#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00231 Uniform title: kaulāvalīnirṇaya Author : jñānānandaparamahaṃsa Editor : Arthur Avalon Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Sept. 18, 2011 Publisher : Tantrik Text Series Publication year : 1927 Publication city : Publication country : India #################################################### || श्रीः || श्रीमज्ज्ञानानन्दपरमहंसविरचितः कौलावलीनिर्णयः प्रथम उल्लासः मङ्गलाचरणम् नत्वा श्रीगुरुपादपद्मयुगलं सिद्धैः सदा सेवितं शाक्तानां परिभावमोक्षजनकं कौलावलीनिर्णयम् | वक्ष्येऽहं कुलवर्धनं सुकृतिभिः सेव्यं सदा कौलिकै- र्भावैरेव मनोहरैश्च चरणाब्जैकप्रसादालयम् || १ || वाञ्छाकल्पतरुं तनोति शिवयोर्वाक्यानुसारार्थतो | ज्ञानानन्दगिरिर्महेशचरणाब्जैकप्रसादालयः || २ || यस्याः प्रसादतो लेभे शास्त्रार्थं तत्त्वनिर्णयम् | तां नमामि महादेवीं बाणीं वाग्विभवप्रदाम् || ३ || संग्रहार्थे तन्त्रग्रन्थनिरूपणम् संवीक्ष्य यामलं रुद्रब्रह्मविष्णुकसंज्ञकम् | यामलं शक्तिसंज्ञञ्च भावचूडामणिं तथा || ४ || तन्त्रचूडामणिञ्चैव कुलचूडामणिं तथा | कुलसारं कुलोड्डीशं कुलामृतकुलार्णवम् || ५ || प्. २) कालिकाकुलसर्वस्वं कुलसद्भावमेव च | कालीतन्त्रकुलानन्दं कुलचक्रं तथैव च || ६ || कालिकल्पं महाकौलं कुमारीतन्त्रमेव च | समयाख्य कालीतन्त्रं फेत्कारीं फेरवीं तथा || ७ || श्रीक्रमं योगिनीतन्त्रं श्रीहंसपरमेश्वरम् | स्वतन्त्रं तन्त्रराजञ्च ज्ञानमालां ततः परम् || ८ || वायवीं हंसतन्त्रञ्च ताराकल्पञ्च मालिनीम् | मन्त्रनिर्णयतन्त्रञ्च योगिनीहृदयं तथा || ९ || कुलार्णवञ्च गान्धर्वमुड्डीयानञ्च तोडलम् | शिवशासनतन्त्रञ्च मन्दरं प्लावनीं तथा || १० || वीराबलिञ्च वाराहीं वीरतन्त्रञ्च कुब्जिकाम् | नीलतन्त्रं मत्स्यसूक्तं ललितातन्त्रमेव च || ११ || प्. ३) शम्भुनिर्णयतन्त्रञ्च वामकेश्वरतन्त्रकम् | वटुकसंहिताञ्चैव तारार्णवं ततः परम् || १२ || गुप्तार्णवं चण्डरोषं मायां नीलमणिं तथा | समयाख्यं तन्त्रसारं ततो मन्त्रविमर्शिनीम् || १३ || ज्ञानसारं योगवतीं भैरवीतन्त्रमेव च | भैरवाख्यं महातन्त्रं सिद्धसारस्वतं ततः || १४ || त्रिपुरार्णवतन्त्रञ्च उत्तरं तन्त्रमेव च | छिन्नातन्त्रं वातुलञ्च दक्षिणामूर्त्तिसंहिताम् || १५ || नयोत्तरं ह्येकवीरां दृष्ट्वा विविधसंग्रहान् | गुरुणाञ्च मतं ज्ञात्वा सारात्सारतरं महत् || १६ || तन्त्रशास्त्रगोपनीयत्वे युक्तिः द्वैतज्ञानविहीनानां मनोऽभीष्टप्रदायकम् | अतियत्नेन गोप्तव्यं मातृमैथुनवत् सदा || १७ || यस्मै कस्मै न दातव्यं न दुष्टाय कथञ्चन | प्. ४) न दद्यात् परशिष्याय वञ्चकाय तथैव च || १८ || सर्वथा गोपयेदेनं यदीच्छेच्छुभमात्मनः | योग्यशिष्यायदेयम् प्रकृताचारयुक्ताय गुरुसेवापराय च || १९ || कुलीनाय महोच्छाय देवीभक्तपराय च | शिष्याय भक्तियुक्ताय साधकाय प्रदापयेत् || २० || विना परीक्ष्य यो दद्यात् यस्मै कस्मै कथञ्चन | स भक्ष्यो योगिनीवृन्दैर्मृते च नरकं व्रजेत् || २१ || तस्माच्च साधकश्रेष्ठो गोपयेत् सर्वथा पुनः | पुस्तकं वीक्ष्य यो मूढो न लब्धो गुरुवक्त्रतः || २२ || कुर्याल्लोभवशेनैव सोऽपि नश्यति निश्चितम् | तस्य कर्माणि सर्वाणि नरकाय भवन्ति हि || २३ || योगिनीनां भवेद् भक्ष्यो नारकी ब्रह्मघातकः | तस्माज्ज्ञात्वा गुरोर्वक्त्रात् साधने यत्नमाचरेत् || २४ || प्. ५) शिवः ब्रह्मस्वरूपी अस्ति देवः परब्रह्मस्वरूपी निष्कलः शिवः | सर्वज्ञः सर्वकर्ता च सर्वेशो निर्मलोदयः || २५ || स्वयंज्योतिरनाद्यन्तो निर्विकारः परात्परः | निर्गुणः सच्चिदानन्दस्तदंशा जीवसंज्ञकाः || २६ || अनाद्यविद्योपहिता यथाग्नौ विस्फुलिङ्गकाः | सर्वेप्युपाधिसंभिन्नास्ते कर्मभिरनादिभिः || २७ || मानवकर्तव्यकथनम् चतुर्विधशरीराणि धृत्वा धृत्वा सहस्रशः | सुकृतैर्मानवो भूत्वा ज्ञानी चेन्मोक्षमाप्नुयात् || २८ || चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम् | न मानुष्यं विनाऽन्यत्र तत्त्वज्ञानन्तु लभ्यते || २९ || तत्र जन्मसहस्रेषु जन्मैकमपि भाग्यतः | कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् || ३० || सोपानभूतं मोक्षस्य मानुष्यं प्राप्य दुर्लभम् | यस्तारयति नात्मानं तस्मात् पापतरोऽत्र कः || ३१ || ततश्चाप्युत्तमं जन्म लब्ध्वा चेन्द्रियसौष्ठवम् | न वेत्तात्महितं यस्तु स भवेदात्मघातकः || ३२ || विना देहेन कस्यापि पुरुषार्थो न विद्यते | तस्माद् देहधनं रक्षन् पुण्यकर्माणि साधयेत् || ३३ || ज्ञानप्राप्त्यर्थं कर्मकर्तव्यम् तावत् कर्माणि कुर्वीत यावज्ज्ञानं न जायते | ज्ञानिनोऽज्ञानिनो वापि यावद् देहस्य रक्षणम् || ३४ || तावद्वर्णसमाचारः कर्त्तव्यः कर्ममुक्तये | कर्मणोन्मीलिते ज्ञाने ज्ञानेन शिवतां व्रजेत् || ३५ || तत्त्वज्ञाननिरूपणम् कुर्यादनित्यकर्माणि नित्यकर्माणि वा चरेत् | सर्वकर्माणि सन्त्यक्तुं न शक्यं देहधारिणा || ३६ || प्. ७) स्वकार्येषु प्रवर्तन्ते करणानीति चिन्तयन् | अहम्भावमपास्यैवं यः कुर्यात् स न लिप्यते || ३७ || त्यजेत् कर्मफलं यो वा स त्यागीत्यभिधीयते | क्रियमाणानि कर्माणि ज्ञानप्राप्तेरनन्तरम् || ३८ || न च स्पृशन्ति तत्त्वज्ञं जलं पद्मदलं यथा | तत्त्वनिष्ठस्य कर्माणि पुण्यापुण्याणि संक्षयम् || ३९ || प्रयान्ति नैव नरकं तत्त्वनिष्ठाः कदाचन | उत्पन्नसहजानन्दतत्त्वज्ञानरतः सदा || ४० || सर्वसङ्कल्पसन्त्यक्तः स विद्वान् कर्म सन्त्यजेत् | वृथैव यैः परित्यक्तं कर्मकाण्डमपण्डितैः || ४१ || पाषण्डाः पण्डितम्मन्यास्ते यान्ति नरकं किल | प्राप्तज्ञानस्य कर्मकाण्डे अनधिकारित्व कथनम् फलं प्राप्य यथा वृक्षः पुष्पं त्यजति निस्पृहः || ४२ || तत्त्वं प्राप्य तथा योगी त्यजेत् कर्मपरिग्रहम् | प्. ८) अश्वमेधशतेनापि ब्रह्महत्याशतेन च || ४३ || पुण्यपापैर्न लिप्यन्ते येषां ब्रह्म हृदि स्थितम् | पृथिव्यां यानि कर्माणि जिह्वोपस्थनिमित्ततः || ४४ || जिह्वोपस्थपरित्यागी कर्मणा किं करिष्यति | ज्ञानस्य द्वैविध्यम् आगमोत्थं विवेकोत्थं द्विधा ज्ञानं प्रचक्षते || ४५ || शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् | अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे || ४६ || परं तत्त्वं न जानन्ति द्वैताद्वैतविवर्जितम् | द्वे पदे बन्धमोक्षाय ममेति निर्ममेति च || ४७ || ममेति बध्यते जन्तुर्विमुक्तिर्निर्ममेति च | विद्याऽविद्यालक्षणम् विद्याऽविद्याद्वयोर्योगात् पक्षद्वयमुदीरितम् || ४८ || तत् कर्म यच्च बन्धाय साऽविद्या परिकीर्त्तिता | यन्न बन्धाय तत् कर्म सा विद्या परिकीर्त्तिता || ४९ || प्. ३) यावत् सङ्कल्पकर्मास्ति तावदेव हि बन्धनम् | यावत्तदेव नैवास्ति तावदेव हि मोक्षणम् || ५० || जपहोमार्चनं तीर्थं वेदशास्त्रागमादिकम् | तावदेव हि सर्वञ्च यावत्तत्त्वं न विन्दति || ५१ || अतः प्रयत्नतो धीरः सर्वावस्थासु सर्वदा | तत्त्वनिष्ठो भवेच्चैव यदीच्छेन्मोक्षमात्मनः || ५२ || तत्कारणमहं वक्ष्ये क्षिप्रं येन प्रजायते | यथाविधि गुरोर्वक्त्राद्विद्यां संगृह्य साधनम् || ५३ || नित्यं नैमित्तिकं काम्यं सापेक्षं पूर्वपूर्वतः | अन्यथा न भजेदित्थं करोत्यापत्परम्परा || ५४ || इति ज्ञात्वा महाप्राज्ञः क्रमेण समुपाचरेत् | प्रातरुत्थाय शिरसि सहस्रदलपङ्कजे || ५५ || प्. १०) तरुणादित्यकिञ्जल्कबिधोर्मण्डलसंयुते | ध्यायेन्निजगुरुं धीरो रजताचलसन्निभम् || ५६ || गुरुध्यानकथनम् वीरासनसमासीनं शुक्लाभरणभूषितम् | शुक्लमाल्याम्बरधरं वरदाभयपाणिकम् || ५७ || वामोरुशक्तिसहितं कारुण्येनावलोकितम् | प्रियया सव्यहस्तेन धृतचारुकलेवरम् || ५८ || वामेनोत्पलधारिण्या रक्ताभरणभूषया | ज्ञानानन्दसमायुक्तं स्मरेत्तन्नामपूर्वकम् || ५९ || गुरुपूजानिरूपणम् मानसैरुपचारैस्तु संपूज्य कल्पयेत् सुधीः | गन्धं भूम्यात्मकं दद्याद् भावपुष्पं ततः परम् || ६० || धूपं वायवात्मकं देयं तेजसा दीपमेव च | नैवेद्यममृतं दद्यात् पानीयं वरुणात्मकम् || ६१ || तत्तन्मुद्राविधानेन सम्पूज्याऽथ गुरुं यजेत् | दर्शयित्वा योनिमुद्रां गुरुमन्त्रं जपेत्ततः || ६२ || प्. ११) गुरुमन्त्रविधानम् ह्सौः पदं समालिख्य सहक्षमलवरानिलान् | वह्नियुक्तांस्त्रिधा लिख्य आद्यदीर्घत्रयान्वितान् || ६३ || बिन्दुनादकलायुक्तान् श्रीपरान्ते च पावकम् | अथाराध्यपदं चैव सर्वमूर्ध्वपदं ततः || ६४ || नाथ सर्वगुरुप्रान्ते गुरुः स्वयं ततो गुरुः | श्रीगुरुनाथशब्दान्ते सहक्षमलवरानिलान् || ६५ || वह्निदीर्घप्रतियुतान् नादबिन्दुकलान्वितान् | पिण्डीकृतं लिखेदाद्यं चतुर्थञ्च ततो लिखेत् || ६६ || तृतीयं पूर्ववल्लेख्यं द्वितीयञ्च तथैव च | ततः श्रीशम्भुगुर्वन्ते पुनराद्यं समालिखेत् || ६७ || आद्यकूटं चतुर्थञ्च पुनराद्यं तृतीयकम् | चत्वारिंशन्मार्गवर्णैर्मण्डितोऽयं गुरोर्मनुः || ६८ || यथाशक्तिजपं कुर्यादथवा वाग्भवं जपेत् | दक्षकर्णयुतो गौरो वह्निरुद्रेण भूषितः || ६९ || वर्णद्वयात्मको मन्त्रश्चतुर्वर्गफलप्रदः | गकारः सिद्धिदः प्रोक्तो रेफः पापस्य हारकः || ७० || प्. १२) उकारो विष्णुरव्यक्तस्त्रितयात्मा गुरुः परः | गुरोर्वामकरे तत्तु समर्प्याथ स्तुतिं पठेत् || ७१ || गुरुस्तुतिम् अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया | चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः || ७२ || अखण्डमण्डलाकारं व्याप्तं येन चराचरम् | तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः || ७३ || विश्वात्मकः परः शम्भुर्विश्वोत्तीर्णोऽस्म्यहं दृढम् | इति यस्याज्ञया तस्मात्तस्य श्रीपादुकास्मृतिः || ७४ || सहस्रारे पद्मे विगतशठशास्त्रान्तरगतं सदा देवैर्वन्द्यं भवभयविनाशैककरणम् | वराभी पाणिभ्यां प्रकटितसमन्दस्मितमुखं नमामीदृग्रूपं परमगुरुरूपं सकरुणम् || ७५ || प्. १३) शान्तं शुक्लकलेवरं त्रिनयनं कान्ताङ्गभूषं शिवं वाञ्छाभीतिकरं प्रचण्डतिमिराज्ञानप्रकाशं रविम् | नित्यं नौमि रविं तथाब्धितरणे तं कर्णधारं गुरुं यस्य श्रीपदपङ्कजोद्भवसुधा सिद्धैः सदा पीयते || ७६ || सदा विधोर्मण्डलमध्यसंस्थं नमामि नित्यं गुरुपादपद्मम् | प्रसादतो यस्य मया प्रलब्धं सवासनाज्ञानविनाशबीजम् || ७७ || पद्मोद्भवे समकलापतयोऽपि नित्यं यस्याङ्घ्रिपद्मममलं परिभावयन्ति | कारुण्यवारिधिरशेषगुणैकराशिः सोऽयं गुरुः शिरसि शुक्लसरोजमध्ये || ७८ || प्रवद्धानां पाशैः सकलगुणमायामयरसै- र्निमग्नानां नित्यं भवजलनिधेरन्तरगतः | कृपालेशो बन्धं परिहरति यस्याङ्घ्रितरगः प्रवन्दे सानन्दं तमपि गुरुरूपं सकरुणम् || ७९ || कवित्वं पाण्डित्यं त्रिभुवनपतित्वं न हि कदा न वा स्वर्गसिद्धिं न सुरवरसाम्यञ्च नियतम् | न वाञ्छामो मोक्षं पुरहरपदं नैव शिवतां यदि स्याच्चेतो मे निरवधि गुरोःपादकमलम् || ८० || स्तवेनानेन संस्तुत्यं गुरोराज्ञां लभेत्ततः | ध्यायेत् कुण्डलिनी शक्तिं मूलाधारनिवासिनीम् || ८१ || कुण्डलिनी निरूपणम् निजेष्टदेवतारुपां विषतन्तुतनीयसीम् | सुप्ताहिसादृशाकारां सार्धत्रिवलयान्विताम् || ८२ || कोटिसौदामिनीभासां स्वयम्भुलिङ्गवेष्टिनीम् | समुत्थाप्य महादेवीं प्राणमन्त्रेण साधकः || ८३ || भेदयित्वा च षट्चक्रं सहस्रारस्थितेश्वरे | स्थापयित्वा च तस्योर्ध्वं ध्यायेत् कुलगुरून् क्रमात् || ८४ || प्रह्लादानन्दनाथञ्च सनकानन्दनाथकम् | कुमारानन्दनाथञ्च वशिष्ठानन्दनाथकम् || ८५ || क्रोधानन्दसुखानन्दौ ज्ञानानन्दं ततः परम् | बोधानन्दमथाभ्यर्च्य क्रमेणानेन साधकः || ८६ || परामृतरसोल्लासहृदयान् घूर्णलोचनान् | परालिङ्गनसम्भिन्नचूर्णिताशेषतामसान् || ८७ || कुलशिष्यैः परिवृतान् सुखान्तःकरणोद्यतान् | वराभयकराशेषकुलतत्त्वार्थवेदिनः || ८८ || सशक्तिं सकुलञ्चैव कथितञ्च सुखावहम् | एवं कुलगुरून् नत्वाऽमृतवृष्टिं विधाय च || ८९ || तर्पयित्वा च तां देवीं पुनर्मूले समानयेत् | तस्याः प्रभासमूहैश्च व्याप्तं देहं विभावयेत् || ९० || अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् | सच्चिदानन्दरूपोऽहमित्यात्मानं विभावयेत् || ९१ || बहिर्गत्वा यदा पश्येत् कुलवृक्षं सुसाधकः | नमस्कुर्यात् प्रयत्नेन कुलं कुलपतिं तथा || ९२ || कुलवृक्षनामानि अशोकः केशरः कर्णिकारश्चूतस्तिलस्तथा | नमेरुश्च पियालश्च सिन्धुवारकदम्बकौ || ९३ || मरुवकश्चम्पकशाखी कुलवृक्षाश्च द्वादश | अथवा कुलवृक्षांश्च कथयामि सुसिद्धये || ९४ || श्लेष्मातककरञ्जानि निम्बाश्वत्थकदम्बकाः | विल्वो वटोडुम्बरश्च चिञ्चेति दशमी स्मृता || ९५ || तिष्ठन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा | न स्वपेत् कुलवृक्षाधो न चोपद्रवमाचरेत् || ९६ || दृष्ट्वा भक्त्या नमस्कुर्यात् छेदयेन्न कदाचन | कामबीजं कामदेवं सर्वान्ते जनमालिखेत् || ९७ || प्रियाय हृदयान्तोऽयं मनुर्दन्तविशुद्धये | दन्तादिकं विशुध्याथ स्वकल्पोक्तं समाचरेत् || ९८ || प्. १७) प्रातःकृत्यमकृत्वा तु यो देवीं भक्तितोऽर्चयेत् | तस्य पूजा तु विफला शौचहीना यथा क्रिया || ९९ || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये प्रथमोल्लासः || १ || द्वितीय उल्लासः आत्मशुद्धिनिरूपणम् अथ स्नानं प्रवक्ष्यामि शाक्तानां सिद्धिहेतवे | स्नानविधिः यथाविधि जलं प्राप्य आत्मानं देवतालयम् || १ || विचिन्त्य प्रणमेद्धीरो वरुणं वारिदैवतम् | उन्मज्य तत उत्थाय कुलदर्भं विधारयेत् || २ || पवित्रीधारणम् अशून्यौ च करौ कुर्ययात् सुवर्ण रजतैः कुशैः | तत्र शाक्तैः स्वयं ग्राह्यं न च वन्याः कुशाः कुशाः || ३ || अनामयोर्भवेत् स्वर्णं तर्जन्यो रजतं तथा | एष एव भवेद्दर्भो न दर्भो वनसम्भवः || ४ || विनैव दूर्वया देव्याः पूजा नास्ति कदाचन | तस्माद्दूर्वा ग्रहीतव्या सर्वपुष्पमयी यतः || ५ || प्. १९) हस्ते दूर्वाङ्कुरं कृत्वा सर्वकर्म समाचरेत् | आचामेदात्मतत्त्वाद्यैः प्रणवाद्यैः स्वधान्तिकैः || ६ || मन्त्रैस्त्रिधा तथा वक्त्रं नासाक्षिशोत्रनाभिहृन् | मस्तकानि स्पृशेन् मन्त्री कुर्याच्छ्रोत्राक्षिबन्धनम् || ७ || भूत्वा पूर्वमुखो मन्त्री उत्तराभिमुखोऽपि वा | मूलान्ते चात्मतत्त्वाय विद्यातत्त्वाय तत्परम् || ८ || शिवतत्त्वाय च प्रोक्त्वा क्रमेण साधकोत्तमः | स्वाहान्तमद्भिराचामेत् पूर्वोत्तरमुखः सुधीः || ९ || कुलपात्रं सदूर्वञ्च सतिलं सजलं ततः | एभिः सङ्कल्प्य वीरेन्द्रः समन्त्रं वारिणि न्यसेत् || १० || सूर्यस्य मण्डलात्तिर्थमावाह्याऽङ्कुशमुद्रया | सञ्जप्य दशधा मूलं तत्तोयं मूर्ध्नि संक्षिपेत् || ११ || कुम्भाख्यमुद्रया मूलं स्मरन् साधकपुङ्गवः | अङ्गुलीभिर्मुखं श्रोत्रं नासां नेत्रे च रोधयन् || १२ || प्. २०) मूलं स्मरन् त्रिधोन्मज्य गात्राणि परिमार्जयेत् | तिलकं मूलमन्त्रेण शिखाञ्च परिकल्पयेत् || १३ || त्रिराचम्य ततो मन्त्री षडङ्गानि न्यसेत्ततः | गृहीत्वा वामहस्ते तु जलं दक्षिणपाणिना || १४ || समाच्छाद्य ततो व्योम वायुवह्निस्ततः परम् | क्षौणीवरुणबीजञ्च त्रिवारमभिमन्त्रयेत् || १५ || मूलेन सप्तवारन्तु मुद्रया तत्त्वसंज्ञया | स्वमूर्ध्नि च क्षिपेत्तोयं शेषं दक्षे निधाय च || १६ || ध्यात्वा तेजोमयं तोयं सव्यनासापुटेन च | तत उत्तोल्य देहस्थं पापं प्रक्षाल्य वामया || १७ || प्रोत्सार्य कल्पिते वज्रशिलायां संक्षिपेत् सुधीः | प्रक्षाल्य हस्तयुगलमाचमेत्तदनन्तरम् || १८ || मायाप्राणात्मकं मन्त्रं मार्तण्डभैरवाय च | प्रकाशशक्तियुक्ताय अर्घ्यं स्वाहा ततो वदेत् || १९ || सूर्यायाऽर्घ्यं विधायाथ शक्तिसन्ध्या प्रकीर्तिता | विभाव्य पुरतो यन्त्रं तत्र देवीं गणान्विताम् || २० || प्. २१) गृहीत्वा गन्धतोयञ्च कुलपात्रात्ततः परम् | तर्पयेद् देवतावक्त्रे विधिवत् साधकोत्तमः || २१ || मूलमन्त्रं समुच्चार्य तदन्ते देवताभिधाम् | द्वितीयान्तामहं पश्चात् तर्पयामि नमः पदम् || २२ || मूलान्ते तर्पयामीति स्वाहान्तं तर्पणं भवेत् | गुरुं सपरिवारञ्च आयुधं वाहनं तथा || २३ || शक्तितस्तर्पयित्वा च गायत्रीं शक्तितो जपेत् | ध्यात्वा सावरणां देवीं सूर्यमण्डलवासिनीम् || २४ || मूलान्ते उद्यदादित्यवर्तिन्यैस्तदनन्तरम् | शिवचैतन्य तस्यान्ते मययै स्वाहेति संस्मरन् || २५ || अर्घ्यं दत्त्वा ततस्तस्यै तामानीयांकुशेन च | मुद्रया हृदि संस्थाप्य जलादुत्थाय साधकः || २६ || वस्त्रधारणम् मूलेन कुलवस्त्रे द्वे परिधाय कुलेन च | मोक्षार्थी रक्तवस्त्रेण भोगार्थी श्वेतवाससा || २७ || मारणे कृष्णवासस्तु वश्ये रक्तं सदा गृही | उच्चाटने व्याघ्रचर्मं वृक्षत्वक् शुभकर्मणि || २८ || प्. २२) परिधाय ततो मौनी हृदि मन्त्रं परामृशन् | प्रक्षाल्य हस्तपादौ च पूजास्थानं समाविशेत् || २९ || स्नानं विना पूजा विफला इति स्नानं समुद्दिष्टमधिकारप्रदायकम् | स्नानतर्पणशून्यस्य नाधिकारश्च पूजने || ३० || विविधैरुपचारैश्च भक्तिभावसमन्वितः | विना स्नानेन या पूजा विफला सिद्धिहानिदा || ३१ || तस्मात् स्नानादिकं कृत्वा रक्तवस्त्रं ततः परम् | पूजास्थाननिरूपणम् एकलिङ्गे श्मशाने च शून्यागारे चतुष्पथे || ३२ || विल्वमूले प्रान्तरे वा नद्यां पर्वतमस्तके | उज्जटे निर्जने वापि भूगृहे देवतालये || ३३ || अश्वत्थसन्निधौ वापि वटमूले त्रिशूलके | हट्टागारे निजागारे पशुदृष्टिविवर्जिते || ३४ || नृपालमण्डपे वापि गह्वरे वापि यन्त्रिते | निश्छिद्रमण्डपे वापि कर्तव्यं पूजनं सदा || ३५ || प्. २३) एकलिङ्गनिरुक्तिः पूजास्थानं महादेव्याः कथितं पीठमुत्तमम् | पञ्चकोशान्तरे यत्र न लिङ्गान्तरमीक्षते || ३६ || तदेकलिङ्गमित्याहुस्तत्र सिद्धिरनुत्तमा | चतुष्पथनिरुक्तिः चतुष्पथं विजानीयात् यत्रास्ते चण्डिकाशिला || ३७ || तत्र यत्नेन गन्तव्यं जप्तव्यं सिद्धिकाङ्क्षिभिः | द्वारदेशे ततो गत्वा पूजयेद्दारदेवताः || ३८ || कारयेत्तत्र वाद्यादिनृत्यगीतं तथैव च | सिद्धार्थाक्षतदूर्वाभिस्तिलमिश्रैः सुसाधकः || ३९ || अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः | ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया || ४० || वाग्भवाद्यं समुच्चार्य नाराचमुद्रया सुधीः | कुलभूतं समुत्सार्य यागभूमिं ततो विशेत् || ४१ || प्. २४) कूर्मचक्रं प्रकुर्वीत यथातन्त्रविधानतः | रेखाचतुष्टयं कार्यं इन्द्रवारुणयोगतः || ४२ || उत्तराद् याम्यपर्यन्तं नवकोष्ठं यथा भवेत् | इन्द्राग्नियाम्यनैर्-ऋत्यप्रतीच्यां पञ्चवर्गकम् || ४३ || वायुकुबेरशम्भौ च यादिवर्णांश्चतुश्चतुः | लक्षौ क्रमात् समालिख्य साधकः सिद्धिहेतवे || ४४ || मध्ये कोष्ठे ततः कुर्यात् पूर्ववन्नवकोष्ठकम् | पूर्वादीशानपर्यन्तं षोडशस्वरमालिखेत् || ४५ || अकारादिक्रमेणैव युग्मयुग्मप्रभेदतः | क्षेत्राद्यर्णस्तु यत्रास्ते शीर्षं तस्य विनिश्चितम् || ४६ || दीपस्थानं तदेव स्यात्तत्र सिद्धिरनुत्तमा | निर्धनो जायते पत्सु पार्श्वयोर्व्याधिरेव च || ४७ || पुच्छे हानिः सदा ज्ञेया दीपस्थानं सदाश्रयेत् | कूर्मचक्रं विना यो हि जपहोमं समाचरेत् || ४८ || तत्सर्वं निष्फलं विन्द्यात् अभिचाराय कल्पते | पञ्चशुद्धिकथनम् पञ्चशुद्धिविहीनेन यत्कृतं न च तत् कृतम् || ४९ || यावन्न कुरुते तत्तु तावद् देवार्चनं कुतः | पञ्चशुद्धिं विना पूजा अभिचाराय कल्पते || ५० || भूमिशुद्धिरात्मशुद्धिर्द्रव्यानां शोधनं तथा | मन्त्रशुद्धिर्देवशुद्धिः पञ्चशुद्धिरितीरिता || ५१ || पञ्चशुद्धिं प्रवक्ष्यामि यथाक्रमविधानतः | सामान्यार्घ्यं ततः कुर्यात् प्रोक्षणार्थं च साधकः || ५२ || चतुरस्रं ततो वृत्तं त्रिकोणं वामतो लिखेत् | आधारं स्थापयेत्तत्र संपूज्य वह्निमण्डलम् || ५३ || अस्त्रेण प्रोक्षितं पात्रं स्थापयित्वा च पूजयेत् | सूर्यमण्डलमुच्चार्य हृन्मन्त्रेण प्रपूजयेत् || ५४ || विलिख्य मण्डलं तोये पूर्ववत् पूजयेत्ततः | इन्दुमण्डलमभ्यर्च्य प्रक्षिपेद् गन्धपुष्पके || ५५ || प्. २६) पूर्ववत्तीर्थमावाह्य षडङ्गानि यजेत्ततः | अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजनम् || ५६ || मूलमन्त्रं जपेदष्टौ तज्जलेन प्रसेचयेत् | अस्त्रान्तमूलमुच्चार्य आत्मानं यागभूमिषु || ५७ || पृथिव्यर्घ्यं ततो दत्त्वा नैर्-ऋत्यां साधकोत्तमः | प्रणवं भगवत्येव धरणीं ङेयुतां वदेत् || ५८ || धरणीवेधसे स्वाहा अनेनार्घ्यं विधाय च | ब्रहाणं पूजयित्वा च पुरुषं वास्तुसंज्ञकम् || ५९ || सम्मार्जनानुलेपाद्यैर्दर्पणोदरवत्प्रभम् | वितानं धूपदीपाद्यैः पुष्पमालाऽभिशोभितम् || ६० || पञ्चवर्णरजश्चित्रं भूमेः शुद्धिरितीरिता | विलिख्य मण्डलं भूमौ पूर्ववत् साधकाग्रणीः || ६१ || आसनं स्थापयेत्तत्र यथा तन्त्रानुसारतः | अथासनं प्रवक्ष्यामि शाक्तानां स्थितिकाम्यया || ६२ || मृद्वादिविविधासनकथनम् मृदुचूडकमासीनः अन्येषु कोमलेषु वा | विष्टरे वा समासीनः साधयेत् सिद्धिमुत्तमाम् || ६३ || अर्वाक् षण्मासतो गर्भच्युतमाहुर्मृदुं बुधाः | चूडोपनयनैर्हीनं मृदुमचूडकं विदुः || ६४ || निवृत्तचूडको बालो हीनोपनयनः पुमान् | यो मृतः पञ्चमे वर्षे तमेव कोमलं विदुः || ६५ || विविधासनफलकथनम् मृद्वासनं विना यो हि पूजयेच्चण्डिकां शिवाम् | तावत् कालं नारकी स्याद् यावदाहूतसंप्लवम् || ६६ || पञ्चाशद्भिः कुशैर्ब्रह्म तदर्धेन तु विष्टरः | कौशेयं भोगदं रक्तकम्बलं सिद्धिदं स्मृतम् || ६७ || वस्त्रं रोगहरं ज्ञेयं मोक्षं श्रीर्व्याघ्रचर्मणि | ऊर्णा दुःखहरी प्रोक्ता ज्ञानसिद्धिर्मृगाजिने || ६८ || प्. २८) सन्न्यासी ब्रह्मचारी तु विशेषः कृष्णचर्मणि | काष्ठासनं न कुर्वीत यत्र दौर्भाग्यवान् भवेत् || ६९ || अत्युच्चं चातिनीचञ्च मग्नञ्च परिवर्जयेत् | मनोहरं मृदु श्लक्ष्णमासनं परिकीर्तितम् || ७० || आसनशोधनम् एषामन्यतमं प्राप्य प्रोक्षयेत्तदनन्तरम् | सामान्यार्घ्यस्य तोयेन पुटाञ्जलिविधानतः || ७१ || मेरुपृष्ठ ऋषिः प्रोक्तः सुतलं छन्द ईरितम् | कूर्मोऽधिदेवता चात्र आसनस्थापनाय च || ७२ || विनियोगः परिज्ञेयोऽप्यभिलप्य पठेत्ततः | पृथ्वि त्वया धृता लोका देविपदं ततो वदेत् || ७३ || त्वं विष्णुना धृता त्वञ्च धारय मां ततः परम् | नित्यं पवित्रं कुरु च आसनञ्च समुच्चरेत् || ७४ || अनेन प्रणवाद्येन तत्र कुशत्रयं क्षिपेत् | आधारशक्तिं संप्रोच्य ङेयुतं कमलासनम् || ७५ || हृदन्तं मनुमुच्चार्य मायाद्येन प्रपूजयेत् | आसने संविशेत् पश्चात् वीरासनेन साधकः || ७६ || प्. २९) दक्षगुल्फं हि वामोरौ तदधो वामगुल्फकम् | कुर्यादृजुवपुर्ग्रीवः शरीरं ऋजुवच्चरेत् || ७७ || समग्रीवं विधायाथ प्रोक्तं वीरासनं परम् | कामाख्यादिङ्मुखः सुस्थः प्राङ्मुखो वा प्रपूजयेत् || ७८ || सामान्यार्घ्यस्य तोयेन प्रोक्षयेद्यागभूमिषु | इति ते कथितो ह्यत्र आसनविधिः पूजने || ७९ || स्नातो निच्छिद्रगेहे कुलविमलजलैरर्घ्यपात्रं विधाय भक्तिश्रद्धान्वितोऽसौ निजकुलकमले यन्त्रराजं विलिख्य | सिन्दूरैर्भूषिताभिः सुकुलयुवतिभिः पूजयित्वा जपेद्य- स्तस्य श्रीर्नेत्रपद्मे विलसति सततं वक्त्र चन्द्रे च वाणी || ८० || दीक्षिताभिः कुलीनाभिर्युवतीभिः कुलात्मभिः | देवतागुरुभक्ताभिः सञ्चितं यागभूमिषु || ८१ || नानाविधानि पुष्पाणि गन्धानि विविधानि च | कर्पूरागुरुधूपादिवासितं पटवासितम् || ८२ || प्. ३०) ताम्बूलं पेयद्रव्यञ्च धूपदीपादिकञ्च यत् | सर्वालङ्कारभूषाभिर्भूषितः साधकोत्तमः || ८३ || मूलविद्याजप्ततोयैः प्रोक्षयेत् यागवस्तु च | सर्वं स्वदक्षिणे स्थाप्य वामे कुम्भं निवेशयेत् || ८४ || पश्चिमे देवतायाश्च कुल द्रव्याणि धारयेत् | (अथवा) नैवेद्यं दक्षिणे वामे पुरतो वा न पृष्ठतः || ८५ || अथवा वामतो दद्यान्नतु पृष्ठे कदाचन | दीपं दक्षिणतो दद्यात् पुरतो वा न वामतः || ८६ || वामहस्ततले धूपमग्रतो वा न दक्षिणे | निवेदयेत् पुरोभागे गन्धपुष्पादिभूषणम् || ८७ || मलिनं भूमिसंस्पृष्टं कृमिकेशादिदूषितम् | अङ्गसंस्पृष्टमाघ्रातं त्यजेत् पुष्पं सदा बुधः || ८८ || नैव पुष्पं द्विधा कृत्वा न दद्यात् कलिकामपि | रक्तमर्घ्यं श्वेतदूर्वां नीलकण्ठं कुरुण्टकम् || ८९ || न दद्याच्च महादेव्यै यदीच्छेच्छुभमात्मनः | सुगन्धिश्वेतलौहित्यकुसुमैरर्चयेत् कुशैः || ९० || प्. ३१) विल्वैर्मरुवकाद्यैश्च तुलसीवर्जितैः शुभैः | पत्रैर्न चार्चयेद् देवीं विल्वपत्रविवर्जितैः || ९१ || निर्गन्धैर्नार्चयेत् पुष्पैः सुगन्धैः सर्ववस्तुभिः | जवाबन्धूकमन्दारैः सिन्दूरैश्च महोत्पलैः || ९२ || संपूजयेच्च निर्गन्धैस्तथा च रक्तचन्दनैः | नन्द्यावर्त्तं तिलपत्रं तथा केशरपत्रकम् || ९३ || मदनं मरुवकञ्चैव दाडिमं कुन्दपुष्पकम् | नानोपहारबलिभिर्नानापुष्पैमनोहरैः || ९४ || अपामार्गदलैर्भृङ्गैस्तुलसीवर्जितैः शुभैः | कुलपुष्पेण धूपेन कुलदीपेन तां सुधीः || ९५ || चण्डिकां पूजयेद्धीमानन्यथा सिद्धिरोधकृत् | न दद्यान्मालतीपुष्पं ताराकालीप्रपूजकः || ९६ || उन्मत्तञ्च न दातव्यं साधकेन महात्मना | न पर्युषितदोषोऽस्ति जलजोत्पलचम्पके || ९७ || अगस्त्यवकुले चैव विल्वगङ्गाजले तथा | निजदेवस्य पुष्पाणि पृथक्पात्रे निधापयेत् || ९८ || एकीभावं न कर्त्तव्यं यदीच्छेच्छुभमात्मनः | नैवेद्यादीनि सर्वाणि तथा जानीहि निश्चितम् || ९९ || पूजाकाले तु संप्राप्ते वासुदेवं स्मरेत्तु यः | पूजाफलं न चाप्नोति नरकं प्रतिपद्यते || १०० || वैष्णवं कुसुमं स्पृष्ट्वा पूजाकाले च सर्वदा | हस्तप्रक्षालनाच्छौचमाचामस्तु तदाचरेत् || १०० || शक्तिं विना पूजा विफला शुचिः सावहितो भूत्वा भक्तिश्रद्धासमन्वितः | संस्थाप्य वामभागे तु शक्तिं स्वामिपरायणाम् || १०२ || रक्तवस्त्रपरीधानां दीक्षितां चारुहासिनीम् | विना शक्त्या तु या पूजा विफला नात्र संशयः || १०३ || तस्माच्छक्तियुतो वीरो भवेच्च यत्नपूर्व्वकम् | या शक्तिः सा महादेवी हररूपस्तु साधकः || १०४ || अन्योन्यचिन्तनाच्चैव देवत्वमुपजायते | प्राणं बिना यथा देही स्पन्दितुं नैव शक्यते || १०५ || शक्तिं विनापि पूजायां नाधिकारी भवेत्तदा | हेतुयुक्तेन पूजा कार्या विना द्रव्याधिवासेन न जपेन्न स्मरेत् सदा || १०६ || विना हेतुकमास्वाद्य क्षोभयुक्तो भवेन्नरः | न पूजां न जपं कुर्यान्न ध्यानं न च चिन्तनम् || १०७ || तस्माद्भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरीम् | सत्यमेतद् विजानीयाद्वाक्यं शङ्करभाषितम् || १०८ || न क्रमच्युतिदोषोऽस्ति नाचारदोषदूषणम् | न भुक्त्वा च न पीत्वा च न स्मरेन्न जपेत्तदा || १०९ || ये स्मरन्ति नरा मूढास्तेषां दुःखं पदे पदे | आनन्देन विना यस्तु चण्डिकां परिपूजयेत् || ११० || रोगी दुःखी भवेत् सोऽपि मृते च नरकं व्रजेत् | तस्मादादौ प्रकर्त्तव्यं सम्विदासवयोजनम् || १११ || संविदः श्रेष्ठत्वम् सम्विदासवयोर्मध्ये सम्विदेव गरीयसी | विजयाग्रहणं कृत्वा ध्यानं यः कुरुते नरः || ११२ || तदा ध्यानमयी मूर्तिः प्रत्यक्षा तस्य जायते | सम्वित्प्रयोगस्तेनेह पूजादौ साधकोत्तमैः || ११३ || कर्त्तव्या च महापूजा करुणामयनन्दितैः | तस्या भेदं प्रवक्ष्यामि यथार्थं तन्त्रवर्त्मना || ११४ || तस्या चातुर्विध्यम् श्वेतपुष्पा च ब्रह्माणी रक्ता तु क्षत्रिया स्मृता | वैश्या पीतप्रसूना च शूद्रा कृष्णप्रसूनिका || ११५ || तासां शोधनमन्त्राः आसां शोधनमन्त्रञ्च कथयामि पृथक् पृथक् | सम्विदे ब्रह्मसम्भूते ब्रह्मपुत्रि सदानघे || ११६ || भैरवाणाञ्च तृप्त्यर्थं प्रसन्ना भव सर्वदा | ओं ब्रह्माण्यै नमः स्वाहा ब्रह्माणीं शोधयेदिति || ११७ || प्. ३५) सिद्धिमूलक्रिये देवि हीनबाधप्रबाधिनि | राजप्रजावशङ्करि शत्रु कण्ठत्रिशूलिनि || ११८ || ओं ऐं क्षत्रियायै नमः स्वाहा क्षत्रियायाः स्मृतो मनुः | अज्ञानेन्धनदीप्ताग्ने ज्ञानाग्ने ज्ञानरूपिणि || ११९ || आनन्दस्याहुतिं प्रीतिं सम्यग्ज्ञानं प्रयच्छ मे | ह्रीं वैश्यायै नमः स्वाहा शूद्रां संशोधयेदथ || १२० || ओं नमस्यामि नमस्यामि योगमार्गप्रदर्शिनि | त्रैलोक्यविजये मातः समाधिफलदा भव || १२१ || क्लीं (श्रीं) शूद्रायै नमः स्वाहा कथितं मन्त्रमुत्तमम् | ओं अमृते अमृतोद्भवे अमृतवर्षिणि पदन्ततः || १२२ || अमृतमाकर्षयद्वन्द्वं सिद्धिं देहि ततः परम् | त्रैलोक्यं मे ततो ब्रूयाद्वशमानय तत्परम् || १२३ || द्विठान्तोऽयं मनुः प्रोक्तश्चतुष्काणाञ्च शोधने | (अथवा) हसक्षमलवरयूं हसरौञ्च ततः परम् || १२४ || आनन्दभैरवायेति वषडन्तः परो मनुः | अनयोरेकतरेणैव विशोध्य विजयां ततः || १२५ || विजयाग्रहणविधिः सप्तधा मूलमन्त्रञ्च तासामुपरि संजपेत् | आवाहन्यादिमुद्राञ्च धेनुयोनिञ्च दर्शयेत् || १२६ || त्रितालछोटिकाभिश्च दिग्बन्धनं समाचरेत् | प्. ३६) दिव्यदृष्ट्या पदाघातैर्विघ्नांश्च विनिवारयेत् || १२७ || सप्तधा तर्पयेन् मूर्ध्नि गुरुवर्ग सुसाधकः | तत्त्वमुद्राविधानेन हृदि देवीं गणान्विताम् || १२८ || तर्पयित्वा महादेवीं शक्तिभ्योऽपि ददेत्ततः | गृहीत्वा वामहस्तेन पठेदमुं मनुं ततः || १२९ || ऐं वदवदपदं प्रोक्त्वा वाग्वादिनि ततः परम् | मम जिह्वाग्रे स्थिरेति भव सर्वपदं लिखेत् || १३० || सत्त्ववशङ्करि स्वाहा मन्त्रेण तदनन्तरम् | स्वीकुर्यात् साधकश्रेष्ठो मुमुक्षुः प्रसमीक्षया || १३१ || विजयासेवनस्यानुकल्पकथनम् मार्गशीर्षादिभिर्मासैः क्रमात् संसेव्यतां त्रिभिः | दुग्धघृतमधुसुरावर्णानामनुपानकम् || १३२ || एककालं द्विकालं वा त्रिकालं पञ्चकालकम् | क्रमात् संसेवनीया च सिद्धिदा सिद्धिमूलिका || १३३ || विजयासेवनस्यमन्त्रगुप्तिः तथा तथा प्रकर्तव्यं सम्विदासवभोजनम् | यथा यथा न हि भवेत् प्राकट्यं पशुमेलके || १३४ || निर्जने चैव कर्तव्यं सदैव गुरुसन्निधौ | न पितुः सन्निधाने वा न मातुः सन्निधौ तथा || १३५ || किम्वा पक्षिपतङ्गानां दर्शने नैव कारयेत् | कुलपुष्पं कुलद्रव्यं कुलपूजां कुलं जपम् || १३६ || गुरुं कुलपतिञ्चैव कुलमालां कुलाकुलम् | कुलचक्रं कुलध्यानं सर्वथा न प्रकाशयेत् || १३७ || प्रकाशात्सिद्धिहानिः स्यात् प्रकाशाद्बन्धनादिकम् | प्रकाशान्मन्त्रनाशः स्यात् प्रकाशाद्देवहिंसनम् || १३८ || प्रकाशान्मृत्युलाभः स्यान्न प्रकाश्यं कदाचन | पूजाकाले तु संप्राप्ते यदि कोऽप्यत्र गच्छति || १३९ || दर्शयेद्वैष्णवीं मुद्रां विष्णुन्यासं तथा स्तवम् | प्रकाशाद्यदि गुप्तिः स्यात्तत्प्रकाशं न दूषणम् || १४० || प्. ३८) गोपनाद्यदि व्यक्तिः स्यान्न च व्यक्तिः कदाचन | वरं पूजा न कर्तव्या न च व्यक्तिः कदाचन || १४१ || पूजाविधानम् रक्तमाल्याम्बरधरो योषिद्युक्तो महाशयः | ताम्बूलपूरितमुखो धूपामोदसुगन्धितः || १४२ || देवो भूत्वा यजेद्देवं नादेवो देवमर्चयेत् | अस्त्रेण गन्धपुष्पाभ्यां सुरभीकृतहस्तकः || १४३ || मार्जयेत् साधकश्रेष्ठो मूलमन्त्रं परस्परम् | निर्मञ्छनं त्रिधा कृत्वा अस्त्रेण वामपाणिना || १४४ || क्षिपेत्तद्दूरतः पुष्पं मन्त्री नाराचमुद्रया | अङ्गुष्ठाग्रे तु तर्जन्या संयोज्याधोर्ध्वरेखया || १४५ || अन्यांगुलीस्तथोर्ध्वञ्चनाराचः स्यात् प्रसार्यते | ध्यात्वा गुरुं न्यसेद्वामे दक्षिणे गणपतिं तथा || १४६ || निजदेवीं ततः पश्चान्मध्यदेशे च साधकः | पार्ष्णिघातकरास्फोट समुदञ्चितवक्रकैः || १४७ || प्. ३९) तत्र तालत्रयं दद्यात् सशब्दं सम्प्रदायतः | प्राणायामविधानम् प्राणायामैर्विना यस्य जपहोमार्चनादिकाः || १४८ || न भवन्त्येव सफला यत्नेनापि कृताः क्रियाः | जपस्य पुरतः कार्यं प्राणायामं समाहितैः || १४९ || अन्यथा निष्फलाः सर्वा जपहोमार्चनादिकाः | ऋतुचन्द्रैर्वेदरसैर्नेत्ररामैर्यथाक्रमम् || १५० || मात्राभिः प्रणवं जप्त्वा पूरकुम्भकरेचकैः | वामा च मध्यमा चैव तथा दक्षिणनाडिभिः || १५१ || कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् | प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना || १५२ || (यद्वा) प्राणायामं ततः कुर्यान्मूलेन प्रणवेन वा | उच्चारयंस्तु प्रणवं वामेनैकेन मन्त्रवित् || १५३ || उदरं पूरयित्वा तु वायुना यावदास्थितिः | प्राणायामो भवत्येवं पूरको देहपूरकः || १५४ || पिधाय सर्वगात्राणि निश्वासोच्छ्वासवर्जितः | सम्पूर्णकुम्भवत्तिष्ठेत् प्राणायाम स कुम्भकः || १५५ || मुञ्चेद्वायुं तथैकेन श्वासेनैकेन मन्त्रवित् | निश्वासयोगयुक्तस्तु वायुं वाह्येन रेचयेत् || १५६ || रेचकस्त्वेव संप्रोक्तः प्राणायामो न संशयः | जानुप्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् || १५७ || क्रियते चाङ्गुलिस्फोटं सा मात्रा परिकीर्तिता | ततो द्वादशमात्राभिः पूरकः क्रियते बुधैः || १५८ || तस्माद् द्विगुणमात्राभिः क्रियते रेचकः शुचिः | तस्माद् द्विगुणमात्राभिः क्रियते कुम्भकस्तथा || १५९ || भूतशुद्धिकथनम् प्राणायामत्रयेणैवमेकैकं त्रितयात्मकम् | लिङ्गं कार्यं हृदिस्थं तु चैतन्यं सर्वसाक्षिणम् || १६० || प्रणवेन विनिःसार्य ब्रह्मरन्ध्राद्बहिर्बुधः | तेनैव संपुटीकृत्य मस्तकोपरि विन्यसेत् || १६१ || चैतन्यरहितं देहं बाह्यञ्चाभ्यन्तरं तथा | नाभिमण्डलमध्यस्थं वायुमण्डलमध्यगम् || १६२ || यं बीजं धूषरं तप्तं ध्यात्वा तं तं विशोधयेत् | अग्निमण्डलसंस्थेन रंबीजेनाग्निरूपिणा || १६३ || निर्दहेदथ तद्भस्मराशिदेहाकृतिर्भवेत् | भ्रूमध्यस्थं हृदिस्थं वा ध्यायेद्वरुणमण्डलम् || १६४ || अर्धचन्द्राकृतिं श्वेतं पद्मद्वयसदक्षिणम् | तत्रस्थेन वकारेण प्लावयेन्मधुरूपिणा || १६५ || जीवं पार्थिवं न्यस्य चिन्तयेद्धेममण्डलम् | प्रणवेन द्विधाकृत्य तत्र चैतन्यरूपिणा || १६६ || मस्तकोपरि विन्यस्य चैतन्येन नियोजयेत् | अमृतप्लावितः पिण्डः स मर्त्यो धौतकल्मषः || १६७ || आत्मानं चिन्तयेत् पश्चाद्देवतारुपिणं ततः | प्राणायामञ्च कथितं भूतशुद्धिं तथापरम् || १६८ || अथवान्यप्रकारेण भूतशुद्धिश्च कथ्यते | प्राणायामत्रयं कृत्वा भूतशुद्धिं ततश्चरेत् || १६९ || प्. ४२) भूतशुद्धिं विना पूजा विफला भूतशुद्धिं विना कर्म जपहोमार्चनादिकम् | तावत्तद्विफलं सर्वं प्रकाशेनाप्यनुष्ठितम् || १७० || भूतशुद्धिं विना यस्तु न्यासपूजां करोति हि | न्यासजालं वृथा तस्य पूजा सा विफला भवेत् || १७१ || तस्मात्तु साधकश्रेष्ठो भूतशुद्धिं समाचरेत् | मूलाधारात्ततः प्राणं ब्रह्ममार्गेण तान्त्रिकः || १७२ || हंसेन पुष्करस्थाने परमात्मनि योजयेत् | संहारक्रमयोगेन पञ्चतत्त्वं समुद्धरेत् || १७३ || शोषदाहप्लवान् कृत्वा वायवग्निसलिलाक्षरैः | अनेन विधिना मन्त्री भूतशुद्धिं समाचरेत् || १७४ || स्वदेहे देवताजीवन्यासः आत्मानं देवतारूपं विभाव्य साधकोत्तमः | स्वदेहे देवताजीवं विन्यसेत्तदनन्तरम् || १७५ || पुष्पैर्वानामया वापि मनसा वा न्यसेद्बुधः | जीवन्यासे मनुः प्रोक्तो जीवन्यासेषु योजयेत् || १७६ || जीवन्यसमन्त्रः मुखवृत्तं समुच्चार्य हंसस्तु विपरीतकः | क्रमात् प्राणा इह प्राणास्तथा जीव इह स्थितः || १७७ || अमुष्याः सर्वेन्द्रियाणि भूयोऽमुष्याः पदन्ततः | वाङ्मनोनयनश्रोत्रघ्राणप्राणपदान्यथ || १७८ || पश्चादिहागत्य सुखं चिरं तिष्ठन्तु ठद्वयम् | अथवा पाशबीजञ्च लज्जा चाङ्कुशमेव च || १७९ || प्राणमन्त्रं ततः पश्चाच्छेषं पूर्ववदाचरेत् | जीवन्यासमनुः प्रोक्तो जीवन्यासेषु योजयेत् || १८० || ततः कुर्यात् स्वकल्पोक्तं न्यासादिकं सुसाधकः | षडङ्गानाञ्च मुद्राञ्च स्थानञ्च मन्त्रमुच्यते || १८१ || त्रिद्व्येकदशरात्रिद्विसंख्याङ्गुलिगतक्रमात् | हृदि मस्ते शिखायाञ्च कवचे लोचनास्त्रके || १८२ || नमः स्वाहा वषट् हुञ्च वौषट् फट् योजयेत् क्रमात् | ऋषिश्छन्दश्च संयुक्तं देवताबीजशक्तिकम् || १८३ || कीलितं ङेयुतं सर्वं विन्यसेदेषु साधकः | शिरोवदनहृद्गुह्यपादसर्वाङ्गके न्यसेत् || १८४ || अङ्गषट्कं ततः कुर्यात् पूर्वोक्तेनैव वर्त्मना | पञ्चाशदक्षरन्यासे यद्विशेषस्तदुच्यते || १८५ || ललाटेऽनामिकामध्ये विन्यसेन्मुखवर्त्मके | तर्जनीमध्यमानामा वृद्धानामा च नेत्रयोः || १८६ || अङ्गुष्ठं कर्णयोर्न्यस्य कनिष्ठाङ्गुष्ठकौ नसोः | मध्यास्तिस्रो गण्डयोश्च मध्यमामोष्ठयोर्न्यसेत् || १८७ || अनामां दन्तयोर्न्यस्य मध्यमामुत्तमाङ्गके | मुखेऽनामां मध्यमाञ्च हस्ते पादे च पार्श्वयोः || १८८ || कनिष्ठानामिकामध्यास्तास्तु पृष्ठे च विन्यसेत् | ताः साङ्गुष्ठा नाभिदेशे सर्वाः कुक्षौ च विन्यसेत् || १८९ || हृदये च तलं पूर्वं अंशयोश्च ककुत्स्थले | हत्पूर्वं हस्तपत् कुक्षिमुखेषु तलमेव च || १९० || एतास्तु मातृकामुद्राः क्रमेण परिकीर्त्तिताः | अज्ञात्वा विन्यसेद्यस्तु न्यासः स्यात्तस्य निष्फलः || १९१ || पञ्चाशदक्षरन्यासः क्रमेणैव प्रकाशितः | ओमाद्यन्त्यो नमोऽन्तो वा सबिन्दुर्बिन्दुवर्जितः || १९२ || मायालक्ष्मीबीजपूर्वा न्यस्तव्या उच्यते बुधैः | अथवा केवलं सर्गबिन्दुयुक्तां कलान्विताम् || १९३ || तार्त्तीयरुद्रशक्त्यन्तां स्मरादिकेशरान्विताम् | शक्तिपूर्वां श्रिया युक्तां सुधास्यां वा तनौ न्यसेत् || १९४ || शक्तिश्रीकामबीजान्तां वेदादिशक्तिमातृकाम् | अजपा परमात्मा च द्विठप्रपञ्चयागकः || १९५ || रविसंख्यात्मिकां प्रोक्ता मातृकान्तस्वरूपिणीम् | यस्य यत्र रुचिर्गच्छेत्तद्रूपात्तत्तनौ च ताम् || १९६ || विन्यस्य तन्मयो मन्त्री याति वागीश्वरीमयम् | स्पृष्ट्वा वानामया वापि मनसा वा न्यसेद्बुधः || १९७ || ऋष्यादिव्यापकान्तञ्च स्वकल्पोक्तं समापयेत् | प्राणायामादिभिर्न्यासैः आत्मशुद्धिश्च जायते || १९८ || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये द्वितीयोल्लासः || २ || तृतीय उल्लसाआः अन्तर्यागनिरूपणम् आत्मशुद्धिं समाख्याता अन्तर्यागश्च कथ्यते | अन्तर्यागविधिं कृत्वा बहिर्यागं समाचरेत् || १ || बहिर्यागे नाधिकारी अन्तर्यागविवर्जितः | बहिर्यागफलं नास्ति विनान्तर्यजनं कदा || २ || तस्मात् प्रयत्नतो वीरश्चान्तर्यागं समारभेत् | मानसपूजाकथनम् शिवशक्तिसमायोगात् सुधावृष्टिं विधाय च || ३ || तर्पयित्वा महादेवीं पद्मे पद्मे सुसाधकः | मूलाधारे समानीय सोऽहं सञ्चिन्तयेत्ततः || ४ || इत्यन्तर्यजनं प्रोक्तं सर्वसिद्धिप्रदायकम् | यद्वान्तर्यजनं वक्ष्ये साधकस्य सुसिद्धये || ५ || स्वकीयहृदये ध्यायेत् सुधासागरमुत्तमम् | रत्नद्वीपं तु तन्मध्ये सुवर्णबालुकामयम् || ६ || परितो भावयेन्मन्त्री पारिजातं मनोहरम् | तत्र कल्पद्रुमं ध्यायेत् पञ्चाशदक्षरात्मकम् || ७ || तन्मूले भावयेन्मन्त्री नानारत्नोपशोभितम् | उद्यदादित्यसङ्काशं व्याप्तं ब्रह्माण्डमण्डलम् || ८ || शतयोजनविस्तीर्णं ज्योतिर्मन्दिरमुत्तमम् | चतुर्द्वारसमायुक्तं हेमप्राकारशोभितम् || ९ || बहुचामरघण्टादिवितानैरुपशोभितम् | मन्दवायुसमाक्रान्तं गन्धधूपैरलङ्कृतम् || १० || तन्मध्ये वेदिकां ध्यायेन्नानारत्नोपशोभितम् | सुवर्णसूत्ररचितं चिन्तयेच्छत्रमुत्तमम् || ११ || विभावयेन्महायन्त्रं पीयूषपूरपूरितम् | पाद्यपात्रत्रयं कुर्यादर्घ्यपात्रत्रयं तथा || १२ || षडाचमनपात्राणि मधुपर्कत्रयं ततः | एकं तु भोगपात्रं तु साधकः षोडशे दले || १३ || प्. ४९) सहस्रारामृतेनैव पात्राणि पूरयेत्तथा | पीठपूजां ततः कुर्यात् स्वकल्पोक्तविधान्तः || १४ || पीठपूजाविधानम् सर्वोपरि ततो ध्यायेत् पश्चिमाननपङ्कजम् | स्रवन्तममृतं नित्यं दिव्याङ्गकमलान्तरे || १५ || शिवशक्तिसमायोगादमृतानन्दनन्दिनीम् | स्वस्वरूपां समावाह्य परिवारगणैः सह || १६ || मानसपूजोपचाराः मानसैरुपचारैश्च दीयते द्रव्यमुत्तमम् | आसनं स्वागतं पृष्ट्वा कुशलं तदनन्तरम् || १७ || पाद्यं चरणयोर्दद्यान्मौलौ चार्घ्यं निवेदयेत् | सहस्रदलभृङ्गाराल्लम्बिकानालविच्युतम् || १८ || परमामृतपानीयं भावपुष्पैः समन्वितम् | स्वर्णपात्रे जलं कृत्वा दद्यादाचमनं मुखे || १९ || मधुपर्कं मुखे दद्यात् पुनराचमनीयकम् | प्. ५०) चतुर्विंशतितत्त्वेन गन्धं दद्याद्विचक्षणः || २० || स्वयम्भुकुसुमं दद्यात् कुङ्कुमं रक्तचन्दनम् | सप्ताष्टभावपुष्पैश्च संपूज्य धूपदीपकम् || २१ || मनःकल्पितनैवेद्यं दद्याद्देव्यै मनोरमम् | तर्पयेच्च त्रिधा देवीं यथोक्तविधिना ततः || २२ || षडङ्गं गुरुपङ्क्तिञ्च पूजयेदङ्गदेवताः | पूजयित्वा प्रयत्नेन स्नानीयं दापयेद्यथा || २३ || स्ववामे मण्डलं कृत्वा रत्नसिंहासनान्वितम् | तत्र देवीं समानीय नानागन्धसमन्वितम् || २४ || उद्वर्तनादिकं कृत्वा तैलं नारायणादिकम् | दत्त्वा देव्यै प्रयत्नेन स्नानीयं दापयेत्ततः || २५ || सुवर्णकोटिकुम्भैश्च गन्धतोयसमन्वितैः | नानातीर्थजलेनैव स्नापयेत् परदेवताम् || २६ || दुकुलैर्मार्जितं गात्रं दुकूलं परिधापयेत् | नयने तेजसस्तत्त्वं प्रोञ्छयेत्तेन वै तनुम् || २७ || आकाशतत्त्वं श्रोत्रे च तेन वस्त्रं प्रकल्पयेत् | विधिवद्वन्दनं कृत्वा केशसंस्कारमाचरेत् || २८ || प्. ५१) नानारत्नसमायुक्तकङ्कत्या साधकोत्तमः | पट्टगुच्छं केशपाशे नानारत्नसमाकुलम् || २९ || ललाटे तिलकं दद्यात् सिन्दूरं केशमध्यके | नागेन्द्रदन्तरचितं शङ्खं दद्यान्मनोहरम् || ३० || हस्ते केयूरकञ्चैव कङ्कणं कटकन्तथा | पादाङ्गुरीयकं दद्यान्नानारत्नोपशोभितम् || ३१ || पादयोर्नूपूरं दद्यात् कट्याञ्च क्षुद्रघण्टिकाम् | शिरोरत्नं प्रदद्याच्च मुकुटं रत्ननिर्मितम् || ३२ || ताटङ्ककुण्डलं कर्णभूषणं सुपरिष्कृतम् | नयने कज्जलं दद्यान्नासाग्रे गजमौक्तिकम् || ३३ || ग्रीवापत्रं कण्ठभूषां मुक्तामणिविभूषितम् | आनन्दहारत्रितयं अङ्गुरीयकरत्नकम् || ३४ || प्. ५२) सर्वाङ्गलेपनं कार्यं गन्धचन्दनसिह्लकैः | काञ्चनाञ्चितकञ्चूलीमलक्तं रदनच्छदे || ३५ || सुवर्णपादुकां दत्त्वा प्रवालदन्तचिह्निताम् | मण्डपेषु समानीय रत्ननिर्मितदोलया || ३६ || पुनः पाद्यादिकं दत्त्वा पूजयेत्तां सनातनीम् | गन्धादिकं ततो दत्त्वा भावपुष्पैः प्रपूजयेत् || ३७ || मानसपुष्पनामानि अमायमनहङ्कारमरागममदं तथा | अमोहकमदम्भञ्च अद्वेषाक्षोभकौ तथा || ३८ || अमात्सर्यमलोभञ्च दशपुष्पं विदुर्बुधाः | अहिंसा परमं पुष्पं पुष्पमिन्द्रियनिग्रहम् || ३९ || दयापुष्पं क्षमापुष्पं ज्ञानपुष्पञ्च पञ्चमम् | इति पञ्चदशैर्भावपुष्पैः संपूजयेच्छिवाम् || ४० || करवीरं जवा द्रोणं चम्पकं नागकेशरम् | अपराञ्च कदम्बञ्च पारिजातादिकं तथा || ४१ || दद्याद्देव्यै प्रयत्नेन माल्यं गन्धसमन्वितम् | सुमेखलां पद्ममालां पुष्पं नानाविधं तथा || ४२ || प्. ५३) सप्तद्वीपसमुद्भूतं दद्याद्देव्यै सुसाधकः | कुण्डगोलोद्भवञ्चैव धूपं दद्यात् समीरणम् || ४३ || सहस्रारकर्णिका पात्रं तैलं स्याच्च परामृतम् | मूलाधारे वर्त्तिरूपं चिदग्निः स्यात् प्रदीपकम् || ४४ || आमूलाद्ब्रह्मरन्ध्रान्तं सुषुम्नाहतवायुना | अनाहतध्वनिमयीं घण्टामेतां निवेदयेत् || ४५ || नैवेद्यं षड्रसोपेतमम्बरं चामरं तथा | सूर्यञ्च दर्पणञ्चन्द्रमण्डलं छत्रमुत्तमम् || ४६ || सुधाम्भोधिं मांसशैलं मत्स्यराशिं फलानि च | सुपक्वञ्चरुकञ्चैव घृताक्तं परमान्नकम् || ४७ || भक्ष्यभोज्यं तथा चोष्यं लेह्यं पेयञ्च चर्वणम् | दद्याच्छेषार्घ्यंतोयेन पुनराचमनीयकम् || ४८ || बाह्यचक्रं ततो दद्यान्मूलाधारोत्थवायुना | रजःसत्त्वगुणाढ्यञ्च कर्पूरचूर्णामिश्रितम् || ४९ || रत्नपात्रे परिष्कृत्य ताम्बूलञ्च निवेदयेत् | तर्पयित्वा पुनर्देवीं पूजयेच्चाङ्गदेवताः || ५० || विधाय तर्पणं तेषां देवीं संपूजयेत् पुनः | विधिवत् पूजनं कृत्वा तर्पयेत्तदनन्तरम् || ५१ || अन्तर्मातृकया जप्ता समर्प्य च स्तुतिं पठेत् | पुष्पशययाञ्च संस्कुर्यात्तत्र देवीं सुरेश्वरीम् || ५२ || मनोनर्त्तकतालैश्च शृङ्गारादिरसोद्भवैः | गीतैर्नानाविधैर्देवीं तोषयेत् साधकोत्तमः || ५३ || तस्मात् कामेश्वरी देवी प्रीता कामेश्वरश्च सः | मनस्यैक्यं विभाव्याथ साधकः सिद्धिभाग् भवेत् || ५४ || इत्यन्तर्यजनं प्रोक्तं भुक्तिमुक्तिप्रदायकम् | रक्तपद्मसहस्राणि मनसा यः प्रयच्छति || ५५ || कल्पकोटिसहस्राणि कल्पकोटिशतानि च | स्थित्वा देवीपुरे श्रीमान् ततो राजा क्षितौ भवेत् || ५६ || प्. ५५) मनसापि महादेव्यै नैवेद्यं दातुमिच्छति | यो नरो भक्तिसंयुक्तः स दीर्घायुः सुखीभवेत् || ५७ || मन्सापि च यो भक्त्या देव्यै कुर्यात् प्रदक्षिणम् | देवीगृहे वसेत् सोऽपि नरकाणि न पश्यति || ५८ || नमनं मनसा देव्यै यो भक्त्या कुरुते नरः | सोऽपि लोकान् विजित्याशु शिवलोके महीयते || ५९ || प्रकारान्तर्यजनम् अथान्तर्यजनं वक्ष्ये दृष्टादृष्टफलप्रदम् | गुरुध्यानं प्रकुर्वीत यथापूर्वं विशालधीः || ६० || स्नायाच्च विमले तीर्थे पुष्करे हृदयाश्रिते | बिन्दुतीर्थेऽथवा स्नायात् पुनर्जन्म न विद्यते || ६१ || इडासुषुम्ने शिवतीर्थकेऽस्मिन् ज्ञानाम्बुपूर्णे वहतः शरीरे | ब्रह्माम्बुभिः स्नाति तयोः सदा यः किं तस्य गाङ्गैरपि पुष्करैर्वा || ६२ || प्. ५६) इति स्नानं समुद्दिष्टमथ सन्ध्यां समाचरेत् | सन्ध्यानिरूपणम् शिवशक्त्योः समायोगो यस्मिन्काले प्रवर्तते || ६३ || सा सन्ध्या कुलनिष्ठानां समाधिस्थैः प्रगीयते | चन्द्रार्कानलसंघट्टाद्गलितं यत् परामृतम् || ६४ || तेनामृतेन दिव्येन तर्पयेत् परदेवताम् | तर्पणं कथितं दिव्यमर्घ्यसाधनमुच्यते || ६५ || ब्रह्मरन्ध्रादधोभागे यच्चान्द्रं पात्रमुत्तमम् | कलासारेण संपूर्य तर्पयेत्तेन खेचरीम् || ६६ || प्रसङ्गतः षट्चक्रकथनम् आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदले द्वादशार्द्धे चतुष्के | वासान्ते बालमध्ये डफकठसहिते कण्ठदेशे स्वरांश्च हक्षौ कोदण्डमध्ये न्यसतु विमलधीर्न्याससम्पत्तिसिद्धौ || ६७ || प्. ५७) इत्यन्तर्मातृकावर्णान् ध्यायेत् कण्ठच्छदक्रमात् | षडङ्गमथ कुर्यात्तु येन देवीमयो भवेत् || ६८ || हन्यमानहृदर्थोऽयं हृदयं स्याच्चिदात्मकम् | क्रियते तत् परत्वेन हृन्मन्त्रेण ततः परम् || ६९ || सर्वाङ्गादिगुणोत्तुङ्गे सम्विद्रूपे परात्मनि | क्रियते विषयाहारः शिरोमन्त्रेण देशिकैः || ७० || हृच्छिवो रूपं चिद्धाम ममता भावना दृढा | क्रियते निजदेहस्य शिखामन्त्रेण देशिकैः || ७१ || मन्त्रात्मकस्य देहस्य मन्त्रवाच्येन तेजसा | सर्वतो मन्त्रवर्णेन क्रियते तस्य संवृतिः || ७२ || प्. ५८) यद्ददाति परं ज्ञानं संविद्रूपे परात्मनि | हृदयादिमयं तेजः स्यादेतन्नेत्रसंज्ञितम् || ७३ || आध्यात्मिकादिरूपं यत् साधकस्य विनाशयेत् | अविद्याजातमन्त्रं तत् परं धाम समीरितम् || ७४ || इति न्यासं विधायाथ ततो ध्यायेच्चिदात्मकम् | शक्तिद्वयपुटान्तःस्थहलक्षत्रयसंस्थितम् || ७५ || ज्योतिन्तत्त्वमयं ध्यायेत् कुलाकुलनियोजनात् | अथ शृङ्गाटमध्यस्थशक्तिद्वयपुटीकृतम् || ७६ || सदा समरसं ध्येयं ध्यानं तत् कुलयोगिनाम् | (यद्वा) किरणस्थं तदग्रस्थं चन्द्रभास्करमध्यगम् || ७७ || महाशून्ये लयं कृत्वा पूर्णस्तिष्ठति योगिराट् | निरालम्बे पदे शून्ये यत्तेज उपजायते || ७८ || तद्गर्भमभ्यसेन्नित्यं ध्यानमेतद्धि योगिनाम् | अथ पूजां प्रवक्ष्यामि यथातन्त्रानुसारतः || ७९ || भगवती पूजाविधि अर्चयन् विषयैः पुष्पैस्तत्क्षणात्तन्मयो भवेत् | न्यासस्तन्मयताबुद्धिः सोऽहंभावेन पूजयेत् || ८० || पूर्वोक्तभावपुष्पानि दद्याद्देव्यै सुसाधकः | अथ वक्ष्ये जपं तत्र पद्मस्थवर्णमालया || ८१ || जपविधानम् माला पञ्चाशिका प्रोक्ता सूत्रं शक्तिशिवात्मकम् | ग्रथिता कुण्डलीशक्तिः कलान्ते मेरुसंस्थितिः || ८२ || सबिन्दुं वर्णमुच्चार्यय मूलमन्त्रं स्मरेत्ततः | अनुलोमविलोमाभ्यां यथाशक्ति जपञ्चरेत् || ८३ || जप्त्वा समर्पयेत् पश्चात् स्वकल्पोक्तविधानतः | स्तुतिभिः सकलं तत्र समर्पणं पुनः पुनः || ८४ || होमविधिकथनम् अथ होमविधिं वक्ष्ये येन चिन्मयतां लभेत् | आत्मानमपरिच्छिन्नं ज्ञातव्यं साधकोत्तमैः || ८५ || प्. ६०) आत्मान्तरात्मपरमज्ञानात्मानः प्रकीर्तिताः | एतद्रूपन्तु चित् कुण्डं चतुरस्रं विभावयेत् || ८६ || आनन्दमेखलारम्यं बिन्दुत्रिबलयान्वितम् | अर्धमात्रायोनिरूपं ब्रह्मानन्दमयं भवेत् || ८७ || परदेवमये सर्वज्ञानदीपविजृम्भिते | सम्विदग्नौ हुनेद्धव्यं साधकः स्थिरमानसः || ८८ || शब्दाख्यं मातृकारूपमक्षवर्णविराजितम् | अक्षराणि हुतान्यत्र निःशब्दं ब्रह्म जायते || ८९ || कृत्याकृत्ये पापपुण्ये सङ्कल्पांश्च विकल्पकान् | धर्माधर्मौ साधकेन्द्रो हविस्त्वेन प्रकल्पयेत् || ९० || मानसहोमः चिदग्नौ जुहुयान्मन्त्री मूलान्तेन यथाक्रमात् | नाभिमण्डलचैतन्यरुपाग्नौ मनसा श्रुचा || ९१ || ज्ञानप्रदीपिते नित्यमक्षवृत्तीर्जुहोम्यहम् | वह्निजायान्तमन्त्रेण दद्याच्च प्रथमाहुतिम् || ९२ || धर्माधर्महविर्दीप्त आत्माग्नौ मनसा श्रुचा | सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यमहम् || ९३ || वह्निजायान्तमन्त्रेण द्वितीयाहुतिमाचरेत् | प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीश्रुचा || ९४ || धर्माधर्मौ कलास्नेहपूर्णवह्नौ जुहोम्यहम् | वह्निजायान्तमन्त्रेण तृतीयामाहुतिञ्चरेत् || ९५ || अन्तर्निरन्तरनिबन्धनमेधमाने मायान्धकारपरिपन्थिनि सम्विदग्नौ | कस्मिंश्चिदद्भुतमरीचिविकाशि भूमौ विश्वं जुहोमि वसुधादिशि वावसानम् || ९६ || इदन्तु पात्रभरितं महोत्तापपरामृतम् | पूर्णाहुतिमये वह्नौ पूर्णहोमं जुहोम्यहम् || ९७ || इत्यन्तर्यजनं कृत्वा साक्षाद्ब्रह्ममयो भवेत् || ९८ || महान्तर्यजनं वक्ष्ये ब्रह्मयज्ञस्वरूपकम् || ९९ || महान्तर्यजनम् ब्रह्मयज्ञं महायज्ञं ब्रह्मज्ञानी यजेत् सदा | मनसा च मनो दृष्ट्वा यथा सिन्धुगता नदी || १०० || तथा सर्वशरीराणि महाशून्ये नियोजयेत् | यज्ञकर्त्ता महायोगी सर्वमन्त्रं जपेत् पुनः || १०१ || प्. ६२) आत्मस्थः सर्वयज्ञस्तु बहिर्यज्ञविवर्जितः | कर्मयज्ञो मनोयज्ञः प्राणयज्ञो हुताशनः || १०२ || मन्त्रयज्ञः सुषुम्नान्तः सर्वयज्ञफलं लभेत् | ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् || १०३ || ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना | ब्रह्मवत् सर्वमार्गेषु सर्वकर्म समभ्यसेत् || १०४ || बहिर्यागविधानम् अथ वक्ष्ये बहिर्यागविधानं तन्त्रवर्त्मना | एषामन्यतमं कृत्वा यन्त्रराजं समालिखेत् || १०५ || चक्रराजलेखनविधिः स्वार्णे वा राजते ताम्रे पाषाणे चाष्टधातुषु | (यद्वा) गण्डकीतीरपाषाणे तथैव रुचिपीठके || १०६ || श्रीखण्डसम्भवे पीठे रक्तचन्दनसम्भवे | यद्वा सुवर्णरूप्यादौ ताम्रे वा दर्पणे तथा || १०७ || काश्मीरप्रभवे भूमौ यन्त्रं कुर्याद् यथाविधि | गोमयेन च संलिप्ते भूप्रदेशे मनोरमे || १०८ || सिन्दूररजसा वापि रक्ताभिः कुङ्कुमस्य वा | (यद्वा) शुद्धे समे भूर्जपत्रे अथवान्ये ताम्रपट्टके || १०९ || शुष्के समे भूगृहे वा स्फटिके स्वर्णपट्टके | रत्ने वा कुलशक्तौ वा यन्त्रं कुर्यात् सुसाधकः || ११० || पट्टालकं बिलिप्येत वक्षमाणैकवस्तुना | स्वयम्भु कुसुमं कुण्डगोलोत्थं रोचनागुरुं || १११ || काश्मीरं मृगनाभिञ्च मद्यञ्च मलयोद्भवम् | एष गन्धः समाख्यातः सर्वदा चण्डिकाप्रियः || ११२ || एतेन गन्धयोगेन चक्रराजं समालिखेत् | (यद्वा) स्वयम्भुकुसुमेनैव कुण्डगोलेन वा पुनः || ११३ || तदा तस्य सर्वसिद्धिर्जायते नात्रसंशयः | (यद्वा) चन्दनागुरुचन्द्रेण सिन्दूररजसापि वा || ११४ || कस्तूरीघुसृणैर्द्रव्यै रोचनालाक्षयापि वा | (यद्वा) कुण्डगोलोद्भवैर्द्रव्यैः स्वयम्भुकुसुमेन च || ११५ || प्. ६४) रोचनालाक्षया युक्तैः कुङ्कुमागुरुचन्दनैः | सुवर्णरत्न लेखन्या सर्वकार्यार्थसिद्धये || ११६ || (यद्वा) पुष्पेण विलिखेद्वापि यन्त्रराजं सुसाधकः | चन्द्रसूर्यातपं या वा अथवा बिल्वकण्टकैः || ११७ || चन्द्रसूर्यातपहोमोद्भवया विल्वकण्टकैः | एषामेकतमं लब्धा स्वीययन्त्रं समुद्धरेत् || ११८ || सार्धत्रिकोटितीर्थेषु स्नात्वा यत् फलमाप्नुयात् | तत् फलं लभते वीरः कृत्वेष्टचक्रदर्शनम् || ११९ || नालोच्य कुलजं वर्त्म न ज्ञात्वा सूत्रधारणं | न ज्ञात्वा सुषमां रेखां नालिख्य सुषमं मुखं || १२० || तस्य सर्वं हरेद्देवो योऽस्मिन् यन्त्रे प्रपूजकः | अथ वक्ष्ये च शाक्तानां सामान्यं यन्त्रमूत्तमम् || १२१ || सामान्ययन्त्रनिर्माणविधिः यत्रापराजितापुष्पं जवापुष्पञ्च विद्यते | करवीरे रक्तशुक्ले द्रोणे वा यन्त्रराजके || १२२ || तत्र देवी वसेन्नित्यं तद्यन्त्रे चण्डिकार्चनं | पशोरालोकनं न स्यात्तथा कुर्यात् प्रयत्नतः || १२३ || यदि दैवात् पशोरग्रे लिखनं विद्यते क्वचित् | देव्यङ्गक्षतिरेवात्र क्रियते पापबुद्धिना || १२४ || उत्तराशामुखो भूत्वा यदा चक्रं समुद्धरेत् | उत्तराशा तदा सापि पूर्वाशैव न संशयः || १२५ || प्. ६६) ईशकोणं तदेव स्यादाग्नेयञ्च न संशयः | पश्चिमाशामुखो मन्त्री यथाचक्रं समुद्धरेत् || १२६ || पश्चिमाशा तदा ज्ञेया पूर्वाशैव न संशयः | वायुकोणं तदाग्नेयमीशानं राक्षसं भवेत् || १२७ || दक्षिणाभिमुखो मन्त्री यदा चक्रं समुद्धरेत् | पूर्वाशैव तदा सा दिक् रक्षःकोणन्तु वह्निकम् || १२८ || पूर्वाशाभिमुखो भूत्वा यदा चक्रं समुद्धरेत् | पूर्वाशापि तदा ज्ञेया पूर्वाशैव न संशयः || १२९ || आग्नेयञ्च तथाग्नेयं ईशकोणञ्च ईशकम् | यदाशाभिमुखो मन्त्री पूजयेच्चण्डिकां शुभाम् || १३० || पूर्वाशैव सा विज्ञेया साधकेन महात्मना | देवीपश्चात् प्रतीची स्यात् प्राची तु चण्डिकापुरः || १३१ || अन्येषाञ्चैव देवानां विधिश्चात्र प्रकथ्यते | पूज्यपूजकयोरन्तः पूर्वाशैव निगद्यते || १३२ || लिखित्वा पुरतो यन्त्रं स्थापयेदासनोपरि | सीसके कांश्यपात्रे वा रङ्गे वा साधकोत्तमः || १३३ || फलकायां पटे भित्तौ स्थापयेन्न कदाचन | स्थापितं यदि लोभेन मोहेनाज्ञानतोऽपि वा || १३४ || कुलं वित्तमपत्यञ्च निर्मूलं याति सर्वथा | पुष्पं तत्र विनिक्षिप्य गन्धचन्दनसंयुतम् || १३५ || अशून्यं स्थापयेच्चक्रं शून्ये विघ्नसमो भवेत् | स्वकल्पोक्तविधानेन देवीं ध्यात्वा सुसाधकः || आत्माभेदेन संभाव्य पुष्पं दद्यात् स्वमूर्द्धनि || १३७ || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये तृतीयोल्लासः || ३ || चतुर्थ उल्लासः मन्त्रविधानम् अथ वक्ष्ये च मन्त्राणां विधानं यत्र यद्भवेत् | देवताभेदे वामदक्षिणभेदेन पूजाविधिः बालां वा त्रिपुरां देवीं सव्यां वाप्यथ भैरवीम् || १ || कामेश्वरीञ्च कामाख्यां पूजयेच्च यथेच्छया | दाक्षिण्याद्वामभावाद्वा सर्वथा सिद्धिमाप्नुयात् || २ || महामायां शारदाञ्च शैलपुत्रीं तथाम्बिकाम् | यथा तथा प्रकारेण वामदक्षिणतो यजेत् || ३ || श्मशानभैरवीं कालीं उग्रताराञ्च पञ्चमीम् | उच्छिष्टभैरवीञ्चैव तारां त्रिपुरसुन्दरीम् || ४ || उन्मुखीञ्चैव दुर्गाञ्च मर्दिनीं स्वप्नबोधिनीम् | एतास्तु वामभावेन पूज्या दक्षिणतां विना || ५ || सिद्धिर्न जायते दक्षाल्लक्षजन्म यजेद् यदि | वामात् सर्वसमृद्धिः स्याद्देव्याः प्रियतरो भवेत् || ६ || दक्षिणेन लभेच्छापं मृते नरकमाप्नुयात् | ब्रह्मापि च भवेद्वामो विष्णुश्चैव सदाशिवः || ७ || विष्णोश्च वामिका मूर्त्तिर्नारसिंहान्वयो भवेत् | सा तु दक्षिणवामाभ्यां पूजनीया प्रयत्नतः || ८ || तथैव बालगोपालमूर्त्तिर्या परमात्मनः | मत्स्यमांसासवाभोगी लोलुपः स्त्रीषु सर्वदा || ९ || गणेशोऽपि च वेतालः कथितो वामनायकः | भैरवोऽपि भवेद्वामस्तथान्ये देवतादयः || १० || एतास्तु वामभावेन पूजनीया विशेषतः | अन्याश्च चण्डिकादेव्या बालिकामूर्तयः स्मृताः || ११ || लक्ष्म्याद्या वामिकामूर्ती रक्ता च दशभैरवी | वाग्भवी च सरस्वत्या बालिकामूर्तिरीरिता || १२ || वामभावेन सिद्धिः स्याद्दाक्षिण्येन विना कदा | पूजकोऽपि भवेद्वामस्तथैव सततं गुरुः || १३ || यजेच्च मांसमत्स्येन मैथुनाद्यैर्विशेषतः | महाभैरवरूपेण तथा च रतिसङ्गमे || १४ || नान्यथा जायते सिद्धिर्मन्त्राणाञ्च सुनिश्चितम् | अथातः संप्रवक्ष्यामि पञ्चतत्त्वविनिर्णयम् || १५ || पञ्चतत्त्वविधानम् अथ वक्ष्ये च पञ्चानां विधानं तन्त्रवर्त्मना | पञ्चामात्तु परं नास्ति शाक्तानां सुखमोक्षयोः || १६ || केवलैः पञ्चमैरेव सिद्धो भवति साधकः | केवलेनाद्ययोगेन साधको भैरवो भवेत् || १७ || द्वितीयेन च तत्त्वेन पूजको ब्रह्मरूपभाक् | केवलेन तृतीयेन महाभैरवतां व्रजेत् || १८ || चतुर्थेन तु तत्त्वेन भुवि पूजकनायकः | परेण परतां याति शिवतुल्यः स साधकः || १९ || प्. ७१) पञ्चमेन भवेद्भोगी सर्वसिद्धिपरायणः | यस्य भवेद्यदा नित्यं पञ्चतत्त्वस्य सम्भवः || २० || पञ्चतत्त्वे भवेद्वीरः शिववन्द्यः स साधकः | पञ्चतत्त्वविहीना पूजा निष्फला पञ्चमेन विना देवीं पञ्चमीं पूजयेत्तु यः || २१ || स तु स्याड्डाकिनीभोग्यो नारकी ब्रह्मघातकः | अन्यमूर्तेस्तु दुर्गायाः पञ्चमेन विना सदा || २२ || निश्चितं नैव सिद्धिः स्याज्जपहोमाश्च तर्पणात् | तद्विहीनस्य या पूजा जपं वा तर्पणं पुनः || २३ || रौरवाय भवत्येव तस्य भ्रष्टस्य निश्चितम् | चण्डिकां पूजयेद्यस्तु विना पञ्चमकारकैः || २४ || चत्वारि तस्य नश्यन्ति आयुर्विद्या यशोधनं | मकारपञ्चकं चैव देवताप्रीतिकारकम् || २५ || पञ्चमेन तु वीरेन्द्रः सर्वपापैः प्रमुच्यते | मद्यं मांसं तथा मत्स्यं मुद्रा मैथुनमेव च || २६ || मकारपञ्चकं देवि देवताप्रीतिदायकम् | विना पञ्चोपचारं हि देवीपूजां करोति यः || २७ || योगिनीनां भवेद्भक्ष्यः पापञ्चैव पदे पदे | प्. ७२) विना मांसेन मद्येन ना से नं श्च वि ली व पुम् || २८ || न मन्त्रसिद्धिमाप्नोति तस्माद् यत्नपरो भवेत् | प्रमादाद्यदि लुप्येत देवताशापमाप्नुयात् || २९ || यथाविधि यजेद्देवीं मकारपञ्चकैः सदा | तृप्त्यर्थं सर्वदेवानां तत्त्वज्ञानोद्भवाय च || ३० || मद्यादिलक्षणविधानम् तेषाञ्च लक्षणं वक्ष्ये शोधनञ्च क्रमेण तु | मद्यस्य लक्षणं वक्ष्ये साधकानां हिताय च || ३१ || सत्ये क्रमाच्चतुर्वर्णैः क्षीराज्यमधुपिष्टकैः | त्रेतायां पूजिता देवी घृतेन सर्वजातिभिः || ३२ || मधुभिः सर्ववर्णैश्च पूजिता द्वापरे युगे | पूजनीया कलौ देवी केवलैरासवैश्च तैः || ३३ || चतुर्युगेषु संपूज्या तुरीयैरासवैः सदा | तत्तु नानाविधं द्रव्यं कथ्यते तन्त्रवर्त्मना || ३४ || वार्क्षं गौडं तथा पौष्पं क्षौद्रं फलसमुद्भवम् | प्. ७३) सर्वोत्कृष्टन्तु विज्ञेयं द्रव्यमन्नेन सम्भवम् || ३५ || (अथवा) पत्रपुष्पाङ्कुरफलमूलवल्कलधान्यजम् | रसं वृक्षलताजातमैक्षवं दशविधं स्मृतम् || ३६ || पानसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् | मधूत्थं सीधु माध्वीकं मैरेयं नारिकेलजम् || ३७ || मद्यान्येकादशैतानि भुक्तिमुक्तिकराणि च | द्वादशन्तु सुरामद्यं सर्वेषामुत्तमोत्तमम् || ३८ || मधुपुष्परसोद्भूतमासवं तण्डुलोद्भवम् | सर्वसिद्धिकरी पैष्टी गौडी भोगप्रदायिणी || ३९ || माध्वी मुक्तिकरी प्रोक्ता खार्जूरी रिपुनाशिनी | नारिकेलोद्भवा श्रीदा ऐक्षवं सुखवर्द्धनम् || ४० || अन्यत्रापि गौडी पिष्टकजाततालतरुजा द्राक्षी च माध्वी तथा खार्जूरी नवनारिकेल तरुजा गौडी च भोगप्रदा | पैष्टी सिद्धिकरी विपक्षदलनी ताली च द्राक्षी शुभा अन्या या विहिता सदा शुभकरी मोक्षप्रदाः सप्तिकाः || ४१ || प्. ७४) अपक्वैश्च सुपक्वैश्च द्रव्यैरमृतसन्निभैः | तर्पणं परमेशान्याः सर्वकामफलप्रदम् || ४२ || पञ्चशुद्धिविधानम् आत्मस्थानमनुद्रव्यदेहशुद्धिञ्च पञ्चमीम् | यावन्न कुरुते मन्त्री तावद्देवार्चनं कुतः || ४३ || असंस्कृतं पिबेद् द्रव्यं बलात्कारेण मैथुनम् | स्वप्रियेण हतं मांसं रौरवं नरकं व्रजेत् || ४४ || संशोधनमनाचर्य स्त्रीषु मद्येषु साधकः | कृतेऽपि सिद्धिहानिः स्यात् क्रुद्धा भवति चण्डिका || ४५ || सुराशोधनकथनम् तस्मात् संशोधनं वक्ष्ये यथा तन्त्रानुसारतः | वामभागे च षट्कोणं तन्मध्ये ब्रह्मरन्ध्रकम् || ४६ || तद्बाह्ये मण्डलं कृत्वा चतुरस्रं समालिखेत् | सामान्यार्घ्यजलेनैव प्रोक्षयेन्मण्डलं ततः || ४७ || प्. ७५) अभ्यर्च्याधारशक्तिञ्च कुम्भस्याधारमास्तरेत् | तत्र संपूजयेद्वह्निमण्डलं तदनन्तरम् || ४८ || कुम्भनिर्माणविधिः तत्र संस्थापयेत् कुम्भं सौवर्णं राजतं तथा | ताम्रं भूमिमयंवापि यद्वा लौहविवर्जितम् || ४९ || सौवर्णं भोगदं प्रोक्तं राजतं मोक्षदं भवेत् | कांस्यं शान्तिकरञ्चैव मृण्मयं पुष्टिदं तथा || ५० || पञ्चाशदङ्गुलायाम उत्सेधः षोडशाङ्गुलः | कलसानां प्रमाणं तु मुखमष्टाङ्गुलं भवेत् || ५१ || एषामेकतमं कुम्भं अस्त्रेण क्षालितं ततः | आधारे स्थापयित्वा तु पूजयेत् सूर्यमण्डलम् || ५२ || ततश्च कारणैर्दिव्यैः पूरयेन्मूलमुच्चरन् | भूषयेद्रक्तपुष्पेण रक्तमाल्येन साधकः || ५३ || प्. ७६) रक्तवस्त्रेण संवेष्ट्य लेपयेद्रक्तचन्दनैः | सोममण्डलमभ्यर्च्य अमृतं परिभाव्य च || ५४ || चतुरस्रादिका पञ्चमुद्राः विभावयेत्ततो द्रव्यमिष्टदेवस्वरूपकम् | प्रणमेद्भक्तिभावेन मुद्राभिः पञ्चसंज्ञकैः || ५५ || अधोमुखौ समौ कृत्वा भूमौ पाणितलद्वयम् | सकलाङ्गुलिभिः सम्यङ्मुद्रेयं चतुरस्रिका || ५६ || अधोमुखं मुष्टियुग्मं संवृत्तं परिकीर्त्तितम् | अन्योन्याभिमुखौ हस्तौ पुटाकारेण कारयेत् || ५७ || संपुटाख्यमहामुद्रा योजिता नतिकर्मणि | एतस्या एव मुद्रायाः कनिष्ठामूलदेशके || ५८ || अङ्गुष्ठौ च क्षिपेत्तत्र संपुटाञ्जलिरीरिता | मध्यमे सरले कृत्वा तर्जन्युपरि संस्थिते || ५९ || अनामिकामध्यगते तथैव हि कनिष्ठिके | सर्वा एकत्र संयोज्य अङ्गुष्ठपरिपीडिता || ६० || एषा तु परमा मुद्रा योनिमुद्रा प्रकीर्तिता | पञ्चमुद्रामन्त्रकथनम् ह्रां नमश्चतुरस्रं स्यात् ह्रीं नमः संवृतस्तथा || ६१ || क्लां नमः संपुटं ज्ञेयं ब्लुं नमः संपुटाञ्जलि | सः नमो योनिमुद्रा स्यात् पञ्चमुद्राः प्रकीर्तिताः || ६२ || भक्त्या विलोकयेद्द्रव्यं मूलमन्त्रं समुच्चरन् | प्रणवं वरुणं सेन्दु वामदेवञ्च ङेयुतम् || ६३ || वौषडन्तं समुच्चार्य पूजयेत् यन्त्रमुत्तमम् | विषं कूर्चं ततः पशुपतये तदनन्तरम् || ६४ || अस्त्राय वर्मबीजञ्च फट्कारान्तः परो मनुः | अनेनादौ प्रपूज्यैव पथिकस्य बलिं हरेत् || ६५ || त्रिकोणवृत्तभूगेहं लिखेत् कुम्भसमीपतः | सिन्दूरकुङ्कुमाभ्याञ्च सर्वपथिकदेवताः || ६६ || तत्र संपूजयित्वा च बलिं दद्यात्ततः परम् | सहेतुं सामिषान्नञ्च निधाय मनुमुद्धरेत् || ६७ || मायां लक्ष्मीं समुद्धृत्य सर्वपथिकदेवता | भ्यो हृन्मनुं समुच्चार्य अनेनोत्सृज्य साधकः || ६८ || उद्धृत्य वामहस्तेन भ्रामयेत् कलशोपरि | ततः क्षिप्त्वा बहिःस्थाने मूलमन्त्रं समुच्चरन् || ६९ || विकारहारिणीमन्त्रोद्धरः. धूपयित्वा ततो द्रव्यं विकारान्नाशयेत्ततः | मायां लक्ष्मीं पशुद्वन्द्वं सेन्दु दीर्घद्वयान्वितम् || ७० || छुरिका मेति शोभिनि विकारानस्य चान्तरम् | द्रव्यस्य हरयुग्मञ्च द्विठान्तं प्रजपेन्मनुम् || ७१ || विकारहारिणीं जप्त्वा चतुर्धा शोधनञ्चरेत् | अस्त्रेण ताडनं कुर्याद्वर्मणाभ्युक्षणं ततः || ७२ || मूलेन वीक्षणं कृत्वा प्रोक्षयेद्धृदयेन तु | मूलेन गन्धमादाय बहन्नासापुटे त्रिधा || ७३ || द्रव्यमध्ये लिखेद्योनिं तन्मध्ये च हसौर्लिखेत् | ह्सौः सहौः नमोनतेन पूजयेत् कुम्भमध्यके || ७४ || आनन्देश्वरगायत्रीविध्हनम् वाङ्माया कमला प्रोक्त्वा आनन्देश्वराय विद्महे | सुधादेव्यै धीमहीति तन्नोऽर्धनारीश्वरेति च || ७५ || प्रचोदयादिति जपेद् गायत्रीं दशधा सुधीः | ब्रह्मशापविमोचनमन्त्रोद्धारः मायावह्नियुतं कामं रतिबिन्दुसमन्वितम् || ७६ || परमस्वामिनि पदं परमाकाश शून्य च | वाहिनि चन्द्रतः प्रान्ते सूर्याग्निभक्षिणीत्यपि || ७७ || पात्रं विश पदान्ते तु विश स्वाहा ततः परम् | त्रिधा च प्रजपेन्मन्त्रं ब्रह्मशापं विमोचयेत् || ७८ || वेदादि वारुणं बीजं षड्दीर्घस्वरभेदितम् | ब्रह्मशापपदस्यान्ते विमोचिताञ्च ङेयुताम् || ७९ || सुधादेव्यै नमोऽन्तञ्च दशधा प्रजपेन्मनुम् | मायां लक्ष्मीं क(म)दं सेन्दुं षड्दीर्घस्वरवह्निमत् || ८० || कृष्णशापविमोचनमन्त्रोद्धारः सुधाकृष्णस्वरूपान्ते शापं मोचय तत् परम् | अमृतं स्रावयद्वन्द्वं द्विठान्तं मनुमुत्तमम् || ८१ || दशधा परिसंजप्य कृष्णशापविमुक्तये | शुक्रशापविमोचनमन्त्रोद्धारः विषं बिन्दुयुतं वान्तं दीर्घषट्कसमन्वितम् || ८२ || शुक्रशापपदं प्रोच्य विमोचितां तु ङेयुताम् | सुधादेव्यै हृदन्तञ्च दशधा सञ्जपेन्मनुम् || ८३ || अथवान्यप्रकारेण शुक्रशापं विमोचयेत् | मायां कामेश्वरीं वाचं अमृते अमृतोद्भवे || ८४ || अमृतवर्षिणि प्रोक्त्वा कामबीजं ततोऽमृतम् | स्रावयद्वितयं शक्तिबीजं भार्गवमुद्धरेत् || ८५ || शापञ्च मोचय प्रोक्त्वा ज्ञानं देहि ततो वदेत् | सिद्धिसामर्थ्यमाभाष्य दहयुग्मं महापदं || ८६ || खेचरीपदतो मुद्रां तथा प्रकटयद्वयम् | अस्त्राय फट् द्विठान्तञ्च उद्धृत्य दशधा जपेत् || ८७ || प्. ८१) अथवान्यत् प्रवक्ष्यामि शापत्रयविमोचनम् | सुराणाममृतं पूर्वं बलदेवेन धीमता || ८८ || समानीता प्रयत्नेन पानार्थं वारुणी सुरा | दत्तात्रयेण मुनिना शुक्रेण च महात्मना || ८९ || धीमता बलभद्रेण पुरा पीतोत्थितार्णवात् | वारत्रयन्तु संजप्य पठेदन्यतमं मनुम् || ९० || शिवशक्तियुतां वाणीं वरुणं क्षितिसंयुतम् | षड्दीर्घस्वरसम्भिन्नं नादबिन्दुविभूषितम् || ९१ || अमृते अमृतोद्भवे अमृतवर्षिणीति च | सुराशुक्रशापं प्रोच्य मोचयद्वितयं ततः || ९२ || अमृतं स्रावयद्वन्द्वं स्वाहा शापहरो मनुः | दशधा परिसञ्जप्य शापत्रयं विमोचयेत् || ९३ || त्रिशापमोचनीं जप्त्वा प्रकाशयुक्तां ततो जपेत् | मायां लक्ष्मीं ततो वाचं अमृते अमृतोद्भवे || ९४ || अमृतवर्षिणि प्रोच्य महाप्रकाशयुक्तेऽपि च | द्विठान्तञ्च समुच्चार्य उच्चरेत् कुब्जिकान्ततः || ९५ || कुब्जिकामन्त्रोद्धारः प्रेतबीजं समुच्चार्य हसक्लीं हसरीं तथा | हसखफ्रेञ्च हसरीं भगवति ततो वदेत् || ९६ || अनुग्रहो हसप्रान्ते कुब्जिकेऽपि ततः परम् | सहखफ्रें युगं प्रोच्य सनोरेव ततो वदेत् || ९७ || घोरखप्राञ्च खसप्रीञ्च किलद्वयसमन्वितम् | विच्चोऽपि हसखान्न्ञ्च हसखब्लेञ्च हसरीं || ९८ || शिवशक्तिद्वयान्ते च मायां हस्रें ततो वदेत् | अनेन मनुना मन्त्री अमृतं परिचिन्तयेत् | तिरस्कारिणीं ततो ध्यायेत् पशुपाश विनाशिनीम् || ९९ || तिरस्करिणीविद्याध्यानम् नीलं हयं समधिरुह्य पुरः प्रयान्तीं नीलांशुकाभरणमाल्यविलेपनाढ्याम् | निद्रापुटेन भुवनानि तिरोदधानां खड्गायुधा भगवती परिपातु भक्तान् || १०० || एवं ध्यात्वा जपेद्विद्याद्वयञ्च साधकोत्तम | मायां लक्ष्मीं समुद्धृत्य नमो भगवतीति च || १०१ || प्.