्तकश्चैव करवीरश्च लाङ्गली | वज्री जैपालकः कृष्णकुष्ठं गुञ्जा तथैव च || १५३ || महाकालश्च इत्याद्याः स्मृतास्तूपविषा बुधैः | ससिन्धुं काञ्जिकं पीत्वा समस्तोपविषं हरेत् || १५४ || करवीरविषं हन्ति घृतेनापि हरीतकी | निम्बपत्रं घृतं हन्ति घृतेन मधुपानतः || १५५ || इति उपविषादिनिवारणम् | अथ कृत्रिमविषनिवारणम् अनेक विषजीवानां चूर्णं ह्युपविषैर्युतम् | मिश्रितं नखकेशाद्यैर्लोहाद्यैश्चूर्णसञ्चयम् || १५६ || कृत्रिमं च विषं ख्यातं पक्षान्मासाद्विबाध्यते | आलस्यं कुरुते जाड्यं कासं श्वासं बलक्षयम् | रक्तस्रावो ज्वरः शोषः पीतचक्षुश्च लक्षयेत् || १५७ || मृतं सूतं मृतं स्वर्णं शुद्धं वै हेममाक्षिकम् | त्रयाणां गन्धकं तुल्यं मर्द्यं कन्याद्रवैर्दिनम् || १५८ || तच्च शुष्कं सिताक्षौर्मासमेकं लिहेत्सदा | वह्निमूलयुतं क्षीरं मनुष्यगरनाशनम् || १५९ || पुत्रजीवफलान्मज्जां निष्कमात्रं गवां पयः | पीत्वा चोग्रगरं हन्यान्नानाकृत्रिमयोगजम् || १६० || शठीपुष्करमूलस्य पानं मद्यविषापहम् || १६१ || तत्पिबेत्क्षीरपानेन गरतृष्णाज्वरापहम् | क्षीरं मुद्गयुतं पथ्यं शाल्यन्नं परमं हितम् || १६२ || गृहधूमं जलैः पिष्ट्वा तन्दुलीमूलतुल्यकम् | कल्काच्चतुर्गुणं चाज्यं घृतात्क्षीरं चतुर्गुणम् | घृतशेषं पचेत्सर्वं पिबेत्सर्वंगरापहम् || १६३ || समूलपत्रां सर्पाक्षीं जलेन क्वथितां पिबेत् | नरमूत्रेश्चैव पिष्टां पिबेत्सर्वगरापहम् || १६४ || एलातालीशपत्राणि त्र्यूषणं जीरकं समम् | चूर्णाद्द्विधा सिता योज्या भुक्त्वा गरहरं भवेत् || १६५ || पयसा रजनीकुष्ठं मध्वाज्यं गृहधूमकम् | तन्दुलीमूलसंयुक्तं कर्षं गरहरं लिहेत् || १६६ || इति कृत्रिमविषनिवारणम् | अथ योगजविषनिवारणम् तैलकर्पूरजंबीरसंयोगाद्योगजं विषम् | समांशेन तु मध्वाज्यमेवं संयोगजं विषम् || १६७ || नारिकेलाम्बु कर्पूरं संयोगाद्योगजं विषम् | मरीचतुम्बिकामूलं योगजं विषमेव तत् || १६८ || पुत्रं जीवफलेनैव रजनीमारनालकैः | देवदालीनृमूत्रैर्वा सर्पाक्षी चेन्द्रवारुणी || १६९ || गिरिकर्णीयमूलं वा प्रत्येकं विषजिद्भवेत् | मध्वाज्यं काकजङ्घाया द्रवैः पिष्ट्वा विषं हरेत् || १७० || गिरिकर्णी नागपुष्पी मुण्डीपानाद्विषं हरेत् || १७१ || इति योगजविषनिवारणम् | अथ भल्लातकविषनिवरणम् भल्लाततैलसंपर्कात्स्फोटः सञ्जायते नृणाम् | नवनीतं तिलं पिष्ट्वा तल्लेपेन तु तं जयेत् || १७२ || निम्बीपत्रप्रलेपाद्वा तं जयेत्तत्पदेन वा | भल्लातकस्य मूलस्य मृत्तिकाभिः प्रलेपनात् | तत्सञ्जातविकारांश्च नाशयत्येव निश्चितम् || १७३ || इति श्रीनित्यनाथविरचिते कामरत्ने विषनिवारणं नाम चतुर्दशोपदेशः || १४ || पञ्चदशोपदेशः अथ यक्षिणीसाधनम् सर्वासां यक्षिणीनां तु ध्यानं कुर्यात्समाहितः | भगिनीमातृपुत्रीस्त्रीरूपं तुल्यं यथोप्सितम् || १ || भोज्यं निरामिषं चान्नं वर्ज्यं ताम्बूलभक्षणम् | उपविश्याजिनादौ च प्रातः स्नात्वा न कं स्पृशेत् || २ || नित्यकृत्यं तु कृत्वा च स्थाने निर्जनके जपेत् | यावत्प्रत्यक्षतां यान्ति यक्षिण्यो वाञ्छितप्रदाः || ३ || जपेल्लक्षद्वयं मन्त्रं श्मशाने निर्भयो मुनिः | दशांशं गुग्गुलुं साज्यं हुत्वा तुष्यति यक्षिणी || ४ || वटयक्षिणीसाधनम् (१) त्रिपथे तु वटस्थाने रात्रौ मन्त्रं जपेत्स्वयम् | लक्षत्रयं ततः सिद्धा देवी च वटयक्षिणी || ५ || वस्त्रालङ्कारकं दिव्यं रससिद्धिरसायनम् | दिव्याञ्जनं तु सा तुष्टा साधकाय प्रयच्छति || ६ || ओं ह्रीं वटवासिनि यक्षकुलपताके वटयक्षिणि एह्येहि स्वाहा | || ५-६ || वटयक्षिणीसाधनम् (२) ओं वटवृक्षं समारुह्य लक्षमेकं जपेन्मनुम् | ततस्सप्ताभिमन्त्रेण काञ्जिकैः क्षालयेन्मुखम् || ७ || मासत्रयं जपेद्रात्रौ वरं यच्छति यक्षिणी | रसं रसायनं दिव्यं क्षुद्रकर्म ह्यनेकधा | सिद्धानि सर्वकार्याणि नान्यथा शङ्करोऽब्रवीत् || ८ || ओं नमश्चन्द्राद्यावाकर्णकारण क्लीं स्वाहा | वा ओं नमो भगवते रुद्राय चण्डवेगिने स्वाहा | रतिप्रियायक्षिणीसाधनम् शंखलिप्तपटे देवीं गौरवर्णां धृतोत्पलाम् | सर्वालङ्कारिणीं दिव्यां समालिख्यार्चयेत्ततः || ९ || जातीपुष्पैः सोपचारैः सहस्रैकं ततो जपेत् | त्रिसंध्यं सप्तरात्रं तु ततो रात्रिषु निर्जपेत् || १० || अर्द्धरात्रे गते देवी समागत्य प्रयच्छति | पञ्चविंशतिदीनारान् प्रत्यहं तोषिता सती || ११ || ओं ह्रीं कनककनक मैथुनप्रिये रतिप्रिये स्वाहा | अथवा ओं ह्रीं रतिप्रिये स्वाहा | सुरसुन्दरीयक्षिणीसाधनम् एकलिङ्गं महादेवं त्रिसंध्यं पूजयेत्सदा | धूपं दत्त्वा जपेन्मन्त्रं त्रिसंध्यं त्रिसहस्रकम् || १२ || मासमेकं ततो याति यक्षिणी सुरसुन्दरी | दत्त्वार्घ्यं प्रणमेन्मन्त्री ब्रूते सात्वं किमिच्छति || १३ || देवि दारिद्र्यदग्धोस्मि मे तन्नाशकरी भव | ततो ददाति सा तुष्टा वित्तायुश्चिरजीवितम् || १४ || ओं ह्रीं आगच्छ आगच्छ सुरसुन्दरि स्वाहा | विभ्रमायक्षिणीसाधनम् विभ्रमासाधनं वक्ष्ये प्रथमं शृणु वल्लभे | विभ्रमायां प्रसन्नायां वाञ्छितार्थान्प्रयच्छति | पञ्चाशन्मानुषाणां च ददाति भोजनं सदा || १५ || ओं ह्रीं वां विभ्रमरूपे एहि एहि भगवति स्वाहा | ओं ह्रीं विभ्रमरूपे विभ्रमं कुरु एह्येहि भगवति स्वाहा | अनुरागिणीयक्षिणीसाधनम् कुङ्कुमेन समालिख्य भूर्जपत्रे सुलक्षणाम् | प्रतिपत्तिथिमारभ्य पूजां कृत्वा जपेत्ततः || १६ || त्रिसन्ध्यं त्रिसहस्रं तु मासान्ते पूजयेन्निशि | संजपेदर्द्धरात्रं तु समागत्य प्रयच्छति | दीनाराणां सहस्रैकं ददाति परितोषिता || १७ || ओं ह्रीं ह्रीं अनुरागिणि मैथुनप्रिये स्वाहा | अथ विशालायक्षिणीसाधनम् चिञ्चावृक्षतले लक्षं मन्त्रमावर्त्तयेच्छुचिः | शतपुष्पोद्भवैः पुष्पैः सघृतैर्होममाचरेत् || १८ || विशाला च ततस्तुष्टा रसं दिव्यं रसायनम् | प्रसन्ना यच्छति ततः सर्वसिद्धिर्भविष्यति || १९ || ओं ऐं विशाले क्रीं ह्रीं व्रीं क्लीं क्रीं स्वाहा | सामुद्रीयक्षिणीसाधनम् ध्यात्वा जपेत्ततो रात्रौ सागरस्य तटे शुचिः | लक्षजापे कृते सिद्धिर्दत्ते सागरचेटकः | रत्नत्रयं तथा भोज्यं सौम्यो मन्त्री सुखी भवेत् || २० || ओं भगवन् समुद्र देहि रत्नानि जलवासो ह्रीं नमोऽस्तु ते स्वाहा | ओं भगवन् समुद्र देहि रत्नानि जलवासो ह्रीं नमोऽस्तु ते स्वाहा | महाभयायक्षिणीसाधनम् नरास्थिनिर्मिता माला गले पाणौ च कर्णयोः | धारयेज्जपमालां च तादृशीं तु श्मशानतः || २१ || लक्षमेकं जपेन्मन्त्रं साधको निर्भयश्शुचिः | ततो महाभया यक्षी प्रयच्छति रसायनम् || २२ || तस्य भक्षणमात्रेण सर्वरत्नानि चालयेत् | वलीपलितनिर्मुक्तश्चिरंजीवी भवेन्नरः || २३ || ओं ह्रीं त्रां महाभये क्लीं स्वाहा | अथवा ओं क्रीं महाभये क्लीं स्वाहा | ओं ह्रीं त्रां महाभये