#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00027 Uniform title: kaulajñānanirṇaya Main title: kaulajñānanirṇaya and some minor texts of the school of matsyendrānātha Author : matsyendrānātha Alternate name : matsyendra Alternate name : macchagnapāda Editor : Bagchi, P. C. Description: The source of this e-text is Calcutta Sanskrit Series 3 - kaulajñānanirṇaya and some minor texts of the school of matsyendrānātha - where it is bundled along with akulavīratantra kulAnandatantra>, and jñānakārikā . The printed volume also contains introductory material and summaries in english. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: August 1, 2006 Publisher : Metropolitan Printing and Pub. House Publication year : 1934 Publication city : Calcutta Publication country : India #################################################### कौलज्ञाननिर्णयः प्रथमः पटलः मूलाङ्गुष्ठनखाग्रञ्च एते तत्त्वसन्तति (ः) | अष्टादशविधं देवि ज्ञानञ्च कुलगोचरे || १/१ || कथितं सृष्टिसंयोगं यथा तथा न भैरवि | किमन्यं पृच्छसे नाथ सुगोप्यं प्रकटीकृतम् || || इति ज्ञाननिर्णितियोगिनीकौलम्महच्छ्रीमच्छघ्नपादावतारिते चन्द्रद्वीपविनिर्गते प्रथमः पटलः || १/१ || द्वितीयः पटलः देव्युवाच पञ्चाग्नितपसं तप्तं वर्षकोटिरनेकधा | तपस्तदद्य मे सम्यक् त्वत्प्रसादेन भैरव || सृष्टियोगं मया ज्ञातं संहारं कथयस्व मे || २/१ || भैरव उवाच साधु त्वां कथयिष्यामि संहारन्तु यथा भवेत् | कालाग्निरुद्रसंज्ञा तु नखाग्रे नित्यसंस्थितम् || २/२ || यदा प्रज्वलते ऊर्द्धं संहारन्तु तदा भवेत् | वडवामुखमहत्त्वञ्च पाताले सहसंस्थितः || २/३ || सप्तपातालमुद्दिष्टं तस्योर्द्धे स्वर्गसंस्थितम् | एतानि कथिता भद्रे भुवनानि चतुर्दश || २/४ || ज्ञातव्या देहमध्ये तु तत्त्वरूपा स्थिता प्रिये | सर्वज्ञा (यत्न ?) संलीनं लयञ्च शक्तिगोचरे || २/५ || शिवमध्ये गता शक्तिः क्रियामध्यस्थितः शिवः | ज्ञानमध्ये क्रिया लीना क्रिया लीयति इच्छया || २/६ || इच्छाशक्तिर्लयं याति यत्र तेजः परः शिवः | संहारन्तु इमं भेदेन कथितन्तव शोभने || २/७ || संहारन्तु पदान्यस्तं क्रुद्धः संहरते जगत् | सृष्टियोगं पदान्यस्तं सृजत्येवं चराचरम् || २/८ || अधस्था संस्थिता भुक्तिः ऊर्द्धं मुक्तिर्वरानने | पूर्वं यत् सूचितं देवि सृष्टियोगं मया तव || २/९ || सृष्टिसंहारन्यायेन कुलाधारमुपवर्णितम् | किमन्यं पृच्छसे नाथे सुगोप्यं प्रकटीकृतम् || २/१० || इति ज्ञाननिर्णितियोगिनीकौलम्महच्छ्रीमच्छघ्नपादावतारिते चन्द्रद्वीपविनिर्गते द्वितीयः पटलः || २/२ || तृतीयः पटलः देव्युवाच कुललक्षं महेशान आत्मसम्वित्तिपूर्वकम् | एतन्मे संशयो नाथ प्रसादीभव शङ्करः || ३/१ || भैरव उवाच शृणुमेकाग्रचित्ता कुललक्षन्निगद्यते | यत्र दृष्टिर्मनस्तत्र भूतेन्द्रियमपुद्गलः || ३/२ || स्वशक्तिजीवभूतानि दृष्टिर्लक्षैर्लयं गता | स्थानं ध्यानञ्च वर्णञ्च लक्षञ्चैव चतुष्टयम् || ३/३ || पिण्डसंज्ञा भवेत् स्थानं ध्यानन्तत्पदमुच्यते | वर्णरूपं विनिर्दिष्टं लक्षं वै रूपवर्जितम् || ३/४ || पिण्डञ्चोपपदरूपं रूपातीतं वरानने | स्थाने स्थाने स्थितन्देवि एकैकस्य चतुर्विधम् || ३/५ || चतुष्पत्रञ्च अष्टारं द्वादशारं वरानने | पञ्चारं षोडशारञ्च चतुःषष्टिदलम्प्रिये || ३/६ || शतपत्रं सुशोभाढ्यं सहस्रं दलशोभितम् | कोटिपत्रं सुतेजाढ्यं तस्योर्द्धे अन्यथा शृणु || ३/७ || अर्द्धकोटिसमायुक्तं कोटित्रयसमन्वितम् | कर्णिकाकेशरैर्युक्तं दीप्यमानं (तथैव च) || ३/८ || तस्योर्द्धे व्यापकन्तत्र नित्योदितमखण्डितम् | स्वातन्त्रमब्जमचलं सर्वव्यापी निरञ्जनम् || ३/९ || तस्येच्छया भवेत् सृष्टिर्लयन्तत्रैव गच्छति | तेन लिङ्गन्तु विख्यातं यत्र लीनं चराचरम् || ३/१० || अखण्डमण्डलं रूपं निर्विकारं सनिष्कलम् | अज्ञात्वा बन्धमुद्दिष्टं ज्ञात्वा बन्धैः प्रमुच्यते || ३/११ || उन्मनम्मनरहितं ध्यानधारणवर्जितम् | प्रत्यक्षं सर्वदा नित्यं अतसिपुष्पसन्निभम् || ३/१२ || सर्ववर्णमयन्देवं सर्ववर्णैर्विवर्जितम् | ज्ञानगम्यं सदा देवि पारम्पर्यक्रमागतम् || ३/१३ || कथितं देवि सङ्काशं कुललक्षं (तथा) स्थितम् | न काष्ठं मृण्मयं लिङ्गं न शैलरत्नसम्भवम् || ३/१४ || न चित्तं रीतिकादिनी न हेमं लोहसम्भवम् | स्फटिकं मौलिकं वापि त्रपुं सीसकताम्रजम् || ३/१५ || पुष्परागोद्भवादीनि ये चान्ये लोकपूजिताः | अष्टादश लोकशास्त्राणि क्रुराश्चाध्यात्मिकास्तथा || ३/१६ || तैस्तु यत् पूजितं देवि मनसापि न पूजयेत् | किं कारणं महादेवि पशवो ज्ञानवर्जिताः || ३/१७ || अज्ञानास्ते दुराचाराः कुलाज्ञकविवर्जिताः | न तैस्तु सङ्गभोक्तव्यं न कुर्याद्द्रव्यसंग्रहम् || ३/१८ || ब्रह्माद्यास्तु सुराः सर्वे असुराश्च तपोधनाः | यक्षगान्धर्वसिद्धाश्च तृणगुल्मपिपीलिकाः || ३/१९ || ग्रहनक्षत्रतारादिजगत्स्थावरजङ्गमा(ः) | निष्क्रान्ता बिन्दुमध्ये तु लौलीभूतन्तु तत्समम् || ३/२० || सृष्टिसंहारकर्तारं तल्लिङ्गं सिद्धपूजितम् | स्फुरन्तन् निर्मलन्नित्यं अप्रमेयं सदोदितम् || ३/२१ || ज्वलन्तं उल्कसदृशं विद्युत्तेजो नभस्तले | एतल्लिङ्गवरं ज्ञात्वा दृष्ट्वा मोक्षस्य भाजनः || ३/२२ || पाषाणवृष्टिसंघातैर्महामेघैः सुदारुणैः | न नश्येदग्निना लिङ्गं न पतेद् वज्रताडितम् || ३/२३ || एतन्तु पूजयेद्देवि कौलिकं सिद्धिमिच्छता | अर्चयेन्मानसैः पुष्पैः सुगन्धैर्धूपदीपितैः || ३/२४ || अहिंसा प्रथमं पुष्पं द्वितीयेन्द्रियनि(ग्र)हम् | तृतीयन्तु दयापुष्पम्भावपुष्पञ्चतुर्थकम् || ३/२५ || पञ्चमन्तु क्षमापुष्पं षष्ठं क्रोधविनिर्जितम् | सप्तमं ध्यानपुष्पन्तु ज्ञानपुष्पन्तु अष्टमम् || ३/२६ || एतत् पुष्पविधिं ज्ञात्वा अर्चयेल्लिङ्गमानसम् | भुक्तिमुक्तिमवाप्नोति देहलिङ्गार्चनेन तु || ३/२७ || सिद्धिलिङ्गमिदं देवि देहस्थं प्रत्ययान्वितम् | मनोलिङ्गं सदा ध्यायेद् यां यां फलसमीकृते || ३/२८ || तां लभन्ते न सन्देहो आत्मसम्बित्तिपूर्वकम् | एतत् ते कौलिकन्देवि देहलिङ्गस्य लक्षणम् || ३/२९ || अन्यन्तु वर्जयेद्देवि पाषाणं काष्ठमृन्मयम् | लौकिकम् मार्गसम्पन्ना सिद्धिमुक्तिविवर्जिता || ३/३० || देहस्था वासना यस्य तस्यैवांशो कुलागमे | बहिस्था वासना यस्य सः पशुरङ्गरञ्जितः || ३/३१ || एतन्ते कथितं देवि नाम्ना ज्ञानस्य निर्णितिः | दातव्यं भक्तिसंयुक्ते न देयं भक्तिवर्जिते || ३/३२ || इति ज्ञाननिर्णितियोगिनीकौलम्महच्छ्रीमच्छघ्नपादावतारिते चन्द्रद्वीपविनिर्गते तृतीयः पटलः || ३/३ || चतुर्थः पटलः देव्युवाच अद्य मे सफलञ्जन्म तपस्तप्तं सुरेश्वर | अद्य मे निर्मलन्देहं त्वत्प्रसादेन भैरव || ४/१ || स्वगृहे स्वदेशे वा पाशस्तोभं यदा भवेत् | निग्रहानुग्रहञ्चैव क्रामणं हरणं तथा || ४/२ || प्रतिमाजल्पनञ्चैव घटपाषाणस्फोटनम् | कथं मे सर्वसंक्षेपात्त्वमेव शरणङ्गता || ४/३ || भैरव उवाच साधु साधु महादेवि कथयामि महातपे | कुलपिण्डं समालिख्य नाडी नाडीमुखैः सह || ४/४ || विद्यामन्त्रमयं पिण्डं भुक्तिमुक्तिप्रदं शुभम् | नाडी नाडीमुखैर्वापि अधोर्द्धं रेफदीपितम् || ४/५ || वायुविष्णु(ः) सबिन्दुश्च तप्तचामीकरप्रभम् | जन्ममण्डलसंलीनं ध्वान्ततेज(ः)समप्रभम् || ४/६ || साधकः साध्यदेहे तु पशुदेहे तु हृद्गतम् | करस्तोभादिकं भद्रे करोत्येवं चराचरैः || ४/७ || बिन्दुनाद(स्त) तथा शक्तिर्दीप्तध्यानमथापि वा | जन्ममन्डलसंलीनं ध्वान्ततेज(ः)समप्रभम् || ४/८ || साध्यदेहगतञ्चिन्त्य निमेषार्द्धं स्तुभ्यते पशुः | ध्यात्वा विद्युल्लताकारं शक्तिर्वै व्योमपञ्चके || ४/९ || स्तुभ्यते च जगत्सर्वं घटिकार्द्धे वरानने | शक्तिविज्ञानवेधेन मनाख्येन महान्मने || ४/१० || बद्ध्वा चैतत् पाशेन पर्वतानपि लालयेत् | परदेहे पराशक्तिर्नादेनाक्रम्य वेधयेत् || ४/११ || चलने बाल्यने चैव बध्वा मुद्राबन्धने | अतीतानागतञ्चैव पृष्टासौ कथयिष्यति || ४/१२ || अकारादिहकारान्तं कुलपिण्डस्य भैरवि | शंखाभिषेकविज्ञानं दन्तकाष्ठादिकम्प्रिये || ४/१३ || पुष्पाञ्जलिकरस्तोभमेकैकं वर्णदीपितम् | मारणोच्चाटनञ्चैव स्तम्भमोहादिकं प्रिये || ४/१४ || शान्तिकम्पौष्टिकं वापि आकृष्टिञ्च वशन्तथा | पञ्चाशवर्णसंयोगं ज्ञात्वा सर्वं कुरु प्रिये || ४/१५ || हूं मारणं यूं यः उच्चाटनं रूं र ज्वरकरणं बुं व अध्यायनं लूं ल स्तम्भनं शूं श शान्तिकं षूं ष कीलनं क्षें क्ष ...... क्षुं क्ष पशुग्रहणं क्लीं क्ष्णीं वशीकरणं क्लें क्ष्णों क्षोभणं मोहनञ्च सों स सद्यप्रत्ययः सिद्धिः हो हः विषनाशनं ह्रो ह्रः रक्ताकृष्टियोगिनीनाञ्च जूं सः मृत्युञ्जयः ..... प्रतिमादिषु जल्पनं स्फोटनञ्च | स्रों शः पाशस्तोभादिकं कामरूपिन्धं भ्रू त्र डाकिनीसिद्धिः झुर राक्षसीसिद्धिः | लूं ल लाकिनी सिद्धिः, लुं क कुसुमालिनीसिद्धिः यूं य योगिनीसिद्धिः ह्रीं ह आकर्षणः || एकैकेन तु बीजेन वर्णराशिर्विभेदयेत् | कुरुते विभिदं कर्म यद्देवि मनसेप्सितम् || ४/१६ || दीक्षान्तेष्टिककर्मेषु विपरीतं मातृकं (चरे)त् | योजयेत्तां कुलाधा(रं)तु सर्वं ज्ञात्वा दृढलक्षवित् || ४/१७ || तेजोरूढम्परं लिङ्गं तं लीनं स्थापयेत् पशुः | स्वातन्त्रो मुक्तिमायाति सर्वहृद्भवने तु सः || ४/१८ || सर्वज्ञगुणसंपूर्ण इत्येवं भैरवोऽब्रवीत् | यत् त्वयापृच्छितम्भद्रे सुगोप्य सिद्धिकारणम् || ४/१९ || गोपितव्यम्प्रयत्नेन दुष्टानाम्भक्तिवर्जितम् | न देयं भक्तिहीनस्य कौलिकीं सिद्धिमिच्छताम् || ४/२० || इति ज्ञाननिर्णितियोगिनीकौलम्महच्छ्रीमच्छघ्नपादावतारिते चन्द्रद्वीपविनिर्गते चतुर्थः पटलः || ४/४ || पञ्चमः पटलः देव्युवाच मृत्युञ्जयम्महादेव कथयस्व प्रसादतः | अज्ञानतमसाच्छन्ना यथा भ्रान्तिर्विनश्यति || कथयस्व महादेव भ्रान्तिनिर्नाशनं परम् || ५/१ || भैरव उवाच येनैव ज्ञानमात्रेण ध्यानाभ्यासेन नित्यशः | सर्वद्वन्द्वविनिर्मुक्त स गताभ्यासतत्परः || ५/२ || साधयेत् सकलार्थानां मनसा यत् समीहितम् | उत्तिष्ठ खड्गपातालं रोचनाञ्जनपादुकम् || ५/३ || गुटिकाकाशगमनं रसञ्चैव रसायनम् | अन्तर्द्धानम्भवेद्देवि तथान्यञ्च रसायनम् || ५/४ || साधयेन्नात्र संदेहो ध्यानयुक्तपदा भवेत् | शृणु त्वं एकचित्तन्तु कथ्यमानं मया प्रिये || ५/५ || सितञ्च शीतलन्दिव्यं सुगन्धं भूरितेजसम् | चन्द्राह्लादकरं दिव्यं आगच्छन्तं खमध्यतः || ५/६ || स्रवन्तं बहुरन्ध्रेण अचिरान्मृत्युजिद्भवेत् | न जरामरणन्तस्य व्याधिरोगो न विद्यते || ५/७ || लीलया सिद्धिभाग्योऽसौ भवत्येवं वरानने | क्षीरोदार्णवमध्यस्थं श्वेतं कमलविस्तरम् || ५/८ || सहस्रकोटिपत्रं वा तन्मध्ये आत्मानं बुधः | तस्मिंश्चैव निविष्टं तु सिताभरणभूषितम् || ५/९ || तादृशेनैव पद्मेन उपरिष्टाद्यटितम्प्रिये | क्षीरोदवि(शे)षैः