#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00031 Uniform title: kulārṇavatantra Main title: kulārṇavatantram Editor : Malaviya, Sudhakar Description: Created from a devanagari electronically typeset file prepared by Dr. Sudhakar Malaviya and then converted to roman transliteration by computer programs created by the Muktabodha Indological Research Institute. Notes: Revision 0: 19/11/2005 Publisher : Internet publisher: Muktabodha Indological Research Institut Publication year : 2005 Publication city : Publication country : United States #################################################### || श्रीः || कुलार्णवतन्त्रम् अथ प्रथमोल्लासः कैलासशिखरासीनं देवदेवं जगद्गुरुम् | पप्रच्छेशं परानन्दं पार्वती परमेश्वरम् || १ || श्रीदेव्युवाच भगवन् देवदेवेश पञ्चक्रतुविधायक | सर्वज्ञ भक्तिसुलभ शरणागतवत्सल || २ || कुलेश परमेशान करुणामृतवारिधे | असारे घोरसंसारे सर्वदुःखमलीमसाः || ३ || नानाविधशरीरस्था अनन्ता जीवराशयः | जायन्ते च मिरयन्ते च तेषां मोक्षो न विद्यते || ४ || सदा दुःखातुरा देव न सुखी विद्यते क्वचित् | केनोपायेन देवेश मुच्यते वद मे प्रभो || ५ || श्रीईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | तस्य श्रवणमात्रेण संसाराद् मुच्यते नरः || ६ || अस्ति देविं परब्रह्मस्वरूपो निष्कलः शिवः | सर्वज्ञः सर्वकर्त्ता च सर्वेशो निर्मलोऽद्वयः || ७ || स्वयं ज्योतिरनाद्यन्तो निवीकारः परात् परः | निर्गुणः सच्चिदानन्दस्तदंशा जीवसंज्ञकाः || ८ || अनाद्यविद्योपहिता यथाग्नौ विस्फुलिङ्गकाः | गर्भाद्युपाधिसंभिन्नाः कर्मभिः करणादिभिः || ९ || सर्वदुःखप्रदैः स्वीयपुण्यपापैनीयन्त्रिताः | तत्तज्जातियुतं देहम् आयुर्भोगञ्च कर्मजम् || १० || प्रतिजन्म प्रपद्यन्ते मानुषा मूढचेतसः | सूक्ष्मलिङ्गशरीरन्तदामोक्षादक्षयं प्रिये || ११ || स्थावराः क्रिमयश्चाब्जाः पक्षिणः पशवो नराः| धामीकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् || १२ || चतुवीधशरीराणि धृत्वा धृत्वा सहस्रशः | सुकृतान्मानवो भूत्वा ज्ञानी चेन्मोक्षमाप्नुयात् || १३ || चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम् | न मानुष्यं विना यत्र तत्त्वज्ञानं तु लभ्यते || १४ || अत्र जन्मसहस्रेषु सहस्रैरपि पार्वति | कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् || १५ || सोपानभूतं मोक्षस्य मानुष्यं प्राप्य दुर्लभम् | यस्तारयति नात्मानं तस्मात् पापतरोऽत्र कः || १६ || ततश्चाप्युत्तमं जन्म लब्ध्वा चेन्द्रियसौष्ठवम् | न वेत्त्यात्महितं यस्तु स भवेत् आत्मघातकः || १७ || विना देहेन कस्यापि पुरुषार्थो न विद्यते | तस्माद्देहधनं प्राप्य पुण्यकर्माणि साधयेत् || १८ || रक्षेत् सर्वात्मनात्मानम् आत्मा सर्वस्य भाजनम् | रक्षणे यत्नमातिष्ठेत् यावत्तत्त्वं न पश्यति || १९ || पुनर्ग्रामाः पुनः क्षेत्रं पुनवीत्तं पुनर्गृहम् | पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः || २० || शरीररक्षणायासः क्रियते सर्वदा जनैः | नहीच्छन्ति तनुत्यागमपि कुष्ठादिरोगतः || २१ || तद्गोपितं स्याद् यत्नेन धर्मो ज्ञानार्थमेव च | ज्ञानञ्च ध्यानयोगार्थं सोऽचिरात् परिमुच्यते || २२ || आत्मैव यदि नात्मानमहितेभ्यो निवारयेत् | कोऽन्यो हितकरस्तस्मादात्मानं तारयिष्यति || २३ || इहैव नरकव्याधेश्चिकित्सां न करोति यः | गत्वा निरौषधं स्थानं व्याधिस्थः किं करिष्यति || २४ || सुदीप्त भवने को वा कूपं खनति दुर्मतिः | यावत्तिष्ठति देहोऽयं तावत्तत्त्वं समभ्यसेत् || २५ || व्याघ्रीवास्ते जरा चायुर्याति भिन्नघटाम्बुवत् | निघ्नन्ति रिपुवद्रोगास्तस्माच्छ्रेयः समाचरेत् || २६ || यावन्नाश्रयते दुःखं यावन्नायान्ति चापदः | यावन्नेन्द्रियवैकल्यं तावच्छ्रेयः समाचरेत् || २७ || कालो न ज्ञायते नानाकार्यैः संसारसम्भवैः | सुखदुःखरतो जन्तुर्न वेत्ति हितमात्मनः || २८ || जडानार्त्तान्मृतानापद्गतान् दृष्ट्वाऽतिदुःखितान् | लोको मोहसुरां पीत्वा न विभेति कदाचन || २९ || सम्पदः स्वप्नसङ्काशा यौवनं कुसुमोपमम् | तडिच्चञ्चलमायुश्च कस्य स्याज्जगतो धृतिः || ३० || शतं जीवितमत्यल्पं निद्रा स्यादर्द्धहारिणी | बाल्यरोगजरादुःखैरर्द्धं तदपि निष्फलम् || ३१ || प्रारब्धव्ये निरुद्योगो जागर्त्तव्ये सुषुप्तकः | विश्वस्तव्यो भयस्थाने घातकैः किं न हन्यते || ३२ || तोयफेनसमे देहे जीवे शकुनिवत् स्थिते | अनित्येऽप्रियसंसारे कथं तिष्ठन्ति निर्भयाः || ३३ || अहिते हितबुद्धिः स्यादध्रुवे ध्रुवचिन्तकः | अनर्थं चार्थविज्ञानी स्वमृत्युं यो न वेत्ति च || ३४ || पश्यन्नपि न पश्येत् स शृण्वन्नपि न बुध्यति | पठन्नपि न जानाति तव मायाविमोहितः || ३५ || सन्निमज्जज्जगदिदं गम्भीरे कालसागरे | मृत्युरोगजराग्राहे न किञ्चिदपि बुध्यति || ३६ || प्रतिक्षणमयं कायो जीर्यमाणो न लक्ष्यते | आमकुम्भ इवाम्भःस्थो विशीर्णो नैव भाव्यते || ३७ || युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् | ग्रथनञ्च तरङ्गाणामास्था नायुषि युज्यते || ३८ || पृथिवी दह्यते येन मेरुश्चापि विशीर्यते | शुष्यते सागरजलं शरीरे देवि का कथा || ३९ || अपत्यं मे कलत्रं मे धनं मे बान्धवश्च मे | लपन्तमिति मर्त्त्यं हि हन्ति कालवृको बलात् || ४० || इदं कृतमिदं कार्यमिदमन्यत् कृताकृतम् | एवमीहासमायुक्तं मृत्युरत्ति जनं प्रिये || ४१ || श्वःकार्यमद्य कर्त्तव्यं पूर्वाह्णे चापराह्निकम् | न हि प्रतीक्षते मृत्युः कृतं वाऽस्य न वा कृतम् || ४२ || जरादशीतपन्थानं प्रचण्डव्याधिसैनिकम् | मृत्युशत्रुमभिज्ञोऽसि आयान्तं किं न पश्यसि || ४३ || आशा सूचीविनिभीन्नं सिक्तं विषयसपीषा | रागद्वेषानले पक्वं मृत्युरश्नाति मानवम् || ४४ || बालांश्च यौवनस्थांश्च वृद्धान् गर्भगतानपि | सर्वांश्च हिंसते मृत्युरेवम्भूतमिदं जगत् || ४५ || ब्रह्माविष्णुमहेशादिदेवता भूतजातयः | नाशमेवानुधावन्ति तस्माच्छ्रेयः समाचरेत् || ४६ || स्वस्ववर्णाश्रमाचारलङ्घनाद् दुष्प्रतिग्रहात् | परस्त्रीधनलोभाच्च नॄणामायुःक्षयो भवेत् || ४७ || वेदशास्त्राद्यनभ्यासात्तथैव गुर्वनर्चनात् | नॄणामायुःक्षयो भूयादिन्द्रियाणामनिग्रहात् || ४८ || व्याधिराधिवीषं शस्त्रं ना सर्पः पशवो मृगाः | मरणं येन निद्र्दष्टं तेन गच्छन्ति जन्तवः || ४९ || जीवस्तृणजलौकेव देहाद्देहान्तरं व्रजेत् | सम्प्राप्य परमंशेन देहं त्यजति पूर्वजम् || ५० || बाल्ययौवनवृद्धत्वं यथा देहान्तरादिकम् | तथा देहान्तरप्राप्तिर्गृहाद्गृहमिवागतः || ५१ || जनाः कृत्वेह कर्माणि सुखदुःखानि भुञ्जते | परत्राज्ञानिनो देवि यान्त्यायान्ति पुनः पुनः || ५२ || इह यत् क्रियते कर्म तत् परत्रोपभुज्यते | सिक्तमूलस्य वृक्षस्य फलं शाखासु दृश्यते || ५३ || दारिद्र्यदुःखरोगाश्च बन्धनव्यसनानि च | आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् || ५४ || निःसङ्ग एव मोक्षः स्याद्दोषाः सर्वे च सङ्गजाः | तस्मात् सङ्गं परित्यज्य तत्त्वनिष्ठः सुखी भवेत् | सङ्गाच्च चलते ज्ञानी चावश्यं किमुताल्पवित् || ५५ || सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते | सद्भः सह स कर्त्तव्यः सतां सङ्गो हि भेषजम् || ५६ || सत्सङ्गश्च विवेकश्च निर्मलं नयनद्वयम् | यस्य नास्ति नरः सोऽन्धः कथं न स्यादमार्गगः || ५७ || यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् | तावन्तोऽस्य विशन्त्येते हृदये शोकशङ्कवः || ५८ || स्वदेहमपि जीवोऽयं त्यक्त्वा याति कुलेश्वरि | स्त्रीमातृपितृपुत्रादिसम्बन्धः केन हेतुना || ५९ || दुःखमूलो हि संसारः स यस्यास्ति स दुःखितः| तस्य त्यागः कृतो येन स सुखी नापरः प्रिये || ६० || प्रभवं सर्वदुःखानामाश्रयं सकलापदाम् | आलयं सर्वपापानां संसारं वर्जयेत् प्रिये || ६१ || अबन्धबन्धनं घोरं मिश्रीकृतमहाविषम् | अशस्त्रखण्डनं देवि संसारासक्तचेतसाम् || ६२ || आदिमध्यावसानेषु सर्वं दुःखमिदं यतः | तस्मात् सन्त्यज्य संसारं तत्त्वनिष्ठः सुखी भवेत् || ६३ || लौहदारुमयैः पाशैर्दृढबन्धोऽपि मुच्यते | स्त्रीधनादिषु संसक्तो मुच्यते न कदाचन || ६४ || कुटुम्बचिन्तायुक्तस्य श्रुतशीलादयो गुणाः | अपक्वकुम्भजलवत् नश्यन्त्यङ्गेन केवलम् || ६५ || वञ्चिताशेषचित्तैस्तैनीत्यं लोको विनाशितः | हा हन्त विषयाहारैर्देहस्थेन्द्रियतस्करैः || ६६ || मांसलुब्धो यथा मत्स्यो लौहशंकुं न पश्यति | सुखलुब्धस्तथा देही यमबाधां न पश्यति || ६७ || हिताहितं ना जानन्तो नित्यमुन्मार्गगामिनः | कुक्षिपूरणनिष्ठा ये तेऽबुधा नारकाः प्रिये || ६८ || निद्रादिमैथुनाहाराः सर्वेषां प्राणिनां समाः | ज्ञानवान् मानवः प्रोक्तो ज्ञानहीनः पशुः प्रिये || ६९ || प्रभाते मलमूत्राभ्यां क्षुत्तृड्भ्यां मध्यगे रवौ | रात्रौ मदननिद्राभ्यां बाध्यन्ते मानवाः प्रिये || ७० || स्वदेहधर्मदारादिनिरताः सर्वजन्तवः | जायन्ते च मिरयन्ते च हा हन्ताज्ञानमोहिताः || ७१ || स्वस्ववर्णाश्रमाचारनिरताः सर्वमानवाः | न जानन्ति परं तत्त्वं मूढा नश्यन्ति पार्वति || ७२ || क्रियायासपराः केचित् क्रतुचर्यादि संयुताः | अज्ञानसंयुतात्मानः सञ्चरन्ति प्रतारकाः || ७३ || नाममात्रेण सन्तुष्टाः कर्मकाण्डरता नराः | मन्त्रोच्चारणहोमाद्यैर्भ्रामिताः क्रतुविस्तरैः || ७४ || एकभक्तोपवासाद्यैनीयमैः कायशोषणैः | मूढः परोक्षमिच्छन्ति तव मायाविमोहिताः || ७५ || देहदण्डनमात्रेण का मुक्तिरविवेकिनाम् | वल्मीकताडनाद्देवि मृतः किन्नु महोरगः || ७६ || धनाहारार्जने युक्ता दाम्भिका वेषधारिणः | भ्रमन्ति ज्ञानिवल्लोके भ्रामयन्ति जनानपि || ७७ || सांसारिकसुखासक्तं ब्रह्मज्ञोऽस्मीति वादिनम् | कर्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा || ७८ || गृहारण्यसमा लोके गतव्रीडा दिगम्बराः | चरन्ति गर्दभाद्याश्च योगिनस्ते भवन्ति किम् || ७९ || मृद्भस्मम्रक्षणाद् देवि मुक्ताः स्युर्यदि मानवाः | मृद्भस्मवासिनो ग्राम्याः किं ते मुक्ता भवन्ति हि || ८०|| तृणपर्णोदकाहाराः सततं वनवासिनः | हिरणादिमृगा देवि योगिनस्ते भवन्ति किम् || ८१ || आजन्ममरणान्तञ्च गङ्गादितटिनीस्थिताः | मण्डूकमत्स्यप्रमुखा व्रतिनस्ते भवन्ति किम् || ८२ || वदन्ति हृदयानन्दं पठन्ति शुकसारिकाः | जनानां पुरतो देवि विबुधाः किं भवन्ति हि || ८३ || पारावताः शिलाहाराः परमेश्वरि चातकाः | न पिबन्ति महीतोयं योगिनस्ते भवन्ति किम् || ८४ || शीतवातातपसहा भक्ष्याभक्ष्यसमाः प्रिये | तिष्ठन्ति शूकराद्याश्च योगिनस्ते भवन्ति किम् || ८५ || तस्मादित्यादिकं कर्म लोकवञ्चनकारकम् | मोक्षस्य कारणं साक्षात्तत्त्वज्ञानं कुलेश्वरि || ८६ || षड्दर्शनमहाकूपे पतिताः पशवः प्रिये | परमार्थं न जानन्ति पशुपाशानियन्त्रिताः || ८७ || वेदशास्त्रार्णवे घोरे ताड्यमाना इतस्ततः | कालोमीग्राहग्रस्ताश्च तिष्ठन्ति हि कुताकीकाः || ८८ || वेदागमपुराणज्ञः परमार्थं न वेत्ति यः | विडम्बकस्य तस्यापि तत् सर्वं काकभाषितम् || ८९ || इदं ज्ञानमिदं ज्ञेयमिति चिन्तासमाकुलाः | पठन्त्यहनीशं देवि परतत्त्वपराङ्मुखः || ९० || वाक्यच्छन्दोनिबन्धेन काव्यालङ्कारशोभिना | चिन्तया दुःखिता मूढास्तिष्ठन्ति व्याकुलेन्द्रियाः || ९१|| अन्यथा परमं तत्त्वं जनाः क्लिश्यन्ति चान्यथा | अन्यथा शास्त्रसद्भावो व्याख्यां कुर्वन्ति चान्यथा || ९२ || कथयन्त्युन्मनीभावं स्वयं नानुभवन्ति हि | अहङ्कारहताः केचिदुपदेशविवजीताः || ९३ || पठन्ति वेदशास्त्राणि विवदन्ति परस्परम् | न जानन्ति परं तत्त्वं दर्वी पाकरसं यथा || ९४ || शिरो वहति पुष्पाणि गन्धं जानाति नासिका | पठन्ति वेदशास्त्राणि दुर्लभो भाववेदकः || ९५ || तत्त्वमात्मस्थमज्ञात्त्वा मूढः शास्त्रेषु मुह्यति | गोपः कक्षगतं छागं कूपे पश्यति दुर्मतिः || ९६ || संसार मोहनाशाय शाब्दबोधो न हि क्षमः | न निवर्त्तेत तिमिरं कदाचिद्दीपवार्त्तया || ९७ || प्रज्ञाहीनस्य पठनम् अन्धस्यादर्शदर्शनम् | देवि प्रज्ञावतः शास्त्रं तत्त्वज्ञानस्य कारणम् || ९८ || अग्रतः पृष्ठतः केचित् पार्श्वयोरपि केचन | तत्त्वमीदृक् तादृगिति विवदन्ति परस्परम् | सद्विद्यादानशूराद्यैर्गुणैवीख्यातमानवाः || ९९ || प्रत्यक्षग्रहणं नास्ति वार्त्तया ग्रहणं कुतः | एवं ये शास्त्रसम्मूढास्ते दूरस्था न संशयः || १०० || इदं ज्ञानमिदं ज्ञेयं सर्वतः श्रोतुमिच्छति | देवि वर्षसहस्रायुः शास्त्रान्तं नैव गच्छति || १०१ || वेदाद्यनेकशास्त्राणि स्वल्पायुवीघ्नकोटयः | तस्मात् सारं विजानीयात् क्षीरं हंस इवाम्भसः || १०२ || अभ्यस्य सर्वशास्त्राणि तत्त्वं ज्ञात्वा हि बुद्धिमान् | पलालमिव धान्यार्थी सर्वशास्त्रं परित्यजेत् || १०३ || यथामृतेन तृप्तस्य नाहारेण प्रयोजनम् | तत्त्वज्ञस्य तथा देवि न शास्त्रेण प्रयोजनम् || १०४ || न वेदाध्ययनान्मुक्तिर्न शास्त्रपठनादपि | ज्ञानादेव हि मुक्तिः स्यान्नान्यथा वीरवन्दिते || १०५ || नाश्रमाः कारणं मुक्तेर्दर्शनानि न कारणम् | तथैव सर्वशास्त्राणि ज्ञानमेव हि कारणम् || १०६ || मुक्तिदा गुरुवागेका विद्याः सर्वा विडम्बकाः | काष्ठभारश्रमादस्मादेकं सञ्जीवनं परम् || १०७ || अद्वैतन्तु शिवेनोक्तं क्रियायासविवजीतम् | गुरुवक्त्रेण लभ्येत नान्यथागमकोटिभिः || १०८ || आगमोत्थं विवेकोत्थं द्विधा ज्ञानं प्रचक्षते | शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् || १०९ || अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे | मम तत्त्वं च जानन्ति द्वैताद्वैतविवजीतम् || ११० || द्वे पदे बन्धमोक्षाय ममेति निर्ममेति च | ममेति बाध्यते जन्तुर्न ममेति विमुच्यते || १११ || तत् कर्म यन्न बन्धाय विद्या सा या विमुक्तये | आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् || ११२ || यावत् कामादि दीप्येत यावत् संसारवासना | यावदिन्द्रियचापल्यं तावत्तत्त्वकथा कुतः || ११३ || यावत् प्रयत्नवेगोऽस्ति यावत् सङ्कल्पकल्पना | यावन्न मनसः स्थैर्यं तावत्तत्त्वकथा कुतः || ११४ || यावद्देहाभिमानश्च ममता यावदस्ति हि | यावन्न गुरुकारुण्यं तावत्तत्त्वकथा कुतः || ११५ || तावत्तपो व्रतं तीथर्ं जपहोमार्च्चनादिकम् | वेदशास्त्रागमकथा यावत्तत्त्वं न विन्दते || ११६ || तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा | तत्त्वनिष्ठो भवेद्देवि यदीच्छेन्मोक्षमात्मनः || ११७ || धर्मज्ञानसुपुष्पस्य स्वर्गलोक फलस्य च | तापत्रयात्तीसन्तप्तश्छायां मोक्षतरोः श्रयेत् || ११८ || बहुनात्र किंमुक्तेन रहस्यं शृणु पार्वति | कुलधर्ममृते मुक्तर्नास्ति सत्यं न संशयः || ११९ || तस्माद्वदामि तत्त्वन्ते विज्ञाय श्रीगुरोर्मुखात् | सुखेन मुच्यते देवि घोरसंसारबन्धनात् || १२० || इति ते कथिता काचिज्जीवजातिस्थितिः प्रिये | समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि || १२१ || || इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे जीव- स्थितिकथनं नाम प्रथमोल्लासः || १ || अथ द्वितीयोल्लासः श्रीदेव्युवाच कुलेश श्रोतुमिच्छामि सर्वजीवदयानिधे | कुलधर्मस्त्वया देव सूचितो न प्रकाशितः || १ || तस्य धर्मस्य माहात्म्यं सर्वधर्मोत्तमस्य च | ऊद्र्ध्वाम्नायस्य माहात्म्यं तन्मतं वद मे प्रभो | वद मे परमेशान यदि तेऽस्ति कृपा मयि || २ || श्री ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | तस्य श्रवणमात्रेण योगिनीनां प्रियो भवेत् || ३ || ब्रह्माविष्णुगुहादीनां न मया कथितं पुरा | कथयामि तव स्नेहात् शृणुष्वैकाग्रमानसा || ४ || पारम्पर्ययक्रमायातं पञ्चवक्त्रेषु संस्थितम् | अकथ्यं परमार्थेन तथापि कथयामि ते || ५ || त्वयापि गोपितव्यं हि न देयं यस्य कस्यचित् | देयं भक्ताय शिष्याय अन्यथा पतनं भवेत् || ६ || सर्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवं परम् | वैष्णवादुत्तमं शैवं शैवाद्दक्षिणमुत्तमम् || ७ || दक्षिणादुत्तमं वामं वामात् सिद्धान्तमुत्तमम् | सिद्धान्तादुत्तमं कौलं कौलात् परतरं न हि || ८ || गुह्याद् गुह्यतरं देवि सारात् सारं परात् परम् | साक्षात् शिवप्रदं देवि कर्णाकणीगतं कुलम् || ९ || मथित्वा ज्ञानदण्डेन वेदागममहार्णवम् | सारज्ञेन मया देवि कुलधर्मः समुद्धृतः || १० || एकतः सकला धर्मा यज्ञतीर्थव्रतादयः | एकतः कुलधर्मश्च तत्र कौलोऽधिकः प्रिये || ११ || प्रविशन्ति यथा नद्यः समुद्रम् ऋजुवक्रगाः | तथैव विविधा धर्माः प्रविष्टाः कुलमेव हि || १२ || यथा हस्तिपदे लीनं सर्वप्राणीपदं भवेत् | दर्शनानि च सर्वाणि कुल एव तथा प्रिये || १३ || यदा जाम्बुनदानाञ्च सदृशं लौहमस्ति चेत् | तदा च कुलधर्मेण समयोऽन्यः समो भवेत् || १४ || यथामरतरङ्गिण्या न समाः सकलापगाः | तथैव समयाः सर्वे कुलधर्मेण नो समाः || १५ || मेरुसर्षपयोर्यद्वत् सूर्यखद्योतयोर्यथा | तथान्यसमयस्यापि कुलस्य महदन्तरम् || १६ || अस्ति चेत्त्वत्समा नारी मत्समः पुरुषोऽस्ति चेत् | कुलेन समधर्मस्तु तथापि न कदाचन || १७ || कुलधर्मं हि मोहेन योऽन्यधर्मेण दुर्मतिः | बद्धः संसारपाशेन सोऽन्त्यजानां प्रियो भवेत् || १८ || यो वा कुलाधिकं धर्ममज्ञानाद्वदति प्रिये | ब्रह्महत्याधिकं पापं स प्राप्नोति न संशयः || १९ || कुलधर्मप्रवहणं समारुह्य नरोत्तमः | स्वर्गादि द्वीपान्तरं गत्वा मोक्षरत्नं समश्नुते || २० || दर्शनेषु च सर्वेषु चिराभ्यासेन मानवाः | मोक्षं लभन्ते कौले तु सद्य एव न संशयः || २१ || बहुनात्र किमुक्तेन शृणु मत्प्राणवल्लभे | न कौलसमधर्मोऽस्ति त्वां शपे कुलनायिके || २२ || योगी चेन्नैव भोगी स्याद्भोगी चेन्नैव योगवित् | भोगयोगात्मकं कौलं तस्मात् सर्वाधिकं प्रिये || २३ || भोगो योगायते साक्षात् पातकं सुकृतायते | मोक्षायते च संसारः कुलधर्मे कुलेश्वरि || २४ || ब्रह्मेन्द्राच्युतरुद्रादिदेवतामुनिपुङ्गवाः | कुलधर्मपरा देवि मानुषेषु च का कथा || २५ || विहाय सर्वधर्मांश्च नानागुरुमतानि च | कुलमेव विजानीयाद्यदीच्छेत् सिद्धिमात्मनः || २६ || पूर्वजन्मकृताभ्यासात् कुलज्ञानं प्रकाशते | स्वप्नोत्थित प्रत्ययवदुपदेशादिकं विना || २७ || जन्मान्तरसहस्रेषु या बुद्धिवीहिता नृणाम् | तामेव लभते जन्तुरुपदेशो निरर्थकः || २८ || शैववैष्णवदौर्गार्कगाणपत्येन्दुसम्भवैः | मन्त्रैवीशुद्धचित्तस्य कुलज्ञानं प्रकाशते || २९ || सर्वधर्माश्च देवेशि पुनरावर्त्तकाः स्मृताः | कुलधर्मस्थिता ये च ते सर्वेऽप्यनिवर्त्तकाः || ३० || पुराकृततपोदानयज्ञतीर्थजपव्रतैः | क्षीणांहसां नृणां देवि कुलज्ञानं प्रकाशते || ३१ || त्वमहं देवि कल्याणि यस्य तुष्टावुभावपि | देवतागुरुभक्त्या च कुलज्ञानं प्रकाशते || ३२ || शुद्धचित्तस्य शान्तस्य कमीणो गुरुसेविनः | अतिभक्तस्य गुह्यस्य कुलज्ञानं प्रकाशते || ३३ || श्रीगुरौ कुलशास्त्रेषु कौलिकेषु कुलाश्रये | यस्य भक्तिर्दृढा तस्य कुलज्ञानं प्रकाशते || ३४ || श्रद्धा विनयहर्षाद्यैः सदाचारदृढव्रतैः | गुर्वाज्ञापालकैर्धर्मैः कुलज्ञानमवाप्यते || ३५ || अनर्हे कुलविज्ञानं न तिष्ठति कदाचन | तस्मात् परीक्ष्य वक्तव्यं कुलज्ञानं मयोदितम् || ३६ || न ब्रूयात् कुलधर्मं तमयोग्ये कुलशासनम् | आज्ञाभङ्गञ्च यः कुर्याद्देवताशापमाप्नुयात् || ३७ || आराध्य समयाचारं कुलज्ञानं वदेद्यदि | स गुरुश्चापि शिष्यश्च योगिनीनां भवेत् पशुः || ३८ || बोधयित्वा गुरुः शिष्यं कुलज्ञानं प्रकाशयेत् | लभेते तावुभौ साक्षाद्योगिनीवीरमेलनम् || ३९ || अनायासेन संसारसागरं यस्तितीर्षति | कुलधर्ममिमं ज्ञात्वा मुच्यते नात्र संशयः || ४० || कुलधर्ममहामार्गगन्ता मुक्तिपुरीं व्रजेत् | अचिरान्नात्र सन्देहस्तस्मात् कौलं समाश्रयेत् || ४१ || कुलशास्त्रमनादृत्य पशुशास्त्राणि योऽभ्यसेत् | स्वगृहे पायसं त्यक्त्वा भिक्षामटति पार्वति || ४२ || विहाय कुलधर्म यः परधर्मपरो भवेत् | करस्थं रत्नमुत्सृज्य दूरस्थं काचमीहते || ४३ || संत्यज्य कुलमन्त्राणि पशुमन्त्राणि यो जपेत् | स धान्यराशिमुत्सृज्य पांसुराशिं जिघृक्षति || ४४ || कुलान्वयं समुत्सृज्य योऽन्यमन्वयमीक्षते | तडागादिव तृष्णार्त्तो मृगतृष्णां प्रधावति || ४५ || यथेन्द्राजालजा मायाः क्षणमेव सुखावहाः | श्रीकौलादन्यसमयास्तादृशाः कुलनायिके || ४६ || कुलधर्ममजानन् यः संसारान्मोक्षमिच्छति | पारावारमपारं स पाणिभ्यां तर्त्तुमिच्छति || ४७ || यो वान्यदर्शनेभ्यश्च भुक्तिं मुक्तिञ्च काङ्क्षति | स्वप्नलब्धधनेनैव धनवान् स भवेत्तदा || ४८ || शुक्तौ रजतविभ्रान्तिर्यथा जायेत पार्वति | तथान्यसमयेभ्यश्च भुक्तिर्मुक्तिः प्रकाशते || ४९ || सर्वकर्मविहीनोऽपि वर्णाश्रमविवजीतः | कुलनिष्ठः कुलेशानि भुक्तिमुक्त्योः स भाजनम् || ५०|| कुलज्ञानविहीनोऽपि कुलभक्त्याश्रयो भवेत् | सोऽपि सद्गतिमाप्नोति किमुतास्य परायणः || ५१ || कुलधर्मो हतो हन्ति रक्षितो रक्षति प्रिये | पूजितः पूजयत्याशु तस्मात्तं न परित्यजेत् || ५२ || निन्दन्तु बान्धवाः सर्वे त्यजन्तु स्त्रीसुतादायः | जना हसन्तु मां दृष्ट्वा राजानो दण्डयन्तु वा || ५३ || सेवे सेवे पुनःसेवे त्वामेव परदेवते | त्वद्धर्म नैव मुञ्चामि मनोवाक्कायकर्मभिः || ५४ || एवमापद्गतस्यापि यस्य भक्तिः सुनिश्चला | स तु सम्पूज्यते देवैरमुत्र स शिवो भवेत् || ५५ || रोगदारिद्र्यदुःखाद्यैः पीडितोऽप्यनिशं शिवे | यस्त्वामुपास्ते भक्त्या स नरः सद्गतिमाप्नुयात् || ५६ || जनाः स्तुवन्तु निन्दन्तु लक्ष्मीर्गच्छतु तिष्ठतु | मृतिरद्य युगान्ते वा कुलं नैव परित्यजेत् || ५७ || नापि लोभान्न च क्रोधान्न द्वेषान्न च मत्सरात् | न कामन्न भयाद्वापि कुलधर्मं परित्यजेत् || ५८ || यो जन्तुर्नार्चयेत्त्वान्तु कुलधर्मसमाश्रितः | क्लिश्यते जातमात्रेण भूतारिणात्मशत्रुणा || ५९ || पुलाका इव धान्येषु पतंगा इव जन्तुषु | बुद्बुदा इव तोयेषु ये कौलविमुखा हि ते || ६० || तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः | स जीवति मनो यस्य कुलधर्मे व्यवस्थितम् || ६१ || कुलधर्मविहीनस्य दिनान्यायान्ति यान्ति च | स लोहकारभस्रेवश्वसन्नपि न जीवति || ६२ || गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा | कुलेश्वरि कुलाज्ञस्य तत् पशोरिव जीवितम् || ६३ || विद्वानपि च मूर्खोऽसौ धामीको वाप्यधामीकः | व्रतस्थोऽप्यव्रतस्थो वा यः कौलविमुखो जनः || ६४ || जातास्त एव जगति जन्तवः साधु जीविनः | कुलधर्मपरा देवि शेषाश्च द्वारगर्दभाः || ६५ || स पुमानुच्यते सद्भिः कुलधर्मपरायणः | अपरस्तु परं सत्यमस्थिकूटत्वचावृतः || ६६ || चतुर्वेदी कुलाज्ञानी श्वपचादधमः प्रिये | श्वपचोऽपि कुलज्ञानी ब्राह्मणादतिरिच्यते || ६७ || गुरुकारुण्ययुक्तस्तु दीक्षानिर्धूतपातकः | कुलपूजारतो देवि सोऽयं कौलो न चेतरेः || ६८ || यः कौलिकः कुलज्ञानं न पश्यति न विन्दति | न पूजयति धिक् तस्य तत् काकस्येव जीवितम् || ६९ || ते धन्याः पुण्यकर्माणस्ते सन्तस्ते च योगिनः | येषां भाग्यवशाद्देवि कुलज्ञानं प्रकाशते || ७० || ते वन्द्यास्ते महात्मानः कृतार्थस्ते नरोत्तमाः | येषामुत्पद्यते चित्ते कुलज्ञानं मयोदितम् || ७१ || सर्वप्रकाशगमनं सर्वतीर्थावगाहनम् | यत् सर्वयज्ञाचरणं कुलधर्मप्रवेशनम् || ७२ || प्रविशन्ति कुलं धर्म ये वै सुकृतिनो नराः | ते पुनर्जननीगर्भ न विशन्ति कदाचन || ७३ || प्रसङ्गेनापि यः कश्चित् कुलं कुलमितीरयेत् | कुल तत् पावनं देवि भवति त्वदनुग्रहात् | कुलज्ञानस्य कुलेशानि नान्यधर्मैः प्रयोजनम् || ७४ || कुलेशि कुलनिष्ठानां कौलिकानां महात्मनाम् | ददामि परमं ज्ञानं चान्तकाले न संशयः || ७५ || चिरायासाल्पफलदं काङ्क्षते समयं जनाः | सुखेन सर्वफलदं कुलं कोऽपि त्यजत्यहो || ७६ || कुलज्ञो हि च सर्वज्ञो वेदशास्त्रोज्झितोऽपि वा | वेदशास्त्रागमज्ञोऽपि कुलाज्ञस्त्वज्ञ एव हि || ७७ || जानन्ति कुलमाहात्म्यं त्वद्भक्ता एव नापरे | चकोरा एव जानन्ति नान्ये चन्द्रगतां रुचिम् || ७८ || कुलज्ञा एव तुष्यन्ति श्रुत्वा कुलकथां प्रिये | स्वल्पा नद्यो विवर्द्धन्ते ज्योत्स्नया किं समुद्रवत् || ७९ || नान्यधर्ममवेक्षन्ते कौलिकाः सारवेदिनः | भृङ्गाः पुष्पान्तरं लुब्धा मन्दारामोदसेविनः || ८० || मानयन्ते हि सारज्ञाः कुलधर्म न चेतरे | शिवः शिरसि धत्तेऽब्जं सैंहिकेया गिलत्यहो || ८१ || अभिज्ञा एव जानन्ति नाभिज्ञाः कुलर्दशनम् | जलमिश्रपयःपानं बकः किं वेत्ति हंसवत् || ८२ || शिवशक्तिमयो लोको लोके कौलं प्रतिष्ठितम् | तस्मात् सर्वाधिकं कौलं सर्वसाधारणं कथम् || ८३ || षड्दर्शनानि मेऽङ्गानि पादो कुक्षिः करौ शिरः | तेषु भेदन्तु यः कुर्यान्ममाङ्गं च्छेदयेत्तु सः || ८४ || एतान्येव कुलस्यापि षडङ्गानि भवन्ति हि | तस्माद्वेदात्मकं शास्त्रं विद्धि कौलात्मकं प्रिये || ८५ || दर्शनेष्वखिलेष्वेव फलदं चैकदैवतम् | भुक्तिमुक्तिप्रदं नृणां कुलेऽस्मिन् दैवतं प्रिये || ८६ || लोकधर्मविरुद्धञ्च सिद्धयोगीश्वरि प्रिये | कुलं प्रमाणतां याति प्रत्यक्षफलदं यतः || ८७ || प्रत्यक्षञ्च प्रमाणाय सर्वेषां प्राणिनां प्रिये | उपलब्धिबलात्तस्य हताः सर्वे कुताकीकाः || ८८ || परोक्षं को नु जानीते कस्य किं वा भविष्यति | यद्वा प्रत्यक्षफलदं तदेवोत्तमदर्शनम् || ८९ || कुलधर्ममिमं ज्ञात्वा मुच्यन्ते सर्वमानवाः | इति मत्वा महेशानि मया कौलं विगहीतम् || ९० || त्वत्कारुण्यविहीनानां कुलज्ञानविरोधिनाम् | पशुनामनभिज्ञानां कुलधर्मो विगहीतः || ९१ || यस्य जन्मान्तरे पापकर्मबन्धोऽधिको भवेत् | न तस्य गुरुकारुण्यं कुलज्ञानञ्च जायते || ९२ || यथान्धो नैव पश्यन्ति सूर्य सर्वप्रकाशकम् | तथा कुलं न जानन्ति तव मयाविमोहिताः || ९३ || शैववैष्णवसौरादि दर्शनान्यपि भक्तितः | भजन्ते मानवा नित्यं वृथायासफलानि च || ९४ || वेदशास्त्रागमैः प्रोक्तं भोगमोक्षैकसाधनम् | मूढा निन्दन्ति हा हन्त मत्प्रियं तव दर्शनम् || ९५ || भ्रामिता हि मया देवि पशवः शास्त्रकोटिषु | कुलधर्म न जानन्ति वृथा ज्ञानाभिमानिनः || ९६ || पशुशास्त्राणि सर्वाणि मयैव कथितानि हि | मूर्त्त्यन्तरन्तु गत्वैव मोहनाय दुरात्मनाम् || ९७ || महापापवशान्नृणां तेषु वाञ्छाभिजायते | तेषाञ्च सदागतिर्नास्ति कल्पकोटिशतैरपि || ९८ || प्रेर्यमाणोऽपि पापात्मा कुले नैव प्रवर्त्तते | वार्यमाणोऽपि पुण्यात्मा कुलमेवाभिलम्वते || ९९ || कुलधर्मेण देवत्वं देवाः सम्प्रतिपेदिरे | मुनियोगीश्वराद्याश्च सुसिद्धिं परमां गताः || १०० || पशुव्रतादिनिरताः सुलभा दाम्भिका भुवि | ये कौलमेव सेवन्ते ते महान्तोऽति दुर्लभाः || १०१ || मानवा बहवः सन्ति मिथ्यातत्त्वार्थवेदिनः | दुर्लभोऽयं महेशानि कुलतत्त्वविशारदः || १०२ || यथा रोगातुराः केचिन्मानवाः कुलनायिके | दिव्यौषधं न सेवन्ते महाव्याधिविनाशनम् || १०३ || तद्व्याधिवर्द्धनापथ्यं कुर्वन्ति हि कुभेषजम् | तथैव जन्ममरणकृतं सांसारिकीं क्रियाम् || १०४ || समाचरन्ति सततं त्वत्कारुण्यविवजीताः | न भजन्ते कुलं धर्म भववन्धविमोचनम् || १०५ || यथा चारण्यजातांस्तु मरीचादीन् वणिग्जनान् | मोहतो मानवाः प्रीत्या याचन्ते कुलनायिके || १०६ || अनर्घ्याणि च रत्नानि न याचन्ते हि केचन | तथैव पशुशास्त्राणि कर्मपाशफलानि च || १०७ || इति पृच्छन्ति मूर्खास्ते तव मायाविमोहिता | कुलधर्म न पृच्छन्ति भुक्तिमुक्तिफलप्रदम् || १०८ || कस्तूरीं कर्दमधिया कर्पूरं लवणेच्छया | शार्करं शकराभ्रान्त्या मणिं काचमनीषया || १०९|| यथादृष्टं न मन्यन्ते करस्थमपि पामराः | तथा कौलं न जानन्ति त्वत्प्रसादविवजीताः || ११० || अहो मोहस्य माहात्म्यं त्वन्मायाजनितस्य च | किमज्ञानपि देवेशि मोहयेदमरानपि || १११ || पेयं मद्यं पलं खाद्यं समालोक्य प्रियामुखम् | इत्येवाचरणं जाप्यं परिप्राप्यं परम्रपदम् || ११२ || गुरुकारुण्यसंलभ्यमीदृशं कुलदर्शनम् | त्वद्भक्ता एव जानन्ति नेतरे भुक्तिमुक्तिदम् || ११३ || गुरूपदेशरहिता महान्त इति केचन | मोहयन्ति जनान् सर्वान् स्वयं पूर्वविमोहिताः || ११४ || दुराचारपराः केचिद्वाचयन्ति च पामराः | कथंभूतो भवेत् स्वामी सेवकाः स्युस्तथाविधाः || ११५ || बहवः कौलिकं धर्म मिथ्याज्ञानविडम्बकाः | स्वबुध्द्या कल्पयन्तीत्थं पारम्पर्यविवजीताः || ११६ || मद्यपानेन मनुजो यदि सिद्धं लभेत वै | मद्यपानरताः सर्वे सिद्धिं गच्छन्तु पामराः || ११७ || मांसभक्षणमात्रेण यदि पुण्या गतिर्भवेत् | लोके मासाशिनः सर्वे पुण्यभाजो भवन्ति हि || ११८ || शक्तिसम्भोगमात्रेण यदि मोक्षो भवेत वै | सर्वेऽपि जन्तवो लोके मुक्ताः स्युः स्त्रीनिषेवनात् ||११९ || कुलमार्गो महादेवि न मया निन्दितः क्वचित् | आचाररहिता येऽत्र निन्दितास्ते न चेतरे || १२० || अन्यथा कौलिके धर्मे आचारः कथितो मया | विचरन्त्यन्था देवि मूढाः पण्डितमानिनः || १२१ || कृपाणधारागमनात् व्याघ्रकण्ठावलम्बनात् | भुजङ्गधारणान्नूनमशक्यं कुलवर्त्तनम् || १२२ || वृथा पानन्तु देवेशि सुरापानं तदुच्यते | तत्महापातकं ज्ञेयं वेदादिषु निरूपितम् || १२३ || अनाघ्रेयमनालोक्यमस्पृश्यञ्चाप्यपेयकम् | मद्यं मंसं पशूनान्तु कौलिकानां महाफलम् || १२४ || अमेध्यानि द्विजातीनां मद्यान्येकादशैव तु | द्वादशन्तु महामद्यं सर्वेषामुत्तमोत्तमम् || १२५ || सुरा वै मलमन्नानां पाप्मा तु मलमुच्यते | तस्माद्ब्राह्मणराजन्यौ वैश्य न सुरां पिबेत् || १२६|| सुरादर्शनमात्रेण कुर्यात् सूर्यावलोकनम् | तत्समाघ्राणमात्रेण प्राणायामत्रयं चरेत् || १२७ || आजानुभ्यां भवेन्मग्नो जले चोपवसेदहः | ऊद्र्ध्व नाभेस्त्रिरात्रन्तु मद्यस्य स्पर्शने विधिः|| १२८ || सुरापाने कामकृते ज्वलन्तीं तां विनिक्षिपेत् | मुखे तया विनिर्दग्धे ततः शुद्धिमवाप्नुयात् || १२९ || मद्यस्पर्शादिदोषस्य प्रायश्चित्तविधिः स्मृतः | अविधानेन यो हन्यादात्मार्थं प्राणिनः प्रिये || १३०|| निवसेन्नरके घोरे दिनानि पशुरोमभिः | स मृतोऽपि दुराचारस्तिर्र्यग्योनिषु जायते || १३१ || अनुमन्ता विश्वसिता निहन्ता क्रयविक्रयी | संस्कर्ता चोपहर्त्ता च खादिताऽष्टौ च घातकाः || १३२ || धनैवीक्रयिको हन्ति खादिता चोपभोगतः | घातको वध बन्धाभ्यां इत्येष त्रिविधो वधः || १३३ || मांससन्दर्शनं कृत्वा सुरादर्शनवच्चरेत् | तस्मादविधिना मांसं मद्यं न सेवते क्वचित् || १३४ || विधिना सेव्यते देवि तरसा त्वं प्रसीदसि | नाशयत्यपरिज्ञानात् सत्यमेव वरानने || १३५ || तृणं वाप्यविधानेन छेदयेन्न कदाचन | विधिना गां द्विजं वापि हत्या पापैर्न लिप्यते || १३६ || बहुनात्र किमुक्तेन सारमेकं शृणु प्रिये | जीवन्मुक्तिसुखोपायं कुलशास्त्रेषु गोपितम् || १३७ || यन्मुमुक्षोः फलं देवि कनकस्येव सौरभम् | कुलज्ञेऽप्यूर्ध्वविख्याते ज्ञानं तत्तदनुत्तमम् || १३८ || कुलशास्त्राणि सर्वाणि मयैवोक्तानि पार्वति | प्रमाणानि न सन्देहो न हन्तव्यानि हेतुभिः || १३९ || देवताभ्यः पितृभ्यश्च मधु वाता ऋतायते | स्वादिष्ठया मदिष्ठया क्षीरं सपीर्मधूदकम् || १४० || हिरण्यपावाः खादिश्च अबध्नन् पुरुषं पशुम् | दीक्षामुपेयादित्याद्याः प्रमाणं श्रुतयः प्रिये || १४१ || इत्येतत् कथितं किञ्चित् कुलमाहात्म्यमम्बिके | समासेन कुलशानि किं भूयः श्रोतुमिच्छसि || १४२ || || इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे कुलमाहात्म्यकथनं नाम द्वितीयोल्लासः || २ || अथ तृतीयोल्लासः श्रीदेव्युवाच कुलेश श्रोतुमिच्छामि सर्वधर्मोत्तमोत्तमम् | ऊर्ध्वाम्नायञ्च तन्मन्त्रं माहात्म्यं वद मे प्रभो || १ || श्रीईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | तस्य श्रवणमात्रेण देवता सुप्रसीदति || २ || न कदाचिन्मया प्रोक्तमितः पूर्व कुलेश्वरि | कथयामि तव स्नेहादूर्ध्वाम्नायं शृणु प्रिये || ३ || वेदशास्त्रपुराणानि प्रकाश्यानि कुलेश्वरि | शैवशाक्तागमाः सर्वे रहस्याः परिकीत्तीताः || ४ || रहस्यातिरहस्यानि कुलशास्त्राणि पार्वति | रहस्यातिरहस्यानां रहस्यमिदमम्बिके || ५ || ऊद्र्ध्वाम्नायस्य तत्त्वं हि पूर्णब्रह्मात्मकं परम् | सुगोपितं मया यत्नादिदानीन्तु प्रकाश्यते || ६ || मम पञ्चमुखेभ्यश्च पञ्चाम्नायाः समुद्गताः | पूर्वश्च पश्चिमश्चैव दक्षिणश्चोत्तरस्तथा | ऊर्ध्वाम्नायश्च पञ्चैते मोक्षमार्गाः प्रकीत्तीताः || ७ || आम्नाया बहवः सन्ति नोर्ध्वाम्नायेन ते समाः | सत्यमेतद्वरारोहे नात्र कार्या विचारणा || ८ || आम्नाया बहवो गुप्तश्चतुराम्नायभेदजाः | अस्मिंस्तन्त्रे समाख्याताः पूर्वं ते कुलनायिके || ९ || चतुराम्नाय वेत्तारो बहवः सन्ति कामिनि | ऊर्ध्वाम्नायस्य तत्त्वज्ञा विरला वीरवन्दिते || १० || यावन्तः पांसवो भूमेस्तावन्तः समुदीरिताः | एकैकाम्नायजा मन्त्रा भुक्तिमुक्तिफलप्रदाः || ११ || उपमन्त्राश्च तावन्तः सारदाः समुदीरिताः | मयैव कथितास्ते तु लोकानुग्रहकाङ्क्षया || १२ || सर्वेषामपि मन्त्राणां देवतास्तत्फलप्रदाः | आवयोरंशसम्भूताः समुद्दिष्टाः शुचिस्मिते || १३ || सर्वमन्त्रानहं वेद्मि नान्यो जानाति कश्चन | मत्प्रसादेन यः कश्चिद्वेत्ति मानवकोटिषु || १४ || एकाम्नायञ्च यो वेत्ति स मुक्तो नात्र संशयः | किं पुनश्चतुराम्नायवेत्ता साक्षाच्छिवो भवेत् || १५ || चतुराम्नायविज्ञानादूर्ध्वाम्नायः परः प्रिये | तस्मात्तदेव जानीयाद् यदीच्छेत् सिद्धिमात्मनः || १६ || ऊर्ध्वत्वात् सर्वधर्माणामूर्ध्वाम्नायः प्रशस्यते | ऊर्ध्वं नयत्यधःस्थञ्च ऊर्ध्वाम्नाय इतीरितः || १७ || ऊर्ध्वतत्त्वात् कुलेशानि ध्वस्तसंसारसागरात् | ऊर्ध्वलोकैकसेव्यत्वादूर्ध्वाम्नाय इति स्मृतः || १८ || तस्माद्देवेशि जानीहि साक्षान्मोक्षैकसाधनम् | सर्वाम्नायाधिकफलमूर्ध्वाम्नायं परात् परम् || १९ || सर्वलोकेषु सर्वेभ्यो ह्यहं पूज्यो यथा प्रिये | अम्नायेषु च सर्वेषु ऊर्ध्वाम्नायस्तथा शिवे || २० || देवतानां यथा विष्णुर्ज्योतिषां भास्करो यथा | तीर्थानान्तु यथा काशी स्वर्नदी सरितां यथा || २१ || पर्वतानां यथा मेरुस्तरूणां चन्दनं यथा | अश्वमेधः क्रतूनाञ्च पाषाणानां यथा मणिः || २२ || यथा रसानां माधुर्यं धातूनां काञ्चनं यथा | चतुष्पदां यथा धेनुर्यथा हंसस्तु पक्षिणाम् || २३ || आश्रमाणां यथा भिक्षुर्वर्णानां ब्राह्मणो यथा | मनुष्याणां यथा राजाऽवयवानां यथा शिरः || २४ || आमोदानाञ्च कस्तूरी यथा काञ्चीपुरी पुराम् | तथैव सर्वधर्माणामूर्ध्वाम्नायोऽधिकः प्रिये || २५ || नानाजन्माजीतापारपुण्यकर्मफलोदयात् | ऊर्ध्वाम्नायं विजानीयान्नान्यथा वीरवन्दिते || २६ || धन्यो मनुष्यलक्षेषु जानाति कुलदर्शनम् | तेषां लक्षेषु यः कश्चिदूर्ध्वाम्नायं प्रवेत्ति च || २७ || न वेदैर्नागमैः शास्त्रैर्न पुराणैः सुविस्तरैः | न यज्ञैर्न तपोभिर्वा न तीर्थव्रतकोटिभिः || २८ || नान्यैरुपायैर्द्देवेशि मन्त्रौषधिपुरःसरैः | आम्नायो ज्ञायते चोद्र्ध्वः श्रीमद्गुरुमुखं विना || २९ || तमेवान्वेषयेत्तत्र सर्वज्ञं करुणानिधिम् | सर्वलक्षणसम्पन्नं ऊर्ध्वाम्नायार्थकोविदम् | तस्माद्देवेशि जानीयादूर्ध्वाम्नायं कुलेश्वरि || ३०|| आम्नायं यो नरो देवि विजानाति च तत्त्वतः | लभते काङ्क्षतां सिद्धिं सत्यं सत्यं वरानने || ३१ || ऊर्ध्वाम्नायं विजानाति यः सम्यक् श्रीगुरोर्मुखात् | शास्त्रमार्गेण स नरो जीवन्मुक्तो न संशयः || ३२ || आम्नायमीदृशं देवि विजानाति च तत्त्वतः | स वन्द्यः सद्गुरुः सोऽर्च्यः स दैवज्ञः स मान्त्रिकः | स सेव्यः स च संस्तुत्यः स द्रष्टव्यः स सात्त्विकः || ३३ || स व्रती स तपस्वी च सोऽनुष्ठाता स पूजकः | स वेदागमशास्त्रादिसर्वविद्याविशारदः || ३४ || स आचार्यः स मतिमान् स यतिः स च कौलिकः | स यज्वा स च पूतात्मा स जापी स च साधकः || ३५ || स योगी स कृतार्थस्तु स वीरः स च उत्तमः | स पुण्यात्मा स सर्वज्ञः स मुक्तः स शिवः प्रिये || ३६ || तत्कुलं पावनं देवि धन्या तज्जननी स्मृता | तत्पिता च कृतार्थः स्यान्मुक्तास्तत्पितरः प्रिये | पुण्यास्तद्वंशजाः सर्वे पूतास्तन्मित्रबान्धवाः || ३७ || बहुनेह किमुक्तेन चोर्ध्वाम्नायपरस्य च | स्मरणं कीर्त्तनं वापि दर्शनं वन्दनं तथा | सम्भाषणञ्च कुरुते राजसूयाधिकं फलम् || ३८ || स यत्र वसते देवि तत्र श्रीवीजयो भवेत् | अनामयं सुभिक्षञ्च सुवृष्टिनीरुपद्रवम् || ३९ || तस्माद् गुरुप्रसादेन ऊर्ध्वाम्नायं नरोत्तमः | यो वेत्ति तत्त्वतो देवि स मे प्रियतमो भवेत् || ४० || पूर्वाम्नायः सृष्टिरूपः स्थितिरूपश्च दक्षिणः | संहारः पश्चिमो देवि उत्तरोऽनुग्रहो भवेत् || ४१ || मन्त्रयोगं विदुः पूर्वं भक्तियोगञ्च दक्षिणम् | पश्चिमं कर्मयोगञ्च ज्ञानयोगं तथोत्तरम् || ४२ || पूर्वाम्नायस्य सङ्केताश्चतुवींशतिरीरिताः | दक्षिणाम्नायसङ्केताः पञ्चवींशतिरीरिताः || ४३ || पश्चिमाम्नायसङ्केताः द्वात्रिंशत् समुदाहृताः | विदुः षट्त्रिंशदाम्नाये सङ्केताः श्रीमदुत्तरे || ४४ || ऊद्र्ध्वाम्नायस्य चैतानि न सन्ति कुलनायिके | साक्षाच्छिवस्वरूपत्वान्न किञ्चित् कर्म विद्यते || ४५ || ऊर्ध्वाम्नायस्य माहात्म्यमहं वेद्मि न चापरः | मत्स्नेहात्त्वञ्च जानासि सत्यमेतद्वरानने || ४६ || ऊर्ध्वाम्नायस्य माहात्म्यमिति ते कथितं मया | समासेन कुलेशानि मन्त्रमाहात्म्यमुच्यते || ४७ || इतः पूर्वं मया नोक्तं यस्य कस्यापि पार्वति | तद्वदामि तव स्नेहाच्छृणु मत्प्राणवल्लभे || ४८ || श्रीप्रासादपरामन्त्रमूर्ध्वाम्नायमधिष्ठितम् | आवयोः परमाकारं यो वेत्ति स स्वयं शिवः || ४९ || शिवादिक्रिमिपर्यन्तं प्राणिनां प्राणवर्त्मना | निश्वासोच्छ्वासरूपेण मन्त्रोऽयं वर्त्तते प्रिये || ५० || अनिलेन विना मेघो यथाकाशे न वेष्टते | पराप्रसादमन्त्रेण विना लोकस्तथा प्रिये || ५१ || पराप्रासादमन्त्रेण स्यूतमेतच्चराचरम् | अभिन्नं तत्त्वतो देवि तालवृन्ते यथानिलः || ५२ || बीजेऽङ्कुरस्तिले तैलमग्नावुष्णं रवौ प्रभा | चन्द्रे ज्योत्स्नाऽनलः काष्ठे पुष्पे गन्धे जले द्रवः || ५३ || शब्दे चार्थः शिवे शक्तिः क्षीरे सपीः फले रुचिः | शर्करायाञ्च माधुर्यं घनसारे च शीतलम् || ५४ || निग्रहानुग्रहो मन्त्रे प्रतिमायाञ्च देवता | दर्पणे प्रतिबिम्बञ्च समीरे चलनं यथा | पराप्रसादमन्त्रेऽपि प्रपञ्चोऽयं तथा स्थितः || ५५ || वटबीजे यथा वृक्षः सूक्ष्मरूपेण तिष्ठति | पराप्रासादमन्त्रेऽस्मिन् ब्रह्माण्डोऽपि तथा स्थितः || ५६ || सुपक्वेषु पदार्थेषु सुरसेषु कुलेश्वरि | लवणेन विना स्वादु यथा भोक्तुर्न जायते || ५७ || पराप्रासादमन्त्रेण ये वा मन्त्रा न सङ्गताः | ते फलं न प्रयच्छन्ति मन्त्रं शक्तिविवजीताः || ५८ || श्रीप्रासादपरामन्त्रो गोपनीयः प्रयत्नतः || ५९ || विचार्याहं पुराणार्थान् दर्शनाम्नायभेदजान् | ग्रसमान् वेद्म्यहं मन्त्रान् शास्त्राणि विविधानि च || ६० || सहस्राक्षादयो देवाः शास्त्रेषु विविधेषु च | भ्रमन्ति तेषु मूढास्ते तव मायाविमोहिताः || ६१ || जायन्ते च मिरयन्ते च संसारक्लेशभागिनः | श्रीप्रासादपरामन्त्रं न गायन्तः कुलेश्वरि | न लभन्ते हि मोक्षं ते तव मायाविमोहिताः || ६२ || मद्रूपे श्रीगुरौ यस्य दृढा भक्तिः प्रजायते | श्रीप्रासादपरामन्त्रं स ज्ञात्वा परिमुच्यते || ६३ || पूर्वजन्मसहस्रेषु शैवादिसमयोद्यतान् | चतुराम्नायजान् मन्त्रान् गुर्वाज्ञां यो भजिष्यति || ६४ || स पापकञ्चुकान्मुक्तः शुद्धात्मा गुरुवत्सलः | श्रीप्रासादपरामन्त्रं विजानाति न चान्यथा || ६५ || सब्रह्माविष्णुरुद्राश्च शक्रादिसुरपुङ्गवाः | वसुरुद्रार्कदिक्पाला मनुचन्द्रादयः प्रिये || ६६ || मार्कण्डेयादिमुनयो वसिष्ठादिमुनीश्वराः | सनकाद्याश्च योगीशा जीवन्मुक्ताः शुकादयः || ६७ || यक्षकिन्नरगन्धर्वाः सिद्धविद्याधरादयः | श्रीप्रासादपरामन्त्रप्रभवञ्चामितं फलम् | प्राप्य मन्त्रमिमं पुण्यं जपन्त्यद्यापि पार्वति || ६८ || सामर्थ्यं पूज्यता विद्या तेजः सौख्यमरोगिता | राज्यं स्वर्गञ्च मोक्षञ्च पराप्रासादजापिनः || ६९ || ब्रह्मेन्द्ररुद्रविष्णूनामपि दूरायते पदम् | सर्वकर्मविहीनोऽपि पराप्रासादमन्त्रवित् | सुखेन यां गतिं याति न तां सर्वेऽपि धामीकाः || ७० || तस्य चिन्तामणिः कामधेनुः कल्पतरुर्गृहे | कुबेरः किङ्करः साक्षात् पराप्रासादजापिनः || ७१ || यथा दिव्यमणि स्पर्शाल्लौहो भवति काञ्चनम् | पराप्रासादजापाच्च पशुः पशुपतिर्भवेत् || ७२ || श्रीप्रासादपरामन्त्रं यो विजानाति तत्त्वतः | स मां त्वाञ्च विजानाति चावयोरप्यतिप्रियः || ७३ || पराप्रासादमन्त्रज्ञः श्वपचोऽपि हि पार्वति | देवतास्थापने शक्तः प्रतिमादौ न संशयः || ७४ || मन्त्रमात्रन्तु यो वेत्ति पराप्रासादसंज्ञकम् | श्वपचोऽपि हि मुच्येत किं पुनस्तद्विधानवित् || ७५ || पराप्रासादमन्त्रज्ञो यत् करोति यदिच्छति | यद्ब्रूते तन्महेशानि तपो ध्यानं जपो भवेत् || ७६ || दीक्षापूर्वं महेशानि पारम्पर्यसमन्वितम् | पराप्रासादमन्त्रं यो वेत्ति सोऽहं न संशयः || ७७ || चराचरसमेतानि भुवनानि चतुर्दश | पराप्रासादमन्त्रज्ञदेहे तिष्ठन्ति नित्यशः || ७८ || पराप्रासादमन्त्रज्ञो यत्र तिष्ठति भामिनि | दिव्यक्षेत्रं समुद्दिष्टं समन्ताद्दशयोजनम् || ७९ || पराप्रासादमन्त्रार्थतत्त्वज्ञं कुलनायिके | सुरासुराश्च वन्दन्ते किं पुनर्मानवादयः || ८० || पराप्रासादमन्त्रज्ञो यत्र तिष्ठति पार्वति | सिद्धक्षेत्रं मदीयं वा मुनिदेवगणैः सह || ८१ || शैव वैष्णवदौर्गार्कगाणपत्येन्दुसम्भवान् | सर्वमन्त्रान् स जानाति पराप्रासादमन्त्रवित् || ८२ || श्रीप्रासादपरामन्त्रो जिह्वाग्रे यस्य वर्त्तते | तस्य दर्शनमात्रेण श्वपचोऽपि विमुच्यते || ८३ || ब्राह्मणो वाऽन्त्यजो वापि शुचिर्वाप्यशुचिः प्रिये | पराप्रासादजापी यः स मुक्तो नात्र संशयः || ८४ || गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा | पराप्रासादमन्त्रोऽयं देवेशि न च निष्फलः || ८५ || चिरेणैकैकफलदा मन्त्राः सन्ति सहस्रशः | कुलेशि मन्त्रराजोऽयं शीघ्रं सर्वफलप्रदः || ८६ || पराप्रासादमन्त्रोऽयं सर्वमन्त्रोत्तमोत्तमः | ज्ञानतोऽज्ञानतो वापि भजतां कामदो मनुः || ८७ || शचीन्द्रौ रोहिणीचन्द्रौ स्वाहाग्नी च प्रभारवी | लक्ष्मीनारायणौ वाणीधातारौ रात्रिवासरौ || ८८ || अग्नीषोमौ बिन्दुनादौ देवि प्रकृतिपूरुषौ | आधाराधेयनामानौ भोगमोक्षौ कुलेश्वरि || ८९ || प्राणापानौ च वागर्थौ प्रिये विधिनिषेधकौ | सुखदुःखादि यद् द्वन्द्वं दृश्यते श्रूयते मया | सर्वलोकेषु तत् सर्वमावामेव न संशयः || ९० || पुंस्त्रीरूपाणि सर्वाणि चावयोरंशकानि हि | पराप्रासादमन्त्रोऽयं तस्मात् सर्वात्मको भवेत् || ९१ || अरूपं भावनागम्यं परं ब्रह्म कुलेश्वरि | निष्कलं निर्मलं नित्यं निर्गुणं व्योमसन्निभम् || ९२ || अनन्तमव्ययं तत्त्वं मनोवाचामगोचरम् | पराप्रासादमन्त्रार्थसन्धानात् सम्प्रकाशते || ९३ || तस्मान्मन्त्रमिदं देवि पराप्रासादसंज्ञकम् | परतत्त्वस्वरूपत्वात् सच्चिदानन्दलक्षणात् || ९४ || शिवशक्तिमयत्वाच्च भुक्तिमुक्तिप्रदानतः | सकर्मापि च निष्कर्म सगुणञ्चापि निर्गुणम् || ९५ || श्रीप्रासादपरामन्त्रं सर्वमन्त्रशिरोमणि | जपन् भुक्तिञ्च मुक्तिञ्च लभते नात्र संशयः || ९६ || बहुनात्र किमुक्तेन सर्वसारं शृणु प्रिये | श्रीप्रासादपरामन्त्रसमं मन्त्रं न विद्यते || ९७ || इदमेव परं ज्ञानमिदमेव परं तपः | इदमेव परं ध्यानमिदमेव परार्चनम् || ९८ || इदमेव परा दीक्षा इदमेव परो जपः | इदमेव परं तत्त्वमिदमेव परं व्रतम् || ९९ || इदमेव परो यज्ञ इदमेव परात् परम् | इदमेव परं श्रेय इदमेव परं फलम् || १०० || इदमेव परं ब्रह्म इदमेव परा गतिः | इदमेव परं गुह्यं सत्यं सत्यं न संशयः | इति मत्वा मनुवरं तन्निष्ठः स्यात् सदा प्रिये || १०१ || आगमोक्तेन विधिना क्रमपूजापुरःसरम् | श्रीप्रसादपरामन्त्रं शतमष्टोत्तरं जपेत् | मुच्यते ब्रह्महत्यादिमहापापैश्च पञ्चभिः || १०२ || द्विशतं यो जपेद्देवि श्रीप्रासादपरामनुम् | चतुरशीतिलक्षांशधारणाचरितैरपि || १०३ || स्वयोनिजाङ्गवरितैरसंख्यजननाजीतैः | वार्द्धके यौवने बाल्ये जाग्रत्स्वप्नसुषुप्तिषु || १०४ || कर्मणा मनसा वाचा ज्ञानाज्ञानकृतैरपि | महापातकसंघैश्च ह्युपपातककोटिभिः | मुच्यते नात्र सन्देहः सत्यमेतद्वरानने || १०५ || त्रिशतं यो जपेद्देवि श्रीप्रासादपरामनुम् | सर्वक्रतुषु यत् पुण्यं सर्वदानेषु यत् फलम् || १०६ || सर्वव्रतेषु यत् पुण्यं सर्वतीर्थेषु यत् फलम् | तत् फलं लभते देवि नात्र कार्या विचारणा || १०७ || चतुःशतं जपेद् यस्तु श्रीप्रासादपरामनुम् | सदा तस्य गृहद्वारे ह्यणिमाद्यष्टसिद्धयः | सेवन्ते नात्र सन्देहः सर्वसिद्धिसमन्विताः || १०८ || यद् यन्मनोऽभिलषितं तत्तत् प्राप्नोत्यसंशयः | धर्मार्थकाममोक्षाश्च साक्षात्तस्य करे स्थिताः || १०९ || सालोक्यप्रमुखां देवि लभेन्मुक्तिं चतुवीधाम् | सत्यमेतन्न सन्देहः साधकः कुलनायिके || ११० || जपेत् पञ्चशतं यस्तु श्रीप्रासादपरामनुम् | तत्फलं नैव शक्नोमि कथितुं कुलनायिके || १११ || तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा | श्रीप्रासादपरामन्त्रं जपेद् भुक्तिविमुक्तये || ११२ || नास्ति गुर्वधिकं तत्त्वं न शिवाधिकदैवतम् | न हि वेदाधिका विद्या न कौलसमदर्शनम् || ११३ || न कुलादधिकं ज्ञानं न ज्ञानादधिकं सुखम् | नाष्टाङ्गादधिका पूजा न हि मोक्षाधिकं फलम् | इदं सत्यमिदं सत्यं सत्यं सत्यं न संशयः || ११४ || श्रीप्रासादपरामन्त्रमाहात्म्यमिह वणीतुम् | न शक्नोमि वरारोहे कल्पकोटिशतैरपि || ११५ || गिरौ सर्षपमात्रन्तु सागरे वालुका यथा | तथा च मन्त्रमाहात्म्यं किञ्चित्ते कथितं मया || ११६ || ऊर्ध्वाम्नायस्य माहात्म्यं श्रीप्रासादपरामनोः | इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि || ११७ || || इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे श्रीप्रासादपरामन्त्रकथनं नाम तृतीयोल्लासः || ३ || अथ चतुर्थोल्लासः श्रीदेव्युवाच कुलेश श्रोतुमिच्छामि श्रीप्रासादपरामनुम् | मन्त्रराजं वदेशान न्यासध्यानादिभिः सह || १ || श्रीईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | तस्य श्रवणमात्रेण शिवाकारः प्रजायते || २ || इतः पूर्व मया नोक्तो मन्त्रोऽयं यस्य कस्यचित् | तव स्नेहाद्वदाम्यद्य शृणु मत्प्राणवल्लभे || ३ || अनन्तचन्द्रभुवनमिन्दुबिन्दुयुगान्वितः | श्रीप्रासादपरामन्त्रो भुक्तिमुक्तिफलप्रदः || ४ || पराप्रासादमन्त्रस्तु सादिरुक्तः कुलेश्वरि | प्रकाशानन्दरूपत्वात् प्रत्यक्षफलदानतः || ५ || प्रसन्नचित्तवश्यत्वात् प्रसिद्धार्थनिरूपणात् | प्राक्तनाघप्रशमनात् प्रपन्नात्तीविनाशनात् | प्रसादकरणाच्छीघ्रं प्रासादमनुरीरितः || ६ || परतत्त्वस्वरूपत्वात् परमात्मप्रकाशनात् | परमानन्दजननात् परधर्मनिदर्शनात् || ७ || परोक्षफलदानाच्च परमैश्वर्यकारणात् | परत्वात् सर्वमन्त्राणां परामन्त्र इतीरितः || ८ || कुलमन्त्रमिदं देवि न्यासं शृणु वदामि ते | आदौ प्रातः समुत्थाय गुरुदेवानुचिन्तनम् || ९ || कन्दमूले मनः कृत्वा कुर्याद्विण्मूत्रमोचनम् | शौचास्यशोधनं स्नानं सन्ध्यातर्पणमाचरेत् || १० || एकान्ते द्वारयजनं विघ्नत्रयनिवारणम् | पूजास्थानप्रवेशश्च तथासनोपवेशनम् || ११ || देवीपूजागृहध्यानं शिवादिगुरुवन्दनम् | आसनं गणपक्षेत्रपालवन्दनमीश्वरि || १२ || पादुकास्मरणञ्चैव दिननाथार्चनं प्रिये | कराङ्गशोधनं प्राणायामः स्वब्रह्मरन्ध्रके || १३ || दिग्बन्धनञ्चाङ्गयुग्म विधियुक्ताञ्च मातृकाम् | दशप्रकारभूताख्यां लिपिं कमठसंज्ञकाम् || १४ || ऋषिरस्य परः शम्भुश्छन्दश्चाव्यक्तपूवीका | गायत्री देवता चात्र सर्वमन्त्रेश्वरी परा || १५ || दीर्घत्रययुतं मूलं बीजं शक्तिश्च कीलकम् | षड्दीर्घयुक्तमूलबीजेन षडङ्गानि च पार्वति || १६ || ईशतत्पुरुषाघोरसद्योजातात्मनस्तथा | पञ्चाङ्गुलिषु विन्यस्य मूत्तीं वक्त्रेषु विन्यसेत् || १७ || पञ्चसु ब्रह्मणि तथैवाङ्गविन्यासमाचरेत् | आधारशक्तिमारभ्य पीठमन्त्रान्तमम्बिके || १८ || अल्पषोढां कुलेशानि कुर्यात् पूर्वोक्तवर्त्मना | महाषोढाह्वयं न्यासं ततः कुर्यात् समाहितः | वक्ष्यमाणेन विधिना देवताभावसिद्धये || १९ || यस्य कस्यापि नैवोक्तं तव स्नेहाद्वदाम्यहम् | प्रपञ्चो भुवनं मूतीर्मन्त्रदेवतमातरः | महाषोढाह्वयो न्यासः सर्वन्यासोत्तमोत्तमः || २० || तत्रादौ परमेशानि प्रपञ्चन्यास उच्यते | प्रपञ्चद्वीपजलधिगिरिपत्तनपीठकाः || २१ || क्षेत्रं वनाश्रमगुहानदीचत्वरकोद्भिदः | स्वेदाण्डजजरायुजा इत्युक्तास्ते हि षोडश || २२ || श्रीर्माया कमला विष्णुवल्लभा पद्मधारिणी | समुद्रतनया लोकमाता कमलवासिनी || २३ || इन्दिरा मा रमा पद्मा तथा नारायणप्रिया | सिद्धलक्ष्मी राजलक्ष्मीर्महालक्ष्मीरितीरिताः | शक्तयस्तु प्रपञ्चानां स्वराणामधिदेवताः || २४ || लवस्त्रुटिः कला काष्ठा निमेषः श्वास एव हि | घटिका च मुहूर्त्तश्च प्रहरो दिवसस्तथा || २५ || सन्ध्या रात्रिस्तिथिश्चैव वारो नक्षत्रमेव च | योगश्च करणं पक्षौ मासो राशिरृतुस्तथा || २६ || अयनं वत्सरयुगप्रलयाः पञ्चविंशतिः | एतेषां स्थाननियमो हृदयान्तः समीरितः || २७ || आर्योमा चण्डिका दुर्गा शिवाऽपर्णाऽम्बिका सती | ईश्वरी शाम्भवीशानी पार्वती सर्वमङ्गला || २८ || दाक्षायणी हैमवती महामाया महेश्वरी | मृडानी चैव रुद्राणी सर्वाणी परमेश्वरी || २९ || काली कात्यायनी गौरी भवानीति समीरिता | शक्तयः स्युर्लवादीनां स्पर्शानामधिदेवताः | एतासां स्थाननियमो हृदयान्तः समीरितः || ३० || पञ्चभूतानि तन्मात्रं ज्ञानकर्मेन्द्रियाणि च | गुणान्तःकरणावस्था ध्यायेद्दोषान् दशानिलान् || ३१ || ब्राह्मी वागीश्वरी वाणी सावित्री च सरस्वती | गायत्री वाक्प्रदा पश्चात् शारदा भारती प्रिये | विद्यात्मिका पञ्चभूतव्यापकानामधीश्वराः || ३२ || वाग्भवं भुवनेशीञ्च लक्ष्मीबीजं त्रितारकम् | त्रितारमूलीविद्यान्त मातृकाक्षरतः परम् || ३३ || वदेत् प्रपञ्चरूपायै श्रियै नम इति क्रमात् | प्रपञ्चादिभिरायोज्य वर्णान शक्तीनीयोजयेत् | मातृकान्याससंप्रोक्तस्थानेष्वेवं न्यसेत् प्रिये || ३४ || त्रितारमूलसकलप्रपञ्चादि स्वरूपतः | आयै पराम्बादेव्यैनम उक्त्वा व्यापकं न्यसेत् || ३५ || प्रपञ्चन्यास एव स्याद् भुवनन्यास उच्यते | त्रितारमूलमन्त्रान्ते अ आं इं अतलं वदेत् || ३६ || लोकञ्च निलयञ्चैव शतकोटिपदं ततः | गुह्याद्या योगिनी मूलङेयुतन्तु वदेत् प्रिये || ३७ || वदेदाधारशक्त्यम्बादेव्यै च पादयोर्न्यसेत् | ई उं ऊं वितलं गुह्यतरं चानन्तसंज्ञकम् | शेषञ्च पूर्ववत् प्रोच्य गुल्फयोर्देवि विन्यसेत् || ३८ || ऋं ऋं ऌं सुतलञ्चातिगुह्यं चाविन्त्यसंज्ञकम् | शेषच्च पूर्ववत् प्रोच्य जङ्घयोवीन्यसेत् प्रिये || ३९ || ऌं एं एं महातलञ्च महागुह्यं पदं ततः | शेषञ्च पूर्ववत् प्रोच्य देवि जान्वोः प्रविन्यसेत् || ४० || ओं औं तलातलं देवि परं गुह्याभिधानकम् | शेषञ्च पूर्ववत् प्रोच्य ऊर्वोर्देवेशि विन्यसेत् || ४१ || अं अः रसातलञ्चैव रहस्यं ज्ञानसंज्ञकम् | शेषञ्च पूर्ववत् प्रोच्य गुह्यदेशे प्रविन्यसेत् || ४२ || कवर्गणापि पातालं लोकेति निलयेति च | शेषञ्च पूर्ववत् प्रोच्य मूलाधारे तु विन्यसेत् || ४३ || चवर्गं भूतलञ्चेति रहस्यं डाकिनीमपि | शेषञ्च पूर्ववत् प्रोच्य स्वाधिष्ठाने न्यसेत् प्रिये || ४४ || टवर्गेण भुवो लोकं रहस्यं राकिणीमपि | शेषञ्च पूर्ववत् प्रोच्य नाभौ च विन्यसेत् प्रिये || ४५ || तवर्गं स्वश्च परमरहस्य लाकिनीमपि | शेषञ्च पूर्ववत् प्रोच्य हृदये विन्यसेत् प्रिये || ४६ || पवर्गञ्च महर्लोकं रहस्यं काकिनीमपि | शेषञ्च पूर्ववत् प्रोच्य तालुमूले न्यसेत् प्रिये || ४७ || यवर्गञ्च जनो गुप्ततरञ्च शाकिनीमपि | शेषञ्च पूर्ववत् प्रोच्य आज्ञायाञ्च न्यसेत् प्रिये || ४८ || शवर्गञ्च तपश्चातिगुह्यञ्च हाकिनीमपि | शेषञ्च पूर्ववत् प्रोच्य ललाटे विन्यसेत् प्रिये || ४९ || लं क्षं सत्यं महागुह्यं यक्षिणीमपि च प्रिये | शेषञ्च पूर्ववत् प्रोच्य ब्रह्मरन्ध्रे च विन्यसेत् || ५० || त्रितारमूलमन्त्रान्ते चतुर्दशभुवं वदेत् | नाधिपायै श्रीपरायै देव्यै च व्यापकं न्यसेत् || ५१ || कृत्वैवं भुवनन्यासं मूत्तीन्यासमथाचरेत् | केशवनारायणमाधवगोविन्दविष्णवः || ५२ || मधुसूदनसंज्ञश्च स्यात्त्रिविक्रमवामनौ | श्रीधरश्च हृषीकेशः पद्मनाभो दामोदरः | वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः || ५३ || अक्षोरोष्टदा चेशानी चोग्रोद्ध्र्वनयना तथा | ऋद्धिश्च रूपिणी लुप्ता लूनदोषैकनायिका || ५४ || एङ्कारिणी चौघवती सर्वकामाञ्जनप्रभा | अस्थि मालाधरा चेति सम्प्रोक्ताः स्वरदेवताः|| ५५ || भवः शर्वांऽथ रुद्रश्च पशुपतिश्चोग्र एव च | महादेवस्तथा भीम ईशस्तत्पुरुषाह्वयः || अघोरसद्योजातौ च वामदेव इतीरिताः || ५६ || करभद्रा खगबला गरिमादिफलप्रदा | घण्टाधरोग्रनयना चन्द्रधर्त्री ततः परम् | छन्दोमयी जगत्स्थाना ज्वलत्तारा ततः परम् || ५७ || ज्ञानदा च टङ्कधरा धृतिर्द्वादश ईरिताः | कभादीनां ठडान्तानां वर्णानां देवतास्त्विमाः || ५८ || ब्रह्मा प्रजापतिर्वेधाः परमेष्ठी पितामहः | विधाता च विरिञ्चिश्च स्रष्टा च चतुराननः || हिरण्यगर्भ इत्युक्ताः क्रमाद् ब्रह्मादयो दश || ५९ || यक्षिणी रञ्जिनी लक्ष्मीवज्रिणी शशिधारिणी | षडाधारलया सर्वनायिका हसितानना | ललिता च क्षमा चेति प्रोक्ता याद्यर्णदेवताः || ६० || त्रितारमूलमन्त्रान्ते स्वरान् विष्णून् सशक्तिकान् | चतुर्थ्या नमसा युक्तान् मस्तके चानने न्यसेत् || ६१ || सस्कन्धपार्श्वकट्यूरु जानुजङ्घापदेषु च | दक्षादिवामपर्यन्तं विन्यसेत् परमेश्वरि || ६२ || कभाद्यर्णयुतान् मन्त्री भवादीन शक्तिसंयुतान् | पादपार्श्वबाहुकण्ठपञ्चवक्त्रेषु विन्यसेत् | दशाधारेषु ब्रह्मादीन् यादि शक्तियुतान्न्यसेत् || ६३ || त्रितारमूलमन्त्रान्ते श्रीत्रिमूर्त्त्यम्बिकां वदेत् | आयै पराम्बादेव्यै च नमसा व्यापकं न्यसेत् | मूतीन्यासं विधायेत्थं मन्त्रन्यासं समाचरेत् || ६४ || त्रितारमूलं अं आं इं एकलक्षञ्च कोटि च | भेदश्च प्रणवाद्येकाक्षरात्माखिलमन्त्रतः || ६५ || ततोऽधिदेवतायै स्यात् सकलञ्च फलप्रदाम् | आयै तथैककूटेश्वर्यम्बादेव्यै नमो वदेत् || ६६ || ई उं ऊं आदि हंसादे द्विकूटं पूर्ववत् परम् | ऋं ऋं ऌं आदि वह्न्यादि त्रिकूटं पूर्ववत् परम् || ६७ || ॡं एं एं चतुर्लक्षं चन्द्रादि पूर्ववत् परम् | ओं औं अं अः पञ्चलक्षं सूर्यादि पूर्ववत् परम् || ६८ || कं खं गं चैव षड्लक्षं स्कन्दादि पूर्ववत् परम् | घं ङं चं सप्तलक्षं गणेशादि पूर्ववत् परम् || ६९ || छं जं झं अष्टलक्षं वटुकादि पूर्ववत् परम् | ञं टं ठं नवलक्षञ्च ब्रह्मादि पूर्ववत् परम् || ७० || डं ढं णं दशलक्षञ्च विष्ण्वादि पूर्ववत् परम् | तं थं दं एकादशलक्षं रुद्रादि पूर्ववत् परम् || ७१ || धं नं पं द्वादशलक्षं वाण्यादि पूर्ववत् परम् | फं बं भं त्रयोदशलक्षं लक्ष्म्यादि पूर्ववत् परम् || ७२ || मं यं रं चतुर्दशलक्षं गौर्ययादि पूर्ववत् परम् | लं वं शं पञ्चदशलक्षं दुर्गादि पूर्ववत् परम् | षं सं हं लं क्षं षोडशलक्षं त्रिपुरादि च षोडशा || ७३ || अक्षरात्मा खिलमन्त्राधिदेवतायै सकलं ततः | तथा फलप्रदायै च षोडश कूटेश्वरी पुनः || ७४ || अम्बादेव्यै नमः प्रोक्तो मन्त्रन्यासो महेश्वरि | आधारलिङ्गयोर्नाभिहृत्कण्ठे नेत्रयोरपि || ७५ || निबोधिकायामर्द्धेन्दौ बिन्दौ चैव कलापदे | उन्मन्यां विष्णुक्त्रे च नादे नादान्त एव च | ध्रुवमण्डलदेशे च विन्यसेत् कुलनायिके || ७६ || त्रितारमूलमन्त्रान्ते सर्वमन्त्रात्मिकापदम् | आयै पराम्बादेव्यै च हृदये व्यापकं न्यसेत् || ७७ || मन्त्रन्यासं विधायेत्थं दैवतन्यासमाचरेत् | त्रितारमूलमन्त्रान्ते अं आं सहस्रकोटि च || ७८ || योगिनीकुलशब्दान्ते सेवितायै पदं वदेत् | निवृत्त्यम्बापदं देव्यै नम इत्युच्चरेत् प्रिये || ७९ || इं ई योगिनीप्रतिष्ठां शेषं पूर्ववदुच्चरेत् | उं ऊं तपस्वि विद्याञ्च शेषं पूर्ववदुच्चरेत् || ८० || ऋं ॠं शान्तं तथा शान्तिं शेषं पूर्ववदुच्चरेत् | ऌं ॡं मुनिं शान्त्यतीतां शेषं पूर्ववदुच्चरेत् || ८१ || एं ए देवञ्च हृल्लेखां शेषं पूर्ववदुच्चरेत् | ओं औं राक्षसशब्दान्ते गगनां पूर्ववत् परम् | अं अः विद्याधरं रक्तां शेषं पूर्ववदुच्चरेत् || ८२ || कं खं सिद्धिमहोच्छ्रुष्मां शेषं पूर्ववदुच्चरेत् | गं घं साध्यकरालाञ्च शेषं पूर्ववदुच्चरेत् || ८३ || डं चं साप्सरसं जयां शेषं पूर्ववदुच्चरेत् | छं जं गन्धर्वविजयां शेषं पूर्ववदुच्चरेत् || ८४ || झं ञं गुह्यकशब्दान्ते अजितां शेषं पूर्ववत् परम् | टं ठं यक्षापराजितां शेषं पूर्ववदुच्चरेत् || ८५ || डं ढं किन्नरवामाञ्च शेषं पूर्ववदुच्चरेत् | णं तं पन्नगज्येष्ठाञ्च शेषं पूर्ववदुच्चरेत् || ८६ || थं दं चं पितृरौद्राम्बां शेषं पूर्ववदुच्चरेत् | धं नं गणेशमायाञ्च शेषं पूर्ववदुच्चरेत् || ८७ || पं फं भैरवशब्दान्ते कुण्डलीं पूर्ववत् परम् | बं भं वटुक कालीञ्च शेषं पूर्ववदुच्चरेत् || ८८ || मं यं क्षेत्रेशशब्दान्ते कालरात्रिञ्च पूर्ववत् | रं लं प्रमथभगवतीं शेषं पूर्ववदुच्चरेत् || ८९ || वं शं ब्रह्मसर्वेश्वरीं शेषं पूर्ववदुच्चरेत् | षं सं विष्णुञ्च सर्वज्ञां शेषं पूर्ववदुच्चरेत् || ९० || हं लं रुद्रसर्वकर्त्री शेषं पूर्ववदुच्चरेत् | क्षं चराचरशक्तिञ्च शेषं पूर्ववदुच्चरेत् || ९१ || अङ्गुष्ठगुल्फजंघासु जानूरुकटिपार्श्वके | स्तनकक्ष करस्कन्धकर्णमूर्द्धस्वपि क्रमात् || ९२ || दक्षभागदिवामान्तं विन्यसेत् कुलनायिके | त्रितारमूलमन्त्रान्ते सर्वदेवात्मिकां पदम् || ९३ || आयै पराम्बादेव्यै च हृदये व्यापकं न्यसेत् | देवन्यासं विधायेत्थं मातृकान्यासमाचरेत् || ९४ || त्रितारमूलमन्त्रान्ते कवर्गानन्तकोटिभू | चरीकुलसेवितायै आं क्षां हि मङ्गलापदम् || ९५ || अम्बादेव्यै नमो ब्रूयादां क्षां ब्रह्माण्यतः परम् | अम्बादेव्यै ततोऽनन्तकोटिभूतं कुलं वदेत् || ९६ || सहितायै ततो मङ्गलनाथाय अं क्षं वदेत् | अं क्षं असिताङ्गभैरवनाथाय नम उच्चरेत् || ९७ || चवर्गं खेचरीं ई लां चचीकाञ्च महेश्वरीम् | वेतालं इं लं चचीकं रुरुं शेषञ्च पूर्ववत् || ९८ || टवंर्ग पातालचरीं ऊं हां योगेश्वरीं वदेत् | कौमारीञ्च पिशाचञ्च उं हं योगेशचण्डकौ || ९९ || तवर्गं दिक्चरीं ऋं सां हरसिद्धाञ्च वैष्णवीम् | अपस्मारं ऋं सं हरसिद्धक्रोधादिपूर्ववत् || १०० || पवर्गं सहचरीं ऌं षां भट्टि वाराह्यतः परम् | ब्रह्मराक्षसकं ऌं षां भट्टोन्मत्तादि पूर्ववत् || १०१ || यवर्ग स्याद्गिरिचरीं एं शां किलकिलेति च | इद्राणीं चेटकं एं शं किलिः कापालिकस्तथा || १०२ || शवर्गं स्यात् वनचरीं औं वां कालादिरात्रि च | चामुण्डां प्रेतं ओं वं च कालरात्रिश्च भीषणः || १०३ || लं क्षं जलचरीं अः लां वदेत् वश्चञ्च भीषणाम् | महालक्ष्मीं शाकिनीश्च अं लं पश्चाच्च भीषणम् || १०४ || संहारभैरवञ्चैव शेषं पूर्ववदुच्चरेत् | मूलाधारलिङ्गनाभिष्वनाहतविशुद्धयोः || १०५ || आज्ञाभाल तलब्रह्मरन्ध्रेष्वेवं प्रविन्यसेत् | त्रितारमूलमन्त्रान्ते मातृभैरवशब्दतः || १०६ || अधिपायै पराम्बा देव्यै नमो व्यापकं न्यसेत् | मातृन्यास महेशानि कुर्यादेवं समाहितः || १०७ || एवं न्यस्ततनुर्दैवि ध्यायेद्देवमनन्यधीः | अमृतार्णवमध्योद्यन्मणिद्वीपे सुशोभिते || १०८ || कल्पवृक्षवनान्तःस्थमणि माणिक्यमण्डपे | नवरत्नमय श्रीमत्सिंहासनगतेम्बुजे || १०९ || त्रिकोणान्तःसमासीनं चन्द्रसूर्यायुतप्रभम् | अर्द्धाम्बिकासमायुक्तं प्रविभक्तविभूषणम् || ११० || कोटिकन्दर्पलावण्यं सदा षोडशवाषीकम् | मन्दस्मितमुखाम्भोजं त्रिनेत्रं चन्द्रशेखरम् || १११ || दिव्याम्बरस्रगालेपं दिव्याभरणभूषितम् | पानपात्रञ्च चिन्मुदां त्रिशूलं पुस्तकं करैः || ११२ || विद्यासंसिद्धिं बिभ्राणां सदानन्दमुखेक्षणम् | महाषोढोदिताशेषदेवतागणसेवितम् || ११३ || एवं चित्ताम्बुजे ध्यायेदर्द्धनारीश्वरं शिवम् | पुंरूपं वा स्मरेद्देवि स्त्रीरूपं वा विचिन्तयेत् || ११४ || अथवा निष्कलं ध्यायेत् सच्चिदानन्दलक्षणम् | सवतेजोमयं देवि सचराचरविग्रहम् || ११५ || ततः सन्दर्शयेन्मुद्रादशकं परमेश्वरि | योनि लिङ्गञ्च सुरभि हेतिमुद्राचतुष्टयम् || ११६ || वनमालां महामुद्रां नभोमुद्रामिति क्रमात् | यथाशक्ति मन्त्रमूलं जपेत् श्रीपादुकामपि | मूध्नी सञ्चिन्तयेद्देवि श्रीगुरुं शिवरूपिणम् || ११७ || सहस्रदलपङ्कजे सकलशीतरश्मिप्रभम् वराभयकराम्बुजं विमलगन्धपुष्पाम्बरम् | प्रसन्नवदनेक्षणं सकलदेवतारूपिणम् स्मरेत् शिरसि हंसगं तदभिधानपूर्वं गुरुम् || ११८ || एवं न्यासे कृते देवि साक्षात् परशिवो भवेत् | मन्त्री नैवात्र सन्देहो निग्रहानुग्रहक्षमः || ११९ || महाषोढाह्वयं न्यासं यः करोति दिने दिने | देवाः सर्वे नमस्यन्ति तं नमामि न संशयः || १२० || महाषोढाह्वयं न्यासं करोति यत्र पार्वति | दिव्यक्षेत्रं समुद्दिष्टं समन्ताद्दशयोजनम् || १२१ || कृत्वा न्यासमिमं देवि यत्र गच्छति मानवः | तत्र स्याद्विजयो लाभः सम्मानः पौरुषं प्रिये || १२२ || महाषोढाकृतन्यासस्तेन यो वन्द्यते शिवे | षण्मासान्मृत्युमाप्नोति यदि त्राता शिवः स्वयम् || १२३ || वज्रपञ्जरनामानमेतं न्यासं करोति यः | दिव्यन्तरीक्षभूशैलजलारण्यनिवासिनः || १२४ || प्रचण्डभूतवेतालदेवरक्षोग्रहादयः | भयग्रस्तेन मनसा नेक्षन्ते तं कुलेश्वरि || १२५ || महाषोढाकृतन्यासं ब्रह्माविष्णुशिवादयः | देवाः सर्वे नमस्यन्ति ऋषयोऽपि मुनीश्वराः || १२६ || बहुनोक्तेन किं देवि न्यासमेतं मम प्रियम् | नापुत्राय वदेद्देवि नाशिष्याय प्रकाशयेत् || १२७ || आज्ञासिद्धिमवाप्नोति तस्मान्न्यासं समाचरेत् | अस्मात् परतरा रक्षा देवताभावसिद्धिदा | लोके नास्ति न सन्देहः सत्यं सत्यं वरानने || १२८ || ऊर्ध्वाम्नायप्रवेशश्च पराप्रासादचिन्तनम् | महाषोढापरिज्ञानं नाल्पस्य तपसः फलम् || १२९ || इति ते कथितं देवि मन्त्रोद्धारादिकं प्रिये | समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि || १३० || || इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे माहाषोढाकथनं नाम चतुर्थोल्लासः || ४ || अथ पञ्चमोल्लासः श्रीदेव्युवाच कुलेशाधारपात्राणां पिशितानाञ्च लक्षणम् | कुलद्रव्यस्य निर्माणं भेदं माहात्म्यमेव च || १ || अविधानेन यत् पापं सविधानेन यत् फलम् | तत् सर्वं श्रोतुमिच्छामि वद मे करुणानिधे || २ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | तस्य श्रवणमात्रेण त्रिदशैः समतां व्रजेत् || ३ || आधारेण