#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00030 Uniform title: kubjikātantra Main title: kubjikātantram Editor : Chatterjee Description: First published in the late 19th Century in Bengali characters. Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: 11/05/2006 Publisher : Publication year : Pre-1900 Publication city : Publication country : India #################################################### कुब्जिकातन्त्रम् प्रथमः पटलः ओं गणेशाय नमः पार्वत्युवाच देवदेव महादेव परमेशपुरातन | नन्दीश सर्वभूतेष निरञ्जन परात्पर || १/१ || किं त्वया जप्यते नाथ किमर्थं वापि तस्य च | केनोपायेन देवेश निरञ्जनपदं लभेत् || १/२ || सारात्सारतरं ब्रूहि यदि मे विद्यते दया | समयाचारविधानञ्च साधनञ्च प्रकाशय || १/३ || चैतन्यं सर्वभूतानां शब्दब्रह्मेति यत् पुनः | तत्सर्वं श्रोतुमिच्छामि साधकानां हिताय च || १/४ || यदि मे प्राणनाथः स्यात् निगूढार्थं प्रकाशय | शपथं मे महादेव वृहद्योनिं प्रकाशय || १/५ || वासनासिद्धिरूपञ्च भावसिद्धिञ्च यत् पुनः | वेदानां सारगम्यञ्च तं सारं मे प्रकाशय || १/६ || सदाशिव उवाच साधु साधु त्वया देवि यदुक्तं तत् शृणुष्व मे | सारात्सारतरं देवि परादपि परं परम् || १/७ || नित्यानन्दात् परानन्तं शब्दब्रह्मस्वरूपकम् | सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः || १/८ || न प्रकाश्यं न प्रकाश्यं न प्रकाश्यं कदाचन | इदन्तु परमं गुह्यं त्रिषु लोकेषु दुर्लभम् || १/९ || यज्ज्ञात्वा च महादेवि योगीशोऽसि सदाशिव | जन्मान्तरसहस्रेण कथितुं नैव शक्यते || १/१० || तव स्नेहात्मया देवि कथयिष्यामि तत् शृणु | गोपितव्यं गोपितव्यं गोपितव्यं त्वया पुनः || १/११ || न प्रकाश्यं महादेवि पशोरग्रे कदाचन | मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः || १/१२ || न सिद्ध्यति वरारोहे कल्लकोटिशतैरपि | कथयामि महामन्त्रं मन्त्रार्थत्वं सूरेश्वरि || १/१३ || येन विज्ञानमात्रेण सर्वसिद्धीश्वरोभवेत् | केवलं भावशुद्ध्या च मन्त्रार्थं प्राणवल्लभे || १/१४ || केवलं ज्ञानमात्रेण जीवन्मुक्तो ध्रुवं नरः | काली तारा महादेवि भुवनेशी च षोडशी || १/१५ || भैरवी च्छिन्नमस्ता च विद्या धूमावती प्रिये | वगला चैव मातङ्गी कमला च प्रकीर्तिता || १/१६ || ब्रह्म-विष्णु महेशाद्यैश्चतुर्वेदैर्नमस्कृता | भोगदा मोक्षा देवी कोटिब्रह्माण्डगोपिता || १/१७ || चतुर्वर्गप्रदा देवी निर्वाणपददायिनी | देवदेवप्राणमयी सर्वदेवस्वरूपिणी || १/१८ || ब्रह्मविष्णुमहेशानां ध्यानगम्या जगन्मयी | सृष्टिस्थितिकरी देवी विष्णुरूपा महेश्वरी || १/१९ || मणिमण्डपसंस्था च महाकालविनाशिनी | अस्याः श्रवणमात्रेण जीवन्मुक्तश्च साधकः || १/२० || के गोत्रे न समुद्भूताः कालीं साधित्मुद्यताः | तत् श्रुत्वा पितरः सर्वे नृत्यन्ति हृष्टमानसाः || १/२१ || नृत्यन्ति किन्नराः सर्वे गाथां गायन्ति साधकाः | अदेयापि महाविद्या कलौ पूर्णफलप्रदा || १/२२ || श्रुतिस्मृतिविधानेन पूजा कार्या युगत्रये | आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः || १/२३ || न हि देवाः प्रसीदन्ति कलौ चान्यविधानतः | कालिका मोक्षदा देवि कलौ शीघ्रफलप्रदा || १/२४ || गुरोर्मुखान्महाविद्यां गृह्णियात् पापनाशिनीम् | ब्रह्माणी कुरुते सृष्टिं न तु ब्रह्मा कदाचन || १/२५ || अत एव महेशानि ब्रह्मा प्रेतो न संशयः | पालनं वैष्णवी देवि न तु विष्णुः कदाचन || १/२६ || अत एव महेशानि विष्णुः प्रेतो न संशयः | रुद्राणी कुरुते ग्रासं न तु रुद्रः कदाचन || १/२७ || अत एव महेशानि रुद्रः प्रेतो न संशयः | ब्रह्मविष्णुमहेशाद्या जडाश्चैव प्रकीर्तिताः || १/२८ || प्रकृतिञ्च विना देवि सर्वकार्याक्षमो ध्रुवम् | धर्माधर्मादिकं यस्मात् कुरुते साधकोत्तमः || १/२९ || तत् सर्वमनुगृह्णाति वामिका च न संशयः | संप्रदायविधानेन कर्तव्यञ्च महेश्वरि || १/३० || संप्रदायविहीनानां फलं न स्यात् सुरेश्वरि | या तु कृष्णा सैव कृष्णस्तथा ब्रह्मा प्रकीर्तितः || १/३१ || अभेदं चिन्तयेद्यस्तु मुक्तिस्तस्य करे स्थिता | विभिन्नं चिन्तयेद्यस्तु मूढबुद्धिः स पातकी || १/३२ || भेदको नरकं गच्छेत् यावदिन्द्राश्चतुर्द्दश | अभेदञ्चिन्तयेद्यस्तु स योगी नात्र संशयः || १/३३ || कलौ कृष्णत्वमासाद्य वृन्दावनविहारिणी | वंशीनादविनोदेन मोहयत्यखिलं जगत् || १/३४ || कालिका दुःखहन्त्री च दुर्गा दुर्गविनाशिनी | कलौ कृष्णत्वमासाद्य शुक्लापि नीलरूपिणी || १/३५ || लीलया वाक्प्रदा चेति तेन नीलसरस्वती | प्. २) तारकत्वात् सदा तारा तारिणीति प्रकीर्तिता || १/३६ || भुवनानां पालकत्वात् भुवनेशी प्रकीर्तिता | सृष्टिस्थितिकरी देवी भुवनेशी च कथ्यते || १/३७ || श्रीद्यत्री च यदा देवी श्रीविद्या च प्रकीर्तिता | निर्गुणा च महादेवी षोडशी परिकीर्तिता || १/३८ || भैरवी दुःखसंहन्त्री यमदुःखविनाशिनी | कालभैरवभार्या च भैरवी परिकीर्तिता || १/३९ || त्रिशक्तिः कामदा देवी छिन्ना चैव सुरेश्वरी | त्रिगुणा च महादेवी मोहिनी मोक्षदा ध्रुवम् || १/४० || धूमावती महामाया धूम्रासुरनिसुदनी | धूमरुपा महादेवी चतुर्वर्गप्रदायिनी || १/४१ || जगन्माता जगद्धात्री जगतामुपकारिणी | वकारे वारुणी देवी गकारे सिद्धिदा स्मृता || १/४२ || लाकारे पृथिवी चैव चैतन्यात्मा प्रकीर्तिता | मातङ्गी मदशीलत्वान्मतङ्गासुरनाशिनी || १/४३ || सर्वापत्तारिणी देवी मातङ्गी परिकीर्तिता | वैकुण्ठवासिनी देवी कमला च प्रकीर्तिता || १/४४ || पातालवासिनी देवी लक्ष्मीरूपा च सुन्दरी | एतादश महाविद्याः सिद्धविद्या च कथ्यते || १/४५ || धर्मार्थमोक्षदा नित्यं चतुर्वर्गफलप्रदा | येन तेन प्रकारेण कलौ पूर्णफलप्रदा || १/४६ || निर्द्धने कृपणे चैव विशेषात् पापमोचनी | पाषण्डे च शठे चैव निर्गुणे चैव निन्दके || १/४७ || अभक्तेषु च पुत्रेषु आज्ञाहीने च सुन्दरि | न प्रकाश्यमिदं भद्रे शपथं मे ध्रुवं सदा || १/४८ || सर्वलक्षणयुक्ताय दद्याच्चैव महेश्वरि | आसाञ्चैव समा नास्ति नास्ति त्रिभुवने ध्रुवम् || १/४९ || एकोच्चाणमात्रेण सर्वपापात् प्रमुच्यते | स्मरणेनैव देवेशि मुच्यते भवबन्धनात् || १/५० || निर्गुणः सगुणोब्रह्मा शिवोज्ञेयः सनातनः | निर्गुणाच्चैव संजाता विन्दवस्त्रय एव च || १/५१ || ब्रह्मबिन्दुर्विष्णुबिन्दुरुद्रबिन्दुर्महेश्वरि | आसीदविन्दुस्ततो नादो नादात् शक्तिसमुद्भवः || १/५२ || नादरूपा महेशानि चिद्रूपा परमा कला | नादाच्चैव समुत्पन्ना अर्द्धबिन्दुर्महेश्वरि || १/५३ || सार्द्धत्रितयबिन्दुभ्यो भुजङ्गी कुलकुण्डली | निर्गुणा सगुणा देवी ब्रह्मरूपा सनातनी || १/५४ || चैतन्यरूपिणी देवी ब्रह्मरूपा सनातनी | चैतन्यरूपिणी देवी सर्वभूतप्रकाशिनी || १/५५ || त्रिगुणा च महेशानि त्रिगुणस्य प्रकाशिनी | निर्गुणा सा च विज्ञेया ब्रह्मरूपा च केवला || १/५६ || षड्गुणा च महादेवी षट्चक्राणां प्रकाशिनी | चतुर्गुणा महेशानि चतुर्वेदप्रभाविनी || १/५७ || चन्द्रसूर्यात्मिका विद्या चन्द्रसूर्यप्रकाशिनी | सर्वगुणा महादेवी सर्वविश्वप्रभाविनी || १/५८ || अष्टगुणा महेशानि अष्टसिद्धिप्रकाशिनी | ब्रह्मविष्णुशिवादीनां जननी सुरसुन्दरि || १/५९ || मन्त्रस्थानात्मिका देवी सर्वमन्त्रमयी सदा | एकगुणा महादेवी एकाक्षरस्वरूपिणी || १/६० || द्विगुणा तु महादेवी द्व्यक्षरस्य प्रसूतिका | त्रिगुणा तु महादेवी त्र्यक्षरी परिकीर्त्तिता || १/६१ || चतुर्गुणा तु सा देवी चतुरक्षरसूतिका | नवगुणा महेशानि नवाक्षरप्रकाशिनी || १/६२ || दशमैकादशे चैव दशैकादशरूपिणी | द्वादशत्रयोदशे चैव द्वादशी त्रिदशात्मिका || १/६३ || चतुर्दशात्मिका सा तु चतुर्दशप्रकाशिका | पञ्चदशात्मिका देवी पञ्चदशप्रकाशिनी || १/६४ || षोडशी परमेशानि षोडशेनसमुद्भवा | दशसप्तगणोपेता सप्तदशा प्रकीर्तिता || १/६५ || अष्टादश महाविद्या अष्टादशगुणात्मिका | अष्टाविंशगुणोपेता परमाराध्यरूपिणी || १/६६ || विंशत्यर्णा महाविद्या परमानन्दरूपिणी | विंशत्यर्णाधिकामन्त्रा मालामन्त्राः प्रकीर्तिताः || १/६७ || एकविंशगुणोपेता द्वाविंशतिसमन्विता | त्रयोविंश-चतुर्विंश-पञ्चविंशप्रकीर्तिता || १/६८ || षड्विंशति गुणोपेता षड्विंशतिगुणात्मिका | अष्टाविंशगुणोपेता अष्टाविंशत् प्रकीर्तिता || १/६९ || नवविंश महाविद्या महादेवी प्रकीर्तिता | त्रिंशदाद्याश्चतुःषष्टि दीर्घमन्त्राः प्रकीर्तिताः || १/७० || नपुंसकास्तथा मन्त्रा हू/फडन्ताश्च केवलाः | स्वाहायुक्ताश्च ये मन्त्राः शक्तिमन्त्राश्च पार्वति || १/७१ || एषामन्यतमो मन्त्रः पुरुषः परिकीर्तितः | इति कुब्जिकातन्त्रे पार्वतीपरमेश्वरसंवादे प्रथमः पटलः || द्वितीयः पटलः अथ वक्ष्ये महेशानि मन्त्रार्थं सारमुत्तमम् | विना येन न सिद्धेत जपपूजादिकं क्वचित् || २/१ || तस्मात् सर्वप्रयत्नेन श्रूयतां गिरिजामृजे | ककारः कामदः प्रोक्तो रेफः पापस्य नाशकः || २/२ || २/ ईकारे शम्भुरमिता नादबिन्दुसमन्विता | नादरूपा महादेवी निर्गुणा ब्रह्मरूपिणी || २/३ || धर्मार्थदः ककारश्च सर्वसिद्धिप्रदायकः | ब्रह्मरूपोमकारश्च सगुणोनिर्गुणश्च सः || २/४ || तेजः पुञ्जोरकारश्च ब्रह्महत्यादिनाशकः | दुर्गारूपा ईकारश्च चतुर्वर्गफलप्रदः || २/५ || एकाक्षरी महाविद्या सर्वविद्यास्वरूपिणी | ककारो वरुणः प्रोक्तो जगतः प्राणकारकः || २/६ || रेफो च शङ्करो ज्ञेयः सर्वेषां शङ्करः सदा | ईकारे तारिणीदेवी भवसंसारतारिणी || २/७ || ककारे केशवः प्रोक्तो निर्वाणपदहेतुकः | रकारो वह्निरूपोयं भवदुःखस्य दाहकः || २/८ || ईकारे मातृका देवी चतुर्वर्गविधायिनी | सगुणा च यदा देवी सर्वसिद्धिप्रदायिनी || २/९ || प्. ३) हकारस्तु शिवः प्रोक्तो ज्ञानरूपी सनातनः | निर्वाणमुक्तिदो देवः सर्वसिद्धिप्रदायकः || २/१० || रेफः सुर्यप्रतीकाशोऽत्यन्तं पापदाहकः | उकारे भैरवी देवी सर्वशङ्कटनाशिनी || २/११ || नादरूपा महेशानि निर्गुणा परिकीर्तिता | हकारे च महाविष्णुर्महापातकनाशनः || २/१२ || रेफे चन्द्रस्वरूपश्च अमृतत्वप्रदायकः | उकारे मोहिनी देवी जगन्मोहनकारिणी || २/१३ || महादुःखस्य हन्त्री च ब्रह्महत्यादिनाशिनी | सदाशिवो हकारः स्यादुकारे ब्रह्म चैव हि || २/१४ || निर्गुणोनादबिन्दुश्च निर्वाणपदकेवलम् | अस्य स्मरणमात्रेण अश्वमेधायुतं लभेत् || २/१५ || हकारे शम्भुरित्युक्तो रेफे चैव विभूषितः | ईकारे परमा देवी गुणत्रयमयी सदा || २/१६ || दकारः सर्वदेवश्च सर्वदुर्गनिवारकः | क्षकारः क्षेत्रदो विष्णुर्महापातकनाशनः || २/१७ || हकारे देवताः सर्वाः सर्वकामार्थदाः पुनः | लकारे चण्डिका देवी चण्डदैत्यविनाशिनी || २/१८ || एकारे योनिरूपा च विश्वस्य बीजमुत्तमम् | ककारे मेदिनी प्रोक्ता सशैलवनकानना || २/१९ || ककारे सकला देवि सर्वसिद्धिप्रदायिका | लकारे पृथिवी देवि पृथ्वीदानफलप्रदा || २/२० || ईकारे सकला देवि सकलेश्वरकारिणी | ककारे सुन्दरी देवि एकारे योनिरूपिणी || २/२१ || धर्मार्थकामदा देवि दुष्टदैत्यविनाशिनी | परा च परमा चैव परमात्मकला पुनः || २/२२ || ककारे च महाब्रह्मा ककारोविष्णुरूपकः | ककारे च महादेवो ब्रह्माणी रेफ एव च || २/२३ || वैष्णवी मध्यरेफः स्याद्रुद्राणी रेफ उत्तरः | ईकारः कामदः कान्तो नादबिन्दुविभूषितः || २/२४ || हकारः काम एवासौ हकारः सूर्यरूपकः | उकारः षोडशी देवी ऊकारो भुवनेश्वरी || २/२५ || नादबिन्दुसमायुक्ता महामन्त्राः प्रकीर्तिताः | हकारो योगनिद्रा च हकारः परमोविभुः || २/२६ || ईकारः कामदा माया रेफः परशिवो मतः | रेफश्चैव महादेवि नादबिन्दुविभूषितः || २/२७ || स्वाहा चैव महेशानि तेजःपुञ्जप्रकीर्तिता | एकाक्षरी महाविद्या ब्रह्मविद्या सनातनी || २/२८ || त्र्यक्षरी च महाविद्या त्रिगुणा परिकीर्तिता | अष्टाक्षरी महाविद्या साक्षान्मोक्षफलप्रदा || २/२९ || विंशत्यणी महाविद्या अष्टसिद्धिः प्रकीर्तिता | एकविंशा महाविद्या प्रणवाद्या महेश्वरी || २/३० || अकारेण उकारेण मकारेण सुरेश्वरि | ब्रह्मविष्णुमहेशादेर्मस्त्रमेतत् प्रकीर्तितम् || २/३१ || एकाक्षरो महामन्त्रश्चिदानन्दस्वरूपकः | प्रणवे पुटिता विद्या सेतुरित्यभिधीयते || २/३२ || सिद्धकालीमहामन्त्रः कामश्च सिद्धिदः स्मृतः | हकारः सच्चिदानन्दो रेफो निर्वाणदायकः || २/३३ || उकारः शम्भुवनिता