#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00232 Uniform title: kriyāsāratattvaprakāśinīvyākhyā Commentator : nārāyaṇa Manuscript : IFP/EFEO transcript T00934 Description: Notes: Data entered by the staff of Muktabodha under the direction of Mark S. G. dyczkowski. Revision 0: Sept. 18, 2011 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### ट्.णो. ९३४ क्रियासारतत्त्वप्रकाशिनीव्याख्या चोपिएद् fरोम् अ मनुस्च्रिप्त् बेलोन्गिन्ग् तो णारायणन्कुन्जु णम्बूदिरिपद् Eर्नकुलम् श्रीः नारायणविरचिता (क्रियासारतत्वप्रकाशिनीव्याख्या) || क्रियासारः || तृतीयपटलादारभ्यते हरिः अथ स्थलशुद्धिप्रकारमाह - पलाश शाश्वेत्यादि कुर्यात्तालत्रयमित्यन्तेन पलाशशाखादर्भैः भूमिमण्डपवेदिं चकारा कुण्डक्षेत्रं च वायुना संमृज्य गायत्र्या समालिप्य अस्त्रेण सर्षपान् विकिरेत् अथ पूर्ववत् सम्मृज्य लिंपेत् पुनर्मण्डपं शक्तिरूपं ध्यात्वा तेन गत्येन अस्त्रेण प्रोक्ष्य मूलतो विकिरांश्च विकिरेत् इति व्यवहितेन संबन्धः मूलेन विकिरान् जप्त्वा गव्यन्तु सादयेदिति मध्ये वाक्यं पूर्वकार्यसंभार संभरणस्मरणार्थं | आपः पुनन्त्विति सर्वत्र संप्रोक्ष्य इषेत्वेति दर्भान् कुसुमान् अक्षतांश्च विकीर्य अथ मध्ये मूलेन दिक्षु नामभिर्लोकेशांश्च गन्धाद्यैः पूजयेत् अथ क्षुद्रविद्रावणार्थं धूपदीपौ विन्यस्य तालत्रयादिकं च कुर्यात् | अत्र प्रासादशुद्धौ अस्त्रजप्तोदकैः इत्यादिकं * * *द्धौ गायत्र्यः समालिप्येत्यादिकं च भेदकथनं मन्त्रविकल्पप्रदर्शनार्थं न विषयभेदप्रदर्शनार्थमिति द्रष्टव्यम् || प्. २) अत्र पाशुपते तान्त्रयमपमन्त्रान्तरं किर्तितम् || गालितैर्गोमयजलैर्वारुणेनोपलेपयेदिति एवं मण्डपशुद्धिमभिधाय कृतानुस्मरणपूर्वकं तद्रक्षणार्थं कुंभेशपूजामाहस्थलशुद्धिमिति || एवं स्थलशुद्धिं विधाय ऐशान्यां पङ्कजे विधानतः पीठपूजा कुंभसंस्कार मानसपूरणादि विधानमनुसृत्य सहेमरत्नगन्धोदैः कुंभेशं पार्श्वे गुणप्रधान भावप्राप्ते वामपार्श्वे कर्करीं च पूरयेत् तस्मिन् विधानवचनसामर्थ्य विहितलिपिपंकजमूर्तिपूजादिके कुंभेश इत्यर्थः | तस्मिन्नधो मूलचक्र आत्मतत्व मूर्ध्वतो हृत्पद्मे विद्यातत्वं ऊर्ध्वे भूमध्ये शिवतत्वं च न्यस्य क्रमादावाह्य संपूज्य सर्वतत्वसमन्वितं तत्वत्रयानस्यू तस्य समस्तत्वत्वं च शिवं ध्यात्वा स्वकल्पोक्तरीत्या प्रतिपत्य संपूजयेत् वर्धनी न्घास्त्रेण अघोरास्त्रेण आराध्य ते नास्त्रेण अच्छिन्नधारया कुड्यश्लेषं सर्वतः प्. ३) प्रदक्षिणं सिञ्चेत् तन्मार्गेण अग्रगतवर्धनीमार्गेण घटं कुंभेशं नीत्वा विकिरोपरि विराममार्जन समयसंमार्जितविकिरान् पीठे न्यस्य तदुपरि स्थापयेत् गन्धपुष्पैसमाराध्य सम्यक् तत्र तत्र पूजापूर्वकमाराध्य घटं प्रधानघटं वस्त्राभ्यां वेष्टयेत् | इतरं अस्त्रघटं पश्चात् स्वपीठकॢप्त सर्षपोपरि न्यासपूरणपूजा नन्दमित्यर्थः | तदेकेन वस्त्रेण च वेष्टयेत् पश्चात् गुरुः वक्ष्यमाण प्रकारेण अग्निं सञ्जनयेत् अग्निजननं विवृणोति | उपसिच्येति || उर्वीं कुण्डक्षेत्रमुपलिप्य सामान्यसिद्धेन गोमयजलेन उपलिप्य विशोज्य मार्जनादिभिः स्थल शुद्धिसमुक्तैर्विधिभिः विशोध्य कृतानु कथनमेतत् ततः प्रणवेन प्रोक्ष्य तत्तदंगैर्बीजैः प्राणायामपुरस्सरं समाधिना क्रमात् संशोध्य च चकारान् सन्दह्य सन्दह्य संप्लाव्य बीजैः संशोष्य सन्देह?दि त्यागमन्तरोक्तरीत्या दहनादि द्वितीय शोषान्तं च कृत्वा पाचयेत् अत्र बीजैरिति प्. ४) मन्त्रबहुत्वेन तन्त्रबहुत्वं सूचितमेव पुनरादौ अस्त्रेण उदग्गतां उदगग्रां वज्राख्यां रेखां अग्रतो वज्ररेखायाः प्राग्भागे क्रमात् वज्ररेखायाः मूलमध्याग्रक्रमात् तिस्रश्च रेखाः समित् काष्ठेन उल्लिख्य वर्मणा प्रोक्ष्य शकलं निरस्य प्रणवेन तु | प्रणवेनैव कूर्चकुसुमाक्षतवारिभिः अर्घ्यावसिक्तैः कूर्चकुसुमाक्षतैः विष्टरं कल्पयेत् || अभ्यर्च्येति || कल्पितं विष्टरं अभ्यर्च्य पीठ पूजां कृत्वेत्यर्थः | ततो देवीं हृदा भुवनेश्वर्या गन्धाद्यैरभिपूज्य तां नीलोत्पलप्रभां ध्यायेत् || रत्यर्थिनीमृतुस्नातामित्युक्तप्रकारेण ध्यायेत् | अस्त्रेणाग्निं समादाय वर्मणा पक्वंच क्रव्यादभागोपनयान्ते अवधायाग्निं शिवरेतोरूपं हिरण्यरेतसं हृदा परिभ्रम्य? त्रिधा तस्यां योन्यां मूलेन निक्षिपेदित्यागमान्तरोक्तरीत्या प्रासादेन वा मूलहृदयेन वा तस्या योन्यां विनिक्षिपेत् || अथ समेधनाद्यनन्तरं गन्धाद्यैः प्. ५) अभिपूज्य गर्भाधानादिकृत्यं कल्पयेत् कल्पनां विवृणोति | गर्भाधानमित्यादि व्योमविद्ययेत्यन्तेन || गर्भाधानं पुंसवनं जातनामनी क्रमात् पञ्चब्रह्मभिः क्रमात् अष्टाष्टाज्यं हुत्वा कल्पयेत् उपनिष्क्रामणं पुंसा अष्टाज्यं हुत्वा प्राशनं च ईशमन्त्रतो अष्टाज्यं हुत्वा कल्पयेत् | एवं सर्वत्र द्रष्टव्यम् || आभ्यां पुरुषेशाभ्यां ईशेनैवेति | पञ्चमेनेशेन समावर्तनमेव | न प्रकारान्तरमित्यर्थः | अग्न्याधानं हृदा प्रासादेनेत्यर्थः | शेषं सुगमण् | स्वमन्त्रैः समिधो हुत्वाऽथाज्येनाष्टाहुतीः पृथक् प्रतीकर्मणि नानेन पूर्णं वाथ नवात्मना | ध्यानं जलप्रदानं च तारेणैव समाचरेत् इत्याद्यागमान्तरोक्तं | तद्विशेषं संक्षेपानुक्रमेणेवेहान्वदत् || उत्तरकृत्यं कृतानुकथनपूर्वकं सूत्रयत्येवमिति || सूत्रं विवृणोति वेद्यादि || वेद्यां मण्डपवेद्यां दक्षिणेपि दक्षिणार्धेऽपि पूर्वे पूर्वार्धे वा वाकारोक्तेः पश्चिमार्धे वा वेदिं च कृत्वा विभज्य अग्निखण्डे निर्-ऋतिखण्डे वेत्यर्थः || प्. ६) अथवा वेद्या मध्ये परदेवतापूजार्थं वक्ष्यमाणस्य मण्डलस्य क्षेत्रं कल्पयित्वा तस्य पूर्वे वा दक्षिणे वा इत्यर्थः | अत्र * * ग्रहणं कौमारादिप्रदर्शनार्थं साधारणत्वात् विधेः तत्र स्वस्तिकमालिख्य अस्मिन् धान्यानि वीहितण्डुलसिद्धार्थाख्यानि धान्यानि वस्त्रान्तरितं प्रविकीर्य तत्र शिरोपधानादि विशिष्टां शययां समास्तरेत् || शययामिति || शययां विधिवत् पीठाराधनशक्त्याराधनादिकं दर्शविध्युपेतमाराध्य परितो मंगलं अष्टमंगलं न्यसेत् || मंगलानि गणयति || शंखादिमत्स्य युग्मान्तमिह प्रोक्तं मंगलाष्टकम् पूर्वादिदिक्षु विन्यस्य कलशांस्तथा विन्यसेत् यथावत् पूज्यानं विद्येशानां क्रम इत्यर्थः | तेषु विद्येश्वराननन्तादि शिखण्ड्यन्तान् सम्यक् वक्ष्यमाण पूजासिद्धक्रमेण समर्पयेत् सन्निधाप्य अर्चयेत् | महत् कुंभमिति | शिरः स्थाने महत् कुंभं द्रोणकुंभमापोहिष्ठेति मन्त्रेण न्यस्य संपूर्याथ तत्वावाहनाद्यानन्तर्यार्थो अत्र अथशब्दः || प्. ७) तदनन्तरं सम्यक् पूजयेत् मूलेनेत्यर्थात् अथ आपोहिष्टेति मन्त्रेण न्यस्य पूजयेदिति वा योजनाः पादयौरापो हिष्ठेत्यर्ध्यपाद्यौ पार्श्वयोर्मन्त्रेण मूलमन्त्रेण क्षीरं मधु च न्यसेदिति योज्यम् || शरावादिष्विति | भावः | तद्बहिः प्राकाररूपेण मध्वाज्यान्तान् गौरसिद्धार्थान् अस्त्रेण रक्षार्थं क्षिपेत् || शेषं सुगमं कृत्वेति एवं मण्डपसंस्कारं कृत्वा बिंबकलशाभिषेकार्थं ऐशान्यां कलशाभिषेक जलनिस्सारणार्थं वेदिकामध्यतः कृत्वा अन्यं मण्डपं च प्रकल्पयेत् | अथ तदग्रे अन्यस्मिन् मण्डपे एकोनायत् शतकलशाः पूरयेत् पूरणप्रकारं विवृणोति दिक्षु कषायमित्यादि वामांगेशैर्यथाक्रममित्येकान्तेन अत्र गन्धो मध्य इति मध्यकलशपूरणं अन्तोक्तमप्यादावेव कर्तुं युक्तम् | कषायाद्यंगानि पूर्वमेवावोचदाचार्यः || यथाक्रममिति मन्त्रार्था क्रमोक्तिः द्रव्यन्या संक्रमस्य पृथगुक्तत्वात् कृतानुवादपूर्वकं प्. ८) अधिवासहोमं कुर्यादित्याह पूरयित्वेतिभूयः संपातार्पणानन्तरं संपूज्य संमन्त्य स्नानमण्डपे स्वस्तिकोपरि मध्यस्थवेदि कृतस्वास्तिकोपरि अन्यत् पीठं उपपीठं न्यस्य संपूज्येत्यर्थः | ततः त्वग्गोमयमद् दर्भैः सह गन्धपुष्पाक्षतादिकं समाहरेदिति योजना || अथ लिंगानयनार्थं व्रजेदित्याहवृत्रेति | अत्र संकल्पित सन्निधानानखिलान् मन्त्रान् बिंबे संहृत्य विधिवत् लिंगोत्पत्तिं भावयेदित्यर्थः | तथा लिंगतो यात् समुद्धरेत् | अथ वासो विसृज्य दर्भादिभिः संघृष्य वारिभिः संक्षाल्य लिंगं तोयात् कारणजलात् समुद्धरेत् सम्यगुन्नयेत् जनयेदिति च योज्यम् वा अथ मूलमन्त्रकृतांगं किञ्चित् संपूज्य गन्धादिभिरलंकृत्य स्नानमण्डपं नयेदित्याहगन्धपुष्पैरिति || अह स्नानपीठे प्रासादाभिमुखं भद्रं कर्ण मन्त्रजपादि तदर्हविधियुक्तः विन्यस्य क्रमात् पूरणोक्तमन्त्र क्रमात् स्नापयेदिति संग्रहः || अभिषेकात् प्. ९) पूर्वं कर्तव्यमाह परिघृष्येति || अथ कषायपदेन रसकारणभूतास्त्वचो लक्ष्यन्ते अत्र कषायेण परिघृष्य शुद्धसलिलैः सामान्यजलैः स्नापयेत् अथ गोमयेन परिघृष्य सलिलैः स्नापयेदिति प्रत्येकं परिघर्षणं योज्यम् || भूयो मूलसकलीकरणानन्तरं कषायाद्यैः कलशैः यथोक्तक्रमं पूर्षोदितैर्मन्त्रैः सम्यक् स्नापयेदिति योजना || एवं सम्यगभिषिच्य विधानतो विध्यनुगत मूलाश्रसाक्षिचैतन्यावहनादि अनुसृत्य तस्मिन् लिंगे शाश्वतं ध्रुवमव्ययं महादेवं ध्यात्वा पाद्यादिप्रदानपूर्वकमुपहरेदित्याह भीमेनेति || भीमेन अघोरेण गन्धमालिप्य ईशेन गन्धैः संपूज्येति व्यवहितेनान्वयः || वस्त्रं वामेन वै ददेदिति मध्यं वाक्यं पूर्वका * * * पेक्षा वैकारस्तस्य स्वकालप्रसिद्ध्यर्थः वामेन वेष्टयेदिति वा पाठः अर्घ्यनाधूपं च वक्त्रको ददेत् ददेदित्यनुकृष्यते अत्र धूपानन्तरं मूलेन दीपं च देय इति द्रष्टव्यम् प्. १०) ईशं देवमुपचर्य नमस्कृत्य प्रसाद्य गन्धाद्यैक्तेन करेण सकराभ्यां वा त्रिषु भागेषु ब्रह्मविष्णुरुद्रभागेषु चतुर्दिशं यथान्यायं स्वकीयया गायव्या तत्तद्देवतानुस्मरणपूर्वकं संस्पृशेत् * * ता गायत्र्यः समासतः संक्षेपेण हेतुना लिख्यन्ते || संक्षेपापेक्षया नोध्रियन्त इत्यर्थः | लिख्यन्ते ताः समासत इति साधुः पाठः | ताः समासेन लिख्यन्त इति पाठे लिख्यत इत्यत्र नकाराभावः आर्षो वृत्तभंगभयादित्यनुसन्धेयं देवस्य मूर्ध्नि निर्माल्यानि केवलं निक्षिप्यवा पाशुपताद्युक्तक्रमेण मूलेनावाह्य संपूज्य वा नीराजनं कृत्वा मूर्तिपैः सह पुण्याहं च कृत्वा अर्घ्यं च प्रदायेति द्रष्टव्यम् | ततः उत्तिष्ठेति मन्त्रेण लिंगं पीठात् समुत्क्षिपेत् रथे तिष्ठेति मन्त्रेण यत्नतो अप्रमादेन तं देवं रथमारोप्य सप्रदक्षिणं मण्डपं नयेत् || द्वारदेशे तु संप्राप्ते रथादवतार्य उदुत्थं जातवेदसं आकृष्णेन इत्याभ्यां विधिवत् पादपूर्वं अन्तः प्रवेशयेत् || प्. ११) पुनः शययां प्रदक्षिणं नयित्वा प्रासादाभिमुखं यथा तथा शययायां न्यस्त्वा वामदेवेन शाययेत् | इति क्रियासारव्याख्यायां तृतीयः पटलः || ३ || एवं क्रियाप्रधान जलाधिवासादि स्थूलशुद्धिमभिधाय स्नानप्रधानं शुद्ध्यन्तरं वक्तुं उत्तरपटलं प्रारभमाणः पटलार्थं सूत्रयति अधिवासनं कुर्याद्यथावत् साधकेश्वर इति अथ जलाधिवासादि स्थूलशुद्ध्यनन्तरं सायन्तननियमानन्तरं च इति विग्रहः | समाधिबलप्राप्तेश्वरतादात्म्य भावनः साधक इत्यर्थः स यथावत् श्लिष्टतरमधिवासनं चिदात्मनः परमेश्वरस्य मन्त्रलिंगे अधिष्ठातृत्वेन वाऽसनं सदावस्थापनं कुर्यादिति सूत्रार्थः तत्र प्रथमं सूत्रितां साधकस्य ईश्वरतादात्म्यभावनां विवृणोति प्रक्षाल्य पादावित्यादि ध्यात्वात्मानं शिवमित्यन्तेन || प्रक्षाल्येति गुरुः शुचिः कृतस्नानादिकः शरीरशुद्धिरर्थात् नववस्त्रधरश्च उत्तरं वस्त्रं प्. १२) उपवीतवत् कृत्वा पादौ हस्तावपि प्रक्षाल्य विधिवदाचम्य वाग्यतः पश्चात् पश्चिमभागे प्रत्यङ्मुखशायि तस्य लिंगस्य लिंगस्य दक्षिणपश्चिमदिग्भागात् प्राङ्मुखशयि तस्य दक्षिणपूर्वभागे चेति द्रष्टव्यम् तत्र उदङ्मुख असिनः आत्मशुद्धिं जीवशुद्धिं [च] समाचरेत् सम्यक् प्रणवप्राणायामादिना आचरेत् || आसीनोदङ्मुख इत्यत्र आसीनः उदङ्मुखः इति पदच्छेदः अश्वेतपीतं रजो * * * वित्यादिवत् आर्षः सन्धिः अथवा प्रक्षाल्य पादावित्यादिना देहशुद्धिः वाग्यत इत्यनेन मनःशुद्धिश्च विवक्षितः भूयः स्वजीवात्मानं परमात्मनि विलाप्य परमीकृत्य तदनन्तरं तत्वानि तद्राश्रयभूतानि पृथिव्यादीनि तत्वानि संहरेत् सम्यक् परमेश्वरे तदपृथग्भावेन योजयेत् ततः तदनन्तरं जडात्मनः प्राति भासिकस्य देहपिण्डस्य शुद्ध्यर्थं धारणा शोषणाद्यपरनामधेया धारयेत् कुर्यात् प्. १३) तत्वान्युत्पाद्य प्लावन ज्वलन काठिन्य सुषिरीकरणान्तरं स्वात्मचैतन्यं योजयित्वा तदाश्रयभूतानि तत्वान्युत्पाद्य विन्यस्य तत्वानि विन्यस्य च मन्त्रन्यास मूलमन्त्रन्यासं समाचरेत् | सम्यगाधारभावनादि क्रमेण आचरेत् | आत्माराधनं कुर्यादिति द्रष्टव्यम् | अथ आत्मानं स्वजीवात्मानं सर्वरामाजान सिद्ध ज्ञानशक्तिविषयीकृताशेषप्रपञ्च सर्वगं समस्त स्वकार्यव्यापकं प्रभुं इच्छामात्रेण जगत्सर्गादौ समर्थं साक्षाच्छिवं परमेश्वररमेव ध्यात्वा जीव भावमपोह्य उक्तगुणगणपूर्ण परमेश्वरभावेन अवस्थायैवं ध्यानसमायुक्त उक्तपरमेश्वरभावे जाग्रदेवादौ नाडीसन्धानादिषु पुरस्सरं तारेण लिंगस्थ जीवमात्मनि परमात्मनि तत् परमीकरणाय योजयित्वा ततस्तत्वानि संहरेत् || तत्व संहारं विवृणोति घ्राणेत्यादि विद्यादिषु यथा क्रममित्यन्तेन || प्राणोपस्थसमायुक्तां स्वविलीन स्वविशेषेन्द्रिय घ्राणोपस्थां प्. १४) भूतगुणान्वितां गन्धादिपञ्चगुणान्वितां उर्वीं कारणे स्वकारणगन्धतन्मात्रे वक्ष्यामाणमन्त्रप्राणायामेन संहरेत् तच्च तोये तद्गन्धतन्मात्रं स्वमन्त्रव्यापकेन तोये संहरेत् तत्तोयं जिह्वा पायुयुतं वर्णगुणोपेतं रसादिचतुर्गुणोपेतं स्वकारणे रसतन्मात्रे संहरेत् || संहरेदिति सर्वत्रानुवर्तते पावके रसतन्मात्रमित्यर्थात् | पादाक्षित्रिगुणोपेता वह्निस्तद्वत् स्वकारणे | रूपतन्मात्रे | तच्च त्रायौ त्वक्पाणि संयुतम् गुणद्वययुतं वायुः स्पर्शे स्पर्शतन्मात्रे स्पर्शं व्योम्नि श्रोत्रवाक्संयुतं एकगुणं व्योम च शब्दाख्ये मात्रके स्वकारणे संहरेत् तच्चित्ते तत् शब्दतन्मात्रं चित्ते मनोऽपर पर्यायमिह तच्चित्तमहंकारे तमहंकारं बुद्धौ महदपरनाम्नि | तां बुद्धिं तथा गुणेति गुणतत्व मव्यक्ते प्रकृत्यपरपर्याये तदव्यक्तं तथा रागे पुरुषापरपर्याये पुरुष इह च षड्विंशकः कौशिकांग इत्याद्युक्तस्वरूपे | तं रागं विद्यादिष्वशुद्धविद्यादिष्वशुद्धविद्या प्. १५) नियति कालाकाल मायात्म शुद्धविद्या सदाशिवशक्ति शिवं यथाक्रम मुक्तक्रमानति वृत्त्या परंपरया परमे शिवे षट्त्रिंशत्तत्वातीते संहरेत् तत् चित्ते तच्छब्दतन्मात्रं चित्ते मनोऽपर पर्याये तच्चित्तमहंकारे | तमहंकारं बुद्धौ महदपरनाम्नि | तां बुद्धिं तथा गुणे | त्रिगुणतत्वे | तत्त्रिगुणतत्वमव्यक्ते प्रकृत्यपरपर्याये तदव्यक्तं तथा रागे पुरुषा परपर्याये पुरुष इह च षड्विंशकः कौशिकांग इत्याद्युक्तस्वरूपे तं रागं विद्यादिष्वशुद्धविद्यादिषु अशुद्धविद्यानियतिकाद्वा कालमायात्मशुद्धविद्या सदाशिवशक्तिशिवं यथाक्रमं उक्त दम्मानतिवृत्या परंपरया परमेशिवे षट्त्रिंशत् तत्वातीते संहरेत् | तत्वसंहारमुपसंहारं तन्मन्त्रानुपदिशति हां ह्वीमिति हं हस समन्विते ह्रां ह्रीं ह्यऊं ह्यैं हौं इत्येतैः तारेण च यथान्याय परमे शिवे संहरेत् || प्. १६) तत्र पञ्चभूतैः पञ्चबीजानां तारेण चित्तादीनां संहारः कार्य इति द्रष्टव्यम् || पादनाभिहृदय तालुभ्रूमध्येषु पञ्चभूतानि तदुपर्यूर्ध्वे पर्वणि पर्वणि चित्तादीनि च संकल्य हान्नमः शिवाय पृथिव्यात्मने हुं फडित्यादिमन्त्रैः पञ्चविंशद्वारावर्तितैः तत्तद्गुणसंख्यान् प्राणायामान् कृत्वा तत्त मात्रासु संभृत्य ह्लां नमः शिवाय निवृत्त्यात्मने नमः इति मन्त्रः तत्तत्स्थानाद्युक्तस्थानान्तं व्यापयय तत्तन्मात्रामुत्तरतत्वे संहृत्य संहृत्य यथाक्रमं षट्त्रिंशत् तत्वान्विते परमे शिवे संहरेदिति यथान्यायं पदार्थः || एवं लिंगस्थजीवं तत्स्थं तत्वानि च परमे शिवे विलाप्य परमीकृत्य केवलजडरूपं लिंगं शोषणादिभिः विशदीकुर्यादित्याह वायुनेति || वायुना वायुबीजप्राणायामेन तत्प्रतिभासमात्ररूपं लिंगं शोषयेत् वह्निना सन्देहच्च || वारुणेन प्लावयेत् प्लावनानन्तरं जगदविशेषेण तोयमयमेव ध्यायेत् | तस्मिन्निति | पश्चात् प्लावनानन्तरं प्. १७) जगदेकार्णवीभाव ध्यानान्तरं तस्मिन् प्लावनजले जगदंकुरबीजत्वात् बीजसंज्ञिकीं पार्थिवीं शक्तिं न्यसेत् क्षिपेत् पृथिवीबीजप्राणायामेन इत्यर्थात् ततस्तस्यां तन्मात्ररूपायां शाक्तौ तारश कत्युच्चारणेन तत्कार्यसर्वस्वरूपं बुद्बुदमुत्पन्नं ध्यात्वा लिंगं तन्मयतदेकात्मकं च ध्यात्वा तस्मिन् लिंगे तारेण आत्मस्थजीवं योजयेत् | ततः सार्थि * * चैतन्य विन्यासानन्तरं तत्वानि तदाश्रयभूतानि तत्वानि च भावयेत् | तत्वभावनां सवाध्वप्रपञ्चं विभंजते देवः शक्त्येत्यादि द्वाभ्यां देवः सृष्ट्यादिपञ्चकृत्यकर्ता प्रणम्य षट्त्रिंशत्तत्वातीत मित्याद्युक्तस्वरूपः षट्त्रिंशत्तत्वातीतः परमेश्वरः साक्षी चैतन्यविन्यासानन्तरं तदाश्रयभूतानि तत्वानि सिसृक्षुः शक्त्या स्वसामर्थ्येन नभः क्षोभयन्नभसो ब्रह्मायं वाचः परमो व्योम इत्यादि श्रुतिश्रुतस्य शक्तो यया स शंभुः भुक्तौ मुक्तौ च पशुगणास्यतामेकां प्. १८) इत्यादि स्मृतिस्मृतस्य षट्त्रिंशत्तत्वातीतस्य चिद्गगनस्य शक्त्यपरपर्यायस्य क्षोभं विकारं कुर्वन्नादं शिवतत्वापर पक्षनामकं षट्त्रिंशत् तत्वमजीजनत् जनयामास || अत्र अत्यन्तपरोक्षस्य जगत्सर्गस्य आगमैकगम्यत्वात् उक्ति नित्याजीजनदिति भूतप्रचयप्रयोगः | इति || नादात् बिन्दुः शक्त्यपरपर्यायः पञ्चत्रिंशत्तत्वरूपो जातः || तस्माद्विना सदाशिवश्च जातः | चकारोस्य वर्णपद मन्त्राश्च नादन्त इति स्वयं वक्ष्यमाण वर्णादिकारण नादरूपत्वसमुच्चयार्थः || तथा च पाशुपते- सिसृक्षुरखिलां सृष्टिमसौ देवः सनातनः ज्ञानात्मना क्रियाशक्तिं अधिष्ठाय विलोड्यखम् शक्त्या कारणभूतं तु सूक्ष्मनादमजीजनत् नादात् बिन्दुः सहस्रार्कद्युतिस्तस्मात् सदाशिवः स्थूलनादात्मको जज्ञे सृष्टिर्नाना विद्धा ततः इति | तत इति तस्मात् सदाशिवात् यथा क्रमं तद्वाऽन्यात्मक तत्वादीनि कला भुवनानि पातानि स्युः | प्. १९) नादतः सदाशिवतत्वस्य नादांगतो वर्णवर्णपदमन्त्राश्च जाताः स्युः | इति विडध्वान इति प्रोक्ता षडध्वानः शिव भेदायतस्ततस्ते देशिकसत्तमैर्लिंगे यथान्यायं तत्वसृष्टिसंवत्सरपरिपाक प्रादुर्भावलिपितत्वन्यास मन्त्रोदय पीठन्यासमन्त्रप्राणायामादि न्यायानतिवृत्या क्रमात् ततस्तत्वानि चेत्युक्तक्रमात् न्यस्तव्याः || षडध्वन्यासस्ताव दस्माभिरपि तन्त्रसमुच्चये प्रोच्यते स्मेतीह न प्रतन्यते एवं विशुद्धतत्वसंसिद्धं प्रसिद्धषडध्वप्रपञ्चमयं लिंगशरीरं परिकल्प्य तस्मिन् पञ्चब्रह्म व्योमविद्याभ्यां सर्वसाधारणे मूर्तिं सन्निधाप्य समर्थयेदिति अदहावाह्येति ईशानादिभिरेकीभूतैः ब्रह्मभिरावाह्य ब्रह्मभिः सूत्रादिरूपै रंगमन्त्रैः सर्वज्ञादिभिश्च सकलीकृत्य समर्चयेत् सम्यक् स्वकल्पन्यायेन अर्चयेत् | तदनन्तरं व्योमव्यापिशिवेन आवाह्य तेन तदंगैश्च समर्चयेत् || व्यष्टिसमष्ट्या च वाहने चाभ्यां प्. २०) विवक्षिते एवं महत्तरयोर्वैदिकतान्त्रिकयोः सन्निधापनमभिधाय वक्ष्यमाणनित्यपूजायां षडक्षरप्रासाद पञ्चब्रह्मसु यो मन्त्रोऽंगीक्रियते तेन सांप्रतिक समर्चनमपि कुर्यात् इत्याह षडक्षरेणेति || देवेशं षडक्षरेण वा नादेन वा ब्रह्मभिस्तु वा समर्चयेत् समर्चयेदिति पूर्वोक्तमनुवर्तते | षडक्षरोद्धारं तत् प्राशस्त्यकलनपूर्वकं प्रतिजानीते षडक्षरमिति मन्त्रमुद्धरति | तारमिति तत्र प्रथमक्रमाक्षरं तारमोंकारो द्वितीयम् शून्यं नकारं तृतीयम् सर्गीविषयं विषाक्षरं विसर्गान्तो मकारश्चतुर्थं | सूक्ष्मसमन्वितं वान्तमिकारान्वितः शकारः पञ्चमं कुंभानन्ता कुंभो वकारो अमृताधारत्वादनन्त आकारो वाकार इत्यर्थः || षष्ठं मरुद्यकारो भवेत् | एवं वेदसारं श्रीरुद्रोपनिषत्सारं अत एव अनुत्तमषडक्षरं भवतीति शेषः | एवं षडर्ण मूलमन्त्रमन्त्रमभिधाय ईशानादि पञ्चमूर्तीनां तत्प्रथमाक्षरप्रणव परिणाम रूपनकारादि पञ्चाक्षरपरिणामरूपवत्वप्रतिपत्तये प्. २१) तद्बीजत्वं दर्शयति नाद्यर्णैरिति || बिन्दुसंयुक्तैः क्वचिदभ्येति विप्रतामित्यादि | समुक्तशक्तिपरिणामरूपबिन्दुना सम्यगुक्तैः नाद्यर्णैः नकारादिमन्त्रार्णैः कारणभावत्वात् बीजभावं गतैरीशानादि कार्याणि कल्पयेत् || एवं पञ्च मूर्तिमन्त्रान् अभिधाय तैः परमेश्वरस्य मूर्तिकल्पना प्रकारमाह मूर्ध्नीति || तानीशानादीनि मूर्धास्ये हृदये गुह्ये पादयोर्वक्त्रेष्वास्यूर्ध्व प्राग्याम्यसौम्याप्यगतेष्वपि यथान्यासं विन्यसेत् | यथान्यायमित्यनेन ईशानादीनि यकारं विना बिन्दुनादयुतैः बिन्दुना नामभिः हृदयादिनामश्चि युतैः जातियुक्तैः जातिभिर्नम स्वाहादिभिर्युक्तैः साधकः सविसर्गान्तं विसर्गसहितमन्तं यकारं विद्याच्च | अत्र साधकपदेन बिन्दुविसर्गयोरेवापोद्धारकथनात् नाम नोःद्धार्यमिति द्योत्यते अथ | प्रासादमन्त्रं सप्रतिज्ञमुद्धरति नादश्चेति || मनुस्वरयुतांबरं मनुस्वरेण चतुर्दशस्वरेण युतं अंबर अहकाराक्षरं प्. २२) सबिन्दुकमुद्धरेत् इदं वरमूलमन्त्रं षडक्षरं वेदसारमनुत्तममिति वैदिकमुक्तं इदं परं तान्त्रिकमित्यर्थः | अथ मूर्तिमन्त्राद्युद्धारार्थं तद्बीजानुद्धरति सुषिरेति || सुषिरेण नवमेन योऽकारेण स्वरेण सप्तमेनाप्येकारेण भूतेन पञ्चमेनापि उकारेणाग्निना तृतीयेन षकारेण प्रथमे न चाप्यकारेण अक्षरेण बिन्दुना च युतं न भो हकाराक्षरमुद्धरेत् | उद्धरेदिति पूर्वमेवानुवर्तते | मूलमन्त्रोद्धारे नपुंसकस्वरसहितं मूर्तिमन्त्रोद्धारे नपुंसकस्वररहितं च गणनं विवक्षितं तथा च पाशुपते नादं त्रयोदशेनैव पुनश्चेकादशेन च पञ्चमेण तृतीयेण स्वरेणाद्येन संयुतम् बीजानि पञ्चमूर्तीनां ईशादीनां क्रमाद्विदुः इति || न्यसप्रकारमाह - तेनेति तेन उद्धृतेन बीजेन ईशानादि सत्यान्तं ब्रह्माणि सुरूपाणि वक्त्ररूपाणि च पूर्ववत्तत्तन्नामभिः युक्तान् न्यसेत् पश्चाद्दीर्घबिन्द्युव्योम्ना नामजातियुतेनागानि च क्रमान्न्यसेत् प्. २३) अनेन प्रासादमन्त्रेण वा देवमर्चयेत् ब्रह्मभिः अत्र ग्रन्थे वक्ष्यते अर्चनं विवृणोति पाद्याद्यैरिति | देवं विधिवदावाहन सकलीकरणादि तदर्हविधिपुरस्सरं पाद्याद्यैः गन्धद्वारादिमन्त्रैः गन्धैर्गन्धसमुच्छ्रितैः पुष्पैश्च बहुशोऽभ्यर्च्य धूपैर्दीपैः पायसाद्यैः पायसाद्यै निवेद्यैश्च यथाविधि मण्डलाराध्याद विंध्यनतिक्रमेण देवमर्चयेत् || अर्चयेदिति पूर्वोक्तमनुवर्तते || नपुंसकशिला लस्यांनि द्रव्याणि चात्र शययायां न्यस्य अधिवासयेदित्याह रत्नानीति रत्नानि द्रव्याणीत्यर्थः ओषधय इत्यादि द्वितीयार्थे प्रथमा | शाल्याद्योषधीरित्यर्थः पूजनानन्तरं तच्छेषतया बलिं च कुर्यादित्याह लाजेति लाजादियुक्तपायसेन मण्डपस्य बहिरष्टासु दिक्षु अमुना मनुना बलिं च कुर्यात् | भर्जितं तण्डुलं धानं सक्तु स्याच्चूर्णितं च तत् बलिमन्त्रमुद्दिशति ममिक्रमिति अनेन बलिं दत्वा भूयस्तदनन्तरं प्. २४) शिवं मण्डपे लिंगे मण्डलेऽभ्यर्च्य प्रसन्नपूजां कृत्वेत्यर्थः पश्चात् पीठनपुंसकशिलामपि संशोधयेत् | शोधनं विवृणोति त्वग्भिरिति दर्भमृत्त्वग्भिः संघृष्य जलैः शुद्धजलैः क्षालयेत् तदनन्तरं वारुणैस्तोयैः वरुणदेवत्यैः तोयैः वारुणमन्त्रैः संक्षाल्य सम्यक् भूतसंहारपूर्वकं क्षालयित्वा विधानवत् साधको धारणाभिः शोषणादिरुपाभिः शोधयित्वा विधानविदित्यनेन अधिवासविधेयभूतसंहारादिविधानवित्वं द्योत्यते एवं शोधयित्वा यथान्यायं शक्तिबीज प्राणायामपीठन्यास पीठपूजादि न्यायानतिक्रमेण पीठात्मिकां देवीं यजेत् श्रीभुवनेश्वर्येत्यर्थात् | नपुंसकशिलायाश्चोपलक्षणमेतत् पीठं संशोधयेत् पश्चान्नपुंसकशिलामपीति तुल्यप्रकृतत्वात् तत्र तारेणाराधनं तद्वयं पूजानन्तरं वस्त्रेणाच्छाद्याथ प्रासादमपि संशोध्य अधिवास्य तत्पूजायां दर्भानक्षतांश्च विकिरेत् * * इतरोपहारोपलक्षणं चैतत् | मन्त्रान् कृणुष्वादिकान् जप्त्वा प्. २५) रक्षां विधाय अस्मात् बहिर्व्रजेत् लिंगमिति द्विजाः पूजानन्तरं अभितो दिक्षु लिंगं संस्पृश्य वेदांश्च जपेयुः चकारः कोणेषु शिवसंहितामित्याद्युक्त तान्त्रिकमन्त्रसमुच्चयार्थः अथ प्रतिष्ठाहोमं कुर्यादित्याह - लिंगंचेति ततो गुरुः प्रोक्तकर्मानन्तरं लिंगस्य शिरसो अभ्याशे कुण्डे जनिते तस्मिन् तत्वहोमेऽग्नौ व्याहृतीश्चतसृभिः क्रमेण क्षीराज्यमधुसंसिक्ताः क्षीराज्यमध्वाक्ताः पलाशौदुंबराश्वस्याः समिधः तद्वत् तिलान् क्षीराज्यमध्वक्तान् तिलानित्यर्थः तांश्च पृथगष्टसहस्रं जुहुयात् अत्र आद्यद्रव्यमाद्यया व्याहृत्या अनन्तरद्रव्यमनन्तरव्याहृत्येत्यादि क्रमो द्रष्टव्यः अतः परं द्रव्यहोमानन्तरं प्रणवादिभिः स्वाहान्तैः एभिः शर्वो रुद्र इत्यादि प्रकृतैरष्टमूर्तीनां मन्त्रः पूजामन्त्रैश्च सकृत् सकृत् सर्पिर्हुनेत् * * अथ समापयेत् स्विष्टकृदादि कुर्यादित्यर्थः अथ अधिवासहोम मभिदधाति विहृत्येत्यादि विजान् मनूनित्यन्तेन ग्रन्थेन भूयः प्रतिष्ठाहोमसंपातसमर्पणानन्तरं प्. २६) तं वह्निं वक्त्राद्यैः तत्तत्दिक्प्रसिद्ध ब्रह्मभिः विहृत्य विभज्य हृत्वा दिक्षु पूर्वादिदिक्षु विनिक्षिपेत् कोणेष्वग्न्यादिष्वंगैः सर्वज्ञादिब्रह्मांगैः अग्निं विनिक्षिपेत् निक्षिपेदिति पूर्वोक्तमनुवर्तते | अत्र दिक्कोणविभागकथनं मन्त्रविभागप्रदर्शनार्थं न विहरणप्रदर्शनार्थमविहरणं तु प्रदक्षिणक्रमेणेति च स्मरन्ति तद्विदः | मन्त्रदिग्विभागस्तु पूजाक्रमेण मन्त्राणां दिग्व्यवस्था प्रकीर्तितेति वक्ष्यति | एवमग्निविहरणमुक्त्वा अधिवासहोममाह कृत्वा चाग्निमुखमित्यादी निजान्मनूनित्यन्तेन सर्वे मूर्तिपाः सर्वे अग्निमुखान्तिकं कृत्वा वक्त्रेण पक्वं जुहुयुः वक्त्राद्यैः तत्पुरुषाघोरः सत्य वामदेव नामभिर्ब्र्हभिः अंगमन्त्रकैः हृदयशिखा कवच शिरोनामभिस्तदंगैश्च तत्तद्दिग्व्यवस्थापितैः समिदादिकं पृथक् पृथगष्टशतं जुहुयुः | समिदादिकं गणयतिसमिदाज्येत्यादिना समिधस्तु स्नपनपटले वक्ष्यमाणा ग्राह्याः आचार्यकुण्डमन्त्रं अभिदिशति | प्. २७) ईशानेन हुनेत् गुरुरिति तत्रैव कर्तव्यं शान्तिं होममाह - दधीति अन्ते प्रोक्त दशद्रव्यहोमान्ते स्विष्टकृतश्च प्राक् दधिक्षौद्रघृतैस्तथा पृथगष्टशतं सर्वे जुहुयुः इत्युक्तन्यायानुसारेण मृत्युञ्जिता शान्तिं हुत्वा होमं समाप्य संपातं स्पृष्ट्वा अर्चयेत् लिंगसंस्कारानन्तरप्रोक्त मण्डलाराधनादेः सांप्रतिकत्वप्रदर्शनार्थं प्रोक्तविधिं स्मारयति तत इति दिवसविधिमुपसंहरति नृत्त इति | इति नारायणविरचितायां सारव्याख्यायां तत्वप्रकाशिन्यां चतुर्थः पटलः || ४ || अथ संस्कृतस्य लिंगस्य प्रतिष्ठाप्रकारमाह स्नात्वेति | प्रभाते स्नात्वा पाशुपताद्युक्तक्रमेण स्नात्वा विधिवदात्मभावनादि तदर्ह विधिपुरस्सरं महेश्वरं मन्त्रलिंगे मण्डले च कृतसविधानं पूजयित्वा प्रतिष्ठाप्यस्य देवस्य वीर्यवत्तासिद्धये दध्याज्यमधु संयुक्तं पायसं च चकाराद्धरिद्रादीनि च निवेदयेत् | सांप्रतिक सपर्याकाले प्रागादिदिक्स्था प्. २८) देवग्रहभूतग्रहादयो बलिकांक्षिण(न्त) इत्याह - देवेति || तेभ्य इति मण्डपस्य परितोऽष्टदिक्षु तेभ्यः प्रधानद्वारस्थ ग्रहपूर्वेभ्यः तच्छेषेण बलिं दत्वा रत्नन्यासं समाचरेत् तत्र प्रथमं प्रासादचर्चया प्रासादपुरुषप्रतिष्ठां सूचयति सामर्थ्येत्यादिना तद्वत् यद्वदाप्तागमवचनं तद्वदित्यर्थः || प्रासादं संस्कृत्य पीठपूजापुरस्सरं प्रणवोपचार मूलपञ्चतत्व प्रासादमन्त्रानुच्चार्य प्रासादपुरुषं प्रतिष्ठाप्य सकलीकृत्य संपूज्य प्रासादात्मना भावयेत् इति भावः तथा च पाशुपते गृहयागं पुरा कृत्वा पश्चियां स्थाप्य देशिकः इति मात्वा वक्ष्यमाणप्रकारेण प्रमाय स्थानं प्रतिष्ठास्थानं कल्पयेत् * * पञ्चोत्तरेति गर्भ गेहस्य पञ्चोत्तरशतांशं तत् गर्भगेहस्य प्राक् प्रत्यग्गतविस्तारे पञ्चोत्तरशतांशतया विभक्ते तदेकोशमानयेत् मध्यतो गर्भगेहस्य मध्यात् तावत् पृष्ठतः पृष्ठे नीत्वा तत्र दक्षिणोत्तरगतं सूत्रपातं प्रकल्पयेत् * * एवं पृष्ठगत व्यवस्थां प्रकल्पयेत् | प्. २९) भुवं गमस्येति भुवं गमस्य द्वाराधस्तन फलकस्य षड्विंशच्छतांशं द्वारविस्तारे षड्विंशदुत्तरशतधा भक्ते तदेकांशो यावान् तावन्तमंशमुत्तरे गर्भगेहस्य मध्यादुत्तरे नयेत् तत्र च प्राक्प्रत्यग्गतं सूत्रपातं प्रकल्पयेत् देवं सौम्यदिग्मनुव्यवस्था एवं कल्पितदक्षिणोत्तरसूत्रस्य पूर्वा परसूत्रस्य च संगमे कोणसूत्रं प्रकल्प्य तस्मिन् कोणसूत्रतः कोणसूक्ते ऐशान्यां यवांशं नीत्वा स्थानं प्रकल्पयेत् स्थानं प्रकल्पयेदिति पूर्वोक्तमनुवर्तते तत्र तत्संस्थाने सम्यगपितां प्रणवेन कृतपूजां नपुंसकशिलां अमुना अनन्तरवक्ष्यमाणेन स्थिलीत्यादिना मनुना विन्यसेत् प्रतिष्ठापयेत् | कल्पितस्थाने नपुंसकशिला मध्यं यथा भवति तथा विन्यसेदित्यर्थः || स्थापनामन्त्रमुद्दिशति स्थितमिति प्रार्थनामन्त्रमुद्दिशति त्वमेवेति प्रार्थ्येति एवमनकर पूर्वोक्तमन्त्रेण प्रार्थ्य प्रतिष्ठानन्तरं प्रणवेन संपूज्य प्राथ्येत्यर्थः तदनन्तरं प्. ३०) गर्तनपुंसकशिलोपरितनगर्तं गन्धोदैश्च चकारात् तत्पूर्वं पञ्चगव्यैश्च प्रयत्नतः प्रयत्नात् प्रतिष्ठास्थैर्यसिद्धये तदन्तर्गत शिलाशकलादिकं परिहृत्य शोधयेत् ततः तत्र गर्ते रत्नन्यासं कुर्यात् इति संग्रहः तत्र तत्पूर्वकर्तव्यं च्छायेति हुत्वेति गायत्र्या अष्टोत्तरशतं घृतं हुत्वा भूयस्तत्संपातसमर्पणानन्तरं तया गायत्र्या तानि रत्नान्यभि मन्त्रयेत् अभिमृश्य मन्त्रयेत् सद्योजातकलाभिरष्टाभिः ऐन्द्रादिकं योगतः प्रागादिप्रदक्षिणक्रमयुक्त्या तान्यनन्तरवक्ष्यमाणानि यन्त्रादीनि रत्नादीनि न्यसेत् | न्यसेदिति पद्मरागं न्यसेन्मध्य इत्यतः समाक्षिप्यात्रापि योज्यः | रत्नानि गणयति वज्रमिति | नीलं शत्रक्रतोः इन्द्रनीलमित्यर्थः | गारुडं मरतकमित्यर्थः तथा च पाशुपते वैडूर्यं मरताह्वयमिति | गारुडतकं मरतकं अश्मगर्भं हरिन्मणिरिति चामरसिंहः तद्द्वितीयावरणस्य धातून् गणयति मनःशिलामिति वामदेवस्य कलाभिरों बल इत्यन्तादिभिः अष्टाभिरित्यर्थः | प्. ३१) माक्षिकं तथेति | तथाशब्देन आगमान्तरोक्तमध्यद्रव्यमन्त्रा धनुवादो वा विवक्षितः शेषं सुगमम् पुण्याहमिति रत्नन्यासात् पूर्वमेव कर्तव्यम् पुण्याहं कालनियमपूर्वमाह पुण्याहमिति विधाय चेति चकारः एवं तु सुसमं न्यस्त्वा पुनः पीठं प्रपूजयेत् इति पाशुपताद्युक्तां पीठपूजां समुचिनोति तत इति | मण्डपमासाद्य मणिस्थं मण्डलस्थितं च चैतन्यं देवे उद्वास्य संयोज्य सम्यगेकीभावेन योजयित्वा तोरणध्वजादि बहिरंगक्रमेण विद्येश्वरकलशान्तं देवे संयोज्य विद्येश्वरघटो महेकः प्रोक्ष्य विधिवत् अस्त्राद्युष हारविधानपुरस्सरं अर्घ्यं दत्वा प्रणिपत्य सावधानमना उत्थाप्य उत्तिष्ठमन्त्रेणोत्थाप्य वामदेवेन यानमारोरोप्य (२) मूर्तिपैः नीरजनकर्करी द्रोणकुंभकुंभेशछत्रचामरादिवारिभिः यानधारिभिश्च मूर्तिपैः सह अंगं प्रदक्षिणीकृत्य देवालयं प्रति नयेत् प्रणयनक्रममाह अर्घ्य हस्त इत्यादि || द्वाभ्यां द्वारेति द्वारदेशे प्. ३२) अध्वश्रमापनोदनाय अर्घ्यं प्रदाय दत्वा यत्नादप्रमादेन देवं अन्तः प्रवेशयेत् तत्र तस्यां कृतपीठपूजायां नपुंसकशिलायां विधिवत् न्यस्य गुरुः संप्रदायसमधिगत परावाहनमन्त्र मूर्तिभावनादिकः दर्शविध्युपेतं यथा तथा सद्येनादाय तल्लिंगं वामेन स्थाप्य यत्नत इति स्वयं स्मारयिष्यमाणविद्ध्युपेतं च यथा तथा विन्यस्य प्रतिष्ठाप्य आधाराधेयसम्मेलनं विभाव्य मन्त्राराधनपूर्वकं विधाय तस्य वैश्वात्म्यप्रतिपत्त्यर्थं षडध्वन्यासपूर्वकं सद्येनादाय वामदेवेन प्रविश्य शिवाघोरविद्यया सुदृढं स्थाप्य वज्रेण प्रणम्य शिवविद्यया गन्धपुष्पैः समभ्यर्च्य ध्यात्वा आत्मानं प्रकल्पयेदिति स्मृत्यन्तरोक्तषडध्वन्यासं पूर्वं कृत्वा तदनन्तरमचलत्वादि लक्षणलक्षितं चिद्रूपं चैतन्यैकस्वरूपं परं तत्वमावाहयेत् जीवावाहनं कुर्यादित्यर्थः किमीश्वरचैतन्यमपि अस्मदादिचैतन्यवत् संकुचितवृत्या गमनागमनयोग्यत्वा दावाहनार्हमित्यत आह प्. ३३) अचलं हिषुश्च परिपूर्णत्वांदप्राप्त देशप्रवेशकारणं चलनानर्हं देशतो परिच्छिन्नमित्यर्थः ध्रुवं शाश्वतं कालतश्चापरिच्छिन्नमित्यर्थः आत्मानन्दं आत्मा आनन्दो यस्य तदात्मानन्दं स्वानुभावरसपरमनन्यसिद्धपरमानन्दमित्यर्थः | अनौपम्यं असाधारपरमैश्वर्यात् अविद्यमानौपम्यं तथा चानेकार्कायुतप्रभं अनेकार्कायुता रूपोपमा | अतिप्रकाशरूपमितिभावः तत्तदृशपरमात्मा तत्कार्योत्तीर्नं तत्वं परमार्थभूतं चिद्रूपं परमैश्वरचैतन्यं प्रतिष्ठिते मन्त्रलिंगे जीवरूपेण आवाहयेदिति भावः जीवावाहनां विवृणोति आदायेति साधकेश्वरः साधक एवेश्वरः साधकेश्वरः स्वहृदयांभोजातः स्वहृदयपुण्डरीकात् नादानन्दमित्यन्तर्नाद नियतं यत् प्रति प्राणिशब्द इत्याद्युक्तस्वरूपेण प्राणेन सा रौति सततं देवी शृंगी संगीतकध्वनिरित्यादि उक्तस्वरूपेण भुवनपतीनायनादनामधेयेन प्रासादेन च प्रतीकग्रहणगृहीतनादनिरूपितेन प्. ३४) अष्टाक्षरेण कबलीकृत पञ्चब्रह्मणा चेति द्रष्टव्यम् तेन मन्त्रेण प्रणवाद्यन्तरुद्धैस्तु बिन्दुनादान्तदीपितैः पञ्चब्रह्मभिरेवैन मावाहनविधिं नयेदिति वक्ष्यमाणरीत्या प्रोक्तरूपं परचैतन्यं श्वाससंयुतं तत्कालवहन्नासापुटनिस्सरन्निश्वासागतमादाय सकले षडध्वन्यास सकलीकृते यथावत् देहदेहिभावेन अतिश्लिष्टतरं योजयेत् ततस्तदन्तरन्तर्लिंगं ज्ञानानन्दमयं ज्ञानमयमानन्दमयं च तथा सर्वकारणकारणं सर्वकारणस्य प्रकृतेरपि रविकारणं साक्षात् परमेश्वरं ध्यात्वा तच्चैतन्यविन्यासेन तन्मयमेव ध्यात्वा मन्त्रान् जीवन्यासादिमन्त्रान् अंगानंगान्यपि क्रमात् न्यसेत् अथ तमभीष्टस्थूलमन्त्ररूपेण तत्परिवारां सर्वस्वपरिवृतं कल्पयेदित्याह ध्यायेत्तमित्यादि सर्वदेवनमस्कृतमित्यन्तेन एवं अभीष्टमन्त्रमूर्तिरूपेण परिकल्प्य तस्य समस्तैश्वर्य वत्तासिद्धये स्तोत्रावाहनं प्. ३५) कुर्यादित्याह - ध्यात्वैवमिति एवं सकलं ध्यात्वा प्रणिपत्य पुरःस्थितो विद्वानावाहनात्मवित् पश्चात् स्तोत्रपुरस्सरैः न्यस्य सिंहेत्यादिस्तोत्रपूर्वैरेभिः वक्ष्यमाणैर्मन्त्रैः आगच्छतु भगवानित्यादि मन्त्रैः आवाहयेदिति || मूलांगन्यासादिभिः सकलीकुर्याच्चेत्यर्थात् || एवं स्तोत्रावाहनावसाने प्रातिष्ठिकाविधि मभिधाय विधिवत् पदसूचितविध्येकदेशं प्रकाशयति सद्येनेति तल्लिंगं प्रथितपरावहनादि प्रकटेश्वरभावं लिंगं सद्येनाधायावाहनरीत्या उन्नीय यत्नतोऽप्रमादेन वामेन स्थाप्य परब्रह्मात्मक नपुंसकशिलोपरि तद्बिंब रूपेण आकल्पान्तं स्थास्नुतया प्रतिष्ठाप्य भीमेनाघोरेण निरोधनं स्ववीर्यगुप्तिं मुखविद्यया सान्निध्यमाकल्पान्तं मन्त्रलिंगे विशेषसन्निधानं च यथान्यायं तत्तन्मुद्राबन्धनादि न्यायानतिवृत्त्यर्थ ईशानेन प्रार्थयित्वा यावत्सन्निधानं संपद्यमानोपहारभावेन पुष्पाञ्जलिंच प्. ३६) विधाय रत्नादिन्यासानतिवृत्या प्रार्थयित्वा मूर्धनि मन्त्रलिंगोपरिभागे हेमं विन्यस्य परमात्मभावेन सुहिरण्यं विन्यस्य विधानतः कुंभेशाभिषेकादि विध्युपेतं द्रोणकुंभांभसा देवमभिषिच्य विधानतो जीवावाहनादि स्तोत्रावाहनान्तं विधानं विधाय तल्लिंग मूलमन्त्रावाहनादिकृतसकलीक्रियं लिंगं शययोपान्तसादित पाद्यार्घ्यादि दानपुरस्सरं स्नानकाले घृतगन्धपयोभिः सामान्यसिद्धैर्वा पार्श्वयोर्विन्यसेत् स्थिरमसीति पूर्वोक्तै देवं धृत्वा त्मस्वपरिचर्यायेण घृतेन वा गन्धपयोभिः गन्धप्रधानक्षीरेण च वा तल्लिंगमप्यशेषविधिं विधाय गन्धपुष्पाद्यैः गन्धैः पुष्पैः आदिशब्दोक्त धूपदीपनिवेद्यादिभिश्च अभ्यर्च्य मूर्धनि लिंगशिरसि हस्तं शिवहस्तं विन्यस्य सांगं व्योमव्यापि शिवं पञ्चब्रह्माण्यंगानि च कारयेत् | सांगं अभीष्टमूलमन्त्रं च अष्टोत्तरशतं जपेत् अतः परं मृत्युञ्जयमन्त्रं पाशुपतं रुद्रं श्रीरुद्रं चावृत्य यत्नतो जपेत् यत्नेन इत्यनेन प्. ३७) आवृत्त्य जपाधिकये सान्निध्याधिकयं सूच्यते प्रार्थयित्वा यथान्यासं हेमं विन्यस्य मूर्धनि इत्यत्र यथान्यायवचनेन - औमेनाथ च वामेन ध्रुवाद्यौरिति पीठिकां रत्नैर्हेम्ना च संपूर्य वालुकैर्नवशक्तिभिः सुदृढं वज्रलेपेन निच्छिद्रं बन्धयेत्पुनः ध्रुवा द्यौरिति जप्त्वास्य मूर्ध्नि बिंबस्य काञ्चनं इति पाशुपताद्युक्तं पीठप्रतिष्ठादिकं विवञ्चितमित्येके मन्यन्ते | सर्वं स्वगुरुपदेश गम्यमेव यत्नादिति अत्र प्रोक्तक्रियान्ते पीठं यत्नात् प्रतिष्ठितं लिंगं क्षोभादिपरि हाराय यत्नमाश्रित्य निधाय प्रतिष्ठाप्य तत्पीठं पीठमन्त्रैः भुवनेश्वर्या चेष्ट्वा देवं मन्त्रलिंगसन्निहितं अर्चयेत् वस्त्राभ्यां तत्काले वेष्टयित्वा प्रयत्नतो रत्नहेमसिक तादिभि नालं दृढीक्रियादि प्रयन्तं विधाय अष्टगन्धमचलं क्षिप्त्वा अथाधाराधेयसंमेलन मन्त्रावाहनाद्यनन्तरं अंगैरावरणैः सह पूजयित्वा जलगन्धादि नैवेद्यान्तं देवं पूजयित्वा निर्गत्य परमविधाय पावक प्. ३८) पावकप्रीणनानन्तरं स्वैर्मन्त्रैः परिवारान् द्वास्थादिकान् बलिपरिवारान् प्रकल्पयेत् प्रकर्षेण यावन्मन्त्रलिंगावस्थानं तावत् तत्परिपालनपरतया स्थितान् प्रकल्पयेत् परिवारकल्पनाक्रममाह द्वास्थाविति एवं रुद्रपार्षदान् सर्वान् स्वेषु स्थानेषु कल्पयेत् कल्पयित्वा समाराध्य यथाविधि दिशाहोमादिविध्युपेतं समाराध्य बलिं दत्वा नमस्कृत्यार्थात् यावदन्तेत्यादिना पार्थ्य आचम्यान्तः प्रविंश्य गुरुकृतरेवोपहार आचार्यो मूलमन्त्रं जपेत् विविधैः स्तोत्रैः च चकारात् शिवसंकल्पादिमन्त्रैश्च स्त्वुत्वा देवं प्रसाद्य अभिलषितसिद्धिं संप्रार्थ्य प्रार्थनादोषनिवृत्त्यर्थं अज्ञातदोषनिवृत्यर्थंवा मात्वा सोमस्य मान एकस्मिन्नित्यादिभिः क्षमापयेत् विधिवद्दिशाहोमं च कृत्वा देवं क्षमापयेदिति पूर्वेण संबन्धः एवं प्रतिष्ठामुक्त्वा कारयितुर्यजमानस्य कृत्यमुद्दिशति समर्चयेदिति सर्वान् प्. ३९) त्रैवर्णिकान् शूद्रपारिशवादीन् इतरांश्च क्रमात् धनधान्यादिभिः वस्त्रैः पुष्कलैरन्नदानैश्च समर्चयेत् तत्रापि ब्राह्मणान् धनैर्हिरण्यादि तदास्थान्यादि द्रष्टव्यम् पश्चात् तदनन्तरं मूर्तिपैः सहितं गुरुं संपूजयेत् इत्यर्थात् तस्मै तेभ्यश्च शक्तिततो दक्षिणां दद्यात् || निरात्रमिति होमदानादिभिस्त्रिरात्रं अहोरात्रत्रयं मण्डलाराधन पूजाहोम विप्रभोजनदानाद्यैर्नीत्वा तुर्येऽहनि क्रमात् प्रायश्चित्त शान्ति कलशस्नपनादि क्रममाश्रित्य देवस्य सप्तदशद्रव्यैः शक्त्या यथाशक्ति स्नानं कल्पयेत् | अत्र शक्त्येत्यनेन कलश शावश्यायकत्वं द्योत्यते तेन पञ्चविंशद्द्रव्यस्नपनमपि अपराध्यते वेषेति एषा प्रतिष्ठा कर्तुकामो य इति प्राधान्येन प्रकृता प्रतिष्ठा सदानन्दचिद्घनस्य परमेश्वरस्य स्वप्रतीकलिंगभावेन भक्तानुजिघृक्षयावत् संसारमवस्थापनं कथितम् गुरुवरणाय तनमन्त्रलिंगसंपादन प्. ४०) तत्संस्कारस्थापन जीवन्यासादि क्रमेण सुव्यक्तमुक्ता | एषा उक्तप्रतिष्ठा मनीषिभिः साध्वसाधुसमीक्षा दक्षैः मात्सर्यादि दोषादूषितमनीषावद्भिश्च विपश्चित्तमैः संशोध्या | सम्यग्रहातिरिक्त दोषशमनेन शोध्या || त एव नः प्रमाणं इति भावः एवं प्रतिष्ठाभागापरनामकं पूर्वभागमभिधायोपसंहृत्य तावन्मात्रसमुक्तिप्रेक्षावत् बुद्धिमान्द्यपरिहारार्थं अनन्तरविवक्षित पूजाभंगापारपर्यायोपरिभागकथनं परिजानन् पटलमुपसंहरति पूजाद्यमिति उपरि उपरिभागे अनन्तरपटलपञ्चके समासेन पूजाद्यं क्रमात् वदिष्यते इति | इति क्रियासारव्याख्यायां तत्वप्रकाशिन्या पञ्चमः पटलः || ५ || एवमर्चकेत्यादि श्रुतिश्रुतनित्यपूजादि अधिष्ठानभूत मन्त्रलिंगप्रतिष्ठामभिधाय तदेककार्य नित्यपूजोत्सवादिषु अवश्यनित्यकर्तव्यां पूजां वक्तुं प्रतिजानीते अथ प्. ४१) अथ वक्ष्ये इति अथ श्रुतिज्ञातप्रथमकर्मापतितां पूजां समासेन वक्ष्ये वदिष्येऽहं समासेनेति | संक्षेपोक्तमनुक्रान्तत्वे पुनः समासकथनानुमननेन आगमान्तरप्रपञ्चितं शंखपूरण आत्माराधन उपहारकल्पनादि प्रपञ्चस्य अत्राप्यविरोधो ध्वन्यते आगमान्तरेष्वपि कुहचित् संक्षेपकथनविधानादेतन्मात्रकरणे न कश्चिद्दोष इत्येवमुक्तिः | तत्प्रकारमस्माभिः तन्त्रसमुच्चये प्रदर्शित इतीह न प्रदर्श्यतेतिमित्य स्यात् पूजाया प्राथम्यमित्यत आह सर्वाणि सिद्धिदामिति स्नात्वेति तत्र पूजको विधानतः स्नात्वा देवपितृतर्पणं कृत्वा वाग्यतोऽन्तर्मनसि मनसि मुकुन्दस्मरणादित्यादिन्यायात् तच्छुद्ध्यर्थं शिवं स्मरं स्मरन्नेव पुनः स्नानादि शरीरवाङ्मनः शुद्ध्यनन्तरं पूजनार्थं गच्छेत् पूजामण्डपमिति शेषः प्रक्षाल्येति गत्वा च पादौ प्रक्षाल्य आचम्य द्वास्थावभ्यर्च्य तदनुज्ञापूर्वं संविशेत् सम्यक् दक्षिणचरणपूर्वकं विशेत् प्. ४२) पूजामण्डपान्तरित्यर्थात् || करशुद्धिमिति ततो अस्त्रेण करशुद्धिं कृत्वा तेनास्त्रेण तालत्रयादिकं तालत्रयमादिर्यस्य दिग्बन्धस्य तालत्रयादिकस्तादृशं दिग्बन्धं कृत्वा अथ अनन्तरकर्तव्याग्निप्राकारानन्तरं दिक्षु दिगीश्वरान् ध्यात्वा ततस्तदनन्तरं दर्भविष्टरे आसीनः आत्मशुद्धिं आत्मनो जीवस्य सूक्ष्मदेहस्य च शुद्धिं कुर्यात् || तत्र प्रथमं नाडीशुद्धिप्रकारमाह रेचयेदिति रचयित्वेतिः नाडीशुद्ध्यर्थं कुंभितं वायुमन्योन्यनाडीविनियमेन बहीरेचयित्वा अथ तदनन्तरकर्तव्य प्रणवप्राणायामानन्तरं भूतानि स्वदेहारंभ सूक्ष्मभूतानि संहृतिक्रमात् शोधयेत् संहारक्रमेण स्वकारणे परमात्मनि विलाप्य शुद्धिं कुर्यात् | आत्मन आकाशः संभूत इत्यादि श्रुतौ भूतानामेव सृष्टिश्रवणात् तान्येव वा संहरेदिति भावः भूतशुद्धिं विवृणोति पादाग्र इत्यादि यथाविधि इत्यन्तेन हृदयादीति हृदयान्वितैः प्रासाद प्. ४३) प्रासादहृदयभूत हामाद्यक्षरलक्षितैः स्वैस्वैर्मण्डलगैः पृथिव्यादि तत्तद्भूतमण्डलाश्रितैः बीजैः यवस्यहाक्षरैः ह्नां ह्वीं ह्रूं ह्यैं तथा हौडित्येतैः हुं फड् समन्वितैः इति प्रागुक्तरूपै क्रमात् पञ्चभिश्चतुर्भिश्च त्रिभिर्द्वाभ्यां सकृत् उद्घातावृत्तिभिः संहारप्राणायामापत्तिभिः क्रमात् पादाग्रे नाभिमूले हृदि कण्ठे तालुके च स्थितानीत्यर्थात् तानि भूतानि यथाविधि प्रागुक्तविध्यनति वर्तनेन शोधयित्वा वायुना शोषयेत् तनुमिति वक्ष्यमाणेन संबन्धः | अत्र वाक्येनोद्धातनिर्वचनादि नादेन शोधनं व्याम्न इत्यन्तेन देहे असञ्चलिते दृढबद्धासनतया सुस्थितेऽपाने च पीडिते स्वच्छन्दगति निरोधेन ऊर्ध्वमुखीकृते च सति ऊर्ध्वयायिन्या प्राणशक्त्या प्राणबलेन अयमुद्घातशब्दोक्तः प्राणायाम ऊर्ध्वं ऊर्ध्व तत्वस्थानं गति यत् तेनायं प्राणायाम उद्घातः कीर्त्यते पञ्चमभूतसंहारमते अंगबीजसंयोगविधिना च प्राप्तहकारद्वय प्रसंगदोषं प्. ४४) परिहरति नादेनेति नादेन * * प्रासादेन हेनं कारेणेत्यर्थः तेन व्योम्नः शोधनं विहितमिति शेषः एवं स्वाश्रयभूत भूतसंहारक्रम समसंहरणेन स तत्पूर्व कृतप्रणवप्राणायामेन वा आत्मानं जीवात्मानं योगमार्गेण समाधिविधिना च व्योमस्थं कं ब्रह्म खं ब्रह्मेत्यादि श्रुतिश्रुत व्योमा परनाम्नि परमात्मनि स्थितं परिकल्पयेत् इति प्रासंगिकमध्ये किञ्चित् प्रपञ्च्य प्रकृत शेषं दर्शयति वायुनेत्यादिना दिव्यमिति प्लावनानन्तरं तत्काठिन्यसुषिरीकरणभूत सृष्ट्यादिक्रमेण दिव्यं देवं समुत्पन्नं ध्यात्वा पुण्यैकसारत्वात् परमेश्वररूपकल्पं देवं समुत्पन्नं ध्यात्वा आत्मानं पूर्वं परमात्मनि संहारेण कलयन् स्वं जीवात्मानं तदध्य क्षतया योजयेत् चकारः संवत्सरपरिणामाद्यभिमर्श प्रदर्शकः कृत्वेति मन्त्रन्या समाचरेत् तत्र करभावनां दर्शयति तलाविति करयोस्तलौ सृष्ठौ च चकारात् पार्श्वौ चास्त्रेण शोधयेत् पुनरुभयोः प्. ४५) करयोः दीप्यह रस्तत्वोत्पत्त्या मूलेन प्रासादेन व्यापकं न्यसेत् | मूलमित्यनुवर्तते एवं कृत्वा पुनर्लिपितत्वन्यासानन्तरं अन्तः करणविलासं अन्तःकरणस्य सूक्ष्मशरीर रूपस्य ब्रह्मपञ्चकस्य विन्यासमारभेत् तद्विभजते ते वक्त्र इत्यादिना तदनन्तरं सर्वज्ञत्वादिसिद्धये अंगान्यपि न्यसेत् इत्याह हृदयानीति न्यस्त्वेति एवं उक्तप्रकारेण न्यस्त्वा हृदि देवेशं ध्यात्वा यथाविधि ततोऽर्काब्ज खमध्यादप्यूर्ध्वस्थानात् संस्मरेच्युतां गंगां भगवतो मूर्ध्नि तेन अमृतजलेन अर्घ्याद्यखिल भोगानां कार्या वै शुभकल्पनेत्याद्युक्त विध्यनति क्रमेण अभ्यर्च्य मन्त्रं जप्त्वा ततः तदैक्य भावनानन्तरं समाहितः समाधिपरमेश्वर भावः पूजां आत्मपूजां देवपूजां च आरभेत् अस्त्रेणेति पात्रं सपादं शंखं अस्त्रेण क्षालयेत् मूलेनांभः पूरयित्वा कवचेनावकुण्ठयेत् पुनः गालन्या शिखयापूयं नेत्रेण निरीक्ष्य अस्त्रेण संरक्ष्य प्. ४६) तदनन्तरमन्त्रान् सोममन्त्रमूलमन्त्रगंगामन्त्रान् न्यसेत् आवाहयेत् एवं शंखपूरणात्माराधने समासेनाभिधाय अत्र प्रतिष्ठितमन्त्रलिंगे दिनमाराध्य ध्यात्वा तत्पुरोविरचिते तत्स्थानीये स्थण्डिले सांप्रतिकसपर्यां दर्शयति आधारशक्तिरिति | तत्र पीठपूजामाह आधार शाक्तरित्यादि कल्पयेच्च यथाक्रममित्यन्तेन | पुनरात्माराधनानन्तरं आधार शक्तिं च | चकारात् मूलप्रकृत्या कूर्मादि च पुनरनन्तरं पृथिवीमित्यर्थात् एकं पञ्चकमध्ये तूपरि उपरि विन्यसेत् मनसा कल्पयेत् पुनः यजेच्च यजेदिति वक्ष्यमाणमत्राप्यास्थीयते | पुनस्तदनन्तरं अग्न्यादिकोणेषु पीठपादरूपेण धर्मादिकान् पूर्वादिदिक्षु इषारूपेण अधर्मादिकांश्च यजेदित्याह अधर्ममिति अधर्मादिकानिति तद्गुणसंविज्ञानो बहुव्रीहिरतो अधर्माज्ञानावैराग्यानै श्वर्यानीत्यर्थः पुनः पीठावलग्न तन्तुरूपेण प्. ४७) मायाविद्ये तदुपरि देवासनत्वेन पद्मं तालकर्णिकारूपेण नवशक्तीः दलकेसरकर्णिकारूपेण मण्डलात्मत्रयं च पूजयेदित्याह सत्वमित्यादिना नवशक्तीर्वक्ति वामेत्यादि द्वाभ्यां मण्डलात्मत्रयं विभजते तारार्णैरित्यादिना मण्डलानामभेदेन मण्डलस्थानस्थितानीत्यर्थः | एवं पीठपूजामुक्त्वा तत्र मूर्त्या वहनमाह - कल्पयित्वेत्यादि समाचरेदित्यन्तेन ततो देवं प्रासादमन्त्रमूर्तिरूपं कर्णिकोपरि स्थितं कल्पयित्वा ओंंशिवमूर्तये नम इत्यनेन कल्पयित्वेत्यर्थः चतुर्भुजादिसंयुक्तं ध्यात्वान्तः करणविन्यासमिति व्यवहितेन संबन्धः देवमूर्तौ कर्णिकायां देवमूर्तावन्तःकरणविन्यासं ईशानादिपञ्चकविन्यासं समाचरेत् | अथ कल्पितं स्थूलमूर्तिरूपं देवं प्रासादमन्त्रेण चतुर्भुजत्वादिवि शिष्टं ध्यात्वा तत्र हृदयांबुजाच्चिद्रूपं तत् साक्षिचैतन्यमावाह्य स्थापयेदित्याहचिद्रूपमिति || प्. ४८) अथ मूर्त्यावाहनानन्तरं हृदयांभोजात् गुरुः स्वहृदयपद्मात् चिद्रूपं ज्योतिरावाह्य विन्यसेत् स्थापयेत् क्रमादिति आवाहनादिमुद्राप्रदर्शन लिपितत्वन्यासादि क्रमेण मन्त्रन्यासं समाचरेत् एवमावाह्य सकलीकृत्य देवाय पाद्याद्युपहारान् दद्यादित्याह पाद्यमित्यादिना एवमिति एवं पाद्यादिसमर्पणं कृत्वा ततः तस्मिन् देवे शंभुपक्षमीश्वरशरीरत्वेन अभिमत्रसूत्रवस्त्रादिकं समर्चयेत् तद्विवृणोति मूर्धेत्यादिना हृदयादीनि चेति चकारो अनुक्तवक्त्रायुधादिसमुच्चयार्थः पश्चात् शंभुपक्षानन्तरं मूर्तिपक्षं समर्चयेत् परिवारमूर्तित्वेनाभीत सद्योजातादि देवताजातमर्चयेदित्यर्थः मूर्तिपक्षपूजां विभजते पश्चिमेत्यादि पद्मं तद्बाह्यतोऽर्चयेदित्यन्तेन ग्रन्थेन अग्नीशरक्षोवाखग्रे हृदयादिनेत्रान्तानि दिक्षु पूर्वादिदिक्षु अस्त्रं चेत्यंगानि समर्चयेत् उत्तरादिषु वायवन्तासु दिक्षु प्रादक्षिण्येन पूजयेदित्यर्थः | प्. ४९) गन्धैरिति पुष्पैस्तथा यथा गुर्वागमादि संप्राप्त पुष्पावरणादिसंयुतं तथेत्यर्थः || एवमिष्ट्वा निवेद्यान्तरपूजाविधानं विधाय पश्चाज्जुहुयात् पूजाहोमं कुर्यात् अथ भूतेभ्यो नन्द्यादिभ्यः प्रोक्तयुक्त्या वा सर्वान् वह्निसहितान् विभाव्य तत्रैव वा बलिं हरेत् | अथाचम्य आचमनीयं च पानीयापरनामधेयं च चकारादविधानीयजलं च दत्वा अन्नं विसर्जयेच्च | चकारान्निर्माल्यसात् करोतु च | पुनस्तोयः गण्डूषजलमाचमनं च दत्वा ततः क्रमात् गन्धैश्च पुष्पैश्च चकारात् धूपादिभिश्च मुखवासादिभिः पञ्च ताम्बूलकरचन्दनापूपादिभिश्च पूजयेत् अभ्यर्च्येति तदनन्तरं मूलेन किञ्चिदभ्यर्च्य दत्वा ब्रह्मार्पणरूपेण देवायस्वसर्वस्वं समर्प्य स्तुत्वा प्रसाद्य प्रसन्नार्घ्यप्रदानपुरस्सरं प्रसादसलिलेन साकमभिषिच्येत्यर्थात् अवसानार्घ्यं दत्वा विसर्जयेत् उद्वासयेत् तत्रस्थ एव प्रतिष्ठित मन्नलिंगं स्वात्मन्येव वा उद्वासयेत् एवं प्रासादमन्त्रपूजामुक्त्वा प्. ५०) प्राणन्यासानुवादपूर्वकं षडक्षरपूजामाह षडक्षरेणेति न्यसिकरन्यासादावर्चने मूर्तिपूजादौ मनादीषत् भेदो भवतीति शेषः | क्रमेणेति मन्त्रार्ण बिन्दुसंयुक्तान् मारादिमन्त्रार्णैस्तदनुगत बिन्दुना च संयुक्तां तत्पुरुषाघोरसद्यवामेशमन्त्रकान् मं तत्पुरुषाय नम इत्यादि रूपान् क्रमादुभयोः करयोः युगपत् तर्जनी मध्यकनिष्ठानामिकासु अंगुष्ठयोश्चेति अंगुलीषु क्रमेण न्यसेत् | अत्रापि अंगानि पूर्ववर्दगुष्ठादितलान्तं इत्यर्थः | एवं न्यास भेदमुदीर्य सपर्याभेदमाह प्रागित्यादिना निगदव्याख्यानेन पूजामुपसंहरतीति शास्त्रचोदितमर्चनमिति संक्षेपतः प्रोक्तं मूलशास्त्रेषु तद्विस्तारो दृश्यतामिति भावः एवं तन्नित्यमहरहः क्रमादात्मशुद्ध्यादि प्रोक्तक्रममाश्रित्य कुर्यात् अग्निहोत्रादिवन्नित्यं कर्तव्यमेवेत्यर्थः स्थापितेषु मन्त्रलिंगेषु अशेषतो नित्यं कुर्यात् अन्यथा हि भूतनिरासेन परमेश्वरस्य कोपप्रसंगात् प्. ५१) प्रत्यवायो भवतीति भावः अर्चनार्हदोष संभवे तद्गतिं दर्शयन् पटलमुपसंहरति अनिमित्त इति अनिमित्ते दोषाभावेन लुप्येत पूजेति शेषः | निमित्तं यदि संभवेत् ततो योग्यं निष्कृतिं कृत्वैव देवं समर्चयेत् इति | इति क्रियासारव्याख्यायां तत्वप्रकाशिन्यां षष्ठः पटलः || ६ || एवं नित्यपूजामभिधाय नैमित्तिकप्राप्तपूजालोपप्रसंग परिहाराय तत्प्रायश्चित्तप्रतिपादकं पटलान्तरमारभते निमित्ता इत्यादि || शिवागमे पतनाद्या बहवोनिमित्ता दुर्निमित्तानि प्रोक्ताः | अत्र पतनादि शब्देन मन्त्रलिंगस्य यादृच्छिकपतनप्रमीति स्वाधिष्ठान नपुंसकशिलातो विच्युतिः कौतुकस्य वाहनतो विच्युतिः तत्कालपातादयश्च तन्त्रेण विवक्ष्यन्ते | पतनाद्यं येषां देवतानां ते पतनाद्याः कः परो दहभासस्व दादिप्रतीकयोदेहा स्पृश्य स्पर्शादय श्लेष्मरुधिरादयश्च समासार्थातिषु निमित्तेषु जातेषु देशिकसत्तम तत्तद्दोषबलाबलतारतम्यं प्. ५२) समीक्षादक्षो गुरुः तच्छान्ति कुर्यात् अत्र यद्यप्यधिष्ठानाधिष्ठात्रोः दोषः परस्परं संक्रामति तथापि स्थाने दुष्ट एव द्वयोः शुद्धिः कार्या स्थानिनि दुष्टे तच्छुद्धिरेव कार्या तच्छुद्ध्यैव द्वयोरपि तच्छुद्धिसिद्धेरित्याहस्थान इति स्थाने गर्भगृहादि प्राकारपर्यन्ते दुष्टे मरणजनन रुधिरपातादि दोषदूषिते सति भुवः शुद्धिं खननरूपां स्थानशुद्धिं लिंगशुद्धिं क्षालनादिरूपां मन्त्रलिंगशुद्धिं च समाचरेत् || लिंगे दुष्टे लिंगस्य शुद्ध्या अथ तदनन्तरमवस्रावप्रोक्षणमात्रेण शुद्धिर्भविष्यति स्थानस्यापीति शेषः || प्रकृत शुद्धिपौर्वापर्यं दर्शयति स्थानशुद्धिरिति पुनः पूर्वं स्थानशुद्धिः कार्या भवेत् ततः तदनन्तरं लिंगशुद्धिः कार्या भवेदिति योजना शुद्धौ खननादिसहितायां केवलायां वा मन्त्रलिंगशुद्धौ कृतायां | अथ तदनन्तरकार्य सूक्ष्मदेह शुद्ध्यर्थं विधिवत्तद्दोषशान्तिविहित विध्यनुसारेण होमादिकं शंकरप्रोक्तादिहोमान् आदिशब्दोक्त तत्कल प्. ५३) तत्कलशादिकं च समाचरेत् पूर्वकार्यस्थानशुद्धिं गणयति खननमिति विभजते त्वानयेदित्याह ब्राह्मणान् भोजयित्वेत्यन्तेन वाऽभिरथ्येनास्त्रेण अस्त्रोच्चारणे दुष्टं स्थानं पुरुषमात्रं तदर्धमरत्निमात्रं च खनयेत् || पांसून् खननजनितपंसून् बहिर्नै-ऋत्यां त्यक्त्वा कुशैर्दहेत् | अस्त्रेणेत्यनुवर्तते तदग्रे अग्निं निक्षिप्य अस्त्रेण महिलीकृत्य तमग्निं गर्ते कृत्वेति धीः गोमूत्रैरिति दहनानन्तरं तद्भस्माद्यपनीय गोमूत्रैः पूरयित्वा तु | तुशब्देन भेदवादिना कज्जलविलयो स्वन्यते | पूरिते गोमूत्रे विलीने तु तथा विप्रपादोदकैः पूरयित्वा ब्रह्मभिः पञ्चगव्यैः सर्वत्र तत्र वै तत्रैव वा प्रोक्ष्य पचकारात् पूरयित्वा गोभिराक्रमणं कृत्वा नदीतीर कुशक्षेत्र वल्मीकद्यैनिकाभिः शकृद्भिः प्रपूरयेन नदीमध्यतीर द्वयकुशमूल वल्मीकाद्र्यग्निजाभि रष्टभिरादिशब्दोक्ताभ्यां तीर्थाब्धिजाभ्यां द्वाभ्यां चेति दश मृद्भिः प्रकर्षेण दृढतरं पूरयेत् || एवमिति प्. ५४) एवं यथान्यासं बिंबपीठगृहानिन्दांकणेषु यथातथं खननादिविधिं कुर्यात् तत्तद्दोषाबलाबलं इत्यादि न्यायानतिवृत्या खननादि पूरणान्तं कृत्वा दृढीकृत्य समृद्भिः पूरयेत् गर्तं हस्तिपादैस्तु याज्ञिकैः गोमूत्रसिक्तमाकोट्य विप्रपादोदकैस्तथेति वक्ष्यमाणरीत्या दृढीकृत्य चकारात् पूरणं गोनिवासनमित्युत्तमगोनि वासनं च कृत्वा तथा च विष्णुभागे स्वयमेव वक्ष्यति गानिवास्याशयेत् विप्रानिति एवं कृत्वा ब्राह्मणान् भोजयित्वा तु एकादशावरान् विप्रान् घृतपायसमित्यादिस्मृत्यन्तं एतान् न्यायेन भोजयित्वा तु शब्देन भेदवादिना भोजनानर्हस्थाने अन्यत्र भोजयित्वा तदुच्छिष्टस्पर्शनमात्रादिं सूच्यते मण्डपं तत्र कृत्वा च मण्डपमित्युक्तन्यायेन मण्डपं कृत्वा कवचेन समालिप्य तदुच्छिष्टशोधनानन्तरे तत्स्थानगुप्त्यै कवचेन गोमयोदकेन आलिप्य मण्डपे गव्याघोरास्त्रशोधिते गव्यैः प्. ५५) अघोरास्त्रेण शोधिते सति उपलक्षणमेतत् मार्जनादि मन्त्रमूर्त्याराधनान्तं स्थानसंस्कारस्य च तथा च पाशुपते अघोरास्त्रेण संमार्ज्य गोमयेनोपलिप्य च सिद्धार्थान् विकिरेत्तेन गव्यैः संप्रोक्ष्य पञ्चभिः लिखित्वा पञ्कजं तत्र शिवं सांगं प्रपूजयेत् इति एवं स्थानशुद्धिं कृत्वा लिंगं क्षालनाद्यैर्यथाक्रमं क्षालनं प्लावनं चैवेत्यनन्तरवक्ष्यमाण क्रमानतिक्रमेणेन विधिवत् क्षालनं दर्भमृत्त्वग्भिः तूष्णीं तोयैश्च मार्जनमित्याद्यनन्तरवक्ष्यमाण विध्यर्हं यथा तथा संशोध्य शान्तिहोमादि स्थानदोषशान्तिविशेष प्रोक्तशंकरप्रोक्त होमादि कारयेत् मूर्तिपैरिति शेषः क्षालनादिलिंगशुद्धिर्गणयति क्षालनमिति विवृणोति क्षालनमित्याद्यभिषेक विधिस्मृत इत्यन्तेन क्षालनमिति दर्भमृत्त्वग्भिः तोयैश्च तूष्णीं क्षालनमिति संबन्धः | भवतीति शेषः गन्धपुष्पाक्षतोपेतैरमन्त्रैः अनुच्चरित वैदिकमन्त्रैः शोधनं प्लावनं शोधनमिति पूर्वोक्त प्. ५६) पूर्वोक्तमनुवर्तते सकूर्चैः पात्रसादनोक्ताग्नीकरणादि क्रमन्यस्त कूर्चचच्चित्रैः द्रव्यसंयुक्तैः फलसुवर्णादि साधारणद्रव्यसंयुक्तैरंबुभिः मन्त्रवत् स्नानपीठाराधन सकलीकरणादि विधि पुरस्सरं स्नानकाले मन्त्रवत् प्रणवमुप पञ्चब्रह्मादिसंयुक्तं स्नानं कुर्यात् यत् तदिह स्नानं भवेत् कादित्यादि वाक्यशेष उत्तरार्धवाक्यभंग्या सिद्धार्थ पात्रे यदुत्तमसादनोक्त उत्तशिकरणप्रोक्षणादि स्वसमृत्युक्तन्यायानतिवृत्या गन्धपुष्पाक्षासितमापूर्याप इत्यर्थात् ततः कूर्चांगैः स्नानांगं स्वशेषकरिष्यमाणं पुनः स्नानांगं मार्जनं कुर्यात् तदिह मार्जनं स्नानांगं मार्जनं कुर्यादिति वचने नैव आपोहिष्ठादयः स्मृतियुता मार्जनमन्त्राः सूचिताः एवं शुद्धिं विवृत्य धारां विवृणोति संस्थाप्येत्याद्युद्वास्य वरुणं पुनरित्यन्तेन संस्थाप्येति लोहसंभवा वारुणंवरुणदेवत्यं पात्रं कटाहादिरूपं ऐशान्यां प्. ५७) धान्यराशिस्थं तथा तथा संस्थाप्य पीठाराधनपात्रसंस्कारादिपुरस्सरं सम्यक्निलं स्थापयित्वा सकूर्चं तच्छुभैः गालनादिपवित्रीकृतै सलिलै आपूर्य अत्र अस्मिन् सलिले सौवर्णराजतौ च मत्स्यौ कूर्मौ च तथा समृणालां सपुष्पां पद्मिनीं च निक्षिपेत् | मत्स्यौ कूर्मौ च सौवर्णौ राजतौ चेत्यति चकारद्वितयेष्वपि पुमांसौ सौवर्णौ स्त्रियौ राजताविति मत्स्ययौः सौवर्णराजकत्वे च समुच्चिनुतः | तत्र तीर्थं वरुणं च मन्त्रतो ध्रुवासुत्वादिमन्त्रमुक्त्वा वावाह्य पालाशादित्रिपादस्थितं पलाशपिप्पलाद्यन्यतमयार्जितवृक्षविरचित पादत्रयस्थं लोहजं सहेमछिद्रं धारापात्रं अत्र सुवर्णे करजत्वे कूर्मयौः सौवर्ण राजतत्वे सहेमछिद्रत्वं सौवर्णमेव मुख्यमिति भावः | तत्पात्रमापूर्य प्रतिमोपरि पीठाराधन सकलीकरणादिक्रमप्राप्त पुनःस्नानसमये याममानं दिने प्. ५८) दिने दिने अच्छिद्रा धारा कर्तव्या || आपूर्येत्येतद्विवृणोति समन्त्रमिति ग्रन्थार्धेन वारुणात् पात्रात् तोयं हृत्वा अस्मिन् धारापात्रे समन्त्रं पञ्चतत्व मूलप्रणवोच्चारणपूर्वकं पूरयेत् | धाराजपप्रकारमाह पञ्चेति दर्भपाणिभिः पवित्रहस्तैः दर्भेणपात्रं धारापात्रं स्पृशद्भिः वाग्यतैः विहित मन्त्रेतरव्यावृत्त वाग्भिरव्यग्रैः विषयान्तरप्रत्याहृत मनस्कारैरव्ययं देवं ध्यायद्भिः पञ्चमन्त्राः क्रमात् पञ्चब्रह्माणि पञ्चतत्वानि वा क्रमात् पाठक्रमात् आगमोक्ताः श्रीकण्ठपावमानमञ्जर्याद्यागमोक्ताः वैदिकाः तान्त्रिकाश्च मन्त्राः यथाक्रमं प्रागनुवाकरुद्रसूक्त श्रीसूक्त पावमान पौरुषान्त्यानुवाकादि क्रमानतिक्रमणेन जप्याः धारान्त इति निमित्तं संभवेद्यदि- कृत्वेव निष्कृतिं योग्यां ततो देवं समर्चयेत् इत्यादिविधानात् पूर्वं निमित्तारनिवृतार्चनं देवं धारान्ते || यामोन विहितः || प्. ५९) प्रथमदिनधारान्ते पूजयेत् * * * वरुणं पुनरिति पुनर्न चाद्यां वारुणं पात्रं त्रिरात्रं यत्र जप्यत इत्युक्ततृतीयदिनधारान्ते वरुणमुद्वास्य ततस्तत्पूजा समनन्तरं अवगाहं कुर्यात् || अवगाहं विवृणोति पात्रमित्यादि द्विजा इत्यन्तेन प्रमाणतो लिंगपरिमाणानुसारेण अन्तरवकाशप्रमाणं परिकल्प्य पात्रमवगाहभाजनं कृत्वा लिंगपीठं पूजादि यावत् पुनः स्नानक्रियासंपन्नं लिंगं वासोदर्भैश्च संछाद्य यत्नतो अप्रमादेन निच्छिद्रं पात्रं संस्थाप्य व्यस्तैः समस्तकैश्च गव्यैः पूरयेत् अवगाहसमय जप्यान् मन्त्रान् उद्दिशति पञ्चेत्यादि शोभनमित्यन्तेन द्विजा अभितो मन्त्रलिंगमभितो निषद्य गव्यादिपूरणे व्यस्तसमस्तगन्धोपपूरणे पञ्चब्रह्मशिवमन्त्रांस्तदंगानि च पञ्चब्रह्मणि वा अंगानि व्योमव्यापि शिवं तथा अंगमित्यर्थः दशाक्षरं व्योमव्यापिदशाक्षरं श्रीकण्ठं नीलकण्ठं त्र्यक्षरं रुद्रं श्रीरुद्रं अन्यच्च भोजनं शिवं संकल्पादिकांश्चेत्येता प्. ६०) जपेयुः अत्रापि पूजयेद्देवमित्यनुवर्तते एवं सप्तभिर्दिनैः याममात्रं याममात्रमवगाहं पूजां चोक्त्वा अभिषेकरूपां सप्तमीं शुद्धिं विवृणोति पञ्चेत्यादि स्मृत इत्यन्तेन | पञ्चकुंभान् गन्धपुष्पाक्षतादिभिः गन्धपुष्पाक्षतैरादिशब्दोक्तैः तोयैश्च संपूर्य सम्यक् पीठाराधनकुंभसंस्कारादि पुरस्सरं पूरयित्वा देवं गन्धाद्यैः ब्रह्मभिः संपूज्य ब्रह्मभिस्त्वभिमन्त्रयेत् तु शब्दो ब्रह्मणामीशानादिकं द्योतयति | अथवा तु शब्दः पक्षभेदद्योतकः | एके पञ्चतत्वैः पूरणपूजादिकमपि स्मरन्तीति द्योतयति | तैरेव जप्तमन्त्रैरेव देवं स्नापयेत् पुनःस्नानसमये स्नापयेत् विपरीति एवं उक्तप्रकारेण संशोध्य संपूज्य प्रायश्चित्तं प्रकृतं शंकरप्रोक्त मनन्तरवक्ष्यमाण शान्तिहोमं समाचरेत् || ततः सप्त शुद्ध्यनन्तरं निमित्तानुसारतो निमित्तानुसारतोऽर्थानुसारतश्च पारायणं प्. ६१) समग्रवेदजपं कुर्यात् वित्तानुसारत इत्यनेन अदक्षिणपारायणे परमेश्वरकोपप्रसंगो द्योत्यते प्रथमप्रकृतशंकर प्रोक्तहोमं साग्निजननं विवृणोति गेहस्येत्यादि समापयेदित्यन्तेनगेहस्य प्रासादस्य दक्षिणे याम्ये पार्श्वे खण्डेन्दुसन्निभं कुण्डं कृत्वा संशोध्य च मार्जनादिभिः शोषणादिभिश्च शोधयित्वा वज्रेण- हुं फट्कं तारमध्यस्थं वज्रमन्त्रमुदाहृतं इति पाशुपताद्युक्तेन वज्रमन्त्रेण उल्लिख्य अस्त्रेणोक्षयेच्च | विष्टरे प्रोक्षणानन्तरं प्रणवेन न्यस्ते विष्टरे समिष्ट योगविष्टरे च देवीमुमाशक्तिं वामेन च चकारात् भुवनेश्वरीसहितेन कल्पयेत् | आवाह्य सकलीकृत्य रत्यर्थिनी मित्याद्युक्तप्रकारेण भावयेदिति भावः हृदाऽघोरेणार्चयेच्च || सद्येनाग्निं समादाय शिवं जप्त्वा क्रव्यादांशनिरासानन्तरं शिष्टसंस्काराय शिवं ईशानं जप्त्वा अघोरेण समुच्चयेत् | प्. ६२) अथ सद्येनाग्निं निक्षिप्य हृदा अघोरेण समुच्चयेत् शिवेने शानेन वर्मणा ईशानादिपञ्चमन्त्रमय पञ्चांगकल्पनायां सर्वभूततया प्राप्त वर्माख्येन वामदेवेन अघोरपुरुषाभ्यां शिवेन ईशानेन च गर्भाधानादिनामकरणान्तानि पञ्चकर्माणि कृत्वा तथा पाशुपते शांकरं जनयेद्वह्निमित्युपक्रम्य ईशवाम प्रशान्ताख्य पुरुषेशान पञ्चभिः गर्भाधानादिका कुर्यात् | क्रियानामवसानिका इति एवमग्निजननं कृत्वा अग्निमुखान्तिकं च कृत्वेति चकारात् वक्त्रेण पक्वं जुहुयात् औदुंबरोत्था मार्गजाश्च समिधो घृतं हविश्च क्रमादेभि अघोरसद्यवामाद्यैर्मन्त्रैः अष्टोत्तरसहस्रकं हुनेत् पश्चादेभिः तिलसर्षपमुद्गैः शालिभिश्चास्येन अष्टोत्तरशतं हुनेत् || अथ दूर्वाभिः वक्त्र मन्त्रेण सहस्रं जुहुयाद्दधि क्षौद्रघृतैरष्टशतं मृत्युञ्जिता हुनेत् उपसंहरति तत इति समापयेत् तत्संपातकलशाभिषेकान्तं प्. ६३) कर्म कुर्यादित्यर्थः प्रोक्तप्रायश्चित्तविषयं दर्शयति | एषेति मदिरे देवालये मरणादिषु जन्ममरणरुधिरातादिषु दोषेषु सत्सु एषा च चकारात् श्वशान्त्यदिका च निष्कृतिः प्रोक्ता मन्त्रलिंग विषयं शुद्ध्यन्तरं दर्शयति || लिंग इति लिंगे स्वेदादिसंयुक्ते स्वेदसंयुक्ते आदिशब्दोक्त्र रोदहासादिसंयुक्त ख श्वदण्डादि दुरिते च सति लिंगशुद्धिं क्षालनादिरूपां क्रमात् कृत्वा शान्तिहोमं च चकारात् पूर्वोक्त शंकरप्रोक्त नन्दिप्रोक्तादिकं च समाचरेत् शान्तिहोमं विवृणोति कृत्वेत्यादि सर्वदोषप्रशान्तये इत्यन्तेन देशिकोत्तम ऐशान्यां तुर्यश्रकं क्रमप्राप्ताष्टाश्रं च त्वशंकाशमनान्ता तुर्यश्रमिति विशेषणम् तादृशं कुण्डं कृत्वा अग्निं जनयेत् सम्यक् षोडशक्रियाभिर्जनयेत् पश्चात् तत्कलश पूजाद्यनन्तरं अग्निमुखान्तिकं कुर्यात् पक्वहोमात् पुरा पूर्वं पीठमन्त्रैराज्येन वक्त्रेण पक्वं ब्रह्मादिपूजामन्त्रै शंभुपक्षादिवि प्. ६४) विहितैः ब्रह्मभिरादि शब्दोक्तैः ब्रह्मभिश्च सकृत् घृतं होमयेत् || प्लक्षौदुंबरवटजाः पैप्पलाः पैप्पलीरित्यर्थः || आर्षो ङीब्भावः ताः समिधः आद्यविद्यया अष्टोत्तरशतं हुनेत् आद्यविद्येति प्रतिवाक्यं संबध्यते अनन्नं मधुसंसिक्ता दूर्वाश्च लाजादीनि च लाजं सर्षपांश्च तिलान् यवान् व्रीहीन् सक्तून् पुनश्च आज्यमित्युक्त सप्तद्रव्याणि च आद्यविद्यया होमयेत् तत इति | इत्युक्तचतुर्दश द्रव्यहोमानन्तरं स्विष्टकृतं हुत्वा होमशेषं समापयेत् | उपसंहरति शान्तीति || एवं अधिष्ठानाधिष्ठातृविषय प्रायश्चित्तमभिधाय क्रियमाणक्रियासु प्रमादप्राप्तयादच्छिकनिमित्त प्रायश्चित्तान्यपि कानिचित् दर्शयति भिन्न इति || पूर्णे स्नपनायाधिवासिते कलशे भिन्ने अपरे पात्रे पूरयित्वा तत्स्थाने अन्यं कलशं संसाद्य यथापूर्वं भिन्नकलशकपालस्थजलैः तदभावे अन्यजलैश्च पूरयित्वा अस्त्रेण शतं होमयेत् अनन्तरं संपाताज्येन संस्पृश्य कलशं प्. ६५) स्पृष्ट्वा हुतमन्त्रं तावद्यावत् हुतसंख्यं जपेत् एषा निष्कृतिर्मनीषिभिः कलशे सामान्य कलशवाद उद्दिष्टा भेदवादिना तु शब्दे नात्र ब्रह्मकलशनाशादौ पञ्चतत्व पूर्णाहुत्यादिकं प्रायश्चित्तादिकं द्योत्यते - मन्त्रोत्पात इति || मन्त्रनिमित्त उत्पाते न्यूनातिरिक्तक्षुद्रमन्त्रप्रयोगादिरूपा विद्येशा अनन्तादयो होम्याः अनन्तादिभिः अष्टाष्टसंख्यमाज्यहोमं कुर्यादित्यर्थः | अन्य वस्तुन्युपहारद्रव्यादौ निमित्ते वामो होम्यः || अदक्षिणे दक्षिणाभादिवजो होम्यः वस्त्रदाहे सिंहाक्षुरिकामन्त्रेण अयुतं दशसहस्रं होम्यम् उपसंहरति || निगद व्याख्यातमेतत् || इति तत्वप्रकाशिन्यां सप्तमः पटलः || ६ || एवं प्रासंगिकं निष्कृतिलक्षणमभिधाय तत्समानजातीयं जीर्णोद्धारं वक्ष्यन् विवक्षितं प्रतिजानीते जीर्णोद्धारमिति निगदव्याख्यातेन ग्रन्थार्धेन जीर्णोद्धारस्य आवश्यकत्वं प्. ६६) आह- विधिनेति विधिना ध्यानाधिवास जीवन्यासादिनेश्वरस्य नित्यदृढसन्निधानसाधनेन विधिना उपलक्षितं स्थापितं स्थापितं लिंगमीश्वरस्य लिंगशरीररूपं मन्त्रलिंगं तत्स्थूलशरीररूपं गेहं प्रासादं वा जीर्यते यदि तदैव कालक्षेपमकुर्वन्नेव | एवमनन्तर वक्ष्यमाण प्रकारेण विधिना तदुद्धरेत् आयतनादुत्खनेत् तत्स्थाने अन्यदुद्धरेत् उद्वहेच्च विधिना सान्निधापितस्य ईश्वरस्य विधिनोद्वासं विना मन्त्रलिंगं विश्लेषविरहाद्दुष्टलिंगं दुःस्थितिनिमित्त कोपोपशमनायोद्धृतिरवश्यं कार्येति भावः तत्र प्रथमं प्रासादजीर्तौ उद्धारं दर्शयति ऐन्द्रेशानेत्यादि स्नानं समाचरेदित्यन्तेन ग्रन्थेन प्राकारबाह्यतो मध्यहाराबाह्यतो मूलप्रासादस्यानुरूपतो विभक्ते सुषिरै गेहे पूर्वनिमिते अल्पबिंबं नवं गेहं भूतांशैः परिकल्पयेदित्यादि न्यायेन मूलप्रासादस्यानुरूपतः प्रासादाभिमुखद्वारं प्. ६७) मूलप्रासादाभिमुखद्वारं अत एव तदन्ययोनिकं काष्ठमयमल्पं गेहं तदग्रे चतुरश्रं शुभं तन्मध्ये वेदिकान्वितं यथान्यायं ध्वजतोरणकुण्डादि मत्व न्यायान्यायानतिवृत्य मण्डपं च कृत्वा अथ अङ्कुरारोपणाल्प बिंब जलाधिवासनाद्यनन्तरं गेहं अल्पप्रासादं विधिवत् तन्तुवेष्टनादि वास्तुजुण्याहान्तं स्तदगोपेत विधिसंयुक्तं मण्डपं मल्लमण्डपं तन्तुवेष्टनादि घटीश्रमणादि विधि संयुक्तं च शोधयित्वा मूलप्रासादेपि रक्षोघ्नादि विधिं कृत्वा शिवमूललिंगकृत सन्निधानं देवं संशोध्य क्षालनादि सप्तशुद्धिप्रायश्चित्त नवद्रव्यकलशाभिषेकादिभिः सम्यक् शोधयित्वा अभ्यर्चयेत् | तत्र तत्र मूलप्रासादे पारिषदांश्च संपूज्य तेभ्यो बलिं प्रदाय च | चकारात् शृण्वन्त्वित्यादिना प्रार्थ्य तत्र अल्पमण्डपे स्वस्तिकं कृत्वा तत्र शययां समास्तरेत् गुरुः लिंगं अल्पलिंगं कृत्वा विधानेन जलाधिवासादि विध्युपलक्षितं कलशादिभिः बिंबशुद्धिकलशैः प्. ६८) आदिशब्दोक्त पुण्याहादिभिश्च संशोध्य शययामारोप्य विधिवत् पूर्वोक्त संयुक्तं तस्यान्तर्लिंगं शाययेत् || देवमिति || साधकोत्तमो यत्नेन भाविचिरकाल पूजाविच्छेदानुमत्यै भूरिनिवेद्य संपादनादि यत्नोपलक्षितं मूलप्रासादस्थं देवं आराध्य अग्रे देवाग्रे लोहसंभवं सुवर्णसुर्वर्णादि लोहसंभवं शोधित मन्त्रक्षालानादिना शोषणादिना दर्भन्यासादि ना च यथावत् संस्कृतं कुंभं साधयेत् तत्र कूर्चात्मकांश्च दूर्वाकुशान्वितं रत्नानि च निक्षिप्य गालितैर्गालिताभिः मूलमन्त्रतः पूरयेत् पूर्वं कलशमूर्तिसुषुम्नारूपं याक्षतं कूर्चं प्रणवेन निक्षिप्य जीवबुद्ध्या दूर्वाकुशान्वितं रत्नानि च निक्षिप्य मानसपूरणानन्तरं गालितजलैः मूलमन्त्रतः पूरयेदिति भावः पूरयेदित्यनेनैवात्र पूजा मूर्त्यावहन मन्त्रावाहनादि सांप्रतिकं प्रसिद्धं विधानमनूदितमेव || एवमिति एवं उद्वासनार्थं कलशसादनं कृत्वा बहिर्गत्वा प्. ६९) प्रासादबहिर्विरचित बालालयाग्रमण्डपं गत्वा लिंगं तच्छायितमल्पलिंगं क्रमात् तत्वसंहारक्रमात् शोधयेत् संशोध्य पुनः शोषणादिभिः संशोध्य तत्वानि न्यस्य उत्पाद्य विन्यस्य रक्षां कृत्वा मन्त्रावाहन पूजनाद्यनन्तरं रक्षां कृत्वा बहिर्व्रजेत् | अथ उद्वासयितुमारभेदित्याह - कर्तृनितिः कर्तॄन् कालावधिं पृच्छेत् तैरुक्तं तत् निवेदयेद्देवायेति शेषः | तदनुज्ञापनमन्त्रमुद्दिशति भगवन्निति उद्वासनाप्रकारमाहेतीत्यादि पूजयेदित्यन्तेन देवेशमिति विज्ञाप्य तेभ्यो हेमवस्त्रादिकं शक्त्या दत्वा प्रयत्नतो यथैव देवपूजायामित्यादिवाक्य प्रयत्न विज्ञापनमाश्रित्य ब्राह्मणानामनुज्ञया क्रियतामित्युक्तिरूपया ततो देवताभिः क्षेत्रपालादि बलिपरिवारदेवतादींश्च समन्वितं तत्वानि संहृत्य संहारतत्वहोमादिना संहृत्य सकलं परिवारदेवतासमन्वितं मन्त्रशरीरारंभकतत्वजातं सर्वं लिंगे निवेश्य संहारतत्वकलशासेचनपूर्वकं च प्. ७०) लिंगशरीरे संकोच्य एनं लिंगस्थं परमेश्वरं वेद शिवतत्वरूपं प्रणवाद्यन्तैः प्रणवपुटितैः बिन्दुनादान्तदीपितैः बिन्दुना बिन्द्वात्मना भुवनपतिना नादेन प्रासादेन अनन्तेन प्रणवशक्तिप्रासादान्तःस्थितेन पञ्चाक्षरेण च | शिवाष्टाक्षरेणेति यावत् तेन दीपितैः पुटितैरित्यर्थः | तादृशैः पञ्चब्रह्मभिः आवाहनविधिं नयेत् मूललिंगात्तदग्रयादितकलशे जीवावाहनन्यायेन आवाहयेदिति भावः | अत्र विधिपदेन सांप्रदायिकं तद्विधिविशेषं सूच्यते | आवाह्य कलश एवमावाह्य न्यस्य साम्प्रदायिक पञ्चमन्त्रन्यासादि कृत्वा मन्त्रावाहनपूर्वकं सकलीकृत्य पूजयेत् गुरुस्ततो मूलबिंब रक्षानन्तरं तत् सुवाससा संच्छाद्य कलशं वस्त्राभ्यां संवेष्ट्य आदाय वाग्यतः शिवं संस्मरंश्च मन्दिरात् बहिर्व्रजेत् गेहं | मूलालय मल्पमण्डपं चाप्रदक्षिणीकृत्य नीत्वा तं कलशं शययायां निवेशयेत् ततो देवेशं लिंगे च पूर्वसंस्कृते अल्पलिंगे कलशे प्. ७१) जीवकलशे च चकारात् मण्डपे च क्रमात् संपूज्य परितो मूर्तिपाश्च चकारादाचार्यैश्चते सर्वे अधिवासवज्जुहुयुः | अल्पलिंगप्रतिष्ठा प्रकारमाह गेहमित्यादि विधि नैवत्वित्यन्तेन अल्पगेहं तु होमसंयुतं विधिवत् संशोध्य पुण्याहान्तं वास्तुपुण्याहान्तं विधानं विधाय | अथ पीठप्रतिष्ठाद्यनन्तरं तस्मिन् अल्पगेहे देवं लपलिंगजीवकलशादिरूपं प्रवेशयेत् मुहूर्ते लिंगं स्थापयेत् प्रतिष्ठापयेत् तस्मिन् लिंगे कलशस्थं नियोजयेत् जीवावाहनकाले तु जीवाद्भिरभिषेचयेत् इत्युक्तरीत्या योजयेत् ततो जीवावाहनविहितक्रियान्ते मन्त्रन्यासमन्त्रावाहनतन्न्यासादिकं कृत्वा समर्चयेत् पुनः परिवारकल्पनादि चतुर्थदिवसस्नापनान्तं प्रथमप्रतिष्ठान्यायेन कुर्यादित्याह परिवारानित्यादि विधिनैव त्वित्यन्तेन निगदव्याख्यानेन ग्रन्थेन एवं निष्क्रामणप्रक्रियामुदीर्य मूलालयप्रणयनप्रकारं दर्शयति गेहसमाचरेदित्यन्तेन | प्. ७२) शिल्पिभिः गेहं यथा न्यायं पूर्वकल्पित भूम्याकारादि कल्पनान्यायानतिवृत्या कृत्वा तस्मिन् मुक्तमानके क्षुद्रप्रवेशादिनिमित्तकालक्षेपमकुर्वन्नेव यत्नेन कारुपेक्षित कपालशकलचीवरादिपरिहाररूपेण मार्जनादिरूपेण च व्यापारेण मूलगेहं मूलप्रासादं क्षालनादिभिः क्षालनजलाधिवास बिंबकलशाभिषेकैः क्षालनप्लावनादिभिः लिंगं च संशोध्य अल्पमन्दिरगं देवं क्रमात् प्रासदशुद्धिबिंबशुद्धि क्रम शुद्धि संहारतत्वहोमादिसूत्रछेद वक्ष्यमाणक्रमात् कलशे आवाह्य मण्डपे च चकारात् मूलप्रासादे च जीवकलशमन्त्रलिंगं च अधिवास्य अथोत्तरेद्युः परावाहनादिपूर्वकं मूललिंगप्रतिष्ठाभावनानन्तरं जीवावाहनकाले तु जीवाद्भिरभिषेचयेदित्युक्तरीत्या जीवकलशस्थं देवं मूललिंगे नियोजयेत् | ततः प्रायश्चित्तादिकं प्रायश्चित्तं शंकरप्रोक्तादिकं आदिशब्दोकततत्वहोमं च सर्वं कृत्वा त्रिरात्रं होमदादानाद्यैः प्. ७३) नीत्वा तुर्येऽहनि क्रमाच्छक्त्या सप्तदशद्रव्यैः देवस्य स्नानं कल्पयेत् इत्युक्त स्नपनं च समाचरेत् | एवं प्रासादजीर्णोद्धारमभिधाय बिंबजीर्णोद्धारं दर्शयति लिंगमित्यादि प्रणामप्रार्थनादिभिरित्यन्तेन ग्रन्थेन | लिंगं जीर्णं यदि भवेत्तत्रापि तदवस्थायामपि सूत्रछेदविधानेन सर्वतत्वान्यपि अपिशब्देन वास्तोष्पत्यादिकमपि हुत्वा एवं विधाय च एवं प्रासादजीर्त्युक्तप्रकारेण जीवोपासाद्यल्पलिंगप्रतिष्ठा जीवकलशाभिषेकान्तं विधाय चास्यानुदितविधेः कृत्वा पूर्वसममिति व्यवसितेन संबन्धः आवाह्यात्मनीत्यादि स्वयमेवेत्यन्तं सूत्रछेदविशेषदर्शन परंमध्येवाक्यं आवाह्येति तत्तत्वं तस्मिन् लिंगे स्थिततत्वावासनामात्र रूपं दूर्वा शान्तिकलशाभिषेकादिपूर्वं आत्मनि मार्ताण्डमण्डलवर्तिनि स्वस्वरूप आवाह्य स्वयं चण्डेश्वरो भूत्वा तल्लिंगं विधिवदुत्पाद्य शकटे निधाय वृषाभ्यां सलिलं नीत्वा तस्मिन् पीठाराधनादिपूर्वकं चण्डेश्वरं प्. ७४) स्मरन् तन्मन्त्रेण अप्सु निक्षिपेत् अथ | तदनन्तरं स्नानतर्पणाद्यनन्तरं स्नात्वा गेहं मूलप्रासादं व्रजेत् | तत्र न्यस्तानि रत्नानि स्वयमेव वा दद्यात् इति || अथ निर्मितमूललिंग संस्कारस्थापन निष्क्रान्त जीवप्रत्यर्पणादिकं पूर्वोक्तन्ययानुसारेण दर्शयति कृत्वा पूर्वसमं लिंगमित्यादि प्रायश्चितान्यशेषाणि कारयेच्च प्रयत्नन इत्यन्तेन निगदव्याख्यातेन ग्रन्थेन | पीठजीर्णोद्धारं दर्शयति पीठे जीर्ण इत्यादि प्रणामप्रार्थनादिभिरित्यन्तेन पीठे जीर्णे तत्रस्थां शक्तिं यथाविधि प्रासादजीर्त्युक्त संहारतत्वहोम कलशाभिषेध ध्यान संकोचादि विध्यनुवर्तनेन पीठसंहारान्तं कृत्वा हुं फडन्तपञ्चतत्व पृथक् सिद्धसंपात समर्पणपूर्वं तत्रस्थां पीठस्थां शक्तिं देवे नियोज्य देवं तत्कलश आवाह्य परिपूज्य मण्डपेऽधिवास्य च चकारात् ततो जीर्णपीठ परित्यागानन्तरं ग * क्षालनाद्यैः शोधयित्वा अधिवास्य एतत् पीठं जलाधिवासस्यानाधिवासादि संस्कृतं प्. ७५) नवं पीठं यत्नतोऽप्रमादेन प्रतिष्ठाप्रोक्तरीत्या संस्थाप्य तेन जीवकलशेनाभिषेचयेत् तेन पीठगतां शक्तिं यथाविधि पूर्वोक्त पीठप्रतिष्ठाविध्यनतिवृत्या स्थाप्य परम्परया स्थाप्य अष्टबन्धं च निक्षिप्य कल्पवर्त्मना पूजयेत् | अथ प्रतिष्ठितन्यायोक्तिपूर्वकं उपसंहारकशान्तिहोमादीति || एवं बालालयप्रतिष्ठानिरपेक्षं निष्क्रामणमुपन्यस्य निष्क्रामणानपेक्षं प्राक्रमिकं प्रासादविधिं दर्शयति गेहे जीर्ण इति अथ गेहे जीर्णे देवेशे देवताः परिवारदेवता सकलानि तत्वान्यपि समायोज्य सम्यक् संहारतत्वहोमानि संकोचनादिभिराकृष्य योजयित्वा संकोचं समाचरेद्वा || उपसंहरति जीर्णोद्धृतिरिति अत्र समासेनेति वचनतत्वहोमध्यानसंकोचानां आगमान्तरगम्यत्वद्योतनार्थं अल्पमन्दिरस्थापितलिंगे ततः परं किं कर्तव्यमित्यत आह अल्पमन्दिर इति | अल्पमन्दिरस्थापि लिंगं शैलं चेत् अप्सु निक्षिपेत् दारवं चेद्दहेत् | अत्रापि प्. ७६) गुरुप्रीणनादि कार्यमेवेत्याह - गुरुमिति जीर्णोद्धारस्य प्रथमप्रतिष्ठातो गैशिष्ट्यं तत्प्रवृत्तये दर्शयत्येवमिति ग्रन्थार्धेन एवंमूलागमविहित प्रासादादिजीर्णोद्धारमभिधाय तत्तुल्यन्यायसमुन्नेयाष्टबन्धविधिं दर्शयति अतः परं आपटलसमाप्तेर्ग्रन्थसन्दर्भेण अष्ट बन्धविनाशेपित्तापत्तिवत् पूजालोप प्रसंगेन तदावश्यकत्वमाह अष्टबन्ध इति पूजालोपो निमित्तानां निमित्तं तु महत्तरमित्यादिवचनेन अष्टबन्धजीर्णनिर्वर्त्यमानस्य पूजनस्य ईश्वरापरिग्रहात् सर्वानर्थमूलमासुरत्वं प्रसज्यते चेत्याह तद्विशीर्ण इति तद्विशीर्णे तद्विशरणे भावेक्तः अष्टबन्धं दर्शयति तस्मादित्यादि स्नपनं च समाचरेदित्यन्तेन | तस्मात् एवं रक्षःप्रणवशादि संभवो यस्मात् इत्यर्थः | तत्र त्वस्ति अष्टबन्धनिबन्धने उचितेन एकदेशनाशः सर्वनाश चिरकालनाशाद्युपपद्येतेत्यर्थः नालमिति यत्नेन पुराणाष्ट बन्धपरिहारादिरूपेण यत्नेन नालं संशोध्य सम्यक् संहारशक्तिहोम संपातसमर्पणपूर्वकं प्. ७७) तत्किं देवे विलाप्य नालं शोधयित्वा होम कर्म समारभेत् | अत्र नालशोधनान्तरं होमारंभंणवचनं सृष्टिसंहारहोमयोः पृथक्करणं मुख्यमिति ख्यापयितुं होमं विवृणोति कृत्वेत्यादि | स्विष्टकृदादिकमित्यन्तेन | अष्टबन्ध विधिं दर्शयति पीठमिति गन्धपुष्पादिभिः पीठः आधारशक्त्यदिसमष्ट्यन्तं मन्त्रान् क्रमात् विधिवत् पीठाराधनसमनन्तरं शक्तिपीठसमावाहितां सकलातां प्रकृतिं प्रकल्प्य पाद्यादिस्नानान्तं तदर्हविध्युपे तमाराध्य देवमावाह्य सकलीकृत्य स्नानान्तमर्चयेत् ततः शक्त्या नान्दीमुखं कृत्वा अष्टबन्धं च सिकतां वसनाद्यं वसनमाद्य शब्दोक्त मणिहिरण्यादिकं च निधाय निकटे कृत्वा पुण्याहमाचरेत् स्नानांगकृत पुण्याहानन्तरं वस्त्राद्युपहारशेषं प्रदाय पूजयेदित्याह गन्धैरित्यादि ससुवर्णकैरित्यन्तेन नालं पीठविवरं मूलेन ससुवर्णकैः सिकतैः संपूर्य गन्धैरष्टगन्धैः पीठं लिंगं च मूलेन शक्तिबीजेन षडर्णेन च प्. ७८) सादरं विलिप्य अहतवाससा पीठं वस्त्राभ्यां देवं च वेष्टयेत् | उपलक्षणं चैतत् भूषणादिप्रदीपान्त शेषोपहारसमर्पणस्य अष्टबन्धद्रव्यकॢप्तिं दर्शयति शंखे स्यादेतदित्यन्तेन | शंखस्वर्णाभया लाक्षाः क्रमेण षट् चतुर्थ्यैकभागिकाः | शंखः षट्भागं षट्भागा यस्य स षड्भागः एवं चतुर्भागं स्वर्णं दिभागिकाभया एकभागिका लाक्षा | कार्पासोपलवालुका एकैकं लाक्षया तुल्याः || धात्री लाक्षाभागमिता एकभागिका इत्यर्थः | सर्वं प्रोक्तद्रव्यं ज्ञनीकृत्य समुदितं तैलेन पेषयेत् | एतत्तैलन वमं द्रव्यजातं नवशक्तिमयं विद्यात् संपातसंयुतमिति || एतत् धारणादिभिः शोद्ध्य प्रणवेन समर्च्य नवशक्तिभिः समर्पित संपातमेतत् शक्तिभिः नवशक्तिभिः मूलमन्त्रेण प्रकृतिमूलेन भूतपतिना देवमूलेन षडक्षरेण च जप्त्वा शक्तितो दानं दत्वा देवं देवीं यथात्मानं यथाविधि पुरुषः प्रकृतिश्चोभौ नित्यौ कालं च सत्तमेत्यादिविहितविधानेन प्. ७९) ध्यात्वा धिया देवं देवीं तथा देवं देवीं च स्मरन् अधिष्ठानाधिष्ठेयभावेन परस्परसंपिण्डितौ स्मरन् शक्तिभिर्मूलमन्त्रेणेति पूर्वोक्तमनुवर्तते | तैरेतत् सुलग्ने निक्षिपेदित्यर्थः || तत् ध्रुवाद्यौरिति कीर्तयन् सुदृढं श्लक्ष्णं च कुर्यात् ततः प्रणवव्यापक कल्पित परस्परसम्मेलन मन्त्रावाहन सकलीकरणाद्यनन्तरं देवं परिषद्भिः परिवारैः समन्वितं प्रतिष्ठापयेत् सम्यक् प्रतिष्ठासमयदर्शितरीत्या पूजयेत् ब्राह्मणानन्नाद्यं भोजयेत् सार्ववर्णिकं सर्वज्ञानपि स्वार्थे तद्धितः | अन्नाद्यं भोजयेदित्यनुवर्तते || पुनः प्रतिष्ठा न्यायेन चतुर्थदिनस्नपनादिकं च कुर्यादित्याह प्रायश्चित्तादिकमिति अस्यान पेक्ष्यत्वमाह एतदिति | संक्षेपाक्षेपानुक्त कुण्डादिलक्षणानपेक्ष्यत्वमाह कुण्डानामित्यादि विचक्षण इत्यन्तेन || अष्टबन्धविधिमुपसंहरति अष्टबन्धमिति || इति क्रियासारव्याख्यायां तत्वप्रकाशिन्यां अष्टमः पटलः || ८ || एवं प्रासङ्गिकं प्रायश्चित्तं जीर्णोद्धारं चाभिधाय त्रिरात्रं होमदानाद्यैर्नीत्वा तुर्येऽहनि क्रमात् शक्त्या सप्तदशद्रव्यैः स्नानं देवस्य कल्पयेदित्यादि प्रकृतं सूचनं वक्ष्यन् प्रतिज्ञापूर्वं विवक्षितमाविष्करोत्यथ स्नानमित्यादि सप्तदशद्रव्यैरित्यन्तेन अथ स्नानं प्रवक्ष्यामीति प्रतिज्ञावाक्यम स्थापितस्य देवदेवस्य शूलिनः चतुर्थेऽह्नि स्नापनदिनकृत्य वासरे सप्तदशद्रव्यैः शक्त्या शक्यानपेक्षिण्या यथाविधि स्नानं कुर्यात् इति संबन्धः अत्र शक्त्येत्यनेन चतुर्थदिवसे स्नापनस्यावश्यकत्वं द्योत्यते | अत एव शक्तिमतोऽत्र पञ्चविंशतिद्रव्यस्नपनमप्यपाराध्यतत्येति ध्वन्यते कलशपूरणन्यायं सामान्येनोपन्यस्यति क्रमादित्यादि कलशान्यपीत्यन्तेन क्रमात् तन्तुवेष्टनादि घटीश्रमणान्तं क्रमात् मण्डपं संशोध्य पदानि परिकल्प्य एषु पदेषु धान्यैः पीठं प्रकल्पयेत् | कलशान् द्रव्याण्यप्यस्त्रेण अस्त्रप्रोक्षणादिना संशोध्य प्. ८१) संसाद्यान्तः ब्राह्मे बहिर्मानुषे तथा मध्ये दैविके च क्रमात् वक्ष्यमाणक्रमात् घटान् संपूरयेत् सम्यक् पीठाराधन कुंभसंस्कारादि विधिपुरस्सरं पूरयेत् सप्तदशद्रव्यस्नपने विशेषं कर्तुमारभते यदेति | तत्र पूर्वप्रकृतां पदकॢप्तिं वक्ति पञ्चविंशदिति पञ्चविंशत्पुरे पञ्चविंशत् कोष्ठे क्षेत्रे प्रागग्राण्युदगग्राणि च षट् षट् सूत्राज्यास्फाल्य पञ्चविंशत् पदानि कृत्वा तत्र मध्ये च नतकं तथा परितो अष्टकं च नवकस्य बहिरष्टदिक्षु एकैकपद कल्पना समुदयेनाष्टकं च निधाय शिष्टा न्यन्तरालगतानि अष्टपदानि मार्जयेत् तेषु पदेषु व्रीहिभिः पीठिकां कृत्वा दर्भान् विन्यसेच्च | एवं पदानि वक्ष्य इत्येतत् विवृत्य द्रव्याणि इत्येतत् विवरीतुमवतारयति पूरयेत् कलशान् पश्चादिति | तत्र प्रथमं कुंभसंस्कारं दर्शयति | क्षालितानीत्यादि कूर्चान् न्यसेत् क्रमादित्यन्तेन निगदव्या तेन अथ द्रव्यपूरणं संगृह्णाति तत इति ततो मूर्तिपैः द्रव्याणि वक्ष्यमाणानि आनायय प्. ८२) आनाययानायय संपूरयेत् | ततस्तच्छेषपूरणाय सलिलसंपादनप्रकारमाह - ईशान्यामिति मन्त्रयेदित्यन्तेन मन्त्रयेत् इमा आप इत्यादिनेत्यर्थात् | तेनेति | तेन वारिणा उक्तमनुं जपन् || पूरणे द्रव्यविन्यासे मन्त्रं पञ्चाक्षरं स्मृतम् इति स्मृत्यन्तरोक्त मनुं जपन् कुंभान् पूरयेत् | ईशानश्चाथ सावित्री * * सो रुद्रो हुताशनः स्कन्दश्च धनदः सप्त ऋषयो जम्भकान्तकाः वरुणो जलधीनां हि देवताः परिकीतिताः स्मर्तव्या द्रव्यविन्यासे क्रमात् कुंभेषुदेवताः इत्यादि द्रव्यविन्यासार्थं उक्तानां देवतानां मनुं जपन् कुंभान् पूरयेदिति केचित् प्रासाद पञ्चार्णपञ्चब्रह्मस्वन्यतमं स्थायित्वेनोक्तं मूलमन्त्रं जपन् इत्येके || निद्राकुंभं शिरःस्थाने न्यस्य संपूरयेदथ आपोहिष्ठेति मन्त्रेणेत्युक्तमन्त्रमित्यपरे | तत्र यथाश्रुतमाश्रयितव्यम् | एवं पूरणं संगृह्य पूजां संगृह्णाति पूरितानीत्यादि पूजयेदित्यन्तेन ब्राह्मकलशपूरणं विवृणोति मध्य नैवेद्यकैः क्रमादित्यन्तेन || प्. ८३) पूर्वं पञ्चविंशतिभिर्दर्भैः ग्रथितमुत्तमं कूर्चं विन्यस्य हेममणिभिर्गन्धोदैश्च मध्यस्थकलशक्षेत्र मध्यगत अष्टदलकमलकर्णिकाम्ध्यस्थं सर्वमन्त्रात्मकं स्वसंस्कारार्थं प्रयुक्त तेजस्त्रयकला सौरचतुरक्षरादि सर्वमन्त्रात्मकं अत एव चरं सर्वोत्तमं परमेश्वरविरुड्विग्रहरूपमित्यर्थः || तं यथाविधि मानसपूरणादिविध्यनतिवृत्या पूरयेत् | तस्मिन्निति योगपीठादितः स्वाधारत्वेनाराधितं योगपीठमादौ यस्य स योगपीठादिः सप्तम्यर्थ्ये तसिः तस्मिन् | अथवा पूरणानन्तरविहित लिपिकमलमययोगपीठं आदिशब्दोक्तमूर्त्या वाहनादिकं च विधायेत्यर्थः | तथात्वेल्यव्लोपपञ्चम्यर्थे तसिः | तादृशे तस्मिन् शिव कुंभे देवदेवं गन्धादिनैवेद्यान्तैः समर्चयेत् इति जप्त्वा कलशं स्पृष्ट्वा अष्टोत्तरसहस्रं मूलमन्त्रं जप्त्वा देवेशमनुज्ञाप्य इतशन् परिकलशान् क्रमात् पूरयेत् | तद्विवृणोति पञ्चगव्यं प्. ८४) इत्यादि पूरयेत् क्रमादित्यन्तेन || अत्रक्रम शब्देन बहिरन्तश्च प्रागादि प्रदक्षिणक्रमो विवक्षितः तथा च पाशुपते- पञ्चगव्यं बहिः प्राच्यामाग्नेयों क्षीरमेव च इत्यामेवचेत्यारभ्य स्वादूदं दर्भजलमिति प्रादक्षिण्येन पूरयेदित्यन्तेन ग्रन्थेनाभ्यधायि जलधिगणनपूर्वकं पूजां स्मारयति क्षारमिति | संकल्प्येत्यसाधारणजनदुराहराणि वारिधिवारीणि संकल्प्य तत् प्रतिनिधित्वेन वारुणवारिणा संपूर्य पूजयेदिति भावः मंगलांकुरादिकमणि तत्र योजयेदित्याह - ततो वीथीरिति | पूर्वानुक्तां द्रव्यमन्त्रादिव्यवस्थां प्रस्तापयन् प्रस्तुतमधिवासहोमं प्रपञ्चयति ततो होमानित्यादि परिकीर्तिता इत्यन्तेन ततो गुरुः मूर्तिपैः परितो दिक्षु पूर्वादिदिक्षु तत्पुरुषाद्यैः तत्पुरुषसूक्तेन आदिशब्दोक्तैः अघोरसद्योजात वामदेवसूक्तैश्च कोणेषु अग्न्यादिकोणेषु हृदयादिषु हृदयेन आदिशब्दोक्तैः शिखा कवच शिरोरूपैः सर्व प्. ८५) सर्वज्ञादिब्रह्मांगैश्च होमान् कारयेत् अग्निमुखं क्रमात् कृत्वा ईशानेन ईशान सूक्तेन स्वयमाचार्यश्च कुर्यात् | नागेशोषेऽथवा गुरोरिति स्मृत्यन्तरोक्तस्वकुण्ड इत्यर्थात् दिक्षु तत्पुरुषाद्यैश्च कोणेषु हृदयादिभिरिति प्रतीकमानोक्तौ कथं दिग्व्यवस्थेत्यत आह पूजेति मन्त्राणां दिग्व्यवस्था पूजा क्रमेण प्रकीर्तिता प्रकटमुक्तागमे त्विति शेषः यस्यां दिशि यो मन्त्रः पूजायां विहितः तस्यां दिशि स एव होमे प्रकीर्तित इत्यर्थः पक्वमिति गायत्र्या पक्वं हुत्वा ततो ब्रह्मादि पूजामन्त्रैः सकृत् घृतमित्युक्तपूजाहोमानन्तरं एभिः वक्ष्यमाणद्रव्यैः क्रमात् पाठक्रमाद्धुनेत् द्रव्याणि गणयति समिदिति | पूर्वादिदिक्षु समिधो व्यवस्थापयति पालशि इति | अत्र आचार्यकुण्डे पालाशी समिदिति द्रष्टव्यम् होमसंख्यामाह - अष्टोत्तरशतमिति || पृथगष्टोत्तरशतं कुर्यात् जुहुयात् पृथक् पूर्णाहुतिं च दद्यात् पूर्णामन्त्रं स्मारयति व्योमेति सा पूर्णाहुतिः व्योमव्यापिदशार्णेन प्रकीर्तिता प्. ८६) पूर्वमेवास्माभिरिति शेषः होमकलशयोः आनुरूप्यमाह - कलशानामिति | कलशानां बाहुल्ये होमबाहुल्यमिष्यते | अत्र प्रकृते सप्तदशके पञ्चविंशतौ च कलश एकमेव कुर्वीत इति || अधिवासनं संक्षिपति संपातेति संपातं समर्प्य कलशानेकीकृत्य तत्वसंभारादि क्रमेण संस्कृत्य शुद्धा भवन्त्वित्यादिना संपाताज्येन संप्रोक्ष्य पुनरन्तश्च मूलप्रासादगतं तं देवं तत्र वा स्वाग्रतः कृते कौतुके वा संपूज्य तं प्रणम्य अञ्जलिमुद्रया उपलक्षितः सन् देवं विज्ञापयेत् | विज्ञापनमन्त्रमाह अधिवास इति इतीति देवेशमिति विज्ञाप्य नृत्तं गीतं बहिः कृत्वा जाग्रदेव निशां नयेदित्युक्तरीत्या निशां नीत्वा उत्तरेद्युः प्रगेतनसमिद्ध्यान्ते द्विजान् पारायणिक मौहूर्तिकादीननुज्ञाप्य मूर्तिपैः सहितोनी नीराजनकलशाभिधारकैः मूर्तिपैः सह विद्वानधिवासदिनस्नपनदिन कर्तव्य क्रियाक्रमा विजानन् स्नपनाय समारभेत् | प्. ८७) अन्नरिति | अन्तः प्रविश्य द्वास्थाभ्यनु ज्ञापनवायुबीजजापकृत कवाटविघटनादिपूर्वकं प्रकटमन्तर्विष्ट्वा निर्माल्यमपकृष्य च | चकार समुचिततैलघटेन अभ्यज्य प्रक्षाल्य शिरीषचूर्णोद्वर्तनादि पुरस्सरं प्रकृष्टं क्षालयित्वा अभ्यर्च्य पायसं निवेद्य इत्यर्थात् तदनन्तरं विधिवत् पीठाराधनादि तदर्हविध्युपेतं सादरं तत्वानि न्यस्य मन्त्रन्यासं क्रमात् कृत्वा पाद्यार्घ्ये विनिवेदयेत् ततश्च आचमनं दत्वा तारेण पादयो मूर्ध्नि च दूर्वाक्षतानि विन्यस्य अस्त्रेण सादरं नीराज्य पश्चात् पञ्चगव्यादिभिः कलशैः क्रमात् पूरणोक्तक्रमात् स्नापयेत् स्नपनमन्त्राह पञ्चभिर्ब्रह्मभिरित्यादि मध्यमं व्योमणिद्ययेत्यन्तेन | पूर्वं पञ्चगव्यादि द्रव्येषु प्रथमभूतं पञ्चगव्यमित्यर्थः समुद्रज्येष्ठवर्गेण जलधीन् स्नापयेदिति | जलधीन् प्रत्येकं समुद्रज्येष्ठवर्गमुक्त्वा स्नापयेदित्यर्थः | स्नानकॢप्तिं वक्ति खण्डश इति प्. ८८) खण्डशः खण्डं खण्डं प्रति पूजयित्वा तु तुशब्दद्योति तन्महेशाय मन्त्रेण चान्तरा स्नानमाचरेदित्युक्तमन्तरा स्नानं च कृत्वा परैः इतरखण्डघटैः स्नापयेत् अवसुतेन प्रतिकलशं तच्छेषमेकस्मिन् घटे अवस्राव्य तेन देवस्य परिवारकानिन्द्रादि बलिपरिवारांश्च दिशाहोमादि पूर्वतः कृतप्रतिष्ठितान् प्रोक्ष्य ततो देवं संपूजयेत् सम्यक् पूजा बलिपरिवारादि प्रीणनोपेतं पूजयेत् पश्चाद्यजमानः आचार्यं मूर्तिपान् सदस्यांश्च पूजयेत् सप्तदश द्रव्य एव घटपुटादि विस्तारं दर्शयति पञ्चविंशतिभिरित्यादि विस्तारकाम इत्यन्तेन | अक्रोध इत्यनेन अस्य जघन्य पक्षाक्षिप्तत्वं सूचितम् सप्तदशद्रव्यस्नपनमुपसंहरति इदमिति आगमचोदितमागमविहितं त एव समुद्दिष्टमस्माभिः सम्यगुदितमिदं स्नानं स्नपनं विचक्षणो जघन्यपक्षत्वेपि मुख्यपक्षविहित फलसंपादन पदुप्रभावः चतुर्थदिवसे प्. ८९) अन्यत्रापि प्रायश्चित्तादावपि भक्त्या कुर्यादिति || अथ पञ्चविंशतिद्रव्यविधिं वक्तुमारभते अथेति | अथ पञ्चविंशतिद्रव्यैरुपलक्षितमसमादिक्रमेण शास्त्रचोदितं च परं स्नपनं प्रवक्ष्यामि | अधमपक्षकलशान् दर्शयति पञ्चविंशतिरित्या द्यष्टोत्तरशतकैर्वेत्यन्तेन | तदिदानीं तदष्टोत्तरशतकमिदानीं प्रथमं तावन्नि शम्यते तत्रापि उत्तमविधेरीप्सिततमत्वप्रदर्शनाय प्रथममधमोत्तमभूत अष्टोत्तरशतकलशविधिरिति द्रष्टव्यं तत्क्षेत्रकल्पनां दर्शयति षोडशेत्यादि भृशादिष्वित्यन्तेन || एवमिति || एवं प्रोक्तक्रमेण क्षेत्रं परिकल्प्य यथान्यायं पीठाराधन कुंभसंस्कार द्रव्यविन्यासमानसपूरणादि न्यायानतिवृत्या शिवकुंभं शिवदेवत्यं ब्रह्मकुंभंपूरयेत् पूर्ववत् मध्यस्थं पूरयेत् पूर्वं सर्वमन्त्रात्मकं परमित्यादि पूर्वोक्तप्रकारेण ब्रह्मकलशं पूरयित्वा ततस्तदितरान् पाद्यादिचतुविं प्. ९०) चतुर्विंशतिद्रव्यकुंभान् पूरयेत् पाद्यादि द्रव्याणि तत्तत्स्थानोद्देशपूर्वकं गणयति पाद्यमित्यादि यथाक्रममित्यन्तेन सक्तुमिश्रितमिति शेषः शिवकुंभादि देवतापञ्चविंशतिकमाह - ईशान इत्यादि देवता इत्यन्तेन