#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00029 Uniform title: kramadīpikā Secondary title: tantrasārādivividhatantrasaṃgraha Author : śrīrasikamohana caṭṭopādhyāya Description: Originally published in Bengali script Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: Publisher : kalikātā Publication year : Pre-1900 Publication city : Publication country : India #################################################### ******************************************************************************************** * * क्रमदीपिका * * Pउब्लिस्हेद् इन् Bएन्गलि छरच्तेर्स् ब्य श्रीरसिकमोहन चट्टोपाध्याय * इन् थे तन्त्रसारादिविविधतन्त्रसंग्रह * * रेविसिओन् ० षेप्त्. १९, २००७ * * * * * * ःअर्वर्द्-Kयोतो त्रन्स्लितेरतिओन् * ********************************************************************************************* कलान्तमायालवकान्तमूर्त्तिः क्वणत्क्वणद्वाणीनिनादरम्यः (-वणु-) | श्रितो हृदि व्याकुलयंस्त्रिलोकीं श्रियेऽस्तु गोपीजनवल्लभो वः || गुरुचरणसरोरुहद्वयो ण्या?न् महितरजः कणकान् मूद्ध्ना | गदितमिह विविच्य नारदाद्यैर्यजनविध्ं कथयामि शार्ङ्गपाणेः || क्षितिसुरनृपविट्तुरीयजानां मुनिवनवासिगृहस्थवर्णानाञ्च | जपहूतयजनादिभिर्मनूनां फलति हि कश्चन कस्यचित् कथञ्चित् || सर्वेषु वर्णेषु तथाश्रमेषु नारीषु नानाह्वयजन्मभेषु | दाता फलानामभिवाञ्छितानां द्रागेव गोपालकमन्त्र-एषः || न्यूनमच्युतकटाक्षपातने करणं भवति भक्तिजञ्जसा | तच्चतुष्टयफलाप्तये ततो भक्तिमानधिकृतौ हरौ गुरौ || स्नातोनिर्मलसूक्ष्मशुद्धवसनोधौताङ्घ्रिपाण्याननः स्वचान्तः सुपवित्रमुद्रितकरः श्वेतोर्द्ध्वपुण्ड्रोज्ज्वलः | प्राचीदिग्वदनो निवध्य सुदृढं पद्मासनं स्वस्तिकं स्वासीनः स्वगुरुन् गणाधिपमथो वन्देत् वद्ध्वाञ्जलिः || ततोऽस्त्र मन्त्रेण विशोध्य पाणी त्रितालदिग्वन्धहूताशशालान् | विधाय भूतात्मकमेतदङ्गं विशोधयेच्छुद्धमतिः क्रमेण || ओडा?वक्त्ये धूम्रं सततगतिवीजं सलवकं स्मरेत् पूर्वं मन्त्री सकलभूवनोच्छोषणकरम् | स्वकं देहस्तेन प्रततवपूषापूर्य सकलं विशोष्य व्यामुञ्चेत् पवनमथ मार्गेण खमणेः || तेनैव मार्गेण विलीनमारुतं वीजं विचिन्त्यारुणमाशुशुक्षणेः | आपूर्य देहं परिदह्य वामतो मुञ्चेत् समीरं सह भस्मना वहिः || टपरमतीवशुभ्रममृतां शुपथेन विधुं नयतु ललाटचन्द्रममुतः सकलार्णमयीम् | लपरजपान्निपात्य रचयेच्च तया सकलं वपुरमृतौघवृष्टिमथ वक्त्रकराद्यमिदम् || शिरोवदनवृत्तदृक्श्रवणघोणगण्डोष्ठदन्तद्वयेषु सशिरोमुखेषु च इति क्रमाद्विन्यसेत् | हलश्च करपादसन्धिषु तदग्रकेष्वादरात् सपार्श्वयुगपृष्ठनाभ्यु- दरकेषु षाद्यानथ | हृदयकक्षककुत्करमूलदोःपदयुगोदरवक्त्रगतान् वुधः | हृदयपूर्वमनेन पथान्धहं न्यसतु (प्. २) शुद्धकलेवरसिद्धये | इत्यावचर्य वपुरर्णशतार्द्धकेन सार्द्धक्षपेशसविसर्गकशोभयैस्तैः | विन्यस्य केशवपुरः सरमूर्त्तियुक्तैः कीर्त्त्यादिशक्तिसहितैर्न्यसतु क्रमेण | अथ कथयाम्यर्णानां मूर्त्तीः शक्तीः समस्तभुवनमयीः | केशवकीर्त्ती नारायणकान्ती माधवस्तथा तुष्टिः || गोविन्दः पुष्टियुतो विष्णुधृती सूदनश्च मधवाद्यः शान्तिः | त्रिविक्रमश्च क्रिया पुनर्वामनो दयायुक्तः || श्रीधरयुता च मेधा हृषीकनाथश्च हर्षया युक्तः | अम्वुजनाभश्रद्धे दामोदरसंयुता पुनर्लज्जा || लक्ष्मीः सवासुदेवा सङ्कर्षणः सरस्वतीयुक्तः | प्रद्युम्नः श्रीतिसमेतोऽनिरुद्धकोरतिरिमाः स्वरोपेताः || चक्रिजये गदिदुर्गे शार्ङ्गी प्रभयान्वितस्तथा खड्गी | सत्या शङ्खी चण्डा हलिवाण्यौ मूषलियुग्विलासिनिका || शूली विजया पाशी विरजा विश्वान्वितोऽङ्कुशी भूयः | विनदा मुकुन्दयुक्ता नन्दजसुनदे स्मृतिश्च नन्दियुता || नर-ऋद्धी नरकजिता समृद्धिरथ शुद्धियुग्घरिः | कृष्णोवुद्धियुतः सत्ययुता शक्तिर्मतियुक् सात्वतः शौरिः | क्षमया शूरो रमया जनार्दनोमा च भूधरः क्लेदी | विश्वादिमूर्त्तियुता क्लिन्ना वैकुण्ठयुक् तथा वसुधा | पुरुषोत्तमश्च वसुदा वलिना च परा वलानुजोपेता | भूयः परायणाख्या वालः सूक्ष्मा वृषघ्नसन्धे च | सवृषा प्रज्ञ् आ हंसः प्रभा वराहोनिशा च विमलोऽमोघा च | नरसिंहविद्युते च प्रणिगदितामूर्त्तयोहलानां शक्तियुताः || वर्णानुक्त्वा सार्द्धचन्द्रान् पुरस्तान्मूर्त्तीः शक्तिर्ङे?वसानानतिञ्च | उक्त्वा न्यसेत् यादिभिः सप्तधातून् प्राणं शक्तिं क्रोधमप्यात्मनेस्तान् || उद्यत्प्रद्योतनशतरूचिं तप्तहेमावदातं पार्श्वद्वन्द्वे जलधिसुतया विश्वधात्र्या च जुष्टम् | नानारत्नोल्ल्सितविविधाकल्पमापीतवस्त्रं विष्णुं वन्दे दरकमलकौमोदकीचक्रपाणिम् || ध्यात्वैवं परमपुमांसमक्षरैर्योविन्यसेद्दिनमनुकेशवादि- कीर्त्तियुक्तैः | मेधायुःस्मृतिधृतिकान्तिकीर्त्तिलक्ष्मीसौभाग्यैश्चिरमुपवृंहितो भवेत् सः || अयमेव रमापुरःसरं प्रभजेद्यो मनुजो विधिं वुधः | समुपेत्य रमां प्रथियसीं पुनरन्ते हरितां व्रजत्यसौ || इत्यच्युतीकृततनुर्विदधीत तत्त्वन्यासं मपूर्वकपराक्षरनत्युपेतम् | भूयः पराय च तदाह्वयमात्मने च नत्यन्तमुद्धरतु तत्त्वमनून् क्रमेण || सकलवपुषि जीवं प्राणमायोज्य मध्ये न्यसतु मतिमहङ्कारस्मनश्चेति यन्त्री | कमुखहृदयगुह्याङ्घ्रिष्वथो शब्दपूर्वं गुणगणमथ कर्णादिस्थितं श्रोत्रपूर्वम् || वागादीन्द्रियवर्गमात्मनि लयेष्वाकाशपूर्वं गणं मूर्द्ध्नास्ये हृदये शिरे चरणयोर्हृत्पुण्डरीकं हृदि | विम्वानि द्विषडष्टयुग्दशकलाव्याप्तानि सूर्योड राड्वह्णीनाञ्च यतस्तु भूतवसुमुन्यक्ष्यक्षरैर्मन्त्रवित् || अथ परमेष्ठिपुमांसौ विश्वनिवृत्ती च सर्व्व इत्युपनिषदः | न्यस्येदाकाशादिस्थानस्थानयोर्यरलवलार्णैः सलवकैः || वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः | नारायणश्च क्रमशः परमेष्ठ्यादिभिर्मताः || ततः कोपतत्त्वं क्षरौविन्दुयुक्तं नृसिंहं न्यसेत् सर्वगात्रेषु तज्ज्ञ् अः | क्रमेणेति तत्त्वात्मको न्यास-उक्तः सुसान्निध्यकृद्विश्वमूर्त्त्यादिषु स्यात् || इति कृतेऽधिकृतो भवति ध्रुवं सकलवैष्णवमत्रजपादिषु | पवनसंयमनस्त्वमुना चरेद् यमिह जप्तुमसौ मनुमिच्छति || अथवाखिलेषु हरिमन्त्रजपविधिषु मूलमन्त्रतः | संयमनममलध्वीर्मरुतोविधिनाभ्यसंश्चरतु तत्त्वसंख्यया | पुरतो जपस्य परतोऽपि विहितमथ तत्रिकं वुधैः || षोडश य इह चरेद्दिनशः परिपूयते स खलु मासतोहंघसः | अथवाङ्गजन्ममनुना सुसंयमनं सकलेषु कृष्णमनुजापकर्मसु || सहितैकसप्तकृतिवारमभ्यसंस्तनुयात् समस्तदुरितापहारिणा || अष्टाविंशतिसंख्यमिष्टकलदं मन्त्रं दशार्णं जपन्नयच्छेत् (?) पवनं सुशंसितमतिस्त्वष्टादसार्णेन चेत् | अभ्यस्यन्रविवारमन्यमनुभिर्वर्णानुरूपं जपन् कुर्याद्रेचकपूरकं सुनिपुणः प्राणप्रयोगं नरः || रेचरेन्मारुतं दक्षया दक्षिणः पूरयेद्वामया मध्यनाड्या पुनः | धारयेदीरितं रेचकादित्रयं स्यात् कलादण्डविद्याख्यमात्रात्मकम् || प्राणायामं विधायेत्यथ निजवपुषा कल्पयेद्योगपीठं न्यस्येद्- आधारशक्तिप्रकृतिकर्मठशेषक्ष्माक्षीरसिन्धून् | श्वेतद्वीपञ्च रत्नोज्ज्वलमहितमहामण्डपं कल्पवृक्षं हृद्देशेऽंशद्वयोरुद्वयवदनकटोपार्श्वयुग्मेषु भूयः || धर्माद्याधर्मादि च पादगात्रचतुष्टयं हृद्यथ शेषमन्जम् | सूर्येन्दुवह्णीन् प्रणवांशयुक्तान् स्वाद्यक्षरैः सत्वरजस्तमांसि || आत्मादित्रयमादवीजसहितं व्योमाग्निमायालवैर्ज्ञानात्मानमथाष्ट- दिक्षु परितोमध्ये च शक्तिर्नव | न्यस्त्वा पीठमनुञ्च तत्र विधिवत् तत्कर्णिकामध्यगं नित्यानन्दचितिप्रकाशममृतं सञ्चिन्तयेद्धाम तत् || विमलोत्कर्षिणी ज्ञाना क्रियायोगा च शक्तयः | प्रह्वी सत्या तथेशानानुग्रहा नवमी स्मृता || तारं हृदयं भगवान् विष्णुं सर्वान्वितश्च भूतात्मा | ङेन्ताश्च वासुदेवाः सर्वात्मयुतश्च संयोगः || योगावधौ च पद्मपीठात्मा ङेयुतो नातिश्चान्ते | पीठमतामनुरुक्तः पर्याप्तोऽयं सपर्यासु || करयोर्युगलं विधाय मन्त्रात्मकमाभ्यामभिधास्य मानमार्गात् | सकलं विदधीत मन्त्रवर्णैः परमं ज्योति रनुत्तमं हरेस्तत् || इति क्रमदीपिकायां प्रथमः पटलः || वक्ष्ये मनुं त्रिभुवन प्रथितानुभावमक्षीणपुण्यनिचयैर्- मुनिभिर्विमृग्यम् | (प्. ३) पक्षीन्द्रकेतुविषयं वसुधर्मकाममोक्षप्रदं सकलकार्मण- कर्मदक्षम् || अतिगुह्यमवोधतूलराशिज्वलनं वागधिपत्वदं नाराणाम् | दुरितापहरं विषापमृत्युग्रहरोगार्तिनिवारणैकहेतुम् || जयदं प्रधनेऽभयदं विपिने सलिलप्लवने सुखतारणदम् | नरसप्तिरथद्विपवृद्धिकरं सुतगोधरणीधनधान्यकरम् || वलवीर्यशौर्यनिचयप्रतिभासुरकान्तिसुभगत्वकरम् | क्षुभिताण्डककोटिमणिमादिगुणाष्टकदं किमत्र वहूनाखिलदम् || शार्ङ्गी सोत्तरदन्तः शूरो वामाक्षियुक् द्वितीयार्णः | शूली शौरिर्वालो वलानुजद्वयमथाक्षरचतुष्टयम् || शूरतुरीयः साननवृत्तः स्यात् सप्तमोऽष्टमोऽग्निसखः | तद्दयिताक्षरयुग्मं तदुपरिगन्त्वेवमुद्धरेन्मन्त्रम् || प्रकाशितो दशाक्षरो मनुस्त्वयं मधुद्विषः | विशेषतः पदारविन्दयुग्मभक्तिवर्द्धनः || नारदो मुनिरमुष्य कीर्त्तितश्छन्द-उक्त(?) मृषिभिर्विराडपि | देवता सकललोकमङ्गलो नन्दगोपतनयः समीरितः || अङ्गानि पञ्च हूतभुग्दयितासमेतैश्चक्रै रमुष्य मुखवृत्तविसूपपन्नैः | त्रैलोक्यरक्षणयुजाप्यसुरान्तकाख्यपूर्वेण चेत् कथितानि विभक्तियुक्तैः || हृदये नतिः शिरसि पावकप्रिया सवषट्शिखा हूमिति चर्मणि स्मृतम् | सफडस्त्रमित्युदितमङ्गपञ्चकं सचतुर्थिवौषडुदितं दृशौ यदि || मन्त्रार्णैर्दसभि रुपेतचन्द्रखण्डै रङ्गानां दशक मुदीरितं नमोऽन्तम् | हृच्छीर्षं तदनु शिखा तनुत्रमस्त्रं पार्श्वद्वन्द्वं सकटिपृष्ठमूर्द्ध्वयुक्तम् || वक्ष्ये मन्त्रस्यास्य वीजं सशक्तिचक्री शक्री वामनेत्रप्रदीप्तः | सप्रद्युम्नो वीजमेतत् प्रदिष्टं मन्त्रः प्राद्युम्नो जगन्मोहनोऽयम् || हंसो मेदोवक्रवृत्ताभ्युपेतः पोत्री नेत्राद्यन्वितोऽसौ युगार्णा | प्रोक्ता शक्तिः सर्वगीर्वाणवृन्दैर्वन्द्यस्याग्नेर्वल्लभा कामदेयम् || विनियोगोऽस्य मन्त्रस्य पुरुषार्थचतुष्टये | कृष्णः प्रकृतिरित्युक्तो दुर्गाधिष्ठातृदेवता || गोपायति सकलमिदं गोपायति परमपुमांसमिति गोपीप्रकृति स्तस्यां जातं जन-इति महदादिकं पृथिव्यन्तम् | अनयोर्गोपीजनयोः समीरणादाश्रयत्वतो व्याप्ता वल्लभ इत्युपदिष्टं सान्द्रानन्दनिरञ्जनम् ज्योतिः || स्वाहेति स्वात्मानं गमयामीति सुतेजसे तस्मै यः कार्यकारणेशः परमात्मेत्यच्युतैकतास्य भवेत् || अथवा गोपीजन इति समस्तजगदवनशक्तिसमुदायः || तस्य स्वानन्यस्य स्वामी वल्लभ इतीह निर्द्दिष्टः || अथवा व्रजयुवतीनां दयिताय जुहोमिमां मदीयमपि | इत्यर्पयेत् समस्तं व्रह्मणि सगुणे समस्तसम्पत्यै || १ || कृषशब्दः सत्तार्थोणश्चानन्दात्मकस्ततः कृष्णः | भक्ताघकर्षणादपि तद्वर्णत्वाच्च मन्त्रमयवपुषः | गौः शब्दवाचकत्वाज्ज्ञानं तेनोपलभ्यत इति गोविन्दः || वेत्तीति शब्दराशिं गोविन्दोगोविचारणादपि नोक्तः || एतेऽभिमुख्येऽनुक्रमत स्तूर्यविभक्त्या मन्त्रात् पूर्वं मन्मथवीजादथ पश्चात् || स्याताञ्चेदष्टादशवर्णो मनुवर्यो गुह्याद्गुह्यो वाञ्छितचिन्तामणिरेषः || पूर्वप्रदिष्टे मुनिदेवतेस्य छन्दस्तु गायत्र्यमुशन्ति सन्तः | अङ्गानि मन्त्रार्णचतुश्चतुष्कै र्वर्मावसानानि युगार्णमस्त्रम् || वीजं शक्तिः प्रकृतिर्विनियोगश्चापि पूर्ववदमुष्य | पूर्वतरस्य मनोरथ कथयामि न्यास मखिलसिद्धिकरम् || व्यापव्याथो हस्तयोर्मस्त्रमन्तर्वाह्ये पार्श्वे ताररुद्धं वुधेन | न्यासो वर्णैस्तारयुग्मान्तरस्थै र्विन्दूत्तंसैर्हार्दकृत्यै र्विधेयः || शाखासु त्रीणि पर्वाण्यधिदशसु पृथग्दक्षिणाङ्गुष्ठपूर्वं वामाङ्गुष्ठावसानं न्यसतु विशदधीः सृष्टिरुक्ता करस्था | अङ्गुष्ठद्वन्द्वपूर्वा स्थितिरुभयकरे स हृति र्वामपूर्वा दक्षाङ्गुष्ठान्तिकैतत्रयमपि सृजति स्थित्युपेतञ्च कार्यम् || ततः स्थितिक्रमाद्वुधो(?) दशाङ्गकानि विन्यसेत् | तदङ्गपञ्चकं तथा विधिः समीरितः करे || पूटितैर्मनुनाथ मातृकार्णैरभिविन्यस्य सविन्दुभिः पुरोवत् || अनुसंहृतिसृष्टिमार्गभेदाद्दशतत्त्वानि च मन्त्रवर्णभाज्ञि || संहृता वनुगतो मनुवर्यः सृष्टिवर्त्मनि भवेत् प्रतिघातः | उद्धृतिः खलु पुरोक्तवदेषां न्यासकर्म कथयाम्यधुनाहम् || महीसलिलपावकानिलवि?