#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00602 Uniform title: kaivalyasāra Description: vīraśaiva text Notes: Data-entered by the staff of Muktabodha under the supervision of Dr. Anirban Dash. Revision 0: August 22, 2021 Revision 1: March 27, 2022 Publisher : Publication year : 1907 Publication city : Solapur Publication country : India #################################################### ओं वीरशैवलिंगिब्राह्मणधर्मग्रंथमाला | ग्रंथ ३० वा. श्रीमत्परमहंसमरितोंटदार्यकृत कैवल्यसार शके १८२८-१९०७ विषयानुक्रमणिका विषय पृष्ट विषयचतुष्टयनिरूपण २ स्थलशब्दनिर्वचन ४ अंगशब्दनिर्वचन ६ पिंडस्थलनिरूपण ८ संसारहेयस्थलनिरूपण ९ लिंगधारणस्थल १० विभूतिधारणस्थल १२ रुद्राक्षधारणस्थल १२ भक्तिस्थल १४ उभयस्थल १५ चतुर्विधसारायस्थल १६ त्रिविधसंपत्तिस्थल १६ उपाधिदानस्थल निरुपाधिदानस्थल सहजदानस्थल भक्तस्थल लिंगनिष्ठास्थल पूर्वाश्रयनिरसनस्थल सर्वगतनिरसनस्थल शिवजगन्मयस्थल भक्तदेहिकलिंगस्थल माहेश्वरस्थल प्रसादिस्थल प्रसादमाहात्म्यस्थल ३४ गुरुमाहात्म्यस्थल ३७ लिंगमाहात्म्यस्थल ३७ भक्तमाहात्म्यस्थल ३८ शरणमाहात्म्यस्थल ३९ पृ० २) प्रसादिस्थल ४० प्राणलिंगिस्थल ४२ शिवयोगसमाधिस्थल ४४ लिंगनिजस्थल ४६ अंगलिंगस्थल ४७ शरणस्थल ४८ तामसनिरसनस्थल ४८ शीलसंपादनस्थल ५० ऐक्यस्थल ५२ एकभाजनस्थल (शिवैकचित्त) ५४ सहभोजनस्थल ५४ दीक्षागुरुस्थल ५६ शिक्षागुरुस्थल ६० ज्ञानगुरुस्थल ६१ * यालिंगस्थल ६३ * * * * वयजंगमलक्षण) ६४ * * * * * * गमलक्षण) ६६ * * * * * ६८ * * * * * ७० * * * * * ७१ * * * * * ७१ * * * * * ७२ * * * * * ७३ * * * * * ७४ * * * * * ७५ * नाचारस्थल ७६ कायानुग्रहस्थल ७८ प्राणानुग्रहस्थल ८० करणार्पितस्थल ८१ भावार्पितस्थल ८२ शिष्यस्थल ८३ पृ० ३) शुश्रुषास्थल (शिष्यलक्षण) ८४ जीवात्मस्थल ८६ परमात्मस्थल ८८ निर्देहागमस्थल ९० निर्भावागमस्थल ९० आदिप्रसादिस्थल ९२ अंत्यप्रसादिस्थल ९३ सेव्यप्रसादिस्थल ९३ दीक्षापादोकस्थल ९५ शिक्षापादोदकस्थल ९६ ज्ञानपादोदकस्थल ९७ क्रियानिष्पत्तिस्थल ९८ भावनिष्पत्तिस्थल ९९ ज्ञाननिष्पत्तिस्थल (शिवज्ञान महिमा) पिंडाकाशस्थल बिंद्वाकाशस्थल महदाकाशस्थल क्रियाप्रकाशस्थल भावप्रकाशस्थल ज्ञानप्रकाशस्थल स्वीकृतप्रसादिस्थल शिष्टोदनस्थल चराचरनास्तिस्थल भाजनस्थल अंगलेपनस्थल भावाभावनष्टस्थल १११ ज्ञानशून्यस्थल १११ संस्कृत शुद्धाशुद्ध पत्रिका अशुद्ध शुद्ध पृष्ठ पंक्ति इत्युयते इत्युच्यते १२ ४ वार? वीर? १७ ६ घाताद्य घ्राताद्य ३४ ८ सर्वेद्रिय सर्वेंद्रिय ३९ २ स्थानि स्थाने ४२ ९ तत्तरीयो तैत्तरीयो ४४ ८ दुर्लंभः दुर्लभः ६१ २ मेवोक्तंः मेवोक्तं ६२ ३ * * पै स्वरूपै ६२ ६ * * नान्यै ६३ ६ * * कायां ६६ ६ * न ६६ १२ * * पृथक् ६७ २ * * सर्वा ६७ १२ * * * रागमत् ७० ४ * * कारं ७० ६ * * * * निर्मथना ७१ ६ * * * निषदि ७२ ११ * * वोक्तं ७२ ७ * * स्तद्ज्ञ ७२ १० * * द्बुधो ७५ ११ * * लेद्रियाणि सकलेंद्रियाणि ८८ ७ * * तरे ग्रंथांतरे ८७ १७ रिद्रियै रिंद्रियै ९० ६ कथमित्य कथमित्या ९० ५ अंत्यप्रसादिस्थलं सेव्यप्रसादिस्थलं ९४ ७ पृ० १)|| श्रीशिवाय नमः || || श्रीसांबसदाशिवाय नमः || अथ कैवल्यसारः || वृत्तम् || यदेकमव्यक्तमनंतमीड्यं विभुं स्वयं निष्कलमद्वितीयं || गुरुस्वरूपेण सुखप्रदं तन्निरंजनं लिंगमहं नमामि || १ || स्वाधिष्ठितमखिलमिदं जगदेकीकृत्य मां कृतिं चैतां || ब्रह्मप्रापकगुरुराट् पायाच्चिद्रूपबो?बसवार्यः || २ || श्रीमद्वेदांतमूलोत्थितविमलशतैकस्थलोत्कृष्टमेतं वीराख्यं शैवतंत्रं प्रतिभटहृदयान्तस्तमश्चण्डभानुं || ध्यात्वा चिन्मात्ररूपं गुरुवरमनिशं सिद्धवीराख्यदेवं नीत्वा शांतिं प्रपंचं जगदुपकृतये निर्ममोऽहं च कुर्यां || ३ || एकोत्तरस्थलशतं विमलांगलिंगसंबंधरूपमधिगम्य गुरोः प्रसादात् || कैवल्यसारमखिलात्मसुखावबोधसिद्ध्यर्थमाह भुवि तोंटददेशिकेंद्रः || ४ || गद्यं || || अथ वीरतंत्रोदिताचारसंपन्नसर्वोपनिषत्प्रतिपाद्यज्ञानगोचरकैवल्यसारम अरभ्यते || ५ || अथ वीरशैवव्रतनिष्ठो मुमुक्षुर्भक्त एवाधिकारी शिवभक्तिसमासादितांग- पृ० २) लिंगसायुज्यरूपमुक्तिरेव प्रयोजनं एकोत्तरशतस्थलप्रतिपादकसकलोपनिषत्प्रतिपाद्यज्ञानमेव विषयः || अस्य विषयस्य कैवल्यसाराख्यशास्त्रेण सह विषयविषयी भावः संबंधः || ६ || नन्वत्र वीरशैवव्रतनिष्ठो मुमुक्षुर्भक्त एवाधिकारीत्युक्तं || वीरशैवस्वरूपज्ञानाभावे तद्व्रतनिष्ठत्वादिस्वरूपं सुतरां दुर्ज्ञेयमिति चेत् सकलोपनिषत्प्रतिपाद्यशिवजीवैक्यबोधकशिवज्ञानविद्यारतानामेव वीरशैवाभिधानत्वमित्युत्तरकामिकादिषु || विशब्देनोच्यते विद्या शिवजीवैक्यबोधिका || तस्यां रमन्ते ये शैवा वीरशैवास्तु ते मताः|| इत्युक्तत्वात् || ७ || ननु शिवभक्तिसमासादितांगलिंगसायुज्यरूपमुक्तिरेव प्रयोजनमित्युक्तं तदयुक्तं || तथाहि मुक्तेः शिवभक्ति समासादितत्वे ज्ञानादेव तु कैवल्यमिति श्रुतिप्रतिपाद्यज्ञानस्य कारणत्वं न स्यात् किंच मुक्तेः स्वरूपत्वं वा अतिरिक्तत्वं वा नाद्यः भक्तेः कारणत्वाभावप्रसंगात् न द्वितीयः || अद्वैतभंगापुरुषार्थत्वादिदोषप्रसंगादिति चेन्न || ८ || ज्ञानकारणकवैदिक- पृ० ३) कर्मनिवृत्तिरूपमोक्षानंतरभाविस्वतंत्रनिजलीलापन्नभक्तेरेव मुक्त्यव्यवहितकारणत्वस्य वातुलादितंत्रेषु ज्ञानादेव तु मोक्षः स्यान्मोक्षादुपरि शांभवी || भक्तिः परतरा भाति स्वतंत्रनिजलीलया || इत्युक्तत्वात् || ९ || अन्यथा परंपरासाधनीभूतज्ञानस्यापि मुक्तिकारणत्वे अक्षराभ्यासादेरपि कारणत्वं स्यात् || १० || ननु मुक्तेः स्वरूपातिरिक्तत्वचोद्ये रे किमुत्तरमिति चेत् || श्रूयतामवधानेन || अंगलिंगसामरस्यस्य मुक्तेः सदसद्विलक्षणरूपत्वं वातुलादिसर्वागमसिद्धं || तत्कथमिति चेत् || श्हिव एव स्वयं लिंगमात्मैवांगं भवेत्खलु || तयोः शिवात्मनोः सम्यग्योगः संयोग एव हि || सम्यग्योगो हि संयोगो भवेल्लिंगांगयोः सदा || संयोग एव सायुज्यरूपा मुक्तिर्न संशयः || इत्युच्यते || ११ || अथ स्थलशब्देनोच्यमानशिवतत्वं सकलागमसारसंग्रहशिवाद्वैतपरतत्वप्रतिपादकवचनमुखेन व्याख्यायते || १२ || तत्रादौ स्थलशब्दो ब्रह्मणि कथं निष्पन्न इत्याशंकां निवार्यमाणः सर्वागमेष्वपि तत्र तत्र स्थलत्वेन प्रतिपादकाधिष्ठानपरवचनानि संगृह्य व्याख्यायन्ते || एकमेव परं ब्रह्म पृ० ४) सच्चिदानंदलक्षणं || शिवतत्वं शिवाचार्याः स्थलमित्याहुरादरात् || १३ || लोके स्थलशब्दस्य प्रदेशांतरवाचकत्वात्कथं ब्रह्मणि प्रयोग इत्याशंकायामाह || सर्वेषां स्थानभूतत्वाल्लयभूतत्वतस्तथा || तत्वानां महदादीनां स्थलमित्यभिधीयते || १४ || एवं चाधिष्ठानव्यतिरेकेण वस्त्वंतराभावाद्व्यवहारः कथमापद्यत इत्याशंकायामाह || स्वशक्तिक्षोभमात्रेण स्थलं तद्द्विविधं भवेत् || एकं लिंगस्थलं प्रोक्तमन्यदंगस्थलं स्मृतं || १५ || एकस्य वस्तुनो द्वैरूप्यासंभवादिति न्यायेनैकस्यैव वस्तुनो भेदेन प्रतीतिविषयत्वं न कुत्रापि दृष्टमित्येतां शंकां दृष्टान्तमुखेन परिहरति || महद्घटप्रभेदेन यथाकाशं प्रतीयते || प्रतीयते तथा चैकस्थलं लिंगांगभेदतः || १६ || सत्यज्ञानानंदात्मकस्य परमात्मनः स्वेतरकल्पितभेदः स्वस्य कथमुपपद्यत इत्यताह || पृ० ५) चिन्मात्रं परमं साक्षात्स्थलं सत्यादिलक्षणम् || लिंगांगत्वं शिवात्मत्वभेदेनैव स्वयं श्रितम् || १७ || पूर्वं स्वशक्तिक्षोभमात्रेणेत्युक्तमिदानीं तु स्वयमेव लिंगांगत्वं श्रितमित्युक्तमिदमनुपपन्नमित्यत आह || यथा स्थलं द्विधाभूतं तथा शक्तिर्द्विधा भवेत् || शक्तिरप्रतिघा साक्षाच्छिवेन सहधर्मिणी || १८ || तथापि शक्तिपरमात्मनोः भेदकल्पकत्वाभावात्कथं भेदः प्रतीयत इत्यत आह || लिंगस्थलाश्रया काचित्काचिदंगस्थलाश्रया || लिंगस्थलाश्रया शक्तिः कलारूपा प्रकीर्तिता || अंगस्थलाश्रया शक्तिर्भक्तिरूपा भवापहा || १९ || तंत्रान्तरोक्तलिंगशब्दार्थमत्र प्रमाणयति || लीयते गम्यते यत्र येन सर्वं चराचरं || तदेतल्लिंगमित्युक्तं लिंगतत्वविशारदैः || २० || लिंगस्थलं सम्यग्विचार्य क्रमप्राप्तमंगस्थलं निरूपयति || अनाद्यन्तमजं लिंगं तत्पदं परमं प्रति || यद्गच्छति महाभक्त्त्या तदंगमिति निश्चितं || २१ || आत्मस्वरूपापरिचये तस्यांगत्वमेव ज्ञातुं न शक्यत इत्याकांक्षायामात्मस्वरूपमाह || आत्मायं पृ० ६) केवलः शुद्धः शिवस्यांशः सदामलः || नित्यो निरंजनस्यान्तस्तस्मादात्मा स्वयं शिवः || २२ || एवंभूतस्यात्मनः शिवांगत्वं कथमुपपद्यत इत्यत आह || सोयमात्मा शिवांगं स्याच्छिवेनांगीकृतत्वतः || सर्वज्ञतादिभेदैश्च शिवांगमयमिष्यते || २३ || अंगमिति पदव्युत्पत्तिविचारेणाप्यात्मनः शिवांगत्वमुपपद्यत इत्याह || अमिति ब्रह्मसन्मात्रं गच्छतीति गमुच्यते || रूप्यतेंऽगमिति प्राज्ञैरंगतत्वविचिंतकैः || २४ || यदेकमेवेत्यादिप्रतिपादितमेकमेव स्थलं स्वशक्तिक्षोभमात्रादेव द्विविधं जातं तदेवशक्तिभक्तिरूपोपाधिवशादेकमेकं प्रत्येकं प्रत्येकं त्रिविधं त्रिविधं स्यात् ज्ञानक्रियात्मकत्वेन पुनरेकं द्विविधं द्विविधं भवति || एवं च पूर्वोक्तं तयोरेकस्थलं शक्तिविशिष्टाल्लिंगस्थलमिति व्यवह्रियते || अन्यत्तु भक्तिविशिष्टं सदंगषट्स्थलमिति व्यवहारः || २५ || तथा चैकमेव परस्परवैलक्षण्येन द्वादशधा जातं इदानीं तदवान्तरभेदानेकोत्तरशतसंख्याकान् पिंडादिज्ञानशून्यांतत्वेनाभिमतान् वीरशैवाचार्यागस्त्यदूर्वासादिसकलपुरातनव्यवहारविषयान् सकलविद्यासागरशिरोमणिसर्वोपनिषदर्थसंग्रहमुखेन विविच्य पृ० ७) प्रत्येकं प्रत्येकं प्रतिपादयितुं तत्तत्स्थलप्रतिपादकश्रुतिगणोऽनुसंधीयते || २६ || तत्र यद्यपि लिंगस्थलनिरूपणाधीनमेवांगस्थलनिरूपणं तथा चांगस्थलनिरूपणात्पूर्वमेव लिंगस्थलं निरूपणीयमुपजीव्यनिरूपणानंतरमेवोपजीवकनिरूपणस्य न्यायत्वात् || तथापि अंगस्थलस्वरूपं ज्ञानं विना लिंगस्थलस्वरूपस्य दुर्ज्ञेयत्वादंगस्थलमेव प्रथमं निरूपणीयमिति विनिगमकानुरोधेन सांगस्थलमेव प्रथमं निरूप्यते || २७ || ननु उभयोरप्येकस्मादेवोत्पन्नत्वाविशेषादेकस्य प्राथम्यमन्यस्यानंतर्यमिति विनिगमकमेव न संवति || येनांगस्थलस्य प्राथम्यमंगीक्रियते इति चेदुभयोरप्येकस्मादेवोत्पन्नत्वाविशेषेऽपि स्वस्वरूपज्ञानाधीनमेव परस्वरूपज्ञानमित्येव विनिगमकं || २८ || अन्यथा || अहंकारबलं दर्पं कामं कोधं परिग्रहं || विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते || २९ || ब्रह्मभूतप्रसन्नात्मा न शोचति न कांक्षति || समः सर्वेषु भूतेषु मद्भक्तिं लभते परां || इति पौर्वापर्यक्रमभंगोऽपि स्यात् || ३० || तस्मादंगस्थलस्यैवादौ निरूपणीयत्वे सिद्धे तदवान्तरभेदभक्तस्थलादिभूतं पृ० ८) पिण्डस्थलं निरूप्यते || ३१ || अत्र बहुजन्मकृतसुकृतवशात् क्षीणपापः सन्निर्मलान्तःकरणचरमदेही यः स एवात्मा पिंडसंज्ञस्तदन्तरावस्थितपरब्रह्मैव पिंडस्थलमित्युच्यते || ३२ || श्ह्वेताश्वतरोपनिषदि || तिलेषु तैलं दधिनीव सर्पिरापः स्रोतः स्वरणीषु चाग्निः|| एवमात्मात्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति || ३३ || तथैवोक्तं कूर्मपुराणे || अंकुरः सुंदरे बीजे सूर्यकान्ते च पावकः || सलिल चंद्रकान्ते च तथात्मांगेऽपिसाध्यते || ३४ || एवंभूतपरब्रह्मणि स्वांतरावस्थितसकलनिष्कलात्मकतत्वं प्रदर्शयितुं या इच्छा जायते तदनुरोधेन यत्पिण्डभूतात्मनि ज्ञानं जायते तदेव पिण्डज्ञानस्थलमित्युच्यते || ३५ || अमृतनादोपनिषदि ज्ञाननेत्रं समादायोद्धरेद्वह्निवत्परं || निश्चलं निष्कलं शांतं तद्ब्रह्माहमिति स्मृतं || ३६ || कठवल्युपनिषदि || अशरीरं?शरीरेष्वनवस्थेष्ववस्थितं || महान्तं विभुमात्मानं मत्वा धीरो न शोचति || ३७ || तथैवोक्तं वासिष्ठे || कुतो पृ० ९) मायेयमिति ते राम मास्तु विचारणा || कथमेनां जहामीति चैषा तेऽस्तु विचारणा || ३८ || एवंविधपिंडज्ञानवान् महात्मा सकलनिष्कलतत्वं सम्यग्विचार्य तयोः सकलरूपसंसारस्य हेयत्वबुद्धौ सत्यामनंतरं संसारहेयस्थलमित्युच्यते || ३९ || मैत्रेयोपनिषदि || भगवन्नस्थिचर्मस्नायुमज्जामांसशुक्लशोणितश्लेष्माश्रुदूषिते विण्मूत्रवातपित्तकफसंघाते दुर्गन्धे निःसारेऽस्मिंश्छरीरे किं कामोपभोगैः || ४० || तथैवोक्तं पुराणे || मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहते || देहे चेत् प्रीतिमान्मूढो भविता नरकेऽपि सः || ४१ || एवंभूतसंसारजुगुप्सानंतरं गुरूपदेशाभावे स्वस्वरूपसाक्षात्कारासंभवात्तदर्थं गुरूपसदने कृते सत्यनंतरं गुरुकारुण्यस्थलमित्युच्यते || ४२ || मुण्डकोपनिषदि || तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठं || ४३ || किंच मैत्रेयोपनिषदि | अथ किमेतैर्वान्यानां शोषणं महार्णवानां शिखरिणां प्रपतनं ध्रुवस्य प्रचलनं प्रच्यवनं [स्थाने वा || पाठान्तरम् |] पृ० १०) वा तरूणां निमज्जनं पृथिव्याः स्थानादपसरणं सुराणां सोऽहमित्येतद्विधेऽस्मिन्संसारे किं कामोपभोगैरेवाश्रितस्यासकृदिच्छावर्तनं दृश्यत इत्युद्धर्तुमर्हसीत्यन्धोदपानस्थो भेक इवास यस्मिन्संसारे भगवंस्त्वन्नो गतिरिति || ४४ || तथैवोक्तं वाक्यवृत्ते || अनायासेन येनास्मान्मुच्येत भवबंधनात् || तन्मे संक्षिप्य भगवन् केवलं कृपया वद || ४५ || एवं गुरुकरुणान्वितस्यैव महात्मनः पंचभूतात्मकस्थूलदेहधर्मान्परिहृत्य सदाचारसाधनीभूतदेहस्योपरि लिंगधारणे कृते सत्यनंतरं लिंगधारणस्थलमित्युच्यते || ४६ || ऋग्वेदे सप्तमाध्याये || पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः || अतप्ततनुर्न तदामो अश्नुते श्रितास इद्वहंतस्तत्समाशत || ४७ || तथैवोक्तं कामिकागमे || ऋगित्याह पवित्रं ते विततं ब्रह्मणस्पते || तस्मात्पवित्रं तल्लिंगं धार्यं शैवमनामयं || ४८ || अतप्त- पृ० ११) तनुरज्ञो व सामः संस्कारवर्जितः || दीक्षया रहितः साक्षान्नाप्नुयाल्लिंगमुत्तमं || ४९ || किंच ब्रह्मोपनिषदि || यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् || सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदं || धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेत् || ५० || अस्मिन्नर्थे योगजागमे || संसूतत्वात्समस्तेषु वस्तुष्वपि तु संततं || सूचनात्परमेशस्य सूत्रं लिंगमितीरितं || ५१ || किंच बृहत्कालोत्तरे || व्रतानि दुश्चराणीह तपांस्युग्राणि यानि च || न्यूनानि तानि सर्वाणि शिवलिंगस्य धारणात् || ५२ || तथा शिवरहस्ये || परिशुद्धेन मनसा नियमेन दृढव्रतः || शिवस्य [शिरःसु |] लिंगं बिभ्राणः शिवमेव प्रपद्यते || ५३ || तथा वातुलेऽपि || यस्य सांसारिको भावो नास्ति लज्जादयस्तथा || स भक्तो निश्चलो धन्यो लिंगं सर्वत्र धारयेत् || ५४ || तत्रैव || दास्यैकव्रतनिष्ठस्तु समतिक्रान्तलौकिकः|| धारयेच्छिवलिंगं च पूजयेन्नियतात्मवान् || ५५ || पृ० १२) एवं लिंगधारणसंपन्नस्य परब्रह्माविनाभूतचित्प्रकाशस्वरूपभस्मधारणं कर्तव्यमिति नियम एव विभूतिधारणस्थलमित्युच्यते || ५६ || जाबालोपनिषदि विभूतिधारणाद्ब्रह्मैकत्वं गच्छति स एष भस्मज्योतिः स एष भस्मज्योतिः विभूतिधारणात्कैवल्यमश्नुते स एष भस्मज्योतिः स एष भस्मज्योतिः विभूतिधारणादेव अमृतत्वं च गच्छति स एष भस्मज्योतिः स एष भस्मज्योतिः || ५७ || एवं महाज्ञानभस्मसत्क्रियामुखेन धृतस्य लिंगक्रियासंपन्नस्य शिवज्ञानचक्षुःसंभूतरुद्राक्षधारणे कृते सत्यनंतरं रुद्राक्षधारणस्थलमित्युच्यते || ५८ || जाबालोपनिषदि || य इदं रुद्राक्षं धत्ते स सर्वपुण्यतीर्थस्नातो भवति स सर्ववेदधारी भवति स सर्वक्रतुकृद्भवति स सर्ववेदात्मको भवति स सत्यं परमः शिवः स परमः शिवः || ५९ || तत्रैव || पापं कुर्वन्नपि मानवः रुद्राक्षं धारयन् सर्वपाप्मानं तरति || ६० || मानव पुराणे || रुद्राक्षं धारयन्पापं कुर्वन्नपि च मानवः || सर्वं तरति पाप्मानं जाबालश्रुतिराह हि || ६१ || एवं लिंगांगिनः विभूतिरुद्राक्षधारकस्य नित्यलिंगार्चनारतलिंगसंपन्नस्य प्रणवा पृ० १३) न्वितपंचाक्षरीमंत्रजपस्यावश्यकत्वेनानंतरं पंचाक्षरीस्थलमित्युच्यते || ६२ || यजुर्वेदे || शतरुद्रीये || ङमः शिवाय च || ६३ || तथैवोक्तं शिवज्ञानविद्यायां वृतम् || अंगं नमः पदमिदं शिव एष लिंगं संबंधमायपदमेतदुदीरितं स्यात् || लिंगांगसंगमपदत्रयबोधनार्थं मंत्रोऽयमाह निगमागममंत्रराजः || ६४ || एवं विभूतिरुद्राक्षाणि धृत्वा पंचाक्षरीं जपित्वा नित्यलिंगार्चनारतस्य सांगक्रियावर्तनं यथेत्याकांक्षायामनंतरं भक्तिस्थलमित्युच्यते || ६५ || वृद्धजाबालोपनिषदि || तस्माद्भस्मरुद्राक्षाणि धृत्वा रुद्रानुवाकै रुद्रं संपूज्य || ६६ || एक एव हि रुद्रो न द्वितीयाय तस्थे इत्यादिभिः परमेश्वरं स्तुत्वा सततं युक्तिभिर्मन्यमानो ध्यायेत् ततः सकलपाशबंधच्छेदान्मुक्तो भवति नित्यसुखी भवति न संसारी भवति शिवस्वरूपो भवति शिवस्वरूपो भवति शिवस्वरूपो भवति || ६७ || तथा च शिवाद्वैते || शिवयोगी शिवः साक्षादिति कैंकर्यभक्तितः || पूजनं सुमनाः कुर्वन् यः स भक्त इतीरितः || ६८ || तथा वातुले || मुक्तस्यैव भवेद्भक्तिर्बद्धस्य न कदाचन || भक्तस्यैव हि मुक्तिः स्यान्नाभक्तस्य कदाचन || ६९ || वातुले || पृ० १४) प्रसादभक्तिमुक्तीनामेकदेशसमन्वयः || अपि मुक्तिर्भवेज्जन्या शेषौ द्वौ जनकौ मतौ || ७० || तत्रैव || प्रसादो जनकः प्रोक्तो जननी भक्तिरीरिता || अनयोरैक्यभावेन जनिता मुक्तिकन्यका || ७१ || स्कांदे || लिंगे प्राणं समाधाय प्राणे लिंगं तु शांभवं || सशरीरं मनः कृत्वा न किंचिच्चिंतयेद्यदि || ७२ || साभ्यंतरा भक्तिरिति प्रोच्यते शिवयोगिभिः || सा यस्मिन्वर्तते तस्य जीवनं भ्रष्टबीजवत् || ७३ || तत्रैव || बहुनात्र कि मुक्तेन गुह्याद्गुह्यतरं परं || शिवभक्तिर्न संदेहस्तया युक्तो विमुच्यते || ७४ || किंच वातुले || प्रसादाद्देवताभक्तिः प्रसादो भक्तिसंभवः || यथैवांकुरतो बीजं बीजतो वा तथांकुरं || ७५ || प्रसादपूर्विका चैका भक्तिर्मुक्तिविधायिनी || नैव सा शक्यते प्राप्तुं नरैरेकेन जन्मना || ७६ || तत्र || अनेकजन्मशुद्धानां श्रौतस्मार्तानुवर्तिनाम् || विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः || ७७ || प्रसन्ने सति मुक्तोऽभून्मुक्तः शिवसमो भवेत् || पृ० १५) अल्पभाव्यपि यो मर्त्यस्तस्य जन्मत्रयात्परं || ७८ || तथा स्कांदे || तीर्थयात्रा बहुविधा यज्ञाश्च विविधाः कृताः || एषां जन्मसहस्रेषु तस्माद्भक्तिर्भवेच्छिवे || ७९ || किंच ब्रह्मगीतायां || नाहं प्रसन्नस्तपसा न दानेन न चेज्यया || तुष्टोऽहं भक्तिलेशेन क्षिप्रं याति परं पदं || ८० || तत्रैव || न कर्मणा न तपसा न जपैर्न समाधिभिः || न ज्ञानेन न दानेन वश्योऽहं श्रद्धया विना || ८१ || तथा स्कांदे || शुभानामशुभानां च कर्मणां वापि संचयं || करोति भस्मसाद्भक्तिर्दहत्यग्निरिवेंधनं || ८२ || शैवरत्नाकरे || सद्भक्तजनसंगश्च दुःसंगाभाव एव च || एताभ्यां वर्धते पुंसां शिवभक्तिर्गरीयसी || ८३ || एवं सद्भक्तिस्थलसंपन्नस्य भक्तस्य देहप्राणरूपकर्तृभृत्यत्वसंबंधः यथेत्याकांक्षायामनंतरमुभयस्थलमित्युच्यते || ८४ || श्ह्वेताश्वतरोपनिषदि || यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ || तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः || ८५ || तथैवोक्तं तत्वसारे || सम्यग्गुरुं शिवं नित्यं ज्ञात्वा तत्पूजनं बुधः || पृ० १६) यः करोत्युभयाकारं शिवस्यैकाश्रयः स हि || ८६ || एवमुभयस्थले लिंगांगोभयसंबंधज्ञानवतो भक्तस्य शरीरमनोभावेषु गुरुलिंगजंगमभूतविचारो यथेत्याकांक्षायामनंतरं विविधसंपत्तिस्थलमित्युच्यते || ८७ || श्ह्वेताश्वतरोपनिषदि तस्याभिज्ञानात्तृतीयं देहभेदे विश्वैश्वर्यं केवलमाप्तकामः || ८८ || तथैवोक्तं वातुलतंत्रे || गुरौ देवे समा बुद्धिर्यथा या शिवयोगिनि || सैवा त्रिविधसंपत्तिः संवित्साम्राज्यशालिनां || ८९ || एवं त्रिविधसंपत्तिस्थलसंपन्नस्य भक्तस्य शरीरमनोज्ञानपरिणामेषु गुरुलिंगजंगमप्रसादभक्तिसन्निहितभेदः कथमित्याकांक्षायामनंतरं चतुर्विधसारायस्थलमित्युच्यते || ९० || पारातश्रुतौ प्रांचो धावन्ति प्रांचो वहि सुवर्गो लोकः चतसृभिरनुमंत्रयते चत्वारि छंदां?सिछंदोभिरेवैनान् सुवर्गं लोकं गमयति || ९१ || तथैवोक्तं शिवरहस्ये || शिवाचार्यातिथिष्वेतत्प्रसादेऽप्येकरूपिणी || सा चतुर्विधसारोक्ता भक्तिरव्यभिचारिणी || ९२ || एवं चतुर्विधसारायस्थलसंपन्नो महात्मा सकलभक्तजनहितोपदेशार्थं पृ० १७) गुरुलिंगजंगमपूजानिरूपणे कृते सत्यनंतरमुपाधिदानस्थलमित्युच्यते || ९३ || छांदोग्योपनिषदि || त्रयो धर्मस्कन्धाः यज्ञोऽध्ययनं दानमिति || ९४ || काठकीयश्रुतौ || यस्त्वतिथिभ्योऽत्रादिहविरदत्वा भुंक्ते स किल्बिषं भुंक्ते || ९५ || तथैवोक्तं शिवरहस्ये || क्षीयन्ते च वरारोहे तपोयज्ञक्रियादयः || न क्षीयन्ते वरारोहे वीरवक्त्रहुतं हविः || ९६ || किं च शैवपुराणे || वृत्तम् || नाहं तदद्मि यजमानहविर्वितानं चोद्यं घृतप्लुतमिदं हुतभुऽऽन्मुखेन || यज्जंगमस्य मुखतश्चरतोऽनुमासं तृप्तिर्न मे ह्यवहितैर्निजकर्मपाकैः || ९७ || पेषणं खण्डनं चुल्ली उदकुंभः प्रमार्जनं || पंचसूना गृहस्थस्य केन मोक्षं न जायते || ९८ || देवकार्यं गुरोः कार्यं गणकार्यं च योगिने || खननोत्पाटनं खण्डं कुर्वन्पापैर्न लिप्यते || ९९ || तथैव शातातपस्मृतौ || आत्मार्थं न पचेदन्नं देवतार्थं तु पाचयेत् || आत्मार्थं पचते यस्तु ब्रह्महा स च कथ्यते || १०० || किं च शिवरहस्ये || लिंगार्थं जंगमार्थं च विशेषं पाकमुत्तमं || पृ० १८) आत्मार्थं यत्कृतं पाकं श्वानमांससमं भवेत् || १०१ || ब्रह्मगीतायां || प्रदत्तं च निवृत्तं च द्विविधं दानमिष्यते || आहुः प्रवृत्तमाचार्या देवैश्वर्यादिसाधकं || १०२ || शिवधर्मोत्तरे || तस्मात्पात्रतमं ज्ञात्वा शिवभक्तमकल्मषं || तस्मै सर्वं प्रदातव्यमक्षयं फलमिच्छता || १०३ || शैवरत्नाकरे || शिवभक्तमतिक्रम्य यच्चान्यस्मै प्रदीयते || निष्फलं तद्भवेद्दानं नरकं च प्रपद्यते || १०४ || शिवरहस्ये || सर्वाचारविशेषेण सर्वव्रतविशेषतः || सर्वशीलविशेषेण शिवदासोऽहमुत्तमं || १०५ || एवं सकलभक्तजनानां भक्तिप्रारंभमुपदिष्टमहात्मा स्वयमुपाधिमनादृत्य निरुपाधिकः सन् सेवापरः कथमित्याकांक्षायामनंतरं निरुपाधिदानस्थलमित्युच्यते || १०६ || श्वेताश्वतरोपनिषदि || यो देवानामधिपो यस्मिन् लोका अधिश्रिताः य ईशोऽस्य द्विपाच्चतुष्पदः कस्मै देवाय हविषा विधेम || १०७ || तथा शिवरहस्ये || ममेशस्वामिकं कार्यं सर्वं मत्वेशचोदितं || पृ० १९) यस्यार्थः क्रियते पात्रे सा क्रिया निरुपाधिका || १०८ || किं च भगवद्गीतायां || दातव्यमिति यद्दानं दीयतेऽनुपकारिणे || देशे काले च पात्रे च तद्दानं निरुपाधिकं || १०९ || वातुलतंत्रे || मदीयं तुभ्यमित्युक्तं न दद्याद्वस्तु किंचन || त्वदीयं तुभ्यमित्येतद्दानं विमलमीरितं || ११० || तत्रैव || स१मयाराधनं नित्यं धनप्राणाभिमानकैः || त्रिसंध्यं ध्या२नतो देवि मार्गशुद्धिरिहोच्यते || १११ || एवं निरुपाधिको भूत्वा कर्तृभृत्यभावेन सेवापरो महात्मा स्वकृतभक्तौ स्वीकृतवस्तुनि चाभेदे प्राप्ते सत्यनंतरं सहजदानस्थलमित्युच्यते || ११२ || श्ह्वेताश्वतरोपनिषदि || भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म चैतत् || ११३ || तथैवोक्तं कूर्मपुराणे || दाता दानं च देयं च पात्रं चैव शिवः स्वयं || नाहं कारणमित्येतद्दानं विमलमीरितं || ११४ || तथा स्कांदे || शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् || पृ० २०) शिवो यजति तत्सर्वं तच्छिवः सोऽहमेव च || ११५ || कपिल उवाच || न्यायार्जितं धनं यस्तु शिवभक्त्यैव केवलं || दद्यात्संगविनिर्मुक्तस्तद्दानं सहजं स्मृतं || ११६ || वासिष्ठे || निरुपाधिकचिद्रूपपरानंदात्मवस्तुनि || समाप्तं सकलं यस्य स दानी शंकरः स्वयं || ११७|| इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोंटदार्यविरचिते परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्यकैव् अल्यसारे भक्तस्थलं नाम प्रथमं प्रकरणं संपूर्णम् पृ० २१) || अथ द्वितीयप्रकरणम् || श्रीशिवाय नमः || एवं भक्तस्थलमाश्रित्य कर्तृभृत्यभावं विस्मृत्य स्वस्वरूपनिष्ठमाहात्म्यानंतरं निष्ठामुखेनाचारमनुस्मृत्य सामरस्यं प्राप्तभेदः कथमित्याकांक्षायामनंतरं माहेश्वरस्थलमित्युच्यते || १ || श्रीरुदे || ये भूतानामधिपतयो विशिखासः कपर्दिनः || २ || तथा उत्तरकामिके || ब्रह्मादिदेवताजालं मोहितं मायया सदा || अशक्तं मुक्तिदाने तु क्षयातिशयसंयुतं || ३ || अनादिमुक्तो भगवानेक एव महेश्वरः || मुक्तिदश्चेति यो देवः स वै माहेश्वरः स्मृतः || ४ || ब्रह्माद्यैर्मलिनप्रायैर्निर्मले परमेश्वरे || साम्योक्तिं यो न सहते स वै माहेश्वराभिधः || ५ || क्षयातिशयसंयुक्ता ब्रह्मविष्ण्वादिसंपदः|| तृणवन्मन्यते बुद्ध्या वीरमाहेश्वरः सदा || ६ || सिद्धान्तशेखरे || सदाकाले शिवे भक्तिर्लिंगजंगमपूजनं || एकपत्नीव्रतं वीरमाहेश्वरमहाव्रतम् || ७ || पृ० २२) शैवरत्नाकरे || तदेव लिंगं तत्प्रोक्तं लिंगाचारस्तु यस्य वै || तेनैवाचारलिंगेन लिंगी माहेश्वरो जनः || ८ || एवं माहेश्वरस्थले नियमव्रतादिषु कृतनिश्चयस्य माहेश्वरस्यांगस्थितलिंगनिष्ठाभेदः कथमित्यकांक्षायामनंतरं लिंगनिष्ठास्थलमित्युच्यते || ९ || अथर्वशिरुपनिषदि || शिव एको ध्येयः शिवंकरः सर्वमन्यत्परित्यज्य समाप्ताथर्वणी श्रुतिः || १० || तथैवोक्तं शैवपुराणे || संसारमोचकः साक्षाच्छिव एव न चापरः || अन्याश्च देवताः सर्वाः केवलं भोगदायकाः || ११ || सर्वमन्यत्परित्यज्य शिव एव शिवंकरः || ध्येय इत्याह परमा श्रुतिराथर्वणी खलु || १२ || स्कांदे || प्रणामदर्शनस्पर्शपूजाद्यैर्नियमेन यत् || शिवलिंगस्य भजनं लिंगनिष्ठेति गीयते || १३ || किंच|| कूर्मपुराणे || तदेव परमं धाम सैवेह परमा गतिः || सैवेह परमा काष्ठा लिंगनिष्ठा शिवस्य या || १४ || तथैवोक्तं ब्रह्मणा वायवीयसंहितायां || तदीयं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परं || अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं च योगिभिः || १५ || ततः परं तु यन्नित्यं ज्ञानमानंदमव्ययं || पृ० २३) तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद्व्रतमास्तिकैः || १६ || किंच || वातुले || लिंगभक्तिर्लिंगपूजा लिंगधारणमेव च || लिंगप्रसादस्वीकारो लिंगश्रवणमादरात् || लिंगध्यानं लिंगमनः सर्वं लिंगमयं जगत् || १७ || एवं लिंगनिष्ठान्वितो माहेश्वरः तस्मिन् लिंगे लोलुप्तः सन् स्वस्य पूर्वजातिजीवभावलौकिकनानाप्रपंचपूर्वाश्रमान् मिथ्येति मत्वा निरसने कृते सत्यनंतरं पूर्वाश्रयनिरसनस्थलमित्युच्यते|| १८ || मुण्डकोपनिषदि || स यो हवै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति तरति शोकं तरति पाप्मानं गुहाग्रंथिभ्यो विमुक्तोऽमृतो भवति || १९ || किंच || नारायणोपनिषदि || न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः || २० || तथैवोक्तं स्कांदे || अज्ञानं पूर्वमित्याहुर्भवोऽनादिस्तदाश्रयः || सर्वं निरसितव्यं तत्प्रयत्नेन विपश्चिता || २१ || पृ० २४) तथा सिद्धान्तशेखरे || यो दीक्षितस्तु श्राद्धादौ स्वपूर्वविधिमाचरेत् || तस्य तन्निष्फलं सर्वं समयेन च लंघ्यते || २२ || शिवरहस्ये || संध्या ध्यानं जपो होमः स्वाध्यायः पितृतर्पणं || वृद्धाचारं तु तत्सर्वं शिवलिंगी न कारयेत् || २३ || एवं पूर्वाश्रयनिरस्तमाहेश्वरः लिंगं ज्ञात्वा तल्लिंगसुखं पृथग्वाचा व्यवहृते सति भिन्नत्वं प्राप्यतीति वाऽऽन्निवृत्तौ सत्यामनंतरं वाग्द्वैतनिरसनस्थलमित्युच्यते || २४ || मुण्डकोपनिषदि अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पंडितंमन्यमानाः जघन्यमानाः परियंतिः मूढा अन्धेनैव नीयमाना यथान्धाः अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यंति बालाः || २५|| श्वेताश्वतरोपनिषदि || द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति || २६ || तथैवोक्तं सूतसंहितायां || द्वौ सुपर्णौ शरीरेऽस्मिन् जीवेशाख्यौ व्यवस्थितौ || तयोर्जीवः फलं भुंक्ते कर्मणो न महेश्वरः || २७ || पृ० २५) तथा वासिष्ठे || अज्ञस्याल्पप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् || महानरकजालेषु स तेन विनियोजितः || २८ || किंच|| विश्वसादाख्ये || सर्वेषामेव भावानामात्मा सर्वेश्वरो हरः || सति तस्मिन्नविज्ञाते किमद्वैतं भवेदहो || २९ || तथा पद्मनाभौ || एक एव सदा रुद्रो न द्वितीयोऽस्ति कश्चन || एतदद्वैतविज्ञानमन्यद्व्यर्थमुदाहृतं || ३० || एवं वाग्द्वैतनिरसनं कृत्वा सर्वांगे लिंगमेव पूर्णमिति विज्ञाता महेश्वरः कदाचिदावाह्य कदाचिद्विसर्जयितुमवकाशमजानानः आह्वानविसर्जनोभयेऽपि निरस्ते सत्यनंतरमाह्वाननिरसनस्थलमित्युच्यते || ३१ || प्रश्नोपनिषदि || या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि || या च मनसि संततां शिवां तां कुरु मोत्क्रमीः || ३२ || तथैवोक्तं सिद्धान्तशिखामणौ || यदा शिवकलायुक्तं लिंगं दद्यान्महागुरुः || तदारभ्य शिवस्तत्र तिष्ठत्याह्वानमत्र किं || ३३ || तत्रैव || सुसंस्कारेषु लिंगेषु सदा सन्निहितः शिवः || पृ० २६) तत्राह्वानं न कर्तव्यं प्रतिपत्तिविरोधकं || ३४ || पुनस्तत्रैव || नाह्वानं न विसर्गं च स्वेष्ठलिंगे तु कारयेत् || लिंगनिष्ठापरो नित्यमिति शास्त्रस्य निश्चयः || ३५ || किंच || वातुले || वासनाऽऽवाह्यते देवि वासनैव विसर्ज्यते || पारमार्थेन देवस्य नावाहनविसर्जने || ३६ || किंच || तंत्रसारे || कुतो वा नीयते देवि कुतो वा न विसर्ज्यते || स्थूलसूक्ष्मादिभेदेन स हि योगिषु संस्थितः || ३७ || एवं निवृत्ताह्वानविसर्जनोभयवतः माहेश्वरस्याष्टतनुभिराविर्भूतसमस्तप्रपंचो मिथ्येतिज्ञाने सत्यनंतरमष्टमूर्तिनिरसनस्थलमित्युच्यते || ३८ || अन्तर्यामिब्राह्मणोपनिषदि || यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरोयं पृथिवी न