#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00026 Uniform title: kaṅkālamālinītantra Main title: kaṅkālamālinītantram Editor : Chatterjee Description: From the edition by Chatterjee published in Calcutta end of 19th century Script Bengali Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S.G. Dycskowski. Revision 0: 28/01/2007 Publisher : Publication year : Pre-1900 Publication city : Calcutta Publication country : India #################################################### ****************************************************************************************** * ट्रन्स्च्रिबेद् ब्य थे स्तff ओf ंउक्तबोध * fरोम् थे एदितिओन् ब्य Cहत्तेर्जेए पुब्लिस्हेद् इन् Cअल्चुत्त एन्द् ओf १९थ् चेन्तुर्य * उन्देर् थे सुपेर्विसिओन् ओf ंअर्क् ष्.ङ्. ड्यच्श्कोwस्कि * ष्च्रिप्त् Bएन्गलि * रेविसिओन् ० ञनुअर्य २८, २००७ * ःअर्वर्द्-Kयोतो त्रन्स्लितेरतिओन् ***************************************************************************************** कङ्कालमालिनीतन्त्रम् ओं नमः श्रीगुरवे श्रीभैरवी उवाच त्रिपुरेश महेशान पार्वतीप्राणवल्लभ | जगद्वन्द्य शूलपाणे वर्णानां कारणं वद || १ || श्रीभैरव उवाच कथयामि वरारोहे वर्णानां भेदमुत्तमम् | न प्रकाश्यं महादेवि ! तव स्नेहात् सुभाषिणि || २ || यज्ज्ञात्वा योगिनो यान्ति निर्गुणत्वं मम प्रिये ! तच्छृणुश्व स्वरूपेण महायौवनगर्विते || ३ || शब्दब्रह्मस्वरूपं तद् आदिक्षान्तं जगत्प्रभुः | विद्युद्जिह्वा करालास्या गर्जिनी धूम्रभैरवी || ४ || कालरात्रिर्विदारी च महारौद्री भयंकरी | संहारिणी करालिनी ऊर्ध्वकेश्युग्रभैरवी || ५ || भीमाक्षी डाकिनी रुद्रडाकिनी चण्डिकेति च | एते वर्णाण् स्वरा ज्ञेयाः कौलिनि व्यंजनान् शृणु || ६ || क्रोधीशो वामनश्चण्डो विकार्युन्मत्तभैरवः | ज्वालामुखो रक्तदंष्ट्रो हसिताङ्गो वडवामुखः || ७ || विद्युन्मुखो महाज्वालः कपाली भीषणो रुरुः | संहारी भैरवो दण्डी वलिभुगुग्रशूलधृक् || ८ || सिंहनादी कपर्दी च करालाग्निर्भयङ्करः | बहुरूपी महाकालो जीवात्मा क्षतजोक्षितः || ९ || बलभेदी रक्तपश्च चण्डीशो ज्वलनध्वजः | वृषध्वजो व्योमवक्त्रस्त्रैलोक्यग्रसनात्मकः || १० || एते च व्यञ्जना ज्ञेयाः कादिक्षान्ताः क्रमादिताः | अकारादिक्षकारान्ता वर्णास्तु शिवशक्तयः || ११ || पञ्चाशच्च इमे वर्णा ब्रह्मरूपाः सनातनाः | येषां ज्ञानं विना वामे सिद्धिर्न स्याद् गुरुस्तनि || १२ || ते वर्णसागराः प्रोक्ता गुणत्रयमयाः शुभे | विद्युद्जिह्वा मुखं कृत्वा चण्डिकान्तं नगात्मजे || १३ || सत्त्वगुणमया वर्णा रजोगुणमयान् शृणु | क्रोधीशाद् दण्डिपर्यन्ता व्यञ्जना राजसाः स्मृताः || १४ || बलिभुग्वर्णमारभ्य त्रैलोक्यग्रसनावधि | ज्ञेयास्तमःस्वरूपास्ते तेभ्यो जातान् शृणु प्रिये || १५ || गुशब्दश्चान्धकारः स्याद् रुशब्दस्तन्निरोधकृत् | अन्धकारनिरोधित्वाद् गुरुरित्यभिधीयते || १६ || गकारः सिद्धिदः प्रोक्तो रकारः पापहारकः | उकारस्तु भवेद् विष्णुस्त्रितयात्मा गुरुः स्वयम् || १७ || आदावसौ जायते च शब्दब्रह्मसनातनः | वसुजिह्वा कालरात्र्या रुद्रडाकिन्यलङ्कृता || १८ || विषबीजं श्रुतिमुखं ध्रुवं हालाहलं प्रिये | ओं चण्डीशः क्षतजारूढो धूम्रभैरव्यलङ्कृतः || १९ || नादबिन्दुसमायुक्तं लक्ष्मीबीजं प्रकीर्तितम् | श्रीं | क्रोधीशं क्षतजारूढं धूम्रभैरव्यलङ्कृतम् || २० || नादबिन्दुयुतं देवि नामबीजं प्रकीर्तितम् | ध्रीं (क्रोधीशोवलभृद्)(वलिभुग्) धूम्रभैरवीनादबिन्दुभिः || २१ || त्रिमूर्तिर्मन्मथः कामबीजं त्रैलोक्यमोहनम् | क्री/ | क्षतजस्थो व्योमवक्त्रो थूम्रभैरव्यलङ्कृतः || २२ || नादबिन्दुसुशोभाढ्य मायालज्जाह्वयं स्मृतम् | क्रीं | व्योमास्यञ्ज विदारीस्थं नादबिन्दुविराजितम् || २३ || कूर्चकालं क्रोधबीजं जानीहि वीरवन्दिते | हू/ | व्योमास्यः कालरात्र्याढ्यो वर्मबिद् बिन्दुसंयुतः || २४ || कथितं वचनं बीजं कुलाचारप्रियेऽमले | दू/ | व्योमास्यं क्षतजारूढं डाकिन्या नादबिन्दुभिः || २५ || ज्योतिर्मन्त्रं समाख्यातं महापातकनाशनम् | द्रा/ | नादबिन्दुसमायुक्तां समादायोग्रभैरवीम् || २६ || भौतिकं वाग्भवं बीजं विद्धि सारस्वतं प्रिये | ऐं प्रलयाग्निर्महाजालः ख्यातोऽस्त्रमनुः शिवे || २७ || रक्तक्रोधीशभीमाख्योऽङ्कुशोऽयं नादबिन्दुमान् | क्रौ/ | द्विठः शिवो वह्नि जाया स्वाहा ज्वलनवल्लभा || २८ || स्वाहास्वाहासंयुतं धूम्रभैरव्या रक्तस्य बलिभोजनम् | नादबिन्दुसमायुक्तं किङ्किणीबीजमुत्तमम् || २९ || द्री/ | नादबिन्दुसमायुक्तं रक्तस्थं बलिभोजनम् | करालास्यासनोपेतं विशिकाख्यं महामनुम् || ३० || दू/ | विदार्या नेक्षितो गुह्ये वलिभुक् क्षतजोक्षितः | नादबिन्दुसमायुक्तो विज्ञेयः पिशिताशनः || ३१ || धूमोज्ज्वलकरालाग्नि ऊर्ध्वकेशीन्दुबिन्दुभिः | युगान्तकारकं बीजं वीरपत्निप्रकाशितम् || ३२ || संहारिण्या स्थितञ्चोर्ध्वं कशिनन्तु कपर्दिनम् | नादबिन्दुसमायुक्तं बीजं बैतालिकं स्मृतम् || ३३ || सनादबिन्दुक्रोधीशं गुह्ये संहारिणीस्थितम् | कम्पिनीबीजमित्युक्तं चण्डिकाख्यं मनोहरम् || ३४ || कपर्दिनं समादाय क्षतजोक्षितसंस्थितम् | संयुक्तं धूम्रभैरव्या ध्वाङ्क्षोऽयं नादबिन्दुमान् || ३५ || प्रीं | कदलीद्वयमादाय महाकालेन मण्डितम् | सनादस्तु नमित्युक्तं चण्डिकाख्यं पयोधरम् || ३६ || ठ/ ठ/ | प्रलयाग्निस्थितो धूमध्वजो गुह्येशबिन्दुमान् | संयुक्तो धूम्रभैरव्या स्मृता फेत्कारिणी प्रिये || ३७ || स्फीं | क्षतजस्थं व्योमवक्त्रं बिन्दुखण्डेन्द्वलङ्कृतम् | खद्योतमिति विख्यातं ग्रसिनीकालरात्रियुक् || ३८ || द्रू/ | क्षतजोक्षितमारूढं नादबिन्दुसमन्वितम् | विदारीभूषितं देवि बीजं वैवस्वतात्मकम् || ३९ || || इति दक्षिणाम्नाये सार्घलक्षग्रन्थे कङ्कालमालिनीतन्त्रे प्रथमः पटलः || १ || अथ द्वितीयः पटलः श्रीपार्वती उवाच देव देव महादेव नीलकण्ठ तपोधन | योनिमुद्रां महादेव तत्त्वत्रयं परात्परम् | एतदेव महादेव कथ्यतां मे पिनाकधृक् || १ || श्री-ईश्वर उवाच शृणु वक्ष्यामि देवेशि दासोऽहं तव सुव्रते | अतिगुह्यं महापुण्यं तत्त्वत्रयं वरानने || २ || सारात् सारं परं गुह्यमतिगोप्यं सुनिश्चितम् | शङ्कापि जायते देवि कथं तत्कथयाम्यहम् || ३ || कथयामि महेशानि आज्ञया तव भामिनि | न चेत् तत् कथ्यते देवि तव क्रोधः प्रजायते || ४ || त्वया क्रोधे कृते देवि हानिः स्यान्मम कामिनि | मन्त्रार्थं मन्त्रचैतन्यं धर्मार्थकामदं प्रिये || ५ || योनिमुद्रा महेशानि तृतीयं ब्रह्मरूपिणी | अज्ञात्वा यो जपेन्मन्त्रं नहि सिद्धिः प्रजायते || ६ || ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति | योनिमुद्रा महेशानि साक्षान्मोक्षप्रसाधिनी || ७ || ततो योनिर्महेशानि प्रिया मम यथा प्रिये | सततं परमेशानि दासोऽहं तव योनिना || ८ || तव योनिप्रसादेन मृत्युं जित्वा वरानने | मृत्युज्जयोऽहं देवेशि सततं कमलानने || ९ || तव योनौ महेशानि ब्रह्माण्डं सचराचरम् | तिष्ठन्ति सततं देवि ब्रह्माद्यास्त्रिदिवौकसः || १० || मयूरस्य महेशानि पुच्छे कृत्वा च अद्भुतम् | योन्याकारं महेशानि दृष्ट्वा कृष्णः शुचिस्मिते || ११ || शिरे धृत्वा वरारोहे त्रैलोक्यं वशमानयेत् | तव योनिं महेशानि भावयामीत्यहर्न्निशम् || १२ || तत्रैव दृष्ट्वा ब्रह्माण्डं नान्यं पश्यामि कामिनि | कर्पूरपुलकोद्भूतं तव योनिपुरं परम् || १३ || तव योनिर्महेशानि तत्त्वत्रयसुपूजितम् | रेतोरजःसमायुक्तं साक्षान्मन्मथमन्दिरम् || १४ || न जाने किं कृतं कर्म कालिके कमलेक्षणे | तव योनौ महादेवि अत एव वरानने || १५ || योनिमुद्रां योनिबीजं सततं परमेश्वरि | अहं मृत्युज्जयो देवि योनिमुद्राप्रसादतः || १६ || योनिबीजं महेशानि निगदामि शृणु प्रिये | प्रथमे परमेशानि योगिनीं रुद्रयोगिनीम् || १७ || उत्कृत्य वहुयत्नेन बलबीजयुतं कुरु | विन्द्वर्धचन्द्रसंयुक्तं बीजं त्रैलोक्यमोहनम् || १८ || बद्ध्वा तु योनिमुद्रां वै पूर्वोक्तक्रमतः प्रिये | योनिबीजं महेशानि अष्टोत्तरशतं जपेत् || १९ || अष्टोत्तरशतं जप्त्वा यत् फलं लभते प्रिये | माहात्म्यं तस्य देवेशि वक्तुं को वा क्षमो भवेत् || २० || यः करोति प्रसन्नात्मा रहस्ये योनिरूपिणीम् | ब्रह्माण्डं पूजयेत् ते न ब्रह्माद्यास्त्रिदिवौकसः || २१ || तव योनिर्महेशानि परं ब्रह्मस्वरूपिणी | तव योनिर्महेशानि भवस्य मोहिनी प्रिये || २२ || तव योनिर्महेशानि सिद्धिसूत्रेण वेष्टयेत् | सिद्धिसूत्रं महेशानि त्रिप्रकारं वरानने || २३ || ईडा च पिङ्गला चैव सुषुम्नात्रितयं तथा | सदानन्दमयीं योनिं नानासुखविलासिनीम् || २४ || शृङ्गारसमये देवि नान्तं गच्छामि पार्वति | मम लिङ्गो महेशानि भिनत्ति सकलं जगत् || २५ || तथापि परमेशानि नान्तं गच्छामि कामिनि | तव योनिर्महेशानि न जाने कीदृशीं गतिम् || २६ || तव योनिर्महेशानि आद्या प्रकृतिरूपिणी | सदा कुण्डलिनीं योनिमहाकुण्डलिनीं पराम् || २७ || यः सदा परमेशानि योनिं दृष्ट्वा वरानने | जपेद् बीजं वरारोहे भगारव्यं भगरूपिणीम् || २८ || योनिं बद्ध्वा महेशानि भगबीजेन पार्वति | अष्टोत्तरशतं जप्त्वा मम तुल्यो भवेत् प्रिये || २९ || तव योनौ महेशानि रमणं यत्नतश्चरेत् | तस्या रमणमात्रेण ब्रह्मविष्णुशिवात्मकः | स एव धनवान् वाग्मी वागीशसमतां व्रजेत् || ३० || श्रीदेवी उवाच नीलकण्ठ महादेव रहस्यं कृपया वद | यदि नो कथ्यते देव विमुञ्चामि तदा तनुम् || ३१ || श्री ईश्वर उवाच शृणु पार्वति कृ.प्णाङ्गि खज्जनाक्षि सुलोचने | गोपनीयं रहस्यं हि सर्वकामफलप्रदम् || ३२ || तिस्रः कोट्यस्तदर्धेन शरीरे नाडिका मताः | तासु मध्ये दश प्रोक्तास्तासु तिस्रो व्यवस्थिताः || ३३ || प्रधाना मेरुदण्डाग्रे चन्द्रसूर्याग्निरूपिणी | मज्जयित्वा सुषुम्नायामहं योगी सुरेश्वरि || ३४ || षट्चक्रे परमेशानि भावयेद् योनिरूपिणीम् | प्रथमं परमेशानि आधारयुगपत्रकम् || ३५ || वादिसान्त्यैश्चतुर्वर्णैर्द्रुतहेमसमप्रभम् | तडित्कोटिप्रभाकारं स्थानं परमदुर्लभम् || ३६ || तत् कर्णिकायां देवेशि त्रिकोणमतिसुन्दरम् | इच्छाज्ञानक्रियारूपं ब्रह्मविष्णुशिवात्मकम् || ३७ || मध्ये स्वयं भूलिङ्गं च कुण्डलीवेष्टितं सदा | त्रिकोणाख्यं तु देवेशि लकारं चिन्तयेत् तथा || ३८ || ब्रह्माण्डं तत्र संचिन्त्य कामदेवं च चिन्तयेत् | बीजं तत्रैव निश्चिन्त्यं योनावादानमेव च || ३९ || पदे च गमनं पायौ विसर्गं नसि कामिनि | घ्राणं संचिन्त्य देवेशि महेशि प्राणवल्लभे || ४० || डाकिनीं परमाराध्यां शक्तिं च भावयेत् ततः | एतानि गिरिजे मातः पृथ्वीं नीत्वा गणेश्वरि || ४१ || तन्मध्ये लिङ्गरूपं हि कुण्डलीवेष्टितं प्रिये | तत्र कुण्डलिनीं नित्यां परमानन्दरूषिणीम् || ४२ || तत्र ध्यानं प्रकुर्वीत सिद्धिकामो वरानने | कोटिचन्द्रप्रभाकारां परंब्रह्मस्वरूपिणीम् || ४३ || चतुर्भुजां त्रिनेत्राञ्च वराभयकरां तथा | तथा च पुस्तकं वीणां धारिणीं सिंहवाहिनीम् || ४४ || गच्छन्ति स्वासनं भीमां नानारूपधरां पराम् | पूर्वोक्तां पृथ्वीं धन्यां गन्धे नीत्वा महेश्वरि || ४५ || आकृष्य प्रणवेनैव जीवात्मानं नगेन्द्रजे | कुण्डलिन्या सह प्रेमे गन्धमादाय साधकः || ४६ || सोऽहमिति मनुना देवि स्वाधिष्ठाने प्रवेशयेत् | तत्पद्मं लिङ्गमूलस्थं सिन्दूराभं च षड्दलम् || ४७ || स्फुरद्विक्रमसंकाशैर्वादिनान्तैः सुशोभितम् | तत्कर्णिकायां वरुणं तत्रापि भावयेद्धरिम् || ४८ || युवतिं राकिणीं शक्तिं चिन्तयित्वा वरानने | रसनेन्द्रिययूपस्थं जलञ्च कामलालसे || ४९ || एतानि गन्धञ्च शिवे रसे नीत्वा विनोदिनीं | जीवात्मानं कुण्डलिनीं रसञ्च मणिपूरके || ५० || नीत्वा परमयोगेन तत्पद्मं दिग्दलं प्रिये | नीलवर्णं तडिद्रूपं डादिफान्तैश्च मण्डितम् || ५१ || तत्कर्णिकायां सुश्रोणि वह्निं सञ्चिन्त्य साधकः | तत्र रुद्रः स्वयं कर्ता संहारे सकलस्य च || ५२ || लाकिनीशक्तिसंयुक्तो भावयेत् तं मनोहरे | तत्र चक्षुरिन्द्रियञ्च कृत्वा तेजोमयं यजेत् || ५३ || एतं रसञ्च सुभगे रूपं नीत्वा महाभागे | जीवात्मानं कुण्डलिनीरूपञ्चानाहते नयेत् || ५४ || बन्धूकपुष्पसंकाशं तत्पद्मं द्वादशारकम् | कादिठान्तैः स्फुरद्वर्णैः शोभितां हरवल्लभाम् || ५५ || तत्कर्णिकायां वायुञ्च जीवस्थाननिवासिनम् | तत्र योनेर्मण्डलञ्च बाणलिङ्गविराजितम् || ५६ || काकिनीशक्तिसंयुक्तं तत्र वायोस्त्वगिन्द्रियम् | एतद् रूपञ्च संयोज्य स्वर्गे रमणकामिनि || ५७ || जीवकुण्डलिनीं स्पर्शं विशुद्धौ स्थापयेत् ततः | धूम्रवर्णं कण्ठपद्मं षोडशस्वरमण्डितम् || ५८ || तत्कर्णिकायामाकाशं शिवञ्च कारिणीयुतम् | वाचं श्रोत्रं च आकाशे संस्थाप्य नगनन्दिनि || ५९ || एतानि स्पर्शं शब्दे च नीत्वा शाङ्करि मत्प्रिये | जीर्व कुण्डलिनीं शब्दञ्चाज्ञापत्रे निधापयेत् || ६० || नेत्रपद्मं शुक्लवर्णं द्विदलमक्षभूषितम् | तत्कर्णिकायां त्रिकोणं यद् बाणलिङ्गञ्च सङ्गतम् || ६१ || मनश्चात्र सदा भाति हाकिनीशक्तिलाञ्छितम् | बुद्धिप्रकृत्यहङ्कारलक्षितं तेजसा परम् || ६२ || जीवात्मानं कुण्डलिनीं मनश्चापि महेश्वरि | सहस्रारे महापद्मे मनश्चापि नियोजयेत् || ६३ || सहस्रारं नित्यपद्मं शुक्लवर्णमधोमुखम् | अकारादिक्षकारान्तैः स्फुरद्वर्णैर्विराजितम् || ६४ || तत्कर्णिकायां देवेशि अन्तरात्मा ततो गुरुः | सूर्यस्य मण्डलञ्चैव चन्द्रमण्डलमेव च || ६५ || ततो वायुर्महानादो ब्रह्मरन्ध्रं ततः स्मृतम् | तस्मिन् रन्ध्रे विसर्गञ्च नित्यानन्दं निरञ्जतम् || ६६ || तदूर्ध्वे शंखिनी देवी सृष्टिस्थित्यन्तकारिणी | तस्याधःस्था च देवेशि चतुर्मण्डलमध्यगम् || ६७ || त्रिकोणं तत्र संञ्चिन्त्य कैलासमत्र भावयेत् | इह स्थाने महादेवि स्थिरचित्तं विधाय च || ६८ || जीवजीवी गतव्याधिर्न पुनर्जन्मसंभवः | अत्र नित्योदिता वृद्धिक्षयहीना अमाकला || ६९ || तन्मध्ये कुटिला निर्वाणाख्या सप्तदशी कला | निर्वाणाख्यान्तर्गता वह्निरूपा निरोधिका || ७० || नादोऽव्यक्तस्तदुषरि कोट्यादित्यसमप्रभा | निर्वाणशक्तिः परमा सर्वेषां योनिरूपिणी || ७१ || अस्यां शक्तौ शिवं ज्ञेयं निर्विकारं निरञ्जनम् | अत्रैव कुण्डलीशक्ति र्मुद्राकारा सुरेश्वरि || ७२ || पुनस्तेन प्रकारेण गच्छन्त्याधारपङ्कजे | कथिता योनिमुद्रेयं मया ते परमेश्वरि || ७३ || विना येन न सिद्धेन निहरेत् परमात्मना | तद् दिव्यामृतधाराभिर्लाक्षाभाभिर्महेश्वरि || ७४ || तर्पयेद् देवतां योगी योगेनाऽनेन साधकः | कुण्डलीशक्तिसिद्धिः स्याद् वर्णकोटिशतैरपि || ७५ || तस्मात् त्त्वयापि गिरिजे गोपनीयं प्रयत्नतः | मन्त्ररूपां कुण्डलिनीं ध्यात्वा षट्चक्रमण्डले || ७६ || कन्दमध्यात् सुमधुरं कूजन्तीं सततोत्थिताम् | गच्छन्तीं ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकेतनम् || ७७ || मूलाधारे च तां देवीं संस्थाप्य वीरवन्दिते | चित्रिणीग्रथिता मालाजापं ब्रह्माण्डसुन्दरि || ७८ || रहस्यं परमं दिव्यं मन्त्रचैतन्यमीरितम् | मुद्राचैतन्ययोर्ज्ञानं वर्णानां ज्ञानमेव च || ७९ || मन्त्रार्थं कथितं देवि तव स्नेहात् प्रियंवदे | अस्य ज्ञानं विना भद्रे सिद्धिर्न स्यात् सुलोचने | इति ते कथितं देवि योनिक्रीडेदमुत्तमम् || ८० || श्री-ईश्वर उवाच सुरासुरजगद्वन्द्य पार्वतीभगसेवक | इदानीं श्रोतुमिच्छामि योनेः कवचमुत्तमम् || ८१ || श्री-ईश्वर उवाच यद् धृत्वा पठनात् सर्वाः शक्तयो वरदाः प्रिये | एतस्य कवचस्यापि ऋषिश्च श्रीसदाशिवः || ८२ || छन्दो गायत्री देवता योनिरूपा सनातनी | चतुर्वर्गेषु देवेशि विनियोगः प्रकीर्तितः || ८३ || ओं मम् माम् मिम् मीम् मुम् मूम् मेम् मैम् मोम् मौम् मं मः | (दक्षपादम्) मम शिरो रक्षन्तु स्वाहा | ओं मम् माम् मिम् मीम् मुम् मूम् मेम् मैम् मोम् मौम् मं मः ओं माम् ओं आकुटाम् मम रक्षन्तु स्वाहा मम् माम् | ओं मम् माम् मिम् मीम् मुम् मूम् मेम् मैम् मोम् मौम् मंमः मम हृदयादिदक्षबाहुं रक्षन्तु | ओं मं मां मिं मीं मुम् मूम् मेम् मैम् मोम् मौं मः ओं मम् माम् मिम् मीम् मुम् मूम् मेम् मैम् मोम् मौम् मं मः मम हृदयादिवामबाहु रक्षन्तु मम | ओं मम् माम् मिम् मीम् मुम् मूम् मेम् मैम् मोम् मौम् मं मः दक्षपादं रक्षन्तु मम | वामपादं रक्षन्तु मम सदा स्वाहा स्वाहा स्वाहा | ओं