८३) माहेश्वरि पदस्यान्ते सर्वपशुजनोद्धरेत् | मनश्चक्षुस्तिरस्करिणीं कुरुद्वन्द्वञ्च ठद्वयम् || १०२ || तिरस्करिणीविद्या निरूपणम् अन्यतिरस्करिणीं वक्ष्ये मायां कामेश्वरीं ततः | वाणीं ग्लैं तिरस्करिणि सकलेति जनेति च || १०३ || वाग्वादिनि पदस्यान्ते सकलपशु च ब्रुयात् | जनान्ते च मनश्चक्षुः श्रोत्रजिह्वापदन्ततः || १०४ || घ्रणोक्तिञ्च तिरस्कान्ते रिणीं कुरुद्वयं ततः | ठद्वयञ्च सर्गयुतं द्विठान्तोऽयं महामनुः || १०५ || त्रिधा जप्त्वा च वीरेन्द्रस्त्रिकोणे चिन्तयेत्ततः | हंसपीठे मन्त्रमये स्वगुरुं शिवरूपिणं || १०६ || अकथादित्रिपङ्क्त्या तु हलक्ष मध्यमण्डितम् | इति सञ्चिन्त्य तत्पश्चाद्द्रव्यशुद्धिं समाचरेत् | अथवान्यप्रकारेण द्रव्यशुद्धिं समाचरेत् || १०७ || हंसवती ऋक् ओं हंसः शुचिसद्वसुरन्तरीक्षसद्धोता वेदिसदतिथिर्दुरोणसत् | नृसद्वरसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् || १०८ || ऐं तृप्तोद्भवसिद्धोद्भव-सर्वज्ञोद्भव-सर्वजनकोद्भवाय अमृताय अमृतनाथाय प्. ८४) अमृतकुलकुम्भाय ऐं फ्रें चल चल पिव पिव कुलकुण्डलिनि अमृतकुण्डलिनि अमृतं द्रव द्रव निर्झर निर्झर ऐं ह्रीं कुलकुण्डलिनि अमृतं कुरु कुरु स्वाहा || १०९ || प्रथमं प्रणवं हंसः शुचीति तदनन्तरम् | सद्वसुरन्तरीक्षेति सद्धोता वेदिसत्यथ || ११० || अतिथिर्दुरोणसदित्यर्धमस्या ऋचो भवेत् | नृसद्वरसदित्युक्त्वा सदृतोऽतिथ्यनन्तरम् | सद्व्योमसदब्जा गोजा ऋतजा अद्रिजा | ऋतं बृहदित्यर्द्धञ्च अस्या ऋच उदाहृतम् || १११ || त्रिधा च संजपेन्मन्त्रं अथवान्यतमं जपेत् | वाक् च तृप्तोद्भवस्यान्ते सिद्धोद्भव ततः परम् || ११२ || सर्वज्ञोद्भव सर्वान्ते जनकोद्भव ङेयुतम् | अमृतायामृतं प्रोक्त्वा नाथाय पदतोऽमृत || ११३ || कुलकुम्भाय वाग्भवं फ्रें ततश्च चलयुग्मकम् | पिबद्वन्द्वं कुलं प्रोक्त्वा कुण्डलिनि ततो वदेत् || ११४ || अमृतपदतः कुण्डलिनीति अमृतं द्रव | द्वयं निर्झरयुग्मञ्च वाग्भवं भुवनेश्वरीम् || ११५ || कुलकुण्डलिनीं प्रोच्य अमृतं कुरुयुग्मकम् | द्विठान्तं मनुमुच्चार्य पाययित्वा च कुण्डलीम् || ११६ || शिवशक्तिसमायोगं चिन्तयित्वा च साधकः | तस्मात् सुधां समुत्पाद्य पूरयेत् पात्रमुत्तमम् || ११७ || प्. ८५) अनेनैव विधानेन द्रव्यशुद्धिं समाचरेत् | कालिकाया विशेषञ्च वक्ष्येऽहं तन्त्रवर्त्मना || ११८ || एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् | कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम् || ११९ || सूर्यमण्डलसम्भूते वरुणालयसम्भवे | अमाबीजमये देवि शुक्रशापाद्विमुच्यताम् || १२० || वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि | तेन सत्येन ते देवि ब्रह्महत्यां व्यपोहतु || १२१ || एवं मन्त्रत्रयेणैव अभिमन्त्र्य सुरां शुभाम् | प्रदद्यात् कालिकायै च ततो नैवेद्यभुग्भवेत् || १२२ || इति शुद्धित्रयं ज्ञेयं शापानां मोचनं परम् | एषामेकतमं कृत्वा ध्यायेदानन्दभैरवम् || १२३ || प्. ८६) आनन्दभैरवध्यानम् सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् | अष्टादशभुजं देवं पञ्चवक्त्रं त्रिलोचनम् || १२४ || अमृतार्णवमध्यस्थं ब्रह्मपद्मोपरि स्थितम् | वृषारूढं नीलकण्ठं सर्वाभरणभूषितम् || १२५ || आकल्पखट्वाङ्गधरं घण्टाडमरुवादिनम् | पाशाङ्कशधरं देवं गदामुषलधारिणम् || १२६ || खड्गखेटकपट्टीशमुद्गरशूलदण्डधृक् | खेटकमुण्डहस्तञ्च वरदाभयविग्रहम् || १२७ || लोहितं देवदेवेशं द्रव्यमध्ये नियोजयेत् | तस्योत्सङ्गे सुरां देवीं चन्द्रकोट्ययुतप्रभाम् || १२८ || आनन्दभैरवीध्यानम् हिमकुन्देन्दुधवलां पञ्चवक्त्रां त्रिलोचनाम् | भुजाष्टदशसंयुक्तां सर्वायुधकरोद्यताम् || १२९ || प्. ८७) प्रहसन्तीं विशालाक्षीं देवदेवस्य सम्मुखीम् | अथवान्यप्रकारेण सुरादेवीञ्च चिन्तयेत् || १३० || चन्द्रांशुसदृशीं श्वेतां वारुणीं ब्रह्मरूपिणीम् | शिरश्चन्द्राद्विगलन्तीं ध्यायेत्तां परदेवताम् || १३१ || एवं ध्यात्वा ततो वीरः पूजयेन्मन्त्रमुच्चरन् | आनन्दभैरवं देवमानन्दभैरवीं तथा || १३२ || शिवचन्द्राद्यवर्णन्तु कालभूवरुणानलम् | षष्ठस्वरान्वितं वायुं बिन्दुनादविभूषितम् || १३३ || आनन्दभैरवायेति शिखामन्त्रं ततो वदेत् | ततः पूर्ववदुद्धृत्य विपरीतमुखं द्वयम् || १३४ || वायुबीजं वामनेत्रत्यानन्दभैरवीं ततः | ङेयुतां नेत्रमन्त्रञ्च कथितो मनुसत्तमः || १३५ || पूजयित्वा द्रव्यमध्ये वरुणं वसुधा जपेत् | मूलञ्चोपरि संजप्य अमृतं परिभावयेत् || १३६ || प्. ८८) आवाहन्यादिमुद्राञ्च दर्शयेत्तदनन्तरम् | आवाहनीं दर्शयित्वा स्थापनीं तदनन्तरम् || १३७ || सन्निधापनमुद्राञ्च तथा च सन्निरोधनीम् | अवगुण्ठनमुद्राञ्च विधाय साधकोत्तमः || १३८ || अङ्गषट्कस्य मुद्राञ्च तालत्रयपुरःसरम् | दिग्बन्धनं प्रकुर्वीत छोटिकाभिरनन्तरम् || १३९ || परमीकरणं कृत्वा अमृतीकरणञ्चरेत् | धेनुमुद्रामृतीकृत्य द्रव्यशुद्धिं समाचरेत् || १४० || आलोकाज्जिघ्रणाद्ध्यानात् स्नानाद्द्रव्यं विशुध्यति | द्रव्यस्नानं ततः कुर्याद्दक्षे कृत्वा च चुल्लकम् || १४१ || द्रव्यस्य चुल्लकं दक्षकरे कृत्वा तु साधकः | वामनासाङ्गुष्ठयोगात् पूजाद्रव्येषु निक्षिपेत् || १४२ || बिन्दुं क्षिप्त्वा स्ववक्त्रे च मार्जयेद्धस्तयुग्मकम् | हस्ताभ्यां मार्जयेद्देहं मूलमन्त्रं समुच्चरन् || १४३ || सुरानिरुक्तिः एतत्तु कारणं दिव्यं सुरसङ्घनिषेवितम् | अत-एव नाम तस्य सुरेति भुवनत्रये || १४४ || सुरादर्शनफलम् सुरा दर्शनमात्रेण सर्वपापैः प्रमुच्यते | तद्गन्धाघ्राणमात्रेण शतक्रतुफलं लभेत् || १४५ || मद्यस्पर्शनमात्रेण तीर्थकोटीफलं लभेत् | तथा तत्पानतः साक्षाल्लभेत् मुक्तिं चतुर्विधाम् || १४६ || इच्छाशक्तिः सुरामोदे ज्ञानशक्तिश्च तद्रसे | तत्स्वादे च क्रियाशक्तिः चेतः शोधनसाधना || १४७ || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये चतुर्थोल्लासः || ४ || पञ्चम उल्लासः तन्त्रवर्त्मना मांसनिरूपणम् अथातः संप्रवक्ष्यामि मांसानि तन्त्रवर्त्मना | मांसभेदकथनम् मांसञ्च त्रिविधं प्रोक्तं जलभूचरखेचरम् || १ || गोनरेभाश्वमहिषवराहाजमृगोद्भ्वम् | महामांसाष्टकं प्रोक्तं देवताप्रीतिकारकम् || २ || (यद्वा) गोऽजेभाश्ववराहाणां माहिषं मृगखड्गयोः | एतन्मांसाष्टकं प्रोक्तं चण्डिकाप्रीतिकारकम् || ३ || (यद्वा) अजाश्वावपि गण्डा च महिषश्चमरी तथा | वराहव्याघ्रभल्लूकशशकाः कूर्मकुक्कुटौ || ४ || कृष्णसारश्च हरिणस्तथा चित्रमृगा अपि | मनुष्यो गवयश्चैव शल्लकी च विशेषतः || ५ || हंसः पारावतश्चैव तथैव ग्रामकुक्कुटाः | विहिता बलयः प्रोक्ताश्चण्डिकाप्रीतिकारकाः || ६ || प्. ९१) एतेषां मांसदानेन सर्वसिद्धिः प्रजायते | एषामेकतमं लब्ध्वा तर्पणार्थं प्रकल्पयेत् || ७ || मांससन्दर्शनेनापि सुरादर्शनवत् फलम् | पितृदैवतयज्ञेषु वेदे हिंसा विधीयते || ८ || आत्मार्थं प्राणिनां हिंसा कदाचिन्नोदिता प्रिये | अनिमित्तं तृणं वापि छेदयेन्न कदाचन || ९ || देवतार्थं पशुहनने न दोषः देवतार्थं द्विजं गाञ्च हत्वा पापैर्न लिप्यते | मांसं विनापि पूजायां पापं स्याच्च पदे पदे || १० || गन्धपुष्पाक्षतैः पूज्यमन्यथा नरकं व्रजेत् | हन्यान्मन्त्रेण चानेन त्वभिमन्त्र्य पशुं ततः || ११ || शिवोत्कृत्तमिदं पिण्डमतस्त्वं शिवतां गतः | तद्बुद्धस्व पशो त्वं हि माशिवस्त्वं शिवोऽसि हि || १२ || ब्रह्मा स्यात्पलले विष्णुर्गन्धे रुद्रश्च तद्रसे | परमात्मा तदानन्दे तस्मात् सेव्यमिदं प्रिये || १३ || प्. ९२) इति हत्वा पशुं पश्चात् चारु पक्वं समाचरेत् | पूजासु आममांसानि दद्याद्वै साधकः क्वचित् || १४ || ऋते तु लोहितं शीर्षममृतं तत्तु जायते | संशोधयेत्तु मांसानि यथाशास्त्रप्रमाणतः || १५ || मांसशोधनविधानम् मांसशुद्धिं प्रवक्ष्यामि शाक्तानां सिद्धिहेतवे | अस्त्रान्तमूलमन्त्रेण प्रोक्षयित्वा च साधकः || १६ || चतुर्धा शोधनं कुर्यात् पूर्वोक्तेन च वर्त्मना | शोषयेद्वायुबीजेन वह्निबीजेन सन्दहेत् || १७ || शिवशक्तिसमायोगाद्वारुणेनामृतं कुरु | ततश्च सञ्जपेन्मन्त्रं मांसानां शोधनाय च || १८ || प्रणवं पूर्वमुच्चार्यं प्रतद्विष्णुस्ततः परम् | स्तवते मृगो न भीमः संप्रोच्य कुचरो भवेत् || १९ || प्. ९३) गरिष्ठेति च यस्योरुषु त्रिषु प्रोक्तस्ततः परम् | विक्रमणेष्वधिक्षिपन्ति भुवनानि विश्वाः || २० || पूर्वोक्ता दर्शयेन्मुद्रा आवाहन्यादिसंज्ञिका | मूलमन्त्रं जपेद्वीरः सप्तवारं ततः परम् || २१ || मत्स्यानां शोधनं वक्ष्ये यथातन्त्रानुसारतः | मत्स्यभेदकथनम् पाठीनञ्च वोदालश्च तथा शकुलशालकौ || २२ || महाशकुलचित्री च खड्गी च जलवृश्चिका | अनेन विहिताः सर्वेऽपीमा मीनाः शुभप्रदाः || २३ || मत्स्यमांसशोधनम् आदौ कुर्वीत मीनञ्च पूर्ववत् प्रोक्षणादिकम् | जपेन्मन्त्रं ततः पश्चान्मीनानाञ्च विशुद्धये || २४ || ओं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् | उर्वारुकमिव बन्धन्मृत्योर्मुक्षीय माऽमृतात् || २५ || शेषं पूर्ववदाचर्य मुद्राञ्च परिशोधयेत् | व्रैहेयं मण्डलाकारं चन्द्रविम्बनिभं शुभम् || २६ || चारु पक्वमनोहारि शर्कराद्यैः प्रपूरितम् | प्. ९४) पूजाकाले देवताया मुद्रैषा परिकीर्त्तिता || २७ || भ्रष्टधान्यादिकं यद्यच्चर्वणीयं प्रकल्पयेत् | तस्याः संज्ञा स्मृता मुद्रा महामोदप्रवर्धिनी || २८ || मुदं रातीति मुद्रा स्याद्येनैका मुष्टिभेदतः | मुद्राञ्च प्रोक्षयेदादौ शेषं पूर्ववदाचरेत् || २९ || ओं तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः | दिवीव चक्षुराततम् || ३० || ओं तद्विप्रासो विपण्यवो जागृवांसः समिन्धते | विष्णोर्यत् परमं पदम् || ३१ || इति संजप्य वीरेन्द्रः शेषं पूर्ववदाचरेत् || ३२ || कुण्डगोलोद्भवामृतविधानम् अथ वक्ष्ये च कुण्डोत्थं देवताप्रीतिकारकम् | मद्यकुम्भसहस्रैस्तु मांसभारशतैरपि || ३३ || नैव तुष्टिर्भवेद्देव्याः कुण्डगोलोद्भवं विना | भगलिङ्गात्मिका देवी भगलिङ्गामृतात्मिका || ३४ || देव्याः शुक्ररजोरूपत्वम् शुक्ररूपा च शुक्रस्था रजोरूपा रजःस्थिता | प्. ९५) विन्दुरूपा च विन्दुस्था रजोविन्दुस्वरूपिणी || ३५ || भगलिङ्गप्रिया देवो भगलिङ्गामृतप्रिया | भगलिङ्गामृतेनैव तस्मात्तां परिपूजयेत् || ३६ || वीरद्रव्यस्य पानेन परस्त्रीरमणेन च | भगलिङ्गामृतेनैव देवीं यश्च प्रपूजयेत् || ३७ || न दुःखं जायते तस्य सिद्धमन्त्रो भवेन्नरः | कुलस्त्रीकुलपुष्पैश्च कुलद्रव्यैः कुलामृतैः || ३८ || संपूज्य लभते कामानष्टसिद्धींश्च साधकः | विना कुलोद्भवैर्द्रव्यैः पूजयेद्यश्च चण्डिकाम् || ३९ || जन्मान्तरसहस्रस्य सुकृतं तस्य नश्यति | द्रव्यशोधनमाचर्य शक्तिशोधनमाचरेत् || ४० || शक्तिशोधनम् यथा द्रव्यं तथा शक्तिं समानीय यथाक्रमम् | स्नापितां प्रमदां दिव्यां हेतुयुक्ताञ्च दीक्षिताम् || ४१ || स्वकान्तां परकान्तां वा घृणालज्जाविवर्जिताम् | सालङ्कारां सुवेशाञ्च स्थापयेत् तूलिकोपरि || ४२ || प्. ९६) न्यासजालं प्रकुर्वीत स्वकल्पोक्तविधानतः | मातृकान्यासमाचर्य कलान्यासं समाचरेत् || ४३ || ह्रीङ्कारन्तु ललाटे च क्लीङ्कारं वदने तथा | ऐङ्कारं हृदये चैव नाभौ ब्लुङ्कारमेव च || ४४ || स्त्रीङ्कारं विन्यसेदूगुह्ये पञ्चकामान् न्यसेद् बुधः | ऋष्यादिकं स्वकल्पोक्तं पाद्यादिभिस्ततो यजेत् || ४५ || द्राविणीं विन्यसेद्योनौ मूलविद्यां ततः परम् | आधारे हृदये चैव भ्रुवोर्मध्ये न्यसेत् क्रमात् || ४६ || पुनर्मूलं ब्रह्मरन्ध्रे न्यसेत् साधकपुङ्गवः | मूर्द्धादिपादपर्यन्तं न्यासं कुर्यात्ततः परम् || ४७ || मैथुनकथनम् मौलौ कुन्तलकर्षणं नयनयोराचुम्बनं गण्डयो- र्दन्तेनाधरपीडनं हृदि हतिर्मुष्ट्या च नाभौ शनैः | कुक्षौ कण्ठकपोलमण्डलकुचश्रोणीषु देया नखाः सीमन्ते लिखनं नखैरुरसिजं गृह्णीत गाढं ततः || ४८ || कुर्वीताविरतं मनोभवगृहे मातङ्गलीला इव | जङ्घाङ्गुष्ठपदोरुगुल्फहननं चान्योऽन्यतः कामिनोः || ४९ || प्. ९७) पाशबीजं वामनेत्रं कामवरुणभूयुतम् | एकादशस्वरेणाढ्यं चन्द्रबिन्दुसमन्वितम् || ५० || अमुकीं द्रावय स्वाहा विन्यसेत् साधकोत्तमः | वामा या चपलचित्ते रेतो मुञ्चद्वयं पठेत् || ५१ || वरुणं भूदक्षकर्णयुतञ्च कामबीजकम् | सोमवधूसमायुक्तं चन्द्रमन्त्यस्वरान्वितम् || ५२ || द्राविणीबीजं कथितं साधकानां हिताय च | तस्या योनौ न्यसेद्विद्यां रेत् थु मा तो च मै न त || ५३ || आत्मनि चिन्तयेद्देवीं शक्तिमाद्यास्वरूपिणीम् | निं घ येद् ङ्गे यो न र्ष लि मूलमुच्चार्य साधकः || ५४ || धर्माधर्महविर्दीप्त आत्माग्नौ मनसा स्रुचा | सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् || ५५ || स्वाहान्तोऽयं महामन्त्र आरम्भे परिकीर्त्तितः | ततो जपेत् स्त्रियं गच्छन् मुखे जिह्वामृतं पिवेत् || ५६ || कुलमद्यं समानीय वारुणेन च संस्कृतम् | प्. ९८) वरुणं स्वरसंयुक्त पञ्चदीर्घसमन्वितम् || ५७ || वौं वरुणाय प्रणवं मन्त्रराजेन शोधितम् | मुहुर्मुहुः पिबेत् पानं शक्तिजिह्वाविलोडितम् || ५८ || आत्मनि देवीसंयोगाद्देवीभूतां विचिन्तयेत् | आत्मनि शक्तिसंयोगादेकीभूतां विचिन्तयेत् || ५९ || सूक्ष्मरूपकमात्मानं शक्तिं कुण्डलिरूपिणीम् | जिह्वां मूलमयीं चिन्त्य योनिञ्च कुलरूपिणीम् || ६० || कुलाकुलविभागेन आत्मानं नीयते त्वयि | शुद्धमन्त्रौषधेनैव रेत् म न नेः ञ्च प्र थ यो || ६१ || मध्यमाने पुनस्तस्या जायते तत्त्वमुत्तमम् | तत्त्वत्यागे पीठेन्मूलं साधकः स्थिरमानसः || ६२ || प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचा | धर्माधर्मकलास्नेहपूर्ण अग्नौ जुहोम्यहम् || ६३ || स्वाहान्तोऽयं महामन्त्रं शुक्रत्यागे प्रकीर्त्तितः | शिवशक्तिसमायोगो यत्र यत्र प्रजायते || ६४ || तत्र तत्रैव संयोज्यं द्वयमेनं यथाक्रमात् | गृह्णीयात्तत्प्रयत्नेन द्रव्यं कुण्डोद्भवं स्मृतम् || ६५ || प्. ९९) इदं कुण्डोद्भवं द्रव्यं कथितं सुरदुर्लभम् | गोलोद्भवं प्रवक्ष्यामि वीराणां सिद्धिहेतवे || ६६ || कुलीनां दीक्षितां मत्तां पतिहीनां विचक्षणाम् | सालङ्कारां हेतुयुक्तामनपत्यां मनोरमाम् || ६७ || सुन्दरीं शोभनां क्षीणां पीनोन्नतपयोधराम् | साधकाकाङ्क्षहृदयां कलाशास्त्रविचारिणीम् || ६८ || न्यासादिकं प्रकुर्वीत स्वकल्पोक्तविधानतः | पूर्वोक्तक्रमयोगेन तत्त्वमुत्पादयेत् सुधीः || ६९ || तत्त्वं गृह्णीयात् यत्नेन पूजार्थं साधकोत्तमः | इदं गोलोद्भवं द्रव्यं देवतातृप्तिकारकम् || ७० || ताम्रपात्रे गृहीत्वा तु तत्त्वद्रव्यं कुलोचितम् | नानागन्धसमायुक्तं कटुत्रयसमन्वितम् || ७१ || कुण्डगोलोद्भवादीनां शोधनञ्च प्रचक्ष्यते | शोधयेत् कुण्डगोलादीन् नयत्वर्चासमाहितः || ७२ || शोधनमन्त्राः ओं विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु | आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते || ७३ || प्. १००) गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति | गर्भं ते अश्विनौ देवाधाधत्तां पुष्करस्रजौ || ७४ || प्लुं ज्लुं म्लुं ग्लुं ततः स्वाहा अमृतेति ततो वदेत् | अमृते अमृतोद्भवे अमृतवर्षिणीति च || ७५ || अमृतं स्रावय स्वाहा द्विरुच्चार्येत्यपि स्मरेत् | शेषं पूर्ववदाचर्य अथवान्यतमञ्चरेत् || ७६ || तारं कूर्चास्त्रमुच्चार्य शिवादित्रयविन्दुयुक् | वह्निजाया तारमाया श्रीबीजं सुरतिप्रिये || ७७ || तारमायारमास्त्रञ्च वह्निजायाञ्च वर्तुलम् | ततोऽमृतोद्भवायेति अमृतवर्षिणी परम् || ७८ || प्रिये देवि पदं शुक्रशापं मोचययुग्मकम् | वह्निजायान्तमन्त्रेण द्रव्यशुद्धिं समाचरेत् || ७९ || वीर्यमेतत् समादाय विशेषार्घ्ये नियोजयेत् | तेनामृतेन देवेशीं तर्पयेत् साधकोत्तमः || ८० || सान्निध्यं जायते देव्याः सर्वकाममुपालभेत् | अचिरान्मृत्युमाप्नोति द्वन्द्वं कृत्वा नराधमः || ८१ || शङ्काविहीनेन कुलाचारः कर्तव्यः निर्विकल्पकचेतास्तु कुर्यादेवं समाहितः | शङ्कया जायते ग्लानिः शङ्कया दुःखभाजनम् || ८२ || शङ्कया सर्वहानिः स्याच्छङ्कया धनहानिता | शङ्कया सिद्धिहानिः स्यात्तस्माच्छङ्कां परित्यजेत् || ८३ || द्रव्याणांशक्तिभेदकथनन् अथ वक्ष्यामि द्रव्याणां शक्तिभेदेन यद्भवेत् | स्वल्पाङ्गीं दीर्घकेशीं च साधकः शुद्धभावतः || ८४ || पुष्पगन्धा जवापुष्पैर्देवीं गन्धैश्च पूजयेत् | तस्याः पुष्पैः प्रयत्नेन सर्वकाममुपालभेत् || ८५|| दीर्घाङ्गी दीर्घनयना श्यामा विलज्जिता सदा | सुगन्धा सा सुरताद्यैर्बिल्वपत्रैः सुगन्धिता || ८६ || तस्याः पुष्पैः प्रयत्नेन देवीं सम्पूजयेत् पराम् | गौराङ्गी पुष्टजङ्घा या पुष्टहस्ता मदातुरा || ८७ || मदगन्धा च खार्जुरैः पलाशैः कुसुमैर्यजेत् | पुष्पगन्धा जगद्धात्री सा सदा कृष्णरूपिणी || ८८ || प्. १०२) कृशाङ्गी कृशमध्या च मधु दत्त्वा यजेत् पराम् | क्षीणाङ्गी च यदा कृष्णा दीर्घकेशी मदाकुला || ८९ || तीव्रगन्धा च मन्दारैर्नारिकेलोद्भवैः सदा | पुष्टा खर्वाऽसिताङ्गी या सा भवेन्मदनाश्रया || ९० || मधुगन्धा च गौडीभिः पद्मपुष्पैर्यजेत् पराम् | कृशाङ्गी गौरदीर्घा या सा परा शिशुमालिना || ९१ || साधकः पूजयेद्देवीं मल्लिकाभिर्विशेषतः | पुष्टा खर्वा सिताङ्गी या सेन्दीवरविकारकैः || ९२ || अस्या मैथुनसम्भूतैः केतकीगन्धयोजितैः | क्षीणा दीर्घा च गौराङ्गी मालतीगन्धयोजिता || ९३ || सा भवेदङ्कुशा नाम्नी तस्या मैथुनभावुकैः | बन्धूकैर्यदि गौराङ्गी यानङ्गमेखला शुभा || ९४ || कर्पूरगन्धहारिद्रद्रव्यैस्तां परिपूजयेत् | आसां द्रव्यं गृहीत्वा तु तेनैव परिशोधयेत् || ९५ || तत्तत्पुष्पैः प्रपूज्यैव सर्वसिद्धिमुपालभेत् | ज्ञात्वा नैवं क्रमं यो हि यदि देवीं प्रपूजयेत् || ९६ || भवेद्धि विफलं सर्वं यज्ञेषु घृतवर्जितम् | यदुक्ता दशमी शक्तिः सङ्कीर्णवृत्तिसंस्थिता || ९७ || गन्धमात्रं तु गृह्णीयाद्वर्णमात्रं न भेदयेत् | स्वयं स्रष्टा स्वयं विष्णुः स्वयं देवो महेश्वरः || ९८ || साधकानन्दभावेन यजेद्देवीं कुलक्रमे | गजाश्वानां वृषाजानां नराणां शोणितारुणैः || ९९ || पञ्चतत्त्वप्रशंसा कुण्डगोलोद्भवैर्मांसैः स्वयम्भूकुसुमैः सदा | मत्स्यैर्मद्यैश्च नैवेद्यैः प्रत्यक्षीक्रियते नरैः || १०० || च यां थु दि ने रा मै म जातिभेदं न चाचरेत् | नाधर्मो जायते किञ्चिन्महामन्त्रस्य साधने || १०१ || सर्वसिद्धिर्भवत्येव पञ्चतत्त्वनिवेदनात् | द्रव्यशुद्धेरभावेन नित्यं कर्मं न लोपयेत् || १०२ || प्. १०४) प्रमादाद्यदि लुप्येत रौरवं नरकं व्रजेत् | मकारपञ्चकं कृत्वा पुनर्जन्म न विद्यते || १०३ || अत-एव महाप्राज्ञः पञ्चतत्त्वेन पूजयेत् | येनावश्यं विधातव्यं मदिरादानपूजनम् || १०४ || नष्टैः पर्युषितोच्छिष्टैर्दुर्गन्धैर्गन्धवर्जितैः | हेतुभिः परपात्रस्थैस्तर्पणं निष्फलं भवेत् || १०५ || आमिषासवसौरभ्यहीनं यस्य मुखं भवेत् | प्रायश्चित्ती स वर्ज्यश्च पशुरेव न संशयः || १०६ || यावदासवगन्धः स्यात्तावत् पशुपतिः स्वयम् | विनालिमांसगन्धेन पशुः पशुपतिः स्वयम् || १०७ || मत्स्यमांसविहीनेन द्रव्येणापि न तर्पयेत् | पिशितं तिलमात्रन्तु तिलार्धमपि बिन्दुना || १०८ || सकृत्तर्पणमात्रेण यज्ञकोटिफलं लभेत् | रक्तवस्त्रैः समाच्छाद्य पञ्चतत्त्वं तु रक्षयेत् || १०९ || प्.१०५) पशुसन्निधौ वीरपूजा निषिधा मकारपञ्चकैर्देवीं नार्चयेत् पशुसन्निधौ | संस्थापयेन्न दक्षे च द्रव्यशुद्धिरितींरिता || ११० || एतत्तु कथितं द्रव्यं सर्वसिद्धिप्रदायकम् | द्विजानामनुकल्पन्तु न साक्षाच्च विकल्पिनाम् || १११ || कुलद्रव्यप्रतिनिधिः अथातः संप्रवक्ष्यामि द्रव्यादिपरिकल्पनम् | ब्राह्मणस्ताम्रपात्रे तु मधुमद्यं प्रकल्पयेत् || ११२ || अथवा ताम्रपात्रेषु गव्यं दद्याद्घृतं विना | नारिकेलोदकं कांस्ये गुडार्द्रकं तथैव च || ११३ || गौडी देया क्षत्रियेण माध्वी वैश्येन तत्र वै | सर्वं शूद्रेण दातव्यं यत्र वा तद्रुचिर्भवेत् || ११४ || (यद्वा) मत्स्यमांसादिविजया चाष्टगन्धैः सुमिश्रिता | संमर्द्य वटिकां कृत्वा संगृह्याथ विचक्षणः || ११५ || प्. १०६) तदभावे तु विजया जले संलोड्य तर्पयेत् | गुडमिश्रेण तक्रेण तर्पयेन्मधुयोजितम् || ११६ || सौवीरेणाथवा कुर्यादेतत्कर्म न लोपयेत् | मांसाभावे तु लसुनमार्द्रकं नागरन्तु वा || ११७ || शूरणं मांसवटकं मूलं वान्यतमञ्चरेत् | मांसानुकल्पं कथितं मीनस्याथ विधिं शृणु || ११८ || माहिषं गवयं क्षीरं अजाक्षीरं तथैव च | फलमूलञ्च यत्किञ्चिद्दग्धञ्चेदामिषं भवेत् || ११९ || कुण्डगोलादिप्रतिनिधिः मीनस्य कथितं कल्पं कुण्डगोलोद्भवं शृणु | अपरापुष्पगर्भे तु कुलस्थानं मनोरमम् || १२० || सर्वसुखं भवेत्तत्तु महाकामकलात्मकम् | हयारिकुसुमे नित्यं स्वयमस्ति सदाशिवः || १२१ || तन्मुखे द्रव्यमादाय पुष्पमध्येतु चन्दनम् | रक्तकुङ्कुमरागं वा भिन्नं तत्त्वं शिवात्मकम् || १२२ || योजयेच्छिवशक्त्योस्तु ऐक्यं सम्भावयन् धिया | क्षणं विचिन्त्य तत्रैव संपूज्य परमेश्वरीम् || १२३ || जप्त्वा तदेव कुण्डोत्थं द्रव्यं परमदुर्लभम् | अन्तरादधिकं ज्ञेयं एतद्द्रव्यं सुदुर्लभम् || १२४ || यद्यच्च कथितं द्रव्यमनुकल्पं विकल्पिनाम् | आदाय पूजयेद्देवीमन्यथा निष्फलं भवेत् || १२५ || अकृत्वा पञ्चमे पूजां न लब्ध्वा गुरुसम्मतिम् | स्वहस्तेन पशुं हत्वा रौरवं नरकं व्रजेत् || १२६ || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये पञ्चमोल्लासः || ५ || षष्ठ उल्लासः अथेदानीं प्रवक्ष्यामि अर्घ्यस्य विधिमुत्तमम् | गृहीत्वाज्ञां महादेव्या विशेषार्घ्यं समाचरेत् || १ || आत्मदेवीद्वयोर्मध्ये भूमौ चक्रं लिखेत्ततः | त्रिकोणञ्चैव षट्कोणं वृत्तं भूगृहसंयुतम् || २ || मध्ये मायां समालिख्य प्रोक्षयेत्तदनन्तरम् | अस्त्रान्तमूलमन्त्रेण सामान्यार्घ्यजलेन च || ३ || आधारशक्तिमभ्यर्च्य पूजयेत् पीठदेवताः | चतुरस्रे पूर्णशैलमुड्डीयानं जलन्धरम् || ४ || पूजयेत् कामरूपञ्च पूर्वादिक्रमयोगतः | अङ्गषट्कं यजेत्तत्र षट्कोणेषु च मन्त्रवित् || ५ || मूलमन्त्रं त्रिकोणेषु संपूज्य साधकोत्तमः | आधारशक्तिं मध्ये च संपूज्य तदनन्तरम् || ६ || आधारपात्रादिवर्णनम् अस्त्रेण क्षालिताधारं स्थापयेत्तत्र साधकः | आधारेण विना भ्रंशो न च तृप्यन्ति मातरः || ७ || तस्माद्विधिवदाधारं कल्पयेत् कुलनायिके | आधारं त्रिपदं प्रोक्तं षट्पदं वा चतुष्पदम् || ८ || अथवा वर्तुलाकारं कुर्यादाधारमुत्तमम् | एषामन्यतमं स्थाप्य पूजयेत् कुलवर्त्मना || ९ || पूर्ववन्मण्डलं कृत्वा संपूज्य तेन वर्त्मना | आदौ सेन्दुं महाकालं वह्निमण्डलं ङेयुतम् || १० || हृदन्तं मन्त्रमुच्चार्य आधारे पूजयेत्ततः | तत्र सम्पूजयेद्वह्नेः कलादशकं संज्ञया || ११ || वह्नेः कलादशकम् धूम्रार्चिरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी | सुश्रीः सुरूपा कपिला हव्यकव्यवहेऽपि च || १२ || यादिसेन्दुक्षकारान्ता अब्जाद्याः परिकीर्तिताः | ङेयुता वै नमोऽन्ताश्च कला वह्नेरितीरिताः || १३ || अस्रान्तमूलमन्त्रेण क्षालितं पात्रमुत्तमम् | स्वर्णरौप्यशिलाकूर्मकपालालाबुमृण्मयम् || १४ || नारिकेलशङ्खताम्रमुक्ताशुक्तिसमुद्भवम् | पुण्यवृक्षसमुद्भूतं पात्रं कुर्यान्मनोरमम् || १५ || (यद्वा) काञ्चनरौप्यकाचताम्रजनितं मुक्ताकपालोद्भ्वं विश्वामित्रमयञ्च कामदमिदं हैमं प्रियं स्फाटिकम् | भावप्रीतिमदष्टसिद्धिजनकं श्रीनारिकेलोद्भ्वं कापालं स्फुटमन्त्रसिद्धिजनकं मुक्तिप्रदं मौक्तिकम् || १६ || (यद्वा) सौवर्णरौप्यताम्राणि सर्वसिद्धिकराणि च | शान्तिके च शिलापात्रं स्तम्भे चैव तु मृण्मयम् || १७ || नारिकेलं सर्ववश्ये मोक्षे चैव तु मौक्तिकम् | ज्ञानप्रदं कपालं स्यान्मारणे लौहमुत्तमम् || १८ || कुर्यात् स्वर्णमयं पात्रं विश्वामित्रं कपालकम् | शङ्खं ज्ञानप्रदं मुक्ताशुक्तिविद्याप्रदायिनी || १९ || कपालालावूपात्राणि योगसिद्धिकराणि च | पुण्यवृक्षजपात्राणि सर्वपापहराणि च || २० || उक्तेष्वेतेषु पात्रेषु पात्रमेकं प्रकल्पयेत् | षोडशाङ्गुलविस्तार षष्ठाङ्गुलसमुच्छ्रयम् || २१ || अथवापि तदर्धं स्यात्तदर्द्धं वापि कारयेत् | एकाङ्गुलं तथा सार्धं षट्कञ्च वै प्रमाणतः || २२ || अतिसूक्ष्ममतिस्थूलं सच्छिद्रं परिवर्ज्जयेत् | न योजयेद्भग्नपात्रं स्वप्रादेशं प्रशस्यते || २३ || एषामेकतमं पात्रं स्थापयेत्त्रिपदोपरि | मण्डलं पूर्ववत् कृत्वा पूजयेत् पूर्ववर्त्मना || २४ || सूर्यस्य मण्डलं तत्र चिन्तयित्वाथ पूजयेत् | स्वराद्यं बिन्दुसहितं ङेयुतम् अर्कमण्डलम् || २५ || प्. ११२) नमोऽन्तं मन्त्रमुच्चार्य पूजयित्वार्घ्यपात्रकम् | कलाः सम्पूजयेत्तत्र भानोर्द्वादशसंज्ञकाः || २६ || द्वादशसूर्यकलाः तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः | सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा || २७ || कभाद्याश्च ठडान्ता वै बिन्दुयुक्ता यथाक्रमात् | बीजाद्याश्च कला ज्ञेयाश्चतुर्थ्याद्या नमोऽन्विताः || २८ || इमाः कलाः सुसम्पूज्याः पात्रञ्च पूजयेत्ततः | रक्तचन्दनपुष्पैश्च सुगन्धैः सुमनोहरैः || २९ || ततश्च पूरयेत् पात्रं त्रिभागं कुम्भहेतुतः | वरुणं मूलमन्त्रञ्च विलोममातृकां पठन् || ३० || जलेन भागमेकं तु पूरयेत् साधकोत्तमः | तत्र दूर्वाक्षतारक्तपुष्पचन्दनसंयुतम् || ३१ || पूर्वोद्धृतं कुण्डगोलं विल्वपत्रं क्षिपेत्ततः | मांसं मत्स्यं विनिक्षिप्य मुद्राञ्चैव विशेषतः || ३२ || नानासुगन्धिकञ्चैव नवरत्नं विनिक्षिपेत् | एलालवङ्गकक्ष्वेलजातीफलसमन्वितम् || ३३ || प्. ११३) चन्द्रचन्दनकस्तूरीरोचनागुरुकुङ्कुमम् | स्वयम्भूकुसुमं कुण्डगोलोत्थञ्चाष्टगन्धकम् || ३४ || तत्र क्षिप्त्वा च वीरेन्द्रः पूजयेच्चन्द्रमण्डलम् | सबिन्दुं वामकर्णञ्च ङेयुतं सोममण्डलम् || ३५ || हृदन्तं मनुमुच्चार्य पात्रमध्ये प्रपूजयेत् | कला सोमस्य तत्रैव द्विरष्टसंख्यका यजेत् || ३६ || षोडशसोमकला अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः | शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा || ३७ || पूर्णा पूर्णामृता कामदायिन्यः स्वरजाः कलाः | अकाराद्या बिन्दुयुता ङेयुताश्च नमोऽन्तिकाः || ३८ || पूज्याः सर्वाः प्रयत्नेन कला ज्ञेया विधोरिमाः | पूर्वंवत्तीर्थमावाह्य पूर्ववन्मण्डलं लिखेत् || ३९ || पूर्वववन्मत्रमुच्चार्य आनन्दभैरवं यजेत् | आनन्दभैरवीं देवीं तत्र संपूज्य देशिकः || ४० || प्. ११४) निजेष्टदेवतां तत्रावाहयेच्च ततः परम् | आवाहन्यादिमुद्राश्च साधको दर्शयेत्ततः || ४१ || स्वकल्पोक्तविधानेन मुद्राः सन्दर्शयेत्ततः | दर्शयित्वा ततो मुद्रामिष्टदेवं यजेत्ततः || ४२ || पूर्ववच्च षडङ्गानि त्रिकोणानि प्रपूजयेत् | अकथादित्रिरेखायां मध्ये मायां समालिखेत् || ४३ || हसौ मध्ये च संलिख्य पूर्वादिचातुरस्रिके | सम्पूजयेत्ततः पश्चात् पञ्चरत्नं सुसाधकः || ४४ || पञ्चरत्नपूजाविधानम् पञ्चान्तकं क्षितियुतं दक्षकर्णसमन्वितम् | गगनान्ते च रत्नेभ्यो नमोऽन्तमनुमुद्धरेत् || ४५ || शीतलं शक्रसंयुक्तमग्रबिन्दुविभूषितम् | स्वर्गपदं समुच्चार्य रत्नेभ्यो नम इत्यपि || ४६ || पञ्चमं देवराजञ्च दक्षश्रोत्रसमन्वितम् | पातालपद रत्नेभ्यो नमोऽन्तश्चापरो मनुः || ४७ || प्. ११५) महाकालं क्षितियुतं दक्षकर्णसमन्वितम् | मर्त्यरत्ने ततः पश्चाद्भ्यो नमोऽत्र समुद्धरेत् || ४८ || वामपादं क्षितियुतं दक्षश्रवणभूषितम् | नागपदं समुच्चार्य रत्नेभ्यो नम इत्यपि || ४९ || इति मध्ये सुसम्पूज्य त्रिरेखासु ततः परम् | वाग्भवान्ते च दिव्यौघं गुरुसंज्ञाञ्च पादुकाम् || ५० || पूजयामि ततः पश्चादेवम्विधं त्रयं यजेत् | सिद्धौघं मानवौघञ्च पूजयित्वा मनुं जपेत् || ५१ || अमृतेश्वरीमन्त्रः अखण्डैकरसानन्दकरे परसुधात्मनि | स्वच्छन्दस्फुरणामत्र निधेह्यकूलरूपिणि || ५२ || अकुलस्थामृताकारे शुद्धिज्ञानकरे परे | अमृतत्वं निधेह्यस्निन् वस्तुनि क्लिन्नरूपिणि || ५३ || तद्रूपेणैकरस्यञ्च दत्त्वा ह्येतत्स्वरूपिणि | भूत्वा परामृताकारं मयि चित्स्फुरणं कुरु || ५४ || इति मन्त्रत्रयेणैवमभिमन्त्र्य ततः परम् | ब्रह्माण्डखण्डसम्भूतमशेषरससम्भवम् || ५५ || प्. ११६) आपूरितं महापात्रं पीयूषरसमावह | वाग्भवं पञ्चमं क्षौणीं वामश्रोत्रसमन्वितम् || ५६ || क्षौं जूं सं अमृतेऽमृतोद्भवेऽमृतेश्वरि | अमृतवर्षिणि प्रोच्य अमृतं स्रावयद्वयम् || ५७ || वह्निजायान्तमुच्चार्यं चोद्धरेदपरन्ततः | वाग्भवं वदयुग्मञ्च वाग्वादिनि ततः परम् || ५८ || वाङ्मनः पदमाभाष्य क्लिन्ने क्लेदिनि तत्परम् | क्लेदयद्वितयं महामोक्षं कुरुद्वयं वदेत् || ५९ || कामबीजं शक्तिबीजं मोक्षं कुरुद्वयं वदेत् | प्रेतबीजं समुच्चार्य हसौर्नमस्ततः परम् || ६० || अनेनैव विधानेन अभिमन्त्र्य ततः परम् | आनन्दभैरवं देवमानन्दभैरवीमपि || ६१ || त्रिवारं मूर्ध्नि सन्तर्प्य मुद्राः सन्दर्शयेत्ततः | पूर्वोक्ताश्चातुरस्राद्याः शङ्खमुद्रां ततः परम् || ६२ || शङ्खमुद्राकथनम् वामाङ्गुल्यस्तथा श्लिष्टाः संयुक्ताः सुप्रसारिताः | दक्षिणांङ्गुष्ठ संसृष्ठा मुद्रैषा शङ्खसंज्ञिका || ६३ || प्. ११७) मत्स्यमुद्राकथनम् अधोमुखं दक्षपाणिं वामञ्चैव तथाविधम् | उपर्युपरियोगेन मिलिताः सरलाङ्गुलीः || ६५ || अङ्गुष्ठौ चालयेत् किञ्चिन्मुद्रैषा मत्स्यसंज्ञिता | मत्स्यमुद्राञ्च सन्दर्श्य धेनुमुद्राञ्च दर्शयेत् || ६६ || अवगुण्ठ्य ततः पश्चात् योनिमुद्रां च दर्शयेत् | त्रितालछोटिकाभिश्च दिग्बन्धनं ततश्चरेत् || ६७ || अष्टधा मूलविद्यां च जप्त्वा तु चिन्तयेत्ततः | इष्टदेवस्वरूपञ्च विभाव्य साधकोत्तमः || ६८ || आर्घ्यस्य स्थापनं प्रोक्तं सर्वशास्त्रेषु सिद्धिदम् | तथाच सिद्धविद्यानामाचारः कथ्यतेऽधुना || ६९ || ततः शङ्खं वीरपात्रं स्थापयेन्मध्यभागतः | श्रीविद्योक्तविधानेन ततः पूजां समाचरेत् || ७० || सिद्धविद्याचारः विसर्जनावधि वीरो नोद्धरेन्न च चालयेत् | तस्माद्विन्दुं विनिक्षिप्य सामान्यार्घ्ये ततः परम् || ७१ || प्. ११८) पात्रसंख्यानिर्णयः देव्यर्घ्यकुम्भयोर्मध्ये पात्राणि स्थापयेद् यथा | गुरोः पात्रं घटस्यान्ते तदन्ते भोगपात्रकम् || ७२ || तदन्ते शक्तिपात्रञ्च योगिनीनां तदन्तिके | तदन्ते वीरपात्रञ्च बलिपात्रं तदन्तिके || ७३ || पाद्यमाचमनीयञ्च पात्राणि स्थापयेद्बुधः | उत्तमं नवपात्राणि सप्तपात्राणि मध्यमम् || ७४ || केचिद्वदन्ति मन्त्रज्ञाः पञ्चपात्राणि मध्यमम् | अधमं तानि पात्राणि एकपात्रं न कारयेत् || ७५ || एकपात्रं न कुर्वीत यदि साक्षात् कुलेश्वरः | मन्त्राः पराङ्मुखा यान्ति विघ्नाश्चैव पदे पदे || ७६ || इह लोके च दारिद्र्यं मृते च पशुतां व्रजेत् | देवीपात्रं गुरोः पात्रं भोगपात्रं त्रयं मतम् || ७७ || पूजापात्रं बलेः पात्रं पञ्चपात्रेष्वयं विधिः | शक्तेः पात्रं वीरपात्रं सप्तपात्रेष्वयं विधिः || ७८ || प्. ११९) पूजापात्रञ्च विज्ञेयं योगिनीनाञ्च पूजने | पाद्यमाचमनीयञ्च नवपात्रेष्वयं विधिः || ७९ || पात्रस्थापनाविधिः पात्राणां स्थापनं वक्ष्ये यथातन्त्रविधानतः | कुम्भस्य दक्षिणे कुर्यात्त्रिकोणं वृत्तभूगृहम् || ८० || पूर्ववत् प्रोक्षणादिञ्च कृत्वाधारं विनिक्षिपेत् | तत्र सम्पूजयेद्वह्निमण्डलं तदनन्तरम् || ८१ || प्रक्षाल्य पूर्ववत् पात्रं आधारे स्थापयेत्ततः | अभ्यर्च्य मण्डलं तत्र सूर्यस्य पूरयेत्ततः || ८२ || कुम्भामृतेन संपूज्य सोमस्य मण्डलं यजेत् | कुण्डगोलं क्षिपेत्तत्र कुसुमं गन्धचन्दनम् || ८३ || षट्कोणं वृत्तभूपूरं लिखित्वा पूजयेत्ततः | अङ्गषट्कं कोणषट्कं मुद्राः पूर्ववदाचरेत् || ८४ || दिग्बन्धनं विधायाथ तालत्रयपुरःसरम् | प्. १२०) अष्टधा मूलमन्त्रञ्च जप्त्वा बिन्दुं क्षिपेत्ततः || ८५ || तर्पणविधिः विशेषार्घ्यस्य वीरेन्द्रो गुरूंश्च परितर्पयेत् | स्वस्वनामयुतान् दिव्यान् सिद्धमानवसङ्घकान् || ८६ || तर्पयित्वा स्वीयमूर्ध्नि मुद्रया तत्त्वसंज्ञका | अङ्गुष्ठानामिकाभ्याञ्च वामहस्तस्य सर्वदा || ८७ || कथिता तत्त्वमुद्रेयं योजिता तर्पणे बुधैह्. | गुरुं परगुरुञ्चैव परापरगुरुं तथा || ८८ || परमेष्ठिगुरुञ्चैव तर्पयेत्तदनन्तरम् | विशेषार्घ्यामृतेनैव तर्पयेन्निजदेवताम् || ८९ || पञ्चधा सप्तधा वापि हृत्सरोजे तु साधकः | तत्त्वशुद्धिकथनम् गुरूणां पात्रदक्षे च भोगपात्रं प्रकल्पयेत् || ९० || पूर्ववत् पात्रं संस्थाप्य तत्त्वशुद्धिं समाचरेत् | भोगपात्रामृतेनैव सम्मार्ज्य करयुग्मकम् || ९१ || दक्षकरे सवृत्तञ्च नवयोनिं समालिखेत् | कलायसदृशं तत्र क्षिपेच्छुद्धिचतुष्टयम् || ९२ || प्. १२१) देहशुद्धिनिरूपणम् अङ्गुष्ठमध्यमानामायोगैरेकञ्च धारयेत् | वामहस्तस्य विप्रेन्द्रः स्वीकुर्यात्तदनेन तु || ९३ || मायाञ्च कमलाबीजं शिवशक्तिसदाशिवम् | ङेन्तं विद्याकलात्मानं सबिन्दुं षोडश स्वरम् || ९४ || उच्चार्य वाग्भवं मूलं आत्मतत्त्वेन तत्परम् | स्थूलदेहं ततः पश्चात् शोधयामि पदात् द्विठः || ९५ || अनेनाधःशुद्धिखण्डं स्वीकृत्य तदनन्तरम् | मायां लक्ष्मीं ततो मायाकलानियतिशब्दतः || ९६ || कलात्मशुद्धविद्याश्च रागश्च पुरुषात्मने | कादिपञ्चकवर्गञ्च बिन्दुयुक् कामबीजकम् || ९७ || मूलमन्त्रं ततो विद्यातत्त्वेन सूक्ष्मदेहकम् | शोधयामि ततः स्वाहा स्वीकुर्यादपरन्ततः || ९८ || लज्जां लक्ष्मीं प्रकृत्यहङ्कार बुद्धिमनःश्रोत्रत्वक् | चक्षुस्ततोरसनाघ्राणवाक्पाणिपदं तथा || ९९ || पायूपस्थपदं शब्दस्पर्शरूपं ततो रसः | गन्धाकाशपदं वायुतेजः सलिलशब्दतः || १०० || भूम्यात्मने समुच्चार्य बिन्दुयुग्यादिवर्णकम् | शक्तिबीजं स्वमन्त्रञ्च शिवतत्त्वेन तत्परम् || १०१ || परं देहं शोधयामि स्वाहा चैव तृतीयकम् | प्. १२२) स्वीकृत्य च पुनर्मायां लक्ष्मीबीजं समुच्चरेत् || १०२ || पुनः शिवादिकं प्रोच्य मायादिकं ततः परम् | प्रकृत्यादिकमुच्चार्य पञ्चाशन्मातृकान्ततः || १०३ || बालाञ्च मूलविद्याञ्च सर्वतत्त्वेन तत्परम् | तत्त्वत्रयाश्रितं जीवं शोधयामि ततः स्वाहा || १०४ || स्वीकुर्यादमुना युग्मं दक्षवामक्रमेण तु || १०५ || ओं आर्द्रं ज्वलति ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि | सोऽहमस्मि ब्रह्माहमस्मि अहमस्मि अहमेवाहं मां जुहोमि स्वाहा || १०६ || ओं तामेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि | तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतुवक्तारं स्वाहा || १०७ || ओं छन्दसामृषयो गावो यच्छन्दोह्यमृता भुवसामन्द्रोः | मेधया स्पृणोतु भुवि स्रुवं मेणोपायतु स्वाहा || १०८ || प्. १२३) वाससा करयुग्मञ्च स्पृष्ट्वा देहञ्च शोधयेत् | पाणिभ्यां सर्वदेहञ्च प्रोञ्छयेदिति शोधनम् || १०९ || क्षालयेद्धस्तयुगलमथवान्यतमञ्चरेत् || ११० || तत्त्वऽऽउद्धिमन्त्राः ओं प्राणापानव्यानोदानसमाना मे शुध्यन्ताम् | ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || १११ || ओं पृथिव्यप्तेजोवायवाकाशानि मे शुध्यन्ताम् | ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || ११२ || ओं प्रकृत्यहङ्कारबुद्धिमनःश्रोत्राणि मे शुध्यन्ताम् | ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || ११३ || ओं त्वक्चक्षुर्जिह्वाघ्राणवचांसि मे शुध्यन्ताम् | ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || ११४ || ओं पाणिपादपायूपस्थशब्दा मे शुध्यन्ताम् | ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || ११५ || ओं स्पर्शरूपगन्धरसाकाशानि मे शुध्यन्ताम् | ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || ११६ || ओं वायुतेजःसलिलभूम्यात्मानो मे शुध्यन्ताम् | ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा || ११७ || प्. १२४) सप्तमन्त्रमिदञ्चैव पठेत्तत्त्वविशुद्धये || ११८ || तत्त्वशुद्धिं विधायाथ स्थापयेच्छक्तिपात्रकम् | योगिनीनाञ्च संस्थाप्य वीरपात्रं ततः परम् || ११९ || बलिपात्रं ततः पश्चात् पाद्यपात्रञ्च सन्दिशेत् | आचमनीयपात्रञ्च पूर्ववत् स्थापयेद्बुधः || १२० || योगिनीपात्रतत्त्वेन तर्पयेद्रश्मिवृन्दकम् | बलिपात्रामृतेनैव वटुकादींश्च तर्पयेत् || १२१ || तत्तदभावतो वीरः सामान्यार्घ्येण तर्पयेत् | देवीपात्रामृतं बिन्दुं पूजाद्रव्योपरि क्षिपेत् || १२२ || आत्मदेहञ्च संप्रोक्ष्य भावयेद्देवतामयम् | भोगपात्रामृतं बिन्दुं स्वीकुर्यात्तदनन्तरम् || १२३ || बलिपञ्चकनिरूपणम् अथातः संप्रवक्ष्यामि बलिपञ्चकमुत्तमम् | यावन्नो वटुके दद्यात् योगिन्यां सर्वभूतके || १२४ || क्षेत्रपाले तथा राजराजेश्वरे च साधकः | अकृत्वा बलिदानं हि कथं पूजां समाचरेत् || १२५ || प्. १२५) अदत्त्वा क्षेत्रेपालाय कथं क्षेत्रेषु पूजयेत् | अदत्त्वा वटुकादीनां यः पूजयति चण्डिकाम् || १२६ || पूजा च विफला तस्य देवीशापः प्रजायते | दक्षिणे वटुके देयः उत्तरे योगिनीबलिः || १२७ || सर्वभूते बलिं दद्यात् क्षेत्रपालस्य पश्चिमे | राजराजेश्वरे मध्ये बलिं दद्यात् सुसाधकः || १२८ || दक्षिणादिचतुर्दिक्षु पूर्ववन्मण्डलं लिखेत् | प्रोक्षणं पूर्ववत् कृत्वा वटुकं तत्र चिन्तयेत् || १२९ || बटुकध्यानम् करकलितकपालः कुण्डली दण्डपाणिः तरुणतिमिरनीलो व्यालयज्ञोपवीती | क्रमसमयसपर्याविघ्नविच्छेदहेतु- र्जयति वटुकनाथः सिद्धिदः साधकानाम् || १३० || इति ध्यात्वा तु संपूज्य पूर्वोक्तबलिमाचरेत् | अङ्गुष्ठानामिकाभ्याञ्च बटुकस्य बलिं हरेत् || १३१ || प्. १२६) विषं माया रमा देवीपुत्रवटुकनाथतः | पिङ्गलपदतो जटाभास्वर प्रोच्य पिङ्गल || १३२ || त्रिनेत्र च इमं बलिं पूजां गृह्णयुगन्ततः | वह्निजायान्तमुच्चार्य वटुकस्य महात्मनः || १३३ || अनेन बलिमुत्सृज्य यागिनीश्चिन्तयेत्ततः || १३४ || योगिनीध्यानकथनम् योगिन्यः कामरूपा निखिलगुणतास्तप्तकान्तस्वभावा मत्ताः कङ्कालमालाकलितकुचतटी रक्तवस्त्रोत्तरीयाः | लिङ्गं पाशं कपालं शृणिमपि दधतः सुस्मिताः सुप्रसन्नाः भक्तानां साधकानामभिलषितफलं दीयमानाः सुवेशाः || १३५ || एवं ध्यात्वा प्रपूज्यैव पश्चादपि बलिं ददेत् | अङ्गुष्ठमध्यमानामा योगिनीभ्यो बलिं हरेत् || १३६ || तारं लज्जां रमां सर्वसिद्धिञ्च योगिनीभ्यः | सर्वाभ्यो मातृकाभ्यश्च इत्युत्सृज्य बलिं ददेत् || १३७ || प्. १२७) विषं मायां ततः सर्वभूतेभ्यश्च ततः परम् | सर्वभूतपतिं प्रोच्य भ्यो नमोऽन्तं समुच्चरेत् || १३८ || सर्वभूतबलिं दत्ता क्षेत्रपालबलिं हरेत् | ततः सञ्चिन्तयेत् क्षेत्रनायकं सिद्धिहेतवे || १३९ || क्षेत्रपालध्यानम् निर्वाणं निर्विकल्पं निरुपमसकलं निर्विकारं क्षकारं हूङ्कारं वज्रदंष्ट्रं हुतवहवदनं रौद्रमुन्मत्तभावम् | फट्कारं बद्धनागं भ्रुकुटितटमुखं भैरवं शूलपाणिं खट्वाङ्गं व्योमनीलं डमरुकसहितं क्षेत्रपालं नमामि || १४० || क्षेत्रपालबलिप्रदानम् इति ध्यात्वा तु सम्पूज्य बलिं पश्चान्निवेदयेत् | विशं मायां रमाबीजं क्षकारं बिन्दुभूषितम् || १४१ || षड्दीर्घस्वरसम्भिन्नं स्वस्थान क्षेत्रपाल च | इमं बलिं पदस्यान्ते पूजां गृह्णयुगं ततः || १४२ || स्वाहान्तमन्त्रमुच्चार्य क्षेत्रपालबलिं दिशेत् | क्षेत्रपालबलिं दत्त्वा मध्ये दद्यात्ततः परम् || १४३ || इत्युत्सृज्य बलिं दद्याद्राजराजेश्वराय च | बलिपात्रामृतेनैव तर्पयेद्वटुकादिकम् || १४४ || प्. १२८) एकत्र वा पञ्चबलिं दद्याद्व्यापकमण्डले | वामभागे स्थिते चैव सर्वविघ्नहरो भवेत् || १४५ || दक्षिणे वटुकं दद्यादुत्तरे योगिनीबलिम् | पूर्वे भूः बलिं दद्यात् क्षेत्रपालस्य पश्चिमे || १४६ || राजराजेश्वरं मध्ये बलिं दद्यात् सुसाधकः || १४७ || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये षष्ठोल्लासः || ६ || सप्तम उल्लासः पूजाविधिः अथ वक्ष्ये च पूजाया विधानं यत्र यद्भवेत् | पूजादौ च जपादौ च जपस्यान्ते तथैव च || १ || पूजान्ते चाग्निकार्यान्ते प्राणायामत्रयं चरेत् | प्राणायामषडङ्गञ्च कृत्वा साधकसत्तमः || २ || पीठपूजां प्रकुर्वीत स्वकल्पोक्तविधानतः | स्वकल्पोक्तविधानेन ध्यात्वा देवीं समाहितः || ३ || हृत्सरोजात् समानीय नासापुटपथा सुधीः | तेजोमयीं महादेवीं दीपाद्दीपान्तरं यथा || ४ || पुष्पाञ्जलौ ततः पश्चान्मन्त्रमध्ये समानयेत् | आवाहन्यादिमुद्राश्च दर्शयेत्तदनन्तरम् || ५ || आवाहन्यादिमुद्रानिरूपणम् १. आवाहनीमुद्रा २. स्थापनीमुद्रा ऊर्ध्वाञ्जलिमधः कुर्यादियमावाहनी भवेत् | इयं तु विपरीता चेत्तदा वै स्थापनी भवेत् || ६ || प्. १३०) ३. सन्निधापनीमुद्रा ४. सन्निरोधनीमुद्रा मिलितं मुष्टियुगलं सन्निधापनरूपिणी | अन्तरङ्गुष्ठमुष्टिभ्यां सन्निरोधनरूपिणी || ७ || ५. अवगुण्ठनीमुद्रा एतस्या एव मुद्रायास्तर्जन्यौ सरले यदि | अवगुण्ठनमुद्रेयमभितो भ्रामिता सती || ८ || ६. सकलाकृतिमुद्रा ७. परमीकरणीमुद्रा ८. धेनुमुद्रा देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः | अन्योऽन्यग्रथिताङ्गुष्ठप्रसारितकराङ्गुलिः || ९ || महामुद्रेति कथिता परमीकरणे बुधैः | परिवृत्य करौ पश्चात् तर्जनीमध्यमायुगम् || १० || कनिष्ठानामिकायुग्मं परस्परयुतं कुरु | धेनुमुद्रेयमाख्याता अमृतीकरणे बुधैः || ११ || स्वस्वकल्पोक्तविधिना मुद्राः सन्दर्शयेत्ततः | प्. १३१) दर्शयित्वा ततो मुद्रां तालत्रयपुरःसरम् || १२ || छोटिकाभिर्दिग्बन्धनं कृत्वा जीवं न्यसेत्ततः | लेलिहामुद्रया यन्त्रं स्पृष्ट्वा पञ्चकुशेन वा || १३ || लेलिहामुद्रा तर्जनीमध्यमानामाः समं कृत्वा अधोमुखम् | अनामायां क्षिपेद्वृद्धां ऋजुं कृत्वा कनिष्ठिकाम् || १४ || लेलिहेति च विख्याता जीवन्यासे प्रकीर्तिता | मूलमन्त्रेण दीप्तात्मा अर्घ्यद्रव्योदकेन च || १५ || त्रिवारं प्रोक्षयेद्धीमान् देवशुद्धिरितीरिता | ततः सम्पूजयेद्देवीं षोडशैरुपचारकैः || १६ || षोडशोपचारपूजनम् आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् | मधुपर्काचमनस्नानवसनाभरणानि च || १७ || गन्धपुष्पे तथा धूपदीपनैवेद्यवन्दनाः | (अथवा) पाद्यार्घ्याचमनस्नानवसनाभरणानि यच || १८ || गन्धपुष्पे धूपदीपनैवेद्याचमनं ततः | ताम्बूलमर्चनास्तोत्रं तर्पणञ्च ततः परम् || १९ || प्. १३२) अर्घ्यं पाद्यं निवेद्याथ तथैवाचमनीयकम् | मधुपर्काचमनञ्च गन्धप्रसूनके ततः || २० || धूपदीपौ च नैवेद्यं दशोपचारकं स्मृतम् | गन्धादयो नैवेद्यान्तः पूजा पञ्चोपचारिका || २१ || उत्तमादिभेदेन त्रिविधा पूजा उत्तमा मध्यमा चैव बुधैरुक्ताऽधमा क्रमात् | अभावे पुष्पतोयाभ्यां पत्रेण तदभावतः || २२ || तदभावे सर्षपेण श्वेतेनाऽपि विशेषतः | तदभावेऽक्षतेनैव दूर्वया तदभावतः || २३ || अभावे वारिणा वापि तदभावे च मानसैः | मूलान्ते देवतानाम ङेयुतञ्च समुद्धरेत् || २४ || देयद्रव्यपदोल्लेखं कृत्वा च तदनन्तरम् | हृदयेन तु पाद्यञ्च शिरसार्घ्यं निवेदयेत् || २५ || वारुणेनाचमनं प्रोक्तं तेनैव मधुपर्ककम् | शिखामन्त्रेण गन्धञ्च पुष्पं नेत्रेण दापयेत् || २६ || निवेदयामि वदने दद्यात् सर्वं सुसाधकः | पाद्यादिकं निवेद्याथ स्नानीयञ्च निवेदयेत् || २७ || प्. १३३) देवीस्नाननिरूपणम् ततश्च पादुके दत्त्वा सुरक्ते स्नानमन्दिरे | नानारत्नसमायुक्तस्वर्णसिंहासनान्विते || २८ || तत्रानीय महादेवीं साधकः शुद्धभावतः | घृतेनोद्वर्तनं कार्यं मनसा तदनन्तरम् || २९ || सुगन्धिदिव्यतैलेन देवकन्यासहस्रकैः | सहस्रैः स्वर्णकुम्भैश्च सुगन्धजलपूरितैः || ३० || आसिञ्चेद् भक्तिभावेन भवानीं भक्तवत्सलाम् | नानातीर्थोदकैः शुद्धैर्गन्धराजसहस्रकैः || ३१ || नागकन्यासहस्रैस्तु किन्नरैरप्सरोगणैः | पञ्चामृतैः पञ्चगव्यैः स्नापयेत्तदनन्तरम् || ३२ || नारिकेलोदकेनैव तथेक्षुवारिणा ततः | सप्तमृत्तिकया युक्त शीतलेन जलेन च || ३३ || शीतलोष्णोदकेनैव तथा रत्नोदकेन च | सुवासितजलेनैव देव्याः स्नानं समाचरेत् || ३४ || सहस्रशीर्षामन्त्रेण पावमान्या तथैव च | भृङ्गाराष्टककुम्भैस्तु देव्याः स्नानं विधाय च || ३५ || प्. १३४) उपचाराः ततः शुद्धैर्दुकूलैश्च गात्रमार्जनमाचरेत् | कार्पासं वाल्कलं वार्क्षं कोषजं वस्त्रमिष्यते || ३६ || रक्तकौषेयवस्त्रञ्च महादेव्यै प्रशस्यते | सपीताम्बरकौषं वा स्वदेवाय च उत्सृजेत् || ३७ || विचित्रं सर्वदेवेभ्यो दिव्यांशुकं निवेदयेत् | नीलरक्तं तु यद्वस्त्रं तत्सर्वत्र विवर्जयेत् || ३८ || विचित्ररागविपुलं लग्नहीनं विवर्जयेत् | वस्त्रं दद्यान्महादेव्यै नान्यस्मै तु कदाचन || ३९ || रक्तवस्त्रं रक्तमाल्यं रक्तालङ्करणं तथा | दत्त्वाऽङ्गलेपनं काकिर्यं गन्धचन्दनसिह्लकैः || ४० || पुनश्च पादुके दत्त्वा मनोरमे सुसाधकः | यन्त्रमध्ये समानीय नमस्कुर्यात् समाहितः || ४१ || प्. १३५) पुनः पाद्यादिकं दत्त्वा पूजयेद्विधिपूर्वकम् | यथोत्पन्नं फलं पुष्पं तथा दद्याच्च पत्रकम् || ४२ || पुष्पाञ्जलिप्रदानेन न भवेन्नियमस्त्वयम् | नाधोमुखं फलं दद्यादिति शास्त्रस्य निर्णयः || ४३ || ज्ञानमुद्रा ज्ञानाख्यमुद्रया चैव पूजयेत् परमेश्वरीम् | अङ्गुष्ठतर्जनीभ्यां तु ज्ञानमुद्रा प्रकीर्तिता || ४४ || मध्यमानामिकाभ्यां तु अङ्गुष्ठाग्रेण साधकः | दद्याच्च विमलं गन्धं मूलमन्त्रेण पूर्ववत् || ४५ || यथा गन्धं तथा चैव धूपं दद्याद्विचक्षणः | मध्यमानामिकाभ्यां तु मध्यपर्वणि देशिकः || ४६ || अङ्गुष्ठाग्रेण धूपञ्च धृत्वा च विनिवेदयेत् | उत्तोलनं त्रिधा कृत्वा गायत्र्या मूलयोगतः || ४७ || अनामिकाङ्गुष्ठयोगे नैवेद्यं तु निवेदयेत् | अन्यत् सर्वं स वीरः प्रदद्याज्ज्ञानमुद्रया || ४८ || दधिमधुघृतेनैव मधुपर्कः प्रकीर्तितः | पायसं कृशरं दद्यात् पाल्यन्नं मधुसंयुतम् || ४९ || प्. १३६) पिष्टकं मोदकञ्चैव दुग्धं दधि तथा फलम् | ताम्बूलञ्च ततो दद्यात् कर्पूरादिसुवासितम् || ५० || तत्र तत्र जलं दद्यादुपचारान्तरान्तरा | पुनर्माल्यं प्रदातव्यं गन्धवन्दनपङ्कजम् || ५१ || दर्पणं चामरं छत्रं पादुकाञ्च निवेदयेत् | विधिवत् पूजनं कृत्वा तर्पयेत्तत्त्वमुद्रया || ५२ || तत्त्वमुद्रा अङ्गुष्ठानामिकायोगाद्वामहस्तस्य सर्वदा | अङ्गुष्ठे भैरवो देवोऽनामायां चण्डिका सदा || ५३ || तर्पणविधिः अनामाङ्गुष्ठयोगेन तर्पयेत् कुलसन्ततिम् | अङ्गुष्ठमध्यमाभ्याञ्च वश्यकर्मणि तर्पयेत् || ५४ || कनिष्ठाङ्गुष्ठयोगेन स्तम्भने तर्पयेत्ततः | तर्जन्यङ्गुष्ठयोगेन तर्पयेदभिचारके || ५५ || एवं सन्तर्प्य देवेशीं कुलद्रव्यैर्यथाविधि | प्. १३७) तर्पणञ्चाष्टधा कार्यं सकृद्वापि यथेच्छया || ५६ || नार्चयेदेकहस्तेन तर्पयेन्नैकपाणिना | तर्पयित्वामहादेवीं स्वीयक्रममथाचरेत् || ५७ || देवतामन्तिकं कुर्यात् कुसुमैर्विहितैः सदा | पूजाकाले देवताया नोपरि भ्रामयेत् करम् || ५८ || देव्यनुज्ञां गृहीत्वा तु पूजयेदङ्गदेवताः | ध्यात्वा गुरुकुलं धीरो रश्मिवृन्दं तथैव च || ५९ || अङ्गदेवतापूजाविधिः स्व स्व स्थाने समावाह्य पूजयेत्तदनन्तरम् | विना यो हि गुरोः पूजामिष्टदेवं यजेद् यदि || ६० || निष्कृतिर्नास्ति तस्यैव नरकार्णवकोटिषु | तस्मात् सर्वप्रयत्नेन गुरुपूजां समाचरेत् || ६१ || गुरुपूजा दिव्यौघा गुरवो ह्येव सिद्धौघा गुरवस्तथा | मानवौघाः समासेन पूजनीयाः प्रयत्नतः || ६२ || प्. १३८) अथवा सर्वशास्त्रेषु गुरवः पूर्वसूचिताः | येषु येषु च मन्त्रेषु ये ये ऋषिगणाः स्मृताः || ६३ || ते ते पूज्याः सपर्यादौ सङ्क्षेपाद् गदितं मया | अज्ञात्वा गुरुनामानि गुरुत्रितयमर्चयेत् || ६४ || चतुष्टयं वा सङ्कोचो न च कार्यं ततः परम् | गुरुः परगुरुश्चैव परापरगुरुस्ततः || ६५ || परमेष्ठिगुरुश्चैव कथिता गुरव शुभाः | न जानामि गुरोर्नाम वंशशुद्धिः कदाचन || ६६ || त्वत्पादाम्बुजरेणूनां कर्णमादेहि दासताम् | इति स्तवेन संस्तुत्य तस्मिन्निजगुरुं यदि || ६७ || तन्नाम्ना पूजयेद्यस्तु तेन पूजा गुरोर्भवेत् | गुरुपूजां विना चैव यदि पूजां समाचरेत् || ६८ || तद्दोषशमने चैव कुलपूजां समाचरेत् | पूर्ववत्तर्पणं कृत्वा रश्मिवृन्दं प्रपूजयेत् || ६९ || यत्र यत्र स्थितिश्चैव तत्र तं नार्चयेद्यदि | तन्मांसरुधिरेणैव पारणं तस्य जायते || ७० || एकपीठे पृथक् पूजां विना यन्त्रं करोति यः | अङ्गाङ्गित्वं परित्यज्य देवताशापमाप्नुयात् || ७१ || प्. १३९) आवाह्य देवतामेकामर्चयंश्चान्यदेवताम् | उभाभ्यां लभते शापं मन्त्री चञ्चलमानसः || ७२ || तस्मात् सर्वप्रयत्नेन स्वस्वस्थाने यथाक्रमात् | सम्पूज्य देवताः सर्वास्तर्पयेत्तदनन्तरम् || ७३ || ब्रह्माण्याद्यष्टशक्तींश्च पूजयित्वा च तर्पयेत् | पुनः सम्पूजयेद् देवीमुपचारैश्च विस्तरैः || ७४ || आसनं प्रथमं दद्यात् रौप्यं दारुजमेव वा | वस्त्रं वा चार्मणं कोषं मण्डपस्योत्तरे सृजेत् || ७५ || पाद्यं दत्त्वा महादेव्यै चार्घ्यम् दद्यात्ततः परम् | श्यामा दूर्वा पङ्कजञ्च विष्णुक्रान्तासमन्वितम् || ७६ || गन्धपुष्पाक्षतजवाकुशाग्रतिलसर्षपैः | सदूर्वैः सर्वदेवानामेतदर्घ्यमुदीरितम् || ७७ || केवलं तोयमात्रेण तदाचमनमिष्यते | वासितन्तु सुगन्धाद्यैः कर्त्तव्यं यदि लभ्यते || ७८ || प्. १४०) गन्धाष्टकम् अर्घ्यादिकं प्रदद्यात्तु गन्धाष्टकं निवेदयेत् | चन्दनागुरुकर्पूरं चोरकुङ्कुमरोचनाः || ७९ || जटामांसी कपिजटा शक्तेर्गन्धाष्टकं विदुः | नानाविधानि पुष्पाणि वसनाभरणानि च || ८० || मालां दद्यात्ततो देव्यै गन्धचन्दनमिश्रितम् | सर्वाङ्गलेपनं दद्याद् धूपं दद्यात्ततः परम् || ८१ || धूपनिर्माणनिरूपणम् उशीरं चन्दनं कुष्ठमगुरुं गुग्गुलुं तथा | मधुना घृतसंयुक्तो धूपोऽयं चण्डिकाप्रियः || ८२ || (अथवा) रोगरोगहररोगदकेशाः सुरतरुजतुलघुपत्रविशेषाः | वक्रतारहितवारिजमुद्रा धूपवर्तिरिह सुन्दरि भद्रा || ८३ || हरितकीमुस्तमथो नखी च मांसी जतुशैलजदेवदारुः | कुष्ठं गुडः सर्जरसस्तथैव दशाङ्गधूपः कथितो मुनीन्द्रैः || ८४ || प्. १४१) (अथवा) अगुरुशीरगुग्गुलुशर्करामधुचन्दनैः | धूपयेदाज्यसंमिश्रैर्नोचैर्देवस्य देशिकः || ८५ || केवलं गुग्गुलं धूपमगुरुं वापि सन्दिशेत् | एषामेकतमं