#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00236 Uniform title: karpūrādistotra Editor : Arthur Avalon Alternate name : Sir John Woodroffe Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Sept. 18, 2011 Publisher : Calcutta Anusamdhana Samiti Publication year : Publication city : Calcutta Publication country : India #################################################### Kअर्पूरादिस्तोत्र आर्थुर् आवलोन् (षिर् ञोह्न् Wओओद्रोffए) Pउब्लिस्हेर् Cअल्चुत्त आनुसम्धन षमिति श्रीश्रीगुरवे नमः | ओं नमः परमदेवतायै || श्रीश्रीकर्पूरादिस्तोत्रम् | कर्पूरं मध्यमान्त्यस्वरपरिरहितं सेन्दुवामाक्षियुक्तं बीजन्ते मातरेतत्त्रिपुरहरबधु त्रिःकृतं ये ऊपत्ति | तेषां गद्यानि पद्यानि च मुखकुहरादुल्लसन्त्येव वाचः स्वच्छन्दं ध्वान्तधाराधररुचिरुचिरे सर्व्वसिद्धिं गतानाम् || १ || टीका | ओं विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे | श्रेयः प्राप्तिनिमित्ताय नमः सोमार्द्धधारिणे || श्रीश्रीचण्डी | प्रणमामि महादेवीं तुरीयां ब्रह्मरुपिणीम् | यस्याः स्मरणमात्रेण भवाध्वौ न निभज्जति || गन्धर्व्वतन्त्रम् | कालीं कालहरां देवीं क्रीङ्कारबीजरूपिणीं | कामरूपां कलातीतां कालिकां दक्षिणां भजे || कालीहृदयम् || करूरमिति | कर्पूरमित्यादिपञ्चभिः श्लोकैः महादेव्याः सूक्ष्मरूपात्मकविद्याराज्ञीनाम द्वाविंशत्यक्षरं मन्त्रम् उद्धृतं तथा तस्याः साधनप्रकारं माहात्माञ्च क्रमेणोक्तम् | षष्ठश्लोके तस्याः विविधमन्त्रोद्धारश्च कथितः | उक्तञ्च कालिकाश्रुतौ अथ हैनां ब्रह्मरन्ध्रे ब्रह्मस्वरूपिणीमाप्नोति सुभगां कामरेफेन्दिरासमष्टिरुपिणीं | एतत्रिगुणितमादौ तदनु कूर्च्चद्वयं कूर्चबीजं तद्वयोम षष्ठस्वरविन्दु मेलनरूपं | तदेव द्विरुच्चार्यय तदनु भुवनाद्वयं भुवना तु व्योमज्वलनेन्दिराशून्य मेलनरूपा | तदेव द्विरुच्चार्यय दक्षिणे कालिके चेत्यभिमुखंगता तदनु बीजसप्तकमुच्चार्यय वृहद्भानुजायामुच्चरेत् | प्. २) अयं सर्व्वमन्त्रोत्तमोत्तमः | तथाच निरुत्तरतन्त्रे - अथ वक्ष्ये महेशानि दक्षिणाकालिकामनुम् | येन विज्ञानमात्रेण जीवन्मुक्तः प्रजायते || ब्रह्मानलयुतं देवि नादबिन्दुसमन्वितम् | वामनेत्रेण संयुक्तं चित्स्वरूपं परात्परम् || एकाक्षरी सिद्धविद्या मन्त्रराज्ञी कुलेश्वरि | त्रिगुणा च कूर्च्चयुग्मं लज्जायुग्मं ततः परम् || दक्षिणे कालिके चेति सप्तबीजानि योजयेत् | अन्ते वह्निवधूं दद्यात् विदयाराज्ञी प्रकीर्त्तिता | सर्व्वमन्त्रमयी विद्या सृष्ठिस्थित्यन्तकारिणी || अपरञ्च प्रथमश्लोके श्रीमत्कालिकायाः एकाक्षरी मन्त्रराज्ञी क्रींबीज उद्धृतम् द्वितीयश्लोके श्रोमत्तारायाः एकाक्षरमन्त्रं हूंबीजं उद्धृतम् | तृतीयश्लोके श्रीमत्त्रिपुरसुन्दर्ययाः एकाक्षरमन्त्रं ह्रीं बीजं उद्धृतञ्च तथा कालीतारासुन्दरीणां रहस्यसाधनप्रकरणञ्च वर्णितं तेन एतत्स्वरूपाख्यस्तोत्रं ककार कूटस्तोत्रवत् त्रिशक्तिविषये पाठ्यम् इति क्रमदीक्षितसाधकेन्द्राणाम् मतं | उक्तञ्च तारारहस्यतन्त्रे - यथा काली तथा तारा तथा नीलसरस्वती | सर्वाबीइष्टफलप्रदा तथा त्रिपुरसुन्दरी || अभेदमतमास्थाय यः कश्चित् साधयेन्नरः | त्रिलोके स तु पूज्यः स्यात्तारासुतश्च एव सः || भेदं कृत्वा यदा मन्त्रौ साधयेदत्र साधनम् | न तस्य निष्कृतिर्द्देवि निरये पच्यते हि सः || उक्तञ्च ताराध्याने कवचे च हुङ्कारबीजोद्भवा हूं घाटां मे सदा पातु बीजैकाक्षररूपिणी || तथा श्रीसुन्दर्ययाः स्तोत्रे च - ह्रींङ्कारमेव तव नाम गृणन्ति ये वा मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे | ह्रीं ह्रीमिति प्रतिदिनं जपतां तवाख्यां किन्नाम दुर्लभमिह त्रिपुराभिधाने || तथाच महाकालसंहितायां | श्रीविद्या कालिका तारा त्रिशक्तिविषये पठेत् || वस्तुतस्तु यद्वद्विभिन्नजातीयबीजेभ्य एकविधा लता कदापि न उत्पद्यते तद्वत् क्रीङ्कार हूङ्कार ह्रीङ्कारादिभ्यो विभिन्न-बीजमन्त्रेभ्य एकरूपा मूर्त्तिः न सम्भवति अतः पूर्व्वोक्तैस्त्रिभिर्बीजैः ब्रह्मविद्या श्रीमद्दक्षिणकालिकैव सर्व्वरूपिणीतिसूचिता | प्. ३) हे मातः ध्वान्तधाराधर-रुचि रुचिरे नीलमेधकान्तिरिव मनोजे नवीनजलधरो यथा अमृतबारिवर्षणेन आतपतप्तपृथ्वीं शीतलां करोति तद्दत्त्वमपि कृपामृतवर्षणेन त्रितापतप्त साधाकय अमृतत्वं ददामीति भावः | त्रिपुरहरवधु स्वर्गमक्र्त्त्यपातालस्थैः त्रिपुरैः सह त्रिपुराख्यासुरनाशकमहेशशक्ते | कर्पूरं मध्यमान्त्यस्वरपरिरहितं कर्पूरशब्दभ्य मध्यमो रेफयुक्तः पकारः अन्त्यं अनुस्वारः स्वराः अकारोकारान्तिमरेफस्थाकारा तैः सर्व्वतो भावेन वर्ज्जितं तेन क्र इति स्थितं | सेन्दु बिन्दुयुक्तार्द्धचन्द्रेण सह वर्त्तमानं | वामाक्षियुक्तं ईकारेण युक्तं तथाच क्रीं इति | ते तव बीजं मन्त्रात्मकशरीरस्य कारणं | त्रिःकृतं त्रिगुणीकृतं ये जनाः जपन्ति मन्त्रार्थगतमानसाः सन्तः मनसा उच्चारयन्ति | सर्व्वसिद्धिं गतानां शिवस्य अणिमाद्यष्टसिद्धिं प्राप्तानां साधकानां मुखकुहरात् आस्यविवरात् | गद्यानि पद्यानि च वाचः गद्यपद्य मयानि वाक्यानि स्वच्छन्दं अप्रयत्नसुलभं उल्लसन्ति प्रस्फुरन्ति इत्यर्थः || अपिच श्रूयते यत् श्रीमत्कालिकायाः इदं क्रीं बीजं इसलामधर्माबलम्बिनः साधकाः मोक्षलाभकामनया आरबीय भाषया रूपान्तरितं करीम् इति मन्त्रं जपन्ति तथा खष्टानधर्माबलम्बिनः साधका अपि क्राइष्ट इति मन्त्र मुक्ति कामनया सदैव जपन्ति || १ || अथास्य स्वरूपव्याख्या || १ || नत्वा श्रीपादुकां भक्त्या रामानन्दस्य योगिनः | कृता स्वरूपव्याख्येयं विमलानन्ददायिनी || हे मातः (माति परिमितं ददातीति माता - मा + तृच्) सकामनिष्कामभेदेन भोगमोक्षदात्रि | ध्वान्तधाराधररुचि रुचिरे [शिवयोर्व्योमरुपत्वादसितं लक्ष्यते वपुः | योग वाशिष्टम् | (शिवा च शिवश्च शिवौ तयोः) मोक्षे साक्षादपेतान्वुदगगननिभां भावयेद्भक्तिगम्यां || त्रिपुरासारसमुच्चयः ||] शुद्धसत्वगुणात्मकघनीभूततेजोमयत्वात् तथा चिदकाशत्वाच्च नीलवर्णचिन्तनीये | त्रिपुरहरवधु [पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रं | आधारमानन्दमखण्डवीधं यम्निद्वयं याति पुरतयञ्च || कैवल्योपनिषत् ||] स्थूल सूक्ष्म कारण देहान् हरतीति विदेहमुक्तिदायकत्रिपुरहरस्तस्य विदेहमुक्तिदातुर्या शक्तिः सा त्वमेव विदेहकैवल्यदात्रीति भावः | प्. ४) मध्यमान्त्यस्वरपरिरहितं [अकारः सात्त्विकी ज्ञेय उकारो राजसः सृउतः | मकारस्तामसः प्रोक्तस्त्रिभिः प्रकृतिरुच्यते || ज्ञानसङ्कलिनौ || खरेण सन्धयेत् योगमस्वरं भावयेत् परम् || इति ब्रह्म बिन्दूपनिषत् ||] सत्त्वरजस्तमोगुणात्मिकाया मूलप्रकृतेः मध्यम उकारात्मकः रजोगुणः अन्त्यं मकारात्मकः तमोगुणः ताभ्यां रहितं शुद्धसत्त्वगुणात्मकं | सेन्दुवामाक्षियुक्तं [ककारोज्ज्वलरुपत्वात् केवलं ज्ञानचित्कला | ज्वलनार्णसमायोगात् सर्व्वतेजोमयी शुभा | दीर्घकारेण देवेशि साधकाभीष्टदाविनी | बिन्दूनां निष्कतत्वाच्च कैबल्यफलदायिनी || तन्त्रकल्पद्रुमः || तोडलतन्त्रे च ककारं देवि ईकारं चार्थदायकं | रकारं कामदं कान्ते मकारं मोक्षदायकं | एकत्रोच्चारणाद्देवि निर्व्वाणमोक्षदायिनी ||] निर्व्वाणमोक्षदायिनी शक्तिः तथा साधकाभीष्टदायिका शुद्धसत्त्वप्रधाना मायाशक्तिः ताभ्यां युक्तं | कर्पूरं कल्पयति जगत् प्रपञ्चं यत् तत् सगुणब्रह्म इत्यर्थः | ते तव बीजं [तादात्मारूपं चित्सम्बित् परब्रह्मैकनामकं | स्वशक्तेश्च समायोगादहं बीजात्मतां गता || अव्यक्तंकारणी देहः स चोक्तं पूर्व्वमेवहि | यस्मिन् जगद्बीजरूपं स्थितं लिङ्गोदृभवो यतः || देवीगीता ||] जगतकारणभावं सच्चिदानन्दरूपिणी त्वं निर्गुणापि जीवकर्मकालविशिष्टया मायया युक्ता सती तत्तज्जीवतत्तत्कर्मफलभोगसमये प्राप्ते जगत् सर्ज्जने बीजात्मतां गतासीति