विना भ्रंशो न च तृप्यन्ति मातरः | तस्माद्विधिवदाधारं कल्पयेत् कुलनायिके || ४ || आधारं त्रिपदं प्राहुः षट्पदं वा चतुष्पदम् | अथवा वर्तुलाकारं कुर्याद्देवि मनोहरम् || ५ || स्वर्णरौप्यशिलाकूर्मकपालालाबुमृण्मयम् | नारिकेलशङ्खताम्रमुक्ताशुक्तिसमुद्भवम् || ६ || पुण्यवृक्ष समुद्भूतं पात्रं कुर्याद्विचक्षणः | अतिसूक्ष्ममतिस्थूलं छिन्नं भिन्नञ्च वर्जयेत् || ७ || सुवर्णरौप्यताम्राणि सर्वसिद्धकराणि च | शान्तिके च शिलापात्रं स्तम्भने चैव मृण्मयम् || ८ || नारिकेलञ्च वश्ये स्यादभिचारे च कूर्मजम् | शङ्गं ज्ञानप्रदं शुक्तिर्देवीप्रीतिप्रदायिनी || ९ || कपालालाबुपात्राणि योगसिद्धिकराणि च | पुण्यवृक्षज पात्राणि सर्वपापहराणि च | उक्तेष्वेतेषु देवेशि पात्रमेकं प्रकल्पयेत् || १० || कुलद्रव्यं प्रवक्ष्यामि शृणु देवि समाहिता | अम्भसां द्वादशप्रस्थं प्रस्थार्द्धं तक्रमेव च || ११ || तण्डुलानां चतुःप्रस्थं द्विप्रस्थञ्च तथान्धसाम् | मुष्टिमात्राङ्कुरैः सार्द्धम् एकस्मिन् योजयेद् घटे || १२ || शीतादिरहिते स्थाने स्थापयेद्दिवसद्वयम् | तस्मादग्निं समारोप्य जम्बालसदृशं पचेत् || १३ || अवरोप्य पुनः शीतामवस्थां प्रापयेत्ततः | पादोनप्रस्थकैः पिष्ट्वा हस्ताभ्यां मेलयेत् सुधीः || १४ || प्रस्थार्द्धान् तण्डुलान् वाप्यपरेद्युस्तत् समुद्धरेत् | सम्यक् संमद्ये तक्रेण पाकमालोड्य मेलयेत् | एषा पैष्टीति विख्याता पूजिता देवदानवैः || १५ || गौडी च श्वेतबर्बुरजम्बुत्वक्सधिताम्भसाम् | दशप्रस्थं कुलेशानि धातकीकुसुमं शुभम् || १६ || नारिकेलप्रसूनं वा चैकप्रस्थं विनिक्षिपेत् | हरीतकी चाक्षफलं वसुनिष्कप्रमाणतः || १७ || वह्निं त्रिकटुकञ्चापि निष्कमार्धं क्षिपेत् पृथक् | अशीतिगुडसम्मिश्रमेकस्मिन् योजयेद् घटे || १८ || करेण भ्रामयेत् सम्यगनुलोमविलोमतः | अष्टोत्तरशतावृत्त्या त्रिसन्ध्यं प्रतिवासरम् || १९ || द्वादशाहेन पाकः स्यात् पालयेत्तत्त्रयोदशे | एषा गौडीति कथिता शिवसायुज्यहेतुकी || २० || द्विगुणं मकरन्दस्य वारि संयोजयेद् घटे | द्वादशाहेन पाकः स्याच्छेषमन्यत् पुरोक्तवत् | एषा माध्वी समुद्दिष्टा देवताप्रीतिकारिणी || २१ || एका शुण्ठी द्विवह्निश्च मरीचत्रितयं तथा | धातकी च चतुष्कं स्यात् पञ्च पुष्पाणि षण्मधु || २२ || अशीतिगुडसम्मिश्रं शेषमन्यत् पुरोक्तवत् | इदं मनोहरं द्रव्यं योगिनीपानमुत्तमम् || २३ || सार्द्धेन्दुपलकं दघ्नो माहिषं प्रस्थमात्रकम् | मोचापक्वशतञ्चापि योगोऽयं मदिरा शुभा || २४ || तं मेलयित्वा संयोज्य सान्द्गे वंशपुटे पचेत् | चत्वारिंशद्दिनान्यष्टौ पङ्के पङ्कजसम्भवे || २५ || निधायोद्धृत्य किरणैः सौरैः सम्यग् विशोषयेत् | यदा च कठिनीभावस्तदा संगृह्य मानवः || २६ || गुञ्जाफलप्रमाणन्तु जलैः सम्मिलितं शुभम् | आत्मेच्छं पूरयेत् पात्रं परमानन्ददं परम् || २७ || एतादप्युत्तमं द्रव्यं सर्वदेवप्रियं प्रिये | एतानि मदहेतूनि मद्यान्यन्यानि कारयेत् || २८ || पानसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् | मधूत्थं शीधु माध्वीकं मैरेयं नारिकेलजम् || २९ || मद्यान्येकादशैतानि भुक्तिमुक्तिकराणि च | द्वादशन्तु सुरा मद्य सर्वेषामुत्तमं प्रिये || ३० || पैष्टी गौडी च माध्वी च विज्ञेया त्रिविधा सुरा | सर्वसिद्धिकरी पैष्टी गौडी भोगप्रदायिनी || ३१ || माध्वी मुक्तिकरी ज्ञेया सुरा स्याद्देवताप्रिया | विद्याप्रदैक्षवी ज्ञेया द्राक्षी राज्यप्रदा भवेत् || ३२ || तालजा स्तम्भने शस्ता खार्जूरी रिपुनाशिना | नारिकेलभवा श्रीदा पानसी च शुभप्रदा || ३३ || मधूकजा ज्ञानकरी माध्वीकी रोगनाशिनी | मैरेयाख्या कुलेशानि सर्वदा पापहारिणी || ३४ || क्षीरवृक्षसमुद्भूतं मद्यं वल्कलसम्भवम् | मधुपुष्पसमुद्भूतम् आसवं तण्डुलोद्रवम् || ३५ || यस्यानन्दो निवीकार आमोदश्च मनोहरः | मद्यं तदुत्तमं देवि देवानां प्रीतिदायकम् || ३६ || आत्मेच्छं पूरयेत् पात्रं परमानन्दवर्द्धनम् | एतदामोदकं द्रव्यं सर्वदेवप्रियं प्रिये || ३७ || सुरादर्शनमात्रेण सर्वपापैः प्रमुच्यते | तद्गन्धाघ्राणमात्रेण शतक्रतुफलं लभेत् || ३८ || मद्यस्पर्शनमात्रेण तीर्थकोटिफलं लभेत् | देवि तत्पानतः साक्षाल्लभेन्मुक्तिं चतुवीधाम् || ३९ || इच्छाशक्तिः सुरामोदे ज्ञानशक्तिश्च तद्रसे | तत्स्वादे च क्रियाशक्तिस्तदुल्लासे परा स्थिता || ४० || मदिरा ब्रह्मगाः प्रोक्ताः चित्तशोधनसाधनाः | तासामेकां समाहृत्य पूजाकर्म समाचरेत् || ४१ || मत्स्य मांसादिविजयां चाष्टगन्धैः सुमिश्रिताम् | संमर्द्य वटिकां कृत्वा संगृह्याथ विचक्षणः | मद्याभावे तु वटिकां जले संयुज्य तर्पयेत् || ४२ || गुडमिश्रेण तक्रेण तर्पयेत् मधुभाजिना | सौवीरेणाथवा कुर्यादेतत् कर्म न लोपयेत् | प्रमादाद् यदि लुप्येत देवताशापमाप्नुयात् || ४३ || मांसन्तु त्रिविधं प्रोक्तं खभूजलचरं प्रिये | यथासम्भवमप्येकं तर्पणार्थं प्रकल्पयेत् | मांसदर्शनमात्रेण सुरादर्शनवत् फलम् || ४४ || पितृदैवतयज्ञेषु वैधहिंसा विधीयते | आत्मार्थं प्राणिनां हिंसा कदाचिन्नोदिता प्रिये || ४५ || अनिमित्तं तृणं वापि छेदयेन्न कदाचन | देवतार्थं द्विजार्थ वा हत्वा पापैर्न लिप्यते || ४६ || मामनादृत्य यत् पुण्यं पापं स्यात् प्रतिभाषतः | मन्निमित्तं चरेत् पापं पुण्यं भवति शाम्भवि || ४७ || यैरेव पतनं द्रव्यैः सिद्धिस्तैरेव चोदिता | श्रीकौलदर्शने चापि भैरवेण महात्मना || ४८ || मत्कर्म कुर्वतां पुंसां कर्मलोपो भवेन्नहि (यदि) | तत्कर्म ते प्रकुर्वन्ति सप्तकोटिमुनीश्वराः || ४९ || हन्यान्मन्त्रेण चानेन त्वभिमन्त्र्य पशुं प्रिये | गन्धपुष्पाक्षतैः पूज्य चान्यथा नरकं व्रजेत् || ५० || शिवोत्कृत्तमिदं पिण्डमतस्त्वं शिवतां गतः | तद् बुध्यस्य पशो त्वं हि मा शिवस्त्वं शिवोऽसि हि ||५१|| ब्रह्मा स्यात् पलले विष्णुर्गन्धे रुद्रश्च तद्रसे | परमात्मा तदानन्दे तस्मात् सेव्यमिदं प्रिये || ५२ || मांसाभावे तु लशुनं सार्द्रकं नागरन्तु वा | आदाय पूजयेद्देवि चान्यथा निष्फलं भवेत् || ५३ || मत्स्यमांसविहीनेन मद्येनापि न तर्पयेत् | न कुर्यान्मत्स्यमांसाभ्यां विना द्रव्येण पूजनम् || ५४ || पिशितं तिलमात्रन्तु तिलार्द्धमपि बिन्दुना | सकृत्तर्पणमात्रेण कोटियज्ञफलं लभेत् || ५५ || कुलपूजासमं नास्ति पुण्यमन्यज्जगत्त्रये | तस्माद् यः पूजयेद्भक्त्या भुक्तिमुक्त्योः स भाजनम् ||५६|| अनधीतोऽप्यशास्त्रज्ञो गुरुभक्तो दृढव्रतः | कुलपूजारतो यस्तु स मे प्रियतमो भवेत् || ५७ || चतुर्णामपि वर्णानामाश्रमाणामपीश्वरि | पुंस्त्रीनपुंसकानान्तु पूजितेष्टफलप्रदा || ५८ || इहामुत्र फलं दद्याः पूजिता सुवधूरिव | अपूजिता त्वं देवेशि दुःखदा कुवधूरिव || ५९ || कुलपूजां विना यस्तु करोत्येवं सुदुर्मतिः | स याति नरकं घोरमेकविंशतिभिः कुलैः || ६० || तस्मात् सर्वप्रयत्नेन कुलपूजारतो भवेत् | लभते सर्वसिद्धींश्च नात्र कार्या विचारणा || ६१ || आराधनासमर्थश्चेद्दद्यादर्चनसाधनम् | यो दातुं नैव शक्नोति कुर्यादर्चनदर्शनम् || ६२ || सम्यक् शतक्रतून् कृत्वा यत् फलं समवाप्नुयात् | तत् फलं समवाप्नोति सकृत् कृत्वा क्रमार्चनम् || ६३ || महाषोडशदानानि कृत्वा यच्च फलं लभेत् | तत् फलं समवाप्नोति कृत्वा श्रीचक्रदर्शनम् || ६४ || सार्द्धत्रिकोटितीर्थेषु स्नात्वा यत् फलमाप्नुयात् | तत् फलं लभते देवि सकृत् कृत्वा क्रमार्चनम् || ६५ || बहुनोक्तेन किं देवि यथाभक्त्या ददाति यः | कुलाचार्याय पूजार्थं कुलद्रव्यं स धर्मवित् || ६६ || शैवे वा वैष्णवे शाक्ते सौरे सुगतदर्शने | बौद्धे पाशुपते सांख्ये व्रते कुलमुखे तथा || ६७ || सदक्षवामसिद्धान्ते वैदिकादिषु पार्वति | विनाऽलिपिशिताभ्यान्तु पूजनं निष्फलं भवेत् || ६८ || कुलद्रव्यैवीना कुर्याज्जपयज्ञ तपोव्रतम् | निष्फलं तद्भवेद्देवि भस्मनीव यथा हुतम् || ६९ || यथैवान्तश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः | तथान्तर्यागनिष्ठा ये ते प्रिया देवि नापरे || ७० || समर्पयन्ति ये भक्त्या आवाभ्यां पिशितासवम् | उत्पादयन्ति चानन्दं मत्प्रियाः कौलिकाश्च ते || ७१ || आवयोः परमाकारं सच्चिदानन्दलक्षणम् | कुलद्रव्योपभोगेन परिस्फुरति नान्यथा || ७२ || अन्तःस्थानुभवोल्लासो मनोवाचामगोचरः | कुलद्रव्योपभोगेन जायते नान्यथा प्रिये || ७३ || सेविते च कुलद्रव्ये कुलतत्त्वार्थदर्शनः | जायते भैरवावेशः सर्वत्र समदर्शनः || ७४ || तमःपरिवृतं वेश्म यथा दीपेन दृश्यते | तथा मायावृतो ह्यात्मा द्रव्यपानेन दृश्यते || ७५ || मन्त्रपूतं कुलद्रव्यं गुरुदेवापीतं प्रिये | ये पिबन्ति जनास्तेषां स्तन्यपानं न विद्यते || ७६ || मद्यन्तु भैरवो देवो मद्यं शक्तिः समीरिता | अहो भोक्ता च मद्यस्य मोहयेदमरानपि || ७७ || तन्मैरेयं नरः पीत्वा यो न विकुरुते प्रिये | मद्ध्यानैकपरो भूत्वा स मुक्तः स च कौलिकः || ७८ || सुरा शक्तिः शिवो मांसं तद्भोक्ता भैरवः स्वयम् | तयोरैक्यसमुत्पन्न आनन्दो मोक्ष उच्यते || ७९ || आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितम् | तस्याभिव्यञ्जकं मद्यं योगिभिस्तेन पीयते || ८० || कुण्डी कम्बुकपालानि मधुपूर्णानि बिभ्रतः | किं न पश्यति लोकोऽयं ब्रह्मविष्णुमहेश्वरान् || ८१ || निःशङ्को निर्भयो वीरो निर्लज्जो निष्कुतूहलः | निर्णीतवेदशास्त्रार्थो वरदां वारुणीं पिबेत् || ८२ || मन्त्रसंस्कारसंशुद्धामृतपानेन पार्वति | जायते देवताभावो भवबन्धविमोचकः || ८३ || ब्राह्मणस्य सदा पेयं क्षत्रियस्य रणागमे | गोलम्भने तु वैश्यस्य शूद्रस्यान्त्येष्टिकर्मणि || ८४ || देवान् पितृन् समभ्यर्च्य देवि शास्त्रोक्तवर्त्मना | गुरुं स्मरन् पिबन्मद्यं खादन् मांसंन दोषभाक् || ८५ || तृप्त्यर्थं पितृदेवानां ब्रह्मध्यानस्थिराय च | सेवेत मधुमांसानि तृष्णया चेत् स पातकी || ८६ || मन्त्रार्थं स्फुरणार्थाय मनसः स्थैर्यहेतवे | भवपाशनिवृत्त्यर्थं मधुपानं समाचरेत् || ८७ || सेवेत स्वसुखार्थं यो मद्यादीनि स पातकी | प्राशयेद्देवताप्रीत्यै स्वाभिलाषविवजीतः || ८८ || मत्स्यमांससुरादीनां मादकानां निषेवणम् | यागकालं बिनान्यत्र दूषणं कथितं प्रिये || ८९ || यथा क्रतुषु विप्राणां सोमपानं विधीयते | मद्यपानं तथा कार्यं समये भोगमोक्षदम् || ९० || श्रीगुरोः कुलशास्त्रेभ्यः सम्यग्विज्ञाय वासनाम् | पञ्चमुद्रा निषेवेत चान्यथा पतितो भवेद् || ९१ || आवृत्तिं गुरुपंक्तिश्च वटुकादीन्न पूज्य यः | वीरोऽप्यत्र वृथापानी देवताशापमाप्नुयात् || ९२ || अयष्ट्वा भैरवं देवमकृत्वा मन्त्रतर्पणम् | पशुपानविधौ पीत्वा वीरोऽपि नरकं व्रजेत् || ९३ || अज्ञात्वा कौलिकाचारमयष्ट्वा गुरुपादुकाम् | योऽस्मिन् शास्त्रे प्रवर्त्तेत तं त्वं पीडयसि ध्रुवम् || ९४ || कौलज्ञाने ह्यसिद्धो यस्तद्द्रव्यं भोक्तुमिच्छति | स महापातकी ज्ञेयः सर्वधर्मबहिष्कृतः || ९५ || समयाचारहीनस्य स्वैरवृत्तेर्दुरात्मनः | न सिद्धयः कुलभ्रंशस्तत्संसर्गं न कारयेत् || ९६ || यः शास्त्रविधिमुत्सृज्य वर्त्तते कामकारतः | स सिद्धिमिह नाप्नोति परत्र न परां गतिम् || ९७ || स्वेच्छया रममाणो यो दीक्षासंस्कारवजीतः | न तस्य सद्गतिः क्वापि तपस्तीर्थव्रतादिभिः || ९८ || असंस्कृतं पिबेद्द्रव्यं बलात्कारेण मैथुनम् | स्वप्रियेण हतं मांसं रौरवं नरकं व्रजेत् || ९९ || कौलाः पशुव्रतस्याश्चेत् पक्षद्वयविडम्बकाः | केशसंख्या स्मृता यावत्तावत्तिष्ठन्ति रौरवे || १०० || कुलद्रव्याणि सेवेत योऽन्यदर्शनमाश्रितः | तदङ्गरोमसंख्यातं भूतयोनिषु जायते || १०१ || मदप्रच्छादितात्मा च न किञ्चिदपि वेत्ति च | न ध्यानं न तपो नार्चा न धर्मो न च सत्क्रिया ||१०२ || न दैवं न गुरुर्नात्मविचारो न स कौलिकः | केवलं विषयासक्तः पतत्येव न संशयः ||१०३ || मद्यासक्तो न पूजार्थी मांसाशी स्त्रीनिषेवकः | कौलोपदेशहीनो यः सोऽक्षयं नरकं व्रजेत् ||१०४ || असंस्कारी तु यो नौ स्यात् पञ्च मुद्रा निषेवते | कुलेशि ब्रह्यनिष्ठोऽपि निन्द्यतामधिगच्छति ||१०५ || लिङ्गत्रयविशेषज्ञः षडाधारविभेदकः | पीठस्थानानि चागत्य महापद्मवनं व्रजेत् || १०६ || आमूलाधारमाब्रह्मरन्ध्रं गत्वा पुनः पुनः | चिच्चन्द्रकुण्डलीशक्तिसामरस्य सुखोदयः || १०७ || व्योमपङ्कजनिस्यन्दसुधापानरतो नरः | सुधापानमिदं प्रोक्तमितरे मद्यपायिनः || १०८ || पुण्यापुण्यपशुं हत्वा ज्ञानखड्गेन योगवित् | परे लयं नयेच्चितं पलाशी स निगद्यते || १०९ || मनसा चेन्द्रियगणं संयम्यात्मनि योजयेत् | मत्त्स्याशी स भवेद्देवि शेषाः स्युः प्राणिहिंसकाः || ११०|| अप्रबुद्धा पशोः शक्तिः प्रबुद्धा कौलिकस्य च | शक्तिं तां सेवयेत् यस्तु स भवेत् शक्तिसेवकः || १११ || पराशक्त्यात्ममिथुनसंयोगानन्दनिर्भरः | य आस्ते मैथुनं तत् स्यादपरे स्त्रीनिषेवकाः || ११२ || इत्यादि पञ्चमुद्राणां वासनां कुलनायिके | ज्ञात्वा गुरुमुखाद्देवि यः सेवेत स मुच्यते || ११३ || इति ते कथितं देवि कुलद्रव्यादिलक्षणम् | समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि || ११४ || || इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे कुलमाहात्म्यकथनं नाम पञ्चमोल्लासः || ५ || अथ षष्ठोल्लासः श्रीदेव्युवाच कुलेश श्रोतुमिच्छामि पूजकस्य च लक्षणम् | कुलद्रव्यादिसंस्कारमर्चनं वद मे प्रभो || १ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | तस्य श्रवणमात्रेण स्तूयते देवदानवैः || २ || निरस्तपातका यत्र मानवाः पुण्यकमीणः | कुलज्ञानसुसम्पन्ना भजन्ते ये दृढव्रताः || ३ || पूर्णाभिषेकसहितो वेदशास्त्रार्थतत्त्ववित्| देवतागुरुभक्तस्तु नियतात्मार्चयेत् प्रिये || ४ || कुलागमरहस्यज्ञो देवताराधनोत्सुकः | गुरूपदेशसंयुक्तः पूजयेत् कुलनायिके || ५ || शुद्धात्मा चातिसंहृष्टः क्रोधलौल्यविवजीतः | पशुव्रतादिविमुखः सुमुखस्तु यजेत् प्रिये || ६ || यदा पुंसः कृतार्थस्य कालेन बहुना प्रिये | मत्प्रसादेन भूयाच्च दृढभक्तिसमागमः || ७ || तदर्थं तर्पणं कुर्याद् द्रव्यैः श्रीभैरवोदितेः | गुरूपदेशविधिना चान्यथा पतनं भवेत् || ८ || मन्त्रयोगेन देवेशि कुर्यात् श्रीचक्रपूजनम् | तदहन्तु त्वया सार्धं गृह्णामि स्वयमादरात् || ९ || भैरवोऽहमिति ज्ञानात् सर्वज्ञादिगुणान्वितः | इति संचिन्त्य योगीन्द्रः कुलपूजारतो भवेत् || १० || इत्यादिलक्षणोपेतः कौलिको नियतव्रतः | यस्त्वां समर्चयेद्देवि भुक्तिमुक्त्योः स भाजनम् || ११ || एकान्ते विजनेऽरण्ये देशे बाधाविवजीते | सुखासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः || १२ || अमृताब्धौ मणिद्वीपे कल्पवृक्षतरोस्तले | रत्नप्राकारसन्दीप्तं स्मरेन्माणिक्यमण्डपम् || १३ || पुष्पमालावितानाढ्यं प्रच्छन्नपटसंवृतम् | कर्पूरदीपभास्वन्तं धूपामोदसुगन्धिकम् || १४ || तन्मण्डपस्थमात्मानं ध्यात्वाऽनाकुलचेतसा | श्रीगुरोराज्ञया देवि कुलपूजां समाचरेत् || १५ || आत्मस्थानमनुद्रव्यदेवशुद्धिस्तु पञ्चमी | यावन्न कुरुते मन्त्री तावद्देवार्चनं कुतः || १६ || सुस्नानभूतसंशुद्धिप्राणायामादिभिः प्रिये | षडङ्गाद्यखिलन्यासेरात्मशुद्धिः समीरिता || १७ || सम्मार्जनानुलेपाद्यैर्दर्पणोदरवत्कृतम् | वितानधूपदीपादिपुष्पमालोपशोभितम् | पञ्चवर्णरजश्चित्रं स्थानशुद्धिरितीरिता || १८ || ग्रथित्वा मातृकावर्णैर्मूलमन्त्राक्षराणि च | क्रमोत्क्रमाद् द्विरावृत्त्या मन्त्रशुद्धिरितीरिता || १९ || पूजाद्रव्याणि संप्रोक्ष्य मूलास्त्राद्भिवीधानवित् | दर्शयेद्धेनुमुद्राञ्च द्रव्यशुद्धिरितारिता || २० || पीठे देवं प्रतिष्ठाप्य सकलीकृत्य मन्त्रवित् | मूलमन्त्रेण दीप्तात्मा न्यासद्रव्योदकेन च | त्रिवारं प्रोक्षयेद्विद्वान् देवशुद्धिरितीरिता || २१ || पञ्चशुद्धिं विधायेत्थं पश्चाद् यजनमाचरेत् | सा पूजा सफला प्रोक्ता चान्यथा निष्फला भवेत् || २२ || मण्डलेन विना पूजा निष्फला कथिता प्रिये | तस्मान्मण्डलमालिख्य विधिवत्तत्र पूजयेत् || २३ || अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितम् | त्रैलोक्यं मण्डितं येन मण्डलं तत् सदा शिवम् || २४ || उड्डीयानां चतुरस्रं कामरूपञ्च वर्त्तुलम् | जालन्धरञ्च चन्द्रार्धं त्र्यस्रः पूर्णगिरिर्भवेत् || २५ || अभ्यर्च्य मण्डलं पश्चादाधारान् स्थापयेत् क्रमात् | समान्यश्रीगुरुभोगबलिपात्राणि पञ्चधा || २६ || द्विपात्रं वा त्रिपात्रं वा एकपात्रं न कारयेत् | स्वदक्षिणादिवामान्तं स्थाप्याभ्यर्च्यासवेन तु || २७ || संपूर्य मूलमन्त्रेण कुलेश्वरि विनिधानवित् | तत्र माषप्रमाणन्तु मत्स्यं मांसं विनिक्षेपेत् || २८ || नष्टैः पर्युषितोच्छिष्टैर्दुर्गन्धैर्गन्धवजीतैः | हेतुभिः परपात्रस्थैस्तपीतं निष्फलं भवेत् || २९ || न पूरयेत्तु पात्राणि अप्रियैस्तैः कुलेश्वरि | स्वादिष्ठैश्च मदिरौष्ठैश्च द्रव्यैरमृतसन्निभैः | मनोहरैर्महेशानि तर्पणं सफलं भवेत् || ३० || असंस्कृता सुरा पापकलहव्याधिदुःखदा | आयुःश्रीकीत्तीसौभाग्यधनधान्यविनाशिनी || ३१ || तस्मात् संस्कृत्य विधिवत् कुलद्रव्यं ततोऽर्चयेत् | अन्यथा नरकं याति दाता भोक्ता न संशयः || ३२ || विना द्रव्यादिवासेन न जपेन्न स्मरेत् प्रिये | ये स्मरन्ति नरा मूढास्तेषां दुःखं पदे पदे || ३३ || नासवेन विना मन्त्रो न मन्त्रेण विनासवः | परस्परविरोधित्वात् कथं पूजा विधीयते || ३४ || तत्संशयनिवृत्तिञ्च ज्ञात्वा गुरुमुखात् प्रिये | वीक्षणं प्रोक्षणं ध्यानं मन्त्रमुद्राविशोधनम् | द्रव्यं तर्पणयोग्यं स्याद्देवताप्रीतिकारकम् || ३५ || अग्निसूर्येन्दुब्रह्मेन्द्रविष्णुरुद्रसदाशिवैः | चतुवींशतिमन्त्रैः स्यान्मद्यञ्चैव परामृतम् || ३६ || अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः | शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा || ३७ || पूर्णा पूर्णामृता चेति कथिताः कुलनायिके | सौम्याः कामप्रदायिन्यः षोडश स्वरजाः कलाः || ३८ || तपनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः | सुषुम्ना भोगदा विश्वा रोधिनी धारिणी क्षमा | कभाद्या वसुदाः सौराष्ठडान्ता द्वादशेरिताः || ३९ || धूम्राचीरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी | सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि | आग्नेया यादिवर्णाद्या दश धर्मप्रदाः कलाः || ४० || सृष्टिर्मेधा स्मृतिरृद्धिः कान्तिर्लक्ष्मीर्द्युतिः स्थिरा | स्थितिः सिद्धिरिति प्रोक्ताः कचवर्गकला दश | अकारप्रभवा ब्रह्मजाताः स्युः सृष्टये कलाः || ४१ || जरा च पालिनी शान्तिरीश्वरी रतिकामिके | वरदाह्लादिनीप्रीतिदीर्घाः स्युष्टतवर्गजाः | उकारप्रभवा विष्णुजाताः स्युः स्थितये कलाः || ४२ || तीक्ष्ण रौद्री भया निद्रा तन्द्रा क्षुत् क्रोधिनी क्रिया | उत्कारी मृत्युरित्युक्ता पयवर्गकला दश | मकारप्रभवा रुद्रजाताः संहृतये कलाः || ४३ || षवर्गगाश्चतस्रः स्युः पीता श्वेतारुणासिताः | कलाश्चेश्वरसञ्जातास्तिरोधानाय बिन्दुजाः || ४४ || निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च | इन्धिका दीपिका चापि रेचिका मोचिका परा || ४५ || सूक्ष्मा सूक्ष्मामृता ज्ञानाऽमृता चाप्यायिनी तथा | व्यापिनी व्योमरूपा च षोडश स्वरजाः कलाः | सदाशिवभवा नादादनुग्रहकलाः क्रमात् || ४६ || प्रथमं प्रकृतेर्हंसःप्रतद्विष्णुरनन्तरम् | त्र्यम्बकन्तु तृतीयं स्याच्चतुर्थस्तत्पदादिकः || ४७ || विष्णुर्योनिं कल्पयतु पञ्चमः कल्पनामनुः | चतुर्नवतिमन्त्रात्मदेवताभावसिद्धिदाः || ४८ || मन्त्रजापश्च संप्रोक्त आत्मस्तवश्च पञ्चभिः | अत्र ये (ते) पञ्च संप्रोक्ता मन्त्रास्ते कुलनायिके || ४९ || अखण्डैकरसानन्दाकरे परसुधात्मनि | स्वच्छन्दस्फुरणामत्र निधेह्यकुलरूपिणि || ५० || अकुलस्थामृताकारे सिद्धिज्ञानकरे परे | अमृतत्वं विधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि || ५१ || तद्रूपेणैकरस्यञ्च कृत्वार्घ्यं तत्स्वरूपिणि | भूत्वा परामृताकारं मयि चित्स्फुरणं कुरु || ५२ || वाग्भवं पार्श्वगं भूमिः पुष्टिरिन्दुसमन्विता | स्थितिश्च पावकानुग्रहार्थेन्दुसमलङ्कृता || ५३ || स्थिरेन्धिकेन्दुसंयुक्ता श्वेता बिन्दुयुगान्विता | तथामृते पदं ब्रूयात्तत्पश्चादमृतोद्भवे || ५४ || तथामृतेश्वरीत्युक्त्वा पश्चादमृतवषीणि | अमृतं स्रावयद् द्वन्द्वं द्विठान्तो द्रव्यशुद्धिकृत् | अमृतेशीमनुः प्रोक्तः पञ्चत्रिंशद्भिरक्षरैः || ५५ || वाग्भवं वदयुग्मञ्च वाग्वादिनीति वाग्भवम् | कामराजं ततः क्लिन्ने क्लेदिनि क्लेदयेति च || ५६ || महामोक्षं कुरुयुग्मं कामराजमतः परम् | तार्त्तीयं मोक्षशब्दान्ते कुरुयुग्मं वदेत्ततः || ५७ || स्यात् प्रासादपरा चान्तेसप्तत्रिंशद्भिरक्षरैः | दीपनीमनुरित्युक्तः सर्वसिद्धिकरः प्रिये || ५८ || एताः कला मातृकाञ्चाप्यख(ण्डेन्द्वा)ण्डैकादिकान् मनून् | अमृतेशीं दीपनीञ्च मूलामन्त्रमपि क्रमात् || ५९ || एकद्वित्रिचतुःपञ्च द्विचतुर्वारमम्बिके | संस्मृत्याभ्यर्च्य पात्रन्तु पूजयेद्धेनुमुद्रया || ६० || ब्रह्माण्डखण्डसम्भूतमशेषरससम्भृतम् | आपूरितं महापात्रं पीयूषरसमावह || ६१ || शुद्धद्रव्येण तेनापि गन्धपुष्पाक्षतैरपि | न्यासोक्तसर्वमन्त्रैश्चाप्यात्मानं पूजयेत् प्रिये || ६२ || मूध्नी श्रीगुरुपङ्क्तीश्च मूलाधारे च पादुकाम् | दिव्यौघे चादिनाथश्च तच्छक्तिश्च सदाशिवः || ६३ || तत्पत्नी चेश्वरस्तस्य भार्या रुद्रश्च तद्वधूः | विष्णुश्च तत्प्रिया ब्रह्मा तत्कान्ता द्वादशेरिताः || ६४ || सिद्धौघे सनकश्चैव सनन्दश्च सनातनः | सनत्कुमारश्च सनत्सुजातश्च ऋभुक्षजः || ६५ || दत्तात्रेयो रैवतको वामदेवस्ततः परम् | ततो व्यासः शुकश्चैव एकादश समीरिताः || ६६ || मानवौघे नृसिंहश्च महेशो भास्करस्तथा | महेन्द्रो माधवो विष्णुः षडेते च प्रकीत्तीताः || ६७ || नमोऽन्ते योजयेद्देवि दिव्यौघे परमं शिवम् | महाशिवञ्च सिद्धौघे मानवौघे सदाशिवम् || ६८ || ततः पीठं समभ्यर्च्य देवीमावाहयेत् प्रिये | महापद्मवनान्तःस्थे कारणानन्दविग्रहे | सर्वभूतहिते मातरेह्येहि परमेश्वरि || ६९ || देवेशि भक्तिसुलभे सर्वावरणसंयुते | यावत्त्वां पूजयामीह तावत्त्वं सुस्थिरा भव || ७० || मन्त्रेणानेन चावाह्य यजेद्देवीमनन्यधीः | ध्यात्वा मुद्रां प्रदर्श्यार्चेत् गन्धपुष्पाक्षतादिभिः || ७१ || चिन्मयस्याप्रमेयस्य निर्गुणस्याशरीरिणः | साधकानां हितार्थाय ब्रह्मणो रूपकल्पना || ७२ || लिङ्गस्थण्डिलवह्न्यम्बुसूपकुड्यपटेषु च | मण्डले फलके मूध्नी हृदि वा दश कीत्तीताः || ७३ || एषु स्थानेषु देवेशि यजन्ति परमां शिवाम् | अरूपां रूपिणीं कृत्वा कर्मकाण्डरता नराः || ७४ || गवां सर्वाङ्गजं क्षीरं स्रवेत् स्तनमुखाद् यथा | तथा सर्वगतो देवः प्रतिमादिषु राजते || ७५ || आभिरूप्याच्च बिम्बस्य पूजायाश्च विशेषतः | साधकस्य च विश्वासात् सन्निधौ देवता भवेत् || ७६ || गवां सपीः शरीरस्थं न करोत्यङ्गपोषणम् | स्वकर्मरचितं दत्तं पुनस्तामेव पोषयेत् || ७७ || एवं सर्वशरीरस्था सपीर्वत् परमेश्वरी | विना चोपासनां देवि न ददाति फलं नृणाम् || ७८ || सकलीकृत्य तत्प्राणान् समुद्दीप्येन्द्रियाणि च | प्रतिष्ठाप्यार्चयेद्देवि चान्यथा निष्फलं भवेत् || ७९ || मन्त्रहीनं क्रियाहीनं विधिहीनञ्च यद् भवेत् | क्षमया साधयेत् सर्वं हीनमङ्गं पदं तथा || ८० || नियमादतिरेकेण यद् यत् कर्म करोति यः | न किञ्चिदप्यस्य फलं सिध्यति क्रमदोषतः || ८१ || न्यूनातिरिक्तकर्माणि न फलन्ति कदाचन | यथाविधि कृतानीह सत्कर्माणि फलन्ति हि || ८२ || तद्विधानकृतं कर्म जपहोमार्चनादिषु | देवताप्रीतिदं भूयाद् भुक्तिमुक्तिफलप्रदम् || ८३ || देवस्य मन्त्ररूपस्य मन्त्रव्याप्तिमजानताम् | कृतार्चनादिकां सर्वं व्यर्थं भवति शाम्भवि || ८४ || यन्त्रं मन्त्रमयं प्रोक्तं देवता मन्त्ररूपिणी | यन्त्रे सा पूजिता देवि सहसैव प्रसीदति || ८५ || कामक्रोधादिदोषोत्थसर्वदुःखनियन्त्रणात् | यन्त्रमित्याहुरेतस्मिन् देवः प्रीणाति पूजितः || ८६ || शरीरमिव जीवस्य दीपस्य स्नेहवत् प्रिये | सर्वेषामपि देवानां तथा यन्त्रं प्रतिष्ठितम् || ८७ || तस्माद् यन्त्रं लिखित्वा वा ध्यात्वा सावृतिकं शिवम् | ज्ञात्वा गुरुमुखात् सर्वं पूजयेद्विधिना प्रिये || ८८ || एकपीठे पृथक्पूजां विना यन्त्रं करोति यः | अङ्गाङ्गित्वं परित्यज्य देवताशापमाप्नुयात् || ८९ || एकपीठे कुलेशानि स्वे स्वे यन्त्रे पृथक्पृथक् | यजेदावरणोपेता देवतास्तद्विधानतः || ९० || आवाह्य देवतामेकां पूजयेदन्यदेवताम् | उभाभ्यां लभते पापं मन्त्री चञ्चलमानसः || ९१ || इत्यादिलक्षणं ज्ञात्वा गुरुतः शास्त्रतः प्रिये | विधिनाभ्यर्चयेत् सम्यग्देवता सुप्रसीदति || ९२ || षोडशैरुपचारैस्तु साङ्गं सावरणं शिवम् | पूजयेन्मूलमन्त्रेण गन्धपुष्पाक्षतादिभिः || ९३ || महाषोढोदिताशेषपरिवारांश्च शाम्भवि | प्रणवादिनमोऽन्तेन तत्तन्नाम्ना समर्चयेत् || ९४ || आगमोक्तेन मार्गेण तर्पयेदलिबिन्दुभिः | अङ्गुष्ठानामिकाभ्याञ्च नखे निःसृतमूर्ध्वतः | स्वपात्रस्पन्दनिस्यन्दं विधिवत् कुलनायिके || ९५ || सकृत्तर्पणमुत्सृज्य जप्त्वा मूलञ्च पादुकाम् | अन्तःशक्तिं समुत्थाप्य तर्पयेद्देहदेवताः || ९६ || अङ्गुष्ठो भैरवो देवो अनामा चण्डिका प्रिये | अनामाङ्गुष्ठयोगेन तर्पयेत् कुलसन्ततिम् || ९७ || अङ्गुष्ठानामिकाभ्याञ्च वश्यकर्मणि तर्पयेत् | तर्जन्यङ्गुष्ठयोगेन तर्पयेदभिचारके | कनिष्ठाङ्गुष्ठयोगेन स्तम्भने तर्पयेत् प्रिये || ९८ || एवं सन्तर्प्य देवेशि कुलद्रव्यैर्यथाविधि | देवतापुरतो देवि गुरुपङ्क्तीश्च पूजयेत् | पङ्क्तित्रयक्रमेणाथ ज्ञात्वा सम्यगनन्यधीः || ९९ || कराभ्यां चिन्मुद्रां समधुनृकपालञ्च दधतीं द्रुतस्वर्णप्रख्यामरुणकुसुमालेपवसनाम् | कृपापूर्णापाङ्गीमरुणनयनामम्बरजटा- मुपेतां सिद्धौघैर्यजतु गुरुपंक्तिं क्रमगतिम् || १०० || एवं संपूज्य धूपञ्च दीपं नैवेद्यमेव च | आसवं पिशितोपेतं भक्ष्याणि विविधानि च | कदल्यादिफलान्येव ताम्बूलञ्च समर्पयेत् || १०१ || इति ते कथितं देवि कुलाचारस्य लक्षणम् | द्गव्यसंस्कारशुद्ध्यादि किमन्यत् श्रोतुमिच्छसि || १०२ || || इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे द्रव्यसंस्कारविधानकथनं नाम षष्ठोल्लासः || ६ || अथ सप्तमोल्लासः श्रीदेव्युवाच कुलेश बटुकादीनां बलिञ्च शक्तिलक्षणम् | तदद्रव्यस्यैव स्वीकारं वद मे करुणानिधे || १ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | तस्य श्रवणमात्रेण तत्त्वज्ञानं प्रकाशते || २ || यावन्नो वटुके दद्यात्तावन्नैव कुलेश्वरि | तृप्यन्ति देवताः सर्वाः स्मरणाद् यजनादपि || ३ || वटुकादीन् यजेत्तस्माद् गन्धपुष्पासवामिषैः | तत्तन्मन्त्रविधानेन देवता प्रीतिमाप्नुयात् || ४ || यत्किञ्चिद्धव्यसंघातं पूजार्थं भोगहेतुना | आनीतं दीयते भक्त्या क्षेत्रपेभ्यः कुलेश्वरि || ५ || वटुकमन्त्रान् वक्ष्यामि शृणुष्व कुलनायिके | यैः समचीतमात्रेण सर्वे नश्यन्त्युपद्रवाः || ६ || तारत्रयं ततो देवीपुत्रेति बटुकेति वा | नाथेति कपिलजटाभारभास्वरपिङ्गल || ७ || त्रिनेत्रेति पदं पश्चाज्ज्वालामुखपदं ततः | इमां पूजां बलिं गृह्णद्वयं पावकवल्लभा | उक्तो वटुकमन्त्रोऽयं चतुश्चत्वारिंशदक्षरैः || ८ || बलिदानेन सन्तुष्टो बटुकः सर्वसिद्धिदः | शान्तिं करोतु मे नित्यं भूतवेतालसेवितः || ९ || तारत्रयं ततः सर्वयोगिनीभ्यः पदं वदेत् | तत्पश्चात् सवर्भूतेभ्यः सर्वभूताधिवत्ती च ||१०|| पदं ताभ्यो डाकिनीभ्यः शाकिनीभ्यः पदं वदेत् | त्रैलोक्येति पदं चैव वासिनीभ्य इमां वदेत् || ११ || पूजां बलिं गृह्णयुग्मं स्वाहान्तो योगिनीमनुः | कथितोऽयं महेशानि मन्त्रः पञ्चादशाक्षरः || १२ || या काचिद् योगिनी रौद्रा सौम्या घोरतरा परा | खेचरी भूचरी व्योमचरी प्रीतास्तु मे सदा || १३ || तारत्रयं वदेत् सर्वभूतेभ्यः सर्व एव हि | पश्चाद् भूतपतिभ्यो हृद्युक्तः सप्तदशाक्षरः || १४ || भूता ये विविधाकारा दिव्या भौमान्तरिक्षगाः | पातालसंस्था मे केविच्छिवयोगेन भाविताः || १५ || ध्रुवाद्याः सत्यसन्धाश्च इन्द्राद्याः स्वर्व्यवस्थिताः| तृप्यन्तु प्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् || १६ || तारत्रयं वदेद्देहियुग्मं देवीपदं वदेत् | पुत्राय बटुकनाथाय पश्चादुच्छिष्टहारिणे | सर्वविघ्नान् पदं पश्चात् नाशयद्वितयं तथा || १७ || गृह्णयुग्मं रुरुपदं क्षेत्रपालपदं ततः | सर्वोपचारसहितामिमां पूजां बलिं वदेत् | गृह्ण गृह्ण द्विठान्तोऽयं क्षेत्रपालमनुः प्रिये || १८ || चतुःषष्ट्यक्षरैः प्रोक्तः सर्वसिद्धिप्रदायकः | योऽस्मिन् क्षेत्रे निवासी च क्षेत्रपालस्य किङ्करः | प्रीतोऽयं बलिदानेन सर्वरक्षां करोतु मे || १९ || तारत्रयं वदेत्तारं श्रीप्रासादपरामनुः | ह्रां ह्रीं ह्रूञ्च युगञ्चादौ भैरवाधिष्ठिताय च || २० || अक्षोभ्यानन्दतः पश्चाद्धृदयाभीष्टदः परम् | सिद्धार्थपदमाभाष्य पश्चादवतरद्वयम् || २१ || क्षेत्रपालपदं पश्चात् महाशान्त पदं ततः | मातृपुत्रपदं पश्चात् कुलपुत्रपदं तथा || २२ || सिद्धिपुत्रपदं चास्मिन् स्थानाधिपपदं ततः | ग्रामाधिपतयेऽस्मिन् स्याद्देशाधिपतये ततः || २३ || वदेद् बटुकनाथेति देवीपुत्रपदं ततः | मेघनादपदं पश्चात् प्रचण्डोग्रपदं वदेत् || २४ || कपालीति पदं पश्चाद्भीषणेति पदं वदेत् | स्यात् सर्वविघ्नाधिपतये इमां पूजां बलिं वदेत् || २५ || गृह्ण गृह्ण कुरुद्वन्द्वं मम दूरययुग्मकम् | ज्वलयुक्प्रज्वलयुगं सर्वविघ्नानीतीरयेत् || २६ || नाशयद्वितयं क्षां क्षं पश्चाद् बुद्धिमितीरयेत् | क्षेत्रपालाय वौषट् ह्रूं षष्ट्युत्तरशताक्षरः || २७ || तारत्रयं वदेत् पश्चादमुक क्षेत्रपाल च | राजराजेश्वर इमां पूजां बलिमतः परम् | गृह्णयुग्मं द्विठान्तोऽयमष्टाविंशाक्षरो मनुः || २८ || अनेन बलिदानेन वटुवंशसमन्वितः | राजराजेश्वरो देवो मे प्रसीदतु सर्वदा || २९ || पश्चिमे वटुकं देवमुत्तरे योगिनीबलिम् | पूर्वे भूतबलिं दद्यात् क्षेत्रपालञ्च दक्षिणे | राजराजेश्वरं मध्ये पूजयेत् कुलनायिके || ३० || अङ्गुष्ठानामिकाभ्याञ्च बटुकस्य बलिः स्मृतः | तर्जनीमध्यमानामिकाङ्गुष्ठैर्योगिनीबलिः || ३१ || अङ्गुलीभिश्च सर्वाभिरुक्तो भूतबलिः प्रिये | अङ्गुष्ठतर्जनीभ्याञ्च क्षेत्रपालबलिर्भवेत् | अङ्गुष्ठमध्यमाभ्याञ्च राजराजेश्वरस्य च || ३२ || बटुकादीन् समर्च्यैवं कुलदीपान् प्रदर्शयेत् | ईषद्रक्तसुपिष्टेन चतुरङ्गुलिमानतः || ३३ || दीपान् डमरुकाकारान् त्रिकोणानतिशोभनान् | कर्षाज्यग्राहिणः कुर्ययान्नव सप्ताथ पञ्च वा || ३४ || अन्तस्तेजो बहिस्तेज एकीकृत्यामितप्रभान् | त्रिधा देव्युपरि भ्राम्य कुलदीपान् निवेदयेत् || ३५ || समस्तचक्रचक्रेशि देवेशि सकलात्मिके | आरात्रीकमिदं देवि गृहाण मम सिद्धये | कुलदीपान् प्रदर्श्याथ शक्तिपूजां समाचरेत् || ३६ || स्वशक्तिं वीरशक्तिं वा दीक्षितां गुरुमार्गतः | पाययित्वा चरेत् पानमिति शास्त्रस्य निश्चयः || ३७ || अदीक्षितां स्त्रियं कुर्यात् सद्यः संस्कारमम्बिके | मन्त्रदीक्षाविधानेन् शुद्धा भवति नान्यथा || ३८ || तस्मात् सुलक्षणां शक्तिं गन्धपुष्पाक्षतादिभिः | अभ्यर्च्य देवताबुद्ध्या भोगपात्रं निवेदयेत् || ३९ || तदन्ते कन्यकाश्चापि प्रमदाश्च मनोहराः | सम्पूज्य देवताबुद्ध्या