#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M0230 Uniform title: kuladīpikā Main title: Kuladīpikā uttaraṣaṭkam ṣaḍvidyāprakāśikā Author : tryambakabhaṭṭaraka Manuscript : IFP/EFEO transcript T01046 Description: Notes: Data entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: Sept. 18, 2011 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### Kउलदीपिका (उत्तरषट्कम्) षड्विद्याप्रकाशिका || कुलदीपिका || || कुलदीपिकायामुत्तरषट्कम् || || कुलदीपिका षड्विद्याप्रकाशिका || कोटिसमप्रभम् | तदूर्ध्वे तु शिखा सूक्ष्मा चिद्रूपा परमाकला | तथा सहितमात्मानमेकीभूतं विचिन्तयेत् || गच्छन्ती * ह्ममार्गेण लिङ्गभेदक्रमेण तु | सूर्यकोटिप्रतीकाशं चन्द्रकोटि सुशीतलम् || अमृतं यद्विसर्गस्थं परमानन्दलक्षणम् | दृतरक्तसुतेजाढ्यधारापात प्रवर्षिणम् || पीत्वा कुलामृतं दिव्यं पुनरेव विशेत्कुलम् | पुनरेवाकुलं गच्छेन्मात्रायोगेन नान्यथा || सा च प्राणाः समाख्याता तन्त्रेऽस्मिन् परमेश्वरि | उद्घातः प्रोच्यते सोऽपि प्राणान्तं स्पृशते यदा || एवमभ्यस्य मानस्य अहन्यहनि निश्चयात् | जरामरणदुःखौघैःर्मुच्यते भव बन्धनात् || चतुर्विधा तु या सृष्टिर्यस्यां योनौ प्रवर्तते | पुनः प्रलीयते तस्यां कालाग्न्यादि शिवान्तकम् || योनिमुद्रा परा सा तु बन्धं तस्याः प्रकीर्तितम् | मुद्राया बन्धमात्रेण किं न साधयते भुवि || प्. २) अन्यथा जपते मन्त्रमन्यथा कुरुते तु यः | नासौ सिध्यति देवेशि सत्यं सत्यं पुन पुनः || छिन्नारुधास्तु ये मन्त्रास्तम्भिताः कीलिता भृशम् | दग्धाः स्वतन्त्रार्भाताश्च मलिनाश्च तिरस्कृताः || मूर्छितामदसंयुक्ताः सुषुप्ता मूर्छिता दृताः | मन्दाबालास्तथा वृद्धाः प्रौढा यौवनगर्हिताः || अरि पक्षे स्थिता ये च निर्बीजास्तत्ववर्जिताः | अंशकेन विहीनाश्च खण्डशः शतधा कृताः || विधिनानेन युक्तास्ते सम्भवन्त्य चिरेणते | सिद्धिमोक्षप्रदाः सर्वेदेशिकेन नियोजिताः || यद्यदुच्चरते मन्त्री वर्णरूपं शुभाशुभम् | तत्तत् सिध्यत्यनायासाद्योनिमुद्रा प्रबन्धनात् || दीक्षयित्वा विधानेन अभिषिच्य सहस्रधा | ततोधिकारी देवेशि तन्त्रेऽस्मिन् नान्यथा भवेत् || मुद्रामण्डलविन्यासैर्जपहोमव्रतादिभिः | सम्ताप्य बहुकालं वै भक्तिं विज्ञाय निश्चलाम् || ज्ञात्वा त्यागं बलं तापं तत्तस्तस्य प्रकाशयेत् | अस्मिन् कालेऽथवा देवि देव्यादेशः प्रजायते || तत्रेदं कथयेत् ज्ञानमन्यथा नरकं व्रजेत् | त्राता किंतु न तस्यास्ति यो परीक्ष्य प्रदापयेत् || प्. ३) तस्मात् परीक्ष्य दातव्यं यदीच्छेज्जीवितुं चिरम् | कृत्वा पापसहस्राणि असंख्यातानि सुन्दरि || दहा * * * मन्त्रेण योनिबन्धेन नान्यथा | न तस्य पुण्यपापानि तमः सूर्योदये यथा || सन्तर्प्य बहुधा कालं प्राणस्त्री द्रविणादिभिः | तस्मादभ्यसनं नित्यं कर्तव्यं पुण्यक * * क्षिभिः || अ * * ज्जायते सिद्धिरभ्यासां मोक्षमाप्नुयात् | संवित्तिं लभतेभ्यासा योगोभ्यासः प्रवर्तते | मन्त्राणां सिद्धि * * सादभ्यासाद्वायुसाधनम् || कालवञ्चनमभ्यासात्तथा मृत्युञ्जयो भवेत् | || इति प्रथमः पटलः || अथातः संप्रवक्ष्यामि संप्रदायसमन्वितम् | त्रैलोक्यडामरं मन्त्रं त्रिपुरावाचकं महत् || सुसमे भूप्रदेशे तु निम्नोन्नत विवर्जिते | पुष्पप्रकरसंकीर्णे गन्धधूपाधिवासिते || ललाटे तिलकोपेतो नेत्रकज्जलरञ्जितः | ताम्बूलपूर्णगन्धस्तु मदिरानन्दचेतनः || कुङ्कुमेन विलिप्ताङ्गो लाक्षालक्तकशोभितः | रक्तवर्णपरीधानो रक्तमाल्योपशोभितः || प्. ४) कर्पूरक्षोदन्धाङ्गः केसपैशून्यवर्जितः | उद्धरेत्तु महादेवीं दृष्टादृष्टफलप्रदाम् || अष्टपत्रं लिखेत्पद्मं केसराढ्यं सुकर्णिकम् | पत्राग्रे ग्रन्धिसंयुक्तं तदग्रे त्रित्रिशृङ्गकम् || इदं चक्रं प्रयत्नेन लिखित्वा साधकोत्तमः | मातृकां विन्यसेत्पश्चात् पीठभैरवयोगिनीम् || कामरूपं लिखेत् पूर्वे कोलगिर्यं तु दक्षिणे | चोहारं पश्चिमे लेख्यमुत्तरे औणकं लिखेत् || मलं चाग्निदिग्भागे नैर्-ऋत्यां तु कुलान्तकम् | जालन्धरन्तवायव्ये ऐशाने देवकोट्टकम् || पीठेशान्विन्यसेत्तत्र असिताङ्गादि भैरवान् ब्राह्मणीमादितः कृत्वा चण्डिकान्तं प्रकल्पयेत् | असिता रुरुश्चण्डः क्रोधश्चोन्मत्त भैरवः || कपोलभीषणश्चैव संहारश्चाष्टमस्मृतः | ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा || वाराही च तथेन्द्राणि चामुण्डी चण्डिकाष्टमी | दीर्घस्वरांश्च एकैकं मातॄणां च प्रकल्पयेत् || ह्रस्वाश्च भैरवाख्याता यमला वै प्रक्वमपक्षयेत् | कादिवर्णाक्षरा भद्रे ग्रन्धिषु शान्तकाः शुभाः || अन्यवर्णगणाः सर्वे शृङ्गकोणेषु संस्थिताः | प्. ५) कादीक्षान्ता न्यसेद्ग्रन्धौ शेषं तच्छ्रिङ्गेषु विन्यसेत् दक्षिणादीन्यसेद्वर्णान् सर्वसिद्धिफलप्रदान् | ऐन्द्रद्युत्तरशृङ्गान्त दक्षिणेन प्रकल्पयेत् || तदादि विन्यसेद्धीमान् विरमार्गेण साधकः | शिवाख्यौ कर्णिकामध्ये हंसाख्य पदविशृतौ || सकाकेश जीवभूतस्तु हकारः प्राण उच्यते | उभौ जीवसमाख्यातौ त्रैलोक्ये सचराचरे || एवन्यस्ये द्विधानेन आपूजयेत् कुलपद्धतिम् | एतदन्तरतो ध्यायेद्वाग्भवं देवसाधकः || ततः समुद्धरेन्मन्त्रभुक्तिमुक्तिफलप्रदम् | इन्द्राणी बीजमादाय संहारेण तु मण्डितम् || तद्भवेन्नैव चाक्रान्तं वाग्भवं देवि पूजितम् | एकाराकारविभवा त्रिकोणेन्दु स्वरूपिणी || दयं परिशिष्येभ्यो भक्तिहीने विशेषतः | एतद्बीजं महाबीजसृष्टिभूतं परं प्रिये || कामग्रन्धिं समादाय शृङ्गं कूटस्य दक्षणम् | माहेश्वरीयुतं कृत्वा संहारेण समं कुरु || क्षोभकृत् सर्वसत्वानां जीवभूतं परात्परम् | त्रैलोक्य पूजितं देवि सृष्टिसंहारकारकम् || कामराजमिदं देविकामसिद्धि प्रधायकम् | प्. ६) परापरविभागं तु एककृत्वा समाहिताः | सधकः जपेदेकाग्रचित्तस्तु पातालादिषु साधने || प्राणासनस्थितं देवं चामुण्डा भेदितस्ततः | चण्डिकायां तु संरुद्धं बीजं त्रैलोक्यमोहनम् || सदाशिवासनस्थं वै उच्चारेण तु लक्षयेत् | पूर्वसेवां जपेन्नित्यं योनिबन्धेन निश्चलम् || बिलद्वारं समाश्रित्य एकचित्तो जितेन्द्रियः | आदिमेन तु सा लुप्ता मध्यमेन तु कीलिता || अन्तिमेन तु नुच्छिन्ना तेन विद्या न सिध्यति | आदिमादिमनादिं च मध्यं मध्यममध्यमम् || अन्तमन्तमनन्तं च त्रिपुरा शीघ्रसिद्धिदा | आदिमध्ये तु मध्यादावन्तमन्ते च संस्थितम् || पुरक्षोभाय जप्तव्यं विधिनानेन साधकैः | ह्रस्वदीर्घक्रमेणैव लुप्तां तेन वरानने || विशेषणैवमुच्चार्य त्रैलोक्यमपि साधयेत् | || द्वितीयः पटलः || श्री देव्युवाच | अद्यापि संशयो देवकामतत्वस्य साधनम् | विज्ञानमात्रगमनं ब्रूहिमे त्रिपुरान्तक || प्. ७) श्री भैरव उवाच | कथयामि समासेन कामतत्वस्य लक्षणम् | आकर्षणं परं दिव्यं शृणु श्रेष्ठं समासतः || कामस्थं काममध्यस्थं कामोदरपुटीकृतम् | कामेन साधयेत् कामं कामं कामे विनिक्षिपेत् || कामेन कामितं कृत्वा कामस्थं क्षोभयेद्ध्रुवम् | अस्मिंश्चक्रे कामराजं ध्यायेद्वैलोकपूजितम् || कामस्थं भुवनं ज्ञेयं काममध्ये विग्रहम् | कामोदरं भवेद्योनि स्फुटान्तं बिन्दुसंज्ञकम् || अनेनैव तु कामेन कामतत्वं प्रसाधयेत् | एतदेव हि कामं तु साध्यायोनौ प्रकल्पयेत् || बिन्दुनामथनं कृत्वा विसर्गस्थं परामृतम् | शक्तिमार्गेण योनिस्थं तथा तत् क्षोयेद्ध्रुवम् || बहुनात्र किमुक्तेन जल्पितेन वरानने | पूर्वोक्तं यन्त्रमालिख्य त्रिपुरा वा चक्रं महत् || कुण्डो गोलोद्भवेनैव स्वयम्भू कुसुमेन च | गोरोचना समायुक्तं भूर्जपत्रेषु लेखयेत् || षोडशारं महापद्मं द्वादशारं तु बाह्यतः | वाग्भवं कर्णिकायां तु कामराजं तदूर्ध्वतः || तदूर्ध्वे शक्तिबीजं तु महायोनिगतं लिखेत् | प्. ८) त्रिदण्डं बिन्दुसंयुक्तं द्वादशस्वरभेदितम् | महायोनिरितिख्याता जननी सा जगत्रये || प्रथमे स्वरसङ्घातं कामराजं द्वितीयके | द्वादशस्वरभदेन भेदयित्वा तु विन्यसेत् || षोडशारे महापद्मे स्वरशक्त्या विभेदयेत् | तद्बाह्ये मातृकान् सर्वान् नादबिन्दुकलान्वितम् || हंसबीजसमारूढां कारयेत्परमेश्वरि | एतद्यन्त्रवरं दिव्यं त्रैलोक्येष्वपि दुर्लभम् || मन्दरस्योदरे सर्वं सुषिरेण तु वेष्टयेत् | चक्रेऽस्मिन् शक्तिबीजं तु ध्यावै साधकोत्तमः || एषां दिव्या मया प्रोक्ता नम्ना त्रिपुर भैरवी | कन्यानामसमोपेता बिलद्वारं समाश्रिताः || योनि कुण्डादधस्थाप्य होमयेद्राजिका पुटैः | सप्तरात्रां महादेवि क्षुभ्यन्ते मदनोत्कटाः || विरहानलसंप्ता मूर्छाकुलित विग्रहाः | पतन्ति साधकस्याग्रे कुन्दमानास्थितास्त्रियः || भो साधक महासत्व हाटकेश्वर विग्रह | प्रविश्य साधकैः सार्धमधिकारं कुरुष्वनः || प्रविश्य क्रीडते सोऽपि यावदाभूतसंप्लवम् | || तृतीयः पटलः || अथातः संप्रवक्ष्यामि त्रिपुरा योगमुत्तमम् | हृद्वोमपद्ममध्यस्थं हंसाख्यं नामनामतः || व्योमपीठा सनासीनं चामुण्डा चण्डिकायुतम् | तेनैव कल्पयेत्प्रेतं सादाख्यं परमेश्वरि || तस्योपरि न्यसेन्मूर्तिं नादबिन्दुकलामयीम् | सकलेनैव मन्त्रेण वक्त्राण्यङ्गानि कल्पयेत् || ध्यायेद्रूपं महेशान्यानिश्चलेनान्तरात्मना | उदयार्कसमप्रख्यां किरणानेकसंकुलाम् || बन्धूककुसुमच्छायां सिन्दूरारुण विग्रहाम् | रक्तावस्त्रावृतां देवीं सर्वाभरणभूषिताम् || जटाजूटधरां सौम्यामर्धेन्दुकृतशेखराम् | सर्वलक्षणसम्पन्नां पर्यङ्कासनसंस्थिताम् || आपीनमण्डलाकार भोगसमुन्नतपयोधराम् | वलीतरङ्गमध्यस्थ रोमराजि विराजिताम् || मदिरानन्दचेतस्कामाह्लादजननी पराम् | त्रैलोक्यमोहिनीं देवीमीषत्प्रहसिताननाम् || दिव्यरूपां महादेवीं त्रिणेत्रां च चतुर्भुजाम् | सर्वालङ्कारसम्पन्नां व्योमपद्मासन स्थिताम् || वामहस्ते निविष्टेन सर्वज्ञानमयेन च | पुस्तकेन वरारोहे दिव्येन वरदेन च || प्. १०) सूर्यबिम्बनिभैर्मुण्डैस्पुरज्ज्वालावलीधरैः | ग्रथिता दिव्यरूपां तु रक्तबिन्दुप्रमोचनीम् || चण्डा विद्यामयीममलामापादतल लम्बिनीम् | गलेन बिभ्रतीं देवीं चिन्तयेल्लोकमातरम् || ऊर्ध्वमार्गस्थितं पद्मं सहस्रदलसङ्कुलम् | वर्षन्तममृतौघेनत्रवल्लाक्षारसप्रभाम् || तेनैव प्लावयेद्देवीं परेणैवामृतेन तु | एवमभ्यस्य मानस्य साधकस्य विचक्षणः || महात्मन् ये त्रैलोक्यं क्षुभ्यते सर्वं नान्यथा वीरवन्दिते | || इति चतुर्थः पटलः || श्री देव्युवाच | मन्त्रध्यानं कथं प्रोक्तमुत्थानं वा कथं भवेत् | लयः कस्मिन् भवेद्देव विश्रममाश्रममित्यनुपदिष्यति || रघूणामित्य बहुलोत्पन्नस्यार्ण प्रत्ययस्य तद्राजस्य बहुषु तेनैवास्त्रियामिति लुक् | अन्वयं तद्धियं प्रबन्धमित्यर्थः | अस्यैवोत्तरश्लोके श्रवण परीक्षा प्राङ्विषत्वे पपत्तैः | न च तत्र तमिति पदेनान्यभेदे परामृश्यत इति शक्यं वक्तुं पुल्लिङ्गान्तान्तरस्या प्रकृतत्वात्तथा च महाकविम् | रघुवरचरितं प्. ११) मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वमिति चापलाय | चपलकर्मणे तव कर्तुमित्यर्थः | क्रियार्थोपपदस्य कर्मणि स्थानि न इति चतुर्थी | प्रतारितः | अथवा प्रकरणं कारितः | प्रोत्सारित इत्यर्थः | अथवा भृशत्तं प्रतारणं महादनमितिगलायुधः | अयमभिप्रायकृतदन्वये लब्धबुद्धि प्रवेशस्य मन्दोपि वाक्प्रवृत्ताय तत्तद्गुणा धैर्यपरिपन्थिनं प्रवर्तयितारम् | किं कुर्वन्तीन्तः प्रयोजन्तीत्याह कर्णमागत्येति अथ क्रियमाण प्रबन्ध परीक्षार्थीतः प्रार्थयतेतमिति श्रोतुं परीक्षापर्यन्तं श्रवणं कर्तुं श्रवणमात्रास्यानुपयोगात् | अहन्तीत्यधिकार उक्तम् | तेन च प्रार्थना लभ्यते | अधिकारकथनस्यैव प्रवर्तकत्वाभावाच्छ्रवणपुरःसरां परीक्षां प्रार्थय इत्यर्थः सदसद्यक्तिगुणदोषविभाग प्रकाशनं तत्र हेतवं प्रकाशयितारं हीति प्रसिद्धोऽयं दृष्टान्त इत्यर्थः | अग्न्याविति निमित्तात् सप्तमी | विशुल्लेहान्तरसम्पर्काभावादौ ज्वल्यम् | श्यामिका | तद्विपर्ययः | अपि समुच्चये | वा विकल्प विशुद्धि श्यामिका चोभयमपि हेमजातेरति परीक्षायः | व्यवस्तित व्यक्तिविषयः | विकल्पेन संलक्ष्यत इत्यर्थः | प्रतिवस्त्रपमाचलङ्कारः | प्रतिवस्त्रपमातु सा | प्. १२) सामान्यस्य सं?रकस्य यत्र वाक्यद्वये स्थितिरिति गुणदोष विभाग हेतुत्वं साधारणो धर्मः शब्दभेदेन वाक्यद्वयेप्युपात्तः | अत एव न दृष्टान्तः | तत्र सामान्यस्यापि बिम्ब प्रतिबिम्ब भावेनावस्थानान् नाप्यर्थान्तरन्यासः सामान्यविशेष विषयतया तत्र वाक्यद्वयस्यावस्थानात् अथ वर्णनीयं वस्त्रपक्षिपति | वैवस्वत इति | मिततेजसः | व्यापकस्य त्रिधाम्नां च मन्त्रोऽयं वीर्यवत्तरिः | क्रमेणानेन मन्त्राणामुच्चारे कुलदेवताः | कुप्यन्ति साधकानां च धातॄन् गृह्णन्ति भैरवि | तेजो नामविपर्यासविद्धं शुद्धोदितं भवेत् | वाग्भवं कामराजं च शक्तिं हंसं कुलेश्वरम् | जपन्ति ये महात्मानः शीघ्रसिद्धिं वहन्तिते || देवताश्चानुग्रह्णन्ति कुलचक्राध्वराश्रयाम् | पदाद्यक्षरसङ्केतं वदामि शृणु भैरवि || सर्वमन्त्रानुसन्धानफलसम्पत्तिकारकम् | श्रीकण्ठेनादि भूतेन वाग्भवस्य कुलेश्वरि || उपात्तं निखिलं बीजं चक्रं सारस्वतं महत् | आद्येन क्रोधनाथेन कामबीजस्य सुन्दरि || आभूतं योनिचक्रं तत् सर्वकामफलप्रदम् | आद्येन लकुलीशेन शक्तिबीजस्य सुन्दरि || प्. १३) पादविद्या समुद्दिष्टा सर्वविद्या क्रमागता | इदानीं कुलचक्रस्य * * त्वं व्याप्तिलक्षणम् || रुद्रभैरववीराणां सर्वस्वं योगिनी कुलम् | हृत्पद्ममध्यकुहरे त्रिकोणे भावयेत्सदा || अकारादि विसर्गान्ताः सव्यरेखा विभाविताः | कोटि चन्द्रप्रतीकाशा वाग्भवेन सुपूजिताः || ककारादि तकारान्तादक्षरेखाश्रयां प्रिये | अनेकभास्करप्रख्याः कामराजाक्षरार्चिताः || थकारादि सकारान्तादक्षरेखाश्रयां प्रिये | अनेक भास्करप्रख्याः कामराजाक्षरार्चिताः || थकारादि सकारान्ताः पूर्वरेखा समाश्रयाः | विद्युत् पुञ्जनिभाः श्रेष्ठाः शक्तिबीजेन सम्मताः || मध्ये कुलाकुलादेवी पादविद्या प्रतिष्ठिता | इन्द्रचापप्रभा चण्डीहंसमन्त्रविभाविनी || गुरूपदेशतो ज्ञेयानाथितागमकोटिभिः | कुलचक्रमयी मूर्तिस्त्वदीया चाक्षमालिका || विद्यापीठां च देवेशित्वदीयं कुलनन्दिनि | इत्थं हृत्पद्ममध्ये तु ध्यातव्यं सर्वदा प्रिये || योगिनां योगिनी चैव विद्या सिध्यर्थमुत्तमम् | कुलचक्रं महादेवि त्वत्स्नेहात्कथितं प्रिये || प्. १४) आज्ञाधारे सदा देवि भावयेद्यंकुलेश्वरि | तस्यासीनं भवत्याशुस्थावरं जङ्गमं जगत् || सर्वदा कुलचक्रं तु योनौ प्रयतमानसः | योध्यायत्यस्य योगिन्यो जायन्ते मदनातुराः || कुलचक्रं तु विज्ञेयं दव्यदेहं शिवस्य तु | शास्त्राण्यन्यांश्च मन्त्रांश्च पादपांसूनिवत्यजेत् || इदं त्वति रहस्यं तु कथितन्ते मृगेक्षणे | कर्णात्कर्णं प्रयोक्तव्यं न चलेख्यं तु पुस्तके || देयं वीरव्रतायेदं हृष्टाय सततं प्रिये | भक्ताय देशिकेन्द्राणामुन्नताय व्रतास्थिते || || इति पञ्चमः पटलः || कुण्डन्या कृतौ लक्षजपान्ते जुहुयात्ततः | पूर्व सेवाकृता तस्य भवत्येव न संशयः || अनेन विधिना युक्तो मन्दभाग्योऽपि सिध्यति | मुच्यते सर्वरोगैस्तु असाध्यमपि साधयेत् || अत ऊर्ध्वं जपेद्यस्तु साधको वल्लभे शृणु | लक्षमेकं जपेद्यस्तु तद्गतस्य जितेन्द्रियः || दर्शनात् क्षुभिताः सर्वायोषितो मदनातुराः | पतन्ति साधकस्याग्रे निर्लज्जाभयवर्जिताः || प्. १५) द्विलक्षेण जनाः सर्वे एतस्मिन्विषये स्थिताः | आगच्छन्ति यथा तीर्थमत्यन्ता कुलविग्रहाः || ददन्ति तस्मै सर्वस्वं तस्यैवाग्रेष्व सष्थिताः | त्रिषु लक्षेषु जप्तेषु मण्डलीकाः समण्डलाः || वशमायान्तिते सर्वे नात्र कार्या विचारणा | षड्भिर्लक्षैर्महीपालाः सभृत्य बलवाहनाः || लक्षैर्द्वादशजप्तैस्तु यक्षरक्षोगणेश्वराः | वशमायान्तिते सर्वे आज्ञां कुर्वन्ति नित्यशम् || लक्षैः पञ्चदशैर्जप्तैः साधकस्य वरानने | सिद्धविद्याधराः सर्वे गन्धर्वाप्सर आदयः || वशमायान्ति ते सर्वेनात्र कार्या विचारणा | दूराच्छ्रवणविज्ञानं सर्वज्ञत्वं प्रजायते || शक्तिपुष्टिकरस्तुष्टः शुद्धोमारयते क्षणात् | तथाष्टादशभिर्लक्षैर्जप्तै देहेन साधकः || उत्तिष्ठन्मेदिनीं त्यक्त्वा दिव्यदेहः प्रजायते | पर्यटेत्स्वेच्छया लोकांश्चित्रां पश्यति मेदिनीम् || अथ विंशतिभिर्लक्षैर्विद्याधरपतिर्भवेत् | साधकस्तु भवेद्देवि कामरूपी महाबलः || यक्षकोटितया देवि लीयते परमे पदे | त्रिंशल्लक्षैस्तथा जप्तैः सिद्धयोगेश्वरेश्वरः || प्. १६) चतुश्चत्वारिंशल्लक्षैर्ब्रह्माविष्णुश्च शाश्वतः | षष्टिजप्तैस्तु रुद्रत्वमीश्वरत्वमशीतिभिः || * * कं तु भवे वि त्रैलोक्येष्वम?र्जपः | त्रैपुरं भैरवं तेजः शिवं * * कारणम् || अक्षयं तत्पदं शान्तमप्रमेयमनिपमम् | लभतेऽसौ न सन्देहो देवि सर्वमभीप्सितम् || || पञ्चमः पटलः || श्री देव्युवाच | नवलक्षं कथं देवस्थानं तस्यापि कीदृशम् | एतस्मिन् संशयन्तात छेत्तुमर्हसि शूलयुक् || श्री भैरव उवाच | सारात्सारतमं देवि बाह्यसंख्या विवर्जितः | शरीरे संस्थितं देवि नवलक्षं सुदुर्लभम् || मेढ्राधाराच्चतुर्भिश्च गह्वरोगलगह्वरम् | लम्बिकं भ्रूबिलं देवि नवकं ब्रह्मरन्ध्रकम् || मेढ्रादीपशिखाकारामाधारेकनप्रगम् | नाभिस्थं सूर्यबिम्बं तु तरुणं सुरसुन्दरि || ज्वालाज्योतिः शिखाकारा तदूर्ध्वे भास्कराकृतिः | गले दीपशिखाकारं लम्बिके चन्द्रसन्निभम् || प्. १७) भ्रूमध्ये रत्नसंकाशं नवान्ते विश्वतेजसम् | एतत् स्थानगतो योगी नवलक्षं समभ्यसेत् || स्पर्शनं चावलोवकं च सम्भाषा बिन्दुदर्शनम् | स्वयमावेशनं चैव मन्त्राणां पञ्चलक्षणम् || श्री भैरव उवाच | विद्याकोशं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् | वाग्भवेन वरारोहे देव्या चक्रं प्रपूजयेत् || तन्मध्ये वर्णसङ्घातकृत दिव्यवपुर्धराम् | नादबिन्दुमयीं देवीं ध्यायेत् सकलमन्त्रतः वक्त्राण्यङ्गानि विन्यस्य प्रेतोर्ध्वे पूजयेत्प्रिये | कोणस्था देवतातिस्रोरति प्रीति मनोभवाः वामेरतिस्तथा प्रीतिर्दक्षिणे मदनाग्रतः | मूलविद्यां जपेत् पश्चाल्लक्षणेन समन्विताम् || आकारेण क्षकारस्यादा * * ऊ * सर्वयोजयेत् | ईकारेण लकारस्या दूकारेण हकारकम् || ऋसारोग समाख्यातौ ॡषायोगस्तथापरः | ऐकारेण शकारस्या दाकारेण वकारकम् || अंकारेण लकारस्याद्यजेन्नाम समन्वितम् | एषा सा मूलविद्या च नाम्ना त्रिपुरभैरवी || प्रत्यक्षं जायते देवि त्रिधासिद्धिं ददात्यसौ | प्. १८) ददते साधकेन्द्राणामितरा भुविका तथा | एतत्ते कथितं देवि भुक्तिमुक्ति फलप्रदम् || अयोग्यस्य न दातव्य * * ज्ञा परमेश्वरी | || षष्ठम पटलः || इति श्रीरुद्रयामले संपादलक्षग्रन्धे विद्यापीठावतारिते उत्तरभागे नित्यक्लिन्ना प्रकरणे षड्विद्या प्रकाशायामुत्तरषट्कं संपूर्णम् || तद्विवरणम् || हृदये स्पर्शनं प्रोक्तमालोकं कण्ठदेशतः | तालुस्थाने तु सद्भाषो दर्शनं बिन्दुमध्यतः || स्वयमावेशनं देवि ब्रह्मरन्ध्रे तु दर्शितम् | वन्दे शक्तिं परां शम्भोर्वर्णसंक्षिप्त विग्रहाम् || प्राणाद्यारम्भ संक्रीडा निरन्तरधुरन्धराम् | आगमान्तरसंवाददर्शितार्थ विनिश्चयाम् || व्याख्यामुत्तरषट्कस्य करोमि कुलदीपिकाम् | भगवतश्चैतन्यात्मनस्त्रियम्बक भट्टारकस्य स्फुरणरूपिण्याः सार्वकालिकप्रपञ्चसर्गस्थिति संहार संक्रीडन परायाः सोमसूर्यवह्न्यात्मक विश्वतैजस प्राज्ञापुरत्रय सन्धुक्षण्यावर्णकदम्ब सङ्कलित दिव्यमूर्तेः परायाः शक्तेः प्. १९) परमोपास्तिसाधन भूतस्य श्रीमति दक्षिणस्योत्तरस्य श्रीरुद्रयामले निखिलजगद्रक्षणाय समुद्रे भाषितस्यापि श्रीमत् काश्मीरसिद्धिसंप्रदाय दरिद्रैरभागधेयैर्याथा तथ्या परिज्ञानात् स्वमनीषिक्या परं परयाकु देशिकैर्विप्लुतोपदे देशस्य श्रीमद् ब्रह्मानन्दप्रकाशभट्टारक परमगुरुमुखगम स * * * पुरःसरं श्रीमदुत्तरषट्कस्य कुलदीपिकाख्यं विवरणमारभ्यते | तस्य तावदयमाद्य श्लोकः | व्योमाम्बुजे सहस्रारेसितकेसरसङ्कुले | तत्रासीनं महादेवमपृच्छत् कुलनायिकेति || तत्र व्योमनाम आज्ञास्थानात् कोदण्डसंज्ञकादूर्ध्वं यच्छिरं कपालान्तरालं तत्र यादम्बुजं कुलस्वरूपं परमबिन्दुसंत्रितं तद्व्योमाम्बुजम् | तत्र बिन्दो किरणाः अराणि तेषां सहस्रकम् | अरसहस्रकम् | अरशब्देन दलान्यभिप्रेति सितकेसरसंकुल इति तत्र केसराणि षोडशकलामयानि अमृतमयत्वात् सितानीति कीर्त्यन्ते | उक्तं च श्री निर्गुण्डे श्रीमते | षोडशारे महापद्मे कर्णिकायां शिरोपरि | कर्णिकायां स्थितं ज्ञानमकाराद्याः क्रियादले || प्. २०) ताश्च षोडशभेदेन शक्तयः परिकीर्तिताः इति | तत्रासीनमिति तत्रावस्थितस्य निरञ्जन समाधि बलेन निरतिशय स्वात्मरूपमुपलभ्यमानमिति यावत् | एवं विध समाधिबल लाभे हि सति योगिनः | परमरहस्यार्थ विज्ञानातिशये योगो भवति || एवं विधं देवदेवं कुलनायिका मातृकेश्वर्यपृच्छदिति वाक्यार्थः | इह केवलं तन्त्राणां प्रश्नोपवर्णनमुत्तर व्याकरणारम्भणीयत्वात्तदनुरूप श्लोकविन्यासम् | कृत तु परमार्थकः | शिष्या सति परमेश्वरी देवं देशिकं सन्ततमनुयुङ्क्ते | न खलु पररूपे परशिवभट्टारकस्य सकलविद्याधारभूत मातृका सिद्धायाः परायाः शक्तेश्च परस्परः भेदस्यैव न सम्भवम् | काकथा गुरु शिष्यभावस्य अपरिज्ञातस्य प्रकाशनस्य वा | तथा चरस्योपनिषट् | गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः | पूर्वोत्तरं पदैर्वाक्यैस्तन्त्रं समवतारयदिति || कथमपृच्छदिति | भगवन् देवदेवेश भवनाशन भैरव | स्तोतुमिच्छामि देवेश देव्या मन्त्रविनिर्णयम् | मिति | देव्या इति त्रिपुराया इत्यर्थः | अत्र विमर्शनीयानर्थान् प्. २१) प्रश्नरूपेणोपसङ्गृह्णाति | लिङ्गत्रयसमायुक्तं महापद्मवनं तथा | कदम्बगोलकं चान्यद्ब्रह्मरन्ध्रं विशेषतः || मुद्रा पञ्चकसंयुक्तं पीठत्रयसमन्वितम् | कुलाकुलविभागं च सप्तमं कथयस्वमे इति लिङ्गत्रय समायुक्तं महापद्मवनमित्यत्र समायुक्तपदे निहितेऽपि उभयं च पृथक् पृथक् प्रश्नविषयभूतमित्यवगन्तव्यम् | अन्यथा सप्तप्रश्नानुपपत्तेः समायुक्ता पदं तु निदधानेन लिङ्गत्रयान्यतमेन महापद्मवनस्य सन्निकर्षं सूचयति एवमुत्तरत्रापि बोद्धव्यम् | पश्चिमाभिमुखं लिङ्गं योनिस्थं परिकीर्तितम् | हृद्ग्रन्धिबीजथस्थानां स्वयम्भूर्बाणवाचकम् || इतश्चान्तरालस्थं विसर्गाथ स्थावर इति | पश्चिमाभिमुखमित्यर्थः योनिरिति वर्णविन्यासविशेषः | गुदमेढ्रान्तर इत्यादिना वक्ष्यमाण लक्षणः | तत्रस्थमेकं लिङ्गम् | तच्च पिण्डाख्यम् | हृद्ग्रन्धिबीज संस्थानमिति तत्र ग्रन्धयो वाममुद्रामण्डलमन्त्रविद्याख्याश्चत्वारः | तेचादित आरभ्य मातृकाचक्रस्य द्वादशभिर्द्वादशभिर्वर्णैश्चतुर्था विभक्तस्य क्रमात् संज्ञावेदितव्याः | तथा च श्रीमते श्री चक्रनिर्नये | देवे | प्. २२) मणिपूरकमालाया ग्रन्धिर्जाताश्चतुर्विधा | मुद्रामण्डलमन्त्राश्च विद्याग्रन्धिश्चतुर्विधा || एकैका द्वादशैर्भेदैर्मायायन्त्रोदरे पुनः | महामाया पुनभासहस्रप्ररोहनिरन्तरतया वनाकृतित्वमभिमन्यमानो वनमिति कथयति | अत्रेति प्रकृतस्य परलिङ्गस्य परिसर इति सामान्यनिर्देशेऽपि तस्योपरिष्टादिति विज्ञेयम् | अत्र महापद्मं विसर्गाख्यम् | अकुलं रूपातीतम् | तच्च परमबीजस्वरूपम् | परमादित्यात्मजोतिर्मण्डलं तदेव योग पीठमिति संज्ञितम् | विष्णीशनाथस्य परमभैरव भट्टारकस्य स्थानकमिति कृत्वा | अथ कदम्बे गोलकमाह | कदम्बगोलकाकारं तत्कामं बीजरूपिणमिति | कदम्बगोलकं विद्यादिति विशेषः | तत्काममिति तच्छब्देन महावनं परामृश्यते | तस्य मध्ये कर्णिकास्थानीयम् | अन्तर्गतं त्रिकोणं षट्कोणं कैलासप्रस्ताररूपम् ऊर्ध्वं कामतत्वयन्त्रात्मकं वह्निमण्डलं तत्कामशब्दवाच्यं कदम्बगोलकाकारत्वात् कदम्बगोलकं विद्यादिति वाक्यार्थः | तथाचास्मिं स्तन्त्रे कामशब्देन वह्निमभिधास्यति भ्रूमध्योनिगतं ध्यात्वा कामं बन्धूकसन्निभम् | तस्योर्ध्वे तु शिखा सूक्ष्मेति बीजारूपिणमिति क्रोडीकृत परबीजस्वरूपिणमित्यर्थः | प्. २३) उक्तं च श्रीमदुत्तरकौले | व्यापकं परमं बीजं लयातीते व्यवस्थितमिति पुत्रलयातीतशब्देन ब्रह्मरन्ध्रमभिधीयते | तच्च महापद्मवनकर्णिकामध्यम् | अनन्तरं ब्रह्मरन्ध्रं वर्णयति | ब्रह्मरन्ध्रं तु तत्रैव सुषुम्नाधारमण्डलमिति | तत्रैवेति कदम्बगोलक एवेत्यर्थः | सुषुम्नाया आधारभूतं मण्डलं सुषुम्नाधारमण्डलं तत् किलचान्द्रमसं मण्डलम् | आधारीकृत्य सुषुम्ना देहमनुसृता सुषुम्नेत्याख्याता याचित् काचित्कला आधारभूतं मण्डलम् | तथा च श्रीमते | एगहस्ते ध्वनि भासावसाने तु चिदचित् गगनान्तरे | याचितो तु परा संविदा शिवान्तावभासकी ब्रह्मसूत्रेति सा ज्ञेया तेन सूत्रेति कथ्यते इति | अथ मुद्रापञ्चकं प्रसेतौति पृथिव्यादिनि तत्वानि मुद्राणाङ्कानि तु | इति तत्वं स्वरूपमुद्राणां तत्वानि वाचकरूपाणि पृथिव्यादीति न तु वाच्यरूपाणि तानि चक्रमादाधारस्वाधिष्ठान मणिपूरकानाहत विशुध्याख्य स्थानगानि लकार वकार रेफ यकार घोषाख्यानि बीजानि तेषु चाधारादि स्थानेषु तत्तदाश्रगाल्लकारादीन् भावयतां साधकानां या विभूतयः सिध्यन्तिता मुद्रा इत्यभिहिताः | तदुक्तं श्रीकमन्निर्णये | क्रमं च वीरगं प्रोक्तं वच्मिमुद्रास्वरूपकम् | प्. २४) भूम्यदौवाचकास्तत्र लवरयहाद्यवस्थिता इति | आधारादि विशुध्यन्तमाधारादि पञ्चकम् | पृथिव्यादीनां वाचकानां स्थानमिति कथितम् | श्री रत्नदेवे | आधारादि विशुध्यन्तं पृथिव्यादीह पञ्चकम् | स्वाभाविकं चलद्दीप्तं स्थिरं मूलं नभोयुतम् || मायीयं बीजनाद्याढ्यमेतद्बीजं परात्मकम् | भयवरलसंयुक्तं मायाधस्तात् समन्वितम् || ब्रह्मस्थानगता सूक्ष्मा स्वाभाविकमुद्रा भूताः | विष्णुस्थाने चलाः प्रोक्ता दीप्ता रुद्रपदं गता || ईश्वरे स्थिरसंज्ञात्वा सादाख्ये रुद्रवद्ध्रुवा | समभावा इति एवमेतासां मुद्राणां भावनाद्वारेण विभूति विशेषकारणभूततया लकारादयः | एवं मुद्रा इती माध्यारोपिताः | अथ पीठत्रयमाह | पूर्णाख्यं बैन्दवं तत्वं कोदण्डद्वयमध्यगम् | तदूर्ध्वेनाद नाम्ना तु ओड्याणं तु भवेत्ततः || कामरूपं भवेच्छक्तिविश्रामं तु ततः परमिति | हि शब्दलोपोत्र दृष्टव्यः | बैन्दवं तत्वं प्रकाशमयम् | भ्रूमध्यगं पूर्णगिर्याख्यं पीठमित्यर्थः | तस्योर्ध्वेनादाख्यं पीठमित्यर्थः | तस्योर्ध्वे नादाख्यं द्वितीयमोड्योणं प्. २५) पीठः तस्य प्रकाशरूपस्य बिन्दोः शिखात्मनः स्फुरणरूपम् | तत इति तत्र द्वितीयपीठादूर्ध्वं शाक्तं