भावः | एतत् क्रीं वाच्यं तव शुद्धसत्त्वात्मकं सच्चिदानन्दरूपं | ये साधकाः त्रिःकृतं त्रिगुणीकृतं सात्त्विकराजसिकतामसिकभेदेन तथा स्थूल सूक्ष्म कारणभेदेन त्रिविधं त्रिशक्तिरूपञ्च | जपन्ति [सदा कालीरूपमात्मानं बिभावयेत् || काल्युपनिषत् ||] स्वात्माभेदेन चिन्तयन्ति ते अनिच्छन्तोऽपि धर्मार्थकाममोक्षरूपचतुर्व्वर्गं लभन्ते इति भावः | उक्तञ्च विश्वसारतन्त्रे दक्षिणकालिकायाः क्रमस्तोत्रे - त्वदीयबीजत्रय मेतदम्ब जपन्ति सिद्धास्तु विमुक्तिहेतोः | तदेव मातस्तव पादपद्मगा भवन्ति सिद्धाश्च दिनत्रयेऽपि || १ || प्. ५) ईशानः सेन्दुवामश्रवणपरिगतो बीजमन्यमहेशि छन्द्वन्ते मन्दचेता यदि जपति जनो वारमेकं कदाचित् | जित्वा वाचामधीशं धनदमपि चिरं मोहयन्नम्बुजाक्षी- वृन्दं चन्द्रार्द्धचूडे प्रभवति स महाघोरबालावतंसे || २ || टीका | हे महेशि ब्रह्मविष्णुरुद्राणामपि ईशः महेशस्तस्य शक्ते | हे चन्द्रार्द्धचूडे चन्द्रार्द्धाङ्कितमस्तके | हे महाघोरबालावतंसे अतिभयानकशवबालकृत कर्णालङ्कारे | मन्दचेता जनः मूढबुद्धिर्ज्जनः | ते नव सेन्दुवामश्रवणपरिगतः चन्द्रबिन्दुसहिता यो दीर्घ ऊकारस्तेन युक्तः | ईशानः हकारः | एतेन हूं इति तव द्वितीयमूर्त्तेस्तारायाः एकाक्षरबीजमन्त्रञ्च उद्धृतं | द्वन्द्वं एतत् युग्मं कृत्वा | यदि कदाचित् एकबारमपि जपति तदा सः चिरं यावज्जीवं बाचामधीशं वृहस्पतिं धनदमपि कुबेरञ्च जित्वा पराभूय अम्बुजाक्षीवृन्दं सुन्दरीसमूहं मोहयन् प्रभवति मोहयितुं समर्थो भवति स साधकः अतीव विद्वान् धनवान् रूपवांश्च भवतीत्यर्थः | तथाच तारारहस्ये तारकत्वात् सदा तारा या काली सैव निश्चिता || क्रमस्तोत्रे च - त्वदीयकूर्च्चद्वयजापकत्वात् सुरासुरेभ्योऽपि भवेच्च पूज्यः | धनित्वं पाण्डित्वं लभन्ति सर्व्वे किंवापरं देवि परापराख्ये || २ || स्वरूपव्याख्या || २ || हे महेशि सृष्टि स्थिति विनाशात्मकमहैश्वर्ययवति | चन्द्रार्द्धचूडे [नित्यायाः कालरूपाया अरुपायाः शिवात्मनः | अमृतत्वाल्ललाटेऽस्याः शशिचिह्नं निरुपितम् || महानिर्व्वाण] निर्व्वाणमोक्षदायिनि | हे महाघोरबालावतंसे [क्षुधां देहस्यथां त्यक्त्वा बालः क्रीडति वस्तुनि | तथैव विहान् रमते निर्मनो निरहं सुखी || विवेक चूडामणिः || तथा ब्रह्मोपनिषदि - यथाकुमारो निष्काम आनन्दमुपयाति ||] महेश्वरसदृशनिर्व्विकारबालकवन्निष्कामसाधकाभ्यां कृते अतिप्रिये कर्णभूषणे यया तत्सम्बोधने | बालकवन्निर्विकारतत्वश्च साधकः ब्रह्मरूपिण्या अतीव प्रिय इप्यर्थः | सेन्दुबामश्रवण परिगतः [ऊकारो भैरवः सूक्ष्मो दीर्घघोणा सरस्वती | बिलासिनी विघ्नकर्त्ता लक्षणो रूपकर्षिणी ||] इन्दुः अमृतत्वं वाग्दातृत्वं रूपकर्षिणीत्वञ्च तैर्युक्तः | प्. ६) ईशानः [अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाबध्मकः | ईशानी भूतभव्यम्य स एवाद्यः स ईश्वरः || कठोपनिषत् ||] ईश्वरः | इति ते अन्यद्वीजं [शब्दबीजद्वयेनैव शब्दराशिप्रबोधिनी || यामलम् ||] हूंबीजात्मककारणभावं | द्वन्द्वं [शिवशक्तिसमायोगात् जनितो मन्त्रराजकः | तन्मायौ परमानन्दनन्दितां मन्त्ररुपिणीम् || गन्धर्वतं ||] शिवशक्त्यात्मकं स्वरूपं | यदि कदाचित् एकबारमपि जपति मानसजपेन चिन्तयति | तर्हि स साधकः ज्ञान विज्ञानवान् धनवांश्च भूत्वा सर्व्वं जगत् मोहयितुं शक्नोतीति भावः || २ || ईशो वैश्वानरस्थः शशधरविलसत् वामनेत्रेण युक्तो बीजन्ते द्वन्द्वमयत् विगलितचिकुरे कालिके ये जपन्ति | द्वेष्टारं घ्रन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति सृक्कद्वन्द्वास्रधाराद्वयधरवदने दक्षिणे त्राक्षरेति || ३ || टीका | हे विगलितचिकुरे मुक्तकेशि | हे कालिके ब्रह्मरूपिणि | हे सृक्कद्वन्द्वास्रधाराद्वयधरवदने ओष्ठप्रान्तद्वयगलितरुधिरधाराशोभितानने | वैश्वानरस्थः रकारयुक्तः | शशधरविलसत् चन्द्रबिन्दुयुक्तः | वामनेत्रेण युक्तः ईकारेण युक्तः | ईशः हकारः | अन्यत् ह्रीं इति त्रिपुरसुन्दरीबीजं | द्वन्द्वं उक्तबीजं द्विगुणीकृतं | तथा दक्षिणे इति नामात्मकत्राक्षरमन्त्रञ्च ये जनाः जपन्ति ते द्वेष्टारं शत्रुं घ्रन्ति नाशयन्ति त्रिभुवनमपि स्वर्गमर्त्तव पातालस्थं देवनरनागादिकञ्च वश्यभावं नयन्ति अधीनत्वं प्रापयन्ति इत्यर्थः || ३ || स्वरूपव्याख्या || ३ || हे विगलितचिकुरे केशविन्यासादिविलासविकाराहिते निर्व्विकारे इत्यर्थः | कालिके क [कः क्रोधीशौ महाकाली कामादेवः प्रकाशकः | स्रीपुरं रमणो वङ्गकुसुमा परमात्मकः ||] ब्रह्म आ [आकारो विजयानन्तः |] अनन्त ल [लग्नन्द्रः पूतना पृथ्वी माधवः शक्रवाचकः | विश्वात्मा मन्दो बलवान् भेरुर्भिरिकलारसः |] विश्वात्मा इ [इः सूक्ष्मा शाल्मली? विद्या चन्द्रः पूषा सुगुह्यकः || तनाभिधानम् |] सूक्ष्मा - प्. ७) वा ब्रह्मा आ अनन्त इति कालिका एतेन महादेव्या आद्यन्तरहितत्वं अनन्तत्वं सूक्ष्मात्वं विश्वात्मकत्वञ्च सूचितं हे अनाद्यन्तब्रह्मरूपिणि इत्यर्थः | उक्तञ्च अधूतरामायणे श्रीरामकृतासितास्तोत्रे - आद्यन्तहीनं जगदात्मरूपं विभिन्नसंस्थं प्रकृतेः परस्तात् | कूटस्थमव्यक्तवपुस्तवैव नमामि रूपं पुरुषाभिधानं || सृक्कद्वन्द्वास्रधाराद्वयदहरवदने सृक्वद्वयगलदूक्तधाराविस्फुरितानने अत्र रक्तधारया रजोगुणः सुचितः तस्मात् महादेवी रजोरहिता शुद्धसत्त्वात्मिका विरजा [हिरन्मये परे कोषे विरजं ब्रह्मनिष्कलं | तच्छुभ्रं ज्योतिषां ज्योतिस्तद्वदात्मबिदो बिदुः || मस्तक-उप ||] इति निरूपिता | त्रिपुरसुन्दरीपक्षे तु रजोगुणेन महादेव्याः रक्तवर्णा मूर्त्तिः सुचिता | वैश्वानरस्थः तेजोमयः शशधरबिलसत् अमृतदातृशक्त्या सह वामनेत्रेण युक्तः शुद्धसत्वगुणात्मिकया मयया युक्तः | ईशः ईश्वरात्मकसूक्ष्मबीजात्मभावः इति ते तव अन्यत् अपरं | द्वन्द्वं हृल्ले [हकारः स्थूलदेहः स्याद्रकारः सूक्ष्मदेहकः | ईकारः कारणात्मासौ ह्रीङ्कारोऽहम् तूरीयकः || देविगीता ||] खावाच्यशिवशक्त्यात्मकं बीजात्मरूपं | तथा दक्षिणे [दक्षिणस्यां दिशि स्थाने संस्थितश्च रवेः सुतः | कालीनाम्ना पलायेत भौतियुक्तः समन्ततः | अतः सा दक्षिणा काली त्रिषु लोकेषु गीयते || निर्व्वाणतन्त्रम् || तथा च कामाख्या तन्त्रे - यथा कर्मसमाप्तौ च दक्षिणा फलसिद्धिदा | तथा मुक्तिरसौ देवी सर्व्वेषां फलदायिनी || अतो हि दक्षिणाकाली कथ्यते वरवर्णिनि | पुरुषो दक्षिणः प्रोक्तः वामाशक्ति निर्गद्यते || वामा सा दक्षिणं जित्वा महामोक्षप्रदायिनी | ततः सा दक्षिणा नाम्ना त्रिषु लोकेषु गीयते ||] इति सम्बोधननामात्मकत्राक्षरं मन्त्रवाच्यं कैवल्यदायकसच्चिदानन्दरूपं ये साधकाः जपन्ति ध्यायन्ति ते द्वेष्टारं साधनविघ्नकरकामक्रोधादिकं घ्रन्ति नाशयन्ति त्रिभुवनमपि त्रिलोकीञ्च वश्यभावं नयन्ति वश्यतां प्रापयन्ति || श्रीसुन्दरीपक्षे तु हे कालिके रक्तकालिके तृतीयमहाविद्याशीमत्रिपुरसुन्दरि इत्यर्थः उक्तञ्च वृहन्नीलतन्त्रे - इयं नारायणी काली तारा स्यात् शून्यबाहिनी | सुन्दरी रक्तकालीयं भैरवी नादिनी तथा || तथाच तन्त्रान्तरे - कालिका द्विविधा प्रोक्ता कृष्णारक्ताप्रभेदतः | कृष्णा तु दक्षिणा प्रोक्ता रक्ता तु सुन्दरी मता || दक्षिणे दक्षिणामूर्तिभैरवाराधिते इत्यर्थः | त्रयक्षरे ऐं क्लीं ह्रीं मन्त्रवाच्ये इत्यर्थः || प्. ८) तथाच क्रमस्तोत्रे - त्वदीयलज्जाद्वयाजपकत्वादु भवेन्महेशानि चतुर्थसिद्धिः | दयासमुद्रस्य वरप्रसादाद भवाधिपत्यं लभते नरेशः || ३ || ऊर्ध्वे वामे कृपाणं करकमलतले छिन्नमुण्डं तथाधः सव्ये चाभीर्व्वरञ्च त्रिजगदघहरे दक्षिणे कालिके च | जप्त्वै तन्नाम ये वा तव मनुविभवं भावयन्त्येतदम्ब तेषामष्टौ करस्थाः प्रकटितरदने सिद्वयस्त्राम्बकस्य || ४ || टीका | हे त्रिजगदधहरे त्रिजगतां जनानां पापनाशिनि | हे प्रकटितरदने [दन्तुर्रा परमां नित्यां रक्तमण्डितविग्रहां || यौगिणी तन्त्रं | तथाच ताराकल्पे - नवाम्ग्नोदश्यामां