#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00326 Uniform title: kaularahasya Manuscript : NGMCP Ms. No. 1-257 Reel no. A-146/8 Description: Notes: Many folios are missing in this manuscript. Note that the conjunct letter R written above the word is added by the scribe for no reason. Data-entered by the staff of the Muktabodha Indological Research Institute under the direction of Mark S.G. Dyczkowski. Revision 0: January 29, 2015 Internet publisher : Muktabodha Indological Research InstituteInternet Publisher - Muktabodha Indological Research Institu Publication year : 2015 Publication city : Publication country : United States #################################################### Kऔलरहस्य ंअन्य fओलिओस् अरे मिस्सिन्ग् इन् थिस् मनुस्च्रिप्त्. णोते थत् थे चोन्जुन्च्त् लेत्तेर् ऽऋऽ wरित्तेन् अबोवे थे wओर्द् इस् fरेqउएन्त्ल्य अद्देद् ब्य थे स्च्रिबे wइथ् नो रेअसोन्. fओलिओ १-८ नोत् fओउन्द्. * * * * * * * * * * * * * * * *? हितो दक्षिणाचारसंज्ञकः | मद्यं मांसं तथा मत्स्यं मुद्रा मैथुनमेव च | मकारपंचकैर्देवि योनौ कौलः प्रपूजयेत् || वामहस्तात् पानपूजा क्रमाद् वामी प्रकीर्तितः | दक्षिहस्तात् पानवागाद् वामहस्तप्रतर्पणात् || दक्षहस्तापूजनाद्धि कौल इत्यभिधीयते | केवलं दक्षहस्तेन पूजणाद् दक्षिणाभिधः || उपासनाद् विधा प्रोक्ता सकामाकामवर्जिता | मोक्षबीजं भुमिः कामा सकामा भवतीजकं || पंथा तु दक्षिणः श्रेष्ठो वामः श्रेष्ठातरो मतः | यस्तु वामं विजा * *? स एव परमो गुरुः || अहं जानामि पूर्णं पादान सनकादयः | अर्द्ध च पिपशिष्ठाद्याः स * * * *? संमितं || ९अ) *? नन्ति *? थाः षष्ठांशं कोघं शतितरे जनाः | पटन्ति कोटयश्चात्र जायन्ते कृमि योनिषु || तं मार्गये विजानन्ति ते मुक्ता नात्रसंशयः | श्रीकृष्णा वाममार्गं तु फल्गुनायोपदिष्टवान् || मया चिन्तायता दृष्टामुनित्यश्वनिरूपितः | चाण्डालो वा तुरुष्को वा ब्रह्महा वाथ मस्करी || श्रोत्रियो वा वाममार्गी भुक्तिमुक्त्योः स भाजनं | वामदिक्षिणमागो हि कालीतारा विधौ स्मृतः || छिन्नाविधौ वाममार्गो वगलावामदक्षगा | सुंदरी वामदिव्या च दक्षमार्गे च संस्थिता || वालाविद्या दक्षविद्या मातंगी वामदक्षिणा | केवला भुवना लक्ष्मा धूमादक्षिणमार्गगा || सुमुखीवामसंतुष्ठा वटुकोवामदक्षिणः | ९ब्) * * * * * * * * * * * * * *? दक्षिणा | पूर्वाम्नाये दक्षि वामौ दक्षिणे दिव्यवामके | कौलदक्षौ पश्चिमे तु कौलवामौ तथोत्तरे || ऊर्द्धदिव्यौ महेशानि पाताले वाम एव च | यक्षिण्याद्याः सर्वविद्याः कामिनीयोगनायिका || वाममार्गेण सिद्ध्यन्ति नान्यथा सिद्धिदा क्वचित् | वामदक्षिणयोगेन उभयाचारतत्परा || शैवे शाक्ते गाणपत्य सौरे स्वायंभुवे तथा | चान्द्रे चीने पांचरात्रे वैष्णवे वैदिकेपि च || वाम चोक्ते भविष्यन्ति कले द्वैजातयः | एवं दर्शनमार्गे पि न हि वमं करोति चेत् || तस्य सिद्धिर्न देवेशि मम वैरी प्रकीर्तितः | सर्वस्मादेधिको वामधर्मः प्रोक्तः कुलागमे || तत्रापि कालिका तारा विधौ प्रियतरः स्मृतः | कापालिके महेशानि वाममार्गोत्र कारणं || १०अ) वाममार्गप्रकारेण सर्व सिद्ध्यन्ति नान्यथा | वाममार्ग विना देवि न हि सिद्ध्यन्ति देवताः || उत्तराम्नायसंप्रोक्ता देव्यास्तुष्यन्ति पंचमैः | ऊनः पदार्थ एकश्चेत् साधकं ते शपन्ति च || पश्चिमाम्नायदेवानां सुरापानं कृताकृतं | मचतुष्टयमिच्छन्ति तं विना प्रशपन्ति च || पूर्व्वाम्नायोक्तदेवानां तत्स्मांससश्च कृताकृतं | आवश्यकं मत्रयं च तं विना प्रशपन्ति ते || ऊर्द्धाम्नायोक्तदेवीनां त मत्स्यश्च कृताकृताः | आवश्यकं मद्वयं च तं विना प्रशपन्ति ते || दक्षिणाम्नायदेवानां निषिर्द्धं मचतुष्टायं | मेनकैन विना ते पि प्रशपन्ति हि साधकं || कौलिकं कुर्वतः कर्म वैदिकं नाभिधायते | १०ब्) वैदिकं कुर्वतः कर्म कौलिकं नाभिधीयते || विरुर्द्धादुभयं नष्टं तस्मादेव पधा चरेत् | वाममागी यदा दक्षं प्रविशेत् तत्सुरैः स तु || विघ्न्यते पीड्यते चापि न सिद्धिमधिगच्छति | दक्षमार्गी यदा वामं प्रविशेत् तत्सुरास्तदा || लोकद्वयाद्व्यापयन्ति तं ग्रसन्ति च वामिनं | तस्मात् स्वकुलमार्गं तु ज्ञात्वा कुर्यादुपासनां || यदृच्छया श्रुतं तन्त्रं च्छद्मनापि वलेन वा | परेरितं वागाथा वा तर्जपेद् यद्यनर्थकृत् || न शास्त्रमालोक्य वदेत् नाचरेन्न जत् क्वचित् | न पश्येन्नोपदिश्यच्च न कुर्यान्नैव साधयेत् || पुस्तके लिखितान् मन्त्रानालोक्य प्रजपन्ति ये | ब्रह्महत्वा समं तेषां पातकं परिकीर्तितं || तस्माद् दिक्षां प्रयत्नेन सदा कुर्याच्च तान्त्रिकीं | ११अ) इति श्रीकौलरहस्य द्वितिये पटलः || २ || अथ दीक्षा तत्रादौ दशसंस्कारः | जननं जिवनं पश्या ताडनं बोधनं तथा | तथाभिसेको विमलीकरणार्प्यायने पुनः || तर्पणं दीपनं तुप्ति दश यैते मन्त्रसंस्क्रिया | अतः प्रथमतो दीक्षां प्रवक्ष्यामि विशेषतः || दीयते ज्ञानं क्षीयन्ते पापनाशयः | तेन दीक्षा इति प्रोक्ता प्राप्त चेत् सद्गुरोर्मुखात् || अदीक्षितानां मर्त्यानां दोषं शृणुन्तु साधकाः | अन्नं विष्टासमं सूत्रमसन्तथा || अदीक्षितकृतं श्रार्द्धं चादीक्षितस्य वा | गृहीत्वा पितरस्तेषां नरके च सुदारुणे || पतंत्येव न संदेहो यावदिंद्राश्चतुर्दश | सहस्रैरुपचारैश्च भक्तियुक्तो य जपेद् यदि || तथार्प्यदी तस्यार्चं देवा गृह्नन्ति नैव च | ११ब्) कर्णाखित्वं वृथा यस्मात् तस्माददीक्षितः पशुः | तस्माददीक्षितं दृष्ट्वा किंचित् कार्य न साधयेत् || दीक्षाग्रहणकाले तु पापराशिः पलायते | निर्वाणपदसंयुक्तो वहि गच्छति तत्परः || तदा देवपितृणां तु कर्याहो भवति स्वयं | अन्यथात्कृतं कर्म हुतं भस्मनि हव्यव || सर्व्वाश्रमे तु दीक्षाया नित्यत्वं परिवक्षते | अनीस्वरस्य मन्त्रस्य नास्ति त्राता जनो भुवि || तथा दीक्षाविहिनस्य नेह स्वामि परत्र च | न तपोभिर्जिपैहोमैर्व्विधिधैर्व्वापि साधनैः || न क्रियापि कदाचित् तु दीक्षाहीन्यस्य सिद्ध्यति | द्विजानामनुपेतानां स्वकर्म्माध्ययनादिषु || यथाधिकारो नास्तीह स्याच्चोपनयनादिषु | १२अ) तथा चादीक्षितानां च मन्त्रदेवाच्च नादिषु | नामधिक्कारोस्स्यतः कुर्यादात्मानं मन्त्रसंस्कृतं || दीक्षामूलं जगत्सर्वं दीक्षामूलं परन्तप | दीक्षामाश्रित्य निवसेद् यत्र कुत्राश्रमे जपेन || अदीक्षातश्च मरणै रौरमे नरके व्रजेत् | अतो दीक्षेति सा प्रोक्ता देशिकैस्तन्त्रवेदिभिः || यावन् न प्राप्यते दीक्षा पुरुषार्थ फलप्रदा | सर्वसिद्धिकरीक्षा सर्वसंपत् प्रदायनी || प्रतिभास्वरवर्णानि कान्तिपुष्टि धनानि च | मोहनं स्तंभना कृष्टिमारणोच्चाटनानि च || वशीर्यसुकविताबुद्धिंश्वधारणायुता | तारणं च समुद्रस्य वह्नेशैत्वं रणे जयं || विपिने चाभयं चैव शोकदुःखापहं तथा | धर्मार्थ काममोक्षाणि ददात्येषा न संशयः || १२ब्) अनेककोटि मन्त्रेभ्यस्तथा विद्या स्व एव च | एकं गुरु मुखाल्लब्धं सर्वसिद्धि प्रवर्तकं || गुरुपदेशतो लब्धं जपन्यासार्चनादिकं | पश्चात् तत् साधयेत् सर्वं स तदा भावभावितः || विचारे गुरुरित्युक्त उपदेशे गुरु गुरुः | परापरत्वं पूजायां प्रयोगे परमेष्ठिसौ || न गुरोः सदृशं वस्तु न देवः शंकरोपमः | न च कौरात् परोयागो न विद्या कालिका समा || गकारात् ज्ञानसंपत्तीरक्तारस्तत् प्रकाशकः | उकाराच्छिवदात्म्यं दद्यादिति गुरु स्मृतः || पाशवर्द्धः पशुः प्रोक्तः पाशमुक्तो महेश्वरः | तस्मात् पाशहरोप्यत्रे स गुरुनान्य उच्यते || निर्वीययो हि पितुर्मन्त्रः शैवे शाक्ते न दुष्यति | दक्षमार्गे तु निर्वीर्यः पितुर्म्माता महस्य च || १३अ) सोदरस्य गृहस्थस्य वाममार्गेति विर्यवान् | न पत्नी दीक्षायेद्भर्ता न पितां दीक्षयेत् सुतां || न पुत्रं च तथा भ्राता भ्रातरं न च दीक्षयेत् | स्त्रियो दीक्षा शुभा प्रोक्ता मातुश्चाष्ट गुणा स्मृता || साध्य चैव सदाचारा गुरुभक्त्या जितेन्द्रिया | सर्वममन्त्रार्थ तत्वज्ञा शूशीला पूजने रता || गुरु योग्या भवेत् साहि विधा वा परिवर्जिता | मात्रा दीक्षा प्रदेया वै स्त्रीशांसत्य न शांभवि || देवीपरंपरा प्राप्ता दीक्षा स्त्रीणां शुभा मता | देवी परंपरायां तु विशेषं शृणु सादरं || देवी परं परोद् दिष्टं पारंपर्य क्रमागता | स्त्रीणां दीक्षापरं याता देवी दीक्षा शुभा मता || पुरुषाणां तत्सकाशात् दीक्षी जाता परंपरा | मुखं शृणु महादेवि स्त्रीणां न नियमो मतः || १३ब्) नियमः पुरुषे ज्ञेयो न योषित्सु कथंचन | शाक्ते विकल्पा सहिते कथ दीक्षा भवेत् प्रिये || गुरोः सकाशा चेद् देया तदसा भगिनी मता | स्वयं वै यदि चेद् देया तदा कन्या प्रकीर्तिता || अन्यतोपनीया चेनन्माग भ्रष्टा तदा भवेत् | मन्त्रशास्त्रे वहुविधामार्ग देविमयेरिताः || तदर्थ शंकते चित्तं किं कार्यं वद शंकर | स्वयं प्रदायव्यः श्रेष्ठस्तत्सकाशात्तु दीक्षणं || शुभं प्रोक्तं महादेवि ह्यभावे शृणु सादरं | त्रयोदश्यां कृष्णपक्षे चन्द्रवासरसंयुते || तालपत्रमनुर्लेख्य संस्कारदशकं चरेत् | * * * * * * * *? सिद्धमन्त्रा भविष्यति || तद् दिने पायसं कृत्वा दक्षिणामूर्तिसंनिधौ | पायसादि निवेद्याथ विल्वैः संपूज्यशंकरं || इति कृत्वा वाचनीयमष्टोत्तरसहस्रकं | १४अ) संजप्य होमयेद् देवि तत्तन्मन्त्रोक्त वर्त्मणा || वाचने नास्ति चेच्छक्तिस्तदा किं वा विधीयते | पुत्रद्वारा वाचनीयं सपुत्रो गुरुवेवतु || एवं गृहीत मन्त्रस्तु सिद्धिर्भवति हि प्रिये | अथ वान्यकाकेण दीक्षाणं शृणु सांप्रतं || नद्यां समुद्रगामिन्यां शुभे लग्ने शुभे दिने | संप्रदायं पुरापृष्ट्वा श्रीसूर्यमण्डलं लिखेत् || सांगं सावरणं सूर्यं संपूज्य प्राणवल्लभे | तारं फट् मनुमालिख्य वाचयेत् तत्सुकाशतः || शतष्टवारं संवाच्य *?कानां वामतो गतिः | तत्र सूर्य गुरुं पूज्य सर्वसिद्धिश्वरो भवेत् || इदं पशुपरं प्रोक्तं न तु वीरपरं प्रिये | वीराणां कौलिकानां तु भर्ता दीक्षणमाचरेत् || भत्तु दीक्षा प्रदाने तु न दोष कालिका तमे | १४ब्) शीवेन दीक्षापूर्वं तु गोर्यदर्भा शुभावहा || सा च पुत्राथवा भार्या तद्वदत्रापि पार्वति | न पुत्री गदिता सा तु वीरभार्या प्रकीर्तिता || इति श्रीकौलरहस्य तृतीयपटलः || ३ || श्रीदेव्यूवाच || असिद्धगुरुणा दत्तो मन्त्रः शिष्याय वा गुरुः | सिद्धा मन्त्रान्तरे देव नैव सिद्धाथवा गुरुः || भिन्नाम्नाय दाशिप्यस्तद्भिन्नाम्नाय देवतां | सेवते तत्र देवेश कीदृक् सिद्धिस्तु तद्वदः || ईश्वर उवाच || गुरुस्तु दक्षिणाम्नायी सर्वाम्नायषु दीक्षितः | ऊर्द्धाम्नायी तथान्येषु पूर्वाम्नायी परेषु च || द्वयोस्तु पश्चिमाम्नायी उत्तरस्त्वधरे भवेत् | अधरे नैव कुत्रापि गुरुस्वं पारलौकिकीं || १५अ) दक्षिणोपासकः काले ऊर्द्धः सायुज्यमाप्नुयात् | देवतायास्तथा पूर्वः सारुप्यं लभते परः || सामीप्यं चोत्तरे लोकमधोगस्त्यै हि कं फलं | लोभत्यागैश्चापकारो ह्यधोमार्गेप्युदर्ककृत् || मन्त्रान्तरे च संसिद्धो गुरुर्मन्त्रं प्रवच्छिती | यथोक्ता चरणात् तस्य सिद्धिः शिष्यस्य जायते || कृपा वशात् सिद्धमन्त्रं ददाति च यदा गुरुः | विनाजपं विनापूजां सिद्धियेत् तत् करे स्थिताः || तत्र सूर्जग्रहः शस्ते न तु चतुग्रह क्वचित् | चन्द्रग्रहे तु दारिद्रं सौरे सर्वसमृद्धयः || सूर्यग्रह शिव प्रोक्तश्चन्द्राष्यशक्तिरेव च | सूर्यग्रहे शक्तिदीक्षा पशुदीक्षानाकारयेत् || १५ब्) ःएरे मत्तेर् नोत् चोन्तिनुए. प्रकीर्तिता || निःकलागुह्यशंशंता काली भेदेन कीर्तिता | केवलयं भवेन्मधाह्वयी साम्राज्यरूपिणी || चन्द्राग्नि वेदपंचार्णा तथा नीला क्रमेन च | हंसतारा महानीला तदन्ते वीनशांभवी || केवला तु भवेन् मधा सिद्धिक्रिया द्विधा | त्रितया दिव्यसाम्राज्य मे दीक्षां प्रकीर्तिता || देवरूपा दिव्यरूपा महापरा | सर्वरूपा सर्वपूर्वा महासाम्राज्यमेव या || सिद्धि ऋद्धि क्रमेणैवः भेदवाहुल्यमिरितं | विद्याराज्या विधादीक्षा च्छिन्नमस्ता विधौ स्मृता || चन्द्रवह्नि रसो रक्त श्यामा च षोडशी तथा | परषोढा सप्तदशी तदजाता परा भवेत् || दापि मलिनि कुल्ला क्रमाद्विघ्वादि राज्यद | १६अ) वगलाया महेसानि साम्राज्य परमेष्यते | चन्द्र वेद सूक्षमेरु मन्त्रीहीनं शिवान्तरं || हृदयं च शतार्णा च पंचास्त्रं कुल्लुका तथा | गायत्री क्रमे योगेन साम्राज्य परमेष्ठ्यधृक् || एतत् पंचकसंयुक्तोः सर्वसाम्राज्य बुद्धिधृक् | श्रीदिव्यसर्वसाम्राज्य दीक्षासर्वोत्तरा भवेत् || ततोपि दीक्षा देवेशि नास्ति ब्रह्माण्ड गोलके | दशविद्या प्रभेदाश्च महाविद्या प्र *? दजा || सिद्धिविद्या प्रभेदाश्च महामन्त्रास्तथैव च | तदंगमन्त्रा देवेशि शावरं दशशावरं || कालशावरकं देवि तथैव सिद्धशावरं | त्रिधादर्शनमन्त्रा च तथाम्नाय क्रमोद् भवेत् || कादिहादि कहर्त्वेन १६ब्) द्र्याशिरोस्य हृदयंञ्जलिः | कृताञ्जलि पुटा ऊर्द्धं खड्गखेतक पानयः || ब्रह्माणं संनिरीक्ष्यान्त तद्वक्त्राभिमुखाश्च ते | स्वस्वस्थान स्थिताश्चैव साधारणमुदाहृतं || स्वप्नस्तुति || भगवन् देवदेवेश शूलद्भृवृषवाहन | इष्टानिष्ट समाचक्ष स्वप्नसुप्तस्य साप्रवं || निशान्ते पश्यति स्वप्नं सुभं वायदिवाशुभं | ओं हृत्सकललोकाय विष्णुवे प्रभविष्णवे || विश्वारूपाय स्वप्नाधिपतये नमः | नमो जाय त्रिनेत्राये पिंगलाय महात्मने | वामाय विश्वरूपाय स्वप्नाधिपतये नमः || स्वप्ने तु प्रथमे यामे संवत्सर फलं भवेत् | षद्भिर्मासैद्वियात्थस्त्रिभिमासैस्त्रियामकः || चतुर्थे मासमात्रेण प्रातःकाले तु सत्वरं | १७अ) अथ दुस्वप्नशान्ति || त्रिरात्रो दोषितो भूत्वा हविष्यासी पुरोहितः | सक्षीराणां घृतांक्तानां समिधानां शतं देहेत् || पाशानां तु गायात्र्या शूद्रःस्वाहविष्य भुक् | दीपं दद्याद् विप्रगृहे विष्णो गेहे शिवालये || एवं दृष्टा शुभं स्वप्नं गृह्नीयामनुमन्यथा | गृही * *? रित च स्याद्वान्यं वेदं विचिन्तयेत् || अथ कौलिकोपदेश || न्यासजालं वि * * *? शंखपात्रादि स्थापनं | कृत्वा देवी समभ्यर्चमकारं पंचकैः प्लुतः || कारणं तं मुखे पश्चा मन्त्रविद्यां समुर्चये | कथितोयं महेशानि उपदेशस्तु कौलिकः || अन्यायेन चायो दद्यात् गृह्नान्यायतश्च यः | १७ब्) ददतो गृह्नतो वापि कुलशापो भविष्यति || गुरुशिष्यावुभौ मोहादपरीक्ष्य परस्परं | अशास्त्रीयोपदेशं तु यो गृह्नाति ददाति च || भुजीते तावुभौ घोरान्नरकानेकविंशतिः | असंस्कृत्योपदेशस्तु यः करोति विमूधधीः सैकते शालिबीजवत् || अनर्हे मन्त्रविज्ञानं न तिष्ठन्ति कदाचन | तस्मासर्वप्रकक्तव्यमन्यथा निःफलं भवेत् || सच्छिष्यायाति भक्ताया तज्ञाममुपदिश्यते | त प्राप्नोति व्रति नित्यं गोक्षीरा तु यथाघृतं || धनेच्छाभभये लोभाद्यैरयोग्यं यदि दीक्षयेत् | देवताशापमाप्नोति कृतं वविकृतं भवेत् || इति श्रीकौलरहस्य चतुर्थपटलः || ४ || अथ पूर्णाभिषेकदीक्षा माहपूर्णाभिषेकदीक्षा तु चन्द्रसूर्याप्रह भवेत् || १८अ) सुन्दरी तालिणीकाली क्रमदीक्षात्रिगामिनी | क्रमपूर्णे महेशानि क्रमाच्छुस्तु हविष्यति || चन्द्राग्नि पक्षषोढाष्य परानिर्वाण तत्परा | षट्सांभवं ततो देवि चक्रसंभेदनेन च || स्वचक्रं देह विज्ञानं परकाये प्रवेशनं | एतत् ज्ञाना भवेन् मएधा दीक्षा प्रोक्ता मया तव || हादाविदं निगदितं शृणुकादौ महेश्वरि | चन्द्राग्निरसराज्ञी च महाराज्ञी ततः शिवे || महाकामाकलाकाली गुह्यकालि ततः शिवे | गुह्यकाली द्विधा प्रोक्ता सकलानिःकला क्रमात् || दशवक्त्रा तु सकला प्रोक्ता वा सृष्टि का कला | उग्रा सौम्या महाक्रूरा त्रिधा सापि १८ब्) चन्द्र ग्रहे विष्णु दीक्षा पंचरात्रे न कारयेत् | चन्द्रसूर्य ग्रहे दीक्षा सर्वदीक्षा * * * *? | चन्द्रग्रहे शक्तिदीक्षा सर्वदीक्षोत्तमत्तमा || न वारतिथिनक्षत्रादि न मास नियमस्तथा | न योगं करणं नापि न विचारं समाचरेत् || देवी बोधं समारभ्य यावत्म्या नवमी तिथि | कृतातसुवुधै दीक्षा सर्वाभीष्टफलप्रदे || बोधने नैव दुगायाः कालाकालं न शोधयेत् | अशोकाख्याष्टमी यत्र रामाख्या नवमी तथा || गुरो वा श्रुतदृष्टे च सिद्धिक्षेत्रे सुशोभने | आगतिर्गुरुद्दैवाद्यददीदीक्षा तदा भवेत् || यदैवेच्छा तदा दीक्षा गुरोराज्ञानुरूपतः | न तिथिर्न व्रतं होमो न स्नानं न जप क्रिया || दीक्षायाः कारणं किंतु स्वेच्छा वाप्ते तु सद्गुरोः | १९अ) शिष्यानाहूय कृपया गुरुणा यदि दीयते | तदा लग्नादिकं किंचिन् न विचायं कदाचन || इति ते कथितं देवि दीक्षाकालां सुरेश्वरी | भुमिपरिक्षा || मृत्तिका गंधमाघ्राय शुभाशुभनिरूपणं | लालागंधां माहाशोका मांसगंधाधनेश्वरः || कटुकंधाद् भवेद् रोगी विष्टागंधा च निस्फला | पद्यगंधा निरोगि स्यात् दुर्गंधा भयमादिशेत् || सिद्धि न गधसंभूते सुद्धा च वनिजायता | क्षारगधा तथा नाशः पानिगंधाशुभा वहा || अथ वास्तुध्यानं || आकुंचितकरं वास्तुमुत्तान मे सुरा कृतीं | स्मरेत् पूजा सुकुड्चादि निवेशे त्वलाननं || जानुनी कुर्परा शक्ते दिशिवातद् हुतासयोः | पैत्र्यां पादपुटौरौणां वचनं गुरु विप्रयोः || १९ब्) संगः सर्वात्मना त्याज्यो गुप्तसिष्टेद् गुरुं विना | सत्संगश्च विवेकश्वलं नयन द्वयं || यस्या नास्ति नरः सान्धः कथं वामे सुखं लभेत् | सांसारिक सुखासक्तं ब्रह्मज्ञास्मीति वादिनं || कर्म ब्रह्मा भयभ्राष्टं तत्यजेदंत्यज तथा | मद्यं मांससुरापानं मत्स्याःस्त्रणां धवास्तथा || अनेका यत्र जयन्ते तत्र वामो गति प्रदः | स्थित्वा तु दक्षिणे मार्गे गुप्तं भुक्ते पलादिकं || स याति नरकं घोरं विष्ठायां याद्यते कृमिः | विना वलिं पलं भुक्ते विना पूजां सुरां पिबेत् || दुती यज्ञं विना गच्छे स्त्रियं वाम्यति नाररकी | अबुध्या समयाचारं कुलद्रव्यं चरेद्यति || स गुरुश्चैव शिष्यश्च योगीनीनां भवेत् पशुः | २०अ) वाममार्गं न जानाति मूढात्मा मोक्षमिच्छति | परवारमपारं च वाहुभ्यां तर्तुमिच्छति || सर्वकर्मविहिनाये वर्णाश्रमविवर्जिताः | कौले वा वाममार्गे ये भुक्तिमुक्त्योश्च भाजनं || निन्द्रन्तु वान्धवाः सर्वे त्यजन्तु स्त्री सुतादयेः | जनाहसन्तु मन्दृष्ट्वाराजानो दण्डयं तु वा || रोगदारिद्रदुःखाद्यैः पीण्डितोप्यनिशं त्वहं | लक्ष्मी तिष्ठ तु वा या तु नमुंचापि पदः त्विदं || एवं यस्य दृढाभक्तिः सवामे सिद्धिमाप्नुयात् | नार्थलाभान् नवक्रोधान् नद्वषान्न च मत्सरात् || न कामान् न भयाद् वापि मार्गप्राप्तं परित्यजेत् | जयेद् देवी पुनमार्गे तस्मिन् विघ्नमवाप्नुयात् || गुरुकार्यण्य संपूतो देहनिधुतकल्पखः | २०ब्) कुलपूजारतो यस्तु स्तोयं कौलो न चेरतः | परोक्षे कोन जानीते कस्य किंचे भविष्यति || यद्वैन्प्रत्यक्ष फलदं तदेवोत्तमदर्शनं | गुरुपदेश निहिता महान्त इति केचन || मोहयन्ति जपेत् केचित् स्वपूर्वविनी मोहिताः | पेयं मद्यं पलं खाद्यं समालोक्यं प्रिया मुखं || इत्येचाचरणं श्रेष्ठं परमाः प्रवदंति च | मद्यमानेन मनुजो यदि सिद्धिं लभेतचेत् || मद्यपानरताः सर्वे संसिद्धा न भवंत्यु मे | मांसभक्षणमात्रेण यदि रूपगतिर्भवेत् || क्रव्यादीनां तदा मोक्षो मांसादन्यंन्न भुंजते | स्त्री संभोगेन भो देवा यदि मोक्षोभिजायते || तदा सर्वपि मुक्ताः स्युः कस्य जन्म भविष्यति | कृपानधारा Pअगे णो. २१ - ३३ नोत् fओउन्द् ३४अ) गमनाद्व्याघ्र कर्णावलंवनात् | भुजगधारणान्रूनं त्वशक्यं कुलवर्त्मनः || वृथापानं तु देवेशि सुरापाना महोच्यते | तन्महापातकं ज्ञेयं वेदादिषुग्नि रूपितं || अनाघ्रेयमानालोक्य मनास्वाद्यमपेयकं | मद्यमांसं पशूनां तु कौलिकानां महत् फलं || अमेध्यानि द्विजातीनां मघानैकादशैव हि | द्वादशं तु सुरामद्यं सर्वेषामुत्तमं स्मृतं || तस्याद् ब्राह्मण राजान्यौ वैश्यश्च न सुरां पिबेत् | सुरादर्शनमात्रेण कुर्या सूर्यावलोकनं || तस्य संसगमात्रेण प्राणायामा त्रयं चरेत् | आजानुभ्यां भवेत् स्नानं नाभ्यामुप वसेद् देहः || ऊर्द्धंणोचेत्रिच्य त्रें * * * * *? मनंविधिः | सुरापाने कामकृते ज्वलकीतां प्रवेशयेत् || ३४ब्) मुखे तया विनिर्दश्ये तच्छुर्द्धि समवाप्नुयात् | अविधानेन यो हन्यात् दान्मनप्राणि न प्रिये || नवसे नरके घोरे दिनानि पशुरोभिः | संमितानिदुराचारस्तिर्यग्योनिषु जायते || भृणं वाप्य विधानेन छेदयेन् न कदाचनन् | विधिवद्गांद्विजं वापि हत्वा पापैर्न लिप्यते || सर्वेभ्यः कौलिके श्रेष्ठर्भूध्याम्नायी चवां मतः | अधिकारो भक्तियुक्तो यश्च सुगुरु सेवकः || स एव कौलिका वन्द्य इतरमद्यपामताः | स्मरणं कीर्तनं तस्य दर्शनं वेदनं तथा || संभाषणं च कुलुते राजसुयाधिकं फलं | सयत्र वसते देवोस्तत श्रीर्विजयो भवेत् || अनामयं सुवृष्टिश्च सुभिक्षं निरुपद्रवः | ३५अ) दृष्ट्वा दृशं च प्रणमेदन्यैवर्ज्यः सुदुरतः | पुर्वाम्नायः सृष्टिरूपः स्थितिरूपन्तु दक्षिणः || संहारपश्चिमाम्नाय उत्तरेनुग्रहो भवेत् | मन्त्रयोगं विदुः पूर्वं भक्तियोगन्तु दक्षिणं || पश्चिमं कर्म योगन्तु श्यान योगं तथोत्तरं | इति श्रीकौलरहस्य सप्तमपटलः || ७ || अथ दिव्यवीरपशुभावानिगद्यते || श्रीदेव्युवाच || वीरभावो महादेव कथ्यते शृणु भैरव | निर्द्वंद्वं मानसा भूत्वा हृदाकामकला तनुः || निशासु पूजा प्रवला हेतु युक्ता स दैव हि | निजं कुलं समाधाय स्वयं भैरव रूपधृक् || कुलं च भैरवी रूपं तद्गात्रे न्यास विस्तरं | ३५ब्) ते त्रयं गण न प्रोक्ता अष्टोत्तरसहस्रकं | जलपुतं हविद्रव्यं गृहीत्वा तर्पयेत् ततः || विधाय तर्पणं देव प्रदक्षिणमनुं व्रजेत् | स्तुत्वा प्रणम्य कल्पोक्तस्तवेन तोषयत् ततः || तस्मात् कुलं समायोज्य कृत्वा यत्नेन संजपेत् | कुलसाक्षकस्तत्वं स्वयंति तत्वतः || मद्यं मासं तथा मत्स्यं मुद्रामैथुन मेव च | एभिरेव कृता पूजा कुलाचाल प्रकीर्तिताः || ते तत्कुलशास्त्रज्ञै पूजनीयो प्रयत्नतः | कुलुंकुलं चान्मकुलं निश्चरं तस्य वत्ततः || स धन्यः स च विज्ञानी कुलरूपः स एव तु | यत्र तत्र कुलेजेवा श्मशाने गमनं कृतेः || चतुर्दश्यां गते तत्र पक्षपूजास्फ?रं भवेत् | न गच्छन्नार्य तत्स्थानं पशुरेव न संशयः || Pअगे नो. ३६ नोत् fओउन्द् ३७अ) नात्यस्मादधिकं देव इति चिन्तापरायणः | मदेन द्रव्यभोक्ते तु भवेत् कुलपरायणः || सोमकेक्षा भामापत्ने मम क्षोभ प्रजायते | तस्मा प्रयत्नाद्वीरवीरवरो भवेद् भोग युतः सुखी || भोगेन मोक्षमाप्नोति भोग न कुलसाधनं | विना हेतु कर्मा स्वाद्यक्षोभयुक्तो मानद्रीति || यत्करोति यदर्चति || ते सर्वं कुष्टरूपं तु ध्यात्वा च विहरेत् सुधी | एकाकी निर्जने देशे श्मशाने पर्वते वने || शून्यागहे नदीतीरे निससो विहरे मुदा | वीराणां जपकारस्तु सर्वकामप्रशस्यते || सर्वदर्शसर्वपीठे कर्तव्यं च न शंसयेः | वीरसाधन कार्यञ्च कर्तव्यं वीरपूरुषैः || दिव्यैरपि च कर्तव्यं पशुभिन्न च पामरैः | चरंपामरकार्यं च न पशोरिति निश्चितं || ३७ब्) यद्यन्न स पुराप्रोक्तं संकेतं मन्त्रसाधनं | अंजनं गुटिकांदिंश्च कुर्याद् विरो महावलः || देव्य वीर न भेदोस्ति यद्भेदं तत् तु कथ्यते | शांतो विनितो मधुरः कला लावण्य संयुतः || दिव्यस्तु देवन् प्रायोगा वीरश्चोर्द्धतमानसः | भूविभूतिषणैर्वापि च हृन्नैवापि लोपितः || आकारगोपनो वापि त्यक्तो वा कुलभैरवः | रक्तचन्द्र न दिग्धो वा वैष्णवश्वार्य वैष्णवः || अपमाने च पूजायां हृष्टः पुष्टः सदा भवेत् | देव निन्द्रा परो व्यापि तत्त पूजापरोपि वा || पूजारतस्तत्र हितः कुलाकुलमते स्थितः | निज भाव समायुक्तो देववदि हरेत् क्षितौ || स्वकुलान्ते पुरश्चर्या रात्रौ कुर्यान् न चान्यथाः | ३८अ) वेदहिनो द्वीजे देव यथा न श्रुतिजकथा | विष्णुभक्तिं विना देव भक्तिंन्न प्रभवेद् यथा || शाक्तज्ञानं विनामुक्तिर्यथा हास्याय कल्पते | गुरुं विना यथा तन्त्रे नाधिकार कथंचनः || पतिहीना यथा नारी सर्वकर्म विवर्जीतात् | कुलं विना देवविधौ कदापि मम साधनी || नाधिकारीति कौलेये || स्तस्माद्भावपरो भव अविनीतं कुलं यस्य | स कथं मम पूजकः तस्माद् यत्नात् तथा कार्यं || भावाभावात् कुलशास्त्र नाधिकालकथंचन | तेन भावविशुद्धैस्तु साधकः कौलिको भवेत् || इति श्रीकौलरहस्य अष्टमपटलः || ८ || श्री-ईश्वर उवाच || शुद्धस्तु त्रिविधः प्रोक्तः क्रमेण शृणु भैरवी | ३८ब्) अदिक्षितः क्रियाहीनो मंत्र तत्र विवर्जितः | महापशुरिति ख्यातं सर्वतोयं विगर्हितः || दीक्षीतो निंदको यस्तु द्वितीयः स प्रकीर्तितः | एकाकी पाननिरतः पशुरित्यभिधायते || अस्याधिकारः पूजायां न गुरुत्वे कदाचन | पूर्वस्य नाधिकारोस्ति पूजा देश गतागतौ || पुर्वस्तु सर्वकोर्हि वहिः कार्यः स्वदेशतः | पूर्वदर्शणमात्रेण कुलदर्शणमाचरेत् || ब्रह्मात्यादिकं पापं वरं सत्यं न च प्रभो | पूर्वदर्शनमात्रेण कुलदर्शनमाचरेत् || ब्रह्महत्यादिकं पापं वरं सत्यं न च प्रभो | पुर्वदर्शनमात्रेण? सत्यं सत्यं वदाम्यहं || ममात्मापि देवेश विभुवित्यपि स प्रभे | तथापि तत्र मे शक्तां जायते तत्पदे पदे || ३९अ) वरं कुलं परित्याज्यं वरं स्वकुल हिंसनं | स्वकुलस्य वरं हानिर्वरं स्वकुलकुट्टनं || कायेन मनसा वाचा वलं स्वकुलपातनं | न कुर्वीत पशोः सगंखमार्गक्षनकारणात् || कुलशास्त्रं द्वयं पापं शरिष्टं कुलनाशनं | स्वकुले महती निन्द्रा परयोगात् कुलेश्वर || तस्मादपि महापापं पशुसंगान् प्रजायते | सर्वथा तत्र भावौद्धौ न प्रकीश्यै कुलेश्वरः || सभावश्च पशुदेषात् प्रजायते || दैवार्च जायते वीरो वीराद् दैव प्रजायतः | देवै वीरेन संदेहः साम्यमित्यभिधीयते || भावस्तु मानसा धर्मः शाब्दः स हि कुशां भवेत् | तस्मा भीवौ न कर्तव्यो णो चोन्तिनुए पगे. ३९ब्) ण्डपीडाराजपीडावह्नि पीडा व जायते | कुलं तस्यात्र दोषेण श्रियते नात्र संशयः || योषिमैथुनसंभावाः || अधिकारविहीना नामधिकार युतैश्वरेत् | महात्ममैवसंदेहो वर्द्धतेजेगदीश्वरि || ममानुग्रहतो देवि तद्वक्त्रं च त्व महसि || देव्युवाच || अहमेव परं ध्यानं सहमेव पराशुतिः | मर्तः परतरं विश्वं न किंचिदवलोक्यते || अहमेव जस्सर्वं जगदेवाहमीश्वरि | महावभाविता नारी भवदेतादृशी शिव || एवं ज्ञान विशिष्टः स्यादधिकारी भवेच्छिवः | ब्रह्मादि महेशो वा सर्वदेव मया हि सः || जये मानस्य वालस्य मातृयोनि स्वलिंगयोः | संपर्केण विकारो हि न तर्पोर्जायते क्वचित् || साधकस्य तथा यस्य मतिः स्यादधिकारिनि | सोधीकारी भवेन् नित्यं यागादौ सह योषितां || Pअगे णो. ४० नोत् fओउन्द् ४१अ) मद्भाव प्रतिपन्नाया मत्स्तूरूपहे मेव सा | विकारं न हि योषायां तस्यामर्पित एव हि || एवं यस्य स्थिरा बुद्धिः स्याधिरीन संशयः | साधकस्य स्वदेहस्याद्यत् स्वरूपेष्ट देवता || तद्वर्ण समतेजोभिः पूर्णभुवनमण्डलं | भावनाभिस्थिरोक्तस्य देवता ध्यान तन्मयः || यथास्वरूप वर्णादि चिंतयेद् यतमानसः | एवं ज्ञाने स्वमुत्पने स्वच्छयं विहरेत् पुनः || एवं यस्य मनोनास्ति तस्य प्रतिनिधिः स्मृता | कुमार्यामेव कर्तव्यं रक्तरंस्वां कदाचन || कुमारीं भोजनानेन्द्रि कुमारी भोजनारपि | कुमारी चिन्तये देवी त्रैलोक्य विजयि भवेत् || शृणु देवि वरारोहे रहस्य महदद्भुतं | विना पूजांस्त्रियो योनौ संगमे साधकोत्तमः || सप्तजन्मदरिद्रस्यान्नरके कोटिकल्पशः | ब्रह्महत्या सुरापानं स्तेयं गुर्वं गनागमः || ४१ब्) एवं नानाकृतो दोषो जायते नात्र संशयः | वीरोर्चाप्यथ वा दिव्यो न वुर्द्धा नरकं व्रजेत् || इति श्रीकौलरहस्य नवमपटलः || ९ || प्रतारणार्थं लोकां याचितं देवल नामतः | उच्यं कृतं तदुद्देसं गलितं तन्तु राजसं || वाममार्गे समाश्रित्य कौलं धर्मचार्य च | अन्यथार्वमस्य चोद्वेषात् कृतं शुद्धं तु तामसं || कृतं यत्कामतः कर्मैरैसिकं पारलौकिकं | वाममार्गं समाशित्य मिश्रिते तन्तु तामसं || जिह्वा लोभेन या भुक्तिः पानं यत्कामतोरतं | अथ वामारणाद्यर्थ गलितं तत् तु तामसं || शुद्धसत्वेन मोक्षः स्यात् स्वर्गः स्यात्मि असतथा | सिद्धिर्गलितसत्वस्यादैहिकी च मनुष्यतां || स्वर्गास्योद्राजसाच्छुर्द्धात् कामः स्यात् मिश्रराजसात् | ४२अ) गलिताद्राजसात्तिर्यग्योनावपि सुखं भवेत् | सात्विकार्तामसाद्देव योनित्वं प्राप्नुयान् नरः || मिश्रितामसतो दुःखी नारकी चांत्यता मतात् | कर्मपंचविधं प्रोक्तं पंचध्यामुक्ति दायकं || प्रसर्पणमुपादानमीज्याध्यायस्तथा द्युति | संमार्जनोपलेपादि संस्कारो देवमन्द्रिरे || भंकर्जवं सर्पणं स्याद् देव सा लोक्य कालकं | पूजासाधनसामग्र्यामेलनं भक्त सेवनं || तत्प्रीतिः स्यादुपादानं देवतारूप दायकं | पीठपूजनपूर्वं यत् षोडशाद्युपचारकैः || मूर्त्यायंत्रेथवा पूजा सेव्यासामीप्ये कालिका | तच्छस्त्राध्ययनं सस्य कृत्यामन्त्रार्थ भावनं || कृत्वा जपस्तत्स्वाध्यायो देव सायुज्य कारकः | गुरुदेवान्मकालानांर्वव्याषं प्रकाशवान् | ४२ब्) हकारे नव हि याति शकारेण विशेत् पुनः | अस्यासंबोधमात्रेण जीवन्न मुक्ता भवेन् नर || प्राणायाम प्रभावेण जीवन्मुक्तस्तु जायते | ऋषिहंसो व्यक्त पुर्वा गायत्री च्छन्द्र उच्यते || देवता परमादिस्तुहसोहं वीजमुच्यते | सः शक्तिः कीलकसोहं प्रणवस्तत्व मेव च || उदात्तस्वर इत्येवं मनोरस्य प्रकीर्तितः | मोक्षार्थे विनियोगः स्यादेवं कुर्यात् सदानरः || सूर्यात्मनेन हृद् देवि सोमात्मने शिरस्तथा | निरंजनं शिखाज्योतिर्निराभासा तथा प्रिये || अथ दन्तधावन * *? || * * * * * * *? न्तधावनं विहितौधसां | ते चापार्गा वदरीनिगुण्डी विल्ववासका || अशोक चंपप्लक्षपर्णजं वुधव fओलिओ ४३ नोत् fओउन्द्. ४४अ) स्रूवा || अर्कन्यग्रोधखदिरकरंजककुभादिकं || प्रमाण || द्वादशांगुलविप्राणां क्षत्रियानां नवांगुलं | अष्टांगुलं च वैश्यानां सूद्राणां च षदंगुलं || चतुलंगुलमानं तु नारीनां विधिरुच्यते || अथमानसस्वानं || मनसामूलमन्त्रण प्राणायाम पुरुस्मरं | कुर्वीत मानसं स्नानं दृतांर्थेषु भावनात् || अथ विभूति धारणा || ब्राह्मणस्यार्द्ध पुंण्डं स्या क्षत्रियस्य त्रिपुंण्डकं | अर्द्धचन्द्रस्य वैश्यस्य शूद्राणां वर्तुरकृति || वैष्णवस्योर्द्धं पुंड्रं स्यात् त्रिपुण्डं शिव सेविनः | अर्द्धचन्द्रोगणेशस्य देवी भक्तस्य वर्तुलं || नारायण परोयस्तु चन्दनस्य त्रिशूलकं | विभूति धारणं स्यास्य मन्त्रस्य च सदाशिवः || ऋषिस्तृष्टुप् भवे छन्दो रुद्रो देव प्रकिर्तितः | ४४ब्) प्रासाद वीजं बीज स्यात् शक्तिं कुर्च च कालक | क्षत्रि * * *? र्व पापक्षयार्थे विनियोगिता || तिलकधारणं || मायाकामरूपः सर्वजनमोहिनि चोर्द्धरेत् | सर्वावधंकारी त्युक्त्वा मां ततो रक्ष युग्मकं || अस्त्रं शिरो युतो मन्त्रो मया ते परिकीर्तितः | एतत्तस्त्रोदितं देवि प्रोक्तं तिलक धारणं || अथ संध्या || आचाम्य प्राङ्मुखो भूत्वा उपविश्य च मन्त्रवित् | वैदिकीन्तान्त्रिकीन् कुर्यात् ततः सध्यां समाहितः || वक्षेथ तांत्रिकीं सध्यां मूलानाचमन त्रयं | विद्याभेदसंध्यासंख्यामाह || सुन्दर्यास्तु चतुःकालं संध्यावन्दनमाचरेत् | प्रातःकाले च मध्याह्ने सायाह्नेष्यर्द्धे रात्रके || चतुर्विधा गुगायत्री जपद्यत्नेन पार्वति | ४५अ) प्रस्तारा कृति रूपा च उपस्थानाभिधा तथा | वांच्छा कल्पलता देवि चतुर्थी परिकीर्तिता || षष्ठी पारायणं प्रातमध्याह्ने नामसंज्ञकं | मन्त्रपारायनं रात्रौ निशायां चक्रसंज्ञकं || कालिकायामिदं प्रोक्तंमुपस्थानविवर्जितं | मेधादीक्षादिराज्ञी त्वात् काल्यासंध्या चतुष्टयं || संध्या त्रयं च तारायां छिन्नायां त्रिविधं भवेत् | एतासां न हि भेदोष्टि भेदश्ने नरकं व्रजेत् || अथ दशविद्या गायत्रीर्द्वारमाह || कालिया || कालिकाय पदं चोक्ता विद्महे तदनन्तरं | श्मशान वाशिनी ङेन्तं धीमहीति पदं वदेत् || तन्नो घोर पदं प्रोच्य प्रवदे च प्रचोदयात् | अथ ताराया || तारायं पदमाभाष्य विद्महे तदनंतरं | महोग्रायै पदं प्रोच्य धीमहीति तत पुनः || ४५ब्) तन्नो देवि पदं प्रोच्य वदेत् परत्प्रचोदयात् | अथ छिन्नाया || वैरोचन्यै विद्महे च च्छिन्न मस्तायै धीमहि | तन्नो देवि पदं चोक्त्वा योजनीयं प्रचोदयात् || अथ त्रिपुरसुन्दर्या || वाग्भवं त्रिपुरा देवि विद्महे तदनन्तरं | कामबीजं समुच्चार्य कामेश्वरययै च धीमहि || तन्नः क्लिन्ने पदं चोक्त्वा वदेत् पश्चात् प्रचोदयात् | अथ भैरव्याः || त्रिपुरा च तथा ङेन्तं विद्महे पदमुर्द्धरेत् | भैरव्यैश्च ततश्चोक्त्वा धीमहीति ततो वदेत् || ततो देवी पदं चोक्त्वा प्रचोदयादुदीरयेत् | गायत्री त्रैपुराख्याता वाद्यं समुद्धरेत् || अथ कमलाया || महालक्ष्मी पदं प्रोच्य विद्महे तदनन्तरं | महाश्रियै पदं चोक्त्वा धीमही च पदं वदेत् || ४६अ) तन्नः शब्दात् श्रीपदं च ततो दद्यात् त्रयोदयात् || अथ भुवनेश्वर्याः || मायाबीजं समुच्चार्य भुवनेश्वर्यै च विद्महे | आद्यायै पदमुच्चार्य धीमही तदनन्तरं || तन्नोः देवी पदं प्रोच्य ततो देयं प्रचोदयात् || अथ मातङ्गी || अथ वक्ष्यामि गायत्री साधकस्य वरदं | शुक प्रियायै विद्महे श्रीकामेश्वरी धीमहि | तन्नः श्यामा प्रचोदयात् || अथ धूमावती || धूमिति बीजमुच्चार्य धुमावतीति विद्महो विवर्णा देवी पदतोः धीमही पदमुर्द्धरेत् || धूमा देव्यास्तु गायत्री तन्नो घोर प्रचोदयात् || अथ वगलामुखी || स्थीरमाया समुच्चार्य वगला पदतोमुखी | विद्महे दुष्ट पदतः स्तम्भिनी पदमुच्चरेत् || ४६ब्) धीमहीति पदस्यान्तरे तन्नो देवी प्रचोदयात् | वगलाया महेशानि गायत्रीयं प्रकीर्तिता || अथ निषिद्धासनं || भृणपल्लवकाष्टानि पाषाणां मृण्मय तथा | वंशासनं च वस्त्रं च केवलं क्षितिमासनं || * * *? ष्टि विधं देवि चासनं परिवर्जयेत् || इति श्रीकौलरहस्य दशमपटलः || १० || अथ मातृकामुद्रामाह || ललाटे नामिका मध्ये न्यसेच्च मुखवृत्तके | तर्जनी मध्यमा नामा विन्यसेच्चैव न्यत्रयोः || तर्जनामीकासंयुज्य न्यसे साधकसत्तमः | अंगुष्ठं कर्णया न्यस्य कनिष्ठांगुष्ठको नसौ || मध्यमा गण्डयो न्यस्य मध्यमाष्ठयोर्न्यसेत् | अरामादन्तयोर्न्यस्य मध्यमा चोत्तमांगके || मुखे नामां मध्यमां च हस्तपादं च पार्श्वयोः | कनिष्ठानामिका मध्य न्यस्तव्यो पृष्ठतस्तथा || ४७अ) सांगुष्ठास्तानाभिदेशे सर्वाः कुशौ च विन्यसेत् | हृतदयेत् साधक सर्वमंशयोश्चककुत्स्थले || हृत्पूर्वहस्तपत्कुक्षि मुखेषु तलमेव च | एतास्तु मातृका मुद्राः क्रमेण परिकीर्तिता || अज्ञात्वा विन्यसेद् यस्तु न्यासः स्यात् तस्य निस्फलः || अथ ऋख्यादि न्यासन्य क्रमेण स्थानानि मुद्राश्चाह | ऋषिं न्यसेन् मुर्द्ध्नि देशे च्छन्द्रस्तु मुखपंकजे || देवता हृये चैव बीजन्तु गुह्य देशके | शक्तिपादयोश्चैव सर्वाङ्गकीलके स्मृतं | अथ षडंगार्थमाह || हृदयायेति शब्देन हृस्थो देव सविग्रहः | उच्यते नम इत्यस्था ज्ञानं तद्विपर्य परं || शिरः शब्दो देवताया उत्कृष्टत्वाभिधायकः | स्वाहेति विषयाः सर्वे देवतायां समर्पितः || शिखायै च स्वरूपत्वं वषडपि तदुच्यते | ४७ब्) देवताया व्यापकत्वं केवचायाभिधीयते || हुमपि व्यापक तेजो देवतायाः प्रकाश्यते | नेत्रे शब्देन देवस्य प्रकाश्यत्वं प्रकाश्यते || वौषडपि तदैवोक्त मन्त्रशब्देन वारणं | अनिष्टस्य फट् शब्देन दाहकं तेज उच्यते || ज्ञात्वैवमंगमन्त्रार्थमंगं न्यासं करोति यः | प्रचयास्तस्य सर्वार्थाः पुज्यते स्त्रिदशैरपि || अथान्तर्विधिः || एवं देहमयां पीठे चिन्तयेदिष्ट देवतां | ध्यानं कुर्यात् ततो मन्त्री तत् तत् कल्पोक्त वत्मना || तदपि द्विविधं प्रोक्तं सगुणं निर्गुणं तथा | आत्मना हृदयास्भाजे कर्णिका केशरो ज्वले || प्रहृल्लेसोमसूर्याग्नि मण्डलेन विराजिते | स्वीयेष्ट देवतां तत्र जजेदोगमबोधितां || एवं यद्वेदनं तद्विसगुणं ध्यानमुच्यते | ४८अ) अथान्तर्यजनं वक्ष्ये दृष्ट्वादृष्टफल प्रदं | योगिणां येन जायन्ते अधीरामानवाः सदा || श्रीदेव्युवाच || वाह्य पूजां विनास्वामित्कथमन्तः प्रपूजनं | पूजा ज्ञानं यदाजातं तदान्तः पूजनं भवेत् || सामग्री ज्ञान हीनत्वात् कथमन्तः प्रपूजनं | श्रीशिव उवाच || सत्य मे तन्महेशानि रहस्यं शृणु यत्नतः | विष्ठापूर्णे स्वदिरे तु वहिः शुद्धौ तु किं फलं || अंतः शुद्धि समासाद्य वहीः शुद्धीं समाचरेत् | वद्भिः पूजां