वाक् सरस्वती रुद्र एकादश रुद्राः अग्रजाः ज्येष्ठाः मुनयः सप्त-ऋर्षयः विश्वदेवताः विश्वदेवता इति पाद्यादि संघातद्रव्याणामंगानि गणयति | दूर्वेत्यादि रत्नमीरितमित्यन्तेन कलशपूजाधिवासादिकं स्मारयत्येतैरित्यादि समारभेदित्यन्तेन स्नानमन्त्रानित्यादि | अतः स्नपनप्रक्रियासंग्रहोक्तिसमनन्तरं स्नानमन्त्रान् वक्ष्ये || गुरुः स्वयमन्तर्वक्ष्यमाणमन्त्रैः क्रमात् पञ्चशः पूजयित्वा नीराज्य शेषं तोयशेषं कुंभावस्रावक्रमात् पूरणोक्रमात् यथा विधि देवं स्नापयेत् तन्महेशायमन्त्रेण अन्तरा स्नानं च आचरेत् स्नानमन्त्रानाह इदं विष्णुरित्यादि व्योमव्यापिक्रमेण त्वित्यन्तेन | इदं विष्णुरित्यत्र पाद्य स हो * * * प्. ९१) क्रमात् मध्यमं व्योमविद्ययेति | शिवकुंभस्य नियतमन्त्रत्वाच्च पाद्यादि शिवकुंभान्तं च स्नानक्रमो विवक्षित इति द्रष्टव्यम् उपसंहरति एभिरिति जघन्यतमनिष्ठतया अधस्तानाधमक्षेत्रकॢप्तिं वक्ष्ये का गीतीत्या दिविहितं क्वचिदित्यन्तेन कर्तुरशक्तिः स्याददि यदीत्यर्थात् तर्हि शुद्धांबुवर्जितैः पञ्चविंशतिकुंभैः स्नानम् कुर्यात् अन्यत्र क्वचित् शक्तिलेशसंभव इत्यर्थः तत्र न विहितं अविहितकरणादीश्वरकोप एव भवेदिति भावः मध्यकलशविधिं सभेदप्रपञ्चमाह विंशत् सूत्रैरित्यादि पञ्चशतं स्मृतमित्यन्त ग्रन्थसन्दर्भं न विंशत्सूत्रैरिति विंशत् सूत्रैरुपलक्षिते शतद्वये बहिर्मानुषे षट्कचतुष्काणि दिक्षु षट्काणि विदिक्षु चतुष्काणि अन्तरालेऽष्टकं अन्तर्देविके अष्ट द्वादश तानि दिग्विदिक् समुदायेन अष्टौ द्वादशकान्यन्तर्नवके ब्राह्मे नवकेऽब्जं कुर्यादिति शेषः सप्तदशाधिक द्विशतमाह - षट्कमिति प्. ९२) विंशत् सूत्रैरित्यनुवर्तते | तस्मिन् क्षेत्रेऽन्तर्दैविके क्रमात् दिक्कोणक्रमात् षट्कचतुष्कं च तद्वाह्येतो मानुषे दिग्विदिक्षु क्रमात् द्विषट्कं द्वादशकं अष्टद्वितयं षोडशकं च अन्तरान्तराले अष्टकं च कुर्याद्वा कुर्याद्वेति वक्ष्यमाणमत्राप्याकृष्यते | तैः सूत्रैः पूर्वोक्तैः विंशत् सूत्रैः पञ्चविंशति नवकानि कृत्वा पञ्चविंशाधिकं शतद्वयं कुर्याद्वा शतद्वयमिति प्रकरणवशात् सिद्ध्यति पूर्वं षट्कमित्याद्यनन्तर पूर्वोक्तं सप्तदशाधिकं स्यादिति शेषः त्रिपञ्चाशदुत्तरशतद्वय कॢप्तिं वक्ष्ये एकविंशत् पुट इति एकविंशत् पुटे अन्तः ब्रह्मदैविकयोः क्रमेण अंबुजमष्टौ नवकानि च बहिर्मानुषे कोणेषु नवदिक्षु द्वादशकत्रयं त्रीणि द्वादशकानि दिक्षु अन्तरालेषु च द्वादशकानीत्यर्थः एवं द्विपञ्चाशदुत्तरं शतद्वयं परिकीर्तितम् त्रिशतकॢप्तिं वक्ति क्षेत्रे गोत्रपुटे इति पञ्चाधिकपञ्चशतपदकॢप्तिं वक्तिः क्षेत्रे धीरपुटे इति | अन्ततोऽन्तर्दैविके अष्टासु प्. ९३) दिक्षु बाह्ये कोणे च सप्तदशानि सप्तदश कानीत्यर्थः एषां मध्ये बहिः कोणस्थसप्तदशकानां मध्ये त्रीणि पञ्चविंशतिकानि च प्रकल्पयेत् केवलपञ्चविंशतिद्रव्यविधिमुपसंहरति पञ्चविंशतिद्रव्यैरेवं पञ्चविंशता स्मृतमिति | अथ तैलादिद्रव्यान्तरसंयुक्तैः प्रोक्तपञ्चविशतिद्रव्यैः कलशोत्तमविधिमभिधास्यन्नमुमवतारयति द्रव्यैरन्यैरित्यर्धग्रन्थेन तत्र प्रथमं त्रिपञ्चाशदुत्तर द्विशतविधिमभिदधाति अष्टोत्तरशतमित्याद्येभिःरेव त्वित्यन्तेन अष्टोत्तरशतमिति चतुर्विंशतिसूत्रै रूप लक्षिते क्षेत्रे| क्षेत्र इति पूर्वोक्तमनुवर्तते तत्र मध्ये अष्टोत्तरशतं तद्बहिः षोडश नवकानि च कृत्वा मध्यतो मध्ये अष्टशतं तथा यथा पूर्वमुक्तं तथा संपूर्य बाह्ये तद्बहिः दिक्षु कोणेषु च तैलादिरूपजलान्तानि द्रव्याणि शर्वाद्यैरष्टमूर्ति मन्त्रैः विषमैरयुग्मसंख्यैः प्रथमतृतीयपञ्चम सप्तमैः समैः युग्मसंख्यद्वितीयचतुर्थ षष्ठाष्टमैश्च संपूर्य भृशादिषु प्. ९४) अन्तरालेषु शैवजातिमृदो विद्येश्वरात्मभिर्मन्त्रैः अनन्तरसूक्ष्मादिमन्त्रैर्न्यस्य यथोक्तैरेभिरेव मन्त्रैः क्रमात् पाद्यादिक्रमात् स्थापयेत् इति तत्रैव त्रिशतपदकॢप्तिं वक्ति क्षेत्रे गोत्रपुटे इत्यादि त्रिशतैर्घटैरित्यन्तेन तत्रैव द्रव्यान्तरयुक्त्या विशेषं दर्शयति कृत्वा विंशच्छतमित्यादि शतघटत्रय इत्यन्तेन | गोत्रपुट एव क्षेत्रे मध्ये कोणस्थनवकान्वितं नवदिक्ष्वष्टकोणेष्विति पूर्वोद्दिष्टाष्टक द्वितय कोणस्थितैर्नवकैरन्वितं तथा ब्राह्मे च अष्टदलकमलकर्णिका स्थितेन नवकेन च अन्वितं तत्तादृशं विंशच्छतं विंशत्युत्तरशतं नवकविंशत्या वृतं कृत्वा गन्धोदकान्वितैः विंशतिनवकेषु पूर्वदिक्सूत्र दक्षिणपार्श्वादिदिक् सूत्र समनन्तरखण्डगत गन्धोदकान्वितैः द्रव्यैः पूर्वोक्तरूपमृदन्तद्रव्यैः मूलान्तैः गन्धजलविहितमूलान्तैः पूर्वोक्तशिखण्डयन्तैर्मन्त्रैश्च शिवकुंभान्तैः घटशतत्रयैः स्नानं कुर्यात् | प्रोक्तद्रव्यैरेव सविशेषं प्. ९५) विंशत्युत्तरत्रिशत विधिमभिदधाति क्षेत्रे मित्रपुटे इत्यादि त्रिशतं परिकीर्तितमित्यन्तेन विचक्षणः ऊहापोहपटुः गुरुः मित्रपुटे क्षेत्रे मध्ये कृत्वा विंशच्छतं मध्य इत्युक्त पूर्वो दलकलशविरहेण द्वादशोत्तरं शतं कृत्वा तस्य बहिर्दिक्षु द्वादशकं षोडशकानां मध्ये अन्तरा चतुष्टयतयं चतुष्टयानां त्रयं त्रीणि त्रीणि चतुष्टयानित्यर्थः तानि कुर्यात् | अथ पूर्वोक्तैर्द्रव्यमन्त्रैः यथाविधि शिवकुंभादि कूपमृत्कुंभान्तं तत्तद्द्रव्यदेवतादिप्रयोगानतिवृत्त्या पूरयित्वा मृदां पार्श्वे अविशेषादुभयपार्श्वे स्थितान् चतुष्काणि मूलमन्त्रतो गन्धोदैः पूरयित्वा समाहितः पाद्यादितत्तद्देवतामन्त्र समाधानयुक्तः तैर्गन्धोदैः तेन मूलेन देवमभिषिञ्चेत् चतुष्काण्यपि सर्वाणि प्रादक्षिण्येन पूरयेदिति मृत् पार्श्वद्वयगत गन्धोद क्रमदर्शन परमध्ये वाक्यं मृदां पार्श्वद्वय विहित गन्धोदकविषयणि सर्वाणि चतुष्काणि सत्यान्तरिक्षादि प्रादक्षिण्यक्रमात् प्. ९६) पूरयेत् इत्यर्थः शेषं सुगमम् || अथ उत्तमतमं स्नपनं वक्तुमुपक्रमते चतुर्भिरित्यर्धग्रन्थेन तद्विवृणोति क्षेत्रे कपालपुट इत्यादि स्नापयेत् गुरुरित्यन्तेन | कालपुरे एकविंशत् पुटे क्षेत्रे मध्ये अष्टोत्तरशतं तद्बहिः दिग्विदिक् समुदायेन अष्टनवकानि तन्मध्ये दिग्विदिग्विहितनवकानां मध्ये त्रीणि त्रीणि त्रिकानि च कुर्यात् अत्र शिवकुंभादिरूप मृदन्तं पूर्ववत् पूरयित्वा मृदां पार्श्वद्वयत्रिकं गन्धोदपूरितं कुर्यात् | गुरुः तद्बाह्ये अष्टविंशति नवकानि कल्पयेत् अष्टविंशतिनव कपूरणप्रकारमाह कर्पूरेत्यादि प्रदक्षिणमित्यन्तेन अंबुरुहाय सामित्यत्र मौजवास्वाक्ष इतिवत् प्रत्ययलोपः सात्वतां पतिरित्यादिवत् आर्षो नुडभावः दूध्मः पलाशः पूरयित्वेति | गुरुः एवं पूरयित्वा समभ्यर्च्य हुत्वा तैर्देवं स्नापयेत् एवं गुरुकृत्यमुक्त्वा तत्समारंभकयजमान समाधिमाह - देवमिति गुर्वादीनां पूज्यत्व कथनेन अर्थाक्षिप्त स्तत्प्रयोजको यजमानः स्वाभि प्. ९७) स्वाभिमतसर्वस्वसिद्धये अनुष्ठापितप्रतिष्ठं चातुर्थिकस्नपन विद्योतमान विग्रहं अनुग्रहोन्मुखं देवं सहकारिभिः मूर्तिधरै सह तद्विधायिनं गुरुं क्रियमाण तत्तत्क्रिया समाधान शौण्डान् पण्डितान् पारायण परायणान् ब्राह्मणान् तन्नियोगकरणोद्युक्तान् भक्तान् परिकर्मिणोऽन्यांश्च तत्सहकारिणः पारशवादींश्च सर्वान् अन्नादिभिः समुक्तसर्वजनसाधारणेन अन्ते अन्नादि शब्दवाच्यैर्देवविषयेण नित्यपूजाद्रव्य कल्पनादिपुरस्सर पुष्पाराधनेन गुर्वादि विषये गोभूहिरण्यादि तत्तदर्ह दक्षिणाविशेषैश्च भक्त्या स्वसमाराध्येषु सर्वेषु परमेश्वरभावनारूपया मनोवृत्त्या सम्यगास्ति कय युक्तं पूजयेत् स्नपनविधिमुपसंहरति अवस्तुतेन संप्रोक्ता देवस्य परिचारकाः इत्यनूदितचातुर्थिक स्नपनानामनिर्दिष्टप्रतिष्ठानां परिवाराणां प्रतिष्ठामाचष्टे दिशाहोममित्यादि पटलशेषेण | मत्विजोऽष्टदिक्ष्वग्निं निधाय अग्निमुखादिकं प्. ९८) च कृत्वा अमीभिरनन्तरवक्ष्यमाणैः मन्त्रैः विधिवत् पञ्चतारानुवचनादितदर्भविध्युपेतं पक्वं जुहुयुः पक्वमन्त्रानाह इन्द्रकृतुमित्यादि त्रियंबकमित्यन्तेन | वाथवे वायुसं बन्धे कोणे पुरः पूर्वं प्रत्येकं प्रतिमन्त्रं पञ्चताराननूद्य पूर्वतः पूर्वां दिशमारभ्य क्रमात् एवं पक्वानि हुत्वा तत इन्द्राद्यैर्मन्त्रैः यथाक्रमं पूर्वचोदितैः समिदाज्यलाजादिना पूर्वमधि वासविहितैरथ चतुर्द्रव्यैर्वा जुहुयुः अत्र पूर्वतः क्रमात् इति वचनेन प्राग्द्वारे प्रत्यग्द्वारे च प्रासादे च दिशाहोमः पूर्वादिक एवेति सूचितम् होमान् समाप्य संपाताज्यसमन्वितैः कलशैः पीठिकासु विधिना संस्थाप्य क्रमात् पूजयेत् बलिपीठिकानां दर्भादिक्षावन धारणा शुद्धिपीठपूजा विधिना संस्थाप्य क्रमादिन्द्रादीन् पूजयेत् हविश्शेषेण बलिं च कुर्यादितिभावः | इति क्रियासारव्याख्यायां तत्वप्रकाशिन्यां || नवमः पटलः || ९ || एवं परिवारप्रतिष्ठानिष्ठमनुष्टानकालमभिधाय प्. ९९) सकलपरिवारपरिवृत परमेश्वरप्रीणनात्मकं उत्सवापरपर्याय सपर्याविशेषं वक्ष्यन् विवक्षितमाविष्कं रोति उत्सवमिति || ततः समस्तपरिवारप्रतिष्ठानन्तरं अन्नाद्यबलिभूयिष्ठ द्विजादि सकलजन्तुसन्तानमन्नं द्वास्थादि सकल परिवारविषयो बलिं च भूयिष्टो यस्मिंस्तं नानावादित्रसंकुल नानाविधैरानकादि पञ्चविधैर्वादित्रैः वाद्यैः संकुलं तथा नृत्तगीतसमन्वितं च तत्तादृशमुत्सवं च कुर्यात् तत्रादावंकुशर्पणं ध्वजस्थापनं च कुर्यादित्याह बीजांकुरमिति बीजांकुरं कृत्वा सर्वतो महाध्वज दुर्गादि बलि देवतास्थानचत्वरादिषु सर्वत्र क्रमात् ध्वजान् संस्थाप्य शुभाः पताकाश्च न्यस्त्वा गन्धपुष्पैः पूजयेत् महाध्वजपताकोपस्थापनमन्त्रमाह नमस्ते इति तत्र सर्वत्र प्राकारान्तर्बहिः रथ्याचत्वरादि देवयात्रास्थानेषु च सर्वत्र संमार्ज्य आलिप्य कुसुमाक्षतैः विकिरेत् अयंपूराद्यैरगुरु गुल्गुल्वाद्यैः प्. १००) सन्धूप्य ततः क्षेत्रपरिष्कारानन्तरं शिवं संपूजयेत् पूजासम्यक्त्वं दर्शयति संस्कार स्नाप्येत्यादि क्षमापयेदित्यन्तेन विधिवत् पीठपूजादि तदर्हविध्युपेतं स्नानकाले शुद्धतोयैः पयोदध्याज्य गव्यकैर्गन्धोदैः नालिकेशद्भिः पुनः स्नानसमये कलशैश्च संस्नाप्य यथोज्वलं गन्धैरष्टगन्धैर्विलिप्य वासोभिः परिधाप्य पूजयित्वा पूजा परिवारसर्वस्वमेतं पूजयित्वा भक्ष्यभोज्यादिसंयुतं अन्नं निवेद्येत्येतावत् उक्त्वा ततो हुत्वा बलिं दत्वा स्वयं गुरुरिति पूजाशेषं वक्ष्यन् प्रसंगान्मध्ये मुखनिवेद्य विधिमवतार्य दर्शयति ईशाद्यास्येष्वित्यादि सर्वमेवं त्वित्यन्तेन कृसरतिलोदनं प्रकृतमनुसन्धानपूर्वं पूजाशेषमाह निवेद्येति एवं मुखनिवेद्य हृद्यं निवेद्य ततो धेनुमुद्रां च सन्दर्श्य दिक्षु रक्षां विधाय चेति स्मृत्यन्तरोक्त सुधांशुसमर्पणाद्यनन्तरं हुत्वा अग्निमभ्यर्च्य मूलेन कृत्वा च परिषेचनं अष्टोत्तरसहस्रं वा शतमष्टाधिकं हुनेत् | प्. १०१) मूर्त्यंगैस्तद्दशांशं तु विद्येशाद्यैः सकृत् सकृत् | परिषिच्य पुनर्जप्त्वा होमशेषं समाप्य चेति स्मृत्यत्तर स्मृतन्यायेन निवेद्यशेषहविषा अ* * बाग्नौ हुत्वा बलिं दत्वा नवेवानले पीठे द्वारयोग्यं बलिं हरेदित्युक्त न्यायेन बलिं दत्वा आचम्य गुरुः स्वयं प्राप्तभावनया प्राप्तपरमेश्वरभाव आचार्यः आचमनविधानीया परनामजलं तु तुशब्दद्योति मुखाविलापन पूर्वं दत्वा अन्नं विसृजेत् पुनः अन्नशेषेण निर्माल्यचण्डेश्वराय निवेदयेत् | तदनन्तरं पानीयं गण्डूषापरनामकं मुखवासं पञ्चताम्बूलादिरूपं दत्वा किञ्चित् संपूज्य सम्यक् प्रकृतिविलापनादि समीचीनं पुष्पाञ्जलिभूयिष्ठं च पूजयित्वा जप्त्वा शिवहस्तं ततो मूर्ध्नि कृत्वा जप्त्वेति आगमान्तरोक्तरीत्या जप्त्वा स्तुत्वा नमस्कृत्य क्षमापयेत् परमेश्वरं पूर्वावस्थावस्थितं भावयेत् || बलिपरिवारसपर्यामुदीरयेत् प्रथमं भूतबलिमवतार्य विवृणोति निशीत्यादि यथाक्रममित्यन्तेन || कौतुक इति प्. १०२) कौतुके बलिबिंबे देवं मूललिंगस्थमाराध्य आवाह्य पूजयित्वा शिष्यस्य शिरसि न्यसेत् ततः स्वस्ति जप्त्वा तेन सह बहिर्गत्वा गर्भ गृहात् बहिः निरेत्य द्वास्थादिभ्यो द्वास्थादि क्षेत्रपालान्तं बलिदेवताभ्यो बलिं हरेत् द्वास्थादि बलिदेवता गणयति नन्दिनमित्यादि पूजयेत् क्रमादित्यन्तेन नन्द्यादीनि इत्यत्र आदिशब्दः क्षेत्रपालान्त बहिः परिवारवाचकः बलिप्रक्रियामाह वाद्यमिति नृत्तं गीतं च वादित्रं कृत्वा कृत्वा कारयित्वा तथा च वक्ष्यति - समाप्यैवं बलिं तत्र नृत्तगीतादि कारयेत् इति एवं बलिं कृत्वा बलिमुद्राश्च दर्शयेदिति संबन्धः | तत्र उत्सवबलौ विशेषं दर्शयति तेषामित्यादि | तेषां प्रकृतानां द्वास्थादिपरिवाराणां पूर्वं पार्श्वमण्डले तत्तत् वामपार्श्वस्थण्डिले परिषदां च बलिं दत्वा ततो दिक्पालपरिषदनन्तरं तद्बहिः दिक्षु कोणेषु मालामन्त्रैः ओन्नमो भूतेभ्यो इत्यादिभिः बलिं दद्यात् दिक्षु कोणेष्विति प्. १०३) पृथक् करणं कोणेषु बलिमन्त्रन्यूनत्व सूचनार्थं न दिग्विदिक् क्रमप्रदर्शनार्थं इति | वेदितव्यम् दिक्पालादिबलौ विशेषमाह - दिक्पानिति दिक्पान् वाहनं च चकारात् तदनन्तरं पूर्वोक्तद्वास्थौ च पूर्वं अर्चनात् पूर्वं उपस्थानमन्त्रैरुपस्थाय ततो अर्चयेत् इति आगमेत्विति आह आगमेषूद्धृतान् तारशक्त्यारव्ययोरन्ते स्फुर स्फोटय हुं वदेदित्यादि स्मृत्यन्तरोद्धृतान् मन्त्रान् समासतः संक्षेपोक्तिनिमित्ततो लिख्ये लिखामि | एभ्य इह एभ्यो नन्द्यादिभ्यो दिक्षु बहिर्दिक्षु बलिं दत्वा तत्तत् पार्श्वमण्डले यथाविधि महाकालादिविंशत् गणनाममन्त्रप्रयोगादि विद्ध्यनतिवृत्त्या बलिं दद्यात् विंशत्भूतगणान् गणयति महाकाल इत्यादि पातालास्ते नमो नमः इत्यन्तेन बलिपीठ इति पीठान्तिकैः स्वाहाद्यैः भूतिदाद्यैः बलिपीठे बलिं दद्यात् | भूतिदादिगणनपूर्वं तत्स्थानकॢप्तिं वक्ति भूतिद इति मन्त्रविशेषान् प्. १०४) लिख्यति ओं महाबलाय नम इत्यादि इतीति इति लिखितैरेतैः पञ्चमन्त्रैः पीठिकायां बलिं दत्वा तद्बहिः प्रक्रियावरणे एभिरनन्तरलिख्यमानैः ये समस्तं ओं नमो भूतेभ्यो गृह्णन्त्वित्यादिभिस्त्रिभिः मन्त्रैः एकावृत्या बलिं दद्यात् | तद्बहिः ग्रहाणामपि बलिं दद्यात् | ग्रहानाह देवाश्चेति बलिमुपसंहरति | एषामित्यादि एषां ग्रहाणां दिक्षु क्षेत्रपालायोत्तरे बलिं दत्वा एवं समाप्य तत्र क्षेत्रपालाग्रतो नृत्तगीतादि कारयेदिति | बहिर्बलौ पक्षान्तरमाह अन्यथेति || पूर्वं प्रथमावरणे मालामन्त्रैः ओन्नमो भूतेभ्य इत्याद्यैस्त्रिभिर्मन्त्रैः अनन्तरं तदनन्तरं द्वितीयतृतीय चतुर्थावरेणेषु क्रमेण नन्द्यादीनां गणानां विंशत् भूतगणानां ग्रहाणां च बलिं दत्वेति शेषः | एवं कृत्वा भूतिदाद्यैः बलिपीठपठितैः समापयेदिति दिवेति शेषेष्वारंभदिवस समनन्तरदिवसेषु दिवापि च चकारात् रात्रौ च बलिं उत्सवबलिं प्. १०५) भूतबलिं वा दद्यात् पूर्वेद्युरिति | आचार्यः तीर्थयात्रायाः पूर्वेद्युः निशि महाबलिं ग्राम बलिं दत्वा समस्तजन्तुसन्तानमनुमान्य तदनन्तरं क्षुद्रविद्रावणरूप मृगयाद्यनन्तरं अन्तः प्रविश्य देवं प्रार्थयेत् प्रार्थनामन्त्रमाह - तीर्थयात्रेति इति प्रार्थ्य स्नानाचमनात्म भावनाद्यनन्तरं अंकुरपात्राद्यैर्दीपैः अष्टमंगलैश्च समलं कृते मण्डपे शययामास्तीर्य तामभ्यर्च्य आचार्योऽन्तः प्रविश्य यथान्यायं भूरादिभिः अश्वत्थपत्रन्यस्त घृतदूर्वाग्राद्यालभनन्यायानतिवृत्या घृतारोपणं कृत्वा विश्वव्याप्तिं विश्वेश्वरे विलाप्य मूर्तिपैः सह पुण्याहं क्षौमे समौक्तिकं हेमं निक्षिप्य ऊर्णासूत्रेण बहुरूपेण अघोरेण पाणिभ्यां देवस्य दक्षिणे भुजे कौतुकबन्धं च कुर्यात् | ततो धारणाभिः कर्मबिंबसंशोधनाद्यनन्तरं कौतुके कर्मबिंबे देवमावाह्य अखिलमंगलैः समस्तैर्वाद्यैश्च सहितं देवं मण्डपे संस्थाप्य प्रासादसम्मुखं प्. १०६) स्थापयित्वा संपूज्य तदर्होपहार समीचीनं पूजयित्वा निस्स्वपन्तां निशां नयेत् अस्वपंस्तां निशां नयेदित्यनेनैव यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेरिति स्मृत्यन्तरस्मृतां तां लोकयात्रा?रूपमहारात्रिं नयेत् स्वकारणे परब्रह्मणि विलीनां भावयेदिति च ध्वन्यते पञ्चमन्त्रमूलप्रणवव्यापकैः जाग्रदाद्यवस्थात्रयं संहृत्य सदानन्दचिद्रूप स्वस्वरूपानुभवेपरं भावयेदिति भावः ततो गुरुः प्रातः स्नात्वा सन्ध्यामुपास्य विधिवत् प्रणवमूल पञ्चमन्त्रव्यापक प्रबोधनोत्थापन मंगल दर्शनार्घ्यदान शययोद्वासन पीठपूजा वाहन सकलीकरण पाद्यादिसमर्पण दन्तधावन जिह्वोल्लेखन गण्डूषदान स्नपन मध्वाज्यासेचन उद्वर्तन पुनःस्नान वस्त्रदूर्वा पुष्पचन्दनाञ्जनागरु समर्पणभूषण दर्पण यवसादनेतिहास पुराणादिश्रवण नित्यदानसमर्चनादि तदर्हविद्द्युपेतं तत्काल योग्यमखिलं कृत्वा शिवं संपूजयेत् प्. १०७) कौतुकं गेहे प्रवेश्य देवे मूलबिंबस्थ देवे देवं कौतुकस्थं नियोज्य च चकारात् संपूजयेच्च || संपूजयेदिति पूर्वोक्तमनुवर्तते अथ उद्वर्तनार्थं चूर्णानि कारयेदित्याह उलूखल इति || हरिद्वामुद्वसंयुक्तैः माषशालियवादिभिः नवे शुद्ध उलूखले पिष्टचूर्णानि कारयेत् होमादि चूर्णैः सहितं पात्रे विनिक्षिपेच्च तत्तच्चूर्णमूलेन पूजयित्वा देवं मूलबिंबस्थं स्नानसमये वारिभिः संस्नाप्य माजिकाज्वाभ्यां अभ्यज्य तच्चूर्णेन तेन चूर्णेन पुनः स्नानसमये अभिषेचयेत् || पञ्चमन्त्रैरित्यर्थात् तेन मन्त्रलिंगं सर्वतः संमृज्य भक्तानां मूर्ध्नि दापयेत् तच्चूर्णमित्यर्थः पुनः संस्नाप्य विधिवदभ्यर्च्य यथाविधि होमं यात्राहोमं कुर्यात् | यात्राहोमं विवृणोति कृत्वा चाग्निमुखमित्यादि पूर्णाहुतिं ददेदित्यन्तेन | अत्र शाकुनस्वस्ति सूक्ताभ्यां आज्याहुतीर्ददेत् हुनेदित्यर्थः | एवं प्रतिवाक्यं ददेत् पदेनान्वयो द्रष्टव्यः हृदा प्रासादेन चेत्यर्थः पुण्याहमिति पुण्याहं प्. १०८) वाचयित्वा कौतुकं संहृत्योत्पाद्याथ कर्मार्चातीर्थयातार्थमिति प्रार्थनानन्तरं यात्रा होमसंपात समर्पणानन्तरं च आवाह्य मूलबिंबात् कर्मार्चायामावाह्य न्यस्य वस्त्राभ्यां परिवेष्ट्य च चकारात् मूलबिंबं च संरक्ष्य संपाताज्येन शिष्टेनेत्यर्थात् तेन संस्पृश्य तं कौतुकस्थं देवमादाय बहिःगर्भगृहात् बहिर्व्रजेत् देशिको द्वारि प्रासादद्वारे मंगलवादं जगन्निर्माणेत्यादि रूपमंगलस्तोत्रपाठं च कृत्वा निर्गत्य बलिं दत्वा द्वास्थादिबलिपीठान्तं अन्तर्बहिश्चैकावृत्या बलिं दत्वा गोपुरात् बहिर्गत्वा यानं गजादि रूपमासाद्य तं पुनर्वाहनं परमेश्वरवाहनभूतमृषभं ध्यात्वा ध्वजबलिं दत्वा तत्स्थ मृषभं वाहने संयोज्य यानं तद्रूपं भावयित्वेति अर्थ तथा कृत्वा परमेश्वरं तमारोप्य अखिलवाद्यादिभि वृतो जलगन्धादिभिः उपहारैर्युक्तो योजनादर्वाक् नदीं अन्यजलाशयं वा व्रजेत् तत्पार्श्वे तीर्थपार्श्वे सुगुप्तं स्थण्डिलं कृत्वा तस्मिन् समर्पित प्. १०९) भद्रपीठे शिवं न्यसेत् | न्यस्तं शिवं मन्त्रावाहनादिपूर्वं पाद्याद्यैः पूजयित्वा तु तीर्थमावाह्य धारणादिभिः संस्कृते तीर्थे गंगामन्त्रेण तीर्थमावाह्य सन्निधाप्य मज्जयेत् तस्मिन् तीर्थे देवमित्यर्थः | अथ चूर्णोद्वर्त न पुनः स्नानाद्यनन्तरं तं देवं स्थण्डिले नियोज्य समभ्यर्च्य भक्ष्यादिभिः समोपेतं तत्र शृतं महद्धविर्निवेदयेत् अथ तीर्थ सन्निधापनानन्तर समर्प्य संपाताद्यर्थं तत्पूर्वमेव कर्तव्यं होमं स्मारयति अष्टोत्तर शतमिति | अथ शब्दोक्त चूर्णोद्वर्तनादिकं प्रकटयति पुण्याहमिति || सज्जनैः सार्धं पुण्याहमभिकल्प्य चूर्णैरुद्वर्त्य सादरं अघमर्षणादिसूक्तमित्यर्थः तथा संस्नाप्य समभ्यर्च्य आदाय यथाविधीति पूर्वोक्त पूजानुवादः | एवं कृत्वा तीर्थे तस्मिन्नित्यादि मन्त्रप्रार्थन तीर्थोद्वासनादिपुरस्सरं देवमादाय यानमारोप्य द्रुततरं गृहं मूलालयं गच्छेत् द्रुततरगमन तात्पर्यं दर्शयति यात्राह्मेवेति | यथान्यायं यात्राबलिकृतक्रम गर्भगनुक्तये प्. ११०) पूर्वोद्दिष्टक्रमप्राप्त न्यायानतिवृत्या रात्रौ भूतबलिं हरेत् रवोभूते उत्तरेद्युरुदिते यात्रादोषशान्तये यथाक्रमं उत्तमादिस्नपनं कुर्यात् उपलक्षणं चैतत् यथाविभवं महेश्वरार्चन स्यावावसिक्तपरिषत् पूजनस्य च एवं वरणानन्तरप्राप्त गुरुकृत्यमुक्त्वा यजमानकृत्यमाह आचार्यमूर्तिपालेभ्य इति अत्र तत् कुर्यात् यथान्यायं तीर्थस्नानावसानिकमिति चोदिते कर्मणि समापिते सति आचार्यमूर्तिपालेभ्यो दक्षिणां च दद्यादेव अन्यथा ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मया इत्यादिन्यायात् परमेश्वरकोपात् कुलनाशादिदोष संभवतीत्येकारः सूचयतिः अन्यान् परिकर्मि पारायणिकवारी शवादीन् सर्वानपि भक्तिसंयुतो यथाशक्ति पूजयेत् उपसंहरतीति स्वनिबन्धनस्य विरोधनद्वारेण शिष्ट विषयत्वमाशास्ते एतदित्यादिग्रन्थार्धेन तस्य दुष्टाविषयत्वं प्रार्थयते रक्षितव्यमित्याद्युत्तरार्धेन || दस्युभ्यः चोरविद्याचुञ्चुभ्य प्. १११) एवमेव शिवं समधिगच्छतीति भावः किञ्चित् प्रपञ्च शिवभावमितीह तन्त्रे व्याकारिषं गुरुवराय गृहीतरीत्या नीत्यानयैव निपुणा विवृणोतु शेषं तत्रापि दुर्ग्रह विभागविधौ यतिष्ये इति क्रियासारव्याख्यायं तत्वप्रकाशिन्यां दशमः पटलः || १० || नमः शिवाय अथैवं तावत् पाशुपतानुसारेण शिवतन्त्रमभिधाय पञ्चरात्रानुसारेण अनन्तरप्राप्तं विष्णुतन्त्रं वक्तुं प्रतिजानीते- नमस्कृत्य हरिं वक्ष्ये संक्षेपेण क्रियाक्रमं इति स्मृतिमूलत्वात् प्रयोजनं च ख्यापयन् प्रतिज्ञां विवृणोति देवैरित्यादि तीर्थस्नानाव सानिकमित्यन्तेन देवैर्वासुदेवादिभिः मुनिभिर्नारदादिभिराचार्यैः भगवत्पादौदिभिश्च स्फुटोदितं यद्यपि अत्रोत्तरवाल्ये तथापी त्यंगीकारात् शंका वाक्येपि यद्यपीति प्रयोक्तव्यं एवं स्फुटोदितं यद्यपि तथापि साधकेन्द्राणां क्रियाविधौ स्मरणाय अहं गुरुपूजादि प्. ११२) तीर्थस्नानावसानिकं क्रियाक्रमं क्रियाक्रममिति पूर्वोक्तमनुवर्तते तं वक्ष्ये गुरुपूजां समारभ्य तीर्थस्नानावसानिकमिति पाठे एकमेव वाक्यं प्रथमप्राप्तं गुरुवरणं संगृह्णाति शोधित इति | विवृणोति यजमान इति दक्षिणे पाणावित्यन्तेन दक्षिणे पाणावालम्ब्य मन्त्रमेतदुदीरयन् वरयेदिति योजना अत्र अंगमूर्तिमन्त्रेषु यैर्मन्त्रैः मूर्तिपसमिज्या प्रयुज्यते तैरेव अर्घ्याद्यभिमन्त्रणं कर्तव्यमिति ख्यापनार्थं मूलेन मूर्तिभिर्वा अंगैरभिमन्त्र्येति विकल्पितं सोपि देशिको मृदादिभिः कल्पान्तरकथितैः उर्वीं परीक्ष्य यथोचितां ज्ञात्वा महीं प्राकारपर्यन्तं प्रकल्प्य अत्र मध्ये दिशासु च यथान्यायं गन्धाद्यैरभिपूज्य अनेन मन्त्रेण भूतक्रूरबलिं दद्यात् इति संबन्धः | कृत्वैवमिति एवं भूत परिग्रहं कृत्वा सामान्यशुद्ध्यर्थं बहुशः इष्टां क्षितिं सुमुहूर्ते खनेत् क्षितिमिति वक्ष्यमाणं क्षितिपदमत्रापि समाकृष्य योज्यम् अथ नव प्. ११३) नववस्त्राद्यलंकृतः स्वयं गुरुः विधितेन मन्त्रतो मन्त्रेण करसः सार्वविभक्ति त्वान्मन्त्रत इति तृतीयान्तं पदं | शेषं सुगमम् पातालप्रतिष्ठां संगृह्णाति सुमुहूर्त इति | कूर्मशिलां न्यसेदिति | अन्तेन तत्र प्रथमप्राप्तं विधिं विवृणोति रत्नेत्यादिभिः प्रार्थयेन्मनुनामुनेत्यन्तेन मध्ये गर्तं मध्ये शक्तितो यथाशक्ति मूलेन रत्नहेमादिविन्यस्य पीठाराधन कुंभसंस्कारादिपुरस्सरं कुंभेषु न्यस्येत्यर्थः | शेषं सुगमं निधिनिधानविधिसमापनपूर्वकं कूर्मशिलान्यासार्थं लिपिपंकजमवतारयति गन्धाद्यैरिति | लिपिपंकजं विशिंषन् तन्मन्त्रानुद्धरति क्षादित्यादिनाद शक्तियुतं मध्य इत्यन्तेन | क्षकारश्च तदाद्यास्तु लकारादि शकारान्ताश्च क्षादयः तद्गुणसंविज्ञानो बहुव्रीहिः क्षादयो मूर्तिशिफानालसराकण्टकरन्ध्राणि यस्य तत्तथा अत एव क्षं नमः पराय मूर्त्यात्मने नम इति तन्मन्त्रास्तूद्धारधर्मादि प्. ११४) सहिता अन्तस्था धर्माद्यन्तस्था धर्माद्यन्त स्थाभिर्युक्ता धर्माद्यन्तस्थयुजः धर्माद्यन्तस्थयुजो ग्रन्थयो यत्र तत्तथा | अत्र ग्रन्थिपदं सामान्येन आग्नेयपूर्वाद्यष्टग्रन्थिवचनं विवक्षितं तर्हि कथं पूर्वादिग्रन्थिषु बीजवर्णसिद्धिरित्यत आह साऽधर्मादि नपुंसकमिति अधर्मादिभिः सहितानि नपुंसकानि अधर्मादिनपुंसकानि अधर्मादिनपुंसकैः सह वर्तमानं साऽधर्मादिनपुंसकं यं नमः पराय धर्माय आग्नेयग्रन्थ्यात्मने नम इत्याद्याः तन्मन्त्राः पत्रैः पत्ररूपैः त्रिभिस्त्रिभिः काद्यैः ककारादिभकारान्तैः वर्णैः समन्वितं समन्तादनुगतं कर्णिकान्तैः कर्णिकारूपो अन्तो मकारो येषां कादीनां ते तथा कं खं गं नमः पराय पूर्वकेसरात्मने नम इत्याद्या स्तन्मन्त्राः बीजभूतस्पर्शान्तिममकारबीजत्वेन पत्रसमनन्तर विसर्गेति ह्रस्वदीर्घविभाग विभिन्नेषु अष्टसु स्वरवर्णेषु ह्रस्वान्तर्गतेन विसर्गेण दीर्घान्तर्गतबिन्दुना च लिप्ताग्राः पूर्वाः स्वराः प्. ११५) केसराः यस्य तत्तथा अः आं नमः पराय पूर्वकेसरात्मने नमः इत्याद्यास्तन्मन्त्राः अत्र पत्रबीजभूत स्पर्शान्तिममकारबीजत्वेन पत्रसमवगत रसमवतीर्णाया अपि कर्णिकाया वर्णाब्जसमर्चनस्य बहिरंगक्रमोत्क्रमात् संप्रदायसमधिगत केसरानन्तर समिज्या युज्यत एवं कार्यरूपक्षकारादि वर्णप्राप्तिमभिधाय ओमित्यन्तर्नयति नियताया प्रति प्राणिशब्द इत्याद्युक्तस्वरूपकारण वर्णरूपप्रणवव्याप्तिमाह तारांशेति आत्मविद्या परक्रमात् तारांशत्रितयोपेत प्रोक्त पत्रकेसरकर्णिकासु विष्वक् व्याप्तैरकारादितारांश भूतैरात्मविद्यपरतत्वैः उपेतमित्यर्थः ईं आत्मतत्वात्मने नम इत्याद्याः तन्मन्त्राः | अत्र तारांशत्रितयोपेतमिति वचनसामर्थ्यादेव तत्वत्रयसमर्चनात् प्रागेव तदंगभूत मण्डलात्मत्रयसमर्चनामपि कैश्चित् स्मर्यते मध्ये कर्णिकायां नादशक्तियुतं अत्र नादशक्तिपदाभ्यां तारांशभूतनादशक्ति तद्बीजभूत हकार प्. ११६) ह्रींकारौ च तन्त्रेणोच्येते || हृन्नमः पराय नादात्मने नमः ह्रीं नमः पराय शक्त्यात्मने नमः इति च तन्मन्त्रौ - अकारश्चाप्युकारश्च मकारो बिन्दुरेव च नादशक्ती च शान्तं च प्रणवः सप्तधा स्मृतः इत्यादि स्मृतिस्मृत प्रणवांशेषु प्रथमांशत्रथ भूतात्मादिः त्रयस्य उपोत्तमांश द्वयभूतनादशक्त्योश्च ग्रहणादेव तदितरांशभूत बिन्दुशान्तग्रहणमप्यवरुध्यत एवेति बोद्धव्यम् | सं नमः पराय बिन्द्वात्मने नमः ओन्नमः पराय शान्तात्मने नमः इति च तन्मन्त्रौः || एवं क्षादिमूर्त्यादिविशेषणविशिष्टं लिपिपंकजं कल्पयेदिति संबन्धः || तस्मिन् लिपिपंकजे कूर्मशिलां न्यसेत् || कूर्मशिला प्रतिष्ठा विवृणोति क्षालितामिति | अथ तत्र तस्मिन् लिपिपंकजे क्षालितां गन्धपुष्पाद्यैः समभ्यर्च्य अधिवासितां तां कूर्म शिलां अकूबारेति न्यस्त्वा अभ्यर्च्य प्रार्थयेत् कृतसमाधानपूर्वकं तद्गर्तकर्तव्य गणपति दक्षिणामूर्ति परदेवता प्रीणन गर्तपूरणं प्. ११७) चाहेति प्राच्येत्याद्यग्निं तर्पयेदित्यन्तेन | अथ गणपतिदक्षिणामूर्ति पूजानन्तरं द्वारदेशे देवेशमभ्यर्च्य अग्निं तर्पयेच्चेति सिंहावलोकन न्यायेन पूरणात् पूर्वकृत्यं समुच्चिनोति | इष्टकाधानपूर्वांगभूतं वास्तु बलिं संगृह्णात्यथैशान्यां पूजये द्वास्तुं कुश पुष्पाक्षतौदनैरिति | तत्र प्रथमं तत्पुरुषकॢप्तेरुपदेष्टव्यं दर्शयति एकाशीति पदकॢप्तिं वक्ति | मध्य इति बहिः पंक्तावीशादीनां पदमेकैकं भवेदिति संबन्धः प्रोक्तपदपूज्या देवताः प्राह पूज्य इत्यादि विचक्षण इत्यन्तेन | नवपदे ब्रह्मा पूज्यः पुनः अनन्तरप्रोक्ते पूर्वषट्के पावककोण द्विकद्वये चार्यसंज्ञिकः सविता सावित्रश्च पूज्यः | पूज्य इत्यनुवर्तते विवस्वान् विट्पदे स्थितः दक्षिण इत्यर्थात् इन्द्रजय इन्द्रश्च तथा नैर्-ऋतदिक् द्वय इत्यर्थः मितः पश्चिमदिक् स्थितः | रुद्रजयो रुद्रश्च तथा वायव्य दिक्द्वय इत्यर्थः सौम्ये षट्क इति शेषः तत्र महीधरः शार्वे दिक्द्वये आपवत्सः प्. ११८) आपश्च एवं यथाक्रमं पूज्याः इति शेषः कं ईशादिबहिः पंक्तिगतैकैकपददेवता आह - ततस्त्वित्यादि कौबेर्यां दिशि संस्थिता इत्यन्तेन || एवं ब्रह्मादिपञ्चचत्वारिंशत् देवताः पदविभागमुक्त्वा शिष्टानामष्टानां स्थानमाह- शर्वस्कन्देत्यादि विचक्षण इत्यन्तेन अत्रापि तद्वहिः कर्तव्य इत्याह - अथ देवग्रहादीनां बलिं दद्यात् यथाक्रममिति यथा प्रोक्तक्रमं प्रदक्षिणक्रमादिति ग्रहान् पठति देवांश्चेति वास्तुबलेरावश्यकद्योतनार्थं ऐतिह्यमाह आसीदिति | पुरा जगत् सर्गसमनन्तरं वास्तुसंज्ञको अत्तिव भीषणः असुर आसीत् जगद्दन्दत्यामानः सः देवैः भूमौ निपातितः तैर्देवैः तदुत्थानार्थं तस्य वास्तुपुरुषस्य अंगेषु निवेशिता एताः त्रिपञ्चाशत् देवताः उपहारैरीशं यजेदाज्ययुतात्मकैश्चेत्यादि कल्पान्तर कथितैः बलि द्रव्यैः स्वैःस्वैर्नामभिः पूजयेत् | उपसंहरति बलिमासां क्रमाद्दत्वा भक्त्या नत्वा क्षमापयेदिति पक्षद्वयोक्तंबलिंक्रमं नियमयति मध्यादिति प्. ११९) शिवभागे खननानन्तरं विष्णुभागे समतलीकरणानन्तरं च वास्तुबलिकथनं उभयोरप्युभयत्र कर्तव्यत्वख्यापनार्थं नान्यतरग्रहाणामिति द्रष्टव्यम् कृतसमाधानपूर्वकमनन्तरकर्तव्यमवतारयत्येवमिति || इष्टकाधानं संगृह्णाति द्वारस्य दक्षिणे पार्श्वे विन्यसेद्विधिपूर्वकमिति उक्तविध्येकदेशभूतं होमं विवृणोति तत्र उत्तर इत्याद्यष्टोत्तरशतमित्यन्तेन वा इन्द्रादि व्याहृतीभिः इन्द्रादिभिश्च रेखा रेखा इत्यनुवर्तते लिखित्वा पश्चात् पीठ पूजाद्यनन्तरं | अथवा पश्चात् अग्नेः पश्चिमभागे कृताञ्जलिः पूर्वतोमुखो अग्न्याभिमुखः स्थित्वा अष्टाक्षरं जपेत् जप्त्वेति प्रणतो भक्त्यतिशयेन ननम्यमान मूर्धा प्रभुं प्रपञ्चरूपेण प्रभविष्णुं नारायणं स्मरन्नेवं अष्टकृत्वो जप्त्वा तदनुज्ञां प्राप्येत्यर्थात् | एवं कृत्वा तास्विष्टकासु संपाताज्यं समर्प्य पावकं चोद्वास्य प्रणतः प्राङ्मुख इष्टकायतनाभिमुखो गुरुः तमग्न्युपाधितया प्. १२०) प्रकृतं प्रभुं ध्यात्वा विराड्विग्रहरूपेण भगवता अष्टप्रकृत्यभिधानद्वारेण अष्टेष्टका व्याप्ता इति संभाव्येत्यर्थः एवं ध्यात्वा कोष्ठेषु प्रकल्पितेष्विष्टका यतकोष्ठेषु अष्टभिरक्षरैरग्न्यद्मिन्द्रान्तं अष्टौ ता ता इष्टका विन्यसेत् चतुरश्रे चतुष्कोष्ठे न्यस्याग्न्यनिलकोष्ठयोः सौम्याग्रसूत्रे पूर्वाग्रे तथैव निर्-ऋतीशयोः इत्याद्यागमान्तराभिहितक्रमेण द्विद्विभक्त खण्डचतुष्कोपलक्षितं क्षेत्रं कृत्वा आग्नेयवन्नामाग्नेयखण्डमारभ्य ईशकोष्ठगतपदद्वयेन्द्रपदान्तं विन्यसेदित्यर्थः || तथा च प्रयोगमञ्जर्याम् - अष्टौ सत्यकलाष्टभिश्च विधिवत् संस्थापयेदिष्टकाः प्रादक्षिण्यविधानतः शतमरवादीशान्तमाशास्वपि || इति अग्न्यादीशान्तमिति पाठः समीचीनः तथा च विष्णुसंहितायाम्- अग्न्यादीशान्तमष्टौ ता इष्टका विन्यसेत्वमात् तत्रापि चतुरश्रे चतुष्कोष्ठ इत्युक्तचतुष्-इत्युक्तचतुष्कोष्ठापेक्षया प्. १२१) अग्न्यादीशान्तं अग्न्यादीशान्तं विन्यासविधिरिति | द्रष्टव्यं इष्टका इति एवमिष्टकास्तु विधाय विमलैः गालनादिविशुद्धैः वस्त्रसंस्कृतैः कलशैः पूर्वं पूरितैः रचितैः संपातरत्नगन्धाढ्यैः सुगन्धिभिर्वारिभिश्च इष्टकामध्यगर्तं संपूर्य तारेण शुभपुष्पाक्षतं न्यस्य आवर्तमीक्षयेत् आवर्तपरीक्षणफलमाहशुभाशुभाविहावर्तौ ज्ञातव्यौ दक्षिणोत्तरौ इति | शाल्यादीति | ततः तत्रत्यदेवताप्रसादनानन्तरं शाल्यादि क्षेत्रमृत्साभिश्च गर्तं प्रच्छादयेत् || तथा च प्रयोगमञ्जर्यां परिपूरयेच्च शाल्यादिभि क्षेत्रजमृत्तिकाभिरिति || शेषं सुगमम् | स्वप्तघ्नप्रयोजनमाह शुभे लाभ इत्यादि ग्रन्थशेषेण | प्रकृतसमाधानपूर्वकं अनन्तरकर्तव्यं अवतारयति अनेनेति | गर्भपात्रकॢप्तिं प्राह - प्रासादस्येत्यादि तद्विदुरित्यन्तेन प्रासादस्यानुरूपेण चतुष्करमथारभ्य त्वेकसप्तति पश्चिमं प्रासादमेकहस्तादि प्. १२२) प्रासादमेकहस्तादि नवहस्तान्तमेव च लिंगं तु गर्भपात्रं च चतुरंगुलमायतः | कृत्वा हस्तान्तमुद्दिष्टं त्रयं त्रैराशिकैर्नयेत् इति पाशुपते- अष्टांगुलं चार्धसमुच्छ्रयं च पादोनमूर्ध्वे विहितोच्छ्रयं च | हस्तायतं पात्रमथोत्तमं स्यात् त्रैराशिकेनोच्छ्रयमत्र कल्प्यमिति प्रयोगमञ्जर्यां - अष्टांगुलं तदर्धोनं पादहीनोत्तरच्छदमिति सुमतिसंहितायामागमान्तरेषु च उक्तेन प्रासादस्यानु रूपेण सान्द्रत्वादिविशिष्टं गर्भपात्रं प्रकल्पयेत् - तद्यथाविधि पञ्चगव्यक्षालनादि विध्यनतिवृत्या शोधयेच्च प्रकारान्तरेण पात्रप्रमाणमाह सुगुप्तमिति तद्यथा भित्तौ सुगुप्तं भवेत् तथा भित्तिमनेन भवेद्वेदियोजना भित्तिमाह - भित्तिस्तंभेत्यादि ग्रन्थशेषेण तत् भित्त्यंशापतितं मानं भित्तिस्तंभचतुर्धाम त्रिभागैकं भित्तिस्तंभायामं चतुर्धा प्. १२३) विभज्य तदेकभागं पुनस्त्रिधा विभज्य तदेकभागं विदुः भित्तिस्तंभायामद्वादशांशमित्यर्थः | गुणैः स्तंभस्य विस्तारं भंक्त्वा भागद्वयोन्मितं इति शिव भागोक्तं भित्ति स्तंभचतुर्भागमिति भागैकं तु तद्विदुरितिहोक्तं चतुरंगुलमानतः | कृत्वा हस्तान्तमुद्दिष्टमित्यादि स्मृत्यन्तरोक्तं च प्रायस्तुल्यम् एवं गर्भपात्रकॢप्ति मुक्त्वा गर्भस्थापनस्थानमाह द्वारस्येति द्वारस्य भाविप्रासादद्वारस्य दक्षिणे वामेतरे भागे तृतीयांशे भित्तिविस्तारं त्रिधा विभज्य भागद्वयं बहिः कृत्वा परस्मिन्नंशे तत्रापिवीते | तृतीयमंशमपि तृतीयमंशमपि त्रिधा विभज्य भागद्वयमन्तः कृत्वा परस्मिन् भागे भित्तिविस्तारं नवधा विभज्य भाग षट्कं बहिः भागद्वयं अन्तश्च कृत्वा परस्मिन् भागे गोमूत्रेण आलुप्ते तस्मिन् द्वारमूलस्य पार्श्वतः द्वारशाखामूलं संश्लिष्य न्यसेत् || गर्भमिति शेषः गर्भपात्रे तत्र द्रव्यन्यासप्रकारमाह- क्षालित इत्यादि हिरण्मयमित्यन्तेन प्. १२४) पञ्चगव्येन क्षालिते धारणाभिश्च परिशोधिते अस्मिन् पात्रे पीठे व्रीह्यादिभिर्विरचिते कृत पीठपूजे च पीठे अक्षतोपरि विन्यस्य कृत्वा सागरमुद्धृतिमिति शिवभागोक्त न्यायेन पीठे विन्यस्तेऽस्मिन् पात्रे पूर्वं सागरमृद्धृतिं कृत्वा यथान्यायं अक्षरांभोजं ध्यात्वा तस्मिन् सशैलां भोधि दिग्गजमनन्तस्थं भूमण्डलं च ध्यात्वा ध्यात्वेत्यनुवर्तते गिर्यादिभ्य आहता मृदो गायत्र्यादिक्कोणमध्येषु विन्यसेत् कूर्मरूपं कूर्म मूर्तिं कूर्ममित्येवार्थः | शेषं सुगमम् उपसं हरत्ये तत्सर्वं समानीय न्यस्तव्यम् गर्भभाजन इति || गर्भहोममाह कृत्वैवमित्यादिना ग्रन्थसन्दर्भेण | कृत्वेति एवं कृत्वा द्रव्यविन्यासमिति शेषः | द्वादशविद्यया द्वादशार्णविद्यया पञ्चगव्येन प्रोक्ष्य अग्नेर्दक्षिणतः कृत्वा पूर्ववत् क्रमात् जुहुयात् पूर्वोक्तेष्टकाहोमवत् पक्वादिस्विष्टकृदन्त हवनविधिं कुर्यादित्यर्थः तत्र व्यस्तैरष्टाक्षरै रष्टाविद्यादीष्टकाहोमोक्त मन्त्रविशेषस्थापन प्. १२५) होतव्यमन्त्रान्तराण्याह - घृतद्वादशभिः वर्णरीत्यादिभिः वृषभास्तरेत्यन्तेन व्याहत्यन्तमिति || ततो मन्त्रविशेष होमानन्तरं व्याहृत्यन्तं व्याहृतीर्जुहुयात् | ततः समिदाज्यचरूनाज्यं गायत्र्या अष्टोत्तरं शतमिति पूर्वोक्तव्याहृति तदन्तचतुर्द्रव्यादिकं च संपातहुत्वाज्यं संपातहुत्वाज्यं संपातमाज्यं समर्प्य विधायाग्रतः स्थितं तत् पात्रं भुवं ध्यात्वा मन्त्रान् होमोक्तमन्त्रान् जप्त्वा निशि सुमुहूर्ते शोभनैर्निमित्तैश्च सार्धं द्विजानुज्ञां प्राप्य प्राङ्मुख परया भक्त्या च युतः स देशिकः स्वकां तनुं हरिं ध्यात्वा समिष्ट विष्टरे गर्भायतने शक्तिं च ध्यात्वा अर्चयित्वा इदमग्रकरे स्थितं गर्भपात्रं अस्थाः शक्तेः गर्भभूतं शुभ्रं पार्थिवं ब्रह्माण्डं स्मरन् अस्मिन् पात्रे पूर्ववत् भूमण्डलमनन्तस्थं सशैलांभोधि दिग्गजमिति पूर्वोक्तप्रकारेण उर्वीं च ध्यात्वा शनैः मन्त्रं वक्ष्यमाणमुदीरयन् गृहमूर्तिप्रसूतये प्रासादपुरुषप्रादुर्भावाय यथान्यायं प्रोक्तन्यायानतिवृत्त्या प्. १२६) गर्भं न्यसेत् इति संबन्धः || तन्मन्त्रमाह सर्वेति गर्भन्यास फलकीर्तनमुपसंहरति एवमिति || ततः प्रासादन्यस्त गर्भपरिणामरूपं कारयेत् कारुभिरिति शेषः | इति क्रियासारव्याख्यायां तत्वप्रकाशिन्यां एकादशः पटलः || ११ || श्रीविष्णुबिंब प्रतिष्ठापरिकर संपादनमभिधाय प्रतिष्ठा पूर्वरंगभूतं मंगलांकुररोपणादिकं कर्मकलापं वक्तुं प्रारभमाणः प्रथमं अंकुरार्पणं वक्तुं प्रतिजानीते | अथ वक्ष्यामीति अथ भूति(मि) प्रासादादि संपादन कथनानन्तरं संक्षेपात् मंगलांकुरारोपणं वक्ष्यामि संक्षेपग्रहणं तात्पर्यं शिवभोगे वोचामं मन्त्रबिंबप्रतिष्ठामहाध्वर दीक्षा दीक्षणीयरूपं मंगलबीजवापं तु तत्समयं संकल्प्य सप्ताहादि दीक्षादिवसापेक्षयादि * * धि वासशेष तया च तत्तत्समयसमापनीय निद्ध्यादिवत् न तावन्मात्र मवसिद्ध्या प्रारभेतेति नियम यति प्रासादे तु कृते कुर्यान्मुहूते कल्पिते सुधीसुधीर्दीक्षाभिषेकादि विधिशुद्धबुद्धिः आचार्यवर्यः प्. १२७) प्रासाद प्रसीदत्यस्मिन् निषद्येश्वर इति प्रासादो देवगृहं मन्त्रबिंबं वा तस्मिन् कृते मुहूर्ते कल्पिते तु कल्पित एव कुर्यात् मंगलांकुररोपणमित्यर्थात् संकल्पित विधिरिति एकं कालमाह उत्तर इति | तत्र प्रथमाव * * ते सुनिर्मले गुरुमौढ्यादिदोषादूषिते उत्तरे त्वयने काले उत्तरायण एव काले तत्रापि शुक्लपक्षे शुभे वारे तिथौ दिने अत्र दिनशब्देन नक्षत्रमपेक्ष्यते * * * शुभत्वविशिष्टत्वं वारादित्रयसाधारणं अथवा दिनशब्देन अहरुच्यते तथा च प मः तत्र पूर्वं तदुचितानि नक्षत्राणि गणयन्ति पुनर्वस्विति भरणीषु चेति | चकार उत्तरार्धपठित रेवत्यादीनां जघन्यत्वं सूचयन् अन्त्यपरिपठित भरण्या अत्यन्तजघन्यत्वं सूचयति तिथीर्गुणयति प्रतिपच्चेति || वारानाह सोम इति लग्नशुभत्वमाह उदयनिरीक्षणेति ग्रन्थांशेन अवश्यपरिहार्य मुहूर्तदोषमाह द्वादशस्थमिति दुर्बलो भौमो द्वादशस्थं रविं पश्येद्यथा आचार्यश्चिरेण प्. १२८) अन्धः स्यादित्यर्थः निरूप्येति एवं मुहूर्तं निरूप्य तत्प्राक् मुहूर्तदिवसात् प्राक् सप्तमान्नवमात् पञ्चमाद्वा अह्नः प्राक् अह्न इत्यर्थात् अत्र प्राक्पदं पृथक् कृत्य सप्तमादिपदैश्च प्रत्येकं संबन्धनीयं तदपेक्षश्चायं सप्तमा सप्तमादित्यादि पञ्चमीप्रयोगः तथा च सुमतिसंहितायां- सप्तमान्नवमाद्वापि प्रागेव स्याच्छुभेऽहनि इत्यादि शिवभागे स्वयं चाचीकथत् अष्टमेऽह्नि प्रतिष्ठायाः प्राक्कुर्यादंकुरार्पणं इति एवं प्रोक्त सप्तमादिदिवसात् प्राक् शुभे अहनि मंगलांकुरारोपनं कुर्यात् | बीजावापोऽपि शुभसमयसाधनीय इत्याह शुभेऽहनीति तद्विवक्षया वाऽयं कालविकल्पविधिः वापकालं विधाय तत्संबन्धदीक्षाहः कृत्यमाह- बीजांकुरविधिस्त्वत्र त्रिकालोक्तार्चनान्वित इति | पात्रादिकथनपूर्वकं बीजावापविधिं प्रपञ्चयति त्रिविध इत्यादि अवहितो गुरुः इत्यन्तेन ग्रन्थसन्द * * * * | सर्वकर्मसु प्. १२९) प्रतिष्ठाकलशोत्सवादिषु सर्वशुभकर्मसु व्रीहिकूर्चकैः पीठिकाः कृत्वा मृदादिपूरितानि पात्राणि तारेण विन्यस्य बीजानि शोधयेदिति संबन्धः || प्रियंगुसर्षपश्यामराजमाषाढकीयुतम् यवमुद्राषशिंब कुलस्थका इति पृथक् वाक्यं बीजानि स्युरिति वाक्यशेषः शेषं सुगमम् प्रोक्षणमन्त्रमाह - जितन्त इति प्रोक्षणप्रक्रियामाह - त्रितारेति पूजनप्रक्रियामाह - देवतेत्यादि ग्रन्थार्धेन तानि बीजानि देवतानामभिः - यवसर्षपमुद्रेषु ब्रह्मा रुद्रो हरिः क्रमात् वायुः पूज्यस्तु निष्पावे स्कन्दः पूज्यः प्रियंगुके माषे ष * * न्द्रः कुलस्थेऽग्निः शालिष्वर्को यमस्तिले वरुणो राजमाषे श्री राढक्यां श्यामगः शशी इत्यादि स्मृत्यन्तरोक्त देवतामन्त्रैः इत्यर्थः तैस्तानि बीजान्यनुसवनमर्चयेदिति भावः तथा चागमान्तरे सबीजपात्रिका पीठदेवतार्चनमन्वहं सवनेष्वच्युतोऽभ्यर्च्यः सेकान्ते सलिलादिभिः प्. १३०) इति | तानि देवतानामभिश्च चकारं मूलेन च गन्धपुष्पैः गन्धपुष्पादिभिरर्चयेदिति बलिप्रक्रियामाह - मण्डलेष्वित्यादि तत्तन्मन्त्रमुदीरयन्नित्यन्तेन बलिद्रव्याण्याह पललमित्यादि नवरत्नं तथेत्यन्तेन पललं भर्जिततिलाधानं भर्जिततण्डुलं उडुंबं मुकुलं लाजाः फुल्ला भर्जितशालिजाः चरमदिन बलिकालमाह - प्रातरित्यादि ग्रन्थशेषेण कृतसमाधानपूर्वकस्य ध्वजस्थापनमाह एवमिति विधिवत् कृतं धारणादिभिः विधिवत् संस्कृतं वाहनमन्त्रोद्धारपुरस्सरं तत्सपर्यामाह - तारेति संबुद्ध्या पक्षिराजपदान्तसिद्धया संबुद्धि विभक्त्या पक्षिराज आगच्छागच्छेत्येवं रूपया वा स्थाप्य तेन पक्षिराजाष्टाक्षरेणैव गन्धादिभिर्यजेत् भूयो बीजांकुरोदितमिति शिवभागे ग्रन्थोक्तमुद्धारयति तन्मूल इत्यादिग्रन्थशेषेण निगदव्याख्यातमेतत् एवं बीजावापादिकं विधाय प्रतिष्ठाप्य बिंबसंस्कारं संगृह्णात्यथेति अथ प्. १३१) बीजावापादि तदुचित प्रारंभानन्तरं यथान्यायं पूर्वमेव शिलापरिग्रहादि बिंबसंपादन विहितन्यायानति वृत्त्या कारुभिः बिंबं लक्षणावृतं ग्रीवाहृन्नाभिमेढ्रान्तं मुखमानेन कल्पयेदित्यादि समुक्तलक्षणलक्षितं क्रीतं शिलापरिग्रहादि वर्जं तत् कारोः केवलं द्रव्यादानेन न क्रीतं बिंबं वा काले समायाते त्रिरात्रमश्मनो लोहमेकरात्र मणिनिगामित्यादि द्रव्यभेदविशेषविहिते काले संप्राप्ते जले अधिवासयेत् लक्षणान्वितमित्युक्तलक्षणेषु प्रधानलक्षणकल्पनमाह नयनोन्मीलनमिति | शिल्पिभिश्च चकारात् पूर्वमेवाचार्येण स्वयं साधरणी दृष्टिः स्यात् चश्चतां नाध ऊर्ध्वगेभ्यां आगमान्तरप्रोक्त प्रकारेण नयनोन्मीलनं कार्यं तद्विधिं बिंबकलशविधौ स्वयमेव वक्ष्यति प्रतिमापरिग्रहं संगृह्णाति प्रतिमामिति विवृणोति प्रणवेनेति कर्तृकविरहसमनन्तरमेव सांप्रतिकशुद्धिमाह प्रक्षाल्येति पूर्वं वारिभिः प्रक्षाल्य सर्वतो दर्भैरर्थात् मृद्भिश्च प्. १३२) दर्भैश्च त्वग्भिश्च संघृष्य संक्षाल्य गोवालैश्च स्पृष्ट्वा घृतात्तामेनामथ मसूरचूर्णोद्वर्तनानन्तरं क्षालयेत् तस्या विराड् विग्रह स्फूत्यर्थं होमं च कुर्यादित्याह - शमीपल्लवेत्यादि संपाताज्यं समर्पयेदित्यन्तेन अग्रतोऽनले संस्कार्यत्वेन प्रतिमां परिकल्प्य तदग्निं सन्धाय तस्मिन्नित्यर्थः तद्रक्षार्थं नीराञ्जनं च कुर्यादित्याह नीराञ्जनमिति विप्रैरिति | अथ पराह्णे पीठपूजाद्यनन्तरं वरुणं संपूज्य योगपीठ जलनिधिफलको परि योगपीठं च संस्मरन् बिंबं सागरमार्गतो घ्राणोपस्थसमायुक्तमित्यादि वक्ष्यभार्गमनुसृत्य संहृत्य अग्निमयं ध्यात्वा ज्योतिबिंबात् ज्योतिरूपं बिंबं अप्सु निवेशयेत् बहिर्मन्त्रपञ्चकमन्त्रार्चि बहिःलोकपालान् ध्यात्वा पञ्चमन्त्रैः पूर्वादिदिग्गतैः वासुदेवादिभिः शिष्टदिग्गतेन अन्त्येन च चकारादस्त्रेण च रक्षयेत् मूर्तिपञ्चकल्पनानन्तरं तद्बहिः लोकपालांश्च तद्रक्षणपरत्वेन कल्पयेदित्यर्थः द्रव्यतारतम्यावगम्य प्. १३३) जलाधिवासकालावधिमाह त्रिरात्रमिति आत्मनः श्रीविष्णुबिंबत्वेन कल्पितानन्त्य विशेषान् त्रिरात्रं तथा कल्पितं लोहमेकरात्रं एकाहोरात्रमात्रं अह्नि निशां च अप्सु अधिवासयेदिति शेषः उपसंहरति प्राक्शिर इति एवं बिंबजलाधिवासमभिधाय तत्समयसमकर्तव्यां प्रासादशुद्धिं अवतारयति अथेति अतन्द्रित इत्यनेन प्रतिष्ठाप्ये विष्णुबिंबे प्रारब्धशुद्धिक्रमे प्रासादे तु कृते सम्यगित्यनूक्त शिल्पकर्म समाप्तिकं तत्प्रतिष्ठाधिष्ठानभूतं स्थूल प्रासादशरीरमपि कालापेक्षया क्षुद्ररक्षप्रवेशाच्च दूषितमकार्षीदिति सूच्यते विवृणोति मूर्तिपैरित्यादिना || मूर्तिपैः सार्धं सप्रदक्षिणं प्रासादमागम्य गेहदक्षिणे प्रासादस्य याम्ये पार्श्वे आसीनो गुरुः मन्त्र न्यासादिकं मन्त्रन्यासात्माराधन गणाधीश प्रीणन शुद्धिसाधनसादनादिकं क्रमात् कुर्यात् भूयः तक्षकैर्मुक्तमात्रं तु मुक्तमात्रमेव प्रासादं शोधयेत् शोधनं विवृणोति सूत्रै प्. १३४) सूत्रैरित्यादि तालतयादिकमित्यन्तेन गर्भागारं तदर्थात् बहिश्च अस्त्रदृष्ट्या समालोक्य समन्ततः सूत्रैश्च दर्भदाम्ना च वेष्टयित्वा पुनः संमार्ज्य गोमयेन प्रोक्ष्य संक्षाल्य उपलेपयेत् अस्त्रमन्त्रतः सर्षपाक्षतदूर्वाभिर्विकिरेच्च || संमार्ज्य शकृतालिप्य गन्धोदैश्च प्रविलिप्य चकारात् गव्यैश्च प्रोक्ष्य पञ्च शक्तिभिः परमेष्टयादिभिः दूर्वाक्षतकुशाद्यैश्च विकिरेत् अष्टाक्षरेण सर्वत्र सदीपकं धूपं च दद्यात् अथ धान्यानीति || अथ शांकराग्नेय वायव्यानां अन्यतमकोणे * * * चर्य तत्र धान्यानि प्रविकीर्य पूर्णकुंभमस्त्रकलशं च विन्यसेत् पञ्चगव्येन पञ्चगव्यशेषेण कृणुष्वेत्यादिभिश्चक्रमन्त्रेण सर्वतः प्रोक्ष्य तालत्रयादिकं कुर्यात् | अत्र अनन्तरपञ्चगव्यप्रोक्षणं सांप्रदायिकमित्यवगन्तव्यम् | रक्षोघ्नहोममाह - आग्नेययामिति | रक्षोहणादिमन्त्राभ्यां पक्वं पश्चात् कृणुष्वेत्यादिभिः ये देवाद्यैश्च पञ्चभिर्दुर्गाभिः व्याहृतीभिश्चाज्यं च प्. १३५) हुत्वा चतुर्द्रव्याणि होमयेदिति संबन्धः चतुर्द्रव्यहोमं विवृणोति अपामार्गेति | चक्रमन्त्रेण अपामार्गसमित् हविराज्यं च प्रत्येकमष्टशतं हुत्वा समापयेद्धोममिति शेषः संपातसमर्पणादि तद्विशेषमपामार्गेत्यादि श्वश्रं च पूरयेदित्यन्तेन श्वश्रं प्रतिष्ठागर्तं पूरयेद्धान्यैरिति शेषः वास्तुहोममवतारयति एवमिति तमेवेति ईशे तमेव राक्षोघ्नहोमांगीकृतमेव अग्निं निधाय तत्पूर्वे व्रीहितण्डुलैः कॢप्ते वस्त्रास्तीर्णे स्थण्डिले कुशदूर्वा शमीपर्ण कूर्चस्थौ क्रमेण तण्डुलांबुभिः पूरितौ घटौन्यसेत् | ततस्तण्डुले तण्डुलपूर्णकलशे हेमं न्यस्य गणो देवीत्यृचैव एवकारसूचिता न्यनिरपेक्षत्व प्राप्तद्विरावर्तित स्वपादांगया शन्नो देवीत्यृचा वार्ध्यदिभिः क्रमात् शान्तिमर्चयेत् परिधिस्थापनात् पूर्वं एवं कृत्वा अथ वास्तोष्पतेति द्वाभ्यां मन्त्राभ्यां पक्वं होमयेत् वास्तोष्पते ध्रुवे त्याद्यैः षड्भिः ज्ञातादिपञ्चभिः शन्नवर्गैः पुनः प्. १३६) तथा व्याहृतीभिश्च घृताहुतीर्जुहुयात् कुर्यात् तया शन्नो देवीत्यृचा शमीसमित् घृतान्नाज्यं अथ मूलेन गव्याक्ताभिर्दूर्वाभिश्च होमयेत् अष्टोत्तरशतं हुत्वेति शिवभागोक्तं अत्राप्यनुवर्तते | समापयेद्धोममिति शेषः | अथ हवि वास्तुवलिसंपात समर्पणादिकं च कुर्यादित्याह होमावसान इत्यादि शिवांवास्त्विति वाचयेदित्यन्तेन निगदव्याख्यानमेतत् | इति क्रियासारव्याख्यायां तत्वप्रकाशिन्यां द्वादशः पटलः || १२ || अथ मण्डपसंस्कारं प्रतिजानीते तथेति ग्रन्थार्धेन मण्डपलक्षणं संक्षिपति मण्डपमिति || तत्संस्कारमाह सूत्राणीत्यादि | कुर्यात्तालत्रयादिकमित्यन्तेन || आचम्य वाग्यतः आत्मशुद्धिं कृत्वा आत्मानमलंकृत्य यथाविधि सूत्रादिसकलं तत्र संभृत्य सूत्रेण दर्भदाम्ना च समन्ततो वेष्टयित्वा चतुर्दिक्षु पूर्वादिचतुर्दिक्षु द्वारदेशे यथाक्रमं अश्वत्थौदुम्बरवट प्लक्षोत्थानि तोरणानि प्. १३७) यथाक्रमं नामान्ते पादक्रमानतिवृत्या प्रयुक्तसुशोभनादि तोरणदेवता नामान्तेन स्योनापृथिवीमन्त्रेण निखानयेदिति संबन्धः || पञ्चहस्तानि सर्वाणि तेषां व्यासः करद्वयं इति तोरणलक्षणख्यापनं पृथक् वाच्यम् तोरणदेवता गणयति सुशोभनेति | ध्वज देवता गणयति तन्मृद इति || ध्वजलक्षणमाह प्रासाद इति | ध्वजस्थानमाह तोरणाभ्यन्तर इति | तद्द्वयसपर्यामाह तोरणानीति | बलिमिति बलिं दत्वा अन्तः प्रविश्य द्वारदेशे पूर्वादिद्वारदेशे उभयपार्श्वयोः दक्षिणवामपार्श्वयोः सरत्नेषु पद्मरागप्रवालास्वित्यागमान्तरगणित रत्नसहितेषु कलशेषु इमान् पूर्णश्च पुष्करश्चैव तथैवानन्दनन्दनौ वीरसेन सुषेणौ च संभवप्रभवौ तथा अर्चयेत् | तोरणकलशपूजामाह अथ तोरणमूलेष्विति मन्त्रैः स्वस्वनाममन्त्रैः विदिग्देवताविरहख्यापनार्थं प्. १३८) इन्द्रादीन् पूजयेज्यत्वेनाहदित्याह - इन्द्रमिति स्थलशुद्धिमाह सशलाकैरित्यादि शेषं सन्दर्भेण नृसिंहेन फडन्तेन मण्डपं शक्तिरूपं च संकल्प्य प्रोक्षयेद्वासुदेवेनेति व्यवहितेन संबन्धः योजना विकिरेत् वासुदेवेत्यादि सादनविधिस्मारकं पृथग्वाक्यं प्राङ्मुखस्तिष्ठन् तेन प्रकृतेन वासुदेवेनोत्तानपाणिना त्रिधा विकिरान् विकिरेत् शेषं सुगमं कुंभेशपूजामाह - ऐशान्यामिति || अथ ऐशान्यां धान्यराशिस्थं कुंभेश रत्नहेमाक्षतोपेतं यथा तथा पूरयेत् | तस्मिन् लिपिपद्मपूजादि प्रसिद्धविध्युक्तैरंगावरणसंयुक्तं हरिं पूजयेत् तच्चेशत्वेन तरिपूजादिकं च विधाय कुंभेशपरिभ्रमण संपूर्येदानीमित्यादि स्वकुण्डे वाऽथ पश्चिम इत्यन्तं एकं वाक्यं च विधाय संरक्ष्य अग्निं च जनयेदित्याह पार्श्वे संपूजयेदित्यादि स्वकुण्डे वाऽथ पश्चिम इत्यन्तेन अच्छिन्नधारया * * * * * र्थां साधकः प्. १३९) ततः ईशानादिभागादारभ्य ईशानान्तं परिश्रम्य परिश्र?मयय विन्यसेदग्रतो त्रिकामवर्धनीं सर्षपोपरीत्यागमान्तर उक्तन्यायेन सर्षपोपरि स्थापयेत् अग्निमिति | पश्चात् कुंभेशपरिश्रमणानन्तरं स्वकुण्डे गुरुकुण्डे * * थ पश्चिमे वृत्ताकारे प्रतीचीनकुण्डे वा अग्निं सञ्जनयेत् आचार्यकुण्डविरहपक्षे पश्चिम कुण्डे अग्निं जनयेदित्यर्थः | तथा च नारदीयपद्धतौ बहुदेवत्ये हरिहरभागेपूर्वं तु संस्कृतं वह्निमवस्थायोभयात्मकं अग्निं दूतं वृणीमह इत्यृचा वृत्त कुण्डगं पूर्वाग्निं प्रणयेत् तस्मादग्निना रयिमित्यृचा त्वमग्ने द्युभिरित्यृचा दक्षिणं पावकं नयेत् अग्निमग्निं हवीमभिरित्युत्तरं पावकं नयेत् चतुष्ट पक्षकुण्डे अयं विशेषः परिवेति प्रकृतमुखमूलविस्तारसमः | तस्य कण्ठस्य मध्ये निम्नस्वरौ कल्प्यौ च तन्मध्ये वृत्त गर्त प्रवेशिनीत्युक्तरूपं प्रकल्पयेत् कण्ठदेशे प्. १४०) तावत् सुषिरं प्रणालरूपं च स्यात् यावत् कनीयसी प्रविशेत् शेषं विशिष्टद्वादशांगुलमात्रप्रायं यथारुचि पुनरस्य त्रिभागेन दण्डं गोपुच्छवच्छुभमित्याद्युक्त शोभानतिवृत्या विचित्रितं दण्डं कर्तव्यम् | एवं स्रुचं लक्षणोपेतारत्निमात्रं स्रुवं कुर्याद्वर्तुलं द्व्यंगुलं मुखं गोष्पदं च यथा मग्नमल्पपंके तथा भवेदित्याद्युक्तलक्षणोपेतं स्रुवं चकारात् जुहूं च कृत्वा कर्माग्निजननाख्यं सम्यगारभेत् | तद्विवृणोति संशोध्येत्यादि मूलेनाष्टशतं हुनेदित्यन्तेन | लक्ष्मीमृतुमतीं तत्र ध्यात्वाऽभ्यर्च्य आश्रमाद्यंगयुतेन श्रीबीजेनाभ्यर्च्य गर्भाधानादीति- गर्भाधानं पुंसवनं सीमन्तं जातनामनी तथान्नप्राशनं चौलं व्रतबन्धमिति क्रमात् इति क्रममंगीकृत्य तारेणेकेकं प्रत्येकमाराध्य हृदयादिभिरष्टांगैः अष्टाष्टाज्यं हुत्वा तदन्तरान्तरा मूलेन पूर्णां * * * * वै द्वादशात्मनेत्युक्तपूर्वेण मूलेन विधिवत् पूर्णा प्. १४१) पूर्णाहुतिं हुत्वा गर्भाधानादिकर्माणि कुर्याच्चेति संबन्धः | एवं अग्निसंस्कारं कृत्वा आवाह्य समर्चयेत् | पुनर्मूलेनाष्टाक्षरेण अष्टशतमाज्यं हुनेच्चेति || शययामिति भूयः कुंभेशपरिभ्रमानन्तरं शययां कल्पयेत् तद्विवृणोति पूर्वमेवेत्यादि द्वादशाक्षरमन्त्रत इत्यन्तेन शययां विधिवत् श्रीबीजेन शययाराधनादि तदर्हविध्युपेतमाराध्य परितः कलशान् न्यसेत् चक्राब्जविरचनामाह पञ्चहस्तमित्यादि शेषांगं भद्रकोपमं इत्यन्तेन | पञ्चहस्तमथवा त्रिभागोनं एकं हस्तं चतुर्धा विभज्य तस्य त्रिभिर्भागैरूनं सपादचतुष्करप्रमाणं वा इत्यर्थः तादृशं पञ्चहस्तं वा चतुरश्रं क्षेत्रं स्वीकृत्य पुनः पूर्वापररूपाणि दक्षिणोत्तरूपाणि च सप्तदशसूत्राण्यास्फाल्य समं षोडशधा विभज्य वहिः पंक्तिद्वयं द्वारशोभार्थं द्वारशोभाद्यर्थं क्षिप्त्वा चतुर्थीं वाह्यादारभ्य परितश्च पंक्तिं तद्विस्तारेण सप्तधा समं विभजेत् एषां प्. १४२) त्रिभागसंयुक्तं बहिष्ट्यश्र समायुक्तं एकापंक्तिः | तद्बहिष्ठा तृतीया पंक्तिः वीथिका स्यादिति शेषः | तां चतुर्थां पंक्तिं पञ्चधा विभज्य एकं भागं वीथ्यां योजयेत् इदमनन्तरपूर्वोक्तपञ्चमांशे योजने पञ्चहस्ते स्मृता इतरत् तत्पूर्वोक्तं सप्तभागत्रिभाग योजना | त्रिपादोन सपादचतुर्थान्ते स्मृतम् | अत्रापि आर्षः सन्धिः शिष्टं वीथ्यन्तःक्षेत्रं श्रमयित्वा वृत्तीकृत्य तन्मध्ये तस्य वर्तुलीकृत क्षेत्रस्य मध्ये कर्णिकामध्यवृत्तयोर्मध्ये सममन्तरंशं बहिरंशं च तुल्यं यथा तथा भ्रामयेत् मध्ये चतुर्धा विभजेदन्तर्भागमिति प्रकृते मध्यभागे त्रिभिस्तेषु चतुर्भागेषु अन्तर्गतैस्त्रिभिर्भागैः पंकजमष्टदलमालिख्य ताभिः तदवशिष्ट चतुर्भागेण तत्परिमण्डलरूपानाभिं त्रिधावृत्तैः समं त्रिधा विभज्य लिखेत् च | दीपदीपिकायां वाह्यवृत्तं लिखित्वा तन्मध्यं च विभजेत् समं अन्तरर्धे त्रिचत्वारि क्षेत्राणि चान्यतः मिथः समानि संकल्प्य कुर्यान्मध्यत्रिकेऽंबुजम् प्. १४३) अन्तरर्धचतुर्थांशे लिखेन्नाभित्रयं बुधः इति | भूय इति | एवं नाभिपर्यन्तावयवविरचनानन्तरं अराणि वाह्यं त्रिधा समं इति प्रकृतविभागे बाह्यभागे तदन्तर्भागद्वयेन अराणि समालिख्य नेमिमरपरिधिमुपनेमिक्षेत्रात्मकं तत्तृतीयांशं द्विधा सुसमं तत्रस्थसूत्रं परिभ्रमयय अन्तर्वाह्यविभागेन द्विधा विभजेत् || अररचनां विवृणोति अरसन्धावित्यादिना अरसन्धावराणां सन्धौ अन्तराले पञ्च सूत्राणि क्षिपेत् तिरश्चीनमपि द्वादशधा भजेत् तद्वृत्तारूढदिक्सूत्रसन्धिभ्यो मध्यमानतः पार्श्वयोः कॢप्तमध्यस्थ सूत्रभक्तं त्रिधा भजेदित्याद्यभियुक्तसमुक्तनीत्या द्वादश अरक्षेत्राणि परिकल्प्य आदिमध्य सूत्रद्वादशकं च आस्पाल्य अरमध्यसूत्राणां प्रत्येकमन्तराले परितस्तिरश्चीनानि पञ्च पञ्च सूत्राणि क्षिपेदित्यर्थः | भ्रामयित्वा तदरक्षेत्रं त्रिधा भ्रामयित्वा अराणां मूलाग्रं मूलमग्रं च द्वयं द्वयं अरमध्यसूत्र प्. १४४) उभयपार्श्वगतैकैक पदान्वयेन द्विद्विपदयुक्तमध्यं अराणां मध्यं तन्मध्यसूत्रोभयपार्श्वगत द्विद्विपदान्नयेन चतुर्भागयुतं च यथा भवेत्तथा कृत्वा यथोपमा यथाकारमरं च कुर्यात् नेमिस्थान् नेमिं तु विभजेत् द्विधेति | प्रकृतनेमिस्था प्रथयः प्रधयः कार्याः | ताश्च प्रधयोराग्रान्यसन्धयः अन्तस्था द्वादशप्रथयोराग्र सन्धयो वाह्यस्था द्वादशप्रथयो अन्याः सन्धयो अरालमध्यसन्धयश्च || तथा च दीपदीपिकायां - अराग्रमध्या सूत्रोत्थ सन्धयो द्वादशान्तरा | बाह्यास्तत्सन्धिसूत्रोक्त विभागाः प्रथयोपि च || इति | एवंरूपत्वात्ताश्चतुर्विंशति संख्याताश्च स्युः | अन्यत्तत् बहिष्ठवीथ्यादिकमन्यत्र प्रसिद्धभद्रकादावुक्तवच्च कार्या स्यादिति शेषः | तत्पूरणविशेषणमाह रजोभिः पूरयेदिति शेषांगं भद्रकोक्तवदित्यन्तेन निगदव्याख्यातेन वृत्तोपसंहारपूर्वकं वर्तिष्यमाण बिंबशुद्धिस्नपनांशमण्डप प्. १४५) मण्डपरचनादि क्रमादेतत् सर्वमित्यादिना कलशानिति | अथ स्नानमण्डपस्याग्रे पदानि कृत्वा तेषु सर्वतः सर्वेषु धान्यैः पीठांश्च कृत्वा विधिवत् पीठाराधन कुंभसंस्कारादि तदर्हविध्युपेतं कलशान् पूरयेदिति योजना तत्पूरणं संगृह्णाति एकाशीतीत्यादि दिग्विदिक्षु प्रपूरयेदित्यन्तेन || एकाशीतिपदेक्षेत्रे मध्यनवके पल्लवादिमृदन्तं तद्रव्यपूरयेत् | शिष्टान् बाह्यनवकपरिकलशानित्यर्थः मध्यनवकं संपूर्य पल्लवादिद्रव्य नियमपूर्वकं निभजेते ब्रह्मेत्यादि मृदमादाय मध्यत इत्यन्तेन ब्रह्मपलाशादि श्रीवृक्षो विल्व इत्यर्थः | चन्दने श्वेत चन्दनरक्तचन्दने जातिर्जातिप्रसूनं तथा च पद्धतौ श्वेतरक्ते च चन्दने जातिकुसुमं कुन्दमेव चेति वायव्ये घट इत्यस्य व्रीहीत्यादि शंखस्थं प्रपूरयेदित्यन्तेन ग्रन्थेन संबन्धः सौम्ये चोपरि मंगलमिति संक्षेपरूपवाक्यं सहदेवीत्यादि तत्पुनरित्यन्तं मंगलौषधिगणनपरं पृथग्वाक्यं प्. १४६) सप्तेति सप्त वल्मीकसंभूतां मृदं संसाद्य सोमाय वनस्पत्यन्तर्गतये नम इति विद्यया मध्यतः कर्णिकास्थकलशे न्यसेत् अथवा प्रोक्तसप्तवल्मीकसंभूता मृदमादाय मध्यतः संसाध्य एतान्यनन्तर पूर्वोक्तानि पल्लवादि मंगलौषध्यन्तानि च ते नैव न्यसेत् इति योजना || तत्र पञ्चगव्य कषाय कलशवर्जं सर्वाः शुद्धजलेन पूरयेत् शेषं सुगमं संसाध्येति एवं कलशान् संसाध्य संपाद्य मन्त्रान् लोकपालान् वहिर्ध्यायेत् पञ्चमन्त्रैश्च रक्षयेदिति पूर्वप्रयुक्तान् मन्त्रान् संगृह्य सम्यक् प्रतिमात्मनि विलाप्य तोये अधिवासितां अर्चामुद्धृत्य शुभैर्जलैः क्षालयेदिति संबन्धः मूर्तिपैर्धृतां स्वास्थितां स्वाभिमुख्येन वितिष्ठमानां तां तदग्रे दर्भपाणिः स्थितो नमस्त इत्याद्यनुष्टुप् द्वयेन उपतिष्ठेत विज्ञाप्येति जिताधिना धारयित्वा अष्टाक्षरेण सप्तधा सप्तवारं सञ्जप्तं दुकूलादिकृतं कौतुकं प्रतिसरं विघ्नोपशान्तये अष्टाक्षरेण वध्नीयात् प्. १४७) ततस्तामर्चां ब्रह्मयानेन वितानाद्युपशोभितं मण्डपं कारयेदन्यत् इत्यादि प्रकृतं मण्डपं नयेत् अत्र वितानाद्युपशोभितमिति विशेषणबलात् मण्डपमिति विशेष्यमध्याहार्थं तत्र भद्रासने स्नानपीठे समायुक्तमिति प्रकृते समारोप्य सम्यक् त्रीणीति मन्त्रं जपन् समीचीन् प्राङ्मुखमारोप्य भद्रं कर्णेति मन्त्रतो भद्रं कर्णेति मन्त्रं संकीर्त्य गव्येन गोभवेनाज्येन ते जोऽसि मन्त्रेण अभ्यञ्जयेत् तथा च सुमति संहितायां- त्रीणीति स्थाप्य पीठे तां भद्रं कर्णेति कीर्तयेत् तेजोऽसीति समालिप्य गव्येनाज्येन साधकः इति | नारायणात्मके च - त्रीणीत्यास्थाप्य पीठे तां भद्रं कर्णेति कीर्तयेत् तेजोऽसि शुक्रमन्त्रेण घृतेनालिप्य सर्वतः इति मासूरपिष्टेनोद्वर्त्य संघृष्य वारिणा तथा यथा तल्लेपो यथावदपगच्छेत् तथा प्रक्षाल्य वल्मीकया मृदाऽलिप्य तेन वल्मीकमृण्मयेन कर्णिकास्थकलशपूरितेन प्. १४८) वारिणा समुद्रज्येष्ठमन्त्रेण स्नापयेत् पूर्वादिदलकलशस्नपनक्रमं समन्त्रमाह कषायेत्यादि या दिव्या इति मन्त्रेण इत्यन्तेन मूलैः समूलैः सहदेव्याद्यष्टमं गलैरित्यर्थः || नेत्रोन्मीलनमवतारयति नेत्रे चोन्मीलयेत् बुधः इति | विवृणोत्याज्यमित्यादि बुध इत्यन्तेन चित्रं देवानामिति चेत्यत्र चकारः चित्रं देवेत्यृचा चैकमाप्यायस्वेति चापरमित्यादि विष्णुसंहि ताद्युपमा | नेत्रोन्मीलमन्त्रान् समुच्चिनोति धेनुरिति मुखपटं त्यक्त्वा प्रदर्शिता धेनुः नेत्रोन्मीलनकृतो गुरोर्दक्षिणा भवेत् इत्यर्थः स्नापयेदिति | कलशैराग्नेयादि विदिग्दलस्थैः कलशैः प्रथमोक्त क्रमात् पूरणोक्तक्रमात् स्नापयेत् दिग्दलस्थकलशवत् न पूरणस्नपनयोः क्रमभेदो विदिग्दलस्थकलशेष्वित्यर्थः | तद्विवृणोति हंस इति द्वाभ्यां द्रुपदादीति मन्त्रेण बिंबस्थाधःकाय उद्वर्तनं कुर्यात् शिरसि मानस्तोकेति मन्त्रितं मुरमांसीयुतं प्. १४९) आमलकं दद्यात् पश्चात् गन्धवारिणा दिग्विदिक् खण्डमध्यकलशपूरितेन गन्ध्वारिभिः विष्णोरराटमिति मन्त्रेण स्नापयेत् ततः शुद्धोदकैः घटैः तत्परिकलशैश्च तदा तदेदमापः प्रवहतेत्यृचा च संस्नापयेत् अत्र बुध इत्यन्तेन मध्यकुंभे सहोच्चार्या सर्वेभ्यो मध्यमं विनेति न्यायवित्वं सूचितम् एवं कलशाभिषेकेण क्रमसंस्कृते बिंबेदेवं सन्निधापयेत् इत्याह ततश्च आवाहयेदिति तन्मन्त्रमाहेहीति || तदुपहारप्रदादप्रकारमाह हिरण्मयेत्यादि सोत्तरीयं कारयेदित्यन्तेन | एवं विधोपहारसमादत्ति समेधि तस्य किञ्चित् रूपादिव्यक्तिमाह - विश्वतश्चक्षुरिति | विश्वतश्चक्षुरिति मन्त्रेण केशादिपादान्तं पादतलादिकेशान्तं च व्यापयन् सकलनिष्कलं कुर्यादिति भावः | अथ किञ्चित्समुन्मिषित वैभवस्य तस्य उपहारप्रदान प्रकारमाह ओषधयः समित्यादि दीर्घायुष्याथ वर्चस इत्यन्तेन न वनस्पतेः पुष्प इत्यादीनि दीर्घायुष्याय वर्चस इत्यन्तेन मन्त्रेणेत्यर्थः | प्. १५०) तस्य स्तुतिमवतारयति तत इति ततो अग्रतः स्थित्वेतैः सामभि देवेशं स्तुवीत सामानि दर्शयति | रथन्तराख्येनेति | पुरुषोत्तमं रथन्तराख्येन अभित्वा शूरनोनुम इत्यादिना वैराजेन पिबा सोममिन्द्रेत्यादिना गायकसाम्ना अग्न आयूंषीत्यादिना च स्तुवीत उत्तिष्ठेति बिंबं भद्रपीठादुत्तिष्ठेति समुत्थाप्य शुभं ब्रह्मरथं ब्राह्मणमथं रथं कृता अर्थात् तस्मिन्नारोप्य पौरुषेण नयेत् | मण्डपमिति शेषः द्वारि अर्घ्यं दत्वा तान् द्वारा प्रवेशयेत् विश्वतश्चक्षुरिति | एवं अनन्तरोक्तोपहार समुन्मिषितवैभवं विश्वतश्चक्षुरिति मन्त्रेण व्याप्य सकलीकृत्य संपूर्णांगं परिकल्प्य शाययेदित्यर्थः | इति क्रियासारव्याख्यायां त्रयोदशः पटलः || १३|| अथ अनन्तरप्राप्तं अधिवासं वक्तुमुपक्रमते अथ अधिवासमिति यथा शास्त्रविनिश्चयमिदमित्थं कर्तव्यमित्यादि रूपं शास्त्रतात्पर्यमनतिक्रम्य वक्ष्य इत्यर्थः | प्. १५१) अधिवासनं तदावश्यकद्योतनार्थं स्तौति यद्योगादिति यद्योगात् यस्याधिवास कर्मणो योगात् संबन्धाद्वात् प्रयोगाद्वा हरिरर्चायां सद तत्समयमाद्ये यावत् जगदवस्थानं सन्निहितो जायते | अत्रापि पूर्वं आचार्यभावनां दर्शयत्यात्मानमिति अस्यापि ध्यात्वात्मानं शिवमित्यादि शिव भागोक्तवत् देवार्थाः अप्ययं स्वापादिभूतकार्यकारणादि विनाशेप्यनश्वरत्वमित्यर्थः अथ मन्त्रबिंबविधेयं समाधिविधिं दर्शयति प्रणवेनेत्यादि प्रजायत इत्यन्तेन प्रणवेनेति अत्रापि प्रागुक्तनीत्या प्रणवेन अर्चाभिमानिनं जीवं समायोज्य सर्वांगतः समाकृष्य हृदये योजयित्वा ततोप्युत्क्राम्य स्वस्मिन् स्वप्रत्यगात्मरूपे सर्वेश्वरे स्वप्रतिबिंबभूत समस्तजगच्चैतन्योन्मेषनिमेषविधायके हरौ श्रीवासुदेवापरनाम्नि परब्रह्मणि कृत्वा आत्मैकतां नीत्वा प्राणायामादिना परमात्म सामरस्यं प्रणीय प्. १५२) परमीकृत्येत्यर्थः | तथा कृत्वा पृथ्वीप्रतिभासमात्र रूपप्रतिमा शरीरं जगतां पृथिवी मरुता शोषण प्राणायामपरामृष्ट वायुबीजसंजातमहावायुना संशोष्य सम्यक् नीरसवर्जादिवत् शोषयित्वा बीजान्विताग्निना दहन प्राणायामपरामृष्ट वह्निबीजसंजात महाग्निना दग्ध्वा अद्भिः प्लावनप्राणायाम परामृष्टामृतबीजसंभूताभिरद्भिः संप्लाव्य अत्र अद्भिः संप्लाव्येत्यनेनैव स्वकारणभूताभिरद्भिः सम्यगेकभावेन प्लावयित्वा विलाप्येत्यर्थोऽपि प्रकटीकृत एव तथा च विष्णुसंहितायां शुष्कदग्धाप्लुतोर्व्यप्सु इति एवं पृथिवीमप्सु संहृत्य वायुष्का उपलक्षणमेतत् स्वकारेण सामरस्योन्त यस्य तथा वायुशुष्का वह्निदग्धाश्च ताः पृथिवीकारणभूता आपः पूर्ववत् वह्नौ विलाप्य वह्निं प्राग्वत् स्वकारणसामरस्य स्वोनयादिपूर्वकं वायौ संहृत्य वायुं तद्वत् आकाशतां नयेत् एवं संक्षिप्त तत्वसंहारं किञ्चित् विशेषपूर्वं समाधाय शेष तत्वसंहारं प्. १५३) दर्शयत्याध्यात्मिकैविल्याद्य व्याकृतैकतामित्यन्तेन आध्यात्मिकाधिदैवैश्च रचना सन्निवेशोऽयं क्ष्मादीनां साधिभूतता बोद्धव्यमधिदैवत्वं सामर्थ्यं यस्य यत्स्वकं तदधिष्ठातृमन्त्राणां अध्यात्मत्वं विधीयते || इति श्रीसात्वतायुक्तैराध्यात्मिकैरपि दैवै कारणैर्विषयैश्च सह घ्राणोपस्थसमायुक्तामुर्वीं भूतगणान्वितां इत्याद्युक्तैः घ्राणादि ज्ञान करणैरुपस्थादि कर्मकरणैः गन्धादिभिः ज्ञानेन्द्रियविषयैः आनन्दादिभिः कर्मेन्द्रियविषयैश्च सह लां नमः पराय पृथिव्यात्मने हुं फडित्यादि स्वस्वमन्त्रप्राणायामेन तन्मात्रसंस्थानि च अन्नमः पराय सर्वात्मने नम इत्यादि स्वस्वमन्त्रव्यापकेन आत्मतत्वेन च योजयित्वा इत्यत्राधिदैवायो दुर्गाविभागे स्वयमेव वक्ष्यतीतीह न प्रतन्यते | एवमुक्तक्रमात् संहृत्य नमः पञ्चममाकाशं प्रणवप्राणायामेन उत्तरतत्वसामरस्यं प्रणीय स्वमन्त्रप्राणायामेन शब्दतन्मात्रायां संहृत्य व्यापकेन प्. १५४) व्यापकेन मनसि संहृत्य प्रोक्तरीत्य मनोऽहंकृती संहृत्य तमहंकारं महति संहृत्य महान्तमात्मानं बुद्धितत्वापरनामधेयमव्याकृतैकतां नयेत् तमव्याकृतं ज्ञानविग्रहे जगत्सर्गाद्यर्थमाया निरीक्षणेन किञ्चिदवैशद्येपि चिदेकरूपे आत्मनि नयेत् | तमेव चिदात्मानं शान्तत्वादिलक्षण विशेषणैर्विशिष्टेस्ते स्वपरपक्षोपक्षिप्तदोषोन्मेष शङ्कां शमयति शान्त इति शान्ते मायोपहित स्वप्रतिबिंबभूत समस्तव्यवहारसाक्षिभावेपि तद्विषयरागादिरहिते अनन्ते क्षणभंगुरजगद्रूप स्वप्रतिबिंबभावेऽप्यनश्वरे कालतो परिच्छिन्न स्वरूपे वा अपरे व्योम्नि समस्तजन्तु सन्तान प्रत्यगात्मभावेन संकुचितवृत्तित्वेपि महाकाशवत् समस्त स्वकार्यव्यापके देशतश्चानवच्छिन्ने वा निष्क्रिये समस्तस्वकाव्यापित्वेपि तत्प्रनाडीप्रसिद्ध्यत् पुष्यपापादि सर्वकर्मनिर्मुक्ते परिणामित्वादिराहित्येन कूटस्थनित्यस्वरूपे वा चिदात्मनि नयेदिति - प्. १५५) स्नानविग्रहमिति | एवं किञ्चित् मायासंवलिते चिदात्मनि अव्याहृतं संहृत्य नं ज्ञानविग्रहं चिदात्मानमपि प्रणवप्राणायामकृत इच्छादि संहारपूर्वकं परमानन्दे आनन्दं ब्रह्मणो इत्यादि श्रुतिसिद्धे सच्चिदानन्दघने विशुद्धतरे स्वस्वरूपे संस्थितं सम्यगनन्यपरतया स्थितां ध्यायेत् || इति | एवं कार्यविलयमुक्त्वा कारणविलयमाह शान्त इति || अत्र तं ध्यायेत् परमानन्दं इत्यन्तस्तमिति पदमवष्टाप्य अकृतात्मपरामर्शपरतया योजयेद्वा तथा च तातमव्या कृतात्मानं निष्क्रिये निरस्तक्रिये विश्वसंसारनिमित्त मायाविलासविहितमुपाधौ न नीत्य निजक्रियानिर्मुक्त इत्यर्थः शान्ते प्रशमितरागे मायाविलास बीजवीक्षा व्यपेते नित्यशुद्धे इत्यर्थः अनन्ते स्वापाधि भूतविश्वविलयेप्यनश्वरेऽनवच्छिन्ने परे व्योम्नि उपाधिविरहेण स्वभा * * विनाशे महाकाशवत् व्याप्ततरे देशतोऽपरिच्छिन्ने सतामात्रैकलक्षणे ज्ञानविग्रहे चिदात्मनि नयेत् | प्. १५६) न शान्तविग्रहं तं प्रशमितसमस्तोपाधितं चिदात्मानमपि परमानन्दे संस्थितमित्यर्थः तं शान्तविग्रहं प्रशमितसमस्तोपाधिं चिदात्मानमपि परमानन्दे संस्थितं ध्यायेत् एवं सकारणविश्वविलयमभिधाय एवं लीने जगत्यस्मिन् पुनः सृष्टौ प्रवर्तते जन्तूनामुपकाराय क्रीडया परमेश्वरः इति समुक्तनीत्या जगत्सर्गं विवक्षुः जगत्सर्गादिविधायकं तदैक्षतेत्यादि श्रुतिसिद्धमायानिरीक्षणेन किञ्चिन्मायासंवलितं प्रत्यग्रूपं प्रपञ्चसर्गादिप्रभुं चिदात्मानं परामृशति - यस्मिन्निति अव्याकृतमूल कारणं यस्मिन् किञ्चित् स्वायासंवलिते चिदात्मनि लीनं लीनं च सम्यक् संस्थां यस्मिन् उत्तरसर्गार्थं निखिलप्राणि कर्मपरिपाक प्रतीक्षमाणं वासनारूपेण स्थितं तथा स्थितं सद्यत् स्वरूपं चिदात्मानं पृथक्त्वेन वस्तु तया निर्वर्तुमशकयत्वात् मरीचिकादिवत् यत् स्वरूपमेव च तं मायासंवलितं चिदात्मानं परस्य शुद्धतरस्य ब्रह्मणः शक्तिं विश्वसर्गादि प्. १५७) सामर्थ्यरूपं परमेष्टिनं अपरब्रह्म विदुः || स तु योऽयमेवं रूपः परमेष्टी संज्ञानहेतुकोपि शुद्धज्ञानरूप ब्रह्मविवर्तत्वात् तद्धेतुको अत एव परापरविकल्पस्वरूपः स्वस्वरूपलक्षणनिरीक्षणेनायं परो वा मायास्वरूप निरीक्षणेनायं अपरो वा इति विकल्प एक एव स रूपात्मा यस्य सः वासुदेवा परनामधेयः परमेष्टी प्रभुरितर कारणानपेक्षं जगत्सर्गादिकं तत् सृष्ट्वा तदेवानुप्राविशदित्यादि श्रुत्यनुसृत्या सर्वकृत् सर्वप्रपञ्चस्रष्टा सर्वात्मा सर्वजगज्जीवरूपश्च विज्ञेयः | एवं साष्टृत्वेन परामृष्टस्य तस्य सृष्टिक्रमं दर्शयति तामिति स वासुदेवः सिसृक्षया समुचितेच्छादि शक्तित्रयसंपन्नः तान् स्वात्मनि निलीनां स्वां वस्तुतः स्वानन्यां अव्याकृतिं सकलप्रपञ्चभूतां मायां अधिष्ठाय नादात्मा शब्दतन्मात्र शरीरः सन् स्पर्शसंज्ञिकीं पौरुषीं पुरुषतत्वमयीं मूर्तिमजनयत् स सृष्टः पुरुषः संकर्षणश्च कथ्यते इति विज्ञेयः पुनरिति प्. १५८) पुनरपि प्रभुः सः जगत्पतिः संकर्षणरूपेण वर्तमानो व्याकृतिं मायां क्षोभयित्वा तेजो मयं रूपं रूपतन्मात्रात्मकं विश्वं विश्वतत्वरूपं प्रद्युम्नमसृजत् पुनः प्रद्युम्नरूपेण वर्तमानः सः ईश्वरस्तेजोमयीं रूपतन्मात्रात्मिकां स्वां प्रकृतिं विलोड्य विश्वाह्लादकरैः विश्वाह्लादकरीभिः शान्तैः शान्ताभिरल्पमात्राभिः निवृत्तिसंज्ञां निवृत्तितत्वापरनामधेयां मन्मयीं अपरां तनुमकरोत् | तं जलो दरशयं क्षीरार्णवशायिनं अनिरुद्धाख्यं हरिं विदुः पुनः अनिरुद्धात्मना वर्तमानो श्रीहरिरव्याकृतिं मायां विक्षोभ्य गन्धतन्मात्रकां गन्धतन्मात्रामात्रशरीरं सर्वात्मानं सर्वतत्वरूपं देवं नारायणापरनामधेयं प्रजापतिं अखिलप्रजा सर्गनिसर्ग निष्ठत्वात् कृतप्रजापतिसंज्ञकमकरोत् अत्रापि अकरोदिति पूर्वोक्तमनुवर्तते पञ्चेति परस्पपरमात्मनः एताः परमेष्ट्यादि रूपाः पञ्चशक्तयः ऐशेयाभिरेष परो देवः परमव्योम्नि तिष्ठतीत्यादि स्मृतिस्मारिते प्. १५९) पारमेश्वरे पदे व्यवस्थिताः व्यवस्थया निस्संकीर्णतया स्थिताः प्रोक्ताः अशेषजगदाधाराः सुरनरसूकरादिभिदा प्रपञ्च्यमान समस्तप्रपञ्च जीवसमाश्रय सूक्ष्मशरीरात्मक तन्मात्रारूपत्वात् अशेषजगदधिष्ठानभूताश्च प्रोक्ताः एतमेवार्थं विद्वत्संवादेन दृढयति आध्यात्मिकेति वेदवादिभिः पञ्चैताः शक्तयः इत्यनुवर्तते एताः पञ्चशक्तयो वेदवादिभिः आध्यात्मिकाधिभूताधिदैवत भेदस्वाध्यात्मिकस्यात्मनि वर्तमानस्य श्रोत्रवागादिरूपस्य प्राणादिरूपस्य वाऽधि भूत स्वभूतेषु वर्तमानस्य आकाशदिरूपस्य श्रोतव्यवक्तव्यत्वादिरूपस्य वा अधिदैवस्य देवेषु वर्तमानस्य सदाशिवादिरूपस्य दिगन्वादिरूपस्य वा भेदस्य भेदजातस्य कारणहेतुभूताः पञ्च तन्मात्रशब्देन कीर्तिताः अथ समुत्पन्नस्य प्रजापतेः विश्वसर्ग प्रकारं दर्शयति स हि सर्वात्मना प्रजापतिरित्यनन्तर पूर्वप्रकृतः सर्वात्मको ब्रह्मा विविधं जगत् सिसृक्षुः साधारणं प्. १६०) सर्वकार्यसामान्योपादानभूतं अपृसंज्ञकं तदपूर्वं अखिलप्राणिकर्मसंस्कारं व्याकरोत् स्वाव्यक्तप्रथमकार्यतया अकरोत् ताभिरिति | तन्मात्रभूताभिः स्वकारण रसतन्मात्रकार्यभूताभिस्ताभिः अपृसंज्ञमिति प्रकृताभिरद्भिरथ तस्मिन् शक्तिं न्यसेत् पश्चात् पार्थिवीं बीजसंज्ञिकीमित्यादि उक्तपृथिवीशक्तिप्रवेशाद्यनन्तरं अण्डमसृजत् तदिति | तत्सृष्टमण्डं पञ्चभूतात्मभूतं पञ्ची कृत महात्मभूतात्मकं | अत एव पृथिवी वीर्योपबृंहणात् हिरण्मयं अत एव शुभं भासमानं भवतीति शेषः || अत्र तां स्वामव्याकृतमायामित्यादि तदर्धं पञ्च भूतात्मकमित्यन्तेन ग्रन्थसन्दर्भेण इच्छादि शक्तित्रयसृष्ट्यर्थ प्रणवप्राणायामाः परेमेष्टयादि सृष्ट्यर्थ पञ्चतत्वप्राणायामाः अपूर्वांभः सृष्ट्यर्थ प्रणवप्राणायामं तत् काठिन्याद्यर्थ पृथिवीबीजादि प्राणायामः समुत्पन्नः ब्रह्माण्ड पञ्चभूतात्मकतार्थपञ्चतत्वप्राणायामाश्च क्रमेण सूचिताः इति प्. १६१) वेदितव्यम् तत्रेति तत्र तस्मिन् ब्रह्माण्डात्मके बिंबे आत्मनि संहृता उत्क्राम्यात्मैकतां नीत्वेत्युक्तक्रमेण स्वात्मनि विलापिता तन्मात्र पञ्चकाधारास्व नित्यपूर्वशरीरात्मक तन्मातपञ्चकावलंबना संहताशेषवृत्तिकास्व संलीनभावि प्राणास्य परतस्तत्वसंयोगजन्यवृत्तिका जीवशक्तिः संक्रमते तस्मिन् तादृशीं जीववृत्तिं संक्रमयेदित्यर्थः | तदा जीवसंक्रमणसमनन्तरमेव जीवेनाधिष्ठितं प्राणो लब्धवृत्तिः समुन्मिषितोर्ध्व वृत्त्यादिदशविधवृत्तिर्भवेत् सहि नयेदव्याकृतैकतामिति प्रकृतः स एव पदार्थो आध्यात्मिकोऽध्यात्मधिदेहं वर्तमानः प्राणः प्राणापरनमिष्यते परमात्माश्रयतया व्याकृतसंज्ञो जीवाश्रयतया वर्तमाणः प्राणात्मना चेष्यत इत्यर्थः अतो अस्मात् प्राणतत्वात् गुणत्रयमयी प्रकाशत्वादि समुन्मावाऽत एवाष्टवृत्तिकी सत्वादिसमुदीरित धर्माद्यष्टवृत्तिमति बुद्धिर्जायते || ततः स्ववृत्त्यनन्तरं तस्मात् प्. १६२) बुद्धितत्वात् कर्तृशक्तिरात्मनः कर्तृत्वाभिमानसंपादक मायासामर्थ्यबानहंकारो जायते वृत्तिः तस्याहंकारस्य वृत्तिः शब्दाद्यर्थमयी शब्दाद्यर्थप्रवर्तिका स्यात् मनस्तु समनन्तरं तस्मादहंकारात् संकल्पादिमय संकल्पविकल्प वृत्तिकं मनस्तु जायते तस्मान्मनसः शब्दः स्पर्शश्च रूपं च रसो गन्ध इतीरिताः पञ्चार्थाः पञ्चपदार्थाः प्रजज्ञिरे | तैरर्थैः ज्ञानकर्मशक्तीनि ज्ञानशक्तिमन्ति कर्मशक्तिमन्तीनि च खानीन्द्रियाण्यारब्धानि तानि द्वितयानि दर्शयति श्रोत्रमित्यादि कर्मसंज्ञानीत्यन्तेन | अतः परं तैरर्थैः पञ्चभूतान्यारब्धानीति शेषः भूतानि पठन्ति व्योमेति || एभिर्भूतैः श्रोत्रा द्युपलक्षणं चैतत् || तथा च सुमति - कार्य षोडशकं स्थूलं सूक्ष्मं बुद्ध्यादिमात्रजं इत्याद्युक्तश्रोत्रादेः तैः सर्वाधारं स्वार्जित सर्वकर्म भोगाधारं स्थूलशरीरं प्रजायते एभिः स्थूलशरीरं तु सर्वाधारं प्रजायते || प्. १६३) इत्युपसंहारवचनेनैव तत्वसृष्ट्यर्थ तत्तन्मन्त्रप्राणायाम संवत्सरपरिपाक अण्डभेदादिक्रमश्च सूचितः | इह तावत् भूमिरापोऽनलोवायुः रवं मनो बुद्धिरेव च अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधाः इति श्रीभगवदनुदितकारणत्वस्य मनसो मूलप्रकृतिरविकृतिः महदाद्याः प्रकृति विकृतयः सप्त षोडशकं च विकारो न प्रकृतिर्न विकृतिः पुरुष इत्याद्युक्त कार्यकोट्यन्तर्भाव शंकया वैकारिकादहंकारात् पञ्चबुद्धीन्द्रियाणि तु कर्मेन्द्रियाणि पञ्चैव कर्मार्थानि च तैजसान्मनी जातं द्विरूपं च ततः संकल्पसाधनं भूतादेः पञ्चभूतानि तन्मात्राणि यथाक्रममित्याद्युक्त प्रकारेण अहंकारादखिलात्मादि सर्वांगीकरणं न रमणीयम् | सर्गविसर्गयोः भिन्नकारणत्व प्रसंगात् अंगीकारे तु आध्यात्मिकाधिदैवैस्तु करणैर्विषयैस्सह तन्मात्रसंस्थितानीत्युक्तं इन्द्रियाणां तन्मात्रानुसंहरणं नभो मनसि संहृत्येत्युक्तं नभो प्. १६४) नभो मात्रायां मनसि संहरणं च न संगच्छतेतरां तत्रः प्रभृति कारणत्वमेव युक्तमिति स्थितं प्रोक्ततत्वबीजादिकं वक्तुं प्रतिजानीते एतेषामिति न्यासस्थानोक्तियुक्तं तदुद्धरितमकारमिति मकारं मकारात्मकं वाच्यवाचकयोरभेदव्यपदेशात् तादृशं जीवतत्वमन्नमः पराय जीवात्मने नमः इति मन्त्रेण शरीरे सर्वांगे व्यापकं न्यसेत् | भकारं भकारबीजवाच्यं जीवौपाधिः प्रणवं तथा सर्वांगतया व्यापकं न्यसेत् बुद्ध्यादित्रयलक्षणं तत्स्थानं चाह वकारमिति मात्रापञ्चकमन्त्रस्थानानि दर्शयति नकारमिति श्रोत्रादीतिणादिचान्तं णकारादिचकारान्ताक्षरदशकात्मकं श्रोत्राद्युपस्थपर्यन्तमिन्द्रियदशकं क्रमान्न्यसेत् | तत्तदभिधानाभिधेयस्थान इति भावः | तथा चागमः श्रोत्रादीन्द्रियवर्ग मात्मविषय इति विन्यस्येति विशेषैर्नादि कान्ताक्षरैर्युक्तं व्योमाद्यवनिपश्चिमं विन्यस्य स्थूलदेहं प्रकल्पयेत् | प्. १६५) तन्न्यासस्थानमाह शिर इति सृष्टिन्यासं इति | इदं डादिकान्ताक्षरैः युक्तं व्योमाद्यवनिपश्चिममित्येतत् सृष्टिन्यासं क्वचित् | ब्राह्मं तु विन्यसेद्बीजं मस्तके तत्वरूपकं आद्यद्वितीयं वक्त्रे वै तृतीयं नाभिदेशतः || इत्यादिरूपे क्वचिदागमान्तरे | अन्यथा ङादिकान्ताक्षरैरित्युक्त बीजकमविपरीतकादि ङान्ताक्षरक्रमतया च प्रोक्तः किल | किलशब्देन तत्र उपपत्तिचिन्तना सूच्यते | एवं प्रकृततत्वन्यासमुपन्यस्य प्रासंगिक हृत्पुण्डरीकादिकमाह- हृत्पुण्डरीकमिति || अत्र हृत्पदेनैव तन्न्यासस्थानं च सूचितं हं सूर्यं द्वादशात्मकं स्वरोचिषा द्वासप्ततिसहस्राणि नाडीर्वाच्यव्यवस्थितं हृत्पुण्डरीकमध्यमध्यासीनं विद्यात् तन्मध्ये सूर्यमण्डलमध्ये सं सं बीजं सोमं विचिन्तयेत् | तन्मध्ये सोममण्डलमध्ये दीप्तं बिन्दुं अग्नीषोमौ प्रकृतिपुरुषौ बिन्दुनादौ च नित्यावित्याद्युक्त परस्परात्मत्व बिन्दुपदलक्ष्य वह्निबीजं बीजमिति भावः तादृशं प्. १६६) वह्निमण्डलं चिन्तयेत् वैकारस्तस्य दशकलात्मत्वप्रसिद्धिद्योतनार्थः || एवं चिदात्मसंयोग विकृताव्याकृत तत्कार्यरूप प्राणादि पृथिव्यन्तिम तत्वमयं शरीरं तस्मिन्नपि तस्य विशेषनित्यास्थानभूतं हृत्पुण्डरीकादिकं च तत्तन्मन्त्रन्यासेन प्रकटीकृत्य तदधिष्ठि तस्यात्मनः पारमैश्वर्यादिसकलगुणसंपूर्णता सिद्धये परमेष्ट्यादि न्यासमपि कुर्यादित्याह जीवमिति मैवं निष्पन्नप्राकृतप्राय शरीरमध्यमध्यासीनं जीवमीशभावस्थमाजानसिद्धपारमैश्वर्ये जाग्रतं परिकल्प्यषां बीजेन षोंकारबीजयुक्तेन परमेष्टिना योजयेत् परमेष्टिन्यासेन परमैश्वर्यजागरूकं भावयेदित्यर्थः भावः ततों यं बीजेन यं बीजयुक्त पुरुषतत्वेन न्यस्य पौरुषं भावं पुरुषसंबन्धिनं भावं किञ्चिन्मायावीक्षणेन पुरुषत्वाभिमानमाश्रितं ध्यायेत् सविसर्गेण विसर्गान्तेन वेन वः इति बीजेन न्यस्य अनुग्रहकरं तत्तत्कर्मफलप्रदान रूपांनुग्रहकरं उपरि रागद्वेषादिकानि प्. १६७) दिवृत्ति संज्ञभावाश्रितं ध्यायेत् | आश्रितं ध्यायेदिति प्रोक्तमनुवर्तते | लां बीजेन न्यस्य सर्वसंभूतिकर्तारं मायातत्कार्यप्रेरणा द्वारेण प्रोक्तलक्षणसकलं तु सन्तानतद्भोगद्रव्य संपत्तिकर्तारं सर्वात्मना पुनः स्मरेत् परमेष्ट्यादि न्यासस्थानं च- पञ्चैताः शक्तयः प्रोक्ताः परस्य परमात्मनः पञ्चतन्मात्रशब्देन कीर्तिता वेदवादिभिः || इत्यभेदकथनात् तत्स्थानकथनेनैव कथमिति द्रष्टव्यम् एवं प्राप्तप्रत्यग्भावस्य आत्मनः स्वस्वरूपप्रत्यभिज्ञानाय कोपतत्वं च न्यसेदिति आह - तत इति पूर्वभावसंहृतिकारणं स्वतः स्वाध्यस्त समस्तप्रपञ्च संहरणकारणं क्षं क्षं बीजं कोपतत्वं सर्वसंयमकारणं स्वाश्रयमाया प्रचार सर्वस्वोपशमनकारणं चिन्तयेत् सर्वेन्द्रियसंयमनाय सर्वांग व्याप्ततयेत्यर्थात् उक्तमर्थं संगृह्णाति कर्तारमित्यादि ज्ञानशक्तिभिरित्यन्तेन सूक्ष्मतनुं अमूर्तरूपं ज्ञानाभासं चिद्रूपं सुरेश्वरं प्. १६८) समस्तजगत्साक्षिभूतं विष्णुं व्याप्ततरं श्रीहरिमेवं प्रोक्तप्रकारेण कर्तारं तां स्वा मव्याकृतमायां अधिष्ठायेत्याद्युक्त प्रकृतिप्रेरणद्वारेण कर्तारं विकर्तारं जीवेनाधिष्ठितः प्राणो लब्धवृत्तिस्तदा भवेत् इत्युक्त स्वनिरीक्षणविक्रियमाण स्वाधिष्ठितप्रकृतिद्वारेण विकर्तारं सर्वाधारं एवं स्थूलशरीरं तु सर्वाधारं प्रजायते इत्युक्ततत्कार्यरूप पृथिव्यन्त तत्वद्वारेण सर्वाधारमाभिरनन्तरपूर्वोक्ताभिः परमेष्ठ्यादि ज्ञान शक्त शक्तिभि चिच्छक्तिभिः वाच्यवाचकसंभेद विभक्ताशेषमण्डलं वाच्यसंभेदेन तत्वकला भुवनाध्वना वाचकस्य भेदेन वर्णपदमन्त्रात्मना च विभक्ताशेषमण्डलं अखण्डमण्डलरूपं स्वविराट् शरीरं सम्यक् तादात्म्येन व्याप्य चेतनीकृत्य संस्थितं स्वस्वरूपजागरूकतया स्थितं चिन्तयेत् वाच्यवाचकसंभेद विभक्ताशेषमण्डलमित्यन्तेन एवं सृष्टस्य मन्त्रबिंबस्य षडध्वन्यासेन षड्विधप्रपञ्च प्. १६९) ग्रहत्वं च कल्पयेदिति च द्योतितं ध्यात्वेति अथ तमुपहारार्पणै चोद्वयेदित्याह तत इति सुभाहितः सुसंपन्न भक्तिः अथ अप्रतिष्ठितमन्त्रबिंबे परिवारव्यवस्थित्ययोग्यतया तद्विभूति स्फूर्तये मण्डलेज्यां कुर्यादित्याह - प्रभूतैरिति याज्ञिकैः पूजार्हैः आराध्य अधिष्ठानभावनाप्रकारमाअह आसनमिति | तत्र तस्मिन् चक्राब्जमण्डले सगात्रं अत्र गात्रपदं पदाद्युपलक्षणं तथा च आधारशक्त्याद्युपरि लसद्धर्माधर्मादि पादगात्रयुतं सपरिच्छदं सत्वाद्युपरिलसन्मायाविद्यादि रूपा स्तरणयुतं आसनं ध्यात्वा संपूज्य तस्योरसि तस्य पीठस्योपरि स्वक्षं त्रिनाभिं द्वादशारं द्विनेमिं सर्वतत्वसमन्वितं चतुर्विंशकतत्वरूपं चतुर्विंशति प्रथिसमन्वितं शोभं चक्रं विचिन्तयेत् यष्ठुं विचिन्तयेत् पुनर्यजेच्चेति भावः अथ तद्विवृणोति पूर्वादीति | प्राज्ञो गुरुः अधरोत्तरसंस्थितेषु पूर्वादिप्रथिषु प्. १७०) प्रकृत्यादीनि प्रणादि पृथिव्यन्तानि तत्वानि क्रमयोगतो अधरप्रथौ प्राणतत्वं उत्तरप्रथौ बुद्धितत्व मनन्तराधः प्रथौ अहंकारतत्वमित्यादि क्रमयोगमाश्रित्य एकावृत्या विन्यसेद्यजेच्च | सूर्यमिति अत्र सूर्यपदेन देवतात्मा सूर्यः तन्मन्त्रबीजभूतोऽहंकारश्च उच्येते | तत एवं योजनाः संवृतस्वर वर्जितैः द्वादशभिः स्वरैः अकारादिविसर्गान्तैः अजभिः सम्यक् द्वादशधा भक्तं सूर्यं हकारं हं हमित्यादिरूपं तथा सूर्यं द्वादशधा भक्तं धातर्यमित्र वरुणांश भगेन्द्र विवस्वत् पूष पर्जन्य त्वष्ट्ट नाम द्वादशमूर्ति विभक्तात्मकं सूर्यदेवतात्मानं च अरेषु विनिवेशयेत् | ओं हं नमः पराय सूर्याय मेषात्मने धान * * * न्नमः इत्यादि मन्त्रैः अरमध्येषु विनिवेश्य पूजयेदित्यर्थः | बिन्द्वन्तैरिति | शुक्ले पक्षे बिन्द्वन्तै रकारादिबिन्द्ववसानैः क्रमपठितैः पञ्चदशभिः अर सिते पक्षेऽन्यथा व्युत्क्रमपठितैः विसर्गाद्यैराकारान्तैः पञ्चदशभिश्च प्. १७१) स्वरैर्विभक्तं सोमं सोमबीजं सकारं शुक्लेतरविभागतः तिथिरूपाभिः सर्वकलाभिर्विभक्तं सोमं देवतात्मानं सोममेकैकस्मिन्तन्तरे विचिन्तयेदारोहवृत्त्या पार्श्वदये पर्ययण क्रमेणेत्यादि दीपदीपिकाद्युक्तोपपत्त्या मूलादग्रान्तं अग्रान्मूलान्तं च विभज्य सं नमः शुक्लप्रतिपदात्मने नम इत्यादि मन्त्रैः चिन्तयेत् आद्येन स्वरेणाकलाः मध्यतोऽर मध्ये च सं नमः परायामाकलात्मने नमः इति मन्त्रेण च चिन्तयेत् नाभावन्तरादि नाभित्रितये अन्नमः पराय प्रातःसवनात्मने नमः इत्यादिरूपेण स्वनाम्नैव सवन त्रितयं विचिन्तयेत् | तथा मं नमः पराय कोपतत्वात्मने नमः इत्यनेन स्वनाम्नैव कोपं कोपतत्वमक्षसंस्थं कर्णिकास्थानसंस्थं विचिन्तयेत् | तन्मध्ये तस्य समर्चितपद्मस्य मध्ये नाभ्यन्तः प्रदेशे पंकजामारं पंकजमित्युपलक्षणं पद्मादिसमष्ट्यन्तस्य पीठशेषस्य तच्चात्र स्मरेत् तन्मध्ये पंकजमध्ये पौरुषीं शक्तिं मन्नमः प्. १७१) स्वरैर्विभक्तं सोमं सोमबीजं सकारं शुक्लेतरविभागतः तिथिरूपाभिः सर्वकलाभिर्विभक्तं सोमं देवतात्मानं सोममेकैकस्मिन्तन्तरे विचिन्तयेदारोहवृत्त्या पार्श्वदये पर्ययण क्रमेणेत्यादि दीपदीपिकाद्युक्तोपपत्त्या मूलादग्रान्तं अग्रान्मूलान्तं च विभज्य सं नमः शुक्लप्रतिपदात्मने नम इत्यादि मन्त्रैः चिन्तयेत् | आद्येन स्वरेणाकला मध्यतोऽर मध्ये च सं नमः परायामाकलात्मने नमः इति मन्त्रेण च चिन्तयेत् नाभावन्तरादि नाभित्रितये अन्नमः पराय प्रातःसवनात्मने नमः इत्यादिरूपेण स्वनाम्नैव सवनत्रितयं विचिन्तयेत् | तथा मं नमः परायकोपतत्वात्मने नमः इत्यनेन स्वनाम्नैव कोपं कोपतत्वमक्षसंस्थं कर्णिकास्थान संस्थं विचिन्तयेत् | तन्मध्ये तस्य समर्चितपद्मस्य मध्ये नाभ्यन्तः प्रदेशे पंकजामारं पंकजमित्युपलक्षणं पद्मादिसमष्ट्यन्तस्य पीठशेषस्य तच्चात्र स्मरेत् तन्मध्ये पंकजमध्ये पौरुषीं शक्तिं मन्नमः प्. १७२) मं नमः पराय जीवात्मने नमः इत्यनेन जीवशक्तिं ध्यात्वा क्रमेण आधारशक्त्यादि जीवतत्वान्तं तत्तद्वत् क्रमेण जपादिभिरभ्यर्च्य विद्वान् अष्टोत्तरादि मन्त्रकल्प विशेषः वि * र्चायां अधिवासितमन्त्रबिंबे यातु विन्यस्ता मन्त्रमयीं तां मूर्तिं तत्र ध्यात्वा क्रमात् सांगं सावरणं कल्पयेत् | आवरणकल्पनायां चातिक्रमावरणविशेषं दर्शयति द्वादशाक्षरबीजैरिति | सदाष्टाक्षरषडक्षरद्वादशाक्षरादि मूलमन्त्रभेदेपीत्यर्थः | मान्त्रिकमावरणयोगं दर्शयति वैनतेयादिकानीति एवमिष्ट्वा गुरुर्वा मग्नावाचार्य कुण्डजनितजातवेदसि जननादिक्रमात् जीवादि कोपान्तसमुक्तकॢप्त्या तत्वानि हुत्वा तत्वान्यधिकृत्य घृतेन प्रत्येकं यथोक्तसंख्यं हुत्वा शान्तितोयं प्रणीताजलमादाय बिंबस्य मूर्धनि बिंबस्य मूर्धनि सिञ्चेत् शान्तितोयमित्युपलक्षणम् संपातस्यापि एवं प्रधानभूत प्रतिमाधिवासनमभिधाय गुणभूत पुराद्यापीठाद्यधिवासनमाह- प्. १७३) पीठमिति शोधयित्वा त्वग्भिर्मृद्भिः ततो दर्भैः संघृण्य क्षालयेज्जलैरित्याद्युक्तनीत्या शोधयित्वेत्यर्थः एवं पीठादिकमप्यधिवास्य दिक्षु मूर्तिधरांश्च चकारात् कुण्डे आचार्यश्च विधिवत् होमान् कुर्यात् | विधिवत् पदसूत्रितमर्थं विवृणोति तत इति प्रणयनमाह तत इति पश्चिमे अग्निप्रणयने पाक्षिकला मत्रयमाह अग्निं दूतमिति होमं विवृणोति कृत्वेति प्रधानमों तत् प्रधानहोमः पक्वहोमोऽन्तो यस्येध्मार्धि?धानादि पीठमन्त्रहोमान्तस्य कर्मणः तत् प्रधानहोमान्तं पक्वहोमः दर्वाचीनं कर्म कृत्वेत्यर्थः वेदाद्यैरग्नि मीलेत्यृचा इषे त्वोर्जे वायवस्थोपायवस्थेषा अग्न आयाहीति साम्ना शन्नोदेवीरित्यथर्वणेन चेति वेदादिमन्त्रैर्वाग क्रुद्धोत्कादि द्युत्कान्तैरंगमन्त्रैर्वा मूर्तिभिर्वासुदेवाद्यनिरुद्धान्मादिभिर्वा क्रमात् पूर्वादिदिगोपान्तैरेषु त्रिविधमन्त्रेष्वन्यतमैर्मन्त्रैः समिदादीनि द्रव्याणि जुहुयुः द्रव्याणीत्यादि व्रीहीनां चाष्टशतमित्यन्तं एकं वाक्यं इदमिति प्. १७४) गुरुः स्वकुण्डे मूलेन समिदाद्या * * अत्र नारायणात्मके त्वमग्ने द्युभिरित्येवं दक्षिणं पश्चिमं पुनः अग्न आयाहि मन्त्रेणाप्यग्निमग्निमथोत्तरे इति | सारस्वते त्वमग्ने द्युभिरित्येवं दक्षिणे वारुणे ततः अग्निं दूतमित्यृचा सौम्ये त्वग्निमग्निं हवीमभिरिति चोक्तत्वात् ध्यातं द्रव्यनवकं हुत्वा | अथ अनन्तरं घृतेन दध्नामधुना पयसा च चकारात् सर्वद्रव्येण च यथाक्रमं शान्तिं हुनेत् तत्संपातार्पणस्थानमाह स्पृशेदिति घृतं हुत्वा पादं स्पृशेत् स्रुवार्पितेन तत्संपातेनेति शेषः | तथा च सुमतिः स्रुवेण द्वव्ययुक्तेन स्पर्शनं च प्रकीर्तितमिति दधिनात्वानन्तरं दधि हुत्वा नाभ्यन्तरं स्पृशेत् मधुना हुत्वा मूर्धानं स्पृशेत् पञ्चोपनिषदेरिति | एवं पञ्चोपनिषदैः यथाक्रमं शान्तिं हुत्वा प्रकृताधिवासहोमसिद्धैः अशेष भस्मसंपातैः संस्पृश्य देवं कुसुमैर्यजेत् एवमधिवासमभिधाय हविः संपातपूर्वं तत्सपर्यांमाह चतस्र इत्यादिना तद्रक्षिणं द्वारदेशत उत्तराभिमुखाः पृथक् पृथक् प्. १७५) ग्रन्थ्युबद्धा गंगा च यमुना चैव तथा गोदा सरस्वती चतस्रो धेनवः स्थाप्याः स्वनामभिः पूज्याश्चेत्यर्थात् तथा च समतिः- नामभिः पूजनीयास्ताः गन्धपुष्पैर्यथाक्रमम् इति | दोहनादि मन्त्रमाह दुहेच्च विष्णुगायत्र्या इति | तया विष्णुगायत्र्यैव मन्त्रबिंबमण्डल योः कृतसन्निधानाय देवेशाय चरुं निवेदयेत् | मण्डपात्तु बहिर्दिक्षु प्रथमं दिक्षु पुनर्विदिक्षु अनन्तरं पूर्वाद्यष्टदिक्षु च गन्धपुष्प जलान्वितं बलिं हरेत् | दिक्षु बलिमन्त्रमाह आद्याश्चेति | विदिक्षु मन्त्रमाह वृक्षेष्विति अष्टदिक्षु मन्त्रमाह विनायकास्त्विति शेषं सुगमं | उपसंहरते एवं कृत्वेति || - || इति क्रियासारव्याख्यायां चतुर्दशः पटलः || १४ || अथ वृत्तसमाधानपूर्वकं वर्तिष्यमाणप्रतिष्ठाधिष्ठान भूतरत्नन्यासमवतारयति अधिवास्येत्यादिना सार्धग्रन्थेन | आचार्य एवं देवौद्भवादि समुक्तकॢप्त्याऽधिवास्य प्. १७६) ततः प्रातः समुत्थितः स्नात्वा भूतपूर्वाह्निकक्रिय आत्मानमलंकृत्य विधिदृष्टेन वर्त्मना रत्नन्यासं कुर्वीतेति योजना रत्नन्यासस्थानमाह नपुंसकशिलायामिति अथ गुरुः नपुंसकशिलाया मध्ये दिशासु च गर्तं विधाय संशोध्य तेषु गर्तेषु बीनादिद्रव्याणि न्यसेत् गर्तमिति जातावेकवचनम् | रत्नन्यासात् प्रागेव नपुंसकशिला प्रतिष्ठातव्या इत्याह क्षालितामिति ततः प्रभाते गुरुः पूर्वेद्युः क्षालितां जलाधिवासमुद्दिश्य क्षालयेत् बहुभिर्जलैरित्युक्तरीत्या पीठवत् क्षालितां बिंबाधि वासकाले क्षालितां तारेणार्चितां तां पादशिलां नपुंसकशिलां ततः प्रातर्भावि प्रतिष्ठास्थान एव नपुंसकशिलापि प्रतिष्ठाप्येत्याह गमनमिति पृष्ठसौम्येशभागकं पृष्ठसौम्येशभागमाश्रित्या | सप्त सप्त विभागेन गर्भागारे विभाजिते | ब्रह्मदेवमनुष्याणां पिशाचानां पदानिवै मध्यादारभ्य यत्नेन कल्पनीयानि सर्वतः ब्राह्मं पञ्चदशांशं स्याद्दैवे भागास्त्रयोदश प्. १७७) एकादश नवांशाश्च शिष्टयोः पृष्ठभागतः ब्रह्मांशे मध्यमं त्यक्त्वा द्वितीयं चापि पृष्ठतः स्थितैकवीबेरबिंबस्य तृतीयं स्थानमिष्यते त्रिभक्ते द्वारविस्तारे त्रिसप्तांशु मध्यमे मध्यार्धेनोत्तरं सूत्रं गमनार्थं प्रकल्पयेत् पश्चिमोत्तरसंयोगे कर्णसूत्रं प्रकल्प्य तु बिंबांगुलयवेनेशे गमयेद्द्वियवेन वा || इत्युक्तत्रिविधं गमनं कृत्वा यत्र स्थापनं मन्त्रबिंबप्रतिष्ठापनं निर्णीतं तत्रस्य तारेण न्यसेत् प्रतिष्ठापयेत् प्रतिष्ठितां तां तारेण गन्धपुष्पाद्यैराराध्य प्रार्थयेच्च प्रार्थनामन्नमाह - स्थितमिति त्वमेवेति क्वचित् सुमतिसंहितादौ- त्वमेव परमा शक्तिस्त्वमेवासनधारिका देवाज्ञया त्वया देवि स्थातव्यमिह सर्वदा || इति विज्ञाप्य तां पूर्वं गन्धपुष्पैः प्रपूजितां ध्यात्वोर्वीं स्थापयेत् गर्ते मन्त्रेणानेन देशिकः स्थित * * * *यस्य रत्नानां निधिरव्ययः सात्वं ब्रह्मशिलारूपा तिष्ठात्र धरणी स्थिरेति ग्रन्थसन्दर्भेण त्वमेवेत्यादिना प्. १७८) नपुंसकशिलायाः स्थापनं विहितम् तच्च सा ध्वेवेति भावः- नपुंसकशिलायास्तु गर्तमध्ये दिशासु च विधाय तेषु संशोध्येत्युक्तं संशोधनं विवृणोति शोधयेत् पञ्चगव्येनेति | आहुती नामिति | विष्णुसंज्ञया गायत्र्यादीनं शतमाज्येन हुत्वा तत्संपातसमर्पणानन्तरं तया रत्नान्यभिमन्त्र्य पूर्वादिक्रमयोगतो व्यस्तैरष्टाक्षरस्य वर्णैर्यथाक्रमं समस्तेन तन्मध्ये च बीजानि रत्नधातूनि लोहानि च तेषु गर्तेषु यथाक्रमं प्रथमावरणे बीजमित्याद्युक्तावरणक्रमानतिवृत्या विनिवेशयेत् | न्यासक्रमानुसारेण वादेन बीजानि पठति यवानीत्यादि हिरण्यकमित्यन्तेन | दिक्षु सर्वासु विन्यस्य ब्रह्मस्थाने हिरण्यकं न्यसेदिति शेषः | तदर्थपुण्याहकालं नियमयति पुण्याहमिति रत्नाष्टबन्धादिकं संसाद्य मन्त्रवित् रत्नाष्टदेवताः प्रियन्तामिति मन्त्रविशेषवित् वैष्णवैर्मूर्तिधरैः प्. १७९) सह पुण्याहं वाचयित्वैव विष्णुगायत्र्या संपातेन तत्तु गर्तं प्रदक्षिणं संस्पृशेत् | ततो नपुंसकशिलोपरि रत्नन्यासं कुर्यादिति संबन्धः | ततः स्त्रीलिंगेन स्त्रीशिलाचिह्नेन परीक्षितं परीक्ष्य स्त्रीशिलेयमिति निर्णीतं पादशिलां पीठपूजापूर्वकं लक्ष्मीबीजेन पूजयित्वा वस्त्राभ्यामाच्छाद्य रक्षां कृत्वा बहिः गर्भगृहात् बहिः व्रजेत् एवं पीठाराधनान्तं विधानं विधाय श्रीविष्णुबिंबप्रणयन योग्यतापादनाय प्रासादादिकं संशोध्य अलंकुर्यादित्याह * * * संवलाकैरिति | होमार्थमिति होमार्थं प्रासादस्य समन्ततो वालुकाभिः वितस्तिद्वयविस्तारान् प्रादेशकालगोकर्णास्त जीन्यादियुत तत अंगुष्ठे तु क्रमात् ज्ञेया वितस्ति द्वादशांगुलेत्युक्त वितस्ति द्वयायामविस्तार संयुक्तान् स्थण्डिलान् कारयेत् मूर्तिपैरिति शेषः | अष्टासु दिक्षु चैवं कृत्वा पार्श्वे तत्र आहितानामग्नीनां पार्श्वे अष्टौ कलशांश्च न्यसेत् पूर्वादि प्. १८०) क्रमयोगतः पुष्पपल्लवान् वैष्णवांस्तत्तत् सन्निधापितविष्ण्वा वासभूतानष्टाक्षरेण मन्त्रेणाभिमन्त्रयेत् | अग्निप्रणयनानुस्मरणपूर्वकं तद्धोमप्रकारमाह - प्रणीयेति मूलमन्त्रेण वैष्णवमाचार्यकुण्ड संजन न संजातवीर्या?