प्रकटरदभीमां पृथु कुचां ||] प्रकाशितदशने | हे अम्ब मातः | दक्षिणे निर्व्वाणदात्रि ये साधकाः तव मनुविभवं पूर्व्वोक्तं कालोबीजत्रयं कूर्च्चद्वयं [माया लज्जा च ह्रीङ्कारः हूंकारः कूर्च्च उच्यते |] मायाद्वयं दक्षिणे इति त्रयक्षररूपं दशाक्षरमन्त्रसम्पत्तिं तथा कालिके इति नामात्मक त्रयक्षर मन्त्रञच जप्त्वा वामे ऊर्धे करकमलतले कृपाणं खङ्गं तथा अधः निम्ने छिन्नमुण्डं चिह्न्नमस्तकं | सव्ये दक्षिणे ऊर्ड्धे | करकमलतले अभीः अभयमुद्रां | वरञ्च दक्षिणे अधः करकमलतले वरमुद्राञ्च | एतत् ईदृशं ऊर्ड्धे वामे कृपाणं इत्यादिप्रकाररूपं भावयन्ति चिन्तयन्ति | त्रयम्बकस्य शिवस्य | अष्ठौ सिद्धयः [अणिमा महिमाचैव लघिमा प्राप्तिरेवच | प्राकाम्यञ्च तयिशित्व वशित्वच्च तथापरं || तथाक्तामावशायित्वं गुणनितान नैश्वरान् | प्राप्तोत्यष्टौ नरव्याघ्रः परनिर्व्वाण सूचकान् || मार्कण्डेय पुः ||] अणिमादयः अष्टप्रकाराः सिद्धयः तेषां साधकानां करस्थाः अनायासलब्धाः भवन्ति इत्यर्थः || ४ || स्वरूपव्याख्या | हे त्रिजगदघहरे त्रिलोकीनां कायिकवाचनिकमानसिकत्रिविधपापनाशिनि | हे प्रकटितरदने स्वप्रकाशासत्त्वगुणसूचकशूभ्रदशनपंक्त्या रजोगुणसूचकरक्तवर्णां लोलरसनां दशति सत्त्वगुणेन रजस्तमय नाशयति या तस्याः सम्बोधने | प्. ९) हे अम्ब मातः | दक्षिणे निर्व्वाणदात्रि | ते तव मनुविभवं निजबीजत्रयात्मकचिह्ननमूर्त्तिं कूर्चबीजद्वयात्मकसत्त्वात्मकमूर्त्तिं तथा मायाबीजद्वयात्मकरजः प्रधानसत्त्वमूर्त्तिञ्च | तथा कालिके कालिके इति नामवाच्यं आद्यन्तरहितं सच्चिदानन्दमूर्त्तिञ्च जप्त्वा चिन्तयित्वा | स्त्रीमूर्त्तिधारिणी त्वं [स्त्रीरूपां वा स्मरेद्देवीं पुंरूपां वा स्मरेत् प्रिये | स्मरेत् वा निष्कलं ब्रह्म सच्चिदानन्दविग्रहम् ||] स्वीयवामीर्द्धहस्तेन ज्ञानखङ्गेन [तस्मात् पद्मासिना तूर्णमशेषं कर्मबन्धनम् | कामाकामकृतं छित्वा शुद्धमात्मनि तिष्ठति || शिवधर्मोत्तरे | तथाच योगिनीतन्त्रे - पापपुण्यं पशुअं हत्वा ज्ञानखङ्गेन शाम्भवि ||] निष्कामसाधकानां मोहपाशं छित्वा तदधोहस्तेन विगतरजं तत्त्वज्ञानाधारं मस्तकं दधासि तथा दक्षिणोर्ङ्घहस्तेन सकामसाधकेभ्यः अभयं तथा तदधोहस्तेन चाभीष्टवरञ्च दधासि इति | एवभूतां त्वां ये साधकाः ध्यायन्ति तेषां अणिमाद्यष्टसिद्धयः अनायासलब्धाः भवन्ति इति भावः || ४ || वर्गाद्यं वह्निसंस्थं बिधुरतिललितं तत्त्रयं कूर्च्चयुग्मं लज्जाद्वन्द्वञ्च पश्चात् स्मितमुखि तदधष्ठद्वयं योजयित्वा | मातर्ये ये जपन्ति स्मरहरमहिले भावयन्तः स्वरूपं ते लक्ष्मीलास्यलीलाकमलदलदृशः कामरूपा भवन्ति || ५ || टीका | हे स्मितमुखि ईषद्धास्यवदने | हे स्मरहरमहिले मदनान्तकमोहिनि | हे मातः ये ये जनाः वह्निसंस्थं [रो रक्तः क्रोधनौ रेफः पावकस्तैजसी मतः | तन्त्राभिधानम् ||] रकारोपरिस्थितं | विधुरति [ईस्त्रिमूर्त्तिर्महामाया * * रतिश्च षौण्ड्रवर्द्धनः | तन्त्राभिधानम् |] ललितं बिधुश्चन्द्रबिन्दुः रति दीर्घ ईकारः त्याभ्यां पुक्तं | वर्गाद्यं पञ्चवर्गाणां आदिभूतं क वर्णं क्रीं इति बीजं तत्त्रयं तस्य त्रितयं | पश्चात् तदनन्तरं कूर्च्चयुग्मं हूं बीजद्वयं | लज्जाद्वन्द्वञ्च ह्रीं बीजद्वयञ्च तदधः ततपश्चात् | ठद्वयं [द्विठः स्वाहानलप्रिया | वर्णाभिधानम् ||] द्विठं स्वाहा शब्दं | योजयित्वा संयोज्य | स्वरूपं ध्वान्तधाराधररुइरुचिरे इत्यादि त्वदीय द्वाविंशत्यक्षर मन्त्रघटितं रूपं | प्. १०) भाम्वयन्तः [क्रींकारी मस्तकं देवि क्रींकारश्च ललाटकम् | * स्वाशब्देन पदद्वन्द्व हाकारेण नखस्तथा || इत्यादि शाक्तानन्दतरङ्गिण्याः नवमपटले द्रष्टव्यम् |] ध्यायन्तः जपन्ति क्रीं क्रीं क्रीं इत्यादि स्वाहान्तं द्वाविंशत्यक्षरीं विद्याराज्ञीं पुनः पुनः उच्चापयन्ति ते साधकाः लक्ष्मीलारयलीलाकमलदलदृशः लक्ष्म्याः या नृत्यक्रीडा सा यत्र कमले पद्मे तद्दलमिव पत्रमिव दृशो चक्षूषि येषां तथाविधाः | कामरूपा कामदेवसदृशकमनीयरूपा भवन्ति || ५ || स्वरूपव्याख्या || ५ || हे स्मितमुखि नित्यानन्दरूपिणि | स्मरहरमहिले स्मरहरः कामनाशकः हरः तस्य महिला शक्तिः स्वीयसाधकानां कासक्रोधादि नाशिणीतिभावः | हे मातः ये ये [महामहाब्रह्मविद्या विद्येयं कालिका मता | यामासाद्य च निर्व्वाणमुक्तिमेति नराधमः || तथाच कालीकुलसर्व्वस्वे - यद्धयाथद्धया वापि यः कश्चित् मानवः स्मरेत् | दुर्गञ्च दुर्गतिं जित्वा स याति परमां गतिम् ||] ये केचित् साधकाः नराधमा अपि यदि तव वह्निसंस्थं तेजोमयं | विधुरतिललितं शैत्यसौन्दर्यययुक्तं | वर्गाद्यं सृष्टेः आदिभूतं चिन्मयरूपं | तत्त्रयं सत्त्वरजस्तमोभेदेन त्रिविधरूपं | पश्चात् तथा कूर्च्चयुग्मं शब्दब्रह्मरूपं | सज्जाद्वन्द्वञ्च मायाशवलब्रह्मरूपञ्च | तदधः ठद्वयं योजयित्वा स्वाहा वह्नेः प्रकाशशक्तिः तया सह ते स्वप्रकाशरूपं स्वरूपं [सर्व्वदा कालीरूपमात्मानं विभावयेत् || कालिकोपनिषत् || तथाच सहस्रनामस्तोत्रे - आत्मानं कालिकात्मानं भावयन् स्तौति यः शिवाम् | शिवोपमं गुरुं ध्यात्वा स एव श्रीसदाशिवः || तथाच योगिनीतन्त्रे - क्षणं ब्रह्माहमन्मीति यः कुर्ययादात्मचिन्तनम् | तस्मै दद्यात् फलं देवी तस्यान्तं नैव गण्यते || आत्मदेहं स्वेष्टरूपं सदैव परिचिन्तयेत् | ब्रह्माण्डच्च तथा सर्व्वस्वेष्तरूपं विचिन्तयेत् ||] स्वस्य आत्मनः रूपं जीवात्मना सह अभेदं | भावयन्तो जपन्ति अनुध्यायन्ति | ते साधकाः लक्ष्मीलास्यलीला [निर्व्वाणतन्त्रे - अस्य ग्रहणमावेण नरो नारायणो भवेत् | भैरवतन्त्रोक्तश्यामाकवचे च - नारायणोऽपि यद्ध्रुत्वा नारी भूत्वा महेश्वर | योगेशं क्षोभमनयत् | निर्व्वाणद्यतन्त्रे च - ध्यानेन लभते सर्व्वं ध्यानेन विश्णुरूपकः ||] लक्ष्मणाः श्रियः लास्यं नृत्यं लीला क्रीडा रमणञ्च इत्यर्थः लक्ष्मणाः नृत्यादि विहारः इतिभावः | प्. ११) तस्या आधारभूतः यः कमलदृक् कमलाक्षः विष्णुः तत्सदृशाः | उक्तञ्च देवीमाहात्येव श्रीः कैटभारिहृदयैककृताधिवासा | कामरूपाः स्वेच्छानुसारेण शरीरग्रहणसमर्थाः भवन्ति | यथा पुण्डरीकाक्षः विष्णुः स्वेच्छया मतस्य कूर्म वराहादि दशविधमूर्त्तिन तथा मोहिनीमूर्त्तिञ्च दधार तद्वत् कालीसाधकाः स्वेच्छानुसारेण मूर्त्तिपरिग्रहीतुं शक्नुवन्ति इति भावः || उक्तञ्च क्रमस्तोत्रे - ततः स्वनाम्नः शृणु मातरेतत् फलं चतुर्व्वर्गं मनन्ति सन्तः | बीजत्रयं वै पुनरप्युपास्य सुराधिपत्यं लभते मुणीन्द्रः || पुनस्तथा कूर्च्चयुगं जपन्ति भवन्ति सिद्धाः नरसिंहरूपाः [विष्णुरुपाः |] | ततोऽपि लज्जाद्वयजापकत्वात् लभन्ति सिद्धिं मनसा जनास्ते | अन्ते पदं क्षिप्य विभा विभावसोः तन्मन्त्रमुद्धार मिदं वदन्ति || ५ || प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं तन्नाम्ना योजयित्वा सकलमपि सदा भावयन्तो जपन्ति | तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे वाग्देवी देवि मुण्डस्रगतिशयलसत्कण्ठि पीनस्तनाट्ये || ६ || टीका | हे देवि द्योतनशीले | हे मुण्डस्रगतिशयलसत्कण्ठि मुण्डमालिनि | हे प्रीनस्तनाढ्ये पीवरस्तनि | अत्यन्तगुह्यं साधकेतराणां समीपे अतीवगोपणीयं | प्रत्येकं [अथ सर्व्वां विद्यां प्रथममेकं द्वयं वा बीजत्रयपुटितं नाम वा जपेत् गतिंस्तस्यास्ति इति कालिकाश्रुतौ |] वा पूर्व्वोक्तानां बीजानां एकैकं | द्वयं वा द्वाक्षरं वा | त्रयमपि त्राक्षरमपि | तन्नाम्ना सम्बोधनान्तेन दक्षिणकालिकेति नाम्ना | योजयित्वा एकाक्षरं द्वयक्षरं त्रयक्षरं पुटितं कृत्वा | सकलमपि द्वाविंशत्यक्षरात्मक विद्याराज्ञीं वा | भावयन्तः [अस्य यस्य च मन्त्रस्य उद्दिष्टा या च देवता | चिन्तयित्वा तदाकारं मनसा जपमाचरेत् || भूतशुद्धितन्त्रम् |] तत्तमन्त्रार्थवाच्यं त्वदध्यानोक्तं तव नवघननील दिगम्बरी पीनस्तनी मुण्डमालिणी मुक्तकेशीरूपं | ध्यायन्तः पूर्व्वोक्तमन्त्राणां