#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00274 Uniform title: kulālaśāstra Manuscript : IFP/EFEO transcript T0452 Description: This is a Tantra revealed through a certain Kulālaṛṣi the Potter ṛṣi. It contains a series of procedures (vidhi) commonly required in the course of ritual such as the establishment of the sacrificial jar and other sacred objects (pratiṣṭhā), purificatory rites (śaucya) and the like. The main deity is śāstṛ, that is, Skanda. Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 8, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### हरिः ओम् कुलालशास्त्रम् संप्रोक्षणम् अष्टादशसंस्कारम् || शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् | प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये || गजाननं भूतगणाधि सेवितं कपित्थ जम्बूफलसार भक्षितम् | उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वर पादपंकजम् || उत्तरायणे शुभमासे उत्तिरं उत्तिराटं उत्तिरट्टाति मृगशीर्षं मघं हस्तं चित्रा अविट्टम् स्वाति अनुषं रेवति अश्वनि द्वितीया तृतीया पञ्चमि सप्तमि एकादशि अमृतयोगं सिद्धयोगं शुभयोगं शुद्धयोगं राजपापं पुरोहितपापं यजमान नष्टं धनधान्यनाशं अर्त्यनाशं वर्षशून्यं दीक्षा प्. २) प्रतिष्ठा संप्रोक्षणं हरिः ओम् | अष्टादशसंस्कारम् || निरीक्षण प्रोक्षण ताडन अभ्युक्षणं चतुस्संस्कारं || खननावकिरण पूरण समीकरण सेचन निकुट्टन सम्मार्जन लेपनानि अष्टादश संस्कारम् || कलामयकल्पन त्रिसूत्र वेष्टन रेखा चतुर्विन्यासः वज्रीकरण चतुष्पादकल्पन परमीकरण इत्यष्टादश संस्कारं कल्प्य पूर्वं पुलस्त्य देवानां अग्निसोमरसाक्रमम् | याम्ये तु तारत् स्थाप्या नैहृत्यां भृगुमेव च || मार्कण्डेयो वारुणे चापि वसिष्ठो वायुतः क्रमात् | सोमे तु कौशिकं कृत्वा अगस्त्यं ईशमेव च || प्. ३) हरिः ओम् || || शुभमस्तु || || कुलालशास्त्रम् || तन्त्रावतारम् || शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् | प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये || कैलास शिखरे रम्ये नानारत्न विभूषिते | नानाद्रुम लताकीर्णे नानापुष्पैश्च शोभिते || तत्र मध्ये सुखासीनं देवदेवं महेश्वरम् | विविधैर्गण संघैश्च रुद्र देवगणैस्सह || ऋषिभिश्च महापूतैः गन्धर्वाद्या स्वतुरोगणैः | प्रणम्य शिरसा भूमौ ब्रह्मा वचनमब्रवीत् || ब्रह्मौवाच- नमस्तस्मै सुरेशाय शिवाय परमात्मने | रुद्राय देवदेवाय शंकराय स्वयंभुवे || भस्म निर्मलगात्राय चतुर्वेद हितायिने | चतुर्वक्त्र प्रभेदाय चतुश्श्रोत्र हृदायिने || भूतवर्ति भविष्याय सृष्टि स्थित्यन्तहेतवे | ब्रह्मेन्द्र सुरवन्द्याय सर्वलोकश्रिताय च || कालाय कालरूपाय कालकालान्तकाय च | प्. ४) विश्वमाया विभेदाय विश्वाय विश्वरूपिणे || नीलकण्ठाय सर्वाय सद्योजाताय वै नमः | विष्णु रूपाय रूपाय वामदेवाय वै नमः || महादेवाय हंसाय अघोराय नमो नमः | भवोत्भवाय शान्ताय तत्पुरुषाय नमो नमः || उमानाथाय देवाय ईशानाय नमो नमः | सदाशिवाय शान्ताय सदसद्विश्वकारिणे || व्योमाय व्योमरूपाय व्योमव्यापी नमो नमः | अनन्ताय नमस्तुभ्यं आनन्दाय नमो नमः || ब्रूहि मे देवदेवेश शास्त्रमाहात्म्यमुत्तमम् | ईश्वर उवाच- साधु साधु समह्यानां सर्वलोक हितावहम् | सर्व काम्यार्त्थसिध्यर्त्थं सर्वव्याधि विनाशनम् || सर्व सिद्धिकरं श्रेष्ठं सर्वपापहरं परम् | देवा असुरभिन्नां च मधुभोजनकारणम् || मोहिनी रूपधृक् विष्णु कोमला सर्वसुन्दरी | असुरान् वंचयित्वा तु सुरेभ्यो भोजनन्ददौ || दृष्ट्वा तु मोहिनी मोहात् शिवं परमकारणम् | शास्तारं सर्वकर्तारं सुषुवे ताभि देशताम् || पुरुषो हरो हरश्शक्ति स्तयोर्योगे भवत्तदम् | प्. ५) पुष्पे च गन्धवञ्चेति देहे च प्राणवत्तथा | तिलेषु च यथा तैलं ताताना भवन्त संभवम् || माधवः प्रकृतिः प्रोक्तः शिवश्च पुरुषस्तथा | शिवमाधव संयोगात्प्रोक्तं ब्रह्म महात्भुता || शास्तारं भुक्ति मुक्तारं सर्वेषां चराचरम् | शास्ता शास्त्रवतारं च तस्मात् संसेवितं त्वया || वक्ष्येहं सर्व रक्षार्थं शृणुष्व कमलासन | चतुर्विधानां तन्त्राणां श्रोत्राणां च चतुर्विधा || उमा चैव हरि स्कन्दो धाता श्रोक्तार एव च | श्रोता च पार्वतीतन्त्रं नामशान्तिक मुच्यते || श्रोता नारायणो रक्ता नामिनां विजयन्तथा | स्कन्देना धिव्र तन्त्राणां रौद्रमित्यविधीयते || तन्त्रं च श्रीकरन्ताय स्रोता यस्य पितामहः | अध्यायमेव तन्त्राणां एकाशीतिं पृथक् पृथक् || तन्त्राणां स्व स्व संख्यानां षट्सहस्र मुदाहृतम् | चतुर्विंशतिदं सहस्रं तन्त्राणां च समुच्चयः || एवं चतुर्विधं तन्त्रं शास्त्रागम्य मिहोच्यते | एतत् तन्त्रोक्त मार्गेण तन्त्रजातं तथा शृणु || शिवेन देव्य दत्तन्तु देव्यादत्तन्तु नन्दिने | नन्दिने ब्रह्मणा दत्तं ब्रह्मणां ऋषिदत्तकैः || प्. ६) ऋषीणां मानुषे दत्तं इत्येतै रागमोत्भवम् | आगमोत्भवता प्रोक्तं सर्वमेवन्तु कारयेत् || चतुर्विधेन मन्त्रेण शास्त्रागम मिहोच्यते | शास्त्रागमन्तु मन्त्रेण संहितै सांगतत् क्रमात् || आरणं सूत्र वाटं च तथाचार्यं तथैव च | व्याहृति मन्त्र सावित्री हव्य वाहन मन्त्रवित् || कृणुष्व वाजन मन्त्रेण प्रसुग्मन्तां तथैव च | श्रीरुद्रं पुरुष सूक्तं च चमकं पठ्य वाचकम् || एतत् मन्त्र विधानेन एतत् शास्त्र परायणाः | सर्वमन्त्रं तथा चैव सर्वशास्त्र परायणाः || मन्त्र पाठं तथा कृत्वा तन्त्र जातन्तथा शृणु | योगीनां च यतीनां च मुनीनां मन्त्रणं भवेत् || एतत् तन्त्रोक्त मार्गेण पूजागं च विधीयते | ब्रह्मपुत्रांभसश्चैव अंभसोत्पुत्रदान्तकः || दान्तपुत्रा जटाधारी तत्पुत्रस्य कुलालकः | यागस्वा मुनि कुलालं चामृत्कर्ता च कुलालकाः || इन्द्र यागन्तथा कृत्वा यागस्वा मुनिनामकः | कुलेन श्रेष्ठ इत्यस्मान् कुलाल इति चोच्यते || ब्रह्माणस्तु क्रियापात्रं मृत्कर्ता नाम एव च | सर्वदेव घटत्याग कुलालस्य विधिक्रमम् || प्. ७) चतुर्वर्णामि मुनिनां चैव ब्राह्म ऋषिस्तु कुलालकः | कुलालस्तु मुनिश्रेष्ठा वेदाध्याय परायणः || तन्त्र यज्ञो मन्त्र संपन्नं शास्तु दीक्षा समाचरेत् | धारयेत्तु शिखा सूत्रं सदाकालं प्रजापते || तर्पणं जपहोमं च सन्ध्यानुष्ठान तत्परम् | पूर्वापरं कुलानानां शास्त्र मुष्ट्यार्चनागता || त्रिसन्ध्यं जपमाध्याय शिखा यज्ञोपवीतवान् | देवार्त्थं ब्राह्मणार्थं च सर्वपात्राणि कारयेत् || सोमयाजि सहस्रेभ्यो देव भक्तिर्विशिष्यते | देव भक्ति सहस्रेभ्यः कुलालश्च विशिष्यते || कुलालस्य सहस्रेभ्यो शास्तुरर्चन पण्डितः | स्त्री करार्घ्य मिदन्तन्त्र धर्म कामार्थ मुक्तिदम् || कर्षणादि प्रतिष्ठान्तं प्रतिष्ठाद्युत्सवान्तकम् | उत्सवादीनिशान्त्यन्तं शास्ता शास्त्रमिदं स्मृतम् || तस्यार्चनावहं चैत्यूपत्सर्वं सावधारकम् | तस्य वृत्तिन्तथाचारं चत्वरिंशति संस्कृतम् || देवार्त्थं स्नपनादीनां द्विजानां यज्ञ कर्मणाम् | नृपाणामभिषेकार्त्थं सिध्यर्त्थं ब्रह्मणा च वै || लक्षणं सर्वपात्राणां याग पात्रस्य लक्षणम् | कुलालशास्त्रमित्युक्तं सर्वप्राणि हितावहम् || प्. ८) एवं स्त्रीकर तन्त्रं स्यात् त्रिधा भेदन्तथैव च | संहिताया ततो ध्याया कल्पस्य त्रिविधन्तथा || कर्षणादि प्रतिष्ठान्तं संहिता नाममुच्यते | पूजामन्त्रं ततोध्यायं भुक्तिमुक्ति वरप्रदम् || इष्टकर्माणि कृतवान् विप्रकल्पोक्तं विधिमाचरेत् | संहितोदान मार्गेण कृतवान् तत् कुलालकाम् || अध्यायोक्तविधानेन आत्मार्त्थं पूजयेत् क्रमात् | तत्तत् काम्यार्त्थ सिध्यर्थं चोरशत्रु विनाशनम् || शास्त्र कर्मोक्तमार्गेण कर्तव्यम्मन्त्र वादिनाम् | एतत्तन्त्रविधिं कर्म कुलालस्य योगमुच्यते || अन्येषां संहिता मार्गं योग्यमप्यभिधीयते | एतत् कर्माणि सर्वाणि वक्ष्यतेहं पितामह || इति ईश्वरप्रोक्ते शास्त्रागमे कुलालशास्त्रे श्रीकरतन्त्रन्नाम प्रथमः पटलः || १ || तन्तु लक्षणम् | अथातस्संप्रवक्ष्यामि तन्तूनां लक्षणं क्रमात् | गर्भाधान विवाहान्तं षोडशान्तं तथैव च || अग्नि कार्य विधिः प्रोक्तं तन्तूनां लक्षणं शृणु | प्. ९) ब्रह्मोवाच- ब्राह्मणी राजपुत्री वा वैश्यकन्याथवा पुनः | अथवा शूद्रकन्याथ तन्तूनां परिकल्पयेत् || कार्पासन्तु तथा गृह्य तन्तूनां परिकल्पयेत् | प्रातः काले तु पूर्वे तु सावित्रीमाचमनन्तथा || चतुरंगुलमात्रेण षण्णवत्यन्त सूत्रकम् | तेन तत् त्रिगुण स्कन्दन्दीर्घ सूत्रमुदाहृतम् || हस्तन्दक्षिणमूर्ध्वं स्यात् पूर्वाग्रं चापरा गृहि | ब्रह्मचारी त्रिसूत्रं स्यात् गृहस्थो द्विगुणं भवेत् || वानप्रस्थं तृतीयन्तु सन्यासि स्याच्चतुर्त्थकम् | ऊर्ध्वनाभिरनायुष्यं अधोनाभिर्धनक्षयम् || नाभिमात्रं प्रकुर्वीत उपवीतस्य लक्षणम् | ओंकारः प्रथमस्तन्तु द्वितीयोऽग्नि दैवतम् || तृतीयं नाग दैवत्यं चतुर्त्थं सोमदैवतम् | पंचमं वायुदैवत्यं षष्ठं च पितृदैवतम् || सप्तमं सूर्य दैवत्यं अष्टमं विष्णुदैवतम् | नवमं रुद्रदैवत्यं इत्येते तन्तु देवताः || त्रिगुणेन त्रिमूर्तिस्स्यात् बन्धुशक्तिः शिवः परः | ब्राह्मणस्तन्तुधारेण शिवेद्यो विधिपूर्वकम् || जटाधारि विधिं वक्ष्ये क्षत्रि वैश्य विधिक्रमम् | प्. १०) वैरवानस