वेद पृ० २७) यास्य पृथिवी शरीरं यः पृथिवीमन्तरोयमयत्येषत आत्मान्तर्याम्यमृतः|| योऽप्सु तिष्ठन्नद्भ्योऽन्तरोयमापो न विदुर्यस्यापः शरीरं योषोऽन्तरोयमयत्येषत आत्मान्तर्याम्यमृतः || योऽग्नावतिष्ठन्नग्ने रन्तरोयमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरोयमयत्येषत आत्मान्तर्याम्यमृतः यो वायौ तिष्ठन् वायोरन्तरोयं वायुर्न वेद यस्य वायुः शरीरं यो वायुमन्तरोयमयत्येषत आत्मान्तर्याम्यमृतः य आकाशे तिष्ठन् आकाशादन्तरोयमाकाशं न वेद यस्य आकाशं शरीरं यो आकाशमन्तरोयमयत्येषत आत्मान्तर्याम्यमृतः || यश्चंद्रमसि तिष्ठन् चंद्रमसोन्तरोऽयं चंद्रमा न वेद यस्य चंद्रमाः शरीरं यश्चन्द्रमसमन्तरो यमयत्येषत आत्मान्तर्याम्यमृतः || यः सूर्ये तिष्ठन् सूर्यस्यान्तरोऽयं सूर्यो न वेद यस्य सूर्यः शरीरं यस्सूर्यमन्तरोयमयत्येषत आत्मान्तर्याम्यमृतः || य आत्मनि तिष्ठन्नात्मान्तरोयमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरोयमयत्येषत आत्मान्तर्याम्यमृतः || ३९ || तथा आदित्यपुराणे || तथा कर्ता कुलालादिर्न घटादिर्न हि स्वयं || भूम्यादिकृत्तदीशानो भूम्यादेरन्य एव हि || ४० || तत्रैव || व्यतिरिक्तः शरीरादेः शरीरी यद्वदिष्यते || तथा मूर्त्यष्टकादन्यो मूर्तिमान् पृथगीश्वरः || ४१ || तथाच स्कांदे || न गंधादिगुणैर्युक्तः क्ष्मादिवद्भगवांश्च्छिवः || पृ० २८) न स्यंदनस्वभावश्च यथैवापस्तथा विभुः || ४२ || यथा ज्वलनवन्नोष्णस्तिरश्चीनो न वायुवत् || नाकाशवत्तथा शब्दः शिवः परमचेतनः || ४३ || चंद्रसूर्याविवाश्रान्तं स्थाणुर्न परिवर्तते || मायागुणादिसंबंधो नात्मवत्परमेशितुः || ४४ || एवं परित्यक्तमूर्त्यष्टकेन माहेश्वरेण शरणपूर्णः शिव इति ज्ञात्वा प्रतिष्ठाप्य जगत्पूर्णः शिव इत्युच्यमानेन सर्वगतशब्दनिरसने कृते सत्यनंतरं सर्वगतनिरसनस्थलमित्युच्यते || ४५ || बृहदारण्यकोपनिषदि || अनन्वागस्तः न भवत्यसंगो ह्ययं पुरुषः || ४६ || तथा स्कांदे || असंगो ह्ययमित्येवं ब्रवीति च परा श्रुतिः || तस्मादात्मा तु विज्ञप्तः कर्मभिर्न स बध्यते || चिद्रूपस्यात्मनः साक्षाद्ब्रह्मतामाह हि श्रुतिः || ४७ || किंच शिवगीतायां || कथं सर्वगतत्वं स्याच्छिवस्य परमात्मनः || असंगो ह्ययं पुरुष इत्याह श्रुतिरुन्नता || ४८ || तथा शिवधर्मे || कथं भवेत्सर्वगतः शिवः परमपूरुषः || पृ० २९) जडं नाशि च सर्वं च चिदानंदघनः शिवः || ४९ || पुनरत एवोक्तं श्रीरुद्रोपनिषदि || या ते रुद्र शिवा तनूरघोरा पापकाशिनी || तया नस्तनुवा शंतमया गिरिशंताभिचाकशीहि || ५० || तथैवोक्तं शैवपुराणे || लिंगं शिवा तनूः प्रोक्ता मूर्तिघोरतनुः स्मृता || अपापेषु च भक्तेषु तयोर्मध्ये शिवा तनूः || काशते परमेशस्य शिष्टास्ते लिंगधारिणः || ५१ || पुनर्वातुले || अघोरा पापकाशीति या ते रुद्र शिवा तनूः || यजुषा गीयते यस्मात्तस्माच्छैवोऽघवर्जितः || ५२ || किंच || शिवयोगप्रदीपिकायां || नित्यं भाति त्वदीयेषु या ते रुद्र शिवा तनूः || अघोरा पापकाशीति श्रुतिराह सनातनी || ५३ || कारणागमे || वृत्तम् || अपापकाशीति वपुः श्रुतं ते शिष्टाः प्रसिद्धा भगवन्नपापाः || अतस्त्वदीयानपहाय भक्तानन्या नशिष्टानिति निश्चनोमि || ५४ || एवं निरस्तसर्वगतमाहेश्वरः प्रपंचे शिवव्यतिरिक्ते शिवेन विना प्रपंचस्य भानमेव न स्यादिति ज्ञात्वा तस्मिन् स्थितोऽप्यस्थितैव तिष्ठतीति निश्चये ज्ञाप्यमाने सत्यनंतरं शिवजगन्मयस्थलमित्युच्यते || ५५ || पृ० ३०) मुण्डकोपनिषदि || ब्रह्मैवेदममृतं पुरस्तात्पश्चाद्दक्षिणतश्चोत्तरेणाधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठं || ५६ || किंच || उत्तरतापनीयोपनिषदि || सर्वगो ह्येष ईश्वरः क्रियाज्ञानात्मा सर्वं शर्वमयं हि सर्वे जीवाः शर्वमयाः || ५७ || तथा श्वेताश्वतरोपनिषदि वृत्तम् || परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च || न तस्य कश्चित्पतिरस्ति लोके न चेशिता नैव च तस्य लिंग || ५८ || तथा च वायुपराणे || शिवेनाधिष्ठितं यत्स्याज्जगत्सर्वं चराचरं || शुद्धा स्वाभाविकी तस्य शक्तिः सर्वातिशायिनी || ५९ || किंच || अमृतबिंदूपनिषदि || एक एव हि भूतात्मा भूते भूते व्यवस्थितः || एकधा बहुधा चैव दृश्यते जलचंद्रवत् || ६० || तथैवोक्तं योगशास्त्रे || एक एव हि भूतात्मा देहे देहे व्यवस्थितः || एकधा बहुधा चैव दृश्यते जलचंद्रवत् || ६१ || किंच सौरपुराणे || सर्वोपाधिविनिर्मुक्तं चैतन्यं सर्वगं शिवं || तदेवेदं च विश्वं हि तस्मादन्यं न विद्यते || ६२ || एवं शिव एव जगद्रूपजगद्व्यतिरिक्तरूपद्वयसमर्थ इति मत्वा तं शिवं पृ० ३१) स्वस्मिन्नालिंग्य स्थितमाहेश्वरे तथाविधः शिवः भक्तदेहिकदेहः सन् स्थितभेदो यथेत्याकांक्षायामनंतरं भक्तदेहिकलिंगस्थलमित्युच्यते || ६३ || श्वेताश्वतरोपनिषदि || वृत्तं || अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः || स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महांतं || ६४ || तथा शिवरहस्ये || शिवांगं शरणः साक्षाच्छरणांगं शिवो भवेत् || शिवास्यं शरणः साक्षाच्छरणास्यं शिवो भवेत् || ६५ || किंच शिवसूत्रे || लिंग एवेशिते यद्वच्छिवः सर्वगतोऽपि सन् || तथा भक्तजनेष्वेव शिवताव्यक्तिरिष्यते || ६६ || इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोंटदार्यविरचिते परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्यकैव् अल्यसारे माहेश्वरस्थलं नाम द्वितीयं प्रकरणं समाप्तम् || पृ० ३२) तृतीयं प्रकरणम् | श्री शिवाय नमः || एवं माहेश्वरस्थले आचारमनुष्ठाय भक्तलिंगकाययोः सामरस्यवान्महात्मा तदनंतरं सावधानमुखेनानुष्ठानभेदो यथेत्याकांक्षायामनंतरं प्रसादिस्थलमित्युच्यते || १ || जाबालोपनिषदि || रुद्रेणात्तमश्नंति रुद्रेण पीतं पिबंति रुद्रेणाघ्रातं जिघ्रंति || २ || तथा स्कांदे || शिष्टाः शान्ताश्च रुद्रेण भुक्तमेव हि भुंजते || घ्रातमेव हि जिघ्रंति पीतमेव पिबंति च || ३ || किंच छांदोग्योपनिषदि || आहारशुद्धौ सत्वशुद्धिः सत्वशुद्धौ ध्रुवा स्मृतिः || स्मृतिलाभे सर्वग्रंथीनां विमोक्षः || ४ || बृहदारण्यकोपनिषदि || यदन्नं पुरुषोऽश्नुते तदन्नं तस्य देवता || ५ || तथैवोक्तं वातुले || जगज्जीवेश्वराणां तु त्रयाणां तत्वनिर्णयः || उच्छिष्टान्नप्रसादेषु त्रिषु निर्णयते कमात् || ६ || शरीरादि जगद्रूपमुच्छिष्टं भ्रांतिलक्षणं || अन्नं तदभिमानी स्याज्जीवः संसारलक्षणः || प्रसाद ईश्वरः साक्षात्सच्चिदानंदलक्षणः || ७ || वृत्तम् || प्रसाद आद्यन्तविवर्जितः स्वयं ह्यखण्डरूपः परिशेषलक्षणः || पृ० ३३) विकल्पहीनः सुविशुद्धवत्स्थितः प्रभाव एषोऽस्य निजस्वभावजः || ८ || लीयते द्रव्यमन्नादि यत्र यद्गम्यते यतः || प्रसादत्वेन तल्लिंगं प्रसादस्त्वत एव सः || ९ || अर्चनाद्वारतो लिंगमर्पणद्वारतः स्वयं || प्रसाद इति भक्त्यायं एक एवोपचर्यते || १० || अन्नं पदार्थरूपं तत्करणं कल्पना समाख्याता || अर्पणमत्रविलोपो ह्यादानं ग्रहणमित्यतो विद्धि || ११ || वृत्तं || यद्भाजनस्थं विनिवेद्यमानमन्नादिकं भाण्डगतं तदंशं || लिंगार्पितं भाजनसुस्थितं चेद्भाण्डस्थितं चैव समर्पितं स्यात् || १२ || घृतात्मकं यन्नवनीतमाद्यं प्रतापितं वह्निमुखे निजं स्यात् || यथा तथा लिंगमुखार्पितं यद्भवेत्प्रसादात्मकमन्नमाद्यं || १३ || रौप्ये यथालोकय शुक्तिकायां लुप्ते स्वयं शिष्यत एव या सा || तद्वत्प्रसादस्य पदार्थभावे लुप्ते स्वयं शिष्यत एव वस्तु || १४ || पृ० ३४) नोच्छिष्टभावो न निषिद्धभावः साक्षात्प्रसादे परमे पवित्रे || भोगे प्रसादस्य ऋतं शृणु त्वं भुक्ते च तस्मिन्न हि संभवोऽस्य || १५ || प्रसाद उच्छिष्टनिषिद्धभावो घटेत चेन्नैव भवेत्प्रसादः || अभावतश्चास्य न चास्ति लिंगं गुरुर्न चास्ति क्रमतो निपातः || १६ || रोगार्थमौषधं सेव्यं दोषार्थं चात्मनस्तथा || सेव्यः शिवप्रसादोऽयमिति शैवी परा स्थितिः || १७ || वृत्तम् || असंस्कृतात्मेंद्रियभूतकायैरलिंगिभिः स्वार्थपरैः सकामैः || दृष्टं श्रुतं स्पृष्टमथोपभुक्तं घ्राताद्यमुच्छिष्टमिति प्रसिद्धं || १८ || अतींद्रियैरविषयैरकामैः षट्स्थलास्मभिः || यद्भुक्तं तद्धि नोच्छिष्टं न निषिद्धं न दूषितं || १९ || वृत्तम् || आचाराह्वयलिंगमस्य वपुरात्मा गौरवं लिंगकं प्राणः स्याच्छिवलिंगमिंद्रियसमूहस्तद्वदेव स्वयं || प्रोक्तं यच्चरलिंगमेषविषयप्रासादलिंगं तथा तृप्तिः षट्स्थलरूपिणस्तव पृ० ३५) किमाचक्षे महालिंगकं || २० || मुसलोलूखलचुल्लीघटेक्षुतिलयंत्रमुखसमुद्भूतं || न किमपि दूष्यति लोके दूष्यति गुरुलिंगजंगममुखोत्थं || २१ || अत्र तंत्रान्तरे || स्त्रीभिः सहैव भुंजन्ते न दोष इति मानवाः || मद्भक्तानां प्रसादान्नं न गृह्णंति दुरात्मनः || २२ || आर्या || ओदनसूतकमादावन्ते चोच्छिष्टसूतकं द्वितयं || हित्वा शिवप्रसादं भुनक्ति यस्स प्रसादवान्भवति || २३ || सूतकं पातकं प्रोक्तं पातकं किल्बिषं महत् || तस्मात्सूतकमाद्यं तं हित्वा भोगं समाचरेत् || २४ || आचारेण च गुरुणा शिवेन चरमूर्तिना प्रसादेन || महता घ्रातं पीतं दृष्टं स्पृष्टं श्रुतं स्मृतं भज स्वमतं || २५ || वृत्तं || भाण्डो देही भाजनं चेंद्रियाणि जीवात्मायं द्रव्यरूपो यदन्नं || भक्त्या लिंगायार्पयित्वा परस्मै शेषीभूतं तं प्रसादं भजस्व || २६ || योगजागमे || स सुखज्ञः स योगीशः स एवागमतत्ववित् || शिवार्पितधिया स स्वेष्विंद्रियेषु य आचरेत् || २७ || शिवरहस्ये || लिंगार्पितपदार्थैस्तु संभोगी लिंगसंयुतः || पृ० ३६) अनर्पितपरित्यागी प्रसादीति निगद्यते || २८ || तत्रैव || पूजका बहवः संति भक्ताः शतसहस्रशः || मत्प्रसादस्य योग्यास्तु द्वित्रयो नैव पंचषट् || २९ || एवं गुरुलिंगजंगमानां प्रसन्नप्रसादस्वीकर्तुः प्रसादिनोंऽगालिंगितगुरुमाहात्म्यं यथेत्याकांक्षायामनंतरं गुरुमाहात्म्यस्थलमित्युच्यते || ३० || अथर्वणवेदे || कदंबगोलकाकारो विश्वस्यातिहितः वपुर्धत्ते जगद्धितार्थं वेदादि निगमैः प्रणवादिमंत्रैः क्रियादिकर्मणे आत्मायं बोधः स रुद्रः स चरः द्विभुजः द्व्यक्षः द्विपादेकशिरा एको रुद्र आचार्यरूपः || ३१ || तथाच वीरागमे || ललाटलोचनं चांद्रीं कलामपि च दोर्द्वयं || अन्तर्निधाय वर्तेऽहं गुरुरूपो महेश्वरि || ३२ || लैंग्ये || स्पर्शादप्यधिकं मन्ये गुरुपादसरोरुहं || स्पर्शश्च कुरुते स्वर्णं गुरुरात्मसमं हि तत् || ३३ || एवं सर्वांगेषु गुरुमाहात्म्यस्थिरीकृतप्रसादिनो मनसि स्थिरी- पृ० ३७) कृतलिंगमाहात्म्यं यथेत्याकांक्षायामनंतरं लिंगमाहात्म्यस्थलमित्युच्यते || ३४ || सामवेदे || यस्यान्तःस्थानि भूतानि यस्मात्सर्वं प्रवर्तते || यमाहुस्तत्परं तत्वं स देवः स्यान्महेश्वरः || ३५ || तथैवोक्तं ब्रह्माण्डपुराणे || चराचरात्मकमिदं यत्र विश्वं विलीयते || उत्पद्यते यतो भूयस्तल्लिंगं परमिष्यते || ३६ || किंच वीरागमे || लिंगमध्ये जगत्सर्वं त्रैलोक्यं सचराचरं || लिंगबाह्यं परं नास्ति तस्माल्लिंगं प्रपूजयेत् || ३७ || एवं मनसि स्थिरीकृतलिंगमाहात्म्यवतः प्रसादिनः ज्ञानांतरावस्थितजंगममाहात्म्यं यथेत्याकांक्षायामनंतरं जंगममाहात्म्यस्थलमित्युच्यते || ३८ || छांदोग्योपनिषदि || आत्मैवेदं सर्वमिति स वा एष एतं पश्यन्नैतं मन्वान एतं विज्ञायमान आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानंदः स स्वराट् भवति तस्य सर्वेषु लोकेषु कामचरो भवति || ३९ || यजुर्वेदे || देवानां देवो अतिथिः || ४० || किंच ऋग्वेदादरणे ईश्वरोऽतिथिरेव चरतो तदीहाहस्म || ४१ || पृ० ३८) तथैवोक्तं वीरागमे || सर्व लोकोपकाराय यो देवः परमेश्वरः || चरत्यतिथिरूपेण नमस्ते जंगमात्मने || ४२ || एवं जंगममाहात्म्यं ज्ञात्वा तत्प्रसादं स्वीकृत्य सुखीभूतप्रसादिनः सदाचारवर्तनेन दृश्यमानभक्तमाहात्म्यं कथमित्याकांक्षायामनंतरं भक्तमाहात्म्यस्थलमित्युच्यते || ४३ || बृहदारण्यकोपनिषदि || शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति || ४४ || तथा वीरागमे || मद्भक्तजनमाहात्म्यं को वा जानाति तत्वतः || जानेऽहं त्वं च जानासि नंदी जानाति वा गुहः || ४५ || किंच || शिवधर्मोत्तरे || ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्यंत्यजोऽपि वा || शिवभक्तः सदा पूज्यः सर्वावस्थां गतोऽपि वा || ४६ || वीरागमे || पातके समनुप्राप्ते शिवभक्तगृहं व्रजेत् || याचयेदन्नमसृतं तदलाभे जलं पिबेत् || ४७ || एवं भक्तत्वेन भूतमाहात्म्यं स्वगतत्वेनाभिन्नं सत् प्रसादिनः बाह्याभ्यंतरयोः परिणामप्रवेशभूतपरमानंदमाहात्म्यं कथमित्याकांक्षायामनंतर पृ० ३९) शरणमाहात्म्यस्थलमित्युच्यते || ४८ || श्ह्वेताश्वतरोपनिषदि || सर्वेंद्रियगुणाभासं सर्वेद्रियविवर्जितं || सर्वस्य प्रभुमीशानं सर्वस्य शरणं बृहत् [सुहृत् पाठांतरम् |]|| ४९ || तथा शिवयोगप्रदीपिकायां || वृत्तम् || धन्यानि तानि नगराणि निरामयानि नित्योत्सवानि विजयोत्तरभूपतीनि || एकोऽपि यत्र शिवयोगसमाहितात्मा पद्भ्यां पवित्रयति पावनपादुकाभ्यां || ५० || एवं सर्वांगेषु परमानंदवान्प्रसादी स्वस्वीकृतपरिणामप्रसादमाहात्म्यं कथमित्याकांक्षायामनंतरं प्रसादमाहात्म्यस्थलमित्युच्यते || ५१ || मैत्रेयोपनिषदि || चित्तस्य हि प्रसादेन हंति कर्म शुभाशुभं || प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुते || ५२ || किंच यजुर्वेदे || रुद्रेणात्तममृतं देवाद्यैर्भोक्तुकामा वेदाश्च कामयन्ते || ५३ || किंच || मुण्डकोपनिषदि || निर्माल्यमेव सदा भक्षयेत् चण्डालो नैव चण्डालः पुल्कसो नैव पुल्कसः || ५४ || तथा सूतसंहितायां || प्रसादे सति कीटो वा पतंगो वा नरोऽथ वा || देवो वा दानवो वापि लभते ज्ञानमुत्तमं || ५५ || पृ० ४०) तत्रैव || वृत्तम् || शिवप्रसादेन समो न विद्यते शिवप्रसादादधिकं न विद्यते || शिवप्रसादेन शिवस्य सन्निधिः शिवप्रसादेन विशुद्धताऽऽत्मनः || ५६ || सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते || प्रसादादेव सर्वेषां सर्वसिद्धिर्महेशितुः || ५७ || इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोंटदार्यविरचिते परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्यकैव् अल्यसारे प्रसादिस्थलं नाम तृतीयं प्रकरणं समाप्तम् || पृ० ४१) चतुर्थं प्रकरणं | श्रीशिवाय नमः || एवं प्रसादिस्थलमनुष्ठाय प्रसन्नप्रसादसमरसीभूतप्रसादी अनुभवमुखेनानुष्ठाय सामरस्यप्राप्तिमान्कथमित्याकांक्षायामनंतरं प्राणलिंगिस्थलमित्युच्यते || १ || ननु प्राणलिंगमित्यत्र प्राणे लिंगमित्याधारार्थो वा प्राणस्य लिंगमिति संबंधार्थो वा प्राण एव लिंगमित्येकाश्रयत्वं वा कस्य प्राणलिंगत्वं किंच प्राणशब्दस्यानेकार्थवाचकत्वात् तथा मृगेंद्रे || चित्यति वाहिके शक्तौ प्राणशब्दः कलासु च || रेचकपूरकात्मकप्राणवायुसंबंधस्य मंत्रात्मकस्यापि प्राणलिंगत्वं सूक्ष्मशरीरांशेषु श्रोत्रादींद्रियेषु प्रवर्तमानस्याचारादिषड्विधलिंगस्यापि प्राणलिंगत्वं || हृदयकमलकर्णिकामध्यस्थितसूर्यचंद्राग्निमण्डलत्रयसंबंधस्यापि प्राणलिंगत्वं चेतस्यविनाभूतत्वेनाभिन्नतया वर्तमानस्य परमसूक्ष्मनादस्यापि प्राणलिंगत्वं || पृ० ४२) एतस्मादाधारसंबंधाभेदात्मना प्राणलिंगस्य स्थितिरिति चेन्न || २ || उक्तप्राणलिंगचातुर्विध्यमपि न संभवति || तस्य सूक्ष्मांगगोचरत्वेनासत्यतापत्तेः || ३ || किंच अंगत्रयमध्ये एकांगस्य लिंगत्वमेव भज्येत तथाभूतांगांशे संसारोऽपि न निवर्तेत इच्छाविषयीभूतेष्टलिंगस्यैव ध्यानगोचरत्वेन प्राणलिंगत्वात् तस्मादिष्टलिंगप्रतिबिंबमेव सूक्ष्मांगगोचरं सत्प्राणलिंगमिति मंतव्यं || ४ || तथा श्ह्वेताश्वतरोपनिषदि || यत एव बिंबं हृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधान्तं || ५ || मुण्डकोपनिषदि || अन्तः शरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः || ६ || तथा वीरागमे || प्राणिना धृतलिंगं तत्प्राणस्थाने विनिक्षिपेत् || यस्तु भेदेन जानाति न च लिंगं न चार्चनं || ७ || तत्रैव || इष्टलिंगमविश्वस्य प्राणलिंगं न पश्यति || दर्पणप्रतिबिंबानां यथा रूपं तथा भवेत् || ८ || पुनस्तत्रैव || सर्वतत्वमयः प्राणः सर्वज्ञानमयः शिवः || अनयोर्योगमैवैतत्प्राणलिंगमिहोच्यते || ९ || पृ० ४३) किंच शैवरत्नाकरे || प्राणलिंगी स विज्ञेयः प्राग्रूपस्य ह्यनित्यतां || विचार्य सर्वज्ञानाख्यलिंगे सर्वं सदा मृशन् || १० || एवं प्राणलिंगसंबंधवतो लिंगप्राणिनः प्राणलिंगपूजाक्रमः कथमित्याकांक्षायामनंतरं प्राणलिंगार्चनास्थलमित्युच्यते || ११ || अथर्वशीर्षोपनिषदि|| प्राणेष्वन्तर्मनसो लिंगमाहुर्यस्मिन् क्रोधो या च तृष्णा क्षमा च || तृष्णां हित्वा हेतुजालस्य मूलं बुद्ध्या चिंत्य स्थापयित्वाथ रुदे || १२ || तथैवोक्तं वातुले || प्राणलिंगं मनोग्राह्यं भवेत्सकलनिष्कलं || तत्प्राणेष्वन्तर्मनसो लिंगमाहुरिति श्रुतिः || १३ || किंच बृहदारण्यकोपनिषदि || लिंगं मनो यत्र निषक्तं प्राप्यरात्तं कर्मणस्तस्य यत्किंचेह करोत्ययं तस्माल्लोकान्पुनरेत्यस्मै लोकाय कर्मण इत्यनुकामयमानोऽथ कामयमानो यो कामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति पृ० ४४) ब्रह्मैव सन् ब्रह्माप्येति || १४ || किंच || मुण्डकोपनिषदि || हिरण्मये परे कोशे विरजं ब्रह्म निष्कलं || तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः || १५ || एवं प्राणलिंगार्चनारतस्य लिंगलीनसकलकरणस्य प्राणलिंगिनः लिंगसमाधिभेदः कथमित्याकांक्षायामनंतरं शिवयोगसमाधिस्थलमित्युच्यते || १६ || मैत्रेयोपनिषदि || वृत्तम् || समाधिनिर्धूतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं भवेत् || न शक्यते वर्णयितुं गिरा सदा स्वयं तदन्तःकरणेन गृह्यते || १७ || किंच || तैत्तरीयोपनिषदि || नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा || तस्याः शिखायामध्ये तु परमात्मा व्यवस्थितः || १८ || किंच || मुण्डकोपनिषदि || प्राणो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते || अप्रमत्तेन वेद्धव्यं शरवतन्मयो भवेत् || १९ || तथा योगसारे || जीवः प्राणपरिस्पंदः परात्मा लिंगमीरितं || उभयोरेकतावस्था सा समाधिः प्रकीर्तिता || २० || किंच || अचिंत्यविश्वसादाख्ये || सर्वज्ञानं सर्वकार्यं परात्परतरं शिवं || पृ० ४५) बिसतन्तुनिभज्योतिर्भावयेद्योगवित्तमः || २१ || तथाच वीरागमे || शृणु देवि प्रवक्ष्यामि भवत्प्रश्नस्य निर्णयं || इदमात्मरहस्यं च मनोधर्मव्यवस्थितं || २२ || आधारस्थानमाद्यं स्यात्स्वाधिष्ठानं द्वितीयकं || नाभिस्थानं तृतीयं स्यादुदरं तु चतुर्थकं || २३ || हृदयं पंचमं स्थानं कण्ठः षष्ठ उदीरितः || भ्रूमध्यं सप्तमं स्थानं शून्यमष्टममुच्यते || २४ || ब्रह्मा विष्णुश्च रुद्रश्च शक्तिरेको गुरुः शिवः || सदाशिवः क्रमादेषां स्थानानामधिपा इमे || २५ || आधाराज्जायते वर्णाश्रमधर्मादिकक्रिया || मायाव्यसनमोहादिस्वाधिष्ठानाद्भवत्यथ || २६ || नाभिस्थानाद्भवत्येव तामसत्वमदादिकं || क्षुत्पिपासादिका धर्मा उदरस्थानसंभवाः || २७ || हृदयस्थानसंभूतं भक्तिशांतिदयादिकं || शब्दशक्तिविरक्त्त्याद्याः क्रियाः कंठसमुद्भवाः || २८ || ज्ञानप्रज्ञाप्रभावादिकर्म भ्रूमध्यसंभवम् || निश्चिंतत्वसदानन्दौ शून्यस्थानसमुद्भवौ || २९ || धर्मस्थानं द्वयं त्वेषां मायास्थानं तथा द्वयं || भक्तिस्थानं द्वयं चैव विरक्तिश्च तथा द्वयं || ३० || संसारो जायते सम्यगाद्यस्थानचतुष्टयात् || पृ० ४६) निःसंसारित्वमेव स्यादूर्ध्वस्थानचतुष्टयात् || ३१ || अधमं मध्यमं चादिद्वयमन्योन्यसंगतं || ऊर्ध्वद्वयं तथा युक्तमुत्तमं चोत्तमोत्तमं || ३२ || आदिस्थानादिषट्कं स्याच्छक्तिबीजसमन्वितं || ततः शून्यस्थानयुगं शक्तिबीजविवर्जितं || ३३ || स्कांदे || उपरिष्ठादथ ज्ञेयं कैलासनिलयाह्वयं || तत्पदं ब्रह्मरंध्राख्यं तन्निरालंबनं स्मृतं || ३४ || एवं शिवयोगसमाधिनिष्ठप्राणलिंगिनः मनसि मनोमूर्तिरूपेण स्थितलिंगस्य सहजभावः कथमित्याकांक्षायामनंतरं लिंगनिजस्थलमित्युच्यते || ३५ || श्वेताश्वतरोपनिषदि || न तत्र सूर्यो भाति न चंद्रतारकं नेमा विद्युतो न भांति कुतोऽयमग्निः तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति || ३६ || तथैवोक्तं सूतसंहितायां || स्वयं ज्योतिरिति प्राह श्रुतिः साध्वी महेश्वरं || तस्य भासा सर्वमिदं विभातीत्यपि चाह हि || ३७ || वृत्तम् || वेदान्तवाक्योत्थपरात्मविद्यां शिवस्य लिंगं कथयंति केचित् || विचारजन्यामपि सत्यविद्यां ब्रुवंति चान्ये परमस्य लिंगं || ३८ || पृ० ४७) शिवस्य लिंगं शिवलिंगमन्ये मुनीश्वरा वेदविदो वदंति || स्वयं प्रकाशस्य न युज्यते यत्ततश्च शंभुः स्वयमेव लिंगं || ३९ || एवं लिंगं निजज्ञानवतः प्राणलिंगिनः सर्वावयवलिंगभावक्रमः कथमित्याकांक्षायामनंतरमंगलिंगस्थलमित्युच्यते || ४० || तैत्तरीयोपनिषदि असन्नेव स भवति असद्ब्रह्मेति वेद चेत् अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुरिति तस्यैष एव शारीर आत्मा || ४१ || तथा शंभुप्रभायां || यल्लिंगं शुद्धदेहस्थं मल्लिंगं लिंगसंयुतं || तल्लिंगं विदितं येन स भवेदंगलिंगवान् || ४२ || तत्रैव || यत्र लिंगे वरारोहे त्रैलोक्यं सचराचरं || तल्लिंगं पूजितं येन स भवेदंगलिंगवान् || ४३ || इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोंटदार्यविरचिते परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्यकैव् अल्यसारे प्राणलिंगस्थलं नाम चतुर्थं प्रकरणं समाप्तम् || पृ० ४८) पंचमं प्रकरणं | श्रीशिवाय नमः || एवं प्राणलिंगिस्थलमनुष्ठाय लिंगलीनसर्वावयववान् प्राणलिंगी सुज्ञानमुखेनानुष्ठाय समरसीभूतभेदः कथमित्याकांक्षायामनंतरं शरणस्थलमित्युच्यते || १ || श्वेताश्वतरोपनिषदि || तं महादेवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये || २ || किंच प्रश्नोपनिषदि || अहं परंब्रह्म वेद नातः परमस्तीति ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति नमः परमपुरुषेभ्यो नमः परमपुरुषेभ्यः || ३ || तथा स्कांदे || चिंतयामि शिवं केन जातं शिवमयं मनः || पयोनिमग्नवपुषः पयस्तृष्णा न जायते || ४ || किंच वासिष्ठे || कल्पान्तपवना वांतु यांतु चैकत्वमर्णवाः || तपंतु द्वादशादित्या नास्ति निर्मनसः क्षतिः || ५ || एवं शरणस्थले महाज्ञानेन स्वस्वरूपविज्ञाता शरणः स्वस्य ज्ञानस्य गोचरीभूततमोनिरसने कृते सत्यनंतरं तामसनिरसनस्थलमित्युच्यते || ६ || मैत्रेयोपनिषदि || स वा एषोऽभिभूतः प्राकृतैर्गुणैरित्यतोऽभिभूतत्वात्स पृ० ४९) मूढत्वं प्रयाति स मूढत्वादात्मस्थं प्रभु भगवन्तं कारयितारं नापश्यत् || ७ || तथा शिवधर्मोत्तरे || मलमज्ञानमित्युक्तं संसारांकुरकारणं || तत्तमस्तेन तमसा युक्तो यस्तामसः स्मृतः || ८ || किंच || सिद्धांतशेखरे || ज्ञानहीनगुरुं प्राप्य कुतो मुक्तिमवाप्नुयात् || भिन्ननावाश्रितः सिन्धोर्यथा पारं न गच्छति || ९ || एवं ज्ञानगोचरीभूततमो निरस्य शरणः सुज्ञानं निर्दिश्य स्थैर्यं गते सत्यनंतरं निर्देशस्थलमित्युच्यते || १० || श्ह्वेताश्वतरोपनिषदि नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् || तमात्मस्थं ये अनुपश्यंति धीरास्तेषां शांतिः शाश्वती नेतरेषां || ११ || तदेतदिति मन्यन्ते निर्देश्यं परमं सुखं || कथं नु तद्विजानीयां किमु भाति विभाति वा || १२ || तथा स्कांदे || शंकया भक्षितं सर्वं त्रैलोक्यं सचराचरं || सा शंका भक्षिता येन स वीरो भुवि दुर्लभः || १३ || किंच योगषट्सहस्रिकायां || गुरुश्च गुणवान् प्राज्ञः परानंदावभासकः|| पृ० ५०) तत्ववित्तत्वसंपन्नो मुक्तिदो न तु चापरः || १४ || किंच योगार्णवे || वृत्तम् || मीनः स्नानपरः फणी पवनभुऽऽन्मेषस्तु पर्णाशनो नीराशी स तु चातकः प्रतिदिनं शेते बिले मूषकः || भस्मोद्धूलनतत्परः खलु खरो ध्यानानुरक्तो बकः सर्वं निष्फलितं विवेकरहितं ज्ञानप्रधानं तपः || १५ || तत्रैव || स्वस्थानं च परित्यज्य परस्थानं समाश्रिताः || स्त्रीहेमभुक्तिलाभस्य आशाद्गच्छंति प्राणिनः || १६ || प्राणिमार्गं परित्यज्य सन्मार्गं लिंगसंयुतः || शिवज्ञानवतां पुसां संगमिच्छति गच्छति || १७ || एवं सुज्ञानं निर्दिश्य स्वस्वरूपं ज्ञात्वा ज्ञानरूपसर्वांगशरणस्य महाज्ञानमेव चारित्रं तदतिरिक्तदुःशीलचारित्रं नास्तीति दर्शिते सत्यनंतरं शीलसंपादनस्थलमित्युच्यते || १८ || कठवल्ल्युपनिषदि || तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणं || अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति || १९ || तथैवोक्तं कूर्मपुराणे || परस्य शिवतत्वस्य जिज्ञासामधिकृत्य यत् || ईषणासु च वैराग्यं तच्छीलं परमं स्मृतं || २० || पृ० ५१) किंच शैवपुराणे || व्रतं शिवैकविषयं नियमश्च सनातनः || शीलमित्युच्यते सद्भिर्येन शीली भवेत्पुमान् || २१ || किंच लैंग्ये || शिव एव परं ज्योतिर्नान्यत्किंचन विद्यते || इति यश्च स्थिरीभावस्तच्छीलं परमं विदुः || २२ || इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोंटदार्यविरचिते परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्यकैव् अल्यसारे शरणस्थलं नाम पंचमं प्रकरणं समाप्तम् || पृ० ५२) षष्ठं प्रकरणं | श्रीशिवाय नमः || एवं शरणस्थले महाज्ञानेन सकलसंशयं निवर्त्य निजस्वरूपं साक्षात्कृत्य परमानंदस्वरूपशरणः स्वस्य ज्ञानं विस्मृत्य तद्विस्मरणमपि विनाश्य महालिंगैक्यगतभेदः कथमित्याकांक्षायामनंतरमैक्यस्थलमित्युच्यते || १ || उत्तरतापनीयोपनिषदि || अथ लिंगान् संहृत्य तेजसा शरीरत्रयं संव्याप्य तदधिष्ठानमात्मानं संज्वाल्य तत्तेज आत्मा चैतन्यरूपं बलमवष्टभ्य गुणैरैक्यं संपाद्य महास्थूलं महासूक्ष्मं महाकारणं संहृत्य मात्राभिर्होत्रनुज्ञात्रनुज्ञाविकल्परूपं चिन्तयन् विमृशेत् || २ || किंच कैवल्योपनिषदि || न भूमिरापो मम नास्ति वह्निर्न चानिलो मेऽस्ति न चांबरं च || एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् || समस्तसाक्षिन् सदसद्विहीनं प्रयाति शुद्धः परमात्मरूपम् || ३ || तथा देविकालोत्तरे || अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित् || न तं पश्यामि यस्याहं तं न पश्यामि यो मम || ४ || वासिष्ठे || विलीनाशेषबाह्यार्थबुद्धेरभ्यासयोगतः || पृ० ५३) जीवस्य ब्रह्मताप्राप्तिर्मुक्तिरित्यभिधीयते || ५ || किंच शिवाद्वैते || अखण्डपरिपूर्णेशस्वात्मसंभावनोर्जितः || स्वप्नेऽप्यभेदनभ्रान्तो यस्स ऐक्य इहोदितः || ६ || एवं महालिंगसमरसीभूतलिंगैक्ये षट्स्थलसंपन्नसर्वाचारलीनभावः कथमित्याकांक्षायामनंतरं सर्वाचारसंपत्तिस्थलमित्युच्यते || ७ || छांदोग्योपनिषदि || एवमेवेहाचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्यै सुहृदः साधु कृत्यं द्विषंतः पापकृत्यं यथा पुष्करपलाश आपो न श्लिष्यंते एवमेव विदितपाप्मानं कर्म न श्लिष्यते || ८ || तथा वासिष्ठे || गच्छतस्तिष्ठतश्चैव जाग्रतः स्वपतोऽपि वा || सर्वाचारगता पूजा नित्यमाध्यात्मिका त्वियं || ९ || किंच || षट्साहस्रिकायां || परामृतरसास्वादनिर्भरानंदसुंदरः || निराकारोऽखिलाचारचरणैकान्ततत्परः | || १० || एवं सर्वांगलीनसर्वाचारसंपदो लिंगैक्यस्य महालिंगमेव भाजनं तन्महालिंगस्यापि लिंगैक्य एव भाजनं भूत्वा नामद्वयं विलीय एकभाजनीभूतभेदः पृ० ५४) कथमित्याकांक्षायामनंतरमेकभाजनस्थलमित्युच्यते || ११ || मुण्डकोपनिषदि || कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्वेकीभवंति || १२ || तथा सूत्रार्णवे || प्रभुणा भवता यस्य जातं हृदयमेलनं || प्राभवीणां विभूतीनां परमेकः सभाजनं || १३ || किंच || शिवसूत्रे || विद्भाजनं भाजनेभ्यो बाह्येभ्यो हि विशिष्यते || वस्तु यद्गतमेतत्स्यादितरे नैवमित्यतः || १४ || एवं महालिंगे प्राप्तैकभाजनलिंगैक्यः तन्महालिंगं च समरसभावेन परमानंदसुखे सुखीभूतभेदः कथमित्याकांक्षायामनंतरं सहभोजनस्थलमित्युच्यते || १५ || तैत्तरीयोपनिषदि || यो वेद निहितं गुहायां परमे व्योमनि सोऽश्नुते सर्वान् कामान्सह ब्रह्मणा विपश्चितेति || १६ || तथैवोक्तं वातुले || एवं लिंगार्पितं सर्वमिति यो वेत्ति तत्वतः || सोऽश्नुते सकलान्कामान् विपश्चिद्ब्रह्मणा सह || १७ || किंच || कठवल्ल्युपनिषदि || येन रूपं रसं गंधं शब्दान् स्पर्शांश्च मैथुनात् || एतेनैव विजानाति किमत्र परिशिष्यते || १८ || तथैवोक्तं || येन गंधान् रसान् रूपं स्पर्शांश्छब्दान् रतिक्रियां || पृ० ५५) एतेनैव विजानाति किमत्र परिशिष्यते || १९ || तत्रैव || लिंगदेही शिवात्म्यैको लिंगाचारी न लौकिकः || सर्वं लिंगमयं प्रोक्तं लिंगेन सह सोऽश्नुते || २० || इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोंटदार्यविरचिते परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्यकैव् अल्यसारे अंगस्थलनिरूपणे ऐक्यस्थलनिरूपणं नाम षष्ठं प्रकरणं समाप्तम् || पृ० ५६) उत्तरार्धे प्रथमं प्रकरणं | श्रीशिवाय नमः || एवं चतुश्चत्वारिंशदंगस्थलविशिष्टषट्स्थलांगशरणस्य मनःस्थले स्थैर्यंगतलिंगस्थलविचारः कथमित्याकांक्षायामनंतरं दीक्षागुरुस्थलमित्युच्यते || तत्रापि प्रथमादिष्टभक्तस्थलान्तर्गत गुरुकारुण्याश्रितभक्तस्याचारलिंगं पुनस्तस्यैव गुरुलिंगजंगमरूपेण त्रैविध्यं प्रथममंगस्थल एव प्रतिपाद्य तद्भेदोपदेशार्थं लिंगषट्स्थलमुपन्यस्यति || भक्तोपास्यमानाचारलिंगमेव गुरुलिंगजंगमरूपेण त्रिविधं भवति पुनस्तदेव प्रत्येकं प्रत्येकं त्रिविधं त्रिविधं भवति || १ || तथाच || भक्त एव गुरुत्रयमपि त्यागांगभोगांगयोगांगस्वरूपत्वेनानुसंधाय त्रिविधगुरुकारुण्यात् त्रिविधांगे त्रिविधलिंगं च संबध्य क्रमेण तथाविधलिंगचैतन्यरूपं स्वयचरपररूपजंगममेवेति निश्चित्य तज्जंगममेव प्राणस्तदेव मंत्रं तन्मंत्रोच्चारणपरश्च भक्तः त्रिविधजंगमस्य दासोऽहंभावेन स्थातव्यः || २ || ननु पूर्वं इमे लिंगमंगमित्यत्र कुंडलिन्याद्युपाधिरहितस्य