विधौ देवि सामग्री दुर्मिलोकलौ || व्यंग्यता जायते सत्यं सर्वत्र पूजन शिवे | तस्मांगता सिद्धि हेतोरन्त पूजा प्रकीर्तिता || भावना मात्रगम्येयं कोटिरत्ननिकल्पयेत् | अंतपूजा विहिनेनः कृतं तदफलं भवेत् || ४८ब्) संयोगं तु विना देवि यो गर्भाधानमिच्छति | स चान्तः पूजां त्यक्त्वा वहिः पूजां समिच्छति || सदरिद्री महोघोरी कथमन्त्र सुखं भवेत् | अंतपूजां समासाद्य वहिपूजां समाचरेत् || संभाव्य पूजनं स्वान्ते तथैवरयेद्वहि || श्रीदेव्युवाच || तथा मुक्तं त्वया देव संशयामस्तिशंकर | वहिः पूजा नमासाद्य चांतः पूजां समाचरेत् || एवं क्रमेण देवेशि पूजा किं न भविष्यति | श्रीशिव उवाच || मृदपर्क्वं समासाद्य यथा देवि घटोद्भवेत् | घटः पर्क्वमृदा देवि पूर्ववत् किं भविष्यति || अपर्क्वामृत्समानीय यथा देवि घटो भवेत् | ततः पर्क्व प्रकर्तव्यः सुंन्द्ररः स तु जायते || अन्तपूजन वहिः पूर्णं वहि न्यूनतरा भवेत् | ४९अ) अन्योन्याशयसंयोगात् पूजनं सकलं भवेत् || देवो भूत्वा यद् देवं नादेवो देवमर्चयेत् | तस्माद् देवत्व मासाद्य चांतपूजादि मार्गतः || गुरोध्यानं प्रकुर्वीत यथापूर्वविशोलधीः | इति ब्राह्मी मुहूर्तकृत्यं || स्नानं बुधस्ततः कुर्यात् सुच्चिदानन्दसिद्धये | स्नायार्च विमले तीर्थे पुष्ठरे हृदयाश्रिते || बिन्दु तीर्थे नरः स्नायात् पुनर्जन्म न विद्यते | इति स्नानं || मुलाधालात् कण्डलि निमुत्थाप्यजो जयच्छिवे | शिवः सक्त्याः समायोगो यस्मिकाले प्रजायते || सासन्ध्या कुलनिष्टानां समाधिस्तैः प्रगीयते | इति संध्या || चन्द्रार्कानलसंघट्टाङ्गलितं यत्परामृतं | तेनामृतेन दिव्येन तत्पयेत् परदेवतां || ४९ब्) ब्रह्मरंध्रादधो भागे यच्चान्द्रं पात्रमुर्तम | कलासारेण संपूर्य तर्पयेत् तेन खेचरी || इति तर्पण || आधालिंङ्गनाभौ हृदय शशकलेत्यादि | इत्यन्तमातृकां न्यासः || अथान्तं षडङ्ग न्यासः || सहस्रारे मणि निभे सर्ववर्णविभूषिते | अथादि त्रिलेखाढ्यै हलक्षत्रयविभूषिते || तन्मध्ये परबिन्दुं च सृष्टिस्थितिरयात्मकं | एवं समाहितमनां ध्यायेन् न्यासोयमान्तरः || मूलादि ब्रह्मरंध्रान्तं विन्द्वंध्वायेच्चिद्दात्मकं | बिन्दुस्रुतसुधासारैस्तर्पयत्मातृकां न्यसेत् || एकैकं वर्गमुच्चार्य मूलाधारात् भ्रूवान्तिकं | नमोन्त इति विन्यसः आन्तरः परिकीर्तितः || हृद्यान् मनोहृदान्मायां दृदयेस्यर्चिद्दान्मत्कं | क्रियते तत्परस्य न हृन्मन्त्रे ततः परं || ५०अ) सर्वज्ञाद्विगुणार्तुंङ्गे सर्च्चिद्रुपे परात्मनि | क्रियया विषया हारः शिरो मन्त्रेण देशिकैः || हृच्छिरो रूपचिर्द्धाम लयता भावना दृढा | क्रियते निज देहस्य शिखामन्त्रेण देशिकैः || मन्त्रामत्कस्य देहस्य मन्त्रवाह्य न तेजसा | सर्वतो वर्ममन्त्रेण क्रियतेऽहन्यसंव्यतः || यद् देदाति परं ज्ञानं सचिद्रूपे परान्मनि | हृदयादि मयं तेजः स्याद् देतन्तत्र संज्ञितं || अध्यात्मिकादि रूपं च साधकस्य विनाशयेत् | अविद्या जाल मन्त्रं तत्पलंधमसमीरितं || अथाध्यानं || किलकस्थंणतदग्निस्थं चन्द्रभास्करमध्यनं | महाशून्यलयं कृत्वा पूर्णतिष्ठेति योगिलात् || जर्जीव ब्रह्मणोरैक्यं सोहं स्यामिति वेदनं | ५०ब्) तदन्धनिर्गुणं ध्यानं मिति देव विदो बिन्दुः | इति ध्यानं || अथार्चनं || अर्चयेद् विविधैः पुष्पैः तत्क्षणात् तन्मयो भवेत् | न्यासस्तन्मयता बुद्धिः सोहं भावेन पूजयेत् || अमायामेन हंकार मनागममदं तथा | अमोहकं मदं हस्तमह्येषा क्षोभकौवतः || अमात्सर्य मलोभ *? दर्शपुष्पं बिन्दुबुधाः | अहिंसा परमं पुष्पं पुष्पमिन्द्रि ग्रह तथा || दया पुष्पं क्षमापुष्पं ज्ञानपुष्पं च पंचमं | इत्युक्तैरुत्तमै पुष्पैः पूजय परदेवतां || इत्यर्चनं || मालापंशिका प्रोक्ता सुत्रं शक्तिशिवात्मकं | ग्रत्थिकुण्डलनी शक्ति कलान्ते मेरु सिंस्थिति || इति जपः || अथ होम || मूलाधार गते कुण्डे देवताग्नि समुज्वले | ५१अ) धर्माधर्मन्विते ऋस्रमूलमन्त्रे पुरःसरं || अहंजुहोमि स्वाहेति प्रत्येकं जुयात् सुधीः | अहाताऽसत्यपैशुन्य कामक्रोधादिकं हविः || मनः एवश्रुवः प्रोक्त उन्मनी श्रुगुदीरिता || अत्र मूलान्ते || नाभौ चैतन्य रूपाग्नौ हविषा मनसा श्रुचा | ज्ञानप्रदीपिते नित्यमक्षवृत्तिर्जुहोम्यहं || स्वाहा प्रथमाहुति || मूलान्ते || धर्माधर्म हवि दीप्ता आत्माश्वै मनसा श्रुचा | सुषुम्नावत्मना नित्यमक्षवृत्त्युर्जुहोम्यहं || स्वाहा इति द्वितियाहुतिं || मूलान्ते || प्रकाशाकासहस्ताभ्यांमवलंव्योमनी स्रूवा | धर्माधर्मकलास्नेह पूर्णमग्नौ जुहोम्यहं || स्वाहा इति तृतियाहुति || मूलान्ते || अनन्तरनिरंन्धननिवन्धन मेधमाने मायान्धकारपरिपरिपंथिनि संविदग्धौ | ५१ब्) कस्मिंश्चिद भुतमरीरिविकाशभूमौ विश्वं जुहोमि वसुधादि वखावसानं || इति चतुर्थाहुति || इत्यन्त यजनं कृत्वा साक्षाद्ब्रह्ममयो भवेत् | न तस्य पापपुण्यानि जीवन्मुक्तो भवेद्ध्रुवं || इत्यन्तर्याग || इति श्रीकौलरहस्य एकादशपटलः || अर्घ्यादिकपात्राणां फलं वक्ष्य शुभाशुभं | सर्वकामफलं स्वर्णं रौम्यमायुः सुतप्रदं || सौभाग्यं ताम्रपात्रेण धर्मावृद्धिस्तु मृत्मये | नालिकेलेदवे तुष्टिः पुष्टिदं काचसंभवं || लक्ष्मी प्राप्तिर्विल्वपात्रे ब्रह्मण्यं ब्रह्मवृक्षजे | मारणाच्चतने लोहंस्तंभः पाषाणजे भवेत् || मन्त्रस्याराधने काष्टं वाममार्गे * *? च्छ्रितं | ५२अ) अर्घ्यपात्रमिदं प्रोक्तं सर्वदेवमनोरमं | आधारस्थालिकामानं षोडशद्वादशांङ्गुलं || वस्वर्तुतौविकं || रत्नादीनां तु पात्रानि शुभलेखांकितानि च | अद्येनैव्यद्य पूजार्थ वलिदाने प्रकल्पयेत् || पात्राणमादरः कार्यः पात्राण्योवात्तमाणि तु | वलिहोम क्रियाद्यं हि विना पात्रं न सिध्यति || षट्त्रिंशदंगुलं पात्रंमुत्तमं परिकीर्तितं | मध्यमं तु त्रिभागोनं कनिष्ठां द्वादशांगुलं || वस्वंगुल विहीनं तु न पात्रं कारयेत् क्वचित् | अर्घ्यमानं तु पादेशं चतुरगुलं चक्रमसः उत्तमादि प्रभेदतः || पुष्पपात्रं गन्धपात्रं यथालाभेन कल्पयेत् | श्वेतादीत्पतिशस्तानि विप्रादीनां क्रमेण च || मेचयेन् प्रोक्षनी पात्रवोयैमूलास्त्रे मुचरेत् | आत्मानं यागवस्भूमि पूजाद्रव्याणि मण्डलं || दर्शयेद्धनुमुद्रां च द्रव्यशुद्धिरियं मता | ५२ब्) ततः संपूजयेद् देवं शक्त्यांलत्वा *? पचारकैः | आसनं स्वागतं चार्घ पाद्यमाचमनीयुकं || मधुपर्का तथा चमं स्नानं वस्त्रमलं कृतिंः | गंधपुष्पणिधुपश्च दीपनैवेद्यचंदनाः || प्रयोजयेदर्चनायामुपचारांस्तु षोडशी | दशोपचारा मध्या स्यात् सा गृहस्थै विधीयते || अर्घ्यं पाद्यं तथा चार्मो मधुपर्कस्तथा च यः | गंधादयो निवेद्यंता उपचारा दश स्मृताः || अथ रहस्य पुष्पं || योनि पुष्पं महेशानि वज्रपुष्पं निगद्यते | आषाडशादरुढाया उत्तमं सर्व * *? दं || वलात् क्रमेण ऊढाया मध्यमं भोगवर्द्धनं | रजो योगवशादन्यं धर्मसुखदायकं || स्वयंभु कुसुमे देवि त्रिविधं भुवि जायते | ५३अ) सर्वैः पुष्पैः सदा पूज्या विहिता विहितैरपि | कर्तव्या सर्वदेवानां भक्तिं योगोत्र कारणं || अनयो ग्रहणोपायमाह || सूत्रेण पट्टवस्त्रेण वीरवस्त्रेन पार्वति | काश्मीरवस्त्रसूत्रेण पट्टसूत्रेण पार्वति || कस्तुलकुंकुमन्त्र चन्दनागुरुकादिकं | नानासुगंधिकं दत्वा एकीकृत्वा तु साधकः || अष्टगंधेन संपुष्पै संयुक्तं पुष्पमाहरेत् | एतेनाक्षतयोगेन पूजयेत् परमेश्वरि || आसनार्थे च होमार्थे चक्र पूजा क्रमात् बिन्दुः | स्वयंभु संयुतं पुष्पं सिद्धपुष्पं विदुर्वधाः || रति माल्यानि देवेशि न च पयुखितानि च | सदा सुद्धानि पुष्पाणि नवीनानि दिने दिने || एत सर्वं समादाय तारां काली च पूजयेत् | ५३ब्) पुष्पदानफलात्कोटि गुणितत्फलताप्नुयात् || अथ दशविद्याधूपविधि || इदानी शृणु विप्रर्ष्ण धूपनिरूपनं मम | गुग्गुलुंशरस्रंदारु पात्रं मलय सम्भवं || ह्रीवेरमगुरुं कुष्टं गुडं सर्करसंघनं | हरितकी नखीलाक्षाजटामांसां स शैलजं || षोडशाङ्गी विदुधूपं देवपैत्रे च कर्मणि | मधुमुष्टं घृतं गंधो गुगुलं गुरुलजनं || शरणंशालसिद्धिथ दशाङ्गोधूमुच्यते | सिताज्यमधूसंमिश्रं गुर्गुरुं गुरुचन्दनं || षडङ्गधूपमेतन्तु सर्वदेवप्रियं सदा | गुग्गुल्व गुरु शीलं च शर्करामधुचन्दनं || धूपयेदाज्यसंमिश्रै देववस्य देशिकः | लोहवाणौ षोडशांगं त्रिविद्यायां प्रकीर्तितौ || ५४अ) काली विद्या विधौ देवि अगुरुश्च दशांशकं | अष्टादशाङ्गं श्रीखण्डतारा विद्याविधौ स्मृतं || च्छिन्नाविद्या विधौ देवि पञ्चांगं गुग्गुलुस्तथा | कृष्णांगुरुं पीतसारो ब्रह्मास्त्र मनुगोचरं || रालोड्यगुरुचन्द्ररं मातंग्यापरिकीर्तितं | कस्तूरी चैव कर्पूरमष्टगंधं तथैव च || भैरव्यां कर्तितं देवि नविचैव शिलानसः | भुवनेश्यामयो प्रोक्तं श्रीखण्डकमलामतौ || लक्षागुडा हि धूम्रायां सिद्धविद्या विधौ शिवे || अथ दीपविधि || दीर्घाज्ञान महाध्यान्ता हंकारपरिवर्जनात् | परतत्व प्रकाशाच्च दीप इत्यभिधीयते || घृतदीपः प्रथमतस्तिलतैलसमुद्भवः | ५४ब्) सार्षपः फलनिर्यास जातो वोचोरिजोद्भवः | दधिजग्धौन्नजश्चैव दीपसप्त प्रकीर्तिता || पद्मसूत्र भवावर्ति दर्भसूत्र भवाथवा | जालाजावादली वापि भूलकोषोद्भवाथवा || वर्तिकी दीप कृत्येषु सदापञ्च विधौः स्मृतः | अथ षोडशोपचाराणां क्रमेण मुद्रामाह || द्रव्यदनस्थलं वक्ष्य निबोधातः परं मम | गन्धपुष्पं भूषणं च सुंमुखे संनियोजयेत् || दक्षिणे प्रदीपो देयो वामे धूपंस्तथा द्विज | नैव्यद्यं दक्षिणे देशे पक्वं यत्नत्विवेदयेत् || अपक्वं वामभागे च दीपस्यातः परं शृणु | घृतयुक्तं च यो दीपो सितावर्ति युतोपि वा || दक्षे देशे च तं दद्यात् अन्यन्तु वामदेशके | आसने पद्ममुद्रास्याद्धस्तद्वयमधोमुखं || ५५अ) मुन्द्रैषा कुशलप्रस्ने तदैवोर्ध्वमुखं पुनः | मुद्रा स्यात् स्वागते चार्य मुद्रात्वंजलि रूपिनी || अनामांगुष्ठयोर्योगात् सैवोक्ता पद्यमुद्रिका | उत्तानं दक्षहस्तं तु कृत्वा निम्नतलं सुधी || कनिष्ठहीनासंयुक्ता चतस्रोद्गुल्य उन्नताः | मूद्रैषा चमने प्रोक्ताधोमुखी सात्वनामया || स्पृष्टांगुष्टा भवेत् मुद्रा मधुपर्कं वरानने | अधोमुखी दक्षहस्त कृत्वा मुष्टिः कनिष्टयोः || विमुक्तो स्वानमुद्रैषा गदिता परमेश्वरि | उर्तानं दक्षिणं हस्तं कृत्वा तत्मध्यमाप्नुनः || अंगुष्ठेन पृशेद्रेषा मुद्रावस्त्रस्यर्तिता | एषै वा नामिका स्पर्शोत् मुद्राभूषणसंज्ञकाः || कनिष्टास्पर्शतो स्वष्या द्रवितस्य च मुद्रिका | ५५ब्) अष्टाग्रेण कनिष्टाग्रं स्पृशेत् गन्धस्य मुद्रिका | अधोमुखं करं कृत्वा तर्जन्याग्रेण योजयेत् || अंगुष्ठाग्रेण मुद्रेयं पुष्पाख्या परमेश्वरि | अंगुष्ठाग्रेण तर्जन्या स्पृशेदग्रं महेश्वरि || धूपमुद्रेयमाख्याता सर्वदेव प्रियं करे | ज्येष्ठाग्रेण स्पृशेदग्रं मध्यमाया सुरार्चिते || दीपमुद्रेयमुदिता सर्वदेवाश्रया शुभा | अनामाग्रं स्पृशेद् देवि ज्येष्ठाग्रेन तु देशिकः || नैव्य?द्यमुद्रा कथिता तत्वमुद्रेति कीर्तिता || अथ नित्यहोम || वामिनस्तूपचारांते कुर्यामद्य न तर्पणं | ते नाम नित्य होमस्तु नित्यं तर्पण सेवनं || कृत्वा स्तुत्वा नमस्कृत्य बिन्दु मण्डले || प्रदक्षिण || त्रिकोणाकार सर्वत्र नतिः शक्तः समीरिता | ५६अ) अर्द्धचन्द्रं महेशस्य पृष्ठतश्च समीरिता || मोहाद्वा कामतः शुद्रः पुराणां सहिता स्मृतिं | पठन्नरकमाप्नोति पितृभिः सह पापकृत् || शूद्रसंस्थापितं लिंगं पूजयेद् वा नमेतवा | तत्सर्वंधिप्रसादादि गृह्णन्नियमाप्नुयात् || इति श्रीकौलरहस्य द्वादशपटलः || १२ || अथ कौलाचारिनो (कौरवामिनो) नित्यार्चनमाह || दक्षयज्ञ यदा देवि त्वया स्वक्तं वारेवरं | अहं गृह्णीत्वा तत्कंधे चितां प्रवेष्टुमुद्यतः || वडवाग्नेर्गवेषार्थं यत्र यत्रा भवेत् स तु | तत्र तत्र च शक्रेण भूषणं निर्वापितो जलैः || एवं पर्यटतो वर्षं प्रस्वेदो मे महान भूत् | तद्विंदुपातनिदग्धा धरणीय भविष्यति || ५६ब्) तदा संप्रार्थिता विष्णु धरणी रक्षणाय च | तदा शुत्वघुभिवाणैस्त्वदंगानि समाच्छितः || चतुराशीति खंडानिः कृत्वासौ पातयद्भुवि | गतेन वीजितश्चाहं प्रीतोहमखिलस्तदा || विष्णुश्च प्रकटी भूय पादया पतितो मम | उत्थाप्य च परिष्ठक्तस्तवशोकश्च विस्मृतः || तावद्ब्रह्मादिका देवानारदाद्यामहर्षयः | मांतुष्ठुवुस्तदा वाक्यं विष्णुः प्रोवाच पार्वति || ज्ञानदासि महेशत्वं कथमोहमुपागत | सत्याः शरीरेण सहस प्रवेष्टु हव्य वाहनं || अमुगच्छेत् पतिं नारी न पुमान् तां च गच्छति | इति सास्त्र मनादृत्य कथं देव विमोहितः || एवं वदति देवेशं ब्रह्मणामांहरिंस्तथा | ५७अ) श्लेषालंषालंकाल वाक्यैश्चतुष्टे विना बुद्धि सह || आवाभ्यां तु तदा प्रोक्ता याचयाध्यवरं द्विजा | तदा तै ब्राह्मणै युक्तं जातोयं धर्मविप्लवः || दक्षयज्ञा श्रिभैः शैवा ब्राह्मण्याङ्गुशिता द्विजाः | यज्ञागताश्च सर्वेपि शैवैः सप्ताद्विजातयः || विष्णुणा कर्तितौरंशै सत्याश्चेदंधरातलं | स्थरे स्थरे शवस्पर्श्चा सर्वं ब्रह्मकर्मं विवर्जितं || तस्याद्धरायासंशुद्धिं विप्राणां चापि शुद्ध्यतिं | ब्रह्मवाक्यस्य सत्यं त्वं यथा भवति तत् कुरु || ततो ध्यात्वा मया प्रोक्तं संमती कृत्य विष्णुना | यत्र वेद क्रिया ध्वस्ता तत्र तंत्र प्रवत्यतां || ये विप्रा *? शापनिर्दग्धा ब्रह्मकर्मविवर्जिता | तेषां तु कौल धर्मोयं भुक्तिमुक्त्यास्तु शाधनं || ५७ब्) ये विप्राः पीठसंजात शापनिर्दग्ध शापताः | तेषां कुलेधिकारोयं मार्गस्यास्य प्रजायते || तत्कुले एव पूज्यत्वा कौलोयं मार्ग उच्यते | वाममार्ग ततो न्यूनस्तेषां क्षत्रिय वैश्यकौ || यजमानौस्तयोस्तत्राधिकारः समुदाहृतः | सिद्धान्तोयस्ततो न्यूनस्तत्रा शूद्राधिकारिता || ये पारंपर्यमज्ञात्वा कौलधर्मविशंतिते | निःस्वासं ततीहीनाश्च रोगिनो नात्रसंशयः || कौलज्ञानज्य सिद्धोयस्तद्रव्यं भोस्तुमिच्छति | समहापातकी देवी सर्वकर्म वहिःकृतः || समयाचार हीनस्य स्वैरवृत्तदुरात्मनाः | न सिद्धिः कुलत्रंशस्तत्ससगं न कालयेत् || यः शास्त्रविधिमुत्सृज्य वर्त्तते कामचारतः | ससिद्धिमिहिमाप्नोति परत्र च परांगतिंः || कुलद्रव्याणि सेवंते येन्मदर्शनमाश्रिता | तं? दंगरोमसंख्यातं भूतयोनिषु पूजायते || ५८अ) मदप्रस्खलितात्मा च न किंचिदपि वर्ति चेत् | न ध्यानंत तपश्चर्चां न धर्म न च सस्क्रियां || न दैवं न गुरुन्मन्त्र विचारो यदि कौलिके | केवलं विषया सक्तः पतत्यवनसंशयः || श्रीगुराः कुलशास्त्रेभ्यः सस्यग्विज्ञापवासनां | पंचमुद्रां निषेचत चान्यथा पतितो भवेत् || आवृर्ति गुरुपक्तिंश्च वटुकादीन्न पूजयः | वीराप्येवं वृथापानाद् देवता श्रापमाप्नुयात् || अथ मुण्डग्रहण || मुण्डप्रहणकाले तु सर्वथा तु शिवा वलिः | शिवां शक्तिं च वा पूज्या दिक्पालान्ववलिं युतान् || पूजयेत् परमेशानि सायुधादि यथाक्रमं | एवं क्रमेण वीरेन्द्रे ससर्वेषां वलिं माहरेत् || वङ्माया कमला प्रोच्य देव्यास्तु मुषवै यजुः | प्रवर्तते इमं भाव वलिं गृह्न तु युग्मकं || अथासनविधि || ऋतुमभ्यासने देवि त्रिदिना त्रिगुणाकृतिः | ऋतु वस्त्रासनं देवि त्रिमासात् फलदायकं || ५८ब्) मुण्डासनं तु षण्मासैर्दिनांतंतु शवासनं | नरचर्मासनं देवि पक्षांतंतु फलं भवेत् || मृद्वासने तु मासेन कामलं तत्वमासिकं | फलं भवति देवेशि उर्णाख्य दश वर्षतः || योनित्वागासने देवि सप्ताहेन फलं भवेत् | योन्यासने पक्षान्ते सुराताख्य दिनाष्टकं || विपरीते षट् दिनैश्च जिह्वा स्पर्शो द्विकेदकैः | सप्तचुंवनके देवि सप्तहेतु फलं भवेत् || विष्टरे मासषड्गैश्च फलं भवति पार्वति || अथासनस्यावस्य कर्तामाह || मृतासनं विना देवि योजयेत् कालिकान्नरः | तावत् स नारकी ज्ञेया यावदाहुतसंप्लवं || अथ मृद्वासनाद्य भावे अनुकल्पमाह || मृताभावे कुशरूपं विष्टरं परिकल्पयेत् | पूज्यं पीठं विष्टराख्यां पूज्यातारांविका परा || श्रीदेव्याविष्टरो देवि धारास्तस्याः स्फूतास्ति चः | ५९अ) विष्टकं साधकस्यार्थ कथ्यते शृणु शांप्रतं | भूतपत्राणि यस्मित्वै शकुशेत् सविधियते || हस्तपादे दशमितादिक् युगं हृत्सराजे विंशत्ससंख्यासकलवरदे मस्तके कीर्तिताश्च || गुह्ये जिह्वा वदनरदरे घ्राणर्णस्तनेषु लिंगे चन्द्रा चे युगपरिमिता योजनीयाः कुशाश्च || इत्यषः विष्टरः सर्व सर्वसिद्धि प्रदायः | कुशैर्व्वा बन्धनं कार्यं नाड्या वा परमेश्वरि || रक्तमिश्रित सूत्रेण पट्टसूत्रेण वा पुनः | विष्टलं पलिकल्पाथ तस्योपरि जपं चरेत् || विधिविस्तर पद्मस्य विधियोक्तो मया तवः | शरूपं प्रकल्पार्थ कवि वाग्मी भवेन् नरः || स्वयं * *? क्तं सूत्रकर्तव्यं सर्वसिद्धिय | सवभावे विस्तरस्तु शवरूपप्रकीर्तिताः || ५९ब्) साक्षान्तु शिवरूपो हि विष्टरः परिकीर्तिताः | विष्टरः शिवरूपः स्यात् स्वस्य शक्तित्व कल्पना || शिवशक्तिसमायोगात् किं न सिद्ध्यति भूतले | शवरीरोत्तमं वस्त्रं द्वितीयो विष्टरः स्मृतः || तृतीयं शृणु देवेशि सर्वसिद्धि प्रदायकं | विष्टरं शंभुरूपः स्यात् स शिवाशिवविष्टरः || समयाशोधनं कृत्वा शक्तिसोधनमाचरेत् | शक्तिं संशोधनं कृत्वा सुराशोधनं || विजया || ओं ब्राह्मै नमः स्वाहा || ऐं क्षत्रियायै नमः स्वाहा || ह्रीं वैश्यायै नमः स्वाहा || क्लीं शूद्रायै नमः स्वाहा || अथ ध्यानं || सिद्धाद्ध्यां शिवबोधिनीं करलसत् पाशांकुशां भैरवीं भक्ताभीष्टवलप्रदानकुशलां संसारवंधष्ठिदां || ६०अ) पीयुषां बुधिमंथनोद्भवरसां संसारवंधच्छिदां वीराराधितपादुकां सुविजयां ध्यायर्जगन्मोहिनि || अथ शक्ति शौधनं || सधोधनं मनाश्चर्यस्त्रिषु मद्येषु साधकः | कृतेग्रि सिद्धि हानि स्यात् कुर्द्धा भवति चण्डिका || अभिषेकाद् भवे शक्ति मन्त्रस्योच्चारनाश्रुतौ | रतिकारे महेशानि दीक्षाकाले च कन्यका || कला द्वा यत्नतर्प्यर्थाद्दभिशेषं समाचरेत् | सुरापारेतसा वापि जलेन मनुनापुरा || आदौ वालां समुच्चार्य त्रिपुलायै समुच्चरेत् | नमः शब्दं समुच्चार्य इमां शक्तिं ततो वदेत् || ६०ब्) पवित्री कुलुशब्दान्ते मम शक्ति कुरु प्रिये | वह्निजायां समुच्चार्य सुद्धिमन्त्र प्रकीर्तितं || अनेन विधिना देवि अभिसिक्तास्त्रियः सदा | रममाणोत्र सनित्यं सर्वसिद्धिमवाप्नुयात् || इहलोके सुखं भुक्त्वा परे मुक्तिमवाप्नुयात् | अस्या कर्णे भेदबुध्या मायाबीजं समुच्चरेत् || तेन सुद्धा भवेन्नारी पूजा योग्या सदैव हि | इति श्रीकौलरहस्य त्रयोदश पटलः || १३ || अथ द्रव्यांगीकारे अधिकारिका विरेकमाह || द्रव्येन सात्विके नैव ब्रह्मण पूजयेच्छिवां | ब्राह्मणो मदिरां दत्वा ब्रह्मण्या देव हीयते || ब्राह्मणस्त्वनुकल्पं च कृत्वा चण्डालता मियात् | एवं दद्यात् क्षित्रियोपि पैष्टिकीं ना कदाचन || ६१अ) एवं प्रदा? *? मात्रे हीनायु ब्राह्मनो भवेत् | काम्रे गव्यं मधुलमं दैवपैत्र्ये न दुध्यति || अत एव महेशानि होम ताम्रे प्रगृह्यते | ब्राह्मनेन तथा कार्य ब्राह्मण्यं न च विश्यति || वर्णानुक्रम भेदेन द्रव्यभेदा भवंति च | क्षीरेण ब्राह्मणैस्तर्प्यं घृतेन नृपवंशजैः || माक्षिकर्वैश्यवर्यस्तु आसवै शूद्रजातिभिः | यत्रावश्यं विनिर्दिष्टं मदिरादानमुत्तमं || ब्राह्मणस्तांम्र पात्रे तु गव्यमद्यं प्रकल्पयेत् | मत्यक्रमार्चतुर्वर्णै क्षीराज्ये मधुपि?ष्टजैः || त्रेतायां पूजिता देवि घृतेन सर्वजातिभिः | मभीः सर्वणेश्च पूजिता द्वापरे युगे || पूजनीया कलौ देवि केवलं रास वै निशि | ६१ब्) ब्राह्मणैश्च सदाग्रे या क्षत्रियैश्च रणागमे | वैश्वैर्द्धन प्रयोगे च शूद्रनैव कदाचन || ब्राह्मणस्य मुन्मद्य वासना प्रवेद्यति | चाण्डालद्वहिकार्या नास्ये वा मीन कौलिका || त्राह्मनोमस्पृते मद्यं वैदिके च त्वनि स्थितं | पंचलक्षणं युक्ता ब्राह्मनदार एव सः || अहं ब्रह्मा तथा विष्णु तदा ज्ञानशवर्तिनी | स चेद् वामे पथं प्राप्तः पुनस्नानोभियायते || चतुलक्षल सयुक्तो विप्राज्ञायस्तु मध्यम | ताद्स्वां दर्ताभाग्य वा तान्त्रिकः कोपि चेन्मुनु || सद्य फतिवाश्यस्य क्रियया वापि तस्य तु | लक्षणययुक्तोयस्तस्य वैदिक तान्त्रिके || यथोक्ता चरणादेव फलदस्तुमवामकः | लक्षणद्वयसंयुक्तास्तस्य वामश्च दक्षिण || समतुल्य फलौ स्यातां न कदाचन दैदिकः | ६२अ) एकलक्षणसंयुक्तो समस्तस्य फलप्रादः | सौत्रामिन्यां कुलचारे ब्राह्मणः प्रपिचेत्सुरां || अन्यत्र कामतः पीत्वा प्रायश्चित्ती भवेन् नरः | ब्राह्मणैः कौलिकैः पेयं देवता तृप्ति हेतवे || वामिनीं कौलिकानां च मुखे तिष्ठन्ति देवताः | नयन्ति तु वंद्यो हि रेरपि || देवता यस्य न मुखे साक्षाच्चांडाल एव सः || सेवेतमधूमांसानि भृस्नया चेत् स पातकी || मन्त्रपूतं कुल द्रव्यं गुरु देवार्पितं प्रिये | ये पिवन्ति जनास्तेषांस्तन पानं पुनर्म च || बहुनोक्तेन किं देवी यथाशक्त्या ददाति यः | कुलार्याय पूजनार्थ कुलद्रव्यं सधर्मवित् || शौवे तु वैष्णवे शाक्ते सौरे सुगतदशने | बोद्धपाशुपते सांख्य मन्त्रकाला मुखे तथा || ६२ब्) स दक्षे वामसिद्धान्ते वैदिकादिषु पार्वति | निवालि पिसितात्पांतु पूजनं निःफलं भवेत् || शृणु देवि प्रवक्षामि कौलिका चरणं यथा | पाणे भांति भेद्यस्य मृणास्याद्रक्तरेतसौः || शुद्धौ वा शुद्धिता बुद्धिः पापशंका च मैथुने | स भ्रष्ट पूजयेद् देवी चण्डी मन्त्रं कथं जपेत् || अथ द्रव्य नामवश्यतामाह || विनालिवेदानात्यां न प्रसीदति कालिका | मधुभाण्डसहस्रैस्तु मांशभाशुशतैरपि || नैव तुष्टा भवेदेवि भगलिंगामृतं ऋता || अथ काराणां क्रमफलमाह || कलोति सुरापानं जीवन्मुक्तः स जायते | विना द्रव्याधिवासेन न स्मरन जपंत्तथा || ये स्मरंति महामूढा तेषां दुःखं पदे पदे | ६३अ) त्यसवेन विनामन्त्रं विना मन्त्रेन चासनं | परस्पर विरोधित्वा कथं पूजा विधियते || तत्ससयनिवृर्ती च ज्ञात्वा गुरु मुखा जयेत् | सासंखादति यो मर्त्यस्तथा मृत्यु भयं कुतः || यो भक्षयक्षिमत्स्वाश्वेस शिवो नात्र संशयः | मुद्रां भक्षयते यस्तु ससिद्धानापति भवेत् || सुरतं यः प्रकुरुते त्रैलोक्य करण क्षमः | एतस्याचार्थ त्रितयं सात्विकाराजसस्तथा || तामसश्वेति तत्राद्यौ रामादित्यनिरूपितः | तं मर्गये विजानन्ति ते मुक्ता नात्र संशयः || अथासवस्यत्रैविधिमाह || मदिरा त्रिविधा प्रोक्ता उत्तमामध्यमाधमा | उत्तमस्वगृहोत्पन्ना मध्यमा चान्न्यगेहजा || अधमासदृशंकीता एवं सात्रिविधा मता | ६३ब्) श्रीशीव उवाच || देवासुरैः पुराकल्पे मध्यमाने महोदधौ | तत्र श्यामा समुत्पना सुराकलशधारिणि || गौरांश्चरुण चैला च भावस्वर्द्धरितंवुका | श्वेतार्तरपदा देवी त्रौलोक्यस्यापि मोहिने || दृष्ट्वातां दानवाः सर्वशुक्राचार्य वलात् सुरान् | जित्वास्तांजगृहुस्तस्याः कलशार्चनपुः सुरां || देवान्येलपितान् दृष्ट्वा शस्तयस्तत्र संस्थिताः | पपुस्ता अपितां पुण्यां सुरानपि वहृनद्युः सुरापाः सुरमातकरः || अभयास्मार्त पयंति शेषं गृह्नंति ये नरा | ते स्मद्रूपा न संदेहो भुक्ति मुक्तिकभाजनं || सुरागंगा सुरासिन्दुः सुरा देवी सरस्वती | सुरागोडावरी रेवा सुरैव परमं पदं || सूरनिन्दंतिय मूढा मूढास्ते जन्मनि | ६४अ) गन्धर्वै भूयमानस्तो शक्तयस्ते च दानवा || उत्पर्तिः कथिता देवि पानं च कथयामिदं | जिह्वा मूलं समारभ्य हृदयं याव सुन्दरी || षोडशाङ्गुल विज्ञेया स्थानश्वेदामृ पदं | षोडशैव कलायुक्तं षोडशाङ्गलमयतं || पिवतेद्दैवतैद्देवि मद्यममृतरूपिणं | प्रथमं पिवते वह्नि द्वीतीयं शनिना पिबेत् || विष्णुना च तृतीयस्तु चतुर्थं वरुण पिबेत् | कुं चं मं देवि षष्ठ तु वा सव पिबेत् || सप्तमं ऋषिभिः सर्वै गणेश्वराष्टमंत्रिपे | नवमं धर्म राजेन मरुतै दशमं पिबेत् || एकादशयसस्थान ब्रह्मपुत्रो पिबेत् प्रिये | कुमारद्वादसं याति वैनायकत्रोदशं || चतुर्दश्या पशुपतिं एतै पित्वा दशैः पञ्च षोडशं न प्रकाशयेत् | ६४ब्) न पितं मानुषैर्भद्रे देवै पीत्वा च शंभवैः || पीत्वा च कथितं भद्रे अधुना देवता शृणु | सुरासा च उमा देवी यो मद्यः समहेश्वरः || यावर्णः सस्वयं ब्रह्मा यो गन्धः सजनार्दनः | य स्वादः स तु सोमोयं || ज्ञानविज्ञानसंपन्नं सद्य विद्या सुलेश्वरी | अथ पाक प्रकालमाह || अंसां द्वादसा प्रचतुप्रस्थं च तंडुलाः | प्रस्थार्द्धस्थंडूलं प्रोक्तं तावर्मात्रांस्तदं कुलात् || शीतादि न हिते स्थाने दिवसद्वयमास्य तत् | पश्चाभानौ समारोप्य जंवाल सदृशं पचेत् || प्रदपस्थं तंडुलांश्च तन्मात्रानं कुला क्षिपेत् | दिन द्वयं तु संस्थाप्य नरेवं प्रकलल्पयेत् || अर्द्ध तस्य समादाय तडुलेषु विनिक्षिपेत् | ६५अ) * * * * * * * * *? ण्डली सासुरा स्मृता | पुयमेव भवेत् सोमः सोमयाग फलप्रदः || इति यागो भवेद् यागः सोमपान तु त स्मृतं | या गतिः सोम च ज्ञान कौलिका नामनेनसा || भोगस्वर्ग च भवति विना कष्टेन वामिनां | एवं तु यव पिष्टोत्थो देवसोम इति स्मृतः || ये च तण्डुल योगेन शक्ति सोमो निगद्यतेः | स्विन्नकुबुट्टितगोधूमाः समक्लिश्ये न संयुताः | स्थापिता द्वादशाहं च वारुण्यां परिपाचिताः || तन्मन्द्यं सूर्यसंज्ञं स्याद् योगिनी मदवर्द्धनं | पीतं तच्चक्र पूजान्ते वाजपेय फलं लभेत् || इदमेव त्रिधा युक्तं दलं मद्यं च साधितं | अग्निर्भवेत् तस्य पानादग्निहो फलं भवेत् || ६५ब्) अधसुमं च तदर्धं स्यात् तदर्द्धं च हरीतकी | तावद् विभितकं प्रोक्तं चतुर्था शंकटु त्रयं || तार्च्च चित्रकं तस्मा गुडो द्वादश भागिकः | करेण भ्रामयेत् सम्यक् न्नुगलोम विलोमतः || अष्टोत्तर शतावृत्या त्रिसंध्यं प्रतिपारकं | द्वादशाहेन पाकः स्याद् वारुणी यन्त्रगं पचेत् || एषागौडीति विख्याता महामदकरी समतां | शिवेन निर्मिता पूर्वं स्वयं पीत्वा च भैरवै || द्विगुणं मकरंदाख्या वारिसंयोजये गुडे | षोडशाहेन पाकः स्याच्छेषमन्य पुरोक्तवत् || सर्वदेवि प्रिया चेव वशिकरणमद्भुतं | देवोनां शक्तयो वश्यामानुषीनां तु का कथा || हरीतकी चित्रकं च मनीचं ध्यातकी तथा | मधुपुष्पं चद्रं च भागैकेन विवर्द्धितं || ६६अ) अशीति गुडसंमिश्रं शेषं मन्यत् पुरोक्तवत् | इदं मनोहरं द्रव्यं योगिनी पानमुत्तमं || मद्या भवे प्रवक्ष्यामि बिन्दुमद्याधिकं सुरा | महषं दधिसंग्राह्या चतुर्दशगुणं सुरां || मावान्हलस्य पक्वस्य मर्दितस्य रसस्तथा | ग्राह्यं दधि चतुर्थाशे तत्संमद्यं घटे क्षिपेत् || चत्वारि शब्दिनान्यष्टौ पंकपंकजसंकुले | निधायोद्धृत्य किरणैः सौरैः * * * *? षयेत् || यदा तत्कठिणी भावस्तदा कुर्याद्विती शुभां | गुंजाभींजलसंपूर्णे तांम्रपात्रेणिधापयेत् || इदसुरातोप्यधिकं ब्राह्मणानां प्रणस्यते | गौडीमध्वी तथा पैष्ठी त्रिविधा तु सुरा स्मृता || शूद्राणमुचिचेयंते वंशाक्षत्रिय वैशयोः | ब्राह्मनन्दसुरायैस्तु पिता * * *? कौलिकैः || ६६ब्) न चोन्मादकरी तेषां सुरेयं बुद्धिवद्धिनी | सर्वसिद्धि करी षष्ठी गोडीभाग प्रदायिणि || माधी मुक्तिकरीज्ञायाद्राक्षाराज प्रदा मता | विद्य प्रदैक्षवीहालाखार्जुरीरिपुनाशिनी || तालजा स्तम्भने शस्तापनसाख्या शुभ प्रदा | नारिकेरोद्भवा श्रीदानिंवजारोगेगिनी || धूमकजाज्ञाकनरी चैल पापापनाशिनी | यत्सा नन्दरुचि करं सा मोदं च मनोहरं || मृद्यं तदुत्तमं देवा देवता प्रीति कारकं | ब्रह्मा स्यात् सलिले विष्णु गंधे रुद्रश्च तद्रुचौः || परमात्मा तदा नन्दे तस्मात् सेव्यमिदं प्रिये | दृष्ट्वा प्रणम्य प्रथमं तद्रूपाम्वारुणी कलां || वरुणे नार्चिता देवी वारुणी इति विश्रुता | सुरैस्तु पिवत नित्यं सुरानाम इति स्मृत || ६७अ) मदनेनार्चिता नित्यै मदिरेयं प्रकीर्तिताः | परमार्थे तु उत्पन्ना पराशक्तिः प्रकीर्तिताः || यथामृतं तथा मद्यं प्रोक्तकाले निषेवितं | अमृतेन सहोत्पन्न स्थाने मद्यं सुधायत || विषेनामहोत्पन्नं तेन मद्यं वियायते | अथ निषिद्धमाह || नष्टै पयुषितोच्छिष्टैदुर्गाध्वैगंध वर्जितैः | हेतुभिः परपात्रस्थैस्तर्पणं निःफलं भवेत् || मनोहश्च देवीनां तर्पणं सफलं भवेत् | स्वपात्रं स्थं च हेतुश्च न दद्यान् भैरवाय च || दस्त्र च सिद्धि हानि स्यादित्याज्ञा शंकरै कृताः | मांसं तु त्रिविधं प्रोक्तं जलखेचल भूचलं || जल चरास्युः कूर्माद्या खेचरा कर्कटादयः | भूचरा तु मृगाद्यास्युः तेषां भेदाष्टकं भवेत् || गोनरेफास्वमहिष वराहाज मृगोद्भवं | ६७ब्) च विस्तर्णमुत्तानेन समाकृति | अथवा देवदेवेशि पात्रं चर्चर्तुली कृतं | अश्वत्थ पत्राकारं ककुतयाकारमेव च || त्रिकोणाकार पात्रं च त्री त्री योनि समन्वितं | मध्य बिन्दु युतं पात्रं ध्वज चिह्न समन्वितं || अथवा भुभगाकारं ध्वजबिन्दु स केशरी | एवं पात्रं समानीय महाचीनेश्वरी यजेत् || अथ पात्रमाह || नारिकेर स्वर्णताम्रं काच शुक्ति शिरोद्भं | शंखसद्दान्दकुर्मोत्थं कपालाचूमृन्मयं || कपालपात्रेण देवेशि कापालिसिद्धिरस्ति च | यद्यद्वांच्छति कामानि गुडिकांजन सिद्धयः || सिद्धद्रव्यं कामगतिं मनोरथ मयी कलां | वांच्छाभोगोन्नव्य सृष्टि करणं चैव दृश्यतो || चिन्तामणिं कामकला यत्पात्रे सर्वमेव च | काप्यलिन्नितुर्यसिद्धिः कामेलसिद्धि * * *? || Fओलिओ ६८-७२ नोत् fओउन्द् ७३अ) एकपात्रं समानीय खण्डत्रितय भेदतः | उत्तमं मध्यमं हीनं विप्रा हीनां प्रकीर्तिता || लं नाति सूक्ष्मं च्छिवं भिन्नं विवर्जयेत् | ताम्रं कास्यादिभिसोहैः पात्रं नैवन्तु * * *? || सर्वसिद्धिः सुवर्णस्यादुद्यमस्ताल पात्रतः | शांतः शिलायांस्तंभस्तु शैवे शंख वराहरौ || महाशंषो वाममार्गे स्फटिकं ग्रह नायाके | विश्वामित्र कपालं तु सर्वपात्रोत्तमोत्तमं || ब्रह्महत्यादि पापानि तथा विश्व स घातकं | दृष्ट्वा पात्रं नालिकेलं सर्वमेव प्रणस्यति || कन्याकोटि प्रदानानि तथा हेम शतानि चोयोदवाति हेशानिराहुग्रस्ते दिवाकरे || तत्फलं कोटिगुणितं नालिकेलर्पपात्रतः | आलाभे कौलिकै शक्ति शहितै तदुच्छिष्टं चप्येवयेत् || स्वशक्तिं वीरशक्तिं वा दीक्षितां गुरुरूपिणं | पाययित्वा पिबेन्मद्यं मितिसास्त्रस्य निश्चयः || ततः श्रीगुरुरूपाय साक्षात् परशिवात्मने | करोत्यां पात्रमुद्धृत्य सद्वियं निवेदयेत् || गुरोरभावे तत्पात्रं जलमध्ये च निःक्षिपेत् | पूज्यशक्तिं शक्तिपात्रं वीरेत्या वीरपात्रकं || अन्यस्या योगिनी पात्रं स्वार्थे स्यात् भोगपात्रकं | कुण्डली तर्पणार्थञ्च भोगपात्रं समाचरेत् || अन्तशक्तिमनुस्मृत्य तर्पयेद् देह देवतां | अथ येन प्रकारेत स्वीकुर्या पात्रमुत्तमं || Fओलिओ ७४-८३ नोत् fओउन्द् ८४अ) तद्देहंव्याहविष्यामि यथारुद्रेण भाषितं | प्राणायाम विधायान्तु तत्तन्मन्त्र षडङ्गकं || कुर्वीत भक्ति भावेन शक्त्या वृक्षादिकं तथा | तत्र घ्रयेतत्तत्पात्रं दक्षहस्ते निवेशयेत् || वामहस्ते नामिकाया अङ्गुष्ठमभियोजयेत् | इदं हितार्पणी मुद्रा शूद्रूपापरिकीर्तिता || एतया मुद्रया देवि संहारक्रमतोखिलान् | पात्रे तु द्रव्यमादाय तर्पयेदुरित क्रमैः || अंगुष्ठास्यानामिकाया नखै यावन् प्रलिम्यतः | तावन् निवेशयानीह मुद्रा वै कौलिक द्रवे || निमील्य चक्षुषीया | ८४ब्) यथा विधि द्वितीयेन गृह्नीया मन्त्रमुच्चरन् | पिशितं माषमात्रं तु मद्यं चूलूक संमित || स्वीकार्यमादौ गुरुणा शिष्यत्यः शेषदो भवेत् | निस्सङ्को निर्मलो धीरो निर्लज्जो निकूतूहरः || निर्णीत वेदशास्त्रार्थो वरदाम्वारुणीस्सिवेत् | देवन् पितृसमत्यर्च्य देवीशास्त्रोक्त वर्त्मना || गुरुं स्मरे पिबेन् मद्यं षादन्मांसं नभोषभाक् | गुरु दैवतमन्त्राणोमैक्यं संभावयन्धिया || आगलान्तं पिबेद् द्रव्यं तत चर्वणमाचरेत् | मांसं मत्स्यं च मुद्रां च मैथुनं वै क्रमार्चयेत् || स्वसंप्रादायसंयुक्तं वीरैश्च सह पूजयेत् | चित्त स्वागतन्त्य सारत्वात् तस्या नन्दये त्वतः || तन्मयेत्वार्च भावानां fओलिओ ८५ नोत् fओउन्द् ८६अ) भावश्चान्तर्हिते रसे | स्वस्वातन्त्र्य विकासाय सुरासस्तेन पीयते | तस्मादिमासुरादेवी पूर्णाहन्तो जुहोम्यहं || मन्त्रेणानेन देवेशि मूलमन्त्रेण मन्त्रवित् | अनाकुलमनाः कुर्यान् मधुपानं शनैः शनैः || यावदुल्लासपर्यन्तमपदंशैः पिबेन् मधु | ततः पात्र गतं हाला बिन्दुं भौमौ प्रपातयेत् || उच्छिष्टं भैरवायेह दद्यान् मन्त्रं मनुं पठेन् | मैधमायारमाबीजे मेह्यक्मुच्छिष्टभैरव || विसन्धि च वलिं गृह्न युगं स्वाहा च पश्चिमो | निघृष्यतद्भूमि तले पूर्ववच्चित्रं कंचरेत् || येन्येपि पात्रं स्वीकुर्युस्तेषामप्येष हि क्रमः | पानभेदहलोल्लास प्रमान्स्थिति लक्षणं || ८६ब्) अविज्ञाय चरेद् यस्तु स भवेदा पदां पदं | पानपंच विधं प्रोक्तं माहादिव्यादि भेदनः || महादिव्यं तथा दिव्यं विरश्चैव महापशु | पशुः वंद्यः पशुश्चेति पंचधा परिकीर्तितः || प्राणापाणौ समाहारौ प्रत्याहार मनःस्थिरं | भानुमण्डलकं भीत्वा इन्दुमण्डलमध्यगं || सुषुम्नावत्मणा नित्यं सुधादारा प्रवीत्तीनी | महादिव्यमिदं प्रोक्तं शृणु दिव्यं महेश्वरि || दिव्यदेव्यग्रतः पालं वीरमृद्वासनोत्तरं | त्यक्तः सर्वपासमूले * * नामलसंचयः || कौलिकाचार योगेन पंचतत्व न तर्पयेत् | षट्चक्रक्रमभेदेन हुनेत द्रव्यं समन्त्रकं || ८७अ) पंचतत्व न तर्पयेत् || ध्यानार्चन परावस्था वीरपानमनुत्तमं | उद्वासनोत्तर देवि पशुपानं शृणु प्रिये || वीरपाने पूर्वधीरो परस्तु पशुरित्यपि | आसक्तलोलुपादं भोमंत्रार्थे चाप्रसंगकः || कामुकः कार्य निर्देशे पशुपानं तदुच्यते | सर्वैः कूलीणैः स्थित्वा तु विनापूजां सर्वितैः || यत्पानं क्रीयते देवि पशुपान क्रमः शिवे | एकाकी मद्यपायीय एकाकी शक्तिभुक् प्रिये || महेरस्य संसर्गं न कपि करोति चेत् | पशुपानमिदं प्रोक्तं महादारिद्र्यदायकं || विनामन्त्रं विना दीक्षां विना गुरु मुखात् प्रियेत् | यत्पानं न क्रियेते मूर्खैः पशुपानं विदुवुर्धाः || ८७ब्) महापशुरिति प्रोक्तः कौलवामो शृणु प्रिये | वामरामा मनोहारी चालिपात्रं तु दक्षिणे || पानपात्रं महेशानि वामहस्तेन तर्पकः | महाकौला महेशानि भूमौ स्थाप्य प्रतर्पयेत् || हस्त द्वयेन चद्देवि कौल इत्यभिधीयते | वामदक्ष वात्ययेन वीलकौलः प्रकीर्तितः || अलिपात्रं वामपाणौ दक्षहस्तेन तर्पयेत् | कामगौडस्तु संप्रोक्त चैतत्पाख्य चैतत्पाख्य स एव तु || भूमौ स्थाप्य महेशानि हस्तयुग्मेन तर्पयेत् | आनन्दाख्य सुसंप्रोक्तः वाम इत्यविधीयते || अथ फलन्तु || मन्त्रं संस्करे संशुद्धोऽमृतनेन पार्वति | ८८अ) जायते देवगाभावौ भववंधविमोचक || आनन्द ब्रह्मणो रूपं तच्च मोक्ष व्यवस्थितं | तस्याभिव्यंजकं द्रव्यं योगिभिस्तेन भीयते || दिव्यपाणरतो वीरा देवी सायुज्यमाप्नुयात् | देवेशि वीरपाणेन देवीलोकं हि वाच्छति || साधक पशुपानेन देवीलोकं हि गच्छति | साधक पशुपानेन रौरवं नरकं व्रजेत् || आरम्भस्तरुत?