शिवशक्तिस्वरूपिणी | कामेन मायया चैव पुटितः कामवीजकः || २/३४ || तदा कामेश्वरोमन्त्रः सर्वकामफलप्रदः | नवाक्षरे कामवीजं चिद्रूपं शम्भुरुत्तमः || २/३५ || नवाक्षरे कूर्चवीजं ब्रह्मरूपं सनातनम् | नवाक्षरे दक्षिणेति कालिकापरमार्थदा || २/३६ || चतुर्दशे कामवीजं वैष्णवी परिकीर्तिता | एकादशे कामवीजं भवेत् संसारतारकम् || २/३७ || नमः पदं भोगदं च राज्यभोगफलप्रदम् | पञ्चदशी महामन्त्रं सर्वकामफलप्रदम् || २/३८ || मायावीजं क्रोधवीजं केवलं शिवरूपकम् | गुह्यकाली षोडशार्णा केवला ब्रह्मरूपिणी || २/३९ || सृष्टिस्थितिकरी देवी शतभेदा जगन्मयी | नवाक्षरी महाविद्या कामवीजोपरिस्थिता || २/४० || गुह्येति मोक्षदा लोके चतुर्वर्गप्रदायिनी | वाग्देवी देवताः सर्वा ऐकाररूपिणी परा || २/४१ || ईकारः शम्भुवनिता फट्कारा चक्ररूपिणी | कामाख्या भुवनेशी च केवला कामरूपिणी || २/४२ || भद्रकाली महादेवी भुवनेशी भुजङ्गिनी | महाभुजङ्गीरूपेण पृथिवीधारिणी सदा || २/४३ || कामबीजं महेशश्च अष्टमूर्तिः सनातनः | कूर्च्चबीजं महाविष्णुः फट्कारः पापनाशनः || २/४४ || श्मशानकालिकामन्त्रे पञ्चार्णं परिकीर्तितम् | कामबीजं कलानाथः केवलं कामरूपधृक् || २/४५ || मायाबीजं महेशानि मायाच्छादनकारिणी | कूर्चबीजं महेशानि महापुण्यप्रदायकम् || २/४६ || ईकारः परमाशक्तिर्योगिनां मोक्षदायिनी | क्षकारश्च महेशानि क्षेत्रज्ञः परिकीर्तितः || २/४७ || अकारश्च महेशानि पृथिवी परिकीर्तिता | अस्याः स्मरणमात्रेण जीवन्मुक्तश्च साधकः || २/४८ || एकोच्चारणमात्रेण अश्वमेधायुतं फलम् | लभते शृणु कल्याणि स्मरणेनैव यत् फलम् || २/४९ || ब्रह्महत्यादिकं सर्वं नाशमायाति निश्चितम् | कोटिकोटिमहातीर्थमश्वमेधायुतं फलम् || २/५० || प्राप्नुयात् साधकश्रेष्ठो न पुनर्जननं भुवि | जपेच्चैव महेशानि वक्तुं नैव च शक्यते || २/५१ || प्रणवे पुटितां विद्यां मायया पूटितेन वा | अष्टोत्तरशतं जप्त्वा गजान्तकसहस्रकम् || २/५२ || मन्त्रस्य दोषशान्त्यर्थं जपेत्तु सुरसुन्दरि | निर्गुणः सगुणोमन्त्रो द्विधा चैव महेश्वरि || २/५३ || येन तेन प्रकारेण सर्वसिद्धिफलं लभेत् | मातृकापुटितं कृत्वा अष्टोत्तरशतं जपेत् || २/५४ || सहस्रं वा जपेद्देवि मन्त्रदोषोपशान्तये | अनुलोमवोलोमेन मातृकायां जपेत् सुधीः || २/५५ || अष्टवर्गा भवेत् सिद्धिः सर्वकामफलं लभेत् | तारायाश्च महादेव्या महाविद्या प्रकीर्तिता || २/५६ || पञ्चाक्षरी महाविद्या पञ्चभूतप्रकाशिनी | प्.४) पञ्चरश्मिर्महाविद्या पञ्चरश्मिसमन्विता || २/५७ || कालिका तारिणीमन्त्रमभेदञ्च सूरेश्वरि | मन्त्रार्थञ्च विजानीयात् शतभेदा जगन्मयी || २/५८ || यथा काली तथा तारा तथा मन्त्राः प्रकीर्तिताः | साधनं यन्त्रमन्त्रञ्च मन्त्रार्थञ्च सुवेश्वरि || २/५९ || भव स्नेहात् प्रवक्ष्यामि रहस्यं परमाद्भूतम् | इति कुब्जिकातन्त्रे द्वितीयः पटलः || तृतीयः पटलः श्रीशिव उवाच अथ वक्ष्ये महेशानि मन्त्रार्थमहमुत्तमम् | भुवनेशी महाविद्या सर्वाम्नायैर्नमस्कृता || ३/१ || हकारो ब्रह्मरूपश्च सर्वविश्वप्रकाशकः | रेफश्चन्द्रमसोज्योति- रीकारः परमः पुनः || ३/२ || निर्गुणोनादबिन्दुश्च मध्यमाह्लादकारकः | ब्रह्मणोपासिता विद्या शापग्रस्ता वरानने || ३/३ || ऐकारात् पृथिवी देवी विश्वरूपा सनातनी | योनिरूपा महादेवि महापातकनाशिनी || ३/४ || हकारः परमो बिन्दु रेफोयं परिपालकः | ईकारेण महादेवि सकलार्थप्रदायिनी || ३/५ || शिवेनोपासिता विद्या परमार्थप्रदायिनी | आ/कारात् सूर्यरूपा च मायाविश्वप्रकाशिनी || ३/६ || क्रौ/कारात् जनिका शक्तिः कामाख्या मोक्षदा स्मृता | शकारः कृष्णरूपोसौ सर्वजन्तुहितेरतः || ३/७ || ईकारे स्थितिरूपा च रेफे नित्यः सनातनः | चिद्रूपा नादशक्तिश्च परमाह्लाददायिनी || ३/८ || लक्ष्मीरूपा मया देवि चतुर्वर्गप्रदायिनी | हकारो वासुदेवश्च रेफः सृष्टिप्रदायकः || ३/९ || ईकारे त्रिपुरा देवी नादबिन्दुशिवात्मिका | नकारे पालिकाशक्तिर्मकारे नाशकारिणी || ३/१० || नमश्चकामदः प्रोक्तः सर्वार्थसाधनोत्तमः | भकारे भगवती देवी वकारै वरुणात्मिका|| ३/११ || तकारे तारिणी देवी विश्वस्य प्राणवल्लभा | ईकारे मातृका देवी जगतां जननी स्मृता || ३/१२ || मकारे शिवरूपा च शिवं विश्वस्य दायिनी | अकारे रूद्ररूपश्च विश्वस्य नाशरूपिणी || ३/१३ || हकारे योगिनी देवी योगिनां योगरूपिणी | एकारे जननी देवी विश्वोत्पन्ना तु मातृका || ३/१४ || शकारे विश्वशक्तिश्च वकारे परिपालिनी | रेफो च ज्ञानदा देवी सर्वज्ञानप्रकाशिनी || ३/१५ || ईकारे च महादेवि चैतन्यानन्दवर्द्धिनी | अथ शृणु महादेवि रेफे च प्राणवल्लभः || ३/१६ || नकारे वन्दिनी देवी सर्वेषां नन्दवर्द्धिनी | स्वाहा चैव महाविद्या अग्निजिह्वा प्रकीर्तिता || ३/१७ || प्रणवाद्या महाविद्या ज्ञानिनां ज्ञानदा मता | मायाबीजं यदा देवि चतुर्वर्गप्रदायिनी || ३/१८ || श्रीवीजाद्या यदा देवि तदा सम्पत्तिदायिनी | प्रणवे पुटितां विद्यां सहस्रं प्रजपेत् सुधीः || ३/१९ || सर्वदोषोपशान्त्यर्थं फलदः परिकीर्तितः | भुवनेशी यथा देवि चान्नपुर्णा तथा परा || ३/२० || सरस्वतीं तथा पद्यां विद्याञ्चैव त्रिशक्तिकाम् | आद्याञ्चैव महादेवीं जानीयात् सुरसुन्दरीम् || ३/२१ || त्रिपुटाञ्च तथा दुर्गां त्वरितां भुवनेश्वरीम् | जानीयात्तु महादेवीं सत्यं सुनिश्चितम् || ३/२२ || त्रिपुटायाः कामवीजं केवलं कामनार्थदम् | श्रीबीजञ्च महादेवि श्रीर्देवी च प्रकीर्तिता || ३/२३ || त्वरिताया महादेवि मायाबीजञ्च बीजकम् | त्रिशक्तिः प्रणवो देवि मुक्तिदं प्रेतबीजकम् || ३/२४ || खेचरञ्च महादेवि खेचरं परिकीर्तितम् | वधूबीजं महेशानि अस्त्ररूपं प्रकीर्तितम् || ३/२५ || दुर्गायाश्च महामन्त्रो महादुर्गस्य तारकः | प्रणवोब्रह्मरूपश्च मायाबीजञ्च मुक्तिदम् || ३/२६ || ह्री/बीजञ्च महेशानि सर्वदुर्गतितारकम् | दुर्गा दुर्गस्य हन्त्री च द्रु/कारे विश्वरूपकः || ३/२७ || नमो मोक्षस्य दाता च महामन्त्रः प्रकीर्तितः | महिषमर्द्दिनी देवी दुर्गावत् परिकीर्तिता || ३/२८ || आराधनेन देवोश चतुर्वर्गफलं लभेत् | अथ वक्ष्ये महामन्त्रं निर्गुणं परमं पुनः || ३/२९ || श्रीदेव्याश्च महेशानि मन्त्रार्थं मन्त्रमुत्तमम् | हकारः केवलं देवि निर्गुणः परमाक्षरः || ३/३० || श्रूयतां सावधानेन निर्वाणपददायकः | सकारे निर्गुणा देवी ईकारे निर्गुणा सदा || ३/३१ || लकारे निर्गुणा देवी श्रूयतां गिरिनन्दिनि | मायाबीजन्तु सगुणम् शिवशक्तियुतं प्रिये || ३/३२ || हकारः परमोब्रह्म निर्गुणश्च सनातनः | शकारः शम्भुरित्युक्तो निर्गुणश्च निरञ्जनः || ३/३३ || लकारे निर्गुणा देवी निर्लेपा निष्कला परा | मायाबीजन्तु देवेशि निर्गुणं परमात्मकम् || ३/३४ || सकारः शान्तिदोदेवः सर्वशान्तिप्रदायकः | केवलं ब्रह्मरूपश्च सत्यं देवि न संशयः || ३/३५ || ककारः कामदेवोसौ सर्वेषां कामदः स्मृतः | लकारे कामिनीदेवी सर्वेषां कामरूपिणी || ३/३६ || कामाख्या मोक्षदात्री च कमस्य पालिनी सदा | भुवनेश्या महावीजं चैतन्यानन्दवर्द्धकम् || ३/३७ || पञ्चदशाक्षरी विद्या कामेनोपासिता ध्रुवम् | ईकारञ्च महाविद्या हकाराद्या महेश्वरि || ३/३८ || अगस्त्योपासिता विद्या भुवनत्रयदुर्ल्लभा | द्विकूटाद्यो हकारोयं सकारश्च त्रिकूटके || ३/३९ || हकारोज्योतिरूपोयं श्रूयतां वरवर्णिनि | प्.५) ककारे च महादेवि केवलं कामनार्थकः || ३/४० || हकारश्च महेशानि शम्भुर्देवो महेश्वरि | एकारे नवदुर्गा च ईकारे शम्भुमातृका || ३/४१ || केवलं मोक्षदा देवि लकारे विश्वरूपिणी | मायाबीजं महेशानि त्रिशक्तिः परिकीर्तिता || ३/४२ || हकारे च ककारे च एकारे च महेश्वरि | ब्रह्माणी वैष्णवी देवी रुद्राणी परिकीर्तिता || ३/४३ || ईकारे च लकारे च मायाबीजेन सुन्दरि | ब्रह्मा विष्णुर्महेशश्च सत्यं देवि न संशयः || ३/४४ || सकारे च ककारे च एकारे च सुरेश्वरि | ब्रह्मशक्तिर्विष्णुशक्तिर्महेशी च प्रकीर्तिता || ३/४५ || मनुप्रतिष्ठिता विद्या चतुर्वर्गफलप्रदा | निष्कला च महेशानि सकला परिकीर्तिता || ३/४६ || सकाराद्या महाविद्या मायाद्या च सुरेश्वरी | सर्वसम्पंप्रदा देवी चन्द्रलोके प्रतिष्ठिता || ३/४७ || हकाराद्या महेशानि ब्रह्मविष्णुशिवात्मिका | मायान्ता च महेशानि त्रिशक्तिः परिकीर्तिता || ३/४८ || ब्रह्मरूपा महाविद्या कुवेरोपासिता ध्रुवम् | धनदात्री महादेवि त्रिवर्गफलदायिनी || ३/४९ || ककाराद्या हकाराद्या सकाराद्या सुरेश्वरि | पूर्णरूपा महारूपा मायामाया प्रकीर्तिता || ३/५० || मारान्ता च महादेवि निर्गुणा सगुणा | सतीलोपामुद्रा महेशानि विष्णुलोके सुदुर्लभा || ३/५१ || त्रिकुटा च महादेवि श्रूयतां वरवर्णिनि | सकाराद्या महेशानि सृष्टिस्थिति लयात्मिका || ३/५२ || मायान्ता च महादेवि ब्रह्माणी वैष्णवी शिवा | मङ्गलोपासिता विद्या सर्वेषां नन्दिवर्द्धिनी || ३/५३ || ज्ञानदात्री महादेवि पूर्णरूपा फलप्रदा | ककारे च एकारे च ईकारे च सुरेश्वरि || ३/५४ || पालनी कारणी देवी नाशिनी च सुरेश्वरि | सकारे भीमरूपा च माया चैव सनातनी || ३/५५ || त्रिकुटस्थं कामबीजं महायोगस्वरूपकम् | सर्वस्मिन्नेव मन्त्रे तु नादश्चैतन्यरूपकः || ३/५६ || बिन्दुर्ब्रह्मा महादेवि सत्यं सत्यं न संशयः | सूर्येणोपासिता विद्या आयुरारोग्यवर्द्धिनी || ३/५७ || कामाख्या मोक्षदा देवि ब्रह्मविष्णुशिवात्मिका | मोक्षदा नादशक्तिश्च केवलं ब्रह्मरूपकम् || ३/५८ || बीजद्वये सुरेशानि धनेशी च प्रकीर्तिता | बीजत्रये महादेवि ब्रह्माणी वैष्णवी शची || ३/५९ || ककारे कालिका देवी एकारे वाक्यरूपिणी | ईकारे भैरवी माया देवी निर्वाणरूपिणी || ३/६० || हकारे वैष्णवी देवी सकारे च सरस्वती | ककारे कमलादेवी हकारे हाकिनी तथा || ३/६१ || लकारे निर्गुणा देवी साक्षान्मोक्ष प्रदायिनी | बीजान्यन्यानि देवेशि भूक्तिदम् मुक्तिदम् स्मृतम् || ३/६२ || यतिर्वा भुपतिर्वापि नान्यः शक्तः सुरेश्वरि | शूद्रश्चापि महेशानि न कुर्यान्मन्त्रचिन्तनम् || ३/६३ || राज्यं देयं महेशानि न दद्यात् षोडशाक्षरम् | शिरोदेयं महेशानि न प्राकाश्यं सुरेश्वरि || ३/६४ || तव स्नेहान्महादेवि कथितं वरवर्णिनि | अथ वक्षे जगद्धात्रि भैरव्या मन्त्रमुत्तमम् || ३/६५ || यस्य विज्ञानमात्रेण राजाभोगफलं लभेत् | मुक्तिदं कामदं देवि परमानन्दकारकम् || ३/६६ || हकारश्च सकारश्च वकारश्च महेश्वरि | शिवः परशिवश्चैव परापरशिवः पुनः || ३/६७ || एकारः शक्तिरूपश्च नादबिन्दुः सनातनी | हकारश्च सकारश्च ककारश्च महेश्वरि || ३/६८ || परा च परमा चैव ईश्वरी परिकीर्तिता | वकारश्च ईकारश्च भैरवी भयनाशिनी || ३/६९ || सम्पंप्रदा यदा देवी तदा सम्पं प्रदायिनी | चैतन्यभैरवी मन्त्रं केववं मोक्षसाथनम् || ३/७० || कामेश्वरीमहामन्त्रं नादबिन्दुस्वरूपकम् | चतूर्वर्गप्रदं देवि शृणुष्व हरवल्लभे || ३/७१ || षट्कुटा भैरवी देवी षट्कर्मफलदायिनी | ब्रह्माणी वैष्णवी चैव रूद्राणी परिकीर्तिता || ३/७२ || भोगदा मोक्षदा देवी प्रथमे भोगदायिनी | मध्यमे योगदा प्रोक्ता अन्ते च ज्ञानदा स्मृता || ३/७३ || नादबिन्दुसम्ययोगाच्चतुर्वर्गफलप्रदा | रुद्राणी वैष्णवीमन्त्रश्चतुर्वर्गफलप्रदः || ३/७४ || हकारे च सकारे च थकारे च महेश्वरि | फकारे च रकारे च नादबिन्दुसमन्विता || ३/७५ || हाकिनी शाकिनी चैव डाकिनी च महेश्वरि | प्रेतबीजसमायोगात् पञ्चप्रेतः प्रकीर्तितः || ३/७६ || भुवनेशीभैरवीणां मन्त्रश्च भुप्रदायकः | हमं कामस्वरूपश्च कलरीराज्यभोगदा || ३/७७ || प्रेतबीजं महादेवः सर्वदुर्गतिनाशकः | नादशक्तकला चैव बिन्दुरूपः सदाशिवः || ३/७८ || त्रिपुरा वालिकामन्त्रं शृणुष्व हरवल्लभे | अष्टवर्गप्रदोमन्त्रः साधको मन्त्रनायकः || ३/७९ || ऐंकारात् विश्वजननी क्लींकारात् बिन्दुमातृका | औंकारेण सकारेण रसना संयुता प्रिये || ३/८० || अष्टवर्गप्रदोमन्त्रो भैरव्या सुरसुन्दरि | वाग्भवं कामवीजञ्च सौकारश्च महेश्वरि || ३/८१ || ईकारश्च सदा रुद्रो महारुद्रः प्रकीर्तितः | केवलं वालिकायाश्च मनुं शृणु नितस्विनि || ३/८२ || आ/कारात् शिवशक्तिश्च हसवै/रुद्ररुपिणी | ह स कारान्महादेवि मायावीजञ्च बीजकम् || ३/८३ || नादशक्तिसमायोगां चैतन्यानन्दवर्द्धिनी | कलवीजं महादेवि वर्गेणः परिकीर्तितः || ३/८४ || क्रौ/कारात् प्राणरूपा च ह स रौ/ मोक्षदायिनी | दशाक्षरी महाविद्या