कृत्वा निवेद्य शास्त्रवर्त्मना || ८६ || न भूमौ स्थापयेद्धूपमासने च घटेऽपि वा | कुलदीपदानविधिः घृतप्रदीपं प्रथमं तिलतैलोद्भवं ततः || ८७ || सार्षपं फलनिर्यासजातं वा वारिजोद्भवम् | प्रणवं जयध्वनिपदं मातः स्वाहा ततः परम् || ८८ || अनेन पूजयेद् घण्टामनेन परिवादयेत् | तैजसं दारुजं वापि आर्त्तिक्यं दीपवृक्षकम् || ८९ || अत्र दीपं प्रदातव्यं भूमौ नहि कदाचन | एवं दीपं प्रकुर्वीत नेत्ररञ्जनकारकम् || ९० || घृतदीपं दक्षिणे तु स्ववामे तैलदीपकम् | अभितो दीपयेन्मन्त्री दीपमालां घृतल्पताम् || ९१ || प्. १४२) कर्पूरवर्तिकायुक्तां तेनैव वा परिप्लुताम् | वर्त्ता कर्पूरगन्धिन्या सर्पिषा तिलजेन वा || ९२ || आरोप्य दर्शयेद्दीपानुच्चैः सौरभशशालिनः | दीपाबलिं ततो दत्त्वा कुलदीपं निवेदयेत् || ९३ || सौवर्णे राजते कांस्ये स्थानके कुङ्कुमेन तु | दलाष्टकयुतं पद्मं विलिख्य तत्र साधकः || ९४ || यवगोधूमदुग्धाद्यैः कृत्वेन्दुरूपकं चरुम् | अष्टपत्रेषु मध्ये च स्थापयित्वा ततः परम् || ९५ || नवदीपं क्षिपेत्तत्र मूलमन्त्रेण मन्त्रयेत् | सप्तधा तत्र उत्तोल्य नवधा भ्रामयेत्ततः || ९६ || निर्मञ्चयेन्महादेवीं मूलमन्त्रं समुच्चरन् | ततश्च साधकश्रेष्ठश्चक्रमुद्रां प्रदर्शयेत् || ९७ || चक्रमुद्रालक्षणम् दक्षिणेतरहस्तस्य वृद्धागर्भकनिष्ठिका | दक्षिणे योजयित्वा तु कनिष्ठे गर्भके बुधः || ९८ || वामे च यदक्षिणाङ्गुष्ठं साधको विनियोजयेत् | अन्योन्ययोगतश्चैव चक्रमुद्रा प्रकीर्तिता || ९९ || प्. १४३) प्रदत्त्वा कुलदीपञ्च नैवेद्यं तु प्रदापयेत् | तैजसेषु च पात्रेषु प्रस्तरे वाऽब्जपत्रके || १०० || यज्ञदारुमये वापि नैवेद्यं कल्पयेद् बुधः | सर्वाभावे तु माहेये स्वहस्तघटिते यदि || १०१ || न दद्यात् वाल्कले लौहे दत्ते नरकमाप्नुयात् | यद्योग्यं सर्वपात्रे तु तन्निधाय निवेदयेत् || १०२ || अन्नतोयैर्यथा सृष्टमर्घ्यपात्रस्थितेतरैः | न गृह्णाति महादेवी दत्तं विधिशतैरपि || १०३ || नैवेद्यं षड्रसोपेतं नानाविधफलं तथा | नानाविधानि द्रव्याणि दत्त्वा देव्यै प्रयत्नतः || १०४ || मद्यं निवेद्य मांसञ्च मत्स्यं मुद्रां ततः परम् | दत्त्वा देव्यै प्रयत्नेन अन्नं बहुविधं तथा || १०५ || विविधं व्यञ्जनं रम्यं कषायं तिक्तसंयुतम् | कट्वम्लमधुरञ्चैव परमान्नं सशर्करम् || १०६ || प्. १४४) शर्करादुग्धखण्डादिभावितं पिष्टकं तथा | दुग्धं दधि तथा तक्रं नवनीतं सशर्करम् || १०७ || शर्करामोदकं दद्यादन्यं नानाविधं तथा | चर्व्यं चोष्यं लेह्यपेयं भक्ष्यं भोज्यं निवेदयेत् || १०८ || अशक्तौ मनसा दद्यादेतत् कर्म न लोपयेत् | चुल्लुकञ्च ततो दत्त्वा प्राणमुद्रां प्रदर्शयेत् || १०९ || प्राणादिपञ्चमुद्रा वृद्धानामाकनिष्ठाभिः प्राणमुद्रा समीरिता | वृद्धामध्यातर्जनीभिरपानस्य प्रकीर्तिता || ११० || वृद्धानामामध्यमाभिर्व्यानमुद्रा प्रदर्शिता | कनिष्थाभिन्नसर्वाभिरुदानस्य समीरिता || १११ || समानमुद्रा सर्वाभिरङ्गुलीभिः प्रदर्शिता | प्राणापानौ तथा व्यान उदानश्च समानकः || ११२ || चतुर्थ्यन्तोऽग्निजायान्तस्ताराद्यो मुद्रिकामनुः | वामहस्ते प्रासमुद्रा प्रासवत् परिकीर्तिता || ११३ || प्. १४५) पुनराचमनीयञ्च दत्त्वा देव्यै सुसाधकः | स्वयम्भूकुसुमं कुण्डगोलोत्थं रोचनागुरुम् || ११४ || कस्तूरीकुङ्कुमारक्तचन्दनानि प्रदापयेत् | गन्धपुष्पं तथा माल्यं रक्तपुष्पादिभूषणम् || ११५ || सिन्दूरं कज्जलं दद्यादलक्तं पट्टगुच्छकम् | द्रोणापराजितापुष्पं करवीरं जवां तथा || ११६ || प्रयत्नेन प्रदातव्यं चण्डिकाप्रीतिकारकम् | दत्ते चैव जवापुष्पे पट्टवस्त्रफलं लभेत् || ११७ || अपरायाश्च माहात्म्यं वक्तुं नहि कदाचन | ताम्बूलञ्च ततो दद्यात् कर्पूरादिसुवासितम् || ११८ || पुनर्माल्यं प्रदातव्यं गन्धचन्दनसंयुतम् | दर्पणं पादुकां छत्रं चामरं व्यजनादिकम् || ११९ || अजादिबलिदानेन चण्डिकां तोषयेत्ततः | स्वहस्तेन पशुच्छेद निषेधः यत्नतस्तु बलिं दद्यान्न हन्यादात्मना पुनः || १२० || प्. १४६) स्वहस्तैर्न पशुं हन्यात् स्वतो हिंसां विवर्जयेत् | यदि हन्यात् प्रमादेन रौरवं नरकं व्रजेत् || १२१ || छागादीनि बलिं दत्त्वा धूपदीपं निवेदयेत् | गृहीत्वा शोणितं पात्रे स्वकीयं हृदयोद्भवम् || १२२ || तोयसैन्धवसंयुक्तं शर्करामधुसंयुतम् | प्रदद्याच्च महादेव्यै सर्वसौभाग्यहेतवे || १२३ || अभ्युक्ष्य रुधिरं धीरो वाग्भवेन प्रदापयेत् | शक्तिबीजेन वा दद्यान्नाभेरूर्ध्वमधो नहि || १२४ || पुष्पाञ्जलित्रयं दत्त्वा तर्पयेन्निजदेवताम् | ततश्च साधकश्रेष्ठो मन्त्रशुद्धिं माचरेत् || १२५ || गृहीत्वा मातृकावर्णं मूलमन्त्राक्षराणि च | क्रमात् क्रमाद् द्विरावृत्तिर्मन्त्रशुद्धिरितीरिता || १२६ || वाचिकादिभेदेन त्रिविधो जपः आदौ मन्त्रविशुद्धार्थं जपं कुर्यात्ततः परम् | जपञ्च त्रिविधं प्रोक्तं वाचिकोपांशुमानसम् || १२७ || प्. १४७) जिह्वौष्ठाधरसंस्फूर्त्तेर्जपो यश्च प्रजायते | तज्जपं वाचिकं विद्धि जिह्वामात्रमुपांशुकम् || १२८ || मनसा मन्त्रवर्णस्य चिन्तनं मानसं स्मृतम् | वाचिकस्य शतं ज्ञेयं एकोत्तरमुपांशुना || १२९ || तस्माच्छतगुणं प्रोक्तं मानसं जपमुत्तमम् | (अथवा) निगदश्च तथा ज्ञेयः स्पष्टवाचा निगद्यते || १३० || अव्यक्तस्तु स्फुरद्वक्त्र उपांशुः परिकीर्त्तितः | मानसश्च स बोद्धव्यश्चिन्तनाक्षररूपवान् || १३१ || निगदेन तु यज्जप्तं लक्षमात्रं सुसाधकैः | उपांशुस्मरणेनैव तुल्यं भवति सर्वथा || १३२ || अपांशुलक्षमात्रं तु यज्जप्तं साधकेन च | मानसोच्चारणात्तुल्यं जायते साधकस्य च || १३३ || प्राणायामं षडङ्गञ्च कृत्वा ऋष्यादिकञ्चरेत् | प्. १४८) स्वगुरुं मूर्ध्नि सञ्चिन्त्य हृदि देवीं ततः परम् || १३४ || स्वयं कामकलारूपं भावयन् जपमारभेत् | जपस्यादौ शिवां ध्यायेत् ध्यानस्यान्ते पुनर्जपेत् || १३५ || जपध्यानसमायुक्तः शीघ्रं सिध्यति साधकः | ध्यानं कृत्वा जपेन्मन्त्रं गुरुक्तक्रमतो बुधः || १३६ || सर्वे मन्त्राः सिद्धिदाः स्युः सत्यमेव न संशयः | ततः सम्पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः || १३७ || मालापूजा ओं ह्रीं अक्षमालायै हृन्मन्त्रेण प्रपूजयेत् | ओं माले माले महामाले सर्वसिद्धिस्वरूपिणि || १३८ || चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव | मालाजपविधिः पूजयित्वा ततो मालां गृहीत्वा दक्षिणे करे || १३९ || हृत्समीपे समानीय न तु वामेन संस्पृशेत् | विना यन्त्रञ्च मन्त्रञ्च कवचं मन्त्रशून्यतः || १४० || मालाञ्च वामहस्तेन मृत्युचिह्नस्य लक्षणम् | संख्या कृता मृत्तिका च अक्षतञ्च तथैव च || १४१ || प्. १४९) मध्यमाया मध्यभागे स्थापयित्वा समाहितः | तर्जन्या न स्पृशेन्मालामङ्गुष्ठाग्रेण चालयेत् || १४२ || पार्श्वयोः सेतुमादाय जपकर्म समाचरेत् | निःसेतुश्च यथा तोयं क्षणान्निम्नं प्रसर्पति || १४३ || मन्त्रस्तथैव प्रणवो द्विजानां सेतुरीरितः | शूद्राणां चन्द्रबिन्दुस्थ औकारः सेतुरुच्यते || १४४ || शूद्राणामादिसेतुर्वा द्विसेतुर्वा यथेच्छया | द्विसेतवः समाख्याताः सर्वथैव द्विजातयः || १४५ || यथा मन्त्रं तथा स्तोत्रं कवचञ्च तथाविधम् | सेतुं विना भवेद्वयर्थं तस्मात् सेतुं समाचरेत् || १४६ || प्रत्येकं बीजमादाय अङ्गादूर्ध्वेन मन्त्रवित् | पूर्वबीजं जपन् यस्तु परबीजन्तु संस्पृशेत् || १४७ || अङ्गुष्ठेन विना यस्य निष्फलः स जपः सदा | एवमुक्तविधानेन विलम्बं त्वरितं त्यजेत् || १४८ || मेरुं प्रदक्षिणीकृत्य प्रजपेत् साधकोत्तमः | गणनाविधिमुल्लङ्घ्य यो जपेत्तज्जपं पुनः || १४९ || प्. १५०) गृह्णन्ति राक्षसास्तेन गणयेत् सर्वदा बुधः | अथवा करमालायां मातृकायां तथैव च || १५० || नित्यं जपं करे कुर्यान्न तु काम्यं कदाचन | नित्यजपे च होमे च यत्र संख्या न चोदिता || १५१ || जपसंख्या तत्रेयं गणना प्रोक्ता अष्टोत्तरसहस्रकम् | अष्टोत्तरशतं वापि त्रिंशद्वापि कदाचन || १५२ || त्रिंशन्न्यूनं न कुर्याच्च नित्यजापे च साधकः | यथाशक्ति जपं कृत्वा प्राणायामं विधाय च || १५३ || जपसमर्पणं गोपयित्वा ततो मालां सप्रसूनार्घ्यवारिणा | तेजोमयं जपफलं देव्या हस्ते समर्पयेत् || १५४ || प्रणामविधिः गुह्यातीति समर्प्याथ स्तुवन् घण्टाञ्च वादयेत् | त्रिविधेन नतिं कुर्यादष्टाङ्गकविधानकैः || १५५ || प्. १५१) चिबुकेन मुखेनाथ नासया मस्तकेन च | ब्रह्मरन्ध्रेण कर्णाभ्यां यद्भूमेः स्पर्शनं भवेत् || १५६ || (अथवा) उरः शिरोद्दष्टिजानुमनश्चरणवाक्करैः | अष्टाङ्गनमनं ज्ञेयं नित्यहोमं ततः परम् || १५७ || नित्यं नैमित्तिकं होमं स्थण्डिलेषु समाचरेत् | न कुर्यात् काम्यहोमं वै विना कुण्डेन मन्त्रवित् || १५८ || स्वदक्षिणे लिखेद्धस्तप्रमाणं चतुरस्रकम् | अङ्गुलोत्सेधसंयुक्तं वालुकाभिः समन्ततः || १५९ || तत्र मध्ये च षट्कोणं लिखित्वा प्रोक्ष्य पूजयेत् | आधारशक्तिमभ्यर्च्य पूर्ववच्च षडङ्गकम् || १६० || ततो वह्निं समुज्ज्वाल्य क्रव्यादंशं परित्यजेत् | शब्दास्त्रमनुना मन्त्री नैर्-ऋत्यां ज्वलदग्निकम् || १६१ || आत्मनोऽभिमुखं कृत्वा वह्निं संस्थापयेद् बुधः | अग्निं प्रज्वाल्य मूलेन ज्वालिनीञ्च प्रदर्शयेत् || १६२ || प्. १५२) ज्वालिनीमुद्रा मणिबन्धौ समौ कृत्वा करौ तु प्रसृताङ्गुली | मध्यमे मिलिते कृत्वा तन्मध्येऽङ्गुष्ठकौ क्षिपेत् || १६३ || इयं स्याज्ज्वालिनी मुद्रा परमा होमकर्मणि | अग्निं सम्पूजयित्वा तु शिवशक्तिसमागमात् || १६४ || वह्निमध्ये समावाह्य इष्टदेवीं समाहितः | आवाहन्यादिका मुद्रा दर्शयित्वा तु रक्षयेत् || १६५ || सम्पूज्य च महादेवीं हव्यं संशोधयेत्ततः | संस्थाप्य हवनीयञ्च पूर्ववत् प्रोक्षणञ्चरेत् || १६६ || चतुर्धा शोधनं कृत्वा आज्यस्थाली तु सन्दिशेत् | पूर्ववन्मण्डलं कृत्वा पूजयेत् पूर्ववर्त्मना || १६७ || अत्र पात्रं विनिक्षिप्य हव्यं तत्र निधापयेत् | दशधा मूलमन्त्रेण अभिमन्त्र्य हुनेत्ततः || १६८ || प्रणवं भूस्ततः स्वाहा इदमग्निञ्च ङेयुतम् | तारं भुवो वह्निजाया इदञ्च वायवे पदम् || १६९ || ओं स्वः स्वाहा इदं प्रोच्य प्रजाधिपतये ततः | इत्याहुतित्रयं हुत्वा महाव्याहृतिसाङ्कम् || १७० || हव्ये वह्नौ तथा देव्यां आत्मन्यैक्यं विभावयेत् | प्. १५३) षडङ्गमनुना षट्कमाहुतिं जुहुयात्ततः || १७१ || मूलान्ते देवतानाम ङेयुक्तञ्च समुच्चरेत् | ततः स्वाहा समुच्चार्य अष्टोत्तरसहस्रकम् || १७२ || हविषा च हुनेद्धीर तिलेन पलनेन वा | अष्टोत्तरशतं वापि तदर्द्धं वापि साधकः || १७३ || अथवाष्टदशं कुर्यान्नित्यहोमे त्वयं विधिः | मांसेन मधुना चाज्यैर्मत्स्यैः पुष्पैस्तिलैस्तथा || १७४ || यवैर्धान्यैश्च मुद्राभिः कुलपुष्पैस्तथा फलैः | अपामार्गैर्बिल्वपत्रैर्भृङ्गराजैः सुशोभनैः || १७५ || पुष्पनामानि करवीरैर्जवापुष्पैरपराद्रोणकिंशुकैः | पद्मैश्च कुमुदैः कुन्दैर्नीलरक्तोत्पलैस्तथा || १७६ || सौगन्धिकैश्च बन्धूकैः केशरैश्चम्पकैस्तथा | जातीभिर्मालतीभिश्च मल्लिकाभिः कदम्बकैः || १७७ || मनोरमैः प्रसूनैश्च फलैः पत्रैर्यथाविधि | अनेन विधिना मन्त्री देव्या होमं समाप्य च || १७८ || होमसमाप्तिः पञ्चप्राणाहुतीर्मूलैः षडङ्गानां षडहुतोः | गुरुवृन्दं रश्मिवृन्दं समावाह्य हुनेत्ततः || १७९ || प्. १५४) क्रमादेकाहुतिं हुत्वा प्रत्येकेन सुसाधकः | आहुतित्रितयं हुत्वा पुनर्देव्यै प्रयत्नतः || १८० || पुनराचमनीयं तु दत्त्वा वह्नौ समानयेत् | संहारमुद्रया देवीं ओं अग्नये ततः परम् || १८१ || वह्निजायान्तमन्त्रेण आहुतित्रितयं हुनेत् | विसृज्याग्निञ्च देवीञ्च शङ्खघण्टाञ्च वादयेत् || १८२ || तर्पयित्वा ततो देवीं चक्रस्थां परमेश्वरीम् | देव्यङ्गमूर्ध्नि संहृत्वा शेषं कर्म समाचरेत् || १८३ || निवेदित पञ्चतत्त्वग्रहणफलकथनम् ततश्च कौलिकैः सार्द्धं पानं कुर्यात् कुलामृतम् | पञ्चतत्त्वं महादेव्यै दत्त्वा न स्वीकरोति यः || १८४ || नैवेद्यादि तथा सोऽपि देवीनां शापभाग्भवेत् | रोगी दुःखी दरिद्रश्च भूत्वा नरकमाप्नुयात् || १८५ || पानस्य त्रैविध्यम् एकाकी नाचरेत् पानं कौलिकैर्मायया सह | पानञ्च त्रिविधं प्रोक्तं दिव्यवीरपशुक्रमात् || १८६ || प्. १५५) दिव्यं देव्यग्रतः पानं वीरमेकान्तवासिनाम् | संस्कारादिविहीनं यत्तत् पानं पाशवं स्मृतम् || १८७ || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये सप्तमोल्लासः || ७ || अष्टम उल्लासः अन्नपूर्णायाः पूजाध्यानादि विधानम् क्रमं तस्य प्रवक्ष्यामि चतुर्वर्गप्रदायकम् | अन्नमध्ये त्वष्टपत्रं पद्मं निर्माय तत्र वै || १ || कारणैः पूर्णपात्रं तु संस्थाप्य तत्र साधकः | षड्दीर्घमायया चैव षडङ्गन्यासमाचरेत् | ततो ध्यायेदन्नपूर्णां परमानन्ददायिनीम् || २ || अन्नपूर्णाध्यानकथनम् आदाय दक्षिणकरेण सुवर्णदर्वीन् दुग्धान्न पूर्णामितरेण च रत्नपात्रम् | भिक्षान्नदाननिरतां नव हेमवर्णा मम्बां भजे सकलभूषणभूषिताङ्गीम् || ३ || एवं ध्यात्वा महादेवीं तत्रावाह्य सुसाधकः | तत्त्वमुद्रां प्रदर्श्याथ इदमन्नामृतं वदेत् || ४ || पूरयद्वन्द्वमुच्चार्य नमः स्वाहा ततः परम् | प्. १५७) तत्र सन्तर्पयेद्भक्त्या अन्नपूर्णा यजेत्ततः || ५ || तारञ्च भुवनेशानीं श्रीबीजं कामबीजकम् | हृदन्ते भगवत्यन्ते माहेश्वरीपदं लिखेत् || ६ || अन्नपूर्णे अग्निजाया त्वन्नपूर्णामनूत्तमः | यथाशक्ति जपं कृत्वा स्तुत्वा देवीं समाहितः || ७ || अर्चयित्वा तु देवेशीं कौलिकान्नार्चयन्ति ये | पापिष्ठास्ते चण्डिकायाः प्रसादभाजनं नहि || ८ || नैवेद्यं पुरतो न्यस्तं दर्शनात् स्वीकृतं त्वया | साधुभक्तस्य जिह्वायामश्नामि कमलेक्षणे || ९ || वसन्ति तस्य जिह्वायां शिवशक्त्यादिदेवताः | तस्मात् कौलिकवक्त्रेषु होतव्यं साधकोत्तमैः || १० || चण्डिकायाः प्रियाकाङ्क्षो देवीभक्तान् यजेत् सदा | कौलानां लक्षणं वक्ष्ये यथातन्त्रानुसारतः || ११ || कौललक्षणम् निवृत्तदुःखसन्तुष्टा विद्यागमविमत्सराः | प्. १५८) कुलज्ञानरताः शान्ताः शिवभक्ता दृढव्रताः || १२ || कीर्त्यमाने कुले येषां रोमाञ्चगद्गदस्वराः | आनन्दाश्रुयुता वीराः कथिताः कौलिकेश्वराः || १३ || सर्वधर्मोऽधिको लोके कुलधर्मः शिवोदितः | इति ये निश्चितधियः प्रोक्तास्ते कौलिकोत्तमाः || १४ || कुलार्चनप्रशंसा यो भवेत् कुलतत्त्वज्ञः कुलशास्त्रविशारदः | कुलार्चनरतपुंसां कौलिकः सोऽधिकः सदा || १५ || कुलभक्तान् कुलाचारान् कुलज्ञानान् कुलव्रतान् | प्रीतो भवति यो दृष्ट्वा कौलिकः स शिवप्रियः || १६ || पञ्चतत्त्वस्वीकरणात् मूलमन्त्रार्थतत्त्ववित् | देवतागुरुभक्तश्चेत् कौलिकः स्याच्च दीक्षया || १७ || दुर्लभं सर्वलोकेषु कुलाचार्यस्य दर्शनम् | यः शक्तीः स्वयमाहूय कुलाभिज्ञांस्तथैव च || १८ || अभ्यर्च्य देवताबुद्ध्या गन्धपुष्पाक्षतादिभिः | मादिभिः पञ्चमुद्राभिः सद्भक्त्या परितोषयेत् || १९ || प्. १५९) तेषु तुष्टेषु सन्तुष्टाः शिवाद्याः सर्वदेवताः | कुलज्ञानी वसेद् यत्र स देशः पुण्यभाजनः || २० || दर्शनादर्चनात्तस्य त्रिसप्तकुलमुद्धरेत् | कुलज्ञानिनमालोक्य स्वगृहेऽन्यगृहे स्थितम् || २१ || समायान्ति मुदा तत्र योगिन्यो योगिभिः सह | प्रविश्य कुलयोगीशं भुञ्जते पितृदेवताः || २२ || यत् कृतं कुलनिष्ठानां तद्देवानां कृतं भवेत् | देवाः कुलप्रियाः सर्वे तस्मात् कौलिकमर्चयेत् || २३ || ब्रह्मेन्द्राच्युतरुद्रादिदेवता मुनिराक्षसाः | कुलधर्मपरा ह्येते मानुषेषु च का कथा || २४ || न तुष्टा चण्डिकाऽन्यत्र तथातः स्यात् सुपूजिता | कौलिकेन्द्रेऽर्चिते सम्यग् यथा तुष्टा हि चण्डिका || २५ || प्. १६०) यत् फलं कौलिकेन्द्राणां पूजनाल्लभते सुधीः | तत्फलं नाप्नुयात्तिर्थैस्तपोव्रतमखैः सदा || २६ || तन्निन्दायां दोषः पूजनाज्जपनाद्धोमात् सुकृतं विविधं तथा | कौलिकस्य भवेद् व्यर्थं कौलिकं योऽवमानयेत् || २७ || श्मशानं तद्गृहं विद्धि पापिष्ठः श्वपचाधमः | कुलनिष्ठं परित्यज्य यच्चान्यस्मै प्रदीयते || २८ || तद्दानं निष्फलं विद्याद्दाताऽपि नरकं व्रजेत् | पापाचारसमायुक्तं सर्वलोकबहिष्कृतम् || २९ || त्रायते हि कुलद्रव्यं कुलयोगीश्वरार्पितम् | कौलिकेन्द्रः सकृद्भुङ्क्ते पुण्यं कोटिगुणं भवेत् || ३० || कुलधर्मप्रशंसा किं पुनर्बहुभिर्भुक्तैस्तत् पुण्यं नैव गण्यते | तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वथा || ३१ || कुलधर्मपरो भूत्वा कुलज्ञानिनमर्चयेत् | नन्दन्ति पितरः सर्वे गायन्ति च पितामहाः || ३२ || प्. १६१) प्रपितामहाश्च नृत्यन्ति कौलिके गृहमागते | यज्ञकोटिफलं तस्य वाजपेयशतानि च || ३३ || ददाति कौलिकेभ्यश्च बिन्दुमात्रालिसङ्गमात् | पृथिवी हेमपूर्णा च कल्पकोटिप्रदानतः || ३४ || तत्फलं स्पर्शनाज् ज्ञानात् कौलिके यागमन्दिरे | कौलिकेषु प्रसन्नेषु प्रसन्ना चण्डिका भवेत् || ३५ || संस्मृतः कीर्तितो दृष्टो वन्दितो भाषितोऽपि वा | पुनाति कुलधर्मिष्ठश्चण्डालोऽपि यदृच्छया || ३६ || सर्वज्ञो वापि मूर्खो वा उत्तमो वाऽधमोऽपि वा | सर्वथैव शिवः सोऽपि तस्माद्यत्नात् समर्चयेत् || ३७ || स धन्यः खलु लोकेषु पुरुषः क्षीणकल्मषः | यत्समीपं समायान्ति कुलाचार्याश्च साधकाः || ३८ || अथ कौलान् समानीय शक्तीश्चैव विशेषतः | स्वशक्तिं वीरशक्तिं वा दीक्षितां गृहिणीमथ || ३९ || प्. १६२) पाययित्वा पिबेद् द्रव्यमिति शास्त्रस्य निर्णयः | अनिवेद्य तु यः शक्तौ कुलद्रव्यं निषेवते || ४० || पूजा च विफला तस्य देवता न प्रसीदति | विना यन्त्रेण या पूजा विना मांसेन तर्पणम् || ४१ || विना शक्त्या तु यत्पानं तत्सर्वं निष्फलं भवेत् | आहूतो यो निवर्तेत अनाहूतोऽपि यो विशेत् || ४२ || चक्रमध्ये स पापी स्यात् सर्वधर्मबहिष्कृतः | तिरश्चां योनिमालम्ब्य नरकान् प्रतिपद्यते || ४३ || चक्रविधिः पूजास्थाने प्रयत्नेन आसनानि प्रदापयेत् | ततः कौलाः स्त्रियः सर्वा प्रक्षाल्य पाणिपादकम् || ४४ || प्रणम्य प्रविशेच्चक्रं मुद्राभिः पञ्चसञ्ज्ञकैः | स्त्रीणामन्यतमं स्थानं पुंसामन्यतमं पृथक् || ४५ || अथवा मिथुनं कृत्वा क्रमात् समुपवेशयेत् | पङ्क्त्याकारेण वा सम्यक् चक्राकारेण वाऽथवा || ४६ || प्. १६३) चक्रमध्ये तु मूढात्मा जातिभेदं करोति यः | तं भक्षयन्ति योगिन्यस्तं शपेच्चण्डिका सदा || ४७ || चक्रमध्ये जातिभेदनिषेधः जातिभेदो न चक्रेऽस्मिन् सर्वे शिवसमाः स्मृताः | प्रवृत्ते भैरवीचक्रे सर्वे वर्णा द्विजातयः || ४८ || निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक् | रहस्यमार्गनिरता ये ये वर्णा भवन्ति हि || ४९ || ते ते विप्राः सर्वथैव सत्यं सत्यं न संशयः | स्वर्गादिपुण्यलोकेषु देवादन्यो यथा न हि || ५० || तथैव चक्रमध्ये तु देवाः सर्वे हि मानवाः | वेदेऽपि स्थितमेवं हि सर्वं ब्रह्मेति चाब्रवीत् || ५१ || बहुनात्र किमुक्तेन चक्रमध्ये तु साधकाः | पुरुषाः शिवरूपाश्च देवीरूपाः स्त्रियः सदा || ५२ || शिवशक्तिधिया सर्वाश्चक्रमध्ये समर्चयेत् | संस्काराज्ज्येष्ठक्रमतो ललाटे गन्धचन्दनैः || ५३ || शक्तीनां साधकानाञ्च तिलकञ्च सहाक्षतम् | कृत्वा विलेपनं माल्यं प्रदद्यात् साधकोत्तमः || ५४ || प्. १६४) अलिपानविधिः न स्थूलं न हि सूक्ष्मञ्च पात्रं कृत्वा मनोरमम् | नयनाग्निवाणसंख्यातैः कर्षन्तु साधकेन च || ५५ || हेतुपानं प्रकर्तव्यमित्युक्तं कुलसाधने | इत्यप्यधिकपानं तु न कर्तव्यं तु साधकैः || ५६ || कराभ्यां पात्रमुद्धृत्य द्वितीयञ्च यथाक्रमात् | ततः श्रीगुरुपादाय साक्षात् परशिवाय च || ५७ || समांसं देवताबुद्ध्या समर्पयेद्यथाक्रमात् | दत्त्वामृतरसं पूर्णं गुरवे तदनन्तरम् || ५८ || योषिद्भ्यस्त्ववशेषं तु वीरेभ्यश्च ततः परम् | कुलजाय कुलीनाय कुलभक्ताय दापयेत् || ५९ || गुरुभ्यो गुरुपात्रञ्च शक्तिभ्यः शक्तिपात्रकम् | वीरेभ्यो वीरपात्रञ्च भोगपात्रं स्वयं पिबेत् || ६० || साक्षाद्यदि गुरुर्न स्यात्तदा तोये विसर्जयेत् | सुधाबुद्ध्या ततः सर्वे गृहीत्वा पात्रमुत्तमम् || ६१ || प्. १६५) ध्यानं कुर्यात् सुधादेव्या यथाशास्त्रप्रमाणतः | सुधादेवीध्यानम् समुद्रे मध्यमाने तु क्षीराब्धौ सागरोत्तमे || ६२ || तत्रोत्पन्नां सुधां देवीं कन्यकारूपधारिणीम् | गोमूत्रसदृशाकारां फेनामृतसमुद्भवाम् || ६३ || अष्टादशभुजैर्युक्तां नीरजायतलोचनाम् | आनन्दशिखरे जात आनन्दश्च महेश्वरः || ६४ || तयोर्योगाद् भवेद् ब्रह्मा विष्णुश्च शिव एव च | तस्मादिमां सुरादेवीं पूर्णोऽहं तां भजाम्यहम् || ६५ || एवं ध्यात्वा मूलमन्त्रं सप्तवारं जपेत्ततः | तस्योपरि ततो वीरः पञ्च मुद्राः प्रदर्शयेत् || ६६ || धेनुयोनिं ततः पश्चाद्दर्शयेच्च पुनः पुनः | तालत्रयछोटिकाभिः कुर्वीत दिक्षु बन्धनम् || ६७ || पूर्ववत्तर्पयेत् मूर्ध्नि आनन्दभैरवं तथा | आनन्दभैरवीं देवीं गुरुपङ्क्तिं प्रयत्नतः || ६८ || इष्टदेवं रश्मिवृन्दं गणेशं क्षेत्रपालकम् | वटुकं भैरवञ्चैव योगिनीं डाकिनीं तथा || ६९ || महाभूतान् विघ्नदांश्च तर्पयेच्च यथाक्रमात् | प्. १६६) पुर्णाभिषेकहीनानां पाने नाधिकारः अयष्ट्वा भैरवं देवमकृत्वा गुरुतर्पणम् || ७० || पशुपानविधौ पीत्वा वीरोऽपि नरकं व्रजेत् | गुरुपङ्क्तीरसन्तर्प्यरश्मिवृन्दं तथैव च || ७१ || यः पिबेत् कौलिको द्रव्यं तस्य पानं तु पाशवम् | कौलज्ञानं विना योऽपि तद्द्रव्यं भौक्तुमिच्छति || ७२ || स महापातकी भूयात् सर्वधर्मबहिष्कृतः | सेवेत मद्यमांसानि भ्रष्टश्च पातकी भवेत् || ७३ || मन्त्रार्थस्मरणार्थं तु मनसः स्थैर्यहेतवे | भेदपाशविनिर्मुक्तो मद्यपानं समाचरेत् || ७४ || सेवेत यः सुखार्थाय मद्यादीनि स पातकी | पाशयेद्देवताप्रीत्यै तत्त्वमांसानि साधकः || ७५ || पञ्चमुद्रां निषेवेत अन्यथा पातकी भवेत् | यागकालं विनाऽन्यत्र दूषणं जायते सदा || ७६ || प्. १६७) यः शास्त्रविधिमुत्सृज्य वर्तते कामचारतः | न स सिद्धिमवाप्नोति परत्र न परां गतिम् || ७७ || स्वेच्छया वर्तमानो यो दीक्षासंस्कारवर्जितः | न तस्य सद्गतिः काऽपि तपसा सुकृतादिभिः || ७८ || पूर्णाभिषेकयुक्तानां पानमत्यन्तमिष्यते | पूर्णाभिषेकहीनानां पानमत्यन्तदुर्गतिः || ७९ || अकृत्वा कौलिकाचारमयष्ट्वा गुरुपादुकाम् | येऽस्मिन् चक्रे प्रवर्तन्ते तेषां हिंसन्ति भैरवाः || ८० || अदीक्षितैरनाचारैर्मुद्रामन्त्रविवर्जितैः | जपपूजां विना नैव न कार्यं द्रव्यभक्षणम् || ८१ || भक्षणान्नरकं याति निष्कृतिर्नैव जायते | मन्त्रसंस्कारशुद्धात्मा अलिपानं समाचरेत् || ८२ || जायते देवताभावो भवबन्धविमोचकः | विचारयेत्ततो वीरः सत्तर्केण विशेषतः || ८३ || प्. १६८) धर्मशास्त्रोक्तपाननिषेधविचारः सिद्धान्नं भुञ्जते विप्राश्चूर्णं शम्बूकसम्भवम् | काञ्जिकं कासमर्दञ्च तथैव च शिवाघृतम् || ८४ || एतेषु यदि न दोषस्तदा सर्वं न दोषभाक् | सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् || ८५ || इति मन्वादिशास्त्रेषु निषेधः परिनिश्चितः | मोहादज्ञानतः पीत्वा प्रायश्चित्तं विधीयते || ८६ || यत्पाने दूषणं प्रोक्तं प्रायश्चित्तं तदैव हि | देवान् पितॄन् समभ्यर्च्य वेदशास्त्रोक्तवर्त्मना || ८७ || ज्ञानतो भैरवीचक्रे ज्ञानिनां नैव दूषणम् | गुरुं स्मरन् पिबन्मद्यं खादन्मांसं न दोषभाक् || ८८ || न मांसभक्षणे दोषो न मद्ये न च मैथुने | यथा क्रतुषु विप्राणां सोमपानं विधीयते || ८९ || मद्यपानं तथा कार्यं समये भोगमोक्षदम् | फलार्थिनामहङ्कारवतां दूषणमेव हि || ९० || प्. १६९) निरहङ्कारिणाञ्चैव न निषेधो न वा विधिः | पानेर्भ्रान्तिर्भवेद् यस्य घृणा स्याद्रक्तरेतसोः || १९ || शुचौ चाऽशुद्धताभ्रान्तिः पापशङ्का च मैथुने | स भ्रष्टः पूजयेच्चण्डीं देवीमन्त्रं कथं जपेत् || ९२ || रोगी दुःखी भवेत् सोऽपि रौरवं नरकं व्रजेत् | तस्मादद्वैतभावेन साधकः पञ्चमं भजेत् || ९३ || चक्रानुष्ठानम् पात्रं ब्रह्मा सुरा विष्णू रसादो रुद्र एव च | आनन्दः शेखरः प्रोक्त आनन्दस्तु सदाशिवः || ९४ || मद्यं तु भैरवो देवो मदः शक्तिः समीरिता | अहो भुक्तञ्च मद्यं हि मोहयेत् त्रिदशानपि || ९५ || सुरा शक्तिः शिवो मांसं सुरा शक्तिः शिवो मांसं तद्भोक्ता भैरवः स्वयम् | तयोरैक्यसमुत्पन्नमानन्दं मोक्ष उच्यते || ९६ || आनन्दं ब्रह्मणो रूपं तच्च देहे प्रतिष्ठितम् | प्. १७०) तस्याभिव्यञ्जकं मद्यं योगिभिस्तेन पीयते || ९७ || एवं विचिन्त्य मतिमान् तत्त्वशोधनमाचरेत् | पूर्ववद्विधिना वीरः पात्रस्य वन्दनं चरेत् || ९८ || प्रथमपात्रवन्दनमन्त्रः श्रीमद्भैरवशेखरप्रविलसच्चन्द्रामृताप्लावितं क्षेत्राधीश्वरयोगिनीगणमहासिद्धैः समासेवितम् | आनन्दार्णवकं महात्मकमिदं साक्षात्त्रिखण्डामृतं वन्दे श्रीप्रथमं कराम्बुजगतं पात्रं विशुद्धिप्रदम् || ९९ || वन्दयित्वा ततः पात्रं पठेत् भक्तिपरायणः | जानताऽजानता वापि यन्मया क्रियते शिवे || १०० || तव कृत्यमिदं सर्वमिति मत्वा क्षमस्व मे | इति स्तुत्वा महादेवीमन्योन्य वन्दनञ्चरेत् || १०१ || अनुज्ञां पुरतो लब्ध्वा गृह्णामीति स्वयं वदेत् | जुषस्वेत्यनुज्ञातो गुरुणा वा कुलीनकैः || १०२ || प्. १७१) चक्रानुष्ठानम् गृह्णीयाच्च स्वयं सिद्धो बद्धपद्मासनः सुधीः | सव्येनोद्धृत्य पात्रञ्च मुद्रां कृत्वाऽपसव्यतः || १०३ || विलासाद्धनभोगेन न कुर्याद्द्रव्यभक्षणम् | नोद्धरेदेकहस्तेन न पिबेदेकपाणिना || १०४ || ततः सञ्चिन्तयेद् देवीं प्रकृतिं परमां कलाम् | आत्ममूलत्रिकोणस्थे कोटिसूर्यसमप्रभे || १०५ || कुण्डलीशक्तिचिद्वह्नौ हुनेद् द्रव्यं समन्त्रकम् | सशब्दं न पिबेद्द्रव्यं न बिन्दुं पातयेदधः || १०६ || सशब्दं यो मुखं कुर्यात् कुलदेव्यास्तु तर्पणे | रौरवं नरकं याति यावदाहुतसंप्लवम् || १०७ || विना चर्व्येण यत्पानं केवलं विषवर्द्धनम् | तस्मात् प्रचर्वयेच्चर्व्यं यथाक्रमविधानतः || १०८ || एकासने निविष्टा ये भुञ्जानाश्चैकभाजने | एकपात्रे पिबेद्द्रव्यं ते यान्ति नरकं किल || १०९ || उच्छिष्टं न स्पृशेच्चक्रे कुलद्रव्याणि सर्वथा | प्. १७२) बहिः प्रक्षाल्य च करौ कुलद्रव्याणि दापयेत् || ११० || नैकहस्तेन दातव्यं न मुद्रावर्जितं सदा | निष्ठीवनं मलं मूत्रमधोवायुविसर्जनम् || १११ || चक्रमध्ये तु यः कुर्यात् स भवेद्योगिनीपशुः | परीहासं प्रलापञ्च वितण्डां बहुभाषणम् || ११२ || औदासीन्यं भयं क्रोधं चक्रमध्ये विवर्जयेत् | न पादाभ्यां स्पृशेत् पात्रमधमाङ्गेन सर्वथा || ११३ || न पात्रं चालयेत् स्थानान्न कुर्यात् पात्रसङ्करम् | सशब्दं नोद्धरेत् पात्रं तथैव च न पूरयेत् || ११४ || नान्योन्यं ताडयेत् पात्रं न पात्रमानयेदधः | साधारं नोद्धरेत् पात्रमनाधारे न निःक्षिपेत् || ११५ || रिक्तपात्रं न कुर्वीत न पात्रं भ्रामयेत् कदा | न पात्रं लङ्घयेद्धीमान् उत्क्षिप्य न च पातयेत् || ११६ || समीनञ्च पुनः पात्रं प्रदद्याच्च यथाक्रमम् | वन्दयेच्च पुनः पात्रं इमं मन्त्रं स्मरेद्बुधः || ११७ || प्. १७३) द्वितीयपात्रवन्दनमन्त्रह् ओं हैमं मीनरसावहं दयितया दत्तञ्च पेयादिभिः किञ्चिच्चञ्चलरक्तपङ्कजदृशा तस्यै समावेदितम् | वामे स्वादु विशुद्धिशुद्धिकरणं पाणौ निधायात्मके वन्दे पात्रमहं द्वितीयमधुनाऽनन्दैकसम्वर्द्धनम् || ११८ || पूर्ववत्तर्पणं कृत्वा तृतीयञ्च समाचरेत् | मुद्रया सहितं धृत्वा वन्दयेत् पात्रमुत्तमम् || ११९ || तृतीयपात्रवन्दनमन्त्रः सर्वाम्नायकलाकलापकलितं कौतूहलद्योतकं चन्द्रोपेन्द्रमहेन्द्रशम्भुवरुणब्रह्मादिभिः सेवितम् | ध्यातं देवगणैः परं मुनिगणैर्मोक्षार्थिभिः सर्वदा वन्देपात्रमहं तृतीयमधुना स्वात्मावबोधक्षमम् || १२० || पूर्ववत्तर्पयित्वा तु चतुर्थं वन्दयेत्ततः || १२१ || चतुर्थपात्रवन्दनमन्त्रः ओं मद्यं मीनरसावहं हरिहरब्रह्मादिभिः पूरितं मुद्रामैथुनधर्मकर्मनिरतं क्षाराम्लतिक्ताश्रयम् | आचार्याष्टकसिद्धिभैरवकलामांसेन संशोधितं पायात् पञ्चमकारतत्त्वसहितं पात्रं चतुर्थं नमः || १२२ || प्. १७४) पूर्ववत्तर्पयित्वा तु पञ्चमं वन्दयेत्ततः || १२३ || पञ्चमपात्रवन्दनमन्त्रः आधारे भुजगाधिराजवलये पात्रं महीमण्डलं मद्यं सप्तसमुद्रवारिपिशितं चाष्टौ च दिग्दन्तिनः | सोऽहं भैरवमर्चयन् प्रतिदिनं तारागणै रक्षितै आदित्यप्रमुखैः सुरासुरगणैराज्ञाकरैः किङ्करैः || १२४ || प्रपिबेत् तु ततः षष्ठं पात्रं सम्पूज्य मन्त्रवित् || १२५ || षष्ठपात्रवन्दनमन्त्रः ओं रुद्रं चामरभद्रपीठपरमानन्दोदितं दीपनं वामां राज्यमनोरमां शुभकरां सायुज्यसाम्राज्यकम् | नानाव्याधिभवान्धकूपहरणं जन्मान्तरं नाशनं श्रीमत् सुन्दरितर्पणं हरिरसं पात्रञ्च षष्ठं भजे || १२६ || प्. १७५) पूर्ववत् तर्पणं कृत्वा सप्तमञ्च समर्चयेत् || १२७ || सप्तमपात्रवन्दनमन्त्रः ओं जाग्रत्स्वप्नसुषुप्तितूर्यपरमं चैतन्यं साक्षिप्रदं विद्युद्भास्करसन्निभं द्युतिधरं ज्योत्स्नाकलाव्यापितम् | इडापिङ्गलमध्यगा त्रिवलया स्यात्कुण्डली चोर्ध्वगा पात्रं सप्तमपूरणेन परमानन्दाधिकं पातु माम् || १२८ || एभिः प्रबन्ध्य पात्राणि स्वयं साधकसत्तमः | लभेत सर्वकर्माणि देहान्ते भैरवो भवेत् || १२९ || पीत्वा सप्तमपात्रञ्च शान्तिस्तोत्रं पठेत्ततः || १३० || शान्तिस्तोत्रम् यस्यार्चनेन विधिना किमपीह लोके धर्मप्रसिद्धमिति कामफलं प्रसूते | तं सन्ततं सकलसाधकचित्तवृत्तिं चिन्तामणिं कुलगणाधिपतिं नमामि || १३१ || बटुकस्तुति रक्ताम्बरं ज्वलनपिङ्गजटाकलापं भालावलीकुटिलचन्द्रधरं प्रचण्डम् | प्. १७६) बालार्कधातुकनकाचलधातुवर्णं देवीसुतं वटुकनाथमहं नमामि || १३२ || हरतु कुलगणेशो विघ्नसङ्घानशेषा- नुदयतु कुलचर्या पूर्णतां साधकानाम् | पिबतु वटुकनाथः शोणितं निन्दकानां दिशतु सकलकामान् कौलिकानां गणेशः || १३३ || धर्मो जयत्वखिललोकसुखावहोऽयं नश्यत्वधर्ममखिलं बहुदुःखमूलम् | आशीर्वचांसि समन्त्वमृतोपमानि शापाः पतन्तु समयद्विषि योगिनीनाम् || १३४ || याश्चक्रक्रमभूमिकावसतयो नाडीषु याः संस्थिताः याः कायोद्गतरोमकूपनिलया याः संस्थिता धातुषु | उच्छ्वासोर्मिमरुत्तरङ्गनिलया निश्वासवाताश्च या- स्ता देव्यो रिपुपक्षभक्षणपरास्तृप्यन्तु कौलार्चिताः || १३५ || प्. १७७) देहस्थाखिलदेवता गजमुखाः क्षेत्राधिपा भैरवा योगिन्यो वटुकाश्च यक्षपितरो वेतालकाश्चेटकाः | अन्ये भूचराः खेचरा दिविचरा भूताः पिशाचा ग्रहा- स्तृप्यन्तां कुलपुत्रकस्य पिबतः पानं सदीपं चरुम् || १३६ || सत्यञ्चेत् गुरुवाक्यमेव पितरौ देवाश्च चेत् योगिणो प्रीता चेत् परदेवता यदि भवेद् वेदा प्रमाणं हि चेत् | शाक्तेयं यदि दर्शनं भवति चेत् आज्ञाऽप्यमीधाऽपि चेत् सत्यञ्चापि च कौलधर्मपरमं स्यान्मे जयः सर्वदा || १३७ || शिवाद्यवनिपर्यन्तं ब्रह्मादिस्तम्बसंयुतम् | कालाग्न्यादिशिवान्तञ्च जगद् यज्ञेन तृप्यतु || १३८ || सम्पूजकानां परिपालकानां जितेन्द्रियाणाञ्च तपोधनानाम् | देशस्य राष्ट्रस्य कुलस्य राज्ञः करोतु शान्तिं भगवान् गणेशः || १३९ || शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः | दोषाः प्रयान्तु शान्तिं सर्वजनाः सुखीभवन्तु || १४० || प्. १७८) नन्दन्तु कुलयोगिन्यो नन्दन्तु कुलपुत्रकाः | नन्दन्तु च कुलाचार्या ये चान्ये कुलपालकाः || १४१ || नन्दन्तु साधकाः सर्वे विभीषन्तु च दूषकाः | अवस्था शाम्भवी नोऽस्तु प्रसनोऽस्तु गुरुःसदा || १४२ || अनेककोट्यः कुलयोगिनीना- मन्तर्बहिः कौलिकचक्रसंस्थाः | निपीयमानेन परामृतेन प्रीताः प्रसन्ना वरदा भवन्तु || १४३ || ये ये पापधियः सुदूषणरता मन्निन्दकाः पूजने देवाचारविमर्दनष्टहृदया भ्रष्टाश्च ये साधकाः | दृष्ट्वा च क्रमपूर्वमर्चनविधौ ये कौलिका दूषका- स्ते ते यान्तु विनाशमत्र समये श्रीभैरवस्याज्ञया || १४४ || साधकानाञ्च द्वेष्टारः सदैवाम्नाय दूषकाः | डाकिनीनां मुखे यान्तु तृप्तास्ते पिशितैः सदा || १४५ || इति स्तोत्रं पठन् पानं कुर्यात् साधकसत्तमः || १४६ || प्. १७९) अष्टमपात्रवन्दनमन्त्रः ओं मूढाज्ञानकदम्बकाननकठोराग्निस्वरूपां परां ज्ञानध्वान्तसमस्तसंशयधिया पूर्णं सुधाधारया | भोगं मोक्षकरं सभावशकरं मूर्ध्नि ज्वलन्तीं परां देवीं वक्षसि सञ्जपन्ननुदिनं पात्रं भजे चाष्टमम् || १४७ || पूर्ववत्तर्पणं कृत्वा नवमञ्च प्रपूजयेत् || १४८ || नवमपात्रवन्दनमन्त्रः ओं मन्ये ब्रह्ममयं समस्तजगतां सारं महत् शाश्वतं दुर्ज्ञेयं भवभोगचञ्चलधिया स्थूलाकृतिं ध्यायताम् | अस्माकं द्रवरूपतां करुणया प्राप्तं तदेतद्द्रुतं तत्पात्रं नवमं पिबेच्च नियतं भुक्तिञ्च मुक्तिप्रदम् || १४९ || सहस्रारे गुरुं ध्यायन् हृदि देवीं तथैव च | जिह्वाग्रे जपसाधनं शिवोऽहमिति चिन्तयन् | यथाविधिसमभ्यर्च्य जुहुयात् कुण्डलीमुखे || १५० || दशमपात्रवन्दनमन्त्रः ओं वामे चन्द्रमुखी मुखे च मधुरं पात्रं कराम्भोरुहे प्. १८०) मूर्ध्नि श्रीगुरुचिन्तनं भगवतीध्यानास्पदं मानसम् | जिह्वायां जपसाधनं परिणतं कौलक्रमाभ्यासनं तत्पात्रं दशमं पिबेच्च परमं भुक्तिञ्च मुक्तिप्रदम् || १५१ || नाहं कर्ता कारयिता न च कार्यं नाहं भोक्ता भोजयिता न च भोज्यम् | नाहं दुःखी दुःखयिता न च दुःखं सोऽहं प्रत्यक्चित्स्वरूपोऽहमात्मा || १५२ || एवं सञ्चिन्त्य वीरेन्द्रः पुनः पानं समाचरेत् || १५३ || एकादशपात्रवन्दनमन्त्रः ओं वामां वामकरे सुधाञ्च अधरे मन्त्रं जपन्मानसे वीणावेणुरवावयन्त्रविधिवद्गायन्ति पञ्चोप्सरसः | क्रीडाकेलिकुतूहलेन कमलालावण्यलीलोरसः पानोल्लासविलासपूर्णसमये पात्रञ्च एकादशम् || १५४ || स्वपात्रस्थितहेतुञ्च न दद्यात् भैरवाय च | दत्ते च सिद्धिहानिः स्याद् देवताशापमाप्नुयात् || १५५ || प्. १८१) क्वचित्यदृच्छया प्राप्तमन्यमन्यन्तु भक्तितः | आदाय स्वीयपात्रञ्च पिबेद् द्रव्यं गुरुं स्मरन् || १५६ || गुरुशक्तिसूतानाञ्च गुरुज्येष्ठकनिष्ठयोः | उच्छिष्टं भक्षयेत् स्त्रीणां ताभ्यो नोच्छिष्टमर्पयेत् || १५७ || अन्यथा चक्रमध्ये तु पतनं साधकस्य च | शक्त्युच्छिष्टं पिबेद्द्रव्यं वीरोच्छिष्टञ्च चर्वणम् || १५८ || शक्तिवीरप्रसादेन किं न सिध्यति भूतले | कनिष्ठेभ्यः स्वशिष्येभ्यश्चोच्छिष्टञ्च प्रदापयेत् || १५९ || दद्यात् स्नेहेन योऽन्येभ्यः स भवेदापदां पदम् | यावन्न चलते दृष्टिर्यावन्न चलते मनः || १६० || तावत् पानं प्रकुर्वीत पशुपानमतःपरम् | मन्त्रार्थस्फुरणार्थाय ब्रह्मज्ञान स्थिराय च || १६१ || अलिपानं प्रकर्तव्यं लोलुपो नरकं व्रजेत् | पीत्वा पीत्वा पुनः पीत्वा पतित्वा च महीतले || १६२ || उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते | प्. १८२) अलिमीनाङ्गनासङ्गे यत् सुखं जायते नॄणाम् || १६३ || तदेव मोक्षो विदुषामबुधानाञ्च पातकम् | चक्रमध्ये घटे भग्ने पात्रे च पतिते तथा || १६४ || द्रव्यस्य पतने भूमौ भिन्ने पात्रे तथैव च | दीपनाशे च तच्छान्त्यै पुनश्चक्रं समाचरेत् || १६५ || पाययित्वा यथायोग्यं पीत्वा च साधकोत्तमः | पूर्ववत् तर्पयेद्देवीं परिवारसमन्विताम् || १६६ || पुनर्माल्यादिकं दत्त्वा गन्धचन्दनमिश्रितम् | धूपं दीपं ततः पश्चाद्दर्पणं चामरं तथा || १६७ || नैवेद्यं शङ्खघण्टाञ्च वादयेत् सुमनोहरम् | यथाशक्ति स्तवं कृत्वा प्रदक्षिणीकृत्य साधकः || १६८ || आत्मसमर्पणम् सपुष्पार्घ्यामृतं नीत्वा आत्मानञ्च समर्पयेत् | ओं इतः पूर्वं ततः प्राणबुद्धिदेहं ततो वदेत् || १६९ || धर्माधिकारतो जाग्रत्स्वप्नसुषुप्तावस्थासु च | कर्मणा मनसा वाचा हस्ताभ्याञ्च ततः पद्भ्याम् || १७० || प्. १८३) उदरेण च शिश्ना यत् कृतं यत् स्मृतं ततः | यदुक्तं प्रोच्य तत्सर्वं मां मदीयञ्च संलिखेत् || १७१ || सकलं श्रीमदिष्टान्ते देवता च पदे ततः | समर्पणं ततः पश्चादेतेनैव समर्पयेत् || १७२ || देवीपदे ततो दत्त्वा क्षमस्वेति वदेत्ततः | पुनराचमनीयञ्च दद्याद्देव्यै पुनः पुनः || १७३ || अर्घ्यदानम् समस्तावरणं देव्या अङ्गे लीनं विभाव्य च | अर्घ्यपात्रं ततः पश्चादुत्तोल्य साधकोत्तमः || १७४ || देव्युपरि त्रिधा भ्राम्य निवेदयेत्ततः परम् | तेजोमयीं महादेवीं संहारमुद्रया हृदि || १७५ || नासापथात् समानीय निर्माल्यवासिनीं यजेत् | निर्माल्यकुसुमैर्देवीं प्रणम्य गुरुपादुकाम् || १७६ || पूजासमाप्तिः भक्तिभावे ततः पश्चात् प्राणायामषडङ्गकौ | कृत्वा सोऽहं विभाव्याथ साधकः स्थिरमानसः || १७७ || ब्रह्मरन्ध्रे गुरोः स्थाने यन्त्रलेपञ्च धारयेत् | नास्तिकेभ्यो न पशुभ्यो न मूर्खेभ्यो प्रदापयेत् || १७८ || प्. १८४) कुलीनाय च दातव्यमथवा जलमध्यतः | नैवेद्यं चण्डिकादेव्या वाञ्छन्ति विबुधाः सदा || १७९ || तस्माद्देयं सदा पुष्पं ब्रह्मणे विष्णवेऽपि च | मह्यं शुक्राय सूर्याय गणेशाय यमाय च || १८० || अग्नये वरुणायापि वायवे धनदाय च | ईशानाय महादेवीसाधकाय प्रकल्पयेत् || १८१ || अथवा तरुमूले च गर्ते वा शुचिदेशके | यत्नतः साधकश्रेष्ठो निर्माल्यानि समर्पयेत् || १८२ || शक्तिभ्यः साधकेभ्यश्च दत्त्वा निर्म्माल्यचन्दनम् | माल्यं गन्धं ततो दत्त्वा आत्मदेहं ततोऽर्पयेत् || १८३ || अथवा कारयेत् पानं मधुना वीरसाधकः | श्रीपात्रग्रहणं कृत्वा आदौ चक्रं करोति यः || १८४ || पशुपानं भवेत्तस्य प्रायश्चित्ती स साधकः | अर्घ्यामृतं ततो वीरः सामयिकेभ्यो निवेदयेत् || १८५ || प्. १८५) शेषतत्त्वग्रहणविधिः ततश्च साधकश्रेष्ठः शेषमात्मनि योजयेत् | प्रबन्धे पूर्णपात्रञ्च प्रगृह्य साधकोत्तमः || १८६ || देहं मन्त्रमयं विधाय पुरतः कृत्वा गुरोर्वन्दनं श्रीपात्रं कुलविद्यया विलसितं संशोध्य दिव्यामृतम् | विद्यापीठचतुष्टयं शिवशिवे सन्तर्प्य सिद्धिक्रमा- दास्वाद्यापि पिबेद्रसं सुखकरं दुःखस्य निर्मूलनम् || १८७ || महापातकयुक्तो वा बहुपापान्वितोऽपि वा | अर्घ्यस्य बिन्दुमात्रेण मुक्तो भवति पातकात् || १८८ || एवं पानं समाचर्य स्वीकृत्य पूर्णपात्रकम् | न्युब्जीकुर्याच्च तद्भूमौ तत्र पुष्पं क्षिपेद् बुधः || १८९ || तदमृतस्निग्धभूमौ मायाबीजं विलिख्य च | कनिष्ठाङ्गुलिना वामहस्तस्य तिलकं तथा || १९० || अनेन मनुना मन्त्री मूलाद्येन समाहितः | यं यं स्पृशामि पादेन यं यं पश्यामि चक्षुषा || १९१ || स एव दासतां यातु यदि शक्रसमो भवेत् | ततः प्रक्षाल्य वीरेन्द्रो गोपयेत् पात्रमुत्तमम् || १९२ || प्. १८६) ततो यथाक्रमेणैव प्रसादं परिवेश्य च | भोजयेच्च ततो विद्वान् स्त्रीभिश्च साधकैः सह || १९३ || भुक्त्वा दद्यात् पुनर्माल्यं गन्धचन्दनसंयुतम् | ताम्बूलाभरणादींश्च तथा तल्पं सुसाधकः || १९४|| सेविते च कुलद्रव्ये कुलतत्त्वार्थदर्शिनः | जायते भैरवावेशः सर्वत्र समदर्शनः || १९५ || न्तं वा ग त च्छ रं पि मा कौलिकं न निवारयेत् | वारणात् त्रिपुरा रुष्टा ततो हानिस्तु जायते || १९६ || कौलिकः पशुगामी च परशक्तिं रमेद् बलात् | गोष्ठीमध्ये तु यत्नेन स्पर्शं तस्य न कारयेत् || १९७ || र्यां वा तां गि भा नीं सु भ यो दद्यात् कुलयोगिने | मधुमत्ताय वीराय पुण्यं तस्य न गण्यते || १९८ || प्. १८७) कुलं कुलाय यो दद्यात् सोऽपि योनौ न जायते | भगरूपा च सा देवी रेतःप्रीता च सर्वदा || १९९ || रेतःसमर्पणं तस्यै मद्यैर्मांसैः समं सदा | ध्यात्वा कुण्डलिनीं शक्तिं रमन् रेतो विमुञ्चयेत् || २०० || अमन्त्रा तु यदा नारी बलाद् यत्नाद्वा लभ्यते | आत्मदेहस्वरूपेण तत्कर्णे मन्त्रमुत्सृजेत् || २०१ || ततः सा शक्तिरूपा स्याद् भुक्तिमुक्तिफलप्रदा | रतिकाले च दीक्षायामभिषेकं समाचरेत् || २०२ || सुरया रेतसा वापि जलेन चन्दनाम्बुना | सम्भोगेऽभिषिचेन्नारीं रण्डाञ्च मन्त्रवर्जिताम् || २०३ || आदौ बालां समुच्चार्य त्रिपुरायै समुच्चरेत् | नमः शब्दं समुच्चार्य इमां शिक्तं ततो वदेत् || २०४ || पवित्रीकुरुशब्दान्ते मम शक्तिं कुरुद्वयम् | वह्निजायां समुच्चार्य शुद्धिमन्त्रः प्रकीर्त्तितः || २०५ || अनेन मनुना चैव अभिषिक्ताः स्त्रियः सदा | रममाणो भवेन्नित्यं सर्वसिद्धिमवाप्नुयात् || २०६ || प्. १८८) इहलोके परंभोगं भुक्त्वा मुक्तिमवाप्नुयात् | रम्भा शच्युर्वशी मुख्या या नारी गगने भुवि || २०७ || पाताले च स्थिता या च तस्या नाथस्तु कौलिकः | तस्य वर्ज्या च या नारी कथ्यते तन्त्रवर्त्मना || २०८ || त्रिपुरैव गुरुः साक्षात्तत्पत्नी तत्स्वरूपिणी | मनसा कर्मणा वाचा रमणं तत्र वर्जयेत् || २०९ || तस्या एव पदे भक्तो मुक्तिमप्यचिराल्लभेत् | गुरोः स्नुषा च कन्या च स्वपुत्री मन्त्रपुत्रिका || २१० || एतस्या रमणं वर्ज्यं ब्रह्मविन्मानसेन च | कौलिकस्य च पत्नी वै साक्षात् सिद्धीश्वरी शिवा || २११ || तस्या रमणमात्रेण कौलिको नारकी भवेत् | माताऽपि गौरवाद्वर्ज्या शिवहीना तथैव च || २१२ || अन्यस्थाने विचारे तु देवीशापः प्रजायते | प्. १८९) मन्त्रमाता च पुत्री च भगिनी च कुलाङ्गना || २१३ || न रमेत् कौलिको नित्यमेताः सम्यक् समर्चयेत् | (यद्वा) गुरुवीरवधूं त्यक्त्वा रम्याः सर्वाश्च योषितः || २१४ || सन्दिग्धानां द्वैतज्ञानिनां पञ्चतत्त्वग्रहणे निषेधः एता वर्ज्याः प्रयत्नेन सन्दिग्धानाञ्च सर्वदा | अद्वैतानाञ्च कुत्रापि निषेधो नैव विद्यते || २१५ || मातृगर्भस्थबीजेन शिशुरेव न संशयः | गर्भनिःसारकाले तु बालको हि दिगम्बरः || २१६ || अननीजठराद्योनिरन्ध्रद्वाराद्बहिर्भवन् | जननीयोनिसम्बन्धःसुतः शिश्नाऽधिगच्छति || २१७ || एवं विचार्यमाणे तु को न स्याद्गुरुतल्पगः | निर्विकारतया नात्र भवेत् नह्यन्यथा ततः || २१८ || अत-एव यदा यस्य वासना कुत्सिता भवेत् | तदा दोषाय भवति नान्यथा दूषणं क्वचित् || २१९ || निर्विकल्पमना भूत्वा चिन्मयीं समुपासयेत् | तदारूढेषु वीरेषु कार्याकार्यं न विद्यते || २२० || प्. १९०) तस्माद्द्वैतरूपेण सर्वयोनिं विचारयेत् | निश्चयं मुक्तिमाप्नोति सहस्रयोनिदर्शनात् || २२१ || अनाचारः सदाचारः कुकार्यं कार्यमुत्तमम् | अमेध्यमपि मेध्यं स्याद्द्वैतानाञ्च निश्चितम् || २२२ || अपेयमपि पेयं स्यादभोज्यं भोज्यमेव च | अगम्याऽपि च गम्या स्याद्द्वैतानां सुनिश्चितम् || २२३ || न विधिर्न निषेधश्च न पुण्यं न च पातकम् | न स्वर्गो नैव नरकमद्वैतानाञ्च निश्चितम् || २२४ || यत्र यत्र निषेधश्च विधिर्वा परिकथ्यते | तत्र तत्रापि बोद्धव्यं सन्दिग्धानां सुनिश्चितम् || २२५ || सर्वथैव गुरोरग्रे अद्वैतं नैव कारयेत् | तस्माच्च यत्नतो वीरो गुरुयोनिं परित्यजेत् || २२६ || अद्वैतद्वैतभेदेन पूजनं कथितं महत् | पञ्चतत्त्वमसंयुक्तं पञ्चमं यस्तु कारयेत् || २२७ || प्. १९१) तस्य पूजा च सा नष्टा प्रायश्चित्ती स साधकः | तत्त्वहीनं कृतं कर्म जपकर्म च निष्फलम् || २२८ || शाम्भवी कुप्यते तेभ्यो ब्रह्महत्या दिने दिने | चक्रं त्यक्त्वा तु देवेशीं पूजयेत्तर्पणं विना || २२९ || चत्वारि तस्य नश्यन्ति आयुर्विद्यायशोबलम् | चक्रमध्ये तु यद्दृष्टं शुभं वा यदि वाऽशुभम् || २३० || प्रभाते तन्न वक्तव्यं साधकेन महात्मना | नित्यपूजा च कथिता साधकानां सुसिद्धये || २३१ || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये अष्टमोल्लासः || ८ || नवम उल्लासः इति गुप्ततरं श्रेयं गन्धर्वस्य क्रमं शुभम् | अत्यन्तगोपनाद्यस्तु पञ्चतत्त्वेन पूजयेत् || १ || सर्वसिद्धिमवाप्नोति मन्दभाग्योऽपि पूजनात् | तस्मात् पूजां सदा कुर्यात् सिद्धार्थी सिद्धिसंग्रहः || २ || पूजाफलकथनम् पूजाफलेन दौर्भाग्यं दुःखदारिद्र्यनिग्रहम् | सर्वप्रशमनं याति ईश्वरो जायते भुवि || ३ || अर्चनक्षणभङ्गेन विकला योगिनी भवेत् | पूजाहीनोऽशुचिर्नित्यं गर्हितः सर्वकर्मसु || ४ || पूजां विहाय यो मूढो मन्त्रं जपति नित्यशः | तज्जपं विफलं विद्यात् स मन्त्री पातकी भवेत् || ५ || प्. १९३) विद्यां संगृह्य पूजायां श्रद्धा यस्य न विद्यते | स महापातकी भूत्वा पशुयोनिमवाप्नुयात् || ६ || पूजाहीनस्य मांसेन रुधिरेण विशेषतः | पारणं योगिनीनाञ्च भैरवाणां भवेद्ध्रुवम् || ७ || तस्मात् पूजां सदा कुर्यात् सिद्ध्यर्थी मानसेऽथवा | यद्गेहे पूजयेद् देवीं सदैव तत्र पूजनम् || ८ || दिवसे पूजानिषेधः अतिगुप्तेन तत्कार्यं दिवसे नैव सर्वथा | दिवसे पञ्चमैः पूजा राष्ट्रहानिं करोति हि || ९ || साधकस्य महाक्षोभं प्रददाति सुनिश्चितम् | तस्मात् पञ्चमकारेण दिवसे नैव सर्वदा || १० || उत्तमादिभेदेन त्रिविधा पूजा उत्तमा नित्यपूजा स्यात् पर्वपूजा च मध्यमा | मासपूजाऽधमा प्रोक्ता मासादूर्ध्वं पशुर्भवेत् || ११ || प्. १९४) पशोर्भूयः प्रवेशेच्छा यदि स्याद्दीक्षयेत् पुनः | विहितैर्मादिभिर्द्रव्यैर्मासादूर्ध्वं समाचरेत् || १२ || प्रशस्तकालनिर्णयः कृष्णाष्टमी चतुर्दश्यमावस्याथ च पूर्णिमा | संक्रान्तिः पञ्चपर्वाणि पुण्यादि दिवसेषु च || १३ || सम्पत्तौ च यजेल्लाभे तपोदीक्षाव्रतोत्सवे | पीठोपगमने वीराकुलपीठस्य दर्शने || १४ || देशिकागमने पुण्यतीर्थदैवतदर्शने | एवमादिषु कालेषु विशेषदिवसेषु च || १५ || गुरुजन्मदिने प्राप्ते तद्गुरोस्तद्गुरोरपि | मानवौघादिपुंसाञ्च स्वजन्मदिवसेऽपि च || १६ || एकादश्यां व्यतीपाते कर्मलोपं न कारयेत् | अष्टम्याञ्च चतुर्दश्यां पूजा कार्या प्रयत्नतः || १७ || न लङ्घयेदष्टमीञ्च लङ्घनात् पातकी भवेत् | इति पूर्वापरे प्राप्ते पञ्चतत्त्वैश्च साधकः || १८ || पूजां कुर्यात् प्रयत्नेन अन्यथा सिद्धिहा भवेत् | प्. १९५) बहिःपूजाविधानेन गन्धर्वो वापि किन्नरः || १९ || राजाऽपि साधको वापि नान्यः कोऽपि महीतले | यतिर्वा भूपतिर्वापि नान्योऽस्ति पूजकः क्वचित् || २० || न देवः पर्वताग्रेषु न देशे विष्णुसद्मनि | देवश्चिदानन्दमयो हृदि भावेन दृश्यते || २१ || यत्र यत्र दृढा भक्तिर्यदा यस्य महात्मनः | तत्र तत्र महादेवी प्रकाशमनुगच्छति || २२ || सिद्धक्षेत्रकथनम् अथ वक्ष्ये फलाधिक्यं पूजायां यत्र जायते | वाराणस्यां महापूजा सम्पूर्णफलदायिनी || २३ || स्थानभेदेन पूजाफलभेदः ततस्तु द्विगुणा प्रोक्ता पुरुषोत्तमसन्निधौ | ततोऽपि द्विगुणा प्रोक्ता द्वारकायां विशेषतः || २४ || सर्वक्षेत्रेषु तीर्थेषु पूजा द्वारावतीसमा | विन्ध्ये शतगुणा प्रोक्ता गङ्गायामपि तत्समा || २५ || प्. १९६) आर्यावर्त्ते मध्यदेशे ब्रह्मावर्त्ते तथैव च | विन्ध्यवत् फलदा पूजा प्रयागे पुष्करेषु च || २६ || ततश्चतुर्गुणा प्रोक्ता करतोयानदीजले | तस्माच्चतुर्गुणफला नन्दिकुण्डे च निश्चितम् || २७ || ततश्चतुर्गुणा प्रोक्ता जल्पीशस्य च सन्निधौ | ततः सिद्धीश्वरीयोनौ ततोऽपि द्विगुणा स्मृता || २८ || ततश्चतुर्गुणा प्रोक्ता लौहित्यनदपाथसि | तत्समा कामरूपे च सर्वत्रैव जले स्थले || २९ || सर्वश्रेष्ठो यथा विष्णुर्लक्ष्मीः सर्वोत्तमा यथा | देवीपूजा तथा शक्त्यां कामरूपे सुरालये || ३० || कुलार्णवे कामरूपञ्च द्विविधं व्यक्तं गुप्तं महेश्वरि | करतोयानदीपूर्वं यावद्दिक्करवासिनी || ३१ || त्रिंशद्योजनविस्तीर्णं शतयोजनमायतम् | त्रिकोणं कृष्णवर्णञ्च कामरूपमुदाहृतम् || ३२ || प्. १९७) द्विविधः कामरूपः व्यक्तं तत्रैव विज्ञेयं गुप्तञ्चैव गृहे गृहे | व्यक्ताद् गुप्तं महापुण्यं लभ्यते साधकोत्तमैः || ३३ || देवीक्षेत्रं कामरूपं विन्द्यादन्यन्न तत्समम् | अन्यत्र विरला देवी कामरूपे गृहे गृहे || ३४ || ततः शतगुणा प्रोक्ता नीलकूटस्य मस्तके | ततोऽपि द्विगुणा प्रोक्ता सुमेरौ शिवलिङ्गके || ३५ || ततोऽपि द्विगुणा प्रोक्ता शैलपुत्र्याश्च योनिषु | ततः शतगुणा प्रोक्ता कामाख्यायोनिमण्डले || ३६ || तत्समापि च सा पूजायोषितां योनिमण्डले | पीठानां परमं पीठं कामरूपं महाकुलम् || ३७ || प्. १९८) ततः शतगुणं प्रोक्तं कामाख्यायोनिमण्डलम् | यत्र कोटिगुणैः सार्द्धं माया महिषमर्दिनी || ३८ || यत्पीठं ब्रह्मणो वक्त्रं गुप्तं सर्वसुखावहम् | यतो देवाश्च देव्यश्च मुनयश्चैव भावजाः || ३९ || सर्वेऽप्याविर्भवन्त्यत्र तेन गुप्तं महाकुलम् | कामाख्यायां महायोनौ पूजां यः कृतवान् सकृत् || ४० || स चेह लभते कामान् परत्र शिवतां व्रजेत् | अत्र यत्क्रियते पूजा सकृद्वा साधकेन च || ४१ || विहाय सर्वपीठानि तस्य देहे वसेत् शिवा | अथ वक्ष्यामि सामान्य पूजायाः क्रममुत्तमम् || ४२ || सामान्यपूजाक्रमः आदावृष्यादिकन्यासः करशुद्धिस्ततः परम् | अङ्गुलीव्यापकन्यासौ हृदादिन्यास एव च || ४३ || तालत्रितयदिग्बन्धः प्राणायामस्ततः परम् | ध्यानं पूजा जपश्चेति सर्वतन्त्रेष्वयं विधिः || ४४ || जपार्थं सर्वमन्त्राणां विन्यसेत्तु लिपिं विना | प्. १९९) कृतञ्च निष्फलं विद्यात् तस्मादादौ लिपिं न्यसेत् || ४५ || शिवाबलिकथनम् अथातः सम्प्रवक्ष्यामि शिवाया बलिमुत्तमम् | न ददाति बलिं यस्तु शिवायाः शिवताप्तये || ४६ || स पापिष्ठौ नाधिकारी कुलदेव्यास्तु पूजने | पशुरूपां शिवां देवीं यो नार्चयति निर्जने || ४७ || शिवारावेण तस्यास्तु सर्वं नश्यति निश्चितम् | पूजा जपविधानानि यत्किञ्चित् सुकृतानि च || ४८ || गृहीत्वाशापमासाद्य शिवा रोदिति निर्जने | अवश्यमन्नपानेन नियतं तोषयेच्छिवाम् || ४९ || एकया भुज्यते यत्र शिवायाश्चैव निश्चितम् | तदैव सर्वशक्तीनां प्रीतिः परमदुर्लभा || ५० || पशुशक्तिर्नरशक्तिः पक्षिशक्तिस्तु सर्वदा | पूजिता विगुणं कर्म सगुणं साधयेद् यतः || ५१ || तेन सर्वप्रयत्नेन कर्तव्यं पूजनं महत् | राजादिभयमापन्ने ग्रहादिभयमेव च || ५२ || शुभाशुभानि कर्माणि विचिन्त्य बलिमाहरेत् | प्. २००) बिल्वमूले प्रान्तरे वा श्मशाने वापि साधकः || ५३ || मांसप्रधानं नैवेद्यं सन्ध्याकाले निवेदयेत् | गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि || ५४ || शुभाशुभं फलं व्यक्तं ब्रूहि गृह्ण बलिं तव | एवमुच्चार्य दातव्यो बलिः कुलजनप्रियः || ५५ || कालीकालीति वक्तव्यस्तत्रोमा शिवारूपिणी | पशुरूपा समायाति परिवारगणैः सह || ५६ || भक्त्वा रौति यदैशान्यां मुखमुत्तोल्य सुस्वरा | तदैव मङ्गलं तस्य नान्यथा साधकस्य च || ५७ || यदि न भुज्यते तत्र तदा नैव शुभं भवेत् | नित्ये नैमित्तिके काम्ये बलिं दद्यात् प्रयत्नतः || ५८ || प्. २०१) कुलपूजाविधानम् अति गुप्तेन कर्तव्यं बलिदानं शुभावहम् | कुलपूजां प्रवक्ष्यामि यथाशास्त्रविधानतः || ५९ || कुलागमे यथा कुलवारे कुलाष्टम्यां चतुर्दश्यां विशेषतः | कुलतिथौ कुलर्क्षे च कुलपूजां समाचरेत् || ६० || योगिनीपूजनं यत्र प्रधानं कुलपूजनम् | यथा विष्णुतिथौ विष्णुः पूजितो वाञ्छितप्रदः || ६१ || तथा कुलतिथौ देवी पूजिता वरदायिनी | नित्यश्राद्धं तथा सन्ध्यावन्दनं पितृतर्पणम् || ६२ || तथैव कौलिकानाञ्च नित्यता कुलपूजने | एकरात्रं द्विरात्रं वा नहि चेत् कुलपूजनम् || ६३ || तदा तं साधकं त्यक्त्वा लयमेष्यति चण्डिका | कुलपूजासमं नास्ति पुण्यमन्यज्जगत्त्रये || ६४ || तस्माद् यः पूजयेद् भक्त्या भुक्तिमुक्त्योः स भाजनम् | अनधीतोऽप्यशास्त्रज्ञो गुरुभक्तो दृढव्रतः || ६५ || कुलपूजारतो यस्तु स मे प्रियतरो भवेत् | इच्छासिद्धिफलं दद्यात् पूजिता सुवधूरिव || ६६ || प्. २०२) अपूजिता यदा देवी दुःखदा कुवधूरिव | कुलपूजान्तरायं तु यः करोति हि दुर्मतिः || ६७ || स याति नरके घोरे एकविंशतिभिः कुलैः | विगुणं यत्र यद्यत् स्यात् सगुणं कुलपूजनात् || ६८ || कुलावलोकनं चेत् स्यात् कुतः प्रोक्षणमार्जनम् | क्व स्नानं क्व च वा शुद्धिः क्व च न्यासविशोधनम् || ६९ || तस्मात् सर्वप्रयत्नेन कुलपूजां समाचरेत् | लभते सर्वसिद्धिञ्च नात्र कार्या विचारणा || ७० || कुलवारतिथिनक्षत्रादिविधानम् कथ्यते कुलवारादिनिर्णयः सिद्धिहेतवे | द्वितीया दशमी षष्ठी कुलाकुलमुदाहृतम् || ७१ || विषमाश्चाकुलाः सर्वाः शेषाश्च तिथयः कुलाः | रविः सोमो गुरुः शौरिश्चत्वारश्चाकुला मताः || ७२ || भौमशुक्रौ कुलाख्यौ च बुधवारः कुलाकुलः | प्. २०३) वारुणार्द्राभिजिन्मूलं कुलाकुलमुदाहृतम् || ७३ || कुलानि समधिष्ठानि शेषाण्यकुलभानि च | तिथिवारे च नक्षत्रे चाकुले स्थायिनोऽजयः || ७४ || कुलर्क्षे जयिनो नित्यं साम्यञ्चैव कुलाकुले | पौर्णमास्यन्तमासेन तिथिकृत्यं विधीयते || ७५ || महाष्टम्येव विज्ञेया कुलाष्टमी सुसिद्धिदा | कथितः कुलवारादिनिर्णयः सिद्धिहेतवे || ७६ || स्नानं पाद्यार्घ्यपर्यन्तं स्वकल्पोक्तं विधाय च | लाक्षारसतद्वदहे वीरस्तूलिकां रचयेत्ततः || ७७ || कुलकन्यानिरूपणम् नटी कापालिकी वेश्या रजकी नापिताङ्गना | ब्राह्मणी भद्रकन्या च तथा गोपालकन्यका || ७८ || मालाकारस्य कन्या च नवकन्याः प्रकीर्तिताः | (यद्वा) चण्डाली चर्मकारी च मागधीपुक्कसी तथा || ७९ || श्वपची खण्डिका चैव कैवर्त्ती विटयोषितः | कुलाष्टकं तु कथितमकुलाष्टकमुच्यते || ८० || प्. २०४) अकुलाष्टक कन्याकथनम् कल्मषी चैव शौण्डी च शस्त्रजीवी च राक्षसी | गोमुखी रजकी शिल्पी वेनकी च तथाष्टमी || ८१ || (यद्वा) गणिका शौण्डिकी चैव कैवर्त्ती रजकी तथा | तन्तुकारी चर्मकारी मातङ्गी पुक्कसी तथा || ८२ || (यद्वा) नटी कापालिकी वेश्या पुक्कसी योगिनी तथा | रजकी रज्जकी चैव सैरिन्ध्री च विलासिनी || ८३ || खटिका घटिका चैव तथा गोपालकन्यका | विशेषवैदग्ध्ययुताः सर्वा एव कुलाङ्गनाः || ८४ || उक्तजात्यङ्गनाभावे भैरवीं तद्गतां यजेत् | शक्तिपूजाविधिः मन्त्रतन्त्रसमायुक्ताः समयाचारपालिकाः || ८५ || अवीराश्च व्रतपरा योगमुद्राधरास्तथा | गुरुभक्ता देवभक्ता घृणालज्जाविवर्जिताः || ८६ || सङ्गोपनरताः प्रायस्तरुण्यः सिद्धिदायिकाः | दीक्षिता मनुना येन केन मूलेन वा पुनः || ८७ || प्. २०५) वर्ज्या नारीकथनम् तत्र वर्ज्या च या नारी कथ्यते तन्त्रमार्गतः | विकृतां विधवां व्यङ्गीं वृद्धाञ्चैव तपस्विनीम् || ८८ || हीनाङ्गीं हीनवसनां कुटिलां कलहप्रियाम् | लोकवेदविरुद्धाञ्च तथा निष्ठुरभाषिणीम् || ८९ || मिथ्याप्रलापनिरतां मिथ्याचारमदोत्सुकाम् | ईर्ष्यादिदोषसंयुक्तां प्रमत्ताञ्च विवर्जयेत् || ९० || विकृतास्यामदीक्षितां सविकल्पकमानसाम् | वर्षीयसीं पापरतां क्रूरामत्यन्तलोलुपाम् || ९१ || अतर्कमानसां दीनां वर्जयेत् साधकोत्तमः | ततः समानयेद् वीरः पूर्वोक्ताष्टकुलोद्भवाम् || ९२ || अक्रूराञ्च सुरूपाञ्च सालङ्कारां सुदीक्षिताम् | घृणाह्रींवर्जितां शान्तां शिववाक्यदृढव्रताम् || ९३ || गुरुदेवपदे भक्तां युवतीं साधिकां पराम् | स्वकान्तां परकान्तां वा विदग्धां चारुहासिनीम् || ९४ || प्. २०६) तस्यै पाद्यादिकं दत्त्वा स्थापयेत्तूलिकोपरि | साधयेत् सिद्धिमतुलां साधकः स्थिरमानसः || ९५ || पूजाकाले शुभाः प्रोक्ताः शक्तयः सहजा बुधैः | तस्या देहे स्वकल्पोक्तन्यासजालं प्रविन्यसेत् || ९६ || देवी परा भगवती जगदाधाररूपिणी | ब्रह्मविष्णुशिवानाञ्च योनिरुत्पत्तिकारिणी || ९७ || सा योनिः सर्वभूतानां सृष्टिस्थितिलयात्मिका | गुणत्रयसमापन्ना वाक्यत्रयविभाविनी || ९८ || शृङ्गाररूपमापन्ना त्रिकोणाकारतां गता | भगरूपेण सर्वेषां भूतानां देहमध्यगा || ९९ || शिवसन्निधिमास्थाय रत्यर्थं लिङ्गरूपिणी | सर्वेषां जननी सा तु रत्यर्थं रमणी परा || १०० || योनिप्रशंसा पुंसो योनिः स्त्रियो योनिर्भगदा भगरूपिणी | यस्यां तु जायते जन्तुस्तस्यां चान्ते प्रलीयते || १०१ || प्. २०७) त्रिशक्तिसहिता योनिर्ब्रह्मविष्णुशिवात्मिका | देवी भगवती ख्याता भगवांश्च सदाशिवः || १०२ || एकैव परमा देवी भगलिङ्गस्वरूपिणी | सर्वेषां योनिरूपेण सा देवी भगरूपिणी || १०३ || योनिस्था योनिमध्यस्था योनिरूपस्वरूपिणी | त्रिकोणा सा त्रिगुणा सा त्रिदैवतमयी परा || १०४ || संयोगे चातुरी याया पूर्णता पञ्चमी स्मृता | तस्माद्योनौ यजेद् देवीं नित्यमानन्दरूपिणीम् || १०५ || प्रक्षाल्य गन्धतोयेन धूपयित्वाऽम्बुधूपकैः | सिन्दूररजसा चैव योनौ चक्रं समालिखेत् || १०६ || स्वकल्पोक्तविधानेन तत्र देवीं प्रपूजयेत् | सर्वयोषिन्मये देवि सर्वकामार्थदायिनि || १०७ || कामेश्वरि कामभूते कामुके सन्निधिं कुरु | अनेनाऽवाहयेद् देवीं स्वीयक्रममथाचरेत् || १०८ || प्. २०८) पञ्चमीपूजने चैव वर्ज्यं स्वकुलमन्त्रकम् | यावत् पुंसां प्रसङ्गोऽत्र तावत् स्वैरं विवर्जयेत् || १०९ || यदि शङ्कास्पदं तत्र तदा देवीं विसर्जयेत् | प्रमादाद्यदि पापात्मा तत्सङ्गमनुगच्छति || ११० || तदा कुष्ठीभवेत् सद्यो निन्दितां सिद्धिमाप्नुयात् | मद्यं मांसं विना यस्तु कुलपूजां समाचरेत् || १११ || जन्मान्तरसहस्रस्य सुकृतं तस्य नश्यति | विधिवत् पूजनं कृत्वा जप्त्वा स्तुत्वा प्रणम्य च || ११२ || तस्यां यन्त्रं समालिख्य पुनस्तस्यां निवेदयेत् | यावत् सा विह्वला न स्यात्तावत्तां न विसर्जयेत् || ११३ || विसर्जनं विधायैव शक्तीच्छा यदि विद्यते | तस्या आज्ञां गृहीत्वा तु रेत् मै नं र्व च वन् थु पू || ११४ || ततो जपेत् स्त्रियं गच्छन् शेषं पूर्ववदाचरेत् | मद्यं मांसं तथा चान्यं यत्किञ्चित् कुलसाधनम् || ११५ || तस्यै दत्त्वा ततः शेषं गुरवे विनिवेद्य च | तदनुज्ञां मूर्ध्नि कृत्वा शेषमात्मनि योजयेत् || ११६ || शक्तये दक्षिणां दत्त्वा सोऽहं सच्चिन्तयेत्ततः | प्. २०९) कुलपूजनमेतत्तु कथितं सिद्धिहेतवे || ११७ || देवीयजनविधानम् सङ्क्षेपयजनं वक्ष्ये यथा तन्त्रानुसारतः | आलिङ्गनं भवेन्न्यासश्चुम्बनं ध्यानमीरितम् || ११८ || शीत्कारं यजनं प्रोक्तं नैवेद्यं नखलेखनम् | पानं जिह्वामृतं ज्ञेयं रमणञ्च जपो भवेत् || ११९ || आनन्दस्तवनं विद्धि रेतःपातो विसर्जनम् | अद्वैतज्ञानमाश्रित्य सदा देवीं समर्चयेत् || १२० || अश्वमेधशतेनापि ब्रह्महत्याशतेन वा | पुण्यपापैर्न लिप्यन्ते येषां ब्रह्म हृदि स्थितम् || १२१ || पृथिव्यां यानि कर्माणि जिह्वोपस्थनिमित्तकम् | जिह्वोपस्थपरित्यागी कर्मणा किं करिष्यति || १२२ || तावत् कर्माणि कुर्वीत यावज्ज्ञानं न जायते | पूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः || १२३ || जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः | प्. २१०) नहि ध्यानात् परो मन्त्रो न देवस्त्वात्मनः परः || १२४ || नानुसन्धात् परा पूजा न हि तृप्तेः परं फलम् | मन्त्रोदकैर्विना सन्ध्यां जपहोमैर्विना तपः || १२५ || उपचारैर्विना पूजां योगी नित्यं समाचरेत् | देहो देवालयो देवि जीवो देवः सदाशिवः || १२६ || त्यजेदज्ञाननिर्माल्यं सोऽहम्भावेन पूजयेत् | जीवः शिवः शिवो जीवः स जीवः केवलः शिवः || १२७ || पाशबद्धः पशुः पाशमुक्तः शिवः पाशबद्धः पशुर्देवि