#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00208 Uniform title: karaṇāgama Main title: karaṇāgama kriyāpāda Description: karaṇāgama kriyāpāda Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: April 5, 2010 Muktabodha gratefully acknowledges the assistence of the venerable ārādhya swamī candraśekhara who, as the president of the śaivabhāratīśodhapratiṣṭhānam and head of the jaṅgamavāḍī maṭha vārāṇasī, has given permission to make this e-text and put it up on the Muktabodha website. Publisher : śaivabhāratīśodhapratiṣṭhāna Publication year : 1994 Publication city : Publication country : India #################################################### प्रथमः पटलः देव्युवाच देवदेव जगन्नाथ सर्वज्ञ करुणानिधे | प्रसन्नात् तत्रभवतो धर्मा नानाविधाः श्रुताः | विहिताः पूर्वशैवानां संमताः श्रुतिसंततेः || १ || भवता हि पुरा प्रोक्तं करुणायन्त्रितात्मना | वीरशैवीयधर्मास्तु सर्वधर्मोत्तमा इति | तानद्य श्रोतुकामाऽस्मि प्रसन्नो ब्रूह्यशेषतः || २ || महादेव उवाच साधु पृष्टं त्वया देवि लोकानुग्रहचित्तया | हन्त ते कथयिष्यामि धर्मान् शाम्भवसंमतान् | सद्योमुक्तिप्रदानद्य मदीयज्ञानसाधनान् || ३ || शाम्भवव्रतपरिग्रहणम् यदेतच्छाम्भवं नाम व्रतं श्रुत्यन्तसंमतम् | पुनर्भवप्रहाणाय मुमुक्षुस्तत्समाचरेत् || ४ || प्. २) ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तु वा | योषिद्वा परिगृह्णीयात् सद्योमुक्तिं यदीच्छति || ५ || विद्यते नास्य सदृशं वेदेष्वन्येषु वा क्वचित् | काङ्क्षेत मुक्तिं यः सद्यः स एतद्व्रतमाचरेत् || ६ || तितीर्षुर्जन्मवाराशिं गुरुपोतं समाश्रयेत् | सम्यक् परीक्ष्य वै शिष्यं गृह्णीयाद् देशिकोत्तमः || ७ || निवेदयिष्यन्मज्ज्ञानं दद्यादादौ शिरोव्रतम् | अन्यथा गुरुशिष्यौ तौ पततो नरकाम्बुधौ || ८ || अत्याश्रमं पाशुपतं शाम्भवं तच्छिरोव्रतम् | इत्येवं नामभिः पुण्यैर्निगमान्तेषु गीयते || ९ || दीक्षात्रयनिर्देशः तनुत्रयगतानादिमलत्रयमसौ गुरुः | दीक्षात्रयेण संदह्य लिङ्गत्रयमुपादिशेत् || १० || प्. ३) स्वाग्रे स्थितस्य शिष्यस्य देशिकः करुणानिधिः | कुर्याद् दीक्षां महाशैवीमविद्यापाशकृन्तिनीम् || ११ || दीयते लिङ्गसम्बन्धः क्षीयते च मलत्रयम् | दीयते क्षीयते यस्मात् सा दीक्षेति निगद्यते || १२ || सा दीक्षा परमा शैवी त्रिधा भवति निर्मला | एका वेधात्मिका साक्षादन्या मन्त्रात्मिका मता | क्रियात्मिका परा काचिदेवमेव त्रिधा भवेत् || १३ || हस्तमस्तकसंयोगाद् दुष्टेर्वेधेति कीर्यते | गुरुणोदीरिता कर्णे सा हि मन्त्रात्मिका भवेत् | शिष्यपाणितले दत्ता या दीक्षा सा क्रिया भवेत् || १४ || अत्रैकैकापि विख्याता दीक्षासप्तकशोभिता | तत्प्रकारं प्रवक्ष्यामि शृणुष्वैकाग्रमानसा || १५ || प्. ४) मण्डपनिर्माणविधिः दीक्षयिष्यन्निहाचार्यः शिष्यं पूर्वोक्तलक्षणम् | युक्तकाले तदङ्गानि द्रव्याण्याहृत्य यत्नतः | मण्डपं कारयेत् सम्यग्वक्ष्ये तल्लक्षणं यथा || १६ || दशभिः सूर्यहस्तैर्वा मनुभिर्नृपहस्तकैः | दीक्षार्थं मण्डपं कुर्यात् षोडशस्तम्भसंयुतम् || १७ || एतेषां मण्डपानां च पञ्चहस्तोन्नतिं विदुः | चतुरस्रं चतुर्द्वारं चतुस्तोरणभूषितम् || १८ || न्यग्रोधस्तस्य पूर्वस्यां दक्षिणस्यामुदुम्बरः | अश्वत्थ उत्तरस्यां च प्लक्षः पश्चिमतो भवेत् || १९ || नवभागैकभागे तु मध्ये वेदीं प्रकल्पयेत् | हस्तमात्रसमुत्सेधां दर्पणोदरसन्निभाम् || २० || कुण्डानि कल्पयेत्तत्र नव पञ्चैकमेव वा | पूर्वस्मिंश्चतुरश्रं स्याद्वह्नौ पिप्पलपत्रवत् || २१ || अर्धचन्द्रं तु याम्ये स्यान्नैर्-ऋत्यां तु त्रिकोणकम् | वृत्तं स्याद्वारणे भागे वायव्ये तु षडश्रकम् || २२ || पद्मं स्यादुत्तरे भागे चैशान्यामष्टकोणकम् | स्यादीशानेन्द्रयोर्मध्ये वृत्तं वा चतुरश्रकम् || २३ || इन्द्रादिसोमकाष्ठान्तमैशान्यां च प्रकल्पयेत् | चतुरश्रार्धचन्द्रे च वृत्तं पद्मं च वर्तुलम् || २४ || एकाग्निवेदिका पूर्वे चोत्तरे पश्चिमेऽपि वा | ईशान्यां चतुरश्रं वा वृत्तं वाऽपि प्रकल्पयेत् || २५ || स्थण्डिलं वाऽथ कुर्वीत हस्तमात्रप्रमाणकम् | सिकताभिर्मृदा वाऽपि गुणाङ्गुलमितोन्नतिम् | मण्डपं रचयित्वैवं ध्वजाद्यैस्तं विभूषयेत् || २६ || मुक्ताजालवितानैश्च फलपल्लवपङ्कजैः | रम्भाभिर्दर्भमालाभिर्दर्पणैर्धूपवर्तिभिः || २७ || तत्र गौरीलतालिङ्गमण्डलं विलिखेद् बुधः | पञ्चवर्णयुतैश्चूर्णैरथवा शुभ्रवर्णकैः || २८ || दीक्षाविधानम् स्नातः सभस्मरुद्राक्षः सकलीकृतविग्रहः | गुरुर्माहेश्वरैः सार्धं प्राप्य मण्डपमस्य तु || २९ || प्. ६) द्वाराण्यस्त्रेण सम्प्रोक्ष्य तानि चत्वारि चार्चयेत् | ओं हां शान्तिकलाभिख्यद्वाराय नम इत्यपि | ओं हां विद्याकलाभिख्यद्वाराय नम इत्यपि || ३० || हां निवृत्तिकलाभिख्यद्वाराय नम इत्यपि | हां प्रतिष्ठाकलाभिख्यद्वाराय नम इत्यपि | पूर्वादीनि समभ्यर्च्य ततस्तच्छाखयोर्न्यसेत् || ३१ || नन्दिनं च महाकालं भृङ्गिणं च विनायकम् | वृषं स्कन्दं तथा देवं चण्डं द्वौ द्वौ चतुर्ष्वपि || ३२ || तालत्रितयमस्त्रेण कृत्वा वामाङ्घ्रिपार्ष्णितः | घात्रत्रयं तथा कृत्वा विघ्नानुत्सार्य यत्नतः || ३३ || द्वाराण्यस्त्रेण तूद्घाट्य प्रतीचीद्वारतो बुधः | अन्तः प्रविश्य यागोपकरणान्यवलोक्य च || ३४ || अस्त्रप्राकारावृतश्च कवचेनावगुण्ठितः | सुखासने तूपविशेत् कुशादिपरिकल्पिते || ३५ || ततः स शिष्यस्ताम्बूलदक्षिणाभस्मसंयुतम् | पात्रं गृहीत्वा प्रब्रूयादेवं सद्गुरुसन्निधौ || ३६ || प्. ७) संसाराम्बुधिनिर्मग्नं जन्मग्राहभयाकुलम् | मृत्युपाशवशं दीनं कृपयाऽनुगृहाण माम् | इति विज्ञाप्य तत्पात्रं संस्थाप्याग्रेऽभिवादयेत् || ३७ || गुरुस्तत्पात्रमानीय निक्षिप्य गणमध्यके | परिगृह्य गणानुज्ञामुपविश्यासने पुनः || ३८ || दीक्षयिष्यन्निहाचार्यो देशकालौ निगद्य च | गणेशपूजनं कुर्यात् स्वस्तिपुण्याहवाचनम् || ३९ || पुनर्गणान्नमस्कृत्य देशकालौ प्रकीर्त्य च | देहत्रयगतानादिमलत्रयनिवृत्तये || ४० || लिङ्गत्रयानुसंधानयोग्यतावाप्तयेऽपि च | षडध्वशुद्धिपूर्वेण शाम्भवेन व्रतेन || ४१ || सप्तविधा दीक्षा दीक्षयिष्य इमं शिष्यं शक्तिपातविधानतः | इति संकल्प्य दद्याच्च सप्त दीक्षाः क्रियान्तराः || ४२ || आज्ञोपमा च कशाभिषेकाख्या ततः परम् | स्वस्तिकारोहणं भूतिपट्टमायत्तमेव च | स्वायत्तमिति सप्तैताः क्रियादीक्षान्तरा मताः || ४३ || प्. ८) परित्यज्य सदाचारं मा प्रवर्तस्व सर्वदा | इत्याज्ञादीक्षयाऽदिश्य ततस्त्वेवं वदेद् गुरुः || ४४ || पुरातनकृताचारसदृशं कुर्विति स्फुटम् | उपमादीक्षयाऽदिश्य शिष्यपापापनुत्तये | प्राणानायम्य विधिवत् पञ्चगव्यानि साधयेत् || ४५ || श्रीपञ्चकलशार्थं तु ऋत्विजि वृणुयाद् गुरुः | चतुर्णां चतुराचार्या मध्यस्य च स्वयं भवेत् || ४६ || आवाहयेच्च कलशे मध्ये त्वीशानमग्रतः | सद्योजातं च पूर्वस्मिन् वामदेवं तु दक्षिणे || ४७ || उत्तरे तत्पुरुषं च अघोरं चाथ पश्चिमे | तत्तन्मन्त्रैः समावाह्य पूजयेत्तदनन्तरम् || ४८ || प्. ९) जलाधिवासनम् मण्डपोत्तरदिग्भागे मण्डलं परिकल्प्य तु | शिवलिङ्गं समुद्धृत्य पञ्चसूत्रोपलक्षितम् || ४९ || ताम्रपात्रे विनिक्षिप्य देशकालौ प्रकीर्त्य च | घर्षणादिक्रियाजातजातदोषोपशान्तये || ५० || हिरण्यशृङ्गप्रमुखैरनुवाकैरनुक्रमात् | शिवलिङ्गं स्नापयामीत्यभिषिञ्चेदनन्तरम् || ५१ || पञ्चगव्येन सिद्धेन शुद्धैः पञ्चामृतैरपि | अभिषिञ्चेदिष्टलिङ्गं पञ्चब्रह्ममनूत्तमैः || ५२ || प्. १०) शुद्धोदकेन तल्लिङ्गं पुनः संस्नाप्य देशिकः | पात्रान्तरे विनिक्षिप्य नैर्-ऋते पद्ममण्डले | निक्षिप्य गन्धपुष्पाद्यैरर्चयेद् देशिकोत्तमः || ५३ || ततः शाणादिसंघर्षजाततापोपशान्तये | वारुणे मण्डले प्रस्थमितपानीयपूरिते || ५४ || ताम्रपात्रे तु निक्षिप्य तल्लिङ्गं वस्त्रवेष्टितम् | जलाधिवासनं कुर्यादब्लिङ्गैर्मनुभिस्ततः || ५५ || जलादुत्तार्य तल्लिङ्गं स्नानपात्रे निधाय वै | तत्पात्रं तु विनिक्षिप्य मण्डले वायुकोणगे || ५६ || पञ्चगव्येन च तथा भस्मना गन्धवारिभिः | तदुक्तमन्त्रैः संस्नाप्य लिङ्गमुद्वर्त्य वाससा || ५७ || पात्रान्तरे विनिक्षिप्य तत्पात्रं सोममण्डले | निधाय गन्धपुष्पाद्यैरर्चयेद् देशिकस्ततः || ५८ || धान्याधिवासनम् सप्तधातुस्फूर्तये तु कुर्याद्धान्याविधिवासनम् | तद्विधानं प्रवक्ष्यामि शृणु देवि समासतः || ५९ || प्. ११) दक्षिणे मण्डले प्रस्थप्रमितैः शालिभिः क्रमात् | तदर्धैस्तण्डुलैश्चैव तदर्धैश्च तिलैस्तथा || ६० || उपर्युपरि विन्यस्य स्थण्डिलानि प्रयत्नतः | दर्भैराच्छाद्य तल्लिङ्गं प्राक्छिरस्कमधोमुखम् || ६१ || तत्र निक्षिप्य गन्धादीन् दर्भांस्तत्पुरुषेण तु | लिङ्गे निक्षिप्य तस्याष्टदिक्षुकुम्भान् विनिक्षिपेत् || ६२ || अष्टविद्येश्वरांस्तेषु चावाह्य परिपूज्य च | वस्त्रैराच्छाद्य कुर्वीत शिवाग्निमुखमप्यथ || ६३ || शयनाल्लिङ्गमुद्धृत्य वह्निदिग्गतमण्डले | संस्थाप्य रुद्रसूक्तेन संस्नाप्य तदनन्तरम् | मण्डले पूर्वदिक्संस्थे निक्षिप्य च समर्चयेत् || ६४ || पुनस्तल्लिङ्गमादाय मण्डले त्वीशकोणगे | पात्रान्तरे विनिक्षिप्य पञ्चरुद्रैस्तु स्नापयेत् | धान्याधिवासकलितमण्डलीकलशोदकैः || ६५ || प्. १२) अध्वन्यासादिविधिः ततः शिवकलावाहनार्थं कुर्याद् यथाविधि | अध्वन्यासान् षडप्यत्र लिङ्गे संकल्प्यपूर्वकम् || ६६ || भुवनाभिख्यमध्वानं पट्टिकायामधो न्यसेत् | तत्कञ्जे तु पदाध्वानं वर्णाध्वानं च मध्यके || ६७ || ऊर्ध्वकञ्जे कलाध्वानं पट्टिकायां तथा पुनः | तत्त्वाध्वानं च विन्यस्येत्तत आज्यप्रघारिके | मन्त्राध्वानं च विन्यस्य गन्धाद्यैरभिपूजयेत् || ६८ || अग्न्यादिस्थापनम् तत्कलास्थैर्यसिद्ध्यर्थं होमं कुर्याद् विचक्षणः | चतुर्विंशत्युत्तरत्रिशतसंख्यायुतेन च | पञ्चाक्षरेण मनुना सतारेण तथा पुनः || ६९ || प्रधानकुण्डे जुहुयाद् व्याहृतीभिर्घृतेन तु | जयादिभिश्च जुहुयादग्निं रक्षेदनन्तरम् || ७० || शिष्यं समाह्वयन् सौम्यं सौम्यात्रोपविशेति च | कूर्मासनोपरिगते कुशादिपरिकल्पिते || ७१ || प्. १३) आसने समुपावेश्य पञ्चब्रह्ममनूत्तमैः | करन्यासं विधायादौ प्राणसन्धारणादिभिः | विशोध्य देहं तदनु विदध्याद् भूतशोधनम् || ७२ || सकलीकरणं कुर्याच्छिष्यदेहस्य देशिकः | पञ्चगव्येन तस्याथ कुर्यादन्तर्विशोधनम् || ७३ || अथ शिष्यस्याभिषेकदीक्षां दद्याद् गुरूत्तमः | अनादिभवसंपन्नसर्वदोषोपशान्तये || ७४ || पञ्चकुम्भोदकैः शुद्धैः शिष्यं संस्नापयेदपि | पञ्चतत्त्वविशुद्ध्यर्थं पञ्चब्रह्ममनून् जपन् || ७५ || पञ्चकुम्भेषु घटितं सूत्रमुद्धृत्य देशिकः | विश्वेत्तातेति तद्धस्ते बध्नीयात् कङ्कणं ततः || ७६ || षडध्वशोधनम् षडध्वशोधनद्वारा मांसपिण्डनिवृत्तये | स्वस्तिकारोहणाभिख्यां दीक्षां दद्याद्यथाविधि || ७७ || संहारक्रमतो विद्वान् शब्दार्थात्मषडध्वनः | पादादिषु तु विन्यस्येच्छिष्यस्य नियतात्मनः || ७८ || प्. १४) वर्णाध्वानं शब्दरूपं विन्यस्येत् पादयोर्बुधः | अर्थरूपं कलाध्वानं मेढ्रे न्यस्येदनन्तरम् || ७९ || शब्दरूपं पदाध्वानं नाभौ विन्यस्य देशिकः | तत्त्वाध्वानं त्वर्थरूपं हृदि न्यस्येदतन्द्रितः || ८० || मन्त्राध्वानं शब्दरूपं विन्यस्यैवं मुखे तथा | अर्थरूपं च भुवनाध्वानं न्यस्येच्छिरस्यपि || ८१ || पादादिषु शिखान्तेषु षट्सु स्थानेषु संयतः | षडक्षराणि विन्यस्य षड्वारं देशिकस्ततः || ८२ || भूतिरुद्राक्षधारणम् अनादिमलसंहृत्यै भूतिपट्टाख्यदीक्षया | स्नानमुद्धूलनं भूत्या धारणं चापि कारयेत् | ततः शिखादिस्थानेषु रुद्राक्षान् धारयेत् क्रमात् || ८३ || रुद्राक्षमेकं संमन्त्र्य सम्पूज्य च यथाविधि | शिष्यस्य दक्षिणे हस्ते बध्नीयाद् बन्धमुक्तये || ८४ || शिष्यस्य देहस्थाणवादिमलत्रयनिवृत्तये | चतुर्विंशत्युत्तरत्रिशतसंख्या युतेन तु | पञ्चाक्षरेण जुहुयात् सतारेण घृतेन वै || ८५ || प्. १५) हुत्वा व्याहृतिभिश्चैव जयादिभिरपि क्रमात् | पूर्णाहुतिं विधायाग्निं शिष्यहृत्सरसीरुहे | संहारमुद्रयाऽरोप्य पिदध्यान्मण्डलद्वयम् || ८६ || रुद्रादिक्षेत्रपालान्तं बलिं तत्पूर्वमण्डले | द्वितीये च