मम् माम् मिम् मीम् मुम् मूम् मेम् मैम् मोम् मौम् मं मः मम हृदादिषु नासां रक्षन्तु स्वाहा | ओं मम् माम् मिम् मीम् मुम् मूम् मेम् मैम् मोम् मौम् मं मः उपस्थं रक्षन्तु मम सदा स्वाहा | ओं मम् माम् मिम् मीम् मुम् मूम् मेम् मैम् मोम् मौम् मं मः || इदं हि योनिकवचं रहस्यं परमाद्भुतम् | अज्ञात्वा यो जपेन्मन्त्रं सर्वं निष्फलतां व्रजेत् || ८४ || रहस्यं परमं दिव्यं सावधानाऽवधारय | मूलाधारे महेशानि जपेद् यन्त्रं वरानने || ८५ || मूलाधारे महेशानि वरारोहेऽन्तरात्मनि | प्रतिचक्रे महेशानि पठेद् योनिं सनातनीम् || ८६ || चन्द्रसूर्योपरागे च पठेद् वा कवचं प्रिये | स्वनारीं रमयेद् यन्त्रे परनारीमथापि वा || ८७ || कवचस्य प्रसादेन योनिमुद्रा हि सिद्ध्यति | इदं हि कवचं देवि पठित्वा कमलानने || ८८ || मैथुनं महदाख्यानं त्वया सह मया कृतम् | कवचस्य प्रसादेन जना यान्ति परां गतिम् || ८९ || भूर्जपत्रे समालिख्य स्वयंभूकुसुमेन तु | शुक्लेन कुसुमेनापि रोचनालक्तकेन च || ९० || स्वर्णस्थां गुटिकां कृत्वा धारयेद् यन्त्रमानवः ? | इह लोके परत्रे च स एव श्रीसदाशिवः || ९१ || अष्टोत्तरशतञ्चास्य प्रपठेत् सिद्धि वाञ्छया | किमत्र बहुनोक्तेन अस्मात् परतरो नहि | नमो योन्यै नमो योन्यै कुण्डलिन्यै नमो नमः || ९२ || इति दक्षिणाम्नाये सार्धलक्षग्रन्थे कङ्कालमालिनीतन्त्रे योनिमुद्रादिकथनं द्वितीयः पटलः || २ || अथ तृतीयः पटलः श्रीदेवी उवाच इदानीं श्रोतुमिच्छामि गुरुपूजनमुत्तमम् || श्री-ईश्वर उवाच कथयामि महादेवि अप्रकाश्यं वरानने | निर्गुणञ्च परं ब्रह्म गुरुरित्यक्षरद्वयम् || १ || महामन्त्रं महेशानि गोपनीयं परात्परम् | तत्र ध्यानं प्रवक्ष्यामि शृणु पार्वति सादरम् || २ || सहस्रदलपद्मस्थमन्तरात्मानमुज्ज्वलम् | तस्योपरि नादबिन्दोर्मध्ये सिंहासनोज्ज्वले || ३ || चिन्तयेन्निजगुरुं नित्यं रजताचलसन्निभम् | वीरासनसमासीनं मुद्राभरणभूषितम् || ४ || शुभ्रमाल्याम्बरधरं वरदाभयपाणिनम् | वामोरुशक्तिसहितं कारुण्येनावलोकितम् || ५ || प्रियया सव्यहस्तेन धृतचारुकलेवरम् | वामेनोत्पलधारिण्या रक्ताभरणभूषया || ६ || ज्ञानानन्दसमायुक्तं स्वरेत्तन्नामपूर्वकम् | मानसैस्तूपचारैश्च संपूज्य कल्पयेत् सुधीः || ७ || गन्धं भूम्यात्मकं दद्याद् भावपुष्पैस्ततः परम् | धूपं वायवात्मकं देवि तेजसा दीपमेव च || ८ || नैवेद्यममृतं दद्यात् पानीयं वरुणात्मकम् | अम्बरं मुकुटं दद्यात् वस्त्रञ्चैव मम प्रिये || ९ || चामरं पादुकाच्छत्रं तथालङ्कारभूषणैः | तत्तन्मुद्राविधानेन संपूज्याथ गुरुं यजेत् || १० || यथाशक्ति जपं कृत्वा समर्प्य कवचं पठेत् | इति ते कथितं सम्यग् गुरुपूजनमुत्तमम् || ११ || श्रीदेवी उवाच भूतनाथ महादेव कवचं तस्य मे वद || १२ || श्री-ईश्वर उवाच अथ ते कथयामीशे कवचं मोक्षदायकम् | यस्य ज्ञानं विना देवि न सिद्धिर्न च सद्गतिः || १३ || ब्रह्मादयोऽपि गिरिजे सर्वत्र जयिनः स्मृताः | अस्य प्रसादात् सकला वेदागमपुरःसराः || १४ || कवचस्यास्य देवेशि ऋषिर्विष्णुरुदाहृतः | छन्दो विराड् देवता च गुरुदेवः स्वयं शिवः || १५ || चतुर्वर्गे ज्ञानमार्गे विनियोगः प्रकीर्तितः | सहस्रारे महापद्मे कर्पूरधवलो गुरुः || १६ || वामोरुगतशक्तिर्यः सर्वतः परिरक्षतु | परमाख्यो गुरुः पातु शिरसं म वल्लभे || १७ || परापराख्यो नासां मे परमेष्ठिर्मुखं मम | कण्ठं मम सदा पातु प्रह्लादानन्दनाथकः || १८ || बाहू द्वौ सनकानन्दः कुमारानन्दनायकः | वशिष्ठनन्दनाथश्च हृदयं पातु सर्वदा || १७ || क्रोधानन्दः कटिं पातु सुखानन्दः पदं मम | ध्यानानन्दश्च सर्वाङ्गं बोधानन्दश्च कानने || २० || सर्वत्र गुरवः पान्तु सर्वे ईश्वररूपिणः | इति ते कथितं भद्रे कवचं परमं शिवे || २१ || भक्तिहीने दुराचारे दद्यान्मृत्युमवाप्नुयात् | अस्यैव पठनाद् देवि धारणाच्छ्रवणात् प्रिये || २२ || मन्त्राः सिद्धाश्च जायन्ते किमन्यत् कथयामि ते | कण्ठे वा दक्षिणे बाहौ शिखायां वीरवन्दिते || २३ || धारणान्नाशयेत् पापं गङ्गायां कलुषं यथा | इदं कवचमज्ञात्वा यदि मन्त्रं जपेत् प्रिये || २४ || तत् सर्वं निष्फलं कृत्वा गुरुर्याति सुनिश्चितम् | शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन || २५ || श्रीपार्वती उवाच लोकेश कथ्यताम् देव गुरुगीता मयि प्रभो || २६ || श्रीशिव उवाच शृणु तारिणि वक्ष्यामि गीतां ब्रह्ममयीं पराम् | गुरुः स्वयं सर्वशास्त्राणामहमेव प्रकाशकः || २७ || त्वमेव गुरुरूपेण लोकानां प्राणकारिणी | गया गङ्गा काशिका च त्वमेव सकलं जगत् || २८ || कावेरी यमुना रेवा करतोया सरस्वती | चन्द्रभागा गौतमी च त्वमेव कुलपालिका || २९ || ब्रह्माण्डं सकलं देवि कोटिब्रह्माण्डमेव च | नहि ते वक्तुमर्हामि क्रियाजालं महेश्वरि || ३० || उक्त्वा उक्त्वा भावयित्वा भिक्षुकोऽयं नगात्मजे | कथं त्वं जननी भूत्वा बधूस्त्वं मम देहिनाम् || ३१ || तव चक्रं महेशानि अतीतं परमात्मनः | इति ते कथिता गीता गुरुदेवस्य ब्रह्मणः || ३२ || संक्षेपेण महेशानि प्रभुरेव गुरुः स्वयम् | जगत् समस्तमस्थेयं गुरुस्थेयो हि केवलम् || ३३ || तं तोषयित्वा देवेशि नतिभिस्तत्त्रिभिस्तथा | नानाविधद्रव्यदानैः सिद्धिः स्यात् साधकोत्तमः || ३४ || इति श्रीदक्षिणाम्नाये सार्धलक्षग्रन्थे कङ्कालमालिनीतन्त्रे श्रीगुरुपूजनकवचगुरुगीता नाम तृतीयः पटलः || ३ || अथ चतुर्थः पटलः श्रीपार्वती उवाच कथयस्व विरूपाक्ष महाकालीमनुं प्रभो | श्री-ईश्वर उवाच अथातः संप्रवक्ष्यामि महाकालीमनुं प्रिये | यस्य विज्ञानमात्रेण सर्वसिद्धीश्वरो भवेत् || २ || श्रिया विष्णुं मम कान्त्या सम्मुखेन समः सुखी | शौचेन शुचिना तुल्यो बलेन पवनोपमः || ३ || वागीश्वरः समो वाचि धनेन धनपः स्वयम् | सार्वज्ञे शम्भुना तुल्यो दाने दाधीचिना समः || ४ || आज्ञया देवराजोऽसौ ब्राह्मण्येन प्रजापतिः | भृगोरिव तपस्वी च चन्द्रवत् प्रीतिवर्धनः || ५ || तेजसाग्निसमो भक्त्या नारदः शिवकृष्णयोः | रूपेण मदनः साक्षात् प्रतापे भानुसन्निभः || ६ || शास्त्रचर्चास्वाङ्गिरसो जामदग्न्यः प्रतिज्ञया | सिद्धानां भैरवः साक्षात् गङ्गेव मलनाशकः || ७ || अथवा बहुनोक्तेन किं वा तेन वरानने | न तस्य दूरितं किञ्चित् महाकालीं स्मरेद्धिया || ८ || शब्दब्रह्ममयीं स्वाहां भोगमोक्षैकदायिकाम् | भोगेन मोक्षमाप्नोति श्रुत्वा गुरुमुखात् पराम् || ९ || तां विद्यां शृणु वक्ष्यामि यया भैरवतां व्रजेत् | क्रोधीशं क्षतजारूढं धूम्रभैरव्यलक्षितम् || १० || नादबिन्दुसमायुक्तं मन्त्रं स्वर्गेऽपि दुर्लभम् | एकाक्षरीसमा नास्ति विद्या त्रिभुवने प्रिये || ११ || महाकाली गुह्यविद्या कलिकाले च सिद्धिदा | अथान्यत् संप्रवक्ष्यामि दक्षिणां कालिकां पराम् || १२ || वाग्भवं बीजमुच्चार्य कामराजं ततः परम् | मायाबीजं ततो भद्रे त्र्यक्षरं मन्त्रमीरितम् || १३ || कामराजं ततो कूर्चं मायाबीजमतः परम् | अपरं त्र्यक्षरं प्रोक्तं पूर्वोक्तं फलदं प्रिये || १४ || हालाहलं समुच्चार्य मायाद्वयमतः परम् | एतत्तु त्र्यक्षरं देवि सर्वकामफलप्रदम् || १५ || एतेषाञ्चैव मन्त्राणां फलमन्यत् शृणु प्रिये | न कालनियमोऽत्रास्ति नारिमित्रादिदूषणम् || १६ || कायक्लेशकरं नैव प्रयासो नास्य साधने | दिवा वा यदि वा रात्रौ जपः सर्वत्र शोभनः || १७ || भोगमोक्षविरोधोऽत्र साधने नास्ति निश्चितम् | भोगेन लभते मोक्षं नरोऽपि विद्ययानया || १८ || अस्या जपात्तथा ध्यानात् लभेन्मुक्तिं चतुर्विधाम् | नानया सदृशी विद्या नानया सदृशो जपः || १९ || नानया सदृशं ध्यानं नानया सदृशं तपः | सत्यं सत्यं पुनः सत्यं सत्यपूर्वं वदाम्यहम् || २० || अनया सदृशी विद्या नास्ति सिद्धिः सुगोचरे | अथ संक्षेपतो वक्ष्ये पूजाविधिमनुत्तमम् || २१ || विस्तारे कस्य वा शक्तिः को वा जानाति तत्त्वतः | पूजा च त्रिविधा प्रोक्ता नित्यनैमित्तिकाम्यतः || २२ || तत्रैव नित्यपूजाञ्च वक्ष्ये ताञ्च निशामय | भैरवोऽस्य ऋषिः प्रोक्त उष्णिक् छन्द उदाहृतम् || २३ || देवता मुनिभिः प्रोक्ता महाकाली पुरातनी | विनियोगस्तु विद्यायाः पुरुषार्थचतुष्टये || २४ || पञ्चशुद्धिविहीनेन यत्कृतं न च तत्कृतम् | पञ्चशुद्धिं