दद्यात् पात्रं पृथक् पृथक् || ४० || अनिवेद्य तु यः शक्त्यै कुलद्रव्यं निषेवते | पूजितं निष्फलं तस्य देवता न प्रसीदति || ४१ || चण्डाली चर्मकारी च मातङ्गी पुक्कसी तथा | श्वपची खट्टकी चैव कैवर्त्ती विश्वयोषितः || ४२ || कुलाष्टकमिदं प्रोक्तमकुलाष्टकमुच्यते | कन्दुकी शौण्डिकी चैव शस्त्रजीवी च रञ्जकी || ४३ || गायकी रजकी शिल्पी कौलिकी च तथाष्टमी | तन्त्रमन्त्रसमायुक्ता समयाचारपालिका || ४४ || कुमारी च व्रतस्था च योगमुद्राधरापि वा | पूजाकाले स्वतः प्राप्ता सा ज्ञेया सहजा बुधैः || ४५ || उक्तजात्यङ्गनाभावे चातुर्वर्ण्याङ्गनां यजेत् | सुरूपा तरुणी शान्ता कुलाचारयुता शुचिः || ४६ || शङ्काहीना भक्तियुक्ता गूढा शास्त्रोपजीविनी | अलोलुपा सुशीला च स्मितास्या प्रियवादिनी || ४७ || गुरुदैवतसम्भक्ता सुचिता कौलिकप्रिया | विमत्सरा विशेषज्ञा देवताराधनोत्सुका | मनोहरा सदाचारा शक्तिरेषा सुलक्षणा || ४८ || दुष्टोग्रा कर्कशा क्रूरा दुःखिता कुलदूषणी | दुराचारा पराधीना भीता लुब्धातुराऽलसा || ४९ || निद्रासक्तातिदुर्म्मेधा हीनाङ्गी व्याधिपीडिता | दुर्गन्धा कुत्सिता मूढा वृद्धोन्मत्ता रहस्यभित् || ५० || कुतर्का कुत्सितालापा निर्लज्जा कलहप्रिया | विरूपोन्मार्गगा स्तब्धा पङ्ग्वन्धविकृतानना | ईदृशीं मन्त्रयुक्ताञ्च शक्तिं यागे विवर्जयेत् || ५१ || ततोऽर्चनादिकं सर्वं मन्त्रोदकपुरःसरम् | इतः पूर्वादिमनुना मन्त्री देव्यै समर्पयेत् || ५२ || तारत्रयमितः पूर्वं प्राणबुद्धी ततः परम् | देहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्तिषु || ५३ || मनसा चेतसा वाचा कर्मणा तत्परं वदेत् | हस्ताभ्याञ्च ततः पद्भयामुदरेण ततः परम् || ५४ || शिश्ना च यत् स्मृतं पश्चाद् यदुक्तं यत् कृतं वदेत् | तत् सर्वं गुरवे चान्ते मत्समपीतमस्त्विति | स्वाहान्तो मनुरित्युक्तस्त्रिसप्तत्यक्षरः प्रिये || ५५ || ज्ञानतोऽज्ञानतो वापि यन्मया क्रियते शिवे | तव कृत्यमिदं सर्वमिति ज्ञात्वा क्षमस्व मे || ५६ || एवं सम्प्रार्थ्य देवेशि स्तुत्वा नत्वा च भक्तितः | प्रधानदेवतामूर्त्तौ परिवारान् समर्चयेत् | एवं सावरणां देवीं चिन्तयेत् स्वहृदम्बुजे || ५७ || शेषिकाये समर्प्यात्ममूलमन्त्रेण शोधयेत् | स्याद्वाग्भवं हृदुच्छिष्टचाण्डालि तदनन्तरम् || ५८ || वदेन्मातङ्गि सर्वन्ते वश्यंकुरुयुगन्ततः | एकविंशतिवर्णैश्च शेषिकामनुरीरितः || ५९ || मन्त्रेणानेन निर्माल्यं शेषिकायै समर्पयेत् | देवीमुच्छिष्टमातङ्गीं ध्यायेत् त्रैलोक्यमोहिनीम् || ६० || वीणावाद्यविनोदगीतनिरतां नीलांशुकोल्लासिनीं बिम्बोष्ठीं नवयावकार्द्रचरणामाकीर्णकेशालकाम् | मृद्वङ्गीं सिंतशङ्खकुण्डलधरां माणिक्यभूषोज्ज्वलां मातङ्गीं प्रणतोऽस्मि सुस्मितमुखीं देवीं शुकश्यामलाम् ||६१| ततः श्रीगुरुरूपाय साक्षात् परशिवाय च | कराभ्यां पात्रमुद्धृत्य सद्वितीयं समर्पयेत् || ६२ || स्वसम्प्रदायसंयुक्तैर्वीरैश्च सह पूजयेत् | अन्योन्यवन्दनं कृत्वा पिबेत्तत्तदनुज्ञया || ६३ || सव्येनोद्धृत्य पात्रन्तु मुद्रां कृत्वाऽपसव्यतः | यथाविधि द्वितीयेन गृह्णीयान्मन्त्रमुच्चरन् || ६४ || पिशितं माषमात्रन्तु द्रव्यं चुल्लुकसम्मितम् | आत्मदेहत्रयं तत्त्वं त्रयेणाथ विशोधयेत् || ६५ || तरुणोल्लाससहितः प्रसन्नवदनेक्षणः | गुरुः शिष्यान् समाहूय दद्यात्तत्त्वत्रयं प्रिये || ६६ || शिष्योपायनमादाय शुद्धात्मा कुसुमादिकम् | यथाशक्ति निवेद्याथ वित्तशाठ्यविवजीतः || ६७ || प्रणम्य बहिरष्टाङ्गं प्रविश्यान्तः शनैः प्रिये | समर्प्योपायनं भक्त्या शिवाय गुरुरूपिणे || ६८ || ग्रथिताङ्गुष्ठकौ कृत्वा करौ सक्ताग्रतर्जनी | जानुभ्यामवनिं गत्वा पञ्चाङ्गं प्रणमेद् गुरुम् || ६९ || वामाऽङ्गुष्ठानामिकाभ्यां दक्षहस्तप्रसारितम् | स्पृष्ट्वा विशुद्धहृदय ईषदानतमस्तकः || ७० || वामाङ्गुष्ठानामिकाभ्यां शिष्याय श्रीगुरुः प्रिये | प्रकृत्याद्यैः पृथिव्यन्तैश्चतुवींशतिभिः प्रिये || ७१ || स्वरैरशुद्धतत्त्वैश्च वाग्भवेन कुलेश्वरि | संयुक्तेनात्मतत्त्वेन स्थूलदेहं विशोधयेत् || ७२ || मायादिपुरुषान्तैश्च शुद्धाशुद्धैश्च सप्तभिः | तत्त्वैः स्पर्शाह्वयैर्वर्णैः कामराजेन मन्त्रवित् | युक्तेन विद्यातत्त्वेन सूक्ष्मदेहं विशोधयेत् || ७३ || शुद्धैः शिवादिविद्यान्तैः पञ्चतत्त्वैश्च व्यापकैः | परया शिवतत्त्वेन परं देहं विशोधयेत् || ७४ || षट्त्रिंशत्तत्त्वसहितमालिन्या बालया प्रिये | सर्वतत्त्वाश्रयं बीजं सर्वतत्त्वैवीशोधयेत् || ७५ || शोधयेति पदं दद्यात् सद्वितीयमलिं गुरुः | चुल्लुकं गुरुणा दत्तं शोधयामीति चोच्चरन् | भक्त्या चावनतः शिष्यो निःशब्दं त्रिः पिबेदलिम् || ७६ || पाणिभ्यां संस्पृशेद्देहं सर्वतत्त्वं समुच्चरन् | शिरःप्रभृतिपादान्तं शुद्धं देहं विचिन्तयेत् || ७७ || स्थूलान्तमात्मतत्त्वं स्यात् सूक्ष्मं विद्यान्तगोचरम् | परान्तं शिवतत्त्वं स्यादिति तत्त्वत्रयं जगत् || ७८ || एवं तत्त्वत्रयज्ञानं गुरोर्ज्ञात्वा य आचरेत् | स जीवन्नेव मुक्तः स्यादिति शङ्करभाषितम् || ७९ || ततः स्वीकृत्य च गुरुः शिष्येभ्यः शेषदो भवेत् | आदाय गुरुणा दत्तं सद्वितीयासवं पिबेत् || ८० || श्रीगुरुज्येष्ठपूज्यानां पुरतः कुलनायिके | नोपविश्य पिबेन्मद्यं इति शास्त्रस्य निर्णयः || ८१ || प्राणभेदफलोल्लासप्रणामस्थितिलक्षणम् | अविज्ञायाचरेद् यस्तु स भवेदापदाम्पदम् || ८२ || निर्मन्त्रं न पिबेन्मद्यं प्रायश्चित्तं विधीयते | तस्मान्मन्त्रविधानेन कर्तव्यं कुलनायिके || ८३ || इदं पवित्रममृतं पिबामि भवभेषजम् | पशुपाशसमुच्छेदकारणं भैरवोदितम् || ८४ || चित्ते स्वातन्त्र्यसारत्वात्तदानन्दमयात्मनः | तन्मयत्वाच्च भावानां भावाश्चान्तहीता रसे || ८५ || सुषुम्नान्तं विकाशाय सुरसस्तेन पीयते | तस्मादिमां सुरां देवीं पूर्णोऽहं त्वां पिबाम्यहम् || ८६ || मन्त्रेणानेन देवेशि मूलमन्त्रेण मन्त्रवित् | अनाकुलमनाः कुर्यादलिपानं शनैः शनैः || ८७ || स्वात्ममूलत्रिकोणस्थे कोटिसूर्यसमप्रभे | कुण्डल्याकृतिचिद्रूपे हुनेद् द्रव्यं समन्त्रकम् || ८८ || महन्तापात्रभरितमिदन्तापरमामृतम् | पराहन्तामये वह्नौ होमस्वीकारलक्षणम् || ८९ || गुरुदैवतमन्त्राणामैक्यं सञ्चिन्तयेद्धिया | यावदुल्लासपर्यन्तमुपदेशे पिबेन्मधु || ९० || चुल्लनं सिद्धिदं प्रोक्तं दीपो ज्ञानप्रदायकः | पानात् परपदप्राप्तिः कौले त्रयमितीरितम् || ९१ || भोजनान्ते बिषं मद्यं मद्यान्ते भोजनं विषम् | अमृतं तद्विजानीयाद् यदन्नं सुरया सह || ९२ || चर्वणेन युतं पानममृतं कथितं प्रिये | चर्वणेन बिना पानं केवलं विषवर्द्धनं || ९३ || पानञ्च त्रिविधं प्रोक्तं दिव्यवीरपशुक्रमात् | दिव्यं देव्यग्रतः पानं वीरं मुद्रासने कृतम् || ९४ || स्वेच्छया पशुवत्पीतं पशुपानमितीरितम् || ९५ || भुक्तिमुक्तिप्रदं दिव्यं वीरं भुक्तिप्रदं भवेत् | पशुपानं नरकदं प्रोक्तं पानफलं प्रिये || ९६ || दृष्टिमानसवाक्काये यावन्नो भवति भ्रमः | तावत् पानं प्रकुर्वीत पशुपानमतः परम् || ९७ || यावन्नेन्द्रियवैकल्यं यावन्नो मुखवैकृतम् | तावदेव पिबेन्मद्यमन्यथा पतनं भवेत् || ९८ || पूर्णाभिषेकयुक्तानां पानं देवि निगद्यते | कराभ्यां पात्रमुद्धृत्य स्मरेन्मूलञ्च पादुकाम् | आगलान्तं पिबेद्द्रव्यं स मुक्तो नात्र संशयः || ९९ || पीत्वा पीत्वा पुनः पीत्वा यावत् पतति भूतले | उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते || १०० || आनन्दात्तृप्यते देवी मूर्च्छया भैरवः स्वयम् | वमनात् सर्वदेवाश्च तस्मात्रिविधमाचरेत् || १०१ || दिव्यपानरतानां वै यत् सुखं कुलयोगिनाम् | तत् सुखं सार्वभौमस्य नृपस्यापि न विद्यते || १०२ || यत् सुखं कुलनिष्ठानां कुलद्रव्यनिषेवनात् | तत् सौख्यमेव मोक्षः स्यात् सत्यमेव वरानने || १०३ || इति ते कथितं किञ्चित् वटुशक्त्यादिपूजनम् | समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि || १०४ || || इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे बटुकशक्त्यादिपूजनं नाम सप्तमोल्लासः || ७ || अथाष्टमोल्लासः श्रीदेव्युवाच कुलेश श्रोतुमिच्छामि करुणामृतवारिधे | उल्लासभेदं देवेश द्रव्यपात्रादिसङ्गमम् || १ || रत्युद्वासनकालञ्च श्रीचक्रस्थितिमेव च | चेष्टां कौलिकशक्तीनां वद मे परमेश्वर || २ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | तस्य श्रवणमात्रेण जायते दिव्यभावना || ३ || आरम्भस्तरुणश्चैव यौवनं प्रौढमेव च | तदन्तश्चोन्मनाश्चैव ततोल्लासश्च सप्तमः || ४ || तत्त्वत्रयं स्यादारम्भः कथितः कुलनायिके | कथितस्तरुणोल्लासस्तरुणं सुखमम्बिके || ५ || यौवनं मनसः सम्यगुल्लासः सुस्थितिः प्रिये | स्खलनं दृङ्मनोवाचां प्रौढमित्यभिधीयते || ६ || समुल्लासपरे चक्रे य इच्छेत् पात्रमेलनम् | अर्वाक् प्रौढसमुल्लासं नैव कुर्यात् कदाचन | यथाधिकारं तत्रापि कर्त्तव्यं पात्रमेलनम् || ७ || अदीक्षितैरनाचारैरतन्त्रज्ञदैवतैः | दूषकैः समयभ्रष्टैर्न कुर्याद् द्रव्यसङ्गतिम् || ८ || अभिज्ञं मन्यमानैश्च प्रपञ्चव्रतधारिभिः | पशुभिः क्षुद्रकर्मस्थैर्न कुर्याद् द्रव्यसङ्गतिम् || ९ || स्त्रीद्विष्टैर्गुरुभिः शप्तैर्भक्तिहीनैर्दुरात्मभिः | कुलोपदेशहीनैश्च न कुर्याद् द्रव्यसङ्गतिम् || १० || पदवाक्यप्रमाणज्ञाः श्रुतिस्मृत्यर्थवेदिनः | कुलधर्मानभिज्ञाश्चेत्तत्सङ्गं परिवर्जयेत् || ११ || सत्कुले च प्रसूता वा वृद्धाश्चाचारवत्तीनः | त्वत्पूजाविमुखाः स्युश्चेत्तत्संसर्गं परित्यजेत् || १२ || स्त्रीपुत्रमित्रबन्धूनां स्निग्धानामपि पार्वति | कुलाचारानभिज्ञानां सङ्गतिं वर्जयेत्प्रिये || १३ || अदृष्टपौरुषाणाञ्च देशान्तरनिवासिनाम् | विना सङ्केतयोगेन न कुर्याद् द्रव्यसङ्गतिम् || १४ || एकपात्रं न कुर्वीत यदि साक्षात् कुलेश्वरः | मन्त्राः पराङ्मुखा यान्ति विघ्नश्चैव पदे पदे || १५ || स्वपात्रस्थितहेतुञ्च न दद्याद्भैरवाय च | यदि दद्यात्कुलेशानि देवताशापमाप्नुयात् || १६ || आसनं भोजनं पात्रमम्बरं शयनादिकम् | अनभिज्ञैरनर्हैश्च सङ्गमं नैव कारयेत् || १७ || स्रोतोभेदेन वा कुर्यात्कौलिकः पात्रमेलनम् | पूर्वदक्षिणयोरैक्यमुदक्पश्चिमयोस्तथा || १८ || तस्मिन् क्रमार्चनपरैर्वीरैः स्वसदृशैरपि | कामिनीभिश्च तत्कुर्यात् स्रोतसाञ्च चतुष्टये || १९ || योगिभिर्योगिनीभिश्च प्रदत्तं पूर्णपात्रकम् | स्वमातृपादुकामूलमन्त्रजप्तं पिबेत्प्रिये || २० || क्वचित् यदृच्छया प्राप्तमलिपात्रन्तु भक्तितः | आदाय पूर्ववज्जप्त्वा पिबेद्देवि गुरुं स्मरन् || २१ || गुरुशक्तिसुतानाञ्च गुरुज्येष्ठकनिष्ठयोः | स्वज्येष्ठस्यापि चोच्छिष्टं खादेन्नान्यस्य पार्वति || २२ || शक्त्युच्छिष्टं पिबेद् द्रव्यं वीरोच्छिष्टञ्च चर्वणम् | आत्मोच्छिष्टं न दातव्यं परकीयं न भक्षयेत् || २३ || उच्छिष्टं भक्षयेत् स्त्रीणां ताभ्यो नोच्छिष्टमर्पयेत् | चक्रमध्येऽपि देवेशि अन्यथा पतनं भवेत् || २४ || कनिष्ठानां स्वशिष्याणां दद्यादुच्छिष्टमम्बिके | दद्यात् स्नेहेन योऽन्येभ्यः स भवेदापदाम्पदम् || २५ || आसवोच्छिष्टपात्रन्तु यो वा गृह्णति मोहतः | स्नेहाल्लोभात् भयाद्वापि देवताशापमाप्नुयात् || २६ || प्रौढोल्लासे कुलेशानि कुर्याद्बलिविसर्जनम् | पूजागृहाद्बहिः कुर्यात्त्रिकोणे तु गृहान्तरे || २७ || गन्धपुष्पाक्षतैः पूज्य ध्यायेदुच्छिष्टभैरवम् | गदात्रिशूलडमरुपात्रहस्तं त्रिलोचनम् | कृष्णाभं भैरवं ध्यायेत् सर्वविघ्ननिवारणम् || २८ || तारत्रयं समुच्चार्यं पश्चादुच्छिष्टभैरवम् | एहियुग्मं बलिं गृह्णयुग्मं फट् च द्विठान्तकः || २९ || बल्युद्वासनमन्त्रोऽयं द्वाविंशतिभिरक्षरैः | शान्तिस्तवं पठेत्पश्चात्तर्पयेदलिबिन्दुभिः || ३० || यजन्ति देव्यो हरपादपङ्कजम् प्रसन्नधामामृतमोक्षदायकम् | अनन्तसिद्धान्तमयप्रबोधकं नमामि चाष्टाष्टकयोगिनीगणम् || ३१ || योगिनीचक्रमध्यस्थं मातृमण्डलवेष्टितम् | नमामि शिरसा नाथं भैरवं भैरवीप्रियम् || ३२ || अनादिघोरसंसारध्वान्तैकध्वंसकारिणे | नमः श्रीनाथवैद्याय कुलौषधिविधायिने || ३३ || आपदो दुरितं रोगाः समयाचारलंघनात् | ये ते सर्वे व्यपोहन्तु दिव्यचक्रस्य मेलनात् || ३४ || आयुरारोग्यमैश्वर्यं कीत्तीर्लाभः सुखं जयः | कान्तिर्मनोहरा चास्तु पान्तु सर्वाश्च देवताः || ३५ || सम्पूजकानां प्रतिपालकानां यतीन्द्रयोगीन्द्रतपोधनानाम् | देशस्य राष्ट्रस्य कुलस्य राज्ञः करोतु शान्ति भगवान् कुलेशः || ३६ || नन्दन्तु साधककुलाद्वयदर्शका ये सिंहासनाद्युषितशाक्तमहान्वया ये | नन्दन्तु सर्वकुलकौलरताः परे ये चान्ये विशेषपदभेदकशाम्भवा ये || ३७ || नन्दन्तु सिद्धगुरवस्तदनुक्रमज्ञा ज्येष्ठान्वया समयिनो वटुकाः कुमार्यः | ये योगिनीप्रवरवीरकुले प्रसूता नन्दन्तु भूमिपतिगोद्विजसाधुलोकाः || ३८ || नन्दन्तु नीतिनिपुणा निरवद्यनिष्टा निर्मत्सरा निरुपमा निरुपद्रवाश्च | नित्यं निरञ्जनरता गुरवो निरीहाः शान्ताश्च शान्तमनसो हृतशोकशङ्काः || ३९ || नन्दन्तु योगनिरताः कुलयोगयुक्ता ह्याचार्यसामयिकसाधकपुत्रकाश्च | गावो द्विजा युवतयो यतयः कुमार्यो धर्मे चरन्तु निरता गुरुभक्तलोकाः || ४० || नन्दन्तु साधककुला ह्यलमात्मनिष्ठाः शापाः पतन्तु समयद्विषि योगिनीनाम् | सा शाम्भवी स्फुरतु कापिं समाप्यवस्था यस्यां गुरोश्चरणपङ्कजमेव सत्यम् || ४१ || याश्चक्रक्रमभूमिकावसतयो नाडीषु याः संस्थिता याः कायोद्गतरोमकूपनिलया याः संस्थिता धातुषु | उच्छ्वासोमीमरुत्तरङ्गनिलया निश्वासवासाश्च या- स्ता देव्यो रिपुपक्षभक्षणरता नन्दन्तु कौलाचीताः || ४२ || या देव्यः कुलसम्भवाः क्षितिगता या देवतास्तोयगा या नित्यं प्रथितप्रभाः शिखिगता या मातरिश्वालयाः | या व्योमाहितमण्डलामृतमया याः सर्वगाः सर्वदा- स्ताः सर्वाः कुलमार्गपालनपराः शान्ति प्रयच्छन्तु मे ||४३ || ऊर्ध्वे ब्रह्माण्डतो वा दिवि गगनतले भूतले वा तले वा पाताले वानले वा सलिलपवनयोर्यत्र कुत्र स्थिता वा | क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिकेन प्रीता देव्यः सदा नः शुभबलिविधिना पान्तु वीरेन्द्रवन्द्याः ||४४ ब्रह्मा श्रीः शेषदुर्गागुहवटुकगणा भैरवाः क्षेत्रपाद्या वेतालादित्यरुद्रग्रहवसुमनुसिद्धाप्सरोगुह्यकाद्याः | भूता गन्धर्वविद्याधरऋषिपितृयक्षासुराः किन्नराद्या योगीशाश्चारणाः किम्पुरुषमुनिवराश्चक्रगाः पान्तु सर्वे ||४५| देहस्थाखिलदेवता गजमुखाः क्षेत्राधिपा भैरवा योगिन्यो वटुकाश्च यक्षपितरो भूताः पिशाचा ग्रहाः | अन्ये भूचरखेचरा दिशिचरा वेतालकाश्चेटका- स्तृप्यन्तां कुलपुत्रकस्य पिबतः पानं सदीपञ्चरुम् || ४६ || सत्यञ्चेद् गुरुवाक्यमेव पितरो देवाश्च चेद् योगिनी प्रीता चेत् परदेवता यदि भवेद्वेदाः प्रमाणं हि चेत् | शाक्तेयं यदि दर्शनं भवति चेदाज्ञाप्यमोघापि चेत् सत्यञ्चापि च कौलधर्मपरमं स्यान्मे जयः सर्वदा || ४७ || नन्दन्तु साधकाः सर्वे नश्यन्तु कुलदूषकाः | अन्तःस्था शाम्भवी मेऽस्तु प्रसन्नोऽस्तु गुरुः सदा || ४८ || यद्येषा भैरवी देवी यदि भैरवशासनम् | यद्येष कुलधर्मः स्यात्तदा नश्यन्तु दूषकाः || ४९ || यासामाज्ञाप्रभावेण स्थापितं भुवनत्रयम् | नमस्ताभ्यः समस्ताभ्यो योगिनीभ्यो निरन्तरम् || ५० || पिबन्तु मातरः सर्वाः पिबन्तु कुलसत्तमाः | पिबन्तु भैरवाः सर्वे मम देहे व्यवस्थिताः || ५१ || तृप्यन्तु मातरः सर्वाः समुद्राः सगणाधिपाः | योगिन्यः क्षेत्रपालाश्च मम देहे व्यवस्थिताः || ५२ || शिवाद्यवनिपर्यन्तं ब्रह्मादिस्तम्बसंयुतम् | कालाग्न्यादिशिवान्तञ्च जगद् यज्ञेन तृप्यतु || ५३ || द्वारस्था मणिमण्डपस्य परितः श्रीनन्दने कानने शून्यागारविहारकन्दरमठे व्योम्नि श्मशाने स्थिताः | कूपस्थानगताश्चतुष्पथगताः सन्देशसंस्थाश्च ये पङ्कार्थावहकेतुमानकुसुमात् गृह्णन्तु ते पान्तु च || ५४ || पठित्वाभ्यर्चनापात्रं समुद्धृत्य गुरुः प्रिये | ततो दद्यात् स्वशिष्याय प्रसादं कुलनायिके || ५५ || स्वाभीष्टचेष्टाचरणं प्रौढान्तः परिकीत्तीतः | प्रौढान्तोल्लासिताद्देवि मुदिते योगिमण्डले | योगिनीमण्डले चैव क्रमादानन्दमुच्यते || ५६ || तदारूढेषु वीरेषु कार्याकार्यं न विद्यते | इच्छैव शास्त्रसम्पत्तिरित्याज्ञा परमेश्वरि || ५७ || तत्र यद् यत् कृतं कर्म शुभं वा यदि वाऽशुभम् | तत्सर्वं देवताप्रीत्यै जायते सुरसुन्दरि || ५८ || जल्पो जपफलं तन्द्रा समाधिरभिजायते | विक्रिया पूजनं देवि उदितं भैरवीबलिः || ५९ || मुक्तिः स्याच्छक्तिसंयोगः स्तोत्रं तत्कालभाषितम् | न्यासोऽवयवसंस्पर्शो भोजनं हवनक्रिया || ६० || वीक्षणं ध्यानमीशानि शयनं वन्दनं भवेत् | तदुल्लासे कृता नाना या चेष्टा सा च सत्क्रिया | कार्याकार्यविचारन्तु यः करोति स पातकी || ६१ || एतच्चक्रगता वीरा विज्ञेयाः परयोगिनः | येनाप्नुवन्ति मनुजाः साक्षाद्भैरवरूपताम् || ६२ || सम्मोदः परमानन्दः पतनं ज्ञानवर्द्धनम् | वेणुवीणादिवाद्यञ्च कवितारचनादिकम् || ६३ || रोदनं भाषणं पातः समुत्थानं विजृम्भनम् | गमनं विक्रिया देवि योग इत्यभिधीयते || ६४ || चक्रेऽस्मिन् योगिनो वीरा योगिन्यो मदमन्थराः | समाचरन्ति देवेशि यथोल्लासं मनोगतम् || ६५ || शनैः पृच्छन्ति पार्श्वस्थान् विस्मृत्यात्मविवक्षितम् | निधाय वदने पात्रं निवीण्णा निवसन्ति च || ६६ || मत्ता स्वपुरुषं मत्वा कान्तान्यमवलम्बते | तथैव पुरुषश्चापि प्रौढान्तोल्लाससंयुतः || ६७ || पुरुषः पुरुषं मोहादालिङ्गत्यनाङ्गनाम् | पृच्छति स्वपतिं मुग्धा कस्त्वं काहम् इमे च के || ६८ || किं कार्यं वयमायातः किमर्थमिह संस्थिताः | उद्यानं किमिदं हन्त गृहं किं प्राङ्गणं किमु || ६९ || मुखे आपूर्य मदिरां पाययन्ति स्त्रियः प्रियान् | उपदंशं मुखे क्षिप्त्वा निक्षिपन्ति प्रियानने || ७० || गृह्णन्त्यन्योन्यपात्राणि व्यञ्जनानि च शाम्भवि | धृत्वा शिरसि नृत्यन्ति मद्यभाण्डानि योगिनः || ७१ || अज्ञानकरतालान्तमस्पष्टाक्षरगीतकम् | प्रस्खलत्पदविन्यासं नृत्यन्ति कुलशक्तयः || ७२ || योगिनो मदमत्ताश्च पतन्ति प्रमदोरसि | मदाकुलाश्च योगिन्यः पतन्ति पुरुषोपरि || ७३ || मनोरथसुखं पूर्णं कुर्वन्ति च परस्परम् | इत्यादिविविधां चेष्टां कुर्वन्ति कुलनायिके || ७४ || विकृतिं मनसो हित्वा यदोल्लासः प्रवर्त्तते | तदा तु देवताभावं भजन्ते योगिपुङ्गवाः || ७५ || कौलिकान् भैरवावेशान् यो वा निन्दति मूढधीः | तं नाशयन्त्यसन्देहं योगिन्यः कुलनायिके || ७६ || न निन्देन्न हसेत् क्वापि चक्रे मधुमदालसान् | एतच्चक्रगतां वार्त्तां बहिर्नैव प्रकाशयेत् || ७७ || तेभ्यो द्रोहं न कुर्वीत नाहितञ्च समाचरेत् | भक्त्या सत्कारयेदेतान् गोपयेच्च प्रयत्नतः || ७८ || चक्रे मदाकुलान् दृष्ट्वा चिन्तयेद्देवताधिया | मोदते वन्दते भक्त्या स गच्छेत् योगिनीपदम् || ७९ || पश्यतेदेवम्विधं चक्रं यो भक्त्या कौलिकः प्रिये | व्रततीर्थतपोदानयज्ञकोटिफलं लभेत् || ८० || उन्मनाः पतनोत्थाने मूर्च्छना च मुहुर्मुहुः | उन्मनाख्यतदुल्लासे चक्रे वीरसमचीते || ८१ || चिरं संविदधाते तौ यौ हि कर्मपराक्षरौ | परं ब्रह्मानुसन्धानाकाङ्क्षिणौ कुलनायिके || ८२ || देहेन्द्रियाणामवशः समवस्था निगद्यते | समवस्थामिधे तस्मिन् ततोल्लासे समं भवेत् || ८३ || परामन्त्रस्वरूपोऽसौ जायते मूर्च्छना परा | मूर्च्छनासन्निकर्षो हि मूलमुक्तेः परं विदुः || ८४ || अन्तर्लक्ष्यो बहिर्दृष्टिनीमेषोन्मेषवजीतः | एषा तु शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता || ८५ || सर्वोत्तीर्णा सदाऽहन्ता सामरस्यसमाकृतिः | अनयोल्लासिनो वीराः शिवा एव न संशयः || ८६ || नराः किमपि जानन्ति स्वात्मध्यानपरायणाः | तदा यत्परमं सौख्यमिति वक्तुं न शक्यते || ८७ || स्वयमेवानुभूयन्ते शर्कराः क्षीरपानवत् | ईदृशं तादृशं सौख्यमिति वक्तुं न शक्यते | दृश्यते पुलकाद्येर्यत् तद्ब्रह्मध्यानमुच्यते || ८८ || यत्सुखं विद्यते ध्याने देवावेशकरं परम् | कथितुं नैव शक्नोमि प्रबुद्धस्तत्समाहितः || ८९ || ब्रह्मध्यानपरानन्दपराः सुकृतिनो नराः | क्षणेऽप्यन्तहीते तस्मिन् शोचयन्ति हतप्रभाः || ९० || सप्तमोल्लासयुक्तानां त्वद्भक्तानां महाफलम् | अष्टौ त्रिकालज्ञानोत्थाः प्रत्ययाश्च कुलेश्वरि | अष्टावस्थाश्च कम्पाद्या जायन्ते नात्र संशयः || ९१ || बहुनात्र किमुक्तेन अणिमाद्यष्टसिद्धयः | प्रतीहारि पदं प्राप्ताः सेवन्ते मन्दिरं चिरम् || ९२ || ये गुणाः परमेशस्य पञ्चवक्त्रतनोः शुभाः | ते गुणाः कुलतत्त्वज्ञे तत्त्वज्ञानसमाहृताः || ९३ || आरम्भस्तरुणश्चैव यौवनं प्रौढमेव च | तदन्तो जाग्रदित्युक्तश्चोन्मनाः स्वप्न उच्यते || ९४ || समवस्था सुषुप्तिः स्यादवस्थात्रयसंयुता | सप्तोल्लासञ्च यो वेत्ति स मुक्तः स च कौलिकः || ९५ || प्रवृत्ते भैरवीचक्रे सर्वे वर्णा द्विजातयः | निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक् || ९६ || स्त्री वाथ पुरुषः षण्डश्चण्डालो वा द्विजोत्तमः | चक्रेऽस्मिन्नैव भेदोऽस्ति सर्वे शिवसमाः स्मृताः || ९७ || नागरि निर्झ्रराद्यम्बु गङ्गां प्राप्य यथैकताम् | याति श्रीचक्रमध्येऽपि चैकत्वं सर्वमानवाः || ९८ || क्षीरेण सहितं तोयं क्षीरमेव यथा भवेत् | तथा श्रीचक्रमध्ये तु जातिभेदो न विद्यते || ९९ || स्वर्गादिपुण्यलोकेषु देवादन्यद् यथा नहि | तथैव चक्रमध्येऽपि देवताः सर्वमानवाः || १०० || जातिभेदो न चक्रेऽस्मिन् सर्वे शिवसमाः स्मृताः | वेदेऽपि स्थितमेवं हि सर्वे हि ब्रह्म चाब्रवीत् || १०१ || बहुनात्र किमुक्तेन चक्रमध्ये कुलेश्वरि | मद्रूपा पुरुषाः सर्वे त्वद्रूपाः प्रमदाः प्रिये || १०२ || चक्रमध्ये तु मूढात्मा जातिभेदं करोति यः | तं भक्षयन्ति योगिन्यस्त्वां शपे कुलनायिके || १०३ || स्त्रीणामन्यतमं स्थानं पुंसामन्यतमं पृथक् | अथवा मिथुनं कृत्वा क्रमात्समुपवेशयेत् || १०४ || पङ्क्त्याकारेण वा सम्यक् चक्राकारेण वा प्रिये | शिवशक्तिधिया सर्वे चक्रमध्ये समर्चयेत् || १०५ || अविभक्तौ यथा आवां लक्ष्मीनारायणौ यथा | यथा वाणीविधातारौ तथा वीरः सशक्तिकः || १०६ || मधुकुम्भसहस्रैस्तु मांसभारशतैरपि | न तुष्यामि वरारोहे भगलिङ्गामृतं विना || १०७ || न चक्राङ्कं न पद्माङ्कं न व्रजाङ्कमिदं जगत् | लिङ्गाङ्कञ्च भगाङ्कञ्च तस्माच्छक्तिशिवात्मकम् || १०८ || शिवशक्तिसमायोगो यस्मिन् काले प्रजायते | सा सन्ध्या कुलनिष्ठानां समाधिः स विधीयते || १०९ || कामुको न स्त्रियं गच्छेद् यदीच्छन्तीमदीक्षिताम् | सद्यः संस्कारसंशुद्धां विहितत्वात् स्त्रियं व्रजेत् || ११० || इति तत्त्वत्रयोल्लासपानभेदादि चोदितम् | समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि || १११ || || इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे तत्त्वत्रितयपानादिभेदकथनं नाम अष्टमोल्लासः || ८ || अथ नवमोल्लासः श्री देव्युवाच कुलेश श्रोतुमिच्छामि योगं योगीशलक्षणम् | कुलभक्त्यार्चनफलं वद मे करुणानिधे || १ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | तस्य श्रवणमात्रेण योगः साक्षात् प्रकाशते || २ || ध्यानन्तु द्विविधं प्रोक्तं स्थूलसूक्ष्मप्रभेदतः | साकारं स्थूलमित्याहुनिराकारन्तु सूक्ष्मकम् || ३ || स्थिरार्थमनसः केचित् स्थूलध्यानं प्रचक्षते | स्थूलेऽपि निश्चलं चेतो भवेत् सूक्ष्मेऽपि निश्चलम् || ४ || करपादोदरास्यादिरहितं परमेश्वरम् | सर्वतेजोमयं ध्यायेत् सच्चिदानन्दनिष्कलम् || ५ || नोदेति नास्तमभ्येति न वृद्धिं याति न क्षयम् | स्वयं विभात्यथान्यानि भासयन् साधनं विना || ६ || अनन्तं गतभारूपं सत्तामात्रमगोचरम् | मनसा मात्रसम्वेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् || ७ || प्रणष्टवायुसञ्चारः पाषाण इव निश्चलः | परजीवैकधामज्ञो योगी योगविदुच्यते || ८ || यदत्र नात्र निर्भासः स्तिमितोदधिवत् स्थितम् | स्वरूपशून्यं तद्ध्यानं समाधिरभिधीयते || ९ || न किञ्चिच्चिन्तनादेव स्वयं तत्त्वं प्रकाशते | स्वयं प्रकाशिते तत्त्वे तत्क्षणात्तन्मयो भवेत् || १० || स्वप्नजाग्रदवस्थायां सुप्तवत् योऽवतिष्ठते | निश्वासोच्छ्वासहीनश्च निश्चितं मुक्त एव सः || ११ || निष्पन्दकरणग्रामः स्वात्मलीनमनोऽनिलः | य आस्ते मृतवत्साक्षात् जीवन्मुक्तः स उच्यते || १२ || न शृणोति न चाघ्राति न स्पृशति न पश्यति | न जानाति सुखं दुःखं न सङ्कल्पयते मनः || १३ || न चापि किञ्चिज्जानाति न च बुध्यति काष्ठवत् | एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते || १४ || यथा जले जलं क्षिप्तं क्षीरे क्षीरं घृते घृतम् | अविशेषो भवेत्तद्वज्जीवात्मपरमात्मनोः || १५ || यथा ध्यानस्य सामर्थ्यात् कीटोऽपि भ्रमरायते | तथा समाधिसामर्थ्याद् ब्रह्मभूतो भवेन्नरः || १६ || क्षीरोद्धृतं घृतं यद्वत्तत्र क्षिप्तं न पूर्ववत् | पृथक्कृतो गुणेभ्यः स्यादात्मा तद्वदिहोच्यते || १७ || यथा गाढान्धकारस्थो न किञ्चिदिह पश्यति | अलक्ष्यञ्च तथा योगी प्रपञ्चं नैव पश्यति || १८ || यथा निमीलने काले प्रपञ्चं नैव पश्यति | तथैवोन्मीलनेऽपि स्यादेतद्ध्यानस्य लक्षणम् || १९ || जनः स्वदेहकण्डूतिं विजानाति यथा तथा | परं ब्रह्मस्वरूपी च वेत्ति विश्वविचेष्टितम् || २० || विदिते परमे तत्त्वे वर्णातीते ह्यविक्रिये | किङ्करत्वं हि गच्छन्ति मन्त्रा मन्त्राधिपैः सह || २१ || आत्मैकभावनिष्ठस्य या या चेष्टा तदर्चनम् | यो यो जल्पः स सन्मन्त्रस्तद्ध्यानं यन्निरीक्षणम् || २२ || देहाभिमाने गलिते विज्ञाते परमात्मनि | यत्र यत्र मनो याति तत्र तत्र समाधयः || २३ || भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः | क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परात्मनि || २४ || योगीन्द्रेण यदा प्राप्तं निर्मलं परमं पदम् | देवासुरपदं यत्तत्प्राप्तञ्चापि न गृह्यते || २५ || यः पश्येत् सर्वगं शान्तमानन्दात्मकमव्ययम् | तस्य किञ्चिदनालभ्यं ज्ञातव्यं नावशिष्यते || २६ || सम्प्राप्ते ज्ञानविज्ञाने ज्ञेये च हृदि संस्थिते | लब्धे शान्तिपदे देवि न योगो नैव धारणा || २७ || परे ब्रह्मणि विज्ञाते समस्तैनीयमैरलम् | तालवृन्तेन किं कार्यं लब्धे मलयमारुते || २८ || आसिकाबन्धनं नास्ति नासिकाबन्धनं न हि | न यमो नियमो नास्ति स्वयमोमिति पश्यताम् || २९ || न पद्मासनतो योगो न नासाग्रनिरीक्षणम् | एक्यं जीवात्मनोराहुर्योगं योगविशारदाः || ३० || ध्यायतां क्षणमात्रं हि श्रद्धया परमन्त्विह | यद्भवेत् सुमहत् पुण्यं तस्यान्तो नैव गण्यते || ३१ || क्षणं ब्रह्माहमस्मीति यः कुर्यादात्मचिन्तनम् | स सर्वं पातकं हन्यात्तमः सूर्योदयो यथा || ३२ || व्रतक्रतुतपस्तीर्थदानदेवार्चनादिषु | यत् फलं कोटिगुणितं तदवाप्नोति तत्त्ववित् || ३३ || उत्तमा सहजावस्था मध्यमा ध्यानधारणा | जपस्तुतिः स्यादधमा होमपूजाऽधमाधमा || ३४ || उत्तमा तत्त्वचिन्ता स्याज्जपचिन्ता तु मध्यमा | शास्त्रचिन्ताऽधमा ज्ञेया लोकचिन्ताऽधमाधमा || ३५ || पूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः | जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः || ३६ || न हि ध्यानात् परो मन्त्रो न देवस्त्वात्मनः परः | नानुसन्धात् परा पूजा न हि तृप्तेः परं फलम् || ३७ || अक्रियैव परा पूजा मौनमेव परो जपः | अचिन्तेव परं ध्यानमनिच्छैव परं फलम् || ३८ || मन्त्रोदकैवीना सन्ध्यां पूजाहोमैवीना तपः | उपचारैवीना पूजां योगी नित्यं समाचरेत् || ३९ || निःसङ्गश्च विसङ्गश्च निस्तीर्णोपाधिवासनः | निजस्वरूपनिर्मग्नः स योगी परतत्त्ववित् || ४० || देहो देवालयो देवि जीवो देवः सदाशिवः | त्यजेदज्ञाननिर्माल्यं सोऽहम्भावेन पूजयेत् || ४१ || जीवः शिवः शिवो जीवः स जीवः केवलः शिवः | पाशबद्धः स्मृतो जीवः पाशमुक्तः सदाशिवः || ४२ || तुषेण बद्धो व्रीहिः स्यात्तुषाभावे हि तण्डुलः | कर्मबद्धः स्मृतो जीवः कर्ममुक्तः सदाशिवः || ४३ || अग्नी तिष्ठति विप्राणां हृदि देवो मनीषिणाम् | प्रतिमास्वप्रबुद्धानां सर्वत्र विदितात्मनाम् || ४४ || यो निन्दास्तुतिशीतोष्णसुखदुःखारिबन्धुषु | सम आस्ते स योगीन्द्रो हर्षाहर्षविवजीतः || ४५ || निस्पृहो नित्यसन्तुष्टः समदर्शी जितेन्द्रियः | आस्ते देहे प्रवासीव योगी परमतत्त्ववित् || ४६ || निःसङ्कल्पो निवीकल्पो निलीप्तोपाधिवासनः | निजस्वरूपनिर्मग्नः स योगी परतत्त्ववित् || ४७ || यथा पङ्ग्वन्धबधिरक्लीबोन्मत्तजडादयः | निवसन्ति कुलेशानि तथा योगी च तत्त्ववित् || ४८ || पञ्चमुद्रासमुत्पन्नपरमानन्दनिर्भरः | य आस्ते स तु योगीन्द्रः पश्यत्यात्मानमात्मनि || ४९ || अलिमांसाङ्गनासङ्गे यत् सुखं जायते प्रिये | तदेव मोक्षो विदुषामबुधानान्तु पातकम् || ५० || सदा मांसासवोल्लासी सदा चरणचिन्तकः | सदासंशयहीनो यः कुलयोगी स उच्यते || ५१ || पिबन्मद्यं पलं खादन् स्वेच्छाचारपरायणः | अहं तदनयोरैक्यं भावयन्निवसेत् सुखी || ५२ || आमिषासवसौरभ्यहीनं यस्य मुखं भवेत् | प्रायश्चित्ती स वर्ज्यश्च पशुरेव न संशयः || ५३ || यावदासवगन्धः स्यात् पशुः पशुपतिः स्वयम् | विनालिमांसगन्धेन साक्षात् पशुपतिः पशुः || ५४ || लोके निकृष्टमुत्कृष्टं लोकोत्कृष्टं निकृष्टकम् | कुलमार्ग समुद्दिष्टं भैरवेण महात्मना || ५५ || अनाचारः सदाचारस्त्वकार्य कार्यमुत्तमम् | असत्यमपि सत्यं स्यात् कौलिकानां कुलेश्वरि || ५६ || अपेयमपि पेयं स्यादभक्ष्यं भक्ष्यमेव च | अगम्यमपि गम्यं स्यात् कौलिकानां कुलेश्वरि || ५७ || न विधिर्न निषेधः स्यान्न पुण्यं न च पातकम् | न स्वर्गो नैव नरकं कौलिकानां कुलेश्वरि || ५८ || अनभिज्ञा अभिज्ञन्ति दरिद्रा धनयन्ति च | विनष्टा अपि वर्द्धन्ते कौलिकाः कुलनायिके || ५९ || रिपवश्चापि मित्रन्ति साक्षाद्दासन्ति भूमिपाः | बान्धवन्ति जनाः सर्वे कौलिकानां कुलेश्वरि || ६० || विमुखाः सुमुखाः सर्वे गवीताः प्रणयन्ति च | बाधकाः साधकायन्ते कौलिकानां कुलेश्वरि || ६१ || निर्गुणाः सगुणायन्ते अकुलं सुकुलायते | अधर्माश्चापि धर्मन्ति कौलिकानां कुलेश्वरि || ६२ || मृत्युर्वैद्यायते देवि साक्षात् स्वर्गायते गृहम् | पुण्यायन्तेऽङ्गनासङ्गाः कौलिकानां कुलेश्वरि || ६३ || बहुनात्र किमुक्तेन कुलयोगीश्वराः प्रिये | सदा सङ्कल्पसिद्धाः स्युर्नात्र कार्या विचारणा || ६४ || येन केनापि वेशेन येन केनाप्यलक्षितः | यत्र कुत्राश्रमे तिष्ठेत् कुलयोगी कुलेश्वरि || ६५ || योगिनो विविधैर्वेशैर्नराणां हितकारिणः | भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिणः || ६६ || सकृन्नैवात्मविज्ञानं क्षपयन्ति कुलेश्वरि | उन्मत्तमूकजडवन्निवसेल्लोकमध्यतः || ६७ || अलक्ष्यो हि यथा लोके व्योम्नि चन्द्रार्कयोगतः | नक्षत्राणां ग्रहाणाञ्च तथा वृत्तन्तु योगिनाम् || ६८ || आकाशे पक्षिणां देवि जलेऽपि जलचारिणाम् | यथा गतिर्न दृश्येत तथा वृत्तं हि योगिनाम् || ६९ || असन्त इव भाषन्ते चरन्त्यज्ञा इव प्रिये | पामरा इव दृश्यन्ते कुलयोग विशारदाः || ७० || जना यथावमन्यन्ते गच्छेयुर्नैव सङ्गतिम् | न किञ्चिदपि भाषन्ते तथा योगी प्रवर्त्तते || ७१ || मुक्तोऽपि बालवत् क्रीडेत् कुलेशो जडवच्चरेत् | वदेदुन्मत्तवद्विद्वान् कुलयोगी महेश्वरि || ७२ || यथा हसति लोकोऽयं जुगुप्सति च कुत्सति | विलोक्य दूरतो याति तथा योगी प्रवर्त्तते || ७३ || क्वचिच्छिष्टः क्वचिद्भ्रष्टः क्वचिद् भूतपिशाचवत् | नानावेशधरो योगी विचरेज्जगतीतले || ७४ || योगी लोकोपकाराय भोगान् भुङ्क्ते न कांङ्क्षया | अनुगृह्णन् जनान् सर्वान् क्रीडेच्च पृथिवीतले || ७५ || सर्वशोषी यथा सूर्यः सवभोगी यथाऽनलः | योगी भुक्त्वाखिलान् भोगान् तथा पापैर्न लिप्यते || ७६ || सर्वस्पर्शी यथा वायुर्यथाकाशश्च सर्वगः | सर्वे यथा नदीस्नातास्तथा योगी सदा शुचिः || ७७ || यथा ग्रामगतं तोयं नदीयुक्तं भवेच्छुचि | तथा म्लेच्छगृहान्नादि योगिहस्तापीतं शुचि || ७८ || यथाऽऽचरन्ति देवेशि कुलज्ञानविशारदाः | तदेव विदुषां मान्यमात्मनो हितकाङ्क्षिणाम् || ७९ || यस्मिंश्चरन्ति योगीशाः सा मार्गः परमो मतः | यस्यामुदेति सूर्यो हि पूर्वाशा सा निगद्यते || ८० || यत्र यत्र गजो याति तत्र मार्गो यथा भवेत् | कुलयोगी वरेद् यत्र स स मार्गः कुलेश्वरि || ८१ || नदीं वक्रामृजुं कर्त्तुं निरोद्धुं तत्प्रवाहकम् | स्वेच्छाविहारिणं शान्तं को वा वारयितुं क्षमः || ८२ || यद्वन्मन्त्रबलोपेतः क्रीडनीयैर्न दृश्यते | तद्वन्न दृश्यते ज्ञानी क्रीडन्निन्द्रियपन्नगैः || ८३ || निवृत्तदुःखसन्तुष्टा निर्द्वन्द्वा गतमत्सराः | कुलज्ञानरताः शान्तास्त्वद्भक्तास्ते च कौलिकाः || ८४ || अमदक्रोधदम्भाशाहङ्काराः सत्यवादिनः | कौलिकेन्द्रा ह्यचपला ये नेन्द्रियवशानुगाः || ८५ || कीर्त्त्यमाने कुले येषां रोमाञ्चो गद्गदस्वरः | आनन्दाश्रु पतेद्देवि कथिताः कौलिकोत्तमाः || ८६ || सर्वधर्माधिको लोके कुलधर्मः शिवोदितः | इति ते निश्चितधियः प्रोक्तास्ते कौलिकोत्तमाः || ८७ || यो भवेत् कुलतत्त्वज्ञः कुलशास्त्रविशारदः | कुलार्चनरतः स स्यात् कौलिको नापरः प्रिये || ८८ || कुलभक्तान् कुलज्ञानान् कुलाचारकुलव्रतान् | प्रीतो भवति यो दृष्ट्वा कौलिकः स च मे प्रियः || ८९ || तत्त्वत्रयश्रीचरणमूलमन्त्रार्थतत्त्ववित् | देवतागुरुभक्ताश्च कौलिकः स्याच्च दीक्षया || ९० || दुर्लभं सर्वलोकेषु कुलाचार्यस्य दर्शनम् | सुपाकेनैव पुण्यानां लभ्यते नान्यथा प्रिये || ९१ || संस्मृतः कीत्तीतो दृष्टो वन्दिनो भाषितोऽपि वा | पुनाति कुलधमीष्ठश्चाण्डालोऽपि यदृच्छया || ९२ || सर्वज्ञो वापि मूर्खो वाप्युत्तमो वाऽधमोऽपि वा | यत्र देवि कुलज्ञानी तत्राहञ्च त्वया सह || ९३ || नाहं वसामि कैलासे न मेरौ न च मन्दिरे | कुलज्ञा यत्र तिष्ठन्ति तत्र तिष्ठामि भामिनि || ९४ || सुदूरमपि गन्तव्यं यत्र माहेश्वरो जनः | द्रष्टव्यञ्च प्रयत्नेन तत्र सन्निहितो ह्यहम् || ९५ || अतिदूरस्थितो वापि द्रष्टव्यः कुलदेशिकः | समीपे वर्त्तमानोऽपि न द्रष्टव्यः पशुः प्रिये || ९६ || कुलज्ञानी वसेद् यत्र स देशः पुण्यभाक् ततः | दर्शनादर्चनात्तस्य त्रिसप्तकुलमुद्धरेत् || ९७ || कुलज्ञानिनमालोक्य स्वसन्तानगृहे स्थितम् | शंसन्ति पितरस्तस्य यास्यामः परमां गतिम् || ९८ || समाश्वसन्ति पितरः सुवृष्टिमिव कर्षकाः | योऽस्मत्कुलेषु पुत्रो वा पौत्रो वा कौलिको भवेत् || ९९ || स धन्यः खलु लोकेऽस्मिन् पुरुषः क्षीणकल्मषः | यत्समीपं समायान्ति कुलाचार्या मुदा प्रिये || १०० || कौलिकेन्द्रे समायाते कौलिकावसथं प्रति | समायान्ति मुदा देवि योगिन्यो योगिभिः सह || १०१ || प्रविश्य कुलयोगीन्द्रं भणन्ते पितृदेवताः | तस्मात् सम्पूजयेद्भक्त्या कुलज्ञानपरायणान् || १०२ || अभ्यर्चयित्वा त्वां देवि त्वद्भक्तान्नार्चयन्ति ये | पापिष्ठास्त्वत्प्रसादस्य भाजनं न भवन्ति ते || १०३ || नैवेद्यं पुरतो न्यस्तं दर्शनात् स्वीकृतं त्वया | रसान् भक्तस्य जिह्वाग्रादश्नामि कमलेक्षणे || १०४ || त्वद्भक्तपूजनाद्देवि पूजितोऽहं न संशयः | तस्मान्मम प्रियाकाङ्क्षी त्वद्भक्तानेव पूजयेत् || १०५ || यत् कृतं कुलनिष्ठानां तद्देवानां कृतं भवेत् | सुराः कुलप्रियाः सर्वे तस्मात् कौलिकमर्चयेत् || १०६ || न तुष्याम्यहमन्यत्र तथा भक्त्या सुपूजितः | कौलिकेन्द्रेऽचीते सम्यक् यथा तुष्यामि पार्वति || १०७ || यत् फलं कौलिकेन्द्राणां पूजया लभते प्रिये | तत् फलं नाप्नुयात्तीर्थतपोदानमखव्रतैः || १०८ || दत्तमिष्टं हुतं तप्तं पूजितं जप्तमम्बिके | कौलिकस्य भवेद्वयर्थं कुलज्ञं योऽवमानयेत् || १०९ || श्मशानं तद् गृहं देवि स पापी श्वपचाधमः | यः प्रविश्य कुलं धर्म कुलाचारं न वेत्ति चेत् || ११० || कुलनिष्ठान् परित्यज्य यच्चान्यस्मै प्रदीयते | तद्दानं निष्फलं देवि दाता च नरकं व्रजेत् || १११ || भिन्नभाण्डे जलं यद्वत् शिलायामुप्तबीजवत् | भस्मनीव हुतं हव्यं तद्वद्दानमकौलिके || ११२ || यथाशक्त्या तु यत् किञ्चिद् यो दद्यात् कुलयोगिने | विशेषतिथिषु प्रीत्या तत्फलं नैव वर्ण्यते || ११३ || यो देवि स्वयमाहूय कुलज्ञानान् शुभे दिने | अभ्यर्च्य देवताबुद्ध्या गन्धपुष्पाक्षतादिभिः || ११४ || मादिभिः पञ्चमुद्राभिः सद्भक्त्या परितोषयेत् | तेषु तुष्टेष्वहं तुष्टस्तुष्टाः स्युः सर्वदेवताः || ११५ || भगिनीं वा सुतां भार्यां यो दद्यात् कुलयोगिने | मधुमत्ताय देवेशि तस्य पुण्यं न गण्यते || ११६ || अनिखातविनिक्षिप्तमप्रयत्नेन वद्धीतम् | परलोकस्य पाथेयं वीरचक्रेऽपीतं मधु || ११७ || पापाचारसमायुक्तं सर्वलोकबहिष्कृतम् | जायते हि कुलद्रव्यं कुलयोगीश्वरापीतम् || ११८ || यस्मिन् देशे वसेत् वीरः कुलपूजारतः प्रिये | सोऽपि देशो भवेत् पूतः किं पुनस्तत्पुरस्थिताः || ११९ || कौलिकेन्द्रे सकृद्भुक्ते पुण्यं कोटिगुणं भवेत् | किं पुनर्बहुभिर्भुक्तैस्तत् पुण्यं नैव गण्यते || १२० || तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा | कुलधर्मरतो भूयात् कुलज्ञानिनमर्चयेत् || १२१ || ज्ञानिनोऽज्ञानिनो वापि यावत् देहस्य धारणा | तावद्वर्णाश्रमाचारः कर्त्तव्यः कर्ममुक्तये || १२२ || कर्मणोन्मूलितेऽज्ञाने ज्ञानेन शिवतां व्रजेत् | शिवे तेनैव मुक्तिः स्यादतः कर्म समाचरेत् || १२३ || कुर्यादनिन्द्यकर्माणि नित्यकर्माणि वा चरेत् | कर्ममुक्तः सुखाकाङ्क्षी कर्मनिष्ठः सुखं व्रजेत् || १२४ || सर्वकर्माणि संत्यक्तुं न शक्यं देहधारिणा | त्यजेत् कर्मफलं यो वा स त्यागीत्यभिधीयते || १२५ || स्वकार्येषु प्रवर्त्तन्ते करणानीति चिन्तयेत् | अहम्भावमपास्यैव यः कुर्यात् स न लिप्यते || १२६ || क्रियमाणानि कर्माणि ज्ञानप्राप्तेरनन्तरम् | न च स्पृशन्ति तत्त्वज्ञं जलं पद्मदलं यथा || १२७ || तन्निष्ठस्य च कर्माणि पुण्यापुण्यानि संक्षयम् | प्रयान्ति नैव लिप्यन्ते क्रियमाणानि वा पुनः || १२८ || उत्पन्नसहजानन्दतत्त्वज्ञानरतः प्रिये | संत्यक्तसर्वसङ्कल्पः स विद्वान् कर्म सन्त्यजेत् || १२९ || वृथैव यैः परित्यक्तं कर्मकाण्डमपण्डितैः | पाषण्डाः पण्डितम्मन्यास्ते यान्ति नरकं प्रिये || १३० || फलं प्राप्य यथा वृक्षः पुष्पं त्यजति निस्पृहः | तत्त्वं प्राप्य तथा योगी त्यजेत् कर्मपरिग्रहम् || १३१ || अश्वमेधायुतेनापि ब्रह्महत्यायुतेन च | पुण्यपापैर्न लिप्यन्ते येषां ब्रह्म हृदि स्थितम् || १३२ || पृथिव्यां यानि कर्माणि जिह्वोपस्थनिमित्ततः | जिह्वोपस्थपरित्यागी कर्मणा किं करिष्यति || १३३ || इति ते कथितं किञ्चित् योगं योगीशलक्षणम् | समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि || १३४ || || इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे योगसंस्थापनकथनं नाम नवमोल्लासः || ९ || अथ दशमोल्लासः श्री देव्युवाच कुलेश श्रोतुमिच्छामि विशेषदिवसार्चनम् | तत्सपर्याफलं देव वद मे परमेश्वर || १ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते || २ || उत्तमा नित्यपूजा स्यात् मध्यमं पर्वपूजनम् | मासपूजाऽधमा देवि मासादूर्ध्व पशुर्भवेत् || ३ || विहितैर्मादिभिर्द्रव्यैर्मासादूर्ध्वं समर्चनम् | पशोर्भूयः प्रवेशेच्छा यदि स्याद्दीक्षयेत् पुनः || ४ || मद्यं मांसञ्च मत्स्यश्च मुद्रा मैथुनमेव च | मकारपञ्चकं देवि देवताप्रीतिकारकम् || ५ || मादिपञ्चकमीशानि देवताप्रीतये सुधीः | यथाविधि निषेवेत तृष्णया चेत् स पातकी || ६ || कृष्णाष्टमीचतुर्द्दश्यावमावास्याथ पूणीमा | संक्रान्तिः पञ्च पर्वाणि तेषु पुण्यदिनेषु च || ७ || गुरुजन्मदिने प्राप्ते तद्गुरोस्तद्गुरोरपि | मानवौघादिपुंसाञ्च स्वजन्मदिवसे तथा || ८ || सम्पत्तौ च यजेल्लाभे तपोदीक्षाव्रतोत्सवे | पीठोपगमने वीरपीठे स्वजनदर्शने || ९ || देशिकागमने पुण्यतीर्थदैवतदर्शने | एवमादिषु देवेशि विशेषदिवसेषु च || १० || यथाधनं यथाश्रद्धं यथाद्रव्यं यथोचितम् | यथाकालं यथादेशं तथा पूजां समाचरेत् || ११ || आचार्येण विधानेन कारयेच्चक्रपूजनम् | स्वयं वा पूजयेद्देवि बिन्दुपूजापुरःसरम् || १२ || स ते लोकमवाप्नोति पुनरावृत्तिवजीतम् | अकुर्वन् कौलिको मोहाद्देवताशापमाप्नुयात् || १३ || मासे वापि त्रिमासे वा षण्मासे वत्सरेऽपि वा | श्रीगुरुं पूजयेद्भक्त्याऽप्राप्ते तत्स्त्रीसुतादिकान् || १४ || तदभावे कुलज्ञञ्च तच्छिष्यं वान्ययोगिनम् | सन्तोषयेत् कुलद्रव्यैः कुलपूजापुरःसरम् || १५ || रोगेष्वापत्सु दोषेषु दुःसङ्गे दुनीमित्तके | पूजयेद् योगिनीवृन्दं देवि तद्दोषशान्तये || १६ || यत्रैकाम्नायतत्त्वज्ञः कुलाचार्यः कुलेश्वरि | कौलिकास्त्रिचतुःपञ्च शक्तयश्च तथा प्रिये || १७ || पृथग्वा पूजयेद्देवि मिथुनाकारतोऽपि वा | गन्धपुष्पाक्षताद्यैस्तु देवेशि समलङ्कृताः | भक्ष्यभोज्यादिपिशितैः पदार्थैः षड्रसान्वितैः || १८ || प्रौढोल्लासेन सहिता यदि ता निवसन्ति च | तच्छ्रीचक्रमिति प्रोक्तं वृन्दञ्चापि तदुच्यते || १९ || कुर्यान्नवकुमारीणां पूजामाश्विनमासके | प्रातनीमन्त्रयेद्भक्त्या साधकः शुद्धमानसः || २० || मनोहरामेकवर्षी बालाञ्च शुभलक्षणाम् | मन्त्री स्नात्वाथ शुद्धात्मा कुर्याद्देवि क्रमार्चनम् || २१ || अभ्यङ्गस्नानशुद्धान्तां पूजासदनमानयेत् | देवतासन्निधौ बालामुपवेश्य समर्चयेत् || २२ || गन्धपुष्पादिभिर्धूपैर्दीपैश्च कुलदीपकैः | भोग्यभोज्यान्नपानाद्यैः क्षीराज्यमधुमांसकैः | कदलीनारिकेलादिफलैस्तां परितोषयेत् || २३ || सशक्तिकः स्वयं देवि प्रौढान्तोल्लाससंयुतः | यथाशक्ति जपेदेकोत्तरवृद्ध्याऽथवा मनुम् || २४ || बालामलङ्कृतां पश्यन् चिन्तयेत् स्वेष्टदेवताम् | ततस्तां देवताबुद्ध्या नमस्कृत्य विसर्जयेत् || २५ || द्वितीयायां द्विवर्षान्तामेकवर्षाञ्च पूजयेत् | एवं तिथौ कुमारीञ्च यजेत् पूर्वदिनाचीताम् || २६ || नवम्यामेकवर्षादि-नववर्षान्तकन्यकाः | बाला शुद्धा च ललिता मालिनी च वसुन्धरा | सरस्वती रमा गौरी दुर्गा च नव कीत्तीताः || २७ || त्रिताराद्यैर्नमोऽन्तैश्च देवतापदपश्चिमैः | नामभिश्च चतुर्थ्यन्तैः पूजयेत्ताः पृथक् पृथक् || २८ || बटुकं पञ्चवर्षञ्च नववर्षं गणेश्वरम् | गन्धपुष्पाम्बराकल्पैर्यथाविभवविस्तरैः || २९ || अभ्यर्च्य देवताबुद्ध्या पदार्थैः परितोषयेत् | स्वकार्यफलसिद्ध्यर्थं वित्तशाठ्यविवजीतः || ३० || नवरात्रं जपेदेकोत्तरवृद्ध्या क्रमेण च | नवरात्रकृतां पूजां देवि देव्यै समर्पयेत् || ३१ || ताम्बूलं दक्षिणां दत्त्वा कुमारीस्ता विसर्जयेत् | एवं नवकुमारीणामर्चनं प्रातवत्सरम् || ३२ || यः करोति स पुण्यात्मा देवताप्रीतिमाप्नुयात् | मनोऽभिलाषं सम्प्राप्य निवसेत्तव सन्निधौ || ३३ || अथवा यौवनारूढाः प्रमदा नव पार्वति | मनोज्ञाः पूजयेद्भक्त्या नवरात्रिषु मन्त्रवित् || ३४ || हृल्लेखां गगनां रक्तां महोच्छुष्मां करालिकाम् | इच्छां ज्ञानां क्रियां दुर्गां बटुकञ्च गणेश्वरम् | पूर्ववत् पूर्वमद्याद्यैः पदार्थैः परितोषयेत् || ३५ || प्रौढान्तोल्लाससंयुक्ताः सन्तुष्टा यदि ताः प्रिये | साधकस्तुष्टिमासाद्य निवसेत्तव सन्निधौ || ३६ || एवं यः पूजयेद्देवि प्रतिवर्षं यतव्रतः | षण्मासे वा त्रिमासे वा मासे मासेऽथवा प्रिये || ३७ || तिस्रो वा पञ्च वा सप्त पूजयेद्देवताधिया | सर्वैश्वर्यसमृद्धात्मा स भवेदावयोः प्रियः || ३८ || भृगुवारे कुलेशानि कान्तामारूढयौवनाम् | सर्वलक्षणसम्पन्नामनुकूलां मनोरमाम् || ३९ || कुलाकुलाष्टकां देवि निमन्त्र्याहूय पुष्पिणीम् | अभ्यङ्गस्नानशुद्धाङ्गीमासने चोपवेशयेत् || ४० || गन्धपुष्पाम्बराकल्पैरलङ्कृत्य विधानवित् | आत्मानं गन्धपुष्पाद्यैरलङ्कुर्यात् कुलेश्वरि || ४१ || आवाह्य देवतां तस्यां यजेन्न्यासक्रमेण च | कृत्वा क्रमार्चनं धूपदीपाञ्च कुलदीपकान् || ४२ || प्रदर्श्य देवताबुद्ध्या पदार्थैः षड्रसान्वितैः | मांसादिभक्ष्यभोज्याद्यैस्तोषयेद्देवि भक्तितः || ४३ || प्रौढान्तोल्लाससहितां तां प्रपश्यन् जपेन्मनुम् | यौवनोल्लाससहितः स्वयं तद्ध्यानतत्परः || ४४ || निवीकारेण चित्तेन ह्यष्टोत्तरसहस्रकम् | जपादिकं समर्प्याथ तया सह निशां नयेत् || ४५ || त्रिपञ्चसप्तनवसु भृगुवारेषु यः प्रिये | पूजयेद्विधिनाऽनेन तस्य पुण्यं न गण्यते || ४६ || चतुः पीठार्चनफलं स प्राप्नोति कुलेश्वरि | यद् यत् स्वमनसोऽभीष्टं तत्तदाप्नोत्यसंशयम् || ४७ || नवम्यां वार्चयेदेवं विधानेन विधानवित् | स्तोत्रैः संपूजयेत् सर्वैर्महदैश्वर्यमाप्नुयात् || ४८ || कुर्यात् कर्कटके वापि मकरे मिथुनार्चनम् | तुलायां सिंहमेषे वा सर्वसंक्रान्तिषु प्रिये || ४९ || गौरीशिवौ रमाविष्णू वाणीसरसिजासनौ | शचीन्द्रौ रोहिणीचन्द्रौ स्वाहाग्नी च प्रभारवी || ५० || भद्रकालीवीरभद्रौ भैरवीभैरवावपि | मिथुनानि नवाभ्यर्च्य पूर्वोक्तेनैव वर्त्मना || ५१ || त्रितारादिनमोऽन्तेन तत्तन्नाम्ना विधानवित् | गन्धपुष्पादिभिः पूज्य मद्याद्यैः परितोषयेत् || ५२ || प्रौढान्तोल्लासयुक्तानि कुर्वीत मिथुनानि च | एवं कृते न सन्देहस्तुष्टा मिथुनदेवताः | अनुगृह्णन्ति तं देवि प्रयच्छन्ति मनोरथम् || ५३ || प्रतिवर्षन्तु यः कुर्यात् सभक्त्या मिथुनार्चनम् | तव लोके स निवसेत् सर्वैश्वर्यसमन्वितः || ५४ || अथ वैशाखमासस्य शुक्लप्रतिपदीश्वरि | ब्राह्मे मुहूर्त्ते उत्थाय स्नानं सन्ध्यामुपास्य च || ५५ || मनोज्ञे रहसि स्थाने पूर्वाशाभिमुखस्थितः | आत्मानं गन्धपुष्पाद्यैरलङ्कृत्य विधानवित् || ५६ || कृत्वा पुरोदितन्यासान् देवताभावमास्थितः | किञ्चिदभ्युदिते सूर्ये मण्डले स्वेष्टदेवताम् || ५७ || ध्यात्वा सावरणां सम्यक् पूजयेद्विधिना प्रिये | षोडशैरुपचारैस्तु चक्रपूजापुरःसरम् || ५८ || कुलदीपान् प्रदर्श्याथ शिवाय गुरुरूपिणे | मत्स्यमांसादि विधिवद्भक्ष्य भोज्यसमन्वितम् || ५९ || अर्घ्यं निवेद्य तच्छेषं स्वयं भक्त्या पिबेत् प्रिये | यौवनोल्लाससहितो निवीकारेण चेतसा || ६० || ध्यायंस्तन्मण्डलं देवीमष्टोत्तरसहस्रकम् | जप्त्वा समर्प्य तत्पूजां देवताञ्च समुद्धरेत् || ६१ || एवं शुक्लप्रतिपदं समारभ्य दिने दिने | कुर्याज्जपार्चनं कृष्णचतुर्द्दश्यन्तमम्बिके || ६२ || अमावस्यादिने देवि पूजयेच्छक्तिकौलिकान् | त्रिपञ्चसप्त नव वा वित्तलोभविवजीतः || ६३ || एवं यो मासमात्रन्तु कुर्यात् सूर्योदयार्चनम् | देवता तस्य सन्तुष्टा ददाति फलमीप्सितम् || ६४ || माध्याह्ने चार्चयेद्देवं सायाह्ने चार्चयेत् प्रिये | स तु तत्फलमाप्नोति योगिनीनां प्रियो भवेत् || ६५ || त्रिसन्धां योऽर्चयेदेवं मासमात्रं विधानवित् | काङ्क्षितां लभते सिद्धिं देववद् विचरेद् भुवि || ६६ || माघशुक्लप्रतिपदि दिवाहारविवजीतः | स्नात्वा शुक्लाम्बरधरः सायं सन्ध्यामुपास्य च || ६७ || सूर्यार्चनोक्तमार्गेण सर्वद्रव्यसमन्वितः | यौवनोल्लाससहितश्चन्द्रस्थां देवतां स्मरन् || ६८ || चन्द्रास्तमयपर्यन्तं जपेन्मन्त्रनन्यधीः | एवं प्रतिदिनं शुक्लचतुर्द्दश्यन्तमर्चयेत् || ६९ || पौर्णमास्यां यथाशक्त्या पूजयेच्छक्तिकौलिकान् | एवं यः कुरुते भक्त्या शुक्लपक्षार्चनं प्रिये || ७० || सर्व पापविशुद्धात्मा सर्वैश्वर्यसमन्वितः | सर्वलोकैकसंपूज्यः शिववन्निवसेद् भुवि || ७१ || शुक्लपक्षेऽर्चनं यद्वत्तद्वत् पक्षे सितेतरे | यः करोति विधानेन सर्वान् कामान् समश्नुते || ७२ || इह भुक्त्वाऽखिलान् भोगान् देववत् प्रियदर्शनः | योगिनीवीरमेलनं लभते नात्र संशयः || ७३ || अथ कात्तीकमासस्य शुक्लप्रतिपदीश्वरि | स्नात्वाचम्य विशुद्धात्मा न्यासान् कृत्वा पुरोदितान् || ७४ || प्रसुप्ते जीवलोके तु मुदितात्मा महानिशि | पूर्वार्चनोक्त विधिना सर्वद्रव्यसमन्वितः || ७५ || आज्येनानामिकास्थूलवत्तीं प्रज्वाल्य पार्वति | पञ्चवर्णरजश्चित्रवसुपत्रसरोरुहे || ७६ || मधुपूर्णे च कलसे कांस्यपात्रे मनोहरे | दीपं संस्थाप्य पुरत उत्तराभिमुखस्थितः || ७७ || दीपे सावरणां देवीं ध्यात्वा विधिवदर्चयेत् | यौवनोल्लाससहितो दीपस्थां देवतां स्मरन् || ७८ || अष्टोत्तरसहस्रन्तु जपेन्मन्त्रमनन्यधीः | एवं समर्चयेत् कृष्णचतुर्द्दश्यन्तमम्बिके || ७९ || अमावास्यादिने भक्त्या पूजयेच्छक्तिकौलिकान् | एवं कृते कुलेशानि देवता प्रीतिमाप्नुयात् || ८० || सर्वकामसमृद्धात्मा सर्वैश्वर्यसमन्वितः | सर्वलोकैकसम्मान्यः सञ्चरेत् स यथासुखम् || ८१ || अष्टाष्टकार्चनं कुर्यात् शक्तश्चेदेकवासरे | अथवाष्टाष्टदिवसेष्वथ द्व्यष्टदिनेषु च | द्वात्रिंशद्दिवसेष्वेवं चतुःषष्टिदिनेषु च || ८२ || गुरुणा कारयेद्देवि क्रमज्ञेनापरेण वा | क्रमज्ञश्चेत् स्वयं कुर्याद्वित्तशाठ्यविवजीतः || ८३ || मूलाष्टकन्तु ब्रह्माद्याश्चासिताङ्गादिभैरवाः | मङ्गलाद्यैश्च मिथुनैरष्टभिः शब्दिताः प्रिये || ८४ || मूलाष्टकोद्भवानीति प्रसिद्धानि कुलागमे | अक्षोभ्यादिचतुःषष्टिमिथुनानि समर्चयेत् || ८५ || पूर्वोक्तेन विधानेन यथाविभवविस्तरम् | क्रमलोपं न कुर्वीत स्वेष्टकार्यार्थसिद्धये || ८६ || गन्धपुष्पाक्षताद्यैश्च मत्स्यमांसासवादिभिः | भक्ष्यभोज्यादिभिर्नानापदार्थैः षड्रसान्वितैः | सम्यक् सन्तोषयेद्देवि मिथुनान्यतिभक्तितः || ८७ || प्रौढान्तोल्लासपर्यन्तं कुर्यात् श्रीचक्रमम्बिके | एवं यः कुरुते देवि सकृदष्टाष्टकार्चनम् || ८८ || ब्रह्मविष्णुमहेशादिदेवताभिः स पूज्यते | किं पुनर्मानवाद्यैश्च साक्षात् शिव इवापरः || ८९ || यदर्चनाच्चतुःषष्टियोगिनीगणसंस्तुतः | पुनरावृत्तिरहितो निवसेत्तव सन्निधौ || ९० || समस्तदेवताप्रीतिकारणं परमेश्वरि | अस्मात् परतरा पूजा नास्ति सत्यं न संशयः || ९१ || पश्यदेवंविधं चक्रं यो भक्त्याष्टाष्टकं प्रिये | यज्ञदानतपस्तीर्थव्रतकोटिफलं लभेत् || ९२ || राजा यः कारयेद्देवि भक्त्याष्टाष्टकपूजनम् | चतुःसागरपर्यन्तां महीं शास्ति न संशयः || ९३ || श्रीकण्ठादीनि पञ्चाशन्मिथुनानि समर्चयेत् | पूर्वोक्तेन विधानेन कुलेश्वरि विधानवित् || ९४ || स्वकार्यफलसिद्ध्यर्थं वित्तशाठ्यविवजीतः | प्रौढान्तोल्लासयुक्तानि मिथुनानि समर्चयेत् || ९५ || सन्तुष्टानि प्रयच्छन्ति साधकायेप्सितं फलम् | अव्याहताज्ञः सर्वत्र पूज्यते देववत् प्रिये | तव लोके वसेद्देवि ब्रह्मादिसुरसंस्तुतः || ९६ || केशवादि गणेशादि कामादि मिथुनानि च | श्रीकण्ठादि समभ्यर्च्य तत्फलं लभते ध्रुवम् || ९७ || अनुग्रहन्तु यः कुर्यात् डाकिन्यादिसमर्चने | मासे मासेऽथवा वर्षे स्वजन्मदिवसे प्रिये || ९८ || पूर्वोक्तेन विधानेन यथाविभवविस्तरम् | प्रौढान्तोल्लासपर्यन्तं तोषयेत्तद्विधानवित् || ९९ || कुर्वन्त्यनुग्रहं देवि सन्तुष्टाः सर्वदेवताः | सर्वोपद्रव रहितः सर्वैश्वर्यसमन्वितः || १०० || लोकेऽस्मिन् संस्तुतः सर्वैः स जीवेच्छरदां शतम् | देहान्ते समवाप्नोति तव लोकं न संशयः || १०१ || दूतीयागन्तु यः कुर्यात् पूर्वोक्तविधिना प्रिये | निवीकल्पेन चित्तेन नवशक्तिसमन्वितः || १०२ || वर्षे वर्षे चतुःषष्टिपीठार्चनफलं लभेत् | आज्ञासिद्धिर्भवेत्तस्य देवताप्रीतिमाप्नुयात् || १०३ || त्रिकपूजान्तु यः कुर्यादिच्छाज्ञानक्रियात्मिकाम् | आगमोक्तेत विधिना पूर्ववेत्तद्विधानवित् || १०४ || पदार्थैस्तोषयेत् सम्यक् यथाविभवविस्तरम् | सन्तुष्टा देवतास्तिस्रः सर्वकर्मफलप्रदाः | देवेशि साधकाभीष्टं प्रयच्छन्ति न संशयः || १०५ || इत्यादिदेवतापूजां विशेषदिवसेषु यः | करोति शस्त्रविधिना स भवेदावयोः प्रियः || १०६ || श्रीचक्रं कौलिको मोहाद्विशेषदिवसेषु यः | न करोति समर्थः सन् स भवेद् योगिनीपशुः || १०७ || कुलपूजां विना चक्रे नाधिकारः कथञ्चन | कुलपूजां सुनियतं यः करोति स कौलिकः || १०८ || विना मन्त्रेण पूजा चेद्देवता न प्रसीदति | कुलपूजां सुनियतं यः करोति हि कौलिकः | कुलेशि सर्वदाप्नोति योगिनीवीरमेलनम् || १०९ || नीचोऽपि वा सकृद्भक्त्या कारयेद् यः कुलार्चनम् | स सद्गतिमवाप्नोति किमुतान्ये द्विजातयः || ११० || तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा | कुलपूजारतो भूयादभीष्टफलसिद्धये || १११ || कुलपूजाधिको यज्ञः कुलपूजाधिकं व्रतम् | कुलपूजाधिकं तीर्थं कुलपूजाधिकं तपः || ११२ || कुलपूजाधिकं दानं कुलपूजाधिका क्रिया | कुलपूजाधिकं ज्ञानं कुलपूजाधिकं सुखम् || ११३ || कुलपूजाधिको धर्मः कुलपूजाधिकं फलम् | कुलपूजाधिकं ध्यानं कुलपूजाधिकं महः || ११४ || कुलपूजाधिको योगः कुलपूजाधिका गतिः | कुलपूजाधिकं भाग्यं कुलपूजाधिकाऽर्चना || ११५ || नास्ति नास्ति पुनर्नास्ति त्वां शपे कुलनायिके | बहुनात्र किमुक्तेन रहस्यं शृणु पार्वति || ११६ || वेदशास्त्रोक्तमार्गेण कुलपूजां करोति यः | तत्समीपे स्थितं मां त्वां विद्धि नान्यत्र भामिनी | इदं सत्यमिदं सत्यं सत्यं सत्यं न संशयः || ११७ || खभूमिदिग्जलगिरिवनसर्वचराः प्रिये | सहस्रकोटियोगिन्यस्तावन्तो भैरवा अपि | नियुक्ता हि मया देवि कुलसंरक्षणाय च || ११८ || दिवसे दिवसे सर्वे पार्वति मुदिताननाः | साधकानेव वीक्षन्ते स्वस्वपूजनलिप्सया || ११९ || अपूजितास्तु विघ्नन्ति पालयन्ति सुपूजिताः | गुरुभक्तान् सदाचारान् गुह्यधर्मान् सदाशिवान् || १२० || भक्तिहीनान् दुराचारान् नाशयन्ति प्रकाशकान् | श्रीचक्रे संस्मरेत्तस्माद् योगिनीभैरवान् प्रिये || १२१ || न स्मरेद् यदि मूढात्मा योगिनीनां भवेत् पशुः | तस्मात् श्रीचक्रमध्ये तु संस्मरेत् सर्वदेवताः || १२२ || अनुगृह्णन्ति देवेशि साधकान् नात्र संशयः | अनुग्रहन्तु वक्ष्यामि शृणु देवि यथाक्रमम् || १२३ || आत्मनोऽनुग्रहार्थं वा परार्थं श्रेष्ठमुत्तमम् | शुचिद्रव्यसमायुक्तं चक्रपूजासमन्वितम् || १२४ || सर्वेषां दक्षिणां दत्त्वा होमपात्रं पृथक पृथक् | प्रपूजयेच्च वर्णस्थाः सर्वाभरणभूषिताः || १२५ || हर्षानन्दस्वयंयुक्ताः प्रसन्नाश्च पृथक् पृथक् | पायसाज्यौदनैर्युक्तैर्नैवेद्यैर्भक्तिसंयुतैः || १२६ || गन्धपुष्पादिभिः सम्यगर्चयित्वा गणेश्वरम् | हसख फ्रें हेसौं(ह्सौं) डां डीं डमलवरयूं ततः || १२७ || श्रीपादुकां हेसौ(ह्सौ)मिति च हसखफ्रें पुटन्ततः | सङ्कल्प्य मनसोऽभीष्टं मधुरत्रितयः प्रिये || १२८ || गन्धपुष्पादिभिः सम्यगर्चयित्वा पृथक् पृथक् | पूजयित्वेप्सितान् कामान् प्रार्थयेत् कमलानने || १२९ || ईप्सितानि च सर्वाणि साधको लभते वरम् | आत्मनश्च परस्यापि रक्षार्थं पूजयेत् प्रिये || १३० || रोगाणां नाशनार्थञ्च यथात्र पुत्रसिद्धये | वश्यार्थं मङ्गलार्थञ्च धर्मकर्मार्थसिद्धये || १३१ || सप्ताहं पूजयेद्देवि चतुर्द्दशदिनानि च | एकविंशदिनान्यत्र लभते चेप्सितं फलम् || १३२ || दक्षिणाञ्च पृथग् दद्याद्वस्त्रभूषाङ्गुरीयकम् | कुलाष्टकसमायुक्तं चतुःषष्टिसमन्वितम् || १३३ || अचीतञ्च प्रयत्नेन सिद्धिर्भवत्यनेकशः | वित्तशाठ्यं न कुर्वीत यदीच्छेत् सिद्धिमात्मनः || १३४ || एवं षट्कं समाख्यातमनुग्रहं वरानने | अचीतव्यं प्रयत्नेन साधकैः स्वेष्टसिद्धये || १३५ || ध्यात्वैव पूजयेदेता डाकिन्याद्या वरानने | संपूज्य सप्तमीं देवीं पूजयेत् सर्वसिद्धये || १३६ || शक्तिदेहसमुत्पन्नं शक्तिनिर्माल्यभोजने | स्ववर्गेण समायुक्ता दत्तनिर्माल्यमित्यपि | प्रतिगृह्णयुगं स्वाहा इति निर्माल्यसर्जनम् || १३७ || डाकिनी सर्पवदना वित्तजा ज्वलनप्रभा | कमण्डलुं कर्त्तृकाञ्च धारयन्ती वरप्रदा || १३८ || उलूकवदना देवी राकिणी नीलसन्निभा | खड्गखेटकसंयुक्ता सर्वालङ्कारभूषिता || १३९ || लाकिनी श्रीकपालाढ्या पाशांकुशधरा सती | पाटलीपुष्पसङ्काशा सर्वाभरणभूषिता || १४० || काकिनी हयवक्त्रा च माणिक्यसदृशप्रभा | त्रिमुखीं मुण्डसंयुक्ता सिद्धिदा सर्वशोभना || १४१ || शाकिनी त्वञ्जनप्रख्या मार्जारास्या सुशोभना | कुलिशञ्च तथा दण्डं धारयन्ति शुचिस्मिता || १४२ || हाकिनी ऋक्षवदना नीलनीरदसन्निभा | कपालशूलहस्ता च खेटकैरुपशोभिता | एकद्वित्रिचतुःपञ्चषण्मुखा सरभाभया || १४३ || इति ते कथितं किञ्चिद्विशेषदिवसार्चनम् | समासेन कुलेशानि किम्भूयः श्रोतुमिच्छसि || १४४ || || इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे विशेषदिवसार्चनं नाम दशमोल्लासः || १० || अथैकादशोल्लासः श्री देव्युवाच कुलेश श्रोतुमिच्छामि सर्वलोकैकपूजित | कुलाचारक्रमं देव वद मे करुणानिधे || १ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | तस्य श्रवणमात्रेण पशुपाशैः प्रमुच्यते || २ || यदि चेद्दीक्षितो ज्येष्ठः कुलपूजादिवजीतः | तत्कनिष्ठः क्रमज्ञश्चेत् कुलपूजां समाचरेत् || ३ || तत्समीपं ततो गत्वा नमस्कृत्य गुरुं यथा | तस्मै निवेद्य तत्सर्वं शेष भुञ्जीत पार्वती || ४ || पूजामध्ये गुरौ ज्येष्ठे पूज्ये वापि समागते | नत्वा ब्रूयात् स्थितं शिष्टमाचरेत्तदनुज्ञया || ५ || ज्येष्ठस्य च कनिष्ठस्य शिष्यावेकत्र संस्थितौ | तत्र पूर्ववदाचारः कथितः कुलनायिके || ६ || अज्ञातकौलिके प्राप्ते पौर्वापर्यन्तु चिन्तयेत् | स्मृत्वा स्वस्य गुरुं देवि स्वस्य मार्गेण तर्पयेत् || ७ || नित्यार्चनं दिने कुर्याद्रात्रौ नैमित्तिकार्चनम् | उभयोः काम्यकर्माणि चेति शास्त्रस्य निर्णयः || ८ || अस्नात्वाऽनासनस्थो वा भुक्त्वा वा प्रलपन्नपि | गन्धपुष्पाक्षता कल्पवस्त्राद्यैरनलंकृतः | अविन्यस्तशरीरो वा कुलपूजां न चाचरेत् || ९ || विना मन्त्रेण या पूजा विना मांसेन तर्पणम् | विना शक्त्या तु यत्पानं निष्फलं कथितं प्रिये || १० || श्रीचक्रमेको वा कुर्यादेकपात्रन्तु नार्चयेत् | नार्चयेदेकहस्तेन न पिबेदेकपाणिना || ११ || मत्स्यमांसासवैर्द्देवि नार्चयेत् पशुसन्निधौ | प्रणम्य प्रविशेच्चक्रं विनिर्गच्छेत्प्रणम्य च || १२ || श्रीचक्रे नासने तिष्ठेन्न च वीरासने प्रिये | श्रीचक्रदर्शने देवि नेत्रयोः पापनाशनम् | तन्नास्ति चेद् व्रणद्वन्द्वं कौलिकस्याक्षियुग्मकम् || १३ || अनाचारान् सदाचारान् चक्रस्थान् शक्तिकौलिकान् | शिवगौरीधिया देवि भावयेन्नावमानयेत् || १४ || कुलाचार्यगृहं गत्वा भक्त्या पापविशुद्धये | याचेदमृतञ्चान्नञ्च तदभावे जलं पिबेत् || १५ || कुलाचार्येण तच्छक्त्या दत्तं पात्रञ्च भक्तितः | नमस्कृत्य तु गृह्णीयादन्यथा नरकं व्रजेत् || १६ || अस्नात्वा वाप्यभक्त्या वा लोभाद्वापि कुलेश्वरि | यः सेवेत कुलद्रव्यं दारिद्र्यं समवाप्नुयात् || १७ || उष्णीषी कञ्चुकी नग्नो मुक्तकेशो गणावृतः | व्यग्रो रुष्टो विवादी च न सेवेत कुलामृतम् || १८ || योगामृतेन निष्ठीवान्मद्यभाण्डपरिभ्रमात् | ऊर्ध्व नालेन पानाच्च देवताशापमाप्नुयात् || १९ || एकासने निविष्टस्तु भुञ्जानस्त्वेकभाजने | एकपात्रे पिबेद्द्रव्यं ते यान्ति नरकं प्रिये || २० || यः सेवेत कुलद्रव्यमेकग्रामे स्थिते गुरौ | तत्कुलज्ञे च तत्पुत्रे स्वजेष्ठे कुलदेशिके | विनानुज्ञां महेशानि सोऽक्षयं नरकं व्रजेत् || २१ || उच्छिष्टो न स्पृशेच्चक्रे कुलद्रव्याणि पार्वति | बहिःप्रक्षाल्य च करौ कुलद्रव्याणि दापयेत् || २२ || मद्यभाण्डं समुधृत्च न पात्रं पूरयेत् प्रिये | भोगपात्रं सुराकुण्डे निक्षिपेन्न कदाचन || २३ || चक्रमध्ये शुचिधिया करप्रक्षालनादिकम् | यः करोति हि मूढात्मा स भवेदापदाम्पदम् || २४ || निष्ठीवनं मलं मूत्रमधोवायुविसर्जनम् | श्रीचक्रमध्ये यः कुर्यात् स भवेद् योगिनीपशुः || २५ || चक्रमध्ये घटे भग्ने पात्रे च पतिते भुवि | दीपनाशे च शान्त्यर्थं श्रीचक्रं कारयेत् प्रिये || २६ || मत्ता जपन्ति ध्यायन्ति स्तुवन्ति प्रणमन्ति च | बोधयन्ति च पृच्छन्ति नन्दन्ति ज्ञानिनः प्रिये || २७ || मत्ता भ्रमन्ति गर्जन्ति हसन्ति विवदन्ति च | रुदन्ति स्त्रियमिच्छन्ति निन्दन्त्यज्ञानिनः प्रिये || २८ || परिहासं प्रलापञ्च वितण्डां बहुभाषितम् | औदासीन्यं भयं क्रोधं चक्रमध्ये विवर्जयेत् || २९ || पात्रहस्तो महादेवि न भ्रमेच्चक्रमध्यतः | पूर्णपात्रं करे कृत्वा न तिष्ठेत्तु चिरं प्रिये || ३० || नालपेत् पात्रहस्तः सन् न भिन्द्यात् पात्रमम्बिके | पादाभ्यां न स्पृशेत् पात्रं न बिन्दुं पातयेदधः || ३१ || नैकहस्तेन दातव्यं न मुद्रावजीतं प्रिये | पात्रं न चालयेत स्थानान्न कुर्यात् पात्रसङ्करम् || ३२ || सशब्दं न पिबेन्मद्यं तथैव न च पूरयेत् | नान्योन्यं ताडयेत्पात्रं तथा न पातयेदधः || ३३ || साधारं नोद्धरेत् पात्रमनाधारे न निक्षिपेत् | रिक्तपात्रं न कुर्वीत न पात्रं भ्रामयेत् प्रिये || ३४ || न पात्रं लंघयेद्धीमान् पात्रं नोत्पातयेत् प्रिये | प्रक्षाल्य गोपयेत् पात्रमित्याज्ञा परमेश्वरि || ३५ || यदा सन्दीपितोल्लासः कौलिकः पशुमीक्षते | पठेद्वा पशुशास्त्राणि सङ्गच्छेद्वा पशुस्त्रियम् || ३६ || कुर्यात् पशुप्रसङ्गं वा पशुकार्याणि वा चरेत् | धर्मार्थायुर्यशःपुण्यमर्थसौख्यादि नश्यति || ३७ || श्रीचक्रस्थं कुलद्रव्यं यः पशुभ्यः प्रयच्छति | स्नेहाल्लोभाद्भयाद्वापि स भवेद् योगिनीपशुः || ३८ || रिपुणापि न कर्त्तव्यो वाग्वादश्चक्रमध्यतः | पितृमातृसमं पश्येत्तेनोक्तं परुषं सहेत् || ३९ || यथास्त्रीपुत्रमित्रादि दृष्ट्वा चेतः प्रहृष्यति | तथा चेत् कौलिकान् दृष्ट्वा स भवेद् योगिनीप्रियः || ४० || ब्रह्मादिस्तम्बपर्यन्तं यस्य मे गुरुसन्ततिः | यस्य मे सर्वशिष्यस्य को न पूज्यो महीतले | द्दति निश्चितबुद्धिर्यः स भवेदावयोः प्रियः || ४१ || अहं गुरुरहं ज्येष्ठस्त्वहं वेद्मीति गवीतः | अहमेव गतिर्येषां कौलिका न भवन्ति ते || ४२ || श्रीगुरुं कुलशास्त्राणि पूजास्थानानि यानि च | भक्त्या श्रीपूर्वकं देवि प्रणम्य परिकीर्त्तयेत् || ४३ || गुरुं नाम्ना न भावेत जपकालादृते प्रिये | श्रीनाथ देव स्वामीति विवादे साधने वदेत् || ४४ || श्रीगुरोः पादुकां मुद्रां मूलमन्त्रं स्वपादुकाम् | शिष्यादन्यस्य देवेशि न वदेद् यस्य कस्यचित् || ४५ || पारम्पर्यागमाम्नायं मन्त्राचारादिकं प्रिये | सर्व गुरुमुखाल्लब्धं सफलं स्यान्न चान्यथा || ४६ || श्रीशास्त्राश्रयमूलञ्च पुस्तकं न वदेत् प्रिये | नित्यं समर्चयेद्भक्त्या पशुहस्ते न निक्षिपेत् || ४७ || स्वदारवन्निषेवेत कुलशास्त्राणि पार्वति | पशुशास्त्राणि सर्वाणि वर्जयेत् परदारवत् || ४८ || स्वचर्मस्थं यथा क्षीरमपेयं स्याद् द्विजोत्तमैः | तथा पशुमुखाद्धर्मो न श्रोतव्यो हि कौलिकैः || ४९ || यः शृणोति कुलाचारं यथाशास्त्रञ्च यो वदेत् | तावुभौ गच्छतः साक्षाद् योगिनीवीरमेलनम् || ५० || अश्रद्धधाना ये चात्र कुलधर्मे कुलेश्वरि | नरकान्नो निवर्त्तन्ते यावदाहूत संप्लवम् || ५१ || ऊढा धृता तथा क्रीता मूल्येन च समाहृता | सकृत् कामरता वापि पञ्चधा गुरुयोषितः | अलंघ्याः पूजनीयाः स्युर्गुरुवद्गुरुयोषितः || ५२ || गुरुशक्तिं वीरभार्यां कुमारीं व्रतधारिणीम् | व्यङ्गाङ्गी विकृताङ्गीञ्च कुब्जामपि न कामयेत् || ५३ || सुताञ्च भगिनीं पौत्रीं स्नुषां वापि प्रियामपि | न