प्रकाशविश्रामरूपं कामरूपं नाम तृतीयं पीठं तदेव शक्तिः कथिता | इति पीठत्रयं व्याहृत्य कुलाकुले विभजति | विसर्गमकुलं प्रिये | सहस्रारं महापद्मं रक्तकिञ्जल्कशोभितम् | तत्र संलक्ष्यते सम्यग्वर्षन्तं रक्तबिन्दुभिः | प्रभानिष्यन्दमयैर्वर्षन्तमपि चान्द्रमसं तेजोतिशयं विसर्गाख्यं तारकविशेषमकुलं लक्षयेत् | भावयेदित्यर्थः | तथा च वक्ष्यति दृतं रक्तं सुतेजाढ्यं धारापातप्रवर्षिणम् | पीत्वा कुलामृतं दिव्यमिति तच्चाकुलं सदा | सृष्टिं च भावद्विसर्ग इति कथितं ततो हि विसृज्यमानमिच्छादि मातृकान्तमयकुलचक्रमय शक्तिकदम्बकं प्रतायते | उक्तं च श्री कुलमूलावतारे इच्छाज्ञान क्रियाख्याता कुण्डलिनी मातृका तथा | ततः सर्वं समुत्पन्नं तस्माद् बहुविधं कुलमित्यकुलं विसर्गाख्यं मन्त्रविशेषमुपदिश्य योन्याख्यं कुलस्वरूपव्यावर्णयति | पूर्वं या सूचिता मुद्रा गुह्याख्यामृतरूपिणी | बन्धं तस्याः प्रवक्ष्यामि संवित्ति लभते यया इति | पूर्वं लिङ्गत्रयविवरण प्रकारणे पश्चिमाभिमुखमित्यादिना प्. २६) प्रथमलिङ्गाधारत्वेन गुह्याख्या योन्याख्या मुद्रा सूचिता | सकलमातृका चक्र प्रसवित्रीसमन्तमन्त्रबलभूता प्राणा स्वरूपा घोषमयी तस्याबन्धमप्रमादमनुसन्धान लाभं वक्ष्यामि येन सारस्वतयोगभूतेन परसंवित्ति लाभो भवतीति यावत् | अथ बन्धप्रकारमाह | आदौ पूरकयोगेन स्वाधारे योजयेन्मन इति प्रथमं तावत्पूरकयोगकं कृत्वा स्वाधारे मनो योजयेत् | अनन्तरं च स्वाधारमाह उक्तं च विश्वासकारियाम् | यद्वेदादौ भवेद्बीजमेका योनिक्षसान्तकः | आभ्यामुभयसंवादयोगात् संवेद्यो वेदमक्षरमिति | गुदमेढ्रान्तरे योनिस्तामाकुन्च्य प्रबन्धयेत् | इति तां प्रबन्धयेत् किं कृत्वेति आकुन्च्ययोनेराधारभूतं पायुस्थानं बलादूर्ध्वमाकृष्येति यावत् | उक्तं च श्रीमतोत्तरे | स्फुरत्याधार कुञ्चनादिति च | अस्मिन् तन्त्रे आधारं गुदमित्युक्तमिति | तदुक्तं रक्ताख्ये श्रीमते पिण्डयोग प्रकरणे || इदमाक्रम्य प्रवर्तयितेति तस्मिन् स्वाधारयोगेन मनसा किं भावनियमित्याह | भ्रमद्योनिगतं ध्यत्वाकामं बन्धूकसन्निभम् | ज्वलत्कालानलप्रख्यं तटित्कोटिसमप्रभमिति | प्. २७) भ्रमत् स्पन्दमानम् | कामशब्दो रहस्यागमेषु देहाभ्यन्तरगते जातवेदसि निरूढः | तच्च कामतत्वसंज्ञितम् | व्याकरिष्यमाणं चक्रस्वरूपं स्वाधारगतमेवं विधतेजोविशेषं भावयित्वा तस्य शिखया सहितमात्मानमपि भावयेदित्याह | तस्योर्ध्वे तु शिखा सूक्ष्मा चिद्रूपा परमा कला | तथा सहितमात्मानमेकी भूतं विचिन्तयेत् | तस्य जातवेदस ऊर्ध्वा तदीया शिखा चैतन्यमयि कला तदवयव भूताया शिखा तया सहित तदेकतामापनमात्मानं च भावयेदित्यर्थः | भावं भावयित्वा किमन्यद्भावनी यमित्याह | गच्छन्तीं ब्रह्ममार्गेण लिङ्ग* * भेदक्रमेण तु | सूर्यकोटि प्रतीकाशं चन्द्रकोटि सुशीतलम् || अमृतं यद्विसर्गस्थं परमानन्दलक्षणम् | द्रुतरक्तं सुतेजाढ्यं धारापातप्रवर्षिणम् || पीत्वा कुलामृतं दिव्यं पुनरेव विशेत्कुलम् | पुनरेवा कुलं गच्छेदिति | गच्छन्तीमिति प्रथमार्थेद्वितीयेयम् | ब्रह्ममार्ग इति | आधारादि विशुध्यन्तस्थानानु पूर्वि कथ्यते | द्वाभ्यामुभयमार्गे तु सं * * * * पञ्चकम् || सद्योवाममघोरं च पुरुषेशानमेव च | प्. २८) विशुद्धं पश्चिमं ज्ञेयमुत्तरं च अनाहतम् | दक्षिणं तु मणिं नाम स्वाधिष्ठानं तु पूर्वकम् || कूर्मरूपमधो वक्त्रमाज्ञा चैशानविग्रहमिति | लिङ्गानि पूर्वोक्तानि स्वयम्भू प्रभृतीनि एवमात्म स नाथा सा शिखा लिङ्गानि क्रमेण हित्वा ब्रह्ममार्गेणोर्ध्वं याता सूर्यकोटिभास्वरम् | चन्द्रकोटि सुशीतलं च पूर्वोदित विसर्गमध्यस्थित परमानन्द मूर्तिलक्षणद्रव्य द्रूपमरुणं तेजस्वि रक्तबिन्दुधारापातप्रवर्ष स्वभावमकुल परव्योमसम्भवतया दिव्यममृतं पीत्वा प्लुत्यपुनरेव तेन मार्गेणोर्ध्वमुखी विसर्ग सामकुलं विशेत् | मात्रायोगेन नान्यथेति | मात्रेति बिन्दुनादशक्त्याख्यं क्रमादाज्ञा स्थान ललाट मध्यदु * * * स्थानस्थ पीठत्रयमभिसन्दधाति | तदुक्तं श्रीमते | बिन्दुनादस्तथा शक्तिं मात्रात्रयमुदाहतमिति | तेनायमर्थः | यथोक्त प्रकारेणोर्ध्वं यान्ती सा शिखा परलिङ्गस्थानां नासा मूलादूर्ध्वं बिन्दुनादशक्तिसंज्ञेन पीटत्रयेण युज्यमाना तच्च क्रमात् हि दन्त्यकुलं विशेत् | निविश्य च पुनस्तेनैव मार्गेणाधो मुखं व्रजन्ती योन्याधारं विशेदित्यर्थः | अनेन ब्रह्ममार्गवानेन लिङ्गमभेदमात्र पर्यवसायिनीत्यवसेयम् | अत्र विशेदित्येतावन्मात्रेऽभिहितेपि तामेवं विधां शिखां भावयेदिति प्. २९) तात्पर्याय गन्तव्यं सा च प्राणः समाख्याता तन्त्रेऽस्मिन् परमेश्वरि | उद्घातं प्रोच्यते सोऽपि प्राणान्तयदुदेति सा | इति सेति शिखां परामृशति | अस्मिंस्तन्त्रे प्राणा इति समाख्याता अत्र हेतुरुद्घाता इति ऊर्ध्वं वात? उद्घातः | ग्रन्थिच्छेदः | तत् कारित्वात् शिखैवोद्घातशब्देनोच्यते | प्राणान्तः क्षकारः | अनेन तत्तत् स्थानभूतसंवर्तमण्डलं विसर्गाख्यमभिप्रैति तेनायमर्थं सा शिखा यदा योन्याधारात् | प्राणान्तं विसर्गस्थानं विशति तदा ग्रन्धिच्छेदविधायिनीति कृत्वा यत उद्घात इति कथ्यते | अतोऽस्मिंस्तन्त्रे प्राणा इति समाख्याता | प्राणोप्यूर्ध्वं विसर्गात्मतयोद्घातरूपं ग्रन्धिच्छेदं विधातुं न प्रभवति | तदुक्तं श्रीविज्ञानभट्टारकेण | ऊर्ध्वे प्राणेभ्यधो जीवो विसर्गात्मा परोच्यते इति | उभयविसर्गबन्धनस्वभावं योनिद्रा बन्धाभिधेयं महायोगं कालतन्त्रेऽपि कथयति | प्राणे तु प्रेर्यमाण त्वादपानः पीड्यते यदा | गत्वा चोर्ध्वं निवर्तेत एतदुद्घातलक्षणमिति | उक्तं च श्रीभगवद्गीतासु | अपाने जुह्वति प्राणं प्राणे पानस्तथा परे | प्राणापानगतेरूर्ध्वा प्राणायामपरायणाः | अपरे नियताहाराः प्राणान् प्राणेषु जुह्वतीति | प्. ३०) उक्तं चोपनिषत्सु | वाचिप्राणं जुहुमः | प्राणेवाचमिति | एवं गत्यागती वितन्वाना शिखैवेति कथितम् | रत्नाख्ये श्रीमते | तन्मध्ये कुण्डलीदेवी शिवेन सहिता प्रिये | स्थानानि भेद्यगच्छन्ती पिबन्तीमम्बिकामृतमिति | एवं गत्यागतिविम शिरोयोगिनो दहनप्लावनाभ्यास इति मन्तव्यः एवमभ्यस्मानः स अहन्यहनि निश्चयात् | जरामरणदुःखोघैर्मुच्यते भवबन्धनादिति | अनेन योनिमुद्रा बन्धस्य फलातिशयं दर्शयति | चतुर्विधा तु या सृष्टिर्यस्यां योनौ प्रवर्तते | पुनः प्रलीयते तस्यां कलाग्न्यादि शिवान्तकमिति | योनिमुद्रा पराया तु बन्धस्तस्यां प्रकीर्तित इति | चतुर्विधाया जगत्सृष्टिर्यस्यां योनि भूताया प्रवर्तते | कालाग्न्यादि शिवान्तं च तत्वजातं यस्यां लीयते | सा योनिमुद्रा पराया निरतिशयोत्कर्षयुक्ता तस्या बन्धस्तत्वेन कथितं मुद्राया बन्धमात्रेण किं न साधयते भुवि | इति बन्धस्यैव प्रशंसेयम् | अन्यथा कुरु मन्त्रेयमन्यथा कुरुते तु यः | नासौ सिध्यति देवेशि सत्यं सत्यं पुनः पुनरिति | मन्त्रजातं विना जपति कर्षणादि क्रियाकलापं बन्धं विना करोति सनसिध्यति न फलेन युज्यत इत्यर्थः | प्. ३३) तस्मादभ्यसनं नित्यं कर्तव्यं पुण्यकांक्षिभिः | अभ्यासाज्जायते सिद्धिरभ्यासान्मोक्षमाप्नुयात् || संवित्ति लभतेभ्यासाद्योगोभ्यासात् प्रवर्तते | मन्त्राणां सिद्धिरभ्यासादभ्यासाद्वायुसाधनम् || कालवञ्चनमभ्यासात्तथा मृत्युञ्जयो भवेदिति | मुद्राबन्धनाभ्यास्यावश्य कर्तव्यतां फलानि च कथयति | || इत्युत्तरषट्कविवरणे कुलदीपिकायां प्रथमः पटः || अथ त्रिपुरा विद्याया उद्धारयन्त्रं विवरीतुमुपक्रमते | अथातः संप्रवक्ष्यामि संप्रदाय समन्वितम् | त्रैलोक्य डामरं मन्त्रं त्रिपुरा वाचकं महत् | अथ शब्दो मङ्गले | सुसमे भूप्रदेशे तु निम्नोन्नतविवर्जिते | पुष्पप्रकरसङ्कर्णे गन्धपुष्पाधिवासिते || ललाटतिलकोपेतो नेत्रकज्जलरञ्जितः | ताम्बूलपूर्णगन्धश्च मदिरानन्दचेतनः || कुङ्कुमे रवि लिप्ताङ्गो लाक्षा तिलकशोभितः | रक्तवस्त्रपरिधानो रक्तमाल्योपशोभितः || कर्पूरक्षोददिग्धाङ्गो क्रोधपैशून्यवर्जितः | उद्धरेत्त्रिपुरां देवी दृष्ट्वादृष्टफलप्रदाम् || प्. ३४) अष्टपत्रं लिखेत्पद्मं केसराढ्यं सकर्णिकम् | पत्राग्रे गन्धिसंयुक्तं तदग्रेति त्रित्रिशृङ्गकम् || अथ यथोक्ते भूप्रदेशे देशिकोष्टपत्रं केसराढ्यं सकर्णिकम् | पत्राणामग्रभागेषु ग्रन्धिभिर्वृत्तमण्डलाकृतिभिर्युक्तं ग्रन्धीनामग्रभागेषु त्रिभिस्त्रिभिः शृङ्गैः शूलविन्यासैरभिसंयुक्तं पद्मं लिखेत् | शृङ्गाष्टवभितो भद्रे यथा वक्ष्यामि तत्क्रममिति | भद्रे इति परमेश्वरीं सम्बोधयति | इह त्रिभिस्त्रिभिः शृङ्गैः प्रतिदलमेकैक शृङ्गमित्यष्टौ शृङ्गानि तान्यभितस्तत्कथं त्रिपुराविद्या सम्बन्धिनं मातृका चक्रं वक्ष्यामीत्यर्थः | अष्टौ शृङ्गोणीति ग्रन्धीनां दलां चोपलक्षणम् | दलेषु ग्रन्धिशृङ्गेषु उक्तमार्गेण विन्यसेत् | इदं चक्रं प्रयत्नेन लिखित्वा साधकोत्तमः | मातृकां विन्यसेत् पश्चादिति इदमेवं विधं च पद्मरूपं चक्रं लिखित्वा पश्चात्तस्य दलेषु ग्रन्धिशृङ्गेषु एतत्तन्त्रोक्त प्रकारेण देशिको मातृकां विन्यसेत् | कथमित्याह पीठ भैरव योगिनीमिति | पीठाः कामरूपाद्याः भैरवा असिताङ्गादयः योगिन्यो ब्राह्माद्याः | एतास्तत्र पूर्वं न्यसेत् | एतदेव कथयति | प्. ३५) कामरूपं लिखेत्पूर्वे कोल्लगिर्यं तु दक्षिणे | चोहरं पश्चिमे लिख्य उत्तरे औकणं लिखेत् || मलयं चाग्निदिग्भागे नैर्-ऋत्यां तु कुलान्तकम् | जातान्धरं तु वायव्ये ऐशान्ये देवि कोट्टकम् || इति पूर्वे दलत्याहारः | अत्र पूर्वादि दिग्दलेषु कामरूपादि पीठविन्यासानुपपत्ते सतान्येव काम रूपादि पीठात्मविन्यासानुपपत्ते सतान्येव कामरूपादि पीठात्मना भावयेदित्यवगन्तव्यम् | पीठेशान्विन्यसेत्तत्रेति तेषु दलेष्वित्यर्थः | असिताङ्गादि भैरवान् | ब्रह्माणीमादितः कृत्वा चण्डिकान्तं प्रकल्पयेत् | असिताङ्गोरुरुश्चण्डः क्रोधश्चोन्मत्त भैरवः | कपाली भीषणश्चैव संहाराश्चाष्टम स्मृताः | ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही च तथेन्द्राणी चामुण्डा चण्डिका तथा || इत्येवमन्तं सुगमम् | दीर्घस्वरांश्च एकैकं मातृणांश्च प्रकल्पयेत् | ह्रस्वा स्वभैरवाख्यातायामलान्वै प्रकल्पयेत् | इति | अयमर्थः | दीर्घस्वराणामाकारादि विसर्गान्तानामष्टानालेखनम् | ब्राह्यादि योगिनीन्यासः | अकाराद्यनुस्वारान्तस्य ह्रस्वाष्टकस्य लेखनम् | प्. ३६) असिताङ्गादि भैरवन्यासः | तेन दीर्घस्वरा एव ब्राह्याद्याः ह्रस्वा भैरवा असिताङ्गादयोवगन्तव्याः | तांश्चैकैकस्मिन्दलेयमलान् प्रकल्पयेत् | तेन कामरूपाख्ये दले असिताङ्गाख्यमकारं ब्रह्माण्याख्यमकारं च सहितं लिखेत् | एवमन्येष्वपि दलेषु भैरव योगिनीन्यासं दर्शयित्वा ग्रन्धिषु मातृकान्यासमाह | कादिवर्गाक्षराभद्रे ग्रन्धिषु क्षान्तगाः शुभाः | इति कादयस्ते वर्गाक्षराः | कवर्गादयः | पञ्च | अन्तस्था ऊष्माणश्चेति सप्तवर्गाः | क्षकाश्चैकोवर्ग इत्यष्टवर्गाः | एषां कादीनिक्षान्तगान्यक्षराणिकचट तपयशक्षाः | ते ग्रन्धिषु पूर्वादिषु न्यस्याः | अन्यवर्णगणाः सर्वा शृङ्गकोणेषु संस्थिताः | इत्यन्यवर्णगणाः सकारहकारवर्जिता चतुर्विधिः पूर्वादिषु शृङ्गप्रान्तेषु चतुर्विंशतिर्लेखनीयाः | कादिक्षान्ता न्यसेद्ग्रन्धौ शेषाश्चाङ्गेषु विन्यसेत् | अनेनोक्तमेव व्यक्तीकरोति दक्षिणादीन्यसेद्वर्णान् सर्वसिद्धिफलफलप्रदानीति | दक्षादि विन्यासे वर्णाः सिद्धिये भवन्तीत्यभिप्रायः | तञ्च दक्षिणादिन्यासमाह | ऐन्द्राद्युत्तरशृङ्गान्तं दक्षिणेन प्रकल्पयेदिति | इन्द्रदिग्भागादारभ्योत्तर शृङ्गादि विधिन्यासो दक्षिणविन्यासः | प्. ३७) तदादिविन्यसेद्धीमानिह मार्गेण साधकः | इत्यनेनैतदेव स्थिरयति | ऐन्द्रमादिं कृत्वा रवेर्दक्षिणायन प्रकारेण वर्णान्विन्यसेत् | जीवाख्यौ कर्णिका मध्ये हंसाख्य पदविश्रिताविति | कर्णिकायां चिन्मात्र संश्रयं वर्णद्वयमित्यर्थः | किं तदित्याह | सकारजपभूतस्तु हकारः प्राण उच्यते | उभौ जीवेति विख्यातौ त्रैलोके स चराचरमिति | कुलेकुलपद्धमिति चक्रस्यैव संज्ञा एतदन्ततो ध्यायेद्वा भगवन्देवि साधक इति | अस्य चक्रस्य मध्ये वाग्भवं ध्यात्वा पूजयेत् | तेन वाग्भव चक्रमेतदिति दर्शितं भवति | इतीह वाग्भवचक्रं प्रकाश्य ततो विद्यामुद्धरति | ततः समुद्धरेन्मन्त्रं भुक्तिमुक्तिफलप्रदमिति | सुगमम् | इन्द्राणी बीजमादाय संहरेण तु मण्डितमिति | तत्र तावन्महाविद्यायास्त्रिपुर महासुन्दर्याः सामान्य विशेषात्मकं रूपद्वयं सम्भवति | तत्र सामान्यं नाम श्रीकण्ठानन्तरु भूलकुलीश्वराख्यैर्विशेषैर्मधुरं केवलपादत्रयात्मकं इतस्तु तैस्त्रिभिः संयुक्तमेतदुभयं च अनेन दर्शयति | तत्र तावदिन्द्राणी बीजं नाम द्वादशस्वरः | संहारोनुस्वारः तेन मण्डितं सहितमिति यावत् | प्. ३८) अतोनुस्वारसहितो द्वादशस्वरो वाग्भवाख्ये मनुर्भवतीति सामान्यं रूपम् | अथ विशेषरूपमाह | तद्भवेनैव चाक्रान्तं वाग्भवं देविपूजितमिति | अस्यार्थमेके वर्णयति | तदितीन्द्राणी बीजं परामृश्यते | भवः श्रीकण्ठः तेनाक्रान्तं सहितमित्यर्थः | तेनेन्द्राणी बीजमेव श्रीकण्ठानन्तर भावि विशेषं रूपं वाग्भवं भवतीति | एवमिदं व्याक्रियमायणमेकादश स्वरस्यापि वाग्भवतां सूचयिष्यतां श्रीकण्ठो वालीश इत्यादिना उत्तरेणाक्षरार्थं सूत्रेणाव्याहते | तस्मादन्योर्थः | तद्भवेनैव चाक्रान्तमिति तदिन्द्राबीजं तद्भवेनाक्रान्तमधिष्ठितं श्रूयमाणेन श्रीकण्ठेन संयुतमित्यर्थः | इन्द्राणी बीजे हि संहिता रूपेणान्तः कृत श्रूयमाणो भवतीति श्रीकण्ठः | तन्निवर्तयित्वाक्रान्तवदेन इन्द्राणी बीजं नाम श्रीकण्ठयोनिवर्णसंहितारूपं तत्संहितारूप कबलीकारं हित्वा श्रूयमाणेनैव श्रीकण्ठेन संयुज्यमानं विधाय श्रीकण्ठयोनिबीजात्मकानुस्वारात्मना वर्णत्रयं विशेषरूपं वाग्भवमिति कथितं भवति | तथा चैवं विधस्य मनोर्वाग्भवत्वं श्रीमते श्रीव्योम चक्रविवरणे प्रकाश्यते | एकाराकविभवा त्रिकोणा प्. ३९) बिन्दुरूपिणीति | सिद्धयोगेश्वरे मतेपि | एकादशस्वरस्यैव वाग्भवतामुद्घोषयति | प्रथमशृङ्गा | अकारमेकारेति प्रकीर्तितम् | वाग्भवं तस्य बीजं बिन्दुनादेन कीर्तितमिति | उक्तं च लघुवादैः यामात्रात्रपुसी लता तनुलसत्तज्ञ स्थिति स्पर्धिनी वाग्बीजे प्रथमे स्थिता तव सदाता मन्महेते वयम् | शक्तिः कुण्डलिनीति अत्रामात्रेति पदविच्छित्तिः कर्तव्या | तदेव वाग्भवमुभयस्वरूपं प्रदर्श्य नधिकारिणेन देयमिति कथयति | नदेयं परशिष्येभ्यो भक्तिहीने विशेषतः एतद्बीजं महाबीजसृष्टिभूतं परं प्रिय इति | अथ कामराजः | प्रस्तोति कामग्रन्धिं समादाय शृङ्गं कूटस्य दक्षिणम् | माहेश्वरि युतं कृत्वा संहारेण समं कुर्वति | कामग्रन्धिं नामककार कूटं नामवाग्भव चक्रस्य देवि कोट्टाख्यस्य ऐशानोदलविशेषः | तस्य दक्षिण शृङ्गस्थित्वाल्लकारः | कूटस्य दक्षिणशृङ्गमिति कथ्यते | माहेश्वरी नाम ईकारः | संहारोनुस्वारः | अनश्वानु पूर्वा कामराजमुद्धृतफलातिशयं सूचयति | क्षोमकृत् सर्वतत्वानां जीवभूतं परात्परमिति | सर्वतत्वानां सर्वात्मनां क्षोभं महानुरागं जपेदित्यर्थः | त्रैलोक्य प्. ४०) पूजितं देवि सृष्टि संहारकारकम् | कामराजमिदं देवि कामसिद्धि प्रदायकमिति सुगमम् | अनन्तरमस्य कामराजस्य विशेषमाह | परापरविभागं तु एकीकृत्य तु साधकः जपेदेकाग्रचित्तस्तु पातालादिषु साधन इति | परः उत्कृष्टः अपरः अकारात्परो वर्ण आकारः | परश्चासाव परश्चेति परापरः | स एव विभागो विशेषः | तं यथोक्त उद्धृतेन कामराजेन सहितं कृत्वा जपेदित्यर्थः | उक्तं च श्रीलघुपादैः नित्येतव कामराजं परं मन्त्राक्षरं निष्कलमिति अत्रेकार पूर्वीत्यपरेत्यपरो वर्णः | आकार इत्ययं वर्णक्रमः | तथा च श्रीरुद्रयामले | स कीलविद्यारूपेणदर्शितः | क्ला ईम् मद्द्रव्ये | अ एं क्लिं नेत्रलेसौं इति लघुपादैरपि चोक्तम् | निष्कलविद्यारूपेण आ ई पल्लवितैरिति | उक्तं च श्री ज्येष्ठनाथेन आ ई मसंज्ञाममृतामनन्तां त्रियक्षरां कुण्डलिनीं त्रियश्रामिति | एकाग्रचित्तस्तु भावनाप्रकारम् | पातालादिषु साधना इति बीजादि साधन इत्यर्थः | अथ शक्तिबीजमुद्धरति | प्राणासनस्थितं जीवं चामुण्डा भेदितं पुनः | चण्डिकायां तु संरुद्धं बीजं त्रैलोक्यमोहनमिति | प्. ४१) प्राणो हकारः | स एवासन प्राणासनम् | तस्मिं स्थितं प्राणासनस्थितम् | जीव इति सकारः | चामुण्डा औकारः तया भेदितम् | विशेषितं सहितमिति यावत् | चण्डिकानाम विसर्जनीयः | ताभ्यां सहितमिति यावत् | एतदुक्तं भवति | वाग्भवकर्णिकायां हकारमानसं कृत्वा तदुपरि सकार विन्यासः | तेन प्राणासनस्थं जीवमिति सकारमभिदधाति * * चामुण्डया चकाया च संयुतं कृत्वा शक्तिबीजस्वरूपेण चक्रादुद्धरेदिति सामान्यम् | एवं प्रकारेण समुद्धृतं परं बीजं श्रीदेशिकेन्द्रकटाक्ष वशालब्वा पृथगे वा जीवमावर्तयेदित्यर्थः | एवं रूपात्मकं शक्तिबीजं प्रदर्श्य विशेषमाह | सदाशिवासनस्थं वै उच्चारेण तु लक्षयेदिति | सदाशिवो घोषः | स एवासनं सदाशिवासनं तस्मिं स्थितं सदाशिवासनस्थं पूर्वं घोषमुच्चार्यानन्तरं पूर्वोक्तं शक्तिबीजमुच्चारयेदिति वाक्यार्थः | उक्तं च श्रीलघुपादैः सदाहस्थितमिति | यत् सद्योवचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधैस्तात्तिर्यं तदहं नमामि | मासात्वद बीजमिन्दु प्रभमिति |तत्र वचसां प्रवृत्तिकरणे दृष्ट प्रभावमिति | प्. ४२) प्राणबीजग्रं घोषाक्षरमाचष्टे | तथा श्रीमते | वैखरीया * * * तृणा प्राणवृत्ति निबन्धनेति | कला तन्त्रेप्युक्तम् | हकारस्तु स्मृतः प्राण इत्युभय रूपां विद्यामुपदिश्य तत्साधने पुरश्चरणविधिमाह | पूर्वसेवां जपेल्लक्षं योनिबन्धेन निश्चलम् | बिलद्वारं समाश्रित्य एकचित्तो जितेन्द्रिय इति | पूर्वसेवां पुरश्चर्यामित्यर्थः | बिलद्वारं समाश्रितः | योनिमुद्रां बध्वा पुरश्चर्यारूपेण लक्षं जपेत् | त्रिंशद्दिनानिस्ततं जपं कुर्यादित्यर्थः | उक्तं च श्री हंसभेदे मासंलक्षमिति प्रोक्तमिति | अनन्तरं साध्य लोकस्याधिकारित्व प्रदायिनीं त्रिकविद्यां साधारणभूतां परमरहस्यभूतां दीक्षां दर्शयितुं तत्प्रधानाङ्गभूतं योनिमुद्रा बन्धप्रकरणे कामं बन्धूकसन्निभमिति त्रिपुरा सूचितं कामतत्वयन्त्रप्रश्न विषयत्वोनावतारयति अद्यापि संशयो देवकामतत्वस्य साधनम् | विज्ञानमात्रगमनं देहिमे त्रिपुरान्तकेति | कामतत्वं नामान्तः कृत हृल्लेखादि कामाराजादिकं वक्ष्यमाण यन्त्र विशेषमाह | विज्ञानमात्रेण फलं गमयतीति विज्ञानमात्रगमनम् | श्री भैरव उवाच | कथायामि समासेन कामतत्वस्य लक्षणम् | प्. ४३) आकर्षणं परं दिव्यं शृणु शेषसमासत इति सुगमम् | कास्थं काममध्यस्थं कामोदरपुटीकृतम् | कामेन साधयेन काममिति हृल्लेखाभिधीयते | काममध्यशब्देन निर्विशेषः कामराजः कामोदरपुटी कृतमिति कामोदरो नाम त्रिकोण विन्यासो द्वादशस्वरः | केन संपुटितमिति यावत् कामस्थं काममध्यस्थ्यमित्येतद्वितीयं कामोदरे संपुटितं करणीयमित्यन्वयः | संपुटिताभिधानेन कामोदरद्वितीयस्येतरेतराभिमुख्येन विन्यासं सूचयति | तेन त्रिकोणरूपत्वादैकारयोरितराभिमुख्येत्तराधर भावेन विन्यासः षट्कोणं भवतीत्यवगन्तव्यम् | अत्रानुक्तोपि विवरणग्रन्धोपि व्याख्यास्यमानत्वात् बिन्दुसंज्ञितो * * रो विन्या * * * तोमन्तर्यः | अ कामस्थादीनां हृल्लेखादि वाकत्वमुत्तरत्रकामं दम्भु * * * ग्रन्धेन स्वयमेव विवरिष्यति | कामेन साधयेत् कामिति | तत्रानेनध्याहारम् | अनेन कामनेति यथोक्तरूपं हृल्लेखादि चतुष्टयं कामतत्व वा * * * शति | यत्र श्रीरुद्रयामले | हृल्लेखा कामराज वाग्भव बिन्दुस्त्री प्. ४४) काराख्यं कामपञ्चकमिति उद्घुष्यते | कामराजमन्मथादयः | पञ्चमोत् हृल्ले * * * ञ्चां संज्ञा वेदितव्या | तथा च तत्र वक्ष्यति | लक्षद्वयविलोमस्थैः संयोगेन च तत्प्रिये | उपदेशेन बोद्धव्य उद्धारश्चास्य व्रते | इद * * * तां सर्वतत्व प्रबोधकम् | अयं वक्त्रं परा देवि तेजोवृत्तिनिवासिनः | एषां संयोगरूपेण मन्मथं जायते प्रिये | कन्दर्प कथयिष्यामि * * * * परम् | आपूर्वः भूतमार्गस्थमः पूर्वेण समन्वितम् | अभ्यासं योगजं देवि कन्दर्पं समुदाहृतम् | क्षभ पूर्वे ऋतुगां तेज तु रेकादशेत * * * * * भेदेन मकरध्वजसंज्ञिकम् | हथलद्वय अः पूर्वे मनोहू भवति प्रिये इति तेनायमर्थः | अनेन पाठक्रम विहितविन्यासेन कामस्थादीनि * * * कामेन सह कामतत्वसंज्ञकं स्त्रींकार लिखेदिति तात्पर्यार्थः तथा कृते हि कामतत्वस्य सिद्धिर्भवतीति कृत्वा साधयेदिति निहित का * शब्दस्य कामत * * रत्र विवरिष्यते | कामतत्वं प्रसादयेदिति अत एवमभिदधानस्यायं यन्त्रविन्यासक्रमोभिप्रेतोवगन्तव्यः कथमिति | प्रथमं हृल्लेखां म * * * कामराजं तां च स कामराजां हृल्लेखामभितः षट्कोणरूपं प्. ४५) योनिसंज्ञितं वाग्भवं तस्य कोणेषु बिन्दुसंज्ञितान् बॢंकारं तत * * * षट्कोणकबलीकरणं स्त्रीकारं विलिखेदिति उक्तं हि शुरु * मले मन्मथस्य मध्यस्थं कामराजन्यसेत्तुतम् | कन्दर्पमन्दिरं कृत्वा द्विधाभूतं तु पार्व * * * * षट्कोणेषु च दापयेत् | चत्वारस्ते महाकामाः पञ्चमस्योदरे क्षिपेत् | कामं कामेन तु क्षिपेदिति | एवं भूतं कामराजयन्त्रं काम * * * योनौ निक्षिपेत् | तद्गततया भावयेदित्यर्थः | कामेन कामितं कृत्वा कामस्थं क्षोभयेद्धृवमिति | एवं भूतो कामराजयन्त्रेण साध्यस्यात्मा * * * * तं कृत्वा कामस्थं योनिस्थं यथा भवति | तथाद्धृवं क्षोभयेद्विसर्गस्थममृत इत्यर्थः | उक्तं च श्रीमते जन्मस्थानात् समुद्यन्ती याक्तद्धृवमण्डलमिति ए * * * * हुनेत्यदिना तदा तत्क्षोभयेद्धृवमित्यन्ते न विवरणग्रन्धेन स्फुटी करिष्यते | अस्मिंश्चक्रे कामराजं ध्यायेद्वै लोकपूजितमिति सुगमम् * * * दिनामनन्तरोक्ता ना दुर्विज्ञेयता परमकारुणकः परमेश्वरस्य यमेव विवरमारभते | कामस्थं भुवने ज्ञेयमित्यादि | भुवनमिति भुव * * * र्थः | काममध्ये तु विग्रहमिति प्. ४६) काममध्ये त्वित्यनेन पूर्वोक्तकाममध्यस्थमिति पदं वक्ष्यति | काममध्यस्थं नाम विग्रहं जानीयात् | कामस्वरूपं जानीय * * * स्वरूपं नाम कामराजाख्यो मनुः कामोदरं भवेद्योनिरिति योनिर्वाम वाग्भवः | पुटान्तं बिन्दुसंज्ञकं भवेदित्यन्वयः | पुटान्तरिति षण्णां कोणा * * * * बिन्दुसंज्ञकमिति यन्त्रस्य वलनरूपेण वलनसाधयेदिति कामेन का साधयेत् | काममित्यस्य विवरणम् एतदेवहि कामं तु साध्ययोनौ प्रकयो * * * कामं कामे तु निक्षिपेदित्यस्य विवरणम् | बिन्दुनामथनमित्यादि क्षोभयेदित्यन्तं कामेन कामितं कृत्वा कामस्थं क्षोभयेद्धृवमित्यस्य विवरणं * * * * बिन्दुशब्देन साधकस्यात्मा कथितः तथा च श्रीमते बिन्दुरात्मा समाख्यातोयं प्रबुद्धो नरोन्तर इति प्रथमशब्देन परिशीलनातिशयं सूचयति तथा च श्रीमते | तन्मध्ये चात्मनोरूपं लक्षयेत्तु पुनः पुनः | मथनं ह्येतदाख्यातमज्ञातमलनाशनमिति | विसर्गो नाम षोडशान्तं चन्द्रद्वीपं ब्रूते | शक्तिमार्गो नाम सुषुम्ना च तथा श्रीमते | शक्तिमार्गं सुषुम्नाख्यमिति योनिस्थमिति क्षोभयेदित्यस्याः | प्. ४७) क्रियाया विशेषणम् | अत्र कामेन कामितं कृत्वेति सङ्ग्रहसूक्तोक्तमपिस्मत्तव्यम् | तेनैव तदुक्तं भवति | साध्ययोनौ तथोक्तरूपं कामयन्त्रं परिकल्प्य साध्यस्यात्मानं तेनैव कामयन्त्रेण यन्त्रितं कृत्वा साधकस्यात्मना साध्यस्य विसर्गस्थममृतं तथा क्षोभयेत् | यथा तच्छक्तिमार्गेण निष्यमानं साध्यस्य योनिस्थं संपद्यत इति साध्यलोकस्ये यमेव सा प्रथमं प्रस्तुतापि रहस्य दीक्षेति कथिता | बहुनात्र किमुक्तेन कल्पितेन वरानने इति सुगमम् | अनन्तरं शक्तिबीजयन्त्रमाह | पूर्वोक्तं यन्त्रमालिख्य तिपुरावाचकं महदिति | पूर्वं प्रथममुक्तं त्रिपुरायन्त्रमिति | वाग्भवमभिधीयते | तद्वक्ष्यमाण महापद्मयन्त्रस्य कर्णिकास्थाने लिखित्वेति यावत् | कुण्डगोलोद्भवेनैव स्वयम्भूकुसुमेन च | गोरोचना समायुक्तं भूर्जपत्रे तु लेखयेत् | अत्र कुण्डशब्देन स्त्री चिह्नभूतयोनिरभिधीयते | गोलशब्देन पुंश्चिह्निभूतं लिङ्गकुसुमशब्देनार्तवमभिप्रैति | अत्र स्वयम्भूत्वं प्रथमोद्भूतता | तेन कुण्डगोलाद्भव शब्देन स्त्रीपुंसयोग सम्भूतं सम्मिलितरूपं शुक्ल शोणितमभिधीयते | स्वयम्भूं कुसुमशब्देन स्त्रियाः प्. ४८) प्रथमोद्भुतमार्तवम् | ताभ्यां गोरोचनया च लिखेदिति यावत् | षोडशारं महापद्मं द्वादशारं तु बाह्यतः | पुनः शोडशपत्रं तु द्वात्रिंशत्तस्य बाह्यतः | इति कर्णिकास्थानीयं वाग्भवयन्त्रमभितः षोडशारं पद्मं लिखेदिति विज्ञेयम् | अरशब्देन दलान्यभिधीयन्ते | तस्य बाह्यतो द्वादशारं तस्यापि बाह्यतो द्वात्रिंशदरं लिखेत् | वाग्भवं कर्णिकायां तु कामराजं तदूर्ध्वतः | कर्णिकाशब्देन यन्त्रमध्यवर्तितयोपचारेण पूर्वोक्त वाग्भव यन्त्रप्रान्तवर्ति षोडशारं महापद्मं प्रतिपादयति | न खलु दलसमुदायरूपो सौ मुख्यतः क * * * विभत्तुमर्हति | कर्णिका तु प्रथमं प्रतिपादितं वाग्भवयन्त्रमेव | अत्र वाग्भवशब्देन षोडशस्वरा अभिधीयन्ते | तथा च स्वयमेव व्याख्या सति प्रथमे स्वरसङ्घाः | इति कामराजादूर्ध्वत इति अत्र कामराजशब्देन कामराजं द्वादशस्वरभेदेन भेदयित्वा तु विन्यसेदि व्याख्यास्यमानत्वात् अनच्कमेवात्र कामराजबीजमभिवाञ्छितं तदूर्ध्वत इति द्वादशार इत्यर्थः | तदूर्ध्वे शक्तिबीजं तु महायोनिः शतं लिखेत् इति तदूर्ध्वे द्वादशाराद्बहिर्भूत षोडशार इत्यर्थः | शक्ति बीजशब्देन स काममभिप्रैति | महायोनिर्नामोत्तरसूत्रे प्. ४९) वक्ष्यमाणा सा यन्त्रविन्यस्यत इत्युपचारेण द्वात्रिंशदरमभिधीयते | तद्गतं तदन्तर्गतिकामः | तेनायमर्थः | द्वात्रिंशस्यान्तर्वर्तिनि षोडशारे शक्तिबीजं लिखेदिति यावत् | त्रिदण्डं बिन्दुसंयुक्तं द्वादशस्वरभेदिनम् | महायोनिरितिख्याता जननी सा जगत्रये इति | त्रयणां दण्डानां समाहार स्त्रिदण्डं ते च हकारसकारौकारादि सान्तानामन्यतमं बिन्दुरनुस्वारः | द्वादशस्वर ऐकारः | तेनायमर्थः | हकार सकारौकादि सान्तानामन्यतम ऐकारो बिन्दुश्चेतीयमानुपूर्वी महायोनि संज्ञितेति अत्र कादिसान्त एव रूपा यन्त्रस्य बाह्यमण्डले द्वात्रिंशदरे विन्यसनीया इत्यनुक्तमप्यर्थाल्लभ्यं यतो वक्ष्यति तद्बाह्ये मातृकाः सर्वा इति अथ प्रथमे स्वरसङ्घातं कामराजं द्वितीयके | द्वादशस्वरभेदेन भेदयित्वा तु विन्यसेत् || षोडशारे महापद्मे स्वरं शक्त्यादि भेदयेत् | तद्बाह्ये मातृकान् सर्वानादि बिन्दुक लतान्वितान् | हंसबीजसमारूढान् कारयेत् परमेश्वरि | एतद्यन्त्रपरं