विधिप्रोक्तं कुलाल उपवीतवान् || जटाधारि विधिं वक्ष्ये क्षत्रिवैश्य विधिक्रमम् | वैश्य यज्ञोपवीतं च वर शैव त्रिसूत्रकम् || सन्यासस्य दशानान्तु इत्येते तन्तु लक्षणम् | इत्येते तन्तु धारेण सदाकालं विधिक्रमम् || देवार्त्थं ब्राह्मणार्त्थं च त्रिगुणं सूत्रधारणम् | शूद्रस्य तन्तु धारेण राजराष्ट्रं विनश्यति || ग्रामं ग्रामपतिं चैव भूम्यादिरेहि भस्मयेत् | इति ब्रह्मप्रोक्ते कुलालशास्त्रे उपवीत लक्षणं समाप्तम् || सर्वदेवार्चनं कृत्वा सर्वलोक विधिक्रमम् | ब्रह्मार्चनविधिं चैव ब्राह्मणानान्तु कल्पयेत् || विष्णु पूजाविधिं कृत्वा वैघानस्य पांचरात्रतः | शिवपूजाविधिं कृत्वा शिवद्विजा विधीयते || आर्य शास्तार्चनं कृत्वा कुलाल ब्रह्मर्षिस्तथा | बौद्ध मारुपहंचैव विधिसंपूजयेत् क्रमात् || भद्रकालि विधे पूजा भारशैवं विधिक्रमम् | तत्तद्दैवन्तु पूजानां तत्तद्देव प्रियन्तथा || तत्तद्देवान्य पूजे तु राज राष्ट्रं विनश्यति | प्. ११) वर्षशून्य विधिं चैव कलहं राज्य कृन्ननम् || तत्तत्पूजाविधिं कृत्वा राजा संपरिकीर्तितम् | वर्ष सम्पूर्णमेवं च यजमान् सन्तति गुणम् || नगरी नरसंपूर्णं आयुरारोग्य वर्द्धनम् | ग्रामे च नगरे चैव देवप्रतिष्ठं तु कल्पयेत् || मध्यमे वास्तु देवानां पूर्वे शास्ता प्रतिष्ठितम् | अग्नि विघ्नेश्वर स्थानं याम्ये ब्रह्मप्रतिष्ठितम् || नैर्-ऋत्यां दुर्गया देवी पश्चिमे विष्णु संभवम् | वायव्ये मोहिनी चैव सोमे चामुण्डि च क्रमम् || हरिम्मध्यदिशि स्थाप्य इत्येते देवताक्रमम् | देवस्थानविधिं कृत्वा मानुष्य विधिरुच्यते || आलयं वास्तु गेही स्यात् ब्राह्मणो दक्षिणस्तथा | पश्चिमे नगरे चैव उत्तरे राजधानिके || दक्षिणे उत्तरे चैव राजस्थानं विधीयते | पूर्वे च शूद्रदेशे तु चतुर्द्दिक्षु भवेत्क्रमात् || ग्रामे च नगरे वास्तु कुलालानां प्रतिष्ठितम् | वास्तुवो ग्रहतो सृष्टिः इत्येते गृह शुद्धिदम् || वैश्य शूद्रगृहं चैव वास्तुवो ग्रहमे विधिः | अन्त्यजाति प्रवेशं च दोषयुक्तं विसर्जयेत् | देवोत्सव विधिं चैव ब्रह्मदेशन्तु शुद्धिदं | उत्तमं ब्रह्मदेशन्तु मध्यमन्नगरेण तु || अधमं शूद्र देशन्तु उत्सवस्य विधिक्रमम् | प्. १२) शास्तुरुत्सव सेवास्यप्यकुला भवने विधिः || अन्यजातिस्तु मन्त्रं च अतिदोषं प्रवर्तते | क्षत्रियो शून्यरूपन्तु सर्वरोगण संभवम् || तत्तत् शास्त्रन्तु कर्तव्यं अतिदोष महरिप्रियम् | शास्ता नित्योत्सवं चैव जटाधारी कुलालकाः || शिवशक्त्यैक रूपन्तु आर्य शास्ता समुत्भवम् | मोहिनी विष्णुरूपन्तु शिवदर्शन संभवम् || रूपदर्शन मोही च ह्यलिंगन परिभ्रमम् | जगत्स्थावर जंगं च अग्निज्वाला महाभयम् || सप्तलोक जगन्नाथ आर्या शास्ता ततोत्भवम् | विष्णु नाभे स्ततोत्पन्नं ईशपुत्रम्महाबलम् || सर्वलोक जगन्नाथ आर्यशास्ता ततोत्भवम् | देवदेव जगन्नाथ कुलालार्चन विधिक्रमम् || पात्र कर्ता कुलालश्च अश्वमेधं विधीयते | सर्वदेव प्रसादो स्त्रिधनं विवर्धयेत् || सर्वदेव प्रसादेन शास्तार्चन कुलालकः | कर्षणादि प्रतिष्ठान्तं प्रतिष्ठाद्युत्सवान्तकम् || उत्सवादीनि शान्त्यान्तं शास्ता शास्त्र विधिक्रमम् | शास्ता शास्त्र विशेषं च ईश्वरो वाक्यमुत्तमम् || पूर्वस्या मार्य नामानि अग्नि देवन्तु शास्तुकम् | प्. १३) दक्षिणे कृष्ण मूर्तिं च सेनापत्यन्तु नैर्-ऋतम् || पश्चिमे भूतनाथं च वायव्ये एक वीथ्यकम् | उत्तरे धीनु भेरं च ईशान्यां शास्तु लिंगकम् || ग्रामे च नगरे चैव राजस्थानस्य उत्तरे | शास्ता अष्टमूर्तिं च भोग मूर्तिन्तु पूर्वकम् || अग्निकोणन्तु पूर्णं च संहारन्नृत्त बेरकम् | पश्चिमे चित्रबेरन्तु वायव्ये योग बेरकम् || उत्तरे शयनबेरन्तु ईशान्यां शास्तु लिंगकम् | शास्तानामष्ट बेरन्तु क्षत्रियो अष्टकालकम् || राजसोत्पन्न काले तु पटे चित्रस्य रूपकम् | अक्षरारंभ काले तु चित्रबेरं प्रतिष्ठितम् || आयुधन्तस्य काले तु नृत्तबेरं प्रतिष्ठितम् | अभिषेक काल मे चैव भोग मूर्ति प्रतिष्ठितम् || पुत्र उत्पन्न काले तु लिंगमूर्ति प्रतिष्ठितम् | धर्मकोटीर कालं च योग मूर्ति प्रतिष्ठितम् || ज्ञान सम्पूर्ण कालं च शयनबेरं प्रतिष्ठितम् | सर्वदेव विधिं कृत्वा इत्येते क्षत्रियो विधिः || पूर्वस्य भोग बेरन्तु द्विभुजं विधिरुच्यते | अग्निकोणन्तु संहारं षोडशं हस्तमेव च | दक्षिणे वीरमूर्तिं च अष्टहस्ता विधिक्रमम् | प्. १४) नैर्-ऋत्ये पटचित्रं च दशहस्तन्तु वा पुनः | पश्चिमे चित्रबेरन्तु चतुर्भुजं हस्तमेव च || वायव्ये योग बेरन्तु द्वादशं हस्तमेव च | उत्तरे शयनबेरन्तु षट्भुजं विधिरुच्यते || ईशान्यान्धनुबेरं च द्वादशं हस्तमेव च | गजांनामार्य नामानि शास्तावाहनमश्वकम् || दक्षिणे कृष्णमूर्तिं च श्वानवाहनमेव च | कुक्कुटं वाहनं चैव सेनापत्यन्तु नैर्-ऋतम् || पश्चिमे भूतनाथं च मेषवाहनमेव च | वायव्ये योग बेरन्तु व्याघ्र वाहनमेव च || उत्तरे शयनबेरन्तु सिंहवाहनमेव च | ईशान्यान्धनु बेरन्तु ऋष भवाहनमेव च || पद्मासन विधिप्रोक्तं लिंगमूर्ति विधिक्रमम् | गोवर्णम् || कपिला गोघृतं चैव सितगो दधिरुच्यते | पीतवर्णं च क्षीरं स्यात् रक्तवर्णन्तु गोमयम् || कृष्ण वर्णन्तु गोमूत्रं संग्रहेत्तु विचक्षणः | आज्यं प्रस्थेन कर्तव्यं द्विःप्रस्थं दधिरुच्यते || त्रिप्रस्थं क्षीरसंयुक्तं चतुः प्रस्थन्तु गोमयम् | पंचप्रस्थन्तु गोमूत्रं संगृहेत्तु विचक्षणः || प्. १५) आचार्य लक्षणम् | अथातः संप्रवक्ष्यामि आचार्यस्य तु लक्षणम् | आचार्य बलशुद्धिस्स्यात् सत्यधर्म परायणम् || सर्वलक्षण संयुक्तं सर्वशास्त्र विशारदम् | सर्वोपाय समायुक्तं सत्यवादि दृढव्रतम् || शास्त्र दीक्षा समायुक्तं समयाचार पालकम् | द्वात्रिंशल्लक्षणं कृत्वा लक्षणे मन्त्र रूपकम् || तन्त्रोद्योगस्य योगांगं मन्त्र सायुज्य संयुतम् | शिखा यज्ञोपवीतं च समेयाचार पालकम् || विभक्ति ज्ञान संयुक्तं लोकयात्रानुदक्षकम् | मोहदैन्य शून्यस्स्यात् कामक्रोध विवर्जितः || मन्त्रशक्ति शुचिश्शक्ति सत्यधर्म परायणम् | चित्तं सन्तापनिर्मुक्तो विकल्परहितो बुधः || जपध्यान समायुक्तो पक्षपात विवर्जितः | क्षम कुष्ठ विहीनस्तु दीर्घरोग विवर्जितः || नाक्षिरोगो न पंगुश्च न जलो नाकुलस्तथा | ततो विकटदन्तश्च नाति दीर्घो न वामनः || नाति स्थूलः कृतघ्नश्च कुत्सिताथा विवर्जितः | चक्षुः कर्णेषु हिंसायां शक्ति हीनन्तु वर्जयेत् || अंगुली हस्त हीनं च पादकोण विवर्जिताः | प्. १६) गुरुदेवादि भक्तश्च तपवत् गुण वत्सलः || अपापो हि प्रमादी च कल्पत्वान न सूयकः | पनाशनः प्रमाणज्ञो मन्त्र मूर्त्या त्र्याविधाः || सर्वशास्त्र निधानज्ञो सर्वमन्त्र परायणः | ईदृशैर्लक्षणैर्युक्तः कुलालाचार्य उच्यते || आचार्य लक्षणं पोक्तं शिष्याणां लक्षणं शृणु | प्रथममावाहनं चैव स्थापनन्तु द्वितीयकम् || तृतीयं पाद्यतो दद्यात् चतुर्थमाचमनीयकम् | पंचमं अर्घ्य विन्यासं षष्ठं स्यादभिषेचनम् || सप्तमं वस्त्र गन्धं च अष्टमं पुष्प पूजनम् | नवमं धूपदीपं स्याद्दशमन्तु निवेदनम् || एकादशं बलिं कुर्यात् द्वादशे होमकर्मणि | त्रयोदशं बलिं कुर्यात् गीतवाद्यं चतुर्दशम् || नृत्तं पंचदशं चैव उद्वाहनन्तु षोडश | षोडशेनोपचारं स्यात् सर्व काम्यार्त्थ साधकम् || आवाहनं पुरा चोक्तं स्थापनार्घ्यन्तथैव च | गन्ध पुष्पं तथा धूपं दीपनैवेद्यमेव च || विसर्जनाचमनं चैव दशोपचाराय कीर्तिताः || प्. १७) शौच विधिः || अथातस्संप्रवक्ष्यामि शौच कर्म समाचरेत् | उषाणां प्रत्युषाणां च शास्ता मन्त्रं शतं जपेत् || प्रातरुत्थाय चाचम्य ग्रामादि शतदण्डकम् | देवस्थानं नगोस्थानं वृक्ष ध्वायादि वर्जयेत् || नदीतीरे तटाके वा पुण्यस्थाने तु वर्जयेत् | कर्णे वा कर्णमूले वा उपवीतन्तदूर्ध्वकम् || शुचौ देशे तृणास्तीर्य रवीणान्दक्षिणस्तथा | अथवा वायुपश्चेति स्थित्वानान्तु कुलालकाः || एक चित्तन्तथा वायु मार्जनं च समाचरेत् | वामे शिश्नं गृहीत्वा तु दक्षिणे संगृहेन्मृदम् || नदीतीरे तटाकेन शौचयित्वा कुलालकः | एते पात्रं जले चैव गृहीयो शौचमाचरेत् || अक्षपात्रप्रमाणेन दशं कृत्वा विशेषतः | शिश्नानां च त्रयं चैव मृदा हस्तौ तु शुद्धयेत् || एवं शौचं तथोक्तन्तु आचमनन्तथा शृणु | अथातस्सम्प्रवक्ष्यामि अचमन्यन्तथा क्रमात् || क्षालयेत् पादवत्कृत्वा वामपादं जले तथा | अथोपादं तथा कृत्वा हस्तानान्तु प्रवेशयेत् || हस्तेन गोकर्ण मात्रेण जलं पीत्वा त्रयं भवेत् | प्. १८) अंगुष्ठं मूलयेत्पश्चात् आचमन्यन्तथा शृणु || अंगुष्ठं स्पर्शयेस्तीर्य हस्तानां तु ततो स्पृशेत् | अंगुष्ठानामिकायुक्तं चक्षुषाणान्तु सम्भवेत् || अंगुष्ठन्तर्जनीयुक्तं नासिकानान्तु संभवेत् | कनिष्ठांगुष्ठ संयुक्तं श्रोत्रद्वयन्तु सम्भवम् || मध्यांगुष्ठन्तु संयुक्तं बाहुद्वयन्तु विन्यसेत् | अंगुष्ठन्नाभौ विन्यस्य हृदये चतुरंगुलम् || सर्वांगुलन्तथा मूर्ध्नि आचमन्यन्तथा भवेत् | नाभिमात्रं जले चैव स्नानं कृत्वा कुलालकाः || ब्रह्मांगं च विन्यस्य जलमध्ये तु विन्यसेत् | शास्ता मन्त्रं जले न्यस्त्वा शास्ता तीर्थन्तु कल्पयेत् || अल्पकाशिर मिस्त्रन्तु अंगपीषिन्तु लेपनम् | हारिद्रं लेपनं चैव अंगुष्ठं शुभ कर्षणम् || शास्तातीर्थं पुनस्नानं आचमन्यन्तथा पुनः | उषः कालन्तु मन्त्रेण आपोहिष्ठा