मन्त्रमेकं जपन्तिच तेषां साधकानां | नेत्रारविन्दे नयनपद्मे | कमला लक्ष्मीः | विहरति सदैव तिष्ठति | प्. १२) तथा तेषां वक्त्रशुभ्रांशुबिम्बे मुखचन्द्रे | वाग्देवी सरस्वती च विहरति विहारं करोति | ते धनवन्तो विद्यावन्तश्च भवन्ति इति भावः || श्रीसुन्दरी पक्षेतु - हे देवि त्रिपुरसुन्दरि ये साधकाः सकलं इति त्र्यक्षरबीजं तव ह्रींकार इति नाम्ना योजयित्वा प्रत्येकं केवलं सकलह्रीं इति शक्तिकूटाख्यमन्त्रं अथवा कामराज कूटसहितं कूटद्वयं किम्बा वाग्भवकामराजशक्त्याख्यकूटत्रयात्मकं पञ्चदशाक्षर मन्त्रराजं | त्वां ध्यायन् जपन्ति तेषां नेत्रारबिद्ने इत्यादि सर्व्वं पूर्व्ववत् || ६ || स्वरूपब्याख्या || ६ || हे देवि स्वप्रकाशरूपिणि | हे मुण्डस्रगतिशयलसत्कण्ठि हे पञ्चाशद्वर्णमयि [पञ्चाशद्वर्णमुण्डाली गलद्रुधिरचर्च्चिताम् | निरुत्तरतन्त्रम् | ममकण्ठे स्थितं बीजं पञ्चाशद्वर्णमद्भूतम् | कामधेनुतन्त्रम् | तथाच विश्वमारतन्त्रे - परानन्दमयं ब्रह्म शब्दब्रह्मविभूषितम् | आत्मनो देहमध्ये तु सर्वमन्त्रात्मकं प्रिये || राधातन्त्रे च - अकारादिक्षकारान्तां पञ्चाशन्मातृकाक्षरा | अव्यया अपरिच्छिन्ना त्रिपुराकण्ठसंस्थिता | शुक्लाभा रक्तवर्णाभा पीताभा कृष्णरूपिणी ||] शब्दब्रह्मरूपिणि | हे पीनस्तनाढेय स्तन्यरूपाहार्ययादिदानेन त्रिजगतां पालयित्रि तथा स्तन्यामृतदानेन साधकानां मोक्षदात्रि च | मातः तव प्रत्येकं वा द्वयं वा त्रयमपि च परं अत्यन्तगुह्यं सकलं सगुणं | बीजं तव प्राज्ञतैजसविश्वाख्य व्यष्टिरूपं तथा ईश सूत्र विराटाख्य समष्टिभूत मूर्त्तिश्च [प्राज्ञस्तु कारणात्मा स्यात् सूक्ष्मादेही तु तैजसः | स्थूलदेही तु विश्वाख्य स्त्रिविधः परिकीर्त्तितः || एवमीशोऽपि सम्प्रोक्त ईशसूत्र विराट् पदैः | प्रथमो व्यष्टिरूपस्तु समष्ट्यात्मा परः स्मृतः || देविगीता |] भावयन्तः जपन्ति श्रवण मनन निदिध्यासनात् सदा चिन्तयन्ति | तेषां ज्ञानयोगिनां | नेत्रारबिन्दे कमला विहरति [स्पर्हामुह्य? कमला वाग्देवीमन्दिरे मुखे | पौवान्तं स्थैर्ययमास्थाय निवसृत्येव निश्चितं || भैरवतन्त्रे ||] तेषां कृपाद्दृष्टिपातेन अन्येषामपि धनैश्वर्ययं भजति का कथा आत्मनाम् इति भावः | वक्त्रुशुभ्रांशुबिम्बे वाग्देवी विहरति तेषां गद्यपद्ममयीवाणी भवति इति भावः | अथवा हे मातः ये जनाः तव सकलं सगुणं शब्दब्रह्ममयरूपं स्वात्माभेदेन चिन्तयन्तः इमान् मन्त्रान् जपन्ति तेषां साधकानां नेत्रारबिन्दे इत्यादि || ९ || प्. १३) गतासूनां बाहुप्रकरकृतकाञ्चीपरिलसन्नितम्वां दिग्वस्त्रां त्रिभुवनविधात्रीं त्रिनयनां | श्मशानस्थे तल्पे शवहृदि महाकालसुरतप्रयुक्तां त्वां ध्यायन् जननि जडचेता अपि कविः || ७ || टीका | हे जननि त्रिजगतां सृष्टिकर्त्रि | गतासूनां मृतानां | बाहुप्रकार कृतकाञ्चीपरिलसन्नितम्बां करसमूहरचितकटिभूषण शोभमाननितम्बां | दिग्वस्त्रां दिगम्बरीं त्रिभुवनविधात्रीं त्रिजगतां भोगमोक्षविधानकत्रीं | त्रिनयनां [शशिसूर्ययादिर्मिने त्रैरखिलं कालिका जगत् | सम्पश्यति यतस्तस्मात् कल्पितं नयनत्रयं || महानिर्व्वाणम् |] | शशिसूर्ययाग्निनेत्रां | श्मशानस्थे शवहृदि तल्पे श्मशानस्थशवरूपसदाशिवशययायां | महाकालसुरतप्रयुक्तां परमशिवेन सह रतिक्रीडाभिः निविष्ठां | त्वां ध्यायन् चिन्तयन् जनः | जडचेता मन्दबुद्धिः सन्नपि कविः काव्यरचनाकुशलः भवति || ७ || स्वरूपव्याख्या || ७ || हे जननि चराचराणां उत्पादयित्रि | गतासूनां मृतानां बाहुप्रकरकृतकाञ्चीपरिलसन्नितम्वां [कर्मणा जायते जन्तुः कर्मणैव विलीयते | देहे विनष्टे तत्कर्म पुनर्देहे प्रलभ्यते || महानिर्व्वाणम् | श्रीश्रीबेवीगीतायाञ्च - तस्यां कर्मानि जीवानां जीवाः कालाश्र सञ्चरे | अभेदेनाविलीनाः स्युः सुषुप्तौ व्यवहारवत् || माहं सर्व्वं जगत् सृष्टा तदन्तः प्रविशाम्यहम् | मायाकर्मादि सहिता गिरे पाणपुरः सरा ||] सर्व्वे जीवाः कल्पावसाने स्थूलदेहान् त्यक्त्वा स्वस्वकर्मभिः सह लिङ्गदेहमाश्रित्य सगुणब्रह्मरूपिण्याः कारणदेहस्य अविद्यामयांशे पुनः कल्पारम्भपर्ययन्तं आमोक्षं अवतिष्टन्ते अतएवात्र मृतजीवानां प्रधानकर्मसाधनभूतैः करसमूहैः विराट्रूइन्याः महादेव्याः गर्भधारणयोग्यनिम्नोदरस्य तथा योनेश्च ऊर्ध्व स्थितकटिप्रदेशे काञ्ची कल्पिता इति भावः | दिग्वस्त्रां वस्त्रं मायावरणं तेन शून्यां मायातीतां इत्यर्थः | त्रिभुवनविधार्त्रीं पुनः कल्पारम्भे जीवानां स्ववसञ्चितकर्मानुसारेण पुनर्ज्जन्मनां भोगानाञ्च विधानकर्त्रीं | त्रिनयनां त्रिकालज्ञां | श्मशानस्थे [महान्त्यपि च भूतानि प्रलये समुपस्थिते | शेरतेऽव शवो भूत्वा श्मशानन्तु ततो भवेत् ||] महाप्रलये सर्व्वभूतानि शवरूपैः शेरते लीयन्ते यस्मिन् तत्स्थानं तस्मिन् महाकाशे | प्. १४) शवहृदि तल्पे [शव इत्थक्षरे ब्रह्मवाचकः प्रेतनिर्णयः || गायत्री तन्त्रं || गन्धर्वतन्त्रेच - या शम्बा परमेशानि स एव श्रीसदाशिवः | तस्योपरि महेशानि सूक्ष्मां त्रिपुरसुन्दरी ||] शवः निर्गुण ब्रह्म तल्पे आधारे निर्गुणब्रह्मरूपाधारे निर्गुणब्रह्मरूपस्वीयपदे अवस्थिता सती इत्यर्थः | महाकालसुरतप्रयुक्तां कल्पावसाने सृष्ट्यादिकार्ययाभावात् निष्क्रियत्वाच्च परमशिवेन सह अभिन्नतया अखण्डानन्दमनुभवन्तीं | एवं ध्यायन् सच्चिदानन्दरूपिणीं त्वां चिन्तनेन प्रत्यक्षीकुर्व्वन् | जडचेताः विषयरागोपहृतचित्तो जनोऽपि | कविः महाज्ञानी भवति इति भावः || ७ || शिवाभिर्घोराभिः शवनिवहमुण्डास्थिनिकरैः परं सङ्कीर्णायां प्रकटित चितायां हरवधूं | प्रविष्ठां सन्तुष्टामुपरिसुरतेनातीयुवतीं सदा त्वां ध्यायन्ति क्वचिदपि च न तेषां परिभवः || ८ || टीका | घोराभिः भीमाभिः | शिवाभिः शृगालैः | शवनिवहमुण्डास्थिनिकरैः शवसमूहानां कपालैः कङ्कालैश्च | परं अत्यन्तं | सङ्कीर्णायां सङ्गुलायां | प्रकटितचितायां प्रविष्टां कृतप्रवेशां श्मशानवह्निमध्यस्थां इत्यर्थः | उपरिसुरतेन सन्तुष्टां महाकालेन सह विपरीतविहारेण आनन्दितां | अति युवतीं बाल्यबार्द्ध्यक्याद्यि [आद्याप्यशेषजगतां नवयीवमासि || शारदातिलक ||] संस्पृष्ठां | हरवधूं कालमोहिणीं | त्वां सदा ध्यायन्ति अविश्रामं चिन्तयन्ति | तेषां त्वत्साधकानां | क्वचिदपि इहासूत्र वा | परिभवः अनादरः न स्यादित्यर्थः || स्वरूपव्याख्या || ८ || घोराभिः भयङ्कराभिः अतीवदुर्द्धषिभिः | शिवाभिः शिवप्रकृतिभिः अपञ्चीकृतमहाभूतैरित्यर्थः | शवनिवहमुण्डास्थिनिकरैः अत्र अस्थिकङ्कालानां श्वेतवर्णत्वेन सत्त्वगुणं सूचितं अतएव महाप्रलये मृतानां जीवानां सत्त्वादिगुण समूहैः | परंसङ्कीर्णायां अत्यन्तसङ्कुलायां युक्तायां | प्रकटीतचितायां [चितिरूपेण या क्कत्स्रं एतद्याप्य? स्थिता जगत् || श्रीश्रीचण्डी |] स्वप्रकाश रूपायां चिच्छक्तौ | प्. १५) प्रविष्टां अधिष्ठितां | उपरिसुरतेन सन्तुष्टां [वामा या दक्षिणं जित्वा महामोक्षप्रदायिनी || निर्व्वाणतन्त्र | तथा गन्धर्व्वतन्त्रे - अधः कृत्वा तु पुरुषं हकारार्द्धस्वरूपिणी | विपरीतेन रमते बह्नीन्धर्कस्वरूपिणी || निरुत्तरतन्त्रे च - विपरीतरता काली निर्गुणा सगुणा यदा || वाशिष्ठ रामायणे च - अस्वभावात्मता सर्गः स्वभावैकात्मता शिवः ||] परमशिवमभिभूय स्वेच्छया सृष्टि स्थिति लयादिकार्ययेषु रममानां | अतीयुवतीं सदैव एकभावापन्नां अव्ययामित्यर्थः | हरवधूं तत्त्वज्ञानप्रदानेन जीवानां त्रितापं हरति इति हरः तस्य वधूः शक्तिः तां जीवानां मुक्तिदात्रीं इत्यर्थः | एवभूतां चिदानन्दमयीं त्वां ये साधकाः सदा ध्यायन्ति अहरहः निश्चलचेतसा प्रत्यक्षीकुर्व्वन्ति | तेषां क्वचिदपि कस्यामपि योनौ | परिभवः इत्थम्भूतं जन्म पुनर्जन्म न भवति ते निर्व्वाणमोक्षं लभन्ते इत्यर्थः || ८ || वदामस्ते किंवा जननि वयमुच्चैर्ज्जडधियः न धाता नापीशो हरिरपि न ते वेत्ति परमं | तथापि त्वद्भक्तिः मुखरयति