दिव्यं त्रैलोक्येष्वपि दुर्लभम् || मन्दिरस्योदरे सर्वं सुषिरेण तु वेष्टयेदिति | अथैषां वाग्भवादीनां विन्यास प्रकारस्या स्पष्टाभिधानत्वात्तदेव व्यक्ती करोति | प्. ५०) प्रथमे स्वरसङ्घातमित्यनेन पूर्वनिर्दिष्ट वाग्भवपदस्य षोडशवाराभिधायितां व्यावर्णयन् प्रथममण्डलविन्यास प्रकारमाह | कामराजमित्यादि षण्ण चतुष्कत्यागेन स्वराणां द्वादशसंख्यातानां वर्यायणे तात्पर्येण तात्पर्येण द्वादशस्वराणामन्यतमेन स्वरेण सह ककारलकारात्मिकामराजं विन्यसेदिति द्वितीयमण्डलविन्यासः षोडशार इत्यादि शक्तिरिति सकारः तमेवैकश षोडशभिस्वरैः संयोज्य लिखेदिति तृतीयमण्डलविन्यासः | तद्बाह्येत्यादि अत्र मातृकाशब्देन समस्तवर्णानामवरोधेपि स्वराणां पूर्वमण्डलेषु विनियुक्तत्वादविहित विनियोगस्य कादिसान्तस्य द्वात्रिंशत एव वास्यैव ग्रहणम् | बिन्दुरनुस्वारः | नादोनामतस्यैवद्राघी यान्धवनिः ऊर्ध्वरेखा विन्यासं बिन्दुनादा एव कलाः कलानां वर्णां भूताः अत्र बिन्दुनादान्वितस्य कादिसान्तस्य प्रत्येकं मेकारसहितं द्वादशस्वरभेदनमति पूर्वोक्ताल्लभ्यते | हंसबीजपदेन हकार सकारौ विवक्षति | द्वात्रिंशदरस्य मण्डलविन्यासः | एतद्यन्त्रमित्यादि मन्दिरशब्दः संवर्ताक्षरमाचष्ट | तथा च श्रीमते मन्थानभैरवे | ककारोमन्दिरः प्रोक्ता वर्णमरुरितीश्वरीति सुषिरशब्दः आकाशबीजम् | प्. ५१) घोषवर्णं तेनायमर्थः | एवं विधमेतद्यन्त्रं मन्दिरसंज्ञाक्षरस्य मध्ये कृत्वा तेन च क्षकारेण सहितमेतद्यन्त्रं सुषिरसंज्ञितस्य हकारस्य मध्ये निक्षिपेदिति | अत्र हक्षाभ्यां स्वर व्यञ्जन व्यामिश्रमयीं सप्तकोटीश्वरीं महामातृकां लक्षयति | अत एव शक्तिबीजयन्त्रविन्यासो बोद्धव्यः | प्रथमं कर्णिकास्थाने पूर्वोक्तं वाग्भवयन्त्रमालिख्य तदभितः षोडशद्वादश षोडशद्वात्रिंशदराणि चत्वारि मण्डलानि वि * * * नि | तत्र प्रथममण्डले एकैकस्मिन् दले एकैक स्वर इति षोडशस्वरा विन्यासनीयाः | अनन्तरं द्वितीये द्वादशारे षण्ण चतुष्टयवर्जितानां प्रत्येकं कामराजाख्य कलाकार युक्तानां द्वादशानां स्वराणां यथा क्रमन्यासः | तृतीय षोडशारे प्रत्येकशक्तिसंज्ञित सकार संयुक्ताः | षोडशस्वरा अपि निधेया चतुर्थे द्वात्रिंशारे एकैक सकार एकारबिन्दुनादोपेता महायोनि सन्त्रिताकादि सान्ता द्वात्रिंशदिति एवं विधं यन्त्रं वेष्टयन्तं क्षकार मालिख्य तमपि वेष्टयते | हकारं लिखेदिति चक्रेऽस्मिन् शक्तिबीजं तु ध्यायेद्वै साधकोत्तमः | एषा रक्षामया प्रोक्ता नाम्ना त्रिपुरभैरवीति सुबोधम् | प्. ५२) कन्या नाम समोपेतो बिलद्वारं समाश्रितः | योनिकुण्डादधस्थाप्य होमयेद्राजिका पुटैरिति | योन्याकार कुण्डमयमर्थः | योनागकन्यकाः कामयते स तासां नामानि मनसा संकीर्तयन् बिलद्वारं समाश्रित्य योन्याकृति च किमपि कुण्डं खात्वा तस्य चाधोयन्त्रं निधाय सर्षपैर्भव्यवाहं तर्पयेदिति सप्तरात्रां महादेवि क्षुभ्यन्ते मदनोत्कटाः | विरहानल सन्तप्ता मूर्छा कुलितविग्रहाः | पतन्ति साधकस्याग्रे कन्दमानास्ततस्त्रियः | इति सुगमं भो साधकमहासत्वहाटकेश्वरविग्रह प्रविश्य साधकैः साध्यमधिकारं कुरुष्वन इति भोसाधकेति नागकन्यकान्यां यन्त्रबलाकृष्टानां वचः प्रविश्य क्रीडते सोपि यावदाभूत संप्लवमिति सुबोधम् | || इत्युत्तरषट्के विवरणे द्वितीयः पटः || अथ स्थूलसूक्ष्म विभिन्नायां श्रीत्रिकविद्यायां स्थूलविद्यां वाग्भव कामराज शक्तिमयीं यन्त्रादिभिः सह विशेषसहितां निरूप्येदानीं केवलविशेषमयीं सूक्ष्मरूपां शुद्धविद्यां तत्प्रसङ्गेन श्रीमृत्युञ्जयसारः | श्रीमदमृतोद्योतोक्त महागुरुमण्डल श्रीमेरुक्रमदेवता स्वरूपसम्भूतं पदादि सङ्केतमक्षरार्थसङ्केतं श्रीमन् प्. ५३) महामातृकामयं कुलचक्रं च व्याकर्तुमारभते | विशेश विद्यादेवेशि कीदृशी कुलगोचरे | कीदृशत्वक्षरार्थं च पादादीं कीदृशं तथा || कुलचक्रं कीदृशं तु कथयस्वकुलेश्वर | इति | एवं चतुर्णां प्रश्नानामत उत्तरमनुक्रमेण व्याकरम् | वैषिकं समुद्धारं त्रिकस्य शृणु सुन्दरि | यन्नज्ञानं सुरेशानि ब्रह्मविष्ण्वीश्वरादिभिरिति | सुबोधम् | अपरा च परा चैव तथैव च परापरा | त्रिकविद्या क्रमस्यैताः शक्तयः कथिताः पराः इति त्रिकविद्याक्रमस्य वीर्यभूतत्वादिमाविशेषरूपाः शक्तय इति कथिताः | नादरूपा परावर्णो परा ब्राह्मीपरापरा | गुरूपदेशतो ज्ञेया त्रिकविद्यामयोद्धृता इति | प्रस्तार रहिता विद्या पापसङ्घक्षयंकरी इति | नादोघोषः परा तत्स्वरूपा अवर्णस्वरूपा ब्राह्मीत्याकारः | सा परापराख्या वाग्भवादि बीजत्रयविधुरा इयमेव केवला त्रिकविद्या | केवलं गुरूपदेशैकगम्या | प्राकतनस्य च पीठस्य मन्त्रमयीर्य स्वरूपिणीति | प्राक्तनं पीठमोढ्याणाख्यम् | तस्य मन्त्रप्रणवः | तस्य वीर्यत्वेन निविष्टा | अनेन घोषाद्यवर्णब्राह्मी प्. ५४) सहितस्य प्रणवस्य रूपं सादाख्यं सूचयति | इति विशेषविद्यां सामान्येनाभिधाय तद्भेदान् विवरी तु मुपक्रमते | विशेषविद्ययेदानीं विद्याभेदं च भैरवि | कथा यम्यद्यदेवेशि शृणु वीरेन्द्रनायिकेति | इति सुबोधम् | परापरा परादेवी अपारा च तथा क्रमात् | वाग्वादिनीति कथिता सर्वविद्योत्तमामता | इति | ब्राह्मी घोषवर्ण स्वरूप चक्रमयी विद्या वाग्वादिनीति यावत् | तथा च वा * व्याहृतवन्तं लोकोब्रवीति | ब्राह्मी माहेति परापरा पराक्रमा विद्येश्वरेश्वरी | भैरवीति मया प्रोक्ता इति पराघोषः अपरा वर्णाः परापरा ब्राह्मीतीयमानु पूर्वी भैरवी विद्या आश्चर्यभूतो विभवः स्फुरमन्दानन्दसन्दोह तदद्भुतस्यात्मरूपस्यापरो क्षिकारः | तं ददातीति | यावत् तथा चाश्चर्यविषयोपलम्भात् सम्भूत प्रमोदातिरेकादस्य वश एव लोको व्याहरतीहेति भैरवी व्युत्क्रमा विद्यायमराज्ञीति सम्मता | मारणेति प्रशस्ता सादारणा यमहान्वितेति | अनन्तरं सूप्रवरसूत्रे कथितस्य भैरवी विद्याक्रमस्य विपरीतानुपूर्व यमराज्ञीति संज्ञता विद्या वै परीत्यं च ब्राह्मी प्रथमघोष पाठक्रमपदादरुणेति भातृव्यखेदासीनि कृत्वा यमहायमस्येयं हि सिद्ध विद्येत्यर्थः | तथा चदर्वी प्. ५५) विषहतः ख * * * त्वर्यमुपहतः कोशति जनः | अः इति वायादिनि वै सौम्या विद्या स्वात्मप्रकाशिका | सौरेति कथिता देवि परमात्मप्रसाधिकेति | अत्राद्यवर्णघोषवाग्वादिन्याः क्रमवैलोम्यम् | विद्या चतुर्विधा देवि चतुर्वर्गफलप्रदा | ज्ञानेनैव हि विद्येषा सिध्यत्येवाज्ञया विनेति | चतुर्वर्गफलदातृत्वमेकैश शोविज्ञयः | ज्ञानेनेति विद्याद्भुत प्रभावादेव विचार्य विहिता भूतवशाक्तमन्त्रादिमयीमाज्ञां परिज्ञमात्रादेव सिध्यतीत्यभि प्रायः | विद्यानामपि मन्त्राणां मुद्राणां मण्डलात्मनाम् | वीर्यमाहेति विद्येषा पराज्ञापरमेश्वरीति | अत्रहेति श्लोकबन्धानुरोधपरमत्वेन परादिशक्ति विज्ञान विशेषभूतां साधकस्योपरि ग्रहणमभिवाञ्छति न तु वाग्वादिन्यास्य क्रम विशेषमभिप्रैति | इयमेव सर्वेषां विद्यामन्त्रमुद्रामण्डलानां तत्तदात्मीयकार्य कारणेपिर्य भूता एतद्विज्ञानमात्रोप ब्रह्मितः साधकेन्द्रः विद्यादिभिरन्यैरपि तत्तत्कार्यकर्म संपादनेष्वयत्नेनैवाधिकं प्रभवतीति तात्पर्यार्थः | अत्र हेतुरियं पारमेश्वरी वा ज्ञेति | इदानीक्रम प्राप्तमक्षरार्थं व्यावर्णयितुमाह | अक्षरार्थोपदेशं ते कथयामि शृणु प्रिये | प्. ५६) अपि देवा न जानन्ति कल्पकोटि शतैरपि | त्रैपुरविद्याबीजभूतानां वाग्भवकामराजशक्तिबीजाख्यानामक्षराणां विनिमय रूपेणाग्न्यादि देवता रूपोयोर्थः | प्रकाश्यते | सोक्षरार्थः | तत्र प्रथमं वाग्भवविनिमय रूपजातवेदो वाचकं मन्त्रमुत्थापयति | श्रीकण्ठो वालीशश्चैव महाकालस्वनन्तरम् | उद्धृतः सहजो मन्त्रो दिव्यो वै जातवेदस इति | अकार श्रीकण्ठः | यकारो वालीशः | मकारो महाकालः | एतेनेदं शब्दस्य प्रल्लिङ्ग प्रथमाविभक्त्यैकवचनान्तस्य रूपं मन्त्रो भवति | अत्रावर्णऽयोनि बिन्दुरूपो हि वाग्भवस्य क्रमः | तत्राद्यन्तवर्णयोर्यथावस्थितक्रममध्य पदस्य योन्याख्यस्यापि शीतसंहिता रूपावस्था वर्ण इवार्णात्मकत्वेन द्विरूपत्व सम्भवा | तद्विमय भूतं वर्णात्मक क्रमापद्य तत्संहिता रूपं यकारं मध्यमं कृत्वोच्चरं यह्येवमात्मको मन्त्रो भवति | अयमिति | तथा च साक्षच्छृतिः | अयमग्निः प्रथमाजा ऋतस्येति सोयं लोकाः सोयमग्निरिति | अयमग्निर्दैश्वा नर इति | अथ कामराजस्य विनिमयमाह | महोकालोथ * ण्डीशः पीनाकी क्रोधभैरवः | मन्त्रोयं परमानस्य योगिनी मेलनप्रद इति | प्. ५७) महाकालोमकारः | झण्डीशोयोनिः | पिनाकी ल कराः | क्रोधेश्वरः | ककार इत्यनयानुपूर्व्यापवमान वाचको मन्त्रः प्रकाशितो भवति | योगिनी मेलनप्रद इति योगिनीभिः पीठेश्वर्यादिभिः साधकेन्द्रस्य मेलनं सामरस्यमापादयतीत्यर्थः | इह कामराजान्तिम भूतमनुस्वारमादौ कृत्व तृतीय चतुर्थयोराकारं या क्रमं हितैव संहितारूपतया योनीबीजतामापाद्य द्वितीय तृतीयता प्रथमस्य ककारस्य चतुर्थां चोद्भाव्य विनिमयः कृतो वेदितव्यः | पवमानो हि द्वेधा वति | प्राणोपानश्च प्राणोग्निः अपरान आदित्यः | तदुभयमेलनात्तद्वाको मन्त्रो मेलकेत्येव रूपो भवति | अधुना शक्तिबीजस्याक्षरार्थं दर्शयति | श्रीकर्णश्च भृगुश्चैवानुग्रहेशमनुस्वयम् | मार्ताण्ड भैरवस्यास्य कथितस्ते मृगेक्षणे इति | श्रीकण्ठ सुवाद्यवर्णः ग्रगुः सकारः | ओकारोनुग्रहेशः | अत्र घोषस्य स्थाने आद्यवर्णविन्यासः | तथा च श्रीनिश्वासकारिकायाम् | अकारश्च हकारश्च लोपेतावेकरूपिणाविति | एतेन पुल्लिङ्गिनोदः शब्दस्य प्रमैकविभक्त्यं तस्य रूपं मन्त्रो भवति | अत एव विभक्ति लोपान्नात्र विसर्जनीयोच्चारः | असौ सौरो मन्त्रः | तथा च शृतिः | प्. ५८) यो सौ तपन्नुदेति | असावादि तु | एकविंशति च केवलं परायाः शक्तेः सोमसूर्यवह्निमयवि * तैजस प्राज्ञपुरत्रयसन्धुक्षण्या भट्टारिकायाः वाक्यं व्यावर्णाद्य परमशिवप्रधानमन्त्रस्य हंसस्य विषयानु रूपेणाक्षरार्थं दर्शयितुमुपक्रमते | महाकालौह सर्गौ ब्रह्ममित तेजसः | व्यापकस्य त्रिधाम्नां च मन्त्रोयं वीर्यवत्तर इति | महाकालो मकारः | हविसर्गौ घोषविसर्जनीयौ अत्र श्लोकबन्धमनुस्मरन् क्रमलोपेतमेवा चिकीर्ष इन्द्रबीजानामेव साकल्येन केवलमुपग्रहं करोति | न पुनर्व्याक्रियमाणस्य मनोरक्षरक्रमोप्ययमिति सन्दर्शयति | तथा च श्रीमूलावतारे दृश्यते | ईहं रूपमास्थापयेति | तत्र भ्रू मतिभिमन्त्र क्रमम् | श्रीमते ईरह ईलकं चैव ईरस्तं च वरानन इति | अत्र हीं क्लीं स्त्रीम् इति भिमन्त्रक्रमः | ततश्च ब्रह्मभूतस्य त्रिधाम्नां सोमसूर्यादीनां व्यापकस्य च अमितस्य तेजसः | अक्षरार्थत्वेन प्रतिपादितत्वात् तत्प्रतिपादन क्रमस्य महच्छन्दमन्तरेणान्यस्य चिन्मात्र विनियामात्मकस्या सम्भाव्य मानत्वात् तदनुरूप एवाक्षरक्रम उत्प्रेक्षणीयः अयं हि हंसस्य उद्धारसिद्धः क्रमः | प्रथमो घोषः द्वितीयो भवः | तृतीयो मकारः | चतुर्थो भृगुः | प्. ५९) पञ्चमस्य भव इति तस्य मकार भव श्रीकण्ठ भृगुरूप मन्त्रक्रम विनिमयो ज्ञेयः | तत्र भृगोर्विसर्जनीयमत्वं मन्त्रावसानत्वादावपनीयः | क्रमेणानेन मन्त्राणामुच्चारे कुलदेवताः | कुप्यन्ति साधकानां च धातृन् गृह्णन्ति भैरवीति | अनेनेति | अक्षराक्ष प्रमाणदशितेनायमर्थः | एवं विधं क्रममङ्गी कुर्वता साधकानामग्न्यादि देवता प्रकारोपनिमित्तः | प्रत्यवायो भवति | तर्हिकः | क्रम आ श्रीयतामित्याह | तेजोनामविपर्यास सिद्धं गुरुमुखोदितम् | वाग्भवं कामराजं च शक्तिं हंसं तृश्वेरम् | जीवन्ति ये महात्मानः शीघ्रसिद्धि भवन्ति ये | देवताश्चानु गृह्णन्ति कुलचक्राश्रया इति | अक्षरार्थतया प्रदर्शितानिभि वायु सवित्र तेजांसि तेजः शब्दाभिधेयानि तेषां नामानि क्रमादयं मेलकोसौ मह इति चत्वारि एषां विपर्या स उद्धारक्रमदर्शितः | वाग्भव कामराजशक्तिबीजहंसाः | एतानङ्गीकृत्य पूर्वोक्तानि नामानि भित्वा जपतां श्रेयः सिद्धिर्भवति | दैवतानि हि यथावस्थितैरेव नामभिरुच्चार्यमाणैरुपास्य मानानि प्रीतिमुपायान्ति तथा च लोकिका अ स्वनामधेया नाम प्रौढजन स्फुटोच्चारणादपि बाल प्. ६०) जनोद्गीर्णैरनति स्पष्टविपॢताक्षरैर्वा लापैः प्रीयमाणा दृश्यन्ते | तथा च श्रीतिः | इन्द्रोनामेन्द्रो भवैनामेन्द्रं सन्तमिन्द्र इन्द्रादी च क्षते परोक्षेण परोक्ष प्रिया इव हि देवा इति | प्रजायेमभिरुद्र प्रजाभिरिति ब्रूया न रुद्रेत्ये तस्यैव नामनः | परिभृत्यै इति च | इत्यक्षरार्थ सङ्केतमुपदिश्य पदादि सङ्केतमाह | पदाद्यक्षरसङ्केतं वदामि शृणु भैरवि | सर्वमन्त्रानुसन्धाने फलसम्पत्तिकारकमिति | तत्र वाग्भवकामराज शक्तिरूपं बीजरूपेण त्रिपादीह विद्या | अतस्त्यान्येव बीजानि पादशब्दाभिहितानि तेषामाद्यक्षराणि श्रीकण्ठक्रोधनाथ लकुलीश्वराख्यानि तेषु यथा सम्भवं सकलामाकोपग्राहकत्वेन परमेश्वर विभतोयः सङ्केत समयः | स पादाद्यक्षर सङ्केतः स तेन सकलमातृकोपग्राहकं पदाद्यक्षरस्वरूपमिति | * * मामनुसन्धाय विद्यामिमामपि परिशीलयत्तन्मातृकामयत्वेन मन्त्रग्रामस्य समस्त मन्त्रानुसन्धान फलसंपत्तिर्भवतीति तात्पर्यार्थः | श्रीकण्ठोनादि भूतेन वाग्भवस्य कुलेश्वरि | उपात्तं निखिलं बीजं चक्रं सारस्वतं महदिति || बीजचक्रमिति | षोडशस्वरा न भवान्छन्ति तत्र श्रीकण्ठेन प्. ६१) प्रथम पदादि भूतेनेतरेषां स्वराणामुपग्रहोदर्शितः | आद्येन क्रोधनाथेन कामबीजस्य सुन्दरि | आहृतं योनिचक्रं तत् सर्वकामफलप्रदमिति क्रोधनाथो व्यञ्जनः | प्रथमवर्णनेन द्वितीयवादि भूतेन द्वात्रिंशत्संख्य संज्ञं सान्तं योनि चक्रतद्वर्ण कदम्बमवरुध्य वेदितम् | आद्येन लकुलीशेन शक्तिबीजस्य सुन्द * पादविद्या समुद्दिष्टा सर्वविद्या क्रमागता इति | तृतीयपादादि भूतेन लकुलीशेन हकारेण तेन स्वरव्यञ्जना वा मिश्रमयं सप्तकोटीश्वरी संज्ञितां महामातृकापग्रह्णाति सैव पादविद्या भक्षवर्णमयी चरणविद्येति यावत् | तथा च श्रीमते | भक्षस्थापदसंज्ञेति पादविद्याया व्यामिश्रं मातृकामयत्वं श्रीसप्तकोटीश्वर्याश्चरण विद्यायास्तथाविधरूपत्वं च परमरहस्यत्वान्नैह प्रतन्न्यते | तेषां पदादीनां त्रयाणां वर्णानां मेरु क्रम देवतारूपत्वं परमरहस्यत्वाद्दिव्या ज्ञातिकमभयेन नेह प्रदर्श्यते | व्याप्तिलक्षणम् - इति पादविद्या श्रीकुलद्धकं विवृणोति | इदानीम् कुलचक्रस्य शृणुत्वं व्याप्ति लक्षणमिति | कुलचक्रं मातृ * * * कावचम् | तथैवात्रैव तत्रेषु पुरस्तादुक्तम् | पूजयेत्कुलपद्धमिति | तच्च त्रिकोणरूप प्रस्तारमिह प्रकाशयितुमुपक्रान्तम् | प्. ६२) अतस्तस्य विद्यायाभिव्याप्तिः | तस्य लक्षणं व्याप्तिलक्षणम् | रुद्रभैरववीराणामिति | आदिक्षान्तानुपूर्वी विशिष्टो वर्णः | रुद्रास्तद्विपरीतक्रम विशिष्टा भैरवाः | अकारादि सकारान्ताः पञ्चविंशति वर्णाः क्षादिभिर्नावसानैर्वामिता वीराः | तेषां सर्वस्वमे तदेव हि मातृका चक्रम् | तेषां क्रमवैचित्र्याणां मूलभूतमिति कृत्वा सर्वस्वमिति वदति | योगनीकुलमिति मातृका समूहस्य संज्ञा | हृत्पद्ममध्यकुहेरेऽत्र कोणे भावयेत्सदा || अकारादि विसर्गान्ताः सर्वरेखा विभाविता इति | अत्र त्रिकोणमयः प्रस्तारः तत्र सव्य रेखायां षोडस्वरा विन्यस्तव्याः | कोटिचन्द्रप्रतीकाश वाग्भवेन सुपूजिता | तेषां स्वरूप भावना प्रकारः | वाग्भवेन सुपूजिता इति | अनेन तेषामर्चनमन्त्रो वाग्भव इति दर्शयति ककारादि तकारान्तादक्षरेखाश्रयाः प्रिये | अनेक भास्करप्रख्याः कामराजाश्रयाक्षरा इति | अस्य च पूर्ववत् प्रक्रिया | थकारादि सकारान्ताः पूर्वरेखा समाश्रयाः | विद्युत्पुञ्जनिभा श्रेमाः शक्तिबीजेन सम्मता इति | अस्यापि पूर्वदेवार्थः | मध्ये कुलाकुलादेवी द्वीपा विद्या प्रतिष्ठिता | इन्द्रचापप्रभा चण्डी हंसमन्त्रभाविनी | प्. ६३) गुरूपदेशतो ज्ञेया नाधितागमकोटिभिरिभिः | अस्य सव्यदक्षरेखामयस्य सोमसूर्यवह्न्यात्मकस्य मन्त्रात्मनो विद्या पादत्रयमन्त्राभ्यर्चितस्य त्रिकोणस्य मध्ये पादादिविद्या विन्य * नीया | तस्याः कुलाकुलेति च नाम | चण्डीति सप्तकोटीश्वरी विद्या एकदेशो पादानेन पादविद्या अपि तन्मनत्वं प्रकटयति | अस्याश्च हंसो मन्त्रः | एवं वाग्भवादि पादत्रयाभ्यर्चितमातृका पङ्क्तित्रयमध्ये वर्तन्याश्चरणविद्याया अक्षरार्थ प्रकरण प्रदर्शितस्य त्रिध्या व्यापकस्य हंसस्याभ्यर्चनमन्त्रतामुपदिशन् वाग्भवादिभ्योऽपि प्राधान्यं सूचयति | कुलचक्रमयी मूर्तिस्वदीया चाक्षमालिका | तथा विधा द्वतीय कमलानुग्रहीतं च पुस्तकं च त्वन्मयमेवेति | इत्थं हृत्पद्ममध्ये तु ध्यातव्यं सर्वदा प्रिये | योगिनां योगिनीनां च विद्यासिध्यर्थमुत्तमम् | कुलचक्रं महादेवि त्वत्सेनहात् कथितं प्रिये | आज्ञाधारे सदा देवि भावयेद्यः कुलेश्वरि | तत्स्वाधीनं भवत्यागुस्थावरं जङ्गमं जगत् | सर्वदाकुलस्तु योनौ प्रयतमानसः | योध्यात्यस्य योगिन्यो जायन्ते मदनातुराः | इत्यनेन प्रकारेण कुलचक्रस्य हृत्पद्म आज्ञास्थान मूलधारसंज्ञित प्. ६४) आधारत्रये हि ध्यातस्य क्रमात् सारस्वत सिद्धिर्जगत् प्रभूता योगिनी वन्द्यताभिः फलवत्वं दर्शयति | कुलचक्रं तु विज्ञेयं दिव्यदेहं शिवस्य तु | शास्त्राण्यन्यानि मन्त्रांश्च पादपांसुमिव त्यजेत् || इदं चाति रहस्यं तु कथितं ते मृगेक्षणे | कर्णात्कर्णे प्रयोक्तव्यं न च लेख्यं च पुस्तके | देयं वीरप्रतायेदं हृष्टाय सततं प्रिये || भक्ताय देशिकेन्द्राणामुन्नताय स्थिर वृते इति | चक्रस्यमभिमानमेवं विस्तरेण वर्णयन्नुपसंहरति | || इत्युत्तर षट्कविवरणे तृतीयः पटलः || इति विशेष विद्यां प्रसङ्गा गतानक्षरादिश्च प्रकटर्यानन्तरं त्रिपुरायोगाख्यमन्तर्यागं वक्तुमुपक्रमते | || त्रिपुरायोगम् || अथातः संप्रवक्ष्यामि त्रिपुरायोगमुत्तमम् | हृद्व्योमपद्ममध्यस्थं हंसाख्यां नाम नामतः | इति | हृत्पद्मं व्योमपद्मं चेति हृद्व्योमपद्मयोर्मध्यसितं हृद्व्योमपद्ममध्यस्थं व्योमपद्मं नाम बिन्दुस्थानादुपरि योगपीठसंज्ञितं महापद्मवनं नामशब्दः प्रसिद्धौ | अयमर्थः | तत्किलानामतो हंस इत्याख्यायते | प्. ६५) तद्धृत्पद्ममध्ये च तिष्ठति | व्योमपद्ममध्ये च न केवलं हृत्पद्ममेव हंसस्य स्थानं व्योमपद्ममपीति तात्पर्यार्थः | तथा च हंस परमहंसस्थान तथा द्वयमप्ये तत् श्री कुब्जिकामते समुद्घुष्यते | षण्णवत्याः परो हंसः स चाम्नाय विदो विदुः | सिद्ध कौलाभिपन्ना नामितराणां न दर्शनम् || तत्र दिव्यक्रमं पूज्य पादचारेण योगिनः | तेन गच्छेन्निराधार तत्पदं परमं पदम् || द्वादशाधार मूर्तिस्थानमिति यदेतत् परमं बीजं हंसाख्यं हृदि संस्थितमिति च | हंसाख्येन हंसकाराख्यं वर्णद्वयमुपगृह्यते | योगपीठासनासीनं चामुण्डा चण्डिकायुतम् || यद्यपि चेदहंसाख्यमुभयाधिष्ठानं तथापि | अत्र योगपीठासनासीनं कृत्वा चामुण्डया ओकारेण चणिकया विसर्जनीयेन संयुक्तमापादयेदित्यर्थः | योगपीठं नाम व्योमबीजः तेनैव कल्पयेत् | प्रेतं सादाख्यं परमेश्वर इति ततोनन्तरोक्तेनमनुना सादाख्यं परमेश्वरं प्रेतं कल्पयेत् | अयमर्थः | अनन्तरं शक्तिबीजमुच्चार्य ततो नमोन्तेन सदाशिवं महाप्रेतानायेत्यनेन प्रेतासनं कल्पयेदिति | प्. ६६) तस्योपरि न्यसेन्मूर्तिं नादबिन्दुकलामयीमिति | तस्येति प्रेतं परामृशति | * दोनाम लकुलीश्वरः | बिन्दुरिति | संवर्तनाथः | अनयोः कलां तं मयीं पञ्चाशद्वर्णमयीति यावत् | हकारस्य हि कलाः षोडशस्वराः | क्षकारस्य हि कादयर्थान्ताः | स * लेनैव मन्त्रेण वक्त्राण्यङ्गानि कल्पयेदिति यावत् | ध्याये दूपं महेशान्या निश्चलेनान्तरात्मना | उदयार्कसमप्रख्यां किरणानेकसङ्कुलाः || बन्धूक कुसुमच्छायां सिन्धूरारुणविग्रहम् | रक्तवस्त्रावृतां देवीं सर्वाभरणभूषिताम् || जटाजूटधरां सौम्यां मध्येन्दुकृतशेखराम् | सर्वलक्षणसंपन्नां पर्यासनसंस्थिताम् || आपीनमण्डला भोग समुन्नत पयोधराम् | वलीतरङ्ग मध्यस्थां रोमराज विभूषिताम् || मदिरानन्द चैतन्यामाह्लाद जननीं पराम् | त्रैलोक्य मोहनीं देवी मीषत्प्रहसिताननाम् || दिव्यरूपधरां देवीं द्विनेत्रां तु शिवां पराम् | सर्वालङ्कारसंपन्नां व्योमपद्मासनस्थिताम् || वामहस्तनिविष्टेन दिव्यज्ञानमये न तु | इत्येतदन्तं सुगमम् | प्. ६५) दक्षिणेन समुद्रेण सूर्यकोटिसमप्रभाम् | अक्षमालां च हस्तेन सम्बद्धमुद्रेणेति व्याख्यानमुद्रातया सहितेनेति यावत् | सूर्यकोटिनिभैर्मुण्डै स्फुरत् ज्वालावली धरैः | ग्रन्धिता दिव्यरूपां तु रक्त बिन्दुप्रमोचनीम् | चण्डविद्यामयीं मालामपादतललम्बिनीम् || गलेन विभृतीं देवीं चिन्तयेल्लोकमातरम् | एवं ध्यात्वा महादेवीमिति या किलसूर्य बिबनिभत्वादि युक्ता मुण्डमाला सा चित् चण्डिका विद्यामयी चण्डिविद्यानाम स्वरव्यञ्जन व्यामिश्रमयी माहामातृको सा हि मण्डमालारूपेण परिणतया पारमेश्वरीं मूर्तिमाश्रिता चण्डिकास्तीति कदम्बवन मध्यगामिति | तत्रासनताङ्ग तस्य महावन संज्ञितस्य व्योमाम्बुजस्योदरे यत्कदम्ब गोलकमिति पुरा कथितम् | तत्कदम्ब शब्देन प्रतिपादयति तदेव वन प्रभावृतां निरन्तरतया वनमिति भावः | उक्तं च श्रीमतोत्तरे | अनेकार्चिः समाकीर्ण कदम्बवनस्थिताम् | इति ऊर्ध्वमार्गस्थितं पद्मसहस्रदलसङ्कुलम् | वर्षन्तं मृतोघेन द्रवल्लाक्षारुण प्रभम् | तेनैव प्लावयेद्देवीं परेणैवामृतेन तु इति | अत्रोर्ध्व प्. ६८) मार्गशब्देन महापद्मवनादुपरितनं द्वादशमाचष्टे | ततः श्री कमन्निन्ने श्रीमते प्रकाश्यते | द्वादशान्ते परं प्रोक्तं सूक्ष्मं वै ब्रह्मरन्ध्रगमिति | तत्र तस्मिन्नमृतद्रवोपि तत्रैव दर्शितः महारन्ध्रो परिस्थिता तु द्वादशाङ्गुलभामिनी | द्वादशान्तोर्ध्वगा तस्मिन् प्रद्रवन्तीति सास्मृतेति द्रवल्लाक्षारस प्रभेति एवं विधं पद्मं ध्यात्वा तदुद्भवेन परामृतेन देवी माप्लावयेदित्यर्थः | एवमभ्यस्य मानस्य साधकस्य महात्मनः | त्रैलोक्यं क्षुभ्यते सम्यक् नान्यथा वीरवन्दिते | इति सुबोधम् | अत्र त्रिकविद्याया च सा द्विविधा सम्भवति वाङ्मयी ज्योतिर्मयी चेति | तत्र वाङ्मयी वर्णस्थान प्रयत्नाभि व्यङ्ग्या वैखरी स्वरूपा प्राण प्रावृत्तिनि बन्धना भवति | सैव पादत्रयात्मना यथावं निर्दिष्टा | ज्योतिर्मयीति नाम आधार हृदयं ब्रह्मरन्ध्र संज्ञे गुहादितये क्रमादुदय लय विश्रामरूपानुच्चार * ष्मामाणापरामध्यमा पश्यन्ती संज्ञिता सद्योदित स्वाभावा अध्यात्महारती विद्या | तथा च श्रुतिः | तिस्रो वाचः | प्रवदज्योतिरग्रा इति | चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणाये मनीषिणः | प्. ६९) गुहा त्रीणि निहितानेङ्गयन्ती तुरीयं वाचो मनुष्या वदन्तीति | तस्या एवं विधाया भावनाप्रकारमाधान भूतानि उदयविश्रमस्थानानि चत्थयितुमारभते | मन्त्रध्यानं कथं प्रोक्तमुत्थानं च कथं भवेत् | लयः कस्मिन् भवेद्देवि विश्रामश्च कथं भवेत् || एतत् कथयदेवकारुण्येन महा प्रभो | इति सुबोधम् | तत्रोदधविश्रमस्थानानुरूपत्वान्मन्त्रध्यानस्य प्रथमोद्देशेऽपि पूर्वमुदयानि स्थानान्येवमाह | आधारे उदयं देविलियं हृदयमध्यगम् | विश्रामं ब्रह्मरन्ध्रे तु त्रिलक्षं परिकीर्तितम् इति | उद्यमरूपेण सकलमन्त्रवीर्यभूतस्य स्पन्दनस्य प्राथमिक आविर्भावं लयो विशेषवासः | जुषमाणेन चोद्यमात्रेण रूपेणैका कारतयो स्थितस्य चिणि चिण्या देशनात्मना बहुविधभावः | उक्तं च श्रीमते | चिणीति प्रथमः शब्दश्चिणीति द्वितीयकः | वीरवाकी तृतीयस्याश्छङ्ख शब्दश्चतुर्थकः || पञ्चमं तन्त्रिनिर्घोषं षष्ठं शंखं तथा | सप्तमं कंसतालं च मेघशब्दं ततोष्टमम् || नवमं वह्नि निर्घोषं दशमं दुन्दुभिस्वनम् | हननेन विना जातमहाहतमिहोच्यते इति || प्. ७०) विश्रामो विरामः ज्योतिर्मयया विद्याया त्रिविधोच्चार श्रीमतो प्रकाश्यते | शुद्धद्वन्द्वजसङ्कीर्ण उपदेशस्त्रिधा स्थितः | उद्भवे शुद्ध इत्युक्तो विशेषोर्द्वन्द्वजस्मृतः संकीर्णे लयः संस्थोपि उपदेश त्रिधा इति त्रिलक्षणं परिकीर्तितमिति | उदयादि स्थानानि त्रीणि लक्षणानि तानि च साधकानां मन्त्रवीर्यरूप * * * क्षणीयत्वाल्लक्षणीति कथ्यते | इति ज्योतिर्मध्या विद्याया उच्चारक्रममभिधाय तत्स्वरूपमभिदधाति | आधारगुदमित्युक्तं रक्तकिञ्जल्कशोभितम् | वाग्भवं तस्य मध्ये तु विस्फुरं * * प्रभम् || हृदये कामराजं च द्रवल्लाक्षारसप्रभम् | ब्रह्मरन्ध्रे तु शक्त्याख्यं दृतपारतसन्निभमिति | श्री त्रिकविद्या आधार हृदयब्रह्मरन्ध्रेषु क्रमादुदय विश्रामलयान् हजमाना तटिल्लाक्षारसपारत प्रभा वा वाग्भव कामराज शक्तिबीजसंज्ञिता ज्योतिर्मयी विद्या भावयितव्येति | मन्त्रध्यानं महादेवि सिध्यते ब्रह्महायदि | तव स्नेहान्मयाख्यातं न देयं यस्य कस्यचित् | इति मन्त्रध्यानस्येयं प्रशंसा | जपेन्मन्त्रवरं श्रेष्ठं योन्यासन सुसंस्थितः | प्. ७१) निस्तब्धं कुञ्चिदं कायं न भूतं न विलम्बितम् | योन्यासनं नाम पाट तलद्वयमितरे तरेण सन्धायतदुरि शरीरस्य संस्थितिः | कुञ्चितं कृत्वा कुञ्चितमित्यत एवं कृतं कायं कृत्वेति योज्यम् | अक्षाराक्षरसन्तानं निःसन्दिग्धमना जपेत् | इति | अक्षरेणाक्षरस्य सन्तति रविच्छिन्ना यथा भवति तथा जपेत् | इत्यर्थः | तद्गतस्त्वेक चित्तस्तु न्यासं कृत्वा यथोदितम् | देव्यास्तु पुरतो लक्षं कृत्वा लक्षत्रयं जपेत् || रक्ताश्वमारपुष्पैस्तु गुलाज्यक्षीरसंयुतैः | कुण्डे योन्याकृतौ देवि जपान्ते जुहुयात्ततः || पूर्वसेवाकृता तस्य भवत्येव न संशयः | अनेन विधिना युक्तो मन्दभाग्योपि सिध्यति || मुच्यते सर्वरोगैस्तु असाध्यमपि साधयेत् | अत ऊर्ध्वं जपेद्यस्तु साधको वल्लभे शृणु || लक्षमेकं जपेद्यस्तु तद्गतजितेन्द्रियः | दर्शनात् क्षुभितः सर्वा योषितो मदना तु राः || पतन्ति साधकस्याग्रे निर्लजाभयवर्जिताः | द्विलक्षेण जनाः सर्वे एतस्मिन्विषयस्थिताः || आगच्छन्ति यथा तीर्थमत्यन्ता कुलविग्रहाः | ददन्ति तस्य सर्वस्वं तस्यैवा श्रेष्ठसंस्थिताः || प्. ७८) त्रिलक्षैस्तु तथा जप्तैमण्डलीकः स मण्डलः | वशं नयन्ति ते सर्वेनात्र कार्याविचारणा || षड्भिर्लक्षैर्महीपाल स सहृत्य बलवाहनाः | लक्षैर्द्वादशिर्जप्तैर्यक्षरक्षो गणेश्वराः || वशमायान्ति ते तस्या ज्ञानं कुर्वन्ति नित्यः | लक्षैः पञ्चदशैर्जप्तैः साधकस्य वरानने || सिद्धविद्याधराः सर्वे गन्धर्वाप्सरसादयः | वशमायान्ति ते सर्वेनात्र कार्याविचारणा || दुराच्छ्रवण विज्ञानः सर्वज्ञत्वं प्रजायते | शान्ति पुष्टिकरस्तुष्टि कृद्धोमानृयते क्षणात् || तथाष्टादशभिर्लक्षैर्देहेनानेन साधकः | उत्तिष्ठं मेदिनीं त्यक्त्वा दिव्यदेहः प्रजायते || भ्रूमते