यन्ति गर्वोमहान् पुनः प्रकृति पुरुषौ पर-इमानि तत्त्वान्यथ | पदान्धुहृदयास्यकान्यधितु पञ्च मध्ये द्वयं सकलगण्डतोन्यसतु तद्विपर्यासतः || गुप्ततमोऽयं न्यासः संप्रोक्तस्तत्त्वदशकपरिकृत्?प्तः | कार्योऽन्येष्वपि सद्भिर्गोपालकमनुषु वाटिति फलसिद्ध्यै || आकेशादापादाद्दोर्भ्यां ध्रुवपुटितमनुवरं न्यसेद्वपुषि त्रिशः | मुर्द्धन्यक्ष्नोः श्रुत्योर्घ्राणमुखहृदयजठरशिवजानुप *? सु तथाक्षराणि न्यसेत् || उक्ता सृष्टिः शिष्टैः स्थितिरपि मुनिभिरभिहिता हृदादिमुखान्तिका | संहारोऽङ्घ्र्यादिमूर्द्धान्त स्त्रितयमिदमिति विरचरेच्च सृष्टिमनुस्थितम् | न्यासः संहारान्तो मस्करिवैखानसेषु विहितोऽयम् | स्थित्यन्तोगृहमेधिषु सृष्ट्यन्तो वर्णिनामिति प्राहूः || वैराग्ययुजि गृहस्थे संहारं केचिदाहुराचार्याः | सहजानौ वनवासिनि स्थितिञ्च विद्यार्थिनां सृष्टिम् | शिरसि विहिता मध्या सैवाक्ष्नि तर्जनिकान्विता | श्रवसि रहिताङ्गुष्ठा ज्येष्ठान्वितोपकनिष्ठिका | नसि च वदने सर्वाः सज्यायसी हृदि तर्ज्जनी | प्रथमजयुता मध्या नाभौ श्रवसि विहिताः शिवे || ता एवाङ्गुलयोर्जान्वोः साङ्गुष्ठास्तु पदद्वये | स्थानार्णयो र्व्विनियमो नाङ्गुलिस्थानयोर्भवेत् || वचन्यपरं न्यासवरं भृत्यभिधं भूतिकरं | मन्त्रः दशावृत्तिमयं गुप्ततमं मन्त्रिवरैः || आधारधवजनाभिहृद्गलमुखां - (प्. ४) सोरुद्वये कन्धरानाभ्योः कुक्षिहृदोरुरोजयुगले पार्श्वापरश्रोणिषु | कस्याक्षिश्रुतिनः कपोलकरपत्सन्ध्यग्रशाखासु के तत्प्राच्यादिदिशासु मूर्द्ध्नि सकले दोष्णोश्च सक्थ्नोस्तथा?? || शिरोऽक्ष्यास्यकण्ठाखाहृत्तून्दकन्धान्धुजानुप्रापत् स्विण्य?मर्णान् मनूण्यान् | न्यसेच्छ्रोत्रगण्डां शवक्ष्येजपार्श्वस्फिगूरुस्थलं जानुजङ्घाङ्घ्रियुक्षु || इति कथितं विभूतिपञ्जरं सकलसुखार्थधर्ममोक्षदम् | नवतरुणीमनौऽञ्जनं हरिचरणाम्वुजभक्तिवर्द्धनम् | स्फुर्त्तयेऽथास्य मन्त्रस्य कीर्त्त्यते मुर्त्तिपञ्जरम् | आर्त्तिग्रहविषारिघ्नं कीर्त्तिश्रीकान्तिपूष्टिदम् || केशवादियुगषट्कमूर्त्तिभि र्धातृपूर्वमिहिरान्नमोऽन्तिकान् | द्वादशाक्षरभवाक्षरैः स्वरैः क्लीववर्णरहितैः क्रमान्न्यसेत् || भालोदरहृद्गलकूपतले वामेतरपार्श्वभुजान्तगले | वामत्रयपृष्ठककुत्सु तथा मूर्द्धन्यथ षड्युगवर्णमनुम् || चैतन्यामृतवपुरर्ककोटितेजा मूर्द्धस्थोवपुरखिलं सवासुदेवः | उधस्यं सुविमलपाथसीव सिक्तं व्याप्नोति प्रकटितमन्त्रवर्णकीर्णम् || सृष्टिस्थिती दशपञ्चाङ्गयुग्मं मुन्यादिकं त्रितयं कास्यहृत्सु विन्यस्यतु ग्रथयित्वा च मुद्राम् || भूयोदिशां दशकं वन्धनीयम् || तारं हार्दं विश्वमूर्त्तीश्च शार्ङ्गी मांसार्णान्ते वायमध्ये सुदेवाः | षड्द्वन्द्वार्णो मन्त्रवर्यः स उक्तः साक्षाद्द्वारं मोक्षपूर्याः सुगम्यम् || धात्रर्यममित्राख्या वरुणां शुभगाविवस्वदिन्द्रयुताः | पूषाह्वयपर्यन्यौ त्वष्टा विष्णुश्च भानवः प्रोक्ताः || अथ युगलरन्ध्रार्णस्याहं मनोर्न्यसनं ध्रुवे रचयतु करद्वन्द्वे पञ्चाङ्ग मङ्गुलिपञ्चके | तनुमनुमनुं व्यापययाथ त्रिशः प्रणवं सकृत् मनुजलिपयो न्यस्या भूयः पदानि सादरम् || कचभुरि ललाटभ्रुयुग्मान्तः श्रवणाक्षियुगलवदनग्रीवाहृन्नाभिकट्यु- भयान्धुषु | न्यस्तु सितधीर्जान्वङ्घ्रो रक्षराणि शिरसि ध्रुवं नयनहृद्गुह्याङ्घ्रिघर्पयेत् पदपञ्चकम् || पञ्चाङ्गानि न्यसेद्भूयोमुन्यादीनप्यन्यत् सर्वम् | तुल्यं पूर्वेणाथो वक्ष्ये मुद्रावध्या मन्वोर्याः स्युः || अनङ्गुष्ठा ऋजवो हस्तशाखा भवेन्मुद्रा ह्डये शीर्षके च | अधोऽङ्गुष्ठा खलु मुष्टिः शिखायां करद्वन्द्वाङ्गुलयोवर्मणि स्युः || नाराचमुष्ट्युद्गतवाहूयुग्मकाङ्गुष्ठतर्ज्जन्युदितो ध्वनिस्तु | विश्वग्विषक्तः कथितास्त्रमुद्रा यत्राक्षिणी तर्ज्जनी मध्यमेऽत्र || तुष्ठे वामकराङ्गुष्ठा लग्नस्तस्य कनिष्ठिका | दक्षिणाङ्गुष्ठसंयुक्ता तत्कनिष्ठा प्रसादिता || तर्ज्जनीमध्यमानामाः किञ्चित् संकुच्य चालिताः | वेणुमुद्रेह कथिता सुगुप्ता प्रेयसी हरेः || नोच्यन्तेऽत्र प्रसिद्धत्वान्माला श्रीवत्सकौस्तुभाः | उच्यतेहच्युतमुद्राणां भद्रा विल्वफलाकृतिः || अङ्गुष्ठं वाममुद्दण्डि तमितरकराङ्गुष्ठकेनाथ वद्ध्वा तस्याग्रं पीडयित्वाङ्गुलिभिरपि च ता वामहस्ताङ्गुलीभिः | वद्ध्वा गाढं हृदि स्थापयतु विमलधीर्व्याहरन्मारवीजं विल्वाख्या मुद्रिकैषा स्फुटमिह कथिता गोपनीया विधिज्ञैः || मनोवाणी देहैर्यदिह च पुरा वापि विहितं त्वमत्यामत्या वा तमखिल मसौ दुष्कृतचरम् | इमां मुद्राम् जानन् क्षपयति नरस्तं सुरगणा नमन्त्यस्याधीना भवति सततं सर्वजनता || प्रणवहृदावसाने सचतुर्थि सुदर्शनं तथास्त्रं पदम् | उक्त्वा फडन्तमनुना कलयेन्मनुनास्त्रमुद्रया दशहरितः || इति विधाय समस्तजगज्जनिस्थितिविनाशविधानविशारदम् | श्रुतिविमृग्य मजं मनुविग्रहं स्मरतु गोपवधूजनवल्लभम् || इति क्रमदीपिकायां द्वितीयः पटलः | अथ प्रकटसौरभोद्गलितमाध्विकोत्फुल्लसत् प्रसूननवपल्लवप्रकरनम्रपा?खैर्द्रुमैः | प्रफुल्लनवमञ्जरीललितवल्लरीवेष्टितैः स्मरेच्छिशिरितं शिवं सितमतिस्तु वृन्दावनम् || विकाशिसुमनोरसास्वदनमञ्जुलैः सञ्चरच्छिलीमुखमुखोद्गतै र्मुखरितान्तरं झङ्कृतैः | कपोतशुकशारिकापरभृतादिभिः पत्रिभिर्व्विरावितमितस्ततोभूजग- शक्रनृत्याकुलम् || कलिन्ददुहितुश्चलल्लहरिविप्रुषां वाहिभिर्विनिद्रसरसीरुहोदररजश्चयोद्- धूसरैः | प्रदीपीतमनोभवव्रजविलासिनीवाससां विलोलनपरै र्निषेवितमनारतं मारुतैः || प्रवालनवपल्लवं मरकतच्छदं वज्रमौक्तिकप्रकरकोरकं कमलरागनानाफलम् | स्थविष्ठमखिलर्त्तुभिः सततसेवितं कामदं तदन्तरपि कल्पकाङ्घ्रि पमुदञ्चितञ्चिन्तयेत् || सुहेमशिखरावलेरुदितभानुभास्वरामधोऽस्य कनकस्थलीम्- अमृतशीकराश्राविणः | प्रदीप्तमणिकुट्टिमां कुसुमरेणुपुञ्जोज्ज्वलां स्मरेत् पुनरतन्द्रितो विगतषट्तरङ्गां वुधः || तद्रत्नकुट्टिमनिविष्टमहिष्ठयोगपीठेऽष्टपत्रमरुणं कमलं विचिन्त्य | उद्यद्विरोचनसरोचिरमुष्य मध्ये संचिन्तयेत् सुखनिविष्टमथो मुकुन्दम् || सूत्रामरत्नदलिताञ्जनमेघपुञ्जप्रत्यग्रनीलजलजन्नसमानभासम् | सुस्निग्धनीलघनकुञ्चितकेशजालं राजन्मनोज्ञशितिकण्ठ- शिखण्डचूडम् || रोलम्वलालितसुरद्रुमसूनकल्पितोन्तं स-मु?त्कचनवोत्पलकर्णपूरम् | लोलालकस्फुरितभालतलप्रदीप्तगोरोचनातिलकमुज्ज्वलचिन्निमानम् || आपूर्णशारदगताङ्कशशाङ्कविम्वकान्ताननम् कमलपत्रविशालनेत्रम् | रत्नस्फुरन्मकरकुण्डलरश्मिदीप्तगण्डस्थलीसुन्दरमुन्नतचारुनासम् || सिन्दूरसुन्दरतराधरमिन्दुकुन्दमन्दारमन्दहसितद्युतिदीपिताशम् | वन्यप्रवालकुसुमप्रचयावकृ*?प्तग्रैवेयकोज्ज्वलमनोहरकम्वूकण्ठम् | मत्तभ्रमद्भ्रमरजुष्टविलम्वमानसन्तानकप्रसरदामपरिष्कृतांसम् | हारावलीभगणराजितपीवरोरोव्योमस्थलीलसितकौस्तुभभानुमन्त्रम् | (प्. ५) श्रीवत्सलक्षणसूलक्षितमुन्नतांसमाजानुपीनपरिवृत्तसुजातवाहूम् || आवन्धुरोदरमुदारगभीरनाभिं भृङ्गाङ्गनानिकरमञ्जुलरोमराजिम् | नानामणिप्रघटिताङ्गदकङ्कनोर्म्मिग्रैवेयसारसननूपुरतुन्दवन्धम् || दिव्याङ्गरागपरिपिञ्जरिताङ्गषष्टिमापीतवस्त्रपरिवीतनितम्वविम्वम् | चारूरुजानुमनुवृत्तमनोज्ञजङ्घं कान्तोन्नतप्रपदनिन्दितकूर्मकान्तिम् || माणिक्यदर्पणलसन्नखराजिराजद्रत्नाङ्गुलिच्छदनसुन्दरपादपद्मम् | मत्स्याङ्कुशाविदरकेतुजवाव्जवज्रसंलक्षितारुणतराङ्घ्रितलाभिरामम् || लावण्यसारसमुदायविनिर्मिताङ्गसौन्दर्यनिन्दितमनोभवदेहकान्तिम् | आस्यारविन्द-परिपूरित-वेणुरन्ध्र-लोलत्कराङ्गुलि-समीरित-दिव्यरागैः || शश्वद्द्रवीकृत-विकृष्टसमस्तजन्तु-सन्तानसन्तति-मनन्तमुखाम्वुराशिम् | गोभि-र्मुखाम्वुजविलीन-विलोचनाभि रूधोभरस्खलितमन्थरमन्दगाभिः | दन्ताग्रदष्टपरिशिष्ट-तृपाङ्कुराभि रालम्विवालधिलताभिरथाभिवीतम् || सप्रस्रवस्तनविचूषणपूर्णनिश्चलास्यावगाढक्षरितफेनिलदुग्ध- मुग्धैः | वेणुप्रवर्तितमनोहरमन्दगीतिदत्तोच्चकर्णयुगलैरपि तार्णकैश्च || प्रत्यग्र- शृङ्गमृदुमस्त्तकसंप्रहारसंरम्भवल्गनविलोलखुराग्रपातैः | आमेदुरैर्वहलसास्नगलैरुदग्रपुच्छैश्च वत्सतरवत्सतरीनिकायैः || हस्वारवक्षुभितदिग्वलयैर्महद्भिरप्युक्षभिः पृथुककुद्भरभारखिन्नैः | उत्तम्भितश्रतिपुटिपरिपीतवंशध्वानामृतोद्धृतविकाशिविशालघोणैः || गोपैः समानप्त?णशीलवयोविलासवेशैश्च मूर्च्छितकलस्वनवेणुवीणैः | मन्दोच्चतालपटुगानपरैर्विलोलदोर्वल्लरिलसितलास्यविधानदक्षैः || जङ्घ्यान्तपीवरकटीरतटिनिवद्धव्यालोलकिङ्किणीघटारणितैरटद्भिः | मुग्धैस्तरक्षुनखकल्पितकण्ठभूषैरव्यक्तमञ्जुवचनैः पृथुकैः परीतम् || अथ सुललितगोपसुन्दरीणां पृथुनिविवीषनितम्वभारमन्थराणाम् | गुरुकुचभरभङ्गुरविलग्नत्रिवलिविजृम्भितरोमराजिभाजाम् | तदतिरुचिरचारुवेणुवाद्यामृतरसपल्लविताङ्गजाङ्घ्रिपस्य | मुकुलविसररम्यरुढरोमोद्गमसमलङ्कृतगात्रवल्लरीणाम् || इति तरुचिरहासचन्द्रातपपरिजम्भितरागवारिराशेः | तरलतरतरङ्गभङ्गविप्रुटप्रकरसमश्रमविन्दुसन्ततानाम् || तदतिरुचिरमन्दचिल्लिचापच्युतनिशितेक्षणमारवाणवृष्ट्या | दलितसकलमर्मविह्वलाङ्गपरिसृतदुःसहवेपथुव्यथानाम् || तदतिसुभगकम्ररुपशोभामृतरसपानविधानलालसानाम् || प्रणयसलिलपूरवाहिनीनामलसविलोलविलोचनाम्वुजानाम् || विस्रंसत्कवरीकलापविगलत्फुल्लप्रसूनस्रवान्माध्वीलम्पटचञ्चरीक- घटया संसेवितानां मुहूः | मारोन्मादमदस्खलन्मृदुगिरा-मालोलकाञ्च्युच्छ्वसन्नीवीविश्लथ- मानचीन-सिचयान्तावि-र्नितम्बत्विषाम् || स्थालितललितपादान्तोजमन्दाभिघातक्वणितमणितुलाकोट्याकुलाशा- मुखानाम् | चलदधरदलानां कुट्नलत्पक्ष्मलाक्षिद्वयसरसिरुहानामुल्- लसत्कुण्डलानाम् || द्राघिष्ठश्वसनसमीरणाभितापप्रम्लानीभवदरुणोष्ठपल्लवानाम् || नानोपायनविलसत्कराम्बुजानामालीभिः सततनिषेवितं समन्तात् || तासामायतलोलनीलनयनव्याकोषनीलोत्पलस्रग्भिः संपरिपूरिताखिलतनुं नानाविलासास्पदम् | तन्मुग्धाननपङ्कजप्रविलसन्माध्वीरमास्वादिनीं विभ्राणं प्रलयोन्मदाक्षिमधुकृन्मालां मनोहारिणीम् || गोपीगोपपशूनां वहिः स्मरेदग्रतोऽस्य गीर्वाणघटाम् | वित्तार्थिनीं विरिञ्चित्रिनयनशतमन्युपूर्विकां स्तोत्रपराम् || तद्वद्दक्षिणतो मुनिनिकरं वसुधर्मवाञ्छयाम्नायपरम् | योगीन्द्रनाथपृष्ठे मुमुक्ष्यमाणान् समाधिस्थान् सनकाद्यान् || सव्ये सकान्तानथयक्षसिद्धगन्धर्वविद्याधरचारणांश्च | सकिन्नरानप्सरसश्च मुख्यान् कामार्थिनो नर्त्तिनगीतवाद्यैः || शङ्खेन्दुकुन्दधवलं सकलागमज्ञं सौदामिनीततिपिषङ्गजटाकलापम् | तत्पादपङ्कजगता मचलाञ्च भक्तिं वाञ्छन्तमुज्झिततरान्यसमस्त- सङ्गम् || नानाविधश्रुतिगगुणान्वितसप्तरागग्रामत्रयीगतमनोहरमूर्च्छनाभिः | संप्रीणयन्तमुदिताभिरमुं महत्या संचिन्तयेन्नभसि धातृसुतं मुनीन्द्रम् || इति ध्यात्वात्मानं पटुविशदधीर्नन्दतनयं पुरोवुद्ध्यै वार्घ्यप्रभृतिभिरनिन्द्योपहृतिभिः | यजेद्भूयो भक्त्या स्ववपुषि वहिष्ठैश्च विभवैर्विधानन्तद्व्रुमो वयमतुलसान्निध्यदमथ || आवचयय भुवि गोमयाम्भसा स्थण्डिलं निजममुत्र विष्टवम् | न्यस्य तत्र विहितास्पदोऽम्भसा शङ्खमस्त्रमनुना विशोधयेत् || तत्र गन्धसुमनाक्षतानथो निक्षिपेद्-हृ?