विना पूजा अभिचाराय कल्प्यते || २५ || आत्मशुद्धिः स्थानशुद्धिर्द्रव्यस्य शोधनस्तथा | मन्त्रशुद्धिर्देवशुद्धिः पञ्चशुद्धिरितीरिता || २६ || भूप्रदेशे समे शुद्धिः पुष्पः प्रकरसंकुले | आसनं कल्पयेदादौ कोमलं कम्बलन्तु वा || २७ || वामे गुरून् पुनर्नत्वा दक्षिणे गणपतिं विभुम् | भूतशुद्धिं तथा कुर्यात् पूजायोग्या यथा भवेत् || २८ || प्राणायामादि विधिवत् ऋण्यादिन्यासमाचरेत् | आदौ शुद्धिभैरवाय ऋषये नम इत्यथ || २९ || उष्णिक् छन्दसे नमसा मुखे छन्दो विनिर्दिशेत् | मम प्रिये महाकाली देवतायै नमो हृदि || ३० || ह्रीं बीजाय नमः पूर्वं हुं शक्तये नमोऽप्यथ | कवित्वार्थे विनियोग इति विन्यस्य वाञ्छया || ३१ || केवलां मातृकां न्यस्य बीजन्यास समाचरेत् | ओं क्रा/ अङ्गुष्ठयोर्न्यस्य ओं क्री/ तर्जन्योर्नमः || ३२ || ओं क्र/ मध्यमयोर्न्यस्य ओं क्रै/ अनामिकाद्वयोः | ओं क्रौ/ कनिष्ठायुगले ओं क्रः करतले तथा || ३३ || पुनर्हृदयादिष्वेतैर्जातियुक्तैः षडङ्गकम् | षडदीर्घभावं स्वबीजैः प्रणवाद्यैस्तु विन्यसेत् || ३४ || वर्णन्यासं तथा कुर्याद् येन देवीमयो भवेत् | अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ च हृदये न्यसेत् || ३५ || ए ऐ ओ औ अं अः क ख ग घ वै दक्षिणे भुजे | ङ च छ ज झ ञ ट ठ ड ढ वै वामके भुजे || ३६ || ण त थ द ध न प फ ब भ दक्षजङ्घके न्यसेत् | म य र ल व श ष स ह ल क्ष वामजङ्घके || ३७ || पञ्चधा सप्तधा वापि मूलविद्यां समुच्चरन् | शिर-आदि च पादान्तं न्यसेद् व्यापकमुत्तम् || ३८ || नित्यन्यास इति प्रोक्तः सर्व एव सुखावहः | अथ ध्यानं प्रवक्ष्यामि भैरवाकारदायकम् || ३९ || हिमालयगिरेर्मध्ये नगरे भैरवस्य च | दिव्यस्थाने महापीठे मणिमण्डपराजिते || ४० || नारदाद्यैर्मुनिश्रेष्ठैः संसेवितपदाम्बुजाम् | तत्र ध्यायेन्महाकालीमाद्यां भैरवन्दिताम् || ४१ || नीलेन्दीवरवर्णिनीं युग्मापीनतुङ्गस्तनीम् सुप्तश्रीहरिपीठराजितवतीं भीमां त्रिनेत्रां शिवाम् | मुद्राखड्गकरां वराभययुतां चित्राम्बरोद्दीपनीं वन्दे चञ्चलचन्द्रकान्तमणिभिर्मालां दधानां पराम् || ४२ || ध्यानान्तरं प्रवक्ष्यामि शृण गौरि गिरेः सुते | तत्र पीठे महादेवीं कालीं दानवसेविताम् || ४३ || मेघाङ्गी विगताम्बरां शवशिरारूढां त्रिनेत्रां परां कर्णालम्बितबाणयुग्मलसितां मुण्डावलीमण्डिताम् | वामाधोर्ध्व कराम्बुजे नरशिरःखड्गञ्च सव्येतरे | दानाभीतिविमुक्तकेशनिचया ध्येया सदा कालिका || ४४ || अपरञ्च प्रवक्ष्यामि ध्यानं परमदुर्लभम् | कालीं करालवदनां घोरदंष्ट्रां त्रिलोचनाम् || ४५ || स्मरेच्छरकरश्रेणिकृतकाञ्चीं दिगम्बराम् | वीरासनसमासीनां महाकालोपरि स्थिताम् || ४६ || श्रुतिमूलसमाकीर्णां सृक्कणीं घोरनादिनीम् | मुण्डमालागलद्रक्तचर्चितां पीवरस्तनीम् || ४७ || मदिरामोदितास्फालकम्पिताखिलमेदिनीम् | वामे खड्गं छिन्नमुण्डं धारिणीं दक्षिणे करे || ४८ || वराभययुतां घोरवदनां लोलजिह्विकाम् | शकुन्तपक्षसंयुक्तवाणकर्णविभूषिताम् || ४९ || शिवाभिर्घोररावाभिः सेवितां प्रलयोदिताम् | चण्डहासचण्डनादचण्डाख्यानैश्च भैरवैः || ५० || गृहीत्वा नरकङ्कालं जयशब्दपरायणैः | सेविताखिलसिद्धौघैर्मुनिभिः सेवितां पराम् || ५१ || एषामन्यतमं ध्यानं कृत्वा च साधकोत्तमः | मानसैरुपचारैश्च सोऽहमात्मानमर्चयेत् || ५२ || ततो देवीं समभ्यर्च्य अर्घ्यद्वयं निवेदयेत् | दशपञ्चारपद्मेषु पीठपूजां समाचरेत् || ५३ || तत्रावाह्य महादेवीं नियमेन समाहितः | ततो ध्यायेन्महादेवीं कालिकां कुलभूषणाम् || ५४ || महाकालं यजेद्द्यत्नात् पीठशक्तिं ततो यजेत् | कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम् || ५५ || विप्रचित्तां तथा चैव वहिः षट्कोणके पुनः | उग्रामुग्रप्रभां दीप्तां तत्र त्रिकोणके पुनः || ५६ || महाकालं यजेद्यत्नात्पीठशक्तिं ततोयजेत् | कालीं कृपालिनी कुल्लां कुरुकुल्लां विरोधिनीम् || ५७ || विप्रचिंत्तां तथा चैव वहिः षट्कोणके पुनः | उग्रामुग्रेप्रभां दीप्तां तत्र त्रिकोणके पुनः || ५८ || नीलां घनां वलाकाञ्च तथा परत्रिकोणके | मात्रां मुद्रां नित्याञ्चैव तथैवान्तस्त्रिकोणके || ५९ || सर्वा श्यामा असिकरा मुण्डमालाविभूषणा | तर्जनीं वामहस्तेन धारयन्ती शुचिस्मिता || ६० || ब्राह्म्याद्यास्तथावाह्य यजेत् पूर्वदलक्रमात् | ब्राह्मी नारायणी चैव तथैव च महेश्वरी || ६१ || चामुण्डापि च कौमारी तथा चैवात्र राजिता | वाराही च तथा पूज्या नारसिंही तथैव च || ६२ || सर्वासामपि दातव्या बलिः पूजा तथैव च | अनुलेपनकं गन्धं धूपदीपौ च पानकम् || ६३ || त्रिस्त्रिः पूजा च कर्तव्या सर्वासामपि साधकैः | पुनर्गन्धादिभिः पूज्य जप्त्वा शेषं समर्पयेत् || ६४ || समयं चार्चयेद् देव्या योगिनीयोगिभिः सह | मधु मांसं तथा मत्स्यं यत् किञ्च कुलसाधनम् || ६५ || शक्त्यै दत्वा ततः पश्चाद् गुरवे विनिवेदयेत् | तदनुज्ञां मूर्ध्नि कृत्वा शेषं चात्मनि योजयेत् || ६६ || मधु मांसं विना यस्तु कुलपूजां समाचरेत् | जन्मान्तरसहस्रस्य सुकृतिस्तस्य नश्यति || ६७ || तस्मात् सर्वप्रयत्नेन मकारपञ्चकैर्यजेत् | मधुना न विना मन्त्रं न मन्त्रेण विना मधु || ६८ || परस्परविरोधेन कथं सिध्यन्ति साधकाः | कुण्डकुम्भकपालादिपदार्थानां निषेवणम् || ६९ || सौरे तन्त्रे विरुद्धं च शैवे शाक्ते महाफलम् | ब्रह्माण्डखण्डसम्भूतमशेषरत्नसम्भवम् || ७० || श्वेतं पीतं सुगन्धं च निर्मलं भूरितेजसम् | अथवा कुम्भमध्येऽस्मिन् स्रवन्तं परमामृतम् || ७१ || अन्तर्लयो बहिर्मध्ये त्रिकोणोदरवर्तिनि | तद् वाह्यं स्फाटिकोदारमणिचन्द्रं च मण्डलम् || ७२ || तेनामृतेन तद्बाह्ये चिन्तयेत् परमामृतम् | आरम्भस्तरुणः प्रौढस्तदन्ते तरुणः पुनः || ७३ || एभिरुल्लासवान् योगी स्वयं शिवमयो यतः | सर्वशेषे च देवेशि सामान्यार्घ्यं पदेऽर्पयेत् || ७४ || विशेषार्घ्यं शिवे दत्वा देव्याः प्रियतमो भवेत् | साङ्गक्रियां पदे दत्वा सामान्यार्घ्यं शिवे भवेत् || ७५ || इत्युक्त्वा स परामर्षी[र्शी] शक्तितोषणकारकः | भोगेन लभते मोक्षं बहुना जल्पितेन किम् || ७६ || नियमः पुरुषे ज्ञेयो न योषित्सु कदाचन | यद्वा तद्वा येन केन सर्वदा सर्वतोऽपि च || ७७ || योषितां ध्यानयोगेन शुद्धशेषं न संशयः | बालां वा यौवनोन्मत्तां वृद्धां वा युवतीं तथा || ७८ || कुत्सितां वा महादुष्टां नमस्कृत्य विसर्जयेत् | तासां प्रहारो निन्दा च कौटिल्यमप्रियं तथा || ७९ || सर्वथा न च कर्तव्यमन्यथा सिद्धिरोधकृत् | इति ते कथितं शेषमाचरेद् लक्षणं प्रिये || नित्यपूजाक्रमं भक्त्या ज्ञात्वा सिद्धिमवाप्नुयात् || ८० || इति दक्षिणाम्नाये कङ्कालमालिनीतन्त्रे सार्धलक्षग्रन्थे महाकालीमन्त्रपूजाकथनं नाम चतुर्थः पटलः || ४ || पञ्चमः पटलः श्रीपार्वती उवाच कथयस्व महाभाग पुरश्चरणमुत्तमम् | कस्मिन् काले च कर्तव्यं कलौ सिद्धिदमद्भुतम् || १ || श्री-ईश्वर उवाच सामान्यतः प्रवक्ष्यामि पुरश्चर्याविधिं शृणु | नाशुभो विद्यते कालो नाशुभो विद्यते क्वचित् || २ || न विशेषो दिवारात्रौ न सन्ध्यायां महानिशि | कालाकालं महेशानि भ्रान्तिमात्रं न संशयः || ३ || प्रलये महति प्राप्ते सर्वं गच्छति ब्रह्मणि | तत्काले च महाभीमे को गच्छति शुभाशुभम् || ४ || कलिकाले महामाये भवन्त्यल्पायुषो जनाः | अनिर्दिष्टायुषः सर्वे कालचिन्ता कथं प्रिये || ५ || यत्कालं ब्रह्मचिन्तायां तत्कालं सफलं प्रिये | पुरश्चर्याविधौ देवि कालचिन्तां न चाचरेत् || ६ || नात्र शुद्ध्याद्यपेक्षास्ति न निषिद्धादिदूषणम् | दिक्कालनियमो नात्र स्थित्यादिनियमो नहि || ७ || न जपे कालनियमो नार्चादिष्वपि सुन्दरि | स्वेच्छाचारोऽत्र नियमो महामन्त्रस्य साधने || ८ || नाधर्मो विद्यते सुभ्रु प्रचरेद् हृष्टमानसः | जम्बूद्वीपे च वर्षे च कलौ भारतसंज्ञके || ९ || षण्मासादपि गिरिजे जपात् सिद्धिर्न संशयः | यन्नोक्तं सर्वतन्त्रेषु तदद्य कथयामि ते || १० || सुभगे शृणु चार्वङ्गि कल्याणि कमलेक्षणे | कलौ च भारते वर्षे येन सिद्धिः प्रजायते || ११ || तत्सर्वं कथयाम्यद्य सावधानाऽवधारय | कलिकाले वरारोहे जपमात्रं प्रशस्यते || १२ || न तिथिर्न व्रतं होमं स्नानं सन्ध्या