#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00513 Uniform title: kulānanda Main title: kulānandatantra Author : matyendranātha Editor : P. C. Bagchi Description: Taken from kaulajñānanirṇaya and some minor texts of the school of Matsyendranatha pages 107-113. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: August 14 2021. Publisher : Publication year : 1934 Publication city : Calcutta Publication country : India #################################################### कुलानन्द(तन्त्रम्) ओं नमो भैरवाय कैलासशिखरासीनं देवदेवं जगदगुरुम् | परिपृच्छत्युमादेवी एकान्ते ज्ञानमुत्तमम् || १ || भेदनीमुत्तमभेदं यथा देहव्यवस्थितम् | कथयस्व पुराभेदं कुलानन्देषु चोत्तमम् || २ || स्थानान्तरविशेषेण विज्ञानं कथयस्व मे | सद्यः प्रत्ययकारकं यथा देहे व्यवस्थितम् || ३ || पाशस्तोभञ्च वेध(न)ञ्च धूननं कम्पनं तथा | खेचरं समरसञ्चैव बलीपलितनाशनम् || सर्वं तत्तु सुरेश्वर कथयस्व मम प्रभो || ४ || भैरव उवाच शृणु देवि प्रवक्ष्यामि पुरभेदं समुत्तमम् | एतत् कौलिकं ज्ञानं कुलानन्दे चाष्टोत्तमः || ५ || ब्रह्मस्थाने यत् कमलं चतुःषष्टिदलान्वितम् | तत्रैव मनसा रोध्य लक्षयेद्दीपशिखान् व्रती || ६ || पश्यति सर्वदेहे तु दिव्यदृष्टिर्वरानने | तेन लक्षितमात्रेण जायते सिद्धिरुत्तमा || ७ || तस्योपरि नाभिम्नदवदा (?) विचक्षणे | तथा चोपरितिष्ठति देवो भैरवो जगत्प्रभुः || ८ || (प्. १०८) तस्याग्रे मनसारोप्य दृढभूतविचक्षणाः | जायते ध्वनिभिर्जातिं तत्र मरुद्विशेषतः || ९ || एतद् विज्ञानमात्रेण आवेशं कुरुते ध्रुवम् | जायते परमं स्थानं नात्र कार्यविचारणात् || १० || अथान्यं परमं देवि सद्यः प्रत्ययकारकम् | तं प्रवक्ष्यामि हे देवि शृणुष्वायतलोचने || ११ || अङ्गुल्यद्वितीयं देवि यत् पूर्वं कथितं मया | तत्रैव स्थापयेद्वित्तं कथितं जायते ध्रुवम् || १२ || अतीतानागतञ्चैव वर्तमानं तथैव च | तत्रैवोत्पादयेत् सृष्टिं तीव्रज्योतिःसमाकृतिः || १३ || हृदिसंस्थकमलं हित्वा मूर्ध्नि यान् प्रपूरयेत् | पाशस्तोभं करोत्येवं यदि विश्रमते मनः || १४ || अथान्यं परमं देवि दिव्यदृष्टि प्रवर्तते | ज्वलज्वालनमध्यस्थं द्विजग्रन्थि निरीक्षयेत् || १५ || तत्रैव मनसा रोध्य चूलिकाग्रन्तु मानयेत् पुनः | सृष्टिं प्रवर्तन्ते देवि नात्र कार्यविचारणात् || १६ || देव्युवाच तद्वेधञ्च शुद्धसारञ्च हितं मया न प्रकाशितम् | कथयस्व विशेषेण यथा जानामि तत्क्षणात् || १७ || भैरव उवाच शृणु देवि प्रवक्ष्यामि वेधसारं यथाक्रमम् | ब्रह्मस्थाने.....