दयमन्त्रमुच्चरन् | पूरयेद्विमलपाथसा सुधीरक्षरैः प्रतिगतैः शिरोऽन्तिकैः || पीठशङ्खसलिलेषु मन्त्रविद्वह्णिवासरनिशाकृतां क्रमात् | मण्डलानि विषकश्रवोऽक्षरैरर्चयेद्वदनपूर्वदीपितैः || तत्र तीर्थमनुनाभिवाहयेत् तीर्थमुष्णरुचिमण्डलात् पुनः | स्वीयहृत्कमलतोहरिन्तथा गालिनीञ्च शिखया प्रदर्शयेत् || तज्जलं नयनमन्त्रवीक्षितं वर्मणा समवगुठ्य दोर्युजा | मूलमन्त्रसकलीकृतं न्यसेदङ्गकैश्च कलयेद्दिशोऽस्त्रतः || अक्षतादियुतमच्युतीकृतं संस्पृशन् जपतु मन्त्रमष्टधा | किञ्चन क्षिपतु वर्द्धनीजले प्रोक्षयेन्निजतनुं ततोमुना || त्रिः करेण मनुनाखिलं तथा साधनं कुसुमचन्दनादिकम् | शङ्खपूरणावधिः समीरितोगुप्त एष यजनाग्रणीरिह || गङ्गे च यमुने चैव गोदावरि सरस्वति नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु || एष तीर्थमनुः प्रोक्तोदुरितौघनिवारणः || कनिष्ठाङ्गुष्ठकौ शक्तौ करयोरितरेतरम् | तर्ज्जनीमध्यमानामाः संहताभुग्नवर्जिताः | (प्. ६) मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चारिता || अथ मूर्द्धनि मूलचक्रमध्ये निजनाथान् गणनायकं समर्च्च्य | न्यसनक्रमतश्च पीठमन्त्रैर्जलगन्धाक्षतपूष्पधूपदीपैः || प्रयजेदथ मूलमन्त्रतेजोनिजमूले हृदये भुवोश्च मध्ये | त्रितयं स्मरतः स्मरेत्तदेकीकृतमानन्दघनं तडिल्लताभम् || तत्तेजोऽङ्गैः सावयवीकृत्य विभूत्याङ्गान्तम् विन्यस्य यजेदासनपूर्वैः | भूषान्तैर्भूयोजलगन्धादिभिरर्च्चां कुर्याद्तृत्याद्यङ्गविधिनावधि मन्त्री || भूयो वेणुं वदनस्थं वक्ष्योदेशे वनमालाम् | वक्षोजोर्द्धं प्रयजेच्च श्रीवत्सकौस्तुभं रत्नम् || श्रीखण्डनिःस्यन्दविचर्चिताङ्गोमूलेन भालादिषु चित्रकार्णि | लिख्यादथो पञ्जरमूर्त्तिमन्त्रैरनामया दीपशिखाकृतीनि || पुष्पाञ्जलिं वितनुयादथ पञ्चकृत्तोमूलेन पादयुगले तुलसीद्वयेन | मध्ये हयारियुगलेन च मूर्द्ध्नि पद्मद्वन्द्वेन षड्भिरपि सर्वतनौ च सर्वैः || श्वेतानि दक्षभागे सितचन्दनपङ्किलानि कुसुमानि | रक्तानि वामभागेऽरुणचन्दनपङ्कसिक्तानि || तद्वच्च धूपदीपौ समर्प्य धिनुयात् सुधारसैः कृष्णम् | मुखवासं दत्त्वा समर्चयेत् सुगन्धिपुष्पाद्यैः || ताम्बूलगीतनृत्यवाद्यैः सन्तोष्य चुल्लुकसलिलेन | व्रह्मार्पणाख्यमनुना कुर्यात् स्वात्मार्पणं मन्त्री || अथवा संकुचितधियामयं विधिर्मूर्त्तिपञ्जरारव्धः | षद्यष्टादशलिपिना स्वार्णपदाङ्गैर्वेणुपूर्वैः प्रोक्तः || सुप्रसन्नमथनन्दतनुजं भावयन् जपतु मन्त्रमनन्यः | सार्थसंस्मृतियथाविधिसंख्यापूरणे सूयमनं विदधीत || प्रणवपुटितं वीजं तप्त्वा शतं सहिताष्टकं निजगुरुमुखादाप्तान् योगान् युनुक्तु महामतिः | सदनृतचिदानन्दात्माथो जपं समर्पयेदिति जपविधिः सम्यक् प्रोक्तोमनुद्वितयाश्रितः || य इमं भजते विधिन्नरोभवितासौ दयितः शरीरिणाम् | अपि वाक्कमलैकमन्दिरं परमन्ते समुपैति तन्महः || इति श्रीक्रमदीपिकायां तृतीयः पटलः || कथ्यते खलु मन्त्रचर्यायोः साधनं सकलसिद्धिसाधनम् | यद्विधाय मुनयोमहीयसीं सिद्धिमीयुरिह नारदादयः || विप्रं प्रधवस्तकामप्रभृतिरिपुघटं निर्मलाङ्गं गरिष्ठां भक्तिं कृष्णाङ्घ्रि पङ्केरुहयुगलरजोरागिणीमुद्वहन्तम् | वेत्तारं वेदशास्त्रागमविमलपथां सस्मतं सतसु दान्तं विद्यां यः संविवित्सुः प्रवणतनुमना देशिकं संश्रयेत् || सन्तोषयेदकुटिलार्द्रतरान्तरात्मा तं स्वैर्धनैश्च अपुषाप्यनुकूलवाण्या | अब्दत्रयं कमलनाभधियातिधीरस्तुष्ट्यै विवक्षतु गुरावथ मन्त्रदीक्षाम् || प्रपञ्चसारप्रथिता तु दीक्षा संस्मार्यते सम्प्रति सर्वसिद्ध्यै | ऋते यया सन्ततजापिनोऽपि सिद्धिं न यद्दास्यति मन्त्रपूगः || अथ पुरोविदधीत भुवः स्थलीमधि यथाविधि वास्तुवलिम्वुधः | अचलदोर्मितमत्र तु मण्डपं मसृणवेदिकमारचयेत्ततः || त्रिगुणतन्तुयुजा कुशमालया परिवृतं प्रकृतिध्वजभूषितम् | मुखचतुष्कपयस्तरुतोरणं सितवितानविराजितमुज्ज्वलम् || वसुत्रिगुणाङ्गुलिप्रमितखाततारायतं वसोर्वसुपतेरथो ककुभिधिष्ठ्यम्- अस्मिन् वुधः | करोतु वसुमेखलं वसुगणार्द्धकोणं प्रतीच्यवस्थितगजाधरप्रमितयोनिसंलक्षितम् || ततो मण्डपे गव्यगन्धाम्वुसिक्ते लिखेन्मण्डलं सम्यगष्टच्छ्दाव्जम् | सवृत्तत्रयं राशिपीठाङ्घ्रिवीथीचतुर्द्द्वारशोभोपशोभाश्रियुक्तम् | ततो देशिकः स्नानपूर्वं विधानं विधायात्मपूजावसानं विधिज्ञः || स्वावामाग्रतः शङ्खमप्यर्घ्यपाद्याचमनाद्यानि पात्राणि संपूरितानि || विधायान्यतः पुष्पगन्धाक्षताद्यं करक्षालने पृष्ठतश्चापि पात्रम् || प्रदीपावलीदीपिते सर्वमन्यत् स्वदृग्गोचरे साधनञ्चादधीत | वायव्यादीशपर्यन्तमर्च्या पीठस्योदक्गौरवी पंक्तिरादौ | पूज्योऽन्यत्राप्याम्विकेयः कराव्जैः पाशं दन्तं सृण्यभीती र्दधानः | आराध्याधारशक्त्याद्यमरचरणपावध्यथो मध्यभागे धर्मादीन् वह्निरक्षः पवनशिवगतान् दिक्ष्वधर्मादिकांश्च | मध्ये शेषाव्जविम्वत्रितयगुणगुणात्मव्रजं केशराणां मध्ये मध्ये च शक्तीर्न च समभियजेत् पीठमन्त्रेण भूयः || ततः शालीन् मध्ये कमलममलां स्तण्डुलवरानपि न्यस्येद्दर्भास्तदूपरि च कुर्चाक्षतयुतान् | न्यस्येत् प्रादक्षिण्यात्तदुपरि कृशानोर्दशकला षकाराद्यर्णाद्यायजतु च सुगन्धादिभिरिमाः | न्यसेत् कुन्तं तत्र त्रिगुणितलसत्तन्तुकलितं जपं स्तारं धूपैः सुपरिमिलितं जोङ्गकमयैः | कभाद्यैः कुन्तेऽस्मिन् ठडवसिभिर्वर्णयुगलैस्तथा न्यस्याभ्यर्च्च्यास्तदनु खमणेर्द्वादशकलाः || एवं संकल्प्याग्निमाधाररूपं भानुं तद्वत् कुम्भरूपं विधिज्ञः | न्यस्येत्तस्मिन्नक्षताद्यै समेतं कूर्चं स्वर्णं रत्नवर्यैः प्रदीप्तम् | अथ क्वाथतोयैः क्षकारादिवर्णैरकारावसानैः समापूरयेत्तम् | स्वमन्त्रत्रिजापावसानं पयोभिर्गावां पञ्चगव्यैर्जलैः केवलैर्वा | कलसजलेऽस्मिन् वसुयुगसंख्याः सृरगणपूर्वा न्यसतु तथैव | उडुपकलास्ताः सलिलसुगन्धाक्षतसुमनोभिस्तदनु यजेच्च | उदिच्यकुष्ठकुङ्कुमाम्वुलोहसजटामुरैः | सुशीतमित्युदीरितं हरेः प्रियाष्टगन्धकम् || क्वाथतोयपरिपूरितोदरे संविलोड्य विधिनाष्टगन्धकम् | सोमसूर्यशिखिनां कलाः पृथक् सेवकर्म विनियोजयेत् क्रमात् || तत्तदाक्षरभवास्तु कादिभिष्ठादिभिः पुनरुकारजाः कलाः | पादिभिर्मलिपिजास्तु विन्दुजाः स्वादिभिः स्वरगणेन नादजाः || समावाहनान्तेऽसुसंस्थापनात् प्रागृचस्तत्र तत्राभिजप्या वुधेन् | समभ्यर्च्य तास्ताः पृथक् तच्च पाथोऽर्पयेन्मूलमन्त्रेण कुम्भे यथावत् || (प्. ७) सहकारवोधिपनसस्तवकैः शतमन्युवल्लिकलितैः कलसम् | पिदधातु पुष्पफलतण्डुलकैयभिपूर्णया शुभचक्रिकया || अभिवेष्ठयेत्तदनु कुम्भमुखं नवनिर्मलांशुकयुगेन वुधः | समलङ्कृतेऽत्र कुसुमादिभिरप्यभिवाहयेत् परतरञ्च महः || सकलीविधाय कलसस्थममुं हरिमर्णतत्त्वमनुविन्यसनैः | परिपूजयेद्गुरुरथावहितः परिवारयुक्तमुपचारगणैः | दत्त्वासनं स्वागतमप्युदीर्य तथार्घ्यपाद्याचमनीयकानि | देयानि पूर्वं मधुपर्कयुञ्जि नन्दात्मजायाचमनान्तिकानि || स्नानञ्च वासश्च विभूषणानि साङ्गाय तस्मै विनियोज्य मन्त्री | गात्रे पवित्रैरथ गन्धपुष्पैः पूर्वं यजेन्न *? सविधानतोऽस्य || सृष्टिस्थिती स्वाङ्गयुगञ्च वेणुं मालामभिज्ञानवराश्चमुख्यौ | मूलेन चात्मार्चनवत् प्रपूर्य समर्चयेदावरणानि भूयः || दिक्ष्वथ दामसुदामौ वसुदामः किङ्किनी च सम्पूज्याः | तेजोरूपास्तद्वद्वहिरङ्गाणि च केशरेषु समभियजेत् || हूतवहनिरृतिसमीरणशिवदिक्षु हृदयादिवर्मपर्यन्तम् | पूर्वादिदिक्ष्वतोऽस्त्रं क्रमेण गन्धादिभिश्च शुद्धमन्यः || मुक्तेन्दुकान्तकुवलयहरिणीलहूताशस्रमप्रभाः प्रमदाः | अभयवरस्फुरितकराः प्रधानतनवोऽङ्गदेवताः स्मर्याः | रुक्मिण्याद्यामहिषीरष्टौ सम्पूजयेद्दलेषु ततः | दक्षिणकरधृतकमलावसुपूरितसुपात्रमुद्रितान्यकराः || रुक्मिण्याख्या सत्यासनाग्निजित्याह्वया सुनन्दा च | भूयश्च मित्रविन्दा सुलक्ष्मणा ऋक्षजा सूशीला च || तपनीयमारकताभाः सुसितविचित्राम्वरादिशश्चैताः | पृथुकुचभरालसाङ्ग्योविविधमणिप्रकरविलसिताभरणाः || ततोयजेद्दलाग्रेषु वसुदेवञ्च देवकीम् | नन्दगोपं यशोदाञ्च वलभद्रं सुभद्रिकाम् || गोपालगोपीश्च गोविन्दविलीनमतिलोचनाः | ज्ञानमुद्राभयकरौ पितरौ पीतपाण्डवौ || दिव्यमाल्याम्वरालेपभूषणो मातरौ पुनः | धारयन्तौ च वरदं पायसापूर्णपात्रकम् | अरुणश्यामले हारमणिकुण्डलमण्डिते || वलः शङ्खेन्दुधवलोमुषलं लाङ्गलं दधत् | हालालोलोनीलवासा हेलावानेककुण्डलः || कलायश्यामला भद्रा सूभद्रा भद्रभूषणा | वराभययुता पीतवसनारूढयौवना || वेणुवीणावेत्रयष्टिशङ्खशृङ्गादिपाणयः | गोपागोप्यश्च विविधोपायनात्तकराम्वुजाः || मन्दरादींश्च तद्वाह्ये पूजयेत् कल्पपादपान् | मन्दारसन्तानकपारिजातकल्पद्रुमाख्यान् हरिचन्दनञ्च | मध्ये चतुर्दीक्ष्वपि वाञ्छितार्थदानैकदक्षान् फलनम्रशाखान् | हरिहव्यवाहतरणिजक्षपाटपांपतिवायुसोमशिवशेषपद्मजान् | पूजयेत् स्वदिक्ष्वमलधीः स्वजात्यधीश्वरहेतिपत्रपरिवारसंयुतान् || कपिशकपिलनीलश्यामलश्वेतधूम्रामलसितशुचिरक्तावर्णतोवासवाद्याः | करकमलविराजत्स्वायुधा दिव्यवेशा विविधमणिगणौघप्रस्फुरद्- भूषणाढ्याः || दम्भोलिशक्त्यभिधदण्डकृपाणपाशचण्डाङ्कुशाह्वयगदात्रिशिखा- विपद्माः | अर्च्यावहिर्निजसुलक्षितमौलियुक्ताः स्वस्वायुधाभयसमुद्यतपाणिपद्माः | कनकरजततोयदाभ्रचस्पारुणहिमनीलजवाप्रवालभासः | क्रमत-इह रुचा तु वज्रपूर्वारुचिरविलेपनवस्त्रमाल्यभूषाः || कथितमावृतिसप्तकमच्युतार्चनविधाविति सर्वसुखावहम् | प्रयजतादथवाङ्गपुरन्दराशनिमुखैस्त्रितयावरणन्त्विदम् || इत्यर्चयित्वा जलपुष्पगन्धैः कृष्णाष्टकेनाप्यथ कृष्णपूजाम् | कुर्याद्वुधस्तानि समाह्वयानि वक्ष्यामि तारादिनमोऽन्तिकानि || श्रीकृष्णोवासुदेवश्च नारायणसमाह्वयः | देवकीनन्दनयदुश्रेष्ठोवार्ष्णेय-इत्यपि || असुराक्रान्तशब्दान्ते भारहारीति सप्तमः | धर्मसंस्थापकश्चाष्टौ चतुर्थ्यन्ताः क्रमादिमे || एभिरेवाथवा पूजा कर्त्तव्या कंसवैरिणः | संसारसागरोत्तीर्णैः सर्वकामाप्तये वुधैः || साराङ्गारे घृतविलुलितैर्जर्ज्जरैः संविकीर्णैर्गुग्गुल्वाद्यैर्घनपरिमलं धूपमापाद्य मन्त्री | दद्यान्नीचैर्दनुजमथनायापरेणाथ दोष्णा घण्टां गन्धाक्षतकुसुमकैरर्चितां वादमानः || उद्यद्दिपं सुरभिघृतसंसिक्तकर्पूरवर्त्त्या दीपं दृष्ट्याद्यतिविशदधिः पादपर्यन्तमुच्चैः | दत्त्वा पुष्पाञ्जलिर्मपि विधायार्पयित्वा च पाद्यमाच्यमं कल्पयेत्तद्विमलमतिरथो स्वर्णपात्रे निवेद्यम् || सुरभितरेण दुग्धहविषा सुशृतेन सितासमुपदंशकैरुचिरहृद्यविचित्ररसैः | दधिनवनीतनूतनसितोपलापूपलिकाघृतगुडनारिकेलकदलीफलपुष्परसैः || अस्त्रोक्षितं तदरिमुद्रिकयाभिरक्ष्य वायव्यतोयपरिशोषितमग्निदोष्णा | संदह्य वामकरसौधरसाभिपूर्णं मन्त्रामृती कृतमथाभिमृषन् प्रजप्यात् || मनुमष्टशः सुरभिमुद्रिकया परिपूर्णमर्चयतु गन्धमुखैः | हरिमर्थयेदथ कृतप्रसवाञ्जलिरास्यतोऽस्य विसरेच महः || वीतिहोत्रदयितान्तमुच्चरन् मूलमन्त्रमथ निक्षिपेज्जलम् | अर्पयेदमृतात्मकं हविर्द्दोयुजा सकुसुमं समुद्धरन् || निवेदयामि भवते जुषाणेदं हविर्हरे | निवेद्यार्पणमन्त्रोऽयं सर्वार्चासु निजाख्यया || प्रासमुद्रां वामदोष्णा विकचोत्पलसन्निभाम् | प्रदर्शयन् दक्षिणेन प्राणादीनाञ्च दर्शयेत् || स्पृशेत् कनिष्ठोपकनिष्ठिके द्वे स्वाङ्गुष्ठमूर्द्ध्ना प्रथमे तु मुद्रा | तथापरा तर्ज्जनिमध्यमे स्यादनामिकामध्यमिके च मध्ये || अनामिका तर्ज्जनिमध्यमे स्यात्तद्वच्चतुर्थीसकनिष्ठिकास्ताः | स्यात् पञ्चमी तद्वदिति प्रदिष्ठा प्राणादिमुद्रानिजमन्त्रयुक्ताः || प्राणापानव्यानोदानसमानाः क्रमाच्चतुर्थ्या युक्ताः | ताराधारावध्वाचेद्धाः कृष्णाध्वनस्तत्र ते मनवः || ततोनिवेद्य मुद्रिकां प्रधानया कर द्वये | (प्. ८) स्पृशन्ननामिकां निजं मनुं जपन् प्रदर्शयेत् || नन्दजोऽम्वुमनुविन्दुयुङ्न?तिः पार्श्वरामरुदवात्मनेनि च | रुद्धङेयुतं निवेद्यमात्मभूर्मांसपार्श्वमनिलस्तथासियुक् || मण्डलमभितोमन्त्री वीजाङ्कुरभाजनानि विन्यस्य पिष्टमयानपि दीपान् घृतपूर्णान् विन्यसेत् सुदीप्तशिखान् | अथ संस्कृते हूतवहेऽमलधिरभिवाह्य सम्यगभिपूज्य हरिम् | जुहूयात् सिताघृतयुतेन पयः परिसाधितेन सितदीधितेना | अष्टोत्तरं सह्स्रं होमं समाप्य पुनर्वलिं दद्यात् | राशिष्वधिनाथेभ्योनक्षत्रेभ्यस्ततश्च करणेभ्यः || सम्पाद्य पानीयसुधां समर्प्य दत्त्वाम्भ-उद्वास्य मुखार्चिरास्ये | नैवेद्यमुद्धृत्य निवेद्य विष्वक्सेनाय पृथ्वीमुपलिप्य भूयः || गण्डूषदन्तपवनाचमनास्यहस्तमृज्यानुलेपमुखवासकमाल्यभूषाम् | ताम्वूलमप्यभिसमर्प्य सुवाद्यनृत्यगीतैः सुतृप्तमाभपूजयतात् पूरेव || गन्धादिभिः सपरिवारमथार्घ्यमस्मै दत्त्वा विधाय कुसुमाञ्जलिमादरेण | कृ?