क्लीं स्वाहा | अथवा ओं क्रीं महाभये क्लीं स्वाहा | चन्द्रिकायक्षिणीसाधनम् शुक्लपक्षे जपेत्तावद्यावत्संदृश्यते विधुः | प्रतिपत्पूर्वपूर्णान्तं नवलक्षमिदं जपेत् || २४ || अमृतं चन्द्रिकादत्तं पीत्वा जीवोऽमरो भवेत् || २५ || ओं ह्रीं चन्द्रिके हं सः क्रीं क्लीं स्वाहा | ओं ह्रीं चन्द्रिके हं सः क्रीं क्लीं स्वाहा | चन्द्रद्रवायक्षिणीसाधनम् रक्तकम्बलायक्षिणीसाधनम् जप्यं मासत्रयं रक्तकम्बला सा प्रसीदति | मृतकोत्थापनं कुर्ययात्प्रतिमां चालयेत्तथा || २६ || ओं ह्रीं रक्तकम्बले महादेवि मृतकमुत्थापय प्रतिमां चालय पर्वतान् कम्पय कम्पय नीलय नीलय विहस विहस हूं हूं | ओं ह्रीं रक्तकम्बले महादेवि मृतकमुत्थापय प्रतिमां चालय पर्वतान् कम्पय कम्पय नीलय नीलय विहस विहस हूं हूं | कर्णपिशाचिनीसाधनम् पूर्वमेवायुतं जप्त्वा कृष्ण कन्याभिमन्त्रितः हस्तपादप्रलेपेन सुप्ते वक्ति शुभाशुभम् | त्रैलोक्ये यादृशी वार्ता तादृशं कथयेत्फलम् || २७ || ओं ह्रीं सः नमो भगवति कर्णपिशाचिनि चण्डवेगिनि वद वद स्वाहा | (१) ओं क्रीं सनामशक्ति भगवति कर्णपिशाचिनि चण्डरोपिणि वद वद स्वाहा | (२) विद्युज्जिह्वायक्षिणीसाधनम् अष्टोत्तरशतं जप्त्वा यत्किञ्चित्स्वादुभोजनम् | तद्वलिर्दीयते तस्यै वटाधो मासमेकतः || २८ || ततो देवी समागत्य हस्ताद्गृह्णाति भोजनम् | तत्रैव सा वरं दत्ते नित्यं सान्निध्यकारकम् || २९ || अतीतानागतं कर्म स्वस्थास्वस्थं ब्रवीति सा | प्रतिमाः पर्वतान्सर्वाश्चालयत्येव तत्क्षणात् || ३० || ओंकारमुखे विद्युज्जिह्वे | ओं ह्रूं चेटके जय जय स्वाहा | चिञ्चिपिशाचिनीसाधनम् रोचनैः कुंकुमैः क्षीरैः पद्मं चाष्टदलं लिखेत् | नीरन्ध्रे भूर्जपत्रे च मायाबीजं दले दले || ३१ || लिखित्वा धारयेन्मूर्ध्नि इमं मन्त्रं ततो जपेत् | पूर्वमेवायुतं जप्त्वा चैवं कुर्यात्प्रयत्नतः | अतीतानागतं सर्वं स्वप्ने वदति देवता || ३२ || ओं ह्रीं चिञ्चिपिशाचिनि स्वाहा | कर्णयक्षिणीसाधनम् अलाबुमूलिकां पुष्ये तथा सर्पाक्षिमूलिकाम् | ग्राह्याभिमन्त्रितां यत्नाद्रक्तसूत्रेण वेष्टयेत् | मूर्ध्नि बद्ध्वा तथासुप्तं वदत्येव शुभाशुभम् || ३३ || ओं नमो भगवत्यै रुद्रायै कर्णयक्षिण्यै स्वाहा | ओं नमो भगवत्यै रुद्राण्यै कर्णयक्षिण्यै स्वाहा | विचित्रायक्षिणीसाधनम् लक्षमेकं जपेन्मन्त्रं वटवृक्षतले शुचिः | बन्धूककुसुमैः पश्चान्मध्वाज्यैः क्षीरमिश्रितैः || ३४ || दत्ते धूपे दशांशेन जुहुयात्पूर्णयान्वितम् | ततः सिद्धा भवेद्देवी विचित्रा वाञ्छितप्रदा || ३५ || ओं विचित्रे विचित्ररूपे सिद्धिं कुरु कुरु स्वाहा | स्वप्नावतीयक्षिणीसाधनम् मृद्गोमयैर्लिपेद्भूमिं कुशांस्तत्र समास्तरेत् | पञ्चोपचारनैवेद्यैर्देवदेवीं प्रपूजयेत् || ३६ || अक्षसूत्रं करे धृत्वा पूर्वमेवायुतं जपेत् | सूर्यकोटिसमां ध्यात्वा रात्रौ पाणितले जपेत् | अर्द्धरात्रे गते देवी वार्त्तां वक्ति शुभाशुभाम् || ३७ || ओं ह्रीं आगच्छ आगच्छ चामुण्डे श्रीं स्वाहा | हंसीयक्षिणीसाधनम् प्रविश्य नगरस्यान्तं लक्षसंख्यं जपेच्छुचिः | पद्मपत्रैः कृतो होमो घृतोपेतैर्दशांशतः || ३८ || प्रयच्छत्यञ्जनं हंसी येन पश्यति भूनिधिम् | सुखेन तं च गृह्णाति न विघ्नैः परिभूयते || ३९ || ओं हंसि हंसिजने ह्रीं क्लीं स्वाहा | ओं नमो हंसिनि हंसगते मां स्वाहा इति वा | कालकर्णीयक्षिणीसाधनम् लक्षसंख्यं जपेन्मन्त्रं पलाशतरुजेन्धनैः | मधुनाज्यैः कृते होमे कालकर्णी प्रसीदति || ४० || सैन्यधारास्त्रबन्धं च गतिस्तम्भकरी भवेत् | सततं तां स्मरेन्मंत्री विविधैश्वर्यकारिणीम् || ४१ || ओं ह्रीं क्लीं कालकर्णिके ठः ठः स्वाहा | मदनायक्षिणीसाधनम् लक्ष संख्यं जपेन्मत्रं राजद्वारे शुचिः स्थिरः | सक्षीरैर्मालतीपुष्पैर्घृतहोमो दंशांशतः || ४२ || मदना यक्षिणी सिद्धिं गुटिकां संप्रयच्छति | तया मुखस्थयाऽदृश्यश्चिरस्थायी भवेन्नरः || ४३ || ओं ऐं मदने मदनविद्रावणे अनङ्गसङ्गमं देहि देहि क्रीं क्रीं स्वाहा | लक्ष्मीयक्षिणीसाधनम् स्वगृहे संस्थितो रक्तैः करवीरप्रसूनकैः | लक्षमावर्त्तयेन्मन्त्रं होमं कुर्याद्दशांशतः || ४४ || होमे कृते भवेत्सिद्धिर्लक्ष्मीनाम्नी च यक्षिणी | रसं रसायनं दिव्यं विधानं च प्रयच्छति || ४५ || ओं ऐं लक्ष्मीं श्रीं कमलधारिणीं कलहंसी स्वाहा | ओं ऐं लक्ष्मीं श्रीं कमलधारिणीं कलहंसी स्वाहा | शोभनायक्षिणीसाधनम् रक्तमाल्याम्बरो मन्त्रं चतुर्दशिदिने जपेत् | ततः सिद्धा भवेद्देवी शोभना भोगदायिनी || ४६ || ओं अशोक पल्लवाकार करतले शोभनीं श्रीं क्षः स्वाहा | ओं अशोक पल्लवाकार करतले शोभनीं श्रीम् क्षः स्वाहा | नटीयक्षिणीसाधनम् पुष्याशोकतलं गत्वा चन्दनेन सुमण्डलम् | कृत्वा देवीं समभ्यर्च्य धूपं दत्त्वा सहस्रकम् || ४७ || मन्त्रमावर्तयेन्मासं नक्तभोजी नरस्तदा | रात्रौ पूजां शुभां कृत्वा जपेन्मत्रं निशार्द्धके || ४८ || नटी देवी समागत्य निधानं रसमञ्जनम् | ददाति मन्त्रिणेमन्त्रं दिव्ययोगं च निश्चितम् || ४९ || ओं ह्रीं नटि महानटि स्वरूपवति स्वाहा | पद्मिनीयक्षिणीसाधनम् स्रक्सुगन्धिगृहस्थाने चन्दनेन सुमण्डलम् | कृत्वा हस्तप्रमाणेन पूजयेत्तत्र पद्मिनीम् || ५० || धूपं सगुग्गुलुं दत्त्वा जपेन्मन्त्रं सहस्रकम् | मासमेकं ततः पूजां कृत्वा रात्रौ पुनर्ज्जपेत् || ५१ || अर्द्धरात्रे गते देवी समागत्य प्रयच्छति | निधानं दिव्ययोगं च तस्मान्मन्त्री सुखी भवेत् || ५२ || ओं ह्रीं (वा क्रीं) पद्मिनी स्वाहा | ओं ह्रीं पद्मिनी स्वाहा | ओं क्रीं पद्मिनी स्वाहा | महायक्षिणी ओं ह्रीं क्लीं ऐं श्रीमहायक्षिण्यै सर्वैश्वर्यप्रदात्र्यै नमः | कामेश्वरीयक्षिणी ओं नमो आगच्छ कामेश्वरि स्वाहा | जयायक्षिणी ओं ऐं जये यक्षिणी सर्वकार्यं साधनं कुरु कुरु स्वाहा | कलावतीयक्षिणी ओं ह्रीं कलावति मैथुनप्रिये आगच्छ स्वाहा | इति श्रीनित्यनाथविरचिते कामरत्ने यक्षिणीसाधनं नाम पञ्चदशोपदेशः || १५ || षोडशोपदेशः अथ बाजीकरणादिप्रयोगसिद्धयेरसादिशोधनम् अथ रसशोधनम् पलान्न्यूनं न कर्त्तव्यं रससंस्कारमुत्तमम् | अघोरेणैव मन्त्रेण रसराजस्य पूजनम् || १ || ओं अघोरेभ्योथ घोरेभ्यो घोरघोरतरेभ्यः | सर्वतः सर्वसर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः || २ || अघोरेभ्योथ घोरेभ्यो घोरघोरतरेभ्यः | सर्वतः सर्वसर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः || १-२ || कुमार्याश्चनिशाचूणैर्दिनं सूतं विमर्दयेत् | पातयेत्पातनायन्त्रे सम्यक्शुद्धो भवेद्रसः || ३ || अथवा हिङ्गुलात्सूतं ग्राहयेत्तन्निगद्यते | पारिभद्ररसैः पेष्यं हिंगुलं याममात्रकम् || ४७ || जम्बीराणां द्रवैर्वाथ पात्यं पातालयन्त्रके | तं सूतं योजयेद्योगे