महेन्द्रादिमहेशान्तं बलिं क्षिपेत् | अनन्तरं गुरुर्दद्याद् दीक्षामायत्त्तसंज्ञिताम् || ८७ || आयत्तदीक्षा स्वायत्तदीक्षा च मध्यमण्डलनिक्षिप्तं सूत्रपञ्चकलक्षितम् | शान्तेश्वराभिधं सर्वमन्त्रन्यासोपशोभितम् || ८८ || इष्टलिङ्गं समादाय वामहस्तेऽभिपूज्य च | सौम्यैतल्लिङ्गमीक्षस्वेतीष्टलिङ्गं प्रदर्शयेत् || ८९ || गुर्वन्तेवासिनोर्मध्ये ग्राहयित्वा पटं तदा | चूर्णिकामङ्गलध्वानैः पठेयुर्मङ्गलाष्टकम् || ९० || ततो माहेश्वरैः सार्धं शिष्यमुद्दिश्य देशिकः | अङ्गत्रयेऽपि दृढतो लिङ्गवान् भव सर्वदा || ९१ || प्. १६) इति ब्रुवन् जवनिकां वर्जयन् शिश्यमूर्धनि | ध्रुवं त इति मन्त्रेण निक्षिपेन्मङ्गलाक्षतान् || ९२ || उत्तराभिमुखं शिष्यं वामभागे निजासने | निवेशयन् तस्य दद्याद् दीक्षां स्वायत्तसंज्ञिताम् || ९३ || वस्त्रेणाच्छादयन् शिष्यमात्मानं च गुरुस्तदा | वामहस्तं तु शिष्यस्य मूलेनैवाभिमन्त्र्य च || ९४ || सप्तवारं सुसम्पूज्य स्ववामकरसंस्थितम् | निक्षेपत्तत्र तल्लिङ्गं त्रियम्बकमनुं स्मरन् | ततः सप्तापि दद्याच्च दीक्षास्ताः समयादिकाः || ९५ || सप्तविधा दीक्षा आद्या समयसंज्ञा स्यान्निःसंसारा द्वितीयका | निर्वाणाख्या तृतीया स्यात् तत्त्वसंज्ञा चतुर्थिका || ९६ || पञ्चमाध्यात्मसंज्ञा स्यात् षष्ठी तत्त्वविशोधिनी | सप्तमी तत्त्वबोधा स्याद् वेधादीक्षान्तरा इमाः || ९७ || समयदीक्षा प्राणानायम्य च गुरुः सप्तेमाः समयादिकाः | करिष्य इति सङ्कल्प्य तन्मूर्धानं समर्च्य च || ९८ || प्. १७) षडक्षरेण मनुना हस्तं स्वस्य च दक्षिणम् | षड्वारमभिमन्त्र्याथ शिवहस्तं विभाव्य च | तं शिष्यशिरसि न्यस्य पठेदेकाग्रमानसः || ९९ || अयं मे हस्तं इत्येवं मन्त्रं शिष्यं विलोकयन् | भो शिष्येति च सम्बोध्य ब्रूयादेवं विचक्षणः || १०० || हित्वा बन्धुजने प्रीतिं तां भक्तेषु स्थिरां कुरु | एवं समयमादिश्य निःसंसारां निबोधयेत् || १०१ || निःसंसारा दीक्षा देहेन्द्रियादिसंसारं परिहृत्य सदा मम | पूजोपचारः संसार इति भावय चेतसि | इत्यादिश्य च दयाच्च दीक्षां निर्वाणसंज्ञिताम् || १०२ || निर्वाणदीक्षा मलत्रयसमुद्भूते तापत्रयभयाकुले | दुरन्ते दुर्भवोपान्ते मनो न कुरु यत्नतः | इति निर्वाणमादिश्य दद्यात् तत्त्वाभिधायिनीम् || १०३ || प्. १८) तत्त्वदीक्षा लिङ्गाङ्गतत्त्वे विज्ञाय लिङ्गसायुज्यवान् भव | उपदिश्यैवमथ च दद्यादध्यात्मसंज्ञिताम् || १०४ || अध्यात्मदीक्षा प्राणे लिङ्गं प्रतिष्ठाप्य लिङ्गे प्राणं निधाय च | लिङ्गं निरीक्षमाणः सन् लिङ्गप्राणी सदा भव | आदिश्यैवं ततो दद्यात् तत्त्वसंशोधनात्मिकाम् || १०५ || तत्त्वसंशोधनदीक्षा शब्दादीन् विषयान् सर्वांस्तत्तदिन्द्रियगोचरान् | आचारलिङ्गमुख्येभ्यः षड्लिङ्गेभ्यः समर्पयेत् || १०६ || तत्त्वबोधाख्या दीक्षा वर्तस्व शुद्धधीर्नित्यं प्रयतोऽपि जितेन्द्रियः | उपदिश्यैवमपि च दद्यात् तत्त्वोपदेशिनीम् | दद्याद्दीक्षां विधानज्ञः कृपापरवशो गुरुः || १०७ || सच्चित्सुखनिजाकारं लिङ्गं यद् ब्रह्मसंज्ञितम् | तदसि त्वमुपास्वातस्तदेवाहमिति ध्रुवम् | बोधाख्यया दीक्षयैवं शिष्यमादिश्य देशिकः || १०८ || प्. १९) सप्तविधा मन्त्रदीक्षा प्राणानायम्य च गुरुर्मनुदीक्षाचिकीर्षया | सप्त चैकाग्रचित्ताद्या दद्याद् दीक्षा अनुक्रमात् || १०९ || तत्रैकाग्रमतिस्त्वाद्या द्वितीया तु दृढव्रता | पञ्चेन्द्रियार्पणाभिख्या तृतीया परिकीर्तिता || ११० || अहिंसाख्या तुरीया स्याल्लिङ्गनिष्ठा तु पञ्चमी | अनन्तरा विनिर्दिष्टा षष्ठी लिङ्गमनोलया | सप्तमी तु समाख्याता सद्योमुक्तिसमाह्वया || १११ || तत्स्वरूपं प्रवक्ष्यामि शृणु देवि समासतः | इष्टलिङ्गात् परं वस्तु शिष्य त्वं नावलोकय | इत्येकाग्रमतिं दत्वा दीक्षां दद्याद् दृढव्रताम् || ११२ || शरीरपातपर्यन्तं न जहीहि व्रतान्यपि | दृढव्रतामिति प्रोक्त्वा दद्यात् पञ्चेन्द्रियार्पणाम् || ११३ || सत्यहं मत्पतिर्लिङ्गमिति निश्चित्य चेतसि | सदा तनुमनोभावानिष्टादिभ्यः समर्पय | इत्यादिश्य ततो दद्यादहिंसासंज्ञितां गुरुः || ११४ || प्. २०) सर्वाणीमानि भूतान्यप्यात्मवत् परिभावयन् | मा हिंसीरित्युपादिश्य लिङ्गनिष्ठामुपादिशेत् || ११५ || आदिमध्यान्तरहितं लिङ्गं यद् ब्रह्मसंज्ञितम् | तन्निष्ठो भव सद्बुद्ध इत्युपादिश्य सद्गुरुः | दीक्षामुपदिशेद् भूयो लिङ्गरूपमनोलयाम् || ११६ || लिङ्गरूपमभिध्यायन्नमनस्कश्चिरं भव | इत्यादिश्य पुनर्दद्यात् सद्योमुक्तिसमाह्वयाम् || ११७ || मन्त्रोपदेशविधिः मदुक्तार्थे स्थिरमतिः प्रवर्तस्व विसंशयः | इति सम्बोध्य स गुरुर्मन्त्रद्वयमिदं पठेत् | प्राणेष्वन्तरिति स्पष्टं शिवेन वचसेति च || ११८ || शिष्यस्य दक्षिणे कर्णे षडक्षरमनुं शनैः | त्रिवारमुपदिश्यैवं भावितां मनुदीक्षया || ११९ || शैवीं कलां स्वमनसा विभाव्य च ततः परम् | दृष्टावानीय च तया शिष्यवामकरस्थिते | लिङ्गे निवेशयेत् क्षिप्रं मूलमन्त्रमनुस्मरन् || १२० || प्. २१) यथा कला तथा भावो यथा भावस्तथा मनः | यथा मनस्तथा दृष्टिर्यथा दृष्टिस्तथा स्थलम् || १२१ || जलकुम्भाग्रसद्व्याप्ततैलबिन्दुर्यथा तथा | देहप्राणात्मसुव्याप्ता संस्थिता शाम्भवी कला || १२२ || ज्वलत्कालानलाभासा तटित्कोटिसमप्रभा | तस्योर्ध्वे तु शिखा सूक्ष्मा चिद्रूपा परमा कला || १२३ || या कला परमा सूक्ष्मा तत्त्वानां बोधिनी परा | तामाकृष्य यथान्यायं लिङ्गे समुपवेशयेत् | प्राणप्रतिष्ठामन्त्रं च मूलमन्त्रं पथेदपि || १२४ || अथास्मिन् संस्कृते लिङ्गे सुस्थिरो भव सर्वदा | किञ्च भक्तैकगात्रस्त्वं भवेत्यभ्यर्थयेच्च माम् || १२५ || मा भूया भौतिकप्राणी लिङ्गप्राणी भवेति च | शिष्यमादिश्य दद्याच्च पादतीर्थप्रसादकौ || १२६ || प्. २२) भूयोऽप्युपदिशोच्छिष्यं सद्गुरुः करुणानिधिः | माहेश्वरान् गुरुं लिङ्गं सम्यगर्चय नित्यशः || १२७ || अष्टस्वावरणेषु त्वं श्रद्धां कुरु प्रयत्नतः | प्रवर्तस्व महाबुद्धे पञ्चाचारेष्वपि क्रमात् || १२८ || अङ्गलिङ्गप्रतिष्ठादीक्षा इति सम्बोध्य भूयोऽपि प्राणानायम्य देशिकः | अङ्गलिङ्गप्रतिष्ठाख्यां दीक्षां शिष्यस्य धीमतः || १२९ || करिष्.य इति संकल्प्य लिङ्गं बद्ध्वा सुवासा | नमो ब्रह्मण इत्येतं धृतिमन्त्रं समुच्चरन् || १३० || शिष्यस्य कण्ठे हस्ते वा बध्नीयात् तदनन्तरम् | गुर्वन्तेवासिनोर्वास आच्छादकमनूत्सृजेत् || १३१ || शिष्यकर्तव्यनिर्देशः गुरवेऽथ स शिष्यसु प्रणामत्रयमाचरेत् | गोभूम्याद्यैर्महादानैर्देशिकं परितोषयेत् || १३२ || सद्योमुक्तिप्रदमेतद् व्रतम् अयि प्रोक्तं मया देवि सद्योमुक्तिप्रदं व्रतम् | शृणु वेदेष्वनन्तेषु विस्तृतेष्वागमेषु च | नातः परतरं किञ्चिद्विद्यते मोक्षसाधनम् || १३३ || श्रौतस्मार्तसदाचारपरस्यानन्तजन्मसु | चित्तशुद्ध्या भवेद् भक्तिरन्यदेवसमाश्रया || १३४ || अन्यदेवार्चनव्यग्रचेतसोऽनन्तजन्मसु | देवान्तरप्रसादेन मयि भक्तिः प्रजायते || १३५ || मदर्चनपरस्यापि देहिनो बहुजन्मसु | लभ्यते मत्प्रसादेन कस्याप्यन्तिमजन्मनः || १३६ || व्रतमहिमा देशिकस्य प्रसादेन येन लब्धमिदं व्रतम् | न तं मायाऽनुबध्नाति न स भूयोऽभिजायते || १३७ || गुरुबोधाग्निना दग्धा यस्य पाशा ह्यशेषतः | तस्य निर्दग्धबन्धस्य पुनर्बन्धः कथं भवेत् || १३८ || गुरुकारुण्यपीयूषरसास्वादविनोदिनः | अमृतस्यास्य निकटं कथं मृत्युः प्रयास्यति || १३९ || प्. २४) गुरुदत्तपरज्ञानप्रकाशविलसद्दृशः | भास्वतस्तस्य तु तमः सकाशां कथमेष्यति || १४० || अनवध्यस्मदानन्दतुन्दिलस्य महामतेः | विदुषो नित्यतृप्तस्य कथं शोको भविष्यति || १४१ || श्रुतौ यस्य मदीयोक्तौ विश्वासः परमो भवेत् | स एवात्राधिकारी स्यान्नान्यो मोक्षाय कल्पते || १४२ || इति देवि मयाप्रोक्तं शाम्भवव्रतलक्षणम् | गोपनीयं प्रयत्नेन किमतः श्रोतुमिच्छसि || १४३ || इति श्रीकारणगमे उत्तभागे श्रीपर्वतीपरमेश्वरसंवादे क्रियापादे महापाशुपतविधिर्नाम प्रथमः पटलः || १ || द्वितीयः पटलः देव्युवाच देवदेव महादेव जगदीश नमोऽस्तु ते | एतदाकर्णनादस्मि कृतकृत्या महेश्वर || १ || अत्र मे जायते कश्चित् संशयः शशिशेखर | तदपाकुरु कारुण्यात् प्राणेश शृणु मद्वचः || २ || ज्ञानादेव तु कैवल्यमिति प्रोक्तं त्वया पुरा | एतद्व्रतेनैव भवेन्मुक्तिरित्युच्यते कथम् || ३ || ज्ञानेन न विना मुक्तिर्यदि स्याद् देहधारिणाम् | व्रतेनानुष्ठितेन स्यात् किं फलं ब्रूहि तत्त्वतः || ४ || महादेव उवाच ज्ञानादेव कैवल्यम् साधु पृष्टं देवि वक्ष्याम्यवहिता शृणु | ज्ञानादेव तु कैवल्यमिति सत्यं वचो मम || ५ || प्. २६) तथाऽपि ज्ञानसम्प्राप्तिर्व्रतेन न विना भवेत् | ज्ञानोपदेशः कार्त्स्न्येन व्रतेऽस्मिन्नुच्यते किल | व्रतेनानेन न विना ज्ञानायाधिकृतो भवेत् || ६ || अदीक्षासंस्कृते जन्तावपवित्रहृदाकुले | उपदिष्टमपि ज्ञानं मरुवन्न प्ररोहति || ७ || लब्धं कथमपि ज्ञानं लिङ्गनिष्ठाविवर्जिते | न फलाय भवत्येव यथा सस्यमरक्षितम् || ८ || दीक्षासंस्कृतिसंशुद्धे चित्ते जन्तोः समर्पितम् | लिङ्गाङ्गसामरस्याख्यं मन्निष्ठागोपितं परम् | भक्तिसिक्तं मम ज्ञानं मोक्षाय भवति ध्रुवम् || ९ || मत्प्रसादेन न विना मुक्तिः संसृतिबन्धनात् | मम ज्ञानेन न विना मत्प्रसादो भविष्यति || १० || दीक्षाया ज्ञानसाधनत्वम् मज्ज्ञानं न भवत्येव ह्यनया दीक्षया विना | तस्मादीयं महादीक्षा मोक्षदा निश्चिता खलु || ११ || प्. २७) तस्माद् दीक्षामिमां मुक्त्वा मोक्षकामः पथान्तरैः | गच्छन्न मुञ्चते जन्तुः कल्पकोटिशतैरपि | तस्मादसंशयं देवि व्रमेतद् विमुक्तिदम् || १२ || देव्युवाच देवात्र मम भूयोऽपि जायते संशयो महान् | उक्तं हि भवता दीक्षा ज्ञानद्वारा विमोक्षदा | तस्मात् सिद्धा हि दीक्षाया ज्ञानसाधनता परम् || १३ || विद्येत दीक्षितः कश्चित् सम्यग्ज्ञानविवर्जितः | रागद्वेषानुबद्धश्च तस्य मुक्तिः कथं भवेत् || १४ || यदि तस्यापि मुक्तिः स्याद् ज्ञानापेक्षा निरर्थका | चोद्विमुक्तिर्न तस्य स्याद् व्रतमेतन्न मोक्षदम् | तमेतं संशयं छिन्धि करुणावरुणालय || १५ || महादेव उवाच युक्तं पृष्टवती देवि तुष्टोऽस्मि तव भाषणात् | रहस्यं कथयाम्यद्य त्वत्संशयनिवारकम् || १६ || प्. २८) शाम्भवव्रतस्य ज्ञानसाधनत्वम् अज्ञस्य कुटिलस्यापि शाम्भवव्रतसेविनः | प्राणोत्क्रमणवेलायां वाराणस्यामिव ध्रुवम् || १७ || ज्ञानमावेदयिष्यामि मत्स्वरूपनिबोधकम् | तेन वै मुच्यते जन्तुर्मत्प्रसादान्न संशयः || १८ || गृह्णन् दीक्षामिमां वाथ वसन् वाऽनन्दकाननम् | नरो यथेच्छाचारोऽपि न भीयान्मृत्युबन्धनात् || १९ || न जन्मयातना जन्तोर्न च संयमयातना | मज्ज्ञानविमुखस्यापि शाम्भवव्रतसेविनः || २० || महापातकयुक्तोऽपि दीक्षितः शुचितामियात् | दीक्षितः पातकी चैत स्याद् गच्छेद्भैरवयातनाम् || २१ || स तथा भैरवीमुग्रां यातनामनुभूय च | मदनुग्रहपात्रः स्यान्नपुनर्जन्मभाग्भवेत् || २२ || प्. २९) दीक्षितोऽदीक्षितो वाऽपि शैवाचारविदूषकः | भक्तादिनिन्दकश्चेत् स्यान्नरकी कालमक्षयम् || २३ || तदुक्तं हि मया देवि दीक्षयं मोक्षदेत्यहो | नह्यत्र संशयः कार्यो मदुक्तौ गिरिकन्यके || २४ || देव्युवाच ममापराधः क्षन्तव्यो मीढुष्टम नमोऽस्तु ते | त्वयि प्रसन्ने जगति दुर्लभं किमु विद्यते || २५ || न कोऽपि विशयो मेऽस्ति भवदुक्तौ भवोद्भव | श्रुतौ किमस्ति विशयः सा भवत्सूक्तिरेव हि || २६ || तथाऽप्यपृच्छं लोकानां संशयापजिहीर्षया | संवृत्ता गतसंदेहा वृषवाह क्षमस्व माम् || २७ || महादेव उवाच भवत्याः परिपृच्छन्त्या जनतानुजिघृक्षया | नेह दोषोऽणुरप्यस्ति गुण एव महान् भवेत् | परिपृच्छस्व किमपि वक्ष्यामि गिरिनन्दिनि || २८ || प्. ३०) देव्युवाच सेयं हि शाम्भवी दीक्षा ज्ञानिष्ठाविधायिनी | दृश्यते ज्ञाननिष्ठा हि यतेरेवोचिता भवेत् || २९ || नित्यनैमित्तिकमुखकर्मतत्परचेतसः | कुटुम्बभरणव्यग्रमनसो गृहमेधिनः | ज्ञाननिष्ठा कथं सध्या ब्रूहि मे करुणानिधे || ३० || महादेव उवाच ज्ञाननिष्ठायां सर्वेषामधिकारः मोक्षायाधिकृतो लोके यतिरेव कथं भवेत् | ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तु वा || ३१ || ब्राह्मणः क्षत्रियो वाऽथ वैष्यः शूद्रोऽन्त्यजोऽपि वा | पुमान् नार्यथवा क्लीबः सर्वे मोक्षाधिकारिणैः || ३२ || मदनुग्रहपात्रो यः सर्वो मोक्षाय कल्पते | मत्प्रसादविहीनाय व्रतमेतन्न रोचते || ३३ || ज्ञानेन न विना मोक्षः सिद्ध्येत् केनापि सुव्रते | ज्ञानं च न विनाऽनेन शाम्भवेन व्रतेन तु || ३४ || प्. ३१) व्रतमेतद् द्विविधम् वैदिकं तान्त्रिकं चेति व्रतमेतद् द्विधा भवेत् | द्विजानां वैदिकं प्रोक्तमन्येषां तान्त्रिकं स्मृतम् || ३५ || नित्यं नैमित्तिकं वाऽपि क्रियते गृहमेधिना | मदाराधनबुद्ध्या यत्कर्म तद् ज्ञानसाधनम् || ३६ || गरुजङ्गमलिङ्गार्चासाधनं यद् भवेद् भुवि | कुटुम्बके विनिर्दिष्टं परमं मोक्षसाधनम् || ३७ || तत्कर्म च कुटुम्बं वा न मुक्तिपथरोधकम् | लिङ्गनिष्ठागरिष्ठस्य विदुषो गृहमेधिनः || ३८ || मद्भक्तगणसंसेवानिर्भरानन्दवैभवम् | गृहमेधीव सम्प्राप्तुं कथं पात्री भवेद्यतिः || ३९ || विरक्तश्चेद्यतिर्भूयादविरक्तो गृही भवेत् | यतिः सन्नविरक्तश्चेन्नरकी कालमक्षयम् || ४० || पुत्रदारानुषक्तः सन्नविरक्तश्चरन्नपि | मन्निष्ठायुक्तचित्तश्चेद् गृही मुक्तो भवेद् ध्रुवम् || ४१ || प्. ३२) ज्ञानं विमुक्तिदं प्रोक्तं नाश्रमो मोक्षसाधनम् | ज्ञाननिष्ठा हि यस्य स्याच्छाम्भवव्रतपूर्विका | कोऽपि वा भवताल्लोके स हि बन्धाद्विमुच्यते || ४२ || तस्मादिदं व्रतं प्रोक्तं परमं मोक्षसाधनम् | इतोऽपि परिपृच्छस्व किमन्यच्छ्रोतुमिच्छसि || ४३ || देव्युवाच कथमत्र स्त्रीणामप्यधिकारः ? व्रतमेतद्धि नारीणामनुष्ठेयं कथं भवेत् | पुरस्ताद्वा परस्ताद्वा कर्तव्यं पाणिपीडनात् || ४४ || कथं पुरस्ताद् युज्येत स्त्रियः कर्मणि वैदिके | अधिकारस्तु तद्योग्यविवाहासंस्कृतत्वतः || ४५ || परस्ताद् यदि गृह्येत भर्तृतस्त्वथवाऽन्यतः | गृह्यते शाम्भवी दीक्षा भर्तृश्चेद् गुरुः स हि || ४६ || गुरुः पिता भवेत्तस्य कथं पत्नी भवेदियम् | अन्यतश्चेद्भवेत् तस्या अन्यशेषत्वमागतम् | पत्युर्गुरोर्वा वचसि स्थातव्यमनया पुनः || ४७ || प्. ३३) सङ्कल्पाधिकृतिर्नास्ति योषितामिति कथ्यते | तासामस्यां हि दीक्षायामधिकारं कथं भवेत् || ४८ || अविश्रान्तमनीषाया गृहकृत्यैरनारतैः | ज्ञाने लभेतावकाशः पतिमत्याः कथं प्रभो || ४९ || लिङ्गनिष्ठापरायाः स्यात् कथं पुत्रादिपालनम् | कथं वा भर्तृशुश्रूषा कथं पुत्रादिपालनम् || ५० || पतिरेव हि नारीणां परमं दैवतं भवेत् | तासां कथं नु युज्येत देवतोपासनं वद || ५१ || महादेव उवाच स्त्रीणां दीक्षाग्रहणप्रकारः व्रमावश्यकमिदं कथ्यते योषितामपि | अनुष्ठेयं परस्ताद्वै नियतं पाणिपीडनात् || ५२ || ब्राह्मणीनां हि दीक्षाया ग्रहणं भर्तृतो वरम् | भर्त्तर्यशक्ते ग्रहणमन्यतो वा विशिष्यते || ५३ || अब्राह्मणीनां युज्येत भर्तृतो ग्रहणं नहि | अब्राह्मणस्य पत्युर्वा नोपदेष्ट्टत्वमिष्यते || ५४ || प्. ३४) पत्न्या भर्तृगुरौ चैव भर्त्रा पत्नीगुरावपि | गुरुदृष्टिर्विधेयो स्यादन्यथा पततो ध्रुवम् || ५५ || यतः पत्नी गुरोराज्ञाविधेया भर्तुरप्यतः | तस्मादन्यगुरुत्वेऽपि न बाधा योषितो भवेत् || ५६ || गुरुणा ह्युपदिष्टाया नान्यशेषत्वमिष्यते | तदन्येन हि भुक्ताया एव स्यादन्यशेषता || ५७ || निजभर्तुर्गुरुत्वेऽपि न दोषो योषितो भवेत् | पितृता तस्य गौणी स्यानैव मुख्या भवेद्यतः || ५८ || स एव माता च पिता देव इत्युपचर्यते | न तावता भर्तृभार्यासम्बधो बाध्यते ध्रुवम् || ५९ || सङ्कल्पाधिकृतिस्तासां नास्ति स्वर्ग्येषु कर्मसु | सिद्धा विमोक्षाधिकृतिर्न निरोद्धुं हि शक्यते || ६० || यथाऽचार्ये पितरि च देवताबुद्धिरुच्यते | तथैव भर्तरि प्रोक्ता न सा देवनिषेधिनी | ततश्च देवतोपास्तिः शस्ता स्याद्योषितामपि || ६१ || प्. ३५) पतिपत्नीत्वसम्बन्धो न नित्यः कल्पितो हि सः | नारीनरत्वादिकमप्यैहजन्मिकमीरितम् || ६२ || नैव स्त्री न पुमानेष नैव चायं नपुंसकः | यद्यच्छरीमाधत्ते तेन तेन स लिप्यते || ६३ || नारीत्वमैहिकं वा.पि भार्यात्वं कल्पितं तथा | निरुन्धतः कथं तन्व्याः पन्थानं मोक्षगामिनम् || ६४ || देववद्भावितो वाऽपि गुरुवत्सेवितोऽपि वा | मदुपास्तिं विना मूर्खस्तारयेत् स कथं सतीम् || ६५ || व्रतमिदं नारीणामप्यनुष्ठेयम् संसरन् भवकान्तारे निमज्जन् दुःखवारिधौ | अतीर्णस्तु स्वयं मूर्खस्तारयेत् स कथं सतीम् | तस्मादवश्यं नारीणामनुष्ठेयं व्रतं भवेत् || ६६ || अदीक्षासंस्कृता नारी दीक्षितस्य निजेशितुः | न योग्या परिचर्यायै दीक्षिणीया सती ततः || ६७ || अदीक्षासंस्कृता नारी यं यं पाकं करोति च | स स नैवार्हति किल पाको मह्यं निवेदितुम् || ६८ || प्. ३६) अदीक्षासंस्कृता नारी परिस्पृशति यज्जलम् | अभिषेकक्रियादीनां मम नार्हति तज्जलम् || ६९ || पारतन्त्र्यं हि नारीणामुक्तं स्वर्ग्येषु कर्मसु | ऐहिकेष्वपि मोक्षार्थे न स्वातन्त्र्यं विहन्यते | तस्मादवश्यं नारीणां दीक्षा देया बुधोत्तमैः || ७० || लिङ्गनिष्ठाऽविरोधेन स्वकृत्यान्यनुपालयेत् | न दुष्यते ततो नारी भर्तृशुश्रूषणादिषु || ७१ || पतिं परिचरन्ती च श्वश्व्रादीन् पोषयन्त्यपि | पालयन्त्यपि पुत्रादीन् लिङ्गनिष्ठां न विस्मरेत् || ७२ || यथैव बालापत्यायाः कुर्वन्त्या भवनक्रियाः | बालायत्तं यथा चित्तं दीक्षितायास्तहोचितम् | ततो न गृहकृत्यानि बाधन्ते मदुपासनाम् || ७३ || लिङ्गनिष्ठापरा भूत्वा मन्निष्ठायुक्तचेतसः | पत्युः संसेवनाद् भर्त्रा मत्सयुज्यं गमिश्यति || ७४ || देव्युवाच रजःप्रभवदुष्टायाः प्रसवाशौचसंगतेः | लिङ्गस्पर्शनपूजाद्याः करणीयाः कथं प्रभो || ७५ || प्. ३७) महादेव उवाच अर्चा ह्यवसराभिख्या गृहिणीनां तु सम्मता | न मन्त्रा वैदिका योग्या योषितां तान्त्रिकाः स्मृताः || ७६ || रजोदोषादीनामप्रवृत्तिः दीक्षापवित्रिताङ्गत्वाद् लिङ्गस्पर्शो न दुष्यते | रजोवत्त्वादिकालेषु कार्या पूजा प्रयत्नतः | प्रसवप्रमुखापत्सु पूजाभङ्गो न दोषदः || ७७ || देव्युवाच वैदिकी वाऽथवा दीक्षा तान्त्रिकी योषितां भवेत् | वैदिकी यदि पूजायां मन्त्राः स्युस्तान्त्रिकाः कथम् || ७८ || तान्त्रिकी यदि दम्पत्योदीक्षाभेदः परस्परम् | सिद्धस्तयोः कथं नु स्यात् साङ्गत्यं सर्वकर्मसु | तमेनं संशयं छिन्धि करुणावरुणालय || ७९ || महादेव उवाच दीक्षे ह्युभे विकल्पेन युज्येते द्विजयोषिताम् | तान्त्रिक्यामधिकारः स्याद्भर्तुं स्त्रीणां स्वतन्त्रतः || ८० || प्. ३८) वैदिकतान्त्रिकदीक्षाविकल्पः पुमांसमग्रतः कृत्वा वैदिक्यां परतन्त्रतः | दीक्षाभेदस्तु दम्पत्योर्न साङ्गत्यनिरोधः || ८१ || अथाधिकारसंप्राप्तः स्त्रीपुंसोर्धर्मभेदवत् | सर्वमुक्तं समासेन किमतः श्रोतुमिच्छसि || ८२ || इति श्रीकारणागमे उत्तरभागे पार्वतीपरमेश्वरसंवादे क्रियापादे शाम्भवदीक्षामाहात्म्यकथनं नाम द्वितीयः पटलः || २ || तृतीयः पटलः देव्युवाच देवदेव महादेव जगदीश नमोऽस्तु ते | शाम्भवव्रतिनां नित्यमाह्निकं ब्रूहि मेऽधुना || १ || महादेव उवाच शाम्भवव्रतिनामाह्निकम् ब्राह्मे मुहूर्ते मद्भक्तो बुद्ध्यमानो नगात्मजे | नेत्रयोः स्पर्शयन्निष्टलिङ्गं मामनुसंस्मरेत् || २ || गुरूपदिष्टमार्गेण द्वादशान्तेऽथवा हृदि | दिव्यरूपमरूपं वा चिन्तयेन्मामनन्यधीः || ३ || धर्मानर्थांश्च तत्क्लेशान् दिनकृत्यं च चिन्तयेत् | तथा चत्वारि कर्माणि सन्ध्यायां न समाचरेत् | भुक्तिं च कामिनीसक्तिमधीतिं सुप्तिमेव च || ४ || उदयत्यस्तमयति रवौ सुप्यति चेन्नरः | प्राणानायम्य च जपेन्मूलमष्टोत्तरं शतम् || ५ || प्. ४०) मद्भक्तं भस्मरुद्राक्षं मां च विल्वमहीरुहम् | प्रातःकाले तु यः पश्येत् सोऽभीष्टं समवाप्नुयात् || ६ || पाषण्डं भविनं व्रात्यं याचं देवनिन्दकम् | प्रातःकाले तु यः पश्येत् सोऽनिष्टं समवाप्नुयात् || ७ || शौचविधिः ततो ग्रामाद् बहिर्यायादाग्नेयीं विदिशं नरः | शरक्षेपमितां तत्र जलपात्रं निधाय वै || ८ || निवीतं शिवसूत्रं च मूर्ध्नि विन्यस्य वाससा | शिरः प्रावृत्य नोर्ध्वं च नाधश्चैव विलोकयन् || ९ || सोममग्निमथादित्यं कुर्वन्नाभिमुखं द्विजः | ततश्च विसृजेन्मूत्रं पुरीषं च समाहितः || १० || अतो मृदा वारिणा च भावशुद्धिसमन्वितः | शौचं तु यत्नतः कुर्यादन्यथा निष्फलाः क्रियाः || ११ || अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा | यः स्मरेद्वै विरूपाक्षं स बाह्याभ्यन्तरः शुचिः || १२ || प्. ४१) शौचं विधाय विधिवद्धस्तपादं विशोध्य च | जलं मह्यं समर्प्यैव गण्डूषान् विसृजेत्तदा || १३ || संबद्धशिख आसीनो वाङ्मनःकायसंयुतः | कृत्वोपवीतं सव्यांसे तत आचमनं चरेत् || १४ || अन्तर्जानुकरो भूमिमधः कायं तथा स्पृशन् | उदङ्मुखस्तु तीर्थेन ब्राह्मेणोपस्पृशेज्जलम् || १५ || सुप्ते क्षुते च निष्ठीवे परिधानेऽश्रुनिर्गमे | कृत्वा मूत्रपुरीषे च शौचार्थी समुपस्पृशेत् || १६ || उपस्पर्शे तथा स्नाने नियतं सर्वकर्मसु | कुशग्रहः प्रशस्तः स्यान्न शस्तः पैतृके भवेत् || १७ || दन्तधावनम् आचम्य प्राङ्मुखो नित्यमाचरेद् दन्तधावनम् | मधुरित्यादिमन्त्रेण शाखां समभिमन्त्र्य च || १८ || प्. ४२) आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च | ब्रह्मा प्रज्ञां च मेधां च त्वं नो एहि वनस्पते | इति सम्प्रार्थ्य मन्त्रेण धावयेच्छाखया तथा || १९ || सर्वे कण्टकिनः शस्ताः क्षीरिणो दन्तधावने | न विल्वशाखया कुर्याद् दन्तशुद्धिं कदाचन || २० || स्नानकर्म दन्तशुद्धिं विधायाथ प्रातःस्नानं समाचरेत् | महानद्यो देवखातास्तटाकाश्च सरांसि च | गर्तप्रश्रवणदीनि शस्तानि स्नानकर्मणि || २१ || रूपं तेजो बलं शौचमायुर्धृतिररोगता | मेधादुःस्वप्ननाशश्च गुणाः स्नानस्य कीर्तिताः || २२ || मदालयसमीपे तु यत्तोयं परितिष्ठते | शिवगङ्गेति विज्ञेया तत्र स्नात्वा लभेत् माम् || २३ || मलस्नानं मन्त्रस्नानं च नद्यादिकान् समागम्य स्नानं कुर्याद्विशेषतः | मलस्नानमिदं प्रोक्तं मन्त्रस्नामथ शृणु || २४ || सङ्कल्पः सूक्तपठन्ं मार्जनं चाघमर्षणम् | देवतातर्पणं चैव स्नानं पञ्चाङ्गमुच्यते || २५ || मत्स्यमण्डूकसर्पाद्यैरनेकैर्जलजन्तुभिः | सेवितं तु जलं नित्यं तस्माद् दुष्टं भवेदतः || २६ || हस्तमात्रप्रमाणेन् परितश्चतुरश्रकम् | हुंफडन्तेन चास्त्रेण मृदं गृह्णीत साधकः || २७ || अघोरेण विशोद्ध्यैव पुरुषेण त्रिभागकम् | पूर्वस्मिन् दक्षिणे चैव तथा चैवोत्तरे क्षिपेत् || २८ || ईशानेन तु मन्त्रेण चेकैकमभिमन्त्रयेत् | अस्त्रं ब्रह्मशिवं जप्त्वा पूर्वादि क्रमशो न्यसेत् || २९ || अस्त्रजप्तं तु यद्भागं दशदिक्षु विनिक्षिपेत् | शिवजप्तं तु यद्भागं तीर्थमध्ये विनिक्षिपेत् || ३० || फट्कारेणास्त्रमन्त्रेण तथा नाराचमुद्रया | जले सूक्ष्माश्च ये दोषास्तेषामुच्चाटनं भवेत् || ३१ || प्. ४४) ब्रह्मजप्तस्य चार्धेन चात्मनोऽङ्गानि कुण्ठयेत् | शिरो वक्त्रं च हृदयं पादौ गुह्यं च भागशः || ३२ || शेषार्धेनोपसंस्पृश्य स्नात्वाऽद्भिस्तु पुनः पुनः | उपस्पृश्य तथा स्नायाच्छिवतीर्थस्य मध्यतः || ३३ || शिवब्रह्माङ्गविद्याङ्गैः स्नानं कृत्वा विचक्षणः | पञ्चब्रह्मशिवाङ्गैश्च त्रिः पठेदघमर्षणम् || ३४ || ततः शिवात्मकैर्मन्त्रैस्तोयं कृत्वा शिवात्मकम् | मार्जनं संहितामन्त्रैस्तत्तोयेन समाचरेत् || ३५ || अस्त्रेण मन्त्रितं तोयं वामनासाग्रमानयन् | इडयान्तर्गतं तेन दग्धमेनो विचिन्तयेत् || ३६ || बहिर्गतं पिङ्गलया भावयन् दक्षिणे करे | धृत्वा जलं तत्र पापपूरुषं भावयेत्ततः || ३७ || प्. ४५) वामभागे वज्रशिलां ध्यात्वा तत्र क्षिपेज्जलम् | चूर्णितं भावयेत् पापनरमित्यघमर्षणम् || ३८ || देवादींस्तर्पयेद् विद्वान् मूलमन्त्रजपेन च | देवं मां मद्गणांश्चैव तर्पयेच्छुद्धमानसः || ३९ || भस्मस्नानम् प्रातःस्नाने मृत्तिकया नानुलिम्पेच्छरीरम् | ततस्तु धौतवसने धृत्वा त्वक्त्वाऽऽर्द्रवाससी || ४० || इष्टलिङ्गं करे न्यस्य मज्जयित्वा च वारिणा | भस्मस्नानं ततः कुर्याच्छुद्धान्तःकरणः शुचिः || ४१ || भस्मसंगृह्य मूलेन षड्वारमभिमन्त्र्य च | शिर ईशानमन्त्रेण पुरुषेण मुखं तथा || ४२ || हृत्प्रदेशमघोरेण वामदेवेन गुह्यकम् | पादौ सद्येन सर्वाङ्गं प्रणवेनैव सेचयेत् || ४३ || भस्मना विहितं स्नानमिदमाग्नेयमुत्तमम् | शुष्केण भस्मना लिम्पेत् सर्वाङ्गं मूलमुच्चरन् | उद्धूलनमिदं पश्चाद् सजलेनैव कुण्ठयेत् || ४४ || प्. ४६) वामपाणितलन्यस्ते षट्कोणं भस्मनि न्यसेत् | प्रणवं तन्मुखे चैव वायकारौ भुजद्वये || ४५ || शिकारं यन्त्रमध्ये च नमकारौ पदद्वये | विलिख्य मूलमन्त्रेण