स्वेच्छया लोकाच्छिद्रान् पश्यन्ति मेदिनीम् | अथ विंशतिभिर्लक्षैर्विद्याधरपतिर्भवेत् || साधकस्तु भवेद्देवि कामरूपी महाबलः | त्रिंशल्लक्षैस्तथा जप्तैः सिद्धयोगेश्वरेश्वरः || चत्वारिंशतिभिर्लक्षैर्ब्रह्मा विष्णुश्च शाश्वतः | षष्टिजप्तैस्तु रुद्रत्वमीश्वरत्वमशीतिभिः लक्षकोटितया देवि लीयते परमे पदे | साधकस्तु भवेद्देवि त्रैलोक्यस्यापि दुर्जयः || प्. ७३) त्रैपुरं भैरवं तेजः शिवं परमकारणम् | अक्षयन्तमजं शान्तमप्रमेयमनिपमम् || लभते सनसन्देहो देवि सर्वत्वमीप्सितम् | इत्येतदन्तं सुगमम् | || इत्युत्तरषट्कविवरणे चतुर्थः पटलः || नव लक्षं कथं देवस्थानं तस्यापि कीदृशम् | एतन् मे संशयोनाथ वत्तुमर्हसि शूलधृगिति || सुगमम् | अनन्तरं नवलक्षाणि तत्स्थानानि च वर्णयुतुमुपक्रमे | सारात्सारतरं मुख्यबाह्यसंख्या विवर्जितम् || शरीरे संस्थितं देवि नवलक्षं च दुर्लभमिति | अत्र बाह्यसंख्या विवर्जितमित्यस्याभिप्रायः || लोके हि लक्षः शब्दः संख्या विशेषे प्रसिद्धिः | इह शब्दार्थो न भवतीति इह लक्षशब्द वाच्यानि नवस्थानानि गतानि | वक्ष्यमाण दीपशिखाद्याकृतीनि तेजांसि तानि च इह निष्कीलत्रिकविद्याक्षराणां श्रीकण्ठ वाग्भवादीनां रूपाणि | मेड्राधारस्वनाभिश्च हृत्कण्ठेबिसलम्बिका | तथा च भ्रूबिलं चैव नवमं ब्रह्मरन्ध्रगमिति | आधारशब्दस्य पूर्वोदित एवार्थः | बिलं नामकण्ठमूलम् | प्. ७४) बिसलम्बकानामो पुरितनतालुस्थानं शेषं सुगमम् | मेढ्रदीपशिखाकारमात्मारे कनकप्रभम् | नाभिस्थ सूर्यबिम्बं तु तरुणं कुलसुन्दरि || हृदि ज्योतिशिखाकारं तदूर्ध्वे भास्कराकृतिम् | गलेदीपशिखाकारं लम्बिके चन्द्रसन्निभम् || भ्रूमध्ये रत्नसंकाशं नवान्ते विश्वतेजसम् | इति | अनेनाधारगतं तेजोविशेषं व्याकृतं विद्याप्रसङ्गेण सर्वमन्त्राणां पञ्चलक्षणम् | स्पर्शनं नाममन्त्रेण सहसाधकस्य सम्बन्धः | तस्यापि चिह्नं कम्पनम् | तच्च हृदिपूर्वं जायते | अवलोकश्चेति मन्त्रो यदि साधकमवलोकयन्ति | तदेवावलोकनम् | तस्यापि चिह्नन्धूननम् | तदपि कर्णे भवति | समभाषं चेति मन्त्रो यदि साधकं भाषते तत्सम्भाषणम् | तस्य चिह्नं स्तोभः | साचास्वयं वंशस्य समस्तविद्या मन्त्रपरिकल्पनम् | बिन्दुदर्शनमिति बिन्दुशब्देन मन्त्रस्यात्मा विवक्षितः | मन्त्रो यदि साधकस्यात्मनं दर्शयति | तद्बिन्दुदर्शनम् | तच्च भ्रूमध्ये भवति | तच्चिह्नमणिमादि गुणावाप्तिः | स्वयमावेशनमिति | मन्त्रो यदि स्वात्मनि साधकमावेशयति | तत्स्वयमावेशनम् | प्. ७५) तद्ब्रह्मरन्ध्रो भवति | तस्यापि चिह्नं देहस्योपतनम् | उक्तं च श्रीमते | स्पर्शनं हृदि संस्थं तु आलोकः कण्ठदेशतः | तालुस्थाने तु सम्भाषा दर्शनं बिन्दुमध्यतः || स्वयमावेशनं देविकं द्विजरन्ध्रेन संशयः | स्पर्शने कम्पनं ज्ञेयमालोकेधूननं भवेत् || सम्भाषे तु भवेत्स्तोभः शास्त्रार्थं चैव मन्यते | दर्शने तु गुणावप्तिरणिमादि गुणाष्टकम् || स्वयमावेशनं देवि उत्पतेन्नात्र संशयः | || इत्युत्तरषट्कविवरणे पञ्चमः पटलः || अथ देव्यावाहनप्रकारं दर्शयितुमुपक्रमते | विद्याकोशं प्रस्तोति | विद्याकोशं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् | वाग्भवेन वरारोहे देव्याश्चक्रं प्रपूजयेत् || विद्याकोशमिति कोणकर्णिकं सादाख्यं प्रेत पीठसनाथमष्टदलपद्मं वक्ष्यमाणमभिप्रैति | देव्याश्चक्रमिति विद्याकोशमित्यर्थः | वाग्भवेन मन्त्रेणार्चयेदित्यर्थः | तन्मध्ये वर्ण * पात दिव्यवपुद्धराम् | नादबिन्दुमयीं देवीं ध्यात्वा सकलमन्त्रतः || प्. ७६) वक्त्राण्यङ्गानि विन्यस्य प्रतोर्ध्वे पूजयेदिति | बिन्दुनादावतृपुराव्याकृता वा ज्ञाक्षरेण तावत्र वर्णसङ्घातस्य प्रत्येकं वीर्यतया निविष्टौ वेदितव्यौ | तथा चोक्तं क्रमनिर्नये श्रीमते | महामायाक्षरः पुमां देवि द्वाभ्या ममला चतुष्टयमिति | सकलमन्त्रत इति ककारसहितेन मन्त्रेण कामराजाख्येनेति यावत् | प्रेतोर्ध्वे पूजयेत्यर्थः | अत्रानुक्तमपि शक्तिबीजेन सादाख्य प्रेतं कल्पयेदिति | अन्तर्यागभूतं त्रिपुरा योगोक्त प्रकारेण वेदिनीयम् | कोणस्था देवतास्तिस्रोरति प्रीतिमनोभवाः | वामे रतिस्तथा प्रीतिर्दक्षिणे मदनोग्रतः | इति सुगमम् | मूलविद्यान्यसेत् पश्चाल्लक्षणेन समन्विताम् | इति | मूलविद्यानां प्रथममाविनो ब्राह्मादि चण्डिकानन्तानष्टौ दीर्घस्वरांश्चरा महाविभिः | प्रत्येकमा शब्दावसानौः क्षादिलान्तैरष्टभिर्व्यञ्जनैः क्रमादिभिः संयोज्य एवमष्टविभागा या विद्याभिधीयते | सा तथोच्यते | तामेवं विधां विद्यां कोशस्याष्टदलेषु क्रमाद्विन्यसेत् | विन्यासं मनसा भावयेदिति तात्पर्यार्थः | एकस्मिन्दले आकारः क्षकारः आ ई शब्दश्चेतीयमानुपूर्वी विन्यस्य अपरस्मिन्नीकारो लकारः आ ई शब्दश्चेतीयमानुपूर्वी | प्. ७७) एवमनयादीशान्येष्वप्यवगच्छेत् | आसनामप्यष्टा नामानुपूर्वीणां ब्राह्मादय एव संज्ञाः | एव देवतन्त्रे कुलाष्टकमिति श्लाघ्यते | अनन्त * * लक्षणसंयुक्तामेवमूलविद्याक्षरानुपूर्वीं स्वयमेवोपन्यस्यति | आकारेण क्षकारस्यादायीं सर्वत्र योजयेत् | ईकारेण लकारस्यादूकारे * हकारकम् || ॠसायोग समाख्यातो ॡषायोगस्तथा परः | एकारेण शकारस्यादौकारेण वकारकः || अंकारेण लकारस्याद्यजेद्देवि कुलाष्टकम् | अष्टपत्रमूलविद्यानाम्ना त्रिपुरभैरवि || एवमुद्धारेण क्रमानुसारेण मन्त्रध्यान योगादीनुपन्यस्यानन्तरं जपविधेस्तथाविधक्रमविपर्यास श्रेयस्करणम् | अन्य * * करणे च प्रत्यवाय बहुलतां प्रदयितुं प्रकरणमिदमारभते | आदिमध्ये तु मध्यादावन्तमन्ते च संस्थितम् | पुरक्षोभाय जप्तव्यं विधिनानेन साधकैरिति | तथा * * पूर्वपस्त्यो वाग्भवादिः शक्तिबीजान्तः क्रमो न सृष्टिक्रमो भवितुमर्हति नापि संहारक्रमः नाप्युभयात्मक स्थितिक्रमः | न ह्येतां क्रम त्रयीमतिरिच्य क्रमात् क्रमानन्तर सम्भा * व युज्यते | अतः परं रहस्यार्थ गोपायनपरः परमेश्वरो वाग्मन्दाधिकारित्वं विद्यायः परिजिहीर्षन्नुद्धार प्. ७८) क्रमोपप्लवं क्रमस्य विहितवानिति बोद्धव्यं तन्त्रान्तरेष्वपीय मेवेति दृश्यते | तथा च परमेश्वरे मते | प्रथमं वाग्भवादि शक्तिबीजान्तमुद्धृत्य जपविधापाद्यम मध्यगतमित्यादिना प्रकरणेनतमपवदति | तथा च लघुपादैः | ऐन्द्रस्येवेत्यादिना श्लोकपाद संख्याक्षर क्रमेण वाग्भवादिमेव क्रमं दर्शयद्भिरपि | आधारक्रमे वाग्भवमध्यपातिता प्रकाशनेन संक्षिप्तश्चर्चापादैरपि मूर्ध्निस्फुरदित्यानिनासौ क्रमौङ्गीकृतः | अत इहाप्यासौ न परमार्थतया बोद्धव्यः | अयं श्लोकार्थः | उद्धारक्रमेखलु वाग्भवमादि भूतं कामराजं मध्यमम् | तत्राभूत हि वाग्भव कामराजस्थाने विन्यस्य मध्यभूतं कामराजं वाग्भवस्थानीयं कृत्वा अन्तिमबीजं यथावस्थितमेव विधाय जपेत् | एतत् क्रम विशेषमेव विशिष्टं जपतां साधकानां पुरक्षोभो भवति | पुरशब्देन बुद्धादय उपादीयन्ते | तेषां क्षोभः पुरक्षोभः स च साधकाज्ञा प्रभावेन साध्यस्य जाग्रदवस्थापन्नस्य सुषुप्ताद्यवस्थोत्पादनमेवं विधं पुरक्षोभं साध्यस्य साधकः सम्प्रा?दयितुं प्रभवेदिति यावत् | बुध्यादीनां पुरत्वमपि हंसभेदे समुद्घोषितम् | कायप्राणकयीरूपे विचरन्ति पुरत्रये | प्. ७९) तस्य स्वरूपौ भरणाः शक्तिस्त्रिपुरभैरवीति | बुद्धिप्राणशरीराख्ये यदे तस्मिन् पुरत्रये || अहङ्कारद्वसत्यात्मा तेनायं पुरुषस्मृतः | एतत् पुरत्रयं दग्धं येन सत्त्रिपुरान्तक इति | प्लुतदीर्घह्रस्वान्त सहितः कामराजादि शक्तिबीजान्तः क्रम उद्दिष्टः इति संहारक्रमः | अनन्तरं स्थितिक्रममाह | आदिमादिमनादिं च मध्यममध्यममध्यमम् | अन्तमन्तमनन्तं च त्रिपुराशीघ्रसिद्धिदेति | अत्रैकानादि पादेनोद्धारक्रम प्रथमभूतवाग्भवमभिसन्धत्ते | द्वितीयेन तद्विशेषभूतमाद्यवर्णम् | तच्च द्वयमनादिर्मध्यमं कृत्वेत्यर्थः | मध्यममध्यमिति | एकोमध्यम शब्द-उद्धारक्रममध्यभूतं कामराजं प्रतिपादयति | द्वितीयस्तद्विशेष भूतमनन्तशब्दं तदुभयं मध्यममादि कृत्वेति यावत् | शक्तिबीजस्य विशेष सहितस्योद्धारक्रमान्त्य भूतद्वारान्तमन्ते च संस्थितमिति वचनार्चानुक्तमेवात्रान्तिममध्यं सिध्यतीति | अयं संहारक्रमः | अन्तमन्तमनन्तं चेति पूर्ववदन्तशब्दाभ्यां शक्तिबीजं तच्छेषभूषतं घोषं चाभिप्रैति | अनन्तमादि कृत्वेत्यर्थः | अनेन सृष्टिक्रमाभिधाधिना वक्ष्यमाण ह्रस्वदीर्घादि सूत्रप्रतिपादितो ह्रस्वादि प्. ८०) प्लुतान्तक्रमो दर्शितः | इदं क्रमद्वयमेकी कृतं स्थिति क्रमः | तथा चोक्तं पारमेश्वरे मते | आद्यममध्यगतं कुर्यादुभावन्ते नियोजयेदिति | अमुं क्रमं जपवतां साधकेन्द्राणां पुरत्रयसन्धुक्षणी भगवती शीघ्रसिद्धिदेति | आत्मस्वरूपं प्रकाशयति | उक्तं चामृतोद्येते | शीघ्रसिद्धिशब्दस्यात्माभिधायित्वम् | शीघ्रन्ते सिद्धिरितिख्यातम् | अमृतो दधिमध्यगमकारमूर्तिमात्मानं वीराः पश्यन्ति सन्ततमिति | उक्तं च श्रीमदुत्पलपादैः आदिसिद्धो महेश्वर इति इयं स्थिति क्रमविद्या उक्त प्रकारादन्यथोपदिश्यमानाचेन्न सिध्यतीति प्रतिपादयति | आदिमेन तु सा लुप्ता मध्यमेन तु कीलिता | अन्तमेन तु साच्छिन्ना तेन विद्या न सिध्यतीति | उक्तक्रमस्यादिमः कामराजः तेन विद्या चेल्लुप्ता न सिध्यति | उद्धारक्रमेभ्या श्रीयमामेण वाग्भवोभ्यादिमो भवति | ततः कामराजे नादिमेन तु लुप्ता भवति मध्यमेन तु कीलितेति कीलिता वियुक्तेति यावत् | उक्तं श्रीमातृकातन्त्रे | मन्त्रायथा न सिध्यन्ति प्रणवज्ञानकीलनात् | तथा हं स परिज्ञानं वियोगादित सुन्दरीति | अत्र हि क्रमद्वयरूपे स्थिति क्रमे संहारसर्गक्रम योगमध्यमे प्. ८१) वाग्भवन्तेन लुप्तापि यदीयं विद्या स्यात्तदापि न सिध्यति | उद्धारक्रमे हि कामराजो मध्यमः | तेनोद्धारक्रमाङ्गीकारे मध्यमेन तु कीलिता भवतीति | अन्तिमेन तु साच्छिन्नेति अन्तरोक्ता या विद्याया अन्तिमो वर्णः | कामराजः तेनापि यदि लुप्येत तथापि न सिध्यति | उद्धारक्रमाङ्गीकारे हि शक्तिबीजस्यान्तिमत्वादन्तिमेन विच्छिन्ने निकृतेर विद्या न सिद्धये भवतीति यावत् | अनन्तरं सृष्टिक्रममाह | ह्रस्व दीर्घक्रमेणैव प्लुतान्ते तु वरानने | विशेषेणैवमुच्चार्य त्रैलोक्यमपि साधयेदिति | ह्रस्वो नाम शक्तिबीज विशेषभूतो घोष्टवर्णः | दीर्घ इति वाग्भवविशेष भूतो मातृका प्रथमवर्णः | प्लुतोपि कामराजबलभूत आकारः | एषां ह्रस्वदीर्घ प्लुतमन्योन्यापेक्षं तथा हि | अर्धरात्रो घोषः | तदपेक्षयैकमात्रो ह्रस्वदीर्घप्लुतो भवति | एवं भूतह्रस्वदीर्घप्लुतात्मविशेषसहितं शक्तिबीजादि कामराजान्तं वर्णत्रयमुच्चारयतः साधकस्य त्रैलोक्यमपि सिद्धं स्यात् | त्रैलोक्यं नाम भूम्यन्तरिक्ष स्वर्गाख्यम् | बाह्यं पुरत्रयं तद्विधेयं भवतीत्यर्थः | प्रत्यक्षं जायते देवि त्रिधा सिद्धिं ददात्यसौ | प्. ८२) खेचरी भूचरी सिद्धिस्म्रितीयाखेचरीपरे | अनेन सिद्धित्रयं कथयति खेचरत्वमाकाशचारित्वमित्यर्थः | अल्पेन काले न दूरदेशाभिगामित्वं पराखेचरीत्यनेन चिद्व्योमकरणाख्या सिद्धिरभि धीयते | सा च प्रलीनेन मनसा चिद्व्योमनि निरन्तमनुसन्धानम् | ददते साधकेन्द्राणामितरा सिद्धिका तथा | अष्टसिद्धिं प्रयच्छन्ति तस्यैव कुलदेवतेति सुगमम् | नाघोरात् परतो मन्त्रो विद्या त्रिपुरा परा | न गुरोः परमं देवं न मुद्रा खेचरी परेति || त्रिपुरा प्रशस्ति प्रसङ्गेन पुरुषार्थोपयोगिनोन्यानपि प्रशस्ततरां निर्दिशति | एतदेनावस्फुटं देवि भुक्ति मुक्ति फलप्रदम् | अयोग्येभ्यो न दातमित्याज्ञा परमेश्वरीति | यथोक्तं त्रिपुरा विद्या रहस्यं तदयोग्येभ्यो न दातव्यमिति परमेश्वरस्याज्ञेति | कुदे कोपदेशान्धमसः प्रतिघातिनी | || प्रकाशित रहस्यार्था समाप्ता कुलदीपिका || न वसुधाम सुधाम सुधाम यम्भवन नाम सुनाम सुनाथितम् | न हि नमामि नमामित सिद्धये धृतमुदारमुदारमुमामयम् | आविर्भावित वैभवमहत भवं भक्त्या भजन्तो हराट् खण्डोत्तुङ्गितशेखरं खरतमः सन्तापयन्नुक्तये | रूपं भारति भारति प्रकटितं सम्भावयन्तो वयं जीवामो वयमायुरग्र्य ममलं सार्थं प्रकुर्वीमभि || ऐं ह्रीं श्रीं तेजोनन्दनाथ विटम्बा श्री पादुकां पूजयामि | || श्री गुरुभ्यो नमः || || त्रिपुरासारसमुच्चयम् || श्री महेश्वानन्दनाथ महेश्वरी पराम्बा श्रीपादुकां पूजयामि | प्रह्वप्राचीनबहि प्रमुखसुरवरानेककोटीरकोटिस्पष्ट श्लिष्टेन्द्रनीलोपल मणिमधुप श्रीणिजुष्टं कृषिष्ट | श्रीपादाम्भोजयुग्मन्नख मुखविलसद्रश्मि किं जल्कपुञ्जं शिञ्जं मञ्जीर हंसीमुखरितमनिशं मङ्गलं वोभवान्याः | भक्त्या गुरोर्भवपयोनिधिसेतु हेतृन् श्रीपादपद्मयुगरेणुकणान् प्रणम्य | लम्बोदरं च कथयामि गुरूपदिष्टमाराधन क्रममहं कुलनायिकायाः | स्नात्वा यथाविधि विधौत कराननाङ्घ्रिराचम्य सम्यगमलाम्बर यज्ञसूत्रः | प्रागाननोधनददिश्वदनोथवापि बद्धासनो गणपतिं च गुरुं च नत्वा | सं * र्योज्यजीवमथ दुर्गं प्. ८४) मध्यनाडीमार्गेणखाब्जग शशिस्थ शिवे सुसूक्ष्मे | हंसेन देह ममरेन्द्र पुरोगतेन सार्धेन्दुना भसित सा द्विदधीतबुध्या | सास्यादि नाथमरुतापनयं न शेषं तद्भस्मराशिमखिलं भुवनं सकेन | संप्लावयन्वलभिदा परिचिन्तयेत् स्वमात्मानमम्भसि घटेन स बिन्दुकेन | ततो बृहद्बुद्बुदमध्यवर्ति स्फुरत् प्रभामण्डलमण्डमाजम् | ध्यात्वा तदर्भुवनान्यमूनि विचिन्तयेद्भूतलमेतदन्तः | स्मितप्रसवशोभितं नवमनिन्द्यबन्धोद्गटं कदम्बवनमुच्चकैरिह समन्त तश्चिन्तयेत् | तदन्तरविमण्डितं मणि गणैर्महामण्डपं हिरण्मयमुदञ्चित द्विमणिलावप्रभम् | चतुर्द्वारोपेतं मणिमयचतुस्तोरणयुतं शरत्तारानाथ द्वितिसित वितानांकमुपरि | स्थितौ द्वारे द्वारेरुचिरमणि मालाम्बरधरौ गणेशक्षेत्रेशौ सह परिकरौचस्यमभितौ | पूर्वद्वारि स वाहनं हरिहयं यस्यैव याम्ये यमं पश्चात्ये वरुणं तथैव यदुदग्वारे कुबेरं स्थितम् | सङ्गीताभिरन्तैर्यदन्तस्मरस्त्रीणां गणैराकुलं ध्यायेत् सम्यगनाकुलेन सा गन्धर्वमुख्यैरपि | तस्य मध्यगतसिंहविष्टरे पद्ममष्टदल शोभितं सितम् | उद्यदुष्णकरमण्डलोज्वलं भावयेदरुणकेकरोत्कटम् | तत्कर्णिकोपरि कपं च ममम्बु तुर्ययुक्तमाननुस्वरतदन्तयुतं निधाय | प्रेतन्धियात्र तदुपरि त्रिदशेशवन्धां प्. ८५) ध्यात् त्रिलोकजननीं दयितां पुरोरेः | सुरुचिरं नासिकां सुनयनां सुक्बालतलां मरुणजटाकलापकलितामलचन्द्रकलाम् | प्रविलसदष्टमीन्दु कमनीयं ललाटतटां परिणतशारदेन्दुरुचिरानन पङ्करुहाम् | बन्धूकारुणकन्तदन्तवसनामुत्तुङ्गवृत्तस्तनीं युक्तां बालमृणालनालमुदुभिव्यैश्चतुभिर्भुजैः | तत्कालस्मितपद्मपत्रविलसन्नेत्र त्रयोद्भासितान्ताराधीशनेन शकुण्डलधरामुल्लास चिल्लीवताम् | वलित्रयोद्भासितदीनम्ध्यां प्रदक्षिणावर्तगभीरनाभिम् | कस्तूरिका कर्म मरेखयैव विराजमान नवरोमराज्या | स्मितनवबन्धूजीवं कुसुमारुण स च सनाममणिरशनाकलाप कलितोरुनि तम्बतटाम् | करिवरपीवरोरुयुगलां वरहंसगतिं चरण तल प्रभावजित पङ्कजगर्भदलाम् | प्रणतपुरन्दरप्रमुख लेखनिकायलसन्मणिमकुटप्रभापटल पाटलिताङ्घ्रियुगाम् | सुरुचिरसान्ध्यवारिधर कान्तिकलापमुषानिजतनु तेजसा कबलितां प्रतिदिग्वलयाम् | दिव्याम्बुवाह निवहोदर मुक्तवृत्तमुक्ताफलेर्विरचितां रुचिरां वहन्तीम् | एकावलीममलकोमलकान्तियुक्तां कान्तेगले च हरिचन्दनलिप्तगात्रीम् | पाशाङ्कुशाभयवरोद्यत पाणिपद्मां रत्न प्रकाण्डरुचिराभरणाभिरामाम् | स्मेराननां रुचिरदन्तमरीचिधौ प्. ८६) तारुणाधरदलां सुरबृन्दवन्द्याम् | स्वैत्येन त्रिभुवनमातरं धृडानीं ध्यात्वैवं निजकुलकामधेनुमेनाम् | हृत्पद्मं पुनरपि जीवमानयेत् स्वमाकाशं बुरुहकुटीनि विष्टहंसात् | || इति भट्टनागविरचिते त्रिपुरा सारसमुच्चये प्रथमः पटलः || प्रथमः पटलः || अङ्गुष्ठादि कनिष्ठिकावधिकर द्वन्द्वाङ्गुलीषु न्यसेद्बाणान् पञ्चगुरूपदिष्टविधिना ब्रूमोवयन्तानिह | अत्रीशोमुखवृत्तवह्नि सहित स्वाद्यं सदण्डं त्रिमूर्त्याकान्तानन वृत्तमेव खलु तद्बीजं द्वितीयं भवेत् | मुखान्तस्थितं देवराजाधिरूढं स वामेक्षं वक्त्रपूर्वेणयुक्तम् | भपूर्वं सवृत्तारि षष्ठस्वरार्धक्षपे शङ्कतुर्यङ्कपूर्वेण युक्तम् | न्यस्याङ्गान्यपि चाङ्गुलीषु करयोस्थित्या कलान्यासकं कुर्यात् साधकपुङ्गवो भगपरममायाकुलान्तं क्रमात् | बीजानां त्रयमर्धचन्द्रसहितं विन्यस्य मूर्ध्नि स्वकेसानन्तं मुख वृत्तकेकगतकं संवर्तकं विन्यसेत् सूक्षादिश्चतुरो युगे * * * नयनयोन्यस्त्वा ताच्छ्रोत्रयोः सार्धेन्दून् स्वकपोलयोर्भृगुयुगं घ्राणद्वयेनान्वितम् | चन्द्रार्द्धाङ्कितमस्तकं च चिबुकेश्वेतद्वयं विन्यसेत् पश्चाद्गण्डयुगान्वितं शशिदलोपेतोत्तमाङ्गं बुधः | प्. ८७) दन्तपङ्क्तियुगलेबकद्वयं सेन्दु खण्डरदनच्छदद्वयम् | ओण्यष्ठयोर्घटयुगं ततोन्य सेदतयुग्ममुखपूर्वसंयुतम् | रसन्ना भावर्धोडुपति सहितन्यस्य पवनन्न्यसेन्मन्त्री सान्त्यस्वरमथ शिखायामवहितः | सदान्यासं कुर्वन्नमुमिभि यथोक्तेन विधिना नरो जीवत्यर्धाविगतगदमृत्युश्चिरमिह | पश्चाद्देहे केवलमातृका वा विन्यस्तव्या रुद्रशक्त्यन्विता वा | विद्यान्या संसाधकेन्द्रस्ततोङ्गे न्यासं चास्य न्यासपूर्वं विद्यध्यात् | विद्यान्यासं मूलमन्त्रस्य वर्णैः कुर्याद्धीमान्वक्ष्यमाण क्रमेण | आद्यं बीजं मूर्ध्नि गुह्ये द्वितीयन्तार्त्तीयीकं विन्यसेद्धृत्प्रदेशे || सर्व व्यापसव्येक्षणयोर्ललाटे ततो बुदः कर्णयुगे मुखे च | अंसद्वये चापि च पृष्ठदेशे बीजत्रयं जानुयुगे च नाभौ || बीजत्रयेणैव षडाननानि प्रकल्पयेदूर्ध्वमुखादि विद्वान् | अङ्गानि मूलेन च गुह्यनाभिहृद्वक्त्र मूर्ध्वस्वपि पञ्चबाणान् | ललाटदेशे वदने हृदिस्वेनाभौ च गुह्येऽपि च विन्यसेन्ना | त्रैलोक्यसंक्षोभण दृष्टशक्तीन् पञ्चापि कामानिह वक्ष्यमाणान् | इह कामराजमन्मथ कन्दर्पोमकरकेतनश्चापि | नामभिरेतैर्गदिता मनो भवेनान्वितः क्रमशः | क * पञ्चमंशु विनयनान्तसंयुतं स वामदृक् पवनगुणान्वितः करः | रविस्वरो हरिहर प्. ८८) विष्णुषष्ठवद्वनं ततस्थल उपरान्वितो भृगुः | तेषां शिरः सुविदधीतबुधोर्धचन्द्रानेव मम या निगदिताः खलु पञ्चक्रामाः | पुङ्स स्मराननुदिनन्य यत्र त स्वदेहे लोकत्रयं भवति तस्य मनोनुवर्ति | विद्याङ्गहेतोः कुलनायिकाया वक्ष्यामि बीजत्रितयस्वरूपम् | गोप्तव्यमेतत् कुलधर्म विद्भिरायुष्य हेतोर्गुणसिद्धये च | कान्तादिभूतपदगङ्कगतार्धचन्द्रं दन्तान्तपूर्वजलसिस्थितवर्ण युक्तम् | एतज्जपं नखरो भुवि वाग्भवाख्यं वाचां सुधारसमुचां लभते स सिद्धिम् | कान्तान्तं कुलपूर्वपञ्चमयुतं नेत्रान्तदण्डान्वितं कामाख्यं गदितं जपान्मनुरयं साक्षाज्जगत्क्षोभकृत् | दन्तान्तेनयुतं तु दण्डि सकलं सम्मोहनाख्यं कुलं सिध्यत्यस्य गुणाष्टकं खचरता सिद्धिश्च नित्यं जपेत् | ऋषिर्दक्षिणामूर्तिसंज्ञो महात्मा भवेच्छन्द एतस्य मन्त्रस्य पङ्क्तिः | शक्तिस्तु सा खण्डलकर्णपूर्वं स हार्धजैवात्रकमाननान्तम् | अमुष्य मन्त्रस्य रदान्तयुक्तं बीजं सदण्डं लकुलीशपूर्वम् | वर्णः शुक्ले मुनिभिस्त्रिभुवनमभितस्य मन्त्रराजस्य | आगकपारकमतिभिर्गान्धारोस्य स्वरोगदितः | विद्यामूलोत्पत्तिरेषामयोक्ता ज्ञातव्येयं सर्वथा सिद्धि कामैः | देव्याः शप्तोधेन विद्येयमाद्या पूर्वन्तेन प्राणहीना भवत्सा | प्. ८९) शिवशक्तिबीजमत एव शम्भुना निहितं तयोरुपरिपूर्वबीजयोः | अकुलं परोपरि च मध्यमाधरे दहनं वतः प्रभृति सोर्जिता भवत् | भैरवीयमुदिता कुलपूर्वा देशिकैर्यदि भवेत् कुलपूर्वा | सैवशीघ्रफलदा भुवि विद्येत्युच्यते पशुजनेष्वति गोप्या | शिवाष्टमं केवलमादि बीजं भगस्य पूर्वाष्टकबीजमन्यत् | परं शिरोन्तं कथिता त्रिवर्णा सङ्केतविद्यागुरू वक्त्रगम्या | कान्तान्त वान्ताकुललान्त वामनेत्रान्वितं दण्डिकुलं स नादम् | सट्कूटमेतत् त्रिपुरार्णवोक्तमत्यन्तगुह्यं स्मर एव साक्षात् | आद्यं बीजममध्यमे मध्यमादावन्ते चान्त्यं योजयित्वा जपेद्यः | त्रैलोक्यान्तः पातिनो भूतसङ्घावश्यास्तस्यैश्वर्य भाजो भवेयुः | आद्यं कृत्वा चावसानेन्त्य बीजममध्ये मध्यं चादिमे साधकेन्द्रः | शश्वत्कुर्वन्यो जपेन्मन्त्रमेनं जीवन्मुक्तः सोशूते सर्वसिद्धिः | मन्त्र राजममुं समस्तजगद्विमोहन कारणममतृकान्तरितं जपेदनुलोमतोपि विलोमतः | हंसदेव समन्वितं सकले बुधः पर एव वासोऽपि दिव्यगुणान्वितो लभतेभसिद्धि मनुक्तमाम् | व्यञ्जनहंससमन्वितमेनं रञ्जकरञ्जगतो निखिलस्य | यो जपति स्थिर निर्मलचित्तो शीघ्रमुपैति नरः स तु सिद्धिम् | कमलं परिलुप्तमध्यमाद्य स्वरमीशादि युतं सबिन्दुनादम् | प्. ९०) न गमादि नमोन्तरे विराजद्भुवि देवी हृदयप्रदिष्टमेतत् | ओं-क्लीन्नमः | विद्याकाम दुघा त्रिलोकमहिता स्वर्गापवर्गप्रदा गुह्याद्गुह्यतरा महोदयकरीया योगिनी नामिह | सा सारस्वरजन्मभूमिरुदिता सौभाग्य संपत्करी सद्यः प्रत्ययकारिकासकृदपि प्रोच्चारिता भूतले | यतः स्प्तावस्थामियमुपगता विश्व विभुना ततः सिद्धिं नैव प्रवितरति जप्तापि सततम् | प्रबुद्धा चेद्विद्या फलति सहसा दीपनकरीमतो विद्यां वक्ष्याम्यहमिहरहस्यामतितराम् | पुष्पं वारिमुचान्दवादिरपरं ता वैव वर्णा ततो दीर्घं वारि सखान्तमम्ब्वपि तथा धान्तौ स लोकस्वरौ | विद्या वाग्भवबीजदीपनकरी सारस्वतोत्पत्ति भूः साक्षात् काङ्क्षित पारिजातलतिका वस्वक्षरोक्ता मया | ब्रह्मा शक्रदृगुन्वितः सह भगामेषा नादिनी कान्तान्तं सभगं सपूतनमतो धान्तश्चमेषः सदृक् | कालोनन्तयुतो वियत्सदशनः संवर्तको भीषणः सा कूरः कमलासनः सह शिवो वैश्वान्विता नरस्तादृशः | एकादशाक्षरीय मन्मथ बीज प्रबोध दक्षतरा | क्षोभयति नागभूतल रसातल स्थानवासिनः सहसा | सावित्रीरदनयुता महादिकाली व्योमान्तं शशधरखण्ड मण्डितान्तम् | मोहिन्यासरसिज भूर्युतस्तथाग्निष्ठिघेयं प्. ९१) भुवि परबीजदीपनी स्यात् | या यस्य दीपनकरीगदिते ह विद्याबीज तस्य पुर एव समुच्चरेत्ताम् | विद्या षडङ्ग वदनेषु यथा व देवन्यासेषु साधकवरो विदधीतशश्वत् | विद्याङ्गमेवन्य सतस्वदेहे त्रैलोक्यमेतद्वशमेति पुंसः | पापानि सद्यः प्रशमं प्रयान्ति त्रिस्यन्ति रक्षांसि सपन्नगानि | मन्त्ररूपमिदमीरितं मया सर्वथा गुरुं मुखेन लभ्यते | गुर्वनुग्रह मृते महीतले मन्त्र एषनभिदायिकः | || इति भट्टनागविरचिते सारसमुच्चये द्वितीयः पटलः || द्वितीयः पटलः || अथेदं शरीरं स्वकीयाङ्गुलीभिर्बुधैः षण्णवत्यङ्गुलायाम मुत्तमम् | दिनेशाङ्गुलीभिः शरीरात् समीरोधिकः प्राणसज्ञोमतो योगविद्भिः | इह प्राणवायुं सदाभ्यास तोयो नरो न्यूनभावन्नयत्येनमङ्गात् | समत्वं शरीरेण वा भूतलेऽस्मिन् स पूर्वज्यो बुधैरुत्तमो योगवित्सु | चतुर्दशात्रापद्यने प्रधानानाड्यस्थितास्तास्वपितिस्र एव | इडा सुषुम्नापि च पिङ्गला च मुख्या सुषुम्नैव च तासु चैका | इडा नाम नाडी श्रिता वामभागं तनोर्दक्षिणं पिङ्गला नाम नाडी | तयोः प्रष्ठवंशं समाश्रित्य मध्ये सुषुम्ना प्. ९२) स्थिता ब्रह्मरन्ध्रं तु यावत् | सुषुम्नान्तराले स्थिता चित्रनाडीयुता पञ्चवर्णोज्वला पञ्चदेवैः | तदन्तस्थितं ब्रह्मरन्ध्रं सुसूक्ष्मं मृणालान्तरालोल्लसत्तं तु तुल्यम् | ब्रह्मसूत्रमिदमेव देहिनां जीवभूतममृतैककारणम् | यद्वदन्तिमुनयं पुरातना दिव्यमार्गमिति भवचेतसः | इडायां च रत्येष शीतांशु माली ततो वामभागो मृतं संप्रदिष्टम् | रविः पिङ्गलायां चरत्येष तस्माद्विषं दक्षिणेभाग उक्तं मुनीन्द्रैः | जानीयादुदम्बुधोजठरगे देव्यस्य कन्देनृणां ध्यानात्तिग्मकराङ्गुले च विलयं सन्ध्ये च पूर्वापरे | उत्पत्तिं च लयं च सन्ततमधो वृत्तिं निशां वासरन्त्रर्ध्वां वृत्तिमधस्तथा हिमकरं तुर्ध्वां दिनेशं गतिम् | तुषारांशुनाडीं प्रपन्नेत्रदेवे तदाशान्तिकादीनि कर्माणि कुर्यात् | बुधो रौद्रकर्माणिमार्त्ताण्डनाडीमुभे मिश्रकर्माणि नाड्यौ प्रपन्ने | भूतानामुदयं द्वयोरपि बुधः संलक्षयेत् पक्षयोस्तत्रादौ वसुधोदयं निशितधीघ्राणस्य दग्धस्पृशि | देवेधस्पृशिवारिणो हुतभुजस्तूर्ध्वं गतेतूदयं तिर्यक् संस्पृशिमारुतस्य परितस्पृष्टेमरुद्वर्त्मनः | वश्यस्तम्भनयोः प्रशस्त उदयोर्भूमे जलस्योदयः शस्तः शान्तिकपौष्टिकादिषु शुभेष्वह्नायवह्नेः पुनः | शात्रोर्दारुणमारणादिकरणेक्त्सादनोच्चाटयोर्वायोः प्. ९३) शान्तिकनिर्विषीकरयोर्व्योम्ने हितस्त्रदय धरणेरुदये गदार्दितानां यदि दूतः समुपेत्य पृच्छतीह | सहसा नभिरोगजा प्रबाधा प्रशमं यान्ति चिकित्सितापि सम्यक् | जलोदये व्याधिरुपैति शान्तिं मृत्युर्भवदित्येव वसुदयेत् | तथोदये चापि समीरणस्य व्योम्नो चिरेणैव रुजां विनाशः | देवे दक्षिणभागगेऽथ पुरुषे रोगातुरे दक्षिणेस्थित्वा पृच्छतिकः स पुरुषो जीवत्यपेतज्वरः | वामायां तुरुजाकुलीकृततनौ वामाश्रिते चेश्वरे वामे पृच्छति चेत् स्थितागतगदावामा चिरञ्जीवति | देवे गते पृच्छति वामभागं स्थित्वा नरो दक्षिणतोयदीह | व्यत्यासनोस्मादपि कृच्छ्रसाध्यं वदन्ति सन्तः खलुरोगजातम् | अन्तर्गते पृच्छति पृच्छकश्चेद्देवेनरो जीवति वीतरोगः | तेनैव रोगेण बहिर्गतेऽस्मिन् परेतराजस्य पुरं प्रयाति | सर्वेषु कार्येषु सदेश्वरेऽस्मिन् नन्तर्गते मङ्गलमभ्युपैति | बहिर्गते मङ्गलमीश्वरेण शुभाशुभं कर्मफलं तु विद्यात् | प्रारभ्य दर्शप्रथमा मुदेति वामे पुटे त्रीणि दिनानि देवः | वामेतरे त्रीणि ततो दिनानि पूर्णा तिथिर्यावदथैवमेव | अथारम्य शुक्लान्यपक्षादि भूतां तिथि त्रीणि देवो दिनान्यभ्युपैति | प्. ९४) पुटे दक्षिणे त्रीणि वामे तु यावत् कहरेवमेवं सदालक्षयेन्ना | एकस्य पक्षेस्य विपर्ययेण रोगाभिभूतिर्भवतीह पुंस्तः | तयोर्द्वयो बन्धु सुहृद्विपत्ति पक्षद्वयव्यत्ययतो मृतिस्यात् | यदात्मनः कालवशात् समीरो विपर्युदेति प्रकृतिं विहाय सः | तदानिरुध्यग्वसनं निपीडयेत्तदास्थितः पक्षमुपैति चान्यतः | द्वावेवधत्तः सकलं च कालं दिवाकरः कैरवबान्धवाश्च | भोक्त्री सुषुम्ना सकलस्य चास्य कालस्य दोषादिवसात्मकस्य | ततः क्रमेणैव विशुद्धनाडी पथान्तरं प्राणसमीरणस्य | शनैः शनैः संययमनै प्रयत्नं यथा विधानं विदधीत धीरः | शीतांशुमार्गेण शनैः समीरमापूरयेत्स्वोदर मादरेण | विकारमात्राभिरपेततन्द्रः कालाग्निमूलार्पितचित्तवृत्तिः | ततो धारयेन्मारुतं धीरचेताश्चतुः मषिमात्राभिरा पूरितन्तम् | बहिर्भास्वतारे च येन्मन्दमेनं तदर्धाभिरन्तं निरुद्धं तु ताभिः | विपरीतमथो विदधीत बुधः पुनरप्यथ तद्विपरीतमिति | अमुना विधिना सुमनाः सततं मरुतो विदधीत सुसंयमनम् | प्रस्वेदं जनयति प्राणायामे सोधमं प्रोक्तः | कम्पममध्यं पुंसां भूमित्यागं तनोस्तनोतिपमः || तावद्विदधीत बुधः