चास्माकममिते तदेतत्क्षन्तव्यं न खलु पशुरोषः ससुचितः || ९ || टीका | हे अमिते [अमा स्यान्निर्गुणे सापि अनिरुद्धसरस्वती || निरुत्तरतन्त्रं || महाकालसंहितायां - अचिन्त्यामिताकारशक्तिस्वरूपा प्रतिव्यक्त्यधिष्ठानसत्त्वैकमूर्त्तिः | गुणातीतनिर्द्वन्द्वबोधैकगम्या त्वमेका परब्रह्मरूपेण सिद्धा ||] | इयत्तारहिते | हे जननि त्रिजगतां उत्पादयित्रि | ते तव परमं यथार्थतत्वं | धाता ब्रह्मा न वेत्ति न जानाति ईशः रुद्रः अपि न जानाति हरिः विष्णुः अपि न वेत्ति | उच्चैः अत्यन्तं जडधियः मन्दबुद्ध्यः वयं ते तव सम्बन्धे किं वदामः कथयामः | तथापि अज्ञत्वेऽपि त्वद्भक्तिः तव स्तवनोद्देश्यकप्रवृत्तिः | अस्मान् मुखरयति स्तुतिवचनेषु प्रेरयति | तत् तस्माद्धेतोः | अस्माकमेतत् तदयोग्यं कर्म | क्षन्तव्यं सहनीयं | खलु निश्चितं | पशुरोषः अज्ञानेषु कोपः | न समुचितः न योग्यो भवति || ९ || प्. १६) स्वरूपव्याख्या || ९ || हे अमिते गुणपरिच्छ्रेदरहिते निर्गुणे इत्यर्थः | हे जननि [एकानेका सूक्ष्मारूपाविकारा ब्रह्माण्डानां कोटि कोटि प्रसूषे | कोऽहं विष्णुः को परो वा शिवाख्यो देवाश्चान्ये स्तोतुमीशाः भवेनः || देवीसूक्त्रं | तथाच देवीमाहात्म्ये - विष्णोः शरीरग्रहण महमीशान् एव च | कारितास्ते यतोऽतस्वां कः स्तोतुं शक्तिमान् भवेत् || विष्णुयामले च - मातस्त्यत्परमं रूपं न च जानाति कश्चनः | काल्यादिस्थलयद्रूपं तदर्च्चन्ति दिवौकसः || पुनः महाकाली स्तोत्रे च - यदा नैव धाता न विष्णुं रुद्रौ न काली नवा पञ्चभूतानि चासन् | तदा कारणीभूतसत्त्वैकमूर्त्तिः त्वमेका परब्रह्मरूपेण सिद्ध ||] हे ब्रह्मबिष्णु रुद्रा दीनामस्माकं च उत्पादयित्रि | अतएव ते तव परमं परमतत्त्वं दहता जीवानां कर्मानुसारेण जन्मादिविधानकर्त्ता ब्रह्मा न वेत्ति न जानाति | ईशः ऐशीशक्तिसम्पन्नरुद्रोऽपि न वेत्ति | हरिः जीवानां त्रितापहारकः विष्णुरपि न वेत्ति | यतः त्वं तेषामपि जननी | अतएव जगन्मातुस्तव स्वरूपतत्त्वस्य ज्ञानं एतेषु कथं सम्भवति स्वस्वजनन्याः जन्मकर्मादिवेदनं सन्तानानां अतीव असम्भवं इत्यर्थः | उच्चेः जडधियो वयम् ते किं वदामः यत ब्रह्मादयः देवेशाः तव स्वरूपं न जानन्ति किञ्चिल्लौकीकमात्रज्ञानवन्तः वयं तव स्वरूप कथने कथं समर्थाः भवामः इति भावः | तथापि त्वङ्भक्तिर्मुखरयति तव गुणकथने अयोग्यां स्तथापि | तव विषयिणी भक्तिः किञ्चित् गुणकथने अस्मान् प्रेरयति | तत् अस्माकमेतत् क्षन्तव्यं पशुरोषः न समुचितः न योग्यो भवति || ९ || समन्तादापीनस्तनजघनघृग् यौवनवती- रतासक्तः नक्तं यदि जपति भक्त स्तव मनु | बिवासा स्त्वां ध्यायन् गलितचिकुर स्तस्य वशगाः समस्ताः सिद्वौघा भुवि चिरतरं जीवति कविः || १० || प्. १७) टीका | हे मातः भक्तः [अभिषेककृतो मन्त्री कुलपूजां समाचरेत् | कुलाचारं बिना देवि कालीमन्त्रं न सिध्यति || निरुत्तरं ||] वीराचाररतः तव साधकः | यदि नक्तं [रात्रौ नग्नः शयानय मैथुने सुव्यवस्थितः | अथवा मुक्तकेशश्च तस्य सर्व्वार्थसिद्धयः || फेत्कारिणी || कालीक्रमे च - स्वाचारनिरतः नित्यं दिवा लक्षं जपेत् पशुः | दिव्यो वाप्यथवा वीरः रात्रौ लक्षजपञ्चरेत् || कुलिकातन्त्रे च - पशुभावरता ये च केवलं पशुरूपिणः | रात्रौ मन्त्रञ्च मालाञ्च न स्पृशेत्तु कदाचन ||] निशीथे | समन्तादापीनस्तजघनधृग्यौवनवतीरतासक्तः सर्व्वतः सम्यक् पीवरस्त्नजघनधारिण्या युवत्या सह मैथुनरतः सन् आनन्दमयो भूत्वा | विवासाः दिगम्बरः गलितचिकुरः मुक्तकेशः सन् | त्वाम् महाकालेन सह सदा सुरतानन्दनिरतां ध्यायन् स्वीयहृदि चिन्तयन् प्रत्यक्षीकुर्व्वन् | तव मनुं तव पूर्व्वोक्तमन्त्रराजं जपति | समस्ताः सिद्धौघा सर्व्वार्थसिद्धयः तस्य वीरसाधकस्य वशगाः वशीभूताः भवन्ति | स च कविः सन् भुवि पृथिव्यां चिरतरं सुदीर्घं कालं व्याप्य जीवति || १० || स्वरूपव्याख्या || १० || अस्मिन् लययोगी वर्णयते | हे मातः जननि | भक्तः दिव्याचाररतः योगी साधकः | यदि नक्तं निशायाम् [या निशा सर्व्वभूतानां तस्यां जागर्त्ति संयमी || भगवद्गीता ||] नीशायाम् ब्रह्मविद्यालक्षणायां सर्व्वभूतनिशायां प्रबुद्धः सन् इत्यर्थः | समन्तादापीनस्तनजघनघृग्यौवनवतीरतासक्तः सर्व्वदिग्विदिक्स्थितानां [योनिमुद्रां समासाद्य स्वयं शक्तिमयी भवेत् | सुशृङ्गाररसेनैव विहरेत् परमात्मनि | आनन्दमयः संभूय ऐक्यं ब्रह्मणि सम्भवेत् || घेरण्डसंहिता || तथाच गोरक्षरसहितायां - जीवेन सहितां शक्तिं समुत्थाप्य शिरोम्बुजे | शक्तिमयः स्वयं भूत्वा परशिवेन सङ्गमम् | नानसुखं विहारश्च चिन्तयेत् परमं पदं ||] जीवानां उत्पादयित्र्या पालयित्र्या च नित्ययुवतीरूपया कुलकुण्डलिनीशक्त्या सह जीवात्मानं परमात्मनि लीनं कुर्व्वन् सन् | अत्र स्तनजघनधृक् [ध्यायेत कुण्डलिनीं देवीं इष्टदेवस्वरूपिणीम् | सदा षोडशवर्षीयां पीनोव्रतपयीधरां | श्यामां सूक्ष्मां सृष्टिरूपां सृष्टि स्थिति लयात्मिकां || तन्त्रकल्पद्रुमः ||] इत्यनेन कुलकुण्डलिन्याः जगतां सृष्टि स्थिति कर्त्तृत्वं सूचितं | विवासाः विगतं वासः मायावरणः यस्य तथाबूतः प्रबुद्धः इत्यर्थ | प्. १८) गलितचिकुरः गलितं नष्टं चिकुरत्वं चापल्यं यस्य सः निश्चलचित्तः सन् | त्वां परमशिवेन सह सामरस्यानन्दनिरतां त्वां | चिन्तयन् तव मन्त्रराजं मनसा जपति स तत्त्वज्ञानी भूत्वा दिव्यौघसिद्धौघ मानवौघसदृशचिरजीवी भवति इत्यर्थः | समस्ताः सिद्धौघाः अत्र बहुवचनप्रयोगेन दिव्यसिद्धमानवौधानां ग्रहणं बोद्धव्यं || १० || समाः सुस्थीभूतो जपति विपरीतां यदि सदा विचिन्त्य त्वां ध्यायन्नतिशयमहाकालसुरतां | तदा तस्य क्षौणीतलविहरमाणस्य विदुषः कराम्भोजे वश्या पुरहरवधू सिद्धिन्बहाः || ११ || टीका स्वरूपव्याख्या च || ११ || हे पुरहरवधू हे त्रिपुरहरसुन्दरि | सुस्थीभूतो [शान्तः शुचिर्मिताहारो भूशायी भक्तिमान् वशी | निर्द्वन्द्वः स्थिरधीर्मौनी संयतात्मा जपेत् प्रिये || कुलार्णव तन्त्रं |] निश्चलचित्तः यदिअ विपरीतां विपरीतभावापन्नां अतिशयमहाकालसुरतां कामेश्वरमहाकालेन सह अत्यर्थं रतानन्दनिरतां सृष्टुयन्मुखां त्वां ध्यायन् [जपस्यादौ शिवां ध्यायेत् ध्यानस्यान्ते पुनर्ज्जपेत् | जपध्यानसमायुक्तः शीघ्रं सिध्यति साधकः || कौलाबली तन्त्रं |] सन् तव मन्त्रार्थं चिन्तयन् | समाः संवत्सरं व्याप्य सदा सर्व्वदा विचिन्त्य त्वां ध्यायन् जपति [मनसा मन्त्रवर्णस्य चिन्तनं मानसं मृतं | वाचिकस्य शतं ज्ञेयं एकोत्तरसुपांशुभा | तमाच्चतगुणं? प्रोक्तं मानसं जपमत्तमं || कौलाबली तन्त्रं |] तव मन्त्रजपं करोति | तदा तर्हि क्षौणीतलविहरमाणस्य भूतले सुखेन निबसतः विदुषः पण्डितस्य तस्य कराम्भोजे करकमलतले सिद्धिनिबधाः श्रीविद्यायाः इच्छासिद्ध्यादिशक्तिसमूहाः | वश्याः वशीभूता भवन्तीत्यर्थः | महासिद्धिनिवहा इति पाठे सालोक्य सारूप्य सायुज्य निर्व्वाणाख्याः तस्य आयत्ताः भवन्ति इत्यर्थः || ११ || इत्यस्य स्वरूपव्याख्या च || प्. १९) प्रसूते संसारं जननि भवती पालयति च समस्तं क्षित्यादि प्रलयसमये संहरति च | अतस्त्वं धातासि त्रिभुवनमतिः श्रीपतिरपि महेशोऽपि प्रायः सकलमपि किं स्तौमि भवतीं || १२ || टीका स्वरूपव्याख्या च || १२ || हे जननि जगतां उत्पादयित्रि | संसारं जगत्प्रपञ्चं प्रसूते भवती जनयति | अतस्त्वं धाता ब्रह्मा तस्य सृष्टिशक्तिरित्यर्थः | भवती जगतीं पालयति च विभर्त्ति च अतः अस्माद्धेतोः त्वं त्रिभुवनपतिः श्रीपतिरपि त्रिलोकीश्वरः विष्णुर्भवसि तस्य जगत्पालनकारिणी वैष्णवीशक्तिः त्वमसि इत्यर्थः | प्रलयसमये जगत्संहारसमये | समस्तं क्षित्यादि पञ्चमहाभूतात्मकं जगत् | संहरति स्वीयकारणदेहे लीनं करोति | अतस्त्वं महेशोऽपि रुद्रश्च भवसि त्वं संहारशक्तिरिति भावः | अतः भवतीं जगदेककारणभूतां अद्वितीयां त्वां | किं स्तौमी तव स्वरूपाख्यानं किं करोमि | त्वमेव वाचातीता इति भावः || उक्तञ्च त्रिपुटास्तोत्रे - क्षितिस्त्वं विधाता जगत्सृष्टिकर्त्री त्वमापोऽपि विष्णुः जगत्पालिका च | त्वमग्निस्तु रुद्रो जगत्क्षोभकर्त्री त्वमैश्वर्ययरूपा वियदुवायुरूपा || तथाच स्तोत्रान्तरे - उत्पत्तिस्थितिसंहृतीर्घटयितुं धत्ते त्रिरूपां तनुं | त्रैगुण्याज्जगतः त्वदीयविकृतिर्ब्रह्माच्युतः शूलभृत् || १२ || अनेके सेवन्ते भवदधिकगीर्व्वाणनिवहान् विमुढास्ते मातः किमपि नहि जानन्ति परमं | समाराध्यामाद्यां हरिहरविरिञ्चादिविबुधैः प्रपन्नोऽस्मि स्वैरं रतिरसमहानन्दनिरतां || १३ || प्. २०) टीका स्वरूपव्याख्या च || १३ || हे मातः अनेके वहवो जनाः | भवदधिकगीर्व्वाणनिवहान् त्वदतिरिक्त देवसमूहान् | सेवन्ते आराधयन्ति विमूढाः विचारशून्याः ते जनाः किमपि परमं किञ्चिदपि [कूर्मपुराणे श्रीकूर्म उवाच्च - सर्व्ववेदान्तवेदेषु निश्चितं ब्रह्मवादिभिः | एकं सर्व्वगतं सूक्ष्मं कूटस्थमचलं ध्रुवम् | अनन्तमक्षरं ब्रह्म केवलं निष्कलं परम् | योगिनस्तत् प्रपश्यन्ति महादेव्याः परं पदम् || परात्परतरं तत्त्वं शाश्वतं शिवमच्युतम् | अनन्त प्रकृती लीनं देव्यास्तत्परमम् पदम् || शुभं निरञ्जनं शुद्धं निर्गुणं द्वैतवर्ज्जितं | आत्मोपलब्धिविषयं देव्यास्तत्परम पदम् || तत्रैव श्रीदेवीवचनं - यत्तु मे निष्कलं रूपं चिन्मयं केवलं परम् | सर्व्वोपाविविनिर्मुक्तमनन्तममृतं पदम् || ज्ञानेनैक्तेन तल्लभ्यं अक्लेशेन परंपदम् | ज्ञानमेव प्रपश्यन्ती मामेव प्रविशयन्ति ते || तथाच योगिनीतन्त्रे - परमानन्दकं रूपं जगतां कारणं महत् | तस्याः देव्यास्तु तद्रूपमुदयास्तविवर्ज्जितं ||] परमतत्त्वं | नहि जानन्ति न विदन्ति हरिहरविरिञ्चादिविबुधैः [महामहाब्रह्माविद्या विद्येयं कालिका मता | यामासाद्य च निर्व्वाणमुक्तिमेति नराधमः || तयाच अर्गलास्तोत्रे - चतुर्भुजे चतुर्व्वक्त्रसंस्तुते परमेश्वरि | * * * * * * * * * * * * * * * * || कृष्णेन संस्तुते देवि शङ्खद्भक्त्या सदाम्बिके | * * * * * * * * * * * * * * * * ||] | ब्रह्मविष्णुरुद्रादिसुरेशः | समाराध्यां सदा उपास्यां आद्यां जगतः आदिकारणभूतां रतिरस महानन्दनिरतां [पीत्वा कुलरसं वीरो ब्रह्मध्यानसुपाययेत् | ब्रह्मध्यानं महेशानि ब्रह्मनिर्वाणकारणम् || || योगिनीतन्त्रं ||] महाकालेन सह रतिः विपरीतरमणं तथा रसं मद्यपानं ताभ्यां उत्पन्नं यन्महानन्दं तस्मिन् निरताम् | त्वां ब्रह्माद्यैराराध्यां चिदानन्दरूपिणीं भवतीं स्वैरं अतिशयेन | प्रपन्नोऽस्मि शरणागतोऽस्मि || १३ || धरित्री कीलालं शुचिरपि समीरोऽपि गगनं त्वमेका कल्याणी गिरिशरमणी कालि सकलं | स्तुतिः का ते मातर्निजकरुणया मामगतिकं प्रसन्ना त्वं भूया भवमनु न भूयान्मम जनुः || १४ || प्. २१) टीका स्वरूपव्याख्या च || १४ || हे कालि कालभयनिवारिणि | त्वं धरित्री [त्वं भूमि स्त्वं जलौघस्त्वमसि हुतवहस्त्वं जगद् यायरूपा त्वञ्चाकाशी भमश्च प्रकृतिरपि महत्पूर्व्वि काहङ्कृतिश्च | आत्मा चैवसि मातः पदमपि भवती त्वत्परं नैव किञ्चित क्षन्तव्यो मेऽपराधः प्रकटितरदने कामरूपे कराले || गुप्तार्णवतन्त्रं ||] क्षितिः कीलालं जलं शुचिः अग्निः अपि समीरः वायुः अपि गगनं आकाशं एका अद्वितीया कल्याणी निर्व्वाणमोक्षदानेन जीवानां मङ्गलविधायिनी | गिरिशरमणी शिवानी गिरौ कूटे शेते इति गिरिशः कूटस्थब्रह्म तस्य रमणी ह्लादिनीशक्तिः | त्वं निर्विकारा [एकानैका सूक्ष्मरूपाऽविकारा ब्रह्माण्डानां कोटि कोटि प्रसूषे || देवीमुक्तं ||] पि स्वकीयाघटन घटनपटीयसीमायया क्षित्यादि चतुर्व्विंशतितत्त्वरूपिणीत्यर्थः | सकलं सर्वं चराचरञ्च सर्वं खल्विदं ब्रह्म इति श्रुतिः सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते इति चण्डी | हे मातः ते तव स्तुतिः का सर्वस्वरूपायास्तव स्तुतिर्न सम्भवति इति भावः | त्वं निजकरूणया स्वीयासाधारणकृपया | अगतिकं साधनहीनत्वादनुपायं | मां प्रति प्रसन्ना भूयाः प्रसीद भवमनु संसारे इत्यर्थः मम जनुः जन्म न भूयात् न भवतु मां स्वीयाभयपदे लीनं कुरु इत्यर्थः || १४ || श्मशानस्यः सुस्थो गलितचिकुरो दिक्पटधरः सहस्रन्त्वर्काणां निजगलितवीर्येण कुसुमं | जपंस्त्वत्प्रत्येकं मनुमपि तव ध्यान निरतो महाकालि स्वैरं स भवति धरित्रीपरिवृढः || १५ || टीका | हे महाकालि महाकालशक्ते तु पुनः यो जनः श्मशानस्थः [श्मशानस्थो भवेत् सुस्थो गलितं चिकुरं चरेत् | दिगम्बरः सहस्रञ्च सूर्यपुष्पं समर्पयेत् || स्ववीर्येण युतं कृत्वा प्रत्येकं प्रजपन् हुनेत् | ध्यात्वाभ्यर्च्य महाभक्त्या कुलालापः स्तवं पठेत् || महाकालसंहिता ||] प्रेतभूमौ अवस्थितः सुस्थः स्थिरचित्तः गलितचिकुरः मुक्तकेशः दिक्पटधरः दिगम्बरः सन् तव ध्याननिरतः त्वदीय मेघाङ्गीं विगताम्बरां इत्यादि स्थूलरूपं चिन्तयन् त्वत् तव मनुमपि मन्त्रराज्ञीं च जपन् उच्चारयन् निजगलितवीर्येण स्वीयस्खलितशुक्रेण तदनुलिप्तं इत्यर्थः | प्. २२) अर्काणां सूर्ययपुष्पाणां आकन्द इतिख्यातानां | सहस्रकुसुमं दशशतसंख्यानि पुष्पाणि प्रत्येकं एकैकं त्वामुद्दिश्य ददाति इति शेषः स साधकः स्वैरं अनायासेन धरित्रीपरिदृढः भूपतिः भवति || १५ || अस्वरूपव्याख्या || १५ || तु पुनः दिव्यानां पक्षे | हे महाकालिं परंब्रह्मरूपिणि यो जनः श्मशानस्थः महाप्रलयसमये सर्वभूतानि शवरूपेण लीयन्ते यस्मिन् ततश्मशानं परब्रह्म तस्मिन् आसक्तचित्तः ब्रह्मपरायणः इत्यर्थः | सुस्थः स्थिरचित्तः दिक्पटधरः मायावरणरहितः निर्विकारचित्तः | तव ध्याननिरतः त्वदीयसच्चिदानन्दरूपं चिन्तयन् इत्यर्थः | उक्तञ्च रुद्रयामले - चिद्रूपाः ज्ञाननिलयां चैतन्यानन्दविग्रहाम् | कोटिसौदामिनीभासां सर्वत्त्वस्वरूपिणीम् | आश्रित्य प्रजपेन्मन्त्रं कुलमार्गाश्रयो नरः | तव मनुमपि जपन् त्वदीयमन्त्रराजं मनसा उच्चारयन् सन् | निजगलितवीर्येण [हृतपद्ममासनं दद्यात् सहस्रारच्युतामृतैः | पाद्यं चरणयोर्द्दद्यात् मनस्त्वर्ध्यं निवेदयेत् | चित्तं प्रकल्पयेत् पुष्पं धूपं प्राणान् प्रकल्पयेत् || महानिर्व्वाणतन्त्रम् | ब्रह्मरन्ध्रचन्द्रपात्रात् तर्पयेत् तारिणीं पराम् | तत्रस्थसूर्ययपाताश्च अर्ध्य दद्यान्मनोहरम् || दयाज्ञानक्षमापुष्पं पुष्पमिन्द्रियनिग्रहम् | ज्ञानदानपुअण्यपुष्पं अहिंसापुष्पमुत्तमम् || आनन्दपुष्पं दातव्यं पुष्पञ्च साधकार्च्चनम् | दशपुष्पं यः प्रदद्यात् स गच्छेत् तारकापदम् || तारारहस्यम् ||] सहस्रारकमलात् स्वाभाविकक्षरितं यत् अमृतं तेन सह | अर्काणां सहस्रं कुसुमं ब्रह्मरन्ध्रावस्थितं [सूर्ययागेन वसते चित्तं चन्द्राग्ने जीवितं प्रिये | ज्ञानसंकलिनीतन्त्रम् || तथाच याज्ञवल्कसंहितायां - इडायां चन्द्रमा ज्ञेयो पिङ्गलायां रविः शृउतः | उक्तञ्च प्राणाग्निहोत्रे - तच सूर्ययोऽग्निर्नाम सूर्ययमण्डलाकृतिः सहस्ररश्मिभिः परिवृतः एक ऋषिर्भत्या मूर्हि तिष्ठतीति ||] आदित्याख्यचित्तोत्द्भव चित्तवृत्तिरूपाणि दयाज्ञानक्षमादिरूपभावपुष्पाणि | प्रत्येकं एकैकं त्वामुद्दिश्य ददाति मानसोपचारविधिना चिदग्नौ तुभ्यं समर्पयति | स दिव्यसाधकः स्वच्छन्देन धरित्री परिदृढः धरित्र्याः पृथिव्याः पार्थिवदेहस्य इन्द्रियादिवृतीनां अधिपो भूत्वा सहजावस्थां [उत्पन्नशक्तिबोधस्य त्यक्तनिःशेषकर्मणः | योगिनः सहजावस्था स्वयमेवोपजायते | कालिका तनुतामेति चिदादित्यप्रकाशनात् || महोपनिषत् || उत्तमा सहजावस्था मध्यमा ध्यानधारणा | जपस्तुतिः स्यादधमा होमपूजाधसाधमा || कुलार्णवे ||] प्राप्नोति | इति भावः || १५ || प्. २३) गृहे सम्पार्ज्जन्या परिगलितवीर्ययं हि चिकुरम् समूलं मध्याह्ने वितरति चितायां कुजदिने | समुच्चार्यय प्रेम्ना मनुमपि सकृत् कालि सततं गजारूढो याति क्षितिपरिदृढः सत्कविवरः || १६ || टीका | हे कालि कालनाशिनि | यो जनः वीरसाधकः | गृहे समार्ज्जन्या परिगलितवीर्ययं अत्र गृहे मदनागारे समार्ज्जनी लिङ्गं स्वशक्त्या