षड्वारमभिमन्त्रयेत् || ४६ || उत्तमाङ्गे ललाटे च कर्णयोर्नेत्रयोर्द्वयोः | नासावक्त्रगलेष्वेवमंसद्वितयके तथा || ४७ || कूर्परे मणिबन्धे च हृदये पार्श्वयोर्द्वयोः | नाभौ गुह्यद्वये चैव ऊर्वोः स्फ्ग्बिम्बजानुषु || ४८ || उअङ्घाद्वये च पदयोर्द्वात्रिंशत्स्थानके तथा | भस्म त्रिपुण्ड्रं संधार्य रुद्राक्षान् बिभृयात्ततः || ४९ || रुद्राक्षधारणम् शिखायामेकरुद्राक्षं त्रिंशत्तु शिरसा वहेत् | षट्त्रिंशत्तु गले दद्याद् बाह्वोः षोडश षोडश || ५० || प्. ४७) द्वादश मणिबन्धेऽपि स्कन्धे पञ्चशतं वहेत् | अष्टोत्तरशतैर्मालां जपयज्ञे प्रकल्पयेत् || ५१ || द्विसरं त्रिसरं वाऽपि सराणां पञ्चकं तु वा | सप्तकं दशकं वाऽपि बिभृयात् कण्ठदेशतः || ५२ || मकुटे कुण्डले चैव कर्णिकाहारकेषु च | केयूरकटके चैव कक्षबन्धे विशेषतः || ५३ || त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते | सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत् || ५४ || सन्ध्योपासनपूजने ततः सन्ध्यामुपासीत प्राणायामपुरस्सरम् मदीयसन्ध्यकोपास्तिः सन्ध्योपास्तिः प्रकीर्तिता | सवितुर्मण्डलस्वामी सावित्रीदेवताऽस्म्यहम् || ५५ || सन्ध्याकाले मदन्या तु देवता यद्युपास्यते | चत्वारि तस्य नश्यन्ति ह्याहुः प्रज्ञा यशो बलम् || ५६ || तत् त्रिसन्ध्यमुपास्योऽहमान्तरः सवितुः परः | भर्गमुख्याभिधानश्च प्राणधीचोदकः सदा || ५७ || प्. ४८) अरुणस्योदये सूर्यस्योदये सङ्गवे तथा | मध्याह्ने च ततः सायमर्धरात्रे च सुव्रते | उत्तमैरर्चनीयोऽहं षट्कालं भक्तिशालिभिः || ५८ || अर्घ्यान्तां समनुष्ठाय सन्ध्यां शैवीं च सादरम् | अरुणस्योदये कुर्यात् पूजां तात्कालिकीं ततः || ५९ || जपेद् भानूदयान्तं च सावित्रीं यतमानसः | उपतिष्ठेच्च सवितुरन्तरं मामनन्यधीः || ६० || ततो भानूदये कुर्यान्मदर्चां होममप्यथ | जपेत् षडक्षरीं साङ्गां श्रीरुद्रादीन् विशेषतः || ६१ || सर्वेभ्यो द्रव्ययज्ञेभ्यो जपयज्ञो विशिष्यते | जपयज्ञं समाप्यैवं गुर्वादीनभिवादयेत् || ६२ || अष्टभागमहः कृत्वा ह्याद्यमेवं समापयेत् | द्वितीयभागे त्वभ्यस्येद् वेदान् दिव्यागमानपि || ६३ || शास्त्राणि आठयेच्छिष्यान्मत्तत्त्वं बोधयेदपि | तदा समाचरेद् भक्त्या पूजां सङ्गवकालिकीम् || ६४ || समित्कुशादीन् होमार्थं च प्रयत्नतः | पुष्पाणि विल्वपत्राणि गुग्गुल्वादीनि चाहरेत् || ६५ || तृतीयभागे कुर्वीत यत्नं पोष्यार्थसिद्धये | तथा चतुर्थभागे तु स्नानार्थं मृदमाहरेत् || ६६ || शिवतीर्थं तु संपाद्य मृदाऽङ्गान्युपलिप्य च | स्नानं माध्याह्निकं कृत्वा सन्ध्याद्वयमुपास्य च | ततः पञ्च महायज्ञाः कर्तव्या गृहिणा मुदा || ६७ || पञ्चयज्ञाः देवानां च पितॄणाण्म् च भूतानां च नृणामपि | ब्रह्मणश्च विनिर्दिष्टाः पञ्चयज्ञा नगात्मजे || ६८ || जुहोति समिधाद्यग्नौ देवयज्ञः प्रकीर्तितः | ददात्यपः पितृभ्योऽयं पितृयज्ञ इतीरितः || ६९ || बलिं हरति भूतेभ्य भूतयज्ञ उदाहृतः | मनुष्ययज्ञः स हि यद् विप्रेभ्योऽन्नं प्रयच्छति | यत् स्वाध्यायमधीयीत ब्रह्मयज्ञ इतीर्यते || ७० || प्. ५०) अपसव्यं विधेयं स्यादग्निष्वात्तादितर्पणे | पुनस्तन्न विधेयं स्यात् स्वपितॄणां तु तर्पणे || ७१ || ततो माध्याह्निकी पूजा कार्या गुर्वी लघुस्तु वा | महती वा यथाशक्ति श्रद्धाभक्तियुतात्मना || ७२ || पण्डितो वाऽथ मूर्खो वा प्रियो वा द्वेष्य एव वा | सम्प्राप्तो यस्तु पूजान्ते स एवाहं न संशयः || ७३ || मत्तोऽधिको जङ्गमो हि स पूज्यो गृहमागतः | अन्नपानादिभिश्चैव तदभीष्टप्रदानतः || ७४ || एवं जङ्गममाराध्य प्रसादमुपभुज्य च | सुखमास्हाय मच्चित्तस्तदन्नं परिणामयन् || ७५ || मत्स्तोत्राणि पठेद्वाऽपि पुराणान्यभ्यसेत्तु वा | आसायमथ कुर्वीत यत्नं पोष्यार्थसिद्धये || ७६ || सायंकृत्यानि ततः स्नातः शुचिर्भूत्वा भ्स्मस्नानं विधाय वा | उपास्य पश्चिमे सन्ध्ये होमकार्यं समाप्य च | कृत्वा सायन्तनीं पूजां वैश्वदेवं समाचरेत् || ७७ || प्. ५१) विधायाऽथ यथाशक्ति मत्पूजामर्धरात्रिकीम् | सायमायान्तमतिथिं पूजयेदतिभक्तितः || ७८ || यत्पातकं भवेद् देवि विमुखे च दिवातिथौ | सायं हि विमुखे तस्मिंस्तदष्टगुणितं भवेत् || ७९ || तस्मात् स्वशक्त्या सम्पूज्य सूर्योढमतिथिं द्विजः | प्रसादमुपभुज्याथ मत्स्तोत्राणि पठेदपि || ८० || आत्माभिरुचितां शययामधिष्ठाय शुचिस्तु माम् | स्मरन् समाधिमास्थाय शयीताऽर्वाक्छिराः सुखम् || ८१ || इत्थमुक्तं कृत्यजातमाह्निकं यन्मया प्रिये | द्विजानां मम भक्तानां मत्पदप्राप्तिसाधनम् || ८२ || इति श्रीकारणागमे उत्तरभागे पार्वतीपरमेश्वरसंवादे क्रियापादे आह्निकविधिर्नाम तृतीयः पटलः || ३ || चतुर्थः पटलः देव्युवाच देवदेव महादेव सर्वेश्वर नमोऽस्तु ते | अश्रौषमाह्निकं देव भक्तानामिष्टदायकम् || १ || अर्चाविशेषान् ग्रहणविशेषनियमानपि | रङ्गवल्लीविधानं च वर्तिकासाधनं तथा || २ || योग्यानि पत्रपुष्पाणि तदीयग्रहणं तथा | श्रोतुमिच्छामि भगवन् वद मे करुणानिधे || ३ || महादेव उवाच शृणु वक्ष्यामि नगजे न गोप्यं त्वयि विद्यते | मत्पूजा त्रिविधा लघ्वी गुर्वी च महती तथा || ४ || पूजात्रयविधानम् उत्तमो महतीं कुर्याद् गुर्वीं मध्यम एव च | लघ्वीमशक्तः कुर्याच्च सायं माध्याह्निके तथा || ५ || प्. ५३) अवसरा भोजने प्रोक्ता प्रातरादिषु सुव्रते | त्रिकालमर्चनां कुर्याच्छक्तः षट्कालमेव वा || ६ || द्विजोऽरुणोदये स्नात्वा सवित्रेऽर्घ्यं प्रदाय च | मदर्चनां विधायैव सावित्रीं प्रजपेन्नरः || ७ || यावत् सूर्योदयः पश्चादुपतिष्ठेदहस्करम् | जपयज्ञं विधायैवं पूजामुदयकालिकीम् || ८ || कुर्यात् तथा सङ्गवे च मध्याह्ने च यथाक्रमम् | सायं सन्ध्यामुपास्यार्च्यां कुर्यात् सायन्तनीं तथा || ९ || आद्ययामे समारभ्य द्वितीये तु समापयेत् | गृही निश्यर्धरात्रार्चां श्रद्धाभक्तिसमन्वितः || १० || नक्तं द्वितीययामस्य भागावाद्यन्तगौ मतौ | गृहिणश्च यतेर्धरात्रपूजावसानगौ || ११ || ग्रहणनियमाः उपरागो भवेद्यामे प्रथमे चेत् तदानघे | द्वितीययामे कर्तव्या मम पूजार्धरात्रिकी || १२ || उपरागो यदा यामे द्वितीये वा तृतीयके | अर्चामवसरां कृत्वा न भुञ्जीत द्विजस्तदा | नक्तव्रती यदि पुनर्विशेषस्त्वधुनोच्यते || १३ || उपरागो यदा यामे द्वितीये वा तृतीयके | यामात् पुरस्तात् कर्तव्या मम पूजा न भोजना || १४ || सोमोपरागे पौरस्त्यस्त्याज्यो यामस्तु भोजने | तत्पूर्वः शस्यते कालो नित्यनक्तोपजीविनाम् || १५ || ग्रस्तेऽप्यस्तमिते भानौ नोपवासो नियुज्यते | यतः प्रसादः संसेव्यो नियतं नक्तभोजिनाम् || १६ || पद्मभद्रतत्त्वमण्डलानि पद्मं भद्रं तथा तत्त्वमण्डलं हि क्रमोत्तमम् | अर्चनोचितपात्राणां विन्यासाय प्रकीर्तितम् | सिततण्डुलचूर्णेन पद्मष्टदलं भवेत् || १७ || अष्टौ पूर्वाग्रगा रेखा लिखेत् तिर्यक् तथा पुनः | एकोनपञ्चाशत्कोष्ठचक्रमेवं भवेत् ततः || १८ || सूक्ष्मपद्मानि विन्यस्येत् षट्त्रिंशत्कोष्टके तथा | त्रयोदशसु मध्येषु लिखेदष्टदलाम्बुजम् | दशायुधानि विन्यस्येत् परितो मण्डलं पुनः || १९ || प्. ५५) पूर्वे तु स्वस्तिकं शङ्खमाग्नेये कमलं तथा | दक्षिणे चामरं छत्रं नैरृत्यां पञ्चकोणकम् || २० || पश्चिमे नागबन्धं च वायौ षट्कोणमेव च | उत्तरे डमरुं शूलमैशाने त्वष्टकोणकम् || २१ || एतल्लिङ्गार्चनापात्रविन्यासार्हं मम प्रियम् | भद्रमण्डलमाख्यातं भद्रदं मुक्तिदं परम् || २२ || सप्तत्रिंशल्लिखेद् रेखा ऊर्ध्वाग्रास्तिर्यगप्यथ | षण्णवत्युत्तरद्वादशशतात्मककोष्ठकम् || २३ || चक्रं भवति तन्मध्ये षट्त्रिंशद्दलवारिजम् | परितः सर्वकोष्ठेषु सूक्ष्मपद्मानि संलिखेत् | दशायुधानि विन्यस्येत् परितो मण्डलं बुधः || २४ || इष्टलिङ्गार्चनापात्रविन्यासायोत्तमोत्तमम् | तत्त्वमण्डलमाख्यातं तत्त्वानुभवसाधनम् || २५ || पद्मं त्ववसराख्यायां लघ्व्यामपि समीरितम् | भद्रमण्डलमुख्यानि गुर्व्यादिषु च विन्यसेत् || २६ || प्. ५६) दीपार्पणम् लघ्व्यामवसरायां वा ज्वालयेद् दीपमेककम् | गुर्व्यां महत्यामपि च द्वौ वाऽथ चतुरोऽपि वा || २७ || नीराजनत्रयं प्रोक्तमवसराख्यपूजने | आद्यं दर्शनसंज्ञं स्यान्मज्जनाख्यं द्वितीयकम् | तृतीयमवसराख्यमेवं संपूजयेत् प्रिये || २८ || नीराजनानां नवकं लघ्व्यामुक्तं वरानने | प्रथमं दर्शनाख्यं स्यादवसराख्यं द्वितीयकम् || २९ || मज्जनाख्यं तृतीयं तु माङ्गल्याख्यं चतुर्थकम् | कर्पूराख्यं पञ्चमं स्यात् षष्ठं शृङ्गारसंज्ञकम् || ३० || सप्तमं तु महासंज्ञमानन्दाख्यमिहाष्टकम् | असंख्याताभिधं चैतन्नवमं परिकीर्तितम् || ३१ || सानुरागाभिधं ताम्बूलाभिख्यं च महार्चने | गुर्वर्चनेऽपि हि भवन्त्येकादश प्रियव्रते || ३२ || वर्तिकाविधानम् तिस्रस्त्ववसराख्यायां वर्तिका विहिता इह | नव द्वादश वा प्रोक्ता वर्तिका लघुपूजने || ३३ || अष्टादशाथ षट्त्रिंशद्वा प्रोक्ता गुरुपूजने | आनवक्रमसंख्या वा तथा षण्णवतिस्तु वा || ३४ || प्. ५७) अष्टोत्तरशतं वाऽथ त्रिशतं वा सहस्रकम् | महत्यां मम पूजायां वर्तिका ज्वालयेदपि || ३५ || षट्त्रिंशत्तन्तुभिः कुर्याद्वर्तिका मम पूजने | फलं तिसृभिरेव स्यादष्टोत्तरशतोदितम् || ३६ || पूजोचितानि पुष्पपत्राणि अथ वक्ष्यामि पुष्पाणि पूजायां मत्प्रियाणि वै | नन्द्यावर्तश्रियावर्तकरवीरबकानि च || ३७ || द्रोणपुन्नागमन्दारजलजार्कोत्पलान्यपि | लोध्रधुत्तूरनिर्गुण्डीविल्वाशोकमुनीन्यपि || ३८ || एतेषु शुभ्रवर्णानि ममात्यन्तप्रियाणि वै | एतानि सात्त्विकानि स्युर्मुक्तिदानि भवन्ति हि || ३९ || एतानि राजसानि स्युर्भोगसिद्धिकराणि च | मिश्राणि पीतवर्णानि भोगमोक्षप्रदानि हि || ४० || तामसान्यसितानि स्युर्विना नीलोत्पलं प्रिये | पूजायामुपयुज्येरन्न कदापि नितम्बिनि || ४१ || प्. ५८) कदम्बं चम्पकं चैव पुन्नागं बृहती तथा | अऽस्वमेधफलं दद्युर्वसन्ते मह्यमर्पणात् || ४२ || पाटली मल्लिका चैव शतपत्रं ममार्पितम् | अग्निष्टोमफलं दद्युर्ग्रीष्मतौ वरवर्णिनि || ४३ || अश्वमेधफले स्यातां रावृष्याम्बुजमल्लिके | नीलोत्पलं च कह्लारं धुत्तूरं जातिरेव च | सत्रयागफलं दद्युः शरद्यर्पणतो मम || ४४ || जातिर्नीलोत्पलं चैव करवीरमपि प्रिये | शतक्रतुफलं दद्याच्छिशिरे कर्णिकारकम् || ४५ || पुष्पेष्वारग्वधद्रोणे पत्रे वैल्वमपि ध्रुवम् | प्रशस्ततममाख्यातं मत्पूजायां वरानने || ४६ || द्रोणादिपुष्पैः सौवर्णैः कृतं यद् विल्वपत्रकैः | तदनन्तफलं विद्यात् पूजनं मम पार्वति || ४७ || पत्राणामपि पुष्पाणां सौवर्णानामिह क्वचित् | नहि निर्माल्यतादोषस्तस्मात् तैर्नित्यमर्चयेत् || ४८ || करानीतं पटानीतं धृतमेरण्डपत्रतः | अपवित्रजनानीतं पत्रं पुष्पं फलं त्यजेत् || ४९ || च्युतं भुवि तथाऽऽघ्रातमकिञ्जल्कं सकीटकम् | अवृन्तं सव्रणं पुष्पं पूजायां नोपयुज्यते || ५० || जलजं स्थलजं वाऽपि यथोत्पन्नं तथैव च | पत्राण्यपि तथा न्यस्येद् विल्वपत्रमधोमुखम् || ५१ || सर्वोपरि न्यसेद् विल्वं विल्वोपरि न किञ्चन | सर्वोपरि न्यसेद्भस्म भस्मोपरि न किञ्चन || ५२ || मत्पूजा क्रियते ह्येवं कैवल्यं लभते ध्रुवम् | सर्वमुक्तं समासेन किमतः श्रोतुमिच्छसि || ५३ || इति श्रीकारणागमे उत्तरभागे पार्वतीपरमेश्वरसंवादे क्रियापादे रङ्गवल्यादिकथनं नाम चतुर्थः पटलः || ४ || पञ्चमः पटलः देव्युवाच देवदेव महादेव पञ्चकृत्यपरायण | जगदीश्वर सर्वात्मन् भूयो भूयो नमोऽस्तु ते || १ || पूजोपयुक्तपात्राणां लक्षणानि विशेषतः | पूजाकाले साधकेन वर्तितव्यं यथा पुनः || २ || अभिषेकद्रव्यजातं नियमानर्चकस्य च | ब्रूहि सर्वमशेषेण प्राणिनिर्वाणकारणम् || ३ || महादेव उवाच पूजाकाले कथं वर्तितव्यम् पुष्कलाच्चोपकरणान्मनोनैर्मल्यसंभवः | निर्मलेनैव मनसा पूजकः फलभाग् भवेत् || ४ || सामग्रीसन्निधानेन पूजा सा पुष्कला भवेत् | पुष्कले पूजने भक्तः पुष्कलां श्रियमश्नुते || ५ || पूजोपयुक्तसामग्रीं सन्निधाय सुखासने | समासीनः सनियमः पूजयेन्मामनन्यधीः || ६ || प्. ६१) असन्निधाय सामग्रीं संकल्प्योपविशन् जनः | पुनर्यतेन मूढात्मा न पूजाफलभाग् भवेत् || ७ || अज्ञो वाऽप्यथवा प्राज्ञः सामग्रीं नाह्वयेत् स्वयम् | मध्ये मध्ये समाहूय चञ्चलो न फली भवेत् || ८ || भक्तः संकल्प्य पूजायै न क्रूद्ध्येत् परिचारकान् | पूजकः क्रोधसंक्रुद्धः सन्निधिं