प्राणायामसमाहितो विधिवत् | प्. ९५) यावत् सम्भवति भुवि प्राणायामोक्तमस्य गुणः | अयं प्राणायामः सकलदुरितध्वंसनकरो विगर्भाः प्रोक्तो सौशतगुणफलोगर्भकलितः | जपध्यानापेतः स तु निगदितो गर्भरहितः स गर्भस्तद्युक्तो मुनि परिवृढैर्योगनिरतैः | शुचिः प्राणायामान् प्रणवसहितान् षोडशवशी प्रभाते सायं च प्रतिदिवसमेवं वितनुते | द्विजोयस्तम्भ्रूण प्रहणन कृताभोहि कलितं पुनन्त्येते मासादिहदुरिततृलौघदहनाः | त्रायन्त्यमीषड्भरतीव मासैर्जन्मान्तरो पार्जित पापपुञ्जात् | संवत्सराद्ब्रह्मपरं तदेकं प्रकाशयन्त्येव यदच्युताख्यम् | इहरे च कपूरकौ विहाय स्थिरधीः कुम्भकमेव केवलं यः | स्ततं कुरुते मनोजवत्वलभते वीतजरामयः समर्त्यः | न हि तस्य सु दुर्लभं त्रिलोक्यामिहयं केवलकुम्भके निषण्णः | अणिमादि गुणाष्टकं करस्थं ननु तस्यैव निरस्तमृत्युभीतेः | राजदन्तयुगलादिमस्पृशन् सन्निधाय रसनान्तदन्तिके | काकचञ्चु पुटमारुतं पिबेत् प्राणसंयमनमेतदुत्तमम् | पिकचञ्चु समीरणं शनैर्धयन्तः संपरिकृष्यसन्ततम् | श्रममोहगरो दरोदकज्वरगुल्मा प्रशमं प्रयान्ति च | उभयोरपि सन्ध्ययोर्मुहूर्तेऽपि च धातुन्धयतस्त्रिमासमात्रम् | प्. ९६) समरुत् पिकचञ्चु गन्धवाहं भुवि सारस्वत सिद्धिरुद्धता स्यात् | हरिः | विषमुग्रमुग्रवीर्यभाजामपि नाशं समुपैति पञ्चगानाम् | किमुवृश्चिककीटलूतकामीहकाकोलमुखानिलस्य पानात् || पिकचञ्चु समीरणं नराः सततं यः परिकृष्यसन्ततं ध्ययोः | कुरुते निजकुण्डलीमुखे क्षयरोगं स विमुच्य जीवति || पिकचञ्चु समीरणं नरो यः पिबती हानिशमेव वीततद्रः | भवति ध्रुवमेव तस्य वर्षाच्छ्रवणं दर्शनमप्यतीव दूरात् || बहुधा किमुथितैर्मुभुकिमेभिः पिकचञ्चवात्त समीरणस्य पानात् | जरसा सहनाशमाशुयाति प्रबलं मृत्युकृतं भयं नराणाम् | जिह्वां कृत्वा नाकुलस्तस्य मूले दन्तैर्दन्तान् गाढमापीडयित्वा | मन्दममन्दं यः पिबेद्गन्धवाहं सौधैः पूरैः सा क्रममन्तसृवद्भिः | षड्भिर्मासैरत्र रोगैरशेषैः पापापेतो मुच्यते साधकेन्द्रः | अब्दादर्वाग्विसृ साममृत्युद्रुतीं जित्वाभ्रमौ दीर्घकालं स जीवेत् | १०० | वर्षत्रयाभ्यासवशादतीतमनागतं वेत्यलिनीलकेशः | विषं न देहे क्रमते तदीये दष्टैः सुघोरैरपि पन्नगेन्द्रैः | न कृत्तिमं स्थावरजङ्गमं वा विषं किमनैरपि कालकूटम् | गुणाष्टकं कालवशा दुपेत्यमहीतले क्रीडति भैरवो वा | यामुण्डाधार प्. ९७) दण्डान्तरविवरगताहारनीहारगौरां सौधीन्धारान् नमोभ्याम्भोरुऽकुहरविधोः संसृवन्तीं वहन्ती | तस्या वज्राख्यनाड्याः खगमुदरदरी मध्यगं यो विदध्यात्तस्या ब्रह्माण्डभाण्डप्रलयमपघनं स्याद्घनममृत्युमृत्योः | मूर्छाङ्गतो हरति रोग समूहमद्धाबद्धः करोति गगने गमनं नराणाम् | वातो मृतो वितनुते मरतां समस्तमभ्यासतः सुलभमेव समीरणस्य | अथ पार्ष्णि निरुद्धकम्बुलिर्नार्ध्वमूलस्थित सव्यपादपार्ष्णिः | ऋजुकाय शिरोधरोयतात्मा विषयेभ्यो विनिवर्तितेन्द्रियौघः | काकीचञ्चवाग्रकृष्टैर्निजजठरदरीं पूरयित्वा समीरैङ्गुष्ठाभ्यामुभ्याभ्यां मुररिपुविवरे तर्जनीभ्यां च नेत्रे नासा * न्ध्रे निरुध्यस्थिर विमलमतिर्मध्यमाभ्यामथास्यं त्वन्याभिन्नाति गाढं कमलजनिलये योजयेन्मानसं स्वम् | यथाशक्त्याभ्या संप्रति दिवसमेवं वियतया परमया चिद्रूपया सङ्गताम् | मायां कुण्डलिनीं समाहितमनास्तामुच्चरेत् कौलिकीं शक्तिं ब्रह्ममहापथेन सहितामाधारशक्त्यात्मना | भित्वा लिङ्गत्रयमथ बुधो ब्रह्मनाड्येह चोर्ध्वं गच्छन्तीं तां कमलजपदात् प्रापयेदात्मशक्तीम् | व्योमाम्भोजप्रणयि परमानन्द कन्दं विसर्गस्थानं चन्द्रोदरपरिगलद्रक्त * * यूषधाराम् | प्. ९८) पीत्वा कुलामृतरसं पुनरेव दिव्यं मध्यं विशेन्निज कुलस्य समाहितात्मा | यायात् कुलादकुलमेव पुनश्च मात्रायोगेन देशिकवर प्रतिपादितेन | सा शक्तिः सकलशरीरजीवभूता प्राणो सावितिगदितात्र तन्त्रमुख्ये | उद्घातः स तु परिपठ्यते मुनीन्द्रैः प्राणान्तं स्पृशति यदा क्रमेणनीतः | अमुंस्वाचारस्थः प्रतिदिवसमभ्यासवशतः करोति श्रद्धावान् सततमवधूताखिलमलः | समुक्तो दुःखौ घैःरपगतजरार्थेश मरणो गुणग्रामोपेतः स्वरूपचिरं जीवति भुवि | चतुर्विधायागदितेह सृष्टिः प्रवर्तते सा सकला तु यस्याः | प्रलीयते चापि जगत्समस्तं कालाग्नि रुद्रादि शिवान्तमेतत् | सेयममयोक्ता खलु योनिमुद्रा बन्धश्च दैवैरपि | दुर्लभोस्याः | अनेन बन्धेन न साध्यतेयं नास्येव तत्साधकपुङ्गवस्य | छिन्नारुद्धाकीलिता स्तम्भिताये सुप्तामत्तामूर्छिताहीन वीर्याः दग्धास्रस्ताः शत्रुपक्षस्थिताये बाला वृद्धागर्विता यौवनेन | ये निज्ञाताये च सत्वेन हीनाः खण्डी भूताश्चाङ्ग मन्त्रैर्विहीनाः | एते मुद्रा बन्धयेनैव योन्या मन्त्राः सर्वे वीयवन्तो भवन्ति | गुरुतल्पनिषेवणं च पानं द्विहत्यामधुनः सुवर्ण चौर्यः | अमुनाविलयं प्. ९९) प्रयान्ति सद्यः सकृदप्या चरितेन बन्धनेन | स हि मन्त्रिवरः स एव योगी गुणसिद्धेः पदमास्थितः एव | अमुनाचरतीह बन्धन यः सततं स्वोचित कर्मधर्म निष्ठाः | अमुना भवतीह देहभाजां सतताभ्या स कृतेन बन्धनेर्नजरा पितृराज वै जयन्ती न च मृत्यु प्रतिपादिता च भीतिः | एतस्यैव चतु बन्धनस्य मनुजं प्राप्नोति शश्वत्कृतादभ्यासादणिमादि सिद्धिमतुलां संवित्तिमप्यूर्जिताम् | योगं चा प्रतिमं जयं च मरुतः कालस्य वा पञ्चमं तद्विष्णोः परमं पदं च सततः पश्यन्ति यत् सूरयः | || इति त्रिपुरासारसमुच्चये योनिमुद्रा बन्धनविधिश्चतुर्थः पटलः || अथाधारपङ्केरुहाण्यत्र वक्ष्ये सुषुम्नान्तरस्थानि सङ्कोचतोऽहम् | तदम्भोजपत्रस्थितांश्चापि देवांस्तदम्भोजवर्णान् षडाधारदेवीः | अजग्रन्धिपद्मं पुरा यन्मयोक्तं तदाधारमाद्यं वदन्तीह सन्तः | सुवर्णाभवर्णैश्चतुर्भिः समेतं दलैर्योगिगम्यं महाश्चर्यभूतम् | चतुर्ष्वब्जपत्रेषु देवी निरुद्धाञ्जलाद्यब्धि वर्णान्यसेत् केवलान्वा | स बिन्दून् * * प्रभावात् समिद्धस्पुरज्ज्योति षोडाकिनी देवतात्रा | प्. १००) मूलाधारे सम्यगभ्यास योगात् स्तम्भस्तोहादुत्प्लुतिर्दादर्दुरी च | भ्रमित्यागं खेचरत्वं च सम्यङ् नृणामेते षड्गुणाः सम्भवन्ति | कान्तिप्रकर्षो वपुषोति नादव्यक्तिः प्रदीप्तिःर्जठरा नलस्य | लघुत्वमङ्गस्य निजेन्द्रियाणां पटुत्वमारोग्य मदीनतां च | कृत्वा मनो निश्चलमत्र चक्रे चरं नरः सन्ततमादरेण | भूतं भवच्चापि भविष्य दग्धं वदन्तिं शास्त्राण्यपि चाश्रितानि | विहाय सद्यः कमलासनस्य मुखाम्बुजं प्रीति तरङ्गसङ्गा | तदीय वक्त्राम्बुरुहोदरान्तरे सरस्वती नृत्यति दिव्य रूपिणी | अधिगम्यरसेन्द्र मन्त्रसिद्धीरपि कालं च विजित्य दुर्निवारम् | अजरामरतामवाप्य चैते परमानन्दपदेमुदारमन्ते | एकी भूतार्णवाम्भः प्लुतमखिलजगत्पूर्वमासीदपूर्वं ज्योतिर्मूतिस्तदन्तर्मभितमभि हृल्लिङ्गरूपी बभूव | षट् सिद्धाधिष्ठितात्मा सकलसुरतनुः षड्भिरास्यैरुपेतः षड्भिः कोशैरुपेतो भव भयतिमिरध्वंस हंसो महेशः | अङ्गं लिङ्गवपुर्धृतो भगवतो देवो द्विरण्डो भवत्वाली पूर्वमुखं शिवस्य तु महाकालस्ततोर्ध्वाननम् | वक्त्रं दक्षिणमाशुशुक्षणिरसौ साक्षात् पिनाकी पुनः पाश्चात्यं छगलण्ड एष भगवान्वामस्यमस्या भवत् | प्. १०१) स्वाधिष्ठान समाह्वयं रसदलैर्मूले ध्वजस्याम्बुजं बालादित्यनिभं दलोपरि हितैः पृष्ठादितर्काक्षरैः | बिन्दून् भासितमस्तकैर्भगवतो लिङ्गात्मनः शूलिनस्थानं योगिवरेण्यगोचरमिदं चास्यादिपाराकिना | इह स्वाधिष्ठाने निहितनिजचेतो लयवशादामन्दानन्दौ घस्तिमित हृदयः साधकवरः | समेतानड्योनङ्गः क्षितितलगतो वा मृगदृशां स्मरस्मेरापाङ्गं रसयति गणं कान्ति कलितम् | इह वेत्ति विधायमानसं स्वविधं चाशृत शास्त्रजालमुच्चैः | अवधूत जरामयः समर्त्यः सुचिरञ्जीवति वीतमृत्युभीतिः | वपुषो शुचिभाजनस्य शश्वत्परमांशुद्धमिहातनोति पुंसाम् | शरदं बुदपेलवस्य लोकेघनरुद्धो दृढतां च शीतरश्मिः चलितं सहसा महारथेन्द्रं कमलालोकनतो वियत्सरोजात् | इह येव निवारयन्ति सन्तो ननु धीराः | पुरुषोत्तमास्त एव च | मदधौतकटौ महागजेन्द्रोवशतामेति यथा शनैरुपायात् | बलवानपि वै सुधाकरो सौकमरुद्धस्ववशो भवत्यवश्यम् | एतस्मिन् कुलिशाब्जयो भजनितादादौलयो जायते रागादीन्द्रिय दन्तिनां लयवशात् संवर्तिरप्यूर्जिता | अन्तर्लीन महारसद्रवजुषा नृणां चलेतो लयादाविर्भावमुपेत्य मन्दसहसानन्दच्छलेन्दूदयः | प्. १०२) नाभिस्थं मणिपूरकं दशदलैर्नीलाञ्जनाभैर्युतण्डार्णाद्यैश्च दशाक्षरैर्दल गतैर्बिन्दूल्लसन्मस्तकैः | लाकिन्यासमधिष्ठितं च सततं ध्यायन्ति ये ते जनावश्याकर्षणनिविषीकरण भू क्षोभादिकं कुर्वते | स्थानेस्मिन् निहितात्मनः सुकृतिनः पातालसिद्धिः परा खड्गस्या प्रतिमस्य साधनमपि स्यादीक्षितं चक्षितौ | रूपं भूमिविसर्जनं परपुरे शक्तिः प्रवेष्टुं जराहानिश्चाखिल दुःखरोगशमनं कालस्य पावञ्चनम् | हृदये सरसेन्द्र गोपसन्ध्या घन सिन्दूर सुवर्णवर्णमब्जम् | वदनाहतमित्युशन्ति सन्तोरविसं खैरुपशोभितं दलैश्च | क्रोधीशाद्यैर्भैरवैर्भानुसंख्यैर्दन्धोपेतैर्मण्डितं चण्डवीर्यैः | तत् काकिन्याधिष्ठितं दिव्यशक्त्या देव्या हंसेनाविदेवन शश्वत् | एतस्मिन् सततं निविष्टमनसस्थाने विमान स्थिताक्षुभ्यन्त्यद्भुत दिव्यकान्तिकलिता दिव्यस्त्रियो योगिनः | ज्ञानं चाप्रतिमन्त्रिकालविषयं क्षोभं पुरस्य शृतिर्दूरादेव च दर्शनं खगगतिस्याद्योगिनी मेलनम् | विशुद्धाख्यं कण्ठे नलिनमथ धूमालिरुचिभिर्युतं श्रीकण्ठादि स्वरपरिगतैः षोडशदलैः | इह स्थाने सा किन्यतुलनिज शक्तिर्भगवती स्थिता नित्यदेवी शरणगमनार्ति प्रशमनी | प्. १०३) समुत्तुङ्गैः शृङ्गैस्थगित गगनाभोगककभोवसं नानारत्नाकलितकटकान् भूधरवशान् | कुरङ्गैः सारङ्गैरपि च रमणीयां वन भुवं तथा गुर्वी मुर्वी मम हित विविधक्षेत्र सहिताम् | तरङ्गैरुत्तुङ्गैरभि मकरमातङ्गमकरेः करालानाभीरैरपि जलधरैर्भूधरवरैः | तथा पारावारोनमलसरितो वारिहरिताः स हंसालीं पालीमपि च सरसां सारस जुषाः | चरन्मरोलं सबकोटमालन्तदित्करालान्तरवारिनीलम् | तथा कपालं सधवानुकूलं प्रवासि कालं नवमेघजालम् | एतस्मिन् परमाद्भुताव्यय महानन्दैकं कन्दे परे स्थाने मानसमात्मनस्थिरमतिः संयोजयेन्मुद्रया | योगीतन्मयतामुपैति शनकैश्चेतो निरालम्बया पश्चान्नैलमहासुखं लयवयादाविर्भवत्यान्तरम् | लीने चेतसि चात्र विश्वनिलये वह्नेरिवादौ कणा दृश्यन्तेन्तनन्तरं च विलसद्दीपाः प्रदीपांकुराः | बालस्येव दिवाकरस्य बहलोद्योतस्तथो द्योतते यद्वा भूगगनान्तराल कुहरे ज्योत्स्नासपन्नं महः | नित्यानन्दनिधिश्रियः पतिरिति श्रीवासुदेवः पुमान् नात्मेत्यच्युत इत्यचिन्त्यमहिमा योगीयते योगिभिः | स्थानेऽस्मिन् परमे स एष भगवान्व्यक्तो भवत्यावयः प्. १०४) साक्षाद्राहुरिवाम्बरान्तर चरश्चन्द्रार्कयोर्मण्डले | विश्वस्यायतनं महद्भगवतस्थानं यदेतत् परं यत्रारोप्य समीरणं सुकृतिनः प्राणः प्रयाणे नराः | दिव्यन्तं परमं पुराणपुरुषां वेद्यं कवीनां कविं विश्वाद्यं प्रविश्यन्ति सन्तत महानन्दैककन्दं विभुम् | सहस्रारपद्मं विसर्गादधस्तादधो वक्त्रमारक्तकिञ्जल्कपुञ्जम् | कुरङ्गेण हीनस्त्रिशृङ्गस्तदन्तस्पुरद्रश्मिजालः सुधांशुः समास्ते | तदन्तर्गतं ब्रह्मरन्ध्रसु सूक्ष्मं यदाधारभूतं सुषुम्नाख्य नाड्याः | तदेतत् परं दिव्यन्तगुह्य सुरैरप्यगम्यं सुगोप्यं प्रयम्नाअत् | एतत् कैलाससंज्ञं पदमकुलपदं बिन्दुरूपीखरूपी यत्रास्ते देवदेवो भवभयतिमिरध्वंस हंसः स हंसः | भूतानामादि भूतार स विसरसितां सन्ततामन्तरङ्गे सौधीन्धारां विमुं चन्नभिमतफलदो योगिनां योगगम्यः | स्थानस्यास्य ज्ञानमात्रेण नॄणां संसारेऽस्मिन् सम्भवो नैव भूयः | भूतग्रामं सन्तताभ्यासयोगात् कर्तुं भर्तुं स्याच्च शक्तिः समग्रा | स्थाने परे हंस निवास भूते कैलासनाम्नी हनिविष्टचेताः | योगीगतव्याधिरधः कृताधिबाधश्चिरञ्जीवति मृत्युमुक्तः | स्थानेऽस्मिन् क्षयवृद्धि भावरहिता नित्योदिताधोमुखी प्. १०५) बालादित्यनिभ प्रभाशशभृतः सास्तेकला षोडशी | वालाग्रस्य विखण्डितस्य शतधा भागेन वैकेनया सूक्ष्मत्वात् सदृशी निरन्तरगलत् पीयूषधाराधरा | एतस्यात् परतस्थिता भगवती भूताधि देवाधिपा निर्वाणाख्य कलार्धचन्द्रकुटिला सा षोडशान्तं गता | वालाग्रस्य सहस्रधा विगलितस्येकेन भागेनया सूक्ष्मत्वात् | सदृशी त्रिलोकजननी या द्वादशार्कप्रभा | निर्वाणाख्य महाकलोपरिगता निर्वाणशक्तिः परा कोट्यादित्य समप्रभाति गहनावलाग्र भागस्य या | कोट्यंशेन समासमस्तजननी नित्योदिता निर्मतला नित्यानन्दपदच्छलोरु नगरद्वारा निरालम्बना | एतस्याः परतः परात्परतरं निर्वाणशक्तेः पदं शैवं शाश्वतमति प्रमेयममलं नित्योद्दितं निष्कयम् | तद्विष्णोः पदमित्युशन्ति सुधियः केचित् पदं ब्रह्मणः केचिद्धंसपदं निरञ्जनपदं केचिन्निरालम्बनम् | आरोप्यारोप्य शक्तिं कमलजनिलयादात्मनासा क्रमेषु स्थानेष्वाज्ञावसानेष्ववहित हृदयश्चिन्तयित्वा क्रमेण | नीत्वा नादावसाने खगमकुल महापद्मसत्मान्तरस्थां ध्यायेच्चेतन्यरूपामभिमतफलसंप्राप्तये शक्तिमाद्याम् | साक्षाल्लाक्षारसाभं गगनगतमहापद्मसत्मस्थ हंसात् प्. १०६) पीत्वा दिव्यामृतौघं पुनरपि च विशेन्मध्यदेशं कुलस्य | चक्रे चक्रे क्रमेणामृतरसविसरैस्त पयं देवतास्ताहा किन्याद्याः समस्ता कमलजपदगां प्लावयेत् कुण्डलीन्ताम् | || इति आधारनिर्नयोनाम पञ्चमः पटलः || स्वयम्भुलिङ्गनिजयोनि मध्यरन्ध्रान्तरे हृत्सरसीरुहान्तः | बाणाह्वयं चेतरमन्तराले वदन्ति सन्तो गगनाम्बुजेन्ये | यद्बीजं वाग्भवाख्य दृतकनकनिभं तत् स्वयं भूतलिङ्ग स्थाने ध्यात्वा हृदं रुहकुहरगते बाणलिङ्गे द्वितीयम् | कामाख्यं बन्धुजीवप्रसवसमरुचिं शारदेन्दु प्रभाहं तात्तीयीकं तु बीजं त्वितरपरिगतं चिन्तयेत् शान्तचित्तमः | प्राणान्योनिगतान्विधाय मनसा ध्यायन्ति ये भारतीं बीजाख्यां निजयोनिरन्ध्रनिलया मानाभिरन्ध्रोत्थिताम् | बालार्कारुण तेजसा भगवतीं ये सिद्धलिङ्गाकृतिं तेषामेव कवित्वसम्पद तुलापीयूषनिष्यदिनी | सिन्दूरारुण सुन्दराभिरखिलं प्रोद्भासयन्तीं कुलं हृत्पद्मान्तरगां विभाभिरनिशं ये बाणलिङ्गाकृतिम् | आ बिन्दोरुदितामनन्यमनसो ध्यायन्ति दिव्याङ्गनाः प्. १०७) कामर्तानि पतन्ति लोकमसस्तेषां पदान्ते भुवि | ये गौरीमितराभिधान्निजरुचाध्ययन्ति लिङ्गाकृतिम् || बिन्दुस्थानगतां सुधाकरकर श्रीहारिणोद्भासिताम् | अर्धेन्दु प्रतिमां विसर्गगमहापद्मः सुतां बिभृतीं धारां विद्रुमपाटलामृतमयीं ते सम्पदामास्पदम् || १ || त्रयाणां लिङ्गानामति बहलतेजस्ततिजुषां त्रिषु स्थानेष्वेषु स्थिरनिहितधीः साधाकवरः | जपं मन्त्रं लक्षं सरसकुसुमैर्ब्रह्मतरुजैस्त्रिमध्वक्तैर्होमं तदनु निशि चारेण जुहुयात् || २ || निः शङ्कं हरिणाक्रमं बरतलोत्पातालमूलं गतं तन्त्रस्थेन दिवाकरेण पुटितं कृत्वा समाधाय च | रहोरस्य गते कपालिकरण प्रस्तावना पण्डितः कुण्डे हस्त कुरण्डकेन जुहुयाद्धोमो यमत्यद्भुतम् || ३ || एकं वत्सरमेव मेवशितधीर्मर्त्यो जुहोतीभयः सद्योमृत्युन्मसौ विजित्य वपुषः पुष्टिं विष्टां दधत् | दर्पं दर्पकसन्निभो मृगदृशां भञ्जन् स भृङ्गाङ्गना श्रीणी श्रीमदराल कुन्तल च यो जीवत्यनेकाः समाः || ४ || बन्धूक सान्ध्यघनबन्धुरकान्तिकान्तं मन्दस्मितांशु विशदी कृतमुद्वहन्तीम् | दन्तेच्छदंरुचिरकुण्डल मण्डितं च गण्डस्थ लीयुगमखण्ड सुधांशु पाण्डु | प्. १०८) उत्तुङ्गसङ्गतपयोधरहारनम्रकम्रावलग्नविलत् त्रिवली तरङ्गाम् | गम्भीरनाभिविवरामुरुराजरम्भ स्तम्भोपमोरु युगलामरुणाङ्घ्रिपद्माम् | कलाम्मौलाविन्दोर्गलदमलपि यूषविसरां वहन्तीं सन्तानप्रसवरचितं शेखरम् | वसानां सचासोभि किरणनिर्मोकविशदं महाबिन्दो रूढां जढरशशभृत्कोटिधवलाम् | हस्ताभ्यामक्षमालां स्फटिकमणिमयीं ज्ञानभद्रां बिभ्राणां दक्षिणाभ्यां मणिमयमकुटां पुस्तकं चाभयं च | वामाभ्यां रत्नकाञ्ची परिव्रतजयनां रत्नकेयूरहारां दिव्यावं कारयुक्तां त्रिभुवनं जननीं दिव्यगन्धानुलिप्ताम् | समु * * न्तीमपि शास्त्रजालं निरन्तरं कान्तिकलासमग्राम् | विनम्र देवासुरनम्रमौलिमालारजो रञ्जितपादपद्माम् || ध्यात्वा वागीश्वरीं तां गगनगत महाबिन्दु पीठादतीतं स्थानं चातीत तस्मादपि तदनुनयेदात्मन स्थानमेनाम् | सान्तातीतं तु तस्मादनुपममहिमा सूर्यचक्रं ततोस्मा- द्योमाम्भोजं ततश्चाखिलभुवननुतामानयेत्प्रेतभूमिम् || प्रेतस्थानादर्धचन्द्रं ततस्तामरम्भं तु प्रारभेत्सेतुबन्धम् | तस्माच्चैवं व्योमतस्मादमेयात् स्थानं प्राप्तां चिन्तयेदीश्वरस्य || तस्माद्रुद्रस्यालयं रुद्रगेहाद्विष्णुस्थानं प्रापयेदेवदेवीम् | विष्णुस्थानाद्ब्रह्मणस्थानमेनां ब्रह्मस्थानात् कुण्डलीं गेहमध्यम् || प्. १०९) सहस्रदलशोभिते रुचिर कर्णिकाकेसरे वसन्महसि कुण्डली भवनपङ्कजे तां स्थिताम् | विसर्गगखगाख्य बिन्दुविगलत्सुधा धारया ततः समभिषेचयेद्भगवतीमविच्छिन्नया || अनेन शश्वद्विहितेन देवी ध्यानेन नाशं समुपैति मृत्युः | याः सिद्धयो दिव्यजनाभिगम्या भवन्तिता अप्यचिरेण पुंसाम् || आधार दुर्लसन्तीमकुलगत महापद्मपर्यन्तमन्तर्ध्यायन्ति ब्रह्मनाड्या स्फुरदमृतरुचि प्रख्यरूपां भवानीम् | ये देवीं लिङ्गरूपामम्भुवि विमलधियो भावनामातृगम्या निर्धूताशेषपापानिखिलगुणयुता ज्ञानिनस्ते भवन्ति || ये गोक्षीर तुषार हार धवल प्रोद्दामतेजच्छटा च्छायोद्भासितरोमक्रूबविवरा शेषाङ्गलिङ्गाकृतिम् | वागीशीं धवलां वराम्बुज गलत्पीयूषधारादृवैरा सिञ्चन्ति समं ततोऽपि च वपुर्मृत्योश्चते मृत्युवः || लिङ्गाकारधरां सुरासुरनुतामेनां सुषुम्नान्तरे देवीमञ्जनपुञ्जमे च करुचा सिञ्चन्ति शश्वद्भुवि | ये दिव्यामृतधारया कालाग्रद्रुतिं नृणां रूपो- न्मीलनदृष्टपावधरा तेषां कुतो विस्रसा || लाक्षारसस्नपित भग्नमृणालनाल * * * तन्त्रपमांस्मरति यः स्त्रिपुरां कुलान्तः || प्. ११०) तं विस्मयस्तिमितमुग्धदृशस्मरार्ता वामभृवोरतिपति प्रतिमं स्मरन्ति | सिन्दूरपुञ्जपरिपि * * तामिवद्यां लाक्षारसार्दितमिव क्षितिमण्डलं च || ध्यायन्ति ये रुचिचयैर्हरवल्लभाया लज्जां विहाय भुवितां ननु यान्ति कान्ताः | शक्तिं हंसेन युक्तां कमलजनिलयात्वज्रनाड्यन्तरालान्नि बिन्दच्चन्द्रबिम्बान्तर खगपसुधाबिन्दुसन्दोहमन्दम् | नीत्वा तत्रैव नित्यं स्मरति खगगतामात्मनः शक्तिमाद्यां यस्तस्या जाण्डभाण्डप्रलयमपघनं स्याद्घनं मृत्युमृत्योः || पीताभां स्तम्भनादौशशधरधवला शान्तिकादौ सु धूम्रामुच्चाटादौ जपाहां त्रिभुवनजनताकर्षणे कार्मणे च | नित्यान्नित्यं विशुद्धस्फटिकमणि निभां खेचरत्वादि सिद्धौ मोक्षे साक्षादपेतां बुजगगननिभां भावयेद्भक्तिगम्याम् || मार्गेऽस्मिन्नव लक्षमक्षयपदप्राप्त्यै बुधो लक्षयेन्मन्त्राणामिह येन सिद्धिरतुला पञ्चप्रकारा अपि | आधरध्वज नाभिदेश हृदुदरः कण्ठे तथा लम्बके भ्रूमध्येऽपि च भूतनाथ निलयस्थाने नवान्तेऽपि च | आधारे कनकप्रभं प्रविलसद्दीप्तां कृतिः षण्मुखस्थाने नृतनभानुकान्ति सदृशं नाभौ हृदम्भोरुहे | प्. १११) दीपाकारमुरोन्तरेखरकरोद्योतप्रभं भावयेत् कण्ठे दीपशिखाकृतिर्मणिगणोद्योतं भ्रुवोरन्तरे | नवान्ता च ज्योतिर्भवभयतमोर्ध्वंसकुशलं तदेतद्विश्वाख्यां निरतिशय शर्मोर्मिजनकम् | दुरापं पापैर्यत्रिभुवनधरं त्रैपुरमिति प्रतीतं तत्वानां यदुपरिगतं तच्च परमम् | || इति लिङ्गनिर्नयोनाम षष्ठः पटलः || अथ त्रिलोकार्चितशासनाया वक्ष्यामि बाह्यार्चनमम्बिकायाः | यदर्चनीयत्वमुपैति कुर्व * र्वीतले सर्वजनैर्मनुष्यः || शुद्धे मनोज्ञे पशु दृष्टिपातविवर्जिते देवगृहे गृहे वा | पूर्वोक्तमार्गेण कृतात्मशुद्धि स्थानस्य शुद्धिं विदधीतपश्चात् | भगवतः परमस्य पूर्वयुक्तं गगनं सा नलवामदृक् तथैव | कुशतोय समुत्क्षणात् क्षमेयमनुनानेन विशुध्यते समन्तात् | अकुलं सकुलादि तर्कबीजं शिवपूर्वेणयुतं सहेन्दुखण्डम् | अमुनामनुना समाहितात्मा तनुयाद्द्रव्य समुत्क्षणं कुर्याद्भिः || पुष्करं शिवमुखादिसयुतं पात्रशुद्धिमनुरेष कीर्तितः | प्. ११२) क्षालयेदमृतवारिभिस्ततः पात्रजातममुनैव मानवः | विलिम्पेत्ततः पीठमम्भोभिधौतं स्वयं भूतपुष्पैन्दुकास्तुरिकाभिः || सकाश्मीरगोरोचनाभिः समन्ताल्लि खेदत्र यन्त्रं ततो वक्ष्यमाणम् | त्रिकोणं विलिख्यानुवृत्तं दलानां ततः पञ्चकं तद्बहिश्चापि वृत्तम् || पुनः षड्दलं बाह्यतस्तस्य वृत्तं लिखेदष्टपत्राणि तद्बाह्यतोनु | पीठस्योत्तरभागे गुरु पङ्क्तिं पूजयेद्विधिवत् || वायव्यदिक्प्रदेशादारभ्येशानपर्यन्तम् | आधारशक्तिमासनमूलेनन्तं च संपूज्य || कूर्मं तदुपरि पृथिवीमपि गन्धाद्यैर्यथार्चयेन्मन्त्री | पीठस्याग्नेयादिषु चतुष्कोणेषु पूजयेत्क्रमशः || धर्मादीन् गन्धाद्यैश्चतुरो धर्मादिकांस्तथा दिक्षु | पीठस्योपरि सत्वरजस्तमसां त्रितयं च संपूज्य || तदुपरि पद्मं तस्मिन्वसु रविशशिमण्डलानि यजेत् | प्रेतं त्रिकोणमध्यगत शशिमण्डलमध्यमे यजेत्तदन्व तदुपरि शङ्करदयितां हृदयाम्बुजगह्वरात् समावाह्य | प्. ११३) संस्थाप्य सन्निरुध्य प्रणिपत्य च दर्शयेन्मुद्राम् | गुह्याख्यामतिगुह्यामर्घ्यादिकमाचरेद्विधिवत् || वामे त्रिकोणकोणे पाशकरां तप्तहेमसंकाशाम् | रतिमर्चयेन्मनोहरवेषां स्वेनैव बीजेन || प्रीतं दक्षिणकोणे निजबीजेनार्चयेच्छ शाङ्कनिभाम् | अङ्कुशहस्तां सुमुखीमुज्वलवेषां सुगन्धाद्यैः || आसीनं कुसुमायुधमग्रे देव्याः समर्चयेन्मन्त्री | बन्धूककुसुमवर्णं कारयुतकोदण्डदण्डशरम् || कामस्य कामराजं रतिबीजं वाग्भवं समुद्दिष्टम् | सम्मोहनाख्यमन्त्यं प्रीते बीजं तथा प्रोक्तम् || शरपञ्चकदेवतास्वमन्त्रैरभिपूज्या दलपञ्चकेषु तेषु | शशिकाञ्चन सान्ध्यमेघनीलोत्पलमाञ्जिष्ठनिभास्तरुण्यः || द्राविण्याद्याः क्रमशः सर्वाभरणोपशोभिताः समदाः | सव्यकरकलितबाणाः शेषकरैः कृतनमस्काराः || ततो भगाख्यां भगजिह्विकां च देवीं भगास्यां भगसर्पणीं च यजेद्भगाक्षीं च दलेषु षट्सु तथा भगाह्लादनिकाः क्रमेण | शरदंबुदधूम्र सान्ध्य वार्मुक्फलिनी रात्रि सुवर्णवर्णतुल्याः | रुचिराभरणो ज्वलास्तरुण्यो मदिरानन्दितमानसामनोज्ञाः | करैः खड्गशूलासि वेतालदण्डान् स कुन्तान्निजैबिभृतीः खेटकं च | प्. ११४) परैर्विस्मयन्त्यः कपालस्य खण्डं तनुं दुन्दुभिन्नादबिन्द्वाख्यमुद्रे | कथयामि भगादि देवतानामिह बीजान्यपि वाग्भवं सदण्डम् || वसुवामदृगिन्दु खण्डयुक्ते कुलपूर्वानलगाम्बरे क्रमेण | ब्रह्माणीं हंसयानां दृतकनकनिभामब्धिवक्त्रांसु नेत्रां हस्ताब्जैः ब्रह्मकूर्चं कलशमपि लसद्दण्डमच्छाक्षमालाम् | बिभ्राणां चारुवेषामथ हरि भयदिक्पत्रमूले यजेत्तां गन्धाद्यैर्बन्धुराङ्गीं वहति वरजटाजूटहारं सदाया || माहेशीं तां कपालोड्डमर डमरुका भीलशूलोरुटङ्कं बिभ्राणां बाहुदण्डैर्निबिडभिमनिभामग्निदिक्पत्रमूले | नेत्रैरुद्भासमानां त्रिभिररुण जटाजूटमुग्धेन्दु खण्डां गन्धाद्यैः पूजयेत्तां वृषमुडुनिभमारुह्य नित्यं विहान्तीम् || कौमारीं यौवनाष्यां सुरुचिरवदनां कुङ्कुमाभां सुशोभां शक्तिं पाशाङ्कुशौ या वहति निजकरैर्दक्षिणेवाभयं च | हेलालोलां विशालालस नयनयुगामर्चयेद्गन्धपुष्पैः सर्वालङ्कारयुक्तां शिखिनियमदिशः पत्रमूले निषण्णाम् || रक्षो दिक्पत्रमूले सजल जलधरश्यामलाङ्गीं सुकेशीं घणाकम्बुं कपालं रथ चरणमथो बिभृतीं बाहुदण्डैः | प्. ११५) आरूडां वैनतेय मणिमयमकुटोद्भासितां वैष्णवीं तां गन्धाद्यैरर्चयेद्यां मयुमदमुदितां नित्यमालोल दृष्टिः | वाराहीं खेटकास्युद्भटहलमुसलान् बिभृतीं पोत्रिवक्त्रां पाश्चात्ये पत्रमूले मणिमयविलसत्कुण्डलोद्भासिगण्डाम् || या शश्वद्विश्व पूज्यागिरिशिखर खराहील लोके निषण्णा गन्धाद्यैरर्चयेत्तां सुरुचिरवदनां धूम्र धूम्राङ्गकान्तिम् | इन्द्राणीं चन्द्रबिम्बप्रतिमनिजमुखीमिन्द्रनीलाभवर्णां कर्णान्तोद्भ्रान्तनेत्रां मणिमयमकुटां वायुदिक्पत्रमूले || वज्रं कम्बुं त्रिशूलं शरमपि दधतीं हस्तपद्मैश्चतुर्भि- र्गन्धैः पुष्पैश्च धूपैः सुरपति वनितामर्चयेन्नित्यमताम् | चामुण्डां चण्डभासोद्भटविकटतटाभील वक्त्रान्तरालां खड्गं शूलकपालं निजकरकमलैबिभृतीं खेटकं च || निर्मांसां रक्तनेत्रां त्रिभुवनभयदां सौम्यदिक्पत्रमूले कालीं कङ्कालभृषां पितृयननिलयामर्चयेदूर्ध्वकेशीम् | पश्चादाम्वययरूपां सुरुचिरवदनां शुद्धजाम्बूनदाभां हस्ताब्जै रक्षसूत्राभय कमललसन्मातुलुङ्गी पलानि || बिभ्राणामर्चयेत्तां त्रिभुवनजनताभ्यर्चितां रेयौवनाढ्यां लक्ष्मीमुत्तुङ्गपीनस्तनभरनिमितामीशदिक्पत्रमूले | बीजान्यमीषामथ वर्च्यमनन्तो दीप * * भोन्तं नयनान्तमिन्द्रः || प्रांशूद्रगन्तान्तपरं कुलान्तमनन्तरुद्रेण ततः समेतम् | प्. ११६) तिथीशः सानन्तो भृगुरथहरोनन्तसहितं बकान्तं भृतीशस्तदनु च बकोनस्तसहितः | कपूर्वं सूक्ष्मान्तान्वितमथ वनं चानुवदनं शचीनाथोपेतं वदनमिति कान्तान्वितमिति || अथासिताङ्गं रुरुचण्डसंज्ञौ क्रौधीशमुन्मत्तकपालिना च | पलाशमध्येष्वपि भीषणाख्यं संहारसज्ञं च यजेत्क्रमेण || दधतोञ्जनपुञ्जनीलवर्णानुरूपे तालकपालशूलदण्डान् | लघुदुबुभिसंयुतां स्त्रिणेत्रान् करदण्डैकरिहस्तदण्डचण्डैः || गजकृत्तिनिवर्तितोत्तरीयान् भृकुटीसंघटितैर्ललाटपटैः | अलिनालिकलाभ कुन्तलान्मुदितान्तः करणान् सुयौवनाड्यान् || हरात् तृतीयं भगभूतसंयुतं कुलान्तमर्पित्तविलोचनान्तयुक् | निशाकरार्धाङ्कितमस्तकान्वितममयैह तेषामपि बीजमीरितम् || यो हेतुको यन्त्रिपुरान्तराख्यो यौ वह्निवेताल भूताशजिह्वौ | कालः करालश्च यथैक पादाभीमाकृतिर्यः खलु भीमसंज्ञाः || ततो नीलजीमूतसंकाशवर्णां दलाग्रेषु गन्धादिभिस्तान् क्रमेण | त्रिशूलं कपालं स्फुरन्नागपाशं तनु बुबुभिविभृतोबाहुदण्डैः || दंष्ट्राभील विशालवक्त्रकुहरान्नेत्रैस्त्रिभिः प्रक्षरद्रक्तैर्वा भृकुटीकरालवदनान् कादम्बरीलालसान् | ऊर्ध्वी भूतशिरोरुहान् नववयोर्युक्तांश्च भीमाकृतीन् भौतीशेन निशाकरार्धसहिते नाभ्यर्चयेत्साधकः || प्. ११७) प्रियङ्गुश्यामाङ्गं प्रविलसितपाणिं मणिमयो- र्लसचूडापीडं द्विरदवदनाधिष्ठिततनुम् | सहस्रं बिभ्राणं नयनकमलानां हरिरियं यजेत्पूर्वस्यां वै दिशि कुसुमगन्धादिभिरनु || अथ विकसित किं शुकाहमग्निं छगलगतं सृवशक्तियुक्तहस्तम् | मणिमयमकुटं यजेत्सुगन्धैः कुसुमवरैर्धृतरत्नकुण्डलं च || अर्चयेत्तदनु दक्षिणभागे नीलनीरदनिभं पितृनाथम् | दण्डहस्तमरुणायतनेत्रं सैरिरिहाङ्गगतमुज्वलवेषम् || नरारूढं रक्षोदिशिविकटदंष्ट्रं सुनिशितं कृपाणं बिभ्राणं सजलदजलद श्यामलतनुम् | यजेद्धेलालोलं पलचपलमारक्तनयनं विचित्रालङ्कारं