त्वा प्रणम्य श्रिरसा चूलुकोदकेन स्वात्मानमिर्पयतु तच्चरणाव्जमूले || इतः पूर्वं प्राणवुद्धिदेहधर्माधिकारतोजाग्रत्स्वप्नसुषुप्त्यवस्थासु | मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत् स्मृतम् यदुक्तं यत् कृतं तत् सर्वं व्रह्मार्पणं भवतु स्वाहा || मां मदीयञ्च सकलं हरये सम्यगर्पये | ओं तत्सदिति च प्रोक्तोमन्त्रः स्वात्मसमर्पणे || अनुस्मरन् कलसगमच्युतं जपेत् सहस्रकं मनुमथ साष्टकं वुधः | वपुष्यथो दितिजजितः समावृतीर्विलाप्य तास्तदपि नयेत् सुधात्मताम् || ध्वजतोरणदिक्कलसाधिगतामपि मण्डलमण्डपकुण्डगताम् | अभियोज्य चितिं कलसे कुसुमैः परिपूज्य जपेत् पुनरष्टशतम् || अथ शिष्य-उपोषितः प्रभाते कृतनैत्यः सुसिताम्वरः सुवेशः | धरणीधनधान्यगोदुकुलैर्धिनुयाद्विप्रवरान् हरेः प्रतृप्त्यै || भूयः परीत्य प्रणिपत्य च देशिकं तस्मै परस्मै पुरुषाय देहिने | तां वित्तशाठ्यं परिहृत्य दक्षिणाम् दत्त्वा तनुं स्वाण्व? समर्पयेत् सुधीः || अथाभिषेकमण्डपे सुखोपविष्टमासने | गुरुविशोधयेदमुं पुरैव शोषणादिभिः | पीठन्यासावसानं वपुषि विमलधीर्न्यस्य तस्यासिकायां मन्त्रेणाभ्यर्च्य दूर्वाक्षतकुसुमयुतां रोचनाङ्के निधाय | आशीर्वादैर्द्विजानां पटुविशदरवैर्गीतवादित्रघोषैर्माङ्गल्यैर्- आनयेत्तं कलसमभिवृतस्तत्समीपं प्रतीतः || तेनाभिनीलमणिरत्नमहोषधेन धाम्ना परेण परमामृतरूपभाजा | संपूरयन् वपुरमुष्य ततोवितन्नंस्तत् सामरस्यमभिषेचयताद्यथावत् || क्षाद्यैरान्तैर्वर्णैरभिपूर्णतनुस्त्रिरुक्तमन्त्रार्णैः | परिधृतसिततरवसनद्वितयोवाचंयमः समाचान्तः || वहूशः प्रणम्य देशिकनामानं हरिमथोपसंगृह्य | तद्दक्षिणत-उपास्तामभिमुख-एकाग्रमानसः शिष्यः || न्यासैर्यथाविधि तमच्युतसाद्विधाय गन्धाक्षतादिभिरलङ्कृत- वर्मणोऽस्य | ऋष्यादियुक्तमथ मन्त्रवरं यथावदव्रुयात्रिशोगुरुरनर्घ्यमवामकर्णे || गुरुणा विधिवत् प्रसाधितं मनुमष्टोर्द्धशतं प्रजप्यभूयः | अभिवन्द्य ततः शृणोतु सम्यक् समयानभक्तिवरावनम्रमूर्तिः || दत्त्वा शिष्याय मनुं न्यस्त्वाथ गुरुः कृतात्मयजनविधिः | अष्टोत्तरसहस्रं स्वशक्तिहान्यनवाप्तये जप्यात् || कुम्भादिकञ्च सकलं गुरवे समर्प्य संभोजयेद्द्विजवरानथ भोज्यजातैः | कुर्वन्त्यनेन विधिना व इहाभिषेकं ते सम्पदां निलयनं हित-एव धन्याः || संक्षिप्य किञ्चिद्वदिता दीक्षा संस्मरणाय विशदधियां | एनां प्रविश्य मन्त्री सर्वान् मन्त्रान् जपेज्जुहोतु यजेच्च || इति श्रीक्रमदीपिकायां चतुर्थः पटलः || चैत्रे कृत्वैतन्मासि कर्माच्छपक्षे पुण्यर्क्षे भूयोदेशिकात् प्राप्य दीक्षाम् | तेनानुज्ञातः पूर्वसेवां द्वितीये मासि द्वादश्यामारभेच्चामलायाम् || कृत्वा स्नानाद्यं कर्म देहार्चनान्तं वर्त्माश्रित्य प्रागीरितं मन्त्रमुख्यः | शुद्धोमौनी व्रह्मचारी निशाशी जाप्याच्छान्तात्मा शुक्लपद्माक्षदाम्ना || तनुशुश्रुषां गोषु ताभ्यः प्रयच्छन् ग्रासं भूतेषु प्रोद्वाहंश्चानुकम्पाम् | मन्त्राधिष्ठातृदेवतां वन्दमानोदुर्गां दुर्वोधध्वान्तभानुं गुरुञ्च || कुर्वन्नात्मीयकर्म वर्णाश्रमस्थं मन्त्रं जपाद्भिः स्नानकालेऽभिषिञ्चेत् | आचमनपाथस्तत्त्वसंख्याप्रजतं भुञ्जानश्चान्नं सप्तजप्तं जलाद्यम् || प्रजपेदयुतचतुष्कं दशाक्षरं मनुवरं पृथक् क्रमशः | अष्टादशाक्षरङ्चेदयुतद्वयमित्युदीरिता संख्या || शाकं मूलं फलं गोस्तनभवदधिनी भैक्षमन्नञ्च शक्तून् दौग्धान्नञ्चेत्यदानः क्षितिधरशिखरादौ क्रमात् स्थानभेदात् | एकञ्चैषामशक्तौ गदितमिह मया पूर्वसेवाविधानं निर्वृत्तेऽस्मिन् पुनश्च प्रजपतु विधिवत् सिद्धये साधकेशः || देहार्चनान्ते दिनशोदिनादौ दीक्षोक्तमाज्ञान्यतरं विधानम् | आश्रित्य कृष्णं प्रयजेद्विविक्ते गेहे निषण्णोहुतशेषभोजी || दशलक्षमक्षयफलप्रदं मनुं प्रतिजप्य निर्मलमतिर्दशाक्षरम् | जुहूयाद् गुडाज्यमधुसंप्लुतैर्नवैररुणाम्वुजैर्हूतवहे दशायुतम् || शुषिरयुगलवर्णञ्चेन्मनुं पञ्चलक्षं प्रजपतु जुहूयाच्च प्रोक्तक्*?प्त्यार्द्धलक्षम् | अमलमतिरलाभे पायसैरम्वुजानां सहितघृतसिताक्तैरारभेद्धोमकर्म || अशक्तानां होमे निगमरसनागेन्द्रगुणितोजपः कार्योवेति द्विजनृपविशामाहूरपरे | सहोमश्चेदेषां सम-इह जपोहोमरहितोय उक्तोवर्णानां स खलु विहितस्तच्चलदृशाम् || यं वर्णमाश्रितोयः शूद्रः स च तन्नतभ्रुवाम् विहितम् | विदधीत जपं विधिच्छ्रद्धावान् भक्तिभावनम्रतनुः || (प्. ९) पुनरभिषिक्तो गुरुणा विधिवद्विश्राण्य दक्षिणां तस्मै | अभ्यवहार्य च विप्रान् विभवैः संप्रिणयेच्च भक्तियुतः | इति मन्त्रवरद्वितयान्यतरं परिसाध्य जपादिभिरच्युतधीः | प्रयजेत् सवनत्रितये दिनशो विधिनाथ मुकुन्द ममन्दमतिः | अथ श्रीमदुद्यानसंवीतहेमस्थलोद्भासिरत्नस्फुरन्मण्डपान्तः | लसत् कल्पवृक्षाध-उद्दीप्तरत्नस्थलाधिष्ठितान्तोजपीठाधिरुढम् | महानीलनीलाभमत्यन्तवालं गुडस्निग्धवक्रान्तविस्रस्तकेशम् | अलिव्रातपर्याकुलोत्फुल्लपद्मप्रमुग्धाननम् श्रीमदिन्दीवराक्षम् | चलत्कुण्डलोल्लासिसंफुल्लगण्डं सुघोणं सुशोणाधरं सुस्मितास्यम् | अनेकाश्मरश्म्युल्लसत्कण्ठभूषालसन्तं वहन्तं नखं पौण्डरीकम् | समुद्धूषरोरःस्थलं धेनुधूल्या सुपुष्टाङ्गमष्टापदाकल्पदीप्तम् | कटीरस्थले चारुजङ्घान्तयुग्मे पिनद्धं क्वणत्किङ्किणीजालदाम्ना | हसन्तं हसद्वन्धुजीवप्रसुनप्रभापाणिपादाम्वुजोदारकान्त्या | करे दक्षिणे पायसं वामहस्ते दधानं नवं शुद्धहैयङ्गवीनम् | महीभारभूतामरारातियुथाननः पूतनादीन्निहन्तुं प्रवृत्तम् | प्रभुं गोपिकागोपगोवृन्दवीतं सुरेन्द्रादिभिर्वन्दितं देववृन्दैः | प्रगे पूजयेद्वेत्यनुस्मृत्य विष्णुं तदङ्गेन्द्रवज्रादिकैर्भक्तिनम्रः | सितामोचहैयङ्गवीनैश्च दध्ना विमिश्रेण दौग्धेन संप्रीणरेत्तम् | इति प्रातरेवार्चयेदच्युतं यो नरः प्रत्यहं शश्वदास्तिक्ययुक्तः | लभेत् सोऽचिरेणैव लक्ष्मीं समग्रामिहप्रेत्य शुद्धं परं धाम भूयात् | अह्नोर्मुखेऽनुदिनमित्यभिपूज्य शौरिं दध्नाथवा गुडयुतेन निवेद्य तोयैः | श्रीमन्मुखे समनुतर्प्य च तद्धि यातं जप्यात् सहस्रमथ साष्टकम्- आदरेण | मध्यन्दिने जपविधानविशिष्टरूपं वन्द्यं सुरर्षिमतिखेचरमुख्य- वृन्दैः | गोगोपगोपवनितानिकरैः परीतं सान्द्राद्युदच्छविसुजातमनोहराङ्गम् | मायूरपत्रपरिकृत्?प्तवतंसरम्यधमिल्लमुल्लसितचिल्लिकमम्वुजाक्षम् | पूर्णेन्दुविम्ववदनं मणिकुण्डलश्रीगण्डं सुनासमतिसुन्दर- मन्दहासम् | पीताम्वरं रुचिरनूपुरहारकाञ्चीकेयूरकोर्मिकटकादिभिरुज्ज्वलाङ्गम् | दिव्यानुलेपनपिशङ्गितमंशराजदम्लानचित्रवनमालमनङ्गदीप्तम् | वेणुं धमन्तमथवा स्वकरे दधानं सव्ये दरं पशुपयष्टिम्- उदारवेणुम् | दक्षे मणिप्रवरमीप्सितदानदक्षं ध्यात्वेण्यमर्चयतु नन्दजमिन्दिराप्त्यै | दामादिकाङ्गदयितासुहृदङ्घ्रिपेन्द्रवज्रादिभिः समभिपूज्य यथाविधानम् | दीक्षाविधिप्रकथितञ्च निवेद्य जातं हैमे निवेदरतु पात्रवरे यथावत् | अष्टोत्तरं शतमथो जुहूयात् पयोहन्नैः सर्पियुतैः सुसितशर्करया विमिश्रैः | दद्याद्वलिञ्च निजदिक्षु सुरर्षियोगिवर्गोपदैवतगणेभ्य- उदारचेताः | नवनीतमिलितपायसधियार्चनान्ते जलैर्मूखे तस्य | सन्तर्यप जपतु मन्त्री सहस्रमष्टोत्तरशतम्वापि | अह्नोर्मध्ये वल्लवीवल्लभं तं नित्यं भक्त्या-भ्यर्चयेद् यो नराग्र्यः | देवाः सर्वे तं नमस्यन्ति शश्वद्वर्त्तेरन् वै तद्वशे सर्वलोकाः | मेधायुः श्रीकान्तिसौभाग्ययुक्तः पुत्रैर्मित्रैर्गोमहीरत्नधान्यैः | भोगैश्चान्यैर्भूरिभिः सन्निहाढ्योभूयाद्भूयो धाम तच्च- अच्युताख्यम् | तृतीयकालपूजाया मस्ति कालविकल्पना | सायाह्ने निशि वेत्यत्र वदन्त्येके मनीषिणः | दशाक्षरेण चेद्रात्रौ सायाह्नेऽष्तादशार्णतः | उभयीमुभयेनैव कुर्यादित्यपरे जगुः | सायाह्ने द्वारवत्यान्तु चित्रोद्यानोपशोभिते | द्व्यष्टसाहस्रसंख्यातैर्भवनैरपि शोभिते | हंससारससंकीर्णैः कमलोत्पलशोभिभः | सरोभि रमलाम्भोभिः परीते भवनोत्तमे | उद्यत् प्रद्योतनद्योतसद्युतौ मणिमण्डपे | मृद्वास्तरे समासीनं हेमाम्भोजासने हरिम् | नारदाद्यैः परिवृतं आत्मतत्त्वविनिर्णये | तेभ्यो मुनिभ्यः स्वं धाम दिशन्तम् परमक्षरम् | इन्दीवरनिभं सौम्यं पद्मपत्रायतेक्षणं | स्निग्धकुन्डलसंभिन्नकिरीटमुकुटोज्ज्वलम् | चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् | श्रीवत्सवक्षसंभ्राजत्कौस्तुभं वनमालिनम् | काश्मीरकपिशोरस्कं पीतकौसेयवाससम् | हारकेयूरकटकरसनाद्यैः परिस्कृतम् | हृतविश्वम्भराभूरिभावं मुदितमानसम् | शङ्खचक्रगदापद्मराजद्भूजचतुष्टयम् | एवं ध्यात्वार्चयेन्मन्त्री स्यादङ्गैः प्रथमावृतिः | द्वितीया महिषिभिस्तु तृतीयायां समर्चयेत् | नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान् | विश्वक्सेनञ्च शैलेयं दिक्ष्वग्रे विनतासुतम् | लोकेशैस्तत्प्रहरणैः पुनरावरणद्वयम् | इति संपूज्य विधिवत् पायसञ्च निवेदयेत् | तर्पयित्वा खण्डमिश्रदुग्धवुद्ध्या जलैर्हरिम् | जपेदष्टशतं मन्त्री भारयन् पूरुषोत्तमम् | पूजासु होमं सर्वासु कुर्यान्मध्यन्दिनेऽथवा | आसनाद्यर्घ्यपर्यन्तं कृत्वा स्तुत्वा नमेत् सुधीः | समर्प्यात्मानमुद्वास्य तं स्वहृत्सरसीरुहे | विन्यस्य तन्मयो भूत्वा पुनरात्मानमर्चयेत् | सायाह्ने वासुदेवं यो नित्यमेवं यजेन्नरः | सर्वान् कामान्वाप्यान्ते स याति परमां गतिम् | रात्रौ चेन्मन्मथाक्रान्तमानसं देवकीसुतम् | यजेद्रासपरिश्रान्तं गोपीमण्डलमध्यगम् | पृथुं सुवृत्तं मसृणं वितस्तिमात्रोन्नतं कौ विनिथन्य शङ्कुम् | आक्रम्य पद्भ्यामितरेतरा तु हस्तैर्भ्रमोऽयं खलु रासगोष्ठी | स्थलनीरजमूलपरागभृता लहरीकणजालभरेण सता | मरुता परितापहृताध्युषिते सुसिते षमुनापुलिने विपुले | अशरीरनिशातशरोन्मथितप्रमदाशतकोटिभिराकुलिते | उडुनाथकरैर्विषदीकृतादक् प्रसरे विचरद्भ्रमरीनिकरे | (प्. १०) विद्याधरकिन्नरसिद्धसुरैर्गन्धर्वभुजङ्गमचारणकैः | दारोपहितैः सुविमानगतैः खस्थैरभिवृष्टपूष्पचयैः | इतरेतरवद्धक्रप्रमदागणकल्पितवासविहारविधौ | मणिशङ्कुगमप्यु * * ना वपुषा वहूधा विहितस्वकदिव्यतनुम् | सुदृशामुभयोः पृथगन्तरगं दयिताकुलवद्धभुजद्वितयम् | निजसङ्गविजृम्भदनङ्गशिखिज्वलिताकुलसत्पुलकालियुजम् | विविधश्रुतिभिन्नमनोज्ञतरस्वरसप्तकमूर्च्छनतालगणैः | भ्रममाणमसूभिरुदारमणिस्फुटमण्डलशिज्ञितचारुतरम् | इति भिन्नतनुं मणिभिर्मिलितं तपनीयमयौरवमारकतम् | मणिनिर्म्मितमध्यगशङ्कुलसद्विपुलारुणपङ्कजमध्यगतम् | अतसीकुसुमाभतनुं अ?रुणं तरुणारुणपद्मपलाशदृशम् | नवपल्लवचित्रसुगुच्छलसच्छिखिपुच्छपिनद्धकचप्रचयम् | वहूलेतरचन्द्रसमानमुखं मणिकुण्डलमण्डितगण्डयुगम् | शशवक्त्रसदृग्वदनच्छदं मणिराजदनेकविधाभरणम् | अशनप्रसवच्छदनोज्ज्वलसद्वदनं सुविलासविलासभूवम् | नवविद्रुमभद्रकराङ्घ्रितलं भ्रमराकुलदामविराजिभुजम् | तरुणीकुचयुक्परिरम्भमिलद्घुसृणारुणवक्षसमुक्षगतिम् | शिववेणुसमीरितगानपरं स्मरविद्धलितं भूवनैकगुरुम् | प्रथमोदितपीठवरे विधिवत् प्रयजेदिति रुपमरुप मजम् | प्रथमं परिपूज्य तदङ्गवृतिं मिथुनानि यजेद्रसगानि ततः | दलषोडशके स्वरमुर्त्तिगणं सहशक्तिकमुत्तमरासगतम् | सरमावदनं स्वकलासहितं मिथुनार्द्धमथेन्द्रपरिप्रमुखान् | इति सम्यगमुं परिपूज्य हरिं चतुरावृतिसंवृतमार्द्रमतिः | रजताराचते चषके ससितं सुशृतमुपयोस्य निवेदयतु | विभवे सति कांश्यमयेषु पृथक् चषकेषु तु षोडशसु क्रमशः | मिथुनेषु निवेद्य पयः ससितं विदधीत पुरोवदथो सकलम् | सकलभुवनमोहनं विधिम् यो नियतममुं निशि निश्युदारचेताः | भजति स खलु सर्वलोकपूज्यः श्री*?मचलां समवाप्य यात्यनन्तम् | निशि वा दिनान्तसमग्रे प्रपूजयेन्नित्यशोऽच्युतम् भक्त्या | समफलमुभयं हि ततः संसाराद्धिं समुर्त्तितीर्षति यः | इत्येवं मनुविग्रहः मधुरिपुं यो रात्रिकालं भजेत् तस्यैवाखिलजन्तु?