श्चैव यौवनप्रौढ एव च | तदन्त्रे चोत्तमस्थानावस्थाश्चैव सप्तमः || अथैषां लक्षणं || पात्र त्रयं स्यादारंभः कथितः कुलनायिकाः | तदन्ते तरुणश्चैव तरुणं सुखदं प्रिये || ८८ब्) यौवनं मनसम्यक् गुल्लास कथितः प्रिये | स्खलनं दृङ्मनो वाचा प्रौढमित्यभिधीयते || स्वभीष्टवष्टा चरणं प्रौढान्तः परिकीर्तिताः | उन्मनाः पतनोत्थानमुच्छानाच्च मुहुमुहुः || देहेन्द्रिया नाम च वशश्वा नवस्था निगद्यते | भोजनान्ते विषं मद्यं मद्यन्ते भोजनं विषं || अमृततंतद्विजानीयाद्यदन्नं सुरया सह | चर्वणेन युतं मद्यं ममृतं कथितं सदा || चर्वणेन विनापानं केवलं विषभक्षणं | तत स्तुत्वा नमस्कृत्य कुर्यासंभोगमेलनं || देवता तु संभोगे देवता प्रीणतां भवेत् | एतासुकांचिदानीय ततश्च योनि मण्डले || ८९अ) पूजयित्वा महादेवी ततो मैथुनमाचरेत् | धर्माधर्म हविर्दीप्ता आत्माग्नौ मनसा श्रुवा || सुषुम्ना वर्त्मना नित्यमक्षवृर्तीर्जुहोम्यहं | स्वाहान्तोयं महामन्त्र आरंभे परिकीर्तितः || ततो जपेत् प्रियं गच्छन् देवीन्त्रिभुवनेश्वरीं | प्रकाशाकशहस्ताभ्यां वलम्व्योम्मनी श्रुवा || धर्माधर्म कलो स्नेह पूर्णमग्नो जुहोम्यहं | स्वाहान्तोयं महामन्त्रः शुक्रत्यागे प्रकीर्तितः || मादाद्यदिलुप्यते देवता सा प्रकुप्यति | विना भुक्त्वा विना पीत्वा विना कृत्वा तु पञ्चमं || सयापिष्ठः कथं व्रूते काली मन्त्रं जपाम्यहं | तस्मात् सर्व प्रयत्नेन साधयेत् पंचमं प्रिये || यदि चेत् क्रियते नैव तस्य दुःखं पदे पदे | ८९ब्) यद्वियोषिन्न संगस्यात् तदानुकल्पयोगतः | कर्तव्यं कर्मसांगाथं नाचेत् विफलमीरितं || इति श्रीकौलरहस्य सप्तदशमपटलः || १७ || अथ नीलक्रमः || खड्गहस्तशिरोन्यस्त सर्वदामुक्त कुन्तलः | सदामांसासवोल्लास विजयाघूर्णलोचनः || सिंदूलतिलकं भाले पाणौ तु मदिरारसं | न करोति नरोयस्तु कथं मम पूजकः || रात्रौ पर्यटनं चैव रात्रौ शक्त्य प्रपूजनं | न करोति नरो यस्तु स कथं मम पूजकः || योनि चूम्बनकं कर्म शक्तेरालिंगनं तथा | न करोति नरोयस्तु स कथं मम पूजकः || ताम्बूरं योनि चक्रं च मुण्डमालाशवासनं | ९०अ) सिंदूलंखड्गकं चैव संविदासव योरसं | एता विहाय कश्चित् कालिं साधि तु मुद्यतः || इहक्षोभमवाप्नोति परत्र नरकं व्रजेत् | अथ शालदी विषय देवी वाक्यं || भगलिंग क्रियाशब्दैर्वश चेष्टाभिरुक्तिभिः | विसर्जनस्यावसरे क्रीडितव्यं निजेच्छया || कार्यंजवद्भिरप्ये तद् देवी संतोष हेतवे | परैर्नाक्षिप्यते यस्तु यः परान्नाक्षिपेत्यपि || तस्य क्रूद्धा भगवती शापं दद्यात् सुदारुणं | एतत् प्रासङ्गिकी देव्या उक्तिसमररधारय || ममानन्दे सदानंदः सदानन्दो भविष्यति | ममानन्दे निरानन्दो निरानन्दो भविष्यति || यथा यथा ममानन्दे भगवत्यून्मत्तवर्जनः | तथा तथाहंतुष्यामि तत्कृतार्चा सुवल्लभा || ख्यातं मम भगं चिह्नं लिंगचिह्नं तव प्रभो | लिंगाङ्गत्वा भगाङ्गत्वादियं माहेश्वरी प्रजा || त्वां मां विहाय नैवान्यत् किंचित् त्रिभुवनोदरे | तस्मात् मत्पूजन स्यान्ते त्वमुच्चिह्नोक्तिभिर्जनः || यः क्रीडति महाभाग समे मनसि तिष्ठति | अनुर्वाणोपि सूरतं भगं भगमिति ब्रुवन् || लिङ्गं लिंगमिति प्रोच्यमांषयति तक्षणात् | रेतः सिक्तं भवे घादृघादृक्ता(?) दृश्यत्र जायते || भगं त्रिजगतांमुष्ट्रकविनिन्दितु मर्हति | इत्यादि वचनैर्देव्या यथेष्टं विहरेर्जनः || अथ दशविद्या भैरव मन्त्र ध्यानं यथा | तत्रादौ अक्षोभ्य || अनुत्तरं समुद्धृत्य पपञ्चमविभूषितं | ९१अ) अक्षोभ्येति च स्वाहेति रमायन्तं महामनुः | अथ ध्यानं प्रवक्ष्यामि सर्वसौभाग्यदायकं || सहस्रादित्यसंकाशं नागरूपधरं शुभं | विद्युत्कोटि समं वक्त्रं वह्निभास्वर लोचनं || सार्द्ध त्रिवलै योपेतं जपाकाद्यग्रसंस्थितं | महालावण्यसंयुक्तं सुरासुर नमस्कृतं || सूर्यविद्युत्समं भास्वन् महामणि शिरोपरि | एतद्रूपं महाकायं दैवैरपि सुपूजितं || अथ क्रोधभैरवस्य मन्त्रमाह || अथ क्रोधमनुं वक्ष्ये असाध्यं येन सिध्यति | बीजं हालाहलं गृह्य क्रोधबीजमतः परं || भयं करार्णमाभाष्याशितांगक्षतज स्थितं | प्रलयाग्नि महाज्वालामाभाष्यमनूमूद्धरेत् || एवमूच्चारितः क्रोधः स्वयमेव प्रसिद्धति | ९१ब्) अथ ध्यानमाह || तत्र मध्येनेसेद्भीमं तप्त ज्वाला समाकुलं | साट्टहासं महारौद्रं भिन्नांजन च योपमं || प्रत्यालीढं चतुर्वाहुं दक्षिणे चक्र धारिणं | तर्जनं वामहस्तेन तीक्ष्णादंष्ट्रा करालिनं || कपालरत्नमूकूटं त्रैलोक्यस्य विनायकं | आदित्य कोटि संकासं अष्टनाग विभूषितं || अपराजित पदाक्रान्तमुद्रावान्वलविष्टितं | अनामिका द्वयं वध्वा आकूञ्च तर्जनी द्वयं || कनिष्ठां मध्यमां चैव ज्येष्ठगुष्ठेन चक्रमात् | एवमुद्राधराद्भीमां त्रैलोक्या साध्यसाधकः || अथ त्रिपूरभैरवस्य मन्त्रमाह || मायालक्ष्मीस्तथा हंसः प्रासाद बीजमेव च | वह्नि जायान्तको मन्त्रो भवेत् त्रिपुर भैरव || ९२अ) षडंगं मूलमन्त्रेण वलिपूजादिकं तथा | अथ ध्यानं || एकवक्त्रं त्रिनयनं चतुर्वाहु समन्वितं | दक्षिणे चाङ्कुशं खड्गं वामे खेटकपाशकौ || धारयन्त रक्तवर्ण वृषासन गतं विभुं | उर्द्धकेशं हाडहारं कपालमालयान्वितं || एवं विधं सदा देवि ध्यायेत् त्रिपुर भैरवं || अथ चतुकस्य || माया च वटुकं ङेन्ते मायबूद्ध्यारणाय च | कुरुद्वयं वहुकाय ह्रीं प्रकृति वर्णकः || वृहदारण्यकमुनिश्च्छन्दो नूष्टुप् देवता | भैरवो ह्रीं बीजशक्ति आः कीलकमुदाहृतं || एवं न्यस्त तनुध्याये च्छुर्द्ध स्फटिकसंनिभं | दीप्तशुभ्राम्वरा भीतं किकिणी जालनूपुरैः || युतं रत्न मयै धानमभयं परे | ९२ब्) सुप्रसन्नमुखाम्भोजं निविष्टं कुश विष्टरे || ब्रह्मविष्णु महेशाद्यै स्तुतं भक्त्यासुरासुरैः | विश्वाद्यं विश्ववपुषं भवभीति हरं भवं || अथातः संप्रवक्ष्यामि चाघोरास्त्राह्वयं मनुं | मायां स्फुर द्वयं चैव प्रस्फुर द्वितयं वदेत् || पश्चाद्वदे तुरुतुरु रूपान्ते च च तद्वयं | प्रचट द्वितयं पश्चात् कह द्वयं वमद्वयं || वन्ध द्वयं घातयद्वि हूं फट् शरवर्णकः | ध्यान || ध्यायेत् ततो मेघ कालं भीम द्रष्टं त्रिलोचनं | भुजंग भूषणं रक्त वसनालेप शोभितं || परशुं करवालं च वाणंस्त्रिशिखमेव च | दधानां दक्षिणैर्हस्तैरुद्धादि क्रमतः परैः || डमरूं खेटकं चापं नृकपालं च विभ्रमं | fओलिओ ९३ नोत् fओउन्द् ९४अ) अथ त्र्ययंवकस्य || भुजंगेण समारूढा पूतनावसुधे दुयुक् | वकं यजामहे प्रोक्त्वा सुगंधि पुष्टिवर्द्धनं || रुर्वारुकमिव प्रोक्तारंधनान् मृपदं वदेत् | भ्यामुक्षीय पदं व्रुयात् मामृतादि भ्यूदीरयेत् || त्रियंवकं मनुः प्रोक्त भजतां मृत्यु नाशनं | ध्यान || हस्ताभ्यां कलश द्वयो मृतरसेराप्लावयंतं शिराद्वाभ्यांतौ दधतं मृगाक्त वलयेद्वाल्यां वहतं परं | अंकन्यस्तकर द्वयामृत घटं कैलासकांतं शिवं स्वच्छां भोजगतं नवेन्दु मुकुटं देवं त्रिनेत्रं भजेत् || अथ महाकालस्य || हूं क्षां यां लां आं क्रों महाकाल भैरव स विघ्नान्नाशये २ ह्रीं श्रीं फट् स्वाहा || ध्यान || ९४ब्) ओं शिखानाथं महादेवं कर्णिकापलिसंस्थितं | प्रेतासवगता देवं स्वेतव्वर्न सूसोभितं || दक्षिणे रक्तवर्ण च पीतमूत्तर सोभितं | उत्तरे नीलजीमूलं चतुवक्त्रे महेश्वरं || द्वादशानयनसंयुक्तं ईषद्द्रष्टानना शुभा | पिङ्गभ्रूस्मश्रुकेसं च महा उग्रा भय प्रभा || रक्ताकलतला चैव षर्वोलम्बोदराङ्गिकं | वज्रज्वाला गता ज्वाला महाज्वाला सजाज्वलं || ज्वलंतिला युधासर्वे ज्वलज्वाला विराजित | दशर्वाहु महादेवं खड्ग फेटकधारकं || शरंधनुधरञ्चैव अंकुलं पाशधारकं | वराभय प्रदादेवं पात्र खट्वाङ्गधारनं || एवं डमरू भुजादश योजनविस्तरं | शरीलं व्याप्य रूपाणि सर्वशान्तिक कालकं || ९५अ) इति दशविद्या भैरवं || इति श्रीकौलरहस्य अष्टादशपटलः || १८ || अथ कौलिकार्चनं || महेश्वरं समालोक्य पूजयेद् विधि पूर्वकं | यथाविभवरूपेण पंचतत्वं निवेद्य च || सदा तुष्टा भवेद् देवी सर्वान् कामान् लभेदपि | अन्यथा नैव सिद्धिः स्यात् क्रुद्धा भवति योगिनी || मेदिनीं यस्तु पूर्णाञ्च ब्रह्मणे वेद पारगे | दत्वा यत्फलमाप्नोति तत्फलं कौलिकार्चने || अश्वमेध सहस्राणि वाजपेय शतानि च | दृष्ट्वा यत्फलमाप्नोति तत्फलं कौलिर्चनात् || वापी कूप तडागादि कृत्वा यत्फलमाप्नुयात् | तत्फलाल्लक्षगुणितं कौलिकानां प्रपूजनात् || कपिला चैवगां दत्वा यत्फलं लभते नरः | ९५ब्) तत्फलं कोटि गुणितं कौलिकानां प्रपूजनात् | अथ दूतीयागः || पुरुषेण विना किंचित् प्रकृत्या क्रियतेन हि | तथा शक्तिं विना देवो फलं दातुं क्रमोण हि || तस्मात् पुंशक्ति शंयोगं कृत्वा मन्त्रं प्रसाधयेत् | कौलिकै वाममार्गे च पुमान्देवो न सिद्ध्यति || आत्मानन्तु शिवं ध्यायःद्देवतां शक्तिरूपिणीं | क्रीडेत् पंचमकारैस्तु सुप्रीता तस्य देवता || दक्षमार्गे मातृबुद्धिः स्त्रीबुद्धिः कौलिके पथि | यस्य जाता दृढतरा तस्य तुष्टा तु देवता || एतद् रहस्यमाख्यातं गोप्यं मातरि जारवत् | शैवाः स्मार्ता याज्ञिकाश्च तां न कुर्वन्ति पार्वति || कौलानामागमज्ञानां तान्त्रिकाचार वर्तिनां | ९६अ) अनुकल्प प्रदातृणां मध्यस्थानां तथैव च | देवींतिबुद्धिर्योषित् सुयषामतिरचश्वला || तेषां काली सुभक्तानां सर्वदानिश्चितात्मनां | आवश्यकी शक्ति पूजा पीठपूजा वदीश्वरि || काली बुद्ध्यैव संपूज्या न कामाकुलयाधिया | चतुर्था श्रमिणे मुक्त्वा ये काल्यर्चन तत्पराः || कौलालि वाप्यकौलावा ये चैतन्मत वर्तितः | तेषां नित्याशक्ति पूजा प्राहैवं मां पूरद्विषः || सा शक्ति द्विविधा ज्ञेया स्वकीयां च परांगना | स्वजाति संभाया यातु परिणीता भवेत् प्रियेत् || सा स्वकीयो समुद्दिष्टा तथा नेयं प्रशस्यते | परकीया पंचविधाताः क्रमेण व्रवीम्यहं || संजीद्भ्रतृकाऽन्येका तादृगेवेवमृत प्रिया | ९६ब्) दासी वेश्या तथाऽरूढा प्रशस्ताचोत्तरोत्तरं | अजातवत्सा युवती तास्वाद्यै च प्रशस्यते || कदाचिज्जातवत्सापि सा सर्व सदृशा मता | अभावे पूर्वपूर्वायाः पराग्राह्या हि साधकैः || साधिकायास्तु कौलाया एवमेव पुमानपि | न साधकं विनानार्यो नपुंसः साधिका मृत || मन्त्राः सिद्ध्यन्ति देवेशि कल्पकोटि शतैरपि | परस्त्री संगमो सद्योपसूवा प्राणिमारणं || स्वार्थं चेन्नरकायै वव्यर्थं सुकृताय हि | को हेतुर्न विजानामि देवी प्रीकरा इमे || न पाप जनकं यद्वतद्यर्थं पशुघातनं | न किल्किषस्तद्वत् परस्त्री संगमादिकः || अर्शथक्तीनां जाति विशेषः || ९७अ) नटीकापालिनी वेश्या रजकीनां पितांगना | ब्राह्मणी शूद्रकन्या च तथा गोपाल कन्यका || मालाकारस्य कन्या च नवकन्याः प्रकीर्तिताः | नान्यूनांग्योनाधिकांग्यो न स्थूलानाधिकं कृशा || र च्छिन्ननासांगुलिका न दीर्घा न च वामना | न मुण्डिता न कुब्जाञ्च मूढान्धवधिरा न च || न केकरा नखंजाश्च भिन्न योनिगंलत्कुचा | वालापत्याश्च वित्यत्यो न कार्याः शक्तयस्त्विमाः || वदामि योग्यां साधिक्यां याभिस्तुष्पतिकालिका | गौरांगी युवती रम्या स्मेरास्स चारुविग्रहा || विशाललोलनयना पीनोन्नत पयोधरा | विशालजघना भोगा वलित्रय विराजिता || सुपाश्वेतनु मध्या च सुस्वराकुंचिता लता | ९७ब्) विचित्र वेशाभरणा विचित्राम्वर धारिणी | विचित्रम्रकसमाकीर्ण विचित्र रति दायिका || सदा प्रसन्नवदना देव्या भक्ति परायणा | कौलिकाचरणज्ञा च साधके भक्ति तत्परा || भयहीनास्मेरमुखी सर्वदा प्रिये वादिनी | समयाचार संपन्ना मन्त्रज्ञा भयवर्जिता || विदग्ध्या चोप्रसुताच्च धैर्यस्वातन्त्र्यसंयुता | एवं गुणसमायुक्ताः पूजयेत् सर्वयोषितः || अथ विद्या विशेष शक्ति विशेषमाह || गन्धरूपा जाति भेदैर्महाविद्या प्रकीर्तिताः | तत्क्रमां देवदेवेशि शृणु यत्नेन साम्प्रतं || रूप गन्ध क्रमेणैव नामदद्यान् महेश्वरि | मातृपितृ कृतं नाम त्यक्त्वायज्ञानपार्वति || ९८अ) स्वयं नाम प्रदद्याव्वै यथा योगेन पार्वपि | या कृष्णा नीलकृष्णा भामधुपिंगल लोचना || साधका कांक्षि हृदया पुंगन्धा निंद्य गन्धिका | तस्यां काली समायोज्या सा काली परिकीर्तिता || १ || मद्यगन्धा तु या नारी रक्त नेत्राति निष्टुरा | महोग्रतारा सा प्रोक्ता महापाप विनाशिनी || २ || सर्वदा भोजना शक्ता वहुभोज्याति चंचला | त्रैलोक्या मोहनाकारा च्छिन्ना विद्या प्रकीर्तिता || ३ || सर्वलक्षणसंयुक्ता नानागन्धसमाकुला | सुन्दरी चारुकेशी च दीर्घनेत्रा मनोहरा || नाना विलाश कुशला कुलशास्त्र विचारणी | गुरुवक्त्रः स्थला क्रान्ता मध्याविनलदर्शिनी || सुन्दरी सा भवेद्गौरी सर्वकार्या प्रवर्तिनी || ४ || ९८ब्) यासा तृतीया गौरांगी मधुगन्धानुलेपना | त्रिपुरा नाम सा देवी स्वपुष्प क्रमसाधिनी || ५ || चार्वगी चारुणेत्रा च कंज पद्मासन स्थिता | पीताभरणभूषांगी कमला परिकीर्तिता || ६ || गुंजाहार विभूषाढ्या श्यामा चंचल लोचन | चारुहासा तु मातंगी विद्या ख्याता महेश्वरि || ७ || दिव्यवर्णां कृशांगी च दिव्यगन्धानुलेपना | भुवनेशी मया प्रोक्ता नानाभरणभूषिता || ८ || पिंगनेत्रा पिंगकेशा किश्चिदुच्चाति हासिनी | धूमावती च सा प्रोक्ता सिद्धि विद्यां शृणु प्रियेत् || ९ || लम्बवक्त्रा च लम्बोष्ठी पीतवर्णति निश्चला | वगला या महेशानि कीर्तिता तव सुव्रते || ९९अ) दशविद्यादुमाख्याता शक्तिरूपेण पार्वति | दशविद्या महेशानि मातृस्त्री भगिनी क्रमात् || क्रीडन्ति शततं देवि विद्या एव न संशयः | दश क्रमो महेशानि दशविद्या सुयत्नतः || सर्वथा कारयेद् देवि नान्यथा युगकोटिभिः | न हि सिद्द्यन्ति देवेशि दशपद्म जपेन वै || तस्मात् सर्व प्रयत्नेन स्वस्वविद्या क्रमं चरेत् | आत्मीया च परा चैव शक्तिमात्रं महेश्वरि || मन्त्राधि देवता बुद्ध्या पूजा सर्वोपचारकैः | विविधैः फलताम्बूलैर्वस्त्रालंकालहेमभिः || संपूज्य विधिवद्भक्त्या वहु हेतुं प्रदापयेत् | संभोग वासनां धृत्वा यः कुर्याच्छक्ति पूजनं || सदारिद्र्यमवाप्नोति नारकी च भवेद्ध्रुवं | ९९ब्) वहुभिः किं वरोजालैः समासात् समप्यं शृणु | निर्दिश्यते शक्ति पूजा कौलिकानां दिने दिने || प्रत्येहं च सूरादानं तत्स्वीकारोत्वहं तथा | नित्यतोक्तस्तयोद्देवि कुलमार्गारतेषु च || हेया हेय विवहे (रो हि) तथा | विरलः शक्तिषु प्रिये | अनुकल्प प्रदातृणामपि नित्यन्वमेव हि || विहाय गर्हिताः शक्ति योग्या एव हि गृह्यते | इतरेषां शक्ति पूजा काम्या नैमित्तिकी तथा || समाधिष्ठित चित्तानामितरासां निराकृतिः | विधानैकंलयेदानीं मन्त्रानपि च पार्वति || स्नातां दिव्यांवर धरां नानारंकारमण्डितां | युवतीं पीनवक्षोजां तथा चाकृति भोजनां || हस्ते गृहीत्वा वामौरौ स्थापयेच्छक्तिमुत्तमं | १००अ) अशक्त वामोवोढुत्तां देव्यावामेथवासने | वामभागे समालिख्य त्रिकोणं पद्मवर्तुलं || श्वेतरक्तसमायुक्तं नालं सिंदूल चर्चितं | साधकः प्राङ्मुखो भूत्वा देवीं प्रत्यङ्मुपूजयेत् || उड्डियानं तु त्रेतायां कृते पूर्णगिरिं यजेत् | जालन्धरं द्वापरेषु कामपीठं कलौयुगे || तानि चत्वारि वक्ष्यामि गुह्याद्गुह्य तरानि च | शक्तेः सर्व शरीरं यत् पीठं पूर्णगिरं मतं || तस्याः शिरश्चन्द्रभागे उद्यानं कीर्तितं मया | स्तनौ जालंधरं प्रोक्तं कामपीठं भगं स्मृतं || प्राणायाम त्रयं कृत्वा ऋष्यादि न्यासमाचरेत् | ऋष्यादिं च चरेदादौ ततः शोधनमाचरेत् || ऋष्यादि कण्ठश्चिदानिं एतस्य सुरवन्दिनी | १००ब्) श्रीशक्तिपूजनस्यास्यगोनर्द्ध ऋषिरीरितः | विकृतिश्च्छन्द आख्यातं शक्तिरूपापदादनु || महाकाली देवता च कामो बीजमुदाहृतं | शक्तिर्वधू भौवणेशी कीलकं समुदाहृतं || शिवशक्तिसामरस्य प्रकाशे विनियोगता | संसर्गा पंचदीर्घाढ्यैर्वधूबीजैः षडंगकं || विधायात्मनि शक्त्यंगे न्यासं वाच्यमथाचरेत् | स्त्रीवेच्छक्ति पदस्थाने भैरवेति पदं वदेत् || योषिद्योनि पदस्थाने स्याल्लिंग पदकल्पना | गुरुपदेशतश्चापि स्वबुद्ध्या चासुरेश्वरि || ऊहः सर्वत्र कर्तव्यो लिंगे तत् तत् पदेपि च | समानः किन्तु गायत्र्यां सासमानो भयत्र हि || १०१अ) न्यासोद्धारमिदानित्यं सावधाना निशामय | त्रयाकामोरमारावो योगिनी रोषयोषितौ || डाकिनी प्रलयोहारः फेत्कारी कर्णिकापि च | प्रेतो नृसिंहकुलिकं चिच्छुक्तिः सर्वशेषगा || एकैकं परतो दद्याद् बीजं नाम्नां सुरार्चिते | तान्पथादौलिकी च भगमालिन्यनन्तरं || रति प्रियातथानंगोऽकुला समय पालिनी | मदनोत्मादिनी कामा वेशिनी तदनन्तरं || चिन्तोन्माथिन्यपि ततो मोहन्या कर्षणी तथा | स्मरा तरानंग भूपा हृत्प्रमो दिव्यनन्तरं || सन्तापिनी ततः संक्षोभिनी च त्रिदशार्चितो | सर्वशेषे परिज्ञेया सामरस्य स्वरूपिणी || एताः षोडश वै कार्या ङेन्ताः पूर्वाणसंयुताः | १०१ब्) स्त्रीकत्वे पुलिंगा भैरवार्चन कर्मणि | नमः शेषेषु सर्वेषु स्थानानि कलयाधुना || शिरः कपोल्यै च गलः स्कन्धौ वक्षः कुचौ तथा | पार्श्वे कुक्षि च नाभिश्च वस्तिर्वक्षुण एव च || ऊरूजानू च जंघे च पादौ योनिश्च शेषगा | जीव न्यास वदे तस्याः सामरस्य मथाचरेत् || एते देवेति संप्रोक्तं शक्तिशोधनमीश्वरि | कृत्वा प्रहस्तन्तु करं दत्वा तु हृदनोजयोः || कामपीठेथवा देवि नाभौ मौलीयकी मते | मनुं गृणन्वक्ष्यमानं वारैकं वा त्रिवारकं || जीवन्यासात्मकमिदं शक्ति शोधनमाचरेत् | अनेन शुद्ध्यते शक्तिर्नान्यथा मन्त्र कोटिभिः || मायाकामोवधूर्लक्ष्मीः कूर्च प्रासाद एव च | १०२अ) शाकिनी डाकिनी चापि बीजाभान्यष्टौ पुरः स्मरेत् | भोगानन्द कलादोक्ति जीवात्म परमात्मकः || प्रतिबिम्बा द्वैत संज्ञा कात्म्यनालयाऽभिधान् | दशकूटाकन्मान् प्रोच्य ब्रह्म तद्विपरीतकं || द्वयं दशान्त उच्चार्यमेवमद्धार्द्ध सम्मितं | ततो ममानु हृदय तवानु हृदयं वदेत् || दधा तु मम वाच्युक्त्वा ते वाचं समूदीरयेत् | मतेन्द्रियेषु तदनु प्रवदेकमलानने || तेन्द्रियाणि च संभाष्य मम वाचं जुहुस्व च | ततः सिद्धिकरालीति त्वां मह्यं निपुनकुच || येवत्वंच स एवाहं य एवाहमितीरयेत् | सैवत्वं सन्धिनायुक्तमुभौ तदनुकीर्तयेत् || शिवशक्ति समारभ्यमापन्नौ तदनन्तरं | १०२ब्) तदैक्यमिति संकीर्त्य साधया च इतीरयेत् | स सन्धिस्तार हृच्छीर्ष मन्त्रस्तदनु सुन्दरि || अयं मन्त्रः समुद्दिष्टः शक्तिशोधनकर्मणि | अष्टोत्तर शतार्णढ्यो नन्यूनोनापि चाधिकः || ध्यानं पूर्वोदितं यत् ते भगवत्या मया तव | शक्तिं तादृशाकारां ध्यायेद्वीक्ष्यांगसंचयं || भैरव ध्यानसदृशमात्मानं च विभावयेत् | ततः आवाहयेद् देवीं शक्त्यंगपीठसंनिभे || वक्ष्यमानेन मन्त्रेण साधकोंजलि मुद्रया | मायाकामवधूराव कमलायोगिनीरुषः || डाकिनी चापि फेत्कारी नवैतान्यादिगान हि | एह्येहि भगवत्युक्त्वा महाकालि समीरयेत् || शक्तिपीठेनुसान्निध्यामावेशयसमुद्धरेत् | १०३अ) ततस्त्वमहमूल्लिख्या वाहयामि च कीर्तयेत् | सर्वशक्ति समाभाष्य स्वरूपिणि ततो वदेत् || तारं प्रतिष्ट शीर्षं च शक्तिमूल मनुं शृणु | मायारावः स्मरो नारी शक्तये हृदयेत् ततः || मन्त्रो नवाक्षरः प्रोक्तः शक्तिपूजन कर्मणि | ऋष्यादि नास्ति चैतस्य न छन्दो बीजशक्तयः || बिन्दुपाद्यादि नैवेद्य सर्वोपचाराघर्पण हेतुकः | जप्तव्यो नैव चायं हि त्रिपुरघ्न वचोद्यथा || सर्वोपचारान्ये तेन प्रदद्यात् किन्तु शक्तयेत् | पाद्यदानानि नैवेद्य दानन्त यद्यदिष्यते || न चान्य मन्त्रो भिन्नोस्ति मन्मतेज गदीश्वरि | कूर्चते यत् तु मौलेया तदमूलं विभाव्यतां || १०३ब्) शक्ति पूजा वशिष्टं यत् पुष्पस्रगनुलेपनं | यदात्मने दीयतेमत्मामरस्यार्चनं भवेत् || तदमन्त्रं प्रकर्तव्यमेवमीशानशाशनं | ततो दत्वा करंशक्ति योनि पीठे जपं चरेत् || साधकः शक्ति गायत्र्या शतमर्द्धार्द्धमेव च | योनिपीठ जपप्रख्यो न जप क्वापि विद्यते || सत्यप्रभावजनको मन्त्राणां पीठ उत्तमः | मन्त्राणां वलहीनानां प्रयोगक्षीण चेतसां || अनुद्धृतानां सापेभ्यो न्यूनाधिक्यार्णता जुषां | गुरुमिष्टानामपि चे प्रदानो नौजसान्तथा || अज्ञानविधि पूजानाम पात्रार्पणभागिनां | त्यक्तानां विस्मितानां च तथा चैवा प्रभाविनां || सन्धूक्षणार्थमुभयं प्रोक्तं त्रिपुर वैरिणां | एकं निर्वाणमन्त्रेण संपुटीकृत्य तज्जपं || १०४अ) कौलासनेनापरं च योनि पीठे जप क्रिया | कौलासनं योनि पीठेजः स्त्रीभ्यो मनुग्रहः || गुरुस्त्री शक्तिता चापि मिश्रीभूप जपेद् द्वयोः | अन्यैः समिन्धनं मन्त्रैर्वजाधिक्यकरं परं || अथात शक्ति गायत्री शृणु देवि महाफलं | कामबीजोद्भगवतीं ङेन्तां पुरत ईरयेत् || विद्महे योनि मालिन्यै धीमहीति ततः परं | तन्नः शक्तिरिति प्रोच्य सर्वशेषे प्रचोदयात् || एषा हि शक्ति गायत्री सर्वागम सुगोपिता | एतान्विना नशक्त्याच्चान शक्त्यच्चींगिको जपः || यथाशक्ति यपित्वैनां तत्समर्प्य च शक्तये | वामोरावुपवेश्यैव कुर्यान् मूल जपं प्रियेत् || १०४ब्) पूजयेन् मदनागारं रक्तचन्दन चर्चिते | भागतदीये विज्ञेया नाड्यस्तिस्रः प्रवाहिकाः || एकोत्तरा हि का चान्द्री सौरी चान्यातु वाहिका | आग्नेयी चापरा ज्ञेया पूजयेत् तस्तु साधकः || अस्त्र श्रवति चान्द्री सा पुष्पं श्रवति भानवी | बीजं श्रवति चाग्नेयी तास्तु नामभिरर्चयेत् || वाग्भवाद्यैर्नमो युक्तैः पूजयेत् सुप्रसन्नधीः | ध्यानं कुर्यान् महेशानि गह्व चेका करानने || ताम्रचूडाशिस्वारं गजवक्त्रसमप्रभं | तत्रस्थां चिन्तयेद् देवि विद्यां भुवनमोहिनीं || भगमालामन्त्रस्तु || वाग्भवंगशद्वान्ते भगे भगिनि चालिखेत् | भगोदरी भगाकेतु भगमाले भगावहे || भगगुह्ये भगप्रान्ते योनिप्रान्ते भगान्तके | १०५अ) निप्रातिनि च सर्वान्ते ततो भगवतिशरि || भगरूपे ततो लेख्यं नीरजायतलोचने | नित्य क्लिन्ने भगप्रान्ते सरूपे सर्व चालिखेत् || भगाविमेह्या नमोन्ते वरदेथ समालिखेत् | रतेस्वरते भगवत् क्लिन्ने क्लिन्ने द्रवे ततः || क्रेदय द्रावय चाथ सर्वसत्वान् भगेश्वरी | अमोघे भगविच्चे चक्षुभः क्षोभय सर्व च || सत्वान् भगेश्वरी ब्रूयाद् वाग्भवं ब्रूजमादिकं | भं व्लुं मौं व्लूं च हैं क्रिन्ने च ततः परं || सर्वाणि च भगान्यन्ते मेव शंचानयेति च | स्त्रीबीजञ्च हरे प्रान्ते वलमात्मकमक्षरं || भुवनशीं समालिख्य विद्ययं भगमालिनी | चतुर्थ्यन्ते यजेद् देवि भगे पुष्पं विनिःक्षिपेत् || १०५ब्) प्रक्षाल्यकुलद्रव्येण गन्धपुष्पैः समर्चयेत् | धूपदीपादिकं कृत्वा पश्चादावरणं यजेत् || इहाप्यावाहनं नास्ति जीव न्यासो महेश्वरि | अथैवं च विधानेन ताः षोडशोपचारकैः || इष्टदेवीं प्रपूज्याथ सर्वसिद्धीश्वरो भवेत् | अर्चयेद् गन्धपुष्पाद्यैः स्वशिवन्तदनन्तरं || अथ न्यासं प्रवक्ष्यामि शिवात्मानं विभावयेत् | पंचवक्त्रं महादेवं कलायुक्तं न्येत् क्रमात् || ईशानस्सर्वविद्यानां शशिनी प्रथमा कला | ईश्वरस्सर्वभूतानां मंगदा तदनन्तरं || ब्रह्माधिपति शब्दान्ते ब्रह्मणोधिपतिः पुनः | ब्रह्मेष्टदाशिवोमस्तु मरीचि संपुटं न्यसेत् || सदाशिवों समुर्च्चार्य मुंण्डमालिन्यथा परा | १०६अ) तत्पुरुषाय विद्महे कलान्तिरितिरिता | महादेय धीमही कलाविद्या तथैव च || तन्नोरुद्रः पदं पश्चात् प्रतिष्ठा कथिता कलाः | प्रचोदयात् समुच्चार्य निवृर्ति स्यात् ततः परं || पूर्वपश्चिम याम्येषु उत्तरेष्वप्यनुक्रमात् | हृदये विन्यसेद् देवि अघोरेभ्यः स्तमः कला || अथ घोरेभ्यो मोहां च ग्रीवायां विनासेत् ततः | घोरान्ते स्यात् क्रिया पश्चाद् दक्षिणंशे प्रविन्यसेत् ततः || घोरान्ते स्यात् क्रिया पश्चाद् दक्षिणांश प्रविन्यसेत् | नमस्तेस्तु क्षुधां पश्चा कलां पृष्ठे न्यसे क्रमात् || भुद्ररूपेभ्य इत्यन्ते तृषान्तार नमोन्तकाः | वामदेवाय नमोन्तेरजा स्याद्गुह्य देशके || १०६ब्) मुखसव्ये प्रविन्यस्य रक्ष्या ज्येष्ठाय वै नमः | रुद्राय नमोरतिं पश्चाद् वाममुषकलामिमां || कालाय नम इत्यन्ते पालिनी उरु दक्षिणे | कलकामा च देवेशि वामे विकरणाय च || नमः पदं समुच्चार्य संयमनीन्दक्षजानुनि | वलक्रिया समुद्दिष्टा वामे विकरणाय च || नमोन्ते वृद्धिमुच्चार्य दक्षिणे स्फित्रि विन्यसेत् | वलप्रमथनाय नमो रात्रिं वामे प्रविन्यसेत् || सर्वभूतदमनाय नमोऽन्ते ब्रह्मणा कला | कटि देश प्रविन्यस्य मनान्ते मोहिनी कलां || दक्षिणे पार्श्वके न्यस्य उन्मनाय नमो ज्वलां | पादयोस्तननासासुमूर्द्ध्निनिवाहु युगे न्यसेत् || १०७अ) सद्योजातोद्भवा सम्यगष्टौ मन्त्री कला क्रमात् | सद्योजातं प्रवक्ष्यामि सिद्धिः स्यात् प्रथमो कला || सद्योजातोये वै भूयो नमः स्यादृद्धिरीरिता | भवेद्युतिस्तृतीयास्मादभवेतदनन्तरं || लक्ष्मीश्चतुर्थी कथिता ततो नाति भवै पदं | मेधाख्या पंचमी प्रोक्ता कला भूयो भवस्वतां || प्रज्ञासमीरिता षष्ठी भवान्त्य स्यात् प्रभा कला | उद्भवाय नमः पश्चात् सुद्धा स्यादष्टमी कला || प्रणवाद्याश्चतुर्थ्यन्ता नमोन्ताश्च प्रविन्यसेत् | एवं न्यासविधिं कृत्वा स्वयं शैवं विभावयेत् || पंचाक्षरं पुरस्कृत्य रुद्रध्यान परायणः | सामरस्य मयं कृत्वा रक्षार्थं कवचं पथेत् || वध्वा तु क्षोभिनीं मुद्र्यं न कालिकान्तर्पयेत् सदा | १०७ब्) सान्निध्यान्तत्क्षणाद्वापि * * * * * * * *? | * * * * * *? नाश्च तर्पणं चणदामृतैः || गुरूणां साधकानाञ्च सर्वेषां तर्पणं चरेत् | तेनामृत न दिव्येन सर्वे तुष्टा भवन्ति च || यत्कामं कुरुते मन्त्री तत्क्षणादेव सिद्ध्यति | कुलामृतं समादाय तत्रार्घ निःक्षिपेद् बुधः || ततः सोमकलाः पूज्याः साधकैनिर्मलाशयः | मधुभाण्डसहस्रैस्तु मांशभारशतैरपि || नैव तुष्टा भवेद् देवि भगलिंगामृतादृते | कुलद्रव्यञ्च संशोध्य शिवशक्ति मयं प्रिये || जीवामृतं परं ब्रह्म रूपं निक्षिप्य सुन्दरी | अर्घपात्रामृतैयुष्णा निर्विकल्पः सदानघः || अर्घ द्रव्यश्च देवेशि योनौ देवीं प्रपूजयेत् | Fओलिओ १०८ नोत् fओउन्द् १०९अ) योनि पूजां विना पूज्या कृता चाप्य कृता भवेत् | दूती योगे कृते मन्त्री सर्वज्ञा जायते ध्रुवं || न तस्य पुनरावृत्तिः कल्पकोटि शतैरपि | यैः कृतं यजनं दूत्यास्तेरिष्टाः क्रतवोखिलाः || सर्वतीर्थ मयोः प्रोक्तः सर्वदेव मयो भवेत् | पुरश्चर्यादि सकलं कृतं तेन संशयः || अश्वमेध सहस्राणि वाजपेय शतानि च | आसमुद्राश्च धरणी तत तेन स दक्षिणाः || मेरुमन्दर तुल्याणि सुवर्णन्यर्पितानि वैः | गो कोटिदानाद्यत् पुण्यं तत्पुण्यं जायते प्रिये || तस्मात् सर्वप्रयत्नेन दूतीयागं समाचरेत् | पूजासंपूर्णदं भद्रे सर्वारिष्ट प्रकाशकं || योनि पूजा युता पूजा कृतामप्यक्षया भवेत् | १०९ब्) आयुरारोग्यविभवा नमितान् लभते नरः | अनेनैव विधानेन विषार्तोन्निर्विषो भवेत् || पुत्रार्थी लभते पुत्रं धनार्थी लभते धनं | मातंगी शक्तिमत्यर्च्यतंपासाकं समर्चयेत् || मातंगी मन्मथोपेतां सर्वकामार्थसिद्धये | शक्त्या साकं सदा पूज्या मातंगी मन्त्र देवता || सा देवी शक्ति हीना तु न ददाति मनोरथं | पूर्णाभिषेक रहितो य शक्तिं साधयेन् नरः || सोधमः पतितो रोगी पंचत्वं लभते ध्रुवं | इन्द्रियाणामधृष्यत्वात् कामलोभा सम्भवात् || प्रायः कलो कौलिकोयं पंथानरक हेतवे | उत्तमा नित्य पूजा स्यान् मध्यमं पर्वपूजनं || मासपूजाधमाप्रोक्ता मासादूर्द्धपशुर्भवेत् | ११०अ) मासे वाथ त्रिमासे वा षण्मासे वत्सरेत् पिवा | श्रीगुरुं पूजयेद् भक्त्या प्राप्नोतत्स्त्री सुतादिकान् || तदभावे तत्कुलीनं तच्छिष्यं वा योगिनं | संतोषयेत् कुलद्रव्यैश्चक्र पूजा पुरःसरं || इति श्रीकौलरहस्य सर्वागम एकोनविंशतितम पटलः || १९ || अथ चक्रस्य विशेषाचारमाह || उच्छिष्टो न स्पृशेच्चक्रं कुलं द्रव्य तथा गुरुं | वहि पक्षाल्प च करौ कुलद्रव्याणि दापयेत् || मद्यभाण्डं समुद्धृत्य न पात्रं परिपूरयेत् | भोगपात्रं सुराकुम्भं निःक्षिपेन्न कदाचन || चक्रमध्ये शुचि धिया करास्यक्षालदिकं | यः करोति हि मूढात्मा स भवेदापदां पदं || निष्ठीवनं मलं मूत्रमधोवायविसर्जनं | श्रीचक्रमध्ये यः कुर्यात् स भवेद् योगिनी पशुः || ११०ब्) चक्र मध्येद्यतेभिण्य पात्रे वासुवलिते तथा | दीपनाशे राजपीडा तच्छान्त्यै चक्रपूजनं || परिहासं प्रलापं च विडंवं वहुभाषणं | क्षौदासीन्यं भयं क्रोधं चक्रमध्ये विवर्जयेत् || पात्र हस्तश्चक्रमध्ये न भ्रमेत् पूर्ण पात्रकं | विरं न स्थापयेद्धस्ते नालयेत् पात्रपाणिकः || पादाभ्यां न स्पृशेत् पात्रं न चस्भं?द्यात् कदाचन | नैव हस्तेन दातव्यं न बिन्दुं पातयेदधः || पात्रं न चालये स्थानान्न मुद्रा वर्जिते पिबेत् | स शब्देन पिबेत् मद्यं न कुर्यात् पात्रसंकरं || पात्रस्यां शब्दयं मद्य पूर्णं त्र्यशंतुरीयकं | नाना न्यान्यं ताडयेत् पात्रं न पात्रं ताडयेदधः || साधारे नोद्धि प्रदं || १ || Fओलिओ १११ नोत् fओउन्द् ११२अ) सर्वाम्नाय कलाकलापकलितं कौतुहल द्योतकं चन्द्रोपेन्द्रशम्भुवरुण ब्रह्मादिभि सेवितं | ध्यातं देव गणै मोक्षार्थिभिः सर्वदा लोकानामति वर्द्धनं सुखकरं पात्रं द्वितीयं नमः || २ || मद्यं मांसकमत्स्यकं हरिहर ब्रह्मादिभिः पूरितं मुद्रामैथुन धर्मसुखदं क्षाराम्लतिक्ताश्रयं | आचार्यार्चितमष्टभैरव कलान्यासेन संसोधिपायात् पञ्चमकारसंयुतमिदं पात्रं तृतीयं नमः || ३ || आविर्भूत स गोलकुण्डसुखदं ब्रह्मादि रुद्रार्चितं नीराज्यं प्रथमो गजात कुसुमं दिव्याधि कूटं परैः | मच्छोच्छाममुत्तमोत्तमरसंसंस्यव्यादिव्यामृतं भूयः पंचकमुक्ति कामकमिदंपाचतुर्थं मुदे || ४ || ११२ब्) आधारे भुजगाधिराजवलये पात्रं मही मण्डलं मद्यं सप्तसमुद्रवारि पिशितं चाष्टौ च दिग्दन्तिनः | सोहं भैरवमर्चयन् प्रतिदिनं तारागणैरक्षितं आदित्य प्रमुखैः सुरासुरगणैराज्ञा करैः किं करैः || ५ || च्छत्रं चामर भद्रपीठ परमानन्दायितं दायिनं रामाराज्य मनोहरसुखरंसायुज्य सामाज्यदं | नानाव्याधि भवान्धकार हरणं जन्मान्तरं नाशनं श्रीमत्सुन्दरि तर्पणेन्द्र वरदं पात्रं च षष्ठं भजेत् || ६ || जाग्रत् स्वप्न सुषुप्ति तुर्यपुरतो चैतन्य साक्षात् प्रदं विद्युद्भास्कर वह्नि चन्द्र धनुषजातिः कथाभाषितं | इडापिंगलमध्ये गात्रिवलया सत्कुण्डली चोर्द्ध पात्रं सप्तमपूरणेन तनुनानन्दोधिकः पातुमां || ७ || ११३अ) खड्गं पादुकमंजनं च गुटिकं सारस्वतं सास्वतं सत्पदं मृत्योर्वंचनमुग्रकार्य ग्रहनं देह स्थिरः कारणं | पायात् सिद्धिकरं मनः स्थिरकरं वश्यं जगघोषितां पात्रं चाष्ट ममष्टसिद्धिकरणं प्रौढ प्रसन्नं सदा || ८ || सर्वानन्द करं सदा शिवपदे द्वद्वैक मुक्तिप्रदं साम्राज्यं सुखदं मनोरथ करंत्व ज्ञानविध्वंसनं | आयुः कीर्तियशोविवर्द्धनकरं संसारमोहच्छिदं पात्रं श्री नवनाथशक्ति नवकं प्रौढ प्रतीपादितं || ९ || त्रिपात्रं पंच पात्रं वा सप्त पात्रमथापि वा | नव पात्रं पिबेद् वापि षोडशार्द्धं पिबेन हि || यावन्न चरते दृष्टिर्यावन्न चरते मनः | ११३ब्) तावत्पानं प्रकूर्वीत पशुपानमतः परं || पूर्णाभिषेक युक्तानां पानन्दे विनिगद्यते | कराभ्यां पात्रमुद्धृत्य स्मरन्मूलञ्च पादुकां || आगलान्तं पिबेन्मद्यं समुक्तां नात्रसंशयः | पीत्वा पीत्वा पुनः पीत्वा यावत् पतति भूतले || उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते | आनन्दा भृययते देवीमूच्छया भैरवः स्वयं || वमनाःत्सर्वदेवासु तस्मान्त्रितयमाचरेत् | ब्रह्मज्ञानी कुलाचारे सुरापीत्वा स्खलन्मुहुः || भूमौ पतति तस्यांगे खगन्ति यदि रेणुवः | तावत् कारं रेणु संख्यं ब्रह्मलोके समोदते || पीत्वा पीत्वा जपित्वा च मुक्तः कोटि कुलैः सह | ब्रह्मलोके वसेद् देवि सत्यं सत्यं न संशयः || ११४अ) तत्रैव व्याप्ति माप्नोति न पुनः प्रपतेद्विह | पीत्वा च पूजयित्वैशामीशत्वं लभते ध्रुवं || तत्रैव लयमाप्नोति पुनर्नैव निवर्तते | तत्र मत्तेषु वीरेषु कार्याकार्यं न विद्यते || तत्र यद्यत् कृतं कर्म शुभं वा यदि वा शुभं | तत्सर्वं देवता प्रीत्यै जायते नात्र संशयः || जल्पोजपफलं तन्द्रा समाधिरभिधीयते | विक्रिया पूजनं प्रोक्तं च्छर्द्दिगं भैरवो वलिः || मुक्तिः स्माच्छक्तिसंयोग स्तोत्रं तत्कारभाषणं | न्यासो वयव संस्पर्शो भोजनं हवन क्रिया || ध्यानं तु वीक्षणं प्रोक्तं शयनं वंदनं भवेत् | तदुल्लासकृतानां च या चेष्टा सा च सत्क्रिया || कार्या कार्य विचारन्तु यः करोति स पातकी | ११४ब्) एतच्चक्र गता वीरा विज्ञयाः परयोगिनः || येनाप्नुवन्ति मनुजाः साक्षाद् भैरवरूपतां | संमोदकोपशमनं पतनोट्तान नर्तनं || वेणुवीणादि वाद्यं च कविता रचनादिकं | नोदनं भाषणं पातः समुत्थानं विजृम्भवं || गमनं विक्रिया देवि योग इत्यभिधीयते | विकृतिं मनसो हित्वा ये पाल्लासः प्रवर्तते || तदा तु देवता भावं भजन्ते योगि पुंगवाः | कौलिकाम्भैरवा वैशान्या चानिन्दंति मूढधीः || तन्नाशयंभ्यसंदेहो योगिन्यो नात्रसंशयः | यद्यद्वक्तिमदावेशादूद्भुतं कौलिकौजनः || तत्तद्भवस्यसंदिग्धं शुभं वा यदि वा शुभं | तारो नमो भगवति मद्यमांसविहारिणि || ११५अ) रति प्रिये चक्र देवि वद कौलिक वल्लभे | सत्यं मनो गतं मद्य त्युक्त्वा मद्यं पलान्वितं || प्रदद्यात् कौलिके भ्यस्तस्तन्मताः प्रव्रुवन्तिते | तत्र कश्चिद कौलञ्चन्नसास्फुरंति भारती || नन्दिन्देन्न हसेत् कुप्येच्चक्रे मधु मदाकुलान् | एतच्चक्र गतां वर्ता वहिर्नैव प्रकाशयेत् || तेभ्यो द्रोहं न कुर्वीत नाहितं च समाचरेत् | भक्त्या संक्षयेत् तान्वै गोपयेच्च प्रयत्नतः || चक्रे च प्रमदां दृष्ट्वा चिन्तयेद् देवताधिया | मोदते वन्दते भक्त्या स गच्छेद्योगिनी पदं || प्रवृत्ते भैरवी चक्रे सर्ववर्णा पृथक् पृथक् | स्त्रियोथ पुरुषः षण्डाश्चाण्डालो चाद्विजोत्तमः || चक्र मध्ये न भेदोस्ति सर्वे देव समाः स्मृताः | ११५ब्) चक्रमध्ये गताः सर्वे पुरुषा शिवरूपिणः | स्त्रियः सर्वाश्च पार्वत्यस्तस्माद् भेदं न कारयेत् || कामुको न स्त्रियं गच्छेदनिछन्तीमदीक्षितां | सद्यः संस्कारसंशुद्धां विहितत्वाद्व्रजेत् स्त्रियं || सहस्र चक्र पूजातोराज्य भ्रष्टो नृपो भवेत् | पंचाशद्भिश्च पुत्रप्तिर्निरोगो दशभिर्भवेत् || यस्य चक्रस्य पूजायां रतास्खालति चांगना | अवश्यं सार्वभौमोसौ वर्षमध्ये भविष्यति || यथेप्सित प्रिया प्राप्त्यै पंचधा पूजनं चरेत् | सप्तभिः स्याद्धन प्राप्तिश्चक्र पूजा विधिस्त्वयं || भगिनी वा सुतां भार्यां यो दद्यात् कुलयोगिने | मधुमत्ताय चक्रान्ते तस्य पुण्यं न गण्यते || इति श्रीकौलरहस्य सर्वागमे विंशपटलः || २० || ११६अ) अथ नैमित्तिकमाह || श्रीमहाकाल उवाच || एतावान्नित्य पूजाया विधिरुक्तो मया तव | नैमित्तिकानि काम्यानि सांप्रतत्वं निशामय || निमित्तं किंचिदुद्दिश्य यदा याति सुरेश्वरि | तन्नैमित्तिकमुद्दिष्टं नित्यवत् तदपि प्रियं || कामनां कामपि स्वीयां चित्ते कृत्वा प्रवर्तते | तत्काम्यमिति निद्दिष्टं कामनाफल साधकं || तत्रापि प्रथमं वक्ष्ये कर्मनैमित्तिकं शिवे | नैमित्तिका श्रपि प्रायो विज्ञेयं नित्यवद्बुधैः || यस्तु नैमिर्तिकीं पूजां निमित्तत्वैरूपस्थितां | कुरुते नित्य पूजा च दज्ञानपरिवृंहित || तस्मात् पापतरैः को वा कालिका द्वेष भाजनं | ११६ब्) अंगहान्यापि नित्यस्य न हानि रूपकल्प्यते | नैमित्तिकस्याद्गहा निःफलहानिः प्रजायते || तस्मात् सांगं प्रकर्तव्यं श्रास्त्रं दृष्ट्वा गुरुक्रमैः | अंगानिकानि विच्चास्याः पात्राधिक्यं शिवावलिः || पंचायतेनरीतिश्च मन्त्रपार्थक्यमेव च | पूजा वलिः पशु वलिः पूजाया क्रममेव च || धूपदीपादि संभारंः शक्तिपूजा जपोदशः | नित्य पूजासुसंत्येव यद्यप्येतेषु केचनः || स्यान्नित्स नैमित्तिकयो भिर्न्नारीभिस्तथापि हि | सरद्वासन्तिकी पूजा तथा चैवोपरागिकी || निमित्तत्वेनाभ्यूपेता तेन नैमित्तिकी मता | एतयोरणनुष्टानाज्जायतेन च नित्यता || नाना तंत्रोदिताः सन्ति प्रधानंन्तत्र तन्मतां | ११७अ) एवं सर्वत्र बोद्धव्यं सर्वेश्वेवनित्तिषु | शुद्धा नैमित्तिका पूजा प्रोक्ता विंशति भेदिका || पर्वानि च महाप्रेता व्यतीपातः स वैधृतः | मन्वादयो युगाद्याश्च वेदांगं देवता भवं || पुष्पाञ्चर विवाराञ्च त्रिगुरूणां स्वकीयकं | जन्माहश्चापि दीक्षाया दिवसं नवरात्रके || चन्द्रसूर्यो परागौ च सूतसंस्कार एव च | तीर्थयात्राभिगमनं तथा चागमनन्तरं || पीठे पीठगमे पुण्य लाभे होमे व्रतोत्सवे | उत्पातानां दर्शनं च बन्धमोक्षो रिपून्नतिः || रोगेष्वापत्सूदोषेषु दुःसंगे दुर्निमित्तके | ग्रहपीडाराजभयं शान्तिरत्युदयंत्तथा || एवं नाना प्रकारेण निमित्तानीरितानि ते | ११७ब्) दमनारोपनं नाम पवित्रारोहणन्तथा | अन्तर्भवन्ति कृत्येषु तिथी नामे च पार्वति || तिथि पर्वाणि कथ्यन्ते येषु नैमित्तिकार्चनं | अथ कुलवारादि निर्णयः || कुलवाले कुलाष्टम्यां चतुर्दश्यां विशेषतः | योगिनी पूजनं तत्र प्रधानं कुलपूजनं || रविश्चंद्रो गुरुः सौरिश्चत्वारस्त्व कुला मताः | भौमशुक्रौ कुलाख्यौ तु बुधवारः कुलाकुलः || द्वितीया दशमी षष्ठी कुलाकुलमुदाहृतं | कुलानिसमधिच्छ्यानि तच्छेषान्य कुलानि तु || अष्टमी नवमी चैव तथा चैव चतुर्दशी | उभयोः पक्षयोरेता पूर्णिमा दर्श एव च || संक्रामाद्वादश तथा चत्वारस्तेष्वपीरिताः | ११८अ) अयने द्वे द्वे विषुवे षडशीति चतुष्टयं || चतुष्कं विषुवत्याश्च नैते पूर्व समा प्रिये | श्चाद्येश्चराणां चत्वारो द्विभूपाणान्ततः परं || ततः स्थिराणां तावन्तो येषां पुण्योदयः शुभः | व्यतीपातो वैधृती च तिथीनां क्षय एव च || चतस्रोपि युगाद्यास्तामहापुण्यफलप्रदाः | शुक्ला तृतीयाराधी पातादृगूर्जनवम्यति || भ्राद्री त्रयोदशी कृष्णा तापसा दर्श एव च | शुक्ला सप्तमी कृष्णा रविवारेण संयुता || अष्टमी सौम्यसहिता दशमी गुरुणापि च | षष्ठी भार्गवसंयुक्ता शनिना च त्रयोदशी || वैशाखी सप्तमी शुक्ला ज्येष्ठी या च चतुर्थ्यपि | ज्येष्ठस्य शुक्ला षष्ठी च दशमी गुरुनापि च || ११८ब्) श्रावणी पञ्चमी कृष्णा शुक्लापंचम्यपि प्रिये | द्वितीया तिथिमारभ्य तिथि स्याद् यावदष्टमी || शुक्लपक्षे तु भाद्रस्य तिथयः सप्तपुण्यदाः | सामान्येताष्टमीत्वेन पर्वत्वे प्रत्युपस्थितो || दुर्गाष्टमी विशेषेण दुर्गाप्रीति प्रदा