भावं वह्निं प्रणीयेत्यर्थः शान्तितोयं प्रणीताजल संपातादि समेक्षकलशजलं समाहरेत् तत्तत् स्थानादग्र मण्डपे समानयेत् | सर्वकुंभोपसंभृतं तत्तोयं पीठाराधनादि क्रमसंपन्ने वैष्णवे ताम्रपात्रे अष्टोत्तरस्य वर्णैः क्रमेण प्रदक्षिणं पूरयित्वा प्रणवेनावाह्य संपूज्य वस्त्रवेष्टनादियुतमादाय बहुबेरविषये अधिवासमण्डप शान्तिककर्मार्चा मूर्ध्नि द्वादशाक्षरविद्यया निषिञ्चेत् एकबेर विषये तत्र शायितमूलार्चामूर्ध्नि चेत् ओमिति ब्रुवन् निषिञ्चेत् सोपकरणो द्वासं प्रतिमायां || प्रासादप्रणयनप्रकारमाह कुण्डस्थमित्यादि यत्नात् प्रवेशयेदित्यन्तेन सुगमेन ग्रन्थसन्दभेण प्. १८१) पीठमिति अथ गुरुः यथाविधि परावहनावस्थावाहन मन्त्रावाहनादि विध्यनतिवृत्या देवं ध्यात्वा मन्त्रबिंबमादाय तेन पीठं त्रिःप्रदक्षिणीकृत्य त्रैलोक्यमन्त्रं त्रैलोक्य विक्रान्तयेत्यादि अनन्तरवक्ष्यमाणमन्त्रं पञ्चोपनिषदान् मन्त्रांश्चोच्चरन् मन्त्रमूर्तिं अष्टाक्षराद्यभीष्ट मूर्तीं स्मरन् स्थापयेत् | प्रतिष्ठापयेत् तथा च सुमतिसंहितायां - पीठं प्रदक्षिणीकृत्य ततः सर्वेण विन्यसेदिति नारायणात्मके च ओं त्रैलोक्यविक्रान्ताय त्रिविक्रमायोदीरयेत् पञ्चोपनिषदान् मन्त्रान् स्वस्वमूर्तिसमन्वितान् इति गोहेमरत्नवस्त्रादि विप्रेभ्यश्च प्रदापयेत् इति | सिंहावलोकनन्यायोपात्ता मौहूर्तिकादिपरितोषणपरं पृथग्वाक्यं समवतिष्ठन् परीक्ष्य स्थिरीकुर्यादिति आह परीक्ष्येति | गुरुः स्वयमित्यत्र स्वयंशब्देन अन्येन स्थिरीकरणे बिंबस्य तत्प्रतिष्ठितत्वं स्यादिति सूच्यते प्रतिष्ठितदेवं प्रथमं तस्य स्ववैभवानुस्मरणानुग्रह प्. १८१) करणार्थमुपतिष्ठत्रेत्याह - पठेच्चेत्यत्र शब्दोत्र लोकानुग्रहादि आगममन्त्रान् समुच्चिनोति | अथ कलशोदकैः कुंभेश निद्राकलशोदकैः संस्नाप्य सकलीकृत्यार्चयेत् || अथ तत्र जीवावाहनं वक्ष्यन् तदा श्रयपरावाहनादिकं स्मारयति ध्यात्वेत्यादि सर्वमेव चेत्यन्तेन- आकाशं तस्य मूर्तिः स्यात् पृथिवी तस्य पीठिका इति सिंहावलोकनन्यायोपात्तं प्रतिष्ठासमयस्यानाद्यत्वं पीठार्चासंबन्धपरं पृथग्वाक्यं प्रतिष्ठापनसमय समनन्तर विधेयाष्टबन्धन परा चेयमुक्तिः ध्यात्वा इति मन्त्रवित्तमो गुरुः गुरुमुख समवाप्तजीवावाहनादि तदर्थविदग्रेसरो गुरुः परमं निरुपाधिकं निष्कलं कार्यकरणसंघात समुत्तीर्ण सत्तामात्रस्वरूपं विष्णुं व्याप्ततरं श्रीवासुदेवापरनामधेय परमात्मानं पुष्पाञ्जलिपूर्वकं सांप्रतिकं जीवावाहन बीजतया ध्यात्वा संस्मृत्य कुत्र ध्यात्वेत्यत्र आकाशं यं ब्रह्मेत्यादि प्. १८३) श्रुतिश्रुतमाकाशं तस्य उक्तविशेषणविशिष्टस्य चिदात्मनो मूर्तिः शरीरं स्यात् पृथिवी तदधिष्ठानरूपा पीठिका च स्यात् | तथा सति अर्थात् द्यावापृथिव्यात्मके प्रतिष्ठितबिंबपीठे च विग्रहतदधिष्ठानपीठे च ध्यात्वा तदनन्तरं परमेष्ट्यादिभिः व्यष्टिसमष्ट्या वाहन क्रमसमुपात्तैस्तस्य परमात्मनो भाविजीवदशायामधिष्ठानभूतं विग्रहं नित्यसूक्ष्मशरीरं कल्पयेत् | अथ अभिमत मन्त्रमूर्त्युचितं सूक्ष्मशरीराधिष्ठानभवं स्थूलशरीरं च मूल मन्त्रन्यासेन कल्पयेदित्याह तेजोमयमिति | तत्र बिंबसन्निवेश वशमन्त्रन्यासमाह स्थित इति मन्त्रबिंबे स्थिते स्थितिन्यासं स्थितिन्यासान्तं न्यासं कुर्यात् | एवमासीनादावपि द्रष्टव्यम् | यानगे गरुडारूढादौ सर्वं यथेच्छं कुर्यादित्यर्थः | अथ जीवावाहनामाह एवमिति एवं न्यासं तथा कृत्वा ध्यात्वा सकलनिष्कलम् तत्र मूर्तौ सकलनिष्कलं जीवावाहनयोग्यं सकलनिष्कलं सूक्ष्मविग्रहं विशेषेण प्. १८४) ध्यात्वा अथ गुरुः हृत्पुण्डरीकमध्यस्थं स्वहृदयपुण्डरीकमध्यमध्यासीनं सर्वलोकस्य साक्षिणं महाविष्णुं प्रभविष्णुं महाविष्णुं सदाविष्णुश्च सः स्मृत इत्यादि स्मृति सिद्धमहाविष्ण्वपरनामधेयं अणोरप्यणीयांसं तं चिदात्मप्रतिबिंबभूतं क्षेत्रज्ञं जीवात्मानं परमेष्ट्यादिना जीवावाहनमन्त्रेण आदाय यथोपदेशं पृथक्कृत्य स्वहृदयादादाय प्रतिमाहृदि पूर्वकल्पितसूक्ष्मविग्रहे योजयेत् | प्रणवेन निरुद्ध्य प्रणवव्यापकेन सुगुप्तीकृत्य अथ अनन्तर्यवाच्यथशब्दसूचितं तदनन्तरकार्यं जीवन्यासादिकं कुर्यादिति शेषः | ततस्तस्मात् सजीवा जायते चेति शेषः | अत्र नाभूयोऽपीति ततो अष्टबन्धं च निक्षिप्य मन्त्रावाहनपूर्वं भूयोऽपि सकलीकृत्य भूषायुधादिमुद्राः दर्शयित्वा पुरुषोत्तमं सांगं सावरणं क्रमात् पूजयेत् ततः ऊनातिरिक्तादिदोषक्षमार्थं भूमौ दण्डवत् प्रणमेच्च | ततो द्वास्थादिपरिवारान् तत्तत्स्थाने संक्ल्प्य बलिं दत्वा देवरक्षां प्. १८५) प्रार्थयेदित्याह चण्डप्रचण्डावित्यादि | सर्वदेत्यनेन कृतोपसंहारपूर्वकं सांप्रतिकविधिशेषमाहेति | नीत्या द्योतनादिभिरित्यन्तेन एवं देवोद्भवोदित प्रायेण ग्रन्थसन्दर्भेण एकबेरप्रतिष्ठामभिधाय तदुपसंहारपूर्वं बहुबेरे भेदं वक्तुमुपक्रमते एकबेरे इति | बहुबेरे वदाम्यहं प्रतिष्ठामिति शेषः बहुबेरे भेदमाह बहुबेर इति | बहुबेरे तु कर्मार्चा कर्मार्चेति कृतगुणनामधेयात् या प्रतिमा तु कार्या अस्यां स्नपनादिकं अक्षतहोमसंपात समर्पण जलाधिवासबिंबशुद्धिकलशस्नपन पुण्याह मण्डपवेश नादिकं कुर्वीत | ततः सुभावितः समञ्चितधीः मालार्चायां रत्नन्यासरूपा प्रतिष्ठादि पूर्वं विरचितायां तत्वन्यासरूपलक्षणमेतत् | प्रणवेन समायोज्य जीवमर्चाभिमानिनमित्याद्यंगप्रत्यंगभेदेन स्वकल्पोदितवर्त्मने त्यन्तस्य ध्यानाधिवास कर्मणः तत्प्राधान्येन मूलाचार्यां कुर्वीत कर्मार्चामिति | तत्वसंहारादिना यथा तथं संस्कृतां कर्मार्चां प्. १८६) तत्वहोमाधिवासहोम शान्तिहोम संपात समर्पण समर्चनादिना पूर्वोक्तविधिना अधिवास्य उत्तरेद्युः यथाक्रमं गर्भगेहं प्रवेश्य तां कर्मार्चां मूलार्चायां नियोजयेत् कर्मार्चागतं तत्वहोमादिसंस्कारं मूलार्चायां योजयेदित्यर्थः तथा कृत्वाऽयं देशिको यथोक्तनीत्या मूलार्चां प्रतिष्ठितां भावयित्वा तत्कुंभेशस्नपनादिसमये संप्राप्ते पादे पीठे चाग्रे तत्पादन्यास योग्ये पीठे इयं सा देवते मूर्तिरोमित्युक्त्वा सर्वेण सर्वं कृत्वा अन्तेन तत्वपञ्चकेन स्थापयित्वा | अथ कुंभेशस्नपनाद्यनन्तरं पूर्ववत् सकलीकृत्य गन्धपुष्पादिभिः पूजयेत् एवं प्रतिष्ठामभिधाय तत् स्थैर्यसिद्धये तदेकजातीयजीर्णोद्धार प्रतिष्ठां वदन् अन्तरंग तया प्रथमसमागतमर्चाधिष्ठात् परचैतन्य मात्रनिर्त्तौ प्रतिष्ठाविधिमाह - स्थापितेत्यादि पूजयेत् कल्पवर्त्मनेत्यन्तेन स्थापितेति या प्रतिमा स्थापिता स्ववंश्यैरन्यवंश्यैर्वा विधिवत् स्थापिता तु पुराणाऽनाथत्वात् पीठलुप्त पूजादिका तथाप्यवयवैः शुभा समग्रशोभा प्. १८७) च दृश्यते तथाप्यधिवास वर्जितो ध्यानाधिवासहोमादि रहितः एवमनन्तरवक्ष्यमाण प्रकारेण विधिः प्रोक्तः विधिं दर्शयति पूर्वोक्तेनेति अ* * * * द्रव्यविहितेन जलाधिवा समुद्दिश्य क्षालयेत् बहुभिर्जलैरित्यादिरूपेण पूर्वोक्तेन विधानेनोपलक्षितं बिंबशुद्धिकलशैः स्नापयित्वा तत्वानि संहरेत् प्रणवेन संयोज्य जीवमर्चाभिमानमित्युक्तरीत्या संहरेदित्यर्थः | अत्र उक्तबिंबशुद्ध्याभिषेक पर्यन्तशोधन मध्ये विकल्पयति शोधनं क्षालनाद्यैर्वेति | क्षालनप्लावन स्नानमार्जनानि यथाक्रममित्यादि वक्ष्यमाण क्षालनाद्यैः संशोधनं कुर्यात् इति शेषः | पुनरिति पुनः तत्स्थानि तत्वानि परमात्मनि विलाप्य शुद्धीकृत्य तदनन्तरं तत्वं * * * * * * * * * * * * * * * * * पतनाद्याश्चेत्यादि वक्ष्यमाणनिमित्तशान्तिकेऽर्थे संस्कारकर्मणि च सर्वत्र साधारणः प्रोक्तः | अथ मन्त्र बिंबाद्यधिष्ठानजीर्तौ विधिमाह येदेति यदा प्रतिमा अन्याग्न्यादिदूषिता वियोजितांगा प्. १८८) स्यात् तदा तस्मिन् पूर्वोक्तसप्तशुद्ध्यादि संस्कृते बिंबे सुभावितस्तत्वाध्वानं सृष्टिक्रमेण सृष्टिमार्गेण ध्यात्वा ततः संहारमार्गेण क्रमात् परस्मिन् स्वात्मनि च संलीनं ध्यात्वा पुनः प्रतिमामुत्पाद्य तत्र पूवौक्तेन प्रतिमाप्रतिष्ठोक्तेन विधानेन अन्यजीवावाहनकाले तु जीवाद्भिरभिषेचयेत् इत्युक्तरीत्या जीवावाहनकाले स्वात्मारोपितं तच्चैतन्यं योजयेत् | अयं विधिः स्वात्मारोपितचैतन्य मात् पारनादि रूपे * * * * * स्वात्मनावा * * * प्रोक्तः तथा च विष्णुसंहितायाम् तं ततो निक्रव्येद्देवमात्मसात्कृत्य वागुरुः कलशे वाऽथ बिंबोद्धारविधिं चरेदिति अथावाह्य कलशे वेत्यनन्तरोक्त बहिराग तमः पक्षः प्रासादजीर्ती तुल्यन्यायोऽवतारयत्यथा वेति | बिंब इति || बिंबे अथवा गेहे जीर्णे सत्यैन्द्रैशान विभागे वा सोमेशानान्तरेपि वा काष्ठमयं गृहं कृत्वा प्रासादशुद्धिविहितरीत्या शोधिते प्रासाद सम्मुखे तस्मिन् ताम्रमयं पीठं न्यसेत् || प्. १८९) अयं दिग्विधिः प्रासादे पश्चिमद्वारे तदनुरूपतया वेदितव्यम् तथा च विष्णुसंहितायां पर्जन्ये वा जयन्ते वा दित्यदित्योश्च सं* * * * ईन्चोम्प्लेते Bलन्क् Fओलिओ श्रीः ओम् वृत्तं संकीर्तयति संबन्धप्रतिपादनाय तद्धेदमित्यविज्ञात प्रत्यक्तत्वादिमज्जगत् रज्जौ सर्पादिवज्ज्ञातं नामरूपक्रियात्मकमिति एषोऽर्थः तद्भेदं तस्य व्याकृतमासीदित्यत्र अज्ञातात् प्रत्यगात्मनो रज्जुसर्पवत् जगत् ज्ञातमित्युक्तमिति उक्तार्थ आप्तवाक्यमुदा हरति प्रमाणत्वेन - अनिश्चिता यथा रज्जौ अन्धकारे विकल्पिता || सर्पधारादिभिर्भावैः तद्वदात्मा विकल्पितः || अज्ञातप्रत्यगात्मविवर्तत्वेन जगतोऽनर्थत्वं किमर्थमुक्तमिति चेत् मुमुक्षुत्वसिद्ध्यर्थमित्याह अनर्थहेतुरज्ञानं तदुत्थं चाखिलं जगत् प्रतीचोऽनर्थ इत्यस्मात् भीतोऽत्यर्थं प्. १९०) मुमुक्षति इति || ननु ब्रह्मादिसमस्तजगतोऽपुरुषार्थत्वे कस्तहि पुरुषार्थ इति तन्निवृत्तिरित्याह पुरुषार्थोऽखिलानर्थ प्रध्वंसि प्रत्यगात्मनीति तथाहि पुरुषार्थस्थधनं ज्ञानमेवेत्याह सम्यक् तत्वपरिज्ञानं पुरुषार्थस्य कारणमिति अत्र हेतुमाह निरस्ताशेषानर्थाप्त कृत्स्नाह्लाद सतत्वकं स्वतो यतोऽयं संसारी तेनोक्ते विपरीतदृगिति अतो मोक्षसाधनं न कर्मादीत्याह मोहमात्रान्तरायत्वात् पुरुषार्थस्य नापरं अविद्याध्वंसिनो बोधात् किञ्चित् साधनमिष्यते पुनरस्य परावृत्तमनुवदति आत्मेत्येवेति विद्यायाः सूत्रमित्युदितं पुरा | उपोद्घातस्तथा तस्य प्रागुक्तः सप्रयोजन इति आत्मेत्येवोपासीते त्यात्मज्ञानं सूत्रितं तदाहुरित्यादिना | सूत्रितात्मज्ञानस्य आक्षेपपूर्वकं प्रयोजनं चाभिहितमिति | किं तत् प्रयोजनमिति चेत्तदाह- प्रतीचि साक्षात् विज्ञति ज्ञेयं सर्वं समाप्यते निश्शेषतस्समोऽध्यस्ते पुमर्थं च समाप्यते || अथवानात्म भेदबाधादपि तत्सिद्ध्यति प्. १९१) किमात्मबोधेनेति | तत्राह प्रतीचीति | अत एव आत्मेत्येवोपासीतेति उक्तमित्याह यत एवमतः पश्येदात्मन्यात्मानमाद्वयम् आत्मैव ब्रह्मविद्याया विषयः श्रुतितो मतः इति पुनरप्यपरं वृत्तं अनुवदति | अथ योन्यामिति | तथा विद्यां चानूद्य नश्वरीं आद्यालावसिते कार्यं तस्या व्याख्यातमञ्जसा अध्यात्ममधिभूतं च तथा चैवाधिदैवतम् भूतं भवत् भविष्यच्च साध्यं साधनमेव च जनिवत्सर्वमेवेदं अविद्यायाः समुत्थितम् संक्षिप्य चाप्युपन्यस्तं अध्यायान्ते च तत्पुनः त्रयं वा गुदमित्येवं रूपं नाम च कर्म च | त्रयस्यापि च संक्षेपो लिंगदेहात्मसंगति इति स्वयमर्थं तद्भेदमित्यत्र सूत्रितां साभासप्रत्यगविद्यामथ योन्यामित्यरकृष्ट्या तृतीयाध्यायपरिसमाप्ते स्तस्यां कार्यम् संक्षेपविस्तराभ्यामुक्तमिति || एवं वृत्त मनुकृष्य संगतिं दर्शयति वार्तिकत्रयेण त्रैलोक्यात्मशरीर्येष विश्वरूपः प्रजापति अन्तर्णीताखिलानन्तमेव तं प्राणविग्रहं प्. १९२) अविज्ञातात्मतत्वस्सं स्तदध्यस्ताभिमानवान् परात् प्रवृत्तेर्विरतो विद्याया विषयस्त्वयम् साक्षात् कृतात्मभावोऽयं एवं लक्षणवस्तुनि श्रुत्योपस्थाप्यते गार्ग्यो ब्रह्मविद्यादिधित्सया इति | अयमर्थः || त्रैलोक्यात्मशरीरमस्येति त्रैलोक्यात्मशरीरी गार्ग्यः | अत एव स गार्ग्यो विश्वरूपः प्रजापतिरिति भण्यते || सोऽन्तर्णीताखिलानन्त देवता प्राणविग्रहः विश्वतोऽर्थः सकलमविद्याकार्यमुपासनाबलात् आत्मत्वेनाभिगत इति | तस्माच्च तत्प्रसादादेव विरक्तो ब्रह्मविद्याधिकारित्वेन उत्थाप्यत इति || अथवा प्रथमेन प्रजापतिः कथ्यते द्वितीय तृतीयाभ्यां गार्ग्य इति ननु ब्रह्मविदसौ कथं ब्रह्मविद्याधिकारित्वेन उत्थाप्यत इति न मुख्यब्रह्मविदित्याह अकृत्स्नब्रह्मवेदित्वात् दृप्तोऽसावल्पकस्ततं न हि पूर्णपरिज्ञानः कश्चिदृप्यति निर्द्वय इति दृप्तिरब्रह्मवित्त्वे लिंगमित्यर्थः मुख्य ब्रह्मविदजातशत्रुराचार्य इत्याह- प्. १९३) समस्ताशेषविज्ञेयः पुरुषार्थस्तथाऽपरः अजातशत्रुरैकात्म्यात् गार्ग्याचारः प्रकल्प्यते | इति एवं ब्राह्मणस्य गतग्रन्थेन संगतिमुक्त्वा अध्यायसंगतिमाह- व्याख्यातायामविद्यायां तदुच्छित्तावथाधुना आत्मेत्येवेति सूत्रस्य व्याख्या प्रस्तूयते स्फुटा || श्रुत्या गार्ग्याद्युपन्यासं शिष्याचार्यस्वरूपयेति || वीद्यासूत्रव्याख्यानायोत्तरग्रन्थः इत्यर्थः आख्यायिकारूपेण विद्याकथनप्रयोजनमाह सुखावबोधसिद्ध्यर्थमियमाख्यायिकोदितेति एवं स्वकीयं संबन्धं दर्शयित्वा भर्तृप्रपञ्चाभिहितं संबन्धं दर्शयति || निरासार्थं सार्धेन वार्तिकत्रयेण | अन्ये चात्राभिसंबन्धमेवं व्याचक्षते बुधाः स एष इत्युपन्यस्तो विज्ञानात्मा हि यं पुरा गार्ग्यकाश्येतिहासेन वक्ष्यते | तस्ये निर्णयकर्त्यो भोक्तृश्च देहे अस्मिन् देवता एव नापरः श्रुतिर्गार्ग्यात्मना सेयं पूर्वपक्षमभाषत आत्मनोऽस्तित्व कर्तृत्व भोक्तृत्वप्रतिपत्तये श्रुत्या सिद्धान्तसिद्ध्यर्थं काश्यरूपं प्रकल्प्यते || प्. १९४) इति | अयमर्थः पञ्चसूत्राणां मध्ये एष इह प्रविष्ट इत्येतद्वाक्यं विज्ञानात्मसूत्रं न तन्निर्णयाय मैत्रेयी ब्राह्मणान् प्राक्ततो ग्रन्थ इति अजातशत्रुब्राह्मणमेवेति केचित् || एतत् संबन्धं दूषयति | निर्मलात्वात् स चायुक्तः प्रकृतानभिसंगतेरिति अयमर्थः प्राणदेवतायाः कर्तृत्वभोक्तृत्वभ्युदासेन आत्मनः कर्तृत्वभोक्तृत्व प्रसाधनाय उत्तरं ब्राह्मणत्रयमारभ्यत इति | अयं संबन्धो न घटते प्रकृतसंगत्यभावात् निष्फलत्वाच्च कथं प्रकृतसंगत्यसंभवः उच्यते ब्रह्मात्मैकत्वज्ञानान्मोक्ष इति | प्रकृतं तदात्मानमेवा वेदित्यत्र तन्न सिद्ध्यति * * यदि कर्तृत्वादि पारमार्थिकं विज्ञानात्मनो भवेदेवं प्रकृतानभिसंगतिरिति निष्फलत्वमुपपादयति देवतास्त्वित्वपक्षेपि किमस्तीत्यादि नेष्यते देवात् भिन्नस्य विज्ञातुरिष्टं चेन्निष्फलः श्रमः इति एषोऽर्थः स्थूलदेहाद्व्यति रिक्तस्यात्मनो अस्तित्वकर्तृत्व भोक्तृत्व मात्रमिष्टं चेत् चार्वा कपक्षनिराकरणाय तदा देहव्यतिरिक्त प्. १९५) प्राणदेवतास्तित्व पक्षेऽपि तस्या एव प्राणदेवताया विज्ञानार्थत्वेन कर्तृत्वभोक्तृत्वोपपत्तेः प्राणदेवताव्यतिरिक्तार्थसाधनक्रमा निष्फल इति | अस्मदुक्तसंबन्धपक्षेन उभयविधोदोष इत्याह- अज्ञातैकात्म्ययाथात्म्यो यदा त्विह विवक्ष्यते अविद्याकार्यनिष्ठः सः श्रुत्यागार्ग्यशरीरया पूर्वपषतयाशेष दुःखहेतूपशान्तये पूर्वपक्षनिदानच्छित् काश्यः सिद्धान्तवाद्यपि श्रुत्यैवोत्पाद्यतेऽशेषवेदान्तार्थावबुद्धये सर्वोऽप्येष तदा यत्नफलवान् स्यान्न चान्यथा इति पूर्वत्र सुखबोधायाऽख्यायिकेत्युक्तमिदानीं अपरं प्रयोजनमाह- श्रद्धाचारादिविद्ध्यर्था यदि वाऽख्यायिका स्त्वियं इति || एवमाख्यायिका अन्वर्था || ब्राह्मणसंबन्धं चोक्त्वा पदार्थव्याख्यानं प्रारभते यथो यथोक्तदर्शनाप्तार्थो नान्यदस्तीति भावितम् अतोऽतिदृप्तो विज्ञात दर्पकारणघस्पदम् श्रद्धालुं चित्तसंपन्नं श्रेयोऽर्थिनमुपेत्य तु ब्रह्म तेऽहं ब्रुवाणीति गार्ग्यं कास्यमभ्हाषत प्. १९६) न जातो न भविष्योऽस्ति शत्रुरैकार्थ्यदर्शनात् अजातशतुकारयोतो गार्ग्यबुद्धिविरुद्धाधीः ब्रह्म यस्मात् परं नास्ति न च वस्त्रपरं यतः ब्रुवाण्युपास्यं तत्तेहं सर्वापघ्नन्ति कारणम् इत्येतानि सुखबोधानि || ननु नापृष्टं कस्यचिदब्रूयादिति विरुद्धमृषिणा कृतमित्याहनापृष्टमिति नन्वेतद्विरुद्धमकरोदृषि यत् ब्रह्मते ब्रुवाणीति अपृष्ट कार्यमब्रवीदिति ब्रुवाणीत्येतत् पृच्छामीत्यस्मिन्नर्थे अतो न स्मृतिविरोध इत्येतदाह- दर्पादिदर्शनान्नूनं वेत्यकृत्स्नार्थदर्शनं कृत्स्नत्वार्थमतो प्राक्षीत् काश्यं प्रज्ञासमन्वितं इति | यथाश्रुतार्थपक्षेपि न कश्चिद्दोष इत्याह श्रद्धालुरधिकारी यो जिज्ञासुर्विनयान्वितः अपृष्टे नापि वक्तव्या तस्मै विद्या विपश्चिते इति | अत्र प्रमाणमाह- धर्मार्थौ यत्र न स्यातां शुश्रूषा चापि तद्विधा वक्तव्या तत्र विद्येति निषेधादेव लिंग्यत इति प्रश्नव्यतिरेकेणापीति वाक्यशेषो द्रष्टव्यः अन्यथा प्रकृतानभिसंगतेरिति प्. १९७) पुनरपि प्रश्नव्यतिरेकेण ब्रुवाणीति कथने निमित्तमाहः नष्टाश्वदग्धरथवन्न्यायं चाश्रित्य भूमि च प्राह मानुषवित्ताढ्य देवचित्तसमन्वितः इति वित्तद्वयेन संपन्नो यतोऽधिक्रियते नरः | सर्वकर्म स्वतोऽवादीत् बालाक्षं काश्यमन्तिकादित्येतत् पूर्वस्य प्रपञ्चः सहस्रमेतस्यामित्यादेरर्थमाह वार्त्तिकचतुष्टयेन | तत्सुबोधं ब्रह्म तुभ्यं ब्रुवाणीति वाङ्मात्रव्याहृतावहं गोसहस्रं ददाम्यद्य विनाप्यैकात्मनिर्णयात् गोसहस्रप्रदानस्य निमित्तं श्रुतिरभ्यधात् जनको जनक इति नामाभ्यासोक्तिकं स्फुटं शूद्रीषु जनकं सर्वे जनादित्सुं तमेव च विवक्षवोऽभिधावन्ति तमुद्दिश्य जिघृक्षवः मौढीं प्रसिद्धिमुल्लंघ्य गार्ग्योऽयं मामुपागतः आनन्दित्सुं च शुश्रूषुं संभावयति मामपि इति कीदृक् ब्रह्मोक्तवानिति तत्राह आदित्यचक्षुबुद्धिस्थश्चेतनः सर्वगो ध्रुवः एतमेव सदोपासे ब्रह्मेतिरपि मध्यगम् इति एवं विधं ब्रह्माहं तद्वचनव्यतिरेकेण प्. १९८) जानाम्यतस्त्वया न वाच्यमित्याह- तथा ब्रुवाणं तं गार्ग्यं काश्यो मा मेत्यथोचिवान् केवलो मत्तसंवादो भवदुक्तेर्ममाभवत् नत्वपूर्वार्थ विज्ञानं प्रतिज्ञातं तथा त्वया मावोचातो यतो वेद्मि विनापि वचनात्तव इति | मामेत्यभ्यासस्य विपक्षान् दर्शयति निधाभ्यासो मामेति ज्ञातब्रह्मप्रवादिनः आबाधितधियाभ्यस्तो गार्ग्यस्यानुक्तिकारणात् इति त्वदुक्तं ब्रह्म मया त्वद्यद्वचनव्यतिरेकेण ज्ञातमिति प्राकर्षेण वदितं शीलमस्येति विज्ञातब्रह्म प्रवाद्यजातशत्रुस्तस्यायं गार्ग्यं प्रति निषेधाभ्यासो बुद्धिविक्षेपप्रतिपादनाय अनुक्तत्वात्तेन विवक्षित ब्रह्मणः अथवा अजातशत्रुणाज्ञातब्रह्म प्रवादी गार्ग्यस्तस्य ब्रह्मप्रवादने इति द्वितीयार्थे षष्ठी तं प्रतिनिषेधाभ्यासोऽथवा द्वितीयाबहुवचनं प्रवादिन इति गार्ग्यात् प्रतीत्यर्थ तद्वचनव्यतिरेकेण ज्ञातंत्वं कथमिति चेत्तत्राह- सुप्रसिद्धं यदस्माकं त्वच्छासनमृतेऽपि तत् प्. १९९) नापेक्षते भवद्वाक्यं सिद्ध्यर्थं प्राक्प्रतिष्ठित इति ब्रह्ममात्रंत्वं जानासि नोपासनगुणफलानीति एतच्च त्वया नाऽशंकितव्यमित्याह- तदुपासां न वेद्मीति मा च शंकां कृथाति यतः उपासनं च संवेद्ध्य सगुणं फलमेव चेति अतिष्ठा गुण व्याचष्टे- अतीत्य सर्वभूतानि प्राधान्येन स्थितो यतः अतिष्ठा इति नामास्य तेनादित्यात्मनो भवेत् इति | राजेत्यस्यार्थमाह- चक्षुर्षु दीप्तिमत्वाच्च राजेत्येषोऽभिधीयते इति स य एतं यथोद्दिष्टमुपासतेऽहर्निशं नरः यथोपासनमेवास्य फलं भवतीति नान्यथा मतिसंवाददोषेण काश्येनोत्सादितो रवेः गार्ग्यो ब्रह्मान्तरं राज्ञे प्रवक्तुमुपचक्रमे इत्येतद्वार्तिकद्वयं सुबोधाय एवासौ चान्द्रे पुरुष इत्यादेरर्थमाह- चन्द्रे मनसि बुद्धौ च ब्रह्मोपासेऽहमदयं इति बृहच्छब्दार्थं कथयति- भानुमण्डलतो यस्मात् द्विगुणां चन्द्रमण्डलं बृहन्निति ततश्चन्द्रं प्रमाणेनाभिधीयते || प्. २००) पाण्डरवासाः सौरो राजेति पदत्रयस्य अर्थमाह - उत्तरवार्तिकद्वयेन अंभोधिपाण्डरं वासो यस्या छत्राभिमानिनः तद्वान् पाण्डरवासा स्यात् सोमः सौम्यत्वकारणात् ज्योत्स्नया राजतेऽत्यर्थं सोमो ब्राह्मणराजकः सोमं राजेत्यतो वक्ति तदुपासाविधित्सया इति | सोमशब्देन लता सोमस्यापि ग्रहणं तत्र हेतुमाह - तुल्याभिधानधर्मत्वात् लता सोमोपि गृह्यते उभयोर्दैवतैकत्वात् उपास्यं तेन तद्द्वयमिति सोम इत्यभिधानन्ता भवदुभयोस्तुल्य धर्मश्च ह्रासवृद्ध्याज्यो लता सोमोपि द्विपत्रतिः पत्राभिरूपेण वर्धते शुक्लपक्षे एकैका तापचयेन ह्रसतीति उभयोर्देवतापि हिमांशुरिति देवतैकेत्युक्तं | सा किं रुरूपेति तत्राह- एषैका देवता विद्धि प्रत्येकार्थावसायिनी भोक्त्री कर्त्री च सर्वत्र तस्याभोज्यमतोऽपरम् ब्रह्मैषा सर्वसंव्याप्तेरात्मेत्येतामुपास्महे इति सर्वपर्यायेषु व्याख्यैकरूपेत्याह- प्. २०१) व्याख्या तुल्यैव विज्ञेया सर्ववाक्येषु पूर्ववत् इति तुल्य प्रकारं प्रकटयति || गुणो यत्रेति च संभाव्यतेऽत्र तु हलन्त देवतस्य स्यात् सर्ववाक्येषु निर्णयः इति | ननु तेजस्वितं भान्वादेरप्यस्ति कथं विद्युत एव तेजस्वित्वं विशेषतो गुण इति तत्राहः भानुचन्द्रमसोस्तेजो जलदैरभिभूयते विद्युत्तत्राप्यतितरां तेजस्वित्वेन विद्युदिति आकाशब्रह्मणः पूर्णमप्रवर्तीति गुणद्वयं निदिष्टं तदुभयं व्याचष्टे- खण्डशो न यथा मूर्तं खं पूर्णं चाप्रवर्तनात् अप्रवृत्तीति घटादिवदविभक्तत्वात् आकाशं पूर्णमुच्यते || अप्रवर्तनादचलत्वात् अप्रवृत्ती च भण्यते इत्यर्थः अप्रवृत्तिशब्दस्य अर्थान्तरमाह- अक्रिया वा स्यात् व्योम्नि सर्वा प्रवृत्तय इति न स्वयं क्रिया क्रि शुक्रिया तद्वदाधारभूतमाकाशमिति कृत्वा प्रवर्तीत्युच्यत इत्यर्थः अक्रियावदिति पाठे सुकरैव योजना जिष्णुरित्यादि फलत्रयं व्याचष्टे- प्. २०२) जिष्णुः स्याज्जयशीलत्वात् जीयते न परैर्वा अपाजिष्णुरित्येवं तस्मादेवाभिधीयते अन्यतो मातृतो जाता अन्यतस्त्या उदाहृताः अप्यन्यकस्त्य जायी स्यात् सापत्नभातृमर्दनः इत्थजिष्णुरित्येक कर्म फलमपराजिष्णुरिति द्वितीयं शत्रुमर्दन इति | तृतीयं गुणत्रयोपासनेन फलत्रयं योजयति विष्णुरिन्द्रगुणोपास्ते वैकुण्ठगुणकं परम् सेना पराजितेत्यस्मात् सापत्नानां पराजय इति विषासहित्व गुणोग्ने रुपपन्न इत्याह अभ्याहितमपि जगत् सहतेऽग्निर्यतस्ततः भस्मसात् करणादुक्तो विषासहिरितीश्वरैः इति अप्सु रेतसि बुद्धौ च पुरुषं ब्रह्मचेतनम् उपास एतमित्युक्तं काश्यं प्रत्याह पूर्ववदिति एवं सुबोधं उदाकाभिमानी देवस्य गुणं प्रति बिंबोदयलक्षणं कार्यं तदुपासकस्य फलमपि तादृशेवेत्येतदाह - प्रतिबिंबोदयं कार्यं प्रतिबिंबं यतस्ततः प्रतिरूप उपास्योऽप्सु फलमप्यस्य तादृशमिति ननु प्रतिशब्दादन्वर्थप्राप्ति पलमिति ने प्. २०३) नेत्याह - अन्वर्थे प्रतिशब्दोऽयं फलस्य पुरुषार्थतः प्रतिलोमेन तु ज्ञेयोह्यनर्थः स्यात्तथा सति इति अनुरूप इत्यर्थः अनुरूपशब्दार्थं कथयति श्रुतिस्मृतिसदाचारात् प्रति यः सन्ततोद्यतः प्रतिश्रुत्यादिरूपत्वात् प्रतिरूपस्ततोऽस्तु सः इति | एवं विधगुणोपासकस्य श्रुत्याद्यनुरूपपुत्रादिर्जायत इत्यर्थः | रोचिष्णुशब्दस्य कान्तिः दीप्तिरित्यर्थः | स उपनिषद् गुह्यो गुण आदर्शादिगम्यस्य पुरुषस्य तद्युक्तं ब्रह्मोपास इत्येतदाह - रोचिष्णुपनिषत्क्रान्त मादर्शात्मादिबुद्धिषु उपास इत्यभिहिते काश्य प्रत्याह पूर्ववदिति स्वयमेव प्ररोचिष्णुर्भवतीत्यर्थोऽत्र विद्यते | विद्युदात्मवाक्ययोरपि प्रजागतं फलं श्रूयते | तत् कथमिति तत्राह- यत्रोपास्यबहुत्वं स्यात् फलं तत्र प्रजास्वपि शतह्रदार्शाद्यर्था बहवस्ते प्रसिद्धित इति न सेक्त्वे ध्युपाध्यस्य फलबहुत्वं घटत इति तत्राह-फलं यद्गुणकं यत्र तद्गुणं स्यादुपासनं फलानुमानतस्तत्र न फलान्यनुपासितमिति || प्. २०४) फलबहुत्वे उपास्यबहुत्वेन भवितव्यमित्यर्थः विपरीतं वा न गच्छन्त मनुशब्दो बहिर्वच्छ्रूयतेध्वनि | अध्यात्मं दैविके शब्दे बुद्धौ चेति विनिर्दिशेदिति एतत् सुबोधं गच्छत | किं ध्वनिकारणमिति चेत् प्राण इत्याह- पुंसोऽभिधावतस्तूर्णं देहदेशैः समाहतं प्राणो वृत्तिविशेषेण बहिर्वत् कुरुते ध्वनिरिति अस्य पुरुषस्यासुरिति गुणः तदुपासकस्य दीर्घायुस्त्वं फलमित्याह- वृत्तिक्षेपादसुरयमायुषश्च तदाश्रिते शतायुरेव भवति म्रियते नोपमृत्युनेति दिगभिमानी देवस्य द्वितीयत्व मनुनपगत्वं च धर्म इत्याह- दिक्षु द्वितीयोपनगः स द्वितीयः सदैव सः दुःसंभाव्या हि पूर्वादिक् मुक्त्वाशां पश्चिमांजनै इति इदानीं गुणद्वयोपासना फलमाह साधुहृत्यपरीवारः सर्वतोपासको भवेत् पुत्रादिगणसन्तान स्थैर्यमेव सदा भवेदिति छायामये तथाऽज्ञाने बुद्धौ चेकैव देवतेत्येत् प्. २०५) सुबोधं * * अस्या देवस्य मृत्युरिति गुणं फलं च दीर्घायुष्यं रोगाद्यभावो विशेष इत्येतदाह- मृत्युकाला पुरानास्य व्याधिरप्युपसर्पतीति विरोधात्मनि देहे च बुद्धावित्यादिपूर्वकं वाक्ये तत्सुबोधं एवंविधब्रह्मण आत्मासीति गुणस्तदुपासकस्य तदेव वश्यात्मत्वं फलं प्रजा च वश्यात्मा भवत्युपासकस्य उपास्यबुद्धीनां बहुत्वादित्येतदाह आत्मन्वीति च वश्यात्मा प्रजाच विशमासीत इति अन्त्ये पर्याये समस्तव्यस्तस्य प्राणस्य उपासनमुच्यते पूर्वत्र व्यस्तानामेव तत्राभिप्रायं प्रकटयति- व्यस्तानां पूर्वनिर्देशः समस्तानां त्विहोदितं विवक्षावसित्व गार्गी तथा सत्युपपद्यत इति | विवक्षावसि किं प्रकटयति- प्रत्याख्यातोपदेशः सन् संवादेन पुनः पुनः ब्रह्मान्यदन्यवदत् आत्मन्यित्यन्तमादरात् विशेषाणामनन्तत्वात् समस्तं ब्रह्म सोऽवदत् तस्मिन्नपि निषिद्धेथ तूष्णीं गार्ग्यो बभूवहेति समस्तब्रह्म वदतोयमभिप्रायो न हीयते | प्. २०६) सर्वे विशेषा वक्तुं पार्यन्ते ततः समस्तं ब्रह्मोक्तवांस्तत्रैव सर्वविशेषान्तर्भावात् तस्मिन्नपि प्रतिषिद्धे ब्रह्मवदव्यापारादु परतवनिति | नन्वेतत् सर्वं ब्रह्म न भव त्यन्यदेव चेत् ब्रह्म तस्याप्यब्रह्मत्वं भेदादित्याशंक्याह- यत् कृत्स्नं ब्रह्म पूर्वोक्तं तदेवेदमप्यविद्यया एकधा अनेकधा मूढै कल्प्यते रज्जुसर्पवदिति आत्मेत्येवोपासीते त्यत्रोक्तमित्यर्थः एतावन्नु इति वदतोऽभिप्रायमाह- अवाक्च्छिरस्तमालोक्य नृपो गार्ग्यमनुत्तमः एतावन्विति तं प्राह शेषं शंकानिवर्तये || इति अवशिष्टं ब्रह्म विदितं न पश्येति ख्यापनार्थं एतावन्वित्युक्तवानिति अर्थः अतोनि गृहीतोसीत्यर्थाप्लुतिरित्याह- निगृह्यमाणयोगे च प्लुतिमत्र विनिर्दिशेत् ब्रह्म ब्रुवाणीत्यर्षत्वमेतावत् ब्रह्मकल्पमेतेति एतत् सर्वं ब्रह्म न भवति चेत्तर्हि किं तत् ब्रह्म तत्राह- अज्ञाते जगदज्ञातं ज्ञाते ज्ञातं च यत्रवत् प्. २०७) तदेव ब्रह्म पूर्णत्वात् न त्वदुक्तमकृत्स्नतः इति अस्य प्रपञ्चः || अव्यावृत्ताननुगतस्वतः सिद्धात्मवस्तुनि मुख्यार्थो ब्रह्म शब्दः स्यात् नत्वदूक्ते तथापरः इत्येतत् यत आदित्यादेरब्रह्मत्वं अतो नैतावतेति वचनमुपपन्नमित्याह- यस्मादेवमतो गार्ग्यं एतावद्धीति वादिनं नृपो नैतावतेत्याह ब्रह्मत्वासंभवं स्फुटमिति एतेषां ब्रह्मत्वानिराकरणादवश्यं मुख्यं ब्रह्म जानात्ययमि ज्ञात्वा तदर्थमुपसदनायोपक्रान्तवानित्येतदाह - अज्ञातब्रह्मतत्वस्य दुःस्वभाव्यमिदं वचः नैतावतेति ब्रह्मा तं काश्योऽवैतीति लिंगतो गार्ग्योऽनुमाय राज्ञोऽथ प्राविण्यं ब्रह्मवेदने उपायानीत्युवाचेमं परब्रह्मावबुद्धये || इति एतत् प्रपञ्चयति | परब्रह्मविजिज्ञासु रुपेतोऽस्म्यहमादरात् अनुशाधिमां यथावत्त्वं इति | एवमुक्ते त्वयोपसदनं कर्तुं न बुद्ध्यत इत्याह | इत्येवं वादिनं नृपं क्षत्रियं प्. २०८) ब्राह्मणो जात्या यदुपेयादनापदि प्रतिलोममिदं वृत्तं धर्मशास्त्रैर्निषिध्यत इति अप्रशस्तस्य प्रापणं योगः पाप्तस्य रक्षणं क्षेमस्तदर्थं राजगमनं ब्राह्मणस्य बुद्ध्यते इति आह- योगक्षेमफलार्थाय गमनं न निषिध्यते ब्रह्ममेवेक्ष्यतीत्यर्थं निषिद्धं नृपसर्पणमिति || अतोऽनुपेतमेव त्वां करविन्यस्तविल्ववत् ब्रह्म विज्ञापयिष्यामि यज्ज्ञाते सर्वविद्भवेत् इत्युक्त्वा तमधो पाणौ गृहीत्वोत्थितवान् नृपः आजगातुश्च तौ सुप्तं नरं कार्यविक्षयेति | एतत् वार्तिकद्वयं सुबोधं कार्यविवक्षयेत्येतत् प्रकटयति गार्ग्योक्तब्रह्मा भोक्तृत्वं तथामीषां अनात्मतां बालाके बोधयिष्यामीत्यतः सुप्तमगान्नृपः इति प्राणस्य भोक्तृत्व गार्ग्येणाभिप्रेतं तस्य अभोक्तृत्वं साधयति | संबोधनार्थ प्रयुक्तनामापरिज्ञानेन वार्तिकद्वयेन देवतानामभिः कार्यो यथा सुप्तं यथोदितै आमन्त्रयान्तदा चक्रे बृहन्नित्येवमादिभिः प्. २०९) संबोध्यमानोपि तथा सुप्तो नैवोदबुद्ध्यत यतोऽतो गार्ग्याभिमतो न भोक्तेत्यवगम्यत इति ननु जागरितकालं परित्यज्य सुप्तपुरुषगमनं न बुद्ध्यते आत्मानं विवक्षयितुं दर्शयितुं तत्र हि सर्वपदार्थाः स्पष्टा उपलभ्यन्ते अतो गार्ग्याभिप्रेतात्मनो विविच्य काश्याभि प्रेतात्मा दर्शयितुं शक्यो न सुप्ते | समस्तव्यवहारलोपात् | तस्मात् सुप्तपुरुषगमनं न अर्थ वदित्येतदाह- जाग्रत् कालं परित्यज्य सुप्तं किमिति जग्मतुः स्फुटता सर्वभावानां जाग्रत्काले विवक्ष्यते | इति जागरिते विवक्षितात्मा दर्शयितुं न शक्यत इत्याह- प्राणानां नवकानां च पुरुषस्य च संकरात् बोधे न शक्यते कर्तुं विवेको भोक्तृभोग्ययोः यद्यपि सर्वपदार्था उपलभ्यन्ते जागरिते तथापि तत्र विवक्षितात्मविवेकं कर्तुं न शक्यते | क्षीरोदकवत् सर्वपदार्थानां संसृष्टत्वादिति स्पष्ट तेत्यारभ्य सिद्धान्त इति केचित् || कोऽसौ विवक्षितात्मविवेक इति तं दर्शयति- भोक्तृत्वमेव पुंसोऽस्ति भोज्यत्वं न मनागपि | प्. २१०) काश्याभिप्रायतोऽन्यस्य भोज्यतैव न भोक्तृतेति साक्ष्येवात्मा न साक्ष्यः स्याक्ष्य एव चानात्मान साक्षीत्ययं विवेकः एवं विधो विवेकस्तत्र दुर्लभ इत्याह संकीर्णत्वादशंक्य स्यात् प्रबोधे भोक्तृभोज्ययोकर्तुं विवेकोऽतो यातः सुप्तं पुरुषमादरादिति यत एवमतः स्पष्टं त्वं भावानामकारणमित्याह तस्माद्यद्यपि सान्निध्यं प्राणादीनां प्रजागरे संकीर्णत्वान्मिथस्तस्माद्दुश्शकं स्याद्विवेचनं इति | ननु सुषुप्तेपि संकीर्णत्वं समानमिति नेत्याह- आत्मनः प्रोषितत्वात्तु भोगोऽस्मै न प्रयुज्यते उदासतेऽखिलाः सुप्ते देवताः कारणैः सह इति काश्याभिप्रेतत्वात्तत्रोपसंहृतो कस्तस्य विषयभोगो विषयज्ञाने प्रयुज्यते सकरणदेवतानामुदासीनत्वादुपसंहृतत्वादिति उपसंहारकारणमाह- जाग्रत् भोगप्रयुक्तस्य कर्मणः प्रक्षयाज्ञयाशेरते करणान्यस्य सह भोक्त्रात्मनाऽत्मनि इति | ननु गार्ग्याभिप्रेतोऽप्यात्मा संहृतो प्. २११) अतो न कस्यापि भोग इति चेन्नेत्याह- प्राणस्य संबन्धो धनमयुक्तं अन्यत्वादथ अन्यनाम प्राण एकस्तु जागर्ति भोक्ता यो गार्ग्यसम्मत इति अत्र प्रमाणमाह - प्राणेन रक्षन्निति च तथोदर्के प्रचक्ष्यते - प्राणाग्नय इति स्पष्टं तथाऽनस्तमितश्रुतेरिति | तस्मात् सुप्तौ प्राणो जागर्तीत्युपसंहरति ||| अश्रान्तः प्राण एवातो जागर्त्यत्र दिवाऽनिशं इति अतः किमिदं तथोद्भवतीत्याह - यथा जाग्रदवस्थायां भोक्ता प्राणः पुराऽभवत् स्वप्नेप्येष तथैवास्ते बोद्धा चेद्बुद्ध्यतामयं इति | ननु चन्द्रनामभिः प्राणस्य संबन्धो धनमयुक्तमन्यत्वादथान्यनाम तदपि प्राणः संबोध्यते तर्हि आदित्यादिनामभिरपि प्राणः संबोध्यतां विशेषाभावात्तस्यामन्यनामतः संबोधना प्रतिबोधना चेतनत्वादित्याशंकय प्राणस्येन्दोस्तथा चापान्त्यन्नात्माविष्कृतौ यत ऐक्यमुक्तमतः प्राणो बोध्यते चन्द्रनामभिरिति | अथवा सूत्रप्राणयोरेकत्व प्. २१२) सामर्थ्यात् अनुक्तसूत्रावयवादित्यादि नामभिरपि संबोधनं कृतवानित्याह - सामर्थ्यात् तद्ग्रहोऽथवेति चेतनस्य भोक्तृत्वप्रसाधनसामर्थ्याद्वा एवं चन्द्रनामभिर्बोधने निमित्तमुक्त्वा तन्नामाग्रहणादभोक्तृत्वं प्राणस्येत्याह यदि भोक्ता भवेत्प्राणो जाग्रद्वच्छब्दमागतं अश्रोष्यं न भवेत् भोक्ता नाश्रोष्यदुपलादिवत् इति काश्याभिप्रेतात्मा सुप्तो गार्ग्याभिप्रेतस्त्वं सुप्तो अतोऽस्य संबोधनार्थं प्रयुक्तनामाग्रहणात् अभोक्तृत्वं प्राणस्य नेतरस्य सुप्तत्वादित्युक्तं तत्राह पूर्ववादी || ननु सुप्तेति पुंस्यास्मिन् बोधितः सन् स्वनामभि भोक्तैव भोज्यते शब्दं नत्वभोक्ता परो जडः नैवातोपि विवेकः स्यादुत्थितः कोऽनयोर्द्वयोः इति एषोऽर्थः | यद्यपि काश्याभिप्रेतात्मा सुप्त इतरस्त्वसुप्तः तथापि स्वनामभिः संबोधिते यः कश्चित् भोक्तैव शब्दात् भोत्स्यते न जडो नात्मा अत उत्थानकालेति प्राण संबोधनार्थं प्रयुक्तनामोपलब्धवान् प्. २१३) अथवा काश्याभिप्रेत इति न निश्चयः स्यात् असुप्तस्यापि कदापि निमित्तवशात् सन्निहितविषय ग्रहणादर्शनादिति चोद्यं परिहरति- नैवं गार्गीयपक्षस्य विशेषावधृतेः सदा अजातशत्रभिप्रेत ब्रह्मणः प्राक् प्रमाणतः इति कथं विशेषावधारणेति तद्दर्शयत्युत्तरेण वार्तिकषट्केण नयोनस्तमिति एकोत्र वागाद्यस्तमयोऽमृतं इन्द्रो सपन्नोऽब्देहश्च नामरूपसमाहृतः अध्यात्माद्यखिलं विश्वं सेव्याप्य समवस्थितः ओतं प्रोतं जगद्यस्मिन् अस्नाभिनिदर्शनात् कुर्वाणस्तुमुलं शब्दं स्वव्यापारमशेषतः कुर्वाणा एव सुप्तेपि प्राण आस्ते प्रबोधवत् न च भोक्त्रन्तरं प्राणात् गार्ग्येणेहाभ्युपेयते तत्काले भिन्नकाले वा प्राणादन्यस्य भोज्यत तस्मादवश्यं बोद्धव्यं बोध्यं साक्षादुपस्थितम् प्राणेन बोध्यरूपत्वात् दाह्यदग्धा यथा दहेत् न चासौ बोध्यमानोऽपि प्रत्यबुद्ध्यत नाम तत् प्राणो भोक्ता ततः सिद्धः स्वनामाप्रतिबोधनात् इति || प्. २१४) अयमर्थः प्रबोधात् प्रागवस्थायां असुप्तत्वं विशेषो अभ्युपगम्यते त्वया | अतो सुप्तप्राणस्य सन्निहितशब्दानुपलम्भने अनात्मत्वं विहाय नान्यत् कारणमुत्प्रेक्ष्यते अन्यमतस्त्वं चेत् न सर्वात्मना ग्रहात् | तस्मादनात्मा प्राण इति नन्वग्रहणं संबन्धाग्रहणं निबन्धनं न आत्मत्वनिबन्धनमित्याह- स्वाख्यविशेषसंबन्धाग्रहणाच्चेन्न बुद्धवानिति देवतायाः संबन्धाग्रहणं संभवतीत्याह अग्रहासंभावना नैवं सर्वस्मादेवमयत इति नामाग्रहणादनात्म - त्व दोष स्त्वदभिप्रेतात्मओपि तुल्य इत्याह - त्वत्पक्षेऽप्यग्रहाद्दोषस्तुल्यश्चेदिति चोद्यत इति न तुल्य इत्याह नैवं कृत्स्नाभिमानित्वा देकदेशानहंकृते दृष्टान्तद्वारेणैतदेव प्रपञ्चयति - अंगुल्याद्यभिधानोक्तौ निहितत्वात् प्रबुद्ध्यते कृत्स्नदेहाभिमान्येव नैकदेहाभिमान भुक् इति | अयमर्थः यथा अंगुलिरित्युक्ते देवदत्तो नोत्तिष्ठति | तस्य सकलदेहाभिमानित्वात् एवं सकलकार्यकरणाभिमानित्वात् काश्याभिप्रे प्. २१५) अभिप्रेतात्मनोऽगुष्टस्थानीय प्राणमात्रे अभिमानाभावात् तन्नामाग्रहणं नत्वनात्मत्वादिति | ननु प्राणैकदेशश्चन्द्रः अतः तन्नामभिः संबोधनात् प्राणस्याप्यग्रहणं न त्वनात्मत्वादित्याशंक्य प्राणस्य गोत्ववत् समस्तवस्तुषु परिसमाप्तत्वात्तत्र तत्र अहमित्यभिमानोपपत्तेरग्रहणमयुक्तमित्याह प्राणस्य तु समाप्तत्वात्समस्तव्यस्तवस्तुषु नात्मवान् स्यादसंबोध स्तस्य सर्वाभिमानतः इति || ना * * * त् स्यादसंबोध इत्युक्तत्वात् तत्रोमाशंक्यते * * आत्मनोऽत्मा न संबन्धः पारमार्थिकस्त्वयाभ्युपगतस्तथा ज्ञान संबन्धश्च कर्तृत्वादिप्रक्षणस्तथा सति अभिप्रेतात्मासिद्धिरिति || तत्राह- बोधाबोधौचितेर्नस्ता कूटस्थज्ञप्तिमात्रतः | इति | ननु स्वयं प्रकाशश्चेत् कथं तस्य पराधीनज्ञानत्वं | तत्राह परायत्तप्रबोधनेनेति अमुष्यात्मनः चक्षुरादि करणाधीनज्ञानत्वमित्यर्थः | ननु स एव मुख्यात्मा नेत्याह अप्पात्रोत्थात् प्. २१६) रबेरिवेति यथा जलगतादित्यात् मुख्यादित्योऽन्यः एवं चैतन्याभावात् कूटस्थ बोधो अन्य इत्यर्थः | एवं प्रसंगागतं चोद्यं परिहत्य प्रकृतविषये चोद्यमुद्भावयति || स्वसंज्ञयाप्यसंबोधो यथा दृष्टस्त्वदात्मना भोक्तृत्वे सत्यपि तथा प्राणेभ्यः प्रत्यबोधनं इति | यथात्मा चेतनो देवदत्त इत्येवं स्वनामभिः संबोधितोपि त्वदभिप्रेतः आत्मा कदाचिन्नोत्तिष्ठति || एवं भोक्तापि प्राणो नोत्तिष्ठतीति एतच्चोद्यं परिहरति सुप्ता सुप्तत्वविशेष न्यायसंभवात् नैव सप्तग्रहो युक्तो न त्वसप्तस्य युज्यते इति उक्तं स्मरेत्यर्थः नन्विन्द्रियाणां संहतत्वात् स्वनामाग्रहणं न त्वनात्मत्वादित्याशंक्य इन्द्रियाणां संहार एव नोपपद्यते प्राणस्यात्मत्व इत्याह- श्रोत्रादेर्गणभूतत्वात् प्रधानं प्रति सर्वदा तस्मिन् जाग्रति जागर्ति सुप्ते स्वपिति तद्वशात् || नेन्द्रियाणां भवेत्स्वारः वा यदि प्राणप्रदानता नामात्या शेरते यस्मादार्त्ति स्वामनि जाग्रति प्. २१७) इति | ननु प्राणनामत्वेन अप्रसिद्धनामभिः बोधितत्वात्तदनुत्थानं नानात्मत्वादित्याह अप्रसिद्धात्मसंज्ञाभि रुक्तेश्चेदप्रबोधनं इति देवतानामभिः संबोधनप्रयोजनमाह देवतात्मनिषेधार्थ परत्वात् तद्ग्रहोर्थवान् इति | एतत् प्रपञ्चयति प्राणस्याभोक्तृतासिद्धिः स्वनामाग्रहणादपि देवताप्रतिषेधार्थं बोध्यते चन्द्रनामभिः इति अयमर्थः पञ्चवृत्तिमान् मुख्यप्राणो न इत्येवमादि स्वसंज्ञयापि संबोधितः प्राणोनोत्थितः तत्र देवतानामभिः संबोधनं चन्द्रदेवता अस्मिन् देहे कर्त्री भोक्त्रीत्या शंकाऽपाकरणाय अर्थमिति | एवं प्राणस्य आत्मत्वं निराकृत्य इन्द्रियाणामात्मत्वं निराकृत्य इन्द्रियाणामात्मत्वं निराकरोति स्मृतिज्ञानैषणादीनां संबन्धानुपपत्तित्वकारणानां अभोक्तृत्वं नेहांशानामिवेष्यते इति | एकादशेन्द्रियाणां पृथक् पृथगात्मत्वे स्मृतीच्छाप्रत्यभिज्ञान श्रमाद्यनुपपत्तेरिन्द्रियाणां नात्मत्वमिति प्. २१८) जडत्वाच्च करणजातस्य नात्मत्वमित्याह अचैतन्यात्तथोक्तस्य कुतो भोक्तृत्व संभवः इति दृश्यते जडत्वं साधयति- चिदन्यस्य च भोज्यत्वात् नान्यस्यातोस्ति भोक्तृता इति | अथवाऽदृश्यत्वादप्यभोक्तेत्याह चिदन्यस्येति प्राणस्यात्मत्वनिराकरणादेवता ना प्राणग्रस्तत्वाच्च करणानामात्मत्वं निराकृतमित्याह- दण्डापूपिकनीत्यैव करणानामभोक्तृतेति ननु यद्यपि प्राणकारण चन्द्रदेवतामभोक्तृत्वं तथापि देवतान्तरस्य अस्मिन् देहे भोक्तृत्वमित्याशंक्य प्राणव्यतिरेकेण देवता नास्तीत्याह न च प्राणातिरेकेण देवतान्योपपद्यते इति | ननु तस्य व्यतिरेकेण प्रागादीत्यादिरीरितं देवताविषयो भेदः स कथं विनिवार्यते इत्येतत् सुबोधम् | न तस्य प्राणमात्रत्वादित्याह नैव तस्य समस्तस्य प्राण एकत्वहेतुतः अरनाभ्यादिदृष्टान्ता द्वायुप्राधान्यतस्तथेतिः प्राणेन्द्रियदेवतानामात्मत्वं निराकृत्य स्थूलदेहस्याप्यात्मत्वनिराकरणाय पूर्वपक्षयति प्. २१९) संघात् एव भोक्तास्तु तस्य प्रत्यक्षसंगते न तु तद्व्यतिरिक्तस्य भोक्तृतानित्यसंभवात् इति | चतुर्भूतसमाहारो देह एव भोक्ता तस्य प्रत्यक्षेण गौरोऽहं पश्यामी शृणोमीत्येवं विधेन शब्दादिविषयज्ञातृत्व प्रतीतेर्न तद्व्यतिरिक्तस्या ज्ञातृत्वं मानाभावादिति सिद्धान्तयति- नाचेतनस्य भोक्तृत्वं कथञ्चिदवकल्प्यत इति | अचेतनत्वमसिद्धमिति चेत्तत्राह- चिदन्यस्य च भोज्यत्वात् कांबलोदनतोयवत् इति देहस्य दृश्यत्वेनाचेतनत्वान्नात्मत्वमित्यर्थः | अपि च चिद्विशिष्टो देहो भोक्तेति त एवा भ्युपगमः | तत्र मानेन भवितव्यम् प्रत्यक्षमानमिति चेन्नेत्याह न चापि चिद्विशिष्टत्वं प्रत्यक्षेणोपपद्य इति | चितः प्रत्यक्षायोग्यत्वादित्याह - भवतु वाचि विशिष्टत्वं प्रत्यक्षयोग्यं तस्य ग्राहको देह एव उतान्यो देह एवेति चेत् नैकस्य ग्राह्यग्राहकत्वानुपपत्तेरतो ज्ञात्रभाव इत्याह- चित्संबन्धोपलब्ध्यर्थं तज्ज्ञाताकं प्रकल्प्यतामिति प्. २२०) अपि च चितोऽन्यस्यास्वयं प्रकाशत्वादपि देहादेर्नात्मत्वमित्याह- नेह चिद्व्यतिरेकेण स्वार्थं किञ्चिदपीष्यते नापि स्वार्थातिरेकेण प्रमाणफलभाग्भवेदिति अपि च यदा चित्संबन्धो ज्ञायते तदा चिदपि ज्ञातव्या अतश्चितो ज्ञातात् कथ्यतां न तावत् चिदन्तरं चिद्भेदासिद्धेःरथाचित् तत्राहह्यचित्कं प्रमेयं सच्चिजित् किञ्चिदपीण्यत इति घाटेरदृष्टत्वादित्यर्थः | प्रमाणमपि चित् ग्राहकं चित् संबन्धग्रहणकाले वाच्यं तत्किं जडमजडं वा | न तावदजडं अजडस्य अजडान्तरात् सिद्ध्य योगात् समत्वात् प्रदीपवत् जडं चेत्तत्राह - न चानुभूति प्रत्यक्षमन्यतोऽपेक्षते जडादिति | नहि घटाद्यन्य जडसाधकं दृष्टमुपपन्नं वा | जडत्वादिति अपि च देहकर्तृकं प्रत्यक्षमिति तव दर्शनं तत्रापि मानं वाच्यं न तावत् प्रत्यक्षमानं रूपादिमद्वस्तुविषयत्वान्नानुमान निर्देशतः प्रत्यक्षं मम मानमित्येतदपि न सिद्ध्यति इत्याह देहात् प्रत्यक्षनिष्पत्तौ न च प्रत्यक्षमिष्यते || प्. २२१) लिंगस्य चाप्रमाणत्वात् कुतः प्रत्यक्षमानितेति अपि च चार्वाकस्य मयेदं विदितमित्येवमनु सन्धानं न सिद्ध्यति | साधकाभावादित्याह तथा अर्थान्तरसंबन्धे प्रत्यक्षे देहनिष्ठिते अनुसन्धानसंसिद्धौ न किञ्चिन्मानमिष्यत इति | यथा प्रत्यक्षस्य देहकर्तृत्वेन मानं तथेत्यर्थः || अर्थान्तरं शब्दादिविषयस्तेन संबन्धो यस्य प्रत्यक्षस्य तदर्थान्तरसंबन्धं तच्च देहनिष्ठितं देहाश्रितं एतदुक्तं भवति देहाश्रितं प्रत्यक्षं शब्दादिविषये प्रमाणं तव | एवं सति मयेदं विदितमित्यनुसन्धानं न तेन प्रत्यक्षेण सिद्ध्यति * * शब्दादिविषयत्वान्नाप्यन्यत् तद्विषयंमानं संभवति अथवा अनुसन्धानं सोऽहमिति प्रत्यभिज्ञाग्राह्यमेकत्वं तन्न सिद्ध्यति देहाश्रितप्रत्यक्षस्य शब्दादिविषयत्वे शब्दादिष्वेव मानत्वे ननु यथा तत्प्रत्यक्षं स्वविषये मानमेवं स्वाश्रयेपि मानमेव प्रदीपवत् | अतः प्रथमोपनिपतित प्रत्यक्षसंस्कारसहितं उत्तरं प्रत्यक्षं सोऽहमित्येकत्वे प्रमाणमिति प्. २२२) चेत् सत्यं यदि संस्कारास्तित्वे मानमस्ति न प्रत्यक्षत्वं रूपादिहीनत्वान्नानुमानाद्यनिष्टेरतः सोऽहमित्यनुसन्धानं न सिद्ध्यति संस्कारे प्रमाणाभावात् विषयानुसन्धानं च न सिद्ध्यतीति चार्वाकं प्रत्यनुमानप्रामाण्यं साधयति- वागभिव्याहृतिश्चेयं लिंगाप्रामाण्यवादिनः अप्रत्यक्ष्यात् परा कॢप्तिसंगते स्यादनर्थिकेतिगामानयेतिवाक्योच्चारणान्ते किमर्थं न तावदात्मप्रत्ययार्थं नहि स्वकृताद्वाक्यार्थं कश्चिदपूर्वमधिगच्छति | अथ परप्रत्ययार्थं परस्यास्माद्वाकयार्थप्रत्ययो भवतीति एतन्न प्रत्यक्षसिद्धं नातोऽनुमान्तःत्साध्य मन्योच्चारितात् वाक्यात् मम ज्ञानमुत्पन्नमेवं अन्यस्थापि मद्व्यक्यात् ज्ञानं भविष्यतीति | अतस्तच्चेन्न मानन्तो वाक्योच्चारणं व्यर्थमिति | अपि च प्राणिहितार्थं शास्त्रप्रकरणं इतरतार्किकाणां त्वच्छास्त्रकरणं प्राण्यहितार्थमित्याह- स्वात्मदृष्ट्यनुरोधेऽपि मौढ्यमेव प्रसज्यते प्. २२३) व्युत्पत्तेः साधुलोकस्य न कश्चिदपि दित्सतीति अधर्मादिभयाभावान्मन्युरेनमशंकिता | आदद्युश्च बलाद्वित्तमेतस्मिन् वक्ति तं फलम् इत्येतत् | पूर्वस्य प्रपञ्चदेहस्य अनात्मत्वे हेत्वन्तरमाह- अवेक्षणे विशेषस्य दृष्टत्वाद्देहसंहतिः न भोक्ति सुखदुःखानां फलानां स्यात् कदाचनेति यदि संघातमात्रस्य भोक्तृत्वमिह कल्प्यते संघातस्याविशिष्टत्वान्नातिशीतिर्भवेत्सदा ईषत् संस्पृष्टमात्रस्य फलाच्चावेक्षणे तथा इत्येतत् सार्धवार्तिकं पूर्वस्य प्रपञ्चदेहव्यतिरिक्तस्यात्मत्वेप्ययं विशेषो नोपपद्यते इत्याशंक्य उत्तरमाह- भोगादिभिन्नजाती यो भोक्ता यस्य तु वादिनः धर्मादिहेतुसंबन्ध बहुत्वात् स्यात्समञ्जसमिति किं तदिति तत्राह - पेषणापेषणकृत वेदनया भवेद्भिदेति | एषोर्थः | धर्माधर्मवासनाहेतुभिः बहुविधसंबन्ध आत्मनः तत्कृतदेहसंबन्धश्च अतस्तद्धेतुकमुत्थानं च समञ्जसमिति उत्थानं प्रति दृष्टहेतूनां बहुविधत्वाच्च उत्थान प्. २२४) विशेषो घटत इत्याह - सुखशब्दादिहेतूनां उत्तमाधममध्यमं तत्प्रबोधविशेषोऽयं युक्त एव भवेत्तदेति | ननु सर्वः सर्वत्वं ईषत् संस्पर्शमात्रेण उत्तिष्ठति | अतो न बलाहे व्यतिरिक्तात्मसिद्धिरिति | अत्राह अस्ति चायं विशेषोऽत्र यत्संस्पर्शनमात्रकं अबुद्ध्यमानः सन् सुप्त आयिष्यायिष्य बोधित इति य आवैषादुत्थितः स आत्मेत्याह यत आवेषणाद्योऽसावुत्थितः करणैः सह राजेव सचिवैः सार्धं स भोक्तेति गम्यतामिति | अस्य प्रपञ्च उत्तरं वार्तिकद्वयं- मृतकल्पमिमं देहं स्वचितावेशयन्निव स मुक्तस्थौ यः स भोक्तेति गम्यताम् || क्रोधहत् भय उद्वेगै ज्ञानधर्मैर्विशेषयन् शरीरं यः स मुक्तस्थौ स भोक्तेत्यवसीयतां इति | एवं देहादेरनात्मत्वं प्रतिपाद्य पुनरपि प्राणस्यानात्मत्वं परार्धहेतुना साधयति अपि प्राणस्य पारार्थ्यं संहतत्वात् गृहादिवत् ततश्च भोग्यरूपस्य भोक्तृत्व नोपपद्यते || इति परार्थत्वे संहतत्वं कारणमुक्तं तदसि प्. २२५) तदसिद्धमित्यत्राह- देहस्यान्तर्गत प्राणः स्थूणावत् देहभृत् सदा संहन्यते शरीरेण यथा वायुस्तथैव सः || इति | यतः संहतः तस्मात् गृहादिवत् परार्थः प्राण इत्याह- यत एवमतः प्राणो गृहादिवदिहेष्यते | इति | यदर्थं प्राणः प्रधानः संघातः स आत्मा तद्विलक्षण इत्याह- देहाश्च देहधर्मेभ्योपि धर्मात्मोपभुक्तत इति शयनासनादिवत् संहतपरार्थत्व प्राणस्येत्याशंक्याह- स्वात्मांशांशि सजातीय विविक्तफल सद्मवत् संहतत्वात्तथा प्राज्ञो संहतात्मोपभोग कृदिति गृहावयवात् गृहात् गृहान्तराच्चासंहतस्य सद्म गृहं फलं भोग्यं यथा तथा प्राणोपि संहतत्वात् स्वासंहतस्योपभोगसाधनं | ननु यद्यपि स्वासंहतस्योपभोगसाधनं सद्म तथापि देवदत्तः संहत एव शिरः पाण्यादिमत्वात् | तथा यदर्थोऽयं देहलिंगसंघात | सोप्यन्येन केनचित् संहत प्. २२६) एवेति चेन्न | असंगात् स्थूलादिश्रुतिविरोधात् तस्माद्दृष्टान्तेन विवक्षितांशो ग्राह्य इति सद्मदृष्टान्तं प्रपञ्चयति- स्वजन्मोपचयग्लानि नाशख्याकृति जन्मदिक्धर्मानपेक्ष संलब्ध सत्वादिस्वार्थरूपकः तद्गोचरैकसन्दृष्ट विज्ञातार्थं समीक्ष्य हीति अयमर्थः | स्वस्य जन्म स्वजना स्वशब्देन गृहमुच्यते | जन्मादिशब्दैस्तद्धर्मा भण्यन्ते स्वजन्म चोपचयश्च ग्लानिश्च नाशश्चाख्याकृतिश्च उपचयादीनां जन्म च दिक्त्यता एव धर्मा स्वजन्मोपचयग्लानि ताशाख्याकृति जन्मदिक् धर्माः ताननपेक्ष्यैव सत्वादिस्वार्थरूपं संलब्धं | येन धर्माननपेक्षः स लब्धसत्वादि स्वार्थरूपकं पुनरप्यसौ किं लक्षण इति | तद्गोचरैकसन्दृष्टविज्ञाता च तच्छब्देन गोचर शब्देन च गृहतद्धर्मा भण्यन्ते तेषामेव सन्द्रष्टा तद्गोचरैकसन्द्रष्टा स एव विज्ञाता तदर्थत्वमेवं विध देवदत्ताद्यर्थत्वं गृहादेरुपलभ्येति | इदानी दार्ष्टान्तिकं प्. २२७) दर्शयति - प्राणस्येति प्राणस्य तद्गुणानां च तथार्थत्वं प्रतीयतां इति | प्राणदेहयोस्तद्धर्माणां च तथार्थत्वं प्रतीयतामिति || प्राणदेहयोः तद्धर्माणां च तथात्वमवसीयत इत्यर्थः एवमन्वयादीनां देहादिव्यतिरिक्तत्व मात्मनः स्थापितं तत्र चोदयति- ननु वेदान्तसिद्धान्तेन वस्त्वन्तरमिष्यते साख्यरान्तर्धात्मवत् किञ्चित् प्रत्यगात्मैकवस्तुन इति वस्त्वन्तराभावं पूर्ववादी साधयति- ऐकात्म्यविध्यया सर्वं प्रतीविपरिकल्पितं प्राणाद्यनात्मजातं यत् रूपं नाम च कर्म च कल्पिताकल्पितं सर्वं यदात्मैवाभ्युपेयते अन्वयव्यतिरेकोक्ति तदैक्यान्नेह युज्यते इति | अन्वयव्यतिरेकौ नोपपद्येते इति ननु कल्पितस्याकल्पितादन्वयव्यतिरेकाविति चेन्नेत्याह - नान्वयो व्यतिरेको वा कल्पितस्यानृतत्वतः तर्हि अकल्पितस्य कल्पितादन्वयव्यतिरेकादिति चेन्नेत्याह - नान्वयो व्यतिरेको वा प्. २२८) चेन्नेत्याह अकल्पितस्य चैकत्वादितरान्न प्रसिद्ध्यतीति एकत्वादित्यस्य अयमर्थः अद्वयत्वादिति तस्माद्वयांगीकरणे भेदः पारमार्थिको अंगी कर्तव्य इति | इदानीं सिद्धान्तयति पुंव्युत्पत्तिप्रधानत्वा दन्वयादेरदोषतेति अयमर्थः | न परमार्थभेदमंगीकृत्य श्रुत्या अन्वया दुच्यते किन्तु कल्पितभेदमाश्रित्य आत्मज्ञानार्थं श्रुत्यान्वयादुच्यत इति | नन्वात्मज्ञानार्थं अन्वयादिकथनं तेनैव आत्मनः सिद्धत्वात् किं तत्वमादिवाक्येनेति तत्राह - नत्वन्वयादिनेवेह वस्तुतत्वस्य संस्थितिरिति वाक्यावष्टंभाच्चेत् आत्मसिद्धिस्तच्छ्रवणात् प्रागात्मासिद्धेः कथं अन्वयादि कर्तुं शक्यते सिद्धेन हि सिद्धस्यान्वय व्यतिरेकौ भवतो यथा धूमाग्न्योरित्याशंक्य प्रागप्यात्मा असिद्धः स्वयं प्रभत्वादित्याह- अविद्याकल्पितेप्यस्मिन् आत्मप्रत्ययमानभाक् भोक्तेति गम्यते लोक इति | ननु न स्वयं प्रभ प्. २२९) आत्मा किन्तु विषयसिद्ध्या सिद्ध्यतीति नेत्याह नत्वानत्मनीति भ्रम इति यतो अन्वयादिनात्वं पदार्थशोधनमेव तस्मात् तत्सिद्धात्मानुवादेन तस्य ब्रह्मणैक्यं श्रुत्या बोध्यत इत्याह अतोऽनूद्य यथासिद्धमन्वयव्यतिरेक भोक्तृ भोग्यविभागेन श्रुत्यैकात्म्यं प्रबोध्यत इति कीदृशोऽद्वयादिरिति | तमाह- चिदन्वयो हि सर्वत्र तत्कार्येषु समीक्ष्यते व्यतिरेकोऽप्यपह्नु?त्या कार्यस्येह प्रसिद्ध्यतीति अविद्या तत्कार्येषु चिदाभासव्याप्तिश्चितो अन्वयो नाम जाग्रदाद्यवस्थानामेकैकाभावेऽपि चितोऽवस्थानं व्यतिरेको नामात्र न लोकसिद्धावित्यर्थः | अपि चैकात्म्यपक्षे अन्वयादि न संभवतीत्युक्तं तत्र विकल्प्यते मितिर्मानं मीते द्वयो तदसंभवोऽथवा अमीते मीते अन्वयाद्यसंभवो दोषत्यत इत्याह ऐकात्म्यसिद्धौ दोषः स्यादिति नन्वैकात्म्यं सदा मितमेव स्वयं प्रकाशत्वादतः सदान्वयाद्यभावं स्यादितिः तत्राह तत्सिद्धिश्च न वास्तवीति स्वरूपभूता बुद्धिर्न प्. २३०) अन्वयादिविरोधिनीत्यर्थः का तर्हि अन्वयादिविरोधिनी सिद्धिरिति प्रामाणिकीत्याह प्रामाणिकीति | अतः स्वरूपसिद्धिर्न तद्विरोधिनीत्युपसंहरति अतो नासौ विरुद्ध्यत इति अथवा अथवा असावन्वयादिरस्मद्दर्शनेन विरुद्ध्यत इति प्रामाणिकी हि तत्सिधीः अन्वयादिविरोधिनीत्युक्तं तत्रेदमाशंक्यते | मा सिद्धस्य घटादेः पुनरपि मापेक्षा दृष्टैव मात्राप्यसो मासिद्धिरविनान्वयाविरोधिनीति तत्राह न चापि मानव्यापार व्यपेक्ष्यैकात्म्य निश्चितौ तत्फलस्य समाप्तत्वादपेक्षा निष्फला यतः इति | आत्मनः स्वयंप्रकाशत्वादैकरूपत्वात् सकृदुत्पन्नज्ञानेन तद्गतसकलाविद्या निवृत्तेः न पुनर्मानापेक्षेत्यर्थः | ननौ स्वयंप्रभत्वत्वादेर्बोधोत्पत्तेः प्रागपि समानत्वात् प्रागप्यन्वयापेक्षा नेति तत्राह - यावत्त्वागमतः साक्षात् न वेत्यात्मानमद्वयम् अन्वयाद्यात्मबोधार्थं तावत् तत्केन वार्यते इति | न न्वयादेरात्मज्ञानसाधनस्य प्. २३१) अद्वैतहानिर्नेत्याह- आत्मानं च तदुत्थं च ध्यात्वैवाज्ञाततत्वतः | इति अज्ञातप्रत्यङ्मात्रं जगदित्यर्थः नन्वात्ममात्रत्वेन सर्वस्य कथं तज्ज्ञानात् तद्भावस्तत्राह तत्तत्वबोधात् तद्वाधः सर्परज्वादि बोधवदिति | अनुज्ञानमपि तव कल्पितं कथं तेनेतरबाध इति || तत्राह - कॢप्तानामपि रज्वादौ कल्पितान्तरसंश्रयात् कॢप्तान्तरापनुत्तिः स्याद्यथा तद्वदिहात्मनीति विचारफलमुपसंहरति- प्रत्यङ्मानैकमेयातो भोक्ता भोग्यं ततौऽपरम् भोग्यानां व्यभिचारेपि भौक्तैव व्यभिचारवानिति अयमर्थः स्वयं प्रभश्चिद्धातुरेवात्मा प्राणादि दृश्यत्वादनात्मा | तच्च शुक्तिकारजतवत् व्यभिचार्यात्मा कूटस्थ इति | एवं विचारं परिसमाप्य प्रकृतं श्रुतिव्याख्यान मनुवर्तयति बृहन्नित्यादिभिः प्राणो बोद्ध्यमानोपि यत्नतः नैवोपबुद्धात यदा चक्रे यत्नान्तरं तदाप्राणिनाविष्य बहुशः सुप्तं काश्योऽवबोधयत् आवेषणोत्थसंक्षोभ स्ततोऽसौ प्रत्यबुद्ध्यत | प्. २३२) इत्येतद्वार्त्रिकद्वयं सुबोधम् || ननु उत्थान कर्ताऽत्मा स्वयमेवोत्तिष्ठति किमावेषणादिनेति | तत्राह- कारणानामिदं वृत्तं यन्निमित्तान्तराश्रयात् स्वात्मकार्यसमुद्भूतिरंबरादभ सूत्रिवदिति || यद्यप्याकाशमभोत्पत्तिकारणं तथापि पुरोवातादिनिमित्तमपेक्षितमेवमात्मापि कर्मादिकमपेक्षत इत्यर्थः | ननु उत्तानं नाम सुप्ति स्थानादात्मनः उत्पत्तिः ततश्च घटतुल्यतेत्येति | तत्राह- आपेक्षा? प्लीनबुद्ध्यादि समुत्पत्तौ परात्मनः घटाकाशवदुत्पत्तिर्नाञ्जसैव सदा दृशेरिति प्रासंगिकं चोद्यं परिहृत्य त आह - पुरुषं सुप्तमित्यादिवाक्यस्यार्थं प्रकृतमुपसंहरति तस्मादप्रतिबोधेन प्रायो भोक्तेति गद्यताम् पुंसस्तत्प्रतिबोधेन भोक्तृतैवावसीयत इति | ननु प्राणदेवतायाः अपि भोक्तृत्वं प्रसिद्धं तत्कथं इति | तत्राह- अदाहकानां दग्धृत्वं यथा दाहकसन्निधे भोक्तृसंयोगतसद्वत् भोक्तृत्वं देवतात्मनः | इति प्. २३३) स होवाचेति प्रश्नवाक्यं वृत्तानुद्रवणपूर्वकमवतारयति- देहेन्द्रियमनो धीभ्यो विविच्यात्मानमेकलं भोक्तारं दर्शयित्वाथ राजा गार्ग्यमपृच्छेतति तत्राह - आवेषणेन बुबुधे यं प्राणादिविलक्षणं क्वाऽभूदयं पुरा बोधात् भूतश्चागतवान् पुमान् इति | विज्ञानमय इत्यत्र विज्ञानं परं ब्रह्म तद्विकारो जीवो अतो विकारार्थे मयडितिकेचित् तन्निवृत्त्यर्थमाह- अन्तःकरणसंबन्धे विज्ञानमिति कर्तरि प्रत्ययः करणार्थः स्यात् क्रियायां भावसाधनम् प्रमेयार्थविवक्षायां शब्दः स्यात् कर्मसाधनं यथोक्तानामतद्भावात् प्रायार्थं प्रत्यगात्मनि इति एषोऽर्थः लुट्प्रत्ययान्तस्य विज्ञानमिति पदस्यान्तः करणेन संबन्धे विवक्षिते अन्तःकरणवाचके विवक्षिते कर्तरि प्रत्ययः स्यात् तस्य ज्ञानकर्तृत्वात् ततश्च विजानातीति | विज्ञानमन्तःकरणं स्यात् यदा चक्षुरादि वाचकत्वं पदस्य विवक्ष्यते तदा स प्रत्ययः करणार्थः स्यात् तदा प्. २३४) विज्ञायते अनेनेति विज्ञानं चक्षुरादि स्याद्यदा ज्ञानक्रियया संबन्धस्तदा विज्ञप्तिः विज्ञानमिति क्रिया विज्ञानं स्याद्यदा घटादिवाचकत्वं विज्ञानपदस्य विवक्ष्यते तदा विज्ञायत इति विज्ञानं घटादि स्यादे * * तेष्वर्थेषु विज्ञानशब्दो वर्तते नान्यत्र लक्षणाव्यतिरेकेण यथोक्तानां च * * * ब्रह्मण्यसंभवात् कथमसंभवो ज्ञानकर्तृतावत् ब्रह्म कूटस्थत्वादत एव न क्रियाकरणं कर्मकारणं चाप्रमेयमिति श्रुतिविरोधाच्च न कर्मतो न विज्ञानशब्देनात्र ब्रह्म ग्राह्यमतः तद्विकारत्वेन मयटोपि विकारार्थताऽश्रयितुमशक्या || अतो विजानातीति विज्ञानमन्तःकरणं तन्मयं तत्प्रायं प्रत्यगात्मान्तःकरण विकारत्वेनाभ्युपगमात् प्रत्यगात्मन इति उत्तराणि मयटः प्रयार्थत्वसाधकानि वार्तिकानि सुबोधानि- स्वाभासवदविद्योत्थ बुद्ध्यादिव्याप्तिविभ्रमात् तदात्मत्वाभिमानित्वाद्विज्ञानमयताऽत्मनः साक्षित्वेनोपलभ्यत्वात् साक्ष्यबुद्ध्यादिसंश्रयात् प्. २३५) अकारकफलत्वेन तेन प्रायार्थतेष्यते यतो विज्ञानदानी सन् सर्वं वस्त्ववगच्छति विज्ञानमयता तस्मात् प्रतीचो बोधकारणात् विज्ञानेन विशिष्टं वा यस्मान्नेयं प्रपद्यते प्रायार्थत्वं प्रतीचोऽतः तदभिन्नग्रहात् भवेत् विज्ञानमय इत्युक्त्वा पृथिव्यादिमयोक्तितः षड्विकारनिषेधाच्च प्रायार्थत्वं समञ्जसमिति पुरुषशब्दार्थं कथयति- अनात्मनो यतोऽशेषात् कल्पितत्वादकल्पितः पूरयन् पुरुषः प्रत्यक् सर्पादीन् रशना यथेति ननु पुरिशयनात् पुरुष इति कस्मान्न गृह्यत इति तत्राह- व्युत्पत्तिरियमेवात्र तान् पर्यस्य समीक्षणात् स वा इति ह्युपक्रम्य नैनैनेत्यादिनिर्णयात् एवं तावत् विज्ञानादिपदस्यार्थोऽभिहितः इदानीं गतग्रन्थेनोत्तरग्रन्थस्य संबन्धमायोच्यते इत्याह - इयं तावत् पदाथोक्तिः संबन्धोक्तिरथाधुनेति || ननु किमिदं अधरोत्तरकरणं | संबन्धकथनपूर्वकत्वात् पदार्थकथनस्य नानियमात् प्. २३६) प्रतिषेधाच्च संबन्धकथनाय प्रश्नमुत्थापयति - प्रश्नस्यत्वैष इत्यादेः किमर्थोऽयं उपमीम इति | उभयदेहव्यतिरिक्तात्मनो याथार्थ्यप्रतिपत्त्यर्थं क्वैष इत्याद्यारंभ इति कथयति भर्तृप्रपञ्चोपन्यासपूर्वकश्चोद्यैक मूलां प्रश्नोक्तिं केचित् व्याचक्षते परे याथार्थ्यप्रतिपत्तर्थमुत्थितस्य प्रचक्षत इति भर्तृप्रपञ्चैर्यथा प्रश्नवाक्यं प्रतिवचनवाक्यं च व्याख्यातं तथा दर्शयति | तत्र प्रश्नवाक्यं यथा तैर्ह्याख्यातं तथा प्रथतं दशयति - आत्मा तावच्चिद्रूपं करणाति च ज्ञानसाधनानि विद्यन्ते मुक्तेरर्वागेवं सति कथमस्य कादाचित्कं | आत्मज्ञानमनात्मज्ञानं च किमेतत् शरीरपरिच्छेत्यागेन अन्यत्र गतत्वादथवा सुप्तिकाले नष्टत्वात् | गतत्वपक्षे पुनरागमन कारणं च वाच्यमिति | नन्वेतत् सर्वं गार्ग्येणैव प्रष्टव्यं आत्मनः शिष्यत्वांगीकरणात् किमिति न पृष्टवान् सत्यमज्ञत्वादित्याह प्रष्टव्यमेतत् गार्ग्येण शिष्यत्वान्नत्वचूचुदत् इति | ननु प्रश्नकरणापरिज्ञानात् उपरत प्. २३७) प्रश्नं किमिति राजा अपृच्छदिति तत्राह नैवोभास्ते तथापि नो बोधा मत्युपगमात् स्वयमिति प्येव स्वेति प्रतिज्ञातत्वादित्यर्थः ननु प्रतिज्ञातमपि त्यज्यतां को दोषः तत्राह अर्थिनोऽर्थं प्रतिज्ञाय नासंपाद्य निवर्तते यथार्थितं स पुरुष इति सत् पुरुषव्रतमिति एवं गार्ग्यप्रश्नाकरणे राज्ञः स्वयं प्रश्नकरणे तात्पर्यमुक्त्वा प्रकृतमेव प्रश्नव्याख्यानं भर्तृ प्रपञ्चाभिमतं अनुसन्दधाति कूटस्थो अस्यावबोधश्चेति | अयमर्थः कूटस्थो बोध आत्मा न कादाचित्कज्ञान अतो न गतो नापि नष्ट इति चेदिति एतदनुभवविरुद्ध इत्याह कादाचित्कं कुतो भवेदिति न किञ्चिदवेदिषमित्याद्यनुभवविरुद्धत्वं त्वयोच्यते | इत्यर्थः | बोधस्यानित्यत्वे नायं दोष इत्याह मतोऽवबोधोनित्यश्चेत् कादिचित्कयं तदार्थवत् इत्यस्यायमर्थः || तदा कादाचित्कज्ञानमुपपन्नं आत्मन इत्येतच्च न घटते इत्युक्तं पुंसो प्. २३८) अस्येत्यत्र एवं त्वेष तदाभूदित्यादि प्रश्न वाक्यं भर्तृप्रपञ्चैर्यथा चोद्यगर्भं व्याख्यातं तथा दर्शितं यथा प्रतिवचनवाक्यं साभिप्रायं तैर्व्याख्यातं चोद्योत्तरत्वेन तथा दर्शयति- देहादिष्वभिमानोऽस्य कादाचित्कः सहेतुकः | आगमापायि साक्षित्वं नित्यमेवानिमित्ततः इति | अयमर्थः नित्यबाध एवात्मा बुद्ध्यादिसाक्षित्वात्तथापि देहस्थस्यैव कादाचित्को बोधो देहाद्यभिमानलक्षण उपपद्यते | धर्मादि फलदानायोद्बुद्धं भवति | देहादिष्वात्माभिमानो भवति | यदाऽनुद्वुद्धं तदा न कस्मात् नित्यबोधत्वं कादाचित्कबोधं च आत्मन उपपन्नमिति | ननु हेतुकतत्वेपि देहाभिमानं सदा कस्मान्न भवेत् हेतोः सदा भावादिति | तत्राह - इदमेव यतो वृत्तं कारणापेक्षिणां सतां अभूत्वा भवनं तस्मात् कादचित्कयं न दोषभाक् इति | इदानीं भर्तृप्रपञ्चव्याख्यानमपनुदति उत्तरवार्त्तिक्य?द्वयेन || प्. २३९) प्रतीच्येव यतश्चाभूदागाच्च प्रत्यगात्मनः प्रश्नार्थप्रतिकूलत्वात् प्रत्युक्तेर्न गतार्थता गत्यादिसाधनानां च देह एव स्थितेः कुतः देहान्तरगतिः पुंसो नापि नाशोऽस्य युक्तिमान् इति भवद्व्याख्यानं न प्रश्नवाक्यानुगुणं इत्यर्थः | देहादिष्वभिमान इत्यारभ्य कर्तृप्रपञ्चव्याख्यान निराकरणमेवेति केचित् एवं भर्तृप्रपञ्चव्याख्यानमपनुद्य याथात्म्य प्रतिपत्त्यर्थमित्यत्र सूत्रितं भगवद्वादमतं प्रपञ्चयति वार्तिकचतुष्टयेन तत् क्रमेण व्याख्यायते || साक्षात् ब्रह्मावबोधस्य प्रतिज्ञातत्वकारणात् भोक्तृभोक्तव्ययोस्तत्वं वक्तुं युक्तमतोऽञ्जसा इत्येतत् सुबोधं किं तत् भोक्तृस्वरूपं भोक्तव्यस्य वा किमिति | तदुभयं विविच्य दर्शयति कर्मादिहेतुजं रूपं अतत्वं तदन्वयादनिमित्तं स्वतस्तस्मात्सर्वदा व्यभिचारतः अकारकक्रिया कार्या रूपमिति अविद्यान्तं सर्वं भोग्यं सुप्तावनन्वयात् अव्यभिचारि चैतन्यं क्रियाकारकफल विलक्षणमात्मनो प्. २४०) रूपमित्यर्थः | एवं विधं रूपं सुषुप्त्यवस्थायां बोधयितुमिष्टमित्याह - प्राक् प्रतिबोधत सुबोधयिषितं भोक्तुरस्मात् गोचरवर्तिन इति | अनन्वयोऽसिद्ध इति चेन्नेत्याह यतोऽस्य न पुराबोधात् कर्मादौ कार्यमण्वपि प्रतीचो गृह्यते मानादिति | यत एवं तस्मात् कूटस्थोऽद्वयचैतन्य स्वभाव एवामेत्युपसंहरति अतोऽयं तत्स्वभावत इति || एवमुत्तरग्रन्थस्य भगवत्पादाभिप्रेतमर्थं उपवर्ण्य अक्षरव्याख्यानं प्रारभते- क्वाऽभूदेष पुराबोधात् कुतश्चायमुपागतः आचक्ष्वैतद्द्वयं गार्ग्य स्थिता वा गानेऽवधिं | इति | प्रश्नकर्तुरभिप्रायं प्रकटयति | अभूत् प्रतीचोऽन्यत्रायमस्माच्चायमागत यदि चेत् कारकत्वं स्यान्नचेत् भ्रान्तिरियं भवेत् इति | स्वस्वरूपादन्यत्र सुप्तिकाले स्हितः ततश्चागतश्चेत् तदा क्रियाकारकफलव्यवहारस्य भ्रान्तत्वं इतरस्य चाभ्रान्तत्वे प्रमाणमाह यत्र वा अन्यदित्येवं यत्र त्वस्येति चापरं अविद्याविद्ययो कार्यं तथा च श्रुतिरब्रवीदिति || प्. २४१) वक्तुं प्रष्टुं च बाला किं न यतो जज्ञिवांस्ततः प्रश्नयोः स्वयमेवर्थं काश्यो वक्तुं प्रचक्रमे | पृष्टेनापि न विज्ञातं भवता तदिदं मया उच्यमानं यथातत्वं सम्यक् त्वं श्रोतुमर्हसि यत्रैष एतत्सुप्तोऽभूत् स्वनामामन्त्रणे ध्वनि नाश्रौषीत् यन्निमित्तज्ञः तन्निमित्तमिदं शृणु इति | एतद्वार्तिकत्रयं सुबोधम् यन्निमित्तमित्यस्य अयमर्थः | उपाध्युपसंहारेण ब्रह्मण्य वश्थानं विशेषज्ञानाभावे निमित्तमिति एषामिति षष्ठी प्रयोगस्य तात्पर्याथमाह- नैविध्यं लक्ष्यते यस्मात् बुद्ध्यादिप्राणभूमिषु तदेषामिति षष्ठीयं श्रुत्या तस्मात् प्रयुज्यते प्रत्यक् चिदवभासं च कारणानुगमोऽपरः तथा च करणात्मनो वाह्यगोचरजिता इति बुद्ध्यादिप्राणपर्यन्तेषु पदार्थेषु पदार्थत्रयं गम्यते | विवक्षया षष्ठीप्रयोग इत्यर्थः पदार्थ त्रयं बुद्ध्यादिपदार्थेषु प्रतीयमानमेषामिति निर्धारणषष्ठ्यां निर्दिश्यत इत्येषामिति निर्दिष्टपदार्थानां विनियोगं | जाग्रत् कर्मक्षय इत्यारभ्य दर्शयिष्यति इदानीन्तनः प्. २४२) प्राक्तनवार्तिकैः कर्मादिहेतुकोऽस्य संसार इति दर्शयति | कर्मादिक्षयात्तस्य स्वापे स्वरूपावस्थानमिति प्रतिपादनाय प्रथमं तावत् कर्महेतुकं दर्शयति - बुद्ध्यादेः कृत्स्नकार्यस्य पुंकर्मोद्भूतिहेतुतः बुद्ध्याद्युत्क्षेप संहारौ तस्मात् कर्मनिबन्धनाविति न केवलं कर्महेतुरेवास्य संसारो ज्ञानाभासाभ्यासं च भावितव्यमित्याह- स्वात्मावभासको भोक्ता कर्तात्वज्ञानहेतुकः द्वयाविविक्तो हि परो भोक्ता कर्तेति चोच्यते इति कर्मक्षयात् संसारक्षय इत्युक्तं तत् प्रपञ्चयति- जाग्रत् फल प्रयोक्तस्य यदा कर्म प्रहीयते व्युत्थानहोत्वसद्भावात् तदा कर्ता सुषुप्सत्वीति भोक्तृत्वादेरन्योन्यहेतुकत्वं दर्शयति- ज्ञानात् प्राक् संसाराविच्छेद प्रतिपादनाय भोक्तृप्रयुक्तं कर्तृत्वं कर्त्रा कर्म प्रयुज्यते | कर्मप्रयुक्तो भोगश्च ततः संस्कारसंभव सुखदुःखादिसंस्कार संस्कृतोयञ्जलः पुमान् रागद्वेषादिनाक्षिप्तः ततो भूयः प्रवर्तते || इति प्. २४३) भोक्तृत्वादेरन्योन्यकार्यकारणत्वं फलमाह तदनुवादपूर्वकं- अन्योन्यं कार्यता चैषां कारणत्वं तथैव च तेनानुच्छिन्नसंस्कार आत्माऽयं प्राक् प्रबोधत | इति | अनुच्छिन्नसंस्कारत्वे किं फलतीदमित्याह अविद्यानाभिसंबन्धो मिथ्याधीचक्रसंस्थितः आब्रह्मस्थाण्वयं योगी बाभ्रमीत्यनिशं पर | इति एवं संसारो वर्णितः इदानीं षष्ठीनिर्दिष्टपदार्थानां पृथक् विनियोगं दर्शयति | जाग्रत् कर्मक्षये सोयं आदायाशेषभावनां असंबुद्धात्मको भूतमनो बुद्ध्यादिरूपिणा आधिस्वभावजेनेति कर्ता दानस्य भण्यते आदायेत्यनेन कर्ता दानस्य भण्यत इत्येतत् संबध्यते | विज्ञानेनेति करणत्वेन निर्दिष्टत्वं विज्ञानमसंबुद्धात्मकोद्भूतमनोबुद्ध्यादिरूपिणा आशस्वभावजेनेति निर्दिश्यते आदानस्याभासं करणमित्यर्थः कर्तेत्येके कर्तारं ल्यबन्तोक्तं विविच्य दर्शयति - प्रत्यक्विद भवासान्तः कर्ता क्षेत्रज्ञ उच्यते इति आभासं करणं आभासिकर्तेत्यर्थः आदानकर्मभूतविज्ञानं प्. २४४) रञ्जनशब्दाभिहितमिति इन्द्रियाणां स्वविषयग्रहणसामर्थ्यमित्याहविज्ञानं सामर्थ्यं विषयोन्मुखं वागादीनां इहग्राह्यम् प्राणानां विषयार्जनमिति | भावना शब्देनापि तदेवोच्यते क्षेत्रज्ञः इन्द्रियाणां विषयग्रहणसामर्थ्यमादाय चैतन्याभासकरणेन अज्ञातब्रह्माकाशे कारणानुगम शब्दवाच्ये शेत इति एकोऽर्थो अस्याभिहितः इदानीं अर्थान्तरमाह - शक्तयः करणान्यत्र गृह्यन्ते || कारणात्मना परमार्थगृहीता तु स्वाभासाभिन्नविग्रह इति एकोऽर्थः स विषयाणि करणानि साभासाज्ञानात्मने गृह्यन्ते गृहीता पर एवाभासत इति अत्र प्रमाणमाह- कथं संवर्गविद्यायां प्राणवायवात्मना श्रुतिः वागग्न्याद्युपसंहारं वक्ति नान्येन कारणात् सामान्याशावसानं च प्राणे सर्वं प्रतिष्ठितं प्राणबन्धनवाक्याच्च सूत्रमेतद्यथोदितमिति आदानशब्दार्थं कथयति- आविर्भूतस्य कार्यस्य संसर्गः कारणात्मना प्. २४५) वागाद्यादानमत्र स्यात् बुद्बुदानां यथांभसा इति तृतीया करणे व्याख्याता इदानीं अर्थान्तरमाह- सहार्थे वा तृतीयेयं विज्ञानेनेति या श्रुता सह प्रमातृज्ञानेन वागादेरुपसंहृतिरिति प्रमात्रा सह करणानामुपसंहृतिरित्यर्थः अथवा विषयज्ञानेन सह पुनरप्यर्थान्तरं तृतीयाया आह- यदि वाऽस्तु तृतीयेवं इत्थं भूतार्थवाचिनि प्रत्यक् ज्ञानस्वभावेन कार्यकारणसंहृतिरिति अनुभवस्वरूपेण सकारणस्य जगतः संहृतिरित्यर्थः | एष शब्दार्थं कथयति- अनन्यरूपप्रत्यक्षो य एष इति भण्यते इति | स्वयं प्रभः सन् पदार्थः प्रत्यक्भूत एषभण्यत इत्यर्थः | त्वमर्थ इत्येके | तस्य तत्पदार्थस्य स्वत्व मर्थेनैकत्वं संप्रतिपत्त्यर्थं अन्तर्हृदयकीर्तनमिति प्रतीचस्तावधृदयं स्थानान्तमेव ब्रह्मणोऽपीत्युक्त एकत्वं सिद्धं भवतीत्यर्थः | एकत्वज्ञानाय त्वंपदार्थविवेकं दर्शयति | प्. २४६) परात् प्रमेयभूमिभ्योप्युत्थाप्य मन आदरात् प्रत्यक् प्रपन्नया दृष्ट्या पश्यात्मानं त्वमञ्जसेति देहाद्यहंकारपदार्थेभ्यो विविच्य आत्मानं सकलबुद्धि तद्बुद्धिसाक्षित्वेन आत्मानं विवेकदृष्ट्या जानीयादित्यर्थः || पदार्थविवेकप्रकारं दर्शयति- आत्मबुद्धिरियं पुंसां वक्ष्यतेऽव्यभिचारिणीष्वनात्मोऽबुद्धिषु प्रत्यगात्मनीति | आत्मबुद्धिश्चैतन्यं तदव्यभिचारि कूटस्थं इतरदनात्मज्ञानं विषयेण सह व्यभिचारीत्येवं निरूपणं पदार्थशोधनमित्यर्थः | ननु स्वरूप दृष्टिः कूटस्था चेत् कथं तत्र कर्तृत्वादि प्रतिभानमिति | तत्राह- बुद्ध्यात्माभापि सा बाह्य पदार्थज्ञानविभ्रमात् संकीर्यमाणेवाभाति तमसोपहतात्मनां इति | बुद्धश्चासावात्मा च बुद्धात्मा तस्य आभा स्वरूपभूता दृष्टिः सा कूटस्थापि बाह्यपदार्थज्ञान विभ्रमाद्देहाद्यनात्मत्वात्मस्वात्म विभ्रमात् संकीर्यमाणेवाभाति कर्तृत्वादिधर्मवतीवाभातीत्याह - बुद्धिराकारात्मा कारापि प्. २४७) इत्यन्ये कर्तृत्वादेरविद्याकृतत्व फलमाहदग्धे कार्ये च निश्शेषे कारणे चात्मविद्यया अपूर्वाद्यात्मनात्मानं आत्मन्येवावसीयतां इति एकत्वज्ञानाय त्वं पदार्थविवेको दर्शितः इदानीं एकत्वज्ञानमादाय इत्यनेनोच्यत इत्याह आदायादाय?काश शब्दाभ्यामैकात्म्यं प्रतिपाद्यते क्षेत्रज्ञेश्वरयोः साक्षात् श्रुत्येहाज्ञानहानतः इति आदायेति त्वमर्थो भण्यते | आकाश इति तदर्थः शेत इत्येतयोरेकत्वमुच्यत इत्यर्थः हृदयमन्तः करण इत्याह कार्त्स्न्यात् हृदयशब्देन बुद्धिरत्राभिधीयत इति किमर्थमिति चेत्तत्राह ऐकार्थ्य प्रतिपत्त्यर्थं क्षेत्रज्ञपरमात्मनोरिति | कीदृशैकार्थ्यं तयोर्विवक्षितमिति दृष्टान्तेन साधयति | घटाकाशो महाकाश इत्युक्तौ एकधीर्यथा तथेहापि | कथं नाम प्रत्यक्धीः स्यादितीर्यत इति | नन्वाकाशशब्दमत्र भूताकाशं नेत्याह- बुद्धेरन्तः प्रतीचोऽन्यो नार्थः संभाव्यते वतः तस्मादाकाशशब्देन प्रत्यगात्माऽभिधीयते इति अत्र आकाशशब्दाभि प्. २४८) अभिहितमात्मशब्देनानुकृष्य ततो जगदुम्पत्तिश्रवणाच्च आकाशशब्द पर इत्याह- प्राणादीनां यतो जन्म वक्ष्यते प्रत्यगात्मनः तस्माच्चाकाशशब्देन ब्रह्मैवात्राभिधीयते इति | श्रुत्यन्तरवशाच्च आकाशशब्देन ब्रह्मैवोच्यते इत्याह अप्याकाशो हवै नाम सता सौम्येति च श्रुतेः ब्रह्माकाशात् परो नान्य आकाश इह गृह्यते || इति शयनशब्दार्थं कथयति- स्वतोऽवगमरूपेऽस्मिन् कूटस्थे कारकात्मना कार्त्स्न्येनावसितुर्भोक्तुं शेत इत्यभिधीयते || इति कुमारादिदृष्टान्तोऽपि शयनशब्दस्यैवमर्थत्वे घटत इत्याह- दृष्टान्तश्च कुमारादिः तथा च घटतेऽञ्जसा प्रत्यक् चैतन्यमात्रत्वादिति | ननु शयनं निद्रा नेत्याह - न तु निद्रेह युज्यत इति उक्तहेतुबलादित्यर्थः ताकानीत्यादिवाक्यमाशंकापूर्वमवतारयति- देहाद्यध्यक्षतां हित्वा यदायं वर्तते तदा स्वात्मन्येवास्त इत्येतत् कुतश्चेत् स्वपितीत्यतः || प्. २४९) इति | हेतुसमुच्चयार्थं चेदं वाक्यमित्याह इतश्च प्रत्यगात्मस्थो नान्यत्रागादयं पुमान् सुषुप्तो स्वपितीत्युक्तेः तदेतदभिधीयते इति | आकाशशब्देन ब्रह्मग्रहान् स्वपिति शब्दाच्चेत्यर्थः | एवं स्वव्याख्यानन्तदोषामित्यादि वाक्यस्य प्रदर्श्य भर्तृप्रपञ्च व्याख्यानं दर्शयति | निराकरणायमद्ये व्याचक्षते बुद्धिविज्ञाने नीति विसृतां वागादिज्ञानमादाय हृत्रवे शेते य उत्थित इति बुद्ध्या वागादिकरणज्ञानमादाय पुण्डरीकावच्छिन्ने भूताकाशे इति व्याचक्षते || स्वद्व्याख्याने विस्मितास्मद्व्याख्यानं दुष्टं मत्यमाना इत्यर्थः उपसंहारक्रमं दर्शयति- सुषुप्तुर्मनसैवात्मा मनस्यैव समूहति प्राणान् स्वशक्तिभिः साक मनोऽप्यात्मनि लीयते इति स्वापकाले इन्द्रियाणि मनोरूपेण संहरतिः क्षेत्रज्ञो मनश्च स्वात्मन्येव संहरतोत्यर्थः | एवमुपसंहृतकरणः कथं स्वप्नान् पश्यतीति | तत्राह- विशीर्णकरणग्रामो बुद्धिभावनया युतः प्. २५०) हृद्याकाशात् प्रसृत्यात्मा नाडीभिः स्वप्नमश्नुतेः मनोवागादि विज्ञानं विग्रहं करणाख्ययेति || अयम्र्थः जाग्रदवस्थायां मनोवागादिविज्ञानविग्रहं क्षेत्रज्ञ सुप्तिकाले संहृति सकलेन्द्रियव्यापारो जाग्रद्वासनायुक्ते हृदयाकाशात् नाडीद्वारेण निर्गम्य स्वप्नाननुभवति करणसंज्ञया बुद्ध्या विज्ञानेनेति निर्दुष्टयेति विज्ञानशब्देन यदा कर्ता विवक्ष्यते तदा क्षेत्रज्ञः स्याद्यदाभावो विवक्ष्यते तदापरं स्यादित्येतदाह विजानातीति | कर्तृस्थे परस्मिन् भावसाधन इति | ननु हृदयप्रदेशावच्छिन्नाकाश एव सुप्तिकाले शयनमात्मनो नियमेन किमिति श्रुत्या भण्यते शरीरप्रदे शान्तरावच्छिन्नाकाशं विहायेति तत्राभिप्रायमाह- प्रकाशवृत्तिर्याऽज्ञस्य साऽभूद्धर्मानुगा सती उद्गच्छती यतस्तस्मात् वृत्ति विशेषलयं विदुः इति | आत्मनश्चैतन्यं हृदयधर्मनाडीद्वारेण शब्दादिविषयं भवतीति कृत्वा तदवच्छिन्नाकाशे शयनमुच्यत इत्यर्थः वागादिज्ञानयेत्यस्य प्. २५१) प्रपञ्चं स्वगोचरोन्मुखज्ञानं वागादीनामशेषतः आदायाभावनाबुद्ध्या शेतेऽज्ञो हृदयांबर इति एतत् शयनशब्दार्थं कथयति भावनारूपि विज्ञानमभिव्यक्तं यदा हृदि क्षेत्रज्ञस्यार्थवत् भाति शेते हृदीत्यतो वाच इति जाग्रद्वासनारूपं विज्ञानं हृदयाकाले कर्मवशादभिव्यक्तं अर्थवच्छब्दादि विषयाकारवत् भाति इति हृदयाकाशे शेत इत्युच्यते इत्यर्थः एतद्व्याख्यानमुपसंहरति | एवं श्रुतिरियं कैश्चिद्व्याख्यातातिप्रयत्नतः इति | अत्र दूषणसंभावनायाह- परीक्ष्यैतद्द्वयं ग्राह्यं स्वयमेव परीक्षकैः इति भर्तृप्रपञ्चव्याख्यानं दृष्टमिति अर्थः दोषं दर्शयति बहुभावनया बुद्धेः श्रुतत्वादुपसंहृते न स्यात्तयोपसंहारः तेनेयं कल्पना मृधा इति गृहीतं मन इति बुद्धेरप्युपसंहारश्रवणात् बुद्ध्योपसंहारकल्पनमपव्याख्यानमित्यर्थः एवं भर्तृप्रपञ्चव्याख्यानमपनुद्य श्रुतिव्याख्यन मेवानुवर्तयति प्. २५२) स्वगोचरेषूत्सृष्टानि यदा गृह्णात्ययं स्वयम् वागादीनि तदैवेनं स्वपीमिति प्रचक्षते || इति स्वपिति नामबलात् सुप्तिकाले स्वरूपे अवस्थानं सिद्धमित्युपसंहरति | समाख्यासंश्रयात्तस्मात् अभूत् प्राक् प्रत्यगात्मनि नसश्च कर्णादिरपि नाम भवति | तस्मात् कथं नामवत्वात् स्वरूपस्थानमित्येतदाह व्यभिचारोऽपि चेन्नाम्नीति | तर्हि स्वरूपावस्थाने युक्तिरुत्तरवाक्येनोच्यत इत्याह - ततो युक्तिरपीर्यत इति | प्राण शब्देन घ्राणेन्द्रिय मुच्यते न मुख्यप्राण इत्याहः वागादिप्रकृतौ प्राणशब्दो घ्राणोऽवगम्यते मुख्यस्यानुप संहारान्न तद्वाचक इष्यत इति | एवं नामप्रसिद्धितो युक्तिततश्च सर्वकरणोपसंहारे सर्वसंसारव्यावृत्तं प्रत्यगात्मा भवतीत्युक्तं तत्रेदमाशंक्यते | करणव्यापाराभावेऽपि स्वप्नावस्थायां संसारदर्शनादस्य स्वास्वाभाविकः संसार इति || तत्राह वासनामात्रहेतुश्च स्वप्ने कर्मेन्द्रियाश्रयः | प्. २५३) सर्वेन्द्रियाणां लीनत्वात् व्यापारो न प्रबोधवत् इति वागाद्युपाधिसंबन्धे संसारित्वमिवेक्ष्यते ते तूपसंहृताः सर्वे संसारित्वमतो दृशेरिति एतत्पूर्वस्य प्रपञ्चं स यत्रेत्यादिवाक्यस्य आशंकां दर्शयति ननु स्वप्नेपि जाग्रत् प्रत्यक्षमुपलभ्यते- सर्वेन्द्रियवियोगेपि सुखिदुःखित्वमात्मनः नन्वेवं चोद्यमुद्भाव्य वासनामात्रहेतुश्चेत्यत्र परिहृतं सत्यं स्वयं वार्तिककृता इदानीं स यत्रेति वाक्यावतारणाय एतच्चोद्यमुद्भाव्यत इत्येतद्देषःदाह स यत्रेत्यादिवक्यमस्य चोद्यस्य उत्तरत्वेनावतारयति | मैवं मृषात्वात् स्वप्नोक्तसुखदुःखादिलक्षण संसारस्येत्यतोवक्ति श्रुतिस्तस्य मृषार्थतामिति जागरितं सुषुप्तं च परमार्थत्वेनाभिमतमपि आत्मनो न संभवति कुतः स्वप्न इत्याहनास्य स्वापं प्रबोदो वा कुतः स्वप्नस्य संभवः इति | तस्मादवस्थात्रयमात्ममात्रमित्याह प्रत्यक् स्वभाव एवास्य जाग्रत्स्वप्न सुषुप्तयः | इति | अथवा नाऽस्येत्यनेन अवस्थात्रयमिथ्यात्वं प्. २५४) उक्तं अतः एव तदविद्यामात्र मित्येतदनेन उच्यते स्वभावशब्देनाविद्योग्रहात् स्वभावस्तु प्रवर्तत इति स्मृतेः तर्हि अवस्था प्रवृत्तिः कथं तत्राह- सुप्तः प्रबुद्ध इत्येवं स्वप्नं पश्यति चेति यः विकल्प एव भूतानां अविद्याराति शायिनां इति द्वितीयपक्षे पूर्वस्यायं प्रपञ्चः किं बहुना जगन्मायामात्रं तस्य चात्मा तत्वमित्येतदाह मायामात्रमिदं सर्वं जगत् स्थावरजंगमम् सर्पादरिवरं चादिस्तत्वमस्य परं पदमिति यद्यप्येवमिदं तथाप्यात्मतत्वापरिज्ञानात् अयं कर्तृत्वप्रमुखसंसारे निमग्न इत्याहचित्तसंमोहमात्रेस्मिन् लोकोयं परिखिद्यते दिङ्गोहाकुलविज्ञानो नष्टमार्ग इवाध्वगः इति प्रत्यगयानात् संसार इत्युक्तमर्थात् तज्ज्ञानात् मोक्षमिति चाभिहितं तत्र भगवद्वाक्यं प्रमाणमित्याह- अस्मिन्नर्थे जगादेमौ श्लोकौ यदुकुलोद्वहपुराणः शाश्वतो विष्णुः प्रपन्नाय किरीटिनः इति | श्लोकौ पठति प्. २५५) न मां निष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः माययापहृतज्ञानाः आसुरं भावमाश्रिताः दैवी ह्येषा गुणमयी मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायामेतां तरन्ति तु इति मामेवेत्यादेरर्थमाह- आत्मैवेदं जगत्सर्वं सत्या पूर्वादिलक्षणम् वेत्ति यस्तत्वतो वाक्यात् तस्यैवेह कृतार्थतेति ननु ज्ञानं चेन्मोक्षं किं वाक्यजज्ञानेनाक्षादिज्ञानेनापि स्यादिति तत्राह- प्रत्यक्षमोवसाययेव जगज्ज्ञानमशेषतः इति भ्रान्तिरित्यर्थः | नन्वज्ञानसंबन्धं पारमार्थिकं नेत्याह - प्रत्यगात्मन्यविद्येति | क्वविद्यापरिकल्पनेति परतन्त्रत्वाच्च स्वप्नादेर्मृषात्वमित्याह स्वार्थं प्रत्येव विज्ञेया सदसत्वादिकल्पना जाग्रत् स्वप्नावतः सिद्धौ स्वार्थं प्रत्येव न स्वतः इति | अथवा आत्मवज्जगतः स्वतः सिद्धत्वात् परमार्थमिति तत्राह - स्वार्थं प्रत्येवेति || ननु जाग्रवदुपलक्ष्यमाणत्वात् स्वप्नः सत्य इत्याह वागादिसाध्यसन्दृष्टे स्वप्नो बोधसमो यदि इति | अत्र दूषणमाह अवस्थात्रयस्यास्य कुतः प्. २५६) सिद्धिरिति ईर्यतामिति | स्वप्नयस सत्यत्वे सा पिञ्छाग्रदेव स्यादित्यर्थः | क्त्वान्तोक्तिबलाच्च स्वप्नो मृषेत्याह आदायेति च क्त्वान्तोक्तेः पूर्व कालेककर्मणः स्वप्न एव तु संसिद्धिरादावन्ते ह्यसंभवादिति | आदायेत्यनेन प्राणान् गृहीत्वेत्येतद्विवक्षितं | ग्रहणादानयोरेकत्वात् नन्वेवं किमिति व्याख्यायते | उच्यते आदायेत्यत्र जागरितात् सुषुप्तापत्तिरुच्यते | न स्वप्ना पत्तिरतः एवं व्याख्यायते | अथवा भर्तृप्रपञ्चपक्षमाश्रित्येदमुच्यते | तेषामादायेत्यन्यवाक्यस्य स्वप्नविषयत्वात् | एतदुक्तं भवति क्त्वान्तोक्ति बलाज्जागरिते स्वप्नाभावो गम्यते सुषुप्ते चाभावः सिद्ध एव प्रतिभारूपत्वात् स्वप्नस्य तस्मान्मध्यम एव सिद्धेर्मृषात्वमिति इत्थं स्वप्नदृष्टपदार्थानां मिथ्यात्वावगति स्वप्न एव किं वा तत उत्थितस्य उत्थितस्येत्याह इति भूतार्थसंबोधनज्ञानोन्मीलितचक्षुषां || नास्ति व्याधि जरा नास्ति नस्तिदेश परः क्रमः नास्ति रोगो न सन्तापो नास्ति कामादिसंप्लुतिः प्. २५७) न स्युर्हर्षभदोद्वेग हानोपचयमृत्यवः न शोको नारतिः काचिन्न कर्तृत्वं न कार्यता तदभावोपि नेष्यत इति || अयमर्थः | भूतार्थो जाग्रत् प्रपञ्चः तत्संयोग एव ज्ञानं तेनोन्मीलितचक्षुषां तेनावगतजाग्रत् पदार्थानां स्वप्नदृष्टपदार्था मिथ्या भवतीति | एवं ब्रह्मज्ञानिनोपि जगत् बाध्यमित्याह इति क्षरार्थसंबन्धज्ञानेऽस्मिन् लोकचक्षुषा विकल्पहेत्वविद्यायां प्रत्यक् याथात्म्यनिष्ठित सम्यग्बोधाग्निना ध्वस्तेन विकल्पो नावशिष्यत इति | अयमर्थः क्षराथोद्वैतप्रपञ्चो लोकश्चक्षुरादीन्द्रियजातं श्रोत्रादिद्वारेण चक्षुरादिविषयज्ञाने जातेऽधिकारिणोऽहं ब्रह्मेति ज्ञानमुत्पद्यते | तदनन्तरमविद्या निवर्तते सह कार्येणेति अथवा भूतार्थोऽद्वयः प्रत्यगात्मा तत्संबोध एव ज्ञानं तेनोन्मीलितचक्षुषां ब्रह्मात्मैक्यविदां जगन्नास्तीत्यर्थः | ज्ञानकारणमाह इति क्षरार्थसंबन्धज्ञानेऽस्मिन् लोकचक्षुषेति अस्मिन् पक्षे विकल्पहेत्वविद्याया इत्येतद्वार्तिकमुक्तोपसंहारः | एवं नास्तीत्या प्. २५८) नास्तीत्यारभ्य स्वप्नमिथ्यात्वमुपपाद्य युक्तितो त्रे वाक्यमवतारयति || विजिज्ञापयिर्गार्ग्य मिममर्थमतो नृपः स यत्रेत्यादि तामाह परां मुक्तिपरम्परां इति || माध्यन्दिनपाठस्यार्थमाह स्वप्ने भवत्वात् स्वाप्त्येति जाग्रत्स्वापाद्विवेचनं मिथ्यात्वप्रतिपत्त्यर्थं स्वप्नस्य क्रियते स्फुटम् इति स्वप्नव्याख्यानाय जागरितात् स्वप्नगमनप्रकारं दर्शयति सार्धेन वार्तिकद्वयेननिशायां संप्रवृत्तायां संहृताक्षस्य निद्रयाजाग्रत् कर्मण्युपक्षीणे स्वप्नभोग उपस्थिते बोधावस्थां तिरोधाय बोधाद्याश्रयलक्षणां कर्मोद्भावितसंस्कारः तत्र स्वप्नरिरंसया अवस्थाप्रययावन्यां मायावीवात्ममाययेति तत्र स्वप्ने गत्वा किं करोतीति तदाह उच्चावचान् बहूनर्थान् सोऽसृजत् सृजतेऽनृतान् अविद्याकामकर्मादि साधनैः समुपार्जितानिति ननु कामकर्मादि साध्यत्वे स्वप्नस्य सत्यत्वमिति नेत्याह - बोधे साधारणा यस्य स्वप्ने तेनस्य दृष्टता || प्. २५९) अनन्यद्रष्ट्टकत्वं मिथ्यात्वद्योतकमित्यर्थः लोकशब्देन कर्मफलमुच्यत इत्याह लोकाः कर्मफलानीति || कर्मफलस्य मिथ्यात्वमिव शब्देनोच्यत इत्याह - तेषां मिथ्यात्वमुच्यते | तैवेत्यादिना | स्पष्टमैकात्म्यप्रतिपत्तयः इति | ननु स्वप्नस्यापि तत्कालाव्यभिचारित्वात् जागरितवत् सत्यत्वमित्याह - ननु बोधे यथा लोकास्तत्कालाव्यभिचारिणः स्वप्नेति स्वप्नकालस्था स्तद्वत् सन्त्विति भण्यत इति | ननु जागरितस्वमिथ्यात्वं पाणिवेष वाक्यौ प्रतिपादितं कथं तद्दृष्टान्तेन स्वप्नस्य सत्यत्वं साध्यत इति चोद्यवादिनं चोदयति | ननु जाग्रत्स्थलोकानं मिथ्यात्वं प्राक् प्रपञ्चितं अविद्यामात्रहेतुत्वं पाणिवेषप्रबोधनात् तथा च सति दृष्टान्तो भवतां नोपपद्यते मिथ्यात्मकत्वात् सर्वस्येति जागरितदृष्टान्तो घटत इत्याह तस्मात् कृतकदृष्टान्तमुपादाय आत्मना अञ्जसा आध्यात्मिकादिलेपानां विशुद्धिरिह भण्यत इति | जागरितवत् स्वप्नस्य सत्यत्वमाशंक्य तन्निरासेन प्. २६०) स्वप्नस्य मिथ्यात्वं प्रसाध्य स्वप्नपजागरितमपि मृषेति साध्यत इत्यर्थः | ननु पाणिपेषवाक्ये अर्थाज्जागरितमिथ्यात्वं साधितमिति त्वयैवोक्तं तदेवात्रापि साध्यते चेत् पुनरुक्तिस्तत्रातः किञ्चित् सामान्यमाश्रित्य जामित्वं प्रतिपद्यते न्यायः सर्वोऽपि येनातो नैतत् साधु प्रचोदितमिति उत्तराणि वार्तिकानि जाग्रत्स्वप्नयोः मिथ्यात्वसाधकानि सुबोधानि तानि लिख्यन्ते महाराजादयो नास्वप्नानुभवगोचरा आत्मभूता इति ज्ञेयाः तद्भेदेनोपलंभनात् पर्यंकशयिताद्राजा प्रत्यक्षादिप्रमाणकात् बहिः समीक्ष्यते राजा स्वप्नदृग्भिर्वनं गतः स्वानुभूत्यनुरोधेन राज्ञो राजा मृषाग्रहे स्वप्ने प्रबुद्धस्य सतो मृषा स्याद्वनमाश्रितः जाग्रद्दृष्टमृषा स्वप्ने स्वप्ने सजागरे मृषा | अन्योन्यव्यभिचारित्वात् स्वप्नजाग्रत्पदार्थयोः अहं क्षपायां च कुतः संहृताक्षस्य चेक्षणम् मृतानां जीवनं तद्वत् वृद्धानां यौवनं कुतः न चक्षुरादिदृष्टीनां अन्तर्देहे समीक्षणम् हिमवत् प्रभृतीनां च कुतोन्तः संभवो हृदि | प्. २६१) नापि देहाद्विनिष्क्रम्य पर्वतान् स समीक्षते देहं विना कथमगात् गतिसाधनवर्जितः इत्येतानि | ननु किं देहेन विना कार्यं करोतीति तत्राह - अन्तरेणापि देहादे स्तत्कार्यश्चेत् करोत्ययं व्यर्थं देहाद्युपादानं अस्य प्राप्नोत्यसंशयः इति | स यथेत्यादि वाक्यावतरणाय चोद्यमुत्पापयति ननु पर्यंकमासीनो गच्छन्ति शिबिकया वनं | वेश्मतो बहिरात्मानं द्रक्ष्यति इति नैते चोद्यमित्याह - नतद्यत इति देहान्तरे इव स्वप्न इत्यर्थः | अत्रार्थे वाक्यं योजयति अमात्यादीन्यथाऽदाय स्वात्मभोगप्रसिद्धये नृपः स्वदेशमध्यस्थो यथेष्टं परिवर्तते || स्वदेहराष्ट्रसंस्थो यः जाग्रत् भावनरूपिण प्राणानात्मा तथाऽदाय स्वप्नान् पश्यति कामतः इति | एवं आत्मानवस्थात्वात् स्वप्नवज्जागरितमपि आत्मन्यध्यस्तमेवेत्यर्थः | ननु सर्वस्य मिथ्यात्वे कथं साधनत्वं मिथ्याधूमवदिति तत्राह- असत्योपाधिभि सोऽयं कूटस्थं संगविग्रहं प्. २६२) अविद्यारोपितमलो विद्ययात्मा विशोध्यत इति अविद्योपाधिभिः श्रुत्याचार्यादिभिरुत्पन्नया विद्यया आत्मा सकला विद्या तत्कार्यव्यावृत्तौ भवति | कल्पितस्यापि ज्ञानसाधनत्वमुक्तं स्मरेत्यर्थः | अविद्यारोपितमलत्वं साधयति निस्संगस्य ससंगेन कूटस्थस्य विनाशिना आत्मनोऽनात्मना योगो वास्तवो नोपपद्यते इति | नन्वविद्यारहितस्यापि कर्तृत्वाद्यस्ति विदुषापि दर्शनात्तत्राह कूटस्थानुज्ञं सत् प्रत्याख्यातं सहान्वयं करकाद्यन्यतो मोहात् नात्मानं प्रतिढौकत इति | कूटस्था दत्तानुज्ञमित्यस्य व्याख्यानं प्रत्याख्यातं सहा स्वयमिति कारणेन सह कर्तादिज्ञानं बाधितमात्मानं न स्पृशति मोहाबाधात् प्रतिभासस्तु बाधितानुवृत्त्येति | अथ यदा सुषुप्तो भवतीति वाक्यावतरणाय आशंकां दर्शयति ननु कामवशादस्य त्वयोक्तं परिवर्तनं दृष्टदश्यादिभावश्च कथं शुद्धस्तथा सतीति आत्मनः कामादिसंबन्धो नास्तीत्याह नैवं स्वतो बुद्धत्वात् कृतो ज्ञानेन संगतिः | प्. २६३) अज्ञानसंभतिं मुक्त्वा न स्यात्तज्ज्ञेन संप्लुतिरिति अज्ञानसंबन्धाभावात् तत्कार्यकामादिना संगतिरित्यर्थः | अज्ञानतत्कार्यसंबन्धाभावः आत्मनः किं फलतीदमित्याह- एवं यस्मात् स्वतः शुद्धः द्वितीयासंग्तेरयं आत्मा तस्मात् स्वतो मुक्तः कूटस्थज्ञप्तिमात्रतः इति कामादिसंबन्धाभावं दृष्टान्तेन साधयति न यथा श्रोत्रविज्ञानं रूपेणेति समागमः संसारेण तथैवात्मा कौटस्थ्यान्तेति संगतिं इति | एवं विधार्थप्रतिपादनाय उत्तरं वाक्यमित्याह- इत्यर्थस्यावबोधार्थं परोग्रन्थोऽवतार्यते इति | अस्यैवार्थान्तरमाह विशुद्धिं व्यतिरेकं च स्वप्नजाग्रदवस्थयोः उक्त्वात्मनोऽद्वयत्वं च सुषुप्ते चाधुनोच्यते इति एवं संगतिमुक्त्वा पदार्थं कथयति अग्रवेदेत्यात्मनः श्रुत्या कतृत्वं प्रतिषिध्यते पश्यन्नपि यतः प्राज्ञे कौटस्थ्यान्न प्रपश्यतीति ज्ञानकर्तृसाक्ष्यात्मा न ज्ञानकर्तेति एतत् श्रुत्यन्तरेपि दर्शितमित्याह अथ यो वेदेति तथा ज्ञातृसाक्षित्वमात्मनः प्रतीचो कारकत्वं न प्. २६४) सर्वत्र प्रतिपाद्यत इति | तर्हि प्रमातृसाक्ष्येवात्मा न प्रत्ययादेरिति | नेत्याह क्वचित् प्रमात्रपि साक्षी क्वचित् प्रत्ययवित् परं क्वचित् बाह्यार्थविच्चात्मा तद्वेत्तृत्वं निषिद्ध्यत इति | तद्वेत्तृत्वं निषिद्ध्यत इत्यस्य अयमर्थः तस्य प्रमात्रादिविषयज्ञानकर्तृत्वं निषिद्ध्यत इति | तस्येत्यध्यायमाह- परप्रयुक्तं वेत्तृत्वं यदन्यप्रत्यगात्मनः संबन्धजस्यात्तस्यातः तस्येत्यत्राभिधीयते इति | आत्मनो ज्ञानकर्तृत्वस्य विषयसंबन्धजनितत्वादत्र षष्ठी निर्दिश्यत इत्यर्थः | इथं च षष्ठी कर्मणीत्याह- कर्मोक्तत्वात् प्रमात्रादेः तत्क्षये तत् क्षयीत्यतः षष्ठीयं कर्मणि न्यायया द्वयाभावविवक्षयेति | किमपि कर्त्रादिकं नानुभवतीत्यर्थः | कर्त्रादौ स्थिते एव तन्नानुभवति इत्येतन्न किन्तु कर्त्रादि जगतः कर्मोक्तत्वात् सुषुप्तौ कर्माभावात् जगदभावादेव जगन्नानुभवतीति च शब्दो न व्यर्थ इत्याह अप्यर्थे च न शब्दोऽयमिति ततः किं सिद्ध्यतीति | न जगद्भाव एव सुप्तौ प्रतिषिध्यते जगदभावोपीत्येतत् सिद्धं प्. २६५) भवतीत्याह अभावस्यापि बाधक इति | किमित्यभावं प्रतिषिध्यत इति | तत्राह - शेषशेषीति तिरोभावे सुषुप्तिरिति भण्यत इति | प्रमात्राद्यभावशेषि तद्भावः शेष इति हितानामबाद्ध्य इत्याहदिवाक्यस्य तात्पर्यार्थमाह अथ केन केन क्रमेणायं सुषुप्तं प्रतिपद्यते इति क्रमविधानार्थं हिता नामेति भण्यत इति | तत्र नाडीस्वरूपकथनपराणि वार्तिकानि सुबोधानि लिख्यन्ते आनाभितस्तथा कण्ठात् हृदयं मध्यतः स्थितं सनालं ब्रह्मकोशाभं पञ्चच्छिद्रमधोमुखम् | स्वप्नाश्रयाणि हृन्मध्ये नीलाद्याभानि देहिनाम् स्थानानि सुरमर्थ्यादि जुष्टान्यस्य भवन्त्युत खिलानि सुषयश्चैता जाग्रद्वत् प्रत्ययोद्भवाः एकोत्तरनाडिशतं विष्वक्ताभ्यो विनिर्गताः प्रतीन्द्रियं दश दश निर्गतो विषयोन्मुखाः नाड्यः कर्मादिहेतूत्थाः स्वप्नादिफलभुक्तये वहत्यंभो यथा नद्यो नाड्यः कर्मफलं तथा | अनन्तैकोर्ध्वगा नाडी तया गच्छन् विमुच्यते एकैकस्यां पुनर्नाड्याः सूक्ष्मा भेदाः प्रकीर्तिताः द्वासप्ततिसहस्रैस्तैः साऽख्याता योगचिन्तकैः प्. २६६) कदम्बकुसुमाद्भूत केसरा इव सर्वतः | प्रसृता हृदया नाड्यो याभिर्व्याप्तं शरीरकम् || इति त्येन्तानि तत्वं नाडीनां कथमिति तत्राह - हितं फलं प्रयच्छन्ति यस्मात्तस्माद्धिता स्मृता हृदयान्ता विनिष्क्रान्ताः यथार्कादयश्च स्तथेति तच्छब्दो हृदयवेष्टन मांसखण्डवाचकः | तथाप्यत्र शरीरमुच्यते | नाडीनां शरीरव्याप्ति प्रतिपत्त्यर्थमित्याह - पुरी तदभिधानेन हृद्वेष्टनमिहोच्यते तत्तूपलक्षणं विद्याद्देहव्याप्तिविवक्षया || इति प्रत्यवसर्पय प्रतिपादनाय प्रसरणं प्रथमं नाडीद्वारेण