मयोभुवः || आचम्य सूर्यमन्त्रेण प्रोक्षयेद्दधिमन्त्रतः | सावित्रीं देवीं विन्यस्य मन्त्र सावित्रि तर्पणम् || नव ग्रहण तर्पणे सावित्रीं वाचमनं दश | आयातु मन्त्रोपस्थानं सावित्रीन्तु जपेत्पुनः || अष्टोत्तरशतं कृत्वा उपस्थानमिन्द्र मन्त्रतः | प्. १९) मध्याह्वाचमनं कृत्वा आपः पुनन्तु मन्त्रवित् || अन्येषां पूर्ववत्कृत्वा तर्पणन्तु विशेषतः | देवतातर्पणं चैव ऋषितर्पणमेव च || पितृतर्पणकं कृत्वा ब्रह्मयज्ञांग माचरभेत् | सावित्रीन्तु विशेषेण अष्टाविंशं जपेत्पुनः || आसद्य मन्त्रोपस्थानं अन्येषां पूर्ववत्तथा | आसद्य सायं काले तु मन्त्राणश्च समाचरेत् || उपस्थानं विशेषेण इमम्मे वारुण मन्त्रतः | अन्येषां पूर्ववत्कृत्वा कुलालार्य वाचनैः || अष्टोत्तरशतं वापि सायं प्रातः जपेत्पुनः | प्रातस्तिष्ठन् जपेन्मन्त्रं सायमासीन एव च || एभिः प्रदक्षिणं कृत्वा रवीणामभिवादयेत् | नमस्कारं चतुर्दिक्षु उपाध्यानान्तथात्मकम् || सप्तदिक्षु नमस्कारं तत्तन्मन्त्रं विशेषतः | एवं सावित्रिमाराध्य एकचित्तन्तु विन्यसेत् || पंचात्मा समिधाग्निन्तु मन्त्राग्निं परिषेचयेत् | चण्डवक्त्रादि मन्त्रेण स्वाहाकारादि मन्त्रवित् || यत्ते अग्नीति मन्त्रेण उपस्थानं जपेत् क्रमात् | आर्द्रवस्त्रन्तु सन्त्यज्य शुभवस्त्रन्तु वेष्टयेत् || शास्तास्तागम्य मन्त्रेण प्रदक्षिणन्तु त्रयं क्रमात् | प्. २०) अष्टधा पंच विन्यास नमस्कारन्तु दण्डकम् || सन्ध्यानुष्ठान तत्प्रोक्तं मंगन्यासन्ततः शृणु | इत्यंगन्यास विधिस्समाप्तः || कुंभलक्षणम् || स्त्रीणां प्रपोतरं चैव न पुंसवनं घटानि च | आश्यतीतेकांगुलं प्रोक्त खण्डायमन्दवतांगुलम् || ओष्ठमेंगुल निद्रेय अत्थांगमन्तु निर्गमम् | गलस्य तत्र ते वायुपक्त्व फलर्विदम् || पक्व बिम्ब फलाकारं कृष्ण मण्डल वर्जितम् | द्वात्रिंशत् प्रस्थसंपूर्णं इत्येते कुंभलक्षणम् || अस्ति रत्नं सिरातन्तु मांसं मृच्चैव बुद्धिमान् | श्रोणितं रक्तमृत्भिस्तु जलमेयास्तु दैवताः || कूर्चं जिह्वे तु संयुक्तं चर्म वस्त्रेण वेष्टयेत् | नाजिकेरं शिरो नेत्रं चूतपल्लव रोमशम् || सप्तधातुमयं चैव कलशेषु घटेषु च | कुम्भस्यवमुखे रुद्रं मध्ये विष्णुश्च दैवतम् || मूले ब्रह्मादि दैवत्यं कुक्षौ गंगा सरस्वती | पार्श्वयोर्ब्रह्मविष्णुश्च तेषां कुंभाधि दैवताः || कुंभमध्ये स्थितं तोयं तोयमध्ये तु पंकजम् | प्. २१) पंकजस्य तन्मध्ये सांगं शास्तन्तु पूजयेत् || घटमांसन्तुं विन्यस्य तोयं प्राणन्तु विन्यसेत् | सूत्रैश्च वेष्टयित्वा तु एकसूत्रेण दोषयुक् || त्रिसूत्रं शान्तकं प्रोक्तं यवात्मानं तिरस्कृतम् | उत्तमन्तिलमात्रन्तु मध्यमं यवमात्रकम् || अधममंगुलीपर्वं इत्येतत्तन्तु लक्षणम् | अष्टहस्तायतं चैव विस्तारं च द्विहस्तकम् || शुक्लं मनोहरं कुंभं वेष्टये हस्तमुच्यते | वर्धन्यां हस्त षण्मात्रं कलशे वेदहस्तकम् || वज्रं मरतकं चैव वैडूर्यं प्रवालमेव च | मौक्तिकं पंचरत्नानि शिवकुंभे तु विन्यसेत् || वस्त्रहीने महाव्याधिस्सूत्र हीने तु मारणम् | कूर्चहीने तु वैकल्यं पुष्प गन्धस्य निष्फलम् || नालिकेरस्य हीने तु ग्रामशून्यन्तथैव च | रत्नोदकस्य हीने तु नित्यपूजा विनश्यति || अमृतपात्रस्य हीने तु श्रीकरं दुःखमेव च | प्. २२) कुण्डलक्षणम् | अथातस्सम्प्रवक्ष्यामि कुण्डानां लक्षणं शृणु | सर्वलोक हितं पुण्यं सर्वदेव प्रियार्त्थकम् || श्रुत्यश्रं योनि चापाकार मन्यश्रं वर्तुलाकृतिम् | भूताश्रं पंकजार्घ्यन्तु वस्वश्र श्रद्धा तु कोणकम् || कोट्याहुत्याष्टहस्तस्यात् लक्षहोमन्तु षट्करम् | द्विहस्ते ऋतु भूतांभो मेखलांगुलेय क्रमात् || चतुष्करे तु वस्वब्धि कौशिकांगुलेय क्रमात् | षट्करे तु दशो नन्द अष्टमंगल ति स्मृतम् || अष्टहस्ते तथा कुर्यात् भानु रुद्र दशांगुलम् | यदाकाराणि कुण्डानि यदाकारश्च मेखला || अन्यांगुलन्तु विस्तारं भूतांगुलन्तु दैविकम् | क्रमेण कृशतां योनि भवेत् पिप्पल पत्रवत् || योनिलक्षण मेवोक्तं कुण्डस्योपरि कल्पयेत् | विस्तारस्य त्रिभागैकमुत्सेधं परिकीर्तितम् || द्विहस्तादि समारभ्य यावदष्ट करान्तकम् | विस्तारेत्वंगुलाधिक्यं दैर्घ्यं चिन्यांगुलाधिकम् || योनि लक्षणमेवं स्यात् मेखलोपरि कल्पयेत् | पक्षांगुल समुत्सेधं विस्तारन्तु गुणांगुलम् || पद्माकारं तथानाभिं यावत्कुण्डस्य मध्यमे | प्. २३) द्विभागन्दल मानं स्यात् एक भागं तु कर्णिका || द्विहस्तादि समारभ्य वसुहस्तान्तकं क्रमात् | विस्तारेत्वंगुलाधिक्यमुत्सेधोर्द्धांगुलाधिकम् || नाभिलक्षणमेवं स्यात् विस्तारन्तु प्रकल्पयेत् | कुण्डं च परितश्चान्तं तच्चांगुलेन हस्तकम् || हस्तद्वयं समारभ्य यावत्तु वसुकरान्तकम् | अर्धांगुल विवृध्यातु विष्टरं संप्रकल्पयेत् || योन्योष्ट नाभिनेमीना मुत्तमश्रिय विस्तरम् | स्वधा पक्वेष्टकाभिर्वा मृदा वैव तु कारयेत् || कुण्डानां वर्तनार्धाय चतुरश्रन्तु कारयेत् | प्राक्सूत्रं विन्यसेत्पूर्वं मत्स्यन्तु दक्षिणोत्तरम् || कुर्यात्पश्चिम पूर्वन्तु यावत्कुण्डस्य विस्तरम् | चतुरश्रं पुनः कृत्वा चतुष्कोष्ट समन्वितम् || कुण्डानामपि सर्वेषां वेदाश्रं योनिरुच्यते | श्रोत्रार्धशे विमानेन क्षेत्रार्द्धात्पार्श्वयोस्तथा || क्षेत्रस्य विधि कक्राम्य क्षेत्रार्द्धे तु विनिक्षिपेत् | द्विधाकृत्वाधिकन्तत्र यम्योत्तर प्रदक्षयोः || एकैकां सन्यसेत् बाह्ये सूत्रादभ्यन्तरे ततः | तन्मानेन भूमेद्विद्वान् चापं विष्वर मुत्तरे || क्षेत्रे तु भूतभागे तु एकैकांशन्तु पार्श्वयोः | प्. २४) विन्यसेच्चापरन्तत्र नैर्-ऋते वायुदेशके || त्रिणेकाणाभ्यन्तरं सूत्रं कृत्वा वै मत्स्य पुच्छके | संयोज्य त्रिभुजानेन त्रिकोणाय ततं स्मृतम् || श्रोत्रार्धन्तु परिग्राह्य क्षेत्रार्द्धन्तु विनिक्षिपेत् | द्विधाकृत्वाधिकन्तत्र व्योमांशो बाह्यतो न्यसेत् || वर्तयेद्धेन मानेन वर्तुलं कुण्डमुच्यते | षट्भागेकभागेन क्षेत्रार्द्धेनैव वर्तुलम् || तद्वार्द्धन्तरमादाय ख्यंशकं भजेत्ततः | धात्वंशेन भुजंग स्यात् भूताग्रन्तु भवेत् स्फुटम् || चतुर्भागन्तु तं क्षेत्र मेकैकांशं न्यसेत्ततः | क्षेत्रार्द्धन्तेनमानेन मत्स्यं कृत्वा विचक्षणः || तम्य मानं चतुर्दिक्षु चतुष्पत्रन्तु वर्तुलम् | बिसिनी कुण्डमेवन्तु क्षेत्रयाग त्रिभाजिते || ततेकांशं बहिर्न्यस्त्वा परितश्चतुरश्रकम् | कर्णार्द्धं सूत्रमानेन कोणात्कोणन्तुलनच्छयोः || चतुर्दिक्ष्वष्ट कोणार्घ्यं कुण्डं कुर्यात्सलक्षणम् | सप्तभागैक भागेन क्षेत्रार्द्धेनैव वर्तुलम् || क्षेत्रं षोडश भागैकं क्षेत्रार्धं तैव योजयेत् | वर्तये मर्तमानेन यत्वाश्रं भवति स्फुटम् || मानहीने महाव्याधि रधिके शत्रु वर्द्धनम् | प्. २५) भग्ने चैव त्वनावृष्टि स्फुटिते सस्यनाशनम् || भिन्ने च रोगमाश्रित्य भेते कलहं भवेत् | कुण्डं वा स्थण्डिलं वापि अग्नेरायतनं विधिः || चतुरश्रे कृते कुण्डे सर्व काम्यार्त्थ साधकम् | प्रजावृद्धिकरं योनौ चार्द्धचन्द्रे निपुष्करम् || कुण्डाश्रे शान्तिदं प्रोक्तं वर्द्धन्यार्त्थन्तु वर्तुलम् | पंचाश्रं रोगनाशार्त्थं जपार्त्थं चैव पद्मकम् || वस्वश्रं पुष्टिदं प्रोक्तं सप्ताश्रं सस्य वर्द्धनम् | कुण्डानान्तु फलं प्रोक्तं स्थण्डिलन्त्व धुनोच्यते || गोमयालेपिते हैमे दर्भैस्सम्मृज्य ते हृताः | निकुट्यो करमादाय प्रोक्ष्य सौम्याग्र समर्चिते || शुद्धदेशोक्त सिक्तैरनार्द्रैर्हस्त विस्तृतम् | अंगुलत्रय मानोच्चं समनिम्नोन्नतं च यः || प्रागग्रा तिस्र रेखास्तु तद्वत् सौम्याग्र रेखया | अष्टाश्रं चतुरश्रं च सप्ताश्रं च षडश्रकम् || पुमान् कुण्डमिति ख्यात स्थितं वा कुण्डमुच्यते | योन्याकारं त्रिकोणं च वर्तुलं पद्म कुण्डकम् || आसीनन्तु प्रकर्तव्यं स्त्रीरूपमिति होच्यते | शयनन्धनुराकारं नपुंसकमिति स्मृतम् || पूर्वे तु चतुरश्रं स्यादाग्नेयान्धनुराकृतिः | प्. २६) अर्द्धचन्द्रं च याम्यायां नैर्-ऋत्यान्तु त्रिकोणकम् || वारुण्यां वर्तुलं कुण्डं षट्कोणं चैव वायुके | उत्तरे पद्म कुण्डन्तु ऐशान्यामष्ट कोणकम् || ऐन्द्र ईशानयोर्मध्ये वृत्तकुण्डन्तु कारयेत् | इति कारणे अग्निकार्यविधिस्समाप्तः || कुशः काशः उशीरश्च दर्भो वेणु यवस्तथा | विश्वामित्रं च मौंजी च अष्टदर्भाः प्रकीर्तिताः || कुशानाभ्यन्तरं श्रेष्ठं श्रेष्ठ ना मध्यमं भवेत् | अधमं दर्भमेवन्तु स्थूलदर्भन्तु वर्जयेत् || अग्रस्थूलन्तु दर्भाया बुद्धिमान्नारि वर्जयेत् | * * * * * वे नारि अग्रस्थूलं नपुंसकम् || मूलाग्रे तु समं कुर्यात् पुमान् दर्भश्च लक्षणम् | अग्रहीनन्तु दर्भायाः * * * * * वर्जयेत् || क्रमि हीनन्तु दर्भाया श्वेत दर्भन्तु वर्जयेत् | मूलस्थूलन्तु कर्तव्यं अग्रमेवन्तु संभवम् || श्यामवर्णन्तु कर्तव्यं एतत् कर्माणि बुद्धिमान् | रुद्र मूलन्तु देवानां विष्णुमध्यन्तु संभवम् || अग्रन्तु ब्रह्मदैवत्यं इत्येते देवताक्रमम् | प्. २७) पवित्रलक्षणम् | शुभकर्म द्वयं कृत्य पितृकर्मेक संभवम् | कुशानां कुशदर्भं च पवित्राणां च लक्षणम् || हस्तमात्र प्रमाणेन दीर्घं द्विगुण वर्द्धयेत् | चतुरंगुलमग्रं च ग्रन्थिरेकां गुलन्तथा || वलये द्व्यंगुलं चैव पवित्रस्य प्रमाणकाः | अग्रं ब्रह्माधि दैवत्यं ग्रन्थि विष्णुस्तथैव च || ईश्वरो वलयश्चैव इत्येते