तदनुविधिवद्राक्षसपतिम् || शरदभृशशाङ्कनिभं वरुणं मकरस्थितमुज्वलवेषयुतम् | मणिकुण्डलमण्डितगण्डतलं वरपाशधरं च यजेत्स्वदिशि || वरशं बरगं सृणिरक्तकरं शुचिकेतन धूम्रनिजाङ्गरुचिम् | निजदिश्यनलं विधिना हि भजेत्कुसुमप्रमुखैर्मणिहारधरम् || अथोर्णया स्वर्णप्रचयसमवर्णं धनपतिं समासीनं यक्षैः परिवृतमशेषैश्च निधिभिः | गदाहस्तं पिङ्गाक्ष कमलयुगलं सुष्ठुकुसुमै र्यजेत्गन्धैः पुष्पैः स्वदिशिलसदाकल्पमपि च || प्. ११८) ऐशान्यां शशिखण्डमण्डितजटाजूटं त्रिणेत्रं हरं सिन्दूरारुण विग्रहं दिशि यजेच्छूलं कपालं सदा | बिभ्राणं स्वभुजैश्चतुभिरभयं योगाख्यमुद्रां तथा भस्मोद्धूलितविग्रहं वृषवरारूढं ततः साधकः || मस्कादिजलराशिगं सकं मस्तकादनलगम्बिकान्त्ययुक् | सूक्ष्मपूर्वमुखपूर्वसंयुतं लोकपालमनुरेषकीर्तितः || ६४ || वटुकगणं दुर्गाक्षेत्रपालान् स्वबीजैरपि तदनु नमोन्तै स साधकेन्द्रः क्रमेण | मलयजकुसुमाद्यैरर्चयेद्भक्तियुक्तो भुतवहपिशिताशाधीशं वायवीशदिक्षु | ६५ || वसुभ्यो रुद्रेभ्योदिन परिबृढेभ्योऽपि च बलिं स भूतेभ्यो दद्याद्यजविधिरित्थं निगदितः | अमुं कुर्वन्नब्धी तलमपि बुधो नित्यमपि यः स संपूर्णः कामान् गिरिश इव संप्राप्य रमते || १०६६ || || इति सप्तमः पटलः || नित्ये नैमित्तिके च प्रविमलमतयः प्राहुरेकेब्धिकोणं कुण्डं हस्तप्रमाणं स्मरगृहसदृशं वाथ वृत्तं प्रशस्तम् | षट्कोणं वार्धादोषाकर सदृशमिदं स्थण्डिलं रत्निमात्रा यामवाङ्गुष्ठपर्वोन्नतमपि सु समं निर्मितं वालुकाभिः || ६७ || प्. ११९) चतुष्कोणमब्धेङ्गुलोत्सेधयुक्तं बुधाहस्तविस्तारयुक्तं तदाहुः | ततः शोधनं क्षालनं शोषणं च प्रकुर्यात्तथापानं चापि कुर्यात् || ६८ || तिस्रस्तत्र लिखेदुगगत शिखा रेखास्ततो बर्हिषा प्रगग्राश्च तथा चतुर्मुखमयश्याकरा देवताः | तासां वृत्ररिपोर्हरिर्द्गतः शिखाया मध्यसव्योत्तरे ष्वीश श्रीशसुराधिपर इह तथा प्रागग्ररेखाधिपाः || ६९ || अभ्युक्ष्ये कुशाम्भोहिर्गन्धाद्यैस्तस्यमध्यमध्यमभ्यर्च्य | इह नील नीरनदाभां ध्यायेद्वागीश्वरीमुतु स्नाताम् || १०७० || जातं मार्ताण्डकान्ताद्धुतव ह मरणे श्रोत्रियागारतो वा क्षेत्रां निक्षिप्य पात्रे वा कनकमये ताम्रपात्रे तथापि | मृत्पात्रे वा निधा * मलविपुलमतर्वह्निबीजेनमन्त्री क्रव्यादांशं त्यजंस्तं तदनु च मननाशोधयेदस्त्रकेण || ७१ || कवचेन ततोऽवकुण्ठ्य पश्चान्निहितात्मा प्रविदर्श्य धेनुमुद्राम् | आम्रतीरणं बुधो विदध्याज्जलबीजेन स बिन्दुना कृशानोः || ७२ || प्रादक्षिण्यात्त्रिः परिभ्राम्यं सम्यग्वागीश्वर्याः कुण्डमध्यस्थितायाः | योनावेवं विन्यसेत्स्वाभिवक्त्रं पश्चादग्निं मूलमन्त्रेणमन्त्री || ७३ || हृन्मन्त्रेण समाहितोऽथ जुहुयादाज्येन सप्ताहुती र्गभाधानमिदं सितेतरगते सम्यक् कृतं स्यादिह | प्. १२०) एवं पुंसवनं ततोऽपि तनुयान्मन्त्री तु सीमन्तके | तेनैवास्य हि जातकर्मविधिना वह्नेर्विदध्यदपि || ७४ || ततः सप्तहस्तं त्रिपादां द्विशीर्षं चतुर्भिर्विषाणेस्त्रिधाबद्धमिद्धम् | पिशङ्गैर्युतं लोचनैस्तर्कसंख्ये द्विनासंरणं तं चतुश्रोत्रमग्निम् || ७५ || रक्ताम्बुजस्थं प्रविलम्बितैकपादं च पृष्ठेनं गतं वृषेन्द्रम् | स्वस्म्मुखं दक्षिणगैश्चतुर्भिर्वामैस्त्रिभिर्बाहुभिरप्यपेतम् || ७६ || शक्तिं वह्निं स्रुक्स्रुवासव्यहस्तै र्वामैहस्तैस्तोमरं तालवृन्तम् | सर्पः पूर्णं तप्त सौवर्णवर्णं पात्रं शश्वत्सप्तजिह्वादधस्थनात् || ७७ || या सा हिरण्या कनका च रक्ता वामाननस्था बहुरूपिका च | सुतप्तचामीकर चारुवर्णा स्थिता हिरण्यादिशि शूलपाणेः || ७८ || वैडूर्यवर्णा कनकाभिधाना या सा निषण्णा * * वासवस्य | या रक्ता तरुणदिवाकराभवर्णा सा जिह्वाहरिति सु संस्थिता कृशानोः || प्. १२१) या कृष्णा विकसित नीरदाभवर्णा सा रक्षापरिबृढदिग्विभागलग्नाः | पद्मरागसदृशं प्रभोज्वला सुप्रभावरुणदिश्यवस्थिता | यामभारजतपुष्पसन्निभा गन्धवाहदिशि सा तिरक्तिका || यथार्थ संज्ञा बहुरूपिकाया जिह्वोत्तरे दक्षिणतस्थिता सा कुण्डस्य मध्येत्वथव प्रशस्ताजिह्वा हिरण्या भुवि कार्मणादौ | स्तम्भनादिषु मता कनकाख्या द्वेषणादिषुमता खलुरक्ता || मारणे निगदिता भुवि कृष्णा सुप्रभा बुधवरैरिहशाक्याम् | उच्चाटनेति रक्ताया बहुरूपोत्तरे सिद्धिः | ऋद्धिं दक्षिणतः सा तनु ते मध्ये शुभानि सदा || वृत्तारेक अन्येत्वागमपारगामलधियः प्राहुर्बुधाः सुप्रभां त्विभि स्थितां पितृपतेः कृष्णां हिरण्यां पुनः | वारुण्यां बहुरूपिकां पुरभिदो रक्तामुदीच्यां स्थिता माग्नेर्यामतिरिक्तकां च कनकां कुण्डलस्य मध्येस्थिताम् || जिह्वां तु कनकाख्यां शान्तिकर्मणिकनकाख्याम् | रक्तां कार्मणि कर्मणि कृष्णां क्षुद्र क्रियासु बुधाः || या सु प्रभेति गदितातामाहुर्मोक्षकारिणीजिह्वाम् | अतिरिक्तामाकृष्टौ बहुरूपामखिलसिद्धिदां जिह्वाम् || सर्वालङ्कारान्वितं सर्वकर्मस्वेवं रूपं चिन्तयेच्चित्र भानु मन्त्री सम्यक्सप्तजिह्वाभिरामाभिर्युक्तं जातं व्यावृतोत्तान वक्त्रम् | प्. १२२) कुर्यान्मन्त्री जातकर्मावसाने पाद्यार्घ्याद्यैरयित्वा यथावत् | हृन्मन्त्रेणाज्याहुति सप्तहुत्वा श्रीमन्नामामुष्यधूमं ध्वजस्य || पादग्रैरुदगग्रैः परिस्तरेदथ कुशैः सम्यक् | एकलमेखलकुण्डैर्निशितमतिर्मेखलाधस्तात् || परिस्तरे *? मेखले द्वितीयमेखलोपरि | त्रिमेखले तु मध्यमस्थमेखले परिस्तरेत् || स्थण्डिलकेसिकतानां बाह्येतधत्रीन्यसेत्परिधीन् | कुण्डस्य दक्षिणोत्तर पश्चिमभागेषु साधकोमतिमान् || होतुः पूर्वं पूर्वभागं प्रदिष्टं सव्यं भागदक्षिणां चागमज्ञैः | वामं विद्यादुत्तरं भागमग्रं प्रज्ञावद्भिः पश्चिमं भागमुक्तम् || ततो वामभागे परिस्तीर्यदर्भान् पुलोमात्मजा वल्लभाशागताग्रान् | तदूर्ध्वन्यसेद् द्वन्द्वरूपेण पात्राथो यो न तस्यामि निर्वाणिधीमान् || सौवर्णान्यपि राजतान्यपि तथा शौल्बानि पात्राणि वा मृत्पात्राण्यपि शान्तिकादिषु परं शस्तानि कर्मस्विह | सेल्वक्षद्रुमशिग्र भूरुहन्येतानि विद्वेषणोच्चा टोत्सादनमारणादिषु भृशंशस्तानि पात्राण्यपि || अथोक्तानि तेष्वेषु पात्रेषु पात्रं जलैरेकमापूर्य तीर्थानि तत्र | प्. १२३) सु सञ्चिन्त्यतैः प्रोक्षयेत्कूर्चदर्भै र्हदा सव्यभागस्थितं द्रव्यजालम् || कृतघृतशुद्धिः प्रविमलबुद्धि- र्जुहुयादाहुति सप्तकमपि च | अन्नप्राशनमेतत् चौलोप नयनयोरपि विदधीतेर्थम् || गोदानमङ्गलादि ब्रूतेषु सर्वेषु सर्वेषु हृदयेन | ते नैब समावर्तनविवाहयोराहुती जुहुयात् || अमुनेति च संस्कृते कृशानौ विधिनापूर्वसमीरितासनन्तत् | परिकल्प्य यथा वदर्चयेत्तां परिवारेण सहाम्बिकामथात्र || परिवारस्यैकाकां देव्यादशचाहुतीर्जुहुयात् | एवं भैरव्यग्निर्जनितस्याद्धोममारभेताथ || पालाशैर्मधुरत्रयेण कुसुमैः सितैरशेषान्नरः | कामांश्चंपकपाटलैर्वचकिलैः प्राप्नोति होमादयम् || राज्यं बिल्वफलैर्दलैरपि तथा साम्ब्राज्यमम्भोरुहै रायुः शाड्वलपल्लवैः सहदलैः शान्तिं सभाज्यैस्तिलैः | आधारेण द्रविणं विगदत्वं प्राप्नुयाच्च सिद्धार्थैः | प्रीतिं गुडेन पत्रैः पुत्रान् सौख्यं फलैर्मनुजः || लाजैः सौभाभाग्यं धान्यमनेन होमात् पुष्पैः कादम्बैर्यक्ष लोकाधिपत्यम् | प्. १२४) मर्त्यं पुन्नागैरेति विद्याधरत्वं पुष्पैर्मालयाः सिद्धगन्धर्वलोकान् || आकृष्टिर्यक्षिणीनां त्रिमधुसहितैरर्जुनैः सर्षपैस्याद्वेश्यावश्याभवेयुर्हरिहय कुसुमैः किंशुकैश्चापि होमान् | वश्यास्युः कर्णिकारैरथ धरणि सुराःक्षत्र्याः कासमर्दैर्वैश्यानां किङ्करातैर्गण इह वशगः पाटलाभिश्च शूद्राः || छगलां गजमांसलेश होमात्परराष्ट्रं स्ववशं भवेदशेषम् | अपि चारिबलं पराङ्मुखं स्यान्मधुयुक्तेन महाबलेन वापि || कटुकत्रयनिम्बपरकेशै स्वगुडैन्नाखलान्वितैर्निशासु | कटुतैलविमिश्रितैश्च होमा दरयस्त्रिर्मुनिवासरायन्ते || नग्नजितस्थ्यजहोम हरिद्रा खण्डनखैविहितः खलु होमः | सप्तदिनात् प्रतिपक्षं नृपाणां स्तम्भनकृत्प्रवलस्य बलस्य || माषैर्मूष्कत्वं कोद्रव्यैर्व्याधिबाधा वातातं कास्युः कलायैश्च होमात् | मत्तस्यादक्षजाभिः समिद्भिर्मृत्युः सप्ताहाच्छल्मलीवृक्षजाभिः || कपिला घृतसंयुतैर्मनुष्योयव गोधूमतिलैः षडश्र कुण्डै | प्. १२५) नियुतं खचरत्वमेति हुत्वा निशि चारेण समाहितान्तरात्मा || पलाशदृकाष्ठैः परिज्वाल्य भव्या- शनं चन्दनाभ्युक्षितैर्बन्धुजीवैः | समस्तानि भूतानि वश्यानि होमाद् भवेयुः प्रियङ्गु प्रसूनैश्च तद्वत् || नरो भक्ष्य भोज्यान्नपानानि हुत्वा परां संपदं प्राप्नुयादत्र लोको | वटोदुम्बराद्यं कुरैस्वादुवर्गा- न्वितैः कल्पिता मल्लिकाभिर्यशस्तु || तुष्टिं नीलाम्भोजैर्होमात् सौगन्धिकैर्भवेत्पुष्टिः | कुमुदैर्जनवात्सल्यं पुत्राः कङ्केलि कुसुमैस्युः || यत्खलु किञ्चिदभीतमं स्याद्भूमितले मनसोमनुजानाम् | तत्सकलं मधुरत्रयहोमात् स्यादचिरेण सुशक्यमुपैतुम् || घृता इति द्विगुणित षोडशाङ्गुलो- न्नतिर्वरा तत इह मध्यमार्थतः | गजाङ्गुलोन्नतिरधमा तिलोद्भवं तथैवमाक्षिकमपञ्चगव्ययुक् || एकं चुलुकं पयसोदघ्नस्तन्वन्यतस्तु वन्याश्च | एकैकापूपलिकापासमक्षप्रमाणं स्यात् || प्. १२६) कदलीपलमेकैकं नारङ्गं चापि मातुलङ्गं च | पनसफलां दशखण्डं गुणखण्डं स्यात् फलं वैल्वम् || कर्करिका गुणखण्डा दलपुष्पफलान्य खण्डानि | चतुरङ्गुष्ठसमाना व्यञ्जनपिण्याककृसराञ्चश्च || चुलुकार्धार्धं हि तिलाः प्रसृतिमिताः पक्तवोगतोः | लाजास्याम्मुष्टिमिताः कषार्धार्धं तु सर्षपाः प्रोक्ताः || कर्ष प्रतिमितामुद्गामाषाश्च ब्रीहियो मुष्टिमिताः | षोडशनरपति माषौ गोधूमा रक्तशालयस्तद्वत् || सप्ताष्टौ वा यवकौ वेणु यवाः पञ्चषा भगिताः | अर्धफलं गुलमानं मुष्यर्धं तण्डुलाः प्रोक्ताः || कुङ्कुमचन्दनमृगमदघ्नसाराश्चणकमात्रास्युः | बरफलप्रमाणं पुरद्विखण्डं कपित्थं फलम् || श्लेष्मातपिशाचतरुं त्यक्त्वान्येभ्यः समाचरेत्समिधम् | गोपुच्छशीर्षकांश्च त्यक्त्वान्य तृणं भवेत्परिस्तरणम् || एधां त्रिहिरण्यायां चरुमाधारं च कनकायाम् | बहुरूपायां जुहुयात् सिद्धर्थान्वै यवांस्तु रक्तायाम् || कृष्णायामिह लाजान् सक्तून्वै सुप्रभायां तु | अति रक्तायां तु तिलान् सर्वद्रव्याणि कनकायाम् || वह्नेः कण्ठोहोमतो व्याधिबाधानेत्रे न्धत्वं नासिकायामथाविधिः | प्. १२७) द्रव्यच्छेदो मस्तके स्यान्मुखा न्तर्होमं कुर्यात्तेन नित्यं विपश्चित् || भेरी वारिदवारणध्वनि नभो वह्नौ ध्वनिः शोभनो वर्णस्वर्णनिभः शुभोदयकरः सिन्दूररेणूपमः | उद्यद्भास्कर स प्रभश्च सुसृणक्षोदेन्द्रगोपारुणो गन्धश्चम्पकपाटलाविचकिलैराज्येन तुल्योऽपि च || पुन्नाग पुष्पकेसर गुल्गुलु गन्धोपमश्च सिद्धिकरः | छत्राकारा शुभदा शिखाशिखाहात्यकम्पना च भवेत् || धूमोग्नेः कुन्दनिभफलदः काशकुसुमसंकाशः | खरवायसरव सदृशोवह्नेः शब्दो विनाशकरः || कृष्णोहुतवहवर्णो यजमानं मारयेदचिरात् | पिङ्गो बहुरोगकरोरूप्या भोराष्ट्रदाहमपि कुर्यात् || विष्ठा सदृशो वह्नेर्गन्धोर्विविधानि दुःखानि | मूत्रसमोबलहानिं स्वेदाभः सुतविनाशनं कुर्यात् || विच्छिन्नोग्नेर्मृत्युं शिखा सुवृत्ता करोति धनहानिम् | शुकपिञ्छा गोधूमो वह्नेर्वाजीन्द्रमाशु नाशयति || कुर्यात्कपोतसदृशः कूपीडयोनेर्गवां हानिम् | आवर्तः शुभफलदः प्रदक्षिणो वीतिहोत्रस्य || विद्युत्पातं दर्दुरो विष्णुलिङ्गे * *र्थ्यं स्याद्धोमकाले कृशानोः | प्. १२८) वामावर्ते व ग्रहोभासयुक्ते होतुभीतिश्चोद्भवो भूतसङ्घान् || वस्वधिकमाहुतीनां जुहुयाच्छतमेषु दोषेषु | अस्त्रेन साधकेन्द्रस्तनयादथ चक्रपूजां च || वश्यो भवत्यवश्यं * म्भूमिपतिर्लक्षहोमेन | लक्षार्धेनामात्याः सामन्ता पादहोमेन || षष्टि सहस्रे भूपति पत्न्योवशगास्तदीय पुत्राश्च | एकलसहस्रहोमात् सुभगाणगणिकाश्च वश्यास्युः || नियुतैर्दशभिर्भवन्ति वशगानागसदः सुरेशमुख्याः | नियुतैस्त्रिभिरेव देवपत्योमुनयश्चापि तथाल्पदेवताश्च || गन्धर्वसिद्धचारणाप्सरोगणाह्येकलक्षेण | वंशतिलक्षैर्वशगा भवन्ति विद्येश्वराः सर्वे || नियुतैर्दशार्धसंख्यैः सदाशिवाम्भोजनाभिकमलभुवः | वश्या भवन्ति लक्षैः कोटिभिराप्नोति शाश्वतन्धाम || पूर्णाहुतिमथ कृत्वा दुरारिदयितां विसृज्य दृढबुद्धिः | तदनुसमाहितबुद्धिस्वाहानाथं विसर्जयेन्मन्त्री || स परिस्तरां न होमे नित्यं परिधीं दहेन्मतिमान् | नैमित्तिके तु होमे परिधीन् स परिस्तरां दहेन्मन्त्री || || इत्यष्टमपटलः || अथाग्निकार्यं कथयामि पूजागारस्य कुर्याद्दिशिवासवस्य | ईशस्य य * दिशिवित्तपस्य विभावसोर्मण्डलस्थ कोणः || नवहस्तमात्रमुतशैलदोर्मितं यदि वा हृषीकरसमंमितं म्तम् | रुचिरैश्चतुर्भिरविरन्ध्रमुन्नतं कुशतोरणैः सितवितानशोभितम् || चतुर्द्वारयुक्तं ततस्तस्य मध्ये बुधं तत्त्रिभागेकभागेन वेदिम् | अरत्रिप्रमाणान्नतिं दर्पणान्तं निभाभामनोहारणं तत्र कुर्यात् || वेदाश्रं योनिमर्धोन्धुपतिमनलाश्रं सुवृत्तं षडश्रं पद्माकारं गजाश्रं हरिहयहरदारह्ये तस्यां विदध्यात् | मध्ये वृत्तं च गोरीपति सुरपति दशोः पण्डिताः केचिदाहु र्वायव्ये पञ्चकोणं दिशि मदनरिपोः सप्तकोणं च कुण्डकं || प्राक्सूत्रं प्रथमं निधाय विदधीतार्धेन तस्याङ्कितं मध्ये मत्स्ययुतं दिशोर्विमलधीकी नाशवित्तेशयोः | ताभ्यां वृत्तमभिप्रासार्य चतुरः कोणांस्ततो लाञ्छयेत् क्षेत्रं स्याच्चतुरश्रमत्र जनयेदन्यानि कुण्डान्यपि || क्षेत्रे क्षिप्त्वा बहिरिह पुरोभूतभागेंशमेकं कोणार्धार्धं सु निशितमतिर्भ्रामयेत् संप्रगृह्य | भास्वत्कोणः परमपि तथा सूत्रयुग्मस्य पातं मध्यात्कुर्याद् भवति तदिदं मन्मथा वा सकुण्डम् || प्. १३०) परित्यज्य भागद्वयं पङ्क्ति भागी कृतोत्रोपविष्टादधस्तच्च विद्वान् | परिभ्रामयेत्तेनमानेन सम्यग् भवेदर्धचन्द्रांकितं कुण्डमेतत् || वासरेशार्धभागी कृते क्षेत्रतः पार्श्वयोर्न्यस्य भागद्वयं पण्डितः | तेनमानेन सूत्रद्वयं विन्यसे त्कुण्डमेतद्भवेद्रुद्र नेत्राश्रकम् || दिग्गजाभ्यधिकपङ्क्तिभागतः क्षेत्रतो निशितधीर्बहिर्न्यसेत् | भागकलमनेन सर्वतो भ्रामये द्भवति वृत्तमुत्तमम् || भूपांशेंशद्वयमिह बहिः पार्श्वयोन्न्यस्य मध्यात् क्षेत्रव्यासे सु विमलमतिस्तेन वामेन कृत्वा | पार्श्वद्वन्द्वे झषयुगयुतं सूत्रषट्कस्य पातं कुर्यात्कुण्डं भवति तद्दिदं तर्ककोणं मनोज्ञम् || दशांशे तु विन्यस्य बाह्येंशामेकं परिभ्राम्य तेनैव वृत्ता दलान्तान् | बहिर्मध्यमे कर्णिकां चापि कुर्याद् भवेदष्टपत्रं बुधः पद्मकुण्डम् || प्. १३१) क्षेत्रे क्षिप्त्वात्र बाह्ये दिशिदिशिमिहिरद्वन्द्वकांशेंशमेकं कृत्वा तेनाब्धिकोणं पुनरपिमतिमान् कोणतोर्धं गृहीत्वा | तत्कोणाभ्यां विदध्यादिह खलु परितस्तेनमानेन चिह्ना न्यष्टाश्रं स्यात्समन्तादपि च वितनुयादष्टसूत्रप्रयोगम् || भायांशेत्रनागं बहिर्न्यस्य वृत्तं परिभ्राम्य भूमौ युगांशी कृतेशैः | त्रिभिः पट्टदैर्घ्यं भवेत्पञ्चसूत्र प्रयोगादिदं तेन पञ्चाश्रकुण्डम् || क्षेत्रव्यासे दशांशे बहिरिह विनिधायैकमंशं सुवृत्तं मानेनानेन कृत्वा पुनरपि च चतुःषष्टि भागीकृतेऽत्र | भागायाम प्रमाणं दृढमतिरमुना स त्रिकैस्त्रिंशदंशेः कुर्यात् सप्ताश्रकुण्डं भवति च तदिदं सप्तसूत्रप्रयोगात् || यावन्मानं कुण्डविस्तार उक्त- स्तावत्खातस्यापि मानं प्रदिष्टम् | कुण्डाकारं पण्डितो यादृशं तत् तादृग्रूपं मेखलाया विदध्यात् || तिस्रः कुण्डे मेखला मेखलेद्वे यद्वा विद्वानेकलामेखलां वा | कुर्यादूर्ध्वं मेखलाया गजोष्ठा कारं योनिं चापि होतुर्दिशीह || प्. १३२) मुष्टिमात्रेऽत्रतामेखलाद्व्यङ्गुलैका र्धाङ्गुलोत्सेधतारा भवेयुः | क्रमाद्रत्निमात्रेऽत्र तास्र्यङ्गुल द्व्यङ्गुलैकाङ्गुलोत्सेधताराः पुनः || युगार्पित्तनेत्राङ्गुलोत्सेधतारा- स्युरेताः क्रमाद्धस्तमात्रे तु कुण्डे | करद्वन्द्वमात्रेरसाम्भोधि वह्न्य ङ्गुलोत्सेधविस्तारयुक्ता भवेयुः || वेदकरेऽस्मिन् सिन्धुरतर्काब्ध्य ङ्गुलतारोत्सेधयुतास्ताः | षट्करमात्रेऽस्मिन् दशकुम्भ्याङ्गा गुलतारोत्सेधयुता समेताः || भास्करपङ्क्ति गजाङ्गुलतारो- त्सेधयुतास्युरिमाव सुहस्ते | नाहि महाम्बुजमत्र विदध्यादष्टदलं सहकर्णिकमन्तः मुष्टिमात्रेरसाम्भोधि नेत्राङ्गुलायामतारोन्नतिर्योनिरुक्ताबुधैः | नेत्रवेदाङ्गुलोत्सेधतारोन्विता नाभिरप्यत्र योन्योष्टमेकाङ्गुलम् | योन्या लक्षणमेतद्गदितमिदं रत्निमात्रेऽत्र | कुण्डस्य मये भोक्तं तदेव खलु हस्तमात्रस्य || प्. १३३) एकैकेनाङ्गुलेनाम * निशितमतिर्वर्धयेदन्यकुण्डे ष्वेनां योनिं च नाभिं खलु यवयुगलेनेह योन्यास्तथोष्ठम् | कुर्यान्नाभिं च वृत्ता कृतिमपि यदि वा कुण्डरूपानुरूपा योन्याकारेऽत्र योनिं सरसिजसदृशेनोपि दध्याच्चनाभिम् || कुण्डस्यैके हस्तमात्रस्य योनिं प्राहुर्भूतद्व्यङ्गुलायामताराम् | व्यासत्र्यंशैकांशकोत्सेधयुक्तां कुर्याद्बोधिक्ष्माजपात्रानुरूपाम् || नेत्रताराङ्गुलोत्सेधतारान्वितान् नाभिमंसद्वये तच्छदान्यष्ट च | व्यासवह्न्यंशतोंशेन तत्कर्णिकां मध्यभागे विदध्याद्बुधः कुण्डतः || कुण्डस्यैककरस्य चारुपरितोनेमिर्भवेदङ्गुले नैकेनैव ततो विरोचनकरादारभ्य संवर्तयेत् | कुण्डादुत्तरकुण्डकावधिबुधः प्रत्येकमर्धाङ्गुलं तद्बाह्ये खलु मेखला त्रितयकं कुर्याद्यथोक्तक्रमात् || शतार्धहोमे खलु मुष्टिमात्रं रत्निप्रमाणं शतहोमकुण्डम् | हस्तं सहस्रेह्ययुते द्वहस्तं लक्षे चतुर्हस्तमिदं प्रदिष्टम् || दशलक्षेरसहस्तं वसुहस्तं कोटिहोमस्यात् | कोट्यूर्ध्वेत्वष्टकरं होमेष्वागमविदो ब्रुवते || प्. १३४) केचिद्धस्तं लक्षहोमे द्विहस्तं लक्षद्वन्द्वे वह्नि लक्षेत्रिहस्तम् | होमे कुण्डं वेदलक्षेब्धिहस्तं प्राहुर्दोष्णां पञ्चकं पञ्चलक्षे || रसलक्षं रसहस्ते सप्तकरं सप्तलक्षे स्यात् | सुलक्षे वसुहस्तं नवलक्षे नवकरं कुण्डम् || दशलक्षे दशहस्तं दशकरमेवेह कोटिहोमेऽपि | दशहस्तां न हि कुण्डं परमभीतले मुष्टिन् || सर्वसिद्धिकरमम्बुधिकोणं पुत्रदम्मनसिजाव सथाभम् | अर्धचन्द्रसदृशं शुभदं स्यादग्निकोणमरिमर्दनहेतुः || शान्तिकर्मणि भवेत्सुवर्तुलं शत्रुमारणकरं षडश्रकम् | पद्मकुण्डमिह वृष्टिकारकं रोगशान्तिकरमष्टकोणकम् || चतुरश्रं विप्राणां राज्ञामिवर्तुलं कुण्डम् | वणिजामर्धशशाङ्काकारं त्र्यश्रं तु शूद्राणाम् || चतुरश्रं तु सर्वेषां प्रशस्तमिति केचिदाहुराचार्याः | वाञ्छिदफलदं यत्तत् कुण्डं त्विह भुक्तिकरम् || षट्कोणमर्धचन्द्राकारं चापि प्रजाकारं कुण्डम् | मुक्तिकरं पञ्चाश्रं वसुकोणं चेहराज्यदायोनिः || || नवमः पटलः || प्. १३५) अथामरेन्द्रैरपि दानवेन्द्रैर्धृतं प्रसिद्धैरपि सिद्धवर्यैः | सौभाग्य सम्पत्तिगुणैक हेतुर्यत् त्रैपुरं तत्कथयामि यन्त्रम् || कर्पूरक्षोद्दिग्धाखिलतनुरमलस्नान पूतोवसान क्षौमं श्रीकण्ठपङ्क स्पुटरचितलसत्चित्रको नेत्रयुग्मम् | सद्यः कृत्वाञ्जनोक्तं विकसितवदनः प्राप्तनिःसिमहर्ष स्ताम्बूलग्रास पूर्णारुण मुखकुहरश्चालिखेद्यन्त्रराजम् || कस्तूरिका गरु सुधाकरखण्ड कुण्ड गोलोत्थजागलगुडैः स पटीरपङ्कैः | युक्तै स्वयम्भूति सुमेनविशालभूर्ज पत्रे लिखेदविवरे तपनीय सूच्या || लिखेद्भूप पत्राणि वृत्ताद्बहि र्मास पत्राणि तद्बाह्य देशे | पुनर्भूपपत्राणि तेषां दलानां बहिर्दन्त पत्राणि चारूणि धीरः || तत्कर्णिकायां महायोनिमध्ये लिखेद् वाग्भवं कामराजं तु तस्योपरि | शक्तिबीजं तयोरूर्ध्वतः कारयेद्धंस देवो परिस्थां जगन्नायिकाम् || षोडशारे ततः षोडशेहस्वरा द्वादशारे पुनः कामराजं लिखेत् | प्. १३६) वासरेशस्वरैर्भिन्नमेनं विधा- यान्त्यबीजं परे षोडशारे लिखेत् || कला बिन्दुनादैः शिरोदेशलग्नैः परिभ्राजमानान् ककारादि वर्णान् | लिखेदन्तपत्रेषु सर्वं तदेतद् बुधो मन्दिरस्थोदरस्थं विदध्यात् || सुषिरेण तु वेष्टयेत् समन्ता- दथ मन्त्री महनीय यन्त्रराजम् | सुविशुद्ध सुवर्ण पट्टबन्धं विदधीतानुहुतादि सिद्धमेनम् || इयं रक्षा साक्षात्त्रिपुरमथनेनापि विभुना श्रियः कान्तेनापि त्रिदशगुरुणाचापि हरिणा | धृता कन्दर्पेणाप्य मृत किरणे नापि विनतात निजेनाप्येषा सततमपि शीते तरुरुचा || गन्धर्वैरपि किन्नरैरपि धृता यक्षस्तथा राक्षसैः सिद्धैः साध्यगणैन पन्नगवरैर्विद्याधरैर्गुह्यकैः | सौभाग्यात्थिभिरर्थलोलहृदयैरन्यैश्च धन्यैर्जग-न्मङ्गल्यैर्मनुजोत्तमैरपि नृपैर्वस्वेश्वराद्यैरपि || बहुब * रगन्धसिन्धुरेन्द्रै र्मदचित्खल्लविलिप्तगण्डपिण्डैः | प्. १३७) तुमुलेयुधि यन्त्रराजशक्त्या समवाप्नोति जयश्रियं नरेन्द्रः | नरपालग्रहोदरेषु सम्यग्व्यवहारेष्वपि धारणादमुष्य || मनुजोपि च वादिभिर्विवादे जयमाप्नोति हि यन्त्रसत्तमस्य | विपिनेषु लुलाय चित्रकाय द्विपभल्सूककुलाकुलेषु पुंसाम् | चरतान्न चिराय विद्यतेभी स्त्रिपुरा यन्त्रवरस्य धारणेन | नरनाथवराभवन्ति वश्यास्तदधीनाः सचिवाश्च तत्तनिजाः | प्रमदाः समदाश्च यौवनाढ्या स्तनभारानमिताः स लीलयाताः विषमुग्रं पीहकालकूट प्रतिमं संहृति कर्मकर्मठं यत् | अमृतं भवन्ति धृवं तदेतद्वधतस्त्रैपुर यन्त्रराजमेनम् | दहनस्तु हि नत्यसौदर्वान्तर्विततोध्वींकृत भूरिलोलकीलः | धृतयन्त्रवरस्य देहभाजः पयसां चापि निधिस्थ लीयते च | हृत्पङ्केरुहकर्णिकोपरि तले मन्त्री तु यन्त्राधिपं ध्यात्वा शक्ति गमागमं वितवुते धीरः सुषुम्नान्तरे | यस्तं शश्वदगण्यपुण्यनिलयं वाक्कामिनी गोमिनी सामानाधिकरण्य संपदतुलानो मुञ्चतिक्ष्मातले | आदौ मन्मथकोष्ठकोटरगतं कामाधिराजं लिखेत् कन्दर्पद्वितयेन चानुपुटितं कुर्यात्तदेतद्वयम् | तद्धीरोमकरध्वजं परिलिखेत्कोणेषु षट् स्वधारान् मध्ये नाममनोभवस्य सकलं कुक्षौ तदेतत् क्षिपेत् | यन्त्रं पूर्वोक्तयन्त्राधिप सदृशमिदं चापि मौलौ गले वा प्. १३८) बाहौ वायौ बिभर्ति त्रिभुवनमखिलं तद्वशे वर्तते च | कान्ताः कान्तालकान्ताः प्रथुकठिनकुचानम्रकम्राङ्गवल्यः कामेनोप द्रवार्ता कुलितनिजधियस्तं व्रजेयुः सुवल्यः | ध्यात्वैवं मूलचक्रान्तरकमलकुटी कोटरे यन्त्रराजं सान्द्रस्वानन्दमन्दं तरुणतरणि भाभासुराङ्गं च तं च | यन्त्रान्तः सुस्थसाध्यामलविलसच्चेतनामात्र रूपं हष्टोपष्टभ्यमन्त्री मथनमथशनैरुच्चरेदात्मशक्त्या | भवत्यवश्यं मथने वश्यः साध्यस्तथा साधकपुङ्गवस्य | त्रिःसप्तरात्रेण महानुभावो देवोऽपि मर्त्यः किमुमन्दवीर्यः | कलापत्रोपेतं कमलमपि संलिख्य सुमनस्तास्तदन्तः शृङ्गाटद्वितयमपि चान्योन्य पुटितम् | लिखेन्मध्ये देवी हृदयमपि कोणेषु मदनान् षडन्तः षट्स्वाख्यां समभिमतसाध्यस्य मतिमान् | स्मरान् पत्रेष्वेतत् सुषिरविवरान्तः परिलिखेज्जगत्यस्मिन् मन्त्रं प्रथितमिह पिण्डामृतमिति | जनस्येतद्यन्त्रं वरकनकपट्टेन विहितं जगत्सर्वं शश्वद्भवति वशवर्ती भव्रहतः | || इति श्री भट्टनागविरचिते त्रिपुरासारसमुच्चये दशमः पटलः || श्री पुरुषोत्तमानन्दसंविदाम्बा श्रीपादुकां पूजयामि | महेश्वरानन्द महेश्वरीम्बा श्रीपादुकां पूजयामि | शिशिरांशु मौले नमः शिवाय | हरहरशिवशिव | मालाधरभट्टन् प्. १३९) || संप्रदायदीपिका || जपत्येषा गणेशस्य पादपङ्कजयोर्नतिः | यौ विघ्ननिवहन्द्रुरान्निरस्यति पदे पदे | भट्टनागविरचितस्य सारसमुच्चयस्य व्याख्यारभ्यते | तत्राचार्यः | प्रारिप्सितस्य ग्रन्धस्या विघ्नपरिसमाप्यर्थः मन्त्राधिकारिणामभ्युदय निश्रेयसार्थं च तदुपायभूत देवतास्तुति पुरः सरमाशीर्लक्षणं मङ्गलमाशास्ते | प्रह्वप्राचीरेत्यादि | प्राचीनबहिरिन्द्रः कोटीरं मकुटम् | मञ्जीरज्ञपुरम् | कुलनायिका आधाराधिष्ठितात्री जीवं जीवात्मानम् | मध्यनाडी सुषुम्ना | खाब्जगशशिस्थ शिवेति | सूक्ष्मे द्वादशं तस्थसहस्रारसरसिजमध्यवर्तिनि सोमात्मकपरमगुरुशिवात्मनि | हंसेन | अजपया | अमरेन्द्रपुरोगतेन | सार्धेन्दुना | अमरेन्द्रो लकारः | तत् परोगतो रेफः | अर्धेन्दुबिन्दुः | रम् इति सास्यादिनाथमरुता | आस्यं विसर्जनीयः | तस्यादि बिन्दुः | मरुत् | यकारः | यम् इति | भुवनं जगत् | सकेन सम्भावयन् | वलभिदा | कम् बिन्दुः | वलभिल्लकारः | लम् इति घटेन स बिन्दुकेन | घटोवकारः | वम् इति | आजम् अण्डं ब्रह्माण्डम् | हरिहयः | इन्द्रः | क पञ्चमं मम्बु तुर्ययुक्तम् | मनुस्वरं तदन्तयुतमिति | कंवकारः तत्पञ्चमं हकराः | प्. १४०) अम्बु वकारः | तुरीयं सकारः | मनुस्वर औकारः तदन्तं बिन्दुः हकार सकारौकारबिन्दुभिः सदाशिवाख्यं बीजम् | दन्तवसनमोष्ठम् | चिल्लीलता भ्रूलता | लेखनिकायो देवसमूहः जीवं जीवात्मानम् | आकाशाम्बुरुहेत्यादि व्योमपद्मस्थित परमहंसात् स्पष्टमन्यत् || || संप्रदायदीपिकायां प्रथमः पटलः || एवं भूतशुद्धिं विधाय देवतास्वरूपमात्मानं बुध्वा वक्ष्यमाणन्न्यासजातं कुर्यादित्याह | अङ्गुष्ठेत्यादिना | अत्रीशोमुखवृत्तवह्निसहितस्वाद्यं सदमिति | अत्रीशोदकारः | वह्नीरेफः | दण्डो बिन्दुः | एभिः प्रथमं बाणबीजम् | त्रिमूर्त्याक्रान्तानन वृत्तमेव तदिति | त्रिमूर्तिरीकारः | तदितिद्राम् इति बीजम् | तदादेशवदाकारमुत्सार्य तत्स्थानमाक्रामता ईकारेण युक्तम् | द्रीमिति बीजम् | मुखान्तस्थितं देवराजाधिरूढमिति | मुखं विसर्जनीयः देवराजो लकारः | वामेक्षणमीकारः | देवराजो लक्षारः | वामेक्षणमीकारः | वक्त्रं विसर्जनीयम् | तत्पूर्वोबिन्दुः | ककारलक्षारेकार बिन्दुभिः तृतीयम् | क्लीमिति बीजम् | भपूर्वं स वृत्तारि १४१) षष्ठस्वरार्धक्षपेशमित्यादिह पूर्वं बकारः | वृत्रारिर्लकारः | षष्ठस्वर ऊकारः | अर्धक्षपेशे बिन्दुः | एभिश्चतुर्थं ब्लूम् इति | कतुर्यंक पूर्वेण युक्तमिति | कं वकारः | तत्तुरीयं सकारः | क पूर्वं विसर्गः | सः इति पञ्चमं बाणबीजम् | एतानि बीजानि अङ्गुष्ठादि कनिष्ठिकावधिकरद्वन्द्वाङ्गुलीषु न्यसेत् | स्थित्यास्थितिन्यासोक्त विधिना | उभयकराङ्गुलीषु करतलद्वयोश्च षडङ्गं विन्यसेत् | न्यासो हि ब्रह्मचारी गृही मुमुक्षुरित्याद्यधिकारि भेदात् | सृष्टिस्थिति संहारात्मना त्रिविधः | तदुक्तं वायवी संहितायाम् | स्थितिन्यासो गृहस्थानामुत्पत्तिर्ब्रह्मचारिणाम् | यतीनां संहृतिन्यासोवनस्थानां तथैव चेति मध्यमादि कनिष्ठान्तमङ्गुष्ठादि न्यसेत्स्थितिम् | अङ्गुष्ठान्तं कनिष्ठादि सृष्टिन्यासो विधीयते | अङ्गुष्ठादि कनिष्ठान्तं संहारान्यास ईरितिः || नाभ्यादिकेशपादान्तं स्थित्यादेहेन्यसेद्बुधः | केशादि पादपर्यन्तं सृष्टिन्यासो विधीयते || पादादि केशपर्यन्तं संहारन्यास ईरितः | इति | एवं