परमशिवस्य लिंगत्वमुक्त्वा अविद्याद्युपाधिरहितस्यात्मन एव अंगत्वं पृ० ५७) प्रतिपादितमिदानीं तु शिवयोगीश्वरस्यांगित्वमभिप्रेत्य तदीयेषु क्रियादिदीक्षात्रयशुद्धेषु अंगत्रयेषु लिंगत्रयं द्योततित्युक्तत्वात् एकस्यैवात्मनस्तत्रांगत्वकथनमत्रांगित्वकथनं च विरुध्यते || ३ || किंच अंगशब्दस्य देहवाचकत्वं वा जीववाचकत्वं वाऽप्राधान्यवाचकत्वं वा न प्रथमः विभुत्वादात्मनः कार्यात्मकजडवस्तुवत्सांशत्वं न घटते न द्वितीयः अमिति ब्रह्मसन्मात्रं गच्छतीति गमुच्यत इति वचनाद्देहाद्देहांतरं प्रति संसरतोऽहंकारादितत्वयुक्तस्य जीवस्य सकलतत्वातीतेन लिंगेन सह संबंधा योगात् न तृतीयः || संबंधरूपां क्रियां प्रति संबंधिनोरुभयोरपि मुख्यत्वादंगत्रयसंबंधत्वेन आत्मन अंगित्वादेकस्यैव लिंगस्य संबंधायोगात् || लिंगांगसंबंध एव न घटत इति चेत् लोके कान्ताकान्तसामुद्रनादेयजलादिसंबंधित्वे समानेऽप्येकस्य मुख्यत्वमन्यस्यामुख्यत्वं यथा तथैव लिंगांगसंबंधे संबंधं प्रति सृष्ट्यादिद्वारेणानादिप्रवृत्तत्वाल्लिंगस्य मुख्यत्वं || दीक्षानंतरप्रवृत्तत्वेनामुख्यत्वान्मुमुक्षुरंगत्वात्तस्याप्यंगरूपस्य मुमुक्षोर्लिंगात्मकेन परशिवेन सह संबंधोऽप्यंगत्रयदीक्षात्रय पृ० ५८) लिंगत्रयोपाधिना भवतीति त्रिप्रकारः|| ४ || तत्र जातिकुलाद्यभिमानाश्रयस्थूलशरीरोपाहितस्यांगसंज्ञकस्यात्मन एव इष्टलिंगेन सह संबंधः || त्रिंशत्तत्वात्मकसूक्ष्मशरीरव्याप्तात्मनः प्राणलिंगेन सह संबंधः शुद्धाशुद्धभोगसाधनशुद्धाशुद्धमायाविभेदनेन तनुकरणाद्यंकुरोत्पादनकारणस्य ज्ञानक्रियारूपस्यात्मनोऽज्ञताव्यापादनकारणस्य स्वयमकारणकोऽप्यनादिनिबिडकारणस्यांजनस्योपरितया वर्तमानस्यात्मनश्च निर्विकारनिजचैतन्यरूपेण महालिंगेन सहानवच्छिन्नात्मकः परमसंबंधः इति त्रिविधसंबंधोऽस्यांगित्वस्यौपचारिकत्वादंगसंज्ञकस्यात्मनः लिंगसंज्ञकेन शिवेन सह संबंधमिति युक्तं || ५ || कठवल्ल्युपनिषदि || श्रवणायापि बहुभिर्यो न लभ्यः शृण्वंतोऽपि बहवो यं न विद्युः आचार्योऽस्य वक्ता कुशलोऽपि लब्धः आचार्यो ज्ञाता कुशलोऽनुशिष्टः || ६ || तथा योगसारे || शुद्धां यः शांभवीं दीक्षां करोति गुरुरुत्तमः || तस्मै दद्यात्स्वमात्मानं पूज्यो वंद्यः स सद्गुरुः || ७ || तथा स्वायंभुवसूत्रे || पृ० ५९) स्वदेशिकमनुप्राप्य दीक्षाविच्छिन्नबंधनः || प्रयाति शिवसायुज्यं निर्ममो निरुपप्लवः || ८ || किंच सुज्ञानोत्तरसूत्रे || तत्वैरेभिर्निबद्धात्मा सर्वधर्मैश्च संयुतः || नान्येन शक्यते मोक्तुं मुक्त्त्वा दीक्षां शिवात्मिकां || ९ || किंच मतंगपारमेश्वरे || वृत्तं || दीक्षानलप्लुष्टमलस्य जन्तोः स्वात्म्यं बलं व्यक्तिमुपैति योगात् || शक्त्या विभोश्चुंबितहृत्प्रदेशो नान्येन पुंसो विनिवृत्तिमेति || १० || किंच स्वायंभुवसूत्रे || अनेन क्रमयोगेन परां केवलतां गतः || अनाद्यशुद्धिशून्यत्वात्प्राप्नोति न भवांतरं || ११ || किंच वातुलतंत्रे || तनुत्रयगतानादिमलत्रयमसौ गुरुः || दीक्षात्रयेण निर्दग्ध्वा लिंगत्रयमुपादिशत् || १२ || एकमेव परं लिंगमंगेऽस्मिन्सुप्रतिष्ठितं || सर्वतो मुखमाभाति नामरूपक्रियात्मना || १३ || इष्टलिंगं तु बाह्यांगे प्राणलिंगं तथान्तरे || भावलिंगं सदैवात्मसंगेऽस्मिन्सुप्रतिष्ठितं || १४ || एवमुपदेशार्थं दीक्षागुरुस्वरूपप्राप्तलिंगस्य शिक्षामुखेन बोधस्वरूपप्राप्तिभेदः कथ- पृ० ६०) मित्याकांक्षायामनंतरं शिक्षागुरुस्थलमित्युच्यते || १५ || यजुर्वेदोपनिषदि || वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति सत्यं वद || धर्मं चर || स्वाध्यायान्मा प्रमदः भूत्यै न प्रमदितव्यं || मातृदेवो भव || पितृदेवो भव || आचार्यदेवो भव || अतिथिदेवो भव|| यान्यनवद्यानि कर्माणि || तानि सेवितव्यानि || नो इतराणि || यान्यस्माक?सुचरितानि || तानि त्वयोपास्यानि नो इतराणि || एष आदेश एष उपदेशः || १६ || तथा वीरागमे || तल्लिंगं जंगमात्मेति बहुशो जंगमैः कृतः || सम्यग्बोधश्चतत्पूजा शिक्षेति कथिताऽनघे || १७ || किंच शिवाद्वैते || पूर्वपक्षतया येन विश्वमाभास्य भेदतः || अभेदोत्तरपक्षान्तर्नीयते तं स्तुमः शिवं || १८ || चंद्रावलोकने || कुलाचाररताः संति बहवो गुरवो मुने || कुलाचारविहीनस्तु गुरुरेकोऽपि दुर्लभः || १९ || पृ० ६१) तथा योगशतके || वृत्तम् || न स्याज्जन्म यथा तथा गुरुवरः सेव्यः स नोड्डीशवन्नो नाट्यागमतर्कतत्रंहतधीर्नोबाह्यविज्ञानवित् || शिष्यान्तर्गतसंशयच्छिदमलं स्वं स्वेन विज्ञापयन्नास्ते यस्तु गुरुः स धन्य उदितो नान्यः स्वमौढ्यप्रदः || २० || किंच तंत्रसारे || सुंदरः सुमुखः स्वच्छः सुलभः सर्वतंत्रवित् || असंशयः संशयछिन्निरपेक्षो गुरुर्मतः || २१ || एवं शिक्षागुरुस्वरूपं प्राप्तलिंगं सुज्ञानकटाक्षोन्मीलननिमित्तेन ज्ञानगुरुस्वरूपं प्राप्तभेदः कथमित्याकांक्षायमनंतरं ज्ञानगुरुस्थलमित्युच्यते || २२ || मुण्डकोपनिषदि || तस्मै स विद्वानुपसन्नाय सम्यक् प्रशांतचित्ताय शमान्विताय || येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्यां || २३ || तथैवोक्तं वीरागमे || स्वपूर्वजन्मसत्कर्मवासनाभिः शिवार्चना || पृ० ६२) शिवभक्तिः स्वयं चित्ते स्वानुभाव इति स्मृतः || २४ || तथा वासिष्ठे || दुर्वारसंशयध्वान्तनिरोधित्वे चिदंशुमान् || गुरुश्च ज्ञानमेवोक्तं स्वानुभूत्यात्मतत्ववित् || २५ || किंच शिवधर्मोत्तरे || ज्ञानमूलं गुरुः प्रोक्तः सः प्रशस्तः प्रवर्तकः || ज्ञानेन तु महासिद्धो भवेद्योगीश्वरस्थितिः || २६ || एवं त्रिविधगुरुस्वरुपैकीभूतलिंगमेव शरणांगे इष्टलिंगस्वरूपं प्राप्तभेदः कथमित्याकांक्षायामनंतरं क्रियालिंगस्थलमित्युच्यते || २७ || अथर्वशिरुपनिषदि || रुद्र एकत्वमाह रुद्रं शाश्वतं वै पुराणं इष्टमूर्जं तपसानुयच्छते || २८ || तथैवोक्तं वातुले || सकलं दृक्वलाग्राह्यमिष्टलिंगस्थलं महत् || इष्टावाप्तिकरं साक्षादनिष्टपरिहारकं || २९ || इष्टमूर्जं स्वभक्तानामनुयच्छति सर्वदा || इष्टलिंगमिति प्राह तस्मादाथर्वणी श्रुतिः || ३० || एवमंगाभ्यस्तक्रियालिंगे भावे पूर्णे सत्यनंतरं भावलिंगस्थलमित्युच्यते || ३१ || श्ह्वेताश्वतरोपनिषदि || भावग्राह्यम निलाख्यं भावाभावकरं शिवं || कल्पसर्गकरं देवं ये विदुस्ते जहुस्तमः || ३२ || तथैवोक्तं वातुले || पृ० ६३) निष्कलं भावलिंगं स्याद्भावग्राह्यं परात्परं || सन्मात्रं भावलिंगं स्यादिति निष्ठा महात्मनां || ३३ || किंच महाभारते || न काष्ठे विद्यते देवो न शिलायां न कर्दमे || भावे तु विद्यते देवस्तस्माद्भावेन भाव्यते || ३४ || एवं भावपूर्णसद्भावरूपलिंगे महाज्ञानस्वरूपप्राप्तौ सत्यामनंतरं ज्ञानलिंगस्थलमित्युच्यते || ३५ || मुण्डकोपनिषदि || न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवस्तपसा कर्मणा वा || ज्ञानप्रसादेन विशुद्धसत्वस्ततस्तं पश्यते निष्कलं ध्यायमानः || ३६ || तथेवोक्तं वातुले || परात्परं तु यत्प्रोक्तं ज्ञानलिंगं तदुच्यते || भावनातीतमव्यक्तं परं ब्रह्म शिवाभिधं || ३७ || किंच स्कांदे || अपि संत्यक्तसर्वार्था नियमार्थं हि योगिनः || संभाव्य ज्ञानलिंगं हि रमन्ते हृदयान्तरे || ३८ || किंच सिद्वान्तशेखरे || आनंदलक्षणा तृप्तिर्निरुपाधितया स्थिता || तदुत्थानंदसांद्रत्वं ज्ञानलिंगं तु तृप्तिदं || ३९ || एवं त्रिविधलिंगस्वरूपैकीभूतलिंगं शरणस्य स्वभावगुणे पृ० ६४) निश्चलीभूतभेदः कथमित्याकांक्षायामनंतरं स्वयस्थलमित्युच्यते || ४० || अथर्वशिखोपनिषदि || सम्यक् समस्तानपि पदान् जयति स्वयं ब्रह्म भवत्येष सिद्धिकरः || ४१ || तथैवोक्तं वीरागमे || आत्मलिंगपरिज्ञानान्नंदी [(पाठान्तरं) न्नंदीशः शिवलांछनः] स शिवलांछनः बाह्यकर्मपरित्यागी स स्वयं लिंगमुच्यते|| ४२ || तथा स्कांदे || ध्यानं शैवं तथा शिक्षा नित्यमेकान्तशीलता || यतश्चत्वारि कर्माणि पंचमं नोपपद्यते || ४३ || सूतसंहितायां || दातृर्नपि जनान् भक्तान् याचित्वार्थं सुदुर्लभं || क्षुभितस्तदभावेन क्षोभयेन्न कदाचन || ४४ || किंच वासिष्ठे || विधिना शिवभावेन सत्कृत्य भयभक्तितः || आददीत मुनिर्दत्तं तद्भैक्ष्यममृतं भवेत् || ४५ || शिवधर्मोत्तरे || तदेवाश्रद्धया दत्तं नाददीत कदाचन || अनन्यमानसः शान्तः शिवविद्यां जपेत्सदा || ४६ || किंच वासिष्ठे || सर्वत्र समताशून्यः सर्वत्र समतायुतः || पृ० ६५) वृथामूलनिकेतश्च मुमुक्षुरिह शस्यते || ४७ || तथा स्कांदे || सर्वारंभपरित्यागो भैक्ष्यास्यं वृक्षमूलिता || निष्परिग्रहताद्रोहः समतायोगिवर्तनं || ४८ || एवं स्वभावे निश्चलीभूतलिंगं भक्तिं निमित्तीकृत्य संचारभेदः कथमित्याकांक्षायामनंतरं चरस्थलमित्युच्यते || ४९ || परमहंसोपनिषदि || जटां धृत्वा चीरवासाश्च भूत्वा लोकान्वहन्येव चरत्यथ स्वयं || ५० || ऋग्वेदे || चरैवेति चरैवेति चरन्वै मधु विंदति || ५१ || किंच परमहंसोपनिषदि एकशाटी परिवृतो मुण्डोदरपात्री भिक्षार्थं ग्रामं प्रविशंदासायं प्रदक्षिणेनाविचिकित्सत् सावर्णिकं भैक्ष्यचर्यमभिशस्तपतितवर्ज्यं || ५२ || यजुर्वेदे || इमान् लोकान् कामाग्निकामरूप्यनुसंचरन्नेतत्सामगायन्नास्ते || ५३ || तथैवोक्तं वीरागमे || शिवलिंगादभेदात्मा तन्निक्षिप्तेंद्रियव्रजः | पृ० ६६) स्वेच्छाविहारी स्वानंदः स चरं लिंगमुच्यते || ५४ || तथा वातुले वृत्तम् || अतत्वसंसारविनाशनेन वा श्रुतिप्रमाणेन च तर्कवर्त्मना || प्रबोधमानस्य शिवस्य तं पुनः स्वमेव गायन् विचरेत्स्वलीलया || ५५ || किंच योगसारे || स्वेच्छया चरते क्षोणीं भुजानो विषयानपि || अकर्तान्तर्बहिःकर्ता स योगी राजयोगिराट् || ५६ || किंच शिवयोगदीपिकयां || पुण्यक्षेत्रेषु सर्वेषु संचरन्नात्मवृत्तये || याचमानो जनान् साधून् न जातु क्लेशयेत्कृशान् || ५७ || तथा वातुलतंत्रे || यथा मध्वाददानोऽपि भृंगः पुष्पं न बाधते || तथा माधुकरीं भिक्षामाददीत गृहाधिपात् || ५८ || एवं भक्त्यर्थं संचरितचरलिंगस्य परापरनिर्गमनं कथमित्याकांक्षायामनंतरं परस्थलमित्युच्यते || ५९ || हंसोपनिषदि || आशांबरो न नमस्कारो न स्वधाकारो न निंदास्तुतिर्यादृच्छिको भिक्षुर्नावाहनं न विसर्जनं न मंत्रं न ध्यानं नोपासितं च न लक्ष्यं न पृथगपृथक् पृ० ६७) सर्वत्रानिकेतस्थितिरेव भिक्षुः || ६० || तथैवोक्तं || वीरागमे || सदाशिवस्य तत्वस्य यदधिष्टानमुत्तमं || स्थावरं लिंगमेवैतत्परलिंगमुदीरितं || ६१ || तथा भगवद्गीतायां || तुल्यनिंदास्तुतिमौनी संतुष्टो येन केनचित् || अनिकेत स्थिरमतिर्भक्तिमान् यः स मे प्रियः || ६२ || वातुलेऽपि | लिंगं शिवो भवेत्क्षेत्रमंगं संयोग आश्रयः || तस्माल्लिंगांगसंयुक्तो योऽपि सोऽत्याश्रमी भवेत् || ६३ || किंच देविकालोत्तरे || हेतुर्नास्ति फलं नास्ति नास्ति कर्म स्वभावतः || असद्भूतमिदं सर्वं नास्ति लोको न लौकिकः || ६४ || नात्र पूजा नमस्कारो न जपो ध्यानमेव च || केवलं ज्ञेयमित्युक्तं वेदितव्यं न किंच न || ६५ || किंच योगार्णवे || वर्णाश्रमाभिमानेन श्रुतेर्दासो भवेन्नरः || अभिमानविहीनश्चेद्वर्तते श्रुतिमूर्धनि || ६६ || सूतसंहितायां || यस्य वर्णाश्रमाचारो गलितः स्वात्मदर्शनात् || स वर्णानाश्रमान्सर्वांनतीत्य स्वात्मनि स्थितः || ६७ || तंत्रांतरे || त्यक्तसंसारकलवः कलावानपि निष्कलः || यस्सचित्तोऽप्यचित्तस्तु स जीवन्मुक्त उच्यते || ६८ || पृ० ६८) इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोंटदार्यविरचितं परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्यकैव् अल्यसारे लिंगस्थलनिरूपणे आचारलिंगस्थलं नाम प्रथमं प्रकरणं समाप्तम् || पृ० ६९) द्वितीयं प्रकरणं | श्रीशिवाय नमः || एवं जंगमलिंगस्थलत्रितयैकीभूतलिंगं वीरमाहेश्वरस्य सत्क्रियायामागमस्वरूपं प्राप्तभेदः कथमित्याकांक्षायामनंतरं क्रियागमस्थलमित्युच्यते || १ || अथ परजंगमस्थलशिरोमणित्वेन परिपूर्णाचारलिंगस्वरूपं तदवान्तरभेदांश्च सम्यगुपदिश्य तदनंतरं परजंगमैकशरणत्वेन कृतकृत्यस्य माहेश्वरस्य शरणभूतपरजंगममेव गुरुस्तस्यैव नवविधस्थलत्वेन चोपास्यत्वं प्रतिपादयितुं तदधिकारिणो माहेश्वरस्यागमलिंगत्रैविध्येन व्रतशीलाचारनिष्ठरूपादिकं माहेश्वरस्थलप्रतिपादिताचारनिष्ठत्वेनैव लिंगनिष्ठान्वितत्वं कायलिंगत्रैविध्यावग्रहणं पूर्वाश्रयाद्यष्टमूर्त्यन्तनिरासकत्वं चाचारलिंगत्रैविध्येन सर्वगतनिरासकत्वं च शिवजगन्मयत्वं च प्रतिष्ठाप्य तस्मिन् लिंगे भक्तदेहिकलिंगमिति निश्चयमधिगत्य नवविधगुरुलिंगविचारः कर्तव्यः || २ || मुण्डकोपनिषदि || तदेतत्सत्यमंत्रेषु कर्माणि कवयो यान्यपश्यन् तानि त्रेतायां बहुधा संततानि तान्याचरत नियतं सत्यकामा एष वः पंथाः सुकृतस्य लोके || ३ || तथा सिद्धांतशिखामणौ || पृ० ७०) प्रकाशते यथा नाग्निररण्यामिंधनं विना || क्रियां विना तथान्तस्थो न प्रकाशी भवेच्छिवः || ४ || ऋग्वेदे || अयं मे हस्तो भगवानयं मे भगवत्तरः अयं मे विश्वभेषजः अयं शिवाभिमर्शनः अयं माता अयं पिता अयं जीवातुरगमत् इदं तव प्रसर्पणं सुबंधवेहि निरहि || ५ || तथैवोक्तं वातुले || धारयेद्यस्तु हस्तेन लिंगाकार शिवं सदा || तस्य हस्तस्थितं विद्धि मत्पदं संपदां पदं || ६ || यजुर्वैदे || तव श्रियै मरुतो मर्दयन्तः रुद्र यत्ते जनिम चारुचित्रं पदं यद्विष्णोः परमं निधाये || ७ || तथा तात्पर्यसंग्रहे || वृत्तम् || अर्थश्रिया शिवकरोऽपि विरज्यतस्ते श्रीशो यया त्वमसि दासतयाभियुक्तः || अस्याः कृते जनिम चारुविचित्ररूपमभ्यर्चितं तव मरुद्भिरुदाहरंति || ८ || ऋग्वेदे || त्रियंबकं यजामहे सुगंधिं पुष्टिवर्धनं || उर्वारुकमिव बंधनान्मृत्योर्मुक्षीय मामृतात् || ९ || तथा लैंग्ये || त्रियंबकं यजेद्देवं सुगंधिं पुष्टिवर्धनं || किं करिष्यति मां मृत्युर्मृत्योर्मृत्युरहं तथा || १० || पृ० ७१) एवं क्रियागमस्वरूपापन्नलिंगं माहेश्वरस्य भावागमस्वरूपं प्राप्तभेदः कथमित्याकांक्षायामनंतरं भावागमस्थलमित्युच्यते || ११ || बृहदारण्यकोपनिषदि || यं यदा यथोपासते तदेव भवति यद्भावं तद्भवति यथाकारी यथाचारी तथा भवति || १२ || तथा योगार्णवे || ज्योतिरूपं शिवं पूर्णं विश्वतेजोऽतिवर्तिनं || आशयं भासयन्तं च भावयन् तन्मयो भवेत् || १३ || कामिकागमेऽपि || अनिर्देश्यमनौपम्यं विधिविष्णुप्रमोहजित् || महोदारं महालिंगं भावयेदनिशं बुधः || १४ || एवं निष्ठासंपन्नमेव भूत्वा भावसद्भावसन्निहितलिंगं माहेश्वरस्य ज्ञानागमस्वरूपं प्राप्तभेदः कथमित्याकांक्षायामनंतरं ज्ञानागमस्थलमित्युच्यते || १५ || कैवल्योपनिषदि || आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिं || ज्ञाननिर्मथनाभ्यासात्पाशं दहति पंडितः || १६ || तथा चाग्नेयपुराणे || शास्त्रसज्जनसत्कार्यैः सम्यक् संशिक्षितैर्मुहुः || ज्ञानस्याभिगमः शश्वद्विज्ञेयो ज्ञानवर्त्मगैः || १७ || सूतसंहितायां च || विकल्परहितं तत्वं ज्ञानमानंदमद्वयं || ये पश्यंति विमुक्तास्ते जीवन्तोऽपि न संशयः|| १८ || पृ० ७२) किंच || सिद्धान्तरहस्ये || न