सर्वैस्सिञ्च्यमानमनुस्मरेत् || ५/१० || मुच्यन्ते सर्वरोगैस्तु जरामरणबन्धनैः | क्रीडते विविधैर्भोगैरिच्छारूपञ्च जायते || ५/११ || अथान्यं सम्प्रवक्ष्यामि मृत्युञ्जयं विशेषतः | ध्यात्वा चन्द्रासनस्थञ्च ऊर्द्धश्चन्द्रेण घट्टितम् || ५/१२ || सीकरैः शीतलैर्दिव्यैः सिञ्च्यमानमनुस्मरेत् | जरामरणनिर्मुक्तं सर्वव्याधिविवर्जितम् || ५/१३ || संवत्सरप्रयोगेण सामान्यं योगिनीकुलैः | अन्यञ्च अद्भुतन्देवि शृणु त्वं कुलभाविनि || ५/१४ || संपूर्णोपूर्णमापूर्णशशाङ्कपरिमण्डलम् | ध्यायमानमिदन्देवि जराव्याधिर्विनश्यति || ५/१५ || अथान्यं शृणु कल्याणि यथातथ्येन भाविनि | ध्यायेच्चन्द्रमिदं देवि नाभिमूर्ध्नि च हृद्गतम् || ५/१६ || अभ्यसेत् समचित्तस्तु अब्दमेकं निरन्तरम् | ततः स्वातन्त्रमायाति जरामरणवर्जितम् || ५/१७ || पुनरन्यं प्रवक्ष्यामि शृणु त्वं वीरवन्दिते | सहस्रदलशोभाढ्यं गोक्षीरधवलोपमम् || ५/१८ || देव्या चक्रगतञ्चक्रं तादृशं खेचरैः स्थितम् | अधश्चक्रसमारूढं ऊर्द्धचक्रेण प्लावितम् || ५/१९ || सततमभ्यसेद् योगी सिञ्च्यमानश्च वि(शे)षैः | वलीपलितनिर्मुक्तः सर्वव्याधिविवर्जितम् || ५/२० || क्रीडते सः समुद्रान्तं स्वातन्त्रः सिध्यते प्रिये | अन्यदप्यद्भूतं देवि शृणुतैकाग्रमानसम् || ५/२१ || षोडशारम्नहापद्मं हिमकुन्देन्दुसम्प्रभम् | स्थाने स्थाने तु तं ध्यात्वा शिवाद्यावीचिगोचरम् || ५/२२ || बिन्दुधारानिपातैश्च विप्लवैः पूरितन्तनुः | निष्क्रान्तं रोमकूप इश्च गोक्षीरहिमसन्निभम् || ५/२३ || न जरामरणन्तस्य व्याधिरोगन्न विद्यते | स्वातन्त्रः शिवतुल्यस्तु स्वच्छन्दगतिचेष्टितः || ५/२४ || पूज्यते सुरवृन्दैस्तु दिव्यकन्यारनेकधा | गुह्यनाभिहृदि कण्ठे वक्त्रे मूर्ध्नि शिखान्तरे || ५/२५ || मुण्डसन्धिगता देवि पृष्ठमध्ये त्रिदण्डकम् | एकादशविधा देवि चक्राणि च सहस्रिका || ५/२६ || पञ्चारं अष्टपत्रञ्च दश द्वादश पत्रकम् | षोडशं शतपत्रञ्च कोटिपत्रं यथैव च || ५/२७ || एभिः स्थाने समभ्यस्तं ददते विविधं फलम् | रक्तं वश्यं सदा देवि महाभोगप्रदायकम् || ५/२८ || पीतं स्तम्भकरन्नाथे धूम्रमुच्चाटनं सदा | शुक्लमाप्यायने प्रोक्तं विशेषं शान्तिकारकम् || ५/२९ || गोक्षीरधाराधवलं कथितं मृत्युञ्जये हितम् | तप्तचामीकरप्रभं पुरक्षोभादिकारणम् || ५/३० || बिन्दुनादतथाशक्तिरेवं ध्यात्वा पृथक् पृथक् | धर्मार्थौ काममोक्षौ च अणिमादिगुणाष्टकम् || ५/३१ || अतीतानागतन्देवि रूपस्य परिवर्तनम् | भवत्येवं न सन्देहो अभ्यासात् तद्गतस्य तु || ५/३२ || गुरुभक्तिर्योगिनीनां कुलकौलागमेषु च | अमरत्वं भवेद्देवि जयेन्मृत्युं न संशयः || ५/३३ || कथितं मृत्युञ्जयन्देवि सर्वज्ञानस्य निर्णयम् | गोपितव्यं प्रयत्नेन मर्त्यलोके नराधमे || ५/३४ || दुर्लभं सिद्धिसन्दोहं गोपितव्यं प्रयत्नतः | दातव्यं पूर्वसिद्धस्य अब्दमेकपरीक्षितम् || ५/३५ || इति ज्ञाननिर्णितियोगिनीकौलम्महच्छ्रीमच्छघ्नपादावतारिते चन्द्रद्वीपविनिर्गते पञ्चमः पटलः || ५/५ || षष्ठः पटलः देव्युवाच अद्य मे सफलं जन्म मम देहे कुलेश्वर | त्वत्प्रसादेन कौलेश ज्ञातोऽहं कौलनिर्णयः || ६/१ || अन्यानि ज्ञातुमिच्छामि वद मे जीवलक्षणम् | कोऽसौ जीवः समुद्दिष्टः किं वा जीवस्वरूपकम् || ६/२ || किं वर्णं किम्प्रमाणञ्च कस्मिन् स्थाने व्यवस्थितम् | कस्मिंश्चैव लयं याति तत्सर्वं कथयस्व मे || ६/३ || भैरव उवाच शृणु त्वं वीरचामुण्डे वरं जीवस्य निर्णयम् | स(ः)परं निष्कलं नित्यं निरामयनिरञ्जनम् || ६/४ || परमाणुमुच्यते नाथो स शिवो व्यापकः परः | स(ः) जीवः परतरो यस्तु स(ः) हंसः शक्तिपुद्गल(ः) || ६/५ || स(ः) मनो मत्परं प्राणः स(ः) बुद्धिश्चित्तमेव च | समीरपूरको वायुः सर्वजीवेषु संस्थितम्(ः) || ६/६ || देहस्थस्तिष्ठते यावत्तावज्जीवोऽपि गीयते | स देहत्यक्तमात्रेण परं शिवो निगद्यते || ६/७ || नाभिस्थं हृदि कण्ठे च वक्त्रनासापुटन्तथा | कर्णस्थं श्रूयते देवि पारम्पर्यक्रमागतम् || ६/८ || कौलिकन्तु इदं देवि कर्णात् कर्णसमागतम् | अनेन ज्ञानमात्रेण श्रुतेन च वरानने || ६/९ || मुच्यते सर्वपापेभ्यो भवद्भिः समुपार्जितम् | षण्मासादभ्यसेद्यस्तु काषायं बन्धवर्जितम् || ६/१० || अस्यापि शोकसन्तापजराव्याधिर्विनश्यति | सर्वव्याधिविनिर्मुक्तो योगिभिः सहमेलकम् || ६/११ || अणिमादिगुणैश्वर्यं सिद्धिश्च मानसी भवेत् | एतत्ते जीवमभ्यासं कथितं ते च भैरवि || ६/१२ || कुलागमसुभक्ताय गुरुदेव्या प्रपूजके | सर्वभावोपपन्नस्य दातव्यं कृतनिश्चये || ६/१३ || मायाविने शठे क्रूरे प्रपञ्चैर्लिङ्गिने तथा | न देयं कौलिकं सारं योगिनीनान्तु सम्भवम् || ६/१४ || देव्युवाच सफलं अद्य मे नाथ तपो मह्यं सुरेश्वर | अद्य मे निर्मलं देहमज्ञानपटलाहतम् || ६/१५ || प्रकाशितं महाज्ञानं यत्सुरैरपि दुर्लभम् | साम्प्रतं श्रोतुमिच्छामि कालस्य वञ्चनं शुभम् || ६/१६ || भैरव उवाच अत्यन्तगहनं नाथे पृच्छितोऽहं त्वयाधुना | कथयामि न सन्देहो यथा मृत्युर्विनश्यति || ६/१७ || प्रसार्य दन्तुरायान्तु यावद् ब्रह्मविलङ्गतः | अमृताग्रं रसाग्रेण दह्यमानसुधीरपि || ६/१८ || मासेन जितयेन्मृत्युं सत्यं सत्यं महातपे | रसनातालुमूले तु कृत्वा वायुं पिबेच्छनैः || ६/१९ || षण्मासादभ्यसेद्देवि महारोगैः प्रमुच्यते | अब्दमेकं यदाभ्यस्तञ्जरामृत्युर्विनश्यति || ६/२० || अतीतानागतञ्चैव दूरादिश्रवणन्तथा | विषं न क्रमते देहे दंशितोऽपि महोरगैः || ६/२१ || स्थावरं जङ्गमं वापि कृत्रिमं गरलं तथा | छेद्यमानो न छिद्येत तद्गतो तन्मनो यथा || ६/२२ || द्वौ राजद(?)मध्यस्थं बिन्दुरूपं व्यवस्थितम् | अमृतं तं विजानीयाद्बलीपलितनाशनम् || ६/२३ || शीतलं स्पर्शसंस्थाने रसनां कृत्वा तु बुद्धिमान् | बलीपलितनिर्मुक्तः सर्वव्याधिविवर्जितः || ६/२४ || न तस्य भवते मृत्युर्योगयानपरः सदा | रसना तालुमूले तु व्याधिनाशाय योजयेत् || ६/२५ || तिष्ठञ्जाग्रन् स्वपङ्गच्छन् भुञ्जन् मैथुने रतः | रसनं कुञ्चयेन्नित्यं स्ववक्त्रेण तु संयुतम् || ६/२६ || न मृत्युर्भवते तस्य अब्दात् स्वच्छन्दगो भवेत् | हृदिस्थञ्च मनः कृत्वा यावदुन्मनतां गतः || ६/२७ || आगतं नाशयेन्मृत्युं घटिकार्द्धे वरानने | कालस्य वञ्चनं देवि सुगोप्यं प्रकटीकृतम् || ६/२८ || इति ज्ञाननिर्णितियोगिनीकौलम्महच्छ्रीमच्छघ्नपादावतारिते चन्द्रद्वीपविनिर्गते षष्ठः पटलः || ६/६ || सप्तमः पटलः देव्युवाच पलितस्तम्भविज्ञानं जरामरणनाशनम् | त्रितत्त्वं कथ मे नाथ त्वमेव शरणं गता || ७/१ || भैरव उवाच पलितस्तम्भविज्ञानं शृणु त्वं वीरमातरे | देव्याश्चक्रगतं चिन्त्य(?) प्रतिपदायां शशिर्यथा || ७/२ || शीतलं चन्द्रसंकाशं वर्तिस्तु घृतबोधिता | तत्र चैव शिखा लीना अस्थिचक्रे वरानने || ७/३ || भावयेत् केशस्कन्धस्थं लग्नं वै अञ्जनन्तथा | साद्रवं कृष्णरूपं च बलीपलितनाशनम् || ७/४ || द्वितीयं साम्प्रतं देवि शृणुष्वैकाग्रमानसा | आधारस्कन्धसंस्थाने योगं युञ्जीत शीतलम् || ७/५ || लीनं वै ब्रह्मरन्ध्रे तु कृष्णाञ्जनद्रवात्मकम् | आदित्यं शत्रुवत् पश्येत् सोमं वै मित्रवद् यथा || ७/६ || कृष्णाम्बरधरो नित्यं कृष्णध्यानात्मरञ्जितम् | भूगृहे निर्जने स्थाने दंशमशकवर्जिते || ७/७ || न (स्थाने) जनसङ्कीर्णे सर्पव्याघ्रविवर्जिते | एकान्ते निर्जने दिव्ये पुष्पप्रकरणशोभिते || ७/८ || सुगन्धधूपितं कृत्वा शाल्योदनजितेन्द्रियः | षण्मासाज् ज्ञायते सिद्धिर्योगिनीपदतत्समः || ७/९ || कामदेवसमौपम्ये सुरकन्याप्रपूजितम् | ब्रह्मग्रन्थिस्थिताद्येतां त्रीणि एव वरानने || ७/१० || लीनां वै ब्रह्मखण्डे तु भिन्ननीलाञ्जनप्रभम् | द्रवेण रञ्जयेत् सर्वं रोमकूपादिकं प्रिये || ७/११ || ध्यानेन रञ्जितात्मा तु वृद्धोऽप्युन्नतयौवनः | भवत्येवन्न सन्देहः षण्मासाभ्यन्तरेण तु || ७/१२ || पिङ्गग्रन्थिगतञ्चक्रं षोडशारं सुतेजसम् | साद्रवं कृष्णवर्णञ्च षोडशस्वरभूषितम् || ७/१३ || खद्योतितगतादूर्द्धं ब्रह्मरन्ध्रं लयं गताः | षण्मासासेवनाभ्यस्ताद् वृद्धोऽपि तरुणायते || ७/१४ || भवते नात्र सन्देहः कामदेवद्वितीयकः | योगिनीस्थानमाश्रित्य असितं कृष्णवर्णकम् || ७/१५ || अष्टपत्रद्रवञ्चैव शीतलं चन्द्रसन्निभम् | केशस्कन्धकपालस्थं रञ्जयेत् तस्य तेजसा || ७/१६ || अब्दार्द्धं वत्सरं वापि वृद्धोऽपि षोडशाकृतिः | जरामरणनिर्मुक्तो व्याधिरोगविवर्जितः || ७/१७ || योगिनीगणसामान्यासृष्टिसंहारकारकः | कण्ठकूपस्थितोद्योतं ब्रह्मरन्ध्रलयं गता || ७/१८ || साद्रवमञ्जनञ्चैव रोमकूपादिनिर्गतम् | अनङ्गस्यैव सौभाग्यं निगूढं सन्धिबन्धनम् || ७/१९ || रोमाणि सततन्तस्य घनास्थिषु च जायते | प्रथमे जनवाच्छल्यं द्वितीये रुजनाशनम् || ७/२० || तृतीये च कवित्वं हि सालङ्कारमनोहरम् | चतुर्थे वाचकामित्वं दूराश्रवणं पञ्चमे || ७/२१ || भूमित्यागन्तवेधं(?) षष्ठमन्यत् प्रकीर्तितम् | योगिनीमेलकत्वञ्च सप्तमे जायते ध्रुवम् || ७/२२ || जरापहरणन्देवि अष्टमे भवते प्रिये | नवमे चण्डवेगत्वं दशमेऽनेकरूपधृक् || ७/२३ || एकादशगुणं शान्तं त्रिविधा चैव वर्जितम् | एकादशगुणोपेतं पूज्यतेऽसौ यथा शिवम् || ७/२४ || इच्छयारोहणं कुर्याद्वर्णनं नृत्यमेव च | यतस्तत्रैव गन्तव्यं यत्र वा रोचते मनः || ७/२५ || मनोरोधं न कर्तव्यं यदा ज्ञातं हि कौलिकम् | प्रपञ्चरहितं शास्त्रं प्रपञ्चरहितो गुरुः || ७/२६ || प्रपञ्चरहितो मन्त्रः प्रपञ्चरहितः शिवः | एतत् कौलागमं नाथ अप्रपञ्चैः पशुः प्रिये || ७/२७ || दम्भितमात्मनस्तैस्तु पुनर्दम्भयते परम् | केचिदज्ञानतो नष्टाः केचिन्नष्टाः प्रमादतः || ७/२८ || केचि(ज्) ज्ञानावलयेन केचिन्नष्टैर्विनाशिताः | कम्पस्तोभे तथा रोषा मुद्रामुत्पतनन्तथा || ७/२९ || भवते नात्र सन्देहः सप्तरात्रेण कौलवे | यां यां स्पृशति हस्तेन यां यां पश्यति चक्षुषा || ७/३० || शुद्धं भवति तत् सर्वं परबिन्दुकिरणाहतम् | पलितस्तम्भविज्ञानं कथितं योगिनीप्रिये || ७/३१ || देव्या(ः) चक्रादि देवेशि ब्रह्मरन्ध्रावशा(नु)गम् | युक्तं कामकलादेवि पलितस्तम्भनं परम् | एतन्ते कथितं गुह्यं उन्मनज्ञाननिर्णितिः || ७/३२ || इति ज्ञाननिर्णितियोगिनीकौलम्महच्छ्रीमच्छघ्नपदावतारिते चन्द्रद्वीपविनिर्गते सप्तमः पटमः || ७/७ || अष्टमः पटलः देव्युवाच अत्यन्तगहनं नाथ सुगोप्यं गुह्यमुत्तमम् | अकुले तु कुलं देवं कथं जातं हि भैरव || ८/१ || क्षेत्रजा पीठजा वापि योगजा मन्त्रजा तथा | सहजा कुलजा वापि अष्टाष्टकमतन्तथा || ८/२ || पूजाक्रमविधानन्तु कुलसिद्धं वद प्रभो | गुरुपूजाविधानन्तु सर्वं संक्षेपतो वद || ८/३ || भैरव उवाच शृणुष्वैकाग्रचित्तन्तु योगिनीवीरमातरे | एकान्ते विजने स्थाने पुष्पदामोपशोभिते || ८/४ || सुधूपधूपितं कृत्वा मत्स्यमांसरा ... वम् | भक्ष्यभोज्यसमायुक्तो मदिरानन्दसंयुतम् || ८/५ || शक्तियुक्तो महात्मानः सहजा कुलजापि वा | अन्त्यजा वा महादेवि पृथग्भेदं वदाम्यहम् || ८/६ || विवाहं तु कृतं यस्य