कामयेद् गुरोरग्रे कुर्यान्नान्योन्यसंग्रहम् || ५४ || कृष्णांशुकां कृष्णवणार्ं कुमारीञ्च कृशोदरीम् | मनोहरां यौवनस्थामर्चयेद्देवताधिया || ५५ || एकदापि न सेवेत बलेन कुलयोगिनीम् | चक्रमध्ये स्वयं क्षुब्धां कामयेत् कुलसुन्दरि || ५६ || आममांसं सुराकुम्भं मत्तेभं सिद्धिलिङ्गिनम् | सहकारमशोकञ्च क्रीडालोलाः कुमारिकाः || ५७ || एक्रवृक्षं श्मशानञ्च समूहं योषतामपि | नारीञ्च रक्तवसनां दृष्ट्वा वन्देत भक्तितः || ५८ || गुरुशक्तिसुतज्येष्ठकनिष्ठान् कुलदेशिकान् | कुलदर्शनशास्त्राणि कुलद्रव्याणि कौलिकान् || ५९ || प्रेरकान् सूचकांश्चापि वाचकान् दर्शकांस्तथा | शिक्षकान् बोधकान् योगी योगिनीसिद्धिरूपकान् || ६० || कन्यां कुमारिकां नग्नामुन्मत्तां वापि योषितम् | न निन्देन्न जुगुप्सेत न हसेन्नावमानयेत् || ६१ || नाप्रियं नानृतं ब्रूयात् कस्यापि कुलयोगिनः | कुरूपा चेति कृष्णेति न वदेत् कुलयोषितम् || ६२ || परीक्षयेन्न भक्तानां वीराणाञ्च कृताकृतम् | न पश्येद्वनितां नग्नामुन्मत्तां प्रकटस्तनीम् || ६३ || दिवसे न रमेन्नारीं तद्योनिं नैव वीक्षयेत् | या काचिदङ्गना लोके सा मातृ कुलसम्भवा || ६४ || कुप्यन्ति कुलयोगिन्यो वनितानां व्यतिक्रमात् | स्त्रियं शतापराधाञ्चेत् पुष्पेणापि न ताडयेत् | दोषान्न गणयेत् स्त्रीणां गुणानेव प्रकाशयेत् || ६५ || तिष्ठन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा | तत्पत्रेषु न भोक्तव्यमर्चयेत्तु विशेषतः || ६६ || न स्वपेत् कुलवृक्षाधो न चोपद्रवमाचरेत् | दृष्ट्वा भक्त्या नमस्कुर्याच्छेदयेन्न कदाचन || ६७ || श्लेष्मातकं करञ्जाख्यं निम्बाश्वत्थकदम्बकाः | बिल्ववटोडुम्बराश्च तिन्तिडी नवमी स्मृता || ६८ || प्रायश्चित्तं भृगोः पातं संन्यासं व्रतधारणम् | तीर्थयात्राभिगमनं कौलः पञ्च विवर्जयेत् || ६९ || वीरहत्या वृथापानं वीरपत्नीनिषेवणम् | वीरद्रव्यापहरणम् तत्संयोगश्च पञ्चमः | महापातकमित्युक्तं कौलिकानां कुलान्वये || ७० || शैवे तत्त्वपरिज्ञानं गारुडे विषभक्षणम् | ज्योतिषे ग्रहणं सारं कौलेऽनुग्रहनिग्रहौ || ७१ || देवतागुरुशास्त्राणां सिद्धाचारविडम्बकाः | विद्याचौरो गुरुद्रोही ब्रह्मराक्षसतां व्रजेत् || ७२ || गुरुवाक्यं हतं कृत्वा वीरान् निर्भर्त्स्य च प्रिये | गुरुं हुङ्कृत्य तुङ्कृत्य वीरं निजीत्य वादतः | विकल्प्य कुलशास्त्राणि भवन्ति ब्रह्मराक्षसाः || ७३ || एकाक्षरप्रदातारं यो गुरुञ्चावमानयेत् | श्वानं योनिशतं गत्वा चण्डालत्वमवाप्नुयात् || ७४ || मातरं पितरं भार्यां भ्रातरं बान्धवं सुतम् | कुलनिन्दाकरं देवि हन्यादेवाविचारयन् || ७५ || गुर्वर्थं देवतार्थं वा कौलिकार्थं कुलेश्वरि | कुलागमार्थमथवा कुलधर्मार्थमेव वा || ७६ || देवि निन्दाकरं हत्वा बाधितः स्वयमेव वा | यस्त्यजेद्दुस्त्यजप्राणान् स परे लीयते शिवे || ७७ || एकस्मिन्निधनं यत्र प्रापिते दुष्टचारिणि | बहूनां भवति क्षेमं पुण्यं तस्य वधे भवेत् || ७८ || श्रीचक्रकृतवृत्तान्तं शुभं वा यदि वाऽशुभम् | कदाचिन्नैव वक्तव्यमित्याज्ञा परमेश्वरि || ७९ || कुलधर्मप्रसङ्गञ्च पशूनां पुरतः प्रिये | कदाचिन्नैव कुर्वीत शूद्राग्रे देवपाठवत् || ८० || पीठक्षेत्रागमाम्नायं तद्विद्याचारकौलिकान् | कुलद्रव्यादिकं देवि न वदेत् पशुसन्निधौ || ८१ || यथा रक्षति चौरेभ्यो धनधान्यादिकं प्रिये | कुलधर्मं तथा देवि पशुभ्यः परिरक्षयेत् || ८२ || अन्तः कौलो बहिः शैवो जनमध्ये तु वैष्णवः | कौलं सुगोपयेद्देवि नारिकेलफलाम्बुवत् || ८३ || कुलधर्मादिकं सर्वं सर्वावस्थासु सर्वदा | गोपयेच्च प्रयत्नेन जननीजारगर्भवत् || ८४ || वेदशास्त्रपुराणानि स्पष्टानि गणिका इव | इयन्तु शाम्भवी विद्या गुप्ता कुलवधूरिव || ८५ || सुगुप्तकौलिकाचारमनुगृह्णन्ति देवताः | वाञ्छासिद्धिं प्रयच्छन्ति नाशयन्ति प्रकाशकान् || ८६ || कुलेशि कुलशास्त्रज्ञाः कुलपूजापरायणाः | ये त्वां रहसि सेवन्ते ते तिष्ठन्ति तवान्तिके || ८७ || गुरुं प्रकाशयेद्धीमान् मन्त्रं यत्नेन गोपयेत् | अप्रकाशप्रकाशाभ्यां नश्यतः सम्पदायुषी || ८८ || सर्वाचारपरिभ्रष्टः कुलाचारं समाश्रयेत् | कुलाचारपरिभ्रष्टौ रौरवं नरकं व्रजेत् || ८९ || शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि | कुलभ्रष्टस्य देवेशि न दृष्टा निष्कृतिः क्वचित् || ९० || कुलधर्म समाश्रित्य आचारं यो न पालयेत् | यथेच्छचारिणस्तस्य महापातकिनः प्रिये || ९१ || आपदो दुरितं रोगा दारिद्र्यं कलहो भयम् | योगिनीनां प्रकोपश्च स्खलितानि पदे पदे || ९२ || भ्रंशमानः प्रनष्टश्च तेजोहीनोऽतिदुर्मतिः | निन्दितः सर्वविद्विष्टो विह्वलः सङ्गवजीतः | देशाद्देशान्तरं याति कार्यहानिश्च सर्वदा || ९३ || तत्रापि कुलमार्गस्थाः शाकिन्यः कुलपालिकाः | भक्षयन्ति पुरा तासां वरो दत्तो मयेव तु || ९४ || तस्मादाचारवान् देवि योगिनीनां प्रियो भवेत् | नाशयन्ति चतुर्वेदाननाचाराः कुलेश्वरि || ९५ || पादुकामात्रसारज्ञः सदाचारेषु यन्त्रितः | सदाचारेण देवत्वं योगिनीवीरमेलनम् | सम्प्राप्नुवन्ति तिर्यक्त्वं कौलिकास्तद्विपर्ययात् || ९६ || आज्ञासिद्धमिदं कौलमनाचाराद्विनश्यति | आचारपालनात् सत्यमाज्ञासिद्धिर्भविष्यति || ९७ || नाभिषेको न मन्त्रो वा न शास्त्रपठनादिकम् | कारणं कुलधर्मस्य सदाचारः कुलेश्वरि || ९८ || परा श्रीपादुकातत्त्वत्रयाचारादिवासनाः | यो वेत्ति समयी स स्यात् कौलिकश्चापि शाम्भवि || ९९ || तावन्न कौलिको देवि यावन्न समयीकृतः | देहपाते विमोक्षः स्यात् समयाचारपालनात् || १०० || संस्कारेण विहीनत्वाद् गुरुवाक्यस्य लङ्घनात् | आचारवर्जनाद्देवि कौलिकः पतितो भवेत् || १०१ || नित्यं नैमित्तिकं द्रव्यं मन्त्रयन्त्रादिलोपनम् | अनर्हपशुदुःसङ्गमन्त्रसाङ्कर्यसम्भवम् || १०२ || गुप्तप्रकटसम्भूतं ज्ञानाज्ञानकृतं प्रिये | एवमादिषु दोषेषु पापस्य गुरुलाघवम् || १०३ || देशं कालं वयो वित्तं सम्यग् ज्ञात्वा यथाविधि | प्रायश्चित्तं गुरुर्द्दद्यात् सर्वपापविशुद्धये || १०४ || शिष्योऽपि गुरुणाऽऽज्ञप्तं प्रायश्चित्तं समाचरेत् | अथवा सर्वपापानां गुरुनामजपः स्मृतः || १०५ || जाम्बूनदस्य कलुषं परिशुद्धं यथाग्निना | अनाचारस्य मालिन्यं प्रायञ्चित्ताग्निना दहेत् || १०६ || बहुनात्र किमुक्तेन रहस्यं शृणु पार्वती | वर्णाश्रमाणां सर्वेषामाचारः सद्गतिप्रदः || १०७ || गुरुस्त्रिवारमाचारं कथयेच्च कुलेश्वरि | न गृह्णाति हि शिष्यश्चेत्तदा पापं गुरोर्न हि || १०८ || मन्त्रिदोषश्च राजानं जायादोषः पतिं यथा | तथा प्राप्नोत्यसन्देहं शिष्यपापं गुरुं प्रिये || १०९ || इति ते कथितं किञ्चित् समासेन कुलेश्वरि | कुलाचारविधिं देवि किम्भूयः श्रोतुमिच्छसि || ११० || || इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे कुलाचारकथनं नाम एकादशोल्लासः || ११ || अथ द्वादशोल्लासः श्री देव्युवाच कुलेश श्रोतुमिच्छामि पादुका भक्तिलक्षणम् | आचारमपि देवेश वद मे करुणानिधे || १ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | तस्य श्रवणमात्रेण भक्तिराशु प्रजापते || २ || वाग्भवा मूलवलये सूत्राद्याः कवलीकृताः | एवं कुलार्णवे ज्ञानं पादुकायां प्रतिष्ठितम् || ३ || कोटिकोटिमहादानात् कोटिकोटिमहाव्रतात् | कोटिकोटिमहायज्ञात् परा श्रीपादुकास्मृतिः || ४ || कोटिकोटिमन्त्रजापात् कोटितीर्थावगाहनात् | कोटिदेवार्चनाद्देवि परा श्रीपादुकास्मृतिः || ५ || महारोगे महोत्पाते महादोषे महाभये | महापदि महापापे स्मृता रक्षति पादुका || ६ || दुराचारे दुरालापे दुःसङ्गे दुष्प्रतिग्रहे | दुराचारे च दुर्बुद्धौ स्मृता रक्षति पादुका || ७ || तेनाधीतं स्मृतं ज्ञातम् इष्टं दत्तञ्च पूजितम् | जिह्वाग्रे वर्त्तते यस्य सदा श्रीपादुकास्मृतिः || ८ || सकृत् श्रीपादुकां देवि यो वा जपति भक्तितः | स सर्वपापरहितः प्राप्नोति परमां गतिम् || ९ || शुचिर्वाप्यशुचिर्वापि भक्त्या स्मरति पादुकाम् | अनायासेन धर्मार्थकाममोक्षान् लभते सः || १० || श्रीनाथचरणाम्भोजं यस्यां दिशि विराजते | तस्यां दिशि नमस्कुर्यात् भक्त्या प्रतिदिनं प्रिये || ११ || न पादुकापरो मन्त्रो न देवः श्रीगुरोः परः | न हि शाक्तात् परा दीक्षा न पुण्यं कुलपूजनात् || १२ || ध्यानमूलं गुरोर्मूत्तीः पूजामूलं गुरोः पदम् | मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा || १३ || गुरुमूलाः क्रियाः सर्वा लोकेऽस्मिन् कुलनायिके | तस्मात् सेव्यो गुरुनीत्यं सिद्ध्यर्थं भक्तिसंयुतैः || १४ || तावदात्तीर्भयं शोको लोभमोहभ्रमादयः | यावन्नायाति शरणं श्रीगुरुं भक्तवत्सलम् || १५ || तावद् भ्रमन्ति संसारे सर्वदुःखमलीमसाः | न भवेत् सद्गुरौ भक्तिर्यावद्देवेशि देहिनाम् || १६ || सर्वसिद्धिफलोपेतो मन्त्रः शुध्यति शोभनः | गुरुप्रसादमूलोऽयं परतत्त्वमहाक्रमः || १७ || यथा ददाति सन्तुष्टः प्रसन्नो वरदो मनुम् | तथा भक्त्या धनैः प्राणैर्गुरुं यत्नेन तोषयेत् || १८ || यदा दद्यात् स्वशिष्याय स्वात्मानं देशिकोत्तमः | तदा मुक्तो भवेच्छिष्यस्ततो नास्ति पुनर्भवः || १९ || तावदाराधयेच्छिष्यः प्रसन्नोऽसौ यदा भवेत् | गुरौ प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत् || २० || मनसापि न काङ्क्षन्ते यान् कामाननुजीविनः | सम्पादयन्ति तान् सर्वान् स्वामिनो भक्तवत्सलाः || २१ || ब्रह्मविष्णुमहेशादिदेवतामुनियोगिनः | कुर्वन्त्यनुग्रहं तुष्टा गुरौ तुष्टे न संशयः || २२ || भक्त्या तुष्टेन गुरुणा यः प्रदिष्टः कृपालुना | कर्ममुक्तो भवेच्छिष्योः भुक्तिमुक्त्योः स भाजनम् || २३ || शिष्येणापि तथा कार्यं तथा सन्तोषितो गुरुः | प्रियं कुर्याच्च देवेशि मनोवाक्कायकर्मभिः || २४ || यदि तुष्टेन गुरुणात्मशिष्यो यत्र कुत्रचित् | मुक्तोऽसीति समादिष्टः सोऽपि मुक्तिं व्रजेत् प्रिये || २५ || अथवा निष्प्रपञ्चेन धाम्ना केनचिदीश्वरः | करोति गुरुरूपेण पशुपाशविमोचनम् || २६ || न मे प्रियश्चतुर्वेदी मद्भक्तः श्वपचोऽपि वा | तस्मै देयं ततो ग्राह्यं स तु पूज्यो ह्यहं तथा || २७ || विप्रः षड्गुणयुक्तश्चेदभक्तो न प्रशस्यते | म्लेच्छोऽपि गुणहीनोऽपि भक्तिमान् शिष्य उच्यते || २८ || गुरुभक्तिविहीनस्य तपो विद्या कुलं व्रतम् | सर्वं नश्यति तत्रैव भूषणं लोकरञ्जनम् || २९ || गुरुभक्त्यग्निना सम्यग्दग्धदुर्मतिकल्मषः | श्वपचोऽपि परैः पूज्यो विद्वानपि न नास्तिकः || ३० || धर्मार्थकामैः किन्तस्य मोक्ष एव करे स्थितः | सर्वार्थैः श्रीगुरौ देवि यस्य भक्तिः सदा स्थिरा || ३१ || स शिवो गुरुरूपेण भुक्तिमुक्तिप्रदो मम | इति भक्त्या स्मरेद् यस्तु तस्य सिद्विरदूरतः || ३२ || यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ | तस्य ते कथिता ह्यर्थाः प्रकाशन्ते कुलेश्वरि || ३३ || नारायणे महादेवे मातापित्रोश्च राजनि | भक्तिर्यथा महादेवि तथा कार्या निजे गुरौ || ३४ || लक्ष्मीनारायणौ वाणीधातारौ गिरिजाशिवौ | श्रीगुरुं गुरुपत्नीञ्च पितराविति चिन्तयेत् || ३५ || गुरुभक्त्या यथा देवि प्राप्यन्ते सर्वसिद्धयः | यज्ञः दानतपस्तीर्थव्रताद्यैर्न तथा प्रिये || ३६ || श्रीगुरौ निश्चला भक्तिर्वर्द्धते हि यथा यथा | तथा तथास्य विज्ञानं वर्द्धते कुलनायिके || ३७ || कि तीर्थाद्यैर्महायासैः किं व्रतैः कायशोषणैः | निर्व्याजसेवा देवेशि भक्तिरेषा हि सद्गुरोः || ३८ || कायाक्लेशेन महता तपसा वापि यत् फलम् | तत् फलं लभते देवि सुखेन गुरुसेवया || ३९ || भोगमोक्षाथीनां ब्रह्मविष्ण्वीशपदकाङ्क्षिणाम् | भक्तिरेव गुरौ देवि नान्यः पन्था इति श्रुतिः || ४० || अशुभानि च कर्माणि महापातकजानि च | भक्तिः क्षणेन दहति तूलराशिमिवानलः || ४१ || विश्वासाय नमस्तस्मै सर्वसिद्धिप्रदायिने | येन मृद्दारुद्दषदः फलन्त्यविफलं फलम् || ४२ || न योगो न तपो नार्चाक्रमः कोऽपि प्रलीयते | अमाये कुलमार्गेऽस्मिन् भक्तिरेव विशिष्यते || ४३ || साक्षाद् गुरुमये देवि सर्वस्मिन् भुवनान्तरे | किन्नु भक्तिमतां क्षेत्रे मन्त्रः केषां न सिध्यति || ४४ || गुरौ मनुष्यबुद्धिञ्च मन्त्रे चाक्षरबुद्धिकम् | प्रतिमासु शिलाबुद्धि कुर्वाणो नरकं व्रजेत् || ४५ || गुरुं न मर्त्त्यं बुध्येत यदि बुध्येत तस्य हि | न कदाचिद्भवेत् सिद्धिर्मन्त्रैर्वा देवतार्चनैः || ४६ || श्रीगुरुं प्राकृतैः सार्द्धं ये स्मरन्ति वदन्ति च | तेषां हि सुकृतं सर्वं पातकं भवति प्रिये || ४७ || जन्महेतू हि पितरौ पूजनीयौ प्रयत्नतः | गुरुवीशेषतः पूज्यो धर्माधर्मप्रदर्शकः || ४८ || गुरुः पिता गुरुर्माता गुरुर्द्देवो महेश्वरः | शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन || ४९ || गुरोहीतं हि कर्त्तव्यं मनोवाक्कायकर्मभिः | अहिताचरणाद्देवि विष्ठायां जायते क्रिमिः || ५० || शरीरवित्तप्राणैश्च श्रीगुरुं वञ्चयन्ति ये | क्रिमिकीटपतङ्गत्वं प्रात्नुवन्ति न संशयः || ५१ || मन्त्र त्यागाद्भवेन्मृत्युर्गुरुत्यागाद्दरिद्रता | गुरुमन्त्रपरित्यागाद्रौरवं नरकं व्रजेत् || ५२ || गुर्वर्थं धारयेद्देहं तदर्थं धनमर्जयेत् | निजप्राणान् परित्यज्य गुरुकार्यं समाचरेत् || ५३ || गुरूक्तं परुषं वाक्यमाशिषं परिचिन्तयेत् | तेन सन्ताडितो वापि प्रसादमिति संस्मरेत् || ५४ || भोग्य भोज्यानि वस्तूनि गुरुवे च समर्पयेत् | तच्छेषमिति सञ्चिन्त्य चानुभूयात् कुलेश्वरि || ५५ || गुर्वग्रे न तपः कुर्यान्नोपवासव्रतादिकम् | तीर्थयात्रां न कुर्याच्च न स्नायादात्मशुद्धये || ५६ || न वियोगं गुरोः कुर्यात् युष्मदो नैव भाषयेत् | ऋणदानं तथाऽऽदानं वस्तूनां क्रयविक्रयम् | न कुर्याद् गुरुभिः सार्द्धं शिष्यो भूत्वा कथञ्चन || ५७ || न कुर्यान्नास्तिकैर्वादं सम्भाषणमपीश्वरि | विलोक्य दूरतो गच्छेन्नासीत सह तैः क्वचित् || ५८ || गुरौ सन्निहिते यस्तु पूजयेदन्यमम्बिके | स याति नरकं घोरं सा पूजा निष्फला भवेत् || ५९ || शिरसा न वहेद्भारं गुरुपादाब्जधारिणा | तदाज्ञया तु कर्त्तव्यमाज्ञारूपो गुरुः स्मृतः || ६० || मन्त्रागमाद्यमन्यत्र श्रुतं यस्मै निवेदयेत् | गुर्वाज्ञया तु गृह्णीयात्तन्निषिद्धं विवर्जयेत् || ६१ || स्वशास्त्रोक्तं रहस्यार्थं न वदेद् यस्य कस्यचित् | यदि ब्रूयात् स समयाच्च्युत एव न संशयः || ६२ || अद्वैतं भावयेन्नित्यं न द्वैतं गुरुणा सह | आत्मवत् सर्वभूतेभ्यो हितं कुर्यात् कुलेश्वरि || ६३ || आत्मार्थमानसद्भावैः शुश्रूषा स्याच्चतुवीधा | शुश्रूषया धिया देवि शिष्यः सन्तोषयेद् गुरुम् || ६४ || पदे पदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयः | शुश्रूषणपरो यस्तु गुरुदेवमहात्मनाम् || ६५ || केवलं गुरुशुश्रूषा त्वत्कृपाकारिणी प्रिये | सद्भक्तिसहिता चेत् सा सर्वकामफलप्रदा || ६६ || क्षीयन्ते सर्वपापानि वर्द्धन्ते पुण्यराशयः | सिध्यन्ति सर्वकार्याणि गुरुशुश्रूषया प्रिये || ६७ || यद् यदात्महितं वस्तु तत्तद्धितमुपाचरेत् | गुरुदेवार्चको यस्तु तस्य पुण्यं न गण्यते || ६८ || भक्त्या वित्तानुसारेण गुरुमुद्दिश्य यत् कृतम् | अल्पे महति वा तुल्यं पुण्यमाढ्यदरिद्रयोः || ६९ || सर्वस्वमपि यो दद्याद् गुरौ भक्तिविवजीतः | शिष्यो न फलमाप्नोति भक्तिरेव हि कारणम् || ७० || यस्मिन् द्रव्ये गुरोरस्ति स्पृहा नानुभवेत्तु तत् | अवश्यं यदि वाञ्छा स्यादनुभूयात्तदाज्ञया || ७१ || यस्तिलार्द्धं तदर्द्धं वा गुरुस्वमुपजीवति | लोभान्मोहात् स पच्येत नरके च त्रिसप्तके || ७२ || अत्यल्पं हि गुरोर्द्रव्यमदत्तं स्वीकरोति यः | स तिर्यग् योनिमापन्नः क्रव्यादैर्भक्ष्यते प्रिये || ७३ || गुरुद्रव्याभिलाषी च गुरुस्त्रीगमनोत्सुकः | पतितस्य क्षुल्लकस्य प्रायश्चित्तं न विद्यते || ७४ || आज्ञाभङ्गोऽर्थहरणं गुरोरप्रियवर्त्तनम् | गुरुद्रोहमिदं प्राहुर्यः करोति स पातकी || ७५ || स्वद्रव्यविनियोगञ्च नानिवेद्य गुरौ चरेत् | अनिवेद्य तु यः कुर्यात् स भवेद् ब्रह्मघातकः || ७६ || गुरोः स्थानं सम्प्रदायं तद्धर्मं यो विनाशयेत् | गुरुभिः स बहिष्कार्यो दण्ड्यो वध्यः स घातकैः || ७७ || गुरुकोपाद्विनाशः स्याद् गुरुद्रोहात्तु पातकम् | विमृत्युगुरुनिन्दायां गुर्वनिष्टान्महापदः || ७८ || जीवेदग्निप्रविष्टो वा नरः पीतविषोऽपि वा | मृत्युहस्तगतो वापि नापराधकरो गुरोः || ७९ || यत्र श्रीगुरुनिन्दा स्यात् पिधाय श्रवणेऽम्बिके | सद्यस्तस्माद्विनिष्क्रामेत् पुनर्न श्रवणं यथा | गुरोर्नाम स्मरेत् पश्चात् श्रवणे सा प्रतिक्रिया || ८० || गुरुमित्रसुहृद्दासीदासाद्यान् नावमानयेत् | न निन्देदस्य समयान् वेदशास्त्रागमादिकान् || ८१ || गुरोः श्रीपादुकाभूषा गुरुनामस्मृतिर्जपः | गुर्वाज्ञाकरणं कृत्यं शुश्रूषा भजनं गुरोः || ८२ || विविक्षुर्द्देशिकावासं शान्तचित्तोऽतिभक्तिमान् | वाहनं पादुकां छत्रं चामरं व्यजनादिकम् | ताम्बूलं कज्जलं वेशमुत्सृज्य प्रविशेच्छनैः || ८३ || पादुकामासनं वस्त्रं वाहनं छत्रचामरे | दृष्ट्वा गुरोर्नमस्कुर्यान्नात्मभोगाय कामयेत् || ८४ || पादप्रक्षालनं स्नानमभ्यङ्गं दन्तधावनम् | मूत्रं निष्ठीवनं क्षौरं शयनं स्त्रीनिषेवनम् || ८५ || वीरासनं सुदुर्वाक्यं शासनं हास्यरोदनम् | केशमोचनमुष्णीषं कञ्चुकं नग्नतां तथा || ८६ || पादप्रसारणं वादं कलहं दूषणं प्रिये | अङ्गभङ्गाङ्गवाद्यादिकरास्फालनधूननम् || ८७ || द्यूतकौतुकमल्लादियुद्धनृत्यादि चाम्बिके | गुरुयोगिमहासिद्धिपीठक्षेत्राश्रमेषु च | ना चरेदाचरेन्मोहाद्देवताशापमाप्नुयात् || ८८ || उपचारेण सन्तिष्ठेद् गुर्वग्रे नेच्छया विशेत् | मुखावलोकी सेवेत तदुक्तञ्च समाचरेत् || ८९ || गुरूक्तानुक्त कार्येषु नोपेक्षां कारयेत् प्रिये | शिरसा यद्गुरुर्ब्रूयात्तत् कार्यमविशङ्कया || ९० || निग्रहेऽनुग्रहे वापि गुरुः सर्वस्य कारणम् | निर्गतं यद्गुरोर्वक्त्रात् सर्वं शास्त्रं तदुच्यते || ९१ || गुरुकार्ये स्वयं शक्तो नापरं प्रेषयेत् प्रिये | बहुभृत्यपरैर्भृत्यैः सहितोऽप्यतिभक्तिमान् || ९२ || गच्छंस्तिष्ठन् स्वपन् जाग्रज्जपन् जुह्वात् प्रपूजयेत् | गुर्वाज्ञामेव कुर्वीत तदगतेनान्तरात्मना || ९३ || अभिमानो न कर्त्तव्यो जातिविद्याधनादिभिः | सर्वदा सेवयेत् नित्यं शिष्यः भ्रीगुरुसन्निधौ || ९४ || कामक्रोधपरित्यागी विनीतः स्तुतिभक्तिमान् | देवि भूम्यासने तिष्ठेद् गुरुकार्यं समाचरेत् || ९५ || स्वकार्यमन्यकार्यं वा शिष्यः स्वगुरुचित्तवित् | गुरुपार्श्वगतो नम्रः प्रसन्नवदनो भवेत् || ९६ || सामान्यतो निषिद्धञ्च तद्गुरोर्यदि सन्निधौ | आचरेत्तस्य सर्वस्य दोषः कोटिगुणो भवेत् || ९७ || अनादृत्य गुरोर्वाक्यं शृणुयाद् यः पराङ्मुखः | अहितं वा हितं वापि रौरवं नरकं व्रजेत् || ९८ || गोब्राह्मणवधं कृत्वा यत् पापं समवाप्नुयात् | तत् पापं समवाप्नोति गुर्वग्रेऽनृतभाषणात् || ९९ || स्थानान्तरगताचार्ये व्यसने विषमे स्थिते | श्रीगुरुं न त्यजेत् क्वापि तदादिष्टो व्रजेत् प्रिये || १०० || अधः स्थिते गुरावूर्ध्वे न तिष्ठेत कदाचन | न गच्छेदग्रतस्तस्य न तिष्ठेदुत्थिते गुरौ || १०१ || शक्तिच्छायां सुरच्छायां गुरुच्छायां न लङ्घयेत् | न तेषु कुर्यात् स्वच्छायां न स्वपेद् गुरुसन्निधौ || १०२ || भाषणं पाठनं गानं भोजनं शयनादिकम् | अनादिष्टो न कुर्वीत न चावन्दनपूर्वकम् || १०३ || ब्रह्महत्याशतं कुर्यात् गुर्वाज्ञापरिपालनात् | विना गुर्वाज्ञया शिष्यौ विश्वसेन्नान्यशासनात् || १०४ || सर्वं गुर्वाज्ञया कुर्यान्न निन्देत्तत्स्त्रियं प्रिये | भक्त्या प्रणम्य चोत्तिष्ठेत् कृताञ्जलिपुटः प्रिये || १०५ || पश्चात्पदेन निर्गच्छेन्नमस्कृत्य गुरोर्गृहात् | एकासने नोपविशेद् गुरुणा तत्समैः सह || १०६ || न विशेदासने देवि देवतागुरुसन्निधौ | गुरोः सिंहासनं देयं ज्येष्ठानामुत्तमासनम् | देश्यासनं कनिष्ठानामितरेषां समासनम् || १०७ || जाति विद्याधनाढ्यो वा दूरे दृष्ट्वा गुरुं मुदा | दण्डप्रणामं कृत्वैकं त्रिः प्रदक्षिणमाचरेत् || १०८ || ततस्त्रिः षड् द्वादश वा ज्येष्ठादिष्वेकमेव वा | गुरुप्रगुरुयोगेन वन्देत प्रगुरु प्रिये || १०९ || ततो नमेद् गुरुं वापि गुर्वाज्ञां न विचारयेत् | प्रगुरोः सन्निधौ शिष्यः स्वगुरुं मनसा नमेत् || ११० || गुरुबुद्ध्या नमेत् सर्व दैवतं तृण्मेव वा | न नमेद्देवबुद्ध्या तु प्रतिमां लौहमृण्मयीम् || १११ || गुरोः प्रणामत्रितयं ज्येष्ठानामेक एव च | पूज्यानामञ्जलिस्तद्वदन्येषां वाक्यवन्दनम् || ११२ || देवान् गुरून् कुलाचार्यान् ज्ञानवृद्धान् तपोधनान् | विद्याधिकान् स्वधर्मस्थान् प्रणमेत् कुलनायिके || ११३ || स्त्रीद्विष्टं गुरुभिः शप्तं पाषण्डं पण्डितं शठम् | विकर्माणं कृतघ्नञ्चानाश्रमिणञ्च नो नमेत् || ११४ || अनिवेद्य गुरोर्भुङ्क्ते यस्त्वेकग्रामसंस्थितः | अमेध्यं तद्भवेदन्नं शूकरो जायते मृतः || ११५ || एकग्रामस्थितः शिष्यस्त्रिसन्ध्यं प्रणमेद् गुरुम् | क्रोशामात्रस्थितः शिष्यो गुरुं प्रतिदिनं नमेत् || ११६ || अर्द्धयोजनगः शिष्यः प्रणमेत् पञ्चपर्वसु | एकयोजनमारम्य योजनद्वादशावधि || ११७ || तत्संख्यादिवसैर्मासैः श्रीगुरुं प्रणमेत् प्रिये | दूरदेशस्थितः शिष्यो भक्त्या तत्सन्निधिं गतः || ११८ || तत्र योजनसंख्योक्तमासेन प्रणमेद् गुरुम् | अतिदूरगतः शिष्यो यदिच्छा स्यात्तदा व्रजेत् || ११९ || रिक्तहस्तश्च नोपेयाद्राजानं देवतां गुरुम् | फलपुष्पाम्बरादीनि यथाशक्त्या समर्पयेत् || १२० || एवं यो न चरेद्देवि ब्रह्मराक्षसतां व्रजेत् | गुरुशक्तिश्च तत्पुत्रो ज्येष्ठभ्राता गुरुः स्मृतः || १२१ || आत्मविच्च कनीयांसं पुत्रवत् परिपालयेत् | कुलाचार्यस्य देवेशि गुरुज्येष्ठकनिष्ठयोः | गुरुकल्पस्य कुर्वीत प्रणामं स्वरगुरोर्यथा || १२२ || यागज्येष्ठः क्रमज्येष्ठः कुलज्येष्ठस्तृतीयकः | गुरुज्येष्ठसुतो देवि इति ज्येष्ठचतुष्टयम् || १२३ || यागज्येष्ठाभिवादेन क्रमिकाष्टाङ्गयोगतः | गुरुश्च कुलवृक्षश्च वन्दनीयौ विधानतः || १२४ || पितृमात्रादिसर्वेषु पूज्यकोटिषु बन्धुषु | अभ्युत्थानप्रणामाद्यैरव्यक्तो दोषभाग्बहिः || १२५ || यदा त्वाचार्यरूपेण चात्मानं सम्प्रकाशयेत् | अभ्युत्थानप्रणामाद्यैर्द्दोषभाक् स भवेत्तदा || १२६ || पतिर्भूत्वा पशुभ्यश्च प्रणामं यः करिष्यति | स महापशुरित्युक्तो देवताशापमाप्नुयात् || १२७ || यो गुरुस्थानकं प्राप्तः पादुकापरिसंख्यया | गुरुवत् स तु मन्तव्यो ज्येष्ठैर्वन्द्यो न च प्रिये || १२८ || इति ते कथितं किञ्चित् पादुकाभक्तिलक्षणम् | समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि || १२९ || || इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे पादुकाकथनं नाम द्वादशोल्लासः || १२ || अथ त्रयोदशोल्लासः श्री देव्युवाच कुलेश श्रोतुमिच्छामि करुणामृतवारिधे | वक्तुमर्हसि देवेश लक्षणं गुरुशिष्ययोः || १ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | तस्य श्रवणमात्रेण गुरुभावः प्रजायते || २ || दुष्टवंशोद्भवं दुष्टं गुणहीनं विरूपिणम् | परशिष्यञ्च पाषण्डं षण्डं पण्डितमानिनम् || ३ || हीनाधिकविकाराङ्गं विकलावयवान्वितम् | पङ्गुमन्धञ्च बधिरं मलिनं व्याधिपीडितम् || ४ || उत्सृष्टं दुर्मुखञ्चापि स्वेच्छावेशधरं प्रिये | दुवीकाराङ्गचेष्टादिगतिभाषणवीक्षणम् || ५ || निद्रातन्द्राजडालस्यद्यूतादिव्यसनान्वितम् | कपाटकुड्यस्तम्भादौ तिरोहिततनुं सदा | अन्तर्भक्तिकरं क्षुद्रं बाह्यभक्तिविवजीतम् || ६ || व्यलीकवादिनं स्तब्धं प्रोषितं प्रेषकं शठम् | धनस्त्रीशुद्धिरहितं निषेधविधिवजीतम् || ७ || रहस्यभेदकं वापि देवि कार्यविनाशकम् | मार्जारबकवृत्तिञ्च रन्ध्रान्वेषणतत्परम् || ८ || मायाविनं कृतघ्नञ्च प्रच्छन्नान्तरदायकम् | विश्वासघातकं स्वामिद्रोहिणं पापकारिणम् || ९ || अविश्वासकरं संशयात्मकं सिद्ध्यकाङ्क्षिणम् | आततायिनमादित्सु कोपितं कूटसाक्षिणम् || १० || सर्वप्रतारकं देवि सर्वोत्कृष्टाभिमानिनम् | असत्यं निष्ठुरासक्तं ग्राम्यादिबहुभाषिणम् || ११ || दुवीचारकुतर्कादिकारकं कलहप्रियम् | वृथाक्षेपकरं मूर्खं चपलं वाग्विडम्बकम् || १२ || परोक्षे दूषणकरं प्रत्यक्षे प्रियवादिनम् | वाग्ब्रह्मवादिनं विद्या चौरमात्मप्रशंसकम् || १३ || गुणासहिष्णुमहितमार्त्तक्रोधनमम्बिके | वाचालं दुर्जनसखं सर्वलोकविगहीतम् || १४ || पिशुनं परसन्ताप्यं सम्विदप्रणयं प्रिये | स्वक्लेशवादिनं स्वामिद्रोहिणं स्वात्मवञ्चकम् || १५ || जिह्वोपस्थपरं देवि तस्करं पशुचेष्टितम् | अकारणद्वेषहासक्लेशक्रोधादिकारिणम् || १६ || अतिहासमकर्माणं मर्मान्तपरिहासकम् | कामुकञ्चातिनिर्लज्जं मिथ्यादुश्चेष्टसूचकम् || १७ || असूयामदमात्सर्यदम्भाहङ्कारसंयुतम् | ईर्ष्यापारुष्यपैशुन्यकार्पण्यक्रोधमानसम् || १८ || अधीरं दुःखिनं भीरुमशक्तस्तवमातुरम् | अप्रबुद्धमतिं मन्दं मूढं चिन्ताकुलं विटम् || १९ || तृष्णालोभयुतं दीनमतुष्टं सर्वयाचकम् | बह्वाशिनं कपटिनं भ्रामकं कुटिलं प्रिये || २० || भक्तिश्रद्धादयाशान्तिधर्माचारविवजीतम् | मातापितृगुरुप्राज्ञसद्वचोहास्यकारकम् || २१ || कुलद्रव्यादिबीभत्सं गुरुसेवाभिमानिनम् | स्त्रीद्विष्टं समयभ्रष्टं गुरुशप्तं कुलेश्वरि | इत्यादिदुर्गुणोपेतं गुरुः शिष्यं विवर्जयेत् || २२ || सच्छिष्यन्तु कुलेशानि शुभलक्षणसंयुतम् | समाधि साधनोपेतं गुणशीलसमन्वितम् || २३ || स्वच्छदेहाम्बरं प्राज्ञं धामीकं शुद्धमानसम् | दृढव्रतं सदाचारं श्रद्धाभक्तिसमन्वितम् || २४ || दक्षमल्पाशिनं गूढचित्तं निर्व्याजसेवकम् | विमृश्यकारिणं वीरं मनोदारिद्र्यवजीतम् || २५ || सर्वकार्यातिकुशलं स्वच्छं सर्वोपकारिणम् | कृतज्ञं पापभीतञ्च साधुसज्जनसम्मतम् || २६ || आस्तिकं दानशीलञ्च सर्वभूतहिते रतम् | विश्वासविनयोपेतं धनदेहाद्यवञ्चकम् || २७ || असाध्यसाधकं शूरमुत्साहबलसंयुतम् | अनुकूलं क्रियायुक्तमप्रमत्तं विचक्षणम् || २८ || हितसत्यमितस्मेरभाषणं मुक्तदूषणम् | सकृदुक्तगृहातार्थं चतुरं बुद्धिविस्तरम् || २९ || स्वस्तुतौ परनिन्दायां विमुखं सुमुखं प्रिये | जितेन्द्रियं सुसन्तुष्टं धीमन्तं ब्रह्मचारिणम् || ३० || त्यक्ताधिव्याधिचापल्यदुःखभ्रान्तिमसंशयम् | गुरुध्यानस्तुतिकथादेवार्चावन्दनोत्सुकम् || ३१ || गुरुदैवतसम्भक्तं कामिनीपूजकं परम् | नित्यं गुरुसमीपस्थं गुरुसन्तोषकारकम् || ३२ || मनोवाक्तनुभिनीत्यं परिचर्या समुद्यतम् | गुर्वाज्ञापालकं देवि गुरुकीत्तीप्रकाशकम् || ३३ || गुरुवाक्यप्रमाणज्ञं गुरुशुश्रूषणे रतम् | चित्तानुवत्तीनं प्रेष्यकारिणं कुलनायिके || ३४ || जातिमानधने गर्ववजीतं गुरुसन्निधौ | निरपेक्षं गुरुद्रव्ये तत्प्रसादाभिकाङ्क्षिणम् || ३५ || कुलधर्मकथायोगियोगिनीकौलिकप्रियम् | कुलार्चनादिनिरतं कुलद्रव्याजुगुप्सकम् || ३६ || जपध्यानादिनिरतं मोक्षमार्गाभिकाङ्क्षिणम् | कुलशास्त्रप्रियं देवि पशुशास्त्रपराङ्मुखम् | इत्यादिलक्षणोपेतं गुरुः शिष्यं परिग्रहेत् || ३७ || श्रीगुरुः परमेशानि शुद्धवेशो मनोहरः | सर्वलक्षणसम्पन्नः सर्वावयवशोभितः || ३८ || सर्वागमार्थतत्त्वज्ञः सर्वमन्त विधानवित् | लोकसम्मोहनकरो देववत् प्रियदर्शनः || ३९ || सुमुखः सुलभः स्वच्छो भ्रमसंशयनाशकः | इङ्गिताकारवित् प्राज्ञ ऊहापोहविदुज्ज्वलः || ४० || अन्तर्लक्ष्यो बहिर्दृष्टिः सर्वज्ञो देशकालवित् | आज्ञासिद्धिस्त्रिकालज्ञो निग्रहानुग्रहक्षमः || ४१ || वेधको बोधकः शान्तः सर्वजीवदयापरः | स्वाधीनेन्द्रियसञ्चारषड्वर्गविजयक्षमाः || ४२ || अग्रगण्योऽतिगम्भीरः पात्रापात्रविशेषवित् | शिवविष्णुसमः साधुर्मन्ददर्शनदूषकः || ४३ || निर्मलो नित्यसन्तुष्टः स्वतन्त्रो मन्त्रशक्तिमान् | सद्भक्तवत्सलो धीरः कृपालुः स्मितपूर्णवाक् || ४४ || भक्तप्रियः सदोदारो गम्भीरः शिष्टसाधकः | स्वेष्टदेवगुरुज्येष्ठ वनितापूजनोत्सुकः || ४५ || नित्ये नैमित्तिके काम्ये रतः कर्मण्यनिन्दिते | रागद्वेषभयक्लेशदम्भाहङ्कारवजीतः || ४६ || स्वविद्यानुष्ठानरतो धर्मादीनामुपार्जकः | यदृच्छालाभसन्तुष्टो गुणदोषविभेदकः || ४७ || स्त्रीधनादिष्वनासक्तो दुःसङ्गव्यसनादिषु | सर्वाहम्भावसंयुक्तो निर्द्वन्द्वो नियतव्रतः || ४८ || अलोलुपो ह्यसङ्कल्पपक्षपाती विचक्षणः | वित्तविद्यादिभिर्मन्त्रयन्त्रतन्त्राद्यविक्रयी || ४९ || निःसङ्गो निवीकल्पश्च निर्णीतार्थोऽतिधामीकः | तुल्यनिन्दास्तुतिर्मौनो निरपेक्षो निरामयः | इत्यादिलक्षणोपेतः श्रीगुरुः कथितः प्रिये || ५० || यः शिवः सर्वगः सूक्ष्मश्चोन्मना निष्कलोऽव्ययः | व्योमाकारो ह्यजोऽनन्तः स कथं पूज्यते प्रिये || ५१ || अत एव शिवः साक्षाद्गुरुरूपं समाश्रितः | भक्त्या सम्पूजितो देवि भुक्तिं मुक्तिं प्रयच्छति || ५२ || शिवोऽहं नाकृतिर्द्देवि नरदृग्गोचरो नहि | तस्मात् श्रीगुरुरूपेण शिष्यान् रक्षति धामीकान् || ५३ || मनुष्यचर्मणा बद्धः साक्षात् परशिवः स्वयम् | सच्छिष्यानुग्रहार्थाय गूढं पर्यटति क्षितौ || ५४ || सद्भक्तरक्षणायैव निराकारोऽपि साकृतिः | शिवः कृपानिधिर्लोके संसारीव हि चेष्टते || ५५ || ललाटलोचनं चान्दीं कलामपि च दोर्द्दयम् | अन्तर्धाय च वर्त्तेयं गुरुरूपो महीतले || ५६ || अत्रिनेत्रः शिवः साक्षादचतुर्बाहुरच्युतः | अचतुर्वदनो ब्रह्मा श्रीगुरुः कथितं प्रिये || ५७ || नरवद्दृश्यते लोके श्रीगुरुः पापकर्मणा | शिववद् दृश्यते लोके भवानि पुण्यकर्मणा || ५८ || श्रीगुरुं परमं तत्त्वं तिष्ठन्तं चक्षुरग्रतः | मन्दभाग्या न पश्यन्ति ह्यन्धाः सूर्यमिवोदितम् || ५९ || गुरुः सदाशिवः साक्षात् सत्यमेव न संशयः | शिव एव गुरुर्नो चेद्भुक्ति मुक्ति ददाति कः || ६० || सदाशिवस्य देवस्य श्रीगुरोरपि पार्वती | उभयोरन्तरं नास्ति यः करोति स पातकी || ६१ || देशिकाकृतिमास्थाय पशोः पाशानशेषतः | छित्त्वा परं पदं देवि नयत्येनमतो गुरुः || ६२ || सर्वानुग्रहकर्त्तृत्वादीश्वरः करुणानधिः | आचार्यरूपमास्थाय दीक्षया मोक्षयेत् पशून् || ६३ || यथा घटश्च कलसः कुम्भश्चैकार्थवाचकः | तथा देवश्च मन्त्रश्च गुरुश्चैकार्थ उच्यते || ६४ || यथा देवस्तथा मन्त्रो यथा मन्त्रस्तथा गुरुः | देवमन्त्रगुरूणाञ्च पूजया सदृशं फलम् || ६५ || शिवरूपं समास्थाय पूजां गृह्णामि पार्वती | गुरुरूपं समादाय भवपाशान्निकृन्तये || ६६ || सिद्धान्तशारवेत्ताहं बीजोऽहमिति बोधकृत् | अविच्छिन्नः सदा हृष्टहृदयो गुरुरुच्यते || ६७ || यो विलंघ्याश्रमान् वर्णानात्मन्येव स्थितः सदा | ज्योतिवर्णाश्रमी योगी स गुरुः कथितः प्रिये || ६८ || षडध्वानं षडाधारं षोडशाधारनिर्णयम् | यो जानाति विधानेन स गुरुः कथितः प्रिये || ६९ || दृश्यं विना स्थिरा दृष्टिर्मनश्चालम्बनं विना | विनायासं स्थिरो वायुर्यस्य स्यात् स गुरुः प्रिये || ७० || यत्तु संवित्तिजननं परानन्दसमुद्भवम् | तत्तत्त्वं विदितं येन स गुरुः कुलनायिके || ७१ || भूतभव्यौ तन्त्रमन्त्रौ वेत्ति यः शाक्तशाम्भवम् | वेधञ्च षड्विधं देवि स हि वेधकरो गुरुः || ७२ || पदमन्त्रकलायन्त्रसतत्त्वतभुवनाश्रयम् | शोधयेद् यः षडध्वानं स गुरुः कथितः प्रिये || ७३ || वेधं पदं विरोधञ्च ग्रहणं मोक्षणं तथा | यो वा सम्यग्विजानाति स गुरुः कथितः प्रिये || ७४ || जाग्रत् स्वप्नः सुषुप्तिश्च तुरीयं तदतीतकम् | यो वेत्ति पञ्चकं देवि स गुरुः कथितः प्रिये || ७५ || पिण्डं पदं तथा