नाभिगच्छति || ९ || आलस्यं जृम्भणं निद्रां पूजाकाले विवर्जयेत् | वर्जयेविषयासक्तिं पुनः कुर्यान्मदर्पितम् || १० || मदर्पितमना यद्यदलब्धं कुसुमं दलम् | सन्निधायाथ यत्नेन मनसैवार्पयेन्मयि || ११ || यस्तु संकल्प्य पूजायै कार्यान्तरनियोजितः | तत्कार्यं मनसि स्मृत्वा न पूजाफलमश्नुते || १२ || पूजामध्ये यदेकेन प्रेषितो महताऽपि वा | त्वरयेन्मम पूजायां नैति मां तस्य पूजनम् || १३ || प्. ६२) गुरुणा यदि वाऽऽहूतः पूजां तस्य निवेदयेत् | निवेदितेऽपि चाहूतस्तदाज्ञां परिपालयेत् || १४ || गुरुर्यतोऽहं देवेशि नावयोर्विद्यते भिदा | अभेदभावनां ज्ञात्वा तदाज्ञां परिपालयेत् || १५ || आख्याति पूजावेलायां वैदिकं यद्विचक्षणः | तन्मयैवोदितमिति निर्वहेत् स्वप्रयत्नतः || १६ || अवैदिकस्याख्यातॄणां निकटे नोपवेशयेत् | प्रत्याख्यानं न कुर्वीत पिदध्याच्छ्रवणद्वयम् | नेक्षेत पूजावेलायां नरं देवि बहिष्कृतम् || १७ || पूजाकाले यदाख्यातं शैवकार्यमनुत्तमम् | कुर्यात् सर्वप्रयत्नेन तदशक्तौ तु कारयेत् || १८ || पूजकः संस्मरेत् कर्म लौकिकं त्वरयेद् यदि | शिवद्रोहेण निर्याति कालभैरवयातनाम् || १९ || संस्मरन्नपि कर्माणि यो मययाहितमानसः | स याति मामकं रूपं कैलासे मद्गणैः सह | मोदते तस्य नावृत्तिस्तेन सर्वं वशीकृतम् || २० || प्. ६३) पुष्पं पत्रं फलं तोयं श्रमसाध्यं यथा यथा | फलं तथा तथा तेषां दाताऽहं हि सदाशिवः || २१ || पुष्पलोभः पत्रलोभः पात्रलोभो भयावहः | तस्मात् सर्वप्रयत्नेन पात्रं पत्रं सुमं तथा | संपाद्य पूजयेल्लिङ्गं यथाविभवविस्तरम् || २२ || पात्रादिलक्षणम् सुवर्णपात्रं यत्नेन कुसुमादिदलानि च | सौवर्णान्येव संपाद्य पूजनीयस्त्वहं शिवे | राजतं वा दरिद्रश्चेत् ताम्रपात्रं हि कल्पयेत् || २३ || विरक्तो नारिकेलेन पात्रेणैव यजेत् स्वयम् | सौवर्णपात्रपूजाऽपि न तस्याः सदृशी भवेत् || २४ || विल्वनिर्मितपात्रं तु सर्वेषामुत्तमोत्तमम् | तत्पात्रसदृशं लोके नास्ति नास्ति महीतले || २५ || पात्रेषु वैल्वं श्लाघ्यं स्याद् वैल्वं पत्रेषु चोत्तमम् | नीलोत्पलं च पुष्पेषु पूजार्थमुत्तमोत्तमम् || २६ || प्. ६४) सर्वमप्राकृतैर्मन्त्रैः कृत्वा मह्यं समर्पयेत् | शुद्धभावः समभ्यर्च्य यथोक्तफलभाग् भवेत् || २७ || स्वनन्दनोद्भवं पत्रं पुष्पं फलमनुत्तमम् | आरण्यकानि पुष्पाणि पत्राणि स्वयमर्चयेत् | शूद्रानीतैः क्रयक्रीतैः कर्म कुर्वन् पतत्यधः || २८ || अर्कद्रोणोत्पलाद्यैश्च विल्वारग्वधपत्रकैः | तिलाक्षतैरर्चयेन्मां भक्तियुक्तेन चेतसा || २९ || अर्घ्यादिपात्राणि पूजोपयुक्तपात्राणां लक्षणं शृणु पार्वति | सामान्यार्घ्याभिधं चैव पादार्घ्याचमनानि च || ३० || त्यागज्ञानानन्दसंज्ञान्यथ स्नानजलस्य च | पादप्रसादोदकयोस्त्रीण्याधाराभिधानि च | शिवकुम्भसमाख्यं च पात्राण्येकादश प्रिये || ३१ || तथाऽन्यानि च पात्राणि भवन्त्यावश्यकानि हि | गन्धादेरपि धूपस्य दीपानां च विशेषतः || ३२ || प्. ६५) घण्टां शङ्खं दर्पऽं च छत्रं चामरमेव च | ताल्वृन्तं च संपाद्य यजेन्मां लिङ्गरूपिणम् || ३३ || शिवकुम्भाभिधं पात्रं कुर्याद् विंशतिभिः पलैः | पात्रं दशपलैः कुर्यात् सामान्यार्घ्यसमाख्यकम् || ३४ || सार्धसप्तपलैः कुर्यात् पाद्यार्घ्याचमनानि च | त्यागज्ञानानन्दकानि कुर्यात् पञ्चपलैरपि | आधाराभिख्यपात्राणि सार्धद्विपलमानतः || ३५ || शिवकुम्भं च सामान्यमर्घ्यपात्रं तथैव च | स्थूलोदरं तथा कुर्यान्मुखग्रीवाविभूषितम् || ३६ || पाद्यार्घ्याचमनाख्यानि चतुरस्राणि कारयेत् | त्यागज्ञानानन्दकानि वर्तुलानीतराणि च || ३७ || गन्धादिपात्रं कुर्वीत वृत्तमष्टदलान्वितम् | दीपपात्राणि कुर्याच्च डमर्वाकारवन्ति च || ३८ || त्रिमुखीं षण्मुखीमेकमुखीं नीराजनाय च | छत्रं संपादयेद् धीमान् मुक्ताजालविभूषितम् || ३९ || सौवर्णादेरलाभे तु किंशुकैः खड्गशृङ्गतः | अथ यज्ञीयवृक्षेण मृदा पात्रं तु कारयेत् || ४० || प्. ६६) पूजनविधिः नदीतीरे तटाके वा स्वयंव्यक्तशिवस्थले | विजने स्वगृहे वाऽपि यजेदेकाग्रमानसः || ४१ || विल्वाष्टोत्तरसाहस्रं शतमष्टोत्तरं तु वा | द्रोणपुष्पसहस्रैर्वा पुष्पैर्वाथार्कसंभवैः || ४२ || आरग्वधसहस्रैर्वा नियमेनैव पूजयेत् | शतमष्टोत्तरं वाऽपि चाष्टाविंशतिसंख्यया || ४३ || पूजाकाले बहुवचो यस्य तेन न संवसेत् | शिवस्यैव पुराणानि श्रावयेच्छृणुयादपि | लौकिकान्यकथालापं वर्जयेन्मम पूजकः || ४४ || स्वारामोद्भवपुष्पाणि प्रशस्तानि मदर्चने | देवस्वं देवतोद्यानपुष्पाणि परिवर्जयेत् | अन्यपूजार्हपुष्पाणि न च मह्यं समर्पयेत् || ४५ || समर्पणीयान्यन्येन न च पुष्पाणि याचयेत् | याचनालब्धपुष्पाण्यप्रशस्तानि मदर्चने || ४६ || असन्निधाय नैवेद्यं धूपदीपौ न चाचरेत् | धूपदीपौ समर्प्याथ न विलम्बेन्निवेदने || ४७ || प्. ६७) अभिषेकाय दिव्यानि द्रव्याणि कलशे क्षिपेत् | एलोशीरलवङ्गानि कस्तूरीं चन्द्रसंज्ञकम् | पञ्चद्रव्याणि कलशे चूर्णयित्वा विनिक्षिपेत् || ४८ || सिद्धार्थान् कुङ्कुमं दूर्वां कुष्ठं चन्दनभस्मनी | चन्द्रं च कुसुमं चैव पाद्यपात्रे विनिक्षिपेत् || ४९ || सिद्धार्थांश्च कुशाग्राणि यवव्रीहितिलान्यपि | चन्दनं भस्म कुसुममर्घ्यपात्रे विनिक्षिपेत् || ५० || त्रिफलाजातिकर्पूरकुष्ठकोशीरमेव च | भस्मचन्दनपुष्पाणि पात्रे ह्याचमने क्षिपेत् | भस्मचन्दनपुष्पाणि पात्रेष्वन्येषु निक्षिपेत् || ५१ || त्यागपात्रे कुदुष्णं च ज्ञानपात्रे सचन्दनम् | आनन्दपात्रे शीतं च जलमापूरयेत् तथा || ५२ || निमीलयन्नेत्रयुग्मं ध्यानं सम्यक् समाचरेत् | ध्यानकाले पुराणादिश्रवणं नैव कारयेत् | एकान्ते मीलिताक्षेण ध्यानं कार्यं विपश्चिता || ५३ || अभिषेके पुराणादिश्रवणं नेतरत्र तु | मनोदार्ढ्येन सम्पन्नः पूजयेन्मां दृढव्रतः || ५४ || अलङ्कारप्रियो विष्णुरभिषेकप्रियोऽस्म्यहम् | नमस्कारप्रियो भानुर्मम स्तोत्रप्रिया गणाः || ५५ || प्. ६८) स्त्प्त्रपाठो विशेषेण मम तु प्रीतिवर्धनः | स्तोत्रमात्रेण संतुष्टस्त्वहमिष्टफलप्रदः || ५६ || ध्यानेन सकलं पापं नश्येद् भक्तार्जितं तु यत् | ध्यानानुगुणमेवान्यन्मुख्यं ध्यानं प्रकीर्तितम् || ५७ || सौवर्णौ च कटाहौ द्वौ शुद्धतोयेन पूरितौ | गन्धद्रव्येण मिश्रौ च कृत्वा मामभिपूजयेत् || ५८ || एलालवङ्गजातीयफलपुष्पाण्युशीरकम् | लवङ्गत्वग्जाटामांस्यौ तक्कोलं कुष्ठमेव च || ५९ || कदम्बकन्दं गन्धत्वङ् नागकेसरचम्पकान् | देवदारुं गुग्गुलुं च कौङ्कुमं पुष्पमेव च || ६० || गोरोचनं च कर्पूरं तथा सर्वमणिं समम् | चूर्णयित्वा विशेषेण कस्तूरीं च विनिक्षिपेत् | सर्वद्रव्याणि निक्षिप्य पूजयेल्लिङ्गरूपिणम् || ६१ || सर्वद्रव्येष्वलब्धेषु कस्तूरीकुङ्कुमान्वितम् | कर्पूरं चैव पूजार्थं संपाद्य परिपूजयेत् | एलोशीरैर्दरिद्रश्चेन्न केवलजलैर्यजेत् || ६२ || प्. ६९) यथा यथा च सामग्री विशिष्येत मदर्चने | तथा तथा फलं प्रोक्तं भक्तानां किल्बिषं नहि || ६३ || दीपारार्तिं प्रकुर्वीत सौवर्णै राजतैरथ | सपुष्पमर्पयेद् भक्तः स्वस्य विज्ञानसिद्धये || ६४ || ज्ञानसिद्धिर्भवेन्नॄणां मयि दीपसमर्पणात् | विशेषात् सोमवारे च दीपावलिसमर्पणात् || ६५ || कार्तिके सोमवारे तु दीपावलिसमर्पणात् | ना पुनर्जायते भक्तो मम सायुज्यमाप्नुयात् || ६६ || प्रदोषे सोमवारे लक्षदीपसमर्पणात् | फलं वक्तुं न शक्येत सोऽहमेवेति निश्चितम् | तस्मादज्ञाननाशाय दीपार्चनमथाचरेत् || ६७ || नमस्काराष्टकं कुर्यादष्टोत्तरशतं तु वा | सहस्रं वा प्रकुर्वीत नमस्कारप्रियोऽस्म्यहम् || ६८ || करपीठे समभ्यर्च्य साम्बं मां लिङ्गरूपिणम् | अथ भक्तो नमस्कारं कण्ठोर्ध्वं तु विभावयेत् || ६९ || मुक्ताङ्गुष्ठेन मुष्ट्या च प्रदक्षिणविधानवान् | प्रार्थयेन्मां महेशानि यथाकाममतन्द्रितः || ७० || प्. ७०) अर्घ्यं चाप्युन्मनीमुद्रासमञ्चितकराम्बुजः | चिन्मुद्रया च पुष्पाणि पात्राणि च समर्पयेत् || ७१ || छत्रेणाच्छादयेत्पश्चाच्चामरेणापि वीजयेत् | तालवृन्तेन चाप्येवं दर्पणं दर्शयेदपि || ७२ || घण्टारवं कारयेच्च शङ्खमाध्मापयेदपि | गीतानि श्रावयेदेव वाद्यं नृत्यं समर्पयेत् || ७३ || पूजागृहविधानम् शिवपूजागृहं शुद्धं श्वेतचूर्णेन लेपितम् | गोमयेनोपलिप्तं च रङ्गवल्याद्यलङ्कृतम् || ७४ || पुष्पैः पर्णैरलङ्कृत्य मल्लीझिल्लीं प्रसारयेत् | सुगन्धद्रव्यचूर्णैश्च धूपयेद् देवतागृहम् || ७५ || नीडानि भित्तौ कुर्वीत नानावर्णलसन्ति च | विन्यसेद् विग्रहानाशु तेषु मामककिङ्करान् || ७६ || सायुधान वाहनैर्युक्तानलङ्कारविभूषितान् | भस्मत्रिपुण्ड्ररुद्राक्षभास्वद्देहान् कपर्दिनः || ७७ || अथवा भूतिरुद्राक्षान् तेषु नीडेषु निक्षिपेत् | मम पूजार्थसामग्रीमथवा विन्यसेद् बुधः | तेषु तेषु च नीडेषु दीपमालां च कल्पयेत् || ७८ || पूजनकर्मसम्पादनम् तस्मिन् सुसदने देवि सुखासीनः शुभासने | भस्मत्रिपुण्ड्ररुद्राक्षमाइकासमलङ्कृतः || ७९ || भद्रादिमण्डलन्यस्तसर्वोपकरणाञ्चितः | सकलीकृतदेहश्च कृतपारिषदस्तुतिः || ८० || अग्रे सिंहासनवरं विभाव्य समलङ्कृतम् | भस्मशययाञ्चितं तत्र करपीठं विधाय च || ८१ || तस्मिन्निक्षिप्य मां नित्यं षट्त्रिंशदुपचारकैः | ऋग्यजुःसामवेदैश्च तथाऽथर्वणमन्त्रतः || ८२ || पञ्चाक्षरोपनिषदा पुराणश्रवणादिना | शास्त्राणां पठनेनापि गद्यपद्यस्तुतिव्रजैः || ८३ || गायेत् स्वयं गापयेच्च मम माहात्म्यसूचकैः | वाद्यैश्च विविधैर्गीतैर्नृत्यैर्मां परितोषयेत् || ८४ || प्. ७२) एकादिक्रमशो मह्यं दद्यादारार्तिकान् नव | जाघण्टाशङ्खनादैश्च कोलाहलरवैरपि || ८५ || शब्दब्रह्मानन्दमयो मदानन्दामृतप्लुतः | निमज्जन्निव संतुष्टो निःसंज्ञः इव तत्परः || ८६ || यः सकृद्वाऽसकृद्वाऽपि मामर्चयति यः स्वयम् | स धन्यः सर्वलोकानां वन्द्यो भक्तोत्तमोत्तमः | तं दृष्ट्वा मोदते यस्तु तमादप्यधिको भवेत् || ८७ || यः स्वकीयगृहे नित्यं मद्भक्तानां विशेषतः | पूजोपकरणं दत्त्वा कारयेत् तैर्मदर्चनम् | स याति मम सायुज्यं ज्ञानिनामपि दुर्लभम् || ८८ || इत्थमुक्तं मया तुभ्यं लोकानां मुक्तिसिद्धये | पात्रादिसादनं देवि किमतः श्रोतुमिच्छसि || ८९ || इति श्रीकारणागमे उत्तरभागे पार्वतीपरमेश्वरसंवादे क्रियापादे पूजापात्रादिलक्षणकथनं नाम पञ्चमः पटलः || ५ || षष्ठः पटलः देव्युवाच चन्द्रशेखर भूतेश पिनाकिन्नुग्र शङ्कर | अवसरादिपूजानां कल्पं ब्रूहि विशेषतः || १ || महादेव उवाच अवसरपूजाकल्पः अथावसरपूजायाः कल्पं वक्ष्ये शृणु प्रिये | मण्डलं परिकल्प्यादौ दीपं प्रज्वालयेत् ततः || २ || परिगृह्य गणानुज्ञां घण्टानादपुरस्सरम् | मन्नामभिः समाचम्य प्राणानायम्य शक्तितः || ३ || संकीर्त्य देशकालौ च कलशं सम्यगर्चयेत् | अष्टोत्तरशतान्यूनां जपेन्मम षडक्षरीम् || ४ || सर्वलिङ्गं स्थापयतीति लिङ्गं विन्यसेत् करे | नीराजनं दर्शनाख्यमसौ य इति दर्शयेत् || ५ || प्. ७४) यो वै रुद्रः स भगवान् पृथ्वीत्यभ्युक्ष्य भस्मना | एतावानस्य महिमेत्यामनन् पाद्यमर्पयेत् || ६ || हंसः शुचिषदित्यर्घ्यं सावित्र्याऽऽचमनीयकम् | नमः सोमाय चेत्येवम् स्नानं च परिकल्पयेत् || ७ || स्नानोदकं शिरस्युक्ष्य लिङ्गतीर्थं प्रगृह्य च | ऋतं सत्यमिति प्राश्य वस्त्रं यस्तन्त्विति ब्रुवन् || ८ || अग्निरित्यादिभिर्भस्म सर्वतो लेपयेत् सुधीः | गन्धेति गन्धमादद्यादाकाशादिति चाक्षतान् || ९ || निधनपतय इति पुष्पाणि च समर्पयेत् | विल्वं त्रियम्बकमिति यच्च व्योमेति धूपकम् || १० || प्. ७५) महानीराजनं दद्यान्न तत्रेति मनुं स्मरन् | दद्यादवसरं नैवेद्यमाचारादिलिङ्गकैः || ११ || ईशान इति मन्त्रेण मन्त्रपुष्पं समर्पयेत् | वस्त्रप्रावरणं कुर्यात् सोऽब्रवीदिति मन्त्रतः | अणोरणीयानिति च लिङ्गं स्वाङ्गे निवेशयेत् || १२ || लघ्वर्चाविधिः अथ वक्ष्यामि देविशि लघुमर्चाविधिं शृणु | स्नातः शुचिर्यतमानाः कृतभस्मावगुण्ठनः || १३ || धृतत्रिपुण्ड्रो रुद्राक्षमालालङ्कृतविग्रहः | आचम्य दीपं प्रज्वाल्य संप्रार्थ्य च गणान्मम || १४ || आचम्य प्राणानायम्य देशकालौ प्रकीर्त्य च | संभवद्भिरिह द्रव्यैरिष्टलिङ्गस्य पूजनम् || १५ || प्. ७६) करिष्य इति संकल्प्य संपूज्य कलशं तथा | षडक्षरजपं कुर्यादष्टोत्तरशतं बुधः || १६ || इष्टलिङ्गं करे धृत्वा सर्वलिङ्गमनुं पठन् | आवाहयेच्च वेदाहं भावग्राह्यमिति