तिथिः | दुर्वाङ्कुरारोपणाख्यं मौलेया अत्र कुर्वते || अरभ्येवाष्टमी कृष्णां यावत् स्याद् दशमीसिता | अष्टादशेमास्तिथयो देवी प्रीतिकराः स्मृताः || तिस्रो विशेषतः पुण्याः सप्तमाद्यावरानने | सर्वै निवर्त्यते यासुशारदीयो महोत्सवः || त्रयोदश्यादयस्तिप्रस्तिथयः कार्तिकस्य तु | कृष्णपक्षे वरारोहे स्युरनन्तफल प्रदाः || ११९अ) फले त्रयोदशी नाम्नाऽघोराख्या चतुर्दशी | दर्शे तु सुखरात्र्याख्या अथवा दीपमालिका || प्रतिप्रद्वाहुले या च सितातस्यां यजेच्छिवां | शुक्लाष्टमी तु गोष्ठाख्या सा भूरिमुकृत प्रदा || युगाद्या नवमी प्रोक्ता तस्यां जागर्ति कालिका | अतस्तु पूजाविस्तारः कार्यास्तस्याम्विशेषतः || अथ तिथिनिर्णयः || तिथीनां निर्णयं वच्मि सुक्ष्मांतां न तु विस्तरात् | नैमिर्तिकीषु पूजासु तिथयो यानिरूपिताः || ग्राह्यानिशीथ व्यापिन्यः पक्षयोरुभयोरपि | प्रशस्तमर्द्धरात्रं हि भगवत्यर्च्यने मुदा || योगोनिशीथेन यदा तिथीनां नैव जायते | तदा विवेकः कर्तर्थो द्वयोरेव हि पक्षयोः || ११९ब्) यासूदितो रविः शुक्ले तिथय विहितां | कृष्णया स्वस्तमायाति सामान्योयन्विधिर्मतः || मुहुर्तमात्रादधिकाया तिथिः शुक्लयोक्षिकी | सा स्नान दान पूजादौ विहितत्वेन गृह्यते || न्यूनामुहुर्त मात्राद्वा मुहुर्तेनमितापिता | तिथिः कालमतत्येन सा न ग्राह्या कदाचन || यावती या तिथिस्तिष्टेत्तावत्यां तदुरीरिता | क्रियारत्य समाप्तव्या तत्तत्कर्मोपयोगिनी || कृष्णप्येवं यदा सा तु तिथिः कालेन युज्यते | तदा तद्विहितं कर्म कार्यं रात्रौ दिनेपि वा || निशीथ योगा भावे तु पक्षयोरुभयोरपि | पूजादिकं तु कर्तव्यां पूर्वाह्नेनापराह्नतः || देवानामिह पूर्वाह्ने मध्याह्ने तु तृणां भवेत् | १२०अ) अपराह्नः पितृणां स्याः देवं धर्मविनिर्णयः | तिथि द्वेध विचाराय मधुना वै विरुप्यते || दितद्वयोपि चेल्लन्या पूर्वाह्न व्यापिनी तिथिः | पराविद्ध्ये पूर्वविद्धो तिथ्या नैवाद्यता क्वचित् || चतुर्थी सहिता कार्या तृतीयांतद्वितीय या | चतुर्थी पूर्वविद्धै च कर्तर्व्यार्चन वासरे || पंचम्यां सहितां कुर्वन सद्यो नश्रु सान्वयः | चतुर्थ्या सहिता कार्या सर्वदा कालिकार्चने || सप्तम्या सहिता षष्ठी प्रसस्ता सर्वकर्मसु | षष्ठी विद्धो प्रकर्तव्या सप्तम्मन्मत्र वासरे || नत्वाश्विने तु शारद्यां पूजायां जगदीश्वरिः | पक्षद्वयोप्यष्ठमी तु विधातव्या परान्विता || १२०ब्) अष्टम्या सहिता कार्या नवमी पुण्यदा तिथि | नवम्या दशमी विद्धा सर्वसौख्य करी मता || नैकादशी दशा विद्धा कर्तव्या भूतिमिच्छता | नैकादशी द्वादशी च न द्वादश्यां त्रयोदसी || चतुर्दशी प्रकर्तव्या त्रयोदश्या समन्विता | अमापरयुता कार्या चतुर्दश्या न योजिता || इति देव्यर्चन विधौ तिथि कर्तव्यतेरिता || अथ वीररात्र्यादि निर्णयः || देव्युवाच || देवेश श्रोतुमिच्छामि वीररात्र्यादि निर्णयं | वीररात्रि महारात्रिः काललात्रिस्तथैव च || मोहरात्रिर्घोररात्रिः क्रोधरात्रिस्तथैव च | शिवरात्रि दिव्यरात्रि दारुणा च यथा क्रमात् || श्रीभैरव उवाच || कथ्यते परमेशानि शृणु सा वहितोद्भव | १२१अ) चतुर्दशी संक्रमश्च कुलकुंकुलावासरः | अर्द्धरात्रौ यथायोगा वीररात्रिः प्रकीर्तिता || शुक्लाष्टमी चाश्विनस्य नवरात्रं तु तस्य वै | महारात्रिर्महेशानि कालरात्रि शृणु प्रिये || दीपोत्सव चतुर्दश्यां त्वमाया योग एव च | कालरात्रिर्महेशानि ताराकाली प्रियंकरी || जन्माष्टमी महेशानि मोहरात्रिः प्रकीर्तिता | मासि मार्ग शिरे प्राप्ते कृष्णाष्टम्यां महेश्वरि || महाकालः स्वरूपाय घोररात्रिः प्रकीर्तिताः | चैत्रमासि नवम्यां च शुक्लपक्षे च भूसुते || क्रोधरात्रि महेशानि तारा रूपा भविष्यति | प्राप्ते फाल्गुणके मासि कृष्णैकादशिका तु या || भृगुभौमयुता चेत् स्यादवलारात्रिरीरिता | १२१ब्) ज्येष्ठीया दशमी शुक्ला दशयोगसमन्विता || अमा भौमसमायुक्ता संक्रमेण समन्विता | कुल ऋक्षसमायुक्ता ग्रहणं यदि चेद्भवेत् || तारा त्रिस्तुसंप्रोक्तं भाग्यादेव तु लभ्यते | फाल्गुणे कृष्णपक्षे तु त्यर्द्धरात्रौ भृगौ शिव || शिवरात्रिस्तु संजाता सर्वसिद्धि प्रदायिनी | ज्येष्ठी या दशम्ये शुक्ला भृगुवासुरसंयुता || दशयोगसमायुक्ता रात्रावेकादशी यदि | सा तिथिर्दिव्यरात्रिश्च कीर्तिता परमेश्वरि || तृतीया माधवे शुक्ला कुलचालक्षसंयुता | दारूणा कीर्तिता देवि सर्वसिद्धिश्वरी परा || अथ चान्द्रादि मासः परिग्राह्या शौचादौवसुरेश्वरि | राशिक्रमेण या मासौ विवाहादौ सहि स्मृतः || १२२अ) ऋणादान प्रयोगेन श्रावनश्याध्वनादिषु | शान्तिके पौष्टिके वापि नाक्षत्रो मास ईष्यते || इन्द्राग्न्येराहुतिर्यत्र दीयते सुरवन्दिते | मासस्यादिः स विज्ञेयो व्रतारंभादि कर्मणि || भोमाग्नीषो मयोर्यत्र मासमध्यक उच्यते | पितृणामाङ्क कर्म यदा निर्वहति प्रिये || अन्तो मासस्य विज्ञेयः प्रतिमासमियं क्रिया | नैमिर्तिकार्चने कालाः प्रातर्मध्याह्नसंगवाः || प्रदोषरात्री विघेशर विविक्तीशशक्तिजाः | विहितं कालमूलंघ्य या काचि क्रियते क्रिया || तया किंचित् फलमपि जायते सुरवन्दिते | वित्तराशस्तथा यासौ भवतीत्याहुरागमाः || १२२ब्) तस्मात् काले प्रकर्तव्यं कर्मस्वर्गा फलार्थिभिः | यथाकालं यथाश्रद्धा यथाद्रव्यं यथोचितं || यथावलं यथा देशं तथा पूजां समाचरेत् | नैमित्तिक महाकृत्यश्चः कर्तव्ये सुरेश्वरि || एकवारं हविष्यान्नं भुंजीत विजितेन्द्रियः | मलीमशांशुभ्यासंक्षौर कर्मधरोषितां || मूर्तिपीठादि संसृष्टिं तत् प्रासादे विलेपनं | पूजापात्रा हि संशुद्धिन्ततोद्द्रव्यैर्विशेषतः || नैमित्तिक क्रियायां हि षडेतानि समाचरेत् | धूमोङ्गारे दन्तरक्ते सूतके च गलद्वणे || पूजापूर्वं मैथुनं च स्त्रीद्विजा क्रोशने तथा | नैमित्तिकं न कुर्वीत कुर्वन्नैवाप्नुयात् फलं || कौलाचाररतः सर्वान् योषितश्चा कुलाध्वगाः | १२३अ) निमन्त्रयीत यत्नेन सर्वैषां प्रथमं गुरुं || नैवेद्य धूपदीपानां कुर्याद् यत्नेन संभृतिं | विशेषतश्च पुष्पानां माल्यानां च वरानने || रजन्यां दिवसे वापि विहितार्चन संभुतिः | कत नित्य क्रियोदर्भ पाणिः श्रुतिरन्यधीः || अपनीय सुनादीन गन्धादीन् स्थापयेत् पुनः | पूर्ववत् सर्वपात्राणि प्रक्षाल्य च सुरेश्वरि || मृद्वासने सुखासीनो यथा विभव कल्पिते | प्राचुर्यं वकुलानां च वैशाखे मासि कारयेत् || नागकेशरपुष्पानां ज्येष्ठमासि समाचरेत् | भूरीष्टता विधातव्या वंधूकस्याश्विने पुनः || अगस्त्य कुसुमानां हि भूरितामूर्ज आचरेत् | आधिक्य विश्वपत्राणां मार्गशीर्षे समाचरेत् || पौषे दुर्वाङ्कुराणां हि संदोहोति फल प्रदः | १२३ब्) कौन्दस्तोमौ मघमासे सर्वकल्याणदायकः | फाल्गुणे माधवी पुष्पं सर्वसिद्धि प्रदायकं || चैत्रेऽशोकस्य कलिका कलिकार विनाशिनी | मालती यूथिका चैव दमनं कर्णिकारकं || कुरुण्ठकं कुरुवकमम्लानं पातलान्तथा | नवमालिर्क पुष्पं * तथा चैवाति मुक्तिदं || एकादशैतानि सदा कुसुमानि वरानने | माघस्य वाथ पौषस्य कशोर्केण युतो यदि || व्यती पातश्रवण भयोषादर्द्धो वयो भवेत् | युगाद्या कोटिभिस्तुल्या विज्ञेया सा महातिथिः || अन्तफल प्रदन्तत्र च वलिं दत्वा विधानतः | धनधान्य सुतान् प्राप्य देहान्ते मोक्षमाप्नुयात् || माघ शुक्ला तृतीया च वरनाम्नाभिधीयते | १२४अ) अत्रार्चिता कालिका हि कन्याभ्यो वरमृच्छला || कारस्य कन्या च कुंभकारस्य कन्यथा | कन्याष्टकमिदं प्रोक्तं कुलाष्टमथा शृणु || राजवेश्या गुप्तवेश्या देवदेश्या विलासिनी | नृत्यपात्री तीर्थवेश्या कुटिनीव्यभिचारिणी || पंचलिंग हतावेश्या दशलिंगा भगेश्वरी | पञ्चविंशति लिंगा च लिंगं तुष्टाः प्रकीर्तिता || पंचाशलिंगसंयुक्ता लिंगसिद्धाः प्रकीर्तिता | शतलिंगा भगानन्दा सहस्राभगसुन्दरी || असंख्या लिंगसंयुक्ता भगब्रह्म परामता | कुलाष्टकमथेदानीं शृणु पार्वति तत्वतः || मध्ये लिंगा महेशानि भगमाजा महोत्तमा | विश्वलिंगा सर्वयोनि सर्वस्मादपि चोत्तमा | १२४ब्) कुलाकुलाष्टके देवि द्विविध परिकीर्तिते | राजवेश्यादिका युग्मं गोपयश्च यथादिकं || मात्रा पूत्री तथा पौत्री स्वसारवैस्तुषातुया | कालिके केलि कुंची च भातृजा तथाष्टमी || कुलाष्टकमिदं प्रोक्तं सर्वसिद्धिं प्रदायकं | तरुणीं सुन्दरीं रम्यां चंचलां कामलोलुपां || गुरु भक्ता मन्त्रयुक्तां सर्वलक्षणसंयुतां | ईदृग्विधां समानीय प्रसून तुलिकोपरि || कुचौ तु कलशौ प्रोक्तं सामान्यार्घ्यन्तु नाभिका | भगध्वजै विषैशाघ्यौ त्रिकोणं यन्त्रमीरितं || गमागमा वृत्तिरुक्ता पुष्पप्रहसितं स्मृतं | आलायस्तु तपः प्रोक्तं न्ववलोकवरः स्मृतः || क्रोधस्तु निग्रहः प्रोक्ते करग्राहो भयं भवेत् | १२५अ) तस्याः पादप्रमारस्तु पृथिव्यास्तु प्रदक्षिणा || चुंवनं स्तोत्र पाठोत्र कुचधारस्तु सत् क्रियाः | गलपादस्य निक्षेपः सिंहासनमितीरितं || विपरीतं दोलिकाख्या पूजा प्रोक्ता महेश्वरि | विसर्जनं वीजपातो मुद्रात्वा लिंगनं भवेत् || क्षौष्टसंचुंवनं देवि खेचरी योग ईरिताः | कपोलचुंवनं देवि गुटिका परिकीर्तिता || ललाटे चुम्वनं देवि पादुकापरिकीर्तिता | नेत्रसंचुम्वनं देवि अंजनं परिकीर्तितं || करसंचुंवनं देवि खड्गसिद्धिः प्रकीर्तिता | योनिसंचुवनं देवि मनोरथ मयी शतिः || जिह्वा प्रदानं देवेशि कालवंचनमीरितं | १२५ब्) रससंलेलिनं देवि ब्रह्मरूपं न संशयः || आलोचने पृथिव्यास्तु देवता दर्शनं भवेत् | तत्संगिना सदाभाव्यं तामालोक्य जपेत् सदा || कोटि ब्रह्माण्डदानादि एकतं परिकीर्तितं | तस्याश्वलोकनं देवि सर्वश्रेष्टतरं भवेत् || तपः स्यात् कोटितीर्थेषु योगानामपि कोटयः | देवालयानामभ्यं कृतं येन निरंतरं || तेनेदं प्राप्यते देवि दर्शनं विंदुरूपिणः | ब्रह्मणो दर्शनं देवि शब्दब्रह्म महत्तरं || चंद्रामृतंराहु भीत्या तथा स्वर्गामृतं पियत् | राक्षसानां तु संभीत्या क्षोष्टे योनौ विराजिते || चंद्रामृतं चाधरोष्ठे योनौ स्वर्गामृतं प्रिये | सदा तिष्ठति देवेशि ज्ञानास्सिध्यति नान्यथा || अज्ञाराद्विषरूपं स्यान्नात्र कार्या विचारणा | १२६अ) मुखे हालाकरे माला योनिशाला च चक्षुषि | हुदयेस्त्री करालातु दीपमाला गृहांगणे || न करोति परं यस्तु स कथं मम पूजकः | संयोगो गृहेनं देवि महाकल्पांततोपि च || सूर्यग्रहो यथा योगे विपरीते निशाकरे | तयायेदुच्यते वाक्यं तद् देव कारये प्रिये || तदा योगे समालब्धे योगे यदाचन | पुरुषस्य न जातो हि तेन सः क्रीडते मुहुः || ग्रस्तास्त स तु विज्ञेय सर्वश्चोत्तमोत्तमः | स्वयं योगे समालब्धे स्वस्य पूर्वं तु स च्युतिः || तया कार्यं समाचर्यं तस्याः पातो न जायते | ग्रस्तोदयः स विज्ञेयाः सर्वसिद्धि प्रदायकः || १२६ब्) इदं रहस्यं यत्प्रोक्तं दिवायोगं शृणु प्रिये | स्वस्थ क्रमेणैव तस्य तस्यास्नार्द्धो दयोद्भ मतः || महोदयः स्वयोगे स्याद्वार्तादशहरः स्मृतः | तद्वार्ताक्षप्यरूपाख्यास्तृतीयः परीकीर्तितः || इति संक्षेपतः प्रोक्तं विशेषं शृणु पार्वति | मास द्वादसकं देवि क्रमेण परिकीर्तितं || शतयोगे महेशानि महासाम्राज्यमीरितं | दिव्यादीनामिति प्रोक्तं दशूना शृणु चापरं || राज्यं शृणु महेशानि सूर्यचन्द्र क्रमाद्विचा | दर्शवा पूर्णिमायाम्वा राहुसूर्यनिशा करौ || संच्छ्रादयति देवेशि ब्रह्मणो वरदानतः | भूमिच्छायानुगश्चन्द्रः चन्द्रशोर्क कदाचन || एकरासावेकभेचायदातोभ्यां निलस्वयं | १२७अ) सति योगे सप्तमे वाराकादर्शावसानतः | ततो परापगो भवति कोटि पुण्यफलप्रदः || सूर्य भेदत्रयं देवि चन्द्रे भेद त्रयं तथा | सूर्योपरागोग्रत्तास्तस्तथाग्रस्तोदयः स्मृतः || चंद्रेपि भेद त्रितयं शाक्तोवपि त्रिधा त्रिधा | सार्द्ध द्वयं गुरोत्तरं ग्रस्तत्वं परिकीर्तिते || स्नाने जपे तथा होमे दाने श्राद्धोंविकार्चने | समहान् पुण्यकालो हि विज्ञातव्यः सुरेश्वरि || अहोरात्रोपितः पूर्वं ग्रहणे चन्द्रसूर्ययोः | जपित्वाभ्यर्च्य वा देवी दानदत्वा तथैव च || कृत्वा श्रार्द्धं विधानेन सर्वपापै प्रमुच्यते | यद्यत् करोतितते काले तस्या दक्षयं हि तत् || धनदोप्यत्र पुण्येन मोदने ब्रह्मणा सह | भास्करस्य च चंद्रस्य ग्रहणे प्रत्यूपस्थिते || १२७ब्) आपः कौप्यापि देवेशि गंगाजलसमाः स्मृताः | तस्याच्छतगुणं ज्ञेयं सारसं सलिलं शुचि || तस्मात् सहसस्रगुणितं नादेयं परिकीर्तितं | तस्मात् कोटि गुणं ज्ञेयं गांगेयं पावनं महत् || स्नानात् सहस्रगुणितो होमो ज्ञेयो विचक्षणैः | होमाच्छतगुणं श्राद्धं श्राद्धाच्छतगुणा जपः || जपात् सहस्रगुणितं दानमाहुर्मणीषिणः | दानात्कोटिगुणा पूजा भगवत्या विशिष्यते || तत्र नैमिर्तिकी पूजा कार्यातित्या कदापि न | पूर्वेद्युरुपवासे तु पूजाकोटि गुणा भवेत् || उपोषणस्या सामर्थ्ये पूजा लक्षगुणा मतां | चंद्राक्कौ तमसाग्रस्तौ दृद्धैवार्चांसमारभेत् || अदृष्टे तु ग्रहे देवि सर्वविफलमीरितं | १२८अ) न तत्र प्रत्ययात् स्वस्य प्रत्ययो देवकर्मणि | स्नाने दाने जपे होमे श्राद्धेर्चार्यां प्रतिग्रहं || दर्शना नन्तरं दृणांमधिकारो न चान्यथा | अन्तर्दृष्टे तु ग्रहे देवि मध्यग्रासे महेश्वरि || मेघाच्छन्ने मुक्तिहीने स्नानदानादिकं चरेत् | जपमात्रं विधातव्यं मध्यग्रासे तु सूर्यके || ग्रस्तोदयं समारभ्य ग्रस्तास्ते परमेश्वरि | शास्त्रं दृष्ट्वा समालोक्य स्नानदानादिकं चरेत् || कदालग्नं कदामुक्ति सर्वज्ञात्वा प्रयत्नतः | स्नानदानादिकं कार्यं नान्यथा शांकरं वच || स्वराशितो वरारोहे त्रिषष्ठ्यैकादशे ग्रहे | सदोषे पश्यतोराहुमिति तत्रापदोषता || यतः फलानां वाहुल्यं दोषाणमल्पना तथा | १२८ब्) जायते तः प्रकर्तव्यमवश्यं राहु दर्शनं | नाडीभाष्टमचन्द्रादि दोषाणामपनुत्तये || किंचिद् दानं प्रकर्तव्यं तत् तद् विघ्नोपशान्तये | उद्धृत्ताये मया प्रोक्ताः काली मन्त्राः शुचिस्तिते || तेषामेकोप्यकवारं जप्तश्वेद्राहु दर्शने | पापानि नाशयेत्येवं कोटि जन्मकृतान्यपि || षोडशार्णं सप्तदशीमेकवारं य उच्चरेत् | सप्तद्वीपावती पृथ्वी दानस्य फलमश्रुते || तस्माद् विशेषतः कार्यो जपः पूजा समन्वितः | पुरश्चरण मन्त्रैव गौणं कुर्वि केचन || कर्मैकं कार्यमेतस्मान्तते पूजाधिकारिणः | आवश्यकतयातैस्तु प्रकर्तव्यमुपोषणं || पूजाकर्तनमुख्यन्तत्कृते तु फलभूरिता | यामत्रयं न भोक्तव्यं चन्द्र * हणपूर्वतः || १२९अ) सूर्यग्रहणतः पूर्वं प्रहराणां चतुष्टयं | राहुनिर्मुक्तमरूणं तथैव रजनी करं || दृष्ट्वैव भोजनं कुर्यादन्यथा नारकी भवेत् | ग्रस्तास्तौ च दुभौस्मातामथवाचनिमीलितै || दिवारात्रमुपोषैव ततोऽग्नीयाद्यथा क्रमं | अत्र केचिदपीच्छंति भवशास्त्र विमोहिताः || उपवासं प्रकुर्वीत ग्रस्तास्ते परमेश्वरि | शास्त्र दर्शस्तु संदर्शः प्रत्यक्षे पूर्णरूपता || दिव्यानामपि देवेशि अंगुल द्वयतो भवेत् | उपवासं त्रिरात्रं तु शैवानीं परिकीर्तितं || विष्णुगाणपसौराणां द्विरात्रं परिकीर्तितं | शाक्तानां पूर्वरात्रं तु पुरश्चर्या युतो भवेत् || पुरश्चण हीनानां पूर्वमेततन्मया तव | १२९ब्) चांद्रे स्वायंभुवे देवि द्विरात्रं परिकीर्तितं | नोपवासं प्रकुर्वीत जीवपुत्रो हि कचिहिते || नैमित्तिकं द्वयं यत्र तत्राल्पं काम्यवाचकं | अविधाय नरोयस्तु विमुक्तस्नानमीश्वरि || भुक्ते स केवलं मद्यं भुक्ते विश्व स केवलं | श्राद्धकृद्धोम कृद्वासि दानकृज्जपकृच्च वा || निवर्तित प्रात्यषिकः कलाकांक्षी स्थितो भवेत् | ग्रहं दृष्ट्वाशु च स्नात्वा मर्तत्कम समाचरेत् || आशौचं जन्ममरणं जनितं चेत् प्रजायते | न काम्याश्रार्द्ध दानार्चाः केवलं स्नानमाचरेत् || सूतकद्वय युक्तोपि यो मूर्खो वा स्नाति न ग्रहे | सद्यः समृत्युमाप्नोति स्नायी पापान्न विंदति || जपेदान तथा होमे श्राद्ध चैव सुरार्चने | १३०अ) असौ च दोषः सर्वत्र न तु स्नाने सुरेश्वरि | मासयोर्भाद्र नभसोः सरितः स्युरजस्वराः || चन्द्रसूर्यग्रहे प्राप्ते रजो दोषो न विद्यते | स्नात्वा पुण्येदके तीर्थे शुचिः पूर्वेमपोषित || स्पर्शाद्विमुक्ति पर्यन्तं जपेन्मन्त्रमनन्यधी | अनन्तरं दशांशेन क्रमाद्धोमादिकं चरेत् || अथ वामहतीं पूजां कुर्याद् दानं तथैव च | मूलमन्त्रस्य सिद्ध्यर्थं गुरू यत्नेन तोषयेत् || एवं च मन्त्रसिद्धिः स्यात देवता च प्रसीदति | तत् तिर्थे विशेषस्यात तथैव च फलेष्वपि || स्नानादौ तेन कर्तव्यं तीर्थाभिगमनं प्रिये | गंगा फलसमान्युस्युः सर्वाण्यमसिभूतले || तथापि तत् तत् तिथानां विशेषः कोपि कथ्यते | १३०ब्) दशजन्म कृतं पापं गंगास्नानेन नश्यति | त्रिंशज्जन्म कृतं पापं गंगायमुनासंगमे || शतजन्मकृतं पापं गंगासागरसंगमे | जन्मनां तु सहस्रेण यत्पापं समुपार्जितं || कृत्वा सूर्यग्रहे स्नानं तन्मुंरति महोदधौ | जन्मनांति युते नैव यत्किंचिन्नृभिरर्जितं || वाराणस्यां ग्रहे नाम्नात्तदाश्चैव व्यपोहति | नरैख्यापं कृतं यद्यज्जन्मनां कोटिकोटिभिः || तत्सर्वं सन्निहत्यायां राहुग्रस्ते निशाचरे | नाशयेत् स्नानमात्रेण सत्यं सत्यं सुरेश्वरि || सूर्यग्रहः सूर्यवारे सोमे सोमग्रहस्तथा | चूडामणिरिति ख्यातस्तदा योगो महाफलः || सर्वेभ्यो देवि दानभ्यो द्वेदानेति महत्फले | भूमेरथसुवर्णस्य वर्णाद्भूमिः प्रशस्यते || १३१अ) पूजायामपि देवेशि परिवारगणार्चनात् | षोडशद्वादशाष्टांब्दा कुलपूजा प्रसस्यते || ततः कोटिगुणं ज्ञेयं निश्चितं बिन्दु पूजनं | चन्द्रसूर्यग्रहे वापि यन्त्रस्थापनमाचरेत् || यंत्रसंस्थापनं कर्मं चन्द्रसूर्य ग्रहे शिवे | तद्यन्त्रस्था देवता तु सद्ग्रस्रावरदायिनी || चन्द्रसूर्य ग्रहे देवि यद्यत्कर्म करोति च | तत्तदक्षयमायाति विद्याराज्ञा प्रसादतः || चन्द्रसूर्योपरागे तु मेरुसाधनमाचरेत् | दुष्टमन्त्रोपि देवेशि क्रमेण सिध्यति ध्रुवं || तारापिंड ग्रहे प्राप्ते तथा सूर्य ग्रहेपि च | जपादिकं विधातव्यं शक्ति पूजां ततश्चरेत् || सर्वसिद्धिश्वरो भूयान् नात्रकार्या विचारणा | ऋतु स्नातां स्त्रियं ज्ञात्वा सूर्यचन्द्रग्रहान्तरे || १३१ब्) पतिपार्वणमासाद्य पिंडं तस्मै प्रदापयेत् | वंध्या पुत्र प्रदो योगः सर्वसिद्धि प्रदायकः || सूर्योपरागे देवेशि स्नात्वा पूजां समाचरेत् | सांगां सावरणां पूज्य सवल्यन्तं महेश्वरि || कुमारी पूजनं कृत्वा सर्वसिद्धीश्वरो भवेत् | चन्द्रर्प्य ग्रहे देवि शतसंख्यां कुमारिकां || पूज्यसिद्धिश्वरो भूयान् नात्रकार्या विचारणा | सूर्यग्रहे महेशानि काम्यहोमं चरन् शिवः || तर्पणं कुरुते यस्तु तस्य श्रीसर्वतो मुखी | मार्जनं तु प्रकर्तव्यं सर्वदुःख प्रशान्तये || सूर्यग्रहे समायाते परधिर्यदि वै भवेत् | परभृद्वाभिधो योगः सर्वसाम्राज्यदायकः || तारापिंडे परागे तु गुरुं संपूज्य देवतां | १३२अ) संतोष्य तद्वरो ग्राह्यः सर्वसिद्धीश्वरो भवेत् || तारापिंडाग्रहे प्रोक्ते शवमानीयसाधकः | शवासने जपेद् देवि ग्रासादुद्ग्रासतः शिवे || सर्वसिद्धिश्वरो भूयात् तद्वन्ते शिवतां व्रजेत् | सूर्योपरागे देवेशि शुद्धांतः करणो यदि || स्नात्वा यथोक्त विधिना संपूज्य जगदंविकां | शिरः पुष्पः कर्तयित्वा देवतायै निवेदयेत् || देवता पश्यति शिवे वरदान पराध्रुवं | सूर्योपरागे संप्राप्ते स्नात्वा प्रोक्तेन वर्त्मनां || शक्तिमानीय तद्ग्रात्रे न्यासजालं प्रविन्यसेत् | मद्यैमांसैस्तथा मत्स्यै भगलिंगामृतैरपि || देवतां तत्र संपूज्य सांगांसावणां शिवे | तत्र जिह्वां प्रदत्वा तु जपात् त्रैकाल्यच्चिद्भवेत् || १३२ब्) अतीता नागतज्ञाने वर्तमानं च पश्यति | सूर्यग्रहे महेशानि वेश्यामानीय सादरं || शक्तिं लिंगोपरिस्थाप्य जपेद् यत्नेन पार्वति | त्रैलोक्य विजयी भूत्वा नात्रकार्याविचारणा || अनुकल्प प्रदातृणां द्विजानां श्राद्धमेव च | कौलानामपि सर्वेषां विमुक्तानां महेश्वरि || पात्राणां स्वग्रहणं सस्तं ग्रहं मध्ये कदाचन | इति संक्षेपतः प्रोक्तः ग्रहणस्य विनिर्णयः || इति श्रीकौलरहस्य सर्वागमे एकविंशपटलः || २१ || अथ यन्त्रभेद || जावज्जीवं सुवर्णे स्याद् रौप्य द्वाविंशति प्रिये | ताम्रे द्वादशकं वर्षं तदर्द्धं भूर्ज पत्रके || ताम्रे द्वादश वर्षाणि धारणेन तु पूजने | ताम्रार्घ्ये ताम्र यन्त्रे च देवता सर्वदा स्थिता || संस्कृत्य पूजयेद् देवि स्फटिकादौ तु सर्वदा | १३३अ) ताम्रे लक्षगुणं प्रोक्तं रौप्य कोटिगुणं भवेत् | सौवर्णेऽनन्त फलकं मण्यादौ किं वदामि ते || अथ यन्त्रा ध्यानमाह || देव्युवाच || पूर्वसंसूचितं नाथ यन्त्रध्यानं त्वया प्रभो | कथं ध्येयं किं विशिष्टं किं ध्येयाध्ययमेव हि || वृत्तं मूर्ति स्वरूपं वा मेखलावस्वरूपकं | किं वारेखा मयं ध्यायं किं वा वै भूस्वरूपकं || विश्वरूपं स्मरेद्वापि तत्सर्वमपि कथ्यतां | ईश्वर उवाच || ध्यानन्तु त्रिविधं प्रोक्तं यन्त्रे मात्रे महेश्वरि | आदौ विराद्विश्वरूपंद्विश्वचन्द्र स्वरूपिणं || यन्त्रं संभावयेद् देवि सर्वत्र कथितं स्विदं | श्रीचक्रादौ महादेवि विरद्रूपे तु साम्यता || द्वितीयं च कथं ध्यायं तन्मे वद महेश्वरि | १३३ब्) रजः पुंजनिभारेखा सर्वचैतन्य रूपिणी | सर्वदर्पणवद्भाव्यं स्वप्रकाशस्वरूपिणं || चैतन्यं भाववयत्सर्वं विंद्वादिं भूपुरात्तकं | मूलतेजः प्रकाशेन अभिन्नं भावयेत् प्रिये || तृतीयं शृणु देवेशि मेरु रूपं समातनं | उत्तरोत्तरमुच्चं स्यात् विद्वारभ्यविभावयेत् || द्विंद्वधो भावयेद् देवि एकैकोत्तरत शिवे | न चोत्तरक्रमेणैव भावयेद् वा महेश्वरि || काली विद्या विधौ देवि नवरत्न स्वरूपिणीं | रेखां संभावयेद् देवि मेरु प्रस्तार वच्च वा || श्रीचक्रं वीजसंयुक्तं निःफलं परमेश्वरि | बीजहीनन्तु यच्चक्रं निर्बीजं सिद्धिदं न हि || सृष्टि चक्रं भवेदादौ स्थिति चक्रं द्वितीयकं | लय चक्रं तृतीयस्या त्रिधा चक्रं विभेदितं || १३४अ) बीजसंलेखरं देवि त्रिधात्र गदितं मया | बीजं विना तु निर्जीवं शववत् परिकीर्तितं || बीजयुक्तं भवेद् यन्त्रं निःशप्त सिद्धिदायकं | बीजाभावे मातृकार्णत् संलिखे बिन्दु भूषितान् || यन्त्र मध्ये तु संलिख्य तद्यन्त्रं पूजये च्छिवे | दलाकारन्तु यद् यन्त्रं तद्यन्त्रं सिद्धिदायकं || दलाकारं कलौ पूज्यनान्यथा सिद्धिदं शिवे | मन्त्रचैतन्यकं देवि यंत्र चैतन्यकं देवि स्वस्मिन् त्रितय भावना || न तत्र ध्यानरूपादि तेजो यन्त्रं विभावना | सप्रपंचे तु संसारे दूराचारा वृत शिवे || भावेनैव तु संप्रोक्ता भावना सिद्धिदा मता | अथ कौलिका देविशेषमाह || देव्युवाच || देवेश श्रोतुमिच्छामि रहस्याति रहस्यकं | वामिनां चैव कौरानां यन्त्रसंस्कार कर्मा च || १३४ब्) शिव उवाच || अथोच्यते महायन्त्र संस्कारः सर्वसिद्धिदः | शुभेह्निस्नानमाचर्य शुभे लग्ने शुभक्षणे || कृत नित्य कृतो मन्त्री प्राङ्मुखो वाप्युदङ्मुखः | पूर्वोक्त धातु द्रव्यैश्च सुन्दरं सुमनोहरं || सुरेखं शुभदं यन्त्रं लेखयित्वा विधानतः | प्रतिष्ठां च ततः कुर्याद् यथाशास्त्र प्रमानतः || शुभे लग्ने पुण्यकाले शैलादि विहित स्थले | मंत्री कल्पानुसारे तु पूर्वद्युरधिवासयेत् || सायं संकल्प विधिवत् घतस्थापनः पूर्वकं | गणेशादीन् समभ्यर्च दिक्पालां परिपूजयेत् || मद्यं मांसं तथा मत्स्यं मुद्रामैथुनमेव च | यन्त्रसंस्कार कर्मादौ द्रव्यमेतन्मयेरितं || यथाशक्त्यापचाराद्यै पूजनं मूल देवतां | १३५अ) सुगंधतैलगन्धाद्यै द्रव्यैस्तमधिवासयेत् || चन्द्रेत्यादि च मन्त्रेण जपघोषपुरस्मरं | इत्यादिधिवासितं कृत्वा संयतो विजितेन्द्रियः || प्रातर्नित्यं विधायादौ ततो यागस्थले विशेत् | पतकाध्वजसंकीर्णं दिव्यमण्डलमण्डिते || वितानचामरच्छत्र पुष्पमाला विराजिते | मंगलांकुर पत्राद्यै कलशैपरिभूषिते || मण्डलं सर्वतो भद्रे रेखा साहस्रसंयुतं | सामान्य भद्रं वा देवि वेद्याश्चोपरितो लिखेत् || अथवा दक्षिणे वामे वक्ष्ये वारुणमण्डलं | चतुरस्रं चतुःषष्ठिकोष्ठं विद्यां निवेशयेत् || अन्त्यो यान्ति महत्यास्तु दिक्षु कोष्ठानिमार्जयेत् | मध्येस्थ चतुरक्षीणि तद्वाराख्यानि पूर्ववत् || १३५ब्) पीतश्यामश्वेतहरिद्रजोभिः परिपूजयेत् | कोणकोष्ठं विहायैक पंचाशत् पादसंगिता || पीठस्य पाण्डुरारक्त पीतकृष्णः प्रपूजयेत् | आग्ने पीतः कोणकोष्ठान्या रक्तहरिमासितैः || श्वेतवर्णेन चत्वारि मध्ये वृत्तारिकारयेत् | पूजयेदथ तस्यार्धं वितानं वन्धयेद् यथा || षट्त्रिंश शदशव्या सार्द्ध वृत्तमाद्यं तु पीततः | तत्पीतं कर्णिकाकारं सितरेखा वृतं ततः || द्वितीयं द्विगुणव्यासभूपकेशरसंयुतां | पीतरक्तश्वेतवर्णमूलमध्यग्रकेशरं || द्विसप्तत्यंशिकाश्चेतां तस्याग्रे कुरु रेखिकां | तृतीयं तु तृतीयांशं तुल्याव्यासं तु वर्तुलं || श्वेतमष्टदलं तत्र रक्ताग्रं तद्दलांतले | १३६अ) श्वेतं वहिः कृष्णवर्णा प्रागवद् रेखांसितां कुरु | तद्वहिर्वृत्तसंलग्नान् षोडशारन् प्रकल्पयेत् || श्यामपीतारुणश्चैतैस्तदन्तस्तु यवाकृती | सितपीतारुणश्यामहरिताः पंचमेखिकाः || कार्याः सुरूचिरां पंच स्यान्तरेवं प्रपूरयेत् | वज्रशक्ति दण्डखड्गपाशध्वजगदां लिखेत् || पूर्वतस्तु तथैशान्यं शूलचक्रां व्रजान्वितं | वामदक्षिणयोरेत मण्डलं वारुणा द्वयं || प्राङ्मुखो वाग्यतो भूत्वा संकल्प्याभीष्टसिद्धये | पंचशुद्धिं समाचर्य हुर्वन्तक्षत संयुतं || संस्थाप्यमण्डले तत्र यजेदाधारशक्तितः | पीठमन्त्रं समास्तीर्य स्थापये कलशं बुधः || दीक्षाक्रमोक्त विधिनाभिषेक कलसं तथा | पंचगव्यं ततः कुर्याच्छिवमन्त्रविवोधितं || १३६ब्) तेन सुस्नापयेन्मन्त्री यन्त्रं च प्रणवं जपन् | पंचामृतेन हविषा दघ्ना? च पयसा क्रमात् || तत उद्धृत्तनं कृत्वा जलेन स्नापयेदपि | पंचगव्यं समानीय तत्र यन्त्रं समाहितः || जपन् क्षिपेत् सुवर्णादौ वेदसूत्रं पुरस्सरं | तत उद्धृत्यस्वर्णादि पात्रे संस्थाप्य मन्त्रवित् || पंचामृतेन तीर्थेन शीतलेन जलेन च | सहस्रशिर्षामन्त्रेण मूलमन्त्रपुरस्सरं || सुस्नाप्य पावनेन कर्पूरां गुरुनीरतः | सर्वोषधि जलैर्गंध जलैर्यत्नेन मार्जनं || ततः सुद्धदुकुलेन जलमुत्सार्यसाधकः | परिधायह कुलेहे स्वर्णनिर्मितदोलया || मण्डले तं सन्यानीय नृत्यगीतैजयस्वनैः | १३७अ) कुंकुमाद्यैर्विलिप्यांथ पूज्यसर्वोपचारकैः | पीठपूजां ततः कुर्यात् स्वस्वकल्पोक्तमामतः || कुशैः कुलीनैर्वा देवि शतमष्टोत्तरं जपेत् | पूर्वोक्तां यन्त्र गायत्रीं जप्त्वा देवत्वमाप्नुयात् || अथेष्ट देवतां ध्यात्वा मुद्रया वाहयेत् ततः | जीव न्यासं ततः कुर्यात् पूजयेद् दिष्ट दैवता || नृत्यगीतैश्ववादित्रैः पंचघोष पुरःसरं | ततो जपेदिष्टमन्त्रमष्टोत्तर सहस्रकं || कुण्डे वा स्थण्डिले मन्त्री हविषा संस्कृतेले | यथाविधिविधानेन श्रुचाहोमं समाचरेत् || ग्रासप्रमानं च चरुं मूले नाकृक्षमन्त्रवित् | घृतश्रावं ततो दत्वा जुहुयादग्निसंमुखे || पंचविंशति तत्वैश्च तत्वेन तर्पणं चरेत् | १३७ब्) इन्द्रादि दिक्पतित्यश्च दद्यान् पूर्वोदितं वलि | तत आवृत्ति देवेभ्यो घृतेनाहुति माचरेत् || तदंते देवि मन्त्रेण हुनेदष्टोत्तरं शतं | मातृका युक्त मन्त्रे तु जपं जय जयस्वनैः || गत्वा होमसमांपेतु दत्वा पूर्णाहुतिं ततः | इष्टसिद्ध्यै वलि दत्वा प्रणमेच्चक्रमुत्तमं || तोषयेत् स्वर्णवस्त्राद्यैः प्रदद्याद् दक्षिणामपि | मकारैः पंचभीद्देवि वीरपूजा समाचरेत् || शक्तिं कुमारिकां वालां पूजयेत् पंचपंचकं | कुर्याद् दशाष्टकं वापि कुलद्रव्यैः समस्तकैः || त्रैलोक्य नाथो भवति मन्त्रपूजन योगतः | भुतशुध्यादि कृत्वा च कल्पोक्त न्यासमाचरेत् || निशायां शक्तिपूजां च दूतीयागश्च कौलिका | १३८अ) मकारैः पंचभियुक्तै चर्वारेयुमिनोर्चनं || एवन्दिनत्रयं कृत्वा ततो नित्य क्रमं भवेत् | सृष्टिस्थिति लयेत्वेन सुन्दरी यन्त्र पूजनं || सृष्टिसंहारमार्गेण कालिकायन्त्र पूजनं | सृष्टिसंहारमार्गेण ताराच्छिन्ना च पीजभा || एवं देवी प्रतिष्ठायां क्रम सान्निध्यकारकः | स्त्रीशूद्रानां वामिनां च कौलिकानामयं विधिः || विधि युक्तं प्रकर्तव्यं विधिहीनं न कारयेत् | विधिहीनास्य विघ्नानि यानिते कथयाम्यहं || कलहो द्वेगद्वंद्वश्च व्याधिशूलं ज्वलं तथा | राजोपद्रवहानिश्च द्रव्यनाशं रुजं तथा || चिह्लाकाकाश्च काकुल्यो शिवाफेत्कार दारुणा | कपोताश्च गृहे तस्य आरुहन्ति विशन्ति च || १३८ब्) विघ्नं कुर्वन्ति वै तस्य विधानं गुप्तसंस्थिता | च्छिद्रन्ति तस्य योगिन्यो नाना विघ्नैः प्रबाध्यते || सर्पवृश्चिकुलूताश्च कीतोश्चैव तु दारुणाः | दशक्ति च महा उग्रा प्रेरितास्ते मरीचिभिः || वृषैश्चाश्चैर्गजेन्द्रश्च मेघैर्चक्र समनिस्तथा | उपद्रवंति दुष्टाश्च ज्वराभूता दयस्तथा || लूतागद्दसापंस्मारा अभिभवन्ति नान्यथा | अथ मालां प्रवक्ष्यामि द्विविधा सा स्थिर चला || स्थिरा तु स्थिर चित्तानां चंचला चलते तसां | तत् साधनं त्रिधा प्रोक्तं प्रथमावर्णमालिका || द्वितीया जपमाला स्यातृतीयांगुलि मालिका || अथः वर्णमालामाह || अकारादिक्षकारान्तैर्विन्दुमन्मातृकाक्षरैः || १३९अ) अनुलोम विलोमस्थैः कॢप्तयावर्णमालिका | एकैकं वर्णमुच्चार्य वर्णेनान्तरितं मनुं || सुधीरे वलकारान्तं तत आन्तं समानयेत् | अकारम्मेरु रूपन्तु लंघयेन्न कदाचन || सकृदेवोच्चरेत् क्षन्तु तदन्ते नोच्चरेन्मनुं | मेरु हीना च या माला मेरु लंघ्या च या भवेत् || अशुद्धा तु भवेदत्र सामाला निःफला भवेत् | चित्रीणी विसतं त्वाभा ब्रह्मणादी गता तु या || तथा संग्रथिता ध्येया सर्वकामफलप्रदा | अष्टोत्तरशते जप्ते त्वादौ क्लीवं समुच्चरेत् || ऋ ऋ ऌ ॡ वर्णे चतुष्टत्य क्लीवे प्रचक्षते | वर्गाणामष्टकं वापि कामभेद क्रमेन तु || अकचटत पयसा इत्येवं चाष्टवर्गकं | किं वामृतत्रैत्यजैः || १३९ब्) प्रवालैःम्मौक्तिकैद्देवि पश्चिमाम्नाय दैवतै | उत्तराम्नाय देवानां महाशंखाख्यमालिका || उर्द्धाम्नाय स्वयंभूस्था पाताले रत्नसंभवा | प्रवालैः सूर्यमन्त्रै च मौक्तिकै शक्तिमात्रके || शिवशक्ति मयी माला रुद्राक्षस्फटिकै युता | रुद्राक्ष स्वर्णसंयुक्ता माला विधि शिवात्मिका || सर्वमन्त्रेषु रुद्राक्षा शक्तिमन्त्रे दिवा न हि | तथा च || शिवशक्तिवियोगत्वान्नरुद्राक्षैर्दिवा जपः | विजोग पूजिता काली सहिसान प्रसीदती || रुद्राक्षैः शक्ति मन्त्रं तु दिवायो जपति प्रिये | स दुर्गति मवाप्नोति जपन्तस्य निरर्थकः || इति शापः पुरादत्तेस्तत्कथा कथ्यते शृणु | कदाचित् समये देवि दक्षयज्ञोपरायणः || Fओलिओ १४० नोत् fओउन्द् १४१अ) सकलां ऋषयो देवा यक्षविद्याधरोरगाः | पुत्रीजामातृ संबंधाद् गृहेनाकारिता च ता || महादेवः सत्यवती तेन नाकारिता व्रुतौ | सती च भर्तृनिको उक्ता तत्र प्रगम्यते || शिव उवाच || ममैवकारनं तेन न कृतं प्राणवल्लभे | तव लज्जा कथं नास्ति त्वया तत्र प्रगम्यते || प्रियो देवः प्रियः प्राण प्रिय एव हि भूषणं | मां विहाय कथं देवि त्वया तत्र प्रगम्यते || पातिव्रत्तामिदं क्वास्ति प्रतियोगी विहीनतः | तथापि तव वांच्छा च्छेत श्रीघ्रं गन्तु कृपां कुरु || भर्तुराज्ञां गृहीत्वा च प्रस्थितं यागमण्डपेत् | तस्मिं हे नक्षणान्नीतं ब्रह्मणो यागमंण्डपं || तेन नादरिता कन्या दुःखिता दीनमानसा | १४१ब्) अधोमुखी स्थिता तत्र पार्वती रूपमावहन् | सर्वदेवा *? त्र सन्ति मद्भर्ताना च दृश्यत || महदुःखं मम कृते मेतावृद्धृदय स्थितं | एतस्मिनन्तरे देवि दक्ष प्रजापतिः स्वयं || शिवनिन्दापरो भूत्वा पुनर्निन्दार्थमुद्यतः | अनाचारितरूपो भूत् विष्णुना वात्रितोपि च || महुर्न्निन्दापरो भूत्वा भृंगीवृषभवाहनः | श्मशानवासी मांसाशी नग्नोधारतराविराट् || कपाली च त्रिशूली च मुण्डमाला विभूषितः | भस्मोद्धूलित सर्वागो व्याघ्रजिन समास्थितः || लम्पटोलोलपाश्चेति वहुनिन्दापरो भवेत् | दुःखिता निन्दया त्वाहि मण्डपाद्वहिरा गता || दूरे नेत्रान्तरे गत्वा वह्नि कुण्डं विधाय च | १४२अ) सतीत्यक्त्वा तत्र देहं वह्नि रूपत्वतां गता | शिवोहं क्रोधरूपेण ज्वालाभास्वरमण्डलः || मत्क्रोधेन महेशानि भस्मीभूतं जगत्रयं | मर्ज्वालया सत्पन्नो वीरभद्रो महाविभुः || कोटिकालान्त दहनो दुःसहः सर्वजस्तुषु | दक्षप्रजापतेर्यज्ञ ध्वंसनार्थसमुद्यतः || त्रिशूल हस्त्री क्रूरश्च यज्ञध्वंस परायणः | शवरूपां शिवां देवि गृहीत्वा स्कन्ध गोचरां || रोदनं चक्र तुस्तस्मात् पतिताश्चाश्रुवि विन्दवः | तत्र श्रुविन्दवाजाता महारुद्राक्षवृक्षकाः || स्थावरत्व मनुप्रावर्त्यानुग्रहकारणात् | फलंति सर्वकानेत्रा मोरङ्गीयः प्रकीर्तितः || मध्य नेत्रात् समुत्पन्नो मालान्ती परिकीर्तितः | १४२ब्) धुनाश्रीकोष्ट दश च पार्वतीय मनुर्भवेत् | एकविंशति वक्त्रांतं मलाकी परिकीर्तितः || एवं वक्त्राणि जानानि रुद्ररोदनसंभवात् | स्फटवक्त्रे पार्वतीये प्रतिष्ठा स्फुटमेव च || धनाशीकेशरी कान्ति रेखायी जायते प्रभो | मलाकीये वह्निनाशस्तत्कालं जलमध्यतः || जलोपरि समायाति समलाकी प्रकीर्तितः | तेन यत् क्रियते कर्म तदनन्तभरं भवेत् || अन्य मन्त्रे सिद्धिरूपा शक्तिमन्त्रे दिवा न हि | इति कारणतो देवि रात्रावेव जपः स्मृतः || रात्रिः संयोगरूपा स्यात् विद्यात्वं च महेश्वरि | वियोगरूपो देशो मन्त्रशास्त्रे प्रकीर्तितः || महामालामाह || १४३अ) अतः परं पृथक् रूपो मालासंस्कार माचरेत् | मालारात्रि विधं वक्ष्ये शृणु सा वहिता भव || सुदिने शुभ ऋक्तादि दिने शुद्ध दिने शिवे | महामालां समादाय वीरपात्रं समानयेत् || वीरयन्त्रं समासाद्य वीरमालां च शोधयेत् | देवीं सावरणां पूज्य सवल्यान्तं महेश्वरि || दशविशत् पंचविंशद् दीपां दत्वा वलिं चरेत् | एवं मालांशभां कृत्वा महासंस्कारमाचरेत् || शुभे मुहुर्तसंलग्ने मालां वा पंचगव्यके | निमन्त्रो पंचगव्यं च गोमुत्रं गोमयं पुनः || दधिसर्पिः क्रमे नैव पंचगव्यं प्रकीर्तितं | तदुर्तार्य शुद्धजलैः शंक्षाल्यसंविदाशवैः || मूलमन्त्रेन संक्षाल्य तद् द्रव्ये स्थापयेद् दिनं | १४३ब्) तृतिये दिवस देवि यक्षकर्दमकैर्यजेत् | सर्वगन्धैरष्टगन्धैरे निमाद्यष्टकैर्यजेत् || अष्टनीलाश्वतारायास्ताराष्टा रोचिनी मनौ | चतुर्थ दिवसे देवि त्र्यशान् स्थाप्य यजेत् क्रमात् || रहस्य माला मन्त्रस्यास्य ऋषिः परमेश्वरः | श्रीमहातारिणी देवि उष्णिक् च्छन्द प्रकीर्तितः || क्रीं बीजं स्त्रीं तथा शक्ति हूं मन्त्र कीलकं स्मृतं | महामहालादन्तमाला शोधने विनियोजने || त्रिशक्त्या तु षव्यंगानि ध्यानं मन्त्र वदाचरेत् | ध्यात्वा संकल्पयत्नेन मन्त्रे नानेन पार्वति || प्रणवं च तथा लज्जा श्रीलज्जा कामकुर्चकः | फट् स्वाहेति मन्त्रेण च सकमालिकीक्षिपेत् || १४४अ) तत्र वाहनमन्त्राद्यैः कालिकालसारदां | साधुधां परिवारीश्च पूजयेत् परमेश्वरि || मूलमावृत्यतात्तीयं संस्मरन् धेनु मुद्रया | अमृती कृत्य कवचे नावगुंठ्य महेश्वरि || महामुद्रा समाचाद्य देवी रूपी विभावयेत् | ध्यायेत् तत्र क्षिपेद् बिन्दुं तत्र मन्त्रात् शृणु प्रियेत् || प्रणवं कुर्चयुग्म युग्मं च स्वाहा प्रणव कूर्चकै | वह्निजाया च तारास्त्रे वह्निजाया विषं तथा || तारां च वह्निजायां च तारलज्जा सकुच्चकैः | वह्निजाया ततस्तारं लज्जाकटुवह्निजायया || द्वि त्रि सृखलिकाच्य समस्तमन्त्र मालया | शतधानेन मन्त्रेण बिन्दुप्रक्षेपमाचरेत् || वह्निजावस्तुनिकाकेशरं च चन्द्रा गुरु प्रधूपकै | १४४ब्) पुष्पमालां समुत्तार्य विद्यया चाभि मन्त्रयेत् | प्रणवं च तथा माया श्रीमहावज्रिणाति च || ततो महाघोरन प्राकर्कणेति पदं वदेत् | महास्थि मण्डले प्रोच्य प्रविशति पदं तथा || सर्वसिद्धिं प्रयेच्छेति प्रणवं कूर्चबीजकं | मायाबीजं वह्निजाया महा कपालिनीति च || ततो महाघोररूपे स्वाहा प्रणवमायया | माया कूर्चस्त्रि स्वाहान्ता विद्योक्ता चाभि मन्त्रणे || दूर्वाक्षतैः समभ्यर्च्य कामेनो दीपनं चरेत् | उपचारैः समभ्यर्च्य मातृकां मूलमन्त्रतः || उद्दीपनं ततः कृत्वा हंकारेण तु वेष्टयेत् | वलिं दद्यादने नैव तारं माया द्वयं वदेत् || वासुदेवं बिन्दुयुतं कूर्चं न पुटितं वदेत् | १४५अ) वासुदेवं बिन्दुयुतं कूर्चं न पुटितं वदेत् | कूर्चतारे फट् चर्चं प्रणवद्वयमुर्च्चरेत् || कूर्चबीजं वह्निजाया प्रणवं कूर्च बीजकैः | महायोगिनि शब्दान्ते ततस्त्रिभुवनमारिणि || महासंखास्थिताला च