सहजा स तु उच्यते | कुलजा वेश्यमित्याहुरन्त्यजावर्ण अन्त्यजा || ८/७ || बहिस्था कथिता देवि आध्यात्म्यां शृणु साम्प्रतम् | गम्यागम्यप्रयोगेण मदनानन्दलक्षणम् || ८/८ || कुरुते देहमध्ये तु सा शक्तिः सहजा प्रिये | कुलजा किं न विज्ञाता वर्णराशिकुलात्मिकाम् || ८/९ || देहस्था त्रिविधा प्रोक्ता बहिस्था त्रिविधा प्रिये | अन्त्यजा संप्रवक्ष्यामि शृणु देवि यथास्थितम् || ८/१० || शुद्धस्फटिकसङ्काशा मुक्तामाला खगेश्वरी | ऊर्द्धतीर्यक्संशुद्धा महाशक्ति सुतेजसा || ८/११ || एषा शक्तिर्महात्मान अन्त्यजा व्योममालिनी | ताम्बुलपूरितं वक्त्रं विलिप्तं मुक्तमेन च || ८/१२ || श्रीखण्डं मृगमदञ्च हृष्टसंतुष्टचेतसा | योगिनीवीरसंयुक्तं युग्मपात्रं पृथक् पृथक् || ८/१३ || पूजयेत् तां चतुःषष्टिं पञ्चाशाष्टकमेवच | रक्ताम्बरधराः सर्वे केयूरकटकोज्ज्वलाः || ८/१४ || योगिनीवीरचक्रन्तु यथाशक्त्या (प्र)पूजयेत् | इत्थम्भूतं कुलाचार्यः कुलपुत्रैरधिष्ठितम् || ८/१५ || पूजितव्या महादेव्या क्षेत्रजा तु व्यवस्थिताः | करवीरं महाकालं देविकोट्यं वरानने || ८/१६ || वाराणस्यां प्रयागन्तु चरित्रैकाम्रकन्तथा | अट्टहासं जयन्ती च एभिः क्षेत्रैश्च क्षेत्रजाः | तेषां मध्ये प्रधानन्तु ये जाताः क्षेत्रजा प्रिये || ८/१७ || ह्रीं श्रीं ह्री श्रीं कोङ्कणा-इपाद, ह्रीं श्री ह्री श्रीं कलम्बा-इपाद | ह्रीं श्रीं ह्री श्रीं नागा-इ पाद, ह्रीं श्रीं ह्री श्रीं हरसिद्धा-इ पाद | ह्रीं श्री ह्रीं श्रीं कम्व-इपाद, ह्री श्री ह्री श्री मङ्गल इपाद | ह्रीं श्री ह्री श्री सिद्धा-इपाद, ह्रीं श्रीं ह्री श्री वछा-इपाद | ह्रीं श्री ह्रीं श्री शिवा-इपाद | ह्री श्री ह्री श्री श्री-इच्छा-इपाद | ह्रीं श्री ह्री श्रीं आ-ईपाद | ह्रीं श्री ह्रीं श्री वीरा-इपाद | ह्रीं श्री ह्रीं श्री त्रिभुवनापाद | ह्रीं श्री ह्रीं श्री वराहरूपा-इपाद | ह्रीं श्री ह्रीं श्री कृतयुगा चैव | तथा त्रेताद्वापरकलिमेव च | चतुर्युगेषु देवेशि क्षेत्रजा सिद्धिपूजिता || ८/१८ || ह्री श्रीं पादान्तु आदौ तु तथा नाममुदीरयेत् | क्षेत्रजा कथिता देवि पीठजा(ः) कथयामि ते || ८/१९ || प्रथ मं पीठमुत्पन्नं कामाख्यानाम सुव्रते | उपपीठस्थिता सप्त देवीनां सिद्ध-आलयम् || ८/२० || पुनः पीठं द्वितीयन्तु संज्ञा पूर्णगिरि प्रिये | ओडियान महापीठमुपपीठसमन्वितम् || ८/२१ || अर्वुदमर्द्धं पीठन्तु उपपीठसमन्वित(म्) | पीठोपपीठसन्दोहं क्षेत्रोपक्षेत्रमेव च | पीठाद्यादेवतानां च शृणु पूजाविधिं प्रिये || ८/२२ || ह्री/ श्री/ ह्री/ श्री/ महालक्ष्मा-इ पाद | ह्री/ श्री/ ह्री/ श्री/ कुसुमानङ्गा-इ पाद | ह्री/ श्री/ ह्री/ श्री/ शुक्ला-इ - पाद | ह्री/ श्री/ ह्री/ श्री/ प्रलम्बा-इ-पाद | ह्री/ श्री/ ह्री/ श्री/ पुलिन्दा-इ-पाद | ह्री/ श्री/ ह्री/ श्री/ शवरा-इ-पाद | ह्री/ श्री/ ह्री/ श्री/ कृष्णा-इ-पाद | ह्री/ श्री/ ह्री/ श्री/ लच्छा-इ-पाद | ह्री/ श्री/ ह्री/ श्री/ नन्दा-इ-पाद | ह्री/ श्री/ ह्री/ श्री/ भद्रा-इ-पाद | ह्री/ श्री/ ह्री/ श्री/ कलम्बा-इ-पाद | ह्री/ श्री/ ह्री/ श्री/ चम्पा-इ-पाद | ह्री/ श्री/ ह्री/ श्री/ धवला-इ-पाद | ह्री/ श्री/ ह्री/ श्री/ हिडिम्बा-इ-पाद | ह्री/ श्री/ ह्री/ श्री/ महामाया-इ-पाद | पीठोपपीठसन्दोहे ये जाता वरयोगिनी | एतैस्तु पूजिता भद्रे सर्वे सिध्यन्ति मातराः || ८/२३ || योगाभ्यासेन ये सिद्धा मन्त्राणामाराधनेन तु | योगेन योगजा माता मन्त्रेण मन्त्रजा प्रिये || ८/२४ || सहजा मातरा देव्या रूरूयुद्धैर्महाबलाः | भक्षितं तु चरुं दिव्यं सप्तजन्मान्तिकं पशुम् || ८/२५ || तेषां गर्भे प्रसूतानां निर्यासप्राशितेन च | गर्भे जातेन देवेशि गर्भं जानन्ति आत्मनः || ८/२६ || ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही वज्रहस्ता च तथा योगेश्वरीति च || ८/२७ || अघोरेशी च विख्याता मातर्या व्यापकाः स्मृता (ः) | तथान्या द्वारपालिन्या तैस्तु संव्यापितञ्जगत् || ८/२८ || पञ्चजातक्रमे चान्या नगरे ग्रामेषु सर्वशः | सर्वास्तां पूजयेन्नित्यं गुरुसिद्धसमन्विताम् || ८/२९ || ग्रहा नागाश्च देवाश्च योगिन्यः सिद्धमेव च | पूजितां पूजयन्त्येते निर्देहं त्यपमानिताः (?) | कुलाष्टकं प्रवक्ष्यामि अष्टाष्टकविधि प्रिये || ८/३० || ह्री/ आ ह्री/ ह्री/ इं ह्री/ ह्री/ ऊं ह्री/ ह्री/ ॠ ह्री/ ह्री/ ऌ ह्री/ ह्री/ ऐं ह्री/ ह्री/ ओं ह्री/ ह्री/ ह्री/ अः ह्री/ प्रथमन्तु इमं देवि शृणु विद्यायमष्टकम् | ह्री/ क्षः ह्री/ लः ह्री/ हः ह्री/ सः ह्री/ षः ह्री/ शः ह्री/ व ह्री/ र विद्यापदाष्टकाख्यातम् | ह्री/ क्ल ह्री/ एतत् कौलिकं भैरवि | अष्टधा तु लिखेद्विद्या प्रथमाष्टकभेदितम् | यथा एतत् तथा सर्वे ज्ञातव्या योगिनीक्रमम् || ८/३१ || अष्टाष्टकं विधानेन चतुःषष्टि यथाक्रमम् | योगिनीमेलकं चक्रं अणिमादिगुणाष्टकम् || ८/३२ || भवत्येव न सन्देहो ध्यानपूजारतस्य च | द्वितीयन्तु महाचक्रं सर्वाकृष्टिप्रवर्तकम् || ८/३३ || पशुग्रहणमावेशं पूजाध्यानरतस्य च | तृतीयन्तु महाचक्रं परकायप्रवेशनम् || ८/३४ || अतीतानागतञ्चैव अभ्यासाद्भवते प्रिये | लभत्येव न सन्देहो विविधं यत् समीहितम् || ८/३५ || चतुर्थं शान्तिकचक्रं मुक्तिमुक्तिप्रदं शुभम् | पूजयित्वा इमं चक्रं यावद् ध्यानं प्रयुञ्जति || ८/३६ || क्षणेन भवते स्तोभो मुद्राबन्धत्यनेकधा | भाषास्तु विविधाकारा अश्रुतानि श्रुतानि च || ८/३७ || उच्चरेदङ्गमयं शास्त्रं मन्त्रजालानि श्रूयते | स्वयमेवात्मनात्मने श्रूयते चात्मनात्मनि || ८/३८ || षण्मासाद् भवते सिद्धिमनिशी(?) योगिनीप्रिये | बलीपलितनिर्मुक्तः कामदेवो द्वितीयकः || ८/३९ || पञ्चमन्तु महाचक्रं ध्यानपूजाक्रमेण तु | वायवादेर्नाशयेद्वाचा मूकवत् तिष्ठते तु सः || ८/४० || षष्ठं चैव महाचक्रं धर्मार्थकाममोक्षदम् | सप्तमञ्चक्रं देवेशि सैन्यस्तम्भकरं परम् || ८/४१ || स्तोभावेशादिकं चक्रं संसारबन्धमोचकम् | दूराच्च दर्शनं तस्मिन् पूजाध्यानरतस्य तु || ८/४२ || अष्टमं चक्रमुद्दिष्टं इच्छासिद्धिप्रवर्तकम् | मारणोच्चाटनं भद्रे स्तम्भमोहादिकं प्रिये || ८/४३ || वदनोतिष्ठमहाचक्रं कुलभक्त्यामधिष्ठितम् | अष्टाष्टकविधानन्तु ज्ञात्वा सिध्यति नान्यथा || ८/४४ || तत्तेषां गूढसद्भावं चतुःषष्टियोगिनीक्रमम् | निःसन्दिग्धं मया प्रोक्तं हि भक्तियुक्त्यावधारम् || ८/४५ || इति ज्ञाननिर्णितियोगिनीकौलम्महच्छ्रीमच्छघ्नपादावतारिते चन्द्रद्वीपविनिर्गते अष्टमः पटलः || ८/८ || नवमः पटलः भैरव उवाच गुरुपङ्क्तिं प्रवक्ष्यामि सिद्धपङ्क्तिं सुलोचने | योगिनीपञ्क्तिविन्यासं कथयामि तव प्रिये || ९/१ || सर्वसिद्धियोगिनीनां खेचरीं सर्वमातरीम् | सर्वभूचरीसर्वगोचरयोगिनीनां सर्वक्षेत्रकम् || ९/२ || सर्वमन्त्रजाः सर्वयोगजाः सर्वपीठजाः | सर्वसहजाः सर्वकुलजा सर्वद्वारपालिकाः || ९/३ || सर्वगर्भजाः कृते च द्वापरे त्रेते कलियुगे महातपे | चतुर्युगविभागेन योगिनीसिद्धिपूजिताः || गुह्यानां परमं गुह्यन्तव भक्त्या प्रकाशितम् || ९/४ || देव्युवाच सुदग्धमग्निना देहम् अद्य निर्वापितं परम् | तव प्रसादात् कौलेश ज्ञातोऽहम् ज्ञाननिर्णयम् | साम्प्रतं श्रोतुमिच्छामि गुरुभ्यः सिद्धपूजनम् || ९/५ || भैरव उवाच गुरुसिद्धिविधे देवि शृणु त्वं कुलभाविनि | श्रीविश्वपादान् | (श्री) विचित्रपादान् | श्रीश्वेतपादान् | श्रीभट्टपादान् | श्रीमछेन्द्रपादान् | श्रीबृहीषपादान् | श्रीविंध्यपादान् | श्रीशबरपादान् | श्रीमहेन्द्रपादान् | श्रीचन्द्रपादान् | श्रीहिडिनिपादान् | श्रीसमुद्रपादान् | श्रीलवणपादान् | श्रीदुम्बरपादान् | श्रीदेणेपादान् | श्रीधीवरपादान् | श्रीसिंहलपादान् | (श्री) ओगिनीपादान् गुरु परमगुरु परमेष्ठ्य पूज्य महापूज्य लाकिनी डाकिनी शाकिनी काकिनी याकिनी - ह्रींकारमादितः कृत्वा श्रीकारं चैतदनन्तरम् | अक्षरद्वयविन्यासमन्यन्तेषु प्रदापयेत् || ९/६ || एतत् सिद्धाश्च योगिन्या अस्मिन् सिद्धाः कुलागमे | अनेन सदृशं ज्ञानं न भूयो न भविष्यति || ९/७ || कलियुगे महाघोरे रौरवेऽत्यन्तभीषणे | सञ्जाताः षोडश सिद्धा अस्मिन् कौले सुलोचने | कृते च द्वापरे त्रेते सिद्धायै वीरवन्दिताः | तेषां नामविधिं वक्ष्ये शृणु त्वं वरलोचने || ९/८ || मृष्णिपादाः | अवतारपादाः | सूर्यपादाः | द्युतिपादाः | ओमपादाः | व्याघ्रपादाः | हरिणिपादाः | पञ्चशिखिपादाः | कोमलपादाः | लम्बोदरपादाः | एते पूर्वमहासिद्धाः कुलकौलावतारकाः | चतुर्युगेति देवेश स्वतन्त्र - कुलचोदका (ः) || ९/९ || अस्य ज्ञानप्रभावेण बहवः सिध्यन्ति मानवाः | दशकोटिप्रमाणन्तु इ(द)म् कौलं परोद्भवम् || ९/१० || सारात्सारतरं भद्रे महाकौलस्य शोभने | इच्छाख्या योगिनी सिद्धैर्मायान्तं पर-इच्छया || ९/११ || खेचरीणां पुनः पश्चादिच्छया प्रकटीकृतम् | मातराणां पुनर्देवि खेचरैः कथितं प्रिये || ९/१२ || मातराणि गमिष्यन्ति भूचरीणां कुलेश्वरि | भूचरीणां सुभक्षाणां भूचरी कथितं प्रिये || ९/१३ || योगिनीनां कुले जातौ लभते कौलिकी स्फूटम् | चतुरशीति सहस्रेषु योनियन्त्रेषु पीडिताः || ९/१४ || पुण्यात्मानं कुलाश्चर्यं पश्चाज् ज्ञानमिमां लभेत् | भुक्तिमुक्तिमहासिद्धिः योगिनीनां प्रियो भवेत् || ९/१५ || इति ज्ञाननिर्णितियोगिणीमहाकौलम्महच्छ्रीमच्छघ्नपादावतारिते चन्द्रद्वीपविनिर्गते नवमः पटलः || ९/९ || दशमः पटलः देव्युवाच अद्य मे सफलं नाथ मम पिण्डं सुरेश्वर | वह्निनावेष्टितात्मानमेकपादेन संस्थितम् || १०/१ || तत्तपः सफलं मेऽद्य त्वया तुष्टेन भैरव | ज्ञानस्य निर्णयन्देव अद्य मे प्रकटीकृतम् || १०/२ || पुनः पृच्छामि कौलेश यथातथ्यं वद प्रभो | अष्टाष्टकविभागन्तु परिज्ञातुमनन्तथा || १०/३ || अद्यापि संशयो नाथ तेषां चक्रं पृथक् पृथक् | गुह्यस्थानं यथाचक्रं क्षिप्रं सिध्यति भैरव || १०/४ || स्थानध्यानफलन्तेषां संक्षेपं कथ्यते प्रभो | भैरव उवाच साधु साधु महादेवि पृष्टोऽहं सुरदुर्लभम् || १०/५ || कथयामि न सन्देहो भक्तियुक्ता वरानने | लां लीं लूं ऌं लुं लैं लौं लः | हां हीं हूं हृं ह् हैं हौं (हः) | सां सीं सूं सृं स्लं (सैं) सौं सः | षां षीं षूं षृं ष्लं षैं षौं षः | शां शीं शूं शृं श्लं शैं शौं शः | वां वीं वूं वृं व्लं वैं वौं वः | ह्लां ह्लीं ह्लुं हॢं ह्लैं ह्लौं ह्लः || १०/ क्षकारं ब्रह्मरन्ध्रत्वं लंकारन्तु ललाटयोः || १०/६ || हकारन्तु भ्रुवोर्मध्ये सकारं वक्त्रमण्डले | षकारं कण्ठदेशे तु शकारं हृदये तदा || १०/७ || वकारं नाभिमध्ये तु ह्लकारं विसकन्दयो (ः) | स्थानचक्रास्तु संप्रोक्तास्तेषां ध्यानं शृणु प्रिये || १०/८ || शुद्धस्फटिकसङ्काशं ऊर्द्ध्वतेजसुनिर्मलम् | अष्टारं पङ्कजं दिव्यं प्रथमाष्टकभूषितम् || १०/९ || सर्वद्वन्द्वविनिर्मुक्तं क्रोधाग्रैः शून्यवर्जितम् | अभ्यासात् समचित्तस्तु ग्रामधर्मञ्च वर्जयेत् || १०/१० || अतीतानागतञ्चैव वर्तमानन्तथैव