सप्तकञ्चुकवर्जितम् || ५ || सूतस्य दशमांशं तु गन्धं दत्त्वा विमर्दयेत् | जम्बीरोत्थद्रवैर्यामं पात्यं पातालयन्त्रके || ६ || पुनर्मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये | इत्येवं शुद्धयः ख्यातास्तासामेकां तु कारयेत् || ७ || उपर्यापो ह्यधो वह्निर्मध्ये च रसपिष्टिका | क्रमादग्निर्विदध्यात्तत्पातालं यन्त्रमुच्यते || ८ || इति रसशोधनम् | अथ रसमारणम् उक्तं सर्वस्य सूतस्य तप्त खल्वे विमर्दनम् | अजाशकृत्तुषाग्निं तु भूगर्ते त्रितयं क्षिपेत् || ९ || तस्योपरि स्थितं खल्वं तप्तखल्वमिदं भवेत् | खल्वं लोहमयं शस्तं पाषाणोष्णमथावि वा || १० || अजीर्णं चाप्यबीजं वा यः सूतं घातयेन्नरः | ब्रह्महा सुदुराचारो मन्त्रद्रोही महेश्वरि || ११ || रामठं पञ्चलवणं तथा क्षारचतुष्टयम् | त्रिकटुं शृङ्गवेरं च मातुलुङ्गं रसाप्लुतम् || १२ || पिण्डमध्ये रसं दत्त्वा स्वेदयेत्सप्तवासरान् | सारनाले तु मृद्भाण्डे ग्रासार्थी जायते ध्रुवम् || १३ || एतदेव रसं यत्नाज्जम्बीरद्रवसंयुतम् | दिनैकं धारयेद्घर्मे मृत्पात्रे वा मृतो भवेत् || १४ || ग्रासं तत्रैव दातव्यं स्वर्णशुद्धिः शनैः शनैः | चतुष्षष्ट्यादि तुल्यांशं देयं जीर्णञ्च चालयेत् || १५ || चतुष्षष्ट्यंशकं चादौ द्वात्रिंशत्तदनन्तरम् | पुनर्विंशतिमं ग्राह्यं द्विरष्टद्वादशं क्रमात् || १६ || अष्टमांशं चतुर्थं वाप्यर्द्धं चैव समांशकम् | प्रतिग्रासे तप्तखल्वे दिनमम्लेन मर्दयेत् || १७ || तं क्षिपेच्चारणायंत्रे जम्बीरनीरसंयुतम् | तद्यन्त्रं धारयेद्घर्मे दिनं स्याज्जारितो रसः || १८ || तं छागक्षीरगोमूत्रस्नुक्क्षीराम्लै प्रलेपिते | दृढवस्त्रे बहिर्बद्ध्वा मृद्घटे स्वेदयेद्बुधः || १९ || काञ्जिकाक्षारमूत्रैर्वा दोलायन्त्रे त्वहर्निशम् | तमुद्धतं रसं देवि खल्वे संशोधयेत्क्षणात् || २० || संमर्द्य पूर्ववत्खल्वे यन्त्रे लिप्तपुटे पुनः | क्रमेणानेन देवेशि त्रिभिर्ग्रासैः प्रजीर्यते || २१ || यावत्तेन यदा तस्मात्तावत्तेन विमर्दयेत् | प्रतिग्रासे तप्तखल्वे यथाशक्त्या च जारयेत् || २२ || तं जीर्णं मारयेत्सूतं मारणं कथ्यते द्रवैः | तं हि सर्वरसोपेतं पिष्ट्वा खल्वे विमर्दयेत् || २३ || सूतं गन्धकसंयुक्तं दिनान्ते तन्निरोधयेत् | पुटयेद्भूधरे यन्त्रे दिनान्ते तत्समुद्धरेत् || २४ || कृष्णधत्तूरतैले सूतो मर्द्यो द्वियामकम् | दिनैकं तत्पचेद्यन्त्रे कच्छपाख्ये न संशयः || २५ || मृतः सूतो भवेत्सद्यः सर्वरोगेषु योजयेत् | रसगन्धं समं मर्द्य दिनं निर्गुण्डिकाद्रवैः | चक्रमूषान्विते ध्माते भस्म सूतं भवेन्मलम् || २६ || टङ्कणं मधु लाक्षा च कुर्णागुञ्जायुतो रसः || २७ || मर्दयेद्भृङ्गजद्रावैर्दिनैकं चान्धयेत्पुनः | ध्मातो भस्मत्वमाप्नोति शुद्धः स्फटिकसन्निभः || २८ || द्विपलं सूतराजस्य पलैकं गन्धकस्य च | मर्दयेन्मार्कवद्रावैर्दिनमेकं निरन्तरम् || २९ || रुद्ध्वा तद्भूधरे यन्त्रे दिनैकं मारयेत्पुटात् | इत्येवं जारिते सूते मारणं परिकीर्तितम् || ३० || अथवा ग्रासयोग्यं तु निहन्यात्सान्वितं रसम् | सूतकं घनसत्त्वं च मर्दयेत्कंगुणीद्रवैः || ३१ || दिनैकं गोलकं तं च शोषयेदातपे खरे | गर्भयंत्रगतं पच्यात् त्रिदिनं हि तुषाग्निना || ३२ || करीषाग्नौ दिवारात्रौ पचेतद्भस्मतां नयेत् | सूतं स्वर्णं व्योम शङ्खं समं रम्भाद्रवैर्दिनम् || ३३ || मर्दयेद्वीजसंयुक्तं चर्षिचारणयन्त्रके | सर्वकैर्मूलिकाद्रावादनमेकं तु मर्दयेत् || ३४ || गर्भयन्त्रगतं पाच्यं म्रियते पूर्ववद्रसः | ब्रह्मदण्डी मेघनादो चित्रकं कटुतुम्बिका || ३५ || वज्रवल्ली बला कन्या त्रिकुटार्के स्नुहीपयः | कन्दोरम्भा च निर्गुण्डी लज्जा जाती जयन्तिका || ३६ || विष्णुक्रान्ता हस्तिशुण्डी दद्रुघ्नो भृङ्गराट् पटुः | गुडूची लाङ्गली नीरकणा काली महोरगा || ३७ || काकमाची च दन्ती च एताः पारदमारकाः | व्यस्ताः समस्ता वा सर्वा देया ह्यष्टदशाधिकाः | उक्तस्थाने प्रयोक्तव्या रसराजस्य सिद्धये || ३८ || अथ गर्भयन्त्रप्रकारः चतुरङ्गुलदीर्घा तु मृन्मयी दृढमूषिका | त्र्यङ्गुलीमध्यवितारे वर्तुलं कारयेन्मुखम् || ३९ || लोनस्य विंशतिर्भागा एको भागस्तु गुग्गुलोः | सुश्लक्ष्णं पेषयित्वा तु तोयं दत्त्वा पुनः पुनः || ४० || मुखलेपं ततः कुर्याद्रसं तत्र विनिक्षिपेत् | अन्धयित्वा पुटं देयं गर्भयन्त्रमिदं भवेत् || ४१ || इति रसमारणम् | अथ हिंगुलशुद्धिः मेषीक्षीराम्लवर्गाभ्यां दरदं धर्मभावितम् | सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् || ४२ || इति हिंगुलशुद्धिः | अथ गन्धकशुद्धिः शुक्लपक्षसमच्छायो नवनीतसमप्रभः | मसृणः कठिनः स्निग्धः श्रेष्ठो गन्धक उच्यते || ४३ || घृतं भाण्डे पयः क्षिप्त्वा मुखं वस्त्रेण वेष्टयेत् | तत्पूर्वं चूर्णितं गन्धं क्षिप्त्वा तस्योपरि न्यसेत् || ४४ || कपालमेकमुत्तानं गन्धकस्यावियोगि तत् | दुग्धभाण्डं न्यस्य भूमौ देयमूर्ध्वपुटं लघु || ४५ || ततः क्षीरे द्रुतं गन्धं शुद्धयोगेषु योजयेत् | गन्धं घृते विपक्तव्यं यावत्तैलनिभं भवेत् || ४६ || वस्त्रेणान्तरितं कृत्वा चालयेस्त्रिफलाम्भसि | एवं गन्धकशुद्धिः स्यात्तत्तो योगेषु योजयेत् || ४७ || इति गन्धकशुद्धि | अथ अभ्रकशुद्धिः कृष्णः पीतः श्वेतरक्तो योज्यो योगरसायने | पिनाकं दर्दुरं नागं वज्रं चेति चतुर्विधम् || ४८ || पिनाकाद्यास्त्रयो वर्ज्या वज्रं यत्नात्समाहरेत् | मुञ्चत्यग्नौ च निक्षिप्तः पिनाको दलसञ्चयम् || ४९ || अज्ञानाद्भक्षणात्तस्य महादुःखप्रदो भवेत् | दर्दुरोऽग्नौ विनिक्षिप्तः कुरुते दर्दुरध्वनिम् || ५० || तच्च भक्षणमात्रेण नानारोगान् प्रयच्छति | नागश्चाग्निस्थितः सद्यः फूत्कारं च विमुञ्चति || ५१ || स च देहगतो नित्यं व्याधिं कुर्याद्भगन्दरम् | वज्राभ्रकं तु वह्नौ च न किञ्चिद्विक्रियां व्रजेत् || ५२ || तस्माद्वज्राभ्रकं योज्यं व्याधिवार्धक्यमृत्युजित् | धमेद्वज्राभ्रकं वह्नौ यावदग्निनिभं भवेत् || ५३ || गोक्षीरे च ततः सेच्यं गोक्षीरे च पुनः पुनः | भिन्न पात्रे च तत्कृत्वा मेघनादद्रवाम्बुना | भावयेदष्टयामं च जायते दोषवर्जितम् || ५४ || अथवाभ्रस्य भागौ द्वौ मुस्ता चैकं जलैस्सह | त्रिदिनं स्थापयेत्पात्रे ततः सूक्ष्मं पपेषयेत् || ५५ || एतदभ्रकचूर्णं तु निस्तुषं व्रीहिसंयुतम् | वस्त्रेण बद्ध्वा सारनाले भाण्डमध्ये विमर्दयेत् || ५६ || हस्ताभ्यां स्वयमायाति यावदम्लं तु रेणुताम् | अदोषाभ्रगतं शुद्धं शुष्कं धान्याभ्रकं भवेत् || ५७ || धान्याभ्रकं रविक्षीरे रविमूलद्रवैश्च वा | दिनमर्धपुटे पच्यात्सप्तधैनं मृतं भवेत् || ५८ || धान्याभ्रकस्य भागैकं द्वौ भागौ टङ्कणस्य तु || ५९ || पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना धमेत् | स्वभावशीतलं चूर्णं सर्वयोगेषु योजयेत् || ६० || इति अभ्रकशुद्धिः | अथ अमृतीकरणम् सर्वेषां घातितानां तु ह्यमृतीकरणं शुऋणु | त्रिफलोत्थकषायस्य पलान्यादाय षोडश || ६१ || गोघृतस्य पलान्यष्टौ मृताभ्रस्य पलान् दश | एकीकृत्वा लोहपात्रे पाचयेन्मृदुवह्निना || ६२ || द्रवैर्जीर्णं समादाय सर्वयोगेषु योजयेत् || ६३ || इति अमृतीकरणम् | अथ अभ्रकसत्त्वपातनम् चूर्णीकृतं गगनपत्रमथारनाले धृत्वा दिनैकमथ शोष्य च सूरणस्य | भाव्यं रसस्तदनु मूलरसे कदल्या वेदांशटङ्कणयुतं शफरीसमेतम् || ६४ || पिण्डीकृतं तु बहुधा महिषीमलेन संशोष्य कोष्ठगतमाशु धमेद्यताग्नौ | भस्त्रीद्वयेन च ततो वमते हि सत्त्वं पाषाणधातुगतमात्रमसंशयोस्ति || ६५ || इति अभ्रकसत्त्वपातनम् | अथ मनःशिलाशुद्धिः जयन्तीभृङ्गराजोत्थं रक्तागस्तिरसैः शिलाम् || ६६ || दोलायन्त्रे पचेद्यामं यामं छागोत्थमूत्रकैः | क्षालयेदारनालेन सर्वयोगेषु योजयेत् || ६७ || इति मनःशिलाशुद्धिः | अथ हरतालशुद्धिः तालकं पोटलीं बद्ध्वा सचूर्णं काञ्जिके क्षिपेत् | दोलायन्त्रेण यामैकं ततः कूष्माण्डजे रसे || ६८ || तिलतैले पचेद्यामं यामं च त्रिफलाजलैः | एवं यन्त्रे चतुर्यामं पाच्यं शुद्ध्यति तालकम् || ६९ || इति हरतालशुद्धिः | अथ तुत्थशुद्धिः विष्ठया मदयत्तुत्थं मार्जारककपोतयोः | दशांशं टङ्कणं दत्त्वा पाच्यं मृदुपुटे तु तत् | पुटं दध्ना पुटं क्षौद्रे देयं तुत्थं विशुद्धये || ७० || इति तुत्थशुद्धिः | अथ काशीशशंखनाभिशुद्धिः घर्मे शुद्ध्यति काशीशं दिनं जम्बीरभावितम् || ७१ || शङ्खनाभं च संदग्ध्वा भाव्यमम्लेन सप्तधा | प्रक्षाल्यं ग्राहयेत्तावच्छुद्धिमायाति नान्यथा || ७२ || इति काशीशशंखनाभिशुद्धिः | अथ शातकुम्भादिधातुशोधनम् मृत्तिकामातुलुङ्गाम्लैः पञ्चवासरभाविता | सभस्मलवणैर्हेम शोधयेत्पुटपाकतः || ७३ || वल्मीकमृत्तिका धूमं गैरिकं चेष्टिका पटुः | इत्येता मृत्तिकाः पञ्च जम्बीरैरारनालकैः || ७४ || पिष्ट्वा लिप्तस्वर्णपत्रं पुटेन परिशुद्ध्यति | नागेन टङ्कणेनैव धूमे शुद्ध्यति रौप्यकम् || ७५ || खटिका लवणं तक्रैरारनालैश्च पेषयेत् | तेन लिप्तं ताम्रपत्रं तप्तं तप्तं निषेचयेत् || ७६ || खदिरारनालतक्रान्तनिर्गुण्डी न विशुद्धये || ७७ || रोहणं राजवं चैवं तृतीयं च पुटीरकम् | इति तीक्ष्णं त्रिधा तं च शोधयेद्योगसिद्धये || ७८ || इति शातकुम्भादिधातुशोधनम् | अथ तुत्थटङ्कणकाचलौहशोधनम् शशरक्तेन संलिप्तं त्रिवारं चाग्निपाचितम् | तुत्थटङ्कणकाचैर्वा धामितं शुद्धमृच्छति || ७९ || अथवा लोहचूर्णं तु गोमूत्रैः षड्गुणैः पचेत् | प्रक्षालयेदारनालैः शोष्यं शुद्धिमवाप्नुयात् || ८० || सर्वेषांमते मारणम् शुद्धसूतं समं स्वर्णं खल्वे कुर्याच्च गोलकम् | अधोर्द्धं गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च || ८१ || विंशद्वनोपलैर्देयं पुटान्येव चतुर्दश | निरुत्थं जायते भस्म गन्धं देयं पुनः पुनः || ८२ || रौप्यं पत्रं चतुर्भागं गन्धं भागेन लेपयेत् | जम्बीरीनरपिष्टेन पञ्चविंशद्वनोपलैः || ८३ || बद्ध्वा त्रिभिः पुटे पच्याद्गन्धं देयं पुनः पुनः || म्रियते नात्र सन्देहस्तत्तत्कर्मणि योजयेत् || ८४ || ताम्रतुल्येन गन्धेन ह्यम्लपिष्टेन लेपयेत् | कण्टवेधीकृतं पत्रमन्धयित्वा पुटे पचेत् || ८५ || उद्धृत्य चूर्णयेत्तस्मिन् पादांशं