#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00051 Uniform title: kalpavṛkṣa Author : sāhib kaul Alternate name : sāhiba kaula Manuscript : manuscript no. 1353 of the Oriental Research Library, University campus, Hazaratbal, Srinagar. Description: From manuscript no. 1353 of oriental research library university campus, hazaratbal, no. of folios 37 (pages: 74) size of ms 25 x 17.3 cm. paper language/script/condition saMskrit/zarada/bad Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski from an unpublished saiva manuscript by sāhib kaul who lived in Kashmir in the 19th century. Revision 0: Dec. 6, 2008 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### श्रीगुरवे शिवायो नमः | श्रीश्रीश्रीसेवितायै नमः | *? स्वस्ति || श्रीगणनाथायो नमः | ओं श्रीमच्छ्रीस्वस्वतन्त्रानाश्रितनिभाग? परमप्रकाशविमर्शमयपारमैश्वर्यानुभावानुभावुक- प्रथितसहितनिजसहजपरमानन्दाद्वयमत्ता सामान्यस्पन्द उदितोदितपरमशक्तिसाम्राज्यो राजराजेश्वर जयसि परमशिवस्त्वयमयम् || ओं स्वातन्त्र्यं स्वात्मान्तर्भावैकनिपुणं परम् | परस्थं स्वपरात्मा नमन्तुमस्तं महेश्वरम् || निजकल्पवृक्षवन्देतीक्यान ग्राह्यनोदनावशितैः | साहिबकौलपदस्थैर्विरश्यते स्वल्पतात् पदम्? || इह खलु मरुवाटदेशविशेषाधिपतिमहाराजयमेवत् सिंहाभिधानप्रार्थनावशीकृत हृदयेन कश्मीरदेशवरलब्धाविर्भाव साहिबकौलाभिधस्नारासकृत स्थितिना केनचन कल्पवृक्षबन्धं व्यपदिश्य ब्रह्माद्वयशिवाद्वयमहाद्वयदृष्टीनां सर्वतन्त्रसिद्धान्ततां प्रतिपादयितुं श्रमोऽयं स्वल्पो बालबोधनार्थं व्यधायि | अत एव गूढार्थसंस्कृतपदपरिहानम् | तत्र तासां तिसृणां महादृष्टीनां महादृष्टीनामद्वैतप्रतिपादनमेव परमार्थः | किन्तुक्तत्रापि स्वस्वदर्शनार्थविशेषोऽपि प्रतिपादितः | तद्विशेषविरोधपरिहारार्थसंवास्य यत्नस्य तत कृत्य च? तत्रादौ श्रीमच्छ्रीगुस्वस्वतन्त्रेत्यादिरुपोद्घातः | अत्रायमर्थः | त्वं प्रत्यभिज्ञया स्वसम्मुखीनः सदा सन्निहितश्च | अयं स्वानुभवसमसमयमेव साक्षात् कृतः *? स्वयमित्यनेन | अहमिति परमार्थः | यथावारस्था वारं वारं पारं च पारं वदन्ति | तत्परस्थाश्च तेषां वारं पारं तेषां पारं च वाधं हृदंतिं | यथाचैक एव मानवः पितुः पुत्रः पुत्रस्य पिता जामातुः श्वशुरश्च शुरस्य च जामाता इत्येवमादिसम्बन्धमयोप्येक एव तथा त्वमहमिति पदयोः परस्परपर्यायत्वम् || स्वस्य स्वस्मिन्नहमिति प्रत्ययात् परस्य च तत्प्रोक्तत्वं प्रत्ययतस्द्वे?नाहमित्यनुसन्धानात् | तस्य च परेण त्वमिति वचनप्रतिपादनात् | एतदेव निर्णीतं च वासिष्ठे योगे त्वमहमिति शब्दाभ्यामित्यादि | परमशिवः परमा मोक्षलक्ष्मीर्यस्य स परमः पिपत्ति स्वाहन्तारसेन स्वातन्त्र्यरूपमनाश्रितादिमहीपर्यन्तं विश्वविभवं पूरयति | परः तदेव सृष्ट्वा तदेवानुप्राविक्षदित्यादि | अनेन जीवेनात्मनानुप्रविश्येत्यादि | तस्मा एतस्मादात्मन आकाशः सम्भूत इत्यादि च श्रुतेः भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थित इति शैवश्रुतेश्च | सदाशिवात्मना वेद्मि | स वा वेत्ति मदात्मना | इति श्रीमहागुरु श्रीसोमानन्दपादोर्थेश्च | पिपत्ति तदेव पालयति स्वस्वरूपमयं स्वात्मना स्वात्मनि स्वत आविर्भाव्य स्वरूपानुसन्धानेन कचत्प्रकाशविमर्शमयं विदधातीति वापरः | माति प्रमाति स्वतन्त्रकर्तृकतया स्वस्वरूपाभेदमयमेतदेव स्वात्मनि विमृशतीतिमः | परश्चासौ मश्च परमः इन्द्रियेभ्यः परो ह्यर्थ इत्यादि श्रुत्या वा निर्णीतः परः स चासौ मश्चेति वा | अथ च परं द्वितीयं मिनोति प्रक्षिपति दूरीकरोति परमः अद्वितीयः | परं देहेन्द्रियादि मीनाति | अनुभवसमये हि नस्तीति वा परमः | परं देहादिं मयते | स्वाज्ञानसमये विनिमयते स्वात्माभिमानत्वेन व्यतिहरतीति वा परमः परं परनादं सिसीख्या???सनावसरे शब्दयति स्वविमर्शपात्रता सापादयतीति वा परमः अथ च रहस्याद्वयदृष्ट्या पर तत्तमश्चासौ सः २अ) स चेतनो मकारः मकारस्य चेतनाचेतनत्वेन द्विविधत्वात् पवर्गान्त्यो चेतनो मकारः | पञ्चदश स्वरानुस्वाररूपस्तु स चेतनः बिन्दुरित्यर्थः | स एव परमः शिवः | अहं बिन्दुर्विसर्गस्त्वमिति शिवसूक्तेः | अनुत्तरशिवाहन्ता परामर्शसार इत्यर्थः शिवः शमशेषोपद्रवरहितं | एतस्यैवानन्दस्यान्यान्यनन्दानिमात्रामुपजीवयन्तीति | कह्येवान्यात् कः प्राण्याद्यस्येष आनन्दस्य मीमांसा न स्यादिति | रसो वै स इत्यादि च श्रुतेः वित्तसुताद्यन्यानन्दव्यतिरिक्तं चैतन्यानन्दलक्षणं कल्याणं वाति राति ददाति स्वकल्पितमोहापमरणमात्रेण स्वाभिन्नानुग्राह्येभ्य आविष्करोतीति शिवः परमश्चासौ शिवश्च परमशिवः जयसि सर्वोत्कृष्टत्वेन वर्तमे | यः किल सर्वोत्कृष्टः स सर्वनमस्योपि भवति | यथा पथि प्रचलतो राजादेस्सर्वोत्कृष्टस्य नमस्काराकरणे स्वस्यैव खण्डनोन्मत्ता प्रायतावानत्ततस्य कापि क्षतिरिति तं स्वात्ममहेश्वरं प्रतिप्रणताःस्म इति सर्वत्रैव जयत्यादीनामियमेव वर्तनी | नन्वद्वैतनये नमस्कार्यास्य नवशेषे नमस्कारकरणं कथं कस्य केन वा घटते द्वैतापत्तेरिति चेत् सत्यम् किन्तु ण म प्रह्वत्वे इति धातोरर्थानुगमाद् देहाद्यभिमानप्राधान्यमधस्पदीकृत्य तन्मयसमावेशापन्नाः स्म इति नमस्कारकरणारूतम् | अयं त्वं कथं भूतः | श्रीमांश्चासौ श्रीरेव च सुस्वतन्त्रश्चासौ अनाश्रितश्चासौ निर्भागश्चासौ परमप्रकाशविमर्शमय पारमैश्वर्यानुभावानुभावक प्रच्चितसहितनिजसहजपरमानन्दाद्वयसत्तासामान्यस्पन्दश्च सः २ब्) श्रीः शक्तिः शोभा ज्ञानसंकोचदौर्गत्यहारिणा परमलक्ष्मीश्च विद्यते यस्यासौ | ता एव भूमायस्य च सः | ता एव प्रशंसायस्यासौ च | ता एव नित्ययोगो यस्यासौ च | श्रीमान् श्रियं संसाराख्यां शोभां मथ्नातीति श्रीमत् | स चासाविति वा संसारस्य शोभारूपत्वं स्वकल्पिता ज्ञानकाले भासमानत्वात् | सः स्वयं श्रीश्च तत्त्रितयरूपः सुष्ठु स्वतन्त्रः अभेदे भेत्ता भेदिते चान्तरनुसन्धानेनाभेत्ता च | अनन्यमुखप्रेक्षीनिस्मचिव महाराज्यसंभारभर्तेति यावत् अत एवानाश्रितः षड्रूपप्रमातृकलासु व वर्तमानोपि ता अतीत्य सदा स्थितः | अत एव निर्भागश्च | न हि अनाश्रितस्य भागकरणमुपपद्यते | तस्य विभाजितस्य स्वस्यैव खण्डनापत्तेः कोददर्श प्रथमं जायमानमस्थन्वन्तं यदनस्थाविभत्तीत्यादि श्रुतेः | स्वपदा स्वशिरच्छायां यद्वल्लङ्घितुमीहते | प्रादोद्देशे शिरो नस्यात् तथेयं वैन्दवीकलेति रहस्योक्तेश्च | अत एव परमप्रकाशविमर्शमयं यत् पारमेश्वर्यं तस्यानुभावः महत्वं तस्य ये अनुभावकाः तदनुभवकारिणः तेषु तेषां वा प्रथितः प्रकटीवतोसहितः वृद्धः | पूजितश्च निजे नित्यः स्वश्च | सहजः स्वाभिन्नः प्राङ्निर्णीतपरमानन्दाद्वयसत्तासामान्यस्पन्दो येन स च | ननु परमशिव इत्यस्यैव विशेष्यस्य विवेके कृते एतानि श्रीमदित्यादीनि विशेषणानि | स्वयमेवार्थायातानि | अर्थायातेषु च तेषु पुनस्तत्प्रतिपादनेऽग्रतोऽन्यशेषवाक्यप्रतिपादने च पौनरुक्त्यप्रसङ्ग इति चेत् | न य त एक ए *? ष स्वात्ममहेश्वरो नित्वैतस्मं वाद ३अ) शतैर्महद्भिः | प्रतिपाद्यमानस् स्वानुग्रहशक्तिवतां कथं कथमपि साक्षाद्भावमायातीति | पुनः पुनस्तदेव ब्रह्मतत्वं निगमादिभिः प्रतिपादितमनन्तशक्तिस्वरूपत्वाश्च बहुधा निर्णेष्यमाणं विचारपदवीमारोहति | नानाजन्मकोटिलग्नमलापमरणकारकं च भवतीत्यत एकः पुनः पुनज् ? प्रतिपादितः प्रतिपादनीयोऽपि न पौनरुक्त्यमावहति | अत एव चैतैर्विशेषणैर्वार्हस्पत्यादि वादानां प्रतिक्षेपः | यतः यत् किञ्चित् प्रकाशमयं तत् तत् तानतीतं स्वस्वरूपमेव यश्चाप्रकाशं तत् स्वयमेवासत्तामापाद्यमानं परस्य किञ्चित् कर्तमक्षमं | अत एव गीतं श्रीप्रत्यभिज्ञाशां | कर्तरि ज्ञातरीत्यादि ततस्वादानां निराकरणं चाग्रत एव स्फुटीभविष्यतीति नाधिकमिहोन्मील्यते | पुनः किं भूतः तदितोदितं नितरामुदितं | तत्क्रान्तं इतं गमनं येन च सर्वव्यापकत्वात् तश्चैरितं ज्ञानं च यस्य | उदितं सततोदितं सृष्ट्यादिभावविकलं | स्वाभिन्नपरमशक्तिसाम्राज्यं यस्य | न हि परमः शिवो निश्शक्तिः कदाचिदपि भवति | निश्शक्तिमत्वे सर्गादीनामप्रतिष्ठानात् न च सदाशक्तिमत्वे सर्गादीनां सततं सद्भावेन मोक्षानवाप्ति शङ्केति वास्यम् सर्गादिषु सत्शूपि [?] तस्य सदैव सर्वं भावानां स्वात्मुभावाकलनेन बन्धानापत्तेः असत्स्वपि च तेषु परशक्तावेव स्वरूपसङ्कलनेन शक्तिशक्तिमतोरभेदावभासात् | पुनः किं भूतः राजेति | राजानो मनोबुद्धिजीवादयः तेषां राजानो महाजीवां ईशसदाशिवत्वाद्यभिमानिनस्तेषामीश्वरः | यतस्तेऽपि तदीयप्रकाशविमर्शमय परविभवविप्रुषामवाप्त्या ३ब्) परमेश्वरास् संवृत्ताः किमुच्यते स सर्वमहेश्वरः | स्वयं स्वस्मिन् स्वस्य प्रकाशस्यानुसन्धार्था?सद्रूपविमर्शविषदः | प्रकाशस्य च विमर्शत्वं स्वयमापन्नं | इतरप्रकाश वै लक्षण्येन श्रुत्यादिप्रतिपादितस्वयंप्रकाशानुसन्धानात् विमर्शानापन्नश्च प्रकाशोत् किञ्चित्करत्वाद प्रकाश एव | अथ चाप्रकाशोऽपि प्रकाश एव तस्याप्यप्रकाशत्वेन प्रकाशनात् प्रकाशं विना प्रकाशत्वाख्य धर्मस्याप्यनवभासात् अज्ञानमपि ज्ञानमेव तस्याप्यज्ञानभावेन ज्ञेयत्वाज्ज्ञानाव्यतिरेकात् || ओं मस्यैवत स्वातन्त्रविवर्तमानस्य सा परमसहजाहन्ताविशेषशेषाशेषसंभारभरणादि बीजभूता त्रिशूलाकारपश्यन्त्यादित्रयविमर्शसखानन्तशक्तिमणिप्रभास -सुद्धदसामरस्यमयी चिदेकैवैषा काचनानन्तानुत्तरसर्वोत्तरस्वविलासभासकत्व ततत्तीर्णात्रिकमयर्थपरसहजौजोविषदामदत्तङ्गभङ्गा परहर्षस्पन्दोदयोद्यता तत्तन्माहेश्वरनानाशक्तिनिमेषसमुन्मेषोन्मेषनिमेष- तत्त्वोन्मिषितातीव सर्वातीतापि सर्वैव समुज्ज्यम्भमाणा महाशक्तिः पराख्या || अस्यैव ते पूर्वनिर्णीतस्य पारमशिवस्य साप्रक्रान्तपरमशिवा भेदसारत्वात् प्रक्रान्ता तद्वदेवज्ञानिषु विपरीतेषु | च प्रसिद्धत्वात् प्रसिद्धा ज्ञानिभिर्विपरीतैश्च क्रमेण विदिताविदित दृष्ट्या चानुभूता | * *?ज्ञा?निनां विदितेति भैषा [भै * *?] भूताविपरीतैश्चाविदितत्वा कथमनुभूतेति चेत् उच्यते | ४अ) अहं तं तां वानुजानीभि इति वदन्न ज्ञान्यपि जानात्येव | अहं पदविमर्शाभिन्नप्रकाशमानत्वात् किन्तु ज्ञानी यथाभूतमनुभवति | अज्ञानी च देहाद्यभिमानित्वेन विपर्ययेण जानन्नपि जानात्येव | तस्या अखण्डप्रकाशत्वेन सर्वाभेदसारंत्वात् तत्स्वरूपहानेनाहं जानामीत्येवादिविमर्शस्यापि विमर्शमयत्वे नान्यथानुपपत्तेः | एषा त्वदभिन्नत्वेनानुभूतचरा पराख्या परा एकस्यास्त्वदभिन्ना या अपि चन्द्रचन्द्रिकादिवद् द्वितीया आख्या आह्वानं यस्याः परवत् परमेश्वरवृदा समन्तात् | ख्या प्रथनं यस्याश्च परः परमेश्वर एव आख्यानामयस्याश्च | परेभ्यो महाजीवेभ्यस्सकशात् आख्या प्रथनं यस्याश्च | परं परमात्मानं निर्णीता मती आख्याति | आविष्करोतीति च परा अपरा भिन्ना आख्या नामानि यस्याश्च यानि कानि च न नामानि महद्भिस्तस्या विहितानि तानि सर्वाणि न तदर्थप्रतिपादकानि किन्तु व्यवहारमात्रार्थमेव कल्पितानि निर्नासत्वादिति भावः अत एव महाशक्तिः महती सर्वोत्तमा चासौ शक्तिः स्वाभिन्नस्वविभवसामर्थ्यं | महती चासौ अशक्तिः न शक्तिः किन्तु शिव एवेति च रहस्यदृष्ट्या च | स्वनिमेषतः स्वविभवोन्मेषेण | अहमिति पराहन्तापरामर्शः तस्यैव परामर्शस्य च स्वविभवनिमेषावसरे स्वोन्मुखताख्यस्वोन्मेषेन व्यत्ययतः | महा इति च परामर्शः | सा चासौ शक्तिः अत्र च शव्रमृष्टि विवेकेन अकारहकारयोराद्यन्तयोस्सर्वान्त्यविसर्गसमुदायेनानुस्वारा- पत्त्या अहमिति परामर्शः | ननु अकाराकारयोश्शब्दशासनदृष्ट्या सन्निहितत्वमपरदृष्ट्या च वर्गादेवकारस्य वर्गादीनां कादीनां च वा सन्निहितत्वं ४ब्) परस्परमुचितम् नाकारहकारयोराद्यन्तभावेनात्यन्तदूरतयावभासादिति चेत् | सत्यम् किन्तु अत्राकारहकारयोरेव सन्निहितत्वं परस्परसमुदायित्वं चोचितम् मात्रकायाः पञ्चाशदक्षरमययामालात्वेन भासमानत्वात् तथा हि मालाया सादेर्मणेर्द्वितीयस्यान्यस्य वा न तथा संयुक्तत्वम् यथाद्यस्यान्त्यस्य च | अतोऽकारहकारयोरेवाश्लेषविधिनानितरां सन्निहितत्वं नान्यवर्णौस्सहादिवर्णस्य सन्निहितत्वम् एतयोस्समुदाय एव चाहमिति परापरामर्शः अहमेवाग्र आसं सदेवेदमग्र आसीदित्यादि श्रुतिशासनात् विमर्शम्मोहमित्ययमिति प्रत्यभिज्ञाशासनाश्च | परा या एव च स्वौन्मुख्यहानेन शिवौन्मुखमेव महा ईति परामर्शमहालयः | स एव च स्वपदानुसन्धानम् महा ईति शक्तिः परशिवात्मिकैव भवति | पूर्वानुवृत्तनेन जयति वा | अत्रैवास्यते इति सम्बन्ध षष्ठ्यप्यसुमेव सम्बन्धं शिवशक्त्योराविष्करोति | चेतनस्य भावश्चैतन्यमिति शिवसूत्रविमर्शिन्युक्तेः राहोःशिरः केतोः पुच्छ इत्यादिवत् न तु पितुः पुत्र इत्यादिवत् अस्यैव ते कथं भूतस्य स्वातन्त्र्ये पूर्वोक्तस्वनिर्मित स्वाभिन्न स्वविभवे विवर्तमानस्य विवर्तेन रज्जुसर्पादि दृष्टान्तवत् स्वकल्पित मोहावृतमतीनां भासमानस्य | अयमेव च ब्रह्माद्वयशिवाद्वय दृष्ट्यो नन्योन्यं स्वस्वविशिष्टार्थः | यद्ब्रह्माद्वय वादिभिर्विवर्त वादो निर्णीतः शिवाद्वयवादिभिश्च स्वातन्त्र्यवादः | तयोरनेन वाक्येनैक्य प्रतिपादानमस्माभिरा विष्कृतम् यथा न विवर्तत् केन चिदन्येन पदार्थेन तस्य महेश्वरस्य किन्तु स्वकीयं स्वातन्त्र्य रूपं विभवमुन्मील्य तस्मिन्नेवस्वयं विवर्ततया स्वकल्पिता वरणवतां भासते स्वानुग्रहवतां च तदपसरणेन यथा स्थितोत्रमादिभेदबुद्धिमपहाय स्वप्रकाश- ५अ) -विमर्शमय एव भासते तराम् न हि परमेश्वरस्य केनचन भिन्नत्वं | येनान्ये नान्यस्येव तस्य विवर्तरूपोत्र सोभासेत | स्वयं स्वप्रकाशविमर्शसारत्वात् सर्वथा विवर्तमपहाय स्वानुग्रहशक्त्यानुग्राह्याणां नित्यशुद्धबुद्धमुक्तपरमानन्दाद्वयस्वभावं ब्रह्मैकमेव प्रतिभाति स्वातन्त्र्यमतिं चापहाय स एक एवानाश्रितः स्वतन्त्रो भासते | इति न कोपि विरोधः उभयोरपि परमार्थ त ऐक्य प्रतिपादन एव प्रयोगात् एवमग्रेपि तयोस्स्वस्व विशेष परिहारोपरस्परमभिन्नता समन्वयेयमेवाभि प्रायः अत्रार्थे आदिना स्थित्यादीनां ग्रहणं अथ चाशेषस्य विष्णुरूपानन्त भट्टारकस्य संभार भरणादि बीजभूता | सा कथं भूता परम सहजाहन्ता विशेष शेषा | परमा चासौ सहजा च , परमापरात्वेन सहजा च शिवाभिन्नत्वेन || पुनः किं भूता अहन्ता विशेषः तत्तमाहन्ता अहन्ता या तत्त समध्यमाधमरूपत्वात् | स एव शेषो यस्याः | सर्वस्ये दन्तादेस्सुषुप्तादि दशायां प्रलय दशायां वा विनाशेपि स्वाहन्तैवमिष्यते इत्यर्थः | अथ च अहन्तैव विशेषः | विगतशेषः शेषो यस्याः शेषस्यापि शेषभावो यत्रेति तात्पर्यम् | अथ च विगतशेषश्चासौ शेषः शेषः शेषादि भावविकलः शेषः स चाहन्तैव तस्याः अथ च शेषाणां शेषः शेषशेषः विगतः शेषशेषः | विशेषशेषः अहन्तैव विशेषशेषो यस्यास्मा | पुनः किं भूता अशेष सम्भारभरणादि बीजभूता न शेषः येषांते अशेषाः सदा शिवप्रतृतयः तेषां सम्यग्भारस्य