मध्ये निवास कूर्चति | कुरुशब्दं सर्वसिद्धिं देहि युकूर्चसुरापदं || मांसो प्रहारेण गृह्नेति युकु गृह्नापय द्वयं | कुल्लुका फट् ततः स्वाहा मन्त्रेणानेन पार्वति || यथोचितेन द्रव्येन वलिं दत्वा विधानतः | पंचद्रव्यैः पंचदिनं मालास्थाप्य चमे चमे || मालारात्रि विधिं कुर्यात् तेन सिद्ध्यति मालिका | निभृते स्थापयेन् मालां रहस्य मालिका विधि || इति श्रीकौलरहस्य सर्वागमे द्वाविंशपटलः || २२ || १४५ब्) अथ स्त्रीसूद्रार्थं मालासंस्कारमाह || शूद्रार्थं चास्त्रियामर्थे मालासंस्कार उच्यते | गणेश सूर्यविष्णीश दुर्गाः संपूज्य भक्तितः || मालायामथतां मालां ह्वौं बीजे नाभि मंत्रितां | अष्टोत्तरं शतं पंच गव्येतां स्थापयेत्र्यहं || चतुर्थे तु समुद्धृत्य क्षालयेदस्त्र मन्त्रतः | हृन्मन्त्रेण ग्रंथयित्वा स्थंडिले तां निधापयेत् || ततस्तु तोल्यतां मालां स्थापयेद्वेमपात्रके | पंचामृतेन संस्नाप्य शीतलेन जलेन च || चन्दनेन सुगंधेन कस्तुरी कुंकुमादिभिः | अभिषेकं ततः कुर्या हसौं मन्त्रेण साधकः || नवग्रहात् पूजयित्वा दिक्पालाश्चांपि पूजयेत् | तिलेनामृत युक्तेन शक्तितो होमयेत् ततः || स्वर्णन्तु दक्षिणां दद्याद् गुरुवे मनिसंख्याकान् | १४६अ) तन्मन्त्र जापिनो विप्रान् भोजयेद् वाथ वैदिकान् || अभावे स्वर्णपात्रस्य ग्रह्येमस्वत्थ पत्रकं | मालासंस्कार इत्युक्तो जपः स्यात् सिद्धिदायकः || ग्रथन प्रकालमन्त्र || शक्तिमन्त्रेण संग्रंथ्य शिवमन्त्रं जपेच्छिवे | शिवमन्त्रेण संगथ्य शक्तिमन्त्रं जपे च्छिवे || शिवशक्त्योरभेदेन मालाकार्यकरी परा | ये नैव ग्रंथ्यते देवि तमेव प्रजपेन्मनुं || इत्याद्युक्तं त्वया पूर्वं किं त्वया विस्मृतं प्रभो | इदानीमन्यथा प्रोक्तं संशयोस्ति मम प्रभो || मातृकातारभिन्नानि शिवशक्ति विहीनके | मातृकायामिदं नोक्तंमन्यमालाविधौ मतं || अन्यप्रकारग्रथने ये नैव ग्रथनं चरेत् | तमेव प्रजपेन् मन्त्रं जपेच्छिवे || १४६ब्) मातृकादावपि शिवे *? लाक्रन्तु रूपिणी | ग्रथितासूत्र || ग्रथितापट्टसूत्रेण देव्याः प्रीत्यै तु मालिका | कार्पास वैष्णवी माला पद्मसूत्रेरथापि वा || ऊर्णभिर्वावल्कल्लैर्वा सौत्रिकार्याससूत्रजाः | कार्पासंधर्मकर्मादि साधनं सर्वसिद्धिदं || प्रायशः सर्वदेवानां सूत्रोत्पर्ति विधिं शृणु | सूत्रं द्विजेन्द्र पुन्यस्त्री निर्मितं ग्रन्थि वर्जितं || या जीववत्सकानारी सुन्दरी पतिवल्लभा | तया कर्तितसूत्रं च कुमारी कर्तितं च वा || श्वेतरक्त सुवर्णाभ कृष्णवर्णा द्विजा दिनः | सर्वेषामेव वर्णानां रक्तं सर्वेप्सित प्रदं || त्रिगुणं त्रिगुणीकृत्य ग्राह्यं प्रक्षाल्यजत्ततः | मेरु सूत्रेण पट्टेन त्रसरेण विनिर्मिता || १४७अ) निर्मिता स्वर्णरजतैः स्वर्णेनापि शुभा मता | हारिद्रं सर्वथा सूत्रं ग्रामकार्पाससंभवं || चैत्रकार्पासजं चाथ त्यजेद् ग्रथन कर्मणि | गुरुणा ग्रथिता श्रेष्ठा स्वयं कॢप्ता तपतोऽवरा || शक्त्या च ग्रथिता श्रेष्ठा न शूद्रादिभिरीश्वरि | एतेषु ब्राह्मणः श्रेष्टो जपमालाकृते भृशं || अलाभे तु द्विजातीनामपि वा स्वजातयः | कलौ तु दुर्लभा विप्रा यथाविप्रा स्वधर्मगाः || अथ स्याः शोधनं वक्ष्ये समासात् परमेश्वरि | कुलमार्गानुसारेण स्मृत्युक्त विधिनापि वा || कृतनित्य क्रिया शुद्धे उक्ते व्यक्तेष्वतन्द्रित | उपवासं हविष्यं वा तथैक भक्षमेव वा || विधाय पट्टकार्पासः शनैः सूत्रं विनिर्ममेत् | १४७ब्) उपवास दिने देवि तानि सर्वाणि पूजयेत् | द्विगुणां त्रिगुणां वापि तच्च त्रिगुणमाचरेत् || चन्दनाक्षतधूपाद्यैः कुसुमैर्वलिदीपकैः | कर्तव्यानि समासानि न स्थूलानि कृशानि च || प्रातस्तत्सूत्रमादाय कामना कार्य भेदतः | श्वेतं नीलं तथा पीतं रक्तवर्ण च कारयेत् || अथ पवित्रारोहनं || श्रीदेव्युवाच || कुलजानां महेशानि पवित्रां रोहणं कथं | कस्मिन् काले कथं कार्यां किमर्थं वद मे प्रभो || श्रीभैरव उवाच || पुरादेवासुरैर्देवि क्षीरोदध्सुमत्थितः | तत्र नेत्रे महाभागे कश्यपस्य सुतो वली || मन्थाने योजिते भद्रे विषनिद्रीविमूर्च्छिदः | न शक्नोति तलस्यान्ते वर्षासुवसितुंन्तदा || आराधितस्तुते नाहं पवित्रेण महान्मना | १४८अ) द्रव्यवर्षसहस्रन्तु वायुभक्षो महावलः | तुष्टोहं तेन देवेशि किं कर्तव्यं पुरोदितं || ततोसौ दण्डवद् भूमौ पपातमभ्यदाग्रमः | प्रावृत्कालेन शक्नोमि तलान्ते वसितुं हरः || ततः सोपि मया देवि कराभ्यां गृह्यभूतलात् | शिरसा धारितो देवि जटाजूटे वरानने || ततः सर्वैस्तु देवैश्च शिरसाधारितः शुचिः | पुनः पवित्र नागाय वरो दन्ता मया शिवे || पवित्र रोपणं यस्तु क्रियते न फलं तव | दशकोट्यास्तु पूजायास्तेषामेव पवित्रकः || तस्मात् सर्वेषु देवेषु पवित्रारोपणं क्रमात् | प्रतिपत् पौर्णमास्या तु यस्य या तिथिरुच्यते || द्वादश्यां वैष्णवे कार्यं शुक्ले कृष्णथवा हरेः | १४८ब्) व्यतीपातेऽयने चैव चन्द्रसूर्य ग्रहे शिव | विषुवे वृद्धिकाले च गुरोरागमने तथा || नित्यं पवित्रमुद्दिष्टं प्रावृत्काले स्ववश्यकं | कुर्यान् मिथुन संक्रान्ते तुल्वासंक्रमणावधि || आषाढ उत्तमो मासः श्रावणे मध्यमो भवेत् | हीनो भाद्रपदः पक्षः श्वेतः सन्मध्यमोसितः || पंचमी चाष्टमी चैव नवमी दशमी तिथौ | द्वादश्यां च चतुर्दश्यां पौर्णमास्यामथापि वा || कालो ग्रीष्मः शरद्वर्षा एवमुख्यतमः प्रिये | केचिद्वसन्तमिच्छन्ति कालं माध्यमिकं वुधाः || नैव हेमन्तशिशिरौ प्रशस्तौतौ कदाचन | एकं विज्ञाय देवेशि कृतादिषु यथाक्रमं || सौवर्णं राजतं ताम्रं कलौ कार्पासजं शुभं | कौणेय पट्टकंराज्ञां वनस्थानां तु कल्कलं || १४९अ) पद्मजातं सौगतानां शूद्राणां क्षौमपिष्यते | वटुनादर्भसंजातं वैश्यानां तुशाशाद्भवं || मुंजजातं व्रतस्थानामाविकं समरैक्षणां | कार्पासिकं पद्मजं च सर्वेषां सस्तमीश्वरि || अम्नाय भेदाद्भिद्यन्ते सूत्रवर्णः सुरेश्वरि | पूर्वार्द्धयोस्मितं सूत्रं रक्तसूत्रं तथोत्तरे || पश्चिमेप्यथ पीतं हि अथोदक्षिणयोर्मतं | निलेनाक्तं भवेत् सूत्रं षडाम्नायेषु कर्हिचित् || आम्नायेप्यथ सर्वषु प्रशस्तं सितमेव वा | अथ दमनारोपणं || दमनारोपनाख्यैकापवित्रारोपणी परा | प्रतिसम्वत्सरश्वैते योन कुर्वीत साधकाः || तस्य वर्ष कृता पूजा व्यर्थाभावेति भाविनि | कृतामपि विलुप्यम्नि भूतप्रेतादयो गणाः || १४९ब्) प्रतिसवत्सरं तस्मात् कुर्याद् यत्नेन साधकः | दमनारोपणं कर्म पवित्रारोपणन्तथा || दमनेन च यो देवं वर्षमध्येन पूजयेत् | तस्य वर्ष कृतं पूजा फलं गृह्नाति कामरात् || अथा स्यात्पर्तिबीजमाह || पार्वत्युवाच || एकविज्ञेप्नुमिच्छामि प्राणनाथ महेश्वरि | अस्थाय परमं योगं योगिन्द्रेण त्वया प्रभा || आवांयुयुक्षु धर्मदतोदाग्धानयन वह्निना | किमर्थं परिणीताहमथभोगं समुज्जता || आवयोः किं सुखं तस्मिन् मृतेरति विवर्द्धने | यद्यसित्वं मयासार्द्धं चिकीर्षुकेलि मुत्तमां || संजीव यदा कामं प्रीयते मम धूर्जत | श्रुत्वेत्थं गिरिजा वाक्यं रतिलीलासुखावहं || स्मिदं विधाय प्रोवाच मानयत् प्रेयसो भवः | १५०अ) श्रीमहादेव उवाच || ईदृशी यदि ते श्रद्धा कामसंजीविने प्रिये | न दास्य सिरसिश्चापि ते विचेमिरीन्द्रजे || एषमं जीवयाम्येनं प्रीयते तव पार्वति | ख्यातिं प्रख्यापयिष्यामि तवानेन च कर्मणा || विधास्यामि तथा चान्यं व्यवस्थां भुवन त्रये | अघोत्तरा फल्गुणीभं तिथिश्चापि त्रयोदशी || शुक्लः पक्षश्चैत्र मासो योगो वृद्धिस्तथैव च | पूजामृतमयेप्यनं मुदेतवममापि च || पुष्पधन्वेति नामास्य पुष्पैरेवास्यपि ग्रहं | संकल्प्यारचयिष्यामि पश्यन्त्यास्तव पार्वति || इत्युक्त्वा ज्ञाप्यगणपाना लेप्य कुसुमानि च | कामसंजीवयामास तत्तदङ्ग प्रकल्प्यसः || सर्वं शरीरं दमनैर्वदनं कमलेन च | १५०ब्) नासीचम्पक पुष्पैण दृशो कुवलयेन च | मल्लिकाभिः कपोलौ द्वौ यूथिभिरलकं तथा || द्वौ कर्णो करवीरैश्च पाटलाभिर्हमुद्वयं | माधवीभिर्जत्रुणा द्वेशिरीषै गुणुयायुगं || नासापुटे द्वेवकुलैः कर्णिकारैर्गलस्तथा | चूतांकुरैर्वाहु युगं केशपाशः कुरुण्ठकैः || काञ्चनारैरशयुगं कुन्दैः कुक्षियुगं तथा | वक्षःस्थलमशोकैश्च जठरं केतकीदकैः || पार्श्व हृयं जातिभिश्च वक्षणं किंशुकैरपि | तवर्गोरूरुयुगं ध्वजं प्येजवया तथा || पारिजातैर्मरुवकैः कदम्बैर्वन्धजीवकैः | अंगपादानि सर्वाणि प्रत्येक कुसुमै भवेत् || चकार कामदेवस्य समग्रन्तु कलेवरं | दमनैः कल्पया मास शरांश्चापि शरोसनं || १५१अ) वसन्तं काकिलां भृंगां मलयानिलमेव च | रतिञ्च वामदिग्भागे प्रीतिं दक्षिणतस्तथा || प्रकल्प भगवानीशो मृतसुञ्जीवनी मनुं | गृणन् सञ्जीवया मास स्वशक्त्या प्रमथाधिपः || स जीवितः समुत्थायऽवसहाय समन्वितः | उमामहेश्वरौ भक्त्या नमामनु विदण्डवत् || विज्ञापया मास तथा प्राप्ते देहः स्मरोहरं | किं कर्तव्यं मया देवे तदनुज्ञा तु मर्हसि || उवाच तमथेशानो भक्ति प्रणत कन्धरं | त्रिजगन् मोहयन् नित्यं पौष्पेण धनुषा स्मर || विचरेत् स्वच्छेयै ताभिः शक्तिभिः परिवारितैः | मित्री भूत सहायैश्च तथाऽमीभिरेषि ध्रुवं || मोहयन् युवती यूनः शरैः पञ्चविधौः सदा | सदामत्तः कलेवरं लब्धं त्वया देव्याः प्रसादतः || १५१ब्) इयं तिथिररंगाष्या तवनाम्ना भविष्यति | त्वमस्यां येऽर्चयिष्यन्ति गन्धपुष्पादि विस्तरैः || नैवेद्यधूपदीपाद्यैर्गीतवाद्यादिनत्तनैः | अश्लीलवचनाक्षेपैर्गीतवाद्यादिनर्मादकद्रव्यभोजनैः || योनि लिंगादि श * * * * * हास्यकारकैः | तत् तदाकार वचनैर्महात्सव समान्वतैः || लंवाराणिप्सितां दद्यास्तेषां मद्वचनात् स्मर | तत्परेऽहनिमत्पूजा विस्तार्यामकत्र ध्वज || इत्युक्त्वा संविसर्प्यामुंसवसन्तरति हरेः | उमामुवाच पार्श्वस्थां विहसन्मानयंश्वतां || देवित्वद्वाक्यमात्रेण मयासंजीवितः स्मरः | तवापि नाम भुवनख्यापयिष्यामि सुन्दरि || कामदेवशरीराख्यैर्दमनैरधिवासितैः | १५२अ) पङ्करोपितमूलैश्च त्वामर्चिष्यन्ति ये नराः | तेषां त्वयि कृता पूजा वार्षिकी सफला भवेत् || दमनारोपनं कर्म न कृतं यैः प्रमादतः | शुभानि नाशयित्वैषा मण्डभानि प्रदीस्यति || त्वदीयाश्च गणाः सर्वे हरिष्यभ्योब्दिकार्चनं | यथाते शारदीयार्चा नित्याक्षेम प्रदायिनी || दमनारोपनं * द सुधा भवतु भूतले | दमरोपनं कर्म ततः प्रभृति सुन्दरि || दमनारोपनं कर्म ततः प्रभृति सुन्दरि | स्थितमावश्यक तया कर्तव्ये त्वेन चा प्रिये || अथ दशमहाविद्यायाः षडम्नायं निर्णय माह || भुवनेशी महालक्ष्मीः सर्वाम्नाय प्रगोचरा | त्रिपुरा त्रिपुटा वाला विशालाक्षेन्न पूर्णिका || १५२ब्) दक्षवक्त्रेण देवेशि मयाद्यापि प्रजाप्यते | वगला चैव मातंगी सिद्धलक्ष्मीररुधती || आम्नायाः पश्चिमाख्या तु तद्ववक्त्रेण प्रजप्यते | ताराच्छिन्नापिशाची च धूम्रा चोत्तरगोचरा || कालिका भेद सहिता उर्ध्वम्नाय प्रगोचरा | उपविद्याश्च पाताले विद्याम्नायः प्रकीर्तितः || अथ दशविद्यासूत्र || काली तारा महाविद्या षोडशी भुवनेश्वरि | भैरवी च्छिन्नमस्ता च विद्याधूमावती तथा || वगला सिद्धि विद्या च मातंगी कमलाम्विके | एतादश महाविद्या सिद्धिविद्या प्रकीर्तिता || अथ दशविद्या पुरश्चरणमाह || दीक्षां प्राप्य पुरश्चर्या षण्मासात् परतो यदि | भ्रष्टतां याति पापात्मा अब्दलक्षं च रौरवं || १५३अ) दीक्षां प्राप्य पुरश्चर्यां अकृत्वा मृयते यदि | पच्यत रौरवे घोरे यावचन्द्रार्क मेदिनी || पुरश्चरणकं देवि त्रयोदश प्रकारकं | आत्मवित्तानुसारेण कृत्वा श्रद्धा समन्वितः || गुरुं संतोष्य यत्नेन प्रयोगं कारयेद् बुधः | पुरश्चरणकं कृत्वा अष्टोत्तरशतं दिने || अनन्तरं च प्रयो नागा कृयते सदुरात्मवान् | भक्षन्ति तस्य मांसानि इन्द्राक्षी प्रमुखा गणां || डाकिन्याद्या महाक्रोधा तर्जयन्ति मुहुर्मुहुः | मृते नरके पच्यन्ति कुम्भि पाकेऽति दारुणे || प्रयोगेषु च कार्येषु दीक्षासु च विधानतः | पुरश्चरणके देवि अन्तरं नैव कारयेत् || दीक्षा पुरश्चरणकं प्रयोगेस्ति विधामतः | यथोक्तं क्रियमाणस्य मन्त्रसिद्धिर्न संशयः || १५३ब्) पार्वत्युवाच || पुरश्चरणशब्दस्य ब्रुह्यर्थ च विधिं ततः | वैदिकाद्याः सर्वा मन्त्रा न सिद्ध्यन् निचयं विना || श्री-ईश्वर उवाच || धर्मार्थकाम मोक्षाणां साधको मन्त्र उच्यते | तत्सिद्धये पुरोयच चर्यते तत् प्रकीर्तितं || पुरश्चरण कर्माख्यं वेदादौ शावरान्तके | मन्त्रे यन्त्रे तथा वश्यं तत् प्रकारान् व्रवीम्यहं || जपहोमस्तर्पगं च मार्जनं विप्र भोजनं | पंचांग कर्म रूपं तदाहुः केचन तत्र तु || चतुरंगास्तथा त्र्यंगाद्व्यंगा एकागिनांपि च | मन्त्रास्तिष्ठन्ति वेदेषु तथा तन्त्रे पिशाचरेत् || केचित् षडंगा मन्त्रास्पस्तदंगानां जपादिति | अर्घमर्षशसूर्यार्घ जलपान प्रणामकैः || देवार्चया पंचभिश्च तैरेवं स्युर्दशांगकाः | दूतीयागात्तथोच्चोन्नि कर्मतश्चक्र पूजनात् || १५४अ) ध्वजलिंगसमायोग जपाच्च वलिदानतः | महावलि प्रदानाच्च भवंत्येका दशांगतः || षोडशांगा कौलिकानां वामकानां द्विकेरितं | अन्यर्यश्मरि सेवातोष्टा दशांगास्वघोरिणां || सर्वपापक्षयं कुर्याद् अन्यथा सिद्धिवन्ध कृत् | यावत् पापं तस्य नाशं कृत्वा कुर्यात् पुरस्कृतिं || यथा प्रोक्तेन मार्गेण तस्य सिद्धिरहुरतः | सर्वपापक्षयस्तत्र भवेद् वैदिक वर्त्मना || कल्पोक्तैवकृतं संख्या त्रेतायां द्विगुणां भवेत् | द्वापरे त्रिगुणा प्रोक्ता कलौसंख्या चतुर्गुण || अथासितायाः पुरश्चरणमाह || दिवालक्षं शुचि भुत्वा हविष्याशी जपेद् बुधः | ततस्तस्य दशांशेन होमयद्व्रविषा प्रिये || १५४ब्) तर्पये तीर्थतोयेन पयसा सर्पिषापि वा | मधुनावासिमामिश्र तोयन परमेश्वरिं || देवीं चाभिषिंचर्तोयंस्तर्पणस्य दशांशतः | तर्दशांशैहविद्रव्यैर्भोजयेद्भक्तितः प्रिये || कालि मन्त्र विदो विप्रान् दक्षिणां गुरुवददेत् | पाशवं कथितं कल्पं शृणु चैवंः ततः प्रिये || रात्रौ मांससर्वदेवीं पूजयित्वा विधानतः | ततोणग्नंस्त्रियं नग्नो रमक्लेद युतोपि वा || जप लक्षं ततो देवि होमय ज्वलितेऽनल | योनिकुण्डे स्थिते सर्पि मांसद्युयुतं तथा || दशांशं तर्पयेन्मद्यै मांसमिश्रैसुसाधकः | तर्पणस्य दशांशेन अभिषिंच्य जगन्मयीं || दशांशं भोजयेत् साधु साधकं कालिका प्रियं | १५५अ) मद्यं मासं च मत्स्यं च तर्पणं च प्रदापयेत् | ततस्तु तोषये भक्त्या गुरुं स्वर्णादिभिः प्रिये || एतत् कत्वद्वयाद् देवि मन्त्रः सिद्ध्यति वै ध्रुवं | द्विजातीनां च सर्वेषा दिवाविधिरिहोच्यते || शूद्राणां च तथा प्रोक्तं रात्रो विष्टं महाफलं | अथ तारायाः || नक्तभोजी हविष्याशि जपल्लक्षे चतुष्टयं | रहस्य मालामादाय जपेद्वा रक्षमेव चः || लक्षमात्रं जपेन्मन्त्रं दशांमसितोत्पलैः | आद्याक्तैर्जुहुयान्मन्त्री तद्दशांशेन तर्पयेत् ः || काण्डागुरुद्रवोपतैमिमर्लर्गन्धवारिभिः | तर्पयेच्च परां देवीं तत्प्रकारमिहोच्यते || जलेचावाद्ध्य विधिवत् पाद्यं रुपचारकैः | सन्तर्पविधिवद्देवी परिवारान् सकृत् || देवीवुर्द्ध्यास्वमान्मानं संपूज्याधकात्तमः | १५५ब्) तालिणीसिञ्चयामीति जलं मूद्ध्नि निविक्षिपे || कुम्भाख्य मुद्रा देवि नमोस्तेनाभिसेवलं || अथ निशाक्रममाह || एवं कुर्वन्नदन्भक्ष्ये मनकं दधिमध्यपि | मधुमांसं च ताम्बूलं जपेल्लक्षं चतुष्टयं || दशांणं जुहुयाद्रक्त पद्मैः क्षीराज्य लोलितैः | शवमुण्डं पूरयित्वा जपस्थाने जपं चरेत् || नारी पश्य स्मृशन् गच्छन् महानिशि वलिं ददेत् | न कार्यः सुभ्रुवां द्वेषां यत्नतः परिपूजयेत् || जपेन कालनियमो न स्थितौ सर्वदा जपेत् || अथ च्छिन्नायाः || आदौ पूजा प्रकर्तव्या जपेल्लक्ष चतुष्टयं | पातालैर्विल्वजैर्वापि जुक्षुयात् कुसुमैः फलैः || तर्पणादिं ततः कुर्यादेवं सिद्धो भवेन् मनुः | १५६अ) अथ षोडशी विद्यायाः || तत्र स्थित्वा जपेल्लक्षं साक्षो देवीं स्वरूप धृक् | किंशुकै हवनं कुर्यादशांशेन महेश्वरिः || कुसुमैर्वापि धुरत्रयमिति स्मृतैः || अथ त्रिर भैव्याः || दीक्षां प्राप्य जपेन्मन्त्रं तस्वलक्षजितेन्द्रिय | पुष्पैभानु सहस्राणि जुहुयाद्ब्रह्मवृक्षजैः || त्रिमध्यक्तैः प्रसूतैर्वा करवीरसमुद्भवैः || अथ महालक्ष्माः || जपेद् भास्कर लक्षं च नियताशीयत व्रतः | तद्दशांशं प्रज्जुहुयाघृतैस्त्रिस्वादुसंयुतैः || पद्मैरमाद्रुम फलैः प्रभ्यकमयुतै हुनेत् | सुधीतैः शुचिभिस्तायैस्तर्पयेदचततद्वयं || अथ मातंग्याः || पुरश्चरण काले तु षट् सहस्रं जपेन्मनुं | १५६ब्) तद्दशांशं हुनेदाज्यैः शर्करा मधुभिः सहः | ब्रह्मतरुद्भवैः काष्टैः साधकैः शक्तिभिः सह || एवं पुरक्रियां कृत्वा प्रयोगविधिमाचरेत् || अथ भुवनेश्वर्याः || रविलक्ष्यं जपेन् मन्त्रं पायसै मधुरान्वितैः | दशां जुहुया मन्त्री शतर्द्दशांशं यथाक्रमं || तर्पणं मार्जनं कुर्यास्तथा ब्रह्मण भोजनं || अथ धूमावत्याः || जपं कृष्णचतुर्दश्यां शून्यागारे दिवानिशं | उपवास परश्चैव मेकाहात् सिद्धिमाप्नुयात् || यस्या श्मशाने विपिने जपंल्लक्षं तु वाश्यते | सौष्ट्रष आद्रवासश्वतेन मन्त्रः प्रसिद्ध्यति || होमचात्रघृते नैव तर्पणादिं ततश्चरेत् | अथवा प्रजपे लक्षं श्मशाने विगताम्वरे || १५७अ) निशाभोजी दशांशेन तिलैर्हवनमाचरेत् | अथ वगलामुख्यं || पीताम्बलधरो भूत्वा *? र्वा शाभिमुख स्थितः | लक्षमेकं जपेन्मन्त्रं हलिद्रा प्रधिमालया || ब्रह्मचार्यरतो नित्यं प्रखे यातो ध्यान तत्पराः | प्रियंगु पायसे नापि पीतपुष्पैश्च पूजयेत् || इति कौलरहस्य सर्वागमसारे त्रयविंश पटलः || २३ || अथ जपरहस्यमाह || स्वस्वध्वनि प्रोच्चरितो प्रभुत्वं प्राप्नुवन्ति ते | मन्त्रारक्ष * * *? न्सूत्रे प्रोतारिपरिभावयेत् || तामेव परमे व्यानि परमामृतसंज्ञके | दर्शयेदान्मसद्भाव पूजाहोमादिभिर्विना || अथ मन्त्राणां सूतकादिनिर्णयमाह || १५७ब्) जातसुतकमादौ स्यात् मृतसुतकमन्तकं | सुतकद्वयसंयुक्तो यो मन्त्रस्मरसिद्ध्यति || गुरुकुण्डलिनी ध्यानं विवाहः परिकिर्तिताः | द्विरागमो भवेत् सानं संयोगः संध्यया भवेत् || अर्घदानं भवेद् गर्भा गायत्री त्वष्ट मानिकं | भुतशुद्ध्यादि प्राणान्तं गत्रा वयवकल्पनं || देही चापि मातृकाया प्राणायामस्तु संस्क्रियाः | ध्यानोच्चारे महेशानि वालक्तात्पर्तिरीरीता || मन्त्राच्चारणतो देवि जातसूतकमीरीतं | जातसूतस्य दोषस्य शमनार्थं महेश्वरिः || दशविंशति पंचाशद् यथाशक्त्या जपेच्छिवे | दशांगादि पुरश्चर्या संस्कारा दशवै शिवे || इदमादि समादिष्टं मृति संशृणु सादरं || संस्कारात् प्राशवांस्तानथ जप्त्वा हृदिमं शिवे | प्रसन्नां तत्क्रमेणैव तसिद्धि साधनं तथा || साहं भावे मातृकाप्तिष्यरचैतन्य मेलनं | अंगाज्ञानं च तादात्यं तदनन्तरमीरितंः || १५८अ) विसर्जनं महेशानि मृतसूतकमीरीतं | मृतसूतकशांत्यर्थं दशविंशति वा जपेत् || तेन तस्य निवृर्त्ति हि भवत्येव न शंसयः || अथवाः || ब्रह्मबीजं मनोद्दत्वा अद्यन्त परमेश्वरः | सप्तवारं जपेन्मन्त्रं सूतकद्वय मुक्तये || एवं जपं पुरा कृत्वा तेजो रूपं समर्प्ययेः || अथारक्तं कर्मसूतकान्न त्याज्यं || यज्ञव्रतविवाहेषु अद्धेहोमोच्चने विधि || आरब्धे सूतकं नस्यादनारंभे च सूतकं | योरंभो वरणं यज्ञ संकल्पो व्रत जापयेत् || नादिमुखं विनाहादौ आर्द्धपाक परिस्क्रिया | जपादीक्षार्चन विधिः कार्या दीक्षान्वितैर्नरैः || मास्तिपापं यतस्तेषां सूतकं वायतात्मनां | सूतके मृतके चैव धूमाज्ञारादिके तथाः || जपं चार्घं तथा कुर्यान् मन्त्र न्यासे पुरःसरं || १५८ब्) अथ मन्त्रविद्याया भेदमाहः || मन्त्रविद्या विभागे तु द्विधा मन्त्र जातयः | मन्त्राः पुन्द्रेवता प्रोक्ता विद्या स्त्री देवता मता || पुन्मन्त्राः फेत् उक्तास्यु द्वितान्तास्युस्त्रियो मताः | नपुंसका नमोन्तास्यूरित्युक्ता मनवस्त्रिधा || एतत् सून्या महाविद्या महामन्त्रस्तु गीयते | चन्द्रात्मिका स्मृता विद्या मन्त्रा देवी प्रसीपकाः || आग्नेयासंप्रवुद्ध्यन्ते प्राणे चरति दक्षिणे | भागे न्यस्मिन् गते प्राणे सौम्या बोधं प्रयान्ति हि || नाडीर्द्धये गते प्राणे सर्ववाढं पयार्तिते | प्रयच्छन्ति फलं सर्व प्रबुद्ध्या मन्त्रिणां द्रुतं || अथ मन्त्रशिखामाहः || शृणु देवि परं तत्वं सर्वज्ञानोत्तमोत्तमं | येन विज्ञान मात्रेण क्षिप्रं विद्या प्रसीदसि || १५९अ) मूलकुण्डे तु या शक्ति भुजंगाकार रूपिणि | तत भ्रमावत्तवातोयं प्राण इत्यभिधियते || तं त्यक्त्वा व्यक्त मधुरां कुजन्ती सहसा स्थिताः | गच्छन्ती ब्रह्मरंध्रेण व्रणिशन्ती पुरस्तनुंः || यातायात क्रमेणैव तत कुर्यान् ममोलयं | तेन मन्त्र शिखा जाता सर्वमन्त्रप्रदीपिणीः || तमः पूर्णे गृहे यद्वन्न किञ्चित् प्रतिभासते | शिखा हीनास्तथा मन्त्रा न सिद्ध्यन्ति कदाचनः || शिखोपदेश सर्वत्र गोपितः परमेश्वरि | विना येन न सिद्धिः स्याद् वर्षकोटि शतैरपि || तस्माद् यत्नेन कर्तव्यं शिखाया भावनं मनोः | अथ चैतन्य मन्त्रमाह || मन्त्ररूपी भवेद् देवो देवरूपी गुरुर्भवेत् | गुरुरूपि भवेदात्स्मा आत्मरूपी मनु भवेत् || १५९ब्) इति ते कथितं देवि मन्त्र चैतन्य मुर्त्तमं | यस्य विज्ञानमात्रेण अद्वैतं ज्ञानमुत्तमंः || श्रीदेव्युवाचः || अवैथ कुलुकोत्पर्ति कथयस्वममाधुना | कुल्लुका कीदृशी नाथ सेतुर्वा देवकी दृशः || कीदृशो वा महासेतुन्निर्वाणं त्वथ कीदृशं | अन्यद्वा कथितं यन्मे कीदृशं तद्वद प्रभो || श्रीशिव उवाच || रहस्यमपि ते देवि कथ्यते शृणु सा प्रतं | विना येन महेशानि निष्फलं तु जपादिकं || कुल्लुका च तथा सेतुर्महासेतुस्तथैव च | निर्वाणं कुण्डली षष्ठी सर्वो सर्वोत्पर्ति शृणु प्रिये || विद्यानां कुल पूज्य त्वात् कुल्लुका तेन कीर्तिता | विद्या संवंधि दोषाणां भक्षयित्री यतः शिवोः || तेन यं कुल्लुकान्नाम्ना सर्वतंत्रे अगोपिता | १६०अ) विद्यासिद्धार्णवे देवि येन पारं प्रगच्छति | तेन सेतुर्महेशानि विद्यामार्गः प्रकीर्तितः || महाविद्याप्तिशंदर्शी महासेतुर्महेश्वरि | महाविद्या नवस्यार्थ चैतन्यस्य प्रदर्शकं || महासेतु?र्मदेविर्महाविद्यार्स्वरूपर्धृक् ः | देवतायास्तु निर्वाणं चैतन्य ये च कीर्तितं || निर्वाणं कथितं भद्रे विद्यावाक् मातृकार्णकैः | निर्वाणं परमेशानि चतुश्चरण रूपधृक् || निर्वाणं च महेशानि परं ब्रह्मात्मतात्मता | चतुर्थं कर्तितं भद्रे विद्याचरणमीरितः || पंचमीं कुण्डलीं देवि यथावद वधारये | मूलाधारादाविलातं विसातन्तु तनीयसीं || सर्वदेव स्वरूपां च सर्ववर्ण प्रदीपिनीं | महाकुण्डलीनीं देवि ममली कुण्डली परां || १६०ब्) श्रीदेव्युवाच || क्रमेण दशविद्यायाः कुल्लुकाया विधिं वद | श्रीशिव उवाच || पंचाक्षरी कालीकायाः कुल्लुकापरि कथ्यते | कालाकूर्च वधू मया फडंता परमेश्वरि || अघोराक्षो ऋषिः प्रोक्ता विराट् च्छन्द्रः प्रकीर्तितं | देवता कुल्लुका काली वाजमायाभिधं मतं || कामः शक्तिस्तथा कूर्चं कीलकं परि * र्तितं | षट्दीर्घद्येन कामेन षडंगन्यास ईरितः || ध्यान पूजादिकं सर्वं कालिकावत्समापयेत् | मायावधूवतध्वा कूर्चं तरिणी कुल्लुकामता || तारिणी कुल्लुकायाश्च विरुपाक्षे ऋषिः स्मृतः | उष्णिक् च्छन्द्रः समाख्यातं देवता नीलतारिणि || कूर्चबीजं तथा माया शक्तिर्वधु च कीलकं | १६१अ) र्माययार्तु षडंगानि सर्वं नीलर्सरस्वति || च्छिन्नायाश्च महेशानि कुल्लुकाष्टाक्षस्सि भवेत् | वज्रवैरोचनीये च अन्ते चर्म प्रकीर्तिकंत् || अति कालो ऋषिः प्रोक्ता गायत्री च्छन्द्र ईरितं | हं बीज भू तथा शक्तिः कीलकं राचिनी मता || शिवः षट् दीर्घयुक्तेन षटंगन्यासमाचरेत् | ध्यान पूजादिकं सर्वं च्छिम्नावत्समुपाचरेत् || सुन्दर्याः कुल्लुका देवि संप्रोक्ता द्वादशाक्षरी | वाग्भवं कामराजं चल्लर्जा च त्रिपुरे पदं || भगवती पदं प्रोच्य तदन्ते ठ द्वयं वदेत् | सुन्दरी कुल्लुकायास्तु ऋषिरानन्द भैरवः || गायत्री च्छन्द्र आदिष्टं वग्भवं बीजमीरितं | लर्जा शक्तिर्महेशानि कामबीजं च कीलकं || १६१ब्) देवता त्रिपुरेशी च षडंगं त्रि द्वयं न च | ध्यानपूजादिकं सर्वं सुन्दरी वत्समाचरेत् || संपत्प्रदायाः प्रथमं बीजं श्रीभैरवी मनौ | विकरालो ऋषिः प्रोक्तः पंक्तिः च्छन्द प्रकीर्तितं || देवता भैरवी नाम्ना कुल्लुका परिकीर्तिता | हं बीजं सं महाशक्तिरमत्र कीलकं मतं || षट् दीर्घ न बीजेन षडंगन्यासमाचरेत् | मातंगी वगलालक्ष्मी धूमोच्छिष्टाक्रमे शृणु || तारं कूर्चं नारसिंहै पंचानां कुलकामना | ऋषि भैरवनामा च यावत् च्छन्दांसि पार्वती || देवता सवबीजादि स्वस्वदैव क्रमेन च | ध्यानपूजादिकं सर्वं स्वदैवत वदा चरेत् || ईयन्ते कथिता देवि संक्षेपात् कुल्लुका मया | अथ दश महाविद्या जिह्वाशोधनमन्त्र || श्रीशिव उवाच || अपरैकं प्रवक्ष्यामि जिह्वाशोधनमुर्त्तमं | १६२अ) यत्र कृत्वा महादेवि जप पूजा वृथा भवेत् | अशुद्ध जिह्वाया देवि यो जपेत् स तु पापकृत् || तस्मात् सर्वप्रयत्नेन जिह्वाशोधनमुर्त्त चरेत् | देव्युवाच || देवदेवं महादेव शूलपाणेपिशाक धृक् | पृथक् पृथक् महादेव कथयस्व मया निधे || श्रीशीव उवाच || शोधनं सर्वविद्याणां मुखस्य शोधनं शुभे | श्रीबीजं प्रणवं लक्ष्मी तार श्रीप्रणवं तथा || इयं षडक्षरी विद्या सुन्दर्या दशधा जपेत् | भैरव्याः शृणु चार्वग्नि मुखशोधनमुर्त्तमं || प्रणवं च ह्सौं बीजं प्रणवं सुरवन्दिते | इदं हि त्र्यक्षली मन्त्रं दशधा प्रथमं जपेत् || शृणु सुन्दरि श्यामाया मुखशोधनमुत्तमं | निजबीजे त्रयं देवि प्रणव त्रितयं पुनः || १६२ब्) कामेतयं वदि बिन्दु रति बीज युतं त्रिकं | एषा नवाक्षरी विद्या जिह्वा शोधन कारिणि || तारायाः शृणु चार्वंगि अपूर्व मुखशोधनंः | जीवनी भुवना लर्जा भुवनेशी ततः प्रिये || त्र्यक्षरीयं महाविद्या विज्ञाय मृतवर्षिणी | दुर्गायाः शृणु चार्वंगि मुखशोधनमुत्तमं || द्वादश स्वरमुधृत्वा बिन्दुयुक्तं त्रियं तथा | अपरैकं प्रवक्ष्यामि वगलमुखशोधनं || वाग्भवं भुवनेशानी वाग्वीजं सुरविन्द्रिते | मातंग्याः शोधनं देवि अकुसं वाग्भवं तथा || बीजं चाकुशमेतद्धि विज्ञेयं त्र्यक्षरीयकं | लक्ष्याश्च शोधनं देवि श्रीबीजं कमलानने || प्रणवं दान्तमुधृत्य वामकर्णविभूषितं | पुनः प्रणवमुद्धृत्य विद्येयं त्र्यक्षरी मता || १६३अ) वालादीनां च श्रन्या सांप्रगवं सुशशोधनं | स्त्रीशूद्राणां महेशानि औकारेण तु शोधनं || मुखशोधनमात्रेण जिह्वामृत मयी भवेत् | अन्यथा मन्त्र विट् युक्ता जिह्वा भवति सर्वदा || भक्षणे दुषिता जिह्वा मिथ्या वाक्य न दूषिता | कलहै दुषिता जिह्वा तत्कथं जतपन्मनुं || तत् शोधनमना चार्य न जपेत् यामरः क्वचित् | शैव शाक्त वैष्णवानां सर्वेषामप्यवश्यकं || अन्यथा प्रजपेन्मत्रं मोहन यदि भविनि |? सर्वं तस्य वृथा देवि मन्त्रसिद्धिर्न जायते || अन्तेनरकमाप्नोति भवेत् सापि न चान्यथा | देवो यदि जपेन् मन्त्रंमकृत्वा मुखशोधनं || पतनं तस्य वै देवि किं पुन कर्मभ्य वासिनां | १६३ब्) अथ शापोर्द्धारः || शापोर्द्धारोत् कीलेन तु तत्र भेदः क्रियात् भवेत् | *? श्म वद महादेव यद्यहं तव वल्लभा || श्रीमहादेव उवाच || उत्कालनं वधं वंध न स्वाच्छापस्तेजानिरोधकः | कीलेन तु महादेवि न गतागतमीरितं || गतागतं महादेवि शापोर्द्धारे तु वर्तुतः | भक्तानुग्रहकामत्वार्देवी साक्षाधकसनिधौ || गत्वादभोवरो देवि समय जात एव हिः | मन्त्र चैतन्य रोधत्वान् मृषाजाता महेश्वरि || यथा दुरतरे वत्से धेनुः प्रीतिस्तु वर्तते | वंधनस्य यदामुक्ति स्तनपानं तदैव हि || काली तारा तथा च्छिन्ना तेजाः पुंजनिभा मता | त्रयाणां तेजसंरोधं कोहि कतुक्षमो भवेत् || तस्माच्छ्रापादिकं नास्ति कालिकाया महेश्वरि | १६४अ) कालितारिणी च्छिना उत्कीलन विमोचिनी | दामसंत्रोटनं कृत्वा धेनुर्याति यथासुभं || भक्तानुग्रह काम्यत्वान्नधेयं कालिका परा | ताराच्छिनास्तंभवेशी सर्ववन्धविमोचिणी || शापो तु प्रस्तवो नास्त्रि कीलेन प्रस्तरो नास्ति कीलेन प्रस्तवोस्ति हि | कालिका या महादेवि सर्वदा प्रस्तवोस्ति हि || शापोर्द्धारनिरुक्तिस्तु शृणु यत्नेन साप्रतं | वत्सो निकटवत्नी स्यार्द्धे तु निकटवर्तिनी || दुग्धा भाववान् महादेवि नैकट्यै किं फलं भवेत् | काली तरे समायाते पुनदुग्धं यथा भवेत् || शापो निर्मोचाना देव पुनस्तेजः प्रवर्तते | वत्सबंन्धन मुक्ती त्वात् फलसिद्धि हि वर्तने || उत्कीलनवंन्धनं हि फलसिद्धिः प्रदा प्रिये | तस्मादुत्कीलनं भिन्नं शापो भिन्नः प्रकीर्तितः || १६४ब्) अक्षरव्यत्ययो देवि *? त्कीलन विधौ स्मृतः | मन्त्र चैतन्य व्यत्ययोन चः || चैतन्य व्यत्वया मन्त्री पापभागी नरो भवेत् | तत्पापस्य निवृत्यर्थं प्राणायाःम प्रकिर्तिताः || देहवन् मन्त्ररूपत्वं द्यक्षरेवत् तते शिवे | अक्षरव्यत्ययोर्देवि हींशां गत्वं प्रजायतेः || शापदाने महादेवि सर्वांगं सिद्धमेव हि | वत्सवंधनकं कर्म पुनः सिद्धं यथा भवेत् || ततोत्कीलनकं कर्म पुनः सिद्धं महेश्वरि | शापदान महादेवि चैतन्या भाव एव हिः || विद्यमाना यथा गादो दुग्धं ना महेश्वरि | शापदाने महेशानि चैतन्यं नास्ति शांभविः || उत्कीलने महादेवि चैतन्यं सिद्धमेव हि | एकदा समये कोपि साधकः स्थिरमानसः || संस्मारदक्षिणां देवी सदा भक्तैक मानसां | १६५अ) द्युतक्रीडां मयासार्द्धं प्रवर्ता च विहाय सा | गता सा साधको यत्र दलातस्यैवरंततः || निवृत्ता सामया शक्ता क्रुद्धेन मनसा मुने | यतोमां त्वं विहायैव गतामाधक सन्निधिं || अतस्त्वं शीघ्र फलदान भविष्यसि दक्षिणे | ततो दीनमना देवि संतुतोषस्तथा वैः || ततस्तुष्टोह मनया पुनरेनां समुर्चिवान् | महाविद्यां संपुटितां जप्त्वा यप्त्वां सुमंध्यमे || ततस्त्वं शापनिर्मुक्ता भविष्यसि फलप्रभा | ततः प्रभृति विद्येयं द्रुतं च फलदायिनी || साधकसं महाभाग जननी बन्धमुक्तये | इत्युक्वान्तर्दधेशस्तु भार्गवस्य हि पश्यतेः || भार्गवा हि मुनिश्रेष्टेस्तपश्य वमनोदधे | शापोद्धारं प्रवक्ष्यामि वशिष्ठ मुनिना कृतं || चतुर्विंशति लक्षाणि जप्त्वा कोपेन शप्तवान् | १६५ब्) अद्य प्रभृति देवेशि कालिके कालरूपिणी || तवमन्त्रेषु संसिद्धिः कष्ठे नैव भविष्यति | इति श्रुत्वा महादेवि प्रादुभूता प्रसाद्यतं || उच्चा च पुत्रकीमिदं शापदानं वृथाकृतं | एवं फलं यथा न स्यात् तथा कुरु मुनीश्वर || ज्ञानदर्तं दुचाराध्यं दुल्लभं यत्सुरेरपि | ततः प्रीत्या वारं लब्ध्वा ज्ञानविज्ञानसंयुतं || उवाच प्रीत मनसा शापान्तं मन्त्र संकटे | मातः क्रोधेन कथितं तत्रोपाय महं वदे || प्रणवं पूर्वमुद्धृत्य घोररूपे च दक्षिणेः | सिद्धिं कुरु द्वय प्रोच्य कालिकेति पदं ततः || ममाभीष्ट फलं शीघ्रं देवि द्रवैण संपदं | जपादौ मन्त्रमुच्चार्य जपान्ते च पुनष्पथेत् || १६६अ) भविष्यति ततः सिद्धिरचिरात् परमेश्वरि | अथ मन्त्रोयवे ज्ञानमाह || श्रवणास्य हृदये नेत्र ज्ञानन्मोक्षो मनोः सद्यः | श्रोत्रादीनां ज्ञाना भावे मन्त्रस्य ग्रहण मात्रात् || दारिद्रञ्च विपर्ति चर्नरक प्राप्तिर्यशोवंशः | दीनोति दुःखभागी पराजितः शत्रु पीडितः || कुर्यादवस्थित चित्तो मन्त्री शोत्रादि विज्ञानं | स्वनाति भक्त्या श्रोत्रादिनां गुरोज्ञानं भवति तादा कृतभ्या लोकत्रय पूजितो नघमन्त्री || लयश्रोत्रा मृगास्यादि हृच्छून्याः सदृशः स्वराः | गर्जिनि ध्रुम्र भैरव्या आभावेरदृशौ स्मृतौ || मूलार्णमुखमादिष्टं हृदयं स्वरशक्तयः | एभिरशेषमन्त्राणां हृन्नेत्र वदनानि च || १६६ब्) असावास्य परिज्ञयः सर्वतन्त्रेषु गोपिता | बीजरक्त मुखासर्वमूलार्ण हृदयं स्वराः || दक्षिवामदृशौ चण्डी विचारे मध्यसा नम | बीजाभावे मनो विद्यू नेत्र वमनो हरीः || मूलार्णं हृदयं दण्डी पाणौ च स्वरशक्तयः | चिन्तामनि नृसिंहाख्यौ नेत्रास्य प्रणहृत् श्रुतीः || यत्री बीजाक्षरं मन्त्रं तत्र सर्व स एव हि | प्रधान पूर्वपरगा विकरा यत्रः हृश्यतेः || तत्र नेत्रं विजानीयान् मुखं चक्षु तजोक्षितं | रक्तवर्ज मनोमूल वर्णमास्यं प्रकल्पितंः || मालापूजा || इष्टमन्त्रेण मालायाः प्रोक्षःणं परिकीर्तितं | ओं मालामाले महामाले सर्वशक्ति स्वरूपिणि || चतुर्वर्गस्त्वयि न्यस्तस्तस्मान् मे सिद्धिदा भवः | वाग्भवं च तथा लक्ष्मी महादिमालिकान्तथा || ङेन्तां हृयं देवर्णान्तो मन्त्रेणानेन पूजयेत् | १६७अ) मन्त्रध्यानः || चिन्तयित्वा गुरुं मूर्द्ध्न यथावर्णादिकं भवेत् | मन्त्रं ध्यायेत् तणुमध्यपीतावर्ण हिणायं || महामायां च हृदये स्वात्मानं गुरुपादयोः | आज्ञा चक्रेतगः पश्चाद् गुरोम्मन्त्रस्य चान्मनः || देव्याश्चाप्यकतां दीत्वा सुषम्नावन्मना ततः | अथ जपसंख्याकृतौम्मह || नाक्षतैहस्त पर्वैर्वानधान्यै न च पूष्पकैः | न चन्दनैर्मृतीकया जपसंख्यां न कारयेत् || लाक्षाकुलूशीतशिन्दुलं गोमयं च करीषकं | विलोद्य गुटिकां कृत्वा जपसंख्यां तु कालयेत् || इति श्रीकौल रहस्य सर्वागमसारे चतुर्विंशपटलः || २४ || अथ मन्त्रसिद्धिदीपो यथा || अथातः संप्रवक्षामि सर्व तन्त्रेषु गोपितं | मन्त्रसिद्धिकरं दीपं न वाच्यं यस्य कस्यचित् || शक्त्याद्यहगणार्केपु भक्तोवर्ण प्रजायते | १६७ब्) मन्त्रवर्णस्य दिवसे क्रमार्द्दिवं प्रकल्पयेत् || सायं तु कुडवाहस्य वर्तिभूपंचतंतुभिः | यावज्वलति दीपो स्यैतावत्पश्यन्मनुं जपेत् || मन्त्रार्णख्य दीपेषु ज्वलितेष्वथ तद्दिनेः | पुनर्दीपे कृसा तु दीपे संदृश्यते स्फुटं || इष्टं स्वकीयं कथयेद्या च येन्मनसेत्प्सितां | ददाति देवता तुष्टा गुह्य *? तत्प्रकाशितं || अथ सावरमन्त्रपुरश्चरणं || अथ सावरमन्त्राणां पुरश्चरणमुच्यते | कामरूपाक्ष देशे तु कामाक्षा यन्त्र देवता || कामशैलोस्त्रियत्रासौ कामपीठं तदुच्यते | तत्रासंलेख्य मन्त्रं हि वंशोपरि यथाक्रमं || गुरुणा वाचनीयः सस्वयं पञ्चात्पथेन्मुनुं | गुरोरभावे तस्यैव मूले शैलश्य पर्वणि || लिखित्वा प्रपठेन्मनु || ज्वालामुखी समीपे वा हिंगुलाया समीपतः | लिखित्वा प्रपठेन्मन्त्रं नान्यथैव प्रसिध्यति | १६८अ) मुखतः स्त्रीसमीपे हि कामपीठे मनोग्रहः | अथवासदेशेषु मन्त्रग्रहणमुच्यके || तालपत्रे मनुंल्यख्य पूर्णकुम्भनिधापयेत् | भास्करं तु गुरुं ध्यात्वा वाचयेन्त्रि गुरु रवि || इति सावरण मन्त्रपुरश्चरण विधि || अथ षोढान्यासपुरश्चरणं || देवी भावसमायुक्तः षोढान्यास परो भवेत् | दशविद्याविधो सा च दशधा भिन्नभिन्नतः || प्रत्येकं षट् ऋषिं तं तं तद्ध्यानं च समाचरेत् | * * * *? च्छन्दादिकं यत्र कीर्तितं परमेश्वरि || तदेव तत्र ग्रदितं मनुक्ते सूलदेवेवत् | ध्यानं च्छन्दादिकं स्त्रोत्रं देवीवत्सर्वमेव तु || आयुतं च पुरश्चर्या न्यसन क्रमयोर्गतः | १६८ब्) अथ सहस्रनामस्तव कवचाणां पुरश्चरणं | ईश्वर उवाच || सहस्रनामस्तोत्रंषु कवचेष्वपि पार्वति | तत्कोवचोदिता प्रोक्ता सावै कार्या पुरस्क्रिया || यत्रनोक्ता पुरश्चर्या तत्र किं वा विधियते | अयुतं तु पुरश्चर्या स्तोत्रमात्रे प्रकिर्तिताः || माहाकाल मते प्रोक्तं तत्रस्थं चेत्समाचरेत् | विप्रसंतोषने नैव सर्वसिद्ध्यति पार्वति || हवगर्तु कथं कार्यं पुरश्चर्यादिकं भवेत् | सहस्रनाममरूपं वै कीदृशं परमेश्वरी || तथा च कवचं देवि किं रूपं परिकिर्तितं | शिव देव्यास्तु संवादो ब्रह्मरंध्रेति कीर्तितं || अन्य श्लोकाकेश तुल्या ऋषिः शिर ईतिरितं | १६९अ) छन्द्रो किं मुखोद् देवि देवता हृदयं भवेत् | बीजं गुह्यमिति प्रोक्तं शक्तिस्तु परमंगोता || सर्वांगं कीलकं देवि ह्यर्थ वादः प्रकीर्तितः | स्त्रोत्र मध्ये स्थितं यद्यत्तत्सर्वं स्तोत्र रूपकं || एवं च देवदेवेशि स्तोत्ररूपा प्रकीर्तितः | तथैव कवचं देवि ज्ञात्वा पाठे पठेत् प्रिये || अंगहीने भवेन्नाशः सर्वथा परमेश्वरि | फलं स्तुत्वादिकं देवि अंगमित्यभिधीयते || आद्योपान्तं विना देवि फलमर्द्धं प्रकीर्तितंः | अत्रार्थे प्रत्यया देवि षडङ्गाद्या यथा स्मृता || हवणं कवचांदीनां श्लोकान्ते विहितं वचा | आद्योपान्तं पाठीत्वा वा पश्चा तुफ हवनं मतं || अथवा देव देवेशि नामान्तं भव मतं | कवचादवावपि प्रिये मन्त्रान्त्रे हवनं भवेत् || उपक्रमस्य संहारी श्लोकान्ते वहणं मतं | १६९ब्) आदौ पूर्णा तु संपथ्य तथैचान्ते महेश्वरि || मध्य नामानि पाद्यानिद्यानि पुरश्चर्या प्रकीर्तिताः || श्लोकान्ते मार्जनादिकं || तत्र