सर्वेषां सिद्धिदा स्मृन्त्रा || ३/८५ || प्रणवाद्या यदा विद्या षोडशी परिकीर्तिता | नवकूटा महाविद्या नवसिद्धिफलप्रदा || ३/८६ || प्. ६) चेकुत्रये त्रिशक्तिश्च मूलदानन्दमोहिनी | नवाक्षरी भैरवी च नवसिद्धिप्रदायिनी || ३/८७ || नादशक्तिसमायोगे ब्रह्मविष्णुशिवात्मिका | ऐ/कारं मायया देवी पुटितं शतधा जपेत् || ३/८८ || तेजस्वितामवाप्नोति सर्वकामफलं लभेत् | किन्नेति मोक्षदामन्त्रो महामन्त्रः प्रकीर्तितः || ३/८९ || अन्नपूर्णेश्वरी देवी भैरवी परिकीर्तिता | अन्नदा मोक्षदा चैव भैरवी च ध्रुवं प्रिये || ३/९० || ब्रह्माणी वैष्णवी देवी रुद्राणी च सरस्वती | नमो भगवती देवी सर्वकामफलप्रदा || ३/९१ || माहेश्वरी महादेवि पञ्चरुद्रः प्रकीर्तितः | श्रीवीजपुटितेनैव शतमष्टोत्तरं जपेत् || ३/९२ || यदा चैव महेशानि मन्त्रोयं फलदः स्मृतः | किञ्चिच्चैव महेशानि कथितं प्राणवल्लभे || ३/९३ || म प्रकाश्यं महादेवि पशोरग्रे कदाचन | इति कुब्जिकातन्त्रे तृतीयः पटलः || || ० || ३ || चतुर्थः पटलः शिव उवाच प्रचण्डचण्डिकामन्त्रं शृणु पार्वति यत्नतः | न प्रकाश्यं महादेवि न प्रकाश्यं कदाचन || ४/१ || रहस्यं परमं देवि त्रिषु लोकेषु गोपितम् | देव्याश्चक्षुः ककारेण लकारेण च तारिका || ४/२ || ईकारे च भ्रुरोर्मध्यं नादबिन्दुः शिखा ध्रुवम् | कूर्च्चबीजं कपालञ्च वाग्भवं वाक्यमेव च || ४/३ || भुवनेशी नासिका च वज्रं कण्ठं प्रकीर्तितम् | त्रयोनादः शक्तिरूपोजिह्वाञ्च रोचनीयकम् || ४/४ || यच्च वै दन्तपंक्तिञ्च कूर्च्चबीजञ्च मानसम् | कूर्चप्राणमयं देवि फट्कारं स्तनयुग्मकम् || ४/५ || अघोरं स्वाहया चैव जानीयात् सुरपूजिते | पञ्चाक्षरी महाविद्या डाकिनी परिकीर्तिता || ४/६ || एकादशाक्षरीविद्या वर्णिनी परिकीर्तिता | धनदा मोक्षदा देवी सर्वकामफलप्रदा || ४/७ || अस्यैव पूजाकाले च भुवनेषु च सुन्दरि | पतिर्वा भूपतिर्वापि नान्योस्ति पूजकः पुनः || ४/८ || आराधने महादेव्याः शस्त्रघातं लभेत् ध्रुवम् | शस्त्रघाताद् भवेन्मुक्तिः सत्यं सत्यं सुरेश्वरि || ४/९ || शृणु देवि सदा भद्रे भक्तानां त्राणकारिणि | धूमावतीं महाविद्यां महायोगप्रभाविणीम् || ४/१० || तस्यामन्त्रं प्रवक्ष्यामि शृणुष्व हरवल्लभे | धकारे सर्वधमनी उकारे पालिनी स्मृता || ४/११ || चैतव्यरूपिणी देवी महाकालनितम्विनी | धृकारे नाशिनी देवी महाप्रलयकारिणी || ४/१२ || मकारे माररूपा च आकरे रतिसुन्दरि | वकारे कामरूपा च तिकारे तीक्ष्नधारिणी || ४/१३ || स्वाहा चैव महेशानि भैरवी परिकीर्तिता | वगला च महाविद्या तस्यामन्त्रं शृणु प्रिये || ४/१५ || तस्य विज्ञानमात्रेण कृतकृत्यो भवेन्नरः | प्रणवं निर्गुणं देवि नासा चैव त्रिशक्तिका || ४/१६ || वगला विष्णुरुद्राणी लकारश्च हरप्रिये | मुखीति देवताः सर्वाः सर्वदैत्यविनाशिनी || ४/१७ || सर्वः सर्वेश्वरः प्रोक्तो दुष्टानां दुष्टनाशिनी | वाणीवाक्यस्वरूपा च मुखमोहनकारिणी || ४/१८ || स्तन्तयेति वशीरूपा जगतां वशकारिणी | जिह्वा चैव महामाया जिह्वारूपा प्रकीर्तिता || ४/१९ || कीलयः कीलयश्चेति जगत्क्षोभणकारिणी | वुद्धिञ्च धुद्धिरूपा सा नाशयो नाशकारिणी || ४/२० || माया च प्रणवे चैव सर्वेषां ज्ञानकारिणी | स्वाहा चैव महाविद्या यज्ञरूपा हविर्भुजः || ४/२१ || मातङ्गी च महाविद्या सर्वतन्त्रे प्रतिष्ठिता | शृणु देवि महाभद्रे भक्तानां त्राणकारिणि || ४/२२ || श्रीबीजं विश्वरूपञ्च मायाबीजञ्च कामदम् | क्षं बीजं क्षेत्रदञ्चैव मातङ्गी मदनातुरा || ४/२३ || स्वाहा च ब्रह्मरूपैव ब्रह्मणा च प्रतिष्ठिता | अथ वक्ष्ये महेशानि कमलामन्त्रमुत्तमम् || ४/२४ || यस्य विज्ञानमात्रेण समृद्धिं लभते ध्रुवम् | भोगदा मोक्षदा देवी लक्ष्मीरूप प्रकीर्तित || ४/२५ || श्रीबीजे केवला लक्ष्मीर्नादो मोक्षस्य दायकः | एकाक्षरी महाविद्या सर्वकामप्रदायिनी || ४/२६ || वागभवाद्या महादेवी वागीशत्वप्रदायिनी | लज्जाबीजं महेशानि ब्रह्मविष्णुशिवात्मकम् || ४/२७ || कामबीजन्तु देवेशि लक्ष्मीर्माया सरस्वती | नादश्चैतन्यरूपोऽसौ विष्णुः परशिवोमतः || ४/२८ || मन्त्रव्याख्या महेशानि संक्षेपात् कथिता मया | न प्रकाश्यमिदं देवि पशोरग्रे कदाचन || ४/२९ || स्वर्ग मर्त्ये च पाताले देवाश्च सिद्धि दायकाः | प्रशंसन्ति सदा सर्वे तं दृष्ट्वा साधकोत्तमम् || ४/३० || इति कुब्जिकातन्त्रे चतुर्थः पटलः || ४/४ || पञ्चमः पटलः प्. ७) पार्वत्युवाच भगवन् सर्वदेवेश लोकानां हितकारक | चतुर्वर्गप्रदं देवि चैतन्यं मे प्रकाशय || ५/१ || सदाशिव उवाच शृणु देवि प्रवक्ष्यामि चैतन्यं परमाद्भूतम् | रहस्यं परमं गुह्यं गोपनीयं त्वया पुनः || ५/२ || चिच्छक्त्याध्वनितं देवि परिणामक्रमेण तु | वर्णभावं समाश्रित्य निर्गुणं सगुणात्मकम् || ५/३ || षट्चक्रञ्च तथा भित्त्वा शब्दरूपं सनातनम् | नादबिन्दुसयायुक्तं चैतन्यं परिकीर्तितम् || ५/४ || अथवान्यप्रकारेण श्रुयतां पद्मलोचने | विना येन न सिद्ध्यन्ति जपपूजादिकानि च || ५/५ || अनाहतस्य मध्ये तु ग्रथितं वर्णमुत्तमम् | सुषुम्नावर्त्मना देवि कण्ठदेशं विनिर्गतम् || ५/६ || चैतन्यञ्च महेशानि योगिनां योगरूपकम् | सहस्रारे वर्णरूपं परिणामक्रमेण तु || ५/७ || कर्णिकामध्यसंस्थे तु नादबिन्दुसमन्वितम् | एवं सञ्चिन्तयेद्देवीं चैतन्यमुत्तमं पुनः || ५/८ || मन्त्राक्षराणि चिच्छक्तौ ग्रथितानि महेश्वरि | तानि सञ्चिन्तयेद्देवि सहस्रारे दले यदा || ५/९ || चैतन्यं मन्त्ररूपायाश्चैतन्यनन्ददायिनी | चैतन्यं नादशक्तिश्च चैतन्यं वर्णरूपकम् || ५/१० || मणिपुरे सदा चिन्त्यं मन्त्राणां प्राणरूपकम् | अथवान्यप्रकारेण श्रूयतां वरवर्णिनि || ५/११ || कामबीजं रमाबीजं शक्तिबीजं सुरेश्वरि | एतानि पूर्वमुचार्य मातृकां तदनन्तरम् || ५/१२ || पुटितं मुलमन्त्रञ्च शतमष्टोत्तरं जपेत् | कोटिकोटिगुणं तच्च लभते नात्र संशयः || ५/१३ || अथवान्यप्रकारेण चैतन्यं शृणु पार्वति | येन विज्ञानमात्रेण परमं पश्यति ध्रुवम् || ५/१४ || सूर्यमण्डलमध्यस्थं चिन्तयेन्मूलमन्त्रकम् | अष्टोत्तरशतं जप्यं मूलविद्यास्वरूपकम् || ५/१५ || गुरुं सञ्चिन्तयेत्तत्र शिवरूपं सनातनम् | शक्तिञ्च चिन्तयेत्तत्र ब्रह्मरूपां सनातनीम् || ५/१६ || एवं सञ्चिन्तयेद्यस्तु जपेद्वा सुरसुन्दरीम् | नासाध्यं तस्य लोकेस्मिन् मुक्तिर्द्देवि करे स्थिता || ५/१७ || इति कुब्जिकातन्त्रे पञ्चमः पटलः || ० || ५ || षष्ठः पटलः अथ वक्ष्ये महेशानि शारदेन्दुनिभानने | अतीव परमं गुह्यं न प्रकाश्यं कदाचन || ६/१ || रहस्यं परमं गुह्यं सर्वदेवेषु वन्दितम् | चतुर्वेदैरगम्यन्तु सांसारार्णवतारकम् || ६/२ || सर्वाम्नायैर्महादेवि वन्दितं सुरसुन्दरि | गोपनीयं गोपनीयां गोपनीयं सुरेश्वरि || ६/३ || न प्रकाश्यमिदं देवि स्वयोनिरिव पार्वति | निशीथे मुक्तकेशस्तु नग्नः शक्तिसमन्वितः || ६/४ || चिन्तयेदिष्टदेवीञ्च योगिनां योगरूपिणीम् | गुह्यदेशे वामपादगुल्फं संयोजयेत् सुधीः || ६/५ || शरीरञ्च स्थिरिकृत्य जिह्वायां तालुकां न्यसेत् | नासाग्रे नेत्रयुग्मञ्च कर्त्तव्यञ्च महेश्वरि || ६/६ || कण्ठासमं तथा कृत्वा चिन्तयेद्वाहिनीं शिवाम् | भुजङ्गरूपिणीं देवीं मूलाधारनिवासिनीम् || ६/७ || प्रातराधारकमले हूतभुकमण्डलेस्थिताम् | चतुर्भुजां महादेवीं परमामृतवृंहिताम् || ६/८ || श्यामवर्णां महादेवीं महापद्मासनस्थिताम् | अभयं वरदञ्चैव दक्षिणेधारिणीं सदा || ६/९ || खड्गं मुण्डञ्च वामेतु धारयन्तीं सनातनीम् | मुक्तक्वेशीं स्मितमुखीं श्मशानालयवासिनीम् || ६/१० || दन्तुरां दक्षिणे व्यापि मुक्तकेशीं दिगम्बरीम् | शवानां करसंघातैं कृतकाञ्चिं हसन्मुखीम् || ६/११ || लम्बमानां मुण्डमालां धारयन्तीं सदाशिवाम् | शवस्य हृदये चैव दक्षपादनिवेशिताम् || ६/१२ || महाकालेन रत्यर्थमत्यन्तलालसां पराम् | चन्द्रसूर्यवत्भिरूपलोच * त्रयसंयुताम् || ६/१३ || अर्द्धचन्द्रधरां देवीं पीनोन्नत पयोधराम् | शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम् || ६/१४ || चतुर्वेदैरपाराञ्च सर्वदेवविभूषिताम् | कामदां कामरूपाञ्च भक्तानां त्राणकारिणीम् || ६/१५ || चतुर्वर्गप्रदाम् भीमां वन्देदक्षिणकालिकाम् | स्वाधिष्ठानां महादेवि चिन्तयेदिन्दुरूपकम् || ६/१६ || तत्र देवीञ्च सञ्चिन्त्य निर्मलां विश्वरूपिणीम् | अभयं वरदञ्चैव हस्तञ्च सुरसुन्दरि || ६/१७ || धनुर्वाणधरां देवीं पाशाङ्कुशधरां पुनः | वाणलिङ्गसमायुक्तां नीलवर्णानलप्रभाम् || ६/१८ || लोलजिह्वाम् महादेवीं विष्णुरूपां सनातनीम् | वालयुग्मलसत्कर्णां दुष्टासुरनिसुदनीम् || ६/१९ || व्याघ्रचर्मपरीधानां ब्रह्मरन्ध्रनिवासिनीम् | सुखप्रसन्नवदनां स्मेराननसरोरुहाम् || ६/२० || मणिपूरे चिन्तयेत्तु तेजःपुञ्जं सनातनीम् | दिगम्बरीं करालास्यं मुक्तकेशीं चतुर्भुजाम् || ६/२१ || रक्तवर्णां महादेवीं रक्तचर्म विधारिणीम् | प्. ८) पद्मासनां महादेवीं सर्वनागविभूषिताम् || ६/२२ || शङ्खचक्रगदापद्म धारिणीं सुरपूजिताम् | धर्मार्थदायिनीं देवीं भक्तानां त्राणकारिणीम् || ६/२३ || सर्वसिद्धिप्रदां देवीं जगतां मोहिनीं पुनः | महामायां मोहिनीञ्च अनिशं ज्ञानदां सतीम् || ६/२४ || सुन्दरीं रमणीं वामां चतुर्वर्गफलप्रदाम् | शान्तां शान्तप्रियामुग्रामुग्रदैत्यविनाशिनीम् || ६/२५ || मधुमांसप्रियां कृष्णां यशोदानन्दकारिणीम् | भक्तिगम्यां महादेवीं महाकाल निवासिनीम् || ६/२६ || सर्वेषां जननीं नित्यां चिन्तयेत् सुरपूजिताम् | अनाहते महादेवि चिन्तयेत् परदेवताम् || ६/२७ || अष्टभुजां महादेवीं रक्तवर्णां त्रिशक्तिकाम् | धनुर्वाणञ्च खड्गञ्च चक्रञ्च दधतीं शिवे || ६/२८ || पाशाङ्कुशधरां देवीं ब्रह्मादि सुरवन्दिताम् | अर्द्धचन्द्रधरां देवीं पीनोन्नत पयोधराम् || ६/२९ || पद्मासनां महामायां महापद्मासनस्थिताम् | एवं सञ्चिन्तयेद्देवीं ब्रह्ममार्गेण गामिनीम् || ६/३० || विशुद्धे च महाचक्रे चिन्तयेत् परमेश्वरीम् | दशभुजां महादेवीं पीतवर्णां सनातनीम् || ६/३१ || कपालं खेटकं खड्गं दर्पणं चामरन्तथा | दक्षिणे विभ्रतीं देवीं कामबीजोपरिस्थिताम् || ६/३२ || वामे खड्ग महापद्मं कर्तृकां पाशमङ्कुशम् | धारयन्तिं महादेवीं महासिंहासनस्थिताम् || ६/३३ || दिव्यवस्त्रपरीधानां जटामुकुटमण्डिताम् | ब्रह्मविष्णुमहादेववन्दितां सुरसुन्दरीम् || ६/३४ || आज्ञाचक्रे महेशानि द्विभुजां चिन्तयेत् सुधीः | सिंहस्कन्धसमारुढां द्विभुजां सुमनोहराम् || ६/३५ || वराभयधराञ्चैव नानामणिविभूषिताम् | जटामुकुट संयुक्तामर्द्धचन्द्रविभूषिताम् || ६/३६ || रत्नकाञ्चीसमायुक्तां रत्नमालाविभूषिताम् | रक्तवस्त्रपरीधानां कमलापतिसेविताम् || ६/३७ || संसारदुःखशमनीं संसारार्णवतारिणीम् | सुषुम्नावर्त्मना देवि चिन्तयेद्ध्यानरूपिणीम् || ६/३८ || षट्चक्रभेदयोगेन चिन्तयेत् परपरमेश्वरीम् | सहस्रारे दले चैव चिन्तयेत् परमेश्वरीम् || ६/३९ || कामं भ्रमन्तं तन्मध्ये पञ्चवाणविभूषिताम् | गङ्गादिसर्वतीर्थञ्च अमृतं प्रतिपत्रके || ६/४० || वसन्तादि महादेवि सर्वर्त्तुपरिशोभितम् | श्वेतवर्णं महादेवि सहस्रदलमुत्तमम् || ६/४१ || सर्वदेवसमायुक्तं सर्वशक्तिसमन्वितम् | सर्वमन्त्रमयं देवि चतुर्वेदविभूषिताम् || ६/४२ || एकादशमहादेवं ब्रह्माविष्णुशिवात्मकम् | कर्णिकां स्वर्णवर्णाञ्च तत्र देवीं विचिन्तयेत् || ६/४३ || चिन्मयं परशिवं देवि ध्यानगम्यं सनातनम् | सारात्सारतरं परादपिपरं चेतोवचोहगोचरम् || ६/४४ || नित्यानन्दनिरन्तरं निरुपमं देवैरपारं परम् | शिवशक्तिमयं देवि निर्गुणं सगुणात्मकम् || ६/४५ || प्रदीपकलिकाकारं योगिनां ध्यानरूपिणम् | चैतन्यरूपिणं देवं परमामृतवृंहितम् || ६/४६ || तन्मध्ये चिन्तयेद्देवीं त्रिगुणाञ्च सनातनीम् | घोरदंष्ट्रां करालास्यां ललज्जिह्वां चतुर्भुजाम् || ६/४७ || सद्यश्छिन्नशिरं खड्ग-वामाधोर्द्धकराम्बुजाम् | अभयं वरदञ्चैव दक्षिणाधोर्द्धपाणिकाम् || ६/४८ || नीलमेघप्रभां तन्वीं घोरल्लपां दिगम्बरीम् | कण्ठावशक्तमुण्डाली गलद्रुधिरचर्चिताम् || ६/४९ || कर्णावतंसतां नीतशवयुग्मभयानकाम् | वलार्कमण्डलाकार लोचनत्रयभूषिताम् || ६/५० || सृक्कद्वयगलद्रक्तधारा-विष्फुरिताननाम् | मुक्तकेशीं स्मितमुखीं श्मशानालयवासिनीम् || ६/५१ || शवानां करसंघातैः कृतकाञ्चीं हसन्मुखीम् | शवरुपमहादेव-हृदयोपरि संस्थिताम् || ६/५२ || महाकालेन