दर्शयति- स्वप्नकर्मसमुद्भूता वासना या हृदि श्रिता नाडीभिस्ता वितत्यात्मा स्वप्नान् पश्यति कामतः इदानीं प्रत्यपसर्पणप्रकारं कथयति स्वप्नान् भोगानशेषेण भुंक्त्वा स्वप्नक्रियाक्षये ताभिरेवोपसंहृत्य प्राज्ञो याति सुषुप्ततामिति | उत्तरवार्तिकप्रपञ्चद्वयमस्य प्रपञ्चितं जाग्रत्स्वप्नक्रियोद्भूतान् भुक्तान् भोगाननेकशः इन्द्रियाण्युपसंहृत्य शेते नाडीभिरात्मनि | सामान्यप्रज्ञया देहं संव्याप्यान्तर्बहिः क्रमात् | प्. २६७) श्येनवं परमं स्थानं अभ्येत्यैति सुषुप्ततां इति | केवलनाडीभिरेव सुप्तिस्थानान्निर्गमनं प्रवेशं चात्रोच्यते || अतः स्वत एव परिच्छिन्न आत्मेत्याशंक्य अन्तःकरण द्वारेणात्र संवेशनिर्गमनयोर्विवक्षितत्वात् नेयमाशंकेत्याह- धीयोऽन्तःकरणस्येह स्थानं हृदयमिष्यते | तत्रेन्द्रियाणि सर्वाणि बुद्धितन्त्राणि सर्वदा यत एवमतस्तानि नाडीभिः कर्मणो वशात् प्रसारयति धीवर्त्ति मत्स्यजालकवत् बहिः प्रसार्यायतनस्थानि तानि धीरधितिष्ठति जाग्रत्काले तथाऽज्ञोयं अभिव्यक्तविशेषधीः व्याप्नोति निष्क्रियः सर्वो भानुर्दश दिशो यथा तावेवेन्द्रियवृत्ती स्वां चैतन्यखचिता यदा संयच्छति प्रतीच्यात्मा स्वपितीति तदोच्यते इति || एतानि सुबोधानि धियोऽन्तःकरणस्येत्यारभ्य उक्तवार्तिकानां संक्षेपेण अर्थमाह- बुद्ध्युपाध्यनुरोधेन न प्रतीचप्रभवाप्ययौ विक्षेपलयहीनस्तु स्वतः कुंभखवत् परः प्. २६८) इति | अपेक्षितार्थोपसंख्यानं कृत्वा प्रकृतं श्रुतिव्याख्यानमनुवर्तयति- ताभिः प्रत्यवसृप्यात्मा वृत्तिर्नाडीभिरानयेत् तप्तायोवच्छरीरं स्वं व्याप्य शेते स्व आत्मनीति इन्द्रियाण्यपि कारणात्मना ता व्याप्यन्ते न कार्यात्मनेत्याह - स्वहेतुमात्रया स्थानमिन्द्रियाणामकार्यतः यतोऽतश्चिन्निभेनैव व्याप्तिः स्यात् कारणात्मनेति शरीरेन्द्रियेषु सामान्यव्याप्तिरभिहिता विशेषव्याप्तिर्नास्तीत्याह - सुषुप्तौ न शरीरेण संगतिः प्रत्यगात्मनः नापि बुद्ध्यादिभिः साक्षात् तत्स्थानां संगतेर्भवेदिति | शरीरे विषयव्याप्ति स्थूलत्वाद्यभिमानो बुद्ध्यादिषु ज्ञातृत्वाद्यभिमानः || सुषुप्तौ विशेषसंबन्धाभावे प्रमाणमाह- तीर्णो हीति तथा चैतदुत्तरत्राभिधास्यते | सुषुप्तेत्र पिता चेति सर्वसंबन्धवारणमिति एवं सुप्तौ सर्वसंसारविनिर्मुक्त आत्मा भवतीत्युक्तः स्तनन्धयो यथा बालो रागद्वेषविवर्जितः प्. २६९) तदाभासा द्विकुर्वन्ति चेतो न विषयाः सदेति बालत्वं रागाद्यसंभवे हेतुरुक्त इदानीं इन्द्रियाणामदृढत्वं तत्र हेतुरित्याह - अप्ररूढेन्द्रियत्वाद्वा रागद्वेषाद्यसंवृतिः मृदुकण्टकवत्तद्धीर्नालं वेद्धुं स्वगोचरान् | इति | महाराजो वेत्यादेरर्थमाह - सर्वत्राव्याहताज्ञश्च विधेयप्रकृति त्वतः राजा वातिसुखी लोके प्ररूढेन्द्रियवानपि विज्ञाताशेषतत्वो वा ब्राह्मणः कृतकृत्यकः आनन्दस्य परां काष्ठां अतिनीमेत्य निर्वृतः इति ब्राह्मण एवेको दृष्टान्त इत्यभिप्रेत्याह बालादित्रयमप्येतदेको दृष्टान्त इष्यत इति एतदेव प्रकटयति - बालमौढ्यमदान्धत्व निवृत्यर्थमथोच्यते इति बालो मूढो मदान्धो राजा दोषद्वयनिराकरणायाह माह ब्राह्मणपरिग्रह इत्यर्थः | पुनरपि महाब्राह्मण एव दृष्टान्त इत्यर्त्र क्रमं दर्शयति - बालस्य निर्विवेकत्वात् सविवेकः क्षितीश्वरः तन्मदान्ध्यनिषेधार्थं महाब्राह्मण उच्यते प्. २७०) इति पूर्वत्र दोषदृष्ट्या राजग्रहणं तत्रापि दोषं दृष्ट्वा महाब्राह्मणो गृहीतः तस्मान्महा ब्राह्मणा एवैको दृष्टान्त इति | महाब्राह्मणश्च न ब्रह्मवित् | किन्तु लोक सिद्धः श्रोत्रियः शान्तदर्पो विद्वानिती घ्नीशब्दार्थं कथयति | अतीत्य दुःखहेतून्याहन्ति दुःखाद्यशेषतः आनन्दस्य परा निष्ठा तेनतिघ्नीति भण्यत इति | इदानीं दृष्टान्तभेदं गृहीत्वाह निर्विकारात्मनां यस्मात् बालादीनां स्व आत्मनि अतीव जायते ह्लादो दृष्टान्तः स विवक्षितः इति न तेषां सुप्तिरित्यर्थः | एवमेवेष एतेछेत इत्यत्र शयनशब्दार्थं कथयति- परं संबन्धमेत्यात्मा कारणरूपिभिः ऐकात्म्यलक्षणं साक्षाच्छेत इत्यभिधीयते इति | तैरेवेति केचित् | ननु ब्रह्मणैक्यं गतश्चेत् | किमिति नावगच्छति ब्रह्माहमिति तत्राह - अत्यन्तसन्निकृष्टानामपि भिन्नात्मनामिते | लोचनस्थाञ्जनादीनां न दृष्टिपथतेष्यते || प्. २७१) किमु प्रध्वस्त निश्शेषभेदहेता विहात्मनि ग्राह्यग्राहकसंबन्धः सर्वभेदापनोदिनीति | अतिशयसन्निकर्षो ज्ञानविरोधी न ज्ञानहेतुरित्यर्थः || निर्विकारात्मनामित्यस्य प्रपञ्चः स्वस्थावस्थैव यैतेषां प्रसिद्धा जगतीक्ष्यते || दृष्टान्तत्वेन स्वापस्य सैव साक्षात् विवक्ष्यत इत्येतत् | अत्र हेतुमाह - दार्ष्टान्तिकेत्वेन | यतः सुषुप्तोऽत्र विवक्षित इति | ननु बालादीनां स्वाप इतरेषां स्वापदृष्टान्त इति | तत्राहनापि बालादिस्वापस्य विशेषः कश्चिदीक्ष्यत इति | ननु बालादेः स्वस्थावस्थायां सुखं नास्तीति | नेत्याह - तमिति बालं सर्वातिशयवर्जितां आनन्दस्य परां निष्ठामतिघ्नीं प्रतिपद्यत इति | बालस्य निर्विकारत्वं नाम रागादिरहितत्वं तस्यानन्दप्रसिद्धिरुक्तेदानीं रागादिप्राबल्ये सति सुखाल्पत्वं दर्शयति यावत् यावत्प्ररूढत्वं रागादेर्जायते शिशोः तावत्तावत् प्ररूढत्वं दुःखस्याप्यभिजायते यथेति | दुःखबहुत्वे सुखाल्पत्वं प्रसिद्धमित्यर्थः | रागाद्यल्पत्वे दुःखाद्यल्पतं ततश्च प्. २७२) सुखवृत्तिरित्यभिप्रेत्याह- एवं तत्तत्तनुत्वं च यावद्यावदिहात्मनः दुःखस्यापि तनुत्वं स्याद्यावत्तावत्सुखात्मनः | अत एव कामक्षयवृद्ध्या सुखवृद्धिरुच्यते श्रुत्येत्याह- उत्तरोत्तरवृद्ध्याऽतो दुःखहेतुक्षयाच्छ्रुतौ सहस्रदशभागेन निष्ठानं तस्य भण्यते || इति यत्रानन्दस्य निष्ठा तत् परमं सुखमथैष एवेति श्रुतिस्तत्र प्रमाणम् | अत्र यत्रे वै भूमेत्याद्यपि वाक्यं प्रमाणमित्याह - अव्यावृत्ताननुगत प्रत्यङ्मात्र समाप्तितः | भूम्न्येव तु परा निष्ठाऽनन्दस्येति श्रुतेर्वचः इति भूम्न्यैवेत्यधिकरणानि कर्तव्यनिर्देशादा - नन्दात्मनोः भेदो न स्यादित्याह - आनन्दः स्वयमेवात्मा भेदसंसर्गवर्जितः दुःखहेतुविनिर्मुक्ता वतिघ्नीमेत्यत स्वतः इति वृत्तं संकीर्तयति संगतिप्रतिपादनाय गार्ग्यं काश्यो यदप्राक्षीत् क्वाऽभूदेष तमेति तत् सप्रपञ्चं यथावच्च सर्वमुक्तमशेषतः इति क्वाऽभूदित्यस्य प्रश्नस्योत्तरमुक्तमित्यर्थः प्. २७३) प्रथमप्रश्नफलनिर्णयमाह- अनेन च यथोक्तेन पाणिवेषोत्थितस्य हि मोहार्थाशेषकार्येभ्यो विशुद्धिं श्रुतिरब्रवीदितित्वं पदार्थशोधनं कृतमित्यर्थः | इदानीं संगतिमाह कुत आगादिति त्वस्य प्रश्नार्थाविचिकीर्षयासुषुप्ताज्जाग्रदापत्तिर्यदा तदधुनोच्यते || इति | उत्तरप्रश्ननिर्णयस्य प्रथमप्रश्ननिर्णयेन कृतत्वान्न वक्तव्य इति चोदयति नन्वस्थाद्योहि यत्रेह स तस्मादन्यतो व्रजन् वेश्मतो नामतो वासौ तत एव व्रजेद्ध्रुवम् तस्मात् सामर्थ्यतः सिद्ध उत्तरप्रश्ननिर्णयः | तन्निर्णयार्थ आरंभो न कार्यो जातिदोषतः ननु कुत इति पञ्चम्या अपादानार्थत्वे पुनरुक्तिप्रसंगः | इयं तु पञ्चमी निमित्तार्थात्तन्निमित्तमिहागतः प्राहुज्ज्ञितस्येति तत्राह - न निमित्ताद्यर्थतापि पञ्चम्या उपपद्यते | ऊर्णनाभ्यग्निदृष्टान्तेन निमित्तादि गम्यत इति | आदिग्रहणेनाक्षेपोत्र गृह्यते नाक्षेपार्थोपि कुत इत्येतदित्यर्थः यदि निमित्तादीनि न प्रतीयते तर्ह्यपादानार्थे प्. २७४) पञ्चमीत्येतदाह - प्रत्युक्तौ न निमित्तादि यदि साक्षात् प्रतीयते अपादानार्थतैवास्तु दोषस्यान्यत्र दर्शनादिति नन्वत्रापि पुनरुक्तिदोष उद्भावित इत्याह नन्वत्रापि समो दोषो वाक्यस्य पुनरुक्ततेति न कश्चिद्दोष इत्याह - नैवं यतो विलध्वान्त कार्यध्वंसो विवक्षितः अव्यावृत्ताननुगतं पूर्वब्रह्मविवक्षितम् प्रयङ्मात्रैकयाथात्म्यं न दोषो जामिता ततः इति | सकला विद्या तत्कार्यविनिर्मुक्तं ब्रह्माद्वयं प्रत्यग्भूतं प्रश्नद्वयव्याजेन प्रतिपादयितुमिष्टमतः पुनरुक्ततादिदोषो नास्तीत्यर्थः एवमर्थपरत्वं कथं प्रश्नद्वयस्येति चेत् तत्प्रतिपादनाय तृतीयाध्यायार्थमनुवदति विषयौ द्वावुपन्यस्तौ विद्याऽविद्यात्मनोरिह आत्मेत्येवेति विद्याया विषयं प्रागुदाहृतम् अविद्याविषयस्तद्वत् संसारानर्थ ईरितः क्रियाकारकभेदेन नामरूपक्रियात्मकः तत्रविद्योद्भवं कार्यं यावत् किञ्चिद्विवक्षितम् तत्प्रत्यवादिनिखिलं पूर्वं श्रुत्यैव यत्नतः इति प्. २७५) अयमर्थः | आत्मेत्येवेति | कैवल्यफलं ज्ञानं सूत्रितं | अथ योन्यामित्यज्ञानं कार्यं सूत्रितं तच्च सूत्रमातृतीयाध्यायपरिसमाप्तेः व्याख्यातं इतरत्तु सूत्रं नमि व्याख्यातमिति तद्व्याख्यानाय प्रश्नद्वयमुत्थाप्यत इत्याह अविद्या प्रतिपत्ताया विद्याया विषयोऽधुना प्रवक्तव्योऽतस्तद्योग्यौ प्रश्नौ द्वौ समुदाहृतौ इति | कथमविद्या प्रतिपक्षत्वं विद्याया इति तत्राह -हेतुस्वरूपकार्याणि विरोधीनि परस्परं अविद्याविद्ययोर्यस्मात् तद्योग्यः प्रश्नगीरतः इति | किमविद्या कार्यमिति चेत् अपादानकर्तृभावोऽधिकर्तव्यभावोऽन्यश्च क्रियाकारक फलभावः सर्व स्तद्विपयो विद्याया विषय इत्येतदाह- कारकव्यवहारोऽयमविद्याविषयः सदा आधाराधेययोर्भित्तौ तयोः कारकतेष्यते || तद्वद्गच्छति यो यस्मात् भेदे सत्येव याति सः इत्यविद्याव्यवस्थेयं विद्यायास्तद्विपर्ययः इति | विद्याविषकं क्रियाकारकभेदरहितं वस्त्वित्युक्तं इतरत् अविद्या कार्यमिति च | प्. २७६) तत एवाविद्या सह कार्येण विद्याया बाध्यत इत्येतदाह- क्रियाकारकभेदोत्था लोकतः शेमुषीत्यभूत् यथास्थितात्मयाथाम्य सम्यग्ज्ञानेन बाध्यते इति || एवं विधबाधकप्रकार प्रश्नद्वयेन उत्तरेणोच्यत इत्याह- नान्योयमात्मान्यत्राभूत् नान्योन्यः स्यात्तथेति च इति | निश्शेषतन्मोह कार्यध्वंसो विवक्षित इति अभेदव्यक्तिरेताभ्यां वस्त्रन्तरमिहात्मनः श्रुत्या निषिद्ध्यते साक्षात् भेदहेतोर्निषेधतः इत्येतत् पूर्वस्य प्रपञ्चं तस्मान्निर्भेद आत्मेति | ननु निर्भेदत्वं कथं प्राणादेर्भावात्तत आत्मनोऽभेदसंभवादित्यत आहः कथं तदिति दृष्टान्त ऊर्णनाभादिरुच्यत इति | ननु परमार्था सृष्टिरत्रोच्यत इति चेन्नेत्याह वास्तरं वृत्तिमापेक्ष्य नहीयं सृष्टिरात्मनः | इति इति कथमिति चेत्तत्राह- नासतो जन्मना योगः सतः सत्वाच्च नेष्यते कूटस्थे विक्रिया नास्ति तस्मादज्ञानतो जनिरिति आत्मज्ञानार्थत्वाच्च सृष्टिर्न पारमार्थिकीत्याह - प्. २७७) पुंप्रबोधप्रसिद्ध्यर्थं सृष्टिव्याजोऽयमुच्यते कौटस्थादात्मनः सृष्टिर्न कथञ्चन युज्यते इति सृष्टेरात्मज्ञानार्थत्वं वेदसिद्धान्तवद्भिरपि भाषितमित्याह- निश्शेषवेदसिद्धान्त विद्वद्भिरपि भाषितम् गौडाचार्यैरिदं वस्तु यथास्माभिः प्रपञ्चितमिति वाक्यं दर्शयति- मृल्लोहविष्फुलिंगैस्तु सृष्टिर्या चोदितान्यथा उपायः सोपकाराय नास्तिभदं कथञ्चनेति | सृष्टेरन्यपरत्वे वक्ष्यमाणान्यपि चोद्यानि नावतरीत्याह- सृष्टावन्यत् परायान्तु न चोद्यस्यास्ति संभवः इति | चोद्यानि दर्शयति || कूटस्थात् कथमुत्त्पत्तिरचित्कं चेतनात् कथं निस्साधनं च कार्याणि कथं कुर्यादनेकधा विश्वरूपसमुत्पत्तिरेकरूपात् कथं भवेदिति यद्यप्येवं विधं चोद्यजातं सृष्टेरन्यपरत्वात् न संभवति तथापि पुरुषबुद्ध्यनुसारेण प्रादुर्भावस्य तच्चोद्यजातस्य परिहाराय स यथेत्यादिवाक्यमित्याह- प्. २७८) इत्येवमादि चोद्यानां पुंस्वभावानुरोधतः परिहारवचः श्रौतं न तु वस्त्वनुरोधतः इति | एवं तात्पर्यमुक्त्वा दृष्टान्तवाक्यं योजयति | ऊर्णनात्यभिः स्वयं कर्ता प्रयुंक्ते कर्म चात्मना तनूनितिः कर्मयुंक्त इत्यस्य व्याख्यानं तनूनित्येतदात्मनेति | स्वयमेव करणं चेत्यर्थः | स्वतः प्रसिद्धेन करणेन चन्ततूनागमक्रियां साधयति तथेकस्यापि चात्मनि अचेतनो यथा जाल ऊर्णनाभेन चेतनात् आकाशदिजगत् कार्य आत्मनश्चेतनात्तथा विष्फुलिंगा यथा चाग्ने जायन्ते निस्वभावकाः सुषुप्तादात्मनस्तद्वत् प्राणादीनां समुद्भवः इत्येतानि सुबोधानि | ननु सुषुप्तादात्मन इत्युक्तत्वात् सुषुप्तस्थानस्यापि कारणत्वं नेत्याह सुषुप्तोदाहतिर्येयं तया समुपलक्ष्यते द्वित्वाभिव्यक्तितः पूर्वं ब्रह्मैवानामरूपकमिति एवं सति वाक्यान्तराण्यपि समञ्जसानीत्याह सर्वासूपनिषत्स्वेवं कारणं नान्यदात्मनः श्रूयतेऽतः परात्मैव जगतः कारणं परमिति | प्. २७९) एवं स्वपक्षो दर्शितः इदानीं परमात्मसृष्टि पक्षे दोषमाह- ब्रह्मण्यस्तमितेत्यर्थं जगत्यस्मिन्नशेषतः जगत् प्रसूतेः को हेतु स्तदन्या व्यतिरेकतः इति ननु भवेत् स्वा थ्यानामयं दोषो न तार्किकाणां जगदुपादानव्यतिरेकेण तदधिष्ठातेश्वरांगीकरणात् इत्याह अस्तीशो व्यतिरिक्तश्चेदिति अत्र दूषणमाह- सोपि कं न प्रवर्तीत जगन्तिमिनुयादेतत् स्वतश्चेत् सर्वदा न किमिति | ननु धर्माद्य पेक्षत्वादीश्वरस्य नायं दोष इति चेन्नेश्वरस्यान्यापेक्षा युक्तेश्वरत्वक्षतेरित्याह ऐश्वर्यापारतन्त्र्यं च नापि संभाव्यते मितेरिति | ननु प्रलीनं कार्यमेव स्वात्मोत्पत्तौ व्याप्रियते न कारणापेक्षेति तत्राह नापि कार्यं विलीनत्वात् स्वात्मोत्पत्तौ प्रवर्तते इति | सदोत्पत्ति प्रसंगादित्यर्थः किं च कार्यकारणयोर्भेदाभेदौ वा || उभयत्र दूषणमाह भिन्नं चेत् कारणात् कार्यं कार्यकारणता तयो पृथक् प्रसिद्धयोकेयं हिमवद्विन्ध्ययोरिव अथाभिन्नं तदेकत्वात् कार्यकारणता कुतः | इति | प्. २८०) किं च कुर्वदकुर्वद्वा कारणं कुर्वच्चेदनवस्था कार्यस्य कारणत्वप्रसंगश्च | अथाकुर्वत्तत्राहनापि निष्क्रियरूपः सन् कारणत्वं समर्थ्यते इति | सदा कार्यजन्मप्रसंगादित्यर्थः अकुर्वत्पक्षे त्वदभ्युपगमविरोधश्चेत्याह- क्रियाशून्यं च यद्वस्तु तच्चाकारकमिष्यते | इति | तस्मादकुर्वतः कारणत्वे सदा कार्योत्पत्तिः स्यादेव | ननु नैतच्चोद्यं कालादिकारणस्य कार्योत्पत्तिव्यवस्थापकत्वात् इति चेन्नैतत् तस्यापि प्रलीनत्वात् कार्यत्वेऽस्योत्पत्तावपि न व्याप्रियते कथ मन्योत्पत्तावित्याहलयेनैव समाप्तत्वात् कालकर्मादिकारणं स्वात्मोत्पत्तावशक्तं तत् व्यक्तं सामर्थ्यभाग्यतः इति | कुर्वन् कारणमकुर्वन् कारणमिति पक्ष द्वयं निराकृतमिदानीं शक्तिमत् कारणमिति पक्षं निराकरोति तत्र नित्या शक्तिरनित्या वा | नित्यपक्षे दूषणमाह - नित्यशक्तिपक्षेपि युगवत् प्रभवादिकं प्राप्नोति सर्वकार्यस्य न च तद्वर्तते तथेति | अनित्यपक्षे दूषणमाह शक्त्युत्पत्त्यभ्युपेतौ च कारणं स्यादशक्तिमत् प्. २८१) अथ शक्त्यन्तरात् शक्तिरनवस्था प्रसज्यते इति पूर्वक्षणवर्ति कारणं उत्तरक्षणवर्ति कार्यमिति कार्यकारणवादिनः सर्व एवाभ्युपेयते अतीतानागतत्वादिभेदः स्यात् किं निबन्धन इत्येतत् पूर्वस्य प्रपञ्चः ननु द्रव्यं कालः किन्तु क्रियेत्याह | आदित्यादि गतिश्चेत् स्यात् काल इति | अत्र दूषणमाह- अव्यक्तसमुत्थिताविति | अयमर्थोऽज्ञातब्रह्मणः आदित्यादेरुत्पत्तौ सत्यां आदित्यादिगतिकालो भवेदिति | ततश्च तदुत्पत्तेः प्राक्कालाभावः प्राप्नोति इत्याह- आदित्यादेर्विलीनत्वान्न तदा तत्क्रियेष्यते ततश्च प्रागुत्पत्तेरिति व्यपदेशान्न सिद्ध्यतीत्यर्थः | कार्यद्रव्यस्य च कारणद्रव्याण्यवयवाः तेषु कार्यद्रव्यं वर्तत इति वैशेषिकास्तन्निरासार्थंमाह - न चावयविनोवृत्तिर्निरैशैकत्व हेतुत्वभागेऽस्त्विति कार्यद्रव्यस्य स्वारंभकावयववर्तने पृथगवयवाभावादेकत्वाच्च अनेकत्र युगपत् वृत्त्यशक्तेरित्यर्थः निरंशत्वमेकत्वं च हेतुद्वयमभिहितमिदानीं प्. २८२) तदनुवादेन निस्सामान्यत्वं हेतुरुच्यते निष्कलत्वैक्य निस्सामान्यत्वकारणदिति ननु निरंशेष्वारंभकद्रव्येषु वृत्तिः संभवत्येव दृष्टत्वादिति तत्राह आधारेषु निरंशेषु यद्याधेयस्तथाविधः भिन्नदेशेषु तेष्वेकस्तथा चावयवी कथं इति अतः उक्तप्राकारेण कालभेदाभावाद्देशभेदाभावादयश्चापि निराकरणेन वस्तुभेदस्यापि निराकृतत्वात् सर्वः प्रपञ्चः सभेदो दिग्भेदवदाकाशे प्रत्यगात्मनि कल्पित इत्याह- तस्मान्न देशकालादि भेदो वस्त्राश्रयोमिते | दिग्भेदकॢप्तिवद्व्योम्नि भेदोयं तद्वदात्मनीति | जगद्वत् जगदुत्पत्त्यादयो विकल्पिता इत्याह | जगदुत्पत्तिसंहारास्तद्वदात्मनि कल्पिताः वस्तुवृत्तं समालोच्य कृतः सृष्ट्यादिसंभवः इति | किञ्चिदतद्धेदमित्यारभ्य क्रियाकार कफलार्थस्य कस्य प्रपञ्चस्याविद्यात्मकत्वमुक्तं इत्याह- कारकादिर्यथा भ्रान्तिस्तथा पूर्वमवादिषं प्. २८३) इति | सर्वस्य भ्रान्तित्वे स्थूलादिवाक्यमप्यर्थवदित्याह सार्वमात्मेति नेतिति तथा सत्युपपद्यत इति | यतः परमार्थतो जगदुत्पत्त्यादयो न संभवन्ति तस्मादविद्ययैव प्रतिक्षणं दृश्यमाना भवेयुरित्याह उद्भूतिस्थितिनाशा स्युः जगतोऽतः प्रतिक्षणं अविद्यामात्रहेतुत्वादिति | अत एवोत्पत्त्यादेः क्रमोऽप्यविवक्षित इत्याह - नामीषां विद्यते क्रम इति || एवं प्रासंगिकं परिसमाप्य श्रुतिव्याख्यानमेवानुवर्तयति- प्राणाः श्रोत्रादयोऽत्र स्युर्दश सप्त च ये मताः इति ननु दश सप्तचेति कथं यावताध्यात्माधिभूताधिदैवतरूपेण बहवः प्राणाः इति | तत्राह - लोकावच्छेदकोऽमीषां भेदोध्यात्मादिलक्षणः इति | लोकशब्देन शरीरग्रहणं | सर्वे लोका इत्यस्यार्थमाह- जरायुजादिसंभेदभिन्ना लोकाः पृथग्विधाः इति | सर्वे देवा इत्यस्यार्थमाह- तथाधिदैवतात्मानो देवातास्युर्बहुभेदका इति प्. २८४) अत आदित्यादयो देवा अध्यात्मदेहे चक्षुरादिभेदेन असाधारणा अप्याधिदैविकरूपेण साधारण इत्याह- तेपि साधारणा प्राणा देहे साधारणाश्चते इति | ते च प्राणाः लोका देवाश्च भौतिका इत्याह भूतानां परिणामोऽयं यथा कर्म यथा श्रुतमिति सर्व एत आत्मान इति माध्यन्दिन पाठः | तस्यार्थमाह प्राणादि जन्मनाजज्ञे खं यथाकुंभादि जन्मभिरिति | ननु स्वत् एवात्मा जायते घटादिवदिति नेत्याह- प्राणाद्युद्भूतितो नान्या क्षेत्रज्ञोद्भूतिरिष्यते कुतेतरे तेभ्य इति हि | तथा स्पष्टं वचः श्रुतमिति | प्राणादि उपाधिरूपेणोपहित क्षेत्रज्ञरूपेण च पर एवाविद्ययाऽवस्थित इत्युक्त तत्वं किं फलमितीतीदमत्याह- यस्मादविद्ययेवात्मा प्राण क्षेत्रज्ञरूपभाक् स्वतोऽतः स परं ब्रह्मेति तस्य वाक्यार्थरूपस्य वक्ष्यमाणोपनिषदित्याह - तस्योपनिषदुच्यत इति इयं चोपनिषद्वस्तु याथात्म्यप्रतिपत्यर्थासिद्धा | तस्याः प्रयोजनान्तरमाह- प्. २८५) उपासनार्थं यत् गुह्यं नामोपनिषदुच्यते तदस्य परमं गुह्यं तेनोपासीत तत्वतः || इति इदं तावद्दुर्वासना ब्रह्मविद्याप्रकरणपठितत्वात् ब्रह्मज्ञानोत्पत्तिफलं | अन्यदुप्यासनं विद्याप्रकरणपठितं तदुत्पत्तिफलमेवेति अभिप्रेत्याह - ब्रह्मविद्याधिकारेस्मिन् यावत्किञ्चिदुपासनं ब्रह्मविद्योस्तिति फलं तत्सर्वमिति निर्दिशेत् इति | उक्तमर्थं दृष्टान्तेन साधयति गोदोहनादिवत् विद्यादेवं सर्वमुपासनम् विद्याधिकारजीवित्वान्न स्वतन्त्रं फलं भवेदिति ज्ञानार्थत्वेन सृष्टप्रपञ्चोपजीवित्वात् दर्शपूर्णमासार्थत्वेन स्थितप्रणयनोपजीवि गोदोहनवत् | यथा गोदोहनं प्रणयनद्वारेण दर्शपूर्णमासनियोगं प्रसाध्य तद्द्वारेण स्वर्गं प्रसाध्यैव पशुं साधयेत् एवं ज्ञानार्थत्वेन सृष्टप्रपञ्चोपजीवित्वात् प्रपञ्चद्वारेण ज्ञानं प्रसाध्यैव फलान्तरं साधयेदिति एतदुक्तं भवति प्. २८६) कर्म च शुद्धिद्वारेण ज्ञानसाधनं भवतीति प्राणा वै सत्यमित्यादेरर्थमाह- सत्यस्य सत्यमिति या ब्रह्मोपनिष दुच्यते प्राणा वै सत्यस्या व्याप्योपनिषदः कृता नामरूपात्मकाः प्राणाः परसत्याभिसंगतेः सत्यमित्यभिधीयन्ते तेषां सत्यं परं पदं इति उत्तरस्य ब्राह्मणद्वयस्य अजातशत्रुब्राह्मणेन संगतिं कथयति- उक्तोपनिषदर्थस्य सम्यगाविष्कृदुत्तरं योऽहं वे शिशुमित्यादि भविता ब्राह्मणद्वयं इति | भवतूपनिषद्वाकयानां योत्तरं ब्राह्मणद्वयमियमुपनिषत् कस्येति न ज्ञायते किं जीवस्य किं वोपरस्य ब्रूहीत्याहनां ह्युपनिषद्व्याख्या भवतु ब्राह्मणद्वयं संसारिब्रह्मणो कस्य नामैतदिति भण्यतामिति | यदि संसारिणस्तदेदं फलति इत्याह- पाणिपेषा प्रयुक्तस्य नामसंसारिणो यदि तदा स एव विज्ञेयः तज्ज्ञानादेव मुक्तता - ब्रह्मशब्दाभिधेयश्च संसार्येव तदा भवेत् प्. २८७) तद्विद्या ब्रह्मविद्येति प्रतिपद्यामहे तदेति यदि ब्रह्मणस्तदा यथोक्तं सर्वं ब्रह्म गच्छतीत्याह- अथासंसारिणो नाम न्यायतो व्यवसीयते संसारिणि यदुक्तं तत्तदा तत्र भविष्यतिति तस्मात् विचारः कर्तव्य इत्यर्थः || पुनरपि विचारकर्तव्यताया हेत्वन्तरमाह- भिन्नात्मनोस्तयोर्दोषो ब्रह्मत्वप्रतिपादकः कुप्येरंच्छ्रुतयः सर्वाः नान्यदन्यद्भवेद्यतः इति भिन्नयोः केनापि साधनेन अभेदायोगात् जीवपरयोरेकत्वप्रतिपादन वाक्यविरोधोऽतो नु विचारः कर्तव्यो नोपनिषद्वलादेवेत्यर्थः | अथ जीवो ब्रह्माभिन्नस्तत्राह ब्रह्मणोऽव्यतिरिक्ते च तद्वच्चासति दुःखिनि ब्रह्मविद्योपदेश्य कैमर्थक्यं प्रसज्यते इति | सन्देहहेतुत्वं च विचारस्य प्रयोजकं तस्माद्विचारः कर्तव्यः उक्तसन्देहहानिकृत् इति जीवस्य ब्रह्माभेदे तत्त्वमसीति कस्य ब्रह्मत्वमुपदिश्येत | न च ब्रह्मण एव तस्य नित्यमुक्तत्वादुपदेशानपेक्षणादन्यस प्. २८८) च बद्धस्याभावात् भेदाभेदपक्षस्य च दुष्टत्वादेवं विधस्य च संशयकारणं विचारप्रयोजकं तस्मात् विचारः कर्तव्य इत्यर्तह्ः एवं विचारप्रयोजकमुक्त्वा पूर्वपक्षं दर्शयति- नाऽसंसारी परोऽन्योस्ति इति असंसारि ब्रह्मास्ति चेत्तस्येयं उपनिषद्विषदिति शंका भवति | तदेव नास्तीत्यर्थः | अत्र हेतुमाह पाणिपेषब्र बोधितान् प्राज्ञावस्थात्मकात् यस्मादुत्पत्तिः श्रूयते श्रुतेरिति ब्रह्म तेहं ब्रुवाणीति प्रतिज्ञाय यतो नृपः सुप्तं पुरुषमभ्येत्य पाणिना बोधयत् स्वयं तमवस्थान्तरं नीत्वा स्वप्नदर्शनवर्त्मना सुषुप्ताख्यं ततस्तस्मात् प्राणाद्युत्पत्तिमब्रवीत् इत्येतद्वानिक द्वयं पूर्वस्य प्रपञ्च संसारि प्रकरणाच्च तस्यैवेयमुपनिषन्नान्यस्येत्याह संसारिप्रक्रमाच्चेह नान्यत् संभाव्यते ततः इति | तौहेत्यारभ्य त्यन्तं उत्तरत्र जीवानु वादेन तस्यैव द्रष्टव्यत्वा भिधानाच्च स एव प्रतिपाद्यत इत्याह - प्. २८९) अनूद्य च प्रियात्मानं स दृष्टव्य इतीर्यते इति | अन्येष्वपि वेदान्तेषु जीवस्यैव संवेद्यत्वं श्रूयत इत्याह- वेदान्तेषु च सर्वेषु प्रत्यगात्मैव चोद्यते वेद्यत्वेन न तद्भिन्नं पश्येदिति विधीयते इति | ननु संसार्येव सुप्त्याख्यमवस्थान्तरं गतः परोऽतः परस्मादेव उत्पत्तिर्जगतो भण्यत इत्याह- अवस्थान्तरसंबन्धादसंसारी भविष्यति संसार्यपि स्वतोऽयं चेदिति | एतन्न संभवतीत्याह - नेदृक् दृष्टेरसंभवादिति एतत्प्रपञ्चयति वार्तिकद्वयेन- नान्यजातिविशिष्टोऽर्थः स्वतो जात्यन्तरं ततः कश्चिदेति जगत्यस्मिन् नान्यत्रेश्वरहेतुतः स्वभावमपि जह्याच्चेदग्निः शीतो भवेद्ध्रुवम् सर्वप्रमाणकोपं च सर्वं स्यादधरोत्तरमिति संसारिणः परमपरमार्थतो संसारित्वं न घटत इत्यर्थः सांख्यादयस्तदेशस्य ह्यभवात् बहुयुक्तितः आपादयति यत्नेन तेभ्योन्यः कोऽधिको धियेति | प्. २९०) एतत् सुबोधं ननु संसारिणो जगदुत्प्राद नादिसामर्थ्याभावत् परेण भवितव्यमित्यभिप्रेत्याह- संसारिणोऽप्यसामर्थ्यात् जगज्जन्मदिकर्मसु जगद्धेतुत्वमन्याययमिति श्रुतिविरुद्धं त्वयोच्यते इत्याह- न श्रुतेर्बलादिति एतत्प्रपञ्चयति अक्षाद्यगोचरो यद्यत् शास्त्रादप्यवसीयते तद्वत् संसारिकारित्वं जगतो गम्यतां श्रुतेः | इति | धर्मादिवदित्यर्थः | असंसारी ब्रह्मास्तीति साधयति- एवं तावदयं पक्षो न्यायतः प्रतिपादितः शास्त्रन्यायादितोऽन्योपि पक्षोथ प्रतिपाद्यते यः सर्वज्ञः सर्वविद्योशनादियादि वर्जितः यः पृथिव्यामिति तथा नेति नेतीति चागमः अस्थूलाद्यक्षरोक्तेश्च तथा पूर्वादिवाक्यतः असंसारि परोऽस्तीशो यस्य सर्वमिदं वशम् || इदानीं स एव च जगत्कर्तेत्याह- स एव च जगत्कारी सत्यज्ञानादिलक्षणः तस्मादित्यात्मनश्चेति सामानाधिकरण्यतः इति | अत्र चोदयति संसारिणो ननूत्पत्ति प्. २९१) एवमेवेति कीर्तितं इति | नैतत् सारमित्याहनैवं महेश्वरस्यैव तत्राकाशत्व संश्रयात् इति || अयमर्थः सत्यं भवदुक्तं स्याद्यद्या काशशब्दः परो न भवति | य एष इत्यत्र पर एवेति | अत्र प्रमाणमाह - वार्तिकचतुष्टयेन ब्रह्मतेऽहं ब्रुवाणीति प्रकृत्यब्रह्मबोधनम् अब्रह्माप्रकृतं ब्रूयात् कथं राजातिपिण्डितः श्रुत्यन्तरविरोधश्च संसारी चेदिहोच्यते सता सोम्येति सन्नाम्ना ब्रह्म तत्र विवक्षितः आकाशो वै नामेति ब्रह्मैवानामरूपकः श्रुत्यन्तरे श्रुतं साक्षादाकाशाह्वानवत् परं तथा चाह रहः शास्त्रं पर आत्मनि चेति यत् सुषुप्तेर्ब्रह्मणोऽन्यत्र नावकाशोऽस्ति दुःखिनः इति | किं च अत्र आकाशशब्दवाच्यात् जीवानामपि उत्पत्तिः श्रूयत एवमेवेति नात्र पिगानमस्मात् इति प्रकृतपरामर्शादाकाशस्य च प्रधानत्वेन प्रकृत्वात्ततश्च भूताकाश ग्रह आकाश इति जीवानामपि तदुत्पत्ति स्यात् तन्न घटत इत्याह- अतद्विकारतो ब्रह्म प्रलयश्च तथात्मनः प्. २९२) भौतिकाकाशविषय योगः कथं त्वत्र न युज्यते इति | संसारिणो जगदुत्पादनादिसामर्थ्याभावात् पर एवात्र ग्राह्य इत्याह- जगज्जन्मादिसामर्थ्यं सामर्थ्यादि च दुःखिनः संसारिणो न संभाव्य मस्मदादेर्यथा तथेति | ननु शास्त्रबलात् संसारिणो जगदुत्पत्यादि स्यात् इत्युक्तं तत्राह- न शक्त्याधानकृच्छास्त्रं तस्याभिव्यञ्जकत्वतः इति जीवस्य जगदुत्पादनादि सामर्थ्याभावस्य प्रत्यक्षत्वाच्च तद्विरोधेन न श्रुतिमात्रत्वमित्याहमानान्तरविरोधेन न हि मानं प्रवर्तते इति एवं महता प्रयत्नेन यत् प्रसाधितं यत् ब्रह्म तस्यैव प्रत्यग्भूतस्येयमुपनिषदिति सिद्धान्तो भविष्यति | तन्निरासार्थं तयोरभेदं निराकरोति- परस्परानपेक्षौ चेत् संसारीशौ स्वतः स्थितौ ऐकात्म्यं न तयोर्युक्तं प्रकाशतमसोरिव यतो भेदोऽतस्तादात्म्य ज्ञानमसंभाव्यमित्याह अहं ब्रह्मेत्यतो युक्तं ब्रह्म प्रत्यक् तयाञ्जसा गृहीतं दुःखिनोन्यत्वाद्दोषभाक् स्यादतोऽन्यथेति प्. २९३) तर्हि मोक्षः कथमिति तत्राह - सत्कर्मभिस्तु तं देवं जगतः कारणं परम् आराध्य परमोत्कृष्टं तत्प्रसादात् समश्नुते इति ब्रह्मात्मैकत्वशंसीनि वाक्यान्यपि तथा सति | अर्थवादी भविष्यन्ति विरोधः स्यादतोऽन्यथा तर्कशास्त्रैस्तथा लोकन्यायैरप्यविरुद्धता तथा सतीति संप्राप्ता वत्र प्रतिविधीयते इत्येतद्वार्तिकद्वयं सुबोधम् | एवं पूर्वपक्षे प्राप्ते सिद्धान्तयति- नैतदेवं यतोऽस्यैव मन्त्रब्राह्मणमानतः प्रवेशः श्रूयते साक्षात् परमेशस्य सर्वतः इति | तत्र ब्राह्मणवाक्यान्युदाहरति | पुरश्चक्रे द्विपदः पुरः पुरुषेभ्यः परमेव ब्रह्मयुद्धिगुहानुप्रविष्टं जीव इति श्रवणान्न जीवब्रह्मणोर्भेदोऽतः तस्यैवेयमुपनिषन्न तटस्थस्य ब्रह्मणो नापि जीवस्येति मन्त्रब्राह्मणवाक्येऽप्युदाहरतिः || पुरश्चक्रे द्विपदः पुरः पुरुष आविशत् | रूपं रूपं च सर्वाणि त्वं स्त्री त्वं च पुमानसि प्. २९४) इति मन्त्रसमाम्नायस्तथा च ब्राह्मणान्यपि इह प्रविष्ट इत्युक्तिः पुरस्तात् ब्राह्मणोदिताः तत्सृष्ट्येति तथा वाक्यं तैत्तिरीयश्रुतौ श्रुतम् सेयमित्यादिकं वाक्यं छान्दोग्योपनिषद्यपि इति | आत्मा ब्रह्मेत्यादि सामानाधिकरण्याच्च जीवपरयोरभेद इत्याह- ब्रह्मात्मशब्दयोस्तद्वत् एकानुकरणश्रुतेः अहं ब्रह्मेत्यवसितुं युक्तमेव भवेदतः || अत्र पक्षे दूषणमुद्भावीयति- यदा चैवं स्थितं पक्षं तदा दोषोयमागमत् संसारित्वं परस्येति तदनन्यत्वकारणात् || अथासंसारिते तस्य कथञ्चिदुपपाद्यते तदौपदेशानर्थक्यं तन्मतेप्यस्य मुक्ततः इति | अयमर्थः || संसारिणामनन्यच्चेत् ब्रह्म ब्रह्मणोपि संसारित्वं अथानन्यत्वेपि असंसारि ब्रह्म तदोपशो नर्थक्यं कथमुच्यते संसार्यनन्यस्याप्यसंसारित्वं भवति यदि तदा संसारित्वमतोपि असंसारी | तस्मादुपदेशोऽनर्थक एवेति | अत्र प्रथमं सिद्धान्तैकदेशिनां परिहारं दर्शयति निराकरणाय प्. २९५) एवं प्रचोदिते केचित् परिहारं प्रचक्षते - इति | कथमिति तत्राह- सृष्टेषु न परं साक्षात् साविशत् परमेश्वरं विकाररूपापनस्सन् विज्ञानार्थत्व लक्षणं ब्रह्मादिस्थावरान्तेषु भूतेषु प्राविशत् परः इति | अयमर्थः जीवो नाम ब्रह्मविकारः तद्रूपेण | ब्रह्मसंसारेऽनुप्रविष्टं न साक्षादतो नोक्तदोष इति | ननु जीवस्य ब्रह्मविकारत्वे अपि विकारब्रह्मणोरभेदात् उक्तदोषः स्यादिति चेन्नेत्याह - विज्ञानात्मा च महतः परमात्मस्वभावकात् || अन्योऽनन्यश्च विज्ञेयः स्वाभाव्यात् सर्ववस्तुनः - येनान्यस्तेन संसारी कर्माधिकृत इष्यते अनन्यपक्षेऽहं ब्रह्मेत्युक्ते ब्रह्म प्रपप्स्यते | यथोक्तदोषसंबन्धो नैवं सति भविष्यति इति | अत्यन्ताभेद पक्ष उक्तदोषं स्यादेवेत्याह - इतोन्यथा कल्पनायां यतो दोषेण संगतिरिति इदानीं दूषयति- देहाद्युपाधिसंबन्धं सिद्धमान्तरसंश्रयात् अनूद्य ब्रह्मता वाक्यान्न प्रविष्टा ताश्रुतेः प्. २९६) इति भवदुक्तं सत्यं यदि प्रवेशादिप्रतिपाद्यं न च प्रतिपाद्यमपुरुषार्थत्वात् तर्हि किं प्रतिपाद्यमुच्यते देहाद्युपाधिविशिष्टं लोकसिद्धजीवमनूद्य कस्य ब्रह्मत्वं प्रतिपाद्यन्तं तत्र प्रयोजन भावादभयमित्यादि श्रुतेरिति जीवो ब्रह्मविकार इति पक्षे दूषणकथनाय विकल्पयति- विज्ञानात्मन एता स्युः गतयो विक्रियां प्रतिनाना द्रव्यसमाहारः पृथिवीवत् परो भवेत् | तस्य सावयवस्य स्यादेकदेशस्थविक्रियेति | अयमेको विकल्पोऽस्यायमर्थः अनेकद्रव्य समाहारः परस्तिलराशिवत् अथवा अनेकद्रव्याण्येव परस्परापेक्षयापरस्तदेकदेशो विज्ञानात्मत्वेन परिणमत इति | विज्ञानात्मेति यं प्राहुः परिणामं स आत्मनः घटादिवत् क्षितेरस्य ह्येकदेशस्य विक्रियेति एतत् पूर्वस्य प्रपञ्चः | इदीनीं विकल्पान्तरं दर्शयति- संस्थानानुपमर्देन यद्वा केशोषरादिवत् कार्त्स्न्येन वा परिणमेत् क्षीरद्रव्यादिवत् परे || प्. २९७) इति | ननु पक्षान्तरमप्पस्तीति नेत्याह- इयन्त एव पक्षा स्युर्विकारे परमात्मनः इति प्रथमविकल्पे दूषणमाह- भिन्नद्रव्यसमूहस्य मुख्यैकत्वं न युज्यते एकजात्यभिसंबन्धादेकत्वं गुणतो यतः तथा च सति सिद्धान्तहानिर्वः संप्रसज्यते || इति अयमर्थः | नानाद्रव्यसमाहारस्य ब्रह्मणः एकदेशपरिणामो विज्ञानार्थो द्वितीयपक्षस्य वा यदि तदा विज्ञानात्मनः परेणैकत्वमौपचारिकं स्यदेकजातीयद्रव्यपरिणामित्वात् अथवा नानाद्रव्य समाहारश्चेत् परो नानाद्रव्याण्येव वा परस्परापेक्षाणि तदा पर एको न स्यात् एकजातीय द्रव्याणां परस्परसंबन्धानामपि एकत्वा भावात् समाहारस्य च कल्पितत्वेनापरत्वात् ततश्च त्वत्सिद्धान्त हानिरिति द्वितीयपक्षमनुवदति निराकरणाय नित्यं चायुतसिद्धांशानुगतोऽवयवी यदि तदवस्थस्य तस्यैकदेशः संसारितामगादिति || अयमर्थः नानाद्रव्य समाहारं परो नापि द्रव्याण्येव परस्परबद्धानि किन्तु द्रव्येषु परस्परबद्धेषु एकं प्. २९८) अवयविद्रव्यमनुस्यूतमिति * * * * * * * सोथ राजास्मीत्यवबोधतः बाधित्वा स्वमयं बोधं हित्वाऽभावत्वमात्मनः राजाभिषेकमाप्नोति प्राप्य सिंहासनं विभुः अवाप्तराजपुत्रत्वात् तत्प्राप्तौ नाभिषेचते मोहव्यस्तात्म ध्यानत्तात्मोहध्वस्तातिरेकतः राजपुत्रत्वसंप्राप्तौ नान्यत् किञ्चिदपेक्षते | यथेत्येतानि इदानीं दार्ष्टान्तिकं दर्शयति तथायं ब्रह्मैव ब्रह्मसंबोधमात्रतः बुद्धीन्द्रियशरीरादावात्मत्वं प्रतिपेदिवानिति अनात्मन्यात्माभिमानफलमाह- सोऽयं सांसारिकैरर्थैः प्रत्यक्तत्वाप्रबोधतः विशिन्नद्धि स्वमात्मानं स प्रतीचीनमनात्मभिः इति | एवं विधं पुरुषं संसारान्मुमुक्षुरन्वय व्यतिरेकाभ्यां पदार्थद्वयशोधनद्वारेण वाक्यार्थमाचार्यो बोधयतीत्याह- संसारभूमावासीनं संसार्यस्मीत्यवस्थितः मुमुक्षुं तत्ववित्साक्षां संसाराद्युत्थितैषणं य आत्मेत्यादिभिर्वाक्यै रन्वयव्यतिरेकतः तत्वमस्यादिवाक्येन गुरुः संबोधयेन्नरम् प्. २९९) आत्मन्यद्ध्यस्तसंसार मुमुक्षुं प्रत्याचार्य कृतमित्यर्थः गुरुः संबोधयेदित्युक्त बोधफलमाह- सम्यक् ज्ञानाग्निसंस्पृष्ट प्रत्यक्तत्व महातमाः हित्वा दोषोत्थमखिलं ब्रह्मैव ब्रह्म याम्यथेति ब्रह्मविदोपि ब्रह्मज्ञानादन्यदनुष्ठेयं किञ्चिदभ्यासादिकं केचित् वाञ्छन्ति तदपि निराकृतं केवलक्षानस्य मोक्षसाधनत्व समर्थनेनेत्याह- प्रत्यक्तत्वतमोध्वंसिव्यतिरेकेण मुक्तये अपेक्षते यतो नान्यत् किञ्चित्साधनमण्वपि जन्माद्यसंभवात्तस्मात् ब्रह्मबोधातिरेकतः कार्यान्तरं न संभाव्यमिति | किञ्च यदि विदुषोपि कर्तव्यमस्ति तदाज्ञानान्मोक्षश्रुति | व्यर्थेत्याह - व्यर्थं चापि भवेद्वच इति || एवं दार्ष्टान्तिको दर्शितः स्तयेत्यारभ्य तत्र दृष्टान्ते राजकुमारस्य उन्मत्तत्वादिसंकीर्तनं राजकुमारस्य राजपुत्रोऽस्मीति ज्ञानार्थं न स्यात्कनिष्ठमेवं सृष्ट्यादिसंकीर्तनं ब्रह्मात्मैकत्वज्ञानार्थं न स्वार्थनिष्ठमतो न प्. ३००) अंशांशित्वादिति विवक्षितमित्युक्तमिदानीं स्थूलादिवाक्यविरोधाच्च नांशांशित्वादि विवक्षितमित्याह- अंशांशित्वादि चेत्साक्षात् ब्रह्मज्ञाने विवक्षितं समुद्रादेरिव तदा नावक्ष्यच्छ्रुतिरादरात् यदनभ्युदितं वाचामनुते मनसा च यत् अपूर्वादि तथा वाक्यमपि सैन्धवखिल्यवत् नानात्वदृष्टिनिन्दा च मृत्योरपि तथा वचः अंशांशित्वविवक्षायां न प्रयोक्ष्यत्तदेदृशं इति | तस्मात् सृष्ट्यादय एकत्वज्ञानार्थ एवेत्याह एकैकरूपैकात्म्यार्थधियो दार्ढ्यप्रसिद्धये सृष्ट्यादिश्रुतयस्तस्मान्न तु तत्प्रत्यायता इति | ननु शास्त्रबलान्नांशांशित्वादिकल्पनं किन्तु न्यायबलादिति चेत् किं निरंशस्य असंसारिणोंश संसारकल्पनं उत सांशस्य संसारिणः इति | निरंशस्य असंसारिण इति चेत् तत्राह- न चात्मनो निरंशस्य तथा संसारिणः स्वतः अंशसंसारभावित्वं न्यायेनाप्युपपद्यते इति | ननु जीवस्य परांशत्वं विकारित्वं सं प्. ३०१) संसारित्वं चोपाधिकं अती न विरोध इति चेदस्त्वेवाधिकस्य मिथ्यात्वादित्याह- कल्पितोपाधिहेतुत्वेदं शिसंसारि कल्पना काममस्तु न तादृक्षु धीराणां सत्यधीर्भवेदिति तस्मादेकत्वपरमेव शास्त्रमिति स्थितं तत्र चोद्यमुद्भावयति- विवक्षितश्चेदैकात्म्यं सर्वोपनिषदां भवेत्- विज्ञानात्मादिसंभेद इति | केचित् प्रचक्षते | इति | ननु शुद्धैकत्वेपि कर्मकाण्ड प्रामाण्यसिद्धिरिति चेत् नेत्याह- स्वत एव विमुक्तत्वात् स्वस्वभावात्स्यतस्तथा वेदान्तानां तथारंभो निष्कलः संप्रसज्यते इति | नन्वेवमादिचोद्यात् भाव्यसंबन्धग्रन्थादारभ्य परिहृतं किञ्चिदिति पुनः पुनरुद्भाव्यत इति चेत् सत्यं उक्तोत्तरमेव चोद्यं पुनरुद्भाव्यते प्रकारान्तरेण परिहारायेत्यभिप्रेत्याह- इत्येवमादि चोद्यानि परिहाराच्च वर्णिता संबन्ध एव बहुशो विचारेषूपकीर्तिताः इति किं नु ऐकात्म्यवादिना कर्मकाण्डप्रामाण्यमिष्यते तद्विरोधाच्च न ज्ञानकाण्डप्रामाण्यं प्. ३०२) इत्यभिप्रेत्याह - परस्परविरोधाच्च प्रकाशतमसोरिव कर्मकाण्डोपनिषदोर्न प्रामाण्यं द्वयोरपि || इति | ननु प्रामाण्यं नोपपद्यते चेत् तर्हि ज्ञानकाण्डस्यैव प्रामाण्यमिति चेन्नेत्याह - सति यस्य प्रमाणत्वे प्रामाण्यं स्याद्द्वयोरपि | तस्यैव कर्मकाण्डस्य प्रामाण्यमवसीयतामिति ननु ज्ञानकाण्डप्रामाण्यमभ्युपगतं चेत् त्वयैव कर्मकाण्डप्रामाण्यं निराकृतमतो अस्मदभिप्रेतः सिद्ध इत्याह अकर्मकाण्डप्रमाणत्वे प्रमाण्यं चेद्द्वयो रपि | सर्वग्राहि तदैकात्म्यमागादिह पुनर्बलादिति एवं तर्हि उपनिषदामप्रामाण्यमित्याह- यद्येवमप्रमाणत्वं अस्तूपनिषदां सदेति | प्रत्यक्षादिविरोधाच्च नोपनिषदां प्रामाण्यमित्याह - मानान्तरविरोधाच्च नैतासां मानतेष्यते इति स्वार्थविधातकरत्वाच्च नोपनिषदां मानत्वमित्याह- अपि स्वार्थविधातं च करोत्युपनिषद्यतः अप्रामाण्यमतस्तस्याः कर्मकाण्डस्य मानतेति | प्. ३०३) कथं स्वार्थविघातकरत्वमिति चेदुच्यते | शिष्याचार्यादिभेदव्यतिरेकेण अद्वैतभेदा योगात्तत् भेदे सति कथमद्वैतसिद्धिरिति इदानीं सिद्धान्तयति- नोक्तोत्तरत्वात् साध्वेतत् भवता परिचोद्यते तद्व्यर्थ तान्यार्थता नेह यथा तत् प्राक् प्रपञ्चितमिति चेत् ज्ञानशास्त्रं न प्रयोजनशून्यं नान्यशेषमित्युक्तं स्मरेत्यर्थः प्रयोजनं प्रकाशयति - ब्रह्मास्मीति धियो जन्मसमकालाविमुक्तता यतोऽनुभूयते साक्षात् नानर्थक्यं भवेत्ततः इति अनन्यशेषत्वं कुत्रोक्तमिति तत्राह - वस्तुमात्रावसायित्वं संबन्धे प्राक् प्रवर्तितम् यतोऽतो नोपनिषदां अन्यार्थत्वं कथञ्चन इति प्रमाणाप्रमाणलक्षणं करोत्युपनिषदा प्रमाणत्वप्रसाधनाय स्वप्रमेय प्रमोत्पत्त्यनुपपत्त्यैकहेतुके प्रमाणत्वाप्रमाणत्वेन अन्यथ ते प्रसिद्ध्यत इति | किं च अतो यदि नामैवं प्रकृतार्थोपयोगि शृण्वेकाग्रमनाः सर्वं यदैवं सति वस्तु तत् स्वप्रमेये प्रमांसा प्. ३०४) स्वप्रमेये प्रमां साक्षात् करोत्युपनिषद्यदि | अप्रामाण्यं कथं तस्यां कुतोऽतो मानताऽन्यथा न चेत् करोत्युपनिषत् प्रमामित्यभिधीयते | प्रत्यक्षेण विरुद्धार्थं त्वदीयं वचनं भवेत् नाग्निर्दहति काष्ठानि न तापयति भास्करः इति यद्वत् तथोक्तिस्ते प्रत्यक्षेण विरुद्ध्यत | इत्येतानि सुबोधानि || उक्तप्रकारेणानुत्पत्तिर्लक्षणप्रामाण्यं माऽभूत् प्रयोजनाभावादप्रामाण्यमिति | नेत्याह- अग्निदाहादिवत् साक्षात् वेदान्तज्ञानजं फलम् संसारानर्थहान्याख्यं प्रत्यक्षमनुभूयते इति | विघ्नन्ति स्वार्थमित्युक्तं यच्च तच्चाति पेलवं यथावदुच्यमानं त्वं यथावच्छ्रोतुमर्हसि इत्येतत् सुबोधं- आपर्वोक्तप्रकारेण स्वरूपं बोधयन्ति चेत् कथं स्वार्थकरत्वेन अप्रामाण्यमित्याह- स्वप्रमेयावबोधो हि मानानां स्वार्थमुच्यते तं चेत् कुर्वन्ति वेदान्ताः कुतस्तेषाममानतेति ननु बाधादप्रामाण्यं नेत्याह- न च वेदान्तवाक्योत्थ ज्ञानस्येहास्ति बाधकम् प्. ३०५) इति | अत्र हेतुमाह- बाधकानामपि सतां प्रत्यग्याथात्म्यरूपतः इति बाधकत्वेनाभिमतं प्रत्यक्षादेरप्यात्मनः स्वरूपत्वादित्यर्थः | ननु तथाविध आत्मैव न संभवति चेत् नेत्याह- प्रमाणमप्रमाणं च प्रमाभासं तथैव च कुर्वत्येव प्रमां यत्र तदसंभावना कृतः इति प्रत्यक्षादिविरोधादप्रामाण्यमुक्तं तन्निराकरणाय विकल्पयति- किमेकविषयत्वेन किं वा विषयभेदतः विरोधः स्यात् प्रमाणानमित्येतदभिधीयताम् इति प्रथमविकल्पमुत्थापयति | मानान्तरेण संवाधो यदि चेदिति | संबाद शब्देनैकविषयत्वं विवक्ष्यते | तत्र दूषणमाह अनुवादता विरोधो न तु मानानां सदैकार्थ समागम इति | अस्मिन् पक्षे अनुवादता दोषो न विरोधो इत्यर्थः | भिन्नप्रमेयतायां च श्रोत्रादीनां यथा तथा परस्परानपेक्षत्वान्न तरामविरुद्ध्यते इत्येतत् सुबोधं ननु मानान्तरेण मानान्तरस्य प्. ३०६) किन्तु तत्वमस्यादिवाक्यं स्वार्थविरुद्धं स्वयं ब्रूत इति | तत्राह न चैकमेव सद्वाक्यं करोति रकरोति च प्रमान्तत्प्रतिषेधं च कुर्वन् क्वचिदि हेक्ष्यते || इत्ययमर्थः वैदिकं लौकिकं च वाक्यं प्रमां करोति | न करोतीत्येवं प्रमां तत्प्रतिषेधं च कुर्वन् क्वचिन्नेक्ष्यत इति || ननु लोक एवं वाक्याविरुद्धार्थबोधकं दृष्टमित्याह - अग्निः शीतस्त थोष्णश्चेत्येवमाद्युक्तितो | ननु विरुद्धार्थावसायोऽयं जायमानः समीक्ष्यतेः इति न तद्विरुद्धार्थ बोधकमित्यह- नैकस्मान्नापि च द्वाभ्यां विरुद्धोऽर्थोऽवसीयते | अनूद्योक्तैकदेशेन शीतोऽग्निरिति बोध्यत || इति भवदुदाहृतं वाक्यमेकं वाक्यद्वयं वा सर्वथापि विरुद्धार्थबोधकं न च यदैकं तदोष्णान्त्यनुवादेन शीतोऽग्निर्बोध्यत इत्यर्थः ननु शीतोऽग्निर्न संभवति | कथमुष्णाग्न्यनु वादेन शीताग्निविधानं तत्राह- संभवत्येव शीतोऽग्निः प्रमाणान्तरगोचरः गानान्तरविबोधोपि तथा च सति नेष्यते | इति | यदा उष्ण एवाग्निस्तदापि न विरोध इत्याह प्. ३०७) शीतवद्वा भवेच्छीतं शैत्यस्यानपहारतः एवमप्यविरोधः स्यादस्य मानान्तरैरपि इति | संभवत्येव शीतोऽग्निरित्युक्तं कोऽसाविति | तं दर्शयति वाक्यैकत्वे विरोधाभावश्चोक्तो द्वित्वेपि तथेत्येत्रमर्थामाह शैशिरोऽग्निर्भवेच्छीतः तथोष्णं पार्थिवो भवेत् भिन्नाग्न्यर्थावबोधित्वाद्वाक्ययोर्न विरुद्धता इति | अग्निरुष्ण इत्यादेरेकवाक्यत्वे नैकार्थत्वेन विरोधाभावमुक्तं अनूद्यानेकार्थत्वेपि एकस्य वाक्यस्य विरोधाभावमाह ऐकार्थ्येन विरोधोस्ती द्व्यर्थत्वेपि समाश्रयात् इति | अयमर्थः यदाग्निरुष्णः शीतश्चेत्यदेकं वाक्यं एकमेवार्थं बोधयति पूर्वोक्तविधानेन तदा विरोधो नास्त्येव | यदोष्णत्वमग्नेः शीतत्वं च बोधयति तदेवैदं वाक्यं भिन्नाग्निधर्मत्वेन एकाग्निधर्मत्वेन वा तदापि न विरोधः स्वार्थेन स्वस्वमाश्रयादेव मान सिद्धत्वादेवेति | मानान्तरेण विरोध इति चेन्नेत्याह- मानान्तरेण नैवास्ति मानान्तराविषयत्वतः प्. ३०८) इत्थयमर्थः एकविषयत्वेन विरोधस्त्वया उच्यत इति | भिन्नविषयत्वेन | न तावदेकविषयत्वेन विरोधोऽग्निरुष्णः शीतश्चेत्य स्यार्थद्वयस्यै तद्वाक्यस्य व्यतिरेकेण मान्तरस्याविषयत्वादितीद्ध्यर्थत्वेपि इत्यं गीकरणवाद इत्याह- अभ्युपेत्यैतदुदितं न तु वाक्यविदां नयः यदनेकार्थबोधित्वं एकस्यैव च * स्सतः इति वाक्यविदां न्यायं दर्शयति | अथैकत्वादिति तथा वाक्यलक्षणमुच्यते- अनेकार्थावबोधित्वे न स्याल्लक्षणवद्वचः अपि च वेदशास्त्रमेदं वाक्यं वाक्यद्वयं वा उभयथापि विरोधो नास्तीत्याह- एकमेव यदा वाक्यं कृत्स्नो वेदोऽभ्युपेयते वाक्यान्तरासंभवतः तदा केन विरुद्धता वाक्यद्वयं चेदथवा सिद्धसाध्यार्थभेदतः तदापि न विरोधोऽत्र विभिन्नार्थावबोधिनो इति | एवं प्रत्यक्षादिविरोधमुद्भावितं परिहृत्य स्वार्थपरार्थविधातकरत्वं उद्भावितं परिहरति || नापि स्वार्थं परार्थं वा विहन्त्युपनिषत् क्वचित् | प्. ३०९) इति निर्लज्जगीर्यमिति प्रयोजनं चेत्तत्राह निश्शेषपुरुषार्थाप्तिः सर्वानर्थात्ययः सदा वेदान्तज्ञानतश्चेत् स्यात् स्वार्थोऽन्यः क इष्यते | इति परार्थ विघातकत्वमुक्तं परिहरति | निषेधति विधत्ते वा न चाप्युपनिषत् क्रियां प्रत्यक्षत्वैकसंबोधे तद्वाक्योपक्षयत्वतः इति | ननु ब्रह्मवाक्यमद्वैतब्रह्मप्रतिपादनो पक्षीणं चेत् कर्मवाक्यं स्वार्थे प्रमां नोत्पादयतीति चेत् नेत्याह- न चापि कर्मकाण्डोक्तिः स्वार्थेन कुरुते प्रमां कुर्वन्त्यमानं कथमुच्यत इति | किं च कर्मवाक्येभ्यः प्रमानुत्पत्तिवादिनः प्रत्यक्षविरोधश्चेत्याह - प्रात्यक्षाय प्रमोत्पत्तिरित्याह प्रात्यक्षाय प्रमोत्पत्तेर्ज्योतिष्टोमादिवाक्यतः प्रमेवोत्पद्यते नेति वक्तुमेतन्न शक्यत इति | ननु कर्मवाक्यविषयस्य द्वैतस्य ब्रह्मवाक्येनापहृतत्वात् कथं कर्मवाक्यात् प्रमोत्पत्तिरित्याह- विषयापहृतेर्नो चेत् वेदान्तोक्त्या प्रमोक्षतिः इति | ननु त्वयाऽनुमानमुच्यते तत् प्रत्यक्षकविरुद्धमित्याह प्. ३१०) न प्रत्यक्षद्वयस्तावदनुमानप्रबोधनात् - ननु कर्मशास्त्रमपि यदि स्वार्थे मानं तदा कर्मभेदस्य च परमार्थत्वात् अद्वैतहानिरिति तत्राह- यथा सिद्धामुपादाय कामद्वेषवशानुगः इष्टमेव सदा मेस्यान्माभूच्चानिष्टमन्वपि साधनानिष्टलाभार्थमनिष्टार्थापनुत्तये | आचक्षाणा श्रुतिः पुंसो नान्यार्थं वक्ति कञ्चन | इति | इदमिष्टसाधनमिदमनिष्टसाधनमित्यत्रैवोपक्षीणं कर्मशास्त्रं नतु कर्मस्वरूपे तद्भेदे कल्पिताकल्पितयोर्वा वाक्यं व्याप्रियत इत्यर्थः | अत्र दृष्टान्तमाह- यथा काम्याग्निहोत्रादौ साध्यसाधनसंगतिः विदधन्नानृतत्वादि कामानां वक्ति कुत्रचित् इति | ननु कामानां सत्यत्वं नोच्यते चेत् कथं पुरुषप्रवृत्तिरिति | तत्राह- न चापि न प्रवर्तन्ते पुरुषाः काम्यकर्मसु यतो तत्वविदां कामो न कदाचिन्निवर्तते इति | अयमर्थः यद्यपि फलस्य कल्पितत्वाकल्पितत्वयोः स्वर्गकामादि विधिवाक्यं न व्याप्रियते प्. ३११) तथापि अस्मादिदं फलं भवतीत्युक्ते अर्थिनः प्रवर्तन्त एव | तथापीत्यकर्म स्वपीति | ननु नित्येषु कामाभावात् तथा कामतः प्रवृत्तिर्नैतत्तत्रापि कामोऽस्ति तत्र प्रमाणमाह- अकामतः क्रिया काचिद्दृश्यतेनेन कस्यचित् यद्यद्धि कुरुते जन्तुः तत्तत्कामस्य चेष्टितमिति श्रुत्याप्ययमर्थो रक्ष्यत इत्याह - स यः काम इत्यादेरेषोऽर्थश्च साविस्तरं वक्ष्यत इति कामरहि तस्य प्रकृत्यभावं शास्त्रमेव दर्शयतीत्याह अकामयतमानश्च तथा कुर्वन्ति मुच्यते इति | ननुज्ञा सौ कामरहितस्यापि प्रवृत्तिनिवृत्ती दृश्येते | कथमकाम यमानो कुर्वन् विमुच्यत इति तत्राह - सर्वाधिकारप्रध्वंसानकृत्स्नात्मप्रबोधिनः प्रवृत्तौ वा निवृत्तौ वा गुणभावस्समेष्यते इति | यतोज्र?स्याविरक्तस्य कर्मणि प्रवृत्ति निराकर्तुं न शक्यते नापि प्रमित्युत्पत्तिः तस्मात् ब्रह्मणोऽद्वयत्वात् विषयाभावात् कर्म वाक्यानामप्रामाण्यमित्यादिदूषणं परिहृतं प्. ३१२) इत्याह - अतो निर्विषयत्वादि ब्रह्मैकत्वाद्वदीरितं सर्वं परिहृतं ज्ञेयं यथोक्तेनैव वर्त्मना इति | ननु शास्त्रवशात् प्रवृत्तिनिवृत्ती न रागवशादिति चेत् नेत्याह- न निवर्तयितुं शक्या रागाद्याकृष्टचेतसः शास्त्रं विरक्तचित्तत्वान्न प्रवर्तयितुं क्षमम् | इष्टानिष्टफलानीति साधनानि प्रकाशयन् न प्रवृत्तिं निवृत्तिं वा पुंसः शास्त्रं करोति तत् इति | इतश्च शास्त्रबलात् न प्रवृत्तिः | किन्तु रागबलादेवेत्याह- अपि शास्त्रं समुल्लंघ्य रागादि बलवत्तया प्रवर्तमानाः पुरुषाः दृश्यन्तेऽद्यापि कम्मि?नः इति | तर्हि शास्त्रं न प्रवर्तयति चेत् किं करोतीति | तत्राह- साध्यसाधनसंबन्धानिष्टानिष्टफलोदयात् शास्त्रं चादित्यवत् साक्षात् प्रकाशयति तान् सदा इति तत्र साधने रागवशात् प्रवृत्तिरित्याह- तेषु शास्त्रैकदीपेषु साध्यसाधन वर्त्मसु यथारुचि प्रवर्तन्ते पुरुषा न तु शास्त्रतः इति | इदानीं प्रकृतमुपसंहरति || प्. ३१३) विधिशास्त्रस्य नैवातो वेदान्ता बाधकास्तदा न च निर्विषयं तत्स्यात् मेयभेदात्वगादिवत् इति कल्पितकर्मादिविषयत्वात् कर्मवाक्यस्य परमार्थाद्वयविषयत्वात् ब्रह्मवाक्यस्येत्यर्थः ब्रह्मैकत्वप्क्षे सर्वप्रकारे विरोधः परिहृतः तथाप्यत्र केचित् चोद्यमुद्भावयन्ति | तदाह केचित्तु पण्डितं मन्याः विरोधीनि परस्परम् संभावयन्ति मानानि सर्वाण्यैकार्थवस्तुनीति | ब्रह्मैकत्वे शास्त्रार्थे परिगृहीते ब्रह्मशास्त्रं प्रत्यक्षादि च परस्परविरुद्धार्थकं संभवतीत्यर्थः प्रथमं प्रत्यक्षेण ब्रह्मशास्त्रस्य विरोधं दर्शयति- श्रोत्रादिभिर्यतो भिन्नाः मिथः शब्दादयस्त्वमीमीयन्ते सर्वमात्मेति प्रत्यक्षेण विरुद्ध्यते इति | इदानीमनुमानविरोधं दर्शयति शब्दाद्यर्थोपलब्धारः कर्तारश्च पृथक् पृथक् यस्माद्दीप्रानुमीयन्ते तस्माल्लिंगविरोधिता इति | आगमविरोधं कथयति- तथागमविरोधं च ग्रामकामादिभेदतः उद्भावयन्ति संहृष्टाः ब्रह्मैकत्वविदूषकाः | प्. ३१४) इति | एवमेभिर्विरोधात् ब्रह्मैकत्वं नेति इदानीं विरोधं परिहरति- ब्रह्मैकत्वविरोधो वः कथं भिन्नार्थबुद्धिभिः इति ब्रह्मविदोप्रेत्य प्रष्टव्या भेदवादिनः | इति | किं ब्रह्मैकत्वं विरुद्ध्यत इति | ब्रह्माद्वयत्वं न तावत् ब्रह्मैकत्वं प्रत्यक्षादिविरुद्धं | तत्र दृष्टान्तमाह- किं भोः शब्दादिभेदेन खस्यैकत्वं विरुद्ध्यते न चेद्विरुद्ध्यतेऽतोच्चैः विरोधं किमितीर्यत | इति | नाप्यद्वयत्वविरोध इत्याह- संपरिच्छेदकैर्नापि प्रत्यक्षाद्यैर्ग्रहो भवेत् व्यावृत्तेरन्यतो भावमात्राया केनचित् क्वचित् | द्वैतग्राहि यथा मानं न किञ्चिदपि विद्यते | तथोदर्के प्रवक्ष्यामो नातो मानविरोधितेति || अन्यतोऽन्यस्य येयं व्यावृत्तिरभावात्मिका सा न प्रत्यक्षग्राह्येत्यसकृदभिहित्वा | वक्ष्यते च दृष्टिविचारे | तस्मान्नाद्वयत्वं प्रत्यषादि विरुद्धमिति | अनुमानविरोधमुक्तं अनुवदति निराकरणाय- यच्चोक्तमनुमीयन्ते प्रतिदेहं पृथग्विधः प्. ३१५) शब्दाद्यर्थोपलब्धारः कर्तारश्चापि कर्मणां इति आत्मभेदे अनुमाणं प्रमाणं वदन् वादी प्रष्टव्य इत्याह भिन्नाः कैरनुमीयन्त इति अत्राह - इति पृष्टो पृष्टो वदेद्यदि अस्मल्लिंगकुशलैरिति | एतदनुपपन्नमित्याह - एतच्च न युक्तिमदिति | अयुक्तिमत्वं प्रकटयति अनन्यमानमेयेऽर्थे न भेदः प्रत्यगात्मनि परात्मा च प्रमेयाश्च नात्मा न स्तंभकुंभवत् इति | एषोऽर्थः | आत्मा तावत् स्वयं प्रकाशः तत्र भेदो नास्ति | प्रमाणाभावादनुमानग्राह्यत्वे यागात्मत्वं स्तंभादिवदिति | अस्माभिलिंगकुशलैरित्युक्तं के यूयं इत्याह अनुमाकुशला यूयं क इत्येतद्विभाष्यतां इति पूर्ववाद्यस्मदर्थां कथयति | देहेन्द्रियमनोबुद्धि क्षेत्रज्ञोऽर्थ्यं सर्वभूतेष्विति | आत्मभेदानुमानं प्रत्यक्षविरुद्धं चेत्याह- प्रात्यक्षाच्चात्मनस्तथेति | एतत् प्रपञ्चयति आत्मप्रत्यय एवात्मा सर्वदेहेषु सर्वदा नानात्मवदनेकत्वं कश्चिदात्मनि वीक्षते अनुमानादनेकत्वं आत्मनो ये प्रचक्षते | प्. ३१६) तेषां प्रत्यक्षमानेन बाधो लिंगधियो भवेदिति सर्वदेहेष्वहमेक इत्यहं प्रत्ययप्रत्यक्षेण आत्मन एकत्वं गम्यते | नानेकत्वं तद्विरुद्धं तवात्मा भेदानुमानमित्यर्थः | नन्वहमेको देहान्तरे अन्य इति च प्रतिभानमस्ति तत् भ्रान्तं तस्मात् तवानुमानं प्रत्यक्षविरुद्धमिति चतुर्थस्य प्रथमं ब्राह्मणं समाप्तम् || श्रीः वृत्तं संकीर्तयति- संगतिपादनाय- जगज्जनिस्थितिध्वंसाः यस्मात् सिद्ध्यति तत्परं ब्रह्मेति प्राक् प्रतिज्ञाय यथावदुपदर्शितमिति | ब्रह्म ते ब्रुवाणीति प्रतिज्ञाय जगदुत्पत्तिस्थितिसंहारा यतस्तत् ब्रह्मेति यथावदुक्तमित्यर्थः सत्यस्य सत्यमिति यदुपनिषत्तस्यैव ब्रह्मण इति चोक्तमित्याह - तस्य उपनिषदित्युक्तमिति तस्या उपनिषदो व्याख्यानाय उत्तरं ब्राह्मण द्वयमित्याह तद्वाख्या अधुना उच्यते आमैत्रेययाः परंब्रह्म सत्यस्य प्रतिपत्तये इति | एवं ब्राह्मणद्वयस्यापि विशेषण प्. ३१७) संगतिमुक्त्वा शिशु ब्रह्मणस्यासाधारणसंबन्धं कथयति- सृष्टिप्रस्ताव एतस्मिन् प्राणादेर्जन्म सूत्रितं यतोऽतः प्राणसंबन्धः पूर्वं व्याख्या प्रपञ्च्यते इति | सर्वप्राणा इति प्राणानां प्रथमं जन्मसं कीर्तनात् प्राणसंबन्धा चिन्तोच्यते प्रथमं इत्यर्थः उत्तरब्राह्मणेन लोकादेर्याथार्थ्य मुच्यते इत्याह - ततः परेण लोकादेरपि याथार्थ्यमुच्यत इति लोकप्राणादेर्याथार्थ्यं किं तदिति | तत्राह- अध्यात्ममधिदेवं च देवताकरणाश्रयः प्राणादिसर्वमेवेदं पञ्चभूत सतत्वमिति अत्र हेतुः- नहि भूतातिरेकेण प्रतीचः किञ्चिदिष्यते इति प्राणसंबन्धा पूर्वव्याख्या उच्यते इत्युक्तं का सा व्याख्येति | तामाह- प्राणा वै सत्यमित्युक्तं के प्राणा इति यत्नतः व्याख्यायन्तेऽथ प्राणास्तथोपनिषदश्च या | इति प्राणेन मध्यमेनान्नं जलं वागादि तर्पणम् | यथा करोति तद्वाच्यं प्राणोपनिषदश्च याः प्. ३१८) इत्येतत् पूर्वस्य प्रपञ्चः | एवं संगतिं दर्शयित्वा श्रुतिव्याख्यानं प्रारभते यो ह वा इति प्रश्नोक्तिस्तस्यायमिति निर्णय इति योहवेत्यारभ्य सदामं वेदेत्येतत्पर्यन्तं प्रश्नवाक्यमयं वावशिशुरित्यारभ्य प्रतिवचनमिदं प्रत्याधानमित्यस्यार्थः कथयति शरीरेभ्याहितप्राणो मूर्ध्नि प्रत्यहृतस्तथेति शिशुत्वं प्राणस्य कथयति- विषयेष्वनभिण्वंगात् शिशुप्राणोऽभिधीयते वागादेरिव नासंगो यतः प्राणस्य विद्यत इति द्विषतो भ्रातृव्यानित्यत्र भ्रातृव्यशब्दार्थं कथयति | शीर्षण्यप्राणसंस्था ये शब्दाद्यासंगलक्षणा भ्रातृव्यास्ते सहोत्पत्ते प्रत्यग्दृष्ट्यापहारत इति शरीरे ह्याहित इत्यस्य प्रपञ्चः शरीरमित्याधानं स्याच्छरीरेऽवस्थितो यतः सामान्यवृत्त्या प्राणोऽयं तस्मादाधानमुच्यते शरीरस्याधानत्वे हेत्वन्तरमाह- शरीराश्रयणं प्राणं यतो वागादयः श्रिताः अलं स्वकार्यनिष्पत्तौ न तु प्राणैकसंश्रितः इति मूर्धादौ प्राणग्रस्तानि कार्यायालं प्. ३१९) शरीराश्रितप्राणाश्रितानि कार्यायालं प्राणस्याधानमिति मूर्ध्नि प्रत्याहितं तथेत्ये तत् प्रपञ्चयति- प्रतिपत्त्याहितत्वाच्च प्रत्याधानं शिरो विदुः शिरोदेशविशेषेषु प्रति प्रतिसमाहितः | इति प्राणशब्दार्थं कथयति- अन्नपानसुमुत्थाहि शक्तिः प्राणो बलं तथा इति तस्य स्थूणात्वं घटत इत्याह- बलावष्टंभ एतस्मिन् प्राणो देहेऽवतिष्ठते इति | बलावष्टंभः प्राण इत्यतर प्रमाणमाह अबल्यत्यैति | तथा प्राणोत्क्रान्तिं प्रवक्ष्यतीति प्राणः स्थूणेत्यनेन उच्छ्वासनिःश्श्वास वृत्तिः कथ्यत इति केचिद्वर्णयन्तीत्याह उच्छ्वासादिक्रियं केचिद्वायुं स्थूणां प्रचक्षत अन्नं दामेत्यस्यार्थकथनाय अन्नस्य परिणामं कथयति- जठराग्न्याभिसंबन्धाद्दग्धमन्नं त्रिधा क्रमात् परिणामं व्रजत्येतत् स्थूलमप्यथ सूक्ष्मकं स्थूलांशः पृथिवीमेति पुरीषं मूत्रमेव च स्थूलदेहीपचित्यर्थो मध्यमोंशः प्रकीर्तितः प्. ३२०) यत्तत् सूक्ष्मो रसोऽन्नस्य भागोऽमृतमितीर्यते स हृद्देशं समागम्य नाडीमध्यसमाश्रयः हृदयाद्विपकीर्णाभिः नाडीभिर्लिंगदेवताः प्रीणयुन्नुपयिन्वंश्च दामान्नमिति भण्यते इत्येतानि सुखबोधानि || कथमन्यस्य दामत्वमिति तत्राह- देहं रसादिना बध्वा सूक्ष्मांशेन शिशुस्तथा पाशद्वयादिसंबन्धादन्नं दामेति शब्द्यते इति | अन्नस्य दामत्वे व्यतिरेकहेतुं दर्शयति | दाम प्रतनुतां याति यदा कर्मक्षयस्तदा यथा स्वं यान्त्यथ प्राणा देहादुच्छिन्न बन्धनाः इति | तमेता इत्यादि वाक्यस्य तात्पर्यार्थमाह प्रत्याधानस्य मूढस्य शिशोस्तस्यैव काश्चन अक्ष्युपनिषदो वाच्यास्तमोता इत्यतः श्रुतिः उपासनाप्रकारं फलप्रकारं च फलं च दर्शयति- उपासकेक्षिणी प्राणं रुद्राद्याः सप्तदेवताः अक्षीणा इति ता ज्ञात्वा नान्नक्षयमुपाश्नुते इति | रुद्रादिशब्दैः प्रसिद्धा एव देवताः पूर्वत्राभिहिताः इदानीं प्राणा रुद्रादिशब्द प्. ३२१) वाच्या इत्याह- मूर्ध्नि प्रत्याहितं प्राणमृषयः प्राणसंज्ञकाः रुद्राद्या मध्यमा यत्नात् सततं पर्युपासते इति श्लोकोऽपि श्रोत्रादीन्द्रियशब्दवाच्य देवतागणविषय एव न प्रसिद्धदेवता विषय इत्याह- अक्षीण्येव यतः पूर्वाः व्याख्याता देवतागणाः श्रोत्रादिकरणार्थोऽयं श्लोकपूर्वादुदाहृतः इति | चक्षुस्तावदिन्द्रियं तत्रैव रुद्रादिगणस्य व्याख्यातत्वात् रुद्रादिशब्देन करणसमुदायो ग्राह्यो कर्ण एव श्लोक इत्यर्थः विश्वरूपयशःशब्दयोरर्थं कथयति विश्वरूपं यशोज्ञेयं शब्दाद्यर्थावभासकं तेजस्तच्चाप्यनेकात्म विभिन्नार्थावभासनादिति | अयमर्थः | शब्दाद्यर्थावभासकं तेजः श्रोत्रादिकरणजातं यशस्तच्च कारणात्मकं तेजो अनेकार्थानेकरूपं शब्दादिविभिन्नार्थावबोधकत्वादतो विश्वरूपं च तत्करणजातमिति तदेव करणजातं ऋषिशब्दवाच्यं चेत्याहतीरे प्. ३२२) तस्यासते सप्त वायवः करणाश्रयाः ऋषयश्च यशश्चेति प्राण उक्तेन हेतुनेति एकस्यावाय सप्तमी त्वष्टमीत्वं कथमुपपद्यत इति चेत्तत्राह- वक्तृत्वावक्तृत्वभेदेन वाग्द्विधैकैव भिद्यते सप्तमी चाष्टमी चेति सैवेका प्रोच्यते ततः इति | तदुपपादयति- वर्णनिष्पादनं वाचा तथाद्यरसवेदनं भवेद्द्विकर्मसंयोगात् सप्तमी चाष्टमी च वागिति तनु सवेदनजिह्वेन्द्रियकार्यं तथा वाचः कार्यं नैव दोषः अत्र रसवेदनशब्देन चर्वणक्रिया उच्यते अतो न दोषः | इमावेवेत्यादेरर्थमाहविशिष्टाह्वानसिद्ध्यर्थ मृषीणामुत्तरा श्रुतिः इमावेवेति च तथा फलवत्स्यादुपायनमिति उक्तप्राणोपासनस्य फलं सर्वस्येत्यादिना उच्यते इत्याह - सर्वस्येति फलोक्तिः स्यादुक्तोपासन कर्मणः इति | सर्वमस्यान्नं भवतीत्यस्य तात्पर्यार्थमाह अन्नात्तृत्वनिषेधार्थं सर्वमस्येव भण्यत इति | यदस्योपासकस्य भोग्यत्वेन संवृत्तं तदस्य भोक्तृ भवतीत्यर्थः || प्. ३२३) || इति चतुर्थस्य द्वितीयं ब्राह्मणम् || वृत्तमनूद्य उत्तरब्राह्मणस्य संगतिं कथयति प्राणोपनिषदश्चोक्ताः प्राणाश्चापि समासतः यत्तु तेषां परं सत्यं तदिदानीं निरूप्यते यत्त्वित्याद्युत्तरवार्तिकेण प्रपञ्चयति तल्लिख्यते- प्राणाः किमात्मकास्तेषां कथं सत्यत्वमिष्यते इत्येवमादि वक्तव्यमित्यर्थः पर आगमः पञ्चभूतसतत्वानां शरीरकरणात्मनां स्वरूपनिर्णयार्थाय प्रारब्धं ब्राह्मणं परम् यदुपाधिनिषेधोक्त्या नेतीति ब्राह्मणं स्फुटम् आविश्चिकीर्षितं तत्वं तदेतदधुनोच्यते इति | सत्यस्येत्यत्र षष्ठ्यन्त सत्यशब्दवाच्यं हेयं प्रथमान्तसत्यशब्दवाच्यं उपादेयं तयोः स्वरूपकथनाय ब्राह्मणारंभ इत्यर्थः | एवं संगतिमुक्त्वा श्रुतिव्याख्यानं प्रारभते || स्वतोऽरूपं परं ब्रह्म तदविद्यादि हेतुतः द्विरूपमिति निर्दिष्टं वियद्वा कुंभसंश्रयात् | प्. ३२४) इति हेयाहेयरूपाभ्यां ब्रह्म द्विरूपमित्यर्थः अथवा हेयमेव रूपद्वयं ब्रह्मजः कथ्यते इत्याह रूपे वा ब्रह्मणो विद्यान्मूर्तामूर्ते सवासने इति | कथमनयोर्ब्रह्मरूपत्वमिति चेत् ताभ्यां ब्रह्मरूप्यते ज्ञायतेति | न तु शुक्लादिवदित्याह- ब्रह्मैव रूप्यते ताभ्यां ब्रह्मत्वं नहि रूपवदिति | हेयाहेयस्वरूपाभ्यां ब्रह्म द्विरूपमित्युक्तं | तत्र हेतुरूपं प्रपञ्चयति चतुर्भिर्वार्त्तिकैस्तानि सुखबोधाय लिख्यते अविद्यामात्रोपाध्ये तत् ब्रह्मकारणमुच्यते | तदेवाज्ञात्तृतामेति बुद्ध्युपाधिसमाश्रयात् तद्वृत्त्युपाधिसंस्थं सत् तज्ज्ञानमिति भण्यते देवतेन्द्रियसंबन्धं तत्तत्तदभिधीयते तथा देहादिसंबन्धं दुःखजात्यादिमद्भवेत् गोधनाद्यभिमान्येवं धनोमानितीर्यते अन्तर्यामि तथा साक्षी सर्वज्ञश्चेत्यविद्ययामिथ्याध्यासैश्च तत्कार्यैरप्रमेयं प्रमीयते इति | अवास्तवं रूपमुपसंहरति- एवं तावदिदं रूपं ब्रह्मणो मोहहेतुजमिति इदानीमहेयं रूपं दर्शयति- प्. ३२५) प्रत्यङ्मात्रैकधीगम्यं रूपं वास्तवमात्मनः अव्यावृत्ताननुगतं द्वितीयासंभवादजम् न वाक्यपदयोरर्थो भेदसामान्य वर्तनात् न प्रमाणान्तरैर्गम्यं पराख्ये त्वसमन्वयात् अनपेक्षितमात्रादि तदविद्यासमन्वयात् इत्येतत् सार्धं वार्तिकद्वयं सुखबोधम् नन्वनपेक्षितमात्रादि चेत् कथं तस्य सिद्धिस्तत्राह आत्मप्रादजं न वाक्यपदयोरात्ययमैकार्थ्यमिति स्वयं प्रकाशमित्यर्थः तर्हि अस्वयं प्रभुं किमिति तत्राह - द्वितीय स्त्वात्मनो भवेत् अनात्मप्रत्यय इति साविद्यकं जगदन्याधीन सिद्धिक्रमतो स्वयं प्रभं अतः शुक्तिकारजतवत् कल्पितमित्यर्थः | जगतः कल्पितत्वफलमाह- स्वतोऽहं स्वत एकोऽस्मि केवल इति | स्वत एवात्माऽद्वय इत्यर्थः रूपे वा ब्रह्मणो विद्यादित्यस्य प्रपञ्चयन्निषेधमुखेनेदं नेति नेतीति भण्यते अविद्यामवधिं कृत्वा द्वे रूपे ब्रह्मणस्त्विमे इत्येतत् पापशब्दार्थं कथयति | अवधारणाय पापेति द्वे एवेति | विनिश्चिताविति | प्. ३२६) मर्त्यत्वादिविशेषणविशिष्टे मूर्तामूर्ते अवध्रियेतेत्याह- समुच्चिते सजातीयै रुत्तरैस्तैर्विशेषणैः इति | अमूर्तं चेत्यत्रैवकारो नास्ति तथाविभाष्यकृद्भिरभिहितमूर्तमेव चेति | तत्र कारणमाह पावशब्दश्चशब्देन प्रत्याहृत्याभिधीयते- मूर्तमेव च तद्रूपं ब्रह्मणो मूर्तमेव चेति | पावशब्दस्यैवकाशेऽर्थस्तत्र संयोज्यैवमुक्तमित्यर्थः नैवकारद्वयेन मूर्तामूर्तयोः परस्परव्यावृत्तिरुच्यते | किन्तु अन्यदाभ्यामस्तिचेत् तद्व्यावर्तते | अथवा अयोगव्यवच्छेद उभयत्रैवकारार्थं पापशब्द इत्यपि पाठस्यायमेवार्थः | मूर्तामूर्तधर्मद्वयमितरधर्मैः विशेष्यत इत्याशंक्याह- अविद्या वा परं ब्रह्म मूर्तामूर्तादिलक्षणैः || विशेष्यते न धर्माणां मिथः संगतिरिष्यते इति विशेष्यस्यार्थैकत्वं तत्रत्वाद्धर्मत्वात् धर्माणां न परस्परं तथानपेक्षस्तेषां संगतिः स्यात् कदाचनेत्येतत् पूर्वस्य प्रपञ्चः | प्. ३२७) तटस्थस्य ब्रह्मणो मूर्तामूर्ते रूपं न प्रत्यक् भूतस्येत्याशंक्य आह- विज्ञानपुरुषार्थस्यत् ब्रह्मणः परमात्मनः तमस्विनोथ द्वे रूपे इति | अत्र हेतुमाह तदन्याव्यतिरेकत इति | तत आत्मनो अन्यत्वाभिमतब्रह्मणः आत्माव्यतिरेका इति अर्थः ननु रूपिरूपभावात् भेदादद्वैतहानिः नैतदेतमर्थं दृष्टान्तपूर्वकं वार्तिकद्वयेन साधयति | कल्पिण्यते कॢप्तसर्पादिभिः यद्वदज्ञाताया स्रजः सदा | वास्तवो वाऽवास्तवो वा न व्यतिरेको न च || नन्वयं तद्वन्न व्यतिरेकेण ब्रह्मणे द्वे स्वतः सदा नापि चाव्यतिरेकेण ते तु ब्रह्मैव निद्वयमिति- अबाद्यवयवमूर्तं पीनं संस्थानवद्दृढं तद्विरुद्धममूर्तं स्यात् निरंशं देशवन्न च | गर्त्यं मरणधर्मिस्याद्यद्विनश्वरलक्षणम् अमृतं तद्विरुद्धं च ध्रुवं येन विपद्यते | आश्रितं स्थितमत्र स्यात् गत्वा व्याप्य च तिष्ठति तद्विरुद्धं तथा यत्स्यादित्येवं न तु तिष्ठति सदिति व्यक्तरूपं यत् गृह्यमाणविशेषणम् प्. ३२८) प्रत्यक्षं तद्विरुद्धं तदप्रत्यक्षं तथोच्यते इत्येतानि पदार्थविवरणवार्तिकानि सुखबोधनानि पूर्वत्राज्ञातं ब्रह्ममूर्तादिधर्मैर्विशेष्यमित्युक्तं इदानीं भूतरयं भूतद्वयं चेत्याह- क्षितिर्जलं तथा वह्निरित्येतन्मूर्तमुच्यते भूतद्वयममूर्तं च वायुश्चाकाशमेव चेति मूर्तं मर्त्यं स्थितं तद्वत्क्षित्यं स्वग्नित्रयं विदुः अमूर्तममृतं यत्तत् वायवाकाशद्वयं स्मृतम् इत्येतत् पूर्वस्य प्रपञ्चं | इदानीं मूर्तविशेषाणां परस्परं आदित आरभ्य अन्तपर्यन्तं अन्ततश्चारभ्य आदिपर्यन्तं हेतुहेतुमद्भावं दर्शयति वार्तिकद्वयेन कल्पिष्यते मूर्तत्वादेव मर्त्यं तन्मर्त्यत्वादेव तत्स्थितं स्थितत्वादिन्द्रियग्राह्यं निर्धायेदंन्तया पृथक् | सोपाख्यत्वान्न तद्व्यापि क्वचिदेकांशतः स्थिते स्थितत्वाच्चापि तन्मर्त्यं मर्त्यत्वान्मूर्तमेव च इति | उक्तन्यायं मूर्तादिष्वपि दर्शयति अमूर्तत्वादमर्त्यत्वं यद्व्यापि तदतीन्द्रियम् प्. ३२९) अतीन्द्रियत्वात्तद्व्यापि व्यापित्वाच्चामृतं ततः अस्थितत्वादमूर्तं तदाकारव्यक्तिवर्जितमिति अस्थितत्वादित्यर्थः उक्तार्थमुपसंहरति हेतुतत्फलरूपेण मूर्तादेः संगतिर्मिथः अक्षसूत्रवदन्योन्यं सामर्थ्यस्याप्रहाणतः इति हेतुतद्वत्तयाज्ञेया मूर्तादेरभिसंगतिः | संभवेऽन्यतरस्यापि सर्वेषां संभवो यतः इत्येतत् पूर्वस्य प्रपञ्चः | यत उक्तप्रकारेण विशेषणानामितरेतरान्तर्भावोऽत एव मूर्तमात्रमुक्त्वा मूर्तमेवेत्यवधारणं कृतं अमूर्तमात्रं चोक्त्वा तथावधारणं कृत्यमित्याह अतोऽवधारणार्थाय तत्रैव ग्रहणं कृतमिति तदेतन्मूर्तमित्यादेरर्थमाह- तयोरुद्दिष्टयोर्मूर्तं प्रथमं तावदुच्यते अन्यद्वायवन्तरिक्षाद्याः भूतत्रयमिहेष्यते इति | भूतत्रये धर्मचतुष्टयस्य संभवं दर्शयति- मूर्तं संस्थानवधेतत् तथा मर्त्यं विनाशवत् एतत्स्थितं परिच्छिन्नं एतत्सत्वविशेषणमिति | प्. ३३०) तस्यैतस्य मूर्तस्येत्यादेरर्थमाह चतुर्विशेषस्यास्य क्षित्यंब्वुवग्न्यात्मकस्य हि चतुष्टयरसत्वार्थं पुनरुच्चारणं कृतमिति चतुष्टयविशेषणविशिष्टस्य भूतत्रयस्य मण्डलं कार्यं नैकेकविशेषणविशिष्टस्य नाप्येकैकविशेषणस्येति प्रतिपादनाय पुनरुच्चारणमधिकवचनमन्यार्थं सूचयतीति न्यायादित्यर्थः | सर्वस्यापि परो ह्येषः शशत्तपयोरपि चतुष्टयः स्वयादेष भूतत्रयरसः स्मृतः य एष तपतीत्यत्र मण्डलं परिगृह्यते चतुष्टयं हि मूर्तादि मण्डले गृह्यते यतः इतेतत् वार्तिकद्वयं सुबोधम् || सतो ह्येषरस इत्यत्र हि शब्दो हेत्वर्थः सत इति चेतरविशेषणोपलक्षणार्थः इत्येतदाह चतुर्णामन्वयो हीति हेतुनात्र विभाव्यते | सतश्च ग्रहणं विद्याच्चतुर्णामुपलक्षणमिति कृष्णसारं यथास्थानं चक्षुषः करणात्मनः तथा हिरण्यगर्भस्य मण्डलं करणात्मनः इत्येतत् सुखबोधम् मण्डले च इतरबुद्धिः प्. ३३१) न कर्तव्येत्यर्थः भूतत्रयकार्यमण्डलमित्युक्तं | तत्रेदमाशंक्यते | रसशब्दस्तेजोवाची | तेजो रस इति श्रुतेः तत्र मण्डले रसशब्द एव किमिति प्रयुज्यते | तेन अबादिशब्दो भूतत्रयकार्यत्वाविशेषादिति तत्राह उत्सर्गाद्रूपनिर्वाणे प्राधान्यं तेजसो यतः तस्माद्रसत्वनिर्देशं क्रियते मण्डलात्मनि | अपक्लिन्नः पार्थिवो धातुस्तेजसा परिपच्यते अकाराद्यभिनिष्पत्तौ मुख्यरैवं हि तेजसः इत्येतत् पूर्वस्य प्रपञ्चः अप्स्वन्तरिति पाठान्तरं विद्वत्प्रयोगाच्च मण्डलस्य सारत्वमित्याहसारस्त्रयाणां भूतानां रसो मण्डलमुच्यते | एतत्साराणि हि त्रीणि भूतान्याहुर्विचक्षणाः इति | य एष इत्यादि वाक्यस्य तात्पर्यार्थमाह मण्डलायतने यत्तु करणं संश्रितं विभोः विराजो देवदेवस्य तदिदानीमिहोच्यते इति आदित्यान्तर्गतः सांक्षात् करणात्माऽभिधीयते वायवाकाशरसत्वेन तत्रामूर्तान्वयो यतः इत्येतत् पूर्वस्य प्रपञ्चः | वायवाकाशरसत्वेन करणात्महे कत्वेनत्वन्तरमाह - प्. ३३२) कलिंगारंभसिद्ध्यर्थं वायवाकाशसमुद्भवः ईश्वरात् कारणाद्यस्मात् लिंगं तेन रसस्तयोः इत्यस्य ह्येष रसः इत्येतत् पूर्ववत्वे तु वाक्यमित्याह-वायवाकाशरसो ह्येष इति हेतुः प्रदर्श्यतेत्यस्य ह्येष रसः इति यथोक्तो मण्डलात्मनीति || एवं भाष्यकारमतं दर्शयित्वा भर्तृप्रपञ्चमतं दर्शयति निराकरणाय हिरण्यगर्भं क्षेत्रज्ञं रसं केचित् प्रचक्षते इति | अत्र हेतुमाह- कारणं रसशब्देन यस्मादत्राभिधीयते | इति अयमर्थः वायवाकाशकारणं परिशिष्टभूतत्रयकारणं वात्र रसशब्देनोच्यते भूतपञ्चककारणत्वं हिरण्यगर्भक्षेत्रज्ञस्यैव संभाव्यते नान्यस्य कस्यचित् | तस्मात् स एवोच्यत इति | तस्य कारणत्वं साधयति यस्माद्धिरन्यगर्भस्य कर्म वायवन्तरिक्षयो प्रयोक्तृव्यक्तयो यस्मादस क्षेत्रज्ञ उच्यते इतीत्यस्य ह्येष रस इत्येतत् भूतद्वयकारणत्वं हिरण्यगर्भस्य साधयतीत्याह भूतद्वयरसो ज्ञेयो मण्डलेऽचेतनः पुमान्त्यस्य ३३३) ह्येष रस इति तत्सिद्धौ कारणाभिधेति ननु श्रुत्या कारणद्वयमुक्तं चेत् किं हेतुकथने नेति तत्राह- न्यायोक्तेरेव संसिद्धे प्रतिज्ञातस्य वस्तुनः क्षेत्रज्ञकरणं तस्मादित्यत्र न्याय उच्यते || तस्य कर्मद्वारेण कारणत्वं प्रपञ्चयति | एतस्मिन् मण्डले योऽन्तर्विज्ञानात्मत्वमागतः अविद्या भावना कर्महेतुतोऽन्योऽन्यकारणात् तस्य यत् कर्मरूपं तद्वियद्वायुप्रयोजकम् रवस्तस्य कर्मणस्तस्य मरुत् प्रस्पन्दरूपिणः वायवाकाशप्रणाढ्यैवं तेजस्तत्संभवस्ततः विज्ञाते तेजसोन्तर्भूते जलश्च पृथिवी तथेति अयमर्थः | योऽविद्याकर्मादिवशात् विज्ञानात्मत्वमापन्नः तस्य कर्माकाशमुत्पादयति तदनन्तरं कर्माकाशत्वं भवति | तदवस्थस्य कर्मणो मरुत्कार्यं ततो वायुरुत्पद्यत इत्यर्थः वायवायापन्नात् कर्मणस्तेज उत्पद्यतेः ततो जलमुत्पद्यते | जलापन्नात् कर्मणः पृथिवीति एवं स्वकर्मवशात् वायवाकाशकारणत्वात् हिरण्यगर्भस्य रसत्वमित्येतदाह- प्. ३३४) कर्मणा पौरुषेणैव रसभूतेन संभवः वायवन्तरिक्षयोर्यस्मात् रसत्तेन पुमांस्तयोः इति | उक्तार्थे प्रमाणमाह-मेधया तपसेत्यादि || तथा च प्रागुदाहृतमिति | एतत् सर्वं हृदि कृत्य रसत्वं हिरण्यगर्भस्येत्याहन्यायेनानेन पुरुषो रसशब्देन भण्यते | इति | येन न्यायेन रसशब्दवाच्यत्वं हिरण्यगर्भस्य स न्यायस्त्वस्य ह्येष रस इत्यत्र सूत्रित इत्याह- त्यस्य ह्येष इति ह्युक्त्या न्यायश्रुत्यायमुच्यते इति | एतन्मतमनुवदति- नैतदेवं भवेन्मूर्त रसेनास्यासमत्वतः इति भत्वसमत्वमिति चेन्नेत्याह- भूतत्रयस्य मूर्तस्य रसो मण्डलमभ्यधाः धर्मैश्चतुर्भिर्मूर्ताद्यैः भूतत्रयवदन्वितं अमूर्तयोरपि रसो लिंगात्मा गृह्यतां तथा वाक्यप्रवृत्तेस्तुल्यत्वान्न युक्तोऽत्रान्यथा ग्रहः पौरुष्य लक्षणो दोषः सत्येवं व प्रसज्यते | इति | अयमर्थः मूर्तरसत्वेनाचेतनं मण्डलं गृहीतं अमूर्तरसत्वेनापि अचेतनमन्तःकरण प्. ३३५) करणमेव गृहीतव्यमन्यथा वाक्यवैरुप्यादेकत्राचेतनग्रहादिति | न मूर्तरसशब्देनापि ब्रह्मचेतनं मण्डलापन्नं गृह्यते इत्याह अथ मूर्तरसोक्तापि चेतनस्यैव चेत् ग्रह इति | अत्र दूषणमाह- अत्यल्पं भवताऽभाणि सर्वदात्मेव नो यतः इति एवं वदता आकाशादिशब्देनापि ब्रह्म गृह्यतां कस्तत्र निवारकः श्रुतार्थपरित्याग इत्यर्थः | अपि च क्षेत्रज्ञस्य कारणत्वमनुपपन्नं ब्रह्मण एव सर्वकारणत्वादित्येतदाहन ह्याक्षव्यतिरेकेण किञ्चित् कारणमिष्यते तेन तेन स्वरूपेण प्रत्यगात्मैव कारणमिति मण्डलाधारत्वेन पुरुषस्य श्रुतत्वाच्च पुरोषो लिंगमित्याह माण्डलात्मनि चाधारे लिंगात्मैवावसीयतां करणस्यैव तत्स्थत्वात् विज्ञानात्मालिंगग इति | ब्रह्मैव कारणमित्युक्तं | तत्रेदमाहां?क्यतेः ब्रह्मणः कूटस्थत्वात् कथं कारणत्वमिति तत्राह - अज्ञातः पुरुषो यस्मात् कार्याकारणशब्दभाक् अज्ञातमिथ्या विज्ञात रूपत्वान्न तु तत्वतः || प्. ३३६) इति | ननु मण्डलाधारे पुरुषशब्दप्रयोगात् क्षेत्रज्ञ एवेत्याह- अचेतनेषु लोकेऽस्मिन् अदृष्टा पुरुषाभिधा इति चेदिति | अचेतनेपि पुरुषशब्दप्रयोगो दृश्यत इत्याह नेतदेवं स्यादचित्केष्वपि दर्शनादिति | दर्शनं कुत्रेति तत्राह त एतान् सप्तरुषामित्यादि सित्पुरुषानित्यादि श्रुतिवाक्यतः असंवित्के विवक्षादौ दृश्यते पुरुषाभिधेति || विचारं परिसमाप्य श्रुतिव्याख्यानमेवानुवर्तयति अध्यायोक्त्यवधिज्ञप्त्यानधिदैवत कीर्तनं मूर्तामूर्तविभागोयं अध्यात्ममधुनोच्यते इति | हृदयाकाशात् प्राणाच्च यदन्यत् पृथिव्यादिभूतत्रयं शरीरं हन्त मूर्तशब्दवाच्यमित्याह - भूतत्रयं पृथिव्यादि देहेपि परिगृह्यते मूर्तशब्देन यत् प्राणाद्धृद्यो मनश्चापरं च यदिति | अत्र मण्डस्थानीयं गोलकं करणाधारमित्याह - चक्षूरसत्रयाणां स्यादिति कथं चक्षुषो रसशब्दवाच्यत्वमिति तत्राह विशेषेणात्र विष्ठितं तेजः सर्वशरीरस्य प्. ३३७) निर्मातृत्वात् असंशयमिति अत्र प्रमाणमाह प्रथमा संस्कृतिरिति - मत्रवर्णोऽपि दृश्यते शश्वद्वैरेतस इति तथा च श्रुतिसाधनमिति एवं पञ्चभूतानि कार्यैः सह मूर्तामूर्तत्वेन यथाश्रुति व्याख्यातानि | तत्र मूर्ता कर्तृत्वलक्षणमेतावति न पर्यवस्यतीत्याह मूर्तशब्देन मूलकारणग्रहणाय मूर्तामूर्तविभागोऽयं यदि नामेह भण्यते अधिदैवं तथापीयान्न गृह्यत इत्यत्र हेतुमाहकृत्स्नस्य ब्रह्मणो रूपे मूर्तामूर्ते विवक्षिते यतोऽतो नेयतं कार्त्स्न्यं देवताध्यात्मयोर्भवेत् इति | अयमर्थः | ब्रह्मणोऽद्वयत्वसिद्ध्यर्थं मूर्तादि ब्रह्मणोरुपमितिः परिकल्प्यते श्रुत्या तच्चाद्वयत्व मध्यात्माधिदैवतयोरुक्तमूर्तादिलक्षणेन सिद्ध्यति मूलकारणस्यागृहीतत्वादिति | देवताशब्देनाधिदैवतं गृह्यते यथोक्तलक्षणस्य आकाशादिषु असंभवाच्च अव्याकृतमत्र ग्राह्यमित्याह आरब्धकार्यभूतानां गृहीता न च संभवः प्. ३३८) यथोक्तलक्षणस्येह मुख्यवृत्योक्तभूमिषु इति || ननु यद्यपि मूर्तामूर्तलक्षणं भूतपञ्चके मुख्यवृत्त्या न संभवति तथापि तदेव ग्राह्यं श्रुतपरित्यागकारणाभावादिति | तत्राह व्याख्येव लक्षणं युक्तमन्यथा तदलक्षणम् निर्देशस्तु परिच्छिन्न विषयात्राभिधीयते इति | तर्हि किं बुद्ध्यत इति तत्राह तत्रेवं सति यत्र स्यान्मूर्ताद्युक्तचतुष्टयं लक्षणं तत्र संपूर्णं मर्त्याकारणकार्ययोरिति | एतत् प्रपञ्चयत्युत्तरा सार्धवार्तिकेन आकाशशब्दवाच्यो यः सर्वकारणकारणं मुख्यवृत्त्या समर्थं स्यात्तत्रैवामूर्तलक्षणम् | पृथिव्यां चापि तन्मुख्यं यदुक्तं मूर्तलक्षणमिति मध्यवर्तिपदार्थेषु मूर्तं मूर्तलक्षणमव्यवस्थितमित्याह- उभयोरन्तरालार्था मिथः संकीर्णलक्षणा लक्षणं गौणमेवस्यात् अन्त्ययोर्मध्ययोरमीषु इति | ननु मध्यवर्ती पदार्थेषु मूर्तामूर्तव्यवहारो नास्ति कथं तत्र लक्षणस्य गौणत्वमिति तत्राह- मूर्तामूतव्यवहृतिस्तथा तत्रापि दृश्यते | प्. ३३९) इति स्वत उपसंहरति- मुख्यवृत्तिग्रहायातो व्यापिलक्षणसिद्धये क्षित्यादिवियदन्तं स्यान्मूर्तामूर्तस्वलक्षणम् इति | एवं मूर्तलक्षणं पृथिव्यां परिपूर्णममूर्त लक्षणं च अव्याकृते मध्यवर्ति पदार्थेषु मूर्ता मूर्तलक्षणं न सर्वं सर्वत्र किंतु क्वचित् किञ्चिदस्ति | तस्मान्मूर्तादिधर्मवति पृथिव्या मूर्तादिधर्मवत्वं व्याकृतमिति भतृप्रपञ्चमत मदुष्टमुपपाद्येदानीं श्रुतिव्याख्यानमेवानु वर्तयति - योऽयं दक्षिणेक्षतीति शास्त्रदृष्टत्वकारणात् दक्षिणे क्षणि लिंगस्य विशेषः कश्चिदिष्यत इति | अमानं च लिंगस्य दक्षिणाक्षिण्यवस्थाने गमकमित्याह वीर्यवद्दक्षिणं लोके त्यंगं दृष्टं यतस्ततः दक्षिणेक्षणीति वचः श्रुतेर्यत्नादिहेष्यत इति | तस्य हेत्यादिवाक्यस्य संगतिप्रति पादनाय वृत्तं संकीर्तयति | पिण्डप्राणविभागेन ह्यध्यात्म्ये चाधिदैवते मूर्तामूर्तात्मनोरुक्तो विभागो ब्रह्मरूपयो इति | इदानीं संगतिमाह अथ अधुना प्. ३४०) यथोक्तस्य तस्यैव करणात्मनः लिंगस्य रूपं वक्ष्यामो वासनामप्यमात्मनः || इति अमूर्तरसभूतान्तः करणस्यैव वासना रागादिवासना इति प्रतिपादनायोत्तं वाक्यमित्यर्थः | रागादेरन्तःकरणाश्रयत्वे हेतुमाह मूर्तामूर्तादिसंबन्धाद्वासना लिंगमाश्रिता इति | अथमर्थः | अतोऽन्तःकरणस्यैव मूर्दादि सकलसंबन्धोऽतः तस्यैव तत्कृतरागादिरिति | नन्वात्माश्रयः तद्भाति सत्यं भ्रान्त्येत्याह स्वाभासश्रमरूपेण तमयं पुरुषो मतः इति | अतोऽन्तःकरणमेव वासनात्रयमित्याह अनेकवासनाचितं तल्लिंगं पटभित्तिवत् मायेन्द्रजालसदृशं व्यामोहास्पदमात्मनः इति | अत्र पादविभागमुत्पादयति स्वमतपरिशुद्धये एतावन्मात्र एवेति यत्र भ्रान्तनिरागमा विज्ञानवादिनो बाधस्तथा नैयायिकादयः आत्मनो द्रव्यभूतस्य यदेतत् वासनात्मकं रूपं गुणोऽस्य संसार इति | वैशेषिकादयः || किं गुणं सत् प्रधानस्थं पुरुषार्थेन हेतुना प्रवर्तने स्वतन्त्रं प्. ३४१) सत् इममित्यपि कापिलाः इति | अस्य वार्तिकत्रयस्य अयमर्थः || एतदेवान्तःकरण माह वृत्तिविशिष्टं स्वरसभंगुरं रागाद्याश्रयमात्मा नान्य इति बौद्धा मन्यन्ते | तदेवान्तःकरणमित्यहं प्रत्ययग्राह्य रागाद्यनेकधर्मकमात्मा नान्य इति वैशेषिकादयो मन्यन्ते | नान्तःकरणमेवात्मा किन्तु तद्व्यतिरिक्तः कूटस्थः सर्वगतः स्वयंप्रकाश आत्मा तस्य भोगापवर्गार्थमिदमन्तः करणं प्रवर्तत इति कापिलः || यत्रैवं विधा चित्रा भाति तदन्तःकरणं तस्य हेत्वत्र भण्यते नात्मेति इदानीं भर्तृप्रपञ्चैस्तस्य हेत्यादि वाक्यस्य स्वयथोऽर्थोऽभिहितस्तथा दर्शयति | निराकरणाय अप्यौपनिषदं मन्याः केचिदभ्यन्तरै पुनात् प्रक्रिया रचयित्वाहुर्वेदान्तान्तविपश्चितः इति | यदा तस्य हेत्यादिवाक्यस्य संगतिप्रतिपादनाय वृत्तसंकीर्तनं कृतं तथा दर्शयति | यावान् वाक्योऽधिकारः क्षेत्रज्ञपरिवेष्टनः प्. ३४२) अध्यात्मं वाऽधिदैवं मपावा नामरूपविभागतः अव्याकृता व्याकृत स्यादेतावानेव सोऽत्र तु मूर्तो वा यदि वाऽमूर्तः सच्च त्यच्चेति भण्यते इति | अयमर्थः | क्षेत्रज्ञोपाधित्वेन यावांकार्यजातमभिप्रेतं अव्याकृतादुत्पन्नं तत्सर्वं सत्यशब्दाभिध मूर्तामूर्तरूपेण व्याख्यातमिति | ननु प्राणा वै सत्यमिति प्राणानां सत्यत्वमभिहितं कथं भूतानां सत्यत्वमुच्यते इति | तत्राह- प्राणानामपि सत्यत्वं भूतसत्यादिसंगतेः इति सत्यशब्दवाच्यभूत कार्यत्वात् प्राणानां सत्यत्वमित्यर्थः एतदुपपादयति अन्यदपि प्राणबद्धं व्यवहारजातं भूतसंबन्धादेवेति कथयितुं - कथयं नस्त्वमी सर्वे प्राणाः क्षेत्रज्ञलक्षणाः | अनामरूपकाः सन्तः सत्यसंयोगहेतुतः देहिनः प्राणवत्साक्षाः संवृत्तानामरूपिणः निर्देशाय च कल्प्यन्ते प्राणा वा इति नान्यथेति अयमर्थः एकादश प्राणा मुख्यप्राणवत् क्षेत्रज्ञलक्षणाः क्षेत्रज्ञस्योपाधिभूताः सत्याभिधपञ्चभूतयोगात्तकार्यत्वेन प्. ३४३) स्वतो नामरूपरहिता नामरूपिणो नामरूपवन्तः संवृत्ताः प्राणा इति केचिदस्यार्थमाचक्षते तस्य हेत्यतः प्राक्तनश्रुत्या सत्यशब्दवाच्यं सर्वं दर्शितमित्याह- तदत्र निखिलं सत्यं श्रुत्या संशोधितं स्फुटं इति सत्यराशेर्व्यावृत्तस्य क्षेत्रज्ञस्य यद्रूपं तद्वक्तव्यमवशिष्यते तदर्थत्वेन हेत्यादि वाक्यमित्याह- व्याबिद्धः सत्यराशेः स्याद्विज्ञानात्मन एव तु स्वरूपं यत्तदधुना वक्तव्यमवशिष्यते || इति | यदायं क्षेत्रज्ञः सत्यराशेर्व्यावृतस्तदा देहेन्द्रियादेः क्षेत्रज्ञस्य च भोक्तृत्वप्रसिद्धिर्निवर्तत इत्याह- तत्रैतस्यामवस्थायां विभागो विनिवर्तते | अयं भोक्ता विज्ञानात्मा तथा दैवतिकास्त्वविज्ञानात्मन इत्येष भेदहेतुनिवर्तनादिति भेदहेतुं प्रकटयति- यत आधारगो ह्येषः नामरूपादिलक्षणः विशेषो न स्वतस्तच्च नामरूपादिशोधितं | प्. ३४४) इति नामरूपादिसर्वविभागस्य भूतपञ्चकोपाधिकत्वात् तस्य चात्मनः पृथक् कृतत्वादयं विभागो निवर्तत इत्यर्थः | व्यापिसिद्धसत्यराशेरित्यस्य प्रपञ्चं संशोध्य यदिदं सर्वविज्ञानात्मा प्रदर्श्यत इत्येतत् यदत्र सत्यराशेः व्यावृत्तस्य रूपमुच्यते तत्सर्वं क्षेत्रज्ञानां साधारणमित्याह- सर्वेषामपि तेनेदं समानं लक्षणं भवेत् क्षेत्रज्ञानां विशेषोत्र यतो नैवोपपद्य इति | यत्समानं रूपं तत्तस्य हेत्यादिरुच्यते इत्याह तस्य पुरुषस्येति रूपं निर्दिश्यतेऽधुनेति | ननु च मूर्ताद्यप्यनेनोच्यत इति चेन्नेत्याह पुंसो रूपमुपक्षीणं मूर्तामूर्तसमाश्रयमिति द्वे पापब्रह्मणो रूपे इत्यादिनोक्तमित्यर्थः कीदृशं रूपमत्र जीवानामुच्यत इति चेत् अभौतिकमित्याह येन त्वस्य विशेषणविज्ञानात्मत्वमिष्यते विभिद्यमानस्य सतः परस्मादात्मनोऽद्वयात् | अपां च भौतिकं रूपमिह तन्निर्दिदिष्यते यथेति माहारजनं वासनोपचयात्मकमिति || तस्य प्. ३४५) हेत्यादिवाक्यस्य भर्तृप्रपञ्चाभिहितं संबन्धमुपसंहरति तस्य संबन्धमेवं केचित् प्रपञ्चत इति | इदानीमेतं संबन्धं निराकरोति तदयुक्तं यथान्यायं तथाऽयमभिधीयत इति | वासनोपचयात्मकं तद्रूपमित्युक्तं वासनासंबन्धः प्रतीचो न संभवतीत्याह- पुष्पादिवासनानां हि वस्त्रादिष्वेव संगतिः सजातीयेषु नियता दृश्यते नान्यजातिषु द्रव्येषु न खलु व्योम्नि वासना काचिदिष्यते अद्रव्ये चासजातीये चैतन्ये वासना कुतः इति किं च वासनाख्यं रूपमात्मनो भिन्नं अभिन्नं वा यद्यभिन्नं नात्मनो ब्रह्म आत्मान्तशच्च भेदता भवेदतो व्यर्थमित्याहवासना कारकांगश्चेच्चैतन्यं चेत् कपालवत् वासनानिष्फलत्वं स्याच्चैतन्यादपृथक् स्थितेः इति | असंगत्वात् कूटस्थत्वात् अविषयत्वाच्च न वासनासंबन्ध इत्याह- नहि श्रोत्रस्थविज्ञानं रूपसाधनयाज्यते विषयत्वाविशेषेपि कुतो संगत्वकनिश्चिते षड्भाव विक्रियाणां च निषेधश्चेतनात्मनः || प्. ३४६) असंग इति चाप्युक्ति रसकृच्छ्रूयते श्रुतौ इति | भूतसंयोगतः प्राप्तः न च तत् पाञ्चभौतिकम् इति ब्रुवाणो लोकेऽस्मिन् हास्यते बालकैरपि इत्येतत् सुखबोधं किं च मूर्तामूर्तविभाग निवृत्तौ जीवो भोक्ता दैवतिकाश्च विज्ञानात्मनः इत्ययं विभागो विनिवर्तत इति त्वयै वोक्तं अतः तद्विभागनिवृत्तौ वासनाविभागोऽपि निवर्तते | प्रकृत्याभावे कार्याभावात्ततः तदविस्मरणं यदि तव सदा वासनानानगीरथवा वासनाभिज्ञानात्मनां भेदस्त्वया वक्तुं न शक्यत इत्याह मूर्तामूर्तविभागोऽस्य विभागो विनिवर्तते इति स्वोक्तमविस्मृत्य वासनाभेदगीः कथमिति | पुनरपि भर्तृप्रपञ्चानां कल्पनान्तरं दर्शयति निराकरणाय | रचयन्ति तथा साध्वीं प्रक्रियान्यायवर्जितां मूर्तामूर्तार्थको राशि एको बाह्यं किलेष्यते उत्तमः परमात्माख्यो राशिरत्राभिधीयते | मध्यमोयं तृतीयस्तु ताभ्यां राशिप्रयोजकः पाणिपेषोत्थितेनायं कर्त्रा भोक्त्रा सहात्मना प्. ३४७) भावनाज्ञानकर्मादि समुदायप्रयोजकः मूर्तामूर्तादिराशिस्तु प्रयोज्यः साधनं तथा इति | अयमर्थः | मूर्तामूर्तराशिरेको बाह्यः किलेष्यते | उत्तमः परमात्मराशिः क्षेत्रज्ञेन सह वासना कर्मसमुदायराशिर्मध्यमः स च मूर्तामूर्तराशेः प्रयोजकः | वादकस्ते न प्रयोज्यः साध्यश्चेति | एवं राशित्रयकल्पनां कृत्वा अन्यामपि कल्पनां तार्किकैः सहसंवादाख्यां कुर्वन्तीत्याह- तार्किकैः सह सन्धिं च चिकीर्षन्ति यथाबलं इति | कथमिति तदाह- अयं प्रयोजको राशिः लिंगमेव किलाश्रितः इत्युक्त्वा सांख्यत्वभयात् कल्पयन्ति ततोऽन्यथेति | अयमर्थः प्रयोजकराशिर्लिंगाश्रित इति तावद्वदन्ति | तर्हि सांख्यपक्षोऽस्येति तद्भयादन्यथा च कल्पयन्तीति | अन्यथा कल्पनं दर्शयति- गन्धं पुष्पाश्रयो यद्वत् पुटमाश्रित्य तिष्ठति कुसुमापचयेप्येवं लिंगस्था वासनात्मनेति वासना कामकर्माणि लिंगस्थान्येव नात्मनि प्. ३४८) लिंगादात्मानमायाति गन्धो गन्धपुटं यथा इत्येतत् पूर्वस्य प्रपञ्चः | इत्थं निर्गुणस्यापि परांशस्य जीवस्य गुणवत्त्वमित्याह निर्गुणोपि परैकांशो बहिरभ्यागतेन सः कर्मणा सगुणः साक्षात् भवतीति प्रचक्षते इति | एवं वदद्भिः वैशेषिकादिभिश्चित्तमनुसृतमित्याह- ततश्च कर्ता भोक्ता च बद्ध्यते मुच्यते तथा विज्ञानात्मेति कणभुक् चित्तमेवं समाश्रितः इति | केन क्रमेण प्रयोजकराशिरात्मानं गच्छतीति | तमाह- भूतराशेरगाल्लिंगं कर्मराशेः सकाशतः लिंगादात्मानमागात् स लिंग संसर्गकारणादिति प्रयोजकराशिर्भूतराशेः सकाशतो लिंगमगात् लिंगाच्चात्मानमगात् आत्मनो लिंग संबन्धादित्यर्थः | अन्यापि तदीया प्रक्रियोच्यते | वैशेषिकादिचित्तानुसरणार्थं एवं कृष्णशक्तिरविद्यापि परस्मादेवतोत्थिता विकृत्य परमात्मानं विज्ञानात्मनि तिष्ठतीति जीवो ज्ञानीति वैशेषिकादयस्तच्चित्तमनुसृतं प्. ३४९) अविद्या जीवाश्रयत्वकथनेनेत्यर्थः | परोत्थिताविद्यायाः जीवाश्रयत्वं दृष्टान्तेन साधयति- यथोषरात्मको दोषं पृथिव्या एव जज्ञिवान् * * * क्ष्मैकदेशं विकृत्यावेतं तं चोषराशिवत् इत्येतं सांख्य सिद्धान्तमनुवर्तन्ति सभ्रमादिति तन्निराकरोति- नैवं कल्पयितुं युक्तं वेदसिद्धान्तबाधनात् परस्य विकारित्वेऽंशित्वे जीवस्य चांशत्वे विकारत्वे वा स्थूलादिश्रुतेर्विरोध इत्यर्थः बृहद्विचारेप्येतदुक्तमित्याह- पुरापि चैतदुदितं यथा वेदान्तबाधनमिति | एतदेव स्पष्टयति | सकलत्वे परस्योक्ताः संसारित्वादिलक्षणाः दोषाः सर्वेऽपि चायान्ति प्रत्यगात्मानमेकलं इति | ननु न परांशो जीवो नापि सीकारं किन्तु सरादन्य एवेति चेत् तत्राह ज्ञेत्रज्ञस्य च संवित्तौ परस्मादात्मनः स्वतः एकत्वासंभवोऽत्यन्तं क्षेत्रज्ञपरमात्मनोरिति तदा तादात्म्यश्रुतिविरोध इत्यर्थः || ननु प्. ३५०) ननु लिंगोपाधिरात्मा परांशत्वेन विवक्ष्यते कल्पनया न तु हस्तादिवत्तदा को दोष इत्याह - अथोपचारको देशो लिंगमेवात्मनो मतः इति | लिंग्यत इति लिंगं लिंगोपाधिरात्मेत्यर्थः | अत्र दूषणमाह- न तथा लिंगविध्वस्तौ वासनात्मनि युज्यते इति | एवं वदतः स्वप्रक्रियाविरोधः स्यात् लिंगवियोगेपि लिंगस्था वासना जीवे तिष्ठतीति तव दर्शनं तन्न सिद्ध्येद्यदि लिंगोपाधिरात्मा लिंगाभावे वदेदित्यर्थः बिंबात्मनो वासनाश्रय निराकरणाय पुष्पादिवासनानामित्यादिनोक्तन्यायोऽनुसंबन्धेय इत्याह- न्यायः पुरोदितो योऽत्र वासना साश्रयं प्रति स सर्वेऽत्रानुसन्धेयं पूर्वपक्षापनुत्तये इति उत्थानं चाविद्यायाः परस्मादात्मनः स्वतः ऊषरादिवदित्यादिकल्पना नोपपद्यते इत्येतत् सुबोधं अनुपपत्तिं प्रकटयति अनिर्वेदप्रसक्तिः स्याद्यविद्या परात्मनः निरात्मवादसक्तिश्च मोहोच्छेदो भवेदिह प्. ३५१) इति | अयमर्थः | यदि परमात्मविकारोऽविद्या तदा परस्यैव संसारः स्यात् अविद्या यतः संसार्युपगमादतश्च अविद्यायां स्थितायां न मोक्षः सिद्ध्येदथाविद्या नश्यति तदा पराभावः | कारणे स्थिते कार्यस्य अत्यन्तविनाशायोगादिति | मूर्तादिवासनयान्तः करणं वाच्यमिति तव दर्शनं | तत्परित्यागेन वा सनानामन्यत्र गमनायोगाच्च न वासनाश्रयत्वमात्मन इत्याह वास्यदेशातिरेकेण वासनाया न चेष्यते देशान्तरोपगमनं गुणवद्द्रव्यवर्जनादिति श्रुतिविरोधाच्च वासनाद्रव्यत्वकल्पना न घट इत्यत आह - सामञ्जस्येन गच्छति न च श्रुत्यर्थाण्यपि यथोक्त कल्पनायां हि नयुक्ता तेन कल्पनेति श्रुतिरुदाहरति | कामः संकल्प इत्याद्या मनसो ध्वर्यीणः श्रुता धर्मा नत्वात्मनः शास्त्रेऽन्य संगोहीति वारणात् हृदये ह्येवं रूपाणि हायतीवेति चापरं कामायेस्य हृदीत्यादि तीर्णो हृति? | तथा वच इति | ननु त्वदुदाहृत प्. ३५२) वाक्यगत मन आदिशब्दैर्जीव एवोच्यत इति चेन्नेत्याह - श्रुतादर्थान्न चान्योऽर्थो यथोक्तवचसां यतः सम्यक् कल्पयितुं शक्यं कल्पनाऽतो न युज्यते इति | आत्मनः कामाद्याश्रयत्वकल्पना अतो न युज्यत इत्यर्थः | आत्मनो ब्रह्मत्वप्रतिपादनपरत्वाच्च सर्वोपनिषदां नात्मनः कामाद्या श्रयत्वं परार्थ इत्याह- प्रत्यक् ब्रह्मत्वसिद्ध्यर्थं सर्वैवोपनिषत्त्वियं तावन्मात्रपरत्वेन वेदान्तानामुपक्षयादिति एवं कर्तादिवासनाश्रयत्वं निराकृतमिदानीं राशित्रयकल्पनां निराकरोति- राशित्रितयपक्षे च नाड्यर्थोत्र समञ्जसं क्रियते कल्पना येन सर्वन्यायविरोधिनीति श्रुत्यर्थः समञ्जसो न सिद्ध्यति राशित्रितय पक्ष इत्यर्थः | त्वत्पक्षेप्येतत् समानमिति चेन्नेत्याह- द्वे एव तु यदा रूपे मूर्तामूर्ते सवासने ब्रह्मरूपि तृतीयं च तदा पापेति युज्यते इति भवत्कल्पनायां विज्ञानात्मा रूपि मध्ये प्. ३५३) रूपमध्ये वा यदि रूपिमध्ये तदैवं श्रुत्या भवितव्यमिति आह- ब्रह्मैकदेशभूतस्य विज्ञानात्मन एव ते रूपे इति तदायुक्तं कल्पनानुगुणं वचः अज्ञानत्ममुनो यदि वा परमात्मनः रूपे इति तदा वक्ष्यच्छ्रौती चेत् कल्पना भवेदिति यद्यपि विज्ञानात्मनो द्वे रूपे इति श्रुतौ सत्यां अथवा विज्ञानात्मद्वारेण परमात्मनो द्वे रूपे इति श्रुतौ सत्यामपि ज्ञानात्मनो रूपिराश्यन्तर्भावः तथापि द्वे रूपे इति द्विर्वचनं वाक्येऽवसारणं च न घटत इत्याह- द्विर्वचश्च ततो युक्तं त्रैरूप्येऽस्य न संभवात् मूर्तामूर्ते च द्वे रूपे तृतीयं वासना यतः इति | ननु किमित्यनुपपन्नं मूर्तामूर्ताख्यं रूपद्वयं ब्रह्मणो वासना विज्ञानाख्य इत्ये तदाह मतं मूर्तेतरे रूपे ब्रह्मणो हि मते सदा क्षेत्रज्ञस्य तु नैवैते वासनामात्ररूपितः इति | अत्र दूषणमाह- तदापि जीवद्वारेण विकियायां व्रजतो विभोः प्. ३५४) वासनाद्यभिसंबन्ध इतीयं गीरनथिका इति | एषोऽर्थः | एवं ते द्व्यवस्थोच्यतेत्वया तदा विज्ञानात्मद्वारेण विक्रियमाणस्य मूर्तामूर्तो रूपे इति न वाच्यं अन्यथा वासना विर * * * पि ब्रह्मणः संबन्धप्रसंगादिति | वासनानामपि यतो न विशेषो मनागपि क्षेत्रज्ञ द्वारताया स्यादसत्तस्माद्विकल्पितमित्येतत् पूर्वस्य प्रपञ्चः | व्यवस्थाकरणे विज्ञानद्वारेण विक्रियमाणस्येति विकल्पितमसदित्यर्थः जीवद्वारेण परस्य परिणामोपि न घटत इत्याह- वस्तु वस्त्वन्तरत्वेन न च विक्रियतेऽञ्जसा वृद्ध्येह मुख्ययेत्येवं शक्तो वक्तुं जगत्यपि | इति जीवस्य वस्त्वन्तरत्वे तद्रूपपरिणामो न संभवतीत्युक्तं | इदानीं जीवस्य वस्त्वन्तरत्वं त्वया नेष्यते | तथा सति त्वत् सिद्धान्तहानादित्याह- वस्त्वन्तरो न च मतं क्षेत्रज्ञैः परमात्मनः | सिद्धान्तहानिरेवं च कल्पनाया ध्रुवं भवेदिति तस्मात् वेदान्तार्थं व्याख्यातुमिच्छद्भिः प्. ३५५) क्षेत्रज्ञस्य कामादिवासनात्रयकल्पना च कर्तुमयुक्तेत्याह- आविश्चिकीर्षुभिस्तस्माद्वेदान्तार्थं महात्मभिः ईदृशी कल्पनायुक्ता वक्तुं परहितार्थिभिः इति | तस्मात् तस्य हैतस्येति लिंगमेव परिगृह्यते न क्षेत्रज्ञ इत्याह- दक्षिणेक्षः पुमानिति लिंगात्मा परिगृह्यते अध्यात्मेऽथादिदैवे च तस्यैव प्रस्तुतः त्वतः || इति | ननु प्रकृतत्वाच्चेल्लिंगग्रहणोज्जीवोपि तस्येति लिंगमेव परिगृह्यते न क्षेत्रज्ञ इत्याह दक्षिणेक्षः पुमानिति लिंगात्मा परिगृह्यते अध्यात्मेथापि दैवे च तस्यैव प्रस्तुतत्वतः ननु प्रकृतत्वाच्चेल्लिंगग्रहणो जीवोपि प्रकृतो अतस्तस्य हेति जीवग्रहः कस्मान्नेत्येतदाह - जीवग्रहोत्र नन्वस्तु प्रकृतत्वाविशेषतः तस्यैव वैतानि रूपाणि तस्मान्नेत्यभिधीयतां इति प्रकृतत्वं जीवस्य पाणिपेषवाक्ये तद्ग्रहणमयुक्तमित्याह- नैवं रूपितया यस्मादिह श्रुत्या विवक्षितः क्षेत्रज्ञ इति | मूर्तामूर्तरूपि ब्रह्मात्मना क्षेत्रज्ञस्य प्. ३५६) विवक्षितत्वान्न तस्य वासनारूपित्वमित्यर्थः तस्माद्वासनारूप्यन्तः करणमेवेत्याह- करणात्मैव तस्मादिह विवक्षितमिति | कर्तृत्वाद्यशेष वासनाश्रयत्वेन लिंगस्य साक्षिणो गम्यमानत्वाच्च लिंगमेव वासनारूपी नात्मेत्याह - करणात्मैव तस्मादिह विवक्षित इति | कर्तृत्वाद्यशेषवासना श्रयत्वेन लिंगस्य साक्षिणो गम्यमानत्वाच्च लिंगमेव वासनारूपी नात्मेत्याह - वासनानुगतं लिंगं मृद्वन्मृद्विक्रियात्मसु चेत्यते साक्षिणो यस्मात् नातः क्षेत्रज्ञरूपिता || इति | अपि च कर्तृत्वादि यदि जीवस्य