स्त्रोत्रोक्त विधिना पुरश्चर्यादिकं चरेत् | स्तोत्रमावर्त्य संपूर्णं तदन्ते गणनां चरेत् || संपूर्ण होमयोगोयं कथितस्तु प्रियं वदेत् | मार्जनाभिषेकर्म कुर्यादत्र महेश्वरि || सारूपं कवचाख्यं च सायुज्यं स्तोत्रमीरितं | सानिध्यं नाम साहस्र त्रितयं परिकिर्तितं || कवचं कवचं रूपं स्यात् स्तोत्रं सहचरो भवेत् | सह नामस्तोत्रं तु पूजास्थाने प्रकीर्तितंः || पूजादूर्गा स्वरूपा स्यात् वलिदानं तु मारणं | मंत्रोराज पुरश्चर्या राज्यसंपर्तिरीतिता || सपत्या तु विनाराजा न शोभति मेश्वरि | १७०अ) संपर्तिमूलमेतद्धि सर्वमेव प्रकीर्तितं | होममन्त्रमिति प्रोक्तं पर्जन्यास्त्रं तु तर्पणं || जले दूर्ग स्वरूपं वै त्वभिषेकः प्रकिर्तितः | ब्राह्मणानां भोजनं तु दुष्टसैन्य प्रभक्षणं || देवता गुरुविद्यैक्यं त्वान्मैक्यं परिभाव्यने | सर्वसिद्धीश्वरो भूत्वा त्रैलोक्या विधिपति भवेत् || यथा च राजराज्यादौ शत्रुसैन्यं भयं भवेत् | सिद्धिराज्यं महादेवि तथैव परिकीर्तितं || दूर्गाद्यम्वादिकं देवि देशराज्य यथामतं | तथैव सिद्धिराज्यस्य पुरश्चर्यादिकं मतं || मन्त्रोराजागुरोर्मंत्री गणेशाद्वारपालकाः | साधनं शवमुण्डस्य सिहासनमितिरितं || १७०ब्) साधकेन तथा कार्यं येन सर्वं तु सिध्यति | नैमित्तिकं च काम्यं च हय द्विरदकौ मतौ || होमधूपः पताका स्यात् ततस्तु सिद्धिराजाधिपे देवि किन्न सिध्येति भूतले | षोढान्यासादिकं सेना देवताराद्यदायिका || यन्त्रं तु वज्रदूर्ग तु जीवचक्रं विभेदकं | कचादि पुरश्चर्या प्रोक्ता किंशोतु मिच्छसि || अथाङ्कयंत्रपुरश्चरणमाह || आदौ यन्त्रंस्य सिद्ध्यर्थे तन्मन्त्रस्य पुरस्कृयां | कृत्वा युत प्रमाणेन पञ्चाद्यन्त्रस्य वाचरेत् || यथाधारे यथा द्रव्य यन्त्रसंलिखा यत्नतः | तत्रा वाह्यैव नर्देवं संपूज्य विधि पूर्वकं || ध्यात्वा जपं वलिं होमं कृत्वा || * * * * * * *? || एकैकवारमावान्य मन्त्रं यन्त्रं स्मरन बुधः | इत्थं जपादिभिः सिद्धे यन्त्रे नामाध्यता क्वचित् || १७१अ) दिक् सहस्र प्रमाणे यन्त्रे कार्य पुरस्कृतां || अथ द्वित्रिपुरश्चरणैर्मन्त्रामसिद्धत्वेमेति पुनस्तत्रोपायामाह || तथा च सम्यग तुष्टिते मन्त्र यदि सिद्धिर्न्न जायते | पुनस्तेनैव कर्तव्यंस्ततः सिद्धिर्न जायते || तकोपायं प्रकुर्वीतद्यत्तङ्गोप्य मधुनोच्यते | अनुलोमविलोमेन बिन्दुमातृकाक्षरैः || जपेत् संपुटितं मन्त्रं पत्यहं सत संख्यया | एकमाततोहोमादिकात् सिद्धा भवेत् मनुः || पुरश्चर्याक्तमखिलमाहिकं च सामाचरेत् | क्रूरदैवत मन्त्रन्तु भूतलिप्यापुटी कुरु || क्रमान्क्रमाच्छता वृत्तिं कुर्यात् सिद्धिस्तु मासतः | अचोहयरवलाश्चान्तिमादि द्विचतुर्थकं | तृतीयं च क्रमेणैव वर्गानामक्षरं पठेत् || १७१ब्) उष्मत्रयं ततश्वेद्यं अर्चितासु प्रसीदति | शपोतावाकीलितत्वात्तत्रापायाष्टकं भवेत् | संपाताथायनं द्रावो वोधनं वचवशी कृतिः || पीडनं षोषणं शौचं दहनं तत्रु क्रियोच्यते | भूर्जपत्रं समानीय पद्ममष्टदलं लिखेत् || अष्टगंधेन देवस्य रोचनान्दनेन वा | साधकस्य तु नामार्णै मन्त्रं संदभिलिखेत् || यावत् द्वयो समाप्तिः स्यात् तस्य चाद्यं तयो लिखेत् | तारादिकं साधकस्य नामाथाष्टादलेषु तु || द्वौ द्वौ लेख्यौ स्वरौ तच्च सस्यग्या यत्सुधात्मकं | तत्संवेष्टो मृदासम्यग् वेष्टयद्ब्राह्मणादिकंः || शुक्लादि वर्णया पश्चात् सिक्स्वकेन च वेष्टयेत् | १७२अ) क्षिप्रे त्रिमधुरेतर्तु मृन्मये लघुभाजनः | क्षीरपूर्णेनवेकुले तत्क्षिपेल्लघु भोजने || अग्निसंस्थापनं कृत्वा सनिधो तस्य तं घटं | संस्थापयेन्त्रिमधुरै मूलमन्त्रेण होमयेत् || अष्टाधिक सहस्रं तु संपातं कलशे क्षिपेत् | होमांसंमाथतं कुंभं निक्षिपेच्च जलाशये || स्वगुरुं ब्रह्मणाश्वान्तैस्तोषयेद् दक्षिणादिभि | संपाताधाय चैतश्चदुक्तं सिद्धिर्न चेद्भवेत् || द्रावणं तु तदा कुर्यात् तत् प्रकार इहोच्यते | वं बीजेन ग्रथयित्वा भूर्जपत्रे लिखेन् मनुं || उशीररोचनाभ्यां च शिखाकर्पूर कुम्भमैः | क्षीराज्य मधुतोयातां मध्य तं लिखितं क्षिपेत् || पूजनार्च्च जपाद्धोमात् द्रावितः फलदो भवेत् | १७२ब्) द्रावितोपि न सिद्धश्वर्द्धाधनं तस्य कारयेत् | वाग्भवेन च बीजेन संपूतीकृत्यं तं जपेत् || एवं बुद्धा भवेत् सिद्धो नोच्यत् कुर्याद् वशो कृतं | कुचंदनं महादारु हरिद्रामदनीशिलाः || एतैस्तु लिखीतो मन्त्रो भूर्जपत्रे सुशोभने | कठे धृतो भवेद् वश्यो नोचेन्कुर्याच्च पीडनं || अनुदात्तस्वरश्याच्य मुदात् तेन द्वितीयकं | तृतीयमधुदात्ते च पठेत भुर्जमुदात्ततः || एवं पादानि सर्वणि पठे मन्त्रस्य साधकः | अनुदात्तर्पदाचार देवं ध्यायेदधः स्थितंः || उधो स्थिते मुदात् तस्योच्चारेष्टादि सहस्रकंः | जपेन् मन्त्रं ततो भूर्जे भानुदग्धे वलेखयेत् || मंट्रं तमाक्रमेद्वाम पादनाथ च होमयेत् | अष्टोत्तरशतं मन्त्रः पीडितः सन्प्रसीदति || १७३अ) न सिद्धश्वेत्तदोपोष्यः प्रोच्यते तत्क्रियाधुना | सौः बीज पूटितं मन्त्रं विलिख्येद्भूर्जपत्रके || रोचनाकुंकुंमभ्यां च धारयेदिति | एतच्छोखलमित्युक्तं दहनं प्रोच्यतेधुना || पृथक् पृथक् स्वमन्त्रार्णान् चतुदिक्षु समावृतान् | रंबीजेन पलाशश्य वेजे तैलेन संलित् || भूर्ज पत्रेथ गतेर्द्धर्य कंठे दाह क्रिया त्वियं | इति सप्तसंस्कारः || अथ मन्त्रार्थ प्रकरनं || मन्त्रार्थं मन्त्र चैतन्यं योनि मुद्रा न वेत्ति यः | शतकोटि जपेनापि तस्य सिद्धिर्न जायते || तत्रादौ गुरुमन्त्रार्थ || यथा || अथातसंःप्रवक्ष्यामि मन्त्रार्थं गुरुनामतः | गकाराज्ञानसंपर्तिरकारात् तप्रकाशकः || उकाराशिवतादात्म्यं दद्याति गुरुत स्मृताः | गुरु दैवतयोरैक्यं भावयेत् परमेश्वरि || १७३ब्) इडा नाडी स्थित चन्द्र पिङ्गलाभारवाहिणी | सुषुम्ना भेदरूपाणि दहनं पापनासनं || गुरुनामा प्रयत्नेण परतत्वं च प्राप्यते || अथ शिवमन्त्रार्थमाह || ओंकारं प्रथमं विद्यान्नकारां तु ततः परं | गकारं तत्परं विद्यां च्छिकारं तु ततः परं || वाकारं पंचमं विद्यां द्यकारं तु षडक्षरं | एवं पंचाक्षरेषु स्याद्रुत दृष्टिस्तथा शिवे || प्रणवे ब्रह्मदृष्टिः स्याद् ब्रह्मैवाहं न संशयः | मन्त्रार्थः कथ्यते पश्चाद् येन मुक्ति नृणां स्मृता || सत्यज्ञान परानंद स्वरूपा चित्कला पला | अति व्यक्त तया ज्ञेया शिवशब्देन शाम्भवि || १७४अ) वाचकोयं ततः शब्दो ब्रह्मणश्चित्कला मनः | नम शब्दो नमस्कार वाचकः परिकीर्तितः || प्रह्वत्व लक्षणः प्रोक्ता नमस्कार पुरातनैः | प्रह्वतारामजीवस्य शिवात् सस्यादि लक्षणात् || भेदेन भासमानस्य मायया सर्वरूपतः | संवंधं नम इत्याह शिवतात्म्य लक्षणं || नित्यः शुद्धिः शिवः साक्ष्यात् स्वरूपः सर्वदेहिनां | तस्माद्बुभुत्सोर्जीवश्य नोपादेयं हि सर्वदा || सहोयमपि वा तद्वद्वस्तुतो न प्रकीर्तितः | एवं विद्यान्नकारार्थं मकारार्थं मुदीयते || वकारो मम शब्दार्था लुप्तस्त्वेको मकारकः | व्यवहारिक दृष्ट्वायं नमस्कारः प्रकीर्तितः || १७४ब्) तस्माचतुर्थी शवस्तु प्रोच्यते नापि वस्तुतः | ओंकालं सर्वशब्दार्थ वाचक परिकिर्तितः || प्रयोगा देव सर्वत्र सर्वार्थः शिव एव हि | तस्माच्छिवस्य पूर्णत प्रणवा वाचक स्मृताः || वाच्यवाचतावास्य लक्षलक्षणं तापि च | अन्यथापि च नास्त्व च परमार्थ निरूपणेः || अथवा देवसर्वस्य शिवादन्यस्य सर्वदा | नास्तीति स्यान्मृषाभागि न भातीत्यादि माययाः || कल्पितं चिन्मुखनंदं परमार्थ शिवात्मकं | माया तत्कार्यमप्यस्माच्छिवात्सत्यादि लक्षणांत् || प्रत्यक्षसिद्धिनास्त्यैव परमार्थनिरूपणे | अथ किं वहुनोक्तेन शिवादन्य न विद्यते || शिवस्वरूप मे वाहुरिदं सर्वं विचक्षणः | सर्वस्वरूपमज्ञात्वा दृश्यतेन तु वस्तुयोः || १७५अ) एष एव हि सर्वार्थं सेव्यं सर्वं च नान्यथा | वध्यवाधकतां याति व्यवहारे परक्षणं || समुद्र इव कल्लोला इति मन्त्रार्थ संग्रहः || अथ तारायाः || स्वयं लीलया परं विष्णुमूर्तिर्वभौचेम्न चैवं कथं चन्द्रचूडः | त्रदंघ्रि प्रपद्माङ्गतांवु प्रवाही जगनित्य बीजं भेतां त्रिनेत्रां || विधाता यदायान चास्ते स्वयं सः स्वयंभुः कथं स्यात् कदातोति तूर्णनुनाभिधेधोनजातङ्कलौकेजगत्यादि || जगतम्रष्ट्रमस्मै चतुर्भिः स्वहस्तै ददौ या चरस्त्रं नु वेदाननोभूत् | अतः सन्ति वर्णायुगादि वेदा जगत्यादि || तदंशं समायं हि बीजं ततस्यात् त्रिपादेतिदान्तिनोयां वदन्ति || १७५ब्) चिदेक्षरं व्रर्णा युगादिनी वेदा जागत्यादिः | ततोस्त्रं यदासार्ध पंचाक्षली सा जगत्तारणादुग्रह ताराप्रसिद्धा || विनातारकं सापरैका जटास्याजगन्नित्यादि | इदं ये जना स्त्रोत्र राजरिडन्ति प्रसिद्धाश्च ते गद्य पद्य प्रसंशे | जगद्रूपपाणाद्विमुक्ता हि तूर्णं शरीरान्तरे यान्ति तारा सस्तिपं || विपर्तौ निशार्द्ध जपान्ते प्रभाते पठेद्यस्तु भक्त्या तदतदर्थं विचित्य || भवेन्नीलवान्याद्विरेफांघ्रि पद्मे सजीवस्तु हंसः सजीववस्तु जीवः || इती श्री-अर्द्धतनिरूपते मन्त्रार्थविवरणान्मकतारा अर्थं संपूर्णं || अथ श्रीमहात्रिपूलसुन्दर्यमन्त्रार्थमाह || भैरवो उवाच || लकारान्पृथिवी देवि सशैलवनकानना | १७६अ) पंचाशत्पीठसंपन्ना सर्वतीर्थ मयी परा || सर्वगंगा मयी सर्व क्षेत्रस्थान मयी शिवे | सकारा चंद्रतारादि ग्रहदेवस्वरूपिणी || २ || हकाराच्छीवसंयोगाद्व्योमं मडलसंस्थिताः || ३ || इकाराद्विश्वकर्त्रीयं माया तूर्यात्मिका प्रिये || ४ || एकाराद्वैष्णवी शक्ति विश्वपालन तत्परा | रकाराद्वैष्णवी शक्ति विश्वपाला न तत्परा || ५ || रकारारेजसा युक्ता परं ज्योति स्वरूपिणि || ६ || ककारात् कातदाकाम रूपिणि स्फूरव्ययदा || ७ || अर्द्धचंद्रे तु देवेशि विश्वयोनिरितीरिता || ८ || बिंदुना शिव रूपेण सून्यरूपेण साक्षिणी || ९ || १७६ब्) अनया सहवत्रत व्यापि निश्चलतात्मना | श्रीचक्रमपि देवेशि मेरु रूपं न संशयः || १० || सकला भुवनेशानि कामेशी बीजमुत्तमं | अनेन सकला विद्या कथयामि विशेषतः || शक्त्यंत सूर्यवणेयं कलमध्येसुरोचने | वाग्भवं पंचवणाढ्यं कामराजमथोच्यते || मादनं शिवचंद्राढ्यं शिवांतं नील लोचने | कामराजमिदं भद्रे षट्वर्णं सव मोहनं || शक्तिबीजवरारोह चंद्राद्यं सर्वमोहनं | चतुरक्षररूपं तु त्र्यक्षरात्रि पुरापरा || इति सुचनामन्त्रार्थ उर्द्धाम्नाय || अथवालक संस्कारमन्त्रमाह || अथातः संप्रवक्ष्यामि वाङ्मत्वाश्च मनुत्तमं | वाग्बीजं प्रथमं मन्त्रानारदोस्य मतो मुनिः च्छन्दोनुष्टुप् देवता तु वाङ्मतां परीकीर्तिताः || १७७अ) बीजपूर्वैश्च षड्दीघैः षडंगविधिरीरितः | श्वेतांवरांश्वेतवर्णां श्वेतगन्धानुलेपनां || सुधाकुंम्भश्च पद्मंञ्च वीणापुस्तकमेव च | करैदधर्ती मीनस्यां मुक्ताभरणभूषितां || एवं ध्यात्वा कनीकायां यजेद् देवी षडस्रके | रुद्रधारां मणिमतिं फल्गुं विष्णुमनीं तथा || प्रभावती भानुमतिं भूपुरे तु दिगीश्वराम् | लक्ष त्रयं जपेन्मन्त्रं पञ्चषाद्यैस्तथा हुनेत् || तर्पणादि ततः कृत्वा सिद्धि मन्त्रः प्रजायते | सद्यो जातस्य वालस्य जिह्वायां बीजमालिखेत् || मधुना स्वणलैखन्या सोष्टवर्षः कवि भवेत् | वाग्मत्यां चाथगंगायां पुरश्चर्या कलोति यः || द्वितीयस्या प्रतिष्ठाही भिक्षाशी वाथ मौनवान् | १७७ब्) ब्रह्मचारी भूमिशायी श्वेताम्बर धरः शुचिः | वाक्सिद्धि लभते वेश्यं दाता भोक्ता त्वया च कः || इति श्रीकौलरहस्य सर्वागमसारे पञ्चविंशपटलः || २५ || अथ दशविद्यायाः मन्त्रसंख्यामाह || दशलक्ष प्रभेदैश्च कालि विद्या कलौ स्थिता | दशपूर्वैः शप्तलक्षैः सुन्दरीकात्तिता भुवि || त्रिनिखर्वं तुरास्या च च्छिन्नायाः खमात्रकं | पंचाशीति सहस्रश्च लक्षपंचकसंयुता || भुवनेश्रीमहाविद्या वगलां शृणु सारदं | तत्वलक्ष्या तु वगला सहस्र नवतीर्गता || धूमावती महाविद्या षोडशीतिस्तु भैरवी || १७८अ) मातंग्या नेत्रलक्षा च कमला लक्षपंचका | एते सृंखलिका योगान् प्रस्तारास्तु विनिर्गताः || अथ कौमारी जाति भेदफलं || विप्रां सर्वेष्टसंसिध्यै यशसक्षत्रियोद्भवां | वेश्या प्रयागं देवेशि कोटिसिद्धि प्रदायकं || स्वैरिणी वांच्छिताद्यर्थं कुट्टिनी सर्वकर्मसू | हृती प्रीति विधौ वश्य कुमारी परिकीर्तिता || वृषली देवता सिद्धै देहसिद्ध्यैकिरातिनी | पार्वतीया सर्वकर्यमनोरथ मयी कला || चाण्डालिनी राष्ट्रसिद्ध्यैराज्युसिद्धैकुविन्दजा | विद्यासिद्ध्यैराजसुता क्रमेन परिकीर्तिता || सर्ववाच्छा प्रसिद्ध्यर्थ प्रोक्ता श्रीवालसुन्दरी || न कौमरी || अद्याशुद्धा वासिकान्या तृतीया ललिता स्मृता | १७८ब्) चतुर्थी मालिरीख्याता पञ्चमी स्याद् वसुन्धुरा | सरस्वति रमागौरी दुर्गा तु नवमी भवेत् || पुरुषस्य || पञ्चन्नववषञ्च यद्देद्वालंविचक्षणः | पंचाध्यावटुक प्रोक्ता न वर्षा गणेश्वरः || अथ प्रसंत् विविध प्रायश्चित्तमाह || प्रयोगं नैव कर्त्तव्यं साधकंः सिद्धिकांक्षिभिः | प्रयोगान्नरकः प्राप्तिः परकोनविद्यते || प्रयोगां श्रीपमाप्नोति प्रायश्चिर्त्ती तु साधकः | प्रयोगदोषशात्त्यर्थं लक्षमात्रं जपेत् मनु || मारणेर्च्चाटने द्वेष लक्षमात्रात् सुचि भवेत् | वश्याकरणस्तथा भादौ लक्षवाप्य युतं जपेत् || ईश्वर उवाच || १७९अ) शृणु देवि प्रवक्षामि प्रायश्चित्त विधिन्नवः | गुरुत्यागकरः शिष्यः प्रायश्चिर्त्ती भध्रुवं || लक्षं श्रितोद्रकं जप्त्वा तस्मात् पाद्विशुद्ध्यति | मन्त्रात्यागकरो यस्तु तत्संङ्गं वर्जयेत् प्रिये || लक्षमेकं जपेन्मन्त्रं होमतर्पणतः शुचिः | सर्वेषामेव पापानां शंकरे समुपस्थिते || प्रायश्चित्तं विजानीयादयुतं मन्त्रजापतः | नित्यादि क्रमदोमानां शान्त्यै विद्याशतं जपेत् || नैमिर्तिकाति क्रमणे सहस्रं जपमेन्मनुं | यदि दैवात् पशोर्विद्या लभते कुलजैन्नरैः || द्विजन्तु कौलिकं प्राप्ये पुनर्विद्यामुपालभेत् | शकलोबीजहीनस्तु सन्दिग्धो निन्दितस्तथाः || १७९ब्) मनवस्तु न सिद्ध्यंति गुरुः स्याद्ब्रह्मघातकः | तदा तं सहसा ज्ञात्वा मन्त्रदेवं गुरुं त्यजेत् || लक्ष त्रयं जपेल्लीपीं लक्षम्वाप्य जपाजपेत् | होमयेद्ध विपान्तेन निष्या पश्यात् तथा ध्रुवं || एकपात्रे पिबेद् द्रव्यं वीरीमहेश्वरो यदि | श्वारोच्छिष्टं भवेत् पानं प्रायश्चित्तं स कौलिकः || गायत्र्यास्तु सहस्रेण उपवास त्रयेन च | सम्यक् शोथित चित्तस्तु सुवर्णं गुरु देवदेत् || वलात्त स्वरतो वापि योरमेन्मन्त्रमातरं | शदलक्षं मनुं जप्त्वा तुषानलं समाचरेत् || मन्त्रपुत्र्याः स्वपुंत्र्यश्च भगिन्याश्च कुलस्त्रिये | रमना लक्षजापेन पूतो भवति कौलिकः || कृत्वा वीरे वधं मन्त्री वृथापानं गुरोःस्तुषां | १८०अ) मन्त्रपूर्त्रीम्वीरपत्नीं रमित्वा रक्षमो जपेत् || अस्थि प्राणिसंघाते हत्वा वनरकं व्रजेत् | हत्वा च पक्षिणस्यर्वान् स्त्रियं चैकादशं जपेत् || सर्पमार्जारनकुलमुखमुष्ट्रखरं हयं | गजात्वाथ मृगान् सर्वान् हत्वा चाष्ट शतं जपेत् || जपेदष्टं सहस्रस्तु क्षुद्रजन्तु क्षुद्रजन्तु वधे कृते | वलिदानम्विना मन्त्री पातयेन्न पशून् क्वचित् | अन्यथा स्मार्तु मुदितं प्रायश्चित्त मनिषिभिः || गोवधे दशभिलक्षैम्मुच्यतेनरकाणवात् | लक्षैर्द्वादशभिमन्त्री वृषं हत्वा विमूच्यते || गुरुं हत्वा प्रमादेन पञ्चलक्षैब्भवेच्छुचि | दशभिः कोटिर्मन्त्री स्त्रीवधात् प्रविमुच्यते || १८०ब्) प्रमादात् पतिते विप्रे लक्षैर्विंशतिभिशुचिः | क्षत्रादयो यथोक्तेन मुच्यते किल्विषादितः || ब्रह्मणास्य वधे लक्षं क्षेत्रिये द्विणां स्मृतं | वैश्यां त्रिगुणद्दिष्टं पादये च चतुर्गुणंः || अहर्द्धा द्वावधे मन्त्री खाब्धिलमुनुं जपेत् | वभ्रोश्यशूकलाणाञ्च वधे पञ्च सहस्रकं || क्षिणां हनने मन्त्री द्विसहस्रेण शुद्ध्यति | सर्पमार्जारमत्स्यानां वधे वेदसहस्रकं || देवेद्रोहाद्गुरुद्रोहान्त्रिंशत्कोटिम्मनु जपेत् | देवद्रव्यं गुरुद्रव्यं भुक्त्वा तावन्मनुं जपेत् || निन्दने समयानाञ्च योगिनी वीरयो शिव | शास्त्राणां मन्त्रिणां स्त्रिणां सहस्रं जप माचरेत् || वा दक्षिणसिद्ध्यान्ते शैवव्रतधरे हरेः | १८१अ) चतुःकोटिमितं मन्त्री जपशुद्ध्यति किल्विषात् || अर्घ्यादि निन्दने मन्त्री दशावत्तनशुध्यति | अर्घामृतं पिबेन् पूर्वं देवीमुत्थापयेत् ततः || पशुपानं भवेत् तस्य तत्क्षोयो लक्षयो भवेत् | अनिवेद्य तु भुक्ते प्रायपेत् सतताष्टकं || वीरपत्नी वृथा || प्रायश्चित्तं चरेन् मन्त्री दिव्यवीरार्चनादिकं | दीपनाशे पात्रनाशे पात्रस्खलनं तथा || पूजयित्वा महादेवीं जपेदष्टोत्तरं शतं | आज्ञानाते तदुच्छिष्टं ज्ञानतो द्विगुणं भवेत् || दग्धं च स्फुटितं यन्त्रं हृतञ्चैवेण वा प्रियेत् | विदिर्णं घृष्टवीं खेचदुपायं च शृणु प्रिये || लक्षमात्रं जपेद् विद्या होमतर्पण पूर्विकां | १८१ब्) सद्भक्त्या चलुंतोष्य ब्राह्मणानपि भोजयेत् | शक्तिपूजा ततः कार्या कुर्यादष्टाष्टकं वुधः || पंचपंचककं वापि कालि तारा तु सारतः | कदाचिल्लुप्तचिह्नम्वा स्फटितो विभूषणं || भग्नं नष्टकरो मर्त्या मृत्युस्तस्य भवेद्ध्रुवं | तस्मात् स तीर्थराजे वा गंगादि सरिताम्वरे || समुन्द्रे वा क्षिपेद् देवि अन्यथा दुःखमाप्नुयात् | विद्यामात्रे त्विदं कार्य विशेषं शृणु सादरं || लिगे वाणे नर्मदोत्थय च युग्मेन दुष्यति | शलाक चादिनो भदिनो भग्ना तदा लिंगं न दुष्यति || शालग्रामनिलामात्रे भंगे मृत्युक भवेत् | भूमौ पादकलो घाते नेदि मस्तके शिवे || १८२अ) हृदया चातमे यत्र सर्वनश्याति पार्वति | तां मूर्तिं विसृजे देवि पुनमूर्ति समाचरेत् || महाविद्या विधौ देवि विशेषं शृणु सादरं | यत्र देवो गतो देवि तद् देशतस्थलं त्यजेत् || प्रायश्चित्तं ततः कृत्वा सुखमाप्नोति साधक | वालामनीयकौमारीं चर्वगिं चारुचर्चितां || प्रसूनमंचे संस्थाप्य सांगं सावरणां यजेत् | देव्याः स्वरूपं देवेशि तद्वेत्तस्याः स्वरूपकंः || विभाव्य प्रजपेद् देवि संप्रदायानुसारतः | उपवासं प्रकुर्वीत दिनमेदं मद्रिततः || लक्षमात्रं जपेन्मन्त्रं जप तर्पण भेदतः | कुमार्यामेव संपूज्य तत् तद् दीपात् समाचरेत् || १८२ब्) त्रिशक्ति परविद्यादौ दीपराजं समाचरेत् | दीपाग्रे दीपीनी जप्त्वा दोषहीनस्तथा भवेत् || सिन्दूरण कृतं यन्त्रं मूलेनावेष्टितं ततः | तत्कोणे कुल्लुकां लिख्य तत्र दीपं समाचरेत् || अष्टगंधेनपेनापि गंधेनद्यसृणेनचः | दिव्यवर्ण न देवेशि तेन सिद्धीश्वरो भवेत् || पश्चिमाभिमुखं दीपं पात्रं त्रिपलमात्रकं | सौवर्णराजतं ताम्रं मार्तिक्यं धातुयं भवेत् || दीपं कृत्वा प्रयत्नेन एकविंशति तंतुभिः | त्रियं च नवरुद्रैश्च वितस्तिवर्तिकां चरेत् || शोप्यतेन पलाष्टेन आह्यपात्रं समाचरेत् | चतुरंगुलमुच्छ्रायं सार्द्धांगुलसमुत्तमंः || १८३अ) वध्रंगुणीलप्रोक्तं कवचं सप्तधा भरेत् | दीपस्वदेविसंपूज्य सांगां सावरणा शिवे || एवं क्रमेण देवेशि सिद्धिमाप्नोति साधकः | वलिदानं ततः कुर्यात् सात्विकादि प्रभेदत || आपदूर्द्धारकं जप्त्वा दोषहीनो नरो भवेत् | अयं च नित्य दीपो हि त्रिशक्ति विषं ये मतः || प्रायश्चित्त प्रसंगेण कीर्तितः परमेश्वरि | एवं दोष विनिमुक्तः पुनर्यन्त्रं च संग्रहेत् || उक्तसंक्तारमासाद्य स्वगुरुक्तेन वस्मनाः | महाविद्या विधौ प्रोक्तं शैववैष्णव यो शृणु || उपोष्य रजिनीमेकामघोरं लक्षमात्रकं | तद्दशांशं होमकर्म दोषहीनस्ततो भवेत् || १ || सौरेहं संजपेच्छिवे || गाणपे श्रीहरिद्राष्य जप्त्वा सिद्धिश्वरो भवेत् | १८३ब्) अन्यथा कुरुते यस्तु तत्वापापो भविष्यति | अयुतं त्रयमीच्छन्ति दिव्यौघाश्चात्र पार्वति || कौलिकः पशुगामी च परशक्तिं रमेद्वलात् | गोष्टी मध्ये च यत्नेन स्पर्शं तस्या न कारयेत् || अविषेकविनाभूते आचार्यत्वं करोति यः | योनि कोटि शतं याति रौरवं नरकं व्रजेत् || मातृरूपं परित्यज्यास्त्रिरूपं शक्तिमादरेत् | सयाति नरकं घोरं जन्मकोटि शतानि च || परं लक्षत्रयं जप्त्वा अजपां लक्षमेव च | तुर्यावीजंपंलक्षणं ततः शुचिं समाचरेत् || अथ मालायतनादौ प्रायश्चित्तमाह || प्रमादात्मालिकाभंगो प्रायश्चित्तं समाचरेत् | रहस्य मालाभंगे तु दद्याच्छाग वलि नरः || १८४अ) अग्नि दग्धेपि लक्षं च नष्टे भहस्त च्युता यदि | चौरानी षट् सहस्रं पतिते त्रिशतं जपेत् || कराङ्ग्रष्टे शब्दकृते प्रजपेर्द्धि शतं शतं | पुरश्चर्या जपे होमे मालाहस्तच्युता यदि || प्रायश्चित्तं शतं जप्त्वा तद्दशांश प्रवर्द्धनं | त्यजेद् दशांशं त्यर्जायं प्रायश्चित्त क्रमेण च || केचिदत्रममिच्छन्ति पुरश्चर्या पुनर्भवेत् | प्रायश्चित्त शतं जप्त्वा पुरश्चरनमाश्चरेत् || त्रुटिता मेरु मूले तु स्त्रिणां तस्य चादिशेत् | त्रुतिता चेत् स्वयं माला प्रायश्चित्तं समाचरेत् || गजान्तक सहस्रं तु जपहोमसमाचरेत् | पुनः संग्रथनं कृत्वा प्राणस्थापनपूर्वकं || तदा माला सिद्धिदा स्यान् नान्यथा शांकरं वच | १८४ब्) अथ ग्रहमातृका मन्त्रमाह || अथातसंःप्रवक्षामि ग्रहमातृ सुधासनं | ग्रहमातृरितुष्टायं किं ग्रहहैदुरितैरवि || ग्रहमातरि तुष्टायां सुग्रहैः किं प्रयोजपं | मंगरापिङ्गलाढान्या भ्रामली भद्रिका तथा || उल्कासिद्धासंकटा च विकटा गर्भपालिका | रौद्रनक्षत्र तचाष्टौजन्माधिष्ठ्या क्रमाद् दशा || फलं नामानुरूपं स्यादेकोपचयमाब्दयाः | पिंगला सूर्यजनी महाव्याधिकारिका || तुष्टावेच्छत्र वर्गस्य रुष्टा कुर्याच्च साधके | ब्जं बीजं तु समुच्चार्य पिंगले वैरिवारिणि || प्रसीद फलडिति प्रोक्तस्त्रयोग्नि शक्ति वर्णिकः | दीर्घ षट्कयुजा पूर्व बीजेनवषडंगकं || १८५अ) पिंगवर्णापिंगकेशो पिंगनेत्राधुनुः शचान् | हस्तात्यर्थ दधतीं पद्मयुगलं तां भजाम्यहं || अथ पूजा विधिं वक्ष्य सर्वासामेवतं तत्रः | जपा पुष्पानि शस्ता च धूपो तुग्गुलसंभवा || घृतप्रदीप्तमधुरा नैवद्याः पायसादयः | अलंकारास्तथा रक्तास्तथा वस्त्राणि चन्दनं || स्वर्णलंकारणैश्वापि समुद्रव्यैर्वहुपंचकैः | तर्पयेत् परमेशानिं तत्तन्मन्त्रैः सहस्रधा || सुवर्ण पत्रे निःच्छंद्रे हस्तायामे मनोरमे | कृत्वा यंत्रं यथोक्तं तु योगिनिं तत्र पूजयेत् || तत्तन्मन्त्रवलं जप्त्वा विघ्नंशात्यै सहस्रकः | सप्ताहेन प्रजायेते त्रिविधोत् पाववारकं || १८५ब्) ततश्च कुंडं विधिवत् कृत्वा चे चतुरस्रकं | अथवा स्थंडिले शुद्धे सुलिप्ते गोमयां वुभिः || चतुहस्त प्रमाणेन यो जपे स्थिरमानसः | योगीन्यश्वितु संस्थाप्य कृत्वा पूर्वादिताः क्रिया || अन्यासां दशवारं तु विरुद्धायाः सहस्रधाः | विल्व पत्रै तत्फलैश्च कमल्लरागकेशनैः || जुहुयात् पायसान्नेन तथैवहुलव पूजयेत् | सहस्रमयुतं चापि लक्षं वा कामरा क्रमात् || अथातसंप्रवक्षामि मध्ये देवीं प्रपूजयेत् | इच्छां ज्ञानां क्रियां शक्तिं त्रिषु कोणे पूजयेत् || पूजा प्रकारो होमश्च सर्वासामयमेव ही | विशेषःषुनरत्रास्तशत्रोच्छदाभिचारकै || १८६अ) खड्गचर्माधारामुद्रां ध्याये पद्भुजधारीनी | गरुडासममासीनां वैनिसिग्रह कालिका || लक्षमेकं प्रजप्यादौ जपेलक्षं हि तपयेत् | सर्वशत्रु विनाशः स्या दुःखं नाप्नोति कुत्रचित् || अथातसंप्रवक्षामिश्चन्द्रमातुश्च साधकः | मायाद्या वह्निजायान्तो मंगले मंगलालये || एकादशाक्षर मन्त्रो मङ्गलाद्याः प्रकीर्तितः | कृत्वात्वेन षडंगादि दीर्घषड्ग पूजा तथा || ध्यायद् देविं त्रिनयनामुद्यदादित्य संनिभां | दरस्मरमुखां भोजां सिन्दुराधरं || पद्म द्वय धनुर्वाणान् दधन्ती भुजपलवैः | सुगंजन्मज्यमंजीरंक्तंचीगुण विराजितात् || १८६ब्) एवं ध्यात्वा महेशानि पूर्ववत् परिपूजयेत् | ततोलब्धं तनुं जप्त्वा तारमाया पुरःसरं || योगिनी क्षत्रवटुक गणाधिपवलिं हरेत् | सर्वास्थयेत पूजांते मंगलैव प्रसीदति || योगिन्यार्तुपसार्थाय लक्षजपेमनुं | दुयोगिन्यानां कुल्यार्थं जपे तत्संख्यका युतं || श्रष्टदृष्ट प्रतिवद्ध शुभायास्तु फलस्य च | प्राप्तजे जपतां चत् सहस्रं प्रत्यहं जपं || प्रकर्तव्या वर्णशतं यावदुष्टा तु योगिनी | स्रष्टाया वर्णदशकं रोगिणं चाभिं मन्त्रयेत् || वर्ण तुल्य न मन्त्रेण यस्याः सवापरो भवेत् | तस्य पीडानिवृत्तव्योद्वर्णात्यंगततैर्दिनै || सायं विधिर्न वांतु विज्ञेयः सुरसमाः | १८७अ) योगिनी तुल्य फलदा वाम मार्गे च दक्षिणेः | अथातः संप्रवक्षामि भ्रामरी भौममातरं || क्षीं भ्रामपि पदं प्रोक्त्वा जयतां मे अधीश्वरि | भ्रामय क्लीं षोडशानौर्मत्रो स्याः परीकीर्तितः || पिंगलावत् सर्वस्याः सिद्धियं शर्करान्दश | मन्त्रयित्वा न यामर्गे दशदिक्षु च संत्यजेत् || प्रातस्तता व्रजेन् मार्गं मार्गस्थाः सर्व एव हि | सर्वे मोहं समायाति व्याघ्रा सर्पाश्च तस्कराः || शुक्लनादुष्टभूचाश्च नित्यमेकं समाचरेत् | उपानत्कतले यस्य लिखित्वा नाम वा व्रजेत् || योजनैकं जपेन् मन्त्रं सभ्रमेच्च वसुन्धरां | १८७ब्) अथातः संप्रवक्षामि भद्रिकां बुधमातर | व्लूं बीजं तोयभूयो गार्जानमादौ समुच्चरेत् || भक्तिके मे मम भद्रं देहीति च पदं पुनः | वदेर्च्च परभद्राणि नाशये द्वितयं ततः || स्वाहान्तोजिनवर्णोयं भद्रिकाया मनुर्मतः | षट्दीर्घ युक्तबीजेन षडंगं विधिरीरितंः || मंगला च च्छुभानां स्याध्यानं दुःफलदायिनां | पिंगलावत् समुद्दिष्टं जपाद्यं प्रोक्तवर्त्मना || अथातः संप्रवक्ष्यामि धन्याख्यां गुरुमातरं | श्रीध्वजदे समुर्च्चार्य धन्य स्वाहाष्टवर्णकः || षट्दीर्घाद्य बीजेन षडंगं विधिरितः | नास्ति धन्या समाकाचिदिह लोके फल प्रदाः || १८८अ) पुरश्चर्या त्रयं कृत्वा प्रागुन्मार्जित पातकं | सस्तंत्यधन्या ददते धन्यत्वं साधकयतु || वृहस्पतीश्वराल्पश्चात् काश्वाधन्यां विलोकयेत् | पुरश्चर्या तत्र कृत्वा वंशोधन्यः प्रजायते || अथातः संप्रवक्ष्यामि सिद्ध्याशुक्रस्य मातरं | ह्रीं सिद्धमत्सर्व मानसमुक्ता साधयतद्वयं || हृदयान्ता मन्त्रवर्णः सिद्धाया मनुरीरितः | बीजेनैव षडंगानि जपाद्यं प्रोक्तवच्चरेत् || नास्तिसिद्धा पासकानां कर्मसिद्धिस्तु कुत्रचित् | उपासकाये सिद्धाया ये नाम्नाय न जायत || तदाम्नाय पदेवानां पाकेस्याः सर्वमेव हि | षट् कर्मसिद्ध्यते तस्य मनोराराधनं विना || १८८ब्) अथातः संप्रवक्ष्यामि चोत्कामंदस्य मातरं | ओं मम रोगं नाशाय भंजकायै दशाक्षर || सर्वरोगापहो मन्त्रा मर्जनात् सप्तद्यमतः | उल्का मंत्रो यस्य सिद्धा न गदास्तस्य मंदिरे || शीतायां महामया महिषं लक्षणान्वितं | उल्काप्रीत्यैतमुत्सृज्य नगरे भ्रामयत् पुनः || नानावाद्यैः परिवृतं वस्त्रादिभिरलंकृतं | उत्सृजेर्त्तपमशोयामुपद्रव शमो भवेत् || अथात संःप्रवक्ष्यामि संकटां राहुमातरं | ह्रीं संकटा चरोममे परमं नाशय द्वयं || षोडशार्णस्तु मन्त्रोयं सर्वदुःख पनोदयः | काला गृहे जपे रक्षं बन्धमोक्षः प्रजायते || १८९अ) वीरेश्वरादुदङ्काश्यां संकटा यत्र संस्थिता | तत्र षोडश लक्षाणि जप्त्वा होमस्तु दुर्वर्या || तस्या सिद्धा भवेन्मन्त्रस्तन्मुखाद्यदि निःसरेत् | अमुकस्यामुकं कष्टं गंतं तद्गतमेव हि || अथातः संप्रवक्ष्यामि विकटां केतु मातलं | तारौ नमो भगवति विकटे वीर पालिके || प्रसीदयुगलं मंत्रः प्रकृर्तिता | कास्यां वीरेश्वरासन्नार्पश्चिमे विकटा स्थिता | तत्र मंत्रमिदं जप्त्वा ग्रहतस्ताश्च वालुकाः || उदरं चापि वंध्यात्वा प्रशवंभ्यास्तथा शिरः | यात्रादिभिस्त्यक्त वालान्तथा मातृविवर्जितान् || साधकरे पृष्ठा नीरोगञ्चरजीविनाः || १८९ब्) अथ मुक्त्युपायमाह || देव्युवाच || क्वचिद् दक्षं क्वचिद् वामं क्वचित् सौचं च शांभवं | उर्द्धाम्नायं क्वचिद् दक्ष मूर्तरं परश्विमं क्वचित् || अथ आम्नायकं चापि गाणापत्यं च वैषुवं | पारसीक क्वचिद्धौर्द्धा पाषण्डं च कोचिक्वाचित् || द्वीपधर्मात्खंड धर्मात् कुलधर्मात्कालधर्मान्व्राति धर्मान् क्वचित् चेत् | तत्त प्रकरणेस्तौषिक्वचिन्निन्दसितं पुनः | तंत्रोत्तममिदं तन्त्रं प्रशन्नश्वेत्सुरापिरि || तदा तत्वं मम ब्रुहि निःसंदेहात्सुनीत्कुरुः | श्रीशिव उवाच || अहोकालस्य माम्यहं तंत्र तंत्र त्वया पुनः | पृच्छ्यते तत् तदाधिक्यं सोहं कालं व्रवीमि तत् || वलेयं सात्विकि चर्जा वा कालस्यम्वया उपकाराय सर्वेषां पृथ तत्वं व्रवीमि तत् || १९०अ) यथा वेद तथा लोके यथाकारं प्रजायते | यथा ब्रह्माण्डगोलोयं लिख्यते मध्येतः || सत्य तत्र च षश्यात्वं पनितं कियदंतरं | तथा नरेण कालेन्त वेदे नेतरशास्त्रतः || अन्तरं पश्य देवेशि शृणु तत्वं समातरं | यथाचानाहतः शब्दो नरे क्षप्यः प्रवर्तते || स नित्योपि पतेत्कणेन कदापि पतेत् कणे | न कदापि मूमूर्षतः || महापुरुषकालस्य तथा वेदध्वनि स्मृतः | कलेद्दश सहस्राणि यदा वर्षाणि यांचित || वेदो नारायणः साक्षात् काला वयव जंतुभिः | न श्रूयते तदा विंज्ञेयः(?) कालः समागतः || १९०ब्) वग्जम्भाजुत पदादि शब्दाश्चोत्पर्तितश्वरा | वेदभिन्नाशिनास्त्राणि तथा जानं तु देवताः || यस्य शास्त्रस्य लोकेस्मिन् प्रचीरायावदस्तिभि | वातत्तमार्गिणां सौख्यं वेदमार्गोह्य कुंठितः || तस्या तत्मार्गकत्तारः शिष्यात् स्तन्मन्त्र दायिनः | ताना नयंतिस्य मार्गे यतस्तावत् सुखं भवेत् || नृपां ज्ञानं यथा षड्भिरिंद्रियै परिजायते | तथा षदंगै वेदार्थ ज्ञानं भवति निश्चितं || कर्मेन्द्रियानि च तथा नृणां पंचमितानि तु | तद्वत्काले महेशस्य पंचाम्नाया मयेरिताः || उर्द्धाम्नाय समुद्दिष्टं वाचिकं कर्म तस्य तत् | तत्र प्रमानं वेदाः स्युस्तदंशाः स्यूतयस्तथा || तदंगानि पुराणाणि गायत्र्याद्यास्तु देवताः | १९१अ) ब्रह्मबीजं तथा क्षेत्रं संस्कारा ब्रह्मसंम्भवाः | ब्रह्मणा चरणं ब्रह्म विद्याभि ब्राह्मणो भवेत् || यस्यावक्ष्यावयं यस्य वाच मध्ये तु धावति | एकस्मिल्लक्षणे हीने वागर्थ मनु धावति || द्विहिने लक्षणे देवि स्वाचाला ब्राह्मणो भवेत् | लक्षण त्रय हीनोयस्तंत्र मार्गेण सिद्ध्यति || चतुलक्षणहीनानां मार्गाः स्यु कौलिकादयः | एतल्लक्षण भिन्नेन यथा देहं यथाकुलं || यथाजाति यथाकालं कर्तव्यं धर्मसंग्रहः | मिथ्यासंभाषणस्तयं सर्वमार्गेषु गर्हितं || यत्किंचिर्जन्मयेत् कर्म न जपो न तपः क्रिया | जीवन्मुक्तः सत्य वक्ता सर्वसत्ये प्रतिस्थितंः || १९१ब्) अहिंसा परधर्मोर्मः स च वाक्काय कर्मभिः | दृढो यस्य न चारो न जातिः सोपि मुक्तवत् || परसर्ताय तत्रन्तु विष्टावद्यस्य चेतसि | स पुष्कलौपि जानी ही जीवन्मुक्त न संशयः || पडिन्द्रियिज्ञियज्ञानवतां सृष्टि भवति मैथूनात् | त्यक्तं तन्मनसा येन जीवन्मुक्तः स कोपी हि || वेदाः पूजनमिच्छंतिस्तथाद्वर्द्धाः प्रतिग्रहान् | शुकवद्यो प्रतिग्राही जीवन्मुक्तः सन्यवीहि || शौचं प्रकुर्वता नित्यं विष्ठा वुद्धिः कले वले | देहमाभिमानो गलितो जीवमुक्तः स एव हि || यठेच्छलाभसंतुष्टः स्तौतिनोन च विंदति | न मुखेन दुग्धःखे कर्मनाशात् मुच्यते || १९२अ) हित्वा विषय सौख्यं यस्तपस्तपति निर्जने | न फलं कामयत् किंचिर्जीवमुक्तः स एव हि || यावद् देहस्य निर्वाहस्तावत् कलं परिक्षिपेत् | वेदस्यात्यास्तः सर्वंः योनयेत् स तु मोक्षमात् || कोहं कीं दृश्यते कर्ता कास्ययाति क्वचेतसि | इति संभावयं नित्यं महाकाले लयं व्रजेत् || कलौ पाप समाकीर्णे न समाभिर्न योगता | यदि योगा भवेद् देवि न हि तत्र फलं भवेत् || तस्मात् कारणता देवि मन्त्रयोगं समत्यजेत् | एते तु भूगमोपाय नात्रचित्तस्थिरं भवेत् || कामक्रोधारिसंतप्तं महामाया विमोहितं | दुर्विज्ञया दुर्निवारा महाकालास्यग्येहिनी || १९२ब्) तदंशाराधनात् सा तु प्रसन्ना चेद्विमुंचति | सुवुद्धिभिः प्रियैः पुत्रैर्यथा मता प्रतायते || तथा प्रतार्यते चेयं जीवे मुक्तः स जायते | कृतं वंध्यार्थ मनया खानपानं च मैथुनं || ते नैव चेदियं वर्द्धा स्वयं मुक्तस्तथा भवेत् | वामिकैकोलिकैस्तम्मादज्ञानैश्च गुरुं विनाः || समस्तैरथवा ज्ञानै वद्ध्यतेयं न चेतरैः | वंध्येयं वंधनैः स्वस्य त्रोटयंद्वंधनानि च || भावयेच्च महाकालं जीवन्मुक्तस्तदा भवेत् | वंधमोक्ष प्रकारस्तु तत्रयं कुलिता मताः || यैज्ञाना गुरुमार्गेन तैवर्द्धेयं सदुस्तराः | सुकृतान्मानवो भूत्वा ज्ञानी चे मोक्षमायात् || चतुराशीति लक्षे वुं? शरीरेषुरीरिणां | १९३अ) नमानुष्यं विनान्यत्र तत्वज्ञानं तु लभ्यते | अत्र जन्म सहस्राणां सहस्रैरपि पार्वति || कदाचिल्लभ्यते जन्तु मानुष्यं पुण्ये संचयात् | सोपानभूतं मोक्षस्य मानुष्यं प्राप्यदुर्लभं || यस्तारयति नान्मानं तस्यत्वापतरोत्रकः | नरः प्राप्योत्तमं जन्म लब्द्धा चेन्द्रिय सौष्टवं || न वेत्यान् महितयम्तु सम्भवेद्ब्रह्म घातकः | विना देहेन कस्यापि पुरुषार्था न विद्यते || तस्माद् देहं धनं धनं राज्यं पुण्यकर्म नियोजयेत् | लक्षयेत् सर्वदान्मानमान्मा सर्वस्य भाजनं || रक्षणे सत्वमातिष्टेज्जीवन भद्राणि पःश्यति | पुनग्रामं पुनःक्षेत्रं पुनर्वित्तं पुन गृहं || १९३ब्) पुनः शुभकर्म न शरीरं पुनः पुनः | शरीर रक्षणाया सः सततं क्रियते जनैः || यावत् तिष्ठति देहीयं ताव तत्वं समभ्यसेत् | ब्रह्माविष्णुमहेशानि देवता भूतजायतः || नाशमेवानुधावंति तस्मात् तत्वं समभ्यसेत् | यावन् न जीयते दुःखं योवन्ना याति चापदः || यावन्नेन्द्रियकै वैकल्पं वर्तात्तत्वं समभ्यसेत् | इत्थं सर्वसमाख्यात तवाग्रेमपि पार्वतिः || इति श्रीकौलरहस्य सर्वागमसारे षट्विंशपटलः || २६ || अथ बलिदानं || अथाते वलिदानंस्य वधिरत्र निगद्यते | वलिस्तु त्रिविधौ ज्ञेयस्तांत्रिकस्मात्तन्य वच || १९४अ) वैदिकश्चेति तत्रादौ तान्त्रिकोष्ट विधः स्मृतः | नित्याऽनि पशुवलिर्नित्यो नैमिर्त्तिकार्चने || आवश्यकः पशुवलिस्तस्मान्नैमिर्त्तिक विधौ | पशूनायांति भेदेन भिन्ना च प्रोक्षण क्रिया || पूजान्ते वक्ष्यते सापि वलिदान क्षणे प्रिये | वलित्वेन विनिर्दिष्टा महिषष्टागलादयः || जलजास्था लजाश्चापि ग्रामजारण्यजास्तथा | पश्यवः पक्षिणः कीटास्तीर्यग्योनयवच || इमे विधात्रा विहिता वलित्वेन दिवौकसां | नान्यै नैवेद्ये संभारैस्तथा तुष्यन्ति देवतां || यथा पशूनां वलिभिर्वीहिगानां तथैव च | अत एव हि देवेशि यज्ञादौ विहितस्वसौ || देवानां प्रियशब्दस्तु पशुपर्याय उच्यते | १९४ब्) एवं विज्ञाय सिद्धन्तं देव्याः संतोषहेतवे || पशुन् दद्याद् वलिं त्वेन मध्यानपिहिताः प्रिये | आलभेत वृषं श्वेतां यज्ञं गोमधनामनि || नरमेधे नरं चापि गजक्रान्ते गजन्तथा | अश्वमेध शंखचूड्क्षेवहस्तिनं || व्रवीति यत्रकैवविदोपि तत्र चाणणा | तस्मान्नैमिर्तीकार्चार्या वलिरावश्यकः प्रिये || विशेषेण प्रदातव्यो देवी संतोषहेतवे | वलिम्विना नैव देवी पूजानंगी करोति हि || तत्राप्यूभौ प्रशस्यते महिषञ्छाग एव च | अन्य देवो चितवलि विचारैः किं प्रयोजनं || येन संतुष्यते काली तद्विचारं ब्रुवे धुना | १९५अ) आरण्य अथवा ग्राम्य जलवैजानां च जायतः | खगानां जातयश्चापि ता एवादौ व्रवीमिदे || मत्स्यामृगावराहश्च कच्छपा महिषास्तथा | गंडक्या गोधिकाग्राहाः शार्कला हरयो पिवा || नकुलाशलभाश्चापि गवयाञ्चापि गलास्तथा | मनुष्यापक्षिणश्चापि तेषां कोशा अपि प्रिये || भगवत्या वलित्वेन विधात्रा वलि कल्पिताः | एतेषां वलिदानेन सर्वकार्याणि साधयेत् || अथ वलिदान फलं || वलिभिवर्द्धते कायुर्वलिभिः शाम्यतेरुजा | जयेत्परातीन् वलिभिर्वलिभिः प्राप्यते धनं || वलिभिस्त्रिदिवं व्रजेत् || निष्कामानं वलौदर्ते प्राप्यो मोक्ष्योपि यद् भवेत् | १९५ब्) अथ जाति भेदा तथोवक्ष्य समासादुपरारये | अष्टादशविधामत्स्यो चतुर्विंशतिधामृगा || वराहाः पंचधा प्रोक्तास्त्रिभेदाः कच्छपाद्विभेदामभिषास्तद्वगण्डकाश्च चतुर्विधाः || गाधिका च त्रिभेदास्युर्द्विविधा ग्राह एव च | त्रिविधौ व्याघ्रसिंहौ च नकुलो द्विधापि च || शलभैश्चैकजातिः स्यान्नास्य भेदो वरानने | गवयस्त्रिविधः प्रोक्तः छागः षष्ठविधौ मतः || चतुर्विधा मनुष्याश्च षट्त्रिंश जातयः खगा | क्रमेण नामान्य तेषां व्याहरामि तव प्रिया || अथ पशुलक्षणं || श्रेष्टस्तत्र कलौ देवि महापीठे नरोवलि महापीठे नरो वलिः || कर्तव्यः साधकेन्द्रेण सचारोगी च सुन्दरः || १९६अ) धातुवर्द्धः कृष्णकुर्चोक्षरादिरनुलोमजः | मुल्योद्ग्रीहीतः पापिष्टा देवतैः स्वयमागतः || वर्षषण्मासमर्थवा यथैच्छाचारपालित | स भवेद् वलियोग्यस्तु नान्यश्चौरादिकी हृतः || महिषः पंचमादुर्द्धं दशाधस्ताद्वनोद्भवः | ग्रामजोपि