जातदयितस्याम्भोधिजावेश्मनः | हस्ते धर्मसुखार्थमोक्षतरवः सद्वर्गसंप्रार्थिताः सान्द्रानन्दसुधारसद्रवमुचो येषां फलश्रेणयः || अथोच्यते पूर्वसमीरितानां पूजावसाने परमस्य पुंसः | कल्पस्तु काम्येष्वपि तर्पणानां विनापि पूजां खलु वै फलं स्यात् | सन्तर्प्य पाठमन्त्रैः शक्तीः सकृत् सकृत् प्रथममच्युतं तत्र | आवाह्य पूजयेतुं तोयै रेवाखिलैः समुपहारैः | वद्ध्वाथ धेनुमुद्रां तोयैः सम्पाद्य तर्पणद्रव्यम् | तद्वुद्ध्याञ्जलिना तं सुवर्णचषकीकृतेन तर्पयतु | विंशतिरष्टोपेता कालत्रयतर्पणेषु संख्योक्ता | भुवः स्वकालविहितान् सकृत् सकृत् तर्पयेच्च परिवारान् | प्रातर्द्दधिगुडमिश्रं मध्याह्ने पायसं मनवनीतम् | क्षीरं तृतीयकाले ससितोपलमित्युदीरितं द्रव्यम् | तर्पयामि पदं योज्यं मन्त्रान्तेष्वेषु नामसु | द्वितीयान्तेषु तु पुनः पूजाशेषं समापयेत् | अभ्युक्ष्य तत्प्रसादाद्भि रात्मानं प्रपिवेदपः | तज्जप्त्वा तमथोद्वास्य तन्मयः प्रजपेन्मनुम् || अथ द्रव्याणि काम्येषु वक्ष्यन्ते तर्पणेषु तं | तानि प्रोक्तविधानानामाश्रित्यान्यतमं यजेत् | द्रव्यैः शोडशभिरमुं तर्पयेदेकश्चतुर्वारं | सचतुःक्षीराद्यन्तैः सकृज्जलाद्यन्तमच्युतं भक्त्या | पायसं दाधिकं कृषरं गौडान्नं पयोदधिनवनीतम् | आज्यं कदलीमोचारजःस्वलामोदकापूपम् | पृथुकं लाजसमेतं द्रव्याणां कथितमिह षोडशकम् | लाजान्तेऽन्त्यक्षीरात् प्राक्समर्प्य सितोपलापुञ्जम् | प्रगे चतुः सप्ततिवारमित्यमुं प्रतर्पयेद्योऽनुदिनं नरोहरिम् | अनन्यधीस्तस्य समस्तसम्पदः करस्थिता मण्डलतोऽभिवाञ्छिताः | धारोष्णपक्वपयसी दधिनवनीते घृतञ्च दौग्धान्नम् | मत्स्यण्डीमध्वमृतं द्वादशश स्तर्पयेन्नवभिरेभिः | तर्पणविधिरयमपरः पूर्वोदितसमफलाष्टशतसंख्यः | कार्मणकर्मणि कीर्त्तौ जनसम्वलने विशेषतो विहितः | सखण्डधारोष्णधिया मुकुन्दं व्रजन् पुरं ग्राममपि प्रतर्प्य | लभेत् भोज्यं सरसं स्वभृत्यै वासांसि धान्यानि धनानि मन्त्री | यावत् सन्तर्पयेन्मन्त्री तावत्संख्यं यजेन्मनुं | तर्पणेनैव कार्याणि साधयेदखिलान्यपि | द्विजो भिक्षावृत्तिर्य-इह दिनशो नन्दतनयः स्वयं भूत्वा भिक्षा मटति विहरन् गोपसुदृशाम् | अमाचेतोभिः स्वैर्ललितललितैर्नर्मविधिभिर्दधिक्षीरादाढ्यां प्रचुरतरभिक्षां स लभते | मध्ये कोणेषु षट्स्वप्यनलपुरपुटस्यालिखेत् कर्णिकायां कन्दर्पं साध्ययुक्तं विवरगतषडर्णद्विशः केशरेषु | शक्तिश्रीपूर्वकालिद्विनवलिपिमनो रक्षराणिच्छदानां मध्ये वर्णान् दशानां दशलिपिमनुवर्यस्य चैकैकशोऽव्जम् | भूसद्मनाभिवृतमस्रिगमन्मथेन गोरोचनाभिलिखितं तपनीयशूच्या | पट्टे हिरण्यरचिते गुलिकीकृतं तद्गोपालयन्त्र मखिलार्थदमेतदुक्तम् | सम्पातसिक्तमभिजप्तमिदं महद्भिर्धार्यां जगश्रयवशीकरणैरुदक्षम् | रक्षायशः सुतमहीधनधान्यलक्ष्मीसौभाग्यलिप्सुभिरजस्र मर्घ्यवीर्यम् | भूतोन्मादापस्मृतिविषमूर्च्छाविषमञ्ज्वरार्त्तानाम् | ध्यायन् शिरसि प्रजपेन्मन्त्रमिमं वाटिति शमयितुं विकृतीः | सुरस्त्रिविक्रमाक्रन्तश्चक्रीष्णायहृदित्यसौ | षडक्षरोऽयं संप्रोक्तः सर्वसिद्धिकरो मनुः | (प्. ११) क्रोडोऽग्निदीप्तोमायावी लवलाञ्छितमस्तकः | सैषा शक्तिः परासूक्ष्मा नित्या सम्वित् स्वरूपिणी | अस्थ्यग्निगोविन्दलवैर्लक्ष्मीवीजं समीरितम् | आभ्यामष्टादशलिपिः स्याद्विंशत्यक्षरो मनुः | शालग्रामे मनौ यन्त्रे मण्डले प्रतिमासु च | नित्यं पूजा तरेः कार्या न तु केवल भूतले | इति जपहूतपूजातर्पणाद्यैर्मूकुन्दं य -इह भजति मन्वोरेक माश्रित्य नित्यम् | स तु सुचिरप्रयत्नात् प्राप्य भोगानशेषान् पुनमरलतरं तद्धाम विष्णोः प्रयाति || इति क्रमदीपिकायां पञ्चमः पटलः | विनियोगानथो वक्ष्ये मन्त्रयो रुभयोः समान् | तदर्थकारिणोऽनन्तवीर्यान् मन्त्रांश्च कांश्च न | वन्दे तं देवकीसूनुं सद्योजातं द्युमप्रभम् | पीताम्वरं करलसच्चक्रशङ्खगदाम्वुजम् | एवं ध्यात्वा जपेन्मन्त्रं लक्षं व्रह्ममुत्वर्त्तके | स्वादुप्लुतैश्च कुसुमैः पालाशैरयुतं हूनेत् | मन्वोरन्यतरेणैवं कुर्याद् यः सुसमाहितः | स्मृतिमेधाधृतिवलं लब्ध्वा स कविराड्ड्वेत् | स्यान्मनुस्तत् समजपध्यानहोमफलोऽपरः | श्रीमन्मुकुन्दचरणौ सदेति शरणन्ततः | अहं प्रपद्य इत्युक्तो मौकुन्दोऽष्टादशाक्षरः | नारदस्य तु गायत्री मुदुन्दश्चर्षिपूर्वकाः | प्रातः प्रातः पिवेत्तोयं जप्त्वा योऽष्ठोत्तरं शतम् | अनेन षड्भिर्मासैः सभवेत् श्रुतिधरोनरः | उपसंहृतदिव्याङ्गम् पुरोवन्मातुरङ्कगम् | चलङ्गोश्चरणं वालं नीलाभासं स्मरन् जपेत् | अयुतं तावदेवाज्यैर्जुहूयाच्च हूताशने | सलभेदचलां भक्तिं श्रद्धां शान्तिञ्च शाश्वतीम् | मनुनैतत् समस्तान्ते मरुल्लसितशब्दतः | वाललीलात्मने हूं फट् नमः इत्यमुनाथवा | नलकूवरगायत्री वालकृष्ण-इतीरिता | ऋष्याद्याः सिद्धयः सर्वाः स्युर्ज्जपाद्यैरिहामुना | लघिते वालशयने रुदन्तं वल्लवीजनैः | प्रेक्ष्यमाणं दुग्धवुद्ध्या तर्पयेत् सोऽश्नुतेऽशनम् | अमुना वालरूपान्ते रसरूपपदं वदेत् | तुष्टरूपनमोद्वन्द्वमन्वाधिपतये नमः | अन्नं प्रयच्छ स्वाहेति त्रिंशद्वर्णोऽन्नदो मनुः | नारदोऽनुष्टुवन्नाधिपतयोऽस्यर्षिपूर्वकाः | भूतावालग्रहोन्मादस्मृतिभ्रंसादुपद्रवैः | पूतनास्तनपातारं ग्रस्तमुर्द्ध्नि स्मरन् जपेत् | सासुचुषणनिर्भिन्नसर्वाङ्गीं रुदतिञ्च ताम् | आविश्य सर्वे मुक्त्वा तं विद्रवन्तिद्रुतं ग्रहाः | जुहूयात् खरमञ्जर्या मञ्जरीभिर्विभावसौ | प्रस्नातः पञ्चगव्याद्भिः पुतनाहस्त?रानने | प्राशयेत् शिष्टगव्यम्तत् कलसेनाभिषेचयेत् | साध्यं सहस्रजप्तेन सर्वोपद्रवशान्तये | मनुनैतद्द्रादशार्णहूं फट् स्वाहास्तिकेन वा | ऋष्याद्या व्रह्मगायत्री ग्रहघ्नहरयोऽस्य तु | निजपादाम्वुजक्षिप्तशकटं चिन्तयन् जपेत् | अयुतं मन्त्रयोरेकं सर्वविघ्नोपशान्तये | अङ्गान्यमीषां मन्त्राणा माचक्रादिभिरर्चना | अङ्गैरिन्द्रादिवज्राद्यै रुदिता सम्पदे सदा | वालोनीलतनुर्दोभ्यां दध्युण्यं पायसं दधत् | हरिर्वोऽव्याद् द्विपनखकिङ्किनीजालमण्डितः | ध्यात्वैवमग्नौ जुहूयात् शतवीर्याङ्कुरत्रिकैः | पयः सर्पिःप्लुतैर्लक्षमेकं तावज्जपन् मनुम् | गुरवे दक्षिणां दत्त्वा भोजयेद् द्विजपूङ्गवान् | सह्यव्दानां शतं जीवेन्निरोगोनात्र संशयः | अत्राप्यन्यो मनुर्द्वादशार्णान्ते पुरुषोत्तमम् | आयुर्मे देहि सम्भाष्य विष्णवे प्रभविष्णवे | नमोऽन्तोद्व्यधिकत्रि*शदणोऽस्यर्षिस्तु नारदः छन्दोऽनुष्टुव्देवता च श्रीकृष्णोऽङ्गानि च व्रुवे | रविभूतेन्द्रियवसुनेत्राणैश्चात्मने युतैः | महानदप्रतिज्योतिर्मायाविद्यापदैः क्रमात् | जप्त्वा लक्षमिमं मन्त्रमयुतं पायसैर्हूनेत् | पूर्ववद्दूर्वया जुह्वदायुर्द्दीर्घतरं लभेत् | दारयन्तं वकं दोर्भ्यां कृष्णं संगृह्य तुण्डयोः | स्मरन् शिशूनामातङ्के स्पृष्ट्वान्यतरमभ्यसेत् | तज्जप्ततिलजाभ्यङ्गाद्भवेयुः सुखिनश्च ते | अत्राप्यन्योमनुर्वालवपुसे वह्निवल्लभा | गोरक्षायां क्वणद्वेणुं चारयन्तं पशूंस्तथा | उक्त्वा च गोपालपदं पुनर्वेशधराय च | वासुदेवाय वर्मास्त्रशिखास्याष्टादशाकृअरः | मनुर्नारदगायत्री कृष्णर्ष्यादिरनेन वा | कुर्याद्गोपालसंरक्षामाचक्राद्यङ्गिना वुधः | कुम्भीनसादिक्ष्नेडार्त्तौ दष्टमूर्द्ध्नि स्मरन् हरिम् | नृत्यन्तं कालीयफणावद्धेऽन्यतरमभ्यसेत् | दृष्ट्या पीयुषवर्षिण्या सिञ्चन्तं तत्तनुं वुधः | तर्ज्जयन् वामतर्ज्जन्या तं द्राङ्मोचयते विषात् | आपुर्य कलसं तोयैः स्मृत्वा कालीयमर्द्दनम् | जप्त्वाष्टशतमासिञ्चेद्विषिणं स सुखी भवेत् | काव्यमध्ये नियम्यान्ते फणामध्ये द्विवर्णकान् | उक्त्वा पुनर्वदेन्नित्यं करोति तमनन्तरम् | नमामि देवकीपुत्र मित्युक्त्वा नृत्यशव्दतः | राजानमच्युतं व्रुयादिति दण्डलिपिर्मनुः | अस्याङ्गान्यङ्घ्रिभिर्व्यस्तैः समस्तैर्नारदोमुनिः | छन्दोऽनुष्टुव्देवता च कृष्णः कालीयमर्दनः | जप्याल्लक्षं मनुवरं होतव्यं सर्पिषा युतम् | अङ्गदिक्पालवज्राद्यैरर्चनास्य समीरिता | क्रियानेनैव वा सर्वा कर्त्तव्या प्रागुदीरिता | सदृक्षोऽनेन जगति न हि क्ष्वेडहरो मनुः | अङ्गैः शुकतरोः पिष्टैर्गुलिका धेनुवारिणा | विषघ्नी पाननस्याञ्जनालेपैः साधितामुना | उद्दण्डवामदार्दण्डधृतगोवर्द्धनाचलम् | अन्यहस्ताङ्गुलिव्यक्तस्वरवंशार्पिताननम् | ध्यायन् हरिं जपेन्मन्वोरेकं छत्रं विना व्रजन् | वर्षवाताशनिभ्यः स्याद्भयं तस्य न हि क्वचित् | मोघमेघोघयत्नापगतेन्द्रं संस्मरन् हूनेत् | लोनैरषुतसंख्यः स्यादनावृष्टिर्नसंशयः | क्रीडन्तं यमुनामध्ये मज्जनप्लावनादिभिः | तच्छीकरजलासारैः सिच्यमानं प्रियाजनैः | (प्. १२) ध्यात्वायुतं पयःसिक्तैर्हूनेद्वानीरतर्पणैः | वृष्टिर्भवत्यकालेऽपि महती नात्र संशयः | अद्यमेव स्मरन् मूर्द्ध्नि विषस्फोटज्वरादिभिः | सदाहमोहैरार्त्तस्य जपेच्छान्तिर्भवेत् क्षणात् | अथवा गरुडारुढं वलप्रद्युम्नसंयुतम् | निजज्वरविनिस्पिष्टज्वराभिष्णुतमच्युतम् | ध्यात्वा ज्वराभिभूतस्य मूर्द्धान्यतरमभ्यसेत् | शान्तिं व्रजेदसाध्योऽपि ज्वरः सोपद्रवः क्षणात् | ध्यात्वैव मग्नावभ्यर्च्य पयोक्तैश्चतुरङ्गुलैः | जुहूयादमृताखण्डैरयुतं ज्वरशान्तये | निशातशरनिर्भिन्नभीष्मतापहरं हरिम् | स्मृत्वा स्पृशन् जपेदार्त्तं पाणिभ्यां रोगशान्तये | अपमृत्युविनाशाय सान्दीपनिसुतप्रदम् | ध्यात्वामृतलताखण्डैः क्षीराक्तैरयुतं हूनेत् | मृतपुत्राय ददतं सुतं विप्राय सार्जुनम् | ध्यात्वा लक्षं जपेदेकं मन्वोः सुतविवृद्धये | पुत्रजीवेन्धनचिते जुहूयादनलेऽयुतम् | तत्फलैर्मधुराक्तैः स्युः पुत्रादीर्घायुषोऽस्य तु | क्षीरद्रुक्वाथसंपूर्णमभ्यर्च्य कलसं निशि | जप्त्वायुतं प्रगे नारी मभिषिञ्चेद्द्विषड्दिनम् | सा वन्ध्यापि सुतान् दीर्घजीविनो गदवर्ज्जितान् | लभते नात्र सन्देहस्तर्ज्जप्ताज्याशिनी सती | प्रातर्वाचंषमा नारी वोधिच्छदपुटैर्जलम् | अष्टोत्तरशतं जप्तं मासं पुत्रीयति पिवेत् | देवकीसुत गोविन्द वासुदेव जगत्पते | देहि मे तनयं देव त्वामहं शरणं गता | प्रहितां काशिराजेन कृत्यां जित्वा निजारिणा | तत्तेजसा तन्नगरीं दहन्तं भावयन् हरिम् | सुस्नेहाक्तैर्हूनेद्रात्रौ सर्षपैः सप्तवासरम् | कृत्या कर्त्तारमेवासौ कुपितो नाशयिष्यति | आसीन माश्रमे दिव्ये वदरीषण्डमण्डिते | स्पृशन्तं पाणिपद्माभ्यां घण्टाकर्णकलेवरम् | ध्यात्वाच्युतं तिलैर्लक्षं हूनेत् त्रिमधुरप्लुतैः | जपेद्वा सर्वपापानां शान्तये कान्तये तनोः | द्वेषयन्तौ रुक्मिवलौ द्यूताशक्तौ स्मरन् हरिम् | जुहूयादिष्टयोदिष्ट्यै गुडिका गोमयोद्भवाः | ज्वलद्वह्निनिभैर्वाणैर्वर्षन्तं गरुडस्थितम् | धावमानं विप्रगण मनुधावन्तमच्युतम् | ध्यात्वैव मभ्यसेदेकं मनोः सप्तसहस्रकम् | उच्चाटनं भवेदेतद्रिपूणां सप्तभिर्द्दिनैः | उत्क्षिप्तवत्सकं ध्यायन् कपिण्यफलहारिणम् | अयुतं प्रजपेत् साध्यमुच्चाटयति तत्क्षणात् | आत्मानं कंसमथनं ध्यात्वा मष्वा?न्निपातितम् | कंसात्मानमविकर्षन् गतासुं प्रजपेन्मनुम् | अयुतं जुहूयाच्चास्य जन्मोडुतरुतर्पणैः | अपि सेवितपीयूषो म्रियतेऽरिर्न संशयः | अथवा निम्वतैलाक्तैर्हूनेदेधोभिरक्षजैः | अयुतं प्रजपेदात्रौ मारणाय रिपोः क्षणात् | दोषारिष्टदलव्योषकार्पासास्थिफणैर्निशि | हूनेदेरण्डतैलाक्तैः श्मशानस्थोऽरिशान्तये | न शस्तं मारणं कर्म कुर्याचेदयुतं जपेत् | हूनेद्वा पायसैस्तावत् शान्तये शान्तमानसः | जयकामो जपेल्लक्षं पारिजातहरं हरिम् | स्मरन् पराजयस्तस्य कुतश्चिन्न भविष्यति | पार्थे दिशन्तं गीतार्थं व्याख्यामुद्राकरं हरिम् | रथस्थं भावयन् जप्यात् धर्मवृद्ध्यै शमाय च | लक्षं पालाशकुसुमैरयुतं मधुराप्लुतैः | व्याख्याता सर्वशात्राणां सुकविर्वादिराड् भवेत् | विश्वरूपधरं प्रोद्यत्तास्वत्कोटिसमप्रभम् | द्रुतचामीकरनिभमग्नीसोमात्मकं हरिम् | अर्काग्निद्योतदास्याङ्घ्रि पङ्कजं दिव्यभूषणम् | नानायुधधरं व्याप्तविश्वाकाशावकाशकम् | राष्ट्रपूर्ग्रामवास्तूनां शरीरस्य च रक्षणे | प्रजपेन्मन्त्रयोरेकतरं ध्यात्वैव मादरात् | अथवा व्यस्तसर्वाङ्घ्रिरचिताङ्गार्ज्जुनर्षिकम् | त्रिष्टुप्छान्दसिकं विश्वरूपविष्ण्वधिदैवतम् | जपेद्गीतामनुं स्थाने ह्यषीकेशाद्य माजाकैः | हूनेद्वा सर्वरक्षायै सर्वविघ्नोपशान्तये || इति क्रमदीपिकायां षष्ठः पटलः | वक्ष्येऽक्षयधनावाप्त्यै प्रतिपत्तिं श्रियःपतेः | सुगुप्तां धननाथाद्यैर्धन्यैर्या क्रियते सदा | द्वारवत्यां सहस्रार्कभास्वरैर्भवनोत्तमैः | अनल्पैः कल्पवृक्षैश्च परीते मणिमण्डिते | ज्वलद्रत्नमयस्तम्भद्वारतोरणकुड्यके | फुल्लस्रगुल्लसच्चित्रवितानालम्विमौक्तिके | पद्मरागस्थलीराजद्रत्ननद्योश्च मध्यतः | अनारतजलद्रत्नधारस्य स्वस्तरोरधः | रत्नप्रदीपावलिभिः प्रदीपितदिगन्तरे | उद्यदादित्यसंकाशमणिसिंहासनाम्वुजे | समासीनोऽच्युतोध्येयो द्रुतहाटकसन्निभः | समानोदितचन्द्रार्कतडितकोटिसमप्रभः | सर्वाङ्गसुन्दरः सौम्यः सर्वाभरणभूषितः | पीतवासाश्चक्रशङ्खगदापद्मोज्ज्वलद्भूजः | अनारतोच्छलद्रत्नधारौघं कलसं स्पृशन् | वामपादाम्वुजाग्रेण मृष्टतापल्लवच्छविम् | रुक्मिणीसत्यभामेऽस्य मूर्द्ध्निरत्नौघधारया | सिञ्चन्त्यौ दक्षवामास्थस्वदोःस्थकलसोण्यया | नाग्नजितीसुनन्दे च दिशन्त्यो कलसौ तयोः | ताभ्याञ्च दक्षवामस्थमित्रविन्दासुलक्षणे | रत्ननद्योः समुद्धृत्य रत्नपूर्णो घटौ तयोः | जाम्ववति सूशीला च दिशन्त्यौ दक्षवामगे | वहिः षोडशसाहस्रसंख्याताः परितः प्रियाः | ध्येयाः कनकरत्नौघधारायुक्कलसोज्ज्वलाः | तद्वहिश्चाष्टनिधयः पूरयन्तोधनैधराम् | तद्वहिर्वृष्णयः सर्वे पुरोवच्च सुरादयः | ध्यात्वैवं परमात्मानं विंशत्यर्णं मनुं जपेत् | चतुर्ल्लक्षं हूनेदाज्यैश्चत्वारिंशत्सहस्रकम् | शक्तिश्रीपूर्वकोऽष्तादशार्णोविंशतिवर्णकः | मन्त्रोऽनेन सदृक्षोऽन्यो (मन्त्रेणानेन सदृशो) मनुर्न हि जगत्रये | ऋषिर्व्रह्मास्य गायत्रीच्छन्तः कृष्णस्तु देवता | पूर्वप्रोक्त वदेवास्य वीजशक्त्यादिकल्पना | (प्. १३) कल्पः सनत्कुमारोक्तो मन्त्रस्यास्योच्यतेऽधुना | पीठन्यासान्तिकं कृत्वा पूर्वोक्तक्रमतः सुधीः | करद्वन्द्वाङ्गलितलेष्वङ्गषट्कं प्रविन्यसेत् | मन्त्रेण व्यापकं कृत्वा मातृकां मनुसंपुटाम् | संहारसृष्टिमार्गेण दशतत्त्वानि च न्यसेत् | पुनश्च व्यापकं कृत्वा मन्त्रवर्णांस्तनौ न्यसेत् | मुर्द्ध्नि भाले भ्रुवोर्मध्ये नेत्रयोः कर्णयोर्नसोः | आनने चिवुके कण्ठे दोर्मूले हृदि तुन्दके | नाभौ लिङ्गे तथाधारे कट्योर्ज्जान्वोश्च जङ्घयोः | गुल्फयोः पादयोर्न्यस्येत् सृष्टिरेषा समीरिता | स्थितिर्हृदादिपादान्ता संहृतिश्चरणादिका | विधायैवं पञ्चकृत्वः स्थित्यस्तं मूर्त्तिपञ्जरम् | सृष्टिस्थिती च विन्यस्य षडङ्गन्यासमाचरेत् | गुणाग्निवेदकरणकरणाक्ष्यक्षरैर्मनोः | मुद्रां वद्धा किरीटाद्या दिग्वन्धं पूर्ववच्चरेत् | ध्यात्वा जप्त्वार्च्चयेद्देहं मूर्त्तिपञ्जरपूर्वकम् || अथ वाह्येऽर्चयेद्विष्णुं तदर्थं यन्त्रमूच्यते | गोमयेनोपलिप्योर्वीं तत्र पीठं निधापयेत् | विलिप्य गन्धपङ्केन लिखेदष्टदलाम्वुजम् | कर्णिकायान्तु षट्कोणम् ससाध्यन्तत्र मन्मथम् | शिष्टैस्तु सप्तदशभिरक्षरैर्वेष्टयेत् स्मरम् | प्राग्रक्षोऽनिलकोणेषु श्रियं शिष्टेषु संविदम् | षदक्षरं सन्धिषु च केशरेषु त्रिशस्त्रिशः | विलिखेत् स्मरगायत्रीं मालामन्त्रं दलाष्टके | षट्शः संलिख्य तद्वाह्ये वेष्टयेन्मातृकाक्षरैः | भूविम्वञ्च लिखेद्वाह्ये श्रीमाये दिग्विदिक्ष्वपि | एतद्यन्त्रं हाटकादिपट्टेष्वालिख्य पूर्ववत् | साधितं धारयेद्यो वै सोऽर्च्यते त्रिदशैरपि | स्याद्गायत्री कामदेवपुष्पवाणौ च ङेऽन्तकौ | विद्महे धीमहियुतौ तन्नोऽनङ्गः प्रचोदयात् | जप्या जपादौ गोपालमन्त्राणां जनरञ्जनी | नत्यन्ते कामदेवाय ङेऽन्तं सर्वजनप्रियम् | उक्त्वा सर्वजनान्ते तु सम्मोहनपदन्तथा | ज्वल ज्वल प्रोज्ज्वलेति प्रोक्त्वा सर्वजनस्य च | हृदयं मम च व्रुयाद्वशं कुरु युगं शिवः | प्रोक्तोमदनमन्त्रोऽष्टचत्वारिंशद्भिरक्षरैः | जपादौ सारवीजाढ्यो जगत्रयवशीकरः | भूगृहं चतुरस्रं स्यादष्टशूल (वज्र) विभूषितम् || पीठः पूर्ववदभ्यर्च्य मूर्त्तिं संकल्प्य पौरुषीम् | तत्रावाह्याच्युतं भक्त्या सकलीकृत्य पूजयेत् | आसनादिविभूषान्तं पुनर्न्यासक्रमाद्यजेत् | सृष्टिस्थितिषडङ्गञ्च किरीटं कुण्डलद्वयम् | शङ्खचक्रगदापद्ममालाश्रीवत्सकौस्तुभान् | गन्धाक्षतप्रसूनैश्च मूलेनाभ्यर्च्य पूर्ववत् | आदौ वह्निपुरद्वन्द्वकोणेष्वङ्गानि पूजयेत् | सहृच्छिरः शिखावर्म नेत्रमस्त्रमिति क्रमात् | वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः | अग्न्यादिदलमूलेषु शान्तिः श्रीश्च सरस्वती | रतिश्च दिग्दलेष्वर्च्या ततोऽष्टौ महिषीर्यजेत् | रुक्मिण्याद्या दक्ष सव्यक्रमात् पत्राग्रकेषु च | ततः षोडशसाहस्रं सकृदेवार्चयेत् प्रियाः | इन्द्रनीलमुकुन्दाद्यान्मकरानन्दकच्छपान् | शङ्खपद्मादिकांश्चापि निधीनष्टौ क्रमाद्यजेत् | तद्वहिश्चेन्द्रवज्राद्या आवृतीः संप्रपूजयेत् | इति सप्तावृतिवृतमभ्यर्च्याच्युतमादरात् | प्रीणयेद्दधिखण्डाज्यसंमिश्रेण पयोऽन्धसा | राजोपचारान् दत्त्वा तु स्तुत्वा नत्वा तु केशवम् | उद्वासयेत् स्वहृदये परिवारगणैः सह | न्यस्यात्मानं समभ्यर्च्य तन्मयः प्रजपेन्मनुम् | रत्नाभिषेके ध्यानेज्या विंशत्यर्णाश्रितेरिता | जपहोमार्चनध्यानैर्योमु?ं प्रभजते मनुम् | तद्वेश्म पूर्यतेरनैः स्वर्णधान्यैरनावृतम् | पृथ्वी पृथ्वी करे तस्य सर्वशस्य समाकुला | पुत्रैर्मित्रैः सुसम्पन्नः प्रयात्यन्ते परां गतिम् | वह्नावभ्यर्च्य गोविन्दं सितपुष्पैः सतण्डुलैः | आज्याक्तैरयुतं हूत्वा भस्मतन्मूर्द्ध्नि धारयेत् | तस्यान्नादि समृद्धिः स्यात्तद्वशे सर्वयोषितः | आज्यैर्लक्षं हूनेद्रक्तपद्मैर्वा मधुराप्लुतैः | श्रिया तस्यैन्द्रमैश्वर्यं तृणलेशायते ध्रुवम् | शुक्लादिवस्त्रलाभाय शुक्लादिकुसुमैर्हूनेत् | त्रिमधवाक्तैर्दशशतमाज्याक्तैर्वाष्टसंयुतम् | क्षौद्रसिक्तैः सितैः पुष्पैः पुष्पैरष्टोत्तरसहस्रकम् | हूनेन्नित्यं यः समासात् पुरोधा नृपतेर्भवेत् | दशाष्टादशवर्णोक्तजपध्यान हूतादिकम् | विदध्यात् कर्म वानेन ताभ्यामप्यत्र कीर्त्तितम् | श्रीशक्तिस्मरकृष्णाय गोविन्दाय शिरोमनुः | रव्यर्णो व्रह्मगायत्री कृष्णर्ष्यादिरथास्य तु | वीजैस्त्रिवेदयुग्मार्णैरङ्गषट्क मुदाहृतम् | विंशत्यर्णोदितजपध्यानहोमार्चनक्रियाः | मन्त्रोऽयं सकलैश्वर्यकाङ्क्षिभिः सेव्यतां वुधैः | श्रीशक्तिकामपूर्वोङ्गजन्मशक्तिरमान्तिकः | दशाक्षरः स एवादौ स्याच्चेच्छक्तिरमायुतः | मन्त्रौ विकृतिरव्यर्णावाचक्राद्यङ्गिनाविमौ | विंशत्यर्णोक्तयजनविधी ध्यायेदथाच्युतम् | वरदाभयहस्ताभ्यां श्लिष्यन्तं स्वाङ्गगे प्रिये | पद्मोत्पलकरे ताभ्यां श्लिष्टं चक्रवरोज्ज्वलम् | दशलक्षं जपेदाज्यैस्तावत् साहस्रहोमतः | सिद्धाविमौ मनू सर्वसम्पत्सौभाग्यादौ नृणाम् | मारशक्तिरमापूर्वः शक्तिश्रीमारपूर्वकः | श्रीशक्तिमारपूर्वश्च दशार्णोमनवस्त्रयः | एतेषां मन्त्रवर्याणामङ्गर्ष्यादि दशार्णवत् | शङ्खचक्रधनुर्वाणपाशाङ्कुशधरोऽरुणः | वेणुं धमन् धृतं दोर्भ्यां ध्येयः कृष्णोदिवाकरे | आद्ये मनौ ध्यानमेवं द्वितीये विंशदर्णवत् | दशार्णवत् तृतीयेऽङ्गदिक्पालाद्यैः समर्चना | पञ्चलक्षं जपेत्तावदयुतं पायसैर्हूनेत् | ततः सिद्ध्यन्ति मनवो नृणां सस्पन्तिकामदाः | अष्टादशार्णोमारान्तोमनुः सुतधनप्रदः | ऋष्याद्यष्टादशार्णोक्तं मारारुढस्वरैः क्रमात् | (प्. १४) अङ्गान्यस्य मनोरङ्गदिक्पालाद्यैः समर्चना || पाणौ पायसपङ्कमाहितरसं विभ्रन्मुदा दक्षिणे सव्ये शारदचन्द्रमण्डलनिभं हैयङ्गवीनं दधत् | कण्ठे कल्पितपुण्डरीकनखमद्दुद्दामदीप्तिं वहन् देवोदिव्यदिगम्वरो दिशतु नः सौख्यं यशोदाशिशुः || दिनशोऽभ्यर्च्य गोविन्दं द्वात्रिंशल्लक्षमानतः | जप्त्वा दशांशं जुहूयात् सिताज्येन पयोन्धसा | पद्मस्थं देवमभ्यर्च तर्पयेत्तन्मुखाम्वुजे | क्षीरेण कदलीपङ्कैर्दध्ना हैयङ्गवेन च | सुतार्थी तर्पयेद्देवं वतसराल्लभते सुतम् | यद्यदिच्छति तत्सर्वं तर्पणादेव सिध्यति | वाग्भवं कामवीजञ्च कृष्णाय भूवनेश्वरी | गोविन्दाय रमागोपी जनवल्लभङे शिवः चतुर्दशस्वरोपेतः शुक्रः सर्गी तदूर्द्धतः | द्वाविंशत्यक्षरोमन्त्रो वागीशत्वप्रदायकः | अष्टादशार्णवत् सर्वमङ्गर्ष्यादिकमस्य तु | पूजा च विंशत्यर्णोक्ता प्रतिपत्तिस्तु कथ्यते | वामोर्द्धहस्ते दधतं विद्यासर्वस्वपुस्तकम् | अक्षमालाञ्च दक्षोर्द्धे स्फाटिकीं मातृकामयीम् | शव्दव्रह्ममयं वेणु मधः पाणिद्वयेऽङ्कितम् | गायन्तं पीतवसनं श्यामलं कोमलच्छविम् | वर्हिवर्हकृतोत्तंसं सर्वज्ञं सर्ववेदिभिः | उपासितं मुनिगणैरुपतिष्ठेद्धरिं सदा | ध्यात्वैवं प्रमदावेशविलासं भुवनेश्वरम् | चतुर्ल्लक्षं जपेन्मन्त्रममुं मन्त्री सुसंयतः | पलासपुष्पैः स्वाद्वक्तैश्चत्वारिंशत्सहस्रकम् | जुहूयात् कर्मणानेन मनुः सिद्धोभवेद् ध्रुवम् | योऽस्मिन्निष्णातधीर्मन्त्री वर्त्तते वक्रगह्वरात् | गद्यपद्यमयी वाणी तस्य गङ्गा प्रवाहवत् | सर्ववेदेषु शास्त्रेषु सङ्गीतेषु च पण्डितः | सम्पत्तिं परमां लव्ध्वा चान्ते भूयात् परं पदम् | तारं हृद्भगवान् ङेन्तो नन्दपुत्रपदन्तथा | नन्दान्ते वपुषेऽस्थ्यग्निमायान्ते दशवर्णकः | अष्टाविंशत्यक्षरोऽयं व्रुवेद्द्वात्रिंशदक्ष्रं | नन्दपुत्रपदं ङेन्तं श्यामलाङ्गपदन्तथा | तथा वालवपुः कृष्णगोविन्दौ दशवर्णकः | अनयोर्नारदऋषिश्छन्द उष्णिगनुष्टुभौ | आचक्राद्यैरङ्गमङ्गदिक्पालाद्यैस्तु पूजनम् | दक्षिणे रत्नचषकं वामे सौवर्णवेत्रकम् | करे दधानं देवीभ्यामाश्लिष्टं चिन्तयेद्धरिम् | जपेल्लक्षं मनुवरौ पायसैरयुतं हूनेत् | एवं सिद्धमनुर्मन्त्री त्रैलोक्यैश्चर्यभाग्भवेत् | तारं श्रीशक्तिवीजाढ्यं नमो भगवते पदम् | नन्दपुत्रपदं ङेन्तं भूधारामुखवृत्तयुक् | मांसान्ते वपुषोमन्त्र उनविंशाक्षरात्मकः | ऋषिर्व्रह्मानुष्टुप्छन्दस्तथान्यदुदितं समम् | अयञ्च सर्वसम्पत्तिसिद्धये सेव्यतां मनुः | तारं हृद्भभगवान् ङेऽन्तो रुक्मिणीवल्लभस्तथा | शिवोऽन्तः षोडशार्णोऽयं रुक्मिणीवल्लभाह्वयम् | सर्वसम्पत्प्रदोमन्त्रो नारदोऽस्य मुनिः स्मृतः | छन्दोनुष्टव्देवता च रुक्मिणीवल्लभो हरिः | एकदृग्वेदमुनिदृक्वर्णैरस्याङ्गपञ्चकम् || तापिञ्जच्छविरङ्कगां प्रियतमां स्वर्णप्रभामम्वुजप्रोद्यद्वामभूजां स्ववामभुजया श्लिष्यन् सचिन्ताश्मना | श्लिष्यन्तीं स्वयमन्यहस्तविलसत्सौवर्णवेत्रश्चिरं पायाद्वोऽसनसूनपीतवसनो नानाविभूषो हरिः | ध्यात्वैवं रुक्मिणीनाथं जपेल्लक्षमिमं मनुम् || अयुतं जुहूयात् पद्मैररुणैर्मधुराप्लुतैः | अर्चयेन्नित्यमङ्गैस्तं नारदाद्यैर्दिशाधिपैः | वज्राद्यैरपि धर्मार्थकाममोक्षाप्तये नरः | लीलादण्डधरो गोपीजनसंसक्तदोः पदम् | दण्डान्ते वालरुपेति मेघश्यामपदन्ततः | भगवन् विष्णुरित्युक्तो वह्निजायान्तको मनुः | एकोनत्र्ंशदर्णोऽस्य मुनिर्नारद ङ्गेरितः | छन्दोऽनुष्टव्देवता च लीलादण्डधरोहरिः | मन्वव्धिकरणाग्न्यव्धिवर्णैरङ्गक्रिया मता | सम्मोहयन्निजकरामकरस्थलीला दण्डेन गोपयुवतीः पुरसुन्दरीश्च | दिश्यन्निजप्रियसखिं सकृदक्षहस्तोदेवः श्रियः निहतकंस उरुक्रमोवः || ध्यात्वैवं प्रजपेल्लक्षमयुतं तिलतण्डुलैः | त्रिमध्वक्तैर्हूनेदङ्गं दिक्पालाद्यैः समर्चना || लीलादण्डहरिं यो वै भजते नित्यमादरात् | स पूज्यते सर्वलोकैस्तं भजेदिन्दिरा सदा | त्रयोदशस्वरोपेतः शार्ङ्गी मेदः सकेशवः | तथा मांसयुगं भाय शिरः सप्ताक्षरोमनुः | आचक्राद्यैरङ्गकृत्?प्तिर्नारदोऽस्य मुनिः स्मृतः | छन्द-उष्णिगदेवता च गोवल्लभ उदाहृतः | ध्येयोऽच्युतः स कपिलागणमध्यसंस्थस्तामाह्वयन् दधद्दक्षिणदोष्णि वेणुम् | पाशं सयष्टिमपरत्र पयोदलीलः पीताम्वरोऽहिरिपुपिच्छकृतावतंसः || मुनिलक्षं जपेदेनं हूनेत् सप्तसहस्रकम् | गोक्षीरैरङ्गदिक्पालमध्येऽर्च्यं गोगणाष्टकम् | अष्टोत्तरसहस्रं यः पयोभिर्दिनशो हुनेत् | पक्षात् स गोगणैराढ्योदशार्णेनैव वा विधिः | सलवोवासुदेवोहृत् ङेऽन्तञ्च भगवत्पदम् | श्रीगोविन्दपदं तद्वद्द्वादशार्णोऽयमीरितः | मनुर्नारदगायत्री कृष्णर्ष्यादिरथाङ्गकम् | एकाक्षिरेदभूतार्णैः समस्तैरपि कल्पयेत् | वन्दे कल्पद्रुमूलाश्रितमणिमयसिंहासने सन्निविष्टं नीलाभं पीतवस्त्रं करकमललसच्छङ्खवेत्रं मुरारिम् | गोभिः सप्रस्रवाभिर्वृतममरपतिप्रौढहस्तस्थकुम्भप्रच्योतत्- सौधधारास्नपितमभिनवाम्भोजपत्राभनेत्रम् | एवं ध्यात्वाच्युतं जप्त्वारविलक्षं हुनेत्ततः | दुग्धैर्द्वादशसाहस्रं दिनशोऽमुं समर्चयेत् | गोष्ठे प्रतिष्ठितं वात्मगेहे वा प्रतिमादिषु | समस्तपरिवारार्च्यास्ताः पुनर्विष्णुपार्षदाः | द्वारे ग्रावणि पीठैऽर्च्याः पक्षीन्द्रश्च तदग्रतः | चण्डप्रचण्डौ प्राग्धातृविधातारौ च दक्षिणे | जयः स विजयः पश्चात् वलः प्रवल उत्तरे | उर्द्धे द्वारश्रियं चेष्ट्वा द्वार्येतान् युग्मशोऽर्चयेत् | पूज्यो वास्तुः पुमांस्तत्र तत्र द्वाः पीठमध्यतः | (प्. १५) द्वारान्तः पार्श्वयोरर्च्या गङ्गा च यमुना विधी | कोणेषु विघ्नं दुर्गाञ्च वाणीं क्षेत्रेशमर्चयेत् | अर्चयेद्वास्तुपुरुषं वेश्ममध्ये समाहितः | तारं शार्ङ्गपदं ङेन्तं सपूर्वञ्च शरन्तथा (सवासनम्) | हूं फट् नतीरप्युक्त्वास्त्रमुद्रयाग्रस्थितोहरेः | पुष्पाक्षतं क्षिपेद्दिक्षु समाहितासने ततः | विधेयमेतत् सर्वत्र स्थापितेषु विशेषतः | आत्मार्चनान्तं कृत्वाथ गुरुपत्नीः