पारमार्थिकं रूपं तदा नेति नेतीति समस्तविशेषापोहेन जीवस्य प्रतिपादनं न युज्येतेत्येतदाह माहारजनमित्यादिरूपं चेत् साक्षिणो भवेत् नेतीत्यथादेशं नाकरिष्यत्तदात्मनः इति ननु न जीवस्यायमादेशः किन्तु ब्रह्मण इत्याशंक्याह- अन्यस्यासौ न चादेशः शक्त्यो वक्तुं प्रमाणतः प्. ३५७) नेति नेतीति तस्यैवं दृष्टान्त उपसंहृतेरिति | स एष नेति नेतीत्यात्मेति विक्रान्तवाक्य आत्मपदश्रवणात् आत्मन एवायमादेशी न तटस्थ ब्रह्मण इत्यर्थः | अपि च आत्मैव चेत् समस्त भेदं निराकरणेन द्वारेण ब्रह्मत्वेन प्रतिपादयितुं इष्टो आथात आदेशो नेति नेतीति तदा येवत्वेति प्रतिज्ञा अर्थवतीत्याह अप्येवत्वेति प्रतिज्ञाया अक्षरत्वं तदा भवेत् पाणिपेषोत्थितस्यैव यद्यादेशो भवेदयम् | ननु जीवस्य ब्रह्मत्वेन प्रतिपादनं कथं जीव ब्रह्मणोर्भेदात् तत्राह- पाणिपेषोत्थितोऽन्यच्चेन्नेतीति च ततोऽपरः अन्योसाविति मिथ्या धीस्तदा स्योन्मोहकारणात् इति जीवपरभेदे तदात्मानमेवावेदित्यादि वाक्यविरोधश्चेत्याह - न स्यादात्मानमेवावेदहं ब्रह्मेति मानजा सम्यग्धीर्निखिलध्वान्तधातिनी मुक्तिदायिनीति | तस्मादन्तःकरणमेव वासनारूपीत्याह करणात्मन एवातस्तस्य हेतिग्रहो भवेत् न तु तत्साक्षिणा युक्तस्तस्य रूपनिषेधतेः प्. ३५८) इति | ननु कर्तृत्वादिवासनाः सर्वा लिंगगताश्चेत् कथं तत्साक्षिणि कतृत्वादिप्रतिभानमिति तत्राह- वासनाभूतिरूपास्ता लिंगस्थालिंगसाक्षिणः कुर्वन्ति बहुरूपत्वं मणेरास्तरणं यथेति उत्तरं वार्तिकत्रयं पदार्थविवरणं सुबोधम् तल्लिख्यते- महारजनमित्यत्र हारिद्रं रूपमुच्यते इन्द्रगोपोपमानेन कौसुंभस्य गतत्वतः पीतं वस्त्रं यथा तद्वत् लिंगमाभाति साक्षिणः स्त्रियादिविषयोद्भूत वासनावासितं दृशे ईषत् पाण्डु यथोर्णादि तद्वल्लिंगं प्रकाशते इद्रगोपादिरक्तं च भृशं रक्तमनस्तथेति वासनावैचित्र्यं च ज्ञानकर्मवशात् सत्वादि गुणवैचित्र्यं निमित्तमित्याह वार्तिकद्वयेन तल्लिख्यते- रजसं क्वचिदुद्रेकस्तमसं क्वचिदिष्यते सत्वस्यापि तथोत्कर्षः कुतश्चिदुपजायते क्वचिदेकप्रधानत्वं कस्मिंश्चिद्विषये द्वयोः त्रयाणामपि चान्यत्र ज्ञानकर्मादि चित्रतः प्. ३५९) इति | पुनरपि पदार्थव्याख्यानमेवानुवर्तयति वार्तिकद्वेयेन | तल्लिख्यते अग्नेरर्चिर्यथा भास्वत् सत्वोत्कर्षात् यथा मनः पुण्डरीकं यथा शुक्लं सौम्यमाह्लादकृत्तथा सकृद्विद्युद्यथात्यन्तं घनध्वान्तापनोदकृत् अतीव भास्वरास्माकं चक्षुर्वत् सकृदुगतेति इयमन्त्या वासना हिरण्यगर्भस्य परमेश्वरुत्पद्यमानस्य भवतीत्याह - स्तुत्यर्थं तदुपासनस्य विधित्सितत्वादिति || हिरण्यगर्भतत्वस्य जायमान सकेशवान् विद्युद्वत् प्रथते रूपं किल तस्य महात्मनः इति | इदानीं तथाविध वासनाविशिष्ट हिरण्यगर्भोपासकस्य दूष्टं फलं कथयति अतोऽनेनैव रूपेण य उपास्ते दिवानिशम् सर्वान्धकारहन्त्रीव विद्युक्तं श्रीः सदाश्रयेत् इति | यमथा माहारजनमित्यादिना षट् दृष्टान्ता उपात्तास्तत्र षड्विधा एव वासना इति शंका भवति || तन्निवृत्त्यर्थमाह- नादिर्न मध्यं नैवान्तो नेयत्ता विद्यते यतः अनन्तकल्पोपचर्यात् वासनानामिति | अतः उदाहरणमात्रमित्याह उदाहृतिः प्. ३६०) माहारजनमित्यादिर्न त्वियत्ता विवक्षिता प्रकारदर्शनायैव तेनोदाहृतिरिष्यते इति | सत्यस्येति षष्ठ्यन्तं सत्यं व्याख्यातं | योहवै शिशुमित्यादिरभ्योऽथात आदेश इत्यन्तेन ग्रन्थेनेदानीं प्रथमान्तं सत्यमवशिष्टं तद्व्याख्यानाय अथात इत्यादि वाक्यमित्याह निश्शेषमेवं सत्यस्य रूपं व्याख्याय सांप्रतं परात्मसत्ययाथात्म्य निर्देशाय प्रयत्यते इति | अथशब्दार्थं उत्तरवार्तिकत्रयेण कथयति यतो व्याख्यातमखिलं मूर्तामूर्तादि वस्त्वतः आदेशोऽनन्तरं तस्य क्रियतेऽनन्यमानिनः मूर्तामूर्तस्वभावस्य सत्यस्याविष्कृतेरथ | ब्रह्मातिरेकतो नान्यद्यतो वस्त्ववशिष्यते | आदेशी ब्रह्मणोऽतोऽयं निरादेशस्य भण्यते अतिमानाभिधानस्य प्रत्यङ्मात्राद्वयात्मनः इति | इदानीं त्रिधा व्युत्पत्तिमादेशशब्दस्य कथयति- कर्मण्यादेशशब्दोऽयं यदि वा कारणे भवेत् आदिष्टिरथवादेशो नेति नेत्यद्वयात्मनः इति कर्म ब्रह्म करणं शब्दो भावो ज्ञानं नेति नेतीति | प्. ३६१) शब्दद्वयं करणपक्ष आदेशः स्यात्तेन च कथं ब्रह्म निदेष्टुं शक्यते अतद्वाचकत्वादित्ये तदाहनेति नेतीति शब्दाभ्यां सत्यस्य ब्रह्मणः कथं प्रमाणगोचरातीतं स्यान्निर्दिदिक्षितमिति यद्यप्येतद्वाचकं न भवति तथापि आत्मन्यस्ताऽविद्या तत्कार्यनिरासद्वारेण ब्रह्मप्रतिपत्तिहेतुरित्याह - शृणु सर्वं तदज्ञान समुत्पत्यनिषेधतः इति तर्हि निषेधेन सत् द्वितीयता नेत्याह- प्रत्यङ्मात्रैकरूपेण तदबोधं निराकृतेरिति तत्कार्यस्यापि निराकृतेरिति | तदज्ञानसुमुत्थस्य निषेध इत्युक्तं किं तदज्ञानं तदुत्थं च किं तद्दर्शयति- अमूर्तस्य परानिष्ठा कारणात्मा पुरोदितः मूर्तस्य च तथा पृथ्वीमध्ये संकीर्तिता तयोः मूलकारणमन्त्यकार्यं तदन्तर्वती च सर्वं निषेध्यमित्यर्थः | ननु उक्त्रत्रयातिरेकेणापि प्रत्यग्व्यतिरिक्तमस्तीति नेत्याह मनोभिधानयोर्यावान् कश्चिद्विषय इष्यते उक्तयोर्मध्यवर्त्येव कार्यकारणयोरसौ प्. ३६२) इति मध्यवर्ति संपुजी कृत्य दर्शयति- नावस्थितस्याप्यक्षयत्वं श्रुतिर्जगौ कृत्स्नप्राप्त्याक्षयो नातो विद्यते कामकर्मणोः प्रमाणासंभवात्तस्माद समीचीमुच्यते इति | ननु भोगान्न सर्वात्मना जगत्क्षयः किन्तु जगद्व्यक्तता निवृत्तिमात्रमुच्यत इति तत्राह व्याक्ततायां क्षयो यस्तु कारणात्मतया श्रुतः तादृक् क्षयः सुषुप्तेपि नैवास्माभिर्निवार्यते इति साधनानुष्ठानं व्यर्थमित्यर्थः यत एवं अतो अज्ञानादेव जगत्क्षय इत्याह- प्रत्यक्षत्वपरिज्ञान जन्मैव ध्वंसहेतुताऽद्वैतस्येति पुमर्थश्च नातोऽन्यत् किञ्चिदिष्यते इति | ननु कथं नान्त्यमिष्यते कैवल्याय कर्मेष्यत एव सत्यं प्रनाड्या न साक्षात् तत्र प्रमाणमाह तमेतमिति च तथा सर्वेषामपि कर्मणां प्रत्यक् ज्ञानसमुत्पत्तौ विनियोगः प्रदर्शित् इति ज्ञानात् कर्मक्षयश्रवणाच्च न साक्षादुपकार इत्याहभिद्यये हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परापरे || प्. ३६३) इति | तर्हि प्रारब्धकर्मणामपि क्षयो नेत्याह भोगक्षयेन कामानां निषिद्धानां च कर्मणां क्षय आरब्ध कार्याणां ज्ञानिनोपि न बोधते इति | तर्हि इतरदपि तथेत्याह अभावादार्जितानां तु सर्वेषामपि कर्मणां क्षयो नारब्धकार्याणां सम्यक् ज्ञानप्रसूतितः इति | ननु शास्त्रमेव कर्मणां सह भोगेन क्षयेपि मानमिति चेन्नेत्याह- ज्ञानोत्पत्तौ क्षये मान कर्मणा विद्यते यथा कृत्स्नप्राप्त्या क्षये मानं न तथा किञ्चिदिष्यते इति | अविद्यापरिच्छेदीत्यभिहितं तत्र केय मविद्या अग्रहणमन्यथा ग्रहण वा | अग्रहणं चेत्तत्राह- परिच्छेत्री न चाविद्या तमोरुपा हि सा यतः आच्छादिकातः सा युक्ता समस्तेन व्यस्तरूपिणः इति | मिथ्याज्ञानं चेत्तपि तथेत्याह- न चापि मिथ्याविज्ञानं परिच्छेदकमिष्यते परिच्छिनत्ति किं व्योम नीलज्ञानं मनागपीति तस्य तर्हि परिच्छेदकत्वं ज्ञानस्येत्याह सतोऽभिव्यञ्जकं मानं इति || ननु मानं कारकं प्. ३६४) न बोधकमिति चेत् तत्राह - न तु तत्कुंभकार यथा वस्त्वनुरोधित्व वदिति || अपि च धियः परिच्छेदकत्वं नाम यथार्थबोधकत्वं नात्र विगानमित्याह- मेयवस्त्वनुरोधित्वं परिच्छेदतया धियः इति किं चातो यद्येवमिति तत्राह- यथा वस्त्वनुरोधित्वं अज्ञानस्यापि चेन्मतं उक्ते मेये सदा मुक्तिः बन्धोपाध्या द्विपर्ययः अग्रहणान्यग्रहणयोर्यथार्थबोधकत्वे तद्बोध्यं वस्तु सदा मुक्तं बद्धं वा उभयथापि उभयोः सदाभावात् शास्त्रारंभानर्थक्यमिति | अपि जडप्रपञ्चस्य अजडब्रह्मोपादानमिति तव दर्शनं तदप्यनुपपन्नमित्याह नात्मनाऽत्मीयकार्यस्य स्यादुपादानकारणं अतादात्म्यान्नहि घटं जनयन्तीह तन्तवः इति | अविद्यैव समस्तजगदुपादमिति चेत् तदपि साभ्युपगम विरुद्धमित्याह- परात्मनः स्वतो विद्या बहिष्टः कामकर्मणी आगते न त्वविद्याया भवतैवैतदुच्यते इति | अविद्यापरमात्मन उत्पद्यते न च प्. ३६५) अविद्या कार्ये कामकर्मणी इति भवतैवोच्यते अतोऽविद्यैव जगदुपादानमित्येतत् स्वाभ्युपगमविरुद्धमिति | अपि च नष्टामप्यविद्यां कामकर्मणी जगयत इत्येतदपि न्याय विरुद्धमुच्यत इत्याह- न चाप्यविद्यामसतिं शक्नुतः कामकर्मणि तदकारणतः कर्तुं मृत्सेहाञ्चादिकं यथेति असतो जन्मायोगात् अविद्यायाः कारणहीनत्वाच्च न जन्मेत्यर्थः भवतु वा कारणं तथापि अविद्या सति चेत् अत्यन्ताय नोत्पाद्येत्याह न चात्यन्तासतो जन्म कुर्याल्लोकेपि कारणं नर्थेतरां सुवृष्ट्यापि चात्मनो संभवोऽंबरादिति | आकाशः पुष्पाभावादित्यर्थः परात्मतः स्वतोविद्येत्युक्तं तत्रैव दूषणान्तरमाह- ब्रह्मैव चेदविद्याया जन्मनः कारणं मतं तस्मिन् सति समुच्छित्तिरपि मद्रूपं तथा कर्म प्राणलोकादयस्तथा- कारकं वा क्रियान्यद्वा कारणं कार्यमेव च जातिर्गुणः क्रिया द्रव्यं संबन्धो भाव च || प्. ३६६) सदसत् सदसच्चेति समस्तव्यस्तमेव च प्रमाता च प्रमाणं च प्रमेयोथ क्रियाफले इति | एतस्य सर्वस्य प्रतिषेधो नकारः तेन नकारेण प्रत्यङ्मात्रविषयेण ब्रह्म याथात्म्यं गम्यत इत्याह- इत्यादेः प्रतिषेधेन प्रत्यङ्मात्रावलंबितेति निषेद्ध्यसमर्पकाभावात् कथं निषेध इति | तत्राह- उपप्रदर्शकोशेष नामादेरितीष्यते अतो निषेधो घटत इत्याह- तस्योपदर्शितस्याथ निषेधः क्रियते न तेति || ननु ब्रह्म जगतः प्रतिषिद्धत्वा दन्यत्रावस्थानं अतो अद्वैतहानिस्तत्राह- आकृष्टं रूपिणो रूपं न पृथग्व्यवतिष्ठते जगत्यकल्पितमिति | ननु क्वचित् प्रतिषिद्धमन्यत्र तिष्ठतीति चेत् | सत्यं यत्र स्वतन्त्रं वस्तु स्वतन्त्रे प्रतिषिध्यते तदन्यत्र तिष्ठतीति कल्पितं न तथेत्याह- घटे पटो निषिद्धोपि घटादन्यत्र तिष्ठति तदन्यत्रापि सद्भावादनिषिद्धस्य धर्मिणः परमार्थान्निषिद्धस्य तन्मोहोत्थस्य वस्तुनः प्. ३६७) स्थितिः कथं तस्य परमार्थात्मनाऽथवेति अयमर्थः घटे प्रतिषिद्धस्य पटधर्मिणो अन्यत्रापि स्वस्वरूपेणानिषिद्धस्य भावादवस्थानं बुध्यते न तथा कल्पितस्येति नाद्वैतहानिरिति | नन्वाकाशादि जगत् कल्पितं चेत् भवदुक्तं स्यान्नहि कल्पितमिति चेन्न व्यभिचारात् कल्पितमित्याह- निषेद्ध्यानामशेषाणां अन्योन्यव्यभिचारतः प्रतीचो व्यभिचारीतः तत्राद्ध्यस्तं निषिध्यते इति | ननु प्रतीच्यध्यस्तं प्रतिषिद्ध्यतां नाम नैतावता ब्रह्मसिद्धिः ब्रह्मसिद्ध्यर्थोऽयं निषेधप्रयास इति | तत्राह इति शब्दोपनिष्ठानां निषेधोऽनुभवात्मनि- अनन्ते तव तां तत्र तद्ब्रह्मेत्यवसीयतामिति नान्विति शब्दसमर्पितनिषेधे ब्रह्मणो निषेध्यत्वं प्रसिद्धत्वेन ब्रह्मणाषीति शब्दविषयत्वोपपत्तेरिति | नेत्याह - सद्भावश्चोपलब्धिश्च स्वार्थप्रत्यक् चिदाश्रयात् मूर्तादीनामनिर्देश्यादितिर्मत्तो निवर्तते इति प्रतीचः स्वयं प्रभुत्वादिति प्रत्यञ्चं न प्. ३६८) अतः स न निषिध्यत इति | यत एवं तस्माद्यस्य चिदात्मनो बलादयं प्रतिषेधः सर्वत्र प्रतिषेधति | स चिदात्मा स्वाकारविज्ञानेन वाक्योऽर्थेन सर्वमुपमृद्य स्वयमेवावशिष्यत इत्याह - निषेधति निषेध्यार्थं यद्बलान्न * * * दात्मना विज्ञानेनैव हत्वान्यत् पूर्णत्वेनैति चित् स्वतः इति | किं तदन्यदिति तदाह- प्रत्यङ्मात्रदृशि ह्यस्मिन् जाग्रत्स्वप्नसुषुप्तिषु तदन्यत्तत्तदाभाव सक्तनन्ता प्रतिषिध्यते इति | निषेधफलं दर्शयति- अविचारितसंसिद्ध प्रत्यङ्मोहहतौ सदा विस्फारिताक्षः प्रत्यग्धीमानान्निर्वात्यथात्मानि इति | पुनरपि निषेध्यस्य मिथ्यात्वं दृष्टान्तेन साधयति- अपेक्षाज्ञानहेतूत्थं कार्यकारणवस्त्वतः विचार्यमाणं तन्नास्ति व्योम्नि कार्ष्ण्यमिवात्मनि इति | अथवा निवर्तता नामाज्ञानं न जगत् परमार्थत्वेन अतत्कार्यत्वादिति | तत्राह- शब्दप्रवृत्तिहेतूनां प्रत्यगात्मन्यसंभवात् प्. ३६९) प्रमाणागोचरत्वाच्चेति | तर्हि नास्त्येवात्माः तत्राह स्वतः सिद्धेर्न निह्नुतिरिति | एतत् प्रतिषेधद्वयं वीप्सा | अत्र हेतुमाह- मानाभिधानविषयो यावन्नात्मानमात्मना लभते प्रत्यगात्मायं न नञ् तावन्निवर्तते अविद्यावस्थायां शब्देतरप्रमाणविषयत्वेन वर्तमानं प्रत्यगात्मा सर्वविशेषापोहेन यावत् स्वरूपावस्थानं न लभते तावत् प्रतिषेधो न निवर्तते अतो वीप्सा आश्रयणीया प्रतिषेधो मानाभिधानविषय इति केचित् प्रपञ्च एवेत्यपरे | ननु निषेधस्य निषेधकाभावात् निषेध स्थितेरद्वैतहानिरिति | तत्राह - निरस्ताज्ञानतत्कार्ये लब्ध आत्मन्यथात्मना निषेध्यहेतौ प्रध्वस्ते निषेधोपि निवर्तते इति | पुनरपि निषेध्या विविच्य दर्शयति प्रमातृत्वादिना यावत् किञ्चिदत्र विवर्तितं तदभावश्च तत्सर्वं नेतीति प्रतिषिध्यते इति | नन्वभावपर्यवसायिनी निषेधोऽतो भावस्थितेरद्वैत हानिस्तत्राह- प्. ३७०) निषेध्यं सर्वमेवेति तदनिषेध्यात्म वस्तुगं अतो नाभावनिष्ठस्यादभावस्यापि निह्नवादिति यतो भावो निषेध्यातो वीप्सेयमित्याह- नेति नेतीत्यतो वीप्सा जिघृक्षीत निषेधतः बुभुक्षितस्य कृत्स्नस्य वीप्सैवातो निषेधनीति ननु वीप्साश्रयणेऽपि नाकांक्षानिवृत्तिरिति चेत् नेत्याह- ज्ञानक्रियाभ्यां व्याप्योऽयमित्याकांक्षा निवर्तते अप्रमित्सित एकस्मिन् निष्ठाया त्रचिकीर्षितः इति | अयमर्थः ज्ञानेन मयाप्तव्याक्रिययाऽयमित्याकांक्षा निवर्तते || वीप्सायामाश्रिता या क्रिया ज्ञानयोरविषये ब्रह्मणि निष्ठां तदात्मत्वं च गच्छति विद्वानतोऽपि वीप्साश्रयति निष्ठां याति सति विदुषि प्रतिषेधे वेति केचित् स्थूलाद्यभावज्ञानं बाधकमिति आशंक्य ब्रह्मयाथात्म्य ज्ञानमेव बाधकमित्यत्र दृष्टान्तमाह- रज्जुयाथार्थ्यविज्ञानात् सर्पतत्कारणात्मनोः निषेधो नान्यतः शक्यं कर्तुं वर्षशतैरपि इति | पुनरपि वीप्सापक्षे गुणमाह यद्यत् प्. ३७१) यद्यत्प्राप्तं जगत्यस्मिन् तत्तत्सर्वं निषिध्यते एवं च सत्यनिर्दिष्टाशंकापि विनिवर्तते इति || अवीप्सापक्षे दूषणमाह- न चेत् वीप्सा तदा वाक्य द्वयं तत्र विवक्षितं उक्तद्वयनिषेधेन तस्य चोपक्षयात् भवेत् अनुक्तविषयाशंका सर्वस्य प्रतिषेधतः यदि वाभावविषया न ह्यभावो निषिध्यते इति | शून्यनिष्ठं वचः स्यादित्युक्तं यदि वा भावविषयेत्यनेन तदेव साधयति साक्षान्मानप्रसिद्धेषु प्रतिषिद्धेतरग्रहः अप्रसिद्धे प्रसिद्धानां निषेधाच्छून्यताग्रहः इति | अयमर्थः | मानमिते भूतलादौ मानमितमेव घटादि यदा प्रतिषिध्यते तदा प्रतिषेधे तरयोर्ग्रह उभयमशून्यं तिष्ठति | यदा त्वमानसिद्धे ब्रह्मणि मानसिद्धं जगत् प्रतिषिध्यते तदा शून्यनिष्ठत्वं वचसो अवश्यं भावि ब्रह्मणि मानाभावात् मानसिद्धस्य च ब्रह्मणो अन्यस्य निषिद्धत्वादिति | भवतु शून्यनिष्ठत्वमिति चेन्नेत्याह- आदेश इत्युपक्रम्य प्रतिषेधोऽयमुच्यते | प्. ३७२) साक्षादादिश्यते येन तादृगादेश उच्यते इति | एषोऽर्थः ब्रह्मण आदेश इत्युक्त्वा प्रतिषेधस्योच्यमानत्वात् यथा वा ब्रह्मप्रतिवादनपर एवायं प्रतिषेधाख्य आदेश इति | अतः प्रतिषेधादेशेन कार्यकारणं जगत् साक्षित्वं ब्रह्मरूपेण निराकृत्य विद्वान् स्वस्वरूपेणावतिष्ठत इत्याह- निषेधवर्त्मना तस्मादनिषेध्यात्मसाक्षिणा ज्ञाताज्ञातं निषेध्याथ सदा दृष्टौ प्रतिष्ठतीति नन्वेकदा प्रतिषिद्धमपि पुनरुद्भवति सर्पादिवदित्याहशंक्य नोद्भवतीत्येतत् दृष्टान्तेन साधयति | यथा श्रोत्रधिया रूपं रूपहेत्वसमन्वयात् नाग्रहीत् | न च गृह्णाति न ग्रहीष्यति शब्दवत् प्रत्यक्षत्वे विनिर्ज्ञातो नेति नेतीति | वाक्यतः तद्वत् सकारणो नात्मा नाभूदस्ति भविष्यतीति सकारणस्य जगतो निवृत्तिरन्येति नेत्याह- नान्यदज्ञानतोऽस्तित्वं द्वितीयस्यात्मनो यथा निवृत्तिस्तद्वदेवास्य नावगत्यात्मनोऽपरेति वीप्साश्रयणेऽप्येवत्वेति | प्रतिष्ठाप्युपपन्नार्था प्. ३७३) भवतीत्याह- अनन्यायत्तमैकात्म्यं यदा साक्षाद्व्यवस्थितं व्येवत्वेपि प्रतिज्ञेयं तदा स्यात् सहलोदितेति अत उपसंहरति | नेति नेतीत्यतो वीप्सा संभवादुक्तवस्तुनः इति | अभिप्रेतवस्तुनः संभवात् वीप्साश्रयणे अभिप्रेतवस्तुनः सिद्धेरित्यर्थः पुरुषस्य कृतार्थता च तद्वद्भवतीत्याह - भूतार्थता तथा च स्यात् अन्यथा नोपपद्यते इति | इदानीं निषेधफलमुपसंहरति | परागर्थेषु सक्ताधीः प्रत्यगर्थानुरञ्जनात् निषित्वात्वपरागथीत् प्रतीचीं लभते स्थितिं एवं भाष्यकारमत मुपपत्तिं उपपाद्य नेतीत्यस्य वाक्यस्य विधिमुखेन बोधकत्वमर्थान्तरमाह- वाद्यन्तरकल्पित निषेधप्रतिषेधमुखेन व्यतिरेकस्येत्यादिना | वीप्सानिषेधेनाषीत्यन्ते || एवं तात्पर्यार्थ उक्तः इदानीं प्रतिवार्तिकं व्याख्यायते | नायं प्रतिषेधादेशो ब्रह्मणो मूर्तादे सकाशतो व्यतिरेकसिद्ध्यर्थ इत्याह प्. ३७४) व्यतिरेकस्य सिद्धत्वादादेशोक्तैः पुरैवहीति ही किमर्थोऽयमादेशः इति | आत्मनो ब्रह्मत्वबोधायेत्याह- साक्षात् ब्रह्मत्वसिद्ध्यर्थमादेशोऽयमथोच्यते इति | ननु नायमादेशो व्यतिरेकार्थो नापि ब्रह्मत्वसिद्ध्यर्थं किन्तु मूर्तादि निषेध्य निषेधार्थ इत्याशंक्याह- न निषेधोऽनिषेधार्थो लक्षणार्थपरत्वतः इति लक्षणया त्वमर्थप्रतिपादनपरत्वादित्यर्थः निषेधपरत्वे दूषणमाह- ब्रह्मणो मान्तरासिद्धे शून्यतैवात आपतेदिति व्यतिरेकस्य सिद्धत्वादिति तत्राह- षष्ठ्युक्तेरेव संसिद्धा मूर्तादेर्ब्रह्मणोऽन्यतः ततश्च जामिता सक्तिरिति ततश्च भवदभिप्रेतं निराकृतमित्याह- नातः स्यात् पारिशेष्यगीरिति | अयमर्थः || नेति नेतीति मूर्तादेः ब्रह्माभेदेन प्रसिद्धिः द्वे परिशेषा मूर्तादि व्यतिरिक्तं ब्रह्म सिद्ध्यतीति यत्तवाभिप्रेतं तन्न सिद्ध्यति षष्ठ्युक्तेरेव पारिशेष्यन्यायसिद्धत्वात् इति | प्. ३७५) मूर्तादिनिषेधपरत्वे दूषणान्तरमाह- शक्यते न निषेद्धुं च प्रत्यक्षाद्याश्रितेत्वतः इति प्रमाणप्रतिपन्नस्य निषेधो न संभवतीत्यर्थः | निषेधमात्रात् पुरुषार्थोऽपि न सिद्ध्यतीत्याह- निषेधान्न पुमर्थोऽपि कश्चित् सिद्ध्येत् समीहितः इति | किं च परिगणित मूर्तादिनिषेधनिष्ठत्वे वाक्यस्य न परब्रह्मोपदेशो न भवेदित्याह निषेधमात्रनिष्ठत्वे न चादेशो भवेत् प्रभोः इति | किंच व्यतिरेकनिष्ठत्वे निषेधस्य अद्वयब्रह्मासिद्धिरित्याह- ब्रह्मा मूर्तादिनेत्युक्तौ मूर्तादेर्न निषेधगीः | ततश्च ब्रह्मतासिद्धि द्वितीये सति वस्तुनि इति | किं च नेति नेतीति वाक्य व्येवत्वेति प्रतिज्ञाविवरणं न भवेत् | परिगणितप्रतिषेधेऽतो विवक्षितब्रह्मादिसिद्धिरित्याह- व्येवत्वेपि प्रतिज्ञार्थो नापि चाविष्कृतो भवेत् पारिशेष्यादतो सिद्धिः स्याद्विवक्षितवस्तुनः इति | अतोऽभिप्रेतब्रह्मसिद्धिः यथा तथा प्. ३७६) नेति वाक्यं व्याख्येयमित्याह यथा सिद्धिस्तथा व्याख्या कार्येहोक्तेरतोऽञ्जसा इति द्वैतनिषेधो व्यतिरेकश्च अथात इत्यतः प्रागेव सिद्धोऽतो न तदुभयं तावदनेन प्रतिपाद्य मित्याह- सिद्धो निषेधः प्रागेव सर्वस्यानात्मवस्तुनः प्रत्यग्याथात्म्यविज्ञानादन्योन्य व्यभिचारतः अन्योन्यव्यभिचारोऽस्य वीक्ष्यतेऽनात्म वस्तुनः स्वरूपव्यभिचारोपि सुषुप्तादौ स्वसाक्षित | इति || इदानीं नञर्थस्य स्वसाक्षियाक्ष्यलक्षणं संबन्धं कथयति || दृष्टान्तेन नञर्थेन प्रतीचो लक्ष्यत्वसिद्ध्यर्थं यथा मात्रादि संज्ञेयं प्रत्यक् संवित्ति सिद्धिका प्रमात्रादेरभावोपि प्रत्यक् बोधाश्रयात्तथा इति | न स्वात्मबोधबलाच्चेत् सिद्धिरनात्मनः आत्मनो विकारित्वं नेत्याह- अविचारितसंसिद्धिः आत्माविद्यैकरूपतः सिद्धायतेऽखिलानात्मा स्वतः सिद्धात्मसंश्रयात् इति | अथवा अनुभवसिद्धत्वे अनुभववत् सत्यत्वमाशंक्य तन्निराकरोत्यनेन || प्. ३७७) स्वतः सिद्धात्मसंश्रयादित्युक्तौ तस्य स्वरूपं कथयति || अतिरोहितसंवित्कोप्यपास्ताशेषविक्रियः अनन्यमातृमानादिः दृष्टिमात्रात्मकत्वतः इति | एवं विधात्म प्रसादात् सर्वस्य सिद्धिरित्याह- भावाभावात्मका सिद्धिरेवं सर्वाप्यनात्मनः तद्विरुद्धात्मकान्मत्तो मययेवासौ प्रसिद्ध्यतीति तत् प्रसादात् सर्वस्य सिद्धिर्भवतु स केन सिद्ध इति | स्वेनैवेत्याह- अनन्यानुभवेनैव भावात्मभूमिषु प्रत्यक् कूटस्थ आत्मानं पश्यन्नास्ते फलात्मतः इति | अतः आत्मसिद्धौ न मात्राद्यपेक्षेत्याह अतो मात्रादिसंभेदो यत्र यत्र निवर्तते | तत्र तत्रैकलं प्रत्यक् स्वमहिम्नैव सिद्ध्यतीति इदानीं अनुभवसिद्धाभावेन अनुभवो लक्ष्यत इत्याह- प्रमात्रादेरभावोऽतो यः सिद्धः सात्मबोधतः नञ् वृत्तिस्तं सदा बुद्धं लक्षयत्यमितप्रमम् इति | नञो वृत्तिर्यस्मिन्निति | नञ् वृत्तिरभावो प्. ३७८) अनुभवसिद्धः स्वसाक्षिणं लक्षयति मञ्च शब्द इव पुरुषः तस्मान्नेतीत्यत्र नञ्स्त्वं पदार्थो नञ् वृत्तिरिति पाठान्तरमत्र नञ एव लक्षणात्वं पूर्वत्र तदर्थस्य उभयत्रापि प्रत्यगात्मा नञर्थः | ननु साक्षादेव शब्दः कस्मान्न बोधयेदिति | तत्राह - वैविक्त्या न च मानादेरनन्यानुभवात्मनि सहेतुकस्य वृत्तिः स्यात् नित्यबोधावबोधनीति लक्ष्यात्मस्वरूपं दर्शयति- अविद्याद्यतिरेकेण कारणादि विधा मुकं लब्धमात्मकं वस्तु प्रतीचोऽनन्यमानतः || इति अथवा वैवित्त्यादिति हेत्वसिद्धिमाशंक्य तत्परिहरत्यनेन || अनन्यमानत्वमसिद्धं इत्याशंक्याह- एतद्वस्तु स्वतः सिद्धः प्रमात्राद्यनपेक्षितः सर्वस्यैव ततः सिद्धे कथं सिद्ध्येत्तदन्यतः इति | स्वतः सिद्धः प्रत्यगात्मा त्वमर्थो नञर्थ इति | एतत्तावत् प्रसाधितमिति शब्दार्थः तदर्थः परस्तयोरेकत्वं नेतीत्यनेनोच्यते तत्वमसीति वदित्येतदाह- प्. ३७९) उक्तप्रमेयसंसिद्धिः स्वमहिम्नैव न श्रुतेः तस्य ब्रह्मत्वबोधाय नेति ब्रह्मेतिमोच्यते || इति तस्य न मूर्तस्य साक्षिणो ब्रह्मत्वज्ञानाय नेति ब्रह्मेति मोच्यते | मोच्यते नेति वाक्यं तयोरेकत्वे मानमित्यर्थः | सोच्यत इति केचित् पठन्ति सेति प्रमेयसिद्धिं परामृश्यत इति तेषामभिप्रायः | ननु जीवस्य परिच्छिन्नत्वात् कथं ब्रह्मत्वबोधनं तत्राह- आत्मप्रत्ययमामेयो लक्षितो यो नञाञ्जसा अविद्यादेस्तदात्मत्वादिति ब्रह्मेति बोद्ध्यत इति प्रत्यङ्मोहतदुत्थस्य प्रत्ययाधिकत्वाद तोऽवोचदिति ब्रह्मेति मोहनुदित्येतत् पूर्वस्य प्रपञ्चः न ह्येतस्मादित्यादि वाक्यावतारणाय चोद्यमुद्भावयति | आदेशः प्रत्यति महानथात इति संभ्रमः तेनासदृश आदेशो नन्वयुक्तोयमीर्यते इति | सदृश एवेत्याह- युक्त एवायमादेशो न यतो दृश्यते परः आदेशः कोयमेवात्र ब्रह्मण्यादेश इष्यते इति ननु विधिमुखेनाप्यादेशनमस्ति सत्यं तदत्र प्. ३८०) न संभवतीति प्रतिपादनायाह- आदिदिक्षितमेतस्य तत्वं यत् ब्रह्मणः परम् यावन्तस्तत्र निर्देश्या स्तेऽर्थाः सर्वेविवक्षिताः इति | नेतीति सर्वविशेषणानां निराकृतत्वात् न लिपिमुखेन बोधनमित्यर्थः | तेषां निवृत्तिरन्येति नेत्याह - निवृत्तिश्च यथोक्तैव तेषामैकार्थ्यलक्षणा भिन्नदेशस्थितिस्तत्र वास्तवी नोपपद्यते इति | भिन्नदेशस्थितिर्न घटत इत्युक्तम् अत्र हेतुमाह- अव्यावृत्ताननुगतो ब्रह्मशब्दार्थ इष्यते मुख्योन्यस्मिन् सति यतो ब्रह्मार्थेनावसीयते इति | जात्यादेर्ब्रह्ममात्रत्वाच्चायमादेश इत्याह - शब्दप्रवृत्तिहेतूनां ऐकार्थ्येन समाप्ततः तदा तदभिधेयानामादेशोऽयमतः परः इति अतो अयमेव पर आदेश इत्युपसंहरति अभिधाभिधेयसंबन्धमंगीकृत्य यतोऽक्षरे न कश्चिदपि शब्दोत्र साक्षात् ब्रह्म निवर्तते आदेशोनेति नेतीत्येवं तेनेव घटतेऽञ्जसा तदबोधप्रसूतानामाकांक्षाणां निषेधतः प्. ३८१) इदानीमथ नामधेयमित्यादेरर्थमाह - मूर्तामूर्ता हि सत्याह्नं प्राणाः सत्यास्तदाऽत्मतः || क्षेत्रज्ञस्तदुपाधित्वात् सत्य इत्यभिधीयते इति | ननु परविषयमेतन्नाम सत्यमुपचारक इत्याह- अनिर्देश्यस्य निर्देश्या ये भेदाः कार्यलक्षणाः तेषु लब्धास्पदं नाम परस्मिन्नपचयते | इति षष्ठ्यन्त सत्यशब्दार्थ उक्तः इदानीं तदनुवादेन प्रथमान्तसत्यशब्दार्थं कथयति- मूर्तामूर्तात्मकं सत्यं प्राणादेः कार्यरूपिणः तस्याप्येतत् परं सत्यं यन्नेतीत्यवधारितमिति | ननु मूर्तादिस्वरूपेणापि सत्यं नेत्याह- उक्तवस्त्वतिरेकेण नामीषां सत्यता यतः न चाप्यसत्यता तत्स्यात् तेषां सत्यं परं पदम् | इति | उक्तमर्थं दृष्टान्तेन साधयति | आत्मवन्तो यथा रज्वा रज्जुः सर्पादयस्तथा | आत्मवन्तो निरात्मानः प्राणाद्याः प्रत्यगात्मना प्रत्यगात्मनैव सर्वस्यात्मवत्वे किं फलतीति तदेव द्रष्टव्यं नान्यदित्येतत् फलतीत्याह यत एवमतोद्वीक्ष्य मूर्तामूर्तादिवर्त्मना || प्. ३८२) सत्यशब्दाभिधेयार्थं तया द्वारापरं पदम् | व्यपदिश्यमानमैकात्म्यं सत्यस्यात्मानमद्वयं द्रष्टव्यमात्मनैवेनं सत्यं पश्येद्यथोदितम् इति | यतो व्याकृताव्याकृतयोर्याथात्म्यं अत एव तन्नाम्नस्तत्र वृत्तिर्नान्यथा इत्याह अतो व्याकृतयाथात्म्यं व्याकृतेनोपदिश्यते सत्यस्य सत्यमितित नान्यथा व्यपदेशभागिति | अत एव व्यपदेशार्थमेतन्नामेत्याह- व्यपदेशाय नामैतत् न स्वनामास्य विदयते इत्याह | ननु ब्रह्माक्षरमिति व्यपदेशोऽत्र नामभिरिति नाऽयं दोषः कार्य कारणोपाधिब्रह्मविषयत्वात् सर्वनाम्न इत्येतदाहकार्यकारणके तत्वे नाम लब्धास्पदं यतः इति | ननु उभयविलक्षणेषु शब्दप्रयोगोऽस्तीति | सत्यं लक्षणयेत्याह- रूपाभिधेयसंबद्धमरूपं शब्दमक्षरम् | लक्षयेन्नाञ्जसा वक्ति परं ब्रह्म कथञ्चन शब्दप्रवृत्तिहेतूनां साक्षात् ब्रह्मण्यसंभवात् इति चतुर्थस्य तृतीयं ब्राह्मणम् | प्. ३८३) श्रीः संगति प्रतिपादनाय वृत्तानुद्रणं करोति आत्मेत्येवेति | सूत्रस्य व्याख्येयम् प्रस्तुतः स्फुटा || ब्रह्मतेऽहं ब्रवामीति प्रारभ्य अपूर्णवाक्यत इति पूर्णवाक्यपर्यन्तो ग्रन्थो मोक्षफलविद्या सूत्रव्याख्यानायेत्युक्तं चतुर्थाध्यायारम्भ इत्यर्थः- तत्र केन क्रमेण कैवल्यसिद्धिरिति क्रमं दर्शयति वार्तिकचतुष्टयेन ज्ञानसाधनत्वेन सर्वकर्मसन्यासविधानायेदं ब्राह्मणमिति प्रतिपादनाय नित्यकर्माद्यनुष्ठान संशुद्धधिषणः पुमान् निश्शेषकर्महेतूत्थफलसावद्यधिस्ततः विरक्त आग्रजात् सोयं तत्सावद्यसमीक्षणात् संसारदुःखसंस्कार स्मृतिभिः प्रेर्यमाणधी उद्भूत तज्जिह्वा सन् तद्वानेव साधनसृहः त्यक्ताशेषैषणः सोथ प्रत्यगात्मनि निश्चयः | वस्तु वृत्तात्मसंबोध त्यस्तसंसारकारणः | व्यावृत्ताशेषसंसारो विमुक्तो नापि मुच्यते || इति | ननु सन्यासस्य ज्ञानसाधनत्वं सोपि शास्त्रगम्य इति चेन्नेत्याह- यावत् किञ्चिदविद्यायाः कार्यं वैराग्यकारणं प्. ३८४) तत्सन्यासो विरक्तत्वात् स्वत एव न शास्त्रतः इति | साधनत्वमप्यन्यत एव सिद्धं चेन्नातः तस्य ज्ञानसाधनत्वकथनाय ब्राह्मणारेभ इत्याह- ब्रह्मयाथात्म्यसाधनत्वं विनागमात् सन्यासस्य न विज्ञातं तच्छास्त्रेणेह बोध्यते || इति | ब्राह्मणस्यार्थान्तरं कथयितुं पूर्वब्राह्मणार्थमनुद्रव्यति- ब्रह्माविद्यासमुत्थानात् कार्यकारणलक्षणात् व्युत्थाप्य नेति नेतीति परं ब्रह्म प्रदर्शितमिति इदानीं तत्र चोद्यमुद्भावयति- तत्रैतत् शंक्यते चोद्यं ब्रह्मत्वासिद्धि दोषकृत् निषिद्धं नेति नेति मूर्तामूर्तादिवस्तु यत् किं तत् सर्वानुगं सर्वं किं वा तस्मान्निषिध्यते इति | अभिन्नं भिन्नमभावनिष्ठं वेत्यर्थः अभेदपक्षे दूषणमाह- यदि ब्रह्मानुगं ब्रह्म स्यादनर्थात्मकं तदा | इति | तृतीयपक्षे दूषणमाह- अभावनिष्ठं तच्चेत् स्यात् मुख्यं ब्रह्म न सिद्ध्यति अभावस्य ततोऽन्यत्वा दन्वयव्यतिरेकतः इति अभावनिष्ठत्वे भावस्य ब्रह्मणोऽन्यत्वात् तेन च प्. ३८५) संयोगवियोगसंभवात् अद्वैतहानिरित्यर्थः भवतु मुख्यब्रह्मासिद्धिरिति चेत् तत्राह- नेतीत्यपि निषेधोक्ति स्तथा सति विरुद्ध्यते वैदिश्रे प्रयासोयं सर्वस्मात्त कण्टनमिति भेदपक्षे दूषणमाह- विविच्यते - ब्रह्मणश्चेन्मैवं दोषः | तथापि हि ब्रह्मत्वं ब्रह्मणो न स्यात् द्वितीये सति वस्तुनि इति अव्यावृत्ताननुगतं वस्तु ब्रह्मत्वमश्नुते || एतच्च दुर्लभं तस्य द्वितीये सति लक्षणमित्येतत् पूर्वस्य प्रपञ्चः | ननु किमिति लक्षणासिद्धिः द्वितीयं भक्षयित्वा ब्रह्म ब्रह्म भवेदित्ये तदाह - अथ अब्रह्मात्मकं वस्तु दग्ध्वा चेत् ब्रह्म तद्भवेदिति | अत्र दूषणमाह- प्रतीचो ब्रह्मणान्तत्वात् न मोक्षो नापि संस्मृतिः इति | ननु जीवान्न भक्षयतीत्याह- संसारिणो न चेदत्तीति | अत्र विकल्प्यते जीवा ब्रह्माभिन्ना भिन्ना वेति यद्यभिन्नास्तत्राह संसार्येव प्रसज्यत इति ब्रह्मेति वाक्यशेषः अथ भिन्नास्तत्राह- नाप्नोति ब्रह्मतां साक्षात् सत्सु संसारिवस्तुषु प्. ३८६) इति नन्वभेदपक्षे किमिति | ब्रह्मणः संसारः संसारस्य ब्रह्मणो जग्धत्वादित्यत्राह संसारे वापि जग्धेस्मिन् ब्रह्मणो निखिले सति | वृतेपि सम्यग्विज्ञानात् सर्वे स्युर्मुक्तबन्धनाः इति अस्य चोद्यस्य परिहाराय ब्राह्मणारंभ इत्याह- अन्वयादिनिषेधाय सर्वमात्मेति वाक्यतः मैत्रीयीत्यादिको ग्रन्थस्तस्मादारभ्यते परः इति | अन्वयव्यतिरेकाभाव परिहारेण प्रत्यङ्मात्रजगदिति प्रतिपादनाय ब्राह्मणारंभो अतो नोक्तदोष इत्यर्थः पुनरपि ब्राह्मणस्य अर्थान्तरमाह- सर्वा ब्रह्मनिषेधेन तदर्थो वेह निश्चितः तस्य संसिद्धिविषय ऐकात्म्यमधुनोच्यते | इति | एषोऽर्थः | निषेधमुखेन पूर्वत्र ब्रह्म निर्धारितमिदानीं विधिमुखेन निर्धारणाय ब्राह्मणारंभ इति | तस्य आत्मनैकत्वबोधाय ब्राह्मणाभेद इति केचित् || सांख्य पक्षनिराकरणाय ब्राह्मणारंभ इत्याहनेतीति ब्रह्मणोऽन्यत्र मूर्तामूर्तव्यवस्थिता प्. ३८७) प्रसक्ते सांख्यसिद्धान्ते सर्वमात्मेति चोच्यते इति || पूर्वत्र सन्यासस्य ज्ञानसाधनत्वख्यापनाय ब्राह्मणारंभ इत्युक्तमिदानीं ज्ञानस्य सन्यासेन समुच्चयविधानाय ब्राह्मणारम्भ इत्याह - सत्यपि ब्रह्मवेदित्वेन असन्तत्वेषणो यति || मुक्तिभागिति हेवोक्तः सन्यासेन समुच्चयः इति | अत्र द्योतकं कथयति- निरस्तातिशयज्ञानो याज्ञवल्क्यो यतो गृहीकैवल्याश्रममास्थाय प्राण? तद्वैष्णवं पदम् इति || इदानीं सन्याससमुच्चित ज्ञानस्य मोक्षसाधनत्वे अन्यदपि श्रुतिस्मृतिवाक्यमुदाहरति- त्याग एव सर्वेषां मोक्षसाधनमुत्तमं त्यजतैव हितज्ज्ञेयं त्यक्तुः प्रत्यक् परं पदम् मुक्तेश्च बिभ्यतो देवा मोहेनापि दधुर्नरान् ततस्ते कर्मसूद्युक्ताः प्रवर्तन्तां विपश्चितः मोहमात्रैकहेतूनि तस्मात् कर्माण्यशेषतः सन्यस्यैकात्म्यसंबोधाद्धित्वा मोहान् विशुद्धधीः ध्यायन्नै ज्ञानमेवात्मनात्मानं उपासीनोऽमृतो भवेत् | प्. ३८८) इति प्रमाणमात्रार्थे वचनं भाष्यविश्रुताविति | तस्मात् सन्याससमुच्चितज्ञानादेव मोक्ष इत्याह- सर्वसन्यस्तकर्मैव ज्ञानात् कैवल्यमश्नुते इति | ननु ऋणश्रुतिस्मृतिविरोधात् सन्यास एव नोपपद्यते कथं समुच्चय इति | तत्राह ब्रह्मचर्यात् गृहाच्चैव ववनाच्चापि विधियते निश्शेषकर्मसन्यासो यतोऽतो नस्सबद्धता श्रुत्या जाबालशाखाया न विधिवाक्य विरोधेन अर्थवादस्मरणयोः प्रामाण्यमित्यर्थः न तु कर्मानधिकृतानां तत्र सन्यासविधानं नेत्याह तथा च अनधिकारिणां सन्यासस्य विधानाच्च कार्योसौ मुमुक्षुभिरिति पूर्वत्र सन्याससमुच्चितज्ञानस्य मोक्षसाधनत्वे प्रमाणमुक्तं इदानीं सन्यासस्य ज्ञानसाधनत्वे प्रमाणकथनायाह नरलोकादिकामानां सुतोत्पत्त्यादि साधनं तेभ्योऽप्युत्थित चित्तानां सन्यासस्त्वात्मकामिनां इति | अत्र श्रुतिमुदाहरति- इममर्थं श्रुतिर्वक्ति सर्वकर्मानपेक्षणी प्. ३८९) प्रजातिना करिष्यामः किं तत् फलं पितृष्णीतं उत्पत्त्यादि विरुद्धोऽयं लोकोयेषामकर्मज इति तर्हि के केन मोक्षस्तत्राह मात्रान्तरत्वात् ज्ञानमात्रमपेक्षत इति | इदानीं सन्यासस्य ज्ञानसाधनत्वे स्मृतिवाक्याद्युदाहरति- प्रवृत्तिलक्षणो योगो ज्ञानं सन्यासलक्षणम् तस्मात् ज्ञानं पुरस्कृत्य सन्यसेदिह बुद्धिमान् भावितैः कारणैश्चायं बहु संसारयोनिषु आपादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः त्रिष्वाश्रमेषु कोऽन्वर्थो भवेत् परमभीप्सितः श्रुतयः स्मृतयश्चैव मस्मिन्नर्थे सहस्रशः प्रत्यक्षा एव विद्यन्ते सन्यासप्रतिपादकाः अथवा तत् पदार्थस्य त्वं पदार्थनिष्ठागत ब्राह्मणेन प्रतिपादिताऽनेन त्वमर्थस्य तदर्थनिष्ठतोच्यते इत्याह मुख्यार्थता वा प्रागुक्ता ब्रह्मेत्यस्य सदा दृशि प्रतीच्यथात्मशब्दः समुख्यार्थो ब्रह्मणी स्तत इति | ननु ब्राह्मणद्वयं पदार्थद्वयप्रतिपादनोपक्षीणं चेत् तर्हि वाक्यार्थं केनोच्यत इति प्. ३९०) उत्तरब्राह्मणेनोच्यत इत्याह- ततस्तदेतदिति च ब्रह्मात्मपदवाक्ययोः मधुकाण्डार्थसर्वस्वं वाक्येन प्रतिपाद्यते इति | एवमनेकधा ब्रह्मणोऽर्थमुक्त्वा सन्यासस्य ज्ञानसाधनपक्षे ब्राह्मणमेव कारयति प्रत्यगात्मविज्ञान जन्मने तं श्रयति स्वयम् विधित्सन्तीह सन्यासं मैत्रेयेति प्रवर्तते || इति | भार्याद्यनुज्ञापूर्वोहि सन्यासो विहितः श्रुतौ अतोऽनुज्ञार्थमेवाह मयित्रै मैत्रेयीमृषिरात्मनः उद्वास्यन् वा अरे स्थानादस्मात् गार्हस्थ्यलक्षणात् चिकीर्षवे मे सन्यासमनुज्ञां दातुमर्हसि | युक्तमाह भवानस्मान् अनुरूपं चिकित्सयत् एवं सदिति कर्तव्यं तत् क्षिप्रमनुशाधिमाम् अनुज्ञातोऽथ तामाह हन्तेत्यादि परं वचः कात्यायन्या सपत्न्या ते विभागं करवाण्यहम् इत्येतानि वार्तिकानि सुबोधानि || ननु किमिति द्रव्यविभागः क्रियते | सन्यासोत्तरकालान्ते एव द्रव्यविभागं करिष्यति | तत्राह निःस्वास्त्री स्ववता पुंसा नियुक्ता कर्मसंपदे मयि प्रव्रजिते तस्माद्युवयोर्नार्थ संगति || प्. ३९१) यत इत्याह- वृत्तिभिः संविभज्य स्वान् सत्यसेदिति चोद्यते यतः शास्त्रेण तेनायं विभागं क्रियते मया इति | युक्तमेतद्व्यवसितं यद्वित्तं नः प्रदित्ससि भवत्सन्यासवन्नूनं अस्मद्धितकरं धनम् | महानुभावसंपर्कः कस्य नोन्नतिकारणम् || अशुच्यपि पयः प्राश्य गंगांयाति पवित्रता भागवत् संगतेर्नान्यः पुरुषार्थोऽमृतत्वतः पृच्छाम्यतोऽमृतत्वस्य साधनं स्यात् कथं धनम् सारेण यदि नामेयं पूर्णा स्याद्वसुना महीतावताप्यमृताऽहं स्यां किं वा नेत्युच्यतां यथा इत्येतानि सुखबोधानि | द्रव्यं मोक्षसाधनं न वेति प्रश्नो यद्यपि तथापि द्रव्यसाध्या क्रिया मोक्षसाधनं न वेत्येवं परं द्रष्टव्यमित्यत्र हेतुमाह सत्तामात्रोपकारीणि धनानिनान्नविक्रिया द्वारोपकारीणि | यतोऽतः पृच्छ्यते क्रियेति प्रत्याह पृष्ठः स्वाभार्यायां न अमृतत्वं धनादिति | वित्तं चेन्नामृतत्वाय कस्माद्दित्ससि तद्भवान् इति मृतत्वसंप्राप्तिः ज्ञानमात्रैकहेतुका न कर्मकारणमुक्तेः प्. ३९२) नाग्निस्तापस्य भेषजं कर्मभ्यो जन्मनीयत | जन्म चेन्निवृत्तिः कुत इत्येतानि सुखबोधानि यदि वित्तसाध्यं कर्म नामृतत्वसाधनं | किं मम वित्तेनेत्यभिप्रेत्य उपालंभं करोति स्वभावादेव साधूनां प्रवृत्तिरूपकारिणी अपकारिण्यपि जने किमु भक्तजनं प्रति नूनं ममापराधोयं यद्भवन्तोऽपि मां प्रति प्रतिलोमं चिकीर्षति कोऽन्यः स्याद्धितकृन्मम अनुरक्तां प्रियां साध्वीं बध्वा वित्तेन मां कथम् कामोच्छित्तिमकृत्वा च सन्यसन्ति भवद्विधाः इत्येतान्युपालंभवार्तिकानि सुखबोधानि ननु वित्तमप्यमृतत्वसाधनं तेन तद्दित्सितमिति चेत् तत्राह- वित्ताच्चेदमृतत्वं स्यात्तत्त्रित्यक्षा न युज्यते | वित्ताच्चेन्नामृतत्वं स्याद्वदतेन ममापि किं इति | एवमुपालंभेन तर्केण च भर्तारं वशीकृत्य विनयेनाह- यद्यस्त्यनुजिघृक्षैवं करुणा वा मयीष्यते | यदेव भगवान् वेद तेन संविभजस्वमाम् यद्विज्ञानात् परित्यज्य निश्शेषं वित्तसाधनं प्. ३९३) स्वाराज्यमीप्सति भवान् तदेव वसु देहिमे | नादिर्नान्तो न मध्यं वा यस्य वित्तस्य विद्यते भोगेन न क्षयं याति तदेव वसु दीयतां अनन्तवित्तो हि भावानन्तवद्दीयते कुतः असतः कीदृशं दानं सदेवातः प्रदीयतां इत्येतानि विनयोक्तवार्तिकानि सुबोधानि अवित्तस्य ब्रह्मज्ञानाधिकारस्तव वैराग्यं नास्तीत्याशंक्य वित्तं मया दित्सितं तव वैराग्यमस्तीति ज्ञातं तस्मात् ज्ञानमुपदिशामि वैराग्यकथनपूर्वकमित्याह- संसारपुरुषार्थेभ्यो यतो नाप्युत्थितात्मने मुक्त्यैकसाधनं ज्ञानं दातुं शक्यमिदं मया अमुमुक्षुत्वमाशंक्य भवत्येतत् प्रदित्सितं संसाराच्चेद्विरक्तासि गृहाणानुत्तमामृतं इति | इदानीं मैत्रेययाः संसारात् वैराग्यमालक्ष्य तुष्टः तां स्तौति चतुर्भिर्वात्तिकैः तानि लिख्यन्ते स्त्रीणां यदुचितं वाक्यं प्रतिलोम नभाषसे पूर्ववत्त्वनुकूलं त्वमिदानीमपि भाषसे मोक्षं यान्तं नरं सर्वे मुञ्चन्ति सहजा अपि प्. ३९४) अति भक्ततया मांत्वं मोक्षेपि न जिहाससि विभाममसहन्ती च मदतिस्नेहकारणात् मुक्तावदनुयियासित्वं मदैकात्म्यपरीप्सया | अतिस्नेहापकृष्टोमा देहार्धं शूलिनः श्रितात्वं तु सर्वात्मनात्मानं कृत्स्नं मामाप्तुमिच्छसि इति | यतो मोक्षेच्छा तवाऽतो मद्वाक्यानि त्वं एकाग्रतया शृण्वित्याह- यत एवमतस्तुभ्यं वक्ष्याम्यमृतसाधनम् | निदिध्यास स्वचेतेऽतो व्याचक्षाणस्य तन्मम न वा अरेऽपत्यं कामायेति वाक्यस्य तात्पर्यार्थं कथयति- आब्रह्मणोऽस्मात् संसारात् शुद्धधीर्न विरज्यते यावत्तावन्न विद्याया अधिकारी भवेन्नरः वैराग्यहेतावप्यस्मिन् रक्तो धर्मादिहेतुतः यतोऽतः कर्मशुद्धात्मा भवादस्माद्विरज्यते वैराग्यहेतून् संसारे तस्माद्यत्नादियं श्रुतिः न वा आर इति ह्युक्त्या वक्तुं समुपचक्रमे | इति | अयमर्थो वार्तिकत्रयस्य यद्यपदृष्टनष्टस्वभावत्वात् स्वतोऽयं प्रवरश्चावैराग्यहेतुः तथापि धर्मभोगवासनाबलात् प्. ३९५) तस्मिन्न यः पुरुषो रक्तस्तत्र कर्मभिः शुद्धसत्वस्य वैराग्यसिद्धये संसारासारत्व प्रतिपादनाय न वा अरे इत्यादिवाक्यमिति कर्मणां शुद्धिसाधनत्वमभिहितं केन प्रकारेणानुष्ठितं शुद्धिसाधनमिति | ईश्वरार्पणबुद्ध्या अनुष्ठितमित्याह- यस्मिन्नेव परासक्तिस्तस्मिन्नेव निरादरः | कर्म कृत्वा परं यत्नात् अन्यस्यार्थयते फलं || इति | यत्र स्वर्गादौ फलेऽभिषंगोऽस्य संसारिणः तस्मिन्निरादरो निर्गतरागः सन् ईश्वरार्पणबुद्ध्या अग्निहोत्रादिकं कर्म कृत्वा शुद्धान्तःकरणो भूत्वा विरक्तोऽन्यस्य ज्ञानस्य फलमर्थयते शुद्धिद्वारेण ब्रह्मणिज्ञासुर्भवतीत्यर्थः | अस्या स्वार्थयत इति पाठान्तरं तस्यायमर्थः | अस्य पुरुषस्य यत्र स्वर्गादिफले यक्तिस्तत्र निदरः सन् कर्म कृत्वा शुद्धिद्वारेणास्य ज्ञानस्य फलमर्थयते अस्य कर्मण इति | केचित् निरादरमिति पाठे क्रियाविशेषणं | नन्वेवमनुष्ठित कर्मणोपि ब्रह्मविविदिषा न भवत्यदर्शनात् प्. ३९६) इति | तत्राह- किमिक्षो रसमाप्नोति यत्नान्निष्पीडयन्न नेति इक्षुरसवदित्युक्त्वाह- ईश्वरार्थं कर्म कुर्वन् तस्मिन् वा जन्मान्तरे वा तत्फलं ब्रह्मविविदिषामाप्नोत्येवेत्यर्थः || इदानीं संसारस्यासारत्वं शुद्धान्तकरणत्वं प्रति साधयति || वैराग्या यः तीव्रदुःखोद्भवो बुद्धौ संस्कारो यावदेव तु || तद्धि पक्षः सुखं तावदल्पः तत्क्षये क्षयः इति | यावदन्तः करणे सुखसाधनानुष्ठायायासदुःखानुवृत्तिः तावदेव मोदकादिचर्वणादिहेतुकः सुखमल्पमनुवर्तते | तद्विरोधि तदप्यल्पं सुखदुःखक्षये क्षीयते तस्मादसारतः संसारे विद्यमानस्य सुखस्याल्पत्वात् दुःखानुविद्धत्वात् तस्यापि दुःखक्षये क्षयादिति | इदानीं सुखसाधमेव दुःखसाधनमेव दुःखसाधनं भवतीति अनवस्थितत्वं दर्शयति - वैराग्याय शीतमल्पं सुखं ग्रीष्मे तापोल्पं शिशिरे सुखम् प्. ३९७) तदेव दुःखकृद्भूरि तद्धेतोरनवस्थितेरिति | धर्माधर्मयोरुद्भवानुद्भव कालस्य अनियत्वादित्यर्थः शब्दादिविषयस्याप्रियत्वमपि अनवस्थितमित्याह- शब्दोस्ति नः प्रियः कश्चिदप्रियो वा स्वतस्तथा | रक्तद्विष्टमनो हेतु शब्दाद्यर्थौ प्रियाप्रियौ अविद्याजृम्भितत्वाच्चानात्मा सर्वोऽप्रियः इति स्वतोऽखिलो प्रियो नाम्ना प्रत्यङ्मोहैकहेतुलः इति | तर्हि प्रियत्वं कथमिति | तत्राह न कस्यञ्चिदवस्थायामात्मा लोके प्रियो मतः प्रियोप्रियश्च जायादिर्यथा नात्मा मुहुर्मुहुः इति | जायादेः स्वतो प्रियत्व मात्मार्थत्वेन प्रियत्वं दृष्टान्तेन साधयति- स्वत एवाप्रियो ह्यात्मा ह्यात्मप्रीत्यर्थसाधनात् जायादि स्यात् प्रियो भक्त्या वन्यक्यां कामुको यथा इति | आत्मनः स्वतः प्रियत्वाप्रियत्वसाधनफलमाह - निर्हेतुकीस्त्वतः प्राति रात्मन्येव यतस्ततः भाक्तं प्रियं परित्यज्य मुख्यं प्रियमुपाश्रयेत् इति विषयसुखतत्साधनयोरनवस्थितत्वे प्. ३९८) व्यासवाक्यमपि प्रमाणमित्याह- क्षयान्तानि च याः सर्वे पतनान्ताः समुच्छ्रयाः संयोगाविप्रयोगान्ता मरणान्तं च जीवितं इति | पूर्वत्र सुखसाधनस्य दुःखकृत्वमुक्तमिदानीं तदपि सुखकृदित्याह न तदस्ति सुखं लोके यन्न दुःखतरं भवेत् तदसंप्राप्तिविच्छेद क्षयेष्वसुखतुल्यतः इति | विषयसुखस्य दुःखत्वाप्रदर्शनफलमाह- एवं चेत्साधनोद्भूतं यावत्किञ्चित् सुखं मतम् | तन्निःशेषं परित्यज्य सुखमात्यन्तिकं श्रयेदिति | विषयसुखस्य दुःखत्वादेव विषयेषु प्रीतिं परित्यज्य आत्मन्येव निवेशयेदित्याह सांसारिकसुखस्यास्य दुःखत्वादुक्तहेतुतः निष्कृष्यातस्ततः प्रीतिं प्रतीच्येव निवेशयेत् इति | पूर्वत्र प्रपञ्चस्य अज्ञानकार्यत्वमुक्तं प्रत्यङ्मोहैकहेतुक इति | इदानीं तदेव दृष्टान्तेन साधयति- स्रजि दण्डादयो यद्वत् स्रगज्ञानैकहेतुकाः पतिजायासुताद्येवं प्रत्यगज्ञानहेतुकं इति | प्. ३९९) आत्मज्ञानत्वमात्रादुभयविधि पुरुषार्थसिद्धेश्च अनात्मप्रियं परित्यज्य आत्मन्येव प्रीतिं कुर्यादित्याह- सर्वानर्थनिवृत्तिं च सर्वाप्लदाप्तिरेव च | प्रतीचज्ञानमात्राच्चे दन्यत्तत् प्रार्थ्यते कथमिति आत्मनो प्रियानात्मनः प्रियहेतुत्वेन पुरुषार्थत्वादनात्मनश्च प्रियात्मनो प्रियहेतुत्वेन अपुरुषार्थ त्वाच्च आत्मन्युपादित्साबुद्धिमनात्मनि च जिहासाबुद्धिं कुर्यादित्याह- यस्य संबन्धमाश्रित्य ह्यप्रियोपि प्रियायते प्रियोऽप्यप्रियतां याति यस्य संगतिकारणात् | दृष्ट्वानुभवतस्तत्वं आत्मानात्मपदार्थयोः उपादित्सा जिह्वासा च तत्कृतैवानुपाल्यतामिति अत उपसंहरति- नानाप्रकारसंगोपिविषक्तो यस्य बाह्यतः यथोक्तकारणात् सर्वं प्रतीच्येव निवेशयेदिति | तस्मादनात्मसु वैराग्यं कुर्यादिति प्रकरणस्य तात्पर्यार्थः | ननु किमिति महता परिकरबन्धेन वैराग्यं साध्यते | तत्राह नरकादिव निर्विण्णो यावन्ना ब्रह्मणो नरः प्. ४००) न तावदधिकारोऽस्ति कैवल्यज्ञानवर्त्मनि इति | अतो विरक्तोऽधिक्रियत इत्याह- सर्वसंगतिनिर्मुक्तो मोक्षमात्रप्रयोजनः अतोऽधिक्रियते प्रत्यक् ज्ञानोत्पत्तौ न रागवानिति एवं न वा अरे पत्युः कामयेत्यारभ्य आत्मा वा अरे द्रष्टव्यः इत्यतः प्राक्तनो ग्रन्थो व्याख्यातः इदानीं आत्मा वा अरे द्रष्टव्य इत्यत्र आत्मपदेस्यार्थमाह- आत्मा प्रत्यक् प्रसिद्धेः स्यात्तत्रैवात्मानुभूतितः | इति | प्रमेयनिर्देश इति | एवं विधात्मनि प्रमाणं वेदितं दर्शनमित्याह | द्रष्टव्यं इति | तत्प्रमेति न तावल्लोक सिद्धात्मनि मानं मृग्यं तस्य ब्रह्मत्वे मानापेक्षा | तच्च मानं विहितमात्मनो ब्रह्मत्वं बोधयति | अतो अनेन तद्विधीयत इति | एतदाह- आत्मबुद्धिरियं तावत् सर्वेषां जायते स्वतः अप्राप्ता सर्वमात्मेति सैवातो धीर्विधीयते इति | सर्वशब्देन ब्रह्मग्रहणं ब्रह्मात्मत्वे ज्ञाते विधिरुताज्ञाते न तावत् ज्ञात इत्याह द्रष्ट्टद्रष्टव्ययोर्भेदे सत्येवं धीर्विधीयते | प्. ४०१) नियोज्य विषयाभेदे घटते न विधिर्यतः इति | आज्यप्रेक्षणादौ ज्ञातेपि विधिर्घटत एव भेदस्यानिवृत्तत्वात् प्रकृते पुनर्विषये ज्ञाते भेदाभावान्न विधिरिति भेदाभावं साधयति- उत्तरोत्तरभूयांसि नामादीनि यथाक्रमम् उपन्यस्यात्मयाथार्थ्यं तत्तत्वं प्राब्रवीच्छ्रुतिः भूम्नः स्वलक्षणं चक्रे यत्र नान्यादिति स्वयम् अथ यत्रेति चाल्पस्य प्राणान्तस्य च लक्षणमिति एषोऽर्थः - नामादिप्राणपर्यन्तं जगद्भूमाभिधः परमात्ममात्रं भूमाचाद्वयोऽतः कथं ज्ञातभूम्नो विधिरिति अपि च अथाऽतोऽहंकारादेश इति ब्रह्मणोऽहंतमुक्त्वाऽहंकारस्यापि बाधोऽदर्शि | ततो अथात आत्मादेश इत्यनेन अतश्च निरस्ताहंकारो ब्रह्म याथात्म्यज्ञानविहीनः कथं विनियोग्यः स्यादिति एतदाह | अथात इति वाक्ये नन्वहमेवेतीति निश्चिते निषिध्यानात्मरूपं यत् ततोऽहंकारनिह्नुतिः आत्मैवेत्यादि वाक्यो न पूर्ण ब्रह्मावबोधिनेति प्. ४०२) नाहंकारनिवृत्तिरेव फलमात्मैवेत्यादिति वाक्योऽज्ञानस्य अन्यदपि फलमस्तीत्याह- नाधिध्वस्तं तमो नास्ति न च ज्ञानमनुत्थितं नातिवृत्तं तथानर्थो नानवाप्तं सुखं तथा कार्यज्ञेयसमाप्तिः स्यात् प्रत्यग्याथात्म्यबोधतः इति | यथा छान्दोगे तथान्यास्वपि उपनिषत्सु एवं प्रमात्रादेरनात्मनः प्रत्यङ्मात्रैकयाथात्म्यं श्रूयते योपपत्तिकरीति बृहदारण्यकेपि सर्वस्यात्ममात्रत्वमुक्तमित्याह- इहापि नेतिवाक्येन प्रतीचो तत्स्वभावतः व्युत्थापितमनूद्याह सर्वमात्मेति न श्रुतिरिति सर्वमात्मेति वदतो वेदस्याभिप्रायमाह- भावाभावात्मना ज्ञानं न निषिद्धस्य वस्तुनः यतोऽत सर्वमात्मैव प्राब्रवीच्छ्रुतिरञ्जसा इति | एवं तावदलौकिकार्थ ज्ञानं न विधेयमित्युक्तमिदानीं लौकिकात्मज्ञानमपि न विधेयमित्याह- नाप्युत्थितमनाः कश्चित् प्रतीचोऽन्यत् प्रपश्यति व्युत्थितात्मापि चात्मानं पश्यन्नेवात्मन्यदीक्षते इति | अयमर्थः प्रतीचोनुत्थितमना अनुत्पन्नमनाः प्. ४०३) सुप्तादौ न प्रत्यगात्मनोऽन्यत् पश्यति येन विधिः स्यात् प्रतीचोप्युत्थितमनाः अप्यभिव्यक्तमना अप्यस्वात्मनो पश्यन्नेव अन्यत् पश्यत्यतो लौकिकार्थज्ञानस्यापि विधिं विना सिद्धत्वान्न विधिरिति वाक्यार्थ ज्ञाविधेयत्वे लौकिकप्रसिद्धार्थज्ञानस्य च कस्य तर्हि विधेयत्वमिति चेत् अन्वयव्यतिरेकाभ्यामात्मानात्म विवेचनस्येत्याह- स्वातन्त्र्यं यत्र कर्तुः स्यात्तत्र कर्ता नियुज्यते अन्वयव्यतिरेकाभ्यामात्मानात्मविवेचन इति | अत्र हेतुमाह- वचोऽर्थप्रतिबोधस्य पदार्थाज्ञानमेव तु यतोऽन्तरायस्तद्धानो तेन तत्र नियुज्यते | पदार्थज्ञानस्य वाक्यार्थज्ञानसाधनत्वं कथयति | एवं ज्ञातपदार्थः स यथापूर्वमचोदिषं ब्रह्म वा इदमित्यत्र न्यायेनैकार्थ्ययायिना निरन्तरायो वाक्यार्थः वाक्यादेवावगच्छति अव्यावृत्ताननुगत प्रत्यक्तत्वसमीक्षणात् इति | त्वंपदार्थज्ञानानन्तरमित्यर्थः | पदार्थ ज्ञानस्य वाक्यार्थज्ञान साधनत्वे गुरुअवचनं प्. ४०४) प्रमाणत्वेनोदाहरति- नित्यमर्थत्वविज्ञानं वाक्यादेवाञ्जसा भवेत् वाक्यार्थस्य च विज्ञानं पदार्थस्मृतिपूर्वकम् | अन्वयव्यतिरेकाभ्यां पदार्थं स्मर्यते ध्रुवम् एवं निर्दुःखमात्मानं अक्रियं प्रतिपद्यते || इति पदार्थज्ञानं वाक्यार्थज्ञानसाधनमित्युक्तं | तत्र इदमाशंक्यते- भवतु पदार्थज्ञानं वाक्यार्थज्ञानसाधनं तत्तु पदार्थज्ञानमन्वयाद्यपेक्षयेत्युक्तं तन्न घटते | स्वत एवासिद्धत्वादिति तत्राह- प्रत्यन्मो?हात् भावानात्मप्राधान्येन तमोन्वयात् आत्मात्मानं पुराज्ञासीत् वाक्यार्थज्ञानजन्मनः अनात्मतोऽत आत्मानं अन्वयव्यतिरेकतः निष्कृष्यात्मन्यथात्मानं सर्वमात्मेति पश्यतीति अन्वयव्यतिरेकव्यापारे विधिरज्ञातज्ञापनमेव न त्वदभिप्रेत इत्याह- अज्ञातज्ञापनं चातो विधिरत्राभिधीयते अप्रवृत्ताप्रवृत्तिस्तु न्यायाभावान्न चेष्यते इति अथवा यत उक्तप्रकारेण वाक्यार्थ ज्ञानेन त्वदभिप्रेतो विधिरित्येतत् अनेन उच्यते | प्. ४०५) ज्ञानस्य विधेयत्वमात्रे | तज्ज्ञानविषयस्य विधेयत्वमित्येतदाशंक्याह नित्यं न भवनं यस्य यस्य वा नित्य * * न्नता न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव | उत्पत्यादि स्वतो यस्य स्य चात्यन्तमेव न न क्रियानपेक्ष सिद्धत्वात् स्वतः सिद्ध तदुच्यत इत्येतत् पूर्वस्य प्रपञ्चः कस्य तर्हि क्रियापेक्षया सिद्धत्वं तत्राह- उत्पत्त्यादौ तु यच्छक्तं- तृमात्रमवेक्षते साफल्यं कर्मणस्तत्र तदभिव्यकृद्धि तदिति | पुनरप्यात्मतज्ज्ञानयोरविधेयत्वे हेत्वन्तरमाह | कार्यं कारण तन्त्रं स्यान्ततस्तस्यात्म लाभतः | अन्यकार्यमकार्यं च नान्यत् कारणमीक्ष्यत इति | अयमर्थः कार्यं तावत् स्वकारणतन्त्रं घटादि अन्यकार्यं प्रमाणवस्तु परतन्त्रत्वं ज्ञानमित्यर्थः तत् नान्यत् कारणमीक्षते इति विधिनापेक्षते | अकार्यमात्मवस्तु तदपि विधिनापेक्षत इति | आत्मज्ञानस्य आत्म तत्प्रमाधीनत्वं साधयति सर्वमात्मेति या बुद्धिः सा प्रमेयबलात् भवेत् प्. ४०६) प्रमातृतन्त्रा सा चेत्स्यात् प्राप्तालोकाग्निबुद्धिवत् इति | बलाच्चेत्यर्थः अत उपसंहरति- अतो पुरुषतन्त्रत्वान्नात्मज्ञान विधिर्भवेदिति तर्हि किं विधेयमिति तत्राह- अन्वयादि क्रियात्वस्य तत्तन्त्रत्वाद्विधीयते | श्रवणं मननं तद्वत् तथागमयमादि यत् पुमां * * * क्तोति तत् कर्तुं तस्मादेतद्विधीयते इति | अनुभवात्मनः सर्वप्रमाणफलत्वाच्च आत्मा न विधेय इत्याह- विशिष्टेहानुभूतिश्च सर्वमानफलं यतः फलं च विधेयं स्यादतो ह्वादं विधीयते इति | विशिष्टेति सत्यादिलक्षणेत्यर्थः पुनरपि लौकिकात्मज्ञानस्य अविधेयत्वं साधयति प्रमाणमप्रमाणं च प्रभाभासं च यद्भवेत् चैतन्याकारमेवैतत् प्रथते सर्वमेव तदिति सर्वज्ञानानामात्मप्रसादात् सिद्धेरात्मा सिद्धस्तज्ज्ञानं न विधेयत्वमित्यर्थः- नानाकारानुपादत्ते चैतन्याकारमेव सत् | प्रतीच्यव्यभिचार्येकं तदन्ये व्यभिचारिणः इत्येतत् पूर्वस्य प्रपञ्चः | ननु सुषुप्तादौ प्. ४०७) आत्मसंविदोऽपि व्यभिचारात् कथमुच्यते प्रतीच्येकं ज्ञानमिति | तत्राह (उत्पन्नमपि सत् ज्ञानं प्रमातृत्वाद्युपग्रहात् तदनुत्पन्नवत् भाति तदुत्पत्तेः पुरा नृणामिति) मात्रादिव्यभिचारेपि संविदव्यभिचारिणीमिथः कृत्स्नेपि जगति तदन्यव्यभिचारित्विति ननु संविंद्रूपश्चेदात्म ज्ञानासदोषत्पन्नमेव किमिति | तदर्थं श्रवणादिविधानमिति | तत्राह उत्पन्नमपि सत् ज्ञानं प्रमातृत्वाद्युपग्रहात् तदनूत्पन्नवद्भाति तदुत्पत्तेः पुरा नृणामिति यदा श्रवणाद्यनुष्ठानेन मातृत्वाद्युपग्रहपरिच्छेदं निराकरोति तदाऽखण्डाद्वय ब्रह्मज्ञानं पूर्वमप्युत्पन्नमेवेति मन्यते | इत्याह व्युत्पाद्यते यदा साक्षात् यथोक्तन्यायवर्त्मना उत्पन्नमेव विज्ञानं तदा प्रागपि मन्यत इति मात्रादिव्यभिचारेपि इत्यस्य प्रपञ्चः स्वस्वात्मिकैव सर्वस्य ब्रह्म स्याच्चिदतो व्यभिचारिणि इत्येतत् आत्मा द्रष्टव्य इत्यस्मात् स्वसामर्थ्यतः प्रतीयमानमर्थं दर्शयति | निराकरणाय प्. ४०८) आत्मेति तद्दृशोरेव शब्दस्तत् स्मृताविह प्रमातृक्रियया व्याप्तिर्द्रष्टव्य इति भण्यते शब्दान्तरोधतस्ताव दीदृगत्रोपजायते | श्रुतेरनुभवः साक्षात् इदानीं निराकरोति यथा वस्तु न वेति वा विचार्यमाणोऽनुभवो रूप्यशुक्त्यनुभूतिवदिति | ब्रह्मात्मनि प्रमात्रादिविभागज्ञानं शब्दसामर्थ्यात् प्रतीयमानं मिथ्या शुक्त्यादि रूप्यादि ज्ञानवदित्यर्थः | कथं मिथ्येति | तत्राह प्रमाणमप्रमाणं वा मेयसंगत्यसंगतेः || प्रमातृमेयभेदोत्र न तावद्गम्यतेमितेरिति | अयमर्थः यथार्थबोधकं प्रमाण मन्यथा बोधकमन्यथा बोधकमप्रमाणमिति | तावत् प्रमाणविदां स्थितिः ब्रह्मात्मनोरद्वयत्वात् न तत्र प्रमात्रादिविभाग ज्ञानं संभवत्यतः तत्र तज्ज्ञानं शब्दादापातेन प्रजायमानं मिथ्येति | स्वयंप्रभस्यैवात्मत्वाच्च आत्मनि तद्धीर्मृषेत्याह- प्रत्यग्धीमात्र गम्योऽर्थो यस्मादात्मेति निश्चितः इति धीशब्देन स्वरूपबोधो भण्यते यदि प्. ४०९) न स्वयं प्रभस्तदात्मत्वसक्तिरित्याह- प्रत्यग्धीगोचरो नोचेत् अनात्मासौ घटादिवत् इति | तत एव कल्पितं चेत्याह- ब्रह्मादिमध्यपातित्वं ततश्चास्य प्रसज्यते | इति | अतो न घटादिवत् प्रामातृज्ञानपरिणामगम्यत्वं आत्मन इत्याह- विभिन्नदृष्टी दृष्ट्याप्ति घटादेरिव नात्मनः इति | यद्यपि न बुध्यन्तरगम्यस्तथापि स्वेनैव स्वयं न गम्यत इति | नेत्याह न चाभेदेऽस्ति संव्याप्तिरैदिकादेव कारणात् इति | तर्हि आत्मान्तरगम्योऽस्तु | नेत्याह- न च द्रष्टात्मनोऽन्योस्ति द्रष्ट्रन्तरनिषेधनादिति आत्मानन्तरभावेपि न तेन गम्यत्वमित्याह न च दृष्टो द्वयोर्लोके द्रष्ट्टदृश्यत्वसंगतिरिति समत्वात् प्रदीपवदित्यर्थः | स्वेनैव गम्यत्वे दूषणान्तरमाह क्रियाविरोधः प्राप्नोति द्रष्ट्टस्वात्मसमीक्षणः इति | किं च स्वेन स्वयं गम्यश्चेत् स्वावगतेः नित्यसिद्धत्वात् सिद्ध्यर्थानर्थक्यमित्याहतद्दृष्टे नित्यसंप्राप्ते विध्यानर्थक्यसंगतिरिति प्. ४१०) संसारात्मत्वज्ञानस्य विधेयत्व दूषणान्तरमाह संसार्यात्मनि दृष्टेपि न च किञ्चित्प्रयोजनं अयमेव चोनर्थो यत्संसार्यार्थदर्शनमिति नन्वसंसार्थात्मज्ञानं विधेयमिति चेन्नेत्याह तदन्यस्थाप्रसिद्धेश्च कथं स्यात्तत्समीक्षणं अथ प्रसिद्धोऽसावात्मा तद्दृष्टिः किं न विधीयत इति | तथाविधात्मनि दृष्टेऽदृष्टे च न तत् ज्ञानविधिरित्यर्थः | संसार्यात्मनो लोकसिद्धत्वाच्च अनागमविधेयज्ञान गम्यत्वमित्याह- दृष्टदर्शनदृश्यानां प्रात्यक्ष्यान्नागमेक्षणं इति | ननु द्रष्टुरात्माऽन्यच्चेत्तत्र दूषणमाह द्रष्टुरात्मा पृथक् चेत् स्यात् पृथगात्मेति दुर्वचः इति | विभक्तस्यानात्मत्वं घटादिवदित्यर्थः | ननु संसार्यात्मापि न लोकसिद्धोऽतः तज्ज्ञानस्य विधेयत्वमिति | तत्राह न चात्मन्यप्रसिद्धे स्यात् संसारस्य प्रसिद्धता न ह्यप्रसिद्ध संबन्धी संबन्धः क्वचिदिष्यते इति | संबन्धशब्देनात्र संसारः कथ्यते प्. ४११) परतन्त्रत्वात् स च सिद्धो न तत्सिद्धिरात्म सिद्धिव्यतिरेकेण तत्तन्त्रत्वात् संसारस्य अत आत्मसिद्धिरंगीकार्येति | ननु संसारो नात्मगतः किं च तं करण इति | तत्राह न चेदात्मादिसंबन्धः संसारोऽयं समीक्ष्यते तं मुमुक्षुत्वमायान्तं कुतो हेतोरितीक्षतात् इति | संसारिज्ञानस्य अपुरुषतन्त्रत्वाच्च न विधिरित्याह- अनृतं त्रैविधिर्नेष्टो वन्ध्यापुत्रोद्भवे यथा मातृतन्त्रे तथैवायं न विधिः प्रत्यगीक्षणः इति | कथं संसारिज्ञानस्य अपुरुषु तन्त्रत्वमिति चेत् तद्दृष्टान्तेनोपपादयति | नानाद्रव्यसमायोगे वियोगे च घटात्मनः वियत्संपूर्णता नित्या वियत्सत्तेरवर्जनात् शब्दादिबाह्यसंबन्धे विभागे च तथाधियः प्रत्यक् चैतन्यसंबन्धो नित्यो नित्यात्मसाक्षिकः | इति | संसार्यात्मज्ञानस्य नित्यप्राप्तत्व कथनेन तज्ज्ञाने नियमविधिर्निराकृतो यद्यपि परिसंख्याविधिः संभवति ऐकात्म्य ज्ञाने तु जाते तज्ज्ञानस्यैव नित्यप्राप्तत्वात् प्. ४१२) न नियमविधिर्न परिसंख्याविधिरित्याह - यतोऽतः पक्षिकी प्राप्तिर्नेहास्ति | ऐकात्म्य दर्शने नियमः परिसंख्या वा तेन नेहोपपद्यत इति पूर्वस्य फलमनेनोच्यते | इति | के केचित् सिद्धवस्तुनिष्ठत्वे वाक्यस्य सापेक्षत्व प्रसंगात् तस्य मानान्तरयोगत्वात् विध्यर्थस्य तदभावात् विधिरभ्युपगन्तव्य इत्याह कर्मकाण्डे यथा मानं तथैवोपनिषत्स्वपि विधिरेवानपेक्षत्वात् सापेक्षा नाभिधा श्रुतिरिति | ब्रह्मैकत्वस्य सिद्धत्वेपि रूपाद्यभावेन मानान्तराविषयत्वात् अभिधानवाक्यस्य प्रमाणमुपपद्यत इति आह - मैवं मानान्तराप्राप्त सम्यगैकात्म्यबोधतः अभिधाश्रुतेः प्रमाणत्वं सुप्तोत्थापकवाक्यवदिति || ननु कथमैकात्म्यस्य मेयत्वं प्रमात्रादेर्भावात् तत्राह - अकारकैकात्म्य मात्रं मेयं वस्त्विष्यते यतः | तदन्यस्य यतो मानाद्व्यतिरेको न लभ्यते | इति | प्रामात्रादि विभागस्य मानासिद्धत्वात् कूटस्थाद्वयस्यमेयत्वं घटते इत्यर्थः | ननु ब्रह्मात्मनो प्. ४१३) व्यवधानमज्ञानातिरिक्तमस्ति तन्निवृत्तिर्विहितज्ञानात् अतस्तद्विधेयमिति तत्राह मुख्यैकात्म्यस्य चाज्ञानानान्तरं यान्तरं यतः | इति भवत्वज्ञानमेव व्यवधानं तन्निवृत्तिविहितज्ञानादिति नेत्याह- विधितन्त्रस्य कार्यत्वान्नाज्ञत प्रभविष्णुता इति कार्यत्वादित्य प्रमाणत्वादित्यर्थः | अतः प्रमाणज्ञानस्यैव अज्ञाननिवर्तकत्वं नान्यस्य | तदेतदाह- यथास्थितात्मवस्तूत्थ ज्ञानमुक्त्वा तमो हतौ नान्यो हेतुस्ततस्तस्मान्न त्रैयन्ते विधिः प्रमेति ननु विहितस्ये यत्यपि यागादिपदप्रामाण्यं प्राप्तं तथापि पुरुषेण विहितज्ञानस्य प्रामाण्यं क्रियत इति | तत्राह- नियोज्यस्य च नैश्चर्यं धीसम्यक्त्वं प्रतीष्यते तस्य मेयैकहेतुत्वात् नैव स्यान्मातृतन्त्रतेति सिद्धनिष्ठत्वे सापेक्षत्वेनामात्वमुक्तं तन्न घटत इत्याह- विधेरिवानपेक्षत्वं वेदान्तेष्वभिधा श्रुतेः अनृतं त्वत्र सामान्यात्तथातीन्द्रियबोधतः | प्. ४१४) अक्षाद्यविषयं प्रत्यक् स्वतः सिद्धेरसाधनम् अभिधा बोधयन्ति यन्नान्यत् किञ्चिदपेक्ष्यत इति | एतत् पूर्वस्य प्रपञ्चः रूपादि हीनत्वेन तस्य प्रत्यक्षायोग्यत्वात् विधिं नापेक्षते | अभिधाश्रुतिरित्यर्थः | सिद्धवस्तुनिविधिर्न ममेति तावदुपपादितन्नियोगेपि मात्वमसंबन्धग्रन्थे निराकृतं नियोगासंभवेन | तस्मादिष्टसाधन एव विधिपदयुक्तवाक्यस्य माश्चतित्याह- प्रसंगात् तस्माद्विधेः प्रमाणत्वं साध्यसाधनबोधने | अतीन्द्रिये तदन्येन ज्ञातुं शक्यं न तद्यतः इति | पुनरपि विधेरमात्वं दृष्टवस्तुनि सिद्धान्तेन साधयति || साध्यसाधन संबन्धो न शक्योऽभिधया यथा प्रतिपत्तुं स्वतः सिद्धौ शक्या विधिगिरा तथा इति | भावनाभावाच्चात्र न विधिरित्याह ऐकात्म्यस्य स्वतः सिद्धेर्न क्रियापेक्ष्यते ततः ततश्च भावनाभावो भावनायाः क्रियाश्रयात् विरहे भावनायाश्च न विधेस्तत्र मानतेति | प्. ४१५) अयमर्थः | यत्र क्रिया तत्र भावनानुष्ठानमित्यर्थः | यत्रानुष्ठानं तत्र विधिरतो न सिद्धवस्तुनि विधेर्मात्वमिति | अतो विधिरहित वाक्यस्यैव सिद्धवस्तुनि मात्वमित्याहस्वतः सिद्धार्थबोधित्वा दभिधायास्तु मानता इति | पुनरपि विधिप्रवेशनाय चोद्यमुद्भावयति वार्तिकद्वयेन | तल्लिख्यते सापेक्षत्वादमानं चेदभिधा लोकवन्मता अभिधातत्वमन्यादि सरित्तीरफलोक्तिवत् संहत्यनुपपत्तिश्च पदानामभिधा श्रुतौ आख्यातपदहेतुत्वात् सर्वत्र पदसंहतेरिति क्रियापदमत्राप्यस्तीत्याह- नाख्यातपदसद्भावात् स्यादेव पदसंहतिः अस्य स्याद्व्याख्यात मस्त्ये बहाभिधा श्रुताविति सरित्क्षीरवाक्यस्य सापेक्षत्वं युक्तं | तदर्थस्य प्रत्यक्षसिद्धत्वात् न तद्वाक्यादेव तत्सिद्धिरित्याह- वार्तिकद्वयेन तल्लिख्यते सरित्तीरफलानीति | युक्ता पेक्षाभिधा श्रुतेः- प्रत्यक्षमानग्राह्यत्वात् फलतीरार्थसंगते | प्. ४१६) प्रत्यक्षग्राह्य एषोऽर्थो न तदन्यः प्रमाणतः यतोऽतो नागमादेव तादृशेऽथेस्ति निश्चितिः इति | ननु तदन्यप्रमाणक इत्यस्यायमर्थः फलतीरसंगत्यार्थो न केवलवाक्यगम्य इति ऐकात्म्यस्य तु सिद्धिरागमादेव | तस्य रूपादीह नेत्वेन प्रत्यक्षाद्ययोग्यत्वादित्येतदाह अपूर्वादिवचोऽर्थे तु न प्रत्यक्षाद्यपेक्षते प्रत्यक्षाद्यप्रमेयत्वादैकात्म्याख्यस्य वस्तुनः इति | यद्यपि कर्मज्ञान वाक्ययोः विरुद्धसाध्यविषयत्वेन वैलक्षण्यमस्ति तथापि प्रामाण्यकारणस्य उभयत्र तुल्यत्वात् तत्वमादिवाक्यानां ब्रह्मणि प्रामाण्यं को निवार येदित्याह वार्तिकद्वयेन | तल्लिख्यते अपौरुषेयवाक्यत्वं समानमभिधा श्रुतेः अतीन्द्रियार्थबोधित्वं समानश्चोदनोक्तिभिः सिद्धसाध्यप्रमेयत्वभेदो यदि परं तयोः प्रामाण्ये त्वतशीतिस्तु न काचिदपि दृश्यते इति | ननु प्रमैवात्र नोपजायते कथमिति शयाभाव इति तत्राह प्रमोपजायते तावदहं ब्रह्मेत्यलौकिके | प्. ४१७) तत्वमस्याति वाक्येभ्यः श्रवणात्समनन्तरं किं च विधिवाक्यस्यापि प्रमोत्पादकत्वेन प्रामाण्यं तदत्राप्यस्ति चेत् किमित्यप्रामाण्यमित्याह - एवं चेदप्रमाणत्वं किमितीहाभिधा श्रुतेः विधेरपीह मानत्वं नोक्तं न्यायातिरेकतः इति | किंच प्रत्यक्षादेरपि स्वार्थबोधसामर्थ्यात् प्रामाण्यं तत्समादेरपि तदस्त्यतः किमित्य प्रामाण्यमित्याह- स्वशक्तिः सर्वमानानां यथा वस्त्ववबोधने अभिधायाश्च सास्त्येव किमिति स्यादमानतेति ननु यदि रूपादिहीनत्वात् प्रयक्षायोग्यं ब्रह्म तथापि अनुमादियोग्यं तस्माद्वचोऽनुमाद्यपेक्षमिति | नेत्याह- नाप्यर्थेऽतीन्द्रिये सिद्धे मानं लिंगाद्यपेक्षते इतिं | ननु अयमाद्यप्रत्यक्षमपि ब्रह्म योगि प्रत्यक्षगम्यं ततस्तदपेक्षं तत्वमादिवच इति नेत्याह योगिप्रत्यक्षमानं वा तयोरविषयत्वत | अविषयत्वे हेतुमाह नेतीत्यस्थूलमित्यादि वाक्यात् योऽर्थो अभिगम्यते योगिप्रत्यक्षगगम्योयं प्. ४१८) न तत्प्रत्ययहेतुत इति | श्रुत्यर्थानुमानादेरात्मनः स्वरूपत्वात् न तद्योग्य आत्मेत्यर्थः | उभयविधप्रत्यक्षायोग्यत्वात् नानुमागम्य इत्याह- प्रत्यक्षानवताराच्च नानुमानेन मीयते धर्मधर्माभिसंबन्धे नागृहीतेऽनुमायतः इति | ननु यद्यपि इदानीन्तनानां प्रत्यक्षा योग्यं ब्रह्म तथापि युगान्तरवर्तिनां प्रत्यक्षयोग्यं ब्रह्म तत्प्रत्यक्षस्यातिशय संभवादित्याह यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थ दर्शनं भवेदिति लोकस्य तथा कालान्तरेप्यभूदिति नन्विदानीमपि मार्जारादिप्रत्यक्षस्य अतिशयो दृश्यते अस्मदादि प्रत्यक्षादेवं योग्यादिप्रत्यक्षस्यातिशयसंभवात् ब्रह्मविषयत्वमित्याशंक्याह- यत्राप्यतिशयो दृष्टः स स्वार्थानतिलंघनात् दूरसूक्ष्मादि दृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता इति | एवमुक्तप्रकारेण योग्यादिप्रत्यक्षाद्यविषयत्वात् ब्रह्मणः तद्ब्रह्मणि प्राप्तमपि प्रकाश्यति ब्रह्मेत्याह- योगिप्रत्यक्षमानादेः प्. ४१९) योगिप्रत्यक्षमानादेर्न चेदैकार्थ्यमेयता तत्प्राप्तमपि किं कुर्यात् स्वात्मायोग्यासु भूमिषु | इति | उक्तप्रकारेण यथा प्रत्यक्षाद्यविषयस्तथा विधेरप्यविषय इत्याह- अक्षादिमेया सारूप्यादैकात्म्यस्थान तत् प्रमं यथा विधेयासारूप्यं नैकात्म्यं स्यादतस्तथा विधेस्तथेति किं च ब्रह्मज्ञानविधिस्त्वयेष्यते ब्रह्मणः प्रमान्तराविषयत्व प्रसाधनाय तच्चेत् सिद्धत्वेन प्रमान्तरयोग्यम् विधिनापि तन्निराकर्तुमशक्यमित्याह- संभाव्यते चेदक्षादि व्यैकात्म्यार्थे फलादिवत् न तद्वारयितुं शक्यं लोके विधिशतैरपीति | एवं तत्वमादिवाक्यस्य अनपेक्षत्वमुपपाद्य विधिवाक्यस्यैव सापेक्षत्वमित्याह- नासमीक्ष्य स्वसामर्थ्यं पुमान् विधिशतैरपि प्रवर्ततेऽनपेक्षत्वं कुतो विधिवचः स्वतः इति शक्तिसापेक्षणे व्यतिरेकसिद्धान्तमाह- अवाक्येषु नियुक्तोपि कृष्णलाजूपयेदिति न तचक्तिं विना कश्चित् पुमांस्तत्र चिकीर्षति एवं चेदनपेक्षत्वं विधेः किमिव भण्यते प्. ४२०) इति | तस्माच्छक्त्यपेक्षया विध्यर्थप्रवर्तनान्नानपेक्षत्वं विधिवाक्यस्येति | किं च भावनामपि विधिरपेक्षत इत्याह- न भावनानपेक्षोसौ विधिस्तस्मात् प्रवर्तते न त्रयापेक्षा तत्वमादेरित्याह- न भावनान्तरमियं न च मानान्तरं तथा | अपेक्ष्याभिधयैकात्म्यं अबबोधयति श्रुतिः इति पुंसो ज्ञातृशक्तिसापेक्षत्वमुभयत्र साधारणं करणशक्तिसापेक्षत्वं भावनापेक्षत्वं मानान्तरापेक्षत्वं च तत्रातिशयो नियोगस्य जडत्वेन तत्र मानान्तर संभवादन्यथा शक्तिग्रहायोगात् आत्मनः स्वयं प्रकाशत्वेन मान्तराभावादिति || अत उपसंहरति- अतोऽनपेक्षता युक्ता सर्वदैवाभिधा श्रुतेः इति | तर्हि शक्तिग्रहणापेक्षापि न स्यादिति चेन्नेत्याह- अभिधानाभिधेयार्थ ज्ञानमेव व्यपेक्षते इति विहितज्ञानस्य अप्रमाणत्वेन प्रमेयासाधकत्वाच्च न ज्ञाने विधिरित्याह- प्. ४२१) ज्ञातृक्रिया प्रमातृस्था न यथावस्तु बोधकृत् प्रमेयकर्तृकैवासौ यथा वस्त्ववबोधिनी उक्तमेवार्थं दृष्टान्तेन साधयति- न चान्यदीयव्यापारे ह्यन्यो शक्तेर्नियुज्यते | न ह्यग्निसाध्ये शोषादौ नियोगो घटतेऽंभसः इति | ननु जीवस्य ब्रह्मभेदोऽविद्याकृतो विहितज्ञानान्निवर्तते अतोपेक्षेति नेत्याह ब्रह्मणोऽविद्ययायोपि स्यादवच्छेद आत्मनः तदवच्छेदविध्वस्तौ न साधनमपेक्षते | इति ननु भेदो नाऽविद्याकृतः किन्तु परमार्थ इत्याशंक्य आह- अवच्छिन्नयाथात्म्यं अब्रह्मैकात्म्यादविद्यया अवच्छिन्नवदाभातिः क्षेत्रज्ञो रज्जुसर्पवदिति भवतु भेदश्रमविद्याकृतः ज्ञानान्निवर्तते इति | नेत्याह न चाविद्या निरास्यात्र प्रत्यग्याथात्म्यबोधतः साधनं किञ्चिदापेक्ष्यं स्वर्गयागदिवस्त्वस्त्वचिदिति | ननु यद्यप्यसाध्यं किञ्चिदपि नास्ति तथापि विहितज्ञानेन भाव्यं प्रति यत्नाभावादिति नेत्याह- न चापि मध्यया वृत्या साध्ये सति जगत्यपि किञ्चित्साधनमित्येवं भण्यते लोकवेदयोः प्. ४२२) इति तस्मात् साधनस्य साध्येन भवितव्यमिति तत्राह साध्यं च लोकतः सिद्ध मुत्पत्यादिचतुष्टयं इति | तत्प्रमाणस्यापि साधनत्वात्तेषां अन्यतम साध्यं नेत्याह- प्रमाणस्य न तत्कार्यं सिद्धार्थं व्यञ्जकत्वतः इति | ननु ज्ञानमभ्यस्यमानमविद्यां निवर्तयति अतो अभ्यासापेक्षा अतो विधिरिति | नेत्याह नात्मलाभातिरेकेण व्यञ्जकस्य मनागपि संभाव्यते परं रूपं अज्ञातत्वापनोदकृदिति प्रमाणज्ञाने तद्द्योत्यते च विचित्तिर्निरस्त स्वरूपज्ञानेपि तदपाकुर्वन्नाह आत्मा सामान्यरूपोत्थः न चाभूतो न जायते घटादिज्ञानवत् ज्ञानं भिन्नहेत्वनपेक्षते इति | भिन्नहेत्वनपेक्षत इत्येतत् कुतः तत्राह स्थास्वनुभवमात्रत्वात् कार्यकारणवस्तुनः अभूतभूतिर्नैवातो युज्यतेऽनुभवात्मनि इति | किञ्चः ब्रह्मविदस्त्वया विधिरुच्यत इति ब्रह्मजिज्ञासा यदि जिज्ञासोस्तदापि श्रवणादावुत यानाद्यनुष्ठाने यदि श्रवणादौ तदा न वारयामो यदि यागाद्यनुष्ठाने प्. ४२३) तन्न घटत इत्याह- प्रात्यगज्ञान हेतुत्थ भावनेयं न तु स्वतः प्रत्यग्याथात्म्यजिज्ञासोः कथं सा विषयो भवेत् | इति | भावनेति विधिप्रयुक्ता योगा द्यनुष्ठानमुच्यते ब्रह्मजिज्ञासोर्न साध्यफल यागादो व्यापारः तत्फलार्थित्वाभावात् शुद्धेश्च निवृत्तत्वात् किन्तु ज्ञानसाधनश्रवणादावित्यर्थः नापि ब्रह्मविदो विधिरित्याह- क्रियाकारकभेदोयं अज्ञातैकात्म्य वस्तुनः तज्ज्ञानेऽसावसंभाव्यः तद्धेतूच्छित्तिकारणात् इति | अथवा वार्तिकद्वयं ज्ञानविषयमेवात्र पक्षे जिज्ञासोरिति ज्ञानिन इत्यर्थः | ज्ञानात् तद्धेतूच्छित्ति रसिद्धेति | तत्राह- न चाविद्यासमुच्छित्तिर्ज्ञानोत्पत्त्यतिरेकतः इति | ज्ञानादेव अविद्यानिवृत्तिरित्यर्थः भवतु ज्ञानादविद्या निवृत्तिस्तत्कार्य निवृत्तिज्ञानाभ्यासादिति | नेत्याह संसारनाशाविद्याया नाशान्न व्यतिरिच्यते इति | ननु कारणसंसर्गः कर्मनाश एवं अविद्यानाशोपि इति चेन्नेत्याह- प्. ४२४) न चाप्यविद्यानाशोत्र संसर्गः करणात्मनि तद्ध्वस्ते वस्तुवृत्तत्वात् मृदि लोष्टादिनाशवत् | मृदि लोष्टादिनाशवन्नाविद्यानाशः | किन्तु कार्यकारणविलक्षणात्ममात्रमित्यर्थः | अत एव सदाविद्या निवृत्तेत्याह- आदायावास्तवं वृत्तं ज्ञानमज्ञाननाशकृत् | वस्तुयाथात्म्यवृत्तेन ततो वस्तूयते सदेति | विदुषस्तथा अनुभवादित्यर्थः || यतः उक्त प्रकारेण प्रवर्तनात्मको विधिरत्र न घटते अतो बुद्धबोधनमेव विधिरित्याह अज्ञातज्ञापनं तस्मात् विधिरत्रोपपद्यते अकृतस्य क्रियात्वत्र विधिर्नैवोपपद्यते इति | अत्र केचिदविद्याद्वैविध्यमिच्छन्ति कथमाच्छादिका विक्षेपिका चेति अत्र आच्छादिका निवृत्तिज्ञानजन्ममात्रादेव विक्षेपिका विद्यानिवृत्तिविहित ज्ञानादतो विधिरभ्युपगन्तव्य इति | तत्राह- द्वैविध्यं चाप्यविद्याया न च युक्त्यावसीयते ऐकात्म्यवस्तुमात्रत्वात् अविद्यैकैव युज्यते इति | एतमर्थं दृष्टान्तेन साधयति- प्. ४२५) प्रमेयभेदभिन्नत्वं ज्ञानानामिव भेदकः नाविद्याया यतोऽस्तीह द्वैविध्यं तेन दुर्घटमिति तस्मादत्र ज्ञानमेकं अज्ञानं चैकमेवेति नन्वात्माज्ञानमात्मज्ञानमाच्छादयत्येव न जगत्कारणं एकस्य द्विकरत्वा संभवादतो जगत्कारणत्वेन अज्ञानान्तरमप्युपगन्तव्यमिति | नेत्याह- प्रत्यगज्ञानमेवेह तदन्यद्वस्तु कारणम् तदन्यकारणासत्वात् द्वैविध्यं तमसः कुतः इति - मायाभिः मायां तु प्रकृतिं विद्यादित्यादि वाक्येभ्यः प्रत्यगज्ञानस्यैव कारणत्वं गम्यत इत्यर्थः ननु आत्मनो मुक्तिज्ञानाभ्यासादतो विधिना भवितव्यमिति | नेत्याह- न चाभ्यासाद्यपेक्षापि स्वतो मुक्तत्वकारणात् न घटादेर्घटत्वादि घटाद्यभ्याससंश्रयमिति अयमर्थः- सत्यं यदि संसारं परमार्थ आत्मनो नित्यमुक्तत्वात् आत्मनः संसारित्वमविद्याध्यारोपितं अतो नित्यमुक्तस्य मुक्तोहं मुक्तोऽहमिति अभ्यासान्मुक्तत्वं न भवेत् यथा घटो घटः पटो पटः इत्याद्यभ्यासान्न प्. ४२६) घटादेर्घटत्वमेवं | इति | किञ्च सविषयं साकारं च ज्ञानमभ्यस्यते | यथा गरुडादिज्ञानं परमात्मनः | पुनरभ्यासकर्तुः स्वरूपत्वेन अविषयत्वात् अरूपमिति च आकारप्रतिषेधादात्मज्ञानमविषयं अनाकारं च अतः तज्ज्ञानाभ्यासः कर्तुः न शक्यते | कथं तत्र विधिरित्यभिप्रेत्याह- न चाविषयवज्ज्ञानमनाकारं च भाव्यते भावतः प्रत्यगात्मत्वा दाकृतेश्च निषेधत | इति | ननु यथा ज्ञानं तथाभ्यासाविति चेन्न प्रमात्रादिविभागोपमर्देन तदुत्पत्तेराकृतिनिषेधादेव प्रत्यक्षाविषयं चेत्याह नेन्द्रियेण ग्रहोऽस्यास्ति शब्दाद्यर्थानुपातिना इति | ननु यथा रागादेर्नीलाद्याकाराभावेपि मानसप्रत्यक्षत्वमेवं आत्मनोपीति | नेत्याह दुःखादिवच्च नैवात्मा षीते स्वार्थैकरूपतः इति | स्वयं प्रकाशत्वात् स्वतन्त्रत्वाच्चेत्यर्थः विहितज्ञानाभ्याससंयुक्तं अन्तःकरणं मुक्तिसाधनं अतो विविधा भवितव्यमिति केचित् तन्निरासार्थमाह- प्. ४२७) भावनोपचितञ्चेतो न च कैवल्यकारणम् | तस्येहैव समुच्छेदात्तद्धेत्वज्ञानहानतः इति | कैवल्यस्योपादानकारणं न तथाविधं चेतः तस्या ज्ञानकारणत्वेन तन्निवृत्तौ निवृत्तेर्मुक्तिकाले भावादित्यर्थः इतश्च नोपादानकारणं चेत इत्याह- स्वकार्यार्थानुगामित्वं भावना ज्ञानकर्मणां अकार्यकारणात्मत्वात् कैवल्येनुगतिः कुतः किं च अपरोक्षतया आत्मन्यन्वगते अभ्या सगतिरुतानवगतेनोभयथापि विधिभिरित्याह- साक्षादात्मप्रसिद्धौ वा नाभ्यासस्तत्फलस्थितेः ज्ञानाभावादसिद्धौ च क्वन्वभ्यासव्यपेक्षणा इति | ननु सकृदुत्पन्नं ज्ञानमज्ञानं निवर्तयितुमलं अतोऽभ्यासेन भवितव्यमिति | नेत्याह आत्मा सामान्यरूपोत्थं ज्ञानमज्ञानमात्मनि सकृज्ज्ञातं न चेद्धन्ति ज्ञानमेव न तद्भवेदिति ज्ञानाज्ञानयोरेकाश्रयत्वाच्च ज्ञान उदिते अज्ञानं बाध्यमेवेति इत्याह- सम्यक् ज्ञानं यदाश्रित्य तन्मोहोपि तद्राश्रयः प्. ४२८) अबाधितं तमोक्रान्त इत्युक्तिर्जडवक्तृता इति | एवमाद्यच्च विधिनिराकरणाय संबन्धग्रन्थादौ तत्र तत्रोक्तमनुसन्धेयमित्याह इत्येवमादि यच्चोक्तं पूर्वमेवातिविस्तरात् तत् कृत्स्नमनुसन्धेयम् | सर्वापहकरहानिकृदिति | यत एवमुक्तप्रकारेण विधिर्न संभवति तस्मात् आत्मा वा अरे द्रष्टव्य इत्येतत् वाक्यं सर्वस्यात्ममात्रत्वावबोधकं इत्युपसंहरति- सर्वमात्मेत्यतः पश्येदात्मानात्मविभागवित् आत्मा द्रष्टव्य इत्युक्त्वा ह्येषोर्थोऽत्राभिधीयते इति | द्रष्टव्य इति दर्शन ज्ञानफलमत्र प्रतीयते अतः सर्वमानप्रसक्तौ तन्निवृत्त्यर्थं वेदान्ता एव प्रमाणमिति प्रतिपादनाय च उत्तरं वाक्यमित्याह- दर्शनस्याविधेयत्वात्तदुपायो विधीयते वेदान्तश्रवणं यत्नादुपायस्तर्क एव चेति किं तच्छ्रवणमित्याह- श्रुतिलिंगादिको न्यायः शब्दशक्तिविवेककृत् इति श्रुत्यादिभिः वेदान्तवाक्यानां ब्रह्मात्मनि प्. ४२९) तात्पर्यनिरूपणं श्रवणमित्यर्थः | तत्र प्रत्यक्षादिविरोधपरिहारेण आगमार्थस्य ब्रह्मात्मनो विनिश्चयाय मननमित्याह | आगमार्थविनिश्चित्यै मन्तव्य इति भण्यते किं तन्मननमिति चेत् आद्यन्तवत्वादिहेतुभिर्द्वैतस्य मिथ्यात्वोपपादनं अथवा आचार्यं पुरतः कृत्वा ब्रह्मात्मनि वेदान्तानां तात्पर्य निरूपणाविरोधचिन्ता फलचिन्ताश्रवणमाचार्यादधिगतानां तात्पर्यादीनामाचार्यनिरपेक्षं स्वबुद्ध्यैव निरूपणं मननमिति वेदान्तवाक्यं वस्तु परं न भवतीति रूपासनानि योगपरमिति केचित् तदपि निराकृतं मननविधानादित्याह- वेदशब्दानुरोध्यत्र तर्कोपि विनियुज्यते इति | तर्कस्य कुत्र व्यापार इति | तत्राह वाच्यवाचकसंबन्ध नियमे तस्य हेतुतेतित्वं पदवाच्यं न शरीराद्यहंकार पर्यन्तं किन्तु कूटस्थबोधः प्रत्यगात्माऽद्वयः तत्पदवाच्यमपि न प्रधानादिनापि स्वयुक्त्या परिकल्पितं सप्रपञ्चं तत्वं नापि परोक्षं प्. ४३०) किन्तु अद्वयनिरतिशयानन्दरूपं प्रत्यग्भूतमित्येवं विधवाच्यवाचकनियमे तस्य व्यापार इति | निदिध्यासन पदस्यार्थमाह अपरायत्तबोधोऽत्र निदिध्यासनमुच्यते इति | अपरायत्त बोध इति | ज्ञानसाधनमेव मानाख्यमत्रोच्यते | द्रष्टव्य इति ज्ञानस्योक्तत्वात् अपरायत्तत्वं च तस्य मनोरथादिव्यापारनिरोधस्य अयत्नसाध्यत्वात् कृतश्रवणमननेन साक्षात् वाक्यार्थावबोध एवापरायत्तबोध इत्यन्ये अस्मिन् द्रष्टव्य इति दर्शनं तत्फलं निश्चयः स्याद्विचारप्रयोजकज्ञानं वा निदिध्यासनोपन्यासः किमर्थस्तत्राह- पूर्वयोरवधित्वेन तदुपन्यास इष्यते इति अवधिं दर्शयति- श्रवणादिक्रिया तावत् कर्तव्येह प्रयत्नतः यावद्यथोक्तं विज्ञानं आविर्भवति भास्वरं इति | यावदहं ब्रह्मास्मीति निश्चयफलज्ञा नोत्पादः तावत् श्रवणमनने कर्तव्ये इत्यर्थः दर्शनादेः क्रमं दर्शयति- आगमाद्दर्शनं पूर्वं आगमाचार्यतोमते | प्. ४३१) त्रयाणामपि संगानां शास्त्राचार्यात्मनां स्थिरं इति | आगमाद्दर्शनमित्यस्य अयमर्थः | अधीतवेदस्य विचारप्रयोजकज्ञानमुत्पद्यते इति | आगमाचार्य इत्यस्य अयमर्थः अथवा प्रत्ययसंगतेरित्ययमर्थः दर्शनं स्थिरं भवति विचारप्रयोजकमागमात् दर्शनमित्यस्य अयमर्थः | तदन्तरं मतिं मनमनुतिष्ठतेति | त्रयाणामित्यादेरयमर्थः आत्मशब्देन मननमुच्यते | त्रयाणां संगानां श्रवणमननयोः परिपूर्णानुष्ठानादन्तरमित्यर्थः | अथवा प्रत्ययसंगतेरित्ययमर्थः दर्शनं स्थिरं भवति विचारप्रयोजकमागमात् प्रथममुत्पन्नं असंभावनादिभूतविषयत्वात् अस्थिरमिव व्यवस्थितं वाक्यार्थज्ञानं तयोः श्रवणमननाभ्यां निराकृतत्वात् स्थिरं भवति निदिध्यासनशब्दादि संभवतीति | प्रतिपत्तिः पुराशाब्दी यावन्न मनुते श्रुतम् श्रुत्वा मत्वा च तं साक्षादात्मानं प्रतिपद्यते इत्येतत् पूर्वस्य प्रपञ्चः ननु यथा वाक्यादुत्पन्नज्ञानस्य प्. ४३२) श्रवणाद्यपेक्षैवं श्रवणादेरप्युत्पन्न ज्ञानेनानुष्ठेयं किञ्चिदपेक्ष्यते इति नैतत् श्रवणादिसाधनादुत्पन्नज्ञानो न किञ्चिदपेक्षते | ब्रह्मात्मकानुभवं विनात्पान्तिक कैवल्यायैतदाह- अनन्यायत्तविज्ञाने श्रवणादेरुपायतः जातेनापेक्षते किञ्चित् प्रतीचोद्भवात् परं इति | अपि च यद्यत्रोचितं तदेव तत्रापेक्षणीयमिति लोकप्रसिद्धमत्राप्य दानुभव एवापेक्षितव्य इति आह- साध्यसाधनसंबन्धे शास्त्रापेक्षैव नापरालिंगापेक्षानुमेयेर्थे नरापेक्षान्नरोपितः प्रमात्राद्यनुपमर्दकज्ञानस्यैव सापेक्षत्व दर्शनात् धर्मादिविषयस्यास्य च अतथात्वादपि अन्यापेक्षा न घटत इत्याह- भिन्नमात्रादिविज्ञाने सापेक्षैव विनिश्चितिः एकमात्रादिके त्वस्मिन् कः किं कस्मादपेक्षते इति अनात्मज्ञानस्य प्रमात्राद्यनुपमर्देन उत्पत्तिं दर्शयति- प्रमाणरूपावष्टंभात् प्रमापूर्वं प्रजायते प्. ४३३) पश्चात् प्रमेयनिष्ठैव प्रमेयार्थानुरोधिनी इति | आत्मज्ञानमप्रमात्राद्युपमर्देन जायत इत्याह- प्रत्यात्मानं विजानाति यत्र वाक्यादि मानतः तत्र मात्रादिसंभेदोनमनागपि लभ्यते | इति | ननु वाक्यादि मानत इत्युक्तत्वात् न वेदैकसमाधिगम्यमात्मन इति | तत्राह - पदार्थविषयस्तस्मिन् तथैवानुमितिर्भवेत् वाक्यार्थप्रतिपत्तिस्तु वाक्यादेवाभिजायते इति | आत्मानात्मत्वमात्रं हि लिंगाद्वस्तुषु गम्यते इत्येतत् पूर्वस्य प्रपञ्चः | वाक्यजज्ञानादात्मैव गम्यते उत अनात्मापि || यद्यात्मैव तत्राह नन्वकृत्स्नं भवेज्ज्ञानं यद्यात्मैव समीक्ष्यते केवलोऽनात्मनो दृष्टेः प्रतीचोऽन्यस्य वस्तुनः इति | नैतच्चोद्यमित्याह- नायमन्योऽथवाऽनन्यः प्रत्यगज्ञानजत्वतः दण्डसर्पादिवद्रज्वां स्वतोपूर्वादिमान्यतः इति | यतो अपूर्वादिमानात्मा ततोद्वैतमविद्यागरीय इत्यर्थः | अत आत्मनि ज्ञाते सर्वं ज्ञातमित्यर्थः यतोऽतो दृष्ट प्. ४३४) यतोऽतो दृष्ट एतस्मिन् प्रत्यगात्मनि केवले नास्ति ज्ञानमनुत्पन्नं नाध्यस्त्यन्तयातमः प्रत्यङ्मात्रैकयाथात्म्यात् कार्यकारणवस्तुनः तज्ज्ञानात् किं तमो ध्वस्तं किं वा ज्ञातं वदात्मनः इत्येतत् पूर्वस्य प्रपञ्चः || नन्वात्मनोवेत्यादि वाक्य मनुवादकं दर्शनादीनां तत्र दर्शनादयः स्वशब्देनैवोपात्तानिदिध्यासनं ज्ञान शब्देनानूद्यते तत्र कोऽभिप्राय इति अभिप्रायप्रकटनाय चोदयति- अनुवादे यथोक्तानां प्रक्रान्ते दर्शनादिषु विज्ञानेनेत्यथ कथं निदिध्यासनमुच्यते इति | श्रुतेरभिप्रायं प्रकटयति- व्याध्यानाशंकानिवृत्त्यर्थं विज्ञानेनेति भण्यते | निदिध्यासनशब्देन व्यानमाशंक्यते यतः इति | चित्तनिरोधो निदिध्यासनमित्याशंकानिराकरणाय वाक्यार्थज्ञानग्रहणाय ज्ञानशब्देन निदिध्यासनमुचयते इत्यर्थः | ननु निदिध्यासितव्य इति ज्ञानग्रहे ध्यानस्य ज्ञानसाधनत्वं निराकृतं स्यादिति | चेन्नेत्याह - विज्ञानोत्पत्तिहेतुत्वं ध्यानादेः प्. ४३५) प्रागवादिषमिति | चित्तनिरोधस्य ज्ञानसाधनत्वेन विधेयत्वं संबन्धग्रन्थादारभ्य तत्र तत्रोक्तं तथा श्रवणमनननिदिध्यासनशब्देन ध्यानमाशंक्यते यत इति || चित्तनिरोधो निदिध्यासनमित्याशंकानिराकरणाय वाक्यार्थज्ञानग्रहणाय ज्ञान शब्देन निदिध्यासनमुच्यते इत्यर्थः || ननु निदिध्यासितव्य इति | ज्ञानग्रहे ध्यानस्य ज्ञानसाधनत्वं निराकृतमिति चेत् नेत्याह- विज्ञानोत्पत्तिहेतुत्वं ध्यानादेः प्रागवादिषं इति | चित्तनिरोधस्य ज्ञानसाधनत्वेन विधेयत्वं संबन्धग्रन्थादारभ्य तत्र तत्रोक्तं तथा श्रवणं मननं तद्वत्तथा शमदमादि चेत्यत्राप्युक्तं इत्यर्थः | तस्मान्मोक्षफल ज्ञाननिदिध्यासन स्वार्थमेव तु विज्ञानं मुक्ति मात्रफलं स्मृतमिति | ननु ज्ञानस्य मुक्तिफलत्वे मोक्षस्यानित्यत्वमिति | तत्राह ऐकात्म्याज्ञानविध्वंस व्यतिरेकेण नेष्यते ऐकात्म्यविज्ञानफलं प्राप्तमेव हि तत्स्वत इति | ऐकात्म्याख्यकैवल्यनित्यसिद्ध प्. ४३६) अतस्तदाच्छादकाज्ञानस्य ज्ञानान्नि वृत्ते ज्ञानकार्यत्वमौपचारिकमिति || ननु स कार्याज्ञानस्य ज्ञानाध्वंसाद्व्यतिरेकात् अद्वैतहानिरिति तत्राह - यतोऽवयवेनैव रज्जुसर्पादिवत्तथा आत्मायं संगतिं याति तन्मोहाध्यस्तरूपिणा इति | आत्मा तत्वविभक्तस्य प्रमात्रादेरनात्मनः स्वतः सिद्धेस्तदज्ञान समुत्थस्य मृषात्मनः इत्येतत् पूर्वस्य प्रपञ्चः | ननु ब्रह्मज्ञानकर्ता ब्रह्मणोऽन्यो अतः अद्वैतहानिरिति | नेत्याह आत्मज्ञानप्रमेयाच्च नान्यस्तज्ज्ञानकृद्यतः इति | अतः प्रत्यगात्मैव स्वमानफलकारूढः प्रत्यगात्मतमोपनुत् इत्याह अनन्यमातृमानोतः प्रत्यगात्मा तमोपनुत् इति | यतः सर्वस्य सत्वमात्मा अत एव सर्वमनूद्य आत्ममात्रत्वमुच्यत इत्याह- आत्मनोत्वमनूद्यातो मिथ्याकॢप्तमशेषतः इदं ब्रह्मेति वचसा सर्वमात्मेति नोऽवदत् इति | इदानीं ब्रह्मत्वपरादादित्यादि वाक्यस्य तात्पर्यमाह- आत्मधीमात्रेति || प्. ४३७) आत्मधीमात्रगम्याथाद्य स्तदन्योऽवभासते तद्दर्शननिषेधात्मं ब्रह्मेत्याह पराश्रुतिरिति | अनेन भिन्नाभिन्नवादोपि निरस्त इत्याह समस्तव्यस्तता तस्मात् नैवेह श्रुतिमानतः अनात्मबुद्धिविषयं यतो यत्नान्निषेधतीति | ननु कार्यकारणात्मकं ब्रह्म कथं भेदाभेदनिराकरणमिति | तत्राह- कार्यात्मा कारणात्मा च द्वावात्मानौ परात्मनः प्रत्यग्याथार्थ्य मोहोत्थौ तन्नाशे नश्यतस्ततः इति स्वाविद्यया कार्यात्मत्वं कारणात्मत्वं च अतस्तत्वज्ञानबाधात् कार्यकारणबाध इति अत्र मानमाह- अपूर्वानपरोक्ते हि कार्यकारणतात्मनः कुतः प्रमाणात् संभाव्या कार्यकारणघस्मरे नैतस्माज्जायते किञ्चित् नायं जातः कुतश्चन आत्मेत्येवं श्रुतिर्वक्ति कारणादिनिषेधकृत् ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते | अनादिमत् परंब्रह्म न सत्तन्नासदुच्यते यस्मात् क्षरमतीतोहं अक्षरादपि चोत्तमः अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः | प्. ४३८) यो मामेवमसंमूढो जानाति पुरुषोत्तमम् | स सर्वविद् भजति मां सर्वभावेन भारत | इति | वेदात्मनः साक्षाद्वचनं श्रुतिवचनं सर्वान्तर्यामिणः शौरेः नोपेक्ष्यं तद्भवादृशैः इति | एवं कार्यकारणविलक्षणत्वे सति ब्रह्मणः कार्यकारणत्वं यः पश्यति तं श्रुतिः पराकरोतीत्याह तत्रैवं सति यो मूढः कार्यकारणदर्शनः पराङ्मुखं निदध्यार्थ मात्मकृत्सं त्वदर्शनम् इति | ब्रह्मेति जातिनिर्देशः क्षत्रसन्निधिकारणात् ब्रह्मजातीः पदाद सम्यग्दर्शिनः नरमिति | चकाराकरणे निमित्तमाह- यदन्तिकं न जानाति यन्नेहास्ति तदीक्ष्यते इत्येवमपराधोत्थ कोपाविष्टेन बालिशं इति | कुतस्तं परौ करोतीति तत्राह- कैवल्यात्तं पराकुर्याद्विप्रजातिं पराङ्मुखम् अजातिब्रह्मतत्व योयं जात्यात्मनेक्षत इति एवं विधं पुरुषं निराकरणं बुद्ध्यत इत्यत्र प्रमाणत्वेन व्यासवचनमुदाहरति- किं तेन न कृतं पापं चोरेणाक्षपहारिणा प्. ४३९) योऽन्यथा सन्नमात्मानं अन्यथा प्रतिपद्यते इति | आत्मापहारप्रकारं दर्शयति | यो न वेदात्मयाथात्म्यं वेदजात्यादिमत्तया यद्यतोऽतो जातिस्तं परादद्ध्यज्जघं नरम् इति | अयमर्थः यः कश्चिदात्मयाथात्म्यं न वेद स यदि ब्रह्मक्षत्राद्यात्मना आत्मानं जानीयाद त एव हेतोरतो ब्रह्मणो ब्रह्मक्षत्रादि जातिमिथ्यादर्शनं पराकुर्यादिति | अथवा दर्शनमेव आत्मापहारस्तत एवं तं पराकरोतीत्यर्तह्ः | एवं तर्हि जात्यादेरन्यत्वात् अद्वैतहानि इति तत्राह- सर्वदाव्यभिचार्येकं व्यभिचार्यर्थबुद्धिषु यत्तत्वं गम्यते प्रत्यक् तदेवानात्मवस्तुनः || इति | प्रत्यक्तत्वमित्यर्थः | भवत्वात्मा तत्वं संज्ञानं जगतो ब्रह्मज्ञानं बाधकमिति तव दर्शनं तत्रेदमाशंक्यते ननु सर्वस्यात्वा तत्वं चेत् किमिति वाक्योऽर्थज्ञानेनैतरत् बाध्यते इतरेण कालादिना वाक्यजज्ञानमेव तस्मान्न बाध्यत इति | तत्राह- अन्तर्मेयबलाज्ज्ञानं प्रत्यङ्मोहजसंश्रयम् | प्. ४४०) बाधते व्यभिचारित्वात् व्यभिचारितमोन्वयं इति अन्तद्धेयद्वयानन्द लक्षण प्रत्यगात्म तत् बलात् तदाकारग्रहणात् ज्ञानार्थीदं यद द्वयानन्दब्रह्मात्माकारं कल्पज्ञानमात्मा ज्ञानजसाभासान्तःकरणाश्रयमतो वस्तु बलस्य भावात् प्रामाण्यव्यभिचारं वस्तु सकारणं जगत् बाधते | इति | अथवा जगद्विज्ञान मध्यज्ञानं तव तत्र किमिति ज्ञानमेव साऽज्ञानं जगत् बाधत इति | तत् ज्ञानं कस्मान्न बाधत इत्याशंका परिहारार्थमिदं वार्तिकं | ननु कालादि जगतोऽप्यन्तर्धेयत्वबलमस्ति तत्स्वरूपत्वादिति | नेत्याह प्रत्यक्तमोजयाथात्म्य मात्रादिजन हेतुतः कालादौ तदभावोऽतः न ज्ञानस्यापवादकृत् अज्ञानत्वमेवाभिजात्यं कालादेर्यतोऽतः तदभावोन्तर्मेयबलाभावः कालादेरतो न ज्ञानस्य कालादि जगदिति ज्ञानं स्वकारणा ज्ञानजत्वबलमपि आश्रित्य बाधकं न वस्तुबलमेवातः कालादेरपि तद्भावात् बाधकत्वमिति | नेत्याह- प्. ४४१) न बाध्यजव्यपेक्षं हि ज्ञानं बाधकमिष्यते इति | बाध्याज्ञानजत्वं ज्ञानस्य बाधकत्वप्रयोजकं न भवतीत्यर्थः | यत एवं पूर्वोक्त न्यायबलात् ज्ञानाज्ञानयोर्विरोधात् ज्ञानमेवाज्ञानबाधकमित्याह- तयोर्मिथो विरोधत्वात् सम्यग्ज्ञानं त्मौपनुदिति प्रसंगागतं चोद्यं निराकृत्य ब्रह्म तदित्यादेर्वाक्यस्य तात्पर्यर्थमाह- आत्मानं यो यथा वेत्ति सम्यग्वा यदि वान्यथा यथा दर्शनमेवासौ फलमाप्नोति मानवः इति ब्रह्म तदित्यादेः संक्षेपार्थः समीरितः संसारीत्यन्यथा जानन् सम्यग्ज्ञानाद्विमुचयते इति | इदं ब्रह्मेत्यादिवाक्यस्य प्रश्नपूर्वकमर्थं कथयति | अपोदितत्वात् ब्रह्मादिदर्शनस्येति किं पुनर्द्रष्टव्यमित्यतो वक्तित्विदं ब्रह्मेति | न श्रुतिरिति | आत्मपदार्थकथनपूर्वकं सर्वस्य तदात्मत्वं दष्टव्यमित्येतदाह प्रत्यक्त्वेन य आत्माति प्रत्यक् बुद्धिप्रमाणतः तावन्मात्रैकयाथात्म्यं ब्रह्माद्युक्तं प्रतीयतामिति | इदानीं स यथा प्. ४४२) दुन्दुभेरिति वाक्यस्य तात्पर्यार्थं कथयति वृत्तानुद्रवणपूर्वकं- एवं श्रोतव्य आत्मायं समाप्तं श्रवणे विधिः * * * * * *प्रपञ्चः पर उच्यते इति | सर्वमात्मेत्युक्तं | कथं सर्वस्यात्मत्वं प्रत्यक्षादिविरोधादित्येतदाह- नामरूपादिसंभिन्नं जगदेतत् कथं पुनः आत्मैव सर्वमित्येवं * * * * अव्यावृत्ताविसंवादि प्रत्यर्थिव्याप्ति कारणात् इति | नित्यानुभवव्याप्तत्वाज्जगतो अनुभव व्यतिरेकेणाभाव इत्ययमर्थः | ननु सर्वोऽनु भवति न तस्य चिद्बुद्धिरुपपद्यतेऽशक्यत्वादिति | तत्राह एतद्विरुद्धबुद्धीनां एवमेव हि शक्यते इति | तस्माद द्वैतविषयात् विरुद्धबुद्धीनां प्रत्यक्त्वबुद्धीनां सर्वोऽनुभव एवेति ज्ञानं नाशक्यमित्यर्थः किं च सर्वोऽनुभव एवेति ज्ञान विषयस्यापरार्थत्वादितरस्य * * * * * * व्यभिचारित्वेन कल्पितत्वाच्च प्रत्यक् प्. ४४३) प्रवर्तधियैवमेव द्रष्टुं शक्यमित्याह व्यभिचारिषु बोधेषु यो बोधो व्यभिचारवान् तत्प्रमाणार्थितो मेयो गृहीतुं शक्य * * * * * * * * * * * * यथा दुन्दुभिशब्दे त्वसामान्यादुत्थितात् पृथक् नादातुं शक्नुयात्कश्चित् विशेषोनसि कोशवत् तद्वदात्मातिरेकेण नात्मीयोऽर्थो मनागपि यतः समीक्षितुं शक्यः तेनासौ रज्जुसर्पवत् || ननु दृष्टान्तेन सामान्यविशेषादावभ्युपगमात् दार्ष्टान्त्रिको प्यात्मा तथाविध एवेत्याशंक्य तन्निरासार्थं सामान्यविशेषभावं निराकरोती विशेषैरन्वयो नापि सामान्यान्वयवत् क्वचित् सामान्यस्याविशेषत्वाद्विशेषत्वात् भिन्नत्वादतः सामान्यधिया सामान्यग्रहो न सामान्याभावात् खण्डवद्वित्तत्वेन विशेषाणामन्वयो यथा नैवं विशेषैः सामान्यस्यान्वयोऽभेदाख्योऽस्ति | सामान्यस्याविशेषत्वात् | विशेषत्वात् सामान्यस्य विशेषत्वादिति पाठान्तरं अयमर्थः | सामान्यस्य विशेषेणा भेदो | यद्यभेदस्तथा सामान्यस्यापि विशेषत्वप्रसंगात् प्. ४४४) अतो न सामान्यधिया सामान्यस्य ग्रहः सामान्याभावादिति यद्यन्वयवादो दुष्टो अनन्वय एवास्त्विति | सोपि दुष्ट इत्याह विशेषैरन्वयो नोचेदिहाखु व्यक्तिवन्मिथः खण्डवत् स्याद्विशेषादौ यत्सामान्यमितीरितं इति | ननु विशेषैः सामान्यस्य व्याप्तिलक्षणो अन्वयोऽस्त्येव भवतु तथापि भेदेन भवितव्यं | तथा सति भिन्नयोः सामान्यविशेषभावो न घटत इत्यभिप्रेत्याह- द्विष्ठत्वादन्वयस्यापि व्याप्यव्यापकयोर्मिथः व्यतिरेकमतो मुक्त्वा मिथो व्याप्तिर्न सिद्ध्यतीति अतः सामान्यविशेषभावकल्पितो ब्रह्मणि लोके चेति कल्पितत्वं प्रपञ्चयति- प्रत्यग्बोधान्निरस्तोर्थः प्रत्यग्वन्नहि सिद्धनवा भावमुखेनात्मा नान्वयेनाप्यतो दृशीति अन्वयव्यतिरेकाभावरूपेण जगतः सिद्ध्ययो गादतो जगत्कल्पितमतः आत्ममात्रमिति | नन्वनात्मराशेरात्ममात्रत्वे आत्मनोऽसंगत्वव्याहतिर्नेत्याह - प्रत्यङ्मात्रैकरूपत्वादात्मा नानात्मतां स्वतः प्. ४४५) संहत इति भेदादद्वैतहानिर्नेत्याह नापि च अनात्मा स्वादन्यत्र सिद्ध्यतीति | तर्हि आत्मानात्मव्यतिरिक्त इति | नेत्याह - अनात्मवस्तुनः प्रत्यङ् प्रत्यक्त्वान्नातिरिच्यते इति | यद्यात्म वस्तु ततो न व्यतिरिक्तं तर्हि अनात्मवस्त्वात्मान्वितं भवेदिति | नेत्याह पराङ् नान्वेति चात्मानं व्यतिरेकाच्च तत्वतः इति कल्पितत्वादित्यर्थः | एवं प्रसंगागतं चोद्यं परिहृत्य श्रुतिव्याख्यानमेवानुवर्तयति दुन्दुभ्यान्वितशब्दस्य सर्वत्राम्यभिचारतः पुंप्रयत्नादिलब्धात्म व्यभिचारिस्थ्तिः उच्चनीचादिभेदेषु मिथः सव्यभिचारिषु दुन्दुभिध्वनिरेवैतत् सर्वत्राव्यभिचारवान् इत्येतत् पूर्वस्य प्रपञ्चः | सामान्यस्याव्यभिचार उक्तो विशेषाणां च व्याभिचारः तत्फलमाह- दुन्दुभिध्वनि सामान्य व्यतिरेकेण तेन ते निरात्मका न शक्यन्ते तद्विशेषाः समीक्षितुं इति | ननु दुन्दुभेरित्येतावन्मात्रमत्र श्रूयते अतो दुन्दुभिध्वनिरित्येतद्विशेषणं कुतो प्. ४४६) लभ्यत इति चोदयति दुन्दुभिध्वनिरित्येतत् कुतो प्रज्ञाविशेषणं इति लाभसूचकमाह- दुन्दुभेर्ग्रहणैनेति लब्धमेतद्विशेषणमिति नहि काष्ठाग्रहाच्छब्दविशेषग्रहः तयोर्भेदादित्यर्थः दुन्दुभिशब्दसामान्यग्रहात् विशेषगृहीता भवन्तीत्याह दुन्दुभेस्तुरवा एत इत्येवं ग्रहणे सति गृहीतत्वात्तद्विशेषा स्युस्तेषां तादात्म्यकारणादिति अयमर्थः | दुन्दुभिशब्दस्य सामान्यग्रहे तद्विशेषा गृहीता