रमणजनितनिःसृतं शुक्रं | तथा समूलं चिकुरं मूलेन सह उत्पाटितं केशञ्च | कुजदिने मङ्गलवासरे मध्याह्ने [मखं केशं स्ववीर्ययञ्च यदयत् समार्ज्जनीगतम् | मुक्तकेशो दिशावासो मूलमन्त्रपुरःसरः || कुजवारे मध्यरात्रे होमं कृत्वा श्मशानके | पठेन्नामसहस्रं यः पृथ्वीशाकर्षणञ्चरेत् || ककारकूट रहस्यम् ||] दिनमध्यभागे अर्द्धरात्रे वा | प्रेमा भक्त्या तव मनुं ते मन्त्रं समुच्चार्य चितायां श्मशाने सकृदपि [सदाशिवेन देवेशि क्षणमात्रं रमेत् प्रिये | अमृतं जायते देवि तत्क्षणात् परमेश्वरि || तदुद्भवामृतं देवि लाक्षारस समायुतं | तेनामृतेन देवेशि तर्पयेत् परदेवताम् || गन्धर्वमालिका ||] एकवारमपि वितरति तुभ्यं निवेदयति | हि निश्चितं स जनः सत्कविवरः सत्कविश्रेष्ठः क्षितिपरिदृढः भूपतिश्च सन् | सततं सर्व्वदा गजारूढः हस्त्यारूढः सन् याति सर्वत्र विचरति इत्यर्थः || १६ || स्वरूपव्याख्या || १६ || हे कालि कालभयनिवारिणि | यो जनः दिव्याचाररतः साधकः | गृहे सहृस्रदलकमलऊपब्रह्मसदने | समार्ज्जन्या परिगलितवीर्यं परमशिवेन कुलकुण्डलिन्या रमणोद्भूतं वीर्ययामृतं | प्. २४) समूलं चिकूरं चाञ्चल्यादिवृत्तिसहितं मनः | कुजदिने मङ्गलवासरे मध्याह्ने द्विप्रहरे रात्री दिवसे व्रा | प्रेमा? परया भक्त्या तव मनुं मन्त्रं समुश्चार्य सकृदपि एकवारमपि | चितायां चिद्रूपायां त्वयि वितरति विलीनं करोति निर्ब्बीजसमाधिं [सर्व्ववृत्थिनिरोधात् निर्ब्बीजसमाधिः || पातञ्जलसूत्रम् ||] करोति इति यावत् | स भुक्तिं मुक्तिं च लभते इत्यर्थः || १६ || स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो पुरो ध्यायन् ध्यायन् यदि जपति भक्तस्तव मनुम् | स गन्धर्व्वशृएणीपतिरपि कवित्वामृतनदी - नदीनः पर्ययन्ते परमपदलीनः प्रभवति || १७ || टीका | हे मातः भक्तः वीरसाधकः | यदि स्वपुष्पैराकीर्णं [मातृकाभेदतन्त्रे - विवाहितायाः कन्यायाः प्रथमे ऋतुसंभवे | तच्छीनितं महेशानि स्वपुष्पं सर्व्वमोहनं || रजः कीर्णभगं नार्ययाः ध्यायन् योऽयुतमाजपेत् | स कवित्वेन रम्येण जनामओहयति ध्रुवं || तन्त्रकल्पद्रुमः ||] स्वयम्भृकुसुमैः व्याप्तं कुसुमधनुषो मन्दिरं योनिं पुरः अग्ने ध्यायन् ध्यायन् पुनः पुनश्चिन्तयन् | तव मनुं अयुतसंख्यकमन्त्रं जपति अहो आश्चर्ययं स गन्धर्वश्रेणीपतिः गायकश्रेष्ठः अपि च कवित्वामृतनदीनदीनः कवित्वामृतस्य नद्यः तासां नदीनः समुद्रः अशेषकवित्वाधारः पर्ययन्ते देहावसाने परमपदलीनः प्रभवति तव उत्कृष्टपदे विलीनः सन् सृष्ट्यादि कार्ये समर्थो भवति इति भावः || १७ || स्वरूपव्याख्या || १७ || अस्मिन् योनिमुद्रासाधनं वर्ण्यते | उक्तञ्च शाक्तागमे - मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः | लक्षकोटिजपेनापि तस्य विद्या न सिध्यति || हे मातः भक्तः दिव्याचाररतः योगी साधकः | यदि स्वपुष्पैराकीर्णं स्वयभू लिङ्गरूपकुसुमेनाधिष्ठितं | प्. २५) कुसुमधनुषो मन्दिरं मूलाधारस्थितत्रिकोणमण्डलं हृत्पद्मस्थितत्रिकोणमण्डलं वा | उक्तञ्च शिवसंहितायां - तस्मिन्नाधारपाथोजे कर्णिकायां सुशोभना | त्रिकोणा वर्त्तते योनिः सर्व्वतन्त्रेषु गोपिता || पुनस्तत्रैव चतुर्थपटले - ब्रह्मयोनिगतं ध्यात्वा कामं बन्धूकसन्निभं | सूर्ययकोटिप्रतीकाशं चन्द्रकोटिसुशीतलं || तस्योर्द्धे तु शिखा सूक्ष्मा चिद्रूपा परमा कला | तया पिहितमात्मानमेकीभूतं विचिन्तयेत् || तथाच तारारहस्ये - स्वकीयहृदये ध्यायेत् योनिमण्डलमुत्तमम् | रजोभिश्च समोपेतं त्रिकोणं सर्र्ववर्णकम् || पुरो निजाग्रे ध्यायन् चिन्तयन् ध्यायन् तव मन्त्राथघटितरूपञ्च तस्मिन् भावयन् | उक्तञ्च भूतशुद्धितन्त्रे - यस्य यस्य च मन्त्रस्य उद्दीष्टा या च देवता | चिन्तयित्वा तदाकारं मनसा जपमाचरेत् || कुलार्णवे च - तन्निष्ठस्त्वद्गतप्राणः तच्चित्तस्तत्परायणः | तत्पदार्थानुसन्धानं कुर्वन् मन्त्रं जपेत् प्रिये || तव मनुं तव मन्त्रराजं जपति शनैः शनैः मनसा जपति उक्तञ्च तत्रव शनैः शनैविष्यष्टं न द्रुतं न विलम्बितं | स गन्धर्वश्रेणीपतिः गायकश्रेष्ठः गानात् परतरं नहि इति दर्शनात् अथवा चित्ररथगन्धर्वराज इव | अपि च कवित्वामृतनदीनदीनः महाकविः कालिदास इव भवति अपिच पर्ययन्ते देहावसाने | परमपदलीनः [देवीगीतायां देवीवाक्यं - तदैव तस्य चिन्मात्रे मद्रूपे विलयो भवेत् || अपरं १३ श्लोकस्य टीकायां द्रष्टव्यं ||] प्रभवति सच्चिदानन्दरूपायां त्वयि वीलीनः सन् निर्वाणपदं लभते इति भावः | योनिमुद्रासाधनफलं शिवसंहितायां - अभ्यासाज्जायते सिद्धिरभ्यासान्मोक्षमाप्नुयात् || इति || १७ || प्. २६) त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनां महाकालेनोच्चैर्मदनरसलावण्यनिरतां | समासक्तो नक्तं स्वयमपि रतानन्दनिरतो जनो यो ध्यायेत्त्वामयि जननि स स्यात् स्मरहरः || १८ || टीका | अयि जननि हे मातः यो जनः साधकः नक्तं रात्रौ समासक्तः त्वयि आसक्तचित्तः स्वयं आत्मना अपि रतानन्दनिरतः सुरतानन्दयुक्तः सन् | त्रिपञ्चरि पीठे [आदौ त्रिकोणं विन्यस्य त्रिकोणं तद्बहिर्न्यसेत् | ततो वै बिलिस्वेन्मन्त्री त्रिकोणतयमुत्तमम् || मध्ये तु वैन्दवं चक्रं बीजमायाविभूषितं | षट् कोणात्तु बहिवृत्तं ततोऽष्टदलं न्यसेत् || बहिर्वृत्तेन संयुक्तं भूपुरैकेन संयुतं | ज्ञात्वैव मुक्तिमाप्नोति यन्त्रराजं न संशयः || कालीतन्त्रं ||] पञ्चदशकोणयुक्ते यन्त्रे शवशिवहृदि शवरूपसदाशिवहृदये | स्मेरवदनां स्मितमुखीं महाकालेन परमशिवेन सह | उच्चैः अत्यन्तं मदनरसलावण्यनिरतां विपरीतरतिमाधूर्ययासक्तां | त्वां ध्यायेत् चिन्तयेत् सः साधकः स्मरहरः स्यात् साक्षात् शिवो भवेत् इत्यर्थः || १८ || स्वरूपव्याख्या || १८ || अयि जननि अस्माकं उत्पादयित्रि | यो जनः नक्तं अर्धरात्री | उक्तञ्च - महानीशायां ब्राह्मेवा मूहूर्त्ते ध्यानतत्परः | तद्रूपं परमानन्दं तदा पश्यति निश्चितं || समासक्तः त्वयि एकाग्रचित्तः स्वयं आत्मना अपि रतानन्दनिरतः [योनिमुद्रां समासाद्य स्वयं शक्तिमयो भवेत् | सुशृङ्गाररसेनैव विहरेत् परमात्मनि | आनन्दमयः संभूय एक्यं ब्रह्मणि सम्भवेत् || घेरण्डसंहिता |] योनिमुद्रां अबलम्व्य स्वयं शक्तिमयो भूत्वा परमात्मना सह लयरूपरतानन्दासक्तः सन् इत्यर्थः | त्रिपञ्चारे पीठे [तथा मन्त्रात्मकं चक्रं देवतायाः परं वपुः | शिवशक्त्यात्मकं यन्त्ररुपिणी ब्रह्मरूपिणी || निजदेहाख्यन्त्रस्तु सर्वयत्रात् परं स्मृतम् || गन्धर्वतन्त्रं ||] अविद्यारूपवृत्तवेष्टिते क्षित्याद्यष्टप्रकृतिरूपाष्टदलयुक्ते पञ्चज्ञानेनन्द्रिय पञ्चकर्मेन्द्रिय पञ्चप्राणरूपत्रिकोणविशिष्टे शुद्धसत्वात्मिकायाप्रतिबिम्बितचैतन्यरूप बिन्द्वात्मक बीज भूषिते क्षित्यादिपञ्च भूतात्मक [भूमिरापोऽनली वायुः खं मनो बुद्धिरेव च | अहङ्कार द्वितीयं मे भिन्ना प्रकृतिरष्टधा || गीतायाम् | तथाच गन्धर्वतन्त्रे - पञ्चप्राण मनोबुद्धिर्द्दशेन्द्रियसमन्वितं | अपञ्चीकुतभूतोत्थं सूक्ष्माङ्गै भोगसाधनं || अनाद्यविद्यानिर्वाणाकारणोपाधिरुच्यते | उपाधिवितयादन्यदात्मानमवधारय ||] भूपुरान्विते स्वदेहयन्त्रे इत्यर्थः | प्. २७) शवशिवहृदि शववत् निष्क्रियस्य शिवस्य हृदये स्वकीयनिर्गुणब्रह्मपदे स्थिता सती इच्छा क्रिया ज्ञानयुक्तया मायया शिवशक्तिविभागेन चण्डकाकारवत् द्विधा भूत्वा इत्यर्थः | महाकालेनोच्चैर्मदनरसलावण्यनिरतां [सदा सा परमा शक्तिः स्वेच्छया विश्वरूपिणी | अधः कृत्वा तु पुरुषं सङ्गमेच्छाऽभवत्तदा || तदाक्रम्य स्वयं देवी भैरवोपरि संस्थिता | सहजानन्दसन्दोहैः? निजानन्दप्रवर्द्धिनौ ||] सगुणब्रह्मपरमशिवेन सह विपरीतभावेन नियतयुक्तां | स्मेरवदनां सदानन्दमयीं त्वाम् ब्रह्मरूपिणीं यो ध्यायेत् [अथवाद्वैतभावेन आत्मानं तन्मयं स्मरेत् | अद्वैतभावसम्पन्न स्त्रिपुरीकृतविग्रहः | आत्मन्येव यजेद्देवीं उपचारैर्यथाविधि || गन्धर्वतन्त्रं ||] स्वीयदेहयन्त्रे चिदाभासरूपेण स्थितत्वात् स्वात्माभेदेन त्वां चिन्तयेत् | उक्तञ्च देवीमाहात्म्ये - या देवी सर्वभूतेषु छायारूपेण संस्थिता | गन्धर्वतन्त्रे च - निर्लेपं निर्गुणं शुद्धं स्वात्मानं त्रिपुरारायं | आत्माभेदेन सञ्चिन्त्य याति तन्मयतां नरः || स स्मरहरः स्यात् अद्वैतभावसम्पन्नः साधकः परमात्मनि त्वयि लीनो भूत्वा कैवल्यपदं लभेदित्यर्थः || १८ || सलोमास्थि स्वैरं मललमपि मार्ज्जारमसिते परञ्चौष्ट्रं मैषं नरमहिषयोश्छागमपि वा | वलिन्ते पूजायामयि वितरतां मर्त्त्यवसतां सतां सिद्धिः सर्वा प्रतिपदमपूर्वा प्रभवति || १९ || टीका | अयि असिते हे कालिके ते तव पूजायां नैमित्तिकार्च्चनायां | मार्ज्जारं [अस्थिलिभत्वचा युक्तं नांभं मार्ज्जारमेषयोः | उष्ट्रस्य महिषस्यापि बलिं यस्तु समर्पयेत् | मातेष दक्षिणा तस्य मातेव हितकारिणी || श्वामारहस्ये |] मार्ज्जारसम्बन्धि ओष्ट्रं उष्ट्रसम्बन्धि मैषं मेषसम्बन्धि नरमहिषयोः नरमहिष सम्बन्धि अपिवा अथवा छागम् छागसम्बन्धि सलोमास्थि लोमास्थिसहितं परं उत्कृष्टं पललं मांसं बलिं पूजोपहारं स्वैरं स्वच्छन्दं वितरतां ददतां साधकानां प्रतिपदं पदे पदे अपूर्वा आश्चर्या सर्वा सर्वविधा सिद्धिः कर्मसफलता प्रभवति प्रकर्षेण सम्पद्यते || १९ || प्. २८) स्वरूपव्याख्या || १९ || अयि असिते [षिङ् बन्धने - क्तः = सितः | बद्धार्ज्जुनी सितौ इत्यमरः ||] न सिता बद्धा असिता नित्यमुक्तस्वभावा | ते तव पूजायां अन्तर्यागबिधौ मानसपूजायामित्यर्थः | मार्ज्जारादिसम्बन्धि सलोमास्थि पललं सर्वावयवसमन्वितान् षड्रिपुरूपमार्ज्जारादिपशून् [कामक्रोधौ छागवाहौ बलिं दत्त्वा प्रपूजयेत् || अन्नदाकल्पे ||] इत्यर्थ अत्र छागः कामः महिषः क्रोधः मार्जारः लोभः नरः मदः मेषः मोहः उष्ट्रः मात्सर्यं इति गुणसाम्यात् बोध्यं | बलिं वितरताम् [धर्माधर्महविदीप्ता वात्माद्ग्नौ मनसा स्रुचा | सुषुम्नावर्त्मना नित्यमक्षवृत्तौर्जुहोम्यहम् || स्वाहा || वृहन्नौल ||] कामादीनां विनाशकामनया चिद्रूपायां त्वयि पूजोपहाररूपेण ददतां | सतां मर्त्त्यवसतां साधुशीलानां जनानां | प्रतिपदं पदे पदे यथाक्रमं इत्यर्थः अपूर्वा सर्वोत्कृष्टा सर्वा सिद्धिः पञ्चविधा मुक्तिः [सालोकामपि सारूप्यं साष्टो सायुज्यमेव च | कैवल्यञ्चेति तां विद्धि मुक्तिं राधव पञ्चधा || श्रीशिवगीता ||] प्रभवति प्रकर्षेण सम्पद्यते एवंविधाः साधकाः सालोक्यादिकाः क्मुक्तीः लभन्ते इत्यर्थः || १९ || वशी लक्षं मन्त्रं प्रजयति हविष्याशनरती दिवा मातुर्युष्मच्चरणयुगलध्याननिपुणः | पर नक्तं नग्नो निधुवनविनोदेन च मनु जपेल्लक्षं स स्यात् स्मरहरसमानः क्षितितले || २० || टीका | हे मातः यो जनः वशी जितेन्द्रियः | हविश्याशनरतः [यो हविष्याशनरतो दिवा देवीं स्मरन् जपेत् | नक्त्रं निधुवनासक्तः लक्षं स स्यात् धरापतिः || तन्त्र कल्पद्रुमः ||] जपान्ते हविश्याशी सन् | दिवा दिवसे युष्मच्चरणयुगलध्याननिपुणः तव पादपद्मद्वयचिन्तायाम् एकान्तनिरतः सन् लक्षं लक्षसंख्यकं | प्. २९) प्रजपति परं पुनश्च नक्तं रजन्यां नग्नः विवस्त्रः निधुवनविनोदेन [भवेन्निधुवनं कम्पे सुरते च नपुंसकम् || मेदिनी ||] च सुरतप्रमोदेन विशिष्टः सन् | लक्षं मनुं लक्षसंख्यकमन्त्रं जपेत् स क्षितितले पृथिव्यां स्मरहरसमानः शिवतुल्यः स्यात् भवेत् | सम्यक् इति पाठे तु यथोक्तविधानेन सेतुमहामेतुकुल्लुकाटिकं जप्त्वा इत्यर्थः || २० || स्वरूपव्याख्या || २० || यो जितेन्द्रियः हविष्याशी साधकः दिवसे पश्वाचारेण तव पादपद्मचिन्तायाम् एकान्तासक्तः सन् लक्षसंख्यकं तव मन्त्रं प्रजपति पुनः रजन्यां कुलाचारेण नग्नः मायावरणरहितः निर्विकारः सन्नित्यर्थः | निधुवनविनोदेन च निधुवनविनोदः [परशक्त्यात्ममिथुनसंयोगानन्दनिर्भरः | य आस्ते मैथुनं तत् स्यात् अपरे स्त्रीनिषेवकाः || कुलार्णव ||] रमणं तेन विशिष्टः सन् परशक्त्यात्ममिथुनसंयोगानन्दरतः सन् इत्यर्थः | तव लक्षसंख्यकं मन्त्रं जपेत् स पृथिव्यां स्मरहर समानः शिवसदृशः जीवन्मुक्तः भवेदित्यर्थः || २० || इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः स्वरूपामाख्यं पादाम्बुजयुगलपूजाविधियुतं | निशार्द्धं वा पूजासमयमधि वा यस्तु पठति प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः || २१ || टीका | हे मातः यस्तु यो जनः पुनः | तव मनुसमुद्धारणजनुः तव मनूनां मन्त्राणां समुद्धारणे सम्यगुद्धारणे जनुः उत्पत्तिर्यस्य तत् | पादाम्बुजयुगलपूजाविधियुतं तव श्रीपादपद्मस्य पूजानियमसहितं | स्वरूपाख्यं तव स्वरूपस्य स्वस्य आत्मनः रूपं तस्य निजनिर्गुण [यज्जीवब्रह्मणोरैक्यं मोऽहमस्त्रीतिवेदनं | तदेव निर्गुणं ध्यानमिति ब्रह्मविदी विदुः || शिवार्च्चनचन्द्रिका |] सगुणभेदेन स्थूलसूक्ष्मकारणतूरीयात्मकध्यानस्य आख्या कथनं यस्मिन् तत् | प्. ३०) इदं स्तोत्रं निशार्द्धं मध्यरात्रं पूजासमयं वा अधि अधिकृत्य पठति [मनसा पठितं स्तोत्रं वाछा वापि मनु जपेत् | उभयोर्निष्फलं देवि भिन्नभाण्डोदकं? यथा || विशुद्धेश्वर ||] उच्चैरुदीरयति | तस्य प्रलापः अनर्थकवाक्यमपि | कवित्वामृतरसः [यस्यैकवारपठनात् सर्वे विघ्नाः समाकुलाः | नश्यन्ति दहने दीप्ते पतङ्गा इव सर्वतः | गद्यपद्ममयी वाणी तस्य गङ्गाप्रबाहवत् || कालीकुलसर्वस्वे ||] कवित्वरूपसुधास्वादपूर्णः | प्रसरति निःसरति तस्य गद्य पद्ममयी वाणी भवतीत्यर्थः || २१ || कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं वशस्तस्य क्षौणीपतिरपि कुवेरप्रतिनिधिः | रिपुः कारागारं कलयति च तं केलिकलया चिरं जीवन्मुक्तः प्रभवति स भक्तः प्रतिजनुः || २२ || टीका स्वरूपव्याख्या च || २२ || कुरङ्गाक्षीवृन्दं मृगनयनारमणीसमूहः | प्रेमतरलं अनुरागचञ्चलं तं साधकम् अनुसरति अनुगच्छति क्षीणीपतिः क्षितीश्वरः अपि तस्य वशः तद्वशीभूतः कुवेरप्रतिनिधिः सः कुवेरतुल्यः धनवान् भवति | रिपुः तस्य शत्रुः तं एतत्स्तोत्रपाठकं कारागारं बन्धनागारवत् भीषणं | कलयति गणयति सः प्रतिजनुः जन्मनि जन्मनि भक्तः त्वयि भक्तिमान् सन् चिरं बहुकालं व्याप्य केलिकलया अनायासेन जीवन्मुक्तः विदेहमुक्तः भवति | अथवा स भक्तः केलिकलया क्रीडाकौतुकेन चिरं दीर्घकालं व्याप्य जीवन् प्राणान् धारयन् | मुक्तः देहान्ते मुक्तिं प्राप्तः सन् प्रतिजनुः प्रति निवृत्तं जनुः जन्म यस्य सः पुनर्जन्मरहितः भवति स ब्रह्मनिर्वाणं [महाकालरुद्रोदितस्तोत्रमेतत् सदा भक्तिभावेन योऽध्येति भक्तः | च चापन्नशोको न रोगी न मृत्युर्भवेत् सिद्धरन्ते च कैवल्यलाभः || महाकालसंहिता ||] प्राप्नोत्तीति भावः || २२ || इति श्रीमन्महाकालविरचितं श्रीमद्दक्षिणाकालैकायाः स्वरूपाख्यं स्तोत्रं समाप्तम् || अस्य टीका विमलानन्ददायिनी स्वरूपव्याख्या च समाप्ता || या काली कालकान्ता कलयति कलुषं कीर्त्तिता कालहन्त्री या तारा रूपा कमलजमहिता ब्रह्मविद्या परा च | श्रीविद्या मोक्षपन्था हरिहरनमिता साधकानां हितार्था सा देवी सर्वरूपा जनयतु जननी स्तावकानां शुभानि || येनैव स्तवराजेन महाकालेन वर्णितं | कालिकायाः स्वरूपञ्च भक्तानन्दविधायकम् || स्तोत्रं यत् कर्पूराद्यं हि बासनापरिषेवितम् | व्याख्यान्तरेण भणितं सरलार्थविशोभितम् | मुनिनेत्रभूधरेन्दु शाके माने मया कृता | साधकानां विवोधाय विमलानन्द स्वामिना || व्याख्येयं सरूपार्था च विमलानन्ददायिनी | पठतामपि भक्तानां कण्ठे सदा विराजतु || कोटालिपाडनगरे शुनकान्ववाये गोष्ठीपतिर्हरिहरो महतां गरिष्ठः | कालिप्रसाद इति तत्कुलजो महात्मा तस्यात्मजो रघुमर्णिर्विहितक्रियावान् || तत्पुत्रो विमलानन्दस्वामी तच्चरणानुगः | सतीशचन्द्र रायाख्यः चौधुरीपदभूषितः || कर्पूरादि स्तोत्रटीका तत्कृता कृतिनां मुदे | वर्त्ततां कालिकाप्रीत्यै चापि सञ्जायतामियं || || ओं तत् सत् ओं || ########### END OF FILE #######