पुरोक्तवत् | श्रीगुरुन् परमाद्यांश्च महास्मत् सर्वपूर्वकान् | तत्पादुकान् नारदादीन् पूर्वसिद्धाननन्तरम् | ततो भागवतांश्चेष्ट्वा विघ्नं दक्षिणतोऽर्चयेत् | पूर्ववत् पीठमभ्यर्च्य श्रीगोविन्द मथार्चयेत् | रुक्मिणीं सत्यभामाञ्च पार्श्वयोरिन्द्रमग्रतः | पृष्ठतः सुरभिञ्चेष्ट्वा केशरेष्वङ्गदेवताः | अर्च्या हृदादिवर्मान्ता दिक्ष्वस्त्रं कोणकेषु च | कालिन्दीरोहिणीनाग्नजित्याद्याः षट् च शक्तयः | दलेषु पीठकोणेषु दामाद्यर्च्यास्तु किङ्किणी | दामादीन् यष्टिवेणुञ्च पुरः श्रीवत्सकौस्तुभौ | अग्रतो वनमालाञ्च दिक्ष्वष्टसु ततोऽर्चयेत् | पाञ्चजन्यं गदां चक्रं वसुदेवञ्च देवकीम् | नन्दगोपं यशोदाञ्च सगोगोपालगोपिकाः | इन्द्राद्यान् कुमुदाद्यांश्च विश्वक्सेनं तथोत्तरे | कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः | शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः | एककालं द्विकालम्वा त्रिकालं वेति गोष्ठगम् | श्रीगोविन्दं यजेन्नित्यं गोपीभ्यश्च रसप्रदम् | दीर्घजीवी निरातङ्को धेनुधान्यधनादिभिः | पुत्रैर्मित्रौरहाढ्योऽन्ते प्रयाति परमं पदम् | उर्द्धदन्तयुतः शार्ङ्गी चक्री दक्षिणकर्णयुक् | मांसनाथाय नत्यन्तो मूलमन्त्रोऽष्टवर्णकः | ऋषिर्व्रह्मास्य गायत्रीच्छन्दः कृष्णश्च देवता | वर्णयुग्मैः समस्तेन प्रोक्तं स्यादङ्गपञ्चकम् | पञ्चवर्षमतिदृप्तमङ्गने धावमानमलकाकुलेक्षणम् | किङ्किणीवलयहारनूपुरैरञ्चितं स्मरत् गोपवालकम् | ध्यात्वैवं प्रजपेदष्टलक्षं तावत् सहस्रकम् | जुहूयाद्व्रह्मवृक्षोण्यसमिद्भः पायसेन वा | प्रासादे स्थापितं कृष्णममुना नित्यमर्चयेत् | द्वारपूजादि पीठार्चनान्तं कृत्वोक्तमार्गतः | मध्येऽर्चयेद्धरिम् दिक्षु विदिक्ष्वङ्गानि च क्रमात् | वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः | रुक्मिणी सत्यभामा च लक्ष्मणा जाम्ववत्यपि | दिग्विदिक्ष्वर्चयेदेतानिद्रवज्रादिकान् वहिः | योऽमुं मन्त्रं जपेन्नित्यं विधिनाभ्यर्चयन् हरिम् | स सर्वसम्पत्संयुक्तो नित्यं शुद्धपदं व्रजेत् | तारश्रीशक्तिमारान्ते श्रीकृष्णायपदं वदेत् | श्रीगोविन्दाय तस्योर्द्धं श्रीगोपीजन इत्यपि | वल्लभाय ततः स्त्रीः श्रीं सिद्धगोपालकोमनुः | माधवीमण्डपासीनौ गरुडेनाभिपालितौ | दिव्यक्रीडासुनिरतौ रामकृष्णौ स्मरन् जपेत् | चक्री वसुस्वरयुतः सर्गैकार्णोमनुर्मतः | कृष्णेति द्व्यक्षरः कामपूर्वस्त्र्यर्णः स एव तु | स एव चतुर्वर्णः स्यात् ङेऽन्तोऽन्यश्चतुरक्षरः | वक्ष्यते पञ्चवर्णः स्यात् कृष्णाय नम इत्यपि | कृष्णायेति स्मरद्वन्द्वमध्ये पञ्चाक्षरोऽपरः | गोपालायाग्निजायाभ्यां षडक्षर उदाहृतः | कृष्णाय स्मरवीजाद्यो वह्निजायान्तिकोऽपरः | षडक्षरः प्रागुदितः कृष्णगोविन्दकौ पुनः | सचतुर्थी सप्तवर्णः सप्तार्णोऽन्यपरोदितः | श्रीशक्तिमारकृष्णाय मारः सप्ताक्षरोमनुः | कृष्णगोविन्दकौ ङेऽन्तौ स्मराद्यावष्टवर्ण.कः | दधिभक्षणङेवह्निजायाभिरपरोऽष्टकः | सुप्रसन्नात्मने प्रोक्तो नम इत्यपरोऽष्टकः | प्राक् प्रोक्तोमूलमन्त्रश्च नवार्णः स्मरसंयुतः | कृष्णगोविन्दकौ ङेऽन्तौ नमोऽन्तोऽन्योनवार्णकः | क्लीं ग्लौं क्लीं स्यामलाङ्गाय नमः स्याद्दशवर्णकः | शिरोऽन्तोवालवपुषे कृष्णयान्योमनुर्मतः | शिरोऽन्तोवालवपुषे क्लीं कृष्णाय स्मृतोवुधैः | एकादशाक्षरोमन्त्र एतेषां नारदोमुनिः | छन्दस्तु देवी गायत्री देवता कृष्णङ्गेरितः | कलषड्दीर्घकैरङ्गमथामुं चिन्तयेद्धरिम् | अव्याद्व्याकोषनीलाम्वुजरूचिररुणाम्भोजनेत्राम्वुजस्थोवालोजंघा- कटीरस्थलकलितरणत्किङ्किणीकोमुकुन्दः | दोर्भ्यां हैयङ्गवीनं दधदतिविमलं पायसं विश्ववन्द्योगोगोपीगोपवीतोरुरुनखविलसत्कण्ठभूषश्चिरं वः | ध्यात्वैव मेक मेतेषां लक्षं जप्यान्मनुं ततः | सर्पिः सितोपलोपेतैः पायसैरयुतं हूनेत् | तर्पयेत्तावदेतेषां मनुनां हूतसंख्यया | तर्पणं विहितं नित्यं योऽर्चयेत् सुसमाहितः | वह्न्यादीशान्त मङ्गानि हृदादिकवचान्तिकम् | अर्चयेत् पुरतो नेत्रमन्त्रं दिक्षु वहिः पुनः | इन्द्रवज्रादिकाः पूज्याः सपर्यैषां समीरिता | इत्येक मेषां मन्त्राणां भजेद्योमनुवित्तमः | करप्रचेयाः सर्वार्थास्तस्यासौ पूज्यते नरैः | सद्यः फलप्रदं मन्त्रं वक्ष्येऽन्यञ्चतुरक्षरम् | संप्रोक्तोमारयुग्मान्तरस्थकृष्णपदेन तु | ऋष्याद्यमङ्गषट्कञ्च प्रागुक्तं प्रोक्तमस्य तु | श्रीमत्कल्पद्रुमूलोद्गतकमल लसत्कर्णिकासंस्थितो यस्तत्शाखालम्विपद्मोदरविसरसंख्यातरत्नाभिषिक्तः | हेमाभः सुप्रभाभिस्त्रिभुवनमखिलं भासयन् वासुदेवः पायाद्वः पायसादोनवनवनवनीतामृताशी वशी सः | ध्यात्वैवं प्रजपेल्लक्षचतुष्कं जुहूयात्ततः | त्रिमध्वक्तैर्विल्वफलैश्चत्वारिंशत्सहस्रकम् | अङ्गैर्निधिभिरिन्द्राद्यैर्वज्राद्यैर्वचनोदिता | तर्पयोद्दिनशः कृष्णं स्वादुत्रयधिया जलैः | मारयोरस्य मांसाधोरक्तञ्चेदपरोमनुः | षड्ङ्गान्यस्य कप्ल्यानि (कलषड्) दीर्घैर्मन्त्रशिखामणेः | आरक्तोद्यानकल्पद्रुमशिखरलसत्स्वर्णदोलाधिरुढं गोपीभ्यां प्रेक्ष्यमाणं विकसितनववन्धकसिन्दूरभासम् | वालं (प्. १६) लीलालकान्तं कटितटविलसत्क्षुद्रघण्टाघटाढ्यं वन्दे शार्दूलकामाङ्कुशलसितगदाकल्पदीप्तं मुकुन्दम् | ध्यात्वैवं पूर्वकृत्?प्त्यैनं जप्त्वाराजोत्पलैर्नवैः | मधुत्रययुतैर्हूत्वा तर्पयेत् पूर्ववद्धरिम् | मधुरत्रयसंयुक्ता मारक्तां शालिमञ्जरीम् | जुहूयान्नित्यशोऽष्टोर्द्धशतमेकेन मन्त्रयोः | अस्य मण्डलतः पृथ्वी पृथ्वीशस्य कुलाकुला | स्यात् शालिपूञ्जपूर्णञ्च तद्वेश्माशु प्रजायते | यश्चैतयोर्नियतमन्यतरं भजेत् मन्वोर्जपार्चनहूतादिभि रात्मभक्तिः | श्रीमान् स मन्मथ-इवप्रमदासु वाग्मी भूयात्तनोर्विपदि तच्च महाच्युताख्यम् | इति क्रमदीपिकायां सप्तमः पटलः | अथोच्यते वश्यविधिः पुरोक्तदशार्णतोऽष्टादशवर्णतश्च | स्मृत्यैव यौ सर्वजगत्प्रियत्वं मनू मनुज्ञस्य सदा विधत्तः | फुल्लैर्वन्यप्रसूनैरमुममलतरैरर्चयित्वा दिनादौ नित्यं नित्यक्रियायां रतमथ दिनमध्योक्तकृत्?प्त्या मुकुन्दम् | अष्टोपेतं सहस्रं दशलिपिमनुवर्यं जपेदयः | स मन्त्री कुर्याद्वश्यान्यवश्यं मुखरमुखतरां मण्डलान्मण्डलानि | जातीप्रसूनैर्वरगोपवेशं क्रीडारतं रक्तहयारिपुष्पैः | नीलोत्पलैर्गीतिरतं पुरोवदिष्ट्वा नृपादीन् वशयेत् क्रमेण | सितकुसुमसमेतैस्तण्डुलैराज्यसिक्तैर्दशशतमथ हूत्वा नित्यशः सप्तरात्रम् | कचभुवि च ललाटे भस्म तद्धारयेद्योवशयति युवतीं स्त्रीं सापि नृंस्तद्वदेव | ताम्वूलवस्त्रकुसुमाञ्जनचन्दनाद्यं जप्तं सहस्रतरमन्यतरेण मन्वोः | यस्मै ददाति मनुवित् स नरोस्य मंक्षुः स्यात् किङ्करोन खलु तत्र विचारणीयम् | राजद्वारे व्यवहारे सभायां द्यूते वादे वाष्टयुक्तं शतं यः | जप्त्वा वाचं प्रथमामीरयेद्वै वर्त्तेतासौ तत्र तत्रोपरिष्टात् | आसीनं मुरमथनं कदम्वमूले गायन्तं मधुरतरं व्रजाङ्गनाभिः | स्मृत्वाग्नौ मधुमिलितैर्मयूरकेध्नैर्हूत्वासौ वशयति मन्त्रवित्त्रिलोकीम् | रासमध्यगतमच्युतं स्मरन् यो जपेद्दशशतं दशाक्षरम् | नित्यशोधाटिति मासतोनरोवाञ्छितामभिवहेत् स कन्यकाम् | तुङ्गकुञ्जमधिरुढमच्युतं या विचिन्त्य दिनशः सहस्रकम् | साष्टकं जपति सा हि मण्डलाद् वाञ्छितं वरमुपैति कन्यका | नृत्यन्तं व्रजसुन्दरीजनकरान्तोजानि संगृह्य तं ध्यात्वाष्टादशवर्णकं मनुवरं लक्षं जपेन्मन्त्रवित् | लाजानामथवा मधुद्रुततरैर्हूत्वायुतं कर्णकैरुद्वोढुम् प्रजपेच्च तावदचिरादाकाङ्क्षितां कन्यकाम् | अष्टादशाक्षरेण द्विजतरुजैस्तर्पणै स्त्रिमध्वक्तैः | अयुतं कुशैस्तिलैर्वा सतण्डुलैर्वशयितुं द्विजान् जुहूयात् | कृतमालभवैश्च कुरुण्टकजैर्नृपतीन् वकुलैश्च कुरुण्टकजैः | विशमक्षभवैरपि पाटलजै रितरानपि तद्वदथो वशयेत् | अभिनवैः कमलैररुणोत्पलैः समधुरै रपि चम्पकपाटलैः | प्रतिहूनेदयुतं क्रमशोऽचिराद्वशयितुं मुखजादिवराङ्गनाः | हयारिकुसुमैनवैस्त्रिमधुराप्लुतैर्नित्यशः सहस्रमृषिवासरं प्रतिहूनेत् निशीखे वुधः | सुगर्वितधियं हटाज्धाटिति वारयोषामसुअ करोति निजकिङ्करीं स्मरशिलीमुखैरर्दिताम् | कटुसंयुतैस्त्रिमधुरार्द्रतरैः सितसर्षपैर्दशशतत्रितयम् | निशि जुह्वतोऽस्य शचीदयितोप्यवशोवशोभवति किन्न परैः | अथ विल्वजै श्च फलसमित्प्रसवच्छदनैर्मधुद्रुततरैर्हवनात् | कमलैः सिताक्षतयुतैश्च कमलां चिराय वशयेदचिरात् | अपहृत्य गोपवनिताम्वराण्यमाहृदयैः कदम्वमधिरुढमच्युतम् | प्रजपेत् स्मरन्निशि सहस्रमानयेद्वशमुर्वशीमपि हटाद्दशातः | वहूना किमत्र कथितेन मन्त्रयोरनयोः सदृङ्नहि परोवशीकृतौ | अपि कृष्टिकर्मणि विदग्धयोषितां कुसुमायुधास्त्रमयवर्मणोरिह | वन्दे कुन्देन्दुगौरं तरुणमरुणपाथोजपत्राभनेत्रं चक्रं शङ्खं गदाव्जं निजभुजपरिघैरायतैरादधानम् | दिव्यैर्भूषाङ्गरागैर्नवनालनलसन् मालया च प्रदीप्तं द्योतत्पीताम्वराढ्यं मुनिभिरभिवृतं पद्मसंस्थं मुकुन्दम् | एवं ध्यात्वा पुमांसं स्फुट्-हृदयसरोजासनासीनमाद्यं सान्द्राम्भोजच्छविम्वा द्रुतकनकनिभं वा जपेदर्कलक्षम् | मन्वोरेकं द्वितारान्तरितमथ हूनेदर्कसाहस्रमिध्नैः क्षीरद्रुण्यः पयोक्तैः समधुधृतसितेनापि वा पायसेन | ततो लोकाध्यक्षं ध्रुवचिति सदानन्दवपुषं निजे हृत्पाथोजे भवति निवसं भेदमिहिरम् | निजैक्येन ध्यायन्नमुममलचेताः प्रतिदिनं त्रिसाहस्र्यं जप्यात् प्रयजतु च सायाह्नविधिना | विधिं योऽमुंभक्त्या भजति नियतं सुस्थिरमतिर्भवान्तोधिं भीमं विषयविषमग्राहनिकरैः | तरङ्गैरुत्तुङ्गैर्ज्जनिमृतिसमाख्यैः प्रविततं समुत्तीर्यानन्दं व्रजति परमं धाम स हरेः | गृणंस्तस्य नामानि शृण्वं स्तदीयाः कथाः संस्मरन् तस्य रुपाणि नित्यं | नमंस्तत्पादाम्भोरुहं भक्तिनम्रः स पूज्योवुधैर्नित्यमुक्तः स एव | वक्ष्ये मनुद्वयमथातिरहस्यमन्यत् संक्षेपतो भुवनमोहननामधेयम् | व्रह्मेन्द्रवामनयनेन्दुभिरादिमोऽन्यस्तत्पूर्वकोवियदृषीकयुतेशङेहृत् | मन्वोस्तु सम्मोहननारदोमुनिश्छन्दस्तु गायत्र्यमुदीरितं वुधैः | त्रैलोक्यसम्मोहनविष्णुरेतयोः स्याद्देवता वच्न्यधुना षडङ्गकम् | अक्लीवकलादीर्घैः सलवैस्तदपि कलासमाधिरूढैः | उक्तं पूर्ववदासनविन्यासान्तं समाचरेदथ तु | करयोः शाखासु तले न्यस्य षडङ्गानि चाङ्गलीषु शरान् | मनुपुटितमातृकावर्णैर्नस्याङ्गेऽङ्गानि विन्यसेच्च शरान् | काम्यहृदन्धङ्घ्रिषु करशाखाभिस्तान्नमोऽन्तिकान् ङेऽन्तान् | शोषणमोहनसन्दीपनतापनमादनादिकान् क्रमशः | (प्. १७) पञ्चैते संप्रोक्ता द्रां द्रीं क्लीं व्लुं स आदिकरणाः | सम्मोहनमथ जगतां ध्यायेत् पुरुषोत्तमं समाहितधीः | दिव्यतरुद्यानाद्रुचिरमहाकल्पपादपाधस्तात् | मणिमयभूतलविलसद्रत्नपयोजन्मपीठनिविष्टस्य | विश्वप्राणस्योद्यत्प्रद्योतनसद्युतेः सुवर्णस्य | आसीनमुन्नतां पारिद्रुमभद्राङ्गमङ्गजो मुखितम् | चक्रदराङ्कुशपाशान् सुमनो वाणेक्षुचापकमलगदाः | दधतं स्वदोर्भिररुणायतविपुलविघूर्णिताक्षियुगनलिनम् | मणिमयकिरीटकुण्डलहाराङ्गदकङ्कणोर्मिरसनाद्यैः | अरुणैर्माल्यविलेपैश्चादिप्तं पीतवस्त्रपरिधानम् | निजवामोरुनिषण्णां श्लिष्यन्तीं वामहस्तधृतनलिनीम् | क्लिद्यद्योनिं कमलां मदनमदव्याकुलोज्वलाङ्गलताम् || सुरुचिरभूषणमाल्यानुलेपनां सुसितवसनपरिवीताम् | निजमुखकमलव्यापृत चटुला सितनयनमधुकरां तरुणीम् | श्लिष्यन्तं वामभुजादण्डेन दृढं धृतेक्षुपाचेन | तज्जनितपरमनिर्वृतिनिर्भरहृदयं चराचरैकगुरुं सुरदितिजभुजगगुह्यक- गन्धर्वाद्यङ्गनाजनसहस्रैः | मदमन्मथालसाङ्गैरभिवीतं दिव्यभूषणोल्लसितैः | स्वात्माभेदतयेण्यं ध्यात्वैकाक्षरमथाष्टवर्णम्वा | प्रजपेद्दिनकरलक्षं त्रिमधुरसिक्तैश्च किंशुकप्रसवैः | जुहूयादर्कसहस्रं विमलैः सलिलैश्च तर्पयेत्तावत् | विंशत्यर्णप्रोक्ते यन्त्रे दिनशोऽमुमर्चयेद्भक्त्या | पीठावधौ पक्षान्ते राजाय शिवोऽमुनाभिपूज्यविपम् | हरिमभिवाह्यस्कन्धे तस्यार्घ्याद्यैः समर्च्य धूपान्तैः | अङ्गानि वाणांश्च न्यासक्रमतः किरीटमपि शिरसि | श्रवसोश्चकुण्डले विप्रमुखानि प्रहरणानि पाणिषु | श्रीवत्सकौस्तुभौ च स्तनयोरुर्द्धे जले च वनमालाम् | पीतवसनं नितम्वे वामाङ्के श्रियमपि स्ववीजेन | इष्ट्वाथ कर्णिकायामङ्गानि विदिग्दिशासु दिक्षुशरान् | कोणेषु पञ्चमं पुनरग्न्यादिदलेषु शक्तयः पूज्याः | लक्ष्मीः सरस्वती