महत्व लक्षार्थस्य | परिकरस्य वा भरणं धारणं तदादो येषां तेषां वीजभूता बीजशिव | आदिनासर्ग प्रलयपिधानानुग्रहाणां ग्रहणंसर्गस्यैव प्रथमं संमुचितेप्यु पादाने तेषु सर्गादीमाभासमयत्वादिव | स्थिते रेव प्राधान्यात् प्रथमं ५ब्) तस्या एव ग्रहणं अथ च अशेषोयः संभारः शिवस्यैव स्वादिमहीमर्यन्तः प्रपञ्चः | तस्य भरणे | आदिबीजभूता | अपरापेक्षयान्येषामीश्वरादीनामपि बीजरूपत्वे सत्यपि प्राधान्ये न सैव बीजबूतेत्यर्थः अथ च अशेषाणां सम्भारो गर्भनिवासः सर्ग इति यावत् | तत्र भरणं पोषणं तदादि बीजभूतात्मार्थे आदिना स्थित्यादीनां ग्रहणं | अथ च अशेषस्य विष्णुरूपानन्त भट्टारकस्य संभारभरणादि बीजभूता आधारशक्ति स्वरूपत्वात् पुनः किं भूता त्रिशूलाकारेत्यादि त्रिशूलाकारं आदित एक स्वरूपमपि अग्रतो विभक्ततयावस्थितं च तत् पश्यन्त्यादि त्रयं तस्य विमर्शः स एवमखा महा यो येषां ते तेन सखायः सदृशा वा ये अनन्तशक्तिमणयस्तेषां प्रभेव प्रभाप्रकाशः तस्यास्समुद्भेदः कचितत्वं | तस्य सामरस्यं समरसत्वं निवातनिस्तरङ्गा समुद्राभ्यन्तस्तरङ्गानुदयवत् परान्तरेव पश्यन्त्यादि सकल शक्तिप्रकाशा नामवस्थानमिति यावत् तदेव प्रशुरं यस्यास्मा | अनन्तशक्तीनां भासमानत्वेन पश्यन्त्यादि त्रयमेव सहायं तत् तद्रूपकचन समर्थं सर्वशक्तीनां तद्विमर्शा भेदसारत्वात् अनेन सामरस्येन सर्वशक्तीनां निशेषावसरेपि पराशक्ति गर्भ एव निवासो न तु तत् तच्छक्ति विनाशपर्याय प्रलय इति सूचितम् ननु सर्वशक्तीनाम विनाशवत्वे भवस्वीकारस्य सदा सत्वा पत्त्या अनिर्मोक्ष प्रसङ्ग इति चेत् न शक्ति शक्तिमतोस्मततमेवा भेदस्ये हमस्मतत्वात् अशक्तिमत्वे शिव इत्यादिनाम्नोपि दुर्निवासत्वात् स्वनिमेषेण शक्तीनामुन्मेषावसरे तत् तन्नामरूपसङ्कलनात् शक्ति निसेषेण स्वोन्मेषाभिप्राये तत्तन्नामाद्यना कलनात् शक्तिमत्तायामपि शिवाभिन्नत्वेना निर्मोक्ष प्रसङ्गानापत्तेः | बन्धमोक्षयोश्चेहाद्वैतदर्शनेषु परमार्थ तस्मुतरासमत्वात् स्वकल्पित मोहावसर एव द्वैतादि कल्पनया स्वाप्निक पदार्थवत्क्षणमेव स्थिति लब्धेः | तद पसरणे च यथा भूतानुभूत परमार्थ दशयाबन्ध ६अ) मोक्षदेस्सर्वस्यैव स्वकल्पितत्वेन भ्रान्तिमात्र सफलत्वात् पुनः किं भूता चित् चैतन्यरूपास्व विमर्शसारमयी | अत एव | एकैव सर्वत्र चित्स्वरूपा प्रतिबन्धात् | ननु अजडे चित्स्वरूपत्वमव्यभिचारि | जडे तु व्यभिचरत्वे वेति चेत् उच्यते | अजडस्तावश्चित् स्वरूप एवेति प्रतिपन्नमेव | जडोपि स्वयमचेतमानोपि चित्स्वरूपेण चेत्यमानत्वादजड एव | तद्व्यतिरिक्तत्वेन विमर्शानास्पदत्वाद प्रकाशत्वा पत्त्या सद्रूपतानन्वयादमतोमत्तया जड इत्यादि स्वरूपनाम्नोपि नितरांदुर्ण भत्वात् अत एवात्रैकैवेत्येव कारोन्य योग व्यवच्छेदकः अत एव काचन वक्तुमनिर्वचनीया स्वयमनुभवभाव्या यतः परमशिवो न निर्वचनीयः द्वैतास्पर्शात् परशक्तिरपि तद्रूपत्वादनिर्वचनीयैव विज्ञानारसरेकेनेत्यादि यत्र हि द्वैतमेवेत्यादि च श्रुतेः ननु द्वयोरप्य निर्वचनीयत्वेन प्राधान्यात्म ततं नित्यत्वाच्च परस्परं करणाकरणादीच्छामत्वेन विरोध आपतेदिति चेत् | न नाममात्रेण द्वित्वसङ्ख्य वाचकत्वादर्थ तश्चैक पदार्थ स्वरूपत्वादुन्मेष दशायां शक्तिरूपा कलंनान्निमेषदशायां च शिवस्व? रूपशेषत्वाद्बहुधै तस्यार्थस्य पूर्वं निर्णीतत्वादग्रतोपि निर्णीयमानत्वात् अत एव चानन्ता अनादित्वेनोत्पत्ति समया ना कलनाद्विनाशस्य सुतरां दूरत एव वजितत्वात् अथ च अनन्तानिर्निश्चया च | सर्वस्य स्वात्म स्वरूपत्वेन सदासमानत्वात् सन्देहादीनां मरीचिका जलादिवत् सम्मतानामप्य सम्मतत्वात् यतः स्वात्मा ज्ञानवान्किलहास्यपात्रमेव स्वात्मत्वेन जात्वप्य ज्ञानाना स्पदत्वात् ज्ञानी च ज्ञास्य? ज्ञाता हास्य पात्रमेव अज्ञातं हि जानन्पुरुषार्थमावहति | ज्ञातस्य ज्ञाने को वा पुरुषार्थः | नन्वेवं शास्त्रो पदेशादीनां वै यर्थ्यमिति चेत् न स्वकण्ठ गत विस्मृतभूषादि न्यायवत् तेषां मोहापसरण मात्र फलत्वात् यस्या मतं तस्य मतमित्यादि श्रुतेः | यथा स्थितस्तथैवाम्द्वेत्यादि मूक्तेश्च पुनर्किं भूता | न तत् तरमधिकं यतः यथा हि तत्त्वान्तराणि पर भैरवबोधानु प्रवेशामादित तथा भाव सिद्धीनिसंविदमधिकयति | ६ब्) न तथा परा परिपूर्णा भैरव संवित्तस्याः स्वयमनर्गलानपेक्ष प्रथा च सत्कार सारत्वात् || १ || न उत्तरं प्रश्न प्रतिवचनरूपं यत्र | यत एवं महासंवित् सिन्धोरुल्लासदनन्त प्रतिभा पर्यन्तधास्न उल्लास्य प्रश्नप्रतिवचनपात्रं भवति शिष्यः | तदेववस्तुतस्तत्वं सततोदितमिति किमि वाचार्यीयमन्यदनुत्तरं स्यात् || २ || उत्तरणमुत्तरः भेदवादाभिमतोमोक्षः स हि वस्तुतो नियतः प्रथमं शरीरप्राणादि भूमिमधिष्ठाय शून्यपदान्तमारोह्य सकलमलक्षयेनाश्रित तत्व व्यक्त्याणुरपवृज्यते इति तु स ईदृश एव नाभ्यादि स्थानाधिष्ठान क्रमप्राप्त ऊर्द्धतरण क्रम उत्तरः || ४ || तथा उत्तरन्त्यत उत्तरो बन्धः || ५ || उत्तरणमुत्तरो मोक्षः || ६ || एवं विधा उत्तरा यत्र न सन्ति | उत्तरं च शब्दनं तत् सर्वथे दृशं तादृशमिति व्यवस्थिन्स्यात् तद् यत्र न भवति ||७ || अत एव यावदनुत्तरे रूपे मायीय प्रमाता प्रविविक्षेत् तावत् कल्पित एव विशेषात्मनि | तत्रत्व कल्पितं यत्समवेतं तद्विना कल्पित रूपा स्फुरणात् तदेव वस्तुतोनुत्ताम् तथा परात्मनः शाक्तशाम्भवादय उत्तराः जाग्रदादयो वा यत्र न त तथा पश्यन्त्याद्याः शक्तयः उत्तराः ता यत्र न || ९ || घोराद्याश्चोत्तराः ता यत्र न || १० || परापराद्याश्चोत्तराः ता यत्र न | ११ || सर्वसक्तयश्चोत्तरास्ता यत्र न || १२ || तथा नोदरं नुत् तया तरणं दीक्षाक्रमेण तरः शिष्य चैतन्ये गुरुश्चैतन्यं प्रेरयति न तु होमादि विधिना तदेवं विधस्तरस्तरणं यत्र न स्वप्रकाश चैतन्यस्य सर्वव्यापकस्य एवं विधविडस्व नानास्पदत्वात् || १३ || तथा अनिति स्वमिति इति क्विपि अन् अणुरात्मा पुर्यष्टकादिः तथा अननं जीवनं देहाद्यन्तर्गतैवाभिन्नभिन्न शक्त्याद्य हन्ता शून्य प्राया जीवनाख्या वृत्तिर्या शून्यप्रमातेभ्यभिहिता तस्यैव उत्तरत्वं सर्वतः परमार्थधियाधिक्यं यत्र शिवैक मयत्वात् अजडानां तावज्ज्ञान क्रिये एव जीवनं जडानां च जीवदाश्रयत्वं जीवनं || १४ || तथा अ इति अमायीयनैसर्गिक महाप्रकाश विश्रान्त निस्तरङ्ग चित्सिन्धु स्वात्म च सङ्कररूपा | शान्तोल्लासमय विश्वामर्शन रूप पराहन्ता प्रथम पर्यवमानो भय भूमिगायेयं तस्या एव नुत् विसर्गान्ता तस्या एव वतरः प्लवनं सर्वोपरि वृत्तित्वं यत्र || १५ || अविद्यमानानुत् द्वैतादि प्रेरणा यत्र तदनुत् अतिशयेन अनुत् अनुत्तरं ७अ) सर्वव्याप्तत्वेना क्रमिकत्वात् || १६ || इदृशमति विततार्थमपि शिष्यबोधार्थं संक्षिप्तं सोडशधा निर्णीतमनुत्तरमत एव निरुत्तरं निश्शेषेण उत्तरं अनुत्तरत्वादुत्तरान्निर्गतं वा सर्वैरुत्तरं सर्वेभ्य उत्तरं वा सर्वं च तदुत्तरं च वा स्वसमाधारणं विलासेन विलासानां वा भासकत्वं प्रकाशः ततस्सकाशात्ततो हेतोर्वा तत्तीर्णा तत्रूस्य तीर्णा उत उश्चैस्तीर्णा च | पुनः किं भूता | अत एव त्रिकमयैक्य परसहजौजोविषदात्रिकं शिवशक्त्यणु स्वरूपं तत्प्रकृति ऐक्यं यस्य पर सहजौजसः तेन विषदा ननु शिवशक्त्यणु स्वरूपं चेत्त्रिकत्वं तत्रैक्यं कथं त्रिकत्वे ऐक्या सम्भवादिति चेत् सत्यं किन्तु | एतत्त्रिकत्वमेवैक्यं यतोत्र शिवशक्त्यणूनां त्रिकत्वं न पृथक् पृथक् पदार्थवाचकं किन्तु पृथक् पृथग् अवस्था वर्णनार्हत्वेनैकस्यैव परवस्तु नस्तत्तन्नामनिरूपणं शिवक्विल? पूर्वनिर्णीत परिपूर्णा हन्ता प्रथासारः तदभिन्ना च शक्तिः तयोरनुसन्धाता चाणुः तदनुसन्धान रहितस्स एव जीवत्वादि व्यपदेश भाक्तत्तन्नाना विकल्पपात्रं भवति | तदनुसन्धानेन जलतरङ्गन्यायेन स एव सन्स्वकल्पिता विद्ययानम इव नाहमस्मीत्यादि वदन्पुनरपि स्वप्रत्यभिज्ञानेन स एव सः इति न किंचित् परमार्थ तम्त्रिकत्वं सर्वस्वरूपस्यैक स्वरूपत्वात् | अत्रिकत्वे चैक्यमपि हास्यावहमेवान्यं विना | एकस्य मत एकमिति ज्ञानस्यापि दुर्बोधत्वात् त्रिकमयैक्यं च तत् परं च सहजं च ओजः प्रकाशः स्वशक्तिः स्ववलं वा तेन विषदामलरहिता | विषं सूर्कादायित्वेन संसाराख्या विद्या तद्द्यति खण्डायतीति च | पुनः कथं भूता सदा उत्तङ्गः अन्यव्यतिरिक्तः अभङ्गः अविनाशश्च परहर्षः तस्य स्पन्दः तस्य उदयः उस्मिन् उद्यता एतेन चिदानन्दाख्ययोरुभयोरपि शक्त्योः समावेशः परायां सङ्कीर्त्तितः वक्ष्यमाण पश्यन्त्यादि त्रये इच्छाज्ञान क्रियाणामनुप्रवेशनिष्पत्तेः पुनः किं भूता | तत् तन्माहेश्वर नानाशक्तीनां निमेष एवसमुन्मेषः उन्मेष एव च निमेषः तयोस्तत्वं तेन उस्मिन् वा | उन्मिषिता विकसिता | पुनः अतीव सर्वातीता सर्वमतीन्ती ७ब्) मूलोम्भेदमेव तथा तथा न वितथं सकलादि प्रमातृ नानाभावाचार्य इव कौशलकलाहेतुरियं ललित ललितसरससह अकलयन्ती न भिन्नमपि भेद जनितमिवान्योन्यं स्वम | स्वमप्यिन्यमिव ह्रुं हुं इत्यादि निष्कलमनुबीजाक्षराणि विषदानि मन्त्र महेश्वर मन्त्रेश्वर मन्त्राद्यं गमयी प्रकटयन्ती शुद्धविद्या सा या कलाकाल रागनियति वलसमाश्रया परस्पर मविरुद्धामपि विरुद्धामिवभतां विशेष दशांसं दीप्यवैखरी पददान चतुरा सा ततो परावहिः प्रथन तयाहन्तां गुणीकृत्यसौ पाधिकं समोहमिदं भावं तं तमवर्यमपि प्रवलतया लालयन्ती सर्वभाव साहित्यमेवाफलयन्ती कर्त्यत्वादि त्रिपुटीकरण विचक्षणा सकल जगद्विशेषण विशेष्यादि शिष्ठा बाह्यापि वा ह्यभावप्रवाह सततापोहन हेतु तया स्वमान्तरं भावमनपोह्यैव स्वातीतेव नाना तत्वगणं तत् तत् स्वस्वविलक्षण लक्षणक्षणगणमपरमिवादाय स्वविस्मरणेन पदे पदे जुषमाणा देहाद्यभिमानमानिनी प्रमाणादि पदाक्त सङ्कलन शालिनी विषमसमतदुभय समय नय अतीव परायणा लयी कृत स्वाहन्ता नु काचिदपि काचिदिव नानाशासनचर्या नायकः स्वसमुल्लेख सहित विविधविधि निषेधसाधित कठोरदजु पदार्थ विकटप्रकटा प्रकटं स्वं स्वं दर्शनं सुदर्शनतया प्रदर्शयन्ती सकलाद्यात्म च्छलन कलाना वलिता मह्यादि तत्वनिष्ठाभीष्ठा विशिष्ट वसिष्ठादि शिष्ठ वागीश्वरत्व प्रथनेश्वरी विवृतसंवृत महावाक्यासोल्लास निजनिजपदार्थ सहज परमतात्पर्यसार विचारण चतुरा ऋजुमनृजुं च प्रवलमायाश्रय कापादि कथा मन्दत्वम केवलं केवलं कलयन्ती त? तु? देकानेकोभयनयविरहितामपि स्वात्मतामेतामति विरहयन्ती ८अ) सकलस्वविभवकोत्तकवलमतुलं विभावयन्ती परत्रेह च कलापं वितत विततं सततं कलापानेकवर्णमिव तदण्डान्तर्गुप्ततर संभारभरण क्षमं प्रकटी कुर्वाणा ऋग्यजुस्सामाथर्वनिगमसरणिं तत आदित आविर्भावयन्ती महामायावतीर्णां मायामेतां खुरादिमस्तकवधिपरिमितां वीतैक्यानन्दोद् द्योतामशेषयन्ती सर्वेषु | तेषु तेषु भावेषु षड्भावसमदतया स्वीकृतया यास्कादिमत् विदितया कामपिही न दशामाद्रियमाणाश्रुतः स्वरादिः राज्यादिकश्च लक्षितो भावो न यैव परितोन्तरा बहिरपि परिस्फुरति | प्रारब्ध सिंचित सुचितमिव वदन्नितः ततो घननरक सरणिमिव सदानुसरन्नशेषं पैतामहं सर्गमवभासितम क्रियमाणादिक कर्म कलनामप्यत एव परोप्यारोहति तरामणुतराभिमान भासुरः शृङ्गरादि रसस्थायि व्यभिचारि व्यभिचारी] सतत ततचिन्तातुरो विलीयमान परहर्षो निकृष्टाशांवर समावृतो हेतु समुद्भूता देशा धीनोपरच्छलित इव खादन पानादिमय विभ्रमभ्रामितः सर्वत्र दीनता मुदीरयन् तथा त * * * ? विश्रामपदाश्रितो जयजीवादि महाजनेषु महापुरुषेषु नीचं वचनमनुचितमुचितमिव वदन्नितस्ततो घननरं कसरणिमिव सदानुसरन्नशेषं पैतामहं सर्गमवभासितमगारमिवान्धकारा वृतं दीपहीनं विलोलमनाः संभ्रममाणः कीनासाद्य शेष देशेष्वत्यल्पवलोपेत तया मज्जन्क्वापि बहिरर्तन्मापुर्यमजानन्नलघुरपि स्वत आत्मानं जनयंल्लघुम् कुत्र कुत्र च न महायद्वादिषु सन्धानस्मुखमिव स्वंवीनु सुखोपि सदा नीचतया जीवति स्वात्माप्यनात्मेव कौशल विशेषमशेष मन्विष्यन्विविधाभिलाषु कतया खरतरतपो यज्णादानादि निष्ठो जीर्णप्रायं कयंविदधत्कापीन्द्रो भूत्वा परनाकस्थानेशो पर पतितामधिगतामभिजयव्यूरी कृतदिक्षालताभिमानो ८ब्) वहुविधकार्य सम्भारकारकोहं नन्दौद्यान विहरणे वज्रप्रहरणेप्सरो मनोहरणे वा क्षमोस्मि सतत विलसत् परश्री रिति मनते क्वापि विश्वम्भरोहं सर्वत्रसोस्मि सकलातीत कल इदं कुटुंबवद्विश्वं मम प्रथतेहमेव तथा तथा विश्वत्र भासेस्वत ओणोमम स्फुरति मत्तोनान्यस्य शक्तिरनुभूयते सकलकलाविचक्षणोहं जन्मास्य विश्वस्यमत्त एव स्थितिश्च मययेवलयोपि सर्वदा स्थिरतरोहं प्रविकीर्ण महाविभूतिरिति स्वस्मिन्नानोपयतिक्वापि क्वापि चोदासी नवदास्ते क्वचन स्वात्मनि स्वीकृत्यवन्हिषः स्वभावं मोहं पुरोडाशलत्ता? कार्यादिभिस्मन्तर्पितो नाना स्पन्दोदय दाता मरगणानां च मुखतया हमेव प्रथितस्तया श्रिया समये समये जुह्वन्तो दूरीकृत भयं सामासीनं समाश्रिता इहैव च भवेयुः तथा तथाखिला अपि ज्वालाः सदा तुङ्गान्त आविर्भवन्ति सदोद्रेक युतविभूतिस्थस्सोस्मिकापि मे जयति कलावित्तलवलशालिनीति स्वमतनोत् क्वापि च धर्मराजतामात्मनि निजे समारोप्य | समानां विषमाणां च समताकरणे दीक्षितो जनस्य व्यतीता मनतीतां च दशांगोपितां स्थितामपि कलयन्काय कुटी चराणां सकल जनानां भयाभिनिवेशदान चतुरस्तृणानामिव तेषां स्थितिं ज्वलयन् समयं सर्वस्या समयं च पदे पदे गणयति | च्छलनयेव चराचरं सर्वतो विकलयति तेष्वादिष्ट निज शासनो मुहुर्मुहुरन्तत आदितश्च दुस्मंतृतं कथंचिदधिगतमाकल्पमपि स्थितं तनुगुणं लयमेव कस्य कस्य ननयति सकलेषु विवधेषु च स्वात्मानं वरतरमिवाहो पुरुषिकया तया प्रथयति सवा सवादिं देवगणं हुंकारेण सामुरं ९अ) प्रशान्त तेजस्कं विदधाति | पारमैश्वर्य विततौजा इव सकल जनतां दासीं यथा समादेष्टुं क्षमोस्मीति परोमत्तोनापर इत्यभिसन्धानो भुवनानां परम पतिरहमेवान्तक इति विशेषयति स्वात्मानं मेदन समुपोढसकलवलवित्तलरुचिरिव क्वापि चायमेवमसंविशिष्टया तया दनुजाधिपति तया स्वमानं दयन्निजमेव विभवं प्रथमं दर्शयंस्तांताममरजातिं वृक्षपर्णमिवजगदजगद्युतां रहित गुरुतामनिल इव सतत लघुतासा पादयंस्तत इतो विक्षिपति भूरितर विभवोपेतोनेकमाया विलासलासकोहारित देवी देव श्रीः विभ्रमः प्रक्रमते सर्वेषां तेषामेकोपि विपुलवलतया कलामाहन्तुं स्वयमेव च तत् तदगाराधि पतितां कर्तुं न्यक्कृताम्बुज जन्मादि समादेशस्तपव्कृत्वा जनगणमिमं स्ववशं विजय तथा तथा भासमानोवीत परसकलभयः परमौजो विषदस्समधिगता शेषकलाविशेषः विपुरीकृत मुक्तन्दादि परमपदविराजमानाशेष राज्यसंभारोहं कोपि निश्शेष फलोपेतश्चिरं स्थिति सहितोयौवतप्रार्थनीय सदोदितयौवन एक एवानेकधलंहरन् जयामीति स्वमभिमनुते | क्वापि च स्वात्मनैवात्मनि निखिल जलपति भावमारोप्योचित विविधसत्वगणविनय ननयतया विख्यात विषदयशौवत्त्वा कृशतरविभूति विशेषः सरित्पारावारादि नीरं समीरणधीर वीरेशानो जयति चित्रं जलप्रकटिते न मणिगणेन नानावर्ण युतेन शवलरुचिना स्वाङ्गेनेव स्वाङ्गं विभूषयन्नति दूरीकृतनीचाभिमानोपि निम्नगाधिपतिस्सहजनिजवल युत विभूतिस्समुच्छलित ललित