च | दूराश्रवणविज्ञानं पाशस्तोभन्तथा प्रिये || १०/११ || पशुग्रहणमावेशं मृत्युनाशन्तथैव च | अमरत्वन्तथा देवि समासात् परिवर्तनम् || १०/१२ || वाचा सिद्धिर्भवत्येवं किं कुर्वाणं जगत्प्रिये | द्वितीयमष्टपत्रन्तु तेजध्यानसुदीपितम् || १०/१३ || आगमान्नाशयेन्मृत्युं पुरक्षोभादिकारकः | कुरुते बहुधा रूपं ध्यानैकगतचेतसः || १०/१४ || मण्डलीकनरेन्द्राणां किं कुर्वाणो विधीयते | क्रुद्धस्तु संहरेत् सर्वं त्रैलोक्यं सचराचरम् || १०/१५ || सृष्टिसंहारकर्तारं नित्याभ्यासरतः सदा | तृतीयन्तु महाचक्रं नवतत्त्वप्रमोचकः || १०/१६ || षण्मासादीप्सितं कामं ध्यात्वाधारन्तु तद्गुरुः | बलीपलितनाशन्तु सुदूराद्दर्शनन्तथा || १०/१७ || बेधन्तु कुरुते देवि योजनानां शतैरपि | एकान्ते बहुधा रूपं कुरु ध्यानञ्च तत्परः || १०/१८ || चतुर्थशान्तिकं चक्रं सुखप्रीतिविवर्द्धनम् | कुरुते अमरत्वं हि सतताभ्यासतत्परः || १०/१९ || वाचयो कुरुते मृत्युं रोगाणान्तु जयं प्रिये | दिवसान्नाशनेनैव वयो मृत्युं गमिष्यते || १०/२० || नाशयेदहो(रा)त्रेण एतञ्चक्रमनुत्तमम् | सतताभ्यासयोगेन द्विरष्टवर्षाकृतिर्भवेत् || १०/२१ || अष्टपत्रं महापद्मं पञ्चमं सुरसुन्दरि | धूम्रवर्णं सदा चिन्त्य त्रैलोक्यं चालयेत् प्रिये || १०/२२ || वाचापहारं कुरुते सैन्यस्तम्भकरं परम् | षष्ठं तु चक्रं राजानमष्टपत्रसकर्णिकम् || १०/२३ || तप्तचामीकरप्रभमिच्छासिद्धिप्रवर्तकम् | अतीतानागतञ्चैव अणिमादिगुणाष्टकम् || १०/२४ || ददते नात्र सन्देहो भक्तिध्यानप्रदीपितः | सप्तमन्तु महादेवि पूर्णचन्द्रप्रभं प्रिये || १०/२५ || तद्गतन्तन्मनं भद्रे भुक्तिमुक्तिप्रदं शुभम् | जरामृत्युविनाशञ्च परदेहे प्रवेशनम् || १०/२६ || किं कुर्वाणविधेयस्तु मण्डलीकनरोत्तम (ः) | अष्टमन्तु महाचक्रं पत्राष्टकविभूषितम् || १०/२७ || धर्मकामार्थमोक्षञ्च ददत्येव सुलोचने | रक्तध्याने सदावश्यं पीतस्तम्भकरं परम् || १०/२८ || शुक्लमाध्यायन देवि स्फटिके मोक्षदायिकम् | कृष्णेन मारणं प्रोक्तं धूम्रमुच्चाटने सदा || १०/२९ || गोक्षीरधारधवलं एतन्मृत्युञ्जयो हितम् | पुरःक्षोभन्ततस्तोभं कम्पपातादिकं चरेत् || १०/३० || अग्निज्वाला सुदीप्ताभं ध्यानं चैवाष्टमं सदा | एकैकस्य स्थितन्देवि एतद्ध्यानन्तु अष्टधा || १०/३१ || चापञ्च कञ्चुकी देवि प्रणिपत्य मुहुर्मुहुः | अद्य मे सफलं जातम्महाकौलेषु भैरव || १०/३२ || इति ज्ञाननिर्णितियोगिनीकौलम्महच्छ्रीमच्छघ्नपादावतारिते चन्द्रद्वीपविनिर्गते दशमः पटलः || १०/१० || एकादशः पटलः देव्युवाच कथयस्व महादेव चरुकाद्वैतलक्षणम् | सर्वशङ्काविनिर्मुक्तं निःशङ्कं सिध्यते ध्रुवम् || ११/१ || भैरव उवाच यत्त्वया पृच्छितं देवि लोकेऽस्मिन् क्रूरभीषणे | कथयामि निःसन्देहं सर्वशङ्काविमर्दकः || ११/२ || अद्वैते नित्ययुक्तस्य तस्य सिद्धिः प्रजायते | द्वैतन्तु कारयेद्यस्तु आकृष्टो योगिभिस्तु सः || ११/३ || समयाद् भ्रष्टन्तु यो देवि स पशुर्नात्र संशयः | द्वैतभावं परित्यज्य अद्वैताचारभावितः || ११/४ || पञ्चामृतं प्रवक्ष्यामि गुह्यानां गुह्यमुत्तमम् | ज्ञातव्यं कुलसमयं कुलपुत्रैर्विशेषतः || ११/५ || साधकैः सिद्धिकामैस्तु तथान्यं कुलदेशिकैः | अनुष्ठितमिदं पूर्वं कुलसिद्धैः सुलोचने || ११/६ || एतज्ज्ञात्वा भवेत् सिद्धिर्मानसी योगिनीप्रिये | यदिच्छेत् कौलवी सिद्धिः प्राप्य पञ्चामृतं परम् || ११/७ || तदा सिध्यति योगिन्यां सिद्धिमेलापकं भवेत् | ददन्ते च तदा देवि चरुकं पञ्चभिर्युतम् || ११/८ || योगिनीभिः सकृद्दत्तं तत्क्षणात् तत्समो भवेत् | अथ वा प्राशयेज्ज्ञात्वा योगयुक्तस्तु कौलवित् || ११/९ || सिध्यते नात्र सन्देहो विघ्नजालविवर्जितम् | योगिनीगणसामान्यामनः सुचिन्तितं भवेत् || ११/१० || विष्ठं धारामृतं शुक्रं रक्तमज्जाविमिश्रितम् | एतत् पञ्च पवित्राणि नित्यमेव कुलागमे || ११/११ || नित्यनैमित्तिकं देवि कर्तव्यं च प्रयत्नतः | गोमांसं गोघृतं रक्तं गोक्षीरञ्च दधिन्तथा || ११/१२ || नैमित्तिके इमं कुर्यात् सिद्धिकामे महोत्सुकः | निःशङ्को निर्विकल्पस्तु एतत् कुर्यात् कुलागमे || ११/१३ || अन्यथा नैव सिध्यन्ति निर्मुक्तिस्तु मम प्रिये | पुनरन्यविशेषणं शृणुष्वैकाग्रमानसः || ११/१४ || श्वानमार्जार - उष्ट्रञ्च शृगालञ्च हयन्तथा (?) | कूर्मकच्छवराहञ्च मार्जारवककर्कटम् || ११/१५ || शलाकी कुकुटश्चापि बहु(?)नानाकुलन्तथा | शेरकञ्च मृगं वापि महिषं गण्डकं तथा || ११/१६ || अन्यानि यानि मच्छानि यथालाभं समाहरेत् | विज्ञानम्बलसामर्थ्यं सप्तजन्मान्तिकं पशु || ११/१७ || येन तेन प्रकारेण आकृष्टिं भक्षयेत् सदा | पूजयेद् योगिनीवृन्दं भक्ष्यभोज्यादिभिः प्रिये || ११/१८ || धारापानन्ततः कुर्याद् यदीच्छेच्चिरजीवितुम् | पिशितं त्रिविधं कुर्यात् पक्षाम्लमधुरन्तथा || ११/१९ || देवतातर्पणार्थाय सुरा देया यथोचिता | वृक्षजा मूलजा चैव पुष्पजा फलजापि वा || ११/२० || पेष्टी माध्वी तथा गौण्डी दद्यान्नैमित्तिके प्रिये | अद्वैतन्तु यथाख्यातं कर्तव्यं नान्यथा न हि || ११/२१ || अद्वैताचारमासृत्य यदान्यञ्चरति पापकृत् | पतन्ति नरके घोरे अवीचिरौरवे तथा || ११/२२ || अद्वैतं येन सन्त्यक्तं ममाभाष्यन्तु(?) तं पशुम् | योगिनीगणमध्यस्थं स पशुः कीर्तितं कुले || ११/२३ || गुप्तं गुप्ततरं कुर्याद् गोपनीयं प्रयत्नतः | जननीजारगर्भन्तु स्वपुत्रं गोपयेद्यथा || ११/२४ || अद्वैतं गोपयेन्नित्यं सुगोप्यमभ्यसेत् क्रमात् | अणिमादिगुणैश्वर्यसिद्धिश्च मानसी भवेत् || ११/२५ || स्वयं गुरुः स्वयं सिद्धः स्वयं शिष्यः स्वयं शिवः | अज्ञानबन्धनाज्ञेयं ज्ञानं ज्ञेयं विमोचनम् || ११/२६ || सुगन्धं पूतिगन्धञ्च नित्यं गृह्णाति निष्कलः | पद्मपत्रे यथा तोये तथा चैवं न लिप्यते || ११/२७ || तद्वन्न लिप्यते योगी पुण्यपापैः सुरेश्वरि | ब्रह्महत्यादिकं पापम् अश्वमेधादिकं फलम् || ११/२८ || सर्वतीर्थाभिषेकञ्च म्लेच्छादिस्पर्शनेन तु | एतैर्न गृह्यते योगी क्रियमाणैरपि स्फुटम् || ११/२९ || समत्वं वीतरागत्वमुदासीनां ख-वृत्तिनाम् | निष्परिग्रहसन्तोषं द्वन्द्वयोगं न कारयेत् || ११/३० || कामक्रोधञ्च दम्भञ्च त्यजेल्लोभं शनैः शनैः | न चरुन्निन्दयेद्भद्रे समयाद्वैतमेव च || ११/३१ || यस्मिन्निष्पद्यते पिण्डं रक्तशुक्रं पिबेत् सदा | सिद्धानां योगिनीनाञ्च इमञ्चरुम्प्रियं सदा || ११/३२ || शाकिनीनां प्रियं मांसं देवीनाञ्च प्रियं शृणु | वुकपुष्पं शिवाम्बुञ्च रक्तशुक्रं सुरान्तथा || ११/३३ || ब्रह्मनिष्ठीवनाद्यञ्च सौरभ्यं पुष्पकादिकम् | गन्धं धूपञ्च गेयञ्च ताम्बूलं रक्तवाससम् || ११/३४ || रक्षाद्यं रक्तवर्णञ्च सिद्धानां देवता प्रिये | विज्ञानोन्मीलनम्भद्रे भवत्येवं नान्यसेवनात् || ११/३५ || शाकरं यन्न कुर्वीत जन्महीनवरस्त्रियै | लौल्यार्थी चपला नित्यं कुलशास्त्रविडम्बकम् || ११/३६ || स्वशक्तिदर्शनाद्रक्तं स्पर्शनाल्लक्षणेन तु | कुलविज्ञानसंभोगात् षण्मासात् सिद्धिभाजनः || ११/३७ || आदिमन्त्रविनिर्मुक्तं शिवाम्बु ब्रह्ममेव च | प्राशयेत् तत् सदा कालं योगिनीमेलको भवेत् || ११/३८ || पादप्रक्षालनन्तेन नित्यं तत् तथैव च | मुखप्रक्षालनं नित्यं ब्रह्मणोर्द्धगतम्प्रिये || ११/३९ || कुण्डगोलोद्भवन्नैव तिलकं कारयेत् सदा | अशीतिं नाशयेद्वातान् कुष्ठव्याधिन्तु नाशयेत् || ११/४० || मुच्यते सर्वरोगैश्च यथा सर्पस्य कञ्चुकम् | उदयार्कसमस्तेजन्नित्यं वै योगिनीप्रियम् || ११/४१ || त्रैलोक्यं वश्यतां याति ब्रह्मादयो दिवौकसः | चरुकाद्वैतमाचारं मन्त्रजैः (?) सह भोजनम् || ११/४२ || सर्वं समाचरेद् देवि इच्छाशक्त्रेरधिष्ठितम् | इच्छां विना न कुर्यात्तु बलात्कारेण तञ्चरुम् | चरुकाद्वैतमाचारं कथितं ज्ञाननिर्णयम् || ११/४३ || इति ज्ञाननिर्णितियोगिणीमहाकौलम्महच्छ्रीमच्छघ्नपादावतारिते चन्द्रद्वीपविनिर्गते एकादशः पटलः || ११/११ || द्वादशः पटलः देव्युवाच रोमाञ्चकञ्चुका देवि हृष्टसन्तुष्टचेतसः | भक्ष्याणान्तु समुत्पन्नं पुनः पृच्छामि भैरव || १२/१ || अद्याहं कुलसमयमद्याहं लक्षणान्वितम् | साम्प्रतं श्रोतुमिच्छामि पात्राणां चर्यलक्षणम् || १२/२ || भैरव उवाच शृणु त्वं वीरचामुण्डे पात्राणां चर्यलक्षणम् | प्रथमं बालरूपेण द्वितीयम् उन्मत्तकाकृतिम् || १२/३ || तृतीयं राजरूपेण चतुर्थं कश्मलं प्रिये | स्वातन्त्रं पञ्चमं देवि षष्ठञ्च वीरनायकम् || १२/४ || गन्धर्वसप्तमन्नाम नग्नं चैवाष्टकं प्रिये | त्रिदण्डञ्चैव देवेशस्तथान्यं वेदविक्रयम् || १२/५ || यां यान्तु कुरुते इच्छां तां ताञ्चैव व्रतं प्रिये | अकुलञ्च कुलं ज्ञात्वा कुलं देव्या सुभामिनि || १२/६ || भैरवं पूजितव्यञ्च कुलैः सिद्धिसमन्वितम् | स्वगुरुं पुजयेन्नित्यं त्रिष्कालं भावितात्मनः || १२/७ || मनसा कर्मणा वाचा गुरुञ्चैव स्वकं न तु | निवेदयेत् प्रयत्नेन भुक्तिमुक्तिजिगीषया || १२/८ || गुरुकौलागमे भक्ति अद्वैताचारभावितः | ईप्सितं तु व्रतं कुर्यादद्वैतेन समन्वितम् || १२/९ || देव्युवाच चर्याया लक्षणं देव प्रसादादवधारितम् | पुनः पृच्छामि देवेश पात्राणां लक्षणं शुभम् || १२/१० || भैरव उवाच पात्राणां निर्णयं देवि शृणुष्वेकाग्रमानसः | मृन्मयं कूर्मजं देवि कांसजं ताम्रलोहजम् || १२/११ || हेमजं रौप्यजं वापि शुक्तिजं शङ्खजं प्रिये | कौलिकं तु वरारोहे तथान्यं काचसम्भवम् || १२/१२ || शृङ्गोद्भवं सकाष्ठाद्यापाषाणसम्भवं प्रिये | विश्वामित्रकपालञ्च सर्वपात्रोत्तमं प्रिये || १२/१३ || तस्मिन् कृत्वा पिबेत् किञ्चिद्भक्ष्यञ्च भक्षयेद् यदि | पतिञ्च पतितञ्च तद्भवेच्चकोत्तमः (?) || १२/१४ || ज्ञातव्यं पात्रमेतद्विशालं नारिकेलकम् | एतत् पात्रमलाभेन अन्यपात्रे पिबेत् सुराम् || १२/१५ || पात्राणां लक्षणं देवि चर्यायाश्चैव लक्षणम् | कथितं देवि सद्भावं किमन्यं पृच्छसेऽधुना || १२/१६ || देव्युवाच अद्य मे सफलं जाता देवत्वं स्वरनायिक | तत्प्रसादेन देवेश ज्ञातव्यं ज्ञाननिर्णयम् || १२/१७ || इति ज्ञाननिर्णये श्रीयोगिनीकौलम्महच्छ्रीमछघ्नपादावतारिते चर्यापात्रलक्षणो द्वादशः पटलः || १२/१२ || त्रयोदशः पटलः भैरव उवाच मोक्षप्रत्ययसंवित्ति शृणु त्वं वीरनायिके | अधोर्द्धञ्च लभेज्जीवो ज्ञात्वा तं मुक्तिभोजनम् || १३/१ || हंस हंस वदेन्नित्यं देहस्थावरजङ्गमे | श्रुत्वा तस्य पतिर्दिव्यं याति मोक्षवरं शुभम् || १३/२ || येन व्याप्तं च त्रैलोक्यं जगद् यस्मिन् व्यवस्थितम् | तं ज्ञात्वा गूढसद्भावं सर्वज्ञत्वम्प्रजायते || १३/३ || न तेन विना मुच्यन्ते व्यवहारान्न हि तद्विना | शुभाशुभं च संभोक्तं न तेन रहितं क्वचित् || १३/४ || न मनञ्चित्तमालब्धं न पेयं धारणं प्रिये | उन्मनन्तु मनो यस्य तस्य मोक्षो भवन्तीह || १३/५ || द्वादशान्ते यदा पश्येत् स्फूरन्तं मणिमालिका | तस्य मोक्षो भवेद्यस्तु पापपुण्यैर्न लिप्यते || १३/६ || देवयाने महायाने यस्य चित्तं सदा प्रिये | तस्य