रत्यर्थमुपविष्टां स्मरातुराम् | शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम् || ६/५३ || अतिप्रसन्नवदनां स्मेराननसरोरुहाम् | अनाहतन्तु तत्रैव तडित्कोटिसमप्रभाम् || ६/५४ || तस्योर्द्धे शिखरं तन्वि चिहरूपा परमाकला | तया सहितमात्मानमेकीभूतम् विचिन्तयेत् || ६/५५ || गच्छन्तं ब्रह्ममार्गेण लिङ्गभेदक्रमेण तु | सूर्यकोटिप्रभाक्यरं चन्द्रकोटिसुशीतलम् || ६/५६ || अमृतं तत् विसर्गञ्च परमानन्दलक्षणम् | गत्वा कुलाकुलं दिव्यं पुनरेव विशेत् कुलम् || ६/५७ || एवमभ्यस्यमानस्य अहन्यहनि निश्चयात् | मूलाधारसरोजे तु त्रिकोणं सुमनोहरम् || ६/५८ || कामं भ्रमन्तं तन्मध्ये वालार्ककोटिसन्निभम् | तदुर्द्धे कुण्डलीशक्तिस्तडित्कोटिसमप्रभाम् || ६/५९ || प्रसुपुभुजगाकारां सार्द्धत्रिवलयान्विताम् | सुधाधारत्रिकोणे तां भावयेत् सुरसुन्दरीम् || ६/६० || आरोप्यारोप्य शक्तिं कमलजनिलयामात्मना | साकमेतं स्वस्थानेघावसाने प्रणिहितहृदया चिन्तयन्ति क्रमेण | नित्यानन्दावसानं खड्गमुद्गरमहापद्मदद्मान्तरस्थोध्यायेच्चैतन्यरुपाम्- अभिनवजलदाम् मोक्षमार्गैकमार्गां | साक्षान्दाक्षरि साभं गगनगतमहापद्मसंस्थाच्चहंसात् पीत्वा दिव्यामृतोघं पुनरपि च विशेत् मध्यदेशं कुलस्य | चक्रे चक्रे क्रमेणामृतसरसि सवैस्तर्पयेद्देवतास्ता डाकिन्याद्याः समस्ताः सकलदलगतां तर्पयेत् कुण्डलीन्ताम् | इन्दौ तदुर्द्धे वोधिन्यां नादे नादान्त एव च || ६/६१ || शक्तौ पुनर्वापि कायाः समानोन्मणिगोचरे | मन्त्राक्षराणि चिच्छक्तौप्रोतानि परिचिन्तयेत् || ६/६२ || तानेव परमे व्योम्नि परमामृतवृंहिते | दर्शयेदात्मसद्भावं पूजहोमादिकं विना || ६/६३ || एवं सञ्चिन्तयेन्मन्त्री सयोगी नात्र संशयः | सर्वपापाद्विनिर्मुक्त इष्टां देवीं प्रपश्यति || ६/६४ || षण्मासे सर्वसिद्धिः स्यादात्मानञ्च प्रपश्यति | अष्टादशमहासिद्धिर्वत्सरान्ते भविष्यति || ६/६५ || एवं सञ्चिन्तयेद्देवीं परमात्मस्वरूपिणीम् | स एव शङ्करः साक्षात् स एव विष्णुरव्ययः || ६/६६ || स एव परमं ब्रह्म स एव देवतोत्तमः | इति ते कथिता देवि योनिमुद्रा महेश्वरि || ६/६७ || वत्सरेण लभेत् सिद्धिं पूर्णकामफलं लभेत् | इति कुब्जिकातन्त्रे षष्ठः पटलः || ० || ६ || सप्तमः पटलः पार्वत्युवाच देवदेव महादेव परमेश पुरातन | भावञ्च श्रोतुमिच्छामि देवताया विशेषतः || ७/१ || केन भावेन देवेश देवता च प्रसीदति | तत्सर्वं श्रोतुमिच्छामि कथ्यतां प्राणवल्लभ || ७/२ || शिव उवाच भद्रं भद्रं प्रवक्ष्यामि भद्रं भद्रं शुचिश्मिते | तव स्नेहात् प्रवक्ष्यामि सावधानेन सुन्दरि || ७/३ || यद् यज्ज्ञात्वा विरिञ्चिश्च सृष्टिकर्ता न संशयः | पालनं कुरुते विष्णू रूद्रश्च नाशकः पुनः || ७/४ || जगद्वश्यञ्च कुरुते ज्ञात्वा तु साधकोत्तमः | स एव वन्द्यो लोकेस्मिन् स एव पुरुषोत्तमः || ७/५ || भावश्च त्रिविधोदेवि दिव्यवीरपशुक्रमात् | विश्वञ्च देवतारूपं भावयेत् सुरसुन्दरि || ७/६ || स्त्रीरूपञ्च जगत् सर्वं पूरुषं शिवरूपिणम् | हृदये पार्वतीं देवीं शिरसा शिवरूपिणम् || ७/७ || अभेदेचिन्तयेद्यस्तु स एव देवतात्मकः | नित्यस्नानं नित्यदानं त्रिसन्ध्यञ्च जपार्चनम् || ७/८ || विमलं वसनं देवि परिधानं समाचरेत् | वेदे शास्त्रे दृढज्ञानं गुरौ देवे तथैव च || ७/९ || मन्त्रेचैव दृढज्ञानं पितृदेवार्चनन्तथा | वैश्वदेवन्तथा श्राद्धं नित्यं कार्यां शुचिस्मिते || ७/१० || शत्रौ मित्रे समं देवि चिन्तयेत्तु महेश्वरि | अन्नञ्चैव महेशानि सर्वेषां परिवर्जयेत् || ७/११ || गुरोरन्नं महेशानि भोक्तव्यं सर्वसिद्धये | कदर्यञ्च महादेवि निष्ठुरं परिवर्जयेत् || ७/१२ || देवतानिन्दकं दृष्ट्वा नालापञ्च समाचरेत् | सत्यञ्च कथयेद्देवि न मिथ्याञ्च कदाचन || ७/१३ || केवलं दिव्यभावेन पूजयेत् सुरसुन्दरीम् | गुरोराराधनं देवि प्रत्यहं चिन्तयेत् सुधीः || ७/१४ || सर्वत्र देवतावन्द्यं परमेष्टिस्वरूपकम् | एकग्रामे स्थितं नित्यं त्रिसन्ध्यं प्रणमेद्गुरुम् || ७/१५ || गुरुतुल्यं महेशानि नमकुर्याद्वरानने | स्त्रीणां पदतलं दृष्ट्वा गुरुवद्भावयेत् सदा || ७/१६ || श्रीखण्डपस्करुषितं भूषितं सुमनोहरम् | शरीरं कारयेद्देवि गन्धर्वदेवमुत्तमम् || ७/१७ || आलापं स्वस्त्रियासार्द्धं परयोषां विवर्जयेत् | नित्यं सत्वगुणेनैव पूजयेत् सूरसुन्दरीम् || ७/१८ || बीरभावं महेशानि शृणुष्व हरवल्लभे | देवता च महादेवि नान्योस्ति मम देहके || ७/१९ || रक्तवस्त्रपरिधानं रक्तमाल्यानुलेपनम् | त्रिपुण्डं भस्मना वापि रक्तचन्दनकेन वा || ७/२० || रुद्राक्षभूषितोदेवि सर्वाङ्गे च महेश्वरि | केवलं भैरवोभूत्वा यजेद्देवीं सनातनीम् || ७/२१ || प्रत्यहञ्च वलिन्दद्याद्देवताभावसिद्धये | समयाञ्च गृहीत्वा तु पूजादौ च महेश्वरि || ७/२२ || निशीथे पूजनञ्चैव कर्तव्यञ्च महेश्वरि | कुलवृक्षन्तथा दृष्ट्वा कर्तव्यञ्च महेश्वरि || ७/२३ || प्रणामं वन्दनञ्चैव प्रत्यहञ्च महेश्वरि | रात्रौ च पूजयेद्देवीं न दिवापि कदाचन || ७/२४ || रात्रौ ताम्बुलपूर्णास्योजपेन्मन्त्रं महेश्वरि | सर्वञ्चैव महेशानि परदेवेसमर्पयेत् || ७/२५ || पशुभावरता ये च केवलं पशुरूपिणः | रात्रौ यन्त्रञ्च मालाञ्च नस्पूशेत्तु कदाचन || ७/२६ || संशयो वलिदाने च तन्त्रे च संशयः सदा | मन्त्रे चाक्षरवुद्धिञ्च अविश्वासोगुरौ सदा || ७/२७ || प्रतिमायां शिलावुद्धिर्भेदकोदैवते सदा | निरामिषेण देवेशि देवतायाः प्रपूजनम् || ७/२८ || अज्ञानेन सदा स्नानं प्रत्यहं देहभाडनम् | सर्वेषाञ्चैव निन्दाञ्च मन्त्र कूर्यान्महेश्वरि || ७/२९ || स एव पशुभावेन च्यधमः परिकीर्तितः | उत्तमोदिव्यभावश्च वीरभावश्च मध्यमः || ७/३० || अधमः पशुभावश्च देवि सत्यं न संशयः | पशुभावे स्थिता मन्त्राः केवला वर्णरूपिणः || ७/३१ || कर्तव्यञ्च महेशानि देवताभावमुत्तमम् | दृष्ट्वा कुलं महेशानि कुलवृक्षं विशेषतः || ७/३२ || कुलगेहं महादेवि नमस्कुर्याद्वरानने | कूलस्त्रियं महादेवि तन्त्रमन्त्रविशारदाम् || ७/३३ || दूतीयागरताञ्चैव वेश्याम्वा पुंश्चलीन्तथा | वृद्धां वा युवतीं वापि नमस्कूर्याद्वरानने || ७/३४ || कुमारीपूजनाच्चैव सदा भक्तियुतोभवेत् | पञ्चवर्यं समारभ्य यावद्द्वादशवार्षिकी || ७/३५ || कुमारी सा भवेद्देवि निजरूपप्रकाशिनी | षड्वर्षञ्च समारभ्य यावच्च नववार्षिकी || ७/३६ || तावच्चैव महेशानि साधकाभीष्टसिद्धये | अष्टवर्षं समारभ्य यावत्त्रयोदशवार्षिकी || ७/३७ || युवतीं तां विजानीयात्तत्र पूजां समाचरेत् | दशवर्षं समारभ्य यावत् षोडशवार्षिकी || ७/३८ || युवतीं तां विजानीयाद्देवीतुल्यां विचिन्तयेत् | अन्नं वस्त्रं तथा नीरं कुमार्यै यो ददाति हि || ७/३९ || अन्नं मेरुसमं देवि जलञ्च नागरोः पमम् | वस्त्रैः कोटिसहस्रन्तु शिवलोके महीयते || ७/४० || पूजोपकरणञ्चैव कुमार्यै योददाति हि | सन्तुष्टा देवता तस्य पुत्रत्वेनानुकम्पते || ७/४१ || प्. १०) अशोकं विल्ववृक्षञ्च शिवाञ्चैव सुरेश्वरि | दृष्ट्वा प्राणामं कुर्याच्च सर्वकामार्थसिद्धये || ७/४२ || भल्लुकं शङ्यचिल्लञ्च गृध्रञ्चैव सुरेश्वरि | नमस्कुर्यान्महाकालीं युद्धे च जयमालभेत् || ७/४३ || चतुष्पथं श्मशानञ्च नमस्कुर्याद्विशेषतः | तत्र गत्वावधूतञ्च नमस्कुर्याद्वरानने || ७/४४ || उशासकं सदा दृष्ट्वा मधुरं भाषणं चरेत् | दानादानञ्च पुण्यं स्यात् तस्याद्दानं समाचरेत् || ७/४५ || समयां विना महादेवि न शक्तिः स्यात् कदाचन | तस्माच्चैव प्रमत्नेन गृह्णीयान्नात्र संशयः || ७/४६ || पार्वत्युवाच भगवन सर्वधर्मज्ञ सर्वागमविशारद | सिद्धपीठं महादेव कथयस्व मयि प्रभो || ७/४७ || शङ्कर उवाच श्रुयतां सावधानेन सिद्धपीठं पतिव्रते | यस्मिन् साधनमात्रेण सर्वसिद्धीश्वरोभवेत् || ७/४८ || मायावती मधुपुरी काशी गोरक्षकारिणी | हिङ्गुला च महापीठं तथा जालन्धरं पुनः || ७/४९ || ज्वालामुखी महापीठं पीठं नगरसम्भवम् | कामगिरिर्महापीठं तथा गोदावरी प्रिये || ७/५० || नेपालं कालसूत्रञ्च महावर्णं तथा प्रिये | अयोध्याञ्च कुरूक्षेत्रं सिंहनादं मनोहरम् || ७/५१ || मणिपूरं हृषीकेशं प्रयागञ्च तपोवनम् | वदरीञ्च महापीठं अम्विकामुर्द्धमानकम् || ७/५२ || त्रिवेणीञ्च महापीठं गङ्गासागरसङ्गमम् | नारीकोलञ्च विरजामुड्डीयानं महेश्वरि || ७/५३ || कुरुग्रामं वैद्यनाथं जानीयाद्वामलोचने | कामरूपं महापीठं सर्वकामफल प्रदम् || ७/५४ || कलौ शीघ्रफलं देवि कामरूपमिदं स्मृतम् | कामाख्यावस्त्रमादाय जपपूजां समाचरेत् || ७/५५ || पूर्णं कामं लभेद्देवि सत्यं सत्यं न संशयः | इत्येतत् कथितं देवि संक्षेपाद्वरवर्णिनि || ७/५६ || तव स्नेहात् प्रवक्ष्यामि भक्तिभावे सनातनि | पार्वत्युवाच इदानीं श्रोतुमिच्छामि वदस्व प्राणवल्लभ || ७/५७ || पुष्पस्य नियमं देव जगतां त्राणकारक | शङ्कर उवाच पुष्पस्य नियमं देवि शृणुष्व हरवल्लभे || ७/५८ || यस्य दानेन देवेशि सन्तुष्टा चाम्विका ध्रुवम् | अशोकं पद्मपुष्पञ्च चम्पकं नागकेशरम् || ७/५९ || धूस्तूरं मालतीपुष्पं जातीञ्च यूथिकान्तथा | वकुलं तगरञ्चैव मधुपुष्पं वसन्तिकाम् || ७/६० || कह्लारं करवीरञ्च वन्धूकञ्च लवङ्गकम् | जपापुष्पञ्च देवेशि रक्तपुष्पं विशेषतः || ७/६१ || अपराजिताया माहात्म्यं वक्तुं नैव च शक्यते | विल्वपत्रं महेशानि ब्रह्मविष्णुशिवात्मकम् || ७/६२ || स्वर्णस्य पुष्पभावस्य प्रदाने यत् फलं भवेत् | एकेन विल्वपत्रेण तत् फलं लभते ध्रुवम् || ७/६३ || जवापुष्पप्रदानेन पट्टवस्त्रफलं लभेत् | पद्मपुष्पप्रदानेन गौरीलोके महीयते || ७/६४ || पद्मपुष्पैर्जवापुष्पैर्होमं कुर्याद्विचक्षणः | रक्तचन्दनसंमिश्रं रक्तपुष्पं सुरेश्वरि || ७/६५ || दद्याद्भक्त्या सदा देव्यै वाजिमेधफलं लभेत् | जलजं स्थलजं वापि यच्च पुष्पं मनोहरम् || ७/६६ || दद्याच्चैव महेशानि सर्वकामफलप्रदम् | इति कुब्जिकातन्त्रे सप्तमः पटलः || अष्टमः पटलः पार्वत्युवाच महादेव जगन्नाथ प्राणेश परमेश्वर | साधकानां हितार्थाय साधनं मे प्रकाशय || ८/१ || शङ्कर उवाच साधनं वहूविधं देवि कलौ पुर्णफलप्रदम् | केवलं वीरभावेन साधनञ्च समाचरेत् || ८/२ || कुजवारे महादेवि कृष्णाष्टम्यां महानिशि | चतुष्पथे महाघोरे अयुतं प्रजपेत् सुधीः || ८/३ || दशाक्षरं महामन्त्रं(?) उग्रायाश्च सुरेश्वरि | पूजनं कृष्णपुष्पेण श्मशानकुसुमेन वा || ८/४ || महाचीनक्रमेणैव सर्वं कुर्यात् कुलेश्वरि | जुहूयान्नीलपुष्पेण चाष्टोत्तरशतं पुनः || ८/५ || तद्तस्मानि च तन्मन्त्रैर्निक्षिपेत् वैरिवेश्मनि | दशहाभ्यन्तरे वैरिविनाशो जायते ध्रुवम् || ८/६ || मायापदं समुच्चार्य क्षकारं तदनन्तरः | पुटितञ्च महेशानि शताभिमन्त्रितं पुनः || ८/७ || जपित्वा प्रक्षिपेद्देवि पशुहोमं समाचरेत् | कुलवारे महेशानि कुलद्रव्यैर्महेश्वरि || ८/८ || पञ्चमुण्डैर्महेशानि निक्षिप्य वटमुलके | आसनं तत्र संकल्प्य पूजाञ्चैव समाचरेत् || ८/९ || अष्टसहस्रं जपित्वा च होमं कुर्याद्विचक्षणः | कृष्णपुष्पैर्जवापुष्पैर्विशेषेण सुरेश्वरि || ८/१० || अतिचीनक्रमेणैव पूजां कुर्यात् कुलेश्वरि | निशीथे मुक्तकेशस्तु व्याघ्रचर्मधरोनरः || ८/११ || शिवबीजं विघ्नबीजं तारेण पुटितं मनुः | शताभिमन्त्रितं मुण्डं निःक्षिपेद्वैयिवेश्मनि || ८/१२ || सप्ताहाभान्तरे देवि नाशमाप्नोति निश्चितम् | अष्टम्याञ्च महादेवि शनिवारे तथा निशि || ८/१३ || पिष्टकं पुरुषाकारं रचयेत् परमेश्वरि | आसनं तत्र संकल्प्य विहितं पूजनञ्चरेत् || ८/१४ || अश्वस्थमूलमास्थाय सहस्रं प्रजपेत् सुधीः | पिष्टकैः शतहोमन्तु कुर्याअच्च परमेश्वरि || ८/१५ || होमशेषं समादाय श्रुयतां परमेश्वरि | वस्त्रं वस्त्रेण संवेष्ट्य वध्नीयाद्रक्ततन्तुना || ८/१६ || निःक्षिपेद्वैरिगेहे च विनाशञ्च व्रजेत् ध्रुवम् | कुलवारे महेशानि चितायामप्यसंस्कृतौ || ८/१७ || कवचन्तु पुरा कृत्वा तत्र पूजां समाचरेत् | प्.