शास्त्रोक्तैश्च नियमैर्नियम्य क्वापि कर्हिचित् || ज्ञानेनाराधनं शंभोरिदमव्याकुलात्मनां || १९ || शिवधर्मेऽपि || ज्योतिःस्मरणमात्रेण न क्षिणोति यथा तमः || तथा सुज्ञानरहितैः क्रियाद्यैर्न शिवो भवेत् || २० || एवमागमलिंगत्रैविध्यमेकीभूतलिंगं माहेश्वरस्य सर्वांगमथनेन लिंगकायसंबंधस्वरूपं प्राप्तभेदः कथमित्याकांक्षायामनंतरं सकायस्थलमित्युच्यते || २१ || बृहदारण्यकोपनिषदि || आत्मानं चेद्विजानीयादयमस्मीति पूरुषः || किमिच्छन्कस्य कामाय शरीरमिह संज्वरेत् || २२ || किंच || छांदोग्योपनिषदि || शरीरं भिक्षया वसनेनालंकारेण संस्कुर्वन्नेतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते || २३ || तथैवोक्तं त्रिकाण्डसारे || नोचेत्स्थूलादिभिः कार्यैस्तद्धर्मैरपि यंत्रितः || भक्तिं व्यवहरंस्तंद्ज्ञस्स सकाय इतीर्यते || २४ || किंच || शंभुप्रभायां || धार्यते येन कायेन लिंगाकारः शिवः सदा || स एव कायस्तेनैव कायवान् परिकीर्त्यते || २५ || पृ० ७३) तथा देविकालोत्तरे || सर्वद्वंद्वविनिर्मुक्तः सततं जनवर्जितः || अनेनैव शरीरेण सर्वज्ञः सन् प्रकाशते || २६ || वातुलेऽपि || एवं लिंगशरीरं स्यात्परनिर्वाणलक्षणं || तद्भावभावितं साक्षात्तच्चरित्रं पवित्रकं || २७ || एवं माहेश्वरस्य लिंगकायमथनेन निर्देहभावः कथमित्याकांक्षायामनंतरमकायस्थलमित्युच्यते || २८ || छांदोग्योपनिषदि || अस्य शरीरं वा वसंतं सखिप्रियाप्रियं स्पृशतोऽशरीरं वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरूपं संपाद्य स्वेन रूपेणाभिनिष्पद्यते || २९ || किंच कैवल्योपनिषदि || वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहं || न पुण्यपापे मम नास्ति नाशो न जन्म देहेंद्रियबुद्धयोऽपि || ३० || तथैवोक्तं स्कांदे || अत्यन्तदृढया भक्त्त्या शिवतत्वैकभावया || गतदेहादिसंसक्तिरकाय इति गीयते || ३१ || किंच शैवरत्नाकरे || तदिष्टलिंगं याद्धाम चिद्रूपस्य परात्मनः || लीनोऽत्र लिंगे यत्कायो निर्देहः स महान् भवेत् || ३२ || एवमकायस्वरूपापन्नलिंगस्य पृ० ७४) सकलनिष्कलातीतकायभेदः कथमित्याकांक्षायामनंतर परकायस्थलमित्युच्यते || ३३ || मुण्डकोपनिषदि || त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् || तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः || ३४ || तथैवोक्तं वातुले || त्रिषु धामसु यद्भोग्यं भोक्ता यश्च प्रकीर्तितः || उभयं प्रति यो वेद स भुंजानो न लिप्यते || ३५ || तथा स्वायंभुवसूत्रे || शिवधामार्पितस्यास्य भोगभोक्तुर्न जातुचित् || भोक्तृत्वमधिकारित्वं प्रतिकृत्यानुकारिता || ३६ || किंचादित्यपुराणे || स्वेच्छाविग्रहिणः सर्वे स्वेच्छाचारा गणेश्वराः || शिवेन सह ते भोगान् भुक्त्त्वा यांति शिवं पदं || ३७ || शैवरत्नाकरे || चिदग्निप्लुष्टसंसारबीजांकुरकलेवरः || चिल्लिंगालंबनं यश्च पराख्यांगी सचेरितः || ३८ || एवं कायलिंगत्रैविध्यमेकीभूतलिंगं माहेश्वरस्य सद्धर्मचरित्रार्थमेकीभूतभेदः कथमित्याकांक्षायामनंतरं धर्माचारस्थलमित्युच्यते || ३९ || तैत्तरीयोपनिषदि || धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं प्रजा उपसर्पन्ति धर्मेण पापमपनुदति धर्मे पृ० ७५) सर्वं प्रतिष्ठितं तस्माद्धर्मं परमं वदंति || ४० || वातुले || आचारस्यापरित्यागः सुगृहीतस्य भक्तितः || अपि प्राणात्ययेनायं स धर्माचार उच्यते || ४१ || किंचादित्यपुराणे || धर्मो बहुविधः प्रोक्तो मुनिभिस्तत्वदर्शिभिः || तत्राक्षयः परो धर्मः शिवधर्मः सनातनः || ४२ || शैवपुराणेऽपि || उपासीत शिवं शश्वद्धर्मेण विमलेन च || शैवं पदमवाप्नोति परमानंदमव्ययं || ४३ || देविकालोत्तरे || क्रिमिकीटपतंगांश्च तथा देवि वनस्पतीन् || न नाशयेद्बुधो जीवान् परमार्थमतिर्यतः || ४४ || तथैव || न मूलोत्पाटनं कुर्यात्पत्रच्छेदं विवर्जयेत् || भूतपीडां न कुर्वीत पुष्पाणां च निकृंतनं || स्वयं पतितपुष्पैस्तु कर्तव्यं शिवपूजनं || ४५ || एवं धर्माचारस्वरूपापन्नलिंगं माहेश्वरस्य मनःस्थले स्थिरीभूतसद्भावचारित्रं कथमित्याकांक्षायामनंतरं भावाचारस्थलमित्युच्यते || ४६ || श्वेताश्वतरोपनिषदि || वृत्तम् || आरभ्यकर्माणि गुणान्वितानि भावांश्च सर्वान्विनियोजयेद्यः || तेषामभावे कृतकर्मनाशः कर्मक्षये याति स तत्वतोऽन्यः || ४७ || तथा स्कांदे || क्रियावतामपि सदा कुर्वतामपि सत्क्रियां || पृ० ७६) विगुणाः स्युः क्रियाः सर्वा विना निश्चलभावनां || ४८ || लैंग्येऽपि || भावशुद्धिस्तु शुद्धिः स्यात्तदाचारानशेषतः || विशुद्धेनैव भावेन भावयेदनिशं बुधः || ४९ || वातुले || क्रियाद्वैतं न कर्तव्यं भावाद्वैतं समाचरेत् || क्रिया निर्वहते या तु भावशुद्धिस्तु शांकरि || ५० || निश्वासकारिकायां || गोदोहमिषुपातं वा नयनोन्मीलमात्रकं || सकृत्परपदे युक्तो न पुनर्भवमाप्नुयात् || ५१ || एवं मनोमध्ये सद्भावचारित्रसंबंधिभूतलिंगं माहेश्वरस्य महाज्ञानचारित्रापन्नभेदः कथमित्याकांक्षायामनंतरं ज्ञानाचारस्थलमित्युच्यते || ५२ || छांदोग्योपनिषदि || आत्मसत्यात्मसाक्षी च सत्ताधर्मः प्रतापवान् || न स पापानि कुरुते यस्यात्मा भवति प्रियः || ५३ || तत्रैव || सर्वभूतात्मभूतेभ्यः सम्यग्भूतानि पश्यतः|| देवा हि मार्गे मुह्यन्ति पदज्ञानात्पदैषिणः || ५४ || तथैवोक्तं कामिकागमे || ज्ञानातीतं परं तत्वं केवलं सर्वतोमुखं || पृ० ७७) केवलात्मस्वरूपं तु ज्ञानरूपेण भावयेत् || ५५ || किंच वासिष्ठे || एवं तत्वे परे शुद्धे धीरो विश्रांतिमाश्रितः || तदेवास्वादयत्यन्तर्बहिर्व्यवहरन्नपि || ५६ || किंच सर्वज्ञानोत्तरे || द्रव्याणां समदर्शी च स मुक्तः सर्वबंधनैः || सर्वं शिवमयं भाति नाशिवं विद्यते क्वचित् || ५७ || तथा देविकालोत्तरे || पंचभूतात्मको देहः शिवस्तत्रैव तिष्ठति || शिवाद्यवनिपर्यन्तो लोकोऽयं शंकरात्मकः || ५८ || इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोंटदार्यविरचिते परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्यकैव् अल्यसारे लिंगस्थलनिरूपणे गुरुलिंगस्थलं नाम द्वितीयं प्रकरणं समाप्तम् || पृ० ७८) तृतीयं प्रकरणं | श्रीशिवाय नमः|| एवमाचारलिंगत्रैविध्यमेकीभूतलिंगं लिंगप्रसादिनः शरीरे अवगृहीतभेदः कथमित्याकांक्षायामनंतरं कायानुग्रहस्थलमित्युच्यते || १ || अथ भक्तदेहिकलिंगस्थलविशिष्टमाहेश्वरस्याचारलिंगत्रैविध्यस्थल एव सम्यग्विचार्यमाणे सावधानतया तदेव गुरुलिंगं भवति || तदेव सदाचारसंपत्त्या शिवलिंगं भवति || तस्मिन्नेव शिवलिंगे सर्वार्पितभोगित्वमेव प्रसादित्वं तथा सति तत्रानुग्रहलिंगत्रैविध्ये अविरलो भूत्वा गुरुमहत्वादिशरणमहत्वान्तमाक्रम्यार्पितलिंगत्रैविध्ये तदात्मकः सन् प्रसादमहत्वमेव स्वयं भूत्वा तनुकरणलिंगत्रैविध्ये निजस्वरूपमवलोक्य शिवलिंगसावधानित्वेनैव प्रसादित्वसिद्धिः || २ || कैवल्योपनिषदि || वृत्तम् || विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः || अत्याश्रमस्थः सकलेंद्रियाणि निरुद्ध्य भक्त्त्या स्वगुरुं प्रणम्य || ३ || तथा वासिष्ठे || भृंगभावनया यद्वत्कीटः स इव जायते || शिवभावाभियोगेन तद्वदेव भवेत्पुमान् || ४ || योगदीपिकायां च || पृ० ७९) यथा संस्कारसंपत्त्या ब्राह्मणो द्विजतामियात् || तथोपदेशसंपत्त्या स्यात्पुमानप्यलौकिकः || ५ || तथा शिवरहस्ये || सर्पदष्टस्य यद्देहं तद्देहं विषदेहवत् || लिंगदष्टस्य यद्देहं तद्देहं लिंगदेहवत् || ६ || तत्रैव || तैलयुक्तं च कार्पासं ज्योतिःस्पर्शेन ज्योतिवत् स्नेहयुक्तश्च सद्भक्तो लिंगस्पर्शेन लिंगवत् || ७ || एवं प्रसादिशरीरावगृहीतलिंगं तस्य सर्वेंद्रियमुखसंबंधीभूतभेदः कथमित्याकांक्षायामनंतरमिंद्रियानुग्रहस्थलमित्युच्यते || ८ || श्वेताश्वतरोपनिषदि || त्रिरुन्नतं स्थाप्य समं शरीरं हृदींद्रियाणि मनसा सन्निवेश्य || ब्रह्मोडुपेन प्रतरेत विद्वान् स्रोतांसि सर्वाणि भयावहानि || ९ || शिवाद्वैते || बहिर्मुखानींद्रियाणि जनयंति भवोदयं || अन्तर्मुखानि तान्येव संसारक्षयहेतवः|| १० || स्कांदे || मनोबुद्धिरहंकार इंद्रियाणि गुणत्रयं || न स्पृशंति महात्मानं विकारास्तस्य नैव हि || ११ || भगवद्गीतायां || रागद्वेषविहीनैस्तु विषयानिंद्रियैश्चरन् || पृ० ८०) आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति || १२ || एवं सर्वेंद्रियसंबंधलिंगेन प्रसादिनः प्राणस्थलालिंगितभेदः [प्राणलिंगस्थलभेदः] कथमित्याकांक्षायामनंतरं प्राणानुग्रहस्थलमित्युच्यते || १३ || कौशीतकब्राह्मणोपनिषदि || यो वै प्राणः सा प्रज्ञा या प्रज्ञा स प्राणः सहैतावस्मिंच्छरीरे वसतः सहोत्क्रामतः || १४ || तथा चंद्रावलोकने || यत्र दृष्टे मनःस्थैर्यं यत्र चैव हि मारुतः || लीनः क्वापि भवेदेवं तस्यायं स्यादनुग्रहः || १५ || किंच स्कांदे || यथा लोहः सुवर्णत्वं प्राप्नोत्यौषधयोगतः || आत्मध्यानात्तथा प्राणः परमात्मत्वमाप्नुयात् || १६ || एवमनुग्रहलिंगत्रैविध्यमेकीभूतलिंगं लिंगप्रसादिनः शरीरार्पितमुखलिंगभूतभेदः कथमित्याकांक्षायामनंतरं कायार्पितस्थलमित्युच्यते || १७ || प्रश्नोपनिषदि || अथ यथैतस्मिंच्छरीरे सुखं भवति स यथा सौम्य वयांसि वासवृक्षं संप्रतिष्ठंत एवं ह वै तत्सर्वं परे आत्मनि संप्रतिष्ठते || १८ || तथैवोक्तं शिवरहस्ये || यदा योगी निजं देहं शिवाय विनिवेदयेत् || तदा भवति तद्रूपं शिवरूपं न संशयः || १९ || पृ० ८१) किंच बृहत्कालोत्तरे || संयोगेषु वियोगेषु चाणुमात्रसुखानि च || यः कुर्यादिष्टलिंगे च सावधानी निरंतरं || २० || तथा योगजागमे || यदा शिवाय स्वात्मानं दत्तवान् देशिकात्मने || तदा शैवो भवेद्देवि न ततोऽस्ति पुनर्भवः || २१ || किंच शिवयोगदीपिकायां || चक्षुःप्रीतिविधायीनि प्रेक्षणीयानि यानि च || तानि देहेन संपाद्य शिवाय प्रेक्षयेत्सदा || २२ || एवं शरीरे अर्पितमुखापन्नलिंगं प्रसादिनः अन्तःकरणे अर्पितमुखं प्राप्तभेदः कथमित्याकांक्षायामनंतरं करणार्पितस्थलमित्युच्यते || २३ || कठवल्ल्युपनिषदि || यस्तु विज्ञानवान्भवति युक्तेन मनसा सह || तस्येंद्रियाणि वश्यानि सदश्वा इव सारथेः || २४ || तत्रैव || आत्मानं रथिनं विद्धि शरीरं रथमेवच || बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च || २५ || इंद्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् || आत्मेंद्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः || २६ || तथैवोक्तं शिवरहस्ये || पृ० ८२) तदन्तःकरणं येन क्रियतेऽन्तः शिवेऽखिलं || यस्यार्पितेऽन्तःकरणः स प्रोक्तः करणार्पकः || २७ || शैवरत्नाकरे || यदिंद्रियगतं किंचिद्यत्सुखं तच्छिवार्पितं || तत्प्रसादं च भोक्तव्यं तदिंद्रियमुखेन च || २८ || वासिष्ठे || एवं विरक्तः स्वेनैव मनसा तत्समर्पयेत् || दर्शनस्पर्शनघ्राणभोजनश्रवणादिकं || २९ || एवमन्तःकरणे समर्पितसुखं प्राप्तलिंगं प्रसादिनः सर्वांगेषु स्वयमेव सर्वार्पित प्राप्तभेदः कथमित्याकांक्षायामनंतरं भावार्पितस्थलमित्युच्यते || ३० || मैत्रेयोपनिषदि | लयविक्षेपरहितं मनः कृत्वा सुनिश्चलं || यदात्मन्युन्मनीभावं [यदा यात्युन्मनीभावं] तदा तत्परमं पदं || ३१ || तथा शिवरहस्ये || यत्र भावस्य भाव्यं स्याच्छिवाय परमात्मने || समर्प्यतेऽग्र्यमादौ यत्तद्भावार्पितमिष्यते || ३२ || तत्रैव || चित्तस्थितपदार्थौघमननं यस्य मानसं || अर्प्यते तन्मनोभावः स स्याद्भावार्पकः शिव || ३३ || किंच || रुद्रयामले || ईश्वरार्पितभावत्वात्प्रियसंसर्गसंभवैः || विकारैरनतिस्पृष्टो भावयुक्तो भवेद्बुधः || ३४ || पृ० ८३) तथा वासिष्ठे | संसर्गं प्रियवर्गस्य शिवस्यैवेति भावयन् || अहंकारप्रहाणेन भावशुद्धिं च विंदति || ३५ || किंच विमर्शनसाहस्र्यां || सर्वेषामर्पको भावस्तं भावं परमे शिवे || समर्पितवतः सम्यक्किमन्यदवशिष्यते || ३६ || वातुले || सर्वांगं लिंगमेव स्यादन्नपानाद्यमर्पितं || प्रसादस्तृप्तिरेव स्यात्सर्वं लिंगमयो भवेत्|| ३७ || तत्रैव भोक्ता भोग्यं भोजयिता सर्वमेतच्चराचरं || भावयन् शिवरूपेण शिवो भवति वस्तुतः || ३८ || एवमर्पितलिंगत्रैविध्यस्थलमेकीभूतलिंगं प्रसादिनि उपदेशमुखेन शिष्यभावं प्राप्तभेदः कथमित्याकांक्षायामनंतरं शिष्यस्थलमित्युच्यते || ३९ || मुण्डकोपनिषदि || संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्तास्ते सर्वगं सर्वतः प्राप्य धीराः युक्तात्मानः सर्वमेवाविशंति || ४० || तथा वातुले || आकृष्टास्ताडिता वापि ये विषादं न यांति हि || पृ० ८४) ते योग्याः संयताः शिष्याः शिवसंस्कारकर्मणि || ४१ || शिवाद्वैते | प्रह्वीभावं समासाद्य मनोवाक्कायकर्मभिः || गुरुभक्तिः सदा यस्य स शिष्य इति कथ्यते || ४२ || तत्रैव || ऋजवो मृदवः शुद्धा विनीताः स्थिरचेतसः || शौचाचारसमोपेताः शिष्यास्त्वत्र प्रकीर्तिताः || ४३ || शंभुप्रभायां || प्रशांतं गुरुमभ्येत्य शिवज्ञानामृतांबुधिं || भजते सततं यस्तु स शिष्य इति कथ्यते || ४४ || एवं शिष्यभावापन्नलिंगं प्रसादिनः अंगे शुश्रूषाभावं प्राप्तभेदः कथमित्याकांक्षायामनंतरं शुश्रूषास्थलमित्युच्यते || ४५ || प्रश्नोपनिषदि || स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति || ४६ || किंच केनोपनिषदि || यावदुपाधिपर्यन्तं गुरुं शुश्रूषयेत् || ४७ || किंच पारातश्रुतौ || तस्माच्छुश्रूषुः पुत्राणा? हृद्यतमः नेदिष्ठो नेदिष्ठो ब्रह्मणो भवति || ४८ || तथैवोक्तं सिद्धांतशेखरे || गुरुशुश्रूषणं कार्यं गुरोर्वाक्यानुवर्तनं || सदा गुरुपरो नित्यं गुरोराज्ञां न लंघयेत् || ४९ || किंच सूतसंहितायां || परमाद्वैतविज्ञाननिष्ठस्य परयोगिनः || शुश्रूषा शुद्धविद्यायाः साधनं न हि संशयः || ५० || पृ० ८५) मानवपुराणे || शिवे क्रुद्धे गुरुस्त्राता गुरौ क्रुद्धे न कश्चन || तस्मादिष्टं गुरोः कार्यं कायेन मनसा गिरा || ५१ || यजुर्वेदे || आचार्याय प्रियं धनमाहृत्य (प्रक्षेपकः) एवं शुश्रूषाभावापन्नलिंगं प्रसादिनः शरीरे इतरेतराध्यासरहितगुरुशिष्यसामरस्यं प्राप्तभेदः कथमित्याकांक्षायामनंतरं सेव्यस्थलमित्युच्यते || ५२ || मुण्डकोपनिषदि || भिद्यते हृदयग्रंथिश्छिद्यन्ते सर्वसंशयाः || क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे || ५३ || तथैवोक्तं वातुले || तस्मिन्दृष्टे परे लिंगे निष्कले निरुपाधिके || अस्य जीवस्य कर्माणि क्षीयन्ते सकलानि वै || ५४ || अविद्याहृदयग्रंथिर्भिद्यते शतधाऽपि च || संशया बहुसंकल्पाश्छिद्यन्ते च सहस्रधा || ५५ || ग्रंथान्तरे || उपायैर्न शिवो भाति भान्ति ते तत्प्रसादतः || स एवाहं स्वप्रकाशो भाति विश्वप्रकाशकः || ५६ || इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोंटदार्यविरचिते परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्यकैव् अल्यसारे लिंगस्थलनिरूपणे शिवलिंगस्थलं नाम तृतीयं प्रकरणं समाप्तम् || पृ० ८६) चतुर्थं प्रकरणं | श्रीशिवाय नमः || एवं