प्रशस्यते | पुरश्चर्यां विना देवि कलौ मन्त्रं न साधयेत् || १३ || सत्यत्रेतायुगं देवि द्वापरं सुखसाधनम् | कलिकाले दुराघर्षं सर्वदुःखमयं सदा || १४ || सारं हि सर्वतन्त्राणां महाकालीषु कथ्यते | प्रातःकृत्यादिकं कृत्वा ततः स्नानं समाचरेत् || १५ || कृत्वा सन्ध्यां तर्पणं च संक्षेपेण वरानने | पूजां चैव वरारोहे यस्य यत् पटलक्रमात् || १६ || पूजाद्वारे च विन्यस्य बलिं दद्याद् यथाक्रमम् | प्राणायामत्रयं चैव माषभक्तबलिं तथा || १७ || सङ्कल्प्योपास्य देवेशि बलिदानस्य साधकः | आदौ गणपतेर्बीजं गमित्येकाक्षरं विदुः || १८ || भूमौ विलिख्य गुप्तेन बलिं पिण्डोपमं ततः | ओं गं गणपतये स्वाहा इति मन्त्रेण साधकः || १९ || बलिमित्थं च सर्वत्र बीजोपरि प्रदापयेत् | ओं भैरवाय ततः स्वाहा भैरवाय बलिं ततः || २० || ओं क्षं क्षेत्रपालाय स्वाहा क्षेत्रपालबलिं ततः | ओं यां योगिनिभ्यो नमः स्वाहा च योगिनीबलिम् || २१ || संपूज्य विधिना दद्यात् पूर्ववत् क्रमतो बलिम् | कथोपकथनं देवि त्यजेदत्र सुरालये || २२ || पूर्वे गणपतेर्भद्रे उत्तरे भैरवाय च | पश्चिमे क्षेत्रपालाय योगिन्यै दक्षिणे ददेत् || २३ || इन्द्रादिभ्यो बलिं दद्यादात्मकल्याणहेतवे | तदा सिद्धिमवाप्नोति चान्यथा हास्यकेवलम् || २४ || पलैकं माषकल्कञ्च पलमेकञ्च तण्डुलम् | अर्द्धतोलं घृतञ्चैव दधि अर्द्धार्द्धतोलकम् || २५ || शर्करैकतोलकेन बलिं दद्यात् सुसिद्धये | एतेषां सहयोगेन बलिर्भवति शाम्भवि || २६ || पूजास्थाने तथा भद्रे कूर्मबीजं लिखेत् ततः | चन्द्रबिन्दुमयं बीजं कूमबीजं इतीरितम् || २७ || स्थापयेदासनं तत्र पूजयेत् पटलक्रमात् | भूतशुद्धिं ततः कृत्वा प्राणायामं ततः परम् || २८ || अङ्गन्यासं करन्यासं मातृकान्यासमेव च | यः कुर्यान्मातृकान्यासं स शिवो नात्र संशयः || २९ || ततस्तु भीमतिलकं रुद्राक्षं धारयेत्ततः | रुद्राक्षस्य च माहात्म्यं भस्मनश्च शृणु प्रिये || ३० || आग्नेयमुच्यते भस्म दुग्धगोमयसम्भवम् | शोधयेन्मूलमन्त्रेण अष्टोत्तरशतं जपन् || ३१ || शिरोदेशे ललाटे च स्कन्धयोर्भ्रूप्रदेशके | बाह्वोः पार्श्वद्वये देवि कण्ठदेशे हृदि प्रिये || ३२ || श्रुतियुग्मे पृष्ठदेशे नाभौ तुण्डे महेश्वरि | कूर्पराद् बाहुपर्यन्तं कक्षे ग्रीवासु पार्वति || ३३ || सर्वाङ्गे लेपयद् देवि किमन्यत् कथयामि ते | मध्यमानामिकाङ्गुल्यङ्गुष्ठेन तिलकं ततः || ३४ || तिलकं तु त्रिरेखं स्याद् रेखाणां नवधा मतम् | पृथिव्यग्निस्तथा शक्तिः क्रियाशक्तिर्महेश्वरः || ३५ || देवः प्रथमरेखायां भक्त्या ते परिकीर्तितः | न भस्मांश्चैव सुभगे द्वितीया चैव देवता || ३६ || परमात्मा शिवो देवस्तृतीयायाश्च देवता | एतान्नित्यं नमस्कृत्य त्रिपुण्ड्रं धारयेद् यदि || ३७ || महेश्वरव्रतमिदं कृत्वा सिद्धीश्वरो भवेत् | ब्रह्मचारी गृहस्थो वा वनस्थो वा यतिस्तथा || ३८ || महापातकसंघातैर्मुच्यते सर्वपातकात् | तथाऽन्यक्षत्रविट्शूद्रस्त्रीहत्यादिषु पातकैः || ३९ || वीरब्राह्मणहत्याभिर्मुच्यते सुभगेश्वरि | अमन्त्रेणापि यः कुर्याद् ज्ञात्वा च महिमोन्नतिम् || ४० || त्रिपुण्ड्रभालतिलको मुच्यते सर्वपातकैः | परद्रव्यापहरणं परदाराभिमर्षणम् || ४१ || परनिन्दा परक्षेत्रहरणं परपीडनम् | असत्यवाक्यपैशुन्यं पारुष्यं देवविक्रयम् || ४२ || कूटसाक्ष्यं व्रतत्यागं कैतवं नीचसेवनम् | गोमृगाणां हिरण्यस्य तिलकम्बलवाससाम् || ४३ || अन्नधान्यकुशादीनां नीचेभ्योऽपि परिग्रहम् | दासीवेश्यासु कृष्णासु वृषलीसु नदीषु च || ४४ || रजस्वलासु कन्यासु विधवासु च सङ्गमे | मांसचर्मरसादीनां लवणस्य च विक्रयम् || ४५ || एवंरूपाण्यसंख्यानि पापानि विविधानि च | सद्य एव विनश्यन्ति त्रिदण्डस्य च धारणात् || ४६ || शिवद्रव्यापहरणात् शिवनिन्दाञ्च कुत्रचित् | निन्दायाः शिवभक्तानां प्रायश्चित्तैर्न शुध्यति || ४७ || त्रिपुण्ड्रं शिरसा धृत्वा तत्क्षणादेव शुध्यति | देवद्रव्यापहरणे ब्रह्मस्वहरणेन च || ४८ || कुलान्यग्नय एवात्र विनश्यन्ति सदाशिवे | महादेवि महाभागे ब्राह्मणातिक्रमेण च || ४९ || कुलरक्षा भवत्यस्मात् त्रिपुण्ड्रस्य च सेवनात् | रुद्राक्षं यस्य देहेषु ललाटेषु त्रिपुण्ड्रकम् || ५० || यदि स्यात् स च चाण्डालः सर्ववर्णोत्तमोत्तमः | यानि तीर्थानि लोकेऽस्मिन् गङ्गाद्याः सरितश्च याः || ५१ || स्नातो भवति सर्वत्र यल्ललाटे त्रिपुण्ड्रकम् | सप्तकोटिमहामन्त्रा उपमन्त्रास्तथैव च || ५२ || श्रीविष्णोः कोटिमन्त्राश्च कोटिमन्त्राः शिवस्य च | ते सर्वे तेन जप्ता च यो बिभर्ति त्रिपुण्ड्रकम् || ५३ || सहस्रं पूर्वजातानां सहस्रं च जनिष्यताम् | स्ववंशजातमर्त्यानामुद्धरेद् यस्त्रिपुण्ड्रकृत् || ५४ || षडैश्वर्यगुणोपेतः प्राप्य दिव्यवपुस्ततः | दिव्यं विमानमारुह्य दिव्यास्त्रशतसेवितः || ५५ || विद्याधारणां सिद्धानां गन्धर्वाणां महौजसाम् | इन्द्रादिलोकपालानां लोकेषु च यथाक्रमम् || ५६ || भुक्त्वा भोगान् सुविपुलं प्रदेशानां पुरेषु च | ब्रह्मणः पदमासाद्य तत्र कल्पायुतं वसेत् || ५७ || विष्णुलोके च रमते आब्रह्मणः शतायुषम् | शिवलोकं ततः प्राप्य रमते कालमक्षयम् || ५८ || शिवसायुज्यमाप्नोति न स भूयोऽपि जायते | शैवे विष्णौ च सौरे च गाणपत्येषु पार्वति || ५९ || शक्तिरूपा च या गौः स्यात् तस्या गोमयसम्भवम् | भस्म तेषु महेशानि विशिष्टं परिकीर्तितम् || ६० || शैवापि च वरारोहे साद्गुण्यं वरवर्णिनि | शक्तौ प्रशस्तमोक्षं हि भस्म यौवनजीवने || ६१ || अन्येषां गोकरीषेण भस्म शक्त्यादिकेष्वपि | सामान्यमेतत् सुश्रोणि विशेषं शृणु मत्प्रिये || ६२ || करीषभस्मादनघे हौमं भस्म महाफलम् | हौमभस्मात् कोटिगुणं विष्णुहोमं महेश्वरि || ६३ || शिवहोमं तद्द्विगुणं भस्मात्तु शृणु सुन्दरि | स्वीयेष्टदेवताहोममनन्तं प्रियवादिनि || ६४ || तन्माहात्म्यमहं वक्तुं कल्पकोटिशतैरपि | न समर्थो योगमार्गो किमन्यत् कथयामि ते || ६५ || होमः कलियुगे देवि जम्बूद्वीपस्य वर्षके | भारताख्ये महाकालि दशांशं क्रमतः शिवे || ६६ || नास्तिकास्ते महामोहे केवलं होममाचरेत् | लक्षं वाप्ययुतं वापि सहस्रं वा वरानने || ६७ || अष्टाधिकशतं वापि काम्यहोमं प्रकल्पयेत् | नित्यहोमं च कर्तव्यं शक्त्या च परमेश्वरि || ६८ || प्रजपेन्नित्यपूजायामष्टोत्तरसहस्रकम् | अष्टोत्तरशतं वापि अष्टपञ्चाशतं चरेत् || ६९ || अष्टात्रिंशत्संख्यकं वा अष्टाविंशतिमेव च | अष्टादशं द्वादशं च दशाष्टौ च विधानतः || ७० || होमं चैव महेशानि एतत्संख्याविधानतः | एवं सर्वत्र देवेशि नित्यकर्ममहोत्सवः || ७१ || इत्थं प्रकारं यद् भस्म अङ्गे संलिप्य साधकः | मालाञ्चैव महेशानि नरास्थ्यद्भुतपूजिताम् || ७२ || गले दद्याद् वरारोहे शक्तश्चेद् दिव्यनायिके | रुद्राक्षमाल्यं संधार्यं ततः शृणु मम प्रिये || ७३ || एवं कृत्वा त्वया सार्द्धं पितृभूमौ स्थितं मया | सुभगे शृणु सुश्रोणि रुद्राक्षं परमं पदम् || ७४ || सर्वपापक्षयकरं रुद्राक्षं ब्रह्मणीश्वरि | अभुक्तो वाऽपि भुक्तो वा नीचान्नीचतरोऽपि वा || ७५ || रुद्राक्षं धारयेद् यस्तु मुच्यते सर्वपातकात् | रुद्राक्षधारणं पुण्यं कैवल्यसदृशं भवेत् || ७६ || महाव्रतमिदं पुण्यं त्रिकोटितीर्थसंयुतम् | सहस्रं धारयेद् यस्तु रुद्राक्षाणां शिचिस्मिते || ७७ || तं नमन्ति सुराः सर्वे यथा रुद्रस्तथैव सः | अभावे तु सहस्रस्य बाह्वोः षोडश षोडश || ७८ || एकं शिखायां कवचयोर्द्वादश द्वादश क्रमात् | द्वात्रिंशत् कण्ठदेशे तु चत्वारिंशत् शिरे तथा || ७९ || उभयोः कर्णयोः षट् षड् हृदि अष्टोत्तरं शतम् | यो धारयति रुद्राक्षान् रुद्रवत् स च पूजितः || ८० || मुक्ताप्रवालस्फटिकैः सूर्येन्दुमणिकाञ्चनैः | समेतान् धारयेद् यस्तु रुद्राक्षान् शिव एव सः || ८१ || केवलानपि रुद्राक्षान् यो बिभर्ति वरानने | तं न स्पृशन्ति पापानि तिमिरानीव भास्करम् || ८२ || रुद्राक्षमालया जप्तो मन्त्रोऽनन्तफलप्रदः | यस्याङ्गे नास्ति रुद्राक्ष एकोऽपि वरवर्णिनि || ८३ || तस्य जन्म निरर्थं स्यात् त्रिपुण्ड्ररहितं यथा | रुद्राक्षं मस्तके बध्वा शिरःस्नानं करोति यः || ८४ || गङ्गास्नानफलं तस्य जायते नात्र संशयः | रुद्राक्षं पूजयेद् यस्तु