११)षट्सहस्रं जपं कृत्वा शतमष्टोत्तरं जपम् || ८/१८ || महाकाम्यं महामन्त्रं जपेत्तु परमेश्वरि | कृष्णपुष्पेण सम्पूज्य जुहूयादार्द्रकेण तु || ८/१९ || तदस्थि च समादाय सताभिमन्त्रितं पुनः | प्रक्षिपेद्वैरिगेहे च तस्योच्चाटनमुत्तमम् || ८/२० || श्मशानकाष्ठमादाय आसनं तत्र कल्पयेत् | आसने च जपेन्मन्त्रं शतमष्टोत्तरं शतम् || ८/२१ || विहितञ्च चितास्थानं तत्र पूजां प्रकल्पयेत् | षट्सहस्रं जपेन्मन्त्रं वैरिणा होमयेद् ध्रुवम् || ८/२२ || कुलाचारे महेशानि चतुर्दश्यां सुरेश्वरि | निशीथे च महेशानि कृष्णपुष्पण होमयेत् || ८/२३ || होमं कृत्वा वरारोहे वैरिणं मोहयेद् ध्रुवम् | कुलपुष्पेण देवेशि होमं कुर्याद्विचक्षणः || ८/२४ || श्मशानकालिकामन्त्रं जपेदष्टक्षरं वुधः | अष्टोत्तरसहस्रेण वैरिणं मोहयेत् ध्रुवम् || ८/२५ || शनिवारे महेशानि मुण्डमादाय यत्नतः | अष्टाक्षरं महामन्त्रं द्विसहस्रं जपेत् सुधीः || ८/२६ || वैरिणं मोहयेद्देवि त्रिमासात् परतोध्रुवम् | गोमुण्डञ्च समादाय नाममन्त्रं लिखेत्ततः || ८/२७ || अष्टसहस्रं जपेद्देवि वैरिणं नाशयेद् ध्रुवम् | जुहूयान्नीलपुष्पेण अष्टोत्तरशतं पुनः || ८/२८ || अथवान्यप्रकारेण श्रुयतां वरवर्णिनि | सुर्योदयं समारभ्य यावत् सूर्यान्तरं भवेत् || ८/२९ || तन्मन्त्रैः पुटितं कृत्वा वैरिणं मर्दयेत् क्षणात् | सन्ध्याकालं समारभ्य यावत् सुर्योदयं भवेत् || ८/३० || तावन्मन्त्रजपं कुर्याद् अनुलोमविलोमतः | कृष्णपुष्पेण होतव्यं यावदुच्चाटनं भवेत् || ८/३१ || अष्टाहाभ्यन्तरे वैरिविनाशोजायते ध्रुवम् | मातृकापुटितं कृत्वा प्रजपेत् सुरसुन्दरि || ८/३२ || अनुलोमविलोमेन तन्नाम्ना प्रजपेत् सुधीः | दशाहाभ्यन्तरे वैरिविनाशो जायते ध्रुवम् || ८/३३ || कुजावारे महेशानि चितामध्यसमागतः | योगिनीं तत्र सम्पूज्य भैरवं पूजयेत्ततः || ८/३४ || देवेशीं तत्र संस्पूज्य तारिणीं तत्र पूजयेत् | क्षेत्रपालञ्च सस्पूज्य तारिणीं तत्र पूजयेत् || ८/३५ || दशदिक्षु कीलकञ्च कर्तव्यञ्च सुरेश्वरि | विंशत्यक्षरमुचार्य नाम्नोमध्ये सनातनि || ८/३६ || पञ्चसहस्रं जपेन्मन्त्रं यावच्चैव महानिशा | तावज्जपं प्रकुर्वीत शत्रूणां नाशनाय च || ८/३७ || जुहूयाद्रक्तपुष्पेण शत्रून् मर्दयते क्षणात् | होतव्यं तत्रदेवेशि देवेशञ्च यजेत् सुधीः || ८/३८ || कुजवारे महेशानिशवमादाय यत्नतः | कीलकं तत्र वद्ध्वा च मूलमन्त्रैर्महेश्वरि || ८/३९ || तत्र सञ्चिन्तयेद्देवीं दैत्यदर्पनिसूदनीम् | भैरवं तत्र सम्पुज्य शवस्नानं समाचरेत् || ८/४० || चत्वारः कीलकास्तत्र पूजनञ्च समाचरेत् | वटुकं क्षेत्रपालञ्च योगिनीं भैरवीन्तथा || ८/४१ || स्त्रियं विना महेशानि ब्राह्मणं यवनन्तथा | यवनीञ्च विना देवि शवं सञ्चिन्तयेत् सुधीः || ८/४२ || अन्त्यजश्च शवः श्रेष्ठः प्रशस्तोयुद्धकर्मणि | शवरूपं शिवन्तत्र चिन्तयेत् परमेश्वरि || ८/४३ || कार्यं देवि महादेव सिद्धिं देहि सदा विभो | मन्त्रसिद्धिन्तथा देवि रक्ष मां शरणागतम् || ८/४४ || शवरूपमहादेव सर्वदेव नमोस्तुते | पठित्वैवं महादेवि शवपृष्ठं समाहितः || ८/४५ || जपन्तत्र प्रकुर्वीत सर्वकामार्थसिद्धये | करालीन्तत्र सम्पूज्य होमं कुर्याद्विचक्षणः || ८/४६ || सर्वकामार्थसिद्धिःस्याद्यद् यन्मसिनवर्त्तते | उतकटे च महादेवि कृष्णाष्टम्यां कुलेश्वरि || ८/४७ || रक्तवस्त्रं समादाय कुलद्रव्यैर्महेश्वरि | नग्नः शक्तिसमायुक्तो भुत्वा तु भैरवोत्तमः || ८/४८ || क्षकारं पूर्वमुद्धत्य नादबिन्दुसमन्वितम् | दक्षिणेकालिके देवि कामबीजं ततः परम् || ८/४९ || इति मन्त्रेण देवेशि पूजां कुर्याद्विशेषतः | गजान्तकसहस्रन्तु जपं कुर्याद्वरानने || ८/५० || रक्तपुष्पेण होमन्तु कर्तव्यं वरवर्णिनि | सर्वकामार्थसिद्धिः स्यात् स एव भैरवोत्तमः || ८/५१ || इति कुब्जिकातन्त्रे अष्टमः पटलः || ८ || नवमः पटलः भगवन् प्राणनाथेश सर्वतन्त्रविशारद | लक्षणं मन्त्रसिद्धेश्च कथ्यतां भुतभावन || ९/१ || शिव उवाच शृणु भद्रे प्रवक्ष्यामि श्रुयतां सावधानतः | हृदयग्रन्थिभेदश्च रोम्नश्च हर्षणन्तथा || ९/२ || तन्नाम्ना गदगदं वाक्यं उन्मत्त इव लक्षते | नित्यहर्षो नित्यश्रद्धा सर्वदा वेदभूषितम् || ९/३ || वासनावद्धदेवे च स्वप्ने ताञ्च प्रपश्यति | अज्ञानेनानुसन्धानात् पश्चात् ज्ञानं प्रपश्यति || ९/४ || तजज्ञानं स्थिरतामेति दृढञ्च जायते पुनः | देवताप्रतिसन्धानात् करुणोक्तिः प्रजायते || ९/५ || सर्वदा देवतां पश्यन् देवता भावसिद्धये | दिव्यं ज्ञानं शरीरे च सर्वदा देवतर्पणम् || ९/६ || निराविलं समानञ्च यः पश्यति स वुद्धिमान् | लोष्ट्रे च काञ्चने चैव समज्ञानञ्च पश्यति || ९/७ || स एव साधकश्रेष्ठो जीवन्मुक्तो न संशयः | साकारभावने देवि पूत्रवत् स्नेहमाचरेत् || ९/८ || आत्मीयत्वं समादाय हस्तपादादिसंयुतम् | मम देहे च नान्योस्ति देवता चैव तितष्ठति || ९/१० || नान्यद्देवं कदाचित्तु सर्वदा मुर्द्ध्नि तिष्ठति | त्रिशुलधारिणी देवी सर्वदा परिरक्षति || ९/११ || एवञ्च ध्यानयोगेन ज्ञानयोगेन वा पुनः | प्.१२) सर्वदानन्दहृदये महाज्ञानं दिने दिने || ९/१२ || एवमभ्यस्यमानश्च अहन्यहनि साधकः | साकारेण महेशानि निराकारञ्च भावयेत् || ९/१३ || साकारेण विना देवि निराकारंन पश्यति | साकारे मूलकं सर्वं साकारञ्च प्रपश्यति || ९/१४ || अभ्यासेन सदा देवि निराकारं प्रपद्यते | निराकारं समासाद्य निरञ्जनपदं लभेत् || ९/१५ || निराकारेण देवेशि कृतकृत्यश्च साधकः | एवं सर्वात्मना देवि कामरूपो न संशयः || ९/१६ || तस्मात् सर्वप्रयत्नेन भवेद् देवध्वजीनरः | देवताध्यानमात्रेण देवताभावमालभेत् || ९/१७ || सर्वं कुर्यान्महेशानि देरतायै समर्पणम् | वासनाभावरूपेण मनसायत् प्रतिष्ठितम् || ९/१८ || तत् सर्वञ्च भवत्येव देवि सत्यं न संशयः | पार्वत्युवाच हृदयेश महादेव परमेश पुरातन || ९/१९ || केनोपायेन देवेश मन्त्रसिद्धिर्भवेद् ध्रुवम् | पुरश्चर्याविधानञ्च कथ्यतां प्राणवल्लभ || ९/२० || शङ्कर उवाच साधु साधु त्वया पृष्टम् श्रुयतां वरवर्णिनि | अनायासेन मस्त्रस्य सिद्धिर्भवति सुन्दरि || ९/२१ || तत्सर्वं कथयिष्यामि सत्यं सत्यं सुनिश्चितम् | रमाबीजं विश्वबीजं वधूबीजं महेश्वरि || ९/२२ || पुटितैकजटामन्त्रं प्रजपेत् साधकोत्तमः | अष्टसहस्रं महेशानि जपेत्तु साधकोत्तमः || ९/२३ || गद्यपद्यमयीवाणी भवेत्तस्य न संशयः | कूर्चबीजं शक्तिबीजं क्षकारं तदनन्तरम् || ९/२४ || पुटितं दक्षिणामन्त्रं षट्सहस्रं क्रमेण तु | सर्वराज्येस्वरो भूत्वा विचरेद्धि महीतले || ९/२५ || कुलस्त्रीयोनिमध्ये तु धुमामन्त्रं समालिखेत् | शक्त्या तु पटितं कृत्वा नवलक्षम् जपेत् सुधीः || ९/२६ || युद्धे विजयमाप्नोति स एव साधकोत्तमः | कुलन्त्रीयोनिमध्ये तु धूमामन्त्रं लिखेत् पुनः || ९/२७ || अष्टसहस्रं जपेद्धीमान् विचरेद्धि महीतले | युद्धे विजयममाप्नोति शत्रून् नाशयते क्षणात् || ९/२८ || कुलस्त्रीभालमूले च लिखेन्मन्त्रं सुलक्षणम् | तं दृष्ट्वा साधकश्रेष्ठः पञ्चलक्षं जपेत् पुनः || ९/२९ || स भवेद्देवतातुल्यो नरेन्द्रश्च न संशयः | मातृकापुटितं कृत्वा धनदामन्त्रमुत्तमम् || ९/३० || द्विसहस्रं जपेत् प्राज्ञः सर्वराज्येश्वरोभवेत् | विचरन्ति यथा देवास्तथैव साधकोत्तमः || ९/३१ || महापद्मस्य मध्ये तु अष्टपत्रं लिखेत्ततः | अष्टपत्रस्य मध्ये तु वगलामन्त्रकं पुनः || ९/३२ || हृदये स्थापयित्वा तु जपेत्त साधकोत्तमः | सतां क्षोभं नयत्येवमरीन्मर्द्दयते क्षणात् || ९/३३ || अष्टसहस्रं द्विसहस्रं नवसहस्रं जपेत् सुधीः | त्रैलोक्यं क्षोभयत्येव सत्यं सत्यं न संशयः || ९/३४ || कामबीजं रमाबीजं गुरुबीजं महेश्वरि | धनदापुटितं कृत्वा दिक् सहस्रं जपेत् सुधीः || ९/३५ || वातस्तम्भं जलस्तम्भं वह्निशैत्यं नयेद् ध्रुवम् | सुरसुन्दरी महामन्त्रं कलौ पूर्णफलप्रदम् || ९/३६ || पूटितं शक्तिवीजन्तु त्रिमासात् परतो ध्रुवम् | स्त्रीरूपा सुन्दरी देवि निकचै ब्रजति ध्रुवम् || ९/३७ || अनायासेन देवेशि कलौ पूर्णफलप्रदा | तस्मात् सर्वप्रयत्नेन कर्तव्यञ्च महेश्वरि || ९/३८ || रतिसुन्दरी महादेवी रतिबीजसमन्विता | अष्टसहस्रं जपेद्देवि ततःसिद्धिं समालभेत् || ९/३९ || प्राणहीनो यथा देहः सर्वकर्मसु न क्षमः | पुरश्चरणहीनस्तु तथामन्त्रः प्रकीर्तितः || ९/४० || पञ्चाङ्गोपासनञ्चैव पुरश्चरणकर्मणि | जपहोमौ तर्पणञ्चाभिषेको ब्रह्मणभोजनं || ९/४१ || पञ्चाङ्गानि महेशानि साधकानां सुखावहम् | महाभियेकात् पुरुषः सर्व कर्मसु च क्षमः || ९/४२ || महाभिषेकं विना देवि न कुर्यान्मन्त्रचिन्तनम् | तस्मात् सर्वप्रयत्नेन अभिषेकी भवेन्नरः || ९/४३ || शरत् काले महादेवि कर्तव्यं मन्त्रचिन्तनम् | नवमीन्तु समारभ्य यावच्च नवमी भवेत् || ९/४४ || तावज्जपः प्रकर्तव्यः पुरश्चरणमिष्यते | चतुर्थ्यान्तु समारभ्य यावच्च नवमी भवेत् || ९/४५ || तावज्जपः प्रकर्तव्यः सखण्डं परिकीर्तितम् | सप्तम्याञ्च समारभ्य यावच्च नवमी भवेत् || ९/४६ || तावज्जपादिकं कुर्यात् सर्वकामार्थसिद्धये | शुभकाले समारभ्य मन्त्रसाधनमाचरेत् || ९/४७ || चन्द्रसूर्यग्रहे चैव कर्तव्यं मन्त्रचिन्तनम् | ग्रासाद्विमुक्तिपर्यन्तं जपेन्मन्त्रमनन्यधीः || ९/४८ || सूर्योदयं समारभ्य यावत् सूर्योदयं भवेत् | तावत् जपं प्रकुर्वीत मन्त्रसाधनमाचरेत् || ९/४९ || चन्द्रोदयं समारभ्य यावच्चन्द्रान्तरं भवेत् | तावज्जपं प्रकुध्वीत मन्त्रसाधन माचरेत् || ९/५० || रात्रौ ताम्बूलपूणीस्यो जपेन्मन्त्रमनन्यधीः | हविष्याशी जपेन्नक्षं दिवा चैव सुरेश्वरि || ९/५१ || रहस्यञ्च महेशानि कलौ पूर्णफलप्रदम् | शक्तिं गृहीत्वा देवेशि जपं कुर्यात् समाहितः || ९/५२ || रहस्यं कथितं देवि त्रिषुलोकेषु दुर्लभम् | शोधनं शक्तिमन्त्रेण शक्तेश्चैव महेश्वरि || ९/५३ || समयाञ्च गृहीत्वादौ जपं कुर्यात् समाहितः | इति श्रीकुब्जिकातन्त्रे पार्वतीपरमेश्वरसंवादे नवमः पटलः || ० || ९ || प्. १३) दशमः पटलः अथ बाधकप्रकरणम् ओं नमः परमदेवतायै श्रीमहादेव उवाच अथेदानीं प्रवक्ष्यामि वन्ध्यायाश्चोत्तमं विधिम् | रक्तमात्री च षष्ठी च डाङ्कुरो जलकुमारकः || चतुर्विधो बाधकः स्यात् स्त्रीणां मुनिविभाषितः | तेषां स्वभावं वक्ष्यामि यथाशास्त्रं विधानतः | एतेषां पूजनं (सफलं) कार्यं जनैः सन्तानकाङ्क्षिभिः | निःसारणं (निशार्च्चनं) स्थापनञ्च वलिदानं विशेषतः || कर्त्तव्यं गुरुवाक्येन ज्ञात्वा शास्त्रस्य लक्षणम् | चतुर्विधो बाधकः स्याद् जायते ऋतुकालतः || व्यथा कट्यां तथा नाभेरधः पार्श्वे स्तने तथा | रक्तमात्री प्रदोषेण जायते फलहीनता || मासमेकं द्वयं वापि ऋतूहीना भवेद्यदि | रक्तमात्रीप्रदोषेण जायते फलहीनता || इति रक्तमात्रीबाधकः || १ || नेत्रे हस्ते भवेज्ज्वाला योनौ चैव विशेषतः | लालासंयुक्त रक्तञ्च (विवर्णः) षष्ठीनां वाधकेन च || मासैकेन भवेद् षस्या ऋतुस्नानं द्वयं तथा | मलिना रक्तयोनिः स्यात् षष्ठीनां दूषणं भवेत् || इति षष्ठीबाधकः || ९ || उद्वेगो गुरुता देहे रक्तस्रावो भवेन्मुहूः (भवेद्वहूः) | नाभेरधो भवेच्छूलं भाङ्कुरः सुतहारकः || मासत्रये चतुर्थे वा ऋतुहीना भवेद्यदि | कृशाङ्गी करपादे स्याज्ज्वाला डाङ्कुरदूषणम् || इति डाङ्कुरस्य बाधकः || ३ || सशूला च सगर्भा च शुष्कदेहाल्परक्तिका | जलकुमारदोषेण जायते फलहीनता || सदा क्रुद्धा भवेत् स्थूला वहूकाले ऋतुस्तथा | गुरुस्तनी स्वल्परक्ता जलकुमारदूषणम् || इति जलकुमारस्य बाधकः || ४ || अथ पूजायन्त्राणि त्रिकोणं नवकोणञ्च षट्कोणं मण्डलाकृतिः | यन्त्राण्येतानि संलिख्यावाहयेन्मन्त्रपूर्वकम् || अथ रक्तमात्रीषष्ठिकयोर्ध्यानम् | ओं गौराङ्गीं (शशिशेखरां त्रिनयनां) पुत्रन्यस्तभुजद्वयाम् | ध्यायेन्मन्त्री जगद्धात्रीं सूतिकागारवासिनीम् || ओं शुक्लवर्णां द्विवाहूञ्च सुतिकागृहसंस्थिताम् | स्त्रीरजः पायिनीं शान्तां भजे त्रिभुवनेश्वरीम् || अथ डाङ्कुर जलकुमारयोर्ध्यानम् ओं शुक्लवर्णं द्विवाहूञ्च सूतिकागृहसंस्थितम् | स्त्रीरजः पायिनं शान्तं भवेत् त्रिभुवनेश्वरम् || अथ पूजोपचाराः षोडशैरुपचारैस्तु पूजयेत् त्रिदिनावधि | सुवर्ण - रौप्य - ताम्रादि - पट्टवस्त्रादिभूषणैः || अष्टोत्तरशतं मन्त्रं सहस्रं वापि भैरवि | एवं पूजादिकं कृत्वा वलिं दद्याद्विचक्षणः || वलिन्तु त्रिविधं दद्यात् थ-भू-जलचरं तथा | वलिं दद्यात् प्रयत्नेन भक्षयेदौषधं शुचिः || प्. १५) अथ मन्त्राः मन्त्राद्धारं प्रवक्ष्यामि शृणुष्व वरवर्णिनि | तारं मायां तथा लक्ष्मीं ड्रूं फट् स्वाहान्तको मनुः || जपेदष्टोत्तरशतं रक्तमात्रीमनुं बुधः | ओं ह्री/ श्री/ हू/ फट् स्वाहा | (इति रक्तमात्रिकामन्त्रः) तारं कामयुगं बीजं फट् स्वाहान्तो मनुर्मतः | षष्ठीदेव्याश्च मन्त्रोऽयं पुत्रसिद्धिप्रदायकः || ओं क्ली/ क्ली/ फट् स्वाहा || (इति षष्ठीदेवीमन्त्रः) ओं ह्री/ विमलाबीजं देवि