तनुगुणलिंगत्रैविध्यमेकीभूतलिंगं प्राणलिंगिनि जीवभावनिवृत्तिं कृत्वा लिंगसज्जीवसम्यक्त्वं प्राप्तभेदः कथमित्याकांक्षायामनंतरं जीवात्मस्थलमित्युच्यते || १ || अथैवंभूतप्रसादिनि स्वस्य साकारत्रितये लिंगत्वेन भक्तो भूत्वा तद्भक्तलिंगे जंगममेव चैतन्यमिति ज्ञात्वा तस्मिन् जंगमलिंगे अनुभवभक्त्या समरसभूतप्राणलिंगी आत्मलिंगत्रैविध्येन प्राणलिंगी भूत्वा प्राणलिंगार्चकः सन् शिवयोगसमाधिं प्राप्य निरूपलिंगत्रैविध्येन लिंगं निजमनुसंधाय तल्लिंगनिजेन प्रसादलिंगत्रैविध्ये स्थित्वा तत्प्रसादलिंगमेवांगमिति ज्ञात्वा पादोदकलिंगत्रैविध्ये समरसत्वं गतः सन् प्राणलिंगिस्वरूपं प्राप्तः || २ || वृद्धजाबालोपनिषदि || सकलंकत्वजन्मवत्वदुःखित्वादिकं जीवस्वरूपं तदनभिज्ञत्वमहंकारः स तेनाविष्टः स्वर्गनरकभोक्ता संसारसागरनिमग्नो मिथ्याभिमानीजीवः किल्बिषाश्रयः पुनः पुनरुत्पद्यते || ३ || किंच बृहदारण्यकोपनिषदि वालाग्रशतभागस्य शतधा कल्पितस्य च || जीवो भागः स विज्ञेयः स चानंत्याय कल्प्यते || ४ || पृ० ८७) तथैवोक्तं स्वायंभुवसूत्रे || कलोद्वलितचैतन्यो विद्यादर्शितगोचरः || रागेण रंजितश्चापि बुद्ध्यादिकरणैर्युतः || ५ || मायाद्यवनिपर्यन्ते तत्वभूतात्मवर्त्मनि || भुंक्ते तत्र स्थितो भोगान् भोगैकरसिकः पुमान् || ६ || किरणागमे || अनादिमलसंबंधात्किंचिदज्ञो मयोदितः || अनादिमलमुक्तत्वात्सर्वज्ञोऽसौ ततः शिवः || ७ || ग्रंथान्तरे || जीवः शिवः शिवो जीवः सज्जीवः केवलः शिवः || पाशबद्धो भवेज्जीवः पाशमुक्तः सदाशिवः || ८ || पुनरन्यत्र || हंसहंसंति यो ब्रूयाद्धंसो नाम सदाशिवः || ९ || एवं जीवभावनिवर्तकलिंगं प्राणलिंगिनि आत्मविवेकं प्राप्तभेदः कथमित्याकांक्षायामनंतरमन्तरात्मस्थलमित्युच्यते || १० || कठवल्ल्युपनिषदि || अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव || एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बभूव || ११ || किंच ब्रह्मोपनिषदि || एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतांतरात्मा || कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च || १२ || पृ० ८८) तथैवोक्तं सूतसंहितायां || चराचरात्मकमिदं यत्र विश्वं महेश्वरे || अध्यात्मचिंतया ग्राह्ये सूत्रे मणिगणा इव || १३ || ग्रंथान्तरे || वर्तमानोऽपि न पुमान्युज्यते वस्तुभिर्गुणैः || शोकहर्षभयक्रोधलोभमोहस्पृहादिभिः || १४ || किंच शिवसूत्रे || पुर्यष्टकसमायोगाद्विचरन् सर्वमूर्तिषु || रंगोऽन्तरात्मा विज्ञेयो नृत्यतः परमात्मनः || १५ || एवमन्तरात्मस्वरूपापन्नलिंगं प्राणलिंगिनः विवेकस्वरूपपरमात्मानमावृत्य स्थितभेदः कथमित्याकांक्षायामनंतरं परमात्मस्थलमित्युच्यते || १६ || वृद्धजाबालोपनिषदि || दहराकाशमध्यस्थसहस्रदलशोभिते || स्फुरत्केसरसंश्लिष्टकर्णिके च सरोरुहे || सोमसूर्याग्निमण्डले निवातदीपोपस्थायी निःसंगः सर्वकर्मसाक्षी परमात्माऽवतिष्ठते || १७ || किंच नारायणोपनिषदि || दहरं विपापं परवेश्मभूतं यत्पुंडरीकं पुरमध्यसंस्थं || पृ० ८९) तत्रापि दहरं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यं || १८ || तथैवोक्तं ग्रंथान्तरे || संज्ञापितस्य वै नास्ति न रूपं न च कल्पना || स सर्वभूतानुगतः परमात्मा सनातनः || १९ || अंगलग्नेऽपि वातादौ स्पर्शाद्यनुभवं विना || जीवतश्चेतसो रूपं तद्रूपं परमात्मनः || २० || आत्मायं केवलः स्वस्थः शांतः सूक्ष्मः सनातनः || अस्ति सर्वान्तरे साक्षी चिन्मात्रस्तमसः परः || २१ || वातुले || स पश्यति शरीरं तच्छरीरं तं न पश्यति || तौ पश्यति परः कश्चित्तावुभौ तन्न पश्यतः || २२ || एवमात्मलिंगत्रैविध्यमेकीभूतलिंगं प्राणलिंगिनः निर्देहस्वभावचारित्र्यं प्राप्तभेदः कथमित्याकांक्षायामनंतरं निर्देहागमस्थलमित्युच्यते || २३ || छांदोग्योपनिषदि || एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजुगुप्सोऽपिपासुः सत्यकामः सत्यसंकल्पः || २४ || तथा सिद्धांतरहस्ये || पृथिव्यां यानि भूतानि जिह्वोपस्थपराणि च || जिह्वोपस्थपरित्यागी निर्देहः स महेश्वरः || २५ || पृ० ९०) तथा शैवपुराणे || शिवपूजोपकरणं देहं यः कुरुते नरः || सोऽचिरेणैव कालेन विदेहो जायते नरः || २६ || किंच स्कांदे || तत्फलं देहलाभस्य येन संसेव्य शंकरं || न पुनर्देहसंबंधं देही यत्प्राप्नुयादिति || २७ || वासिष्ठे || वासनारहितैरन्तरिंद्रियैराहरन् क्रियाः || न विक्रियामवाप्नोति भवक्षोभशतैरपि || २८ || एवं निर्देहचारित्रीभूतलिंगं प्राणलिंगिनि निर्भावचारित्रं प्राप्तभेदः कथमित्यकांक्षायामनंतरं निर्भावागमस्थलमित्युच्यते || २९ || मैत्रेयोपनिषदि || यथा निरिंधनो वह्निः स्वयमेवोपशाम्यति || तथा वृत्तिक्षयाद्भावः स्वयोनावुपशाम्यति || ३० || तथैवोक्तं वासिष्ठे || यदा न भाव्यते भावः क्वचिज्जगति वस्तुनि || तथा हृदंबरे शून्ये कथं चित्तं प्रजायते || ३१ || तत्रैव || न जायते न म्रियते किंचिदत्र जगत्त्रये || न च भावविकाराणां सत्ता क्वच न विद्यते || ३२ || एवं निर्भावचारित्रापन्नलिंगं प्राणलिंगिनि विलीनतच्चरित्रं सदागमविरहितत्वं प्राप्तभेदः कथमित्याकांक्षायामनंतरं नष्टागमस्थलमित्युच्यते || ३३ || पृ० ९१) मैत्रेयोपनिषदि || तावन्मनो निरोद्धव्यं हृदि यावत्क्षयं गतं || एतज्ज्ञानं च मोक्षं च शेषास्तु ग्रंथविस्तराः || ३४ || तथैवोक्तं शिवरहस्ये || पुनर्भवाधिकारश्च मुक्तस्येह न विद्यते || यथा दग्धस्य बीजस्य प्ररोहो नात्र दृश्यते || ३५ || तथा योगजागमे || अक्रियैव परा पूजा मौनमेव परो जपः || अचिंतैव परं ध्यानमनिच्छैव परं फलं || ३६ || तत्रैव || वृत्तम् || योगश्च निद्रा क्रतवश्चरित्रं स्वेच्छासनं देवमहानिवेद्यं || लीलार्पणं देवपवित्रदानं जपः प्रलापः शयनं प्रणामः || ३७ || पुनस्तत्रैव || कृतिः सेवा गतिर्यात्रा मतिश्चिंता वचः स्तुतिः || अहो सर्वात्मना शंभोः सुधियां सर्वथार्चनं || ३८ || शिवरहस्ये || या या चेष्टा समुत्पन्ना जायते शिवयोगिनां || सा सा पूजनमीशस्य सर्वदा तद्गतात्मनां || ३९ || ग्रंथान्तरे || तुर्यके तु परावस्था तुर्यातीते तु निर्जना || सा नष्टा यादृशादृश्यनष्टयोर्दृष्टिदृश्ययोः || ४० || किंच वातुले || शब्दब्रह्मज्ञानं निःशब्दब्रह्मसत्क्रिया निष्ठा || पृ० ९२) शब्दब्रह्म यदुक्तं निःशब्दब्रह्म तच्चरति तूष्णीं || ४१ || एवं निरूपलिंगत्रैविध्यमेकीभूतलिंगं प्राणलिंगिनि सुखप्रसादस्वरूप प्राप्तभेदः कथमित्याकांक्षायामनंतरमादिप्रसादिस्थलमित्युच्यते || ४२ || परमहंसोपनिषदि || सर्वेषामिंद्रियाणां गतिमुपरमते य आत्मन्येव स्थीयते यत्पूर्णानंदैकबोधसद्ब्रह्माहमस्मीति कृतकृत्यो भवति || ४३ || कठवल्ल्युपनिषदि || वृत्तं || अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः || तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशं || ४४ || तथैवोक्तं शिवरहस्ये || गुरुवाक्यामृतास्वादादपुनर्भवहेतुकात् || य आनंदमवाप्नोति स प्रसादीति कथ्यते || ४५ || शैवरत्नाकरे || शिवभावप्रसंगेन प्रसादी सोऽभिधीयते || यस्य प्रियेषु वीतस्य सर्वत्रोपरतं मनः || ४६ || ग्रंथांतरे || यस्यातिविश्रुतार्थानामिंद्रियाणां प्रभावतः || शिवभावप्रसन्नः स्यात्स प्रसादीति गीयते || ४७ || किंच सिद्धांतशेखरेऽपि || परेण भावयोगेन प्रसीदति महेश्वरः || तस्मादस्य शिवो भावः स प्रसादीति कथ्यते || ४८ || पृ० ९३) वातुले || अस्यात्मनः क्रियाः सर्वा लिंगार्पिततया स्थिताः || स्वस्मिन्नेव स्वयं याति विश्रांतिं सुखलक्षणां || ४९ || एवमादिप्रसादस्वरूपापन्नलिंगं प्राणलिंगिनि प्राणप्रसादस्वरूपं प्राप्तभेदः कथमित्याकांक्षायामनंतरमंत्यप्रसादस्थलमित्युच्यते || ५० || कैवल्योपनिषदि || जाग्रत्स्वप्नसुषुप्त्यादिप्रपंचं यत्प्रकाशते तद्ब्रह्माहमिति ज्ञात्वा सर्वबंधैः प्रमुच्यते || ५१ || तथैवोक्तं वातुले || जाग्रत्स्वप्नसुषुप्त्यादिसर्वावस्थासु सर्वदा || लिंगार्पितोपभोगेन निर्लेपोऽयं न संशयः || ५२ || शिवाद्वैते || संविदेव परा तृप्तिर्भावपर्यन्तभासुरा || तथैव तृप्तो यस्सोंऽत्यप्रसादीति निगद्यते || ५३ || किंच वासिष्ठे || चिन्मात्रत्वं प्रयातस्य तीर्णमृत्योः स्वचेतसः || यो भवेत्परमानंदः केनासावुपमीयते || ५४ || एवमन्त्यप्रसादस्वरूपापन्नलिंगं प्राणलिंगिनि तृप्तिं प्राप्तभेदः कथमित्याकांक्षायामनंतरं सेव्यप्रसादिस्थलमित्युच्यते || ५५|| मैत्रेयोपनिषदि || अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरूपमुपसंपद्य स्वेनरूपेणाभिनिष्पद्यते पृ० ९४) एष आत्मेति होवाचैतदमृतमेतदभयमेतद्ब्रह्मेति || ५६ || शिवसूत्रे || तृप्तिः संकोचविलयः पूर्णभावात्परात्मनः || तथैव तृप्तस्तृप्तः स्यान्न सुधास्वादनादिभिः || ५७|| शिवाद्वैते || ज्ञानामृतेन तृप्तस्य किमन्यैर्भोज्यराशिभिः || ज्ञानमेव परानंदं प्रकाशयति शैवकं || ५८ || किंच शिवधर्मोत्तरे || ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः || नैवास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्ववित् || ५९ || शैवरत्नाकरे || ज्ञानामृतेन तृप्तस्य भक्त्या च विवशात्मनः || अन्तर्न च बहिस्तुष्ट्या कृत्यमस्ति कदाचन || ६० || ज्ञानोत्तरेऽपि || नान्तः शरीर एवायं बाह्य एव न संस्थितः|| महानंदप्रसादोऽयं सर्वत्रैवावभासते || ६१ || किंच वासिष्टे || आनंदलक्षणा तृप्तिर्निरुपाधितया स्थिता || तदुत्थानंदसांद्रत्वं ज्ञानामृतमुदीरितं || ६२ || तत्वसारे || पिण्डे मुक्ताः पदे मुक्ता रूपे मुक्ताः षडानन || रूपातीते तु ये मुक्तास्ते मुक्तास्तृप्तिमागताः || ६३ || एवं प्रसादलिंगत्रैविध्यमेकीभूतलिंगं प्राणलिंगिनः पृ० ९५) मलत्रयनिर्हरणार्थं पादोदकस्वरूपं प्राप्तभेदः कथमित्याकांक्षायामनंतरं दीक्षापादोदकस्थलमित्युच्यते || ६४ || ऐतरेयोपनिषदि || अथाधिविद्यां आचार्यः पूर्वरूपं अन्तेवास्युत्तररूपं विद्यासंधिः प्रवचन ? संधानं || ६५ || ऋग्वेदे || आप्मानं तीर्थं किह प्रवोचद्येन पथा प्रपिबन्ते सुतस्य सहस्रधा पंचदशान्युक्था यावत्द्यावापृथिवी तावदित्तत् सहस्रधा महिमानः सहस्रं यावद्ब्रह्मा अधिष्ठितं तावति वाक् || ६६ || तथैवोक्तं शिवरहस्ये || अविभक्तसुधास्वादा निर्वृतिर्या परात्परा || दुर्लभा देहिनां साक्षाद्दीक्षापादोदकं हि तत् || ६७ || योगशास्त्रे || निरूढशिवसद्भावरसेन विमलेन यः || परेण पावनीभूतः किं तस्यान्यत्क्रियादिकैः || ६८ || किंच शिवरहस्ये || शोषणं पापपंकस्य दीपनं ज्ञानतेजसः || गुरुपादोदकं चित्रं संसारद्रुमनाशनं || ६९ || पृ० ९६) एवं दीक्षापादोदकस्वरूपापन्नलिंगं शिक्षागुरुतत्वे दृष्टपादोदकस्वरूपं प्राप्तभेदः कथमित्याकांक्षायामनंतरं शिक्षापादोदकस्थलमित्युच्यते || ७० || तैत्तरीयोपनिषदि || चरणं पवित्रं विततं पुराणं येन पूतस्तरति दुष्कृतानि तेन पवित्रेण शुद्धेन पूता अतिपाप्मानमरातिं तरेम || ७१ || पारातश्रुतौ || लोकस्य द्वारमर्चिमत्पवित्रं ज्योतिष्मद्भ्राजमानं महास्वदमृतस्य धारा बहुधा दोहमानं चरणं नोलोके सुधितां ददातु || ७२ || तथैवोक्तं सिद्धान्तशेखरे || अविद्यामूलनाशाय जन्मकर्मनिवृत्तये || ज्ञानवैराग्यसिद्ध्यर्थं गुरुपादोदकं पिबेत् || ७३ || शिवसूत्रे || प्रत्यक्स्रोतसि सततं प्रवृत्तनिजधाम्नि निर्मले गगने || अवगाह्यानंदमये स्नातो निःशेषमृष्टदृश्यमलः || ७४ || किंचस्वात्मयोगप्रदीपिकायां || वृत्तम् || तत्तद्धृषीकविषयाख्यतरंगसंघसंघट्टजं निजमनोमरुतोपनीतं || यत्सौख्यबिंदुमुपजीवति जीवलोकः सोऽनंतसत्यसुखबोधसुधाब्धिरस्मि || ७५ || एवं शिक्षापादोदकस्वरूपापन्नलिंगं त्रिपुटिरहितं सन्महाज्ञानगुरुतत्त्व पृ० ९७) परमानंदस्वरूपं प्राप्तभेदः कथमित्याकांक्षायामनंतरं ज्ञानपादोदकस्थलमित्युच्यते || ७६ || छांदोग्योपनिषदि || पंचेंद्रियस्य पुरुषस्य यदेव स्यादनावृतं || तदस्य स्रवते प्रज्ञा गुरोः पादादिवोदकं || ७७ || परमहंसोपनिषदि || तेन नित्यान्निवृत्तस्तन्नित्यबोधस्तत्स्वयमेवावस्थितिस्तच्छान्तमचलमद्वयानंदव् इज्ञानधन एवास्मि तदेव मम परम धाम || ७८ || इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोंटदार्यविरचिते परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्यकैव् अल्यसारे लिंगस्थलनिरूपणे जंगमलिंगस्थलं नाम चतुर्थं प्रकरणं समाप्तम् || पृ० ९८) पंचमं प्रकरणं | श्रीशिवाय नमः || एवं पादोदकलिंगत्रैविध्यमेकीभूतलिंगं शरणस्य सत्क्रियायां निष्पत्तिस्वरूपं प्राप्तभेदः कथमित्याकांक्षायामनंतरं क्रियानिष्पत्तिस्थलमित्युच्यते || १ || अथैवंविधप्राणलिंगी परमानंदेन परिणामप्रसादलिंगे स्वस्वरूपं विस्मृत्य निष्पत्तिलिंगत्रैविध्ये शरणो भूत्वा शरणलिंगयोः सतिपतिन्यायमनुसृत्य सकलकरणोपभोगं निवार्य तामसस्वरूपं निराकृत्याकाशलिंगत्रैविध्यमुपास्य निर्देशस्थले स्थित्वा तनुकरणसंसारभ्रांतिं व्युदस्य शीलसंपादनेन प्रकाशलिंगत्रैविध्येन संपन्नो भूत्वा सकलकर्मनिवर्तकः शिवैक्यं गतः सन् शरणत्वं प्राप्तः || २ || क्षुरिकोपनिषदि || यथा निर्याणकाले तु दीपो दग्ध्वा लयं व्रजेत् || तथा सर्वाणि कर्माणि योगी दग्ध्वा शिवं व्रजेत् || ३ || तथैवोक्तं योगजागमे || फलप्रकाशकं पुष्पं फलं पुष्पविनाशकं || ज्ञानप्रकाशकं कर्म ज्ञानं कर्मविनाशकं || ४ || एवं क्रियानिष्पत्तिस्वरूपापन्नलिंगं शरणस्यांगे संयोगं प्राप्य प्राणस्याग्रे दृश्यमानभावान्तर्भावत्वेन लक्ष्यं सत्तद्भावनिष्पत्तिस्वरूपं प्राप्तभेदः कथमित्याकांक्षायामनंतरं पृ० ९९) भावनिष्पत्तिस्थलमित्युच्यते || ५ || हंसोपनिषदि || तस्मान्मनो विलीने मनसि गते संकल्पविकल्पे दग्धे पुण्यपापे सदाशिवों शक्त्त्यात्मनः सर्वत्रावस्थितैः शान्तः प्रकाशयतीति वेदवचनं भवति भवति || ६ || किंच कठवल्ल्युपनिषदि || इंद्रियेभ्यः परं मनो मनसस्सत्वमुत्तमं || सत्वादपि महानात्मा महतोऽव्यक्तमेव च || ७ || अव्यक्तात्तु परः पुरुषो व्यापको लिंगमेव च || यज्ञ्ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति || ८ || पुनस्तत्रैव || इंद्रियेभ्यः परा ह्यर्था ह्यर्थेभ्यश्च परं मनः || मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः || ९ || महतः परमव्यक्तमव्यक्तात्पुरुषः परः || पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः || १० || तथैवोक्तं किरणागमे || चिरेण साध्यमानस्य भावकैर्विगतक्लमैः || स्थिरीभावो हि भावस्य भावनिष्पत्तिरिष्यते || ११ || शैवरत्नाकरे || अभ्यासक्रमतः सिद्धे भावे वृत्तिनिरोधकः || शिवभावः परो भाति भक्तस्य क्षीणचेतसः || १२ || एवं भावे निष्पन्नलिंगं पृ० १००) शरणस्य त्रिपुटीनाशनानंतरं तच्छरणज्ञानान्तरे स्वयमेव स्थित्वा तज्ञ्ज्ञाननिष्पत्तिस्वरूपं प्राप्तभेदः कथमित्याकांक्षायामनंतरं ज्ञाननिष्पत्तिस्थलमित्युच्यते || १३ || चुल्लिकोपनिषदि || ब्रह्माद्याः स्थावरान्ताश्च पश्यतो ज्ञानचक्षुषः || तमेकमेव पश्यंति परिशुद्धांचितं द्विजाः || १४ || किंच