विना तोयाभिषेचनैः || ८५ || यत्फलं शिवपूजायां तदेवाप्नोति निश्चितम् | एकवक्त्रैः पञ्चवक्त्रैस्त्रयोदशमुखैस्तथा || ८६ || चतुर्दशमुखैर्जप्त्वा सर्वसिद्धिः प्रजायते | किं बहूक्त्या वरारोहे कृत्वा गतिकमद्भुतम् || ८७ || रुद्राक्षं यत्नतो धृत्वा शिव एव स साधकः | भस्मना तिलकं कृत्वा पश्चाद् रुद्राक्षधारणम् || ८८ || प्राणायामं ततः कृत्वा संकल्प्योपास्य साधकः | मूलमन्त्रसिद्धिकामः कुर्याच्च वर्णपूजनम् || ८९ || षट्त्रिंशद्वर्णमालार्चा विस्तारोन्नतिशालिनी | विलिप्य चन्दनं शुद्धं सर्ववर्णात्मके घटे || ९० || सर्वावयवसंयुक्तान् विलिख्य मातृकाक्षरान् | गुरुं संपूज्य विधिवद् घटस्थापनमाचरेत् || ९१ || पञ्चाशमातृकावर्णान् पूजयेद् विभवक्रमात् | पञ्चोपचारैः संपूज्य ध्यानं कृत्वा प्रसन्नधीः || ९२ || शुक्लविद्युत्प्रतीकाशां द्विभुजां लोललोचनाम् | कृष्णाम्बरपरिधानां शुक्लवस्त्रोत्तरीयिणीम् || ९३ || नानाभरणभूषाढ्यां सिन्दूरतिलकोज्ज्वलाम् | कटाक्षविशिखोद्दीप्तामज्जनाञ्चितलोचनाम् || ९४ || मन्त्रसिद्धिप्रदां नित्यां ध्यायेत् सत्त्वस्वरूपिणीम् | रक्तविद्युत्प्रतीकाशां द्विभुजां लोललोचनाम् || ९५ || शुक्लाम्बरपरीधानां कृष्णवस्त्रोत्तरीयिणीम् | नानाभरणभूषाढ्यां सिन्दूरतिलकोज्ज्वलाम् || ९६ || कटाक्षविशिखोद्दीप्तामञ्जनाञ्चितलोचनाम् | मन्त्रसिद्धिप्रदां नित्यां ध्यायेद् रजःस्वरूपिणीम् || ९७ || भ्रमद्भ्रमरसंकाशां द्विभुजां लोललोचनाम् | रक्तवस्त्रपरीधानां कृष्णवस्त्रोत्तरीयिणीम् || ९८ || नानाभरणभूषाढ्यां सिन्दूरतिलकोज्ज्वलाम् | कटाक्षविशिखोद्दीप्तां भ्रूलतापरिसेविताम् || ९९ || मन्त्रसिद्धिप्रदां नित्यां ध्यायेत् तमः स्वरूपिणीम् | ध्यात्वा पाद्यादिकं दत्वा त्रिगुणां पूजयेत् क्रमात् || १०० || ओं ऊङ्काररूपिण्यै नमः पाद्यैः प्रपूजयेत् | आदिध्यानेन सुभगे यजेत् सत्त्वमयीं पराम् || १०१ || ओं कङ्काररूपिण्यै नमः पाद्यादिभिर्यजेत् | क्रमात् सप्तदशार्णं हि द्वितीयं ध्यानमाचरन् || १०२ || ओं दंकाररूपिण्यै नमः पाद्यादिभिर्यजेत् | क्रमात् सप्तदशार्णं हि तृतीयं ध्यानमाचरन् || १०३ || एवं क्रमेण पञ्चाशद्ववर्णान् हि परिपूजयेत् | इति ते कथितं भद्रे पञ्चाशद्वर्णपूजनम् || १०४ || वर्णानां पूजनाद् भद्रे देवपूजा प्रजायते | अणिमाद्यष्टसिद्धीनां पूजा स्याद् वर्णपूजनात् || १०५ || सप्तकोटिमहाविद्या उपविद्या तथैव च | श्रीविष्णोः कोटिमन्त्राश्च कोटिमन्त्राः शिवस्य च || १०६ || पूजनात् पूजितं सर्वं वर्णानां सिद्धिदायकम् | प्रथमं प्रणवं दत्वा सहस्रं कुण्डलीमुखे || १०७ || मूलविद्यां ततो भद्रे सहस्रयुगलं जपेत् | ततस्तु सुभगे मातर्जपेच्च दीपिनीं पराम् || १०८ || आदौ गायत्रीमुच्चार्य मूलमन्त्रं ततः परम् | प्रणवं च ततो भीमे भयानां सहयोगतः || १०९ || सदैवैनां महेशानि दीपिनीं परिकीर्तिताम् | एतामपि सहस्रं च प्रजपेत् कुण्डलीमुखे || ११० || प्रणवादौ जपेद् विद्यां गायत्र्यां दीपिनीं पराम् | गायत्रीं शृणु वक्ष्यामि अ/ ङ/ म/ म/ ङ/ न/ प्रिये || १११ || षडक्षरमिदं मन्त्रं गायत्री समुदीरितम् | अस्याश्च फलमाप्नोति तदैव वरवर्णिनि || ११२ || स्मरणं कुण्डलीमध्ये मनसा उन्मनी सह | सहस्रारे कर्णिकायां चन्द्रमण्डलमध्यगाम् || ११३ || सर्वसंकल्परहिता कला सप्तदशी भवेत् | उन्मनीनाम तस्य हि भवपाशनिकृन्तनी || ११४ || उन्मन्या सहितो योगी न योगी उन्मनीं विना | बुद्धिमङ्कुशसंयुक्तामुन्मनीं कुसुमान्विताम् || ११५ || उन्मनीञ्च मनोवर्णं स्मरणात् सिद्धिदायिनीम् | स्मरेत् कुण्डलीयोगादमृतं रक्तरोचिषम् | उन्मनीकुसुमं तत्तु ज्ञेयं परमदुर्लभम् || ११६ || हंसं नित्यमनन्तमध्यमगुणं स्वाधारतो निर्गतां शक्तिं कुण्डलिनी समस्तजननी हस्ते गृहीत्वा च ताम् | कान्ता स्वाश्रममर्ककोटिरुचिरा नामामृतोल्लासिनी देवीं तां गमनागमैः स्थिरमतिर्ध्यायेद् जगन्मोहिनीम् || ११७ || इति ते कथितं ध्यानं मृत्युञ्जयमनामयम् | विना मनोन्मनीमन्त्रं विना ध्यानं जपं वृथा || ११८ || ततः संकल्प्य ध्यात्वैव मूलमन्त्रस्य सिद्धये | गायत्रीमयुतं जप्त्वा तदर्धं प्रणवं जपेत् || ११९ || दीपनं प्रणवस्यार्धं जपेत् पञ्चदिनावधि | शूद्राणां प्रणवं देवि चतुर्दशस्वरं प्रिये || १२० || नादबिन्दुसमायुक्तं स्त्रीणां चैव वरानने | मनौ स्वाहा च या देवी शूद्रोच्चार्या न संशयः || १२१ || होमकार्ये महेशानि शूद्रः स्वाहां न चोच्चरेत् | मन्त्रोऽप्यूहो नास्ति शूद्रे विषबीजं विना प्रिये || १२२ || गणपत्याद्यौ यद् दत्तं बलिदानं दिने दिने | तेनैव बलिना भद्रे हविष्यं सम्मतं सदा || १२३ || शेष इष्टं प्रपूज्याथ हविष्याशी स्त्रिया सह | जापकस्य च यन्मन्त्रमेकवर्णं ततः प्रिये || १२४ || तस्य पत्नी साभिरूपा प्रयतं प्रजपेत् यदि | तदा फलमवाप्नोति साधकः शक्तिसङ्गतः || १२५ || शक्तिहीने भवेद् दुःखं कोटिपुरश्चरणेन किम् | साधकश्च हविष्याशी साधिका तद्विवर्जिता || १२६ || यथेच्छाभोजनं तस्यास्ताम्बूलपूरितानना | नानाभरणवेषाढ्या धूपामोदनमोदिता || १२७ || शिवहीना तु या नारी दूरे तां परिवर्जयेत् | श्रीदेवी उवाच गायत्रीजपकाले तु साधिका किं जपेत् प्रभो || १२८ || श्रीशिव उवाच श्लोक नो. २९, ३०अ मिस्सिन्ग् गायत्रीमजपाविद्यां प्रजपेद् यदि साधिका | पूर्वोक्तेन विधानेन ध्यात्वा कृत्वा च पूजनम् || १३१ || मानसं परमेशानि जपेत् तद्गतमानसा | ततः षष्ठदिनं प्राप्य प्रातः स्नानं समाचरेत् || १३२ || कुङ्कुमागुरुपङ्केन कस्तूरीचन्दनेन च | कूर्मबीजं लिखेद् भद्रे अथवा श्वेतचन्दनैः || १३३ || तत्रासनं समास्थाय विशेत् साधकसन्निधौ | एवं विधाय सा साध्वी साधकोऽपि प्रसन्नधीः || १३४ || संकल्प्य विधिना भक्त्या मूलमन्त्रस्य सिद्धये | लक्षं जपेत् पुरश्चर्याविधौ विधिविधानतः || १३५ || तद्विधानं वदामीशे श्रुत्वा त्वमवधारय | ओं ओं क/ हु/ भ/ स/ देवि प्रातः स्नानोत्तर परम् || १३६ || दशधा प्रजपेन्मन्त्रं जिह्वाशोधनकारकम् | ततश्च प्रजपेन्मन्त्रं मौनी मध्यन्दिनावधि || १३७ || तस्य वामे तस्य पत्नी तस्य एकाक्षरं जपेत् | साधकः शिवरूपश्च साधिका शिवरूपिणी || १३८ || अन्योन्यचिन्तनाच्चैव देवत्वं जायते ध्रुवम् | आदावन्ते च प्रणवं दत्वा मन्त्रं जपेत् सुधीः || १३९ || दशधा वा सप्तदशं जप्त्वा मन्त्रं जपेत्तु सः | प्रातःकालं समारभ्य जपेन्मध्यन्दिनावधि || १४० || एवं हि प्रत्यहं कुर्याद् यावल्लक्षं समाप्यते | द्वितीयप्रहरादूर्ध्वं नित्यपूजादिकं चरेत् || १४१ || स्नानं कृत्वा ततो धीमान् हविष्यं बुभुजेत् ततः | तत्पत्नी शक्तिरूपा च पातिव्रत्यपरायणा || १४२ || तस्याश्चेच्छा भवेद् येषु बुभुजेत् पानभूषिता | दशदण्डगते रात्रौ शययायां प्रजपेन्मनुम् || १४३ || ताम्बूलपूरितमुखो धूपामोदेन मोदितः | वामे श्रीशक्तिरूपा च जपेच्च साधकाक्षरम् || १४४ || दक्षिणे साधकः सिद्धो दिवामाने जपेन्मनुम् | आद्यन्तगोपनं कृत्वा प्रत्यहं प्रजपेद् यदि || १४५ || ततः सिद्धिमवाप्नोति प्रकाशाद्धानिरेव च | मातृकापुटितं कृत्वा चन्द्रबिन्दुसमन्वितम् || १४६ || प्रत्यहं प्रजपेन्मन्त्रमनुलोमविलोमतः | जपादौ सुभगे प्रौढे प्रत्यहं प्रजपेन्मनुम् || १४७ || तेन हे सुभगे मातः पुरश्चरणमीरितम् | समाप्ते पुरश्चरणे गुरुदेवं प्रपूजयेत् || १४८ || तदा सिद्धो भवेन्मन्त्रो गुरुदेवस्य पूजनात् | जम्बूद्वीपस्य वर्षे च कलिकाले च भारते || १४९ || दशांशं वर्जयेद् भद्रे नास्ति होमः कदाचन | दशांशं क्रमतो देवि पञ्चाङ्गविधिना कलौ || १५० || नाचरेत् कुत्रचिन्मन्त्री पुरश्चर्याविधिं शुभे | भ्रमाद् यदि महेशानि कारयेत् साधकोत्तमः || १५१ || सिद्धिहानिर्महानिष्टं जायते भारतेऽनघ | दशांशं जायते पूर्णं गुरुदेवस्य पूजनात् || १५२ || अत एव महेशानि भक्त्या गुरुपदं यजेत् | दक्षिणां गुरवे दद्यात् सुवर्णं वाससान्वितम् || १५३ || धान्यं तिलं तथा दद्याद् धेनुं वापि पयस्विनीम् | अन्यथा विफलं सर्वं कोटिपुरश्चरेण किम् || १५४ || कुमारीभोजनं सान्तं सर्वसिद्धिप्रदायकम् | कुमारी भोजिता येन त्रैलोक्यं तेन भोजितम् || १५५ || पूजनाद् दर्शनाद् तस्या रमणात् स्पर्शनात् प्रिये | सर्वं सम्पूर्णमायाति