रक्तयोगिणीमनुः || स्वाहान्तोऽयं महामन्त्रो डाङ्कुरस्य तु वै जपेत् | ओं ह्री/ वज्रयोगिनी ओं ह्री/ स्वाहा || (इति डाङ्कुरस्य मन्त्रः) तारं शूलाय वज्रेति हस्ताय तदनन्तरम् | स्वाहान्तोयं मनुर्देवि जलकुमारस्य निश्चितः || ओं शूलाय वज्रहस्ताय स्वाहा || (इति जलकुमारस्य मन्त्रः) अथ बाधकौषधम् स्नानकाले समुत्पन्ने देयमौषधमुत्तमम् | रक्तकार्पासमूलञ्च नागदानं तथैव च || विड्वलयाश्च मूलञ्च मरिचेन समन्वितम् | देयञ्च त्रिदिनं यावदशुचिः स्याद्यदाङ्गना || स्नानोपरि च दातव्यं वार्ताकीकीटमुत्तमम् | एकविंशद्दिनं यावद् दुग्धेन मिश्रितं पिवेत् || तद् यथा मेथितोलकद्वितीयं (तोलकमेकञ्च) खण्डञ्च तोलकद्वय घृतं तोकलमेकञ्च दुग्धेन मिलितं पिवेत् | दुग्धं षोडशतोलञ्च प्रमाणं परिकीर्तितम् | मृतवत्सा मृतगर्भा काकवन्ध्या तथैव च || पुत्रहीना च वन्ध्या च परेणैवापराधिता | संहरेत् सर्वदोषांश्च मेथिभक्षणमुत्तमम् || नाडीशुद्धायां स्त्रियामपर ऋतुकाले इदमौषधं देयम् || अश्वगन्धा वटव्यालो लक्षणस्य च मूलकम् | (तदभावे वाट्यालकं श्वेतञ्च वरवर्णिनि) | भक्षयेत् सपुरात्राणि दुग्धे पिष्ट्वा पुनः पुनः | अवश्यं सन्ततिस्तस्याः पुंहीना गर्भधारिणी || इति कुब्जिकातन्त्रे देवीश्वरसंवादे दशमः पटलः | प्. १६) एकादशः पटलः (मूल} साधकश्च शुचिर्भुत्वा नुतनं वस्त्रं परिधाय भद्रासने चोपविश्य मन्त्रं विन्यस्य पुरतः संस्थाप्य सङ्कल्पं कुर्याद् यथा - विष्णुः ओं तत्सदद्यामुके मासि अमुके पक्षे अमुकतिथौ अमुक गोत्रायाः श्री अमुकी देव्या (दास्या वा शूद्रस्य) गर्भबाधकदोषोपशमन- कामनया अपत्यनाशकदोषोपशमनकामनया गणपत्यादि नाना देवतापूजापूर्वकं रक्तमात्रिकापूजनमहं करिष्यामि | सङ्कल्पसुक्तं यथावेदोक्तं पठित्वा | अयमारम्भः शुभाय भवतु | ततो घटस्थापनं कुर्यात् * || (व्याख्या) * तत्र प्रथमं आचमनं कुर्यात् | अथ आचमनं | याज्ञवल्क्यं | अन्तर्जानु शुचौ देशे उपरिष्ट उदङ्मुखः | प्राग्वा ब्राह्म्येण तीर्थेन द्विजो नित्यमुपस्पृशेत् | अन्तर्जानु जानुनोर्मध्ये हस्तौ कृत्वेति शेषः | तत्प्रकारमाह दक्षः | प्रक्षाल्य पाणीपादौ च त्रिः पिवेदम्बु वीक्षितम् | सम्वृत्याङ्गुष्ठ- मूलेन द्विः प्रमृज्यात्ततो मुखम् | संहत्य तिसृभिः पूर्वमास्यमेवम्- उपस्पृशेत् | अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् | अङ्गुष्ठा- नामिकाभ्याञ्च चक्षुश्रोत्रे पुनः पुनः | नाभिं कनिष्ठाङ्गुष्ठेन हृदयन्तु तलेन वै | सर्वाभिस्तु शिरोदेशं वाहू चाग्रेण संस्पृशेत् | जलस्थलोभयकर्मानुष्ठानार्थञ्च जलस्थलैकचरणेनाचमनं कर्तव्यमिति पैठीनसिः | अन्तरुदके आचान्तोऽन्तरेव शुद्धो भवति वहिरुदके आचान्तो वहिरेव शुद्धः स्यात्, तस्मादन्तरेकं वहिरेकञ्च कृत्वा पादमाचामेत् सर्वत्र पूतो भवति | ततः स्वशाखोक्तक्रमेण ब्राह्मणान् पुण्याहादिकं वाचयेत् | यथा ब्राह्मणान् गन्धपुष्पादिभिरभ्यर्च्य कृताञ्जलिः ओं कर्तव्येऽस्मिन् अमुककर्मणि पुण्याहं भवन्तोऽधिब्रुवन्तु इति त्रिर्वदेत् | ओं पुण्याहं ओं पुण्याहं ओं पुण्याहं इति ब्राह्मणैरुक्ते कर्ता ओं ------------------------------------------------------ (मूल) गनपत्यादिदेवताश्च पूजयेत् | ततः शिवादिपञ्चदेवता आदित्यादिनवग्रहान् इन्द्रादिदिक्पालांश्च पूजयेत् | ततो विघ्नानुत्सार्य ओं फट् इति मन्त्रेण गन्धपुष्पाभ्यां करौ संमार्ज्य उद्धोर्द्धतालत्रयं दत्वा छोटिकाभिर्दशदिग्वन्धनं कुर्यात् | ओं ह्रा/ हृदयाय नमः | ओं ह्री/ शिरसे स्वाहा | श्री/ शिखायै फट् | ------------------------------------------------------ (व्याख्या) कर्तव्येऽस्मिन् अमुककर्मणि ओं स्वस्ति भवन्तोऽधिव्रुवन्तु | इति त्रिः ओं स्वस्ति ओं स्वस्ति ओं स्वस्ति इति ब्राह्मणाः | कर्ता ओं कर्तव्येऽस्मिन् अमुककर्मणि ओं ऋद्धिं भवस्तोऽधिव्रुवन्तु इति त्रिः ओं ऋध्यतां ओं ऋध्यतां ओं ऋध्यतां | इति ब्राह्मणः | ततः स्वस्तिवाचनं कुर्यात् || तत्र यजुर्वेदिस्वस्तिवाचनम् - ओं स्वस्तिन इन्द्रो वृद्धश्रवाः स्वस्तिनः पूषा विश्ववेदाः स्वस्तिनस्तार्क्षाऽरिष्टनेमिः स्वस्तिनो वृहस्पतिर्दधातु | ओं गणानान्त्वा गणपति हू/ हवामहे प्रियाणान्त्वा प्रियपति हू/ हवामहे निधीनान्त्वा निधिपति हू/ हवामहे वसो मम ओं स्वस्ति ओं स्वस्ति ओं स्वस्ति || अथ ऋग्वेदिस्वस्तिवाचनमन्त्रः | ओं स्वस्तिनो मिमीता मश्विनाभगः स्वस्ति देव्यदितेरनर्वणः स्वस्ति पूषा असुरो दधातु नः स्वस्तिद्यावा पृथिवी सुचेतन स्वस्तिनो वायूमुपव्रुवामहै | सोमं स्वस्ति भुवनस्यषम्पतिः | वृहस्पतिः सर्वगणं स्वस्तये स्वस्तय आदित्याशो भवन्तुनः | विश्वेदेवा नो अद्याः स्वस्तये | वैश्वानरो वसुरग्निः स्वस्तये | देवा अभवन्तु ऋतवः स्वस्तये | स्वस्तिनोरुद्रः पात्वंहसः | स्वस्ति मित्रावरुणा स्वस्तिपथ्ये रेवति स्वस्तिन इन्द्रश्चाग्निश्च स्वस्तिनो अदितये कृधि | स्वस्तिपन्था अनुचरेम सूर्याचन्द्रमसाविव | पुनर्ददता घ्नता जानता सङ्गमेमहि | स्वस्त्ययनं तार्क्षमरिष्टनेमिं महद्भूतं वायसं देवानां | अनुरघ्नमिद्रसखं समुत्सुर्वृहद्यशोनावमिवारुहेम | सङ्घोमुच माङ्गिरसङ्गयञ्च स्वस्त्यात्रयं मनसा च तार्क्षं प्रेतपाणिः शरणं प्रपद्ये | स्वस्ति सम्वादे सभयं नोऽस्तु | ओं स्वस्ति ओं स्वस्ति ओं स्वस्ति इति || अथ सामगानां स्वस्तिवाचन मन्त्रः | ओं सोमं राजानं वरुणमग्निमन्वार भामहे | आदित्यं विष्णुं सूर्यं ब्रह्माणञ्च वृहस्पतिं ओं स्वस्ति ओं स्वस्ति ओं स्वस्ति इति || अथ ततत्रिवेदीतु | ओं सूर्यः सोमो यमः कालः सन्ध्ये भूतान्यहक्षपाः | पवनो दिक्पतिर्भूमिराकशं थचाहिदराः (?) | ब्राह्म्यं शासनमास्थाय कल्पध्वमिह सन्निधिं इति || || ------------------------------------------------------ (मूल) प्. १७) हू/ कवचाय फट् | नेत्रत्रयाय वौषट् | स्वाहा अस्त्राय फट् | एवं कराङ्गन्यासं कृत्वा | ध्यायेत् - ओं गौराङ्गीं शशिशेखरां (त्रिनयनां) पुत्रस्तेयभुजद्वयाम् | ध्यायेत् त्रिजगतां धात्रीं सुतिकागृहवासिनीम् | एवं ध्यात्वा स्वशिरसि पुष्पं दत्वा आत्मानं तन्मयं विभ्याव्यमानसोपचारैः सम्पूज्य अर्घ्यं कुर्याद्यथा स्ववामे त्रिकोणंगुलं कृत्वा तदुपरि ताम्रादिपात्रं संस्थाप्य | यं वह्निमण्डलाय दशकलात्मने नमः | इति त्रिकोणमण्डले | यं अर्कमण्डलाय द्वादशकलात्मने नमः | उं चन्द्रमण्डलाय षोडशकलात्मने नमः || इति जले पूजयेत् || ---------------------------------------------------------- (व्याख्या) अथ यजुर्वेदिसङ्कल्पसुक्तम् | - ओं य *? ग्रतो दुरमुदैति दैवं तिदसुप्तस्य तथैवेति दुरं गमम् | ज्योतिषां जोतिरेकं त *? मनः शिव * ? कल्पमन्त्र इति || अथ ऋग्वेदिसङ्कल्पसुक्तम् | - ओं षागुं कुर्यासिनीवाली या राका या सरस्वती इन्द्राणि वाह्व उभये वरुणानी स्वस्तये इति || अथ सामवेदि सङ्कल्पसुक्तम् | - ओं देवो वो द्रविणोदा पूर्णं विवष्टासिचम् | युद्वा सिञ्चधवमुपवा प्रणुधवमादिद्वो देवोहते इति | शालग्रामादौ पूजामारभेत् | घटे तु घटस्थापनमन्त्रैर्घटं संस्थाप्य पूजयेत् || अथ तान्रिकघटस्थापनम् | - नातिह्रस्वं नातिदीर्घं मृत्ताम्रस्वर्णणिर्मितम् | साधकः कलसं कुर्यान्निर्व्रणं सुदृढं शुचिः || कामबीजेन संप्रोक्ष्य वाग्भवेनैव शोधयेत् | शक्त्या कलसमारोप्य मायया पुरयेज्जलैः | मन्त्रेणानेन देवेशि दैशिकन्तत्र विन्यसेत् | ओं गङ्गाद्याः सरितः सर्वाः सरांसि जलदा नद्यः | ह्रदाः प्रस्रवणाः पूण्याः स्वर्गपातालभुगताः | सर्वतीर्थानि पुण्यानि घटे कुर्वन्तु सन्निधिम् || रमावीजेन जप्तेन पल्लवं प्रतिपादयेत् | कुर्च्चेन फलदानं स्यात् स्त्रीवीजेन स्थिरीकृतिः | सिन्दूरं वह्निबीजेन पुष्पं दद्याच्च वायुना | मूलेन दूर्वां प्रणवैः कुर्यादभ्यक्षणं ततः | हू/ फट् स्वाहेति मन्त्रेण कुर्याद्दर्भेण ताडनम् | तद्यथा | क्ली/ इति संप्रोक्ष्य ऐ/ इति शोधयेत् ह्री/ इति मण्डले कलसं संस्थाप्य ह्री/ इति जलैः पुरयेत् | ओं गङ्गाद्याः इति मन्त्रेण तीर्थावाहनं कुर्यात् श्री/ इति पल्लवं दत्वा हू/ इति वीजेन फलं दत्वा कलसं स्थापयेत् | स्त्री/ इति स्थीरी करणं रम् | इति सिन्दूरं यं इति पुष्पं तत्तद्देवताया मूलमन्त्रेण दूर्वां दद्यात् ओं इत्यभ्यक्षणं ओं फट् स्वाहा इति दर्भेण ताडयेत् | अथ सामान्यार्घ्यं यथा स्ववामे त्रिकोणवृत्तचतुष्कोणमण्डलं विलिख्य तत्र ओं आधारशक्तये नमः | ओं अनन्ताय नमः | ओं कुर्माय नमः | ओं पृथिव्यै नमः | इति अक्षतैः सम्पूज्य अस्त्राय फट् इति ताम्रादि पात्रं प्रक्षाल्य साधारं पात्रं मण्डले निधाय नमः इति मेन्त्रेण जलेन सम्पूज्य दुर्वाक्षतगन्धपुष्प- निर्मितार्घ्यं संस्थाप्य अङ्कुश मुद्रया | --------------------------------------------- (मूल) तदुपरि दूर्वा-तण्डुलगन्धपुष्पादीनि दत्वा तज्जले धेनुमुद्रां प्रदर्श्य अङ्कुशमुद्रया तिर्थावाहनं कुर्यात् | ओं गङ्गे चेत्यादिना तीर्थमावाह्य ततः षडङ्गेन पूजयेत् | पुनरङ्गन्यासं कृत्वा अग्निकोणमण्डल वायुकोणमध्ये दिक्षु च पूजयेत् | ततो मूलमन्त्रं सप्तधा जप्त्वा तेनोदकेनात्मानं पूज्योपकरणञ्चाभ्यक्ष्य पीठपूजामारभेत् | ओं आधारशक्तये नमः | ओं पृथियै नमः | ओं क्षीरसमुद्राय नमः | ओं कल्पवृक्षाय नमः || ----------------------------------------------- (व्याख्या) ओं गङ्गे च यमुने चैव गोदावरि सरस्वति | नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु | इति सूर्यमण्डलातीर्थमावाह्य | ओं इतिमन्त्रेण गन्धपुष्पे तत्र पात्रे निक्षिप्य | वं इति धेनुमुद्रां प्रदर्श्य तदुपरि ओं इति प्रणवमष्टधा दशधा वा जपेत् | ततः फट् इति मन्त्रेण तज्जलेन द्वारमभ्यक्ष्य ओं द्वारदेवताभ्यो नमः इति इति संपूज्य | ओं वास्तुपूञ्चषाय नमः | ओं ब्रह्मणे नमः इति नैरृत्यां पूजयेत् | ततो मुलमन्त्रेण दिव्यदृष्ट्यवलोकनात् दिव्यान् विघ्नान्, अस्त्राय फट् इति मन्त्रेण जलेनान्तरीक्षगान् विघ्नान् वामपार्ष्णिवातत्रयेण भौमान् विघ्नानुत्सार्य फट् इति सप्तजप्तान् लाजचन्दनसिद्धार्थभस्मदूर्वाकुशाक्षतान् विकीरेत् केवलतण्डुलान् वा गृहीत्वा | ओं अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया || इति पठित्वा तान् विकीरेत् | तत् आसनसुद्धिं कुर्यात् || अथ आसनसुद्धिः | - ओं ह्रीं आधारशक्तये कमलासनाय नमः | इति आसनं संपूज्य धृत्वा पठेत् | आसनमन्त्रस्य मेरुपृष्ठऋषिः सूतलं छन्तः कुर्मो देवता आसनपरिग्रहे विनियोगः | ओं पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता | त्वञ्च धारय यां नित्यं पवित्रं कुरु चासनम् | इति पठित्वा स्वस्तिकादिक्रमेण उपविशेत् | ततः कृताञ्जलिः | वामे ओं गुरुभ्यो नमः | ओं परमगुरुभ्यो नमः | ओं परापरगुरुभ्यो नमः | ओं परमेष्ठिगुरुभ्यो नमः | दक्षिणे ओं गणेशाय नमः | मध्ये मूलमूच्चार्य अमुकदेवतायै नमः | इति नमस्कुर्यात् || ततो गणेशशिवादिपञ्चदेवता इत्यादिदिक्पाल-आदित्यादिनवग्रह- मत्स्यादिदशावतार-ब्रह्म-विष्णु-मेहेश्वरान् गङ्गां यमुनां लक्षीं सरस्वतीञ्च पूजयेत् | ततः प्राणायामं कृत्वा भूतशुद्धिं कुर्यात् | अथ भूतशुद्धिः | - फट् इति मन्त्रेण गन्धपुष्पाभ्यां करौ संशोध्य उर्द्धोर्द्धतालत्रयं दत्वा छोटिकाभिर्दशदिग्वन्धनं कृत्वा | ----------------------------------------------- (मूल) (प्. १८) ओं धर्माय नमः | ओं ज्वालाय ओं नमः | अधर्माय नमः | ओं अज्ञानाय नमः | ओं वैराग्याय नमः | ओं ऐस्वर्याय नमः | ओं अवैराग्याय नमः | ओं अनैस्वर्याय नमः | ओं संसत्वाय नमः | ओं रं रजसे नमः | ओं तं तमसे नमः | ओं अन्तराम्तने नमः | ओं गं ज्ञनात्मने नमः | प्रणवादिणमोहन्तेन पूजयेत् | पुनर्ध्यायेत् ततश्चावहयेत् ओं भगवति रक्तमात्रि देवि इहा गच्छागच्छेत्यावाह्य | ---------------------------------------------- (व्याख्या) रं इति जलधारया वह्निप्राकारमात्मानं विचिन्त्य स्वाङ्के उत्तानौ करौ कृत्वा सोऽहमिति जीवात्मानं हृदयस्थं प्रदीपकलिकाकारं मूलाधारस्थकुण्डलिस्या सह सुषुम्ना वर्त्मना मूलाधारन्- वाधिष्ठानमणिपुरानाहतविशुद्धाज्ञाथ्यषट्चक्राणि भित्वा शिरोऽवस्थिताधोमुखसहस्रदलकमलकर्णिकान्तर्गतपरमात्मनि संयोज्य तत्रैव पृथिव्यप्तेजोवायवाकाशगन्धरसरूपस्पर्शशब्दनासिका- जिह्वाचक्षुस्त्वक्श्रोत्रवाक्पाणिपादपायूपस्थप्रकृतिमनोवुद्ध्यहङ्कार- रूपचतुर्विंशतितत्त्वानि