रूपं रूपातीतं चतुष्टयम् | यो वा सम्यग्विजानाति स गुरुः कथितः प्रिये || ७६ || यो वा पराञ्च पश्यन्तीं मध्यमां वैखरीमपि | चतुष्टयं विजानाति स गुरुः कथितः प्रिये || ७७ || आत्मविद्याशिवसर्वमिति तत्त्वचतुष्टयम् | यो वेत्ति परमेशानि स गुरुर्नापरः प्रिये || ७८ || पाशच्छेदं वेधदीक्षां पशुग्रहणमेव च | त्रिविधं यो विजानाति स गुरुः परमो मतः || ७९ || पदं पाशं पशुनाञ्च रहस्यार्थं विधानतः | यो जानाति वरारोहे स गुरुः कथितः प्रिये || ८० || चक्रसङ्केतकं मन्त्रं पूजासङ्केतकं तथा | त्रितयं यो विजानाति स गुरुः कथितः प्रिये || ८१ || वाणेतरस्वयम्भ्वाख्यलिङ्गत्रितयसंस्थितिम् | तत्त्वतो यो विजानाति स गुरुः कथितः प्रिये || ८२ || आणवं कार्मणञ्चैव मायीयञ्च मलत्रयम् | यो विशोधयितुं शक्तः स गुरुः परमो मतः || ८३ || आरक्तशुक्लमिश्रा(कृष्णा)ख्यचरणत्रयवासनाम् | यो जानाति महादेवि स गुरुः परमो मतः || ८४ || महामुद्रां नभोमुद्राम् उङ्डीयानं जलन्धरम् | मूलबन्धञ्च यो वेत्ति स गुरुः परमो मतः || ८५ || शिवादिक्षितिपर्यन्तं षट्त्रिंशत्तत्त्वनिर्णयम् | यो विजानाति तत्त्वेन स गुरुः परमो मतः || ८६ || अन्तर्यागं बहिर्यागं कलाज्ञानस्थितिं प्रिये | चारुयन्त्रविधानञ्च यो वेत्ति स गुरुः प्रिये || ८७ || पिण्डब्रह्माण्डयोरैक्यं स्थितिं यो वेत्ति तत्त्वतः | शिरास्थिरोमसंख्यादि स गुरुर्नापरः प्रिये || ८८ || पद्मादिचतुरशीतिनानासनविचक्षणः | यमाद्यष्टाङ्गयोगज्ञः स गुरुः परमो मतः || ८९ || घृणा सङ्का भयं लज्जा जुगुप्सा चेति पञ्चमी | कुलं शीलं तथा जातिरष्टौ पाशाः प्रकीत्तीताः || ९० || पाशबद्धः पाशुर्ज्ञेयः पाशमुक्तो महेश्वरः | तस्मात् पाशहरो यस्तु स गुरुः परमो मतः || ९१ || बन्धनं योनिमुद्राया मन्त्रचैतन्यदर्शनम् | यन्त्रमन्त्रस्वरूपञ्च यो वेत्ति स गुरुः प्रिये || ९२ || विनिक्षिप्तां गतायातां संक्लिष्टां संविनीतकाम् | चतुवीधां मनोऽवस्थां यो वेत्ति स गुरुः प्रिये || ९३ || मूलादिब्रह्मरन्ध्रान्तसप्ताम्भोजदलेषु यः | जीवाचारफलं वेत्ति स गुरुर्नापरः प्रिये || ९४ || शिवादिगुरुपर्यन्तं पारम्पर्यक्रमेण यः | अवाप्ततत्त्वसम्भारः स गुरुर्नापरः प्रिये || ९५ || येन वा दशीते तत्त्वे तत्क्षणात्तन्मयो भवेत् | मन्यते मुक्तमात्मानं स गुरुर्नापरः प्रिये || ९६ || ये दत्त्वा सहजानन्दं दरन्तीन्द्रियजं सुखम् | सेव्यास्ते गुरवः शिष्यैरन्ये त्याज्याः प्रतारकाः || ९७ || संसारभयभीतस्य शिष्यस्य गुरुरादरात् | व्रतोपवासनियमैनीयन्ता स गुरुर्मतः || ९८ || यः प्रसन्नः क्षणार्द्धेन मोक्षलक्ष्मीं प्रयच्छति | दुर्लभं तं विजानीयाद् गुरुं संसारतारकम् || ९९ || यः क्षणेनात्मसामर्थ्यं स्वशिष्याय ददाति हि | क्रियायासादिरहितं स गुरुर्द्देवदुर्लभः || १०० || य सद्यः प्रत्ययकरं सुलभञ्चात्मसौख्यदम् | ज्ञानोपदेशं कुरुते स गुरुर्द्देवदुर्लभः || १०१ || द्वीपाद् द्वीपान्तरं देवि सञ्चरेद्यथा तथा | यो दद्यात् स गुरुर्ज्ञानमभ्यासादिविवजीतम् || १०२ || क्षुधितस्य यथा तृप्तिराहारादाशु जायते | तथोपदेशमात्रेण ज्ञानदो दुर्लभो गुरुः || १०३ || गुरवो बहवः सन्ति दीपवच्च गृहे गृहे | दुर्लभोऽयं गुरुर्देवि सूर्यवत् सर्वदीपकः || १०४ || गुरवो बहवः सन्ति वेदशास्त्रादिपारगाः | दुर्लभोऽयं गुरुर्द्देवि परतत्त्वार्थपारगः || १०५ || गुरवो बहवः सन्ति आत्मनोऽन्यप्रदा भुवि | दुर्लभोऽयं गुरुर्द्देवि लोकेष्वात्मप्रकाशकः || १०६ || गुरवो बहवः सन्ति कुमन्त्रौषधिवेदिनः | निगमागमशास्त्रोक्तमन्त्रज्ञो दुर्लभो भुवि || १०७ || गुरवो बहवः सन्ति शिष्यवित्तापहारकाः | दुर्लभोऽयं गुरुर्द्देवि शिष्यदुःखापहारकः || १०८ || वर्णाश्रमकुलाचारनिरता बहवो भुवि | सर्वसङ्कल्पहीनो यः स गुरुर्द्देवि दुर्लभः || १०९ || गुरोर्यस्यैव सम्पर्कात् परानन्दोऽभिजायते | गुरुं तमेव वृणुयान्नापरं मतिमान्नरः || ११० || यस्यानुभवपर्यन्तं बुद्धिस्तत्र प्रवर्त्तते | यस्यालोकनमात्रेण मुच्यते नात्र संशयः || १११ || शङ्कया भक्षितं सर्वं त्रैलोक्यं सचराचरम् | सा शङ्का भक्षिता येन स गुरुर्द्देविदुर्लभः || ११२ || यथा वह्निसमीपस्थं नवनीतं विलीयते | तथा पापं विलीयते सदाचार्य समीपतः || ११३ || यथा दीप्तानलः काष्ठं शुष्कमार्द्रञ्च निर्दहेत् | तथा गुरुकटाक्षस्तु शिष्यपापं दहेत् क्षणात् || ११४ || यथा महानिलोद्धूतं तूलं दशदिशो व्रजेत् | तथैव गुरुकारुण्यात् पापराशिः पलायते || ११५ || दीपदर्शनमात्रेण प्रणश्यति तमो यथा | सद्गुरोर्द्दर्शनाद्देवि तथाऽज्ञानं विनश्यति || ११६ || सर्वलक्षणसम्पन्नो वेदशास्त्रविधानवित् | सर्वोपायविधानज्ञस्तत्त्वज्ञानी गुरुः स हि || ११७ || पूजाहोमाश्रमाचारतपस्तीर्थव्रतादिकम् | मन्त्रागमादिविज्ञानं तत्त्वहीनस्य निष्फलम् || ११८ || स्वयं वेद्ये परे तत्त्वे स्वात्मानं वेत्ति निश्चलः | आत्मनोऽनुग्रहो नास्ति परस्यानुग्रहः कथम् || ११९ || ब्रह्माकारं मनोरूपं प्रप्यक्षं स्वतनुस्थितम् | यो न जानाति चान्यस्य कथं मोक्षं ददात्यसौ || १२० || सर्वलक्षणहीनोऽपि तत्त्वज्ञानी गुरुः स्मृतः | तस्मात्तत्त्वविदेवेह मुक्तो मोचक एव च || १२१ || यस्तत्त्वविन्महेशानि स पशुं बोधयत्यपि | तत्त्वहीनात् कुतोऽध्यात्मतत्त्वज्ञानपरिग्रहः || १२२ || तत्त्वज्ञैरुपदिष्टा ये तत्त्वाज्ञस्ते न संशयः | पशुभिश्चोपदिष्टा ये देवि ते पशवः स्मृताः || १२३ || विद्धस्तु वेधयेद्देवि नाविद्धो वेधको भवेत् | मुक्तस्तु मोचयेद् बद्धं न मुक्तो मोचकः कथम् || १२४ || अभिज्ञश्चोद्धरेन्मूर्ख न मूर्खो मूर्खमुद्धरेत् | शिलां सन्तारयेन्नौही किं शिला तारयेच्छिलाम् || १२५ || तत्त्वहीनं गुरुं लब्ध्वा केवलं भव तत्परः | इहामुत्र फलं किञ्चित् स नरो नाप्नुयात् प्रिये || १२६ || शैवे गुरुत्रयं प्रोक्तं वैष्णवे गुरुपञ्चकम् | वेदशास्त्रेषु शतशो गुरुरेकः कुलान्वये || १२७ || प्रेरकः सूचकश्चैव वाचको दर्शकस्तथा | शिक्षको बोधकश्चैव षडेते गुरुवः स्मृताः || १२८ || पञ्चैते कार्यभूताः स्युः कारणं बोधको भवेत् | पूर्णाभिषेककर्त्ता यो गुरुस्तस्यैव पादुका | पूजनीया महेशानि बहुत्वेऽपि न संशयः || १२९ || श्रीगुरु लक्षणोपेतं संशयच्छेदकारकम् | लब्ध्वा ज्ञानप्रदं देवि न गुर्वन्तरमाश्रयेत् || १३० || अनभिज्ञं गुरुं प्राप्य सदा संशयकारकम् | गुर्वन्तरन्तु गत्वा स नैतद्दोषेण लिप्यते || १३१ || मधुलुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् | ज्ञानलुब्धस्तथा शिष्यः गुरोगुर्वन्तरं व्रजेत् || १३२ || इति ते कथितं किञ्चिल्लक्षणं गुरुशिष्ययोः | समासेन कुलेशानि किम्भूयः श्रोतुमिच्छसि || १३३ || || इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे गुरुशिष्यलक्षणं नाम त्रयोदशोल्लासः || १३ || अथ चतुर्दशोल्लासः श्री देव्युवाच कुलेश श्रोतुमिच्छामि परीक्षां गुरुशिष्ययोः | उपदेशक्रमं दीक्षाभेदांश्च वद मे प्रभो || १ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | तस्य श्रवणमात्रेण चित्तशुद्धिः प्रजायते || २ || विना दीक्षां न मोक्षः स्यात्तदुक्तं शिवशासने | सा च न स्याद्विनाचार्यमित्याचार्यपरम्परा || ३ || तस्मात् सिद्धान्तं सम्प्राप्य सम्प्रदायादिहेतुभिः | अन्तरेणोपदेष्टारं मन्त्राः स्युनीष्फला यतः || ४ || देवास्तमेव शंसन्ति पारम्पर्यप्रवर्त्तकम् | गुरुं मन्त्रागमाभिज्ञं समयाचारपालकम् || ५ || गुरुः शिष्याधिकारार्थं विरक्तोऽपि शिवाज्ञया | किञ्चित्कालं विधायेत्थं स्वशिष्याय समर्पयेत् || ६ || तस्यापीताधिकारस्य योगः साक्षात् परे शिवे | देहान्ते शाश्वती मुक्तिरिति शङ्करभाषितम् || ७ || तस्मात् सर्वप्रयत्नेन साक्षात्परशिवोदितम् | सम्प्रदायमविच्छिन्नं सदा कुर्यात् गुरुः प्रिये || ८ || शक्तिसिद्धिसुसिद्ध्यर्थं परीक्ष्य विधिवद् गुरुः | पश्चादुपदिशेन्मन्त्रमन्यथा निष्फलं भवेत् || ९ || अन्यायेन तु यो दद्याद् गृह्णात्यन्यायतश्च यः | ददता गृह्णता देवि कुलशापो भविष्यति || १० || गुरुशिष्यावुभौ मोहादपरीक्ष्य परस्परम् | उपदेशं ददद् गृह्णन् प्राप्नुयातां पिशाचताम् || ११ || अशास्त्रीयोपदेशञ्च यो गृह्णाति ददाति हि | भुञ्जाते तावुभौ घोरान्नरकानेकविंशतिम् || १२ || असंस्कृतोपदेशञ्च यः करोति स पातकी | विनश्यति च तन्मन्त्रं सैकते शालिबीजवत् || १३ || अनर्हे मन्त्रविज्ञानं न तिष्ठति कदाचन | तस्मात् परीक्ष्य कर्त्तव्यमन्यथा निष्फलं भवेत् || १४ || कृत्वा समयदीक्षाञ्च दत्त्वा समयपादुकाम् | सन्निधायात्मनः शिष्यं वदेन्मन्त्रं न चान्यथा || १५ || सच्छिष्यायातिभक्ताय यज्ज्ञानमुपदिश्यते | तज्ज्ञानं तत्तुशास्त्रार्थं तद्विदध्यादखण्डितम् || १६ || असच्छिष्येष्वभक्तेषु यज्ज्ञानमुपदिश्यते | तत् प्रयात्यपवित्रत्वं गोक्षीरं श्वघृतादिव || १७ || धनेच्छाभयलोभाद्यैरयोग्यं यदि दीक्षयेत् | देवताशापमाप्नोति कृतञ्च निष्फलं भवेत् || १८ || ज्ञानेन क्रियया वापि गुरु शिष्यं परीक्षयेत् | संवत्सरं तदर्द्धं वा तदर्द्धं वा प्रयत्नतः || १९ || उत्तमांश्चाधमे कुर्यान्नीचानुत्तमकर्मणि | प्राणद्रव्यप्रणामाद्यैरादेशैश्च स्वयं समैः || २० || तत्कर्मसूचकैर्वाक्यैर्मायाभिः क्रूरचेष्टितैः | पक्षपातैरुदासीनैरनेकैश्च मुहुर्मुहुः || २१ || आकृष्टस्ताडितो वापि यो विषादं न याति च | गुरुः कृपां करोतीति मुदा सञ्चिन्तयेत् सदा || २२ || श्रीगुरोः स्मरणे चापि कीर्त्तनं दर्शनेऽपि च | वन्दने परिचर्यायामाह्वाने प्रेषणे प्रिये || २३ || आनन्दकम्परोमाञ्चस्वरनेत्रादिविक्रियाः | येषां स्युस्तेऽत्र योग्याश्च दीक्षासंस्कारकर्मणि || २४ || शिष्योऽपि लक्षणैरेतैः कुर्याद् गुरुपरीक्षणम् | आनन्दाद्यैर्जपस्तोत्रध्यानहोमार्चनादिषु || २५ || ज्ञानोपदेशसामर्थ्यं मन्त्रसिद्धिमपीश्वरि | वेधकत्वं परिज्ञाय शिष्यो भूयान्न चान्यथा || २६ || आदिमध्यावसानेषु योग्याः शक्तिनिपातिताः | अधमा मध्यमाः श्रेष्ठाः शिष्या देवि प्रकीत्तीताः || २७ || आदौ भक्तिर्भवेद्देवि दीक्षार्थं समुदन्ति ये | पुनवीपुलहृष्टास्ते आदियोग्या इतीरिताः || २८ || दीक्षासमयसम्प्राप्ता ज्ञानविज्ञानवजीताः | भक्त्या प्रध्वस्तपर्याया मध्ययोग्याश्च ते स्मृताः || २९ || आदौ भक्तिविहीना ये मध्यभक्तास्तु ये नराः | अन्तप्रवृद्धभक्ताश्च अन्तयोग्या भवन्ति ते | उत्तमज्ञानसंज्ञाश्चेत्युपदेशस्त्रिधा प्रिये || ३० || यथा पिपीलिका मन्दमन्दं वृक्षाग्रगं फलम् | चिरेणाप्नोति कर्मोपदेशश्चापि तथा स्मृतः || ३१ || यथा कपिश्च शाखायां शाखामुल्लंघ्य यत्नतः | फलं प्राप्नोति धर्मस्य चोपदेशस्तथा प्रिये || ३२ || यथा वियद्गमः शीघ्रं फल एव निषीदति | तथा ज्ञानोपदेशश्च कथितः कुलनायिके || ३३ || स्पर्शाख्या देवि दृक्संज्ञा मानसाख्या महेश्वरि | क्रियायासादिरहिता देवा दीक्षा त्रिधा स्मृता || ३४ || यथा पक्षी स्वपक्षाभ्यां शिशून् संवर्द्धयेच्छनैः | स्पर्शदीक्षोपदेशच्च तादृशः कथितः प्रिये || ३५ || स्वापत्यानि यथा मत्स्यो वीक्षणेनैव पोषयेत् | दृग्भ्यां दीक्षोपदेशश्च तादृशः परमेश्वरि || ३६ || यथा कूर्मः स्वतनयान् ध्यानमात्रेण पोषयेत् | वेधदीक्षोपदेशश्च मानसः स्यात् तथाविधः || ३७ || शक्तिपातानुसारेण शिष्योऽनुग्रहमर्हति | यत्र शक्तिर्न पतति तत्र सिद्धिर्न जायते || ३८ || क्रियावर्णकलास्पर्शवाग्दृङ्मानससंज्ञया | दीक्षा मोक्षप्रदा देवि सप्तधा परिकीत्तीता || ३९ || समयाख्या विशेषा च साधिका पुत्रिकाह्वया | वेधका पूर्णसंज्ञा चाचार्या निर्वाणसंज्ञिका || ४० || क्रियादीक्षाष्टधा प्रोक्ता कुण्डमण्डपपूवीका | कलसादिसमायुक्ता कर्त्तव्या गुरुणा बहिः | देवेशि देहशुद्ध्यर्थं पूर्वोक्तविधिनाचरेत् || ४१ || वर्णदीक्षा त्रिधा प्रोक्ता द्विचत्वारिंशदक्षरैः | पञ्चाशद्वर्णैर्वा देवि द्विषष्टिलिपिभिस्तु ता || ४२ || वर्णान् शिष्यतनौ न्यस्य प्रतिलोमेन संहरेत् | परमात्मनि संयोज्य तच्चैतन्यं गुरुः प्रिये || ४३ || तस्मादुत्पाद्य तान् वर्णान् न्यसेच्छिष्यतनौ पुनः | सृष्टिक्रमेण विधिना चैतन्यञ्च प्रयोजयेत् || ४४ || जायते देवताभावः परानन्दमयः शिशोः | एषा वर्णमयी प्रोक्ता दीक्षा पाशहरा प्रिये || ४५ || कलादीक्षा त्रिधा ज्ञेया कर्त्तव्या विधिवत् प्रिये | निवृत्तिर्जानुपर्यन्तं तलादारभ्य संस्थिता || ४६ || जानुनोर्नाभिपर्यन्तं प्रतिष्ठा तिष्ठति प्रिये | नाभेः कण्ठावधि व्याप्ता विद्या शान्तिस्ततः परम् || ४७ || कण्ठाल्ललाटपर्यन्तं व्याप्ता तस्माच्छिरोऽवधि | शान्त्यतीता कला चैषा कलाव्याप्तिरितीरिता || ४८ || संहारक्रमयोगेन स्थानात् स्थानान्तरं प्रिये | संयोज्य विधिवत् सम्यग्विधिवेत्ता शिरोऽवधि || ४९ || इयं प्रोक्ता कुलेशानि दिव्यभावप्रदायिनी | अष्टत्रिंशत्कलाभिर्वा पञ्चाशद्भिरथापि वा || ५० || तत्त्वन्यासक्रमेणैव सृष्टिसंहारमार्गतः | ज्ञात्वा गुरुमुखाद्देविं शिष्ये संयोज्य वेधयेत् || ५१ || जायते देवताभावो योगिनीवीरमेलनम् | कलादीक्षा समुद्दिष्टा पशुपाशापहारिणी || ५२ || द्दस्ते शिवं गुरुं ध्यात्वा जपेन्मूलाङ्गमालिनीम् | गुरुः स्पृशेच्छिष्यतनुं स्पर्शदीक्षा भवेदियम् || ५३ || चित्तं तत्त्वे समाधाय परतत्त्वोपबृंहितान् | उच्चरेत् संहतान्मन्त्रान् वाग्दीक्षेति निगद्यते || ५४ || निमील्य नयने ध्यात्वा परतत्त्वप्रसन्नधीः | सम्यक् पश्येद्गुरुः शिष्यं दृग्दीक्षा च भवेत् प्रिये || ५५ || गुरोरालोकमात्रेण भाषणात् स्पर्शनादपि | सद्यः सञ्जायते ज्ञानं सा दीक्षा शाम्भवी मता || ५६ || मनोदीक्षा द्विधा प्रोक्ता तीव्रा तीव्रतरापि च | अध्वानं षड्विधं ज्ञात्वा शिष्यदेहे स्मरन् प्रिये || ५७ || कल्पयेद्भुवनं तत्त्वं कलां वर्णं पदं मनुम् | आजानुनाभिहृत्कण्ठतालुमूर्द्धान्तमम्बिके || ५८ || गुरूपदिष्टमार्गेण वेधं कुर्याद्विचक्षणः | पाशयुक्तः क्षणाच्छिष्यश्छिन्नपाशस्तदा भवेत् | एषा मुक्तिप्रदा प्रोक्ता तीव्रदीक्षा कुलेश्वरि || ५९ || देवि तीव्रतरा चापि गुरुणा स्मृतमात्रतः | सम्यक् संवेधिनः शिष्यश्छिन्नपापस्तदा भवेत् || ६० || वाह्यव्यापारनिर्मुक्तो भूमौ पतति तत्क्षणात् | सञ्जातदिव्यभावोऽसौ सर्वं जानाति शाम्भवि || ६१ || यदस्ति वेधकाले तत् स्वयमेवानुभूयते | प्रबुद्धः सन् न शक्नोति तत् सुखं वक्तुमीश्वरि || ६२ || वेधविद्धः शिवः साक्षान्न पुनर्जन्मभाग् भवेत् | एषा तीव्रतरा दीक्षा भवबन्धविमोचनी | शिवभावप्रदा साक्षात् त्वां शपे कुलनायिके || ६३ || आनन्दश्चैव कम्पश्चेद्भवो घूर्णा कुलेश्वरि | निद्रा मूर्च्छा च वेधस्य षडवस्थाः प्रकीत्तीताः || ६४ || दृश्यन्ते षड्गुणा ह्येते वेधकाले कुलेश्वरि | वेधितो यत्र कुत्रापि तिष्ठेन्मुक्ता न संशयः || ६५ || वेधदीक्षाकरो लोके श्रीगुरुर्दुर्लभः प्रिये | शिष्योऽपि दुर्लभस्ताद्दृक् पुण्ययोगेन लभ्यते | न दद्याद् यस्य कस्यापि इत्याज्ञा परमेश्वरि || ६६ || कुलद्रव्यैः समभ्यर्च्य कुलचक्रं विधानतः | शिष्याय दर्शयेद्देवि दीक्षैषा कौलिकी स्मृता || ६७ || कुलद्रव्यं मुखे पूर्व पञ्चगव्यामृतान्वितम् | अभिषिञ्चेद् गुरुः शिष्यं गण्डूषाख्या समीरिता || ६८ || सजीवमीनयुक्तेन सुरया पूरितेन च | पञ्चामृतैः सुसम्पूर्णशङ्खेन कलसेन वा | अभिषेकं ततः कुर्याद्बाह्ये तत् कथितं प्रिये || ६९ || मीनस्तु लम्बिका देवि वक्त्रं कलस उच्यते | पञ्चगवयामृतापूर्णं शिष्यं तेनाभिषेचयेत् || ७० || अयं सिद्धाभिषेकः स्यादाचार्यस्यापि पार्वति | त्रिकालं दन्तकाष्ठञ्च पुष्पाञ्जलिरपि प्रिये || ७१ || शङ्खे वेदकलान्यासस्तज्ज्ञानञ्चाष्टधा भवेत् | समयो दन्तकाष्ठेन साधकः कुसुमाञ्जलिः || ७२ || पुत्रं शङ्खाभिषेकेण बोधको वेधसंज्ञया | पूर्णाभिषेकेणाचार्यः पञ्चावस्थाः प्रकीत्तीताः || ७३ || कुलाचारैकनिरता गुरुभक्ता दृढव्रताः | पूर्णाभिषेकपूता ये ते मुक्ताश्चेह जन्मनि || ७४ || पूर्णाभिषेकपूता ये मृताश्च कुलनायिके | पुनर्लब्ध्वोत्तमं जन्म गुरुणा शिवरूपिणा || ७५ || शुद्धाः पूर्णाभिषेकेण शिवसायुज्यदायिना | तेन मुक्तिं व्रजेयुस्ते शाम्भवी वाचमव्रवीत् || ७६ || पूर्णा(दीक्षा)भिषेकहीनो यः कौलिको मिरयते यदि | पिशाचत्वमवाप्नोति यावदाहूतसंप्लवम् || ७७ || दीक्षा च द्विविधा प्रोक्ता बाह्याभ्यन्तरभेदतः | क्रियादीक्षा भवेद्बाह्या वेधाख्याभ्यन्तरी मता || ७८ || अन्तः शुद्धिर्बहिः शुद्धिद्वीविधा परिकीत्तीता | अन्तरा च क्रियाशुद्धिर्बहिः शुद्धिश्च दीक्षया || ७९ || दीक्षया मोक्षदीपेन चण्डालोऽपि विमुच्यते | आभ्यां विना कुलेशानि कौलिको नैव मुच्यते || ८० || शरीरस्य न संस्कारो जायते न च कर्मणः | आत्मनः कारयेद्दीक्षामनादिकुलकुण्डलीम् || ८१ || दीक्षा ह्येताः कर्मसाम्ये भिन्नार्थप्रतिपादिकाः | अभिसन्धानतो देवि देशिकोत्तमशिष्ययोः || ८२ || मन्त्रौषधेर्यथा हन्याद्विषशक्तिं कुलेश्वरि | पशुपाशं तथा छिन्द्याद्दीक्षया मन्त्रवित् क्षणात् || ८३ || अस्मात् प्रवितताद्वन्धात् परसंस्थानबोधकात् | दीक्षैव मोक्षयेत् पूर्वं दिव्यं धाम नयत्यपि || ८४ || उपपातकलक्षाणि महापातककोटिशः | क्षणाद्दहति देवेशि दीक्षा हि विधिना कृता || ८५ || यया चोन्मीलितात्मानो भवन्ति पशवः शिवाः | सा दीक्षा ह्युदिता देवि पशुपाशविमोचिका || ८६ || यया दीक्षितमात्रेण जायन्ते प्रत्ययाः प्रिये | सा दीक्षा मोक्षदा ज्ञेया शेषास्तु जनसेविकाः || ८७ || उपासनाशतेनापि यां विना नैव सिध्यति | तां दीक्षामाश्रयेद् यत्नात् श्रीगुरोर्मन्त्रसिद्धये || ८८ || रसेन्द्रेण यथा विद्धमयः सुवर्णतां व्रजेत् | दीक्षाविद्धस्तथा ह्यात्मा शिवत्वं लभते प्रिये || ८९ || दीक्षाग्निदग्धकर्मासौ मायाविच्छिन्नबन्धनः | गतः परां ज्ञानकाष्ठां निर्बीजस्तु शिवो भवेत् || ९० || गतं शूद्रस्य शूद्रत्वं विप्रस्यापि च विप्रता | दीक्षासंस्कारसम्पन्ने जातिभेदो न विद्यते || ९१ || शिवलिङ्गे शिला बुद्धिं कुर्वन् यत् पापमश्नुते | दीक्षितश्चापि पूर्वत्वस्मृत्या तत् पापमाप्नुयात् || ९२ || दार्वश्मलौहमृद्रत्नजातिलिङ्गप्रतिष्ठितम् | यथोच्यते तथा शुद्धाः सर्ववर्णास्तु दीक्षिताः || ९३ || येन पूजितमात्रेण चाब्रह्मभुवनान्तिकम् | पूजितं तेन सर्वं स्याद्दीक्षितेन न संशयः || ९४ || दीक्षितस्य न कार्यं स्यात्तपोभिनीयमव्रतैः | न तीर्थक्षेत्रगमनैर्न च शरीरयन्त्रणैः || ९५ || अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः | न फलन्ति प्रिये तेषां शिलायामुप्तबीजवत् || ९६ || देवि दीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः | तस्मात् सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत् || ९७ || द्विजो यो दीक्षितः पश्चादन्त्यजः पूर्वदीक्षितः | द्विजः कनिष्ठः स ज्येष्ठ इति शास्त्रार्थनिर्णयः || ९८ || गुरुशक्तिसुतानाञ्च यो वा स्यात् पूर्वदीक्षितः | गुरुवत्तेन ते पूज्या नावमान्याः कथञ्चन || ९९ || शिष्यो दीक्षितमात्रश्चेद् यदि स्वर्गं गतो गुरुः | एकसन्तानकेनैव पूर्णसंस्कारमाचरेत् || १०० || दर्शनेषु च सर्वेषु गुरुणा ज्ञानशालिना | दीक्षितो यस्तु विधिना स युक्तो नापरः प्रिये || १०१ || अधिवासनपूर्वन्तु चक्रपूजापुरःसरम् | दीक्षया शोधयेच्छिष्यमन्यथा निष्फलं भवेत् || १०२ || शूद्रसङ्करजातीनामादिशुद्धिवीधीयते | पादोदकप्रदानाद्यैः कुर्यात् पापविमोचनम् || १०३ || एकाब्देन द्विजो योग्यः क्षत्रियो वत्सरद्वयात् | वैश्यो योग्यस्त्रिभिर्वर्षैश्चतुभिः शूद्र एव च || १०४ || विधवायाः सुतादेशात् कन्यायाः पितुराज्ञया | नाधिकारः स्वतो नार्या भार्याया भर्त्तुराज्ञया || १०५ || स्याद्वेदाध्ययने शूद्रो नाधिकारी यथा प्रिये | तथैवादीक्षितश्चापि नाधिकारी कुलेश्वरि || १०६ || श्रीगुरुं गुरुपत्नीञ्च तत्पुत्रं शक्ति कौलिकान् | दीक्षितस्तोषयेद्देवि यथाविभवविस्तरम् || १०७ || इति ते कथितं किञ्चित् परीक्षा गुरुशिष्ययोः | दीक्षाभेदादिकं देवि किम्भूयः श्रोतुमिच्छसि || १०८ || || इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे गुरुशिष्यपरीक्षाकथनं नाम चतुर्दशोल्लासः || १४ || अथ पञ्चदशोल्लासः श्री देव्युवाच कुलेश श्रोतुमिच्छामि पुरश्चरणलक्षणम् | स्थानाहारादिभेदञ्च वद मे परमेश्वर || १ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | तस्य श्रवणमात्रेण मन्त्रतत्त्वं प्रकाशते || २ || जपयज्ञात् परो यज्ञो नापरोऽस्तीह कश्चन | तस्माज्जपेन धर्मार्थकाममोक्षांश्च साधयेत् || ३ || सर्वपादान् परित्यज्य मन्त्रपादं समभ्यसेत् | अप्रमादाद् भवेत् सिद्धिः प्रमादादशुभं फलम् || ४ || भोगापवर्गसङ्कल्पकल्पव्रतशुभो जपः | जपध्यानमयं योगं तस्माद्देवि समाचरेत् || ५ || आब्रह्मबीजदोषाश्च नियमातिक्रमोद्भवाः | ज्ञानाज्ञानकृताः सर्वं प्रणश्यन्ति जपात् प्रिये || ६ || संसारे दुःखभूयिष्ठे यदीच्छेत् सिद्धिमात्मनः | पञ्चाङ्गोपासनेनैव मन्त्रजापी व्रजेत् सुखम् || ७ || पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च | होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते || ८ || यद् यदङ्गं विहीयेत तत्संख्याद्विगुणो जपः | कुर्याद् द्वित्रिचतुःपञ्च-संख्यां वा साधकः प्रिये || ९ || कुर्वीत चाङ्गसिद्ध्यर्थं तदशक्तौ स भक्तितः | तच्चेदङ्गं विहीयेत मन्त्री नेष्टमवाप्नुयात् || १० || अन्नैश्चतुवीधैर्देवि पदार्थैः षड्रसान्वितैः | सुभोजितेषु विप्रेषु सर्वं हि सफलं भवेत् || ११ || सम्यक्सिद्धैकमन्त्रस्य पञ्चाङ्गोपासनेन च | सर्वमन्त्राश्च सिध्यन्ति त्वत्प्रसादात् कुलेश्वरि || १२ || उपदेशस्य सामर्थ्यात् श्रीगुरोश्च प्रसादतः | मन्त्रप्रभावाद्भक्त्या च मन्त्रसिद्धिः प्रजायते || १३ || सिद्धमन्त्राद् गुरोर्लब्धो मन्त्रो यः सिद्धिभाग्भवेत् | पूर्वजन्मकृताभ्यासान्मन्त्रो वा शीघ्रसिद्धिदः || १४ || दीक्षापूर्वं कुलेशानि पारम्पर्यक्रमागतम् | न्यायलब्धश्च यो मन्त्रः स च सिद्धो न संशयः || १५ || सहस्रं प्रजपेन्मन्त्रं मातृकाक्षरसंपुटम् | अनुलोमविलोमेन मन्त्रसिद्धिः प्रजायते || १६ || त्रिषष्ट्यक्षरसंयुक्तमातृकाक्षरसंपुटम् | क्रमोत्क्रमात्सहस्रन्तु तस्य सिद्धो भवेन्मनुः || १७ || मातृकाजपमात्रेण मन्त्राणां कोटिकोटयः | जषिताः स्युर्न सन्देहो यतः सर्वं तदुद्भवम् || १८ || अनेककोटिमन्त्राणि चित्ताकुलकराणि च | मन्त्रं गुरुकृपाप्राप्तमेकं स्यात् सर्वसिद्धिदम् || १९ || यदृच्छया श्रुतं मन्त्रं दृष्टेनापि छलेन च | पत्रे स्थितं वा चाध्याप्य तज्जपः स्यादनर्थकृत् || २० || पुस्तके लिखितान्मन्त्रान् विलोक्य प्रजपन्ति ये | ब्रह्महत्यासमं तेषां पातकं व्याधिदुःखदम् || २१ || पुण्यक्षेत्रं नदीतीरं गुहा पर्वतमस्तकम् | तीर्थप्रदेशाः सिन्धूनां सङ्गमः पावनं वनम् || २२ || उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः | देवतायतनं कूलं समुद्रस्य निजं गृहम् || २३ || साधनेषु प्रशस्तानि स्थानान्येतानि मन्त्रिणाम् | अथवा निवसेत्तत्र यत्र चित्तं प्रसीदति || २४ || सूर्यस्याग्नेर्गुरोरिन्दोर्दीपस्य च जलस्य च | गोविप्रकुलवृक्षाणां सन्निधौ शस्यते जपः || २५ || गृहे शतगुणं विद्याद् गोष्ठे लक्षगुणं भवेत् | कोटिर्देवालये पुण्यमनन्तं शिवसन्निधौ || २६ || म्लेच्छदुष्टमृगव्यालशङ्कातङ्कविवजीतः | एकान्तपावने निन्दारहिते भक्तिसंयुते || २७ || स्वदेशे धामीके देशे सुभिक्षे निरुपद्रवे | राजभक्तजनस्थाने निवसेत्तापसाश्रये || २८ || राजानः सचिवा राज्ञां पुरुषाः प्रभवो जनाः | चरन्ति येन मार्गेण न वसेत्तत्र मन्त्रवित् || २९ || जीर्णदेवालयोद्यानगृहवृक्षतलेषु च | नदीतडागकूपेषु भूच्छिद्रादिषु नो वसेत् || ३० || दीपनाथमयष्ट्वा यो जपपूजादिकं चरेत् | तत्फलं गृह्यते तेन तस्यायासः फलं भवेत् || ३१ || वंशाश्मधरणीदारुतृणपल्लवनिमीतम् | वर्जयेदासनं धीमान् दारिद्र्यव्याधिदुःखदम् || ३२ || तूलकम्बलवस्त्राणां सिंहव्याघ्रमृगाजिनम् | कल्पयेदासनं धीमान् सौभाग्यज्ञानवृद्धिदम् || ३३ || पद्मस्वस्तिकवीरादिष्वासनेषूपविश्य च | जपार्च्चनादिकं कुर्यादन्यथा निष्फलं भवेत् || ३४ || द्वादशावर्त्तयन् बुद्ध्या प्रणवन्तु त्रिमात्रकम् | मुञ्चेत् पिङ्गलया वायुमन्तःस्थं रेचको भवेत् || ३५ || षोडशावर्त्तयन् तारं पूरयेद् बाह्यमारुतम् | शनकैरिडया बद्ध्वा पूरकं परिकीत्तीतम् || ३६ || द्वादशावर्त्तयन् तारं वायुं मध्ये च कुम्भयेत् | शोषयेद्वायुबीजेन देहशोषणमीरितम् || ३७ || पुनश्च पूर्ववद्वायुं विरेच्यापूर्य कुम्भयेत् | दहेत् दहनबीजेन देहदाहनमीरितम् || ३८ || पुनश्च पूर्ववद्वायुं विरेच्यापूर्य कुम्भयेत् | शिवकुण्डलिनीयोगस्यन्दनामृतधारया | आपादमस्तकं देवि प्लावयेत् प्लावनं भवेत् || ३९ || जपध्यानं विनाऽगर्भः सगर्भस्तद्विपर्ययात् | अगर्भाद् गर्भसंयुक्तः प्राणायामः शताधिकः || ४० || तपांसि तीर्थयात्राद्या मखदानव्रतादयः | प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् || ४१ || मानसं वाचिकं पापं कायिकं वापि यत् कृतम् | तत् सर्वं निर्द्दहेच्छीघ्रं प्राणायामत्रयं शिवे || ४२ || दह्यते ध्मार्यमानानां धातूनाञ्च यथा मलम् | तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य संयमात् || ४३ || प्राणायामैवीशुद्धात्मा यद् यत् कर्म करोति हि | तत्तत् फलत्यसन्देहस्त्वप्रयत्नेन वा कृतम् || ४४ || आगमोक्तेन मार्गेणाभ्यासं नित्यं करोति यः | देवताभावमाप्नोति मन्त्रसिद्धिः प्रजायते || ४५ || यो न्यासकवचच्छन्दो मन्त्रं जपति तं प्रिये | विघ्ना दृष्ट्वा पलायन्ते सिंहं दृष्टवा यथा गजाः || ४६ || अकृत्वा न्यासजालं यो मूढात्मा प्रजपेन्मनुम् | वाध्यते सर्वविघ्नैश्च व्याघ्रैर्मृगशिशुर्यथा || ४७ || अक्षमाला द्विधा प्रोक्ता कल्पिताऽकल्पितेति च | कल्पिता मणिभिः कॢप्ता मातृका स्यादकल्पिता || ४८ || आदिक्षान्ताक्षवर्णत्वादक्षमालेति कीत्तीता | अनुलोमविलोमाभ्यां गणयेन्मन्त्रवित्तमः || ४९ || एकैकमङ्गुलीभिः स्याद्रेखाभिर्द्दशधा फलम् | मणिभिः शतसाहस्रं माणिक्याऽनन्तमुच्यते || ५० || त्रिंशद्भिः स्याद्धनं पुष्टिः सप्तविंशतिभिर्भवेत् | पञ्चविंशतिभिर्मोक्षं पञ्चदश्याभिचारके | पञ्चाशद्भिः कुलेशानि सर्वसिद्धिरुदीरिता || ५१ || अङ्गुष्ठेन च मोक्षः स्यात्तर्जनी शत्रुनाशिनी | मध्यमां धनदां विद्यात् शान्तिकर्मण्यनामिका | कनिष्ठा स्तम्भन्याकर्षण्यङ्गुली सुप्रकीत्तीता || ५२ || एतज्जपिष्यामीत्यादौ सङ्कल्प्य मन्त्रवित्तमः | स्थिरासनो जपित्वाऽथ देव्यै सोदकमर्पयेत् || ५३ || उच्चैर्जपोऽधमः प्रोक्त उपांशुमध्यमः स्मृतः | उत्तमो मानसो देवि त्रिविधः कथितो जपः || ५४ || अतिह्रस्वो व्याधिहेतुरतिदीर्घस्तपःक्षयः | अक्षराक्षरसंयुक्तो यो मन्त्रः स न सिध्यति || ५५ || मनसा यः स्मरेत् स्तोत्रं वचसा वा मनुं जपेत् | उभयं निष्फलं देवि भिन्नभाण्डोदकं यथा || ५६ || जातसूतकमादौ स्यात्तदन्ते मृतसूतकम् | सूतकद्वयसंयुक्तो यो मन्त्रः स न सिध्यति || ५७ || आद्यन्तरहितं कृत्वा मन्त्रमावर्त्तयेद्धिया | सूतकद्वयनिर्मुक्तो यो मन्त्रः सर्वसिद्धिदः || ५८ || मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः | शतकोटिजपेनापि तस्य सिद्धिर्न जायते || ५९ || सुप्तबीजाश्च ये मन्त्रा न दास्यन्ति फलं प्रिये | मन्त्रा चैतन्यसहिताः सर्वसिद्धिकराः स्मृताः || ६० || चैतन्यरहिता मन्त्राः प्रोक्ता वर्णास्तु केवलम् | फलं नैव प्रयच्छन्ति लक्षकोटिजपादपि || ६१ || मन्त्रोच्चारे कृते यादृक् स्वरूपं प्रथमं भवेत् | शतैः सहस्रैर्लक्षैर्वा कोटिजापेन् तत् फलम् || ६२ || हृत्कण्ठग्रन्थिभेदश्च सर्वावयववर्द्धनम् | आनन्दाश्रु च पुलको देहावेशः कुलेश्वरि | गद्गदोक्तिश्च सहसा जायते नात्र संशयः || ६३ || सकृदुच्चरितेऽप्येवं मन्त्रे चैतन्यसंयुते | दृश्यन्ते प्रत्यया यत्र पारम्पर्य तदुच्यते || ६४ || रुद्धः कूटाक्षरो मुग्धो बद्धः क्रुद्धश्च भेदितः | बालः कुमारो युवकः प्रौढो वृद्धश्च गवीतः || ६५ || स्तम्भितो र्मूच्छितो मत्तः कीलितः खण्डितः शठः | मन्दः पराङ्मुखश्छिन्नो बधिरोऽन्धस्त्वचेतनः || ६६ || किङ्करः क्षुधितः स्तब्धः स्थानभ्रष्टञ्च पीडितः | निःस्नेहो विकलो ध्वस्तो निर्जीवः खण्डितारिकः || ६७ || सुप्तस्तिरस्कृतो नीचो मलिनश्च दुरासदः | निःसत्त्वो निजीतो दग्धचपलश्च भयङ्करः || ६८ || निस्त्रिंशो निन्दितः क्रूरः फलहीनो निकृन्तनः | निर्वीर्यो भ्रमितो शप्त रुग्णः कष्टोऽङ्गहीनकः | जडो रिपुरुदासीनो लज्जितो मोहितोऽलसः || ६९ || षष्ट्येतान् मन्त्रदोषांश्च योऽज्ञात्वा प्रजपेन्मनुम् | सिद्धिर्न जायते तस्य लक्षकोटिजपादपि || ७० || कथ्यन्ते दश संस्कारा मन्त्रदोषहराः प्रिये | जननं जीवनं पश्चात्ताडनं बोधनं ततः || ७१ || अभिषेकोऽथ विमलीकरणाप्यायने तथा | तर्पणं दीपनं गुप्तिः संस्काराः कुलनायिके || ७२ || शाणोल्लोढानि शस्त्राणि यथा स्युनीशितानि वै | मन्त्राश्च स्फूत्तीमायान्ति संस्कारैर्द्दशभिस्तथा || ७३ || भक्ष्यं हविष्यं शाकादि विहितानि फलान्यपि | मूलं शक्तु यवानाञ्च शस्तान्येतानि मन्त्रिणाम् || ७४ || यस्यान्नपानपुष्टाङ्गः कुरुते धर्मसञ्चयम् | अन्नदातुः फलं चार्द्धं कर्त्तुश्चार्द्धं न संशयः || ७५ || तस्मात् सर्वप्रयत्नेन परान्नं वर्जयेत् सुधीः | पुरश्चरणकाले च काम्यकर्मस्वपीश्वरि || ७६ || जिह्वा दग्धा परान्नेन करौ दग्धौ प्रतिग्रहात् | मनो दग्धं परस्त्रीभिः कार्यसिद्धिः कथं भवेत् || ७७ || इन्द्राग्निरुद्रग्रहदृग्वेदार्कदिक्षडष्टसु | षोडशमनुबाणाब्धितिथित्रयोदशस्वपि || ७८ || लिखेत् षोडशकोष्ठेषु मातृकार्णान् विचक्षणः | स्वनामाद्यक्षराद् यावन्मन्त्राद्यक्षरदर्शनम् || ७९ || सिद्धादीन् कल्पयेन्मन्त्री कुर्यात् साध्यादिभिः पुनः | चतुश्चतुवीभागेन सिद्धादीन् गणयेत् पुनः || ८० || सिद्धसिद्धो जपात् सिद्धो द्विगुणात् सिद्धसाध्यकः | सिद्धसुसिद्धोऽर्द्धजपात् सिद्धारिर्हन्ति बान्धवान् || ८१ || साध्यसिद्धोऽतिसंक्लेशात् साध्यसाध्यो निरर्थकः | साध्यसुसिद्धो भजनात् साध्यारिहन्ति गोत्रजान् || ८२ || सुसिद्धसिद्धोऽर्द्धजपात्तत्साध्यस्तु यथोक्ततः | तत्सुसिद्धो ग्रहादेव सुसिद्धारिः स्वगोत्रहा || ८३ || अरिसिद्धः सुतं हन्यादरिसाध्यस्तु योषितम् | तत्सुसिद्धः कुलं हन्ति स्वात्मानं हन्ति तद्रिपुः || ८४ || सिद्धार्णा बान्धवाः प्रोक्ताः साध्यास्ते सेवकाः स्मृताः | सुसिद्धाः पोषका ज्ञेयाः शत्रवो घातकाः स्मृताः || ८५ || बान्धवा नवबार्णकाः स्युद्विषड्दश सेवकाः | वह्निरुद्रमुनयस्तु(पोषका) द्वादशाष्टकचतुरस्तु(घातकाः) |८६ प्राप लोभा पटु प्राह्यं रुद्रस्याद्रिरुरुः करम् | लोक लोप पटुः प्रायः खलोघोभेदिताः प्रिये | वर्णाः क्रमात् स्वरान्तौ तु रेवत्यंशगतौ तदा || ८७ || जन्म सम्पद् विपत् क्षेम प्रत्यरिः साधको वधः | मित्रं परममित्रञ्च जन्मादीनि पुनः पुनः || ८८ || वालं गौरं खुरं शोणं शमीशोभेति राशिषु | क्रमेण भेदिता वर्णाः कन्यायां शादयः स्मृता || ८९ || लग्नो धनं भ्रातृबन्धुपुत्रशत्रुकलत्रकाः | मरणं धर्मकर्माय व्यया द्वादश राशयः || ९० || स्वराशेर्मन्त्रशश्यन्तं गणनीयं विचक्षणैः | अज्ञाते राशिनक्षत्रे नामाद्यक्षरराशितः || ९१ || नामाद्यक्षरमारभ्य यावन्मन्त्रादिमाक्षरम् | त्रिधा कृत्वा