मोक्षो न सन्देहः पद्मपत्राम्बुबिन्दुवत् || १३/७ || इ गुदे इक्षु मेढ्रे इयौ नाभौ || इमौ वक्त्रे || इवौ दक्षिणनासा(यां) || इलौ वामपुटे || इरौ दक्षिणतः || इडो दक्षिणकर्णः || इशौ वाम कर्णः || इह्रौ भ्रूमध्ये || सं तं ललाटे || सं अं वामकर्णे || सः यं दक्षिणकर्णः || सः पं वामचक्षुः || सः ऋ दक्षिणचक्षुः || वः तं वामनासिका || सः पुं दक्षिणनासिका || सः रूं वक्त्रम् || सः यं नाभि || सः षु/ मेढ्रः || सः लं गुदे || इदं न्यासक्रमन्देवि यस्य देहे प्रवर्तते | तस्य मोक्षो न सन्देहः परं संवित्तिपूर्वकम् || पिण्डपाते यदा देवि कपालम्भिद्यते तदा || १३/८ || इति ज्ञाननिर्णये योगिनीकौलमहच्छ्रीमच्छेन्द्रपादावतारिते चन्द्रद्वीपविनिर्गते न्यासः त्रयोदशः पटलः || १३/१३ || चतुर्दशः पटलः देव्युवाच मन्त्रजालविनिर्मुक्तम्प्राणायामविवर्जितम् | चक्रध्यानविनिर्मुक्तं सद्यः सिद्धिकरं परम् || १४/१ || निर्गमं देहमध्ये तु संशयच्छित्तिकारकम् | शृणु त्वमद्भुतं देवि महदाश्चर्यकारकम् || १४/२ || ब्रह्मा विष्णुः सुराः सर्वे क्लिश्यन्ते मन्दबुद्धयः | गर्न्धवाः किन्नरा यक्षा असुराश्च तपोधनाः || १४/३ || न तेषां कथितं देवि इमं कौलं परं प्रिये | कुलभक्तिविहीने तु गुरुभक्तिविवर्जिते || १४/४ || न देयं कौलिकं सारं शिष्यैर्मन्दपरीक्षिते | वञ्चका कृपणा मूढा हीनानि सत्यनिन्दिते || १४/५ || न दद्यादनुग्रहा यस्या देवाग्नियतिद्वेषकाः | ये दद्यास्तु इमे शिष्या देशिको सिद्धिर्हीयते || १४/६ || गुर्वाज्ञाकारिणो नित्यं युक्तायुक्तपरीक्षकः | धर्मे च रतये नित्यं क्रोधये शून्यवर्जितः || १४/७ || निश्चितनिस्पृहे गुप्ते निस्संशैकान्तवासिने | देवाग्नियतियोगिन्या भक्त्या नित्यं प्रसन्नधीः || १४/८ || वरयेच्छिष्य कुर्वीत दृढभक्तिपरायणः | सुपरीक्ष्य सदा तस्य यो दद्याच्चिरजीवितम् || १४/९ || द्वौभावसुप्रपञ्चात्मा कपटव्रतधारिणः | योगिनीनां च विद्विष्टे गुर्वाज्ञालोपकारकः || १४/१० || न देयं कौलिकं ज्ञानं कामिने क्रोधिने तथा | न शिवदूषके देवि निन्दके कुलभैरवे || १४/११ || सागररत्नसंघाते अमूल्यं भुवि विक्रयः | सागरं रत्नसंपूर्णमक्रेतुं यस्य संचयः || १४/१२ || न(द)द्यान्निन्दको देवि सप्ताहनि परेण हि | इमं कौलं महादेवि सर्वकालस्य निर्णयम् || १४/१३ || यस्य कौलागमे स्पर्द्धा ना ज्ञातुमीदृशं प्रिये | सम्यग् ज्ञानवरं देवि सप्ता...ण्नदापयेत् || १४/१४ || यत् क्रमं पृछितं देवि तत् क्रमं शृणु भाविनि | प्रथमं मूलचक्रन्तु यदान्यभ्यसते प्रिये || १४/१५ || तदा तु प्रत्ययं देवि महदाश्वर्यकारकः | प्रथमं कम्पमायाति धूननन्तु द्वितीयकम् || १४/१६ || हस्तपादशिरःकम्पभाषाणि विविधानि च | मन्त्रमुद्रगणं सर्वं दुर्दुरप्लुत एव सः || १४/१७ || भूमित्यागकवित्वञ्च अतीतानागतं तथा | कालस्य वञ्चनं देवि रूपस्य परिवर्तनम् || १४/१८ || बलीपलितनाशञ्च खेचरत्वं हि सुन्दरि | अष्टौ च सिद्धिसंप्राप्तिर्मूलकौलं वरानने || १४/१९ || शृणु त्वमद्भूतं देवि आधारस्यैव निर्णयम् | देव्याश्चक्रोर्द्धं देवेशि आधारञ्चतुरङ्गुलम् || १४/२० || तस्मिंश्चैव मनः कृत्वा शुचि भूत्वा तु पार्वति | कम्पस्तोभस्तथा भाषा मुद्रामुत्प्लवनन्तथा || १४/२१ || अश्रुतानि तु शास्त्राणि मन्त्रमुद्रागणं महत् | भून्मागं (?) खेचरत्वञ्च वश्यमाकर्षणन्तथा || १४/२२ || जरापहरणं देवि मृत्युकालस्य वञ्चनम् | पातालं खेचरत्वञ्च अचिराद्भवति प्रिये || १४/२३ || एतत्ते कथितं तुभ्यं आधारस्य (तु) लक्षणम् | अथान्यं (सं)प्रवक्ष्यामि ब्रह्मग्रन्थिविनिर्णयम् || १४/२४ || तस्मिंस्थाने मनः कृत्वा प्रहरैकेण भाविनि | कम्पस्तोभादिकं भद्रे भाषा चैव त्वनेकधा || १४/२५ || दूराश्रवणं पुरक्षोभम् अतीतानागतन्तथा | कालस्य वञ्चनं देवि अमरञ्च कवित्वता || १४/२६ || अणिमादिगुणैश्वर्यं सिद्धिश्व मानसी भवेत् | एतत्ते कथितं देवि ब्रह्मग्रन्थिविनिर्णयम् || १४/२७ || अतोर्द्धं शृणु कल्याणि यथातथ्यं यशस्विनि | ऊर्द्धं रोमाः प्रवर्तन्ते यस्मिंस्थाने तु त्र्यम्बके || १४/२८ || ज्वलज्योतिसमाकारा किञ्चिद्विद्युसमप्रभः | चिन्तयेत् सप्तरात्रन्तु प्रत्ययश्चोपजायते || १४/२९ || कम्पस्तोभस्तथा भाषा मुद्रामुत्पतनन्तथा | पुरप्रवेशमावेशं वश्यमाकर्षणादिकम् || १४/३० || अतीतानागतञ्चैव दूराच्च दर्शनं तथा | बलीपलितनाशञ्च रूपस्य परिवर्तनम् || १४/३१ || खेचरीणां च सामान्यो भवेदभ्यासतो रतः | एतत्ते कथितं देवि रोमकूपादि कौलिकम् || १४/३२ || वृषणोत्थस्य कौलस्य कथितं तव सुव्रते | शृणु त्वं वरदे नित्यं वीराणां वीरमातरे || १४/३३ || वह्निकौलस्य योऽभ्यासं कथयामि च सांप्रतम् | तस्मिंश्चित्तं स्थिरं कृत्वा क्षणार्द्धं यावत्तिष्ठति || १४/३४ || स्तोभभाषादिमुद्राश्च भूमित्यागादिकारकम् | वश्यमाकर्षणं देवि जरामरणनाशनम् || १४/३५ || पुरप्रवेशमावेशं पुरक्षोभादिकारकम् | उत्तिष्ठ खड्गपातालं ध्रुवं सिध्यति कौलिके || १४/३६ || ईप्सितं कुरुते रूपं सतताभ्यासतत्परः | पुनरन्यं प्रवक्ष्यामि कौलसद्भावमुत्तमम् || १४/३७ || हृदिस्थन्तु मनः कृत्वा तन्निष्ठं यावत्तिष्ठति | तावत् समाधिमायाति स्तोभावेशादिलक्षणम् || १४/३८ || भ्रमते अङ्गमङ्गानि हस्तपादशिरादिकम् | वर्णना स्फोटना वापि पुरक्षोभं वरप्रदे || १४/३९ || गान्धर्वी किन्नरी वापि यक्षी पातालवासिनी | असुरी चैव देवेशि विद्याधरी सुलोचने || १४/४० || क्षुभ्यते च न संदेहो ह्यभ्यासात्तद्गतस्य तु | अतीतानागतञ्चैव दूराश्रवणमेव च || १४/४१ || पुरप्रवेशमावेशं मृत्युनाशं महातपे | योगिनीमेलकत्वञ्च अचिराद्भवति स्फुटम् || १४/४२ || एतत्ते कुलसद्भावं हृदिस्थं प्रकटीकृतम् | पुनराश्चर्यं वक्ष्यामि शृणु त्वं मकरध्वजे || १४/४३ || चित्तं कृत्वा प्रयत्नेन कण्ठकूपोद्भवं प्रिये | वदने शास्त्रसद्भावं स्वशक्त्या चोदितं प्रिये || १४/४४ || अतीतानागतञ्चैव वर्तमानन्तथैव च | न मृत्युर्भवते तस्य अक्षयो ह्यमरद्युतिः || १४/४५ || जराव्याधिविनिर्मुक्तं बलीपलितवर्जितम् | क्रुद्धन्तु चालयेद्देवि त्रैलोक्यसचराचरम् || १४/४६ || न ब्रह्मा न च वा विष्णुर्न रुद्रा रुद्र एव च | यादृशो भवते सिद्धिस्सतताभ्यास एव च || १४/४७ || पदोत्तिष्ठमिदं कौलं नात्मानं ज्ञाननिर्णयम् | एतज् ज्ञानं वरं ज्ञानं स्वातन्त्रसिद्धिमानसी || १४/४८ || कथितं ज्ञानसद्भावं सुगोप्यं कण्ठसंस्थितम् | गृहीतव्यं प्रयत्नेन कौलवे सिद्धिमिच्छता || १४/४९ || अत ऊर्द्धेश्वरं गुह्यं सर्वव्याधिविमर्दकम् | रसना ऊर्द्धकं कृत्वा मनस्तस्मिन्निवेशयेत् || १४/५० || सतताभ्यासयेत्तत्तु मुहूर्तं नाशयेत् प्रिये | क्षणेन मुच्यते रोगैर्व्याधिमृत्युजरादिभिः || १४/५१ || नश्यते व्याधिसंघातं सिंहस्यैव यथा मृगाः | क्षणेन नश्यते व्याधिः कटुके कुष्ठनाशनम् || १४/५२ || सुस्वादेन महादेवि बलीपलितनाशनम् | क्षीरस्वादेन मेधावि अमरो जायते नरः || १४/५३ || घृतस्वादोपमनं देवि स्वातन्त्रन्तु यथा भवेत् | चित्तं दद्यान्तु चक्रेण नासे दद्यात् विजृम्भिका || १४/५४ || वाचा सिद्धिर्भवत्येव कामदेवोऽपरः प्रिये | देवकन्या सुराणाञ्च यक्षविद्याधरो भवेत् || १४/५५ || मृष्टादिखण्डकाद्याश्च लट्टुकशोकवर्तिका | दिव्यकन्या अनेकाश्च आकृष्य भुञ्जते प्रिये || १४/५६ || अणिमा लघिमा देवि ऊर्द्धरेतःप्रवर्तनम् | ऊर्द्धरेता भवेद् योगी न योगी करत(?) प्रिये || १४/५७ || निष्ठीवनं न कर्तव्यं प्रसादादपि भाषिणि | दुर्लभन्तु इमं चक्रं नास्ति योगं इमम्परम् || १४/५८ || अत ऊर्द्धम्परं गुह्यं योगिनीकौलमुत्तमम् | अभ्यासे तु पदाभ्यस्त महदाश्चर्यकारकम् || १४/५९ || अणिमादिगुणास्तस्मिन् दूरात् स दर्शनन्तथा | भवते नात्र संदेहः सतताभ्यासतत्पराः || १४/६० || मृतकोत्त्थापनं देवि परदेहप्रवेशनम् | प्रतिमाजल्पनन्तस्मि(न्) घटपाषाणस्फोटनम् || १४/६१ || पशुग्रहणमावेशं रूपादिपरिवर्तनम् | ब्रह्मविष्णुयमेन्द्राश्च वरुणो वायुरेव च || १४/६२ || स्वर्गाद्यासोमराजानं देहमध्ये वरानने | गन्धर्वाः किन्नरा यक्षा नागा विद्याधराः प्रिये || १४/६३ || विमानकोटिसन्तानाः सर्वाभरणभूषिताः | नक्षत्रतारकोपेतं ब्रह्माण्डपरिघट्टितम् || १४/६४ || पश्यते देहमध्यस्थं त्रैलोक्यं सचराचरम् | दर्शयेत् स्वकपिण्डं सततध्यानादनेकधा || १४/६५ || सहस्रकोटिभिर्देवि कर्ता हर्ता स्वयं शिवः | अभ्यासाद् ददते सिद्धिरष्टधा शास्त्रचोदिता || १४/६६ || पूज्यते सर्वसिद्धैश्च मम तुल्यं वरानने | सतः कौलमिदं देयं न देयं यस्य कस्यचित् || १४/६७ || गुरुकौलागमे भक्त्या देव्याः पूजारतः सदा | एतदोद्धरणं गोप्यं नित्यन्तु कृतनिश्चयः || १४/६८ || अत ऊर्द्धं प्रवक्ष्यामि शृणु त्वं कुलभाविनि | ललाटवर्णराशिस्थं लक्षं कृत्य सुरार्चिते || १४/६९ || जल्पते बहुधा भाषा अङ्गस्य भ्रमणन्तथा | नादं प्रमुञ्चते देवि महावेगञ्च जायते || १४/७० || ईप्सितं कुरुते रूपम् अभ्यासन्तत्परं प्रिये | अत ऊर्द्धम्परं गुह्यं शृणु त्वञ्च परापरम् || १४/७१ || ललाटवर्णराशिस्थं ब्रह्मरन्ध्रस्य मध्यतः | अभ्यासात् सततं वीर ग्रामधर्मञ्च वर्जयेत् || १४/७२ || सृष्टिसंहारकर्तारो भवत्येव न संशयः | जरा-मरणनिर्मुक्तो नित्यं वै योगिनी प्रिये || १४/७३ || ज्ञातमात्रेण (तु) देवि अभ्यासे मोक्षतां गतिः | अत ऊर्द्धं प्रवक्ष्यामि रन्ध्रकौशलस्य निर्णयम् || १४/७४ || सततमभ्यसेत् प्राज्ञो व्याधिमृत्युर्न विद्यते | मम तुल्यबलो भूत्वा संहारसृष्टिकारकम् || १४/७५ || स्वतन्त्रं क्रीडते भद्रे इच्छारूपी भवेद् यथा | विसर्जः कौलिकं देवि तस्मिंश्चित्ते स्थिरं सदा || १४/७६ || शृण्वन्ति दूरतो देवि मननञ्चावलोकनम् | कपालघट्टिका देवि निगूढं स्थापितं प्रिये || १४/७७ || एतदभ्यसतो देवि निष्क्रमेद्बाह्यतः सदा | मक्षिकामंक्षुणो वापि व्याघ्रसिंहगजस्तथा || १४/७८ || एतत्तु धारयेद्रूपं मनसा चिन्तितं प्रिये | एतत्तु कुलविज्ञानं पारम्पर्यक्रमागतम् || १४/७९ || मोक्षदं सारमेवं (च) ज्ञातव्यं वरवर्णिनि | तस्मात् सर्वं प्रयत्नेन ज्ञातव्यं कुललक्षणम् || १४/८० || घटपूर्णमिव कुम्भं कुड्यस्तम्भा इवाचलः | व्यापयित्वा स्थितो देव तद्वद् योगीनसोपमः (?) || १४/८१ || अतोर्द्धं संप्रवक्ष्यामि शृणु त्वं वीरवन्दिते | न जलं चिन्तयेद्देवि न वह्निवायुराकाशम् || १४/८२ || नाधस्तादूर्द्धमध्यञ्च काष्ठवल्लोष्ट्रवत् प्रिये | मनस्य उन्मनीभावो यदा भवति सुन्दरि || १४/८३ || शून्यशून्यमनः कृत्वा निश्चिन्तो निश्चलस्थितिः | घटपटस्थितस्तम्भा ग्रामकूपादिकं बुधः || १४/८४ || भेरिशङ्खमृदङ्गैश्च वीणावंशनिनादितैः | ताड्यमानन्नबोध्यते जीवस्तल्लयतां गतः || १४/८५ || भूतं भव्यं भविष्यञ्च अतीतानागतन्तथा | अक्षयो ह्यमरो भूत्वा कामदेवद्वितीयकः || १४/८६ || भेद्यमानो न जाये ..... खाड्यमानस्तु पन्नगैः | पुष्पवृष्टिपतन्तस्य पारिजातस्य सुन्दरि || १४/८७ || पूज्यते नागकन्याभिर्यथार्हं हाटकेश्वरः | पञ्चश्रोतात्मकञ्चैव मोक्षार्थं चोदितो मया || १४/८८ || त्वद्भक्त्या निर्णयं देवि चोदितं कुलगोचरे | अतोर्द्धं कथ्यते देवि मुद्रानिर्णयलक्षणम् || १४/८९ || अनामा हृदये लग्ना मुद्रेयमीश्वरीप्रदा | द्वादशान्ते यदा पश्येत् स्फुरन्तम्मणिमालिका || १४/९० || अनामा नाम मुद्रेयं वपा (?) खेचरतां गतिम् | मुद्रितम्पञ्चमुद्राभिश्चैतन्यसहितं प्रिये || १४/९१ || भेदयेत्तत्कपाटञ्च अर्गलायासुसञ्चिता | पञ्चाद्वादशान्तं यावच् शक्त्याचारेण भेदयेत् || १४/९२ || देव्या भूत्वा च योगिन्या मातृचक्रावशानुगा | लीयन्ते खेचरीचक्रे क्षोभयेत् परमामृतम् || १४/९३ || अमृतेन विना देवि अमरत्वं कथं प्रिये | अमृतं कौलसद्भावं शृणु कामकलात्मकम् || १४/९४ || सहजान्तस्थितन्तत्त्वं स्फुरन्तं मणिनिर्मलम् | मुक्ताफलसमौपम्यं खद्योतसदृशं प्रिये || १४/९५ || तारकोल्लाससंकाशं प्रस्फुरन्तन्नभःस्थले | सित-रक्तञ्च कृष्णञ्च धूम्रपीतञ्च रूपकम् || १४/९६ || ......................... सृष्टिसंहारकारकम् | उत्पत्तिप्रलयञ्चैव अकुल-कुल-वर्जितम् || १४/९७ || दिवायामभ्यसेद्देवि कृत्वादित्यन्तु दृष्टत (?) | स्वरूपं दृश्यते ........................................... || १४/९८ || .......... कुर्यात् प्रयत्नेन पररूपं न संशयः | क्षणेन कुरुते सृष्टिं संहारञ्च वरानने || १४/९९ || निशायामभ्यसेद्देवि उतुङ्गशतमीश्वरम् | कोदण्डद्वयमध्यस्त .................................... || १४/१०० || एतन्ते परमं देवि येन सृष्टं चराचरः | अस्मिन्नेव लयं भद्रे समुद्रेण नदी यथा || १४/१०१ || अनेन दृढमात्रेण पुण्यपापैर्न लिप्यते | पिण्डमष्टप्रकारेण अष्टधातुपदं प्रिये || १४/१०२ || अष्टधा रूपविज्ञानं रूपातीतन्तु चाष्टधा | अष्टाष्टविधिना चक्रं ज्ञातव्यं सिद्धिकारणम् || १४/१०३ || कुललक्षं कुलाधारं नलिकावज्रसम्भवा | क्षोभञ्च कुलयानञ्च परतत्त्वविदः प्रिये || १४/१०४ || अनुज्ञा गुरुसिद्धानां देवतानाञ्च भासिनि | क्षीराम्भे फेनसदृशं शीतलं चन्द्रसन्निभम् || १४/१०५ || निमेषार्द्धं क्षोभमायाति वेला इव महोदधेः | मुच्यते ज्वरकुष्ठाद्यैर्व्याधिसंघैर्महातपे || १४/१०६ || इति ज्ञाननिर्णये श्रीयोगिनीकौलम्महच्छ्रीमच्छघ्नपादावतारिते चन्द्रद्वीपविनिर्गते ध्यानयोगमुद्रा चतुर्दशः पटलः || १४/१४ || पञ्चदशः पटलः देव्युवाच अद्य मे सफलं जन्म सफलं च तपस्तथा | देवत्वमद्य सफलं त्वत्प्रसादेन भैरव || १५/१ || तपश्च सफलं मेऽद्य अद्य नेत्रोपशोभितम् | अद्याहं कृतकल्याणि ज्ञानदृष्टिकृतक्षमा || १५/२ || अद्य मे भूषितो कर्णो महाकौलं श्रुतं मया | अद्य मे तेजपिण्डन्तु महाज्ञान हृदि स्थितम् || १५/३ || अद्य मे कुलशीलञ्च अद्य मे रूपलक्षणम् | अद्य मे भ्रान्तिरुच्छिन्ना त्वत्प्रसादात् सुराधिप || १५/४ || विज्ञात्वा यन्मया पूर्वन्न पृच्छामि पदे पदे | यत् किञ्चित् दृढसद्भावं तत् सर्वं कथयस्व मे || १५/५ || अनधीतं मया पूर्वन्तुष्टस्त्वं मे पुनः पुनः | चारणाकोटयः सप्त तन्मध्ये पृच्छितं इमम् || १५/६ || पूर्वमेकार्णवे घोरे नष्टे स्थावरजङ्गमे | केनोपायेन वीरेश आत्मानं रक्षितं त्वया | तद्वस्तु कथ मे नाथ येनात्मरक्षितं त्वया || १५/७ || भैरव उवाच साधु साधु महाज्ञानि न पृष्टं केनचिदिमे | अत्यन्तगहनं देवि सुगोप्यं रक्षितं मया || १५/८ || मुण्डाधारैस्थित ... नखाग्रे पश्य भैरवि | अस्थिचक्रस्य मध्यस्थं सर्वञ्चैव सुसंस्थितम् || १५/९ || सहजन्तु इ(मं) चक्रं वज्रनामातिकोद्भवम् | वज्रयोगप्रयोगेण वज्रवद्भवते नरः || १५/१० || सप्तकोटिसहस्राणि पत्राणां केसरान्वितम् | अर्द्धकोटिगतं चक्रं सहस्रं कोटिजं शुभम् || १५/११ || त्रिगुणं वेष्टितं कृत्वा क्षीराधारे व्यवस्थित(ः) | क्षीरादा .... विप्लकारैः पूरयेत्तत्तनुं सदा || १५/१२ || कर्णिकायां परं तत्त्वं अतसीपुष्पसन्निभम् | पञ्चारमष्टपत्रञ्च षोडशारं सुशोभनम् || १५/१३ || षोडशारं त्रिलिख्यन्तु अन्तरालसमन्वितम् | अष्टारपद्मपत्रञ्च षोडशैकं वरानने || १५/१४ || बिन्दुच्छिन्दञ्च कर्तव्यं अन्तराल(म)पि सुव्रते | षोडशाक्षरभिन्नन्तु आत्मा वै प्राणसंयुतः || १५/१५ || षोडशाक्षरभेदन्तु ऊर्द्धं चक्रे व्यवस्थितम् | चतुष्कलं पुनर्देवि अन्यथा न कदाचन || १५/१६ || आधारे च आत्मचक्रं ..... तदूर्द्धगम् | कर्णिकायात्मनः कृत्वा ऊर्द्धचक्रेण प्लावयेत् || १५/१७ || गोक्षीरविप्लुतैर्देवि प्लाव्यमानं सविप्लषैः | द्विरष्टवर्षमात्मानं अधश्चक्रे व्यवस्थितम् || १५/१८ || किञ्चिद्दर्शितवर्णाभं प्राणचक्रं सुलोचने | प्लावयेत् पूर्वचक्रेण पूर्णचन्द्रनिभं तनु || १५/१९ || आनयेन्निश्चलीभूतम् अस्थिचक्रोद्भवेन तु | प्लावयित्वा जगत् सर्वं त्रयचक्रं समभ्यसेत् || १५/२० || आरमूर्द्धिंचक्रन्तु तदूर्द्धे चैव पार्वति | नलीकायां गर्भलीनं संहारन्तु कुतः प्रिये || १५/२१ || बलीपलितनिर्मुक्तो ज्वरव्याधिविवर्जितः | अक्षयो ह्यमरो नित्यो यथार्हन्तिष्ट मानसः (?) || १५/२२ || यदा भवति संहारस्तदा पश्येच्चराचरम् | तदाऽसौ तिष्ठते भद्रे मया सार्द्धं स्वरेश्वरि || १५/२३ || यथा मह्यं प्रभुत्वञ्च त्रैलोक्यं सचराचरम् | तद्वत् स भवते देवि सृष्टिसंहारकारकः || १५/२४ || समचित्तं सदा लीनमस्थिचक्रं सुलोचने | वज्रवत्तिष्ठत देहं संहा(र)न्तु न हि प्रिये || १५/२५ || मयाभ्यस्त(मि)दम्पूर्वन्तेनाहमक्षयं प्रिये | एतन्मया कथितं शास्त्रे अप्रमेयमनेकधा || १५/२६ || इमन्तु गूढसद्भावं मम गुह्यं प्रगोपितम् | गोपनीयं प्रयत्नेन सप्तादूर्द्धन्न दापयेत् | एतत्ते कुलसद्भावम्मया तुभ्यम्प्रकाशितम् || १५/२७ || इति ज्ञाननिर्णये योगिनीकौलम्महच्छीमच्छेन्द्रपादावातारिते चन्द्रद्वीपविनिर्गते परमवज्रीकरणं नाम पञ्चदशः पटलः || १५/१५ || षोडशः पटलः देव्युवाच योगिनीसिद्धसम्पन्नं दिव्यरूपेण भैरव | क्रीडते मातृमध्यस्थं स्वशक्तिं बलगर्वैतम् || १६/१ || दुर्विज्ञेयं सदा नाथ तुभ्यं चरितचेष्टितम् | न ज्ञातं सुरगान्धर्वैः किं पुनर्भुवि सम्भवैः || १६/२ || त्रिष्कालं तिष्ठसे क्षेत्रे क्षेत्रं वा पीठपर्वते | तन्ममाचक्ष्व देवेश भक्ष्याणां दिव्यदर्शनम् | अतिध्यानविदं देव कथ्यतान्तु मम प्रभो || १६/३ || भैरव उवाच शोभनं पृच्छितं भद्रे अद्भुतसिद्धिगोचरे | कथ्यमानं विशालाक्षि किं भयं तेजभामिनि || १६/४ || श्रीशैलश्च महेन्द्रश्च पीठका(मा)ख्य विश्रुतम् | सन्निधानो ह्यहं भद्रे त्रिष्कालसिद्धिमेलकम् || १६/५ || प्रसन्ना ये नरा भद्रे व्योमध्यानैकचेतसः | दर्शनं च भवते तस्मिन् मया सार्द्धं कुलेश्वरि || १६/६ || श्रीशैले नाम संसिद्धिर्महेन्द्रे राजसं स्मृतम् | साध्विकं योगसंयुक्तो कामाख्यं पीठमास्मृतम् || १६/७ || तस्मिन् मेलापकं लब्ध्वा योगिनीसिद्धिः तत्समम् | मनसा चिन्तितं रूपं अणिमादिगुणाष्टकम् || १६/८ || किन्त्वया तेन विज्ञातं मह्यं चरितचेष्टितम् | कथितं मेलकं स्थानं श्रुतं ते चेष्टितं शुभम् || १६/९ || पञ्चस्रोतात्मकं चैव गोपितं सिद्धिगोचरम् | अभक्ष्या चोद्यते नाथे अन्यथा न कदाचन || १६/१० || अहन्तत् परमं तत्त्वं अहं स भैरवः प्रिये | अहं सदा शिव ईशः श्रीकण्ठो रुद्र एव च || १६/११ || अहं सो धीवरो देवी अहं वीरेश्वरः प्रिये || १६/१२ || अनन्तोऽहम् महादेवि रुद्रोऽहं सुरसुन्दरि | संहरामि जगत् सर्वं संहारोऽहं कुलेश्वरि || १६/१३ || चराचरः पुनः सृष्टिः स्त्रष्टारो धीरवन्दिते | विहितं त्रायते नित्यं विधाताऽहं कुलागमे || १६/१४ || विश्वन्तु निशृतं येन विश्वपादेति गीयते | विचित्रचित्रतासृष्टिर्विचित्रेति च विश्रुते || १६/१५ || स्वेच्छया क्रीडितोऽहं च करोति विकरोति च | श्वेतपादस्त्वहं देवि श्वेतपादेति गीयते || १६/१६ || चन्द्रकान्तसमं तेजं भृङ्गवर्णं सुनिर्मलम् | ते चाहं विश्रुते लोके भृङ्गपादा वरप्रदे || १६/१७ || असुराणां सुराणां च अहं भट्टारकः प्रिये | भट्टपादेति विख्यातो नामेदं मम सुन्दरि || १६/१८ || श्रियामुत्कण्ठिता ये तु श्रीकण्ठस्तेन उच्यते | रूरूपादं महादेवि रूद्रोऽहं द्रावणप्रिये || १६/१९ || (रूरूपादं महादेवि महीद्रावणं प्रिये |) त्व-उमातु महादेवि तुभ्यं पतिरहं प्रिये || १६/२० || श्रियाया तु अहन्नाथ श्रीनाथ सिद्धगोचरे | यदावतारितं ज्ञानं कामरूपी त्वया मया | तदावतारितं तुभ्यं तत्त्वन्तु षण्मुखस्य च || १६/२१ || तेन कौलागमे देवि विज्ञानं प्रणवप्रिये | अव्यक्तेन तु रूपेण चन्द्रद्वीपे अहं प्रिये || अव्यक्तं गोचरं तेन कुलजातं मम प्रिये || १६/२२ || श्रीदेव्युवाच किमर्थं चन्द्रद्वीपन्तु अहञ्चैव गतः प्रभो | किमर्थं ग्रसिता प्राज्ञा आदिषण्मुखस्य च || १६/२३ || अन्योऽपि विस्मयो देवि कौलवे सिद्धिमिच्छता | सूचितं सूचनार्थाय वटुको नाम नामतः || किं वर्णा ध्यानमात्रञ्च श्रोतुमिच्छामि भैरव || १६/२४ || भैरव उवाच आत्मानं बुध्यसे नाथ यद्यपि प्रियभाषिणि | इच्छा त्वं ज्ञानशक्तिश्च क्रियाख्या चैव भासिनि || १६/२५ || गौरी चैव महाकाली लक्ष्मी चैव श्रिया तया | अहं त्वं च विशालाक्षि सर्वशास्त्रावतारकः || १६/२६ || अहं चैव त्वया सार्द्धं चन्द्रद्विपं गतो यदा | तदा वटुकरूपेण कार्तिकेय(ः) समागतः || १६/२७ || अज्ञानभावमासृत्य तदा शास्त्रं हि मूषितम् | शासितोऽहं मया देवि षण्मुखा मृषकातृकम् || १६/२८ || गतोऽहं सागरं भद्रे ज्ञानदृष्ट्यावलोकनम् | मच्छमाकर्षयित्वा तु स्फोटितं चोदरं प्रिये || १६/२९ || गृहीत्वा मत्स्योदरस्थन्तु आनीतन्तु गृही पुनः | स्थापयित्वा ज्ञानपट्टं मम गूढं तु रक्षितम् || १६/३० || पुनः क्रुद्धमनेनैव मुषकेण सुरेश्वरि | गार्तं कृत्वा सुरुङ्गाय पुनः क्षिप्तं हि सागरे || १६/३१ || दशकोटिप्रमाणेन महामांसेन भक्षितम् | मम क्रोध समुत्पन्नं शक्तिजालो मया कृतः || १६/३२ || आकर्षितो मत्स्यस्प्तानां सागरह्रदात् | नागतोऽसौ महामत्स्या मम तुल्यबलः प्रिये || १६/३३ || ज्ञानतेजेन संभूतो दुर्जयस्त्रिदशैरपि | ब्रह्मत्वं हि तदा त्यक्तं चित्तवी (?) धीवरात्मकम् || १६/३४ || अहं सो धीवरो देवि कैवर्तत्वं मया कृतः | आकृष्य तु तदा मत्स्यं शक्तिजालसमीकृतः || १६/३५ || मत्स्योदरन्तु तत्स्फोट्य गृहीतञ्च कुलागमे | वदन्ति विदिता लोके पशवो ज्ञानवर्जिताः || १६/३६ || देव्युवाच ब्राह्मणोऽसि महापुण्ये कैवर्तत्वं मया कृतः | मत्स्याभिघातिनैर्विप्रा मत्स्यघ्नमेति विश्रुताः | कैवर्तत्वं कृतं यस्मात् कैवर्तो विप्रनायकः || १६/३७ || भैरव उवाच अव्यक्तेन महात्मान कृतं पूर्वन्तु सुन्दरि | अव्यक्तगोचरं तेन कुलैर्जातम्महाकृपे || १६/३८ || तुभ्यञ्चैव महादेवि षट्मुखस्य च पार्वति | विघ्नेशो नन्दिनश्चैव महाकालस्य धीमते || १६/३९ || जया च विजयादीनां हरसिद्धिमहाबलाः | कालिका योगिनी ख्याता ऊर्द्धतो मत्समं प्रिये || १६/४० || अकुलं तु इमं भद्रे यत्राहं तिष्ठते तदा | कल्पान्ते च युगान्ते च मम देहे तु तिष्ठति || १६/४१ || जीवमध्ये यदा देवि पुष्पमूलफलान्विता | पत्रशाखासमायुक्तो