पाशमुक्तः सदाशिवः | तुषेण बद्धो ब्रीहिः स्यात् तुषाभावे तु तण्डुलम् || १२८ || कर्मबद्धः सदा जीवः कर्ममुक्तः सदाशिवः | ध्यायतां क्षणमात्रं वा श्रद्धया परमं त्विह || १२९ || यद्भवेत्तन्महापुण्यं तस्यान्तो नैव गम्यते | क्षणं ब्रह्माहमस्मीति यः कुर्यादात्मचिन्तनम् || तत्सर्वं पातकं हन्यात्तमः सूर्योदये यथा || १३० || प्. २११) योगीन्द्रलक्षणम् स्नातं तेन समस्ततीर्थसलिलैः दत्ता च पृथ्वी द्विजे नूनं तेन सुतर्पिताश्च पितरो देवाश्च सम्पूजिताः | यज्ञानाञ्च सहस्रमेवमखिलं तेनैव सर्वं कृतं यस्य ब्रह्म विचारणे क्षणमपि प्राप्तञ्च धैर्यं मनः || १३१ || व्रतक्रतु तपस्तीर्थदानदेवार्चनादिषु | यत्फलं कोटिगुणितं तदेवाप्नोति तत्त्ववित् || १३२ || उत्तमा सहजावस्था मध्यमा ध्यानधारणा | जपस्तुतिः स्यादधमा होमपूजाऽधमाधमा || १३३ || उत्तमा तत्त्वचिन्ता स्याज्जपचिन्ता तु मध्यमा | शास्त्रचिन्ताऽधमा ज्ञेया लोकचिन्ताऽधमाधमा || १३४ || यो निन्दास्तुतिशीलेषु सुखदुःखारिबन्धुषु | समश्चेत् स तु योगीन्द्रो हर्षाहर्षविवर्जितः || १३५ || प्. २१२) निस्पृहो नित्यसन्तुष्टः समदर्शी जितेन्द्रियः | आस्ते देहे प्रवासीव स योगी परतत्त्ववित् || १३६ || निःसङ्कल्पो निर्विकल्पो निर्जितोपाधिवासनः | निजस्वरूपनिर्मग्नः स योगी परतत्त्ववित् || १३७ || यथा पङ्ग्वन्धबधिरक्लीवोन्मत्तजडादयः | निवसन्ति च सर्वत्र स योगी परमो मतः || १३८ || पञ्चमुद्रासमुत्पन्नः परमानन्दनिर्भरः | य आस्ते स तु योगीन्द्रः पश्यत्यात्मानमात्मनि || १३९ || येन युक्तेन मनसा प्रसन्ना चण्डिका भवेत् | तेन सन्तुष्टहृदयैः सेव्या देवी न संशयः || १४० || इति श्रीमज्ज्ञानानन्दपरहंसविरचिते कौलावलीनिर्णये नवमोल्लासः || ९ || दशम उल्लासः कौलाचारविधानम् अथाचारं प्रवक्ष्यामि यथातन्त्रानुसारतः | सर्वभूतहिते युक्तः समयाचारतत्परः || १ || समयाचारकथनम् अनित्यकर्मसन्त्यागी नित्यानुष्ठानतत्परः | मन्त्रधारणमात्रेण शिवभावेन तत्परः || २ || परस्यां देवतायां तु सर्वकर्मनिवेदकः | येषाञ्च निश्चलाभक्तिर्गुरौ देवे मनावपि || ३ || तेषां सिद्धिर्भवेदाशु नान्यथा कल्पकोटिषु | गुरुमाहात्म्यम् गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः || ४ || गुरुर्मनुर्गुरुर्जापो गुरुरेव परन्तपः | तेषां सिद्धिर्भवेदाशु नाभक्तस्य कदाचन || ५ || प्. २१४) प्रातरेव गुरुं ध्यायेत् ब्रह्मरन्ध्रे च साधकः | सम्पूज्य सकलं कर्म कुर्यात्तस्याऽज्ञया सदा || ६ || विंशतिः पुरुषान् वापि सप्त पञ्चत्रयोऽपि वा | अज्ञात्वा गुरुवंशानां शिष्यश्चेन्नष्टसन्ततिः || ७ || गुरुवंशगौरवम् ध्यात्वा गुरुकुलं नैव नष्टमार्गो भविष्यति | नष्टमार्गान् मन्त्रविद्ये न तादृक्सिद्धिगोचरे || ८ || गुरूणां शिष्यभूतानां नास्ति चेत् सन्ततिक्रमः | तन्त्रमन्त्राश्च विद्याश्च निष्फला नात्र संशयः || ९ || स्ववंशादधिको ज्ञेयो गुरुवंशः शुभावहः | उत्पादकब्रह्मदात्रोर्गरीयान् मन्त्रदः पिता || १० || अस्मान् मन्येत सततं पितुरप्यधिकं गुरुम् | गमनं पूजनं स्वप्नं भोजनं रमणं तथा || ११ || गृहीत्वाऽज्ञां गुरोः कुर्यात्तस्य सिद्धिर्विना जपात् | गुरौ मनुष्यबुद्धिञ्च मन्त्रे चाक्षरभावनाम् || १२ || प्. २१५) प्रतिमासु शिलाबुद्धिं कुर्वाणो नरकं व्रजेत् | गुरौ मानुषबुद्ध्या न पश्येत् शिष्यः कदाचन || १३ || कदाचिन्न लभेत् सिद्धिं मन्त्रैर्वा देवतार्चनैः | श्रीगुरुं प्राकृतैः सार्द्धं ये स्मरन्ति वदन्ति च || १४ || तेषां हि सुकृतं सर्वं पातकं भवति क्षणात् | चापल्यं परिहासञ्च गुरोः साक्षाद्विवर्जयेत् || १५ || वृथा तु पूजनं मुद्रा क्रियते मन्दबुद्धिभिः | श्रीगुरौ संस्थिते साक्षात् किं वृथा ध्यानयोगतः || १६ || गुरौ सन्निहिते यस्तु पूजयेदन्यदेवताम् | स याति नरकं घोरं सा पूजा विफला भवेत् || १७ || यतः सर्वत्र मन्त्राणां गुरुपूजा गरीयसी | तदग्रे मन्त्रतन्त्राणां भाषणं नैव कारयेत् || १८ || पूजिते गुरुपादे वै सर्वदेवः सुखी भवेत् | सर्वेषां मन्त्रतन्त्राणां पिताऽसौ यः सदाशिवः || १९ || प्. २१६) अन्यदेवसपर्या वा अन्यदेवस्य कीर्तनम् | गुरुदेवं विना चैव तदग्रे नरकं व्रजेत् || २० || गुरोः प्रीतिकरं कर्म यः कुर्यात् साधकोत्तमः | तस्याऽशु सिद्धयः सर्वाः सन्ति पादतले सदा || २१ || कायेन मनसा वाचा यो भक्तश्चरणे गुरोः | तस्य सिद्धिर्भवेदाशु पूजाहोमजपादृते || २२ || गुरुभक्तिविहीनश्चेत् हानिस्तस्य पदे पदे | प्रत्यक्षे वा परोक्षे वा प्रत्यहं प्रणमेद् गुरुम् || २३ || गुरोरग्रे पृथक् पूजामौद्धत्यञ्च विवर्जयेत् | दीक्षां व्याख्यां प्रभुत्वञ्च गुरोरग्रे न कारयेत् || २४ || सर्वथा तुष्टिमुत्पाद्य गुरोः प्रसादमालभेत् | ऋणदानं तथाऽदानं वस्तूनां क्रयविक्रयम् || २५ || न कुर्याद् गुरुणा सार्द्धं शिष्योऽपि च कदाचन | आज्ञाभङ्गोऽर्थहरणं गुरोरप्रियवर्तनम् || २६ || प्. २१७) गुरुद्रोहमिदं प्राहुः यः कुर्यात् स च पातकी | स्नेहद्रव्यनियोगञ्च नाऽनिवेद्य गुरौ चरेत् || २७ || अनिवेद्य तु यः कुर्यात् स भवेद् ब्रह्मघातकः | गुरुनाम न भाषेत जपकालादृते क्वचित् || २८ || श्रीनाथ देव स्वामीत्यभिवादे साधने वदेत् | गुरुं तुङ्कृत्य हुङ्कृत्य वाचा निर्भर्त्स्य यः कदा || २९ || देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताः | सिद्धिं सिद्धाधिवासांश्च श्रीपूर्वं समुदीरयेत् || ३० || विकल्प्य कुलशास्त्राणि भवन्ति कुलराक्षसाः | एकाक्षरप्रदातारं यो गुरुञ्चावमानयेत् || ३१ || शुनो योनिशतं गत्वा चण्डालत्वमवाप्नुयात् | गुर्वग्रे न तपः कुर्यान्नोपवासव्रतादिकम् || ३२ || तीर्थयात्राञ्च यः कुर्यान्न कुर्यादात्मशुद्धये | प्. २१८) न नियोगं गुरोर्दद्याद् दुष्टतां न विभावयेत् || ३३ || यस्मिन् द्रव्ये गुरोरस्ति स्पृहा नानुभवेत्ततः | अवश्यं यदि वाञ्छा स्यादनुभूयात्तदाज्ञया || ३४ || यस्तिलार्धं तदर्धं वा गुरुस्वमुपजीवति | मोहाल्लोभात् पतेद्यस्तु नरके च त्रिसप्तके || ३५ || बह्वल्पं हि गुरोर्द्रव्यं अदत्तं स्वीकरोति यः | तिरश्चां योनिमालम्ब्य क्रव्यादैर्भक्ष्यते सदा || ३६ || गुरुद्रव्याभिलाषी च गुरुस्त्रीगमनोत्सुकः | पतितस्यापि तस्यापि प्रायश्चित्तं न विद्यते || ३७ || तत्पापं समवाप्नोति गुर्वग्रेऽनृतभाषणात् | गोब्राह्मणवधं कृत्वा यत्पापं समवाप्नुयात् || ३८ || शक्तिच्छायां गुरुच्छायां देवच्छायां न लङ्घयेत् | यद्यत्र गुरुणा सार्द्धं स्वपित्युपविशेत्तु यः || ३९ || स याति नरकं घोरं यावदिन्द्राश्चतुर्दश | प्. २१९) गुरुवाक्यहतं कृत्वा आत्मवाक्यं तु रोपयेत् || ४० || गुरुं जेतुं मनो यस्य पच्यते नरकार्णवे | अनेकधा पशोरन्नं भुञ्जते ये च कौलिकाः || ४१ || तेभ्यः प्रकुप्यते देवी तत्सङ्गं नैव कारयेत् | लक्षत्रयञ्जपेल्लोपां लक्षं वाऽप्यजपां जपेत् || ४२ || होमयेद्धविषाऽज्येन निष्पापः स्यात्तदा ध्रुवम् | गुरुणाऽलोकितः शिष्य उत्तिष्ठेदासनं त्यजेत् || ४३ || गुरुणा सदसद्वापि यदुक्तं तन्न लङ्घयेत् | रभसं मैथुनं मिथ्या यो वदेद् गुरुमन्दिरे || ४४ || स याति नरकं घोरं शम्भुना परिभाषितम् | न विशेदासने धीरो देवतागुरुसन्निधौ || ४५ || गुरोः सिंहासनं देयं ज्येष्ठानामुत्तमासनम् | देश्यासनं कनिष्ठानामितरेषां समासनम् || ४६ || प्. २२०) रिक्तहस्तो न पश्येत्तु राजानं दैवतं गुरुम् | फलपुष्पादिकं नीत्वा यथा शक्त्या समर्पयेत् || ४७ || एवं यो नाचरेन्मन्त्री ब्रह्मराक्षसतां व्रजेत् | आलिङ्गनप्रदानेन गुरौ तुष्टे सकृद्यदि || ४८ || तदा किम्वा न लभते साधका गुरुसेवकाः | गुरुत्यागात् नरकगामित्वम् गुरुत्यागे ध्रुवो मृत्युर्मन्त्रत्यागाद्दरिद्रता || ४९ || गुरुमन्त्रपरित्यागाद्रौरवं नरकं व्रजेत् | गुरुत्यागकरः शिष्यः प्रायश्चित्ती भवेद्ध्रुवम् || ५० || लक्षं श्रीपादुकामन्त्रं जप्त्वा पापात् प्रमुच्यते | मन्त्रत्यागकरः शिष्यस्तत्सङ्गं नैव कारयेत् || ५१ || लक्षमेकं जपेन्मन्त्रं होमतर्पणतः शुचिः | ब्रह्मापराशरव्यासविश्वामित्रादयः पुनः || ५२ || गुरुषुश्रूषणात् सिद्धिं प्राप्तास्ते भुवनत्रये | शिवो गुरुप्रसादेन सर्ववित्सर्वगः प्रभुः || ५३ || प्. २२१) साधकः शिव एव स्याद् गुरौ तुष्टे सकृद् यदि | तदा किम्वा न लभन्ते साधका गुरुसेवकाः || ५४ || तस्मादेव प्रयत्नेन गुरुसेवां समाचरेत् | सर्वदा गोपयेदेनं गुरुञ्च मनुमेव च || ५५ || गुरुशययासनं यानं पादुकोपानहौ तथा | स्नानोदकं तथा छायां लङ्घयेन्न कदाचन || ५६ || वृथा कालं न गमयेद् द्यूतक्रीडादिना सुधीः | गमयेद् देवतापूजाजपयागस्तवादिना || ५७ || गुरोः कृपालापकथास्तोत्रागमावलोकनैः | गमयेदनिशं कालं न वदेत् परदूषणम् || ५८ || रागलोभमदक्रोधपैशुन्यादि विवर्जयेत् | कुलाचारं गुरुं देवं मनसाऽपि न निन्दयेत् || ५९ || पूजां ध्यानं जपं होमं यथा कर्मचतुष्टयम् | प्रत्यहं साधकः कुर्यात् स्वयञ्चेत् सिद्धिमिच्छति || ६० || प्. २२२) परदारादिसङ्गतिः वर्जनीया कन्यायोनिं पशुक्रीडां दिग्वस्त्रां प्रकटस्तनीम् | नालोकयेत् परद्रव्यं परदाराश्च वर्जयेत् || ६१ || न निन्देद् व्रतिनं विप्रं वेदाङ्गसंहितास्तथा | पुराणागमशास्त्राणि कल्पांश्चापि न दूषयेत् || ६२ || अन्यमन्त्रार्चने श्रद्धामन्यमन्त्रप्रपूजनम् | एकस्यावाहनं कृत्वा नान्यसाधनमाचरेत् || ६३ || अन्यस्य स्मरणाद् दुःखं योगिनीशापमालभेत् | अपमृत्युभवेत्तस्य मृते च नरकं व्रजेत् || ६४ || किमधिकञ्चापरैः साध्यं तस्याः सर्वं यतो लभेत् | कुलदर्शनशास्त्राणि कुलद्रव्याणि कौलिकान् || ६५ || सेवकान् प्रेरकान् वापि वाचकान् दर्शकांस्तथा | शिक्षकान् मोक्षकान् वापि योइगिनीसिद्धिरूपकान् || ६६ || स्त्रीनिन्दा न कर्तव्या कन्यां कुमारिकां नग्नामुन्मत्तामपि योषितम् | न निन्देन्न जुगुप्सेत न हसेन्नावमानयेत् || ६७ || प्. २२३) नाप्रियं नानृतं ब्रूयात् कस्यापि कुलयोगिनः | कुरूपेति निकृष्टेति न वदेत् कुलयोषितम् || ६८ || परीक्षयेन्न भक्तांश्च वीराणाञ्च कृताकृतम् | या काचिदङ्गना लोके सा मातृकुलसम्भवा || ६९ || कुप्यन्ति कुलयोगिन्यो वनितानामतिक्रमात् | स्त्रीणां शतापराधेन पुष्पेणापि न ताडयेत् || ७० || कुलस्त्रीवीरनिन्दाञ्च तत्त्वद्रव्यापहारणम् | कुलरोधप्रहारञ्च वर्जयेन्मतिमान् सदा || ७१ || स्त्रीमयञ्च जगत् सर्वं स्वयं तावत्तथा भवेत् | न हिंसेदखिलान् जन्तून्न निन्देद्वामलोचनाम् || ७२ || न निन्देद्दक्षिणं वामं देववाक्यं तथैव च | न निन्देत् शक्तिसिद्धान्तं शक्तिपूजनतत्परः || ७३ || प्. २२४) न निन्देद् वृद्धवाक्यं तु न निन्देद् वेदवादिनम् | न निन्देद् बहुमान्यञ्च न निन्देच्च पतिव्रताम् || ७४ || न निन्देद् देवलोकादीन्न निन्देत् समयस्थितान् | न निन्देद् बहुलं मांसं निन्दां सर्वत्र वर्जयेत् || ७५ || प्रमत्तामन्त्यजां कन्यां पुष्पितां पतितस्तनीम् | विरूपां मुक्तकेशीञ्च कामार्त्ताञ्च न निन्दयेत् || ७६ || स्त्रीः शक्तिरूपिणी शक्तिमयं जगत् सर्वं स्वयं तावत्तथा भवेत् | शक्तिरूपा यतो देवी सृष्टिमध्ये व्यवस्थिता || ७७ || शक्तेः सृष्टिः समुत्पन्ना शक्तौ च लीयते पुनः | तस्मात् शक्तिः प्रधाना च पूजनीया प्रयत्नतः || ७८ || भक्षयेद्योषिता सार्द्धं जुहुयादग्निसम्मुखे | आरक्तवसनां नारीं यत्नाद् भक्त्या समानयेत् || ७९ || शक्तिपूजां सदा कुर्यात् प्रसन्ना येन जायते | सुखं शक्तिप्रसन्ने तु दुःखं तद्वर्जनाद् भवेत् || ८० || प्. २२५) शाक्तव्यवहारः भक्ष्यं भोज्यं तथा पेयं गन्धं पुष्पं तथा पुनः | शक्तौ निवेद्य प्रथमं तथा चाऽभरणादिकम् || ८१ || तत्पश्चादात्मसात् कुर्यात् सिद्ध्यर्थी साधकश्च यः | शक्तौ दर्पं घृणां लज्जां वर्जयेत् क्रोधदर्शनम् || ८२ || कदाचिद्दर्परूपेण पुष्पेणापि न ताडयेत् | शक्तौ न विस्मयं कार्यं यस्मात् क्रुद्धा च चण्डिका || ८३ || विस्मिते बहुलं नाशं मृत्युलाभमवाप्नुयात् | मृतेऽपि नरकं याति श्रियमाप्नोति पूजनात् || ८४ || चर्व्यं चोष्यं लेह्यपेयं भक्ष्यं भोज्यं गृहं सुखम् | सर्वञ्च युवतीरूपं भावयेत् यतमानसः || ८५ || कुलजां युवतीं वीक्ष्य नमस्कुर्यात् समाहितः | यदि भाग्यवशेनैव कुलदृष्टिस्तु जायते || ८६ || तदैव मानसीं पूजां तत्र तासां प्रकल्पयेत् | बालां वा यौवनोन्मत्तां वृद्धां वा सुन्दरीं तथा || ८७ || कुत्सितां वा महादुष्टां नमस्कृत्य विसर्जयेत् | प्. २२६) तासां प्रहारं निन्दाञ्च कौटिल्यमपि चाप्रियम् || ८८ || सर्वथा न च कर्त्तव्यमन्यथा सिद्धिरोधकृत् | स्त्रियो देव्यः स्त्रियः प्राणाः स्त्रिय एव विभूषणम् || ८९ || स्त्रीसङ्गिना सदा भाव्यमन्यथा स्वस्त्रिया अपि | न पश्येत् पतितां नग्नामुन्मत्तां प्रकटस्तनीम् || ९० || दिवसे न रमेन्नारीं तद्योनिं न निरीक्षयेत् | विपरीतरता सा तु भविता हृदयोपरि || ९१ || स्त्रीद्वेषो नैव कर्त्तव्यो विशेषात् पूजनं स्त्रियः | जपस्थाने महाशङ्खं निवेश्योर्ध्वं जपञ्चरेत् || ९२ || जपे कालशुच्यादि नियमो नास्ति स्त्रियं गच्छन् स्पृशन् पश्यन् विशेषात् कुलजां शुभाम् | मांसमत्स्यदधि क्षौद्रभक्ष्यद्रव्ये यथारुचि || ९३ || भोज्यान्नासनभक्तानि भुक्त्वा भक्ष्यं चरेज्जपम् | विना पीत्वा सुरां भुक्त्वा मांसं गत्वा रजस्वलाम् || ९४ || यो जपेच्चण्डिकां देवीं दुःखं तस्य पदे पदे | प्. २२७) कौलिकमाहात्म्यम् अन्तःशाक्ता बहिःशैवाः सभायां वैष्णवा मताः || ९५ || नानावेशधराः कौला विचरन्ति महीतले | कुलपूजादिलिङ्गैस्तु रहितो विष्णुतत्परः || ९६ || गच्छन् स्वपन् भ्रमन् वापि स्खलन् विष्णुपरायणः | हरिनाम्ना जातभावो भावाखिलविचेष्टितः || ९७ || जय विष्णो हरे ब्रह्मन् नानार्थपरविस्तरैः | स्मर्त्तव्या च महादेवी कुलीनैर्विपिने गृहे || ९८ || रात्रौ जपः प्रशस्तः रात्रौ पर्यटनञ्चैव रात्रौ च शक्तिपूजनम् | न करोति कथञ्चैव साधकः कौलिको भवेत् || ९९ || बधिराद् विहरेदेकः सदा सङ्गविलङ्घितः | दिक्कालनियमो नात्र स्थित्यादिनियमो न च || १०० || न जपे कालनियमो नार्चादिषु बलिष्वपि | स्वेच्छानियम उक्तोऽत्र शक्तिमन्त्रस्य साधने || १०१ || प्. २२८) स्नानादिमानसं शौचं मानसः प्रवरो जपः | पूजनं मानसं दिव्यं मानसं तर्पणादिकम् || १०२ || सर्व एव शुभः कालो नाशुभो विद्यते क्वचित् | न विशेषो दिवारात्रौ न सन्ध्यायां महानिशि || १०३ || वस्त्रासनस्थानगेह देहस्पर्शादिधारिणः | शुद्धिं न चाचरेत्तत्र निर्विकल्पं मनश्चरेत् || १०४ || नात्र शुद्धेरपेक्षास्ति न चामेध्यादिदूषणम् | य एवं चिन्तयेन्मन्त्री सर्वकामार्थसिद्धिभाक् || १०५ || गद्यपद्यमयी वाणी सभायां तस्य जायते | तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः || १०६ || राजानोऽपि च दासत्वं भजन्ते किं परे जनाः | सर्वदेवमयं देहं सर्वदेवमयीं तनूम् || १०७ || आत्मानं देवतारूपं अद्वैतं परिचिन्तयेत् | आत्मा च परमात्मा च जगद्व्यापी स्वयं विभुः || १०८ || प्. २२९) आत्मानं ब्रह्मरूपं च सर्वदा परिचिन्तयेत् | शत्रवश्चापि मित्रन्ति साक्षाद्दासन्ति भूमिपाः || १०९ || वाचयन्ति यशः सर्वे साधकानां सुनिश्चितम् | दुर्मुखाः सुमुखाः सर्वे गर्विता प्रणमन्ति च || ११० || बाधकाः साधका यान्ति साधकस्य विशेषतः | सर्वदा पूजयेद् देवीमस्नातः कृतभोजनः || १११ || महानिशाशुचौ देशे बलिं मन्त्रेण दापयेत् | अत्यन्तरोगयुक्तो वा शुचिर्वाऽप्यथवाऽशुचिः || ११२ || अकालेऽप्यथवा काले अधिकारी सदैव हि | कृतार्थं मन्यमानस्तु सन्तुष्टनिजमानसः || ११३ || नाधर्मो विद्यते किञ्चित् किञ्चिद्धर्मो महान् भवेत् | कुलान्नञ्चैव भुञ्जीत कुलीनेन सह स्वपेत् || ११४ || कुलप्रसङ्गः कर्त्तव्यः कुलीनैर्न पशोः क्वचित् | यस्मिन्मन्त्रे य आचारस्तस्य धर्मस्तु तादृशः || ११५ || प्. २३०) तद्धस्तावचितं भोज्यं तद्धस्तावचितं जलम् | तद्धस्तावचितं पुष्पं देवताभ्यो निवेदयेत् || ११६ || षडङ्गन्यासमाचर्य ध्यात्वा रात्रौ जपेत् सुधीः | सदाकालं जपेन्मन्त्रं सर्वसिद्धिपरायणः || ११७ || न दोषः सर्वदा जापे सर्वदेशेऽपि सर्वदा | जपनिष्ठो जपेद्यस्तु सर्वयज्ञफलं लभेत् || ११८ || सर्वेषामेव यज्ञानां जपयज्ञः प्रशस्यते | रात्रौ जपैकमात्रेण सिद्धिदा चण्डिका भवेत् || ११९ || इडायाञ्च गते रात्रौ शक्तिमन्त्रं जपेद् यदि | पिङ्गलायां गते जीवे पुंमन्त्रं प्रजपेत् सदा || १२० || न चेज्जन्मसहस्रैस्तु नैव सिद्धिः प्रजायते | कृतार्थस्तेन जायेत स्वर्गो वा मोक्ष एव वा || १२१ || प्. २३१) भ्रान्तिरत्र न कर्त्तव्या सिद्धिहानिः प्रजायते | विस्मिता विलयं यान्ति पशवः शास्त्रमोहिताः || १२२ || विशुद्धचित्तोऽत्र भवेत् सिद्धिः स्यादपवर्गदा | एतैस्तु तत्क्षणात् सिद्धिर्विस्मयो नास्ति चापरः || १२३ || कुलभ्रष्टस्य निष्कृतिर्नास्ति सर्वाचारपरिभ्रष्टः कुलाचारं समाचरेत् | कुलाचारपरिभ्रष्टो रौरवं नरकं व्रजेत् || १२४ || शास्त्रेषु निष्कृतिर्द्रष्टा महापातकिनामपि | कुलभ्रष्टस्य कुत्रापि न द्रष्टा निष्कृतिः क्वचित् || १२५ || आपदं दुरितं रोगो दारिद्र्यं कलहो भयम् | योगिनीनां प्रकोपश्च स्खलितानि पदे पदे || १२६ || कुलाचारी योगिनीप्रियः भ्रंशमानः प्रणष्टश्च तेजोहीनश्च दुर्मतिः | निन्दितः सर्वविद्विष्टो विह्वलः सङ्गवर्जितः || १२७ || देशाद्देशान्तरं याति कार्यहानिश्च सर्वदा | तत्रापि कुलमार्गस्थाः शाकिन्यः कुलपालिकाः || १२८ || भक्षयन्ति पुरा तासां वरो दत्तो मयैव तु | प्. २३२) तस्मादाचारवान् वीरो योगिनीनां प्रियो भवेत् || १२९ || कुलाचारेण देवत्वं योगिनीवीरमेलनम् | तिर्यग्योनिं समाप्नोति कौलिकस्तद्विपर्ययात् || १३० || आज्ञासिद्धिर्भवेत्तस्य आचारपालनात् सदा | संस्कारस्य विहीनत्वाद् गुरुवाक्यस्य लङ्घनात् || १३१ || आचारवर्जनाच्चैव कौलिकः पतितो भवेत् | भोगो मोक्षायते तस्य पातकं सुकृतायते || १३२ || मोक्षायते च संसारः साधकशुद्धभावतः | पञ्चतत्त्वेन कर्त्तव्यं सदैव पूजनं महत् || १३३ || अतिगुप्तेन कर्त्तव्यं सर्वथैव सुनिश्चितम् | इत्याचारपरः श्रीमान् जपपूजापरायणः || १३४ || पालकः कुलतत्त्वानां परतत्त्वे प्रलीयते | अणिमाद्यष्टसिद्धीनामाश्रयः साधको भवेत् || १३५ || प्. २३३) प्रायश्चित्तं भृगोः पातं सन्न्यासं व्रतधारणम् | कायक्लेशञ्च नास्तिक्यं तीर्थयात्रामुपोषणम् || १३६ || वर्जयेच्च प्रयत्नेन यदीच्छेत् सिद्धिमात्मनः | पञ्चमहापातकानि वीरहत्या वृथापानं वीरद्रव्यापहारिता || १३७ || वीरस्त्रीगमनञ्चापि तत्संसर्गाच्च पञ्चमम् | महापातकमित्युक्तं सर्वथा परिवर्जयेत् || १३८ || कुसुम्भं नालिकाञ्चैव चिञ्चामेव न खादयेत् | भुक्त्वा चान्द्रायणं कुर्यात् सिद्धविद्याप्रपूजकः || १३९ || इक्षुखण्डं न भुञ्जीत शिवा कालीति नो वदेत् | न छेदयेत् कदम्बञ्च त्रिपुरापूजकः सदा || १४० || प्रमादाद्यदि कुर्वीत सुन्दरीशापमाप्नुयात् | कुलधर्मं समाश्रित्य आचारं यो न पालयेत् || १४१ || यथेच्छाचारिणस्तस्य महापातकिनः सदा | निष्कृतिर्नास्ति तस्यैव महारौरवसङ्कुले || १४२ || स सदा पशुरित्युक्तो देवताशापमाप्नुयात् | प्. २३४) गुप्तप्रकटसम्भूतं ज्ञानाज्ञानकृतं तथा || १४३ || निषिद्धाचरणं यत्र कुत्रापि यदि जायते | प्रायश्चित्तं तत्र तत्र कर्त्तव्यं साधकेन च || १४४ || निषिद्धाचरणे सम्यक् पापस्य गुरुलाघवम् | देशं कालं वयो वित्तं सम्यक् ज्ञात्वा यथाविधि || १४५ || प्रायश्चित्तं गुरोः कुर्यात् सर्वपापविशुद्धये | शिष्योऽपि खलु तत्प्रोक्तं प्रायश्चित्तं समाचरेत् || १४६ || अथवा सर्वपापानां गुरुनामजपः स्मृतः | जाम्बूनदस्य कलुषं परिशुद्धं यथाऽग्निना || १४७ || अनाचारस्य मालिन्यं प्रायश्चित्ताऽग्निना दहेत् | लक्षं नाम्नो गुरोर्जापे सर्वपापाद्विशुद्ध्यति || १४८ || अथवाऽप्यजपालक्षं लोपालक्षत्रयं तथा | जपान्मुच्येत पापेभ्यः सर्वेभ्यः साधकः सदा || १४९ || लोपामुद्रामन्त्रोद्धारः वियच्छून्ययुतः शक्तिः सविसर्गोऽजपामनुः | प्. २३५) वियच्छक्तिस्ततः कामः क्षौणी च परमेश्वरी || १५० || आकाशं भृगुकामौ च शिवः शक्रश्च पार्वती | चन्द्रोऽनङ्गो धरादेवी लोपामुद्रा प्रकाशिता || १५१ || बहुनाऽत्र किमुक्तेन रहस्यं कथ्यतेऽधुना | वर्णाश्रमाणां सर्वेषामाचारः सद्गतिप्रदः || १५२ || गुरुः शिष्यपापम् आप्नोति प्रजादोषश्च राजानं जायादोषं पतिं यथा | तथा प्राप्नोत्यसन्देहः शिष्यपापं गुरुः सदा || १५३ || गुरुस्त्रिवारमाचारं कथयेच्च स्वशिष्यके | न गृह्णाति हि शिष्यश्चेत् तदा पापं गुरोर्न हि || १५४ || कुलशास्त्रं पशुभ्यः गोप्तव्यम् कुलधर्मप्रसङ्गन्तु पशूनां पुरतस्त्यजेत् | कदाचिन्नैव कुर्याद्धि शूद्राग्रे वेदपाठवत् || १५५ || प्. २३६) पीठक्षेत्रागमाम्नायं तद्विद्याचारकौलिकान् | कुलद्रव्यादिकञ्चापि न वदेत् पशुसन्निधौ || १५६ || यथा रक्षति चौरेभ्यो धनधान्याम्बरादिकम् | कुलधर्मं तथा चैव पशुभ्यः परिरक्षयेत् || १५७ || सुगुप्तकौलिकाचारमनुगृह्णन्ति देवताः | वाञ्छदासिद्धिमवाप्नोति नाशयन्ति प्रकाशकान् || १५८ || या देवी भुवनेश्वरी त्रिभुवनलोकोद्धृता ह्यग्रतो विद्यासृष्टिकृता स्वकीयवपुषो वर्णाश्रिता देवता | सा नित्या सकला गृहस्थनिलया कान्तादृता कोमला नित्यं पञ्चगुणैर्भजस्व तपसा भोगेन तां साधक ! || १५९ || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये दशमोल्लासः || १० || एकादश उल्लासः भावनिरूपणम् पश्वदिभेदेन भावस्य त्रैविध्यम् अथ भावं प्रवक्ष्यामि यथा तन्त्रानुसारतः | भावस्तु त्रिविधः प्रोक्तो दिव्यवीरपशुक्रमात् || १ || तद्भेदेन गुरुमन्त्रदेवतानां त्रैविध्यम् गुरुश्च त्रिविधश्चैव तथैव मन्त्रदेवता | आद्यभावो महान् श्रेयान् सर्वसिद्धिप्रदायकः || २ || द्वितीयो मध्यमश्चैव तृतीयो विश्वनिन्दितः | बहुजापात्तथा होमात् कायक्लेशादि विस्तरैः || ३ || न भावेन विना चैव यन्त्रमन्त्राः फलप्रदाः | किं वीरसाधनैर्लक्षैः किम्वाऽकृष्टकुलाकुलैः || ४ || किं पीठपूजनेनैव किं कन्याभोजनादिभिः | स्वकुले प्रीतिदानेन किं परेषान्तथैव च || ५ || किं जितेन्द्रियभावेन किं कुलाचारकर्मणा | यदि भावविशुद्धात्मा न स्यात् कुलपरायणः || ६ || प्. २३८) भावेन लभते मुक्तिं भावेन कुलवर्धनम् | भावेन गोत्रवृद्धिः स्याद् भावेन कायशोधनम् || ७ || किं न्यासविस्तरेणैव किं भूतशुद्धिविस्तरैः | किं वृथा पूजनेनैव यदि भावो न जायते || ८ || केन वा पूज्यते विद्या न वा केन प्रजायते | फलाभावश्च नियतं भावाभावात् प्रजायते || ९ || दिव्यभावनिरूपणम् प्रथमं दिव्यभावस्तु कथ्यते तन्त्रवर्त्मना | यद्वर्णं देवता यत्र तत्तेजःपुञ्जपूरितम् || १० || तेजोमयं जगत् सर्वं विभाव्य मूर्त्तिकल्पनम् | तत्तन्मूर्त्तिमयैर्मन्त्रैः स्वेन स्वेनैव वा पुनः || ११ || आत्मानं तन्मयं दृष्ट्वा सर्वं भावं तथैव च | तत्सर्वं योषिति ध्यात्वा चिन्तयेद्यतमानसः || १२ || प्. २३९) अष्टाब्दात् षोडशाब्दान्तं युवतीति प्रचक्ष्यते | तत्र भावप्रकाशश्चेत् स भावः परमो मतः || १३ || चरणान्मूलपर्यन्तं पीत्वा पीत्वा पुनः पिबेत् | तस्या नखमणिज्योत्स्नाखण्डिताघतमो भवेत् || १४ || स्निग्धान्तःकरणो वीरो निर्विकारः सदा भवेत् | सुवृत्तजानुना चारुजङ्घोरुजघनश्रिया || १५ || नाभिरोमावली वक्षःस्थलैः पीनपयोधरैः | ग्रीवानयनपर्यन्तं केशाग्रैः प्रकरस्मितैः || १६ || यावमधुमदापूर्णदिव्यभावविलोकितैः | स्निग्धेन्द्रियश्च सन्तुष्टश्चतुर्वर्गपदाश्रयः || १७ || कामकलापूजा ततः कामकलां ध्यायेत् साधकः स्थिरमानसः | निवृत्तिकाले पुनस्तस्या भावपूर्णामृतैर्निजम् || १८ || मुखं बिन्दुवदाकारं तदधः कुचयुग्मकम् | तदधः सपरार्धञ्च चिन्तयेत्तदधोमुखम् || १९ || सर्वविद्यामृतापूर्णं सर्ववाग्विभवप्रदम् | सर्वार्थसाधकञ्चैव सर्वरञ्जनकारकम् || २० || प्. २४०) सर्वदेवादिभूतञ्च सर्वदेवनामस्कृतम् | सर्वाह्लादनसम्पूर्णं सर्वमोहनकारणम् || २१ || सर्वार्थसाधनञ्चैव सर्ववश्यप्रवर्त्तकम् | एवं कामकलाध्यानं सुगोप्यं साधकोत्तमैः || २२ || एतद्रूपं तु चात्मानं चिन्तयेत् साधकः सदा | मेढ्रस्थाने शिवाकारमाधारे कनकप्रभम् || २३ || नाभिस्थं सूर्यविम्बाभं तरुणादित्य वर्चसम् | हृदि वह्निशिखाकारं तदूर्ध्वे भास्करद्युतिम् || २४ || कण्ठे दीपशिखाकारं घण्टा वैदूर्यसन्निभम् | लम्बिके चन्द्रविम्बाभं भ्रूमध्ये रत्नवद्रुचिम् || २५ || नयने विश्वतेजश्च चिन्तयेदेषु साधकः | धृत्वा स्पृष्टवाऽथवा दृष्ट्वा ध्यात्वा कामकलातनूम् || २६ || कुलेषु तत्कलारूपमकुले परिचिन्त्य च | क्षणं तद्वद्विमर्शेन जायते भावसञ्चयः || २७ || प्. २४१) कुलीनो जायते यस्मात्तत् सर्वं कथितं शुभम् | कुले साक्षाद् यतस्तत्त्वं देवी तिष्ठति तत्त्वतः || २८ || तेन तत्कुलशास्त्राङ्गे पूजनीया प्रयत्नतः | कुलदेवी चाद्या देवी निश्चला यस्य विद्यते || २९ || स धन्यः पुरुषो लोके निश्चलो यत एव सः | इति कामकलाध्यानं कथितं सर्वसिद्धिदम् || ३० || परयोषाधिका ज्ञेया निजस्त्री प्रीतिवर्द्धिनी | आगते स्वागतं कुर्याज्ल्लीलायोगात् स्वलीलया || ३१ || तल्पाच्चोत्थाप्य हस्ताग्रे धृत्वा सम्वेशयेत्तः | वामभागसमासीनां सुवेशीं कामरूपिणीम् || ३२ || ध्यात्वा कामकलां तत्र विन्द्वादिपूर्वविग्रहाम् | गन्धमाल्यं ततो दत्त्वा कुलद्रव्याणि योजयेत् || ३३ || हेतुयुक्तं सताम्बूलं दत्त्वा भुक्त्वा च साधकः | पृच्छेत् कुलकथां सर्वां लौकिकालौकिकादिकाम् || ३४ || प्. २४२) तस्यां निन्दाभयक्रोध कटूक्तियोजनं यदि | करोति कुलशास्त्रज्ञः सिद्धोऽपि नश्यति ध्रुवम् || ३५ || हित्वा दोषादिकं तत्र स्नेहवृष्टीव शिक्षया | भावयेन्न कटूक्त्या वै कृते तु निष्फलं भवेत् || ३६ || कुलशास्त्रे रहस्यं तु कुलमूलं ततो जगत् | वरं कुलमनोस्त्यागो वरं कुलगुरोरपि || ३७ || न त्यागयोग्यं स्वकुलं दृष्टदोषेण सर्वथा | स्वकुले कुलबाहुल्यं यदि स्याद् भाग्ययोगतः || ३८ || समरूपं विधातव्यं वैपरीत्यं परित्यजेत् | पृथक् स्थानं पृथग्ध्यानं पृथक्पूजा पृथक् स्तुतिः || ३९ || न कर्त्तव्या प्रयत्नेन किमेभिर्बहुजल्पितैः | वीरापत्यकुले चैव वीरपत्नीकुलेऽपि च || ४० || सदा तिष्ठति देवेशि नात्र कार्या विचारणा | तासां निश्वासयोगेन तद्देशश्चैव नश्यति || ४१ || प्. २४३) प्रमोदादमृतस्नानं देव्याः स्यान्नात्रसंशयः | कुलजा सा महायुद्धे वीरास्फालननादिनी || ४२ || न दोषमनुगच्छन्ती पालयन्ती यतो जगत् | मात्सर्यं पतिविद्वेषः कटूक्तिः कलहादिकम् || ४३ || नीचाभिगमनाच्चैव न सा देवी हरप्रिया | एवं कुलं परित्यज्य साधयेत् सिद्धिमात्मनः || ४४ || फलपाकविधानम् फलपाकविधानं किं कथ्यते तन्त्रवर्त्मना | वीरपत्नी च परमा स्वयमेव महेश्वरी || ४५ || तत्सुता कुलविद्यानामाद्या रौद्री सनातनी | तद्वधू भुवनेशानी सर्वमन्त्रप्रबोधिनी || ४६ || न्यायतोऽन्यायतो वापि वीरपत्नी गुरुर्यदि | दीक्षणादेव सर्वार्थसाधकः साधको भवेत् || ४७ || यदि भाग्यवशाद्देवि वीरपत्नी तु लभ्यते | फलपाकं तत्र कृत्वा किं न सिध्यति भूतले || ४८ || प्. २४४) फलपाकविधानं तु सर्वदेवनमस्कृतम् | दृष्टादृष्टाफलञ्चैव देवगन्धर्वकिन्नराः || ४९ || आयान्ति फलपाकार्थं तस्माद्यत्नविशेषतः | विसर्जनं विधातव्यं गोपनं भावशक्तिकम् || ५० || पातिव्रत्यप्रशंसा तत्तत्कल्पविधानेन कुलं कुर्यात् सुशिक्षितम् | यतः पतिव्रताधर्मात् धर्मो नास्ति जगत्त्रये || ५१ || पतिः प्राणप्रदो नित्यं पतिरेव परा गतिः | पतिरेव परं ब्रह्म पतिः प्राणाधिकः प्रभुः || ५२ || सर्वतीर्थमयः स्वामी सर्वदेवमयः पतिः | सर्वदेवीमयश्चैव पतिरेवमहागुरुः || ५३ || सर्वदेवमयं हित्वा या नारी परगोचरा | शूकरी गर्दभी काको शृगाली जायते ध्रुवम् || ५४ || अहं तु पुत्रवद्देवि नात्र भीतिर्न च त्रपा | प्. २४५) तव लिङ्गे यो हि याति पतिरूपधरः क्वचित् || ५५ || मूलमन्त्रजप्ततोयं तद्गात्रे देयमीश्वरि | तदा यदि बहिर्न स्यात्तदा स्वपतिरेव हि || ५६ || इत्यादिशिक्षया कार्याः शिक्षिताः कुलयोषितः | आगत्योपविशेत् पार्श्वे मुखं वीक्ष्य स्थिरा भवेत् || ५७ || पतिभावेङ्गिते दक्षा हृष्टा स्यात् पतिदर्शने | उत्तरे नोत्तरं दद्यात् व्याहरेच्छुभकर्मणि || ५८ || रक्षां कृत्वा विधानेन साधकः स्थिरमानसः | योगिनीनां महापूजा बटुकानां तथैव च || ५९ || कार्या विघ्नविनाशार्थं कुलवारर्क्षयोगतः | तासां मूलतरोर्मूले मूलविद्याञ्च कालिकाम् || ६० || विसर्जनविधौ कुर्यात् साधकः कुलपातनम् | यद्रूपे प्रीतिरेतस्य कुलस्य कुलवित्तमः || ६१ || तद्रूपं विग्रहं कृत्वा साधकः स्थिरमानसः | तत्र बीजार्पणं कृत्वा कुर्वन्ति कुलरक्षणम् || ६२ || प्. २४६) लिङ्गैर्वाक्यैः पदैश्चैव ज्ञात्वा कुलसमुद्भवम् | देवजातं नरैर्जातं यथार्थकुलशास्त्रतः || ६३ || ज्ञात्वा कुलविभागं तु पञ्चमात् परतो बुधः | सप्तमाष्टममासाद्वा वृक्षमध्ये सरोवरे || ६४ || हस्तं दत्वा पादुकाख्यां विद्यां संहारयोगतः | जपेदष्टसहस्रं वै स्वयं वृक्षात् पतिष्यति || ६५ || पादुकां पूजयामीति कथितः पादुकामनुः | एवं कृते यत् पतितं तत्फलं देवनिर्मितम् || ६६ || स्वस्वामिकञ्च पतति वैपरीत्यागमागमात् | एतल्लिङ्गफलं ज्ञात्वा आनीय क्षालयेत्ततः || ६७ || गन्धद्रव्यं कटुद्रव्यं दत्त्वा च साधकोत्तमः | धेनुमुद्रामृतीकृत्य होमं कुर्यादलक्षितः || ६८ || रात्रावेवं विधायैव यज्ञशेषं भुजेत्ततः | भुक्तमात्रे तु तस्मिन् वै चिरजीवी क्षितौ भवेत् || ६९ || प्. २४७) मुख्या मधुमती तस्य करस्था भोगदायिनी | नित्या मधुमती तस्य जायते नात्र संशयः || ७० || मधुमत्याः फलञ्चैव कथयामि शृणुष्व मे | सुधाधारासमा वाणी वक्त्रात्तस्य प्रजायते || ७१ || सर्वज्ञः सर्वशास्त्राणामधीशः कुलनायकः | चन्द्रसूर्यावधि श्रीमान् भुनक्ति बहुलं सुखम् || ७२ || देवकन्याप्सरोभिश्च दिव्यगन्धर्वचारणैः | नानाविलाससम्पन्नैः कलाकुशलकोविदैः || ७३ || नृत्यगीतैश्च बहुलैर्नानोपायरसायनैः | अमृताद्यैः प्रीतिकरैर्देवभोग्यैः सुदुर्लभैः || ७४ || देवकन्याहस्तगतैरथमारुह्यसोत्सुका | आयाति साधकाकाङ्क्षहृदया परमेश्वरी || ७५ || यत्र कामेश्वरो देवश्चिन्तारसमुपागतः | तत्रैवाऽयान्ति सततं देवकन्याः सहस्रशः || ७६ || इन्द्रयोग्यां पुरीं कृत्वा वसन्ति साधकैः सह | तत्रोपगतपीठस्था भुक्त्वा तु बहुलं सुखम् || ७७ || प्. २४८) चिरकालं भुवि स्थित्वा चान्ते मुक्तिमवाप्नुयात् | साधकानां कुलज्ञानां न दोषः फलपातने || ७८ || एतत्फलनिपातार्थं कुलप्राप्त्या पदे पदे | विघ्नं करोति सर्वत्र निजसङ्कोचकारणात् || ७९ || फलं वृक्षोपरि तथा विघ्नमाचरित ध्रुवम् | फलवृक्षस्य हानिश्चेत् कदाचिद्दैवयोगतः || ८० || साधकोऽपि भवेदत्र तदा च सविकल्पकः | तावन्न कुलपूजा स्याद्यावत्तु निष्कृतिर्भवेत् || ८१ || तावन्निजकुलालापा वर्जनीयाः प्रयत्नतः | एतत् कार्यविधाने तु योग्यो नास्तीह भूतले || ८२ || अतिदूरस्थिते देशे नामवर्णविवर्जिते | करोति यदि तत्र स्याद्विघ्नं वा फलपातनम् || ८३ || न दोषैस्तत्र बाध्यन्ते साधकाः कुलसेवकाः | विघ्नप्रधानमेतत्तु कदाचित् फलसाधनम् || ८४ || प्. २४९) सङ्केतेनैव कर्त्तव्यं सर्वत्र फलसाधनम् | स्वफलं समनुप्राप्य क्रियते यदि पामरैः || ८५ || फलं भवति तेनैव पापेन बध्यते ध्रुवम् | दिव्यभावः साधकेन्द्रो मर्त्त्यो शक्रसमो भवेत् || ८६ || एष ते कथितो दिव्यो भावः परसुखावहः | न देयो यस्य कस्यापि पशोः गोप्यः प्रयत्नतः || ८७ || वीरभाववर्णनम् अथातः सम्प्रवक्ष्यामि वीरभावञ्च मध्यमम् | निर्द्वन्द्वमानसो भूत्वा हृदि कामकलातनुः || ८८ || निशि पूजा प्रकर्त्तव्या हेतुयुक्तः सदा भवेत् | निजं कुलं समादाय स्वयं भैरवरूपधृक् || ८९ || कुलञ्च भैरवीरूपं तद्गात्रे न्यासविस्तरम् | विन्यसेत् सकलं न्यासं नवयोन्यात्मकं तथा || ९० || प्रसूनतूलिकामध्ये पुष्पप्रकरसङ्कुले | नानागन्धसमाकीर्णं कुलद्रव्येण यन्त्रकम् || ९१ || प्. २५०) लिखित्वा पूजयेच्छक्तौ घटस्थापनपूर्वकम् | पूर्ववन्मण्डलं कृत्वा पूर्वोक्तैकतमं घटम् || ९२ || संस्थाप्य हेतुनाऽपूर्य ब्राह्मणादिविभेदतः | तत्र मन्त्रं विलिख्यादौ यद्यत्कुलसमुद्भवम् || ९३ || ध्यात्वेष्टदेवतां तत्र जपेदष्टोत्तरं शतम् | धेनुमुद्रां प्रदर्श्याऽथ अमृतं तद्विचिन्तयेत् || ९४ || दृष्टाऽर्घ्यस्य तु पात्रं वै नृत्यन्ति योगिनीगणाः | इन्द्रादयः सुराः सर्वे नृत्यन्ति मधुलोलुपाः || ९५ || ब्रह्मविष्णुमहेशाद्या नृत्यन्ति हर्षतत्पराः | अर्घ्यपात्रं त्रिधा कृत्वा गुरवे चैकभागकम् || ९६ || एकं कुलाय दत्त्वा वै एकेन देवतर्पणम् | पीत्वा कुलरसं पूर्ण नानालङ्कारभूषितः || ९७ || आनन्दरूपवान् भूत्वा पूजयेत् परमेश्वरीम् | तत्तत्कल्पोक्तविधिना तत्तन्मन्त्रं प्रपूज्य च || ९८ || विसर्जनं विधायाथ स्वकुले योजयेत्ततः | भक्तिस्वरसपानेनदेवी भुनक्ति चामृतम् || ९९ || प्. २५१) तत्तत्कुलरसास्वादैर्देव्याः प्रीतिः प्रजायते | तत्फलग्रहणादेव सुमेरुशृङ्गरोहणम् || १०० || लतालिङ्गनमात्रेण सुधाधौतकलेवरः | मूलयोगे कृते तत्र जपेदष्टसहस्रकम् || १०१ || जपस्यान्तं हविर्द्रव्यं गृहीत्वा तेन तर्पयेत् | विधाय तर्पणं चैव प्रदक्षिणमनुव्रजन् || १०२ || कल्पोक्तेन प्रणम्याऽथ स्तोत्रेण तोषयेत्ततः | इदं वीरकुलं चैव सुन्दरं सुमनोहरम् || १०३ || यद्देशे विद्यते वीरस्तत्कुलं चैव तत्सुतः | न च मारीभयं तत्र न च राजभयादिकम् || १०४ || सुमङ्गलं सदा तत्र धनपुत्रविवर्धनम् | लक्ष्मीर्वाणी सदा तत्र सुस्थिरा भवति ध्रुवम् || १०५ || मन्त्रपुष्पं प्रबोधिन्यामवश्यं ब्रह्ममूलतः | योजनीयं प्रयत्नेन न च विघ्नं प्रवर्तते || १०६ || प्. २५२) नान्यवीरेण तद्योगं ग्रहणे दैवतैरपि | योगिनीभिर्न लुप्तं तन्न च पापेन युज्यते || १०७ || यत्र तत्र कुजे वारे श्मशाने गमने कृते | पूजाफलं भवेत्तत्र सप्तवासरसम्मितम् || १०८ || चतुर्दश्यां गते तत्र पक्षपूजाफलं लभेत् | न गते नार्च्चिते स्थाने पशुरेव न संशयः || १०९ || नान्यस्मादधिको देव इति चिन्तापरायणः | साधके क्षोभमापन्ने देव्याः क्षोभः प्रजायते || ११० || तस्माद्यत्नाद् भोगयुक्तो भवेद्वीरवरः सुधीः | भोगेन मोक्षमाप्नोति भोगेन कुलसाधनम् || १११ || यद्यद्वदति निद्राति यत्करोति यदर्चति | तत्सर्वं कुलरूपं तु ध्यात्वा च विहरेत् सुधीः || ११२ || प्. २५३) एकाकी निर्जने देशे श्मशाने निर्जने वने | शून्यागारे नदीतीरे निःसङ्गो विहरेन्मुदा || ११३ || वीराणां जपकालस्तु सर्वदैव प्रशस्यते | सर्वपीठे सर्वदेशे कर्तव्यं नात्र संशयः || ११४ || वीरसाधनकार्यञ्च कर्त्तव्यं वीरपुरुषैः | दिव्यैरपि च कर्तव्यं पशुभिर्न च पामरैः || ११५ || वरं पामरकार्यञ्च न पशोरिति निश्चयः | यच्च देव्याः पुरा प्रोक्तं शाश्वतं मन्त्रसाधनम् || ११६ || अञ्जनं गुटिकादींश्च कुर्याद्वीरो महाबलः | दिव्यवीरे न भेदोऽस्ति यो भेदः स तु कथ्यते || ११७ || दिव्यवीरयोर्भेदकथनम् शान्तो विनीतो मधुरः कलालावण्यसंयुतः | दिव्यश्च देववत् प्रायो वीरश्चोद्धतमानसः || ११८ || प्. २५४) विभूतिभूषणो वापि चन्दनेनापि लेपितः | आकारगोपनो वापि व्यक्तो वा दिव्यसाधकः || ११९ || रक्तचन्दनदिग्धाङ्गो वैष्णवो वाप्यवैष्णवः | असंस्कृतः संस्कृतो वा नित्यसिक्तः कुलेश्वरः || १२० || अपमाने च पूजायां हृष्टपुष्टः सदा भवेत् | देवनिन्दापरो वापि तत्पूजादिपरोऽपि वा || १२१ || पूजारतस्तद्रहितः कुलाकुलमते स्थितः | निजभावसमायुक्तो देववत् विहरेत् क्षितौ || १२२ || वेदहीने द्विजे चैव यथा न श्रुतिसंस्क्रिया | विष्णुभक्तिं विना चैव भक्तिर्न प्रभवेद्यथा || १२३ || शक्तिज्ञानं विना मुक्तिर्यथा हास्याय कल्पते | गुरुं विना यथा तन्त्रे नाधिकारः कथञ्चन || १२४ || पतिहीना यथा नारी सर्वकर्मविवर्जिता | कुलं विना यथा वीरो देव्या वा मम साधकः || १२५ || प्. २५५) नाधिकारीति कौलेयस्तस्माद् भावपरो भवेत् | विना कुलेन दिव्यानां वीराणाञ्च तथैव च || १२६ || मन्त्रसिद्धिर्न जायेत जन्मकोटिशतैरपि | अविनीतं कुलं यस्य च कथं मम पूजकः || १२७ || तस्माद्यत्नात् सदा कार्यं यथा स्याद्विनयान्वितम् | भावाभावात् कुले शास्त्रे नाधिकारः कथञ्चन || १२८ || तेन भावविशुद्धस्तु साधकः कौलिको भवेत् | इदं वीरकुलञ्चैव दिव्यादपि मनोरमम् || १२९ || पशुभावनिरूपणम् पशुभावं प्रवक्ष्यामि तृतीयं सर्वनिन्दितम् | यथाविधि पशोर्विद्यां गृहीत्वा भावतत्परः || १३० || प्रथमं पूर्वमेवार्थं यत्नतः शुद्धिमाचरेत् | न मत्स्यभोजनं कुर्यान्न स्त्रियं मनसा स्मरेत् || १३१ || परद्रव्ये न लोभः स्यान्न भोगो मानसो भवेत् | सिन्धुतीरे पर्वते वा कानने वा सुरालये || १३२ || बिल्वमूले विवक्ते तु पुण्यक्षेत्रे सुशोभने | न शूद्रदर्शनं कुर्यात् कौटिल्यं दूरतस्त्यजेत् || १३३ || प्. २५६) देवता शुभ्रवर्णा तु ध्यातव्या सुसमाहितैः | त्रिसन्ध्यं देवपूजा स्यात् त्रिसन्ध्यं जपमाचरेत् || १३४ || रात्रौ मालाञ्च यन्त्रञ्च स्पृशन् नैव कदाचन | न मन्त्रमुच्चरेद् भुक्त्वा मौनी स्यात् सर्वकर्मसु || १३५ || पर्वकाले स्त्रियं नैव गच्छेद्वै साधकोत्तमः | पुष्पं गन्धं जलं चैव स्वयमानीय पूजयेत् || १३६ || मैथुनं तत्कथालापं तद्गोष्ठीं परिवर्जयेत् | ऋतुकालं विना गच्छेन्न च स्वस्त्रियमादरात् || १३७ || पुराणश्रवणे श्रद्धा वेदवेदाङ्गतत्परः | न रात्रौ भोजयेद्विद्वांस्ताम्बूलञ्च तथैव च || १३८ || गुरुणा यद्यदादिष्टं तत्सर्वं यत्नतश्चरेत् | स्वजातकुसुमं चैव हेतुद्रव्यं तथैव च || १३९ || एतत्स्पृष्ट्वा त्रिरात्रञ्च पञ्चगव्येन शुध्यति | रक्तवस्त्रं न गृह्णीयात् देवीभक्तिपरायणः || १४० || प्. २५७) विष्णुतन्त्रोक्तकल्पादि तदनुष्ठानमेव च | कार्यं वीरकथालापं न कुर्याद्वीरवन्दितम् || १४१ || नित्यश्राद्धं गवां ग्रासं सन्ध्यावन्दनमेव च | तीर्थस्नानं पीठदेशे गमनं धर्मतत्परः || १४२ || दीक्षितादीक्षितभेदेन पशोर्द्वैविध्यम् पशुस्तु द्विविधश्चैवाऽदीक्षितो दीक्षितस्तथा | दीक्षितस्याऽधिकारोऽस्ति पूजायां चैव निश्चितम् || १४३ || गुरुत्वे तस्य कुत्रापि नाधिकारश्च सर्वदा | पूर्वस्य नाधिकारोऽस्ति पूजादेशगतागतौ || १४४ || पूर्वस्तु कौलिकैः सर्वैर्बहिः कार्याः स्वदेशतः | पूर्वदर्शनमात्रेण कुलदर्शनमाचरेत् || १४५ || ब्रह्महत्यादिकं पापं वरं सह्यं कथञ्चन | पूर्वस्य दर्शनं नैव सत्यं सत्यं सुनिश्चितम् || १४६ || प्. २५८) देव्यात्मा सोऽपि नियतं विभुत्वाद्यद्यपि ध्रुवम् | तथापि जायते शङ्का तदा देव्याः पदे पदे || १४७ || वरं कुलपरित्यागं वरं स्वकुलहिंसनम् | वरं स्वकुलकुत्सा स्याद्वरं स्वकुलनिन्दनम् || १४८ || वरं स्वकुलहानिस्तु वरं स्वकुलकुट्टनम् | कायेन मनसा वाचा वरं स्वकुलपातनम् || १४९ || न च कुर्यात् पूर्वसङ्गं देव्यङ्गक्षयकारणात् | कुलशास्त्रे द्वयं पापं गरिष्टो भवति ध्रुवम् || १५० || स्वकुले महती निन्दा परयोगे तथैव च | तस्मादपि महत् पापं पशुसङ्गात् प्रजायते || १५१ || गोलोकेन सहाऽलापात् पशोः सम्भाषसंस्कृतात् | न सिध्यन्ति महामन्त्राः सत्यं सत्यं सुनिश्चितम् || १५२ || ब्रह्महत्या सुरापानमगम्यागमनं तथा | स्तेयं संसर्ग एवैते महापातकजातयः || १५३ || प्. २५९) दीक्षादेव नश्यन्ति जपान्नश्यन्ति चापरे | वीरहत्या वृथापानं वीरजायाश्च सङ्गमः || १५४ || एतद्ग्रन्थैकदेशस्य गुरोरर्थावलोपनम् | ज्ञात्वा वीरवरञ्चापि तन्निन्दा तदकीर्त्तनम् || १५५ || न च तस्मै धनारोपस्तेयमित्यभिधीयते | पशुसङ्गःवर्जनीयः पशुना यः समालापः समा शयया समासनम् || १५६ || एकत्र भोजनं चैव संसर्गश्च ततः परम् | संसर्गपातकं प्रोक्तं कुलीनस्य महात्मनः || १५७ || पातकं न च तेषां वै सङ्क्षये पुण्यसञ्चयम् | प्रभवन्ति न तीर्थानि न गङ्गा न च काशिका || १५८ || महाविद्याजपादेव चत्वारि पातकानि च | नश्यन्ति न च संसर्गः क्षयं याति कदाचन || १५९ || अज्ञानात् पशुसंसर्गो यदि दैवात् प्रजायते | तदा द्वादशवर्षाख्यं व्रतार्थं यत्नमाचरेत् || १६० || कुलीनायाः समीपस्थः कुलसेवापरायणः | उच्छिष्टभोजी तन्नामप्रजापी तत्पतेरपि || १६१ || प्. २६०) तदन्ते तां समभ्यर्च्य यत्नैश्च परितोष्य च | शुचिर्भूत्वा पुनर्विद्यां गृहीत्वा शुद्धिमाप्नुयात् || १६२ || व्रताशक्तो यदि भवेत् सुवर्णैः परितोषकृत् | दद्यात् कुलाय पापानां क्षयार्थं साधकोत्तमः || १६३ || ज्ञानात् संसर्गमासाद्य मरणन्नैव शुध्यति | मृते च भासकाकादि योनिमालम्ब्य सर्वतः || १६४ || नानाक्लेशसमायुक्तो नरकान् प्रतिपद्यते | न चैनं दीक्षयेन्नाम न चास्य दर्शनञ्चरेत् || १६५ || देवीशास्त्रकथाञ्चात्र प्रयत्नेन विवर्जयेत् | कर्मणा मनसा वाचा पशुशास्त्रादिपूजनम् || १६६ || प्रकुर्वन्ति महापापास्त्यज्यास्ते कुलसाधकैः | निषेधे कुलशास्त्राणि साधकः सर्वदा चरेत् || १६७ || पशुशास्त्राणि सर्वाणि वर्जयेत् परदारवत् | श्वचर्मस्थं यथा क्षीरं न देयं स्याद्द्विजेष्वपि || १६८ || तथा पशुमुखाद्धर्मो न श्रोतव्यश्च कौलिकैः | अश्रद्दधाना ये चात्र कुलधर्मेषु कौलिकाः || १६९ || प्. २६१) न पातकान्निवर्तन्ते यावदाहूतसंप्लवम् | कौलाः पशुव्रताश्चैव पक्षद्वयविडम्बकाः || १७० || केशसंख्या स्मृताय यावत्तावत्तिष्ठन्ति रौरवे | दीक्षणात् पूजनाद्धोमात्तथा दृष्ट्यवलोकनात् || १७१ || यत्किञ्चिज् ज्ञानमात्रेण पशुना निर्जितो यदि | तस्य सर्वं हरेद्देवी शापं दत्त्वा सुनिश्चितम् || १७२ || पशोर्विद्यां समादाय यदि पूजापरो भवेत् | तस्य वक्त्रं समालोक्य कुलवक्त्रं विलोकयेत् || १७३ || एवं न चेत् कुलीनस्य विद्याहानिस्तु जायते | पशूपदिष्टं यत्किञ्चित् क्रियते कुलसाधकैः || १७४ || तत्तत्कर्म सदा तेषामभिचाराय कल्पते | या याः सर्वा महाविद्याश्चण्डिकायाः सुनिश्चितम् || १७५ || पशुदृष्टिनिपातेन साधकं नाशयेद् ध्रुवम् | यदि दैवात् पशोर्विद्यां लभते कुलजैर्नरैः || १७६ || द्विजस्य कालिकां प्रार्थ्य पुनर्विद्यामुपालभेत् | प्. २६२) अज्ञानाद् यत् कृतं मातर्नाऽलोच्य कुलकौलिकम् || १७७ || क्षमस्व मातस्तत्पापं हर देवि कृपां कुरु | एवं प्रार्थ्य महायत्नै रत्नैः स्वर्णादिविस्तरैः || १७८ || सम्पूज्य कुलदाम्पत्यमष्टम्यां यत्नतो नयेत् | भ्रष्टस्य चाऽष्टमी चेति तिथिरेव न चान्यथा || १७९ || दीक्षाकालः स एव स्यान्नान्यः कालः प्रशस्यते | भ्रष्टा बहुविधाः सन्ति यद्यत्र कुलसाधकाः || १८० || पशुशिष्यसमो नास्ति सत्यं सत्यं न चान्यथा | कुलाचारं पशौ गुप्तं तत्तु तेषां परं विदुः || १८१ || एतच्छास्त्रप्रसङ्गो वा एतत् पुस्तकदर्शनम् | पशोरग्रे न कर्त्तव्यं प्राणान्तेऽपि कदाचन || १८२ || कृत्वा सूर्यमुखं दृष्ट्वा स्मर्त्तव्यः कुलनायकः | निर्जीवे काष्ठलोष्ठे वा शर्करायां तृणेऽपि वा || १८३ || सर्वत्र चिन्तिता देवी न पशोर्मन्त्रविग्रहे | चेतनाधिष्ठितं सर्वं सुखं दुःखं प्रकल्पितम् || १८४ || तत्रैव चेतनाभावान्नियमो नास्ति तादृशः | तस्माद् देव्याश्च सर्वस्वं देवीपूजापरायणैः || १८५ || प्. २६३) गोप्तव्यं सर्वथा चैव पशोः कल्याणहेतवे | सर्वथा तत्र भावौ द्वौ न प्रकाश्यौ कदाचन || १८६ || सभावश्च विभावश्च पशुर्द्वेधा व्यवस्थितः | सभावः पशुभावेन जन्मत्रयविभावनात् || १८७ || वीरभावो भवेदेव ततो देवः प्रजायते | दैवाच्च जायते वीरो वीराद्देवः प्रजायते || १८८ || दैवे वीरे न सन्देहः साम्यमित्यभिधीयते | भावनिर्णयोऽनिर्वचनीयः भावस्तु मनसो धर्मः स हि शाब्दः कथं भवेत् || १८९ || तस्माद्भावो न वक्तव्यो दिङ्मात्रं समुदाहृतम् | यथेक्षुगुडमाधुर्यं जिह्वया ज्ञायते सदा || १९० || तस्माद्भावो विभावस्तु मनसा परिभाव्यते | एक एव महाभावो नानात्वं भजते यतः || १९१ || प्. २६४) उपाधिभेदभावेन भावभेदो लयिष्यति | आनन्दघनसन्दोहः प्रभुः प्रकृतिरूपधृक् || १९२ || रसरूपी स एवाऽत्मा स प्रभुः परमो महान् | श्रोतव्यः स च मन्तव्यो निध्यातव्यः स एव हि || १९३ || साक्षात् कार्यस्ततो वीरैरागमैर्विविधैस्तथा | श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यो मननादिभिः || १९४ || सोपपत्तिभिरेवायं ध्यातव्यो गुरुदेशितैः | तदा स एव सर्वात्माप्रत्यक्षीभवति ध्रुवम् || १९५ || तस्मिन् देहे तु भगवान् प्रत्यक्षः परमेश्वरः | भावैर्बहुविधैश्चैव भावस्तत्रापि लीयते || १९६ || भुक्त्वा नानाविधं ग्रासं गवि चैको यथा रसः | दुग्धाद्यभ्यासयोगेन नानात्वं भजते यतः || १९७ || तृणेन जायते चैव रसस्तस्मात् परो रसः | तस्माद्दधि ततो हव्यं तस्मादपि रसोदयः || १९८ || प्. २६५) स एव कारणं तस्य तत् कार्यं न च कथ्यते | दृश्यते च सदा तत्र न कार्यं नापि कारणम् || १९९ || तथैवायं स एवाऽत्मा नानाविग्रहयोनिषु | जायेज्जनिष्यते जातः कार्यभेदादि भाव्यते || २०० || स जातः स मृतो बद्धः स मुक्तः स सुखी पुमान् | स स्त्रीर्नपुंसकः सोऽपि स एवाऽनङ्ग एव सः || २०१ || नानाध्यानसमायोगान्नानात्वं भजते यथा | एक एव स एवात्मा रसरूपी सनातनः || २०२ || अव्यक्तः स च सुव्यक्तः प्रकृत्या क्रियते ध्रुवम् | तस्मात् प्रकृतियोगेन ज्ञायते नान्यया क्वचित् || २०३ || विना घटत्वयोगेन न प्रत्यक्षो यथा घटः | इतराद् भिद्यमानोऽपि न भेदमुपगच्छति || २०४ || न भेदं पुरुषो याति विना शक्तिं कथञ्चन | न प्रयोगैर्न च ज्ञानैर्न श्रुत्या न गुरुक्रमात् || २०५ || प्. २६६) प्रकृत्यैव ब्रह्मज्ञानस्य वर्णनम् प्रकृत्या ज्ञायते ब्रह्म प्रकृत्या लीयते पुनः | प्रकृत्याऽधिष्ठितं सर्वं प्रकृत्या वाञ्छितं जगत् || २०६ || प्रकृत्या भेदमाप्नोति प्रकृत्या लीयतेऽखिलम् | न वस्तु प्रकृतिर्नैव न पुमान् परमेश्वरः || २०७ || तयोः समरसं ज्ञानं वस्तुतत्त्वं परं पदम् | उभयोः समवायस्तु वस्तुतत्त्वं सुनिश्चितम् || २०८ || ज्ञायतेऽस्मिन् स्वयं प्राज्ञश्चित्स्वरूपः पुमानसौ | निर्विकारः सर्वदैव प्रमाणागोचरः पुमान् || २०९ || व्यक्तो भवति सर्वत्र स्वयमात्मा स्वयम्भूवः | उपायाः सन्ति बहवो ज्ञातुं ब्रह्म सनातनम् || २१० || तथापि प्रकृतेर्योगात् क्षिप्रं प्रत्यक्षतां व्रजेत् | सांयात्रिकाः कुले देशे यथा नावं प्रगृह्य च || २११ || नानादेशं समुत्तीर्य समुद्रं विशते चिरात् | तत्तटे नावमास्थाय क्षणाद् यान्ति यथा पुनः || २१२ || वैजात्यं नास्ति चेत्तत्र कथं तत्तद्धि कारणम् | तस्मात् परम्परायातास्ते हि कारणतां गताः || २१३ || प्. २६७) न कारणानि ते चैव साक्षात् प्रकृतिकारणम् | स्त्रीभावः प्रकृतिर्ज्ञेयः पुम्भाव पुरुषो मतः || २१४ || ज्ञप्तिज्ञेयविभागेन ज्ञायतां साधकोत्तमैः | घटप्रत्यक्षतायां तु आलोको व्यञ्जको यथा || २१५ || चक्षुरादि ततः किञ्चिदधिकं निर्विकल्पनम् | घटत्वं पुनरेतस्य भेदकारणमेव हि || २१६ || तथा न व्यक्तिविषये त्वन्ये व्यञ्जकतां गताः | साक्षात्कारणमेवैतत् प्रकृतिश्चैव निश्चितम् || २१७ || दिव्यभावो वीरभावो यस्य देहे व्यवस्थितः | एकेन जन्मना तस्य परं प्रत्यक्षमाप्नुयात् || २१८ || जीवन्मुक्तः स एवाऽत्मा भोगार्थमटते महीम् | देवीपुत्रः स एवाऽत्मा भैरवः परिकीर्त्तितः || २१९ || दिव्यवीरपशुभिः स्वस्वमार्गेण पूजा कर्तव्या भावत्रयाणां मध्ये तु द्वौ भावौ सुप्रतिष्ठितौ | प्. २६८) न वक्तव्यौ मुक्तिमार्गौ कुलसारौ कुलोत्तमौ || २२० || यो भावो यस्य वै प्रोक्तस्तैर्भावैर्नार्चयेद्यदि | दशाहक्रमयोगेन भ्रष्टो भवति साधकः || २२१ || नोपदिशेत्तत्र भावं न पूजां तत्र सन्दिशेत् | कुलान्मन्त्रं गृहीत्वा तु भावशुद्धिः प्रजायते || २२२ || तस्माद् भावपरो भूत्वा देवीं सम्पूजयेत् सुधीः || २२३ || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये एकादशः उल्लासः || ११ || द्वादश उल्लासः मालाविधानम् अथ वक्ष्ये च मालानां विधानं तन्त्रवर्त्मना | जपविधिः आरभ्याऽनामिकामध्यात् प्रादक्षिण्येन वै क्रमात् || १ || तर्जनीमूलपर्यन्तं जपेद्दशसु पर्वसु | तर्जन्यग्रे तथा मध्ये यो जपेत् स तु पामरः || २ || चत्वारि तस्य नश्यन्ति आयुर्विद्या यशोधनम् | शक्तिमाला समाख्याता सर्वमन्त्रप्रदीपनी || ३ || (अथवा) अनामिकात्रयं पर्व कनिष्ठा च त्रिपर्विका | मध्यमायास्त्रयं पर्व तर्जनीमूलपर्विका || ४ || अङ्गुलीर्न वियुञ्जीत किञ्चित् सङ्कोचयेत्तलम् | अङ्गुलीनां वियोगे तु छिद्रेषु क्षरते जपः || ५ || प्. २७०) अङ्गुल्यग्रेषु यज्जप्तं यज्जप्तं मेरुलङ्घने | पर्वसन्धिषु यज्जप्तं तत्सर्वं निष्फलं भवेत् || ६ || मालाभेदकथनम् नित्यजापे महादेवि करमाला शुभप्रदा | अक्षमाला तथाऽन्या च सर्वथा सिद्धये पुनः || ७ || (अथवा) मुक्ताफलमयी माला राज्यमोक्षप्रदायिनी | सर्वसिद्धिप्रदा नित्यं सर्वराजवशङ्करी || ८ || यथा मुक्ताफलमयी तथा स्फाटिकनिर्मिता | रुद्राक्षमालिका मोक्षे भवेत् सर्वसुसिद्धिदा || ९ || प्रवालामालिका वश्ये लक्ष्मीविद्याप्रदा मता | तथा माणिक्यमाला च साम्राज्यफलदायिनी || १० || पुत्रजीवकमाला तु विद्यालक्ष्मीप्रदायिनी | पद्माक्षमालया लक्ष्मीर्जायते च महद्धनम् || ११ || रक्तचन्दनमाला तु वश्यसौभाग्यदायिका | प्. २७१) रुद्राक्षमालिका सूते जपेन स्वमनोरथान् || ९२ || पद्माक्षैः शत्रुहा माला कुशग्रन्थ्या तु पापहा | पुत्रजीवभवा माला पुत्रं वितनुतेऽचिरात् || १३ || हिरण्मयी कामदा स्यात् प्रवालैः पुष्कलं धनम् | सौभाग्यं स्फाटिकी माला रुद्राक्षेऽक्षयकामदा || १४ || शाक्तानां स्फाटिकीमाला रक्तचन्दनसम्भवा | पुत्रजीवैर्दशगुणं शतं शङ्खैः सहस्रकम् || १५ || प्रवालैः पद्मरागैश्च तथाऽयुतगुणं भवेत् | अयुतं स्फाटिकैः प्रोक्तं मौक्तिकैर्लक्षमुच्यते || १६ || पद्माक्षैर्दशलक्षं स्याद्राजतैः कोटिरुच्यते | सौवर्णैर्दशकोटिः स्यादनन्तं रक्तचन्दनैः || १७ || इन्द्रार्क्षैश्च महासिद्धिं तनुते मालिका सदा | रक्तचन्दनमालाभिः शिवत्वं लभते ध्रुवम् || १८ || प्. २७२) कुशग्रन्थेन रुद्राक्षैरनन्तफलदा भवेत् | गुञ्जायाः सर्वसिद्धिः स्याद्विल्वकाष्ठेन सिद्धिदा || १९ || शङ्खेन रचिता माला सर्वसौभाग्यदायिका | सामान्य कथिता माला विशेषात् कथ्यतेऽधुना || २० || देवताविशेषस्य मालावर्णनम् रक्तेन चन्दनेनापि बालामालां प्रकल्पयेत् | दन्तेन कालिकायास्तु राजदन्तेन मेरुणा || २१ || उग्रताराजपे शस्ता महाशङ्खस्य मालिका | उन्मुख्याश्च तथा ज्ञेया मोक्षदा मालिका भवेत् || २२ || वैष्णवाणां पद्मबीजैर्मालिका तुलसी मता | गजदन्तैर्गणेशे तु शैवे रुद्राक्ष उच्यते || २३ || गर्दभानां वराहाणां दन्तैरप्यभिचारके | मालायां बीजसंख्याकथनम् अष्टोत्तरशता माला चतुःपञ्चाशिकाऽपि वा || २४ || प्. २७३) षट्त्रिंशद्रचिता माला उत्तमाधममध्यमाः | अथवा मातृकासंख्या माला कार्या प्रयत्नतः || २५ || सप्तविंशतिभिः कार्या सर्वसाधारणे जपे | पञ्चविंशतिभिर्मोक्षार्थी धनार्थी त्रिंशता जपेत् | २६ || पुष्ट्यर्थी सप्तविंशत्या पञ्चदश्यभिचारके | अष्टोत्तरशतैः सर्वा सिद्धिरुक्ता मनीषिभिः || २७ || पञ्चाशद्भिः सर्वकार्यं कर्त्तव्यं नात्र संशयः | सुवृत्तं सुन्दरं बीजंबदरीबीजमालिकम् || २८ || मालाग्रथनविधानम् शिल्पिने दक्षिणां दत्त्वा गृहीत्वा साधकोत्तमः | संस्कारञ्च ततः कुर्यात् यथाशास्त्रप्रमाणतः || २९ || अप्रतिष्ठितमालाभिर्मन्त्रं जपति यो नरः | सर्व तद्विफलं विन्द्यात् क्रुद्धा भवति चण्डिका || ३० || प्. २७४) पुण्यस्त्रीरचितं सूत्रं कार्पासं वाऽथ पट्टकम् | पङ्कजोद्भवसूत्रञ्च तथा च शणसूत्रकम् || ३१ || कोषकारस्य सूत्रेण ग्रथयेदक्षमालिकाम् | स्वर्णादिसम्भवं सूत्रं त्रिगुणैस्त्रिगुणीकृतम् || ३२ || शुक्लं रक्तं तथा कृष्णं शान्तिवश्याभिचारके | रक्ते मुक्तिमवाप्नोति श्वेतैर्योगादिसाधनम् | ३३ || पीतैः कामं यशस्यञ्च कृष्णे रोगादिसम्भवः | नित्ये नैमित्तिके शस्तं शुक्लं रक्तं तथा शुभम् || ३४ || बीजानि च तथा सूत्रं पञ्चगव्ये द्वयं क्षिपेत् | प्रक्षाल्य मूलमन्त्रेण ग्रथयेदथ सूत्रकम् || ३५ || गुरुश्वशुरजामातृपुत्रैः स्वयमनन्यधीः | तैरेव ग्रथितां मालां कारयेन्नाऽन्यतः क्वचित् || ३६ || कान्तया रचिता माला द्रुतसिद्धिकरी मता | प्. २७५) एकैकमणिमादाय ब्रह्मग्रन्थिं विनिर्दिशेत् || ३७ || ग्रन्थिहीनं न कर्त्तव्यं स्पृष्टास्पृष्टेन दूष्यति | शैवे च वैष्णवे सौरे गणेशे श्रीकरेऽपि च || ३८ || बीजस्पर्शे पुनः कुर्यात्संस्कारं यत्नतः सुधीः | दूषणं यत्र नास्त्येव ग्रन्थिहीनोऽपि नित्यशः || ३९ || कालिकात्वरितयोस्तु वज्राद्याः षट्कभेदके | तोतलावनवासिन्योर्वाराह्याद्याविशेषतः || ४० || अन्यायाश्चण्डिकादेव्या ग्रन्थिहीना विधीयते | एकैकमणिमादाय साधकः स्थिरमानसः || ४१ || ब्रह्मग्रन्थिं ततो दद्यात् हृदये तारमास्मरन् | स्वयमेव जपेन्मन्त्रमन्यः प्रणवमुच्चरेत् || ४२ || गोपुच्छसदृशी कार्या अथवा सर्परूपिणी | मेरुमेकं विधायाथ मालान्ते साधकोत्तमः || ४३ || अर्चयच्च गुरुं ध्यायन् न्यासमन्त्रञ्च दक्षिणे | वामतोऽपि भवेद्देवं ध्यानतः सिद्धिमाप्नुयात् || ४४ || प्. २७६) यो मेरुः तं गुरुं विन्द्यान्मन्त्रबीजन्तु दक्षिणे | एवं निष्पाद्य मालाञ्च प्रतिष्ठाञ्च समाचरेत् || ४५ || मालासंस्कारक्रमविवेचनम् अनुलोमविलोमाभ्यां मातृकान्तरितां न्यसेत् | पञ्चगव्ये क्षिपेन्मालां शिवमन्त्रेण मन्त्रिताम् || ४६ || सान्तं शक्रस्वरारूढं नादबिन्दुविभूषितम् | कथितं शिवमन्त्रञ्च साधकानां हिताय च || ४७ || पञ्चामृतैः पञ्चगव्यैः स्नापयेन्मूलमुच्चरन् | घृतं क्षीरं तथा नीरं शर्करामधुसंयुतम् || ४८ || पञ्चामृतमिदं ख्यातं प्रत्येकन्तु पलं पलम् | पलार्धं गोमयं क्षीरं प्रस्थं दधि तथा समम् || ४९ || गोमूत्रं प्रस्थमानं स्यादाज्यञ्चैव तदर्धकम् | मूलेन मन्त्रितं कृत्वा योजयेत् पञ्चगव्यकम् || ५० || अशीतलजलेनैव स्नापयेत्तदनन्तरम् | क्षालयेत् पञ्चगव्येन सद्योजातेन मार्जयेत् || ५१ || प्. २७७) मालासंकारमन्त्रः ओं सद्योजातं प्रपद्यामि सद्योजाताय वै नमः | भवेऽभवेऽनादिभवे भजस्व मां भवोद्भवाय नमः || ५२ || चन्दनागुरुगन्धाद्यैर्वामदैवेन घर्षयेत् || ५३ || ओं वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमः | बलाय नमो बलविकरणाय नमो बलप्रमथनाय नमः सर्व भूतदमनाय नमो नम उन्मनाय नमः || ५४ || सुधूपैर्धूपयेत्ताञ्च अघोरमनुना बुधः | ओं अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्वतः सर्वसर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः || ५५ || गन्धचन्दनकुङ्कुमैर्लेपयेत्पुरुषेण च || ५६ || ओं तत्पुरुषाय विद्महे महादेवाय धीमहि | तन्नो रुद्रः प्रचोदयात् || ५७ || मन्त्रयेच्च ततो धीरः प्रत्येकञ्च शतं शतम् | ईशानमनुना मेरुं शतं चैव ततः परम् || ५८ || ओं ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् प्. २७८) ब्रह्माधिपतिः ब्रह्मणोऽधिपतिः शिवो मेऽस्तु सदाशिवोम् || ५९ || मालाप्राणप्रतिष्ठाविधानम् ततः संस्थापयेन्मालां स्वर्णादिपीठके बुधः | पद्माकारेषु चाश्वत्थपत्रेषु स्थापयेच्च वा || ६० || पीठे वापि च संस्थाप्य पूजयेत् स्वीयदेवताम् | साङ्गावरणसंयुक्तामुपचारैः सुविस्तरैः || ६१ || एकैकक्रमयोगेन बीजानां साधकोत्तमः | प्राणप्रतिष्ठां कुर्वीत अष्टोत्तरशतं ततः || ६२ || मालाप्राणप्रतिष्ठा मन्त्रः प्राणशक्तिसमारूढं औकारबिन्दुरूपधृक् | प्रणवं अक्षमालाधिपतये तदनन्तरम् || ६३ || हृदन्तं मूलमुच्चार्य पूजयेन्मालिकां क्रमात् | तिलेन घृतयुक्तेन शक्त्या होमं प्रकल्पयेत् || ६४ || होमकर्मण्यशक्तश्चेद् द्विगुणं जपमाचरेत् | तारोऽक्षमालाधिपतये सुसिद्धादिं वदेत्ततः || ६५ || प्. २७९) सर्वमन्त्रार्थसाधिनीतिसाधयद्वितयं पुनः | सिद्धिंप्रकल्पय स्वाहा अभिमन्त्रितमालया || ६६ || मूलमन्त्रं जपेत्तत्र अष्टोत्तरसहस्रकम् | अष्टोत्तरशतं वापि जप्त्वा मालां समर्पयेत् || ६७ || शिष्यहस्ते ततः सोऽपि जपेदष्टसहस्रकम् | अष्टोत्तरशतं वापि जप्त्वा मालाञ्च गोपयेत् || ६८ || गुरवे दक्षिणां दत्त्वा यथाशक्त्या तु साधकः | गुरोरभावे मालायाः संस्कारं स्वयमाचरेत् || ६९ || मालाप्रदर्शनं वर्जनीयं गुरुं प्रकाशयेद्विद्वान् न तु मन्त्रं कदाचन | अक्षमालाञ्च मुद्राञ्च गुरोरपि न दर्शयेत् || ७० || भूतराक्षसवेतालाः सिद्धगन्धर्वचारणाः | हरन्ति प्रकटाद्यस्मात्तस्माद्यत्नेन गोपयेत् || ७१ || जपान्यसमये मालां पूजयित्वा तु गोपयेत् | अशुचिर्न स्पृशेन्मालां शुचौ न प्रकल्पयेत् || ७२ || प्. २८०) हस्तात् पतति चेन्माला न जप्तव्या त्र्यहं बुधैः | प्रायश्चित्तं विधातव्यं जपेन्मन्त्रं सहस्रकम् || ७३ || (अथवा) करभ्रष्टे शब्दकृते जपेदष्टोत्तरं शतम् | जीर्णे सूत्रे पुनः सूत्रं प्रथयित्वा शतं जपेत् || ७४ || छिन्ना भवति चेन्माला पूजां कृत्वा ततोऽधिकाम् | गुरूणां शिल्पिनाञ्चैव पूजां कृत्वा तु साधकः || ७५ || प्रतिष्ठां पूर्ववत् कृत्वा पुनर्जापं समाचरेत् | एवंविधा सर्वमाला सर्वदेवे प्रतिष्ठिता || ७६ || अक्षमालापूजाकथनम् अथान्यां सम्प्रवक्ष्यामि मालां कुलमयीं पराम् | कुण्डगोलोद्भवैर्द्रव्यैः स्वयम्भूकुसुमेन च || ७७ || रोचनाकुङ्कुमेनैव अक्षमालां समर्चयेत् | कर्पूरागुरुकस्तूरी तथा मृगमदेन च || ७८ || अक्षमालामुपस्कृत्य प्रतिष्ठां विधिवच्चरेत् | अथातः संप्रवक्ष्यामि मालां सर्वोत्तमोत्तमाम् || ७९ || प्. २८१) यस्य विज्ञानमात्रेण मन्त्राः सिध्यन्ति तत्क्षणात् | अनुलोमविलोमेन मन्त्रमातुर्विभेदतः || ८० || मन्त्रेणाऽन्तरितं वर्णं वर्णेनाऽन्तरितं मनुम् | कुर्याद्वर्णमयीं मालां सर्वमन्त्रप्रदीपिनीम् || ८१ || चरमार्णं मेरुरूपं लङ्घयेन्न कदाचन | एतद्रहस्यं परमं नाऽख्येयं यस्य कस्यचित् || ८२ || अनुलोमविलोमस्थैर्बिन्दुयुङ्मातृकाक्षरैः | क्षमेरुकैः साष्टवर्गैः कॢप्तया वर्णमालाया || ८३ || प्रत्येकं वर्णयुङ्मन्त्रा जप्ताः स्युः क्षिप्रसिद्धिदाः | सबिन्दुं वर्णमुच्चार्य पश्चान्मन्त्रं जपेत् सुधीः || ८४ || क्षं मेरुं कल्पयित्वा तु जपेत्तन्नाऽभिलङ्घयेत् | अथ यन्त्रप्रतिष्ठानं कथयामि प्रसङ्गतः || ८५ || प्. २८२) यन्त्रप्रतिष्ठाविधानम् सुवर्णं रजतं ताम्रं श्रेष्ठं मध्यमथाऽधमम् | ताम्रे लक्षगुणं प्रोक्तं रौप्ये कोटिगुणं भवेत् || ८६ || सुवर्णेऽनन्तफलदं स्फाटिकेऽपि तथा