ब्रुवन् | नीराजनं दर्शनाख्यमसौ य इति दर्शयेत् || १७ || यो वै रुद्रः स भगवान् पृथ्वीत्यभ्युक्ष्य भस्मना | एतावनस्य महिमेत्यामनन् पाद्यमर्पयेत् || १८ || हंसः शुचिषदित्यर्घ्यं सावित्र्याऽऽचमनीयकम् | यो वै रुद्रः स भगवानाप इत्यभिषिच्य च || १९ || लिङ्गतीर्थं च संगृह्य कद्रुद्रायेति मन्त्रयन् | ऋतं सत्यमिति प्रश्य पुष्पं धूपं समर्प्य च || २० || यो वै रुद्रः स भगवान् यश्चाग्निरिति मन्त्रतः | दत्त्वा चावसराभिख्यं नीराजनमपि प्रिये | फलाद्यवसरं दद्याद् भस्म लिङ्गोपरि क्षिपेत् || २१ || मूलेन पुष्पं निक्षिप्य धूपमाघ्रापयेत् प्रिये | असौ योऽवसर्पतीति मन्त्रेमेनमनुस्मरन् | नीराजनं मज्जनाख्यं दर्शयेद् गिरिनन्दिननि || २२ || प्. ७७) एतावनस्य महिमेत्यामनन् पाद्यमर्पयेत् | हंसः शुचिषदित्यर्घ्यं सावित्र्याऽऽचमनीयकम् || २३ || रुद्राध्यायेनाभिषेकमावहन्तीति मन्त्रतः | वस्त्रेणोद्वर्तनं कृत्वा लिङ्गतीर्थं प्रगृह्य च | कद्रुद्रायेति संमन्त्र्य प्राश्नीत ऋतमित्यपि || २४ || यो वै रुद्र इति पठन् दद्यादङ्गारतापनम् | यो वै रुद्रः स भगवान् यश्चाग्निरिति धूपनम् || २५ || उद्दीप्यस्वेति च पठन् माङ्गल्याख्यं च दर्शयेत् | वस्त्रं समर्पयेद् देवि यस्तन्त्विति मनुं पठन् || २६ || अग्निरित्यादिभिर्मन्त्रैः सजलं भस्म चार्पयेत् | नमो हरिकेशायेति यज्ञसूत्रं समर्पयेत् || २७ || यो वै रुद्रो या च पृथ्वीत्युक्त्वा गन्धांश्च साक्षतान् | आकाशादिति मन्त्रेण दद्यात् केवलमक्षतान् || २८ || प्. ७८) सर्वव्यापिनमिति कर्पूरनीराजनं दिशेत् | तदेवर्तं भुवन्तय इति माल्यानि चार्प्यएत् || २९ || या ते रुद्र शिवा तनूः शिवा विश्वाहभेषजी | इति नीराजनं दद्याच्छृङ्गाराख्यं महेश्वरि || ३० || यो वै रुद्रः स भगवान् यश्च सूर्य इति क्रमात् | निधनपतय इति चाष्टोत्तरशतेन च | पुष्पाणि त्र्यम्बकमिति विल्वपत्राणि चार्पयेत् || ३१ || नम ईध्रियाय चेति श्वेतच्छत्रं समर्पयेत् | नमो वात्याय चेत्येवं चामरं परिकल्पयेत् || ३२ || चन्द्रमा मनसो जात इति व्यजनमर्पयेत् | स यश्चायं पुरुष इत्यर्पयेद् दर्पणं तथा || ३३ || यो वेदादाविति पठन् घण्टानादं च श्रावयेत् | अध्यवोचदधित्येवं शङ्खं सम्यङ् निनादयेत् || ३४ || प्. ७९) शिवेन वचसा त्वेति गीतमाश्रावयेद् बुधः | नमो दुन्दुभ्याय चेति वाद्यं कुर्याद् विचक्षणः | नमो रुद्रायाततायिन इति नाट्यं च दर्शयेत् || ३५ || उद्यन्तमिति मन्त्रेण बुधः कुर्यात् प्रदक्षिणम् | यो रुद्रोऽग्नाविति पठन् नमस्कारं समर्पयेत् || ३६ || नमो रुद्राय चेत्युक्त्वा स्तुतिपाठं पठेद् बुधः | अजात इत्येवमिति पठन् याञ्चां विभावयेत् || ३७ || यो वै रुद्रः स भगवान् यच्च व्योमेति धूपकम् | न तत्र सूर्यो भातीति महानीराजनं दिशेत् || ३८ || प्. ८०) अघोरेभ्योऽथ इति चाचारलिङ्गादिभिः क्रमात् चतुर्विधं च नैवेद्यमर्पयेत् साधकस्ततः || ३९ || भस्माभ्युक्ष्य महालिङ्गे ईशान इति मन्त्रतः | मूलमन्त्रेण चाप्येवं मन्त्रपुष्पं समर्पयेत् || ४० || यतो वाचो निवर्तन्त इति मन्त्रं पठन्नपि | आनन्दाभिख्यकं नीराजनमप्यर्पयेत् ततः || ४१ || स विश्वेति च ताम्बूलं यो ब्रह्माणमिति ब्रुवन् | पुष्पाञ्जलिं च विकिरन्नात्मानमपि चार्पयेत् || ४२ || असंख्या इति मन्त्रेणासंख्यनीराजनं दिशेत् | वस्त्रप्रावरणं कुर्यात् सोऽब्रवीदिति मन्त्रतः | अणोरणीयानिति च कुर्यात् स्वाङ्गे निवेशनम् || ४३ || प्. ८१) इत्युक्तो हि महा देवि लघुराराधनाविधिः | मत्सायुज्यप्रदो ह्येष यथोक्तमनुतिष्ठताम् || ४४ || इति श्रीकरणागमे उत्तरभागे पार्वतीपरमेश्वरसंवादे क्रियापादे पूजाविधिकथनं नाम षष्ठः पटलः || ६ || सप्तमः पटलः देव्युवाच देवदेव महादेव लोकानुग्रहतत्पर | त्वत्पूजाकर्णनादस्मि कृतार्था जगदीश्वर || १ || महापूजां च शुश्रूषुरस्मि लोकैककारण | तद्विधानं च सम्बोध्य कृपयाऽनुगृहाण माम् || २ || महादेव उवाच महापूजाक्रमः अथ वक्ष्ये महादेवि महापूजाविधिक्रमम् | स्नातः शुचिर्यतमना धृतधौताम्बरद्वयः || ३ || धृतत्रिपुण्ड्रो रुद्राक्षमालालङ्कृतविग्रहः | कृतसन्ध्यादिकः सम्पादितपुष्पादिसाधनः || ४ || भद्रादिमण्डलन्यस्तपूजापात्रः सुखासनः | चतुष्टयं दीपिकानां प्रज्वाल्य द्वयमेव वा || ५ || गणान् संकीर्त्य चाचम्य प्राणानायम्य सक्रमम् | देशकालौ सुसंकीर्त्य चेष्टलिङ्गस्य प्रीतये || ६ || रङ्गवल्यां तु सामान्यमर्घ्यपात्रं निवेश्य च | भस्मचन्दनपुष्पाणि तत्र निक्षिप्य निर्मलम् || ७ || जलमापूर्य वै बिन्दुस्रवत्पीयूषधारया | पूरितं भावयन्नेव पञ्चब्रह्मषडङ्गकैः | मन्त्रैः सम्मन्त्र्य संस्कारैः संस्कुर्याद्वक्ष्यमाणकैः || ८ || निरीक्षणं प्रोक्षणं च ताडनं चावगुण्ठनम् | अभ्युक्षणमिति ख्याता वस्तुसंस्कारकारकाः | धेन्वाख्ययाऽमृतीकृत्य पद्मलिङ्गे प्रदर्शयेत् || ९ || ततः पाद्यार्घ्याचमनपात्राण्यपि च पङ्क्तिशः | तदुत्तरेण विन्यस्येत् पाद्यपात्रे यथाक्रमम् || १० || सिद्धार्थान् कुङ्कुमं दूर्वां कुष्ठं कर्पूरमेव च | भस्मचन्दनपुष्पाणि निक्षिपेत् साधकोत्तमः || ११ || षडङ्गैर्जलमापूर्य सद्यद्यैरभिमन्त्र्य च | तदुत्तरेप्यर्घ्यपात्रे कुशादीन् विक्षिपेत् तथा || १२ || प्. ८४) हृदयेन जलं क्षिप्त्वा मूलेनैवाभिमन्त्र्य च | तदुत्तरे त्वाचमनपात्रे भस्मादि निक्षिपेत् | षडङ्गैर्जलमापूर्य सद्याद्यैरभिमन्त्रयेत् || १३ || त्यागज्ञानानन्दपात्राण्यपि तत्पूर्वतो न्यसेत् | भस्मचन्दनपुष्पाणि त्यागपात्रे निधाय च | उष्णं वै जलमापूर्य प्रासादेनाभिमन्त्रयेत् || १४ || तदुत्तरे ज्ञानपात्रे भस्मादीनि निधाय वै | चन्दनोदकमापूर्य चाघोरेणाभिमन्त्रयेत् || १५ || तदुत्तरानन्दपात्रे भस्मादीनि निधाय च | शीतलोदकमापूर्य वामदेवेन मन्त्रयेत् || १६ || तत्पूर्वे स्नानपादप्रसादवारिगृहीतये | विन्यसेत्तत्र चाधारपात्राणि त्रीणि पङ्तिशः || १७ || सामान्यस्यार्घ्यपात्रस्य शिवकुम्भं पुरो न्यसेत् | तत्र भस्मादि निक्षिप्य तदा पानीयकं जलम् || १८ || प्. ८४) हृदयेनैव संपूर्या कलशेष्विति मन्त्रतः | आपो वा इदं सर्वमित्यनेनाभिमन्त्र्य च || १९ || पूजाद्रव्याणि सम्प्रोक्ष्य तस्मादुद्धृतवारिणा | सामान्यार्घ्यादिपात्राणि मूलेनाभ्यर्च्य वै ततः | सामान्यार्घ्यगतं तोयं पाद्यादित्रिषु निक्षिपेत् || २० || गुरुमभ्यर्च्य नियतं यस्य देवेति मन्त्रतः | तीर्थप्रसादौ गृह्णीयान्मत्पूजायोग्यताप्तये || २१ || इति भक्तस्थलं प्रोक्तमथ माहेश्वरस्थले | अयं मे हस्त इति तु हस्तशुद्धिं विधाय वै || २२ || माहेश्वरस्थलपूजाविधानम् सर्वभूतस्थमिति च कृत्वा भस्मासनं करे | वेदाहमेतमिति च लिङ्गमादाय तद्गृहात् | सर्वलिङ्गं स्थापयतीति लिङ्गं निक्षिपेत् करे || २३ || रुद्र यत्ते दक्षिणं मुखमित्यावाहयेत् तदा | गुरुं ध्यात्वा षडङ्गं च न्यासं सम्यग्विधाय च | सहस्रं षट्छतं वाऽपि जपेदेव षडक्षरीम् || २४ || प्रसादिसंज्ञके पश्चात् स्थले लिङ्गे च भस्म वै | अभ्युक्ष्य नानुध्यायेच्च तमेवैकमिति स्मरन् || २५ || दशावधानविधिना निरीक्ष्य ष्वेष्टलिङ्गकम् | नीराजनं सानुरागं या ते रुद्रेति निर्दिशेत् || २६ || प्राणलिङ्गस्थले भस्म लिङ्गोपरि निधाय च | मूलेनैव हि लिङ्गाग्रे पुष्पं निक्षिप्य मन्त्रितम् || २७ || पाद्यार्घ्याचमनं दद्यात् तत्तत्पात्रोदकेन हि | त्यागपात्रस्थितेनैव लिङ्गं संस्नाप्य वारिणा || २८ || आधारपात्रेणादाय सम्प्रोक्ष्य निजमूर्धनि | आवहन्तीति मन्त्रेण वस्त्रेणोद्वर्त्य सादरम् || २९ || प्. ८७) भस्मासने निधायैव पादौ लिङ्गस्य भावयन् | प्रणम्याभ्यर्च्य पाद्यं च ज्ञानपात्रजलेन वै || ३० || दत्त्वैतज्जलमाधारपात्रेणादाय सन्नमन् | कद्रुद्रायेति संमन्त्र्य पिबेदृतमितीरयन् || ३१ || लिङ्गमूलेन गन्धाद्यैरलङ्कृत्य ततः परम् | यो वै रुद्रः स भगवान् यश्चाग्निरिति मन्त्रतः | नीराजनं त्ववसराभिख्यं दत्त्वा फलादिकम् || ३२ || समर्प्यानन्दपात्रोदं गृह्णन्नाधारपात्रतः | समर्प्य प्राश्य तत्पात्रं निक्षिपेदप्यधोमुखम् || ३३ || अथाचमनपात्रस्थतोयेनाचमनीयकम् | दत्त्वा तत्सवितुरिति त्यागपात्रस्थवारिणा || ३४ || नमकाद्यै रुद्रसूक्तैरभिषिच्याथ तज्जलम् | नमः शम्भव इत्यात्ममूर्धनि प्रोक्षयेत् तथा || ३५ || प्. ८८) आवहन्तीति वस्त्रेण समुद्वर्त्येष्टलिङ्गकम् | भस्मासने निधायास्य गृह्णीयात् पादतीर्थकम् || ३६ || ततो विधूममङ्गारमानीयानेन तापयेत् | योवै रुद्रः स भगवान् यश्चाग्निरिति मन्त्रतः || ३७ || यो वै रुद्रः स भगवान् यच्च व्योमेति मन्त्रतः | दशाङ्गमहितं मह्यं धूपं दद्यान्मनोहरम् || ३८ || उद्दीप्यस्वेति च ततो माङ्गल्याख्यं च दर्शयेत् | यस्तन्तुनाभ इति च वस्त्रयुग्मं प्रदाय च | अग्निरित्यादिभिर्मन्त्रैर्लिम्पेद् भस्म सहोदकम् || ३९ || नमो हरिकेशायेति प्रदद्याद् यज्ञसूत्रकम् | गन्धद्वारामिति पठन् दद्याद् गन्धं सहाक्षतम् || ४० || उमासहायमिति च कुर्याद् गन्धानुलेपनम् | आकाशादिति वै दद्यादक्षतारोपणं बुधः || ४१ || प्. ८९) अपाणिपाद इति हिरण्यपात्रमिति ब्रुवन् | नीराजनं दर्शयेच्च कर्पूराख्यं महेश्वरि || ४२ || तदेवर्तमिति पठन् पुष्पमाल्यानि चार्पयेत् | नमो हिरण्यबाहवे मकुटादि विभूषयेत् || ४३ || या ते रुद्र शिवा तनूः शिवा विश्वाहभेषजी | इति नीराजनं दद्याच्छृङ्गाराख्यं महेश्वरि || ४४ || निधनपतये इति वेदसारसहस्रतः | मूलेनापि च पुष्पाणि पत्राणि च समर्पयेत् || ४५ || वादित्य इति विल्वानि यो वै रुद्रेति भस्म च | नम ईध्रियाय चेति श्वेतच्छत्रं समर्पयेत् || ४६ || नमो वात्याय च पठन् चामरं च समर्पयेत् | चन्द्रमा मनस इति तालवृन्तेन वीजयेत् || ४७ || स यश्चायं पुरुष इति दर्पणमर्पयेत् | यो वेदादाविति पठन् घण्टानादं समर्पयेत् || ४८ || अध्यवोचदिति पठन् शङ्खस्वनमथार्पयेत् | शिवेन वचसा त्वेति गीतमाश्रावयेत् तथा || ४९ || प्. ९०) असौ योऽवसर्पतीति पठन् नृत्तं प्रदर्शयेत् | उद्यन्तमस्तं यन्तमिति सव्यहस्तेन कल्पयेत् | प्रदक्षिणानि प्रयतो मम लिङ्गस्य सर्वतः || ५० || नमोऽस्तु नीलग्रीवायेत्यामनन् वै नमास्यपि | नमो वृद्धाय च पठन् स्तोत्रं कुर्यादनन्यधीः || ५१ || दैवीयो मानुषो गन्ध इति धूपं समर्पयेत् | नन्तत्र सूर्यो भातीति महानीराजनं तथा || ५२ || ईरां वहत इत्येवं ज्वालयेत् करदीपिकाः | ज्योतिष्मतीमिति पठन् ज्योतींषि ज्वालयेदपि || ५३ || कृतानि शालिपिष्टेन डमरुप्रतिरूपतः | ज्योतींषि तानि कथ्यन्ते मम प्रीतिकराण्यपि || ५४ || या ते रुद्र इति पठन् याचयेन्मामनन्यधीः | अजात इत्येवमिति विज्ञापनमथाचरेत् | वेदान्तविज्ञान इति पूजापुष्पादिकं त्यजेत् || ५५ || प्. ९१) निवेदनार्हवेलायां पत्रपुष्पादिकं बहु | स्थितं चेदिष्टलिङ्गाग्रे निपतेद् भोज्यवस्तुषु || ५६ || निर्माल्यसुमसंसर्गानर्हं तत् स्यान्निवेदनम् | तदल्पशेषं विसृजेन्न लिङ्गं शून्यमस्तकम् || ५७ || शरणाख्यस्थले भोज्यपदार्थेष्वग्निरित्यतः | विकीर्य सजलं भस्म सव्याहृतिकया तथा || ५८ || सावित्र्या रुद्रगायत्र्या परिषिच्यैवमम्बुभिः | स्वाहां तेभ्यस्तथाचारलिङ्गादिभ्योऽर्पयेत् ततः | षड्लिङ्गार्पणसद्भावे विशेषोऽस्थि शृणु प्रिये || ५९ || भक्तस्थले क्रियाशक्तियुते वै नासिकाङ्गगे | आचारलिङ्गसंज्ञेऽस्मिन् सद्योजातमुखात्मके | गन्धप्रसादं सद्भक्त्या चित्तहस्तेन चार्पयेत् || ६० || माहेश्वरस्थले ज्ञानशक्तिके रसनाङ्गके | गुरुलिङ्गाभिधे वामदेववक्त्रे विशेषतः | बुद्धिहस्तेन तु रुचिं निष्ठाभक्त्या समर्पयेत् || ६१ || प्. ९२) स्थले प्रसादिसंज्ञेऽस्मिन्निच्छक्तिसमन्विते | द्.