गन्धकं क्षिपेत् | जम्बीरैरारनालैर्वा पिष्ट्वा बद्ध्वा पुटे पचेत् || ८६ || एवं चतुः पुटैः पाच्यं गन्धं देयं पुनः पुनः | मातुलुङ्गद्रवैः पिष्ट्वा पुटमेकं प्रदापयेत् || ८७ || अथास्य दोषहरणम् सितशर्करयाप्यैकं पुटं देयं मृतं भवेत् || ८८ || मृतं ताम्रं तु जम्बीरैर्यामं खल्वे विमर्दयेत् | तद्गोलं सूरणे क्षिप्त्वा रुद्ध्वा सर्वं च लेपयेत् | शुष्कं गजपुटे पाच्यं निर्दोषं सर्वरोगहृत् || ८९ || अथ लौहमारणम् नायं पचेत् पञ्चपलादर्वागूर्द्ध्व त्रयोदश | आदौ मन्त्रस्तथा कर्म कर्तव्यं मन्त्र उच्यते || ९० || ओं अमृतोद्भवाय स्वाहा- इति मर्दनमन्त्रः | अनेन मन्त्रेण लोहस्य तत्साधकस्य रक्षा कर्तव्या | ओं नमश्चण्डचक्रपाणये स्वाहा यक्षसेनाधिपतये सुरगुरुमहाविद्याबलाय स्वाहा | अनेन मन्त्रेण बलिं दत्त्वा ततः कर्मं कुर्यात् || दन्तीपत्रद्रवं तस्यां लोहचूर्णं दिनोदये | घर्मे धार्य दिनं कांस्ये द्रवं देयं पुनः पुनः || ९१ || रुद्ध्वा रात्रौ पुटे पाच्यं प्रातर्द्रवैश्च भावयेत् | एवमष्टदिनं कुर्यात्त्रिविधं म्रियते तु यः || ९२ || मृतस्य लक्षणम् मध्वाज्यं मृतलोहं च रौप्यं सम्पुटके क्षिपेत् | रुद्ध्वा ध्माते तु संग्राह्यं रौप्यं चेत्पूर्वमानकम् | तदा लोहं मृतं विद्यादन्यथा साधयेत्पुनः || ९३ || अथ शोधनम् गन्धकं तुल्यकं लोहं तुल्यं खल्वे विमर्दयेत् || ९४ || दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत् | इत्येवं सर्वलोहानां कर्तव्यं स्यान्निरुत्थनम् || ९५ || अथास्यामृतीकरणम् घृततुल्यं मृतं लोहं लोहपात्रगतं पचेत् | जीर्णे घृते समादाय योगवाहेषु योजयेत् || ९६ || अथ भूनागसत्त्वम् सद्यो भूनागमादाय क्षालयेच्छिथिलं बुधः | अथवा कुक्कुटं वीरं कृत्वा मन्दिरमाश्रितम् || ९७ || मलमूत्रं गृहीतेन सदम्बु प्रथमांशकम् | आलोड्य टङ्कं मध्वाज्यैघर्मे सर्वार्थमादरात् | मुञ्चेत्तु ताम्रवत्सत्त्वमेतद् भूनागसत्त्वकम् || ९८ || इति नागवर्गः | अथ लवणपञ्चकम् सामुद्रं सैन्धवं काचं चुल्लिका च सुवर्चलम् | मूलिका नवक्षारश्च ज्ञेयं लवणपञ्चकम् || ९९ || इति लवणपञ्चकम् | अथ क्षाराः त्रिक्षारष्टङ्कणक्षारो यवक्षारश्च स्वर्जिका || १०० || इति क्षाराः | अथ वृक्षक्षारः तिलापामार्गकदलीपलाशः शिग्रुपौण्ड्रकौः मूलकार्द्रकचित्राश्च सर्वमन्तः पुटेपचेत् || १०१ || समालोड्य जलैर्बद्ध्वा वस्त्रे ग्राह्यमधोजलम् | शोधयेत्पाचयेदग्नौमृद्भाण्डेन तु तज्जलम् | ग्राह्यं क्षारावशेषं तु वृक्षक्षारमिदं स्मृतम् || १०२ || इति वृक्षक्षाराः | अथ विडः मूलिकार्द्रकवह्नीनां क्षारं गोमूत्रयोजितम् | वस्त्रं पूतं जलं ग्राह्यं गन्धकं तेन भावयेत् || १०३ || सप्तवारं खरे घर्मे बीजोऽयं हेमजारणे | कन्याहयारिधत्तूरद्रवैर्भाव्यं तु गन्धकम् || १०४ || शतवारं खरे धर्मे बीजोऽयं हेमजारणे | गन्धकं शङ्खचूर्णं वा गोमूत्रैः शतभावितम् | बीजोऽयं जारणे श्रेष्ठो बीजानां द्रावणे हितः || १०५ || अथ अम्लवर्गः जम्बीरं नागरङ्गश्च मातुलुङ्गाम्बवेतसम् | चाङ्गेरी चणशुक्रश्च अम्लवर्गः प्रकीर्तितः || १०६ || इति अम्लवर्गः | अथ वज्रमूषा वल्मीकमृत्तिकाभागं गवास्थितुषभस्मनोः | भागं रसं समादायं वज्रमूषा विरच्य ते || १०७ || इति श्रीनित्यनाथविरचिते कामरत्ने रसादिशोधनं नाम षोडशोपदेशः || १६ || ########### END OF FILE #######