वृक्षस्य चोद्भवं यथा || १६/४२ || तद्वदुत्पादितान्येऽपि मद्देहे कुलभामिनि | अज्ञानभाविता देवि पशुत्वं सुरनायिके || १६/४३ || गृहीत्वा तु पुनर्देवि महाज्ञानं प्रकीर्तितम् | कथितं तव कामेषि षट्मुखस्य गणस्य च || १६/४४ || नन्दी चैव महाकाले जया च विजयादिषु | भट्टाद्या द्रोणकादीनां तथा च हरसिद्धिका || १६/४५ || कथितं कालिका योगी सर्वकौलस्य निर्णयम् | भक्तियुक्ता समत्वेन सर्वे शृण्वन्तु कौलिकम् || १६/४६ || महाकौलात् सिद्धकौलं सिद्धकौलात् मसादरम् (?) | चतुर्युगविभागेन अवतारञ्चोदितं मया || १६/४७ || ज्ञानदौ निर्णीतिः कौलं द्वितीये महत् संज्ञितम् | तृतीये सिद्धामृतन्नाम कलौ मत्स्योदरं प्रिये || १६/४८ || ये चास्मान्निर्गता देवि वर्णयिष्यामि तेऽखिलम् | एतस्माद् योगिनीकौलान्नाम्ना ज्ञानस्य निर्णीतौ || १६/४९ || क्षणेन योगिनी हृष्टा देव्या सह विनायकः | चत्वारः कुलसिद्धस्तु पृच्छमाना सुभाविता || १६/५० || रोमाञ्चकञ्चुका सर्वे पुष्पहस्तास्तु बोधिता | दण्डवत् पतिताः सर्वे आत्मवादं वद प्रभो || योगाभ्यासरतानान्तु रक्तपालस्य निर्णयम् || १६/५१ || भैरव उवा(च) अहं त्वं च विशालाक्षि चन्द्रद्वीपसमागतौ | षट्मुखो वटुको जाताः क्षेत्रपालकुलागमे || १६/५२ || सिध्यन्ते कोटयः सप्त तावत्त्वं क्षेत्रपालकः | वटुकौ किं न विज्ञातौ सुतौ तुल्यं वरानने || १६/५३ || सिद्धामृते तु यत् प्रोक्तं गुरोर्निन्दा विगर्हिता | तथ्याच्यवनसंजातं पतितं च महोदधौ || १६/५४ || कलौ युगे महाघोरे दिव्यैः संसाधितोऽपि सः | तन्त्रे तन्त्रे समाख्यातं यथाशापन्तु प्राप्तवान् || १६/५५ || तस्य पूजाबलिः पिण्ड आसनं जाप्यमेव च | कथयामि समासेन यथा सिध्यति साधके || १६/५६ || ह्रीं वटुकाय कपिलजटाय पिङ्गलनेत्राय देवीपुत्राय मातृपुत्राय इमां बलिं ममोपनीतां गृह्ण गृह्ण चुरु मुरू ह्रीं बलिमन्त्र चाल चाल भक्ष २०० पिण्डमन्त्रः यत्किञ्चित् भक्षयेत् प्राज्ञः अग्रपिण्डन्तु दापयेत् | ह्रीं वटुकाय आसनमन्त्रः ह्यौं ह्यौह्यं महाभैरव पूजनमन्त्रः | ह्रीं ह्रां जाप्य - यः सदा जाप्यमिदं कुर्यान्निर्विघ्नं सिद्धिभाजनः | गृह्ण गृह्णेति वक्तव्यं गृह्णाति वटुकस्तथा || १६/५७ || दण्डहस्तं सदाध्यायेज्जटिलं ब्रह्मतेजसम् | रक्ताम्बरपरीधानं वटुकं विघ्नमर्दकम् || १६/५८ || पूज्यमानं सदाकालं अग्रतो दण्डपाणिनम् | चतुरङ्गबलं जित्वा उष्टानां (?) स्तम्भकारकम् || १६/५९ || चौरराजकुलादीनां सर्पव्याघ्रगजादिषु | ह्रीं च वटुक ह्रीं इमां विद्यां जाप्यं कुर्याद्भयोर्द्धिता || १६/६० || नाशयेत् सर्वदुष्टानां सिंहस्यैव यथा गजाः | यत्र तत्र क्षुद्रसिद्धिर्बहुधा शास्त्रचोदिता || १६/६१ || ह्रीं वटुक उक्तमन्त्रेण करोति सुरसुन्दरि | ह्रीं काराङ्करराद्येवं वटुकं सिद्धिपूजितम् | पूजयेत्तत् प्र(य)त्नेन कौलवे सिद्धिमिच्छता || १६/६२ || इति ज्ञाननिर्णये महायोगिनीकौले मत्स्येन्द्रपादावतारे चन्द्रद्वीपविनिर्गते षोडशः पटलः || १६/१६ || सप्तदशः पटलः देव्युवाच यन्मया पृच्छितं देव आत्मवादस्य निर्णयम् | साम्प्रतं श्रोतुमिच्छामि निःसन्दिग्धं वद प्रभो || १७/१ || भैरव उवाच साधु देवि महायोगे योगिनीसिद्धनायिके | गूढं गुह्यं सनाभिञ्च हृदि पद्ममधोमुखम् || १७/२ || समीरस्तोभकं चक्रं घण्टिकाग्रन्थिशीतलम् | नासाग्रं द्वादशान्तं च भ्रुवोर्मध्ये व्यवस्थितम् || १७/३ || ललाटं ब्रह्मरन्ध्रं च शिखरस्थं सुतेजसम् | एकादशविधं प्रोक्तं विज्ञानं देहमध्यतः || १७/४ || क्लिश्यन्ति मनुजात्यन्तमज्ञात्वा तु कुलागमम् | हृदिस्थसहजो देव स्मरणार्हः स उच्यते || १७/५ || हकारो निष्कलो नित्यः संकारं सकलं तथा | सृकारं तु सदा सृष्टि हीत्येवं संहरेज्जगत् || १७/६ || सकारं शुक्लपक्षन्तु हकारं कृष्णपक्षकम् | हकारमीक्षमित्याहुर्महार्थञ्च गतं परम् || १७/७ || न शिवेन विना शक्तिर्न शक्तिरहितः शिवः | अन्योऽन्यञ्च प्रवर्तन्ते अग्निधूमौ यथा प्रिये || १७/८ || न वृक्षरहिता च्छाया न छायारहितो द्रुमः | शक्त्याभ्यासरतो योगी कुले सामान्यतां व्रजेत् || १७/९ || स्थूलं सूक्ष्मं परो हंसौ ज्ञात्वा सर्वात्मकं प्रिये | पारम्पर्यान् मतं कौलं कर्णात् कर्णगतं परम् || १७/१० || अपरीक्ष्ये न दातव्यं दातव्यं सुपरीक्षिते | कृत्वा कुलाभिषेकन्तु प्रकाश्यं त्वात्मनिर्णयम् || १७/११ || पञ्चरत्नादि देवेशि ज्ञातव्या तु कुलागमे | प्रथमं पलितस्तम्भं द्वितीयम् ईप्सितं भवेत् || १७/१२ || तृतीयं कामरूपत्वं चतुर्थमक्षयांशकम् | पञ्चमन्तु महारत्नं जरामरणनाशनम् || १७/१३ || कृत्वा प्रेतासनं दिव्यं द्वादशान्तमनासृतम् | भूगृहे निर्जने देशे गन्धधूपसुधूपिते || १७/१४ || शुक्लाम्बरधरो भूत्वा श्रीखण्डेन विलेखयेत् | पर्यङ्कं विन्यसेत्तत्र सुसहायसमन्वितम् || १७/१५ || महाव्याप्तिमहानिद्रां न शृणोति न पश्यति | सुगन्धं पूतिगन्धं वा कर्पूरञ्चन्दनादिषु || १७/१६ || न गन्धं वेत्ति तत्त्वज्ञो महाव्याप्तिरियं प्रिये | अतीतानागतञ्चैव तस्मिन् कालस्य वञ्चनम् || १७/१७ || कर्ता हर्ता भवेद्देवि यदुक्तो वीरमातरे | अधोर्द्ध्वे रमते हंसो द्वादशान्ते लयं पुनः || १७/१८ || हृदिस्थं निश्चलीभूतं कुम्भमध्ये जलं यथा | मृणालतन्तुसदृशं भावाभावविवर्जितम् || १७/१९ || धारणाधेयरहितं सर्वज्ञं सर्वतोदितम् | स्वयं च चलते चोर्द्ध्वम् अधञ्चैव स्वयम्पुनः || १७/२० || रमते सहजं तत्त्वं यथात्मनि तथापरे | ज्ञात्वा तत्त्वमिदन्देवि भवबन्धात्मकैः प्रिये || १७/२१ || कर्णञ्च हृदये कृत्वा ज्ञातव्यं हंसलक्षणम् | कण्ठस्थाने ध्वनिर्दिव्या सकला तु परापरा || १७/२२ || आपादतलमूर्द्धान्ता वामाख्यं कुण्डलाकृतिम् | गुदस्थमुदयन्तस्या द्वादशान्ते लयं पुनः || १७/२३ || एवं तु चरते हंसो देहमध्ये शुभाशुभे | निर्लेपं निष्कल्ं चोर्द्धे शुद्धमत्यन्तनिर्मलम् || १७/२४ || निगर्भं गर्भरूपेण नित्यानन्दैकलक्षणम् | ज्ञातव्यं गहनं नाथ महाज्ञानगतं परम् || १७/२५ || अप्रमेयमचिन्त्यं च निराभ्यासपदं स्मृतम् | निश्वासोच्छ्वाससंयुक्तं भावाभावसमन्वितम् || १७/२६ || स सञ्चरति भूतेषु भूतग्रामे चतुर्विधे | स आत्मा स स्वयं कर्ता पिण्डं चैव तु संहरेत् || १७/२७ || पिण्डस्यैवम्भवेद्दुःखं बन्धस्यैव सुखं परम् | विषादं हरिषञ्चैव जरामरणमेव च || १७/२८ || क्षुधा तृषा च मोहश्च भयाद्या लोभमेव च | दारिद्रम्बन्धनादीनि पिण्डस्यैव सुलोचने || १७/२९ || न चासौ छिद्यते शस्त्रैर्ण चक्रेण बलीयसा | भिद्यन्ति नैव वज्रेण न च वह्नौ दहत्यसौ || १७/३० || न जलेन भवेन्मृत्युर्न जले जीवितं भवेत् | न मोहं न च वा रागं न मदं मत्सरं सदा || १७/३१ || न लोभं न च वा कोपं न चिन्ता बाध्यते ते (?) सः | इन्द्रियाणामिदं सर्वं भूतानां च वरप्रदे || १७/३२ || जीवेन च जगत् सृष्टं स जीवस्तत्त्वनायकः | स जीवः पुद्गलो हंसः स शिवो व्यापकः परः || १७/३३ || स मनस्तूच्यते भद्रे व्यापकः स चराचरे | आत्मानमात्मना ज्ञात्वा भुक्तिमुक्तिप्रदायका || १७/३४ || प्रथमा तु गुरुर्ह्यात्मा आत्मानं बन्धयेत् पुनः | बन्धस्तु मोचयेद् ह्यात्मा आत्मानमात्मनः प्रभुः || १७/३५ || आत्मानमात्मना ज्ञात्वा आत्मा वै कायरूपिणः | आत्मनश्चापरो देवि येन ज्ञातं स योगिराट् || १७/३६ || स शिवः प्रोच्यते साक्षात् स मुक्तो मोचयेत् परः | सुविशुद्धः सदा देवि पङ्कस्थमिव पङ्कजम् || १७/३७ || मानुष्यं पिण्डमासृत्य स शिवः क्रीडते भुवि | इत्थम्भूतं परात्मानं येन ज्ञातं सुभामिनि || १७/७८ || तस्यैव स्पर्शमात्रेण भवेन्मुक्तिर्न संशयः | तस्योच्छिष्टञ्च संप्राप्य भवेन्मुक्तिः परा प्रिये || १७/७९ || तेनैव स्नापिते देवि अभ्यङ्गोद्वर्तनेन तु | तेन पादेन संस्पृष्टे सोऽपि मोक्षस्य भाजनः || १७/४० || एकेन तेन भुक्तेन भुक्तं चैव चराचरम् | सर्वतीर्थेषु यत् पुण्यं स्नात्वा लभति मानवः | तं ज्ञेयन्तु मनः कृत्वा अधिकं तु फलं लभेत् || १७/४१ || योगिनीसिद्धसद्भावं वीरमातृगणादिषु | अस्योर्द्ध्वे तु निगद्यतु भुक्तिमुक्तिप्रदं शुभम् || १७/४२ || इति ज्ञाननिर्णये महायोगिनीकौलेश्रीमछेन्द्रपादावतारिते चन्द्रद्वीपविनिर्गते सप्तदशः पटलः || १७/१७ || अष्टादशः पटलः देव्युवाच सिद्धानां पूजनन्देव देहस्थप्रत्ययात्मकम् | कुलद्वीपविधानं च संक्षेपात् कथ्यतां प्रभो || कौलवं सिद्धिकामस्य अभिषेकं कीदृग् भवेत् || १८/१ || भैरव उवाच साधूक्तं कथयिष्यामि कुलं द्वीपस्य यो विधिः | यवाद्याशालिचूर्णन्तु पिष्टं वा गोधूमोद्भवम् || १८/२ || येन केनचित् पिष्टेन अनेन सुरसुन्दरि | ह्रींकारमन्त्रितं कृत्वा वर्तिद्वादशभूषितम् || १८/३ || क्षीरखण्डादिमृष्टन्तु घृतपूर्णसुशोभनम् | पार्श्वे तु पूजयेत् सिद्धां योगिनीं गुरुमेव च || १८/४ || एककालं द्विकालं वा त्रिष्कालं पूजयेत् क्रमम् | अग्रतः पूजयेन्नित्यं भुञ्जमानाग्रनायिके || १८/५ || जपेद्बीजपरं श्रेष्ठं ह्रींकारं योगिनीप्रियम् | योगिनीमेलकं ह्यस्मिन् भुक्तिमुक्तिप्रदः सदा || १८/६ || अथान्यं सम्प्रवक्ष्यामि अभिषेके कुलगोचरे | रक्तेन पूरयेद् रक्तं शुक्रस्यैव समं प्रिये || १८/७ || कुण्डगोलोद्भवेनैव मधुं च घृतसंयुतम् | रक्तं वामामृतं शुक्रं सुरया ब्रह्ममिश्रितम् || १८/८ || वुकपुष्पसमायुक्तकृष्णासवसमायुतम् | मदिरानन्दचैतन्यं भक्तियुक्तो महात्मनः || १८/९ || उद्धरेद्रुममन्त्रन्तु गुरुसिद्धाञ्च देवताम् | ह्रीं क्लीं म्हौ जुं सः - शङ्खस्थं कलशस्थं वा पूजयित्वा यथाक्रमम् || १८/१० || दृढभक्तस्य देवेशे आचार्यो दृढलक्षवित् | जयाद्याश्चौषधीः (?) सर्वा मोहनाद्या कृताञ्जली || १८/११ || पञ्चरत्नसमोपेतां रक्तयुक्तेन वेष्टितम् | क्षारक्षीरदधिसर्पि मद्योदे इक्षुमेव च || १८/१२ || स्वादुदञ्चैव गर्भादं क्रमेण परिजल्पयेत् | वक्त्रेकैकशो (?) मध्ये च अष्टौ तां कुलपर्वताम् || १८/१३ || वेश्याकुमारिकाभिर्वा आचार्यः स्वकरैस्तथा | उद्धृत्य शिरसि दद्यात् ततो योगी भविष्यति || १८/१४ || पुनस्तु यजनं वक्ष्ये यथावत्तन्निबोध मे | रक्तं युक्तं समादाय अथवा चित्रजं शुभम् || १८/१५ || ततस्तुष्टजयेद्देवि क्रमञ्चैव समाहित | अक्षतैः शालिजैर्दिर्व्यैरन्यैर्वापि सुशोभनैः || १८/१६ || चतुःषष्टिक्रमयुतैः पूजयेत् तत्क्रमं शुभम् | दिव्यसुगन्धपुष्पैस्तु विचित्राभरणभूषितः || १८/१७ || आचार्यः सुमनो भूत्वा सर्वसंभारसंभृतः | योगिनी सिद्धवीराणां भवते मातृवल्लभः || १८/१८ || मद्यमांससमायुक्तं भक्ष्यभोज्ययुतं प्रिये | घृतखण्डसमायुक्तं शर्करायान्तु पूरयेत् || १८/१९ || कुम्भादि च वरं दद्यात् सहस्रं वा शतैरपि | चतुःषष्टिञ्च सौदर्य अष्टौ च गुणापि वा || १८/२० || निवेद्य गुरवे मानं गुरुपूजा विशेषतः | वीरपूजां ततः कृत्वा येन तुष्येत् पुनः पुनः || १८/२१ || चरुकं भक्षयेत् प्राज्ञः समयहीने न दापयेत् | वक्त्राद्वक्त्रं विशेषेण सिद्धिभाग्यः समान्यथा || १८/२२ || सामान्ये कथितं कुम्भे शङ्खाद्वक्त्रं विशेषतः | शास्त्रोक्तं