लीनानि विभाव्य यमिति वायुवीजं धूम्रवर्णं वामनासापूटै विचिन्त्य तस्य षोडशवारजपेन वायुना देहमापुर्य नासापुटौ धृत्वा तस्य चतुःषटिवारजपेन कुम्भकं कृत्वा वामकुक्षिस्थकृष्णवर्णपापपुरुषेण सहूदेहं | संशोष्य तस्य द्वात्रिंशद्वारजपेन दक्षिणनासरा वायुं रेचयेत् | दक्षिणनासापुटे रमिति वह्निवीजं रक्तवर्णं ध्यात्वा तस्य षोडवारजपेन वायुना देहमापूर्य नासापुटौ धृत्वा तस्य चतुःषष्टिवारजपेन कुम्भकं कृत्वा पापपुरुषेण सह देहं मुलाधारोझितवह्निना दग्ध्वा तस्य द्वात्रिंशद्वारजपेन वामनासया भस्मना सह वायुं रेचयेत् | ठमिति चन्द्रबीजं शुक्लवर्णं वामनासायां ध्यात्वा तस्य षोडशवारजपेन ललाटे चन्द्रं नीत्वा नासापुटौ धृत्वा वमिति वरुणबीजस्य चतुःषष्टिवारजपेन तस्माल्ललाटस्थचन्द्राद्गलितसुधया मातृकावर्णात्मिकया समस्तदेहं विरच्य लमिति पृथ्वीबीजस्य द्वात्रिंशद्वारजपेन देहं सुदृढं विचिन्त्य दक्षिणेन वायुं रेचयेत् ततः हंस इति मन्त्रेण जीवं स्वस्थाने संस्थाप्य देवीरूपमात्मानं चिन्तयेत् | मात्रासंख्यया च | तदुक्तं गौतमीये | सुषुम्ना वर्त्मना सोऽहमिति मन्त्रेण योजयेत् | सहस्रधारे शिवस्थाने परमात्मनि देशिकः | धूम्रवर्णं ततो वायुबीजं षड्बिन्दुलाञ्छितम् | पूरयेदिडया वायूं सुधीः षोडशमात्रया | मात्रया तु चतुःषष्ट्या कुम्भयेच्च सुषुम्नया | द्वात्रिंशन्मात्रया मन्त्री रेचयेत् पङ्गलाख्यया | पूरयेदनया चैव सञ्चिन्त्य नीलमारुटम् | रक्तवर्णं वह्निबीजं त्रिकोणं स्वस्तिकान्वितम् | तेन पूरकयोगेन मात्रया षोडशाख्यया | चतुःषष्ट्या मात्रया च निर्दहेत् कुम्भकेन च | वामर्श्वस्थितं पापपुरुषं कज्जलप्रभम् | ब्रह्महत्याशिरस्थञ्च स्वर्णस्तेयुभुजद्वयम् | ---------------------------------------------------------- (मूल) एतद्रजतासनं ओं ह्री/ श्री/ हू/ फट् स्वाहा ओं रक्तमात्र्यै देव्यै नमः | एवं षोडशोपचारैः संपूज्य मन्त्रोद्धारक्रमेनाष्टोत्तरशतं सहस्रं वा जपेत् | ततो वलिदानं कुर्यात् | वलिञ्च त्रिविधं दद्यात् ख-भू-जलचरं तथा | ततो दक्षिणां दद्यात् | इति कुब्जिकातन्त्रे देविश्वरसंवादे एकादशः पटलः || --------------------------------------------------------- (व्याख्या) सुरापानहृदायुक्तं गुरुतल्पकटिद्वयम् | तत्संसर्गिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् | उपपातकरोमाणं रक्तश्मश्रुविलोचनम् | खड्गचर्मधरं क्रूरमेवं कुक्षौ विचिन्तयेत् | मुलाधारोखितेनैव वह्निना निर्दहेच्च तम् | एवं संदह्य परितो द्वात्रिंशन्मात्रया ततः | भस्मना सहितं मन्त्री रेचयेदिडया पुनः | वामनाड्यां चन्द्रबीजं कुन्देन्दुयुतसप्रभम् | भालेन्दुराजे संयोज्य ततः षोडशमात्रया | सुषुम्नाया चःतुषष्टिमात्रया तोयबीजकम् | ध्यात्वामृतमयीं वृष्टिं पञ्चाशद्वर्णरूपिणीम् | तया देहं विचिन्त्यैवं मनसा पिङ्गलाध्वना | द्वात्रिंशन्मात्रया मन्त्री लंबीजेन दृढं नयेत् | स्वस्थाने हंसमन्त्रेण पुनस्तेनैव वर्त्मना | जीवं तत्त्वानि चानीय स्वस्थाने स्थापयेत् ततः || अथ संक्षेपभूतशुद्धिर्यथा | - पुरश्चरणचन्द्रिकायां | अथ चान्यप्रकारेण भूतशुद्धिर्विधीयते | धर्मकन्दसमुद्भूतं ज्ञाननालसुशोभनम् | ऐश्वर्याष्टदलोपेतं परं वैराग्यकर्णिकम् | स्वीय हृत्कमले ध्यायेत् प्रणवेन विकाशितम् | कृत्वा तत्कर्णिकासंस्थं प्रदीपकलिकानिभम् | जीवात्मानः हृदि ध्यात्वा मूले सञ्चिन्त्व्य कुण्डलीम् | सुषुम्ना वर्त्मनात्मानं परमात्मनि योजयेत् | इति भूतशुद्धिं कृत्वा मातृकान्यासमाचरेत् || अथ मातृकान्यासः | - अस्य मातृकामन्त्रस्य ब्रह्मऋषिर्गायत्रीच्छन्दो मतृकासरस्वती देवताहलो बीजानि स्वराः शक्तयः अव्यक्तं कीलकं लिपिन्यासे विनियोगः | शिरसि ओं ब्रह्मणे ऋषये नमः || मुखे ओं गायत्रीच्छन्दसे नमः || हृदि ओं मातृकासरस्वत्यै देवतायै नमः || गुह्ये ओं व्य *? नेभ्यो बीजेभ्यो नमः || पादयोः ओं स्वरेभ्यः शक्तिभ्यो नमः || सर्वाङ्गे ओं अव्यक्ताय कीलकाय नमः || तथा च ज्ञानार्णवे | मातृकां शृणु देवेशि न्यसेत् पापनिकृन्तनीम् | ऋषिर्ब्राह्मस्य मन्त्रस्य गायत्रीच्छन्द ऊच्यते | देवता मातृकादेवी बीजं व्यञ्जनसञ्चयम् | शक्तयस्तु स्वरा देवि षडङ्गन्यासमाचरेत् | ततः षडङ्गन्यासौ | अं कं खं गं घं ङं आं अङ्गुष्ठाभ्यां नमः || इं चं छं जं झं ञं ईं तर्ज नीभ्यां स्वाहा | ------------------------------------------------ (मूल) प्. १९) द्वादशः पटलः अथ षष्ठीपूजा विधिः पूर्ववत् सङ्कल्पं कुर्यात् | यन्त्रं लिखेत् | ततो गणपत्यादिदेवताः पूजयेत् | ततो मातृकान्यासं कुर्यात् | ततः ओं यां हृदयाय नमः | इत्याद्यङ्गन्यास करन्यासौ कृत्वा | ध्यायेत् - ओं शुक्लवर्णां द्विवाहूञ्च सूतिका-गृहसंस्थिताम् | स्त्रीरजः पायिनीं शान्तां भजेत् त्रिभुवनेश्वरीम् | एवं ध्यात्वा स्वशिरसि पुष्पं दत्वा अर्घ्यपात्रं संस्थाप्य पीठपूजां कुर्यात् | ओं आधारशक्तये नमः | ओं पृथिव्यै नमः | ओं क्षीरसमुद्राय नमः | ओं कल्पवृक्षाय नमः | ओं धर्माय नमः | ओं ज्ञानाय नमः | ओं वैराग्याय नमः | ओं ऐश्वर्याय नमः | ओं अधर्माय नमः | ----------------------------------------------- (व्याख्या) उं टं ठं डं ढं णं ऊं मध्यमाभ्यां वषट् | एं तं थं दं धं नं ऐं अनामिकाभ्यां हू/ | ओं पं फं बं भं मं औं कनिष्ठाभ्यां वौषट् | अं यं रं लं वं शं षं सं हं लं क्षं अः करतलपृष्ठाभ्यां अस्त्राय फट् | एवं हृदयादिषु | अं कं खं गं घं ङं आं हृदयाय नमः इत्यादि | तथा च ज्ञानार्णवे - अं आं मध्ये कवर्गन्तु इं ईं मध्ये चवर्गकम् | उं ऊं मध्ये टवर्गन्तु ए ऐं मध्ये तवर्गकम् | ओं औं मध्ये पवर्गन्तु बिन्दुयुक्तं न्यसेत् प्रिये | अनुस्वारविसर्गान्तौ यशवर्गौ सलक्षकौ | हृदयन्तु शिरो देवि शिखा कवचकं तथा | नेत्रमन्त्रं न्यसेत् ङेन्तं नमः स्वाहा क्रमेण तु | वषट् हूं वौषडन्तञ्च फडन्तं योजयेत् प्रिये | षडङ्गोऽयं मातृकायाः सर्वपापहरः स्मृतः || अथान्तर्मातृकान्यासः |- अकारादिषोडशस्वरान् सबिन्दून् षोडशदलकमले कण्ठमूले न्यसेत् | ककारादिद्वादशवर्णान् सबिन्दून् द्वादशदलकमले हृदये न्यसेत् | डकारादिदशवर्णान् सबिन्दून् दशदलकमले नाभौ न्यसेत् | वकारादिषड्वर्णान् सविन्दून् षडदलकमले लिङ्गमूले न्यसेत् | वकारादिचतुरो वर्णान् सबिन्दून् चतुर्दलकमले मुलाधारे न्यसेत् | हक्षवर्णद्वयं सबिन्दून् द्विदलकमले भ्रूमध्ये न्यसेत् | तथा च ज्ञानार्णवे | द्व्यष्टपत्राम्बुजे कण्ठे स्वरान् षोडश विन्यसेत् | द्वादशच्छदहृत्पद्मे कादीन् द्वादश विन्यसेत् | दशपत्राम्बुजे नाभौ डकारादीन्न्यसेद्दश | षट्पत्रमध्ये लिङ्गस्थे वकारादीन्न्यसेच्च षट् || आधारे चतुरो वर्ण्यन् न्यसेद्वादीन् चतुर्द्दले | ------------------------------------------- (मूल) ओं अज्ञानाय नमः | ओं अवैराग्याय नमः | ओं अनैश्वर्याय नमः | ओं सं सत्त्वाय नमः | ओं रं रजसे नमः | ओं तं तमसे नमः | ओं अं अन्तरात्मने नमः | ओं पं परमात्मने नमः | ओं गं ज्ञानात्मने नमः | प्रणवादिनमोऽन्तेन पूजयेत् | पुनरङ्गन्यासादिकं कृत्वा ध्यायेत् | तत आवाहयेत् | ओं भगवति षष्ठिदेवि इहागच्छागच्छ इत्यावाह्य षोडशोपचारैः पूजयेत् | एतद्रजतासनं ओं क्ली/ क्ली/ फट् स्वाहा ओं षष्ठी देव्यैः नमः | इत्यादिपूजां कृत्वा यथाशक्तिजपं कृत्वा समर्प्य दक्षिणां कुर्यात् | इति कुब्जिकातन्त्रे देवीश्वरसंवादे द्वादशः पटलः || ----------------------------------------------------- (व्याख्या) हक्षौ भ्रुमध्यगे पद्मे द्विदले विन्यसेत् प्रिये | अगस्त्यसंहितायां | एकैकवर्णमेकैकपत्रान्ते विन्यसेत् प्रिये | एवमन्तः प्रविन्यस्य मनसातो वहिर्न्यसेत् || वैष्णवे तु | एकैकवर्णमुचार्य मुलाधाराच्छिवोऽन्तकम् | नमोऽन्तमिति विन्यास आन्तरः परिकीर्तितः | अथान्तर्मातृकान्यासो मुलाधारे चतुर्दले | सुवर्णाभे च श ष स चतुर्वर्णविभूषिते || षड्दले वैद्युतनिभे स्वाधिष्ठानेऽनलत्विषि | व भ मै र्व र लैर्युक्ते वर्णैः षडभिश्च सुब्रते || मणिपुरे दशदले नीलजीमूतसन्निभे | डादिफान्तदलैर्युक्ते बिन्दुताषितमस्तके | अनाहते द्वादशारे प्रवालरुचिसन्निभे | कादिठान्तदलैर्युक्ते योगिनां हृदयङ्गमे || विशुद्धे शोडशदले धुम्राभे स्वरभूषिते | आज्ञाचक्रे तु चन्द्राभे द्विदले हक्षलाञ्छिते | सहस्रारे हिमनिभे सर्ववर्णविभूषिते | अकथादि त्रिरेखात्म हलक्षत्रयभूषिते | तन्मध्ये परिबिन्दुञ्च सृष्टिस्थिति लयात्मकम् | एवं समाहितमना ध्यायेन्न्यासोऽयमान्तवः || अथ वाह्यमातृकान्यासः | तस्या ध्यां यथा | - ओं पञ्चाशल्लिपिभिर्विभक्तमुखदोः पन्मध्यवक्षःस्थलाम् | भास्वन्मौलिनिवद्धचन्द्रशकलामापीनतुङ्गस्तनीम् | मुद्रामक्षगुणं सुधाढ्यकलसं विद्याञ्च हस्ताम्बुजैर्विप्राणां विशदप्राभां त्रिनयनां वाग्देवतामाश्रये || एवं ध्यात्वा न्यसेत् | तत्राङ्गुलिनियमस्तन्त्रे | ललाटे नामिकामध्ये विन्यसेन्मुखपङ्कजे | तर्जनीमध्यमानामा वृद्धनामा च नेत्रयोः || वृद्धान्त्तकर्णयोर्न्यस्य कनिष्ठाङ्गुष्ठकौ नसोः | मध्यास्तिस्रो गण्डयोश्च मध्यमाञ्चोष्ठयोर्न्यसेत् | अनामां दण्डयोर्न्यस्य मध्यमामुत्तमाङ्गके || मुखेऽनामां मध्यमाञ्च हस्तपादेषु पार्श्वयोः || कनिष्ठानामिकामध्यास्तास्तु पृष्ठे च विन्यसेत् || तां स्वाङ्गुष्ठानाभिदेशे च सर्वाः कुक्षौ च विन्यसेत् | हृदये च तलं सर्वसंशयोश्च ककुत्स्थले | -------------------------------------------- (मूल) त्रयोदशः पटलः अथ डाङ्कुरस्य पूजाविधिः ततः स्वस्तिवाचनपूर्वकं सङ्कल्पं कृत्वा, यन्त्रं विलिख्य घटं संस्थाप्य, गणपत्यादिदेवताः पूजयित्वा, अङ्गन्यासं कुर्यात् यथा - ओं हृदयाय नमः | इत्याद्यङ्गन्यासौ करन्यासौ कृत्वा ध्यात्वाधार शक्त्यादिकं संपूज्य पुनर्ध्यायेत् | ओं शुक्लवर्णं द्विवाहूञ्च सूतिकागृहसंस्थितम् | स्त्रीरजःपायिनं शान्तं भजे त्रिभुवनेश्वरम् || एवं ध्यात्वा अर्घ्यं कृत्वावाहयेत् | भगवन् डाङ्कुरकुमार इहागच्छागच्छ इत्यावाह्य | ततः पूर्वोक्तक्रमेण षोडशोपचारैः संपूज्य वलिं दद्यात् | ओं डाङ्कुरकुमाराय ओं ह्री/ वज्रयोगिनी ओं ह्रीं स्वाहा || इति कुब्जिकातन्त्रे देवीश्वरसंवादे त्रयोदशः पटलः | ----------------------------------------------------- (व्याख्या) हृत्पूर्वं हस्तपत्कुक्षिमुखेषु तलमेव च | एतान्तु मातृकामुद्राः क्रमेण परिकीर्तिताः || अज्ञात्वा विन्यसेद्यन्त्र न्यासः स्यात् तस्य निष्फलः | स्थान नियमो गौतमीये | ललाटमुखवृत्ताक्षिप्रातिघ्राणेषु पङ्गुयोः | ओष्ठदन्तोत्तमाङ्गास्यदोःपत्सन्ध्यग्रक्षेषु च | पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयेऽशंके | ककुद्यंशे च हृत्पूर्वं पाणिपादयुगे तथा | जठराननयोर्न्यस्येन्मातृकार्णान् यथाक्रमात् | तद्यथा | अं नमो ललाटे | आं नमो मुखवृत्ते | इं ईं चक्षुषेः | उं उं कर्णयोः | ऋं ऋं नसोः | ऌं ऌं (?) गण्डयोः | एं ओष्ठे | ऐं अधरे | ओ/ ऊर्द्धदन्ते | औं अधोदन्ते | अं ब्रह्मरन्ध्रे | अः मुखे | कं दक्षवाहूमुले | खं कुर्परे | गं मणिवन्धे | घं अङ्गुलिमूले | ङं अङ्गुल्यग्रे | एवं चं ५ वामवाहूमूलसन्ध्यग्रकेषु | एवं टं ५ दक्षिणपादमूलसन्ध्यग्रकेषु | एवं तं ५ वामपादमूलसन्ध्यग्रकेषु | पं दक्षिणपार्श्वे | फं वामपार्श्वे वं पृष्ठे | भं नाभौ | मं उदरे | यं हृदि | रं दक्षवाहूमूले | लं *?कुदि | वं वामवाहूमूले | शं हृदादिदक्षहस्ते | षं हृदादिवामहस्ते | सं हृदादिदक्षपादे | हं हृदादिवामपादे | लं हृदाद्युदरे | क्षं हृदादिमूखे | सर्वत्र नमोऽन्तेन न्यसेत् तथा च | ओमाद्यन्तो नमोऽन्तोवा सविन्दुर्विन्दुवर्जितः | पञ्चाशद्वर्णविन्यासः क्रमादुक्तो मनीषिभिः | इति भट्टः | अथ संहारमातृकान्यासः | तस्या ध्यानं यथा - ओं अक्षस्रजं हरिणपोतमुदग्रटङ्कविद्यां करैरविषतं दधतीं त्रिने *? म् | अर्द्धेन्दुमौलिमरुणामरविन्दरायां वर्णेश्वरीं प्रणमतन्तनतारनम्राम् || न्यासस्तु क्षका(?)