समम् | एकतोलं द्वितोलं वा त्रितोलं पञ्चतोलकम् || ८७ || रसतोलं चतुस्तोलं सप्ततोलं पलन्तु वा | साधकस्य मनोज्ञं वा कृत्वा पीठे सुसाधकः || ८८ || पूर्वोक्तधातुद्रव्यैश्च सुन्दरं सुमनोहरम् | सुरेखं सुमुखं यन्त्रं लेखयित्वा विधानतः || ८९ || अथवा प्रतिमां कृत्वा निजदेवस्वरूपिणीम् | प्रतिष्ठाञ्च ततः कुर्याद् यथाशास्त्रप्रमाणतः || ९० || स्नात्वा सङ्कल्पयेन्मन्त्री ततो न्यासादिकञ्चरेत् | पञ्चगव्यं ततः कृत्वा शिवमन्त्रेण शोधितम् || ९१ || तत्र यन्त्रं क्षिपेन्मन्त्री प्रणवेन समाकुलम् | तस्मादुद्धृत्य तच्चक्रं स्थापयेत् स्वर्णपट्टके || ९२ || पञ्चामृतेन सुस्नाप्य शीतलेन जलेन च | वाससा जलमुत्तोल्य स्थापयेद्धेमपीठके || ९३ || प्. २८३) पीठपूजां विधायाथ कुशैर्यन्त्रञ्च संस्पृशन् | प्रणवं यन्त्रराजाय विद्महे तदनन्तरम् || ९४ || महायन्त्राय धीमहि तन्नो यन्त्रः प्रचोदयात् | गायत्रीमिति सञ्जप्य शतमष्टोत्तरं ततः || ९५ || आवाह्य पूजयेद् देवीं जीवन्यासपुरःसरम् | उपचारैः षोडशभिर्नानाविधरसायनैः || ९६ || नानाविधफलैर्द्रव्यैर्नानाङ्गरागविस्तरैः | स्वकल्पोक्तविधानेन सम्पूज्य परमेश्वरीम् || ९७ || ततो जाप्यं सहस्रं तु कर्यादीप्सितसिद्धये | बलिदानं ततः कृत्वा प्रणमेच्चक्रमुत्तमम् || ९८ || अष्टोत्तरशतं होमं घृतेन कारयेत् सुधीः | गुरवे दक्षिणां दद्यात्तथा च शिल्पिने ततः || ९९ || देवताप्रतिष्ठा देवतायाः प्रतिष्ठानमेवं तु कारयेद् बुधः | न्यासादिकं स्वकल्पोक्तं गायत्रं तत्र सन्दिशेत् || १०० || प्. २८४) देवतायाः प्रतिष्ठाने विशेषेः कथितो मया | अथ वक्ष्यामि मन्त्राणां पुरश्चरणमुत्तमम् || १०१ || पुरश्चरणकथनम् भाग्यहीनोऽपि मूर्खोऽपि यद्बोधादमरो भवेत् | साधयेत् सिद्धिसकलान् साक्षात् सिद्धीश्वरो भवेत् || १०२ || आदौ पुरस्क्रियां कुर्यान्नियमेन यथाविधि | ततः सिद्धमनुर्मन्त्री प्रयोगार्हो न चान्यथा || १०३ || पुरश्चरणसम्पन्नो मन्त्रो हि फलदायकः | किं होमैः किं जपैश्चैव किं मन्त्रन्यासविस्तरैः || १०४ || वश्याय सर्वमन्त्राणां यदि न स्यात् पुरस्क्रिया | जीवहीनो यथा देही सर्वकर्मसु न क्षमः || १०५ || पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्त्तितः | पुरस्क्रिया हि मन्त्राणां प्रधानं जीव उच्यते || १०६ || तस्मादादौ पुरश्चर्यां कृत्वा साधकसत्तमः | प्रयोगञ्च ततः कुर्यात् साधकः सिद्धिहेतवे || १०७ || प्. २८५) स्थानभेदे फलभेदकथनम् ग्रामे क्रोशमितं स्थानं नद्यादौ स्वेच्छया मतम् | नगरात् परतः क्रोशं क्रोशयुग्ममथाऽपि वा || १०८ || आहारादिविहारार्थं तावतीं भूमिमाक्रमेत् | गृहे जपः समः प्रोक्तो नद्यां शतगुणः स्मृतः || १०९ || पुण्यारण्ये तथाऽरामे सहस्रगुण उच्यते | अयुतं पर्वते पुण्यं लक्षं भागीरथीजले || ११० || कोटिर्देवालये प्राहुरनन्तं शिवसन्निधौ | यत्र वा कुत्रचिद् देशे लिङ्गे वै पश्चिमामुखे || १११ || स्वयम्भूर्बाणलिङ्गे वा इतरे वा तदन्तिके | प्रयागे सुरनद्यां वा वाराणस्यां वराहके || ११२ || उज्जटे पर्वते वापि श्मशाने गहनान्तरे | एकलिङ्गे शून्यगेहे चतुष्पथे शिवान्तिके || ११३ || एकवृक्षगिरौ वापि वटमूले शिवालये | महानिशिपुरश्चर्यां कुर्यादेषु स्थलेषु च || ११४ || विघ्ननिवारणार्थं पूजाविधानम् क्षीरवृक्षस्य काष्ठानि दशास्त्रमन्त्रितानि वै | प्. २८६) पूर्वादिक्रमतो वीरः स्थापयेत् कीलकानि च || ११५ || इन्द्रमग्निं यमं चैव निर्-ऋतिं वरुणं तथा | वायुं कुबेरमीशानं ब्रह्मानन्तौ ततः परम् || ११६ || स्वस्वदिक्षु प्रपूज्यैव बलिं पश्चान्निवेदयेत् | ईशानशक्रयोर्मध्यमूर्ध्वं ज्ञेयं सदा बुधैः || ११७ || वरुणासुरयोर्मध्यमधश्च परिकथ्यते | क्षेत्रे च कीलिते मन्त्री न विघ्नैः परिभूयते || ११८ || क्षेत्रपालं गणेशञ्च विधिवत्तत्र पूजयेत् | दीपस्थाने च वीरेन्द्रो यथाविधि पुरःसरम् || ११९ || मण्डलं तत्र कुर्वीत चतुर्द्वारात्मकं ततः | शुचिः पूर्वदिने भूत्वा साधकः स्थिरमानसः || १२० || प्रातः स्नात्वा च गायत्रीं सहस्रं प्रयतो जपेत् | ज्ञाताज्ञातस्य पापस्य क्षयार्थं प्रथमं पुनः || १२१ || विप्रान् सन्तर्पयेत् सम्यग्भोजनात् सादरादिभिः | बहुभिर्वस्त्रभूषाभिः सम्पूज्य गुरुमात्मनः || १२२ || आरभेच्च जपं पश्चात् तदनुज्ञापुरःसरम् | आरम्भकाले नियतं परयोषां प्रपूज्य च || १२३ || दीक्षितां वस्त्रपुष्पाद्यैः स्वयं संयतमानसः | प्. २८७) पायसं पिष्टकं चैव नानारससमन्वितम् || १२४ || दुग्धं दधि तथा तक्रं नवनीतं सशर्करम् | ऐक्षवं मोदकं चैव नानाविधरसायनम् || १२५ || नानाविधफलं चैव नानागन्धविलेपनम् | चन्दनं मृगनाभिञ्च श्रीखण्डं कुङ्कुमं तथा || १२६ || आसनं पादुकां वस्त्रं तथा चाऽभरणादिकम् | धूपदीपञ्च कौषेयं पुष्पमालां तथा परम् || १२७ || पञ्चतत्त्वं कुलाष्टञ्च शून्यगेहे समानयेत् | द्वारदेशे ततो वीरः पूजयेद् द्वारदेवताम् || १२८ || गणेशं वटुकं चैव क्षेत्रपालञ्च योगिनीम् | चतुर्द्वारेषु सम्पूज्य पूर्वादिक्रमतो बुधः || १२९ || तेभ्यो बलिं प्रदद्यात्तु साधकश्च ततः परम् | भूतापसरणं कृत्वा दीपस्थानं समाचरेत् || १३० || नानालङ्काररचितो विहितासनमाश्रितः | स्वकल्पोक्तं विधायाऽथ प्रोक्षयेत्तदनन्तरम् || १३१ || अर्घ्योदकेन सम्भारमात्मानञ्च ततः परम् | प्. २८८) नानालङ्कारसंयुक्तमर्घ्योदकविशोधितम् || १३२ || अमृतीकरणं कृत्वा शक्तीरष्टौ सुखं नयेत् | अष्टकन्यारूपभेदं विलोमयाऽमर्शचेष्टितम् || १३३ || ब्राह्मणी क्षत्रिया वैश्या शूद्रा च कुलभूषणा | वेश्या नापितकन्या च रजकी योगिनी तथा || १३४ || विदग्धाः सर्वजातीनां प्रशस्ताः सर्वसिद्धिदाः | ब्रह्माण्याद्यष्टशक्तीनां नामभिः कृतसञ्ज्ञकाः || १३५ || आसनं प्रयमं दत्त्वा स्वागतञ्च पुनः पुनः | अर्घ्यं पाद्यञ्च पानीयं मधुपर्कं जलंततः || १३६ || स्नापयेद् गन्धपुष्पाद्भिः केशसंस्कारमाचरेत् | धूपयित्वा ततः केशान् कौषेयञ्च निवेदयेत् || १३७ || ततः स्थानान्तरे पीठे आस्तीर्य पादुकायुगम् | दत्त्वा तत्र समासीनां नानालङ्कारभूषणैः || १३८ || भूषयित्वाऽनुलेपञ्च गन्धं माल्यं निवेदयेत् | तां तां शक्तिं ततो ध्यायेद् यथाक्रमविधानतः || १३९ || प्. २८९) ब्रह्माण्याद्यष्टशक्तिध्यानम् हंसारूढां सुवर्णाभां चतुर्वक्त्रां त्रिलोचनाम् | ब्रह्मकूर्चाब्जदण्डाक्षसूत्राणि करपङ्कजैः || १४० || दधतीं चारुरूपाञ्च जटामुकुटमण्डिताम् | स्त्र्यलङ्कारसमायुक्तां ब्रह्माणीं संस्मरेत् सुधीः || १४१ || माहेश्वरीं वृषारूढां शुक्लां नेत्रत्रयान्विताम् | कपालं डमरुं बाणं शूलं टङ्कमभीतिदम् || १४२ || कराब्जैर्दधतीं चन्द्रचूडारत्नविभूषिताम् | त्रिनेत्रां कुङ्कुमनिभां कौमारीं शिखिवाहनाम् || १४३ || शक्तिपाशाङ्कुशाभीतिकरां चारुविभूषिताम् | वैष्णवीं गरुडारूढां श्यामां मधुमदाकुलाम् || १४४ || घण्टां शङ्खं कपालञ्च चक्रञ्च करपङ्कजैः | दधानां पीतवसनां मुक्तामणिविभूषिताम् || १४५ || प्. २९०) वराहवाहिनीं धूम्रां वराहसदृशाननाम् | फलकां मूषलं चैव वरं खड्ग तथा परम् || १४६ || पाणिपङ्कजविभ्राणां चारुभूषणभूषिताम् | इन्द्रनीलप्रभामैन्द्रीमैरावतनिषेदुषीम् || १४७ || चन्द्रवक्त्राञ्च दधतीं वज्रशङ्खधनुः शरान् | नानालङ्काररचितां सदा भक्तानुरागिणीम् || १४८ || भीमवक्त्राञ्च चामुण्डां मुण्डमालावलीयुताम् | साट्टहासां शवासीनां मणिमुक्ताविराजिताम् || १४९ || कपालं खेटकं शूलं खड्गञ्च करपङ्कजैः | विभ्राणां नीलमेघाभां भावयेद् भक्तवत्सलाम् || १५० || सिंहासनां महालक्ष्मीं पीताभां रत्नभूषिताम् | मातुलुङ्गफलाभीतिमालापद्मविधारिणीम् || १५१ || एवं ध्यात्वा क्रमाद्वीर आवाहन्यादिमुद्रया | तां तां शक्ति समावाह्य मूर्ध्नि तासां प्रपूजयेत् || १५२ || प्. २९१) पुनः पाद्यादिकं दत्त्वा साधकः स्थिरमानसः | भोज्यमण्डलमध्ये तु स्वर्णादिस्थानके ततः || १५३ || चर्व्यं चोष्यं लेह्यपेयं भोज्यं भक्ष्यं निवेदयेत् | अदीक्षिताश्चेत्तत्रैव ततो मायां निवेदयेत् || १५४ || तासां सव्येषु कर्णेषु ततः स्तोत्रं पठेन्नरः | ब्रह्माण्याद्यष्टशक्तिस्तोत्रम् मातर्देवि नमस्तेऽस्तु ब्रह्मरूपधरेऽनघे | कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे || १५५ || माहेशि वरदे देवि परमानन्दरूपिणि | कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे || १५६ || कौमारि सर्वविघ्नेशि कुमारक्रीडने वर | कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे || १५७ || विष्णुरूपधरे देवि विनतासुतवाहिनि | कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे || १५८ || वाराहि वरदे देवि दंष्टोद्धृतवसुन्धरे | कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे || १५९ || प्. २९२) शक्ररूपधरे देवि शक्रादिसुरपूजिते | कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे || १६० || चामुण्डे मुण्डमालासृक्चर्चिते भयनाशिनि | कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे || १६१ || महालक्ष्मि महोत्साहे क्षोभसन्तापनाशिनि | कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे || १६२ || मितिमातृमये देवि मितिमातृबहिष्कृते | एके बहुविधे देवि विश्वरूपे नमोऽस्तु ते || १६३ || एतत् स्तोत्रं पठेद्यस्तु कर्मारम्भेषु संयतः | विदग्धाञ्च समालोक्य तस्य विघ्नं न जायते || १६४ || कुलीनस्य द्वारदेव्यः कथितास्तव पुत्रक | दीक्षाकाले नित्यपूजासमये नाऽर्चयेद् यदि || १६५ || तस्य पूजाफलं सर्वं लीयते यक्षराक्षसैः | यदि व्रीडापरा सा तु भोजयेत्तद्गृहाद् बहिः || १६६ || स्थित्वा स्तोत्रं पठेत्तावद्यावत्तृप्तिः प्रजायते | आचम्य मुखवासादिताम्बूलञ्च निवेदयेत् || १६७ || प्. २९३) ततो दद्यात् पुनर्माल्यं गन्धचन्दन पंकिलम् | बिन्दुयुक्तस्य दीर्घस्य एकैकान्ते नियोजयेत् || १६८ || स्वस्वनाम चतुर्थ्यन्तं हृन्मनुं तदनन्तरम् | मन्त्राणि कथितान्येव तासां वीरस्ततो जपेत् || १६९ || यथाशक्ति क्रमाज्जप्त्वा समर्प्याऽथ स्तुतिं पठेत् | विसृज्य च नमस्कृत्य वरं प्रार्थ्य सुखी भवेत् || १७० || अन्या यदि नाऽगच्छन्ति निजकन्या निजानुजा | अग्रजा वा मातुलानी माता वा तत्सपत्निका || १७१ || वयसा जातितो वापि हीनाऽपि परमा कला | पूज्याः कुलरसैः सर्वा निजाहङ्कारवर्जितैः || १७२ || सर्वाभावे एकतरा पूजनीया प्रयत्नतः | संस्कृताऽसंस्कृता वापि जननी वापि निष्पतिः || १७३ || प्. २९४) पूर्वाभावेऽपरा पूज्या देव्यंशा योषितो यतः | एकश्चेत् कुलशास्त्रज्ञः पूजार्हस्तत्र निश्चितम् || १७४ || सर्वत्रैव सुराः पूज्याः ब्रह्माविष्णुशिवादयः | एका चेद्युवती तत्र पूजिता चाऽवलोकिता || १७५ || सर्वा एव परा देव्यः पूजिताः साधकोत्तमैः | आदावन्ते च मध्ये च लक्षपूर्त्तौ विशेषतः || १७६ || न पूजयति चेत् कान्तां तदा विघ्नैर्विलिप्यते | पूर्वार्जितफलं नास्ति का कथा परजन्मनि || १७७ || तस्मात् सर्वप्रयत्नेन यदीच्छेदात्मनो हितम् | देवीनां क्रोधसन्तापशमनं विघ्ननाशनम् || १७८ || सर्वथा च प्रयत्नेन पूजयेत् कुलयोषितम् | शक्तिपूजां समाप्याऽथ प्रकृतञ्च समाचरेत् || १७९ || स्वकल्पोक्तविधानेन देवीं सम्पूजयेत्ततः | प्. २९५) प्रातरेव ततः पश्चाज्जपेन्मध्यन्दिनावधि || १८० || अन्यूनं नातिरिक्तञ्च न दिनञ्चाऽतिलङ्घयेत् | एककालं द्विकालं वा त्रिकालं वाथ साधकः || १८१ || स्नानं कुर्याच्छुद्धतोयैर्हविष्यान्नं सुभोजयेत् | एकग्रामे स्थितो नित्यं गत्वा वन्देत्ततो गुरुम् || १८२ || प्रणमेत्तद्दिशोऽन्यत्र देवतावन्दनं सदा | प्रातरुत्थाय पूजायां स्नानकालेऽथवा पुनः || १८३ || संस्कृताऽसंस्कृता वापि हीनजाताऽपि वा तथा | नमस्या सर्वजातीनां कुलीनानां कुलार्चने || १८४ || वर्जयेद् गीतवाद्यादिश्रवणं नृत्यदर्शनम् | अभ्यङ्गगन्धलेपञ्च पुष्पधारणमेव च || १८५ || अस्नातांश्च द्विजान् शूद्रान् स्त्रियं नैव स्पृशेत् क्वचित् | त्यजेदुष्णोदकस्नानमनिवेदितभोजनम् || १८६ || नानाचारः प्रकर्त्तव्यो न चारणमितस्ततः | प्. २९६) भूतहिंसा न कर्त्तव्या पशुहिंसा विशेषतः || १८७ || बलिदानं विना देव्या हिंसां सर्वत्र वर्जयेत् | अन्यमन्त्रपुरस्कारं निन्दां चैव विवर्जयेत् || १८८ || उष्णीशी कञ्चुकी नग्नो मुक्तकेशोऽप्यनावृतः | अपवित्रकरोऽशुद्धः प्रलपन्न जपेत् क्वचित् || १८९ || अनावृतकरो भूत्वा शिरसा चावृतोऽपि वा | चिन्ताव्याकुलचित्तो वा क्रुद्धो वा न जपेत् कदा || १९० || वीरासनशयानो वा गच्छन्नखिल एव वा | रथ्यायामशिवस्थाने न जपेत्तिमिरालये || १९१ || पतितानामन्त्यजानां दर्शने भाषणे श्रुते | क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सृजेत् || १९२ || उत्थायाऽचमनं कृत्वा प्राणायामषडङ्गकम् | कृत्वा सम्यग्जपेच्छेषमथवा सूर्यदर्शनम् || १९३ || प्. २९७) स्त्रियं शूद्रं पशुञ्चैव तथा च भ्रष्टसाधकम् | सम्भाषयेत् कदाचिन्न ब्रह्मचर्यं समाचरेत् || १९४ || जपकाले च सततं भार्यां यत्नेन वर्जयेत् | शयीतशुद्धशययायां शुचिर्वस्त्रधरः सदा || १९५ || प्रत्यहं क्षालयेच्छययामेकाकी निर्भयः स्वपेत् | नाऽलोकयेदन्यशास्त्रं वेदागमं विना सुधीः || १९६ || नक्तं भोजी हविष्यान्नं जपेद्विद्यां दिवा शुचिः | दिवसे सर्वथा वीरो ब्रह्मचारी भवेत् सदा || १९७ || देवताध्यानसंयुक्तो गमयेदनिशं बुधः | रात्रौ सम्पूजयेद् देवीं कुलाचारक्रमेण तु || १९८ || पञ्चतत्त्वैः प्रपूज्यैव यथाशक्ति जपञ्चरेत् | पुरश्चरणकाले तु यदि स्यात् पीठदर्शनम् || १९९ || तदा तत्र पीठपूजा मनसापि न हीयते | प्रसङ्गात् कथ्यते पीठपूजा तन्त्रविधानतः || २०० || प्. २९८) चतुःपीठे पूज्यदेवीनामानि देवीकूटे महाभागे उड्डीयाने तथा पुनः | योगनिद्रा कामरूपे महिषासुरमर्दिनी || २०१ || कात्यायनी कामभूमौ कामाख्या कामदायिनी | जालन्धरे च पूर्णेशी पूर्णं शैले च चण्डिका || २०२ || कामरूपे तु वेहारे पूज्या दिक्करवासिनी | अथवा कामरूपस्य दर्शनं यदि भाग्यतः || २०३ || तदा भगादिदेवीनां पूजा तत्र विधीयते | वक्ष्यमाणविधानेन तासां ज्ञात्वा स्वनामकम् || २०४ || कुलनाथं पुनर्ध्यात्वा स्वयमच्युतमानसः | पूजां समापयेद्वीरः तदनुस्मृतिपूर्वकम् || २०५ || पूजाकाले हीनजाता स्वयोषिद्वा विधानतः | पूजनीया प्रयत्नेन द्वेधं तत्र विवर्जयेत् || २०६ || कुलाचारस्य मन्त्रगुप्तिकथनम् यथा विष्णुपुरं गोप्यं यथा वा शम्भुरीश्वरः | यथा कमलजन्मापि ये वा व्यासमुखा द्विजाः || २०७ || इन्द्राद्यालोकपालाश्च सर्वगन्धर्वकिन्नराः | प्. २९९) यक्षरक्षःपिशाचाद्या गुह्यचारणवन्दिनः || २०८ || तैर्यथा गोपितं गुप्तं तदुक्तं शास्त्रसम्भवम् | तथा शैवेन गोप्तव्यः कुलाचारः सुदुर्लभः || २०९ || युगभेदे जपसंख्याभेदः अनेन विधिना मन्त्री पुरश्चर्यां समाचरेत् | येषां जपे च होमे च संख्या नोक्ता मनीषिभिः || २१० || तेषामष्टसहस्राणि संख्योक्ता जपहोमयोः | यस्मिंश्च निगदे चैव मन्त्रे संख्या विधीयते || २११ || तत्र सर्वत्र मन्त्राणां संख्यावृद्धिर्युगक्रमात् | कल्पोक्ते यत् कृतासंख्या त्रेतायां द्विगुणा भवेत् || २१२ || द्वापरे त्रिगुणा प्रोक्ता कलौ संख्या चतुर्गुणा | न दिव्यवीरयोरेव युगसेवापरिश्रमः || २१३ || पशूनां विद्यते चात्र संख्यावृद्धिर्युगक्रमात् | तेषां पूजा त्रिकालं हि रात्रौ नैव कदाचन || २१४ || प्. ३००) कथितं सर्वशास्त्रेषु विधानं तन्त्रवर्त्मना | चतुर्गुणं तु ताराया विना शङ्खाक्षमालया || २१५ || एवं कृत्वा हविष्याशी जपेल्लक्षचतुष्टयम् | नरास्थिमालामादाय जपेद्वा लक्षमेककम् || २१६ || भावनारहितानाञ्च क्षुद्राणां क्षुद्रचेतसाम् | चतुर्गुणजपः प्रोक्तः सिद्धये नान्यथा भवेत् || २१७ || उन्मुखीकालिकाविधानम् सिद्धविद्या यथा नात्र युगसेवापरिश्रमः | विशेषतः कलियुगे तारा काली तथोन्मुखी || २१८ || आसामेव कदा नास्ति युगसेवाविधिः स्मृतः | उन्मुख्याः कालिकायाश्च विशेषः कथ्यतेऽधुना || २१९ || दिवसे ब्रह्मचर्येण स्वीयसंख्यं जपं पठेत् | रात्रौ मांसासवैर्मत्स्यैर्मुद्राभिर्मैथुनोद्भवैः || २२० || सम्पूज्य च महादेवीं गन्धपुष्पादिभिस्तथा | ततो नग्नां स्त्रियं नग्नो रमणक्लेशतोऽपि वा || २२१ || प्. ३०१) जपेल्लक्षं प्रयत्नेन साधको मन्त्रसिद्धये | द्विजन्मनां तु सर्वेषां द्विधा विधिरिहोच्यते || २२२ || शूद्राणां तु तथा प्रोक्तं रात्राविष्टं महाफलम् | ततः सर्वे स्वकल्पोक्तजपसंख्यां समाप्य च | ततस्तु तद्दशांशेन होमयेद्धविषाऽनले || २२३ || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये द्वादशोल्लासः || १२ || त्रयोदश उल्लासः होमविधिः अथ होमविधिं वक्ष्ये यथातन्त्रानुसारतः | आदौ भूमिं परीक्षेत वास्तुज्ञानविशारदः || १ || कुण्डविधानम् शल्यादीन् शोधयेद्यत्नादथवा पुरुषं खनेत् | नवहस्तप्रमाणं वा सप्तहस्तमथापि वा || २ || पञ्चहस्तप्रमाणं वा चतुरस्रसमन्वितम् | विच्छिद्रं तु चतुर्द्वारं दिव्यदृष्टिविभूषितम् || ३ || दिव्यमालापरिवृतं तन्तुना परिवेष्टितम् | आदौ कुण्डं प्रकुर्वीत साधकः सिद्धिहेतवे || ४ || विविधाकाराणिकुण्डानि चतुरस्रं योनिमर्धचन्द्रं त्र्यस्रं सुवर्त्तुलम् | षडस्रं पङ्कजाकारं अष्टास्रं तानि नामतः || ५ || प्. ३०३) (१) चतुरस्र कुण्डमानम् हस्तमात्रमितां भूमिं पूर्ववत् परिसूत्रयेत् | समन्तात् कुण्डमेतत् स्याच्चतुरस्रं शुभावहम् || ६ || चतुर्विंशत्यंगुलाढ्यं हस्तं तन्त्रविदो विदुः | कर्त्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलिपर्वणः || ७ || मध्यस्य दैर्घ्यमानेन मानाङ्गुलमुदीरितम् | यवानामष्टभिः कॢप्तं मानाङ्गुलमितीरितम् || ८ || (२) योनिकुण्डम् चतुरस्रीकृतं क्षेत्रं पञ्चधा विभजेत् सुधीः | न्यसेत् पुरस्तादेकांशं कोणार्धार्धप्रमाणतः || ९ || भ्रामयेत्तेन मानेन तथान्यदपि मन्त्रवित् | सूत्रयुग्मं ततो दद्यात् कुण्डं योनिनिभं भवेत् || १० || (३) अर्धचन्द्रकुण्डम् चतुरस्रीकृतं क्षेत्रं दशधा विभजेत् सुधीः | प्. ३०४) एकमेकं त्यजेदंशमध ऊर्ध्वञ्च मन्त्रवित् || ११ || ज्यासूत्रं पातयेदग्रे तन्मानात् भ्रामयेत् पुनः | अर्धचन्द्रनिभं कुण्डं रमणीयमिदं भवेत् || १२ || (४) त्र्यस्रकुण्डम् चतुर्धा भेदिते क्षेत्रे विन्यसेत् पार्श्वयोर्द्वयोः | एकैकमंशं तन्मानादग्रतो लाञ्छयेत् पुनः || १३ || सूत्रयुग्मं बुधः कुर्यात् त्र्यस्रं कुण्डमुदाहृतम् | (५) वृत्तकुण्डम् अष्टादशांशके क्षेत्रे न्यसेदेकं बहिर्बुधः || १४ || भ्रामयेत्तेन मानेन वृत्तं कुण्डमनुत्तमम् | (६) षडस्रकुण्डम् अष्टधा विभजेत् क्षेत्रं मध्यसूत्रस्य पार्श्वयोः || १५ || भागं न्यसेदेकमेकं मानेनाऽनेन मध्यतः | कुर्यात् पार्श्वद्वये मत्स्यचतुष्कं तन्त्रवित्तमः || १६ || सूत्रषट्कं ततो दद्यात् षडस्रं कुण्डमुत्तमम् | प्. ३०५) (७) पद्मकुण्डम् चतुरस्रीकृतं क्षेत्रं विभज्याऽष्टादशांशतः || १७ || एकं भागं बहिर्न्यस्य भ्रामयेत्तेन वर्त्तुलम् | वृत्तानि कर्णिकादीनां बहिस्त्रीणि प्रकल्पयेत् || १८ || पद्मकुण्डमिदं प्रोक्तं विलोचनमनोहरम् | (८) अष्टास्रकुण्डम् पूर्वोक्तं विभजेत् क्षेत्रं चतुर्विंशतिभागतः || १९ || एकं भागं बहिर्न्यस्य चतुरस्रं प्रकल्पयेत् | अन्तःस्थचतुरस्रस्य कोणार्धार्धप्रमाणतः || २० || बाह्यस्य चतुरस्रस्य कोणाभ्यां परिलाञ्छयेत् | दिशं प्रति यथान्यायमष्टसूत्राणि पातयेत् || २१ || अष्टास्रं कुण्डमेतद्धि तन्त्रविद्भिरुदाहृतम् | खातमानम् यावान् कुण्डस्य विस्तारः खननं तावदीरितम् || २२ || मेखलालक्षणं तन्मानञ्च कुण्डानां यादृशं रूपं मेखलानाञ्च तादृशम् | कुण्डादेर्द्व्यङ्गुलं त्यक्त्वा कर्त्तव्या मेखलाः शुभाः || २३ || प्. ३०६) कुण्डानां मेखलास्तिस्रो मुष्टिमात्रेण ताः क्रमात् | उत्सेधायामतो ज्ञेया द्व्येकार्धाङ्गुलिसम्मिताः || २४ || अरत्निमात्रकुण्डस्य तास्त्रिद्विकाङ्गुलात्मिकाः | अष्टादशाङ्गुलं ज्ञेयम् अरत्निमानं धीमता || २५ || द्वादशाङ्गुलिभिश्चैव हस्तार्धं परिकीर्त्तितम् | नेमिलक्षणम् एकहस्तमिते कुण्डे वेदाग्निनयनाङ्गुलाः || २६ || मेखलानां भवेदन्तः परितो नेमिरङ्गुलात् | एक हस्तस्य कुण्डस्य वर्धयेत् तत्क्रमात् सुधीः || २७ || कुण्डे द्विहस्ते ता ज्ञेया रसवेदगुणाङ्गुलाः | चतुर्हस्तेषु कुण्डेषु वसुतर्कयुगाङ्गुलाः || २८ || कुण्डे रसकरे ताः स्युर्दशाष्टरससम्मिताः | वसुहस्तमिते कुण्डे भानुपङ्क्त्याष्टकाङ्गुलाः || २९ || दशहस्तमिते कुण्डे मनुभानुदशाङ्गुलाः | विस्तारोत्सेधतो ज्ञेया मेखलाः सर्वतो बुधैः || ३० || प्. ३०७) योनिलक्षणम् होतुरग्रे योनिरासामुपर्यश्वत्थपत्रवत् | मुष्ट्यरत्रेकहस्तानां कुण्डानां योनिरीरिता | षट्चतुर्द्व्यङ्गुलायामविस्तारोन्नतिशलिनी || ३१ || नाललक्षणम् तन्मानञ्च योन्याः पश्चिमतो नालं विस्तारं चतुरङ्गुलम् | त्रिद्व्येकाङ्गुलमानेन क्रमान्मूलाग्रमिष्यते || ३२ || नालमेखलयोर्मध्ये परिधिस्थापनाय च | स्थलादारभ्य नालं स्यात् योन्या मध्ये सरन्ध्रकम् || ३३ || नार्पयेत् कुण्डकोणेषु योनिं तां तन्त्रवित्तमः | मुष्ट्यरत्न्येकहस्तानां कुण्डानां योनिरीरिता || ३४ || एकैकाङ्गुलतो योनिं कुण्डेष्वन्येषु वर्धयेत् | यवद्वयक्रमेणैव योन्यग्रमपि वर्धयेत् || ३५ || प्. ३०८) नाभिप्रमाणम् कुण्डानां कल्पयेदन्तर्नाभिमम्बुजसन्निभाम् | तत्तत् कुण्डानुरूपं वा मानमस्य निगद्यते || ३६ || मुष्ट्यरत्न्येकहस्तानां नाभिरुत्सेधतारतः | नेत्रवेदाङ्गुलोपेता कुण्डेष्वन्येषु वर्धयेत् || ३७ || यवद्वयक्रमेणैव नाभिं पृथगुदारधीः | योनिकुण्डे योनिमब्जकुण्डे नाभिं विवर्जयेत् || ३८ || नाभिक्षेत्रं त्रिधा भित्वा मध्ये कुर्वीत कर्णिकाम् | बहिरंशद्वयेनाष्टौ पत्राणि परिकल्पयेत् || ३९ || मुष्टिमात्रमितं कुण्डं शतार्धं सम्प्रचक्षते | शतहोमेऽरत्निमात्रं हस्तमात्रं सहस्रके || ४० || कोणसूत्रप्रमाणेन कुर्याद्धस्तकुण्डकम् | चतुर्हस्तादिकेऽप्येवं कर्त्तव्यं साधकेन च || ४१ || द्विहस्तमयुते लक्षे चतुर्हस्तमुदीरितम् | दशलक्षेषु षट्करं कोट्यामष्टकरं स्मृतम् || ४२ || (यद्वा) एकहस्तमितं कुण्डमेकलक्षे विधीयते | प्. ३०९) लक्षाणां दशकं यावत् तावद्धस्तेन वर्धयेत् || ४३ || दशहस्तमितं कुण्डं कोटिहोमे च दृश्यते | कुण्डानां फलकथनम् सर्वसिद्धिकरं कुण्डं चतुरस्रमुदाहृतम् || ४४ || पुत्रप्रदं योनिकुण्डं अर्धचन्द्रं शुभप्रदम् | शत्रुक्षयकरं त्र्यस्रं वर्तुलं शान्तिकर्मणि || ४५ || छेद मारणयोः कुण्डं षडस्रं पद्मसन्निभम् | वृष्टिदं रोगशमनं कुण्डमष्टास्रमीरितम् || ४६ || (यद्वा) योनिकुण्डं वाक्प्रदं स्यादब्जमाकृष्टिकरणम् | लक्ष्मीप्रदं वर्त्तुलञ्चचन्द्रार्धं तु भयं हरेत् || ४७ || वृत्तं त्रिकोणकुण्डं हि खेचरीसिद्धिदायकम् | चतुरस्रं शान्तिलक्ष्मीपुष्टि-ऋद्धिप्रदायकम् || ४८ || कारणं सर्वसम्पत्तेर्धनसौभाग्यवर्द्धनम् | षडस्रं सर्वसम्पत्तिकारणं पौरुषप्रदम् || ४९ || प्. ३१०) अष्टास्रं तु तथा ज्ञेयं समीहितफलप्रदम् | गुणानि सर्वकार्याणि चतुरस्रे भवन्ति हि || ५० || विप्राणां चतुरस्रं स्याद् राज्ञां वर्तुलमिष्यते | वैश्यानामर्धचन्द्राभं शूद्राणां त्र्यस्रमीरितम् || ५१ || चतुरस्रं तु सर्वेषां किञ्चित्तान्त्रिकसम्मतिः | कुण्डस्य रूपं जानीयात् परमं प्रकृतेर्वपुः || ५२ || कुण्डाकृतिभेदेनफलभेदः प्राच्यां शिरः समाख्यातं बाहू दक्षिणसौम्ययोः | उदरं कुण्डमित्युक्तं योनिः पादौ तु पश्चिमे || ५३ || नित्यं नैमित्तिकं काम्यं स्थण्डिले वा समाचरेत् | हस्तमात्रं तु तत् कुर्याद्बालुकाभिः सुशोभनम् || ५४ || अङ्गुलोत्सेधसंयुक्तं चतुरस्रं समन्ततः | एषामेकतमं कुण्डं निष्पाद्य स्रुक्स्रुवौ ततः || ५५ || प्. ३११) प्रकल्पयेत् स्रुचं यागे वक्ष्यमाणेन वर्त्मना | श्रीफलशिंशपाक्षीरशाखिष्वेकतमं बुधः || ५६ || गृहीत्वा विभजेद्धस्तमात्रं षट्त्रिंशता पुनः | विंशत्यंशैर्भवेद्दण्डो वेदी तैरष्टभिर्भवेत् || ५७ || एकांशेन मितं कण्ठं सप्तभागमितं मुखम् | वेदीत्र्यंशेन विस्तारः कण्ठस्य परिकीर्त्तितः || ५८ || अग्रं कण्ठसमानं स्यात् मुखे मार्गं प्रकल्पयेत् | कनिष्ठाङ्गुलिमानेन सर्पिषो निर्गमाय च || ५९ || उद्दिष्टवेधा रचनाप्रकारम् वेदीमध्ये विधातव्या भागेनैकेन कर्णिका | विदधीत बहिस्तस्या एकांशेनाऽभितोऽवटम् || ६० || तस्य खातं त्रिभिर्भागैर्वृत्तमर्धांशतो भवेत् | अंशेनैकेन परितो दलानि परिकल्पयेत् || ६१ || मेखला मुखवेद्योः स्यात् परितोऽर्धांशमानतः | दण्डमूलाग्रयोर्गण्डी गुणवेदाङ्गुलैः क्रमात् || ६२ || प्. ३१२) गण्डीयुग्मं यमांशैः स्याद्दण्डस्याऽनाह ईरितः | षड्भिरंशैः पृष्टभागो वेद्याः कूर्माकृतिर्भवेत् || ६३ || हंसस्य वा हस्तिनो वा पोत्रिणो वा मुखं लिखेत् | मुखस्य पृष्ठभागस्य सम्प्रोक्तं लक्षणं स्रुचः || ६४ || स्रुचश्चतुर्विंशतिभिर्भागैर्वा रचयेत् स्रुवम् | द्वाविंशत्या दण्डमानमंशैरेतस्य कीर्त्तितम् | चतुर्भिरंशैरानाहः कर्षाज्यग्राहि तच्छिरः || ६५ || अंशद्वयेन निखनेत् पङ्के मृगपदाकृति | दण्डमूलाग्रयोर्गण्डी भवेत् कङ्कणभूषिता | मूलात् षडङ्गुलं त्यक्त्वा अग्रेचैन द्विसप्तकम् || ६६ || स्रुवन्तु धारयेन्मन्त्री मूलमेव न दर्शयेत् | स्रुवस्य विधिराख्यातो यथातन्त्रविधानतः || ६७ || कुण्डस्य अष्टादश संस्काराः संस्काराणि च वा कुर्यात् कुण्डस्य साधकोत्तमः | अष्टादशाः स्युःसंस्काराः कुण्डानां तन्त्रचोदिताः || ६८ || मूलेन वीक्षणं कृत्वा अस्त्रेण प्रोक्षणं ततः | प्. ३१३) तेनैव ताडनं दर्भैर्वर्मणाऽम्युक्षणं मतम् || ६९ || अस्त्रेण खनोद्धारौ हन्मन्त्रेण प्रपूरणम् | समीकरणमस्त्रेण वर्मणा सेचनं मतम् || ७० || कुट्टनं हेतिमन्त्रेण कवचेन तु मार्जनम् | विलेपनं कलारूपकल्पनं तदनन्तरम् || ७१ || त्रिसूत्रीकरणं पश्चात् हृदयेनाऽर्चनं तथा | शरेण वज्रीकरणं हृदयेन कुशैः शुभैः || ७२ || चतुष्पथं तनुत्रेण तनतयादक्षपाटनम् | यागे कुण्डानि संस्कुर्यात्संस्कारैरेभिरीरितैः || ७३ || प्रकारान्तरसंस्कारकथनम् अथवा तानि संस्कुर्याच्चतुर्भिवीक्षणादिभिः | तिस्रस्तिस्रो लिखेद् रेखा हृदा प्रागुदगप्रगाः || ७४ || प्. ३१४) प्रागप्राणां स्मृता देवा मुकुन्देशपुरन्दराः | रेखाणामुदगप्राणां ब्रह्मवैवश्वेन्दवः || ७५ || षट्कोणान्तर्गतां योनिं मण्डलं चाष्टपत्रकम् | वृत्तं क्षितिगृहं चैव कुण्डमध्ये लिखेत्ततः || ७६ || तारेण प्रोक्षणं कृत्वा पूजयेत् पीठदेवताः | मण्डले कालवह्निञ्च रुद्रमेव ततः परम् || ७७ || आधारशक्तिं कूर्मञ्च पृथिवीं रत्नद्वीपकम् | मणिगेहं प्रपूज्याथ कल्पवृक्षं ततः सुधीः || ७८ || सुवर्णवेदिकामध्ये आग्नेयादिषु तत्परम् | धर्मं ज्ञानञ्च वैराग्यं ऐश्वर्यञ्च यथाक्रमात् || ७९ || पूर्वाद्येतांश्च मध्ये च पुनर्मध्ये ततो यजेत् | परमानन्दकन्दञ्च सम्विन्नालं ततः परम् || ८० || सर्वतत्त्वार्थकाब्जञ्च प्रकृतिपत्रकं ततः | विकारमयकेशरं मातृकामयकर्णिकाम् || ८१ || सूर्यस्य मण्डलं सोममण्डलं वह्निमण्डलम् | सत्त्वरजस्तमश्चैव आत्मानमन्तरात्मनाम् || ८२ || परमात्मानमभ्यर्च्य ज्ञानात्मानं ततः परम् | नामाद्यक्षरबीजाद्यान् चतुर्थ्यन्तान्नमोऽन्वितान् || ८३ || प्रणवाद्यान् यजेदेतान् वर्त्तुले भुवनेश्वरीम् | प्. ३१५) वागीश्वरीञ्च वागीशं यजेद्योगस्वरूपकम् || ८४ || पीठाय नम इत्युक्त्वा कर्णिकायां प्रपूजयेत् | वागीश्वरीध्यानम् वागीश्वरीमृतुस्नातां नीलेन्दीवरसन्निभाम् || ८५ || वागीश्वरेण संयुक्तामुपचारैः प्रपूजयेत् | मायाबीजं समुच्चार्य वागीश्वरीञ्च ङेयुताम् || ८६ || नमोऽन्तोऽयं महामन्त्रो वागीश्वर्याः प्रकीर्त्तितः | योगीश्वरं स्वमन्त्रेण ततो वह्निं समानयेत् || ८७ || सूर्यकान्तादिसम्भूतं यद्वा श्रोत्रियगेहजम् | ताम्रपात्रे पुटीकृत्य क्रव्यादांशं परित्यजेत् || ८८ || वह्निबीजेन चाऽस्त्रेण नैर्-ऋत्यां दिशि साधकः | संस्कुर्यात्तं यथान्यायं चतुर्भिर्वीक्षणादिभिः || ८९ || औदर्यवैदवाग्निभ्यां भौमस्यैक्यं स्मरन् वसोः | योजयेद्वह्निबीजेन चैतन्यं पावके ततः || ९० || प्. ३१६) तारेण मन्त्रितं मन्त्री धेनुमुद्रामृतीकृतम् | अस्त्रेण रक्षितं पश्चात् कवचेनाऽवगुण्ठितम् || ९१ || अर्चितं त्रिः परिभ्राम्य कुण्डस्योपरि देशिकः | प्रदक्षिणं तदा तारमन्त्रोच्चारणपूर्वकम् || ९२ || आत्मनोऽभिमुखं वह्निं जानुस्पृष्टमहीतलः | शिवबीजधिया देव्या योनावेव विनिःक्षिपेत् || ९३ || पश्चाद् देवस्य देव्याश्च दद्यादाचमनादिकम् | ज्वालिनीं दर्शयित्वा च ज्वालयेन्मनुनाऽमुना || ९४ || वह्निमन्त्रकथनम् चित्पिङ्गल हन दह पचयुग्मान्युदीर्य च | सर्वज्ञाऽज्ञापय स्वाहा मत्रोऽयं समुदीरितः || ९५ || अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् | सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् || ९६ || उपतिष्ठेत विधिवत् मनुनाऽनेन पावकम् | विन्यसेदात्मनो देहे मन्त्री जिह्वा हविर्भुजः || ९७ || लिङ्गपायुशिरोवक्त्रघ्राणनेत्रेषु सर्वतः | वह्नीराघींशसंयुक्ताः सादियान्ताः सविन्दवः || ९८ || वह्नेर्मन्त्राः समुद्दिष्टाः जिह्वानां सप्त देशिकैः | जिह्वास्तास्त्रिविधाः प्रोक्ता गुणभेदेषु कर्मसु || ९९ || प्. ३१७) सत्त्वरजस्तमोभेदेन वह्निजिह्वाकथनम् हिरण्या गगना रक्ता कृष्णाऽन्या सुप्रभा मता | बहुरूपाऽतिरिक्ता च सात्विक्यो यागकर्मसु || १०० || पद्मरागा सुवर्णाऽन्या तृतीया भद्रलोहिता | लोहिताऽनन्तरं श्वेता धूमिनी च करालिका || १०१ || राजस्यो रसना वह्नेर्विहिताः काम्यकर्मसु | विश्वमूर्त्तिस्फुलिङ्गिन्यौ धूम्रवर्णा मनोजवा || १०२ || लोहिताऽन्या करालाख्या काली तामस्य ईरिताः | एताः सप्त प्रयुज्यन्ते क्रूरकर्मसु मन्त्रिभिः || १०३ || स्वस्वनामसमाभाः स्युर्जिह्वाः कल्याणरेतसः | अमर्त्यपितृगन्धर्वयक्षनागपिशाचकाः || १०४ || राक्षसाः सप्तजिह्वानामीरितास्त्वधिदेवताः | वह्णेरङ्गमनून् न्यस्येत्तनावुक्तेन वर्त्मना || १०५ || प्. ३१८) सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषः पुनः | धूमव्यापी सप्तजिह्वो धनुर्धर इतीरितः || १०६ || षडङ्गमनवः प्रोक्ता जातिभिः सह संयुताः | मूर्त्तीरष्टौ तनौ न्यस्येद् देशिको जातवेदसः || १०७ || मूर्द्धांशपार्श्वकट्यन्धु कटी पार्श्वांशुकेषु च | प्रदक्षिणवशान्न्यस्येदुच्यन्ते ता यथाक्रमम् || १०८ || वह्निसंज्ञा जातवेदाः सप्तजिह्वो हव्यवाहनसञ्ज्ञकः | अश्वोदरजसञ्ज्ञोऽन्यः पुनर्वैश्वानराह्वयः || १०९ || कौमारतेजाः स्याद्विश्वमुखो देवमुखः स्मृतः | ताराग्नये पदाद्याः स्युर्नत्यन्ता वह्निमूर्त्तयः || ११० || आसनं कल्पयित्वाऽग्नेर्मूर्त्तिं तस्य चिन्तियेत् || १११ || वह्निध्यानम् इष्टं शक्तिं स्वस्तिकाभीतिमुच्चै- र्दीर्घैर्दोर्भिः धारयन्तं जवाभम् | हेमाकल्पं पद्मसंस्थं त्रिनेत्रं ध्यायेद्वह्निं बद्धमौलिं जटाभिः || ११२ || परिषिञ्चेत्ततस्तोयैर्विशुद्धैर्मेखलोपरि | दर्भैरगर्भमध्यस्थमेखलायां परिस्तरेत् || ११३ || प्. ३१९) निःक्षिपेद्दिक्षु परिधीन् प्राचीवर्जञ्च मन्त्रवित् | प्रादक्षिण्येन सम्पूज्यास्ते ब्रह्माद्यष्टमूर्त्तयः || ११४ || ध्यायन् वह्निं यजेन्मध्ये गन्धाद्यैर्मनुनाऽमुना | वैश्वानर जातवेदपदं पश्चादिहाऽवह || ११५ || लोहिताक्ष पदस्यान्ते सर्वकर्माणि साधय | वह्निजायावधिः प्रोक्तो मनुः पावकवल्लभः || ११६ || मध्ये षट्स्वपि कोणेषु जिह्वा वह्नेस्ततो यजेत् | केशरेषूक्तमार्गेण पूजयेदङ्गदेवताः || ११७ || दलेषु पूजयेन्मूर्त्तीः शक्तिस्वस्तिकधारिणीः | दलाग्रे मातरः पूज्याः सासिताङ्गादिभैरवाः || ११८ || लोकपालांस्ततो दिक्षु पूजयेदुक्तलक्षणान् | पश्चादादाय पाणिभ्यां स्रुक्स्रुवौ तावधोमुखौ || ११९ || प्. ३२०) त्रिः सम्प्रतापयेद्वह्नौ दर्भानादाय देशिकः | तदग्रमध्यमूलानि शोधयेत्तौ यथाक्रमात् || १२० || गृहीत्वा वामहस्तेन प्रोक्षयेद्दक्षिणेन तौ | पुनः प्रताप्य तौ मन्त्री दर्भानग्नौ विनिःक्षिपेत् || १२१ || आत्मनो दक्षिणे भागे स्थापयेत्तौ कुशास्तरे | वीक्षणादिषट्संस्काराः आज्यस्थालीमथाऽदाय प्रोक्षयेदर्घवारिणा || १२२ || तस्यामाज्यं विनिःक्षिप्य संस्कुर्याद्वीक्षणादिभिः | निरुह्य वायव्येङ्गारान् हृदा तेषु निवेशयेत् || १२३ || इदं तापनमुद्दिष्टं देशिकैस्तन्त्रवेदिभिः | दीप्तदर्भयुग्ममाज्ये क्षिप्त्वाऽनले क्षिपेत्ततः || १२४ || गुरुर्हृदयमन्त्रेण पवित्रीकरणन्त्विदम् | प्. ३२१) दीप्तेन दर्भयुग्मेन नीराज्याज्यं सवर्मणा || १२५ || अग्नौ विसर्जयेद्दर्भमभिद्योतनमीरितम् | घृते प्रज्वलितान् दर्भान् प्रदर्श्याऽस्त्राणुना गुरुः || १२६ || जातवेदसि तान् न्यस्येदुद्योतनमीरितम् | गृहीत्वा घृतमङ्गारान् संयोज्याऽग्नौ जलं स्पृशेत् || १२७ || अङ्गुष्ठोपकनिष्ठाभ्यां दर्भौ प्रादेशसम्मितौ | धृत्वोत्पुनीयादस्त्रेण घृतमुत्पवनन्त्विदम् || १२८ || तद्वद्धृदयमन्त्रेण कुशाभ्यामात्मनो मुखम् | घृतेन प्लावनं कुर्यात् संस्काराः षडुदीरिताः || १२९ || प्रादेशमात्रं सग्रन्थि दर्भयुग्मं घृतान्तरे | निःक्षिप्य भागौ द्वौ कृत्वा पक्षौ शुक्लेतरौ स्मरेत् || १३० || वामे नाडीमिडां भागे दक्षिणे पिङ्गलां पुनः | सुषुम्णां मध्यतो ध्यात्वा कुर्याद्धोमं यथाविधि || १३१ || स्रुवेण दक्षिणभागादादायाऽज्यं हृदा सुधीः | जुहुयादग्नये स्वाहा अग्नेर्दक्षिणलोचने || १३२ || प्. ३२२) वामतस्तद्वदादाय वामे वह्निविलोचने | जुहुयादथ सोमाय स्वाहेति हृदयाणुना || १३३ || हृन्मन्त्रेण स्रुवेणाऽज्यं भागादादाय दक्षिणात् | जुहुयादग्नये स्विष्टकृते स्वाहेति तन्मुखे || १३४ || इति सम्पातयेद् भागेष्वाज्यस्याऽथाऽहुतिं क्रमात् | इत्यग्निनेत्रवक्त्राणां कुर्यादुद्घाटनं सुधीः || १३५ || वह्नेः गर्भाधानादिसंस्काराः सताराभिर्व्याहृतिभिराज्येन जुहुयात् पुनः | जुहुयादग्निमन्त्रेण त्रिवारान् साधकोत्तमः || १३६ || गर्भाधानादिकां वह्नेः क्रियां निर्वर्तयेत् क्रमात् | अष्टाभिराज्याहुतिभिः प्रणवेन पृथक् पृथक् || १३७ || गर्भाधानं पुंसवनं सीमन्तोन्नयनं पुनः | अनन्तरं जातकर्म स्यान्नामकरणं तथा || १३८ || उपनिष्क्रमणं पश्चादन्नप्राशनमीरितम् | चूडोपनयने भूयो महानाम्ना महाव्रतम् || १३९ || तथोपनिषदं पश्चात् गोदानोद्वाहकौ मृतिः | शुभेषु स्युर्विवाहान्ताः क्रियास्ताः क्रूरकर्मसु || १४० || प्. ३२३) मरणान्ताः समुद्दिष्टा वह्नेरागमवेदिभिः | ततश्च पितरौ तस्य सम्पूज्याऽत्मनि योजयेत् || १४१ || समिधः पञ्च जुहुयादादाय घृतसंप्लुताः | मन्त्रैर्जिह्वाङ्गमूर्त्तीनां क्रमाद्वह्नेर्यथाविधि || १४२ || प्रत्येकं जुहुयादेकामाहुतिं मन्त्रवित्तमः | अवदाय स्रुवेणाऽज्यं चतुः स्रुचि पिधाय ताम् || १४३ || स्रुवेण तिष्ठन्नेवाग्नौ देशिको यतमानसः | जुहुयाद्वह्निमन्त्रेण वौषडन्तेन सम्पदे || १४४ || विघ्नेश्वरस्य मन्त्रेण जुहुयादाहुतीर्दश | विघ्नराजमन्त्रोद्धारः तारं रमा तथा मायां क्लीं ग्लौं तदनन्तरम् || १४५ || गं गणपतये वरवरदान्ते सर्वपदं जनम् | मे वशमानय प्रोच्य वह्निजाया ततः परम् || १४६ || कथितं विघ्नराजस्य मन्त्रराजं सुदुर्लभम् | सामान्यं सर्वदेवानामेतदग्निमुखं मतम् || १४७ || प्. ३२४) एकीकरणम् ततः पीठं समभ्यर्च्य देवताया हुताशने | अर्चयेद्वह्निरूपां तां देवतामिष्टदायिनीम् || १४८ || तन्मुखे जुहुयान्मन्त्री पञ्चविंशतिसंख्यया | आज्येन मूलमन्त्रेण वह्न्यैकीकरणं त्विदम् || १४९ || वह्निदैवतयोरैक्यमात्मना सह भावयन् | नाडीसन्धानम् मूलमन्त्रेण जुहुयादाज्यैरेकादशाऽहुतीः || १५० || नाडीसन्धानमुद्दिष्टमेतदागमवेदिभिः | जुहुयादङ्गमुख्यानामावृतीनामनुक्रमात् || १५१ || एकैकामाहुतिं सम्यक् सर्पिषा देशिकोत्तमः | त्रिमध्वक्तैस्तिलैर्मन्त्री हुनेज्जपदशांशतः || १५२ || मुद्रा ज्ञेया च धीरेण पाणिहोमेषु सर्वदा | शूकरी करसङ्कोची हंसी मुक्तकनिष्ठिका || १५३ || कनिष्ठा तर्जनी मुक्ता मृगीति कथिता त्रिधा | अभिचारे च पुष्टौ च शान्त्यादौ च यथाक्रमात् || १५४ || प्. ३२५) रिक्तहस्तेन हवने फलाभवः रिक्तहस्तेन यद्दानं हूयते च हुताशने | दातुः पुण्यफलं नास्ति होता च नरकं व्रजेत् || १५५ || एवं ज्ञात्वा विशेषज्ञो होमं कुर्यात् प्रयत्नतः | आज्येन मधुना चैव शर्करा च मधुत्रयम् || १५६ || द्रव्यैः पूर्वोदितैर्वापि होमयेत् संस्कृतेऽनले | स्वकल्पविहितैद्रव्यैः साधको यतमानसः || १५७ || जपसंख्यादशांशेन होमयेद्विधिपूर्वकम् | अनुक्ते तु हविर्द्रव्ये तिलाज्यं हविरुच्यते || १५८ || छिन्नायाः कालिकायाश्च विशेषस्तन्यतेऽधुना | दिवा जपदशांशेन मधुरत्रयसंयुतम् || १५९ || हुत्वा संख्यां समाप्याथ रात्रिकल्पं समाचरेत् | योनिकुण्डे स्थिते सर्पिर्मांसमत्स्ययुतं भृशम् || १६० || प्. ३२६) काम्यकर्मवर्णनम् अथ काम्यविधिं वक्ष्ये सर्वशाक्तेषु सिद्धिदम् | मल्लिकाजातिपुन्नागैर्होमाद् भाग्योदयो भवेत् || १६१ || फलैर्विल्वसमुद्भूतैस्तत्पत्रैर्वा हुताद् भवेत् | राजपुत्त्रस्य राज्याप्तिः पङ्कजैः श्रियमाप्नुयात् || १६२ || उत्पलैर्वशयेद्विश्वं लक्ष्मीं पुष्पैस्तथा नरः | बन्धूकपुष्पैर्वकुलैर्जवोत्थैः किंशुकोद्भवैः || १६३ || वश्याय जुहुयान्मन्त्री मधुना सह सिद्धये | लवणैर्मधुरोपेतैर्हुत्वा कर्षति सुन्दरीम् || १६४ || वञ्जुलस्य समिद्धोमात् वृष्टिं वितनुतेऽचिरात् | क्षीराक्तैरमृताखण्डैर्होमो नाशयति ज्वरम् || १६५ || दूर्वाभिरायुराप्नोति कदम्बैर्वश्यमाप्नुयात् | राजीलवण होमेन शत्रून मारयतेऽचिरात् || १६६ || अन्तेन मधुयुक्तेन निर्धनो धनमाप्नुयात् | सर्वं त्रिमधुरोपेतं होमद्रव्यमुदाहृतम् || १६७ || प्. ३२७) नन्द्यावर्त्तभवैः पुष्पैर्होमाद्वाग्मी भवेन्नरः | बिल्वप्रसूनैर्जुहुयादीप्सितां श्रियमाप्नुयात् || १६८ || पलाशकुसुमैर्होमात्तेजस्वी जायते नरः | चन्दनागुरुकर्पूररोचनाकुङ्कमादिभिः || १६९ || वश्याय जुहुयान्मन्त्री वशयेदखिलं जगत् | निर्गुण्डीमूलहोमेन निगडान्मुच्यते नरः || १७० || निम्बतैलान्वितैर्लोणैर्होमः शत्रुविनाशनः | हरिद्राचूर्णसंमिश्रैर्लवणैः स्तम्भयेत् परान् || १७१ || रसवद्भिः फलैः पक्वैः पुष्पैः परिमलान्वितैः | हुत्वा सम्यगवाप्नोति साधकः सर्वमीप्सितम् || १७२ || मालतीपुष्पहोमेन वाग्मी द्रुतकविर्भवेत् | वशयेद्वचहोमेन नरान्नरपतीनपि || १७३ || पद्मैर्हुत्वा जयेत् शत्रून् दूर्वाभिः शान्तिमाप्नुयात् | पलाशकुसुमैः पुष्टिं धनं धान्यं श्रियं लभेत् || १७४ || प्. ३२८) शशकस्य तु मांसेन मधुना लोढितेन च | हुत्वा हेममवाप्नोति वित्तविद्यावरस्त्रियः || १७५ || काकपक्षैः कृते होमे विद्वेषं तनुते नृणाम् | मरीचहोमैर्मरणं रिपुराप्नोति निश्चितम् || १७६ || अयुतं वटवृक्षोत्थैः संशुद्धिरर्चितेऽनले | होमं समिद्वरैः कुर्यान्नाशयत्यापदां कुलम् || १७७ || अपामार्गसमिद्भिर्वा तिलैर्वा काननोद्भवैः | व्रीहिभिर्जुहुयाद्धीरो वत्सरात् व्रीहिमान् भवेत् || १७८ || दूर्वाहोमेन दीर्घायुर्मधुना वत्सराद् भवेत् | आरग्वधैःसमृद्धिः स्यादाज्येन लभते धनम् || १७९ || गोदुग्धेन गवां वृद्धिमाप्नुयान्नात्र संशयः | काम्यहोमं सदा धीरः कुर्यादयुतसंख्यया || १८० || लतापुष्पान्वितं कृत्वा पर्णानां शतकं सुधीः | तानि संमन्त्र्य विधिवदसकृत् साधकोत्तमः || १८१ || ततो वै होमयेत्तानि संस्कृतेऽग्नौ यथाविधि | युगानामयुतं तेन पूजनं जायते तथा || १८२ || प्. ३२९) अनेन क्रमयोगेन यश्चरेद् भुवि साधकः | न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते || १८३ || वीरो भवति वाग्मीकः सर्वसिद्धिमुपालभेत् | हुनेदाज्येन तक्रेण मांसेन रुधिरेण च || १८४ || रक्तपुष्पेण साज्येन सरक्तेन विशेषतः | आमिषादिभिरप्येवं श्मशाने जुहुयात् सुधीः || १८५ || मांसं रक्तं तिलं केशं नखं भक्तञ्च पायसम् | आज्यं चैव विशेषेण जुहुयात् सर्वसिद्धये || १८६ || एवं कृतेन सर्वत्र लभते सिद्धिमुत्तमाम् | यत् यत् कामयते कामं तत्तदाप्नोति निश्चितम् || १८७ || देववन्मानुषो भुत्वा भुनक्ति बहुलं सुखम् | योनिकुण्डे हुनेद्विद्वान् यथावत् साधितेऽनले || १८८ || हविषा चैव भक्तेन मांसेन रुधिरेण च | रक्तचन्दनपुष्पेण कृष्णेन च विशेषतः || १८९ || श्मशाने जुहुयान्मन्त्री शुद्धामिक्षाभिरप्यथ | धने धनेश्वरो भूयादाज्ञया च शचीपतिः || १९० || बलेन पवनो भूत्वा देववद्विचरेद् भुवि | प्. ३३०) अथ ध्यात्वा चरेद्धोमं दधिसिद्धान्नतण्डुलैः || १९१ || सहस्रैकविधानेन समस्तफलसिद्धये | विद्याकामेन होतव्यं शर्करायुतपायसैः || १९२ || मलनाश्यं भवत्येव सद्यो विद्याचतुर्दश | रजस्वलाया वस्त्रेण मधुना सह सर्पिषा || १९३ || अयुतैकं विधानेन सिद्धयोऽष्टौ भवन्ति हि | सद्योमार्जारमांसेन घृतेन मधुना सह || १९४ || चाण्डालकेशयुक्तेन सर्वसिद्धिर्भवेद् ध्रुवम् | बन्धूककुसुमैर्होमं कृत्वा रक्तान्वितैर्ध्रुवम् || १९५ || दुर्भगाया भवेद् भाग्यं सर्वसिद्धिर्न संशयः | रम्भापुष्पं शालमत्स्यं जुहुयान्मन्त्रवित्तमः || १९६ || सर्वसिद्धिमनुप्राप्य अन्ते मोक्षमवाप्नुयात् | साक्षतं विल्वपत्रञ्च जुहुयाच्च सहस्रकम् || १९७ || लभते मञ्जुलां वाणीं महाष्टम्यां विशेषतः | एवं ज्ञात्वा प्रकुर्वीत द्रव्यमानमथोच्यते || १९८ || प्. ३३१) होमद्रव्यादिमानम् कर्षमानं घृतं होमे शुक्तिमात्रं पयः स्मृतम् | पञ्चगव्यञ्च तत्संख्यं भवेन्मधु तथा समम् || १९९ || दुग्धान्नमक्षसदृशं दधि प्रसृतिमानकम् | लाजा मुष्टिमिता ज्ञेया पृथुकं शुक्तिमेव च || २०० || गुडं पलार्धमानं स्यात् शर्कराऽपि तथा समा | मत्स्यं मांसं तथा ज्ञेयं रुधिरं शुक्तिमात्रकम् || २०१ || ग्रासार्धं चरुमानं स्यादिक्षु पर्वावधि स्मृतम् | एकैकपत्रपुष्पाणि तथापूपानि कल्पयेत् || २०२ || कदलीफलनारङ्गफलान्येकैकशो विदुः | मातुलुङ्गं चतुःखण्डं पनसं दशधा भवेत् || २०३ || अष्टधा नारिकेलञ्च मालूरञ्च त्रिधा भवेत् | कपित्थञ्च त्रिधा ज्ञेयं ऊर्वारुकं त्रिधा भवेत् || २०४ || प्. ३३२) फलान्यन्यान्यखण्डानि समिधः स्युर्दशाङ्गुलाः | दूर्वात्रयंसमुद्दिष्टं गुडुचो चतुरङ्गुला || २०५ || व्रीहयो मुष्टिमानाः स्युर्मुद्गमाषयवा अपि | तण्डुलाः स्युस्तदर्धञ्च अथवा मुष्टिसम्मिताः || २०६ || गोधूमा रक्तकलभा मुष्टिमानास्तिलास्तथा | मुष्टिमानाः सर्षपाश्च लवणं शुक्तिमानकम् || २०७ || मरीचानि च विंशतिः पुरं बदरसंमितम् | रामठं तत्समं ज्ञेयं रोचना तत्समा भवेत् || २०८ || चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमानि च | तिन्तिडीबीजमानानि समुद्दिष्टानि देशिकैः || २०९ || वैश्वानरं स्थितं ध्यायेत् समिद्धोमेषु देशिकः | शयानमाज्यहोमेषु निषण्णः शेषवस्तुषु || २१० || प्. ३३३) आस्यान्तर्जुहुयाद्वह्नेर्विपश्चित् सर्वकर्मसु | ज्वलत् शिखा मुखं वह्नेर्बोद्धव्यं साधकोत्तमैः || २११ || वह्निवर्णादिभेदतः शुभाशुभकथनम् शुभाशुभं तथा ज्ञेयं वह्नेर्वर्णादिभेदतः | स्वर्णसिन्दूरवालार्ककुङ्कमक्षौद्रसन्निभः || २१२ || सुवर्णरेतसो वर्णः शोभनः परिकीर्त्तितः | भेरीवारिदहस्तीन्द्रध्वनिर्वह्नेः शुभावहः || २१३ || नागचम्पकपुन्नागपाटलायुथिकानिभः | पद्मेन्दीवरकल्हारसर्पिर्गुग्गुलसन्निभः || २१४ || पावकस्य शुभो गन्ध इत्युक्तस्तन्त्रवेदिभिः | प्रदक्षिणास्त्यक्तकम्पाःसुप्रभाः शिखिनः शिखाः || २१५ || शुभदाः साधकानां तु अन्यथाऽनिष्टदा भवेत् | कुन्देन्दुधवलो धूमो वह्नेः प्रोक्तः शुभावहः || २१६ || कृष्णवर्णो भवेद् धूमो मन्त्रिणं नाशयेद् ध्रुवम् | श्वेतो राष्ट्रं दहत्याशु वायसस्वरसन्निभः || २१७ || खरस्वरसमो वह्नेर्ध्वनिः सर्वविनाशकृत् | प्. ३३४) पूतिगन्धो हुतभुजो होतुर्दुःखप्रदो भवेत् || २१८ || छिन्नावर्त्ता शिखा कुर्यान्मृत्युं धनपरिक्षयम् | शुकपक्षिनिभो धूमः पारावतसमप्रभः || २१९ || हानिं तुरगजातीनां गवाञ्च कुरुतेऽचिरात् | एवंविधेषु दोषेषु प्रायश्चित्ताय साधकः || २२० || प्रायश्चित्त निरूपणम् मूलेनाऽज्येन जुहुयात् पञ्चविंशतिमाहुतीः | स्वीयसंख्याविधानेन हुत्वाशेषं समाचरेत् || २२१ || स्रुचा पूर्णाहुतिं कृत्वा मूलमन्त्रेण देशिकः | उद्वास्य देवतां कुम्भे साङ्गावरणपूर्विकाम् || २२२ || पुनर्व्याहृतिभिर्हुत्वा जिह्वादीनां विभावसोः | एकैकामाहुतिं हुत्वा परिषिच्याद्भिरात्मनि || २२३ || पावकं योजयित्वा स्वे परिधीन् सपरिस्तरान् | नैमित्तिके काम्यहोमे दहेत्तान्न तु नित्यके || २२४ || प्. ३३५) काम्यतर्पणविधानम् होमस्य विधिराख्यातस्तर्पणस्यापि कथ्यते | ततः सन्तर्पयेन्मन्त्री होमस्यापि दशांशतः || २२५ || तीर्थतोयेन दुग्धेन सर्पिषा सुरयाऽपि वा | गन्धोदकेन वा कुर्यात् सर्वत्र साधकोत्तमः || २२६ || होमान्ते देवतायाश्च पीठं तोये विचिन्तयेत् | अथवा होमपात्रादौ यन्त्रं कृत्वा ततः परम् || २२७ || पूजयित्वा ततो देवीं परिवारगणान्विताम् | आदौ सन्तर्पयेद्यन्त्रे गुर्वादींस्तु यथाक्रमात् || २२८ || एकैकमञ्जलिं कृत्वा सन्तर्प्य रश्मिवृदकम् | पूर्वद्रव्यैर्देवमुखे तर्पयेद्विधिना ततः || २२९ || होमस्यापि दशांशेन तर्पणञ्च समाचरेत् | प्रसङ्गात् कथ्यते काम्यतर्पणञ्च विशेषतः || २३० || इष्टदेवीं ततः पश्चात् यथोक्तसंख्यया बुधः | तर्पयित्वा महादेवीं काम्यतर्पणमाचरेत् || २३१ || तर्पयेच्च पयोभिश्च रक्तधारायुतैस्तथा | मज्जाभिश्च यथा तत्तत् स्वकीयेन कचेन च || २३२ || प्. ३३६) आकर्षितायाः कन्यायाः कुलप्रक्षालनेन च | मेषमाहिषरक्तेन नररक्तेन चैव हि || २३३ || मूषामार्जाररक्तेन तर्पयेत् परदेवताम् | एवं तर्पणमात्रेण साक्षात् सिद्धीश्वरो भवेत् || २३४ || कविता जायते तस्य द्राक्षारसपरम्परा | बृहस्पतिसमो भूत्वा देवीवद्भुवि मोदते || २३५ || न तस्य पापपुण्यानि जीवन्मुक्तो भवेद् ध्रुवम् | कालागुरुद्रवोपेतैर्वशयेज्जगतीमिमाम् || २३६ || सचन्दनेन तोयेन सौभाग्यं लभते नरः | तोयैः कुङ्कममिश्रैश्च स्तम्भयेदखिलं जगत् || २३७ || सितामिश्रिततोयेन बृहस्पतिसमो भवेत् | कर्पूराक्तजलेनैव कर्षयेदसुरानपि || २३८ || रोचनायुततोयेन मुच्यते सर्वदुर्ग्रहात् | सर्वशास्त्रेषु कथितं तर्पणं शुभदायकम् || २३९ || प्. ३३७) उन्मुखीकालिकाविधानम् उन्मुख्याः कालिकायाश्च रात्रिकल्पस्य साधकः | तर्पयेन्मदिराभिश्च मत्स्यमांसैः समं बुधः || २४० || ततः सम्पूर्णसंख्यायां स्वकल्पोक्तप्रमाणतः | स्थापयेदात्महृत्पद्मे परिवारगणैः सह || २४१ || देवताञ्च ततः पश्चात्तर्पणस्य दशांशतः | अभिषेकं प्रकुर्वीत गन्धतोयैः सुसाधकः || २४२ || गृहीत्वा गन्धतोयञ्च मुद्रया कुम्भसञ्ज्ञया | मूलमन्त्रं समुच्चार्य ततश्चाऽमुकदेवताम् || २४३ || अभिषिञ्चामि तत्पश्चात् हृन्मनुस्तदनन्तरम् | इत्युच्चार्य स्वमूर्ध्नि तं चिन्तयित्वा समन्त्रकम् || २४४ || ततः सञ्चिन्तयेद् देवीं साङ्गावरणदेवताम् | क्षिपेत्तोयं यथासंख्यं गणान् सिञ्चेत्ततः परम् || २४५ || अभिषेकं स्वीयसंख्यं विधाय तदनन्तरम् | तत्तन्मन्त्रयुतान् विप्रान् भोजयेद् देवताधिया || २४६ || प्. ३३८) विधिवत् पूजयित्वा च भोजयित्वा च साधकः | तत्तद्देवप्रियैर्द्रव्यैरभिषेकदशांशतः || २४७ || छिन्नाकालिकायाः दिवाकल्पः छिन्नायाः कालिकायाश्च दिवाकल्पस्य साधकः | तद्दशांशान् हविष्यान्नैः भोजयेद् भक्तिभावतः || २४८ || तत्तन्मन्वविदो विप्रान् रात्रिकल्पं समाचरेत् | हेतुं मांसञ्च मत्स्यञ्च चर्वणञ्च प्रदापयेत् || २४९ || विप्रभोजनादिकथनम् ब्राह्मणान् देवताबुद्ध्या भोजयित्वा च साधकः | सिद्धमन्त्री भवेत् सोऽपि नात्र कार्या विचारणा || २५० || जपहोमौ तर्पणञ्चाभिषेको विप्रभोजनम् | पञ्चाङ्गेयञ्च कथिता पुरस्क्रिया सुसिद्धये || २५१ || (अथवा) जपहोमतर्पणञ्चाऽभिषेकोऽप्यघमर्षणम् | सूर्यार्घ्यं जलपानञ्च प्रणामं चैव पूजनम् || २५२ || ब्राह्मणानां भोजनञ्च दशाङ्गेयं पुरस्क्रिया | तत्तत्कर्मदशांशेन कुर्याद्धोमादिकं बुधः || २५३ || प्. ३३९) अघमर्षणं दिनेशार्घ्यं कृत्वा पूर्वविधानतः | रव्यर्घ्यस्य दशांशेन जलपानं समाचरेत् || २५४ || आत्मानं देवतारूपं विभाव्य यतमानसः | दक्षहस्ते जलं नीत्वा मूलान्तेऽमुकदेवताम् || २५५ || पाययामि नमः पश्चात् स्ववक्त्रैस्तत् पिबेत्ततः | तत्संख्याञ्च समाप्याऽथ मूलान्ते स्वीयदेवताम् || २५६ || नमामीति नमस्कुर्याज्जलपानदशांशतः | पूजनञ्च ततः कुर्यात् यथाविधिविधानतः || २५७ || विप्राणां भोजनं कुर्यान्नमस्कारदशांशतः | विप्राराधनमात्रेण व्यङ्गं साङ्गं भवेद् यतः || २५८ || अथवा तद्दिने कुर्यात्तत्तज्जपदशांशतः | द्विजादीनाञ्च वर्णानां विधिः प्रोक्तः शुभावहः || २५९ || प्. ३४०) होमकर्माद्यशक्तानां द्विगुणो जप ईरितः | इतरेषाञ्च वर्णानां त्रिगुणादिसमीरितः || २६० || कुत्रापि यदि हीनं स्याद्दशकस्याऽङ्गकर्मणि | तत्तद्दशैव कार्याणि दशशून्यं न कारयेत् || २६१ || ततः सम्पूजयेद् भक्त्या सम्भारैर्विविधैर्गुरुम् | दक्षिणां गुरवे दद्यात् मन्त्राणाञ्च विशुद्धये || २६२ || गुरवे गुरुपुत्राय तत्पत्न्यै वा प्रदापयेत् | तत्तदभावतो मन्त्री कुलीनाय कुलाय वा || २६३ || दत्त्वा च साधकश्रेष्ठो महापूजां समापयेत् | तत्तत्कल्पसमाचारान्मन्त्रसिद्धिः प्रजायते || २६४ || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये त्रयोदशोल्लासः || १३ || चतुर्दश उल्लासः पुरश्चरणनिरूपणम् अथवाऽन्यप्रकारेण पुरश्चरणमिष्यते | श्मशाने तु पुरश्चर्या कथिता भुवि दुर्लभा || १ || सर्वमन्त्रसाधकानां श्मशानसाधनेऽधिकारिता वैष्णवे गाणपत्ये च शैवे चैवाऽन्यमन्त्रके | शाक्ते चैव विशेषेण साधयेत् साधकोत्तमः || २ || श्मशानसाधनविधानम् भौमवारे तमिस्रायां यामे याते च साधकः | अष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोरपि || ३ || कृष्णपक्षे विशेषेण साधयेदनया हितम् | अक्षालितचितायां तु साधको निर्भयः सुधीः || ४ || सामिषान्नं गुडं छागं सुरापिष्टकपायसम् | नानाफलञ्च नैवेद्यं स्वकल्पोक्तेन साधितम् || ५ || पुष्पादिकं समानीय सुहृद्भिः शस्त्रपाणिभिः | समानगुणसम्पन्नैः साधको वीतभीः स्वयम् || ६ || प्. ३४२) भीतश्चेत् साधकस्तत्र चतुर्दिक्षु च साधकाः | नो चेत् स्वयं केवलोऽसौ भैरवः परिकीर्त्तितः || ७ || वस्त्रालङ्कारभूषाद्यैर्भूषितः पूर्वसम्मुखः | चितायाः पश्चिमे भागे उपविश्य स्थिरः शुचिः || ८ || अस्त्रान्तमूलमन्त्रेण प्रोक्षणं यागभूमिषु | गुरुपादरजो ध्यात्वा वामपादपुरःसरः || ९ || गणेशं वटुकं चैव योगिनीं मातृकास्तथा | विधिवत् पूजयित्वा तु पुटाञ्जलिः पठेदिमम् || १० || आत्मरक्षामन्त्रः ये चात्र संस्थिता देवा राक्षसाश्च भयानकाः | पिशाचयक्षसिद्धाश्च गन्धर्वाप्सरसां गणाः || ११ || योगिन्यो मातरो भूता सर्वाश्च खेचराः स्त्रियः | सिद्धिदास्ता भवन्त्वत्र तथा च मम रक्षकाः || १२ || प्रणम्येति चितामध्ये पुष्पाञ्जलित्रयं क्षिपेत् | श्मशानाधिपतिं पश्चाद् भैरवं कालभैरवम् || १३ || महाकालं यजेद्यत्नात् पूर्वादिदिक्चतुष्टये | पाद्यादिभिश्च मन्त्रज्ञो बलिं पश्चान्निवेदयेत् || १४ || प्. ३४३) बलिप्रदानम् प्रणवं कूर्चबीजं तु श्मशानाधिप तत्परम् | इममन्ते सामिषान्नं बलिं गृह्णद्वयं वदेत् || १५ || गह्णापय द्वयं विघ्ननिवारणं ततः कुरु | सिद्धिं मे च प्रयच्छाऽन्ते स्वाहान्तेऽपि बलिं दिशेत् || १६ || दुग्धेनाप्युत्सृजेद्वापि पञ्चगव्येन वा तथा | भैरवभयानकात् पूर्वं मायाबीजं पठेत् सुधीः || १७ || पूर्ववद्बलिमुद्धृत्य दक्षिणे बलिमाहरेत् | कूर्चान्ते कालशब्दान्ते भैरवेति ततः परम् || १८ || श्मशानाधिपतये पूर्वपश्चिमे बलिमाहरेत् | हूमन्ते च महाकाल पूर्ववदुत्तरे हरेत् || १९ || चितामध्ये ततो दत्त्वा बलित्रयमनुत्तमम् | कालरात्रि महाकालि कालिके घोरनिःस्वने || २० || गृहाणेमं बलिं मातर्देहि सिद्धिमनुत्तमाम् | कालकायै बलिं दत्त्वा भूतनाथाय दापयेत् || २१ || हूमन्ते भूतनाथान्ते श्मशानाधिप इत्यपि | प्. ३४४) प्रणवाद्येन मनुना दापयेद्बलिमुत्तमम् || २२ || कूर्चं सर्वगणनाथाधिपतये ततो वदेत् | श्मशानमस्तकेचैव बलिं पूर्ववदाहरेत् || २३ || ताराद्येन बलिं दत्त्वा पञ्चगव्येन चैव हि | अस्थिसम्प्रोक्षणं कृत्वा तत्र पीठे मनुं न्यसेत् || २४ || भूर्जे वा वटपत्रे वा लिखित्वा चक्रमुत्तमम् | लिखित्वा स्वीयमन्त्रञ्च स्थापयेदासनोपरि || २५ || विघ्ननिवारणार्थं वीरार्दनमन्त्रकथनम् पीठमास्तीर्य तस्मिन् वै बद्धपद्मासनः सुधीः | कूर्चबीजद्वयं पश्चात् मायायुग्मं समुद्धरेत् || २६ || कालिके बज्रदंष्ट्रे च प्रचण्डे चण्डनायिके | दानवान् दारयेत्युक्त्वा हनेति द्वितयं ततः || २७ || शवशरीरे महाविघ्नं छेदय द्वितयं ततः | स्वाहान्ते वर्मचाऽस्त्रान्तो वीरार्दनमनुर्मतः || २८ || अनेन मन्त्रितं लोष्ट्रं दश दिक्षु विनिःक्षिपेत् | तन्मध्ये भैरवो देवो न विघ्नैःपरिभूयते || २९ || यदि प्रमादवशेनैव साधको भयविह्वलः | प्. ३४५) अर्केन्दुसितवाट्यालमूलैर्निर्मितवर्त्तिकाम् || ३० || प्रदीपं गर्त्ते संस्थाप्य अस्त्रमन्त्रेण साधकः | अस्त्रं प्रपूजयेत्तत्र दीपं संरक्षयेत्ततः || ३१ || हते तस्मिन् महादीपे विघ्नैश्च परिभूयते | स्वस्वकल्पोक्तविधिना भूतशुद्ध्यादिकञ्चरेत् || ३२ || षोढान्यासकथनम् षोढां वा तारकं वापि विन्यस्य पूजयेत्ततः | नानाविद्याप्रभेदेन षोढा च बहुधाभवेत् || ३३ || तारकः सर्वशास्त्रेषु कथ्यते तन्त्रवर्त्मना | विन्यसेन्मातृकास्थाने मातृकां तारसम्पुटाम् || ३४ || मातृकापुटितं तारं तारकः परिकीर्त्तितः | विधिवत् पूजयित्वा च निजदेवीं सुसाधकः || ३५ || मन्त्रध्यानपरो भूत्वा जपेन्मन्त्रमनन्यधीः | मन्त्राक्षरसंख्याभेदेन जपसंख्या एकाक्षरं यदि भवेद् दिक्सहस्रं ततो जपेत् || ३६ || द्व्यक्षरे चाऽष्टसाहस्रं त्र्यक्षरे त्वयुतार्धकम् | अतः परन्तु मन्त्रज्ञो गजान्तक सहस्रकम् || ३७ || प्. ३४६) निशायां वा समारभ्य उदयान्तं समाचरेत् | जपादौ तु बलिं दद्यात् पश्चादपि बलिं हरेत् || ३८ || जपान्ते जपमध्ये वा देहि देहीति भाषिते | तदापि च बलिंदद्यात् महिषं छागमेव वा || ३९ || बलिदानविधानम् बलिदानविधानं हि वक्ष्येऽहं सिद्धिहेतवे | तरुणं सुन्दरं कृष्णं क्षतादिदोषवर्जितम् || ४० || स्वयं पूर्वमुखो भूत्वा बलिमुत्तरवक्त्रकम् | समानीय स्ववामे च प्रोक्षयेत्तदनन्तरम् || ४१ || अर्घोदकेन वीरेन्द्रस्तारादिमनुनाऽमुना | नर्मदा यमुना गङ्गा करतोया सरस्वती || ४२ || कावेरी चन्द्रभागा च सिन्धुभैरवसागराः | अजस्नाने महेशानि सान्निध्यमिह कल्पय || ४३ || ओं पशुपाशविनाशाय हेमकूटस्थिताय च | परापराय परमेष्ठिने हूङ्काराय च मूर्त्तये || ४४ || सम्प्रोक्षणं विधायाऽथ बलिं सम्पूजयेत्ततः | प्. ३४७) ब्रह्मरन्ध्रे च ब्रह्माणं मस्तके मेदिनीं तथा || ४५ || कर्णयोश्च तथाऽकाशं ग्रीवायां सर्वतोमुखम् | ज्योतींषि नेत्रयोर्विष्णुं वदने परिपूज्य च || ४६ || ललाटे पूजयेच्चन्द्रं शक्रं दक्षिणगण्डतः | वामगण्डे तथा वह्निं ग्रीवायां समवर्त्तिनम् || ४७ || केशाग्रे नैर्-ऋतिं मध्ये भ्रवोश्चापि प्रचेतसम् | नासामूले च श्वसनं स्कन्धे चैव धनेश्वरम् || ४८ || हृदये सर्पराजेन्द्रं पूजयित्वा पठेदिमम् | इतोऽन्यथा पापयुतं मलमूत्रवसायुतम् || ४९ || तं बलिं नहि गृह्णाति देवता च कदाचन | अन्येषां महिषादीनां बलीनामथ पूजनात् || ५० || कायोमेध्यत्वमायाति रक्तं गृह्णाति वै शिवा | भूषयेद्रक्तमाल्येन सिन्दूरेण विशेषतः || ५१ || पशुपूजामन्त्रः तं निरीक्ष्य पठेद्धीरो निजदेवस्वरूपकम् | छाग त्वं बलरूपेण मम भाग्यादुपस्थितः || ५२ || प्रणमामि ततः सर्वरूपिणं बलिरूपिणम् | चण्डिकाप्रीतिदानेन दातुरापद्विनाशिने || ५३ || चामुण्डाबलिरूपाय बले तुभ्यं नमोऽस्तुते | प्. ३४८) यज्ञार्थे बलयः सृष्टाः स्वयमेवस्वयम्भुवा || ५४ || अतस्त्वां घातयाम्यद्य तस्माद्यज्ञे वधोऽवधः | ततो वाग्भवो माया च कमला तदनन्तरम् || ५५ || इत्युच्चार्य बलेमूर्ध्निं पुष्पाञ्जलित्रयं क्षिपेत् | पशुच्छेदमन्त्रः शिवबुद्ध्या सुसञ्चिन्त्य तं पूज्य च ततः परम् || ५६ || ततः सम्पूजयेत् खड्गं गृहीत्वा तं पठेद् बुधः | कृष्णं पिनाकपाणिञ्च कालरात्रिस्वरूपिणम् || ५७ || उग्रं रक्तास्यनयनं रक्तमाल्यानुलेपनम् | रक्ताम्बरधरं चैव पाशहस्तं कुटुम्बिनम् || ५८ || पिवमानञ्च रुधिरं भुञ्जानं क्रव्यसंहतिम् | इति ध्यात्वा सुसम्पूज्य नमस्कुर्यात् प्रयत्नतः || ५९ || आशीविषसमः खड्गस्तीक्ष्णधारो दुरासदः | श्रीगर्भो विजयश्चैव धर्मपाल नमोऽस्तु ते || ६० || पुटाञ्जलिं विधायाथ पठेदमुं मनुं बुधः | रसना त्वं चण्डिकायाः सुरलोकप्रसाधकः || ६१ || मायायुग्मं ततः प्रोच्य कालिककालि ततो वदेत् | वज्रेश्वरि पदस्यान्ते लौहदण्डश्च ङेयुतः || ६२ || हृदयञ्च पठित्वा च अङ्गाय नमो यजेत् | विषं मायायुगं कालियुग्मं विकटशब्दतः || ६३ || दंष्ट्रे च स्फेंद्वयं पश्चात् फेत्कारिणि च खादय | प्. ३४९) द्वयं छेदययुग्मञ्च सर्वदुष्टांश्च मारय || ६४ || द्वयमजञ्च खड्गेन छिन्धिद्वयं किलिद्वयम् | चिकिद्वन्द्वं पिबद्वन्द्वं रुधिरं स्फ्रों (स्फों) युगन्ततः || ६५ || किलिद्वयं कालियुग्मं हृन्मनुं तदनन्तरम् | अनेन मन्त्रितं खड्गमुत्तोल्य साधकोत्तमः || ६६ || देत्ता पूर्वमुखो भूत्वा बलिमुत्तरवक्त्रकम् | आं हूं फडिति मन्त्रेण छेदयित्वा ततः परम् || ६७ || रुधिरं जलसैन्धवशर्करामधुसंयुतम् | गन्धपुष्पान्वितं कृत्वा उत्सृजेन्मन्त्रमुच्चरन् || ६८ || आप्यायनमन्त्रोद्धारः प्रणवं वाग्भवं मायां लक्ष्मीं कौशिकिशब्दतः | रुधिरेण ततः पश्चादाप्यायतां ततः परम् || ६९ || निवेद्य रुधिरं वीरः शिरो दद्यात् सदीपकम् | न दिक्षु वीक्षणं कुर्यात् न च बन्धुसमागमम् || ७० || प्. ३५०) जलादिदुर्गसर्पाणां गजानां दंष्ट्रिणां तथा | पक्षिकीटपिशाचानां यद्वा मनसि संस्थितम् || ७१ || तत्सर्वं स्वप्नवद्ध्यात्वा भयं सर्वत्र वर्जयेत् | साधनञ्च समाप्याथ दक्षिणां गुरवे ददेत् || ७२ || पूजाद्रव्यं जले चैव गर्त्ते वा निःक्षिपेत्ततः | सम्यक् सिद्धैकमन्त्रस्य नाऽसाध्यं विद्यते क्वचित् || ७३ || बहुमन्त्रवतः पुंसः का कथा शिव एव सः | स्वकुलान्ते पुरश्चर्या रात्रौ कार्या न चान्यथा || ७४ || सर्वसिद्धिप्रदं