साधको भक्तिमानसः || १५६ || पुरश्चरणसम्पन्नो वीरसाधनमाचरेत् | यस्यानुष्ठानमात्रेण मन्दभाग्योऽपि सिध्यति || १५७ || पुत्रदारधनस्नेहलोभमोहविवर्जितः | मन्त्रं वा साधयिष्यामि देहं वा पातयाम्यहम् || १५८ || एवं प्रतिज्ञामासाद्य गुरुमाराध्य यत्नतः | बलिदानादिना सर्वं मानसैः परिपूज्य च || १५९ || शरत्काले महापूजा क्रियते या च वार्षिकी | तस्मिन् पक्षे विशेषेण पुरश्चरणमाचरेत् || १६० || देव्या विधिं समारभ्य यावत् स्यान्नवमी तिथिः | प्रत्यहं प्रजपेन्मन्त्रं सहस्रं भक्तिभावतः || १६१ || होमपूजादिकं चैव यथाशक्त्या विधिं चरेत् | सप्तम्यादौ विशेषेण पूजयेदिष्टदेवताम् || १६२ || अष्टम्यादि नवम्यान्तमुपवासपरो भवेत् | अष्टमी-नवमीरात्रौ पूजां कुर्यात् महोत्सवम् || १६३ || इत्थं जपादिकं कुर्यात् साधकः स्थिरमानसः | शक्त्या सह वरारोहे कुमारीपूजनं चरेत् || १६४ || दशम्यां पारणं कुर्यान्मत्स्यमांसादिभिः प्रिये | एवं पुरस्क्रियां कृत्वा साधकः शिवतां व्रजेत् || १६५ || अथवान्यप्रकारेण पुरश्चरणमुच्यते | शरत्काले महादेव्या बोधेन च महोत्सवे || १६६ || प्रतिपत्तिथिमारभ्य नवमान्तं मम प्रिये | पूर्वोक्तविधिना मन्त्री कुर्यात् पुरस्क्रियां धिया || १६७ || अथवान्य प्रकारेण पुरश्चरणमुच्यते | शरत्काले चतुर्थ्यादि नवम्यन्तं सहस्रकम् || १६८ || जपित्वा प्रत्यहं भद्रे सप्तम्यादौ प्रपूजयेत् | तथा सर्वोपचारैस्तु वस्त्रालङ्कारभूषणैः || १६९ || महिषैश्छागलैर्मेषैश्चतुर्वर्गं लभेन्नरः | अष्टमीसन्धिवेलायां तेनैन विधिना पशुम् || १७० || छित्त्वा तस्योपरि स्थित्वा मध्यनक्तं जपेत् सुधीः | विभीर्ध्यानपरो भूत्वा वांछितां सिद्धिमाप्नुयात् || १७१ || नवम्यां नियतं जप्त्वा पूजयित्वा यथाविधि | गुरवे दक्षिणां दद्याद् दशम्यां पारयेत्ततः || १७२ || एवं कृत्वा पुरश्चर्यां किं न साधयति साधकः | अथवान्यप्रकारेण पुरश्चरणमुच्यते || १७३ || अष्टमीसन्धिवेलायामष्टोत्तरलतागृहे | प्रविश्य मन्त्री विधिवत् तासामभ्यर्च्य यत्नतः || १७४ || पूर्वोक्तकल्पमासाद्य पूजादिकमथाचरन् | केवलं कामदेवोऽसौ जपेदष्टोत्तरं शतम् || १७५ || महासिद्धो भवेत् सद्यो लतादर्शनपूजनात् | लतागृहं शृणु प्रौढे कामकौतुकलालसे || १७६ || अष्टौ संख्या अतिक्रम्य नवसंख्यादिसांखिकाम् | यौवनादिगुणैर्युक्ताः साधिकाः कामगर्विताः || १७७ || स्त्रियो यत्र गृहे सन्ति तद्गृहं हि लतागृहम् | अथवान्यप्रकारेण पुरश्चरणमुच्यते || १७८ || पूर्वोक्तानि महेशानि हेमन्तादि-ऋतौ चरेत् | साधकः पूर्णतां प्राप्य सर्वभोगेश्वरो भवेत् || १७९ || अथवान्यप्रकारेण पुरश्चरणमुच्यते | चतुर्दशीं समारभ्य यावदन्या चतुर्दशी || १८० || तावज्जप्ते महेशानि मन्त्री वांछितमाप्नुयात् | अथवान्यप्रकारेण पुरश्चरणमुच्यते || १८१ || कृष्णाष्टम्यां समारभ्य यावत् कृष्णाष्टमी भवेत् | सहस्रसंख्याजप्ते तु पुरश्चरणमिष्यते || १८२ || यत् कृत्वा परमेशानि सिद्धिः स्यान्नत्र संशयः | अथवान्यप्रकारेण पुरश्चरणमुच्यते || १८३ || कृष्णां चतुर्दशीं प्राप्य नवम्यन्तं महोत्सवे | अष्टमी-नवमीरात्रौ पूजां कुर्याद् विशेषतः || १८४ || दशम्यां पारणं कुर्यान्मत्स्यमांसादिभिः प्रिये | षट्सहस्रंजपेन्नित्यं भक्तिभावपरायणः || १८५ || अथवान्यप्रकारेण पुरश्चरणमुच्यते | अष्टम्याञ्च चतुर्दश्यां नवम्यां वीरवन्दिते || १८६ || सूर्योदयं समारभ्य यावत् सूर्योदयो भवेत् | तावज्जप्ते निरातङ्कः सर्वसिद्धीश्वरो भवेत् || १८७ || अथवान्यप्रकारेण पुरश्चरणमुच्यते | अष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोरपि || १८८ || अस्तमारभ्य सूर्यस्य यावत् सूर्यास्तमं भवेत् | तावज्जप्तो निरातंकः सर्वसिद्धीश्वरो भवेत् || १८९ || अथवा निर्जनस्थस्य अस्थिशययासनेन च | उदयास्तं दिवा जप्त्वा सर्वसिद्धीश्वरो भवेत् || १९० || तेनासनेन वा देवी अस्तमारभ्य भस्वतः | जपित्वा चास्तपर्यन्तं साधकः सिद्धिमाप्नुयात् || १९१ || जपान्ते पूजयित्वा च गुरवे दक्षिणां ददेत् | अथवान्यप्रकारेण पुरश्चरणमुच्यते || १९२ || सूर्योदयं समारभ्य घटिका च दशक्रमात् | ऋतवः स्युर्वसन्ताद्या अहोरात्रं दिने दिने || १९३ || वसन्तो ग्रीष्म वर्षा च शरधेमन्तशिशिराः | वसन्तश्चैव पूर्वाह्णे ग्रीष्मो मध्यन्दिनं तथा || १९४ || अपराह्ने प्रावृषः स्युः प्रदोषे शरदः स्मृताः | अर्द्धरात्रौ तु हेमन्तः सेषे च शिशिरः स्मृतः || १९५ || सूर्योदयं समारभ्य वसन्तान्तं समाहितः | तावज्जप्ते महेशानि पुरश्चर्या हि सिध्यति || १९६ || ततः पूजादिकं कृत्वा शक्तियुक्तश्च साधकः | गुरवे दक्षिणां दत्वा सर्वसिद्धीश्वरो भवेत् || १९७ || अथवान्यप्रकारेण पुरश्चरणमुच्यते | ग्रीष्मादिषु महेशानि पञ्चस्वर्त्तुषु साधकः || १९८ || पृथग्जप्त्वा वरारोहे पुरश्चर्या हि सिध्यति | पूर्वोक्तविधिना सर्वं कर्तव्यं वीरवन्दिते || १९९ || ऋतौ जप्त्वा समस्ते तु शक्तितः पूजयेत् पराम् | एवमाचर्यकृत्यं वै धनानामीश्वरो भवेत् || २०० || अथवान्यप्रकारेण पुरश्चरणमुच्यते | कुमारीपूजनादेव पुरश्चर्याविधिः स्मृतः || २०१ || अथवान्यप्रकारेण पुरश्चरणमुच्यते | गुरुमानीय संस्थाप्य देववत् पूजयेद् विभुम् || २०२ || वस्त्रालंकारभूषाद्यैः स्वयं सन्तोषयेद् गुरुम् | तत्सुतं तत्सुतं वापि तत्पत्नीञ्च विशेषतः || २०३ || पूजयित्वा मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् | गुरुसन्तोषमात्रेण दुष्टमन्त्रोऽपि सिध्यति || २०४ || मासि मासि च मन्त्रस्य संस्कारान् दशधा चरेत् | एवं क्रमविधानेन कृत्वा नित्यं हि साधकः || २०५ || षण्मासाभ्यन्तरे वापि एकवर्षान्तरेऽपि वा | साधनैः सुभगे भद्रे यदि सिद्धिर्न जायते || २०६ || उपायास्तत्र कर्तव्याः सत्यमेतं मतं शृणु | ख्यातिर्वाहनभूषादिलाभः सुचिरजीविता || २०७ || नृपाणां तत्कुलानाञ्च वात्सल्यं लोकवश्यता | महदैश्वर्यनित्यञ्च पुत्रपौत्रादिसम्पदः || २०८ || अधमा सिद्धयो भद्रे षण्मासाभ्यन्तरे यदि | एकवर्षान्तरे वापि सन्ति शङ्करवन्दिते || २०९ || साधकाश्च तदा सिद्धा नात्र कार्या विचारणा | अत्रोपायान् प्रवक्ष्यामि यदि सिद्धिविलम्बनम् || २१० || भ्रामणं बोधनं वश्यं पाडनञ्च तथा प्रिये | पोषणं तोषणञ्चैव दहनञ्च ततः परम् || २११ || उपायाः सन्ति सप्तैते कृत्वा त्रेतायुगेषु च | द्वापरे च तथा भद्रे उपायं सप्तमं स्मृतम् || २१२ || न प्रशस्तं कलौ भद्रे सप्तशंकरभाषितम् | डाकिन्यादियुतं कृत्वा लक्षञ्च प्रजपेन्मनुम् || २१३ || डाकिनीपुटितं कृत्वा यदि सिद्धिर्न जायते | राकिणीपुटितं कृत्वा लक्षञ्च प्रजपेन्मनुम् || २१४ || राकिणीपुटितं कृत्वा यदि सिद्धिर्न जायते | लाकिनीपुटितं कृत्वा लक्षञ्च प्रजपेन्मनुम् || २१५ || लाकिनीपुटितं कृत्वा यदि सिद्धिर्न जायते | काकिनीपुटितं कृत्वा लक्षञ्च प्रजपेन्मनुम् || २१६ || काकिनीपुटितं कृत्वा यदि सिद्धिर्न जायते | शाकिनीपुटितं कृत्वा लक्षञ्च प्रजपेन्मनुम् || २१७ || शाकिनीपुटितं कृत्वा जपेल्लक्षं समाहितः | तदा सिद्धो भवेन्मन्त्रो नात्र कार्या विचारणा || २१८ || लाकिनीपुटितं कृत्वा यदि सिद्धिर्न जायते | पुटितं सत्त्वरुपिण्या लक्षञ्च प्रजपेन्मनुम् || २१९ || पुटितं सत्त्वरूपिण्या यदि सिद्धिर्न जायते | ककारादिक्षकारान्ता मातृका वर्णरूपिणी || २२० || तथा संपुटितं कृत्वा लक्षञ्च प्रजपेन्मनुम् | छिन्नविद्यादयो मन्त्रास्तन्त्रे तन्त्रे निरूपिताः || २२१ || एते ते सिद्धिमायान्ति मातृकावर्णभावतः | निश्चितं मन्त्रसिद्धिः स्यान्नात्र कार्या विचारणा || २२२ || वर्णमयी पुटीकृत्य यदि सिद्धिर्न जायते | ततो गुरुपुटीकृत्य लक्षञ्च संजपेन्मनुम् || २२३ || गुरुदेवप्रसादेन अतुलां सिद्धिमाप्नुयात् | श्रीपार्वती उवाच आदिदेव महादेव आद्यन्तगोपनं वद | यदि नो कथ्यते देव विमुञ्चामि तदा तनुम् || २२४ || श्री-ईश्वर उवाच आद्यन्तगोपनं सूक्ष्मं कथं तत् कथयाम्यहम् | जम्बूद्वीपस्य वर्षेषु कलौ लोकाधमाः स्मृताः || २२५ || गुरुभक्तिविहीनाश्च भविष्यन्ति गृहे गृहे | दुष्क्रियायां रताः सर्वे परमज्ञानवर्जिताः || २२६ || लौकिकाचारिणः सर्वे भविष्यन्ति गृहे गृहे | विना शब्दपरिज्ञानं