महामीनकेतनोति मतिमतां गुरुः सोयं चिरं वर्तमानो निजं कलयति क्वापि ९ब्) चानयैव मायया कयाप्यावृतमहो मूर्तिरयमेवोररीकृता निलात्मा सर्वान्तर्विराजमान प्राणाख्यो यथोत्तरं स्ववलविभ्रमोपोढ जगद्गतिरशेषस्या युषस्साक्षी च सकलपावनः पावकं समुत्तेज यञ्जर्जर स्थितिमनेकमपि शिलोश्चयं विधातुं क्षमस्सर्वानुराशनापि पासाहेतुज्पञ्च विध कर्मकरण दक्षो विभाजित दशविध स्वांगतया दीप्ततर स्व स्थिति च यस्सदागति समृद्धोतीव सर्वत्र प्रथमाणस्तया तया गत्या पादपेषु झेञ्जिमालापं कलापमिव वितन्वानोन जातमपि जीवमितस्तत इरयन्विशेषयति | स्वात्मानं कुत्र च नायमेव कस्मै च न विलासा य महते सम्मत महादेव मौहान्दस्स्वकलितां राजराजतामभिमन्यमानब्कुवेरो विविध पुण्यजनमौलिराजि रुचिविराजित च रणकमलस्सकलसमृद्धीनां नवनिधीनां च परेशानो नरवाहन वाह्योमरावत्या अप्यधिकतरभासमान भासज्पतिरलकानगर्याः किम्पुरुषैर्गन्धर्वगणैश्च काहलीभिर्मुरुभिभिश्चोत् तु पतिसि उतरभूमितृदारूढैस्संयुक्तैरन्योन्यं मप्सरो निवहैश्च गीतेन वाद्येन मनोहरेण नृत्तेन च सन्तोषं नीयमानो विजयते विविधलीला परस्तत इतश्चैत्ररथा रामस्थल विशेषेषु रुपि च स्वयमेव स्वीकृतेशान विभूति निजसहज विशिष्ठमहिमसंकल्पवशीकृत सकल देवगणो नित्यं विरोचमान स्वाङ्ग गतसती विलासविचक्षणो परेषां परेषां पतीनामिज्यो शताप्रविगणित सकल विश्वसंभूतिस्सन्तजितसकलमनो भ्रामककामविभ्रम संभ्रमः स्वत आदिमन्तं सर्वस्य जानन्मृत्युञ्जय ओमितिध्यातो रुचिर चिरस्थायि पद इच्छादि दश महासिद्धीश्वरो महेश्वर हराद्य वितथपराभिधानैः समुदीर्यमाणो गणप्रमुख देवता वृन्देनावश्य स्रियमाण जनपरं परागणनामुतत् परतया तत्परो वृषवाहो वृषवाहोति १०अ) विततविरोधवतामपि पयज्प्रतृतीनां द्वन्द्वा नामेकत्र समुदायकृतौ चित्रैन्द्रजालिको विषमे क्षणज्परमेश्वरतयाति प्रथितविभवो भवोभवो निखिलाभयवितरण तत् परोगौरीपतिरनेक तन्त्रततिं वितन्धानो महागरलमपि परमामृतभावमापादयन्देवासुरवन्दित पदद्वयीको विर्यायते | कुत्र च नायमेवाति निविडमाया रूढतया पितामह भावमवलम्ब्य गल्वर्कशिलामित पतत्त्रिविराजमान पदयुगपद्मो विदितानुभावोखिल वन्दनीय तया परमाद्रियमाणो वितते वाग्वादिनीशत्वे सततमारूढ ईदृशानीदृश विविध सृष्टिनिवहा विर्भावन कृती प्रकृत्या परमशान्ति पद स्थिर स्थितिश्चतुर्णां वेदानां कर्ता कर्मणा स बाह्यज्परमसेतुरनेक कला कौशल चतुरचिन्तामणिस्तत् तद् देववलोत् तेजकवरदान तत्परो निखिल चिन्तिता भयदाता दाता विधिनिषेध परकर्मवन्धस्य नारायणस्यापि तत् तन्मीनक मठयोन्यवतारादेशकरण क्षमस्सममेव हिताहितानुज्ञा परिहारोपदेष्ठा नानाकल्पतदन्ताभिंमनन समयविचारो चितावितथ परमनयविशारदस्संस्थिन्न सकल संशयस्सदानन्द पूर्णो कदाशो जयति | क्वाप्याखु वाहनो भूत्वानेक विघ्नहतो विशारदः शारदेन्दु विषदैकदन्तः पुष्टिसंगत्यासंसारित सतत परमुखोहस्ति मुखोमखेषु प्रथमं द्वारेशत्वाख्यातिमहितो वरदास्याख्या प्रथितः कार्तिकेयादपि प्रिय तनयो भवान्या अत्यच्छपय सम्द्ववत्यावारि विहार कुशलो भक्तेषु परमशक्ति प्रकट न विकटाटोप संउखस्तेषु तेषु गणगणेषु नन्दि प्रमुखेषु विविधा कृतिषु परम भक्ति सक्ततया नन्दित त्रिनयनो विविध भोगलब्धो लालयति स्वात्मानमलमनेक केलिकलाभिः क्वापि माया या अस्या एव वशीभूतस्मयोमष्टदेव जात्यभिमानी क्वचित् क्वचिनाकादिस्थलेषु | १०ब्) विषदा विषदात्मा विहरते | क्वापि दैत्यादि योनिषु विनिवेशितात्मा स्वं परं शान्ततमंविहाय निसर्गंतास्तार्क ठोरचेष्टाज्प्रकटयय देवादिनुद्वेजयति | स्वबलशालिनीभिर्मुर्लीलाभिः क्वापि दिनपतितामधिगत्य निखिलानां स्तुत्यो राजराजो बहुभगणानां ग्रहगणानां च | सकलेषु कर्मसु मुख्यतया भ्यहनीयोखिल कर्मसाक्षी नानाभाव प्रत्यक्षीकरणे परमकारणं दुस्तिरस्तो मरणहरणे प्रथित प्रतापो निरालम्ब आकाश महापथेपि विलुठर्कठोरतर चरण स्मवित्रत्वे नेहैवे हते स्वामरता वनामनुभावयितुं सूर्या पूषाद्याख्या उतरव्खगपतिव्क्वचिश्चायं भूतो विधुरपि यशोराशिरिव ब्रह्माण्डास्येत इतज्प्रसरन्नेककला संशोभितेन्दु शेखर शेखरौ हिणी प्राणनायकोपि विरहिणी प्राण संशयहेतुरखिलं जनं स्वतर्कौमुद्या ह्लादयंश्च कोरवितृष्णता कारणं कुमुदमैत्र्या प्रथित महास्सकलोत्त वल महाराजोतितोदिशो विकासयति | तराम् क्वापि चायमेव दूर्घटसंपादन विभ्रममययासदसत्ता विलक्षणलक्षण या न यैव मायया नितरां वशीकृत स्वशक्तिगणतया सङ्कोचितोप्य बोध विधुरस्सङ्कोचवान्निवतास्ता गतीरवलम्ब्य सुरभ्यादिकसुभवनेषु तत् तदाकारं प्रकटयन् कामदुघादितया ख्याति स्वं भूत्वा भविता चाखिलासु स्थली ष्वयमेवभाति खलु तथैवा यमेक एव निज परानुग्रह वलेनोद्वोधित वद्धिस्सकल संसारादुद्विग्नमनास्स्वात्मान्वेषणैषी विधिविरहित कास्य निषिद्धाद्या चरणो विहि नित्यनैमित्तिकोपासना प्रायश्चित्त युक्ततया वियोयूयमान निखिल कल्मष तया नितान्त निर्मल रुचिर स्वान्तस्मद्देशिकमुपहारकरोन स्रान्तव्करण शिरास्स्वमेवात्मानं शमदमदिमाधनधनः परिपृच्छति स च सद्गुरुः सुशीलमेनं सुशीतलया ११अ) दृष्ट्या वलोक्य विचार्य च नित्यानित्यवस्तु विवेकादि चञ्चं जलमग्नमिव समुद्धरन्विततोदयं स्वमात्मेश्वरं निखात भयं विभावितात्या नन्दरसनिर्भरं प्रविललितनीचाभिमान संकटं प्रकटयति निःश्रेणि काधिरोहण क्रमेण प्रथमं लौकायतादि भूमिका एव सा कल्येन संकलयय परमविश्राम भूमिमारोहयति स चान्ते वामिवरोनिशस्य परम पुरुषं तं स्वात्मानं स्वयं च विचारयति यथा निज आत्मा मम पाञ्चभौतिकोदेह एवांगण्य निजाङ्गरुचिरोहर्षकलाकारणं विकलेस्मिन्न हंसकले च विकल सकल चेतना वलोभवामि पृथग्भूतस्य यथाग्तत्वादेन्नानन्द कला संलक्षते च समुदितस्य | तथैव भूतानामेषा चित्पृथग्भूतानां नैव सन्दर्शनीया पुनरवाह्यैव समुदितानां ममवलोक्यते वलिरिवकालेन | पुनरपि वानदृश्यते सैवचिद्विभाग परतया तेषां खलु विभक्तेषु च तेषु न किंचिदस्तीति चार्वाकमतमभिमन्यमानोत्रैव स्थित्या स्वानन्द कलामविकलामलभमान एतदूर्ध्वं चेन्द्रियाणां ततः प्रियतामनु भूयमस्त्रवृष्टि धारापातेषु संउखा पतिते चक्षुषो निमीलनार्कट्वावचश्श्रवणे श्रवणस्य दुर्गन्धाघ्राणे नासायास्सर्वापघनत्व चोपि दुस्स्पर्शा वेशेन संकोचस्ये वानुभवनाद्रसनाया वा प्रियरमतः संहरणे नैव मेवासोढा प्रियकर्मणां कर्मेन्द्रियाणां च गत्या यस्मिन् सर्वं यतस्सर्वं चेत्यादि शास्त्रनिरूपित निसर्गस्यैतेषु खल्वनु भवनेन तत् तद् भोगादि करणतया काणाद्य हन्तानु भवेन च तेभ्योन परस्य पिण्डे प्रियता दर्शनात् तेषामेवात्म भावो चल इति संकल्प्य भूयः स्वमानन्दं परं तत्राप्यननुभूयनाहमिन्द्रियाणि किन्तु तदुद्रिक्तोस्मिप्राणोहं यत एतेनैव मेड्र रूक्षापि पासा चैतयोरभावे शरीरादिनाशो विविधाद् भूतकलासु ११ब्) पञ्चविधेन दशविधेन वा वपुषामैष एव क्षम इतरस्य कस्यापि नात्र शक्तिरनेलमूकादीनां च प्राण न एवाभिलाषुक तया सर्वतोस्यैव प्रियतःन्वियते? तदन्वय गत्या अयमेव मेस्वात्मेति विचार्य तत्राप्यनवाप्त परहर्षोदय विभ्रम क्रमः परमे तस्मादपि मनोविगणयति | स्वात्मतयानैव मेस्वात्मा स्वप्राणः किन्तु यत् सङ्कल्पयति विकल्पयति च नवं नवं भावाभासं हिंसां नयति च पुराणमश्मप्रायज्प्राणस्तस्मादृत अणोयश्चास्त्रे प्रतिपादितः तदपि विततौजोमन एवेह सतत गता या अन्तराबहिर्वत्तेर्वा मत्ता या नित्यतया निजन्मता या अपि तदेवाहमिति विविश्याप्यनुभव पथाना रूढतया नन्दलाभा भावात् ततोप्युद्विग्नस्सोपरां वद्धिं विचारयति | स्वात्मतयामनसोपि ज्ञानकारणं निश्चय स्वरूपं च बुद्धिरेव तदभावे चलतया मनः प्रभृतीनां तदनुभवारोहणे नैव तत् तज्ज्ञाननिष्ठा भावेन वलवत्वादि यमेव मे स्वात्मा भवि तु मर्हतीति क्षणं विश्राममिव विदधत् सततोप्य न वाप्त सहज विवेक विलासतया स्वानुभवानन्द मलभमानस्तामपि परामिव विवेचयति नेयमप्यात्मा मे | किलस्वा ज्ञानेश्या लयान्वयादर्णोहमित्यिनुभव सरणि समुपारूढता या अज्ञानमेव नित्यः स्वात्माममेति मुहूर्तं विकल्प्य | ततोप्य परत्र क्षणिक विज्ञान बाह्यार्थ वादशून्यात्म वादादिषु च क्षणं विश्रामयति स्वात्मानमाभास विचारपरतया तत्राप्यविलीयमान विकल्पत्वेन मुतरां श्वपरपरो भूत्वादुर्विचारा चरण विकलीकृतान्तष्करणो नित्तरां व्यवसाये व्यवसाययति कथं क्षणिक विज्ञान महं तत्र संस्कारा सत्वेनस्मभ्यु नुदया देकस्यान्यदान्यस्यैकदानुसंधात्रताया १२अ) अभावेन सर्व व्यवहारनिर्मूलनेन सर्वं जगदनेल सूकता प्रसङ्गा सक्त?मिव भवेद्वाक्यार्थ वादेपि सदैव पदार्थेषु ज्ञाननिष्ठत्वेन सुषुप्ति स्वप्नमायादेर भाव प्रासङ्गिकत्वा त्वद् भावने वा स्वस्यैव विश्वम्भरतानुपपत्तेर्योपि ब्रुतकोषितोयं किमु स्वतन्त्रे वा हेतुर्वा प्रथमे कदाचिदपि तस्यना ज्ञाना वृतत्वं स्वतन्त्रस्य दुव्ख गततानङ्गी कारात् तदङ्गीकारे वा हेत्व लब्धेर्द्वितीये चे दृशामनी दृशां वान्येषामपि संभाव्यमानतया परमेश्वरत्वानापत्तेस्तेषामपि सर्वैरेव नित्यत्वाभिमननात् तद त उभयथापि न कर्तृत्वमर्हं तर्हि भोक्तृत्वं भवेद्वानैव भत्तायां च | सदाभोगापत्ति तत्वेनैव शुद्धत्वा भावात्मत्यमनिर्मोक्ष प्रसङ्गापत्तेर्बहुविधदर्शन विचारित वादानर्थक्या कलनया सर्वस्यापि परशर्वान्वेषणा प्रवृत्तेः कदापि च ज्योतिरनुदयान्नितरामनिष्ठा पत्तेरिति भोक्तृतायां न संविरचयिष्यमाणाभिषेक आत्मा किन्तु मो पर इहकश्चन भविताह हजडोपि सपुराणैरनु ज्ञातस्तत्र क इव विवेको जडस्य स्वाव भासितं प्रतिहेत्व लब्धे रुपादीयमाने वा हेतौ तदुपादात्तरेव स्वतस्स्वयं जात्यो परत्र विवेका सहिष्णुत्वेन स्वस्य परस्य च हास जनकत्वा दुस्भ्रान्तता संभवात् किञ्च लसदिच्छोयं चेत्त्तर्हि कथं जडोन चेदीता दृश्नस्त?र्हि कथं दृश्यस्याशापि सभवेत् कदाचिजडो जडो वा कदाचिदित्या हुश्चेत्तर्हि ते बहुधा स्वयमेव भ्रान्तागो सदृशधियः किमिवेतरं ज्ञापये युरतः सविवादो विवाद प्रायतयानीक्षित्तमपीष्ठ इति तद्विवेकेनालमेव स्वयमेव कैश्चन स्वाभि नवमति वैचित्र्य प्रतिपत्नेन भ्रममंरम्भमयेनाथकैरपि पातञ्जलीयमापन्नेः न तिं न पुराणो न वा १२ब्) क्लेशकर्मविपाकाश यैजपरामृष्टस्स्वयमेव सदस्संसारिविलक्षणस्सतत सदोष दुष्टः प्रधान सत्व प्रतिबिम्बितत्वेन तत् तज्ज्ञानकरणं स आत्मा प्रतिपादितस्तत्रापि नैव नितरामादरः कर्तुं युज्यते तैरपि स्वयमेव स्वसमयस्य दोषदर्शितत्वेन सोयं यत ईदृशोभिमतस्तर्हितेषां कश्चन पुरुषविशेष एव भवितु मर्हति दूरीकृत क्लेशादिरपि प्रधानसत्व प्रतिबिम्बितत्वेनैव तस्य प्रतिबिम्बस्यर्थ तश्चनान प्रवृत्तेः सर्वस्मै सर्वव्यवहार स्पृहणीय तया सततविलसत् क्लेशादिरेव सर्वदा विश्वमिमृक्षादि च शुरतया न भवति च तद्विलक्षण ईदृङ्निसर्गताया एव विहन्यते परानन्द पदात् तत् तत् प्रतिनियत स्वनियते रिति तन्मतिरपि सभ्रमैव निभ्रमतयापि प्रतिपादितातैः स्वोत्प्रेक्षाविलासहारितैरथजैन प्रतिपादित दृशाजीवा जीवादिक नवसङ्ख्याक पदार्थेषु कोपि हेयेषु समादीयोह हृष्टा?दश दोषनिवहो भोगापनयने विगलित कर्मबन्धनो द्वन्द्व सहिष्णुरपगत जात्याद्यभिमानोर्हन्नेव स्वात्मितयासमादीयते नैषोपि दोषहीनोपि ततस्ततो व्यतिरिक्त आत्मा सर्वस्य भोगस्य सतत वितत पाल्या क्रान्तस्योदासीनतया त्यक्तस्यापि हात्तमशक्यत्वात् तद्वामनायाः केनापीह व्यतीते हते वा चेतसि तद् बीजस्यनियतं स्थितेन्नित्य नवो वा कदाचित् तदङ्कारः कोपि सोपाधि तया प्रभवे देवेत्यतस्तेषां तानि वाक्यानि निराकूततया हेयान्येव तदभिमननेन कस्य च नानन्दलेशस्याप्य जननादथ शरीर हृषीकसंभ्रमोद्रिक्तो ज्ञानकला कारणतया सुलभगतिस्सदा तद्भाव परिमाणसान्यो यस्तत्त्व तत् १३अ) यश्च सर्वमयो नित्यं सर्वत्र विराजमानस्स एवैष स्वात्मेति याशाम्बरदर्शनमयी सरणिस्तत्राप्यहोकाशा मम वित्तलहर्षलब्धौ यत ईदृगात्मा वश्यं जायमानो हन्यमानोपि भवेत् स्वत आकार कल्पनया यथा यथा सूक्ष्मोपि मतस्तेषां तथा तथा सा कारता कलनया विमुक्ताकारोपि माननीय एव तथा मानितो रागद्वेष जुगुप्सरादि कपद पतितोपि स्यात् ततो विलीन हर्षतया निस्मन्योन्त मग्नोपि भवत्येव तत् तदवाप्त्याक ईव पुरुषार्थः परं भवेदित्यतोनैषा तेषांमतिर्वान्तयापि समादात्त सुचितात्र विनिर्मोक्ष लेशस्याप्यसंभवादतः परं च श्रीवासुदेव आदि प्रकृतिरग्निरिव तदङ्गार मया ईवान्ये जीवा एतेषां समुदय कवलनया सततोदितोतोनिरन्तर एकोपितद्वितननेशक्तः महरणेपि शक्तिमत्तयैव तदितर इति पाञ्चरात्र नयेपि तिष्ठञ्जिनोयं न परहर्ष विशिष्टो भवेज्जीव समुदयेनैव तस्योदं चितपरविभवत्वात् तेषां च नानाविध द्वन्द्वकल्पनागुरुतर भार चञ्चुतया तदितरता विचारेपि यथा तथाप्याप्त तन्मयता या अतिरोक्तुमक्षमत्वात् तदनन्तरं च पाशुपतमत विदितो जीवाद्विभिन्नः अस्यैव च समुपासनीयः कारणकार्यभाव सञ्जीवनकारणं पशुपाशनाशेन विशेषमोक्ष जनन हेतुरपिनात्मभावं भिलार्हति भासमान स्वज्योतिरपि यत ईहानीहा प्रबलकार्यकारण जीवनेन पशुपाशः शरीरेषु मुञ्चत्मवाक च न *? पि प्रतिदुर्निवार एव तदनिर्वारणे नोप च यलय सत्तयानापहर्तुं शक्यतेयं भवः सत्तायां भवस्य च तदुपासितापि जीवो न प्रभविता विनिर्मुक्ति पदमधिगन्तु सहृ?