भवन्ति इति | दुन्दुभ्याघातस्य वा शब्दो गृहीत इत्यस्यार्थमाह- भेर्याघातग्रहाद्वापि तद्विशेषग्रहो भवेत् इति | कोसौ भेर्याघात इति | तदाह वीरादिरससंयुक्तो दुन्दुभ्याघात उच्यते संग्रामादिभूमिगः दुन्दुभिध्वनिविशेषः इत्यर्थः | दृष्टान्तो व्याख्यातः इदानीं दार्ष्टान्तिकं दर्शयति- उपलब्धोस्ति सकुंभो लंबोष्ठो देशकालवान् पूर्वपूर्वातिरेकेण नोत्तरार्धोऽनुभूयते प्. ४४७) इति | अनुभाव्यस्य अनुभावव्यतिरेको नास्तीत्यर्थः अतो अनुभाव्यानुभवे व्यस्तमित्याह एवं चिदन्वयात् सर्वं तदध्यस्तः समीक्ष्यतां सामान्यं वा विशेषो वा चिदसंबोधहेतुतः इति | नन्वनात्मनः कल्पितत्वे कथमात्मसिद्धिः कल्पितस्यासाधकत्वादिति चेन्नैतत्सारं नानात्मबकात् आत्मसिद्धिः | किन्तु स्वत इत्याह- प्रत्यग्रूपस्य संसिद्धौ प्रतीचोऽन्यन्न कारणं अनात्मवदिति | यथा नात्मसिद्धावन्यत् कारणं अस्ति तथानात्मसिद्धावित्यर्थः | तर्हि अनात्मसाधकमन्यादिति | नेत्याह - तदप्यात्मविशेषणतया भवेदितिवत् अनात्मसाधकं प्रमारूपं तदात्मविशेषणतया नात्मसाधकं भवेत् | आत्मैव प्रमातृत्वापन्नोऽनात्मसाधक इत्यर्थः तर्हि आत्मानमप्यात्मा तदापन्न एव साधयतीति नेत्याह- कर्तृत्वकञ्चुको यद्वत् आत्मानात्मानमीक्षते इति | ननु कूटस्थदृष्टि मात्रत्वान्न तथात्मानं प्. ४४८) मीक्षते इति | ननु कूटस्थदृष्टिमात्रत्वादिति तथा नात्मसिद्धत्वादित्यर्थः प्रमातृत्वाद्यं न्वयादिति | नेत्याह- संहतो गम्यते नार्थः प्रत्यक्षेण यथा सदा गम्यते संहतस्तद्वत् आत्मा प्रत्यग्धियात्मनेति ननु दार्ष्टान्तिकोऽर्थो संवित्तिरभेदः सर्वस्यात्ममात्रत्वं तदेकेनैव दृष्टान्तेन सेत्स्यति दुन्दुभेर्दुन्दुभ्याघातस्य बाह्यानिति च दृष्टान्तत्रयेण किमित्येतदाह- दार्ष्टान्तिकार्थासंभित्तेरेकेनैव कृतार्थता दृष्टान्तेन बहूनां तत्किमर्थोक्तिरितीर्यते इति | बहुदृष्टान्ते कथनप्रयोजनमाह ईर्यते महासामान्य एकस्मिन् विशेषाणामशेषतः विलयः स्यात् कथं नाम व्यावृत्तान्वयरूपिणां इति क्रमेण महासामान्ये ब्रह्मणि सर्वस्य लयप्रदर्शनार्थं बहुदृष्टान्तोपादनमित्यर्थः | क्रमप्रकारं दर्शयित्ति तुं दृष्टान्तत्रयस्य दार्ष्टान्तिकत्रये स्वान्वयं दर्शयति- महासामान्यदृष्टान्तो दौन्दुभे ख उच्यते सामान्येतररूपस्य दुन्दुभ्याघात इष्यते | प्. ४४९) बाह्यानीति तथा चोक्तिः विशेषाणां तु केवलं इत्युक्तार्थप्रसिद्ध्यर्थमित्युदाहरणत्रयं इति | अन्त्यकार्याणामभौतिकानां भूतेषु सामान्यविशेषात्मकेषु लयो भूतानां च कारणे लयोस्यापि कारणविलक्षणे ब्रह्मणि लयप्रदर्शनार्थं बहुदृष्टान्तोपादानमित्यर्थः | इदानीं सत्सामान्यात् सर्वस्य व्यतिरेकाभावं युक्तितः साधयति | अन्वयव्यतिरेकाभ्यामभाववपुषाऽथवा सद्धीगम्याद्धिरुग्वस्तु न मानेनावसीयतः इति | अत एव सतो न केनापि संबन्ध इत्याह षष्ठ्यर्थासंभवोतः स्यात् द्वितीयासंभवोः सतः इति | यथा सद्व्यतिरेकेण सद्विशेषाणामभावात् संबन्धाभावात् | एवं सत्सामान्यस्य तद्विशेषाणां च कूटस्थबोधप्रत्यगात्मव्यतिरेकेण अभावात् संबन्धाभाव इत्याह यथा सति तथा विद्यात् प्रतीच्यनन्यमानतः इति | तथा विद्यादित्युक्तं वेदनप्रकारं दर्शयति- सामान्यभेदरूपाणां विशेषाणामशेषतः प्. ४५०) महासामान्य एकत्र भूयसां स्याद्यथा तथामिथो भिन्नपदार्थानां नामरूपक्रियात्मभिः स्थूलाद्यनभिसंबन्धे कार्यकारणरूपिणां इति | लयमिति वाक्यशेषः | तस्मात् कूटस्थानुभवस्य न केनापि संबन्ध इति पूर्वस्य पूर्वस्य उत्तरोत्तरस्मिन् प्रयोगे हेतुमाह सूक्ष्मताव्यापिते ज्ञेये भूम्यादेरुत्तरोत्तरम् प्रत्यगात्मावसानेषु पूर्वपूर्वप्रहाणतः इति | एतमेव न्यायमवष्टभ्य नामादेरुत्तरोत्तरस्मिन् लयः श्रुत्योच्यते | इत्याह नामादीनि च तत्वानि प्राणान्तानि तथात्मनि पूर्वपूर्वप्रहाणेन यान्त्यस्तं केवलाद्वय इति स यथेति वाक्यस्य वृत्तानुद्रवणपूर्वकं संबन्धं कथयति - दृष्टान्तेति | दृष्टान्तत्रितयं तावत् स्थितिकाल उदाहृतः महासामान्यवत् प्रत्यक् सर्वानात्माऽव्ययः स्वतः इति | स्थितिकाले सर्वस्यात्ममात्रत्वमुक्तमित्यर्थः | एवं उत्पत्तिकाले सर्वस्यात्ममात्रत्वमुच्यत इत्याह- स्थितिकाले यथैकात्म्यं शक्यते ज्ञातुमञ्जसा यथोक्तन्यायवत् प्. ४५१) उत्पत्तावपि शक्यते || इति एवं संगतिमुक्त्वा अक्षराथं कथयति- धूमार्चिविष्फुलिंगादि यथापूर्वं विभागतः अग्निरेव न धूमादिभेदः कश्चन लभ्यते इति | इदानीं दार्ष्टान्तिकं दर्शयति- प्राणलोकादिरप्येवमनात्मा प्रग्विभागतः अपूर्वानपरानन्तः प्रत्यगात्मैव केवलः इति | दृष्टान्तस्यापरं तात्पर्यं कथयितुं चोद्यमुद्भावयति | एकजातौ हि भिन्नानां शब्दानां शब्द एव तु दृष्टमैक्यं न भिन्नानां भिन्नजातौ तथेति चेत् इति | नैतत् सारमित्याह- धूमादिभेदभिन्नानां यथैकत्वं विभावसौ नामरूपादिभिन्नानां ऐकात्म्यं तद्वदात्मनि इति | यथा भिन्नजात्यालिंगित धूमादिव्यक्तीनामेकस्मिन्नग्नौ अन्तर्भावः एवं जगतोपि भिन्नजात्यालिंगितस्य ब्रह्मण्यन्तर्भाव इत्यर्थः | नामरूपादेः परस्परव्यावृत्तिमभ्युपगम्य ब्रह्मतत्वाव्यतिरेक उक्तः | इदानीं परस्परव्यावृत्तिरपि नास्तीत्याह - प्. ४५२) बोधाविशेषादथवा भेद एव न विद्यते इति बोधेनाविशेषात् बोधमात्रत्वात् परस्परव्यावृत्तिर्नास्ति नामादेरित्यर्थः | अत्र हेतुः कार्यकारणयोस्तत्वमुभयोरवि लक्षणमिति | यतः कार्यकारणयोरकार्यकारणमात्मैवाविलक्षणमव्यावृत्तं तत्वं स्वरूपं अतस्तयोःरात्ममात्रत्वमतस्तयोर्भेदो नास्त्यतः कार्याणां परस्परभेदोपि नास्तीत्यर्थः | ननु प्रपञ्चकारणत्वे परस्य प्रयोजनेन भवितव्यं साधनेन च नेत्याह- स्वार्थसाधनयत्नादीननपेक्ष्योत्सृजेत् यथा धूमादीन् हुतभुक् तद्वत् प्राणादीन् प्रत्यगीश्वरः | इति | निश्चसिता पदस्य तात्पर्यार्थकथनाय चोद्यमुत्पादयति- श्रोतव्यः श्रुतिवाक्येभ्य इत्याशंक्यते यतः प्रयत्नानन्तरः शब्दोऽनित्यः कुंभादिवद्भवेत् इति | एषोऽर्थः वेदवाक्यैरात्मा श्रोतव्य कथं स्याद्वेदस्य परमेश्वरप्रणीतत्वे बुद्धां दिवाक्यवदनित्यत्वेन अप्रामणत्वादिति | प्. ४५३) एतस्य चोद्यस्य निराकरणाय निश्वासवाक्यमित्याह- इत्यस्य परिहारार्थं निश्चासोदाहृतिस्त्वियं इति | कथमिति | तत्राह- अप्रयत्नोत्थितेर्वेदो नित्यस्याद्योमवत्स्तुतः अबुद्धिपूर्वकत्वाच्च यथा वस्त्वनुरोध्यपीति एषोऽर्थो नित्यत्वं शक्यते वक्तुं विद्यमानस्यैव कूपाकाशादिवत् परस्मादभिव्यक्तेरपि चानित्यत्वं नाप्रामाण्यादिकारणं अनित्यस्यापि धूमादेः तत्तज्ञानस्य प्रामाण्याभ्युपगमः | ननु यद्यपि वेदस्य नित्यत्वं तथापि तस्यार्थसंबन्धो बुद्धिपूर्वो देवदतादिशब्दस्यैव सांकेतिको अतो न स्वसामर्थ्येन बोधकत्वं चक्षुरादिवत् अतः संबन्धकृर्तृबुद्ध्यपेक्षत्वात् अप्रामाण्यमितिनैतत्सारमबुद्धिपूर्वकत्वात् वेदवत् स्वार्थ संबन्धस्य | स्वार्थसंबन्धोपि स्वात्मप्रतिपादन सामर्थ्य लक्षणं चक्षुरादेरिव विद्यमान एव परमेश्वरादभिव्यक्तो न सांकेतिकोऽशक्यत्वात् संबन्धकरणस्य अन प्. ४५४) अनन्तत्वात् कर्तृस्मरणाच्च | तस्माच्चक्षुरादि वद्यथा वस्त्वनुरोधी वेद इति | अथवा वेदार्थे प्रमाणान्तराभावात् यथा वस्त्वनुरोधि वेद इत्यर्थः | अतो बुद्धादिवाक्योत्थ बुद्धिवत् नाप्रमाणत्वं वेदस्येत्याह- बुद्धिवन्नाप्रमाणत्वं वेदस्येहोपपद्यत इति अतो यत्तेनोक्तं तथैव ग्राह्यमित्याह सर्वदा यदनेनोक्तं तच्छ्रेयं बुभूषतेति वेदं नित्यत्वदृष्टान्तेन साधयति- भानुप्रकाशवच्छंभोः नित्योयं न तु कृत्रिमः इति | ईश्वरविवर्तत्वेन ईश्वरात्मको वेदो नित्यो भानुरश्मिवदित्यर्थः | परात्मविवर्तत्वेन वेदस्य नित्यत्वात् वेदस्य प्रमाणत्वे प्रमाणप्रमेयभेदात् अद्वैतताहानिरित्येषापिशंका निराकृता भवतीत्याह- पर एवात्मनात्मानं प्रतिपाद्य नरं श्रुतिः कार्यकारणवत् पीत्वा स्वात्मनैवावतिष्ठते || इति | अयमर्थः परशुतिरात्मानं नरं संसारिणमात्मना अखण्डाद्वयब्रह्मरूपेण प्रतिपाद्य कार्यकारणवत् जगत् पीत्वा बाधित्वा प्. ४५५) बाधित्वा स्वात्मनैवावतिष्ठते | अखण्डाद्वयब्रह्मरूपेण श्रुतिरवतिष्ठत इति || स यथेति वाक्यमुत्परावस्थायामपि जगत् ब्रह्मात्मकमतः प्रति प्रतिपादनेयेत्युक्तमिदानीं अर्थान्तरमाह वेदमात्मप्रसक्तौ वा सर्वमात्मेति वाक्यतः वेदमात्वनिषेधार्थं स यथेत्यागमापरः इति | एतदुक्तं भवति | इदं सर्वं वेदमात्मेति वाक्यात् वेदस्यामानत्वं प्रसक्तं कथं उच्यते | सर्वस्य मिथ्यात्व एव सर्वस्य आत्मत्वं भवति नान्यथा | अतः सर्वस्य मिथ्यात्वाद्वेदस्यापि सर्वान्तर्भूतत्वान्मिथ्या धूमवदमात्म प्रसक्तौ तन्निराकरणाय स यथेति वाक्यं अथवा सर्वस्यात्मत्वे वेदस्यापि आत्मत्वात् वेदाभावादेव वेदस्यामात्वमित्याशंक्य निराकरणायेदं वाक्यमिति अमात्वं निराकरोति तदयुक्तं पुमर्थस्य तदुक्त्यैव समाप्त्यत इति | अयमर्थः | न मिथ्यात्वमप्रामाण्यप्रयोजकं प्रति बिंबादौ व्यभिचारदनुत्पत्याद्यप्रामाण्यप्रयोजकं तदत्र नास्ति श्रुतवाक्यार्थस्य सुव्युत्पत्ते संशयानुदयात् प्. ४५६) विपर्यासाभावात् बाधाभावेन मिथ्याभूत वेदादुत्पन्नज्ञानस्य सप्रयोजनत्वस्य श्रुतियुक्त्यनुभवसिद्धत्वादप्रयत्नोत्थितत्वेन अपौरुषेयत्वान्नाप्रामाण्यमिति सर्वस्य ब्रह्मत्वे बुद्धे वेदाभाव उत अयुद्धे न तवदबुद्धे तत्संभाव्यस्य लोकसिद्धत्वात् बुद्धे चेदस्तु तत एव पुरुषार्थज्ञानफलोत्पत्तेरुत्तरकालान्तेन प्रयोजनाभावादतः कृतकत्वममात्वप्रयोजकं कथञ्चित् निराकृतमित्यभिप्रेत्य दृष्टान्तमाह- सर्वोपायोनुपेयः स्यात् उपेयावसितायतः स्वोपेयार्थप्रसिद्धौ च नोपायानामुपायतेति यथाऽमृताद्युपाय स्वोपेयघटाद्यवसितो घटादिनिष्पत्तौ सत्यां अनुपायो भवत्येवं प्रमाणमपि स्व उपायघटादिनिश्चितौ सत्यां भवत्वप्रमाणमित्यर्थः | ननु उत्सर्गतो यद्यपि सर्वस्य ब्रह्मत्वमुच्यते तथापि वेदमुक्त्वाऽतो न वेदाभावशंका नापि मिथ्यात्वाशंकेति | तत्राह- न चोत्सर्गापवादोपि साक्षाद्वेदग्रहं त्रपादिति प्. ४५७) इमे वेदा इति साक्षात् वेदं गृहीत्वा तदनन्तरमिदं सर्वं यदयमात्मेत्युक्तत्वात् न वेदस्यात्मत्वमपनेतुं शक्यमित्यर्थः अबुद्धिपूर्वकोवेद इत्युक्तं | नन्वबुद्धिपूर्वकश्चेत् बालोन्मत्तवाक्यसमो वेद इति तत्राह बालोन्मत्तेक्तिवक्तिवच्चाहं वक्तुं दूषणमादरात् | जिह्रेम बहुशोत्रोक्तौ तस्मादेवोपरम्यत इति || अयमर्थः बालोन्मत्त वाक्यसमोवेदः इत्यस्यामुक्तौ दूषणं वक्तुं जिह्रेमि | वेदप्रामाण्यस्य संबन्धग्रन्थादारभ्य साधितत्वात् बहुश इति ऋग्वेदादिगिरोच्यन्ते ऋग्यजुःसामलक्षणा अथर्वांगिरसः तद्वन्मत्रा स्युःब्राह्मणोत्थिता इति हासादिसंभेदभिन्नं ब्राह्मणमेव तु ग्राह्यं अत्र प्रसिद्धवस्तुनेतिहासादि नेष्यत इति वार्तिकद्वयं प्रसिद्धार्थं अत्राभिधेयमस्य जन्मनोच्यते अभिधानस्यै तत्र कोऽभिप्राय इति चेदर्थसिद्धत्वादित्याह- अभिधेयार्थजन्मापि ह्यभिधासंभवोक्तितः द्रष्टव्यं नाभिधानं स्यादभिधेयमृते क्वचित् इति | प्. ४५८) इतिहासादिशब्दौ प्रसिद्धेतिहासादिग्रहणार्थं ऋग्वेदादिशब्देन न मन्त्रमात्रग्रहणं किन्तु मन्त्रब्राह्मणग्रहणमित्याहमन्त्रब्राह्मणयोः वेदनामत्वकारणात् ऋग्वेदादिगिरा गिरा तस्मान्मन्त्रब्राह्मणयोर्ग्रह इति | इदानीमितिहासादिशब्देन प्रसिद्धा एवोच्यन्त इत्याह- यथा सिद्धामितिहासादि पुराणाद्यपि गृह्यन्ते लोकप्रसिद्धिमुल्लंघ्य यतो न्यायोऽन्यथा ग्रह इति | अत्र प्रसिद्धेतिहासपुराणग्रहणे मनुवचोपि प्रमाणमित्याह- इतिहासपुराणाभ्यां वेदं समुपबृंशयेत् इत्यादि मनुनाप्युक्तं कथं तत्त्यागमर्हति इति | इतिहासादिना वेदोपबृंहणस्योक्तत्वात् तत् तस्य स्वत एव प्रामाण्यमिति | नेत्याह इतिहासपुराणादेर्वेदमूलत्वकारणात् प्रामाण्यं नान्यथा तस्य प्रामाण्यमुपपद्यते इति अत एव वेदविरुद्धे विषये न प्रामाण्यमितिहासादेरित्याह- प्रत्यक्षवेदवचन विरुद्धं तेषु यद्वचः | प्. ४५९) युद्धवाक्यादिवत्तादृक् त्याज्यं श्रुतिविरोधतः इति | ननु प्रसिद्धेतिहासादि ग्रहणमत्र कथं तस्य कर्त्रन्तरस्मरणात् तत्राह न चेश्वरातिरेकेण कश्चित्सृष्टाभ्युपेयते इतिहासपुराणादेस्तदन्यस्येह कार्यतः इति परस्यैव कारणत्वं साधयति- कारणत्वं प्रमाणेन यस्य साक्षाद्विनिश्चितम् अपि तत्कार्यकर्तृत्वे तदेवाभ्युपगम्यतामिति ब्रह्मणः सर्वकारणत्वस्य श्रुतौ विनिश्चितत्वात् यद्यपि वायुप्रोक्तं पराशरप्रोक्तमिति तत्र तत्र कारणान्तरस्मरणं तथापि तत्रापि ब्रह्मैव कारणमित्यर्थः | ननु वेदो वेदत्वादेव ब्राह्मणं एवमितिहासाद्यप्यस्तु किं वेदमूलत्वेनेति | तत्राह - न च वेदोक्तितो वेदः ग्रन्थेयात्र इहेष्यते किं त्वमानत्वहेतूनां वेदवाक्येष्वसंभवात् इति | न च वेदो वेदत्वादेव प्रमाणं किन्तु अमानत्वहेतूनां अनुत्पत्यादीनामसंभवादित्यर्थः | नापि इतिहासादिवत् सापेक्षत्वेनमत्वं वेदस्यापौरुषेयत्वादित्याह- प्. ४६०) प्रामाण्यं वेदवाक्यानां नच मानान्तराश्रयादिति | प्रत्यक्षादि मात्वमनुत्पत्यादि प्रामाण्यकारणाभावात् अनपेक्षत्वाच्चेत्याह- अक्षादेरपि मानत्वं यथोक्तादेव कारणात् इति | स यथा सर्वासामसावित्यादिवाक्यस्य वृत्तानुश्रवणपूर्वकं संगतिं कथयति | प्रज्ञानव्यतिरेकेण यथैव स्थितिसर्गयोः वस्त्वन्तरं न संभाव्यं प्रभुत्वेपि तथोच्यते इति | एवं संगतिमुक्त्वा वाक्यं योजयति विभिन्ननामरूपाणां सरितां सागरो यथा अभिन्नरूपनामैकं प्रलयोयनमेकतेति इदानीं दार्ष्टान्तिकं कथयति- स्पर्शादिज्ञानभेदानां त्वगाद्येकायनंतदासां ते त्वगादयस्तद्वत् बुद्धौ च मनसस्तथा कर्मक्षयात्तथा बुद्धिः कारणत्वेन तिष्ठति एष साधारणस्तावत् प्रत्यग्बुद्धिपूर्वक इति विषयज्ञानानामिन्द्रियेषु लयः इन्द्रियाणां मनसि मनसो बुद्धौ बुद्धिः कर्मक्षयात् कारणरूपं भजते एष सर्वप्राणिसाधारणो लयः सुप्त्यादाविड इति | तर्हि असाधारणलयः कः प्. ४६१) तत्राह- प्रत्यग्याथात्म्यविज्ञानात् वस्तु वृत्तानुरोधतः प्रलयोज्ञानविध्वंसात् यस्त्वसौ बुद्धिपूर्वकः इति | स्वाभाविकं प्रलयं प्रपञ्चयति दृष्टान्तेन अब्धिरेकायना यद्वत् सर्वसांसारिकान्तथात्वग्गोचराणां स्पर्शानां त्वगेकैवायनं परमिति दार्ष्टान्तिकं प्रपञ्चयति स्पर्शशब्देन विषयः त्वग्ग्राह्योऽत्राभिधीयते | तथा गन्धादिशब्देन घ्राणादिविषयोमत इति | स्पर्शादिशब्देन इन्द्रियविषयज्ञानं पूवत्रगतमत्र विषयाविव गृह्यन्ते तेषां स्वग्राहकेन्द्रियेषु लयः इन्द्रियाणां मनसि मनसो बुद्धौ बुद्धेः कारण इति पूर्ववत् द्रष्टव्यमिति | इदानीं प्रलयात् प्रागवस्थात् भर्तृप्रपञ्चभाष्यगतान् दर्शयति प्रलयप्रदर्शनार्थमेव गन्धादिसंहति पृथ्वी च रसान्तानां तथा जलं तेजः त्रयाणां वायुर्द्वयोरेकार्थकं नभः | एवं लक्षणतः पञ्चभूतान्येतानि निर्दिशेदिति | ननु गन्धादिगुणानां उपचयापचय व्यवस्थितानां संहृतिः पृथिव्यादि भूतपञ्चकमिति दृष्टान्तेनैतं प्. ४६२) साधयति - बीजमेवांकुरादीनां यथा कारणमितीष्यते | अंकुराद्यात्मनः तद्वत् बीजमेव तु कारणम् || आद्यन्तयोर्यतो बीजं प्रत्यक्त्वेनावसीयते तस्मात्तन्मध्यकार्येषु बीजमेवास्तु कारणम् इति | एवं ब्रह्मैव कारणमित्यर्थः | व्याख्यायत इति चेत्तत्राह - मूर्तामूर्ताविष्करणं गुणांविष्कृतिरिष्यते इति | अयमर्थः गुणाविष्कृतिर्गुणानामभिव्यक्तिकारणात् सैव भूतानां मूर्तामूर्तशब्दवाच्यानामभिव्यक्तिस्तल्लय एवं तेषां लय इति प्रतिपादनायैतदुच्यते इति भूतलयोर्गुण लयस्तथोत्पत्तिरिति प्रतिपादनायैतदुच्यते इति केचित् गुणशब्देनात्र तन्मात्रग्रहं पुञ्जीकृत्य उक्तविशेषाणां भूतानां कीदृशो लय इत्याह- संहृतोक्तविशेषाणां भूतानां कारणात्मतेतिय पदमध्याहार्यम् वैशेषिकादिप्रस्थानवत् अत्र कार्यः लय इत्यर्थः नन्वत्र भूतलयो न श्रूयते गुणानामेवं तु वै तदत्र श्रुत्युपात्ता प्. ४६३) स्पर्शादयः स्वगुणिवायवाद्युपलक्षणार्थाः अन्यथा सर्वलयासिद्धेरित्यभिप्रेत्याह तत्र स्पर्शग्रहेणैव वायोरंशोऽत्र गृह्यते तेजसस्तु तृतीयांशः चतुर्थोऽपां तथाभुवः पञ्चम इति | गुणानामल्पत्वबहुत्व हेतुक एव पृथिव्यादीनां परस्परभेदोपीत्याहन मतगुणैर्भेद इति | यथा गुणविभागात् भूतविभागः | एवं स्पर्शादीनामेकैकस्यानेकधा भावः पृथिव्यादिभूताल्पत्व बहुत्व हेतुक इत्याह तथा स्पर्शेऽयमिष्यतां गन्धादिषु तथा योज्यो भेदोयं गुणभेदतः इति | भूताल्पत्व बहुत्वहेतुक इत्यर्थः भूतोपचयापचयकृतत्वात् गुणविभागस्य तत्र प्रथमं स्पर्शस्य पञ्चधा भेदं दर्शयति पृथिव्यंशस्य बाहुल्यात् तर्कश्च स्पर्श इष्यते शीतं च पिञ्छिलाद्वापां बाहुल्यात् स्पर्श इष्यते भूयत्वात्तेजसश्चोष्णं सुकुमारस्तथा मरुत् बाहुल्यादिति विज्ञेयो यथोक्तगुणसंश्रयात् नन्वेवमनेकात्मकं चेत् जगत् तस्य कूटस्थ मेवैकरसं ब्रह्म कथं कारणमिति तत्राह- प्. ४६४) ध्वस्ताशेषविकारस्य ब्रह्मणोऽविद्ययात्मनः स एव परिणामः स्यात्तेजो वह्नाद्युपक्रमः | स्पर्शनाच्चात्मनात्यन्त परं काठिन्यमागतं इति | कथमस्य परिणामस्य सिद्धिरिति चेत् इन्द्रियादिजज्ञानं अनुभववेद्यं नानुमेयमित्याह - उद्भूतस्पर्शविज्ञानस्त्वचा तस्य समागमात् स्पर्शभेदपरिज्ञानं ततोऽभित्यज्यते दृशोरिति ननु तज्ज्ञानं स्वयंप्रभं नेत्याह- स्पर्शादिभेदविज्ञानं स्यादचेतनमेव तु स्पर्शादिवत् परार्थत्वात् स्वार्थं तन्न तु साक्षिवत् इति | एवं प्रलयात् प्रागवस्था वर्णिता इदानीं तज्ज्ञानस्य तया सह विवेकद्वारेण प्रतीच्युपसंहारक्रमं दर्शयति | अतीव कठिनं ज्ञानं त्वचा तस्य समागमात् मनसा त्वस्य संयोगे ततः सच्छैव धीर्भवेत् ततोपि सूक्ष्मविज्ञानं बुद्धिसंयोगजं भवेत् यावद्रुधिरसंव्याप्तिः शरीरे तावदेव तु बुद्धेः सामान्यवृत्त्येह व्याप्तिरादेहसंक्षयात् चैतन्याभासवत् प्राणः तां बुद्धिं व्याप्य तिष्ठति अकार्यकारणस्वात्मा तमपह्नुत्य तिष्ठति || इति | अयमर्थः | त्वगादीन्द्रियादिज्ञान मयं तत् स्थूलीभूतं तद्यथा मनसा सविषयं संबध्यते मनोमात्रमिति निरूप्यते तदा तद्विज्ञानं स्वच्छं भवति | स्थूलरूपपरित्यागात् सूक्ष्मं भवति | यदा बुद्ध्या संबध्यते बुद्धिमात्रमिति निरूप्यते सूक्ष्मतरं भवति मनसोपि बुद्धेः सूक्ष्मत्वात् | सा च बुद्धिः सर्वशरीरव्यापिनी तां बुद्धिं साभासकारणात्मा व्याप्नोति | सा बुद्धिः कारणमात्रं कारणमपि कार्यकारणविलक्षणप्रत्यङ्मात्रमिति | इदानीं कतिभिश्चित् वातिकैरात्मानं प्रलयात् प्रागवस्थायां संसारप्रकारं दर्शयति | स्वाभाविक्रप्रलयेपि स नास्ति किमु वक्तव्यं बुद्धिपूर्वप्रलय इति प्रतिपादयितुं | कण्टकादिसमायोगे शरीरे विक्रिया यदा तदाधर्मादितो दुःखं विक्रियातोऽभिजायते इति एतत् सुखबोधम् तच्च दुःखं देहगत्वेनोत्पन्नं देहगबुद्धिगं भवतीत्याह- देहैकदेहं दुःखं विशिनष्टि स्वदेहगांधियमिति | अस्यार्थं कथयति | तद्देश दुःखित्वात् प्. ४६६) दुःखित्वं जायते धियः | इति | कण्टकादियुक्तं देहप्रदेशनिमित्तं बुद्धौ दुःखं जायत इत्यर्थः तस्य दुःखस्य अवच्छित्तये विशेषणाय अन्या बुद्धिवृत्तिर्जायते दुःखोत्पत्तिसमकालमित्याह तस्यावच्छित्तये वृत्तिः दुःखभूत्यैव जायते भोक्तृभोग्याविसंबन्धस्तन्निमित्तोऽयमात्मनः इति कासौ वृत्तिरिति | तामाह बुद्धे सेयमहं वृत्तिः दुःखवच्छेदिनी सती परिच्छिनत्ति बोद्धारं बोद्ध्याप्याभासमात्मनः इति | अस्यायमर्थः - दुःखविशिष्टाहं वृत्तिः वृत्तिमदन्तःकरणं बोद्धारं विशिनष्टि | पूर्वत्र धीशब्देन देहव्यापिनी सामान्यवृत्तिः परिगृहीता स च बोद्धा दुःखविशिष्टस्वान्तर्वतिं नमाभासं जीवाख्यं स्वगतदुःखेन विशिनष्टि स चाभासः स्वगतदुःखं साक्षिणि समर्पयति एवमात्मा संसारीति | ननु सुखदुःखादिविः परिणामकाल एव अहंवृत्त्युद्भव इति कथमुच्यते कालान्तरेऽपि संभवादित्याशंक्याह न बहिर्विक्रियां मुक्त्वा देहेऽहंवृत्तिसंभवः | प्. ४६७) स्वस्थेन्द्रियमनो बुद्धेर्नैवाहमिति वीक्ष्यते इति | समाहितचित्तस्य अहं वृत्यनीक्षणादित्यर्थ | ननु यथा कण्टकादिसमायोगे दुःखं देहावयवयुक्तं भवति तथा पुत्रादिष्वाभिमानिकसं बन्धादपि दुःखं स्यादित्याशंक्याह अज्ञानादभिमानोयं विद्यायां विषयावधौ नतु निस्संगकूटस्थ प्रतीचि स्यादहं मृतिरिति पूर्वत्र विषयज्ञानानां विषयाणां च इन्द्रियेषु लय इत्युक्तं पूर्वपक्षत्वेन | इदानीं सिद्धान्तं दर्शयति न कार्य इति | न कार्यप्रलयो दृष्टो यस्मादन्यत्र कारणात् त्वगारंभकसामान्यं त्वग्गरातोऽत्र गृह्यते इति | एतद्वार्तिकं प्रपञ्चयति वार्तिकद्वयेन कार्यत्वान्नेन्द्रियेष्वेवं विषयप्रलयो भवेत् न मृदान्यत्र कुंभादे शरावे प्रलयो यतः तस्मात्त्वगादयः शब्दास्त्वगाद्यारंभकादि वा सर्वत्र प्रतिपत्तव्या नान्यत्र प्रलयो यतः इति | कार्यत्वादित्यस्यायमर्थः | इन्द्रियाणां विषयकार्यत्वेन विषयप्रकृतित्वादिति | सर्वेषां गन्धानामित्यत्र शब्दादिपञ्चगुण प्. ४६८) विशिष्टा स्थूलपृथिवी गृह्यते | अथवा गन्धस्य अनेकरूपत्वात् सहजो गन्धो गृह्यत इत्याह गन्धशब्दो न कृत्स्ना पृथिवति परिगृह्यते यदि वापरभागोऽस्य गन्धस्यानेकभेदतः इति गन्धस्यानेकभेदं दर्शयति | गन्धो गुरुः क्षितिप्रायोह्लादी शीतो प्रधानतः तेजो भूयस्तया तीक्ष्णो लघुर्वायुः प्रधानतः गन्धोथ विशदो व्यापी स्याद्व्योमाथ प्रधानतः पार्थिवाप्यांशयोस्तेजः परिक्लेदात्तथाऽधमः | दुर्गन्धो जायते गन्धः पापकर्मप्रबोधितः समांशपरिणामे तु सुरभिर्जायते शुभः पुण्यकर्मप्रयुक्तः सन् जन्तोरासंगकृत्तथा इति | पूर्वत्र स्पर्शस्य अनेकधा उक्तः इदानीं गन्धस्य परिशिष्टेष्वप्ययं न्यायः समान इत्याह- रसरूपपरेष्वेवं यथोक्तं प्रतिपादयेत् प्रधानगुणभावेन गुणानां भूतिरूपतेति त्वगारंभकसामान्यमित्यत्रेन्द्रियाणां विषयारब्धत्वमभिहितं | तत्साधयति - असाधारणगन्धादि ग्राहकत्वानुमानतः ग्राह्यं माभूत् प्रधानत्वं घ्राणादिष्वपि निर्दिशेत् प्. ४६९) इति | एतद्वार्तिकं प्रपञ्चयति वार्तिकत्रयेण तल्लिख्यते स्वग्राह्यार्थसजातीयमिन्द्रियं स्यात् प्रदीपवत् || रूपस्यैवावभासत्वं न चेत् शास्त्रोत्र रूपवत् || न चेदर्थसजातीयं सर्वार्थग्रहणं भवेत् एकैकस्येन्द्रियस्येह मनोबुद्ध्योर्यथा तथा सर्वभूतात्मकत्वात्तु सर्वार्थग्रहणं तयोः मनोबुद्ध्योरिति ज्ञेयं अन्यथा तदसंभवादिति | एवं इन्द्रियाणां भौतिकत्वं साधितं इदानीं तेषां किं सामान्यं रूपं किमर्थानि | तानि केन च प्रयुक्तानि तानि व्याप्रियन्ते | मनो बुद्धिविभागश्च कथमित्येतदर्थजातं कथयति वार्तिकत्रयेण | तल्लिख्यतेत्वगादिज्ञानशक्तीनां बुद्धिः सामान्यमुच्यते प्राण एव क्रियाशक्ति सामान्यं तद्वदुच्यते शब्दादिभोगसिद्ध्यर्थं श्रोत्राद्यज्ञानशक्तयः तद्वत् कर्मोपभोगार्थं वागाद्याः कर्मशक्तयः यथोक्तशक्तिविक्षेपो मनोबुद्धिपुरस्सरं संकल्पाध्यवसायाभ्यां तयोर्भेदोपि च द्विधा इति | ननु पादे न हस्तेन्द्रियव्यापारः क्रियमाणो प्. ४७०) दृश्यते | हस्तेनापि पादेन्द्रियव्यापारः चक्षुश्रवाः सर्व इति च श्रूयते तस्मादव्यवस्थेति नेत्याह- योग्येन्द्रियस्य वा यस्य ततोन्यत्रापि लक्षिता वृत्तिस्तस्यैव संज्ञेया न स्वभावविभर्य च | इति | इन्द्रियाणि किमर्थानीत्याशंक्य शब्दादि विधियोपलब्ध्यर्थानीति उक्तं इदानीं शरीरसृष्टिः किमर्थेति | तत्राह- एवं ज्ञानक्रियाशक्तिविक्षेपो जगदात्मनः कारणायतनत्वाय देहाविर्भूतिरात्मनः इति जगदात्मनः आत्मन इति संबन्धः संसार्यात्मनः करणाश्रयत्वेन देहसृष्टिरित्यर्थः कारणानां भूतकार्यत्वमुक्तं अत एव तेष्वेव लयोपीत्याह एवं च सति यद्यस्मात् कार्यमाविरभूत् तत्र तत्रैव विलयं कार्यमेति | स्वकारण इति | ननु यत् यस्मादित्युक्तत्वात् ब्रह्मव्यतिरिक्तमपि कारणं अभ्युपगतमित्याशंक्याह- मूलकारण एवैषां सर्वेषां विलयो भवेत् तत्कारणत्वात्कार्याणां न तु कार्यान्तरेलयः प्. ४७१) इति | ननु ब्रह्मण्येव चेत् सर्वकार्यलयः कथं मृदादौ किं भादिलयप्रसिद्धिः सा भ्रान्तेत्याह पिण्डादिष्वेव प्रात्यक्षात् घटादीनां लयादियं भ्रान्तिः पूर्वेषु कार्येषु लयोऽयमिति मोहतः इति | एषोऽर्थः मृदाद्यापन्नमूलकारणे ब्रह्मणि घटादिलयकाले मृदादीनां प्रत्यक्षेणोपलभ्यमानत्वात् तेषु प्रत्यक्षेषु घटादीनां लयान्मृदादिष्वेव घटादिलयभ्रमो यस्य जायत इति | सर्वकार्यस्य मूलकारणे लयप्रकारं दर्शयति एवं त्वगदि वाऽप्यासु स्पर्शादीनां यथा यथा स्पर्शादिमात्रांबुलय स्तासामपि लयस्तथामनो विषयसामान्ये तस्यापि प्रलयो धियः स्वगोचरैकसामान्ये सरितां सागरो यथा बुद्धेर्विषयविज्ञान सामान्यमपि चात्मनि परस्मिन् लयविक्षेपरहिते परिणामिनीति इदानीं कर्मेन्द्रियतद्विषयाणां परस्मिन् लयप्रकारं दर्शयति वचनादिस्वसामान्य विषयेषु तथालयः कर्मेन्द्रियाणां सर्वेषां तत्सामान्येषु पञ्चस्विति प्. ४७२) अयमर्थः कर्मेन्द्रियविषयविशेषाणां वदनादीनां कर्मेन्द्रियाणां श्रवणादि सामान्येषु लयस्तेषां च सामान्यानां प्राणे लयः प्राणस्यापि कारणेलय इति | इदानीं बुद्धीन्द्रियतद्विषयाणां च प्राणे लयः | प्राणस्य परस्मिन् लय इति प्रतिपादनाय बुद्धीन्द्रियाणां प्राणात्मत्वं स्वं साधयति- परिस्पन्दः प्रकाशश्च ज्ञानशक्तिषु विद्यते केवलं तु परिस्पन्दः कर्मशक्तिषु निष्प्रभः ततः किमिदं ततो भवतीत्याह- सर्वोप्येष परिस्पन्दो बुद्धीन्द्रियसमाश्रयः प्राणात्मक इति ज्ञेयः इति परिस्पन्दस्य प्राणात्मकत्वात् बुद्धीन्द्रियाणां च परिस्पन्दात्मकत्वात् प्राणात्मत्वं सिद्धमित्यर्थः || अत्र प्रमाणमाह- हन्तारेस्यवेति च श्रुतिरिति | पुनरपि बुद्धीन्द्रियाणां प्राणात्मत्वे प्रमाणमाह- षड्विंशशतदृष्टान्तात् प्राणस्यैव तु वृत्तयः कर्मेन्द्रियाणि सर्वाणि तथा बुद्धीन्द्रियाण्यपि आपीतकरणग्रामे पुंसि स्वात्मन्यवस्थिते | ४७३) तदा प्राणाग्नयः शुद्धाः जाग्रतीति श्रुतेर्वचः इति | तस्मात् बुद्धीन्द्रियाणां प्राणे लयः प्राणस्याप्यस्मिन् लयः इति अभिप्रेत्याह सहैव कर्मशक्त्यातो ज्ञानशक्तिर्विलीयते इति प्राणात्मनि श्रुतिश्चाह तस्मिन्निति च सादरेति | अयं च प्रलय पञ्चमान्तेप्युक्त इत्याह साधारणोयं विलयः पञ्चमान्ते विधीयते स्वहेतुमात्रसंसर्गान्नायमात्यन्तिको यतः इति | कथं पञ्चमान्ते लयोऽभिहित इति तद्दर्शयति ज्ञानशक्तिक्रियाशक्तिविभुत्वात् परमक्षरम् व्यूह्यात्मानं जगत्तत्वे स्वात्मन्येव समूहतः इति | तत्राह- निरूह्येति तथा श्रुत्या कारणात्माऽभिधीयते इति कारणात् परमपि तत्वं तत्रैवोक्तमित्याह अत्यक्रामदिति त्वस्य निर्बीजावस्थतोच्यते यतो निरूह्येति मूलकारणमभिधीयते त एवात्रापि श्रुत्या संहारक्रमो भण्यत इत्याह- यत एवमतोऽशेष ज्ञानशक्तिलयात् परम् सर्वकार्योपसंहारि प्राण एकोऽवतिष्ठते इति | प्राणशब्देन प्राणवृक्तिरभिधीयते न प्. ४७४) मुख्यप्राणः सर्वकार्योपसंहर्तृत्वं च तस्य घटत एव | तस्मिन् प्राणे सति सर्वव्यवहार प्रवृत्तेः तस्य च प्राणस्य अपाने लय इत्याह प्राणोपाने तथापानो व्यानात्मनि विलीयते व्यानोप्युदानमप्येति ह्यदानोपि समानगः समानशब्देन मूलकारणमुच्यते इत्याह - कारणात्मैव जगतः समानोक्त्याऽभिधीयत अयं च प्रलयो न बुद्धिपूर्व इत्याह- सर्वसाधारणः सोऽयं प्रकृतः प्रलयोमतः इति ननु भवत्वयं प्राकृतः प्रलयः तत्र सर्वलयो अस्ति वा नवा यद्यस्ति तन्न घटते | यतो मूलकारणस्य प्रज्ञानघनत्वं श्रुत्योच्यते माण्डूक्योपनिषदिः प्रज्ञानं चान्तःकरणपरिणामो अतोऽन्तःकरणं प्रलयेपि तिष्ठतीति तत्राह- प्रज्ञानघनताप्यस्य न बुद्धिप्रज्ञयोच्यते प्रत्यक्प्रज्ञोत्थिताभास संबन्धात् प्राज्ञ उच्यते इति | ननु आत्माभाससंबन्धात् करणस्य प्रज्ञानघनत्वं चेत् कारणत्वात्मनो भेद इति | नेत्याह- यन्निमित्तं प्रमाणानि प्रामाण्यमिह बिभ्रति प्. ४७५) तदविज्ञातयाथात्म्यमेतत् कारणमुच्यते | एकविज्ञानात् सर्वविज्ञानप्रतिज्ञावचनमपि एवमेवावकल्पत इत्याह- यस्मिंश्च ज्ञाते अखिलं ज्ञातं जगदेतच्चराचरम् अज्ञाते च तथाज्ञातं एतदेव तदुच्यते | इति | नन्विह प्रलयश्रुत्या विषयस्यैवं भण्यते | करणस्य तु नैवोक्तस्तर्कवादिभिः भण्यते स्वगोचरसजातीयं करणं मन्यते श्रुतिः विषयस्य लयोक्त्यातः करणप्रलयोक्तता | एवं मन्तव्य आत्मा यतः स्तर्कतः प्राग्यथोदितः दुन्दुभ्याद्युक्तदृष्टान्त न्यायमार्गेण यत्नतः आत्मसामान्यसंभूति लयहेतुसमाश्रयात् आत्मैव सर्वमित्येष प्रतिज्ञार्थः समर्थितः स्वाभाविकोयं प्रलयः इति पौराणिका जगुः बुद्धिपूर्वस्तु विलयः सम्यक् ज्ञानैकपूर्वकः | इत्येतानि सुखबोधानि | बुद्धिपूर्वप्रलयात् स्वाभाविकप्रलयस्य को विशेष इत्याह शक्तिमात्रात्मना स्थानं कार्याणां ये स्वकारणे इत्यनात्मिकलयो भूयो जन्मकृतक्षणः इति एवं स्वाभाविकप्रलय उक्तः इदानीं आत्यन्तिक प्. ४७६) प्रलयप्रकाशनाय स यथा सैन्धवखिल्य इत्यादि वाक्यमित्याह- अतीतागतेहत्य जन्मनाशादि हेतुकृत् वस्तुधी पूर्वकोध्वंसस्तदक्षेयं पराश्रुतिः इति | कार्यकारण प्रपञ्चस्य तद्विलक्षणे पत्यगात्मनि यथा ज्ञानाद्विलयो भवति तथा प्रतिपादनादयं दृष्टान्तमाह - यथोक्तवस्तु सिद्ध्यर्थं दृष्टान्तोयमिहोच्यते | इदानीं पदार्थव्याख्यानं प्रारभते- यथा सैन्धवखिल्योस्तं स्वयोनाणुदधाविह कठिनोदकविलय मनुखिल्यो विधीयत इति इत्यलीनहास्येत्यादि वाक्यार्थं सार्धवार्तिकद्वयेन कथयति | तल्लिख्यते - विलीनस्याद्भ्य उद्धृत्य ग्रहणाय न कश्चन निपुणोपि नरः शक्तः खिल्यरूपेण पूर्ववत् सामुद्ररूपान्नान्येन गृहीतुं कश्चन क्षमः आददीत समुद्रांभः तज्जिघृक्षुर्यतो यतः ततस्ततस्तल्लवणं वेत्ति खिल्यं न कुत्रचिदिति इदानीं यथा सैन्धवखिल्योस्त इत्येतद्वार्तिकं वार्तिकषट्केण प्रपञ्चयति तत् क्रमेण प्. ४७७) व्याख्यायते - प्रथमं खिल्यत्वे निमित्त कथनपूर्वकं सैन्धवखिल्यपदयोरर्थं कथयति | सामुद्रमंभः खिल्यत्वं याति भानुविभावतः सिन्धोरायातः स यतः तस्मात् सैन्धव उच्यते असंभिन्नस्यावयवात् खिल्यः सोऽथ निगद्यते सोयं सैन्धवखिल्योक्तो यथैवेह महोदधौ तेजोविरोधिनीं प्राप्य प्रतिकृतिं विजहात्यथ इत्यस्यायमर्थः तेजः संपर्कादुदकं खिल्यरूपेण परिणतं तत उदकान्तं तेजोविरोधिनी प्रकृति प्रस्ताप्राप्य विजहातीति | तत्राह तेजोवियोगात् काठिन्यं स्वच्छीभवति तद्घनं इति | काठिन्यं निवर्त्यत इत्यर्थः काठिन्यं निवर्त्यत इत्युक्तमिदानीं तद्धर्मीपि निवर्तत इत्याह - काठिन्यकारणध्वस्तौ खिल्यस्येह महोदधौ | कठिनोदकविध्वंस मनुखिल्या विलीयत इति | किं तर्हि तिष्ठति क्षारजलमेवेत्याह- यदेवाकृत्रिमं रूपं तदेवास्यावशिष्यते | तेजोऽवयवसंबन्ध समुत्थं विनिवर्तत इति न तेजोऽवयव कारणं पार्थिवाप्यावथवाश्च प्. ४७८) कारणमित्याह तेज आद्यमित्यपि संबन्ध कारणं खिल्यरूपिणः तद्भावभावतस्तस्य तध्वंसै ध्वंसतस्तथेति | इदानीं दार्ष्टान्तिकवाक्यं व्याख्यायतत्याह - एवं एवा अरे इत्यस्य कार्यकारणरूपतः प्रतीचो वास्तवं वृत्तं विरुद्धमभिधीयत इति महत् भूतपदयोरर्थं कथयति | अव्यावृत्तानुगत ब्रह्मत्वप्रतिपत्तये | महदित्यभिधानं स्यात् कौटस्थ्यार्थं च भूतगीः इति | महदित्यादिवाक्यस्य तात्पर्यमाह- वास्तवं वृत्तमाश्रित्य प्रतीचः प्राक् प्रबोधत स्वतः सिद्धस्य विज्ञाप्त्यैव महदित्यादि भण्यते इति | महदित्यादिरूपमात्मनः सदा सिद्धमेवेति प्रतिपादनाय महदित्यादि वाक्यमित्यर्थः कारणस्य निषेधोक्तिः अनन्तमिति तद्वचः अपारमिति कार्यस्य पारं कार्यस्य कारणम् कारणस्य तथा कार्यं अतोऽनादेः प्रसिद्धितः जात्यन्तरनिषेधाय विज्ञानघनधीरूपि इति वार्तिकद्वयं पदार्थविवरणपरं प्रसिद्धार्थं महदित्यादि पदार्थव्याख्यानाकूटमिदानीं प्. ४७९) महदित्यादिवाक्यार्थज्ञानफलमाह- क्षेत्रज्ञाकाशयोरेवं कार्यकारणसंगतिः अस्ति स्थानीयमैकात्म्यं प्राप्योक्तं विनिवर्तते महदित्यादि वाक्याद्दुत्पन्न ज्ञाना दब्धिस्थानीयमैकात्म्यं प्राप्य तद्रूपेण स्थितस्य संगतिर्विनिवर्तते | कार्यकारणात्मजगद्विनिवर्तत इत्यर्थः संगतिरेव प्राप्तिकर्त्रेति केचित् कार्यकारणध्वस्तिफलमाह- कार्ये कारणविध्वस्तौ ब्रह्मैकात्म्य प्रबोधतः सविशेषात्मलाभोस्ति खिल्यस्येव महोदधौ इति | यथा प्रलयात् प्रागवस्थावस्थिता तथा अहं ब्रह्मास्मीति वाक्यार्थज्ञानात् प्राक् अवस्थैतेभ्य इत्यादि नोच्यत इत्यत्राह तेजः संबन्धमासाद्य यथान्तः खिल्यतामगात् तथैवाज्ञानभूतेभ्यः परः क्षेत्रज्ञतां ययौ इति | भूतशब्दार्थं कथयति- कार्यात्मापचयं गच्छन्यत्र निष्ठां निगच्छति | कान्यनिभूतानि अविद्येति प्राहुस्तर्यन्तनिष्ठता इति | सर्वं कार्यं यत्र लीयते तन्मूलकारणमविद्याभूतशब्देनोच्यते इति प्. ४८०) न क्षेत्रज्ञत्वमेवाविद्याकृतं समुत्थानं परस्य किन्तु समस्तकार्यकारणात्मत्वं अविद्याकृतमित्याह- परः कारणकार्योभ्यः आत्मापूर्वत्वकारणात् एतेभ्योऽविद्याभूतेभ्यः कार्यकारणतामगादिति | कारणादेरविद्याकृतत्वफलमाह यतोऽविद्यैव तद्धेतुस्तदुच्छित्तावतो न सत् कार्यकारणभेदोयं ब्रह्मास्मीति प्रबोधतः इति | भेदनिवृत्तिफलमाह- तस्मिन् ध्वस्तैऽथ संबोधात् केवलैकात्म्यशेषतः विशेषसंज्ञा नाप्यस्य पूर्णप्रज्ञप्तिमात्रतः इति | पुनरपि समुत्थानशब्दार्थं प्रपञ्चयति | अविचारितसिद्धीनि यान्यविद्येत्यवादिषं एतेभ्यो हेतुभूतेभ्यो भूतेभ्यो कार्यकारणं कार्यकारणवद्रूपं समुत्थायेति शब्द्यत इति समुत्थायेत्यत्र समुत्थायशब्देन कार्यकारणस्य ब्रह्मणं कार्यकारणवत् रूपं भण्यत इति प्रपञ्चयति- अविद्यासंगतेरस्य जायतेऽनेकरूपवान् | चेतनाचेतनाभास आत्मानात्मत्वलक्षण इति प्. ४८१) कार्यकारणरूपमात्मनः परतश्चेत् कस्य तर्हि तत् स्वत इति तत्राह- कार्यकारणरूपेण मिथोपेक्षाश्रयं तमः कार्यकारणतां यातं आत्माप्येवं तमोवशात् इति बहुरूपत्व आभासेनापि भवितव्यमित्याह- स्वाभासैर्बहु ता ते मति मनोबुध्याद्युपाधिभिः इति | इदानीं समुत्थानक्रमं दर्शयति तमो हेतुसमुत्थानं न वेद्मीत्यग्रहात्मकं मिथ्याज्ञानं तमः कुर्वन्नीदृगेव करोति तदिति क्रमो ज्ञानं मिथ्यात्मसंभ्रान्तिज्ञानं कुर्वन् न वेद्मीत्येवं विधं मिथ्याज्ञानं कृत्वैवेतरत् करोतीत्यर्थः- अविद्याकार्यबुद्धिस्थ प्रत्यगाभासरूपवत् बोद्धेत्यादिसमुत्थानं भण्यते परमात्मनः श्रोता स्प्रष्टेति रूपः स्यात् तथैवेन्द्रियवृत्तिभिः दुःखी गौरा द्विजश्चेति शरीरोत्थानतः परम् धनी गोमान् दरिद्रो वा धनाद्यर्थाभिसंगतेः अतद्वानपि संमोहात् यथोक्तात्मकतामगात् प्रत्यग्याथात्म्यमोहोत्था विरिञ्चोपक्रमः विषः क्षेत्रज्ञभेदेन ह्यास्थाणो रुत्थितिर्दृशेरिति | प्. ४८२) एतानि वाक्यान्युत्थानक्रमनिमित्त द्योतकानि सुखबोधनि | प्रागवस्थावर्णितेदानीं तान्येवेत्यादेरर्थमाह- यथा वस्तु यदा बोधो वेदान्तोक्तिश्रुतेर्भवेत् तदा नश्यन्ति भूतानि येभ्यः क्षेत्रज्ञतां गतः अभ्यस्यमानो बोधोऽविद्यानिवर्तक इति नेत्याह स्वरूपलाभमानेण सम्यग्बोधोऽखिलं तमः यतो हन्ति तमो नासैः प्रयोगं प्रविवक्षतीति अत्र दृष्टान्तमाह- व्यंग्येष्वर्थेषु नावृत्त्या व्यञ्जको हन्ति तत्तमः व्यञ्जकस्य स्वाभावोयं न प्रयोगमपेक्षते इति ननु ब्रह्मात्मैक्यज्ञानात् अज्ञाननिवृत्तिश्चेत् ब्रह्मात्मनोरैक्यमस्ति तदा ब्रह्मणः परोक्षत्वं आत्मनः संसारित्वं च कथमिति | तत्राह- मोहतत्कार्यनीडो यस्तस्याज्ञानसमन्वयात् प्रत्यगात्मापि तं ब्रह्म परोक्षमभवन्मृषा तद्वदद्वयतात्वोपि तदसंबोधहेतुतः | आत्मा संसारितां यातो यथा कार्ष्ण्यं पयस्तथेति आत्मब्रह्मणोरन्योन्यभावस्य स्वतः सिद्धत्वेपि अविद्यया ब्रह्मणः परोक्षत्वं आत्मनश्च संसारित्वं प्. ४८३) इत्युक्तं स्वतः सिद्धादेव ज्ञानमात्रात् तत्प्राप्तिरित्याह- आत्मनो ब्रह्मता यस्मात् ब्रह्मणोऽध्यात्मता स्वतः तमोमात्रान्तरायत्वात् तद्ध्वस्तावेव साप्यतः इति | ननु ज्ञानोदयमात्राद्यद्यपि अविद्या निवर्तते तथापि तत्कार्यमभ्यासव्यतिरेकेण न निवर्तत इति तत्राह- सर्वदात्मेति सम्यग्धी जन्मनैवाखिलं तमः ध्वंसमेति ततः संज्ञा नाडविद्योत्थावशिष्यते इति | नन्वात्मज्ञानस्य कार्यत्वे आत्मनोऽपि जडत्वमागन्तुकज्ञानत्वात् नैतत्सारं वाक्योत्थज्ञानादेः कादाचित्कत्वं न स्वरूपज्ञानस्येति अभिप्रेत्याह सदोत्पन्नात्मनिमितिमुत्पाद्याकारणादिधीः | यत्कारणधियः पूर्वं प्रतीची ब्रह्मधीस्तत इति कारणविज्ञानात् पूर्वमूर्ध्वं च स्वरूपज्ञानं ब्रह्मात्मनः सदा अस्त्येवेति न जडत्वप्रसंग इत्यर्थः | नन्वात्मज्ञानं सदारस्ति कारणादिज्ञानजन्यमिति वदता भेदोऽभ्युपगतस्तदा नात्मज्ञानात् सर्वस्य ज्ञेयत्वमिति | तत्राह- प्. ४८४) अपास्तशेषभेदस्य यद्रूपं भेदवद्गतं तज्ज्ञानेनैव तत् ज्ञातं तदस्यानविशेषतः इति निर्गतशेषभेदस्य प्रतीचो यदाकाशादिभेदवद्रूपं तत्तज्ज्ञानेनैव निर्गताशेषविशेषज्ञानेनैव तज्ज्ञातं तावन्मात्रत्वादिति | एवं तर्हि जगतोपि सत्यत्वमिति | न बाध्यत्वमिति चेन्न प्रतिभानरूपापेक्षया बाध इत्याह- अहेतुफलरूपेण प्रतिभा तद्विलक्षणम् | कार्यकारणवज्जग्धा दद्यैवेको विशिष्यते एकोऽवशिष्यत उक्तं एकत्वं साधयति | प्रत्यङ्मात्रेक्षणादात्म मोहतज्जनिराकृतेः असंभवाद्द्वितीयस्य स्वादुपूर्वादिमानहं इति | अथवैकत्वसंख्येत्याशंक्य तत्परिहारार्थमिदं वार्तिकम् | तदन्यानवशेषत इति | अतः सर्वस्य आत्मत्वमुक्तं तत्रेदमाशंक्यते ननु सर्वस्यात्ममात्रत्वे घटादि ज्ञाने ज्ञापिज ब्रह्म ज्ञातं भवेत् | किं वाक्यज ज्ञानेनेति तत्राह- व्यपेक्षततमसस्तत्वं आगमापायि सात्मनः ज्ञानेन गम्यते साक्षात् तावन्मात्रानुरोधिनेति प्. ४८५) ज्ञानान्तरमाकारान्तरं गृह्णातीत्यर्थः | ज्ञानान्तरमाकारान्तरं गृह्णाति इत्युक्तत्वात् भेदः | ततश्च न तत् ज्ञानात् सर्वस्य ज्ञेयत्वमिति | तत्राह- दृष्टिमात्रात्मयाथात्म्यात् कार्यकारणवस्तुनः नाज्ञातं क्वचिदप्यस्ति नानपास्तं तमोप्यतः इति | न प्रेत्यसंज्ञास्तीत्यस्यार्थमुपसंहरति तत्र चोद्योद्भावनाय- क्षेत्रज्ञेश्वरभेदेन संज्ञानो नैह विद्यते तद्धेतौ तमसि ध्वस्ते कुतः संज्ञानिमित्ततः इति संज्ञा प्रेत्यात्मओ नास्तीति एत * * चूचुदत् शंकमानात्मनो नाशः * * * * * * मादरात् विज्ञातेन घनोक्त्या च असंज्ञावचसा तथा उक्तेर्मिथो विरोधित्वात् मनो मोमुह्यते मम इत्येतद्वार्तिकद्वयं प्रसिद्धार्थं चोद्यं परिहरति अविरुद्धं सुविस्पष्टं मया तुभ्यं प्रभाषितम् | स्वापराधात्तु मद्वाक्यं विरुद्धार्थं त्वमीक्षसे इति | कथमविरुद्धमुक्तमिति | तत्राह- विज्ञानैकत्वनोक्त्याहं कृत्स्नैकात्म्यं तवाश्रवं संज्ञानाशे न चाविद्या हेतूत्थापह्नुतिस्तथेति | प्. ४८६) उत्तरार्धस्य प्रपञ्चः- विशेषसंज्ञा यास्याऽभूत् विज्ञानात्मादिलक्षणा सम्यग्धीर्ध्वस्तमोहस्य सा कृत्स्ना विनिवर्तते | इत्येतत् पूर्वभागस्य प्रपञ्चः- यत्त्वपारमनन्तं च वास्तवं ज्ञानमात्मनः कूटस्थं तत्स्वतः सिद्धेस्तत्कस्मात् विनिवर्तते इत्येतत् | इतीममर्थं भार्यायै याज्ञवल्क्योप्यभाषतेति | एतत्सुबोधं अलमित्यस्यार्थमाह कार्यकारणनाशेषु स्वतः सिद्धमनन्यतः यद्वस्तु तदेव स्वात्मसंवित्तौ निरपेक्ष इति यत्र हीत्यादिवाक्यस्यार्थमाह- यत्राज्ञातः स तत्वात्मा विद्या संवीतशेमुषि | तत्र मिथ्याग्रहग्रस्तो द्रष्टमश्यादिभेदधीः इति | यदा स्वस्वरूपं न जानाति तदा अद्वैतदर्शी भवतीत्यर्थः- यत्राज्ञातार्थयाथात्म्यं तत्तमोपिहितेक्षणः तत्राविद्योत्थ बुद्ध्याति * * भूतात्मविन्नरः इत्येतत् पूर्वस्य प्रपञ्चः | यत्र हीत्यत्र हि शब्दार्थं कथयति- अविद्यामात्रशेषत्वं जगतः प्रागवादिषं प्. ४८७) नत्व विद्या कार्यदिदं नीतिहेतावतः पदमिति अविद्याकार्यं द्वैतमिति प्रतिपादनाय हि शब्द इत्यर्थः एनमर्थं दृष्टान्तेन साधयति सतोऽभिव्यञ्जकं मानं स्वभावो यदि ते भवेत् अविद्यायाः स्वभावोऽयं यादसत् कारणं स्मृतेति यथार्थबोधकं प्रमाणं | तथा यथार्थबोधकमविद्येत्येवं तावद्व्यवस्था | तत्र अविद्यास्वभावो अद्वैतप्रपञ्च इति प्रतिपादनाय हिशब्द इत्यर्थः | ननु कथं हि शब्दस्यैवं विधार्थद्योतकत्वं तत्राह- उक्तहेत्वर्थदीप्येत धीति तस्य निपातितः इति | द्वैतादिपदार्थं कथयति- द्वीतन्वितेतमेकं सत् तद्भावोऽद्वैतमुच्यते उपमार्थ इवेत्येतत् भवतीति क्रियापदमिति मास्ता स्वप्नमद्वैतं जाग्रद्वैतमित्यर्थः ननु विदुषोपि द्वैतदर्शनात् कथं तत्तुल्यतेति नेत्याह - तत्रैव अविद्यावस्थायां संज्ञेयं युज्यते मृषेति | उपमाथमिवेत्यत्र चोदयति ननु द्वैतमिवेत्येतदुपमानं कथं भवेत् द्वैतं वस्तु न चेदस्ति सर्वस्यैकात्म्यमात्रतः प्. ४८८) इति | नेदं चोद्यमित्याह- नैष दोषो यतो दृष्टः एकस्मिन्नपि वस्तुनि उपमेयोपमाभावो दिग्धीरिव विहायसीतिः अयमर्थः | आकाशव्यतिरेकेण दिशो न सन्ति प्रमाणाभावात् तथाप्याकाशं दिग्वद्विभातीति प्रयोगो दृश्यते | एवं यद्यप्यात्मव्यतिरेकेण द्वैतं न संभवति | तथापि द्वैतमिवेत्यतिप्रयोगो घटत इति | एकस्योपमानोपमेयभावे दृष्टान्तान्तरमाह- रामरावणयोर्युद्धं रामरावणयोरिव | यथा प्रसिद्धो जगति तथैवेहापि गम्यताम् इति | अथवा मया सिद्धं द्वेतदुपमानमित्याह अद्वैतात् परमार्थाद्वा मायाद्वैतमषीक्षते तेनोपमानसंसिद्धेरिति | महामाया विनाप्रदर्शित द्वैतमिव स्वाविद्यया निर्मितद्वैतमात्मा भवतीत्यर्थः | ननु मायासिद्धद्वयस्य माया सिद्धमेव द्वयं कथं दृष्टान्तस्तत्राह- यथा स्वप्नेन्द्रियजालयोरिति | इन्द्रजालवत् स्वप्नं स्वप्नजालवदिन्द्रजालं इति | यथा प्रयोग एव तत्रापि भविष्यतीति लोकप्रसिद्धिबलादपि प्. ४८९) मायादृष्टद्वैतसिद्धान्त इत्याह- मिथ्येव भाति सत्योपीत्यपि लोकेऽभिधीयते मिथ्याभावो न चास्तीति वक्तुं कश्चिदपि क्षमः इति | यत्र मिथ्यादिवाक्यं समस्तव्यस्त पक्ष निराकरणपरमित्याह- समस्तव्यस्तता रूपं यो वक्तीहात्मनः श्रुतेः तत्परस्यानिषेधोयं यत्र हीत्यादिनोच्यते इति | एवं तात्पर्यमुक्त्वा करव्याख्यानं करोति तस्यामविद्यावस्थायां स्वप्नावस्थां गतो यथा प्रातेतरः सन्निकरं गन्धं घ्राणेन जिघ्रतीति अत्र तावद्वाक्ये घ्राता घ्रेयश्च शब्दसामान्यादेव प्रतीयते | तत्र घ्राणेन्द्रियं तस्य विषयसंबन्धप्रयोजकं दृष्टं दृष्टकारणार्थादुपात्तमित्याह- घ्रातृघ्रेयादिसंबन्धात् प्राणाद्याहृतिरिष्यते इति | जिघ्रतीत्यत्र गन्धज्ञानं शब्दत एव भाति तत्र तत्फलसंवेदनमपि ग्राह्यमित्याह जिघ्रतीत्यपि निदेशः क्रिया तत्फलयोर्भवेत् | इति | उत्तरेष्वपि वाक्येषु योजनेयं यथोदितेति प्. ४९०) एतत् सुबोधं इदं ग्राहकाद्यविद्या कृतमित्युपसंहरति प्रत्यगज्ञानमात्रोक्तं ग्राहकाद्यत्र भण्यते | एतदेव स्पष्टयति- क्रियाकारकसंज्ञाया विषयोयं समीरितः इति अविद्याकृतत्वादेव विद्यया तन्निवृत्तिरित्याह अतोऽविद्यासमुच्छित्तावियं संज्ञा निवर्तते || इति एतेभ्यो भूतेभ्यः समुत्था ये इत्येतद्वाक्यं व्याश्वातं यत्र हीत्यादि वाक्यार्थो | यत्र वा अस्य सर्वमात्मैवाभूदित्यादिनोच्यते इत्याह- विज्ञानघन इत्युक्तेर्विषयोयमथोच्यते यत्र व इति वाक्येन | ध्वस्ताविद्ये विपश्चितीति | एवं तात्पर्यमुक्त्वा पदार्थ प्रधानं करोति - यत्र तस्यात्मनोऽज्ञस्य शास्त्राचार्य प्रसादतः प्रत्यक् याथात्म्यविज्ञान भास्वत् भास्करदीधितिः संप्लुष्टनिखिलाविद्ये तत्र कं केन किं वद जिघ्रेदैकात्म्यमात्रेण सर्वस्यास्यात्ममात्रतः इति | आत्मनो अज्ञस्येति षष्ठी समम्यर्थे शास्त्राचार्यप्रसादत इत्यतः उपरिष्ठादुत्पन्न पदमध्याहार्यं एतदुक्तं भवति | आत्मनि प्. ४९१) आत्मनि अज्ञे किं लक्षणे शास्त्राचार्यप्रसादतः उत्पन्न प्रत्यग्याथात्म्य विज्ञान भास्वत् भास्कर दीधीति संप्लुष्टनिखिलाविद्ये इति | ननु विदुषोपि द्वैतमस्ति प्रतिभानात् कथमात्ममात्रत्वमिति | तत्राह- षष्ठगोचरवत्सर्वं कार्यकारणवज्जगत् स्वस्वस्तात्माध्यस्य विदुषः सम्यक् ज्ञानोदयो भवेदिति | तर्हि किमवशिष्यते इति | तत्राह अव्यावृत्ताननुगतमिति हेतु सदेकलं विज्ञानघनं आननमैकात्म्यं व्यवतिष्ठत इति || विज्ञानघनपदार्थं कथयति- ग्राहकादिविभागोत्र नास्ति तद्धेत्वसंभवात् चिन्मात्रस्य स्वतः सिद्धेः विज्ञानघनगीरतः इति | कारणादिविभागं प्रत्यगात्मनि नास्ति तद्धेत्वसंभवादित्युक्तं | कारकादिविभाग कारणमिति चेत् तद्दर्शयति | आत्माविद्यामनाश्रित्य कारकत्वं न लभ्यते कारकं चानपाश्रित्य न क्रियेहत्र सिद्ध्यति | अन्तरेण क्रिया तद्वत् फलं नैव प्रसिद्ध्यति कारकाद्यात्मना सेयं अविद्यैव प्रकाशते इति प्. ४९२) अतः किमिदं ततो भवतीत्याह- यत एवमतो विद्यासमुच्छित्ताविदं जगत् व्याकृताव्याकृतं कृत्स्न आत्मतामेति बोधत इति | ननु सुप्त्यादावात्ममात्रेण समाप्तमप्युत्तिष्ठति | एवं ज्ञानादात्ममात्रेण समाप्तमप्युत्तिष्ठेदित्याशंक्याह- भूयोपि लभते संज्ञां लीनं सत् कारणात्मनि जगदेतद्यथा तद्वत् नाविद्या विलये भवेदिति | येनेदमित्यादिवाक्यस्य अर्थमाह- ज्ञानोत्पत्तौ न संज्ञास्तीत्यास्तां तावदिहात्मनः अपि सत्यात्मविद्यायां न संज्ञास्त्यात्मनीदृशीति अस्मिन्नर्थे वाक्यं योजयति | ग्राहकादि जगत्सर्वं येन कूटस्थसाक्षिणालोकः सर्वो विजानाति जानीयात् केन तं वदेदिति अचेतने जगत्यस्मिन् साक्ष्येवैको न चेतनः ग्राहकादि न तत्रापि साक्षिसिद्धावपेक्ष्यते | इत्येतत् पूर्वस्य प्रपञ्चः साक्षिणोऽन्यत्र चेतन धातोरभावात् अविद्यावस्थायामपि आत्मनि ग्राह्यग्राहकादि विभागज्ञानं नास्तीत्यर्थः विज्ञातारमरे केन विजानीयादित्यस्यार्थमाह प्. ४९३) संज्ञेयं किमु विध्वस्त संसारानर्थकारणे उदितैकात्म्ययाथात्म्य सम्यग्ज्ञान दिवाकरः इति | किंच प्रमातर्यपि ग्राह्यग्राहकादि विभागो नास्ति किमु तत्साक्षिणीत्याह- बोद्धारमपि चापेक्ष्य न संज्ञा प्रत्यगात्मनि बोद्धृतज्ज्ञानविषयैर्न बोद्धा गृह्यते यतः इति तस्मात् अविद्याशरीरैवेयं विशेषसंज्ञावस्तु निश्चितौ नास्तीत्युपसंहरति- अविचारितसंसिद्धिः प्रमातादि स्वलक्षणा संज्ञेयं प्रथते मोहात् न त्वसौ वस्तुनिश्चिताविति इदानीं ब्राह्मणार्थमुपविषयैर्न बोद्धा गृह्यते यत | इति | तस्मादविद्याशरीरैवेयं विशेषसंज्ञा वस्तुनिश्चिता नास्तीत्युपसंहरति | अविचारितसंसिद्धिः प्रमात्रादि स्वलक्षणा संज्ञेयं प्रथते मोहात् न त्वसौ वस्तुनिश्चितौ इति | इदानीं ब्राह्मणार्थमुपसंहरति- यत एवमतः सिद्धं दर्शनं प्रत्यगात्मनः श्रुत्यादिसाधनं साक्षात् सर्वमात्मेत्युदीरितं इति चतुर्थस्य चतुर्थं ब्राह्मणम् परमात्मस्वरूपभट्टारकस्येयं वार्तिकटीका | प्. ४९४) श्री हरिः ओम् | नमो नारायणज्ञान ज्ञातृज्ञेयात्मबोधिने जग्धाशेषमहाविद्या तर्ज्जानथाय विष्णवे || इति | ननु शास्त्रारंभे शास्त्रसमाप्तौ चोचितो नमस्कारः कथमस्थाने स कृत इति चेदुच्यते मधुकाण्डोपसंहाररूपमिदं ब्राह्मणमतो नमस्कारः प्रशस्त एव | अथवा पदार्थद्वयं ब्राह्मणशब्देन व्याख्यातमनु वाक्यार्थो भण्यते | अतो वाक्यार्थश्रद्धातिशमैकात्म्यनिष्ठितं | सन्याससाधनं प्रोक्तममृतत्वैक साधनः | शयज्ञापनाय नमस्कार इति न दोषः | अपि च शास्त्रमध्येपि मंगला चरणं शिष्टा स्मरन्ति | नमस्कारोऽपि मंगलाचरणमतो नमस्कारोपि मध्ये बुद्ध्यत इति नमस्कारं कृत्वा वृत्तमनुद्रवति | संगतिप्रदर्शनाय- प्रत्यग्ध्वान्तसमुच्छेदि ज्ञानमैकात्म्यनिष्ठितम् सन्याससाधनं प्रोक्तममृतत्वैकसाधनम् हेतवोपि च तत्सिद्धौ श्रवणादिपुरस्सराः उक्तं यथावदत्रैव श्रोतव्यः श्रुतिवाक्यतः प्. ४९५) मन्तव्यो हेतुभिः सूक्ष्मैः उक्तदृष्टान्तबोधितैः चित्सामान्यचिदुत्पत्ति चिदेकप्रलयात्मभिः इति | इदानीं सगतिमाह- आशंक्य हेत्वसिद्धत्वं अयं ब्राह्मणमुच्यते इति | हेत्वसिद्धिः कथमिति चेदुच्यते | इत्याह कुतोसिद्धत्वमिति चेच्छृणु तद्गदतो मयेतिः निस्सामान्यविशेषत्वात् चित्सामान्यं कथं भवेत् चिदुत्पत्तिलयासिद्धिः सांख्यादीन् प्रतिवादिन | इति अयमर्थः | निर्गतसामान्यविशेषत्वात् चिदात्मा कथं सामान्यं स्यात् | कथं वा जगदुत्पत्तिः प्रलयाख्या हेतुरभिहितो मधुब्राह्मणेन प्रतिज्ञा निगम्यत इत्याह- प्रतिज्ञायाथ चैकात्म्यं हेतूनुक्त्वोक्तसिद्धये | निगमायोत्तरो ग्रन्थः प्रतिज्ञाया विवक्षित इति प्रतिज्ञातार्थसिद्ध्यर्थं हेतूनुक्त्वा पृथग्विधान् हेतोर्निर्गमनं पश्चात् क्रियतेऽथोत्तरोक्तिभिः इत्येतत् पूर्वस्य प्रपञ्चः | हेतव इव निगम्यन्त इति केचित् | श्रवणादिपदार्थत्रयं अधस्तादुक्तं तत्र श्रवणमननपदार्थेन व्याख्यातावत्र निदिध्यासनं व्याख्यायते || अतस्तदर्थित्वेन प्. ४९६) मधुब्राह्मणारंभ इति भर्तृप्रपञ्चमतमनूद्य निराकरोति | निदिद्ध्यासनसिद्ध्यर्थं केचिद्व्याचक्षते परम् मधुब्राह्मणमेतत्तु न युक्तं प्रतिभाति नः इति | अयुक्ततां प्रपञ्चयति- श्रुत आगमतो योऽर्थः तकैणापि समन्वितः स एवार्थः सुनिष्णातो निदिध्यासनमुच्यते | इति श्रवणमननयोः फलं वाक्यार्थज्ञानं निदिध्यासनशब्देनोच्यते न भवदभिप्रेतं ध्यानमित्यर्थः शास्त्राचार्यानुभवैनेह हेतुभिश्च समन्वितः ईदृगैकात्म्यसंबोधो निदिध्यासनमुच्यते | इत्येतत् पूर्वस्य प्रश्नतो ग्रन्थविभागकरणमनर्थकमेवेत्याह- निदिद्ध्यासनसिद्ध्यर्थे यत्नोयमतोऽयमनर्थकः प्रत्यग्याथात्म्य संबोधमात्रत्वादेव हेतुत इति एवं परपक्षं निराकृत्य स्वसंबन्धपक्षे वाक्यं नियोजयति- क्रियाबलोपभोगार्थं सर्वैरेव स्वकर्मभि जन्तुभिः पृथिवी पृष्ठा मधु तेषा ततो महीपृथिव्याप्यात्मभोगार्थं सृष्टाः सर्वेऽपि जन्तवः | प्. ४९७) पृथिव्या अपि कार्यत्वात् मधु तेपि भवन्त्यतः इति वार्तिकद्वयं प्रसिद्धार्थं | पृथिव्याभूतानां सृष्टत्वे हेत्वन्तरमाह- पार्थिवानि शरीराणि सर्वेषां देहिनां यतः पृथिव्या तानि सृष्टानि पृथिव्यन्वयदर्शनादिति भूतानां पृथिव्याश्च कार्यकारणत्वादेव भोक्तृभोग्यभावः सिद्ध इत्याह- भूतानां च पृथिव्याश्च मिथः कार्यत्वहेत्वतः भोक्तृभोग्यत्व संबन्धः तस्मात्सिद्धः परस्परं इति | मधुशब्दः कार्या भोग्यं च ब्रूते तदवष्टं भेनात्र पृथिव्यादेः कार्यत्व भोग्यत्व कर्तृत्व भोक्तृत्व व्याख्यानं क्रियतेः पृथिव्यादि प्रथमान्तवदनिर्दिष्टं तदेव भोक्तृकारणं चेत्येतदाहभोग्यता प्रथमान्तेन पृथिव्यादेरिहोच्यते | कथ्यतां भोक्तृतां चैषां षष्ठ्यन्तेनाभिधीयते इति | तत्र अचेतनभागप्राधान्यात् भोक्तृत्वं तस्येवेत्येतदाह- अचेतनांशप्राधान्यात् कार्यकारणतोच्यते भोक्तृभोग्यादिसंबन्धः चेतनाचेतनात्मनोः इति | पृथिव्यादेः परस्परकार्य कारणाभाव प्. ४९८) प्रकृतोपयोगि किं सिद्धमिति चेत् सर्वप्रकारभेदाभाव सिद्ध इत्याह- सर्वेषामपि भूतानां कार्यकारणसंगतेः सर्वभूतात्मकध्वंसात् यथा सर्वात्मनस्तथेति यथा मूलकारणं सर्वात्मकं एवं सर्वं सर्वात्मकमतो भेदो नास्ति | अतः सर्वमात्ममात्रमिति निगमनं युक्तमिति || स्थूलांशस्य कार्यकारणभाव उक्तः इदानीं लिंगस्य कार्यकारणकथनाय उत्तरं वाक्यमित्याह संहृत्य स्थूलमाधारं भूतानां च क्षितेस्तथा तदाधेयोपसंहृत्यै यं चायमिति शब्द्यत इति एवं तात्पर्यमुक्त्वा अक्षरव्याख्यानं करोति अस्यां पृथिव्यां यश्चासौ भास्वद्विज्ञानविग्रहः अमृता नित्य एवासौ न नाशी स्थूलदेहवत् स चापि मधु सर्वेषां भूतानां तानि तस्य च | मधु सर्वाणि भूतानि यथा पूर्वमवादिषमिति सर्वं सर्वस्य कार्यं भोग्यं करणं भोक्तृ चेत्येतदुक्तं | तदेव प्रपञ्चयति | सहाध्यात्माधिदैवं हि साधीभूतमिदं जगत् एकैकस्यात्मनः कृत्स्नं भोग्यत्वेनावतिष्ठते | प्. ४९९) सर्वः सर्वस्य कार्यत्वात् सर्वः सर्वस्य भोजकः इति | अतः किमिदं ततो भवतीत्याह- एवं सति भवेत्सर्वं यथा पूर्वं प्रपञ्चितमिति | इदं सर्वं यदयमात्मेति तत्पूर्वः सर्वस्यात्म त्वं प्रपञ्चितं तत् सिद्धं भवेत् | सर्वस्य सर्व कारणत्वेन सर्वात्मत्व इत्यर्थः | पुनरपि श्रुत्याख्यानमेव अनुवर्तयति || अध्यात्मं यच्च शारीरं पार्थिवांशसमाश्रयः स चापि मधु सर्वेषां सर्वभूतानि तस्य चेति अयमेवेत्यादिवाक्यस्यार्थमाह- कार्यकारणभेदेन भोक्तृभोज्यतयोदितम् | चतुष्टयं पृथिव्यादि तस्य तत्वमथोच्यते | इति | आत्मा चतुष्टयरूपमित्युच्यते इत्यर्थः | कथं चतुष्टयस्यात्मा तत्वमिति चेत् तस्यैव चतुष्टयरूपेण स्वाविद्यया विलासितत्वादित्याह- चतुष्टयविभागेन स्वार्थोप्यात्मा विभज्यते | अविभागोपि तादर्थ्यात् आत्मातः सोत्र गृह्यते इति आत्मविवर्तत्वेन अनात्मार्थत्वात् चतुष्टयस्य आत्मा भोक्ता तत्वमित्यत्र गृह्यते प्. ५००) इत्यर्थः अथवा किं तत्वमित्याकांक्षायां इदमवतारितं | अयंशब्दवाच्यं कथयति प्रत्यक्तया यः प्रथते चतुष्टयविलक्षणः प्रात्यक्षात् सोयमित्येवं प्रत्यक् साक्ष्यभिधीयते इति | सामानाधिकरण्येन विवक्षितांशं कथयति अयमेव स इत्युक्त्वा सामानाधिकरण्यतः प्रत्यङ्मात्रैकयाथात्म्यं चतुर्धोक्तस्य बोध्यत || पृथिव्यादिषु यः पूर्वं व्याख्यातोऽन्तरबाह्यतः | आत्मैव स इति ज्ञेयः तथाद्बोध प्रशस्तितः इत्येतत् पूर्वस्य प्रपञ्चः | अयंशब्दार्थस्य व्याख्यानाय योऽयमित्यादि वाक्यशेष इत्याह अयमित्यादिशेषः स्यात् योयमित्यादिकः परः इति | एवेत्यवधृता वेतत् संसर्गप्रतिषेधकृत् तत्वं चतुष्टयस्यास्य प्रत्यगात्मैव केवलः अव्यावृत्ताननुगत ध्वस्ता विद्या अदुद्भवः इत्येतत् सार्धवार्तिकमेव शब्दव्याख्यानं सुबोधम् || अथवा अयमिति चतुष्टयं सन्निहितमुच्यते | स इति | मैत्रेयीब्राह्मणे द्रष्टव्यत्वेन प्रकृत आत्मोच्यत इत्येतदाह- प्रकृतात्माभिधानं वा स इत्येतत् पदं भवेत् | प्. ५०१) अयमित्युच्यते साक्षात् सन्निकर्षाच्चतुष्टयं इति | अस्मिन्नपि पक्षे वाक्यार्थः स एवेत्याह स एवायमिति ज्ञेयो यो द्रष्टव्यतयोदितः इति | आत्मा वा अरे द्रष्टव्य इत्युक्तो यः स एवायं चतुष्टयात्मेत्यर्थः | एतावदरे खल्वमृतत्वमिति यदात्मकत्वममृतत्वेनोक्तं यच्चाथाऽत आदेशो | नेति नेतीति सर्वविशेष विनिर्मुक्तत्वेनोक्तं ब्रह्म यच्च तस्मात् तत्सर्वमभव इति ज्ञानफलत्वेनोक्तं ब्रह्मात्मतत्वमेव चतुष्टयमन्वयव्यतिरेकाभावतापरिहारेण तावन्मात्रं विजानीयात् इत्येतदाह- यच्चामृतं स्वभार्यायै याज्ञवल्क्येन भाषितं ब्रह्मेति ध्वस्तसंभेदं यन्नेतीति पुरोदितम् || सर्वं समभवत् कृत्स्नं यद्याथात्म्यावबोधतः पृथिवीं पार्थिवं चांशं शारीरं साधिदैवतम् जानीयात् सर्वमात्मेति नेति नेत्युपलक्षणं इति | स शब्दनिर्दिष्टो यः स एवं मैत्रेयीब्राह्मणे अमृतत्वेन आत्मत्वेन च निर्दिष्टो मूर्ता मूर्तब्राह्मणोपनिर्विशेष ब्रह्मत्वेन निर्दिष्टः प्. ५०२) एवं सिद्ध आत्मैव चतुष्टयमित्यर्थः || उत्तरेष्वपि वाक्येषु यथोक्तेनैव वर्त्मना इममेव तु वाक्यार्थं व्यापक्षीता विचारयन्नित्येत् सुबोधं || अयं धर्म इत्यस्यार्थ कथनाय वृत्तमनुद्रवति | पृथिव्यादीनि भूतानि तदंशाश्च समीरिता हिरण्यगर्भलिंगाशास्तथा पूर्वोक्तमूर्तयः इति अयमर्थः पृथिव्यादिमहाभूतमभिहितं तदंशाश्च शरीरादिसूत्रांशाश्च भूतशरीराधाराः तेषां च मूर्तयः स्वरूपभूतास्त एव सूत्रांशास्ते चोक्ता इति | एते यथोक्तपदार्थाः स्वव्यापारैर्येन प्रयुक्ताः इव कुर्वन्ति सोऽत्र धर्मशब्देनोच्यत इत्याह- यथोक्ता येन सर्वऽपि प्रयुक्ताः स्वार्थकर्मभिः उपकुर्वन्ति नः सर्वान् स धर्म इति संज्ञितः इति | ननु धर्मः शास्त्रैकसमधिगम्यत्वात् परोक्षः कथमयमिति निर्देशमर्हतीत्या शंक्याह- तस्य कार्यं द्विधेहोक्तं सामान्यात्मविशेषतः || पृथिव्यादीह सामान्यं विशेषः पिण्डमात्रकं प्. ५०३) तत्कार्यस्येह प्रात्यक्षात् तदभेदोपचारतः प्रत्यक्षवदयं धर्मस्तस्मादेवाभिधीयते इति || यश्चायमस्मिन् धर्म इत्यत्र धर्मः पृथिव्याद्यारंभको यश्चायमध्यात्मं धर्म इत्यत्र धर्मः शरीराद्यारंभक इत्याह - साधारणं पृथिव्यादिकारिधर्मोऽभिधीयते यश्चायमिति वाक्येन तथा साधारणाभिधा यश्चायमध्यात्मं इति | योऽयमुद्देहकृते इति | उभौ समुदितं हिरण्यगर्भः पूर्वं समस्तजगदारंभकं अयं धर्म इत्यत्र अभिहितमित्याह- साधारणविशेषात्मा यदपूर्वं तदुच्यते प्राजापत्यमपूर्वं यत् सर्वभूतप्रयोजकं अध्यात्मविध्यकृत्यश्च सोयं धर्माभिधोदित इति | तदेव धर्मरूपमाचाररूपेण वर्तमानं लोकसिद्धमर्यादा व्यवस्था कारणमिदं सत्यमित्युच्यते इत्याह तथैव आचाररूपेण प्रत्यक्षेण यदीक्ष्यते स एव धर्मः सत्यं स्यात् यद्यवस्था प्रयोजकमिति | सत्यमपि धर्मवत् सामान्यविशेषमव्यवस्थाहेतुत्वाद्विविधेत्याह - साधारणविशेषाभ्यां सर्ववत्तदपिद्विधा || प्. ५०४) साधारण विशेषार्थ व्यवस्थाकारणत्वतः इति | इदं मानुषमित्यस्यार्थकथनायाह- धर्म सत्यप्रयुक्तोयं लिंगपिण्डः स्वलक्षणः विराड् हिरण्यगर्भं च स च जातिसमन्वितः || इति | शरीरद्वयं मनुष्यादि जाति समन्वितमित्यर्थः | ननु मनुष्यादीति | कथमियं मानुषमितिश्रवणात् तत्राह- मनुष्यजातेर्ग्रहणं सर्वजात्युपलक्षणम् इदं मानुषमित्येवं व्याख्यातस्यास्तु पूर्ववत् | इति | इयं पृथिवीत्यारभ्य विराट् सूत्रावयवा निर्दिष्टाः | इदानीं अयमात्मेत्यवयवनिर्देश इत्याह- पृथिवी शारीर इत्येवं खण्डशो यः पुरोदितः विराड् हिरण्यगर्भश्चेत्यमात्मेति तद्वचः | इति | नन्वत्रापि तदंशानामेव मधुत्वमुच्यते इत्यनेत्याह- हिरण्यगर्भभेदानां भूतानां च पृथक् पृथक् उक्तं मधुत्वं येनातः तत्सामर्थ्यमथोच्यते | इति | प्रथमान्त आत्मशब्दो विराड्वाचीयः सप्तम्यन्तेनात्मशब्देन निर्दिष्टे तदन्तर्गत प्. ५०५) तदन्तर्गतस्तेजोमयो हिरण्यगर्भो यश्चाय मात्मेति | चैतन्याभासो जीव उच्यते इत्येतदाह अयमात्मेति निर्देशो विराजः प्रथमो मतः सप्तम्यन्तेन अत् प्रत्यक् लिंगात्माऽतोभिधीयते | कार्यात्मा करणात्मा च यदर्था भवतः सदा यश्चायमात्मेत्यत्रोक्तो विज्ञानात्मेति यं विदुः इति | स वा अयमात्मा इत्यादिवाक्यस्य तात्पर्यार्थमाह- यस्मिन्नात्मनि विध्वस्त व्याकृताव्याकृतात्मके खिल्यदृष्टान्तवचसा विज्ञानात्मा प्रवेशितः ब्रह्मविद्याहतध्वान्ते तस्मिन् ब्रह्मणि निष्ठिते ततस्तदुत्थकार्याणां अत्यन्तासंभवाद्यतः योऽसावविद्यया देही संसारी चाप्यभूत् पुरासोऽयं साक्षात् परं ब्रह्मविद्यया वर्ततेधुना इति | अयमर्थः- निरस्ताज्ञानतत्कार्य प्रत्यगात्मनि निरतिशयानन्दाद्वयब्रह्मभूतः स वा इत्यादि वाक्येन विवक्षित इति वार्तिकत्रयार्थं संक्षेपेण कथयति | ध्वस्ताज्ञानसमुत्थोयं संविदात्र सतत्वतः आनन्तावार आत्मैव स्वमहिम्नि व्यवस्थितः | प्. ५०६) इति | उक्तार्थे वाक्यमवतारयति अपूर्वानपरा मध्यप्रत्यग्याथात्म्यवित्तये स वा इत्यादिको ग्रन्थः सदृष्टान्तोऽभिधीयते | इति | एवं वाक्यमवतार्य पदार्थव्याख्यानं करोति | ब्रह्मास्मीति परिज्ञान ध्वस्तध्वान्तत्वकारणात् राजेति राजनाद्भास्वदविलुप्तात्मदर्शनात् || तथाऽधिपतिशब्देन स्वातन्त्र्यमभिधीयते || स्वातः प्रत्यक् तदर्थत्वात् सहेतोर्जगदात्मनः || इति | तद्यथेत्यादि दृष्टान्तवाक्यस्य तात्पर्याथमाह- प्रत्यग्विज्ञप्तिमात्रेण समाप्तिर्जगदात्मनः आविश्चिकीर्षुः साक्षात्तद्यथेति पराश्रुतिः इति | अवगतप्रत्यग्भूतस्य ब्रह्ममात्रेण कार्य कारणप्रपञ्चस्य समाप्तिविवक्षयाअ दृष्टान्त इत्यर्थः एवं तात्पर्यमुक्त्वा पदार्थ व्याख्यानं करोति- चक्रनाथो यथा विप्तो ताश्चक्रनेमौ च बाह्यतः अराः प्राणादयस्तद्वत् ओतप्रोताः परात्मनि इति दृष्टान्तवाक्यं स्वपक्षे व्याख्यातमिदानीं भर्तृप्रपञ्चव्याख्यानं दर्शयति निराकरणाय प्. ५०७) निदिध्यासनग्रन्थविभागोऽप्यत्रोच्यमो?ना निदिध्यास विवक्षया पूर्वत्रोक्तस्तस्मात् स पक्षः प्रदर्श्यते | निराकरणाय व्याचक्षतेऽन्यथैवेद्मं दृष्टान्तं केचिदात्मनः | समस्तादिप्रतिज्ञार्थ सिद्धये ब्रह्मवादिनः इति कथमिति तद्दर्शयति- एकीकृत्य स्वमात्मानं अक्षरे परमात्मनि चक्रहाभिवदात्मानं कल्पयीत विचक्षणः शरीरनेमिवच्चैतत् देवताद्यरवज्जगत् कल्पयित्वा निदिध्यासेत्तद्भावाविष्टधीः सदा इति वार्तिकद्वयं प्रसिद्धार्थ ध्यानफलमाह अनेन ध्यानमार्गेण ध्यायमानस्य सर्वदा तप्तलोहवदेकत्वं भवत्यावृत्तिदुर्लभं | इति | एकत्वफलमाह- एतामिति | एतामवस्थामापन्नो ध्यातृत्वाद्विनिवर्तते | अविद्यातिमिरान्धानां ध्येयत्वमवगच्छतीति | क इति चेदत्राह- निश्चिन्त्याचिन्त्यमेतद्यो योगिनां निलयं प्राप्य न निवर्तन्ते निर्वाणं परमं गता इति | तद्ध्यानात् तद्रूपेण स्थितो ध्येयत्वं गच्छतीत्यर्थः | प्. ५०८) अन्यापि प्रक्रिया यतः सोच्यते- प्रत्येकं प्राणिनां ह्येतत् ब्रह्मचक्रमवस्थितं | इति | एतत् ब्रह्माख्यं चक्रं क्लिप्तं सर्वप्राणिनां हृदये वर्तत इत्यर्तह्ः || तर्हि किमिति सर्वैः नानुभूयत इति | तत्राह- असंबोधात्तु तैः सर्वैः प्राणिभिर्नानुभूयत इति पूर्वपक्षमुपसंहरति वैश्वानखरात् केचित् एवं व्याचक्षते स्फुटमिति | इदानीं दूषयति- अक्षरानन्वयास्त्याज्या व्याख्येयं साध्यपीदृशी | ननु कथमक्षरानन्वयो दृष्टान्तसामर्थ्यादुच्यमानत्वादिति चेत् तत्राह - सामर्थ्यादपि संप्राप्तो न चेदक्षरपूर्वकः तादृनोपास्य एवेति प्राहुरागमवेदिनः | इति | अयमर्थः | यद्यपि दृष्टान्तसामर्थ्यात् भवदभिप्रेतोऽर्थोत्र भाति तथाप्यत्र ब्राह्मणे तत्प्रतिपादकपदाभावात् प्रत्युत कार्यकरणादि प्रपञ्चनिराकरणादपूर्वादिवाक्येन श्रुत्यन्तर विरोधाच्च न ब्रह्मणः समस्तादिविवक्षया दृष्टान्त इति किं च अन्यस्यापि समस्तादिकल्पकस्याभावात् प्. ५०९) न समस्तादिरूपं ब्रह्म | अथ कल्पकप्रमाव्यतिरेकेण समस्तादिरूपं ब्रह्म कल्पयसि | तन्न घटते इत्याह - प्रमाणवत्यदृष्टानि कल्प्यानि सुबहून्यपि अदृष्टशतभागोपि न कल्प्यो निष्प्रमाणतः इति | प्रमाणवन्तीत्यस्यायमर्थः कल्पकवन्तीति || ननु न कल्प्यते तथाविधं ब्रह्मत्व इति वेदाक्षराच्छ्रूयत एवेति चेन्नेत्याह- यथोक्तचक्रविन्यासो न श्रुतोऽक्षरपूर्वकः इति | निद्धिध्यासेत्युक्तं तदप्यनुपपन्नं अत्र उपासनपदाश्रवणादित्याह न चाप्युपासनपदं कृत्स्नेपि ब्राह्मणे श्रुतमिति | दृष्टान्तगतस्य सर्वस्य दार्ष्टान्तिके श्रवणाच्च न समस्तादिविवक्षितमित्याह- नाभिनेमिद्वयस्थाने दृष्टान्तत्वेन सम्मते दार्ष्टान्तिकोक्तावात्मैव यतः साक्षादिह श्रुतः इति | पुनरपि दृष्टान्तवैलक्षण्यमेव दार्ष्टान्तिकस्य दर्शयति- समर्पितत्वं प्राणादेः श्रूयते प्रत्यगात्मनि भूतेषु देवतादेस्तत् अश्रुतं गृह्यते कथमिति | प्. ५१०) तदेतदित्यादि प्रधानवाक्यविरोधाच्च समस्ताद्यात्मतैत्याह- बहिरन्तर्विभागोऽस्य कार्यकारणता तथा तदेतदिति वाक्येन प्रतीचोऽत्रैव वार्यते इति | इतश्च न समस्ताद्युपासन विवक्षेत्याह- अथ योन्यामिति तथा भेददृष्टिनिराकृतेः उपास्योपासानविधिर्न सम्यगिति मे मतिः इति | ननु उपासनव्यतिरेकेण आत्मनो ब्रह्मभावासिद्धे रुपासनमेष्टव्यं उपासनश्चेदिष्टं समस्तादिभावोऽपि ब्रह्मण एष्टव्योऽन्यथा अनुपास्यत्वादिति चेत्तत्राह- अज्ञानमात्रस्यविधेः ब्रह्मैकात्म्यफलस्य च | ब्रह्मविद्यातिरेकेण तत्प्राप्ता नापराः चेति उपास्यस्य ब्रह्मत्वनिराकरणाच्च नोपासं ब्रह्मेत्याह- यद्वाचाऽभ्युदितं मनुते मनसा न यत् तदेव ब्रह्म विद्धित्वं नत्विदं यदुपासते | उपासिक्रियया व्याप्तिरब्रह्मत्वस्य लक्षणम् श्रुत्याकारि यतस्तादृक् कथं ब्रह्मेत्युपास्यत इति ननु ब्रह्मोपासन विधानमपि क्वचिच्छ्रूयत इति | इति चेन्नेत्याह दृश्यते त्वग्रया बुद्ध्या मनसैवेति यद्वचः || प्. ५११) तदात्मविद्याविध्यर्थं नोपासनविधायकं इति | कथं आत्मविद्याविधानार्थेति तत्राह रजस्तमोऽनुविद्धेन यतो ब्रह्म न गम्यते शुद्धचेतस्त्वया तस्माद्विद्यात् ब्रह्मान्तरात्मनीति अस्य अर्थान्तरं कथयति- यद्वा नात्मादिसंबन्धात् पूर्वमैकात्म्यनिष्ठिता | सर्वप्राणभृतां बुद्धिरित्यर्थो वचसो भवेत् || इति | ऐकात्म्यनिष्ठितेति चिदाकारेत्यर्थः पूर्ववार्तिकार्थमुपसंहरति- एषोऽर्थो वचसस्तस्य न रूपासाविधिर्भवेत् | प्रध्वस्तभेद ऐकात्म्ये नोपासनविधिर्यतः इति | तस्मात् भर्तृप्रपञ्चव्याख्यानं दुष्टं इत्युपसंहरति- चक्रकॢप्तिरतः साध्वी श्रुत्यादिमिति बाह्यतः इति | तर्हि तद्यथेंत्यादिना कोऽर्थो विवक्षित इति | तत्राह- तदेतदिति वाक्यार्थो ग्राह्योतः संभवोमितेति तदेतत् ब्रह्मा पूर्वमित्यस्यार्थोऽनेन सदृष्टान्तवाक्येन विवक्षित इत्यर्थः | अथवा तस्मात् सर्वमभवदिति विद्याफलमुक्तं तदुपासं प्. ५१२) प्रियत इत्याह तदाहुरिति वाक्येन ब्रह्मविद्या प्रयोजनं सापेक्षं प्रागुपन्यस्तं तस्यायं निर्णयः कृतः | इति पूर्वत्रैवायं प्रपञ्च इति केचित् || इदं वै तन्मयीत्यादिवाक्यावतरणाय वृत्तानुद्रवणं करोति आत्मैक्येवेति सूत्रस्य व्याख्येयं सम्यगात्मनः पञ्चभिर्ब्राह्मणैः श्रुत्याकारि कृत्स्नार्थबुद्धयः | इति समाप्ता ब्रह्मविद्येयं कैवल्यावाप्तयेऽखिला याद्मवोचत् स्वभार्यायै याज्ञवल्कयोऽतिविस्तरात् इत्येतत् पूर्वस्य प्रपञ्चः | इदानीं उक्तब्रह्मविद्यास्तुतित्वेनेदं वैतन्मश्वित्यादि वाक्यमवतारयति | यथोक्त ब्रह्मविद्याया इत्यारभ्य भण्यते | आख्ययिकेयं स्तुत्यर्था प्रवृत्या न तया परेति || आख्यायिकार्थः क इति चेत्तत्राह- आख्यायिकार्थमन्त्राभ्यां व्याचष्टे श्रुतिरादृतेति किमिति मन्त्राभ्यां तदर्थकथनमितिचेत् तत्राह - श्रुतिमन्त्रस्तुतो ह्यर्थ आदेयत्वं गच्छतीति | स्तुतिप्रकारं दर्शयति आवाप्तपुरुषार्थोऽपि यामदर्पः शचीपतिः प्. ५१३) प्रत्यग्विद्यैव तेन स्यात् उदारफलसाधनम् इति || स्तुतिप्रकारमेव प्रपञ्चयति- महता च यतोऽश्विभ्यां आयासेनोत्थिता पुरा ब्रह्मविद्या ततो नास्यां उक्तो स्यात् साधनं परम् || पुनरपि स्तुतिप्रकारमेव दर्शयति निश्शेषपुरुषार्थानां कैवल्योत्तमता यथा साधनानामपि तथा तद्विद्योक्तमसाधनमिति आख्यायिकार्थमन्त्राभ्यांमित्यस्य प्रपञ्चः आख्यार्थणयोर्व्यक्तं ब्रह्मविद्याप्तिकारणात् यत् प्रागाविष्कृतिस्तस्य मन्त्राभ्यां क्रियतेञ्जसा | इत्येतत् यस्या आख्यायिकाया अर्थो मन्त्राभ्यामाविष्क्रियते तस्या आख्यायिकाया अर्थं सार्धवार्तिकपञ्चकेन कथयति | तच्चातिरोहितार्थं तल्लिख्यते अश्विभ्यां प्रार्थितोऽवा मधुपुरुभ्यामिमां किल तावथवा ब्रवीदिन्द्रछिद्यान्मे ब्रुवतः शिरः अतोभयादिमां विद्यां युवाभ्यामब्रवीम्यहं तमूचतुः पुरैवावामिन्द्रछेदनतः शिरः छित्वा तावाश्वं सन्धाय शिरे श्रोष्यावहे ततः ब्रूह्यतो श्येन शिरसा मधुविद्यां विमुक्तये || प्. ५१४) एवमस्त्वित्यनुज्ञाते छित्वा तस्याथ तच्छिरः समधत्तां शिरोऽश्वस्य तेन विद्यमुवाच सः पुनश्छिन्नेथ शिरसि तेनेन्द्रेणाश्विनावपि समधत्ताच्छिरस्तस्य विद्यां स्वशिरासाथ सः शेषामवोचदश्विभ्या मृतियन्नात्मनो वचः इति | प्रतायन्नित्यस्य तात्पर्यार्थमाह- यत एवमतस्तस्मात् सत्यं रक्ष्यं प्रयत्नतः इति | एवमाख्यायिकार्थमुक्त्वा इदमित्यादि पदार्थव्याख्यानमारभते- इदं वै तन्मधु प्रोक्तो यत्तत् प्रकरणान्तरे | दध्यङ्ह्वा?वा आभ्यामिति श्रूयते ब्राह्मणोक्तिकमधुब्राह्मणमेतत् यम् प्रागुक्तमभूत् सुन्द्रेद्ध्यन्दाथर्वणोऽश्विभ्यां यदुपायार्थ बोधनमिति ब्राह्मणमेवोच्यते आत्मबोधनमस्मात् भवतीति तदेतदित्यादेरर्थः कथयति अश्व्याथर्वणयोरेतत् कर्म वश्यं न चाब्रवीत् ऋषिरार्षतदृष्ट्यै तव तदेतदभिधीयत इति | अयमर्थः | आर्षदृष्ट्या ऋषिरेव तत्कर्म पश्यन्नृचा अब्रवीत् तच्च कर्माभिधीयत इति | इदानीमत्र व्याख्यानं करोति | प्. ५१५) मन्त्रविवरणं वार्तिकषट्कं सुखबोधं तल्लिख्यते- आविष्करोति तत्कर्म युवयोरद्य हे नरौ | लाभाय सनये क्रूरं चक्रतुर्यदृहस्य गौः वृष्टेरागमनं यद्वत् स्तनयित्नुं प्रबोधयेत् रहस्यं युवयोः कर्म तद्वदाविष्करोम्यहम् || अश्वशिरसा वां यदवोचन्मध्वसावृषी दधीचेश्व्यं शिरश्छित्वा निकृत्यास्य शिरोश्विनौ सन्धत्तां सोऽश्वशिरसा युवाभ्यां मध्वथोव्रवीत् ऋतायन् सत्यमात्मानं कर्तुमिच्छन्नसावृषिः प्राणसंशयमापन्नः तस्माच्चैवावसीयते | आत्मनो मरणेनापि सत्यं रक्ष्यं प्रयत्नतः आभीत्यविषयं त्वाष्ट्रं मध्ववोचदर्थावणं हेदस्रावपि कक्ष्यं यत् प्रत्यग्याथात्म्यदर्शनं इति | दस्रशब्दार्थं कथयति- उपक्षयकरौ व्याधेः दस्रौ स्यातामतोऽश्विनौ इति | न केवलं त्वाष्ट्रमेकं कक्ष्यमब्रवीत् मश्वित्येतदुक्तार्थं पुर इत्यादिमन्त्रादित्यस्य तात्पर्यार्थं कथयति | वृत्तसंकीर्तनपूर्वकं प्रवर्ग्याध्याययोरेवं त्वाष्ट्रज्ञानोप प्. ५१६) संहृतिं मन्त्रद्वयेन कृत्वाऽथ कक्ष्यज्ञानोपसंहृतिं क्रियते न्याययोरेव मधुकान्तं समाप्यते इति | उष्मा इत्यध्यायद्वयार्थं किमिति मन्त्रद्वयेनोपसंह्रियत इति | तत्राह- श्रुतिमन्त्रोपदिष्टार्थो यस्मादाश्रियते नरैः इति त इति | एवं तात्पर्यमुक्त्वा पदार्थव्याख्यानं करोति- पुरश्चक्रे शरीराणि द्विपदं लक्षि मानुषाः चतुष्पदोथ पशवः पुरश्चक्रे स्वमाययापुरो भुक्तशरीरात् संपत्तिलिंगमथोच्यते पुरो नवशरीराणि प्राविशज्जलचन्द्रवत् इति वार्तिकद्वयं सुबोधम् पुरुषत्वमात्मनः कथमिति चेत् श्रुत्यैव तदुच्यत इत्याह तस्मात् पुरुष इति चेत् पुरुषार्थं श्रुतिं स वा इत्यादिनाचष्टे सर्वैकात्मावबुद्धय इति | एवं तात्पर्यमुक्त्वा पदार्थव्याख्यानं करोति | पुरुषोऽयं भवेदात्मा यदशेते स पूरुषु सर्वासु तेन लोकेऽस्मिन् पुरुषोऽयमितीर्यते इति | नन्वाधाराधेयनिर्देशात् भेद इति | प्. ५१७) तत्परिहारार्थं उत्तरं वच इत्याह- परिच्छेदप्रसंगश्चेत् मैवं यस्मादिदं जगत् नैनेनानाव्रतं किञ्चित् नाव्याप्तो ह्योततन्तुवत् नासंवृतं तथा किञ्चित् प्रोततन्तुवदात्मनेति | ततश्चैतत् सिद्धमित्याह- पूर्णत्वात् पुरुषः सोऽयं ब्रह्मैकं पुरुषस्ततः इति अत्रार्थे प्रमाणत्वेन मन्त्रमुदाहरति- यस्मात् परं नापरमस्ति किञ्चित् यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः तेनेदं पूर्णं पुरुषेण सर्वमिति ओततन्तुवदित्यादि कथनात् कारणत्वेन पुरुषत्वं विवक्षितमिति नेत्याह- आवृता ज्ञप्तिमात्रेण सर्वमात्मीकृतं जगत् संवृतं प्रतिषिद्धं तद्यदनात्मैव लक्ष्यते इति | तन्नास्ति कारणं कार्यं यन्नानेनात्मसात्कृतं तन्नास्ति कारणं कार्यं यन्नानेनात्मनाऽश्नुते इत्येतत् पूर्वस्य प्रपञ्चः | द्वितीयमन्त्रार्थं कथयति रूपं रूपं प्रति ह्येषा प्रतिरूपा बभूवह | देहं देहं प्रविष्टस्सन् तद्देहाकारतामगात् || प्. ५१८) किं निमित्तमिति चेत्तत्राह- मायाभिः प्रत्यगज्ञानैर्यदिवाऽनृतबुद्धिभिः गम्यते पुरुरूपोज्ञैः एकोपि जलसूर्यवदिति | पूर्वस्मिन्नेकस्मिन् बहुवचनं किमर्थं बहुरूपवचनं चेत् आत्मज्ञानार्थमित्याह- प्रत्यग्याथात्म्य बोधार्थं रूपं मायामयं विभोः शास्त्राचार्यादिनानर्थे ज्ञातुं वस्त्विह शक्यते इति मायाभिरुपादानकारणमुक्तं इदानीं युक्ता इत्यादिना निमित्तकारणमुच्यते | इत्यभिप्रेत्याह कुतोऽस्य बहुरूपत्वमिति | हेतुरिहोच्यते- युक्तां ह्यस्येति वचनात् मिथ्याज्ञानैकहेतुतः इति | आत्मज्ञानात् प्राक् अज्ञानादिन्द्रियसंबन्धो यः सः स्वोत्थज्ञानद्वारेण बहुभवने निमित्तकारणमित्यर्थः | अज्ञानादिन्द्रियसंबन्धं दृष्टान्तेन साधयति- स्रजस्तत्वापरिज्ञानात् युक्ता दण्डादयो यथा प्रत्यक्तत्वापरिज्ञानात् आत्मनो हरयस्तथेति इन्द्रियाण्येव हरयो हरणाद्विषयान् प्रति प्. ५१९) दश तानि सहस्राणि शतानि प्राणिभेदतः इत्येतत् सुखबोधम् | अयं वैहरय इत्यादेरर्थमाह हेतुकथनपूर्वकं नान्यो हेतुश्विज्ञानात् इन्द्रियादेरिहात्मनि यतोऽयमेव हरयो यावत्संख्या तदाश्रयेति आत्माज्ञातकार्यत्वादात्ममात्रमिन्द्रियादीत्यर्थः ननु अज्ञातकार्यत्वात् ज्ञानमात्रत्वमिन्द्रियादेः कथमात्ममात्रत्वमिति तत्राह अयमेवेन्द्रियत्वेन देहत्वेन च कल्पितः तथा शतसहस्राणि संख्याभेदेन चाप्ययम् नामरूपक्रियाभेदैर्यथा पूर्वमवादिषम् | अयमेवातथारूपं कल्पितो विद्ययाद्वय इति ततश्च तावन्मात्रत्वं सर्वस्योपपन्नमित्युप संहरति- तदेतत् कल्पितं सर्वं सहेतुफलवज्जगत् प्रत्यङ्मात्रकं भास्वत् प्रज्ञानघनतत्वकमिति | अयं वा इत्यादिवाक्यं व्याख्यातमिदानीं तदेतदित्यादिवाक्यस्य तात्पर्यार्थमाह निश्शेषोपनिषत्सारस्तदेतदिति सांप्रतम् | उक्त्या विक्रियते साक्षात् करविन्यस्तखिल्यवत् | प्. ५२०) इति कोऽसौ सार इति | तदाह- अज्ञातं संशयज्ञातं मिथ्याज्ञातमिदं जगत् तदेतदित्यनूद्यैतत् तत्तत्वमबोधत इति किं तत्तत्वमिति | तदाह- ब्रह्मे किलास्तवं वृत्तं तावदस्यावबोध्यत इति ननु सर्वस्य ब्रह्मत्वं ज्ञानफलमतः कथं तस्य ब्रह्मत्वमिति | तत्राह- ज्ञानात् पुरापि ब्रह्मैव नातो ज्ञानफलं भवेदिति | ज्ञानोत्पत्तेः पुरापि सर्वं ब्रह्मैवातः सर्वस्य ब्रह्मत्वं न ज्ञानकार्यं इत्यर्थः अपूर्वमिति | कार्यत्वनिषेधायाभिधीयते कारणत्वनिषेधाय तथा न परमी?रियम् अनन्तरमिति तयोरन्ध्रस्य प्रतिषेधनं कार्यकारणयोर्बाह्यं अबाह्यमिति वार्यते सत्तावानन्तरगिरा ब्रह्मणः प्रतिषिध्यते | विशेषो बाह्यशब्देन ततो वाक्यार्थरूपकं इत्येतत् वार्तिकत्रयं पदार्थविवरणपरं सुखबोधं | तत्र रन्ध्रमिति कार्यकारणभेद उच्यते अबाह्यमिति तयोरभावः एवं विधं ब्रह्म आत्मनोऽन्यदिति आशंकानिराकरणार्थं प्. ५२१) उत्तरं वाक्यमित्याह- नात्मनोऽन्यत्र संभाव्यं अपूर्वादि यदीरितं ब्रह्मात्मैवेत्यतो वक्ति श्रुतिरैकात्म्यसिद्धये इति | आत्मा ब्रह्मेत्यनेन परस्परतादात्म्यं बोध्यते | तत्र परस्परतादात्म्य बोधनकृत्यमाहपारोक्ष्यप्रतिषेधार्थं ब्रह्मात्मैवेति भण्यते ब्रह्मैवात्मेति च तथा संसारित्व निवृत्तये इति | ननु तयोः कथं निवृत्तिः परमार्थत्वादिति नेत्याह- भिन्नं ब्रह्मापरिज्ञानात् संसारित्वं तथात्मनः ततश्चाज्ञाननिवृत्तौ निर्विशेष आत्मा संपद्यत इत्याह- तत्वज्ञानात्तमोध्वस्तौ नेतीत्यात्मावशिष्यते सर्वानुभव एवायं अतः सर्वानुभूः परः कार्त्स्न्यात् सर्वो भवेदेष चिन्मात्रत्वं तथानुभूः इतीत्युक्तपरामर्शो वेदाज्ञाचार्य साधनम् कर्तव्यमेतद्विज्ञानं इति वेदानुशासनम् अस्यातिलंघने दोषः संसारानर्थसंगति कुर्वतश्च महान् लाभः आत्मनः कृतकृत्यता इत्येतद्वार्तिकद्वयं सुखबोधम् इति चतुर्थस्य पञ्चमं ब्राह्मणम् || प्. ५२२) वंशब्राह्मणस्य स्तुतिजपपुरुषोत्प्रेक्षिताशंका निवृत्याख्यात्रयं कथयति स्तुत्यर्थं ब्रह्मविद्यायाः ब्रह्मविद्वंश उच्यते | जपोयं ब्रह्मविज्ञानं जन्मने चोच्यते श्रुतौ पुमभ्यूहोत्थिता शंका निवृत्यर्थं यथोदितं ब्रह्मज्ञानस्यपावंशो यत्नाच्छ्रत्यायमुच्यते इति | पुनरप्यर्थान्तरमाह- यस्यानुशासनं तस्य स्वयंभोः प्रतिपत्तये पौतिमाष्यादिको ग्रन्थः श्रुत्याथ प्रतिपाद्यते आग्रात् प्रभृति वंशोयं आवेदब्रह्ममूलतः इति | यस्य स्वयंभु ब्रह्मणोऽनुशासनं ब्रह्मात्मैकत्वज्ञानं तस्य परमात्मनः प्रतिपत्तये अयं वंशोऽनेन द्वारेण तत् ब्रह्माधिगन्तव्यमित्यर्थः | स्वयंभुविशेषणमस्मदादीनामिव ज्ञानं नान्यकृतं परस्य किन्तु स्वाभाविकमिति प्रतिपादनायेत्याह- भिन्नहेतुनिषेधार्थं स्वयंभु ब्रह्मशब्दत इति अत्र हिरण्यगभो ब्रह्मशब्दो न भण्यते तस्य भिन्नाचार्यनिषेधार्थं स्वयंभुविशेषणमिति नमस्करणहेतुकरणपूर्वकं नमः श प्. ५२३) शब्दार्थं कथयति- यस्मादपरतन्त्रोयं वेदात्मा ब्रह्म भण्यते मनोवाक्कर्मभिस्तस्मात् भक्त्या तस्मै नमस्सदा इति श्रीमत् प्रत्यग्बोध पूज्यपादशिष्येण भगवता विश्वानुभवाख्येन सुरेश्वरवार्तिकसंबन्धोक्तौ चतुर्थोऽध्यायः समाप्तः ओम् | वृत्तमनूद्य संबन्धं कथयति- समाप्तो मधुकाण्डार्थो याज्ञवल्यीय काण्डगः अतः परं प्रयत्नेन श्रुत्या व्याख्यायते स्फुटः इति मुनिकाण्डार्थः क इति विचार इत्यभिप्रेत्याहयाज्ञवल्कीयमेतद्वा मधुकाण्डानन्तरं काण्डं विचारभूयिष्ठमधुना आरभ्यते परमिति विचारभूयिष्ठमत्यनेन पुनरुक्तिः परिहृतै च तथाप्यपरिज्ञानाच्चोदयति | ननु पूर्वं य उक्तो अर्थः स एवेहापि भण्यते || पुनरुक्तं न च न्याययं एकप्रवचनस्थयोरिति उक्तमेव पुनरुक्तिपरिहारमाह- एकार्थत्वेऽपि च सति नैवास्य पुनरुक्तता याज्ञवल्कीयकाण्डस्य ह्युपपत्तिप्रधानः इति प्. ५२४) ननु मधुकाण्डेपि युक्तय उक्ताः इति तत्राह आगमोक्तिप्रधानत्वं मधुकाण्डस्य वर्जितं आगमार्थविशुद्ध्यर्थं युक्तिरत्र प्रवक्ष्यते इति | ननु युक्तिसापेक्षत्वं आगमस्य स्वातन्त्र्यविरोध इति | नेत्याह- न चागमस्य स्वातन्त्र्यं युक्त्युक्तेरपनुद्यते अर्थान्तरत्वाद्युक्तीनां प्रमाणेभ्यो यतस्ततः इति प्रमाणद्युक्तेरन्यत्वात् प्रकटयति सर्वप्रमाणशैषत्वं युक्तीनामुपवर्जितं शास्त्रान्तरेष्वपि तथा नातः स्वातन्त्र्यखण्डनं इति विषयभेदाच्च न सापेक्षतेत्याह- पदार्थविषया चेयं युक्तिस्तर्कोभिधीयते | वाक्यार्थस्त्वागमादेव निरपेक्षमतो वचः अपि च चैत्यवन्दनात् स्वर्गो भवतीत्यादौ पुरुषप्रणीते वचसि किमिदमाप्तप्रणीतं अनाप्तप्रणीतं वा आत्मप्रणीतत्वेऽप्यस्यार्थे प्रमाणं संभवति न वेति पर्यालोचन संभवात्तर्कस्य | वेदस्य तु तात्पर्यनिश्चयफलत्वात् न युक्तिता वेदार्थेऽपेक्षणीया अतो वेदः स्वार्थे निरपेक्षं प्रमाणमित्याह प्. ५२५) पौरुषेयवचस्येव युक्तो प्राधान्यमिष्यते अनशेक्तेति तात्पर्यं युक्तेरर्थो न युक्तितेति | ननु श्रुतिलिंगादियुक्तीनां भवतु तात्पर्य निश्चायकत्व वाचारंभणादि युक्तीनां कथं तद्धेतुत्वमिति चेच्छृणु श्रुत्यादिभिरवगतात् पर्णस्य प्रत्यक्षादिविरोधात् भ्रमप्राप्तस्तन्निराकरणद्वारेण तात्पर्यदृधीकरोवाचारंभणत्वादियुक्तिभिः क्रियते अतस्ता अपि तद्धेतव इति धर्मादिवत् ब्रह्मात्मैक्यस्य मान्तरायोग्यत्वाच्च न युक्त्यपेक्षेत्याह प्रत्यक्षाद्यावर्त्तित्वात् युक्त्यपेक्षा न विद्यते || आगमार्थ इति | युक्तिविषयेपि पदार्थेनागमापेक्षेत्याह- यथैवं स्यात् युक्त्यर्थेन आगमेक्षणमिति || अत्र हेतुमाह पुंस्यभावानुरोधेन युक्तिर्वेदेऽभिधीयते इति पुरुषेण ब्रह्मार्थत्वात् परिज्ञानात् पदार्थ द्वयेऽध्यस्त कर्तृत्वादिविशेष पुंस्वभावः तन्निराकरणाय युक्तिकथनाद्युक्तय एव तत्रोपकुर्वन्ति | अतो नागमापेक्षावादार्थ इति | ननु वाक्यार्थबोधकमपि वे प्. ५२६) वेदस्य पुरुषबुद्ध्यनुसारेण | अतः युक्त्यपेक्षेति | नेत्याह- आगमस्य प्रवृत्तिस्तु मेयवृत्तव्यपेक्षयेति न पुरुषो प्रेक्षितं वस्तु तथा सत्यनवस्थितः वस्तु स्यात् क्षणिकत्वादि तस्मान्निजसिद्धार्थमेव ब्रह्मात्मैकत्वं वेदो बोधयेदध्यक्षादिवदित्यर्थः मधुकाण्डमागमप्रधानामित्युक्तं तत्राह- ननूक्ता मधुकाण्डेपि दुन्दुभ्याद्युपपत्तयः आगमैकप्रधानत्वं कथं तस्येति भण्यते इति | सत्यं उभयत्रोभयमस्ति | तथापि गुणप्रधानाभावेन पुनरुक्तिपरिहार इत्यभिप्रेत्याह- नैव दोषो यतस्तत्र युक्तीनामप्रमाणता प्राधान्यं याज्ञवल्कीये युक्तीनामभिधीयते इति | भवत्वेवं पुनरुक्तिपरिहारः | किमर्थं युक्तयो भण्यत इति | तत्राह- युक्त्यागमो हि संभूय करस्यामलकादिवत् सुसूक्ष्ममपि तद्वस्तु शक्तौ ज्ञापयितुं यतः इति अतो युक्तिकथनं बुद्ध्यत इत्याह- प्. ५२७) युक्तयोऽतोऽभिधीयन्ते पूर्वपक्षादिसंश्रयाः याज्ञवल्कीय एतस्मिन् काण्ड इति युक्तिश्च द्विधा वादयुक्तिर्लब्धबुद्धिश्च | वादयुक्तिरर्थनिर्णयप्रधाना लब्धयुक्तिर्जयापजय प्रधाना | तत्र जल्पयुक्तयः पञ्चमाध्याये नोच्यन्ते इत्याह- जल्पोक्तिवर्त्मनेति उद्गीथब्राह्मणोदित उद्गीथादिपदार्थसाधनार्थः आद्यो विचार इत्याह- उद्गीतप्रमुखा येज्ञा मधुकाण्डे पुरोदिताः | तेषामेव विशुद्ध्यर्थं विचारः क्रियतेऽधुना || अत एवाद्य ब्रह्मणाभिहितोपासनमुद्गीथो पासनशेषमित्याह- दर्शनास्यास्य तेनातः एकवाक्यत्वमिष्यते इति | द्वितीयब्राह्मणाद्यभिहित पदार्थेष्वपि तदेकवाक्यत्वं द्रष्टव्यमित्याह- तथैवान्यपदार्थेषु तद्द्वयोरपि काण्डयोः इति द्वितीयब्राह्मणाद्यभिहित तर्को मधुकाण्डाभिहित तत्वमादिपदार्थनिर्णयायेत्यर्थः | एवं संगतिं कृत्वा पदार्थव्याख्यानं करोति यदिदं कर्मणोऽशेषसाधनं मृत्युनाप्लुतं प्. ५२८) स्वामिमन्त्रं त्विगग्न्यादिभिपन्नमवशीकृतमिति | मृत्युशब्दार्थं कथयति | परिच्छेद तदज्ञानं सासंगं मृत्युसंज्ञितम् इति | ब्रह्मक्षत्रादि परिच्छेदकारणमात्मनो भ्रान्तिविज्ञानं रागादिसहितं मृत्युरित्यर्थः एवं विध मृत्युविनाश साधनविषयः आद्यप्रश्न इत्याह- केनायं यजमानोऽथ मृत्योराप्तेर्हि मुच्यते इति | अवश्यं मृत्युविनाशसाधनेन भवितव्यं इत्यत्र हेतुमाह- यन्मर्त्त्यसाधनं साध्यं मर्त्यं तदविजायते साधनानुमितं साध्यं मुक्तिस्तेनात उच्यतां इति | मृत्युविनाशसाधनमनेनोच्यते इत्याह - होत्रर्त्विजाऽग्निना वाचा मृत्योराप्तेर्विमुच्यते इति प्रश्नप्रतिवचो याज्ञवल्क्योऽप्युवाचकमिति | ननु जल्पन्यायो वस्तुनिर्णयपरो न भवतीत्युक्तं एवं चेत् किमितित्रिस्रोऽत्र कथ्यत इति | तत्राह- प्रवक्ता याज्ञवल्क्योत्र तं पृच्छन्त्यश्वलादयः यदा अधिदैवात्मना वेत्ति स होतैवं विधो भवेदिति प्. ५२९) होता यजमान वाक्यै तदुभयमग्निरूपेण ध्यातं मृत्युविनाशसाधनमित्यर्थः | अनन्तविग्रहः सोऽग्निः होता मृत्योर्यथोदितान् यजमानस्य मुक्तिः स्यात् अतिमुक्तिस्तथैव च | इत्येतत् पूर्वस्य प्रपञ्चः मुक्तिमुक्तिपदार्थद्वयं कथयति- आसुरात् साधनात् देव प्राप्तिर्मुक्तिरिहोच्यते साध्यादप्यासुराद्देवसाध्याप्तिरतिमुक्तता इति | आसुरं साधनं ज्ञानरहितं पुण्यं कर्म दैवं हिरण्यगर्भाद्युपासनज्ञानं पुण्ययुक्तं आसुरं साधनं पापकर्मेति केचित् || एवं विध आसुरसाधनादेवं विध देवसाधन प्राप्तिमुक्तिरासुरसाधनफलादेव साधनफलप्राप्तिरिति | मुक्तिरित्यर्थः | साक्षात् कैवल्यमेव मुक्त्यतिमुक्ति शब्दमिति केचित् तर्हि रातः रोति यथोक्तो वासना देवतैवं चेत् विवक्ष्यते | ब्रह्मविद्या किमर्थेयमिति | ननु फलान्तरार्थ तन्नेत्येह- नान्यन्मुक्तिफलं ततः इति उत्तरवाक्यस्य तात्पर्यार्थं कथयति वृत्ता प्. ५३०) वृत्तानुद्रवपूर्वकं- आसुरात् कर्मणो मृत्योरतिमुक्तिरिहोदिता कालात् कर्मातिरेकेण मृत्योर्मुक्तिरथोच्यते || इति कालस्य मृत्युत्वं साधयति | प्रयोगसमवाययेव द्रव्यकर्तादिसाधनम् | तत्प्रयोगावसाने च सर्वं तदपमृज्यते इति | प्रयोगावसितेः पूर्वं काल प्राक् तत्प्रयोगतः क्षपयद्वर्ततेऽजस्रं सर्वं तत्कर्मसाधनम् | इत्येतत् पूर्वस्य प्रपञ्चः ततः कालस्यापि मृत्युत्वं सिद्धमित्याह- तस्मात् कर्मातिरेकेण कालो मृत्युः प्रतीयतामिति | अतस्ततो मुक्तिकथनाय उत्तरं वाक्यमित्याह ततोपि मुक्तिर्वक्तव्येत्यत आरभ्यतेऽपरः इति | कालो द्विविधः तस्योभयविधकालस्यापि मृत्युत्वात् तद्विनाशसाधनविषयः प्रश्न इत्याह-कालश्च द्विविधः प्रोक्त एको होरात्र लक्षणं तिथ्यादिलक्षणश्चान्यः ताभ्यामुक्तिरिहोच्यते इति | प्रथमप्रश्नोऽहोराऽत्र विषय इत्याह उपस्थापयतं कर्म तथा क्षपयतो यतः अहोरात्रे ततो मृत्युः ताभ्यांमुक्तं ततो भवेत् || प्. ५३१) इति | साधनं कथयति- अध्यात्मं चक्षुरध्वर्युः अधियज्ञं द्वयं रविः साक्षादनन्तदेहोयं इति ध्यायन् विमुच्यते इति | यजमानस्य चक्षुरध्वर्युश्चोभयमादित्य रूपेण यदा अध्वर्युर्ध्यायति | तदा यजमानो अहोरात्रमृत्योः मुच्यत इत्यर्थः | आत्मावयव एवायं सूर्यश्चक्षुर्ममांशुमान् अध्वर्युरहमेवेति साक्षात् कृत्वा किमुच्यते इत्येतत् | पूर्वस्य प्रपञ्चः आत्मशब्देन यजमान उच्यते | मम यजमानावयवश्चक्षुरध्वर्युश्चाहं अंशुमानादित्य एवेति | तथा अध्वर्युः साक्षात्कृत्वा स्थितो भवति तदा यजमानः कालान्मृत्योर्मुच्यते अध्वयुश्चेति अंगावयवबद्धत्वादुपासन स्यांगकर्तुरेव कर्तृत्वादयमर्थो लभ्यते | क्रियास्वभावात् चन्द्रप्राप्त्या तिथ्यादिलक्षण कालादतिमुक्तिरिति तावत् कथयति | वायुप्राप्त्यापि सा भवतीति कथयितुं- कलावृद्धिक्षयाभ्यां च पक्षयोरुभयोस्तथा चन्द्रः कर्तेह तत्प्राप्त्या पक्षाभ्यां विप्रमुच्यते प्. ५३२) इति काण्डशाखायां वायुप्राप्त्या तिथ्यादि लक्षणकालात्ययः कथ्यते तत्र हेतुमाह- ह्रासवृद्ध्योर्यतः कर्ता वायुश्चन्द्रमसत्स्ततः वायुनेवोपसंहारः प्राणोद्गात्रोश्यं कृतः इति | तस्मात् यजमानस्य प्राण उद्गाता च वा युरूपेणोपासितः | पक्षद्वयान्मुक्तिसाधनं काण्वपाठे चन्द्रप्राप्त्यैव पक्षद्वयान्मुक्तिः माध्यन्दिनैरुच्यत इत्याह- मनोऽध्यात्म्यं यदस्याभूत् ब्रह्माचैवाधियज्ञगः तस्याधिदेवता चन्द्रः इति माध्यन्दिनी श्रुतिः इति | मनो ब्रह्मा च चन्द्ररूपेणोपासीतौ मुक्ति साधनं शाखाव्यवस्थयोपासनं द्रष्टव्यम् | वृत्तानुद्रवणपूर्वकं उत्तरप्रश्नमवतारयति कर्मतः कालतो मृत्योर्मुक्तोयं स्वर्गमेज्यते | तं प्रयास्यति केनायं आक्रमेणेति पृच्छ्यते इति | किं विषयोयं प्रश्न इति चेदत्राह- स्वर्गलोकगतावत्र साधनं पृच्छ्यते इति साधनप्रश्न एवेत्यत्र हेतुमाह - यतः अन्तरिक्षमनाधारं गतौ हेतुनिषेधनमिति अयं प्रश्नो देहग्रहणविषय इति भर्तृप्तपञ्चमतं प्. ५३३) मृतोयं कथं देहं गृह्णातीति तन्निराकरोति || नतु देहग्रहे ग्रहप्रश्नः सति गन्तरि पृच्छ्यते अग्न्यादिदृष्टिश्चास्य देहः प्राक् प्रतिपादितः इति | गन्तरि सत्येव केनेत्ययं प्रश्नः तावन्मात्रमपि गानं गन्तृत्वं च देहं विना नोपद्यते अतस्तद्वलादेव गमनयोग्यं शरीरं सिद्धमतः तद्विषयः प्रश्नो नोपपद्यत इति गन्तृशरीरं सोऽग्निरभवत् स वायुरभवदित्यादि शास्त्रसमर्पितमतः तद्विषयोपि प्रश्नो नोपपद्यते अतो न देहग्रहणे प्रश्न इति | यजमानस्य मनो अध्यात्ममधियज्ञं ब्रह्म चैतदुभयं चन्द्ररूपेण दृष्टं ब्रह्मलोकप्राप्तिसाधनमित्याह मनोऽधियज्ञं ब्रह्मैव ब्रह्मा चन्द्रोऽधिदेवता चन्द्रेण मनसा लोकं अवष्टंभेन यास्यतीति यजमानस्य प्राणोऽधियज्ञं उद्गाता च वायुरूपेण दृष्टो लोकप्राप्तिसाधनं माध्यन्दिन पाठ इत्याह- अध्यात्मं प्राण एव स्यात् उद्गाता योऽधियज्ञगः स वायुरिति पाठोस्याद्वाक्ये माध्यन्दिनेत्वियं इति | उद्गीथोपासनं यजमानस्वामिकं न प्. ५३४) न यजमानकर्तृकमन्त्रजपो यजमानस्वामिकः तत्कर्तृकश्चेत्यभिहितं उद्गीतब्राह्मणे | तत्रैव हेत्वन्तरमाह- यजमानश्रुतेरत्र पूर्वोद्गीथैकवाक्यतः याजमानो जपस्तत्र ज्ञानं चेत्यवसीयतामिति | स्वसुवर्णप्रतिष्ठाज्ञानामौद्गात्रमित्यभिहितं तत् स्मारयति | तदेव तस्य नेतरदिति प्रतिपादनाय संभाव्यते न यत्तत्र यजमानस्य मानतः अस्तु कामं तदुद्गातुर्नतु यद्यजमानगमिति इति शब्दार्थं कथयति | इतीत्युक्तपरामर्शो ह्यतिदेशार्थ उच्यते इतोन्यत्रापि मोक्षाये तेप्येवमिति वीक्ष्यताम् | इतिर्निपात एवमर्थे वर्तते | यथा वागादीना मतिमोक्षोऽभिहित एवं अनुक्तत्वगादीनामप्यति मोक्षो द्रष्टव्य इति | कथमिति तद्दर्शयति- अधिदेवात्मना तेषां दृष्टय साधनाः अतिमोक्षाः स्युः सर्वत्र यथोक्तादेव कारणात् इति | उद्गीथोपासनशेषभूतं सर्वं निर्णीतं इदानीं अथ संपद इत्यत्र संपत्पदार्थं कथयति फलवत्कर्मणां क्वापि क्वचित्सामान्यदर्शनात् | प्. ५३५) संपत्तिर्महतां संपदल्पीयः कर्म तच्च्युतेः यदि वा तत्फलस्यैव किञ्चित् सामान्यवर्धना संपादनं भवेत् संपदग्निहोत्रादिकर्मणि इति | ननु संपदफलैव अतः तल्लक्षणं न कर्तव्यमत आह- संपदा चेत् फलप्राप्तिश्वमेधादि कर्मणः त्रयाणामपि वर्णानां तत्पाटे फलवान् भवेदिति | ननु महेदश्वमेधादिकर्मफलं कथमल्पसंपदा प्राप्य इति | तत्राह- नातिभारोऽस्ति नो बुद्धेः शास्त्रं चेत् तत्परं भवेत् विदुषां श्रेयत्सेतोध्या न क्वचित् प्रतिहन्यत इति एवं तात्पर्यमुक्त्वा पदार्थव्याख्यानं करोति तिसृभिरिति | संख्यार्ण प्रश्ननिर्णयमब्रवीत् पुरोऽनुवाक्याद्युक्त्या तु संख्ययार्थविनिर्णयः इति | यत्किञ्चेदं प्राणभृदित्यस्यार्थमाह - त्रैलोक्यसंख्यासामान्यात्स्यात्सर्वप्राणहृज्जय इति | लोकास्तापत्रयो भूर्भुवः सुवरिति | पुरोनुवाक्ययाज्यशस्यरूपेण ऋचोपि तिस्रोऽनेन संख्यासामान्येन लोकत्रयसंपादनं पुरोनुवाक्यादिषु कृत्वा