राद्यकारन्तः | यथा क्षं नमो हृदादिमुखे इत्यादि || ततो मूलदेवताया अङ्गन्यासकरन्यासौ विधाय ध्यानं कृत्वा स्वशिरसि पुष्पं दत्वा मानसपूजामारभेत् || अथ मानसपूजा अन्नदाकन्ने(?) - हृत्पद्ममासनं दद्यात् सहस्रारच्युतामृतं पाद्यं चरणयोर्दद्यात् मनश्चार्घ्यं निवेदयेत् | तेनामृतेनाचमनं स्नानीइयं तेन च स्मृतम् | आकाशतन्त्रं(?) वस्त्रं स्यात् गन्धः स्याद्गन्धतत्त्वकम् | चित्तं प्रकल्पयेत् पुष्पं धुपं प्राणान् प्रकल्पयेत् | तेजस्तत्त्वञ्च दीपार्थं नैवेद्यं स्यात् सुधाम्बुधिः | अनाहतध्वनिर्घण्टा शब्दतत्त्वञ्च गीतकम् | नृत्यमिन्द्रियचाञ्चल्यं वायुतत्त्वञ्च चामरम् | सहस्रारं भवेत् छत्रं हंसः स्यात् पादुकाद्वयम् | सूमेखलां पद्ममालां पुष्पं नानाविधं तथा | अमायाद्यैर्भावपुष्पैरर्च्चयेद्तावगोचराम् | अमाया मनहङ्कार-मरागमदमन्ततः | अमोहकमदन्तञ्च अद्वेवाक्षोभकौ ततः | अमात्सर्यसलोभञ्च दशपुष्पं विदुर्वुधाः | अहिंसा परमं पुष्पं पुष्पमिन्त्रियनिग्रहम् | ज्ञानपुष्पं दयापुष्पं क्षमापुष्पं तथैव च | इति पञ्चदशैर्भावपुष्पैः संपूजयेच्छिवाम् | सुधाम्बुधिं मांसशैलं मत्स्यशैलं तथैव च | मुद्राराशिं सुभक्तञ्च घृताक्तं परमान्नकम् | कुलामृतञ्च तत्पुष्पं पञ्चतत्क्षालनोदकम् | भुमौ स्वर्गे च पाताले गगने च जलास्तरे | यद्यत् प्रमेयं तत्सर्वं नैवेद्यार्थं प्रकल्पयेत् | कामक्रोधौ छागवाहौ वलिं दत्वा जपेत्ततः | पाताल-भुतल-व्योमचारिणो विघ्नकारिणः | तांस्तानपि वलिं दत्वा निर्द्वन्दो जपमारभेत् | मालावर्णमयी ज्ञेया सुत्रं श *?शिरात्मकम् | ग्रन्थिः सा कुण्डलीशक्तिर्नादान्ते मेरुसंस्थितः | सविन्दुं वर्णमूचार्य मुलमन्त्रं समुच्चरेत् | अथवा चित्रिणीसूत्रं ज्ञानरूपं परात्परम् | अकारादिलकारान्तामनुलोमविलोमिकाम् || मालाशतमयी प्रोक्ता विन्दुयुक्ताक्षमालिका | अकारादिलकारान्त-मनुलोम इति स्मृतः | पुनर्लकारमारभ्य श्रीकण्ठान्तं मनुं जपेत् | विलोम इति विद्यान्तः क्षकारं केवलं जपेत् | अष्टवर्गाद्यष्टवर्णैः सह मूलमथाष्टकम् | अष्टोत्तरशतं जप्त्वा समाप्य प्रणमेद्धिया | सर्वान्तरात्मनिलये स्वान्तर्जोतिस्वरूपिणि | गृहानान्तर्जपं मातरन्नपूर्णे नमोऽस्तुते | समर्प्य जपमेतेन पञ्चाङ्गं प्रणमेद्धिया | अन्तर्यागं समाप्यैवं वहिर्यजनमाचरेत् | एवं मानसैः संपूज्य विशेषार्घ्यं कुर्यात् | @ प्. २१) (मूल) चतुर्दशः पटलः अथ जलकुमार पूजा विधिः पुर्वोक्तक्रमेण सङ्कल्पं कुर्यात् | घटस्थापनं विधाय पूर्ववत् गणपत्यादि देवताः पूजयेत् | ततोऽङ्गन्यासं कुर्यात् | ओं ह्रा/ हृदयाय नमः | ओं शूलाय शिरसे स्वाहा | वज्रशिखायै वषट् | हस्ताय कवचाय हू/ | ओं स्वाहा नेत्रयाय वौषट् | ओं अस्त्राय फट् | इत्यङ्गन्यासकरन्यासौ कृत्वा ध्यायेत् | ओं शुक्लवर्णं द्विवाहूञ्च सूतिकागृहसंस्थितम् | स्त्रीरजः पायिनं शान्तं भजे त्रिभुवनेश्वरम् || इति ध्यात्वा स्वशिरसि पुष्पं दत्वा अर्घ्यं संस्थाप्य @ आधारशक्त्यादिकं पुजयित्वा आवाहयेत् | ओं भगवन् जलकुमार इहागच्छेत्यावाह्य षोडशोपचारैः पूजयेत् | ओं शूलाय बज्रहस्ताय स्वाहा | ओं जलकुमाराय नम इत्यादिना संपूज्य वलिं दद्यात् | ततो मन्त्रोद्धारक्रमेण मन्त्रं जप्त्वा समर्पयेत् | दक्षिणां कुर्यात् | इति कुब्जिकातन्त्रे चतुर्दशः पटलः || --------------------------------------------------------- (व्याख्या) अथ विशेषार्घ्यस्थापनविधिः @ स्ववामे त्रिकोणमण्डलं कृत्वा तत्र त्रिपदिकामारोप्य अस्त्रेण शङ्घं प्रक्षाल्य तदुपरि संस्थाप्य नम इति मन्त्रेण गन्धपुष्पाक्षत- दुर्वादि तत्र निःक्षिप्य विमलजलेन विलोममातृकया मुलेन च पूरयेत् | ततस्त्रिपदिकायां वह्निमण्डलाय दशकलात्मने नमः | शङ्घे सूर्यमण्डलाय द्वादशकलात्मने नमः | जले सोममण्डलाय षोडशकलात्मने नम इति पूजयेत् | ततो गङ्गे च यमुने चैव गोदावरि सरस्वति | नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु | इति मन्त्रेणाङ्कुशमुद्रया सूर्यमण्डलात्तीर्थमावाह्य मूलमन्त्रेण स्वहृदयाद्देवतां तत्रावाह्य कूर्चमन्त्रेणावङ्गुण्ठ्यास्त्रमन्त्रेण गालिनीमुद्रां प्रदर्श्यमुपमन्त्रेण तज्जलं वीक्ष्य अङ्गमन्त्रैः सकलीकृत्य गन्धपुष्पाभ्यां देवतां सम्पूज्य तदुपरि मत्स्यमूर्द्रयाच्छाद्य मूलमन्त्रमष्टधा जप्त्वा धेनुमुद्रां प्रदर्श्यास्त्रेण संवक्ष्य तस्मात् किञ्चित् जलं प्रोक्षणीपात्रे निःक्षिपेत् | पुनरन्यासकरन्यासौ कृत्वा पुनर्ध्यात्वा घटादौ पुष्पं दत्वा आवाहयेत् || ------------------------------------------------------- (मूल) पञ्चदशः पटलः ततः ऋतुकालप्रवृत्ते स्त्रियमौषधकं भक्षयित्वा स्नानोपरि तत्र एकविंशतिदिनं यावत् मेथिप्रभृतिकमौषधं भक्षयेत् | अशुचित्रदिनपर्यन्तमिदमौषधं पिवेत् | रक्तकार्पासमुलम् | नागदण्डम् | विल्वमूलम् | वटमूलं एतेषां प्रत्येकं पिष्ट्वा समभागेन मरिचेन चुर्णं सह भक्षयेत् | स्नानोपरि तदा देयम् | वार्ताक्यां कदलीखण्डाभ्यन्तरे कृत्वा भक्षयेत् | ततो मेथिप्रभृतिकमौषधं देयम् | अथ गन्धातोलकं वटवल्कलं लक्षणामूलं तदभावे श्वेतवाट्यालमूलं, सार्द्धतोलकं दुग्धं दत्वा सपुदिवसं खादयेत् | तृतीयऋतुकाले | मुक्ताकलं काञ्चनं च प्रक्षाल्य तज्जलं पिवेत् | ततो हस्तेन तज्जलं गात्रेषु विकिरेत् | @ --------------------------------------------- (व्याख्या) @ अथ वाधकौषधम् | स्नानकाले समुत्पन्ने देयमौषधमुत्तमम् | रक्तकार्पासमूलञ्च नागदानां कदाचन | विड्वलायाश्च मूलञ्च मरीचेन समन्वितम् || देयं दिनत्रयं यावदशुचिः स्याद्यदाङ्गना | स्नानोपरि च दातव्यं वर्तिक्याः कीटमूत्तमम् | एकविंशद्दिनं यावद् दुग्धेन मिश्रितं पिवेत् | मेथिक्यास्तोलकद्वन्द्वं खण्डस्यतोलकद्वयम् || घृततोलकमेकञ्च दुग्धेन मिश्रितं पिवेत् | मृतवत्सा मृतगर्भा काकवन्ध्या तथैव च | पुत्रहीना च वन्ध्या च परेणैवास्रवाधिका | संहरेत् सर्वदोषाणि मेथिभक्षणमुत्तमम् | नाडी शुद्धायाः परे ऋतुकाले इदमौषधं देयम् | अश्वगन्धा वटव्यालो लक्षणस्य च मूलकम् | भक्षयेत् सपुरात्राणि दुग्धे पिष्ट्वा पुनः पुनः | अवश्यं सन्ततिस्तस्याः पुंहीना गर्भधारिणी || ------------------------------------- (मूल) प्. २२) अथ पुंवन्ध्याप्रशमनविधिः तत्रौषधम् तेजोमूलं शतमुली भूमिकुष्माण्डमेव च | अश्वगन्धा गोधूमश्च शाल्मली (कण्टकं) तथा | गोक्षुरं वानरीबीजं वलाया बीजमेव च | (शुयाशम्भुर आठिकावोलि गोरक्षचाण्डाल आष्ठि |) क्षिरकाकोलि वाट्यलबीजं एतेषां समभागं त्रिभिः फलैः | महिषेण हृतेनैव मोदकं शर्करायुतं मक्षिकेणसमायुक्तं गन्धद्रव्यसमन्वितम् | सन्मदं मोदकं नाम पुंवन्ध्यासंप्रणाशनम् | अनुपानं घृतं दुग्धं पक्षिणो मांसमुत्तमम् | वलदं सर्वदोषघ्नं वीर्यदोषविनाशनम् | क्षीणशुक्रोऽप्यशुक्रश्च मन्ददृष्टिस्तथैव च | वलहीनः क्षीणदेहो वाक्यपाष्यमेव च | वहूदारश्च वृद्धश्च कन्यासन्ततिरेव च | भक्षयेदौषधं मासैर्वृद्धोऽपि तरुणायते || @ इति कुब्जिकातन्त्रे पुंवन्ध्याप्रशमनविधिः पञ्चदशः पटलः || ------------------------------------------------------ (व्याख्या) @ अथ पुंवन्ध्याप्रशमनविधिः | - तेजोमूलं शतमूली भूमिकुष्माण्डमेव च | अश्वगन्धा गोधुमश्च शाल्मलेः कुट्नलन्तथा | गोक्षुरं वानरीबीजं वलायाबीजमेव च | कोटिला क्षीरकाकोली समभागं त्रिभिः पलैः | पिष्ट्वा माहिषसर्पिर्भिर्मोदकं शर्करायुतम् | माक्षिकेण समायुक्तं गन्धद्रव्यसमन्वितम् | मोदकं सम्मदं नाम पुंवन्द्यात्वविनाशनम् | अनुपानं घृतं दुग्धं पक्षिणो मांसभक्षणम् | वलदं सर्वदोषघ्नं बीर्यदोषविनाशनम् | क्षीणशुक्रोऽप्यशुक्रश्च मन्ददृष्टिस्तथैव च | वलहीनः क्षीणदेहो वाक्यपारुष्यसङ्कुलः | वहूदारश्च वृद्धश्च कन्यासन्ततिरेव च || भक्षयेदौषधं मासैर्वृद्धोऽपि तरुणो भवेत् || ------------------------------- (मूल) षोडश्ः पटलः अथ स्नानविधिः सार्द्धहस्तप्रमाणां वेदिकां कृत्वा तदुपरि कूर्मपृष्ठं स्थापयित्वा कूर्मपृष्ठोपरि सिन्दूरेण कूर्मं निर्माय तत्र बीजत्रयं तस्योपरि लिखित्वा | ओं ह्री/ ह्री/ | तस्योपरि स्त्रियं पूर्वाभिमुखीं संस्थाप्य चतुर्द्दिक्षु अनेन काण्डचतुष्टयं समारोप्य रक्तसूत्रेण सप्तधा वेष्टयित्वा हू/ इति मन्त्रेण श्वेतशर्षपरक्षां विधाय पञ्चगव्यादिभिः स्नापयेत् | तत्र प्रथमं ह्री/ ह्री/ इति (मन्त्रेण) गोमूत्रेण | ओं ह्री/ गोमयेन || ओं दुग्धेन | हू/ दध्ना | हू/ घृतेन | ह्री/ कुशोदरेन | ओं शर्करया | ह्री/ सर्वौषधि महौषधिभ्यां | क्ली/ जलेन | गङ्गामृत्तिकया | ओं शङ्यजलेन | क्रां घृतेन इति पञ्चरत्नेन | हू/ धान्योदकेन | ह्री/ दूर्वाजलेन | सर्वद्रव्यमेकीकृत्य सहस्रधारया स्नापयेत् | ओं ह्री/ ह्री/ हू/ अस्त्राय फट् इति सहस्रधारया स्त्वापयेत् | ततस्तां स्त्रियं स्थानान्तरे नीत्वा वस्त्रं त्यक्त्वा पूर्वाभिमुखीं कृत्वा पञ्चगव्यं भक्षयेत् | तदनन्तरं औषधं भक्षयेत् | अथ नारीकेलमेकं सिन्दूरेण लेपयित्वा द्वादशदिवसं शयनं कुर्यात् | इदं मन्त्रं लेखयेत् | ओं ह्री/ क्ली/ इति बीजत्रयं लिखित्वा तस्याः क्रोडे स्थापयेत् || @ इति स्नानविधिः समाप्तः | ------------------------------------ (व्याख्या) स्नानविधिः | - सार्द्धहस्तपरिमितां वेदिकां कृत्वा तत्र कुर्मपृष्ठं संस्थाप्य चतुर्द्दिक्षु आम्रसार-चतुष्टयं समारोप्य सप्तधा सूत्रेण वेष्टयित्वा | हू/ इति मन्त्रेण गोमुत्रेण स्नापयेत् | ह्रीमिति मन्त्रेण गोमयेन | ओं इति मन्त्रेण दूग्धेन | हूमिति मन्त्रेण दध्ना | ह्रीम्ति मन्त्रेण कुशोदकेन शर्करया च | हू/ दध्ना | ओं दुग्धेन | ह्रीं सर्वौषध्या महौषध्या च | कमिति गङ्गाजलेन गङ्गामृत्तिकया च | शङ्यजलेन (पृ २३) ताम्रपात्रोदकेन पूष्पजलेन च | पञ्चरत्नोदकेन धान्योदकेन दुर्वया च स्नापयेत् | ततस्तां स्त्रियंस्थलान्तरे नीत्वा वस्त्रादिकं परिधापयित्वा पूर्वाभिमुखीं कृत्वा पञ्चगव्यं पाययेत् | एतदनन्तरं सर्वमौषधं पिवेत् | ततो रक्तनारिकेलमानीय तत्र सिन्दूरेण ह्री/ ह्री/ ओं इति बीजत्रयं लिखित्वा तयाः क्रोडे स्थापयेत् | द्वादशदिनं यावत् || -------------------------------------- (मूल) अथ महौषधिः पृश्निपणी श्यामलता भृङ्गराजः शतावरी | गुडूची सहदेवी च महौषधिगणः स्मृतः || अथ सर्वौषधिः सुरामांसी वचा कुष्ठं शैलेयं रजनीद्वयम् | (हरिद्रा दारुहरिद्रा) | शुण्डी चम्पकमूस्तञ्च सर्वौषधिगणः स्मृतः || अथ मृतवत्सास्नानम् (बङ्गला) इति कुब्जिकातन्त्रे षोडशः पटलः || सप्तदशः पटलः | अथ मृतवत्साप्रतीकारः आकाङ्किरमूल वाटिया ऋतुस्नान करिया खा-इवे, खा-इले गर्भ जन्मे | ये आकाङ्किरमूल उत्तरे या-इया थाके, ताहा वाटिया योनिते ऋतुकाले प्रलेप दिले अवश्य गर्भ हय | अथ कवचम् ओं सिद्धिः | ओं नमो नरसिंहाय | हिरण्यकसिपोर्वक्षोविदाराय त्रिभुवनञ्चोपकारायहाकिनी कुलोल्मथनाय अमुक्या दोषान् हर हर सर सर एहि रुद्रां ज्ञापयति स्वाहा | हत सिद्धि नरसिंहेर रव | ओं ओं हां हां ह्री/ ह्री/ स्वाहा | इति भुर्ज्यपत्रे लिखित्वा धारयेत् तदा मृतवत्सा दूरं गच्छेत् | ओं नमो नरसिंहाय स्वाहा | इति मन्त्रं सप्तधा जप्त्वा पा-इजे कागजसहितं पठित्वा अग्निं ज्वालयेत् | सर्वदानवादिदूरं गज्जेत् | कामदेव हाडी आदा नवकविस्थिरमनबीजम् | ओं हां ह्री/ अमुकीर गर्भ रक्ष रक्ष स्वाहा इति पठित्वा शिखां बन्धयेत् | आर आनलेत् शर्षप पडिया शययार चा-इर दिगमव्ये पुडिवे पा/चखान तवे मृतवत्सा दुर हर | श्नानमन्त्रस्तु चन्द्र हू/ नेत्र समुद्र वामपार्श्वे नव करिवे ऋये स्या नये तङ्क इछे तवे आधाकुम्भपदे भाग समाधाजय संग्रामे थोथो वा वहतु वा वन्धात् पयो पाप पञ्चशेकादीनि वमाखे नवनि जीवति हागुनि सात् | विषे विष हरे आठा से-इ कीटपतङ्ग मरे | वत्तिमे प्रसवे नापि छत्ति ये यत्रानुसारी | इति पठित्वा मृतवत्सां स्नापयेत् || अथ मृतवत् साकवचम् श्रीभैरव उवाच भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग | स्त्रीभूत दानमी देव्याः कर्म स्वमय प्रभो | श्रीभगवान् उवाच स्त्रीभूत दामनी देवी बीजरूपा सदावतु | ह्री/ ऐ/ श्री/ वै/ वै/ वै/ वै/ रक्ष रक्ष सर्वभूतोपद्रवेब्यः स्वाहा || ह्री/ पातु काली सर्वाङ्गं संसो भटराजाय स्वाहा | ह्री/ पातु वृद्धरूपसमातृका सर्वतोहरतु | इदन्तु परमं गुह्यं साधकाभीष्टदायकम् | सर्वरक्षाकरञ्चैव भूतप्रेतैर्विशेषतः || अनपत्यया च या नारी मृतवत् सा च या भवेत् | वहूपुत्री जीववत्सा भवत्येव न संशयः | भूतप्रेतपिशाचाश्च ये चान्येऽनिष्टकारकाः | दुरादेव पलायन्ते कवचस्य च धारणात् | भूतानाञ्च प्रकृतिर्मृतवत् साहरा भवेत् | तव धार्यं प्रयत्नेन मृतवत्सा प्रनाशकम् | अवश्यं धारयेत् तस्या मृतवत्सादूरं गता | इति कुब्जिकातन्त्रे मृतवत्सा कवचं नाम सप्तदशः पटलः || ########### END OF FILE #######