दधिगमाज्जुगुप्सितमेवैतैः सेवितमपि दर्शनं निजादन्यपात्र रसासार कृतौ वितत सतोत च रक्षोहारा मलघ्व सन्देह प्रयोजनवता शब्दशासनेनापि विचारितः शब्दार्थतः १३ब्) सर्वस्य सर्वव्यवहार वृत्तिकरणतया सतता वीन? सर्गनिसर्गः स्फोटस्वरूपेणादावन्ते च व्यञ्जनतया निरञ्जनोपि साञ्जनः शब्दब्रह्मैव किलात्मेत्यत्रापि मतिमतामतीवनैव भजति | सतिः स्वपभा अन्ते विश्रामदायिनीरत्रापीदंताया अहंभावगतिसोप चारत्वा च्छब्दस्य स्वयं जडस्वरूपत्वादर्थस्य च तत्पराधीनत्वात् स्वाधीनत्वेपि ज्ञातारं विनास्वार्थ शक्तिग्रहणा क्षमत्वान्नहि ज्ञातारं विहायशक्तः स्वयं स्वस्यार्थं ज्ञातुं शब्दोर्थो वातदेषा दृगपि शब्दशासन विदामाभास मयी त्यतोस्यां जेतारस्यात् स्थित्या कर्मबन्धात् तु रताया रौद्राकृते रतोरन्तरं च कपिलमतानुसारि प्रख्यातः पुरुषोपि नैवाहं भवामि किञ्चित् करणेप्य क्षमत्वाद्विना प्रकृतिं तस्य तत्प्रतिपादित पुरुषस्य प्रकृतेश्च स्वयं जडप्रायत्वात् तथा तन्मते प्रतिबिम्बवादोप्य किञ्चित् करोयतः प्रतिफलितेना भास एव न बिम्बवत् किञ्चित् कर्मकरत्वं संकीर्णमप्यनुभूयते दर्पणादोहव्यवाहादेज्प्रतिबिम्बतया भासस्यैव संदर्शनान्नोष्णता या अत एतेषामपि सर्वथा मतमुपेक्ष्यमेवात्रैव स्थित्या सर्वतो विनिर्मुक्तेरनुभवनादित्ये तादृश एतादृशस्समतीत्य सकला अप्युपनिषदुक्त्या स्वात्मानमुद्भव विनाशहीनं शमितसकलदोष विशेषं शेषमशेषं गलित स्वकलित क्लेशं परेभ्योपि परतरं परमाकाश विषदं सर्वस्या अस्यैद्रोहकारं दुरभिमानमतये विश्रामधामानं परम विवेक पथमानोहयति यथायः कोपि परमानन्दे सहजे निजे सत्ये नित्ये शुद्धे द्वैतभासा विरहिते परिबुद्धे सर्वतस्सर्वथा सर्वदा सर्वत्र भावाभावकवलना प्रबले वित्तले कलेसकलकलना विहीनकले कलेन राद्यहन्ता हान्यवितथे सोपाधि निरुपाधि भावभावना विरहिते महामोहगहन ज्वलने सर्वस्य प्रथितेप्य निर्वचनीया विद्यातिरोहित इव सुस्वभावे पदे पदे विराजमान उपनिषदा प्रतिपादितः परमात्मा स एवाहं भवितुं युक्तः १४अ) सत्य स्वानुभूति समय साक्षात् कृतत्वादत्रैव परमनिभ्रमसंभ्रम विश्रामधाम स्वारामो मम भवितु मर्ह एतदर्थमेव सर्वदसशमप्रमुख साधन परिचयस्य सार्वस्य साफल्यमेतदेव च परं ब्रह्मतत्वं मुनिभिस्तत्वातीतं तत् सत् | परमा गमेषु निर्णीतमत एव च परानन्दोदयोद्द्योतः परिस्फुरति सैषैव ब्रह्माद्वयानुभावकानां परा रहस्य संवित्तिरनयैव विहीन बन्धनिर्बन्ध संबंधा महापुरुषा महेश्वरमुदृश ओमिति परमपदविषदगतयो विराजन्ते त एव भवोभवोनुभव विभवो विभातितरां यद्यप्य ततत्तरे शिवाद्वय महाद्वय दृष्टीपरे च भातस्तथापिते अपिनातो व्यतिरिश्ये ते तयोरपि विनिर्मुक्तो तु सा स्वयानुभव विभव एव विलसत्तात् पर्यात्केवलं शिवाद्वयनये स्वातन्त्र्य वादोभि प्रेततमोनिर्हेतु हेतु मत्तारचनः सदैव मुहुर्मुहुः पञ्चविधकृत्य कारित्वं स्वविमर्शसारतरं चात्र विशिष्टं महाद्वय परमसरणौ चानुत्तर रहस्यानुभूति रागमेनैव स्वत आविर्भाव्या सर्वथा तत् तदपि परमानन्दा द्वैत गत्या अत्रापि सन्निकृष्टतरमेवातोपीतस्तत अप्यमेव यथा लक्षिते हरि प्रस्थादौ संकल्पे विकली भूते दुराशायां कृशायां रस्यतर तत् तत् प्रदेश विशेषा एकदा लक्ष्या एवमत्तः परानन्दा द्वैत विषदा देव तद्विलासलास्यस्य विलसितत्वात्मुपुरादिवतत्तत् प्रदेश शेष विशेषस्यैनमेवौप निषदात्मानं परमाद्वयमविभक्त स्वरूपमपि स षड्विधलिङ्गं श्रूत्यादितो निशस्या विर्भूता संभावना विपरीत भावना निवृत्त्यर्थं तेषु तेषु सद्दर्शनेषु कल्पित विवेकया सत्युक्त्या सत्वा च श्रवणमनन पूरूपं त्रिविधविधिविधा पूर्वं निदिध्याय च समावृत्योपदेशार्थ साक्षात्कार जननावधिरसेन स्वेन समास्वाद्य स्वदशां स्वानुभूतां स्वयमेव परिविवृणोति स्वानन्दलीलाविलास विषयी भूतां परानुग्रहकारिणीं वञ्चित सकलकलुषां खातस्वकलित जीवास्यभिमान १४ब्) मूलतया विगलित दुस्संकोचां यथा सर्वं सार्वमखर्वगर्वम पूर्वं पूर्वं पूर्वापरता विहीन महीनं सर्वासां सद्दृष्टीनां सारससार संसार सरण्याभिसारसंहार चतुरं पररसासार स्फारमुदित विषदपरहर्षं हेषित वृथादि विषयतर्षं स्वाख्याति तापसं तप्ताभिनवप्रकाश वर्षं विगलित कलित वितथभीप्रद कर्म समुत्कर्षं विहिताहित निकृष्ट मतिमत निरयादि सन्धर्षं सतत सुप्रसन्नं कदापिनावसन्नं सकलासन्नमनावृतमकृत्त्रिममनुपममत्यति गतनी च दृग्वरतरमनुत्तरमनन्तरमनन्तरं निरन्तरसरमपनीतलयोदय भयं सततोदित निज वैषद्यं विसंवादि वादानास्पदमपगत विधिनिषेध चोदनता या अतीव हृद्यमनवद्यमनिर्वाश्यं विध्वस्तवाश्यम प्रवर्तमान वर्तमान भविष्यद् भूतं सतत वर्तमान समानसमानतादिवर्तमानं सहजनिजानुभवैकमानं स्वरूपमेतदेवारूपं ममनि रूपणीयं रूप महो अहं ब्रह्मास्मिकोस्मिसोस्मि स एषोस्मि सर्वमस्मि सर्वात्मा ममकापिन कल्पना स्वकल्पितानां कर्मणां केवलमेकाकीनरमेतः स्वयमेव स्वलीलायै सहज निजविभवा पूर्ववलायै सर्वमिदमाविर्भाव्य तथा तथा भवामिन तथाविध एवास्यैवमेत्रयों शानिरंशस्यापि स्वाभासिता तत्क्रान्ता भासन्तेतरां तत्र शुद्धचैतन्याधि कृत इदन्त यानितरामनाविर्भूत बलयैकमनेकं वा भावमनाश्रितयापनीत विवर्ततेजस्कया कथंचिदप्य परामृष्टों शसाकल्य इति धात्वर्थ सिद्धः प्रविलीयमानां शानं शकलनः प्रथमोंशः साक्षीति व्यपदिश्यते ततो महामायाधि कृतस्सर्वज्ञात्वादि विशेषण विशिष्टः प्रथित वितता कृतक महाशक्तिमत्ता सामान्य स्पन्दो वन्दनीय स्वलीलामन्देन्दिरानन्दो १५अ) परोश ईश्वर इति विशिष्यते मन्दंमंदं तथा तथा भूत विभववलकलनया स एष एवैक विधेनापि त्रिविधेनात्मना ग्रंथीकृता ग्रन्थि ग्रन्थिना ब्रह्मविष्णु महेश्वररूपेणनिरूपितस्तत्र स्रष्ठ्यताभिमानीरजो विराजितौ जास्स्वयम्भूरिलापतिरित्यागमेषुकथ्यते ब्रह्माण्डी भूत विभव विभ्रम मय समयितयाति प्रथितस्तत्परश्च पालयितृताभिमान विषयितया विदितमहिमा विष्णुर्भक्तानुग्रह प्रभविष्णुः श्रीपतिरिति समुद्घोष्यते विविधावतार विभवविस्तारस्तारितासुरवराहङ्कार संभारस्तारित सुरवरोदुन्निवारमहापद्भार सागर समावृत्त विकाराद परश्च संहर्तृतयाभिमान विततोदयः श्रीपार्वती प्राणनायको निष्केवलं महापथसुपथिकः कामयमसंभ्रमभ्रमण क्रमत उभयाभिनिवारकतया मृत्युञ्जयाद्याह्वय संश्रयोति समीचीनादीन परेशतोच्छुभास्तभ कलनो महेश्वर इति संमूच्यते सर्वत्रात्रसत्वसत्व सत्ववान्विष्णुस्तमो विभ्रमवांश्च महेश्वरस्तत्र च कारणी भूतमज्ञानमुपाधिस्तदुपाधि विशिष्ठ विशेषण ईश्वर एवं च कस्यैवेश्वरस्यास्य चतुर्मुख चतुर्भुज पञ्चमुखाद्याः पुमाकाराः भारती लक्ष्मी भवान्याद्याश्चस्त्र्याकारा अन्येपि मत्स्यक मठादयोवतारालीलयैवा निर्भवन्तो भक्तानुग्रहार्थमथ तृतीयों शोन्तर्करण तत्संस्कारा बाह्यता वच्छिन्ना ज्ञानोपहितो जीवाख्य उपदिश्यते सजीवोपि त्रिविधेन रूपेणैक स्वरूपोपि प्रथितः तथा ततोजस्कतया कथ्यते तत्रा विद्यान्तर्करणस्थल शरीरा वच्छिन्न जाग्रदभिमान वान्विश्वस्म एव स्थूल शरीराभिमान रहित उपाधि द्वयो पहितस्स्वप्नतननाभिमानगस्तैज स इति कथ्यते देहान्तः १५ब्) कारा इव सिद्धप्रसिद्ध स्वविभ्रमाणो हादिव जायन्ते स्वांक्तरादिरिव बीजे विश्वं तस्मिन्मयि स्थितं वृद्धिं याति कालेन क्षयं चात्र वृद्धौक्षयेपि सामयिकोप्यहमेवैतदा स्वादन परमकोविदोप्यहमेवाहमेव शरीरादिकं विनापिपरानन्द सन्दोहमहितः शरीरादि ज्ञानक्रिया करणे क्षमोयथ स्वप्ने सदृशासदृश भावान्द्वयमेवा विर्भाव्य तत् तद् विलास लोलतया विहरामि तथा महामायया स्वयमेव स्वमयान्भावाना विर्भाभ्यस्वस्मिन्नेकस्मिन्ननेक इव विहरामि जीवोभूत्वा विश्वगतां घन चांरूप्रक्रियां विततां समासाद्य तथा तथा तेषु तेषु स्थानेषु विचरामि मोहं मुहुर्मुहुरशेषाणि कृत्यानिरचयासि परिवीतोदार तरस्वमाया वसनः परहर्षसंभृतः कं कंनानंतं भावं दर्पण इवाभासयामि स्वयं सिद्धिमहेश्वरः क्वाप्यहं सौम्याकारव्क्वापि सवे पथ्वाकारः क्वापि विनाहृषीककलनां तत् तत् क्रिया विधातुं प्रथितोहमुचितोति वित्तल कला संश्रयी कृतमहिमा स्वयमन्डिलङ्घित व्याप्तिर्यथा उरग शरीरे विनाश्रवणं श्रवण सदृशी क्रिया तत्रैव च यथा विना चरणं चरण क्रियाविनाहस्तं यथाद्विप शरीरे हस्तक्रमोविना वाचं यथा पुस्तकशरीरे वा गारम्भो बालक शरीरे च यथा विनाहास्यकारणं हास्यं यथा महेन्द्र देहे च चक्षुः सहस्रैः खरतर कीर्तिवद् भिरेकचक्षुः क्रिया यथा वलाकाशरीरे विनोपस्थानन्दं पयोधराणां ध्वनिना गर्भग्रहणं यथा श्वदेहे क्षणदान्धकारेपि | १६अ) करणगाभिमानरहितोन्तर्करणोदञ्चितं संस्कर्तृत्वमिदं भावमात्र परामर्शनीय निर्विकल्पातिगं संधायकः स्वाविद्यामात्र विश्रान्तज्प्राज्ञस्स एव टीक्यते | सुषुप्त्यवस्थाभिमानि तयात्रोपाधि भेदादेकत्वेपि तत् तदेवान्तर भेदो व्यवह्रियते साक्षी तु सर्वानुसन्धाता सर्वानुगतस्तुरीयाख्यः परमविमलसहज निज निसर्गस्सर्वदा सर्वत्रैक विध एव तत्रोपाधि भेदेनापि न क्वचिद्भेदोति जुगुप्सितो भवितु मर्हति तदुपाधेरपि स्वत एकात्मकत्वादयमेव साक्षीश्वर जीवतया निरूपितो दृक्पदार्थ इति वेदान्तागमे कथितो भवति | तद परश्चा विद्यातद्व्याप्य तत्कार्यात्मक प्रपञ्चो चोभिन्नता हीनोपि भिन्न इवृस्वलीलायै दृश्यपदार्थ इत्युदाहृतस्तस्या पारमार्थिकत्वेपि स्वावभासित सुचितमिह परानन्द बलैक्य दुदितो व्यवहारमय विभ्रम प्रोतं सत्ताभ्युपगतत्वं न स्वाप्निकार्थ वद्व्यर्थं तत् तदुपासनादावुपयोगात्म दृश्यपदार्थ तयाख्या ततपाधिरपि त्रिविधो व्याकृता मूर्तमूर्त भेदेन तत्र सा भासा विद्या मूर्तामूर्त प्रपञ्च बीजशक्तिरूपा तदजन्यत्वेपि तदपनो देवैव दुन्निवर्त्यत्वेपि निवर्तमानत्वात् तद्व्याप्य चैतन्य तत् सम्बन्धजीवेश्वर विभाग चिदाभासैरस्तितामुपगतानादित्वाद व्याकृतमित्युदीर्यते | मूर्तामूर्तोपकारकं चैतस्या एव रूपं स्वयं जडमप्यजडेन चिदाभास महमादीप्यमान मुक्त पूर्वपूर्व संस्कार जीवकर्म प्रयुक्तं मच्छब्दादि पञ्चज्ञानविषयि विषयीभूतानि तत्संख्यानि महाभूतानि जनयति सा १६ब्) चाविद्या तांस्तानप्यतीतानतीतानुत्तरोत्तरं गुंफितान् पूर्वपूर्वभूतगुणानीह ततत्तरोत्तरं भूतगुणसूत्रेन प्रवेशयितुं तदविद्या या एवै तदधीन एवान्धकारोपि भावरूप एवा वरणात्मकः तररी क्रियमाण चाक्षुषबोधविरोधिनीं दशामाश्रित आलोकपरिहार्यो रमेवमहाशम्पादिवदाविर्भूतस्तिरो भवतीति सिद्धान्तो निगमान्तमते संसृति हेतु तत् तद् देहविशेषोपादान त्वान्नश्रूत्यादिभिः सृष्टिप्रकरणे मुच्यते कालस्य काष्ठाया अपि प्रमाणविरहित्वान्नोदीरणं पूर्वस्या विद्यायामेव भवती तरस्या अपि व्योम्नि खल्वन्तर्भावो यमेव चाव्याकृतपदार्थो ह्मोमिति शक्ति बीजमुपोढैक्य सिवेश्वरोपाधितया प्रसिद्धं तानि च सूक्ष्माण्याकाशवायवादि पञ्चभूतान्यमूर्ताख्यानि कारणैकताया ईच्छापरस्थे चले ज्ञानक्रियाशक्ति न परे परे इव समाक्रान्तं तत् तज्जनयन्ति द्रव्यं मिलित्वा मणिद्वन्द्वे ईवैकमाभासं सत्वरजस्तमज्पदव्याप्तात्मकानि सड्वांशप्राधान्येन तत्र ज्ञानप्राधान्यसामुदयिकतया शोन्तर्करणाख्यो मानसबुद्धिरूपेणोच्यते | क्रियासामुदयिकतया च पञ्चविधवपुषोपलक्षितः प्राणादि रंश एवमेकैकभूतेभ्यो द्वयं द्वयमिन्द्रियं ज्ञानक्रियाशक्तिभेदात् प्रत्येकमुत्पद्यते | तज्ज्ञानकरणर्थ शलं ज्ञानेन्द्रियं पञ्चविधं क्रियाकरणतत्परं च पञ्चविधं कर्मेन्द्रियं तदधिष्ठातारोपि ज्ञानक्रियाशक्तिप्रधानादि गादयस्तत्तदोजोबलेन विरेतां रंस्तान्नितानि हृषीकानि च शब्दादिविषयग्राहकानि वागादित्व कीर्तितक्रियार्थग्राहकानि चैतत् सर्वं चानतिरिक्तं १७अ) कथ्यते | लिङ्गशरीरताया आकृत्या तेषां च विपंश्योंभित तन्त्रीणामिवैकाकारतया रागगणानामिव कार्याणां निर्वाहो विविधावभासन पर ईरितस्सोय स मूर्तपदार्थोर्थक्तशलैस्समष्टौ व्यष्टौ च जीवोपाधिरेव | निर्णीतस्तानि च तथा भूतानि भोगायतनं शरीरं भोग्यं च विषयमन्तरेण भोगपालींजनयितुमक्षमानि जीवकर्म प्रयुक्तत्वाद् यथाक्रमं स्थूलभावाय पञ्चीकृतानि भवन्ति तानि च पञ्चीकृतानि स्थूलभाववन्ति पञ्चमहाभूतानि मूर्ताख्यानि स्फुरितमिश्रणान्येककमधिष्ठानं भोगायतनमुत्पादयन्ति | हृषीकाणांतदेव च काय इत्युच्यते | तत्रेह सत्वप्रधानं देवशरीरं रजोमुख्यं च मानवाणां पशुस्थावराणां च तमृज्प्रधानं तथैवेह परत्र चानन्द थुत द्विपरीततासंवेदनतया सोम्यभीषणाकारा ऊर्ध्वमख्याधो विभ्रमेण प्रथिता गृहप्राकारा ईव सत्वरजस्तमोंशप्रधाना अवान्तरभेदमहिताश्चतुर्दश भुवनाख्या विषया अपि खड्गीयन्ते | चाजडताया विदारणे नित्योदिताया घट्ट?दयो जडाश्च सर्वमेतत् प्रवित तेन रूपेण परम हिम्नः प्रोदितेन ख्यातं ब्रह्माण्डाख्यं विराडिति मूर्तमिति च समुदीर्यते | पूर्वस्मिन्न मूर्तपदार्थे ज्ञानशक्ति प्राधान्येन हिरण्यगर्भ इति कुशलैस्मूच्यते सूत्रात्मेति च क्रियाया ध्येयतयाप्रधानायाः संश्रयेण कथ्यते | इत्यौपनिषदः | सृष्टिक्रम एतद्विपरीतश्च लयक्रमज्परमार्थितो जन्मादिखण्डानानोररीकार्या सर्वस्य चिद्विलसितत्वेन न किमपि जातं न जातस्यको वालय एवमस्मादेकस्मादेवानेक खड्गाद्या १७ब्) सर्वपथावलोकनं यथामत्स्यादि शरीरे जलावृतेष्वपि पथिषूत्क्रमण दृश्यदर्शनयोश्शक्तिर्यथा वामकरादि शरीरे लोमशैरपि खड्गाकृतिभिरिव पक्षैर्हनन संरब्धिरुष्ठादि शरीरे च यथा दूरादपि झडिति विजन्झरी कृतोरगाकर्षणं श्वासेन दुष्कण्ठकाणां च खंडकरणंपेलवजिह्वयापि यथा वा दूरं पुरोञ्चि तदृशागृद्ध्र शरीर आमिषा वलोकनं यथा गोशरीरे दूरादपि गन्धमात्रेणैवानुमितं देशानुचरणं यथा वाचकोरकपोतादि शरीरे शिलादिजारण सङ्गारभक्षणं च यथा वाशुकशारिकादि शरीरे संपोष्यसमीपस्थापिते मानेवेला खर्खनं तद्वाणीभिः संभाषणं च यथावापिकानां स्वमातापितृजनितानां अपरत्रेतरपोषणं शरीरे यथा वामषकादि शरीरे प्राज्यशब्दकरणमेवं यथा तत् तज्जातिविशेषेषु तृङ्ग्यादि देहेषु प्रत्यक्षमेव दृश्यमाणापरजातिभ्रमरादि देहसंबंधं श्रयेत तथैवमनेवं च सोहं एक एवानेक देहेषु समुपाद तु स्वस्वविभ्रमरमण विशेषेषु तथा तथा रमैशेनानंशेनवाकौन्तं मम प्रत्यभि जानाति सामेव विनानितरां द्राघीयान्कायमंश्रयिणोपि परानुभावोदुर्विभावनीयः प्रतिस्वविषयविशेषसंभावितो मम निष्कायस्य तु काकथैवानुभावमनुभवितुमतीवातिशयी तमनोधिषणस्यातिगत तत् तद्विशेषण विशेष्यस्यापि विशिष्ठ विशेषण विशेष्यापोहस्य कोप्यहमेक एव विगतापरः परोवास्मि क्वचित् क्वचिदपरोवास्मिकोपिवित्तल महामायाविलासेन | १८अ) तथा लास्यं न तथा च प्रवलं रचयामि सौष्ठवं मे विभवस्य विवधैरपि न सम्यगूहनीयम् वनतृणनगरादिषु मत्स्वरूपेष्वहमेवाशेषेषु विशेषेण स्वमहिम्नाचैतन्यानन्द तथ्य स्वरूपस्तथातया विचरामि ममैकस्यानीक भुवनविलासोंश एष आविर्भूतबहुविधसंभारजनन क्षमोनवनवकलामनोहरस्मोहमुपलेष्वपि लतामुत्पादयामि | सुविर्भवः सुरशिखरिशिखरेष्विवनन्दनोद्यानं जलान्तरेपि वीतिहोत्रं सन्दीपयामि | वारिधाविवौन्वदहनं विनाग्निसंयोगं च नीशाखादिष्वाग्निं प्रज्वलयामि सूर्यकान्तादिभ्योश्सत्योपि विरेचयामि दहनं चन्द्रकान्तादिभ्योपि सलिलकणमास्फोटयामि | क्वथितेभ्य इव चन्द्रसहसा वैडूर्याद्या या भूमेरपि शष्पाङ्कुरानि वाड्वाशलाका आविर्भावयामि || लेपितविततनभसां ध्वनिगत्या अंबुदानां नभोवीथीष्वलघुषुनगरीस्थलीष्विवप्रतिस्वं नियत गतितयाग्रहगणानितस्तत तस्संचारयामि उपोढतत्तिद्विभ्रमबलोविविधवर्णा प्रभास्फुरितरत्रानि पयोनिधिपयसस्समुत्पादयामि | महार्घ चंशुअंवन्तुल सुविमलप्रभयायुतं वहिराकर्षयामि शुक्तिप्राणिभ्योन्तर्भुवनेभ्य इव अन्तर्गतभुवनेभ्यो मुक्तानि करं तथैवाजिह्मवपुर्भ्यो बीजेभ्योजिह्माजिह्म शाखाः प्रकटीकरोमि मलभ्योपि सुकठोरास्तेभ्य एवानाडिकेभ्य ब्रःमाण्डरचना कलादुर्लक्ष्यनाडी समावृतानि पत्राणि सदोजौमय कलनावलितः शिलाभ्योपि कठोराभ्य कोमालैलीयकुसुमुमानिमृत्तिकाभ्योपि विविधवर्णाधातु विनिकरान्मनोहर गणिमणांश्चोत्पादयामि जलप्रायप्रालेयादपि तदतुल्यं सुस्वतन्त्रात्मा सूर्यचन्द्रकान्त दृषदोजनयामि | कोमलायामदोपि तन्यते लोहमुख्यधातुर्मयैवकेनाप्यति १८ब्) कठिनप्रतीको विकृतेन्धन्धनादपि विरूपादति प्रकाशमयी भूतान्रोहिताश्वम्यांगारान्दीपयास्यनी च दीप्तिर्गन्धरहितबीजेभ्योपि परमभूतिसंभूतानुभूति प्रभूतोतिगन्धमहितानिमधुव्रतलोभकारणानि विविधकुसुमानि प्रकटीकरोमि निर्वर्णेभ्योपि विविधवर्णसंवर्णनीयान्यति वित्तलवर्णानासंचर्वणीय वर्णिवर्ण्यासुवर्णान्तिगतपरानुभव इयत्ताकवलनाकर परमसहसामहितमहिमातेभ्य एवाति सूक्ष्मेभ्योपि विपुलफलानि कृशस्वादेभ्योपि समास्वादनीयविविधरसनिर्भराणि तदंतरांतराण्या दृशनिजांगाकृत्यखण्डानि जडादपि गोमयादजमुक्षुद्रप्राणि संघातममेयस्तायां संश्रयास्संजीवयामि जीवाजीवताहीनो महावाक्यालोचनीय परानन्दाद्वयनयोजात्यां पराभूतगतेरपि सपुरुषकायात् सततजडगतीनुत्पादयामि नखकेशादीन्किमपरब्रह्मापि