मन्त्रदाता द्विजो भवेत् || २२७ || मम सः श्रीमतीमन्त्रः संसारोद्भवबन्धनात् | कथ्यते देवदेवेशि मन्त्रः सर्वत्र सिद्धिदः || जायते तेन मे शङ्का कथं मे प्राणवल्लभे || २२८ || श्रीभैरवी उवाच भूतनाथ महाभाग हृदये मे कृपां कुरु | कथ्यतं कथ्यतां देव यतस्ते सेविका वयम् || २२९ || श्री-ईश्वर उवाच सुभगे शृणु मे मातः कृपया कथयामि ते | प्रथमे डाकिनी बीजं युवती षोडशाक्षरम् || २३० || अ/ आ/ इ/ ई/ उ/ ऊ/ ऋ/ ॠ/ ऌ/ ॡ/ ए/ ऐ/ ओ/ औ/ अ/ अ/ः डाकिनी देवदेवस्य ईरितं बीजमुत्तमम् | आद्यन्तपुटितं कृत्वा मन्त्रं लक्षं जपेद् यदि || २३१ || तदा सिद्धो वरारोहे नान्यथा वचनं मम | अधुना संप्रवक्ष्यामि डाकिनीबीजमद्भुतम् || एकोच्चारणमात्रेण सत्यत्रेतायुगे भवेत् || २३३ || क/ ख/ ग/ घ/ ङ/ च/ छ/ ज/ झ/ ञ/ दश तथा महेश्वरि | इति ते कथितं भक्त्या राकिनीबीजमद्भुतम् || २३४ || ट/ ठ/ ड/ ढ/ ण/ त/ थ/ द/ ध/ न/ दशकं परमेश्वरि | इति ते कथितं भक्त्या लाकिनीबीजनिर्णयम् || २३५ || अधुना संप्रवक्ष्यामि काकिनीं सिद्धिदायिनीम् | प/ फ/ ब/ भ/ म/ य/ र/ ल/ आर्णः श्रीवीरवन्दिते || २३६ || कथितं काकिनीबीजं चतुर्वर्गफलप्रदम् | अधुना संप्रवक्ष्यामि सुभगे शृणु शाकिनीम् || २३७ || व/ श/ ष/ स/ चतुर्वर्णं वाञ्छितार्थप्रदं प्रिये | इदं तु शाकिनीबीजं चतुर्वर्गप्रदायकम् || २३८ || अधुना संप्रवक्ष्यामि सुभगे शृणु हाकिनीम् | ह/ ल/ क्ष/ हाकिनीबीजं क्षिप्रं सिद्धिप्रदायकम् || २३९ || सत्त्वस्वरूपिणीबीजं शृणु सिद्धिप्रदायकम् | अ/ आ/ इ/ ई/ उ/ ऊ/ ऋ/ ॠ/ ऌ/ ॡ/ ए/ ऐ/ ओ/ औ/ अ/ अ/ः || २४० || षोडशार्णमहाबीजं सत्त्वमध्ये प्रकीर्तितम् | रजःस्वरूपिणीबीजं शीघ्रसिद्धिप्रदायकम् || २४१ || क/ ख/ ग/ घ/ ङ/ च/ छ/ ज/ झ/ ञ/ ट/ ठ/ ड/ ढ/ ण/ त/ थ/ | इदं सप्तदर्शार्णं हि रजोमध्ये प्रकीर्तितम् || २४२ || रम्यं तमोमयीबीजमधुना ते वदाम्यहम् | द/ ध/ न/ प/ फ/ ब/ भ/ म/ य/ र/ ल/ व/ श/ ष/ स/ ह/ क्ष/ || २४३ || इदं सप्तदशार्णं हि तमोमध्ये उदाहृतम् | अधुना संप्रवक्ष्यामि मातृकाबीजमद्भुतम् || २४४ || अ/ आ/ इ/ ई/ उ/ ऊ/ ऋ/ ॠ/ ऌ/ ॡ/ ए/ ऐ/ ओ/ औ/ अ/ अ/ः क/ ख/ ग/ घ/ ङ/ च/ छ/ ज/ झ/ ञ/ ट/ ठ/ ड/ ढ/ ण/ त/ थ/ द/ ध/ न/ प/ फ/ ब/ भ/ म/ य/ र/ ल/ व/ श/ ष/ स/ ह/ क्ष/ इदं पञ्चाशदर्णं हि मातृकायाः प्रकीर्तितम् | अनुलोमविलोमेन पुटीकृत्य जपं चरेत् || २४५ || लक्षं यावन्महेशानि ततः सिद्धो न संशयः | गुरुबीजं समुद्दिष्टं गुरुरित्यक्षरद्वयम् || २४६ || डाकिनी राकिनी देवि लाकिनी काकिनी ततः | शाकिनी हाहिनी संज्ञा सत्त्वरूपा ततः || २४७ || रजोरूपा तमोरूपा मातृकारूपिणी गुरुः | एतास्तु परमेशानि मूर्तिः पञ्चाशदक्षरम् || २४८ || डाकिनी च महादेवि अणिमासिद्धिदायिनी | राकिणी लघिमासिद्धिदायिनी लाकिनी तथा || २४९ || प्राप्तिसिद्धिदायिनी च काकिनी काम्यदायिनी | शाकिनी महिमासिद्धिदायिनी हाकिनी ततः || २५० || कामावशायितासिद्धिं जपादेव प्रयच्छति | सत्त्वरूपा तमोरूपा रजोरूपा तथैव च || २५१ || एताश्चैव महादेवि चतुर्वर्गं ददन्ति हि | पञ्चाशद्वर्णरूपा या निर्वाणं सा ददाति हि || २५२ || गुरुर्ददाति सकलं ब्रह्माण्डज्ञानमव्ययम् | इति ते कथितं भक्त्या डाकिन्यादिविनिर्णयम् || २५३ || डाकीनी राकिणी चैव लाकिनी काकिनी तथा | शाकिनी लाकिनी देवि वर्णानामत्र देवताः || २५४ || गुणानां सिद्धिवर्णानां षडेता अधिदेवताः | डाकिन्यादेर्विना ज्ञानं वर्णे वर्णे पृथक् पृथक् || २५५ || अज्ञानात् प्रजपेन्मन्त्रं डाकिन्यादेश्च भक्षणम् | विना वर्णपरिज्ञानं कोटिपुरश्चरणेन किम् || २५६ || तस्य सर्वं भवेद् दुःखमरण्ये रोदनं यथा | शृणु ध्यानं प्रवक्ष्यामि डाकिनीनां शुचिस्मिते || २५७ || ध्यानानि यथा - शरच्चन्द्रप्रतीकाशां द्विभुजां लोललोचनाम् | सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् || २५८ || कृष्णाम्बरपरीधानां नानालङ्कारभूषिताम् | ध्यायेच्छशिमुखीं नित्यां डाकिनीमन्त्रसिद्धये || २५९ || अरुणादित्यसंकाशां द्विभुजां मृगलोचनाम् | सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् || २६० || शुक्लाम्बरपरीधानां नानाभरणभूषिताम् | ध्ययेच्छशिमुखीं नित्यां राकिनीमन्त्रसिद्धये || २६१ || सिन्दूरवर्णसंकाशां द्विभुजां खञ्जनेक्षणाम् | सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् || २६२ || शुक्लाम्बरपरीधानां नानालङ्कारभूषिताम् | ध्यायेच्छशिमुखीं नित्यां लाकिनीमन्त्रसिद्धये || २६३ || यवयावकसंकाशां द्विभुजां कञ्जनेक्षणाम् | सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् || २६४ || शुक्लाम्बरपरिधानां नानाभरणभूषिताम् | ध्यायेच्छशिमुखीं नित्यां काकिनीमन्त्रसिद्धये || २६५ || शुक्लज्योतिप्रतीकाशां द्विभुजां मृगलोचनाम् | सिन्दूरतिलकोद्दीप्ताम् अञ्जनाञ्चितलोचनाम् || २६६ || कृष्णाम्बरपरीधानां नीनालङ्कारभूषिताम् | ध्यायेच्छशिमुखीं नित्यां शाकिनीमन्त्रसिद्धये || २६७ || शुक्लकृष्णारुणाभासां द्विभूजां लोललोचनाम् | भ्रमद्भ्रमरसंकाशां कुटिलालककुन्तलाम् || २६८ || सिन्दूरतिलकोद्दीप्ताम् अञ्जनाञ्चितलोचनाम् | रक्तवस्त्रपरीधानां शुक्लवस्त्रोत्तरीयिणीम् || ध्यायेच्छशिमुखीं नित्यां हाकिनीमन्त्रसिद्धये || २६९ || त्रिगुणायाश्च देवेशि ध्यानं पूर्वमुदाहृतम् | अधुना संप्रवक्ष्यामि मातृकाध्यानमुत्तमम् || २७० || पञ्चाशल्लिपिभिर्विभक्तमुखदोःपन्मध्यवक्षस्थलीम् | भास्वन्मौलिनिबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् | मुद्रामक्षगुणं सुधाढ्यकलशं विद्याञ्च हस्ताम्बुजै- र्बिभ्राणां विशदप्रभां त्रिनयनां वाग्देवतामाश्रये || २७१ || गुरोरपि महेशानि पूर्वोक्तध्यानमाचरन् || पाद्यादिभिर्वरारोहे संपूज्य प्रजपेन्मनुम् | पूर्वोक्तो यस्य यद्बीजं यन्मन्त्रस्तस्य निर्णयम् || २७२ || अं डाकिन्यै नमः स्वाहा कं काकिन्यै नमस्ततः | टं लाकिन्यै नमः स्वाहा पं काकिन्यै नमस्ततः || २७३ || वं शाकिन्यै नमः स्वाहा हं हाकिन्यै नमस्ततः | तत्तद्ध्यानेन इत्युक्त्वा पूजयेदुपचारतः || २७४ || उक्तबीजेन पुटितं कृत्वा मन्त्रं जपेद् यदि | तदा सिद्धो भवेन्मन्त्रो शापादिदोषदूषितः || २७५ || इति ते कथितं दिव्यं कलिकालस्य सम्मतम् | कलौ भारतवर्षे च नान्यद्वर्षे कदाचन || २७६ || शमादिषोडशभाण्डारं डाकिनीसिद्धिसंयुतम् | चण्डिकादिदशभाण्डारं काकिनीसिद्धिसंयुतम् || २७७ || शमादिदशभाण्डारं लाकिनीसिद्धिनिर्णयम् | गदादिदशभाण्डारं काकिनीसिद्धिनिर्णयम् || २७८ || कल्याणीत्यादिकीर्त्यन्तं शाकिनीसिद्धिनिर्णयम् | बद्धादिविलक्षणान्तं हाकिनीसिद्धिनिर्णयम् || २७९ || गुरुदेवं विना भद्रे निष्फलं श्रमकेवलम् | कलिकाले वरारोहे कलहं गुरुशिष्ययोः || २८० || भविष्यति न सन्देहः प्रहारं गुरुशिष्ययोः | इति ते कथितं सर्वं कालिकायाः सुदुर्लभम् || २८१ || कालिका भैरवो देवो जागर्ति हि सदा कलौ | तारा चैव महाविद्या तथा त्रिपुरसुन्दरी || २८२ || धनदा छिन्नमस्ता च मातङ्गी बगलामुखी | त्वरिता अन्नपूर्णा च तथा वाग्वादिनी प्रिये || २८३ || महिषघ्नी विशालाक्षी तारिणी भुवनेशिका | धूमावती भैरवी च तथा प्रत्यङ्गिरादिकाः || २८४ || दुर्गा शाकम्भरी चैव कलिकाले हि निद्रिता | एतासां जपमन्त्रेण निद्राभङ्गोऽभिजायते || २८५ || निद्राभङ्गे कृते देवि सिद्धिहानिश्च जायते | किं तासां जपपूजायां हानिः स्यादुत्तरोत्तरम् || २८६ || ब्राह्मणे क्षत्रिये वैश्ये शूद्रे विद्या प्रशस्यते | सत्यादि च चतुर्युगे सर्वजातिषु कालिका || २८७ || प्रशस्ता कालिका विद्या अस्याश्च फलबोधिका | उपायांस्तत्र वक्ष्यामि येन सिद्धिः प्रजायते || २८८ || सहस्रं डाकिनीमन्त्रं निशायां प्रजपेद् यदि | बहुकाले तदा सिद्धिर्जायते नात्र संश्यः || २८९ || स्त्रीशूद्राणां पुरश्चर्या नास्ति भद्रे कदाचन | जपपूजा सदैवासां प्रशस्ता वीरवन्दिते || २९० || चन्द्रसूर्योपरागे च शूद्राणां सिद्धिरुत्तमा | जायते सुभगे मातर्गुरुभक्तिर्भवेत् यदि || २९१ || तदा सिद्धिमवाप्नोति गुरुभक्त्या विशेषतः | इति दक्षिणाम्नाये श्रीकङ्कालमालिनीतन्त्रे पञ्चमः पटलः समाप्तः || ग्रन्थश्च समाप्तः ########### END OF FILE #######