देवताक्रमम् | देवार्चा शुभकर्मं च द्वे दर्भं च समुत्भवम् || शास्ता मूलमन्त्रेण अनामिकांगुलि बन्धयेत् | इत्येते लक्षणं चैव पवित्रस्य प्रमाणकम् || गोपालं कुश दर्भं च पवित्र कनक संयुतम् | त्रीणि पंच चतुर्वापि द्वयैकैकं तथैव च || यथा वज्रेण रुद्रेण यथा शूलधरस्तथा | यथा विष्णुमयं चक्रं यथा ब्रह्म पवित्रकम् || अंगुष्ठे तु भवेद्व्याधि तर्जन्यां मरणं ध्रुवम् | मध्ये पुत्र विनाशं स्यात् कनिष्ठा कर्महीनकम् || तस्मात्सर्व प्रयत्नेन अनामिक्यां विशेषतः | प्. २८) कूर्चलक्षणम् || चतुरंगुलमग्रं च ग्रन्थिरेकांगुलन्तथा | द्वादशांगुलमात्रेण मूलदर्भाय संभवम् || अग्रे तु ईश्वरश्चैव ग्रन्थि विष्णुस्तथैव च | मूलं ब्रह्माधि दैवत्यं इत्येते देवताक्रमम् || शुभकर्म सप्त दर्भाणां पितृकर्मत्रयं भवेत् | श्यामवर्ण स्वरूपाय इत्येते कूर्च लक्षणम् || कूर्चमूले तु पार्वत्यं कूर्चग्रन्थिन्तथैव च | कूर्चाग्रे सर्वतीर्थानि इति कूर्चमुदाहृतम् || खादिरं ब्रह्मवृक्षन्तु उत्तमद्वयमेव च | अश्वत्थोदुम्बरं चैव मध्यम द्वय संभवम् || समिदपामार्गं चैव अधमन्तु विधीयते | तथोत् * * * * * * परिधानन्तु कल्पयेत् || षोडशं इध्ममेवन्तु परिधीनां त्रिसंभवम् | परिधिं हस्तमात्रेण अग्र * * * सम्भवम् || इध्म मेवं प्रमाणेन द्वादशांगुल मात्रकम् | अग्रं ब्रह्मन्तु देवानां मध्यमे विष्णु दैवतम् || मूले तु ईश्वरं चैव परिधीनान्तु देवताः | षोडशाक्षरमेवन्तु इध्ममेवन्तु देवताः || प्. २९) इत्येते देवताः कृत्वा ततो ब्रह्माण सम्भवम् | त्वमिही चर्म हीनं च हस्तिहीनन्तु वर्जयेत् || शिशूनां स्थूलवर्जेन कनिष्ठांगुल मात्रकम् | समिधां लक्षणं प्रोक्तं दर्भाणां लक्षणन्तथा || अथातस्सम्प्रवक्ष्यामि शास्तार्चन विधिक्रमम् | कैलास शिखरासीनं देवदेवमुमापतिम् || भूतानां भुवनेशानं पापक्षयं जगत्पतिम् | शास्ता प्रतिम भेदं च कुलालार्चन विधिक्रमम् || पुष्पाञ्जलि पृटे न्यस्य त्र्यंबकं पादमूर्ध्वतः | ईश्वर उवाच- प्रतिमा भेदशास्तार्चां शृणुत्वं कमलासन | आयुर्जयकरं चैव पुत्रलाभन्धनावहम् || स्वर्ण स्फटिकशिलाश्चैव दारुमृत्ताम्ररूपकम् | चित्रभासशिलेखं च वक्ष्यते विधिपूर्वकम् || पटे भित्तिषु लेखं च वक्ष्यते विधिपूर्वकम् | पटेभित्ति शिलेघं च स्वर्ण मृत् स्फटिकन्तथा || यागस्वामी कुलालश्च ब्रह्मर्षिस्तु कुलालकः | सर्वदेव प्रसादेन महाशास्तन दैवताः || पूर्वापरं कुलालानां अर्चनां गोत्र दैवताः | प्. ३०) शास्ता पूजाकरं श्रेष्ठं कुलाला शास्त्तृ? दीक्षिताः || सर्वपापहरं चैव अर्चनन्तु दिने दिने | शौचमाचमनन्तेषां प्रदक्षिण त्रयमालये || प्रणता दण्डवत् भूमौ अष्टांगं च नमस्करेत् | कवाटोद्घाटनन्तत्र अस्त्रमन्त्रं तथापुनः || मार्जनं गोमयालेपं दीपानान्तु सलक्षणम् | प्रथममात्म शुद्धिं च स्थानशुद्धिर्द्वितीयकम् || तृतीयं द्रव्य शुद्धिस्स्यात्प्रतिमाशुद्धिश्चतुर्थकम् | पंचमं मन्त्र शुद्धिस्स्यात् परिवारादि पूजयेत् || पंचशुद्धिन्तथारभ्य आत्मशुद्धिं प्रवक्ष्यते | प्राङ्मुखोदङ्मुखो भूत्वा दिग्बन्धं तं च कारयेत् || भस्म चन्दन पुष्पेण शिरोंगुष्ठादि लेपनम् | अस्त्रं करतलं न्यस्य करशुद्धिरिति स्मृतम् || मस्तकादि समारभ्य आपादम्मूलमन्त्रतः | अंगुष्ठादि कनिष्ठान्तं सृष्टिन्यास मुदाहृतम् || पादहृद शिरोन्तं च संहारन्यासमेव हि | प्राणायामत्रयं कृत्वा कारयेत्तु विचक्षणः || रेचकं पूरकं चैव कुम्भकन्त्रिविकन्तथा | उदरा नासि भिष्टयं च रेचकन्तत्र कारयेत् || उत्कृष्टमपकृष्टं च वर्जयेत् कुंभकन्तथा | प्. ३१) प्राणायामत्रयं कृत्वा प्रत्येकन्दश मात्रकम् || आत्मानं योजयेत्तत्र शिखाग्रे द्वादशांगुले | पृथिवी जानु पर्यन्तं नाभ्यन्तमप एव च || गलान्तमग्निदेश तु ललाटं वायु देवता | शिखाग्रे द्वादशांगुल्ये शिवस्थानन्तु कारयेत् || भूतादि स्थानमेवन्तु लवरयह बीजकम् | पंच चतुत्रयं चैव द्वयमेकन्तु तद्गुणम् || गुणायमत्रयं चैव वायुबीजेन शुष्कवत् | हृदयेग्निन्दहेत् पश्चात् भस्म रज्जुं समाकृति || शिखाग्रे द्वादशांगुल्ये श्वेतपद्ममधोमुखम् | चन्द्रेण ध्याययेत्तत्र अमृतमाप्लावयेत् बुधः || अमृतं पूरयेत् ध्यायेद्दिव्य देहन्तथा भवेत् | अन्तर्यागन्तथा कृत्वा शास्त्र दृष्टेन कर्मणा || अंगन्यास करन्यासं विन्यसेत्तु विचक्षणः | ईशानादीनि सद्यान्तं विन्यसेत्तु विचक्षणः || ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् | अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् || सद्योजातन्न्यसेत्पादे पुनरंगानि विन्यसेत् | हृदयं हृदये न्यस्य शिरश्शिरसि विन्यसेत् || शिखां शिखाय विन्यस्य कवचं स्तनमध्यमे | प्. ३२) नेत्रे नेत्रन्तु विन्यस्य अस्त्रं हस्तप्रदेशके || अष्ट त्रिंशत्कलान्यासं मकुटादि क्रमान्न्यसेत् | शास्तारं मूलमन्त्रेण हृदये विन्यसेत्क्रमात् || भस्मशुद्धिं तथा प्रोक्तं स्थलशुद्धिन्तथा शृणु | आलयद्वार पूर्वे तु भस्म मात्रेण लेपनम् || मण्डलमष्ट दिक्चैव अस्त्रमन्त्रेण बन्धयेत् | ब्रह्मांगं विन्यसेत्तत्र पुष्पमर्घ्यं च मण्डले || गन्धपुष्पन्तथा धूपं दीपं चैव तु पूजयेत् | शास्ता परिवारा प्रगजानालयं चैव अग्नि विघ्नेश्वराननम् | दक्षिणालये ब्रह्मा च नैर्-ऋत्यां नागराजकम् || इन्द्रालयं वारुणे च श्रेष्ठालयं वायुदिग्बले | उत्तरे सोमराजं च क्षेत्रपालस्य ईशदिक् || शास्ता अष्टपरिवाराणां गोमयालेपनं शुभम् | स्थानशुद्धिरिति प्रोक्तं द्रव्य शुद्धिन्तथा शृणु || जलभाण्डं वर्द्धनीं च पुष्पपात्रार्घ्य पात्रकौ | शंखानां जलकुंभेन भाण्डादीनान्तु कारयेत् || स्थालिकानां त्रिपादं च दर्वीणामन्य पात्रकम् | हृदयं क्षालयेच्चैव कंशाति भस्मलेपनम् || अर्घ्यपात्रे जलं पूर्य शास्ता मन्त्रं शतं जपेत् | प्. ३३) सर्वपात्राणि मन्त्रेण प्रोक्षयेत् कुलालकः || द्रव्यशुद्धिस्तथा प्रोक्तं मन्त्रशुद्धिन्ततः शृणु | प्रणवादि नमोन्तं च सर्वमन्त्रन्तु कारयेत् || प्रस्थितं पूरयेत्तत्र मन्त्र शुद्धिन्तथा भवेत् | मन्त्रशुद्धिन्तथा प्रोक्तं परिवारार्चनं शृणु || पूर्वमैरावतं चैव गन्धो जलं सुपूजयेत् | उत्पलं जाति पुष्पं च गन्धपुष्पं च धूपवत् || गजाना मन्त्रमश्चैव प्रणवादि नमोन्तकम् | घण्टया ताडनं चैव पूजयेत्तु कुलालकः || अग्नि विघ्नेश्वरं चैव वाहनं मूषिकं भवेत् | घण्टाया ताडनं चैव गन्धो जलं सुपूजयेत् || मल्लिका जाति पुष्पं च श्वेतपुष्पैरलंकृतम् विघ्नमन्त्रं तथा चैव प्रणवादि नमोन्तकम् || घण्टाया ताडनं चैव पूजयेत्तु कुलालकः | दक्षिणे ब्रह्मदैवत्यं कमलासनं सुपूजयेत् || चतुर्मुखं चतुर्वेदं सर्वाभरण भूषितम् | घण्टाया ताडनं चैव गन्धो जलं सुपूजयेत् || भट्टमावरणं चैव मकुटादि क्रमान्न्यसेत् | कमलपुष्पादि पुष्पं च गन्धपुष्पं च धूपदीक् || ब्रह्ममन्त्रं तथा चैव तन्मन्त्रेण तु पूजयेत् | प्. ३४) नैवेद्यं ताम्बूलं चैव छत्रं चामर दर्पणम् || घण्टाया ताडनं चैव पूजयेत्तु कुलालकः | नैर्-ऋत्यां नागपूजा च पंचामृत पटावृताः || आसनं चतुरश्रं च चतुर्द्दलं पद्म रेखयेत् | घण्टाया ताडनं चैव गन्धो जलं सुपूजयेत् || उत्पलं जातिपुष्पं च हारिद्रं लेपनन्तथा | पीतवस्त्रं तथा पूज्य घण्टाया धूपदीपकम् || मधुक्षीरन्तथा भीष्ट्या नैवेद्यं पूजयेत् क्रमात् | ताम्बूलं च तथा चैव घण्टाया धूपदीपकम् || नागराजा त्रिमन्त्रेण तन्मन्त्रेण तु पूजयेत् | पश्चिमे इन्द्रदैवत्यं सर्वदेवं सुपूजयेत् || उत्पलं जाति पुष्पं च गन्धपुष्पन्धूपदीपकम् | गजानां मन्त्रमश्चैव प्रणवादि नमोन्तकम् || घण्टाया ताडनं चैव पूजयेत्तु कुलालकः | भट्टमावरणं चैव मकुटादि क्रमान्न्यसेत् || सहस्रनयनं संकीर्णं चतुर्भुजं गजवाहनम् | वज्रं चक्रं च पाशं च अंकुशा धरहस्तयोः || घण्टाया ताडनं चैव गन्धो जलं सुपूजयेत् | उत्पलं जाति पुष्पं च श्वेतपुष्पैरलंकृतम् || चन्दनं कुंकुमांभश्च सर्वाभरण भूषितम् | प्. ३५) नैवेद्यं ताम्बूलं चैव घण्टाया धूपदीपकम् || इन्द्र मिन्द्रादि मन्त्रेण पूजयेत्तु कुलालकः | छत्र चाम्र दीपं च दर्पणन्दर्शयेत्क्रमात् || इन्द्रदेवन्तथाकृत्वा पूजयेत्तु कुलालकः | वायव्ये मोहिनी चैव लोकवश्यं सुराक्षसी || कृष्ण वर्णादि वेष्ट्यं च सिंहासनं विशेषतः | घण्टाया ताडनं चैव गन्धो जलं सुपूजयेत् || हारिद्रं लेपनं चैव तन्मन्त्रेण तु पूजयेत् | मोहिनी भुजंगन्तथा कृत्वा पूजयेत्तु कुलालकः || उत्तरं सोमराजं च नक्षत्र स्वामि सुप्रभा | शास्तार्त्थं कारणं शास्ता शास्ता लेपनमिहोच्यते || सहस्रं कोदला वस्त्रं श्यामवस्य स्वरूपकम् | रक्तमालादि वस्त्रं च सिंहासन विशेषतः || घण्टाया ताडनं चैव गन्धो जलं सुपूजयेत् | मकुटं पंकजं पुष्पं रक्तपुष्पैरलं कृतम् || चन्दनं कुंकुमापूर सर्वालंकार संयुतम् | सर्वाभरणं भूषित्वं नैवेद्यं पूजयेत् क्रमात् || सोममन्त्रं तथा पूज्य ताम्बूलन्तु सुपूजयेत् | छत्र चामरदीपं च दर्पणं दर्शयेत्क्रमात् || घण्टाया ताडनं चैव पूजयेत्तु कुलालकः | प्. ३६) ईशाने क्षेत्रपालं च सर्वालंकार सुन्दरम् || चतुर्भुजं श्वानवाहं चापालंकार सुन्दरम् | पाद किंकिणिमाचैव पादालंकार सुन्दरम् || शूलं कपाल हस्तं च डामरुन्नाग पाशकम् | कृष्ण वर्णादि वेष्ट्यं च सर्वाभरण भूषितम् || घण्टया ताडनं चैव गन्धो जलं सुपूजयेत् | कृष्ण चन्दन