पीलिकापर्यन्तं काःकारकला अमन्दं मन्दं मन्दं च न सङ्कलयामि सकलकलनाकवलीकारपरमबललालित्येन परमविभ्रममहाश्चर्यसंश्रयास्तथा हि नानाकाराहार्याहाररसान्नीरङ्गानसृज आकारं नयमि | विशेषाकर्षणीयलोहितपीतासितमितवपुषोघनी भूतमांसाकृतिं ता अपीहन्रवता विवरेण प्रकृतामासं चाहीनमेदोबलं नयामितदप्यहहनिजां उर्गतास्थिमञ्चयं वसाजन्मना च तं संजीवयामि तदपि शुकृतां प्रतिपादयामि सर्वात्मनिरिन्धनाद्याहुतिमपि जाठरमग्निं विलसत्सतततेजोबलाश्रयं सम्यक् सर्वान्तरतयापि संवरणभावविकलनिजाकारयोग्यमनपगं महाश्चर्याधो ज्वालाललितवित्तलपराकारं विवृणोमि परब्रंव्हाकारमिव सर्वाकारंनिराकारमनन्तानन्दकारणं मकारामतोसमनिरुपादानादिकारणसंभारं निखिलं कर्त्तुं ज्ञातुं संहर्तुं पालयितुं च सर्वदैवेशस्य १९अ) कार्यकारणादिकथा वृथा तथा तथा वितथबुद्ध्या अधीनैरेवोदिताननयः स्वातिगतगुणस्यापि सकलप्रबलगुणानापरमाश्रयस्य त्रिविधगुणगणना कुतूहलमततविराजमान महाराज्यस्याहमलमेक एव तं तम् कार्यगणं स्वस्वतन्त्रताया अखिलं समाकारयितुं विनैवकारणसंभारापेक्षणं सर्वेक्षणक्षणिकविभ्रम महामायाबलशालिकलांगेश्वर एवमस्यैवमे परमानंदथुसन्दोह सुविततोदिते खण्डे विभवे समासम्मोहविकले वर्तमानस्य जीवश्चराचरचेष्टा समर्थितं भावमापन्नस्सत्यनित्यसहजपरमानन्दप्रकाशविमर्शमयोपि स्वोपाहितोपाध्युपहितान्तर्करणावश्छिन्नताभिसंजीवनतया नाना तां प्रतिपन्नो नानानिसर्गंभजते विभागप्राणो यथा केचन महाजीवा ईशस्वरूपाः सर्वज्ञत्वादि गुणगणशालिवित्तलविपुलकलानन्तिता परजीवगणगणनास्सर्वमबलमवगणयन्तो विरतं रसन्ते | तयां तया चेष्टया तदेकतां गता ईव स्वात्मनि परेश्वर प्रत्यभिज्ञानहतोद्वेगतया सदासन्तुष्टा यथा चतुराननादयस्संकुचिता अप्यमेयमायाश्रयमास्पदं संश्रिता अन्तर्बाह्येपि सुविकलकल्पना ओङ्काराकारादि कलास्वरूपतया प्रथिताः प्रथममभिव्यक्तिमायाताः परमामृतपानाकुलतया विलीयमानप्रलया ईवपिण्डेषु जीवमनोवद्ध्यादिवत्केपि प्रथमं जायमाना अपि कथमपि संरक्षिताश्चनावतिष्ठन्ते चिरंश्वासानुभवमात्रविनाश्या यथा तत्क्षणलक्षणीया जातमात्रनरादिपिण्डोपगता आरुण्यमान्दवादयः केपि प्रथममपि जातं स्वरूपं भजतोपि प्रभवन्ति | चिरंस्थातुं जामदग्न्यादय इवाखिले देहेहतेपि तदस्थ्यादिवत्पराजितनाशौकोवर्त्तमानः केचनोपांश्वस्थित्याभिज्ञातुमुचिता अपिन ज्ञायन्तेनावलोक्यन्ते च यथा हृषीकाधिकाराच्छुरित पददिक्समीरादिदेवाः स्वान्तर्गतप्रदीप्तजठरानलादि वदभंगे स्वस्वपिण्डेवन्तमानाकारवक्काय कृदादिवश्च कोपिसततं लक्षाकाराः सुभासायुताश्च १९ब्) यथान्कादयः सोपरागान्ताश्च चक्षुरादि ज्ञानेन्द्रिय वत्केचन वाचनपाठादि चतुरान्किन्नरगन्धर्वादयो यथा वागादिवत्केचनाति भयानकाकारा यथा कूस्माण्ड भैरवादयो जगति क्रोधादिवत्केपि सुसोम्याकृतयो यथा देवादयोदया ज्ञानसन्तोषादिवत्केपि विलोकनपावना ब्राह्मणादयो यथा पिण्डेमुखादिवत्केप्यस्पृश्यतां गता यथा श्वपचादयस्स्वपायवादिवत्केपि ध्येयतयाख्याता यथा खुवाहाद्यो विशिष्टः सुरगणः स्वदेहेसुकृत बुद्ध्यादिवदपरेपि हेयपक्षे स्थिता यथोरगादयो देहे विविधरोग करणापथ्यवत्केपि च सुतरामुपादेयामहौषधि भेषजादयो यथा च स्वदेहे स्वतोङ्गी क्रियमाणारोग्यकारण सुपथ्यादिवत्केपि यथा पूर्वदेवादयस्स्वप्रभवकारणमेवद्विषन्तस्स्वप्रभूतरोगादि- वदपरेपि स्वाङ्गभूताः स्वाङ्गं संपीडयन्तोदन्तपालीवज्जिह्वादिहनने स्वसुतहिंसकविडालाद्या यथा न वरतं केचन जायमानावरमानाश्च यथा क्षुद्रजन्तवो निष्प्रमित केशनखादिवत् केचन रूपान्तरतयैवा कृतिमन्तो यथातृङ्गादयेतीत कालमस्वेत केशादि वदपरेपि निश्चयकारणं यथा विशेष जीवन्मुक्तो ज्ञात शिवः सर्वज्ञोरामप्रभृतिस्तत् तत्प्रत्ययकारणमत्यादिवदपाकृतविकल्पसंकल्पश्चैवमेते ममांशहीनस्यापि स्वांशभूता एकस्याप्यादायानेक रूपनिसर्गं परिस्फुरन्ति | कोप्येषां महेश्वरानुग्रहेणाव्ययितपशुपाशत्वादपगताज्ञान महानिशानिद्रोन्द्रोभूत्वा स्वयमेव पराभिभवति मूलाज्ञानमतीता स्वस्तत्सवितुर्वरेण्यं परमानन्दकारणं परमप्रकाशविमर्शमयं परसुकृतीचानुभवति | परमं महस्तदनुभवेन च संसाराख्या या आलविडाल स्वरूपाया दुराशापि शाचिकाया वृथैव स्वकलिता या पुनरवस्यमवशोनैवोपादत्ते कुतोपि केनापि केनापि सकलभय स केवल केवलचिन्मूर्तिराप्ताविनाशि २०अ) उपरतराखण्डमुख केवल सुसुद्धे तु कविततस्वपदसाम्राज्यविराजमानत्वादप हृत तत् तत् कलेवरादि कलनः सुस्वरूपमात्रावशिष्टो सूरादिखुरान्तं तन्मयविभ्रमतया व्यवहरन्नपि रमते परमेशता विषयी भूतस्तस्यैतस्यभिद्यते हृदयग्रन्थिच्छिद्यन्ते च सकलद्वापरादेहाद्यभिमानोद्रेकः स्वस्मिन्द्वयमिज्योनवः पुराणपुरुषोत्तमोविभाति | निजं निजं सकलगं सकलसकलं स्वैश्वर्यबलमनुभवितुं क्षीयन्ते च सकल कर्माणि मर्मव्यथावितथहेतूनि तत् क्षयेण च स एव शिवस् स एवविष्णुर्विलसत् परमशिवोपरापरपरयोगप्रभविष्णुस् स एव ब्रह्मा महामाया विकलीकृति चतुरस्वरूप स्वपदाधीश्वरस् स्व एवांति गतसकलादि कलनप्रबलकलाकलोहंता सिद्धिलालित्य हेतुं निर्हेतुं स्वंकलयन्कालतया तया प्रथितस् स एव च ज्ञानानन्द चन्द्रिकाभिनवोदया ह्लादनीयदर्शनश्चन्द्रस् स एवाति गतप्राणादिः प्राणस्यापि प्राणस् स एव तमस्तोमभ्रमकर महामोहहन्ता परमतरणिस् स एवाज्ञानेन्धनदहनान्तरा विष्कृतप्रलयरुचि ज्ञानप्रकाश स्वरूपोहविर्भूगत्तलविभवः स्वर्गोत्तमे परे पदे विराजमान महाराज्यस् स एव महेन्द्रस् स एव विहारजिगीषाव्यवहारद्युति स्तुति सन्तोष प्रमदगति साधनः परे देव विषयेभिषिक्तस् स एव तमेतं स्वात्मानं साक्षात्क्रूर्वत्रकोविवेकेनाङ्कोपि वित्तलमृढस्वरूपो विवेकस् स एव पशुसम्भ्रामकाद्भुतपाशव्यपपरागतया जयति परमेश्वरस्तस्य न संक्रामकत्वादिकथोत्क्रमणावक्रमण हेतुकावशिष्यतेनापि कापि भावनामितमतिसंमता विभाविताभवभवस्य संभवत्यस्यनाप्या खुयानादि विविधदेवगणोपासनासमास्वामितुं तन्मानसंसमति क्रान्तममत्वं सक्रमासविक्रमाभवन्ति | नापि कापि कथा तन्निसर्गं कथयतुं ईष्ठेनिजसहजानुभूत्या २०ब्) अहं ब्रह्मास्मि सर्व आत्मात्मभूस्संभूः प्रभुरादेश विरहित इत्यभिस्सृतवतोस्यकापि युक्तिर्गलित युक्ति वियुक्तिकलनस्य न युक्तानापि विचारणाकापि परविचाराति गत तत् तत्संचारस्य चित्तगोचरास्य चराचर स्वात्मभाव प्रचारस्य विशेषत इच्छास्पदं चरति नापि हतात्तर भावस्या स्यास्याद्यपघननिचय परिचय युतकायादिगर्वानाश्रयी भूतस्य नवं किमपि ध्यानं वोतुमोनमध्यमादि कलान्यायनयसमवाप्तिकारणमतीत ध्येयादिति भेदा वेदनस्यार्हति सन्तोषयितुं मनोनिरुपपदं साक्षात्कृतवतोनापि षोडशाधार धृतिमयी पञ्चकाशादिकान् भूत सङ्घस्तत् तद् गुणैस्संहृत्योद्धारयन्ती कापिधारणावधारणीया भवति तदेतत् नित्यं स ओं स्वः स्वात्मैव सत्यं ज्ञानमनन्तं ब्रह्मभवामीति सततं सर्वत्र निवारयतोस्य सर्वाधारं निराधारमाधाराधेयादि कथा विपुरं सुस्वभावं नापि चैतस्यकोपि जपाभ्यास प्रयासस्संयोजितं तृणकाननगिरि भूमेष्वपि निजपं जपं स्वभावनेन निखिलास्वपि कलासु नित्याया अहन्ताया भावयतो नाप्ये तस्य योगेन भावीसंयोगः स्वात्मप्रत्यभियोगभवानन्दपरितृप्तस्य सिद्ध्यसिद्धिसमभावनभावलक्षणा लक्षणीय योगप्रदीप्तस्याति गतयोगक्षेमस्यवियोगयोगायोग्यता प्रयोग्यवियोगवतोनापि गुहारण्याण्या लोकेखुरादिमूवान्तं गतलज्जतयादिगस्वरत्वेत्प्रेक्षारासभादि वर्तापितस्यैत तस्य कायादिकं सर्वं पदार्थं भस्मप्रायतया भावयत ओजसामहितस्य मृद्भस्मोद्धूलनादि चिन्तानित्यं मृद्भस्मवासपरसारसेयादिवन्नापि चास्य स्वभावेनैव सर्वं सहिष्णोर्व्यपगतप्रियाप्रिय भक्ष्याभक्ष्यभावकलनस्यशीतवातातपसहिष्णुत्वं भक्ष्याभक्ष्यसमत्वं च कोलादिवदुदीरित भ्रान्त्यानधीनस्यनाप्यस्यतृणतीराद्याहारेनत्वस्मानवा- गहनेकानने २१अ) वासममाश्वासो हरिणादिवत् पुरवनादि वासेसततविलसित स्वारामविश्रामशममयस्य त्यक्त स्वाहाहारनिराहारमनोहरणमनोहर मनमोद्राघीयस्सर्वपदार्थ संहरणाहारनित्य तृप्तस्यनाप्यस्य गङ्गादिधुनीतिरादिस्थान निवेशेन तत्पदाभिलाषुकत्वं सर्वतस्समदर्शनस्यभेकमीनादिक सततजलचरवचनंतस्वमहिमसंतृतस्य संवादयततपः सुमनः क्लेशापहःधीनिर्णयो वाजयावहो भवतिनाप्यस्य जातुचिदतीतमनोमति सन्तोषस्य केवलस्वात्मसात्कृत विश्वारामविभ्रमस्यनाप्यस्य वचनपाठादिषु स्वानन्दाविर्भावनं शुकशारिकादिवदतीतश्रवणादि विधेः सुकंठेङ्गितोद्भूतमाधुर्यं गानं त्रिविधरीत्या शंतोपान्तमध्यादि स्वरगणविचारी कृतं वास्य न मनोहरणाक्षमं भवति | न च न तु नं त्रिभावपरिसंस्कृतमाविष्कृत तत् तत्सकलाभिनयं नयत्यस्यमनः क्षणमपि सविनयमानन्दं करखुराद्यङ्ग परिस्पन्दमयं नापि चतुर्विधं प्रियं प्रत्येकदेवताया अतोद्यमस्य चित्ततुरगगति संहरणेन्तोदायते स्वयं पराजित तत् तत्पदार्थ कुतृष्णातोद सन्दोहस्यनैवास्य परमानन्दं सहजं गोचरीकर्तुं प्रभवन्ति | स्ववाचोन प्रसनाः यो यो धियो हितो मतोवासनसोवाचावासं प्रोक्तोर्थोनर्थ निवारकस्ससविशेषोनन्ताव्यर्थ सुन्दय एवदुस्य पदे समुपासित्तमीहमानास्सकलसुरवरादयोपि तेनैवाखिलतीर्थेषु निखिलतीक्येन स्नातं ते नैव महाथेंदिरारस्य तराक्रान्ता स एवाग्रगण्यो महामुनिषु स एव गद्यपद्यगुंफित सकलप्रबन्धविधातासोन्ततो नाना कथाभिस्संकीर्त्यते तन्नाम कीन्तने नैव पवित्रीकृतो भक्तजनो भवति | तेनैव समुमेरु प्रभृतिशैलामहीदानी कृता स सप्तसागरा स एव राजसूयादीन्य २१ब्) ज्ञानाखिलान् कृत्वा सकल सुरान्मपितॄन्संतन्मयितुं प्रभुसुस्यैवावलोकनेनदीनजनानां परमाह्लादजननं स एव सकलाशास्य फलदान चतुरचिन्तामणिः श्राधादिषु तद्भोजनेनैव पितृणां महागौरवादि नरकेभ्य तद्धरणं अस्यैव रुचिर तत् तन्नयविनेतृत्वमयमेव च खलुनिजनिज तत् तल्लोभक्षोभितान्तर्करणानां परमतृप्तिकारकस्तस्यैव सकल कुलानिपवित्राणि स एव न वीनबंधुरखिलं चिन्ताविकलानां निर्बलानां मुहुर्मुहुस् सन्तोष वितरणपरायणस् स एव सदोदित परयुक्तियुत सहज ज्ञानोपदेष्टा स एव संरम्भ भ्रमितमतीनां परमरंस्थैर्यकर्ता ते नैव सर्वे मोहान्धा ज्योतिरधिगतवन्तः सन्तो सन्तोपि सन्तो भवन्ति | भव पुनरुद्भववन्ध्यास् स एवत्रैलोक्यपूजनीयास्पदं ते नैव विश्व विश्वम्भरापि विश्वम्भर समानु भावेन पुण्यवती तस्यैव परमतत्व वित्तमस्यमातृपिपित्रादयो धन्यतमास् स एवतेषु तेष्वागमेषु पुराणनरवरतया सतत विख्यातमहितमहिम संभृतस्तस्य क्रमाक्रमभ्रमं विरहितः स्वात्मारामविश्राम एव संक्रामक्रमः सकलदूरान्तिक भावना हीनस्य भावेषु सर्वेषु वित्तलस्वात्मभावनमेव पदे पदेस्य भावनाति विस्तीर्णात्ममतेन्न चर्चैवपरिस्फुरति सश्चर्चासंन्यस्त सकल कर्मणस्तस्य नैष्कर्म्यमेव परात्परतरं सत्कर्मकरणं विध्वस्तयसकामादि भीतिनिवहस्यास्य स्वाहंता निभालनैव निरहंभावः स्वानुभूत्या अनुसन्धानमेवास्य सर्वभावाभावविस्मरणं शब्दातिगामि परार्थ स्फुरणमेव संस्मृतिस्तस्य च मनोमत्यादि विलयनमेव निजसहजसुमतिः सशेषं निश्शेषसमयानाकलनमेवसुसमय तत्पत्यादियुतकार्यानादर २२अ) एव सुकृतित्वं स्वर्गादि गत्या अनपेक्षैव सद्गतिस्तस्य वगलितरोषप्रीतिसंप्रीतस्या किञ्चिश्चिन्तनमेव कीर्तनं नवनव भावाभासेषु चौदासीन्यमेवास्य महालाभो तीता पर चर्चकस्यापि बीजयुगस्य स महानन्दं पुनज्पुनस्तस्यामेव परोदयवन्यां मातृकायां स्वपद एवसमनुसन्धान परतया समावर्तनमेवा विच्छिन्न प्रवाहरसनिर्भरो जपोमानसोपांशुनिगदाति गतः परबोधविषदस्सदाभिनवः सकलग्राह्यग्राहकमयलोक पथ समालौकालोचनीय परानन्दोदय एवास्य निर्विकल्पसमाधि विधिरस्य | यत्र यत्र प्व?स्वविषयं समर्तिनश्फत? एवमनसोनिराश्रयः साश्रयो वा संकेतस्तत्रैव तत्रैवधियोपि धृतिरेव घनतराभ्युत्थान संस्थानहीनाधारणास्या ईगित विभ्रमत्वमेव च प्रत्याहारस् संहरण प्रहरण हीनभावलक्षण रसासारमयस्सर्वत्र स्वधारणानिवारवत्यानिजाया अनुभूतेः कथंचिदपि संगतायास्तांस्तानशेषान् अविशेषान्विशेषान् स्वात्माहं भावनायामेव शेषांस्तत् तत् समय सामयिकतया स्वस्मिन्द्वयं कल्पना हीनार्कल्पयतोस्य परमरमणीय विज्ञातृभावपूरणमयोनाश्रित परतत्वा कुम्भनरूपस्मतृष्णताति गत्या च सर्वस्यापि द्वैतस्य पृथक्ताया असनलक्षणश्च त्रिविधः प्राणाया सोम्य च यमकामभ्रमक्लमादीनां नियम एव निजान्तर्नर्ममयोनियमस् सर्वत्र समरसतासंरसनमेवास्य यमस्सिद्ध्यसिद्धि व्यतिगमाभिजातपरज्ञप्ति सिद्ध्या आदरेणैव सर्वसिद्धिज्प्रसिद्धास्य स्वांगेप्सित परिस्पन्दनमेव स्वाभिमतदेव वन्दनमस्यत्र कुत्र च न गमनमेवरीतिः प्रदक्षिणस्य स्वरमणमेव स्वाभिमतो वहिर्यागस्तत् पदासादनमेव २२ब्) अन्तर्यजनं सततोच्छलितं स्वभीष्ट कथानिचय एवास्य विविधस्तुतिपाठाद्यभिनिवेशः स्वेच्छयासौनादर एवोत्तमविश्राममयो लयः सर्वदृश्यस्य परदृष्टावेव स्वविषयीकरणमेवास्य सद् दर्शनं नवैन्नवैस्स्वविलासैरेव यत्र तत्र यथा तथा भावाभावानामपेक्षैवनैरपेक्ष्यं तेषु तेषु विषदाविषदेषु पदेषुनिर्विशेषगतिरेवास्य परोविशेषज्परमविदुषोस्य हसनरोदननर्तनादि भावा एव मूर्छाविशेषा अनन्तविश्वगतानां अनन्तभावानामनन्त भाषाभितृवं नवमनन्तनाम्नां प्रक्रमणमेवानन्त सहस्रनामविलासः | सर्वासां तासां तासां बाह्यानामबाह्यानां च पदार्थ ततीनामेकत्रानुसन्धानाद्यमवर्तैवास्योत्तमशान्तिरस्य चापरिमितस्तिमित हर्षस्यत्वं पदेन तत्पदेन वा परिहृतवाश्येनान्यत्र लक्ष्यार्थे संगृहीतेन स्वात्म बोधश्छविविषदोमिपद एव संहार एकोदयस्सदोदिताः स्वयं सिद्धाश्च चिदग्नौ सर्वेन्द्रिय विषया हुती जुह्वतस्सतततोषदायिनीरयत्न निष्पन्नो नित्य होमोस्य च तेषां तेषाम पूर्वविषयाणामकृत्त्रिमसमरसा स्वादनेनैव कास्यादि होमप्रकिर्या तत् तद्भावाभावानां केवल स्वात्मपदे समर्पणमेवास्त संकल्पं स्वात्म समर्पण पदानियमादि संभ्रमाणामपहरणमेवोपहारो वेदान्तमयी सहजामतिरजुगुप्सितोत्तमसिद्धिरेतस्य महेश्वराहं २३अ) भाव एव महामाहेश्वरत्वं सरसरं संस्फुरितं परितस्स्वतो विभाति | तरां | सर्वदानाश्रितत्वमेव तुर्यावस्थाया ओजः कलनापरलालित्य विशालिबलनिर्मलतरायमेव च तरति शोकमात्मविद्ब्रह्मवेद ब्रह्मैव भवति नैव तस्वकृतेनार्थो ना कृतेनेहकश्च न केवलं व्यवहार प्रवृत्तिमपि भजंल्लोकानुग्रहायैव विहरति विगलित प्रवृत्तिजन्यकर्मादि बन्धनिर्बन्धः खलुपरपदाधि गमेन जात्वप्ययं माया पिशाचिकाया अधीनतां भजतेयमेव प्रारब्धादि क्षये सममेवा विगानात्म ज्ञानसंपदिलब्धायां तत्क्षणं पिण्डापाते विदेह मुक्त ईत्युदितज्परमेश्वरस्य सहजनिजात्मनोनिराकारं सर्वाकारं कारकादिसमुश्चयविकलं परमाकारं सर्वाग्रेसरं भजते निखिलाकारमुक्तः किञ्चित् प्रारब्धशेषे तु सर्वगोपि देहादि व्यवहारेण सर्वदृश्य संस्पर्शं भजमानोपि ब्रह्मस्वरूप एव जीवन्मुक्त इत्युदीर्यते परानन्दप्रायसञ्जीवनविशेषः स्वयं सर्वावस्था स्वविगलित भेदतया सर्वदा विनिर्मुक्त एव परांश्च मोचयितुं क्षमते स्वविषदे प?