गङ्गकेऽघोरमुखे शिवलिङ्गाभिधे पुनः | भक्त्याऽवधानया रूपमहङ्कारेण चार्पयेत् || ६२ || प्राणलिङ्गिस्थले त्वादिशक्तियुक्ते त्वगङ्गके | चारलिङ्गाऽभिधे तत् पूरुषवक्त्रे दृढव्रतः | भक्त्याऽनुभवया मनोहस्तेन स्पर्शमर्पयेत् || ६३ || शरणस्थले तु परया शक्त्या युक्ते श्रवोङ्गगे | प्रसादलिङ्गे त्वीशानमुखे शब्दप्रसादकम् | आनन्दभक्त्या सुज्ञानहस्तेनैव समर्पयेत् || ६४ || ऐक्यस्थले तु चिच्छक्तियुते वै मानसाङ्गगे | महालिङ्गे परशिवमुखे संकल्पमर्पयेत् | सद्भावाभिख्यहस्तेन भक्त्या समरसाख्यया || ६५ || एवमङ्गं च लिङ्गं च भक्तिं शक्तिं तथा स्थलम् | मुखं हस्तं प्रसादं च ज्ञात्वा वै सम्यगर्चयेत् | एवमर्पणसद्भावं सर्वदैव समभ्यसेत् || ६६ || प्. ९३) द्विविधं समर्पणम् समर्पणं द्विधा प्रोक्तमर्चाङ्गं सर्वकालिकम् | समर्पणे समर्चाङ्गे रुचिं भावेन नान्यथा || ६७ || शरणाख्यस्थलेऽप्येवमर्पणं षट्स्थलात्मकम् | ऐक्यस्थले तु मूलेन लिङ्गे पुष्पं निधाय च || ६८ || धूपं समर्प्य चानन्दनीराजनमथार्पयेत् | यतो वाचो निवर्तन्ते इति मन्त्रं जपन् पुनः || ६९ || स विश्वकृदिति पठन् ताम्बूलं च समर्पयेत् | आरभ्येति च ताम्बूलनीराजनमथार्पयेत् || ७० || यो ब्रह्माणमितीशान इति मन्त्रद्वयेन च | मन्त्रयन् पुऽपजातं वै मन्त्रपुष्पं समर्पयेत् || ७१ || असंख्याताः सहस्राणीत्यादिमन्त्रं समुच्चरन् | असंख्याताभिख्यनीराजनमप्यर्पयेत् ततः || ७२ || सोऽब्रवीदिति मन्त्रेण वस्त्रेणावृत्य लिङ्गकम् | अणोरणीयानिति तु पेटिकायां सुविन्यसेत् || ७३ || प्. ९४) एवं महार्चनं प्रोक्तं महादेवि महाफलम् | विधिनाऽनेन संपूज्य न पुनर्जन्मभाग् भवेत् | देवेशि गुरुपूजायां विशेषः कथ्यते शृणु || ७४ || गुरुपूजायां विशेषः पद्यार्घ्याचमनाख्यानि त्यागज्ञानादिकानि च | न विद्यन्तेऽत्र पात्राणि पात्रद्वितयमेव च || ७५ || शिवकुम्भं च सामान्यमर्घ्यपात्रं च विद्यते | शिष्टं सर्वं समं प्रोक्तं किमतः श्रोतुमिच्छसि || ७६ || इति श्रीकारणागमे उत्तरभागे श्रीपार्वतीपरमेश्वरसंवादे क्रियापादे शिवपूजाविधानं नाम सप्तमः पटलः || ७ || प्. ९५) अष्टमः पटलः देव्युवाच देवदेव जगन्नाथ सर्वानुग्रहतत्पर | विधानमिदमुत्कृष्टं वेदमन्त्रसमन्वितम् || १ || वेदाधिकारिणां सम्यगनुष्ठेयं प्रकाशितम् | स्त्रीमुख्याः केन विधिना कृतार्थाः स्युर्निबोध मे || २ || महादेव उवाच महादेवि प्रवक्ष्यामि तान्त्रिकं पूजनक्रमम् | अनुष्ठितेन येन स्युः सर्वे सर्वार्थभाजनाः || ३ || तान्त्रिकपूजनक्रमः विद्यासु श्रुतिरुत्कृष्टा रुद्रैकादशिनी श्रुतौ | तत्र पञ्चाक्षरस्तत्र शिव इत्यक्षरद्वयम् || ४ || तस्मादधिकृतां वेदे तत्राऽनधिकृतामपि | मदीयमूलमन्त्रेण पूजनं सर्वतो वरम् || ५ || अथवा तान्त्रिकैर्मन्त्रैरपि पूजा विशिष्यते | एषु भात्युपचारार्थः स्पष्टः सर्वोऽपि भामिनि || ६ || प्. ९६) वैदिकेषु तु मन्त्रेषु लिङ्गादेवौपचारिकात् | तेषु तेषूपचारेषु वेदमन्त्रा नियोजिताः || ७ || समनुष्ठीयमानोऽर्थो येषु स्पष्टं प्रकाशते | तेष्वेव पठ्यमानेषु चित्तं कृत्येऽनुरज्यते || ८ || भक्तिलभ्योऽस्म्यहं यस्मादभक्त्या पूजनं वृथा | तन्मन्त्रास्तान्त्रिका देवि पूजायामुत्तमोत्तमाः || ९ || तान्त्रिकपूजायां सर्वेषामधिकारः सर्वेषामधिकारोऽस्ति तान्त्रिकेषु वरानने | वैदिकानां तथान्येषां स्त्रीणां पुंसां च सुव्रते || १० || शिवकुम्भपूजनम् वैदिकोऽपि च संयुक्तैस्तान्त्रिकैरपि पूजयेत् | ईशान इति मन्त्रेण शिवकुम्भं प्रपूजयेत् || ११ || ईशानः कलशस्याग्रे पूर्वे तत्पुरुषस्तथा | अघोरो दक्षिणे चैव सद्योजातस्तु पश्चिमे || १२ || उत्तरे वामदेवश्च मध्ये च परमः शिवः | अधोभागे परा शक्तिर्विश्वोद्भासनकारिणी || १३ || सद्रूपं कलशाकारं चिद्रूपं कलशद्युतिः | मध्यस्थं जलमुत्कृष्टं सर्वतीर्थोत्तमोत्तमम् || १४ || प्. ९७) चिदानन्दरसं साक्षाच्छिवरूपमिति स्मृतम् | इति मन्त्रैश्च गन्धाद्यैः शिवकुम्भं प्रपूजयेत् || १५ || इष्टलिङ्गपूजा हृदयाद्रिगुहावास करुणावास शाश्वत | पूजापरिग्रहायाद्य करपीठे निषीद मे || इति मन्त्रेणेष्टलिङ्गं विन्यसेत् करपङ्कजे || १६ || पञ्चपञ्चात्मलीलाढ्य पञ्चकृत्यपरायण | आवाहितः सुप्रसन्नः सान्निध्यं कुरु सर्वदा || १७ || इत्यावाह्य गुरुन्नत्वा नुत्वा संपूज्य च क्रमात् | ध्यात्वा मां वै सुप्रसन्नं मूलमन्त्रं जपेदपि || दशावधानविधिना चिरं लिङ्गं समीक्ष्य च || १८ || सर्वमङ्गलयाऽऽश्लिष्टशुभाङ्ग हृदयङ्गम् | नीराजनं गृहाणेश सानुरागं सदाशिव || १९ || नीराजनं सानुरागमिति मन्त्रेण सर्शयेत् | ततश्च मूलमन्त्रेण भस्म पुष्पं निधाय च || २० || प्. ९८) अन्तस्थित बहिर्व्याप्त ज्योतिर्लिङ्गस्वरूपक | नीराजनं गृहाणेश दर्शनाख्यं सदाशिव || इति दर्शननीराजनं दत्वा पाद्यमर्पयेत् || २१ || हरिमुख्यामरशिरोरत्ननीराजिताङ्घ्रिक | भवत्पादाब्जयोः पाद्यं गृहाण परमेश्वर || इति पाद्यं समर्प्यैव हस्तयोरर्घ्यमर्पयेत् || २२ || वराभयाङ्कितकरकञ्जपालितकिङ्कर | हस्तनीरेजयोरर्घ्यं गृहाण गिरिजावर || इति चार्घ्यं समर्प्याथाचमनीयं मुखेऽर्पयेत् || २३ || जगदाभीलकाकोलगोलपालिलसद्गल | श्रीमन्मुखाम्बुजे दत्तं गृहाणाचमनीयकम् || दत्त्वाऽऽचमनमित्येवं स्नापयेदिष्टलिङ्गकम् || २४ || गङ्गातरङ्गसङ्गाञ्चितोत्तमाङ्ग नमोऽस्तु ते | शुद्धोदकस्नानमिदं गृहाण परमेश्वर || २५ || प्. ९९) इति संस्नाप्य च ततस्तीर्थं मूर्धनि निक्षिपेत् | पादोदकं गृहीत्वा च नमस्कुर्यादनन्तरम् || २६ || सर्वमङ्गलमाङ्गल्यं सर्वपावनपावनम् | सर्वसिद्धिकरं पुंसां शम्भोः पादाम्बुसेवनम् || इति प्राश्य ततो लिङ्गं गन्धाद्यैरभिपूजयेत् || २७ || चिद्रूप जगदाधार स्थूलसूक्ष्म परात्पर | नीराजनं गृहाणेशावसराख्यं सदाशिव || २८ || इत्यवसराख्यनीराजनं दत्वा फलादिकम् | समर्प्य चेष्टलिङ्गाग्रे भस्मभ्युक्ष्य सुमादिकम् || दत्त्वा मज्जननीराजनं पश्चादभिदर्शयेत् || २९ || परिपूर्णचिदानन्द जलाध्यक्ष सदाशिव | नीराजनं गृहाणेश मज्जनाख्यं सुशोभनम् || ३० || इति दत्त्वा पुनः पाद्यमर्घ्यमाचमनीयकम् | पूर्वमन्त्रैः प्रदायाथ स्नानं च परिकल्पयेत् || ३१ || पञ्चब्रह्ममयतनो पञ्चकृत्यपरायण | पञ्चामृतस्नानमिदं गृह्यतां भक्तवत्सल || ३२ || प्. १००) आकाशवाहिनीनद्धजटापटलभासुर | शुद्धोदकस्नानमिदं गृहाण जगदीश्वर || ३३ || अभिषेकं विधायैवं तीर्थं स्वशिरसि क्षिपेत् | पादतीर्थं गृहीत्वाऽथ नमस्कृत्याऽदरेण तु || ३४ || भवाम्बुनिधिनिस्तारसेतवे मोक्षहेतवे | पापप्रशमनार्थाय पादतीर्थाय ते नमः || ३५ || अशेषज्योतिरुद्भासकोत्तमज्योतिरात्मक | अङ्गारतापनमिदं कुरु शीतापनोदनम् || इत्यग्निना विधूमेन तापनं संविधाय च || ३६ || अशेषवासनोन्मूलकारणात्मीयभासन | धूपसंवीजनं शम्भो गृह्यतां भक्तवत्सल || संवीज्य धूपमित्येवं पुनर्धूपं प्रसारयेत् || ३७ || अनन्ताअङ्गल्यगुणरत्नरत्नाकरायित | नीराजनं गृहाणेश माङ्गल्याख्यं सदाशिव || इति माङ्गल्यनीराजनं दत्त्वा वस्त्रमर्पयेत् || ३८ || प्. १०१) नृसिंहचर्मोत्तरीय गजाजिनपरिष्कृत | वस्त्रयुग्ममिदं शम्भो गृहाण जगदीश्वर || वस्त्रयुगमं समर्प्यैवं भूतिं संधारयेत् ततः || ३९ || फालाग्निदग्धप्रद्युम्नवपुर्भसितभूषित | शिवाग्निजमिदं भस्म ध्रियतां जगतां पते | इति संधार्य सजलं भस्म गोमयसंभवम् || ४० || फणामणिघृणीभ्राजिनागयज्ञोपवीतक | यज्ञेश्वर गृहाणेश स्वर्णयज्ञोपवीतकम् || इति मन्त्रेणोपवीतं दत्वा गन्धं समर्पयेत् || ४१ || कामाङ्गहसितालेपसमुज्ज्वलशुभाङ्गक | सुगन्धी चन्द्रसम्बन्धः श्रीगन्धः प्रतिगृह्यताम् || इति गन्धं साक्षतं च दत्त्वा तेन विलेपयेत् || ४२ || अक्षयानन्दसंधायकाक्षयाङ्गप्रदायक | अक्षतान् सुगृहाणेश पक्षिवाहनपूजित || इति शुभ्राक्षतान् दत्त्वा कर्पूरं दीपयेत् ततः || ४३ || प्. १०२) सुरयोषामणिश्रेणीदत्तनीराजनोज्ज्वल | नीराजनं गृहाणेश कर्पूराख्यं सदाशिव || इति कर्पूरनीराजनं दत्त्वा माल्यमर्पयेत् || ४४ || विधिविष्णुकपालालिमालालङ्कृतविग्रह | माल्यं गृहाण देवेश सुमजालमनोरमम् || इति माल्यं प्रदायाथाभरणानि समर्पयेत् || ४५ || चन्द्रमःखण्डकोटीरफणिकुण्डलमण्डित | भूषणानि गृहाणेश सौवर्णानि जगन्नुत || भुषणैरित्यङ्कृत्य नानारत्नसमुज्ज्वलैः || ४६ || भवानीभावमधुरलीलालोकावलोकित | नीराजनं गृहाणेश शृङ्गाराख्यं सदाशिव || ४७ || इति नीराजनं दत्त्वा पूजयेत् पत्रपुष्पकैः | अष्टाभिर्नामभिश्चैवमष्टोत्तरशतेन वा || ४८ || पुष्पवद्रथचक्राढ्य पुष्पायुधवधोद्यत | नानाविधानि पुऽपाणि गृहाणेश नमोऽस्तु ते || पुऽपैरेवं सुसंपूज्य विल्वपत्राणि चार्पयेत् || ४९ || प्. १०३) त्रिसुपर्णं स्फुरद्वर्णं श्रिया चीर्णं सुशोभनम् | कुण्डलीकृतगोकर्ण गृहाण श्रीद्रुपर्णकम् || इति विल्वदलं दत्वा भस्म सर्वोपरि क्षिपेत् || ५० || कपर्दवेष्टनानन्त भोगच्छत्रपरिष्कृत | श्वेतच्छत्रं गृहाणेश मुक्तादामाभिशोभितम् || छत्रमेवं समर्प्याथ चामरद्वयमर्पयेत् || ५१ || विधिविष्णुकराब्जोद्यच्चामरद्वयवीजित | चामराभ्यां वीजयामि प्रसीद करुणालय || चामराभ्यां वीजयित्वा तालवृन्तेन वीजयेत् || ५२ || तालसंवादनव्यग्रविधितोषितमानस | वीजये तालवृन्तेन करुणावर्णालय || तालवृन्तेन संवीज्य दर्पणं च प्रदर्शयेत् || ५३ || आदर्शविमलाकारादर्शभास्वत्कपोलक | आदर्शं दर्शयाम्यद्य दुर्दर्शनिजरूपक || दर्पणं दर्शयित्वैवं घण्टानादं समर्पयेत् || ५४ || प्. १०४) नादस्वरूपविलसद्घण्टाशोभिकराम्बुज | घण्टानादं श्रावयामि नादरूप शृणु प्रियम् || घण्ठानादं समर्प्यैवं शङ्खमापूरयेत् ततः || ५५ || शङ्गध्मानक्रियासक्तगणेन्द्रगणसंवृत | शृणु शङ्खरवं देव कम्बुग्रीवमनोरमम् || शङ्खं निनाद्यैवमतो गीतमाश्रावयेदपि || ५६ || कम्बलाश्वतरोद्गीतसमाकर्णनतत्पर | गीतं संश्रावयाम्यद्य भवच्चित्रचरित्रकम् || गीतमाश्राव्य च ततो वाद्यं संश्रावयेत् तदा || ५७ || मुरारिवादितमहामुरजध्वनितोषित | वाद्यं संश्रावये शम्भो डमरुध्वननप्रिय || इति वाद्यं निनाद्याथ नृत्तं सम्यक् प्रदर्शयेत् || ५८ || निजानन्दातिरेकोत्थमहाताण्डवपण्डित | नृत्तं विरचयाम्यद्य महानट विलोकय || ५९ || इति नृत्तं समर्प्यैव करेणाभिनयात्मकम् | मुष्ट्यैवाङ्गुष्ठयुतया प्रदक्षिणमथार्पयेत् || ६० || प्. १०५) प्रदक्षिणक्रियासक्तब्रह्मादिसुरसेवित | प्रदक्षिणत्रयं कुर्वे गृहाण करुणानिधे || प्रदक्षिणत्रयं कृत्वा नमस्कुर्यादनेकशः || ६१ || नमो नमो भूभृदपत्यजानये नमो नमो भस्मितचित्तयोनये | नमो नमः शिक्षितभानुसूतवे नमो नमो भूषितशीतभावने || नमांसि तु समर्प्यैवं स्तुतिं कुर्यादनन्तरम् || ६२ || ब्रह्मणां ब्रह्मणे तुभ्यं रक्षितॄणां च रक्षिणे | हर्तॄणामपि संहर्त्रे देवदेवाय ते नमः || स्तुतिं कृत्वा ततः कुर्याद् धूपसंवीजनं बुधः || ६३ || महाश्मशानदहनधूमधूपावृताङ्गक | धूपसंवीजनं शम्भो गृह्यतां भक्तवत्सल || ६४ || धूपं संवीज्य च मुहुस्तथा धूपं प्रसार्य च | महानीराजनमपि प्रज्वाल्य च समर्पयेत् || ६५ || माङ्गल्यहेतवे सर्वमङ्गलालिङ्गितात्मने | मङ्गलार्थाभिधानाय महादेवाय मङ्गलम् || इष्टलिङ्गस्वरूपायाभीष्टदायास्तु मङ्गलम् || ६६ || प्. १०६) प्राणेषु च मनोमध्ये ज्योतिर्लिङ्गस्वरूपिणे | प्राणग्रन्थिस्वरूपाय प्राणलिङ्गाय मङ्गलम् || ६७ || भावग्राह्याय पूर्णाय भावाभावैकहेतवे | कलासर्गकृते तुभ्यं भावलिङ्गाय मङ्गलम् || महानीराजनं दत्त्वा याञ्चां कुर्यादनन्तरम् || ६८ || याचेऽहं याचेऽहं वचसि सततं नामरुचिरं याचेऽहं याचेऽहं मनसि सततं भावरचनाम् | याचेऽहं याचेऽहं शिव तव पदाम्बोजभक्तिं याचेऽहं याचेऽहं पुनरपि तामेव सततम् || ६९ || नाधिकं मुक्तसंप्राप्यमशोकमचलं सुखम् | त्वत्पदं देहि मे शीघ्रं न जाने प्रार्थ्यमुत्तमम् || इत्येवं याचनां कृत्वा ततो विज्ञप्तिमाचरेत् | ७० || भृत्यापराधा नमसा शाम्यन्तीति नयेन वै | नमस्येऽतोऽपराधान्मे क्षमस्व करुणानिधे || इति विज्ञापनां कृत्वा निवेद्यं प्रोक्षयेत् ततः || ७१ || प्. १०७) देवस्य सवितुर्मध्ये यो भर्गो नो धियः क्रमात् | प्रचोदयात् तद्वरेण्यं शरण्यं समुपास्महे || ७२ || इति प्रोक्ष्य निवेद्यं तु परिषिञ्चेत् समन्ततः | परिषेचनकं कृत्वा षड्लिङ्गार्पणमाचरेत् || ७३ || अवाङ्मानससंवेद्यानन्दबोधसुधाम्बुधे | नीराजनं गृहाणेदमानन्दाख्यं सदाशिव || इति नीराजनं दत्वा ताम्बूलं च समर्पयेत् || ७४ || गुणत्रयक्रियादूर गुणत्रयसमन्वित | गृहाणेदं सकर्पूरं ताम्बूलं तापसार्चित || इति दत्त्वा च ताम्बूलं नीराजनमथार्पयेत् || ७५ || अम्बाकराम्बुजानीतताम्बूलग्रहणोत्सुक | नीराजनं गृहाणेश ताम्बूलाख्यं सदाशिव || इति नीराजनं दत्वा मन्त्रपुष्पमथार्पयेत् || ७६ || विष्ण्वादिविबुधानन्तपुष्पाञ्जलिसमर्चित | पुष्पाञ्जलिं गृहाणेश पुष्पायुधनिषूदन || इति पुष्पाञ्जलिं दत्त्वाऽसंख्यं नीराजनं दिशेत् || ७७ || प्. १०८) असंख्येयसहस्रश्रीरुद्ररूपावृताखिल | नीराजनं गृहाणेदमसंख्यातं सदाशिव || नीराजनमसंख्यातं दत्त्वा वस्त्रेण वेष्टयेत् || ७८ || तन्तुना पटवन्नैजरूपेणावृतविश्वक | वस्त्रेण