पद्मं चतुःषष्टिदलान्वितम् || १८ || (प्. १०९) तत्रैवोत्पादयेत् सृष्टिः दण्डाकाराग्नितेजसा | भेदयित्वा महाग्रन्थिं द्विचक्रञ्च तथैव च || १९ || मूर्ध्नि कमलसंस्थानं ज्वलनाकारं विचिन्तयेत् | चलन्तं भ्रामयेत्तेन नियतं तु महीतले || २० || बेधये गिरिवृक्षाणि किं पुनः क्षुद्रजन्तवः | अथान्यं परमं देवि विज्ञानं भद्रकं शृणु || २१ || भ्रुवोश्चक्षुर्मध्यस्थं च कालावुना (?) ....विचिन्तयेत् | यावद्विश्रमते नित्यं भ्रमते चक्रवत् शिरः || २२ || दुराश्रवणविज्ञानं भूतदेतस्य (?) चिन्तयेत् | वामस्रोतं तु यावत् तीव्रतेजसमप्रभम् || २३ || देव्युवाच बलीपलितक्षयं देव त्वया ख्यातं ममाग्रतः | एतन्मे संशयो देव कथयस्व मम प्रभो || २४ || भैरव उवाच शृणु देवि प्रवक्ष्यामि यत् सुराणामपि दुर्लभम् | द्वात्रिंशतिदलं पद्मं तिष्ठति तन्मूर्ध्नि मध्यतः || २५ || तत्रैव भावयेदमृतं कलाषोडशसमन्वितम् | हृच्चक्रं पातयेद्द्वारं (?) यावदानाभिमण्डलम् || २६ || चिन्तयेत् कृष्णवर्णञ्च भेदं तु सकलं पुरः | पलितास्तम्भयेद्देवि मासमेकेन सुव्रते || २७ || अथान्यं परमं देवि गुह्यसंशयस्थितिकारकम् | यत्र चतुष्पथस्थानं तत्र सर्वासुरालयम् || २८ || (प्. ११०) तत्रैव स्थापयेच्चित्तं दिव्यबालप्रवर्तत(?) | अश्रुतां वदते बालां...........डिव्य वरानने || २९ || विषप्रहारं कुरुते ज्वरव्याधिं विनाशयेत् | ततः परतरं स्थानं तत्र सर्वे प्रवर्तते || ३० || अथान्यं परमं देवि दुरावेधं वदाम्यहम् | ज्वलज्ज्वलनसंध्यस्थं तत्रैव लक्षयेद्देवि || ३१ || तं त्रितकोटिसमप्रभा ऊर्द्ध्वं शक्ति निपातान्यतः (?) | वेधयेद्विचक्षणः वेधयित्वा तु तं लक्षयेत् || ३२ || ज्वलनाकाष्ठप्रभां ऊर्द्ध्वशक्तिं चक्रयित्वा अचलं भ्रामयेत् पुनः (?) | वेधयेत् सा मनःसहस्राणि समकानि तु का कथा || ३३ || एवं ज्ञात्वा वीरारोहे विचरेत् यथासुखम् || देवासुरमनुजानां दुर्लभो भवति साधकः || ३४ || देव्युवाच धूननं कम्पनं देव यथाख्यातं ममाग्रतः | ततश्चापि संशयो देव कथयस्व मम प्रभो || ३५ || भैरव उवाच शृणु देवि प्रवक्ष्यामि धूननं कम्पनं स्थितम् | या सा महावहा नाडी कुचेल्याकारसंस्थिता || ३६ || तत्रैवोत्पादयेत् दृष्टिर्दण्डाकारसुतेजसा | हृच्चक्र............... तीव्रशक्ति सुविग्रहा || ३७ || धूननं कम्पनं चैव नात्र कार्यविचारणात् | अथान्यं परमं देवि खेचरत्वं शृणु प्रिये || ३८ || (प्. १११) या सा महावहा ना(डी) कुण्डल्याकारसंस्थिता | पदद्वन्द्वगता सा तु मूर्ध्निस्थं कमलं पुनः || ३९ || या वीरतये तज्ज्वलनाकारं सुभावयेद्बुधः | सर्वशक्तितो मध्यत खेचरत्व भवेद्वेः नवाहमभृतं ददैतः (?) || ४० || अथान्यं सम्प्रवक्ष्यामि महाव्याप्तिं वरानने | यावद्......