प्राणभृत् सर्वं जयतीति प्. ५३६) ननु लोकोपासनात् लोकजयं कथं प्राणा भजय इति तत्राह- सर्वप्राणभृतां यस्मात् त्रिष्वेवैतेषु संभवः इति महत् कर्मणो त्वल्प कर्मसु संपादनं फलस्यैव वा संपादनं संपदित्युक्तं | अत्र कर्म संपत् | किन्तु फलसंपदित्याह- उज्वलत्वादिसामान्यादेव लोकादिसंपदः फलसंपद एवेता न तु कर्म विवक्ष्यते इति | उज्वलत्वादि सामान्यादित्युक्तं तत् सामान्यं प्रपञ्चयति- दीप्तिर्नादोऽधः शयनं आज्यमांसपयोऽंभसां देवलोकादि संपत् स्यादीप्तिमत्वादिसंभवात् इति | अनन्तं वै मन इत्यादेरर्थमाह- वृत्यानन्त्यात्मनोऽनन्तं शब्दादीनामनन्ततः विश्वेदेवात्मनो वृत्तिः संपाद्यानन्यसाध्यतः || अनन्तमेव तेनासौ सपज्ज्ञानेन वन्दति लोकं यथोक्तदृष्टिः सन् यजमानं फलं स्वयमिति | तादृशशब्देन पुरोनुवाक्याद्युल एवोच्यन्त इत्याह तिस्रः पुरोनुवाक्यद्या ऋणः पूर्वमुदीरिता यास्ता एव त्रयी ज्ञेयाः स्तोत्रियास्वपि नापराः प्. ५३७) ताश्चर्यो धिय ज्ञानीति रूपेण वर्तन्ते अध्यात्मं केन रूपेण वर्तन्ते अध्यात्मकेन रूपेण वर्तन्त इति | तत्राह- गीतयस्त्वधि यज्ञन्ता अध्यात्मं कास्तुता इति प्राणापानव्यानरूपा अध्यात्मन्ता प्रचक्षते इति | उपासनफलमाह- जयो भूतादिलोकानां संख्यादित्वादिसाम्यत || इति | संख्यासामान्यं पूर्वमेवोक्तं आदिग्रहणेन प्रथममध्यमोत्तमत्वं गृह्यते इति अश्वलोप्युपरेमेऽथ स्वोक्तप्रश्नविनिर्णयात् इत्येतत् सुखबोधम् | इति पञ्चमस्य प्रथमं ब्राह्मणम् वृत्तानुद्रवणपूर्वकं द्वितीयब्राह्मणार्थं कथयति मृत्योर्मुक्त्यतिमुक्तीद्वे पूर्वस्मिन् ब्राह्मणेगते | मृत्युरूपावधृतये परं ब्राह्मणमुच्यते | इति उपासनाफलस्यापि मृत्युग्रस्तत्वकथनाय ब्राह्मणारंभ इत्यर्थः | किं लक्षणो मृत्युरिति चेत् इन्द्रियविषयात्मक इत्याह किं लक्षणेन ग्रस्तोयं मृत्यनेति प्रचोदिते | प्. ५३८) ग्रहातिग्रहरूपेण ग्रस्तोयमिति कथ्यते इति | पुनरपि मृत्युपदार्थं प्रकटयति अधिभूताधियज्ञादि परिच्छेदफलात्मकः मोहासंगास्पदो मृत्युः ग्रहविग्रहलक्षणः इति | ननु मृत्योरतिमुक्तस्या अग्न्यादिरूपमभिहितं उद्गीथब्राह्मणे आश्वलप्रश्ने च अतो ज्ञानकर्मफलभूतोऽग्न्याद्यात्मको हिरण्यगर्भो न मृत्युग्रस्तोऽतः तत्प्रप्तिरेव मोक्ष इति चेन्नैतत् | तस्यापि साध्यत्वेन साध्यत्वेनानित्यत्वादित्येत्वादित्येतदाह इतो मुक्तस्वरूपाणि ह्यग्न्यादीनि पुराब्रवम् उद्गीथब्राह्मणे पूर्वमश्वलब्राह्मणे तथाफलं च ज्ञानयुक्तानां कर्मणामेतदिष्यते उत्पत्त्याद्यन्वयात्तस्मादनित्यं स्यात् घटादिवत् न सर्वस्मान्मृत्योरतिकुमुक्तस्य अग्न्यादि रूपमभिहितं किन्तु स्तोकात् पापादिलक्षणात् तस्माद्धिरण्यगर्भोपि अनित्यत्वात् मृत्युग्रस्त एव यतोनमफलं मोक्षं तस्मात् ज्ञानात् मोक्षाय यत्नः कर्तव्य इत्याह - अतो यथोक्तादेतस्मात् साध्यसाधन लक्षणात् प्. ५३९) संसारबन्धनान्मोक्षः कर्तव्योऽज्ञानहानितः इति उत्पत्त्याद्यन्वयात् हिरण्यगर्भस्य बन्धनात्मतत्वमुक्तमिदानीं मृत्युत्वेनाभिमत इन्द्रियग्रस्तत्वाच्च संबन्धरूप एवेत्याह ज्ञानकर्मफलं दिव्यं यदि नाम पुरोदितम् | ग्रहातिग्रहबन्धेन तथापि सितमेव तत् इति कथमिति तदाह- वाङ्मनः प्राणरूपाणां त्रयाणान्नात्मसंभवात् ग्रहातिग्रहरूपाणां नातो मुक्तः प्रजापतिरिति | एवं संगतिमुक्त्वाऽतिव्याख्यानमेवानुसरति | ननु पूर्वब्राह्मणे चत्वारो ग्रहा वागादयोऽतिग्रहाश्च तद्विषयाश्चत्वार एवाभिहिताः कथमत्राधिकाभिधानमिति | तत्राह- वागादयो ग्रहा ज्ञाताः चतुष्पञ्चाविवक्षितं इति | अविवक्षितत्वे हेतुमाह- अतिमोश्चातिदेशोक्तेरिति | अतोषत्व गुणाभिधानं युक्तमित्याह तद्विशेषोथ भण्यत इति ग्रहा घ्राणादयो ज्ञेया गन्धाद्यास्तदति ग्रहाः ग्रहैर्गन्धादयोग्रस्ता ग्रहाश्चात्मा च गोचरैरित्येत् सुबोधम् | परस्परबद्धत्वं प्. ५४०) दृष्टान्तेन साधयति- अपानेनाहृतो गन्धो प्रात्वस्यैति वशं यथा चक्षुरादिग्रहास्तद्वत् घ्राणादिसचिवैरिहेति अपानवायुप्रेरितो गन्धो यथा घ्राणेन्द्रिय वशं गच्छति तथा रूपाद्यपि तत्तदनुरूप वायुप्रेरितः चक्षुरादि वशं गच्छति तथा चक्षुरादिग्रहा अपि प्राणादिवायुभेदैः सह रूपादिवशं गच्छन्तीति || विषयाणामिति ग्रहत्वं साधयति- गन्धादिविषयाधीस्था कर्मसंबोधिका यतः प्रयुञ्जते हि घ्राणादीन् अतस्ते स्युरतिग्रहा इति | यदिदं सर्वमित्याद्युत्तरं प्रश्नवाक्यं तद्विवक्षितार्थं कथयति- योयं मृत्युरिह प्रोक्तो मृत्युस्तस्यापि चापरः अस्ति नास्तीति वा ब्रूहि याज्ञवल्क्य यथातथम् | अस्ति चेदनवस्थास्यादनिर्मोक्षो न चेद्भवेदिति | प्रतीचः कष्टमल्पैनं पर्यपृच्छतीति किं मृत्योरपि मृत्युरस्तीति प्रतिपादनाय मृत्युशब्दो न कस्मिंश्चिद्रूढोश्वकर्णादिवदित्याह- न कश्चिन्नियतो भावो मृत्युरित्युपदिश्यते प्. ५४१) विनाशको यतो मृत्युः विनाश्या प्रतिभण्यत इति अतोऽस्तिपक्षं परिगृह्णाति मृत्योरपि सतो मृत्युरस्त्येवेति मयोच्यत इति | सकारस्य ग्रहाति ग्रहलक्षण मृत्योरहं ब्रह्मास्मीति वाक्यार्थज्ञानं मृत्युरित्यर्थः | तर्ह्यनवस्थेति नेत्याह- न चानवस्थे हाप्नोति सर्वमृत्युपकारणादिति | एवं चोद्यं परिहृत्य पदार्थव्याख्यानं करोति सर्वान्नभक्षणादग्निः मृत्युस्तावदसावपि | अपामन्नं भवं दृष्टो वह्निनात्रानुविग्रह इति अग्न्यादिपदस्य अर्थान्तरमाह | अग्निर्हिरण्यगर्भो वा ह्यापस्तत्कारणं मतम् कार्याणां मारणान्मृत्युः कारणं प्रतितन्तुवीति | कारणस्य ब्रह्मज्ञानं मृत्युरित्याह- प्रत्यग्याथात्म्यविज्ञानं मृत्युरज्ञानरूपिणः संसारहेतोर्मृत्योः स्यान्नापीहास्त्यनवस्थितिः इत्येतदुक्तार्थं अनवस्थाभावं साधयति निरुणद्धि यथा जन्म तन्नाशमपि तत्तथा | प्रत्यग्याथात्म्य विज्ञानं नाऽनवस्थाप्यतो भवेत् इति | स्वकारणप्रत्यगविद्यानिवर्तकत्वात् स्वनाशजन्मनि स्वात्मानं च स्वयमेव प्. ५४२) स्वयमेव आत्मविद्या निवर्तयेदतो निवर्तकान्तरानपेक्षणात् नानवस्थेति तस्मादात्मविद्यैव साक्षान्मृत्युर्यमदण्डादीनां मृत्युत्वमौपचारिकमित्यर्थः | अत आह- अन्येऽतो मृत्यवो गौणाः तैर्मृतौ स्यात् पुनर्जनी प्राक्तनान्यपि जन्मानि सम्यग्ज्ञानं निहन्ति नः इति | यदिदं व्याख्यानं ज्ञानपदप्रक्षेपेण कृतमस्य वाक्यस्य स्वस्मिन्नेव पक्षेव पुनर्मृत्युं जयतीति एतत् फलश्रवणमुपपन्नं अथ श्रुताक्षरग्रहण इत्याह- यथोक्त एव व्याख्याने युक्तेयं स्यात् फलश्रुतिः इति | अत्र हेतुमाह- न तु निश्शेषसंसार विध्वंसिन्यात्मबोधनः इति | एवं विधात्मबोधने सति मृत्योरभावादित्यर्थः अथवा यथोक्त एव व्याख्याने ज्ञानस्यागृहीतत्वात् अयुक्तोयं स्यात् फलश्रुतिः नतु निश्शेषसंसारविध्वंसिन्यात्मबोधने गृहीत इति | यत्रायं पुरुषो म्रियत उदस्मादित्यादिवाक्यस्य तात्पर्यार्थं कथयति || समस्तेति - प्. ५४३) समस्तमृत्योस्तमसा सम्यगात्मावबोधनात् || मृत्युस्तत्फलविज्ञप्तैः परो ग्रन्थोऽवतार्यते || एवं तात्पर्यमुक्त्वा अक्षरव्याख्यानं प्रारभते सत्यज्ञातात्मयाथार्थ्यो यदायं म्रियते पुमान् किमुत्क्रामन्त्यतः प्राणा उताहो नेति भण्यतात् उत्क्रान्तौ स्यादनिर्मोक्षो जन्मार्थं मरणं यतः अमृतिश्चाप्यनुत्क्रान्तौ सत्सु प्राणेषु का मृतिः दुश्शकोत्तरमित्येवं प्रश्नं मत्वान्वपृच्छत आत्तभागो मुनिर्विद्वान् स च नेति तमब्रवीत् इत्येतत् वार्तिकत्रयं सुबोधम् नेति पक्षं साधयति - अकर्त्रात्मपरिज्ञाना ध्वस्ताविद्यस्य सर्वतः देहान्तरग्रहाभावात् प्राणोत्क्रान्ते रसंभवः इति यदैतत् सम्यग्विज्ञानज्ञातं अस्य आगमोक्तितः- प्राणाः सहेतवः सर्वे तदैवास्ता निरन्वयाः इत्येतत् पूर्वस्य प्रपञ्चः || ननु ज्ञानोत्तरकालमन्वयप्रतिषेधश्चेत् पूर्वमन्वयो व्यतिरेकत्वात्मनः प्राणादि नेति नेत्याह- नान्वयं सहते प्रत्यक् न चापि व्यतिरेकतां कौटस्थ्यैकत्वहेतुभ्यां प्रत्यगात्माख्यवस्तुनः | प्. ५४४) तैत्तिरीयव्याख्या || इति अत्रैव समपनीयन्त इत्यस्यार्थमाह ध्वस्तध्वान्तस्य विज्ञानात् अतो हेतुफलात्मना दिशो स्यात् समपनयः सर्पादीनां यथा स्रजि इति ननु कारणसंसर्ग एवात्रापि नाशोऽतः कथं दृशान्वित्युच्यते इत्यत्राह- न च कारणसंसर्गस्तस्य ज्ञानादपह्नुतेः निष्फलं च भवेत् ज्ञानं यदि कारणसंगतिरिति उत्क्रामन्ति न चेत् प्राणाः नायं तर्हि मृतो भवेत् इत्येतत् सुखबोधं | नैतच्चोद्यमित्याह- देहस्यैव मृतेर्नैव जीवो न म्रियते सदा | इति तत्र प्रमाणमाह- जीवापेतमित्युक्तेर्जन्मादेश्च निषेधतः इति | जीवामरणे युक्तिं चाह यत्संबन्धादचित्कौपि जीवतीत्यभिधीयते | देहं तस्य कथं मृत्युः जीवस्येहोपपद्यते | तस्मात् स उच्छ्वसतीत्यादिना देहमरणमेवोच्यते इत्याह- यतोऽतो देहमरणं प्रत्यक्षात् प्रतिपाद्यते इति | किमेनं न जहातीत्यस्यार्थमाह प्राणा एव विलीयन्ते किं वान्यदपि कृत्स्नतः प्रयोजकादि निश्शेष प्रियमाणाद्विपश्चितः इति | प्राण एव चेत्तत्राह- प्. ५४५) प्राणमात्रविनाशेऽस्य भूयो जन्मप्रयोजकात् इति | इतरपक्षे लाभं दर्शयति | सप्रयोजकतन्नाशे मुक्तिरस्योपपाद्यते | इति प्रयोजककर्मादिना सह प्राणा नश्यन्तीत्यभिप्रेत्याह किमेनं न जहातीति | दृष्टो नामे त्यथाब्रवीदिति | नामार्थं कथयन्ति न किञ्चिन्नहातीति | प्रसिद्धेरिदमुच्यत इति | प्रसिद्धिं प्रकटयति | नाममात्रावशेषितमित्युक्तो गम्यते यतः न किञ्चिदवशिष्टं स्यादिति | यद्वत्तथेह तदिति | अनन्तं वै नामेत्यस्यार्थमाह शब्दार्थश्चातुरी यस्मात् नातो नाम विनश्यतीति अनन्त्यं नित्यतैवास्य नाम्नो न व्यक्तिभूरिता इति | यद्यपि ब्रह्मविदस्वस्या नाम तिष्ठति तथापि परदृष्ट्या तिष्ठति वामदेवो मुक्तः शुको मुक्तः इत्यादिव्यपदेशादर्शहादेतावन्मात्रापेक्षया नाम्नो नित्यत्वं न ब्रह्म वदित्यर्थः | यत्रास्येत्यादिवाक्यस्य तात्पर्यार्थं कथयति- मृत्योः प्रयोजकं यस्मात् ग्रहातिग्रहरूपिणः कस्य रूपावधृतये प्रारब्धैषोत्तरा श्रुतिरिति प्. ५४६) मे नमित्यादिवाक्यस्य स्वव्याख्यानं दर्शितम् | यत्रास्येत्यादिवाक्यस्य तात्पर्यार्थमुक्त्वा इदानीं संबन्धेऽर्थमेनमित्यादि वाक्यार्थं यथा भर्तृप्रपञ्चैर्व्याख्यातं तथा दर्शयति | निराकरणोऽयं वैश्वानरपरादत्र केचिदाहुर्महाधियः देहद्वयविमोकैपि नैवमुक्तः पुमानिति नाममात्रावशेषोऽसौ अन्तरालेन तिष्ठते परमात्मनः परिछिन्नो विद्यया पररूपया उच्छिन्नकामकर्मासौ कृत्स्नं तत्फलभोगतः उच्छिन्नाशेष बुद्ध्यादिस्तत्कारणपरिक्षयात् अद्वैतदर्शनेनास्य द्वैतदृष्ट्यपनुत्तये पर आरभ्यते ग्रन्थो ब्रह्मविद्याववुद्धये इति | अयमर्थो वार्तिकचतुष्टयस्य प्रथमं समुच्चयानुष्ठानं देहद्वय स्थूलसूक्ष्माख्यं यद्यपि नष्टं तत्प्रयोजकं च कामकर्मादि तथापि अयं न मुक्तो नामावशिष्टो ब्रह्म प्राप्य संसाराच्च विनिर्मुक्तोऽन्तराले विद्यामात्रव्यवधानस्तिष्ठति | तस्य प्. ५४७) अविद्योच्छेदिना तदेतद्दर्शनेन अद्वैतब्रह्मप्राप्तिर्वक्तव्या इत्यथाहैनं कहोल इत्याद्यारभ्यते - अत एवमतो नामेत्यत्र अद्वैत दर्शनाधिकारी निर्दिष्ट इति | प्रागेव कहोल प्रश्नात् प्राक्तनो ग्रन्थो द्रष्टव्यः | संसार विषयत्वान्नामेत्ययं ग्रन्थो अर्थतः कहोल प्रश्नात् पूर्वभावी अत्रोच्यमानाद्वैतदर्शनाधिकारी समर्पकत्वादिति तदर्थत्वेन यत्रास्येत्यारभ्येति केचित् एवं संक्षेपतः तन्मतं दर्शितं निराकरोति || अत्र यत् प्रतिपत्तव्यं तदुक्तं असकृत् पुरा जिह्रेम्यत्र पुनर्वक्तुं पुनरुक्तगिरा भृशमिति | आत्मानमेव लोकमुपासीतेत्यादौ भर्तृ प्रपञ्चप्रस्थाननिराकरण प्रकरणे अस्यार्थस्य निराकृतत्वान्न पुनर्निरासाय यत्नः क्रियत इति | यत एवं तस्मात् भाष्योपात्तमतो ब्रूमो नाऽनुपात्तं कथञ्चन पिष्टपेषणवत् सर्वं पूर्वपक्षोक्तिदूषणं इति | एतदुक्तं भवति | भाष्योपात्तं कथमपि न ब्रूमो दूषणं प्राप्य भाष्यानुपात्तमेव प्. ५४८) दूषणं कथयिष्यामो भक्तृ प्रपञ्चप्रस्थानानुवादेन तैरेव स्वपक्ष निराकरणायोपात्तं यद्यपि तैर्न ज्ञायते तान्यपि दूषणानि ब्रूमः इति | भर्तृप्रपञ्चभाष्योपात्तमिति केचित् उत्तरग्रन्थावतारणाय भर्तृप्रपञ्चदर्शितं पूर्वपक्षं कथयति - वार्तिकत्रयेण तल्लिख्यते द्वैतदृष्ट्यैव निश्शेषद्वैतकार्यपरिक्षयात् न भूतमात्रोपादाने बीजमस्ति मनागपि | पुमर्थावसित्रेशात्रास्त्रं कृतार्थं विनिवर्तते अद्वैतदर्शनेनातो नास्ति किञ्चित् प्रयोजनं अद्वैतदर्शनार्थाय शास्त्रारंभोऽत एव च नैवोपपद्यते कृत्स्नः पुरुषार्थावसानकः इति | अयमर्थः सर्वसंसारोच्छेदस्य प्रथम समुच्चयफलत्वेन अर्थत्वात् अनेकज्ञानाय कहोलप्रश्नाभोऽनर्थकः कृत्याभावादिति अरम्भं साधयति- उपपन्तस्तदारंभो मिथः कार्यपृथक्त्वतः द्वैताद्वैतात्मसंदृष्ट्यो स्थोलूखलयोरिवेति द्वैताद्वैतोपासनयोः कार्यभेदादद्वयोपासनेन असिद्धत्वात् तदर्थं कहोलप्रश्नारंभो प्. ५४९) घटत इति | किं तद्द्वयोपसनफलमिति तद्दर्शयति- आसंग कार्यमुच्छिन्न द्वैतदृष्ट्यात्मने यतः आसंग एव भूतानां उपादानमिहेष्यते स एष द्वैतदृष्ट्यात्र कर्मपक्षो निराकृतः कामश्च वासनाः सर्वाः आहारजनपूर्विका इति | अयमर्थः - कामकर्मवासनाभूतानां उद्वदानमिष्यते देहारंभकभूतानां ग्रहण एताः कारणमित्यर्थः | तेषां स्वकार्येण सह निवृत्ति द्वयोपासने फलमिति ननु कामादिसर्वमशेषतो निवृत्तं चेत् किमद्वयोपासनं निवर्त्त्यमित्याह सर्वश्चेत् विनिवृत्तं स्यात् किमन्यदवशिष्यते इति | अविद्यामवशिष्यत इत्याह- तत्परिछेदिविज्ञानमविद्यैवावशिष्यते इति | तस्य विज्ञानात्मनः परमात्मनः परिछेदकं ज्ञानमवशिष्टं तद्द्वयोपासन निवर्त्यमित्यर्थः कर्मादेः कार्यभेदं विभज्य दर्शयति- कर्मारंभेपि कर्त्रेव स्वाश्रयस्य सदेष्यते प्. ५५०) इयत्ता कारकावस्था परिच्छित् ज्ञानमेव तु इति | कर्म स्वफलारंभे स्वाश्रयपुरुषस्य विवरणमकारणमिः यत्ताशब्देन परिच्छेदो भण्यते | परिछेदश्चात्मनः परमात्मनः कारकावस्था कर्तादि कारकरूपेण आत्मनोऽवस्थानं एवंविध परिच्छेदस्य कारणमज्ञानमिति | ज्ञानपदार्थं कथयति- सैवाविद्यापरिच्छेत्री ययायं परमात्मनः संसारित्वं परिच्छिन्नो विज्ञानात्मत्वमश्नुते इति | ननु यद्यपि परिच्छेदकमज्ञानं तिष्ठति तथापि द्वयोर्वासनाबलात् सर्वसं राद्व्यावृत्तश्चेदयं किम द्वयोपासनेन तत्राह- निवृत्तोद्वैतविषयाद्यद्यप्येष तथापि तु संसारावस्थ एवायं द्वैतत्वात् ब्रह्मभेदतः इति | संसाराव्यावृत्तोपि संसारावस्थ एव | अविद्यायां सत्यां ब्रह्मणोऽविभक्तत्वेन द्वैतावस्थत्वादिति | अतो वाक्यमद्वैतज्ञानाय व्याप्रियत एवेत्याह यतोऽनवसितं वाक्यं पुमर्थानवसानतः प्. ५५१) प्रवर्तते पुरेवातो ब्रह्मण्यव्यवसिद्धये इति | ननु द्वयाद्वयोपासनयोः मोक्षफलं त्वयोच्यते कथं तयोः कार्यभेद इति | तत्राह - एकवाक्यत्वमेतस्मात् द्वैताद्वैतार्थवाक्ययोः द्वयोपासनाफलावस्थो द्वयोपासनेत्यत्राह क्रियत इति | तयोरेकवाक्यमित्यर्थः | ननु द्वयोर्वासनाफलमशेषसंसारविच्छेदः कथं तदवस्थस्यान्यत्राधिकारः कृतार्थत्वादिति नेत्याह- मोहाध्वस्तेर्न चाशेष पुरुषार्थः समाप्यते इति | ननु मोहध्वंसादेव अशेषपुरुषार्थसिद्धेः किं द्वयोपासनेन तत्राह- परिच्छेदं हि यत्कार्यं तदेव विनिवर्तते स्वान्तोच्छित्तौ विकर्तृत्वं कर्मणस्त्वनुवर्तते आसंगश्च तथैवास्त इति | ननु मोहोध्वंसात् तत्कार्यपरिच्छेदनिवृत्तेः ब्रह्मभूतोऽयमतः कामादिनिवृत्त्या किमिति | तत्राह क एते संगकर्मणी अनिवृत्ते सति भूयो अविद्याजनयितुं क्षमे | अपि निर्भागवृत्तित्वात् प्. ५५२) सर्वदैव परस्परमिति || अयमर्थः अविद्या मिथ्याज्ञानं कामकर्मणि स्थिते उत्पादयतः त्रयाणामपि निर्भागवृत्तित्वात् त्रिदण्डविष्टाऽभवत् परस्परसंबन्धत्वात्तन्निवृत्त्या भवितव्यमिति | अनिवृत्त्यसंगकर्मयोऽविद्यानविकाराच्च तन्निवृत्या भवितव्यमित्याह न चाविशुद्धो भेदार्थे शक्यमद्वैतमीक्षितुम् इति | अत्र दूषणसंभावनायाह इत्यादि पूर्वपक्षोक्तिदूषणेष्वभिधास्यते ग्रन्थभूयस्त्वसन्त्रासान्नेह कृत्स्नोऽभिधीयते इति एवमभिहितपूर्वपक्षोऽर्थो सह दूषणेषु सत्सु स्वल्पमेव दूषणमुच्यते ग्रन्थबहुत्वभयादित्यर्थः | दूषणानिदर्शयति भूटि दूषणमत्रोक्तं श्रुत्या च स्वयमेव च पुरुषो वा इति ह्युक्त्या तस्मास्यादिति वाच्यतः एवं प्रदर्शितः पक्षः पुरुषो वा अक्षितिरस्मा * * वेति वाक्यैः द्वैताक्षयप्रतिपादकैः निरस्तो भर्तृप्रपञ्चैरपि एतानि वाक्यानि व्याचक्षणैस्तस्मात् कथं प्रथमसमुच्चयाद्वैतक्षय इति कारणादक्षरादन्नदन्नमित्यारभ्य प्. ५५३) जगतोऽक्षयत्वप्रतिपादकवार्तिकानि प्रत्यक् तत्वपरिज्ञान जन्मैवेत्येतदन्तानि सुखबोधानि तानि लिख्यन्ते तत्रापि यो स्फुटांशः स व्याख्यायते कारणादक्षरादन्नं पुरुषेणेह कर्मणा अव्याकृतादिभावेन व्रीह्यादित्वाय जन्यूते इति | अव्याकृतादिभावेन व्यवस्थितमन्नं ब्रीह्यादिरूपेण जन्यत कर्मणेत्यर्थः तत्रैवं सति यद्येतदाद्यपहिते केवलं न जन्येत ततः क्षीयेत् | नत्वेतत् नेह जन्यते नित्यं भुंक्ते यथैवान्नं आत्मा वाग्देहबुद्धिभिः अक्षीणैः कर्मसन्तानैः तथैव जनयत्यपि भूतानि क्षीयमाणानि कर्मणा परमात्मनः पुरुषेणेह जन्यन्ते तस्मात् स पुरुषो क्षितिः पूर्वकर्मोपभोगोयं पुरुषाणां शुभाशुभः तस्मादसंगवैशाष्यात् अन्यस्य प्रक्रिया पुनः तत्रैवं सति सासंगात् प्रायेण प्राणिनो यतः अतः कामाशयवशात् भुज्यतेन्नं मुहुर्मुहुः क्षीयन्तेऽन्याश्च भोगेन चीयन्तेऽन्याश्च कर्मणा भूतमात्रा प्रदीपस्य सन्तानेनार्चिषो यथा | प्. ५५४) परस्परात्तृभोक्तृत्वं संस्कारोपनिबन्धनम् विज्ञानात्मनिराबद्धं बंभ्रमीत्यखिलं जगत् विज्ञानात्मा हि यः कश्चित् कर्मणा येन केनचित् सा विभूताधिदैवस्य जगतः स्वर्गकारणम् | श्रुत्यैतत् स्वयमेवोक्तं कर्म निक्षीयते यथा दैववागादिसंपत्तिः तथा त्र्यगात्मदर्शिनः इति | हिरण्यगर्भाद्युपासनफलस्तत् प्राप्तिर्न क्षय इत्यर्थः- इदं तत् तदिदं चेति त्रिषु लोकेषु नित्यतां प्राहास्य नित्यमानस्य विक्रियामात्रमेव तु इति | अभिव्यक्तिमात्र जन्मेत्यर्थः | यद्यत् कामयते चास्मादविद्या कामकर्मणाम् ब्रह्मण्यवस्थितस्यापि त्वक्षयत्वं श्रुतिर्जगौ कृत्स्नप्राप्त्या क्षयो नातो विद्यते कामकर्मणोः प्रमायाऽसंभवात्तस्मादसमीचीनमुच्यते ननु भोगान्न सर्वात्मना जगदक्षयः किन्तु जगद्व्यक्ततानिवृत्तिमात्रमुच्यते इति | तत्राह- व्यक्ततायाः क्षयो यस्तु कारणात्मतया श्रुतः तादृक्क्षयः सुषुप्तेपि नैवास्माभिर्निवार्यते | प्. ५५५) इति | साधनानुष्ठानं व्यर्थमित्यर्थः | यत एवं अतोऽज्ञानादेव जगत्क्षय इत्याह- प्रत्यक्तत्वपरिज्ञानजन्मैव ध्वंसहेतुता द्वैतस्यैति पुमर्थश्च नाऽतोन्यत् किञ्चिदिष्यते इति | ननु कथं नान्यदिष्यते | कैवल्याय कर्मेष्यत एव सत्यं प्रनाड्या न साक्षात्तत्र प्रमाणमाह- तमेतमिति च तथा सर्वेषामपि कर्मणां प्रत्यक् ज्ञानसमुत्पत्तौ विनियोगः प्रदर्शितः | ज्ञानात् कर्मक्षत्रिय श्रवणाच्च न साक्षादुपकार इत्याह- भिद्यते हृदयग्रन्थिः छिद्यते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परापरे इति | तर्हि प्रारब्धकर्मणामपि क्षयो नेत्याह भोगक्षणेण काम्यानां निषिद्धानां च कर्मणां कवय आरब्धकार्याणां ज्ञानिनोपि न बोधत | तर्हि तदपि तथेत्यत्राह- आभावादजितानां तु सर्वेषामपि कर्मणां क्षयो नारब्धकार्याणां सम्यक् ज्ञानाप्रसूतितः | ननु शास्त्रमेव कर्मणा सह भोगक्षयेपि मानमिति चेत् नेत्याह- प्. ५५६) ज्ञानोत्पत्तौ क्षये मानं कर्मणां विद्यते यथा कृत्स्नप्राप्त्या क्षये मानं न तथा किञ्चि दिष्यते इति | अविद्यापरिच्छेत्रीत्यभिहितं तत्र केयमविद्यानुग्रहणं वा ग्रहणं चेत् तत्राह - परिच्छेत्री न चाविद्या तमोरूपा हि सा यतः आच्छादिकातः सार्युक्ता समस्तव्यस्तरूपिणः इति | मिथ्याज्ञानं चेत्तदपि तथेत्याह- न चापि मिथ्याविज्ञानं परिच्छेदकमिष्यते | परिच्छिनत्ति व्योम नीलज्ञानं मनागपि इति | कस्य तर्हि परिछेदत्वम् ज्ञानस्येत्याह- सतोऽपि व्यञ्जकं मानं इति | ननु मानं कारकं नं बोधकमिति चेत्तत्राह - न तु तत् कुंभकारवादिति | अपि च धियः परिच्छेदकत्वं नाम यथार्थबोधकत्वं नात्र विगानमित्याह मेवस्त्वनुरोधित्वं परिछेदकता धियः इति | किञ्च अतो यद्येवमिति | तत्राह- यथा वस्त्वनुरोधित्वं अज्ञानस्यापि चेक्षत मुक्तेमेये सदा मुक्ति बन्धेरस्य विपर्ययः अग्रहणान्यथाग्रहणयोर्यथार्थबोधकत्वे तद्बोध्यं वस्तु सदा मुक्तं यद्वा लोभ यथापि प्. ५५७) उभयोः सदा भावात् शास्त्रारंभानर्थक्यमिति अपि च जडप्रपञ्चस्या जलं ब्रह्मोपादानमितिव तद्दर्शनं तदप्यनुपपन्नमित्याह- नात्मानात्मीयकार्यस्य स्यादुपादानकारणं अतादार्थ्यान्नहि घटं जनयन्तीह तन्तवः इति | अविद्यैव समस्तजगदुपादानमिति चेत् तदपि स्वाभ्युपगमविरुद्धमित्याह परात्मनः स्वतो विद्या बहिष्ठा कामकर्मणि आगतेन त्वविद्याया भवतैवेतदुच्यते || अविद्या परमात्म उत्पद्यते | न चाविद्या कार्ये कामकर्मणी इति भवतैवोच्यते | अतो अविद्यैव जगदुपादानमित्येतत् स्वाभ्युपगमविरुद्धमिति | अपि नष्टमप्यविद्यां कामकर्मणी जनयत इत्येतदपि न्यायविरुद्धमुच्यते इत्याह- न चाप्यविद्यामसतीं शक्नुतः कामकर्मणी तदकारणतः कर्तुर्द्दृकसेभाक्षा?दिकां यथा इति | असतो जन्मायोगात् तद्वायां कारणही नत्वात् च न जन्मेत्यर्थः भवतु वा कारणं तथापि अविद्या सति चेत् अत्यन्ताय न च प्. ५५८) न स च अत्यन्तासतो जन्म कुर्याल्लोकेपि कारणं धत्तेतरां सुवृष्ट्यापि पद्मिनी संभवोऽंबरादिति | आकाशे पुष्पाभावादित्यर्थः परात्मतः स्वतोऽविद्येत्युक्तं | तत्रैव दूषणान्तरमाह - ब्रह्मैव चेदविद्याया जन्मनः कारणं मतम् तस्मिन् सति समुच्छिर्विद्यायाः कथं भवेत् इति | अथ कारणे सत्येव कार्यस्यात्यन्तनाशः तथा सति संसारस्य स्वत एव नाशनात् उत्पादनायानुष्ठानं व्यर्थमित्याह- आत्यन्तिकी समुच्छित्तिः स्याच्चेन्मोहस्य कारणे सत्येवं नश्वरस्यास्य स्वतः किं साधनैर्वद | इति | इतश्च नष्टामात्माविद्यां कामकर्मणी कर्तुं न शक्ष्यत इत्याह- न चेत्ते शक्नुतोऽविद्यां रक्षितुं कामकर्मणी विद्यमानां विनष्टां तु कर्तुं ते शक्नुतः कथमिति | नन्वविद्या नश्यति चेतच्चोद्यं स्यान्न नश्यति कामकर्मणी एव नश्यत इति चेत् एतदपि स्वाभ्युपगम विरुद्धमित्याह- कामकर्मादि हानेपि यद्यविद्याऽवशिष्यते | नेतीति वचसो व्याख्या तथा सति विरुध्यत इति | प्. ५५८) नेति वाक्यं यथा कैर्व्याख्यातं तथा दर्शयति वार्तिकद्वयेन विरोधप्रदर्शनाय नेतीति प्रथमः शक्नुत इत्याह- न चेत्ते शक्नुतो विद्यां रक्षितुं कामकर्मणी | विद्यमानां विनष्टां तु कर्तुं ते शक्नुतः कथम् | इति | ननु अविद्या नश्यति चेतच्चोद्यं स्यात् न नश्यति | कामकर्मणी एव नश्यत इति चेत् एतदपि स्वाभ्युपगमविरुद्धमित्याह- कामकर्मादिहानेपि यद्यविद्याऽवशिष्यते नेतीति वचसो व्याख्या तथा सति विरुद्ध्यते इति | नेति वाक्यं यथा तैर्व्याख्यातं तथा दर्शयति ज्ञातं ब्रह्म यथावच्च तथापागास्ततस्तमनेतीति प्रथमः शब्दो मूर्तामूर्तनिषेधकृत् द्वितीयो नेति यः सोथ भावनाप्रतिषेधकृत् भावनादिविशेषेषु यच्छान्तेष्ववतिष्ठते | निष्कलं तत्परं ब्रह्म नेति नेत्युपदिश्यते इति | इदानीं विरोधं दर्शयति- ज्ञातं ब्रह्म यथावच्च तथाऽपागास्ततस्तमः इत्येतदविरुद्धं स्यात् प्रसादाज्जातवेदसः नेति वाक्यात् ब्रह्म यथा वा ज्ञातं तथापि प्. ५५९) अज्ञानं तिष्ठतीत्ययं विरोधः न चानुशुद्धेद्वैतार्थं इत्युक्तं तत्राह- द्वैताथस्यानुशुद्धिश्च कीदृश्यत्र विवक्षिता अद्वैतानभिसंबन्धो नाशो वा मलशुद्धिवत् इति | द्वैतस्य विनाशो विशुद्धिरथवा अद्वैतस्य द्वैतानाभसंबन्धो द्वितीयो वक्तुं न शक्यत इत्याह- समस्तव्यस्तसन्दृष्टौ द्वैतादद्वैतता पृथक् तयोरेकात्मता युक्तेति द्वैतनाशोपि तव पक्षो न संभवतीत्याह - नापि नन्नाश इष्यत इति | तत्र हेतुमाह- नष्टेऽद्वेतेऽखिले नस्यात् समस्तव्यस्तदर्शनं इति | समस्तव्यस्तवाद एव दुष्ट इत्याह- शीतोष्णयोरिव कथं परस्परविरोधिनोः एकत्र समवायः स्यात् समस्तव्यस्तधर्मणोः इति श्रुतिविरोधाच्च नायं पक्षः साधीयानित्याह अपूर्वादिषु जीवत्सु श्रुतिवाक्येषु शक्यते नेश्वरेणापि निर्वक्तुं समस्तव्यस्ततात्मनः इति आत्मज्ञानस्य भेदविरोधित्वाच्च न दुष्ट इत्याह न च कुंभादिव दृष्टिरात्मादिना प्. ५६०) व्यतिरेकत इति | यदि व्यतिरेकेणात्राह- अनात्मत्वप्रवृत्तिः स्यात् दृष्टदृश्यप्रभेदतः इति | पुनरपि श्रुतिविरोधमुद्भावयति || समस्तव्यस्तपक्षे नो चेत् समस्तदृष्ट्यैव व्यस्तदृष्टिः समाप्यते | आत्मनीति श्रुतेर्वाक्यं प्रमाणं प्रसज्यते | येनात्र श्रतः श्रुतमिति कस्मिन्विति तथा वचः इत्यादि सुविरुद्धं स्यादिति | नन्वनुमानादिः समस्तव्यस्तोपासनं ब्रह्मणि मानमिति चेन्नेत्याह- न चापीहापरामिति | अतोऽयं वादोभ्रम इत्याह समस्तव्यस्तसन्दृष्टौ न किञ्चिदपि दृश्यते पूर्णाज्ञानैकहेतुत्वात् रज्जुसर्पादिदृष्टिवत् इति | अपि च समस्तव्यस्तोपासनं तज्ज्ञानवतः त्वयैवाभिधीयते | न च व्यस्ता निरवशेषेण ज्ञातुं शक्यत इत्याह- अणून् प्रत्येकशः सर्वान् स गृह्णीइयादयत्नतः द्वैतभेदानिमान् सर्वान् न कैतव्येन वेत्ति यः इति | व्यक्तभागः समस्तो ज्ञातुं न शक्यत इत्युक्तम् | भवतु वा ज्ञातत्वं तथापि दोष अस्तीत्याह - सर्वेष्वपि च दृष्टेषु द्वैतभेदेषु केनचित् || प्. ५६१) आनन्त्यात् ब्रह्मता चास्य दुर्घटा स्यात्तथा सति इति | इयत्ता परिच्छिन्नत्वादित्यर्थः नोचेदित्यत्र सर्वस्य आत्ममात्रत्व एव आत्मनीत्येतद्वाक्यं प्रमाणं भवतीत्युक्तं तत्रेदमाशंक्यते | ननु यदि सर्वमात्ममात्रं न भवति | तथाप्यात्मज्ञानात् सर्वस्य वेद्यवं घटत एव द्रव्यज्ञानात् तद्धर्मज्ञानवदिति | नेत्याह द्रव्यदृष्ट्या समीक्ष्यन्ते धर्मानीलादयो यथा आत्मदृष्ट्या तथैक्ष्यन्ते नानात्मानो विरोधतः इति | आत्मानात्मनो विरोधादात्मदृष्ट्याऽना अनात्मेक्षणं न भवति | इत्यर्थः विरोधः श्रुत्युक्त इत्याह - तथा चे भागमवचः परं त्विति विरुद्धतां आत्मानात्मसन्दृष्ट्योः स्फुटं नः प्रत्यपीपदिति | ननु समस्तव्यस्तोपासनं आत्मा वा अरे द्रष्टव्य इत्यादौ विधीयते | कथं तदसंभव इति | तत्राह- आत्मा वा अरे इत्युक्तो नैवानात्मेक्षणे विधिरिति | आत्मा नात्मेक्षणे नायं विधिरित्यर्थः तर्हि किमनेन विधीयत इति | तत्राह- अनूद्यैव यथा प्राप्तं आत्मदृष्टिर्विधीयते | प्. ५६२) इति | अपि च अन्यत्रापि यत्र ता आत्मज्ञान कर्मतो विधिःरापातेन प्रतिभाति तत्रापि एवमेव द्रष्टव्यमित्याह- यत्र यत्र विधिर्दृष्टः तत्र तत्रात्मकर्मतः | कृत्स्नानात्मानुवादेन प्रत्यग्दृष्टिर्विधीयते इति | ननु कर्म वाक्यनियोगपरं तथा ब्रह्मवाक्यमपीति चेत् | नैतत्सारं कर्मवाक्यस्य साध्यसाधनसंबन्धबोधपरत्वात् | ननु साध्यसाधनसंबन्धस्य मान्तरसिद्धत्वात् न वेदबोध्यत्वं तत्राह- साध्यसाधनसंबन्धाद्विज्ञानं नान्यतः श्रुतेरिति प्रत्यग्दृष्टिर्विधीयत इत्युक्तमेवं तर्हि विधिरंगीकृत इत्याशंक्य तत्परिहारायेदमिति केचित् यागादेः स्वरूपं प्रत्यक्षादिप्रमाणप्रतिपन्नमेवेत्याह- तदन्येषु पदार्थेषु प्रत्यक्षादि प्रमाणतः इति अनात्मानुपादानेन आत्मबोध इत्युक्तं न तत्रेदमाशंक्यते | बोध्यत्वे घटादिवदनात्मत्वमिति | तत्राह सर्वमानानुवर्त्यात्म प्रतिपत्तौ तु न श्रुतिनिमित्तत्वेन सुमानं सुषु प्. ५६३) सुषुप्तोक्तावतोक्तिवदिति | प्रत्यग्भूतब्रह्मा कारज्ञानोत्पादकत्वेन तद्गताविद्या निवर्तकत्वेन प्रमाणमित्यर्थः | विद्यां चेत्यादिमन्त्रः समुच्चयेऽबोधत इत्युक्तं नायं समुच्चय बोधक इत्याह मन्त्राम्नायोऽप्युपन्यस्तो यथेह न विरुद्ध्यते तथोदर्के प्रवक्ष्यामः सर्वं भद्रं ततोऽस्त्विदं इति | यद्यपि मन्त्रार्थमुत्तरत्र वक्ष्यामीत्यति देशः कृतः तथापि मन्त्रार्थं संक्षेपतो दर्शयति | परापरत्वभेदेन द्वे विद्ये समुदीरिते परा चैवापरा चेत्यत्रोक्ते विद्याऽविद्येत्र भण्यते तत्र अविद्याशब्देन कर्मोच्यते | तमोऽवसानत्वाद्विद्याशब्देन वाक्यार्थबोधो भण्यते वस्त्ववसानत्वादिति | इदानीं सहशब्दार्थमन्त्रस्य उत्तरभागार्थं कथयति मनुवाक्येन तपो विद्या च विप्रस्य निश्रेयसकरं परम् तपसा कल्मषं हन्ति विद्ययाऽमृतमश्नुते इति | सहेत्यस्यायमर्थः || उभयत्र निःश्रेयसकामिति | अविद्यया मृत्युं तीर्त्त्वेत्यस्य अयमर्थोऽविद्याशब्देन तव कर्मोच्यते तया मृत्युं हन्ति कलमषं हन्तीति विद्यया प्. ५६४) इत्यादेरयमर्थो विद्यया मोक्षं गच्छतीति अपि चान्तरालावस्था स्यात्मदर्शनं नियोगे अधिकारस्त्वयोच्यते | तदपि न घटत इत्याह ध्वस्तात्मादिभि संभेदः प्रत्यङ्मोहैकमात्रभाक् द्रष्टव्य इत्यादि विधौ प्रवर्तेत जडं कथमिति एवंविधदूषणजातमात्मानमेव लोकमुपासीतेत्यत्रोक्तं इत्याह- इत्यादि पूर्वमेवोक्तं दूषणं दूषितात्मनां आत्मानमेवेत्यत्रैव न भूयोऽत्राभिधीयते इति | एवं भर्तृप्रपञ्च प्रस्थाननिराकरणे तैर्वोद्भासितानि दूषणानि दर्शितानि | यद्यपि तैर्दूषणत्वेन न ज्ञायते गुरु भाष्योपात्तानि दूषणानि सुखबोधानीत्याह- सुविस्पष्टार्थतो भाष्यं टीकांनैव व्यपेक्ष्यते तस्मात् भाष्याक्षरैरेव शेषोऽर्थोत्र प्रतीयतां इति | एवं विचारसंहृत्य प्रकृतमनुसन्दधाति ग्रहातिग्रहरूपं तत् प्रयुक्तं केन बन्धनं प्रयोजकाले धृतये याज्ञवल्क्येत्युवाच हेति इति यद्यपि पूर्वत्र ब्रह्मवित् पुरुषशब्दोदितस्तथाप्यत्राविद्वान् पुरुषशब्देनोच्यत इत्याह- कर्माश्रयत्वतो लिंगात् अविद्वानिह गृह्यते || प्. ५६५) प्रकृताया विभक्तेश्च विभक्त्यन्तरसंश्रयात् इति | यत्रास्याविदुषः पुंसो मृतस्यायुः परिक्षयात् स्वयोनिवाक् समाप्येति वातं प्राणोऽनुगच्छति इत्येतत् सुबोधं | अत्र वागादिशब्देन नेन्द्रियाण्युच्यन्त इत्याह- अग्न्यादिदेवतांशा ये भोगास्थ कर्मणा जिताः वागादिशब्दैरुच्यन्ते त एव तु न पौरुषाः इति पुंस कर्मक्षये स्वांशान् संहरन्ति यथायथं अग्न्यादिदेवताः सोयं उपसंहार उच्यते | पुंसो देहग्रहे भूयो देहस्थानेषु देवताः अंशः निदधति स्वं स्वं कर्मभोगप्रसिद्धये इत्येतत् वार्तिकद्वयं सुबोधम् | आकाशमात्मेत्यत्र आत्मशब्देन हृदयाकाशं गृह्यते | भूताकाशे लयश्रवणात् आत्मशब्दोदितस्य आत्मनश्च तत्र लयायोगादतत् प्रकृतित्वेन कायमिति प्रश्नविषयत्वाच्च आत्मन इत्येतदाह हृद्याकाश इहात्मेति स्यादाकाशाव्ययत्वतः प्रशंस्य विषयत्वेन विज्ञानाच्चोपयोगतः इति | ननु जीवस्य सप्तदशकलिंगमाश्रयो अतः आश्रयप्रश्नो नोपपद्यते | नैतत् सारं प्. ५६६) यद्यपि लिंगाश्रितो जीवस्तथापि तदधिष्ठातृ नियुक्तान्न भोगप्रदमतो विद्यमानस्याप्य सत् कल्पत्वात् भोगहेतुभूताश्रयविषयः प्रश्नोयुक्त इत्येतदाह- अधिष्ठातृवियुक्तानि न्यस्तदात्रोपमानि हि वागादिकरणानीति नाऽलं पुंभागसिद्धये विदेहदेवतः क्वायं भवत्येष पुमानिति आश्रयत्वेति पुंसोऽसा वप्राक्षीन्मुनिसत्तमं इति | प्रश्नप्रकारं दर्शयति वार्तिकद्वयेन किं कारणात्मतामेति किं वा केनचिदात्मना अवतिष्ठत एवायं किं वा कर्मैव संश्रितम् गुणान् वा यदिवेशानं कालः पादैवमेव वा यदच्छां सन्ततिं शून्यं विनाशं वेति भण्यतां इति | कारणमिति | साभासा प्रत्यगविद्या केन चिदात्मनेत्यस्यायमर्थः इदं तदित्य निर्दिष्टविशेषणं किञ्चिद्वस्तु अथवा स्वयमेव स्वस्याश्रय इति कर्मवादी मीमांसको गुणवादी सांख्य ईशानवादी नैयायिकः कालवादी ज्योतिः शास्त्रज्ञ कर्ता दैवः स नरादिः यदृच्छावादी लोकायतिक सन्ततिवादिनो प्. ५६७) योगाचारप्रभृतयः शून्यवादी प्रसिद्ध एव विनाशशब्देन जीवप्रध्वंसो भण्यते तद्वादी च परापरव्यपाश्रयस्तु स्यादित्यस्मिन् अधिकरणे पूर्ववादीति उत्तरं वार्तिकचतुष्टयं सुखबोधं तल्लिख्यते | प्रश्नेन भावितस्तुष्टः पाणिमस्याग्रहीदृषिः अन्यासाधारणं प्रश्नमप्राक्षीदिति विस्मितः असाधारण सिद्ध्यर्थमावामेवेत्यतोऽवदत् विद्यागुप्तिश्च बहुशः श्रुतावपि समीक्ष्यते आवयोरेव विज्ञानं यथेदं प्रागभूदितः आवामेव तथैवोर्ध्वं वेदिष्यावो यथोदितं सजने प्रश्न एतस्मिन् व्याप्यमाने त्वयोदिते न सिद्ध्येदावयोरुक्तं प्रयोजनमिदं ध्रुवं इति | प्रयोजकज्ञानस्य नासाधारण्याय सजनान्निर्गमनं कृतं किन्तु भयादिति नेत्याह- न त्वन्योक्तिपरित्रासाद्याज्ञवल्क्योऽब्रवीदिदं जल्पे वा व्यतिरेकेण नान्यो वक्ति यतस्ततः इति | पुनरपि हेत्वन्तरमाह- परिशिष्टानिति प्. ५६८) परिशिष्टानपि प्रश्नान् उत्क्रम्य व्याकरोदसौ सजनादिति नातः स्यादन्योक्तिभयकारणम् इति | सजनादुत्क्रम्य प्रश्नं व्याकरोदिति यत्र नान्योस्ति भयकारणं परिशिष्टप्रश्नानपि सजनदेश आगत्य व्याकरोदिति | अथवा सजनादुत्क्रम्य परिशिष्टप्रश्नानपि यदि व्याकरोत्तदा अन्योक्तिभयकारणं भवेन्न तथेति साध्वेतदिति संभाव्य सजनादुत्ससर्पतु याज्ञवल्क्यात्तभागौ तावुत्क्रम्य च जजल्पतुः सजनात्तावथोत्क्रम्य मिथस्तत्र यदूचतुः तत्सर्वं श्रुतिराचरव्यावस्मत् प्रियचिकीर्षया कर्मादि परतन्त्रत्वात् स्वाश्रयो नायमिष्यते संसारभूमिवर्तित्वात् न चात्मा कारणाश्रयः अचित्कत्वात् प्रधानादि पुंसो न स्थानमिष्यते इत्येतत् सार्धवार्तिकत्रयं सुखबोधम् | नापि कर्माश्रय इत्याह - न कर्म तत्फलं वेत्तीति नापि हिरण्यगर्भाश्रय इत्याह - न च तस्यैति संगतिरिति- न चेश्वरे स्थितिस्तस्य शास्त्रानारंभसक्तितः प्. ५६९) कृतनाशाकृतप्राप्ति प्राप्नुतोऽनुस्तथा सती इत्येतत् सुखबोधं- दैवाधिष्ठित एवायं कर्म कालवशानुगः प्रवर्ततां चेत्पुरुष इति | अस्यायमर्थः इन्द्रादिदेव प्रधान कर्मकालसमाश्रयः इति एतन्निराकरोति || नैवमभ्युपपद्यते जडत्वादिति | पूर्वोक्तो दोषोऽत्वापि च विद्यते इति देवताया जडत्वमभ्युपगम्य दूषणमुक्तं इदानीं अजत्वत्वेपि दूषणं वदति | उक्तमेवानूद्य स देवताकर्म पूर्वोक्तं समर्थमिति चेन्मतं प्रवृत्तिरप्रवृत्तिर्वा दैवतैश्चर्यतः सदा नियमे हेत्वसद्भावान्न स्यानैयमिति स्थितिरिति न चापि केवलं कर्म पुंसः स्यादाश्रयो यतः अचेतत्वा नित्यत्व दोषदुष्टं पुरोदितम् | मयायमनुयातव्यः कर्ता चायमुमानवत् कालादिविधियज्ञानध्वंसिनः कर्मिणः कुतः इत्येतत् वार्तिकद्वयं न कर्म तत्फलं वेत्यस्य रूपं च | एवमेकैकपक्षे समुदितः पक्षे च दूषणमुक्त्वा कर्मप्रधानं कालादि पुरुषस्य प्रवर्तकं ताभ्यां निर्द्धारितमित्येतदाह- प्. ५७०) यत एवमतः सर्वे कालदैवेश्वरादयः कर्म प्रधानं पुंसः स्यादाश्रयोयमनुत्तमः इति | एवं स्वपक्षमुपसंहृत्य वेदबहिस्थचार्वाकादिमतं दूषयति || हठो यदृच्छानियति कारणत्वेननाश्रित हठो यदृच्छानियति शब्दोऽभाववाचकः न स्वभावस्य प्रवर्तकत्वं संभाव्यते | नियतकारणोपादानानर्थक्य प्रसक्तेरित्यर्थः बौद्धपक्षोपि न घटत इत्याह- सन्ततौ चानवस्थानात् नाश्रयत्वं प्रमाणतः इति | सन्ततिरिति सन्तानी भण्यते सन्तानि विज्ञानस्तया आश्रयं कर्म स्वाश्रयस्य विज्ञान स्कन्धस्य प्रवर्तकमित्येतदनुपपन्नं अनवस्थितत्वाद्विज्ञानादैः क्षणिकत्वादिति | अनवस्थितिं दर्शयति | न कर्म पूर्वस्कन्धेषु नष्टत्वादुपपद्यते | इति | ननु पूर्वस्कन्ध उत्तरस्कन्धरूपेण परिणम्य पश्चान्नश्यत्यतः स्कन्धाश्रयत्वोपपत्तेः कर्मणः फलहेतुत्वं विज्ञानवादेप्युपपद्यत इति तत्राह- न चेह परिणामस्यादुत्तरस्कन्ध संगताविति | प्. ५७१) परिणामवादानंगीकरणात् स्थायित्वप्रसंगाच्च विज्ञानादेरित्यर्थः | अनाश्रयमेव कर्म फलं प्रयच्छतीत्या शंक्याह- अनिष्टितं न कर्मादि फलाल्लाभफलं भवेत् क्वचिदिति क्षणिकत्वमभ्युपगम्य दूषणमभिधाय क्षणिकत्वमेव विज्ञानादेर्नोपपद्यत इत्याह- न चैकत्रैकदास्थानं विरोधाज्जन्मना शयोरिति | नन्वस्मद्दर्शनेपि विज्ञानव्यतिरिक्तस्यार्यात्मास्तिः ततो नोक्तदोष इति नेत्याह - न च स्कन्धातिरेकेण स्थितः कश्चिदपीष्यते || भोगमोक्षादिसंबन्धीयं प्रत्येतत् प्रवर्तते इति एवं विज्ञानवादमपनुद्य शून्यवादमुपनुदति- अनारंभश्च शून्येपि यथायमुपपद्यते इति शास्त्रानारंभः प्रसंगात् कृत्याभावात् यथायं प्रपञ्च उपलभ्यते तथा शून्योपलब्धौ मानाभावाच्च अयं पक्षोऽनुपपन्न इति | एवं अभेदवादिमतमपनुद्य स्वपक्षमुपसंहरति | यत एवमतोन्याययं कर्मैवास्य समाश्रयः प्. ५७२) संसारभूमौ पुंसः स्यात् कालादेस्तत्प्रधानतः इति | कर्मप्राधान्यमेवातः स्वयमेवाब्रवीच्छ्रुतिः कालदैवेश्वरादिभ्यः कालादेस्तत्प्रयुक्तितः इति एतत् पूर्वस्य प्रपञ्चः | ननु कर्मैव नास्ति कथं तस्य प्राधान्यमिति तत्राह- सति कर्मणि वैचित्र्यं भूतानामुपपद्यते | इति कर्मशब्देनेतरदपि द्वयं गृह्यत इत्याह- कर्मशब्देन विद्या च भावना कर्म चोच्यते इति अत्र हेतुः- देहारंभेन शुद्धस्य कर्मणः शक्तिरिष्यते तस्मात् त्रितयमप्येतत् कर्मशब्देन भण्यते इति | एवं तौ संप्रधार्येत मुक्तदोषनभिप्लुतयियासोः परलोकाय कर्मैवाश्रयमूचतुः कारणानां यथोक्तानां यच्च तौ प्रशशंसतुः कर्मैवोक्तेषु सर्वेषु प्रशशंसतुरादरात् कारणत्वाविशेषेऽपि किं प्रधानमितीक्षणे कर्मणः स्यात् प्रशंसैवं तत्प्राधान्योपपत्तितः इति वार्तिकत्रयं सुबोधम् प्राधान्यं साधयति वार्तिकद्वयेन तल्लिख्यते वशीकृत्येश्वरादीनि करणादि स्वतन्त्रवत् प्. ५७३) कर्म सिद्ध्यद्यतो दृष्टं प्रधानं कर्म तेन तत् क्रिया प्रत्यग्गुणीभूतं नेश्वराद्यपि सिद्ध्यति कर्मातः तेषु प्रधानमिति भण्यत इति पुण्य इत्यादिवाक्यस्यार्थमाह- यस्मादेवमतः प्रेतो देवताविरहादिना देहादस्मात् परिभ्रष्टः कर्मप्राधान्यसंश्रयात् पुण्यः पुण्येन भवति पापः पापेन कर्मणा इति श्रौतं वचः ज्ञेयो आगमैकप्रमाणतः || इति पञ्चमस्य द्वितीयं ब्राह्मणम् || श्रीः वृत्तमनुद्रवति संगतिप्रतिपादनाय || संसारान्मुच्यमानानां तथा संसारतामिहदेहादिनाशे तुल्येपि तत्रैतेषां पुनर्भवः || देहाद्यात्यन्तिकी हानिः अन्येषां यत्र कारणे सति वाऽसति चैवं स्यात् तत्प्रयोजकमीरितं इति | अयमर्थः || जीवन्मुक्तानाममुक्तानां च मरणकाले देहादेर्नाशनं यद्यपि समानं तथापि मुक्ताः न देहग्रहणं कुर्वते || बद्धस्तु कुर्वते तत्र कारणं वाच्यकारणं च प्. ५७४) विद्याकर्म पूर्वप्रज्ञासमुदायोऽभिहित इति उक्तमर्थं संक्षिप्याह- ग्रहातिग्रहरूपस्य मृत्योः कर्मेति निश्चितम् | इति कर्म संसारप्रयोजक मुक्तमित्यर्थः | इदानीं संगतिं दर्शयति कियती कर्मणस्तस्य व्याप्तिः स्यादिति भण्यते इति | यद्वैदिकं कर्म तस्य फलपरिणामकथनाय ब्राह्मणारंभ इत्यर्थः | तत्र कर्मफलं द्विविधं तत्र विशेषरूपमन्तरवा व्यापी सोऽग्निरभवदित्याहदिनाभिहितमिदानीं बहिर्व्याप्तिकरणाय ब्राह्मणारंभ इत्याह- साधारण्यविशेषाभ्यां कर्मणश्च व्यवस्थितिः विशेषावस्था प्रागुक्ता सामान्यस्त्वधुनोच्यत इति इदानीमुभयव्याप्तिकथनाय ब्राह्मणारंभ इत्याह-संसारे कियती व्याप्तिरभिव्यक्तस्य कर्मणः सामान्यात्मविशेषाभ्यां इत्येतत् भुज्य नोच्यते इति | एतदुक्तं भवति | इत्याह- प्रत्यग्याथात्म्यमोहस्य कार्येयत्तेह भण्यते इति | साध्यं सर्वमज्ञान कार्यमेवेत्युच्यत इत्यर्थः | प्. ५७५) इत्यर्थः | सामान्यव्याप्तिकथनप्रयोजनमाह एतस्यां सम्यगुक्तायां नानुक्तमवशिष्यते इति | इदानीं पुण्यकर्मणां मध्ये अश्वमेधो महापापकर्मणां मध्ये ब्राह्मणवधो महानित्ये तदाह भ्रूणहत्याश्वमेधाभ्यां न परं पुण्यपापयोः इत्येवं सर्वकार्याणामपि वाक्यानि कोदिश इति | किमतो यद्येवमिदं ततो भवतीत्याह- पापस्य कर्मणः कार्यमन्यत्रापि मितं यतः नेहातो भण्यते भूयो अनर्थत्वाद्वाप्यनादरम् || स्वतश्च तज्जहासायाः सिद्धत्वान्नेह कीर्तितं चति अस्मिन् ब्राह्मणे पापकर्मफलं नोच्यते | तत्फलस्य उद्गीथब्राह्मणादावुक्तत्वात् अनर्थ फलत्वेन तत्रादराभावात् जिहासितत्वाच्च इत्येतत् कथनाय पापकर्मणां मध्ये ब्राह्मणवधो महानित्युक्तमित्यर्थः | पुण्यकर्मणां मध्ये अश्वमेधो महानित्युक्तं तस्याभिप्रायं प्रकटयति- परमोदारफलता अश्वमेधाख्य कर्मणः निश्शेषपुरुषार्थाणां पुण्यकर्मणि साधनं | प्. ५७६) इत्याह श्रुतयः साक्षात् स्मृतयश्चाप्यनेकशः पुरुषार्थत्वसामान्यात् स्वर्गादिपुरुषार्थवत् | पुण्यसाधनताशंका मुक्तेरपि यतस्ततः तदाशंकानिवृत्त्यर्थं प्रारब्धैषोत्तरः श्रुतिः कथमाशंकानिवृत्तिस्तत्राह- ज्ञानोपबृंहितस्यापि क्रतुराजस्य कर्मणः संसारविषयैवास्ति मुक्तौ सा न मनागपीति ज्ञानसहितमपि कर्म सारफलमेवेति प्रतिपादनाय ब्राह्मणारंभ इत्यर्थः | ननु संसारस्य कर्मफलत्वेन अविद्याकार्यत्वमिति तत्राह - प्रत्यग्याथात्म्य संयोगः क्रियाकारक रूपवान् प्रथते चास्तनिश्शेष क्रियाकारकवस्तुनी इति | इदानीं स्वमतपरिशोधनाय महान्तं विचारं प्रारभते- अनिज्ञातार्थयाथात्म्यैर्यत्तु कैश्चिदिहोच्यते | फलाभिसक्तिरहितं विद्येतं कर्ममुक्तये इति | ननु कर्म संसारफलं कथं मोक्षायेति तत्राह बन्धहेत्वपि मोक्षाख्य फलकृद्यथा विषदध्यादिरिति तथोदाहृतिरिष्यत इति | यथा विषदद्ध्यादि मन्त्रादिसंयुक्तं सहजं कार्यं प्. ५७७) विहाय कार्यान्तरमारभते | एवं कर्मापि स्वभावप्राप्तं अनित्यफलं विहाय उपासनायुक्तं नित्यमोक्षमारभते इत्यर्थः इदानीं सिद्धान्तयति | इत्युक्तपरिहारार्थं नेतत् सम्यगितीर्यते | अनारभ्यत्ववचनं तद्धेतुप्रतिपत्तये | आरभ्यत्वाभ्युपगमे मुक्तेस्तत्स्याद्यथोदितं अनारभ्यात्वियं मुक्तिस्तत्सिद्धे ज्ञानहेतुतः | ब्रह्म वा इदमित्युक्तेः प्रागपि ज्ञानजन्मनः जगत् ब्रह्मात्मसंसिद्धे नातो मुक्तिक्रियोद्भवेति जगच्छब्देन संसारिणो गृह्यन्ते | वार्तिक त्रय इतरत् सर्वं सुखबोधम् अक्रियोद्भवत्वं साधयति- यदि वस्तुः स्वतो मुक्तं परतो बद्धमिष्यते | मोक्षाय यत्नः फलवान् तदा स्यान्न विपर्ययः इति | ननु तत्सिद्धेर्ज्ञानहेतुत इत्युक्तवात् ज्ञान साध्यत्वं मोक्षस्येति | नेत्याह- विद्याभिव्यतिरेके वेयं स्वतः सिद्धस्य वस्तुनः आरंभकत्वं जगतिः कस्या नैवोपपद्यते अज्ञानमात्रव्यवधौ वस्तुनि वृति निर्मिते | प्. ५७८) आरभ्येर्थे फलं ज्ञानात् व्यञ्चकत्वात् प्रदीपवत् इति | ननु मुक्तेरज्ञानादन्यदपि व्यवसाय कमस्ति तन्निवृत्तिज्ञानसहित कर्मण इति तत्राह- न चाविद्यातिरेकेण मुक्तेर्बुद्धोऽन्य इष्यते | निवृत्तिः क्रियते यस्य विद्येते नेह कर्मणेति | मोक्षप्रतिबन्धकाविद्यानिवृत्तौ मोक्षव्यवहाराच्च नित्यसिद्धो मोक्षो न साध्य इत्याह- अविद्यानाशमात्रश्च मोक्ष आत्मन इष्यते यतस्ततोऽतिरेकेण मोक्षो नित्यो भवेद्ध्रुवम् इति | तर्हि अज्ञाननिवृत्तिरेव ज्ञान कर्मसमुच्चयान्नेत्याह- सम्यक् ज्ञानातिरेकेण न चान्येनास्ति निह्नुतिः प्रत्यङ्मोहस्य नातः स्यात् ज्ञानकर्मसमुच्चयः इति | केवलकर्मसाध्यत्वमोक्षस्य नेत्याह- वार्तिकत्रयेण | तल्लिख्यते- निर्ज्ञातविषयत्वाच्च कर्मशक्तैर्जगत्यपि दृष्टं हि कर्मणः कार्यं उत्पत्त्यादिचतुष्टयम् | उत्पत्त्याप्तिविकारा हि संस्कारश्च क्रियाफलं नातोऽन्यत् कर्मणः कार्यं नातो मुक्तौ तदिष्यते | प्. ५७९) न चान्यतमं तेषां मोक्षो युक्त्योपपद्यते उत्पत्त्यादिप्रकाराणामनित्यत्वसमन्वयदिति न चाविद्याव्यतिरेकेणेत्यत्र अविद्याव्यतिरेकेणान्यन्मोक्षस्य प्रतिबन्धकं नास्तीत्युक्तमिदानीं तत्र प्रमाणं नास्तीत्यत्राह अविद्यामात्रव्यवधिर्यतो मोक्षोऽभ्युपेयते | तदन्यव्यवधाने हि प्रमाणं नोपपद्यते इति पुनरपि प्रथमोक्तं पूर्ववादं प्रपञ्चयति विनाशि फलवत्वं चेत् केवलस्यैव कर्मणः विद्येतस्य तु तस्येव फलं द्रौव्यं भवेदिति पूर्वशक्तिनिरासेन शक्त्यन्तरसमुद्भवः वस्त्वन्तरसमायोगात् विषादेर्दृश्यते यतः इति | एतन्निराकरोति | प्रमाणासंभवान्मैवं वाचो लौकिकवस्तुवत् नागमादपरं मानं उक्तावभ्युपगम्यते विषदध्यादिवत्तस्मान्नातः सूक्तं भवेद्वचः इति | ज्ञानयुक्तं कर्म नित्यमोक्षमारभत इत्यत्र प्रमाणं नास्ति दृष्टान्तेपि तदभावादित्यर्थः | उक्तकार्यातिरेकेण विषदद्ध्यादिवत् इति | प्. ५८०) कार्यान्तरसमुत्पत्तौ कर्मणोपि न विद्यते इति | केवलस्यापीत्यर्थः | किं च किं प्रमाणज्ञानेन त्वया समुच्चय उच्यते इतो वासनज्ञानेन उद्वासनज्ञानेन चेत्तत्राह साध्यावृत्त्यात्मकं स्थानं कर्मैवावस्तु तत्र तु ज्ञानं हि वस्तु तन्त्रंस्यान्नतु यत् कारणाश्रितं कर्मैतं कर्म ते देदृग्विद्ये कर्म कथञ्चन क्रियासमुच्चयो योयं न तु धीहासमुच्चयः इति | ननु यद्यपि वेदवाक्यं कर्मणः सुमुच्चितस्या समुच्चितस्य च मोक्षसाधनत्वं न बोधयति तथा तत्प्रमाणान्तरमस्तीत्याशंक्याह साध्यसाधनसंबन्धः आगमैकप्रमाणतः इति | नन्वागम एव अपामसोममृता अभूमेत्याद्यस्तीति | तत्राह- मुक्तेश्च साधनत्वेन कर्म नैव श्रुतः श्रुतौ इति तद्वाक्यं कर्मस्तुतिरज्ञाननिर्वृत्तेः कर्म न साधनमित्युक्तं सत् यज्ज्ञानातिरेकेण इत्येतदेव दृष्टान्तेन प्रपञ्चयति अज्ञानहानं नो मुक्तिः तस्याः कर्म न साधनम् न हि कर्म तमो हन्ति तमसीवोत्थितं तमः | प्. ५८१) ननु कर्मवत् ज्ञानमप्यज्ञानजं अतो अज्ञानं न निवर्तयति | तत्राह- अविद्येकोद्भवत्वं स्याद्यद्यपि ज्ञानकर्मणोः मेयैकात्म्यानुरोधित्वं तथाप्यधिशयो धियः कर्मणोपि तदस्तीति नेत्याह- नात्माविद्यामतिक्रम्य कर्मैवात्मानुरोधिनी तमोमात्राभिजनको नातो विद्यां निहन्ति तत् स्वतःसिद्धार्थवस्त्वेकं मात्रोत्थानत्वकारणात् ज्ञानं हन्ति तमोऽशेषं न तु कर्म तमोन्वयादिति एतदुक्तार्थः | ननु माऽभूत् कर्मणो वस्तुबलाभावात् अज्ञानानिवर्तकत्वं अज्ञानादेस्तदस्तिज्ञान वदाकारभजनादित्याशंक्याह अज्ञानादित्रयं प्रत्यगाभासं यद्यपीण्यते ज्ञानवत् ज्ञानसंभूतेर्नैव प्रागभ्युपेयत इति | अयमर्थः | यद्यप्याज्ञान मिथ्याज्ञान संशयज्ञानानां चैतन्याकारत्वं विद्यते ब्रह्मज्ञानवत्तथापि ज्ञानोत्पत्तेः परा मिथ्या ज्ञानादिनैव सकारणसंसारध्वंसो नाभ्युपपद्यते तस्य वस्तुबलाभावादस्य च तद्भावादिति || प्रकृतमुपसंहरति प्. ५८२) कर्माकारणतद्दृत्तेर्न कथञ्चन युज्यते साक्षादिति मोक्षप्रतिबन्धकाविद्यानिवृत्तौ शुद्धिद्वारेण साधनमित्याह - अविद्या प्रध्वस्तौ पारम्पर्यात्तु युज्यत इति मुक्तौ च कर्मसाध्यायां किमेकैकं विमुक्तिदं किं वा संभूय सर्वाणि कार्यानिघ्नन्ति संसृतिं सकृत् भूयः प्रयोगाद्वा यावज्जीवप्रयोगतः एकादिदक्षिणास्वेवं विकल्पस्तुल्य इष्यते काम्यैर्वा यदि वा नित्यैः सर्वैर्वा मुक्तिरिष्यते श्रौतैर्वा यदि वा स्मार्तैः यदि वोभयकर्मभिः तेषां च ज्ञानसंयोगे प्रधानगुणभेदतः त्रिधा विकल्पो विज्ञेयो विमुक्तिफलसिद्धये | एकैकं मुक्तिकृच्चेत्स्याद्यवव्रीह्यादिहोमवत् एकेनैव कृतार्थत्वान्नानुतिष्ठेत्ततोऽपरम् प्रयोगे दक्षिणायाश्च समानोऽयं परिक्रमः अथ संभूय सर्वाणि मुक्तिं कर्माणि कुर्वते ऐककम्पा स्रुवाप्रापत् सर्वेषामपि कर्मणां दर्शादिवत् फलैकत्वात्तच्चानिष्टं प्रसज्यते अन्यद्विमुक्तिफलतः काम्यानां श्रूयते फलं तेषां मुक्तिफलत्वं तु न श्रुतेर्नापि चान्यतः || प्. ५८३) इत्येतानि सुखबोधानि | ननु काम्यकर्मणां स्वर्गादिफलत्वेपि मोक्षफलत्वं घटते गोदो हनवदिति तत्राह - न न्यायं कम्यकर्मसु युज्यते | तेषां मुक्तिफलत्वे हि न मानं विद्यते यतः इति | अयमर्थः | यदा गोदोहनेनाप्रणयनं पशुफलमपि स्वर्गफलमाश्रित्य विधानात् नैवं काम्यकर्मणां स्वर्गादिफलानां मोक्षफलत्वे मानमिति | किं च सर्वकर्मणां समुच्चितानां मोक्षफलहेतुत्वे धर्ममीमांसायां कर्मभेदलक्षणं प्रमाणं स्यादित्याह- सर्वं चाप्यप्रमाणं स्याद्यदुक्तं भेदलक्षणम् मुक्तिः सर्वाणि कर्माणि यदि संभूय कुर्वते इति साध्यसाधनबुद्धिर्नो वचनात् पारलौकिकी | न चाश्रौषं श्रुतेर्वाक्यात् कर्म मोक्षफलं क्वचित् इत्युक्तानुवादो वाक्याभावप्रतिपादनाय वाक्याभावं वार्तिकत्रयेण कथयति न तत्र दक्षिणायान्ति विद्ययैव तदाप्यते वेदाऽहमिति मन्त्रं च ज्ञानान्मार्गान्तरापनुत् न कर्मणा कनीयस्ता वृद्धिर्वा नान्तरात्मनः नित्योऽस्य महिमेत्येवं उदर्केपि प्रवक्ष्यते || प्. ५८४) क्षयी कर्मार्जितो लोको नित्यो ज्ञानजितस्तु यः इति | स्पष्टं श्रुतेर्वाक्यं तस्मान्नाद्रियते त्वया इति सबन्धग्रन्थेन समुच्चयो निराकृतः उत्तरत्रापि तत्र तथापि पुनर्निराक्रियत इत्याह- समुच्चयश्चाप्यसकृत् पुरैव स्मरन्निराकृत भूयोपीह प्रवक्ष्यामः प्रसंगाणातिविस्तरादिति सन्निपत्य न च ज्ञानं कर्माज्ञानं निरस्यति साध्यसाधनभावत्वादेव कालानवस्थितेः साध्यसाधकभावाच्च पञ्चास्योरणयोरिव एकदेशानवस्थानं न समुच्चयता तयोः साध्यसाधकभावेन काममस्तु समुच्चिति | स्वशक्त्यनपहारेण दाह्यदाहकयोरिव अयथावस्त्वविद्या स्याद्विद्या तस्याविरोधिनी समुच्चयस्तयोरेवं रविशार्वरयोरिव इत्येतद्वार्तिकचतुष्टयं संबन्धग्रन्थादावुक्तार्थं इतश्च समुच्चयो न घटत इत्याह वस्त्वधीना भवेद्विधा कर्त्रधीना तथा क्रिया कर्त्रादिचात्ममोहोत्थं स्वतो कारकतात्मनः इति | आत्मनः कूटस्थत्वात् कर्तृत्वादेरविद्योत्थत्वेन आत्मज्ञानसंभवाच्च समुच्चय इत्यर्थः प्. ५८६) पुनरपि समुच्चयाभावं दृष्टान्तेन साधयति बृहस्पतिसवे यद्वत् क्षत्रियो न प्रवर्तते ब्राह्मणत्वानहं मानी विप्रो वा क्षत्रकर्मणि विदेहो वीतसन्देहो नेति नेत्यवबोधितः देहाद्यनात्मदृक् तद्वत् तत्क्रियां वीक्षतेपि न इति | अज्ञस्य कर्माधिकाराच्च न समुच्चय इत्याह मृसेभके यथेभत्वं शिशुरद्व्यस्यवान् गतिः अभ्यस्यात्मनि देहादीन् मूढस्तद्वत् विचेष्टते इति | पुनरपि दृष्टान्तान्तरेण तमेवार्थं राहस्थाणुं चोरधिया लाय भीतो यद्वत् पलायते बुद्ध्यादिभिस्तथात्मानं भ्रान्तोऽध्यारोप्य चेष्टते इति | इदानीं ज्ञानस्य कर्मगुणत्वेन समुच्चया भावं दृष्टान्तेन साधयति- स्थाणोः सतत्वविज्ञानं यथा नांगं पलायने आत्मनस्तत्वविज्ञानं तद्वन्नांगं क्रियाविधौ इति | आत्मज्ञानस्य कर्मभक्षकत्वाच्च न तत् गुणत्वमित्याह- यद्धि यस्यानुरोधेन स्वभावमनुवर्तते तत्तस्य गुणभूतं स्यान्न प्रधानात् गुणो यतः इति | प्रधानमस्तीति प्रधानादित्यर्थः || प्. ५८७) ननु भवदुक्तं स्यात् ज्ञानमज्ञानं निवर्तयति चेन्न तु निवर्तयति ज्ञानिनोपि तत्कार्यदर्शनादिति तत्राह- अज्ञानमनिराकुर्वन् ज्ञानमेव न सिद्ध्यतीति अतोऽज्ञाननिवृत्तौ तत्कार्यस्य कारकग्रामस्य निवृत्तेः | कारकरहितकर्मणो ज्ञानं गुणो न भवतीत्याह- विपन्नकारकग्रामं ज्ञानं कर्म न * * * कतः इति | हेतुःस्वरूपकार्याणां प्रकाशतमसोरिवमिथो विरोधतो नातः संगतिर्ज्ञानकर्मणोः सकृत् प्रवृत्या मृध्नाति क्रिया कारकरूपभृत् अज्ञानमागमज्ञानं सांगत्यं नास्त्यतोऽनयोः सर्वथा नैव घटते ज्ञानकर्मसमुच्चयः विद्ययैव तमोहानात् अकार्ये कर्म किं फलम् न मानं किञ्चिदप्यस्ति ज्ञानकर्मसमुच्चिते प्रत्यक् कैवल्यसंसिद्धौ ज्ञानादेव तमोहतेः इत्येतानि सुखबोधानि | केवलकर्मणोपि मोक्षसाधनत्वेन मानमित्याह- उत्पत्त्याद्यतिरेकेण संसारविनिवृत्तये कर्मणोऽपि तथा मानं न किञ्चिदुपपद्यते प्. ५८८) इति | मानाभावोऽसिद्ध इत्याह - अस्तिमानं यतो नित्यं कर्म सर्वत्र चोद्यते न चोत्पत्त्यादिमत् किञ्चित् तत्र साक्षात् फलं श्रुतं विश्वजीवन्न सामर्थ्यं तत्र संभाव्यते बहिः उत्पत्त्यादिफलोद्भूता मुक्तिरस्तु ततः फलम् पुरुषार्थे सति फले विधानं नोपपद्यते नित्यानां कर्मणां तस्मिन् सत्यैव घटते यतः दुःखात्मकेषु नित्येषु समीक्षापूर्वकारिणः पुरुषान्न प्रवर्तेरन्नचेत्तेभ्यः फलं भवेदिति एतानि वार्तिकानि नित्यकर्मणो मोक्षसमर्थकानि सुखबोधानि एतन्निराकरोति नैवं वाक्यात् फलं यस्मात् न किञ्चिदपि लभ्यते तत्सामर्थ्यश्रवाभावात् फले नामेति किञ्चन इति | अयमर्थः | यावज्जीवादिवाक्यावष्टंभो नित्यकर्मणो मुक्तेरन्यदपि फलं न संभाव्यते किमु मोक्षस्तत्सामर्थ्य श्रवाभावान्नित्यकर्मयोः मोक्षफलमित्येवं प्रतिपादकपदाश्रवणादन्यस्य नियतकर्मणो मोक्षः फलमित्येतद्योतक प्रमाणस्याभावादर्थापत्तेः अन्यथा क्षया न नित्यकर्मणोः मोक्ष इति प्. ५८९) अथ प्रमाणाभावेपि नित्यकर्मणोः मोक्षः फलमित्यभिनिवेशः तत्राह- प्रमाणफलतः प्राप्तमपि भूरि न वार्यते- अन्नमात्रं न तत् ग्राह्यं वस्तु यन्निष्प्रमाणकम् इति | नित्यकर्मणोः मोक्षः फलमित्यस्यार्थस्य सोत्प्रेक्षितत्वाच्च नैतत् ग्राह्यमित्याह- पुमाशयवशाच्चेयं फलकॢप्तिस्त्वयोच्यते ननु मदुत्प्रेक्ष्यामवेक्ष्य यावज्जीवादिवाक्यमेवैतदर्थं प्रमिणोमीतिचेन्नेत्याह- अन्यानपेक्षं सन्मानं प्रमेयार्थसमर्पकं इति प्रत्यवायाद्यभावश्च फलं नित्यस्य कर्मणः कॢप्तिः संकल्प्यते तस्माद्विमुक्तिर्नित्यकर्मणः तावतैव कृतार्थत्वात् विधेर्नित्यस्य कर्मणः द्विमुक्तिफलसंबन्धे न मानं विद्यते ततः अन्यथानुपपत्त्या चेद्विश्वजिद्वत् प्रकल्प्यते फलं कथन्न न भवेद्विश्वजिन्न्याय ईरितः काम्यग्निहोत्रवन्नित्यं काम्यं चापि प्रसज्यते फलेनास्यापि संबन्धान्निष्क्रामं नित्यमुच्यते मतं चेन्न फलत्वेन मोक्षो नित्योभ्युपेयते प्रतिज्ञातार्थहानाप्तेर्नैवमप्युपपद्यते || प्. ५९०) आरभ्यमाणता युक्तेः प्रत्यग्धायित्वयैव सा व्यरोर्यैवाथवोक्त्यैवमारभ्यं स्वाद्यतत्फलं मुक्तेश्च कर्म कार्यत्वे विशेषो भवतोच्यतां स्वर्गादिभ्यो विनाशादौ मोक्षेते निर्वृतिर्यतः इत्येतानि सुखबोधानि मोक्षे तेऽनिर्वृतिर्यत इत्यस्य अयमर्थः मोक्षे ते अनिर्वृतिः मोक्षेषु सुखं न सिद्ध्यतीत्यथवा मोक्ष एव तव सुखमभिप्रेतं न सिद्ध्यति मोक्षाभावादिति || अथोपचारतो मोक्षः कार्यस्यानित्यकर्मणः ज्ञानकार्यवदित्येवं मतं चेन्नैवमिष्यते अज्ञानध्वं सकारित्वान्मोक्षो ज्ञानस्य भण्यते | उपचारात् कार्यमिति तदसत्वान्न कर्मणः व्यवधानापरिज्ञानं न कर्माज्ञानहानिकृत्यतोऽतो नोपचारेण कर्मणो मुक्तिकार्यता न चाज्ञानातिरेकेण व्यवधानान्तरं मतम् निवर्त्यत्वेन मोक्षस्य कर्मणायं निवर्त्यते विरोध्यन्तरविध्वंसो दृष्टो लोके विरोधिनां तमप्रकाशवत् कर्म नाज्ञानेन विरुद्ध्यते मतमज्ञानमेवैतत् कर्म नाशयतीति चेत् || प्. ५९१) नाऽविरोधात् कर्म हन्ति कर्म किञ्चित् कदाचन अज्ञानमनभिव्यक्तिः बोधोऽव्यक्तिरात्मनः साध्यसाधकभावोयं विरोधात् घटते तयोः विरुद्धधर्मकत्वं तु मिथो नाज्ञानकर्मणाम् बाध्यबाधकभावोऽयं न तयोर्युज्यते यतः इत्येतानि सुखबोधानि || ननु कर्मणो ज्ञान निवर्तकत्वं नान्वयव्यतिरेक सिद्धं किञ्च दृष्टमित्येतदाह - कर्मणो दृष्टसामर्थ्यं यद्यज्ञानापन मत इति एतन्निराकरोति | ज्ञानेनाज्ञानविध्वस्तेः प्रात्यक्षात्तदसद्वचः इति | एतमर्थं दृष्टान्तेन साधयति- तुषतण्डुलनिर्मोक्षे प्रत्यक्षे ह्यवघातजे | सामर्थ्यात्तद्विनिष्पत्तिरग्निहोत्रादिकर्मणः कल्या ते तद्वदेवेह प्रत्यक्षेणाव बोधतः प्रत्यगज्ञानविध्वस्ते सामर्थ्यं नित्यकर्मणः न युक्तो ज्ञानविध्वंसो बलात् कल्पयितुं त्वया इति | एवं नित्यकर्मणो मोक्षत्वं हेतुत्वं निराकृतं पूर्वत्रोपासनाज्ञान समुच्चये चेत् कर्मणः इष्यते कर्म समुच्चय एवेत्युक्तिं प्रमाण ज्ञानेनापि प्. ५९२) कर्मणः समुच्चयो ज्ञात्वा वाऽनुष्ठानमिति तथा ब्रह्मज्ञानेनापि कर्मणः समुच्चयः स्यादिति | तत्राह- कर्मभिश्चाविरुद्धं यत् देवताद्रव्यतत्वगम् समुच्चियेत तज्ज्ञानं न तु कर्मविरोधि यत् इति | नित्यकर्मणां मोक्षोत्पादने मोक्षप्रतिबन्धकात्मानं निवृत्युपादाने च वाददृष्टं सामर्थ्यं कल्पयितुं न शक्यमित्युक्तं इदानीं कल्प्येति सामर्थ्ये ताभ्यामन्यत् कल्प्यमित्याहकल्प्ये चादृष्टसामर्थ्ये नित्यानां कर्मणां त्वया विरुद्धं कर्मभिः किं वा यदुत्पत्यादिवर्जितं न जन्यजनकं वस्तु न द्रव्यगुणकर्मणः जन्यते यत् फलं तादृक् कल्पितं नित्यकर्मणः तादृक्फलं प्रकल्प्या स्याद्यथा न्यायस्तथात्विह अवश्यं चेत् प्रकल्प्यं स्यात् पुंप्रवृत्तिप्रयोजकः तदुत्पत्यादिमत्स्वेव युक्तं कल्पयितुं फलमिति | कर्म चोदनान्युदुपपत्तिरपि तत्रैवोपक्षीणेत्याह अर्थापत्तेश्च तत्रेव क्षीणत्वान्मोक्षकल्पनेन सामर्थ्यं यतस्तस्मान्न युक्ता मुक्तिकल्पनेति | प्. ५९३) पारिशेष्यसहितार्थापत्या नित्यकर्मणो मोक्षं फलं कल्पयतीत्यस्यार्थस्य समर्थनाय पारिशेष्यन्यायं पूर्ववादी दर्शयति वार्तिकद्वयेन नित्यस्य कर्मणः कार्यं पारिशेष्यसमाश्रयात् | युक्ता कल्पयितुं मुक्तिरन्यस्यासंभवो यतः मोक्षात् फलं भस्मिभिः द्वात्रिंशद्भिरहोरात्रैर्यावन्तद्देशमुद्व्रजन् मण्डलीकुरुते भानु स्तावल्लोकखेरितं शरीरमेतद्वैराजं देवताकारणं महत् इयन्नयतु देशोयं प्राणिनां भोगसिद्धिकृत् अग्न्यादिदेवतानां च व्याप्तिरेवावती मता लोकात् परं निरालोकः सर्वप्राणिविवर्जितः पर्येति लोकं द्विस्तावं पृथिवीपूर्वमानतः || लोकालोकगिरेर्भावः सर्वप्राणिविवर्जितः समुद्रो द्विगुणो भूमेः परस्तादवतिष्ठतेयं घनोदमिति प्राहुः पुराणज्ञा विपश्चितः ब्रह्माण्डसंपुटस्तस्मात् परेणाभ्येति सर्वतः इत्येतानि अज्ञादन्तः समुद्रः श्रूयते तत्र तेनेदं निराकृतं भवतीत्याह- पृथिव्यनन्तरं साक्षात् समुद्रः श्रूयते श्रुतौ || प्. ५९४) अस्मात् बहिः पुराणे तु विरोधे स्मृतिबाधनं इति | नन्वश्वमेधयाजिनां अण्डात् वहिर्निर्गमनमार्गकथनाय श्रुतिः प्रवृत्ताः कथमिदमप्रस्तुतं भुवनकोशपरिमाणं श्रुत्या वर्ण्यत इति | तत्राह- व्याख्येयसंप्रवृत्तेयं अश्वमेधकृतात् फलं स चैवं शक्यते वक्तुं लोकालोकादिमानतः इति | भुवनकोशवर्णनव्यतिरेकेण मार्ग कथनस्याशक्यत्वात् तदुपवर्णनं कृतमित्यर्थः उपासनार्थं च तत्कृतमित्याह यथोक्तपरिमाणेन ध्यानकर्मविवक्षया लोकालोकादिकार्याणां परिमाणवचस्ततः इति | उक्तमेवार्थं वार्तिकद्वयेन अनुद्रवति मार्गकथनाय- अस्तितावदयं लोको यथोक्तपरिमाणवान् भानुप्रकाशसंव्याप्तौ विराजो विस्मृतिस्त्वियं ततो लोकाद्विनिष्क्रम्य द्विगुणा पृथिवी स्थिता | समन्तात् द्विगुणोऽब्धिश्च संवेष्ट्य पृथिवीं स्थित इति | इदानीं तद्यावतीत्यादेरर्थं कथयति | कं समुद्रं समुत्तीर्य यदन्यत् परतस्ततः || प्. ५९५) हन्तव्यमुपंमानोक्तिः क्रियते तस्य सांप्रतं कपालसन्धिगं व्योम सामर्थ्यात् परिमाणतः यावतीत्युपमोक्त्येह श्रुत्याविष्क्रियतेनया इत्येतत् | पूर्वस्य प्रपञ्चः || सामर्थ्यादित्यस्य अयमर्थः || समुद्वात् परतोऽण्डकपालछिद्र व्यतिरेकेण तथाविधा परिमाणयुक्तस्य असंभवादिति | तेन पारिक्षितान् खेन चित्त्यात्मत्वमुपगतान् अन्तस्स व्याप्य नयति समष्टिव्यष्टितामसुरित्येतत् सुखबोधं विराट् सूत्रात्मा सुपर्णशब्देनात्रोच्यते इत्याह चित्यात्मात्र सुवर्णः स्यात् आदित्यात्माथवोच्यते इति | अत्र हेतुमाह- इमं देशं यतः प्राप्ता नादित्याद्युक्तवर्त्मनेति आर्चिरादिमार्गद्वारेण ब्रह्मलोकं गत्वा इमं देशं अण्डसामीप्यं गतानामण्डात् बहिः नेतृत्वं सामर्थ्यं तयोरेव संभवतीत्यर्थः || एवं पारिक्षितान् सर्वा नग्निरिन्द्रो वियत् पथानिर्गमययाण्डतः प्रादात् वायवे सूक्ष्मरूपिणे इत्येतत् सुखबोधं अग्निशब्दार्थं कथयति - अश्वमेधेति प्. ५९६) अश्वमेधमखात् पूर्वं देवताग्निरिहोच्यते इति | अपूर्वशब्दार्थं कथयति- वायुवेष्टनमेतच्च यदपूर्वमिहोदितम् इति | वायवात्मकमपूर्वमित्यर्थः यत एवं वायुरेवापूर्वमित्याह- वायोरेव ततोऽपूर्वं अभिव्यक्ततनुर्मतः | तान् वायुरित्यादिनाऽपूर्वस्य फलमुच्यत इत्याह- अनन्तरं अपूर्वस्य कार्यं निर्दिश्यते अधुनेति पारिक्षितानथादाय वायुसात्मसमांश्च तान् आपाद्य गमयामास तत्र प्राणैकरूपिणः अश्वमेधकृतो यत्र पूर्वे तस्थुरितो गता | वायवात्मा गमयामास समष्टिव्यष्टिताप्तये अश्वमेधमखाऽपूर्व फलप्रकथनेन या प्रवृत्तारव्यायिका सेयं समाप्ताऽनवशेषतः इत्येतानि सुखबोधानि एवं इमं पवसे वायुमेवेत्यादेरर्थमाह- प्रश्नशेषमथेदानीं स्वयमेव श्रुतिर्जगौ वायुमेव स गन्धर्वः प्रशशंसातिविस्मितः इति || पूर्व ले? प्रकथनेन या प्रवृत्ताऽख्यायिका सेयं सेयं समाप्ताऽवशेषत इति एतानि प्. ५९७) सुबोधानि पूर्व तनाश्वमेधयाजिनो यत्रस्युस्तत्र गमयामासेत्येतावन्मात्रमुक्तं पूर्वतनाश्वमेधयाजिनः कुत्र तस्थुरिति विशेषो न ज्ञातः | सविशेषो वायुरिति श्रुत्या उच्यत इत्यर्थः || अत्र हेतुमाह- वायुर्मुक्ता वहिर्यस्मात् नान्यस्याविद्यते बहिः देवताया गतिस्तस्मात् वायुर्ज्यायानिहे कल इति | यतो वायुरेव ज्यायानतो वायुरेव श्रुत्योच्यते इत्यर्थः | तस्मात् वायुरेव समष्टि व्यष्टिव्यष्ट्यात्मक इत्याह- यत एवमतोऽज्ञो यो वायुरेव न चापरः व्यष्टिसमष्टिरित्येवं अण्डान्तर्यनिश्वस इति | अण्डात् बहिर्व्याप्तिः समष्टिरन्तर्व्याप्तिर्व्यष्टिरित्युक्तमिदानीं अर्थान्तरमाह- व्याप्तिर्विशेषरूपेण व्यष्टिरित्यभिधीयते | सामान्येन समष्टिश्च वायुरेव द्विधा स्थितः इति | ननु वायोरन्यदपि सामान्यविशेषात्मकस्मतीति चेत् नेत्याह- वस्तुवल्लक्ष्यते किञ्चित् जगत्यस्मिन् चराचरे सामान्येन विशेषेण वायुरेव तदीक्ष्यतामिति | प्. ५९८) वायुरेवेत्यवधारणात् अयमर्थो गम्यत इत्याह न सामान्यविशेषाभ्यां वायोरन्यस्य वस्तुनः संबन्धो वायुरेवेति सार्वधारणवा कृतः इति | नन्वेवकारो योगव्यवच्छेदनेत्याह अन्ययोगव्यवच्छेदे प्रशंसेयमसोर्भवेत् न त्वभेदव्यवच्छेद उत्कर्षस्तादृगिष्यते इति | विद्यासहितकर्मणोऽश्वमेधादेः फलमनेन ब्राह्मणेनोक्तमित्युपसंहरति | अश्वमेधक्रतोरेष समष्टिव्यष्टिलक्षणः महिमाऽविष्कृतः श्रुत्या विद्यायुक्तस्य संभ्रमात् इति | अप पुनर्मृत्युरित्यादेरर्थमाह- समष्टिव्यष्टिरूपं यो वायुरात्मेति संश्रितः सोपहन्ति मुनर्मृत्युः मृत्युमात्मानमेत्यसौ इति पञ्चमस्य तृतीयं ब्राह्मणम् वृत्तानुद्रवणपूर्वकं उत्तरब्राह्मणार्थं कथयति | ऐकात्म्यानवबोधस्य कार्यमुक्तमशेषतः तन्मूलध्वस्तयेऽथोर्ध्वं परो ग्रन्थोऽवतार्यते इति | इदीनी मुषस्तब्राह्मणार्थं कथयति प्. ५९९) वार्तिकद्वयेन | वृत्तसंकीर्तनपूर्वकं पुण्यापुण्य प्रयुक्तः सन् ग्रहातिग्रहबन्धनः आब्रह्मास्थाणु चाजस्रं यः संसरति मूढधीः सोयमुक्तस्तथोल्कर्षः परः पुण्यस्य चोदितः मुमुक्षुरविनाशीति परो ग्रन्थोऽवतार्यत इति बुद्ध्यत प्रमाता संसारी विद्याकर्मपूर्व प्रज्ञायुक्तोऽभिहितः कर्मफलसंसार एवेति चेदानीं प्रमातृसाक्षिकद्वारेण न्यध्यस्त सकलसंसारो मुमुक्षुस्त्वंपदार्थो अथ हैनमुषस्त इत्यत्र निर्धायत इत्यर्थः निर्द्धारणे हेतुमाह- देहेन्द्रियमनोबुद्धि वेदनाव्यतिरेकतः अस्तित्वे तस्य संसिद्धे तन्मुक्त्यै यतते यतः इति | ननु प्रमातृनिर्धारणायैव ब्राह्मणारम्भ इति नेत्याह- भविष्याल्लोकसंबन्धी येषामागमतो मतः न तात् पदिसमारम्भः सिद्ध एव हि तान् प्रति इति | स्थूलदेहव्यतिरिक्त कर्तृत्वाद्याकारप्रमातासिद्ध एव कर्मकाण्ड इत्यर्थः | अतः सार्थक्ष निश्चयायैव ब्राह्मणारंभ इत्याह- प्. ६००) कर्त्रात्मनः पुरा सिद्धेः बुद्ध्याद्यव्यतिरेकतः कर्त्रादेरिह साक्ष्यात्मा दृष्टे द्रष्टोच्यतेधुना द्रष्टा विद्याधिकारित्वेन निरूप्यत इत्यर्थः विषयो ब्रह्मविद्याया योग्यः क इति चिन्त्यते विषयेऽवधृते यस्मात् उपदेशार्थवान् भवेत् इत्येतत् पूर्वस्य प्रपञ्चः | किं ब्रह्मणो ब्रह्मोपदेश उत अब्रह्मण इति विकल्प्योभयत्र दूषणमभिधाय ब्रह्मण एव प्रत्यक्भूतस्य ब्रह्मत्वमाजानत उपदेश इति प्रतिपादनाय ब्राह्मणारंभ इत्येतदाह- वार्तिकत्रयेण तल्लिख्यते || ब्रह्मणो वोपदेशः स्यादथावाऽब्रह्मणो भवेत् ब्रह्मत्वस्य स्वतः सिद्धेः ब्रह्मणि स्यादनर्थकं उपदेशशतेनापि ब्रह्मत्वं न कथञ्चन स्वतो ब्रह्मत्वतस्तस्य नातो ब्रह्मण इष्यते सर्वस्यैकात्म्ययाथात्म्यान्न वा ब्रह्मेह लभ्यते क्षेत्रज्ञेश्वरसंभेदशंकानुत्यर्थ मुच्यते इति || क्षेत्रज्ञेश्वरसंभेदशंकानुत्यर्थमित्यनेन ब्रह्मैवाविद्याविहितं ब्रह्मविद्यायोग्यमित्येतत् सूचितं | एवं संगतिमुक्त्वा पदार्थव्याख्यानं प्. ६०१) करोति- यदित्यनेन निर्देशो विशेषस्य विवक्षितः | सामान्यमात्रविज्ञानाद्विशेषस्या प्रतीतितः यत् तं विशेष्यवाचि ततः सामान्यप्रतीतेर्विशेषाप्रतीतेश्चेत्यर्थः | साक्षादित्यारभ्य सर्वान्तरान्तं यच्छब्दार्थविशेषणमित्याह- साक्षादित्यादिकं सर्वं तद्विशेषमुच्यते विशिष्टात्मावबोधित्वान्नीलरत्नोत्पलादिवत् इति | विशिष्टात्मबोधकत्वात्तद्वाचकपदानामित्यर्थः | ननु साक्षादित्यादि स्वतन्त्रो न यत् पदार्थविशेषणं इति | नेत्याह यदित्यादि पदानां च सामानाधिकरण्यतः विशेषणविशेष्यत्वं श्रुत्यैवेहावसीयते इति | प्रत्यक्षं वस्तु साक्षात् पदेनोच्यते इत्याह- साक्षादित्यभिधानेन प्रत्यक्षोर्थोभिधीयते इति मानसप्रत्यक्षमित्याशंक्याहमनसो ग्रहणं तस्य न दृष्टेरिति वारणात् इति | यत् पदवाच्यस्य प्रत्यक्षत्वं साक्षादित्यनेनोक्तं तत्रेदमाशंक्यते मनस्तदिति मनसः प्रत्यक्षुत्वार्थं तत्परिहाराय वेदं प्. ६०२) अपरोक्षादित्यभिधानमित्यर्थः | अथवा साक्षादिति विशेषेणाद्रष्ट्ट दर्शन दृश्याख्यं त्रयं प्राप्तं लोके त्रयस्य प्रत्यक्षत्वप्रसिद्धेः तन्निवृत्यर्थमाह द्रष्ट्टदर्शनात् पदस्यार्थमाह- यदि वा द्रष्टरि प्राप्ते साक्षादिति विशेषणात् तत्प्रसंगनिवृत्यर्थं अपरोक्षादितीर्यते इति वक्ष्यमाणेन विकल्पः | स्वात्मा द्रष्टरि संज्ञायामिति स्मरणात् साक्षात्पदात् दर्शनकर्ता प्राप्तः तन्निवृत्यर्थं अपरोक्षादित्यभिधानमित्यर्थः | अथवा साक्षादिति दर्शनात् द्रष्ट्टदर्शनदृश्याख्यं त्रयं प्राप्तं लोके त्रयस्य प्रत्यक्षत्वप्रसिद्धेः तन्निवृत्यर्थमाह- द्रष्ट्टदर्शन दृश्यार्थप्राप्तौ वाद्यविशेषणात् लोकवत्तन्निषेधार्थमपरोक्षादितीर्यत इति द्रष्ट्टदर्शनदृश्यार्थसंभेदविषयस्य हि निरोधाय परोक्षात् गीरभिन्नार्थ ग्रहायत्वित्येतत् पूर्वस्य प्रपञ्चनिषेध फलमभिन्नार्थग्रहायेत्युक्तं तदेव प्रकटयति द्रष्ट्टदर्शन दृश्यार्थ संभेदस्य निषेधतः प्. ६०३) दृष्टिमात्रं स्वतः सिद्धं विशेषणफलं भवेदिति ब्रह्मपदस्यानर्थक्यं दर्शयति | एकं सदेकरूपं च यदि नामोक्तलक्षणम् निर्द्वयं सद्वयं चेति नोक्तहेतोस्तदिक्ष्यते यतोऽतो द्वयसिद्ध्यर्थं ब्रह्मेत्येतद्विशेष्यते इति ब्रह्मपदार्थं कथयति- अव्यावृत्ताननुगतं वस्तु ब्रह्मेति भण्यते इति यत् पदार्थविशेषणमिति | नेत्याह- यदित्यादिपदानां च सामानाधिकरण्यतः विशेषणविशेष्यत्वं श्रुत्यैवेहावसीयते इति | प्रत्यक्षं वस्तु साक्षात् पदेनोच्यत इत्याह साक्षादित्यभिधा किमित्यात्मपदेन विशेष्यत इति तत्राह- अपुमर्थमिदं प्राप्तं न चेदात्मैव तद्भवेत् यतोऽत आत्मरूपार्थं आत्मेत्येवं विशेष्यते इति | ननु आत्मा आत्मान्तरा जडाच्च व्यावृत्तो अतो यत् पादादिसंपरिच्छिन्नं प्राप्तमित्याह सजातीयासजातीय द्वितीयार्थानतप्लुतम् सांख्यराद्धान्त पुंवत्तत् प्राप्तं नानात्वदर्शनात् प्. ६०४) इति | अस्य परिहाराय उत्तरमित्याह- यतोऽतस्तन्निषेधार्थं सर्वान्तर इतीरणम् इति | सर्वान्तरत्वेऽपि परिछेद इति चेन्नेत्याह सर्वेषामान्तरो योऽर्थो नाना स कथमुच्यते इति | अत्र हेतुमाह- स्रग्वत् सार्पादिकॢप्तानां प्रत्यङ्मात्रैकरूपतः इति | सर्वन्तरत्वं साधयति सार्धवार्तिकेन प्रत्यग्वस्तूपरोधेन नानार्थो नावशिष्यते प्रत्यग्रूपावबोधस्य भावाभावात्मवस्तुषु सर्वत्राव्यभिचारित्वादात्मा सर्वान्तरो भवेत् इति | यदित्यादिवाक्यस्य अर्थान्तरं कथयति यत्साक्षादपरोक्षाभ्यां ब्रह्म वेह विशिष्यते | सर्वान्तरगृहीत्वा तु प्रत्यगर्थस्य संगतिः इति | उत्तरं वार्तिकद्वयमस्य प्रपञ्चः साक्षादित्यपि व्यवहितमगौणमपरोक्षतः इति द्वयं प्रतीच्येव संभाव्यते | तथापि ब्रह्म ताभ्यां विशेष्यतेः | तथा सर्वान्तरत्वं यद्यपि ब्रह्मण्यवसंभाव्यते सर्वकारणत्वात्तथापि आत्मा तेन विशिष्यते इति | एवं व्यत्यासेन विशेषणफलं दर्शयति- प्. ६०५) यतोऽत एकवाक्यत्वे ब्रह्मात्माख्य पदार्थयोः द्वैतसंसर्गबोधेन पूर्णं वस्तु प्रतीयते || इति पुनरपि क्षयदित्यादिवाक्यस्यार्थान्तरमाह यदि वैकविशेष्येण विशेषणतयो युतिः साक्षादित्यादिकानां स्यात् मिथोऽन्योन्यानपेक्षतः इति | साक्षादित्यादि पदार्थजातं सर्वं सर्वस्य विशेषणं विशेष्यं चेत्यर्थः | इदानीं वाक्यस्य स्वार्थबोधनप्रकारं तत्फलं च सार्धवार्तिकचतुष्टयेन दर्शयति- एकवस्त्ववसानित्वादन्योन्यार्थानुरोधतः विशेषणानि सर्वाणि विशिंष्यन्त्युत्पलादिवत् उपात्तस्वविशेष्याणि साक्षादित्यादिकानि हि परस्परो परोधेन स्वविरुद्धार्थहानतः स्वार्थागस्त्यगमार्गेण नानासंसर्गबाधनात् भेदहेतु तमोघाति प्रत्यग्याथात्म्य शेमुषी जन्मनैवाप्तमाप्नोति स्वतो मेयश्रुतं वचः रूपात् सामानाधिकरण्योक्तेर्विशेषणविशेष्यता लक्ष्यलक्षणगत्याऽतो यथोक्तार्थं प्रपद्यते इति स्वार्थासन्त्यागमार्गेणेत्यतः उपरिष्टात् प्. ६०६) विशिष्टं त्रिपदं द्रष्टव्यं पुनरपि वाक्यस्यार्थत्रयं कथयति- सर्वार्थं यदि वाऽद्यं स्यात् साक्षादिति विशेषणम् अपरोक्षान्तमथवा ब्रह्मान्तं चोत्तरस्यत्विति प्रथमपक्षे साक्षादित्येतदेव विशेषणं इतरं सर्वं विशेष्यं द्वितीयपक्षे ब्रह्मात्म सर्वान्तरं विशेष्यं अन्त्यपक्षे आत्मसर्वान्तरौ विशेष्यावित्यर्थः | एवं वाक्यस्य अनेकार्था दर्शिताः तेषां उपादेयपक्षं दर्शयति | यत्साक्षात् परोक्षाच्च ब्रह्मणस्तौ विशेषणेः वाक्यात् ब्रह्मादिसंबन्धात् तदन्यस्य तथाश्रयात् ननु पक्षौ ब्रह्मव्यवहितं तत्कथं साक्षादिति विशेषणोऽर्थस्तत्राह- यदव्यवहितं दृष्टं व्यवधानेन केनचित् प्रत्यङ्मात्रस्वभावत्वात् ब्रह्मणो व्यवधानतेति अपरोक्षाच्छब्दस्यागौणत्वामर्थं तस्य ब्रह्मण्येव संभवादपरोक्षादित्यनेनापि तदेव विशेष्यमित्याह- अव्यावृत्ताननुगतं ब्रह्मागौणं प्रचक्षते अपरोक्षा भवेत्तादृग्नातोऽन्यादृक् कथञ्चनेति | प्. ६०७) ननु द्वैतप्रपञ्चे सति कथमन्यावृत्ताननुगतं ब्रह्म तत्राह- सर्वानात्मनिषेधेन बोध आत्मन्यनैकलः ननु प्रत्यक्षादिसिद्धमनात्मवस्तु निषेध्यं चेदात्मापि तथा निषेध्य इत्याशंक्याह अपरार्धं त्वसंप्राप्य निषेधो नेष्यते यतः इति ब्रह्माव्यावृत्ताननुगतं चेत् कस्यान्वयादिति कार्यप्रपञ्चस्येत्याह- व्यतिरेकान्वयाभावैः कार्यं वस्वभिलिप्यते इति | तर्हि द्वैतप्रसंगोः नैवं एवंविधकार्यप्रपञ्च कारणप्रतिषेधेन आत्मनो ब्रह्मत्वज्ञानादित्याह- कारणत्वनिषेधेन ब्रह्मात्मानं प्रपद्यते इति ननु पुनरपि निषेद्ध्यानिषेद्ध्ययोः भेदात् अद्वैतहानिरिति नेत्याह- एतावन्मात्रयाथात्म्यात् कार्यकारणवस्तुनः अव्यावृत्ताननुगतं ब्रह्मात्मैव ततो भवेदिति तमित्यादेरथं कथयति- यश्चात्मैव भवेत् प्रत्यक् सर्वान्तरतमस्तथा तमेवं लक्षणं मह्यं यथावद्वक्तुमर्हसीति प्. ६०८) ननु बह्मत्मभेदस्य प्रत्यक्षत्वात् कथं तदेकत्वविषयः प्रश्न इति तत्राह- सामानाधिकरण्योक्तेः ब्रह्मात्माथाभिधायिनो ऐकात्म्यमेतयोर्न्याययं मिथोऽर्थावसिते स्तथा अर्थे भेदेपि नाम ब्रह्मेत्यादौ सामानाधिकरण्ये दृष्टमित्याशंक्य अत्र अभेदनिबन्धनमेव सामानाधिकरण्यमिति प्रसाधनाय मिथो अर्थावसितेरिति उक्तं तदेव साधयति वार्तिकद्वयेन- ब्रह्मात्मैक्यस्वभावेन साक्षादिति विशिष्यते असंभवात्तदन्यत्र ब्रह्म तस्य यतस्ततः आत्मापि ब्रह्मणोऽन्यत्र नैव संभाव्यते यतः सामानाधिकरण्योक्ति स्तत् ब्रह्मात्मशब्दयोः इति | किमत इति | इदं ततो भवतीत्याह विशेषणविशेष्यत्वे मिथो ब्रह्मात्मनोरतः अब्रह्मानात्मनिह्नुत्यां संसगैकात्म्यधीर्भवेत् इति | नन्वात्मनो व?दः ब्रह्मत्वप्रसिद्धेः ब्रह्मणश्च परोक्षत्वप्रसिद्धेः कथमेकत्वमिति सत्यं यदि तदुभयं पारमाथिकमविद्याकृतमित्याह ब्रह्मणोऽप्यात्मनो मोहात् अब्रह्मत्वं न वस्तुनः प्. ६०९) आत्मनोऽपि परोक्षत्वं ब्रह्मणोपि तमोऽन्वयात् इति | ततश्चैतत् सिद्धमित्याह- तमसोऽज्ञानविधास्तावत् ब्रह्मानात्मताहतेः | अपूर्वाद्यात्मकं ब्रह्म निस्संसर्गं प्रपद्यते इति | एतदेव प्रपञ्चयति- प्रत्यग्याथात्म्यविज्ञानात् तमो नाऽत्मबाधकः प्रत्यङ्मात्रावशेषत्वात् स्यामपूर्वादिमानहं इति | एवं प्रश्नवाक्यं व्याख्यातमिदानीं प्रतिवचनवाक्यस्य अर्थमाह- प्रविधायात्मनो दृष्टिं प्रत्यक्बोधैकरञ्जितां प्रतिवक्त्येष इति तत् याज्ञवक्त्योप्युदारधीः इति | नन्वेवं शब्दप्रत्यक्षार्थवाचि प्रमात्राद्यपि प्रत्यक्षमत एष शब्दार्थं विविच्य ब्रूहि इत्याह- आत्मप्रमातृमानादेरनेकस्येह संभवात् प्रत्यक्षार्थस्यैष इति न विद्मः को विवक्षितः इति | आत्मेत्यनेनैष शब्दो विविच्यत इत्याह- विवक्षितार्थज्ञप्त्यैव त आत्मेति ततोऽवदतिति सर्वान्तरग्रहणं साक्षादित्यादि सर्वविशेषोपलक्षणार्थमित्याह- सर्वान्तरगृहीतिस्तु प्. ६१०) सर्वान्तरगृहीतिस्तु तत्पूर्वोक्तोपलक्षणं इति | त आत्मेति पदद्वयार्थं कथयति | क्षोण्युपक्रममाकाशात् षष्ठ्यन्तेनाभिधीयते | आत्मेति च प्रमात्रादेः आगमापायसाक्ष्यपि | सकारणं जगत्त इत्युच्यते तत् साक्ष्यात्मेत्युच्यत इत्यर्थः | ननु साक्ष्यभेदात् साक्षिभेदः अतः कथं साक्ष्यात्मेति तत्राह- मातृमान प्रभेदेपि प्रतिदेहं न भिद्यते साक्षी बाह्यार्थवद्यस्मात् त आत्मेत्युच्यते ततः इति | नन्वात्माप्यागमापायीतं तस्यागमापायसाक्षित्वमिति | तत्राह- व्याभिचारो मिथो यद्वत् प्रमात्रादेः स्वसाक्षितः सर्वमात्राद्यभावार्थ साक्षित्वान्न तथात्मनः नन्वात्माऽव्यभिचारी अनात्मा व्यभिचारीति भेदं सत्यमविद्यावस्थायां न विद्यावस्थायामित्याह- साक्षादित्यादिभिः प्रत्यक् प्रत्यग्दृष्ट्या यदेक्ष्यते | प्रत्यग्वस्त्वतिरेकेण नान्यदात्मा तदैक्षत इति | उत्तरमस्य प्रपञ्चः- प्रत्यङ्मात्रैकयाथात्म्यादात्मानात्मा विद्यातदुत्थयोः प्. ६११) तावन्मात्रावसायित्वं सम्यग्बोधादतस्तयोः इति | कारणादेरात्ममात्वत्वात् साक्षादित्याद्यपि विशेषणमात्मन्युपपन्नतरमित्याह- आत्मनो नन्वशेषेण तदन्यार्थस्य संगतेः साक्षादित्यादिकं सर्वं संभाव्यं स्याद्विशेषणं इति || ननु संगतेरित्युक्तत्वात् भेदवादो नेत्याह प्रत्यक्तयैवावसिते प्रतीचेदन्यस्य वस्तुनः व्यतिरेकैकरूपस्य व्यतिरेको न लभ्यते इति तर्हि अन्वयप्राप्तो नेत्याह विरोधादन्वयप्राप्तो नेत्याह- विरोधादन्वयो नास्य खण्डादौ गोत्ववत्तथा इति तर्हि व्यतिरेको नेत्याह- व्यतिरेकोपि नैकात्म्य याथात्म्यादुपपद्यते इति | तस्मादन्वयव्यतिरेकाभाव परिहारेण आत्ममात्रं जगदित्याह- प्रत्यङ्मात्रतयैवातो नात्माऽत्मन्यवलीयते इति | कतम इत्यादेरर्थं वार्तिकत्रयेण कथयति | तवात्मेत्यपि निर्णीतो नैव स्यात् प्रश्ननिर्णयः ममात्मनात्मनैतेषां संभवादप्रबोधतः पिण्डान्तस्तवेदात्मैको लिंगान्तश्च तथापरः | प्. ६१२) बुद्धिसाक्षी तृतीये स्याद्योयं सन्दिह्यते तथा एत एवमतो ब्रूहि कतमोऽत्र विवक्षितः || साक्षादित्यादि मानात्मा निर्धार्येदन्तयान्यत इति | यः प्राणेनेत्यादि प्रतिवचनेस्यार्थं कथयति याज्ञवल्क्योपि तत्प्राह यः प्राणेनेति लिंगतः प्राणादेः प्रत्यगात्मानं बुबोधयिषुरञ्जसा इति | लिंगेन बुबोधयिषतोऽभिप्रायं प्रकटयति प्राणनाद्यनुमानेन ग्राहयित्वा धियः परम् ततोऽवबोधयिष्यामि यथोपात्तविशेषणं इत्येतद्धृदये कृत्वा याज्ञवल्क्यो निराह तम् | यः प्राणेनेति वचसा न लिंगादुक्त बोधनं इति अनुमानेन त्वंपदार्थशोधनं कृत्वा पश्चात्तस्य ब्रह्मात्मत्वं साक्षादित्यादिविशेषणं प्रतिपादयिष्यामीत्यभिप्रेत्य एवमुक्तवान् | ननु तदपि लिंगादेव सिद्ध्यतीति नैतद्वाक्यैक समधिगम्यत्वात् एकस्येत्यर्थः | एवं तात्पर्यमुक्त्वा पदार्थव्याख्यानं करोति - मुखसञ्चारिणा प्राणो यः प्राणेनानिरीक्षितः सर्वप्रत्यक्तमः सोयं आत्मा सर्वान्तराविधिः प्. ६१३) इति | सुप्तेस्मिन् करणग्रामे यो सुप्तो लुप्तदृष्टितः वासनारूपकान् पश्यन् प्राणान् प्राणिति वायुना इत्येतत् पूर्वस्य प्रपञ्चः | एवं पदार्थव्याख्यानं कृत्वा पुनरपि तात्पर्यार्थमाह- अनात्मत्वमतः सिद्धं प्राणादेः करणोक्तितः प्राणात्मत्वाच्च बुद्ध्यादेः पिण्डान्तस्याप्यनात्मतेति देहादेरप्यनात्मत्वे युक्त्यन्तरमाह- दृश्यत्वात् घटवद्देहं प्राणादेः करणत्वतः अनात्मत्वप्रसिद्धिः स्याल्लिंग पिण्डात्मनोरतः इति | प्राणनादिव्यापारहेतुत्वमात्मनोऽभि हितं तत्रेदमाशंक्यते | आत्मनः प्राणादि संहतत्वं सक्रियत्वं चेति | तत्राह- प्राणादिकार्यकरणैः स्वतो संहत एकलः तच्चेष्टाः कुरुते कुर्वन् अयस्कान्तो मणिं यथा इति | ननु कार्यकरपासंघातव्यतिरिक्तः सिद्धातुरात्मेव नास्ति कथं तस्य कूटस्थत्वमसंगतत्वं चोच्यते इति | तत्राह- लोकेनधिषितस्येह केनचिच्चेतनावता न दृष्टा नियता चेष्टा रथादेर्जडरूपिणः देहेन्द्रियमनोबुद्धि प्राणादेर्नियतेक्ष्यते || प्. ६१४) प्रवृत्तिर्येन तेनेभ्योऽज्ञात्मान्योभ्युपगम्यतां इति यथाह - ब्रूयदित्यादेरर्थं वार्तिकत्रयेण दर्शयति || प्रतिज्ञाय पुरासाक्षात् गामहं दर्शयामिते अशक्नुं तथा कर्तुं लिंगेन प्रतिबोधयेदिति यथा कश्चित्तथैव त्वं प्रतिज्ञाय परात्मनः साक्षात्वं तदसंपाद्य लिंगेनावेदयस्य मुत् यथा प्रतिज्ञमेवातो यथा दृष्टिस्तथैव तत् मह्यं प्रतिवचो वाच्यं दोषस्तु स्यात्ततोऽन्यथेति न दृष्टेरित्यादिप्रतिवचनवाक्यस्य तात्पर्यार्थं कथयति- यथा प्रतिज्ञं प्रत्युक्तिमवोचं असकृत् तव ततोऽप्यवदितुष्टस्त्वं अथवा बुभुत्सव इति | अयमर्थः यथाप्रतिज्ञं यथा पृष्टमित्यर्थः प्रत्युक्तिः प्रतिवचनं अवोचं अविषयतयैव आत्मा अवगन्तुं शक्यो न विषयतयेत्यसकृदुक्तं एष त आत्मा यः प्राणैनेति चेति त्वं तु विषयतया अवगन्तु मिच्छति | तन्न शक्यत इति || उक्तवर्त्मातिरेकेण नात्म वस्तु घटादिवत् शक्यते प्रतिनिर्देष्टुं प्रमाणागोचरत्वतः | प्. ६१५) इत्येतत् पूर्वस्य प्रपञ्चः | अविषये दर्शनं कथमिति तत्राह- वेद्मीति यद्बलादाह न वेद्मीतित्यपि यद्बलात् तत्तद्दृष्ट्येवेह तं दृष्ट्वा ब्रूम्यवद्यं यदीक्षसे इति | शब्दादिविषयजं ज्ञानं वेद्मि न वेद्मीति च यस्य कूटस्थानुभवस्य प्रसादात् ब्रूषे तस्य कूटस्थात्मनः स्वरूपभूतदृष्ट्या तमनु भूय ब्रूहि यदि विषयत्वावद्यमात्मनो वीक्ष्यस इत्यर्थः | नन्वविषयोऽप्यात्मा विषयी क्रियत इति चेत् नैतत् सारं यथा विषयोविषयीकर्तुं न शक्यते | तथा प्रतिपादनाय वस्तु स्वाभाव्यादि भाष्यमित्याह अप्रमेयं हि यद्वस्तु न तच्छक्यं प्रमाणतः कुंभवत् प्रतिनिर्देष्टुं यथा तदभिधीयते इति || वस्तुस्वाभाव्यपदार्थं कथयति- द्रष्ट्.