तु क्रमं पूज्य सर्वसंभारसम्भृतः | अनेनारब्धमात्रेण सिद्धियोग्यो भवेत्ततः || १८/२३ || इति ज्ञाननिर्णये महाकौले चन्द्रद्वीपविनिर्गते अष्टादशः पटलः || १८/१८ || ऊनविंशतितमः पटलः देव्युवाच देहस्थं पङ्कजं देव सिद्धानां साम्प्रतं वद | भैरव उवाच देव्याश्चक्रङ्गताः सर्वे दिव्यरूपसुतेजसः || १९/१ || षोडशाकृतयः सर्वे तन्मध्ये आत्मनम्प्रिये | मोक्षकामी सदा ध्यायेच्छुक्लाम्बरधरां शुभाम् || १९/२ || सदा यौवनकामिन्यः कृष्णवर्णन्तु चिन्तयेत् | रक्ताम्बरधरा ध्यायेद्रक्तगन्धानुलेपनः || १९/३ || रक्ताभी रक्तमालाभिर्भूषिता सिद्धयोगिनी | तन्मध्ये चात्म(ना) देवि तद्रूपं परिभावयेत् || १९/४ || श्रीनाथं योगिनीसार्द्धं वृन्दरूपञ्च भासिनि | शङ्खहस्ता सदा ध्यायेन्मनसा चिन्तितं लभेत् || १९/५ || इति ज्ञाननिर्णये महायोगिनीकौले श्रीमीनपादावतारिते एकोन्नविंशतितमः पटलः || १९/१९ || विंशतितमः पटलः भैरव उवाच शृणु त्वमद्भुतन्देवि लोकेऽस्मिन् मोक्षप्रत्ययम् | गूदोर्द्ध्वम्पीडयेन्नाथ हृदि कण्ठादिकं प्रिये || २०/१ || उत्पातं निक्षिपेदूर्द्ध्वं प्राणायामेन सुन्दरि | कपालं भेदमयाति यान्ति जीवो निरञ्जनम् || २०/२ || स शिवो व्यापको भूत्वा कर्ता हर्ता वरानने | आत्मानं च परं वेत्ति वेत्तित्येवं चराचरम् || २०/३ || दुःखन्तस्य न विद्येत सुखन्तस्य निरन्तरम् | अथान्यं साम्प्रतं देवि प्रत्यक्षमभ्यसेत् सदा || २०/४ || शक्त्याचाररतो नित्यं जिताहारैकमैथुनः | अनामापीडयेदूर्द्ध्वं नाभिञ्च हृदयन्तथा || २०/५ || श्यामसूत्रगतं लक्षं शक्त्याग्रसंस्थितं मनः | आत्मप्राणसमं कृत्वा शक्त्याचाराग्रसंस्थितम् || २०/६ || पुष्पे वा प्रतिमाद्येषु अभ्यासाच्चलते प्रिये | षट्मासादभ्यसेद्देवि निश्वासोच्चपराङ्मुखाः || २०/७ || अब्दमनेकं देवेशे देशदेशान्तरं व्रजेत् | परदेहप्रवेशं स्यादभ्यासं वर्णितं तव || २०/८ || अथान्यं साम्प्रतं भद्रे शृणु त्वं वीरनायिके | कुलाशक्तेस्तु वीरस्य तथान्यं शक्तिलक्षणम् || २०/९ || अनादिनिधना शक्तिरिच्छा नाम शिवोद्भवा | व्योममालिनी सा भद्रे खेचरीति निगद्यते || २०/१० || वामाख्या कुण्डलीनाम ज्येष्ठा चैव मनोन्मनी | रुद्रशक्तिस्तु विख्याता कामाख्या तु गीयते || २०/११ || अग्रणी चैव सर्वेषां लिख्यते न च पठ्यते | मातृका शब्दरा(शिश्च) सर्वग्रन्थेषु कीर्त्यते || २०/१२ || देव्युवाच ज्ञानशक्तिर्मया ज्ञाता क्रियाशक्तीर्वद प्रभो | भैरव उवाच कथयामि समासेन वीरस्य शक्तिलक्षणम् || २०/१३ || उत्तमा धवलाक्षी तु कुटिलाग्राग्रकेशिनी | दशनैश्च ज्योत्स्नाकारैः सुरूपा चारुभाषिणी || २०/१४ || कुले भक्तिसमायुक्ता गुरुदेव्या प्रपूजका | सुरूपा सुखभावा च सुभ्रुवा सुललाटका || २०/१५ || कुलागमेन भक्ति ........ भयवर्जिता | सुशीला सुभगा देवि जनानन्दकरा शुभा || २०/१६ || दुर्लभा लोकमध्ये तु ज्ञानवर्तस्य रक्ष्यते | इत्थंभूता यदा शक्तिर्वीरस्य लक्षणं शृणु || २०/१७ || सुरूपः सुस्वभावश्च सत्यवादी च निश्चयी | गुरुकौलागमे भक्तः सुसन्धः क्रोधवर्जितः || २०/१८ || सुशूरः सुभगो नित्यं स्वदेहप्रत्ययान्वितः | ईदृशी भवते वीरा रुद्रशक्त्या ह्यधिष्ठिता || २०/१९ || यत्तेजः स महालिङ्गमुत्पत्तिस्थितिकारकः | बिन्दुरूपं तु तं ज्ञात्वा स्फुरज्ज्वालावलीपरः || २०/२० || अक्षोभ्यः सर्वशक्तीनां आत्मशक्त्यान्तरञ्जितः | सुज्ञात्वा देहजं शक्तिं तदा शक्तिपरिग्रहे || २०/२१ || ज्ञानविज्ञानसम्पन्नः अद्वैताचारभावितः | कुलकौलागमे भक्ति ईदृशं वीरलक्षणम् || २०/२२ || इति ज्ञाननिर्णये योगिनीकौले श्रीमीनपादावतारिते चन्द्रद्वीपविनिर्गते विंशतितमः पटलः || २०/२० || एकविंशतितमः पटलः देव्युवाच संग्रहं वद मे नाथ वर्तनं कुलगोचरे | भैरव उवाच कथयामि न सन्देहो संग्रहाचारलक्षणम् || २१/१ || पञ्चपञ्चाशिको देवि मतं वै योगलक्षणम् | तस्य भेदोपभेदेन कौलशास्त्रे विनिर्णयम् || २१/२ || कुलपञ्चाशिकामूलं तथा च कुलसागरम् | कुलोघो हृदयञ्चैव भैरवोद्यानकं तथा || २१/३ || चन्द्रकौलञ्च वेष्टिञ्च(?) तथा वै ज्ञाननिर्णयम् | अस्य मध्ये विनिष्क्रान्तं सम्बरनाम विश्रुतम् || २१/४ || सृष्टिकौलं महाकौलं तिमिरं च तथापरम् | सिद्धामृतं तु कौलं मातकौलं तथापरम् || २१/५ || शक्तिभेदं तथा कौलं ऊर्मिकौलमनुत्तमम् | चतुर्युगेषु देवेशि ज्ञानकौलस्य संगतिः || २१/६ || सिद्धेश्वरं तथा चान्यं कौलं वै वज्रसम्भवम् | मेघजाञ्च दूरतं तस्मिन् कौले विनिर्गतम् || २१/७ || अङ्गस्पर्शनिश्चरं देवि वज्रदाद्यामृतं तथा | पूर्णिमायां अमावस्यां अष्टमी च चतुर्दशी || २१/८ || सजीवं मत्स्यमद्यञ्च मांसञ्चैव बलिं द(देत्) | व्याख्या चैव तु कर्तव्या आचार्यः शङ्कवर्जितः || २१/९ || न तिथिर्न च नक्षत्रं नोपवासं विधीयते | यत्र तत्र स्थितो योगी ज्ञानमेवं समाश्रयेत् | कथितं कौलसद्भावं नाम्ना ज्ञानस्य निर्णये || २१/१० || इति ज्ञाननिर्णये महायोगिनीकौले श्रीमीनपादावतारिते चन्द्रद्वीपविनिर्गते एकविंशतितमः पटलः || २१/२१ || द्वाविंशतितमः पटलः देव्युवाच प्रणम्य प्राञ्जलि ...... व अद्याहं तव वल्लभ | अद्याहं कृतकृत्या तु हर सिद्धिविनायकः || २२/१ || षड्मुखश्च महाकाल(ः) कालिका योगिनी तथा | नन्दीशो भट्टका चैव द्रोणका च तथ .... || २२/२ || विजया तु महाभागा षड्योगिन्यस्तु मातराः | कौलामृते न संतृप्तो अहं सर्वेऽपि भैरव || २२/३ || भैरव उवाच यत् पुरा गोपितं भद्रे तत् सर्वं प्रकटीकृतः | भूलोके देवतानाञ्च कथितव्यं कुलागमे || २२/४ || सिद्धानाञ्च विशेषेण ख्यापनीयं कुलान्व(यम्) | समयाचारसमोपेतं विज्ञानं द्वैतवासिनाम् || २२/५ || गुप्तलिङ्गी सदा कालं गुरुपूजनतत्परः | वत्सलः सर्वलोकानां सर्वजीवदयान्वितः || २२/६ || भैरववचनं श्रुत्वासर्वरोमाञ्चकञ्चुकाः | सन्तुष्टमनसः सर्वे दण्डवत् पति(ताः) भुवि || कुलभावपराः सर्वे कृतकृत्या सुराधिपाः || २२/७ || अद्य मे गहनं नष्टं अज्ञानपटलाहतम् | संसारतरुविस्तीर्णमद्य छिन्नं त्वया प्रभो || २२/८ || पाशजालतमोघञ्च छिन्नाद्य दुःखसंशयः | दशकोटिस्तथा चार्द्धं नाम्ना ज्ञानस्य निर्णयः || २२/९ || तस्य मध्ये इमं नाथ सारभूतं समुद्धृतम् | कामरूपे इमं शास्त्रं योगिनीनां गृहे गृहे || २२/१० || निग्रहानुग्रहञ्चैव सिद्धिमेलापकं तथा | कुर्वन्ति सततं देवि अस्य ज्ञानप्रसादतः || २२/११ || चन्द्रद्वीपं महाशास्त्रं अवतीर्णं सुलोचने | कामाख्ये गीयते नाथे महामत्स्योदरस्थितिः || २२/१२ || इति ज्ञाननिर्णये महायोगिनीकौले श्रीमत्स्येन्द्रपादावतारिते चन्द्रद्वीपविनिर्गते द्वाविंशतितमः पटलः || २२/२२ || त्रयोविंशतितमः पटलः देव्युवाच कौलवे योगिनी देव सञ्चरन्ति कथं भुवि | तन्ममाचक्ष्व देवेश भक्त्या जानन्ति भूतले || २३/१ || भैरव उवाच मर्त्येऽस्मिन् देवतानान्तु सञ्चारं शृणु भामिनि | कपोतिका तथा गृध्री हंसी चैव नखी तथा || २३/२ || खञ्जः ...... भाषी तु कोकाभाषी तु सुन्दरि | उलुकी पेचकी वा तु सररी वा गूली तथा || २३/३ || शृगाली अजा महिषी (उष्ट्री) मार्जारनकुलीइ तथा | व्याघ्री हस्ती मयूरी च कुकुटी न ............... || २३/४ || अन्यानि यानि रूपाणि संस्थितानि महीतले | तानि रूपाणि संगृह्य योगिन्यः क्रीडन्ते भुवि || २३/५ || निपतन्ति यदा भद्रे अभक्ष्येषु कुलाधिपे | तद्रूपं कथ्यन्ते ................. युक्तावधारयेत् || २३/६ || हयश्च नखरः सर्प चित्रिकोत्मानसस्तथा | वृश्चिकोध्यन्तरश्चानो मूषको दर्दुरः प्रिये || २३/७ || ग्रहभूतस्वरूपेण ज्वालाग्निशास्त्रसङ्कटैः | वेद ......................व्याधिराजानञ्चैव तस्कराः || २३/८ || विद्युत्तुङ्गो तथा गण्ड व्याघ्रसिंहगजस्तथा | अनेकाकाररूपेण भयं नानाविधं विदुः || २३/९ || चतुःषष्टिश्च योगिन्यो...............प्यन्ति साधके | एवं रूपं समासृत्य क्षिप्रं गृह्णन्ति तं पशुम् || २३/१० || कोपन्तु नैव कर्तव्यं भाषमाणं सुराधिपे | कुमारिका स्त्रियो वापि भाषमाणे कदाचन || २३/११ || यथा शक्त्या सदा कालं स्त्री चैव व्रतमास्थितम् | पूजनीया प्रयत्नेन कुमार्यश्च कुलाश्रितैः || २३/१२ || पुन्नागं नागचंपाद्यैर्मुचुकुन्दैश्च पाटलैः | पारिजातोद्भवेद्दिव्यैर्दाडिमैः कुसुमोज्ज्वलैः || २३/१३ || बन्धुकः कुसुमोद्भूतैश्चम्पकः कुसुमोज्ज्वलैः | जात्युत्पलकदम्बैश्च कर्णिकारैः सिंहकेशरैः || २३/१४ || अम्भोरूहैस्तथा पुष्पैः शुभैः शालाविभूषितैः | रक्ताम्बरधरां ध्यायेद्रक्तगन्धानुलेपिताम् || २३/१५ || आत्मानं योगिनीसिद्धे रत्नमाला विभूषिताम् | ध्यायेत्तां सततं वीरां बहिः पूजां विवर्जयेत् | पूजनं कथितं भद्रे भुक्तिमुक्तिप्रसाधकम् || २३/१६ || इति ज्ञाननिर्णये महायोगिनीकौले श्रीमत्स्येन्द्रपादावतारिते चन्द्रद्वीपविनिर्गते त्रयोविंशतितमः पटलः || २३/२३ || चतुर्विंशतितमः पटलः देव्युवाच सफलम(द्य) मे नाथ कारुण्यं तव भैरव | असुराणां सुराणाञ्च प्रभुत्वमद्य मे प्रभो || २४/१ || महाकौलं महाज्ञानं कुलकौलस्य निर्णयम् | भ्रान्तिसंसारगहनमज्ञानपटल(न्त)मः || २४/२ || संसारपाशजालञ्च अद्य? निर्णाशितं त्वया | अद्यमापादिता मुक्तिः स्वतन्त्रा भुवि दुर्लभा | पुनः कथय कौलेश देहस्थं सिद्धपूजनम् || २४/३ || भैरव उवाच ........षन्दिग्धं कथयिष्यामि कौलेऽस्मिन् पूजनं शृणु | कुलसिद्धाश्च योगिन्यो रुद्राश्चैव कुलाधिपे || २४/४ || देव्याश्चक्रगताः सर्वे हृदि मध्ये शिरेऽपि वा | बहिस्थं पूजये..............पूजाविधि प्रिये || २४/५ || सुगन्धकुन्दकेतक्या मालिकाजातिकोत्पलैः | चम्पकैः किङ्करातैश्च नीलोत्पलसुगन्धिभिः || २४/६ || पुष्पैर्नानाविधैश्चैव शतपत्रैश्च .............. | तरुजातन्तश्व रादेया (?) द्रव्या(पि) मधुमिश्रिताम् || २४/७ || मांसम्पलम्बलिर्देया ताम्बूलं चन्द्रसंयुतम् | धूपचन्दनसौरभ्यं अगुरुं मृगनाभिकम् || २४/८ || रक्तपुष्पैर्विशेषेण सुगन्ध (धूपदीपितम्) | उग्राणि यानि पुष्पाणि गन्धहीनं न दापयेत् || २४/९ || बहिस्थं पूजनं प्रोक्तं अध्यात्मं शृणु साम्प्रतम् | रक्ताम्बरधराः सर्वे रक्तगन्धानुलेपनाः || २४/१० || षोडशाकृतयः स ....................... विभूषिताः | प्रसन्नवदनाश्चैव पिबन्त्यो मदिरासवम् || २४/११ || इच्छारूपधराः सर्वे जरामरणवर्जिताः | सृष्टिप्रवर्तकाः सर्वे वरदानैकतत्पराः || इ...........डाध्यायेदचिरान्तत्समो भवेत् || २४/१२ || इति ज्ञाननिर्णये महायोगिनीकौलश्रीमत्स्येन्द्रपादावतारिते चन्द्रद्वीपविनिर्गते चतुर्विंशतितमः पटलः || २४/२४ || गुह्यपदधरं प्रोक्तं दशकोटिस्तु निर्णयः | सिद्धानां योगिनीनां च हृदयं पर(म)दुर्लभम् || २५/१ || गुह्याद् गुह्यतरं नाथे सारात् सारतरं परम् | सम्यगेतन्मया भद्रे अप्रकाश्यं प्रकाशितम् || २५/२ || महाकौल महादेवि शतैर्दशभिः सम्मितम् | ज्ञानस्य निर्णये सारं नाम्ना साहस्रिकं मतम् || २५/३ || इति महाकौले ज्ञाननिर्णये सारं श्रीमत्स्येन्द्रपादावता(रिते समाप्तं ?) ########### END OF FILE #######