मालिप्य कृष्ण पुष्पैरलंकृतम् || नैवेद्यं ताम्बूलमेवं च तन्मन्त्रेण तु पूजयेत् | घण्टाया ताडनं चैव पूजयेत्तु कुलालकः || शास्ताष्ट परिवाराणां पूजयेत्तु कुलालकः | पाद्यमाचमनं चार्घ्यं पूजयेत् त्रिविधन्तथा || रुचिरं चन्दनं चैव पाद्यद्रव्य मुदाहृतम् | एला लवंग कर्पूरं दिक्पूजातिफलैर्युतम् || आपः क्षीरं कुशाग्राणि अक्षतं यव तण्डुलैः | तिलो शिद्धोदकं चैव अर्घ्यमष्टांगमुच्यते || चन्दनागरु कर्पूरं रंग गुल्गुलायुतम् | एवन्धूपमिदं श्रेष्ठं नासिना हृदयेन तु || शुक्लवस्त्रादि छिन्नाह कर्पूरावर्तनं भवेत् | नेत्रमन्त्रं तथा दीपा पूजयेत्तु कुलालकः || सात्विकं श्वेतपुष्पं च राजसं रक्त पुष्पकम् | प्. ३७) तामसं कृष्ण पुष्पन्तु त्रिविधं पुष्पमेव तु || श्वेत पुष्पन्तु पूर्वाह्ने मध्याह्ने रक्त पुष्पकम् | अपराह्ने कृष्ण पुष्पं च पुष्पाणान्तु क्रमान्न्यसेत् || प्रातःकाले तु पत्राणां मध्याह्ने रक्तपुष्पकम् | सायाह्ने गन्धपुष्पं च त्रिसन्धीनां पूजयेत्क्रमात् || पूर्वाह्ने श्वेतगन्धं स्यात् मध्याह्ने रक्तचन्दनम् | सायाह्ने सर्वगन्धं स्यात् पूजयेत्तु कुलालकः || प्रथमं सिंहासनं चैव द्वितीयं गजासनन्तथा | तृतीयं पद्मासनं चैव इत्येते आसन क्रमम् || स्नाने सिंहासनं प्रोक्तं भोजने गजासनन्तथा | विनोदं पद्मासनं प्रोक्तमित्येते आसनक्रमम् || आसनादि क्रमं प्रोक्तं प्रतिमा शुद्धिन्तथा शृणु | पूर्व सन्ध्यार्चितं पुष्पं हृदयेन विसर्जयेत् || विसर्जनन्तथा पुष्पं मधूकरस्तु विभूषितम् | उत्तराभिमुख स्नानं शास्तापीठन्तु शोभनम् || घण्टाया ताडनं चैव पूजयेत्तु कुलालकः | तैलानां चन्दनालेप आत्मपिष्टन्तु लेपनम् || ईशानादीनि सद्यान्तं लेपयेत्तु कुलालकः | सर्वद्रव्य समायुक्तं प्रच्छन्न पटमावृतम् || शुद्धोदकं च पुष्पं च स्नानमन्त्रेण मन्त्रवित् | प्. ३८) कुलालाध्याय वेदाय शास्ता मन्त्रन्तु मन्त्रवित् || प्रथमं जल संप्रोक्ष्य द्वितीयं गन्धमेव च | तृतीयं पुष्पमेवन्तु चतुर्त्थं धूपदीपकम् || पंचमं मुद्रा कल्पं च षण्मन्त्र न्यासमेव तु | अंगन्यास करन्यासं षडंग न्यासमेव तु || सावित्री देवीं विन्यस्य शास्ता पंचाक्षरं भवेत् | शास्तानामष्ट मन्त्रेण मूलमन्त्रेण मन्त्रवित् || मालामन्त्रो कलामन्त्रो पिण्डमन्त्रन्तु विन्यसेत् | श्रीरुद्रं पुरुष सूक्तं च वेदाध्याय कुलालकाः || सप्तमन्तु हविष्यं च नैवेद्यन्तु कुलालकाः | नैवेद्यं चैव ताम्बूलं द्वारनारीन्तु पूजयेत् || पूर्वद्वारपालन्तु षडन् प्रतिषडन् तथा | नैवेद्यं च तथा कृत्वा पूजयेत्तु कुलालकः || शास्ताष्ट परिवाराणां नैवेद्यन्तु कुलालकः | गणराजस्तु पूर्वं स्यात् शास्तालयाति सन्निधिः || स्त्रिवेला अष्ट नैवेद्यं पूजयेत्तु कुलालकः | इति शास्तागमे नित्यार्चनाविधिस्समाप्तः || प्. ३९) शास्ता प्रतिष्ठा || ततः शास्ता प्रतिष्ठा विधिरुच्यते || सः प्रतिष्ठा स्थलं विधाय सर्वपापहराय सर्व पुण्य फलप्रदाय सर्वदुःख निवारणाय सर्व शान्ति कराय सर्व सिद्धि कराय सर्व शत्रु क्षयकराय सर्वारिष्ट विनाशनाय सर्व जयप्रदाय राजराष्ट्रस्य धनधान्य समृद्धिं प्रजावृद्धिं सुखाय हि फलादीनां शास्ता प्रतिष्ठां कृत्वा अतः कालनिर्णयं विधाय उत्तरायणे शुभमासे शुभनक्षत्रे आरंभं कृत्वा बृहस्पतौ वृद्धमूढ विवर्जिते कुजीर धनुः कुंभ कन्यां विसर्ज्य नन्ममासे गुरुशुक्रोदये सर्वदोष विवर्जिते सर्वफलानीं स्थाया प्रतिष्ठा नक्षत्रोच्यते || प्राजापत्योत्तर मूल पुष्याद्य नूराधान् सोमादित्य वसूंश्च हस्त श्रवण चैत्र स्वाति पूषाश्विनौ उत्तरनक्षत्राणि विशेषता स्वाति नक्षत्रां श्रेष्ठां विधाय गुरुशुक्र बुधेन्दूनां वारान् युक्तान् विधात् | सप्तमी पंचमी तृतीया एकादशी भद्रा त्रयोदशी प्. ४०) द्युक्तं विधाय तौली मिथुनवनितां स्थिर राशिं विशेषताद्युक्तम् गुरुशुक्रबुधानां तिथि नक्षत्रराशिं दृष्टि दोषादीन्वर्जयित्वा इत्युक्त काले प्रतिष्ठा कर्म कारयेत् | सा प्रतिष्ठा चतुर्विधं कुर्यात् | रहस्य परम गुह्य सम्प्रदाय विधिं संकुर्यात् || सद्यांकुरा दर्पणं विधाय रत्न न्यास नयनोन्मीलन बेरशोधन ग्राम प्रदक्षिण जलाधिवासन अधिवासन होम कर्मान्तं तत्काल मन्त्रं जप्य सांगोपांगादि विधिं कुर्यादेवं वराहस्य विधिं कृत्वा ततः परं विधिं वाचयेत् पर्वतेवान्तरंगे पर्वतपार्श्वे वने वा श्मशाने वाप्यरण्ये वा महावृक्षे तटाके वा कूप कोणेषु वा समुद्रतीरे वा व्यसने देशे वा तत्तद्देशे प्रतिष्ठां परमास्थापनविधिं क्रमात्कृत्वा आचार्य निश्चितदेशे बाल हर्म्यं कृत्वा तत्सन्निधिं हस्तं सम्पूज्य हेयनृत्त वाद्यादीन् संघोष्य संपूज्य विशेषतः आचार्य पारंपर्य गुरुप शिष्य क्रमेण श्रवण मनन निदिध्यासं मन्त्र जपसाध्य साधकाध्यात्मार्द्ध ग्रहार्चने मत्स्य मधु मांस रुधिर बलि होमान्तं कुर्याद्यथा गुप्तस्थापनं प्. ४१) कृत्वा सम्प्रदाय विधि वचनात् | प्रतिष्ठां कुर्यात् ग्रामे नगरे पर्वते राजधान्ये खेटके खर्वटे रहस्य विधिक्रमेण रत्नन्यासादि क्रियाणां क्रमेण प्रतिष्ठां कुर्यात् || भूत भूत प्रवक्ष्यामि प्रतिष्ठानान्तु लक्षणम् | सर्व पापहरं पुण्यं सर्वदुःख निवारणम् || सर्वशान्तिकरं श्रेष्ठं सर्वसिद्धिकरं परम् | सर्वशत्रु क्षयकरं सर्वारिष्ट विनाशनम् || जयदं श्रीप्रदं चैव राजराष्ट्र सुखावहम् | उत्तरायण काले तु शुभमासे शुभोदये || युक्तकाले शुभे मूढ वर्जिते गुरुशुक्रयोः | कुजीर धनु कुंभं च वनिता च विवर्जयेत् || अन्यमासेषु कर्तव्यन्दोषमासविवर्जिते | प्राजापत्योत्तरे मूले पुष्ये चैवानुराधके || सौम्यादिति वसुश्चैव हस्त श्रवणयोरपि | चैत्रके स्वाति नक्षत्रे पुष्याश्विन्यौ विशेषतः || गुरुशुक्र बुधेन्दूनां वारयुक्तेषु तैस्सह | सप्तमी पंचमी चैव तृतीयैकादशी तथा || भाद्रे चैव त्रयोदश्यां तुले च मिथुने तथा | वनिता तत्रैव स्थिर राशौ विशेषतः || प्. ४२) गुरुशुक्र बुधानान्तु दृष्टियुक्तन्तु सर्वदा | अन्धनक्षत्र राशिश्च दृष्टिदोषं विवर्जयेत् || कारयेत्तेषु योगेषु प्रतिष्ठा कर्मवित्सुधीः | रहस्य परमानाप्तं सम्प्रदायं चतुर्विधम् || सद्यांकुरार्पणं चैव रत्नन्यासन्तु तत्फलम् | नयनमोक्षान्तरं चैव प्रतिमा शुद्धिता क्रमात् || सद्योजलाधिवासं च अथवास्तु तत्परम् | होम कर्म तथा कुर्यात् तत्काले स्नपनं भवेत् || एवं रहस्यं संप्रोक्तं परमं च रहः शृणु | पर्वते वान्तरंगे वा पार्श्व पार्श्वन्तु पापयेत् || वने वापि श्मशाने वाप्याधारां वा विशेषतः | महावृक्षे तटाके वा कूपे कोष्ठेपि पापयेत् || समुद्रस्य वने वापि सन्ततं पूजयेत्क्रमात् | तत्तद्देशे प्रतिष्ठा च परमास्थापनं क्रमात् || परमा स्थापनं प्रोक्तं गुप्तस्थापनतशृणु | आचार्य निश्चिते देशे बालस्थानन्तु कारयेत् || हस्तितं पूजयेत् कुर्यात् गेयं वाद्यादि सन्निभम् | सन्निधिन्नुक्तयेगे वा प्रगुप्ती सन्निधिं शृणु || एवं गुप्तविधिः प्रोक्तं सम्प्रदायन्ततश्शृणु | प्रपदा स्थापनं कृत्वा विधितः कारयेत् बुधः || प्. ४३) ग्रामे वा नगरे वापि पत्तने राजधानिके | केटके पर्वते कुस्थे स्थापयेत् विधिपूर्वकम् || प्रासादाहे पुनर्विप्र कृतं वा मण्टपन्तथा | प्रपा वा तत्र कर्तव्यं यथोक्तं शास्त्रकै स्तथा || षोडश स्तम्भ संयुक्तं नवहस्त समन्वितम् | दर्भमाला समाकीर्णं पुष्पमाला प्रशोभितम् || मंगलार्त्थन्तु तत्पूर्वे कृत्वा चैवांकुरार्पणम् | षोडशे द्वादशे चैव कारयेदंकुरन्तथा || नवमे सप्तमे वापि पंचाहे त्रियाहके | अथवा एकमे वापि अंकुरन्तत्र कारयेत् || लोहजं शैलजं चैव मृण्मयं दारुजन्तथा | प्रतिमा चतुर्विधं प्रोक्तं मृण्मयन्तु द्विधा स्मृता || लोहजा स्त्रिविधा ज्ञेया किंचिद्धीनन्तु शैलजाः | मध्यमं दारुजा स्मृत्य मधमं मृण्मयन्तथा || बेरमा भूय तत्रैव मानमात्रन्तु संयुतम् | लोहजं शैलजं दारु स्थानन्तत्रैव कारयेत् || मृण्मयं प्रतिमं चैव पुनर्दर्भं च कारयेत् | कालं भिन्नं च सुषिरं वर्जयेत्तं प्रयत्नतः || रत्नन्यासं जलन्यासं प्रयत्नं शयनक्रियाम् | चक्रभास प्रतिष्ठायां वर्जयेत्तु विचक्षणः || प्. ४४) दर्पणन्दर्शयेद्देवं स्थापनादि समाचरेत् | आचार्य लक्षणं चैव शृणुत्वार्यं चतुर्मुख || कुलाल कुलसंभूत गुरु पारंपरंगता | शास्त दीक्षाभिषेकं यत् समयाचार पालकः || शास्ताराधनके नित्यं सत्यवादी जितेन्द्रियः | शान्तचिन्त चमायुक्तं क्रूरकर्म विवर्जितम् || कुलालाचार संयुक्तं शास्ता शास्त्रेण लक्षणम् | ईदृशैर्लक्षणैर्युक्तं कुलालाचार्य उच्यते || प्रथमं रत्न विन्यासं द्वितीयं नयनमोक्षणम् | तृतीयं प्रतिमा शुद्धिश्चतुर्त्थं ग्राम प्रदक्षिणम् || पंचमं जलाधिवासं च षष्ठं च शयनं भवेत् | सप्तमं कुम्भविन्यासं अष्टमं होम कर्म च || नवमं चाभिषेकं स्यान्मन्त्रन्यासन्तु दशमम् | मण्टपस्य तु तन्मध्ये कुड्डिं च चतुरश्रकम् || वेदिकानान्तु संकल्प्य चतुर्हस्तं सुविस्तरम् | तथा वा तत् त्रिहस्तं वा द्विहस्तं वा विशेषतः || एकहस्तोच्छ्रितं कृत्वा त्रिपादौ बद्धहस्तकम् | ऊर्ध्वं समतलं चैव दर्पणोदर सन्निभम् || गोमयालेपनं पश्चात् श्वेतचूर्णेन योजयेत् | वेदिका लक्षणं प्रोक्तं कुण्डानां लक्षणं शृणु || प्. ४५) चतुरश्रं पूर्वदिग्भागे योन्याकारमथानले | याम्ये चैवार्द्ध चन्द्रस्यान्नैर्-ऋत्यान्तु त्रिकोणकम् || वारुण्यां