च स्वर्णाभे अरुणतरे रतिप्रीत्यौ | कीर्त्तिः शान्तिश्च सिते तुष्टिः पुष्टिश्च मरकतप्रतिमे | दिव्याङ्गरागमरकतभूषणमाल्यदुकूलैरलङ्कृतालताः | स्मेराननाः स्मरार्ता धृतचामरचारुकरलता एताः | लोकेशा वहिरर्च्याः कथितेत्यर्चना मनुद्वयोद्धृता | प्रायः पुरुषोत्तमविधिरेवमिह स नोच्यते वहुक्तत्वात् | त्रैलोक्यमोहनायेत्युक्त्वा विद्मह इति स्मराय ततः | धीमहि तन्नो विष्णुस्तदनु प्रचोदयात् | जप्यैषा जपादौ दूरितहारीत्रीकरी जपार्चाहवनैः | प्रोक्षयतु शुद्धिविधयेऽर्चाया मनयात्मयागभूद्रव्याणि | मन्वोरेकेन शतं प्रतर्पयेन्मोहिनी प्रसूनयुतैर्यः | तोयैर्द्दिनशः प्रातः स तु लभते वाञ्छितानयत्नात् कामान् | हूत्वायुतं हूताशे सम्पाताज्येन तावदभिजप्तेन | भोजयतु समभीकं रमणीरमणोऽपि तां स्ववशतां नेतुम् | अष्टादशार्ण्विहिता विधयः कार्याश्च वश्यकृत् आभ्याम् | मन्वोरनयोः सदृशोऽन्यो नाशु त्रैलोक्यवश्यकर्मणि जगति | अत्रैकार्णजपादावथवा कृष्णः सवेणुगीतिर्धेयः | अरुणरुचिराङ्गवेशः कन्दर्पो वा सपाशसृणिचापेषु यः | यस्त्वेकतरं मनुमेतयोर्विमलधीः सदा जपति मन्त्री | सोऽमुत्रापि च सिद्धिं विपुलामतितरामेति | अथ सत्यः शौरिश्च तृतीयतुर्यकाः | शिखिवामनेत्रशशिखण्डमण्डिताः | जय कृष्ण युगनिरन्तरात्मभूशिखिशक्ति-आस्यवृत्तशक्तवर्णकाः | प्रणिमध्ये मुदितचेतसे ततस्त्यपरदृग्मगुरुमारुताक्षराः | स चतुर्थिकृष्णपदमिक्षुकार्मुको दशवर्णकश्च मनुवर्यकस्त्वसौ | सलवाधराचलसुतारमाक्षरैः पुटितं क्रमोत्क्रमगतैश्च समुद्गकरम् | इति दन्तसुर्यवसुवर्ण उद्धृतः कवितानुरञ्जनरमाकरोऽघहृत् | मुखवृत्त नन्दयुतनारदो मुनिस्त्विहच्छन्द-उक्तममृतादिकारिराट् | त्रिजगद्विमोहनसमाह्वयो हरिः खलु देवतास्य मुनिभिः समीरिता | वसुमित्रभुधरगजात्मदिङ्मयैर्मनुवर्णकैस्त्रिपुटसंस्थितैः पृथक् | निजजातियुक् निगदितं षडङ्गकं क्रिययैव तत् खलु जनानुरञ्जनम् | अथ संविशोध्य तनुमुक्तमार्गतः प्रवचयय पीठमथ च स्ववर्मणा | करयोर्दशाक्षरविधिक्रमात् न्यसेत् षडङ्गशायकमनङ्गपञ्चकम् | अमुना त्रिशोन्यसतु सर्वतस्तनौ स्मरसंपुटैस्तदनु मातृकाक्षरैः | दशतत्त्वकादिदशवर्णकीर्त्तितं त्वथ मूर्त्तिपञ्जरावसानमाचरेत् | सृजति स्थितिदशषडङ्गशायकान् न्यस्त्वा ततोऽन्यदखिलं पूरोक्तवत् | प्रणिधाय सर्वभूवनैकसाक्षिणं स्मरतां मुकुन्दमनवद्यधीरधीः | अधोभूधरदरी परिस्कृते महोन्नतशालगोपुरविशालवीथिके | घनचुम्व्युदग्रसितसौधसंकुले मणिहर्म्यविस्तृतकवाटवेदिके | द्विजभूपविट्चरणजन्मनां गृहैर्विविधैऽस्च शिल्पिजनवेश्मभिस्तथा | इभसप्त्युरभखरधेनुसेवितच्छगलालयैश्च लसितैः सहस्रशः | विविधापणाश्रितमहाजनकृतक्रयविक्रयद्रविणसंचयाचिते | जनमानसंहृतिविदग्धसुन्दरीजनमन्दिरैः सुरुचिरैश्च मण्डिते | पृथुदीर्घिकाविमलपथि सिन्दूरवद्विकचारविन्दमकरन्दलम्पटे | कलहंससारसरथाङ्गनामभिर्विहगैर्विघुष्टककुभिः स्वके पुरे | सुरपादपैः सुरभिपुष्पलोलुपभ्रमराकुलैर्विविधकामदे नृणाम् | शिवमन्दमारुतललच्छिखैर्वृते मणिमण्डपे रविसहस्रश्रुते | मणिदीपिकाकरदीपितान्तरे तनुचित्रविस्तृतवितानशालिनि | लसिते विकस्वरविचित्रदामभिः सुसुगन्धिसलिलोक्षितस्थले | प्रमदाशतैर्मदविघूर्णितेक्षणैर्मदनालसैः करविलोलचामरैः | अभिषेवितैः स्खलित- (प्. १८) मञ्जुभाषितैः स्तनभारभङ्गुरकृशावलग्नकैः | अविराममणिचर्यवर्षिणः श्रमहानदामृतरसच्युतोऽप्यधः | सुरपादपस्य मणिभूतलोल्लसत् पृथुसिंहवक्रचरणाम्वुजासने | अभिचिन्तयेत् समुपविष्टमच्युतं नवनीलनीररुहकोमलच्छविम् | कुटिलाग्रकुन्तललसत्किरीटकं स्मितरत्नपुष्पकलितावतंसकम् | सुललाटमुल्लसदुदञ्चितभ्रुवं विपुलारुणायतलोललोचनम् | मणिकुण्डलोस्रपरिदीप्तगण्डकं नववन्धुजीवकुसुमारुणाधरम् | स्मितचन्द्रिकोज्ज्वलितदिङ्मुखं स्फुरत्प्रनकश्रमाम्वुकणमण्डिताननम् | स्फुरदंशुरत्नगणदीप्तभूषणोत्तमहारदामभिरूपस्कृतांशकम् | घनसारकुङ्कुमविलिप्तविग्रहं पृथुदीर्घवन्धयज्ञजाविराजितम् | तरुणारुणाव्जचरणाव्जमङ्गजोन्मथिताङ्गमङ्कगकराम्वुजद्वयम् | स्वाङ्कस्थभीष्मकसुतोरुयुगान्तरस्थं तां तप्तहेमरुचिमात्म- कराम्वुजाभ्याम् | श्लिष्यन्तमार्द्रजघनामुपगृह्यमाणामात्मानमायतलसत्कर- पल्लवाभ्याम् | आनन्दोद्रेकनिघ्नां मुकुलितनयनेन्दीवरां स्रस्तगात्रीं प्रोद्यद्रोमाञ्चसान्द्रश्रमजलकणिकामौक्तिकालङ्कृताङ्गीम् | आत्मन्यानीय वाह्यान्तरकरणगणामङ्गकैर्निस्तरङ्गैर्मज्जन्तं नीलनानामतिमतुलमहानन्दसन्दोहसिन्धौ | सत्याजाम्वुवतीभ्यां दिव्यदुकूलानुलेपनाभ्यां | मन्मथशरमथिताभ्यां मुखकमलालोललोचनभ्रमराभ्याम् | भुजयुगलाश्लिष्टाभ्यां श्यामारुणललितकोमलाङ्गताभ्याम् | आश्लिष्टमात्मदक्षिणवामगताभ्यां करोल्लसत्कमलाभ्याम् | पृष्ठगया कलिन्दसुतया करकमलयुजा परिवद्धमञ्जुलरुचा मदनमथितया | पद्मगदारथाङ्गदरभृद्भुजयुगं दोर्द्वयशक्तवंशविलसन्मुखसरसीरुहम् | दिक्षु वहिः श्रुतर्षियतिभिः खेचरपरिवृढैर्भक्तिभरावनम्रतनुभिः स्तुतिमुखरमुखैः | सन्तत सेव्यमानमनोवचनविषयकमर्थचतुष्टयप्रद ममुं त्रिभुवनजनकम् | सान्द्रानन्दमहाद्धिमग्नममले धाम्नि स्वकेऽवस्थितं ध्यात्वैवं परमं पुमांस मनघात् स प्राप्य दीक्षां गुरोः | लव्धामुं मनु मादरेण सितधीर्लक्षं जपेद् योषितां वार्त्ताकर्णनदर्शनादिविहितो मन्त्री गुरुणामपि | जुहूयाच्च दशांशकं हूताशे ससिताक्षौद्रघृतेन पायसेन | प्रथमोदितपीठवर्यकेऽमुं प्रयजेन्नित्य मनित्यता विमुक्त्यै | आरभ्य विभूति मथ न्यासक्रमतः शरान्तमभ्यर्च्य | मुर्त्त्याद्यं चात्मानं विंशत्यर्णोदिते तु यन्त्रवरे | मध्यमवीजं परितोवरुणेन्दुयमेन्द्रदिक्षु संलिख्य | वीजचतुष्कं तदपि चत्वारिंशद्भिरक्षरैर्द्व्यधिकैः | शिवहरिवह्न्याशास्वस्रिषु क्रमाद्विलिखेत् | वाङ्माया श्रीमन्त्रां स्तद्वद्रक्षोऽम्वुपानिलास्रिसु च | शेषं पूर्वोदितवद्विधाय पीठं यथावदभ्यर्च्य | सङ्कल्प्य मुर्त्तिमत्र वा वाह्यार्चयतु मध्यवीजे तम् | मुखदक्षसव्यपृष्ठवीजेष्वर्च्यास्तु शक्तयः क्रमशः | रुक्मिण्याद्याः षट्ष्वथ कोणेष्वङ्गानि केशरेषु शरान् | लक्ष्म्याद्यादलमध्येष्वग्न्यादिषु तद्वहिर्ध्वजप्रमुखान् | अग्रे केतुंश्यामं पृष्ठे विधुरिपुमरुणममलरक्तरुची | पार्श्वद्वये निधीशौ सन्ततधाराभिर्वृष्टधनपुञ्जौ | हेरम्वशास्तृदुर्गाविस्वकृसेनान् विदिक्षु वह्न्याद्याम् | विद्रुममरकतदूर्वास्वर्णाभान् वहिरथेन्द्रवज्राद्यान् | यजतु विधानमितीरितमावृतिसप्तकयुतं मुकुन्दस्य | इतार्चयन्नच्युत मादरेण योऽमुंभजेन्मन्त्रवरं जितात्मा | सोऽभ्यर्च्यते दिव्यजनैर्ज्जनानां हृन्नेत्रपङ्केरुहतीग्मभानुः | सितशर्करोत्तरपयः प्रतिपत्या परितर्पयेद्दिनमुखे दिनशस्तम् | सलिलैः शतं शतमुखश्रियमेव स्वविभृगुदन्वतिकरोत्युदविन्दुम् | विदलकुलैः सुमनसः सुमनोभिर्घनसारचन्दनघनद्रवमग्नैः | मनुनामुनाहवनतोयुतं संख्यं त्रिजगत्प्रियः स मनुवित् कविराट् स्यात् | ध्यानादेवास्य सद्यस्त्रिदशमृगदृशोवश्यतां यान्त्यवश्यम् कन्दर्पार्त्ताजपाद्यैः किमथ न सुलभं मन्त्रतः स्यान्नरस्य | स्पर्द्धामुद्धूय चित्रं महदिदमपि नैसर्गिकीं शश्वदेतं सेवेते मन्त्रिमुख्यं सरसिजनिलया चापि वाचा मधीशा | आधिव्याधिजरापमृत्युदुरितैर्भूतैः समस्तैर्विषैर्दौर्भाग्येन दरिद्रतादिभि रसौ दूरं विमुक्तश्चिरम् | सत्पुत्रैः ससुतैश्च मित्रनिवहैर्ज्जुष्टोऽभिलाभिः सदा सम्पद्भिः परिपुष्टङ्गेडितयशा जीवेदनेकाः समाः | अखिलमनुषु मन्त्रो वैष्णवा वीर्यवन्तोमहिततरफलाढ्यास्तेषु गोपालमन्त्राः | प्रवलतर इहैषोऽमीषु सम्मोहनाख्यो मनुरनुपमसम्पत्कल्पनाकल्प- शाखी | मनु मिममतिहृद्यं यो भजेद्भक्तिनम्रोजपहूतयजनाद्यैर्ध्यानवान्- मन्त्रिमुख्यः | त्रुटितसकलकर्मग्रन्थिरुद्वुद्धचेता व्रजति स तु पदन्तन्नित्यशुद्धं मुरारेः | सङ्गीकृत्यैकमेषाम्मनुमथ जपहोमार्चनान्तैर्- मनूनामष्टाङ्गोसावितारिः प्रमुदितपरिशुद्धप्रसन्नान्तरात्मा | योगी युञ्जीत योगाननुदितविहृतिः स्वप्नवोधाहृतिः प्रागास्यः सन्नासने स्वे सुमृदुनि सुखसम्मीलिताक्षोनिषन्नः | विश्वं भुतेन्द्रियान्तःकरणमयमिनेन्द्वग्निरूपं समस्तं वर्णान्ते तत् प्रधाने कलनयनमये वीजरूपे ध्रुवेण | नीत्वा तत् पुंसि विन्द्वात्मनि तमपि वरामन्यथो कालतत्त्वे तच्चेच्छक्तौ चिदात्मन्यपि लयतु च तं केवले धाम्निशान्ते | निर्द्वन्द्वे निर्विशेषे निरतिशयमहानन्दसान्द्रेऽवसानोपेतेऽथो कृष्णपूर्वामनमहितगिरां शाश्वतेऽप्यात्मनीण्यं | संहृत्याभ्यस्य वीजोत्तममथशलकैर्नीलनिश्वासतेतीः प्रक्षीणापुण्यपुण्योनिरुपमपरसम्वित्स्वरूपः भूयात् | मूलाधारे त्रिकोणे तरुणतरणिभाभास्वरे विभ्रमन्तं कामं वालार्ककालानलजठरकुरङ्गाङ्ककोटिप्रभाभम् | विद्युन्मालासहस्रद्युतिरुचिरलसद्वन्धुजीवा- (प्. १९) भिरामं त्रैगुण्याक्रान्तविन्दुं जगदुदयलयैकान्तहेतुं विचिन्त्य | तस्योर्द्धे विस्फुरन्तीं स्फुटरुचिरतडित्पुञ्जभाभावभावामुद्गच्छन्तीम् सुषुम्नासरणि मनुशिखामाललाटेन्दुविम्वम् | चिन्मात्रां सूक्ष्मरूपां कलितसकल * * * श्वाङ्कनाथादगम्यां मूलं या सर्वधाम्नां स्मरतु विरुपमां हुं कृतोदञ्चिते वः | नीत्वा तं शकैरधोमुखसहस्रारारुणाव्जोदरे द्योतत्पूर्णशशाङ्कविम्वमनुतः पीयुषधाराश्रुतिम् | रक्तां मन्त्रमयीं निपीय च सुधानिः स्यन्दरूपां विशेद्भूयोऽप्यात्मनिकेतनं पुनरपि प्रोण्यापयित्वा विशेत् | योऽभ्यस्य नित्यमनुदिन मेवात्मानोऽन्तर्वीजेशं दूरितजरापमृत्युरोगान् | जित्वाऽसौ स्वयमिव मूर्त्तिमनङ्गः संजीवेच्चिरमनिलीनकेशकापाशः | स्फुटमधुरपदार्णश्रेणिरत्यद्भुतात्मावाटिति वदनपद्मान्निःसरत्यस्य वाणी | अपिच सकलमन्त्रास्तस्य सिद्ध्यन्ति संक्षुव्युपरमघनसौख्यैकास्पदं वर्त्तते सः | भ्राम्यन्मुर्त्तिं मूलचक्रादनङ्गं स्वाभिर्भाभीरक्तपीयूषस्रप्तिः | विम्वाकाशं पूरयन्तं विचिन्त्य प्रत्यावेश्यास्तत्र वैश्याय साध्याः | नार्योनरा वा नगरी सभापि वा प्रवेशितास्तत्र निशातचेतसा | स्युः किङ्करास्तस्य धाटित्यनारतं चिराय तन्निघ्नधियो न संशयः | तरणिदलन नाथे शत्रुगोपारुणेऽथो रविशशिशिखिविम्वप्रस्फुरच्चारुमध्ये | हृदयसरसिजेऽमुं स्यामलं कोमलाङ्गं सुमुखमुपनिविष्टं संस्मरेद्वासुदेवम् | पादान्तोजद्वयेऽङ्गुल्यमलकिसलयेष्वावनौ सन्नथानां सत्कूर्मोदारकान्तौ प्रपदयुजि लसज्जङ्घिकादण्डयोश्च | जान्वोरुर्वोः पिषङ्गैर्नववसनवरे मेखलादाम्नि नाभौ रोमावल्यामुदारोदरभुवि विपुले वक्षसि प्रौढहारे | श्रीवत्सकौस्तुभे च स्फुट्कमललसत्वद्धसद्दाम्नि वाह्वोर्मूले केयूरदीप्ते जगदवनपटौ दोर्द्वये कङ्कणाढ्ये | पाणिद्वन्द्वाङ्गुलिस्थे सुमधुररवसंलीनविश्वे च वेणौ कण्ठे सत्कुलोस्रस्फुटरुचिरकपोलस्थलद्वन्द्वके च | कर्णद्वन्द्वेऽथ घोणे नयननलिनयोर्भ्रुविलासे ललाटे केशेष्वालोलवर्हेष्वतिसुरभिमनोज्ञप्रसूनोज्ज्वलेषु | शोणे विन्यस्तवेणावधरकिसलये दन्तपंक्त्यां स्मिताख्यं ज्योत्स्नायामादिपुंसः क्रमत इति शतैः स्वं मनः संविधत्ताम् | यावन्मनोविलयमेति हरेरुदारमन्दस्मिते जपतु तावदनङ्गवीजं | अष्टादशार्णमथवापि दशार्णकम्वा मन्त्रं शनैरथ समायतमातरिश्वा | आरोप्यारोप्य मनः पादारविन्दादिहसितान्तम् | अत्र विलाप्य क्षीणचेतसि सुखवित् सदात्मको भवति | जपहोमपूजातर्पणमन्त्राभिषेकविनियोगानाम् | दीपिकेयं मयोद्भास्यते क्रमः कृष्णमन्त्रगलितानाम् | संशयतिमिरच्छिद्वरा चैषा क्रमदीपिका करेण महद्भिः | करदीपिकेव धार्या स्वस्नेहमहर्निशम् समस्तसुखावाप्त्यै | यश्चक्रान्निजकेलिसाधनमधिष्ठानास्थतोऽपि प्रभुः प्रत्तं मन्मथशत्रुणा रणकृतौ व्याकृत्य लोकेतिकम् | धत्ते दीप्तनवेन्दुभाननमघोपेतात्तमायं ध्रुवं वन्दे कायविमर्द्दनस्वधः कृतं भूक्तद्युकं यादवम् | गोप्यङ्के लुण्ठनपरं विलूनपापमुर्व्वीशं मुदमदपदं आहूः कृषीष्टः | यद्देवेशितुरपनेतृभीतमेति तीग्मांशोर्नृपतेः परेषु याति | जगदिदमनुविद्धवेनयस्मिन् प्रसूते यदनु ततमजस्रं पाति चाधिश्रितो यः | यदुरुमहदुदर्चिर्यद्विधत्ते च गोपी तममृतसुखवोधज्योतिषं नौमि कृष्णम् | इति क्रमदीपिकायामष्टमः पटलः || इति क्रमदीपिका समाप्ता इति श्रीरसिकमोहनचट्टोपाध्याय-कर्त्तृक संगृहीत तु प्रकाशित तन्त्रसारादिविविधतन्त्रसंग्रहे क्रमदीपिका समाप्ता || ########### END OF FILE #######