साक्षात् सर्वदेवनमस्कृतम् | सर्वपापहरं चैव सर्वरोगविनाशनम् || ७५ || नान्यत् सिद्धिप्रदं चैव वीरसाधनवर्जितम् | महाबलो महाबुद्धिर्महासाहसिकः शुचिः || ७६ || महास्वच्छो दयावांश्च सर्वभूतहिते रतः | तेषां कृते प्रवक्ष्यामि वीरसाधनमुत्तमम् || ७७ || प्. ३५१) वीरसाधनम् नास्मात् परतरं किञ्चित् सत्वरं सिद्धिदायकम् | सर्वसिद्धिर्भवत्येव अहोरात्रे कलौ युगे || ७८ || द्वापरे तच्च मासेन त्रेतायां हायनेन तु | कृते तु दशभिर्वर्षः सत्यं सिद्धिर्न संशयः || ७९ || कटीबन्धेन वस्त्रञ्च मूलेन परिधापयेत् | द्बाह्ये च पुनर्वस्त्रं मूलेन चन्दनादिकम् || ८० || कृतोष्णीशश्च मूलेन सिन्दूरेणाऽर्धपुण्ड्रकम् | इष्टदेवं गुरुं नत्वा रात्रौ प्रहरमध्यतः || ८१ || कार्या च साधकैः सार्धं कुलमन्त्रं परामृशन् | अक्षुब्धो भुक्तभोज्यस्तु यदि स्याद्वीरसाधकः || ८२ || दिव्यो बलिः पशुस्तत्र भुक्त्वा साधनमाचरेत् | शवसाधनम् पूर्वोक्तदिवसे वीरो नानोपचारसंयुतः || ८३ || मत्स्यमांसयुतं भक्तं गुडं छागञ्च पिष्टकम् | पायसान्नं सुरां चैव माषभक्तबलिं तथा || ८४ || तिलं कुशं सर्षपञ्च दीपं चैव सुधूपकम् | प्. ३५२) एलालवङ्गकर्पूरजातिखदिरमार्द्रकम् || ८५ || ताम्बूलं पट्टसूत्रञ्च एलाजिनञ्च कम्बलम् | चषकं यज्ञकाष्ठञ्च स्वप्रादेशप्रमाणकम् || ८६ || पञ्चगव्यं स्वकल्पोक्तं पूजाद्रव्यं प्रगृह्य च | यष्टिविद्धं शूलविद्धं खड्गविद्धं पयोमृतम् || ८७ || वज्रविद्धं सर्पदष्टं चाण्डालं वाऽतिभूतकम् | तरुणं सुन्दरं शूरं रणे नष्टं समुज्ज्वलम् || ८८ || पलायनविशून्यञ्च सम्मुखे रणवर्त्तिनम् | न स्वयं घातयेद्विद्वान् मन्त्राणि तत्र वर्जयेत् || ८९ || स्वेच्छामृतं द्विवर्षं च वृद्धं स्त्रियं द्विजं तथा | अनातुरमृतं कुष्ठि सप्तरात्रोर्ध्वगं तथा || ९० || अङ्गहीनञ्च सन्यज्य पूर्वोक्तान्यतमं परम् | गृहीत्वा मूलमन्त्रेण पूजास्थाने समानयेत् || ९१ || शून्यागारे नदीतीरे पर्वते निर्जने तथा | बिल्वमूले श्मशाने वा तत्समीपे वनस्थले || ९२ || प्. ३५३) दीपस्थानं समाश्रित्य भूमौ वीरार्दनं लिखेत् | वीरार्दनाङ्किते भूमौ माया मोहो न विद्यते || ९३ || गुरुपूजादिकम् गुरुपूजादिकं सर्वं पूर्वोक्तमतमाचरेत् | ये चात्रेत्यादिमन्त्रेण भूमौ पुष्पाञ्जलिं क्षिपेत् || ९४ || अघोरास्त्रादिमन्त्राः अघोरास्त्रेण रक्षां वै सुदर्शनेन वा पुनः | मायास्फुरद्वयं भूयः प्रस्फुरद्वितयं पुनः || ९५ || घोरघोरतरेऽत्यन्ते तत्त्वरूपे पदंततः | चटयुग्मं तदन्ते च प्रचटद्वितयं पुनः || ९६ || कहद्वयं वमद्वन्द्वं ततो दहयुगंततः | घातयद्वितयं वर्मफडन्तोऽघोरको मनुः || ९७ || हालाहलं समुद्धृत्य सहस्रारस्वरूपकम् | वर्मास्त्रान्तो महामन्त्रः सुदर्शनस्य कीर्त्तितः || ९८ || प्रणवाद्यास्त्रमन्त्रेण प्रोक्षितं पूजयेत्ततः | प्रणवं कूर्चवजं तु मृतकाय नमश्च फट् || ९९ || पुष्पाञ्जलित्रयं दत्त्वा प्रणमेत् स्पर्शपूर्वकम् | प्. ३५४) अतीव परमानन्द शिवानन्द कुलेश्वर || १०० || आनन्दभैरवाकार देवीपर्यङ्क शङ्कर | वीरोऽहं त्वां प्रपद्यामि सन्तिष्ठ देविकार्चने || १०१ || प्रणम्यानेन मनुना क्षालयेत्तदनन्तरम् | शवशोधनम् प्रणवं शब्दबीजञ्च मृतकाय नमस्ततः || १०२ || इत्युच्चार्यं गन्धतोयैः प्रक्षाल्य शवमुत्तमम् | रक्तयुक्तो यदि भवेत् भक्षयेत् कुलसाधकम् || १०३ || सुधूपैर्धूपयेत्तञ्च लेपयेद् गन्धचन्दनैः | उपचारं स्वदक्षे तु स्थापयित्वा सुसाधकः || १०४ || अधिकारिविशेषेण सुरया तत्र पूजयेत् | गृहीत्वा तत्र दातव्यं सर्वं नैव च संस्पृशेत् || १०५ || रक्षां दिक्षु प्रकल्प्याथ वीरार्दनमनुं स्मरन् | मृद्वासने ततो वीरो वीरासन परिग्रहः || १०६ || भूतशुद्ध्यादिकं कृत्वा न्यासजालं प्रविन्यसेत् | प्. ३५५) आत्मरक्षां विधायाथ अघोरेण समाहितः || १०७ || ओं दुर्गे दुर्गे रक्षणीति वह्निजाया ततः परम् | अनेन मनुना वीरः सर्षपान् दिक्षु निःक्षिपेत् || १०८ || ओं तिलोऽसि सोमदैवत्यो सर्वेषां तृप्तिकारकः | पितृणां स्वर्गदाता त्वं मर्त्यानां मम रक्षकः || १०९ || भूतप्रेतपिशाचानां विघ्नेषु शान्तिकारकः | इति क्षिप्त्वा तिलांस्तत्र चतुर्भागं शवादितः || ११० || इति संरक्षणं कृत्वा शवमात्मपुरो नयेत् | कुशशययां परिस्तीर्य तत्र संस्थापयेच्छवम् || १११ || एलादिसहितं वीरस्ताम्बूलं तस्य वक्त्रके | निःक्षिप्य च ततः कुर्याच्छवं पश्चादधोमुखम् || ११२ || स्थापयित्वा च तत्पृष्ठं चन्दनेन विलेपयेत् | बाहुमूलादिकट्यन्तं चतुरस्रं विभाव्य च || ११३ || मध्ये पद्मं चतुर्द्वारं दलाष्टकसमन्वितम् | तत्र चैलेयमजिनं कम्बलान्तरितं न्यसेत् || ११४ || श्मशानाधिपतीनाञ्च बलिं दद्याच्च पूर्ववत् | निःक्षिपेद्दश काष्ठानि पूर्वादिदशदिक्षु च || ११५ || क्षिप्त्वा सम्पूजयेत्तत्र इन्द्रादिदशदेवताः | विषमिन्द्रपदं लिख्य सुराधिपतये ततः || ११६ || इमं बलिं गृह्णयुग्मं गृह्णापययुगं ततः | विघ्ननिवारणं कृत्वा सिद्धिं प्रयच्छ ठद्वयम् || ११७ || अनेन मनुना पूर्वे बलिं दद्याच्च सामिषम् | स्वस्वनामादिकं कृत्वा पूर्ववद्बलिमुद्धरेत् || ११८ || प्. ३५६) शवाधिष्ठातृभूतेभ्यो बलिञ्च सुरया सह | चतुःषष्टियोगिनीभ्यो डाकिनीभ्योऽपि सन्दिशेत् || ११९ || द्वारदेशे ततो वीरः कुर्यादुत्तरसाधकम् | समानगुणसम्पन्नं मान्त्रिकं विजितेन्द्रियम् || १२० || अभिषेकविधिज्ञं च दैववीरविशारदम् | संस्थाप्यासनमभ्यर्प्य स्वमन्त्रान्ते परान्ततः || १२१ || फडित्यनेन मन्त्रेण ततश्चाऽवाहनं विशेत् | कुशान् पादतले दत्त्वा शवकेशान् प्रगृह्य च || १२२ || दृढं निबध्य जुटिकां कृतसङ्कल्पसाधकः | तत्र देवीं सुसम्पूज्य उपचारैः सुविस्तरैः || १२३ || शवं प्रति प्रार्थना उत्थाय सम्मुखे स्थित्वा पठेद् भक्तिपरायणः | ओं वशो मे भव देवेश मम वीरपदन्ततः || १२४ || सिद्धिं देहि महाभाग कृताश्रयपरायण | प्. ३५७) अनेन मनुना मन्त्री अभिलप्य कृताञ्जलिः || १२५ || ओं भीम भीरुभयाभाव भव्यलोचन भावुक | त्राहि मां देवदेवेश शवानामधिपाधिप || १२६ || इति पादतले तस्य त्रिकोणं चक्रमुद्धरेत् | तदोत्थातुं न शक्नोति शवस्तु निश्चलो भवेत् || १२७ || अथवा मूलमन्त्रञ्च संस्मरन् साधकोत्तमः | पट्टसूत्रेण बध्नीयात् शवपादद्वयं ततः || १२८ || उपविश्य पुनस्तस्य बाहू निःसार्य पार्श्वयोः | हस्तयोः कुशमास्तीर्य पादौ तत्र निधापयेत् || १२९ || ओष्ठौ तु सम्पुटौ कृत्वा स्थिरचित्तः स्थिरेन्द्रियः | सदा देवीं हृदि ध्यात्वा मौनी जपनमाचरेत् || १३० || ततोऽर्धरात्रिपर्यन्तं यदि किञ्चिन्न लभ्यते | जयदुर्गामनुनाऽर्घ्यं तेनैव सर्षपान् क्षिपेत् || १३१ || पूर्ववत्तिलमुत्क्षिप्य गत्वा सप्तपदानथ | देवीं तत्रापि सम्पूज्य प्रजपेन्मनुमुत्तमम् || १३२ || निर्भयः प्रजपेद् देवि सिद्धिं वा लभते नरः | पूर्वोक्तक्रमयोगेन अक्षमालां विधानतः || १३३ || चलासनाद्भयं नास्ति भये जाते वदेत्ततः | प्. ३५८) यत् प्रार्थयसि देवेशि दातव्यं कुञ्जरादिकम् || १३४ || दिनान्तरे च दास्यामि स्वनाम कथयस्व मे | इत्युक्ता संस्कृतेनैव निर्भयस्तु पुनर्जपेत् || १३५ || पुनश्चेन्मधुरं वक्ति वक्तव्यं मधुरं ततः | ततः सत्यं कारयित्वा वरन्तु प्रार्थयेन्नरः || १३६ || यदि सत्यं न करोति वरं तु न प्रयच्छति | तदा पुनर्जपेद्धीमान् एकाग्रमानसं यथा || १३७ || नररूपं विना तत्र देवोऽपि न हि सर्पति | यत्नतस्तेन बोद्धव्यं नरो वा देवयोनिजः || १३८ || माता मातृस्वसा वापि मातुलानी तथैव च | आगत्य विघ्नं कुरुते माययाऽच्छाद्य विग्रहम् || १३९ || उत्तिष्ठ वत्स ते कार्यं सर्वं जातं न संशयः | प्रभातसमयो जातस्त्वत्पिता क्रोशते गृहे || १४० || प्. ३५९) प्रायो विमत्सरा लोका राजानो दण्डधारिणः | कदाचित्केन वा दृष्टस्तदाऽनिष्टं भविष्यति || १४१ || इत्यादिविविधैर्वाक्यैर्न च जापं परित्यजेत् | मृताः पितृगणास्तत्र दूरदेशनिवासिनः || १४२ || बान्धवास्तत्र चायान्ति देवरूपधरास्ततः | स्त्रीपुत्रसेवकादींश्च गृहीत्वा नीयते परैः || १४३ || रुदन्ति पुत्रकाः सर्वे भ्रातरोऽनुजसेवकाः | निजकान्ताङ्गसंस्पर्शवस्त्राद्याभरणादिकम् || १४४ || गृहीत्वा नीयते पत्तिपालकैस्तद्भयं त्यजेत् | दिवसे यत्र वा शङ्का सैव तत्र प्रजायते || १४५ || यदि न क्षुभ्यते तत्र तदा किं वा न लभ्यते | स्त्रीरूपधारिणी देवी द्विजरूपधरः पुमान् || १४६ || वरं गृह्णेति शब्दे वै त्रिरात्रं ते वरं लभेत् | साधुनाऽसाधुना वापि योषिच्चेद्वरदायिनी || १४७ || तदा वीरपतेस्तस्य किं न सिध्यति भूतले | निष्पापपुरुषेचैव सत्कुलनैश्च संस्कृता || १४८ || असंस्कृतवरा देवी पापयुक्तेन संशयः | सम्मुखेऽसम्मुखे वापि संस्कृतं वक्ति चापरम् || १४९ || प्. ३६०) सैव देवी न सन्देहः स देवो भैरवः स्वयम् | न चेदेवं भवेच्चैव मायारचितविग्रहः || १५० || न वरयेद्वरं तत्र न किञ्चित् प्रवदेत् क्वचित् | सा चेत् संस्कृतमाख्यानं वक्ति वा व्यक्तमीदृशम् || १५१ || नो चेत् स्वयं कौलिकोक्त्या वरं ग्राह्यं निराकुलम् | अथवा उत्कटं किञ्चित् ज्योतिर्वा नीललोहितम् || १५२ || शब्दो वा जायते सम्यगमृतं वापि लभ्यते | विचार्य तद्गृहीतव्यमेवं दिक् परिकीर्तितम् || १५३ || देवकृत्यास्तु बहुधा नरास्त्वकृतबुद्धयः | अवश्यं तत्र भेतव्यं न तत्र प्रत्ययः क्वचित् || १५४ || भैरवा बटुकाश्चैव कुलशास्त्रपरायणाः | एतच्छास्त्रप्रसङ्गेन कृत्वा कुटिलविग्रहाः || १५५ || पुत्रो भूत्वा हरेद्विद्यां नारी भूत्वा विमोहयेत् | तस्मात्तत्तु भवन्नो वा विचारे यत्नमाचरेत् || १५६ || प्. ३६१) सत्ये कृते लब्ध्वा सन्त्यजेच्च जपादिकम् | फलं जातमिति ज्ञात्वा जुटिकां मोचयेत्ततः || १५७ || अथ तैर्याचितानश्वनरकुञ्जरशूकरान् | दत्त्वा पिष्टमयानन्ते कर्त्तव्यं समुपोषणम् || १५८ || परेऽह्नि नित्यमाचर्य पञ्चगव्यं पिबेत्ततः | ब्राह्मणान् भोजयेत्तत्र पञ्चविंशति संख्यकान् || १५९ || पञ्च पञ्च विहीनान् वा क्रमाच्चैव दशावधि | तत्रः स्नात्वा च भुक्त्वा च निवसेदुत्तमे स्थले || १६० || यदि न स्याद्विप्रभोज्यं तदा निर्धनतां व्रजेत् | तेन चेन्निर्धनत्वं स्यात्तदा देवः प्रकुप्यति || १६१ || त्रिरात्रं षड्रात्रंवा नवरात्रञ्च गोपयेत् | शययायां यदि गच्छेद्वै तदा व्याधिं विनिर्दिशेत् || १६२ || गीतं श्रुत्वा च बधिरो निश्चक्षर्नृत्यदर्शनात् | यदि वक्ति दिने वाक्यं तदा स मूकतां व्रजेत् || १६३ || पञ्चदशदिनान्तं हि देहे देवस्य संस्थितिः | प्. ३६२) गोब्राह्मणानां निन्दाञ्च न कुर्याच्च कदाचन || १६४ || देवगोब्राह्मणादींश्च प्रत्यहं संस्पृशेच्छुचिः | प्रातर्नित्यक्रियान्ते तु बिल्वपत्रोदकं पिबेत् || १६५ || ततः स्नात्वा च गङ्गायां प्राप्तषोडशवासरे | ततः शतत्रयादूर्ध्वं देवानां तर्पणं जलैः || १६६ || स्नानतर्पणशून्यस्य न स्याद्देवस्य तर्पणम् | इत्यनेन विधानेन सिद्धिं प्राप्नोति साधकः || १६७ || इह भुक्त्वा वरान् भोगानन्ते याति हरेः पदम् | असाङ्ग साङ्गमेवं वा निष्फलं सफलञ्च वा || १६८ || कृत्वा साधनमेवैतत् शक्तेः प्रियतरो भवेत् | शवाभावे श्मशाने वा कार्या वै वीरसाधना || १६९ || प्रकारान्तरेण पुरश्चरणकथनम् नॄणां शीघ्रफलावाप्त्यै प्रकारान्तरमुच्यते | चतुष्पथे चतुर्दिक्षु पुरुषं हृदयं खनेत् || १७० || जीवितं ब्रह्मरन्ध्रे वै दीपं प्रज्वालयेत् सुधीः | प्. ३६३) मध्ये तथा खनेदेकं तत्र मृद्वासनं भवेत् || १७१ || पूर्वोक्तक्रममार्गेण तत्र संस्कारमाचरेत् | महाकालादिदेवेभ्यो बलिं पूर्ववदाहरेत् || १७२ || कल्पोक्तपूजां सम्पूज्य जपेत् प्रयतमानसः | दिग्वासाश्च जपेन्मन्त्रमयुतं सर्वदैवतम् || १७३ || जपान्ते च बलिं दत्त्वा दक्षिणां विभवावधि | सर्वसिद्धिर्भवेद्विद्वान् सर्वदेवनमस्कृतः || १७४ || पूर्ववद्वीरवेशेन यात्रां कृत्वा सुसाधकः | साधकैः सह सामग्रीं पूजायां विविधां तथा || १७५ || स्थाने पूर्वोदिते वीरः शवं चैव समानयेत् | वर्मास्त्रमनुना हस्तप्रमाणं चतुरस्रकम् || १७६ || लिखित्वा मण्डलं तत्र तेनैव स्थापयेच्छवम् | ततो नाथयुगन्त्राहि युगलं तदनन्तरम् || १७७ || मम कार्यं कुरु स्वाहा अस्त्राय फट् ततः परम् | इत्यात्मानं शवं चैव वेष्टयित्वा च साधकः || १७८ || प्. ३६४) रेखात्रयं प्रकुर्वीत बलिं पश्चान्निवेदयेत् | डाकिनीहाकिनीभ्यश्च शाकिनीभ्योऽपि सन्दिशेत् || १७९ || समांसमधुसंयुक्तं पूर्वपश्चिमयोगतः | वामदेवाय दत्त्वा वै रक्तदन्ताय दापयेत् || १८० || तेजसे च बलित्रयं घृतमिरं सशर्करम् | दक्षिणे रुद्रकालाय वज्रनाभाय सन्दिशेत् || १८१ || सपिष्टकं घृतान्नञ्च यवपिष्टञ्च दापयेत् | उत्तरस्याञ्च वह्नये दत्त्वा च बलिरूपिणे | १८२ || गुडौदनं पायसञ्च बलिं निवेद्य साधकः | ततः सम्पूजयेद् देवीं स्वकल्पोक्तविधानतः || १८३ || अस्त्रमन्त्रेण संस्थाप्य शवं तैलहरिद्रया | उद्वर्त्तनं ततः कृत्वा स्नापयित्वा तु साधकः || १८४ || सम्मार्ज्य वाससा तत्र महाप्रेतासनं यजेत् | जीवन्यासं विधायाथ पाद्यादिभिः प्रपूजयेत् || १८५ || मूलेन जुटिकां बद्ध्वा पद्मं पूर्ववदालिखेत् | आसनं पूर्ववत् क्षिप्त्वा मूलमुच्चार्य साधकः || १८६ || अश्वारोहणरूपेण स्थित्वा मन्त्रं जपेत् सुधीः | अनन्यमानसो भूत्वा जपात् सिद्धिः प्रजायते || १८७ || प्. ३६५) भीतश्चेत् साधकस्तत्र गुरुपादयुगं स्मरेत् | गुरुपादप्रसादेन मा हिंसन्ति च हिंसकाः || १८८ || इति चित्तं स्थिरीकृत्य जपेन्मन्त्रमनन्यधीः | देवता यदि वामे वै आगच्छति कदाचन || १८९ || सम्भाषणा च कार्या वै न दातव्यं प्रियं वचः | हूङ्कारिणैव तां कुर्यात् स्वदक्षे साधकोत्तमः || १९० || गत्वा च दक्षिणे सापि देहि देहीति भाषिते | तथापि च बलिं दत्त्वा अशक्तौ मनसाऽथवा || १९१ || लब्ध्वाभीष्टं निजं वीरो गुरवे दक्षिणां ददेत् | शवादिकञ्जले क्षिप्त्वा गृहं गच्छेत् यथासुखम् || १९२ || बटमूले शवं नीत्वा तत्र देवीं प्रपूज्य च | स्नात्वा तत्र मनुं जप्त्वा अयुतं साधकोत्तमः || १९३ || सर्वसिद्धीश्वरो वीरो भवेन्नात्र विकल्पनम् | बिल्वमूले निजक्रोडे शवमारोप्य यत्नतः || १९४ || नृसिंहमुद्रया वीक्ष्य जपेन्मातृकया सुधीः | सहस्रं तत्र जप्त्वा वै सर्वसिद्धीश्वरो भवेत् || १९५ || प्. ३६६) जानुमध्ये करौ कृत्वा चिबुकोष्ठौ समावृतौ | हस्तौ च भूमिसंलग्नौ कम्पमानः पुनः पुनः || १९६ || मुखं विवृतकं कुर्यात् लेलिहानञ्च जिह्वया | नारसिंही भवेन्मुद्रा सर्वसिद्धिप्रदायिका || १९७ || सहस्रं तत्र जप्त्वा वै सर्वसिद्धीश्वरो भवेत् | कुङ्कुमागुरुकस्तूरीरोचनाघनचन्दनम् || १९८ || कर्पूरं पद्मकाष्ठञ्च केशरं हरिचन्दनम् | एकत्र साधितं कृत्वा प्रत्येकं साधयेन्नरः || १९९ || विद्युदग्नियुतं चैव नेत्रान्तं चन्द्रबिन्दुयुक् | बीजं प्रत्येकं द्रव्याणां मिलितानाञ्च साधकः || २०० || मूलमन्त्रं च मन्त्रज्ञो जपेत् साष्टसहस्रकम् | अस्य तिलकमात्रेण राजानं वशमानयेत् || २०१ || जिह्वाग्रे रुधिरं वीर आकाशे स्वयमाहरेत् | तेनैव गुटिकां कृत्वा तत्र कालीं प्रपूजयेत् || २०२ || प्. ३६७) नीलां नीलपताकाञ्च लोलजिह्वां कपालिनीम् | जिह्वाग्रे रुधिरं गृह्ण चामुण्डे घोरनिःस्वने || २०३ || बलिं गृह्ण वरं देहि रुधिरं गगनेऽमले | कालि कालि प्रचण्डोग्रे ततोऽस्त्रं कवचं ततः || २०४ || कालिकेति समाख्याता वीराणां हितकाम्यया | कूर्चयुग्मं तु नीलायाः कथितं मन्त्रमुत्तमम् || २०५ || वियद्भृगुरमां चैव बलमिन्द्ररवी रतिः | चन्द्रखण्डसमीयुक्तं ततो नीलपदं ततः || २०६ || पताके हुं फडन्तः स्यात् पूर्वकूटमनुर्मतः | सन्तप्तेयं महाविद्या कथिता सुरदुर्लभा || २०७ || जय श्रीधरणीदेवी पताके वरणस्थले | तेन नीलपताकेयं संयोज्या नीलसाधने || २०८ || श्रीशक्तिस्मरबीजानि तदन्ते हूमिति स्मरेत् | भृगुं सर्गान्वितं पश्चाद्दीर्घं कवचमुद्धरेत् || २०९ || उग्रचण्डे पदं पश्चान्मामन्ते रक्षयुग्मकम् | मम शत्रुपदस्यान्ते ततो भक्षपदं वदेत् || २१० || ह्रीं क्लीं सः इत्यन्ते श्रीशक्तिस्मरबीजानि तदन्ते | राज्यं मे देहि सम्भाष्य भृगुं सर्गान्वितं वदेत् || २११ || क्लींकारञ्च ततो ब्रूयात् कामं मायां रमान्ततः | एकचत्वारिंशदर्णो मनुः प्रोक्तो ध्रुवादिकः || २१२ || प्. ३६८) उग्रचण्डा महाविद्या लोलजिह्वेति कीर्त्तिता | या सा विद्या महातारा सा करालेति कीर्त्तिता || २१३ || महातारामन्त्रोद्धारः प्रणवं पूर्वमुद्धृत्य तारे तु तारे च तथा | नमः स्वाहेति मन्त्रोऽयं दशाक्षर उदीरितः || २१४ || कथिता च महातारा सर्वसिद्धिप्रदायिका | एभिरामन्त्रितं चैव मूलेनैव सहस्रकम् || २१५ || ललाटे तिलकं कृत्वा साधको वीतभीः स्वयम् | महाष्टमीनवम्योस्तु संयोगे पुरतः स्थितः || २१६ || छागमहिषमेषाणां चतुर्दिक्ष शवान् क्षिपेत् | कबन्धं मुण्डपुञ्जञ्च दीपादिभिरलंकृतम् || २१७ || मध्ये कबन्धमास्त्रीर्य तत्र गन्धर्वरूपधृक् | ताम्बूलपूरवक्त्रञ्च अञ्जनाञ्चितलोचनम् || २१८ || कृत्वा तारं मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् | प्. ३६९) अथ पूर्वोदिते स्थाने चतुष्पथे विशेषतः || २१९ || ऊर्ध्वं द्विवर्षाद्यदि वा पञ्च वा तरुणं यदि | सप्तमाष्टममासीयं गर्भजं यदि वा शवम् || २२० || चाण्डालञ्चाभिभूतं तु शीघ्रसिद्धिफलप्रदम् | आनीय स्थापयेदादौ न्यासजालं समाचरेत् || २२१ || प्रेतमन्त्रं समालिख्य गन्धपुष्पादिभिस्तथा | अभ्यर्च्य चाऽसनं दत्त्वा रक्षामात्मनि कारयेत् || २२२ || शवसाधनेन सर्वसिद्धिः ततः शवास्ये विधिवद्देवताप्यायनं ततः | ततो जप्त्वा सर्वमन्त्र सर्वसिद्धीश्वरो भवेत् || २२३ || तारं शब्दं मृतकाय नमोऽन्तं मन्त्रमुच्चरन् | शवस्थापनमन्त्रोऽयं शवासनमनुं ततः || २२४ || मूलान्ते भुवनेशी स्यात् फडन्तो मन्त्र ईरितः | करकाञ्चीं समादाय मुण्डमालाविभूषितः || २२५ || तेनैव तिलकं कृत्वा तत्तद्भस्मविभूसितः | श्मशाने च सकृज्जप्त्वा सर्वसिद्धीश्वरो भवेत् || २२६ || मत्स्यमानीय वीरेन्द्रो निःक्षिपेत् पितृकानने | प्. ३७०) तत्र सकृज्जपित्वा तु देवतामेलनं भवेत् || २२७ || तत्र नत्वा महादेवं महादेवीञ्च साधकः | तद्भस्मतिलकं कृत्वा स्वयं वीरेश्वरो भवेत् || २२८ || निशायां मृतहट्टे च उन्मत्तानन्दभैरवः | दिग्वासा विमलो भस्मभूषणो मुक्तकेशकः || २२९ || कपाली खड्गहस्तश्च जपेन्मातृकया सुधीः | तदा तस्य महासिद्धिर्जायते शतजापतः || २३० || डाकिनीं योगिनीं वापि अन्यां वा भूतलाङ्गनाम् | तत्राऽप्यानीय सम्पूज्य गजान्तकसहस्रकम् || २३१ || जप्त्वा च साधकश्रेष्ठः सर्वसिद्धीश्वरो भवेत् | महाशवाः प्रशस्ताः स्युः प्रधानशवसाधने || २३२ || क्षुद्राः प्रयोगकर्तॄणां प्रशस्ताः सर्वसिद्धिदाः | सर्वेषां जीवहीनानां जन्तूनां नीलसाधने || २३३ || ब्राह्मणं गोमयं त्यक्त्वा साधयेद्वीरसाधनम् | एवं नीलक्रमं चैव कथितञ्च शुभावहम् || २३४ || प्. ३७१) न कस्मैचित्प्रवक्तव्यं मन्त्रसिद्धेश्च कारणम् | कुजे वा शनिवारे वा नरमुण्डं समाहितः || २३५ || पञ्चगव्येन मिलितं चन्दनाद्यैर्विलेपितम् | निःक्षिप्य भूमौ हस्तार्धमानतः काननान्तरे || २३६ || तत्र तद्दिवसे रात्रौ सहस्रं यदि मानवः | एकाकी प्रजपेन्मन्त्रं स भवेत् कल्पपादपः || २३७ || शवमानीय तद्द्वारि तत्रैव परिखन्य च | तद्दिनात्तद्दिनं यावत्तावदष्टोत्तरं शतम् || २३८ || स भवेत् सर्वसिद्धीशो नात्र कार्या विचारणा | अथवा विजनेऽरण्येऽस्थिशययासनो नरः || २३९ || उदयास्तं दिवा जप्त्वा सर्वसिद्धीश्वरो भवेत् | अष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोरपि || २४० || सूर्योदयात् समारभ्य यावत् सूर्योदयान्तरम् | तावज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् || २४१ || चन्द्रसूर्यग्रहणे पुरश्चरणविधानम् ग्रहणे चन्द्रसूर्यस्य शुचिःपूर्वमुपोषितः | नद्यां समुद्रगामिन्यां नाभिमावस्थितेऽम्भसि || २४२ || प्. ३७२) यद्वा शुद्धोदके स्नात्वा शुचौ देशे समाहितः | ग्रासाद्विमुक्तिपर्यन्तं जपं कुर्यादनन्यधीः || २४३ || अनन्तरं दशांशेन क्रमाद्धोमादिकञ्चरेत् | तदन्ते महतीं पूजां कुर्याद् ब्राह्मणभोजनम् || २४४ || ततश्च मन्त्रसिद्धं तु गुरुं सम्पूज्य तोषयेत् | सूर्यग्रहणकालाद्धि नान्यः कालः प्रशस्यते || २४५ || तत्र यद्यत् कृतं कर्म अनन्तफलदं भवेत् | शरत्काले चतुर्थ्यादि नवम्यन्तं विशेषतः || २४६ || भक्तितः पूजयित्वा च रात्रौ तावत् सहस्रकम् | जपेदेकाकी विजने केवलं तिमिरालये || २४७ || अष्टम्यादि नवम्यन्तमुपवासपरो भवेत् | स भवेत् सर्वसिद्धीशो नात्र कार्या विचारणा || २४८ || अष्टमीसन्धिवेलायामष्टोत्तरलतागृहम् | प्रविश्य मन्त्री विधिवत्ताः समभ्यर्च्य यत्नतः || २४९ || स्वकल्पोक्तविधानेन पूजयित्वा च साधकः | केवलं कामभावेन जपेदष्टोत्तरं शतम् || २५० || तासाञ्च पत्रमूलेन उल्कां संगृह्य कर्णके | प्. ३७३) महासिद्धिर्भवेत् सद्यो लतादर्शनपूजनात् || २५१ || कुलाष्टकं लतागारे लिखित्वा यन्त्रमेव च | प्रपूज्य तत्र संस्कारं कृत्वा तस्यै निवेदयेत् || २५२ || किञ्चिज्जप्त्वा मनुं नीत्वा देवताभावनापरः | तां विसृज्य नमस्कृत्य स्वयं जप्त्वा सुसंयतः || २५३ || प्रीतः स्त्रीभ्यो बलिं दत्त्वा मन्त्रसिद्धिर्न संशयः | अथवा गुरुमानीय देवभावेन पूजयेत् || २५४ || वस्त्रालङ्कारहेमाद्यैः सन्तोष्य गुरुमेव च | तत्सुतं तत्सुतां चैव पत्नीं चैव विशेषतः || २५५ || पूजयित्वा मनुं जप्त्वा स्वयं सिद्धीश्वरो भवेत् | सहस्रारे गुरोः पादपद्मं ध्यात्वा प्रपूज्य च || २५६ || केवलं देवताबुद्ध्या जप्त्वा सिद्धीश्वरो भवेत् | गुरवे दक्षिणां दद्याद्यथाविभवविस्तरैः || २५७ || गुरोरनुज्ञामात्रेण दुष्टमन्त्रोऽपि सिध्यति | प्. ३७४) गुरुं विलङ्घ्य शास्त्रेऽस्मिन्नाऽधिकारी सुरोऽपि च || २५८ || एषाञ्च मन्त्रहीनानां प्रयोगः क्रियते यदि | गुरुवक्त्रं विना चैव सिद्धि हानिः प्रजायते || २५९ || एतत्तन्त्रञ्च मन्त्रञ्च पुत्रेभ्योऽपि न दर्शयेत् | अन्यथा प्रेतराजस्य भवनं याति निश्चितम् || २६० || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये चतुर्दशोल्लासः || १४ || पञ्चदश उल्लासः कुमारीपूजननिरूपणम् अथ वक्ष्ये कुमारीणां पूजां तन्त्रविधानतः | होमादिकं हि विफलं कुमारीपूजनं विना || १ || तद्विहीनं होमादिकं निष्फलम् परिपूर्णफलं नैव जीवहीनं यथा वपुः | यथा यथा देवताया पूजनं वा यथागुरोः || २ || तथैव हि कुलीनानां कुमार्याः पूजनं भवेत् | यथाशक्त्या हि वितरेत् कुमार्यै यद्यदीप्सितम् || ३ || अशक्यं शक्यमेवं हि दानाभावे फलात्ययः | पुष्पं कुमार्यै यद्दत्तं तन्मेरुसदृशं मतम् || ४ || दत्तमन्यच्च यत्किञ्चिद् भक्ष्यभोज्यादिकं तथा | अल्पमप्यथवा मन्त्रहीनं बहुगुणं भवेत् || ५ || प्. ३७६) कुमारीपूजाफलम् कुमारीपूजनाच्चैव कुमारीभोजनादपि | कुमारीवन्दनादेव कुमारीसदृशो भवेत् || ६ || कुमार्यङ्गे सर्वदेवतास्थितिः कुमारिका भवेत् देवी शिवोऽपि च कुमारिका | कुमारी योगिनी साक्षात् कुमारी सर्वदेवता || ७ || तस्याः पूजनमात्रेण त्रैलोक्यपूजनं भवेत् | सुकुमारी महादेवी त्रिधा मूर्त्तिर्व्यवस्थिता || ८ || परा चैवाऽपरा चैव तृतीया च परापरा | यत्र काले न किञ्चित् स्याद् देवासुरमहोरगाः || ९ || त्रैलोक्यं लयमानञ्च तदा जाता कुमारिका | आद्यसृष्टेश्च या शक्तिः प्रत्यक्षा सा तु तत्त्रिधा || १० || तिलतिला तु सा जाता सृष्टिरूपा भवार्णवे | भूर्भुवोमूर्त्तिरूपा सा एका पूज्या कुमारिका || ११ || एकीकृत्य त्रिभिश्चैव सप्ताष्टनवधा पुनः | नित्यक्रमेण देवेशि पूजयेद्विधिपूर्वकम् || १२ || प्. ३७७) अष्टोत्तरं शतं वापि एकां कन्यां प्रपूजयेत् | पूजिताः प्रतिगृह्यन्ते निर्गच्छन्त्यवमानिताः || १३ || कुमारीपूज्नेन सर्वदेव सन्तुष्टिः असुराश्च तथा नागा ये च दुष्टग्रहा अपि | भूतवेतालगन्धर्वा डाकिनीयक्षराक्षसाः || १४ || क्रूराश्च देवताः सर्वे भूर्भुवश्चैव भैरवाः | पृथिव्यादीनि सर्वाणि ब्रह्माण्डं सचराचरम् || १५ || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | ते तुष्टाः सर्वतुष्टाश्च यस्तु कन्यां प्रपूजयेत् || १६ || कुमारी पूजनाच्चैव कोटिपूजाफलं लभेत् | घ्नन्ति विघ्नान् पूजितास्तास्तथा शत्रुं महोत्कटम् || १७ || व्याधयः सर्वरिष्टानि पलायन्ते न संशयः | ग्रहा यक्षाः क्षयं यान्ति भूतवेतालपन्नगाः || १८ || असुरा गुह्यकाः प्रेता योगिनी गुह्यडाकिनी | महाभयानि दुर्भिक्षमुत्पातानि सहस्रशः || १९ || दुःस्वप्नमपमृत्युश्च अन्ये ये ये समुद्भवाः | कुमारी पूजनादेव न तस्य प्रभवन्ति च || २० || प्. ३७८) अणिमादीनि सिद्धानि पातालगुटिकाञ्जनाः | चतुष्कं दिव्यवेतालं भवेत् कुमारिकार्चनात् || २१ || कुमारीलक्षणम् लक्षणं यजनं तासां वक्ष्येऽहं तन्त्रवर्त्मना | द्वितीयवत्सरादूर्ध्वं यावत् स्यादष्टमाब्दिकम् || २२ || तावत् कुमारी विज्ञेया मन्त्रतन्त्रफलप्रदा | अथवा षोडशाब्दान्तं यावत् पुष्पं न जायते || २३ || ताम्यः पुष्पफलं वापि गन्धचन्दनपायसम् | बालप्रियञ्च नैवेद्यं बलाभावविचेष्टितम् || २४ || ताभिः प्रियकरालापैस्तोषयेत् साधकोत्तमः | वयोभेदेन कुमारीणां नामभेदः एकवर्षा भवेत् सन्ध्या द्विवर्षा च सरस्वती || २५ || त्रिवर्षा च त्रिधामूर्त्तिश्चतुर्वर्षा च कालिका | सुभगा पञ्चवर्षा च षड्वर्षा च उमा भवेत् || २६ || सप्तभिर्मालिनी साक्षादष्टवर्षा च कुब्जिका | नवभिः कालसङ्कर्षा दशभिश्चापराजिता || २७ || एकादशे तु रुद्राणी द्वादशाब्दा तु भैरवी | त्रयोदशे महालक्ष्मीर्द्विसप्ता पीठनायिका || २८ || क्षत्रज्ञा पञ्चदशभिः षोडशे वाचिका मता | एवं क्रमेण पूज्या तु यावत् पुष्पं न विद्यते || २९ || प्. ३७९) प्रशस्तदिवसकथनम् प्रतिपदादिदर्शान्तं वृद्धिभेदेन पूजयेत् | महापर्वसु सर्वेषु विशेषश्च पवित्रके || ३० || महानवम्यां वीरेन्द्रः कुमारीः सम्प्रपूजयेत् | पिङ्गलां पूजयेद्यस्तु षोडशैश्चैव भक्तिमान् || ३१ || पूजयित्वा भक्तिभावे सर्वसम्पत्तिमालभेत् | पूजयेत् कुलविद्याञ्च चैकां बालकभैरवीम् || ३२ || कुमारीपूजनमन्त्र कथनम् एवं प्रणवयोगेन चैतन्यतनुमर्चयेत् | वाणी माया तथा लक्ष्मीर्माया कूर्चद्वयन्ततः || ३३ || एते च प्रणवा ज्ञेयाः कुमार्याः परिपूजने | एकादशस्वरेणाऽढ्यो भृगुविन्द्विन्द संयुतः || ३४ || चैतन्यबीजं कथितं साधकानां समृद्धिदम् | प्. ३८०) एवं द्वाभ्यां त्रिभिश्चैव सप्तधा नवधा पुनः || ३५ || नित्यक्रमेण नियतं पूजयेद्विधिपूर्वकम् | वाग्भवेन जलं देयं मायया पादशौचकम् || ३६ || लक्ष्म्या चार्घं प्रदद्यात्तु कूर्चबीजेन चन्दनम् | शक्तिबीजेन पुष्पाणि धूपं षष्ठेन दापयेत् || ३७ || वाग्भवेन पुरक्षेमो मायया च गुणाष्टकम् | श्रींबीजेन श्रियो लाभो ह्रींबीजेनाऽरिसङ्क्षयः || ३८ || भैरवेण तु बीजेन खङ्गत्वमनुगच्छति | न्यासादिकं प्रकुर्वीत आदौ स्वीयक्रमेण तु || ३९ || कुमार्यङ्गे विशेषन्यासः कुमार्यङ्गे ततः पश्चाद्विशेषन्यासमुत्तमम् | विशेषन्यासस्य मन्त्राः ऐं क्लीं श्रीं क्लौं ह्सौः कुलकुमारिके हृदयाय नमः || ४० || ऐं हैं ह्रीं श्रीं क्लां एं स्वाहा शिरसे स्वाहा | ऐं क्लीं सैं शिखायै वषट् || ४१ || ऐं कुलवागीश्वरवागीश्वरि कवचाय हुं | क्लीं अस्त्राय फट् | ऐं सिद्धि जयाय पूर्ववक्त्राय नमः || ४२ || ऐं जयाय उत्तरवक्त्राय नमः | ऐं क्लीं श्रीं कुब्जिके पश्चिमवक्त्राय नमः | क्रं कालिके दक्षिणवक्त्राय नमः || ४३ || वर्णन्यासं षडङ्गञ्च कुमार्यङ्गे प्रविन्यसेत् | अष्टोत्तरशतं वापि एकां कन्यां प्रपूजयेत् || ४४ || प्. ३८१) पाद्यमर्घ्यं पुनर्धूपं कुङ्कुमं चन्दनादिकम् | भक्तिभावेन सम्पूज्य तस्यै सर्वं निवेदयेत् || ४५ || तरुणोल्लासवान् भूत्वा स्वयमच्युतमानसः | बालामलङ्कृतां पश्यन् चिन्तयेत् स्वेष्टदेवताम् || ४६ || यथाशक्ति जपेत् पश्चादष्टोत्तरशतादिकम् | प्रदक्षिणत्रयं कुर्यादादिमध्ये शुभं भवेत् || ४७ || ततस्तां देवताबुद्ध्या नमस्कृत्य विसर्जयेत् | पश्चाच्च दक्षिणा देया रजतस्वर्णमौक्तिकैः || ४८ || कुमारीपूजनफलम् कुमारी पूजनाच्चैव कोटिपूजाफलं लभेत् | कुमारीपूजने चैव जातिमात्रं न चिन्तयेत् || ४९ || प्. ३८२) अशेषकुलसम्पन्ना नाजातिसमुद्भवाः | नानादोषोद्भवा वापि गुणलावण्यसंयुताः || ५० || सर्वथैव कुलीनानां पूज्यास्ताः शुभदायिकाः यथायथा तत्प्रियकृत् सर्वसिद्धीश्वरो भवेत् || ५१ || महाभये समुत्पन्ने कन्यकाञ्च प्रपूजयेत् | तत्क्षणाल्लभते मोक्षं सत्यं सत्यं न संशयः || ५२ || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | ते तुष्टाः सर्वतुष्टाश्च यस्तु कन्यां प्रपूजयेत् || ५३ || विवाहयेत् स्वयं कन्यां ब्रह्महत्यादि नश्यति | गोहत्यां स्त्रीवधं चैव सर्वपापं प्रणश्यति || ५४ || मातरः पितरश्चैव भ्रातरश्चैव सर्वतः | ये तु ये तु पुन सर्वे कन्यादानं प्रकल्पयेत् || ५५ || भुक्तिमुक्तिफलं तेषां सौभाग्यं सर्वसम्पदः | रुद्रलोके वसेन्नित्यं त्रिनेत्रो भगवान् हरिः || ५६ || प्. ३८३) षष्टिकोटिसहस्राणां चाश्वमेधफलं लभेत् | कुमारीकल्पमाख्यातं अथवाऽन्यतमञ्चरेत् || ५७ || बटुकपूजनम् सन्ध्यादिनवकन्याञ्च समानीय प्रपूज्य च | पूर्ववद्विधिवद्वीरो नव बालकमानयेत् || ५८ || प्रशस्तकालनिर्णयः बटुकं पञ्चवर्षञ्च नववर्षं गणेश्वरम् | गन्धपुष्पाक्षताकल्पैर्यथाविभवविस्तरैः || ५९ || अभ्यर्च्य देवता बुद्ध्या पदार्थैः परितोषयेत् | स्वकार्यफलसिद्ध्यर्थं वित्तशाठ्यविवर्जितः || ६० || नवरात्रं येदेकोत्तरवृद्ध्या क्रमेण तु | नवरात्रकृतां पूजां महादेव्यै समर्पयेत् || ६१ || ताम्बूलं दक्षिणां दत्त्वा कुमारीस्तान् विसर्जयेत् | एवं नवकुमारीणामर्चनं प्रतिवत्सरम् || ६२ || यः करोति हि पुण्यात्मा देवताप्रीतिमाप्नुयात् | मनोऽभिलषितं प्राप्य निवसेत्तवसन्निधौ || ६३ || प्. ३८४) शक्तिपूजा अथवा यौवनारूढाः प्रमदा नव शोभनाः | पूजयेद्विधिवद्भक्त्या नव रात्रिषु मन्त्रवित् || ६४ || हृल्लेखां गगनां रक्तां महोत्सुकां करालिकाम् | इच्छां ज्ञानां क्रियां दुर्गां वटुकञ्च गणेश्वरम् || ६५ || पूर्ववत् पूजनाद्यैश्च पदार्थैः परितोषयेत् | प्रौढोल्लासेन संयुक्ताः सन्तुष्टा यदि चेत् तदा || ६६ || साधकस्तीर्थमासाद्य निवसेच्छिवसन्निधौ | एवं यः पूजयेद् देवीं प्रतिवर्षं यतिव्रतः || ६७ || षण्मासे वा त्रिमासे वा मासे मासेऽथवा बुधः | तिस्रो वा पञ्च वा सप्त पूजयेद् देवताधिया || ६८ || सर्वैश्वर्यसमृद्ध्यात्मा स भवेच्छिवयोः प्रियः | अथवाऽन्यप्रकारेण कथ्यते मिथुनार्चनम् || ६९ || मिथुनार्चनविधानम् तुलायां वापि मेषे वा सर्वसंक्रान्तिषु भृशम् | गौरीशिवो रमाविष्णू वाणीसरसिजासनौ || ७० || शचीन्द्रौ रोहिणीचन्द्रौ स्वाहाग्नी च प्रभारवी | भद्रकालीवीरभद्रौ भैरवीभैरवावपि || ७१ || समानीय प्रयत्नेन पूजयेत् पूर्ववर्त्मना | त्रितारादिनमोऽन्तेन तत्तन्नाम्ना विधानतः || ७२ || वाग्बीजं शक्तिबीजञ्च श्रीबीजञ्च त्रितारकम् | प्. ३८५) गन्धपुष्पादिभिः पूज्य तत्त्वाद्यैः परितोषयेत् || ७३ || प्रौढोल्लासेन युक्तानि कुर्वीत मिथुनानि च | एवं कृते न सन्देहस्तुष्टा मिथुनदेवताः || ७४ || अनुगृह्णन्ति तं देवाः प्रयच्छन्ति मनोरथम् | प्रतिवर्षं तु यः कुर्याद् भक्त्या च मिथुनार्चनम् || ७५ || शिवलोकेषु निवसेत् सर्वैश्वर्यसमन्वितः | भृगुवारे यजेद्यत्नात् कान्तामारूढयौवनाम् || ७६ || सर्वलक्षणसम्पन्नामनुकूलां मनोरमाम् | कुलाकुलाष्टमां चैवा आमन्त्रयाऽहूयपुष्पिणीम् || ७७ || अभ्यङ्गस्नानशुद्धाङ्गीं स्वासने चोपवेशयेत् | आत्मानं गन्धपुष्पाद्यैरलंकुर्यात् सुसाधकः || ७८ || आवाह्य देवतां तस्यां यजेन्न्यासक्रमेण हि | कृत्वा क्रमार्चनं धूपदीपञ्च कुलदीपकम् || ७९ || प्रदर्श्य देवताबुद्ध्या पदार्थैः षड्रसान्वितैः | मांसादिभक्ष्यभोज्याद्यैस्तोषयेद् भक्तिभावतः || ८० || प्रौढोल्लासेन सहितां पश्यंश्च प्रजपेन्मनुम् | यौवनोल्लाससहितः स्वयं तद्ध्यानतत्परः || ८१ || प्. ३८६) निर्विकारेण चित्तेन अष्टोत्तरसहस्रकम् | जपादिकं समाप्याथ तया सह निशां नयेत् || ८२ || त्रिसप्तपञ्चनवसु भृगुवारेषु यः सदा | पूजयेद्विधिना चैव तस्य पुण्यं न गण्यते || ८३ || चतुःपीठार्चनफलं स प्राप्नोति सुनिश्चितम् | अथान्यं सम्प्रवक्ष्यामि समयाचारमुत्तमम् || ८४ || समयाचारकथनम् येन हीना न सिध्यन्ति मन्त्राः कोटिसहस्रशः | मानवः कुलशास्त्राणां कुलचर्यानुसारिणाम् || ८५ || उदारचित्तः सर्वत्र वैष्णवाचारतत्परः | परनिन्दासहिष्णुः स्यादुपकाररतः सदा || ८६ || पर्वते विपिने चैव निर्जने शून्यमण्डले | चतुष्पथे कलाशून्ये यदि दैवाद्गतिर्भवेत् || ८७ || क्षणं ध्यात्वा मनुं जप्त्वानत्वा गच्छेद्यथासुखम् | गृध्रं वीक्ष्य महाकालीं नमस्कुर्यादलक्षितम् || ८८ || प्. ३८७) गृध्रादिनमस्कारमन्त्राः क्षेमङ्करीं तथा वीक्ष्य जम्बूकीं यमदूतिकाम् | कुररं द्रोणकाकं तु कृष्णमार्जारमेव च || ८९ || कृष्णसारं तथा व्याघ्रं खड्गिनं सिंहमेव च | कृशोदरि महाचण्डे मुक्तकेशि बलिप्रिये || ९० || कुलाचारप्रसन्नास्ये नमस्ते शङ्करप्रिये | श्मशाने च शिवां दृष्ट्वा प्रदक्षिणमनुव्रजन् || ९१ || प्रणम्यानेन मनुना मन्त्री सुखमवाप्नुयात् | घोरदंष्ट्रे कठोराक्षि किटिशब्दनिनादिनि || ९२ || घोरघोररवास्फाले नमस्ते चितिवासिनि | रक्तवस्त्रां रक्तपुष्पां विलोक्य त्रिपुराम्बिकाम् || ९३ || प्रणम्य दण्डवद्भूमाविमं मन्त्रमुदीरयेत् | बन्धूकपुष्पसङ्काशे त्रिपुरे भयनाशिनि || ९४ || भाग्योदये समुत्पन्ने नमस्ते वरवर्णिनि | कृष्णवस्त्रं तथा पुष्पं राजानं राजपुत्रकम् || ९५ || हस्त्यश्वरथशस्त्राणि फलकान् वीरपुरुषान् | महिषं कुलदेवञ्च दृष्ट्वा महिषमर्दिनीम् || ९६ || प्रणम्य जयदुर्गांवा स च विघ्नैर्न लिप्यते | जय देवि जगद्धात्रि त्रिपुराद्ये त्रिदैवते || ९७ || भक्तेभ्यो वरदे देवि महिषघ्नि नमोऽस्तु ते | प्. ३८८) मद्यभाण्डं समालोक्य मत्स्यं मांसं वरस्त्रियम् || ९८ || दृष्ट्वा च भैरवीं देवीं प्रणम्यविमृशेन्मनुम् | घोरविघ्नविनाशाय कुलाचारसमृद्धये || ९९ || नमामि वरदे देवि मुण्डमालाविभूषिते | रक्तधारासमाकीर्णवदने त्वां नमाम्यहम् || १०० || सर्वविघ्नहरे देवि नमस्ते हरवल्लभे | एतेषां दर्शने चैव यदि नैवं प्रकुर्वते || १०१ || शक्तिमन्त्रं पुरस्कृत्य तेषां सिद्धिर्न जायते | एतेषां मारणोच्चाटहिंसनं वा भयादिभिः || १०२ || क्रियते यदि पापात्मा देवीभक्तः कथं भवेत् | प्रधानांशसमुद्भूता एते कुलजनाः प्रिये || १०३ || डाकिन्यश्च तथा सर्वा देव्यंशा योषितो यतः | लब्धसिद्धिसमायोगात् डाकिनीहिंसनं यदि || १०४ || अथवा मानवानाञ्च मद्भक्तानां विशेषतः | बटुकानां भैरवाणां तस्य सिद्धिर्न जायते || १०५ || कामुकीं प्रतिवीरसाधककर्तव्यम् ग्रामे वा नगरे वापि हट्टे वा चत्वरेऽपि च | यं दृष्ट्वा युवती नारी कलाकुशलसंयुता || १०६ || भावैकभिन्नहृदया वक्रं दृष्ट्याऽवलोकते | उत्क्षिप्य भुजमूलस्य वाससं क्षिप्यते यदि || १०७ || चेलाञ्चलपरीवर्तदर्शिता जघनाञ्चला | कण्डूयभावव्याजेन शिथिलीकृतवाससा || १०८ || दर्शितस्तनपर्यन्तभूभागा पुनरावृता | स्खलत् पादयुगात् पादं पतिता पुनरुत्थिता || १०९ || सखीभिर्व्याजमासाद्य कर्णाकर्णी मनोहरम् | इत्यादिभावभावितां दृष्ट्वा साधकसत्तमः || ११० || तस्या निजमनोहारि सविशेषं निधाय च | तत्र स्थित्वा पुनः क्षोभं कुर्यात् काम वापरः || १११ || वृद्धां वा युवतीं वापि बालां वा सुन्दरीं तथा | विदग्धां वा महाभ्रष्टां कुत्सितां वापि हीनजाम् || ११२ || भावैकभिन्नहृदयां ज्ञात्वा वीरवरोत्तमः | सम्भोगेन विनोपेक्षां न कुर्याच्च कदाचन || ११३ || आलस्येन भयेनापि अशक्त्या वा यदि त्यजेत् | क्रुद्धा भगवती तस्य शापं दद्यात् सुदारुणम् || ११४ || मृते च नरकं गत्वा नानाक्लेशयुतो भवेत् | निष्कृतिर्नास्ति तस्यैव यावदाचन्द्रतारकम् || ११५ || प्. ३९०) फलं पुष्पञ्च ताम्बूलं अन्नपानादिकञ्च यत् | महादेव्यै विना दत्त्वा न भोक्तव्यं कदाचन || ११६ || पतिव्रतायां भार्यायां तथैव ऋतुसङ्गमे | नमस्कुर्यात् प्रयत्नेन चण्डिकां साधकोत्तमः || ११७ || शान्तिकं पौष्टिकं वापि तथेष्टापूर्त्तकर्मणि | यदा कुर्यात्तदा नत्वा देवीं यात्रां समाचरेत् || ११८ || तौर्यत्रिकं यदा पश्येद्देवानां गीतमेव वा | तत्र देव्यै निवेद्यैव कर्त्तव्यञ्च प्रपूजनम् || ११९ || व्यायामे यदि वा देवसभायां वापि पर्वते | वने वा दुर्गमेवापि यदि गच्छति साधकः || १२० || तत्र स्थित्वा महादेवीं प्रणमेद् भक्तिभावतः | तर्पणादौ प्रकुर्वीत तृप्यतां ब्रह्मभैरव || १२१ || आवाहने स्वपितॄन् वै भैरवानिति कीर्त्तयेत् | तृप्यतां भैरवी माता पिता भैरव तृप्यताम् || १२२ || आदौ च त्रिपुरापूर्वां तर्पणे भैरवीं यजेत् | ज्योतिष्टोमाश्वमेधादौ यत्र यं यं प्रपूजयेत् || १२३ || प्. ३९१) प्रणम्य शिरसा धीरो भैरवीं चिन्तयेद्धिया | स्त्रियो दृष्ट्वा तथैकत्र युवत्यतिमनोहराः || १२४ || ताभ्यस्त्रिपुरभैरव्याः प्रीतये चन्दनादिकम् | दद्यात्तत्तत्प्रियं द्रव्यं मनसा चिन्त्य चण्डिकाम् || १२५ || त्रिपुरार्घ्यदानमन्त्रः भैरवी प्रतिगृह्णाति भैरवोऽहं प्रतिग्रहे | कन्याया भाषणे श्रीमत्त्रिपुरायाः प्रपूजनम् || १२६ || भैरवाय ददाम्यर्घ्यं देवीं त्रिपुरभैरवीम् | एवं वदेत् प्रदाने तु कन्यकायाः प्रपूजने || १२७ || कथितः समयाचारः साधकस्य सुसिद्धये | अत्राऽशक्तो भवेद्यस्तु तस्यार्थं लिख्यते स्तवः || १२८ || त्रिपुरास्तोत्रम् तस्याः नव नामानि त्रिपुरा त्रिपुरेशी च सुन्दरी पुरवासिनी | श्रीर्मालिनी च सिद्धाऽम्बा महात्रिपुरसुन्दरी || १२९ || गुप्तगुप्ततरादिभेदेन योगिनीभेदः प्रकटाश्च तथागुप्तास्तथा गुप्ततराः पराः | सम्प्रदायाः कुलं कौला रहस्यातिरहस्यगाः || १३० || परापररहस्या च तथा कामेश्वरी शुभा | प्. ३९२) भगमालादि महाविद्या नामकथनम् भगमाला नित्यक्लिन्ना भेरुण्डा वह्निवासिनी || १३१ || महाव्रजेश्वरी दूती त्वरिता कुलसुन्दरी | नित्या नीलपताका च विजया सर्वमङ्गला || १३२ || ज्वालांशुमालिनी चित्रा वशिनी शुभगा तथा | पूर्णाख्या च तथा ज्ञेया कामेशी मोदिनी तथा || १३३ || विमला चाऽरुणा देवी जयिनी कुलभैरवी | सर्वेश्वरी तथा कौली वागीशी सर्वकामिनी || १३४ || सिद्धेश्वरी तथा चोग्रा दुर्गा महिषमर्दिनी | स्वप्नावती शूलिनी च मातङ्गी सुरसुन्दरी || १३५ || महाकाली महोग्रा च चित्ररूपा महोदरी | प्राणविद्या तथैकाक्षी चैकपादा महाङ्कुशा || १३६ || वामा शिव तथा ज्येष्ठा सुरूपा चारुभाषिणी | त्रिखण्डा त्रिशिरा शौरी गौरी विन्ध्यनिवासिनी || १३७ || विभुर्जाया मधुमती तथा नीलसरस्वती | काली कुण्डमयी कुण्डरूपिणी बन्धुरूपिणी || १३८ || बाला पूर्णा महादेवी नीललक्ष्मीति कथ्यते | क्षोभिणी नादिनी भद्रा ललिता बहुरूपिका || १३९ || सर्वसम्पत्करी तारा भवानी विश्ववासिनी | त्रोटेश्वरी महाविद्याः कथितास्तव भैरव || १४० || प्. ३९३) त्रिपुरोपासकनामस्तोत्रम् उपासकान् महादेव शृणुष्वैकमनाः स्वयम् | मनुश्चन्द्रः कुबेरश्च मन्मथस्तदनन्तरम् || १४१ || लोपामुद्रा मुनिर्नन्दी शक्रः सुन्दः शिवस्तथा | क्रोधभट्टारकश्चैव पञ्चमी च प्रकीर्त्तिता || १४२ || दुर्वासा व्याससूर्यौ च वशिष्ठश्च पराशरः | और्वो वह्निर्यमश्चैव नैर्-ऋतो वरुणस्तथा || १४३ || वायुर्विष्णुः स्वयम्भूश्च भैरवो गणकस्तथा | अनिरोद्धो भरद्वाजो दक्षिणामूर्त्तिरेव च || १४४ || गणपः कुलपश्चैव वाणी गङ्गा सरस्वती | धात्री शेषः प्रमत्तश्च उन्मत्तः कुलभैरवः || १४५ || क्षेत्रपालो हनूमांश्च दक्षो गरुड एव च | प्रह्लादः शुकदेवश्च रामो रावण एव च || १४६ || काश्यपः कुम्भकर्णश्च जमदग्निर्भृगुस्तथा | बृहस्पतिर्यदुश्रेष्ठो दत्तात्रेयो युधिष्ठिरः || १४७ || अर्जुनो भीमसेनश्च द्रोणाचार्यो वृषाकपिः | दुर्योधनस्तथा कुन्ती सीता च रुक्मिणी तथा || १४८ || सत्यभामा द्रौपदी च उर्वशी च तिलोत्तमा | पुष्पदन्तो महाबुद्धो बाणः कालश्च मन्दरः || १४९ || कैलासः क्षीरसिन्धुश्च उदधिर्हिमवांस्तथा | नारदो भीष्मकर्णौ च मेरुश्चारुण एव च || १५० || जनकश्च तथा कौत्सः कथिता ब्रह्मसाधकाः | महाविद्याप्रसादेन स्वस्वकर्म समन्विताः || १५१ || प्. ३९४) एतेषां शुभनामानि नित्याविद्योपसेविनाम् | प्रातःकाले शुचिर्भूत्वा यः पठेत् प्रयतात्मना || १५२ || पूजयेद् वा शुचिर्भूत्वा प्रसीदामि कुलप्रिये | अशुचिर्वा निरालम्बो सालम्बो वा कुलान्तिके || १५३ || नित्यपूजाफलं तस्य ददामि वरमीप्सितम् | चक्रसङ्केतकं चैव गुरुसङ्केतकं तथा || १५४ || मन्त्रसङ्केतकं चैव नामसङ्केतकं तथा | समयाचारसङ्केतमकृत्वा योऽत्र वर्त्तते || १५५ || जपपूजार्चनं होमोऽभिचाराय प्रकल्पते | एवं स्तोत्रं पठित्वा तु सङ्केतमानयेद् ध्रुवम् || १५६ || नैमित्तिकार्चन विधानम् अथ वक्ष्यामि शाक्तानां नैमित्तार्चनमुत्तमम् | अथ वैशाखमासस्य शुक्लप्रतिपदीश्वरि || १५७ || ब्राह्मे मुहूर्त्ते उत्थाय स्नानं सन्ध्यामुपास्य च | मनोज्ञे रहसि स्थाने पूर्वाभिमुखमास्थितः || १५८ || आत्मानं गन्धपुष्पाद्यैरलंकृत्य विधानतः | कृत्वा पुरोदितान् न्यासान् देवताभावमास्थितः || १५९ || प्. ३९५) मत्स्यमांसादिविधिवद् भक्ष्यभोज्यसमन्वितम् | अर्घ्यं निवेद्य तच्छेषं शक्त्या सह पिबेत्ततः || १६० || यौवनोल्लाससहितो निर्विकल्पेन चेतसा | ध्यायंस्तन्मण्डले देवीमष्टोत्तरसहस्रकम् || १६१ || जप्त्वा समर्प्य तत्पूजां देवताञ्च समुद्धरेत् | तत्र कालादि निर्णयः एवं शुक्लप्रतिपदं समारभ्य दिने दिने || १६२ || कुर्याज्जपार्चनं कृष्णचतुर्दश्यन्तमम्बिके | अमावस्यादिने धीरः पूजयेद् भक्तकौलिकान् || १६३ || त्रि सप्त नव पञ्च वा वित्तशाठ्यविवर्जितः | एवं यो मासमात्रन्तु कुर्यात् सूर्योदयार्चनम् || १६४ || देवता तस्य सन्तुष्टा ददाति फलमीप्सितम् | यत्किञ्चिदुदिते सूर्ये मण्डले स्वेष्टदेवताम् || १६५ || ध्यात्वा सावरणां सम्यक् प्रजपेत्तु विधानतः | षोडशैरुपचारैस्तु चक्रपूजापुरःसरम् || १६६ || कुलदीपान् प्रदर्श्याऽथ साधको भावतत्परः | मध्याह्ने पूजयेद्वापि सायाह्ने वापि पूजयेत् || १६७ || स तत्फलमवाप्नोति योगिनीनां प्रियो भवेत् | काङ्क्षितां लभते सिद्धिं देववद्विचरेद्भुवि || १६८ || प्. ३९६) शुक्लपक्षार्चनविधानम् माघशुक्लप्रतिपदि दिवावसानके बुधः | स्नात्वा शुक्लाम्बरधरः सायं सन्ध्यामुपास्य च || १६९ || सूर्यार्चनोक्तमार्गेण सर्वद्रव्यसमन्वितः | यौवनोल्लाससहितश्चन्द्रस्थां देवतां स्मरन् || १७० || देवीं सम्पूज्य विधिवच्चन्द्रमण्डलवासिनीम् | चन्द्रास्तोदयपर्यन्तं जपेन्मन्त्रमनन्यधीः || १७१ || एवं प्रतिदिनं शुक्लचतुर्दश्यन्तमर्चयेत् | पौर्णमास्यां यथाशक्त्या पूजयेच्छक्तिकौलिकान् || १७२ || एवं यः कुरुते भक्त्या शुक्लपक्षार्चनं सदा | सर्वपापविशुद्धात्मा सर्वैश्वर्यसमन्वितः || १७३ || सर्वलोकैकसम्पूज्यः शिववद्विचरेद्भुवि | शुक्लपक्षार्चनं यद्वत्तद्वत् पक्षे सितेतरे || १७४ || यः करोति विधानेन सर्वान् कामान् समश्नुते | इह भुक्त्वाऽखिलान् भोगान् देववत् प्रियदर्शनः || १७५ || योगिनीवीरमिलनं लभते नात्र संशयः | प्. ३९७) कृष्णपक्षार्चनम् अथ कार्त्तिकमासस्य शुक्लप्रतिपदि ध्रुवम् || १७६ || स्नात्वाऽचम्य च शुद्धात्मा न्यासान् कृत्वा पुरोदितान् | प्रसुप्ते जीवलोके तु मुदितात्मा महानिशि || १७७ || सूर्यार्चनोक्तविधिना सर्वद्रव्यसमन्वितः | आज्येनानामिकाङ्गुष्ठे वर्त्तिं प्रज्वाल्य साधकः || १७८ || पञ्चवर्णरजश्चित्रे वसुपत्रसरोरुहे | मधुसम्पूर्णकलसे कांस्यपात्रे मनोहरे || १७९ || दीपं संस्थाप्य पुरत उत्तराभिमुखस्थितः | दीपे सावरणां देवीं ध्यात्वा विधिवदर्चयेत् || १८० || यौवनोल्लाससहितो दीपस्थां देवतां स्मरन् | अष्टोत्तरसहस्रं तु जपेन्मन्त्रमनन्यधीः || १८१ || एवं समर्चयेत् कृष्णचतुर्दश्यन्तमम्बिके | अमावस्यादिने शक्त्या पूजयेत् शक्तिकौलिकान् || १८२ || एवं कृते महादेवी प्रीता भवति सर्वदा प्. ३९८) सर्वकामसमृद्धात्मा सर्वैश्वर्यसमन्वितः || १८३ || सर्वलोकैकसम्मान्यः सञ्चरेच्च यथासुखम् | अष्टाष्टकार्चनं कुर्याच्छक्तश्चेदेकवासरे || १८४ || अष्टाष्टकार्चनम् अथवाऽष्टदिनेष्वेवाथवा द्व्यष्टदिनेषु वा | द्वात्रिंशद्दिवसेष्वेव चतुःषष्टिदिनेषु वा || १८५ || गुरुणा कारयेदेतत् क्रमज्ञेनाऽपरेण वा | क्रमज्ञश्चेत् स्वयं कुर्याद्वित्तशाठ्यविवर्जितः || १८६ || मूलाष्टकं तु ब्राह्म्याद्यश्चासिताङ्गादिभैरवाः | मङ्गलाद्यैश्च निपुणैरष्टभिः शक्तिभिस्तथा || १८७ || मूलाष्टकोद्भवानीति प्रसिद्धानि कुलागमे | अक्षोभ्यादिचतुःषष्टिमिथुनानि समर्चयेत् || १८८ || पूर्वोक्तेन विधानेअ यथा विभवमर्चयेत् | क्रमलोपं न कुर्वीत स्वेष्टकायार्थसिद्धये || १८९ || गन्धपुष्पाक्षताद्यैश्च मत्स्यमांसासवादिभिः | भक्ष्यभोज्यादिभिर्नानापदार्थैः षड्रसान्वितैः || १९० || सम्यक् सन्तोषयेत्तानि मिथुनान्यतिभक्तितः | प्रौढान्तोल्लासपर्यन्तं कुर्यात् श्रीचक्रपूजनम् || १९१ || प्. ३९९) एवं यः कुरुते भक्त्या सकृदष्टाष्टकार्चनम् | ब्रह्मविष्णुमहेशादि देवताभिः स पूज्यते || १९२ || किं पुनर्मानवाद्यैश्च साक्षाच्छिव इवापरः | यदर्चनाच्चतुःषष्टि योगिनीगणसंस्तुतः || १९३ || अव्याहताज्ञः सर्वत्र पूज्यते देववद् भुवि | पुनरावृत्तिरहितो निवसेच्छिवसन्निधौ || १९४ || अस्मात् परतरा पूजा नास्ति सत्यं न संशयः | कुलपूजां विना चक्रे नाधिकारः कथञ्चन || १९५ || विना यन्त्रेण पूजा चेत् देवता न प्रसीदति | कुलपूजां सुनियतं यः करोति स कौलिकः || १९६ || सर्वदा समवाप्नोति योगिनीवीरमेलनम् | नीचोऽपि वा सकृद् भक्त्या कारयेद् यः कुलार्चनम् || १९७ || स सद्गतिमवाप्नोति किमुताऽन्ये द्विजातयः | तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा || १९८ || प्. ४००) कुलपूजारतो भूयादभीष्टफलसिद्धये | वेदशास्त्रोक्तमार्गेण कुलपूजां करोति यः || १९९ || तत्समीपस्थिता नित्यं शिवेन सह शङ्करी | इदं सत्यमिदं सत्यं सत्यं सत्यं न संशयः || २०० || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये पञ्चदशोल्लासः || १५ || षोडश उल्लासः कुलदीक्षाविधानम् अथातः सम्प्रवक्ष्यामि कुलदीक्षां सुसिद्धये | अदीक्षितकुलो यो हि साधनं समुपाचरेत् || १ || स महापातकी भूत्वा रौरवं नरकं व्रजेत् | अदीक्षितकुलासङ्गात् सिद्धिहानिः प्रजायते || २ || तत्कथाश्रवणं चेत् स्यात्तत्तल्पागमनं यदि | स कुलीनः कथं चैव पूजयेत् परमेश्वरीम् || ३ || दीक्षिता न च योषा चेत् कथं स्यात्कुलपूजनम् | यत्कुले कुलदीक्षा तु न स्यात् पापी स एव हि || ४ || कुल पूजा न चेच्चैव कुलमन्त्राः पराङ्मुखाः | परयोषा यदि स्याच्च स्वयं तस्या गुरुर्भवेत् || ५ || प्. ४०२) निजाकान्तां समानीय सुशीलां सुयशस्विनीम् | कुलभक्तं गुरुं प्रार्थ्य दीक्षयेत् कुलदीक्षया || ६ || शिवश्च कौल एव स्याच्छिवाः स्युः सर्वदेशिकाः | गणेशो गाणपत्यश्च गणदीक्षाप्रभुर्यतः || ७ || सुरः सौरास्तथा चैव विष्णुर्विष्णुपरायणाः | कुलीनः सर्वमन्त्राणामधिकारी भवेत् सदा || ८ || ततः सुदीक्षतं कुर्यात् कुलं गुरुः प्रयत्नतः | दीक्षायां कुलपूजायां शिष्यत्वे यदि वा गुरौ || ९ || लज्जापरं कुलं यत्र विद्यापि तत्र निद्रिता | अधस्तात् दृष्टिपातेन तस्य विद्याऽप्यधोमुखी || १० || निमीलनात्ततो विद्या साधकं मारयेद् ध्रुवम् | पार्श्वावलोकनेनैव व्याधिदारिद्र्यपीडिता || ११ || चतुर्दिगालोकनेन उच्चाटनगतो भवेत् | एतादृशं कुलं चैव यदि कुर्यात् कथञ्चन || १२ || तदा कुलगुरुं प्रार्थ्य कारयेद्दीक्षितं ततः | एतादृश कुलस्याग्रे प्रयोगः फलदो न हि || १३ || प्. ४०३) इत्यादि शिक्षया चैव शिक्षिता कुलजा सती | परानन्दरसाघूर्णहृदया लोललोचना || १४ || मालालङ्कारशोभाढ्या रक्तवस्त्रविभूषणा | ताम्बूलपूरितमुखी सिन्दूराञ्जनसंयुता || १५ || गुरुवक्त्रात् प्रयोगार्थं सोत्सुका साधकप्रिया | देवीवाहं देवदेव उपदेशं समाचर || १६ || शक्तिदीक्षाकथनम् एवमुक्ते कुले चैव देवोऽहं शृणु पार्वति | इत्युक्त्वा सर्वशृङ्गारवेशाढ्यः स्थिरमानसः || १७ || जप्त्वा ब्राह्म्यादिकाः शक्तीः पूर्वमन्त्रेण सेवयेत् | तद्गात्रे देयमन्त्रस्य न्यासजालं प्रविन्यसेत् || १८ || निजपुत्रीवदाचार्यस्तद्भालपटले लिखेत् | शक्तिचक्रं त्रिधाऽवेष्ट्य तत्र कामकलां लिखेत् || १९ || तन्मध्ये देयमन्त्रेण दर्भितं नाम रञ्जितम् | तत्र देवीं समावाह्य ध्यात्वा तां तु प्रपूजयेत् || २० || प्. ४०४) ततस्तत्पुत्रिकाकर्णे ऋषिछन्दः समन्विताम् | मूलविद्यां त्रिधाऽवृत्त्या कथयेत् वामकर्णके || २१ || नाम कुर्यात्ततस्तस्याः कान्तं साधकसत्तमः | मातृपितृकृतं नाम वर्जयित्वा वदेत्ततः || २२ || अद्यप्रभृति पुत्रि त्वं कुलपूजार्चने रता | सकुलाज्ञां समादाय लज्जालस्यविवर्जिता || २३ || यथोपदिष्ट विधिना सामरस्यं समाचर | इत्यनुज्ञां गुरोर्लब्ध्वा प्रणमेद्दण्डवद् भुवि || २४ || त्राहि नाथ कुलाचारपक्षिणीपद्मनायक | हृत्पादाम्भोरुहच्छायां देहि मूर्ध्नि यशोधन || २५ || विधिना स्तवनं कृत्वा गुरवे दक्षिणां ददेत् | सर्वस्वं गुरवे दद्यात्तदर्धं वा दयायुजे || २६ || दक्षिणाञ्च यथाशक्त्या प्रदत्त्वा गुरवे सुधीः | स्तुत्वा नत्वा यथाशक्त्या स्वकल्पोक्तं समाचरेत् || २७ || प्. ४०५) प्रशस्तशक्तिलक्षणानि उपदिष्टा यदा देवी तदा देवी तु पुत्रिका | पूजार्हा च यदा देवी तदा माता न संशयः || २८ || सर्वथा पितृपुत्त्रीभ्यां मूलयोगो न दृश्यते | तत्कृत्वा तेन पापेन उभौ नरकगामिनौ || २९ || चुम्बुके चान्यशास्त्रो पशुग्रामे तथैव च | न कर्त्तव्यं न कर्त्तव्यं न च वाक्यं कदाचन || ३० || एवं कृते गुरौ शिष्ये मम शापो भविष्यति | शक्तिपूजाविधानम् साङ्गावरणपूजादौ यदा न क्षरये कुलम् || ३१ || तदा मूर्ध्नि गुरुं ध्यात्वा कुलामृतरसेन तु | तर्पयित्वा कुलं ध्यात्वा जपेन्मन्त्रं निराकुलः || ३२ || नियमः पुरुषे ज्ञेयो न योषित्सु कदाचन | न न्यासो योषिताञ्चापि न ध्यानं न च पूजनम् || ३३ || रात्रौ षडङ्गमाचर्य जपं कुर्यात् समाहितः | सर्वविद्याप्रयोगं तु ततः कुर्यात् सुसाधकः || ३४ || प्. ४०५) कुलपुष्पकथनम् अथातः कुलपुष्पस्य विधानं कथ्यतेऽधुना | यत्प्राप्य कुलदेवेन लभ्यते वाञ्छितं महत् || ३५ || ऋतुकाले महादेवी सुषुम्णामध्यवर्त्तिनी | अमृतं वर्षते सा तु त्रिदिनं पृथिवीतले || ३६ || तद्दिने तत्र वीरेन्द्रो यदि विद्यां समुच्चरेत् | पूर्णमेव भवेत्तस्य सफलं च मनोरथम् || ३७ || तस्मात् सर्वप्रयत्नेन कुलं वीक्ष्य जपं कुरु | आनीय प्रमदां दिव्यां प्रमत्तां यौवनान्विताम् || ३८ || सुस्नापितां सुदीक्षितां सुनासां चारुहासिनीम् | सर्वदानन्दहृदयां घृणालज्जाविवर्जिताम् || ३९ || गुरुभक्तां सुवेशाच्च देवतापूजने रताम् | स्वकान्तां परकान्तां वा संस्थाप्य तूलिकोपरि || ४० || न्यासजालं प्रविन्यस्य साधकोऽक्षुब्धमानसः | तस्यास्तु मदनागारे पूजयेत् परमेश्वरीम् || ४१ || प्. ४०७) स्वयमक्षोभितो भूत्वा स्वयम्भूकुसुमं लभेत् | शिवहीना यदा शक्तिः सर्वादौ वर्षते हि यत् || ४२ || तदेव परमं पुष्पं स्वयम्भूकुसुमाख्यकम् | तद्द्रव्यप्राप्तिमात्रेण किं न सिध्यति भूतले || ४३ || स्वयम्भूकुसुमं द्रव्यं त्रैलोक्ये चाति दुर्लभम् | स्वेच्छा ऋतुमती शक्तिः साक्षाद्देवी महेश्वरी || ४४ || तस्याः पुष्पं साधकेन रक्षणीयं प्रयत्नतः | वस्त्रालङ्कारपुष्पैश्च शक्तिञ्च परिपूजयेत् || ४५ || दीक्षिताया यथाकाले पुष्पं भवति नित्यशः | कुलपुष्पं तदेव स्यात् सर्वसिद्धिप्रदायकम् || ४६ || कुण्डोद्भवञ्च गोलोत्थं पूर्वैव कथितं मया | कुण्डोद्भवं सिद्धिप्रदं प्रकारान्तरमुच्यते || ४७ || यथायोग्यं समानीय शक्तिं पूर्वोदितां शुभाम् | स्वकल्पोक्तं समाचर्य साधको जितमानसः || ४८ || चर्व्यं चोष्यं निवेद्याथ वस्त्रालङ्करणादिकम् | पूजयेदक्षतैः शुद्धैः तस्या मदनमन्दिरम् || ४९ || प्. ४०८) भावयेत् कामभावेन स्वयमच्युतमानसः | शुद्धमन्त्रौषधेनैव मथयेन्मदनालयम् || ५० || मथ्यमानेऽपि तस्यां हि जायते तत्त्वमुत्तमम् | गृह्णीयात्तत् प्रयत्नेन द्रव्यं कुण्डोद्भवं शुभम् || ५१ || एतच्चतुष्टयं द्रव्यं मन्त्रसिद्धेश्च कारणम् | एतेषां द्रव्यमध्ये तु स्वयम्भूकुसुमं महत् || ५२ || क्वचिद्गन्धर्वराजेन लभ्यते वा नवा पुनः | लब्ध्वा तत्परमं द्रव्यं लाक्षारससमन्वितम् || ५३ || कस्तूरीं कुङ्कुमं चैव चन्दनेन सुमिश्रितम् | रक्तेन चन्दनेनापि वटीं कृत्वा सुगोपयेत् || ५४ || पूर्वोक्तक्रमतो वीरो विशोध्य मन्त्रराजकम् | लिखित्वा पूजयेद्भक्त्या यां तिथिं प्राप्य साधकः || ५५ || सुप्तादिदोषदुष्टा ये मन्त्रा विद्याश्च कीर्त्तिताः | प्रबुद्धास्तत्प्रयोगेन यावत् सा पुनरागता || ५६ || प्. ४०९) द्वितीयायां गते चैव दृश्या जाता कलावती | तिथिक्रमेण सा देवी पौर्णमास्यां फलप्रदा || ५७ || तत्र प्रयोगमात्रेण कृष्णपक्षे विशेषतः | क्षीणाति पूर्णतां याति यावत् सा तिथिरागता || ५८ || ततः प्रयोगं विद्यानां मन्त्रादीनाञ्च कारयेत् | एवं यथा प्रबुद्धा सा नैव तादृक् कदाचन || ५९ || पूजाफलकथनम् स्वयम्भूकुसुमैः पूजां प्रत्यहं यः समाचरेत् | योगिन्यश्च महानागा राक्षसादानवाश्च ये || ६० || राजानश्च स्त्रियः सर्वा नित्यं वश्या भवन्ति हि | एतेनाक्षतयोगान् मधुमतीसिद्धिमालभेत् || ६१ || प्रत्येकेन लभेत् सिद्धिं कुसुमाद्यैर्यथाविधि | अथ वक्ष्ये च शाक्तानां काम्यपूजनमुत्तमम् || ६२ || काम्यपूजनकथनम् रक्तपद्मैर्यजेद् देवीं समस्तरश्मिसंयुताम् | विधिवल्लिखिते यन्त्रे कुलाचारेण रात्रिके || ६३ || मासमात्रेण वीराणां महापातककोटयः | जन्मान्तरकृताः सर्वे नाशमायान्ति निश्चितम् || ६४ || प्. ४१०) लक्ष्मीस्तस्य गृहे वश्या सुस्थिरा भवति ध्रुवम् | जवापुष्पैश्चक्रराजं पूजयेन्मासमात्रकम् || ६५ || कुलाचारेण रात्रौ च मन्त्रेण भक्तिभावतः | ब्रह्महत्यादि पापांश्च पूर्वजन्मकृतानपि || ६६ || नाशयेन्नात्र सन्देहो धनवान् जायते नरः | केतकीतरुणैः पत्रैः पूर्ववत् पूजयेच्छिवाम् || ६७ || उपपातकसङ्घांश्च मासमात्रेण नाशयेत् | सौभाग्यमतुलं तस्य जायते नात्र संशयः || ६८ || शतपत्रैर्मनोरम्यैः पूजयेन् मासमात्रकम् | पूर्ववत् परमेशानि सर्वपापं विनाशयेत् || ६९ || चम्पकैः सुमनोरम्यैः पूजयेत् पूर्ववच्छिवाम् | मासमात्रेण हन्त्येव पातकान् पूर्वजन्मजान् || ७० || सौभाग्यं वा लभेन्मन्त्री भगवत्याः प्रसादतः | श्वेतपद्मैर्महादेवीं पूजयेद् भक्तिभावतः || ७१ || पूर्ववन्नाशयेत् पापान् त्रिंशज्जन्मकृतानपि | मासमात्रेण सकलान् मोक्षस्तस्य करे स्थितः || ७२ || प्. ४११) बन्धूककुसुमैर्देवीं मासामात्रेण पूजनात् | त्रैलोक्यं वशगं तस्य सर्वपापं प्रणाशयेत् || ७३ || बिल्वपत्रैश्च जलजैः सहैव परिपूजयेत् | पूर्ववत् परमेशानीं मासमात्रं न संशयः || ७४ || समृद्धिमान् भवेत् सोऽपि सर्वपापहरः सदा | मल्लिकामालतीजातीकुन्दैश्च शतपत्रकैः || ७५ || श्वेतोत्पलैः प्रसूनैश्च पूजयेन्मासमात्रकम् | कुलाचारक्रमेणैव पातकान् शतजन्मजान् || ७६ || ब्रह्महत्यादिजनितान् नाशयेन्नात्र संशयः | मुक्तिस्तस्य करे सत्यं वाचांपतिसमो भुवि || ७७ || अगस्त्यबालबन्धूकजवारक्तोत्पलैः समम् | पूर्वक्रमेण सम्पूज्य मासमात्रं प्रयत्नधीः || ७८ || पातकान् पाशयेत् मन्त्री साक्षात्कामलसी भवेत् | चम्पकैः पाटलैर्देवीं बकुलैर्नागकेशरैः || ७९ || कह्लारैः सिन्धुवारैश्च पूजयेत् पूर्ववत् क्रमात् | सौभाग्यमण्डलं तस्य मासमात्रेण निश्चितम् || ८० || प्. ४१२) महापातकयुक्तो वा यदि देवीं प्रपूजयेत् | शमीदूर्वाङ्कुराश्वत्थपल्लवैरथवाऽर्कजैः || ८१ || मासेन हन्ति कलुषं सप्तजन्मकृतं ध्रुवम् | अथातः सर्वविद्यानां लिख्यते सिद्धिकारणम् || ८२ || ब्राह्म्याद्यष्टकुलैः सार्धं साधकः स्थिरधीः शुचिः | चतुष्पथे वा नद्यां वा वटमूले त्रिशूलके || ८३ || प्रेतभूमौ बिल्वमूले हट्टे वा राजवेश्मनि | सिन्दूरेण लिखेन्मन्त्रं विपुलं साध्यदर्भितम् || ८४ || ततः सम्पूज्य विधिवत् कुलं कुलरसेन च | तर्पयित्वा तदन्तःस्थः प्रजपेन्निशिचारतः || ८५ || ततो लक्षप्रमाणेन सिद्धिस्तावद्भवन्ति हि | अथ रात्रौ पुण्यगेहे उद्याने वा सुरालये || ८६ || आनीय कुलजां देवीं मूलमन्त्रेण दीक्षयेत् | ततः पूर्वोक्तरूपेण कुलक्षोभं समाचरेत् || ८७ || रत्नपूजाविधानम् रत्नपूजाविधानं हि कथयामि विशेषतः | पुष्पाणि रचयेद्वीरो माणिक्यघटितानि च || ८८ || प्. ४१३) तैस्तु पूजा प्रकर्त्तव्या चक्रराजस्य पूर्ववत् | नानापुष्पैः सुगन्धैश्च कर्पूरक्षोदचर्चितैः || ८९ || एकविंशतिरात्रेण विंशतिर्धरणीभुजाम् | दासभूताः भवन्त्येव महारोगांश्च नाशयेत् || ९० || सूर्यवत् कान्तिमान्मन्त्री जायते नात्र संशयः | मुक्तारत्नरञ्जितानि स्वर्णपुष्पाणि साधकैः || ९१ || तैस्तु पूजा प्रकर्त्तव्या नानारत्नैश्च पूर्ववत् | एकविंशतिरात्रेण राजपुत्री वशीभवेत् || ९२ || कलाकान्तियुतो वीरो जायते सुभगः क्षितौ | प्रवालघटितैः स्वर्णपुष्पैस्तु बहुभिर्यजेत् || ९३ || पूर्ववत् परमेशानीं कुलाचारक्रमेण तु | पुष्पैश्च विविधैश्चैव सप्ताहाच्च सुनिश्चितम् || ९४ || क्रूरास्तस्य वशाः सर्वे वैरिवर्गांश्च नाशयेत् | तथा मरकतक्षिप्तस्वर्णपुष्पैश्च पूजयेत् || ९५ || एकविंशतिरात्रेण नानापुष्पैः क्रमाद्यजेत् | विधिवत् तस्य वरदा भैरवी भवति स्थिरम् || ९६ || प्. ४१४) पद्मरागमहारत्ननिर्मितैः स्वर्णसंयुतैः | कुसुमैरर्चयेच्चक्रं त्रिसप्ताहात् सुनिश्चितम् || ९७ || सुरास्तस्य वशाः सर्वे बृहस्पतिसमो भवेत् | सुवर्णरचितैः पुष्पैर्वज्रकेशरवर्जितैः || ९८ || एकविंशतिरात्रेण मोहयेज्जगतीमिमाम् | देवा दैत्यावशांस्तस्य जायन्ते नात्र संशयः || ९९ || इन्द्रनीलमयैः स्वर्णपुष्पैश्चक्रं समर्चयेत् | एकविंशतिरात्रेण तथा नीलैश्च नीरजैः || १०० || वैरिणो नाशमायान्ति शेषा वश्या भवन्ति हि | गोमेदघटितैः पुष्पैः स्वर्णपुष्पैर्यजेद् बुधः || १०१ || किंशुकैः कुन्दपुष्पैश्च पूर्ववत् परमेश्वरीम् | सप्ताहाद् वैरिणो वश्या घातस्तेषु प्रजायते || १०२ || त्रिसप्ताहान्महापापसञ्चयं