वृत्तं कुण्डं स्यात् वायव्ये तु रसाश्रकम् | सौम्ये च पद्म कुण्डं स्यात् ऐशान्ये अष्टकोणकम् || ऐन्द्र ईशानयोर्मध्ये सप्तकोणन्तु कल्पयेत् | हस्तमात्रं खनेत् भूमौ तन्मानं विस्तृतं भवेत् || त्रिमेखला समायुक्तं द्विधा वाप्येककापि वा | श्रुत्यग्नि पक्षविस्तारं तन्मानोच्छ्रयमेव च || मेखला परिधिप्रेश योनिं कुर्याद्यथा मुखम् | दीर्घ विस्तारकोच्छ्राय रसवेद मनोंगुलैः || नाभि कुण्डस्य मध्ये तु कल्पन्तस्य यथाविधि | युक्तन्नवांगुलं नोमि योषमेवांगुलांचिता || योत्कुण्डस्य योनिं च पद्म कुण्डस्य नाभिकः | वर्जयेत्तु प्रयत्नेन सर्वकुण्डस्तु वैद्वितन् || योन्यादि सर्व कुण्डानि वेदाश्रे तु समुत्भवत् | कल्पयित्वा तु कुण्डानि इत्येवं लक्षणं स्मृतम् || लेपनं शोषणं चैव पाशनं च प्रकारयेत् | नवाग्निं व कुर्यात् पंचाग्निनन्तु कारयेत् || अथवा तत् त्रयाग्निं वा दक्षिणं पूर्व उत्तरा | एकाग्निं पूर्वमित्या यु हु कुण्डानां विधिपूर्वकम् || प्. ४६) प्राच्युदक् पश्चिमे दक्षे रात्रौ होम समारभेत् | कुण्डं कृत्वा विधानेन स्थण्डिलं वा विधीयते || लेखयेत् त्रीणि लेखानि पूर्वाग्रं चोत्तराग्रकम् | प्रथमं रत्नविन्यासं गर्भस्थानन्तु कारयेत् || गोमयालेपनं कृत्वा मण्टपं कारयेत्तथा | स्थण्डिलं कारयेत्तत्र गर्भोपरि विन्यसेत् || मध्ये गर्भन्तु संपूज्य कलशानामष्ट पूजिता | होम कर्मं तथा पूर्वे शास्तामन्त्रं शताहुतिः || व्याहृतिं च ततो हुत्वा परिषेचनान्तं कारयेत् | गर्भस्थानं तथा पूज्य आधार सशिलान्न्यसेत् || गर्भे तु सप्त सप्ताशं क्रमेण परिकल्पयेत् | ब्राह्मिकं दैविकं चैव मानुषं वा पिशाचकम् || तस्य मानुष मध्ये तु स्थापयित्वा विचक्षणः | रत्नन्यासं तथा वक्ष्ये तेन तत्वं शृणुष्वपि || माणिक्यं मध्यमे न्यस्य नीलन्तु पूर्व दिग्बलम् | प्रवालं अग्निदेशे तु पुष्यरागन्तु दक्षिणे || वैडूर्यं नैर्-ऋते न्यस्य रत्नं वारिणि विन्यसेत् | गोमेधं वायौ विन्यस्य मुक्तानां सोम विन्यसेत् || ईशान्यां स्फटिकं न्यस्य इत्येते विन्यसेत् क्रमात् | मध्यमे ब्रह्ममन्त्रेण इन्द्रमन्त्रेण मन्त्रवित् || प्. ४७) अग्निमन्त्र तथा चैव अग्निदेशे तु विन्यसेत् | अस्त्रन्दक्षिणतोन्यस्य नैर्-ऋत्यां शिरसि न्यसेत् || पर्जन्यां मन्त्र पर्जन्यां अघोरं वायु विन्यसेत् | उत्तरे सोम मन्त्रस्स्यात् ईशान्यामीशमन्त्रतः || एवं मन्त्रन्तु विन्यस्य कुलालाचार्य वाचनैः | गर्भ न्यासन्ततः कुर्यादाचार्यश्शिल्पिभिस्सह || उष्णीषं चोत्तरीयं च हेमांगुल्यन्तु धारयेत् | तदूर्ध्वे नव बीजन्तु बीजमन्त्रन्तु वापयेत् || कुलालानां शिल्पिकानां सहिरत्नन्तु विन्यसेत् | एवन्तु रत्न विन्यासन्नयनमोक्षन्ततश्शृणु || स्थण्डिलं कारयेत्तत्र दर्भाणान्तु परिस्तरेत् | प्रतिमाम्मध्यमे न्यस्य प्रच्छन्न पटमावृतम् || पूर्वाशाभिमुखो वापि उत्तराभिमुख स्थितः | स्नान शुद्ध्यं परे हुत्वा शुक्लवस्त्रोत्तरीयकम् || प्राङ्मुखोदङ्मुखो वापि रुचिरासन संस्थितः | नववस्त्रा वृतं चैव तत्तन्मन्त्रं द्विजक्षणम् || हेमसूचिन्तथा लेख्य नेत्र मन्त्रन्तु विन्यसेत् | नवद्वारन्तथालेख्य बीजमुख्येति मन्त्रतः || स्वर्णन्तु रजतं वापि ताम्रपात्रन्तु संभवम् | मधुक्षीरं घृतं चैव पूरयेत् पत्र मेव च || प्. ४८) मधु पक्षकादि मन्त्रेण मधुनेत्रन्तु विन्यसेत् | क्षीरं वै हृदये न्यस्य घृतं पादेन विन्यसेत् || हेम सौजी कराणान्तु पेशजाशिल्प रेखया | शिल्पिनं पूजयेत्तत्र कुलालानान्तु हस्तकैः || शिल्पिनां वर्जयेत्तत्र पुण्याहं कारयेत् बुधः | क्षीरमाज्यम्मधुश्चैवन्नक्राग्नि तथा भवेत् || गवां वत्सं तथा चक्ष्व गायत्रीणान्तु मन्त्रतः | ब्राह्मणान्दर्शयित्वा तु ब्रह्मजज्ञान मन्त्रतः || जनानान्दर्शयित्वा तु सर्वदेव परायणाः | नयनमोक्षन्तथा प्रोक्तं प्रथमशुद्धिन्ततः शृणु || अष्टमृत् पंचौषधं च रत्नोदकन्तु पात्रकम् | ददौ कषौकदेशं चैव कुरोदक्षाभिषेचनम् || पादादि केशपर्यन्तं सकलं मिश्रितैस्सह | स्थण्डिलं कारयेत्तत्र कुंभं स्थाप्य तव क्रमात् || पुण्याहं वाचयेत्तत्र होम कर्म च कारयेत् | शास्तरम्मूलमन्त्रेण होमयेत्तु विशेषतः || अभिषेकं कारयेत्तत्र मालामन्त्रन्तु कारयेत् | प्रतिमा शुद्धिस्तथा प्रोक्ता जलाधिवासन्ततः शृणु || सर्वालंकार संयुक्तं सर्वाभरण भूषितम् | वाद्यघोष समायुक्तं गीत नृत्त समाकुलम् || प्. ४९) रंगे वा शिबिके वापि रथे वाप्यन्तु भक्तितः | पंच चामर संकीर्ण छत्र ध्वज समावृतम् || ग्राम प्रदक्षिणं कृत्वा जलाधिवासन्तु कारयेत् | नदीतीरे तटाके वा शुद्धे वापि जलेपि वा || नाभिमात्रे जले वापि पीठन्तत्र च विन्यसेत् | तन्मूर्ध्नि प्रतिमां न्यस्य लंबकूर्चन्तु वर्द्धयेत् || नववस्त्रं चन्दनं च पुष्पं कृत्वा च प्राक् शिरम् | ऊर्ध्व वस्त्रन्तु शास्तारं मूलमन्त्रेण विन्यसेत् || हृदयेन तु सप्तकं च कमलं चैव विन्यसेत् | माह्यावृतम् || गंगा चैव यमुना चैव नर्मदा च सरस्वती | सिन्धु गोदावरी चैव श्रीकावेरी च सप्तवत् || तत्तीर्त्थं कलशेनैव तन्मन्त्रेणैव विन्यसेत् | दर्भमाला वितानं च ध्वजानां परिवेषयेत् || अहोरात्रन्दीपमेव जलोत्थे पात्र दीपयेत् | त्रिरात्रं वा द्विरात्रं वा एकरात्रन्तु वासयेत् || सद्यो जलाधिवासं च कारयेत्तु कुलालकः | जलाधिवासनं प्रोक्तं वेदिका शयनं शृणु || दशद्रोणमुत्तमं च नवद्रोणन्तु व्रीहिकम् | तदर्द्धं तण्डुलैर्युक्तं तदर्द्धन्तु तिलं भवेत् || प्. ५०) वेदिकोपरि विप्रेशं नभ भागेषु देशिकः | पंकाजाकार मालिख्य अष्टपत्रं सकर्णिकम् || मृगचर्मन्तदूर्ध्वै तु व्याघ्र चर्मन्तथोपरि | रोमे तु मुण्डिका चैव तदूर्ध्वे रक्तमुण्डिका || श्वेते च मुण्डिका चैव नववस्त्राणि कारयेत् | शयने वा क्रमेणैव अभिषेकन्तत्र कारयेत् || पंच गव्याभिषेकन्तु शुद्ध स्नानन्तु मन्त्रतः | वेदिकायान्तु तन्मध्ये बेरबाहु यवै पुनः || गन्धपुष्पादिनाभ्यर्च्य मूलमन्त्रेण मन्त्रवित् | पुण्याहं वाचयित्वा तु रक्षाबन्धन्तु बन्धयेत् || शयनवेदीन्तदूर्ध्वे तु प्राक् शिरमूर्ध्व वक्त्रकम् | लम्ब कूर्चन्तथा बन्धं नववस्त्राच्छादनं भवेत् || मन्त्रन्यासन्ततः कृत्वा शास्त्र दृष्टेन कर्मणा | ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् || अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् | सद्योजातन्न्यसेत्पादौ पुनरंगानि विन्यसेत् || हृदये हृदयं न्यस्य शिरश्शिरसि विन्यसेत् | शिखां शिखायां विन्यस्य कवचं स्तनमध्यतः || नेत्रे नेत्रन्तु विन्यस्य अस्त्रं हस्त प्रदेशतः | अष्टत्रिंशत्कलान्यासं मकुटादि क्रमान्न्यसेत् || प्. ५१) शास्तादि मूलमन्त्रेण हृदयेन तु विन्यसेत् | प्रशान्तायेति मन्त्रेण मूर्ध्नि तु विन्यसेत्क्रमात् || प्रणवादीनि मन्त्रेण दुर्गाया मन्त्र विन्यसेत् | मालामन्त्रो कलामन्त्रो पिण्ड मन्त्रन्तु विन्यसेत् || अकारं मूर्ध्नि विन्यस्य आकारन्तु ललाटके | इकारन्दक्षिणे नेत्रे ईकारं वामनेत्रके || उकारन्दक्षिणे नासि ऊकारं वामनासिके | ऋकारन्दक्षिणे श्रोत्रे ऋकारं वामनेत्रके || ऌकारं भुज दक्षिण्यां ऌकारं भुजवामके | एकारमूर्ध्व ओष्ठेतु ऐकार मधरोष्ठके || ओकारमूर्ध्व दन्तेषु औकार मधो दन्तके | अंकारं तालौ विन्यस्य अःकारं जिह्व मूलके || कवर्गन्दक्षिणे हस्ते चवर्गं वामहस्तके | टवर्गं दक्षिणे पादे तवर्गं वामपादके || पकारं दक्षिणे पक्षे फकारं वामपक्षके | बकारं नाभि देशे तु भकारं हृदयेन तु || मकारं गज देशे तु यकारं रस देशके | रकारं रक्त देशे तु लकारं मांसदेशके || वकारं मांस देशे तु शकारं मज्जयोर्न्यसेत् | षकारं अस्थिदेशे सकारं शुक्ल विन्यसेत् || प्. ५२) हकारं प्राणयोर्न्यस्य लकारं बीजयोर्न्यसेत् | क्षकारं पादे विन्यस्य एवं पंचाक्षरं क्रमात् || लिंगे तु बीजं विन्यस्य हंसादि हृदये न्यसेत् | पृथिव्यां पादमन्त्रेण आहारं नाभि विन्यसेत् || हृदयं पापके मन्त्र मासेयां पादमन्त्रवित् | शिरसां घटमन्त्रेण पूजयेत्तु कुलालकः || राजसं हृदये न्यस्य तामसन्नाभिदेशके | सात्विकं मांसमन्त्रेण विन्यसेत्तु विचक्षणः || जाघ्रम्मन्त्रं ललाटेन ह्रस्वं हृदय विन्यसेत् | सुषुप्तिरथ नाभी च इत्येवं मन्त्र विन्यसेत् || मूलाधारन्तु मन्त्रेण हृदयेन शास्तृ मन्त्रवित् | एवम्मन्त्रन्तु विन्यस्य पूजयेत्तु कुलालकः || गन्ध पुष्पादिनाभ्यर्च्य पूजयेत् पूरकन्तथा | पुनरायन्तु येत् कुम्भं पश्चात् कुंभानि विन्यसेत् || नवानि नव कुंभानि कलंक रहितानि च | गृहीत्वा नीच कुंभानि कलशानि तथाष्ट वै || शुद्धेन तन्तुना वेष्ट्य शोधयेदद्भिरेव तु | स्थण्डिलं कारयेद्धीमान् पूर्वोक्त विधिना सह || स्थापयेद्वेदि मध्ये तु नवकुंभानि वै पुनः | कलशानि तथा षोढ स्थापयेत् द्वारपार्श्वयोः || प्. ५३) पूरयेच्छुद्धतोयेन कूर्चं चैव तु निक्षिपेत् | चूतपल्लव संयुक्त चन्दनागरु वर्जितम् || हेमरत्नादि संयुक्तमिन्दुसेध समन्वितम् | पंचरत्नोदकम्मध्ये पूर्वस्मिन् पाद्यमेव च || आचम्योदकमाग्नेय मधमे चार्घ्यमेव च | क्षीरं नैर्-ऋत दिग्भागे वारुण्यां पंचगव्यकम् || वायव्यान्दधि विन्यस्य सोमे हारिद्रमेव च | ईशान्यां कुशनोयन्तु स्थापयेत्तु विचक्षणः || नव वस्त्र वेष्टितं कुंभमावृतं च समारभेत् | शास्ता मध्य कुम्भन्तु स्थापयेत् विचक्षणः || कुम्भस्य पार्श्वयोः