महक्रूरो नीरकुसांडौकवर्णकः || आरक्ताक्षश्चोर्ध गृग्रोदीघपुच्छश्च मांसल | अनारवाहकोभीतो वलि योग्यः परो नसत् || वनस्थाःश्चैत वर्णोयावन एव प्रपालितः | महाशूरोमांशलश्च शुकरो योग्य उच्यते || ऊर्द्धं त्रिवर्षात् सप्तार्वाक् मग्निहीनश्च मासलः | १९६ब्) एकवर्णो देवताया वर्णरूपो शदोज्झितः | सांडः ससृगोयुर्गशागंधिमानौषधादिभिः || विगंधी कृत्य वलये योह्यंः सर्वोत्तममृयं | अजस्य लक्षणं देवि कथयामि विशेषतः || उर्द्धसंगमुर्द्ध लोमालम्बकणश्वपीवरः | साहंकारः पुष्टतनुर्वलीपलित वर्जितः | लम्बकर्णः शुर्द्धकृष्णः प्रशस्तः पशुलक्षणः | श्वेतः कृष्णालोहितश्च कपिलश्चित्र पांडरौ || पद्धिधञ्छागलः प्रोक्ता गृहस्थानां पलोवलिः | उत्तमौसित कृष्णै च मध्यमौ चित्रपाडलौ || लोहितः कपिलञ्चैश्चैव कविष्ठ परिकीर्तितः | त्रिमासात् परतश्चैव यावर्द्धोर्ष द्वयं भवेत् || उर्त्तमोसौ वलिः प्रोक्तास्तस्मार्द्धीनोधमः स्मृताः | १९७अ) कृष्णवर्णो वलिर्यस्तु श्वेतपूच्छो यदा भवेत् | च्छागलं तादृशं विद्वान् दुरः परिवर्जयेत् || एवं सिते कृष्णपुच्छे वर्जयेन्मतिमात्सदा | कृष्णवर्ण्येच्छगलस्तु पृष्ठवंशेसितो यदि || प्रशस्तं तं विजानीयाद् विपरीतं तु वर्जयेत् | पंचाब्दं महिषं श्वेतं प्रशस्तं परिकीर्तितं || स एव महिषः श्वेतं प्रशस्तं परिकीर्तितं | स एव महिषः कृष्णः पांडलेश्चाधमो वलिः || पञ्क्षिणस्तु प्रशस्ताः स्युः सर्ववर्णः सुशोभनाः | त्रिपक्षात् परतश्चैव दिने चापि विवर्जयेः || सर्वेषामेव वर्णानां देवतानां तथैव च | अति कालः प्रीतिदश्च यज्ञप्येको विशिष्यते || मेषः स शृंगस्त्वाजवच्छृंग हीनोपि कुत्रचित् | वर्षच्च यायार्धं च गृहे पालितो वलवर्तरः || १९७ब्) मांसभारोत्तथोदाने नक्षमः सारसो वरः | नीलकंठच्छविः कंठे कघोतः पुष्टकंधरः || वर्षादूर्द्धं गृहे पुष्टो वल्यर्थं योग्य उच्यते | सर्वषामग्रतोरौति यः प्रातर्वहुवर्णकः || मांसलस्त्वेक वर्णे वा ताम्रचूडो विशिष्यते || अथ निषिद्धानि || काश्चिन्निषिर्द्धानुक्ष्यामि विहितेषु वलिष्वपिः | ग्राम्यानाथवन्यानां पशूनां पक्षिणां तथा || स्त्रियं नैव प्रजुर्जीत वलिकर्मनि साधकः | ज्ञानपूर्ववलिं दत्वा नरकं प्रतिपद्यते || अज्ञानेन विनिर्याति किंचित् पायं समश्नुते | अत्रिसाससमुत्पन्नं पशुं न विनियोजपेत् || पुनस्तर्द्धानुगतं जातु देव्यै समर्पयेत् | भग्नं शृगं भग्नदन्तमच्छिन्नानालमेव च || काणं व्यंगं रोगिनं च शृगाहतनरं तथा | १९८अ) दुष्टं गलितरोमानं क्षीरपंचगलद्विशं | पशुनददृशं तथा चैव हि हायसं || च्छिन्न त्रोटिं च्छिन्नपक्षं नुग्नमाहारवर्जितं | अनुड्डीनं तथा काशे मातुरङ्कपरिस्थितं || विहितावर्य विज्ञतौ न दद्यापशुपक्षिणौ || भग्नाङ्गहीनः कृर्तार्णो वालोवृर्द्धो न शस्यते | न दद्यात् स्त्री पशोर्मांसं हव्यकव्ये विशेषतः || अथानुकल्पः || देवेश चानुकल्पस्य विधिं ब्रूहि सत्वरंः | वानप्रस्थो ब्रह्मचारी गृहस्थो वादयो परः || सात्विकी ब्रह्मनिष्ठश्च यश्व हिंसा विवर्जतः | तेन दद्युः पशुवलिमनुकल्पं चरन्स्वपि || तर्तात् पदानानां फलावात्यै वरानने | घृतगोधुमैक्षव्यद्यैः फातितैरनुजैस्तथा || कृत्वा तं तं पशु दद्युस्तर्तत् फलमाप्नुयुः | १९८ब्) कुष्माण्ड पनसा सवू(?) कर्कटी वील्वडाडिमाः | द्राक्षाखर्जुरलकुचरसालाऽमलजम्बूकं || नालिकेलेक्षुदण्डाश्च मोचामोम्रातकतीर्कराः | नालिकंलेक्षुदण्डाश्च मोचाम्रातकतीर्कराः || बीजपूरागरंगास्तालां च फललापि | वलि तुल्यानि चैतानि छागतुल्यानि तृप्तिषु || माहिषत्वेन कुष्माण्डं च्छागत्वेनैव कर्कतीं | वृर्ताकं कुर्कुटे त्वेन तथा कोशातकं मृगे || पायंसंतुगगजत्वेन मार्जात्वे कुलस्थकं | पटोलंशूकरत्वेन शर्करावाल्लुकं तथा || खड्गत्वेन महेशानि मत्सत्वे कदली फलं | मुखत्वे मूलकं चैव सारंगत्वेकलिंजकं || १९९अ) कलित्वेनारिकेलं च कल्पयेत् परमेश्वरि | माषाः सर्व वलित्वेन सर्वेषां कृशरान्नतः || पायसा पूपसंतापास्नुड्ड्रकैः कशरान्तकैः | शाकोदनैस्तथा सुपैपिण्याकाद्रकपोलिका || वटकालसुनं गृजं कलिजं बीजहोदरं | नानोपायैः षड्रसैश्च वलिरेषः प्रकीर्तितः || क्रूरविद्याविधौ देवि पशुंपिष्टयं चरेत् | यवक्षोद मयं वापि यद्वा धान्यसमुद्भवं || माषपिष्टमयं देवि सर्वकर्मणि कारयेत् | गुडार्द्धक दधिगुडो लवणं गुडमेव च || कुष्माण्डं नालिकेरं वा श्रीफलं चक्षुमेव च | वस्त्र संवेष्टितं कृत्वा छेदयच्छुलिकादिभिः || एषस्मार्ता वलिः प्रोक्ता धर्मशास्त्रानुमिनां | १९९ब्) पूर्वपूर्वात्रापि चोक्ता विशिष्टो देवताषकः | यस्य यत्राधिभक्तिस्तेन तुष्यति देवताः || वैदिकं तु वलिं दद्यादोदनं स्विन्न मायमान् | सरोचन मति क्रूर दैवते वटते कान्वितं || यथानुकल्पयोगेन योगिनियं महेश्वरिः | यथोक्तविधिमासाद्य यथोक्तं फलमाप्नुयात् || अथ प्रोक्षणं || श्रीपार्वत्युवाच || प्रसूनां प्रोक्षणं देवि प्रकाराणि कथं विभो | श्रीभैरव उवाच || देयादेय विचारस्तु एतावानुपवर्णितः | स्थान पात्राधिकारिंष्ट दानकाल क्रमोपि च || इदानींमेकरूपेण सर्वेषां प्रोक्षणं शृणु | वाराही यमुना गंगा करतोया सरस्वती || २००अ) कावेरी चन्द्रभागा च सिंधु भैरव सागराः | अजस्नने महेशानि सानिध्यमिह कल्पयेत् || अर्घपात्रोदकैः शुद्धैर्मूल न प्रोक्षय त्रिशः | पशुपाविनाशाय हेमकूट स्थिताय च || पराय परमेष्ठिरे हूंकाराय च मूर्तयेत् | बिल्व पत्रोदकैरेभिः प्रोक्षणं कारयेदये || पशुनां यत्र वाहुल्यं भवेद्विर्तानुसारतः | तत्रैव प्रथमं देवि सर्वलक्षणलक्षितं || ड्डर्जस्विनं सुन्द्ररश्च वलिनं पशुमुत्सृजेत् | अनन्तरं क्रमेणैव न च तत्र विचारणा || अस्त्र मन्त्रेण संरक्ष्य कवचेनाव गुण्ठ च | मूलमन्त्रं समुच्चार्य धेनुमुद्राः मृतीकृतंः || गन्धपूष्पाक्षतैस्सम्यक् परिपूज्यो पचारकैः || २००ब्) वलिसंपूज्य विधिवद् गंधपूष्पाक्षतादिभिः | चैतन्यं काम डाकिन्यो बीजत्रयमिदं स्थितं || वाक्पादो फत्परं पायुरूपख्या चक्षुषी ततः | कर्णौ सर्वाङ्गनिततो मनःशेषे निगद्यते || सरस्वति च पृथिवी मित्रश्च जलमेव च | तेजा नभो दिशः काली लीयताञ्च क्रिया पदं || हृदद्वस्तु शीर्षाण्यन्ते च मनवोऽष्टौ स्फुटा मताः | पाद्यार्घा चमनीयाद्यौ गन्धपुष्पै वलिं ततः || पूजयेद् देवता वुद्ध्या प्रणमेन् मनसा तथा || अथ पसु गायत्री यथा || पशोः कर्णे चापि पशु गायत्रीं तदनुर्चरेत् | तत्परं तन्मनुं चापि समुर्द्धारं शृणु द्वयोः || योगिनी बीजतो ङेन्तं वलिरूपं तु विद्महे | २०१अ) देवी प्रिये पूर्वा वच धीमहीतिः परं | तन्नः पशुदिति प्रोच्य वदेर्चाथ प्रचोदयात् || अथ खड्गलक्षणं लक्षणं तन्त्र वर्त्मना | येन संच्छेदनेनापि साधकः सिद्धिमालभेत् || सर्वेषामुर्तमः खड्गश्चन्द्रहासः सुखावहः | पंचाशदंगुलोः कार्यः किम्वा तालत्रयेण तु || करवीरदलाकारः किम्वा पद्म दला कृतिः | अथवा कुब्जखड्गेण दण्डखड्गेण भेदयेत् || महावलीनां सर्वेषां दात्रमत्र प्रकीर्तितात् | कर्तकयां क्षुरेणापि छिद्याच्छुरिकया न च || कुठारपर्शु खंडाभैश्च्छेदद्येयेन्न कदाचन | खड्गाग्रमध्येमुष्टो तु मिथुनानां त्रयं जपेत् || वागीशी सहितो ब्रह्मा लक्ष्मी नारायणौ तथा | २०१ब्) उमा महेश्वरो चैव तत आवाहयेदसौ | काली कृतान्त सदृशीं येनच्छेद्यो वलिः प्रिये || माया कुर्चः शाकिनि च एह्येहि भगवत्यपि | चामुण्डा चाथ सानिध्यं कुरु युग्मत्यधिष्ठिता || भवद्वयंधिहिनं फट् युगं शिरः | खड्गस्य मूलमन्त्रेण खड्गं समाभि पूजयेत् || तारपाश त्रयाकूर्च शाकिनीभिः उच्यते | ध्यायेत् कुशुमादाय खड्गमादौ वलानने || कृष्णापिणाकपाणि च कालताराति स्वपिणंः | उग्रं रक्तास्य नयनं रक्तमाल्यानुलेपनं || रक्ताम्बर धरं चैव पाशहस्तं दुम्बिनंः | पिबमानश्च रुधिरं भुजानं क्रव्यसंहतिं || क्षोभयन्तं जगत्सर्वं कंपनादि प्रसारणैः | २०२अ) वेष्टितं मृत्युकालाभ्यां वामदक्षिणभागतः | पूर्वादितेन मन्त्रेण प्रत्येकं कीर्तितेन हि || गन्धपूष्पाक्षतैद्धूप दीपैपाद्यादिभैर्यजेत् | ततो वर्द्धाजलि मन्त्रं पठेत् खड्गर्तिरीक्ष्यवीः || रसनात्वं चण्डिकायाः सुरलोक प्रसाधक | तुक्षौ तस्य पशोरक्तं क्रव्यसंहंतिमेव च || च्छिंधीममिव मे शत्रु मगलानि प्रयच्छ च | दैत्यदानवरक्षो सृक् मदोन्मत्त नमोस्तुते || एतेन खड्गमान्त्र्य तन्नामाष्टकमुच्चरन् | गृह्नीन्निशितं खड्गं येन सत्यो भवेद् वधः || अशिर्विंश सः खड्गस्तीक्ष्नुधारोदुरासदः | श्रीगर्भा विजयश्चैव धर्म पालस्तु नमोस्तुतेः || २०२ब्) तारकां युगं यज्ञ शारिलोहपदं वदेत् | दंडायै नम इत्यतेन् मन्त्रंः षोडश वर्णकः || अष्टोत्तरशतं जप्त्वा तत उत्थाय साधकः | प्रहराणां चपि काली तेषामेव विधियते || सोयं वा भ्रातृ पुत्रो वा भ्राता वा सुहृदेवताः | स पिण्डंश्चेदेयद्वापि शुद्धातः करणो यदि || नरि पूर्णां गहिनो वा न काणं नापि कुब्जकं | न योजयेच्छत्रु पक्षं वलिच्छदन कर्मणि || उर्तराभि मुखो भूत्वा वलिपूर्व मुखं तथा | नीरीक्ष्य सधकः पश्चादिदं मन्त्रमुदिरयेत् || पशुस्त्वं वलि रूपेणे मम भाग्यादुपस्थितः | प्रणमामि ततः सर्वरूपिणं वलिलुपिणं || चण्डिका प्रीति दानेन दातुरापद्विनाशिनं | चामुण्डा वलिरूपाय वलतुभ्यं नमोस्तुतेः || यज्ञार्थे वलयः सृष्टास्वयमेव स्वयंभुवा | २०३अ) अतस्तां घातयाम्यद्ये तस्माद् यज्ञ वधोऽवधेः | शिवात् कृतमिदं पिण्डं मतस्त्वं शिवतांगतः || उवुद्ध्यास्वपशोत्व हिना शिवत्वं शिवाह्यसिः || ऐं ह्रीं मिति मन्त्रेण वंते वलिमत्स्वरूपिणं | चिन्तयित्वा न्यसेत् पुष्पं कुम्भकेनास्यस्तकः || छित्वानेन पशु सद्यस्तदीयं रुधिरं प्रिये | ततः स्वर्णादि पात्रेषु गृह्नीयदुर्ष्ण फणिलं || पात्राणि यथाः || अथ पात्रादि वक्षेहं स्थाप्यते यत्र शोणितं | हैमे वा राजते तांम्रे ग्राह्यं रक्ता महीभृताः || समन्तर्मण्डलीकैश्च ताम्रे वाकंस्यरैस्वयोः | दरिद्र गृहिभिश्चापि मार्तके वाथ दारव || अथ वाङ्मपुते वानैव लोहे कदाचन || २०३ब्) नरंगेसी सकेवापि नालिकेल फलेत्वचि | कौलाणां सर्वपात्रेभ्यः कपालं नान्यमीष्यते || येषा पशूनां पललै यावती तृप्तिरीरिता | भगवत्या प्रिये तृप्ती रुधिरैरपि तावती || नित्य नैमित्तिके वापि कात्यायन्याः प्रसूजने | विना कलि नैव दद्यादामे पललशोणिते || पशोर्वा पक्षिणो वापि नरस्यापि विशेषतः | अथ मस्तकपति फलं || एवं दत्वा वलिं देव्यै वलिदानविधिर्ययाः | शुभाशुभं स्वजानीयाद्राह्यस्य च नृपस्य च | यदि वयव्य दिग्भागे नै-ऋत्य दक्षिणेपि वा || मस्तके पतिते चैव हारिरत्र विनिर्दीशेत् | शेषेषु दिक्षु सर्वासु विदिक्षु च फलं शृणुः || २०४अ) सर्वचोर्त्तर दिग्भागे पतते यदि मस्तकः | सर्वसंपत्करं विद्या डाजाराज्यं विर्दिशेत् || भ्रमित्वा दक्षिणे कर्णे यदा पतति वै शिरः | तदा सिद्धिं च मासांते वामकर्णे विपर्भवेत् || राज्ञामग्रे भवेर्द्धाणिर्गृहस्थानां शुभं भवेत् | ऐंशान्य मध्ययोश्चैव पतते यदि मस्तकंः || तदा स्वल्पेन कालेन सर्वसिद्धि भवेद् ध्रुवं | च्छिन्नशिरो निपतितं सहास्यं यदि दृस्यतेः || विभूतिं तस्य जानियाद् राजाराज्यं विनिर्दिशेत् | एकवारे भवेत् सिद्धींर्दिवारेहानिनुच्यते || गृहस्थानां विजानीयाद्राज्ञां भुविपरीतकं | यदाश्रु दृश्यतेत्र तदाहानिं विनिर्दिशेत् || यदा कटकटा शब्दो दन्ताना श्रूयते क्वचित् | २०४ब्) तदा तु मरणं विद्यार्द्धानिंसर्वत्र विनिर्दिशेत् | दत्याद्रक्षसदिग्भागे मन्त्री वलिशिरः स्वयं || तर्द्दक्षिणे रक्तपात्रं विपरीतं न संददेत् | देवस्य संमुखं कृत्वा च्छिन्नं भागं प्रकल्पयेत् || तदैव शस्तं जानीयान् मध्यमं विपरीतकीं | वलीनामिति संज्ञानं शिरश्च पुरतो ददेत् || कीलकान्ते न्यत्सर्वं यथाकम्पो न जायते | शीर्षोपरि ज्वलद् दीपं प्रदद्यार्चन्द्रनाक्षतंः || घृतेन सार्वभौमः स्यात न सिद्धि च विन्दति | शिरश्च संमुखे स्थाप्यं स दीपं पात्रवर्जितं || स चापि हविरक्तः स्यादथ वा तिलजाक्षितः | सार्षप्रन प्रदातव्यं न चान्य फलसंभव || २०५अ) मुर्द्धाभिधिक्ता हभिषा तैलेन वहुसिद्धिभात् | अन्यवीनोद्भवैरोगं शोकं मृत्यु च विन्दतिः || यथा लोमानि दह्यन्ते यर्तात् कार्यन्तथा नरैः | सूत्रवर्तिं प्रदद्यार्च वस्त्रवर्त्या प्रश्यते || अंगुष्ठस्य प्रमाणं च दीर्घ चैव षडंगुलं | कार्तलसुत्रै दद्यादेक विंशति सूत्रकैः || सुगन्धी द्रव्यैस्त कुर्यात् कुर्पूरागुरुचन्दनैः | ग्रहाणां कच्छपानां च गोधायाश्च विशेषतः || तत्स्यारामपि पक्षीणां न दीपं दापयेच्छिरः | शीर्षोपरि ज्वलद् दिपो यावत् कालं वत्तत || तावत् कालं वसेत् स्वर्ग तस्माद् यत्नेन दापयेत् | होमदाहोद् भवं गंध घ्रात्वा देवी प्रसीदतति || तस्मात् संवर्द्धयेद्वीपं तस्मात् पात्रं विवर्जयेत् | निर्वाणे मृत्युमाप्नोति दीयमाने प्रदीपके || २०५ब्) ततः पात्रं पुरकृत्वा देव्याः पशुशोभितं | शर्करा युतदुर्वाणां प्रदद्या त्रिमहाघृतं || सैन्धवं शृंगवैरं च कदली फलमेव च | पातयेन् मधुराणां च काममुर्द्दिश्यसाधकः || अष्टधा विभजेद् विद्वान् मध्ये चैकं कुशादिभिः | दत्वा किंचित् घृत तत्र कुर्यातर्तपमुद्रया || तर्पणं भागभाजां वै देवीनां द्विर्द्विरेव च | आद्यन्तिमौतालाहार्द्दि मध्य आदि मनोनिपि || तर्तन्नामान्नमपि च तर्पयामिति संयुतंः | द्वितीयं रूपं ङेन्तां च तद्वितीयो पदोदितं || मध्ये नित्योदित आख्या पात्रवत् पीठशा क्रिया | पूर्वस्यां दिष्ठि चामुण्डा दक्षिणस्यां तु योगिनी || डाकिखुक्ता पश्चिमाया मुर्तरस्यां तु भैरवी | २०६अ) विदागिकाग्ने काणे नै-ऋत्यां पापराक्षसी || पूतना चापि वायव्ये ऐशाने कालिका तथा | तत स्तुतिं प्रकुर्वीत वर्द्धाजलि पुटाग्रतः || जय देवि जगत्मातात् र्जयपापौघहारिणा | जय जन्म जलाव्याधि तृण्यादावानाला कृते || जयसर्वविपर्तिघ्ने जय त्रिदशवन्दिते | जयनित्यानन्दरूपे जयकल्ताण दायिने || र्ययत्रुशक्षकरेर्यत जयरोग प्रणासिनि | जयभीमे जयघोरे जगशंकटतारिणि || जयमृतरसा स्वाद तुन्दिलामन्दविग्रहा | त्रिनेत्र किकलालास्ये मुण्डमालाविभूषिते || सर्वासुरक्षये करिखड्गखट्वांग धारिणी | महाघोरे महारावे दैत्यदर्पनिसुदनि || इमं पशुवलिं देवि गृहात्वा कालरात्रिके | प्रीता भव महाचण्डे रक्षमां शरणागतंः || २०६ब्) आयुरा हि धनं देवि भाग्यं कीर्तिं च देहि मे | स्त्रियं देहि सुतान्द्रे हि सर्वाकामांश्च दोहि मे || उग्र चण्डे प्रचण्डासि प्रचण्डकरवालिनि | महाचण्डोग्रदोर्दण्डे विश्वेश्वरि नमोस्तुते || रक्षमांशरणापत्वं त्वपादार्पित मानसं | हरपापंहरक्ते हरशोकं हरासुखं || हररोगं हरक्षोभं हरदैत्यं हर प्रिये | स्तुति मेतां पठित्वैवं दण्डवत् प्रणमे भुवि || गुह्यकालि जगद्धात्रि सर्वान्तर्यामि निश्वरि | गृहेत्वेमं पशुवलिं यथोक्त फलदा भव || कायेन न मनसा वाचा त्वर्ता नन्यागतिर्ममः | अन्तश्चरसि भूतानां उष्टीत्वं परमेश्वरिः || इति श्रीकौलरहस्य सर्वागमसरे सप्तविंशपटलः || २७ || प्. २०७अ) अथ सर्वापयुक्ततया मातृकावर्णानां प्रत्येकं ध्यानादिकमाहः || श्रीभैरवोवाचः || शृणु देवि प्रवक्ष्यामि पञ्चाशद् वर्ण निर्णयं | यैर्व्याप्तमखिलं देवि त्रौलोक्यं स चराचरं || एकैकस्य तु वर्णस्य ध्यानधारनरूपकंः | आयुधन्यानसंङ्मुद्राः कर्म तेषां पृथक् पृथक् || एत सर्वं समासे च शृणुष्व कथयामि ते | वहुशा मन्त्रकाट्यस्तु सासांरसं भवन्ति च || सत्पाद्याः पशवः प्रोक्ता ईशानान्ताः सुमध्येमेः | ब्रह्मादेषां चरेदज्ञो मोचानायानकं प्रति || पञ्चाशदक्षरा एते कलाः पञ्च तथैव च | पृथिव्यां जानि भूतानि पञ्चैतानि पृथक् पृथक् || द्विसप्त भुवणं सर्वं ब्रह्म व्याप्ति समन्ततः | एभ्यो मन्त्रा समुद्भूता नानाकर्मश्चराश्चये || मन्त्राणां चैव रूपंञ्च प्रमानं दैवतं तथा | २०७ब्) ब्रह्माणि च भुजां चैव वर्णान्वर्ण युधानि च | साधकाय न जानन्ति न तेषां सिद्धिदा क्वचित् || यानि कर्मानि कुर्वंन्ति यत्र यत्रापि जोजिताः | तस्मात् सर्व प्रजन्नेन ज्ञातव्या मातृका वुधाः || ककारं कनकाभसं सौवर्ण कलशासनंः | सुवर्णकवचं हैमं महापुरुषविग्रहं || खड्गहस्तं चतुभुजं महासौ उंचतुभुजंः | क्षोभयत् पृथिवी सर्वास शैलरकालनंः || पुरुषो अस्मरे नित्यं विषनाशायका कथाः || १ || खकालं धूम्रवर्णाभं चापपाणि खरासनं | त्रिशीर्ष त्रिभुजं रौद्रं त्रिचालं नवलोचनंः || सर्वग्रहहरह्यन्तमन्तराय हरंन्तथाः | सर्वज्वल हलं चैव ग्रहसैन्य विमर्दनंः || २ || २०८अ) गकालं गगनारूढमष्टवाहुं चतुमुखंः | त्रिशूलपाणि रौद्रं च हिमकुन्देन्दु सन्निभं || विषनाशयते ह्येषमर्जाग्रमस्थिशं तथा | गजवक्त्रं स्वयं ह्यन्तं सर्वविघ्नविनाशनं || ३ || घकालं वृषभारूढं दशवाहुं महावलं | पंचवक्त्रं त्रिनेत्रं च शूरपाणि महाभूजं || गजचर्मोत्तरासंगं घंटाटंकविभूषतं | इं ह्री वरदलश्यामं मध्यमंम्भीरनिस्वनं || ब्रह्मराक्षसवेतालान्नाशयन्नात्रसंशयः || ४ || ङकारं नागमारूढं द्विभुजं पिंगरोचनंः | हरहाससितं सौम्यं वीणाखड्गरतं सदा || स्मरतां चैव सर्वेषां बालग्रहविमर्दनं | नाशयशरणादेष विषं स्थावरजंगमं || ५ || चकारं तु हिनाभासं शशाङ्काङ्कितशेखरं | २०८ब्) चतुर्वक्त्रं चाष्टभुजं पाश पट्टिशधारिणं | पद्मासन स्थितं नित्यं सर्पमण्डितमेखलं || ध्यानधारणसंयुक्तं ये पाश्वदि समन्वितं | दुष्टरोगैश्वने केचिद् व्याधिका ज्वल व्याधिभिः || सर्वते मुक्तरोगांश्च स्मरणास्य न जायते | गोनासागरैद्दिर्ष्टादुंदुमासैश्च मारिताः || विषणाशाशनं ह्येष कलोत्येव न संशयः | तद्विषं नाससायाति तमः सूर्योदय यथा || ६ || छकारं श्वेतवर्णाभं छालस्थं च महावलं | भुजैः षोडशभिर्दिव्यैराहुमानं यथा रविंः || पट्टिसंपरशुंशुरं मुद्गलं कनसं तथा | अन्यानिधारयस्वन्तमायुधानि विशेषतः || यस्मिं स्थानं विषं घोरं स्थितं स्थाकरजंगमं | नाशयेत् स्वरितं ह्येष स्मरितो नात्रसंशयः || ७ || २०९अ) जकारं हरिणाकारं द्विभुजं नवशीर्षकंः | शृंषका चायुधं तस्य शशाङ्काङ्कित शेखरं || यस्यानुस्मरणा देवि विषं स्थावरजंगमं | माशये पथितो ह्येष पेयोदामिवभास्करः || ८ || ऋकारं कृष्ण मेघाभं षट्भुजं नवलोचनं | त्रिशिर्ष च महाकालं उष्ट्रालीढं वलीयसंः || यस्य ग्रहा महारौद्रा ज्वलम्वा भूतदोषजं | विषं हालाहलं रौद्रं योगानां कृत्रिमं तथा || मुष्टिणा ग्राहयित्वा तु उत्थापयति तत्क्षणात् || ९ || ञकारं घनवर्णाहं भिनाञ्चन निभोपमं | कमरस्थं चतुवक्त्रं भुजाष्टक विभूषितं || असिमुद्गर हस्त्र च वज्रहस्तं महावलं | वालग्रहाणां सर्वेषां पठेनाद् देवनाशनं || १० || टकारमग्निवर्णाभं दहन्तमिव पावकं | २०९ब्) भुजै षोडशभिर्देव्यैद्दिव्यमाल्याकेतं वपुः | मेषारुधं महाकायं सर्वमेखल मन्त्रितं || त्रिशीर्षं च वृहद्रूप सेंन्दुराभं महाद्यूतिः | जलंतं मुद्ग्रलं शक्ति ज्वाला ज्वलित भूषितं || ग्रहाणां निग्रहो ह्येष भूतानां दाकिनीषु च | निमर्जत्मा जपेदेनं तं नयेदुषिभूषितः || ११ || ठकारंक्तंदपुष्पाभं वृषारूढं महावलं | चतुभुजं महाकायमेक शीर्ष त्रिरोचनं || गौक्षिरधवलं नित्यं विषस्यैन्यविमर्दनं | आन्मलक्षा परस्यैववर्थिवा निर्जने वने || गसिंहवलाहेषु व्यालव्याघ्र भयेषु च | विषवंधे प्रमोक्तव्यं जीवलक्षासु चिन्तयेत् || सुवर्णममृतं ह्येनं कालद्रष्ट्रो भवेद् यदि | अहिनां स्तंभने प्रोक्तां सर्वसत्वेषु सीतलं || १२ || २१०अ) डकालं हरिं तं ध्यायेदुष्ट्राभीषणविग्रहं | चतुर्वक्त्रं महाकायं चतुर्विंशार्द्धलोचनं || धर्मासनसमारूढं दण्डपाणिं जटाधरं | जक्षराक्षसभूतादि डाकिनि सिद्धियोगिनि || स्तंदादीनी सरौघाश्या पिशाचोरगकिन्नभाः | कुष्माण्डराक्षसांश्चैव स्मरमा देवनाशयेत् || १३ || धकारं भुजगारूढं फणिलक्षणभूषितं | ज्वलनार्क प्रतीकाशमालक्तायत लोचणं || द्रंष्ट्राकलालिनं घोरं मेघगम्भीर निःस्वरंः | चतुःषष्ठी भुजैर्दिव्यंन्नाना प्रहणा युताधुनं || द्रष्ट्राटंकाक्षमालांश्च शूलपट्टशधारिणंः | गदामुगरपाशांश्च खड्गचक्रं च विभ्रतां || क्षोभय पृथिविं सर्वां सशैलवनकाननां दैत्यदानवलाक्षसां | २१०ब्) नागानां दमनोह्येष पाताल भववासिणी | द्रढिमाकर्षणे योज्यं मेघानां च निवारणे || लूतागर्दभ विस्फो * *? सहलिंगादि चर्चिकाः | डाकिनीभूतदोषांश्च नाशयेन्नात्रसंशयः || १४ || णकारं गौरवर्णाभं तामसी कुसुम प्रभं | चतुर्भुजं चतुवक्त्रं कृर्ष्णं द्रंष्ट्राकलोलिनं || राजवर्णनिभं श्यामं ज्वलद्भासुरलोचनं | मेरु शृगयुतं भीमं चाहहस्त विभूषितं || त्रासयन्तं महानादं क्षोभयन्तं रसातरंः | विषांश्च विविधाकारा नश्यंन्ते नात्रसंशयः || १५ || तकालं रक्तवर्णाभं पूर्णकुम्भोपरिस्थितं | शशाङ्ककृतमुर्द्धानं द्विभुजं मीनवाहणंः || एकशीर्ष ततसूक्ष्मै नेत्रतयविभूषितं | २११अ) निःशेषविषनागनामंतरायं विशेषतः | स्मरणान् णाशयच्छुलंघनवाताहतां यथा || १६ || थकालं हिरवर्णाभं शंखकुन्द्रदुनिम्मलं | मकालापृष्टमारूढमारक्तापितलोचनं || दीर्घस्थंधं सुरुचापं च विभ्रतं | मन्मथञ्च स्वयं देवी कन्द्रर्प शहणाशनं || दीपैरगरपुष्पैञ्च सुगंधौश्चानु लेपनैः | अकारमरणं ह्येष नाशयत्य विचारनं || दीर्घस्थंधं सुरूपञ्च शराचापं च विभ्रतांः | मन्मथञ्च स्वयं देवि कन्द्रर्प्य ग्रहवर्णाभं कंकवाहनसंस्थितं || क्षीरोदकलसावर्त मध्यगं चिन्तयेत् सदा | त्रित्रिर्शीर्षो महाकायं शोभमीनं त्रिलोचनं || त्रिनेत्राणि च पार्वाणि वक्त्रानिमुस्थितानि च | २११ब्) ज्वरंनाशयते घोरं तृतीयक चतुर्थकंः || साध्यं रात्रि ज्वलं चैव शीतादाह ज्वलं तथा || १८ || धकारं पाटलाभासं धनुष्पाणिं चतुर्भुजं | एकशीर्षमहाकायं सिंहारूढं महावलं || रौद्राट्टहासनिनदं ग्रहसैन्यविमर्दनं | तुष्टा तु हरते दोषं छायादोषंञ्च नाशयेत् || परदोष कृतं चैव वलीनां लंघनं तथा | अनिरघु प्रहारैश्च रक्षते नात्रसंशयः || १९ || नकारं नीलवर्णाभं कृत्वा सारकृतायनं | चतुर्वक्त्रं चाष्टवहुं ज्वालावंशधरं शुभं || तोमरास्त्रधनं शुभं || ततो रास्त्रधनं सत्यं चक्रपाणिं सुभूषितं | विविधानि च यन्त्रानि च धायेर्तु विशेषतः || २१२अ) आकाश गगणं चैव गुलिजाञ्चनसंनिभंः | वेतालास्थापनं चैव स्वस्थाने सर्वकर्मणि || २० || पकारं रक्तपद्माभं पद्मस्थं पद्मधारिणं | शंखचक्रगदापद्मपीताकार्षायवासनं || चतुभुजं चतुवक्त्रं पद्मशस्योपरिस्थितंः | यक्षराक्षस भूता च पिशाचान् ब्रह्मरक्षसान् || कुष्माण्ड दाकिनीं चैव भूतवेतालराक्षसात् | अपस्मारग्रहांश्चैव तथा वालग्रहानपि || स्मरणान्नाशयेत्यष विषं स्थावरजंगमंः | कायिकं चैचिकं चैव मानसं त्रिविधं तथाः || जन्मान्तर कृतं पापं नाशयेत् स्मरणादसौ || २१ || फलारं पथ्यते योगी योगीनी हृदये तथाः | चतुभुजं चतुर्वक्त्रं हंसारूढं विचिन्तयेत् || २१२ब्) कपाली चाक्षमाली च म्रश्विमेखलवानंपिः | सृष्टिकर्ता जगत्यैव त्रैलोक्य प्रभुरव्ययं || अमृता कर्षणा ह्येष जीवदाने विशेषतः | भयनाशं सदा कुर्यात् सत्वानन्द्रविशेषतः || २२ || वकालं कृष्णवर्णाभं साक्षाद् वरुणं दैवतं | नागासनसमारूढं फणिव्याकुललोचनं || हिमकुन्द्रे संकासं शंखगोक्षीरसंनिभं | षड्विशार्द्ध भुजं सौम्यं मणिरत्नविभूषितं || गदापाणि च देवेशिं राशिचक्र समाकुलं | खड्गपाशधरं सौख्यं दाहज्वलविनाशनं || चातिकैपैत्तिकं चैव श्लेष्मक सान्निपातिकां | वाधिरिन्निपतेन निविषं कुलुते क्षणात् || २३ || फकांरं कृर्ष्णवर्णाभा पीतकौसीपरासनं | २१३अ) दण्डहस्तं महाकायं महिषासूरवाहणंः | कालपासधरं रौद्रं मारक्तायतलोचनं || तस्मा सर्व प्रयत्नेन कालदष्टास्यजोजयेत् || २४ || मकारं वृषभारूढंः || भस्माद्रूरितधूसरं || नीलकण्ठञ्च जतिलं सर्वणितिकलं शिवंः | पंचवक्त्रदशभुजं त्रिशद्धपिङ्गरोचनंः || कपालासिधरं तीक्षां त्रिशूराकुशधारिणं || २५ || यकालं संप्रवक्ष्यामि स्वयं वायुं व्यवस्थितंः | षड्भजं शतवक्त्रं च महावलपराक्रमंः || कुलं शासनमारूढं शुभावरधरं तथा | सर्वदोषाः समं यान्ति सिंहदृष्ट्वा यथामृगाः || २६ || रकारमग्निवर्णं तु रक्तकौशीय वासनं | रक्ताक्षरक्त दंष्ट्रञ्च रसमासप्तव्याकुलंः || २१३ब्) चतुर्भुजं चतुवक्त्रं काराग्निरुद्रतेजसंः | दुष्टानां प्रसमास्थाय विषसुप्तप्रबोधयत् ः || २७ || लकारं पीतवर्णाभं वज्रहस्तं महावलंः | ऐरावत समारूढं सहस्राक्षं सुरेश्वरंः || चामलेण सुवर्णेन वीजमानं सुरासुरैः | मेरु पृष्ट सुखाशिनमप्सराभिः सुसेवितंः || २८ || वकालं तु हिनाभासं मुखकपरिसंस्थितं | आयुधं तस्य पासं तु चतुवक्त्रं चतुभुजं || शुक्लवस्त्रधरं नित्यं सौम्यरूपं सुलोचनं | आप्यायनं च सर्वेषां विषानां चैव नाशनं || २९ || शकारं शितपद्मास्थं सितचन्दणशोभितं | षड्भुजं शक्तिहस्तं च शिशीवाहनसंस्थितं || षड्वक्त्रां स्वयमेव शतं निजं शिखि वल्लभं | २१४अ) दर्शनार्तस्य नश्यन्ति महापातकनाशयः || ३० || षकारं षड्भुजं रौद्रं त्रिशीर्ष नवलोचन | त्रिपादं रक्तनेत्रं च ज्वलन्तमिव पावकं || भूतपृष्ठे समारूढं पाशतोमरमुद्गरैः | शोभितं भुजदण्डैश्च सौम्यरूपं महाप्रभुं || ३१ || सकालं सर्वभूतेषु सर्वभूतेष्ववस्थितं | भूमिकीटपटंगोषु चिन्तयेदमृतोपमं || ३२ || हकारं संप्रवक्ष्यामि शब्दरूपं परात्परं | सूक्षं निलंजनं नित्यं शब्दातितं परात्परंः || भिन्नेन्दुनीलसंकाशं कालिन्दी जलसंनिभं | ध्यात्वा च नासयत्येष विषं स्थावरजंगमंः || ३३ || २१४ब्) क्षकालं पठ्यते यस्तु स्वयंभुवरुणायकं | पद्मासनसमारूढं शशाङ्कङ्कितशेखरं || जटामुकुटसन्नर्द्धं पचवक्त्रत्रिलोचनं | अनिमाद्यष्टकं प्रोक्तं सर्वायुधविभूषितं || दण्डं कंठाख्य मालां च गडा चक्र त्रिशूलिकं | अकुशं रत्नपात्रं च सर्वत्रोपरिवारितं || सर्वसिद्धिकलो ह्येषः क्षकारः परिपठ्यतां | ब्रह्माविष्णुमहेशाद्या नित्यं ध्यायन्ति योगीनः || एतमन्त्रं वलं प्राप्य त्यजेदन्मलालवत् ः | नवतत्व समायुक्तं क्षकालं परिपठ्यतां || व्याधितस्कर चौरेभ्यां वंधने ग्रहसंकटा | जपत्स्मरन्तं ध्यापयेन् न भयं विन्दते क्वचित् || अधुना संप्रवक्षामि कलानाञ्च यता तथाः | २१५अ) पूर्वतं चैव वर्णाणां तथैव मनुपूर्वशः || ३४ || अकालं विर्ष्णु दैवत्वं वैर्ष्णव्याचापालजितं | शंखं चक्रगदापाणि चतुर्वक्त्रं चतुभुजं || गरुडासनमारूढं सर्वदुष्टनिकृन्तनं || १ || आकारं ब्रह्मदैवत्यं हंसारूढं चतुभुजं | चतुर्वक्त्रं सस्वरूपं सुराक्तायितलोचनः || दण्डंकमण्डरूं चैव मुजमेखलधाणिणं | ब्रह्मसूत्रधरा देवी ब्रह्मणी परिपथ्यतां || २ || इकालं पार्वति देवी सौम्यरूप्य त्रीरोचन | सभ्रूललाठविम्बोष्ठा वलि त्रितयशालिका || कुटिलाकुब्जिताकेशी पीन्नोन्नत पयोधारा || ३ || ईकालमीश्वरं विद्या जतामुकुटधारिणं | शशाङ्क शेखरं देवि पंचवक्त्र त्रिलोचनं || कपालमालिनं देवी पचवक्त्रं त्रिलोचनंः | २१५ब्) कपालमालिनं देवि जतामुकुटधारिणं देवी | शिवसक्त्या सहैकोयं त्रिदशैरपि दुल्लभंः || ४ || उकारं विनता पुत्रं स्वयं ताक्षपतिं शुभं | अव्याहत गतिं नित्यं भुवनानि चतुर्दशः || हरिं वहा तु तर्द्देवी यक्षभूताविनाशिनीः | गारुडी सा तु विज्ञया सर्वदुष्टविनाशिनी || सर्वेषां च ग्रहादीनामुन्मादकारिणी शुभाः || ५ || ऊकालं हंसमीत्युक्तं शंखकुण्डसि निभंः | स्मरणात् सर्वपापाणी नाशयनात्रसंशयः || ६ || अथ ऌ ॡः ऋग्वेदं च यजुः सामः प्रसीत्तितः | वेदमार्थर्वलं चैव पूजाकाले तु चिन्तयेत् || १० || एकारं षण्मुखं विद्यार्चर्तुविंशाद्धलोचनं | शिखिवाहनमारुढा शक्तिहस्तं महावलं || २१६अ) स्मरनान्नाशये देवी कौमार ग्रहपीडनंडनं || ऐंकालं सुरराजेन्द्रमैरावतरथे स्थितं | तेजस्विनं सहस्राक्षं वज्रहस्तं महावलं || द्विभुजं सौम्यवदनं नेत्रय विभूषितं || १२ || उकारं सिंहमारूढं त्रिनेत्रं च महावलं | द्विभुजं सौम्य वदनं शोभनं च महाभुजं || शिवदुति च सा देवी श्मशानिलया प्रियाः || १३ || औकालो भैरवः साक्षाज्वालाकपिललोचनं | दंष्ट्राकरालिनं भीमं लेलिहानं सुभीषणं || त्रिपादं त्रिकरं ज्ञेयं त्रिशीर्षक्लरशेषरं | २१६ब्) अधारमुर्द्धमातृणां योगीनीनां सदालयं | शूलमुर्द्गलवीणासिनी वीणांकुशधरं तथा || गजचर्मनिवर्धाङ्गं सर्वमेखलमण्डितं | सर्वाभरनसंयुक्तं मणिकुण्डलभूषितं || नृत्यमानं श्मशानेषु वेतालैः सह क्रीडते || १४ || अंगारं वीन्दुसंयुक्तं शुष्का देवि तु भीषणा | अंत्रात्रपिशिता हारा चास्थिभिः कृतमेखला || अस्थिशेषा च निर्मांसा प्रेतवाहनसंस्थित्वा | दंष्टाकरारिणी चाग्रामेघगंरनितः स्वाराः || शुष्काशुष्कमुषिभीमा चोर्द्धकेशि भयानका | समांसुरुधिराहारा श्मशाने नित्यवासीनी || गजचर्मोत्तरीया तु नागभरणभूषिताः | चामुण्डामुण्डवेता च खेचरी हृदयं गमा || १५ || २१७अ) अः षोडशं चैव बीजं शीतं तु हिनशीतलं | पूर्णेन्दु चन्दनं सौम्यं करो षोडशवत्सदा || सिच्यमानं स दध्येयेदमृतं श्रवते सदा | एतच्चाप्यायनं जीवो विषमज्वारनाशनं || एकाह्निकं मुहुत्ते च तितियेक चतुर्थकं | गीतज्वलमहाघोरे पिर्त्तान्मादज्वरं तथा || मासे षण्मासिके चैव तथा स वत्सरादिके | नाशशनं सर्वरोगाणामायुरारार्गे वर्द्धनं || एतद् देवि मयाख्यातं धर्मसर्वस्वमात्मनः | न कस्यचित् मयाख्यातं त्वां विनावरवर्णिनी || जानुजानातिमोधात्मा मातृकाज्ञानमुर्त्तमं | व्यर्थपरिः श्रमस्तेषां सिद्धिं मार्गस्तु दुरगा || क्षमे शंभूः स्वयं देवे पंचास्यश्चन्द्रशेखरः | २१७ब्) खट्वांगाकुशशूलाक्षामालाटंकं मनीगदां | दण्डमुद्गरचक्रांक दशपाणिर्हलायुधः || धर्माधर्म वेदयुगो धर्मासनरोर्द्धतः | वर्णाक्षेत्रेश्वरा मन्त्रा न पृथक्त्वेन संस्थिता || सिद्धिदाः पूजिता नित्यं जपध्यान पतर्पणैः | तस्मात् सर्वप्रजन्नेन वर्णध्यानं भुजायुताः || कार्यसिद्धि चिन्तनियानि योज्यास्तत्व दर्शना | उमातिलकनित्येताः प्रेक्षवाक्या गमात्वहुनुः || अथ नेपालपीठ || नेपारं तु इकारस्याः गुदं तत्र तु पार्वति | तस्माद् वामस्य मार्गस्य मूलस्थानं तदुच्यतेः || षट्पंचाशलक्षमिता भैरव्यो भैरवीस्तथा | शक्तिनां च सहस्रे द्वे पीठानां च शतत्रयं || चर्तुदशश्मशानानि तत्र संहिति तानि च | २१८अ) दक्षमार्गे सिद्धिदानी पीठान्यष्टौ च तप्र च | सिद्धि वैदिक मन्त्राणां तत्र पीथ चतुष्ट च || तन्मलं यत्र पतितं जातं तदुपपीठकं | नेपालात् पूर्वदेशे तत् किंरातैरुपवेष्टितं || त्रिशत्तसहस्राणि देवयोनि निसंति हिः || इति श्रीकौलरहस्य सर्वागमसारे अष्टाविंशतिमे पटलः || २८ || अथ दशविद्यायन्त्रमाह || अथ काली || आदौ यन्त्रं प्रवक्ष्यामि यज्ञात्वामरतां व्रजेत् | आदौ त्रिकोणं विन्यस्य त्रिकोणं तद्वहि न्यसेत् || ततो वै विलिखेन् मन्त्री त्रिकोण त्रय मुत्तमं | २१८ब्) वृर्तं विलिख्य विधिवल्लिखेत् पद्मं सुरक्षणं | तस्याध्यानं || ध्यानमध्याः प्रवक्षामि स्मरणाच्छिवतां व्रजेत् | करारवदना घोरां मुक्तकेशि चतुभुजां || कालिका दक्षिणा दिव्यां मुण्डमालाविभूषितां | सद्य छिन्नशिरः खड्ग वामार्द्धाधः करांवुजां || अभयवरदं चैव दक्षिणाधोर्द्धपार्णिकां | महामेघ प्रभा श्यामं तथा चैदिवगदिगम्वरां || कण्ठावसिक्तमुण्डाली गलद्रुधिर चर्चितांः | कर्णावतं समानीत सवयुग्म भयानकां || घोरदष्ट्राकलालो च पीन्नोन्नत पयोधरांः | शवानां करशंघातैः कृतकाञ्चा सहन्मुखी || सृक्व द्वय गलद्रक्त धारो विस्फुरिताननां | घोररावां महारौद्रीं शाशानालयवासिनीं || २१९अ) अथ ताराधासयानिं चन्दनेनाष्ट पत्रपद्मं लिखेत् ततः | मृदुमासेन मातह्ये माया पूर्वदले लिखेत् || तस्याध्यानं || कतृपरिगतां ध्यायदात्मानं तारिणी मयं | प्रत्यारीढं पदां घोरां मुत्रमाला विभूषितं || खर्वारं चोदरीं भामां व्याघ्रचर्म धृता कटी | नवयौनव संपन्ना पंचमुद्रां विभूषितांः || भैरवोक्त महं वक्षा यन्त्रं सर्वसमृर्द्धीदं | त्रिकोणं प्रथमे लेख्यं खट्कोणैवेष्टयेर्चतं || त्रिविर्ति च ततो दद्याद् गुणानां परिणमकं | भूपुर त्रितयं कुर्याद् वज्रशूलसमिन्वितंः || कोणदेशे ततो दद्यात् टंकास्त्र सुमनोहरं | यथास्थाने लिखेद्धीमान् कतृखर्परकं शुभं || २१९ब्) रतिकामे पादिध्यायेद् देवीं वैरोचनीं शुभां | तस्याध्यानं || ध्यायेद् देवि महामायां सर्वकल्यान कारिणी | सुधासागर द्विपै च स्मरेदुद्यानमद्भुतं || तस्मिनमसरस्त्रीरेशोभनं रक्तमंत्रपं | चतुद्वार समोपेत स्तंभराजि विलाजितंः || गवाक्ष्मार्गदशक वायु युक्त स केशणं | सुधासंसाविसततं कल्पविक्ष्य चतुष्टयं || निविष्टां रत्न स्तंभे च संस्मरे निज देवतां | शवाशनकतां ध्यायच्छिन्नमष्टां महोररीं || चतुभुजां समारूढां रक्तवस्त्रां त्रिलोचनां | मुक्ताटोपसंपन्नां दक्षिणे खड्गधारिणे || सात्परां वामहस्तेन दोर्भ्यां पुस्तकधारिणिं | निकृत्यसशिरः खड्गैः पिवन्ति रुधीरं वहुः || २२०अ) उद्यदिनकराभावं चंद्रार्धकृतसेखरांः | योगिभिः व्यासमुनिशंनाग यज्ञोपवीतिनीं || त्रिपूराया || विन्दुत्रिकोणवसुकोणदसालयुग्मंन्वश्रेनागदलसंयुतं षोदसालां वृत्तत्रयं च धरनी सदन त्रयं च श्रीयन्त्रराजमुदितं पर देवतायाः || तस्याध्यानं || वालार्कमण्डलाभासां चतुर्वाहुं त्रिलोचनं | पाशाङ्कुश सरश्चापं धारयन्तीं शिवाम्भजेत् || भैरवी जन्त्रं || तन्मध्य कल्पयेद् यन्त्रं जवजोनिंत्मकं शुभं | अष्टच्छदश्व तद् वाह्ये चतुरम्रं मनोरमं || तस्या ध्यानं || रक्तांसुरर्मूलविलसन् मनिपीठगां | सणिपाशकपालेषु मातुलुंगधनुधरान् || रक्तैररं कृता पूष्पैर्मदाघूर्णित रोचणं | हैलाविलाससंपन्ना नवयोवनसुन्दरीं || २२०ब्) देवी ध्यात्वा जपे लक्षं यो बीजं मध्यमं वशी | त्रौलोक्यं क्षोभयदाशुयुसावत्सिर्द्धि भागसौः || अथ महालक्ष्माया || वालभास्करसत्कान्तिं शशिशेखरमण्डितं | मुक्ताहारो ज्वत्वां रम्यां लत्नाकल्पविभूषितिं || हस्ताभाजैश्च विभ्राणां रुतमांगानिमंजलिं | पद्म द्वयं कौस्तुभं च सस्मितास्य सरोरुहां || विकचोत्पल संशोभिलोचनत्रयशोभितां | क्वणनूपुरसंस्फुल्लरक्तोत्पल पद्वयं || नितम्बबिम्बविरसद्रसनाद्रामनंजुलां | वलित्रयलसद् देवि मध्ये देशे सुशोभनं || गम्भीरावत्तकृन्नाभि ह्रदमण्डलमण्डितां | यक्षकर्दमसंलिप्त पिन्नोन्नत घनस्तनीं || २२१अ) कुंम्भीकुम्भोद्भवद्राद्य मुक्तादामविराजितांः | क्षोमोत्तरासंगवती पुर्ष्पदाममभूषितां || माणिक्यस्वर्णखचित वैदर्याद्यंगंगदो ज्वलां | कांचनोद्यत्पद्मरागमणिसंवद्धककणां नाना विधं लसद्रत्नमुद्रिकालं कृतांगुलिं || कंबुकण्ठकरारवां स्वर्णग्रे वे पराजितां | विचिन्त नानालंकाला कृतीलगीसुविस्मीतां || उद्यदर्क प्रभाभास्वद्रत्नताटंकशोभितां | कर्णपूरि कृतस्वर्ण वर्द्धरन्नां कुलां भुभां || प्रवालविलसस्कान्तिरुचिराधारपचिकां | शिषरप्रोल्लुसद्रम्य दशनावलिशोभितां || निर्लांच्छतशरडाकाकाराधिपशुभाननां | पञ्चसायककोदण्ड विलास्यधिक चिल्लिकां || २२१ब्) विभ्राणां नाशिकां प्रोद्यर्तिलपुष्टा ज्वलोद्यतां | शीतांशु सकलाररुचिलारिकराजितां || घनसौगन्धसंपन्न मृगनाभि विशेषतांः | मनाक्तंतसस्निग्धनीलमंजुलमुर्द्धजांयते || पारिजातद्रुकुसुमगन्धवाहि समुर्द्धजांः | तप्तहातकसंवर्द्ध नानारत्नौघषरां सौन्दर्य भूमेरवधिं तेजसां जन्मभूमिकां || विलासलक्ष्मी भवनं महालक्ष्मी विचिन्तयेत् | वामालधः करामरत्यध्यायद्दक्षकराविधिः || आयुरानी महारक्ष्माः कराम्बुज गतानिमः | धर्मादि कल्पिते पीठे भूरद्वारशोभिते || दलाष्टकेशराराढ्य कर्णिकायां जजेदिमां | २२२अ) अथ मातंगीनि || षट्कोणाष्टदलं पद्मं लिखेन् मन्त्रं मनोरमं | एतस्मिन् पूजयेठे नवशक्तिं क्रमादितः || तस्याध्यानं || श्यामागी शशिशेषरां त्रिनयनां सद्रन्नसिहासने संस्कारत्नविविभूषण युतां क्षीण मध्यस्थलांः || आपीनस्तन मण्डलां स्मितमुखीं ध्यायेद् दधन्ती क्रमाद्वदैर्वाहुभिरुंकुशासिलतिकेपाशं तथा खटकं || एवं ध्यात्वा महादेवि गन्धपुष्पैर्मनोहरैः | भुवनेश्वरीः || पद्ममष्टदरं वाह्य वृर्तिषोडशभिर्दलैः | विलिखेत् कणिका मध्य षट्कोणमकिसुन्द्ररं || तस्याध्यानं || उद्यदिनद्युतिमिन्दु किरिटां भुंगं कुचां नयनत्रययुक्तां | स्मेरमुखी वरदां कुशाभिति करां प्रभजे भुवनेश्वरींः || २२२ब्) अथ धूमावती क्रमः || पूर्वोक्त पूजयेत् पीठे ज्येष्ठां शत्रु निवृत्तये | केशरेषु षडंगानि पत्रस्था अष्टशक्तयः || अस्याध्यानं || विवर्णाचञ्चला कृर्ष्णादीर्घा च मलिनांवरा | विमुक्तकुण्डदीर्घा विधवा विरलद्विजा || काकध्वजरथारूढा विलमृत