वेष्टयामीष्टलिङ्गरूप नमोऽस्तु ते || इति वस्त्रेण संवेष्ट्य पेटिकायां सुविन्यसेत् || ७९ || सद्भक्तहृदयावास जगदावास शाश्वत | निवेशयामि हृदये सुखं वस सतीसख || पेटिकायामिति न्यस्येदेवमुक्तं महार्चनम् || ८० || सुवासिनीनामयमाराधनक्रमः पाद्यादिपात्ररहितमिदं गुर्वर्चनं भवेत् | अथावसरपूजोपचारयोगाल्लघुर्भवेत् || सुवासिनीनां मुख्योऽयं लघ्राराधनाविधिः || ८१ || विधानमिदमर्चायास्तान्त्रिकं समुदाहृतम् | सर्वमुक्तं समासेन किमतः श्रोतुमिच्छसि || ८२ || इति श्रीकारणागमे उत्तरभागे पार्वतीपरमेश्वरसंवादे क्रियापादे तान्त्रिकपूजाविधिकथनं नाम अष्टमः पटलः || ८ || प्. ११०) नवमः पटलः देव्युवाच विद्येशान महादेव सर्वज्ञादिगुरो विभो | अर्चाविधानश्रवणात् कृतार्थाऽस्मि भवन्मुखात् || १ || श्रोतुकामाऽस्मि नियमान् दीक्षितानां विशेषतः | ब्रूहि तानखिलानीश पाहि मां करुणाकर || २ || महादेव उवाच वक्ष्यामि शृणु कल्याणि नियमानखिलानपि | मत्पूजातत्परेणाशु मत्प्रसादाभिकाङ्क्षिणा || ३ || दीक्षितानां नियमाः पत्राण्यपि प्रसूनानि वर्तिकाश्च जपस्तथा | संख्या नियमतो नित्यं ग्रहणीया न चान्यथा || ४ || दीक्षासंस्काररहितैर्जनैः स्पृष्टं जलादिकम् | नोपयोज्यं हि कृत्येषु मदर्पणमुखादिषु || ५ || नेक्षेत पूजावेलायां दीक्षासंस्कारवर्जितान् | न कुप्येच्चिन्तयेदन्यान् नान्यैः संल्लापमाचरेत् || ६ || प्. १११) लिङ्गमङ्गे मुखे भस्म गले रुद्राक्षमेव च | मन्नाम वाचि च तथा न कदापि वियोजयेत् || ७ || वस्त्रमाभरणं पुष्पमन्नपानाद्यमौषधम् | न मेऽसमर्प्य सेवेत प्राणैः कण्ठगतैरपि || ८ || निवेदितमथान्यस्मै न तु मह्यं निवेदयेत् | समर्पितं च लिङ्गाय न चान्यस्मै समर्पयेत् || ९ || देव्युवाच एवं यदि महेशान कथं स्त्रीणामिदं भवेत् | पत्न्या हि भर्तुरुच्छिष्टं नित्यं सेव्यं समीरितम् || न भोज्यमसमर्प्येति गदितं भवतैव तु || १० || भर्त्रा हि स्वीयलिङ्गाय समर्पितमिदं पुरा | कथं पुनर्निवेद्यं स्याद् भोज्यं वाप्यसमर्प्य च || एनं मे संशयं छिन्धि करुणावरुणालय || ११ || महादेव उवाच साधु पृष्टं त्वया देवि शृणु गोप्यमिदं प्रिये | निवेदने विशेषोऽस्ति वक्ष्याम्यवहिता भव || १२ || प्. ११२) द्विविधं नैवेद्यम् लिङ्गभोगस्वरूपं चानुज्ञारूपमिति द्विधा | भर्तृशेषादिरूपस्य प्रसादस्य गुरोर्मम || तीर्थस्य चार्पणं प्रोक्तमनुज्ञारूपमेव हि || १३ || इष्टानिष्टप्रभेदेन देहिनां कर्मयोगतः | लभ्यन्ते ह्यनिशं भोगास्तेषु तेष्वपि मद्व्रती || १४ || इष्टे तु भोगरूपं चानुज्ञारूपमनिष्टके | निवेदनं प्रकुर्वीत ग्राम्यधर्मादिके तथा || १५ || देव्युवाच भर्तृशेषो न योज्यः स्याद्यदि भोगार्पणात्मना | स्त्रीणामनुदिनं भग्नं तादृशं हि समर्पणम् || १६ || यतश्च प्रत्यहं सेव्यो भर्तृशेषः समीरितः | अथवाऽप्यर्चनं कृत्वा कथं कुर्यान्निवेदनम् || १७ || भर्तृशेषो न योग्यो हि चेदन्येन पतिव्रता | भुञ्जीतान्यतरत् तत्र सा किं ब्रूह्यथवोभयम् || १८ || प्. ११३) महादेव उवाच सुवासिनी समर्च्यापि भोगरूपनिवेदनम् | अन्येनैव विधायानुज्ञाप्य तद् भर्तृशेषकम् || उभयं चैव भुञ्जीत भक्तियुक्ता मयि प्रिये || १९ || अनर्पितं यथाऽभोज्यमत्याज्यं मन्निवेदितम् | मत्प्रसादपरित्यागी मत्प्रसादं स नार्हति || २० || देव्युवाच निवेदितं चेदत्याज्यं कथमत्रोपपद्यते | दारेभ्यश्चैव शिष्येभ्यः कथं देयं प्रसादकम् || २१ || अर्थिभ्यो रौरवीयेभ्यः प्रदेयं वा जलं कथम् | गण्डूषकरश्द्ध्यादि कथं समुपपद्यताम् || २२ || गण्डूषादौ प्रसादस्य त्यागः संभाव्यते खलु | प्रसादस्य पवित्रत्वान्मुखशुद्धिः कथं भवेत् || २३ || अनर्पितेन पयसा कथं गण्डूष इष्यते | समर्पितेन यदि तत् कथं समुपपद्यते || २४ || प्. ११४) निवेदनैकविषयो विशयो बाधते महान् | एतत्सर्वं समावेद्य भक्तानीकं समुद्धर || २५ || महादेव उवाच दारादिभ्यः प्रसादस्य नारकिभ्यो जलस्य च | प्रदानेनार्पितत्यागदोषो नैवास्ति भामिनि || २६ || त्यागस्याविधिमूलस्य निषेधविषयत्वतः | यथाऽविधिकृतत्यागो न दोषो गुण एव हि || २७ || गण्डूषमुखशुद्ध्यादिक्रियार्थार्पितवारिणा | तास्ताः क्रिया हि कर्तव्याः कुर्वन्नेवं न दुष्यति || २८ || प्रसादेऽतिपवित्रेऽपि मुखशुद्धेर्विधानतः | तत्रावशकृतत्यागो न दोषो विधिमूलकः || २९ || कणत्रयात्मना योऽयं गुर्वादेरुपयुज्यते | लालासम्बन्धराहित्यात्तत्र शुद्धिर्न हीष्यते || ३० || प्. ११५) मदर्चनपरो नित्यं मद्ध्यानाधीनचेतनः | मन्नामचिन्तनोद्युक्तो नान्यदेवादिकं स्मरेत् || ३१ || देव्युवाच वर्णाश्रमैकनिष्ठानां नित्यनैमित्तिकादिषु | अग्न्यादिपरिचर्याश्च प्राप्यन्तेऽहरहः किल || त्वदेकनिष्ठापरमैः कर्तव्यास्ताः कथं प्रभो || ३२ || महादेव उवाच राजैकसेवकस्यापि तदाज्ञावशतः प्रिये | तन्मन्त्र्यादेश्च कैङ्कर्यं भृत्यस्य नहि दुष्यति || ३३ || मन्निष्ठानामपि तथा मदाज्ञाश्रुतिचोदनात् | नित्यनैमित्तिके चान्यदेवसेवा न दुष्यति || ३४ || मदर्पणार्थरचितपाकशेषं प्रयत्नतः | न प्रयच्छेदभक्तेभ्यो विजातीयेभ्य एव च || ३५ || प्. ११६) यः स्वयं भुक्तियुक्तोऽपि शैवं वाङ्मात्रतो जनम् | अधमं मन्यते तस्य भक्तिर्व्यर्था महेश्वरि || ३६ || तस्माद् भक्तियुतो मर्त्यो न्यूनमन्यूनमेव वा | अधमं वाऽपि रुद्राक्षभस्मलिङ्गविभूषणम् || उत्तमोत्तमरूपेण पश्येत् सर्वमसंशयम् || ३७ || देव्युवाच वर्णाश्रमैकसक्तानां कथमत्रोपपद्यते | विप्रेण ह्यन्यजातीयो भाव्यः स्यादुत्तमत्वतः || भाविते वर्णमर्यादा न कथं व्याहता भवेत् || ३८ || महादेव उवाच विप्रो विजातिभक्तांस्तु मनसैव हि पूजयेत् | अन्यथा वर्तमानो हि लभते वर्णविच्युतिम् || ३९ || अधोगतिनिवृत्तिं हि वर्णधर्मो नियच्छति | समग्रा सुस्थिरा शुद्धा भक्तिर्मुक्तिं प्रयच्छति || ४० || वर्णाश्रमयुतानां हि भक्तिलोपो भवेद्यदि | अधः पदोपलब्धिः स्यादन्त्ये सर्वाङ्गसुन्दरि || ४१ || अतः सर्वाङ्गसम्पूर्णभक्तियुक्तात्मनां प्रिये | वर्णाश्रमीयधर्माणां निर्बन्धः सफलः स्मृतः || ४२ || इति श्रीकारणागमे उत्तरभागे पार्वतीपरमेश्वरसंवादे क्रियापादे नियमोपदेशो नाम नवमः पटलः || ९ || प्. ११८) दशमः पटलः देव्युवाच शाम्भवानां हि शुद्धानां सततं लिङ्गधारिणाम् | सम्प्राप्तेऽशुचिसंसर्गे लोकसंसर्गसम्भवे || नानाविधे कथं नु स्यात् प्रायश्चित्तं वदस्व मे || १ || महादेव उवाच साधु पृष्टं महादेवि त्वया लोकहितेच्छया | प्रायश्चित्तविधिं वक्ष्ये सदा लिङ्गाङ्गसङ्गिनाम् || २ || लिङ्गं हि सर्वदा शुद्धमशुद्धं सर्वदा वपुः | अतः षडध्वसंशुद्धियोगाच्छुद्धं विधाय तत् || ३ || प्रतिष्ठितं लिङ्गमत्र ततः शारीरदोषतः | न लिङ्गमपवित्रं स्यात् सर्वावस्थासु भामिनि || ४ || दीक्षासंस्काररहितैरपवित्रशरीरकैः | न संस्पृश्यं हि मल्लिङ्गमिति निर्णीतमद्रिजे || ५ || प्. ११९) प्रतिष्ठायां दीक्षितस्यैवाधिकारः अदीक्षितो नाधिकारी प्रतिष्ठायां मम प्रिये | दीक्षितैरेव कर्तव्यं प्रतिष्ठेति प्रतिश्रुतम् || अन्यथा राष्ट्रनाशः स्यात् तस्मादन्यैर्न कारयेत् || ६ || परार्थपूजाधिकृतो यद्यपि स्याच्छिवद्विजः | तथापि तस्य कानीनतया ब्ब्राह्मण्यलोपतः || ७ || आचार्यत्वानधिकृतेः प्रतिष्ठायां स नार्हति | दीक्षासंस्कारयुक्तश्चेत् पूजायां स्थावरेषु सः || स्वपरार्थोपयुक्तायामधिकुर्यान्न संशयः || ८ || दीक्षासंस्कारसंपन्नस्तस्माल्लिङ्गाङ्गसङ्गवान् | लोकाराध्यत्वयोगेन प्रतिष्ठाधिकृतो भवेत् || ९ || शैवदीक्षापवित्राङ्गाः सर्वावस्थास्वपि प्रिये | स्पृशन्तो नैव दुष्यन्ति मम लिङ्गं सुशोभनम् || १० || अदीक्षितः स्पृशन् लिङ्गं दोषी भवति निश्चितम् | अदीक्षितैस्तु स्पृष्टं चेल्लिङ्गं संस्कार्यमेव हि || ११ || प्. १२०) देव्युवाच निशि निद्राविनिघ्नस्य लुठतः परिपार्श्वयोः | लिङ्गस्याधस्थितिर्भाव्या कथं दोषः प्रशाम्यति || १२ || महादेव उवाच करपादादिसंस्पर्शह्तोर्दोषस्य सुभ्रुवः | नान्या विनिष्कृतिः शस्ता प्रातः पत्युः पदानतेः || १३ || तथोषसि प्रबोधाप्तौ मल्लिङ्गप्रणतिः परा | सर्वदोषप्रशमनी नेत्रसंस्पर्शरूपिणी || १४ || देव्युवाच लिङ्गस्य धर्तुः शारीरदोषास्पर्शेऽपि नित्यशः | अदीक्षितैश्च संस्पर्शो लोके संभाव्यते खलु || १५ || वपनादिष्ववशतो नापितस्पर्श इष्यते | हीनवर्णैरपि तथा चण्डालैः श्वपचैरपि || १६ || लिङ्गिनः स्पर्शसंप्राप्तौ कीदृशी निष्कृतिर्भवेत् | एतत्सर्वं समाचक्ष्व लोकानुग्रहतत्पर || १७ || प्. १२१) महादेव उवाच वपनादौ न लिङ्गस्य मुण्डिस्पर्शो यथा भवेत् | तथा प्रयतितव्यं खल्वन्यथा निष्कृतिः परा || १८ || लिङ्गिनो नापितस्पर्शे शिवसूत्रं विसृज्य च | पुनर्नवं धार्यमेव ब्रह्मसूत्रं तथैव च || पञ्चाक्षरीं च गायत्रीमष्टोत्तरशतं जपेत् || १९ || लिङ्गस्य नापितस्पर्शे पवमानादिसूक्तकैः | श्रीरुद्रेण च कर्तव्यं प्रोक्षणं सुविशेषतः || २० || चण्डालादिजनस्पर्शे सूत्रयुग्ममपास्य च | पवमानादिभिः प्रोक्ष्य चाष्टोत्तरसहस्रकम् || गायत्रीं मूलमन्त्रं च जप्त्वा नक्ताशनो भवेत् || २१ || अदीक्षितैः सवर्णैश्चासवर्णैश्चापि संगतौ | मूलमष्टोत्तरशतं जपेत् तद्दोषशान्तये || २२ || देव्युवाच निष्कृतिः कीदृशी प्रोक्ता कालभङ्गेऽर्चनस्य तु | आपत्सु पूजालोपे च तथा लोपे जपस्य च || अलाभे पत्रपुष्पाणां नियतानां च संख्यया || २३ || प्. १२२) महादेव उवाच मूलमष्टोत्तरशतं कालभङ्गेऽर्चनस्य तु | पूजायाश्च जपस्यापि लोपे मूलं सहस्रकम् || २४ || अलाभे पत्रपुष्पाणां नियतानां सुलोचने | एकैकस्य जपेदेव मूलमष्टोत्तरं शतम् || २५ || देव्युवाच करात् प्रमादवशतश्च्युतं लिङ्गमधः पतेत् | तदा वै किं नु कर्त्तव्यं प्रायश्चित्तं वदस्व मे || २६ || महादेव उवाच प्रमादेन यदा लिङ्गं निजहस्तादधः पतेत् | गृहीत्वा तत्तदा जप्यं मूलमष्टोत्तरं शतम् || २७ || अनुक्तानां च दोषाणां नित्यं संभावितात्मनाम् | प्रायश्चित्ततया जप्यं मूलमष्टोत्तरं शतम् || २८ || देव्युवाच गुरुदत्तस्य लिङ्गस्य भङ्गो लोपोऽथवा भवेत् | किं नु कार्यं तदा देव कृपया तन्निबोध मे || २९ || प्. १२३) महादेव उवाच हन्त ते कथयामीदं रहस्यमपि सुव्रते | द्वित्रिखण्डतया भङ्गे बध्वा सर्जरसेन तु || कृत्वा तत्त्वकलान्यासं पूजयेदविशेषतः || ३० || चूर्णीभावे तु लिङ्गस्य चान्यस्मिन् तद्गताः कलाः | आरोप्य बिभृयाल्लिङ्गं पुनर्लब्धं गुरोः करात् || ३१ || अथ लिङ्गस्य लोपे तु कर्तव्यं शृणु सुन्दरि | लिङ्गस्यादर्शने त्याज्याः प्राणाः स्युर्भक्तियोगतः || ३२ || प्राणत्यागो त्वशक्तश्चेदेकविंशद्दिनावधि | निराहारो जपन्मूलं लिङ्गमन्वेषयेज्जनैः || ३३ || यदा वै लभते लिङ्गं धृत्वा भक्त्या तदैव तत् | गुरुं माहेश्वरांचैव यथाशक्ति समर्चयेत् || ३४ || तदाप्यलाभे विसृजेदसून् सद्भक्तियोगतः | प्राणत्यागे त्वशक्तश्चेल्लिङ्गमन्यद् गुरोः करात् || ३५ || प्. १२४) आकृष्टपूर्वलिङ्गीयकलान्यासाभिशोभितम् | षडध्वन्यासकलितं बिभृयादप्रमादतः || ३६ || देव्युवाच देवदेव महादेव धृते लिङ्गे नवे ततः | लभेत् चेत् पूर्वलिङ्गम् कर्तव्यं किं वदस्व मे || ३७ || महादेव उवाच पूर्वलिङ्गोपलम्भेऽपि त्यजेन्नैव धृतं नवम् | यत्तदीयकलाः सर्वा नवे संवेशिताः पुरा || तत्पूर्वलिङ्गं गुरवे विनिवेद्य क्षिपेज्जले || ३८ || देव्युवाच नष्टलिङ्गस्त्यजेत् प्राणान् यदि देहं तदीयकम् | तत्कथं ब्रूहि संस्कार्यमनर्हं लिङ्गवर्जितम् || ३९ || यदि धार्यं लिङ्गमन्यत् प्राणत्यागो निरर्थकः | चेदधार्यमसंस्कार्यं गात्रं तस्य भवेत् तदा || ४० || दोषस्तूभयथा दृष्टो नष्टलिङ्गस्य देहिनः | एनं मे संशयं छिन्धि करुणावरुणालय || ४१ || प्. १२५) महादेव उवाच त्यक्तासोर्नष्टलिङ्गस्य तत्क्षणे मोक्षसंगतिः | नानर्थस्तदसुत्यागः संस्कारस्तु यथा शृणु || ४२ || आकृष्टनष्टलिङ्गीयकलान्यासयुतं नवम् | लिङ्गमन्यत् सुसंयोज्य संस्कुर्याद् विधिना तनुम् || ४३ || संस्कारार्थं पुनर्लिङ्गे योजितेऽपि शरीरके | त्यक्तासोर्नैव लोपोऽस्ति यदयं मोक्षमाप्तवान् | तल्लिङ्गं प्राणवद् धार्यमप्रमादेन सर्वदा || ४४ || सर्वं ते कथितं देवि रहस्यमपि सुव्रते | अपुत्रायाप्यशिष्याय न प्रकाश्यमिदं त्वया || ४५ || इति श्रीकारणागमे उत्तरभागे पार्वतीपरमेश्वरसंवादे क्रियापादे प्रायश्चित्तविधिकथनं नाम दशमः पटलः || १० ########### END OF FILE #######