अमृतबिंदूपनिषदि || गवामनेकवर्णानां क्षीरस्याप्येकवर्णता || क्षीरवत्पश्यते ज्ञानं लिंगिनस्तु गवां यथा || १५ || तथैवोक्तं योगसंग्रहे || ज्ञानस्य परिनिष्पत्तिर्निर्ममत्वादिकैर्गुणैः || निश्चयो नान्यथाज्ञानात्परमात्मस्पृशो भवेत् || १६ || तत्वसारे || न रक्तं न च वा पीतं न शुक्लं कृष्णमेव च || सर्वैर्गुणैर्विनिर्मुक्तं नानातीतं परात्परं || १७ || एवं निष्पत्तिलिंगत्रैविध्यमेकीभूतलिंगं शरणस्य पिण्डे पिण्डस्वरूपं प्राप्य तत्पिंडं निरवयवस्वरूपं प्राप्तभेदः कथमित्याकांक्षायामनंतरं पिंडाकाशस्थलमित्युच्यते || १८ || ऐतरेयोपनिषदि || आकाशशरीरं ब्रह्म सत्यात्मप्राणारामं मन आनंदं शांतिसमृद्धिममृतमिति पृ० १०१) प्राचीनयोगिन्नुपास्व || १९ || तथैवोक्तं शिवरहस्ये || शरीरे परमाकाशं परात्परतरं शिवं || भावयेद्भावसंशुद्धेः पिंडाकाशः स उच्यते || २० || किंच सूक्तावल्यां || वृत्तम् || षट्त्रिंशतासंघटितान्तराय त्वगादिसप्तावरणान्विताय || नादात्मलिंगस्थितिमंगलाय नमः शरीराय शिवालयाय || २१ || एवं पिण्डनिरवयवत्वापन्नलिंगं शरणस्य पिंडमध्यस्थचितिबिंद्वाकाशस्वरूपं प्राप्तभेदः कथमित्याकांक्षायामनंतरं बिंद्वाकाशस्थलमित्युच्यते || २२ || बृहदारण्यकोपनिषदि || य एषोऽन्तर्हृदयाकाशस्तस्मिंश्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः || २३ || किंच तैत्तरीयोपनिषदि || स एषोऽन्तर्हृदय आकाशस्तस्मिन्नयं पुरुषो मनोमय अमृतो हिरण्मयः || २४ || तथैवोक्तं किरणागमे || सदाशिवादितत्वानां कारणं व्यापकः शिवः || बिंदुरूपः शिवो ध्येयो बिंद्वाकाश इतीर्यते || २५ || निश्वासकारिकायां || बिंदुमध्यगतं सूक्ष्मं सुषिरं ज्योतिरूपकं || दृष्टवा तं सर्वभूतात्मा स शांतिपददीपकं || २६ || एवं बिंद्वाख्यनिरवयवलिंगं शरणस्य ज्ञानलक्ष्यस्याश्रयीभूतचैतन्ये पृ० १०२) निरस्तज्ञानज्ञेयभावं तत् निरवयवस्वरूपं प्राप्तभेदः कथमित्याकांक्षायामनंतरं महदाकाशस्थलमित्युच्यते || २७ || बृहदारण्यकोपनिषदि || अदः पूर्णमिदं पूर्णं पूर्णात्पूर्णतरं महत् || पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते || ओं खं ब्रह्म खं पुराणं || २८ || तथैवोक्तं वासिष्ठे || सर्वं व्योम कृतं व्योम्ना व्योम्नि व्योम विलीयते || भुज्यते व्योमनि व्योम व्योम व्योमनि शाश्वतं || २९ || तत्रैव || सर्वोपाधिविहीनस्य साक्षात्कर्तुमशक्यतः || महाकाशतया सर्वं दृश्यते तस्य वस्तुतः || ३० || एवमाकाशलिंगत्रैविध्यमेकीभूतलिंगं शरीरस्य सर्वक्रियासु स्वयमेव प्रकाशत्वं प्राप्तभेदः कथमित्याकांक्षायामनंतरं || क्रियाप्रकाशस्थलमित्युच्यते || ३१ || मुंडकोपनिषदि || क्रियावन्तः श्रोत्रियाः ब्रह्मनिष्ठाः स्वयं जुह्वन्त एकर्षि श्रद्धयन्तस्तेषामेवैतां ब्रह्मविद्यां वदेत्तच्छिरोव्रतं विधिवद्यैस्तु चीर्णं || ३२ || तथैवोक्तं शिवरहस्ये || अतीवोत्तमभावेन प्रसन्नविमलात्मनां || या चोदिता निवृत्तिः स्यात्सा क्रियायाः प्रकाशिता || ३३ || पृ० १०३) किंच रुद्रयामले || दृश्यजातमशेषं च शिवत्वेनैव पश्यतः || क्रियाकलापस्तस्यैव चिद्रूपं चाखिलं भवेत् || ३४ || एवं क्रियायां स्वयमेव क्रियास्वरूपं प्राप्य प्रकाशभूतलिंगं शरणस्य मनोभावमध्ये भावस्वरूपं स्वयमेव भूत्वा प्रकाशत्वं प्राप्तभेदः कथमित्याकांक्षायामनंतरं भावप्रकाशस्थलमित्युच्यते || ३५ || हंसोपनिषदि || भावः प्रकाशते येन यत्र भावः प्रलीयते || तद्ब्रह्माहमिति ज्ञात्वा सुखी भवति संयमी || ३६ || तथैवोक्तं विज्ञानभैरवीये || शिवभावप्रकाशेन नष्टभेदतमस्यथ || पुनः स एव विमलः शिवमेव प्रकाशते || ३७ || किंच रुद्रयामले || अनाहते ततः शून्ये सुस्थितं युगपन्मनः || आद्यंतशून्यनिरतः शिवभावः प्रकाशते || ३८ || स्वावबोधे च || यद्येवं परमो भावः प्रत्यग्भूतः प्रकाशितः || स याति परमं भावं स्वकं साक्षात्प्रकाशितम् || ३९ || एवं भावप्रकाशित्वापन्नलिंगं शरणस्य भावभाविभावितमिति त्रिपुटिनाशानंतरं स्वयमेव महाज्ञानं भूत्वा स्वस्मिन्नेव स्वयं प्रकाशत्वं प्राप्तभेदः कथमित्याकांक्षायामनंतरं ज्ञानप्रकाशस्थलमित्युच्यते || ४० || मुण्डकोपनिषदि || पृ० १०४) मायामात्रमिदं द्वैतमद्वैतं परमार्थतः || विकल्पो विनिवर्तेत कल्पितो यदि केन चित् || उपदेशादिना पाशे ज्ञाते द्वैतं न विद्यते || ४१ || तथैवोक्तं सूतसंहितायां || द्वैतं मायामयं प्राह श्रुतिः सत्यार्थवादिनी || वास्तवं प्राह चाद्वैतं सर्वमानातिगामिनी || ४२ || किंच वासिष्ठे || ब्रह्मज्ञाने समुत्पन्ने विश्वोपाधिविवर्जिते || सर्वं संविन्मयं भाति तदन्यं नैव दृश्यते || ४३ || स्वावबोधेऽपि || न किंचिच्चिन्तयेद्योगी उदासीनपरो भवेत् || न किंचिच्चिन्तनादेव स्वयं तत्वं प्रकाशते || ४४ || इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोंटदार्यविरचिते परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्य कैवल्यसारे लिंगस्थलनिरूपणे प्रसादलिंगस्थलं नाम पंचमं प्रकरणं समाप्तम् || पृ० १०५) षष्ठं प्रकरणं | श्रीशिवाय नमः || एवं प्रकाशलिंगं ऐक्ये परिणामग्राहकत्वं प्राप्य सोऽपि तस्मिन् लिंगे परिणामग्राहकत्वं प्राप्य भिन्नभावपरित्यागेन परमानंदपरिणामत्वं प्राप्तभेदः कथमित्याकांक्षायामनंतरं स्वीकृतप्रसादिस्थलमित्युच्यते || १ || अथैवं प्रसादलिंगपरिणामः शरणः अधिष्ठानसामरस्येन महालिंगैक्यं गन्तुमुद्युक्तः व्यापकलिंगत्रैविध्यनिष्ठतया प्रतीतः सन् तथाविधैक्यत्वे सर्वाचारसंपत्तेरेव कारणत्वादधिष्ठानलिंगत्रैविध्ये निजस्वरूपमवगम्य एकभाजनसहभोजनयोरर्पितसामरस्येनातीतलिंगत्रैविध्यनिष्ठत्वेन निरवयवो भूत्वा स्थायित्वमेव परशिवस्वरूपत्वमिति सिद्धं || २ || बृहदारण्यकोपनिषदि || यत्रास्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्तत्केन कं श्रावयेत्तत्केन कं स्पृशेत्तत्केन कमास्वादयेत् || ३ || किंच || वृद्धजाबालोपनिषदि || भुक्तशेषं भगवतस्त्रैलोक्यं स चराचरं || ४ || किंच मुण्डकोपनिषदि || सन्निहितं पृ० १०६) गुहाचरं नाम महत्पदमत्रैतत्सर्वमर्पितमेतत्प्राणं निमेषश्च यत् || ५ || किंच तलवकारोपनिषदि || यद्वाचानभ्युदितं येन वागभ्युद्यते तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यन्ति तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते यच्छ्रोत्रेण न श्रुणोति येन श्रोत्रेणेदं श्रुतं तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते यत्प्राणेन न प्राणिति येन प्राणः प्राणीयते तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते || ६ || तथैवोक्तं शिवयोगदीपिकायां || आर्या || आदाय बाह्यविषयानिंद्रियमार्गैरहंकृतौ चेतः || अर्पयति सा च बुद्धौ बुद्धेः साक्षी ततः पुमान्भुंक्ते || ७ || किंच शिवसूत्रे || स्वात्मार्पणं विकल्पानामर्पणं शिवधामनि || तृप्तिसंकोचविलयविकाशशिवचित्सुखं || ८ || लिंगसारे || जन्मत्रयमिदं वक्ष्ये स्थित्युत्पत्तिविनाशनं || संकल्पितार्पितं भावमर्पितत्रयमुत्तमं || ९ || आधिव्याधिमहाशाखं त्रिविधं लिंगार्पितं सदा || बाल्ययौवनवृद्धत्वं त्रिविधं [भवेल्लिंगार्पितं सदा |] लिंगार्पितं सदा || १० || विस्मयं जननं निद्रा सर्व लिंगे समर्पितं || पृ० १०७) कृष्णं श्वेतं च पीतं च स्वयं लिंगे समर्पितं || ११ || उत्पत्तिस्थितिपर्यन्तं सुखदुःखेषु सर्वथा || संपदश्च व्युदासोऽहं सर्वद्रव्यं समर्पितं || १२ || वासिष्ठे || नान्यत्पश्यति योगीन्द्रो नान्यज्जानाति किंचन || नान्यच्छ्रुणोति संदृष्टे चिदानंदमये शिवे || १३ || तत्रैव || न वांच्छिता न त्यजिता ज्ञेयं प्राप्यं स्वभावतः || सरितः सागरेणैव भोक्तव्या भोगभूमयः || १४ || एवं परमानंदप्रसादजनितसुखमालिंग्य तृप्तिलिंगमैक्ये स्वयं स्वस्य रूपत्वेन स्थितभेदः कथमित्याकांक्षायामनंतरं शिष्टोदनस्थलमित्युच्यते || १५ || बृहदारण्यकोपनिषदि || एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदंत्यस्थूलमनण्वह्रस्वमदीर्घमथात आदेशो नेति नेति || १६ || तथैवोक्तं वातुले || नेति नेतीति नेतीति शेषितं यत्परं पदं || निराकर्तुमशक्यत्वात्तदस्मीति सुखी भवेत् || १७ || चंद्रावलोकने || चित्तत्वैकस्वरूपस्य न स्याज्ञ्ज्ञेयादिकं क्वचित् || यद्यत्स्थितं तत्तदस्य भासा ज्ञानमयं मतं || १८ || पृ० १०८) किंच सूतसंहितायाम् || वृत्तम् || गुरूपदेशेन शिवं विलोकयेद्विलोकनेनापि शिवं विलोकयेत् || विलोकनं चापि विसृज्य केवलं स्वभावभूतं [यद्भावभूतं स्वचिदेव शिष्यते |] स्वचिदेव शिष्यते || १९ || एवं निजस्वरूपस्थितलिंगं ऐक्ये चराचरोभयनास्तित्वं प्राप्तभेदः कथमित्याकांक्षायामनंतरं चराचरनास्तिस्थलमित्युच्यते || २० || चुल्लिकोपनिषदि || यस्मिन्सर्वमिदं प्रोतं ब्रह्म स्थावरजंगमं || तस्मिन्नेव लयं याति बुद्बुदाः सागरे यथा || २१ || तथैवोक्तं वासिष्ठे || नैकता नान्यथा चैव न महत्ता न चाणुता || वेदनत्वं स्वसंवेद्यं यत्र नास्ति चराचरं || २२ || तत्रैव || यत्किंचिद्वाऽऽन्मयं लोके जगत्स्थावरजंगमं || चराचरं जगद्विश्वं मदन्यन्नास्ति किंचन || २३ || किंच सर्वज्ञानोत्तरे || क्रिमिकीटपतंगेषु स्थावरे जंगमे तथा || न किंचिदस्ति वस्तुत्वं सर्वदैव प्रतिष्ठितं || २४ || एवं व्यापकलिंगत्रैविध्यमेकीभूतलिंगं ऐक्यस्य सर्वांगमिति भाण्डे लीनं सत् सर्वाचाराख्यसकलकरणद्रव्याणामाश्रयस्थानत्वं प्राप्तभेदः कथमित्याकांक्षायामनंतरं भाण्डस्थलमित्युच्यते || २५ || कैवल्योपनिषदि || मययेव सकलं जातं मयि सर्वं प्रतिष्ठितं || पृ० १०९) मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहं || २६ || किंच तैत्तरीयोपनिषदि || यतो वा इमानि भूतानि जायन्ते येन जातानि जीवंति यत्प्रयान्त्यभिसंविशंति तद्विजिज्ञासस्व तद्ब्रह्मेति || २७ || किंच प्रश्नोपनिषदि || विज्ञानमात्मा सह देवैः सर्वैः प्राणा भूतानि संप्रतिष्ठंति यत्र तदक्षरं वेदयते यस्तु सौम्य स सर्वज्ञः स सर्व मेवाधिवसति || २८ || तथैवोक्तं वातुले || सर्वत्यागान्तरे नास्ति ज्ञानमात्मप्रदर्शकं || यच्छून्यमेव भाण्डं स्यात्तत्र तत्राधितिष्ठति || २९ || स्तोत्रार्णवे || वृत्तम् || विकसति स्ववपुर्भवदात्मकं समुपयांति जगंति ममांगतां || व्रजति सर्वमिदं द्वयभावितं स्मृतिपदोपगमप्यनुपास्यतां || ३० || एवं सर्वकारणानीति सर्वाचारसाधनानि व्याप्य भाण्डस्वरूपं प्राप्तलिंगं तस्यैक्यस्य स्वयमेव भाजनस्वरूपत्वं प्राप्तभेदः कथमित्याकांक्षायामनंतरं भाजनस्थलमित्युच्यते || ३१ || ईशावास्योपनिषदि || हिरण्मयेन पात्रेण सत्यस्यापि हितं जनं || तत्वं पोषन्नपावृणु सत्यधर्माय दृष्टये || ३२ || तथैवोक्तं वासिष्ठे || अखंडपरिपूर्णं यत्सच्चिदानंदलक्षणं || तद्येन ज्ञाप्यते तादृक् ज्ञानं स्वाभिन्नभाजनं || ३३ || पृ० ११०) किंच || शिवधर्मोत्तरे || यद्धौतं ज्ञानसलिलैः स्वात्मानंदप्रमार्जितं || तत्पात्रं सर्वपात्राणामुत्तमं परिकीर्तितं || ३४ || एवमैक्यलिंगयोः सामरस्येनाविरलीभूतलिंगमैक्यस्य सर्वांगे लेपत्वं प्राप्तभेदः कथमित्याकांक्षायामनंतरमंगलेपनस्थलमित्युच्यते || ३५ || तैत्तरीयोपनिषदि || यस्मिन्निदं संचविचैति सर्वं यस्मिन्देवा अधिविश्वे निषेदुः || ३६ || किंच ध्यानबिंदूपनिषदि || पुष्पमध्ये यथा गंधः पयोमध्ये तु सर्पिषः || तिलमध्ये तथा तैलं पाषाणेऽपि तु कांचनं || ३७ || एवं सर्वाणि भूतानि मणिः सूत्र इवात्मनि || स्थिरबुद्धिरसंमूढो ब्रह्म ब्रह्मणि संस्थितः || ३८ || तिलेषु च यथा तैलं पुष्पे गंध इवाश्रये || पुरुषस्य शरीरे तु स बाह्याभ्यन्तरे स्थितः || ३९ || तथैवोक्तं वातुले || सबाह्याभ्यंतरं साक्षाल्लिंगं ज्योतिः परं स्वकं || तिले तैलमिवाभातमरण्यामिव पावकः || क्षीरे सर्पिरिव स्रोतस्यंबुवत्स्थितमात्मनि || ४० || एवमधिष्ठानलिंगं त्रैविध्यमेकीभूतलिंगमैक्ये इदमहमित्युभयं ज्ञात्वा प्राप्तभेदः कथमित्याकांक्षायामनंतरं स्वपराज्ञास्थलमित्युच्यते|| ४१ || बृहदारण्यकोपनिषदि || यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं पृ० १११) किंचन वदे नांतरं एवमेवायं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नांतरं तद्वदसौ तदात्तकाममात्मकाममकामं रूपं शोकान्तरं || ४२ || किंच जाबालोपनिषदि || यस्यामतं तस्य मतं मतं यस्य न वेद सः || अविज्ञातं विजानतां विज्ञानमविजानतां || ४३ || सर्वज्ञानोत्तरे || स्वयं स्वस्य परो नैव न परः स्वस्य विद्यते || इति धार्येऽपि संलीने तस्मिन्ज्ञेयं न तस्य हि || ४४ || किंच वासिष्ठे || सर्वज्ञता सा शिवता सावस्था परमात्मिका || सा सत्यता सा च तृप्तिर्न यत्र स्वपरेक्षणं || ४५ || एवमिदमहमित्युभयज्ञत्वं प्राप्तलिंगैक्यभावनिर्भावोभयराहित्यं प्राप्तभेदः कथमित्याकांक्षायामनंतरं भावाभावनष्टस्थलमित्युच्यते || ४६ || अमृतबिंदूपनिषदि || न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः || न मुमुक्षुर्न वै मुक्त इत्यैषा परमार्थता || ४७ || योगजागमे || भावाभावद्वयातीतं स्वप्नजागरणातिगं || मृत्युजीवननिर्मुक्तं तत्वं तत्वविदो विदुः || ४८ || किंच वासिष्ठे || अहंभावो यदा नास्ति निरहंता तदा न हि || न यत्राहं न निराहं तद्भावाभावनाशनं || ४९ || तत्रैव || पृ० ११२) त्वन्ताहन्तात्मता यत्र परता नास्ति काचन || न क्वचिद्भेदकलना न भावाभावरंजना || ५० || एवं भावनिर्भावोभयरहितलिंगमैक्यस्य मूलज्ञानमालिंग्य तज्ञ्ज्ञानमेव स्वयं भूत्वा तज्ञ्ज्ञानं निजस्वरूपे स्थित्वा शून्यत्वं प्राप्तभेदः कथमित्याकांक्षायामनंतरं ज्ञानशून्यस्थलमित्युच्यते || ५१ || तेजोबिंदूपनिषदि || अशून्यं शून्यभावं तु शून्यातीतं हृदि स्थितं || न ध्यातं न च वाध्यातं यत् ध्येयाध्येयमेव च || ५२ || सर्वं च यत्पदं शून्यं न परं न परापरं || अचिंत्यमप्रबुद्धं च न सत्यं न च तद्विदुः || ५३ || तथैवोक्तं योगजागमे || ज्ञानाचारसमायुक्ता ज्ञाननिर्धूतकल्मषाः || ज्ञानिनः शिवभावेन ज्ञानशून्यैक्यभागिनः || ५४ || किंच निश्वासकारिकायां || उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्य तां त्यजेत् || ज्ञानेन ज्ञेयमालोक्य पश्चाज्ञ्ज्ञानं परित्यजेत् || ५५ || वासिष्ठे || आत्मनो निर्विकारस्य क्व ज्ञानं क्व च वा क्रिया || वेदका न बहिर्भावा अतः शून्यमिदं जगत् || ५६ || कामिकागमे || यथा घृते घृतं न्यस्तं क्षीरे क्षीरं यथैव च || केवलत्वं तथा प्राप्तं न किंचिदपि तद्भवेत् || ५७ || शून्यं शून्यं पुनः शून्यं त्रिशून्यं पश्यति क्षणात् || सर्वशून्यं निराभासं सामरस्यं तदा भवेत् || ५८ || पृ० ११३) श्रीतोंटदार्यरचितमेकोत्तरशतस्थलं || कैवल्यसारपठनात्सद्य एव विमुक्तिभाक् || ५९ || इति श्रीमत्परमशिवयोगिराट्परिव्राजकाचार्यश्रीतोंटदार्यविरचिते परमवीरशैवाद्वैतबोधिन्यामेकोत्तरशतस्थलश्रुतिमालाविवरणाख्यकैव् अल्यसारे लिंगस्थलनिरूपणे महालिंगस्थलं नाम षष्ठं प्रकरणं समाप्तम् || || श्रीः || || श्रीः || ########### END OF FILE #######