स्थाप्य देव्यादौ वर्द्धनीन्न्यसेत् | वर्द्धन्यां शास्त कुंभं च देव्यां शास्तारमर्चयेत् || परितश्चाष्ट दिग्भागे अष्टमूर्तीनि विन्यसेत् | चतुस्तोरण संयुक्तं मंगलाष्ट समन्वितम् || वारुणं पूर्ण कुंभं च पद्म युग्मन्तु चामरम् | शंख दर्पण दीपं च श्रीदेव्यामष्टमंगलम् || अष्टमंगलरूपाणि वेदि बाह्ये तु पूजयेत् | पूर्वन्तु तोरणं नाम श्रीकरन्तु विधीयते || दक्षिणं तोरणन्नाम वंशशा परिकल्पयेत् | पश्चिमन्तोरणन्नाम विमलं परिकल्पयेत् || प्. ५४) उत्तरं तोरणन्नाम यज्ञसिद्धिः प्रकीर्तितः | तोरणं कलशं चैव वेदि बाह्ये तु विन्यसेत् || आर्य शास्ता च कृष्णा च सेनाधि भूतवल्लभः | एकवीर्यन्तनुर्वीर्यं पूजयित्वाष्ट कुंभवत् || पूर्वमीशान पर्यन्तं स्थापयित्वा विचक्षणः | दशायुधं तथा चैव पूजयेत्तस्य बाह्ययोः || कनकं पद्म चक्रं च अंकुशं शंख पाशयोः | वज्र खड्गं शूलदण्डं पूजयेत्तु कुलालकः || आदित्या द्वादशं कुंभं स्तंभानां पूजयेत्क्रमात् | वारांश्च परिवाराणां स्थापयेत् स्वस्व मन्त्रतः || मधूकं च तथा मोढिं स्थापयित्वा विशेषतः | सद्यवस्त्रेण गन्धं च पुष्पादीनर्चयेत्तथा || शास्ता बीजेन वै विप्रो कुलाल कर्मवित्तमः | शास्तादि सर्वदेवानां आवाहनन्तु कल्पयेत् || एवमाधारयित्वा तु पश्चाद्धोमं समारभेत् | परितो वेदिकायान्तु नव भागेषु मध्यमे || कल्पयेत्तानि कुण्डानि पूर्वोक्त लक्षणान्वितम् | होमकर्म तथा कुर्यात् मण्टपादीनि संस्करेत् || मथित्वाग्नि सूर्यकान्तं वा श्रोत्रियागारजं तु वा | एवं वै हृदयं चैव त्रिपादन्तु द्वयं शिरः || प्. ५५) चतुश्शृंग षण्णेत्रं सप्तजिह्वा द्विनासिकम् | सप्तहस्ता च कर्तव्यं सर्वाभरण भूषितम् || अग्निनां पूजयेत्तत्र परिधीन् तत्र कारयेत् | आधार समिधौ कुर्यात् कूर्चं तत्रैव मेखला || प्रणीनामुत्तरे स्थाप्य प्रोक्षणीं नैर्-ऋतौ न्यसेत् | ब्रह्मकूर्चन्तथा चैव दक्षिणस्यान्तु विन्यसेत् || समिदाज्य चरुं लाजं मुद्गमाष यवन्तिलम् | शालि गोधूम नीवार सक्तु सिद्धार्थ नाकपा || दधिक्षीरं घृतं हुत्वा कुण्डमध्ये पृथक् पृथक् | पालाशं चैव शुद्धार्क अश्वत्थोदुम्बरन्तथा || प्लक्ष खादिर बिल्वं च शमीपे प्रथमावृते | इन्द्राग्ने ईशपर्यन्तं घृतं शमि यवस्तथा || ब्रह्मां शास्तु षडंगैश्च मूलबीजेन होमयेत् | शतमष्टोत्तरं वापि तदर्द्धं वा तदर्द्धकम् || कर्तव्यं सर्व यत्नेन सर्वद्रव्यं पृथक् पृथक् | पूर्णाहुतिन्तथा हुत्वा गन्ध पुष्पादिनार्चयेत् || श्वो भूत दिवसे तस्मिन् स्नात्वा वै तत्कुलाल कृत् | नवाम्बरधरो भूत्वा नववस्त्रोत्तरीयकः || पुण्याहं वाचयेत्पश्चात् बेरमाराधयेत् बुधः | गन्ध पुष्पैश्च दीपैश्च यथापूर्वं पुनः पुनः || प्. ५६) कुंभमाराधयित्वा च होमं कुर्याद्यथा विधि | सर्वाद्यैः पूर्ववत्कृत्वा पूर्णाहुति मथाचरेत् || शास्ताबीजेन वै पश्चात् बेरं गेहं विवेशयेत् | शंख दुन्दुभि भेर्यादि सर्ववाद्य प्रघोषकम् || वेदघोष समायुक्तं महाभक्तैस्समन्वितम् | स्तोत्रैस्सूत्रैर्महामन्त्रैस्सर्व मंगल वाचकैः || कारयेत्तत्र विन्यासं आधार शिलधोन्यसेत् | ब्रह्मा तु षयोर्मध्ये शास्ता देवं प्रतिष्ठितम् || स्थापयित्वा महाबेरं मूलमन्त्रेण मन्त्रवित् | सुस्थं तं कारयित्वा तु पागंचैवाष्ट बन्धनम् || अंकुरार्पणकं कुर्यात् भक्तादीनां समाहितः | पुण्याहं कारयेत्तत्र अभिषेकं च कारयेत् || पश्चाच्चावाहयेत्तस्मिन् शास्त देवं परात्परम् | द्विनेत्रं द्विभुजं बालं सर्वावयव सुन्दरम् || अनेककालसंयुक्तं सर्वाभरण भूषितम् | निष्कलन्निर्विकारं च तदैवं सकलं भवेत् || ग्राम प्रदक्षिणं कृत्वा कुंभानान्तु समाहितः | आचार्यमग्रतो गत्वागो स्थाप्यादिनादिशेत् || पुण्याहं चैव विप्राणां वाद्यन्तस्य पुरोगते | मुहूर्त लक्षणं कृत्वा सुमुहूर्ते सुलग्नके || प्. ५७) लोलजं च द्विजानीयाच्छास्तबेरं यथा क्रमात् | स्नान वेद्यान्तु विन्यस्य शास्तारं सर्वमर्चयेत् || एवं ध्यात्वा कुलालस्तु पुनरेवाभिषेचयेत् | मूलमन्त्रेण मन्त्रज्ञो मध्ये कुंभाभिषेचयेत् || माला गायत्र्यं जप्य पूर्वस्मिन् करमन्त्रकम् | शाखामन्त्रेण चाग्नेययां याम्ये वास्त्रेण मन्त्रतः || हृदयेनैव नैर्-ऋत्यां वारुण्यां कवचेन तु | वायव्यां नेत्रमन्त्रेण सौम्ये गायत्रियं जपेत् || ईशान्यां बीज मन्त्रेण स्थापयित्वोदकेन तु | एवं संस्थाप्य देवेशं ततो वाम मनन्ददेत् || पायसान्नन्ददेत्तत्र गले सर्प फलान्वितम् | ताम्बूलं च ददेत्पश्चात् तन्त्र न्यासक्रमेण तु || अभिषेकन्तथा प्रोक्तं मन्त्र मन्त्रन्यासन्ततः शृणु | हृदयं हृदये न्यस्य शिरश्शिरसि विन्यसेत् || शिखायान्तु शिखां न्यस्य कवचं स्तन देशके | नेत्रन्नेत्रेण विन्यस्य अस्त्रमन्त्रन्दृशि न्यसेत् || मूर्धा वक्त्र हृदि नाभि पादे पंचांगमर्चयेत् | मूलमन्त्रं मुनिश्श्रेष्ठं महाशास्त्रं हृदि न्यसेत् || आयुधानां विजानीयात् विन्यसेत्प्रथम क्रमात् | विद्यात्यासन्तथा कुर्यात् वेदविन्यसकेव तु || प्. ५८) वेदांगादिष्ट सर्वाणि पार्श्वयोश्चैव विन्यसेत् | ललाटे कर्णस्य मांसा हृदयं शिरसि विन्यसेत् || तर्क शास्त्राणि सर्वाणि पार्श्वयोश्चैव विन्यसेत् | संस्कृतं हृदये न्यस्य पृष्ठे पैशचमेव च || प्राकृतो पादविन्यस्य सप्तमन्त्रन्तु पादयोः | विद्यान्यासन्तथा कृत्वा लोकन्यासं समारभेत् || रुद्रलोकन्तथा मूर्ध्नि विष्णुलोकं ललाटके | ब्रह्मलोकं मुखे चैव हृदये चन्द्र लोककम् || आकाशं कुक्षि देशे तु भूलोकं पाद विन्यसेत् | अंगुल्यो चास्य विन्यस्य न्यस्त्वा तु विधिवत्पुनः || लोकन्यासमिदं कृत्वा देवता न्यासमारभेत् || ब्रह्माणी शिरसि विन्यस्य मुखे तु परमेश्वरी | नेत्रयोश्चन्द्रजश्चैव जिह्वायान्तु सरस्वती | विष्णुश्च हृदये न्यस्य आस्ये वाग्नि मनुस्मरन् || लोकपालास्तु पार्श्वे तु पृष्ठे तु वसवस्तथा || इन्द्रश्च कटितलं लब्ध्वा शेषदेवास्तु पार्श्वयोः | इत्थं शास्ता तनुस्सर्वे देवता विन्यसेत्क्रमात् || देव्या ब्रह्म षडंगैश्च वर्णानामप्यनुक्रमात् | विन्यस्य विधिवत्तत्त्रं स्वबीजं हृदये न्यसेत् || प्. ५९) तथा विन्यस्य काले तु स्वस्ति ब्राह्मण वाचयेत् | पुण्याहं ब्राह्मणैर्वापि संप्रोक्षणमथाचरेत् || प्रसादयोर्विधैर्वस्त्रैर्भूषणैर्भूषयेद्द्विजा | लेपयेत्सर्व गन्धैस्तु पुष्पमाल्यैरलंकृतम् || पूजयेत् पुष्पगन्धाद्यैर्धूपदीपैरलंकृतम् | पाद्यसान्नन्ततो दद्यात् घृतान्नन्ततः क्रमात् || अपूपानान्तथा चैव शुद्धान्नन्तु द्विजोत्तम | ताम्बूलं भक्ष्य पानादि सर्वद्रव्याणि दापयेत् || एवमाराधयित्वा तु परिवारांश्च कल्पयेत् | तत्तन्नाम्ना समाहूय तत्तत्स्थानेषु कल्पयेत् || सुमुखी च सुलग्नी च पार्श्व द्वयन्तु स्थापयेत् | विश्वाम्बरी विश्ववर्णा विश्वगन्धी तथैव च || विश्वमाली च विश्वोष्णी विश्वपादन्तु स्थापयेत् | विश्वदर्पणसंयुक्तं विश्वतोय प्रवेशयेत् || अष्ट शक्तिन्तथा कृत्वा मानसा इति तापयेत् | हस्तिनान्दक्षिणे भागे अश्वकं चोत्तरे दिशि || एवं चाभ्यन्तरे कुर्यात् मानसा इति स्थापयेत् | द्वारपालन्तु कर्तव्यं षडन् प्रतिषडन् तथा || षडं दक्षिणभागे च प्रतिषडंगं च पार्श्वके | विकृती विषकी चैव द्वारपार्श्वन्तु शक्तयोः || प्. ६०) अंगी चापि स्फुलिंगी च ऊर्ध्व अधर पट्टिका | कर्णी च कालमोडी च कवाटस्याधि देवता || चण्डे च आगमो चैव पूर्वद्वारन्तु पालकम् | विश्वांगी च स्वरूपी च द्वारपालन्तु शक्तयोः || चण्डाक्षराज चण्डा च दक्षिणद्वारपालकः | विमली विश्वपद्मी च दक्षिणद्वारशक्तयोः || निभर्जितो रुद्र भक्ता उत्तरद्वार द्वारपालकम् | चंगिरी चण्डमाली च द्वारपार्श्वन्तु शक्तयः || असुरा भावमेवोक्तं स्थापयेत्तु कुलालकः | मण्टपस्योत्तरे भागे मयूरं स्थापयेद्बुधः || मन्त्र वीरन् महावीरन् अस्त्र वीरन् तथैव च | गणवीरन् गणावीरन् हलवीरन् तथा क्रमात् || हलबितमेष वीरा अष्टवीराः प्रकीर्तिताः | पद्मपीठन्तथा कृत्वा उपनान्नारथापयेत् || अभ्यन्तं वारणं प्रोक्तं बाह्यमावरणं शृणु | पूर्वमैरावतं चैव स्थापयेत्तु विचक्षणः || बलिपीठं गणो राजा बाह्यस्थानन्तु स्थापयेत् | ऐरावतन्तु पुरतः सुमुखन्तत्र कारयेत् || शंखवर्णन्तथाग्नेययां याम्ये कुंभोधरस्तदा | सिंहवक्त्रन्तु नैर्-ऋत्यां कुक्षिवक्त्रन्तु पश्चिमे || प्. ६१) वायव्ये कपिलवक्त्रन्तु गोमुखी चोत्तरेण तु | विश्वसेनन्तथैशान्यां बलिस्थानन्तु कल्पयेत् || आवरणपूजा अग्निविघ्नेश्वरं चैव स्थापयेत्तु कुलालकः | याम्ये ब्रह्मं च दैवत्यं नैर्-ऋत्यान्नागराजकम् || पश्चिमं इन्द्रदेवानां वायव्यां मोहिनी तथा | उत्तरे सोमराजश्च ईशान क्षेत्रपालकम् || पूर्वमीशानपर्यन्तं स्थापयेत्तु कुलालकः | द्वितीयावरणं प्रोक्तं तृतीयावरणं शृणु || पूर्वायान्दिशि कुर्वीत गणराजस्य सन्निधिम् | पूर्व पीठन्तु इत्युक्तं स्थापयेत्तु कुलाककः || अग्निदेशन्तथा कल्प्य पालशालयमेव च | याम्ये सौन्दरदैवत्यं उत्तरे काल भूतकम् || ऐशाने आपदौद्धांश्च स्थापयेत्तु कुलालकः | पूर्वमीशानपर्यन्तं स्थापयेत्तु विचक्षणः || तृतीयावरणं प्रोक्तं चतुर्थावरणं शृणु | हस्ति अश्व श्वानां स्यात् वृषकुक्कुट मेष सिंहकम् || व्याघ्र मयूरमष्टौ स्यात् स्थापयेत्तु कुलालकः | चतुर्थावरणं प्रोक्त पंचमावरणं शृणु || ऐरावतः पुण्डरीको वामनः कुमुदोञ्जनः | पुष्पदन्तस्सार्वभौमस्सु प्रतीकः प्रकीर्तितः || प्. ६२) पूर्वमीशानपर्यन्तं स्थापयेत्तु कुलालकः | अष्टोत्तरशतं निष्कं शुक्लवर्णन्द्विजोत्तमम् || नानाविधानि चित्राणि नानारत्नादि तान्नृपेत् | नानागोभूमि साश्चैव आचार्यन्तु निवेदयेत् || तस्य तु गृहमारेण सर्वकाम्य फलप्रदम् | सुस्तारं कलशे देवा येन तत्र सुखं भवेत् || सर्व शत्रुक्षयकरं पुत्र पौत्र विवर्द्धनम् | तद्देशं हि सुभिक्षं स्यात् राजा च विजयी भवेत् || पुत्रकामो लभेत्पुत्रं धनकामो धनं लभेत् | राज्यार्त्थी राज्यमाप्नोति देशदेशमवाप्नुयात् || मण्डली मण्डलं स्थाप्य सर्वार्त्थं सर्वमाप्नुयात् | तस्मात्सर्व प्रयत्नेन शास्तारं कल्पयेद्द्विजः || इति कुलाल शान्ति तन्त्रे प्रतिष्ठाविधि पटलः समाप्तः || ||शुभमस्तु || प्. ६३) श्रीः ऋतुः स्नात्वा कृतीं कृत्वा वागीश्वरीन्तु विन्यसेत् हृदयं विन्यसेत्तत्र गर्भाधानं विधिं स्मृतम् | शिरो मन्त्रादि संपूज्य पुंसवनन्तु कारयेत् ईशानम्मन्त्रयेत्तत्र सीमन्तं चैव कारयेत् || पुरुषेणैव मन्त्रेण विष्णु बलिन्तु कारयेत् | वामदेवाय मन्त्रेण जातकर्मन्तु कारयेत् || सद्यो जाताय मन्त्रेण नामकर्म तथा पुनः | आस्यमन्त्रन्तथा हुत्वा अन्नप्रशनमेव च || शिरोमन्त्रं हुनेच्चैव चोल कर्मन्तु कारयेत् | हृदयेनैव मन्त्रेण उपनायन्तु कारयेत् || शिखामन्त्राहुतेश्चैव शुक्रियाणां व्रतं चरेत् | वामदेवाहुतिं हुत्वा समावर्तन कारयेत् || प्रशान्तायेति मन्त्रेण विवाहं कृत्वा विशेषतः | स्वाहा देवी च भारी च आहुतीनां विचक्षणः || अग्निना पूजयेत्तत्र परिधीन्तत्र कारयेत् | न जात्या गुरुः प्रदीक्षा न देशकाला नदीश तृष्णा पक्षती पार्वती सर्वती सर्व जन्तोरपि कामधेनुः | पुरस्थापितमाचार्ये तत्पुत्रो पौत्रेन वा यथा तथा तद्दीक्षितेन कर्तव्यं तत्र रूपं लिख्य देशिकः || यत्पूर्वरूपं परं क्रियाणां तत्पूर्वमन्ये विपरीतमाहुः | कर्तानु भर्ता मरणन्तु गच्छेत् यत्पूर्वरूपामपरक्रियाणाम् || प्रकारमुत्पूर्व रूप डंभं प्रोक्तमतिकारं सृष्टिरुच्यते | ष्ठैकारं रूपसंपन्नं प्रतिष्ठा च प्रकीर्तिता | अर्चनविधिः || अथातः संप्रवक्ष्यामि शास्तार्चनविधिं शृणु | महाशास्तादि देवानां अर्चनादि विधिक्रमात् || ब्रह्मोवाच कैलासशिखरासीनं देवदेवमुपातिम् | भूतानां भुवनेशानं पापक्षय जगत्पते || शास्ता प्रतिम भेदांश्च कुलालार्चन विधिक्रमम् पुष्पांजलि पुटन्न्यत्वा त्रयं पातक मूर्ध्निता | ईश्वर उवाच- प्रतिमाभेद शास्तार्चां शृणुत्वं कमलासन | शास्ता पूजाकर श्रेष्ठं कुलाल शास्त्र दीक्षितः || सर्वपाप हरं चैव अर्चना तु दिने दिने || प्. ६५) भस्मविधिः | कल्पो मनु कल्पं च अकल्पं च तथैव च | त्रिविधं भस्ममेवोक्तं शृणुत्वं स्कन्दमेव च || गवा वन्ध्याय कन्यायां वृषभानां च कारयेत् | सूती दशाहवन्येन माचरेत्तु शत क्रमात् || गोमयं मूलमन्त्रेण आदाय पिण्डमेव च | शिवाग्निना दहेत् कृत्वा तत् भस्मं कल्पमेव च || आरसेन चतुचूर्णं गोजलं पिण्डमेव च | होमाग्निना दहेत् भस्मं अनुकल्पमिहोच्यते || वनाकदेहेन भस्मं च गे स्थानन्द हनधराः | पंचदीपनिवृत्यादि एकवे सरस्वती ऊर्ध्वमीमात्र मात्रं स्यात् मध्यमात्रादि मात्रिकं पादमात्र त्रिमात्रं स्यात् देशिका नेत्र उत्भवेत् | शास्ता मूलमन्त्रं || ओं ह्रीं हरपुत्राय शत्रुनाशनाय पुत्रलाभाय मद् गज वाहनाय महाशास्त्रे नमः || प्. ६६) गजाननं भूत गणाधि सेवितं कपित्थ जम्बूफल सारभक्षितम् | उमासुतं शोक विनाशकारणं नमामि विघ्नेश्वर पादपंकजम् || कुंकुमवर्ण चतुर्भुज युक्तं नागमुख मंकुशकरण्डम् | अंकुशपाशं लड्डुकदन्त सुपाशं वन्दित मं गणनाथ स्वरूपम् || गजवदन सिद्धं दक्षिण दन्तं त्रिणेत्रं बहुवदनमशेषं भूतरूपं पुराणम् | अमरवर सुपूज्यं रक्तवर्णं शुभेशं पशुपति सुतमीशं विघ्नराजं नमामि || विघ्नेश्वराय नमः इत्यावाहनं | गणाध्यक्षाय नमः फालचन्द्राय नमः | गजाननाय नमः स्नापनं सन्निरोधनं ताडनं दिग्बन्धनं | अवकुण्ठनं धेनुमुद्रा पाद्यमाचमनमर्घ्यं स्नानं कल्पयामि | गन्धं पुष्पं धूपदीपं वस्त्र यज्ञोपवीता लंकरणार्त्थे इमे अक्षताः | नालिकेर प्रहारं कदली फलं गुलं ताम्बूलं नैवेद्यं यथा कर्म विज्ञाप्य विघ्नेश्वर उद्यापन विधिकल्पयेत् || प्. ६७) अस्य श्री महाभगवतो महापुरुषस्य श्रीविष्णोरादि नारायणस्य अचिन्त्यया अपरिमितशक्त्या भ्रियमाणस्य महाजलौघस्य मध्ये परिभ्रमतां अनेक कोटि ब्रह्माण्ड खण्डानां पृथिव्यापस्तेजो वायवाकाश महदव्यक्तै रावृते अस्मिन्महति ब्रह्माण्ड खण्ड मध्ये आधारशक्ति कूर्मानन्त अष्टदिग्गजोपरि प्रतिष्ठितस्य अतल वितल सुतल नितल रसातल तलातल महातल पातालाख्यानामुपरि भूलोक भुवर्लोक सवर्लोक महर्लोक जनलोक तपोलोक सत्यलोक अधो भागे महानालायमान फणिराज शेषस्य सहस्र फण मण्डल मण्डिते दिग्दन्ति शुण्डा दण्डैः स्तंभिते लोका लोकाचलेन वलयिते लवणेक्षु सुरा सर्पि दधि क्षीर शुद्धोदकार्णवैश्च परिवृते जम्बूप्लक्ष शाक शाल्मलिक पुष्कर द्वीपानाम्मध्ये इन्द्र कशेरु ताम्र वर्णगभस्तिमन्नाग सौख्य गन्धर्वचारण महासरोरुह रूपके पंचाशत् कोटि योजन विस्तीर्ण भूमण्डले मनो वाक्काय कर्मेन्द्रिय प्. ६८) व्यापारैस्संभावितानां पापानां सद्यः अपनोदनार्त्थं शिवशंभोराज्ञया प्रवर्तमानस्याद्य ब्रह्मणः द्वितीय परार्द्धे श्री श्वेत वराहकल्पे वैवस्वत मन्वन्तरे पक्षस्तले अष्टाविंशति युगे कलियुगे प्रथमेपादे जम्बूद्वीते भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन्वर्तमाने व्यवहारिके प्रभवादि षष्ठि संवत्सराणां मध्ये * * नाम संवत्सरे * * * यने * * र्तौ * * मासे * * पक्षे शुभतिथौ * * वासर युक्तायां * * नक्षत्र युक्तायां शिवयोग शिवकरण शुभयोग शुभकरण महाशास्तायोग महाशास्ताकरण एवं गुण विशेषण विशिष्टायां अस्यां शुभतिथौ मम ज्ञानाज्ञानकृतानां सत्यासत्य कृतानां भोजना न कुलालबन्ध्यां प्रतिकृशां पापानां एतेषां पापानां विनाशार्त्थं पापक्षयार्त्थं सकल दुरितोपशान्त्यर्त्थं धर्मार्थ काममोक्ष चतुर्विध फल पुरुषार्त्थ सिध्यर्थं समस्त मंगला वाप्त्यर्त्थं मानस वाचिक कायिक त्रिपुर करण प्रायश्चित्तार्थं आदित्य सन्निधौ अश्वत्थ प्. ६९) सन्निधौ देव ब्राह्मण सन्निधौ ईश्वर सन्निधौ विष्णु सन्निधौ महाशास्ता सन्निधौ सदाशिव गोत्रस्य महाशास्तानामशर्मणः मण्टपशुध्यर्त्थं स्थलशुध्यर्त्थं भाण्ड शुध्यर्त्थं आत्मशुध्यर्त्थं द्रव्य शुध्यर्त्थं शुध्यर्त्थ पुण्याहवाचनं करिष्ये || हरिः ओम् | दीर्घायुष्यं भवति धनधान्य समृद्धिरस्तु | पुत्र पौत्राभिवृद्धिरस्तु | स्वस्तिरस्तु | शोभनं | सौभाग्यमस्तु | ओं ऋद्धिस्सिद्धिरस्तु | ओं इष्टिरस्तु | ओं शान्तिरस्तु कल्याणमस्तु | ओं आयुष्यमस्तु | आरोग्यमस्तु | ओं पुत्रस्य इन्द्रस्य यज्ञं | इरणेन विग्रं सूर्यस्य दीप्तं बलमस्तु वायोत्पंच प्रविष्णु जयस्तु संभोज्या वेदागं ओं सद्योस्तु इन्द्रो देवा श्रीरत् दध्यात् कृतोत्पलम् | इन्द्रपुत्राग्नि वृद्धिं च दीर्घायुष्यं शतक्रतो | अश्वत्थ वृक्षं तिलपात्रदानं सत्गोजलं ब्राह्मण तर्पणं च | वेदाधि शास्त्रा सभारतन्तु पापाप्राणसमान् निजतीर्थ जन्तु गंगादिरेभि समुद्रेभि मनुशिखरे मेरु कैलासमध्ये पुण्यक्षेत्रे पयोग प्. ७०) गिरिननयात् द्वादशास्ता पदोनो पुण्याहं वसेत्यादि अज भवन्तस्य यन्तु स्वस्ति | ओं कुलालोति पुण्याहं | ओं अघोर देव पुण्याहं | पूवदेवतानां भूतं स्मृतं तत्पूर्व हि तपदश्चति | ओं एकादश रुद्राः प्रियन्ताम् | ओं द्वादशादित्याः प्रियन्ताम् | अष्टवसु प्रजापति इन्द्रः प्रीयन्ताम् | सुब्रह्मण्य सोमराजा प्रीयन्ताम् | एकदन्त गणपति इभानन विनायकाः प्रीयन्ताम् | आर्यन् शास्तन् कृष्णन् सेनापत्यन् भूतनाथन् भूतवल्लभन् योग भैरवन् धनुर्वीरन् अष्टशास्ता प्रीयन्ताम् | ऐरावतन् विघ्नेश्वरन् ब्रह्मन् नागराजन् मोहिनि देवेन्द्रन् सोमन् क्षेत्रपालाः प्रीयन्ताम् || लोकपालाः प्रीयन्तां अष्टवीराः प्रियन्तां | अष्टशक्तयः प्रियन्तां | अष्टमंगलाः प्रियन्तां | चतुर्त्थराः प्रियन्ताम् | सप्तर्षयः प्रियन्तां | आर्या भगवती भार्या कालेना नरी मृग वाजिनी दुर्गा देवी प्रीयन्तां | अस्ति ध्वजन् | अश्ववाहनन् वज्रायुधन् विश्वरूपा मधुकर प्रियन्तां | महाशास्ता प्रियतां | लोकमातृ धर्मज्ञानि पद्मासनि श्रियै अष्टलाकि प्रियन्तां अग्निदेव हुतवह हुताशन सर्वतो हितान् अग्निः प्रियन्तां | विद्येश्वरन् चक्रावन्निहितार्थाय प्. ७१) चतुष्षष्ठि कलानां देवमाता विद्येश्वरन् नारायणन् एतत् त्रयोदशानां कुलालाः प्रियन्ताम् | सर्व नक्षत्राणि प्रीयन्तां सर्व धनधान्य समृद्धिरस्तु | ओं शान्तिश्शान्तिश्शान्तिः || हरिः ओम् | शुभमस्तु | गुरुभ्यो नमः || ऋतवः - वसन्त ग्रीष्म वर्ष शरत् हेमन्त शिशिर - ६ मासाः - चैत्र वैशाख ज्येष्ठ आषाढ श्रावण भाद्रपद आश्विज कृत्तिका मार्गशीर्ष पुष्य माघ फाल्गुन - १२ वाराः - आदित्यो भानुः सोमो इन्दुः | मंगलो भौमः | बुधस्सौम्यः | बृहस्पतिर्गुरुः | शुक्रो भृगुः | शनिर्मन्दः || सप्त ऋषिः || पूर्वे पुलस्त्य देवानं अग्नि सोमरस क्रमम् | याम्ये तु नारदस्थाप्य नै-ऋत्यां भृगुमेव च || मार्कण्डेयं वारुणे चापि वसिष्ठो वायुतः क्रमात् | सोमे तु कौशिकं कृत्वा अगस्त्यं ईशमेव च || ########### END OF FILE #######