दर्शनादिनास एष एव रामकृष्णादिवत् कर्मकृतावप्यलिप्त एव पूर्वविहित तत् तत् क्रियाया अज्ञान कालभाविताया ज्ञानेनलयान्वयदर्शनाज्ज्ञाने लब्धे पुनः सर्वं सदा ब्रह्मस्वरूपमेवपश्यतो विधीयमानाया अपिसंयोजनवियोजन रूपायाः क्रियायाः फलाभावाद्वन्ध्यासुरतवत्परिज्ञातस्य काकोदरस्य चित्रलिखितस्य तदाकारलीलावतोपि भयजननाक्षमवत्ववश्च | पतिताया तथैवरज्ज्वामपि कथं चिद्द्विजिह्वभ्रान्ति विकलायां | २३ब्) पुनस्तद्भयस्या जननवश्च नैवस्य? प्राणाः प्राणा इव न मनोवद्ध्यादिकं च तद्वन्नेन्द्रियाणीन्द्रिय वन्नवादेहोदेह वदवतिष्ठन्तेयं जीवन्मुक्तो निजशरीरादि खनौमग्नोपि तदीशतयानमग्न इव समना अपि निर्मना ईव सर्वव्यवहार भ्रममाणोपि स्वलीलामात्र परोपि परेश्वर इवविराजते निखिलं खल्विदं शस्यं तस्याशस्यं वाप्युदितहर्षमेव शिष्टोशिष्टो वा तस्य समः सदयोवावतिष्ठते निन्दयोवापि न तस्यमेलनामेलन चिन्ताचित्तं बोधयितुं क्षमत इहापरत्र वानकस्यापि विषयस्यस्पृहा | सुसमयक्कस्तस्य | समयो वा ज्ञातापि स ज्ञातृज्ञेयज्ञानभावानभिज्ञः स परमप्रमातापि प्रमाणादि प्रामाण्याभिमानहीनमानः मयो वा ज्ञातापि स ज्ञातृज्ञेय ज्ञानभावा न भिज्ञः स परमप्रमातापि प्रमाणादि प्रामाण्याभिमान हीनमानः स सकल विद्याबलशाल्यपि वालिश इव व्यवहरति | स सदातीत नियतिरपि तत् तन्नियति ख?लीकृत स वर्णाश्रमाभिमान हीनोपि तत् तदाचारत्रमैरसंगत्या अखिलाचारक्रिया आचरति | स एष सदोदितहर्ष इदं ब्रह्मैव जनस्या बहिर्बहिरपि युक्तदृष्ट्यापश्यति भावोभावे वशिष्टमयं ज्ञातपरमविषयोपि समतीतविषयवासनो निश्शेषान् भावान्क ऋहान्तःर्फानितसिता गुडखण्डाद्यानि क्षुरसमयानि वपश्यन् सर्वत्रमापुर्यमेवानु भवति | तस्य साम्राज्यं तृणोपमं काञ्चनादिकं च लोष्ठवदवभाति | स जातं मृतं च ज्ञात विशेषोपि निर्विशेष तयास्सरति सर्वत्र? पतितोत्थित इवदुर्भारनिष्क्रान्त इव सर्वं विस्मयमानोवलोकते | किं तद्भवति भूतं वा जगति भावि वा यदस्य रञ्जयितुं मनोनिस्संकल्प विकल्पं क्षमते तथापि सर्वत्रानु रक्त मनोविकल्पः इव लालयति स्वं न तस्य परो निजो वा कश्चन सकलं ब्रह्मनेत्रेणेव २४अ) पश्यतो न कल्पना न वातोषर्कवलयति स्वंमितो न वः पुराणो वामितो न विशिष्ये त मिततां नवतां पुराणतां अमिततां वा ज्ञापयितुं तमलौकिक सत्क्रम समीचीना क्रमनिसर्गं न तस्य त्रिविष्टपरौरवादिष्वीहानीहे सतत निरीहस्यापि लोका वलोकनीये हस्य स सर्वं विनाहास्य निमित्तं हसति सर्वं चा पद्गतमिवरोदितिनिविड स्वबोधानुभव विभ्रमसततपरितृप्तः सगलित शत्रुमित्रकलनोपि कंचन मित्रममित्रं च खेलाया कलयति नागारे वा गहने वा विषदोदये राज्ये वा स्थिरधीर्भवति सदा सर्वत्र च स्थिर धीरे वा खिल या धियाखिलयति निखिलमनेलमूक इव वागीश्वरी पतिरपि परश्रुतौपीहना नानातीत गतिरपि सर्वभावान् नाना तयेवाभिमनुते वाभिमनुते स्वानन्द रसघूर्णित इव नैव कुतश्चनोन्मीलयति नेत्रे सर्वमेतदवलोकयति च मन्दं मंदं निमीलित नेत्र एव न किञ्चिद्विधातुं क्षमोपि समतीत विधीयमानोपि सर्वं विधत्ते सर्वश्रवणा गोचरोपि श्रुतिपथं नयत्यखिलं विगतगमागमत्रमोपि यत्र तत्र यान्ति किमप्यभिधत्ते विगताभिप्रायोपि वागीश ईव शतानन्दश्चतुराननो निरस्तबालभावश्च सङ्कर ईव ससर्वमङ्गलो मृत्युञ्जयस् सकलसंहारकारकोपि विष्णुरिव हृषिकेशतया प्रथितव्कृपया जनान्दनस्सतत विलसत् परम श्रीकोपि स | ईन्द्र ईव निविडतेजा अव्यय पद प्रतिष्ठो वृद्ध श्रवास्स्वमैन्द्रं निसर्गं सर्वत्रानुभावयंश्च सननास्तिकोपि कर्मफलाननु सन्धाता सोमौ विनायकोपि विनायक ईव द्वैताद्वैत विघ्न विनायकः सोयं कुमार ईव कुमार २४ब्) ईह परत्रचायं स्थितो न परत्रेह च स्थितः स पावकोपि न कृष्ण वत्सा कृष्णगतिश्च स सदागतिरपि न प्राणाभिमानीस पुण्यजने श्वरोपि राजराजोपि नुक्त वेरस्सकृतान्तोपि संयमनपरोपि समेश्व भावे वर्तमानोपि न परेतराजस्सनराक्षसपतिरपि महानिशाचरस् सकलरसराजोपि विरहितपाशस् स एवागण्यपुण्यधनोपि विगलित पुण्यपुण्यस् स परकला च शुरपि नग्णौस् सर्वमखोपि गलितजनसख्यः स समन्तभद्रोपि न तथा गतः कर्तापि क्रिया न पिंडीकृत क्रियाफलस् स एवगीष्पतिर्गुरुरपि किंचन नगृणान्तिनागृणाति च स सोम्यैरसोस्यैश्च भावैरस्पृश्योपि सदासोम्यः स ब्रह्मास्म्यहमितिज्ञ आज्ञा अतीत्याखेलति सव्यपेतलयोपि विलसल्लयः सलङ्घित प्रकृतिरपि सन्निसर्गस्सक्षीणाशयोपि विषदाशयस् स शरीराभिमानहीनोपि श्रितपरमनिराकाराकारोवारिताहङ्कारोपि विलसित पराहन्तस्समुदाविलसितोपि गतविभागमयस्फुरित्तस्सपरम प्रज्ञोपि न प्राज्ञस्सकलोपि निष्कलस्सविराडपि न विराडभिमानीमपरतेजा अपि न तैजसोनापि स्वप्नविधुरः स परसंख्योपि तुरीयपदे विश्रान्तो दूरीकृतकम्पोपि ज्ञात स्वस्पन्दः कीदृगयमिति न केनापि कथमपि ज्ञातुं शकृतेयं न मृतस् स भवति न तस्य पुनर्जन्माशङ्कसनार्वाङ्न? प्राङ्नतिर्यङ्नोर्ध्वं नाधोनमध्ये स्फुरति मोहंसनाहं सोस्तिसनास्त्युत्तमः स मध्यमः स सोधमापि सनोत्तमो न मध्यमो नाधमो वास एव दक्षिणेन सदक्षिणोपि स एव तत् तरेण सतत्तरोपि सोनुत्तरोपि स एव पूर्वेण पूर्वोपि सोप्य पूर्वोपि हितदिगपि सर्वदृक्सर्वदिगर्थाधीशश्च सनपश्चिमगतिरपि पश्चिमेनापि स एव | स एवा धरतोनाधरोपि स एवान्नर्ध्वोपि सर्वोर्ध्वे स एवा कथनीय परममहिमापि सर्वकथानां सङ्कथा अपरः परः कर्ता स एव सकलनीति विदामपि विनेता तथा न मृत्योस्सविभेति न वा भूतान्नवास्यास्ति पिशा च डाकिनी प्रभृतिभ्यः परिभवोनकापि तस्य तत्तद्दुर्गतिर्गतिमपगमयितुं शक्ताशक्तोपरायां स्वयं स्वरसेन समासक्त हृदयस्यकोवादेशस्तस्य सर्वसमादेशनाधिकारिणो निजविभवानुभावकस्यकेवानुभावं ब्रूयुः स एव विशेषतो निजेनानु भूतानां स्वानुभावानां सकलजगद्विदितानां वक्त्रा स गलित भ्रम एव सर्वविभ्रमकारी स एवाद्वितीयः केवलनिज ख्यात्या आप्ततनकोपि (+रस्ससर्व संअतस्तन्मतं सर्वमतापनीतं ज्ञातुं क आप्ता च स्वयं कोपि) २५अ) वा तत्कलाया अन्ये सर्वेपि मृत्यु प्रमुखा भयमादधति स एव तत् तदानन्दकेलिकया कारणं विगतकारणं सर्वकारणं स्वपदं तेनैव सर्वतोपि रमणीयतरं स एव तत् तद्वरवरवितरण क्षमः पृथ्व्यादि तत्वातीतोपि स एव तत् तत् तत्वसमुत्पत्ति प्रध्वंससंयोजन वियोजन प्रयोजकः किमपरं तदनुभूतिं स एव तादृग्वाकोपि परो ज्ञातु मलमहेश्चरणमहिरिवेत्येव मयं जीवन्मुक्तो विदित परमसहजनिजविषदविबलकलः प्रथमानुभवक्षणे विमोह सन्धारणो नन प्राप्तमिव सदानुगतमपि स्वयमपाकृतमिव व्यतीतसकलसंकल्पं चिरदृष्टं प्रियमित्रमिव स्वं | अहोमूर्ति स्वरूपं परिविलसित परमानन्दस्पन्दबहलमाप्नोति धातु कलये व साक्षात्कृत्य वित्तलस्य केवलस्य स्वरूपस्य रूपातीतस्य विषयं स्वात्म महेश्वरं स्तौती व द्वितीयस्यां स्वस्यामपि दृग्दिशिसमाहूतमिवतया तया संज्ञया विज्ञानसंस्फुरणलक्षणया यथा || नमस्तुभ्यं मदेकाय त्वदेकाय च मे नमः | तुभ्यं मह्यं सदैकस् सायनेकस्मै नमोनमः || नमोगुण प्रहारेण गुणिने निर्गुणायते | गुण्यगुण्यकलातीत परमशक्तिगुणाय च || अतत्वतत्वरूपाय तत्वातीतायते नमः | तत्वं पदे पीतरत्र साक्षात् तत्वमयाय च || त्वां विहायनमस्यामि कं परं नास्ति मे परः | परो परो वा तेनास्ति | तं परं त्वां नमाम्यमुम् || शक्तिदृष्ट्या पराशक्ति शिवदृष्ट्या तदेककः | उभेते जीवदृष्ट्या च त्वमेवोद्दीपितात्मकः | त्वामेवामुमुपाश्रित्य याति यत्रय ईश्वर | तत्र तस्य त्वमेवास्य मोहं मोहं तयासि हि | भासित्वमहमीशान मोहं भासित्वमात्मना | मनागपि न भेदोनौ स्वदिशोरदिशोरपि | जातावन्तमहोकालं क्वासीः सर्वगतोपि मे | वलितर्केन कस्मैवा ललितर्केन वाक्ततः || अस्य स्पृष्टोसि स्पृष्टोसि दृष्टीः काः कानपश्यसि | २५ब्) द्रष्ट्यदर्शन दृश्यां नामहंतमहमोगुरुः || यद्विजानामि तत्रामि यन्नजानामि तत्र च | ज्ञातात्वमेव न ज्ञान ज्ञेय ज्ञात्रविकल्पनः || प्रियादपि प्रियः प्राणज्प्राणस्यापि य आत्मनः | स्वात्मापि सकथं नाथ विस्मृतोधी विलोभितः | प्रज्ञादिकं भवद्भासा भासितं भासते किल | सत्वं कथं तत्र भाया भासित तत्रैव च स्वभः || महत्तेकौतुकं हीदं परेशान विराजते | स्वलीलोपहित स्वात्मा स्वस्य स्वापिहितोसि यत् || ईहत्वमपरत्रेव पत्रेहेववेहसे | न परत्रनेव हास्य स्वस्या स्वस्यसनो नमः | यातासायातनामाया मेयमानादिमानिनी | स्वच्छन्दस् स प्रमातास्मि शिवाश्शिष्टोविशिष्टभाः || प्रथितोसि सदा शम्भुः कथं न प्रथमे प्रथः | प्रथमे विभवे नाथ विभवेन भवेन मे || सर्वत्र सर्वदा सार्वस्सर्वतस् सर्वथापि सः | स एव सनवेवासि नासिवासिननासि हे || परमस्त्वं परेणापि नापरेणापि वा परः | न परोनापरोवापि स्वात्मनः स्वात्मनासिसः || व्याप्यव्याप्यमिदं व्याप्त्याप्यति व्याप्त्यातदन्यथा | अपि व्यापक गत्यैव व्यापको व्याप्य एव नः || कथा संकथनीयोपि कथं नाथ न कथ्यमे | अकथाभिर्कथाभिस्त्व मतुलेच्छो निजेच्छया || विमले न स्वरूपेण केवले न परेण च | न लक्ष्यसेलसल्लक्ष्यकान्तिरप्यति लक्षणः || पराशक्तिर्विनानेन तव रूपेण कीदृशी | कीदृशी सहतेनापि नास्ति वास्ति च कीदृशी || कथं मोहोभवद्रूप विहीनः शङ्करोह्यते | कथं वा देवदेवेशं सहितस्तेनवोह्यते || २६अ) अर्थानां निजसत्तायाः भवतस्सत्तयैव सा | अ?नर्थानां च तद्भासि देवः स्वेन सदैककः || मातास्ति चेत्प्रसां वेत्ति न प्रसांवेत्ति चेन्नसः | मानसेय प्रमाभान विहीनोप्यसि भास्यहो || न स्वात्मनः प्रमातासि न प्रमाता परस्य च | पर एवासितन्नित्यं प्रमाताकोप्यमेयवित् || अणुभ्योपि पराणुस्त्वं महद्भ्योपि महानपि | परमः परमेभ्योपि न परोनापरज्परः || सदैव सम्मुखीनोपि न विनानुग्रहन्निजात् | उपादानं निमित्तं च शिवोलिपिरिवाञ्ज्यते || कदर्थकल्पनाभिस्त्वं खिद्यसे किं मम प्रभो | खिद्यसेनापि किंवेश कथैवैषास्ति खेददा || मयामयैव पश्यामि त्वां मां शिवमनी दृशं | ईदृशं कीदृशं वापि न वृद्धित्रापिते क्षतिः || अपुण्यमेकतः कर्म परतः पुण्यमेव तत् | तव पुण्यमपुण्यं वा नस्तोद्वेत विधाविदः || पावनानां पराणां च पावनस्य महेशितुः | कथं गतिस्सुखेदुव्खे समोहेपि विकर्मणः || यत्रोत्तरापि मीमांसा मीमांसायैनमीयते | विस्मिता विभवे तस्य तत् पूर्वा प्रभवेत् कथम् || धिषणाकारणं स्वीयं कथं विज्ञत्तमीहते | निःश्रेय संकथं नाथ नेहते चेदपि स्वतः | अलौकिक महानन्द स्पन्दमान्द्रोदया यते | स्वत आदिमनादिं च वेदित्रे विभवे नमः || इहा सुत्रापि सर्वत्र लक्ष्यालक्ष्य कलाजुषे | लक्ष्यायैकत्वंमेकस्मै तत्र साख्युस्सखे नमः || जीवाहङ्कारचित्तादि निविडभ्रमकाननम् | खड्गावत् खण्डयित्रेस्मै सर्वमारायते नमः || कल्पना न कथं नाथ भवस्सृष्ट्या विनश्यति | क्वापि साकापि सास्तीति सा कथंचन वर्धते || तवाहो इयती वृद्धिः सम्यक् शङ्कर वर्धते | २६ब्) यत्र वृद्धिः क्षयस्यापि वर्धनायैव वर्धते || तास्ताविनिः सरन्तीह स्मृतयो यत्स्मृति प्रथाः | कालांस्त्रीन्वन्तमानेय एव पश्यतितंनु सः || वाचि चित्ते मतौ सर्वं इदं निस्सङ्करभ्रमम् | य आदत्ते कृयायां च तस्सैते कृतिने नमः || कश्चित् कांश्चित् क्वचित् स्वात्मा स्वात्मनस्स्वात्मनि प्रभुः | अकालकल्पनाकारव्कलयन् सजयत्ययम् || कयाकयादृशाद्रष्ट्य दृश्यभेदान्त दर्शनम् | पश्यामि न परं नाथं श्रिया भातं तया स्वया || या या दृशो विभोभान्ति वित्तल स्वदृशस्तव | बलनिर्बल खेलेन तास्त्वयैवविभासिताः | ता ईहैव प्रयुज्यन्ते शैलूषस्येव भूमिकाः | नर्मणे तव दाक्षिण्य तिरोहित परश्रियः || यासुयास्विह भूमीषु तिरोधत्सेय तोयतः | स्वं वपुस्ता सुतास्वीश मम भासित तस्ततः | तिरोधानायते भाति दाक्षिण्यं परमाद्भूतम् | मनस्यं सेपिते व्यक्त्यै तदेवात्मा द्वयं विभो || कथं कथं तिरोधाय स्थितं त्वां न नमामि किम् | कथं कथं च ते व्यक्ति परं सां न नमामि किम् || सोमो?त्यनुत्तराद्वैत विदितं वेद्यमीश्वरम् | परं शर्मे?हकश्चित्वां प्रत्यभिज्ञायनाप्नुयात् || सर्वदृष्टिसु दृष्टान्तं परमानुग्रहात् तव | सर्वसारमयं नौमि विष्णुत्वां विश्वमीश्वरम् || न भीराजादितो यस्य मुखं भावत्रयेपि यः | व्यभिचारीनयः क्वापि नौमितं त्वां महाधनम् || कारं कारं नमस्कारं स्वात्म जातायते कथम् | भेदभेद कृतेनैव तुष्यामिव शवर्तिने || वित्तलं बलमाश्रित्य शालिनीभिः स्वशक्तिभिः | आत्मानमद्वयं नौमि महाकायं महेश्वरम् || शक्तव्कर्मण्यपि ज्ञाने तत्र तत्र विभाति वा | चोदना रहितोयम्त्वा मिन्द्रलिङ्गं नमामितम् || प्राणादिभिस्स्वविज्ञानैज्?प्राणयन्तं जडं जगत् | २७अ) स्वशक्त्वस्त महामोहं महाप्राणेश्वरं नुमः | स्वसङ्कल्प विकल्पभ्यां कल्पयन्तमिदं मुहुः | निरुपाद संभारं नौमितं मानसेश्वरम् || क्षणे क्षणे कृतानन्दं कृतिभिज्पञ्चभिश्शिवम् | विज्ञातं नौमिक्षणिकं विज्ञानमिति सौगतैः | सदा पूर्णोपि पूर्णत्वात् परां प्रकृतिमप्यतः | अधिगत्य स्थितोयस्त्वां महाशून्यं नमामितम् || परं वेद्यं न यस्यास्ति कुतोयं परवेदकः | वेद्यवेदकता हीनं श्रय अज्ञममुंविभुम् || नैस्कर्म्यं किलयत्रास्ति कर्मकर्तृ प्रथां विना | नमामि कर्मनासास्तं महाकर्मेश्वरं शिवम् || वेलायस्य स्ववेलैव लीलया भातिकोप्ययम् | कालादिकलनाहीन वलव्कालेश्वरोजयी || निवर्तते निजान्नैव पञ्चकृत्यमयात् कृतात् | यो न कर्तापि कर्तेव स जयत्येक ईश्वरः || स्वयमादाय यो नाना भोक्तृभोग्यकलाबलम् | लीलां तनोतितं नौमि महाभोक्तारमद्वयम् | प्रकृतिर्यस्य तत्वेषु विवृत्यपरिणासिनी | प्रकृतस्य परे तत्वे तं महापुरुषं नु सः || क्लेशादिकलनां हित्वा महिम्नायो निजेन ताः | भासयत्यखिला वृत्ती सर्वज्ञं तं? नु सश्शिवम् || यस्मिञ्जगद्वसत्येत द्योदीव्यति तथा तथा | वासुदेवं नमाम्येनं तं गुरूणां गुरुं परम् || पतिः पशुसमूहस्य पालयत्येन मेव यः | जुहुश्चिदग्नोतद् वृत्ती तृस्येनं?