स्वरैभिन्द्यात्तदन्यद्विपरीतकम् || ९२ || कृत्वाधिकमृणं ज्ञेयं ऋणी चेन्मन्त्रवित्तमः | स्वयमृणी चेत्तन्मन्त्रं जपेत्पूर्वमृणी यतः || ९३ || वायवग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् | पञ्च ह्रस्वाः पञ्च दीर्घा बिन्द्वन्ताः सन्धिसम्भवाः | कादयः पञ्चशः षक्षसहान्ताश्च प्रकीत्तीताः || ९४ || महीसलिलयोमीत्रमनिलानलयोरपि | शात्रवं वैपरीत्येन मैत्रं सर्वत्र चापरम् || ९५ || परस्परविरुद्धानां वर्णानां यत्र सङ्गतिः | वर्जयेत्तादृशं मन्त्रं नाशकृत्तत् कुलेश्वरि || ९६ || एकाक्षरे तथा कूटे त्रैपुरे मन्त्रनायिके | स्त्रीदत्ते स्वप्नलब्धे च सिद्धादीन्नैव शोधयेत् || ९७ || मन्त्रसिद्धोपदिष्टेषु चतुराम्नायजेषु च | मालामन्त्रेषु देवेशि सिद्धादीन्नैव शोधयेत् || ९८ || नृसिंहार्कवराहाणां प्रासादप्रणवस्य च | सपिण्डाक्षरमन्त्राणां सिद्धादीन्नैव शोधयेत् || ९९ || मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र मारुतः | न सिध्यति वरारोहे लक्षकोटिजपादपि || १०० || वादार्थं पठ्यते विद्या परार्थं क्रियते जपः | ख्यात्यर्थं दीयते दानं कथं सिद्धिर्वरानने || १०१ || धनार्थं गम्यते तीर्थं दम्भार्थं क्रियते तपः | कार्यार्थे देवतापूजा कथं सिद्धिर्नु जायते || १०२ || अमेध्येन तु देहेन न्यासं देवार्चनं जपम् | होमं कुवन्ति चेन्मूढास्तत् सर्वं निष्फलं भवेत् || १०३ || विण्मूत्रत्यागशेषादियुक्तः कर्म करोति यः | जपार्चनादिकं सर्वमपवित्रं भवेत् प्रिये || १०४ || मलिनाम्बरकेशादिमुखदौर्गन्धसंयुतः | यो जपेत्तं दहत्याशु देवता सुजुगुप्सिता || १०५ || आलस्यं जृम्भणं निद्रां क्षुतं निष्ठीवनं भयम् | नीचाङ्गस्पर्शनं कोपं जपकाले विवर्जयेत् || १०६ || अत्याहारः प्रलापश्च प्रजल्पो नियमाग्रहः | अन्यासङ्गश्च लौल्यञ्च षड्भिर्मन्त्रो न सिध्यति || १०७ || उष्णीशी कञ्चुकी नग्नो मुक्तकेशो गणावृतः | अपवित्रोत्तरीयश्चाशुचिर्गच्छंश्च नो जपेत् || १०८ || जाड्यं दुःखं तृणच्छेदं विवादं वा मनोरथम् | बहिस्तु देहवायुञ्च जपकाले विवर्जयेत् || १०९ || शान्तः शुचिमिताहारो भूशायी भक्तिमान् वशी | निर्द्वन्द्वः स्थिरधीमौनी संयतात्मा जपेत् प्रिये || ११० || विश्वासास्तिक्यकरुणाश्रद्धानियमनिश्चयैः | सन्तोषौत्सुक्यधर्मादिगुणैर्युक्तो जपेन्नरः || १११ || सुगन्धिपुष्पाभरणवस्त्रादिभिरलङ्कृतः | तस्य हस्तगता सिद्धिर्नान्यस्य जपकोटितः || ११२ || तन्निष्ठस्तद्गतप्राणस्तच्चित्तस्तत्परायणः | तत्पदार्थानुसन्धानं कुर्वन् मन्त्रं जपेत् प्रिये || ११३ || जपात् श्रान्तः पुनर्ध्यायेद्ध्यानात् श्रान्तः पुनर्जपेत् | जपध्यानादियुक्तस्य क्षिप्रं मन्त्रः प्रसिध्यति || ११४ || इति ते कथितं किञ्चित् पुरश्चरणलक्षणम् | समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि || ११५ || || इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे पुरश्चरणादिकथनं नाम पञ्चदशोल्लासः || १५ || अथ षोडशोल्लासः श्रीदेव्युवाच कुलेश श्रोतुमिच्छामि करुणामृतवारिधे | काम्यकर्मविधानञ्च वद मे परमेश्वर || १ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | तस्य श्रवणामात्रेण प्रयोगनिपुणो भवेत् || २ || मन्त्री विशुद्धहृदयः पूर्वोक्तनियमान्वितः | श्रीप्रासादपरामन्त्रं तत्त्वलक्षं जपेत् प्रिये || ३ || दशांशं जुहुयाद्देवि संस्कृते हव्यवाहने | दशांशं तर्पयेद्दुग्धैः सलिलैः शालितण्डुलैः || ४ || गन्धपुष्पाक्षताकल्पधनवस्त्रादिभिः प्रिये | भक्ष्याथोन्यान्नपानाद्यैर्हव्यद्रव्यैर्मनोहरैः || ५ || तोषयेद् योगिनीचक्रं यथाविभवविस्तरम् | एवं न्यासजपध्यानसहोमार्च्चनतर्पणः || ६ || मन्त्री सिद्धिमनुर्द्देवि साक्षात् परशिवो भवेत् | ततः स्वमनसोऽभीष्टान् प्रयोगान् कुलनायिके || ७ || मन्त्रेणानेन मतिमान् साधयेद् भुक्तिमुक्तये | सिद्धमन्त्रस्य सिध्यन्ति षट् कर्माणि न संशयः | नैव सिध्यन्त्यसिद्धस्य देवताशापमाप्नुयात् || ८ || काम्यप्रयोगकर्त्तॄणां परलोको न विद्यते | प्रयोगसिद्धिरेवैषां फलमन्यन्न तु प्रिये || ९ || एकस्यापि विधानस्य न कुत्रापि फलद्वयम् | देवेशि दृश्यते तस्मान्निष्कामो देवतां यजेत् || १० || होमतर्पणमन्त्राद्यैर्न्यासध्यानविशेषकैः | आत्मनश्च परस्यापि षट् कर्माणि समाचरेत् || ११ || प्रयोगान्ते चक्रपूजां विधिनैव समाचरेत् | लक्षमेकं जपेन्मन्त्रं न्यासध्यानसमन्वितः || १२ || प्रयोगदोषशान्त्यर्थमात्मरक्षार्थमेव च | न चेत् फलं न चाप्नोति देवताशापमाप्नुयात् || १३ || तिथिवारञ्च नक्षत्रं योगमासर्त्तु पक्षकम् | दीपेशं कुलचक्राणि ज्ञात्वा कर्माणि साधयेत् || १४ || ऋषिष्छन्दोदेवताङ्गन्यासध्यानार्च्चनादिकम् | बीजं शक्तिं कीलकञ्च ज्ञात्वा मन्त्राणि साधयेत् || १५ || पुत्रबान्धवदाराश्च राशिवर्णानुकूलता | भूतमैत्रीं तथोद्यन्तं ज्ञात्वा मन्त्राणि साधयेत् || १६ || मन्त्रविद्याऽभेदरूपं निद्राञ्च बोधरूपकम् | स्त्रीपुंनपुंसकादींश्च ज्ञात्वा कर्माणि साधयेत् || १७ || स्वरवर्णपदद्वित्वं विदुश्चैतन्यसूतकम् | हृस्वदीर्घप्लुतादींश्च ज्ञात्वा मन्त्राणि साधयेत् || १८ || पञ्चशुद्ध्यासनप्राणायामन्यासाक्षमालिकाः | दोषसंस्कारमुद्रादीन् ज्ञात्वा कर्माणि साधयेत् || १९ || तथैवासनदिग्बन्धनाडीबन्धादिसङ्गतिम् | देवताकालमुद्रादि ज्ञात्वा कर्माणि साधयेत् || २० || साध्यसाधककर्माणि लेखनीद्रव्यपञ्चकम् | स्थानं यन्त्रं प्रमाणञ्च ज्ञात्वा कर्माणि साधयेत् || २१ || उत्पत्तिवासनावर्णमूत्तीसंस्कारसंस्थितम् | कुण्डद्रव्यप्रमाणादीन् ज्ञात्वा होमं समाचरेत् || २२ || अग्निप्रभां धूम्रवर्णध्वनिगन्धशिखाकृतीः | शुभचेष्टादिकं ज्ञात्वा कल्पयेत्तु शुभाशुभम् || २३ || मन्त्रतत्त्वानुसन्धानदेहावेशादिलक्षणम् | मन्त्रोच्चारणभेदञ्च ज्ञात्वा कर्माणि साधयेत् || २४ || मण्डलं कलसद्रव्यशुद्धि गन्धाष्टकादिकम् | दीक्षानामप्रदानादि ज्ञात्वा दीक्षां समाचरेत् || २५ || नित्यं नैमित्तिकं काम्यं नियमं नाम वासनाम् | पूजाधारणयन्त्रादि ज्ञात्वा कर्माणि साधयेत् || २६ || पूजागृहप्रवेशादिकुलपूजकलक्षणम् | कुलद्रव्यादिशुद्धिञ्च ज्ञात्वा पूजां समाचरेत् || २७ || अन्तर्यागं बहिर्यागं घटार्घ्यस्थापनादिकम् | पञ्चपुष्पाञ्जलिं देवि ज्ञात्वा कर्माणि साधयेत् || २८ || पात्राधारालिपिशितं कलामुद्राध्वमेलनम् | बटुकादिबलिं देवि ज्ञात्वा कर्माणि साधयेत् || २९ || कुलाकुलाख्यसहजशक्तिभेदञ्च लक्षणम् | शुभलक्षणसंयुक्तं स्त्रीसंस्कारार्चनादिकम् | देवि सम्भोगकालञ्च ज्ञात्वा शक्तिं परिग्रहेत् || ३० || पानभेदं फलोल्लासप्रमाणं स्थितिलक्षणम् | तत्त्वत्रयस्य स्वीकारं ज्ञात्वा कुलसुधां पिबेत् || ३१ || चक्रप्रवेशं प्रणति स्थिति निर्गमनं प्रिये | योगिनीभोगचेष्टादि ज्ञात्वा भवति कौलिकः || ३२ || रत्युल्लासनकालञ्च कुलदीपनिवेदनम् | शान्तस्तवादिपठनं ज्ञात्वा स्यात् कुलदेशिकाः || ३३ || मिथुनानुग्रहाष्टाष्टपुष्पिणीकन्यकार्च्चनाम् | विशेषतिथिपूजाञ्च ज्ञात्वा कर्माणि साधयेत् || ३४ || आम्नायभेदं सङ्केतं पुष्पसङ्कोचमेव च | गुरुत्रयं सम्प्रदाय ज्ञात्वा कर्माणि साधयेत् || ३५ || श्रौतविद्याकुलाचारं मनुभेदञ्च पादुकाम् | चरणत्रितयं देवि ज्ञात्वा कर्माणि साधयेत् || ३६ || स्वाधिकस्य समन्यूनकौलिकाराधनक्रमम् | सिद्धमुद्राधरार्चादि ज्ञात्वा कर्माणि साधयेत् || ३७ || गुर्वग्निप्रेतसंस्कारमन्त्येष्टिं दिग्बलिक्रमम् | मोक्षदीपविधानादि ज्ञात्वा कर्माणि साधयेत् || ३८ || इत्याद्याः कथिताः किञ्चिद्विशेषाः कुलनायिके | सर्वेषामेव मन्त्राणां विधिः साधारणक्रमः || ३९ || मन्त्राः पुरुषदेवाः स्युवीद्याः स्त्रीदेवताः प्रिये | मन्त्राः पुंसो हुंफडन्ताः प्राणे चरति दक्षिणे | प्रबुध्यन्तेऽग्निजायान्ता विद्याः स्त्रीदेवताः प्रिये || ४० || वामे प्राणे प्रबुध्यन्ते नमोऽन्ताः स्युर्नपुंसकाः | नाडीद्वयगते प्राणे सर्वे बोधं प्रयान्ति च || ४१ || शान्तिके मनवः सौम्या भूयिष्ठेन्द्वमृताक्षराः | स्वाहान्ताः स्युवीयत्प्रायाश्चाग्नेयाः क्रूरकर्मसु || ४२ || फट् च पुष्टौ वषट् वश्ये हुंफट् चैव तु मारणे | स्तम्भने च नमः प्रोक्तं स्वाहा शान्तिकपौष्टिके || ४३ || होमतर्पणयोः स्वाहा न्यासपूजनयोर्नमः | मन्त्रान्ते योजयेन्मन्त्री जपकाले यथास्थितम् || ४४ || शान्तिके राजतं ताम्रं भूर्जपत्रन्तु वश्यके | सर्वकार्येषु सौवर्णे क्रूरे स्यात् प्रेतकर्पटम् || ४५ || त्रिगन्धं शान्तिके प्रोक्तं पञ्चगन्धञ्च वश्यके | सर्वकार्यंष्वष्टगन्धं क्रूरे चाष्टविषाणि च || ४६ || शान्तके लेखनी दूर्वा वश्यादौ शिखिपुच्छिका | हेम्ना तु सर्वकार्याणि क्रूरे स्यात् काकपुच्छिका || ४७ || स्वगृहे शान्तिकर्मं स्याद्वश्याद्यं चण्डिकालये | सर्वकार्यं देवगृहे श्मशाने क्रूरकर्म च || ४८ || लक्षणान्येवमादीनि ज्ञात्वा गुरुमुखात् प्रिये | सर्वकर्माणि कुर्वीत मन्त्री तत्तत्फलाप्तये || ४९ || मूले प्रासादबीजञ्च तरुणादित्यसन्निभम् | उत्तमाङ्गे पराबीजं चन्द्रायुतसमप्रभम् || ५० || परस्परजनस्पर्शजनितानन्दनिर्भरः | मूलादिब्रह्मरन्ध्रान्तं अनवच्छिन्नरूपिभिः || ५१ || परामृतरसासेकैः सिक्तमापादमस्तकम् | आत्मानं भावयेन्नित्यं स भवेदजरामरः || ५२ || एवं ध्यात्वा कुलेशानि सर्वकर्माणि साधयेत् | सिध्यन्ति तरसा देवि नात्र कार्या विचारणा || ५३ || ध्यानभेदं प्रवक्ष्यामि सर्वसिद्धिकरं प्रिये | ईप्सितं लभते येन पूजाहोमादिकं विना || ५४ || स्थाने मनोहरे देवि साधकः स्थिरमानसः | स्थितो मृद्वासने ध्यायेद् गुरुवन्दनपूर्वकम् || ५५ || मस्तकस्थितसम्पूर्णचन्द्रमण्डलमध्यगम् | श्रीप्रासादपराबीजं षोडशस्वरसंयुतम् || ५६ || शुद्धस्फटिककर्पूरकुन्देन्दुधवलं प्रिये | सच्चन्द्रबिम्बसञ्जातसुधाप्लावितविग्रहम् || ५७ || आत्मानं भावयेन्नित्यं निश्चलेनान्तरात्मना | सर्वारिष्टं विलीयेत शुभश्रीपुष्टिकारकम् || ५८ || श्रीप्रासादपरामन्त्रमष्टोत्तरसहस्रकम् | तरुणोल्लाससहितो मण्डलं पूजयेत् प्रिये || ५९ || अपमृत्युमहारोगजरामरणजं भयम् | ग्रहापस्मारवेतालभूतोन्मादादिजं भयम् || ६० || जित्वाधिव्याधिरहितः पुत्रपौत्रसमन्वितः | जीवेद्वर्षशतं साग्रं पूजितः सर्वमानवः || ६१ || अश्रुतं बुध्यते शास्त्रं कविता निर्मला भवेत् | चिन्मयो जायते साक्षान्नात्र कार्या विचारणा || ६२ || ज्वरोन्मादादिरोगेषु जपेच्छिरसि चिन्तयन् | शूलवातव्रणग्रन्थिमूत्रकृच्छ्रादिसम्भवे | तत्तत्स्थानेषु देवेशि पूर्ववच्चिन्तयन् जपेत् || ६३ || महारोगेषु जातेषु सर्वाङ्गेषु विचिन्तयेत् | तत्क्षणाच्छान्तिमायान्ति रोगाः सर्वे न संशयः || ६४ || दशेन्द्रियेषु यो ध्यायेल्लभेदिन्द्रियसौष्ठवम् | यत्र बीजं स्मरेत्तत्र तत्फलं भवति ध्रुवम् || ६५ || सदा यश्चिन्तयेन्मूध्नी स भवेदजरामरः | सर्वरोगप्रहरणं विद्यारोग्यप्रदं प्रिये || ६६ || अस्मात् परतरध्यानं नास्ति सत्यं न संशयः | सात्त्विकध्यानजं देवि फलमेतदुदीरितम् || ६७ || शान्तिकर्माणि सर्वाणि विधिनानेन कारयेत् | विधिनानेन देवेशि सौभाग्यमतुलं भवेत् || ६८ || द्वादशाधारपद्मेषु द्वादशस्वरसंयुतम् | बीजं सञ्चिन्तयेद् यस्तु स भवेदजरामरः || ६९ || षडाधारेषु षड्दीर्घयुक्तं बीजं विचिन्तयेत् | षडाधारस्थदेवीभिः पूज्यते कुलनायिके || ७० || हृत्पद्मकणीकामध्ये सूर्यमण्डलसंस्थितम् | पराप्रासादबीजन्तु तरुणारुणसन्निभम् || ७१ || जवाबन्धूकसिन्दूरपद्मरागप्रभोज्ज्वलम् | पञ्चविशतिभिः स्पर्शाक्षरैः संवीतमम्बिके || ७२ || तत्प्रभापटलच्छायाव्यक्तीकृतजगत्त्रयम् | आत्मानञ्च स्मरेद्देवि निश्चलेनान्तरात्मना || ७३ || पराप्रासादबीजन्तु तरुणोल्लाससंयुतः | अष्टोत्तरसहस्रन्तु मण्डलं प्रजपेत् सुधीः || ७४ || देवदानवगन्धर्वसिद्धकिन्नरगुह्यकान् | विद्याधरान्मुनीन् यक्षान् नागानप्सरसः स्त्रियः || ७५ || सिंहव्याघ्रोरगेन्द्रादीनन्यान् दुष्टमृगानपि | वश्यान् करोत्यसन्देहं किं पुनर्मानवादिकान् || ७६ || महदैश्वर्यमाप्नोति स्वर्गभोगादिकं प्रिये | यस्य मूध्नी स्मरन् जप्यात् स वश्यो जायते हठात् || ७७ || राजसध्यानजं देवि फलमेतदुदीरितम् | वश्यकर्माणि सर्वाणि विधिनानेन कारयेत् || ७८ || सर्ववश्यकरं देवि सर्वैश्वर्यफलप्रदम् | अस्मात् परतरं ध्यानं नास्ति सत्यं न संशयः || ७९ || लिखेत्त्रिकोणं षट्कोणं अष्टारञ्च महीपुरम् | मूलमन्त्रं लिखेन्मध्ये साध्यनामसमन्वितम् || ८० || षट्कोणेषु षडङ्गानि विलिखेत् परमेश्वरि | केशरेषु स्वरानष्टौ वर्गान् पत्रेषु पार्वति || ८१ || भूगृहस्य चतुष्कोणे विलिखेन्मूलमम्बिके | पञ्चवर्णरजोभिश्च शुभं दृष्टिमनोहरम् || ८२ || एवं यन्त्रं समालिख्य विधिवन्मन्त्रवित्तमः | एकत्रिषड्वसुचतुःकलसान् स्थापयेत् प्रिये || ८३ || मध्यादिचतुरस्रान्तं द्वात्रिंशत् कलसान् प्रिये | अथवाष्टादशेशानि सप्त वा दश वा प्रिये || ८४ || चतुरो वाप्यथैकं वा कुर्यात् साधकसत्तमः | अस्थिरक्तशिरातन्तुमृण्मांसं रुधिरं जलम् || ८५ || चर्मवस्त्रशिलाकूर्मनारिकेलफलं शिरः | मन्त्रप्राणसमायुक्तां यजेत् कलसदेवताम् || ८६ || सावित्रीनापराङ्गानि मातरोज् भैरवान्विताः | विदिक्षु गुरुविघ्नेशदुर्गाक्षेत्रपतीन् प्रिये || ८७ || कलसेषु समभ्यर्च्य विधिवन्मन्त्रवित्तमः | अभिषिञ्चेत् प्रियं शिष्यं सर्वपापप्रशान्तये || ८८ || आयुः श्रीकान्तिसौभाग्यविद्यारोग्यादिकं भवेत् | राजाभिषिक्तो लभते चतुःसागरगां महीम् || ८९ || अकिञ्चनोऽभिषिक्तश्च महदैश्वर्यमाप्नुयात् | वन्ध्याभिषिक्ता लभते पुत्रं सर्वगुणान्वितम् || ९० || भूतापमृत्युरोगाद्या विनश्यन्ति न संशयः | त्रिलौहे वापि भूर्जे वा लिखित्वा यन्त्रमुत्तमम् || ९१ || विधृतं बाहुना देवि सर्वरक्षाकरं भवेत् | आयुरारोग्यमैश्वर्यं विद्यालाभं यशो जयम् || ९२ || यद् यत् स्वमनसोऽभीष्टं तत्तदाप्नोत्यसंशयः | खड्गवश्यं वयःस्तम्भं यक्षिण्यञ्जनपादुकाम् || ९३ || अणिमाद्यष्टसिद्ध्यादि महारसरसायनम् | सञ्जीवयोगगुटिकाप्रमुखाखिलसिद्धयः || ९४ || पराप्रासादमन्त्रज्ञैर्दृश्यन्ते नात्र संशयः | षट् कर्माणि प्रयुञ्जीत नान्यथा भवति प्रिये || ९५ || पीतद्रव्यैर्हरिद्राद्यैः समित्पत्रफलादिभिः | जुहुयात् पूर्ववन्मन्त्री देवताध्यानतत्परः || ९६ || वाक्श्रोत्रगतिदृक्सेनानदीग्रहरिपून् प्रिये | नानादुष्टमृगान् देवि स्तम्भयेन्नात्र संशयः || ९७ || ग्रहवेगादिदुष्टानां विनाशनकरं प्रिये | अस्मात् परतरं ध्यानं नास्ति सत्यं न संशयः || ९८ || तामसध्यानजं देवि फलमेतदुदीरितम् | दुष्टमारणकर्माणि विधिनानेन साधयेत् || ९९ || इत्यादि ध्यानभेदेन ज्ञात्वा गुरुमुखात् प्रिये | षट् कर्माणि प्रयुञ्जीत नान्यथा वीरवन्दिते || १०० || खदिरश्वेतमन्दारसितभानुसमिद्वरैः | पलाशोदुम्बराश्वत्थप्लक्षापामार्गसत्वचैः || १०१ || नन्द्यावर्त्तसिताम्भोजहयारिकुसुमादिभिः | सितैरन्यैः शुभैर्द्र्रव्यैः समित्पत्रफलान्तरः || १०२ || भक्ष्यैश्च पायसैर्दूर्वासहितैस्तिलतण्डुलैः | मधुरत्रयसंयुक्तैर्मन्त्रवित् कुलनायिके || १०३ || एकेन वाथ सर्वैर्वा तत्कार्यगुरुलाघवम् | ज्ञात्वा देवि सहस्रन्तु जुहुयादथ पञ्च वा || १०४ || अयुतं नियुतं वापि प्रयुतं वा कुलेश्वरि | तत्तत्कर्मोदिते कुण्डे संस्कृते हव्यवाहने || १०५ || आवाह्य देवतामस्मिन् ध्यात्वा सावरणां प्रिये | विधिवज्जुहुयाद्देवि तद्गतेनान्तरात्मना || १०६ || सर्वरोगव्रणोन्मादापस्मारोत्पातयक्ष्मजम् | सर्वदुःखप्रशमनं तत्क्षणान्नात्र संशयः || १०७ || अनेन सर्वशान्तिञ्च ज्ञानं विद्यां लभेत् प्रिये | कदम्बाशोकवकुलपुन्नागाम्रमधूकजैः || १०८ || चम्पकद्वयपालाशपाटलश्रीकपित्थकैः | मालतीमल्लिकाजातिबन्धूकारुणपङ्कजैः || १०९ || कल्हारारुणमन्दारयूथिकुन्दजवादिभिः | सनारिकेलकदलीद्राक्षेक्षुपृथुकैरपि || ११० || चन्दनागुरुकर्पूररोचनाकुंकुमादिभिः | रक्तैरन्यैः शुभद्रव्यैः समिधृतफलोद्भवैः || १११ || पूर्ववज्जुहुयाद्देवि विधिवन्मन्त्रवित्तमः | महीपतींश्च पुरुषान् कान्ता यौवनगवीताः || ११२ || सिंहान् मत्तान् तथा व्याघ्रान् मृगान् दुष्टान् गजानपि | सिद्धदेवाप्सरोयक्षगन्धर्ववनितास्तथा | देवानपि कुलेशानि वशयेन्नात्र संशयः || ११३ || वाजीलवणहोमेन स्त्रियमाकर्षयेद् ध्रुवम् | विधिनानेन देवेशि सौभाग्यमुत्तमं लभेत् || ११४ || बहुनात्र किमुक्तेन त्रिषु लोकेषु मन्त्रिणाम् | अनेन मन्त्रराजेन नासाध्यं विद्यते क्वचित् || ११५ || ऊर्ध्वाम्नायैकनिष्णातः पराप्रासादमन्त्रवित् | कुलार्णवार्थतत्त्वज्ञो जीवन्मुक्तः कुलेश्वरि || ११६ || सुतीर्थे वाप्यतीर्थे वा जलमध्येऽपि वा वसन् | पराप्रासादमन्त्रज्ञो मुक्त एव न संशयः || ११७ || दिक्पीठक्षेत्रमुद्रादिवृक्षवल्लीमठादिकाः | ज्ञेया भैरवदेव्यश्च ऊर्ध्वाम्नायस्य पार्वति || ११८ || निम्बकारस्करोन्मत्तकण्टकीविप्रदन्तिभिः | अस्थिकण्टकवृक्षाद्यैर्द्रव्यैरशुभसाधनैः || ११९ || वटुकैः कृष्णवर्णैश्च समित्पत्रफलान्तरैः | गृहधूमचिताङ्गारत्रिकट्वम्लचिताञ्जनैः || १२० || उन्मत्तरससंसिक्तै पिष्ट्वा सम्यक् प्रसेचितैः | साध्यपादरजोभिश्च चिताभस्मसमन्वितैः || १२१ || साध्यप्रतिकृतिं कुर्यादेकनक्षत्रवृक्षजाम् | सम्यक्प्रतिष्ठितप्राणां कुण्डस्योपरि लम्बयेत् || १२२ || खनेत्तत्प्रतिमां मन्त्री कुण्डस्याधो यथाविधि | मलीमसेन मनसा चोग्रदृष्टिरमर्षणः || १२३ || चितानले विषतरु सप्तकाष्ठसमेधिते | तद्द्रव्यैर्जुहुयाद्देवि विधिवन्मन्त्रवित्तमः || १२४ || कुर्याद्विद्वेषणोच्चाटमारणानि न संशयः | शान्तिके सात्त्विकं देवि श्वेतवर्णं विचिन्तयेत् || १२५ || वश्ये तु राजसं देवि रक्तवर्णं विचिन्तयेत् | तामसं क्रूरकार्येषु कृष्णवर्णं विचिन्तयेत् || १२६ || आत्मरक्षां पुरा कृत्वा पश्चात् कर्माणि साधयेत् | योऽन्यथा कुरुते मोहात् स भवेद्देवतापशुः || १२७ || तस्माद्देवि महाषोढान्यासं पूजां बलिं सुधीः | कृत्वा कर्माणि कुर्वीत नान्यथा वीरवन्दिते || १२८ || मूलाधारसरोजान्तर्वह्निमध्यगतं प्रिये | पराप्रासादबीजं तत् कल्पान्ताग्निसमप्रभम् || १२९ || प्रतिलोमसु संवीतं दशभिर्व्यापकाक्षरैः | स्वयं कालानलसमः सर्वभूतभयङ्करः || १३० || दक्षिणाशामुखो भूत्वात्युग्रदृष्टिमलीमसः | यौवनोल्लाससहितः पराप्रासादसंज्ञकम् || १३१ || मन्त्रं मण्डलकं जप्यादष्टोत्तरसहस्रकम् | अनिष्टकारिणः सत्त्वान् कलहायासकारिणः || १३२ || वृथा द्वेषकरान् क्रूरान् सपर्याविघ्नकारिणः | भूतोपग्रहवेतालान् पिशाचान् यक्षराक्षसान् || १३३ || इत्यादिदुष्टजन्तूंश्च सदा क्लेशकरान् परान् | तद्वह्निमध्यपतितान्निर्दग्धांश्च चिन्तयेत् | क्षणेन नाशमायान्ति शलभा इव पावके || १३४ || यस्यमूध्नी स्मरेद्बीजं स मृत्युमधिगच्छति | ध्यानेनानेन देवेशि कालादीनपि नाशयेत् || १३५ || इति ते कथितः किञ्चित् काम्यकर्मविधिः प्रिये | समासेन कुलेशानि कि भूयः श्रोतुमिच्छसि || १३६ || || इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे काम्यकर्मकथनं नाम षोडशोल्लासः || १६ || अथ सप्तदशोल्लासः श्री देव्युवाच कुलेश श्रोतुमिच्छामि गुरुनामादिवासनाम् | तत्त्वं कुलपदार्थानां वद मे परमेश्वर || १ || ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | तस्य श्रवणमात्रेण कुलज्ञानं प्रकाशते || २ || नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे | विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह || ३ || नारायणस्वरूपाय परमात्मस्वरूपिणे | सर्वाज्ञानतमोभेदभानवे चैतन्याय च || ४ || सर्वज्ञाय दयाकॢप्तविग्रहाय शिवात्मने | परत्रेह च भक्तानां भव्यानां भावदायिने || ५ || पुरस्तात् पार्श्वयोः पृष्ठे नमः कुर्यामुपर्यधः | सदा सच्चित्तरूपेण विधेहि तव दासताम् || ६ || गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः | अन्धकारनिरोधत्वात् गुरुरित्यभिधीयते || ७ || गकारः सिद्धदः प्रोक्तो रेफः पापस्य दाहकः | उकारो विष्णुरित्युक्तस्त्रितयात्मा गुरुः परः || ८ || गकारो ज्ञानसम्पत्ती रेफस्तत्र प्रकाशकः | उकारः शिवतादात्म्यं गुरुरित्यभिधीयते || ९ || गुह्यागमात्मतत्त्वान्धनद्धानां बोधनादपि | रुद्रादिदेवरूपत्वाद् गुरुरित्यभिधीयते || १० || स्वयमाचरते शिष्यानाचारे स्थापयत्यपि | आचिनोतीह शास्त्रार्थानाचार्यस्तेन कथ्यते || ११ || चराचरसमासन्नमध्यापयति यः स्वयम् | यमादियोगसिद्धत्वादाचार्य इति कथ्यते || १२ || आत्मभावप्रदानात्तु रागद्वेषादिवर्ज्जनात् | ध्यानैकनिष्ठाचित्तत्वादाराध्य इति कथ्यते || १३ || देवतारूपधारित्वाच्छिष्यानुग्रहकारणात् | करुणामयमूत्तीत्वाद्देशिकः कथितः प्रिये || १४ || स्वान्तःशान्तिसमुन्मीलत्परतत्त्वार्थचिन्तनात् | मिथ्याज्ञानविहीनत्वात् स्वामीति कथितः प्रिये || १५ || मनोदोषादिदूरत्वाद्धेतुवादादिवर्ज्जनात् | श्वादिप्राणिषु सादृश्याद् रम्यत्वाच्च महेश्वरः || १६ || श्रीमोक्षज्ञानदातृत्वान्नादब्रह्मात्मबोधनात् | स्थगिताज्ञानचिह्नत्वात् श्रीनाथः कथितः प्रिये || १७ || देशकालाविरोधेन वर्त्तमानात् कुलागमे | वशीकृतजगज्जीवाद्देव इत्यभिधीयते || १८ || भवपाशप्रशमनात् टङ्कारेन्दुकशेखरात् | रक्षणात् कमनीयत्वात् भट्टारक इतीरितः || १९ || प्रगुप्तागमवेदान्तरहस्यार्थविभावनात् | भुक्तिमुक्तिप्रदानाच्च प्रभुरित्यभिधीयते || २० || योनिमुद्रानुसन्धानात् प्रस्फुरन्मन्त्रवैभवात् | गीर्वाणगणपूज्यत्वाद् योगीति कथितः प्रिये || २१ || सङ्गदुःखपरित्यागात् यत्र कुत्राश्रमाश्रयात् | मिथ आत्मनिबन्धत्वात् संयमीत्यभिधीयते || २२ || तत्त्वस्वरूपमननात् परिवादादिवजीतात् | स्वीकारात् शुभकार्याणां तपस्वीत्यभिधीयते || २३ || अक्षरत्वाद्वरेण्यत्वाद्धूतसंसारबन्धनात् | तत्त्वमस्यर्थसिद्धत्वात् अवधूतोऽभिधीयते || २४ || वीतरागमदक्लेशकोपमात्सर्यमोहतः | रजस्तमोविदूरत्वाद्वीर इत्यभिधीयते || २५ || कुलं गोत्रं समाख्यातं तच्च शक्तिशिवोद्भवम् | येन मोक्ष इति ज्ञानं कौलिकः सोऽभिधीयते || २६ || अकुलं शिव इत्युक्तं कुलं शक्तिः प्रकीत्तीता | कुलाकुलानुसन्धानान्निपुणाः कौलिकाः प्रिये || २७ || सारसंग्रहणाच्चैव धर्ममार्गप्रवर्त्तनात् | करणग्रामनियमात् साधकः सोऽभिधीयते || २८ || भजनात् परया भक्त्या मनोवाक्कायकर्मभिः | तरत्यखिलदुःखानि तस्माद्भक्त इतीरितः || २९ || शरीरमर्थं प्राणांश्च सद्गुरुभ्यो निवेद्य यः | गुरुभ्यः शिक्षते योगं शिष्य इत्यभिधीयते || ३० || योनिमुद्रानुसन्धानात् गिरिजापादसेवनात् | निर्लीनोपाधिविभवाद् योगिनीत्यभिधीयते || ३१ || शतकोटिमहादिव्ययोगिनीप्रीतिकारणात् | तीव्रमुक्तिप्रदानाच्च शक्तिरित्यभिधीयते || ३२ || पालनाद्दुरितच्छेदात् कामितार्थस्य वर्द्धनात् | पादुकेति समाख्याता मम तत्त्वं तव प्रिये || ३३ || जन्मान्तरसहस्रेषु कृतपापप्रणाशनात् | परदेवप्रकाशाच्च जप इत्यभिधीयते || ३४ || स्तोकस्तोकेन मनसः परमप्रीतिकारणात् | स्तोतृसन्तारणाद्देवि स्तोत्रमित्यभिधीयते || ३५ || यावदिन्द्रियसन्तापं मनसा संनियम्य च | स्वान्तेनाभीष्टदेवस्य चिन्तनं ध्यानमुच्यते || ३६ || चरितार्थविकाशाच्च रक्षणादपि पार्वति | नरनारीस्वरूपाच्च चरणं कथितं प्रिये || ३७ || वेदिताऽखिलशास्त्रार्थसद्धर्मार्थनिरूपणात् | दर्शनानां प्रमाणत्वाद्वेद इत्यभिधीयते || ३८ || पुण्यपापादिकथनाद्राक्षसादिनिवारणात् | नवभक्त्यादिजननात् पुराण इति कथ्यते || ३९ || शासनादनिशं देवि वर्णाश्रमनिवासिनाम् | तारणात् सर्वपापेभ्यः शास्त्रमित्यभिधीयते || ४० || स्मरणोत्सुकनिष्ठानां धर्माधर्मनिरूपणात् | तिमिरोत्पाटनाद्देवि स्मृतिरित्यभिधीयते || ४१ || इष्टधर्मादिकथनात्तिमिराज्ञानभञ्जनात् | हरणात् सर्वदुःखानां इतिहास इति स्मृतः || ४२ || आचारकथनाद्दिव्यगतिप्राप्तिनिदानतः | महात्मतत्त्वकथनादागमः कथितः प्रिये || ४३ || शाकिनीगणपूज्यत्वात्तारणाद्भववारिधे | परादिशक्तिसान्निध्याच्छाक्त इत्यभिधीयते || ४४ || कौमारादिनिरोधत्वात् लयजन्मादिभञ्जनात् | अशेषकुलसम्बन्धात् कौल इत्यभिधीयते || ४५ || पाशच्छेदकराद्देवि रञ्जनात् परतेजसः | यतिभिश्चिन्त्यमानत्वात् परम्पर्यमितीरितम् || ४६ || संसारसारभूतत्वात् प्रकाशानन्ददानतः | यशः सौभाग्यकरणात् सम्प्रदाय इतीरितः || ४७ || आदित्वात् सर्वमार्गाणां मनोल्लासप्रवर्द्धनात् | यज्ञादिधर्महेतुत्वादाम्नाय इति कीतीतः || ४८ || श्रुतानेकमहामन्त्रयन्त्रतन्त्रादिदैवतात् | श्रुतौ यदनविच्छिन्नाच्छ्रौत इत्यभिधीयते || ४९ || आम्नायतत्त्वरूपत्वाच्चातुर्यार्थनिरूपणात् | रागद्वेषादिशमनादाचार इति कीर्त्त्यते || ५० || दिव्यभावप्रदानाच्च क्षालनात् कल्मषस्य च | दीक्षेति कथिता सद्भिर्भवबन्धविमोचनात् || ५१ || अहम्भावहराद्भीतिमथनात् सेचनादपि | कम्पानन्दादिजननादभिषेक इति स्मृतः || ५२ || उल्बणत्वात् परत्वाच्च देवताप्रीतिदानतः | शक्तिपातनिमित्तादप्युपदेश इति स्मृतः || ५३ || मननात्तत्त्वरूपस्य देवस्यामिततेजसः | त्रायते सर्वभयतस्तस्मान्मन्त्र इतीरितः || ५४ || देहमास्थाय भक्तानां वरदानाच्च पार्वति | तापत्रयादिशमनाद्देवता परिकीत्तीता || ५५ || न्यायोपाजीतवित्तानामङ्गेषु विनिवेशनात् | सर्वरक्षाकराद्देवि न्यास इत्यभिधीयते || ५६ || मुदं कुर्वन्ति देवानां मनांसि द्रावयन्ति च | तस्मान्मुद्रा इति ख्याता दशीतव्याः कुलेश्वरि || ५७ || अनन्तफलदानाच्च क्षपिताशेषकल्मषात् | मातृकात्मतया लाभकरणादक्षमालिका || ५८ || मङ्गलत्वाच्च डाकिन्या योगिनीगणसंश्रयात् | ललितत्वाच्च देवेशि मण्डलं परिकीत्तीतम् || ५९ || कमलासनरूपत्वाल्लघुतत्त्वादिनाशनात् | शमितापारपापाच्च कलशः परिकीत्तीतः || ६० || यमभूतादिसर्वेभ्यो भयेभ्योऽपि कुलेश्वरि | त्रायते सततञ्चैव तस्माद् यन्त्रमितीरितम् || ६१ || आत्मसिद्धिप्रदानाच्च सर्वरोगनिवारणात् | नवसिद्धिप्रदानाच्च आसनं कथितं प्रिये || ६२ || मायाजालादिशमनान्मोक्षमार्गनिरूपणात् | अष्टदुःखादिविरहान् मद्यमित्यभिधीयते || ६३ || महादानार्थरूपत्वाद् यागभूम्येककारणात् | मद्भावजननाद्देवि मद्यमित्यभिधीयते || ६४ || सुमनसः सेवितत्वाद् राज्यदत्वात् सदा प्रिये | सुराकारप्रदानत्वात् सुरेति परिकीत्तीता || ६५ || अमृतांशुस्वरूपत्वान्मृत्युभीतिनिवारणात् | तत्त्वप्रकाशहेतुत्वादमृतं कथितं प्रिये || ६६ || पानाङ्गविश्वरूपत्वात्त्रिचतुष्ककलाश्रयात् | पतितत्राणनाद्देवि पात्रमित्यभिधीयते || ६७ || आशुशुक्षणिरूपत्वाद्धातृदेवप्रियादपि | रक्षणादपि चाधेयस्याधारं तु विदुर्बुधाः || ६८ || माङ्गल्यजननाद्देवि संविवदानन्ददानतः | सर्वदेवप्रियत्वाच्च मांस इत्यभिधीयते || ६९ || पूर्वजन्मानुशमनाज्जन्ममृत्युनिवारणात् | सम्पूर्णफलदानाच्च पूजेति कथिता प्रिये || ७० || अभीष्टफलदानाच्च चतुर्वर्गफलाश्रयात् | नन्दनात् सर्वदेवानामर्चनं समुदाहृतम् || ७१ || तत्त्वात्मकस्य देवस्य परिवारवृतस्य च | नवानन्दप्रजननात्तर्पणं समुदाहृतम् || ७२ || गम्भीरापारदौर्भाग्यक्लेशनाशनकारणात् | धर्मज्ञानप्रदानाच्च गन्ध इत्यभिधीयते || ७३ || आघ्राणनप्रजननान् मोक्षमार्गप्रदर्शनात् | दग्धदुःखादिदमनादामोद इति कथ्यते || ७४ || अन्नदानात् कुलेशानि क्षपिताशेषकल्मषात् | तादात्म्यकरणाद्देवि अक्षताः परिकीत्तीताः || ७५ || पुण्यसंवर्द्धनाच्चापि पापौघपरिहारतः | पुष्कलार्थप्रदानाच्च पुष्पमित्यभिधीयते || ७६ || धूताशेषमहादोषपूतिगन्धप्रभावतः | परमानन्दजननाद्धूप इत्यभिधीयते || ७७ || दीर्घाज्ञानमहाध्वान्ताहङ्कारपरिवर्जनात् | परतत्त्वप्रकाशाच्च दीप इत्यभिधीयते || ७८ || मोहध्वान्तप्रशमनात् क्षयातीविनिवारणात् | दिव्यरूपप्रदानाच्च परतत्त्वप्रकाशनात् | ख्यातो मोक्षो दीप इति मोक्षमार्गैकसाधनः || ७९ || चतुवीधं कुलेशानि द्रव्यञ्च षड्रसान्वितम् | निवेदनाद्भवेत्तृप्तिर्नैवेद्यं समुदाहृतम् || ८० || बहुप्रकारविचरद् भूतौघप्रीतिकारणात् | लिप्तपापप्रशमनाद् बलिरित्यभिधीयते || ८१ || तत्त्वत्रयविशुद्धिः स्यात्त्वत्सेवामात्रतः प्रिये | तत्त्वप्रकाशहेतुत्वात्तत्त्वत्रयमितीरितम् || ८२ || चतुर्वर्गफलावापात् लुण्ठिताज्ञानबन्धनात् | कल्याणधर्ममूलत्वाच्चलुकं कथितं प्रिये || ८३ || प्रकाशानन्दजननात् सामरस्यप्रदानतः | दर्शनात् परतत्त्वस्य प्रसाद इति कथ्यते || ८४ || पाशसञ्छेदनाद्देवि नरकस्य निवारणात् | पाबनात् परमेशानि पानमित्यभिधीयते || ८५ || कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा | समीपसेवा विधिवत् उपास्तिरिति कथ्यते || ८६ || पञ्चाङ्गोपासनेनेष्टदेवता प्रीतिदानतः | पुरश्चरति भक्तस्य तत् पुरश्चरणं प्रिये || ८७ || आवाहनादिकर्माणि षोडश द्वादशावधि | विधिनाचरणं प्रोक्तं उपहारमिति स्मृतम् || ८८ || सम्पूज्य सावृतिं देवं षोडशैरुपचारकैः | स्वस्थानप्रेषणं प्रोक्तं मृद्वासनमिति प्रिये || ८९ || देवं पूजार्थमाह्वानमावाहनमिति स्मृतम् | आसने सन्निवेशः स्यात् स्थापनं कुलनायिके || ९० || अन्योन्यसम्मुखाकारः सन्निधापनमीरितम् | यत्र कुत्राप्यचलनं सन्निरोधनमीरितम् || ९१ || देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः | आच्छादनं समुद्दिष्टमवगुण्ठनमीरितम् || ९२ || दर्शनं धेनुमुद्राया अमृतीकरणं प्रिये | क्षमस्वेत्यञ्जलिर्द्देवि परमीकरणं प्रिये | स्वागतं कुशलप्रश्नं निगदेद्देवताग्रतः || ९३ || पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते | जातालवङ्गकक्कोलैरुक्तमाचमनीयकम् || ९४ || अखिलाघप्रशमनार्द्धनपुत्रविवर्द्धनात् | अनर्घफलदानाच्च अर्घ्यमित्यभिधीयते || ९५ || सिद्धार्थमक्षतञ्चैव कुशाग्रं तिलमेव च | यवं गन्धः फलं पुष्पमष्टाङ्गार्घ्यं प्रकीत्तीतम् || ९६ || मध्वाज्यदधिभिः प्रोक्तो मधुपर्कः कुलेश्वरि | देहप्रक्षालनं स्नानं सुगन्धिसलिलैः सह || ९७ || चन्द्राचन्दनकस्तूरीकालागुरुभिरुच्यते | अष्टाङ्गप्रणिपातन्तु कथितं वन्दनं प्रिये || ९८ || एतच्चराचरं सर्वं क्षेत्रमित्यभिधीयते | तत् क्षेत्रं पालितं येन क्षेत्रपालः स उच्यते || ९९ || इति ते कथिता किञ्चिद् गुरुनामादिवासना | समासेन महेशानि यो जानाति स पूजकः || १०० || रहस्यातिरहस्यानां रहस्योऽयं महेश्वरि | ऊर्ध्वाम्नायोऽयमाख्यातः समासेन सविस्तरात् || १०१ || कुलार्णवमिदं शास्त्रं योगिनीनां हृदि स्थितम् | प्रकाशितं मया चाद्य गोपनीयं प्रयत्नतः || १०२ || पुस्तकञ्च महेशानि पशुगेहे न निक्षिपेत् | न दद्यात् पशुहस्ते च न पठेत् पशुसन्निधौ | न पठेदासवोल्लासं ग्रन्थं भूमौ न निक्षिपेत् || १०३ || नित्यं सम्पूजयेद्भक्त्या जानीयाद् गुरुवक्त्रतः | नापुत्राय प्रवक्तव्यं नाशिष्याय कदाचन || १०४ || स्नेहाल्लोभाद्भयादुक्त्वा सोऽचिरान्नश्यति ध्रुवम् | देवि यद्विद्यते प्राज्ञे तत्तत् किञ्चिन्मयोदितम् || १०५ || साधकानां हितार्थाय भुक्तिमुक्तिफलेषिणाम् | यश्चोर्ध्वाम्नायमाहात्म्यं पठेत् श्रीचक्रसन्निधौ || १०६ || भक्त्या परमया देवि यः शृणोति स कौलिकः | व्रतं स्नानं तपस्तीर्थं यज्ञदेवार्चनादिषु || १०७ || तत् फलं कोटिगुणितं लभते नात्र संशयः | त्वत्सन्निधौ सन्निवसेन्नात्र कार्या विचारणा || १०८ || || इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे काम्यकर्मकथनं नाम सप्तदशोल्लासः || १७ || ########### END OF FILE #######