नाशयेत्ततः | स्वर्णरत्नमयैः पुष्पैर्पुनर्नवैः प्रपूज्यते || १०३ || तदाऽश्वमेधदशकं फलं भवति निश्चितम् | क्रव्यादयस्तद्वश्या हि भवन्त्येव न संशयः || १०४ || प्. ४१५) वैदूर्यंघटितैः पुष्पैः पूजयेच्चक्रमुत्तमम् | सचम्पकादिभिर्धीरस्त्रैलोक्यं स्तम्भयेत् क्षणात् || १०५ || एकविंशतिभिर्वारैर्महापापहरो भवेत् | निर्माल्यभूतैः कुसुमैरर्चितैः परमेश्वरीम् || १०६ || नानारत्नमयैः स्वर्णपुष्पैर्यदि शिवां यजेत् | तदा देवाश्च मुनयः पन्नगा राक्षसादयः || १०७ || सर्वे वश्या भवन्त्येव त्रिसप्ताहान्न संशयः | जन्मकोटिभवं पापं नाशयेन्नात्र संशयः || १०८ || स्वर्णवर्णमयैः पुष्पैर्मासमेकं प्रपूजयेत् | तदाश्वमेधदशकफलं भवति सर्वदा || १०९ || स्वर्णरत्नानि पुष्पाणि यदि न स्युस्तदा शृणु | पूर्वोदितस्वपुष्पैश्च पूजा कार्या सुसाधकैः || ११० || यद्यत् पुष्पं यत्र यत्र देयं तत्र महात्मना | तत्र तत्रैव दातव्यं यद्दातव्यं सुखेच्छया || १११ || प्. ४१६) अलङ्कारस्वरूपेण पूजयेच्चक्रनायिकाम् | केवलं योनिपुष्पैस्तु त्रैलोक्यं स्तम्भयेद्भृशम् || ११२ || मासमात्रेण पापानि सप्तजन्मभवान्यपि | नाशयेन्मोहयेत् सर्वान्समुद्रवलयां धराम् || ११३ || त्रिपुराबीजसाधनम् अथेदानीं प्रवक्ष्यामि त्रिपुराबीजसाधनम् | शुक्लाम्बरधरो धीरः शुक्लगन्धादिभूषितः || ११४ || शुक्लालङ्काररचितः शुक्लमाल्यान्वितः शुचिः | शुक्लगो ब्रह्मचारी तु शुक्लासनपरिग्रहः || ११५ || पूजयेत् शुक्लपुष्पैस्तु नैवेद्यैर्धवलैस्तथा | पिष्टकं पायसं दुग्धं अन्नं बहुविधं तथा || ११६ || शर्करा मोदकं चैव नानाफलसमन्वितम् | कृतसङ्कल्पवीरेन्द्रः साधयेद्वाग्भवाक्षरम् || ११७ || वाग्भवबीजसाधनम् वाग्भवाख्यां जपेद्विद्यां वागीशीं संस्मरन् बुधः | कूर्परधवलां शुभ्रपुष्पाभरणभूषिताम् || ११८ || प्. ४१७) अत्यन्तशुभ्रवसनां वज्रमौक्तिकभूषणाम् | मुक्ताफलसमुद्भूतजपमालालसत्कराम् || ११९ || पुस्तकं वरदानञ्च दधतीमभयप्रदाम् | एवं ध्यात्वा प्रपूज्यैव वागीशीं साधकोत्तमः || १२० || मूलादिब्रह्मरन्ध्रान्तं स्रवत्पीयूषवर्षिणीम् | तस्माज्जोतिर्मयीं ध्यायेत् जिह्वाग्रेऽमृतरूपिणीम् || १२१ || विभाव्य प्रजपेन्मन्त्रं पुरश्चरणसंख्यकम् | ततश्च नष्टहृदयो ग्राम्यो मूर्खोऽतिपातकी || १२२ || शठोऽपि यः पदं स्पष्टमक्षरं वक्तुमक्षमः | जडो मूर्खोऽतिदुर्मेधा गतप्रज्ञो विनष्टधीः || १२३ || सोऽपि सञ्जायते वाग्मी वाचस्पतिरिवापरः | सत्पण्डितघटाटोपजेताऽप्रतिहतप्रभः || १२४ || सत्तर्कपदवाक्यार्थशब्दालङ्कारसारवित् | कुमारतरस्फार वृत्तालङ्कारपूर्वकैः || १२५ || पदगुम्फैर्महाकाव्यकर्ता सोऽपि प्रजायते | वेदवेदाङ्गवेदान्तसिद्धान्तज्ञानपारगः || १२६ || प्. ४१८) ज्योतिःशस्त्रेतिहासादिमीमांसास्मृतिसारवित् | पुराणरसवादादिगारुडानेकमन्त्रवित् || १२७ || पातालशास्त्रविज्ञानभूततन्त्रार्थतत्त्ववित् | विचित्रचित्रकर्मादिशिल्पानेकविचक्षणः || १२८ || सर्वभाषारुतज्ञानी समस्तलिपिकर्मवित् | नानाशास्त्रादिशिक्षादिवेत्ताभुवनविश्रुतः || १२९ || सर्ववाङ्मयवेत्ता च सर्वज्ञो भुवि जायते | कामबीजसाधनम् अथ कामकलासक्तः साधको रक्तमन्दिरे || १३० || रक्तालङ्कारसंयुक्तो रक्तगन्धानुलेपनः | रक्तवस्त्रावृतः सम्यङ्मध्ये कामकलात्मना || १३१ || रक्तपुष्पैश्च विविधैः नैवेद्यै रक्तसन्निभैः | नानोपहारबलिभिः कुङ्कुमादिभिरर्चयेत् || १३२ || मूलादिब्रह्मरन्ध्रान्तं स्फरद्दीप्तिस्वरूपिणीम् | बन्धूककुसुमाकारकान्तिभूषणभूषिताम् || १३३ || एवं सचिन्त्य वीरेन्द्रः पूजयेत् परमेश्वरीम् | यथोक्तसंख्यं सञ्जप्य कामराजं सुसाधकः || १३४ || चिन्तयेत् परमेशानीं त्रैलोक्यं मोहयेत् क्षणात् | राजानो वशमायान्ति पन्नगा राक्षसाः सुराः || १३५ || कन्दर्प इव वीरेन्द्रो योषितां मानहारकः | मनश्चिन्तितयोषित्तु दासीवद्वशगाभवेत् || १३६ || प्. ४१९) तद्दृष्टिपथगा नारी सुरी वाप्यथवाऽसुरी | विद्याधरी किन्नरी वा यक्षी नागाङ्गनाऽथवा || १३७ || प्रचण्डतरभूपालकन्यका सिद्धकन्यका | ज्वलन्मदनदुष्प्रेक्ष्यदहनोत्तप्तमानसा || १३८ || क्लिन्न प्रचलितापाङ्गा विमूढा मदविह्वला | निवेदितात्मसर्वस्वा वशगा तस्य जायते || १३९ || चलज्जलेन्दुसङ्काशा बालार्ककिरणारुणा | चिन्तिता योषितां योनौ क्षोभयति च तत्क्षणात् || १४० || सैव सिन्दूरवर्णाभा हृदये चिन्तिता सती | सम्मोहोन्मादनारोपचित्तकर्षकरी तथा || १४१ || प्. ४२०) नियोजिताऽथवा मूर्ध्नि वर्षन्ती रक्तबिन्दुभिः | धारणासम्प्रयोगेण करोति वशगं जगत् || १४२ || त्रैलोक्यमोहनप्रयोगकथनम् आकर्षयेत्तदा शीघ्रं रम्भाञ्चापि तिलोत्तमाम् | रक्तवर्णां स्त्रियं ध्यात्वा तदीयमहसा ततः || १४३ || तस्या मूर्ध्नि स्मरेद्विद्यां स्रवत्पीयूषवर्षिणीम् | ध्यायन् सम्मोहयेन्नारीं मदनोत्तप्तमानसाम् || १४४ || क्षणमात्रेण वीरेन्द्रस्त्रैलोक्यं वशमानयेत् | एतत्कामकलाध्यानात् पञ्चकाम इवापरः || १४५ || श्रीं ह्रीं क्लीं हूं ततः संसु क्रमेण परियोजिताः | यन्त्रं विदध्यात् कामस्तु मन्मथान्तर्गतो भवेत् || १४६ || कन्दर्पसम्पुटं कृत्वा कोणगर्भगतं ततः | मकरध्वजसञ्ज्ञन्तु सर्वमेतत् सुसाधकः || १४७ || मीनकेतुगतं कुर्यात् मोहयेज्जगतीमिमाम् | त्रैलोक्यमोहनो नाम प्रयोगोऽयं प्रदर्शितः || १४८ || प्. ४२१) शक्तिबीजसाधनम् अथातः सम्प्रवक्ष्यामि शक्तिबीजस्य साधनम् | सृष्टिसंहारपर्यन्तां शरीरे चिन्तयेत् पराम् || १४९ || स्रवत्पीयूषधाराभिर्वषन्तीं विषहारिणीम् | हेमप्रभाभासमानां विद्युल्लतासमप्रभाम् || १५० || स्फुरच्चन्द्रकलापूर्णकपालं वरदाभये | ज्ञानमुद्राञ्च दधतीं साक्षादमृतरूपिणीम् || १५१ || एवं ध्यात्वा जपेन्मन्त्री हेमाभैरुपचारकैः | पूर्वसंख्यं जपेद्बीजं नानाविघ्नं विनाशयेत् || १५२ || एतस्याः स्मरणाद्वीरो नीलकण्ठत्वमागतः | वैनतेयसमो मन्त्री विषभारं विनाशयेत् || १५३ || नागा दर्शनमात्रेण जडीभवन्ति तत्क्षणात् | भूतप्रेतपिशाचांश्च नाशयेन्नात्र संशयः || १५४ || चातुर्थिकज्वरान् सर्वानपस्मारांश्च नाशयेत् | दुष्टव्याधिग्रहांश्चैव डाकिनीरूपिका गणाः || १५५ || यक्षराक्षसवेतालैस्त्रिनेत्र इव दृश्यते | प्. ४२२) अथवा येन विद्येयं परिपूर्णा विचिन्त्यते || १५६ || नाभिमण्डलहृत्पद्ममुखमण्डलमध्यगा | पद्मरागमणिस्वच्छा चिन्तनात् साधकस्य च || १५७ || तस्याष्टगुणमैश्वर्यमचिरात् सम्प्रवर्त्तते | तन्नामस्मरणान्मन्त्री योगिनीनां भवेत् प्रियः || १५८ || मातृचक्रं तस्य काये तेन सार्धं सुखी भवेत् | पुत्रवान् धनवान् धीरो मन्त्रं ध्यात्वा न संशयः || १५९ || विलिख्य चक्रराजं तु परिपूर्णां प्रपूजयेत् | प्रयच्छति महादेवी खेचरीसिद्धिमुत्तमाम् || १६० || चतुःषष्टियुताः कोट्यो योगिणीनां महोजसाम् | चक्रमेतत् समासाद्य स्थितास्ता नात्र संशयः || १६१ || पूर्णविद्याजपात् सर्वेवश्या भवन्ति निश्चितम् | क्षोभयेत् स्वर्गभूर्लोक पातालतलवासिनः || १६२ || क्षोभयन्त्येव वीरेन्द्राः महाविद्याप्रसादतः | वाग्भवात् वाक्पतित्वञ्च कामात् कामसमो भवेत् || १६३ || प्. ४२३) शिवत्वं शक्तिबीजेन त्रिकूटे सर्वमालभेत् | सर्वसिद्धिर्भवत्येव कूटत्रयस्य जापतः || १६४ || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये षोडशोल्लासः || १६ || सप्तदश उल्लासः मन्त्रशिखाविधानम् अथ वक्ष्ये च मन्त्राणां शिखां सिद्धिप्रदायिकाम् | यस्य विज्ञानमात्रेण क्षिप्रं विद्या प्रसीदति || १ || मूलरन्ध्रे तु या शक्तिर्भुजगाकाररूपिणी | तत्र यश्च भ्रमावर्त्तोऽपान इत्युच्यते बुधैः || २ || नीवारयुक्तविधिना कूजन्ती सततोत्थिता | गच्छन्ती ब्रह्मरन्ध्रेऽपि प्रविशन्ती स्वकेतने || ३ || यातायातक्रमेणैव कुर्यात्तत्र मनोलयम् | तेन मन्त्रशिखा जाता सर्वमन्त्रप्रदीपिका || ४ || तमःपूर्णगृहे यद्वत् न किञ्चित् प्रतिभासते | शिखाहीनास्तथा मन्त्रा न सिध्यन्ति कदाचन || ५ || शिखोपदेशः सर्वत्र गोप्तव्यः साधकेन च | विनाऽनेन न सिध्यन्ति कल्पकोटिशतैरपि || ६ || प्. ४२५) चतुर्विधा तु या सृष्टिर्यस्या योनौ प्रजायते | पुनः प्रलीयते तस्यां कालाग्न्यादिशिवान्तिका || ७ || योनिमुद्रा परा ह्येषा वन्धस्तस्याः प्रकीर्त्तितः | तस्यास्तु बन्धमात्रेण तन्नास्ति यन्न साधयेत् || ८ || अन्यथा जप्यते यस्तु अन्यथा कुरुते तु यः | नासौ सिध्यति मन्त्रश्च सत्यं सत्यं पुनः पुनः || ९ || छिन्ना रुद्धाश्च ये मन्त्राः कीलिताः स्तम्भिताश्च ये | दग्धाः सन्त्रासिता हीना मलिनास्तु तिरस्कृताः || १० || भेदिता भ्रमसंयुक्ताः शप्ताः सम्मूर्छिताश्च ये | वृद्धा बालास्तथा स्रस्ताः प्रौढा यौवनगर्विताः || ११ || अरिपक्षस्थिता ये च निर्वीर्याः सत्त्ववर्जिताः | अंशकेन विहीनाश्च खण्डशः शतधा कृताः || १२ || विधिनाऽनेन संयुक्ताः प्रभवन्त्यचिरेण तु | सिद्धिमोक्षप्रदाः सर्वे साधकेन नियोजिताः || १३ || यद्यदुच्चार्यते मन्त्री वर्णरूपं शुभावहम् | तत्तत् सिध्यत्यनायासाद् योनिमुद्रानिबन्धनात् || १४ || प्. ४२६) दीक्षयित्वा विधानेन अभिषिच्य सहस्रधा | ततोऽधिकारी तन्त्रेऽस्मिन् भवेत् साधकसत्तमः || १५ || ब्रह्महत्यासहस्राणि त्रैलोक्यमपि घातयेत् | नाऽसौ लिप्यति पापेन योनिमुद्रानिबन्धनात् || १६ || न तस्य पापपुण्यैस्तु कृतैर्दोषैर्न लिप्यते | कृत्वा पापसहस्राणि असंख्यातानि सर्वदा || १७ || दहत्युच्चारमात्रेण योनिमुद्रानिबन्धनात् | दुष्टमन्त्राश्च सिध्यन्ति मन्त्राश्चान्ये तु किं पुनः || १८ || स्थानस्था वरदा मन्त्रा ध्यानस्थाश्च फलप्रदाः | स्थानध्यानविनिर्युक्ताः सुसिद्धा अपि वैरिणः || १९ || सिध्यन्ति येन तत्स्थानं कथयामि विशेषतः | सकलं निष्कलं सूक्ष्मं तथा सकलनिष्कलम् || २० || कलाभिन्नं कलातीतं षोढास्थानं शिवोऽब्रवीत् | सकलं ब्रह्मबन्धस्थं तदूर्ध्वं विद्धि निष्कलम् || २१ || मानसं सूक्ष्मनामानं हृत्स्थं सकलनिष्कलम् | बिन्दुस्थितं कलाभिन्नं कलातीतं तदूर्ध्वतः || २२ || प्. ४२७) कलाङ्गशूलिनी सैव नादशक्तिः शिवोदिता | एषु स्थानङ्गता मन्त्राः स्थानस्थाः परिकीर्त्तिताः || २३ || देवतां हृदि सञ्चिन्त्य मन्त्रजापश्च जायते | ध्यानस्थाश्चैव ते मन्त्रा विज्ञेयाः साधकेन वा || २४ || तारसम्पुटितो वापि दुष्टमन्त्रोऽपि सिध्यति | यस्य यत्र दृढा भक्तिर्जायते सततं यदि || २५ || तस्य सिद्धो भवेन्मन्त्रो यथोक्तजपमात्रतः | अथातः सर्वविद्यानां लिख्यते सिद्धिकारणम् || २६ || ब्राह्म्याद्यष्टकुलैः सार्धं साधकः स्थिरधीः शुचिः | चतुष्पथे वा नद्यां वा वटमूले त्रिशूलके || २७ || प्रेतभूमौ बिल्वमूले हट्टे वा राजवेश्मनि | सिन्दूरेण लिखेद् यन्त्रं विपुलं साध्यदर्भितम् || २८ || तत्र सम्पूज्य विधिवत् कुलं कुलरसेन च | तर्पयित्वा तदन्तःस्थं प्रजपेन्निशिचारतः || २९ || प्. ४२८) ततो लक्षप्रमाणेन सिद्धिप्रदा भवन्ति हि | रात्रौ पुण्यगृहे चैव उद्याने वा सुरालये || ३० || आनीय कुलजां देवीं मूलमन्त्रेण दीक्षयेत् | ततः पूर्वोक्तरूपेण कुलक्षोभं समाचरेत् || ३१ || एवं कृतं न सिद्धिश्चेन्मूलमन्त्रं समभ्यसेत् | पीठानां परमं पीठं कामरूपं महाफलम् || ३२ || अत्र या क्रियते पूजा सकृद्वा साधकेन च | विहाय सर्वपीठानि तस्य देहे वसेच्छिवा || ३३ || ततः शतगुणं प्रोक्तं कामाख्यायोनिमण्डलम् | यत्र कोटिगणैः सार्धमाद्या वसति मर्दिनी || ३४ || यत्पीठं ब्रह्मणो वक्त्रं गुप्तं सर्वसुखावहम् | यतो देव्यश्च देवाश्च मुनयश्चैव भावजाः || ३५ || सर्वेऽप्याविर्भवन्त्यत्र तेन गुप्तं महाकुलम् | द्विविधं चैव तत्पीठं गुप्तं व्यक्तं सदा पशौ || ३६ || व्यक्तं गुप्तं महापुण्यं दुरापं साधकेन वै | व्यक्तं सर्वत्र देवेश लभ्यते कुलसुन्दरैः || ३७ || तत्रापि लक्षमानेन सिद्धिर्भवति निश्चितम् | अथवाऽन्यप्रकारेण कथ्यते साधनं महत् || ३८ || प्. ४२९) आनीय देवीं तद्गात्रे व्यापकान्तं प्रविन्यसेत् | उपचारैः षोडशभिस्तां सम्पूज्य विधानतः || ३९ || प्रथमं साधकश्रेष्ठो देवीकूटस्य मस्तके | मन्त्रं विलिख्य यथोक्तं पूजयेत् कुलवर्त्मना || ४० || प्रथमे पीठदेवीञ्च पूजयेद् गन्धपुष्पकैः | महाभागां ततो मूलदेवीमावरणैः सह || ४१ || लक्षैकं तत्र सञ्जप्य उड्डीयानं ततो विशेत् | तत्र पीठे योगनिद्रां पूजयित्वा ततो यजेत् || ४२ || निजेष्टदेवतां तत्र जपेल्लक्षं समाहितः | कामरूपं ततो गत्वा तत्र कात्यायनीं यजेत् || ४३ || पूजयित्वा ततो देवीं जपेल्लक्षं समाहितः | ततो जालन्धरे गत्वा पूर्णेशीं प्रथमं यजेत् || ४४ || तत्रापि लक्षमानं तु जप्त्वा मन्त्रं समाहितः | ततः पूर्णगिरिं गत्वा यजेच्चण्डीं समाहितः || ४५ || पूजयित्वा महादेवीं जपेल्लक्षमनन्यधीः | सिन्दूरबिन्दुपीठे च कामाख्यां प्रथमं यजेत् || ४६ || प्. ४३०) ततः प्रान्ते महादेवीं यजेद्दिक्करवासिनीम् | एवं पीठेश्वरीं जप्त्वा पूजयेदिष्टदेवताम् || ४७ || सप्तपीठे सप्तलक्षं जप्त्वा रात्रौ समाहितः | संख्यापूर्वं ततः पृच्छेन्महादेवी कुलोत्तमम् || ४८ || तवेष्टदेवतैवाऽहं वृणुष्व वरमुत्तमम् | ततः प्रणम्य देवेशीं वृणुयाद्वरमुत्तमम् || ४९ || यद्येवं नैव सा देवी पुनः पूर्वोक्तमाचरेत् | अक्षोभितः कुलाचारपरिचर्यापरो भवेत् || ५० || अथवा सर्वपीठेषु यजेन् महिषमर्दिनीम् | ततः प्रसन्ना भवति सैव कुलवरप्रिया || ५१ || ततो जप्त्वा मूलमन्त्रं सर्वसिद्धीश्वरो भवेत् | ततो ध्यात्वा न्यसेदादौ मातृकान्तरसञ्ज्ञकम् || ५२ || पूर्ववद्विधिना न्यस्य तेनैव न्यस्य मातृकाम् | अकारादिक्षकारान्तमेकैकक्रमयोगतः || ५३ || पञ्चाङ्गञ्च पुनः कृत्वा पञ्चधा व्यापकं चरेत् | प्. ४३१) मूर्द्धादिचरणान्तञ्च तस्मान्मूर्द्धावसानकम् || ५४ || मूलेन मनुना मन्त्री कृत्वा सञ्चिन्तयेत्ततः | ध्यायेत् कालीं महादैत्ययुद्धरागमहोन्मुखीम् || ५५ || दक्षिणे चक्रखड्गौ च बाणं शूलं तथैव च | वामे शङ्खं तथा चर्म धनुस्तर्जनमेव च || ५६ || बिभ्रतीं तीव्रबाणञ्च महिषे तु निषेदुषीम् | पिताम्बरधरां देवीं पीनोन्नतकुचद्वयाम् || ५७ || जटामुकुटशोभाढ्यां पितृभूमिसुखावहाम् | एवं ध्यात्वा महादेवीं मानसैरुपचारकैः || ५८ || पूजयेद्विधिवद् भक्त्या स्वकीय हृदि पङ्कजे | ततः सोऽहं विभाव्याथ पुष्पं निःक्षिप्य मस्तके || ५९ || घटस्थापनमारभ्य पीठपूजावसानकम् | कृत्वा च पूर्ववद्वीरः सदाशिवं यजेत्ततः || ६० || पूर्वोक्तविधिना चैव ध्यात्वा च परदेवताम् | यन्त्रमध्ये समावाह्य मूलेन परिकल्पिताम् || ६१ || आवाहनादिकं चैव पूर्ववच्च समाचरेत् | सम्पूज्य च महादेवीं पूजयेत्तदनन्तरम् || ६२ || देव्या वामे यजेत् पश्चात्पूर्वोक्तञ्च गुरोःकुलम् | शाक्तं जप्त्वा च गुर्वादीन् नारदञ्च ततो यजेत् || ६३ || प्. ४३२) अष्टपत्रे यजेद्देवीं दुर्गाद्यां दीर्घपूर्विकाम् | दुर्गा च प्रथमा ज्ञेया द्वितीया वरवर्णिनी || ६४ || अर्या चैव तृतीया च चतुर्थी कनकप्रभा | कृत्तिका पञ्चमी प्रोक्ता षष्ठी चैवाभयप्रदा || ६५ || काली सुरागिणी चैव जप्त्वा पूर्वोदितक्रमात् | आयुधानि दलाग्रेषु यादिभिः क्रमतो यजेत् || ६६ || ब्राह्म्याद्याश्च ततः पश्चात् लोकपालांस्ततो बहिः | तदस्त्राणि बहिर्जप्त्वा तर्पयित्त्वा विधानतः || ६७ || ततः सम्पूजयेद्देवीं पूर्ववत् साधकोत्तमः | तर्पयित्वा महादेवीं मन्त्रजापं समाचरेत् || ६८ || मातुर्महिषमर्दिन्याः सङ्केतं कथयाम्यतः | कुलाचारस्य संसिद्ध्यै भुक्तिमुक्तिसुसिद्धये || ६९ || भान्तं वियत् सनयनं श्वेतो मर्दिनी ठ द्वयम् | अष्टाक्षरी समाख्याता विद्या महिषमर्दिनी || ७० || प्. ४३३) सृष्टिस्थितिविनाशानामादिभूता सनातनी | न कस्मैचित् प्रवक्तव्या कथिता सिद्धिकारिणी || ७१ || अत्यन्तगुरुभक्ताय शुद्धाय सा हि प्रार्थ्यते | तदाष्टवर्गा दातव्या सफलं तस्य साधनम् || ७२ || प्रणवाद्यां जपेद्विद्यां मायाद्यां वा जपेत् सुधीः | वधूबीजादिकां वापि कवचाद्यां जपेत्तदा || ७३ || सर्वकालेषु सर्वत्र कामाद्यां प्रजपेत् सुधीः | वाग्भवाद्यां जपेत् तां तु देवीं वाक्यविशुद्धये || ७४ || साधारणी प्राणविद्या हृल्लेखा सिद्धिखेचरा | एतत्पूर्वस्थिता देवी सुरसिद्धिविधायिनी || ७४ || विशेषतः कलियुगे महासिद्धेश्च दायिनी | गुरूणां कुलनाथानां मायापाशविमोचिनी || ७६ || प्. ४३४) तस्माद्यत्नेन सततं गोप्तव्येयं नवाक्षरी | अष्टलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत्ततः || ७७ || पुरश्चरणाष्टलक्षं बोद्धव्यं साधकेन च | यथाशक्ति जपं कृत्वा समाप्याथ स्तुतिं पठेत् || ७८ || महिषघ्निस्तुति जय देवि जगद्धात्रि त्रिपुराद्ये त्रिदैवते | भक्तेभ्यो वरदे देवि महिषघ्नि नमोऽस्तुते || ७९ || रोगविघ्नविनाशाय कुलाचारसमृद्धये | करालवदने श्यामे नमस्ते सुरसुन्दरि || ८० || कुलभक्तप्रसन्नास्ये शङ्करप्राणवल्लभे | रक्तमांससमाकीर्णवदने त्वां नमाम्यहम् || ८१ || इति स्तवने संस्तुत्य शेषं पूर्ववदाचरेत् | विसर्जनं विधायाथ प्रयोगञ्च ततश्चरेत् || ८२ || एतद्विद्या महाविद्या न देया यस्य कस्यचित् | यदि भाग्यवशात् लभ्या कुलदेवी कुलोत्तमैः | | ८३ || दीक्षिता कुलजाभिस्तु सिद्धिदा सैव नान्यथा | प्. ४३५) अथ दूतीयजनम् अथातः सम्प्रवक्ष्यामि दूतीयजनमुत्तमम् || ८४ || शाक्तो वा वैष्णवो वापि शैवो वाऽप्यन्यपूजकः | यस्मात् क्षिप्रं भवेत् सिद्धिर्नान्यथा जन्मकोटिभिः || ८५ || मन्त्रस्य सिद्धिकामस्तु दूतीयजनमाचरेत् | किं जपन्यासविधिना ध्यानपूजादिविस्तरैः || ८६ || यावद्दूतीं न पूज्येत तावत् सिद्धिर्भवेत् कुतः | गन्धर्वरूपवान् भूत्वा योनौ सम्पूज्य साधकः || ८७ || इहामुत्र सुखी भूत्वा देवीपुत्रो भवेत् क्षितौ | त्रिकोणेषु त्रयो देवा ब्रह्मविष्णुमहेश्वराः || ८८ || योनिमध्ये येजेन्नित्यं चण्डिकां कुलदेवताम् | तत्र विद्यां जगद्धात्रीं कुलामृतैः कुलक्रमात् || ८९ || स भवेत् साधकश्रेष्ठः शिवतुल्यो भवेन्नरः | तत्र यत्र क्रियते पूजा जपं वा तर्पणं पुनः || ९० || तदनन्तफलं कर्त्तुर्भवत्येव न संशयः | युवतीयोनिमास्थाय सर्वसिद्धिर्भवेद्यतः || ९१ || प्. ४३६) तस्माद्वै योषितां योनौ पूजयेत् साधकोत्तमः | सर्वालङ्कारसंयुक्तो रक्तवस्त्रविभूषितः || ९२ || परमानन्दतो रात्रौ पञ्चतत्त्वेन संयजेत् | स्वकल्पोक्तं प्रकुर्वीत न्यासादिकं सुसाधकः || ९३ || मस्तकं गजदन्तस्य हेमरूप्यादिनिर्मितम् | अर्घ्यपात्रे प्रतिष्ठानं कार्यं हेतुजलेन च || ९४ || विशुद्धक्षौमरचितां हूनिकां चात्र योजयेत् | पुष्पान्यकार्यमध्ये च उपर्युपरि पूजयेत् || ९५ || मण्डूकं पूजयेदादौ रुद्रं कालाग्निसंयुतम् | आधारशक्तिं कूर्मञ्च तथानन्तवराहकम् || ९६ || पृथिवीञ्च तथा कन्दं नालं वसुदलं तथा | केशराणि च सम्पूज्य कर्णिकायां यजेत्ततः || ९७ || धर्मं ज्ञानञ्च वैराग्यं ऐश्वर्यञ्च क्रमाद्यजेत् | अपूर्वान् पूजयेदेतान् साधकः सिद्धिहेतवे || ९८ || प्. ४३७) आत्मान्तरात्मपरमज्ञानात्मानं क्रमेण च | पूजयित्वा ततश्चैव गुरुरूपान् समर्चयेत् || ९९ || अद्वैताचारसम्पन्नां गुरुभक्तां दृढव्रताम् | सदनुष्ठाननिरतां सात्त्विकीभक्तिसंयुताम् || १०० || कुर्यात् पैशुन्यरहितां अमायां भक्तवत्सलाम् | चातुर्यौदार्यदाक्षिण्यकरुणादिगुणान्विताम् || १०१ || रूपयौवनसम्पन्नां शीलसौभाग्यशालिनीम् | मनोगृहीतविश्वासां यद्वा सङ्केतमागताम् || १०२ || अथवा तत्क्षणायातां मदनानलतापिताम् | विलिप्तां रक्तवस्त्रेण रक्तगन्धविभूषिताम् || १०३ || सुगन्धिरक्तकुसुमां सर्वाभरणराजिताम् | सुधूपैर्धूपितां तन्वीं दूतीकर्मणि योजयेत् || १०४ || एवम्भूतां यजेद्यस्तु प्रसूनतूलिकोपरि | तस्य गात्रे स्वकल्पोक्तं न्यासजालं विधाय च || १०५ || षोडशैरुपचारैस्तु पूजयेत् स्थिरमानसः | जप्त्वा च हूनिकामध्ये प्रसूनैश्च सुगन्धिभिः || १०६ || चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमादिभिः | समाकीर्णे सुपर्यङ्के पूजयेत् कुलनायिकाम् || १०७ || प्. ४३८) पूजयित्वा सदा भक्त्या स्थिरचित्तः स्थिरेन्द्रियः | बटुकं गणपं दुर्गां क्षेत्रपालं तथैव च || १०८ || पूर्वादिक्रमतो मन्त्री पूजयेत् सिद्धिहेतवे | त्रिकोणे पूजयेन्मूर्ध्नि कामेशीं तस्य मध्यगे || १०९ || गणेशञ्च कुलाध्यक्षं दुर्गां लक्ष्मीं सरस्वतीम् | त्रिकोणे पूजयित्वा तु वसन्तं मदनं तथा || ११० || स्तनयोः पूजयेत् पश्चात् मुखे तस्याः कलाधरम् | दक्षपादादिमूर्धान्तं वाममूर्धादिकं तथा || १११ || पूजयेत् साधकश्रेष्ठः कला वै कामसोमयोः | श्रद्धा प्रीतीरतिश्चैव दूतिः कान्तिर्मनोरमा || ११२ || विमला मोदिनी घोरा मदनोन्मादिनी तथा | मोहिनी दीपनी चैव शोषणी चैव शङ्करी || ११३ || रञ्जनी च क्रमेणैव षोडशी प्रियदर्शना | षोडशस्वरसंयुक्ता एताः कामकला यजेत् || ११४ || पूषा रमा च सुमना रतिः प्रीतिस्तथा धृतिः | ऋद्धिः सौम्या मरीचिश्च तथा चैवांशुमालिनी || ११५ || प्. ४३९) अङ्गिरा पावनी चैव छाया सम्पूर्णमण्डला | तथा तुष्टामृते चैव कलाः सोमस्य षोडश || ११६ || स्वरैरेव प्रपूज्या हि सर्वकामार्थसिद्धये | तस्यास्तु मदनागारे पूजयेद् भगमालिनीम् || ११७ || वाग्भवं भगशब्दावते भुगे भगिनि चालिखेत् | अथोदरि भगान्ते च भगमाले भगावहे || ११८ || भगगुह्ये भगयोनि ततो भगनिपातिनि | सर्वभगवशङ्करि भगरूपे ततः परम् || ११९ || नित्यक्लिन्ने भगप्रान्ते स्वरूपे सर्वाण्यालिखेत् | भगानि मे ह्यानयान्ते वरदेऽथ समालिखेत् || १२० || रेते सुरेतेऽथ भग क्लिन्ने क्लिन्नद्रवे ततः | क्लेदय द्रावयाऽमोघे भगविच्चे ततः परम् || १२१ || क्षुभः क्षोभयशब्दान्ते सर्वपदं वदेत्ततः | सत्त्वान् भगेश्वरि ब्रूयात् वाग्भवं ब्लूं जमादिकम् || १२२ || भें ब्लूं मों ब्लूं प्रदान्ते हें हें क्लिन्ने ततो वदेत् | सर्वाणि भगानि मे वशमानय चोद्धरेत् || १२३ || बधू ह्र्ब्लें भुवनेशीं ततश्च भगमालिनि | भगमालाञ्च नित्याञ्च ङेयुतां मनुमुद्धरेत् || १२४ || प्. ४४०) भगमालां महाविद्यां पूजयित्वा च साधकः | सर्वानन्दमये मध्ये चक्रराजं समर्चयेत् || १२५ || पूर्वपश्चिमयोगेन निजविद्यां प्रपूजयेत् | तत्राप्यावाहनं नास्ति जीवन्यासं तथैव च || १२६ || विधिवत् पूजनं कृत्वा स्वलिङ्गे तदनन्तरम् | तारञ्च भुवनेशानीं त्रिपुरायास्त्रयं ततः || १२७ || नमः शिवाय विद्येयं दशार्णा परिकीर्त्तिता | अनेन मनुना मन्त्री स्वलिङ्गे पूजयेच्छिवम् || १२८ || यजेत्तत्पुरुषाघोरसद्योवामेशसञ्ज्ञया | निवृत्तिञ्च प्रतिष्ठां च विद्यां शान्तिं ततः परम् || १२९ || शान्त्यतीतां च सम्पूज्य षडङ्गावरणं यजेत् | समग्रविद्यामुच्चार्य तत्त्रिकोणे प्रपूजयेत् || १३० || पुष्पं धूपादिकं दत्त्वा निर्विकल्पमनाः स्वयम् | सर्वसङ्क्षोभणीं मुद्रां बद्ध्वा योनिं विचालयेत् || १३१ || प्. ४४१) मध्यमे मध्यगे कृत्वा कनिष्ठाङ्गुष्ठरोधिते | तर्जन्यौ दण्डवत् कृत्वा मध्यमोपर्यनामिके || १३२ || एषा तु परमा मुद्रा सर्वसङ्क्षोभणी मता | क्षोभयेदथवा मन्त्री गजहस्ताख्यमुद्रया || १३३ || अधोमुखं दक्षपाणिं निधायाऽङ्गुष्ठके समे | निःक्षिपेदङ्गुलीः सर्वा गजतुण्डाकृतिर्यथा || १३४ || गजहस्ता महामुद्रा कथिता सिद्धिदायिका | उच्चरेद्भगमालाञ्च द्राविणीबीजमुच्चरन् || १३५ || अक्षुब्धमनयोर्योगे महाबिन्दुः प्रजायते | रजोमयं रजः साक्षात् संविदेव न संशयः || १३६ || प्रकृतिः परमेशानी बीजं पुरुष उच्यते | शिवशक्तिसमायोगो योग एव न संशयः || १३७ || शीत्कारो मन्त्ररूपस्तु वचनं स्तवनं भवेत् | आलिङ्गनञ्च कस्तूरी कर्पूरं चुम्बनं भवेत् || १३८ || नखदन्तक्षतादीनि पुष्पमालादिपूजनम् | लीलादिकं धूपदीपं कुचमर्दं शिवार्चनम् || १३९ || प्. ४४२) मैथुनं तर्पणं विद्धि वीर्यपातो विसर्जनम् | कुलद्रव्येण संशोध्य शिवशक्तिमयो भवेत् || १४० || वीर्यामृतं परंब्रह्म हुनेद्राहु मुखाम्बुजे | कुण्डे त्रिगुणसम्पन्ने श्रीबिन्दुनिलये परे || १४१ || परापरविभागेन कुलीनो विश्वपूजितः | विविक्तुः कुत्सनपरो जायते गुरुतल्पगः || १४२ || प्रकृतञ्च समाप्याथ गृहीत्वाद्रव्यमुत्तमम् | तर्पयित्वा महादेवीं शक्तये दक्षिणां ददेत् || १४३ || सुवस्त्राभरणाद्यैश्च शक्तिञ्च परितोषयेत् | त्रिविधं त्रिपुरायाश्च कथितं पूजनं महत् || १४४ || अत-एव महाप्राज्ञो निर्विकल्पः सदा भवेत् | तदा सुविस्तरैः स्तवैः सर्वाणि परिशोधयेत् || १४५ || निर्विकल्पतया गात्रयज्ञे दोषो न विद्यते | अश्वमेधादियज्ञादौ वाजिहत्या कथं भवेत् || १४६ || प्. ४४३) सर्वभोज्यवस्तूनामामिषत्वम् फलं क्षीरं घृतं चैव मधु मौरेयमैक्षवम् | पैष्टीभवं धान्यभवं तथा चक्रविनिर्मितम् || १४७ || सहकारभवं चैव विविधं वस्तुभेदतः | मादकं धर्मसञ्छेदात् वर्ज्यमाहुर्मनीषिणिः || १४८ || ज्ञानेन संस्कृते तत्तु महापातकनाशनम् | ब्रह्महत्यासुरापानस्वर्णस्तेयादिपातकान् || १४९ || नाशयेत् पूजनाच्चैव निर्विकल्पः स मन्त्रवित् | विचारयेत् सदा सर्वं सत्तर्केण सुसाधकः || १५० || पयः पिबन्तीह देवा गवां नाश्नन्ति शोणितम् | मीनं न भुञ्जते हन्त विधवा तत् कथं पयः || १५१ || पिबन्ति संसर्गदुष्टं यथान्यदपि वस्तुषु | जलं जलचरं विद्धि घटपूर्णं समानयेत् || १५२ || स्थापितं तद्धि सप्ताहं जलं जीवसमन्वितम् | अनामिषं नास्ति किञ्चित् सर्वं क्षीरादिकं तथा || १५३ || शमीवृक्षे यथा वह्निः सदा तिष्ठति नित्यशः | सर्वभूतेषु विज्ञानं तथा ज्ञेयं सुसाधकैः || १५४ || प्. ४४४) काष्ठादिघर्षणाच्चैव प्रकटो वह्निरुच्यते | तत्काष्ठं दह्यते तेन तथा ब्रह्ममयं जगत् || १५५ || पापपुण्यविनिर्मुक्तं ज्ञानमेतदुदाहृतम् | यज्ञयुक्तस्य नान्यस्य अन्यथा पातकं भवेत् || १५६ || सकलं पवित्रं वासना कुत्सिता मादकं वस्तु सकलं वर्जयेत्कनकादिकम् | धर्माधर्मपरिज्ञानात् संस्काराच्च पवित्रता || १५७ || विण्मूत्रस्त्रीरजो वापि नखास्थि सकलं तथा | विचारयेन्मन्त्रवित्तु भ्रान्तिरेव न संशयः || १५८ || स्त्रीरजः परमं द्रव्यं देहस्तेन प्रजायते | कथं तद्दूषणं येन प्राप्यते परमं पदम् || १५९ || पुरुषस्य यद् बीजं बिन्दुरित्यभिधीयते | बिन्दुस्तु परमं द्रव्यं कायोऽयं शिवरूपकः || १६० || प्. ४४५) शिवतत्त्वेन चास्थ्यादिदूषणं नास्ति वैन्दवे | पृथिव्यापस्ततो वायुराकाशं चन्द्रसूर्यकौ || १६१ || एतैः स्थूलशरीरं तु शुक्रशोणितसम्भवम् | पितृतस्त्रीणि जायन्ते मज्जास्थिस्नायुरेव च || १६२ || मातृतस्त्रीणि जायन्ते त्वङ्मांसशोणितानि च | षाट्कौषिकमिदं प्रोक्तं शरीरं परमर्षिभिः || १६३ || मूलशुद्धिः सर्वशुद्धिरिति न्यायः प्रवर्त्तते | शरीरं यदि शुद्धं स्यात्तदा तत्र न दूषणम् || १६४ || सर्वथा नैव दोषोऽस्ति तथा शुक्रेषु निश्चितम् | ततः पवित्रं देहस्य कारणं केन दूष्यते || १६५ || ज्ञानमार्गेण सकलं निर्विकल्पं न दूषणम् | सविकल्पो यदि भवेत् पापभाग्जायते नरः || १६६ || अन्नं ब्रह्ममयं विद्धि तेन यस्य तु सम्भवः | नानाजीवमयं तत्तु पुरीषं केन दूष्यते || १६७ || नानाविधा हि सततं देवताः सलिले स्थिताः | तेनोदकेन यज्जातं मूत्रं केन च दूषितम् || १६८ || प्. ४४६) गोमूत्रप्राशनं विप्रैर्गोमयस्य च भक्षणम् | मले मूत्रे च यो दोषो भ्रान्तिरेव न संशयः || १६९ || पवित्रं सकलं चैव वासना कुत्सिता भवेत् | ततो विचार्य मतिमान् साधकस्तर्कशोधितः || १७० || परमार्थतः पूज्यपूजकभेदो मिथ्या मायामूलमिदं सर्वं ततो जातमिदं जगत् | पूज्यपूजकभेदश्च मिथ्यैव परमार्थतः || १७१ || तस्मात् सर्वप्रयत्नेन ज्ञानमार्गेण शोधयेत् | सर्वं ब्रह्ममयं विद्धि सत्तर्केण ससाधकः || १७२ || प्रकृतञ्च समाप्याथ गृह्णीयाद् द्रव्यमुत्तमम् | तर्पयित्वा महादेवीं शक्त्या यद्दक्षिणां ददेत् || १७३ || त्रिविधं त्रिपुरायास्तु कथितं पूजनं महत् | वक्ष्येऽहं सर्वशाक्तानां दूतीयजनमुत्तमम् || १७४ || नायिकायजनम् पीठपूजाविधिं कृत्वा पूर्ववत् साधकोत्तमः | संस्थाप्य तत्र शक्तिञ्च पूर्ववदपि पूजयेत् || १७५ || प्. ४४७) भक्तिभावेन सम्पूज्य नायिकाञ्च यथोदिताम् | पूजयेच्च ततस्तस्यां पञ्च कामान् समाहितः || १७६ || मायां कामं तथा पूर्वं ब्लूं स्त्रीञ्च यथाक्रमात् | काम बीजञ्च कन्दर्प मन्मथञ्च ततः परम् || १७७ || मकरकेतनं चैव मनोभवञ्च ङेयुतम् | प्रणवादिनमोऽन्तञ्च क्रमेण गन्धपुष्पकैः || १७८ || अर्चयित्वा चतुर्दिक्षु पूजयेत्तदनन्तरम् | वटुकं भैरवं चैव दुर्गाञ्च क्षेत्रपालकम् || १७९ || तस्या मूर्ध्नि त्रिकोणञ्च यन्त्रमालिख्य साधकः | महाप्रेतासनं मध्ये बालामेव प्रपूजयेत् || १८० || मौलौ गणेशं केशाग्रे कुलाध्यक्षं ललाटके | दुर्गां भ्रुवोस्तथा लक्ष्मीं रसनायां सरस्वतीम् || १८१ || स्तनद्वये वसन्तञ्च मदनं चैव पूजयेत् | मुखे सुधानिधिं पृष्ठे ग्लूं बीजानन्तरोदितम् || १८२ || दक्षिणांशं समाश्रित्य आशिरश्चरणावधि | पूज्याः कामकलास्तस्याः नायिकाऽङ्गेषु सर्वशः || १८३ || प्. ४४८) तस्यां षोडशकामकलापूजनम् श्रद्धा प्रीतिस्तथा तुष्टिर्धृतिश्च तदनन्तरम् | भूतिः कान्तिर्मनोज्ञा च विमला मोदिनी तथा || १८४ || मोघा मनोभवकरी प्रमदा मोहिनी तथा | दीपनी शोषणी चैव वशङ्करी तथा पुनः || १८५ || रञ्जनी चैव कामस्य कलाः स्वरविराजिताः | षोडशचन्द्रकलापूजनम् ततश्चन्द्रकलाः पूज्या आशिरश्चरणावधि || १८६ || पूषा वशा सुमना च रतिः प्रीतिर्धृतिस्तथा | ऋद्धिश्च सौम्या मरीचिर्बहुमाया ततः परम् || १८७ || मदिरा शशिनी छाया तथा सम्पूर्णमण्डला | तुष्टिस्तथाऽमृता चैव पूज्याश्चन्द्रकला इमाः || १८८ || पूजयेन्मदनागारे रक्तचन्दनभूषिते | भगमालामनुं प्रोच्य पूजयेत्तदनन्तरम् || १८९ || वाग्भवं भुवनेशीञ्च कमला वाग्भवं ततः | जं ब्लूञ्चैव ततः क्लिन्ने सर्वाणीति ततो वदेत् || १९० || भगानीति ततः पश्चाद्वशमानय तत्परम् | स्त्रीं स्फ्रीं क्लेदिनी बीजं क्लीं क्लीं च ततः परम् || १९१ || भगमालिन्यै नमः स्वाहा पूजयेच्चक्रमध्यगे | पूजयित्वा ततश्चक्रं निजदेवीं ततो यजेत् || १९२ || प्. ४४९) विधिवत् पूजयित्वा च गन्धैः पुष्पैस्तथाऽक्षतैः | धूपैर्दीपैश्च नैवेद्यैर्विविधैः कुलसाधकः || १९३ || विधाय वन्दनं चैव तदुच्छिष्टं स्वयं हरेत् | अर्चयेद् गन्धपुष्पाद्यैः स्वशिवं तदनन्तरम् || १९४ || मूलमन्त्रं समुच्चार्य प्रणवं भुवनेश्वरीम् | नमः शब्दं ततः पश्चात् शिवायेति ततो वदेत् || १९५ || यजेत्तत् पुरुषाघोरसद्यो वामेश्वरानपि | निवृत्तिञ्च प्रतिष्ठां च विद्यां च तदनन्तरम् || १९६ || शान्तिञ्च शान्त्यतीतां च षडङ्गावरणं ततः | समग्रविद्यामुच्चार्य त्रिकोणं चैव पूजयेत् || १९७ || अवधूतेश्वरी कुब्जा-कामाख्या समया अपि | वज्रेश्वरीकालिके च तथा दिक्करवासिनीम् || १९८ || महाचण्डेश्वरीतारे पूजयेत्तत्र साधकः | तदनुज्ञां ततो लब्ध्वा भुक्त्वा ताम्बूलमुत्तमम् || १९९ || स्वशिवं तत्र निःक्षिप्य गजहस्ताख्यमुद्रया | प्रजपेत् क्षोभरहितश्चाष्टोत्तरसहस्रकम् || २०० || प्. ४५०) शतमष्टोत्तरञ्चापि अक्षोभस्थिरमानसः | जपान्ते तज्जपं देव्यै समर्प्य तदनन्तरम् || २०१ || क्षुब्धां मनोभवसुखैः पूजयेत् सुचिरं वसेत् | गलच्चन्द्रद्रवं तस्माद् गृहीत्वा तर्पयेच्छिवाम् || २०२ || स्तुत्वा प्रदक्षिणीकृत्य विसर्जयेदनन्तरम् | विसर्जनं विधायाथ शक्तिञ्च परितोषयेत् || २०३ || विधिवद्दक्षिणां दत्त्वा अन्नपानादिभिस्तथा | एवं यजनमात्रेण मन्त्रसिद्धिर्न संशयः || २०४ || प्रकारान्तरदूतीयागः अथान्यत् सम्प्रवक्ष्यामि दूतीयागमनुत्तमम् | सम्प्राप्य दिवसं पूर्वदेवीञ्च विधिवद्भगे || २०५ || पूजयित्वा जपेन्मन्त्रमयुतद्वितयं तथा | तस्य लक्ष्मीर्महाविद्या भवेच्च भुवि दुर्लभा || २०६ || अष्टमीतिथिमासाद्य पक्षयोरुभयोरपि | आमन्त्र्य विधिवद्योनिं तत्रैव योगिनीं यजेत् || २०७ || प्. ४५१) पश्चात् सम्पूज्य देवेशीं मूलमन्त्रञ्च साधकः | षट्सहस्रं दिवारात्रौ जप्त्वा मन्त्रमनन्यधीः || २०८ || सम्प्राप्य महतीं विद्यां देवीपुत्रो भवेद्भुवि | पुरश्चरणकथनम् अथातः सम्प्रवक्ष्यामि प्रकारान्तरमुत्तमम् || २०९ || योनौ सम्पूजयेद्देवीं सर्वदुःखनिवारिणीम् | भगाद्यैर्भगमामन्त्र्य भगे भगवतीं ततः || २१० || ततो वै लभते सिद्धिं मन्त्रस्य लक्षमानतः | द्विलक्षेण महावाग्मी त्रिलक्षेण महाकविः || २११ || वेदलक्षेण वेदस्य साधकः पारगो भवेत् | वाक्सिद्धिश्च भवेत्तस्य पञ्चलक्षप्रमाणतः || २१२ || रसलक्षैर्भवेत्तस्य अणिमादिगुणाष्टकम् | सप्तलक्षेण वीरेन्द्रो जीवन्मुक्तो भवेन्नरः || २१३ || अत ऊर्ध्वं न जानामि शिव एव न संशयः | विधिवच्छक्तिमासाद्य साधकः स्थिरमानसः || २१४ || सम्पूज्य विधिवद्भक्त्या योनौ मूलं न्यसेत्ततः | रात्रौ जागरणं कृत्वा हविष्याशी जितेन्द्रियः || २१५ || योनिं स्पृष्टा जपेन्मन्त्रमेकाकी लक्षमानतः | प्. ४५२) जायते मन्त्रसिद्धिस्तु नात्र कार्या विचारणा || २१६ || सर्वसिद्धिः करे तस्य सत्यं सत्यं सुनिश्चितम् | अथवा विषुवे चैव मासान्तपक्षयोरपि || २१७ || अष्टम्याञ्च चतुर्दश्यां चन्द्रसूर्यग्रहे तथा | श्मशाने वा यथाशक्त्या गुरोर्वा शिवसन्निधौ || २१८ || लतामानीय यत्नेन योनौ चक्रं यथाविधि | लिखनञ्च प्रकुर्वीत कुङ्कुमागुरुचन्दनैः || २१९ || मन्त्रञ्च प्रलिखेत्तस्यामावाह्य परमेश्वरीम् | सम्पूज्य विधिवद् भक्त्या साधकः स्थिरमानसः || २२० || जपेन्मन्त्रं दिवारात्रौ योषितां योनिदेशतः | लक्षमेकं तदूर्ध्वं वा दशभिर्होममाचरेत् || २२१ || पूजाञ्च विधिवत् कृत्वा यथाविभवविस्तरैः | परितोष्य गुरुं पश्चान्मन्त्रसिद्धिश्च जायते || २२२ || महावाग्मी भवेत् सोऽपि धनवान् राजवल्लभः | लक्ष्मीस्तस्य सदा गेहे वाणी वक्त्रे सुनिश्चितम् || २२३ || भुवि शक्रसमो वीरो जीवन्मुक्तः प्रजायते | प्. ४५३) प्रकारान्तरेण दूतीयजनम् अथवान्यप्रकारेण दूतीयजनमुत्तमम् || २२४ || तत्र तां स्थापयेद्दूतीं पूजयेच्च यथाविधि | वस्त्रालङ्करणं चैव दत्त्वा तस्यै यथोचितम् || २२५ || धूपयित्वा रक्तवस्त्रं दूतीं कुर्यात् सुलक्षणाम् | पद्मं भूमौ समालिख्य षट्कोणान्तर्गतं लिखेत् || २२६ || तस्योपरि गतां नारीं निर्जने भूषणान्विताम् | ततस्तां गन्धपुष्पाद्यैर्नानोपहारविस्तरैः || २२७ || देवीरूपेण सम्भाव्य पूजयेत्तां यथाविधि | तस्या गात्रे न्यसेन्मन्त्रं पञ्चबाणान् क्रमेण तु || २२८ || स्वकल्पोक्तक्रमेणैव न्यासजालं प्रविन्यसेत् | दीक्षयित्वा तन्मूलेन देवीबुद्ध्या यजेत्ततः || २२९ || योनौ वा पूजयेद्देवीं यस्माद्योनिमयी शिवा | योनौ कामेश्वरीं चैव नाभौ वज्रेश्वरीं ततः || २३० || प्. ४५४) हृद्वक्त्रस्तन्मध्येषु पूजयेत् परदेवताम् | योनिं सदाऽक्षतां कृत्वा जपेद्विद्यां ततः पराम् || २३१ || अयुतञ्च जपं कृत्वा सर्वसिद्धीश्वरो भवेत् | शक्तिमानीय विधिवत् पूजयेद्योनिमण्डले || २३२ || सम्पूज्य निजदेवीञ्च सायुधां सपरिकराम् | भगिनीं भगजिह्वाञ्च भगास्यां भगमालिनीम् || २३३ || भगदन्तां भगाक्षीञ्च भगवर्णां भगत्वचाम् | भगस्तनीं भगाङ्गीञ्च भगस्थां भगसर्पिणीम् || २३४ || भगे भगवतीं तस्याः सम्पूज्य भगमालया | वाग्भवं कामबीजञ्च कमलाबीजमेव च || २३५ || इति बबीजत्रयं दत्त्वा ङेयुताश्च नमोऽन्तिकाः | पूजयित्वा ततः पश्चान्मूलमन्त्रं जपेत्ततः || २३६ || एकायुतजपं कृत्वा सर्वसिद्धिपरायणः | सर्वशास्त्रार्थवेत्ता च सर्वगः सर्ववित् प्रभुः || २३७ || दूतीयागमाहात्म्यकथनम् इदानीं कथ्यते दूतीयागस्य महिमा भृशम् | प्. ४५५) योषितां योनिमास्थाय सर्वसिद्धिर्न संशयः || २३८ || एतत् पूजनमम्बायाः सर्वतन्त्रेषु गोपितम् | इत्थं पूजाविधिं कृत्वा सर्वसिद्धियुतो भवेत् || २३९ || लभते विमलां वाणीं कवीनामग्रणीर्भवेत् | ऐश्वर्यमतुलं प्राप्य वशीकुर्याज्जगत्त्रयम् || २४० || सिद्धगन्धर्वदेवैश्च किन्नरैर्दानवैस्तथा | राक्षसैर्मनुजैर्नित्यं पूज्यो भवति साधकः || २४१ || सर्वेषां वल्लभः सोऽपि योगिनीनां सुदुर्लभः | अन्ते च रमते देव्या साक्षात् स्मरहरोपमः || २४२ || चन्दनागुरुगन्धाद्यैर्लताः सम्पूज्य यत्नतः | सर्वपापविनिर्मुक्तो रमेत् कल्पायुतं भुवि || २४३ || वस्त्रालङ्कारमाल्यैश्च तोषयेद् यदि कामिनीम् | अतुलां श्रियमाप्नोति स गच्छेत्पार्वतीपदम् || २४४ || प्. ४५६) मत्स्यमांसदधिक्षौद्रपिष्टकैः पायसादिभिः | भोजयेद्युवतीं यस्तु स भवेत् पृथिवीपतिः || २४५ || कायेन मनसा वाचा सुन्दरीं यश्च तोषयेत् | स भवेत् साधकश्रेष्ठो मातॄणाञ्च भवेत् प्रियः || २४६ || बालिकां यदि पश्येच्च निर्जने च दिगम्बरीम् | तदा तदा प्रपूज्येत देवीं ध्यात्वा यथाविधि || २४७ || स च सर्वप्रियो भूत्वा वाग्मी एककविर्भवेत् | एतत्तु सर्वभूतानां तन्त्राणां गोपितं भुवि || २४८ || ज्ञात्वा गुरुमुखात् सर्वं शिवतुल्यो भवेन्नरः | निर्विकल्पस्तु मन्त्रज्ञो भवेद् वै साधकः सदा || २४९ || काम्यं नैमिक्तिकं ज्ञात्वा चण्डिकां परिपूजयेत् | दीक्षितस्याऽधिकारोऽत्र नान्यस्यैव कदाचन || २५० || भूतलिपेः मन्त्रसिद्धेः द्रावणादिविविधा उपायः अथ सर्वत्र जप्तव्यं अष्टोत्तरसहस्रकम् | अमृतत्रयसंयोगात् दुष्टमन्त्रोऽपि सिध्यति || २५१ || प्. ४५७) एवं भूतलिपिश्चैव हृल्लेखा मोदिनीत्रयम् | त्र्यमृतेन पुटीकृत्य यो मन्त्रं भजतेऽचिरात् || २५२ || क्रमोत्क्रमाच्छतावृत्त्या तस्य सिद्धो भवेन्मनुः | पञ्चह्रस्वा सन्धिवर्णा व्योमेराग्निजलन्धरा || २५३ || अन्त्यमाद्यं द्वितीयञ्च चतुर्थं मध्यमं क्रमात् | पञ्च वर्गाक्षराणि स्युर्वान्तं श्वेतेन्दुभिः सह || २५४ || एषा भूतलिपिः प्रोक्ता द्विचत्वारिंशदक्षरैः | पुरश्चर्यादिभिर्मन्त्रो यदि सिद्धो भवेन्न हि || २५५ || उपायास्तत्र कर्त्तव्याः सप्त शङ्करभाषिताः | द्रावणं बोधनं वश्यं पीडनं पोषशोषणम् || २५६ || दहनान्तं क्रमात् कुर्यात्ततः सिद्धो भवेद् ध्रुवम् | वारुणेनैव बीजेन ग्रथनं कारयेन्मनुम् || २५७ || तन्मन्त्रयन्त्रमालिख्य शिह्लकर्पूरकुङ्कुमैः | उषीररोचनाख्याभिर्मन्त्रं संग्रथितं लिखेत् || २५८ || क्षीराज्यमधुतोयानां मध्ये तं लिखितं क्षिपेत् | पूजनाज्जपनादर्चनाद् द्रावितः सिद्धिदो मनुः || २५९ || प्. ४५८) द्रावितोऽपि न सिद्धश्चेद् बोधनं तस्य कारयेत् | सारस्वतेन बीजे सम्पुटीकृत्य तं जपेत् || २६० || एवं कृते न सिद्धिश्चेद्वशीकुर्यात्ततः परम् | आरक्तचन्दनं कुष्ठं हरिद्रा मदनं शिला || २६१ || एतैस्तु मन्त्रमालिख्य भूर्जपत्रे सुशोभने | धार्यं कण्ठे न चेत् सिद्धिः पीडनं तस्य कारयेत् || २६२ || अधरोत्तरयोगेन पादानि परिजप्यते | ध्यायेत्तु देवतां तद्वत्तदधोत्तररूपिणीम् || २६३ || विद्यामादौ च दुग्धेन लिखित्वाऽक्रम्य चाङ्घ्रिणा | तथा भूतेन मन्त्रेण होमं कार्यं दिने दिने || २६४ || पीडितो लज्जयाऽविष्टः सिद्धः स्यादथ पोषयेत् | बालायास्त्रितयं बीजमाद्यन्ते तस्य योजयेत् || २६५ || गोक्षीरमधुना लिख्य विद्यां पाणौ विधारयेत् | पोषितोऽयं भवेत् सिद्धो न चेत् कुर्वीत शोषणम् || २६६ || द्वाभ्यां च वायुबीजाभ्यां मन्त्रं कुर्याद्विदर्भितम् | प्. ४५९) एषा विद्या गले धार्या लिखिता शवभस्मना || २६७ || शोषितोऽपि न सिद्धश्चेद्दहनीयोऽग्निबीजतः | आग्नेयेन तु बीजेन मन्त्रस्यैकैकमक्षरम् || २६८ || आद्यन्तमध ऊर्ध्वञ्च योजयेद्दाहकर्मणि | ब्रह्मवृक्षस्य तैलेन मन्त्रमालिख्य धारयेत् || २६९ || धारणात् कण्ठदेशे तु ततः सिद्धो भवेन्मनुः | एवं क्रमेण कुर्वीत पुरश्चरणमुत्तमम् || २७० || पुरश्चर्यादिभिर्विना मन्त्रसिद्धेरुपायः अथान्यत् सम्प्रवक्ष्यामि मन्त्रसिद्धेस्तु कारणम् | मन्त्रसिद्धिर्भवेद्येन पुरश्चर्यादिभिर्विना || २७१ || शिवशिखिसितभानुं पञ्चमान्त्यस्वराढ्यं द्वितयमिदमपूर्वं बीजमुग्रप्रभायाः | क्षणमपि खमणीनां मण्डलान्तर्विभाव्य क्षपयति दुरदृष्टं वादिराड् जायते सः || २७२ || स जयति रिपुवर्गान् वादिराजान् विवादे नमयति रमणीनां चित्तचौरश्चिरायुः | कथयति कविराजैरप्यदृष्टं सुकाव्यं मधुमतिरपि हेयः किंपुनः सिद्धिसङ्घाः || २७३ || प्. ४६०) कुलयुवति सुयोनौ मन्त्रवर्णान् विलिख्य निखिल निगमवर्णान् सुप्तदोषादिदुष्टान् | विदित गुरुकुलान्तर्वाह्यवर्त्मा विधिज्ञो मनुपुटितपटीयान् साधयेत् शान्तचेताः || २७४ || कुलपथमनुसन्धायामितायां सुभूमौ तव जननि जनो यस्तर्पयेत्तीर्थतोयैः | रुधिरतरसुपुष्पैर्गन्धमाल्यानुलेपै रचित युवतिवेशस्तद्धिया ध्यायते सः || २७५ || परिचरति समस्तैर्न्यासपूर्वैः प्रसिद्धै- स्तव परिकरजालैर्योनिचक्रे प्रपूज्य | सुविमलकुलजां त्वां ह्रींघृणावर्जितो यः स्वयमपि रचिताङ्गः क्षोभकृद्योगिनीनाम् || २७६ || पशुरिपुकुलचक्रं संस्पृशन् मध्यशाखं सुरतरु सुरनाथः शापभ्रष्टः सुरेशः | प्. ४६१) कुलपतिकुलनाथस्तद्द्वयं योजयित्वा मनुपुटितविमृग्यं योजयेत्तद्बहिर्यः || २७७ || जननि तव कलानां कोविदः कामरूपः कुमतिरहितचित्तःसंलिखेत्तां त्रिधारेः | विगतभय विवादध्वान्तजालः सुधांशु- स्तव चरणतलान्तर्धूलिजालैर्विशालैः || २७८ || परिजनितवपुस्तद्धर्मभिर्देव पूज्यैः परिचरति सुविज्ञो मोक्षचर्याधिपः सः | मदनमदवधूनां बीजमुद्धृत्य शक्तिं तदनु कठिनबीजं लोकधात्रीं तदन्तः || २७९ || यदि जपति मदन्तर्भावमासाद्य सद्यः सुरनगरगतिस्तैः सिद्धिवर्गैः स पूज्यः | शिवभृगुमदपृथ्वीशक्तियुक्तं सुसिद्धं हरिहरचतुरास्यस्वस्वभूतिप्रसूतम् || २८० || परमपुरुषसञ्ज्ञः क्षोभकृत् कामिनीना मधिपतिरपि वाचां श्रीपतिः सार्वभौमः | प्. ४६२) भृगुमदकठिनाधः कामबीजं तदग्रे भुवनभयविनाशः क्षोभिणीं योजयित्वा || २८१ || जपति यदि सकृद्वा चिन्त्यते वीरसिंहः कुलयुवतिकुलान्तः क्षोभकृत् कामभावात् | मदनमदतलाधः शक्तिबीजं नियोज्य स्मरहरहरिरूपी कामरूपः कुबेरः || २८२ || रिपुकुलहरिणाक्षीलोचनाम्भोजविप्रुट् प्रसभजलनिषेकात् खण्डितान्ताघतापः | शिवभृगुमदमूलं लोभमूलं समूलं भजति यदि गुरूणां वर्णमूलं विमृग्यम् || २८३ || निधिपतिरपि नाथो गीष्पतिः क्षुद्रचेता यदि भवति तदेतन्मुख्यमुर्वीपतित्वम् | प्. ४६३) वरणरणविवर्जं घ्राणमेवं विवर्ज्यं तदुपरि मृगचिह्नं द्वन्द्वमेतत् भवान्याः || २८४ || निखिल मनु वराणां मुख्यदानैकदक्षः स कुसुमशरधर्मक्षोभकृन्मन्त्रराजः | अमलशिरसि धर्मं वादिराजं स्वतन्त्रं तव समनय युक्तं बीजमन्यद् भवान्याः || २८५ || द्वितयमपि विमानं वक्तुमीशो महेशः किमिह कमलजन्मा जन्मधरासहस्रैः | इह जपति य एनं मन्त्रराजं स्वभाग्यैः भजति जननि युष्मत्पादपद्मोत्थभक्त्या || २८६ || त्यजति परपुमांसं मादृशं चापि काले न खलु वपुरनर्घ्यं तस्य काचित् कदाचित् | विहित गुरुमुखाद्वा वालकाद्वा पशोर्वा लिखितमपि स्वबुद्ध्या प्राप्य कस्मादकस्मात् || २८७ || स्मररिपुपुरपारे मोक्षपूर्याधिपारे परमपदविलीनः सर्वसौभाग्यभोगैः | प्. ४६४) अनलपुरविभागे कालिकावर्णबीजं तदपि यदि विदध्याद्दिग्युतं दन्तवर्णम् || २८८ || नयनयुतलकारं मस्तके नामयुक्तं तदनु विकटदंष्ट्रा सोत्कटं बीजयुक्तम् | यदि जपति समस्तं गुह्यगुह्यातिगुह्यं त्रिजगति किमिहास्ते क्लेशलभ्यं कथञ्चित् || २८९ || क्रम पठितपूर्वं सर्वमेवानुमध्यं मनुरपरवाच्यं तस्य मध्यस्वरूपम् | भजति यदि चिदानन्दधूक्केवलोऽसौ विपिन भुवि च मध्ये कौतुकान् मां मनुष्यः || २९० || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये सप्तदशोल्लासः || १७ || अष्टादश उल्लासः सिद्धिलक्षणनिरूपणम् अथ वक्ष्ये सिद्धिचिह्नं साधकस्य यथा भवेत् | अकस्मात् संलभेद् गन्धं धूपस्य कुसुमस्य वा || १ || सदा वा प्रियसम्भाष्यं लभ्यते योषितामपि | स्वप्ने वृषं गजाश्वं वा यद्वाऽरोहति साधकः || २ || सिद्धमन्त्रो भवेत् सोऽपि नात्र कार्या विचारणा | स्वप्ने वा जायते योषिद्वृन्दैः सम्मिलनं निशि || ३ || गजादिशैलशृङ्गेषु विहारो राजदर्शनम् | राज्ञां तथाऽङ्गनानाञ्च दर्शनं नृत्यगीतयोः || ४ || सौधगेहं तथा मञ्चं प्रासादञ्च मनोहरम् | रथं वा तरणिं वापि स्वप्नेष्वारोहयेत्तु यः || ५ || सम्यक्सिद्धिर्भवेत्तस्य शिवः सोऽपि न संशयः | ध्वजञ्च प्रतिमां चैव राजानं रुधिरं तथा || ६ || रुधिरालेपनं स्वाङ्गे मदिरालेपनं तथा | मदिरालोकनं मांसं स्त्रियं वा चारुहासिनीम् || ७ || प्. ४६६) स्त्रीभिर्वा वेष्टितो यस्तु स्वप्ने भवति साधकः | मन्त्रसिद्धिर्भवेत्तस्य सत्यमेव न संशयः || ८ || गोमांसं वापि चान्यस्य भक्षयेद्योऽपि मांसकम् | लभेद्वा भक्षयेद्वाऽपि स्पर्शयेद्वा कदाचन || ९ || देवतानरगन्धर्वनारीणां दर्शनं भवेत् | चरगोरुणितम्वाया वक्षोजमुखपङ्कजम् || १० || एतेषां तु फलं चैव परङ्गुर्वादिकं गुरुम् | तेषां प्रसादः स्नेहञ्च वात्सल्यं प्रियदर्शनम् || ११ || सिद्धिचिह्नानि सिद्धिचिह्नं भुवि ज्ञेयं यदि न व्यपते मनः | यदि भाग्यवशाच्चैव कुलदृष्टिस्तु जायते || १२ || अवार्धक्यं भवेत्तस्य सर्वसिद्धिः करे स्थिता | अकालपनसं चैव भक्षणं दर्शनं तथा || १३ || अगम्यागमनं चैव गुरोः सन्दर्शनं तथा | परमान्नभक्षणञ्च शोणितञ्च विशेषतः || १४ || दिव्यान्नं वापि भुक्त्वा च सिद्धो भवति साधकः | प्. ४६७) साधकं द्रव्यरूपञ्च देवतां वा प्रपश्यति || १५ || खड्गं वा फलकं वापि अमृतं वापि पुस्तिकाम् | सिद्धिद्रव्यं शवं चैव वसनाभरणादिकम् || १६ || रक्तमाल्यं रक्तपुष्पं स्वप्ने प्राप्नोति साधकः | सिद्धः सोऽपि भवेत् सत्यं संशयो नास्ति निश्चितम् || १७ || गजं वा तुरगं वापि शिवलिङ्गञ्च पश्यति | पीठादिगमनं तत्र देवतादर्शनं तथा || १८ || उद्यानं काननं वापि भूदेवयतिदर्शनम् | बालकं भिक्षुकं चैव फलादीनां तु लोलुपम् || १९ || पशुपक्षिफलादीनं विश्वासः प्रियदर्शनः | मनसा भाविते कार्ये शङ्खादिध्वनिरुत्सवः || २० || वेणुवीणारवं गीतं विचित्रदर्शनं तथा | अज्ञातजनसम्वादो नष्टद्रव्योदयं तथा || २१ || अकस्माद् भावसिद्धिस्तु अलक्षितजनस्तुतिः | क्षुद्रस्य महती पूजा सुकृती च कृतस्तुतिः || २२ || अदृष्टशास्त्रविज्ञानं तेजस्वी जनवल्लभः | मन्त्रलाभस्तथा स्वप्ने गुरूणां दुहितुस्तथा || २३ || पत्नीनां साधकानाञ्च उत्कटोत्कटदर्शनम् | असुगन्धिः सुगन्धिश्च श्रद्धा पुष्पोद्भवस्तथा || २४ || स्वप्ने चैव पुरश्चारी पुरश्चरणकर्मणि | इति विज्ञाय वीरेन्द्रः प्रयोगञ्च समाचरेत् || २५ || प्. ४६८) निन्द्यचिह्नानि अथ निन्द्यानि वक्ष्यामि विद्यानर्थकराणि च | कृष्णवर्णभटं स्वप्ने प्रहारस्तेन मेलनम् || २६ || मैथुनं परनारीभिर्विनाशो मरणं तथा | राज्यक्षोभवह्निवायुजन्तुभिर्वधदर्शनम् || २७ || गुरोराक्षेपसम्पत्तिर्जन्तूनां व्याधिसाधनम् | अन्यमन्त्रार्चने श्रद्धा स्वदेवार्चननिन्दनम् || २८ || असिद्धार्थकुले तत्र सिद्धार्थजपमाचरेत् | गणेशं वटुकं पश्चात् क्षेत्रेशं योगिनीस्तथा || २९ || पूजयेद्रात्रिसमये बलिं चैव सदाऽर्पयेत् | कुमारं बटुकं भद्रं लक्ष्मीं सुचारुनायकम् || ३० || स्वशक्तिं पञ्चक्षेत्रेशं योगिनीं योगिभिः सह | पूजयित्वा विधानेन बलिं पश्चान्निवेदयेत् || ३१ || प्. ४६९) ततः सिद्धो भवेन्मन्त्रो निर्विघ्नेन सुनिश्चितम् | अथातः सम्प्रवक्ष्यामि काम्यप्रयोगमुत्तमम् || ३२ || काम्यप्रयोगकथनम् रजोऽवस्थां समालोक्य तन्मूले स्वेष्टदेवताम् | पूजयित्वा महारात्रौ त्रिदिनं प्रजपेन्मनुम् || ३३ || लक्षपीठफलं चैव लभते साधकोत्तमः | वेतालपादुकासिद्धिं खङ्गसिद्धिन्तथैव च || ३४ || अञ्जनं तिलकं चैव प्राप्नोति क्षोभवर्जितः | कुलागारं पुष्पिताया दृष्ट्वा यो जपते नरः || ३५ || अयुतैकप्रमाणेन साधकः स्थिरमानसः | केवलं गुप्तभावेन स तु विद्यानिधिर्भवेत् || ३६ || संस्कृताः प्राकृताश्चैव लौकिका वैदिकास्तथा | वशमायान्ति ते सर्वे साधकस्य न चान्यथा || ३७ || अथवा मुक्तकेशश्च भुवि भुक्त्वा सुसंयतः | प्रजप्य चाऽयुतं प्राज्ञः एतदेव फलं लभेत् || ३८ || नग्नां परलतां पश्यन् अयुतं यस्तु साधकः | प्रजपेद् यो भवेत् सद्यो विद्यायावल्लभः स्वयम् || ३९ || प्. ४७०) तस्य दर्शनमात्रेण वादिनः कुण्ठतां गताः | गद्यपद्यमयी वाणी सभायां तस्य जायते || ४० || तस्य वाक्यपरिचयाज्जडीभवन्ति वाग्मिनः | तन्नाम्ना सुधियः सर्वे प्रणमन्ति मुदान्विताः || ४१ || हविर्भुक्त्वाऽथवा पूर्वक्रमेणैव फलं भवेत् | अथवा धनकामस्तु महदैश्वर्यकामुकः || ४२ || बृहस्पतिसमो यस्तु भवितुं कामयेन्नरः | अष्टोत्तरशतं जप्त्वा कुलमामन्त्र्य तत्त्ववित् || ४३ || मैथुनं यः करोत्येव स तु सर्वफलं लभेत् | अथवा हस्तमारोप्य स्थिरधीः पूतमानसः || ४४ || कवित्वं लभते सोऽपि अमृतत्वञ्च गच्छति | पृथ्वीमृतुमतीं वीक्ष्य सहस्रं यदि नित्यशः || ४५ || तदा वादी सुसिद्धान्ते ततः क्षितितलं विशेत् | महाचीनक्रमे देवीं ध्यात्वा देवीं प्रपूजयेत् || ४६ || तद्द्रुमोद्भवपुष्पेण पूजयेद् भक्तिभावतः | स भवेत् कुलदेवश्च कुलद्रुमगतः शुचिः || ४७ || प्. ४७१) ब्रह्मतरोर्मूलपद्मे देवीं ध्यात्वा यथाविधि | तत्सुधाधारसारेण तर्पयेन्मातृकानने || ४८ || पद्मं दृष्ट्वा तथा विल्वं खञ्जनं शिखनं तथा | चामरं रविविम्बञ्च तिलपुष्पं सरोवरम् || ४९ || त्रिसृतं वीक्ष्य जप्त्वा च शतशः शुद्धभावतः | मुखप्रसादं सुवचः सुलोचनं सुहास्यकम् || ५० || सुवेशं सुभगं गन्धं सुजनं सुखमेव च | लभते च यथासंख्यं साधकः स्थिरमानसः || ५१ || महाचीनक्रमः महाचीनद्रुमलता वेष्टितेन च यत् फलम् | तस्यापि षोडशांशेन फलं नार्हनित ते शवाः || ५२ || शवासनाधिकफलं लतागृहप्रवेशनम् | लतारतेषु जप्तव्यं महापातकमुक्तये || ५३ || धनार्थी प्रजपेद्विद्यां परयोषित् समागमे | लताभावे समुत्सार्य स्वशुक्रं साधकोत्तमः || ५४ || अक्षुब्धं प्रजपेन्मन्त्रं धर्मकामार्थसिद्धये | इति चीनक्रमेणैव तारा शीघ्रफलप्रदा || ५५ || प्. ४७२) गुरुवाक्यक्रमेणैव त्रिपुरा भुक्तिमुक्तिदा | महाचीनक्रमेणैव कालिका फलदायिणी || ५६ || सप्तसप्ततिभेदा या श्रीविद्या कथिता भुवि | तासान्तु समता ज्ञेया गुप्तसाधनसाधने || ५७ || चत्त्वारिंशत् प्रकारा या भैरवी विदिता भुवि | तासां तु समता ज्ञेया गुप्तसाधनसाधने || ५८ || या या विद्या महाचण्डास्तासामेवं विधिर्मतः | महाचीनक्रमेणैव छिन्नमस्ता तु सिद्धिदा || ५९ || सर्वा याश्चण्डिका विद्यास्तासां चैवं विधिः स्मृतः | यथा काली तथा तारा यथा बाला तथोन्मुखी || ६० || यथा काली तथा दुर्गा यथा दुर्गा तथा जटा | यथाऽसौ त्रिपुरा बाला तथा त्रिपुरभैरवी || ६१ || सुन्दरी च तथा ज्ञेया मर्द्दिनी च तथा परा | अन्या या या महाविद्या तथा भवति निश्चितम् || ६२ || प्. ४७३) मन्त्रं यन्त्रं पृथग्भावात् साधनेनैकतां भजेत् | एतत्यन्त्रञ्च मन्त्रञ्च पुत्रेभ्योऽपि न दर्शयेत् || ६३ || अन्यथा प्रेतराजस्य भवनं याति निश्चितम् | अथातः सम्प्रवक्ष्यामि काम्यसाधनमुत्तमम् || ६४ || संयोज्य मूलमन्त्रान्ते क्रमोत्क्रमेण मातृकाम् | आमन्त्रयेत्ततः पश्चात् पञ्चविंशतिसंख्यया || ६५ || प्रातरेव जलं धीरो भावयेन्मातृकामयम् | तदम्बुपानतो मन्त्री वाग्मी द्रुतं कविर्भवेत् || ६६ || त्रिमासान्नाऽत्र सन्देहः षण्मासात् वाक्पतिर्भवेत् | काम्यकर्त्ता महावाग्मी भवेत् श्रुतिधरा नरः || ६७ || अष्टमात् सर्वमन्त्राणां पारगो विश्वपूजितः | सर्वज्ञतां लभेद्वीरो नात्र कार्या विचारणा || ६८ || द्विवर्षादष्टसिद्धिश्च त्रिवर्षात्तु शिवो भवेत् | प्रदीपकलिकाकारं जिह्वायां मूलमन्त्रकम् || ६९ || देवतां शुक्लवर्णाञ्च विभाव्य यो जपेन्मनुम् | प्. ४७४) त्रिमासादूर्ध्वतो मन्त्री पूर्ववत् फलमाप्नुयात् || ७० || तत्तत्प्रकारभेदेन तत्तत्फलमवाप्नुयात् | प्रातरेव हि जप्तव्यमष्टोत्तरसहस्रकम् || ७१ || अथवाऽन्यप्रकारं तु वक्ष्यामि तन्त्रवर्त्मना | बलिदानादिकं सर्वं विधाय पूर्ववद् बुधः || ७२ || श्मशानालयमागत्य मुक्तकेशो दिगम्बरः | जपेदयुतसङ्ख्यं तु सर्वकामार्थसिद्धये || ७३ || महाचीनद्रुमलतामज्जाभिर्विप्रपुत्रकम् | सहस्रं देवीमभ्यर्च्य श्मशाने साधकोत्तमः || ७४ || तदा राज्यमवाप्नोति यदि स न पलायितः | स्वगात्ररुधिराक्तैश्च बिल्वपत्रैः सहस्रशः || ७५ || श्मशानेऽभ्यर्च्य देवीन्तु वागीशसमतां व्रजेत् | श्मशानशयनो वीरः शवासनगतः शुचिः || ७६ || असकृत् प्रजपेन्मन्त्रं सर्वसिद्धिर्भवेत्ततः | कविर्वाग्मी धनी दक्षः सर्वयोषित्प्रियः सुखी || ७७ || प्. ४७५) जायते नात्र सन्देहश्चण्डिकासाधकः स्वयम् | क्षुद्रविट्चुअरभूतानि देवीं ध्यात्वा विनाशयेत् || ७८ || नाभिमात्रजले स्थित्वा देवीमर्कगतां स्मरन् | अष्टोत्तरशतं जप्त्वा साधको लभते श्रियम् || ७९ || रेतोयुक्तेन पुष्पेण अर्कस्येह सहस्रशः | श्मशानेऽभ्यर्च्य देवीन्तु सर्वसिद्धिं तु विन्दति || ८० || धनवान् बलवान् वाग्मी सर्वयोषित्प्रियो भवेत् | सुखी स्यान्नात्र सन्देहो महाकालवचो यथा || ८१ || च्छन् यो तं शा ग ने षि श्म येत् न्त्रं क गे ल्प म प्र भ | रक्तचन्दनदिग्धाङ्गीं रक्तपुष्पैरलंकृताम् || ८२ || त जां कु गे वीं पू प्र भ जवापुष्पैर्विशेषतः | मन्त्रं प्रोच्चारयेत्तत्र ने ग वे गे श लिं प्र भ || ८३ || कुण्डगोलोद्भवैः पुष्पैः स्वयम्भूकुसुमेन च | पूजयित्वा तत्र देवीं यो वै ध्यायेच्च देवताम् || ८४ || तत्र गत्वा लभेत् सिद्धिं यदि वा न भयं व्रजेत् | अष्टम्याञ्च चतुर्दश्यां पूजयित्वा यथाविधि || ८५ || अर्घ्यं दत्त्वा ततः पश्चात् जवापुष्पञ्च वर्वराम् | चन्दनञ्चाऽर्ककुसुमं तथा श्वेतापराजिताम् || ८६ || अर्घ्यं दत्त्वा विशेषेण देवीमर्कगतां स्मरन् | प्. ४७६) अष्टोत्तरशतं जाप्यं यावज्जीवनसंख्यया || ८७ || आज्ञासिद्धिमवाप्नोति सत्यं सत्यं न संशयः | प्रातः स्नानरतो मन्त्रीं नित्यमष्टोत्तरं शतम् || ८८ || जपेत्तस्याऽशु सिध्यन्ति धनधान्यादिसम्पदः | अनेन विधिना मन्त्री ग्रहक्षुद्ररिपून् जयेत् || ८९ || अथोच्यते पदाघातं देव्यास्तन्त्रविधानतः | स्वकल्पोक्तं विधायाऽथ साधको विजितेन्द्रियः || ९० || सर्वद्रव्यसमायुक्तो देवताध्यानतत्परः | विवादे जपकाले वा यत्किञ्चित् कुलसाधने || ९१ || तत्रादौ चक्रमालिख्य सिन्दूररजसाऽप्लुतम् | रात्रौ प्रपूजयेद् गेहे स्थित्वा पदात्मिकां पराम् || ९२ || जप्त्वाऽयुतप्रमाणेन तथा चामन्त्रयेत्ततः | एहि मातर्जगद्धात्रि सञ्चारे चरणाकुले || ९३ || शुभाशुभमये रात्रे कथयस्व जगत्पते | एवं निमन्त्रयित्वा तु सप्तवारान् सुसंयतः || ९४ || भक्तिभावेन सम्पूज्य दत्त्वा च बलिमुत्तमम् | ततो वीक्षेच्चक्रराजं साधकः स्थिरमानसः || ९५ || प्. ४७७) पदाघातं समालोक्य ज्ञातव्यं तच्छुभाशुभम् | साधकाभिमुखं चिह्नं उभयोर्यदि चैकतः || ९६ || सव्यस्य दक्षिणस्यापि शुभं भवति निश्चितम् | विपरीतफलं दद्याद्विपरीते सुनिश्चितम् || ९७ || पदमध्ये शुभा रेखा शुभदा शुभयोगतः | विपरीतफलं तत्तु विपरीतञ्च निश्चितम् || ९८ || क्षुद्रं क्षुद्रफलं प्रोक्तं दीर्घं दीर्घफलप्रदम् | अथातः पादुकामन्त्रं कथयामि समासतः || ९९ || पादुकां पूजयाम्यद्य आद्यन्तमण्डितां वदेत् | सर्वभूते महाशक्तिः पादाग्रे या स्थिता यतः || १०० || अतस्तौ चरणौ पूज्यौ सर्वत्र भूतिमिच्छता | आद्यन्तरहिता देवी पादुकादिस्वरूपिणी || १०१ || योषितां योनिमास्थाय सर्वसिद्धिप्रदायिनी | स्वतन्त्रेयं महाविद्या न प्रकाश्या कदाचन || १०२ || प्. ४७८) संहारक्रमयोगेन देवी संहाररूपिणी | सृष्टिक्रमेण देवेशीमहासृष्टिप्रवर्त्तिनी || १०३ || स्थितिक्रमेण सा देवी स्थितितत्त्वप्रवर्त्तिनी | ब्रह्मविष्णुस्वरूपा सा महादेवस्वरूपिणी || १०४ || आद्ये मधुमतीसिद्धिः संहारक्रमयोगतः | अन्ते क्षेत्रेण सिद्धिः स्याच्छेषे गन्धर्वयोनयः || १०५ || समुदाये महामोक्षं ददाति परमा कला | पादुका परमा विद्या सप्ताक्षरसमन्विता || १०६ || एतां विना महाविद्या नैव सर्वफलप्रदा | कथितेयं महाविद्या यत्नाद् गोप्या सदैव हि || १०७ || लोकस्नेहादिदानीं तु कथितञ्च सुदुर्लभम् | एतत्तन्त्रञ्च मन्त्रञ्च प्रयोगञ्च तथा परम् || १०८ || अतिभक्ताय पुत्राय प्राणदाय न दर्शयेत् | अन्यथा प्रेतराजस्य भवनं याति निश्चितम् || १०९ || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये अष्टादशोल्लासः || ९८ || एकोनविंश उल्लासः षट्कर्मविधानम् अथातः सम्प्रवक्ष्यामि षट्कर्मविधिमुत्तमम् | शान्तिवश्यस्तम्भनानि विद्वेषोच्चाटने ततः || १ || मारणं कर्मषट्कञ्च तेषां लक्षणमुच्यते | शान्त्यादिषट्कर्मलक्षणम् रोगकृत्या ग्रहादीनां निरासः शान्तिरीरिता || २ || वश्यं जनानां सर्वेषां विधेयत्वमुदाहृतम् | प्रवृत्तिरोधः सर्वेषां स्तम्भनं तदुदाहृतम् || ३ || स्निग्धानां द्वेषजननं मिथो विद्वेषणं मतम् | सद्विद्यासिद्धिकालादीन् ज्ञात्वा कर्माणि साधयेत् || ४ || पूर्वोक्तबलिमन्त्रेण बलिं दद्याच्चतुष्पथे | रात्रावेव प्रयोगादौ शिवायै च सुसिद्धये || ५ || प्. ४८१) तत्तत्कर्मसु मन्त्रयन्त्रकालनिर्णयः दिक्कालदेवतादींश्च(ज्ञात्वा)विद्वेषे व्योम कीर्त्तितम् | उच्चाटने स्मृतो वायुर्भूयोऽग्निर्मारणे मतः || ६ || स्वच्छं वियन् मरुत् कृष्णो रक्तोऽग्निविशदं पयः | पीता भूमिः पञ्चभूत रूपमेतदुदीरितम् || ७ || वृत्तं दिवस्तत् षड्बिन्दुलाञ्क्षितं मातरिश्वनः | त्रिकोणं स्वस्तिकोपेतं वह्नेरर्धेन्दुसंयुतम् || ८ || अम्भोजमम्भसो भूमेश्चतुरस्रं सवज्रकम् | तत्तद्भूतसमाभानि मण्डलानि विदुर्बुधाः || ९ || वर्णाः स्वैरञ्जितान्याहुः स्वस्वनामावृतान्यपि | शब्दस्पर्शरूपरसगन्धा भूतगुणाः स्मृताः || १० || भूतानामुदयं द्वयोरपि बुधः संलक्षयेत् पक्षयो- स्तत्राधो वसुधोदयं निशितधीर्घ्राणस्य दण्डस्पृशि | देवेधःस्पृशि वारिणो हुतवहस्योर्ध्वं गते तूदयं तिर्यक् संस्पृशि मारुतस्य परितः स्पृष्टे मरुद्वर्त्मनः || ११ || वश्यस्तम्भनयोः प्रशस्त उदयो भूमेर्जलस्योदयः प्. ४८२) शस्तः शान्तिकपौष्टिकादिषु शुभेष्वह्नाय वह्नेः पुनः | शत्रोर्मारणदारणादिकरणेषूच्चाटनोच्छ्वासया- र्वायोः शान्तिकनिर्विषीकरणयोर्व्योम्नो हि तश्चोदयः || १२ || तत्तद्भूतोदये सम्यक् तत्तन्मण्डलसंयुते | यन्त्रं कुर्यात् रोचनया गुण्डिकया हरिद्रया || १३ || गृहधूमचिताङ्गारविषैरथ क्रमेण तु | शीतांशुसलिलक्षौणीव्योमवायुहविर्भुजाम् || १४ || वर्णाः स्युर्मन्त्रबीजानि षट्कर्मसु यथाक्रमम् | वश्यादौ लेखनी दूर्वा आकर्षे शिखिपुच्छिका || १५ || विद्वेषोच्चाटने काकपक्षेणापि च मारणम् | षट्कर्मदेवतानिरूपणम् रतिर्वाणी रमा ज्येष्ठा दुर्गा काली यथाक्रमात् || १६ || षट्कर्मदेवताः प्रोक्ताः कर्मादौ ताः प्रपूजयेत् | प्. ४८३) अथातः सम्प्रवक्ष्यामि षट्कर्मकाल निर्णयम् || १७ || षट्कर्मकालनिर्णयः पञ्चमी च द्वितीया च चतुर्थी सप्तमी तथा | बुधेज्यरविसंयुक्ता शान्तिकर्मणि पूजिता || १८ || गुरुचन्द्रयुता षष्ठी चतुर्थी च त्रयोदशी | नवमी पौष्टिके शस्ता अष्टमी नवमी तथा || १९ || दशम्येकादशी चैव बानुशुक्रदिने तथा | आकर्षणे त्वमावस्या नवमी प्रतिपत्तथा || २० || पौर्णमासी मन्दभानुयुक्ता विद्वेषकर्मणि | कृष्णा चतुर्दशी तद्वदष्टमी मन्दवारकाः || २१ || उच्चाटने तिथिः शस्ता प्रदोषे च विशेषतः | चतुर्दश्यष्टमी कृष्णा त्वमावास्या तथैव च || २२ || मन्दारार्कदिनोपेता शस्ता मारणकर्मणि | बुधचन्द्रदिनोपेता पञ्चमी दशमी तथा || २३ || पौर्णमासी च विज्ञेया तिथिः स्तम्भनकर्मणि | शुभग्रहोदये कुर्यात् शुभानि च शुभोदये || २४ || प्. ४८४) रौद्रकर्माणि रिक्तार्के मृत्युयोगे च मारणम् | ईशश्चन्द्रेन्द्रनिर्-ऋतिवायवग्नीनां दिशो मताः || २५ || सूर्योदयं समारभ्य घटिकादशकं क्रमात् | ऋतवः स्युर्वसन्ताद्या अहोरात्रं दिने दिने || २६ || वसन्तग्रीष्मवर्षाख्याशरद्धेमन्तशैशिराः | हेमन्तः शान्तिके प्रोक्तो वसन्तो वश्यकर्मणि || २७ || शिशिरः स्तम्भने ज्ञेयो विद्वेषे ग्रीष्म ईरितः | प्रावृडुच्चाटने ज्ञेयः शरन्मारण कर्मणि || २८ || षट्कर्मसु आसनादिनिर्णयः गोमेषयोः शान्तिके च व्याघ्रस्य खड्गिनोऽपि वा | वश्ये च स्तम्भने शस्ता गजचर्मणि द्वेषके || २९ || उच्चाटने भल्लूकस्य मेषस्य मारणे तथा | महिषाश्वयोर्वा चर्मणि साधयेत् साधकोत्तमः || ३० || पद्माख्यं स्वस्तिकं भूयो विकटं कुक्कुटं पुनः | वज्रं भद्रकमित्याहुरासनानि मनीषिणः || ३१ || प्. ४८५) अङ्गुष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण तु | ऊर्वोरुपरि वीरेन्द्रः कृत्वा पादतले उभे || ३२ || पद्मासनं भवेदेतत् सर्वेषामेव पूजितम् | पूजाजपविधानेन अङ्गुष्ठं धारणञ्चरेत् || ३३ || जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे | ऋजुकायः सुखासीनः स्वस्तिकं तत् प्रचक्षते || ३४ || सीवन्यामात्मनः पार्श्वे गुल्फौ निःक्षिप्य पादयोः | एतद्वा स्वस्तिकं प्रोक्तं सव्ये न्यस्येतरं करम् || ३५ || पद्मासनं समास्थाय जानूर्वोरन्तरे करौ | निवेश्य भूमौ संस्थाप्य रोमस्थः कुक्कुटासनः || ३६ || गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् | पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलः || ३७ || भद्रासनं भवेदेतत् सर्वव्याधिविषापहम् | प्. ४८६) ऊर्वोः पादौ क्रमान्न्यस्य जान्वोः प्रत्यम्मुखाङ्गुलौ || ३८ || करौ विदध्यादाख्यातं वज्रासनमनुत्तमम् | स्वस्वकल्पविधानेन पूजादींश्च समाचरेत् | ३९ || मुद्राविधानम् षण्मुद्राः क्रमशो ज्ञेयाः पद्मपाशगदाह्वयाः | मुषलाशनिखड्गाद्याः शान्तिकादिषु कर्मसु || ४० || हस्तौ तु सम्मुखौ कृत्वा सन्नतावुन्नताङ्गुलौ | तलान्तमिलिताङ्गुष्ठौ कृत्वैषा पद्ममुद्रिका || ४१ || वाममुष्टिस्तु तर्जन्यां दक्षमुष्टिस्तु तर्जनीम् | संयोज्याङ्गुष्ठकाग्राभ्यां तर्जन्यग्रे क्षिपेत्ततः || ४२ || एषा पाशाह्वया मुद्रा विद्वद्भिः परिकीर्त्तिता | अन्योन्याभिमुखौ हस्तौ कृत्वा च ग्रथिताङ्गुलौ || ४३ || अङ्गुल्यौ मध्यमे भूयः संलग्ने च प्रसारिते | गदामुद्रेयमाख्याता विद्वद्भिः परिकीर्त्तिता || ४४ || प्. ४८७) मुष्टिं कृत्वा तु हस्ताभ्यां वामस्योपरि दक्षिणम् | कुर्यान्मुषलमुद्रेयं सर्वविघ्नविनाशिनी || ४५ || अनामिकाद्वयं वेष्ट्य चाकुञ्च्य तर्जनीद्वयम् | कनिष्ठां मध्यमां चैव ज्येष्ठाङ्गुष्ठेन च क्रमात् || ४६ || वज्रमुद्रेयमाख्याता विद्वद्भिः परिकीर्त्तिता | कनिष्ठानामिकां बद्ध्वा साङ्गुष्ठेनैव संयुता || ४७ || शेषाङ्गुली तु प्रसृते संस्पृष्टे खड्गमुद्रिका | सितरक्तपीतमिश्रा कृष्णधूम्रा प्रकीर्त्तिताः || ४८ || षट्कर्मदेवतावर्णाः कथितास्तु यथाक्रमात् | यद्वर्णदेवता यत्र तद्वर्णञ्चोपहारणम् || ४९ || पुष्पं चैव तथा ज्ञेयं साधकानां सुसिद्धये | मन्त्रेणान्तरितान् कुर्यान्मारणानि यथाविधि || ५० || षट्कर्मसु विन्यासाः ग्रथनञ्च विदर्भश्च सम्पुटं रोधनं तथा | प्. ४८८) योगः पल्लव इत्येते विन्यासाः षट्सु कर्मसु || ५१ || ग्रथनम् योगास्त्रान्तरितान् कृत्वा साध्यवर्णान् यथाविधि | ग्रथनं तद्विजानीयात् प्रशस्तं शान्तिकर्मणि || ५२ || विदर्भः मन्त्रार्णद्वयमध्यस्थं साध्यनामाक्षरं लिखेत् | विदर्भ एव विज्ञेयो मन्त्रिभिर्वश्यकर्मणि || ५३ || सम्पुटः आदावन्ते च मन्त्रस्यस्यान्न्यासः सम्पुटः स्मृतः | एष स्यात् स्तम्भने शस्त इत्युक्तो मन्त्रवेदिभिः || ५४ || रोधनम् योगः पल्लवः नाम्न आद्यन्त मध्येषु मन्त्रः स्याद्रोधनं मतम् | विद्वेषस्य विधाने तु प्रशस्तो न्यास उत्तमः || ५५ || मन्त्रस्यान्ते भवेन्नाम योग प्रोच्चाटने मतः | अन्ते नाम्नो भवेन्मन्त्रः पल्लवो मारणे स्मृतः || ५६ || प्. ४८९) षट्कर्मसु मालाविधानम् मुक्ताभिः स्फाटिकैर्वापि समायोज्याऽक्षसूत्रकैः | शान्तिकर्मणि मिश्रं वा जपेन्मन्त्रस्य सिद्धये || ५७ || प्रवालरक्तमणिभिर्वश्यपौष्टिकयोर्जपेत् | मन्त्रतुल्याङ्गमणिभिर्जपेदाकृष्टकर्मणि || ५८ || साध्यकेशसूत्रप्रोतैस्तुरङ्गदशनोद्भवैः | अक्षमालां समालोक्य विद्वेषोच्चाटने जपेत् || ५९ || मृतस्य युद्धशून्यस्य दशनैर्गर्दभस्य च | कृत्वाऽक्षमालां जप्तव्यं शत्रुमारणमिच्छता || ६० || सामान्या कथिता माला विशेषाः पूर्वसूचिताः | अनामिकामध्यभागे मालां संस्थाप्य साधकः || ६१ || शान्तिकस्तम्भवश्येषु वृद्धाग्रेण प्रचालयेत् | तर्जन्याङ्गुष्ठयोगेन विद्वेषोच्चाटयोर्जपेत् || ६२ || कनिष्ठाङ्गुष्ठयोगेन मारणे जप ईरितः | मातृकयाऽथवा कुर्याद् यथातन्त्रविधानतः || ६३ || प्. ४९०) सर्वेषु च प्रयोगेषु द्विसहस्रं जपञ्चरेत् | अथवान्यप्रकारेण कथ्यते साधनं महत् || ६४ || आकर्षणविधानम् महाचीनद्रुमे बीजं लिखित्वा कुङ्कुमेन च | तत्पार्श्वे साध्यमालिख्य ताडयेद् दिव्यदृष्टिभिः || ६५ || तत्र गच्छति कामार्त्ता यत्र देशे स पूजकः | गोरोचनादिभिर्द्रव्यैः स्वीयचन्द्रं समालिखेत् || ६६ || अतीव सुन्दरीं रम्यां तन्मध्ये प्रतिमां शुभाम् | ज्वलन्तीं नामसहितां कामबीजविदर्भिताम् || ६७ || चिन्तयेत्तु ततो देवीं योजनानां सहस्रतः | अदृष्टपूर्वा सा शक्तिः द्रुतमायाति दुर्लभा || ६८ || राजकन्याऽथ चार्वंगी भयलज्जाविवर्जिता | आयाति साधकं सम्यक् मन्त्रमूढा सती शुभा || ६९ || चक्रमध्यगतो भूत्वा साधकश्चिन्तयेद् यदा | प्. ४९१) उद्यत्सूर्यसहस्राभमात्मानमरुणं तथा || ७० || साध्यमप्यरुणीभूतं चिन्तयेत् साधकोत्तमः | अनेन क्रमयोगेन युवा कन्दर्परूपवान् || ७१ || सर्वसौभाग्यसुभगः सर्वलोकवशङ्करः | सर्वरक्तोपचारस्तु मुद्रानिहितविग्रहः || ७२ || चक्रं प्रपूजयेद्यस्तु यस्य नामविदर्भितम् | स भवेद्दासवत् सत्यं धनेशो वापि वाक्पतिः || ७३ || चक्रमध्यगतं कृत्वा नाम यस्यास्तु योषितः | अदृष्टा वा सती वापि योगमुद्राधराऽपि वा || ७४ || हठादानयते शीघ्रं यक्षिणीं राजकन्यकाम् | नागिनीमप्सरां वापि गन्धर्वीं वा सुराङ्गनाम् || ७५ || विद्याधरीं दिव्यरूपामृषिकन्यां रिपुस्त्रियः | मदनोद्भवसन्तापां स्फुरज्जघनसुस्तनीम् || ७६ || कामबाणप्रभिन्नान्तःकरणां लोलचक्षुषीम् | महाकामकलाध्यानात् साधकः स्थिरमानसः || ७७ || क्षोभयेत् स्वर्गभूलोकपातालतलयोषितः | रोचनाभागमेकं तु भागमेकं तु कुङ्कुमम् || ७८ || अथ भागद्वयं चैव चन्दनैर्मर्दयेत् समम् | प्. ४९२) एकत्र तिलकं कुर्यात् त्रिलोकवशकारकम् || ७९ || अष्टोत्तरशतावृत्त्या मन्त्रयित्वा वशं नयेत् | राजानं नगरं ग्रामं यत्किंचिदन्यदुच्यते || ८० || साधकेनैव नियतं तत् सर्वं तस्य वश्यगम् | योनिपुष्पैर्लिङ्गपुष्पैर्मिश्रीकृत्य च साधकः || ८१ || अञ्जलित्रयदानेन राजानं वशमानयेत् | पुत्तलीप्रयोगः रहस्यस्थानके मन्त्री लिखेद्रोचनया भुवि || ८२ || चारुशृङ्गारवेशाढ्यां सर्वाभरणभूषिताम् | प्रतिमां सुन्दरीं रम्यां विलिख्य सुमनोहराम् || ८३ || तद्भालगलहृन्नाभियोनिमण्डले योषिताम् | यस्या नाम महाविद्यामङ्कुशान्तर्विदर्भितम् || ८४ || कामं वह्निसमारूढं अधरोत्तरसंयुतम् | बिन्दुनादकलाक्रान्तमङ्कुशं परिकीर्त्तितम् || ८५ || सर्वसन्धिषु देहस्य कामबीजं समालिखेत् | स्वरान्तं पृथिवीसंस्थं रतिबिन्दुसमन्वितम् || ८६ || कथितं कामबीजञ्च सर्वसिद्धिप्रदायकम् | नीलदाडिम्बपुष्पाभं चिन्तयेद्देहसन्धिषु || ८७ || प्. ४९३) तदाशाभिमुखो भूत्वा स्वयं देवीस्वरूपकः | मुद्रां तु क्षोभिणीं बद्ध्वा मन्त्रमष्टशतं जपेत् || ८८ || नियोज्य मदनागारे चलसूर्य नवात्मके | ततोऽप्यधिकसर्वाङ्गीं कामबाणैः सुपीडिताम् || ८९ || अनन्यमानसां प्रेमभ्रममाणां मदालसाम् | एवमाकर्षयेन्नारीं योजनानां शतैरपि || ९० || ईशानेऽङ्कुशमासाद्य तत्र यन्त्रं विलिख्य च | अष्टमीरात्रिमारभ्य चतुर्दश्यां समापयेत् || ९१ || अष्टोत्तरशतं मर्त्यो मन्त्रयित्वा स्वयं यतः | ताम्बूलपूरितमुखो मुक्तकेशो जितेन्द्रियः || ९२ || मदिराघूर्णनयनः परयोषित्समायुतः | गन्धचन्दनपुष्पैस्तु दिग्वासाः कुलभूषणः || ९३ || यन्नाम्ना दर्भितं यन्त्रं पूजयेद्वीरसाधकः | सा समायाति कामार्त्ता यत्र देवः स पूजकः || ९४ || प्. ४९४) अन्यप्रयोगकथनम् अथ चेद्रात्रिसमये स्वकुलं तूलिकोपरि | वामभागे समासीनं रक्तवस्त्रविभूषितम् || ९५ || गन्धपुष्पैर्धूपदीपैर्वेष्टितं सुमनोहरम् | सर्वशृङ्गारवेशाढ्यं स्फुरच्चकितलोचनम् || ९६ || कुचद्वन्द्व जितामित्रविशालकरिकुम्भकम् | ललाटे मन्त्रमालिख्य साध्यनामविदर्भितम् || ९७ || तत्स्कन्धे भुजमारोप्य भङ्ग्याधृतकुचाचलः | ताम्बूलपूरितमुखः कुलं तदभिसंहितम् || ९८ || कुलाकुलजपं कृत्वा समानयति तत्क्षणात् | यन्नाम्ना लिखितं यन्त्रं ताञ्च नयति तत्क्षणात् || ९९ || शतयोजनबाह्यस्थां नदीपर्वतमध्यगाम् | द्वीपान्तरसहस्रेषु रक्षितां निगडादिभिः || १०० || पयोधरक्षुब्धमध्यां चञ्चलोत्पललोचनाम् | नितम्बविम्बविद्ध्वस्तस्फुरज्जघनमण्डलाम् || १०१ || साधकाकृष्टहृदयां विवरान्तःप्रसर्पिणीम् | कवाटलोहसन्नद्धपूरिकाविवरान्तरे || १०२ || साधकान्तः समासीनां देवतामिव चारिणीम् | एवमाकृष्टिसिद्धिश्चेत् साधकः कौलिको भवेत् || १०३ || प्. ४९५) केनापि व्यपदेशेन समासाद्य बलिं कुलात् | रात्रौ वीरवरो वापि दिव्यो वा साधकोत्तमः || १०४ || निजं कुलं समादाय तत्कुलस्थान एव च | विलिख्य मालिनीं देवीमारक्तवसनोज्ज्वलाम् || १०५ || निजवामोरुमध्ये तु निजमन्त्रविदर्भितम् | मणिना साध्यनामानं विलिख्य तस्य मध्यतः || १०६ || स्वयं कामकलारूपस्तत्राऽवाह्य महेश्वरीम् | कामराजेन संयुक्तां देवं ध्यात्वा सुसाधकः || १०७ || पूजयित्वा ततो जप्यमष्टोत्तरसहस्रकम् | यन्नाम्ना दीयते चैव सा वश्यं प्रतिपद्यते || १०८ || एतद्विधानयोगे तु प्रभवन्ति हि देवताः | योगिन्योऽप्सरसश्चापि के परे नरकिङ्कराः || १०९ || स्वयं दिव्यधरो वापि किम्वाऽयं वीरसाधकः | इति चेत् ज्ञायते लोकैस्तदा भ्रष्टो भविष्यति || ११० || तस्माद् यत्नाद् गोपितव्यं न प्रकाश्यं कदाचन | प्. ४९६) अनयाकृष्टिकर्मज्ञ इति चेत् प्रतिपद्यते || १११ || निश्चितं निमिषे हानिस्तदा तस्य प्रजायते | यदि स्वप्नावतीं विद्यां साधकः स्थिरमानसः || ११२ || रात्रौ च दिवसे वापि जपेदष्टोत्तरं शतम् | जप्त्वा विघ्नं कदाचिद्धि पथि तस्य न विद्यते || ११३ || अतिगुप्तेन कर्त्तव्यं वीरेण कुलसाधनम् | निःसङ्गेन सदा कुर्यात् कुलाकृष्टिं विशेषतः || ११४ || कुलगेहप्रवेशार्थं रात्रौ यामगते बुधः | जलमध्ये च दुर्मार्गे आरामे वा श्मशानके || ११५ || शून्यागारे तथा बिल्वमूले वा जनवर्जिते | अष्टोत्तरसहस्रं तु यो जप्त्वा गच्छति ध्रुवम् || ११६ || तस्य विघ्नं न जायेत साधने सर्वथा पुनः | अथवा स सर्वकार्येषु जप्त्वा चाष्टसहस्रकम् || ११७ || गच्छेद्यदि सदा धीरस्तदा विघ्नं न जायते | न च विघ्नं ततस्तत्र तत्र तत्र जपान्तरम् || ११८ || प्. ४९७) गमनं तस्य जायेत तस्य विघ्नं न वर्त्तते | अथवा मातृकां सर्वां लिखित्वा चक्रबाह्यतः || ११९ || भूर्जपत्रे स्वर्णपत्रे रौप्येऽथ ताम्रपत्रके | साध्यनामान्वितं कृत्वा धारयेद्वामबाहुके || १२० || सोऽवध्यः सर्वजन्तूनां व्याघ्रादीनां विशेषतः | अथवा मातृकायुक्तां स्वसञ्ज्ञां चक्रमण्डिताम् || १२१ || कर्पूरकुङ्कुमाद्यैश्च अजरामरतां लभेत् | अनेन विधिना वापि रोचनागुरुचन्दनैः || १२२ || विदर्भितञ्च नाम्ना तु यस्मिन् कस्मिन्नुपस्थितम् | स्थावरं जङ्गमं वापि सकलं जलमण्डलम् || १२३ || वशीकुर्यान्महावीरः सोऽतिक्रान्तः न संशयः | कामराजेन बीजेन महाकामकलात्मना || १२४ || एकैकान्तरितं कृत्वा साध्यनामाक्षरं लिखेत् | बलिरस्या लिखेदेवं वेष्टयेन्मातृकाक्षरैः || १२५ || हेममध्यगतं कृत्वा धारयेद्वामके भुजे | शिखायामथवा वस्त्रे शरीरे यत्र कुत्र वा || १२६ || करोति दासभूतं हि त्रैलोक्यं सचराचरम् | सम्मोहयति राजानं वाजिनं दुष्टकुञ्जरम् || १२७ || चौरान् दस्यून् तथा चैव तथा मन्त्राभिचारकम् | चक्रवज्राणि वेतालं दुर्दमं राक्षसं तथा || १२८ || प्. ४९८) भूतप्रेतापिशाचांश्च धारिता चक्ररूपिणी | येन वीरेण तत्सर्वं स कुर्याद्दासवद्वशम् || १२९ || तन्मध्ये च गतां पृथ्वीं सशैलवनकाननाम् | चतुःसमुद्रपर्यन्तां ज्वलन्तीं चिन्तयेत्ततः || १३० || षण्मासध्यानयोगेन जायते मदनोपमः | दृष्ट्याऽकर्षयते लोकं दृष्ट्यैव कुरुते वशम् || १३१ || दृष्ट्या सङ्क्षोभयेन्नारीं दृष्ट्यैवाऽपहरेद्विषम् | दृष्ट्या कर्षति वागीशं दृष्ट्या सर्वविलोचनम् || १३२ || दृष्ट्या चतुर्विधस्त्रीणां नाशयेद्विषमज्वरान् | एतत् प्रपूजनं रात्रौ चक्रं सिन्दूरमिश्रितम् || १३३ || करोति महदाकर्षं दूरस्थायाश्च योषितः | मध्ये दिक्षु विदिक्ष्वेवं यदा देवीं प्रपूजयेत् || १३४ || दिक्पतिक्रमयोगेन तदा सर्वं जगत्त्रयम् | भूर्जपत्रे विलिख्यैव रोचनागुरुकुङ्कुमैः || १३५ || प्. ४९९) तन्मध्ये नगरं देशं मण्डलं खण्डमेव वा | स्वनामदर्भितं कृत्वा यदि भूमौ निधापयेत् || १३६ || चक्रमेतन्महाभागे पुरःक्षोभनमुत्तमम् | धारयेद्वामहस्तेन कण्ठे वा भुजमूलके || १३७ || शिखायामथवा वस्त्रे धारयेद्यत्र कुत्र वा | रोचना कुङ्कुमाक्तञ्च लाक्षालक्तकसंयुतम् || १३८ || अर्कक्षीरेण संयुक्तं धूस्तूरकरसं तथा | कस्तूरीद्रवसंयुक्तं एकीकृत्य ततः परम् || १३९ || चक्रमेतत् समालिख्य यस्य नाम्ना सुसाधकः | तस्य व्याघ्रगजव्याधिरिपुसर्पविषादिकम् || १४० || चौरग्रहजलारिष्टशाकिनीडाकिनीभयम् | भयं न विद्यते कुत्र परमञ्चाभिचारकम् || १४१ || नित्यं संसाधयेद् देवीं कालमृत्युं विनाशयेत् | न शक्तो हिंसितुं तस्य रोमैकमपि सर्वथा || १४२ || प्. ५००) अथवा मध्यगां देवीं त्रिकोणोदरगां तथा | अधस्तान्नामसंयुक्तां रोचनाकुङ्कुमान्विताम् || १४३ || निधापयेच्च सप्ताहाद्दासवत् किङ्करो भवेत् | ताम्बूलधूपमुदकं पत्रं पुष्पं फलं दधि || १४४ || दुग्धं घृतं दन्तपत्रं वस्त्रं कर्पूरमेव वा | कस्तूरीं घुसृणं चैलां लवङ्गं जातिपत्रकम् || १४५ || फलं वा वस्तु यच्चान्यत् सकलं वा कदाचन | अष्टोत्तरशतं जप्त्वा यस्मै कस्मै प्रयच्छति || १४६ || स वश्यो जायते सत्यं नात्र कार्या विचारणा | स्त्रियश्च सकला वश्या दासीभूता भवन्ति हि || १४७ || हठाकर्षणमेतत्तु कथितं नान्यथा भवेत् | पीतद्रव्येण संलिख्य धारयेदिन्द्रदिग्गतम् || १४८ || नाम्ना सर्वाङ्गभूतोऽपि मूको भवति तत्क्षणात् | सहस्रवदनश्चापि मूको भवति निश्चितम् || १४९ || महानीलरसेनापि नाम संयोज्य पूर्ववत् | दक्षिणाभिमुखो वह्नौ दग्ध्वा मारयतेऽचिरात् || १५० || प्. ५०१) महिषाश्वपुरीषाभ्यां गोमूत्रैर्नाम चाङ्कितम् | कृत्वा शरावमध्यस्थं विद्विष्टं सर्वजन्तुषु || १५१ || युतं रोचनया नाम काकपक्षेण संलिखेत् | नीलकर्पटके सम्यक् नीलसूत्रेण वेष्टयेत् || १५२ || लम्बमानस्तदाकाशे परमुच्चाटनं भवेत् | दुग्धलाक्षारोचनाभिर्महानीलरसेन च || १५३ || लिखित्वा धारयेच्चक्रं सर्ववर्णान् वशं नयेत् | अनेनैव विधानेन जलमध्ये विनिःक्षिपेत् || १५४ || सौभाग्यमतुलं प्राप्य स्नानपानान्न संशयः | एतन्मध्यगतां पृथ्वीं नागरीं वा सुराङ्गनाम् || १५५ || सप्ताहात् क्षोभयेन्नित्यं ज्वालामालां विचिन्तयन् | लिखित्वा पीतवर्णेन स्वीयचक्रं यदाऽर्चयेत् || १५६ || पूर्वाशाभिमुखो भूत्वा स्तम्भयेत् सर्ववादिनः | सिन्दूरेण लिखेच्चक्रं पूजयेदुत्तरामुखः || १५७ || यदत्र दासो वशगो लोको भवति सर्वदा | चक्रं गैरिकयाऽलिख्य पूजयेत् पश्चिमामुखः || १५८ || प्. ५०२) सर्वाङ्गनावश्यकारी मोहकारी सदा भवेत् | दक्षिणाभिमुखो भूत्वा नित्यं चक्रं यदाऽर्चयेत् || १५९ || यस्य नाम्ना तस्य नित्यं महाहानिस्तु जायते | चक्रं वह्निमुखो भूत्वा रात्रौ सम्पूजयेत् सुधीः || १६० || स्तम्भविद्वेषणव्याधिशत्रूच्चाटनकारकम् | रोचनालिप्तितं चक्रं दुग्धमध्ये वशङ्करम् || १६१ || क्षिप्तं गोमूत्रमध्ये तु शत्रूच्चाटनकारकम् | तैलस्थं चक्रराजं तु विद्वेषणकरं परम् || १६२ || ज्वलज्ज्वलनमध्यस्थं सर्वशत्रुविनाशनम् | एकायुतं जपं कुर्यात् प्रयोगेषु च साधकः || १६३ || त्रिकोणं कुण्डमासाद्य सम्यक् शास्त्रविधानतः | तस्मिन् होमं प्रकुर्वीत संस्कृते हव्यवाहने || १६४ || प्रक्षाल्य गव्यदुग्धेन संशोध्य लवणं सुधीः | चूर्णितं जुहुयान्मन्त्री सप्ताहाद्वशयेज्जनान् || १६५ || प्. ५०३) दधिमध्वाज्यसंसिक्तैः सैन्धवैर्जुहुयात् पुनः | वशयेत् सकलान् देवान् गन्धर्वान् किं सुपर्णकान् || १६६ || विशुद्धं लवणप्रस्थं विभक्तं पञ्चधा पृथक् | यस्य नाम्ना स वश्यः स्यादनेनैव न संशयः || १६७ || शुद्धं लवणमादाय जुहुयान्मधुरान्वितम् | जलं पञ्चाशतं दद्याद्वशं नयति वाञ्छितम् || १६८ || दक्षिणकालिकार्चनविधानम् दक्षिणाया विशेषञ्च कथयामि विशेषतः | कूर्चलज्जाद्वयं चान्ते आद्याबीजं तथैव च || १६९ || योजयित्वा जपेद्विद्यामयुतं वशमानयेत् | कालिकाध्यानम् नागयज्ञोपवीताञ्च चन्द्रार्धधृतमस्तकाम् || १७० || जटाजूटसमायुक्तां महाकालसमीपगाम् | अष्टोत्तरशतामन्त्र्य पूर्वद्रव्येण साधकः || १७१ || तेनैव तिलकं कृत्वा वशयेज्जगतीमिमाम् | शताभिमन्त्रितं कृत्वा रोचनातिलकेन तु || १७२ || राजानं साधकश्रेष्ठो वशमानयति क्षणात् | प्. ५०४) आद्ये चैकं तु बीजानां तथैवान्ते च एककम् || १७३ || दक्षिणे कालिके चेति साध्यं संयोज्य मन्त्रवित् | स्वाहान्तं मन्त्रमुच्चार्य भवेदाकर्षणं महत् || १७४ || लोहिताङ्गुलिहस्तां च एकशूलधरां तथा | महाकालाग्र आसीनां ध्यात्वा चाकर्षणञ्चरेत् || १७५ || स्थावरं जङ्गमं चैव पातालतलगं तथा | आकर्षयति मन्त्रज्ञः किमन्यत् भुवि योषितः || १७६ || शेषञ्च वशवत् कुर्यादुच्चाटनमथोच्यते | पिङ्गाक्षीं कृष्णवर्णाञ्च कर्त्रीखर्परधारिणीम् || १७७ || ध्यात्वा चोच्चाटयेच्छत्रून् पूर्ववज्जपमाचरेत् | अन्ते च ठद्वयं दत्त्वा प्रजपेन्मनुमुत्तमम् || १७८ || कपिलां द्विभुजां कर्त्रीकपालसव्यदक्षिणम् | प्. ५०५) उत्थितां सन्नतां ध्यायेत् साधको रिपुमारणे | ध्यानानुसारेण फलकथनम् विशेषः कथितः काल्याः सामान्यमथ वक्ष्यते | उच्चाटयति पिङ्गाक्षी संद्रावयति केकरा || १८० || विद्रावयति मुक्तास्या सन्तत्रासयति घूर्णिता | विक्षोभयति संक्षुब्धा सम्पातयति सन्नता || १८१ || सङ्कोचयति वित्रस्ता प्रबुद्धा वा प्रबोधयेत् | यं यं भावं जनो ध्यायेत् तत्र तत्र स्मरेदपि || १८२ || अत्र सर्वत्र कर्तव्यं भावमात्रस्य चिह्नितम् | उच्चाटनादि सर्वत्र मैथुनान्ते समाचरेत् || १८३ || धूस्तूरकाष्ठयोगेन चितावह्नौ च मन्त्रवित् | उलूककाकपक्षैश्च होमाच्छत्रून् विनाशयेत् || १८४ || उच्चाटनार्थं शत्रूणां होमं कुर्याच्च मन्त्रवित् | पूर्वोक्तेन विधानेन चिताकाष्ठहुताशने || १८५ || प्. ५०६) उलूककाकपक्षाभ्यां कृत्वा होमं विनिर्दशेत् | विद्वेषणविधानेन अन्योन्यकलहान्वितम् || १८६ || उलूकपक्षहोमेन गर्भपातो भवेत् स्त्रियाः | सहस्रेण प्रमाणेन कुर्याद्धोमं यथाविधि || १८७ || श्मशानाङ्गारमादाय मङ्गले वासरे निशि | कृष्णवस्त्रेण संवेष्ट्य बध्नीयात् रक्ततन्तुभिः || १८८ || शताभिमन्त्रितं तच्च निःक्षिपेदरिमन्दिरे | सप्ताहाभ्यन्तरे तस्य ध्रुवमुच्चाटनं भवेत् || १८९ || महाचीनद्रुमरसेनाक्तं पिण्डं विधाय च | यन्नाम्ना दीयते तच्च सोऽचिरान्मृत्युमर्हति || १९० || नरास्थिनि लिखेन्मन्त्रं क्षारयुक्त हरिद्रया | सहस्रं परिसञ्जप्य निशायां रविवासरे || १९१ || क्षिप्यते यस्य गेहे तु तस्य मृत्युस्त्रिमासतः | क्षेत्रे तु शस्यहानिः स्याज्जवहानिस्तुरङ्गमे || १९२ || प्. ५०७) धनहानिर्धनागारे ग्राममध्ये तु तत्क्षयः | द्वेष्यद्वेषकयोर्नाम्नि तयोर्द्वेषो महान् भवेत् || १९३ || पुत्तलीप्रयोगकथनम् मन्त्रं कृष्णतृतीयादि प्रजपेद्यावदष्टमीम् | पुत्तलीः पञ्च कुर्वीत साङ्गोपाङ्गाः शुभाः समाः || १९४ || एका साध्यद्रुमेण स्यादन्या पिष्टमयी तथा | चक्रिहस्तमृदाऽन्या स्यादन्यामधुमयी तथा || १९५ || लवणं पञ्चसम्भूतं चूर्णितं दुग्धशोधितम् | प्रोक्षयेच्च तथा क्षीरदध्याज्यमधुभिः क्रमात् || १९६ || गुडाज्यमधुभिः सम्यक् मिश्रितेनाम्बुना ततः | कुर्वीत पुत्तलीं सौम्यां सर्वावयवशोभिताम् || १९७ || पुत्तल्यां जीवमाधाय मन्त्रन्यासं ततः परम् | रक्तवस्त्रधरां शुद्धां पुत्तलीं दारुणा कृताम् || १९८ || अधोमुखीं हुनेत् कुण्डे पिष्टजामासनादधः | मृण्मयीं प्रतिमां पाददेशे न्यस्येत्तथात्मनः || १९९ || मधूच्छिष्टमयीं व्योम्नि कुण्डस्योर्ध्वं प्रलम्बयेत् | लवणेन कृतां पश्चात् प्रतिमां संस्पृशन् जपेत् || २०० || निजमन्त्रं यथान्यायमष्टोत्तरसहस्रकम् | प्. ५०८) अग्निमादाय सन्दीप्य साध्यनक्षत्रदारुभिः || २०१ || तस्मिन्नभ्यर्च्य मन्त्रोक्तां देवतां रूप्यपत्रके | कुशीतराजिदूर्वाभिर्दत्त्वाऽर्घ्यं प्रणमेत् सुधीः || २०२ || मन्त्रैरेतैः प्रयोगादावन्ते च यतमानसः | त्वरानन्दन शत्रुघ्न निशायां हव्यवाहन || २०३ || हविषा मन्त्रदत्तेन तृप्तो भव मया सह | जातवेदो महादेव तप्तजाम्बूनदप्रभ || २०४ || स्वाहापते विश्वभक्ष लवणं दह शत्रुहन् | ओं दुर्गे सर्वविपर्यासि ग्रस्तं युक्तं त्वया जगत् || २०५ || महादेवि नमस्तुभ्यं वरदे वरदा भव | तमोमयि महादेवि महादेवस्य सुव्रते || २०६ || क्रिया मे पुरुषं हुत्वा वशमानय देहि मे | ओं दुर्गे दुर्गे दुर्गासि दुर्गसंरोधनाकुले || २०७ || शङ्खचक्रधरे देवि दुष्टशत्रुभयङ्करि | नमस्ते दह मे शत्रुं वशमानय चण्डिके || २०८ | शाकम्भरि महादेवि शरणं मे भवाऽनघे | भद्रकालि भवाभीतिभद्रसिद्धिप्रदायिनि || २०९ || सपत्नान् मे हन हन दह तापय शोषय | प्राणासिशक्तिरुद्राद्यैरुत्क्रम्योत्कृत्य चानय || २१० || महादेवि महाकालि रक्षास्थानस्थितेऽम्बिके | साध्यं संहृत्य निर्वर्त्यं पुत्तलीं साधकोत्तमः || २११ || प्. ५०९) मूलमन्त्रं समुच्चार्य जुहुयादेधितेऽनले | प्रथमो दक्षपादश्च तत्करस्तदनन्तरम् || २१२ || शिवदूतीयमाख्यातं वामहस्तं ततः परम् | मध्यादूर्ध्वं पञ्चमः स्यादर्धोंऽशः षष्ठ ईरितः || २१३ || सप्तमो वामभागः स्यादेवं भागक्रमः स्मृतः | सप्त सप्त विभागो वा प्रयोगेषु यथाविधि || २१४ || हुत्वैवमर्चयेदग्निं प्रणमेद्दण्डवत्ततः | यजमानो धनैर्धान्यैः प्रीणयेद् गुरुमात्मनः || २१५ || अनेन मनुना मन्त्री वशयेदसुरान् सुरान् | किं पुनर्मनुजान् भूपान् सद्योऽप्यस्य विमोहिताः || २१६ || मारणे पूर्वसम्प्रोक्तं पुत्तलीनां चतुष्टयम् | निवेशयद् यथापूर्वं साधकेन्द्रो यथाविधि || २१७ || अपरां वक्ष्यमाणेन विधानेन प्रकल्पयेत् | वराहपारावतविट् तिलद्रुमैश्च रामठैः || २१८ || रिपोर्नखैश्च केशैश्च तथा वामाङ्घ्रिरेणुजैः | स्नुहिक्षीरेण सम्पिष्टैः पूर्वोक्तलवणान्वितैः || २१९ || प्. ५१०) विधाय पुत्तलीः सम्यक् प्राणस्थापनमाचरेत् | जपपूजादिकं कुर्यात् प्रागुक्तवर्त्मना सुधीः || २२० || ततः पूर्वोदिते भागे रात्रौ प्रज्वलितेऽनले | दुर्गां वा भद्रकालीं वा समाराध्य यथाविधि || २२१ || धारयेन्निशितं शस्त्रं सव्यहस्तेन साधकः | वामं पादं समारुह्य दक्षिणं ध्रुवमानसः || २२२ || छित्त्वा छित्त्वा हुनेन्मन्त्री निराहारो जितेन्द्रियः | कृष्णाष्टमीं समारभ्य यावत् कृष्णचतुर्दशी || २२३ || अनेनैव विधानेन होमं कुर्याद्विचक्षणः | द्विसप्ताहप्रयोगेण मारयेत् रिपुमात्मनः || २२४ || क्रूरे रोगे ग्रहे सर्पे तर्जन्या संस्पृशन् जपेत् | स्मृत्वा शूलधरां देवीं देवांश्च तत्क्षणाज्जयेत् || २२५ || दर्भितं साध्यनामानं समुद्दिष्टञ्च संलिखेत् | कुलालमृत्तिकायां तु प्रतिमायां हृदि न्यसेत् || २२६ || प्. ५११) कृतप्राणप्रतिष्ठां तां पूजितां कुसुमादिभिः | विधायाग्निं जपेन्मन्त्रमष्टोत्तरसहरकम् || २२७ || संख्यासम्पूर्णमात्रेण वशमायाति वाञ्छितम् | अभ्यर्च्य च ततः पश्चात् तीक्ष्णतैलेन मन्त्रवित् || २२८ || कृत्वायुतं विधायार्घ्यं तीक्ष्णतैलेन च पुनः | तेषु सम्पातयेद् भूयः स्पृष्ट्वा तान्ययुतं जपेत् || २२९ || वेधयेत् परसेनायां क्षणान्नष्टा दिशो दश | प्राप्नुयान्नष्टसञ्ज्ञायां पलायनपरायणः || २३० || जपित्वा सिद्धगुञ्जानां कुडवञ्चानलोदरे | निःक्षिपेत् शत्रुसेनायां गूढं रात्रिसमागमे || २३१ || ज्वरमारीमहारागैः पीडितः सैन्यनायकः | परस्परविरोधेन गच्छेद्विगतचेष्टया || २३२ || शिलासंस्तम्भने मन्त्री करैकसुरसम्भवैः | साध्यपादरजोयुक्तो होमादुच्चाटयेत् रिपून् || २३३ || करे दारुमयीं कृत्वा प्रतिमामतिशोभनाम् | शप्तां प्रतिष्ठितप्राणां छेदयेदङ्गशः पुरः || २३४ || काकोलूकवसायुक्तमष्टोत्तरसहस्रकम् | प्. ५१२) कृष्णपक्षे चतुर्दश्यां श्मशाने हव्यवाहने || २३५ || जुहुयाज्जायते शतुर्यमगेहं दिनत्रयात् | उन्मत्तसमिधां होमान्मत्ताः स्युः शत्रवः क्षणात् || २३६ || उलूककाकयोः पक्षं सवसारक्तसंयुतम् | जुहुयान्निशि कान्तारे शत्रु कालातिथिर्भवेत् || २३७ || शत्रोः प्रतिकृतिं मन्त्री प्रतिष्ठितसमीरणाम् | विषलिप्तविलिप्ताङ्गीमभ्युक्ष्य निक्षिपेज्जले || २३८ || ज्वराक्रान्तो भवेच्छीघ्रं दुग्धसेकात् सुखं नयेत् | प्रकारान्तरप्रयोगकथनम् तर्जनीत्रिशिखं दोर्भ्यां धारयन्तीं भयङ्करीम् || २३९ || रक्तां ध्यात्वा रवेर्विम्बे प्रजपेदयुतं मनुम् | मारयेदविवादेन रिपून् बन्धुसमन्वितान् || २४० || प्. ५१३) खड्गखेटदरां क्रुद्धां सिंहस्थां रविमण्डले | ध्यात्वा मन्त्रं जपेन्मन्त्री पूर्ववन्नाशयेदरीन् || २४१ || चापबाणधरां भीमां सिंहस्थां ज्वलनोपमाम् | सृजन्तीं बाणनिवहान् धारयन्तीं च तर्जनीम् || २४२ || ध्यात्वा जपेन्निजं मन्त्रमयुतं जलमध्यतः | रिपुञ्च परसेनाञ्च शीघ्रमुच्चाटयेद् ध्रुवम् || २४३ || प्रेतपिण्डं समादाय गोलकं कारयेत्ततः | साध्यनामाङ्कितं कृत्वा शत्रुसदृशपुत्तलीम् || २४४ || जीवं तत्र निधायैव चिताग्नौ प्रक्षिपेत्ततः | एकायुतं जपं कृत्वा त्रिरात्रान्मारणं भवेत् || २४५ || पूर्ववत् पुत्तलीं कृत्वा जप्त्वा च पूर्ववर्त्मना | महाज्वाला भवेत्तस्य तप्तताम्रशलाकया || २४६ || गुह्यद्वारे प्रविन्यस्य सप्ताहान्मरणं रिपोः | कुण्डलिन्या मुखे क्षिप्त्वा वैरिणं साधकोत्तमः || २४७ || तस्मात् कालाग्निमध्ये च प्रक्षिप्य दहनञ्चरेत् | प्रातरेव विभाव्याथ जपेदयुतसंख्यकम् || २४८ || त्रिसप्ताहप्रयोगेण रिपुर्याति यमालयम् | प्. ५१४) भूर्जपत्रे स्वर्णपत्रे निम्बपत्रे विलिख्य च || २४९ || पूजां कृत्वा दहेदग्नौ तदा शत्रुनिकृन्तनम् | वह्निपत्रे रिपोर्विद्यां लिखित्वा पत्रकेऽमले || २५० || पुटान्तं मन्त्रमुद्भाव्य पटे कृत्वा विदर्भ्य च | सहस्रजन्मभिर्जप्त्वा विद्या न हि फलप्रदा || २५१ || पत्राभावे कुले पात्रे रक्तचन्दननिर्मितम् | वह्निबीजं पुटं कृत्वा दृष्ट्या दग्ध्वा विचिन्त्य च || २५२ || वामहस्तेन जुहुयाल्लुप्तं स्यान्नात्र संशयः | पद्मपत्रे यस्य मन्त्रं पुटीकृत्य च दीपनैः || २५३ || मृण्मध्ये निक्षिपेत्तोये तद्वद्बोधो भविष्यति | वाङ्मायाकमलाबीजं दीपनं परिकीर्तितम् || २५४ || मृत्पात्रे तु मृतं लिख्य मृदा तीर्थ पुटीकृतम् | जले च निक्षिपेन्मन्त्रं पुनर्नव इतीरितः || २५५ || प्. ५१५) यन्मनुं तं मनुं दग्धं नवोदितशशी यथा | कारयेदक्षवृक्षेणाऽप्येदायुध पञ्चकम् || २५६ || शङ्खखड्गरथाङ्गानि शार्ङ्गकौमोदकी क्रमात् | पञ्चगव्येषु निक्षिप्य तानि स्पृष्ट्वा जपेन्मनुम् || २५७ || अवटान् पञ्च निखनेद्दिक्षु पुर्वोदितक्रमात् | अवटेषु च पूर्णेषु पञ्चगव्येन साधकः || २५८ || अधराणि प्रजनानि पञ्चघोषपुरःसरम् | निवसेत्तस्य मध्यादि पूजां कृत्वा यथाविधि || २५९ || बालुकाभिः समापूर्य मृद्भिः कुर्यात् समन्ततः | बलिञ्च विकिरेत्तत्र तेषां मन्त्री यथाक्रमात् || २६० || दिक्पतिभ्यो बलिं दत्त्वा ब्राह्मणान् भोजयेत्ततः | दीनांश्च कृपणादींश्च तोषयेद् भोजनादिभिः || २६१ || गुरवे दक्षिणां दद्यात् यथावित्तानुसारतः | यत्रेयं विहिता रक्षा देशे वा नगरेऽपि वा || २६२ || ग्रामे गेहे तथा क्षेत्रे वर्धन्ते सम्पदः सदा | अग्न्युत्पातादयो दोषा भूतप्रेतादि संयुताः || २६३ || अभिचारकृताः कृत्यरिपुचौराद्युपद्रवाः | नेक्षन्तां तां दिशं भीत्या तर्जिता देवताज्ञया || २६४ || प्. ५१६) यस्माच्च कथितं ग्रन्थं षट्कर्मविधिमुत्तमम् | गोप्तव्यञ्च प्रयत्नेन नान्यथा नरकं व्रजेत् || २६५ || हृदि कालीं यजेद्यत्नात् ध्यानं तस्याः प्रचक्षते | कालिकाध्यानम् ध्यायेत् कालीं करालास्यां सुदंष्ट्रां भीमलोचनाम् || २६६ || स्फुरन्मरकतश्रेणीं करकाञ्चीं दिगम्बरीम् | वीरासनसमासीनां महाकालोपरिस्थिताम् || २६७ || श्रुतिमूलसमाकीर्णां सृक्कणीं चण्डनादिनीम् | मुण्डमालागलद्रक्तचर्चितां पीवरस्तनीम् || २६८ || मदिरामोदितास्फालकम्पिताखिलमेदिनीम् | वामे खड्गमुण्डखण्डधारिणीं दक्षिणे करे || २६९ || वराभययुतां घोरवदनां लोलजिह्विकाम् | शकुन्तपक्षिसंयुक्तां बालचन्द्रविभूषिताम् || २७० || शिवाभिर्घोररावाभिः सेवितां प्रलयोदिताम् | चण्डहासचण्डनादचण्डस्फोटैश्च भैरवैः || २७१ || गृहीत्वा नरकङ्कालं जयशब्दपरायणैः | सेविताशेषसिद्धौघसेवितैः सेवितां सदा || २७२ || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये एकोनविंशोल्लासः || १९ || विंश उल्लासः लुकीविद्याविवेचनम् अथ चात्रसमासेन लुकी विद्या प्रचक्ष्यते | भौमवारे निशीथे च चतुष्पथगतो नरः || १ || दिग्वासा मुक्तकेशश्च मकारपञ्चकैः सह | स्वकल्पोक्त विधानेन सम्पूज्य निजदेवताम् || २ || माषभक्तबलिं दद्यात् सदग्धमीनशोधितम् | अष्टोत्तरसहस्रं तु जप्त्वा स्तुत्वा च साधकः || ३ || सोऽदर्शनो भवत्याशु षण्मासाभ्यासयोगतः | वेतालसिद्धिकथनम् अथ वक्ष्ये च वेताल सिद्धिं सर्वोत्तमोत्तमाम् || ४ || बिल्ववृक्षोद्भवं काष्ठं श्मशाने साधकोत्तमः | भौमवारे मध्यरात्रौ गत्वा कुलयुगान्वितः || ५ || खनित्वा काष्ठं लक्षं वै जपेन्महिषमर्दिनीम् | सहस्रं होमयेद्वीरस्तत्रैव पितृकानने || ६ || प्. ५१९) काष्ठमुद्धृत्य तेनैव दण्डं पादुकचिह्नितम् | कृत्वा दुर्गाष्टमीरात्रौ श्मशाने निःक्षिपेत्ततः || ७ || तस्योपरि शवं कृत्वा निजदेवीं प्रपूज्य च | शवासनगतो वीरो जपेदष्टसहस्रकम् || ८ || ततो मातृबलिं दद्यात् काष्ठमामन्त्रयेत्ततः | स्फें स्फें दण्ड महाभाग योगिनीहृदयप्रिय || ९ || मम हस्तस्थितो देव ममाज्ञां परिपालय | एवमामन्त्र्य वेतालं यत्र यत्र प्रपूज्यते || १० || तत्र तूर्णं विहायाथ पुनरायाति कौलिकम् | गच्छ गच्छ महाभागे पादुके वरवर्णिनि || ११ || मत्पादस्पर्शमात्रेण स याति शतयोजनम् | एवमामन्त्र्य पादुकां दद्यात् पादतले ततः || १२ || यत्रेच्छा वर्तते तस्य तत्र गच्छेद् यथासुखम् | खड्गसिद्धिकथनम् अथ वक्ष्ये खड्गसिद्धिं साधकानां हिताय च || १३ || अष्टलौहं समादाय पञ्चाशदङ्गुलं मतम् | कृत्वा तत्र मूलमन्त्रं लिखित्वा प्रजपेन्मनुम् || १४ || पूर्वसंख्यं पूर्वमन्त्रं जप्त्वा च तदनन्तरम् | तत् सहस्रं ततो हुत्वा महाशवकलेवरे || १५ || प्. ५२०) खनित्वा जीववृक्षाग्रे बद्ध्वा शुष्कं तु कारयेत् | कुलाष्टम्यामर्धरात्रे चितामध्ये समाहितः || १६ || प्रीति पूर्वं समामन्त्रा हुनेत् पितृवने ततः | मधुरत्रयसंयुक्तं बिल्वपत्रेण संयुतम् || १७ || पादादिमूर्धपर्यन्तं होमान्ते बलिमाहरेत् | बल्यन्ते सा महामाया देवी महिषमर्दिनी || १८ || आयाति वरपूर्णास्या वरहस्ता हसोन्मुखी | गृध्रवदतिशब्देन खड्गमुत्तोल्य धारयेत् || १९ || घोरदंष्ट्रे महाकालि करवालस्वरूपिणि | कां ईं ऊं कुरु कल्याणि विपक्षादपि विस्तरम् || २० || तत एवं समामन्त्र्य यमुद्दिश्य क्षिपेन्नरः | छित्त्वा छित्वा पुनश्छित्त्वा गतोऽप्याकृष्यते पुनः || २१ || फेत्कारिणीसिद्धिकथनम् फेत्कारिण्यां महासिद्धिं वक्ष्यामि तन्त्रवर्त्मना | कुलमीनं कुलद्रव्यं कुलमद्यं कुलेश्वरं || २२ || प्. ५२१) कुलस्थाने समानीय दत्त्वा देव्यै प्रयत्नतः | विधिवत् पूजनं कृत्वा साधकः स्थिरमानसः || २३ || अष्टोत्तरसहस्रं तु जप्त्वा भूमितले स्थितः | भूमौ फूत्कारमात्रेण विवरं तत्र जायते || २४ || शतयोजनदूरे वा यत्र साध्यस्थितिर्भवेत् | तत्रैव गमनं तस्य भूतलान्तः प्रसर्पिणः || २५ || एवं विवरमध्ये च गवाक्षैरपि साधकः | कायसङ्कोचमासाद्य गच्छत्यविकलो नरः || २६ || खेचरीसिद्धिकथनम् खेचराख्यां महासिधिं प्रवक्ष्येऽहमतः परम् | यादिक्षान्तं चतुर्भागे सिन्दूररजसा लिखेत् || २७ || स्वीयचक्रं मातृकार्णैः संवेष्ट्य चैव मध्यतः | पूजयेत् रात्रिसमये कुलाचारक्रमेण तु || २८ || तत्क्षणात् साधकश्रेष्ठः खेचरो भवति ध्रुवम् | एवं षण्मासयोगेन सिद्धो भवति साधकः || २९ || प्. ५२२) अथ षडङ्गदेवता ओंकारस्फटिकश्यामनीलकृष्णारुणार्च्चिषः | वरदाभयधारिण्यः प्रधानतनवः स्त्रियः || ३० || देवताङ्गे षडङ्गः स्यात् सकलीकरणं भवेत् | अञ्जलिञ्चार्घ्यवत् कृत्वा परमीकरणं भवेत् || ३१ || अमृतीकरणे देवि मुद्रा स्यादनुरूपिणी | हृदयं मध्यमानामा तर्जनीभिः स्मृतं शिरः || ३२ || मध्यमातर्जनीभ्यां स्यादङ्गुष्ठेन शिखा स्मृता | दशभिः कवचं प्रोक्तं तिसृभिर्नेत्रमीरितम् || ३३ || प्रोक्ताङ्गुलीभ्यां मन्त्रं स्यात्ततस्तालत्रयं शिवे | दिशस्तेनैव बध्नीयात् छोटिकाभिः समन्ततः || ३४ || अथ कालिकाकल्पं शिव उवाच - सङ्कटे राजभवने कारागारेषु बन्धने | स्मरणात् कालिका देवी सर्वबन्धविमोचिनी || ३५ || चित्स्वरूपा महाकाली विष्णुरूपा महेश्वरी | ब्रह्माणी देवगन्धर्वसेविता शिवगेहिनी || ३६ || प्. ५२३) ब्रह्मविष्णु प्रसूतेयं शिवमायात्मिका परा | साधकस्य क्षणं ध्यानात् प्रत्यक्षा सुरवन्दिता || ३७ || प्रभावं कालिकादेव्या वक्तुं न शक्यते प्रिये | शतकोटिमुखेनापि पञ्चभिश्च कथं प्रिये || ३८ || अस्माकं जननी देवी भक्त्या स्वदेहगामिनी | आदौ माता तथा गुप्ता मागुरीत्यभिधीयते || ३९ || मम साम्राज्यसाहाययं ममैव सिद्धिदायिनी | मम प्रभुत्वमापन्ना मम माता यशस्विनी || ४० || तया विना जगदद्धात्रि स्पन्दितुं नैव शक्यते | इत्युक्त्वा शङ्करो मोहात् मूर्च्छितः पुनरुद्गतः || ४१ || शिवदेहाद् घोररूपो भैरवः समजीजनत् | जातोऽसौ शङ्करो देव्याः पादपद्मं समाश्रितः || ४२ || आलिङ्ग्य पार्वती तेन रूपेण वपुरुच्यते | प्. ५२४) केवलं ध्यानयोगेन सर्वसिद्धिमुपालभेत् || ४३ || सम्पूज्य लक्षमात्रं तु जप्त्वा त्रिदशतारिणीम् | प्रयोगप्रभवा देवी प्रसन्न भक्तवत्सला || ४४ || अर्कपुष्पसहस्रेण पूजिता वरदायिनी | सहस्रं परिजप्यैतत् सन्ध्यायां रविवासरे || ४५ || धनवान् कामभोगीशो भवेत् सर्वजनप्रियः | सहस्रं परिजप्येत विपुलां कवितां लभेत् || ४६ || महदैश्वर्यमाप्नोति धर्मपत्नीरतो निशि | रक्तपुष्पशतेनापि मण्डिते कुजवासरे || ४७ || ब्रह्मपुष्पशतेनापि रक्तचन्दनचर्चितः | सम्पूज्य राजसम्मानं कुजवारे निशार्धके || ४८ || धर्मक्षेत्रे पद्मपुष्पैः सहस्रैः परिपूजयेत् | रवौ वारे त्रयोदश्यां हविष्याशी जितेन्द्रियः || ४९ || सहस्रं परिजप्येत विपुलां कवितां लभेत् | पुत्रदाता निशाभागे धरपत्नीसाहयवान् || ५० || सञ्जपेन्निजशययायां निशि संयतमानसः | दीर्घमायुर्वशकरं पुत्रं संलभतेऽचिरात् || ५१ || प्. ५२५) रोचनाप्रस्थमात्रं तु मन्त्रेणानेन मन्त्रितम् | शतमष्टोत्तरं मन्त्रं धारयेत्तिलकं यदि || ५२ || राजानोऽपि हि दासत्वं भजन्ते किं परे जनाः | परनारीरता ये वा जपन्ति पश्चिमामुखाः || ५३ || सहस्रं कालिका मन्त्रं धनाढ्यास्ते भवन्ति हि | चतुष्पथे सहस्रार्धं मुक्तकेशो दिगम्बरः || ५४ || अष्टवारं जपेद्योऽपि तस्य प्रीता च कालिका | अचलां कमलां लब्ध्वा सुखं प्राप्नोति भूतले || ५५ || कर्पूरपूइतमुखो निजनारीसमागमे | जपेत्तु कालिकाध्यानादष्टाधिकशतं निशि || ५६ || सुप्रीता कालिका स्वप्ने दर्शनं प्रददाति च | मत्स्याशी नित्यमांसाशि रात्रौ पश्चिमदिङ्मुखः || ५७ || शतमष्टोत्तरं कृत्वा यो जपेदर्धरात्रकम् | सत्यं सत्यं पुनः सत्यं तच्छतुर्यमवल्लभः || ५८ || प्. ५२६) अर्कारण्ये जपेद्व्याघ्रचर्मणि प्रतिवासरम् | अष्टौ दिनानि लभ्येत कन्यां शीलगुणान्विताम् || ५९ || अर्कवृक्षस्य मूले तु यो जपेत्त्रिदिनं निशि | सहस्रार्धप्रमाणेन धनदेन समो भवेत् || ६० || सहस्रं परिजप्येत निशायां मङ्गले निशि | चतुष्पथे महारोगान्मुक्तो रोगी भवेद् ध्रुवम् || ६१ || भगलिङ्गस्य संयोगी पश्चिमाभिमुखी जनः | तस्य दारिद्र्यसंन्यासं करोति जपमस्तके || ६२ || निजरामाभिगमने प्रक्षाल्य भगलिङ्गकम् | तज्जलं ताम्रपात्रेषु संस्थाप्य तर्पणं चरेत् | मूलमन्त्रेण देवेशि लभते महतीं श्रियम् || ६३ | सप्तशतीप्रयोगविधानम् प्रथमचरितस्य ब्रह्म-ऋषिर्गायत्रीच्छन्दो महाकालीदेवता नन्दा शक्ती रक्तदन्तिका बीजमग्निस्तत्त्वं महाकालीप्रीत्यर्थं जपे विनियोगः | प्. ५२७) मध्यमचरितस्य विष्णुर्-ऋषिमहालक्ष्मीर्देवताऽनुष्टुप्छन्दः शाकम्भरी शक्तिर्दुर्गा बीजं सूर्यस्तत्त्वं महालक्ष्मीप्रीत्यर्थं जपे विनियोगः | उत्तमचरितस्य रुद्र ऋषिः सरस्वती देवता उष्णिक्छन्दो भीमा शक्तिर्भ्रामरी बीजं वायुस्तत्त्वं सरस्वतीप्रीत्यर्थं जपे विनियोगः | दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा | विशालया राजमाना त्रिंशल्लोचनमालया || ६४ || प्रस्फुरत् कुलदंष्ट्राभा भीमरूपा भयङ्करी | खड्गबाणगदाशूलशङ्खचक्रभुशुण्डिभृत् || ६५ || परिघं कार्मुकं शीर्षं निश्च्योतद्रुधिरं दधौ | मधुकैटभयोर्युद्धे यैषा सा तामसी शिवा || ६६ || श्वेतानना नीलभुजा सुश्वेतस्तनमण्डला | रक्तमध्या रक्तदेहा नीलजङ्घोरुजानुका || ६७ || चित्रानुलेपना कान्ता सर्वसौभाग्यशालिनी | अष्टादशभुजा पूज्या सा सहस्रभुजा रणे || ६८ || प्. ५२८) आयुधान्यत्र वक्ष्यन्ते दक्षिणाधः करक्रमात् | अक्षमालां तु मुषलं बाणासिं कुलिशं गदाम् || ६९ || चक्रं त्रिशूलं परशुं शङ्खखेटक पाशकम् | शक्तिदण्डचर्मपाशं पानपात्रं कमण्डलुम् || ७० || अलङ्कृतभुजामेभिरायुधैः परमेश्वरीम् | स्मर्तव्या स्तुतिकालादौ महिषासुरमर्दिनी || ७१ || इत्येषा राजसी मूर्तिः सर्वदेवमयी मता | एवं ध्यात्वा नरो नित्यं लभेतेप्सितमात्मनः || ७२ || गौरीदेहात् समुत्पन्ना या सत्त्वैकगुणाश्रया | साक्षात् सरस्वती प्रोक्ता शुम्भासुरनिबर्हिणी || ७३ || दधौ चाष्टभुजा बाणं मुषलं शूलचक्रकम् | शङ्खघण्टालाङ्गलञ्च कार्मुकञ्च तथा परम् || ७४ || ध्येया सा स्तुतिकालादौ वधे शुम्भनिशुम्भयोः | अथ मन्त्रोद्धारः वाराहीतन्त्रे - तारं वाणीं ततो लज्जां वह्निजायां ततः परम् | पुनस्तारञ्च वाराही चण्डीमन्त्रः समीरितः || ७५ || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये विंशोल्लासः || २० || एकविंश उल्लासः अवधूताश्रमनिरूपणम् अथातः सम्प्रवक्ष्यामि अवधूतक्रमं शृणु | चतुर्थाश्रमिणां मध्ये अवधूताश्रमो महान् || १ || केवलं कुलयोगेन तस्य मोक्षः प्रजायते | यदि न स्यात्तदा चैव शृणु यत् कथयामि ते || २ || ज्ञान भावे च सम्पन्ने सम्प्रार्थ्यं निजकौलिकीम् | तदाज्ञया विमुक्तः स्यात्तां सम्पूज्य कुलान्तरे || ३ || कुण्डलीशक्तिविवरे तदा योगं समभ्यसेत् | निर्द्वन्द्वो निरहङ्कारः शुद्धनाडीजितेन्द्रियः || ४ || मृद्वासने समासीनः षट्कसंयमने रतः | बद्धपद्मासनो योगी योगं युञ्जीत यत्नतः || ५ || ऊर्वोरुपरि वीरेन्द्रः कृत्वा पादतले उभे | प्. ५३१) अङ्गुष्ठौ तु निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण तु || ६ || पद्मासनं भवेदेतत् सर्वेषामेव पूजितम् | मुलाधारचक्रकथनम् गुदात्तु द्व्यङ्गुलादूर्ध्वमधोमेढ्रात्तु द्व्यङ्गुलम् || ७ || एकाङ्गुलं तु तन्मध्ये देहमध्यं प्रकीतितम् | कन्दमस्ति शरीरेऽस्मिन् पुण्यापुण्यविवर्जितः || ८ || तन्तुपञ्जरमध्यस्थो यथा भ्रमति सूतिकः | जीवस्तु मूलचक्रेऽस्मिन् अधःप्राणश्चरत्यसौ || ९ || प्राणारूढो भवेज्जीवः सर्वदेहेषु सर्वदा | तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः || १० || मेरुदण्डबहिः पार्श्वे चन्द्रसूर्यात्मिके शुभे | इडा च पिङ्गला चैव वामदक्षिणतः स्थिते || ११ || कन्दमध्याद् द्वयोर्मध्ये सुषुम्ना सुप्रतिष्ठिता | पृष्ठमध्यगता सा तु सह मूर्ध्नि व्यवस्थिता || १२ || प्. ५३२) ऋज्वीभूता तु वज्राख्या ज्वलन्ती विश्वधारिणी | मुक्तिमार्गे सदा गुप्ता मेढ्रमूर्ध्नि व्यवस्थिता || १३ || तस्याश्चान्तर्गता नाडी चित्राख्या योगिवल्लभा | पञ्चवर्णोज्ज्वला देवी पञ्चभूतनिवासिनी || १४ || पञ्चदेवैर्युता देवी पञ्चतत्त्वप्रकाशिनी | पूरयित्वा तु विचिन्ना चित्रा सा ग्रन्थिरूपिणी || १५ || तयैव ग्रथितं सर्वं मूलादि पद्मपञ्चकम् | तस्या मध्ये ब्रह्मनाडी मृणालतन्तुरूपिणी || १६ || ब्रह्मरन्ध्रं तु तन्मध्ये हरवक्त्रं सदाशिवम् | गुदमेड्रान्तरे ग्रन्थि सुषुम्ना सन्धिरुत्तमा || १७ || आधारे च गुदस्थाने पङ्कजञ्च चतुर्दलम् | सुवर्णाभं वादिसान्तं हेमवर्णं सुशोभनम् || १८ || कलिकारूपकं पद्मं पृथिवीपद्मिनीयुतम् | तरुणारुणसङ्काशां शूलखट्वाङ्गकौ ततः || १९ || वामे खड्गं सुराकुम्भं दधानामुग्रदंष्ट्रिणीम् | प्. ५३३) दुग्धाभां संस्थितां ध्यायेत् डाकिनीं लोचनत्रयाम् || २० || कर्णिकायां स्थिता योनिः कामाख्या योगिवल्लभा | अपानाख्यं हि कन्दर्पं आधारे च त्रिकोणके || २१ || स्वयम्भूलिङ्गं तन्मध्ये पश्चिमाभिमुखं भवेत् | बन्धूकपुष्पसङ्काशं सूर्यकोटिसमप्रभम् || २२ || भ्रमन्तं योनिमध्ये च शिशिरं शशभृत्समम् | तस्योर्ध्वे कुण्डली शक्तिरष्टधा कुण्डलाकृतिः || २३ || अष्टप्रकृतिरूपा सा नाभेस्तिर्यगधो गता | अधोवक्त्रस्थितादेवी ऊर्ध्वपुच्छाऽतिशोभना || २४ || अकारादिक्षकारान्ता कुण्डलीत्यभिधीयते | सा च विद्युल्लताकारा मृणालतन्तुसन्निभा || २५ || प्. ५३४) परिस्फुरति सर्वात्मा सुप्ताऽहिसदृशाकृतिः | ब्रह्मद्वारमुखं नित्यं मुखेनावृत्य तिष्ठति || २६ || येन मार्गेण गन्तव्यं ब्रह्मद्वारं निरामयम् | मुखेन श्वासं प्रविष्टा ब्रह्मरन्ध्रं मुखं तदा || २७ || मस्तके मणिवद्भिन्नस्वयम्भूलिङ्गवेष्टिनी | नान्यः पन्था द्वितीयोऽस्ति शरीरे परमस्य च || २८ || मूलाधारे कामरूपं पीठं परमदुर्लभम् | अधोवक्त्राणि पद्मानि मूलादीनि यथाक्रमात् || २९ || मूलाधारचक्रम् तध्यानफलम् गुदात्तु द्व्यङ्गुलादूर्ध्वमधो मेढ्रात्तु द्व्यङ्गुलात् | चतुरङ्गुलविस्तारं कन्दमूलं खगाण्डवत् || ३० || एकाङ्गुलं तु तन्मध्ये चतुरस्रं त्रिकोणकम् | एवं ध्यात्वा च वीरेन्द्रः स्थिरचित्तः स्थिरेन्द्रियः || ३१ || आकुञ्चयेद् गुदमूलं चिबुकं हृदयोपरि | नव द्वाराणि संयम्य कुक्षिमापूर्य वायुना || ३२ || शब्दबीजेन तां देवीं दृढविभ्रामयेत्ततः | वायुना भिद्य तद्वक्त्रं ऊर्ध्ववक्त्रं तु कारयेत् || ३३ || प्. ५३८) उद्घाटयेत् कपाटं तु यथा कुञ्चिकया दृढम् | उल्लासोज्ज्वलकारस्य शिखा याति समुज्ज्वला || ३४ || मूलचक्रं ततो भित्त्वा ब्रह्मद्वारं विभेदयेत् | ऊर्ध्वं भित्त्वा तु लिङ्गं वै इतरं पुष्करं ततः || ३५ || मूलाधारे सन्ततं ध्यानयोगात् स्तम्भक्षोभावुत्प्लुतिर्दार्दुरीव | भूमित्यागः खेचरत्वं क्रमेण नॄणामेते षड्गुणाः सम्भवन्ति || ३६ || कान्तिप्रकर्षो वपुषोऽपि नादव्यक्तिः प्रदीप्तिः जठरानलस्य | लघुत्वमङ्गस्य निजेन्द्रियाणां पटुत्वमारोग्यमदीनता च || ३७ || स्वाधिष्ठानचक्रम् तद्ध्यानफलम् मूलादिपद्मषट्कञ्च कलिकासदृशं शुभम् | स्वाधिष्ठानं महापद्मं लिङ्गमूले रसच्छदम् || ३८ || प्. ५३६) बन्धूक पुष्पसङ्काशं सदा जलसमन्वितम् | सिन्दूरप्रस्फुरद्वर्णैर्बादिलान्तैश्च मण्डितम् || ३९ || शूलं वज्रं तथा पद्मं डमरुं करपङ्कजैः | दधानां श्यामवर्णाञ्च राकिणीं त्रितयान्विताम् || ४० || रक्तधात्वेकनाथां तां चिन्तयेत्तत्र साधकः | विचिन्त्य स्थिरचित्तेन अधिष्ठानं प्रभेदयेत् || ४१ || इह वेत्ति निधाय मानसं स्वं विविधञ्चाश्रुतशास्त्रजालमुच्चैः | अवधूतजरामयः स मर्त्यः सुचिरं जीवति वीतमृत्युभीतिः || ४२ || वपुषोऽशुचिता जनस्य शश्वत् परमां शुद्धिमिहातनोति पुंसाम् | शरदम्बुजपेलवस्य देहे दृढरुद्धो घनताञ्च शीतरश्मिः || ४३ || मणिपूरचक्रम् तद्ध्यानफलम् तदूर्ध्वे सव्यदक्षाभ्यां चिन्तयेत् साधकोत्तमः | पद्ममध्ये स्थितं शुद्धं विद्युताभं त्रिकोणकम् || ४४ || प्. ५३७) तन्मध्ये चिन्तयेद् देवं ब्रह्माणं हंसवाहनम् | रक्तवर्णं चतुर्वक्त्रं दधतञ्च त्रिलोचनम् || ४५ || चिन्तयेत् कूर्चपद्मे च अक्षमालां कमण्डलुम् | ब्रह्मसत्त्वाक्षमोङ्कारं स्थितं नाभेरधः सदा || ४६ || नाभौ नीलनिभं पद्मं मणिपूरं दशास्रकम् | विद्युत्पुञ्जस्फुरद्वर्णैर्डादिफान्तैश्च मण्डितम् || ४७ || वह्निना संयुतं तत्र लाकिनीं मांसधातुगाम् | मानसं संविभाव्याथ भेदयेत्तदनन्तरम् || ४८ || स्थानेऽस्मिन्निहितात्मनः सुकृतिनः पातालसिद्धिं परां खड्गस्याप्रतिमस्य साधनमपि स्यादीप्सितञ्च क्षितौ | रूपं भूमिविसर्जनं परपुरे शक्तः प्रवेष्टुं जरा- हानिश्चाखिलदुःखरोगशमनं कालस्य वा वञ्चनम् || ४९ || अनाहतचक्रम् तद्ध्यानफलम् अनाहतं हृदि ध्यायेत् पिङ्गाभं द्वादशच्छदम् | द्रुतस्वर्णप्रभावर्णैः कादिठान्तैश्च मण्डितम् || ५० || प्. ५३८) मेदःस्थां काकिनीं तत्र पीताभां मत्तरूपिणीम् | अभयं डमरुं शूलं पाशञ्च करपङ्कजैः || ५१ || दधानां चारुरुपाञ्च नानाभरणभूषिताम् | तत्रैवाङ्गुष्ठमात्मानं प्रदीपकलिकोपमम् || ५२ || तत्र सञ्चिन्तयेद् देवं नारायणं निरञ्जनम् | शुद्धस्फटिकसङ्काशं वाणीलक्ष्मीविभूषितम् || ५३ || वैनतेयसमारूढं शङ्खचक्रगदाधरम् | पीताम्बरधरं शान्तं वनमालाविभूषितम् || ५४ || पूर्णशैलं महापीठं तत्रैव परिचिन्तयेत् | प्रभेदयेत्ततः पश्चात् साधकः स्थिरमानसः || ५५ || एतस्मिन् सततं निविष्टमनसः स्थाने विमानस्थिताः क्षुभ्यन्त्यद्भुतरूपकान्तिकलिता दिव्यस्त्रियो योगिनः | ज्ञानञ्चाप्रतिमं त्रिकालविषयं क्षोभः पुरस्य श्रुति- र्दूरादेव च दर्शनञ्च खगतिः स्याद्योगिनीमेलनम् || ५६ || विशुद्धचक्रम् तद्ध्यानफलम् विशुद्धं षोडशारञ्च धूम्राभं कण्ठदेशके | प्. ५३९) तदन्ते व्योमबीजञ्च शुक्लं हैमगजस्थितम् || ५७ || तरुणारुणसङ्काशैः स्वरैश्च परिमण्डितम् | आकाशसहितं पद्मं शाकिनीं परिचिन्तयेत् || ५८ || अस्थिसंस्थां चतुर्बाहुं पञ्चवक्त्रां त्रिलोचनाम् | पाशाङ्कुशौ पुस्तकञ्च ज्ञानमुद्राञ्च धारिणीम् || ५९ || दंष्ट्रिणीमुग्ररूपाञ्च सदा मधुमदाकुलाम् | अर्धनारीश्वरं देवं नानामणिविभूषितम् || ६० || चन्द्रचूडं त्रिनयनं वराभयकरं शुभम् | ध्यात्वैवं चक्रराजं तु भेदयेत् साधकोत्तमः || ६१ || स्थानेऽत्र संसक्तमना मनुष्य- स्त्रिकालदर्शी विगताधिरोगः | जित्वा जरामञ्जननीलकेशः क्षितौ चिरं जीवति वीतमृत्युः || ६२ || इह स्थाने चित्तं सततमवधायात्तपवनो यदि क्रुद्धो योगी चलयति समस्तं त्रिभुवनम् | न च ब्रह्मा विष्णुर्न च हरिहरो नैव खमणि- स्तदीयं सामर्थ्यं शमयितुमलं नापि गणपः || ६३ || प्. ५४०) आज्ञाचक्रम् तद्ध्यानफलम् द्विदलं हक्षवर्णाभ्यां शुभाभ्यां परिमण्डितम् | विद्युत्कोटिप्रभं चक्रं भ्रुवोरूर्ध्वे मनोन्मनी || ६४ || बिन्दुयुक्तं सर्ववर्णं सर्वपद्मेषु चिन्तयेत् | योनिमध्ये स्थितं लिङ्गमितरं तरुणारुणम् || ६५ || जालन्धरं महापीठं हाकिनीं तत्र चिन्तयेत् | बिन्दुस्थां हाकिनीं शुक्रमेदोमज्जास्वरूपिणीम् || ६६ || अक्षमालाञ्च डमरुं कपालं पुस्तकं तथा | चापं मुद्रां दधानाञ्च शुक्लां नेत्रत्रयान्विताम् || ६७ || पद्ममध्येऽन्तरात्मानं प्रभारूपं हि कारणम् | ओङ्कारज्योतिषं कल्पप्रदीपाभं जगन्मयम् || ६८ || बालसूर्यप्रतीकाशां सदा बिन्दुमदक्षरम् | ततः सङ्क्षोभणद्वारे ध्यायेत् पद्मं सुशोभनम् || ६९ || प्. ५४१) ध्यानयोगनिरतस्य जायते पूर्वजन्मकृतकर्मणां स्मृतिः | तत्र बिन्दुनिलये च दूरतो दर्शनश्रवणयोः समर्थता || ७० || इह सन्निहितस्वचित्तवृत्तिः प्रतिमायाः प्रतिजल्पनं करोति | गमनञ्च पुरे परेषां पुनरुत्थानमप्यहो मृतस्य || ७१ || निरालम्बां मुद्रां निजगुरुमुखेनैव विदिता- मिह स्थाने कृत्वा स्थिरनिशितधीः साधकवरः | सदाऽभ्यासात् पश्यत्यमरनिलयानन्तरखिला- मुडुश्रेणीं विष्णोरपि पदमुडूनामपि पतिम् || ७२ || भेदान्ते पद्मषट्कं च प्रस्फुटञ्चोर्ध्ववक्त्रकम् | भवत्येव न सन्देहोऽप्यथ स्यात् साधकस्य च || ७३ || तदूर्ध्वे चार्धचन्द्रे च भानुमण्डलमुत्तमम् | मकारबिन्दुरूपेण तदूर्ध्वे चन्द्रमण्डलम् || ७४ || बिन्दोरुपरि नादं हि शुद्धस्फटिकसन्निभम् | चेतसा सम्प्रपश्यन्ति नादान्ते वृषभध्वजम् || ७५ || शुद्धस्फटिकसङ्काशं कपर्दशशिभूषणम् | प्. ५४२) व्याघ्राम्बरं तु तन्मध्ये अधोमुखं सशक्तिकम् || ७६ || स्थाने ह्यत्र परीतञ्च वरदाभयपाणिकम् | प्रसन्नवदनं शान्तं सर्पयज्ञोपवीतिनम् || ७७ || नादोपरि महादेवं पश्यन्ति ज्ञानचक्षुषा | नान्यत् पश्यन्ति तत्रैव अन्तरं वृषभध्वजम् || ७८ || पुरत्रयविनिष्क्रान्तो यत्र वायुः प्रलीयते | तत्र संस्थं मनः कृत्वा तद्ध्यानमीश्वरं विदुः || ७९ || विभाव्य साधकश्रेष्ठो भेदयेत्तदनन्तरम् | शङ्खिनीनालं संस्थाप्यव्याप्तिशून्यं विभर्ति यः || ८० || अमृतोदधिसङ्काशं शतयोजनविस्तृतम् | चन्दनोद्यानमध्यस्थं वेदिकां तु तदन्तरे || ८१ || तन्मध्ये स्फटिकं ध्यायेत् पश्चिमाननमम्बुजम् | स्रवन्तममृतं नित्यं देव्यङ्गे कमलान्तरे || ८२ || प्. ५४३) सहस्रारपद्मवर्णनम् सहस्रारपद्मं विसर्गादधस्ता- दधो वक्त्रमारक्तकिञ्जल्कपुञ्जम् | कुरङ्गेण हीनस्त्रिशृङ्गस्तदन्तः स्फुरद्रश्मिजालः सुधांशुः समास्ते || ८३ || तदन्तर्गतं ब्रह्मरन्ध्रं सुसूक्ष्मं यदाधारभूतं सुषुम्णाख्यनाड्याः | तदेतत् पदं दिव्यमत्यन्तगुह्यं सुरैरप्यगम्यं सुगोप्यं सुयत्नात् || ८४ || एतत् कैलाससञ्ज्ञं परमकुलपदं बिन्दुरूपी स्वरूपी यत्रास्त्रे देवेदवो भवभयतिमिरध्वंसहंसो महेशः | भूतानामादिदेवो रसविसरसितां सन्ततामन्तरङ्गे सौधीं धारां विमुञ्चन्नभिमत फलदो योगिनां योगगम्यः || ८५ || स्थानस्यास्य ज्ञानमात्रेण पुंसां संसारेऽस्मिन् सम्भवो नैव भूयः | भूतग्रामं सन्ततन्यासयोगात् कर्तुं हर्तुं स्याच्च शक्तिः समग्रा || ८६ || स्थाने परे हंसनिवासभूते- कैलासनाम्नीह विधाय चेतः | प्. ५४४) योगी गतव्याधिरधःकृताधि- वाधश्चिरं जीवति मृत्युमुक्तः || ८७ || स्थानेऽस्मिन् क्षयवृद्धिभावरहिता नित्योदिताऽधोमुखी बालादित्यनिभप्रभाशशभृतः साऽस्ते कला षोडशी | बालाग्रस्य विखण्डितस्य शतधा चैकेन भागेन या सूक्ष्मत्वात् सदृशी निरन्तरगलत्पीयूषधाराधरा || ८८ || एतस्याः परतः स्थिता भगवती भूताधिदेवाधिपा निर्वाणाख्यकलाऽर्धचन्द्रकुटिला सा षोडशान्तर्गता | बालाग्रस्य सहस्रधा विगलितस्यैकेन भागेन या सूक्ष्मत्वात् सदृशी त्रिलोकजननी या द्वादशार्कप्रभा || ८९ || निर्वाणाख्यकलापदोपरिगता निर्वाणशक्तिः परा कोट्यादित्यसमप्रभाऽतिगहना बालाग्रभागस्य या | कोट्यंशेन समा समस्तजननी नित्योदिता निर्मला नित्यानन्दपदस्थलोरुविगलद्धारा निरालम्बना || ९० || प्. ५४५) एतस्याः परतः परात्परतरं निर्वाणशक्तेः पदं शैवं शाश्वतमप्रमेयममलं नित्योदितं निष्क्रियम् | तद्विष्णोः पदमित्युशन्ति सुधियः केचित् पदं ब्रह्मणः केचिद्धंसपदं निरञ्जनपदं केचिन्निरालम्बनम् || ९१ || आरोप्याऽरोप्य शक्तिं कमलजनिलयादात्मना साकमेषु स्थानेष्वाज्ञावसानेष्ववहितहृदयश्चिन्तयित्वा क्रमेण | नीत्वा नादावसानं खगत कुलमहापद्मसद्मान्तरस्थां ध्यायेच्चैतन्यरूपामभिमतफलसम्प्राप्तये शक्तिमाद्याम् || ९२ || साक्षाल्लाक्षारसाभं गगनगतमहापद्मसद्मस्थहंसां पीत्वा दिव्यामृतौघं पुनरपि च विशेन्मध्यदेशं कुलस्य | चक्रे चक्रे क्रमेणामृतरसविसरैस्तर्पयेत् देवतास्ता हाकिन्याद्याः समस्ताः कमलजपदगां तर्पयेत् कुण्डलीं ताम् || ९३ || कुण्डली कुण्डलाकारानक्रीभूता निवासिनी | इडा च पिङ्गला चैव सुषुम्नानिलयं व्रजेत् || ९४ || शक्तिं भैरवसंयोगादमृतानन्दमानयेत् | प्. ५४६) चन्द्रमार्गेण वायुञ्च पिबेत्तञ्च शनैः शनैः || ९५ || कुम्भकञ्च यथाशक्त्या सुर्यमार्गेण रेचयेत् | सूर्यमार्गे पिबेद्वायुं चन्द्रमार्गेण रेचयेत् || ९६ || शून्यञ्च प्रतिविम्बचन्द्रसदृशं सूक्ष्मातिसूक्ष्मं परं सर्वं व्याप्य तमोमयं जगति सद्धामप्रकाशं परम् | दृश्यादृश्यविनाशभेदसकलं ज्योतिर्मयं सर्वतो ध्यात्वा तच्च पदं तु साधकवरैः दूरीकृतश्चान्तकः || ९७ || एवमभ्यस्यमानस्य अहन्यहनि निश्चितम् | जरामरणदुःखाद्यैर्मुच्यते भवसागरात् || ९८ || योनिमुद्राबन्धफलकथनम् चतुर्विधा तु या सृष्टिर्यस्यां योनौ प्रजायते | पुनः प्रलीयते यस्यां कालाग्न्यादिशिवान्तकम् || ९९ || योनिमुद्रा परा ह्येषा बन्धस्तस्याः प्रकीर्तितः | तस्यास्तु बन्धमात्रेण तन्नास्ति यन्न साधयेत् || १०० || प्. ५४७) अन्यथा जप्यते यस्तु अन्यथा कुरुते तु यः | नासौ तत्फलपात्रञ्च सत्यं सत्यं न संशयः || १०१ || छिन्ना बन्धाश्च ये मन्त्राःकीलिताः स्तम्भिताश्च ये | दग्धाः सन्त्रासिता हीना मलिनाश्च तिरस्कृताः || १०२ || भेदिता भ्रमसंयुक्ताः सुप्ता सम्मुर्च्छिताश्च ये | वृद्धा बालास्तथा प्रौढास्तथा यौवनगर्विताः || १०३ || अरिपक्षे स्थिता ये च निर्वीर्याः सत्त्ववर्जिताः | अंशकेन विहीनाश्च खण्डशः शतधा कृताः || १०४ || विधिनानेन संयुक्ताः प्रभवन्त्यचिरेण तु | सिद्धिमोक्षप्रदाः सर्वे साधकेन नियोजिताः || १०५ || यद्यदुच्चरते मन्त्री वर्णरूपं शुभाशुभं | तत्तत् सिध्यत्यसन्देहो योनिमुद्रानिबन्धनात् || १०६ || दीक्षयित्वा विधानेन अभिषिच्य सहस्रधा | ततोऽधिकारी भवति तन्त्रेऽस्मिन् साधकोत्तमः || १०७ || ब्रह्महत्यासहस्राणि त्रैलोक्यमपि घातयेत् | नासौ लिप्यति पापेन योनिमुद्रानिबन्धनात् || १०८ || प्. ५४८) तस्मादभ्यसनं नित्यं कर्तव्यं पुण्यकाङ्क्षिभिः | अयासाज्जायते सिद्धिरभ्यासान्मोक्षमाप्नुयात् || १०९ || सम्वित्तिं लभतेऽभ्यासात् योगोऽभ्यासात् प्रवर्तते | मन्त्राणां सिद्धिरभ्यासादभ्यासाद्वायुसाधनम् || ११० || कालवञ्चनमभ्यासात्तथा मृत्युञ्जयो भवेत् | एतद्भेदं विजानाति स याति परमं पदम् || १११ || तदष्टधा तु जीवोऽसौ बहिर्याति दिने दिने | दिनेशाङ्गुलिमानेन तदर्धञ्चोपवासतः || ११२ || त्रिगुणं रतिकाले च द्विगुणं भोजनाद् बहिः | अत ऊर्ध्वं वहेद्वायुस्त्रिगुणं यदि दैवतम् || ११३ || न्यूनं धत्ते ततः प्राणः शरीरं परिमुञ्चति | शरीरसमतां नीत्वा न्यूनं वा साधकोत्तमः || ११४ || कुम्भयित्वा अधोवायुं कुण्डलीमुखवर्त्मनि | योजयित्वा ततो जीवं कुण्डल्या सहितं सुधीः || ११५ || गमागमं कारयित्वा सिद्धो भवति नापरः | पीयते खाद्यते यत्तु तत्सर्वं कुण्डलीमुखे || ११६ || हुत्वा सिद्धिमवाप्नोति न च बन्धेन बाध्यते | प्. ५४९) अवधूताचारकथनम् भिक्षा कार्या न च स्वार्थं कुण्डल्याः प्रकृतेः पुनः || ११७ || रे मातर्देहि मे भिक्षां कुण्डलीं तर्पयाम्यहम् | अवधूताश्रमे स्थित्वा भैरवानन्दतत्परः || ११८ || भैरवोऽहं न चान्योऽस्मि न चान्यो मत्परः क्वचित् | तन्त्रमन्त्रार्चनं सर्वं मयि जातं न चान्यथा || ११९ || शिवोऽहं भैरवानन्दो मत्तोऽहं कुलनायकः | रक्तमाल्याम्बरधरो हेतुयुक्तः सदा भवेत् || १२० || एवं भिक्षां व्रजन् भिक्षुर्भैरवानन्दतत्परः | येन केनापि वेशेन येन केनाऽप्यलक्षितः || १२१ || यत्र कुत्राश्रमे तिष्ठन् कुलयोगीश्वरः सदा | उन्मत्तमुकजडवत् विरले लोकमध्यगे || १२२ || प्. ५५०) क्वचिच्छिष्टः क्वचिद्भ्रष्टः क्वचिद् भूतपिशाचवत् | नानावेशधरो योगी विचरेत्तु महीतले || १२३ || सर्वस्पर्शो यथा वायुर्यथाकाशश्च सर्वगः | सर्वभक्षो यथा वह्निस्तथा योगी सदा शुचिः || १२४ || तथा म्लेच्छगृहान्नादि योगीहस्तगतं शुचि | क्षीयते न च पापेन बध्यते न च जन्मना || १२५ || यद्वन्मन्त्रबलोपेतः क्रीडन् सर्पैर्न दंश्यते | तथा ज्ञानपरो योगी क्रीडन्निन्द्रियपन्नगैः || १२६ || पूजयन्ति महादेवीं कुलाङ्गकृष्टिमात्रतः | गन्धं पुष्पञ्च ताम्बुलं नैवेद्यं यत्र यद्भवेत् || १२७ || मनसा तत् समुत्सृज्य बाह्यतः कुलवारिणा | आत्मन्येव समायोज्य देवीरूपकुलेश्वरः || १२८ || प्. ५५१) न पूजा नापि तन्नाम न निष्ठा न व्रतादिकम् | पूर्णोऽहं भैरवश्चाहं नित्यानन्दोऽहमव्ययः || १२९ || निरञ्जनस्वरूपोऽहं निर्विकारो ह्यहं प्रभुः | सर्वशास्त्राभियुक्तोऽहं सर्वमन्त्रार्थपास्याः || १३० || अस्मत्परतरो देशो न जातो न जनिष्यति | आनन्दरूपवान् भूत्वा सर्वेषां प्रियकारक || १३१ || न योगी न भोगी न वात्मा न काङ्क्षी न वीरो न धीरो न वा साधकेन्द्रः | सदानन्दपूर्णो धरण्यां विवेकी चिराज्जातधूतो द्वितीयो महेशः || १३२ || श्रुतौ कुण्डलेऽसृग् गले मुण्डमाला करे पानपात्रं मुखे हन्त हाला | परित्यक्तकर्मा लयन्यस्तधर्मा विरक्तोऽवधूतो द्वितीयो महेशः || १३३ || प्. ५५२) वामे रामा रमणकुशला दक्षिणे पानपात्रं मध्ये न्यस्तं मरिचसहितं शूकरस्योष्णमांसम् | स्कन्धे वीणा ललितसुभगा सद्गुरूणां प्रपञ्चः कौलो धर्मः परमगहनो योगिनामप्यगम्यः || १३४ || इति श्रीमज्ज्ञानानन्दपरमहंसविरचिते कौलावलीनिर्णये एकविंशोल्लासः समाप्तः || २१ || ########### END OF FILE #######