बलशालिनम् || यदाश्रयेण शब्दानामेकार्थ परता पृथक् | ईडानां तमहं नित्यं गायामि सहजं ध्वनिम् || भातिमायीय कलना हीनोयोपि सदाकिल | मायीवननिवर्तन्ते यं प्राप्य च परं पदम् || नौमि सन्दीप्य संन्दीप्य दृष्टि सृष्टि विकल्पनाः | निर्विकल्पकलाभिज्ञं खेलयन्तं निजं जनम् || अतीव सन्निकृष्टोपि सततं विभुरद्वयः | विप्रकृष्टो यथा भाति यस्तंनौमि स्वभा? प्रभम् || २७ब्) जयपूर्णाति पूर्णेश पूर्णशून्यभिदातिग | नित्यशून्याति शून्यापि जयस्वात्मन्महेश्वर || अयं भवोभवोभाति भवद् भक्त्याति भव्यताम् | भूतानां विपरीतानां अभव्यानां सदुर्भवः || समतेयं विलीयेत स्वाहन्तायां भ्रमव्ययात् | ज्ञप्तये कारणं तस्या अनुग्रह इहैककः || किमन्यन्नाद्य पश्यामि किमन्यन्नशृणोमि वा | लीनान्यता त्वहं द्रष्टा श्रोता चार्थ प्रथां विना || तमहं सहजं शान्तं प्रपन्नो बलसद्वयम् | येनेदं लीलया द्रष्टु राप्यसस्तं गतं मम || जयस्वमहिमव्याप्त महिमन्महतां महन् | अणुतातनुताकर्त जयाजीयो गुणस्वणो || शब्देन नोश्यमेकेन सब्देकस्मिन्न भाससे | नते कः कृतये शब्दस्तत्परो महिमानते || असंख्य संख्याया सङ्ख्यासासंख्यापि नते विभोः | सर्व सङ्ख्यापि संख्याते जीयास्त्वं संख्ययोज्झितः | नमः परपरेभ्योपि परस्मै परमायते | अपरेभ्योपि भवते परस्मा अपराय च || सर्वशासनशस्याय सर्वशासनशासिने | शासनाधिक तत्वाय नमस्तत्वाधिकैकक || जयति स्वप्रभाभूत भूताधिललित प्रथः | प्रथाप्रथाकरः स्वामी सर्वसर्व पथाप्रथः || अखिलं किं त्वदन्यत्तद्यद्व्याप्यास्यखिलो विभुः | खिलं भातिजगत् किं त्व दखिला पारवैभवं || न वाचा युज्यमेवक्तुं नमन्तुं मनसापि हि | वक्तुं सन्तुं तथा पीहाभिदां हित्वापि युज्यसे || नमस्सकल कल्याण कल्याणाय शिवात्मने | यत्रक्षिप्तो जगद्धातुः कल्याणं रसवद्भवेत् || सततं जयति स्वात्मा तां तां यातो हितां दशाम् | अपियोस्ति परात्मैव दोलेव भ्रमनिर्भ्रमः || २८अ) निजया लीलया खेलं ल्लोलालोलवलत्प्रभः | परां कांचिन्दुदं श्रित्वा जयति स्वात्म शङ्करः || अद्वयारुन्द सन्दोहं भावयन्द्वैतसंश्रयात् | अनल्पविभवव्कोपि परमेशो जयत्ययम् || प्रभोगिरीश वाश्योसि कस्य शास्त्रस्य न स्वयम् | तिरस्कृत्याखिलं वाश्यं लक्ष्योप्यमिनकस्य च || वाश्यं लक्ष्यं च ते भाति लक्ष्यं वाश्यमपीह तत् | निविड प्रज्ञतां नं तं वाश्यं लक्ष्यं च तेन हि || वेगस्तु मनसो या वांस्तां वास्तस्य हि स भ्रमः | महतेन कथं बुद्ध्या अत्रेशे निर्भ्रमे गतिः || निश्चिनोति नधीः किञ्चिन् मनसो भ्रमणं विना | न भ्रमस्त्वयि तस्यातो गुण ईशे तयोन्न हि || यथा यथा यत्र यत्र चित्तं प्रज्ञा च भासते | ईशभानं तवै वै तत् तत्र तत्र तथा तथा || तत्कृतं किं न यत्रासि यत्र वासिन तत्कृतम् | अकृतं सत्कृतं किं वा कृतमेव स्वयं कृतम् || प्रकाशैक घनस्यास्य निजानंद स यस्य च | रूपस्य करणं किं स्वित्किंतु वा करणं न किम् || भासिप्रभो सजूस्स्वेन स्वातन्त्र्येण सदायदि | यदि वा पारतन्त्र्येण किं कृतं तर्हि वा कृतम् || क्षणं क्षणमनुध्यायन् समत्वं सर्वतोपि ते | सर्वै भवं नमाम्यत्र मयित्वयि बले तते | आनन्दं ते न्जं रूपं भिदात्र प्रथते कथम् | तदन्यायदिसै तस्या आश्रयः कोविलक्षणः || यदि सापि स्वरूपेण सापित्वं तर्हिमानसा | त्वमेवैकोस्य तस्मातु केनकस्मैविकल्पिता || निपीडत्व त्विदानन्द परामृतविघूर्णितः | पश्यती शपनत्वां सां भिदां कुत्र कथं कुतः || जगति क्षीवतामेत्य विस्मरत्यन्यभावनाम् | स्व चंद्रचन्द्रिका पान क्षीवोयं किं पुनः स्मरेत् || अहो इदं ते माहात्म्यं स्वचैतन्यं सदास्फुरत् | न जानासीति वा चैव दर्शयस्यात्मदीनताम् || २८ब्) पाश्येयं कापि चेन्माया तां पालयसि किं सुधा | अज्ञातुमथवा ज्ञातुं स्वस्या अस्या निजात्मताम् || किन्तु जानामि मायेयं भिन्नानाम्नैव केनचित् | तेनापि नैव भिन्नेयं स्वात्मैव स्वात्मनोसि सा || अनीचोपि यथानीचः खेलं स्वीकुरुषे कथम् | अथवा धन्यमेवेदं ब्रह्मक्रीडामुखं तव || तवानाम्नोस्ति किं नाम किं न नामापि किंनुते | देव देवेश नामानि सर्वाण्यपि नकानि किम् | राजसे किमनामैव सनामा किञ्चराजसे | नामास्तु नास्तु वा हर्षो निष्प्रज्ञं त्वं यथा तथा || कथञ्चित् प्रत्यभिज्ञाते दोलान्दोलन वृत्तिता | क्षणाद्भवेत्वयि क्षीणा स्वानन्दः किन्तु शिष्यते || क्षीणा आःस्मात्र देवेश क्षणानन्दा वलोकनात् | तृप्ताः स्म प्रत्यभिज्ञाय नित्यानन्दां तव प्रभाम् || भाससेद्यमहेशान ललितैन्ललितैर्निजैः | लालयामि कथं नातो वाग्भिस्त्वांसीत्कृतैरिव || चिदानन्दघनेशान जयनित्यपरप्रथ | स्वप्रथा प्रथमानात्मञ्जयसर्वप्रथा प्रथ || सर्वतो देव देवेश प्रत्यभिज्ञाय सर्वथा | नमस्यामि नमस्यामि त्वामिमं शिवदर्शनम् || एकमेव परंरूपं प्रयातं किलकोटिताम् | ब्रह्मणोस्य समाभाति दर्शनीयैक चित्प्रथम् || सर्वदं वमयी मूर्तिः सश्चिदानन्दसुन्दरी | अमूर्तेस्तवकापीयं नमस्या कस्य न प्रभो || बाह्यार्थपरमार्थाभ्यां भात्यूहं परमं गतः | य एको देवदेवेशस्तं नमास्यात्मनात्मनि || लब्धो बोधमुखा स्वाद मयेत्वययेव केवलम् | गणयास्येकमेवत्वां कुत्र कुत्र न घूर्णितः || २९अ) देवीं वाचं य आदत्ते शब्दब्रह्मैककारणम् | भिन्नामिव न भिन्नार्थां ब्रह्मासित्वं स आत्मभूः | चतुराननतामेत्य स एव श्रुति दर्शिनीम् | स्रष्ठ्यतां प्रथमे सौख्य मोहदुव्खविचित्रताम् | स एव भगवान्नित्य सुखया परमश्रिया | अवतारैन्लसन्भामितैस्तैर्विष्करिहाद्भुतैः || सा कंदेवगणैर्यस्य कार्योयं त्रिदशालयः | स नन्द न पदामतृं भासीन्द्रस्सत्वमीश्वरः || कथं न देव सन्तृप्ते हेतुमालोकसुन्दरम् | विद्वानाप्नोतिसद्यज्ञ क्रियास्त्वां पावकं विभुम् || यस्त्वं संहरसेतास्ता आपन्नः परमं यमम् | सृष्टी भेदमयीन्नाथ समवर्त्यसिकोपि सः || देवा रब्दकलास्तास्ता हत्वा हत्वाय एकतः | महानिशाचरो भास्यखिलाव्कोप्यसि स प्रभुः || यस्त्वं खलुसमाश्रित्य जगद्विहरसे जडम् | समत्वं पतिरेतस्य रसराजो जयस्ययम् || यस्य त्रिभुवनाधारा शक्तिरेकैव राजते | जयस्यत्रमकोप्यात्मा महाप्राणेश्वरो विभुः || यस्त्वं वीजाश्रयोधातु निधीनां त्रीक्षण प्रियः | राजराजो जयस्येष प्रभाराजितमानसः || यस्मं हृत्य जगत्सर्वं विलसत्सर्वमङ्गलः | आक्रीडसि महादेवो देवनां सजयस्ययम् | तुङ्गं शून्यं महामार्ग मतिक्रामञ्श्रमोज्झितः | यो यं तपसिदुर्भागो ध्वान्तहन्तासि सोर्यमा || पोपूयत इदं येन भासि योत्रैव दुर्निशि | व? जात्यन्न विभर्षित्वं सोमश्शमितदुस्तमाः || गणोपि गणनाहीनो देवो देवकलाश्रयात् | यक्षस्त्वं यजने शत्व तननादसि शङ्करः || विद्याधरपतिस्त्वं च मुहुर्विद्या प्रमादनात् | २९ब्) जगतोरक्षिता यत्वं ततोरक्षोसि मे विभुः || पुरुषोत्तमतेकेयं भाति किं पुरुषप्रथा | तं तं माया मयं गन्धं वासिगन्धर्वतामितः || विविधैस् द्वयमेवाङ्गैर्भासितैर्य द्विकारिताम् | लसद्भयं यथा धत्से स पिशाचोस्यतः प्रभुः || अहोत्वं परमात्मापि ज्ञायसेपि विभुर्नयत् | ततोमि गुह्यकस्सत्य मिहैष परमेश्वरः || स्वात्मसिद्धिज्परायास्ति सिद्धिर्याप्यणिमादिका | बहुधान्यापि मायांत्व देवसिद्धोप्य तम्द्वयं | ब्राह्मीं परां निजाहन्तां श्रितोपि रममेयतः | भूताभिमानाच्छुरितो भूतोनी च इवास्यतः || प्रवर्तते त्वदीयैव त्रैलोक्येत्र प्रभेति किम् | नामिभं तद्ग्रहात् किं च ग्रहोपि नासिसङ्करः || जन्मादिकामयं बोध मृतसञ्जीवनौषधेः | दानेन हरसे यत् तत् स्वर्वैद्यः स्वादुभाससे || विद्या विद्यो भयत्यागात् परं मौनमुपाश्रितः | मुनिज्परोसि संपन्ना नरता नयतोपि ते || क्षितिस्त्वं सर्वसंवासादुदकं व्यक्तिभावनात् | तेजस्त्वं सर्वतोभानाद्वायुस्सर्वगतेरपि || समन्तात् काशमे धत्सेभ ग्रहा वर्तनं च यत् | आकाशोमिततो देश वशित्वेन दिशोप्यसि | त्वमेवासि शिवाधार आधेयं त्वं परज्प्रभुः | आधानमपि शक्तिस्ते भातिसैवत्वमीश्वरः || परत्रत्वं परोभासि भास्ययं त्वं शिवे ह च | तत्र तत्र स भासित्वमेकधा बहुधा सदा || न किञ्चिनासि सर्वं च किञ्चनाप्यसि शङ्करः | तासुतास्वेक एवत्वं भूमिका सुविराजसे | तत्र तत्र नभासीस भासित्वं तत्र तत्र च | कुतः कुत्र च नो भासि भासिसर्वत्र सर्वतः || अनुत्तररसस्पर्श दर्शनीयैक विद्वपुः | ३०अ) ऊर्ध्वं मध्ये शिवस्तिर्य गधोभासि स्वया दृशा || प्रणताः स्मनकस्मै चिदस्मैविस्मरणा यते | कस्मै चिद्येन सर्वोपि विस्मृतोसिरमेश्वरः || नमो दुर्भेददुर्भेदभेदकाय शिवायते | इयं भिदापि मत्तैव यस्य संस्फुरति स्वयम् | अतीत विग्रहांकांचिद्विलसत् परसत्पदां | अपदां च नमाम्येनां मर्तां ते मूर्तिमीश्वर || तररीकृत विश्वात्म भावनस्स्वपरात्मनोः | स्वात्मानात्मेव भासीशनमोभानायते सदा || अकालकल्पना जाल ललितस्वबलप्रथ | अजडात्मन्नमस्तेस्तु जडीभूत पदोद्धर | अजडानां जडानां च स्वात्मा स्वात्मैवकोप्यसि | कोवेद परमां मत्तां तव त्वयि त्वयाविना | सिद्धिस्त्वमेव या सिद्धि रसिद्धिर्नैवतद्विदा | कुत्र कश्चन किं साध्यं साधयेत् तत् स्वसिद्धितः || अपरस्य परासिद्धिरपरापि परस्य सा | सदोदितात् तते सिद्धिः साध्यसाधनवर्जिता | उपास्महेमदैवेमां सिद्धिं सत्सिद्धवन्दिताम् | स्वात्मता परता यत्र सापि सा नन्दनक्षितिः | अशेषं निर्विशेषं च विशेषं शेषशेषितम् | निरस्तसकलक्लेशं महः स्वं सदुपास्महे || ज्ञातं किं न त्वयि ज्ञाते किं ज्ञातमपि चात्मनि | केवलं रमणं ज्ञानं ते ज्ञानमपि तु स्वयम् || पपरमैर्विबुधै रिज्यां वर्जनीयभिदामदाम् | त्वदनुग्रहनामानं सत्तंतेङ्गं यथानमः | मिथ्यादृष्टिर्विनष्टाद्य परिबुद्धानि जात्मदृक् | दुर्बलत्वकरं दैन्यं क्वापि तत्प्रलयं गतम् | कलहोमतभिद्धेतुरस्तं यातस्सकृत्रिमः | गायामि परितुष्यामि स्वानुग्रहबलोद्धतः || स्वचन्द्रचंद्रिका भक्तिरेषाकाप्यद्यराजते | ३०ब्) सुधासवानुपानेन यस्या अस्मिगतज्वरः || इत्येष परमानन्दज्परमार्थातिसुन्दरः | अभेदकलया शिष्टो भवद्भक्त्याविशिष्यते || कथाद्य कर्मणो नष्टा कर्मणोपि विकर्मणः | स्वात्ममातृतं यां भासि केवलं भास्वरूपवित् || बन्धनात् परिमुक्तोस्मि सद्यस्संकल्पितात् स्वयं | बन्ध एव मयाबद्धा ध्वंसितो वृत्तिभिस्सह || विशिष्ट शिष्टतास्वीया शिष्टा केवलमद्यमे | अहं मुक्तेश्च मुक्तोस्मि तथा मुक्तिर्यथा स्वयम् | गंगा यथा त्रिपथगा प्येकैव ख्यातिमागता | शिवशक्त्यणुतालक्ष्यस्मोहमेककलेवरः || अद्येयं त्वयि मे भक्तिर्मुक्तेरपि महीयते | मुक्तिर्भक्तेश्च भुक्तिर्स्वे अप्युल्लङ्घ्यगतास्थितिम् || लालयामि स्वमात्मानं परं पूज्यं मुहुर्मुहुः | लक्ष्मीः कापिमयिस्फारी भवति स्वयमेव ते || परं कौशलसामाद्य ज्ञते त्वयि कथंचन | किं कृतेन मम व्यक्तिरकृतेनापि किं मम | गणनैव गतानाशं कर्मादेर्मयि सांप्रतम् | सांप्रतं किलनैष्कर्म्यं सर्वकर्मकृतो मम || शिष्टाद्यकर्मतैवेयं यदकर्मास्मि सर्वतः | करोमि कर्म किं नैव सर्वत्रैव करोमि किम् | यया ययापि निजया संखेलामीच्छया स्वयं | सात्वदिच्छैव नेच्छेव परमं संश्रिता लयं || सर्वतत्वमयी शक्ती राजते प्रबल प्रभा | पराकाप्यपरेवेयमेकतत्व परामय | यथा यथात्र भासन्ते नेक तत्वानि तत्वतः | ऋजुता नृजुता गत्या कलासङ्कलनोज्झित | तथा तथा नाश्रितत्वं शक्तिमच्छीललालितम् | ३१अ) तवैवभाति मे नाथ महानुभवशालिनः || बहुधायाति यद्ध्यत्यारुचं बीजमिहैककम् | समृद्धं स्वस्वभावेन महीमात्वं महीयसे || अजडानां जडानां च रसकारणमत्तमम् | सदोदयकरं नौमि जीवनं त्वां महेश्वरम् || वशीकरोति यव्कोपि सर्वभावमयं भवम् | पावकं नमहं नौमि परिपूर्णप्रभेस्वरम् || स्वतामवितथां योत्र प्रथयभ्यन्तरा बहिः | सदागत्या प्रविध्वस्त ध्वंसस्सपवनोजयी || सदा विततरूपेण सर्वत्र परिकाशसे | यो रूपेण स्वरूपेण रस आकाशोसि निर्मलः || यद्वामनालसल्लोभे भ्रान्तोगायति नृत्यति | विनिर्मुक्तोप्य मुक्तो वा कोप्ययं जीव षट्पदः || गन्धं तं त्वां जगद्भाव परियातं परात्परम् | नौमिनिर्वासनं सर्व वासनं हतबन्धनः || सर्वत्रैव यदाश्रित्या सक्तिः पर्यनुभूयते | अहो चपलतामाप्तैरपि स्थिरतरैरिव || पूर्तिरन्योन्यबद्धानां भावानां यदनुग्रहात् | अपि सत्वं जयस्यत्र रसोत्तरगुणोरसः || नीज आत्मापीतरोपि लक्ष्यतेनैव यं विना | प्रथितः प्रभुमेनं त्वां रूपं नौमि न रूपिणम् || जनोवस्तुनियद्भाञ्जि मृदुत्वाद्येन भावयन् | भावेन तमहं नौमि स्पर्शं स्पर्शविदां प्रभुम् | यः स्वभाया ओमित्यादि तदेति बहुधाकिल | अन्तरोतीव बाह्यो वा नौम्यहं शब्दमीश्वरम् || यो गुह्यलिङ्गरूपेण प्रथितज्पार्थिवाङ्कवान् | संगच्छते च येनासुर्ब्रह्माण्डा भ्यन्तरं सदा || नाडी नानाविधं यस्माल्लेभे स्थानं पृथक् पृथक् | प्रोदितातमहंरम्यं नौमिपायवीश्वरं परम् | य एव साक्षात् सृष्टीनां कर्ता नन्दैककारणम् | मृडलिङ्गभगेशानं नुमस्तत्पदभासुरम् | गमेपीहागमे यस्य शक्तिरेकैव भासते | पादेशं तं किमप्येकं रहस्यं नौमि सर्वगम् || य आदत्ते परेशानो दत्ते च पवनाश्रयः | प्रथितं स्वीय संस्थित्या करेशं तं नुमः सदा || कौतुकं लक्ष्यते यस्य नाना वचन कौशले | ३१ब्) न यत्यर्थं स्वमेवैकं विविधैर्कृत्रिमैज्पदैः || शब्दयूथं परब्रह्म प्राप्तिविज्ञानलक्षणम् | विवेकिनामविज्ञेयज्परितो वाक्पतिश्शिवः || चला अपि विधत्तेयस्सङ्गत्यानेकवासनाः | चिरं स्थिरा इवैकान्ते घ्राणेशानो जयत्ययम् || भावं नानाविधं भक्ष्य मुख्यं यस्स्वात्मसाद्रमन् | आकुंच्येव विनिर्माति रसनेशो जयत्ययम् | गाहते विविधं रूपं य आत्मन्येव कौशलात् | स्थितोपि नयनेशानो न पश्यन्द्वमहो अयम् | मृद्वादि भाव संस्पर्शं योजानाति परिस्थितः | तमहं सर्वदा नौमित्वगीशानं परादरात् || मात्यणीयस्यपि प्रायो निवहो यत्र विस्तरात् | शब्दानां तं नुमर्कंचि च्छ्रूतीशान ममी अजम् | य ईवान्यदुपादनं विनैवतनुतेज गत् | स्वमेव दृश्यसंकल्पो मानसे शोजयत्वयम् || यो दूरेवान्तिके भाव निश्चयस्य तमोहरन् | एकोहेतुस्स्वयं भाति प्रज्ञेशानो जयत्ययम् | जीवो ये न सजूर्भावं निजं विस्मृत्यकंचन | खेलत्युश्चोपिनी चोवा मोहङ्कारो मतोहरः || य आत्मवशतां नीत्वा क्षेत्रज्ञं रीतिशाश्रितः | त्रिधा सोत्कण्ठमात्मीय प्राधान्यं दर्शयत्यहो || मलिनी कुरुते शङ्का पङ्केन विविधेन च | तं शरीर मठे भ्रान्तं प्रकृतीशेनमाम्यमुम् || निविडा हङ्कृतिं यातो य ओलाघवमयी मिह | भ्राम्यतीतस्तु तस्सोयं पूरुषे शोबला कलः || जात्यादिर्नियतो येन स्वं स्वं भावं जहातिन | कृपया निजया पाया दपायान्नियतीश्वरः || योणुनाननुनाप्यात्म बलेन बहिरन्तरा | कलयत्यखिलं कोपि कालेशानो जयत्ययम् || अटती तस्ततोयं नापयातम्द्वैक सद्रमात् | भावाभावेषु पुष्पेषु कोप्ययं जीवषङ्पदः || आसक्तिमेति च च्छिन्न स्वगतिस्सर्वगोप्यहो | यत्र कुत्राप्यदस्स्थाने रागेशं तं नुमोवयम् || ३२अ) सर्वज्ञभावं तन्नित्यं विहाय स्वल्पबोधताम् | प्रयाति यद्बला क्रान्तो विद्येशानो जयत्ययम् || यदा वीतोल्पकर्तृत्वाभिमानं यात्ययंजनः | सर्वकर्तापि मायान्तर्कलेशानो वतात्ममाम् || अलाबुनेवेत इत उह्यते जीवतामितः | यद्यलेन स एवायं यात्यायाति पुनः पुनः || दुर्घटेसु घटत्वं च तथा भाति यदाश्रयात् | स्वतन्त्रः परमो यावांस्तावतीयापि पूर्यते | लसन्मुखीह भावेषु भावेषु पिविडाति या | अलौकिक कलालोकां ताम्मायां स्वमिनंनुमः || सम्पाद्याहन्तया हन्तां तथोदन्तामिदन्तया | यो यं बोधरसस्फार च सत्कार रसोत्तरः | स्वस्वतन्त्रैकचिच्छील दीप्ति दीपितदीपनः | एकानेक कलाकाला कलितोतीवकश्चन | अनाश्रिततयाभात चमत्कार रसोत्तरः | सुस्वतन्त्रैक चिच्छील एनया परया तया | षड्त्रिंशत्त्रिंशत् तत्वरूपेण स्फुरं तं केवलं श्रितः | स्वं भावं भावना भाव्यं भावाभावात्यगोचरम् || लसन्त्याप्यन्तरा शक्त्याप्यसृष्ट पर वैभवः | मोहं शिवो जयस्येय शिवत्वेषु परात्मनि || लयोदयौ लयो यत्र शिवशक्ती शिवोपि हि | त्वमहं च हमेवापि यत्राहं नाहमेव च || उदितानन्त विस्तारो विस्तारगणनोज्झितः | सर्ववस्तु कलाहीनो वस्तु किं वापि भातियः || एकत्वमपि नानेव कार्यं वा करणात्मता | ज्ञानमज्ञानवद्भाति निष्क्रिया यत्र वा क्रिया | प्रकाशोपि तमो यत्र विमर्शो निर्विमर्शता | वैमल्यं शलिनाभासोप्यसत्सद्यत्र भासते || शिवाद्या भासविकलो जितशक्त्यादि कल्पनः | तत्वादिका पहस्तत्वं यो विभातिपरात्परः || अशेषशेषकृच्छेषो