टदर्शनदृश्यानां संहतानां परस्परम् साक्षित्वमात्मनो नित्यं वस्तु स्वाभाव्यमुच्यते ननु प्रमात्रादि साक्षित्वे सक्रियत्वमात्मन इति | नेत्याह- प्रमात्रादिः प्रवृत्तेः प्राक् समानस्तमितोदितः ६१६) अकारकात्मना तस्थौ प्रत्यग्दृष्टिरसंहतेति ननु कथ माक्षित्व मसंगत्वं कार्यकारणवत्वादात्मनो नेत्याह - अकार्यकारणात्मैतत् वास्तवं रूपमात्मनः सकृद्विभागतः शोध्यं विक्रमक्रमभेदकम् इति | तर्ह्येवंविधस्य कथं साक्षित्वमिति तत्राह एतत्तमोहसंबन्धात् साक्षित्वं प्रतिपद्यते इति | तर्ह्यज्ञानसंबन्धः पारमार्थिक इति नेत्याह- तमोमात्रैकहेतुश्च मोहसंगतिरात्मनः इति | न साक्षित्वमेवाविद्याकृतं किन्तु कारणाद्यपीत्याह- कूटस्थदृष्टिस्तन्मोहो दृष्ट्याभासश्च तत्र यः कारणं जगतः साक्षी नीयन्तेति च भण्यते इति | ननु कारणत्वं पारमार्थिकं नेत्याह कारणत्वं न कौटस्थ्यात् तन्मोहविरहात् भवेत् इति | कार्यस्य जडत्वाच्च कारणे जडांशो अनुमेय इत्याह- जात्यन्वयाच्च बुद्ध्यादेः युक्ता तत्कारणानुमा इति | न केवलं साक्षित्वाद्येवाविद्याकृतं किन्तु व्यतिरेकाद्यपीत्याह- प्. ६१७) प्रमात्राद्यतिरेकोपि वस्तुनो बोधरूपिणः अज्ञातस्य प्रमेयस्य युक्तस्वध्वान्तसाक्षिणः इति | साक्षित्वस्याविद्याकृतत्वं साधयति कूटस्थदृष्टेः साक्षित्वं जडस्येव न युज्यते साक्ष्यार्थानभिसंबन्धात् तस्मिन् सत्यपि नपि ते तस्मात् परस्य साक्षित्वं स्वमोहाभासवर्त्मना कार्यकारणसंबन्धे चिदाभासस्य संगतेरिति संबन्धशब्देन कार्यकारणद्वयमभिधीयते तस्मिन् कार्यकारणाख्ये संबन्धे विद्याकृते चिदाभासानुप्रवेशात् साक्षित्वमित्यर्थः | प्रमात्राद्यात्मसाक्षिकं भवतु न तदभाव इति नेत्याह- प्रमात्राद्यभिसंबन्धो यथानुभवसिद्धितः तथैव तदभावोपि सिद्धोऽनुभमात्रकः इति साक्षित्वान्तर्यामित्व कारणत्वमविद्याकृतमित्युक्तं ननु नाविद्याकृतं किन्तु धर्मादिकृतमिति नेत्याह- अनन्यहेतुकावत्र यमेतत्तथोदितम् प्रमात्रादि पदार्थस्तु धर्माधर्मादिहेतुकः इति एतत्सर्वं प्रकृतानुपयोच्यत इति नाऽशंकनीयम् | नानाविधवस्तुस्वाभाव्यस्य प्. ६१८) प्रपञ्च्यमानत्वात् चिन्मयाभ्यां संबन्ध्यमाना बुद्धिः किं लक्षणेति तत्राह- प्रमातृदृष्टिरेकात्र शब्दाद्यर्थावलेहिनी भूरिसाधनसापेक्षा सुखदुःखफलप्रदा क्षणप्रध्वंसिनीचेयं तद्धेतोर्भंगुरत्वतः इति प्रतिदेहं विभिन्ना च त्वसाधारणकारणात् क्रियाकारकरूपेयं इति | एवंविधा दृष्टिः स्वत एव सिद्धेति चेत् नेत्याह- अक्रियाकारकात्मना तावन्मात्रैकयाथात्म्यात् तया व्याप्तैव जायत इति व्याप्यव्यापकभावाभ्युपगमात् भेदो नेत्याह- कार्त्स्न्येन यत्र वृत्तिः स्यात् व्याप्यव्यापकवस्तुनोः व्याप्तिस्तत्रैव मुख्या स्यात् रज्जुसर्पादिवस्तुवत् इति | विभिन्नयोर्व्याप्तिर्न मुख्येत्याह- देशकालादिसंभेदादसाधारणतत्वयोः व्याप्तिर्न घटते साक्षात् हिमवद्विन्ध्ययोरिव इति | ननु प्रमातृदृष्टिरपि पारमार्थिक्यतो अत्रापि भेदान्न मुख्या व्याप्तिरिति | नेत्याह प्रमात्रादिव्यपेक्षेयं लौकिकी दृष्टिरात्मनः प्. ६१९) तत्प्रत्यगात्मदृष्टिस्तु विज्ञेया पारमार्थिकी इति अतोऽत्र मुख्यैव व्याप्तिरित्याह परमार्थात्मदृष्ट्येवं लौकिकी दृष्टिरात्मनः षड्भावविक्रियामेति व्याप्तैवाकाशकुंभवत् इति | ननु व्याप्तैवेति कथं लौकिकदृष्टेर्विषयव्याप्तिवदात्मव्याप्तिरपि नश्वरीति नेत्याह धर्माधर्मानपेक्षत्वात् चैतन्याभासतां प्रति घटाद्याभासवत्तस्मान्नात्माभावोपि नश्वरीति पुनरपि व्याप्यव्यापकयोः विविच्य स्वरूपं दर्शयति- निष्क्रियश्चेतनः साक्षी सक्रियोऽचेतनः पराक् व्यावृत्तश्च प्रमात्रादेः सिद्धः साक्षी सुषुप्तगः || इति ननु सुषुप्तगतश्चेतन इत्यनुपपन्नं सुषुप्ते चेतनाभावादिति | तत्राह- न चेदनुभवव्याप्तिः सुषुप्तस्याभ्युपेयते | नावेदिषं सुषुप्तेहं इति धीः किं बलाद्भवेत् इति | उत्तरमस्य प्रपञ्चः- बुद्ध्यादेः प्रविलीनत्वात् देहादेश्च जडत्वतः लोष्टादेरिव नैव स्यात् नाज्ञासिषमितीक्षणं इति | नाज्ञासिषमिति अज्ञानानुभवः साक्षिक प्. ६२०) इत्युक्तं तत्रेदमाशंक्यते प्रमातृत इति | नेत्याह चिदाभासैकमात्रेण तमः सिद्धिर्न मातृतः इति | अज्ञानशरीरत्वात् प्रमात्राद्याभासमात्रेण सिद्ध्यति | नाज्ञानमपेक्षते इति | तत्राह - संवित्तबोधचिद्बिंब प्रात्यक्षः कर्तृरूपिणः इति | चैतन्यतदभासाज्ञानैः प्रमाता सिद्ध्यतीत्यर्थः | प्रमातृज्ञानज्ञेयफललक्षणं करोति वार्तिकचतुष्टयेन - वस्तुस्वाभाव्यप्रपञ्चनाय स्मृतिनिश्चितिसंगीतिरागादिरुगात्मसु अहंरूपेण योऽन्वेति स प्रमाता परो मतः स्मरणादिविभागेन ज्ञातर्येकत्र यत् पृथक् प्रथतेऽनेकरूपाभं तज्ज्ञानं ज्ञातृकर्तृकम् || विभिन्नो बहिराभाति जातिरूपक्रियादिमान् विभिन्नोऽनुभवादेव ज्ञातुर्ज्ञानात् सगोचरः संविज्ञान्मोहनवृत्तिः शरीरादिविशेषणम् भोक्तरीह यदाभाति तत्प्रमाणफलं स्मृतम् एतच्चतुष्ट्यं स्वत एव सिद्धमिति चेन्नेत्याह कर्तृत्वं करणत्वं च कर्मत्वं चात्मसाक्षितः इति | फलमप्यत्र द्रष्टव्यं | अत एवानात्मत्वं कर्त्रादेः सिद्धमित्याह - व्यतिरेकेण कर्त्रादेः प्. ६२१) सिद्धेः नात्मत्वमस्त्यत इति | ननु ज्ञानकर्त्रात्र आत्मेति मीमांसकादयोऽज्ञानमिति बौद्धाः शरीराद्यात्मेति चार्वाकाः | अतो न साक्ष्यात्मेति नेत्याह- साक्षित्वेनात्मनः सिद्धिः मात्रादिव्यतिरेकतः न कर्तृता प्रमात्रादेः साध्यत्वेनैव तत्क्षयादिति प्रमात्रादेः सकर्तृताऽनात्मतेत्यर्थः ज्ञानकर्ता अन्यस्तत्साक्ष्यपर इति अद्वैतहानिरिति तत्राह- प्रत्यङ्मोहजबुद्ध्यादे जडरूपप्रधानतः कर्तृत्वमात्मनो युक्तं चित्प्राधान्याच्च भोक्तृतेति आत्मन एव स्वाविद्याबुद्ध्यादि प्राधान्येन कर्तृत्वकरणत्वकर्मतासु आभासप्राधान्येन भोक्तृत्वं स्वतस्तु कूटस्थ आत्मेत्यर्थः || वस्तु स्वाभाव्यादित्यारभ्य उक्तस्यार्थस्य सिद्धये तद्धेदमित्यत्र यदस्माभिरभिहितं तदत्रानुस्मरणीयमित्याह- अव्याकृतव्याकरे यदुक्तं सर्वमेव तत् अनुसन्धेयं अत्रापि वस्तुतत्वविशुद्ध्य इति || किं तत्राभिहितमिति तत्राह- स्वमहिम्ना न संसिद्ध्येत् स्वतोऽनवगतात्मकं प्. ६२२) भावाभावेन वस्त्वेति प्रत्याख्यातं यथात्मनेति अयमर्थः जडवस्तु स्वतो न सिद्ध्यतीति जडत्वादेव तदेवोत्पत्तिविनाशवत् नात्मवस्तु भावाभावौ गच्छति यद्यस्मात् आत्मवस्तुना तदुभयं निराकृतं तस्मात् कूटस्थ बोधो विषयः प्रत्यगात्मा इतरत् सर्वं कल्पितमिति | अतो अनुभवात्मनो जन्मादि मिथ्येत्याह तस्मादजायमानैक जायमानेव लक्ष्यते संवित्तिस्तदयं बोधहेतूत्था नान्यजन्मना तद्विनाशेपि तत्साम्याद्विनश्यतीव लक्ष्यते | यतोऽतः कार्यतां तस्या नेश्वरोऽपि प्रसाध्यदिति जगन्मिथ्येत्युक्तं तत्रेदमाशंक्यते | ननु कथं जगन्मिथ्या मानत्वादिति | तत्राह- अज्ञातभूमिगं वस्तु मानसंगतिमाप्नुवत् मेयत्वं लभते नान्यं मन्येत्युक्तं क्षितिद्वयम् इति | प्रतीच एवाज्ञातत्वसंभवात् स एव मानमेयो न नेति नेतीति प्रतिषिद्ध कार्यकारणद्वयं || अथवा आत्मनः कार्यत्वं माऽभूत् अस्तु कारणत्वमिति | तत्राह- हेतोः कार्यसमुत्पत्तेः सिद्धे प्रागपि संविदः || प्. ६२३) कार्यकारणता हीना तस्मात् संवित् प्रतीयतां इति | हेतु सिद्धेः पुरा ततः कार्यसिद्धेश्च पुरा सुप्त्याद्यवस्थासु संवित् सिद्धा तस्मात् संविन्न कार्यं कारणं च | ननु हेतुरनादिः कथं हेतुसिद्धेः पुरेति नैष दोषः हेतुरित्यपि सुप्तोत्थितस्य विकल्पः ननु संविदेव नास्ति कथं तस्याः कारणादिरहिततोच्यते सति धर्मिणि धर्माश्चित्यन्त इति न्यायात्तत्राह शून्यस्यापि च शून्यत्वं तत्साक्षीणि सतीक्ष्यत ननु शून्यस्थान्यः साधको नास्तीति चेत् तर्हि स्वयं प्रभः स्यादित्याह- असाक्षिकं चेच्छून्यत्वं साक्षिवत्स्यादसाक्षिकं इति | ननु शून्यं न स्वयंप्रभं तथापि स्वयमेव सिद्ध्यतीति चेन्नेत्याह- साक्ष्यसाक्ष्यपि संसिद्ध्येत् स्वार्थत्वान्न तु शून्यता पारार्थ्यात् स्वार्थविरहे षष्ठगोचरवद्भवेत् इति | अयमर्थः साक्षी असाक्ष्यति स्वसाधकरहितोपि स्वयं प्रभत्वात् सिद्ध्येन्न तु शून्यजडत्वादतः संवित् कूटस्थाप्युपेये अपि भवतु | संवित् संविभक्तेत्याशंकय प्. ६२४) तस्याः पञ्चधावस्थानं दर्शयति - वस्तुस्वाभाव्यप्रपञ्चनाय - देहान्तः प्रत्यगात्मायं पञ्चधा गम्यतेरिते | एककारणसाक्षित्व कर्तृदुःखित्वरूपतः इति तत्रैकत्वं पारमार्थिकमितरविद्या वृत्तापेक्षं तत्र कारणत्वं साधयति- श्रुतितो लिंगतः साक्षात् कार्यकारणसंगतिः यतोऽनुभूयते तस्मात् कारणत्वं परात्मनः इति | साक्षित्वं साधयति- प्रत्यक् साक्ष्यतिरेकेण नाभावोपि प्रसिद्ध्यति | इति किमु भावो जगत्यस्मिन्निति | सात्विकेन सिद्ध इति | स्वयं सिद्ध इत्याह - साक्षी चानन्यसिद्धिक इति तस्यैव प्रमातृत्वाद्यपि स्वाविद्ययेत्याह- यथोक्तानुभवारूढो बुद्ध्यन्तोपि प्रसिद्ध्यति | मात्वा मातरि मानं च मानान्मेयः प्रसिद्ध्यति सुखी गौरो धनी गोमान् वाह्यमेयसमाश्रयेत् प्रमाणभूमौ स्थित्वैतत् उक्तं सर्वं प्रसिद्ध्यति इति | कारणत्वादि सर्वमविद्या वृत्तापेक्षया प्रतीच एवातोऽद्वयः प्रत्यगात्मेति || ननु भवतु प्. ६२५) प्रमाणव्यवहारकाले कारणादिरूपेण आत्मसिद्धिः | ततः प्राक् सुप्त्याद्यवस्थासु कथमात्मसिद्धिः प्रमाणाभावादिति तत्राह- प्राक्प्रमात्रादिसंभूतेः यत् प्रमात्रादिकारणम् अनन्यानुभवाज्ञानं तत्प्रमाणां सदा दृशेरिति | अयमर्थः अज्ञानं तावत् सुप्ताद्यवस्थासु स्फुरति | अन्यथा सुप्तोत्थितस्य नावेदिषमिति परामर्शात्तस्मादज्ञानसिद्ध्यन्यथानुपपत्त्या तत्साधक आत्मा सिद्ध इति नन्वज्ञानमात्मनि प्रमाणं चेत् आत्मनि प्रमात्रादिविभागेन भवितव्यमिति | नेत्याह- मेयमानप्रमात्रादिविभागस्तत्र नेष्यते प्रत्यग्बोधैकयाथात्म्य वस्तुमात्रावरोधतः ननु कथं नेक्ष्यते श्रौ * * ज्ञानफलादेस्तत्राभ्युपगमादिति तत्राह - ईदृगेव फलं चात्र मानमेयादिकं तथा || कुतो भेदावकाशः स्यात् अद्वयैकप्रमात्मनीति अन्येति पुनः प्रमात्रादि संभूतेरित्यनेन अस्य चोद्यस्योत्तरत्वेन स्वरूपज्ञानमेवात्मनि प्रमाणत्वेनोच्यते सुप्त्यादिषु प्रमात्रादिकारणत्वव्यपदेशोपि प्. ६२६) घटते कूटस्थदृष्टेरपि स्वाविद्यया कारणत्वाभ्युपगमात् उत्तरमपि वार्तिकद्वयं एतदनुसारेण अवतार्यमिति मन्यन्ते | एवं वाऽस्तु ननु स्वयंप्रभत्वादात्म वस्तु स्वयमेव स्वाज्ञानं निवर्तयेत् किं मानेनेति | तत्राह- प्रमाणवर्त्मनायातमिदं मोहावनुत्तये वस्तुवृत्तेन नैवालं शास्त्रानारंभसक्तितः | इति सर्वव्यवहारस्यानुभवपूर्वत्वाच्च अनुभवो मानं विना नाज्ञानं निवर्तयतीत्याह- उक्तार्थापरिहारेण तदज्ञानजभूमिषु व्यवहारं प्रमात्रादेः स्वप्नमायेन्द्रजालवदिति | ननु न स्वप्नादितुल्यं जगदिति चेन्नेत्याह- अविचारितसंसिद्धि तमोवस्त्यात्तदुद्भवं कृत्स्नं जगदिति कल्पितत्वफलमाह अतो मोहध्वस्तौ ध्वस्तं भवेच्चितिरिति | तर्हि पूर्ववन्नाद्वय इति | तत्राह- भिन्नमात्रप्रमात्रादौ कार्यकारणवस्तुनि | अभिन्नमातृमानादिरात्मेर्वेकोऽद्वयः स्वतः इति | ननु अनात्मवस्तुव दात्मापि देशाद्य पेक्षो अतो नाद्वय इति | नेत्याह- प्. ६२७) न देशकालावस्थादौ अपेक्षास्त्यात्मनः स्वतः अनन्यापेक्षसंसिद्धे देशादेस्तदपेक्षतेः इति | देशाद्यपेक्षा तर्हि कस्येत्यनात्मन इत्याह - देशकालनिमित्तादिव्यपेक्षं वस्तु यद्भवेत् तदेव तदपेक्षं स्यात् न तु देशादिसिद्धिदमिति | किञ्चिद्वस्तु देशाद्यपेक्षं किञ्चिन्नेत्यद्वैतहानिरिति | तत्राह- कारकादिवशाद्यावत् किञ्चिद्वस्तूपलभ्यते | क्रियाफलं तद्विज्ञेयं अनपेक्षितत्वकमिति | कार्यस्य सर्वस्य कल्पितत्वात् नाद्वैतहानिरित्यर्थः | ननु भवतु क्रियाफलमनपेक्षिततत्वकं क्रियाकारकं च पारमार्थिकमेवेति नेत्याह- वस्त्वधीना यतो विद्या कर्त्रधीना क्रियाखिलाः कर्त्रादिचात्ममोहोत्थं वस्तुसिद्धं स्वतोऽद्वयमिति | ब्रह्मविद्याया यथार्थत्वात् क्रियाकारकयोश्च अविद्योत्थत्वेन अवस्तुत्वात् अद्वयमात्म वस्तुसिद्धमित्यर्थः वस्त्वधीनो विद्येत्युक्तं भवतु वस्त्वधीना विद्या सा अभ्यस्यमाना निवर्तयतीति तत्राह- कारकाण्युवमृत्नादि विद्या बुद्धिमिवोषरे | प्. ६२८) तत्कारणोपमर्दित्वात् जन्मनैवान कारकमिति भवतु ज्ञानमज्ञाननिवर्तकं स्वरूपलाभमात्रेण तत्तु ज्ञानमात्माश्रयं फललिंगं च न साक्षिसिद्धं चेत्तत्राह- प्रमातृपरिणामत्वात् प्रमासिद्धिः प्रमातरि प्रमातृव्यवधानेन संविदैव न वृत्तिभिरिति | मातां मानं चोभयमनुभवसिद्धमित्यर्थः | मानसिद्धत्वे दूषणमाह मात्रन्तरव्यवस्थायां मातुर्वानन्तरे मितेः दुर्वारत्वात् प्रसंगस्य ह्यनवस्था प्रसज्यते इति | प्रमात्रतिशयेनैवेत्यारभ्य अन्तःकरणवृत्तिर्वेत्यतः प्राक्तनवार्तिकसन्दर्भेणाविद्यावस्थायां सिद्धां प्रमाणप्रक्रियां दर्शयति | प्रायो वृत्त्या वस्तुस्वाभाव्यप्रपञ्चनाय एवं तात्पर्यमुक्तं इदानीं प्रतिवार्तिकं व्याख्यायते- प्रमातृविषयेनैव कारणं स्यात् प्रमात्रपि | विज्ञानातिशयं सिद्ध्येत् मानं निश्चयवत्तथा | अस्यायमर्थः | प्रमातुरतिशयः प्रमात्रतिशयः कश्चित् कार्यकल्प्योऽन्यथाभावो निर्विकारस्य कारणत्वायोगात् तेनातिशयेनैव प्. ६२९) कारणं स्यात् प्रमातृरूपं ज्ञानकारणं तदनन्तरं विज्ञानातिशयं तत् प्रातृरूपं विज्ञानमतिशयो यस्य तत् प्रमातृरूपं विज्ञानातिशयं तदनन्तरं तन्मानं निश्चयवत् भवति फलशिरस्कां भवतीति | फलाकार एव ज्ञानस्याप्याकार इत्याह- मेयाधाधारणार्थोत्थ रूपवान् निश्चयो यथा बाह्यमेव प्रधानत्वे सत्य साधारणार्थधीरिति | यथा घटोयमिति घटाकारवान् निश्चयस्तथा बाह्यमेयप्रधानतया घटादिविषयप्रसाधनतया यदाधीर्ज्ञानं वर्तते तदा धीरसाधारणा भवति घटोयं पटोयमित्येवं घटाद्यर्थाकारमेव ज्ञानं भवतीति तदा बाह्यविषयप्रधानत्वं ज्ञानस्य तदाह- मानव्यापारकाले स्यात् बाह्यमेयोपसर्जनं मादासादि प्रमाणं तत् तद्विशिष्टफलोत्थिते इति | यदा मानं स्वबलनिश्चये व्याप्रियते फलमुत्पादयतीत्यर्थः | तदा तन्मानं तत्कर्ता प्रमाता तद्गताभासश्चेत्यतत् त्रयं प्रमेयप्रधानं प्रमेयप्रवणं भवति प्रमेयप्रधानतया प्. ६३०) फलस्योत्पत्तेरिति तदा विषयस्य प्राधान्यं बुद्धेश्च प्राधान्यमिति | तदाह- प्रमाणस्यावृतेरूर्ध्वं वासनाधानकारणात् मेयोपसर्जना बुद्धिः स्मृत्या साक्षात् प्रतीयते | इति | प्रमाणं स्वबलनिश्चय व्यापारानन्तरं वासनामाधत्ते स्वाश्रये संस्काररूपेण तिष्ठति तच्च ज्ञानं संस्कारात्मना स्थितमदृष्टामिति रुद्वोधितं मेयोपसर्जनं मेयमुपसर्जनं कस्येति मेयोपसर्जनं स्मृतिरूपेणोत्पद्यते | यत एवं तस्मात् स्मरणकाले मे यस्य गुणभूतताज्ञानस्य प्राधान्यमिति | नन्वेवं प्रमाणप्रक्रियां कुर्वतो द्वैतहानिः तत्राह- साक्षात् कुर्वन् स्वमात्मानं यदालंबनतां व्रजेत् कार्यकारणरूपस्य तदेवालंबनं मतमिति | प्रमात्रतिशयेनैवेत्यत्र प्रमातृशब्देन निर्दिष्टमन्तः करणं अत्र साक्षात् कुर्वदित्युच्यते सवृत्तिकमन्तःकरणं स्वमात्मानं साक्षात् कुर्वन् कूटस्थचैतन्यप्रसादात् सिद्ध्यद्यदालंबनतां व्रजेद्यदालंबनतां व्रजेत् यदा लंबनं यस्य तद्यदालंबनं सवृत्तिकान्तःकरणं प्. ६३१) तस्य भावो यदालंबनतां व्रजेदन्तःकरणं सवृत्तिकं कूटस्थचैतन्याश्रयं इत्यर्थः तदज्ञानविलसितत्वात्तदेव च कूटस्थ चैतन्यः कार्यकारणप्रपञ्चस्यालं बनमाश्रयो अतो नाद्वैतहानिः अथवा स्वमात्मानं साक्षात्कुर्वन् सर्वं विषयजातं सिध्येद्यदालंबनतां व्रजेत् | यस्य संवेदनस्य आलंबनतां व्रजेद्विषयतां व्रजेत्तदेन संवेदनं कार्यकारणता प्रपञ्चस्य विषयजातस्य आलंबनमाश्रयः तदज्ञानविलसितत्वादतो नाद्वैतहानिरिति | ननु मेयोपसर्जनेति वदता स्मृतेर्मेयोऽभ्युपगतः ततश्च सिद्धान्तविरोधो नालिंशित बाह्यार्थेत्युक्तत्वात्तत्राह पूर्वोपलंभसंस्कार समुत्थस्मृतिविभ्रमात् वस्तुवृत्ताधिपत्येपि व्यापारः सार्वलौकिकः इति स्मृतिरेव विभ्रमः सार्वलौकिक इति स्मार्तः पुनरपि प्रमाणप्रक्रियामेव दर्शयति मेयादिसंगतेः पूर्वं ज्ञानं ज्ञातृत्वमाश्रयः ज्ञातृत्वसिद्धये मानं ज्ञातृत्वं तत्कृतं यतः इति स्मृतेः भ्रमत्वकथनेन अर्थशून्यत्वं प्. ६३२) अभिहितं श्रुतेर्वाग्वार्थशून्यत्वे कथं तर्हि तथात्वेन प्रतिभानमिति | तत्राह- वासनाबलतः स्पष्टं बहिर्वद्वन्मते स्थितं भावनागोचरं ज्ञानं बाह्यवस्त्ववलंबनं इति अयमर्थः | अनुभवकाले बाह्यवस्त्ववलंबनं वासनाबलतो वासनारूपेण यत् ज्ञानमन्तः करणे स्थितं अदृष्टादिवशात् स्मृतिरूपेण जातं पूर्वानुभूतार्थभावनागोचरं संस्कार गोचरं बहिर्वद्भवति | बहिर्विषयमिव भवति || इदानीं वस्तुस्वाभाव्यादित्यस्यार्थं उपसंहरति | अपेक्षावृत्तवद्वस्तु यावत् किञ्चिदिहेक्ष्यते | मातृमात्राश्रयं तत्स्यात् न तस्यतः सिद्धनिष्ठितं इति | मातुर्माता साक्षी तावन्मात्राश्रयं तावन्मात्रं द्वयमतो न वेद्यत्वमात्मनो नापि परपक्षार्थत्वं द्वयस्येति | एवं वस्तुस्वाभाव्यादिति संग्रहवाक्यं प्रपञ्चितमिदानीं लौकिकस्वाभाविकरूपेण दृष्टिभेदं कृत्वा न दृष्टेरित्यादिवाक्यं व्याख्यातं तद्दृष्टिद्वयं विविच्य दर्शयति वार्तिकद्वयेन- प्. ६३३) अन्तःकरणवृत्तिर्या चक्षुरादिसमाश्रया रूपादिविषयाभासा लौकिकी दृष्टिरुच्यते तस्याश्च क्रियमाणत्वात् जन्मनाशादिसंगतिः आत्मदृष्टिस्त्वियं नित्या जन्मनाशदिवर्जिता इति | तर्हि नित्यानित्यत्वेन भेदादद्वैतहानिरिति नेत्याह- कार्यकारणयोस्तत्वं प्रत्यगात्मा चिकीर्षते | इति अतो न भेदोऽथवा जन्माद्यभावहेतुरेतत् अत एव बुद्धितद्वृत्ति न चिदाभासोपि नित्य इत्याह तस्मान्नित्यचिदाभासो बुद्धौ तत्प्रत्ययेषु च इति || अयमर्थः घटादिषु सत्स्वपि तद्गतत्वेन चिदाभासो नोत्पद्यते उत्पन्नोपि न नश्यति तेषु सत्सु एवं बुद्धितत्प्रत्ययेषु सत्सु तत्र चिदाभासो न भवति नापि विनश्यति इत्येतावदभिप्रेत्य नित्यत्वमाभासस्योच्यते | नात्मवत् लौकिकदृष्टेरनित्यत्वमुक्तं | तत्रेदमाशंक्यते तर्हि अन्तःकरणस्य सुखादिवृत्तिर्नित्येति | नेत्याह- प्रत्यक्तादुपरक्तायां बुद्धौ धर्मादिहेतुतः आत्मा राजायते नित्यो दुःखशब्दादिलक्षणः प्. ६३४) इति | उत्तरमस्य प्रपञ्चस्याप्तौ प्रत्यक्चिदाकारे बाह्यहेतुनिबन्धनः- आकारो जायते बुद्धेरागमापायधर्मवानिति | यद्यात्मदृष्टिर्नित्याद्वया कथं तत्र अनित्यत्वादि कभानं उपाधिवशादित्याह- उपाधिभूतया दृष्ट्या हानोपादानरूपया | एकाश्रयत्वतस्थास्नि संसृष्टे नोपजायते बुद्धितद्वृत्तिसाक्षित्वात् बुद्धितत्प्रत्ययैरजः | गृह्यतेऽविद्यया भिन्नो मणिर्यद्वदुपाश्रयैरिति आत्मदृष्टेरनित्यत्वं अनित्यदृष्टिसंपर्कादिति उक्तं तत्रेदमाशंक्यते- नानित्यदृष्टिसंपर्कादनित्यत्वं किन्तु स्वतः शब्दवाच्यत्वात् घटादिवदिति | तत्राह कर्तृकार्यावभासित्वात् कर्तृकार्याभिधायिभिः लक्ष्यते नामभिः साक्षी साक्षान्न त्वभिधीयते इति | तज्जन्मनाशसाक्षित्वा दशोऽनाशी स्वयं प्रभः जायते नश्यतीत्येवं तत्साक्ष्यप्यभिधीयते | इत्येतदुपाधिभूतया दृष्ट्येत्यस्य प्रपञ्चः उत्तरवार्तिकत्रयं श्रुतिव्याख्यानरूपं सुखबोधं दृष्टेर्जडस्वभावायाः परार्थायाः स्वतः प्. ६३५) चितं न पश्येत् प्रत्यगात्मानं द्रष्टारं दृश्यया अनया दिदृक्षित परिच्छिन्न पराग्रूपाद्यपेक्षया तद्विरुद्धं कथं पश्येद्दृष्ट्या तत्कर्मभूतया | द्रष्टुर्हि व्यावृतिर्दृष्टौ दृष्टे रूपादिकर्मणि | ताभ्यां तत्प्रत्यगात्मनः कथं पश्येच्चितिं स्वतः इति | नित्यदृष्टिरूप आत्मा बुद्धितद्वृत्तिसाक्षी त्युक्तं तत्रेदमाशंक्यते | विषयस्यापि साक्ष्ये वेति | तत्राह- नाकारकाः समीक्षेत द्रष्ट्टदर्शनगोचरानिति | द्रष्ट्टदर्शनस्य विषयानीत्यर्थः | तर्हि ज्ञानकर्तृत्वं पारमार्थिकं नेत्याह- कारकत्वमृतेऽविद्यां कूटस्थस्यात्मनः कुतः इति आत्मनश्च अविद्ययैव कृतृत्वमित्यर्थः | तर्हि अविद्यासंबन्धः पारमार्थिकः तथा तत्कृतपरेक्षणं स्वात्मेक्षणं चेति चेत् सत्यं | यद्यविद्या संबन्धः पारमार्थो नेत्याह- कारकं सत्तथैव कार्यं न कथञ्चन वीक्ष्यते अविद्यानन्वयात् भास्वत् प्रत्यक्ज्योतिः स तत्वतः इति | यथा परमार्थ कर्तृत्वेन विषयमीक्षते न तथेत्यर्थः | न दृष्टेरित्यनेन आत्मनोऽविषयत्वं प्. ६३६) अत्र श्रुत्यन्तरमपि विद्यत इत्याह- येन चक्षुरिदं दृष्टं चक्षुषायं न पश्यति ब्रह्म विद्धि तदेव त्वं न तु तद्युदुपासते | मनसा मनुते यन्न येन चहुर्मनोमतम् विद्धि ब्रह्म तदेवत्वं न त्विदं यदुपासते इत्येवमादिवाक्यानि यथोक्तार्थसमर्थने श्रोतानि शत शंसन्ति दृगमेयत्वसिद्धय इति इतश्चामेय इत्याह- एतन्मोहसमर्थत्वात् प्रमात्रादिर्मनागापि नैकात्म्यं शक्यते द्रष्टुं कॢप्तहेतोरबोधयेति | अयमर्थः कॢप्तं प्रमात्रादि तस्य हेतुरज्ञानं तस्मिन् स्थिते ब्रह्मावगन्तुं न शक्यते | प्रमात्रादिना नष्टेत्वज्ञाने प्रमात्रादेरभावादेव न ब्रह्म गम्यते | तेनेति | एवं दृष्टेरित्यादिवाक्यस्य व्याख्यानं दर्शितं लौकिकस्वाभाविकरूपेण दृष्टिभेदं कृत्वेदानीं दृष्टिभेदमकृत्वा प्रपञ्च एतद्वाक्यं व्याचक्षते | तद्दर्शयति निराकरणाय तत्र कानिचिद्वार्तिकानि सुखबोधानि | दृष्टिभेदमकृत्वैव दृष्टेरित्यादिका श्रुतीः केचिद्व्याचक्षते धीराः प्रसादाज्जातवेदसः || प्. ६३७) दृष्टेः कर्तारमात्मानं न पश्येः क्रियमाणया दृष्ट्या रूपार्थपातिन्या न क्रिया कर्मकर्मिता देष्टेरिति च षष्ठीयं क्रियमाणत्वहेतुतः कर्मण्येव तु विज्ञेयः नासावर्थान्तरे यतः दृष्टिकर्तृत्वमाचष्टे तृजन्तेन तथात्मनः यतोतः कर्मदृष्ट्यातं द्रष्टारं नानुपश्यति | कर्मेप्सिततमं रूपं दृष्टे कार्यत्वहेतुतः चक्षुर्मनो वायुनि वा कर्तुः करणमिष्यते विज्ञानात्मा तु कर्तात्र स्वातन्त्र्यात् सर्वकर्मसु फलं रूपोपत्तिश्च कर्तुर्दृष्ट्यवसानजम् | साधनत्वेन कर्तात्र दृष्टावपि लिंगतः क्रियासिद्ध्युत्तरेकाले फलं कस्यापि चेष्ट्यत इति एतानि फलं कस्यापीत्युक्तं तत् प्रकटयति | स्वामिनो यदि वान्यस्य कर्म प्रत्येव चिक्रियेति स्वामी क्षेत्रज्ञोऽन्यशब्देन तदुपाधिं प्रमातोच्यते तयोरन्यतस्स्य रूपाद्युपलब्धिः फलं भवेदित्यर्थः क्रियासंवेदनफलकं ज्ञानं तत् घटादिविषयमेव नात्मविषयमिति कर्मप्रत्येव च क्रियेत्येतत् प्रकटयति कर्म दर्शयितव्यं स्याद्दृष्ट्या द्रष्टाह दृश्यत प्. ६३८) इति | ततश्चैतत् सिद्धमित्याह- तत्रैवं सति तद्दृष्टे द्रष्टारं कर्मभूतया दृष्ट्या पश्येत् स्वमात्मानं न कथञ्चन कर्तृतः इति | एतन्निराकरोति- व्याख्यानमेतन्महतां न साधुः प्रतिभाति नः न्यायात्मनानुपपन्नत्वाद्यथा तदभिधीयते इति | अक्षरानुपात्तत्वं दर्शयति - यथा प्रश्नमिदं तावत् प्रत्युक्तिर्नोपपद्यते | यतो द्रष्टुर्न संभाव्यं कृत्स्नं प्रश्नविशेषणं इति | उत्तरमस्य प्रपञ्चः साक्षादित्यादिकं यस्मान्न मनागपि युज्यते विशेषणं यथोक्तं तत् कारके दृष्टिकारिणि इति | ननु प्रश्नवाक्यपरो विवक्षितोऽतो यथायोगं विशेषणयोग इति चेन्नेत्याह क्षेत्रज्ञपरमात्मानौ नापि प्रश्ने विवक्षितौ | एकार्थयोगात् वाक्यस्य नैकोक्ते स्याद्द्वयार्थतेति दृष्टेरिति षष्ठी कर्मणीत्युक्तं तन्न घटत इत्याह तदभ्युपगमे च स्यादनवस्था निवारणेति न चेष्सिततमत्वंस्याद्द्रष्टुर्द्दृष्टेरसंभवात् | दृष्ट्यान्तरस्येति दृष्टं यद्येतत् समानमित्याह- प्. ६३९) द्रष्टुश्च न द्रष्टन्तरं तथेति | यदि दृष्टेर्द्दृष्ट्यन्तरं द्रष्टरिं च द्रष्टन्तरमभ्युपगच्छसि तदा अनवस्थेत्याह तदभ्युपगमे च स्यादनवस्थानिवारणेति | तस्मात् दृष्टिविषया दृष्टिर्नास्तीत्याह- दृष्ट्यान्तरेण संव्याप्तिर्नातो दृष्टेः कथञ्चनेति किं च दृष्टिकर्तौ चेत्तया विवक्षितस्तया दृष्टेत्येतावन्मात्रं वक्तव्यं दृष्टेरित्याधिकमित्याह तथा दृष्टगृहीत्येव कामितार्थसमाप्तितः निरर्थकमिदं वः स्यात् दृष्टेरिति यदुच्यते इति | इतश्च दृष्टेरिति विशेषणं द्रष्टुरनर्थकमित्याह- सदैवाव्यभिचारित्वात् दृष्टिद्रष्टोः परस्परं विशेषणविशेष्यत्वं व्यभिचारे सतीक्ष्यते इति | उल्पलस्य नीलेन विशेष्यत्वं भवति | तयोः परस्परव्यभिचारान्नहि तथा द्रष्टुदृष्ट्योः परस्परव्यभिचारो नहि द्रष्टा दृष्टिं व्यभिचरति दृष्टिर्वा द्रष्टारं तस्मात् दृष्टेरिति विशेषणमनर्थकमेव | ननु दृष्टेरिति विशेषणं प्रमाद पाठोऽथवा अर्थवाद इति चेत् नेत्याह- ६४०) न च प्रमादपाठोयं सर्वेषामपि नादृतः विध्यशेषत्वतो नापि चार्थवादत्वमिष्यते इति | किं च द्रष्टुः प्रत्ययाविषयत्वं ब्रुवतः प्रपञ्चविरोधं च स्यादित्याह- अहं दृष्ट्यधिगम्यत्वं अहं द्रष्टुरिहे ते प्रत्यक्षमाविरुद्धत्वं तथा चोक्तेः प्रसज्यते इति | किञ्च द्रष्टुरग्राह्यत्वं वदतः स्वव्याख्यानविरोधश्च स्यादित्याह- मेयमानप्रमातॄणां प्रात्यक्ष्यं प्राग्पीरितं व्याख्याव्यरोधितेनेयं दृष्टेरित्यत्र या कृतेति | एवं परपक्षं निराकृत्य अतोऽन्यदार्थमित्यस्य अर्थमाह- यथोक्तादात्मनोन्यद्यत् कार्यकारणरूपकं आर्त्तं विनाशितं तुच्छ शुक्तिकारजतादिवत् | एकमेकमनार्त्तं स्यात् स्वतः सिद्धत्वकारणात् सदैकानुदिता लुप्त प्रत्यग्दृष्टि सतत्वकम् | इत्येतद्वार्तिकद्वयं सुखबोधं अतः शब्दस्य अर्थान्तरमाह- हेतूक्तिरथवा तस्यात् उक्तवस्तुस्वभावतः तदन्यभावसंसिद्धेः आर्त्तत्वं हेतुमद्भवेत् || इति प्. ६४१) यस्मादात्मव्यतिरिक्तं वस्तु न संभाव्यते परमार्थतस्तस्मादात्मत इति सर्वमार्त्तमित्यर्थः इति पञ्चमस्य चतुर्थं ब्राह्मणम् || ओम् वृत्तमनुद्रवति संगतिप्रतिपादनाय | आदावभिहितं सर्वं बन्धनं सप्रयोजकम् | अस्तित्व व्यतिरिक्तत्वे बद्धस्य च बिनिश्चिते इति | अयमर्थः ब्राह्मणत्रयेण संसारः सप्रयोजकोऽभिहितः | चतुर्थेन मुमुक्षुः कूटस्थबोधः प्रत्यगात्मा निर्धारित इति इदानीं संगतिं कथयति संसारानर्थसंप्राप्तिहेतोर्विध्वस्तये पुनः सन्यासैकसहायात्म याथात्म्यज्ञानमुच्यते इति | सकारणसंसारनिवृत्तये ससन्यास समात्मज्ञानमनेन ब्राह्मणेन उच्यत इति | ननु ज्ञानमेव वक्तव्यं तस्मात् ज्ञाननिवर्तकत्वात् न सन्यासः | तत्राह- उत्पन्नसम्यक् ज्ञानस्य सन्यासो लक्षणं यतः साधनत्व तदुत्पत्तौ सन्यासोऽतोत्र भण्यते इति | सन्यासस्य ज्ञानसाधनत्वे प्रमाणमाह- प्. ६४२) प्रवृत्तिलक्षणो योगो ज्ञानं सन्यासलक्षणम् | तस्मात् ज्ञानं पुरस्कृत्य सन्यसेदिह बुद्धिमान् इति | एवं स्वाभिप्रेतां संगतिमुक्त्वा भर्तृ प्रपञ्चाभिहितसंगति मनुवदति निराकरणाय उषस्थप्रश्न एवायं कहोलेनापि पृच्छ्यते तत्किमर्थं पुनः पृष्टं स एव कृतनिर्णय इति | अतः पुनरुक्तिरित्यर्थः ननु प्रश्नकर्तृभेदान्न पुनरुक्तिरित्याह- प्रष्ट्टदोषाददोषश्चेदिति नायं परिहार इत्याह नैवं प्रत्युक्तिभेदत्वे एकार्थप्रश्नवाक्यस्य ह्येका प्रत्युक्तिरिष्यते योजनायेति प्रतिवचनभेदोत्र विद्यते | पूर्वप्रतिवचनमेव चेदतोपि प्रतिवचनं तदा प्रष्ट्टभेदः पुनरुक्तिपरिहारेण तदस्तीत्यर्थः | तर्हि पुरुक्तिरेवास्त्विति चेत् नेत्याह- पुनरुक्तस्य च न्याययमेकप्रवचने क्वचिदिति इतश्च न प्रष्ट्टभेदात् पुनरुक्तिपरिहार इत्याह न चेह लौकिको जल्पः प्रष्ट्टभेदो यतो भवेदिति तस्मात् पुनरुक्तिपरिहाराय ब्राह्मणद्वयं भिन्नार्थमित्याह- प्. ६४३) समानशब्दौ तेनेमौ स्यातां भिन्नार्थवाचकौ क * * * * * * * * * * * *क्तौ प्रश्नाविति विनिर्णयः इति अर्थभेदं दर्शयति | क्षेत्रज्ञात्मानमप्राक्षीत् उषसो न परं पदम् अप्राक्षीत् परमात्मानं कहोलोपि न दुःखिनं इति | ननु तयोर्भेदे भेदः कथं प्रमाणाभावात् तत्राह- एकदेश उपन्यासादैकात्म्यमवसीयते | एकदेशशब्देन उभयत्र प्रश्नवाक्यमुच्यते उभयत्र प्रश्नवाक्ये उभयोरुपन्यासादित्यर्थः ननु उभयत्र धर्मव्यत्यासो सादनयोः अभेद एवेति चेत् नेत्याह- मिथः संकीर्णभेदोक्तौ यथायोगं व्यवस्थितिः इति | यद्यपि विज्ञानात्मपरमात्मधर्मौ व्यत्यासेनोक्तौ तथापि यथायोगमाश्रयणीयाविति तद्दर्शयति || यदन्तरतमत्वं प्रागुक्तं तत्परमात्मनि | तदेकदेशाभिहिते विज्ञानात्मानमेष्यति | शोकमोहाद्यतीतत्वं प्रकाशात्मकता तथा विज्ञानात्मनि चोक्तापि परमात्मानमेष्यति इति | परमात्मधर्मत्वेन कहोलवाक्याभिहित प्. ६४४) सर्वान्तरत्वविज्ञानात्मधर्मत्वात्तेनैव तस्य संबन्ध इति | शोकमोहाद्यतीतत्वं स्वयं प्रकाशत्वं च | यद्यपि विज्ञानात्मधर्मत्वेन अभिहितं ज्योतिब्राह्मणे तथापि तस्य परमात्मधर्मत्वात् तेनैव तस्य संबन्ध इति | पञ्चमाध्यायशेषेण परमात्मविनिर्णयः- षष्टे तु वक्ष्यतेऽध्याये विज्ञानात्मविनिर्णयः इति एतत् सुखबोधम् ब्राह्मणद्वयेन परस्पर विभिन्नात्मानावुपन्यस्तावित्यत्रोक्तमेव प्रमाणमुपसंहरति | उपन्यासो द्वयोरत्र विज्ञानपरमात्मनोः व्यज्ञाय पुनरुक्तत्वं न्यायमार्गसमाश्रयात् इति | भर्तृप्रपञ्चपक्षमुपसंहरति | इत्याचक्षते केचित् प्रश्नावेतौ यथोदिताविति | अत्र दूषणसंभावनायाह- न सम्यगेतत् व्याख्यातं यथा तदभिधीयते इति | ब्राह्मणद्वयेन अर्थद्वयं विवक्षितमिति | एतदसत् त आत्मेत्युभयत्रोच्यमानत्वात् | इत्येतदाह- प्रत्युक्तेरेषक इति प्रश्नयो रुभयोरपि क्षेत्रज्ञपरमात्मनो नात्रात्मानो प्. ६४५) विवक्षिताविति - प्रश्नोक्तिरेकरूपा च प्रत्यभिज्ञाय तेजसा प्रत्युक्तिश्च तवात्मेति भिन्नार्थे वचसि कथमित्येत् सुबोधम् || अतस्मिन् देह आत्म द्वयासंभावनाय न तयोर्भेद इत्याह- एकत्र च न संभाव्यावात्मनो द्वौ शरीरतः इति | आत्मेति प्रत्ययस्यैकविषयत्वाच्च नात्म भेद इत्याह - आत्मप्रत्यय एकार्थ इति | एको देव इत्यादि श्रुतिविरोधाच्च नात्मभेद इत्याह - तथा श्रुतिवचांस्यपीति- एकात्मकाः सर्वदेहाः विवादो येषु वर्तते | शरीरत्वाविशेषत्वात् प्रतिवादिशरीरवदिति एतद्वार्तिकं वृहद्विचार उक्तार्थं अनुमान विरोधाच्च नात्मभेद इत्यर्थः प्रश्नोक्तिरेकरूपाचेत्यस्य प्रपञ्च सर्वान्तरावसानस्य साक्षादि * * * * * * * * * * स्य च ऐकार्थ्यात् प्रश्नवाक्यस्य नात्मानौ द्वौ विवक्षितौ इत्येतद्वयोरगौणत्वादिविशेषणासंभवाच्च न आत्मपरभेद इत्याह- अगौणाऽव्यवधानादि विशेषणविशेष्यता | प्. ६४६) नानेकस्यात्मनो न्यायया तदसंभवहेतुतुः इति | सर्ववेदान्तानारंभश्च तयोर्भेद इत्याद्यर्थोपनिषदारब्धिर्यदि भित्तिर्भवेत् तयोरिति ब्रह्मात्मनोरेकत्वज्ञानाय वेदान्तारंभ एकत्वाभावे तदारंभणं व्यर्थमिति किं च मोक्षोपि ब्रह्मात्मनोरैक्यमेव | सोपि न विद्ध्यति तयोर्भेद इत्याह- अन मोक्षप्रसक्तिश्च क्षेत्रज्ञपरमात्मनोरिति | जीवस्य सर्वप्रकारपरिच्छेदनिन्दनाच्च न जीवपरभेद इत्याह- अकृत्स्न दृष्टिविषयो निषेधोपि न युज्यते | प्रविष्टस्य न चेत् कार्त्स्न्यं विज्ञानात्मन इष्यते इति | ननु जीवपरभेदो माऽभूत् घटादिभे दोऽस्तीति नेत्याह- वस्तु वृत्तानुरोधेन नातो भेदोऽस्ति कुत्रचित् इति | तर्हि भेदप्रतिभानं कथमिति | तत्राह- वस्तुवृत्तानभिज्ञानात् भेदः * * * * * * * * * * * * अतो जीवपरभेदाभावात् प्रश्न एकपर एवेत्याह एक एव ततः प्रश्नो न प्रश्नद्वयमिष्यते इति | तर्हि पुनः प्रश्नः किमर्थ इति | तत्राह - प्. ६४७) किञ्चिद्विशेषमापेक्ष्य पृष्टो भूयोपि पृच्छ्यते इति | विशेषं दर्शयति उपदेशस्य विषयः प्रश्नप्रयुक्तिवाक्ययोः | अवधारि पुरा तस्य याथात्म्यं त्वत्र पृच्छ्यते इति | एतत् प्रपञ्चयति वार्तिकद्वयेन बुद्ध्यन्ताद्व्यतिरिक्तोस्ति साक्षिप्रश्नस्य गोचरः योग्यः प्रत्यङिति ज्ञेयः पूर्वप्रश्नार्थसंग्रहः अशनायाद्य?तीतत्वं पूर्वोक्तस्यैव वस्तुनः द्वितीयेनोच्यते तत्वं प्रत्यङ्मोहनिवृत्तये || इति | पुनः प्रश्नस्याभिप्रायान्तरं प्रकटयति यथा प्रश्नं प्रतिवचो न सम्यगुदितं पुरा इति मत्वाथवाप्राक्षीत् पृष्टमर्थं पुना-ऋषिः उत्तरमस्य प्रपञ्चः साक्षादित्यादिना पृष्टं साक्षादित्यादिलक्षणं यथा संभाव्यते नैतत् प्रत्युक्तौ किञ्चिदीक्ष्यते | इति | अतः पुनः प्रश्नो युज्यत इत्याह- असन्तोषात् कहोलोतः उषस्थप्रश्नमेव तं भूयो प्राक्षीन्मुनिं विद्याद्याथात्म्यार्थावबुद्धये इति | ननु यथाप्रश्नं प्रतिवचनाभावस्तत्राह | एष आत्मेति प्रत्युक्तिः यः प्राणेनेति चापरा प्. ६४८) तावन्मात्रोक्तितो नासौ प्रश्नाथावधृतो भवेत् इति | तस्मादेकमेवात्मतत्वं तद्विषयमेव च प्रश्नद्वयमिति || अत्र चोदयति ननूक्तिषट्कं तीतत्वं दुःखित्वं वाऽद्वयात्मनि एकदैकत्र न स्यातां प्रकाशतमसी यथेति नैतच्चोद्यमित्याह- नैष दोषस्तदज्ञान मिथ्याविश्रमहेतुतः | संसारितात्मनः कॢप्ता तूष्णीमेव नभस्तलः इति | संसारस्य कल्पितत्वां वृहद्विचारेप्युक्तमित्याह- बृहद्विचारे सम्यक् च प्रागुच्ये तद्विचारितं विरुद्धागमविषय प्रविवेकप्रसंगतः इति विरोधाभावं दृष्टान्तेन साधयति | अज्ञत्वाहित्वयोर्यद्वत् एकस्मिन्नपि वस्तुनि | स्वतस्तन्मोहतश्चैव संभवस्तद्वदात्मनि || मुक्तत्वं च सितत्वं च परस्परविरुद्धयोः धर्मयोः समवायः स्यान्न तु नीलोल्पलादिवत् | इति उपसंहरति प्रकृतं | एवं विरुद्धधर्मत्वेन च दोषोऽस्ति कश्चनेति | प्. ६४९) मुक्तत्वं च सितत्वं च परस्परविरुद्धयोः धर्मयोः समवायः स्या ननु नाम रूपकृतश्चेत् संसारो नामरूपसद्भावोप्युपगतः स्यादित्याह- नामरूपादिसद्भावो दोषश्चेदिह चोद्यते इति | भवतु नामरूपसद्भावः को दोषः इति चेत्तदा श्रुतिविरोध इत्याह- नेह नानेति वचनादेकमेवेति चोक्तितः इति | नैतच्चोद्यमित्याह- नैवं परिहृतेस्तस्य मृद्दृष्टादियुक्तिभिः | अगृह्यमाणं सत्तत्वं विपरीतमिवेक्ष्यते | यथावस्त्वीक्षमाणं तु यथा वस्त्वेव वीक्ष्यते इति | एतदुक्तं भवति | नामरूपशब्देन प्रत्यगज्ञानमुच्यते | तच्चानिरूपितं तत्कृतं संसारोऽतो नाद्वैतहानिरिति | एतच्चोद्यं पूर्वमप्यनेकत्र परिहृतमित्याह यदत्र चोद्ये वक्तव्यं तत्पुरैवासकृत् बहुसम्यगुक्तं तदखिलंमिह स्मर्तव्यमादृतैरिति | तत्पुरोक्तमिति | तत्राह- अविचारितसंसिद्ध मोहोपहृतचेतसां प्. ६५०) अप्यद्वयं परं ब्रह्म द्वयवत् प्रथते मृषेति एतमेवार्थं दृष्टान्तेन साधयति- यथा विशुद्धमाकाशं तिमिरावप्लुतो जनः संकीर्णमिव मात्राभिःश्चित्राभिरुपलक्षयेत् || तथेदममलं ब्रह्म निर्विकारमविद्यया कलुषत्वमिवापन्नं भेदरूपं प्रकाशते || इति पुनरपि दृष्टान्तान्तरेण उक्तमेवार्थमाह- तस्यैकमपि चैतन्यं बहुधा प्रविभज्यते | अंगारति तदुत्पाते वारिराशेरिवोदकम् इति | यद्यशुभं महत्तरं उपतं भवति तदा समुद्रोदकमग्निवत् प्रथते यथा आत्मापि द्वयवत् अविद्यया प्रथत इत्यर्थः | अथवा उत्पातं क्षारोदकचलनं ततः किमिदं ततो भवति अज्ञानं कार्येण सह बाध्यमेव ज्ञान बाधकमेवेत्येतदाह- बाध्य एवात्मसंमोहो न त्वसौ बाधको यतः प्रत्यग्याथात्म्यविज्ञानं न बाध्यं बाधकं यतः इति | अस्मिन्नर्थे भगवद्वाक्यावतरणायाह - स्वभावानपहारेण संगतिः स्यात्ततस्तयोः इति चेतसि सन्धाय सर्वयोगेश्वरेश्वरः || प्. ६५१) मोहापनुत्तये प्राह प्रपन्नाय किरीटिने बाध्यबाधकयो रूपं नह्येतीति प्रकाशयन् इति किं प्राहेति | तदाह- या निशा सर्वभूतानां तस्यां जागर्ति संयमी यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः इति | अत उपसंहरति || ज्ञानाज्ञाने ततोपेक्ष्य व्यवहारोयमात्मनि शास्त्रीयो लौकिकश्चातो विरोधोत्र न शंक्यते इति | नन्वज्ञानापेक्षयाह - ब्रह्मेति व्यवहारादन्यव्यवहार इति कथं ज्ञानिनोऽपि सर्वव्यवहारादिदर्शनादित्याह- उत्पन्नात्मप्रबोधानामात्मविद्या तदुद्भवं सम्यक् ज्ञानाग्निना नित्यं दृश्यमानं प्रजायते इति | यत उक्तप्रकारेण शनयादि सर्वं प्रकल्पितं तस्माद्यशानायाद्यतीतैकात्म्य वस्तु प्रतिपादनायैव ब्रह्माणं भव इत्याह- ऐकात्म्यवस्तुयाथात्म्यमभिप्रेत्यात उत्तरं साक्षादित्यादिकं प्रश्नो यदेवेति पुरःसर इति | पूर्वब्राह्मणोक्तमेवोत्तरमाह- प्रत्याहैष त आत्मेति याज्ञवल्क्योपि पूर्ववत् प्. ६५२) संभाव्यते यतोत्रैव साक्षादित्यादिलक्षणमिति द्वितीयः | प्रश्नोशनायाद्येति तस्य रूपविवक्षयेत्यभिप्रेत्याह- निश्शेषनिर्णयोक्तीश्च कहोलोप्याह पूर्ववत् कतमो याज्ञवल्क्येति कहोलाभिप्रेतमेव उत्तरं प्रयच्छति स तं प्रत्याह- शुद्धधीः योऽशनायापि वासादीन् सर्वान् सर्वान् विरोधतः अतीत्य वस्तुवृत्तेन स्वेमहिम्नि व्यवस्थितः इति सकारणसकलसंसारविनिर्मुक्तः प्रत्यगात्मेत्यर्थः- अशनायापिपासे यस्तद्धेतोरत्ययात् सदा अत्येति वस्तुवृत्तेन स साक्षादिति गृह्यताम् इत्येतत् पूर्वस्य प्रपञ्च कारणात्ययात् अशनाद्यत्यय इति अभिहितं किं तत् कारणमिति तदाह- शोकादासंगबीजाद्धि जज्ञाते ते यथोदिते | इच्छाविशेषास्ताभ्यां च जज्ञिरेन्ये सहस्रशः इति | शोकशब्देन कामोऽभिधीयते | तस्यास्रं गतः कारणं संगात् सञ्जायते कामः इति | प्. ६५३) स्मरणात् तत्संगकारणाच्छोकादशनाया पिपासे उत्पद्यते ताभ्यां च सकाशत्व इच्छाविशेषाः सहस्रश उत्पद्यन्त इति | उत्तरं वार्तिकत्रयं सुखबोधम् आत्मात्येतीति संबन्धो योऽशनायादि लक्षणात् क्रियार्थोऽत्येति शब्दश्च न क्रियार्थो विवक्षितः औष्ण्यं शैत्यं यथात्येति वस्तुवृत्तेन सर्वदा गर्तात्ययवत् तत्र न मानादुपपद्यते | अशानो या विवासो द्वे एवं नात्येति केवले शोकश्च यस्तयोर्बीजं तदप्येषोऽतिवर्तते इति | शोकशब्देन कामो भण्यत इत्याह- शोकोत्रारणमात्रं स्यात् चेतसो योऽनवस्थिति इति मोहात्ययस्तत्स्वरूपं कथयति मोहश्चात्येति वैचित्र्यमविषयावहृतिर्धियः पुनः मोहस्वरूपं विविच्य दर्शयति | स्वतो नानार्थकेऽज्ञानात् यन्नानात्मसमीक्षणं मिथ्याज्ञानमनात्मानं मोह इत्यपदिश्यते इति | प्रत्यगज्ञानकार्यं मिथ्याज्ञानं मोहशब्देनात्र भण्यत इत्यर्थः | अशनाया पिपासेति समासेन निर्देशे निमित्तमाह- प्. ६५४) सर्वगप्राणधर्मित्वा दशनायोपिपासयोः समासेनाभिधानं स्यात् यदि वा शोककार्यतः इति | शोकमोहयोरसमासेन निर्देशे निमित्तमाह- असमासेन निर्देशो भिन्नकार्यत्वकारणात् प्रवृत्तिररतेः कार्यं मोहस्यानर्थसंप्लुतिः || इति || जरेति परिणामः स्यात् वलीपलितलक्षणम् देहस्य मृत्युविच्छेदो वियोगो देहलिंगयोः प्राणाधिकरणे पूर्वे शोकमोहौ मनोगतौ जरामृत्यू तु देहस्य धर्माविति विनिश्चय इत्येतत् वार्तिकद्वयं सुबोधम् || नन्वशनायादिरात्मधर्मः कथं प्राणादिधर्म इति तत्राह- अशनायाभिसंबन्धो नात्मनो वास्तवो मतः अनिर्मोक्षप्रसक्तिः स्यात्तस्य चासंगरूपतः इति | यतः परमार्थत्वे मोक्षासिद्धिः अतो अविद्या अध्यस्त एव संसाराज्ञानादेव तन्निवृत्तेः मोक्ष इत्येतदाह- यत एवमतः प्रत्यग्याथात्म्या नवबोधतः अशनायादिसंबन्धः सम्यक् ज्ञानाश्नुतिरिति | कार्यस्यात्ययो नाम विनाशः स च कारणसंसर्गोऽन्यत्राप्येवमित्याशंक्याह- यः स्वकारणसंसर्गः कार्याणामत्ययो भवेत् | प्. ६५५) अनात्यन्तिकदुष्टत्वादत्ययोऽसौ न गृह्यते इति तमाह- तत्कारणनिषेधो यः स्वमहिम्नैव वस्तुनः तमत्ययं मोक्षविधौ तद्विद्वांसः प्रचक्षत इति | यस्मात् कारणात्ययव्यतिरेकेणं कार्यात्ययो नोपपद्यते तस्मादशनायादिशब्देन तत्कारणग्रहणस्यास्य मित्याह- अशनायाविवासाभ्यां तस्मात्तत्कारणग्रहः | संसर्गात्मानिवर्तित्वात् तत्कार्यातिगतिस्ततः इति | ननु पूर्वत्र तत्कारणं कामोऽभिप्रेतः | सत्यं कामो निमित्तकारणमिहोइपादानमुच्यत इति विशेषः पूर्वत्राप्यशना यया तत् कारणं लक्षितमित्याह- मृत्युनैवेत्युपक्रम्य तथा च श्रुतिरब्रवीत् | लक्षणं ह्यशनायेति प्राणमृत्युप्रबुद्धयः इति | तस्माज्जगन्मूलकारणमीश्वर एव अशनायादि धर्मत इत्याह- अविचारितसंसिद्धप्रत्यगज्ञानलक्षणम् अशनायापिपासादि धर्मिणं प्राहुरीश्वरम् इति | इदानीं ईश्वरात्ययादशनायाद्यम्यय इत्याह प्. ६५६) तत्प्रत्यगात्म्ययाथात्म्या भास्वज्ज्ञानोदयात्तमः प्रध्वस्यात्मायमत्येति तद्दुत्थं वस्तु वृत्ततः आत्मा सामान्यचैतन्य रूपोत्थेनात्मगं तमः | जग्ध्वा मानेन निश्शेषं प्रत्यक् पूर्णोऽवशिष्यते || इत्येतत् पूर्वस्य प्रपञ्चः || पूर्णत्वं नाम कैवल्यं तत्प्रसाधनाय प्रतीचः स्वरूपं हेतुहेतुमद्रूपेण कथयति- यस्मादेष स्वतो बुद्धो निरवद्यः स्वतस्ततः शुद्धश्चातोऽद्वितीयत्वात् प्रत्यङ्मुक्तः स्वतस्ततः एवं विधात्मज्ञानस्य तत्कार्याशनायाद्यत्ययः सुप्रसिद्ध इत्याह- एवं ध्वस्तात्ममोहस्य मुतोऽविद्योत्थ वस्तुभिः प्रतीचोऽस्त्यभिसंबन्धो ह्यशनायादिलक्षणैरिति | अज्ञाने स्थितेप्यात्मा समस्तसंसारविनिमुक्त इत्येतमर्थं दृष्टान्तेनाह- यथा विशुद्धमाकाशं सति वासति वामले नीहारादौ तथैवात्मा कार्यकारणवस्तुनि इति | यतोऽज्ञानतत्कार्ये स्थिते च निर्विशेषमात्मतत्वमतो ज्ञानादज्ञानतत्कार्ये निवृत्ते पूर्णः प्रत्यगात्मा भवतीत्याह- प्. ६५७) प्रत्यग्याथात्म्यदृष्ट्यात्मा कारणं स्वतमोवशं बाधित्वाज्ञानसंसारो यात्यपूर्वादिरूपतामिति | अशनायादिना तत्कारणग्रहण इत्युक्तं शोकादिनापि तत्कारणग्रह इत्याह- शोकमोहावतः स्यातां सूत्रकार्योपलक्षणम् | जरामृत्युविराजश्च सर्वकार्योपसंहृतेरिति | एवं सति सर्वकारण कार्यात्यद्यः सिद्धो भवतीत्यर्थः | अशनायादिशब्दैः मूलकारणसूत्र विराट् ग्रहणं कृतं कार्यार्थसिद्ध्यर्थमेवं सति वागादे रधिदैवाग्न्याद्यात्मत्वं सोऽग्निरभवदित्यादिनोच्यमानं उपपन्नार्थं च भवति | इत्येतदाह- अध्यात्म्याद्यधियज्ञादे राधिदैवतरूपता | पुरोक्तार्थवती चैवं सति सर्वा भवेद्ध्रुवम् इति | वागादेः कार्यस्याग्न्यादि कारणाभेद कथनं कारणात्ययात् कार्यात्ययप्रतिपत्यर्थं आत्मविद्याप्रकरण उक्तत्वादित्यर्थः नोद्गीथोपासनविधावेवैवं फलमन्यान्यपि ब्रह्मविद्याप्रकरण उक्तानि क्रमेण मुक्तिफलान्येवेत्याह- सर्वाणीति प्. ६५८) सर्वाण्युपासनान्येवं ब्रह्मविद्याभिसंगतेः विद्याधिकार उक्तत्वात् अर्थवन्तीति निश्चितिः एवं प्रसंगागतं परिसमाप्य प्रकृतमनुवर्तयति इतश्च अशनायादि संबन्ध आत्मनो न सं भवतीत्याह- प्रतीचो संगयाथात्म्यं मोहादेश्चाप्यवस्तुतः प्रत्यङ्मात्रावशेषत्वात् कुतः षष्ट्यर्थसंभवः इति योऽशनायेति वाक्यं हेतुहेतुमद्भावेन व्याख्येयमित्याह- हेतुहेतुमदुक्त्यैतत् व्याख्येयं त्रयमात्मनीति यस्मात् कारणात्ययस्ततः सूत्रात्ययो यतः सूत्रात्ययस्ततो विराडत्यय इत्यर्थः | योऽशयायेति वाक्यस्य अर्थान्तरमाह- आनन्दवद्वाशंक्योक्तिर्योऽशनायेति पूर्विका स्वाभाविकत्वं माऽप्रापत् शोकादेरात्मसौरव्यवत् | इति ज्ञानं सुरव्याद्यात्माधीनं आत्मात्मकं दृष्टं एवं शोकाद्यपीत्याशंक्य तन्निवृत्यर्थं इदं वाक्यमित्यर्थः शोकादेरनात्मधर्मत्वे हेतुमाह- यस्मिन् सत्येव यत् सत् स्यात्तस्मिन्नसति तन्नसदिति प्. ६५९) अज्ञानाभावभावित्वादित्यर्थः तत एतत् सिद्धमित्याह- अशनायादिकं यस्मात् कार्यकारणलक्षणात् तद्विरुद्धात्मविज्ञानाद्ध्वंसित्वात्मैकलो भवेत् इति योऽशनायेति वाक्यार्थमुपसंहरति उत्तरार्थम् | परमात्मस्वभावोयं स्वयं युक्त्या प्रपञ्चित इति | एवं विधात्मविदः सन्यासकथनाय उक्तोपसंहारः कृत इत्यर्थः | इदानीमुत्तरं वाक्यं योजयति | एवमेव तदात्मानं विदित्वोक्तेन वर्त्मनेति व्युत्थाय भिक्षाचर्यं चरतीति संबन्धः ब्राह्मणग्रहणं तस्यैव सन्यासाधिकार इति | ज्ञापनायेत्याह- अधिकारविशेषस्य ज्ञानाय ब्राह्मणग्रहः इति | अत्र हेतुमाह- न सन्यासविधिर्यस्माच्छ्रुतो क्षत्रियवैश्ययोः इति | एवं भाष्यकारीयमतं दर्शयित्वा स्वव्याख्यानं दर्शयति || त्रयाणामविशेषेण सन्यासः श्रूयते श्रुतौ || प्. ६६०) यदोपलक्षणार्थं स्यात् ब्राह्मणग्रहणं तदा ब्रह्मचर्यादेव प्रव्रजेदिति वाक्यस्य सामान्येन वर्णत्रयविषयत्वात् ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेत् गृहात् इति स्मरणाच्च यदा क्षत्रियवैश्ययोरपि सन्यासाधिकारः तदा ब्राह्मणग्रहणमुपलक्षणार्थमित्यर्थः यदा विदित्वेत्यत्र वेदनं ब्राह्मणैकत्वज्ञानमविद्या तत्कार्यध्वंसीक्ष्यते तत् बलाच्च व्युत्थानं तदा ब्राह्मणस्यैव त्रयाणां वेत्येवं विधाधिकारनियमोप्युत्थाने कर्तुं न शक्यत इत्याहं- कर्माधिकारविच्छेदि ज्ञानं चेदभ्युपेयते कुतोऽधिकारनियमोऽप्युत्थाने क्रियते बलात् इति | प्रत्यग्याथात्म्यविज्ञान स्वभावश्चेत्समर्थ्यते व्युत्थानं यस्य यस्य स्यात्स स व्युत्थातुमर्हति इत्येतत् पूर्वस्य प्रपञ्चः | अस्मिन् पक्षे ब्राह्मणशब्दस्य कोऽर्थः साक्षात्कृतब्रह्मेत्याह- एवं चेत् ब्राह्मणोक्तिः स्याद्ध्वस्ता विद्यागृहीतये स ब्राह्मण इति स्पष्टं श्रुतिरन्ते च वक्ष्यतीति एकारेन तमात्मानमित्यत्रात्मानमित्यत्र प्. ६६१) आत्मस्वरूपं सर्वसंसारविनिर्मुक्तमिति प्रतिपादनायाह संसाराद्विरक्तस्य सन्यास इति च प्रतिपादनाय संसारस्वरूपं वर्णयति | संक्षेपविस्ताराभ्यां सार्धवार्तिकद्वयेन प्राणप्राणस्वान्ततन्त्र धर्मा अशनायादिलक्षणाय एते सर्वभूतेषु वर्तन्तेऽंभः प्रवाहवत् | संसारानर्थ इत्येष प्रत्यङ्मोहैकहेतुकः यतो बिभ्यति भूतानि परोत्कर्षहतान्यपि कारणात् प्रत्यगज्ञानं कार्यं संसार उच्यते इति | इदानीं संसारं तद्धेतुविलक्षणः प्रत्यगात्मेत्याह- तद्विरुद्धात्मकं प्रत्यक् ब्रह्मापूर्वादिवाक्यतः अत एकत्वमनेनोच्यत इत्याह- एकं तमिति वाक्येन दृष्ट्यादे साक्षिणः श्रुतिः अनूद्यापेत दुःखेन साक्षात्संगतिमब्रवीदिति | ज्ञानोत्तरकालं किं भवतीत्युत्थानं भवतीति प्रतिपादनायाह- एवं संसारविध्वस्तिः तद्धेतोर्ज्ञानहानितः | ननु विशेषणविशेष्य भावांगीकरणात् संसर्गात्मक एव तवापि वाक्यार्थ इति नेत्याह- प्. ६६२) घटाकाशो महाकाश इत्युक्ते केवलं वियत् यथाभिगम्यते तद्वत् साक्षादित्यादिलक्षणः भेदसंसर्गहीनोऽर्थस्तद्धेतुत्वं सर्वात्मना एतस्मादेव विज्ञेयो वाक्यादिति | ननु मानान्तरादिति नेत्याह- नान्यप्रमाणत इति | उषस्तप्रश्नविषयस्य साक्षात्वादेर्जीववास्तवरूपस्य कहोलप्रश्नप्रतिवचनवाक्य प्रतिपाद्ये ब्रह्मणि अशनायादिनिषेधेन प्रतीतेश्च कहोलोक्तो विशेषणमित्याह- साक्षादित्यादिकं सर्वं उषस्तप्रश्नगोचरः | योऽशनायेति चात्रोक्तौ संभाव्यं तदशेषतः इति | ननु तत्राप्ययमर्थः उत्तरवाक्ये एष त आत्मा यः प्राणेनेत्यत्र भातीति चेन्नेत्याह सामान्यमात्रप्रत्युक्ते स यथा पृष्टवस्तुधीः पूर्वत्राभूद्यथा साक्षादितः प्रत्युक्तितो मतिरिति असन्तोषादित्यादेः प्रपञ्चो वार्तिकद्वयमिति केचित् | विदित्वाप्यर्थायेत्येतयेत्येतयोः पदयोर्यथाश्रुतमेव पौर्वाअप्र्यं तद्विपरीतेन वेत्याह - पौर्वापर्यं यथायोगं क्त्वान्तयोः पदयोर्द्वयोः | प्. ६६३) इति यदा यथाश्रुत्यैव पौर्वापर्यं गृह्यते तथापि अर्थद्वयं विद्यत इत्याह - पूर्वं यदि विदित्वेति तदाऽधो प्रकल्पनमिति | अर्थद्वयं विभज्य दर्शयति- ज्ञानस्वभावाद्युत्थानं ज्ञेयवस्तूपरोधतः व्युत्थानचोदनापेक्षा नाधिकारोपमर्दतः इति | वेदनं वाक्यार्थज्ञानं | तद्बलाच्च व्युत्थानं यदा तदा न व्युत्थानं विधेयमधिकारिणो अभावादित्यर्थः द्वितीयमथं कथयति शाब्दी वा प्रतिपत्तिः स्याद्व्युत्थानादेः प्रयोजिकेति यदद्यश्रवणज्ञानं गृह्यते विदित्वेति तदा मननाय सन्यासो विधेय इत्यर्थः शाब्दीति प्रयोजकज्ञानमिति केचित् अयंचार्थः उत्तरत्र उच्यते इत्याह- विध्यार्थोह्यपि वाच्यादिस्तथोर्ध्वमपि दृश्यते इति | यदाप्युत्थानं पूर्वं तदानीं भवतीदमित्याह व्युत्थायाथ विदित्वेति पौर्वापर्यं यदेष्यते | व्युत्थानसाधना विद्येत्ययमर्थो भवेत्तदा इति | ज्ञानस्य श्रवणादिद्वारेण वाक्यार्थ ज्ञानहेतुत्वसिद्धये तस्मादित्यादि वाक्यं प्. ६६४) योज्यमित्याह- विदित्वा कथमित्यस्य प्रत्युक्त्यर्थाऽपरा श्रुतिः तस्मादित्यादिका योज्या न्यासहेतुत्वसिद्धये || इति | तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्येत्यादि वाक्यमननादिद्वारेण सन्यासस्य ज्ञानसाधनत्वे योज्यमित्यर्थः || यदाव्युत्थाय विदित्वेति पौर्वापर्याश्रवणं तत्रापि व्युत्थानं ज्ञानस्य श्रवणादिद्वारेण साधनमित्युक्तं अत्र पक्षे प्रमाणत्वेन तस्मादेवं विच्छान्त इत्यादि वाक्यमुदाहरति- तस्मादेवं विदित्वेवं तथा चोर्ध्वं प्रवक्ष्यति निश्शेषकर्म सन्यासं विद्यायः साधनं श्रुतिः इति | ननु तत्राप्येवं विदिति श्रवणज्ञानं गृह्यत इति | नैतद्विचारप्रयोजकं ज्ञानं तत्र गृह्यते | श्रवणज्ञानमेव तत्रापि गृह्यते अतः इदमपि वार्तिकं श्रवणज्ञानविषयमेवेति केचित् यथाऽत्र बृहदारण्यके विद्वदविद्वत् सन्यासस्य ज्ञानसाधनत्वमुक्तं तथान्यत्रापि वचांसिविद्यन्त इत्याह यन्याससाधनंज्ञानं निवृत्त्यत्रापि च श्रुतिः प्. ६६५) यथा तथापराश्चात्र श्रुतयः सन्ति कोटिशः ऽऽ|| स्रवण ज्ञानि प्रयोजकज्ञानी वा तस्मात्सन्यासमेवानुतिष्ठति न कर्मेति तत्राह- ज्ञानानुरोधिनी यद्वत् प्रवृत्तिः प्राणिनामिहतथेहापि श्रुतिर्वक्ति प्रत्यग्याथात्म्यवेदिनां इति | पुत्रेषणेत्यत्रैषणा?शब्दार्थं कथयति पुत्रोत्पत्तिं समुद्दिश्यदारान् परिजिघृक्षति यतो दारार्थ उद्योगः ततः पुत्रैषणोच्यते | वित्तैषणेत्यत्र वित्तशब्दार्थं कथयति पुरुषार्थाय यन्नालं लब्ध्वात्मापि कुठारवत् अप्रविश्य प्रयोगं तत् वित्तमित्युपदिश्यते इति | वित्तशब्देन उपासनाज्ञानमपि गृहीत्वा ततोप्युत्थानं चोक्तं भाष्ये तत्र च भर्तृप्रपञ्चमतमाशंक्य निराकृतं तदाह यत्त्वात्मलाभमात्रेण पुरुषार्थसमाप्तिकृत् व्युत्थानं तद्बलादेव न तु यत्स्यात् गवादिवदिति | उपासनाज्ञानमपि गवादिवदुच्यते | स्वरूपलाभमात्रेण पुमर्थासाधकत्वात् तस्मात् संप्रदानादि कारकपरिज्ञानं प्. ६६६) उपासनां च ज्ञानंचात्र वित्तशब्देन गृह्यते || इत्याह- प्रत्यगज्ञानसंभूतकामोऽर्थं साधनात्मकम् देवतादिपरिज्ञानं मन्त्रविद्वित्तमुच्यते इति | इदानीं प्रसिद्धमेव वित्तं पूर्वोक्तं गृहीत्वाहनात्मानं लभते कर्म यतो वित्तमृते ततः वित्तेषणेयं कर्मार्था न लोकार्थेति निश्चितिः इति | अतः किमिदं तत इत्याह- नित्यकर्मप्रसिद्ध्यर्थमतो वित्तमिहेष्यते तेन चेच्छा भवेद्वाक्यं पृथक् शोकैषणा ग्रहादिति लोकग्रहणेन लोकसाधनवित्तस्य गृहीत्वत्वात् अत्र यदि वित्तशब्देन नित्यकर्म न गृह्यते वित्तमात्रं गृह्यते पुनरुक्तिः स्यादित्यर्थः लोकैषणावाक्यस्य अर्थमाह - लोकानुद्दिश्य यः काम स्तत्साधनसमाश्रयः लोकैषणेति तामाहुः काम्यकर्मार्थमुद्यम इति एषणात्रयाद्वित्तज्ञानं प्रयोजकं कथयति | यतो साधनसाध्यन्तं प्रत्यगात्मानमात्मना साक्षादित्यादिनाज्ञासीत् विरुद्धं साध्यसाधकैः साध्यसाधनरूपाभ्यः तस्मादुक्तार्थवेदिनः | प्. ६६७) व्युत्तिष्ठत्येषणाभ्यस्ते तद्विरुद्धात्मकत्वतः इति | एषणात्रयासहिष्णुः ब्रह्मभूतत्वात् विदुषां व्युत्थानं युक्तमित्यर्थः | ननु विदुषोपि कर्मास्तीति | नेत्याह - अज्ञानकामजन्यत्वं वाङ्मनः कायकर्मणां सोऽकामयत इत्येवं पुरा व्युक्ततमस्विनः | इति विदुषोऽज्ञानाभावेन कामाभावात् न कर्मेत्यर्थः एतत् प्रकटयति | यदज्ञानात् प्रवृत्तिर्या तज्ज्ञानात्सा कुतो भवेत् प्रत्यक् ज्ञानोदये तस्मान्निवृत्ति सर्वकारणात् इति | ननु ज्ञानस्य व्युत्थानप्रयोजकत्वे कथं विदुषः सन्यासात् तत्प्रप्तिस्तत्राह विज्ञासुरपि चैतस्य यथोक्तस्यात्म वस्तुनः सर्वैषणानिवृत्त्यैव तज्ज्ञानं समवाप्नुयात् इति | अविदुषोपि विरक्तस्य सन्यासद्वारेण ज्ञानप्राप्तिरित्यर्थः | अविरक्तस्य कर्मण्येव अधिकार इत्याह - यस्तु त्यक्तुं न शक्नोति रागादि प्रबलत्वतः रागादिहेतुनाशार्थं कार्यं कर्मैव तेन तु इति | उभयत्र प्रमाणमाह- प्. ६६८) आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते योगारूढस्य तस्यैव शमः कारणमुच्यते इति | व्युत्थानपदार्थं कथयति- न्याययां वृत्तिं समुल्लंघ्य तद्विरुद्धतया स्थितिः व्युत्थानमिति तामाहुः व्युत्थानज्ञा महाधियः इति | अत्र लोकप्रसिद्धिमाह- सामन्तो व्युत्थितो राज्ञो विरोधेन व्यवस्थितौ व्युत्थानशब्दो लोकेपि प्रसिद्धोत्र तथैव सः भिक्षाशब्देन परमहंस वृत्तिर्विवक्षित इत्याहभिक्षया लक्ष्यते चर्याह्याकिञ्चन्नैकसंश्रया अममापरिग्रहोक्तेः निष्कर्मा मुनिरुच्यते इति | अज्ञानकाम जन्यत्वमित्यत्र कामस्य अज्ञानकार्यत्वमुक्तं तदेव साधयति एषणा कामपर्यायः कामश्चाप्राप्तगोचरः अवाप्ताशेषकामोऽसौ भवंस्तन्माहतो भवेत् इति | एतदेव स्पष्टयति | आनन्दैकस्वभावत्वान्नात्मनः सुखकामितेति तर्हि दुःखनिवृत्तौ काम इति नेत्याह- विरोधात् सुखरूपस्य न दुःखेन समागमः इति तर्हि अशनायादिनिराकरणं किमर्थमिति | प्. ६६९) तत्राह- बुभुक्षादिनिषेधोयं तथाप्यात्मन उच्यते | सर्वानर्थैकमूलस्य प्रत्यङ्मोहस्य हानये न इति यद्यपि कारमादिरात्मनि परमार्थो न तथाप्यविद्याध्यस्तोऽतः कामादिहेतुरविद्यानिराकरणोय निषेध इत्यर्थः | कारण निवृत्या शोकादिनिषेध उक्तः इदानीं शोकादेः स्वरूपेण मिथ्यात्वाच्च बाध्यत्वमित्याह निरेषणैकतामिति | पुत्रेषणाया वित्तेषणैकत्वे हेतुमाह- यतो धनाभिलाषोयं कृतदारस्य सार्थकः पुत्रैषणाऽतोऽभिन्नैव ज्ञेयावित्तेषणात्मकः इति | तयोरेकत्वे हेत्वन्तरमाह- साधनत्वाविशेषत्वात् पुत्रवित्तैषणात्मनो एवं चैकत्वमनयोरिह व्याख्येयमादृतैः || इति | अनयोर्हेतुहेतुमद्भावात् साधनत्वसाम्याच्च अनयोरेकत्वमिति वार्तिकद्वयस्यार्थः | इदानीं साधनैषणाया फलैषणात्मत्वमाह साध्येषणाप्रयुक्तत्वात् उक्तवित्तैषणात्मनः एका लोकैषणाचेयं त्रिधातो व्यपदिश्यते उभे ह्येते इत्यस्य अर्थकथनायाह- प्. ६७०) स्वमहिम्नैव निष्पत्तिर्न विना साधनं यतः साध्यस्य साधनादानमतः साध्यानुरोधतः इति | तस्मात् उभे इत्युच्यत इत्यर्थः | एषणाद्वयकारणं किमिति | अज्ञानमित्याह- अपास्ताशेषानर्थाप्त पुरुषार्थतत्वतः स्वतन्त्र मोहमात्मजे तस्मादेषणे प्रत्यगात्मनि इति | अज्ञानकार्यत्वादेव ब्रह्मविदः कामा न सन्तीत्याह- ब्रह्माज्ञानं यतो हेतुरेषणानान्न वस्त्वतः परमार्थविदां न स्युरेषणाया यथोदिता इति | ननु विदुषोपि साधनैषणात्यागो न युक्तः कर्मणो मोक्षसाधनत्वादिति | तत्राह आप्ताशेषपुमर्थत्वात् नापेक्षा साधनं प्रति साध्यत्वेपि हि सिद्धस्य किमसाध्यस्य वस्तुनः सर्वोपाया निवर्तन्ते उपेयावसितौ यतः | चरितार्थत्वतोऽमीषां नापेक्षा सिद्धवस्तुनः इत्येतत् पूर्वस्य प्रपञ्चः | यद्यपि न मोक्षसाधनं कर्म तथापि ज्ञानसाधनं तस्मात् ज्ञानार्थिनः कर्मत्यागो न युक्तः तत्राह- अप्यज्ञातार्थयाथात्म्यो जिज्ञासुर्योऽत्र वस्तुनि प्. ६७१) सर्वकर्मपरित्यागो ज्ञानाप्त्यै तस्य साधनं इति | अयमर्थः तस्मादेवं विच्छान्त इत्यत्रोच्यते इत्याह- तस्मादेवं विदित्यत्र श्रुतिस्पष्टं यथोदितं निश्शेषकर्मसन्यासं स्वयमेव प्रवक्ष्यतीति सन्यासस्य ज्ञानसाधनत्वसिद्धये अपराण्यपि श्रुतिवाक्यानि सन्तीत्याह | प्रत्यग्याथात्म्यविज्ञान साधनत्वप्रसिद्धये श्रुत्यन्तरेषु तद्वच्च सन्ति वाक्यानि कोटिशः इति | तदप्युदाहरति | मुक्तेश्च बिभ्यतो देवा मोक्षेनापि दधुर्नरात् | प्रावर्तन्त ततो भीताः कर्मस्वज्ञाततत्वकाः पूर्वकर्माण्यतस्त्यक्त्वा प्रत्यक् श्रवणबुद्धयः मोहं भित्वाऽत्मसंबोधात् ययुः कैवल्यमुत्तमं इति भाल्लवी श्रुतिवचः सम्यक् ज्ञानस्य जन्मने सन्यासं साधनं वक्ति वाङ्मनः कायकर्मणां पराञ्चिवानीति तथा पराक् प्रवणसाधनं निषेधत्यात्मविज्ञाने मन्त्रवर्णोऽपि काठके | वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयः शुद्धसत्वाः मन्त्रोऽपि चैकात्म्यविनिश्चयाय प्. ६७२) निश्शेषकर्मो हृतिमाह साक्षात् || ब्रह्मचर्यं समापयय गृही तस्मात् भवेत् द्विजः गृहाश्रमं समाप्याथ वानप्रस्थ्यं समापयेदिति | नन्वत्र वाक्ये क्रमाक्रमसन्यासः कथ्यते तस्य किं व्यवस्थापकमिति | तत्राह- यथोक्ताश्रमवासार्थं सामर्थ्यान्नियमो भवेत् एवं सति समर्थः स्यात् सर्वाश्रमसमुच्चय इति अयमर्थः रागादि कषायप्राबल्यसामर्थ्यात् आश्रमत्रये वा स नियमो भवेदविरक्तस्य सन्यासेऽनधिकारात् तस्माद्रागादिकषायनिवृत्तय आश्रमत्रये स्थित्वा तद्विहितं कर्मानुष्ठातव्यं तथा सत्याश्रमसमुच्चयः सन्यासाय समर्थ उपपन्नः स्यादिति | एवं आश्रमत्रये क्षपितकल्मषस्य सन्यासो अवश्यं भावीत्याह- वानप्रस्थाश्रमादूर्ध्वं प्रव्रजेदविचारयन्निति अयं च सर्वाश्रमसमुच्चयः श्रुतिसिद्धः श्रुतावप्युक्त इत्याह- प्रत्यक्षश्रुतिमूलोयं सर्वाश्रमसमुच्चयः कषायं वाचयित्वाथ श्रेणीस्थानेषु च त्रिषु | प्. ६७३) प्रव्रजेच्च परं स्थानं पारिव्राज्यमनुत्तमम् इति व्यासश्रुतौ वाक्यं प्रत्यक्षश्रुतिबन्धनं इति | अन्यान्यपि श्रुतिवाक्यानि उक्तार्थद्योतकानि विद्यन्त इत्याह- तथान्यान्यपि विद्यन्ते वाक्यान्यत्र सहस्रजः इति | अत उपसंहरति | ब्रह्मचर्याश्रमादेव यदि वा प्रव्रजेद्द्विजः | गृहाच्च प्रव्रजेत्तद्वत् प्रव्रजेच्च वनात्तथा विकल्पेनैव व्याख्यात एकद्वित्रिसमुच्चयः कषायपश्चिमावेक्ष्य विकल्पोऽयं त्रिधोदितः इति | पुनरपि सन्यासस्य ज्ञानसाधनत्वप्रकाशनाय श्रुत्यन्तरमाह- सर्वकर्मपरित्याजात् सन्त्यक्ताशेष साधनः श्रुत्युक्तोत्र परिव्राट् स्यात् ऐकात्म्यज्ञानजन्मनः स्मार्तः सन्यास एव नास्ति श्रुतिविरोधात् इत्याह मुण्डो परिग्रहश्चेति प्रत्यक्षश्रुतिवाक्यतः तद्विरुद्धं स्मृतेर्वाक्यं नावेक्ष्यं दुर्बलत्वतः इति | वेदविरुद्धं श्रुतिवचनं न प्रमाणमिति जैमिनिनाप्युक्तं इत्याह | विगीता च विरुद्धा च दृष्टार्था दृष्टकारणाः प्. ६७४) इति छेदविदाद्युक्तं तदप्रामाण्यकारणमिति | ननु कर्म साधनत्वेन प्रसिद्धं सर्वस्य कथं तत् त्यागस्य साधनं ज्ञानस्येति चेत् श्रुतिबलादित्याह- क्रियमाणानि कर्माणि यथा स्युः फलसिद्धये | तदक्रियोक्ताच्छ्रुत्येह तथात्मज्ञानजन्मनः इति | सन्यासस्य ज्ञानसाधनत्वे अन्यदपि स्मरणमुदाहरति | सत्यानृते सुखदुःखे वेदाल्लोकद्वयं तथा | सन्त्यज्यात्मानमन्विच्छेदित्यदुष्टं स्मृतेर्वचः इति | व्यासवचोप्यत्र प्रमाणमित्याह त्यज धर्ममधर्मं च उभे सत्यानृते त्यज उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज इति प्रस्तुतं सन्यासप्रकरणमुपसंहरति | नैष्कर्म्य साधनेष्वेवं श्रुतयः स्मृतिभिः सह मुमुक्षुं विनियुञ्जन्ति सदात्मज्ञानजन्मनः इति | नन्वयं सन्यासोऽनधिकृतविषय तत्राह तथाऽनधिकृतानां च सन्यासस्य विधानतः काणकुब्जादिविषया न्यासकॢप्तिरतोऽशुभेति व्युत्थायेत्येतद्वाक्यं सन्यासविधायकं प्. ६७५) भिक्षाचर्यं चरन्तीत्येतत् सन्यासिनो धर्म विधायकमिति भाष्यकृद्भिरभिहितं किमनेन विधायकत्व प्रकल्पनप्रयासेन अन्यत एव प्रत्यक्षश्रुति वाक्यादुभयसिद्धेरित्येतदाहसत्सु प्रत्यक्षविधिषु यथोक्तेष्वफलश्रमः भिक्षाचर्यं चरन्तीति विध्यर्थं क्रियते महान् इति | बृहदारण्यके सन्यासविधिर्नास्तीति चेन्नेत्याह- तिष्ठासेदिदि चात्रापि प्रत्यक्षः श्रूयते विधिः || तस्मिन् सति वृथा कस्माज्जनोयं परिविद्यते इति | श्रुत्यन्तरे इह च ज्ञानसाधनत्वेन सन्यासविधानमित्युक्तं इदानीमात्मज्ञानस्य कर्म फलाभ्यां विरुद्धत्वाच्च तत्त्यागो विधीयत इत्याह- साध्यसाधनरूपाभ्यां विरुद्धं प्रत्यगीक्षणं यथो यथोक्तं तत्सिद्धौ तस्मादेतद्विधीयते इति | यस्मादेवं तस्मात् सर्वकर्मसन्यासं कृत्वा श्रवणादिकं कुर्यादित्याह- व्युत्थायातो यथोक्ताभ्यः एषणाभ्यो निरेषणः पाण्डित्यमथ निर्विद्य बाल्यं परिसमायेदिति | प्. ६७६) किं तत् पाण्डित्यमिति | तदाह पदार्थ भावितमिति | पूर्वं ततस्तदभिसंगतिः पूर्वं तदभिसंगतिः विरुद्धार्थ * * * * तिः पश्चात्ततो वाक्यार्थबोधनमिति || अयमर्थः प्रथमं पदार्थपरिज्ञानं तदनन्तरं पदार्थानां विशेषणविशेष्य भावेन संबन्धः तदनन्तरं विरुद्धांशस्य कर्तृत्वादेः निवृत्तिः | तदनन्तरं वाक्यस्य स्वार्थबोधन सामर्थ्यमित्येतच्चतुष्टयं परिज्ञानं पाण्डित्यमिति पदार्थाधिगतिः | पाण्डित्यं विततार्थ * * * ति बाल्यं पदार्थद्वयसंगतिः मननं वाक्यार्थबोधनं ब्राह्मण्यमित्यन्ये | एतच्चतुर्विधं परिज्ञानमेकैकश्येनक्रमेण अनुष्ठि तवतो बाल्यं कर्तुं सामर्थ्यमित्यभिप्रेत्याह एकैकश्याननीत्वाथ निष्ठां पाण्डित्यलक्षणं इति | एवं कृतपाण्डित्यपरिज्ञानस्य बाल्ये प्रवृत्तिं दर्शयति बाल्यं चैकव यथोयोग मन्वयव्यतिरेकत इति | उत्तरं वार्तिकद्वयं बाल्यपदार्थविवरणं सुखबोधम् | अद्वितीयार्थनिष्ठत्वं आत्मप्रत्ययशब्दयोः प्. ६७७) तथा चात्मैकनिष्ठत्वमद्वितीयस्य मानतः ऐकात्म्यान्नेह संसर्गस्तद्विरुद्धार्थयोरिव | अशनायाद्यतिक्रान्त दृष्टिद्रष्ट्टपदार्थयोः इति | पुनरपि पाण्डित्यं प्रपञ्चयति | पण्डेति बुद्धिनामैतत् सा जाता यस्य मानतः तं पण्डितमिति प्राहुरिति सुधीरवेदान्तस्य मुमुक्षोस्तत उत्पन्नं ज्ञानं विचारप्रयोजकं पण्डा तद्वान् पण्डित इत्यर्थः प्रयोजकज्ञानवतः कर्म पाण्डित्यं पूर्वोक्तं चतुर्विधं परिज्ञानं पदार्थाधिगतिरेव वा ततः पण्डितः प्रयोजकाज्ञानी नियुज्यते तस्मादिति श्रुत्येतदाह सोऽत श्रुत्या नियुज्यते | पण्डितस्य कर्म स्यात् पाण्डित्यं प्रचक्षते इति | यतः पाण्डित्यं प्रचक्षत इति पयतः पाण्डित्यं प्रयोजकज्ञानं पण्डा तस्मात् न सम्यक् ज्ञानी पाण्डित्ये नियुज्यत इत्याह अप्राप्ततत्वनिष्ठोऽतः पाण्डित्ये नियुज्य न इति | एवं पाण्डित्यं निरवशेषं कृत्वा बाल्यमनुतिष्ठेदित्याह- शास्त्राचार्यत्मतोऽनिष्टं नीत्वात्मप्रत्ययं यती तिष्ठासेदथ बाल्येनेति बाल्यशब्दार्थं कथयति प्. ६७८) कृत्स्नानात्मधियोरिति | बाल्यशब्दाभिधेयः स्यादिति तां कृत्वा मुनिभावं गत्वा ब्राह्मणो भवतीत्याहतां समापयय शुद्धधिः मुनिभावं ततो गत्वा ब्रह्मैव ब्राह्मणो भवेदिति नोक्तसाधनत्रयमेवात्र विधेयत्वेन विवक्षितमपि तु माद्यपीत्यभिप्रेत्याह- निश्शेषमात्मसंबोधं कुर्यादिति विधीयते तिष्ठसिदिति संबन्धः सर्वत्र विधिना भवेत् इत्येतत् सुखबोधं पाण्डित्यशब्दस्यार्थन्तर माह- प्राणेन प्राणितीत्युक्तो दृष्टेर्दृष्टोति चोदितः स आत्मानुभवात्सिद्धः आदेहादापरात्मनः | अस्य प्रत्यक्पदार्थस्य ह्यासमाप्तेर्विधीयते | सर्वत्रविधिना भवेदित्येतत् सुखबोधम्धीः पाण्डित्यगिरा साक्षात् अन्वयव्यतिरेकतः इति | क्त्वापदार्थशोधनं पाण्डित्यमित्यर्थः बाल्यपदस्य अर्थान्तरमाह- तथैव योऽशनायेति परात्मा विशब्दितः तस्य निष्ठाभिधानार्थं बाल्येनेति परं वचः इति | तत्पदार्थबोधनं अस्य प्रत्यक्पदार्थस्य प्. ६७९) इत्यस्य प्रपञ्चः नान्यत्रैहाद्वितीयार्थात् साक्षादात्मार्थसंभवः इत्यर्थोऽत्र विधेयः स्यात् अन्वयव्यतिरेकतः इत्येतत् तथैवेत्यस्य प्रपञ्चः - अद्वितीयपदार्थस्य तथा नैवात्मनोऽन्यतः संभवोस्तीति विध्यर्थस्तिष्ठासेदिति भण्यते इत्येतत् पदद्वयमना विधायकमिति समुदायार्थं मुनिपदस्य अर्थान्तरं कथयति- विशेषणविशेष्यत्व संबन्धोथ पदार्थयोः विरुद्धार्थनिवृत्यात्र मुनिरित्यभिधीयते इति | विरुद्धार्थनिवृत्तौ किं भवतीतीदमित्याह ब्रह्मात्मनोरसंसर्गः तद्विरुद्धार्थयोरिव पदार्थैकत्वतो भेदो ध्वान्तध्वस्तौ निवर्तते | अखण्डवाक्यार्थः सिद्ध्यतीत्यर्थः सिद्धिक्रमं दर्शयति- सामानाधिकरण्यं च विशेषणविशेष्यता लक्ष्यलक्षणसंबन्धः पदार्थप्रत्यगात्मनां इति | एतमर्थं दृष्टान्तेन साधयति- सामानाधिकरण्यादेः घटेतरखयोरिव व्यावृत्ते स्यादवाक्यार्थः साक्षान्नस्तत्वमर्थयो इति | विरुद्धांशस्य व्यावृत्तेरित्युक्तं तत्रेदमाशंक्यते प्. ६८०) विरुद्धांश प्रतीचिस्तै पृथक् तिष्ठतीति तत्राह चिदज्ञानैकहेतुत्वाद्धातव्यानां चिदात्मनि मोहध्वस्तौ प्रतीचोन्यो नातोऽर्थोत्रावशिष्यते इति भेद निराकरणाच्चास्याभेदः प्राप्तः ततश्चानेक रस इति | नेत्याह- आत्मधीविषयं नेति तदज्ञानैककारणम् अनात्ममानयोत्थो यतोऽतः केवलात्मतेति वृत्तानुद्रवणपूर्वकं ब्राह्मणपदस्यार्थं कथयति समाप्या मौनमखिलं बाल्यपाण्डित्यलक्षणं निर्वृत्य च तथा मौनं पदार्थद्वयसंगतिम् | अथ ब्राह्मण इत्युक्त्या फलावस्थास्य भण्यते | इति फलं विविच्य कथयति | भेदसंसर्गहीनोर्थः स्वे मोहिम्नि व्यवस्थितः साक्षादित्यादि रूपोऽथ ब्रह्म ब्राह्मण उच्यते इमामवस्थां संप्राप्य सर्वो ब्राह्मण उच्यते ब्राह्मण्यं गौणमन्यत्र पूर्वभूमिषु नाञ्जसेति एतत् सुबोधम् | स ब्राह्मणः केन स्यादित्ये तत् प्रश्नार्थं नाक्षेपार्थमित्याह- केनाथ ब्राह्मणः स स्यादिति प्रश्नमपृच्छतेति | प्. ६८१) अज्ञानस्य ब्राह्मण्यं प्रति साधनस्य सिद्धत्वान्न तद्विषयः प्रश्नः | किन्तु उपायान्तरविषय इत्याह- उक्तोपायातिरेकेण पृच्छ्यते साधनान्तरं इति | यज्ञादेरपि ज्ञानद्वारेण मोक्षहेतुत्वस्य सिद्धत्वात् न तद्विषयोपि प्रश्न इत्याह- यज्ञादिलक्षणं तावत् पारम्पर्येण साधनम् निर्ज्ञातमागमात्तस्मात् पृच्छ्यते साधनान्तरं इति | नाप्याश्रमविषयः प्रश्न इत्याह- चतुर्णां कतमेनेति न तु प्रश्नोऽत्र युज्यते कैवल्याश्रममादाय ब्राह्मण्यस्य समाप्तितः इति | परमहंसाश्रमस्य मोक्षसाधनत्वेन निर्धारितत्वात् ननु विदुषः कैवल्याश्रमो मोक्षसाधनं चेत् किमितीतराश्रमो न भवेत् तत्राह- न चाश्रमान्तरं युक्तं मुनेर्व्युत्थापिनः स्वतः कृतार्थस्याकृतार्थस्य तस्य नैवाश्रमान्तरं इति | कृतार्थः साक्षात्कृतब्रह्म अकृतार्थः श्रवणज्ञानी प्रयोजकज्ञानी वा | एवं तर्हि आक्षेपार्थः प्रश्नो नेत्याह- प्. ६८२) प्रश्नोयं साधनज्ञप्त्यै ब्राह्मणस्येह पृच्छ्यते किं साधनो ब्राह्मणः स्यादिति साधनमुच्यतां इति | येनेत्यादि वाक्यं प्रश्नप्रतिवचन इत्याह प्रश्नप्रतिवचस्तेन ब्राह्मणः स्याद्यथोदितम् येनानवप्तो ज्ञानोपि भवेदीदृश एव नेति येन साधनेनानुत्पन्नज्ञानोपि निर्व्यापारः तेन साधनेन ब्राह्मण्यं लभत इत्यर्थः किं तत् साधनमिति | तदाह- उक्तब्राह्मणसादृश्यात् सर्वकर्मनिरासतः नैष्कर्म्यसाधनेनैव ब्राह्मणः स्याद्यथोदितः || इत्येकोऽर्थो विधेयोत्र येनेति वचनाच्छ्रुतेः इति सर्वव्यापारोपरति ज्ञानादन्यत् कैवल्यसाधनत्वेन विवक्षितमित्यर्थः अस्मिन् अर्थे श्रुतिस्मृतिवाक्यान्युदाहरति स्मृतयोऽपि तमेवार्थं तत्र तत्र प्रचक्षते | लोकेऽस्मिन् विविधा निष्ठा पुरा प्रोक्तामयानघ ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् इमौ द्वावेव पन्थानौ कर्म तत्त्यागलक्षणौ सजातीयाद्विनिष्क्रान्त तराविमौ सन्यास एव ताभ्यां विशेषेणातिवार्तिके तथा किं प्. ६८३) प्रंजपेत्यादि पन्थाः कर्मत्यजां श्रुतः ब्रह्मचर्याश्रमादेव प्रव्रजेदिति भूरिशः स्वयं समेव ब्रुवते मुक्तये सर्वकर्मणाम् श्रुतयः स्मृतयश्चोच्चैः शुद्धन्यायसमाश्रयादिति | तस्मात् सन्यासलाभेन ब्राह्मण्य इत्युपसंहरति सर्वकर्मनिरासेन ब्राह्मण्यं लभते ततः इति केनेत्यादिवाक्यस्य अर्थान्तरमाह- केनेति यदि वा ज्ञेय उत्पत्यादेरसंभवात् साधनानामिहैकात्म्ये तथा च प्रागवादिषं इति | ज्ञानव्यतिरिक्तं सर्वं साधनमाक्षिप्यत इत्यर्थः | येनेत्यादेरर्थमाह- साधनेनैतदैकात्म्यं येन येन चिकीर्षते | तेन तेन दृगेवात्मा नातिशीतिर्मनागपीति अयमर्थः | यथाकाशः खड्गाद्यनेकायुधहननात् प्रागूर्ध्वं चैकरूपः एवं कैवल्याग्निहोत्राद्यनेकानुष्ठानात् प्रागूर्ध्वं च कैवल्यमेकरूपमेव | अतः कैवल्याय न किञ्चित् साधनमनुष्ठेयमिति | पुनरपि स ब्राह्मण इत्यादेरर्थान्तरमाह- अथवा लक्षणोक्तिः स्याद्यथोक्तब्रह्मवेदिनः प्. ६८४) येनेदृगेव विन्नेन ब्राह्मणस्तेन लक्ष्यताम् इति | मुक्तस्य लक्षण मुक्त एव लक्षणान्तरं नास्तीत्यर्थः | मुक्तस्य लक्षणं ततोऽन्यदिति केचित् तन्निराकरोति- देहेन्द्रियमनोबुद्धि धर्मानेषोऽत्यवर्तत प्रत्यगैकात्म्य संबोधात् तद्धर्मैर्लक्ष्यते कथम् इति | यदान्यमुक्तलक्षणं तदा बुद्ध्यादि धर्मतः शमादयो लक्षणं संसाराभावो वान तावच्छमादयो देहधर्मातिक्रान्तत्वात् विदुष इत्यर्थः | नापि संसारभाव इत्याह सर्वसंसारभावोऽस्य न यथालक्षणस्तथा सर्वाभावोपि नैव स्यात् ब्रह्मवेदिन इति उत्तरमस्य प्रपञ्चं- वेद्यानुरोधतो यस्मात् तद्विदो न्याययलक्षणं भावाभावद्वयधंसि ब्रह्म वेद्यं च तद्विदः इति | तस्मात् मुक्तस्य मुक्त एव लक्षणमित्याह येनेदृशेव तेनेति तस्मादाह श्रुतिः स्फुटमिति | अपि चाब्रह्मविदामपि संसाराभावस्यादर्शनाभावान्न स लक्षणमित्याह- मुमुक्षोर्लक्षणं तावदश्रद्धधाना यदब्रुवत् || प्. ६८५) सुषुप्तेप्यतिमूढस्य सर्वसंसारनिह्नुतिः गम्यते लक्षणां तादृक् न चासौ ब्रह्मवित् मतः इति | अतोऽन्यदार्त्तमित्यर्थः अस्यार्थं वार्तिकद्वयेन कथयति- आत्मनो ब्रह्महेतूक्ता नत्वानात्मन इरिता यथोक्तज्ञानतो ध्वस्तिरार्त्तश्रुत्याऽत उच्यते अतो ब्राह्मणतोऽन्यद्यत् क्रियाकारकलक्षणः आर्त्तं विनाशितं ज्ञेयं ब्रह्मानार्त्तं यतस्ततः इति पञ्चमस्य पञ्चमं ब्राह्मणम् || हरिः उत्तरं ब्राह्मणत्रयमात्मनः सर्वान्तरत्वं यत् प्रतिज्ञातं तन्निर्णयायेत्याह- यः सर्वान्तर इत्युक्तः तन्निर्णयविवक्षया | आकाशस्यात् परोग्रन्थः इतो व्याख्यायते अधुना || इति | साक्षादित्यादि विशेषणत्यागेन सर्वान्तरत्वाविनिर्णये हेतुमाह- विशेषणस्य सर्वस्य साक्षादित्यादिकस्य च सर्वान्तरविनिर्णीतौ निर्णयः स्यात् कथं न्विति ननु सर्वान्तरत्वादि योऽशनायेत्यादिना निर्णितं नेत्याह अशनायाद्यतिक्रान्ता प्रश्नार्थाविष्कृतिः कृता | प्. ६८६) न सम्यगिति मन्वाना गार्ग्य पृच्छदतः पुनरिति असम्यक्त्वं साधयति क्षित्यादेर्वियदस्तस्य यावदैकात्म्यमुच्यते निर्णीतार्थो न तावत् स्यात् प्रश्नः साक्षादितीरितः बुभुक्षाद्येकदेहस्थ निषेधादनिषेधतः क्षित्यादेर्वियदन्तस्य नातः प्रश्नार्थनिर्णयः इत्येतत् पूर्वस्य प्रपञ्चः || लोकप्रसिद्धव्याप्ति बलाद्यदिदप्रश्नोत्थापनं गाग्या क्रियते इति प्रतिपादनाय लोकप्रसिद्धां व्याप्तिं दर्शयति य एते पार्थिवा भावा लोष्टकुंभादयो मताः तेषामन्तर्बहिर्व्याप्तिः पृथिव्यैवेह लक्ष्यते यथैव पार्थिवा भावाः पृथिव्यैवं धरित्यपि अद्भिरन्तर्बहिश्चेयं व्याप्त्यैवेह समीक्ष्यत इति एवंविधव्याप्तिसंस्कृता गार्गी पप्रच्छेत्याह एतद्दृष्टं यतस्तस्मात् गार्गी पप्रच्छलिंगतः प्रश्नं यदिदमित्येवं याज्ञवल्क्यं महाधियमिति लिंगमित्यनुमानं विवक्षितमनुमानं दर्शयति ओतप्रोतात्मना कार्यं येन येन समाप्लुतं तस्यान्यसंव्याप्ति दृष्टा लोके क्षितिर्यथा अद्भिश्चेयं क्षितिर्व्याप्ता तस्मात्तासामपीक्ष्यते | प्. ६८७) अनेन केनचिद्व्याप्तिर्व्यापकत्वात् यथा भुव इति | अपां व्यापक किमिति पृष्ट आह - पृत्युक्तिर्गार्गी वायावितीति | उत्तरेष्वपि पर्यायेषु एवमेव द्रष्टव्यमित्याह एवमेवोत्तरेषु वाक्येष्वपि प्रतिपत्तव्या प्रत्युक्तिप्रश्नयोर्गतिरिति नन्वग्नेराप इति श्रवणादग्नाविति वक्तव्यमिति | किमिदमुचयते वायाविति | तत्राह - पार्थिवाप्यौ समाश्रित्य तेजोऽभिव्यज्यते यतः धातू न तु स्वतन्त्रः सन्नावदत् तेजसीत्यतः इति | अग्नेः काष्ठादिपरतन्त्रत्वात् स्वतन्त्रेण केनचिद्व्याप्तिर्वक्तव्येति वायावित्युक्तमित्यर्थः उत्तरोत्तरेण पूर्वस्य व्याप्तेऽर्थे हेतुमाह- सूक्ष्मताव्यापिते ज्ञेये भूम्यादेरुत्तरोत्तरं अक्षरात्मा वासनानां पूर्वपूर्व प्रहणत इति ननु अन्तरिक्ष लोकादिष्वेकैकस्मिन्नेव बहुवचनप्रयोगः कथं तत्राह- आरंभकबहुत्वाच्च बहूक्तिरिह गृह्यते आत्मनोन्यत् यतः सर्वं पञ्चभूतात्मकं विदुः इन्द्रियान्ताः पदार्थाः ओतप्रोतभावेनोक्ताः लोकालोकपर्वतान्तर्वर्तिन इत्याह- प्. ६८८) द्वात्रिंशत् गुणितो मार्गो रथगत्या विवस्वतः य उक्तस्तस्य संस्थित्या तस्थुरिन्द्रान्तदेवताः स्थूलसूक्ष्मात्मना सर्वाः तारतम्येन संस्थिता व्याप्यव्याप्यतयाऽन्योन्यं सर्वतः परिमण्डलाः इति उत्तरं वार्तिकत्रयं सुबोधम् प्रजापतिविराड त्रयोऽण्डस्यान्तर्व्यवस्थितः ओतप्रोतानि तत्वानि तेन पूर्वाग्नि सर्वशः तस्योतप्रोतभावो यः ब्रह्म लोकेषु भण्यते अण्डारंभकभूतानां ब्रह्मलोकाभिधेष्यते | तदेतल्लोकनिर्माणं ओतप्रोतात्मनोदितम् | अण्डान्तमेवं व्याख्यातं किमन्यदवशिष्यते इति | कस्मिन्नु खलु ब्रह्मलोका इति प्रश्नं किं विषय इति चेत् विषयं दर्शयति | समष्टिव्यष्टिभावेन वायुः सर्वाश्रयः पुराव्याख्यातो यः स वक्तव्यः तदर्थप्रश्न उत्तरः इति सूत्रार्थविषयोऽयं प्रश्न इत्यर्थः एवं तात्पर्यमुक्त्वा वाक्यं योजयति | वाक्य योजनवार्तिकद्वयः सुखबोधः ओताः प्रोताश्च कस्मिन्नु ब्रह्मलोक इतीर्यतां इति पृष्टोऽब्रवीत् गार्गीं माति प्राक्षीं कथञ्चन प्. ६८९) मातीत्यप्रश्नविषयं गार्गी प्राक्षीत् कथञ्चन माते मूर्धाव्यवस्तेति त्वामहं वारयाम्यतः इत्यनुमानप्रश्नविषयमतीत्य माप्राक्षीरित्युक्तं कथमानुमानप्रश्नविषयमतीत्य सूत्रं वर्तते अनुमानप्रश्नस्य वा विषयः क इत्युभयं विविच्य दर्शयति- उचितोऽस्या भवेत् प्रश्नो देवता येन पृच्छ्यते वर्तते यस्तमुल्लंघ्य सोऽतिप्रश्नोऽनुमोच्यते या तमर्हति पूर्वोक्त मतिप्रश्नेर्ह्यदेवता तदन्यत्वादिमां त्वाहुः अनेति प्रश्न्यनामिका इत्ययमर्थः | सूत्रस्य आगमैकसमधिगम्यत्वात् आगमेन प्रश्न उचितं तमतिक्रम्य वर्तत इत्यतिप्रश्नोऽनुमा तामर्हतीति अति प्रश्न्या अण्डान्तर्वतिर्दवता नातिप्रश्न्यो अनतिप्रश्न्यात्र देवता केवलागमैकगम्येति उत्तरं वार्तिकपदं सुखबोधम् तामेतामनतिप्रश्न्यां अतिप्रश्नेन साहसात् पृच्छसामूर्ध्वपातः तस्या देवस्य स्वापराधतः स्थूलान्यनुमया युक्तं प्रष्टुं तत्वानि कामतः प्. ६९०) इयं तु तथा स्थूलायां त्वं पृच्छसि देवतां अचिन्त्या चा प्रतर्क्या च प्राणभावेनवस्थिता नाऽतोऽन्येन प्रमाणेअन् प्रष्टव्या देवतागमात् एतस्मादेव हेतोस्तां तर्कशास्त्रेषु तार्किकाः नैवानुमिन्वते त्रासा पृथिव्यादीन्यथा तथा प्राणोऽयमनिरुक्तो हि कस्तन्निवक्तुमर्हति मानान्तरेणागमतो माऽप्राक्षीरित्यतो वचः इति पञ्चमे षष्ठं ब्राह्मणम् || ओम् यत् गार्ग्यानुमानेन प्रष्टुमभिप्रेतं तदुद्दालक आगमेन पृच्छति इत्याह- यत् विप्रच्छिषितितं गाग्यः समभिव्यष्टीति लक्षणं अंगेनोद्दालकः सूत्रं तदपृच्छदथागमात् इति | सूत्रनियन्तारं कारणात्मानं च पृष्टवानित्याह तथा च तन्नियन्तारं जगज्जन्यात्मकारणम् आगमात् गौतमोप्राक्षीत् याज्ञवल्क्यमुदारधीः इति | आख्यायिकास्तात्पर्यार्थं कथयति सूत्राद्यागमसंप्राप्तं सोऽथाख्यानैकवर्त्मना | व्याचख्यौ गौतमः साक्षात् गन्धर्वाल्लब्धवानिति | सूत्रान्तर्यामि स्वरूपमागमेनैव मया प्. ६९१) विदितमिति अर्थः | स ब्रह्मविदित्यादिवाक्यगत पदार्थान् कथयति- ब्रह्मेह परमात्मोक्तो लोकाभूरादयस्तथा देवास्त्वग्न्यादयो ज्ञेयाः वेदाश्चापि प्रसिद्धितः इति | इदानीं वेदेत्यस्यार्थं वार्तिकत्रयेण कथयति ब्रह्मादीनि च भूतानि ग्रथितान्यक्षसूत्रवत् सूत्रेण व्रियमाणानि सदैवेशगतानि च सूत्रेण विधुतं चात्र घ्राणा संयतयस्तथा | आत्मानं वेद भोक्तारं वेद सर्वं जगत्तथा सूत्रान्तर्यामिरूपेण यो वेदैताः पुरोदिताः स एव ब्रह्मलोकान्तान् वेदेत्येषोस्य संग्रहः इति | सूत्रस्य आगमैकसमधिगम्यत्वे हेतुमाह अभ्यन्तरतमं सूत्रं ब्रह्मलोकावधेरपि सूक्ष्मं हि तदतीवोक्तं सर्वसत्वसमाश्रयम् इति | अतिशयसूक्ष्मत्वात् सर्वान्तर्यामित्वाच्च आगमेनैव तद्गम्यत इत्यर्थः उत्तरवार्तिकचतुष्टयेन वायुर्वै गौतमतत्सूत्रमित्यने वायुपदार्थं कथयति सर्वसाधारणं कर्म यदभिव्यक्तमिष्यते वायवात्मना परिच्छिन्नं तदास्ते कारणात्मनि प्. ६९२) तात्मानं त्यजते कर्म यतो संश्रित्य साधनम् वायवाश्रितं तत्कर्म स्वरूपं प्रतिपद्यते साधारणस्य यो वायुः विशिष्टस्य च धारकः समष्टिव्यष्टिभावेन कर्मणः सर्वदेक्ष्यते तं वायुं तं च कर्मेह य उपेत्य व्यवस्थितः वायुकर्मात्ममानी सत् पुमान् वायुः स उच्यते इत्ययमर्थः सर्वप्राणिसाधारणं हिरण्यगर्भापूर्वं सामान्यविशेषात्मकमिदानीं फलरूपेणाभिव्यक्तं सूत्रात्मना परिच्छिन्नं सूत्ररूपेण च स्थितं मूलकारणे तिष्ठति प्रलये वायवात्मना परिच्छिन्नमिति किं विशेष्यत इति चेत् वायोः कर्म कारणत्वादतो वायवाश्रितं स्वरूपं प्रतिलभते कर्म तस्य च कर्मणः सामान्यविशेषात्मकस्य सामान्य विशेषात्मना यो धारको वायुस्तदभिमानी क्षेत्रज्ञः स इह वायुशब्देनोच्यत इति | एवंविधो वायुस्तत्सूत्रमित्याह- स एष वायुः सूत्रात्मा देवः सर्वाश्रयः प्रभुः इति एतदेव वायुतत्वं सर्वस्य धारकमित्याह देवतालिंगकर्मादि सर्वमत्रैव संश्रितमिति | प्. ६९३) अयं च लोक इत्यादेरर्थमाह- अनेन विघृतं जन्म वायुनेदं शरीरकं यश्चोत्पित्सु परं ब्रह्म धृतं तदपि वायुनेति सर्वाणीत्यादेरर्थमाह- विष्कंभकं पृथिव्यादेः सूक्ष्ममाकाशवर्द्धितमिति किं तदिति तदाह- यदात्मकमिंदं लिंगं यत्साप्तदशमुच्यते | यस्यावहादयो भेदाः सागुरस्योर्मयो यथा वासनानां च सर्वेषां आश्रयो यस्तु कथ्यते | इति | यद्वायुतत्वं सर्वस्य धारकमित्यर्थः अतः श्रुतिरुपपन्नर्थेत्याह- यत एवमयं लोकः परश्चायं च सर्वतः भूतानि चैव सर्वाणि वायुना ग्रथितान्यतः इति | तस्माद्वै गौतम पुरुष इत्यादैः तात्पर्यार्थमाह तस्यापसर्पणेऽगानि नालं स्युः कर्मणे मृतौ इत्यर्थे लोकसंसिद्धां प्रसिद्धिं श्रुतिरब्रवीदिति | वायुनैव धृतांगानीत्यत्र लोके विविद्यते प्रसिद्धिरिति | तामाह - तस्मादित्येवमादिनेति एतत् पूर्वस्य प्रपञ्चः एवं वाक्यस्य तात्पर्यमुक्त्वा वाक्यं योजयति वाक्ययोजनवार्तिकचतुष्टयं प्. ६९४) सुखबोधम् - वायुनेव धृतं यस्मात् लिंगदेहादिकं ततः ज्ञातयः पुरुषाः प्रेतमाहुः कार्यं मृतेरिदम् | यथास्यांगानि लक्ष्यन्ते विप्रस्तानि न पूर्ववत् मृतमेनं तथा मन्येदेनदित्वह मृतिं विना वायुनैव यथांगानि धृतांगानि यदा तदा कर्मण्यानि भवन्त्यस्य न तु तानि यथा यतः तस्मात् प्रवसितप्राणो मृतोऽयं नात्र संशयः यथोक्तसूत्रसद्भावे प्रसिद्धिर्गौतमेदृशीति | एवमेतद्वै याज्ञवल्क्यान्तर्यीमिणं ब्रूहीत्यस्य अर्थमाह- वार्तिकद्वयेन सम्यगुक्तमिदं सूक्तं याज्ञवल्क्य यथा तथा तदन्तर्गतमात्मानं ब्रूह्यन्तर्यामिनं मम सूत्रादप्यन्तरतमः अन्तर्याम्यधुनोच्यते कार्यकारणभावोऽयं यस्मिन्नुक्ते समाप्यते इति | यः पृथिव्यां तिष्ठन्नित्यादि वाक्यविवरणानि चतुर्धा प्रविभज्येत्यतः प्राक्तनानि सुखबोधानीति || तिष्ठन् पृथिव्यां योत्र स्यात् सौन्तर्यामिति गृह्यतामित्युक्तावस्ति संव्याप्तिप्रशस्तावुत्तरं वचः || प्. ६९५) अन्तरोऽयं पृथिव्या स्यात् क्षितेरभ्यन्तरो हिसः पृथिवी देवता तर्हि त्वदुक्तार्थसमन्वयात् इति दोषापनुत्यर्थं यन्न वेदेति भण्यते सूत्रेण वियमाणेयं महाभूतशरीरिणि अहमस्मि पृथिव्येका विभम्हि जगदव्ययम् इत्येवमभिमानाय नान्तर्यामीति सोच्यते पृथिव्यपि च यं देवं न वेद स्वात्मनि स्थितं सोऽन्तर्यामीति मन्तव्यो न त्वियं देवता क्षितिः इति | क्षितौ करणवत्यां किमन्योपि करणादिमान् नैवं स्वतः पृथिव्ये च शरीरं यस्य नापरं क्ष्मा कार्यकरणेनैव कार्यवान् करणीयतः न कार्यं कारणंवास्य किञ्चिदात्मीयमिष्यते अन्तर्यामी परः साक्षात् अशरीरोऽगुणोऽद्वयः विलक्षणोऽतो विज्ञेयः पृथिवीदेवतात्मनः स्वकार्यभूतां तामेव पृथिवीं मोहवर्त्मना तत्र लब्धविशेषः सन् तामेवायं नियच्छति अदाहकोपि वह्निः सन् दाह्यद्रव्यसमाश्रयात् तत्र लब्धात्मकस्तस्य दग्ध्वा दाह्येन स्वतः यथाऽज्ञातैव मोहात्मा देवताद्यात्मकार्यक्तगः देवतादिशरीराद्यैः देवतादीनि यच्छति प्. ६९६) स्वतस्त्वकरणो देहो निर्गुणोऽभेद एव च चिदाभासस्वमोहोत्थ कार्यैस्तद्वानिवेक्ष्यते इति सोपाधिकस्य अन्तर्यामित्वमुक्तं तत्र इदमाशंक्यते ननु शुद्धस्यैवान्तर्यामित्वादिवादिनः कल्पयन्ति नैकत्वादिनात्रि रूप कल्पनामपिं सर्वाः सोपाध्यन्तर्यामिषु न शुद्धान्तवद्विषयाविषया इत्याह- चतुर्धा प्रविभज्यैनं सात्वताः पर्युपासते तथा हैरण्यगर्भीया स्तथा पाशुपतादयः इत्ययमर्थः एतदेवान्तर्यामिणः वासुदेव सङ्कर्षण प्रद्युम्नानिरूपेण विभज्य पाञ्चरात्रिण उपासते तथा हिरण्यगर्भतोऽनुसारिणः पाशुपतादयश्च एवमेवान्तर्यामिणं कारणं स्वकीयशास्त्रोक्तमार्गेण अनेकधा प्रविभज्योपासते न शुद्धमिति शुद्धमेव सोपाध्यन्तर्यामि इत्युक्त नियन्तृत्वसामर्थ्यादत्रैव व्यासवाक्यमवतारयति कृष्णद्वैपायनो व्यासो वेदात्माध्वान्तहानिकृत् प्राहेममेव बहुशः प्राणिनां हितकाम्ययेति व्यासवाक्यं प्रकटयति- नारायणः परो प्. ६९७) नारायणः परोऽव्यक्तादण्डमुत्तमसंभवम् अण्डस्यान्तस्त्विमे लोका सप्तद्वीपा च मेदिनी तस्मै नमोऽस्तु देवाय निर्गुणाय गुणात्मने नारायणाय विश्वाय देवानां परमात्मने इति श्रीनारायणमन्त्रोप्यन्तर्यामी विषय इत्याह एतदेव समुद्दिश्य मन्त्रो नारायणस्ता वेद विद्भिर्महाप्राज्ञै पुरुषैः विनियुज्यत इति कूटस्थप्रतीचोऽन्तर्यामित्वं कथं अत्राह- प्रत्यक्ध्वान्तं चिदाभासं स्वकार्यनियमात्मकं तदुपाधिर्नियन्तैव परः प्रोक्तो न तु स्वतः इति | सर्वज्ञादिशब्दवाच्योऽप्येष एवेत्याह- सर्वज्ञः सर्वशक्तिश्च सर्वात्मा सर्वगोधवः जगज्जनिस्थितिध्वंस हेतुरेष सदेश्वरः इति | प्रसंगागतं परिसमाप्य प्रकृतं श्रुतिव्याख्यानमेव अनुवर्तयति | स एषोऽत्यन्तरो देवः सर्वकारणकारणः नियच्छति क्षितिं देवीं सर्वावस्थासु सर्वदा इति | यस्तेजसि तिष्ठन्नित्यत्र तेजः शब्देन सामान्यं तेजोऽभिधीयते तदधिष्ठातृदेवता च न वेदेत्युच्यत इत्याह- प्. ६९८) तेजः सामान्यमात्रं स्यात् तदधिष्ठातृदेवतेत्रि यस्तमसि तिष्ठतीत्यत्रापि तमःशब्देन अन्धकारः परिगृह्यते तत्रापि न वेदेति तदधिष्ठानदेवता परिगृह्यत इत्याह- एवं तमस्यविज्ञेयेति आत्मनि तिष्ठतीति माध्यन्दिनपाठः तत्र आत्मशब्देन क्षेत्रज्ञो गृह्यत इत्याह- क्षेत्रज्ञस्त्वात्मसंज्ञितः इति यः प्राण इत्यादेरर्थमाह- देवतावस्थानकरणं त्रयं प्राणगिरोच्यते नियच्छति यतो गन्धे त्रयमप्येतदीश्वरः इति पृथिव्यादिक्षेत्रज्ञोऽन्तर्यामिणं न जानातीत्यक्तं तदुपादानायादृष्ट इत्यादिवाक्यमित्याह - पृथिवीयं न वेदेति यदुक्तं तस्य निर्णयः अदृष्टोऽश्रुत इत्युक्त्या क्रियतेज्ञानशुद्ध्य इति | अन्तर्यामि स्वरूपविषय एवेति प्रतिपादनायेत्यर्थः अन्तर्यामिनो विषयत्वहेतुमाह- द्रष्टृदर्शनदृश्यानां प्रत्यग्दृष्टिसमीक्षणे जाड्यपारार्थ्यहेतुभ्यां शक्तिर्नास्ति मनागपि इति | किञ्च द्रष्टादेरन्योन्यग्राह्यत्वेन प्. ६९९) अन्तर्यामिगृह्यत्वाच्च न तत् ग्राह्यत्वमित्याह न दृष्टोर्दृश्ययोर्नापि तथा दर्शनयोर्मिथः ग्राह्यग्राहकसंबन्धः तत्साक्षी न च वीक्ष्यते इति | अवीक्षणं स्पष्टयति | रूपादिदर्शनोन्तस्थः आगमापायसाक्ष्यसौ नित्यात्मदृष्टिश्चिन्मात्रं पश्येत् तत्पृथिवी कथमिति रूपादिज्ञानसाक्षित्वादान्तरत्वाच्च न पृथिव्यादिना साक्षी गृह्यत इत्यर्थः | शब्दादिगुणहीनत्वात् स्वयंप्रकाशत्वाच्च द्रष्टुरन्यस्याभावाच्च न साक्षी ग्राह्य इत्याहमागोचरातिवर्तित्वात् असाधारणदृष्टितः द्रष्टुरन्यस्य चाभावात् न तं पश्यन्ति देवता इति | न तु दृष्टिस्वरूपो द्रष्टा नान्तर्यामीति तत्राह- दृष्टेर्द्रष्टारमित्यत्र यः साक्षी प्रागुदाहृतः अन्तर्यामीति सोत्रापि नातोऽन्योस्तीति कथ्यते तर्हि ज्ञानकर्ता क इति तत्राह- बुद्ध्यन्तः पर एवात्मा विज्ञानात्मेति भण्यते बुद्ध्यागमापायसाक्षी नियन्तैवोच्यते परः इति प्. ७००) यदा पुनः कर्तृत्वसाक्षित्व व्युदासेन सर्वश्चिद्धातुरवस्थाद्वय ब्रह्मरूपेण वक्ष्यते तदा सर्वः पर एवेत्याह- अव्यावृत्ताननुगत्यूर्ण स्वात्मन्यवस्थितः संसारहेत्वसंबन्धः सर्वो ब्रह्मेति भण्यते इति | ननु संसारहेत्वसंबन्ध इत्युक्तत्वात् संसारतत्कारणे पृथक् तिष्ठत इति नेत्याह कार्यकारणरूपस्य संसारस्य मृषात्मनः अपूर्वानपरानन्त तत्वं ब्रह्मेति वाक्यतः इति | इदं सर्वमित्यादि वाक्येद्यभ्य इत्यर्थः नान्योतोत्र दृष्ट इत्यादि वाक्यस्य तात्पर्यार्थमाह पृथिव्यादेश्च द्रष्टृत्वात् तथान्तर्यामिणः श्रुतं द्रष्टृभेदे प्रसक्तेऽतो नान्योऽतोस्तीति भण्यते इति | ननु द्रष्टा दृश्यं चान्तर्यामि व्यतिरेकेण न चेत्तर्हि द्रष्टृदृश्यभेदप्रतिभानं कथं तत्राह- एष एवैकलो द्रष्टा कारकादि विवर्जितः स भाव्यते तदज्ञान कार्यमात्रस्तमस्विभिः इति | एतमर्थं दृष्टान्तेन साधयति मां प्रत्येवेतीह यथा साधारण्येन भास्करं प्. ७०१) संभावयन्ति द्रष्टारस्तथाऽज्ञस्तदबोधजैरिति दृष्टिरेकैवं सर्वत्र सर्वानात्मविलक्षणा आभाति बहुधैवेयं तदविद्योत्थहेतुभिः इत्येतत् पूर्वस्य प्रपञ्चः || इति पञ्चमस्य सप्तमं ब्राह्मणम् हरिः अन्तर्यामिरूपं हेयं सोपाधित्वात् न तज्ज्ञातात् पुरुषार्थविधिरतो यज्ञात् सकलपुरुषार्थसिद्धिः तदक्षरं कार्यकारणविलक्षणं मुख्यं सर्वान्तरं वाक्यार्थरूपं वक्तव्यमिति ब्राह्मणारंभ इत्याह- अशनायादिनिर्मुक्तं साक्षादित्यादि लक्षणं अतोऽक्षरं प्रवक्तव्यं निरुपाद्ध्यात्मनि स्थितं यदुद्दिश्य प्रवृत्तैषा व्याख्या सर्वान्तरं प्रति तदक्षरं प्रवक्तव्यमित्यर्थैषोऽन्तरा श्रुतिः इत्येतत् पूर्वस्य प्रपञ्चः | सूत्रान्तर्यामि स्वरूपमेव गौतमेन पृष्ठं न तयोव्याप्यव्यापकभावः तं गार्गी पृच्छतीत्याह- गौतमेन परिपृष्टे सूत्रान्तर्यामि वस्तुनि ओतप्रोतात्मकां गार्गी तयोरेवान्वपृच्छतेति प्. ७०२) सूत्रस्याव्याकृताकाशे तस्य चाक्षरेऽन्तर्भावः पृच्छतीत्यर्थः इदानीं पदार्थं कथयति दियोयमूर्ध्वं वस्तु स्यात् सद्वाऽसद्वा विशेषितं अर्वाग्यच्च कपालात्स्यात् मध्ये यच्च कपालयोः इति | तस्यैव वाक्यस्य अर्थान्तरमाह- ऊर्ध्वं दिवः कपालाद्यधो यच्चावरात् पुटात् यस्य मध्ये कपाले ते यच्च भूतादिलक्षणं पदार्थगतिमेवं वा व्याचक्षीताविरोधतः इति | पूर्वव्यापानं ऊर्ध्वदेशाधोदेशाधि व्यवस्थितोयमुत्तरं देशादिविषयं इति विशेषः भूतादिपदार्थं कथयति भूतं यत्समतिक्रान्तं भवद्यदधुनातनं भविष्यच्च यदागामि नातीतं नापि वर्तते इति | उत्तरं सार्धवार्तिकं सुबोधम् इत्याचक्षत इत्युक्त्वा अनुमादोषानचर्यते एतदेवंविधं सूत्रमागमज्ञाः प्रचक्षते ओतं प्रोतं च तत् कस्मिन्निति प्रष्टोब्रवीहिम इति गार्ग्याः प्रश्नोऽतीतानागतकालयोः स सूत्र जगदाश्रयविषयः यो न वर्तमानकाले जगदाश्रयविषय इति प्रतिपादनायाह प्. ७०३) सूत्रे तावदिदं सर्वं ओतं च प्रोतमेव च वर्तमाने जगत्काल इति तावत्सुनिश्चितम् इति | सूत्रादर्वाक्तनस्य सूत्राश्रयत्वं वर्तमानकाले सिद्धं व्यस्रंसिषतेत्युक्तत्वात् सूत्रस्य च सदाश्रयत्वं वर्तमानकाले सिद्धमेव वायौ तत्सिद्धेरित्यर्थः ननु उत्पत्तेः प्राक् नाशात् ऊर्ध्वं जगन्नास्त्येव तत्र आश्रयप्रश्नो नोपपद्यत इति चेत् तत्राह- जगच्चाप्यनभिव्यक्तमाविर्भवति सांप्रतम् इति | नन्वभिव्यक्तिरप्यसत इति चेन्नेत्याह व्यक्तिश्चेयं सतो युक्ता नासतो घटते यतः इति ननु सत एवाभिव्यक्तिर्भवतु अभिव्यक्तं पुनर्जगदत्यन्ताय नश्यतीति नेत्याह- अभिव्यक्तं च सदिदं पुनरभिव्यक्ततामिति तस्मादतीतानागतकालयोर्जगतो नासत्वमिति समुदायार्थः वायुना विधृतस्य रूपं यद्वा अर्धमानिकमित्येत् सूत्रे तावदित्यस्य प्रपञ्चः यत एवं तस्मात् कालद्वये जगदा श्रयं पृच्छति अतीतानागतयोस्तु कालयोः प्. ७०४) जगदात्मनः सत्ता येनात्मना कस्मिन् ओतप्रोतेति भण्यते इति एतदुक्तं भवति वर्तमाने काले येन सूत्रात्मना जगतः सत्ता विधृता तेन सूत्रात्मना सह जगत्सत्ता कस्मिन्नोतप्रोतातीतानागतकालयोरितिससूत्रस्य जगतः आश्रयो ज्ञातः ब्रह्माकाशशब्दमित्याह- प्रत्युच्चार्याथ गार्ग्युक्तमाकाशे प्राब्रवीदृषिः ओतप्रोत कृतां वायोः जगतोऽसौ प्रयत्नतः इति क्ष्माद्येतत्सूत्रपर्यन्तं नाशादूर्ध्वं जनेः पुरा आकाशे तदविज्ञातं सत्तामात्रेण तिष्ठति इत्येतत् पूर्वस्य प्रपञ्चः || अनेनोतप्रोतभाववचनेन अज्ञातं ब्रह्म समस्तस्य कार्यप्रपञ्चस्य स्वरूपमित्युक्तमित्याहयावद्धिजनिमत् किञ्चिन्नामादिप्रविभागवत् आकाशस्तस्य सर्वस्य तत्वमत्रविवक्षितं इति सद्ब्रह्माज्ञातं जगत्स्तत्वमित्युक्तं एतत्सिद्ध्यर्थमेव जगतः कल्पितत्वं साधयति व्यतिरेकः सतोनेदं लभते नात्मतत्वतः नाप्यन्वयं तदव्याप्तेः नाप्यभावः सतीक्ष्यते प्. ७०५) सताऽन्वयव्यतिरेकाभावरूपैर्न जगतः सिद्धिरित्यर्थः अतः सत् ब्रह्म जगतस्तत्वमित्याहसदतो जनिमत्तत्वं सर्पादेरशना यथा सत्तत्वव्यतिरेकेण नान्या जनिमतो गतिः इति | स्थितिकाले भवतु सन्मात्रं न कालान्तरे इति तत्राह- सदेवेदमतः सर्वं उद्भूतस्थितिहानिस्.उ इति श्रुतिवाक्यमप्यत्र प्रमाणमित्याह- सदेवेति तथा स्पष्टं छान्दोग्योपनिषद्वच इति नन सर्वस्य तत्वं चेत्पब्रह्म तर्हि ततः परं तत्वं नास्तीति अस्तीत्याह- अर्वागेवाक्षरा ज्ञेयाः सत्तेयं जगतो निधिः कार्यकारणनिर्मुक्ता अक्षरं वक्ष्यते यतः इति यत्ते यज्ञगतो निधिरिति यत्तैका जगत्कारणमित्युक्तं तत्रेदमाहशंक्यते नेकारभ्यं जगदिति तत्राह- सर्वशक्तिरियं शक्तिः या सदित्यभिधीयतेयेयं शक्तिः सत्ता सा सर्वशक्तिः सर्वकारणमित्यर्थः ननु कथं कारणसत्ता यावता सत्ताभावः सत्तेति सत्सामान्यमुच्यते इति प्. ७०६) न च सत्तेति सामान्यं प्रत्ययार्थासमीक्षणादिति प्रत्ययार्थाभावमेव प्रकटयति- न सतो व्यतिरेकेण सतो यो भावः ईक्ष्यते इति नेक्ष्यत इत्युक्तं युक्तिं चाह- आप्यभावो न लभते किमु भावोऽतिरेकतामिति यतो भावाभावात्मकं जगत् सतोऽप्यतिरेकादि लभते सर्वस्वभ्रान्तिमात्रत्वं श्रुत्योक्तमित्याह- सदन्यबुद्धिगम्यस्य श्रुतिस्तस्मादनेकशः अब्रवीच्छान्तिमात्रत्वं मृत्तिकादिनिदर्शनैरिति आकाशशब्देन अव्याकृतमुच्यतेऽन्तर्थामी तस्याप्यभ्यन्तरस्तथान्तरं परमात्मोभाभ्यां तत्वान्तरमिति भर्तृप्रपञ्चादयः तन्निरासार्थमाह- आकाशवचसात्मैव ज्ञेयो नान्यत्र कश्चन सर्वान्तरत्वं नान्यस्य युज्यते नात्मनो यतः इति सूत्रस्य जगत आन्तरत्वेनेदमाकाशं तच्च अज्ञातपरमात्म ग्रहे संभवति नाव स्थामात्रग्रहे नापि प्रसिद्धाकाशग्रह इत्यर्थः श्रुत्यन्तरमपि परमात्मैव जगत्कारणं भूत प्. ७०७) आकाशशब्देनेक्तो नावस्था नापि भूताकाशमित्याह - आकाशो वा इति तथा ब्रह्मै व श्रुतिरब्रवीदिति ननु प्रधानादि कारणं नेत्याह- कारणं चात्मनो नान्यत्रैयं तेषूपलभ्यते इति नेत्याह जगज्जनिस्थितिध्वस्ति नियमाद्यर्थकार्यपि नात्मतः कारणादन्यत्कश्चित् संभाव्यते श्रुतेः इति | कारणान्तर्यामिणो भेदात् सत्वं श्रुत्यन्ततेत्युक्तं इत्याह - एषोन्तर्याम्येष योनिः सर्वस्यप्रभवा व्ययः माण्डूकेयं श्रुतिवचः इति स्पष्टं वीयत इति अतो जगत्कारणजगन्नियन्त्रोर्भेदो न कल्प्यः प्राज्ञमानिभिरित्याह- नातोन्तर्यामिणः कल्पं अन्यदव्याकृताबुधैः कस्मिन्नु खल्वाप इत्यारभ्य अक्षरान्तपदार्थेषु अव्याकृतशब्दाभावाच्च नात्र भेदकल्पनाप्राप्तिरित्याह- अक्षरान्तेषु तत्वेषु नाव्याकृतवचो यतः यद्यपि ब्राह्मणत्रये व्याकृतशब्दो नास्त्यक्षरान्तवदार्थेषु तथा अन्यत्रास्ति अतः प्. ७०८) तत्र सिद्धमव्याकृतं अत्र आकाशशब्देन गृहीत्वा अन्तर्याम्यव्याकृताक्षराणां भेदकथनमिति चेत्तत्राहपि न भवदभिप्रेता परमात्मावस्था व्याकृतशब्देनोच्यते किन्तु जगदित्याह- तद्धेदमिति याऽत्रापि जगदेवाभिधीयते अव्याकृतगिरेति ननु जगद्व्यक्तं कथं अव्याकृतशब्दत्वं तस्येति तत्राह स्तस्य व्याकृतव्याकृतत्वत इति जगदव्याकृताभिधमित्युक्तं परपक्षनिराकरणायेदानीं नियन्ता व्याकृताभिध इत्याह तन्निराकरणार्थमेव सर्वस्यैव वशीत्युक्त्वा यतस्तस्यैव वेद्यतां स्मात् प्रागश्रुतिः तस्मादव्याकृतमुच्यते इति | अयमर्थः सर्ववशि सर्वनियन्ता तस्यैव तमेत्रं वेदानुवचनेन विविदिषन्तीत्यत्र वेद्यत्वं श्रुतं अज्ञानं च वेद्यं अज्ञाता व्याकृतशब्दा च पर्यायो तस्मादन्तर्याम्येव कारणमव्याकृतमिति ननु कथं नियन्तुः कारणत्वं कर्मादिकार्यत्वाज्जगतः तत्राह- प्. ७०९) विद्या कर्म च संस्काराः प्रत्यगात्म न तत्वतः देहग्रहणहेतुत्वं येषां न श्रुतिरब्रवीदिति || अयमर्थो जगन्नित्यत्व मविद्याकर्मादेरुच्यते चेत् भवतूपादानं चेन्न संभाव्यते प्रत्यगज्ञानविलसितत्वेन तावन्मात्रत्वादिति उत्तरमस्य प्रपञ्चम् || आभिचारिकसंसिद्धि प्रत्यगज्ञानसंस्थिति त्रयमेतत् सदा ग्राह्यं न कार्यं कारणं विनेति ननु त्रयस्याज्ञानाधीनत्वे कर्त्रादिकारकाधीनत्वं कथं तत्राह- कर्मैवैतत्त्रयं तच्च नात्मानं लभते यतः कारकाणि विनोत्पत्तौ प्रयोगमनुरुद्ध्यते इति नोत्पत्तिकाल एव काल पेक्षास्त्विति कालेपि साऽस्तीत्याह- प्रयोगरूपेणैवातो वेष्ठितं कर्म तिष्ठति कारणात्मनि संसृष्टं नान्यथाऽतोस्य संस्थितिः नन्विदानीमपि जगत्कारणरूपेण तिष्ठति सुप्तिप्रलयादावपि तथैव तिष्ठति चेत् कथं सुप्तिप्रलयादि व्यवहारः तत्राह सप्रमेयोगणः सर्वं सौक्ष्म्येण परमेण तु || प्. ७१०) प्राक्वालो ज्ञापको नष्ठा प्रतीची व्यवतिष्ठते इति | सर्वं कर्मराशिः कारकैः सह अनभिव्यक्तस्थूलरूपं प्रतीति व्यवतिष्ठते अतो अन्यचोद्यं ननु प्रत्यगवबोधे जगतो अवस्थानं पूर्वमुक्तमिदानीं प्रतीच्यवस्थानं कथमुच्यते नायं दोषस्त्रयं परस्परबद्धं कारणमित्युक्तं तत्र क्वचिदज्ञानप्राधान्येन निर्देशः क्वचिदाभासप्राधान्येन क्वचित् कूटस्थदृष्टिप्राधान्येन अतो न दोषः ननु सप्रयोगगणः सर्वः प्रपञ्चः सूक्ष्मरूपेण प्रतीच्यप्यवतिष्ठते त्वं किमिति न ज्ञायते सेसुप्त्यादौ तत्कारणप्रत्यगनवबोधश्च तत्राह- प्रत्यक् संवित्तिवस्तुस्थः प्रमाणविरहादयं न ज्ञातः कुंभवदिति प्रमाणस्यापि प्रलीनत्वात्तर्हि प्रमाणाभावान्नास्त्येव नेत्याह नापि चित्स्थत्वात् खरशृंगवदिति नन्वात्मस्थं चेत् स कार्यप्रत्यगनवबोधः तत्राह ***** स्य चात्मनेदोनभ्युपगमात् आत्मवदात्मप्रतिपादके नेति नेति वाक्य प्. ७११) प्रतिपाद्यः स्यादित्याशंक्याह- न चायं नेति नेतीति कारणत्वादिहोच्यते इति कारणस्य निषेध्यत्वान्न नेति वाक्य बोध्यत्वमित्यर्थः नन् चित् कथं चेत् कारणप्रत्यगनवबोधः सुप्त्यादौ किमिति इदानीमिव न ज्ञायते तस्या एव तत्र प्रमाणत्वादिति तत्राह- विशेषस्याग्रहात्तद्वत् गृह्यते नेदमित्यपि इति | अहं वृत्तेः प्रलीनत्वादित्यर्थः कारणस्य निषेध्यत्वमुक्तं तत्रेदमाशंक्यते तर्हि कारणमन्यदात्मन इति तत्राह- क्षित्यादिसूत्रपर्यन्तं नियम्यापेक्षयोच्यते नियत कारणं चेति न तु सूत्रान्तिके सति इति साभासाज्ञानेप्यसतीत्यर्थः ननु प्रतीच्यज्ञानं कथं स्वयं प्रकाशे तत्राह - स्वात्मानुभवतन्त्रत्वात् प्रत्याख्यातुं न शक्यते इति अनुभवसिद्धत्वादेव अनुभवात्मनि अज्ञानं निराकर्तुं न शक्यमित्यर्थः अनुभवात्मन्यज्ञानस्य सिद्धिप्रकारं दर्शयति व्यावृत्तिविधिरूपाभ्यां सुषुप्तिरनुभूयते प्. ७१२) इति अत्र दृष्टान्तमाह- व्यावृत्तेः शुक्लपीतादेः अन्धकारोऽनुभूयते तथा विधिमुखेनापि द्विरेफोदरवत्तमः || इति इदानीं दार्ष्टान्तिमाह स्वप्नबोधात्तमस्तद्वत् विविक्तोऽर्थोनुभूयते मूढोस्मीत्यपि साक्षाच्च मोहोऽयमनुभवसिद्धं चेत् अज्ञानमिदानीमिव प्रलयादौ किमिति न सिद्ध्येत् तस्मादज्ञानं नास्तीत्याह- मूढोत्पत्तेः पुरा मोहः प्रत्यग्वस्त्वनुरोध्यभूत् तदुत्पत्तौ ससंवित्तौ मोहो मूढप्रधानकः इति अहं वृत्त्युद्भवात् प्राक् व्यवहाराक्षमतया ज्ञानसिद्धिरुत्तरकाल व्यवहारक्षमतया सिद्ध्यतीत्युक्तमित्यर्थः भवत्वेवमज्ञानसंभावः एतावता तव किं सिद्धमिति तदेव भासं कारणानियन्तृचेत्येतत् सिद्धं भवतीत्याह- सोऽयमैकात्म्यगर्भः सन् मोहः सर्वस्य कारकः धर्मी च सर्वधर्माणां इति साभासं प्रत्यगनवबोधस्य जगत्कारणत्वेऽनुमेयत्वं च प्. ७१३) जगत्कारणत्वेन अनुमेयत्वं च निराकृतं भवतीत्याह - न परोक्षस्ततो श्ववदिति अहमज्ञ इत्यज्ञानस्य प्रत्यक्षात्मादिति ननु चैतन्यमेव नियन्तृकारणं च क्व कथं चैतन्यविशिष्टमज्ञानं उभयं नैष दोषः चैतन्यमज्ञानवशादुभयं भवति साभासाज्ञानवशात् प्रत्यगात्मनियन्ता कारणं चेत्यर्थः | ततः किमिदं ततो भवतीत्याह यन्तृत्वहेतुषु ध्वस्तावेष संपद्यतेक्षरं इति | प्रत्यगात्मनो यन्तृत्वं कारणत्वं च अज्ञानहेतुकं तस्य ज्ञानान्निवृत्तावेष कार्यकारणविलक्षणमक्षरं संपद्यत इति ननु प्रतीचो नियम्य प्रतिनियन्तृत्व लक्षणः संबन्धः पारमार्थिको ज्ञानकृतो नेत्याह कूटस्थस्य द्वितीयेन संबन्धो बोधकादित इति एवं प्रसंगागतं परिसमाप्य श्रुतिव्याख्यानमेव प्रारभते तत्र पुनः यदूर्ध्वं याज्ञवल्क्यादि तृतीयप्रश्नो न भवतीत्याह- प्रश्नोयं न तृतीयः स्यात् प्रतिज्ञातत्वयोर्द्वयोः प्. ७१४) इति तर्हि पृष्ट एव किमिति पृच्छ्यत इति चेत् तत्राह- पूर्वोक्तस्यैव दार्ढ्यार्थं प्रश्नोयं पृच्छ्यते पुनः इति उत्तरमस्य प्रपञ्चः- पृष्टं भूयोपि चापृच्छदुक्तधीदृढनिश्चितौ परायत्तप्रबोधोपि शक्तो वक्तुं यतस्ततः इति प्रतिवचनवाक्य आकाश एवेत्येवकारश्रवणात् पूर्वशेषत्वं वाक्यस्येत्याह- एवेत्यवधृतेर्यद्वत् पूर्वप्रश्नार्थशेषता इति शेषप्रकारं दर्शयति किमनेकप्रलीनः स्यात् सूत्रस्यावीक्षितेरिव आकाश एव किं वा स्यादित्येवं पूर्वशेषतेति न पृथिव्यादिवत् सूत्रस्यानेकस्य प्रलयः किं त्वाकाश एवेति ज्ञापनाय पुनः प्रश्न इत्यर्थः कस्मिन्न खल्वाकाश इत्ययं प्रश्नः किमर्थ इत्यर्थं दर्शयति | मोहोक्तिभिर्यथा वस्तु सर्वज्ञानप्रसूतितः सम्यक् ज्ञानप्रसिद्ध्यर्थं अतः प्रश्नोऽयमुत्तरः ननु पूर्वप्रश्ना अपि तथेति नेत्याह - सूत्रादिक्षितिपर्यन्ता ग्यन्तु रचेतना निष्प्रमाणं यतस्तस्मात् पृच्छ्यते सप्रमाणकः ................. ईन्चोम्प्लेते ########### END OF FILE #######