ष्थानेषु ख्याता तस्य मयाग्रतः || ४१ || तथैव मनसारोप्यं नासाग्रे पवनमानेन | मनसं तत्त्व वेधयित्वा निष्कलं योजयेद्बुधः || ४२ || महाव्याप्तिर्भवेद्देवि तवाहमनृतं वदेत् | अथान्यं सम्प्रवक्ष्यामि येन सिद्धिर्भवेत् ध्रुवम् || ४३ || वर्गातीतस्य द्वितीयमनुलोम न सुव्रते | ज्वलनारूढं कृत्वा चतुर्थं स्वरसंयुतः || ४४ || बिन्दुमस्तकसम्भिन्नमादौ योजयेद्बुधः | वर्गातीतं पुनर्देवि षष्ठस्वरविभूषितः || ४५ || स शिखे खरबिन्दुसंयुक्तं योजयेद्देवि तत् पुनः | यकारस्य पञ्चमं गृह्य तं तृतीयस्वरसमन्वितम् || ४६ || स्वरं द्वितीयसंयुक्तं कारयेत् पुनः प्रियः | वर्गस्य प्रथमं बीजं सृष्टेराद्यतो योजयेत् || ४७ || एतद्देवि समाख्यातं कुलविद्यासमन्वितम् | नित्यं तु योजयेद्देवि एकचित्तस्तु पण्डितः || ४८ || (प्. ११२) तस्य सर्वा भवेत् सिद्धिः सर्वज्ञानेषु सुन्दरि | न खेदयामि कस्य चित्तं शिष्येऽप्युक्त्वा वरानने || ४९ || अथान्यं परमं देवि कामेन विह्वलकारकम् | भगस्य मध्यस्थ भगमधो हुताशनम् || ५० || प्रेरितः पवनः शक्त्या ज्वलनाकारतेजसा | विसन्तु चिन्तयेद्देवि सृष्टिकमलन्तु यावत् || ५१ || श्रवणं चिन्तयेदमृतं तेजोमार्गेण योगिनि | भवन्ति विह्वला नार्यः क्षणमेकेन सुव्रते || ५२ || अथान्यं परमं देवि फलपुष्पाकथनं च | शृणुयात् परमादेवि अघोरविक्रमा || ५३ || आकर्षयेद्बुधो वायुं पिण्डस्थं रूपणमुच्यते | चक्षुषा योजयेद्देवि फलपुष्पन्तु चिन्तयेत् || तेजसाकर्षयेत् तु.....चित्तं सुसर्यतः || ५४ || देव्युवाच सर्वत्र तु मया ज्ञानं भाषितं देव तत् पुरा | अद्यापि संशयो देवि कथयस्व मम प्रभो | संगमान्मोक्षहेतुकं ................................. || ५५ || भैरव उवाच शृणु देवि प्रवक्ष्यामि यत् सुरैरपि दुर्लभम् | आसनं तु स्थितं कृत्वा........विश्व अनिवृत्तः || ५६ || अभावं भावयेद्देवि सर्वभावविवर्जितम् | चित्तं तत्र स्थितं कृत्वा खमध्ये विनियोजयेत् || ५७ || (प्. ११३) भावयेत् समरसं देवि प्रभुभृत्यं विचक्षणः | एतद्विज्ञानमात्रेण गीयते तत्र मध्यतः || ५८ || दूराश्रवणविज्ञानं वेधस्तोभं मध्यतः | आवेशं दर्शनं दूरात् कम्पस्तोभं तथैव च || ५९ || परकायप्रवेशेन सम्प्रवर्तेत योगिनः | ... ... ..टदभ्यासेन सुव्रते || ६० || इति मत्स्येन्द्रपादावतारितं कुलानन्दं समाप्तमिति || शुभमस्तु सर्वजगताम | ########### END OF FILE #######