तवयोधराः | शुर्षहस्तातिरुक्ष्माक्षी धुतहस्तात्वरान्विता || प्रवृर्द्धरोमा तु भृशं जटिलाकुटिलाक्षणाः | क्षुत्पिपासादिता नित्यं सदा कलह तत्परा || एवं विधा सदा ध्यायेत् ततः कर्म समाचरेत् | अथ वगलामुखी || मध्ययो समालिख्य तद् वाह्ये तु षडंम्रकं | तद्वाह्येष्ट दलं पद्मं तद् वाह्ये षोडशच्छदं || चतुरस्र त्रयं वाह्ये चतुद्वारो पशोभितंत् | २२३अ) अस्याध्यानं || गभीरां च मदोन्मर्तां तप्तकांचनसंनिभां | चतुभुजां त्रिनयनां कमलासनसंस्थितांः || मुद्गलं दक्षिणे पासां वामे जिह्वां च वज्रकं | पीताम्वलधरां सान्द्र वृर्त्तपीनपयोधरां || हेमकुण्डलभूषां च पीतचन्द्रार्द्धशेखरां | पीतभूषणभूषा च स्वर्णसिंहासन स्थिता || एवं ध्यात्वा च देवेशि शत्रु स्तंभनकारिणीं || अथ भुवनेश्वरि मन्त्रार्थ || हहित्वा च हरत्वा च मुंपकृत्योस्तु युक्तयोः | श्लिष्टोच्चारितमेवेदं शब्दतद्रूपमीरितं || १ || व्योमबीजे महेशानि कैलाशाद्रिः प्रतिष्ठिताः | वह्नि बीजात् सुवर्णादि निष्पन्नं वहुधा प्रिये || २ || तेन यं वत्तते लोके भूमण्डल स्थितं ततः | २२३ब्) तूर्यस्वरेण पाताले शेषरूपेण धार्ययेत् || ३ || महाभूमण्डलं तस्यात् पातालस्यापि नायिका | अत एव महेशानि भुवनाधीश्वरी प्रिये || ४ || हकारे व्योम तूर्येण स्वरेनानिलसंभव | वाकिरे सतिले फेण साक्षाद् ब्रह्म स्वरूपीणि || ५ || वह्निवीर्यं वसुज्ञया तस्योद्रकेवसुंधरा | अत एव महेशानि रलयोः संमता भवेत् || ६ || बिंदुनामृतरूपेण प्लावयन्ती जगत्त्रयं | द्रवरूपा भवेत् तस्माद्रवन्ति बोधमात्रया || ७ || अत एव महेशानि भुवनेशीति कथ्यते || अथ योनि मुद्रामाह || श्रीदेव्युवाच || योनिमुद्रावकथितां यत्नतो ब्रह्मकाशितः | २२४अ) सा प्रतं श्रोतुमिच्छामि मुद्रायाश्वपि लक्षणं | योनि मुद्रा च किं नाम फलं तस्याश्च कि प्रभो || विधनं कं स्वरूपं च कथयस्व जग प्रभो | श्रीशिव उवाच || शृणु देवि महाभागे मुद्राज्ञान स्वरूपिणी | याज्ञात्वा साधका सर्वे ज्ञानपीयुष सागरेः || निमर्जन्ति कुलैसार्द्धं सकृदत्यास योगतः | षन्नवत्यास्तुलायं शशरीरमुभयान्मकं || गुदध्वजान्तरे केन्द्रं डच्छोषोध्यस्तुलं प्रिये | तस्य द्विगुणविस्तारं वृर्त्तरूपेन शोभितंः || नाद्यस्तत्र समुत्पन्ना सुख्यास्ति प्रातिभाविनी | इदावामे स्थितानाडी पिङ्गला दक्षिणेस्थीता || तयो मध्यर्गता नाडी सुम्नापृष्ठरंशगा | पादाङ्गुष्ट द्वयं जाते शिखाया शिरशा पुनः || ब्रह्मस्थानं समुययाग्नि रूपिणी || २२४ब्) तस्या मध्यगतानाडी चित्राख्या योगी वल्लभा | धर्मनी चित्रिना मध्या वज्रायामेद्र देशतः || ब्रह्मरंध्र विदुस्तत्र पद्मसुत्रनिभपरं | इडाया चरते चन्द्र पिंगलायां दिवाकरः || शृणु सर्वविधानेन सुष्ष्नायान्तुरावुभौ | आधारकन्द मध्यस्थं त्रिकोणमति सुन्दरं || त्रिकोण मध्य देवेशि कामबीजमनुत्तमं | कामबीजोद्भवं तत्र स्वयंभुलिंगमुत्तमं || तत्र त्रिवलयाकारा कुण्डरी परदेवतां | श्यामवर्णा महाशुक्ष्मी स्वयम्भुलिंगवेष्टिता || परिस्फुरती सर्वान्मो स्वयंभुलिंगमुर्तमं | तत्र त्रिविलयाकारा कुण्डरी परदेवतां || श्यामवर्णा महाशूक्ष्मी स्वयम्भुलिंग वेष्टिता | परिस्फुरति सर्वात्मा सुप्ता हि सदृशो कृति || २२५अ) विभर्ति कुण्डली रूपामात्मानं हंसमाश्रिताः | हंसप्राणाश्रयो नित्यं प्राणानाडी समाश्रयः || आधारादुङ्गतो वायु यथा च सर्वदेहिनां | देहं प्राप्य स्वनाडीभिः प्रयानं कुरुते वहि || द्वादशाङ्गुलमानेन तस्मात् प्राणसमीरितः | रस्ये मृर्द्धासने शुद्धे पठ्याजिन कुशोद्भवे || वर्द्धेक मासनं योगि योगमार्गं परो भवेत् | इदाया कर्षयेद् वायु वाह्यं तस्मैव मुद्रया || धारयेत् पुरितं वायु उभाभ्यां कुम्भकेन च | नाड्यापिंगलया चैवं रेचयेर्च शनैः शनैः || भूयो भूयः क्रमातस्य वाभ्यासेन समाचरेत् | एवं मत्यशतः पुंसो देहस्वदोङ्गमोधमः || मध्यमः कल्पयं युक्तो भूमित्यागो परा ततः | २२५ब्) एवं क्रमेण डानां च शोधनं कल्पयेद् बुधः || ततो गुह्ये वामपाद पार्श्वञ्च विनिवेशयेत् | तस्यौपरि महादेवी दक्षपादं निधापयेत् || ऋजुकायः शिरो ग्रिवः काकचञ्चु पुटै न च | आकालेन वहि वायुं जठरे परिपूरयेत् || अङ्गलीभि दृढं वध्वा करणानि समाहितः | अङ्गुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां च लोचने || नासारन्ध्रे च मध्याभ्यां मन्याभ्यां वेदनं दृढं | वध्वान्मण प्राणसा एकत्वं तन्मनुस्मरेत् || धारये मारुतं सम्यक् योगोयं योगि वल्लभाः | नादरवसमः पश्चा घनमेद्ये स्वलोशतः सनैः || मत्तभृग्यगनाशीत सदृसः प्रथिमध्वनीः | २२६अ) विशिकाश्वादिना पूर्ण वंशस्वनिनिभो परः | घण्टारव समः पश्चा घनमेद्य स्वलोपरः || ततः सप्तादि शदृशीं कुण्डली परदेवतां | सुषम्ना मुखमादृशवेष्टितां परिचिन्तयेत् || कान्तावस्थित योन्यास्तु भ्रमन्तं रक्त वर्णकं | कामशिवश्च रूपञ्च चिन्तये साधकोत्तमः || अनाहत ततो ध्याये चित्कलां हंसमाश्रितां | प्रदीप कलिकाकारां कुण्डल्यासश्वरूपिनीं || विकलया कुण्डलिनीं तेजो रूपं जगर्न्मयीं | हंसेन मनुना देवी ब्रह्मपद्मं नयेत् सुनीः || पट् चक्र सन्धिमार्गेण सुषुम्नावन्मना तथा | ऊर्द्धं नये कुण्डलिनां जीवोन्मसहितां परां || आधारो स्थित मरुता नयेद् ब्रह्म शनैः शनैः | २२६ब्) ते नैव मरुता तानि पद्मान्युर्द्धमुखानि च | भावये संविको योगी ज्ञानमार्गेन चेतसा || आधारे चक्रपद्म वै वेदपत्रं सुशोभनं | स्वाधिष्ठाने लिङ्गमूले षट्दलं परिचिन्तयो || मनिपूरे नाभिमूले दिग्दलं सुरसुन्दरी | अनाहते हृदि ध्याये द्वादशांसलक्षणं || विशुर्द्धाख्यो महाचक्रे शोदषेच्छपङ्कजं | भुवो मध्ये महाचक्रे आज्ञाख्येदिरसस्तथा || आधारादिनि चक्रानि भित्वा तेज स्वरूपिनी | ब्रह्मपद्मं नये देवि कुण्डलीं परदेवतां || डाकिणी लाकिणि चैव लाकिनि साकिनी तथा | काकिनि हाकिनि चैव एटा षट् चक्र देवताः || एतानि योज्य षट्चक्रे ब्रह्मत्वेन महेश्वरि | २२७अ) ब्रह्मणंन्धे सहस्रारे कुण्डली स्थापये वधुः || परमान्मा च तत्रैव ब्रह्म पद्मे स्थितः प्रभुः | कुण्डरि शक्तिरूपा च परमात्मा शिरस्वयं || क्रियासम हि हारेण तयोरैक्यं विभावये | पृथिव्याधिनि तत्वानि जीवभावे विलिनयेत् || तमेव परमेशानी चन्द्रमुण्डरमेव च | अमुतपरमं स्थानं ज्ञानपीयुखसागलं || तस्माद् विनीर्गता धारां षत्वक्तेषु विचिन्तयेत् | तत्संगङ्गाच्च चक्रा च नितेजारूपानि चिन्तयेत् || सहस्रारे महापद्मे अमृतं विनिवेशयेत् | तेनामृतेन संप्राप्य कुण्डली परदेवतांः || तेनैव वर्मना देवि स्वस्थानमानयेत् पुनः | सोहि नित्यात्मना ज्ञानं भावयेत् साधकोत्तमः || २२७ब्) षट्चक्र देवतास्तातु लोलीभूता मृतेन च | चिन्तयित्वा महापद्मे स्वस्वस्थाने निवेशयेत् || वैष्णवस्य च शाक्तस्य शौरेस्य च वरानने | शिव सक्त्या समायोगा महातज्ञा प्रयातपे || ततस्तु चित्रिनी नाड्यामक्षमालां विभावयेत् ः | पञ्चाशन्मनि रूपा च मातृका च सरस्वती || अकारादि क्षकारान्ता अक्षमाला प्रकीर्तिता | क्षकाल मेरु रूपन्तु रङ्गा येन कदाचन || अनुरोम विलोमस्थ कॢप्तय वर्णमालया | आदिरान्तलाद्यकारा क्रमेण परमेश्वरि || अष्टोत्तर शतं मूलं मन्त्रं ज्ञानेण संजपेत् | मनसा च मनुं जप्त्वा मन्त्रसिद्धा भवे ध्रुवं || अष्टोत्तर शतं जापे आदौ कु?वंसमाचरेत् | २२८अ) अष्टवालं जपं मन्त्रं पुनः क्लीवं परित्यजे | वर्गाणामपवर्गन अष्टवारं जपेत् सुधी || अकचटतपय इत्येवं चाष्टवर्गतः | स विन्द्वं वर्णं संस्मृत्य पश्चा मन्त्रञ्च संस्मरेत् || इति ते कथीतं देवि मुद्रालक्षणमुत्तमं | अनया मुद्रया देवी सुप्तादितोषसान्तय || मासमेकं जपेन्मन्त्र हविष्यासी जीतेन्द्रियः | योनि प्राक्ति रूपाय तत्र नास्ति महेश्वरि || तत्र देवा न गृह्नंति पूजाहोमादिकं तु यत् | शक्तिहिनं गुरुं द्राप्य शिष्यः शक्तीं कुतः प्रिये || मूले च्छिन्ने द्रुमे देवी कुतः पुष्प फलादिकं | मनोन्यत्र शिवोन्यत्र शाक्तिरन्यत्र पार्वति || न सिद्ध्यन्ति वरानने कल्पकोटि शटैरपि | योनिमुद्रा महामुद्रा ज्ञातव्या यत्नतः सुधी || अज्ञात्वा शकरं देवि भस्मी भवति काष्टवेत् | एषा मुद्रा मया गुप्ता तन्त्रादि यामलेपि च || २२८ब्) साम्प्रतं कथितं देवी शृणु पर्वत कन्यके | इति श्रीमन्त्रमुक्तावल्यां शिवदेव्यासम्वादे योनिमुद्रालक्षणं संपूर्णं || इति श्रीकौलरहस्य सर्वागमसारे उनविंशपटलः || २९ || अथ दशमहाविद्यानां कवचमाह || तत्रादौ || श्यामाया || भैरव्युवाच || कारी पूजा श्रुतानाथ भावाश्च त्रिविधाः प्रभो | इदाणीं श्रोतुमिच्छामि कवचं पूर्वसूचितं || त्वमेव शरणं नाथ ऋहिमां दुःखसंकटात् | भैरव उवाच || रहस्यं शृणु वक्ष्यामि भैरवी प्राणवल्लभे | श्रीजगन्मंगलं नाम कवचं मन्त्रविग्रहं || पठेद्वाधारयित्वेदं त्रैलोक्यं मोहये क्षणात् | २२९अ) नारायनोपियधृत्वा नारी भूत्वा महेश्वरं | योगे शंक्षोभनयघृद्धृत्वा च घुद्वहः || वरदृप्ता जघानैव रावणादि निशा चरेत् | यस्य प्रमादानी शोपि त्रैलोक्यं विजय प्रभुः || धनाधिप कुवेरोपिः सुरेशो भूचरी पतिः | एवं हि शकला देव्याः सर्वसिद्धि स्वरा प्रियेत् || श्रीपगमंगलस्यास्य कवचंस्यरिषिः शिवः | छन्द्रोऽनुष्टुब्देवता च का दक्षिणेतिरा || जगतां मोहयेदुष्ट विजय भुक्तिमुक्तिषुः | योषिडा कर्षणे चैवै नियोगः प्रकीर्तितः || शिरो मे कालिकापतुकीं कारैकाक्षरी परः | क्रीं क्रीं क्रीं मेललाटं च कालिका खड्गधारिणीः || हूं हूं पातु नेत्र युग्मं ह्रीं ह्रीं पाशु श्रुती मम | २२९ब्) दक्षिणे कालीका पातु घ्राणयुग्मं महेश्वरी || क्रीं क्रीं क्रीं रसतां पातु हूं हूं पातु कपोलकं | वदनं सकलं पातु ह्रीं ह्रीं स्वाहा स्वरूपिणि || द्वाविंश त्यक्षरी स्कंधौ महाविद्या सुखप्रदा | खड्गं मुंडधराकाली सर्वागमभितोवतु || क्रीं हूं ह्रींञ्च क्षरी पातु चामुंडा हृदयं मम | ऐं हूं ओं ऐं स्तन द्वद्वं ह्रीं फट् स्वाहा ककुत्स्थलं || अष्टाक्षरी महाविद्या भुजौ पातु सकर्तृका | क्रीं क्रीं हूं हूं ह्रीं ह्रीं करौ पातु षदक्षरी मम || ह्रीं नासिं मध्यदेशं चः दक्षिणि कालिकेव तु | ह्रीं स्वाहा पातु पृष्ठ तु कालिका सा दशाक्षरी || हूं हूं दक्षिण कालिके हूं हूं पातु कटि द्वयं | काली दशाक्षरी विद्या स्वाहा सान्तौरुयुग्मकंः || २३०अ) ओं ज्रीं ह्रीं मे स्वाहा पातु कालिका जानुनी सदा | काल्नी हृन्नाम विद्ययं चतुवर्गा फल प्रदा || क्रीं हूं क्रीं या तु गल्फं दक्षिणे कालिकेव तु | ह्रीं हूं ह्रीं स्वाहा पातु चतुर्दशाक्षरी ममः || खड्गमुडधला पातु वरदाभय हारीणि | विद्याभि सकलाभिश्च सर्वागम हितोऽवतु || कालि कपालिनि कुल्या कुलुकुल्या विरोधिनी | विप्राचिर्त्ता तथा चोग्रा प्रभादीसाद्यनन्विषः || नीलाषनावलाका च मात्रामुद्रामिचमां | एताः सर्वाः खड्गधरा मुंडमाला विभूषणाः || लक्ष तु दिग्वदिक्षु मां ब्राह्मी नारायणी तथा | महेश्वरी च चामुंडा कौमारी चापराजिता || वाराहि नारसिंही च सर्वाश्वासित भूषणाः | २३०ब्) लक्षस्तु आयुधै दिक्षुगां(?) यथा तथा | इति ते कथितं दिव्यं कवचं परमाद्भुतं || श्रीजगन्मंगलं नाम महा * *? घ विग्रहं | त्रैलोक्य कवचं ब्रह्म कवचं मन्मुखोदितं || * * *? जं विधि यथाविधिवत् प्रपठेत् ततः | कवचं त्रिःसकृत्वापि यावद् वा पंचधा पुनः(?) || एतच्छताद्धमातृभ्य त्रैलोक्ये विजयि भवेत् | त्रैलोक्यं क्षोभयेत्येवकवदस्य प्रसादतः || महाकविर्भवेन्मासा सर्वसीद्धिश्वरो भवेत् | पुष्पाञ्जलि कालिका * *? ले नैव पठेत् स कृत् || शतवर्षसहस्राणां पूजाफलमाप्नुया | भूर्जे विलि * * ता * * त् || स्वर्णस्थं धारयेद् यदि || शिखायां दक्षिणे वाहौ कंठे वा धारयेद् यदि | २३१अ) त्रैलोक्यं मोहयेत् क्रोधात् त्रैलोक्यं मोहयेत् क्षणा | पुत्रवां धनवान् श्रीमावान् नानाविद्या निधिर्भवेत् || ब्रह्मस्त्रादीणि नस्त्राणि तद्गात्रस्पर्शनात् ततः | नाशमायांति या नारी वंध्या वा मृत पुत्रिणी || कंठे वा वामहौ हौ वा कवचस्य * * * *? | वह्वपत्या जीववत्सा भवेत् पीठ न शंशयेः || न देयं परशिष्यस्या * * * * * * *? | शिष्यस्यो भक्ति युक्तेभ्यो नान्यधा मृत्युमाप्नुयात् || स्पर्द्धामुद्धृव * * *? वाग्देवी मंदिले मुखे | पौत्रान्तं स्थैयमास्थाय निवसस्योवन्निश्चितं || इ * *? वचमज्ञात्वा यो भवेदक्षकालिकां | शतलक्ष प्रजप्तोपि तस्या विद्या न सिद्ध्यति || २३१ब्) मणन्त्र घातमाप्नोति सोचिरामृत्युमाप्नुयात् | तस्मात् सर्व प्रयत्नेन एतर्द्धर्ता पुरःसरं || संजपा सिद्धिदा काली साधकाय भवे ध्रुवं || इति श्रीभैरवे भैरवं भैरवी सम्वादे श्यामा कवचं संपूर्णंः || १ || अथ तारा कवचमाह || पुराकैलाशशिखरे ताला प्रपच्छशंङ्करः | गुप्तभावेन वेसिथ कथयस्व तु सादरं || केनोपायन शहशाशरीरं सुन्दढं भवेत् | कथवा सिद्धिरतुला तव मन्त्रविदी प्रिये || श्री तारोवाच || अति गुह्यतरं ह्येतन् निःसृतं मुखपंकजान् | इदं रहस्यं परमं कथयामि त्वयी प्रभो || श्रुतातां सवाधानेन कवचं मन्मुखान्सृते | २३२अ) मधुकैटभ यो मुर्द्धे कथितं पद्म जन्मना || तत्प्रभावात् तु देवेश नासं विष्णु न गच्छति | भव सुकथितं पूर्वं तन्न स्मरसि मालया || उद्धृतं सारभूतानां कवचं योगिनी मते | न कस्मिचित् प्रवक्तव्यं न प्रकास्यं कथंचन || णपथं कुरुते देवि यदि स्नेहास्ति मां प्रति | श्रुयतां सवधानेन कवचं साधसंग्रहं || सत्यं सत्यंः पुनः पुनः || कवचेन विना देव योमामर्चयति क्षणात् | मतश्नोमि महोग्राहं योगिनीः सुनिश्चितं || ब्रह्मविष्णु महेशानां बीजं लक्ष तु मूलकं | तदुर्द्धं शक्ति विजंन्तु लिंगं रक्षण यत्नतः || मणिपूरं सदा पातु वधुबीजं विशेषतः | अनाहतं वर्मबीजं पातु मे सर्वसर्वतः || २३२ब्) अस्त्राणि सर्वदा पातु विशुद्धं कण्ठभूषितं | शेषस्तु पातु मे नित्यमाज्ञा स्थानं द्विपत्रकं || शीर्षम्या तु तारा जटाजटा पातु सदाननं | नीलसरस्वती पातु वधुबीजं स दैव हि || स्तनद्वयं सदा पातु कुर्चविघ्न विघातकं | रसना मे सदा पातु लक्ष्मीद्देवी च सास्वती || रसानाग्रं सदा पातु सरस्वति प्रयत्नतः | रतिः पातु सदा बीजं प्रीति कम्मे वदनं सदा || कीर्तिः कीर्तिं सदा पातु शान्तिंः शान्तिंः सदावतु | पुष्टिर्म पातु पुष्टं चं तुष्टिं तुष्टिः सदावतु || वैरोचनः पातु शंखं शंख पूर्वस्तथैवचः | पातुलोमे सदागण्डं पातु नित्यं च सर्वसः || २३३अ) पद्मनाभः सदा पातु नाभिमेदशपत्रकं | असिताभः पातु लिंगः नामकः पातु चतुषी || मामको मे तथा हस्तै ग्रीवा मे पातु पाण्डरः | तरक्वः पातु हृदयं पृष्ठं पद्मान्तको मम || पाश्वद्वन्तं सदा पातु मयान्तक नरान्तको | चरणै मे पातु नित्यं विघ्नान्तक सदाङ्कयः || तार मे पातु सततंमष्टांगं परमेश्वरीः | इदंन्तु कवचं देव कथितं मन्मुखात्सृतं || प्रमादाद्यदि देवेश यत्र कुत्र पकाश्यते | योगिनीभिस्तदाहन्तु स्वयं च वेधकारिणी || दद्याच्छान्ताष शिष्याय तन्त्रमन्त्र युताय च | गुरुभक्ति युन्म चैव तदा सिद्धिरनुत्तमा || रहस्यं कथितं सर्वं मनन्त फलदायकं | २३३ब्) गोपितव्यं त्वया देव न प्रकाश्यं कदाचनः || इति श्रीयोगिनी तन्त्रोक्तैक जटाकवचं समाप्तंः || २ || अथ च्छीन्नमस्ताकवचं || श्रीभैरव्युवाच || कथितास्छिन्नमस्ताया या विद्याः सुगोपिताः | त्वया नाथेन जीवेश श्रुता च गदिता मया || इदानिं शोतुमिच्छामि कवचं पूर्वसूचितंः | त्रैलोक्यविजयंन्नाम कृपया कथ्यतां विभो || भैरवोवाच || शृणु वक्ष्यामि देवेशि सर्वदेव नमस्कृते | त्रैलोक्य विजयन्नाम कवचं शर्वमोहनं || सर्वविद्या मयं साक्षात् सुरासुर जय प्रदंः | धारनात् पवनादी शस्त्रैलोक्यं विजयी विभुः || ब्रह्माणारायणरुद्रधारणात् पंवनाद्यतः | २३४अ) कर्ता पाता च संहर्ता भुवनानां सुरेश्वरि | न देयं परसिख्यत्यप्य भक्तेभ्यो विशेषतः || दियं शिख्योय भक्ताय प्राणेभ्योप्यधिकाय च | देव्याश्च च्छिन्नमस्ताया कवचस्य च भैरवः || ऋषिसंप्राविरातच्छन्द्रो देवताच्छिन्न मस्ताका | त्रैरुक्यविजयमुक्तो विनियोगः प्रकीर्तितः || हुंकारो मे शिरः पातु च्छिन्नमस्ता नल प्रभा | ह्रीं हूं ऐं श्वक्षरी पातु भालं रक्तदिगंवरी || श्रीं क्रीं हू ऐं दृपाणो तु मुंडेक त्रिधरापि सा | सा विद्या प्रणवाद्यंता शुचि युग्मं सदावतु || वज्रवैरोचनी हुं हुं फट् || स्वाहा ध्रुवादिकः || प्राणं पातु चिन्नमस्तां स्वमुण्डक त्रिधारीणी | श्रीमाया कुर्चवाग्वीजे वज्रवैरोचनीये हुं || २३४ब्) हुं फट् स्वाहा महाविद्यां षोडशी ब्रह्मरूपीणी | स्वपार्श्वे कलिकाभ्यां स्वामृग्यारांविततीमुदा || वेदनं सर्वदा पातु च्छिन्नमस्ताशसक्तिका | मुद्राकविधरारक्ता साधकाभीष्टदायिनी || वर्णीनी डाकीनि युक्ता सापि मामभितोवतु | च्छिन्नमस्ताशसक्तिका || रमाद्या पातु जिह्वां च लर्ज्जा पतुटाकंटक | कुर्चद्या हृदयं पातु वागाद्यास्तनयुग्मकं || रमया पुटिता विद्या पश्वौ पातु सुरेश्वरी | मायया पुटिता पातु नाभिदेशं दिगम्वरीं || कुर्च न पुटिता देवी पृष्ठदेशे सदावतु | वाग्बीजं पुटिता चैव मध्य पातु स शक्तिकः || ईश्वरी कुर्च वाग्बीजं वज्रवैरोचनीय हुं | फेत् स्वाहेति महाविद्या कोटिसूर्य समप्रभाः || २३५अ) च्छिन्नमस्ता सदापायादुरुयुग्मंसशक्तिका | ह्रां हुं ह्रीं वर्णिनी जानुं श्रीं ह्रीं हूं डाकिनी पदं || सर्वविद्या स्थिता नित्या सर्वांगं मे सदावतु | पाच्यांपायादेकलिंगा योगिनि पावकवतु || दाकिणि दक्षिणे पातु श्रीश्रीमहाभैरवी पातु भैरवी पश्चिमेव तु भै | इद्राक्षी पातु वायव्येसितां मा पातु चात्तरे || संहारिनि सदा पातु शिव कोणे सवर्त्रिका | इत्यष्ट सकयः पातु दिग्वीदिक्ष सकत्रिकाः || क्रीं क्रीं क्रीं मां पातु पूर्व हूं हूं मां तु पवके | ह्रीं ह्रीं मां दक्षिणे कालिकेव तु || क्रीं क्रीं क्रीं चैव नै-ऋत्यां हुं हुं मां पश्चिमेव तु || ह्रीं ह्रीं पातु मुरुत्कोणे स्वाहा पातु सदोभरे | महाकाली खड्गहस्ता इशकोणे सदावर्तारो मायावधुकूर्च फट्कारोयं महामनुः || २३५ब्) खड्गकत्रिधरापराचोध्व देशं सदावतु | ह्रीं स्त्रीं हूं चैव पाताले पातु नीलसरस्वतीः || इति ते कथितं देव्याः कवचं मन्त्रविग्रहं | यद्धृत्वा पवनाद्भीमः क्रोधाख्या भैरवः प्रभुः || सुरासुरमुनिद्राणां कर्ताहर्ता भवेत् स्वयं | यस्याग्यायामधुमति सा साधकान्तिकं || भूतिन्याद्याश्च यक्षिण्यो डाकीन्याद्याश्वरे वेचराः | आज्ञा कुर्वतितास्तस्य च्छिन्ना देव्याः प्रसादतः || एत देव परं ब्रह्म कवचं तन्मुखोदितं | देविमभ्यर्च्य गंधाद्यैः मूले नैवं पत्सकृत् || संवसर कृतायान्तु पूजाया फलमाप्नुयात् | भुजे विलिखितं चैतद्गुटिकांचन स्थितं || धारयेद् दक्षिणे भागे कंवेया यदि भाग्यतः | सर्वेश्वर्य युतो भूत्वा त्रैलोक्यं वशमानसत् || तस्य गेहे वसेल्लक्ष्मीर्वाणी चदननांवुजे | ब्रह्मस्त्रादीनी शास्त्राणि तङ्गात्रे यान्ति भग्नतां || २३६अ) इदं कवचमज्ञात्वा योजपेच्छिन्नमस्तकां | सोपिसस्त्र पहारेण मृत्युं प्राप्नोति सत्वरंः || इति श्रीभैरवतेस्त्रे भैरवभैरवीसंवादे च्छिन्नमस्ताकल्पे त्रैलोक्यविजयं नामस्ताराकवचं समाप्तं || २ || अथ महात्रिपुरसुन्दरी कवचमाह || श्रीदेव्युवाच || भगवं देवदेवेशि लोकानुग्रहकरका | त्वत् प्रसादान् महादेव श्रुतामन्त्रास्त्वनेकधा || साधनं विविधं देवकीरकोर्द्धारणन्तथा | पाशादि दुषणोर्द्धारः श्रुतस्त्वत्तो मया प्रभो || राजराजेश्वरि विद्याः कवचंः शुचितं मयि | श्रोतुमिच्छामि तत्वर्तत् कथयस्व मयी प्रभो || श्री इश्वर उवाच || लक्षवालसहस्राणि वारितासि पुनः पुनः | स्त्रीस्वभावान् महादेवी पृच्छसित्वंम प्रिये || अभ्यन्त कवचं गुप्तं सर्वकामफलप्रदं | पीतये तव देवेशि कथयामि शृणुष्वत् || २३६ब्) अस्य श्रीषोडशी विद्या कवचस्य रीषि स्मृतः | महादेवश्च प्रस्तार पक्तिच्छन्द्रदाहृतं || राजराजेश्वरि देवि देवता परीकीर्तिताः | सर्वार्थ साधन देवि विनीप्रोयोग प्रकीर्तिताः || पूर्वमां भैरवी पातु वालामां पातु त्रासिनी तत्तरेव तु त्रासिनी तूत्तरेव तु || उर्द्धं पातु महादेवि महात्रिपुरसुन्दरीः | अधस्तान्पातु देवेशी पातालातलवासिनी || आधारे वाग्भवः पातु कामराजस्तथा हृदि | भ्रामलः पातु मा नित्यं मस्तके सर्वकामदः || ब्रह्मरन्ध्र सर्वगात्रैच्छिन्द्रस्थाने च सर्वदाः | माहाविद्या भगवती पातु मां परमेश्वरि || ऐं क्लीं ललाटे मां पातु पायात् ह्रीं क्लीं व्लूं सश्व नेत्रयोः || नासायां वर्णयोश्चैव द्रां द्रं द्रीं चिबुक तथाः || सौंः पातु गले हृदये मनु सः क्रीं नाभिशके || २३७अ) कल ह्रीं क्लीं स्त्रीं गुह्य देशे स ह्रीं पातु पादयोः | स ह्रीं मां पातु सर्वत्र म क्लीं मां पातु मे सन्धिषु || जले स्थले तथा काशि दिक्षुराज गृहे तथा | हूंखे मां त्वरिता पातु स ह्रीं स क्रीं मनोभवां || हंशश्च पायान्महादेवि परं निस्कर देवताः | विजयामंगलादुता कल्याणी भगमालिनी || ज्ञाना च मालिनी विद्या सर्वदा पातु मा शिवा | इत्येव कवचं देवि देवानामपि दुर्लभं || तव प्रीत्या मयाख्यातं गोपनीयं प्रयत्नतः | इदं रहस्यं परमं गुह्याद्गुह्यतरं प्रियेत् || धान्यं यस्य मायुग्मं भोगमोक्ष प्रदं शुभं | दुःस्वप्ननासनं पुमां नरनादि वशंकरं || आकर्षण करं देवि स्तम्भार्चाटकरं शिवेः | २३७ब्) इदं कवचमज्ञात्वा राजराजेश्वरि शिवां | योर्चयेत् योगीनी वृन्दैः भक्षा नात्रयसंशये || न तस्य मन्त्र सिद्धि स्यात् कदाचिदपि शांकरिः | इह लोके च दारोगदुःख भयानि च || परत्र नरकं गत्वा पशुयोनिमवाप्नुया | तस्मादेतत् सदा भ्यासादधिकारी भवेत् ततः || मद्वक्त्र निर्गतमिदं कवचं सुपुण्यं पूजा विधिश्च पुरतोपि निधानायथे तयः | सौभाग्य भोगललितानिशुभानिभुक्ता देव्याः पदं भजति तत्पुनरन्त काले || इति कुलान्तसंहितायां श्रीमहात्रिपुरसुन्दरी षोडशी कवचं संपूर्णं || अथ त्रिपुर भैरव्यै || श्रीपार्वत्युवाच || देव देव महादेव सर्वशास्त्र विशारद | कृपां कुरु जगन्नाथ धर्मज्ञासि महामते || सुन्दरी या पुरा प्रोक्ता विद्या त्रिपुर भैर्विकाः | २३८अ) तस्यास्तु कवचं दिव्यं मह्ये कथय तत्वतः | तस्यास्तद्वचनं श्रुत्वा जगादजगदीश्वरी || अभुतं कवचं देव्याः सुन्दर्यादि विरुपिपैः | श्री इश्वरवाच || कथयामि महाविद्या कवचं सर्वदुर्लभं | शृणुष्वत्वं च विधिना श्रुत्वा गोप्यं तोयपि तत् || यस्याः प्रसादान्मकंलं विभर्मि भुवन त्रयं | यस्याः सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति || मतापिता जगन्मान्या जगद्रक्षास्वरूपिणी | सिद्धिदात्री च सिद्धास्यादसिद्धादुष्ट जन्तुषु || सर्वभूत हितकरी सर्व भूतस्वरूपिणी | ककारः पातु मां देवी कामिनी कामदायिनी || ऐं काली पातु मां देवी मूलाधालार स्वरूपिणी | इकाली पातु मां देवी रवि सर्वस्तु स्वः प्रदा || लकारि पातु मां देवि इद्राणी वरवल्लभा | ह्रीं काली पातु मां देवी सर्वत्र? शंन्तु(?) सुन्दरी || २३८ब्) एतै वर्णैर्महामोहा शाम्भवी मस्तकं भुव | कपाले पातु मां देवि सर्वाणी हर गेहिनी || मकाले पातु मां देवी सर्वपाप प्रणासिनी | ककारे पातु मां देवि कामरूप धरास्तदा || ककाले पातु मां देवि शम्बरारि प्रिया सदा | लकाली पातु मां देवी धराधरणि रूपधृक् || ह्रीं काली पातु मां देवी शंकारार्द्ध शरीरिणी | एतै वर्णै महामाया पातु शक्ति स्वरूपिणी || वाग्भवं मस्तकं पातु वदनं कामराजिका | शक्तिस्वुरूपिणी पातु हृदयं मन्त्रसिद्धिदा || सुन्यरी सर्वदा पातु सुन्द्ररी परिरक्षतु | रक्तवर्ण सदा पातु सुन्दरी सर्वदायीणि || नानालंकारसंयुक्ता सुन्द्ररी पातु सर्वदाः | सर्वांगसुन्द्ररी पातु सर्वदा || २३९अ) सर्वागसुन्दरी पातु सर्वत्र शिवदायिणी | जगदा ह्लादजननी शंभुरूपा च मां सदा || सर्वमन्त्रमयी पातु सर्वसौभाग्यदायिणी | सर्वलक्ष्मी मयी देवी परमानन्ददायिनी || पातु मां सर्वदा देवी नानाशंखा निधिः शिवा | ततः पद्म निधिद् देवि सर्वणी सर्वदायिणी || दक्षिणामूर्ति मां पातु ऋषिः सर्वत्र मस्तको पंक्तिः च्छन्द्र स्वरूपा च मुखे पातु सुरेश्वरी | गंधाष्टकात्मिका पातु हृदयंन्ति शन्तरी सदा | सर्वसन्मोहिनी पातु संक्षोभिणी सदावतु || सर्वविद्राविणी पातु सर्वाकर्षणकारिणी | सर्वा कर्षणकाह्लाद करी पातु सर्वसक्षोभिणी सदा || सर्वसिद्धि प्रदा पातु सर्वाकर्षण कारिणी | क्षोभिनी सर्वदा वशीनि मां सदावतु || आकर्षिणी सदा पातु संमोहिनी सदावतु | रतिद्देवी सदा पातु भगा मां सर्वदावतु || २३९ब्) महेश्वरी सदा पातु कौमारी सर्वदावतुः | सर्वा ह्लादन काली मां पातु सर्ववशंकली || क्षेमंकरी सदा पातु सर्वांग सुन्दरी सदा | सर्वांग युवतिः पातुः सर्वसौभाग्यदायिणी || वाग्देवी सर्वदा पातु वाणिनी सर्वदावतु | वशिनी सर्वदा पातु महासिद्धि प्रदा सदा || सर्वविद्राविणी पातु गणनाथः सदावतुः | दुर्गा देवी सदा पातु वटुकः सर्वदावतु || क्षेत्रपालः सदा पातु चाधारशक्तिका | अनन्तः सर्वदा पातु वाराहः सर्वदा पातु || पृथिवी सर्वदा पातु स्वर्णसिहासनं तथा | रक्तामृदं च स पातु मा सर्वकालतः || सुधार्णिवः सदा पातु कल्पकृक्षेः सदावतु | श्वेतच्छत्रं सदापातु रक्तदीप सदावतु || २४०अ) नन्दनोद्यान सततं पातु मां सर्वसिद्धये | दिकपालाः सर्वदा पातु इद्राद्याः सकला तथा || वाहानानी सदा पातु अस्त्राणि पास्तु सर्वदा | शस्त्राणि सर्वदा पान्तु योगिनीन्यः पातु सर्वदा || सिद्ध्यः पांतु सदा देवी सर्वसिद्धि प्रदावतु | सर्वाङ्ग सुन्दरी देवी सर्वत्र सर्वदावतु || आनन्दरूपिणी देवी चित्स्वरूपा चिदात्मिका | सर्वांगसुन्दरी पातु सुन्द्ररी भव सुन्दरी || पृथग् देवालये घोरे संकटे दुर्गमे गिरौ | अरस्य प्रान्तरे वापि पातु मां सुन्दरी शिवा || इदं कवचमित्युक्तं मन्त्रोद्धारश्च पार्वति | यः पठेन् प्रयतो भूत्वा त्रिसंध्यंतियेतः शुचिः || तस्य सर्वार्थ सिद्धिस्याः स्याद्यद्यन्मनसि वर्तते | गोरोचना कुंकुमेन रक्तचन्द्रनकेन वा || स्वयंभू कुसुमैः शुक्लै भूमि पुत्रे शनिश्चरे | २४०ब्) श्मशाने प्रातरे वापि शुन्यागरे शिवालये | सक्त्य गुरुणा यन्त्रं पूजयित्वा कुमारिका || तन्मनुं जपयित्वा च गुरुपक्ति विशेषतः | पूजयित्वा यथाशक्त्या स्तुत्वा च विविनासुरा || धारयेद् गुरुणा यन्त्रं पूजयित्वा कुमादिका | तन्यौनौ पूजयित्वा च गुरुपक्तिं तथैव च || देव्यै वलिं निवेद्याथ नरमाजारसुकरैः | नकुलै महिषैर्मेषैः पूजयित्वा विधानतः || धृत्वासुव्वर्णमध्यस्थं कंठे वामस्तके भुजे | सुतिथौ शुभनक्षत्र सूर्यस्योदयेने तथा || धारयित्वा च कवचं सर्वसिद्धीं लभेन्नरः | कवचस्य च महात्म्यं नाहवर्षशतैरपि || शक्तोमि तु महेशानि वक्तुं तस्य फलं च तत् | २४१अ) नास्ति चौर भयं तस्य न तत्रा व्याधि पाडनं | न दुर्भिक्ष भयं तत्र न च पीडनं सदा || विघ्न प्रशमनं सर्वं सर्वव्याधि विनासनं | सर्वलक्षाकरं जम्भोश्चतुवर्गा फलप्रदं || यत्र तत्र न वक्तव्यं न दातव्यं कदाचन | मन्त्रं प्राप्य विधानेन पूजयेत् सततं सुधी || तत्रापि दुल्लभं मन्य कवचं देवरूपिणं | गुरोः प्रसाद्या प्राप्रेसुगोपितं || तत्रापि कवचं दिव्यं दुल्लभं भुवन त्रये | श्लोकं वास्तवमेकं वा यः पठेन् प्रयतः शुचिः || तस्य सर्वार्थ सिद्धि स्याच्छंकरेण प्रभाषितं | गुरु देवो हरसाक्षात् पर्त्ती तस्य च पार्वती || अभेदन यजेद् यस्तु तस्य सिद्धि न दूरतः | इति श्रीविश्वसार तन्त्रे त्रिपुरभैरवई कवचं समाप्तं || २४१ब्) अथ लक्ष्मी कवचं || अथ वक्ष्य महेशानि कवचं सर्वकामदं | यस्य विज्ञानमात्रेण भवेत् साक्षात् सदाशिवः || अर्चनं पूजनं तस्या मन्त्रजापं जपेन् नरः | सभेत् पार्वती पुत्र सर्वशास्त्र पुरस्कृतः || विद्यावतार्थिना सेव्या विशेषविष्णुवल्लभा | अस्य श्रीचतुरक्षरी विष्णुवतिता कवचस्य भगवान् श्रीणिव ऋषिः अनुष्टुप्छन्दः वाग्भवी देवता वाग्भवीजं लर्जाशक्तिः रमाकीलकं कामबीजान्मकं कवचं ममस्वकवित्वपांडित्य सर्वसिद्धि समृद्धये विनियोगः || ऐंकारो मस्तके पातु वाग्भबीजं द्विर्धीदा | ह्रीं पातु चक्षुयो मध्ये चक्षुयुग्म च शाकरी || जिह्वायां मुखवृत्ते च कणवाणसिते ओष्टाधरे दन्तपक्तौ तालुमूले हलौ पुनः || २४२अ) पातु मां विष्णुवतिता लक्ष्मीः श्रीवर्णरूपिणी | कर्णयुग्म भुजद्वन्द्वे पेच पार्वति || हृदयमणि वन्ध चमीवायां पार्श्वयोः पुनः | पृष्टदशे तथा गुह्ये वामे च दक्षिणे तथा || उपत्थे च नितम्बे च नाभौ जंघ द्वये पुनः | जानु चक्रे पदद्वंद्व गुतिकेगुलिमूलके || स्वधा तु प्राणशक्त्यां मे सीमंत्यां मस्तके पुनः | सर्वाङ्गपाकामेशी महादेवी समुन्नतिः || पुष्टियातु महामाया उत्कृष्टिः सर्वदावतु | व ऋषिः पातु मे देवि सर्वत्रस्तु वर्लभा || वाग्भवी सर्वदा पातु पातु मां हर गेहिनी | रमा पातु सदा देवी पातु माया स्वरास्वयं || सव्वागे पातु मां नित्युमुग्रतारा शतावतु | पातु मां कालिका नित्यं कालरात्रिः सदावतु || २४२ब्) नवदुर्गा सदावतु कामाख्या सर्वदावतु | योगिन्यः सर्वदा मम महालक्ष्मी सदा मम || मात्रां यान्तु सदा देव्याश्च कुष्ठां योगिनीगना | सर्वत्र संर्वकार्यषु सर्वकर्म सदार्वदा || पातु मां देवदेवेशी लक्ष्मी सर्वसमृद्धिदा | इति ते कवचं दिव्यं कथितं सर्वसिद्धयेत् || यत्र यत्र न वक्तव्यं यदिच्छेदान् सनोहितं | शठाय भक्तिहीनाय निन्दकाय महेश्वरी || न्यूनांगे नानि रिक्त न दर्शयन्न कदाचन | नस्तवंशर्य ये दिव्यं सदश्य शिवहा भवेत् || कुलीनाय महेशाय दुर्गाभक्ति पराय च | वैष्णवाय विशुधाय दद्यात् कचमूर्तमं || निजशिष्याय शान्ताय धर्मिणे ज्ञानिते तथा | शनौमंगल च नन्दकैश्च लिखेन् मन्त्रं || सर्वमत्रसमन्वितं || वलिखेत् कवचं दिव्यं स्वयंभू कुसुमैः शुभैः || २४३अ) श्वशुकैः परशुक्तैश्च नानागन्धसमन्वितैः | गोरोचनाक्तं मुमेनरक्तचन्द्रनके नवा || सुतिथौ शुभयोगे वा श्रवणायां रवे दिने | अश्विन्यां च मघासु च पूर्वभद्र पदा यागे स्वाभ्यां मंगलवासरे || विलिखेन् प्रपठे स्त्रोत्रं शुभयोगे सुरालये | आयुष्माम्प्रीति योगे च ब्रह्मयोगे विशेषटः || इद्रयोगे शुभे योगे शुक्लयोगे तथौव च | कौलवे वालंवे चैव वनिजे चैव सत्तमः || शून्यागारे श्मशाने वा रिजते च विशेषतः | कुमालि पूजयीत्वा च जयेद् देवीं सनातनीं || मत्स्योर्मांसैः शाकसूपैः पूजयेत् पर देवतांः | घृताद्यैश्चोपकरणै धूपदीपै विशेषतः || ब्रह्माणाम्भोजयित्वा च पूजयेत् परमेश्वरि | २४३ब्) आषेटकमुपाख्यानं तत्र कुर्याद् दिन त्रयं | तदा भवेन् महारक्षा शंकरेण च भाषितं || मारणा द्वेषणादीनिलभंते नात्रसंशयः | स भवे पार्वती पुत्रः सर्वाशास्त्र वहिःकृतः || गुरु देवो हरसाक्षात् पत्नी तस्य हर प्रिये | अभेदेन यजेद् यस्तु तस्य सिद्धिर्न दूरतः || पठति य इहमत्यो विस्मिमाद्रा तरात्मा जपफलमनुमेनं लप्सते सो विधि यं | स भवति पदमुच्चैः संपदां पादनम्नः क्षिति पद नम्नः क्षिति पन्यु कुटलक्ष्मी लक्ष्माणानां चिरायः || इति श्रीविश्वसारतन्त्रे लक्ष्मीकवचं संपूर्णं || अथ मातंगीनी कवचं || श्रीभैरव उवाच || शृणु देवि प्रवक्ष्यामि मांतंगी कवचं शुभं | २४४अ) गोपनीय महादेवि मौन जाप्यं समाचरेत् | श्रीदेव्युवाच || साधु साधु महादेव कथयस्व महेश्वरः | येन सम्यग् विधानेन साधकानां जयं भवेत् || विणाध्यानं विधाना मन्त्रं विना होमं विना वलिं | येन स्मरन मात्रेन साधको धरणि पती || श्रीभैरव उवाच || मातंगी कवचं दिव्यं सर्वरक्षा करं नृणां | कवित्वं च धनित्वं गगजिसुखानि च मुखं शुभदं सभ्य मणिमादि प्रदायकं || ब्रह्मविष्णु महेशानि तेषामाद्या महेश्वरी | श्लोकार्द्धा श्लोकमेकं वायस्तु सम्यकाठेन्नरः || तस्य हस्ते सहै वास्ति राजलीक्ष्मी न संशयः | उच्छिष्ट वदना भूत्वा कमलासनसंस्थितः || योनि मुद्रा कले वध्वा शक्ति ध्यान परायन | ब्रह्मरन्ध्र सन्मत्यस्तैलोक्यैश्वर्या भाग्भवेत् || २४४ब्) त्रैलोक्यमंगलसांस्य कवचं मन्त्रविग्रह || सिद्धि विद्या मे देवि सर्वैश्वर्य प्रदायकं | कवचश्यमिषी शिवः || छन्दो विराट् जगर्द्धात्रि देवता भुवनेश्वरी | धर्मकामार्थ मोक्षाषु विनियोगः प्रकीर्तिताः || ह्रीं बीजं मे शिरे पातु ऐं भुनेशी ललाटकं | ऐं पातु रक्षनेत्रं मे ह्रीं पातु वाम लोचना || श्रीं पातु दक्षकर्ण मे त्रिवर्णा महेश्वरी | वामकर्ण सदा पातु ऐं घ्राणां पातु मे सदा || ह्रीं पातु वदनं देवी ऐं पातु रसनां माम | वाक् त्रिपुमा त्रिवर्णान् मा कण्ठ पातु पातु पराम्बिका || श्री स्कंधौ पातु नियतं ह्रीं पातु भुजा सर्वदा | क्लीं कलौ त्रिपुरेशानि त्रिपुटैः स्वर्यहायिनी || आं पातु हृदयं ह्रामे मध्ये देशं सा त्र्यक्षरी भुवनेश्वरी | Fओलिओ ४५-४६ नोत् fओउन्द् २४७अ) सर्वबीजं सदा पृष्ठं पातु सर्ववशंकरीः || ह्रीं पातु गुह्य देशं मनमो भवगवती कटिं | माहेश्वरि सदा पातु शक्तिबीजानु युग्मकं || अर्णं पूर्णा सदा पातु स्वाहा पातु पद्वयं | सामां दशाक्षरी पायादन्नपूर्णाखिलं वपुः || तारं मायारमाकामः षोडशार्ण्य ततः परं | शिरस्था सर्वदा पातु विशस्वन्ना स्थिता मुदा || तारं दुर्गे युगं रक्ष स्वाहेति चत?न्दक्षिरी | जये दुर्गा घनस्याम पातु सां सर्वतो भवे || मया बीजांदिका चैषा दशार्णा च ततः पराः | शिरस्था सर्वदाः पातु विश्वर्त्यन्ना स्थिता मुदा || तारं दुर्गे युगं रक्ष स्वाहति च दशाक्षरी | जय दुर्गा च न श्यामा पातु मां सर्वतो मुदा || माया बीजा शिर पातु दसवर्णा च तः परा | २४७ब्) प्रतप्तकांचना भासा जयदुर्गा ननवतु | तारं ह्रीं दुदुःर्गायै नमोष्टवर्णन्मिका पारा || शंखचक्रधुनुव्यार्ण धरा मां दक्षिणेवतु | महिषमर्दनी स्वाहा वसुवर्णामिका परा || नै-ऋत्या सर्वदा पातु महिषासुरनासिनी | माया पद्मावती स्वाहा सप्तार्णा परीकीर्तिता || पद्मावती पद्मसंस्था पश्चिमे मां सदा पातु | पाशांकुश पुटामायै हिमरपरमेश्वरि स्वाहा || जयो दशाक्षारार्णाद्या साश्वरुधाननेव तु | सरस्वति पञ्चशरो नित्या क्लिन्ने मद द्रवे || स्वाहारत्यक्षरी नित्या मानुत्तर सदावतु | तारं माया कवचं खेचरक्ष ततो वधु || क्रू-ओं क्ष ह्रीं फट् महाविद्या द्वादशार्णाखिल प्रदा | २४८अ) अरिष्टादिभिः पायाच्छिव काणे सदा च मां | ऐं क्लीं सौंः साततीवालामामुर्द्धा दशेतोवतु || विन्द्वन्ता भैरवी वाला भूमौ मां सर्वदावतु | इति ते कथितं पुण्यं त्रैलोक्य मंगलं परं || सारारतरं पुण्यं महाविद्मौघ विग्रहं | अस्यापि पठनात् सद्यः कुवेरोपि धनेश्वरः || इद्राद्याः सकला देवा धारणात् पठनाद्यतः | सर्वसिद्धिश्वराः सन्तः सर्वैश्वर्यमवाप्नुया || पुष्पाञ्जल्यष्टकं दद्यान् मूले नैव पृथक् पृथक् | संवल्सरशतायास्तु पूजाया फलमाप्नुयाः || प्रीतीमन्यान्यतः कृत्वा कमलाशिश्वला गृहः | वाणी च निवसेद्वक्त्रे सत्यं सत्यं त्वमंशयः || योधारयति पुण्यान्मात्रौ लोक्यमंगलाभिध | २४८ब्) कवचं परमं पुण्यं सोपि पुण्यवतांवरः | सर्वश्वर्य युतो भूत्वा त्रैलोक्य विजयी भवेत् || पुरुषो दक्षिणे वाहौ नाली वाम भुजे तथा | वहु पुत्रवती भूत्वा वंध्यापि लभते सुतं || ब्रह्मास्त्रादिणि नैवदं शान्तितंजनं | एतत् कवचमज्ञात्वा जानुजा भुवनेश्वरीं || दारिद्र्यं परमं प्राप्य सो चिरान् मृत्युमाप्नुया | इति श्रीरुद्रयामले देवी ईश्वरसंवादे त्रैलोक्यमंगलं नाम भुवनेश्वरी कवचं संपूर्णं || अथ धूमावतीकवचमाहः || पार्वत्युवाच || देवदेवं महादेव भक्तानुग्रहकारकः | धूमावत्याश्रु कवचं तु ब्रुहि मे करुणा निधे || महादेव उवाच || अस्ति गुह्यतमं लोके कवचं शत्रु निग्रहं | सर्वस्थित प्रदं देवि तव स्नेहां प्रकाश्यते || २४९अ) यच्छुत्वारामचन्द्रेण संगरे रावने हतः | भोगवेणपि यछुत्वाजितं सर्वं चराचसं || तमेव कवचं वच्मि सावधानावधारय | कवचस्य महादेवि पिप्यद ऋषिः स्मृतः || च्छन्द्रो विराट् देवता च श्रीमद्धुमवती प्रिये | शत्रुणां मारणा देवि विनीयोगः प्रकीर्तितः || तु धूमावतां सदा पातु शिरो मे शत्रु मर्दिनि | चण्डरूपा महादेवी ललाट पातु मां सदा || क्षुक्षा मां नयने पातु पातु मा श्रुती ममः | काक ध्वजा नासिकां मे सर्वशत्रु विनाशीनी || प्रणम्वी सदा पातु वदनं मुण्डमालिका | विकृतास्या सदा पातु गलं मे रिपु सुन्दरी || धूं बीजं ख्या सदा पातु घाट मे रिष्टितारिणी | स्कधौकंकालि समाप्तं अपूर्णमस्ति ########### END OF FILE #######