निर्विशेषविशेषणः | निरानन्दथुरानन्दोखिलानन्दसरीसृपः || नय अलविडालादि घटनाघटनाश्रयः | यावान्नयोनतावांश्च किं वा किं वांश्चयो न हि || अवाश्यवाश्यो निर्लक्षलक्ष्ये लक्षणलक्षणः | अलक्षणस्सलक्ष्मत्वा लक्ष्मत्वास्तोपि भातियः || अनुत्तरोत्तरा भासभासको भास्यसंहरः | भास्यभासकत्वां हित्वा श्रित्वापि परिभातियः || समस्तो न नवाव्यस्तस्समस्तो व्यस्त एव च | ललितां कांचनातीव रीतिंश्रित्वा विभाति यः || सार्वस्सर्वो न वातादृग् दुर्विज्ञेयमतामतः | अमतो न मतो योन भातिनिर्मुक्ति मुक्तिकृत् || अपूर्णपूर्णं निश्शून्य शून्यं निर्नासनामकम् | न कंचित् कंचिदे नं तं नमामि परमं शिवम् || स्वच्छ स्वच्छन्दसंपूर्ण पूर्णशून्याति शून्यताम् || लसितां लालयन्मोहं जयसीशपरः शिवः || इह षड्त्रिंशतत्वान्तर्मात्रसप्तक रूपकः | तैवैवायं स्वभावोयस्तं नमामि स्वशाक्षिणम् || स्वानन्दानाश्रितं शक्ति यिया साज्ञं चिदीश्वरम् | शुद्धता कीर्तितं भाव दरिद्रं मातृकं नुमः || सदाशिव दशायां तं प्रथितं विलसत्पथम् | नौमिमन्त्र महेशानं मातारं मातृदक्षिणः || नौमि मन्त्रेश्वरं तं त्वां चितिमन्त्राभि मन्त्रितम् | सर्वज्ञं विहिता स्थानं मैश्वरे मत्पदेपरे || शुद्धविद्या पदे मन्त्र रूपं मन्त्राधिपैस्सह | सप्तकोटितयावाञ्छा सदोदयकरं नुमः || महामायां च मायोर्ध्वे मयिश्वे नौमिकांचन | त्वालोश्य शुद्धविद्याधो विज्ञानाकलमातृकम् || प्रलयाकलमातायो मायायां खेलसि प्रभुः | कुर्मोङ्गानी वसंहृत्य त्वां नमामि तमद्भुतम् || पुरुषादि धरान्तं यस्सकलं व्याप्यतिष्ठति | ३३अ) नानाखेलकलाभिज्ञः सजीयास्सकलः प्रभुः || स्वप्रमातरि चिद्वह्नौ प्रमादीप्तौ जुहोति यः | मेयाहुतीज्परे तं त्वां परेशानं नमाम्यमुम् || प्रमामेयं प्रमाता च य एकोभातिनैककः | अदहें च स्वदेहैकमधीनाथं महेश्वरम् || कुत्र कुत्र नमाम्येन समनास् सुमना अलम् | न विनिर्मोहनिद्राणां हरणे चतुरं परम् || अहो अहं नमो मह्यं त्वमहो अपिते नमः | अहं पदेत्वमेवासि त्वं पदेयोहमेव च || नाहं नत्वमहन्नापि न निशापि प्रकाशते | प्रकाशतेपि यत्रैव तं नुमः परमेश्वरम् || अतीवकं च नैकान्तं नैकन्तं कान्ति कान्तकम् | सर्वकान्तं न कस्यापि कान्तं कान्तं प्रभुं नुमः || अजनोवीतसंकल्पो गतजीवादि वासनः | अलोक लोक सद्भावो भवद्भक्तो विशिष्यते || सर्वगन्तानगंतापि कुत्रापि गत गम्यधीः | आस्कन्दित जगद्भावो भवद्भक्तो जयत्ययम् || अशेष विदुषां मान्यस्संकोचक्षण विर्जितः | क्षणे क्षणे महानन्द वर्धनस्त्वज्जनो भवेत् || अकाल कल्पना जाल स्वविलास लसत्प्रभः | परो परो गतज्पारं जीयात्वद्भक्तिराज्यवान् || त्वत् स्पन्दानन्द सन्दोहसुधास्वादनलस्पटः | अतीतत्रान्तिरेकान्तज्परत्रेहसराजते || स्वनाटकनटस्सोयं किमन्य ईव जायते | अन्यावेद्य महानन्दं पदं यात इहापरम् || अलौकिकरसासारवारवारविघूर्णितः | अप्रमेय प्रमेयज्ञो जीववन्मुक्तो जयत्ययम् || अशेष वेशसंहीनो वेशंकं च न संश्रितः | सर्वाचरो निराचारो जीवन्मुक्तो जयाम्यहम् || अचत्तोखिल चित्तज्ञ ऋजु चित्तश्चिदात्मकः | आखुरान्मस्तकान्तं स कायस्थोपि न काय वान् || व्यवहारकलादक्षस् स्वविहारपदं गतः | सर्वाहारो निराहारस् सर्वाङ्गेषु निजाङ्गवित् || त्व च वेशमहानन्द सुधासवविघूर्णितः | अतीत विश्वो विश्वस्थो विश्वविश्वो जयत्ययम् || त्वमिवायं जयत्यङ्ग विलसत्सर्वमङ्गलः | सुमना ईवनाकस्थस् संश्रितानन्दनो मुहुः || कृतकृत्योस्त कृत्योपि सर्वकृत्य तयाकृती | ३३ब्) सुकृतं दुष्कृतं हित्वा जीवन्मुक्तो जयत्ययम् || जय स्वात्मविलासेद्ध जयानन्त प्रभेश्वर | जय कीनाशु सुख्यान्यदुव्खासंसृष्टवैभव || परानन्दैकबाहुल्य बलशालिप्रथामय | निरामयपदप्राप्तिहेतो भूयज्प्रभो जय || इत्येवं महेशमेन स्वानुग्रहशक्तिपातवशसाक्षात् कृतं संस्तुत्य संस्तुत्य दर्शितस्ववैभवं क्षणे क्षणे संस्तुवंश्च यथा विहारं यथा व्यवहारं यथा प्राप्तानुवर्तनं परानन्दा स्वादादालोश्योमितिगांस्वात्मन्यनुसन्दधानो नानाभवभवभावो भवप्रभवदुर्मोह मायाद्यवमाना प्रवणसनास्सर्वत्रैवागतिमेककां अनेक विलासविषदां अनुभवयन्कांचन परां विभुतिमशेष भूतेहनीयां साक्षात् कुर्वन्नेक एवानेकवद्विचरन्बन्धनाद्विनिर्मुक्तोश्च विमुक्तो जीवन्मुक्तो पारबोधचञ्शुसंसारपारावार एव निरन्यभावतरङ्गं कंचन परमरागरङ्गमनुरञ्जयन्द्वेहानिहा विकलोलौकिक पथामर्शं तया तया कृपयान्यमपि स्वंभावमासादयन्द्वं बान्धवमिव सर्वजनं विलोकयञ्जयति || नास्य किञ्चन निरस्तसमस्तव्यस्त मोहं खादनपानक्रियादिषु प्रवर्तना महाहाय प्रवर्तमानस्य कतृम सलिनभावगतस्यापि परं विमलस्य वित्तल विपुलस्वानन्द विलासदालित्यललितस्य यस्मा अकस्मैकस्मैचन तस्मै सर्वस्दैहतो भयजननभ्रमाय स्वराज्यीकृतसकलविश्वाय स्वनर्मणे विचरतो विशिष्टं शिष्टं कुत्रापि कदापि कथमपि केनापि मृदुरूपस्य दृश्यते किन्तु स्वात्मसाक्षात्कार सुमममय एव प्रारब्ध क्षयोविकलिता शेष क्लेश वामनो देहं विहाय विदेहमुक्तः कस्मिंश्च्चिदलौकिकालोके निजे निजे सहजे रिक्त सर्वप्रजेनिरजे पदे विश्राम्यति | प्रारब्धा क्षये तु स्वत आविष्कृतं ३४अ) तत्परात्म मुखमारोहावरोहविकलं विपचितं सर्वत्र सर्वथा सर्वदा सर्वतो स मता भ्रमशमनेन परम शमविभ्रमेनानुभवन्परस्वप्रभा या ओतमुदितमहिंसित स्वभावं तं तं भाव स भावयन् सर्वं भावं च शुद्धसत्ता सामान्यतया गेयया परमवासनया वासयन्नमेष क्रियमाणादि फलवासना निर्वासितो जीवन्मुक्त तया यथा स्थानं निरास्थानं परमपद श्वृप? एव संसारे तिष्ठत्य तिष्ठन्निवविगलितकीनाशादि भयसंशयः एतयोश्च विदेहमुक्त जीवन्सक्तयोस्सममेव समपदपदवी गतयोरपि पैतामहं सकलं सर्गं स्वमेव साक्षात् कुर्वतोरियानेवविशेषो विशिष्यते परमशिष्ठभावकीर्तिवतोरपरेपारेनिर्वारपारे कृतास्पदयो वदेकस्य स्वानन्द एकत्रैव विगलित च या पचयज्प्रहिजलवन्निरूपितस्तिष्ठति यद्भूयोभूयो ना वसरण पदान्यस्य प्रवर्तन्ते परस्य तु परस्यपरानुभवसकीदृशमपि स्वमहिमसहसा कीदृशमिव सञ्चर्वयतो महत्संमान्ये पथि विचरतोयं स एवानन्द विलासो परमपि नाकापगायाः पाथ ईव सर्वतो विचरन्कं कं विगमितभ्रमतयानानन्दयति | गत्यामत्या नमस्कारकृत्या सत्कृत्या चयीकृत संस्कृत्या विनिवर्तितविकृत्या परमोपकृत्या च || एतस्यैव च जीवन्मुक्तस्य निस्सारेपि सर्वसारे सर्वसारे संसारे संसरतोत्यूत्त्रमां रीतिं संश्रितवतोभजनेन सभाजनेन सकल जनेन किं किं नानुभूयते परापरलोकगतस्य सुकृतैर्दुष्कृतैर्वा विकृतस्य त्रिविधकुलस्य पावकत्वं सकलस्यापि जनयितृव्कृता तत्वं? ३४ब्) विश्वम्भरायाज्पवित्रत्वं प्रभूतं यशोर्जनं वशित्वं विशेषं सकलपरतीर्थ स्नानं फलं सकलावनिदातृत्वं स्वत ईश्वरगुरुत्वं राजस्रयादि यज्ञसहस्रकरणं स्वाराज्यादि परिगतिरखिलासरपति तर्पणं जाड्यप्यनपायगैस्सुवर्णरत्नादिभिः पोषणं जयस्य सर्वदाप्रापणं केनापि हि तेना वितथेन पथागमनं सर्वदशासुसर्वथा सर्वदापि रमणं क्षयिन्यपि देहेजैवात्रिकत्वधारणं परममनन्तं मुखवरणं वारं वारमुदार चेष्टा चरणं स जनजनेश्वरादि मनोहरणं विमलक्रियाकरणमुपपातकपातक महापातक हरणं परमविविधाभरणाभरणं कृपणजनशरणं परमसकलकौतुक विहरणं क्षणं क्षणं परमेश्वर परस्सरणं सर्वभावाभावविस्मरणं परमोत्तम पदे स्वपदस्थिरता करणं नीचोश्च भयसंहरणं मरणादि भ्रमदूरीकरणं परमानन्दोद्धरणं च किञ्चास्यैवात्युत्तमोयं स्वभावोभावाभावविकलोविगत भ्रमसंभ्रमोरहित जीवाद्यभिमानो जीवतोपि जीवजीवस्य जीवाजीवस्याति परमाच्छतया सकलजीवजीवस्य विलासविषदाश यस्य निराशयस्य ब्रह्मादि नमस्करणीयस्य निःस्तोत्रवषऽऽम्करस्य सर्वोपाधिकालुष्य हीनस्य परविभव सकलभुवन राज्याधीध्वरस्याखिलोपाधिविवर्जितस्याखिल गुरुगुरुतमस्य महाद्वय शिवाद्वय ब्रह्माद्वय सुदर्शन सुदर्शन सुदर्शनेषु परभावनाभाव्योनुभूयते तदधर दर्शनेषु च तद्गत्या अनुमीयते कामादि वासनावासित दर्शनेषु च प्राप्यतयानुकाम्यते तदन्यदर्शनेषु च गीयतेस्य ३५अ) च विशेषशेष किंभव्यम् किमभव्यम् किमतीतं भाविवर्तमानं वा सर्वत्र प्रवर्तनाभिमान हीनतया प्रवर्तमानस्य निखिल रूपतया विवर्तमानता ललितस्य स्वत उचितानु चितचित्ततामतीत्यवर्तमानस्यै तस्यैव च धारणेन पृथ्वी धरित्री विवृतगोभावास्यैव रसनेन जलमपि सदा नवं रसं जीवनं चास्यैवा वलोकनेन तेजोभासुरं तस्यै वै तस्य स्पर्शनेन विनीत इववायुरपि सदागतिरस्यैव शब्दोश्चारणेन च खमपि रोचिष्मतां रोचिषादेदीप्यमानं समन्तात् कशमानं चानन्तं च शून्यमपि श्रुतिगुणपरिगणना प्रथितं तस्यै वै तस्य सर्वभावना विभावितस्य परभावनाविभावतस्य | पराभावितोत्तराधर संकरकरण भावनाभवस्य भावनया संविभावनया देवा अदेवास्सर्वदेवाश्च वेदा अवेद्य वेद्या अवेदास्सर्ववेदाश्च लोका अलोकास्सर्वलोकाश्च यज्ञा अयज्ञास् सर्वयज्ञाश्च धर्मा अधर्मास्सर्वधर्माश्च अर्था अनर्थाः सर्वार्थाश्च कामा अकामास्सर्वकामाश्च निष्कामा आप्तकामाश्च द्विधा फालफलवन्तस्तथा मोक्षा अमोक्षा अखिलमोक्षा विनिर्मोक्षमोक्षाश्च माता न माता सर्वमाता च पिता न पिता सर्वपिता च भ्राता चादरणीयो न भ्राता सर्वभ्राता च स्वसानस्व सा सर्वस्व सा च दुहिता न दुहिता सर्वदुहिता च | पुत्रो न पुत्रस्सर्वपुत्रश्च | बन्धुन्न बन्धुस्सर्वबन्धुश्च सर्वपाइतामहादि सिद्धा न सिद्धास्सर्वसिद्धाश्च कालोन कालस्सर्वकालश्च दिशोन दिशो सर्वदिशश्च देशोन देशस्सर्वदेशश्च | आकृतिन्न वा कृतिस्सर्वा कृतिश्च | किमपि न किमपि सर्वं किमपि सर्वसिद्धि सिद्धेर्गतसिद्धिसिद्धेः परमस्वसिद्धिसिद्धेरस्य सर्वं न सर्वं सर्वसर्वं च तस्यै तस्यैव च विलासाटनेन सर्वे ३५ब्) द्वीपाजम्बुशाककुशक्रौञ्च शल्मलि गोमेध पुष्करख्यास्तथा जम्बु द्वीपस्यैव प्राधान्येन तदन्तरालवर्तिनो देशाश्च कश्मीरकीरदरदाभिमारतङ्गणकुलूतकुनं टखशघोषक्तचिकदार्वदामरकिरात चीनमहाचीनाद्या अन्येपि स्रह्मकर्वटपण्ड्र्व?नमगधमिथिलविषय प्राग्ज्योतिषभद्रगौडपौण्ड्र नानाकारोत्कलिकासयमेकलाम्वष्ठ कोमलकवर्धमानकाद्याः परेपि कलिङ्गवङ्गोपवङ्ग जठराङ्गमूलिकविदर्भवत्मान्ध्रवेदिकवषत्रीपुरी शालयेसकिष्किन्दनिषादपुरिकदशार्ण नखाद्या इतरेपि कङ्कट कङ्कण शिविकाभीर कङ्कणगो नन्द केरलकर्णाटकाञ्ची देशमरुची पट्ठानसिंहलकश्छाद्या अपरेपि पह्लवकाम्बोज सिन्धूसौवीरारवाम्बष्ठ कपिलयवनशूद्र बर्बर किरात मुण्डाभीरमुञ्चुककालकसुराष्ट्र बादररैवतकी मुख्याज्परेपि कषान्तकरोक्कण पञ्च नदरामठवैश्यकतकनिर्मर्यादशक म्लेच्छ खुरस्थानकन्दाहारादय इतरेपि माण्डव्यभुत्खारतालहललहडाद्याजपरेपि कोकलकेकयवसातयत्रि गर्तशातक माण्डव्याम्बरमद्रकमालवपौरवगान्धाराद्याज्परेपि भद्रारि मेधसाल्वनीपोज्जिहानमरुवाटवत्सया मुनसारस्वतमाध्यमिकमाथूरकशूरमेन पाण्डुपाञ्चाल साकेत हस्तिनापुराद्या इतरेपि गणना ३६अ) प्रशुरा विशेषदेशास्तथा क्षाराद्या तदधयो महानदनद्य एतदन्तरालवर्तिनः परेपि नानाविषयाश्च भूर्भुवस्स्वराद्यानि भुवनानि पातालाद्यान्यधो भुवनानि च पवित्री क्रियन्ते धार्यन्ते लङ्क्रियन्ते च तामेवैतां जीवन्मुक्तदशामदशामालम्ब्य विधातृ विष्णुजिष्णुपावक समवर्तिरसराजपवनराजराजशङ्कर मुख्यादैवतगणादेवर्षयोपि नारदमरीचि पुलहपुलस्त्व वसिष्ठात्र्यङ्गिरो वृहस्पत्यादयो गणगन्धर्व किन्नर सिद्धसख्ययक्षरक्षोप्सरो सुरभूताद्याश्च देवयोनयो महर्षयोपि दत्तात्रेय व्यास जाबालि कश्यप भृगु भरद्वाज कौत्सोपमन्यु याज्ञवल्क्य दुर्वासव्कण्ठोत्तङ्कसुमेधो जैमिनि गौतम हरिकेशशृङ्गनासिकेतु कौशिकोद्दालकशङ्खलिखित मुख्या अपरेपि नरेश्वराज्पृथुनृगमनुकत्थस्थ दिलीपरघुभरत कुरुपति दशरथरामलक्ष्मणभरतशत्रुघ्न कुशपाण्डुशूरसेन युधिष्ठिरभीमसेननकुलसहदेवोद्धवाक्रूरशिखिध्वज प्रभृतयो बलिप्रह्लादमुख्याश्च दानववराः परशुरामाद्याश्च चिरजीविनः श्रीभगवत् कृष्णार्जुनौ च स्वभक्तसहितौ सीतामन्दोरीकृष्णाताराहल्यानसूयालोपा मुद्राद्या अङ्गनामण योगायत्री सर्वमङ्गला श्रीशचीप्रभामुख्याश्च दिव्यवरवनिताब्कुमारगणनायक वटुकभैरवाद्याश्च देवदेव किशोराब्कामेशाद्याश्च दिव्यविलासिनो यथा व्यवहारं यथा ३६अ) विहारं परमानन्दसत्तासामान्याद्वय स्पन्दमाधगतवन्तो भूवन्भवन्ति भविष्यन्त्यन्येपि देवासुरोरगनरवराश्शेषवासुकितक्षक प्रभृतयोपि नागराजा एतस्यैव जीवन्मुक्तस्य परमदर्शनेन परितृप्यन्ति | इत्ययं जीवन्मुक्त परमेश्वरः शिवा एव शिवं प्रतिशिवेन करणेन शिवाय शिवाच्छिवस्य | शिवे तस्मिन्नेव परस्मिन् स्वस्मिन् परतां स्वभासनाप्यां निराप्या मनाप्येवाप्य शिवो भवद्भवति भविष्यति चेत्योम् || इत्येवमयं श्रीकल्पपादपतिबन्धो बन्धबन्धना बन्धनबन्धन प्रतिबन्धन प्रतिपादनधन महाद्वयादि सुदर्शन सुदर्शन सुदर्शन सुदर्शनः श्रीकश्यप महामुनि विरचिता पूर्वपूर्वरचन सर्वदेश विशेषशेषं सतीसरोवरा पराकारण कस्मीरदेश कृतसन्निधान सुस्वातन्त्र्य महोमहिम स्वीकृत श्रीमच्छ्रीमाहिभकौलाभिधानो पवनकृत परमविमल शिवास्पदेन न केनापि निरेकेन निरेकेनैकेन चिद्विरचित सुमनो दलफल शाखास्कन्ठादि परमारचन सुरचनः श्रीमच्छ्रीमरुवाटदेश विशेषाधिपति परमज्ञानमूर्ति विगलितासार संसारापारावार पारावारस्मृति महाराजाधिराज चक्रवर्ति पतियशोवत्सिंहाभिधान महाराज प्रणुन्नेन मयासतां परमकारुण्यवतामुमुक्षावतां चासुफल बललालित्वाय चाकशीत्तत सा मितिमध्यदेश प्रवर्तमाने रामपावकमुनीन्दुपरिगणित श्रीमच्छ्रीविक्रमादित्यशाके वस्वङ्कराणजैवात्रिकपरिमिते च श्रीशालिवाहनशाके कस्मीरेषु च सप्तर्षि चारानुसारेण ३६ब्) विलोचनबाणसम्मिते हायनेनभोमासिवलक्षपक्षे तिथौ विष्णुदेवतायां सोमजन्मवासरान्वितायां सिद्धियोगे प्रवर्धमाना परयोगे निजतनुज श्रीमच्छ्रीनाथ कौलाभिधान जन्मदिवसे वनिताराशिमाश्रिते शीतमयूखेवनिजकरणे स्वगृह सिंहराशिभोगकारके च सहस्रकिरणमालिनिरौहिणेयवर्षप्रारम्भदिवसे च वारयुगे द्वादशे भगदैवते पञ्चमाब्धतध्व?त्सरसंज्ञके शिवदैवते च षष्ठितमे च प्रभवादि प्रान्तगतवर्षे श्रीमद्वासुकिनामनिनागराजे मुनिमुनिमुनिश्रुति वर्षेषु कलियुगस्याती तेषु वर्षाधिपतौ दिनकरतनये सचिववरे च भूमिनन्दने सम्याधि पतितां याते च भृगुस्वात्मजन्मनि वर्षा भगवत्यां च वणिक्प्रमदायां कलानिधिरोहिण्यं च कल्पवृक्षबन्धोयं विलसित चारुतररचनस्समाप्तिं पफाण || कृतिरियं श्रीकृष्णात्म परानुभूतिविभव श्रीमच्छ्रीकृष्णकौल प्रभवानां मूर्तिमद्बुद्धि स्वरूप कारुण्यवारां निधिबुद्धिनामजनयित्रीवत्सलनन्दनानां मनन्त सुदर्शन सुदर्शन सुदर्शनकौलानुजन्मनां साक्षात् सिद्धीश्वर सिद्धकौलग्रजन्मनां मखण्डमश्चिदानन्दैकघन शिवस्वपास्सदीधमातामहपरमगुरुशिवराजानकायनि श्रीविद्यात्म श्री श्री श्री श्री श्रीनाथवर श्रीहेतुनाथ श्रीज्ञानस्वामिकृपाकटाक्ष प्रत्यभिज्ञातनिजसहजपरात्मनां सप्तचत्वारिंशद्धायन स्थितानां श्रीगायत्री भाष्य श्रीदेवीनामविलासादि निबन्धन प्रबन्धप्रथितसहितयशसां महामाहेश्वराचार्य साहिभकौलपादानां श्रीनाथमल्लादि सज्जनविनोदकारिकेति शिवम् || ########### END OF FILE #######