यथाधिकारं विन्यस्य वक्ष्यमाण कलान्यासं कुर्यात् | यथा | भगपरममायाकुलान्तं क्रमात् | बीजानां त्रयमर्धचन्द्रसहितं विन्यस्य मूर्ध्निस्वक इति | भगमाकारः तत् परमैकारः | प्. १४२) मया भुवनेशी | अकुलान्तम् | अकुलो हकारः | तदनतः | क्षकारः | अर्धचन्द्रो बिन्दुः | एकार बिन्दुभ्यं प्रथमम् | हकार रे * कार बिन्दुभिर्द्वितीयम् | ककार षकार बिन्दुभिस्त्रितीयमिति | एतानि बीजानि स्वरसि विन्यसेत् | सानन्तं मुखवृत्तकेकगतकं संवर्तकमिति | अनन्त आकारः | कंशिरः | तद्गतकं शिरोगतबिन्दुरित्यर्थः | संवर्तकः क्षकारः | आकार बिन्दुभ्यां युक्तं क्षकारं मुखवृत्ते न्यसेत् | सूक्ष्मादीश्चतुरो युगे नयनयोर्न्यस्त्वा तत श्रोत्रयोः सार्धेन्दूनिति | सूक्ष्म ईकारः | स आदिययेषान्ते सूक्ष्मादयः | अर्धेन्दु बिन्दुः स बिन्दुगानित्यर्थः | इम् ईम् उम् ऊम् इति नयनयोः | श्रोत्रयोश्चन्यसेत् | स्वकपोलयो भृगु युगम् | घ्राणद्वयेनान्वितम् | चन्द्रांर्धाङ्कितमस्तकं चेति | भृगुः सकारः | प्राणद्वयम् | ऋ ॠ चन्द्रार्धो बिन्दुः स बिन्दू सकार ऋकार बिन्दुभिरेकम् | सकार ॠकार बिन्दुभिरन्यत् | तद्वयं कपोलयोन्न्यसेत् | बे * द्वयं विन्यसेत् पश्चाद्गण्डयुगान्वितं शशिदलोपेतोत्तमाङ्गं बुधे इति | श्वेतः षकारः | गण्डयुगम् ऌम् ॡम् | शशिदलं बिन्दुः षकार ऌकारबिन्दुभिरेक * * कार ॡकारबिन्दुभिरेकम् | एते चिबुकपार्श्वयोर्न्यसेत् | प्. १४३) दन्तपङ्क्तियुगले बकद्वयम्सेन्दुखण्डरदनच्छदद्वयमिति बकः शकारः इन्दुखण्डो बिन्दुः | रदनच्छदद्वयमोष्ठ युगलम् | एम् ऐम् शकारेणयुक्तं बीजद्वयं दन्तपङ्क्त्यो न्यसेत् | ओष्ठयो घटयुगं ततो न्यसेद्दन्तयुग्ममुख पूर्वसंयुक्तमिति | घटो वकारः | दन्तयुग्मम् | ओ औ | मुखं विसर्जनीयः | तत्पूर्वं बिन्दुः | शेषं पूर्ववत् | एते ओष्ठयो न्यसेत् | रसन्नाभावर्धोद्धुपयुतमिति | रसो * कारः | अर्धोडुपोबिन्दुः | वम् इति नाभो न्यसेत् | पवनन्न्यसेन्मन्त्रीसान्त्यस्वरमथ शिखामवहित इति | पवनो यकारः | अन्त्यस्वरो विसर्गः | यः इति शिरसिन्यसेत् | इति षोडशकलान्यासः || पश्चाद्देह इत्यादि वक्ष्यमाण क्रमेणेत्येतदन्तस्यायमर्थः | षोडशकलान्यासानन्तरं मातृकां केवला वा रुद्रशक्ति सहितां वा यथ * * स्यानर्थन्तरं विद्यान्यासं कुर्यादिति | यथा | आद्यं बीजमित्यारभ्योर्ध्वमुखादि विद्वानित्यस्यायमर्थः | मूलविद्या बीजत्रयं विभज्य मूर्ध्नि गुह्ये च हृदये चै * * * वामादि नयनयुगे ललाटे चैकोन्यासः | कर्णयुगल आस्ये चैकोन्यासः | अंसद्वये पृष्ठे चैकोन्यासः | जानुयुगे नाभौ चै * * * र्ध्वाधौ दक्षिणवक्त्रेष्वेकः | वामापरमध्ये वक्त्रेष्वेकः | प्. १४४) एवं सप्तविधं मूलविद्यां विन्यसेदिति | अङ्गानि मूलेन चेति | मूलमन्त्रं बी * * * * गानि कुर्यादित्यर्थः | गुह्यनाभीति | गुह्यनाभि हृदयानन मूर्ध्वसु | पूर्वोक्तबाणपञ्चकन्यसेत् | ललाटदेशे वदनेत्यादि भवन्ति तस्य म * * * * मर्थः | क पञ्चमं शुचि नयनान्तसंयुतमिति | कंवकारः | तत् पञ्चमो हकारः | शुचिरग्निः | रेफ इति यावत् | नयनान्तमीकारः | हकार रे * * * * बीजमेकम् | स वामदृक्पवना गुणान्वितः | कर इति वाम दृगीकारः | पवनो यकारः | तद्गुणाक्षरः | तृतीयाक्षरः | लकारः | करः ककारः | कलारलकार ऊ * * * * कामाख्यम् | रविस्वर इति द्वादशस्वर ऐकारः | हरिहयविष्णुषष्ठ वदनमिति | हरिहयो लकारः | विष्णुरकारः तत् षष्ठ ऊकारः | वनं वकारः | वकार लकार ऊकार * * चतुर्थम् | ततस्थल उ पुरान्वितो भृगुरिति | थ पूर्वस्तकरः | ल पूर्वोरेफः | उ पूर्व ईकारः | भृगुः सकारः | सकार तकार रेफ ईकारेः पञ्च * * * षां शिरः सुविदधीतर्धचन्द्रानिति | एतानि बीजानि प्रत्येकं बिन्दुभिः | कामराजमन्मथकन्दर्पमकरकेतनमनोभव नामभिश्च संयोज्य ललाटवदनहृदय * * * न्यसेदित्यर्थः | विद्यान्यासं मूलमन्त्रेणाङ्गानि मूलेनेति च पूर्वोक्तं प्. १४५) विद्यान्यासाङ्गन्यासार्थं मूलविद्याबीजत्रयं वक्ष्यामीत्याह | विद्याङ्गहेतोः ल * * या इत्यादि सम्मोहनाख्यं कुलमित्यं तेव कान्तादि भूतपदकङ्कगतार्थचन्द्रं दन्तान्तान्त पूर्वजलधिस्थितवर्णयुक्तम् | अत्र प्रासङ्गिकत्वेन प्रपञ्च सारो * * * लिपि प्रक्रिया प्रदृश्यते | ह्रस्वां पञ्चपरेचेत्यत्र | ह्रस्व पञ्चकानां दीर्घपञ्चकानां बिन्द्वन्तसन्धिविकृतपञ्चकानां का दिव्यजनानां च प्राणभूताश * * * मया इति क्रमेण भूतसंज्ञा विधानेन मातृकाक्षराणां पञ्चभूतात्मत्वेनोक्तत्वाद्यथा | अ आ ए क च ट त प य ष इत्येते दशवर्णाः | प्राणभूतात्मकाः | * * * * * * ख छ ठ थ फ र क्ष इत्येते दशवर्णाः | अन्यात्मकाः | उ ऊ ओ ग ज ड द ब ल ल इत्येते दशवर्णाः | पार्थिवात्मकाः | ऋ ॠ औ घ झ ट ध भ व स इत्येते दशवर्णाः * * * * त्मकाः | ऌ ॡ अं ङ ञ ण न म श ह इत्येते दशवर्णा व्योमात्मकाः | इति कान्तादि भूतवदगमिति | कंजलम् | तद्बीजम् ऋकारः | तदन्त आकाशः | तद्बीजं * * * * भूत पदगं ह्रस्वर्गो तत्प्रतिलोम्येन पञ्चमस्थानगतम् अकारः कं शिरः | अर्धचन्द्रो बिन्दुः | दन्तान्त औकारः | तत्पूर्ण जधिस्थितवर्णयु * * * म्येन चतुर्थमक्षरमेकारः | प्. १४६) कगतबिन्दुः | स बिन्दुरित्यर्थः | अ एम् इति युक्तः शब्दः सन्धिकार्येण वृद्धिं सूचयति | एवं कृतेद्वा द्वादशस्वरा वाग्भवाख्यो * * * * न्तान्तं कुलपूर्वपञ्चमयुतं नेत्रान्त दण्डान्वितं कामाख्यमिति | कं बिन्दुः | तस्यान्तो विसर्गः | दन्तः ककारः | तत्पूर्वपञ्चमं तत्प्रातिलोम्येन पञ्च * * * * नेत्रमिकारः | तदन्त ईकारः | दण्डो बिन्दुः | ककार लकार ईकार बिन्दुभिः | कामराजाख्य उद्धृतः | दन्तान्तेन युतं तु दण्डि सकलं सम्मोहनाख्यं कुलमिति * * * तदन्त औकारः | दण्डो बिन्दुः | सकलः | काला सहितः | सकारौकार बिन्दु विसर्जनीयैः स मोहनाख्यमन्त्र उद्धृतः | ऋषिरिति सुबोधः | अमुष्य मन्त्रस्यरदान्तयुक् * | बीजं स दण्डं लकुलीश पूर्वं शक्तिस्तु सेतिरद ओकारः | तस्यान्त औकारः | लकुलीशो हकारः | दण्डो बिन्दुः | सकार औकार बिन्दुभिः सार्धं बीजमध्यस्य बीजमित्युक्तम् | आखण्डलकर्णपूर्वं सहार्धजैवात्रकमाननान्तमिति आखण्डलो लकारः | कर्ण उकारः | तत्पूर्व ईकारः | अर्धजैवात्रको बिन्दुः | आननं विसर्जनीयः | दन्तः ककारः | ककारलकार ईकारबिन्दुभिः सिद्धं कामराजं बीजमस्य शक्तिरित्युक्तम् | प्. १४७) वर्णः शुक्ल इति स्पष्टम् | शिवशक्तिबीजमित्यादि सोर्जिता भवदित्यं तस्यायमर्थः | शिवं बीजं हकारः शक्तिबीजं सकारः | अकुलो हकारः | दहनो रेफः | अयमर्थः | मन्त्रस्य प्रथममध्यबीजयोरुपरि शिवशक्त्यात्मक हकार सकारौ निहिता परोपरि तृतीय बीजोपरि हकारो निहितः | मध्यमाख्य कामराजाधरे रेफो निहितः | यथा हकार सकार ऐकारबिन्दुभिः | प्रथमम् | हकार सकार ककार लकार रेफ ईकार बिन्दुभिद्वितीयम् | हकार सकार औकार बिन्दु विसर्जनीयैस्त्रितीयमिति | अकुलो हकारः | कुलं सकारः | अयमर्थः | हकार पूर्वा भैरवी सकार पूर्वा विद्येति देशिकावदन्निति | शिवाष्टमं केवलमादि बीजम् | भगस्य पूर्वाष्टमबीज मन्यत् | परं शिरोन्तं कथिता त्रिवर्णा सङ्केतविद्या गुरु वक्त्रगम्येति | शिव उकारः | तदष्टममेकारम् | भग एकारः | तत्पूर्वाष्टकं प्रातिलोम्येनाष्टममीकारः | परं तृतीयम् | शिरोन्तं शिरो बिन्दुः | तदन्तो यस्य औकारः | द्वादश चतुर्थचतुर्दशस्वरैः स बिन्दुकैः साङ्केतिकी संप्रदाय लभ्या मूलविद्येत्यर्थः | कान्तान्तवान्त कुललान्तवामनेत्रान्वितं दण्डिकुलं सनादम् | षट्कूटमिति | प्. १४८) कं बिन्दुः | तस्यान्तो विसर्गः | तदन्तः ककारः | व अन्तो यस्य स लकारः | अकुलो हकारः | लकार अन्तो यस्य स रेफः | वामनेत्रम् ईकारः | दण्डो बिन्दुः | कुलं सकारः | सनादं नादो हकारः | एतदुक्तं भवति | हकार सकार ककार लकार रेफ ईकार बिन्दुभिः षट् कूटाख्यो महामन्त्र उद्धृतः | अथवा कं बिन्दुः | तस्यान्तो विसर्जनीयः | तस्यान्तः ककारः | वं जलम् अमृतम् | तद्बीजं ठकारः | तदन्तो डकारः | अकुलो हकारः | लान्त इति लकार रेफयोर्ग्रहणम् | संप्रदायेनावगम्यते | ल इति स्वरूपग्रहणम् | लकार अन्तो यस्य स रेफः | वामनेत्रमीकारः | दण्डो बिन्दुः | कुलं सकारः | नादसहितम् | अयमर्थः | हकार सकार ककार लकार डकार रेफ ईकार बिन्दुनादैः षट्कूटमिति केचित् | मतद्वयमपि संप्रदायवत् | आद्यं बीजममध्यमे मध्यमादावन्ते चान्तं योजयित्वा जपेद्य इति | आद्यं वाग्भवाख्यम् | बीजममध्यमे कामराजस्थाने निधाय | मध्यमं कामराजाख्यमादौ वाग्भवस्थाने निधाय | अन्त्यमन्ते यथा स्थितं कृत्वा जपतामुक्तफलसिद्धिरित्यर्थः | आद्यं कृत्वा चावसानेन्त्यबीजममध्ये मध्यं चादिमं साधकेन्द्र इति | प्. १४९) आद्यं वाग्भवाख्यम् | बीजं परबीजस्थाने कृत्वा तत् पराख्यं तृतीयबीजमध्ये कामराजस्थाने कृत्वा मध्यं कामराजाख्यमादौ वाग्भवस्थाने निधाय जपतामुक्तफल सिद्धिरित्यर्थः | तथा च श्रुतिः | अनन्तामन्तामधि निर्मितां महीमिति | अत्र महीमिति वाग्भवमभि दधाति | मन्त्रराजममुं समस्तजगद्विमोहन कारणं मातृकान्तरिं जपेदनुलोमतोऽपि विलोमतः | इत्यस्यार्थः | जपकाले मन्त्रमुच्चार्य अन्ते अकारमुच्चरेत् | पुनरपि मन्त्रमुच्चार्यान्ते आकारमुच्चरेत् | एवं लकार पर्यन्ताक्षराणि | प्रत्येकं मन्त्रान्तरितं जपं कृत्वा पुनर्मन्त्ररहितं केवलं क्षकारम्मैरुस्थाने समुच्चार्य पुनः प्रतिलोम क्रमेण लकाराद्यकार पर्यन्तं प्रत्येकं मातृकान्तरितं जपेत् | एवं मातृकाक्षमालाया जपं कुर्वतामेकवारेण जपः शतसंख्या परितो भवतीत्यर्थः | हंसदेवसमन्वित * * * ले बुध इति | मूलविद्या बीजत्रयमिति हकार सकाराभ्यां संयोज्य जपेत् | दित्यर्थः | परः कवेति मूलविद्यायाः | प्रथमं मध्यमे बीजे केवके उच्चार्य अन्तिमबीजं हकार सकाराभ्यां संयोज्य जपेत् | व्यञ्जन हंस समन्वितमिति | हकार सकारयोरन्तमकारं लोपयित्वा केवलव्यञ्जमात्र हकार सकारावेव हस इति विद्याया संयोज्य जपेत् | प्. १५०) कमलं परिलुप्तमध्यमान्त स्वरमीशादि युतं सबिन्दुनादम् | निगमादि नमोन्तरे विराजन् भुवि देवी हृदयं प्रदिष्टमेतदिति | कमलशब्दस्य मध्यमाक्षरे मकारे लकारान्तगते अकारे परिलुप्ते अवशिष्टः | क्लति भवति | ईश उकारः तस्यादिरीकारः | स बिन्दुनादं बिन्दुनादयुक्तम् | ककार लकार ईकार बिन्दुनादैः सिद्धिकामाख्यं बीजमिति निगमादिः प्रणवः नम इति स्वरूप ग्रहणम् | प्रणवनमसोर्मध्ये कामबीजे निहिते चतुरक्षरात्मिका देवी हृदयाख्या विद्या स्यात् | विद्या कामदुघेत्यादिनितरां रहस्यमित्यन्तः सुबोधः | अथ पुष्पं वारिमुचामित्यादि वारिमुचो मेघाः | तेषां पुष्पजलं तद्बीजं वकारः | दवयोर्दकारवकारयोरादिर्दकारः | ताचेव वर्णौ वकारदकारौ दीर्घमित्याकारः | वारिवाकारः | वान् इत्यर्थः | खान्तं गकारः | अम्बु वकारः | तथेति पूर्वोक्तग्रहणम् | ग्वा इति सिद्धं भवति | यथा दकार नकारो सलोकस्वरो लोकस्वर इकारः | इकारयुक्तौ दिनिवदवदेत्युक्त्वा वाग्वादिनीत्युच्चरेत् | वस्वक्षरमष्टाक्षरम् | एषा अष्टाक्षरी विद्या वाग्भवबीजदीपनकरीत्यर्थः ब्रह्मा शक्रदृगन्वित इत्यादि ब्रह्मा ककारः | शक्रो लकारः | प्. १५१) दृगिकारः | अन्वितः ककारो लकार इकाराभ्यां युत इत्यर्थः | भग एकारः मेषोनकारः | दृगिकारः | दकार नकारौ इकारयुक्तावित्यर्थः | कालोमकारः अनन्त आकारः | वियत् हकारः आकारयुक्तो हकारः | दशन ओकारः संवर्तः क्षकारः | ओकारयुक्तक्षकारः | भीषणो हकारः | अक्रूरो बिन्दुः | बिन्दुयुक्तो हकारः | कमलासनः ककारः | शिव उकारः | उकारयुक्तः वैश्वानरो रेफः | तादृश उकार युक्तः | क्लिन्ने इत्युच्चार्यान्ते क्लेदिनीति पदान्ते महाक्षोभं कुर्वति | एकादशाक्षरीयं विद्यामन्मथबीजदीपनकरीत्यर्थः | क्षोभयतीति | सुबोधः | सावित्रीरदनयुता महादि काली व्योमान्तं शशधरखण्डमण्डिताङ्गम् | मोहिन्या सरसिज भूर्युतस्तथा निर्विद्येद्यं भुवि परबीजदीपनी स्यात् | सावित्री प्रणवः | रदन ओकारः | महादि काली | महाकालो मकारः | ओंकारयुक्तो मकारः | व्योमहकारः | तदन्तः क्षकारः | शशधरखण्डो बिन्दुः | बिन्दुयुक्तं क्षकारः | मोहिनी उकारः सरसिज भूः ककारः | उकारयुक्तः अग्निरेफः | तथेति रेफस्याप्युकारानुवृत्तिः | प्रणवान्तं मोक्षपदं प्रोक्त्वा कुरुशब्दमुच्चरेत् | इयं पञ्चाक्षरविद्या परबीजदीपनकरी | अन्ये केचन प्. १५२) देशिकामपरबीजदीपनीकरीमन्यथा योजयन्ति | सावित्री प्रणवयुता महादिकालीति | प्रणवान्ते महाशब्दमुच्चार्यान्ते मोक्षं कुर्विति | सप्ताक्षरीमुद्धरन्ति यस्य बीजस्य या दीपनकरी तां पूर्वमुच्चार्यानन्तरं बीजमुच्चरेत् | एवं त्रिष्वपि बीजेषु जपप्रकारः | विद्या षडङ्गवदनेष्विति | विद्या षडङ्गवदनेषु न्यासेषु स्वस्वदीपनविद्योच्चारपुरः सर एव मन्त्रबीजानि यथोक्तक्रमेण विन्यसेदित्यर्थः | विद्यामेवन्यासत इति स्पष्टः | मन्त्ररूपमिति | इति सकलागमश्रिति स्मृतिसारभूतं सकलदुरिततिमिरभास्करं मलमाया पाशभङ्ग प्रभञ्जनं स्वान्त कुमुदसम्बोध सुधाकरः सकल संसारबन्धमोचनं महागुरु सङ्कुचि संप्रदायं यथा वन्मन्त्रस्वरूपमीरितम् | तस्मात् साधकचित्त वित्तकाय शाठ्यं हित्वा * * शु श्रूषया तदनुग्रहप्रसादपुरः सरं यथा विधि लब्धमन्त्रः सन् पूर्वोक्तमन्त्रस्थानन्यास जातं विधाय जपपूजादि कुर्यात् | नान्यथेति | || इति संप्रदायदीपिकायां द्वितीयः पटलः || एवं साधकानां सकलपुरुषार्थ साधनभूतं मन्त्रस्वरूपमुक्त्वा पुरुषार्थान्तराय परिहाराय योगाङ्गभूतं प्राणायामप्रकारं प्. १५३) तद्विशेषांश्च वक्तुमुपक्रमते | अथेदं शरीरमित्यादिना दिशाङ्गुलम् | द्वादशाङ्गुलम् | चतुर्दशरात्रेति अपघने शरीरे प्रधानाः प्राणादीनां स्वैरसञ्चा नियमनयोग्याः पञ्चवर्णोज्वला | वकार लकार रेफ यकार हकारैरुल्लसच्छरीरा | प्रणवात्मकत्वादकार उकार मकार बिन्दुनादैर्वा रक्तशुक्लादिभिर्वा पञ्चदेवाः ब्रह्मविष्णुरुद्र ईश्वरसदाशिवाख्याः प्राणादयो वा | मृणान्तरालोल्लसत्तं तु पद्मसूत्रम् | चतुर्दशात्रेत्यारभ्य मुनीन्द्रैरित्यं तस्यायमर्थः | अत्र सकल शरीरे भुक्तस्य चतुर्विधस्यान्नस्य रसमापादतलमस्तकं व्यापकरकद्वारभूतासु अनेकासु नाडीषु सतिषु प्राणादीनां स्वैरसञ्चार नियमन योग्याः प्राधानभूताश्चतुर्दशनाड्यः | सन्ति | तास्वपि तिस्रो मुख्याः | सुषुम्नेडापिङ्गलेति | तास्वपि सुषुम्नैकैवमुख्या | साचाधाराद्या द्वादशान्तं पृष्ठवंशं समाश्रित्य सकलाधारत्वेनाधो वदना ऋ ॠ भूता तिष्ठति | तस्या मूले वामदक्षिण भागमाश्रित्य इडा पिङ्गले स्थिते | तयोरिडानामनाडी चापाकृतिर्भूत्वा लिङ्गमूलस्थाने सुषुम्नामाश्रित्य दक्षिणभागगता | तदाकारा पुनरपि नाभिस्थाने तामेवाश्रित्य वामभागं गता | तदाकारा पुनरपि हृदयस्थाने तामेवाश्रित्य दक्षिणभागंगता | तदाकारा पुनरपि तालुमूले तालुमेवाश्लिष्य वामांसजत्रुमध्यगा प्. १५४) वा मनसा सुषिरं गच्छति | दक्षिणभागसम्भूता पिङ्गलानाडी तत्र तत्रस्था सुषुम्नामाश्रित्य दक्षिणना * सुषिरं गच्छति | यत्र यत्रेडा पिङ्गलयो सुषुम्ना सम्बन्धः | तत्र तत्र स्वाधिष्ठान मणिपूरकानाहत विशुध्यात्राख्यानि पञ्चपर्वाणि भवन्ति सुषुम्नान्तरालतदाकारा काचनचित्रानाडी पञ्चवर्णोज्वला पञ्चदेवमयी ज्योतिर्मयी स्थिता | तदन्तः सर्वप्रभा मूलभूता पद्मतन्तु निभा प्रभा चिन्मयी भाति इडायां चन्द्रश्चरति | पिङ्गलायां सूर्यः | तस्मादम्रस्य वामभागे स्थितिः | दक्षिणभागे विषस्येति | योगविन्दो वदन्तीति | जानीयादुदयं बुध इति देवस्य प्राणवायोः कन्दे मूलाधारे नृणां साधकानां तिग्मकराङ्गुले द्वादशान्तङ्गुले सन्ध्ये च | पूर्वापरे प्रातः सायं सन्ध्ये उत्पत्तिरुदयः लय अस्तमयः | अधोवृत्तिः | निशावासरम् | ऊर्ध्ववृत्तिः | प्राणवृत्तिः दिनेशः सूर्यः एतदुक्तं भवति | साधकशरीरे मूलाधारस्थाने सकल प्रपञ्चकारणभूत संविन्मयमाया स्वरूप कुण्डलिनी शक्तिव्यापारसञ्चारः सकलसमष्टिप्राण इडापिङ्गल मार्गेण ऊर्ध्वं गच्छन् नासा विवराभ्या बहिर्द्वादशाङ्गुलं निर्गच्छति | पुनरपि मूलाधाराभिमुखं परावर्तते | सन्ततमेवं वर्तमानं वायुमेवमभ्यासेन यः करोति स योगविदां श्रेष्ठ इति | प्. १५५) अस्य वायोर्भुक्ति भेदां नामानि च भिद्यन्ते | यथा | ऊर्ध्ववृत्तिः प्राणः अधोवृत्तिरपानः | उक्तान्नरसपाकायाग्निसन्धुक्षकः समानः | पाकमुत्तर समापादतलमस्तकं व्यापयतीतिव्यानः | यः प्राणसचिवो निमेषोन्मेषौ करोति स उदानः | उद्गारकारकोनाकः | ग उन्मीलयति कूर्मकः क्षुत्कारः कूकः | लः | योज्यं भयति | स देवदत्तः आपादतलमस्तकं व्याप्ययो मृतमपि न मुञ्चत्च्छब्दविशेषान् | करोति स धनं जयति | अहरेव प्राणो रात्रिरपानः | अहः सूर्यो * * * चन्द्रमाः इति श्रुत्या प्राणापानयो * होरात्रि रूपत्वं सोमसूर्यात्मकं चोक्तम् | अतो निश्वासनिर्गमनकालात्मा प्राणोदिवासूर्यश्च भवति | निश्वासपरावृत्तिकालात्मा अपानो रात्रि चन्द्रश्चेति | आधारादुदेत्याद् गमनाय नाडी प्रवेश समयः प्रातः सन्ध्या आधाराभिमुखं परावृत्ति प्रारम्भ समः सायं सन्ध्येति | इडयावाहनसमय उत्तरायणः | पिङ्गलया दक्षिणायनमिति | तस्मान्निशा दिवसयोर्वायानि कर्माणि प्रारम्भणीयानि तत्तत् कालगमनं प्रतीक्ष्यैवोक्तेषु कालविशेषेषु प्रारम्भणीयानीत्यभिप्रायः | तुषांशुनाडीमित्यादि पदमुपैति चोत्तरमित्यन्तः सुबोधः | मरुद्वत्म आकाशः | अन्हाय शीघ्रम् | वसूदये अन्ह्यूदये | द्वावेधत्तः सकलं च प्. १५६) कालमिति देशाद्यनवच्छिन्न कालाख्य परमेश्वरस्य इडा पिङ्गलोपाधिक प्राणापानात्मनश्चन्द्रसूर्यौ लवतुटि कलाकष्ठानिमेषमात्रा घटिका मुहुर्ताहोरात्रादि प्रलयान्तावच्छेदपरिणताभ्यां पूरकरे चक्रद्वारा सकलं कालन्धत्तः | ताभ्यां धृतस्यनक्तं दिनात्मकस्य सुषुम्ना भोक्त्री भवति | भोक्तृत्वं नाम चित्कालसमवेतस्य तस्योपाधितयारूप वत्वमापाद्यसर्वस्याव भावकत्वमित्यर्थः | ततः क्रमेणेत्यारभ्य महीतले कीतिभैरवोवेत्यन्तः सुबाधः | विकारमात्राभिः षोडशमात्राभिस्तदर्धाभिः द्वात्रिंशन्मात्राभिः धातुं वायुं विगततन्द्रोविगतालस्यः | अनातिलोव्यग्रः | विस्रसाजरा | यामुण्डाधारदण्डेति सुषुम्नाधारदण्डः | नभोम्भोरुहकुहर विधोः | द्वादशान्तस्थ सहस्रपत्रपद्ममध्यवर्तिनश्चन्द्रमसः | वज्राख्यनाड्याः | चित्रनाड्याः | खगं हंसात्मानं प्राणवायुम् | तथा च श्रुतिः | हिरण्यमयः शकुनिर्ब्राह्मनामेति | अपघनम् | शरीरम् | घनं स्याद् दृढं भवति | एतदुक्तं भवति | या सुषुम्नान्तराले स्थिता चित्रनाडी तु पूर्वोक्ता सामुण्डाधारदण्डात्मसुषुम्ना दण्डमध्ये द्वादशान्तस्थः सहस्रदलपङ्कजकर्णिकामध्यवर्तिनश्चन्द्रमसो मुक्ता दामनीभां सुधाधारां वहन्ती स्थिता | तस्या मध्ये ये हंसात्मानं स्वान्तसं भिन्नं प्राणवायुं सुस्थिरं कृत्वा | प्. १५७) सन्तत सुधाधारयाभिषिच्यमानमानं ध्यायेत् | तस्य मृत्योरपि मृत्युभूतस्य शरीरमाब्रह्मलयावसानं सुस्थिरं भवति मूर्च्छाङ्गत इति मूर्च्छानामप्राणवायोः शरीरान्तरापादतलमस्तकमापूर्यावस्थानं बन्धः | करोतीति मूलासाराद्याधारेषु अन्यतमे नियतमाभ्यासे न प्राणवायोः संस्थापनम् | वातोमृत इति | यन्दास्वान्तसं भिन्नो वायुर्नियताभ्यास बलेन चिदात्ममाभूतया विलयं याति | तदामृत इति गीयते | योगविद्भिरित्यर्थः | अथ पार्ष्णि निरुद्धेत्यारभ्य गुण संप्राप्तिरपेतकल्मषेत्यन्तः सुबोधः | कम्बुलिः पायुः ध्वजमूलं लिङ्गमूलम् | नररिपुविवरे नरोर्जुनः | तस्य रिपुः कर्णः | कर्णरन्ध्रे छिन्द्राण्डङ्गुलीभिरिति | छिन्द्राणीन्द्रियाणि विधिवद्गुरूपदेशेन तथा चोक्तं भवता पराशरेण | क्रमावाप्तमहायोगो निश्चलात्मा यथा शरतीति | कोदण्डयोर्मृवोः वृषभश्रेष्ठः वृषो विषयः | तं भजत इति वृषभः | वृषभाणीन्द्रियाणि | तच्छेष्ठं वृषभश्रेष्ठम् | षष्ठे श्रियं मनः | त्रैर्यन्तगीतं वेदान्तगीतमित्यर्थः | अङ्कमुक्तशशहृल्लक्षावलक्षप्रभम् | अनेकचन्द्रसहस्रधवलप्रभम् | अयमर्थः | इन्द्रियाणि स्वकराङ्गुलिभिन्निरुध्य हृवोर्मध्ये स्वान्तसंभिन्नं प्राणवायुं संप्रदायक्रमेण नियमयति स तत् क्षणादेव प्. १५८) निर्मलानेकेन्दु समप्रभं वेदान्तवेद्यं परं ज्योतिस्वरूपमात्मानमनु भावयतीति | || इति संप्रदायदीपिकायां तृतीयः पटलः || एवं प्राणायाममुखेन पवनविजयं योगविशेषांश्चोक्त्वा जितमरुतामधिकारिणामभ्युदय निश्रेयस प्राप्त्युपाय भूतं मन्त्राणां छिन्नरोधानि दोषपरिहारार्थं च योनिमुद्रा बन्धनप्रकारं वक्तुमुपक्रमते | अथ पूरकयोग इत्यादिना पूरकादि योगाभ्यासेन स्वान्तं नियमितं स्वाधारे प्राण संभिन्नं मनः संयोज्याग्रजन्ध्याख्य सुषुम्नाख्य विकसने यत्नं कुर्यात् | तदुक्तं रुद्रयामले | नित्य क्लिन्ना प्रकारणे आदौ पूरकयोगेन स्वाधारे योजयेमरन इति | शकृत्समुत्सृजेति | कम्बुलिमार्गं पायुस्थानम् | अर्वा अश्वः | यथोत्सृष्टमलस्तुरङ्गः शनैः शनैस्वपायुमार्गं सङ्कोचयेत् | तथा स्वाधार नियमितान्तः करणोपानवायुना पायु द्वारमाकृष्याकुञ्चनं प्रबन्धयेत् | यथा पानवायुरवशेनापि बहिर्निर्गच्छति | तथा नियम्य सङ्कोचयेदित्यर्थः | विदधीतेति | तमपान वायुं देशिकदर्शितक्रमेण मुहुर्मुहुं कृति करणेन ऊर्ध्वमुखं कुर्यात् | आधारलक्षणमाह | दृढरुद्धगु * द ध्वजान्तरालेति | गुदमाधारचक्रस्याधो भागः | पायुस्थानम् | प्. १५९) ध्वजं मुष्कमूलं तेजोमयम् | जाढराग्न्याधारम् | पुष्कराश्रयोग्निमत् त्रिकोणम् | अयमर्थः | गुदध्वजोर्मध्ये स्थितं यच्चतुष्पतिं पद्मम् | तन्मध्ये त्रिकोणाकारयोनिरिति | तथा चोक्तम् | श्री रुद्रयामले | गुदमेड्रान्तरे योनिरिति | अथ कम्बुलिमारुतमिति | कम्बुलिमारुताख्यमपानवायुं देशिकोपदेशक्रमेणाकुञ्चनेन शनैः शनैरूर्ध्वमुखं नीत्वा कमलासनपङ्कजाख्य सुषुम्नामूलं प्रवेशयेत् | तथा चोक्तं श्रीरुद्रयामले | तामातिञ्च्य प्रबन्धयेदिति | अमुनाविधिनेति | एवं मुहुर्मुहुरभ्यासेन निरुद्धाधो वृत्तिरपानवायुरूर्ध्वगमनाय राज्ञां प्रयाणाय तद्भटैः क्रियमाणाध्वशुद्धिवत्कुण्डलिनी शक्त्यात्मकस्य परमेश्वरस्या कुलाख्य स्वभवनगमनाय सुषुम्नामूलं प्रविश्य तदन्तर्ब्रह्ममार्गस्थितग्रन्धिभेदनं करोतीत्यर्थः परिहृत्य खगाधिप इति | अपानोप्यूर्ध्व वृत्तित्वेन प्राणात्मत्वात् खगाधिपाख्यां लभते | एवमूर्ध्वगमनाय प्रवृत्तोपानवायुः सोमसूर्यात्मकेडा पिङ्गलमार्गौ परिहृत्य कमलासनपङ्कजमूलं सुषुम्नामूलं प्रविश्योर्ध्वमुखी करोति | प्रभानमिति | परमेष्ठिनोगवनं सुषुम्नाकाशः | तटित्कोटि प्रख्यमिति | तटिच्छब्देन महाप्रकाशरूपत्वम् | कालानलशब्देनाखण्डज्ञानस्वरूपत्वम् | सहस्रादित्य प्. १६०) शब्देनान्तर्बहिरपि सर्वप्रकाशत्वम् | बन्धूकशब्दो रक्तवर्णताम् | शशभृल्लक्षशिशिरमिति | साधकानामानन्द जनकत्वं चोच्यते | भ्रमन्तं योन्यन्तरिति | कुण्डलिनी शक्त्यात्मना सकल जगत् सृष्टिकारणत्वेन स्पन्दमानम् | काममिति | कामशब्दो रहस्यागमेषु शरीर वैश्वानरो रूढः | एवं तेजोमयं कामं स्वारगतं भावयेत् | तथा चोक्तं श्रीरुद्रयामले भ्रमद्योनिगतं ध्यायेत् कामबन्धूकसन्निभम् | ज्वलत्कालानलप्रख्यं तटित् पञ्जसमप्रभम् | तस्योर्ध्वे तु शिखेति | तस्य कामाख्य जातवेदस उपरि शिखारूपानि सूक्ष्मा विद्युत् समूहसन्निभा चिद्द्रूपायाकला ब्रह्मपथान्तराम्बरगता सुषुम्नान्तराल स्थित चित्रनाड्यन्तगत ब्रह्ममार्गेण द्वादशान्तस्थित विसर्गाख्य परशक्त्यात्मक परमपदं गतेत्यर्थः | अनेन हि पथा ब्रह्मगतागतं करोति | तत्र ब्रह्मशब्दः शक्तिपर्याय वाचकः | तथा च श्रुतिः बृहत्वाद् ब्रह्मणत्वाच्च यद्रूपं ब्रह्मस * तमिति | अतः सकल जगत्कारणात्मिकायाः प्रकृतेर्ब्रह्मत्वं ब्रह्मणत्वं चास्ति | हंसरूपं क्षेत्रज्ञतया एकीभूतं तदात्मनामापन्नं निवातारोपित दीपवत् सुस्थिरं ध्यायेदित्यर्थः | तथा चोक्तः श्रीरुद्रे तस्योर्ध्वे तु शिखा सूक्ष्मा चिद्द्रूपा परमाकला | तया प्. १६१) सहितमात्मानमेकीभूतं विचिन्तयेदिति | शक्ति कुण्डलिनीति | सकलजगनिर्माणे या सदोद्युक्ता त्रिगुणिता प्रसुप्त भुजगाकारा सदा विद्योतमान सौदामिनी सन्निभा मृणालसूत्रवत् सूक्ष्मा जगन्मोहिनी कुण्डलिनीति प्रसिद्धाया चिन्मयी शक्तिः | तां पूर्वोक्त शिखामध्यगतां परिभावयेत् | अन्तर्बहिर्व्याप्य स्थितां भावयेदित्यर्थः | तथोक्तं श्रीमते | तन्मध्ये कुण्डली देवी शिवेन सहिता प्रिये इति | उक्तमर्थं संक्षिप्य कथयति | हुङ्कारेणेति | मायाम् | भुवनेशीं कौलिकीं कुलमूलाधारः | तत्रस्थां कुण्डलिन्यात्मिकामित्यर्थः तथा चोक्तं श्रीरुद्रे तन्त्रे | परं कारणमकुलं कुलं कुण्डलिनी मता इति | विद्यामन्त्रगणः | कौलमिति तृतयम् | निर्णय इति | कुली शिव इत्युक्तः | प्रकीर्तितः | कोलं तेजो विन्यस्यादिति त्रितय निर्णय इति च | अयमर्थः | नामरूप प्रपञ्चमूलभूतात्माया बीजात्मिका कुण्डलिनी कौलिकी स्वरूपां चिद्रूपां देशिकदर्शितक्रमेण हुं कृतिकरणेन मूलाधारादुत्थाप्यचार्य पूर्वोक्तशिखा संभिन्नात्मना संयोज्य सुषुम्नान्तर्गत ब्रह्ममार्गेण परशक्त्यात्मक ब्रह्ममयं गमयेदिति भित्वालिङ्गत्रयमिति | कुण्डलिन्यात्म शिखारूपामात्मसनाथां चत्मयीं शक्तिस्वमूलाधारा दुत्थाप्य सुषुम्ना रन्ध्रं प्रवेश्य स्वयम्भुलिङ्गमित्यादिना प्. १६२) वक्ष्यमाणलिङ्गानि क्रमेण भित्वा ब्रह्ममार्गेणोर्ध्वं गत्वा द्वादशान्तस्थितसहस्रदलपङ्कजस्योपरि भाग विसर्गस्थानगत पराशक्त्यात्मक चन्द्रोदरगलद्रक्तपीयूषधारम्मित दिवाकर भास्वरं शशाङ्कचयशीतलं परमानकन्दभूतं कुलस्थानं प्राप्याम्रतं पाययेदित्यर्थः | पीत्वा कुलामृतमिति | अकुलान्तर्दिव्यममृतरसं पीत्वा पुनरपि तेनैव मार्गेणावरोहक्रमेण कुलाख्यं योन्याधारं प्रापयेत् सावधानः | पुनरेवाकुलं गच्छेदिति | कथं गमयेदित्यत आह | मात्रायोगेनेति | मात्रेति पीठत्रयं लक्ष्यते | तथा हि | आज्ञास्थानगतबिन्दुतत्वात्मकप्रकाशरूपं पूर्णाख्यं पीठम् | तदुपरि ललाटमध्ये बिन्द्वात्मकप्रकाशरूपस्य शिवात्मना स्फुरद्रूपं नादात्मकमोध्याण पीठात्मकं द्वितीयं पीठम् | तदुपरि शिखा विश्रामात्मकशक्तिरूपं तृतीयं कामाख्यं पीठम् | तथा चोक्तं श्रीमते | बिन्दुनादस्तथा शक्तिर्मात्रा त्रयमुदाहृतमिति | तस्माद्देशिकदर्शित क्रमेण योन्याधारान् ब्रह्माध्वनागच्छन्ति | शिखारूपा चिन्मयी शक्तिर्यथा लिङ्गानि निर्भिद्यनकुलं गमयेदित्यर्थः | अथ वामात्रेति कुण्डलीः पर्यायः | तथा चोक्तं लघुपादैः यामात्रात्रपुसीलतेति | अयमर्थः | पूर्वोक्तशिखायाः कुण्डलिनी संयोगो मात्रायोग इति | अथ वामात्रेति काल परिणाम वाचकः | प्. १६३) तथा चोक्तं श्रीरुद्रेतन्त्रे | अयुते द्वे सहस्रैक षट्छतानि तथैव च | समात्रागीयते चात्र उद्घातवशवर्तिनी | उद्घातात्मकप्राणात्मकशिखायाः कालावच्छेदात्मकमात्रायोगेन विनागमागमौनस्तः | तस्मात् कालावच्छेदकमात्रया शिखायोग इत्यर्थः | सा शक्तिः सकलशरीरजीवभूता इति | या पूर्वोक्त शिखारूपा चिन्मयी शक्तिः सकलशरीरजीवभूता चराचरात्मकशरीरिणां सृष्ट्यादि व्यापारेस्य शक्त्यधीनत्वात् | तथाचोक्तं श्रीरुद्रेतन्त्रे | नाडीनामास्पदं पिण्डो नाड्यः प्राणस्य चाश्रयाः | जीवस्य निलयः प्राणो जीवो हंसस्य चाश्रयः हंसः शङ्क्तेरधिष्ठानशक्त्यायत्तमिदं जगत् | इति | प्राणो साविति | असौ शिखा चिन्मयी शक्तिः | अत्रास्मि तन्त्रे प्राण इति गीयते तत्र को विदैः | प्राणवायुरूर्ध्ववृत्तित्वादुद्घाताख्य ग्रन्धिभेदं विधातुं भवति | तथा चोक्तं श्री रुद्रयामले | सा च प्राणसमाख्याता तन्त्रेऽस्मिन् परमेश्वरीति | उद्घातः स तु पठ्यत् इति | तु शब्दोवधारणे | यदा स एव प्राणः प्राणान्तं स्पृशति | प्राणो हकारः | तदन्तः क्षकारः ऊर्ध्वं घात उद्घातः | एतदुक्तं भवति | पूर्वोक्त चिन्मयशक्त्यात्मकप्राणो देशिकदर्शितक्रमेण ब्रह्मपदोर्ध्वं गच्छन् | तत्रस्थालिङ्गपीठात्मक ग्रन्धिरूपान् कवाटानुद्घाट्य प्राणात्मकपरशक्त्यन्तर्भूतं प्. १६४) संवर्तकाख्यं निष्कलपदं यदा गच्छेति तदा स एवेवोद्घात इति गीयते | योगसूरिभिरिति | तथा चोक्तम् | रुद्रयामले | उद्घातः प्रोच्यते | सोभिप्राणान्तं स्पृशते यदेति तथा श्री कामेश्वरी तन्त्रेऽपि | प्राणेन प्रेर्यमाणेनाप्यपानः पीड्यते यदा | गत्वा चोर्ध्वं निवर्तेत एतदुद्घात लक्षणमिति | अमुं स्वाचारर्थ इति अनेन योनिमुद्रा बन्धाभ्यासिनः | फलातिशयं दर्शयति योधिकारी गुरुपराधीनवित्तचित्तकाय प्रवृत्तिर्विहित दीक्षाचेधो योनिमुद्रा बन्धयोगविशेषांश्च यथोक्तक्रमेण ज्ञात्वा नित्यमभ्यसेत् | अनुसन्दयाति स साधकवरो निरस्त निःशेषदुःख कल्मषोपगत जरा क्लेश मरणश्च सुखसमूह परिवृतो लक्ष्मीपतिरिव कटाक्षविक्षेप किं करीकृतदेवगणो दिवि सुरेन्द्र इव भूमौ चिरञ्जीवतीत्यर्थः | तथा चोक्तं श्रीरुद्रयामले | एवमभ्यासस्तु स्यादहन्यहनियश्चयात् | जरामरणदुःखौघैर्मुच्यते भवबन्धनात् || अथ पूरक इत्यादि सुचिरञ्जीवतीत्यन्तेन एतदुक्तं भवति विवित्तदेशे रमणीये मृद्वासने प्राङ्मुखोदङ्मुखो वा स्वस्तिकाद्यासनेष्वन्यतमेनोपविश्य | कृतगुरुचरणारविन्द वन्दनस्वाङ्गग्रीवशिरांसि सन्धारयन् | स्वाधारनियमितान्तकरणो देशिकोपदेश क्रमेण हुं कृतिकरणेन शनैः प्. १६५) शनैर्मुहुः पायुमार्गमाकृष्याकुञ्च्य बध्वापान वायुमाधारे नियम्यतं स्वान्तसम्भिन्नेन प्राणवायुना संयोज्य | चन्द्र सूर्यात्मकेडा पिङ्गलामागौप * हृत्य सुषुम्ना मुखमुन्मीलयन् तदन्तर्गतचित्र नाड्यन्तर्गत ब्रह्ममार्गं प्रवेश्य ऊर्ध्वं गत्वा ततस्वमूलाधारे योन्यन्तस्त्रिगुणित प्रसुप्त भुजगाकार चिन्मयकुण्डलिनी शक्त्यात्मना भ्रमन्तं बन्धूक पुष्पसंकाशं सन्ततविद्योतमानं तटित्समूहसन्निभम् | दिनकरभास्वरं सोमसमूहशीतल ज्वलत् कालानलरुचिं कालाग्निमयं कामं ध्यात्वा | तदूर्ध्वे भागे निवातारोपित दीपवत् | शिखारूपमायात्मक कुण्डलीनीमात्म स्वन्नाथ चिन्मयीं प्राणात्मिकां ध्यात्वा तां ब्रह्ममार्गेणोर्ध्वस्वयम्भु बाण परिलिङ्गानि हित्वा तदुपरि स्थितमात्राख्य पूर्णोड्याण कामात्मकपीठत्रयं च भित्वा प्राणाख्य पर शक्तिं गत्वा तदुपरि भागस्थिता मृतकर बिम्बान्तर्गलिता मृतसागर मया कुलाख्य परं पदं गत्वा तदमृतं पाययेत् | अगलान्तममृतरसं पीत्वा ततः परावृत्या सावधस्तेनैव पथा च कुलाख्यं मूलाधारं प्रवेशयेत् | पुनरपि तथैवोर्ध्वं गच्छेत् | पुनरपि तथैवाधारम् | इत्येवं नियताभ्यासेन योनिमुद्रा बन्धनाख्य योगसिद्धस्य उक्तफलानि भवन्तीति | चतुर्विधाया कथितेह सृष्टीति | अण्डजस्वेद जोद्भिज्जरायुजाश्चेति | प्. १६६) अण्डजाः पक्षि सर्वादयः | स्वेदजाः यूकमत् कुणादयः | क्षणविनाशिनः | उद्भिजाः येभित्वोद् गच्छन्तीति | ते स्थावरा वृक्षगुल्मलनादयः | नरतुरगगजपश्वादयः | जरायुजाः | एवं चतुर्विधाया कथितेहसृष्टिरिति | तिर्यग्योनि भूताया निमित्तोपादानकरणभूतायां प्रवर्तते | कालाग्नि रुद्रादि सदाशिवान्तं तत्वजातम् | चतुर्दशभुवनात्मकब्रह्माण्डं लयं याति | सा त्रिरेखाकारा वाग्भवात्मिका शक्तिस्त्रिपुराख्येति | तथोक्तमुमातन्त्रे | सा देवी त्रिपुराख्याता योन्याख्या च तथा परेति | तथा च श्रीमतसारे | कालाग्नि रुद्रादि सदाशिवान्तमखण्डं धावरणेषु चाण्डम् | यस्यां ययां व्याप्तमवस्थितं चमत्वातदन्यं न च संस्मरामीति | पूर्वोक्तलक्षणां योनिमुद्रां तद्बन्धनं चोपसंहरति | सेय मम योक्तेऽति | योनिमुद्रा बन्धनाभ्यासिनां फलानि दर्शयति | अनेन बन्धन साध्यत इति | एतेच्छिन्नादयो मन्त्रदोषा मन्त्रव्याकरणे दृष्टव्याः | अत्रापि तं मतेन दिशा प्रकाश्यते | अर्थगूढाश्च ये मन्त्राच्छिन्नास्ते समुदीरिताः | रुद्धा विसन्धिका मन्त्राः सन्धिकार्यकरणेषु योग्येषु सत्सु विगतसन्धिका मन्त्रास्तेरुद्धाः | उच्चारसनसोच्चारो मन्त्रस्तम्भित उच्यते | १६७) मन्त्रोद्धारसमये सानुनासिकाक्षराये मन्त्रास्तत् प्रचुराक्षराश्च ते स्तभिताः | कीलितश्चन्दसो मन्त्र उक्तादेरधिकाक्षरः | उक्तादिच्छन्दसो येधिकाक्षरा मन्त्रास्ते कीलिताः | सप्ताः | दीपिन्या चिविनासिद्धाः सुप्ता इति समीरिताः | ये अनवगत * पनमन्त्रास्ते सुप्ता | मत्ता लेखना त्रय संयुताः | ये मन्त्राः मत्तमनिभिर्विलिख्य पठन्ते ते मत्ताः | मूर्छितास्वपगता मन्त्राः | ये मन्त्रा स्वापकालोपदिष्टास्तत्कालविनियुक्ताश्चते मूर्छिताः | हीनवीर्याः शक्तिहीनाः | अनधिकारि बहुजनोपदेशावधिकाम्य प्रयोगाच्च सर्वे मन्त्राः शक्तिहीना भवन्ति | ते हीनवीर्याः | दग्धाः षट्कर्णैर्यः श्रुताता मन्त्रा ते दग्धा समुदीरिताः | बलवत्सन्निधानेन दुर्बलस्त्रासितो भवेत् | अघोर नृसिंहादि मन्त्रेषु जप्यमानेषु क्षुद्रमन्त्राणां यक्षिणी महाशास्त्रार्द्रपटादीनान्त्रा सो जायते | शत्रुपक्षेन्धिताः प्रतिकूलोरिपु स्मृतः | अभीष्टमन्त्रेषु सिद्धसाध्यादीनाशोध्यमानेषु वैरिकेषु गतोद्धाराक्षराये मन्त्रास्ते शत्रु पक्ष स्थिताः | बालवृद्धा उभाज्ञेयौ गुरुतो वर्णलक्षणैः | गुरु संप्रदायेन लध्वक्षरात्मकाये मन्त्रास् * ?लाः | गुर्वक्षरा वृद्धाः | गर्विता यौवनेन | गुरोरप्यविधिना प्. १६८) प्राप्ता ये मन्त्रास्ते यौवनेन गर्विताः | निजिताः | यथोक्तक्रमेण उक्तसंख्याधिकं जप्यमाना अपि साधककर्मबलान्त फलेदास्तेनि ज्ञाताः | ये च सत्वेन हीनाः | सत्ववर्जम बीजकम् | अज्ञातबीजा ये मन्त्रास्ते सत्वहीनाः | खण्डीभूताः | अयुतनियुतात्मकाक्षरा ये मन्त्राः पठितुमशक्तेः तत्खण्डमात्रमादाय जप्यन्ते ते खण्डीभूताः | विहीनाः | अनवगताङ्गमन्त्राविहीनाः | एवमाद्यनेकदोषदूषिता अपि योनिमुद्रा बन्धनाख्य योगाभ्यासयुक्तेन जपेन सर्वे मन्त्रा अभिमतफलादा भवन्तीत्यर्थः | तथा चोक्तम् | श्री रुद्रयामले नित्यक्लिन्ना प्रकरणे | यद्यदुच्चरते मन्त्रं वर्णरूपं शुभाशुभम् | तत्तत् सिध्यत्यनायासाद्योनिमुद्रानि बन्धनादिति | गुरुतल्पनिषेवणमिति | स कृदाचरितेनापि योनिमुद्रानि बन्धनेन महापातकयुक्तोप पुरुषः पूतो भवतीत्यर्थः | तथा चोक्तं श्रीरुद्रयामले | कृत्वा पापसहस्राणिभ्य संख्यातानि सुन्दरि | दहत्युच्चारमात्रेण योनिबन्धेन नान्यथेति | स तु मन्त्रवर इत्यादि श्लोकत्रयेण योनिमुद्रा बन्धनाभ्यासिनामैहिकामुषिकं फलातिशयं दर्शयति | तथा चोक्तं श्री रुद्रयामले | तस्मादभ्यासनं नित्यं कर्तव्यं पुण्यकांक्षिभिः अभ्यासाज्जायते सिद्धिरभ्यासान्मोक्षमाप्नुयात् | संवित्तिं प्. १६९) लभतेभ्यासाद्योगाभ्यासात् प्रवर्तते | मन्त्राणां सिद्धिरभ्यासादभ्यासाद्वा साधनम् | कालवं च नमभ्यासात्तथा मृत्युञ्जयो भवेत् | इति | तस्मादेकेन कर्मणा सकल पुरुषार्थकाङ्क्षिभि योनिमुद्रा बन्धनाख्या योगाभ्यासे नित्यं यत्नः कर्तव्य इत्यर्थः | || संप्रदायदीपिकायां चतुर्थः पटलः || एवमधिकारिणामभ्युदय निश्रेयस प्राप्युपायभूतं योनिमुद्रा बन्धन प्रकारमुक्त्वा अनन्तरं षडाधारेषु योगविशेषान्वक्तुमुपक्रमते | अथ आधारपङ्केरुहाणीत्यादिना | सुषुम्नान्तरस्थानि | या पूर्वोक्ता सुषुम्नान्तराले स्थिता चित्रनाडी तदन्तर्मूलाधारादि षट् पर्वाणि सन्ति | तान्येव षडाधाराणीत्यर्थः | तदम्भोजेति | तन्मूल संस्थितान्देवान् ब्रह्मादीनक्षराणि आधारविंष्टाः | डाकिनीत्यादि देवताश्च वक्ष्य इति | पूर्वेण सम्बन्धः | अजग्रन्धिपद्ममिति | योनिमुद्रा बन्धप्रकरणे | मूलाधारात्वेनोक्तम् | यच्चतुर्दलात्मकं पद्मं तदेवाधार माद्यं ब्रुवते | योगिनः | देवी निरुद्धेति | तत्र सकल प्रपञ्चमूलमृतां ज्योतिर्मयी कुण्डलिनी शक्तिस्थितेत्यर्थः | जलेन्द्राग्नि वायून्यसेदिति | जलत्वकारः | वद्वितीयं शकारः | प्. १७०) अग्नि तृतीयं षकारः | डाकिनीति मूलाधार निविष्टाशक्तिः डाकिनीत्यर्थः | एतदुक्तं भवति | मूलाधारे तेजोमयैः वकारशकारषकारसकारै सबिन्दुकैश्चतुर्भिरक्षरैयुतं चतुर्दलात्मकं पीताभं डाकिनी देवताधिष्ठिताश्चर्यभूतं यत् पद्मं तत् सकल प्रपञ्चमूलत्वान्मूलाधारमिति योगिनो वदन्तीति | तस्मिन्मूलाधारे नियमितामरुतां योगिना मैहिकामुष्मिकं फलानि दर्शयति | मूलाधारे सन्ततं ध्यानयोगादित्यारभ्य परमानन्दपदे मुदारमन्त इति | उत्प्लुतिरुत्पतम् | दार्दुरीददर्दुरोमण्डूकः | तत्सम्बन्धिनी प्लुतिरिति यावत् | व्रजं गृहं मूलाधारादारभ्यादा द्वादशान्त सुषुम्नान्तस्थ तयोपास्यत्वेनोक्तनिष्कल चैतन्य ज्योतिषोयाथात्म्यं ब्रह्मरूपशिवलिङ्गस्वरूपत्व माधारदेवतानां च तन्मुखत्वेन तस्य षन्मुखत्वं षट्कोणशानां च तत्तदाधारोपाधिकं चोप्यास्यतया व्याचष्टे | एकीभूतार्ण वा इति | षट् सिद्धाः द्विरण्डवालि महाकालाग्नि पिनाकिच्छगलण्डा इति | सकल सुरतनुः | ब्रह्मविष्णुरुद्रेश्वरसदाशिव शिवात्म षट् कोशाः | त्वं मासरुधिरमज्जास्थिस्नायवः | पूर्वमुपास्य तयोक्त निष्कल चैतन्यस्य ब्रह्मण उपास्यं सकलं रूपं दर्शयति | अभङ्गं लिङ्गवपुद्धृतोगगवत इति | भगवतः | प्. १७१) ऐश्वर्य वीर्य यशश्री ज्ञान वैराग्येषु भगशब्दो वर्तते | तद्वतो भगवच्छब्द वाच्यत्वम् | आधारात्मा द्विरण्डः | स्वाधिष्ठानात्मा वह्निः | मणिपूरकात्मा वाली | अनाहतात्मा पिनाकी | विशुध्यात्मा छगलब्धः | आज्ञात्मा महाकाल इति | स्वाधिष्ठानमिति रसदलैः | षड्दलैः ध्वजमूलं लिङ्गमूलम् | पृष्ठादि तर्काक्षरैः पृष्ठं बकारः | तदादि षडक्षरैः | बिन्दून् भासितमस्तकैः | स बिन्दुकैः | लिङ्गात्मनः शूलिनः | सुषुम्नौपाधिक चिन्मय तेजो लिङ्गात्मनः | परमेश्वरस्येत्यर्थः | एतदुक्तं भवति | लिङ्गमूलस्थाने | बं भं मं यं रं लम् इति षडक्षरैर्युक्तं षड्दलात्मकं पद्मं बालदिवाकरभास्वरं लाकिनी देवतादिष्ठितं स्वाधिष्ठानाख्यं पङ्कजम् | एवं मूलाधाराद्या द्वादशान्तमुपास्यत्वेन उक्तस्य सुषुम्नापाधिक चैतन्य ज्योतिर्लिङ्गात्मनो भगवतः | परमेश्वरस्याति महनीयमुपलब्धिस्थानमिति योगिनो वदन्ति | इह किलसमनस्कानां नियमितमरुतां योगिनामिहपरत्रापि फलानि दर्शयति | इह स्वाधिष्ठान इत्यारभ्य सहजानन्दच्छलेन्दूदय इत्यन्तेन | नाभिस्थं मणिपूरकमिति | डकारादिभिः फकारान्तैर्दशभिरक्षरैः | अयमर्थः | नाभिस्थाने | डं ढं णं तं थं दं धं नं पं फम् इति दशभिरक्षरैः प्. १७२) संभिन्नं दशदलात्मकं नीलवर्णं लाकिनीं देवताधिष्ठितं मणिपूरकं नाम | अत्र स्थाने | स्थिरीकृतान्तः करणस्य नियमितमरुतो यो भिन्नं फलातिशयं दर्शयति | सततं ध्यायं दर्शयति ते नरा इत्यारभ्य कालस्य वा वञ्चनमित्यन्तेन | हृदये सरसेन्द्रगोप सन्ध्याघनसिन्दूर सुवर्ण वर्णमब्जमिति | रविसंख्यैर्द्वादंशभिः क्रोधीशाद्यैः क्रोधीशः | ककाराद्यैरित्यर्थः | भानुसंख्यैर्द्वादशभिर्दण्डो पेतैर्बिन्दुमद्भिः | अयमर्थः | हृदयप्रदेशे | कं खं गं घं ङं चं छं जं झं ञं टं ठम् इति क्रोधीशादि द्वादशभैरव सहितैर्द्वादशाक्षरैर्युक्त द्वादशदलात्मकं कर्णिकान्तर्भितसमप्रभ मन्त्रमूलं शक्त्याकाकिन्न्याधिष्ठितमिन्द्रगोप * न्दूर सन्ध्यारागसमप्रभमनुपममब्जामन्वाहताख्यम् | एकस्मिन् न नाहतात्मनि स्थाने नियमितमानसमरुतां समाधिमतां लोकद्वयानुबन्धीनि फलानि दर्शयति | एतस्मिन् सततं निविष्टमनस इत्यारभ्यस्याद्योगिनी मेलनमित्यन्तेन | विशुद्धाख्यं कण्ठ इति श्री कण्ठ अकारः | अकाराद्यैः अयमर्थः | अम् आम् इम् ईम् उम् ऊम् ऋम् ॠम् ऌम् ॡम् एम् ऐम् ओम् औम् अम् अः इति षोडशस्वरैर्युक्तं षोडशदलात्मकं धूमवसानवर्णं साकिनी देवताधिष्ठितं विशुद्धाख्यं पदम् | अस्मिम् स्थाने संस्थापितमानसवायुनां १७३) संयमनामपरत्र च फलातिशयं दर्शयति | अभ्यासयोगादित्यारभ्यनापिगणप इत्यन्ते न | अज्ञानामेति | दलयुग्मं द्विदलम् | वर्णावन्त्यौ हकारक्षकारौ | एतदुक्तं भवति | भ्रुवोन्मध्यै संविन्दुकाभ्यां हकारक्षकाराभ्यां युतद्विदलात्मकं शरदम्बु संकाशं हाकिनी देवताधिष्ठितमाज्ञाख्यं कमलम् | अत्र ध्यानयुक्तानामैहिकामुष्मिक फलाति यं दर्शयति | ध्यानयोगनिरतस्य इत्यादि महानन्दकन्दमित्यन्तेन | बिन्दुनिलये अज्ञास्थाने निरालम्बां मुद्रांखेचरी मुद्राम् | विष्णोः पदमाकाशः | उल्लासि चिल्लियुगलं स विलास भ्रूयुगलम् | विसरं समूहम् | मुद्रया खेचर्या विश्वनि च ये आकरालाकृष्णवर्णा | आभीलेर्भयानकैः | चरन्मरालं सञ्चरद्धं सम् | सबकोटमालम् | बलाकमालायुक्तिम् | तटित्करालान्तरवारिनीलम् | विद्युज्वल सलिलश्यामम् | मुद्रयाखेचर्या विश्वनिलये आज्ञास्थाने | सहस्रारपद्ममिति | अरशब्देनदलान्युच्यते | सहस्रदल पङ्कजमित्यर्थः | विसर्गादधस्तादिति | विसर्गस्याकुलाख्यस्य पदस्या वाग्भाग-इत्यर्थः | अथो वक्त्रमवाङ्मुखम् | आरक्तकिञ्जल्क पुञ्जं रक्तकेसराढ्यं कुरङ्गेण हीनः | विगताङ्कः | त्रिशृङ्गेण युक्तः | त्रिकोणाकारः | योन्याकार इति यावत् | तथा चोक्तं श्रीमते | शक्तिर्यत्र लयं यातातदेवाधारमण्डलमिति | प्. १७४) स्फुरद्रश्मिजालः भास्वत् प्रभासमूहः | सुधाङ्गुरमृतकरः | तदन्तर्गतं ब्रह्मरन्ध्रम् | सुसूक्ष्मम् | तन्मध्ये सूक्ष्माकाशात्मकम् | ब्रह्मरन्ध्रम् | तथा चोक्तं श्रीरुद्रयामले | ब्रह्मरन्ध्रं तु तन्त्रैव सुषुम्नाधारमण्डलमिति यदाधारभूतं सुषुम्नाख्यनाड्याः | सुषुम्नायाः शक्तिनाड्या आधारभूतं सुषुम्नेति | निष्कलचैतन्या परमेश्वरस्योपाधि भूता चित्कालसहिता इन्दुमण्डलमध्यवर्ति ब्रह्मरन्ध्रमूर्तीरी कृत्यदेहमनुगतेत्यर्थः | तथाचोक्तं योगामृते | शक्तिर्यत्र लयं यातातदेवाधारमण्डलमिति | एतत्कैलाससंज्ञं पदं कुलपदं यदेतद्विसर्गाख्यं मकुलपदं तदेव कैलाससंख्यं बिन्दुरूपी खरूपी | प्रं प्रकृत्यात्मकः | तथा चोक्तं श्रीभगवत्पादैः | बिन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिर्मता | बिन्दुविसर्गात्मको हंसः | सतदात्मकमिदं जगत् | एतदुक्तं भवति | पूर्वोक्तादाज्ञास्थानादूर्ध्वं यच्छिरः | कपालन्तराले स्थितमधो वदनमारक्त केसरं कलात्मक षोडशस्वर परिवृत्तं सहस्रदलपङ्कजम् | तन्मध्ये त्रिकोणाकारमण्डलान्तर स्फुरत् प्रभासमूहः सुधाकरः समास्ते | तदन्तर्ब्रह्मनाड्याधार भूतम् | ब्रह्मरन्ध्रम् | ददुपरि भागेषूर्ध्वं केसरं सहस्रा दलात्मकं पद्मम् | तद्विसर्गाख्यमकुलपदम् | एतदेव स्थानं कैलाससंज्ञमिति | प्. १७५) देशिकावदन्ति | यत्रास्ते भगवतान्विष्वेषान् जनाना भवभयकातरकप्रबोध परमाचार्यरूप जगदुत्पत्ति परिवृतलीलोनादि निधनो योगैकगम्यो योगिनामभिमतफलदः सन्ततमन्तः सौधीन्धारां विमुञ्चन् सच्चिदानन्देक रसस्वलक्षणः | परिपूर्णात्मा परया शक्त्या परमेश्वर इति | अत्र कैलासस्थाने नियमितस्वान्तमरुतामिह च परत्र च फलभोगातिशयं दर्शयति | स्थानस्येत्यारभ्य वीतमृत्युरित्यन्तेन स्थानेस्मिन् नित्यादि प्रापयेदित्यन्तः सुबोधः | || संप्रदायदीपिकायां पञ्चमः पटलः || एवं षडाधारेषु योगविशेषानुक्त्वा अनन्तरं मूलाधारेषु स्वयम्भुवादि लिङ्गविशेषान्वक्तुमुपक्रमते | स्वयम्भुलिङ्गमित्यादिना | स्वयम्भुलिङ्गम् | निजयोनिमध्यरन्ध्रान्तरमिति | पूर्वदृढरुचगुदध्वजान्तराल इत्यत्र योनिमुद्रा बन्धनप्रकरणे मूलाधारस्थाने प्रस्तुताया कुण्डलिनी शक्त्यात्मिका योनिः | तन्मध्ये यच्चिन्मयं पिण्डात्मकं तेजस्वयम्भुलिङ्गमिति | हृत्सरसीरुहान्तर्बाणाह्वयं चेति | हृदय कमलकर्णिकान्तस्थ बिन्दौ | स्थितं यत्परं तेजः | तद्बाणाख्यं बाणलिङ्गमित्यर्थः | इतरमन्तरालमिति | प्. १७६) भ्रुवोर्मध्यमाज्ञास्थानम् | तथाचोक्तमुमातन्त्रे | ललाट सुषिरेरम्येनिर्द्धूमज्योतिख्ययम् | ध्यायेदिति | तस्मात्तन्मध्यगबिन्दौ स्थितं यच्चिद्रूपात्मकं तेजः | तदितरलिङ्गमित्यर्थः | तथाचोक्तम् | स्वयम्भु बाणपरलिङ्गानां पिण्डपदरूपात्मकत्वम् | श्रीमतोत्तरेऽपि | पिण्डं कुण्डलिक्तिः | पदं हंस प्रकीर्तितः | रूपं बिन्दुः समाख्यात इति | गगनाम्बुजेन्य इति | अन्ये च केचनदेशिकाः | अस्यैव परलिङ्गस्य स्थानान्तरे ध्यानमाहुः | गगाम्बुजे विसर्गपदाख्य परबिन्दुस्वरूपनिष्कलपद इत्यर्थः | केचिदन्यथा वर्णयन्ति | विसर्गाधस्तात् परमिति | विसर्गाध स्ताशब्देन विश्व विश्वमाश्रयं कुलपदमभिधीयते | तदवा भगवत ब्रह्मरन्ध्रान्तराले तृतीयलिङ्गं परलिङ्गमित्यर्थः | अथ किमुच्यते | लिङ्गमिति | विश्वमिदं जगद्यत्र लयं याति तल्लिङ्गम् | लिङ्गचयच्चराचरमिति वा लिङ्गयद्वालीनार्थं गमयतीति लिङ्गम् | नलोहपाषाणादिकं तथा च श्रुतिः | अन्तस्थमात्मानमजं न दृष्ट्वा भ्रमन्ति मूढा गिरि गह्वरेषु | पश्चादुदग्दक्षिणतः पुरस्तादधस्विदादुपरि स्विदासीत् | तथा ब्रह्मरन्ध्रेऽपि | बाह्याभ्यन्तरं श्रेष्ठं वीराणां तु कुलार्चनम् | इति | तथा च श्रीकामेश्वरी तन्त्रे | आत्मन्येवार्चनं कुर्याद्बहिर्लिङ्गार्चनं न चेत् | इति | प्. १७७) तथा च ज्ञाननिर्णनेऽपि | आत्मलिङ्गं सदा ध्यायेद्यो यद्यत् फलमिच्छति | तत्तल्लभेन्न स देहोभ्यात्म संवित्तिकारणमिति | तथा च सिद्धान्तवचनम् | आत्मस्थं यः शिवं त्यक्त्वा बहिष्ठं तु समर्चति | हस्तस्तस्थं पिण्डमुत्सृज्यलेडिकोर्पनमात्मन इति | तथा च भगवान्याज्ञवल्क्यः | मध्यमे च हृदये च ललाटे स्थाणुवत् ज्वलति लिङ्गमदृश्यम् | अस्ति गागिपरमार्थमिदं त्वं पश्य पश्यमनसा रविरूपम् | अत्र मध्यमे चेति | मूधारमध्य इत्यर्थः | तस्माद्बाह्यादारभ्यन्तरं श्रेष्ठमिति | सर्वेषां संप्रतिपन्नमित्यर्थः | श्रीमूलविद्यायास्त्रयाणां बीजानां बीजानां स्वयम्भुवादि लिङ्गात्मकत्वेनाध्यनमाह | यद्बीजं वाग्भवाख्यमित्यादिना | यद्वाग्भवाख्यं प्रथमबीजम् | निर्मलकाञ्चन संकाशं मूलाधारे स्वयम्भुलिङ्गात्मकं ध्यायेत् | यत् कामराजाख्यं मध्यमं बीजं जपा कुसुमसंकाशं हृदयकमल कर्णिका मध्ये येदित्यर्थः | यत् पराख्यं तृतीय बीजं शारदेन्दु संकाशमाज्ञा स्थाने परलिङ्गात्मकं ध्यायेदित्यर्थः | एतेषां बीजानं प्रत्येकं जपध्याने फलविशेषं दर्शयति | प्राणान्योनि गता नित्यादि श्लोकत्ररेण विद्यां साकल्येण जपतां ध्यानविधिं हुतविधिं च * हत्रयाणां लिङ्गानामिति | कपालकरणाख्य होमप्रक्रिया प्रज्ञातस्य कुण्डलीमुखान्तस्थ प्. १७८) चिन्मयपरमेश्वराग्नौ नामरूपात्मकस्य जपतोमृतात्मनाहोम प्रक्रियामाह | निःशङ्कमिति | नियतशब्दमात्रमेवं कृत हुं कृति विधिकस्य फलविशेषमाह | एकं वत्सरमिति ततो देवीं ध्यायेदित्यादि ध्यानश्लोकागतार्थाः | महाविद्याख्य निष्कल पदादि मूलाधारान्तं षोडशाधारेषु क्रमेण देव्यवतार ध्यानमाह | ध्यात्वा वागीश्वरीमित्यादिना | एते तेषोपशाधाराः | महाबिन्दुपीठं व्योमरूपावस्थात्मक निष्कलाकाशः | अतीतस्थानं भूविन्यवस्था | आत्मनगतस्थानमुन्मनावस्था | शान्तातीतं समानवस्था | सूर्यचक्रं विसर्गाख्य परशक्ति स्थानम् | व्योमाम्भोजं विसर्गादयस्थितशान्ताख्यं ब्रह्मरन्ध्रं प्रेतभूमिं ब्रह्मरन्ध्रादधस्थित कर्णिकास्थानगतशक्त्याख्य सदाशिवस्थानम् | अर्धचन्द्रं सहस्रारपद्मस्य षोडशकलात्मककेसरस्थानम् | आरम्भं नादात्मकाकुलस्थानम् | सेतुबन्धं विद्वात्मक ललाटबन्धमध्यमम् | व्योमभृवोर्मध्यमाज्ञास्थानम् | ईश्वरास्थानं विशुद्धाख्य कण्ठस्थानम् | रुद्रस्यालयमष्टानाहताख्य हृदयस्थानम् | विष्णुस्थानं मणिपूरकाख्यनाभिस्थानं ब्रह्मस्थानं स्वाधिष्ठानाख्यं लिङ्गमूलं कुण्डलिनी गेहमध्यं मूलाधारमिति | एतेषु मूलाधाराद्याज्ञान्तं सकलाः | परतो निष्कला इति | ज्ञातव्यम् | निरन्तरं ध्यानवन्ध्यानयोगयुक्तस्य फलविशेषमाह | प्. १७९) अनेन शश्वदिति मूलाधारा द्वादशान्तं ब्रह्मन्तर्गतवतीं विद्युदाति वर्णभेदेन ज्योतिर्लिङ्गाकारां ध्यायतां सम्यक् ज्ञादीन् फलविशेषान्दर्शयति | आधारादुल्लसन्तीमिति | यागोक्षीरेत्यादि ध्यान श्लोकास्पष्टार्थः | मूलाधारे भगवतीं ध्यात्वा हंसमन्त्राधिरूढं तृतीयं बीजं जपन् तामकुलपदं नीत्वा ताममृतार्णव निमग्नां सुस्थितां ध्यायतः | फलविशेषमाह | शक्तिं हंसेन युक्तामिति | पीतां सतम्भनादावित्यादि यच्च परमित्यन्तः सुबोधः | सिद्धिरतुला पञ्चप्रकारेति | सिद्धयः तत्र प्रसिद्धाः पातालगलिताञ्जन खड्गमुद्राख्याः अधिकारमन्त्रयोगात्मज्ञानाख्यावेति | || संप्रदायदीपिकायां षष्ठः पटलः || एवं मूलाधारेषु वाग्भवादिषु बीजानां स्वयम्भुलिङ्गात्मकत्वेन योगविशेषांश्चोक्त्वा अनन्तरं सौभाग्यलक्ष्म्यादि सर्वैश्वर्यप्रदं यन्त्रविधानं वक्तुमुपक्रमते | अथामरेरैरित्यादि अथ यन्त्रलेखः सु नियत चरितः संयतेन्द्रियमनोवृत्तिः | परापवादानि वारितवाग्विलासः सुविमल सलिल स्नातः | क्षौमाम्बरधरो मणिमय भूषा भूताङ्गो हिम सलिलालोलित चन्दन कर्पूरागरु कुंकुम कस्तूरिकापङ्क लिप्तगात्रः सुरभि सुमनोमालालं कृताङ्गशिराः | पाटीरपङ्ककृततिलकललाटपट्टः | प्. १८०) कज्जलाञ्जितनयन युगलस्ताम्बूलग्रास पूर्णारुणमुखकुहरोमुदितस्वान्तवृत्तस्मरवदभिरूप वेषोम्बिका पादाम्बुज भृङ्गायमाण मानस स्वगुरुचरण प्रणामपुरःसरं यन्त्रराजं लिखेदित्याह | कर्पूरक्षोददिग्धाङ्ग इत्यादिना यन्त्राणां लेखद्रव्याण्याह | कस्तूरिकेत्यादिना | सुधाकरखण्डः | कर्पूरखण्डः | पटीरं रक्तचन्दनम् | यन्त्रलेखप्रकारमाह | लिखेद् भू पत्राणीत्यादिना | भूपोराजा | राजशब्देन षोडशकलात्मकश्चन्द्रः | षोडशपत्राणीत्यर्थः | तद्बहिर्मास पत्राणि द्वादशपत्राणि तद्बाह्यदेशे पुनर्भूपपत्राणि षोडशदलानि बहिर्दन्तपत्राणि द्वात्रिंशद्दन्ताः द्वात्रिंशद्दलानि | तत् कर्णिकायां महायोनिरिति | मध्यकर्णिकायां षट्कोणमित्यर्थः | हंसदेवोपरिस्थान् जगन्नायिकाम् | हंसमन्त्रारूढां मातृकामित्यर्थः | यन्त्रलेखं संक्षिप्योक्त्वा विस्तारेणाह | षोडशार इत्यादिना | वासरेशस्वरैर्भिन्नमेनं विधायेति | वासरेशस्वरैः पिण्डचतुष्टयवर्जं द्वादशस्वरैः | सम्भिन्नं कामराजमित्यर्थः | कलाबिन्दुनादैः शिरो देशलग्नैः परिभ्राजमानान् ककारादि वर्णानिति | कलावाग्भवम् | बिन्दुः सकारः | नादो हकारः | ऐकार हकार स सम्भिन्नेः कादिसान्तैरित्यन्तः | प्. १८१) तथा चोक्तं श्रीरुद्रयामले तद्बाह्ये मातृकाः सर्वा बिन्दुनादकलायुताः | हंसवर्णकरोरूढाः कारयेत् परमेश्वरीति | मन्दिरस्योदरस्थमिति | मन्दिरं क्षकारः | तस्यान्तस्थमित्यर्थः | तथाचोक्तमस्थानभैरवे | क्षकारो मन्दरः | प्रोक्तावर्णो मेरुरुतीश्वर इति | सुषिरं हकारः | हकारवेष्टितं कुर्यादित्यर्थः | एतदुक्तं भवति | प्रथमं षट्कोणाव्रतं त्रिकोणं विलिख्य बहिदृत्तं लिखेत् | तद्बहिः षोडशदलम् | तद्बहिर्वृत्तम् | ततेद्वादश दलम् | पुनरपिवृत्तम् | तद्बहिः षोडशदलात्मकं पद्मम् | बहिर्द्वादशारे पिण्डवर्णवर्ज्यम् | द्वादशस्वरसम्भिन्नम् कामराजं ह्लां क्लीं इत्यादि लिखेत् | पुनः प्रथमषोडशारे अम् आम् इत्यादि षोडशस्वरान् लिखेत् तद्बहिर्द्वात्रिंशर्दले हकार सकार रैकार सहितान् ककारादि सकारान्तान् सन्दुकान् द्वादशवर्णान् हैसकं हैसखम् इत्यादि हैससम् इत्यन्तं लिखेत् | एतत् सर्वं क्षकारेण वेष्टयेत् | तद्बहि हकारेण वेष्टयेदिति | एतन्महनीय यन्त्रराजमित्यादि स्थलीयते चेत्यन्तः सुबोधः | गन्धसिन्धुरेन्द्रैः | मदहस्तिभिः | मदचित्ख्खल्लविलिप्तगण्डपिण्डैः | मदपंरोहितगण्डस्थलैः | दरोदरेद्यूते | लुलायोवनमहिषः | चित्रकायः | व्याघ्रः | प्. १८२) भल्लूको हंसको मृगविशेषः | लोलकीलश्चलश्चलत् ज्वालः | हृत्पङ्केरुहे हृदयकमलकर्णिकामध्ये यन्त्रराजमध्यस्थितमानं ध्यात्वा मूलविद्यां जपन् मूलाधारात् कुण्डलिन्यात्म चिन्मयीं शक्तिमुत्थाप्य ब्रह्ममार्गेणोर्ध्वमाद्वादशान्तं गत्वा तदन्तर्गता मृतकरबिम्बात् सृतबहलसुधाधारयाभिषिच्यमानं ध्यानन् अमृतमयीं ध्यान्तां मूलाधारान्तं पुनरपि द्वादशान्तं पुनरपि मूलारपि मूलाधारम् | एवमारो * रोहाभ्यासेन नित्ययुक्तं गण्डपुण्यनिलयं पुरुषवरन्धातारमिव भारतीमुकुन्दमिव लक्ष्मीश्च विना कृत सापत्न्येते वाणी भजेत इत्यर्थः | आदौ मन्मथकोष्ठ इत्यादि कुक्षौ तदेतत् क्षिपेदित्यन्तस्यायमर्थः | तावन्ममथाख्य क्लीं कारोदरे साध्याख्य कर्मसहितं कामाधि राजाख्यं ह्रींकारं लिखेत् | तद्बहिः संपुटीकृतं कन्दर्पद्वितयाख्येन षट्कोणेन वेष्टयेत् | षट्कोणेषु मकरध्वजाख्यं बॢंकारं लिखेत् | एतत् सर्वं मनोभवाख्येन स्त्रींकारेण वेष्टयेदिति | यन्त्रं पूर्वोक्तयन्त्राधिपेनत्योदि सुचिल्य इत्यन्तः सुबोधः | साधक स्वमूलाधारकमलकर्णिकामध्ये इदं कामराजयन्त्रं ध्यात्वा साध्यं च तन्मध्ये बालदिवाकरसंकाशमानन्दमन्दं मण्ढरेञ्चेतनामात्र रूपं ध्यात्वा देशिकोपदेश क्रमेण स्वशक्त्यामथनं कुर्यादित्याह | ध्यात्वेवमित्यादिना प्. १८३) भगवत्यवश्यमिति स्पष्टः | कलापत्रोपेतमित्यादि पिण्डामृतमित्यन्तस्ययमर्थः | कलापत्रं षोडशदलात्मकं विलिख्य * त्कर्णिकायां शृङ्गाटद्वितयाख्यं षट्कोणं विलिख्य तन्मध्ये ओं क्लीं नमः | इति देवी हृदयाख्यं मन्त्रं लिखेत् | षट्कोणेषु पञ्चसुकामपञ्चकं ह्रीं क्लीम् ऐं ब्लूं स्त्रीम् इति विलिख्य षष्ठे कोणे साध्यस्य नमाभिमत कर्मसहितं लिखेत् | बहिः षोडशदलेषु स्मररूपान् षोडशस्वरूपान् सबिन्दुकान् लिखेत् | एतत् सर्वं सुषिराख्य हकार कुक्षौ निक्षिपेत् | एतद्यन्त्रं पिण्डामृत्याख्यमिति | जनस्येतदित्यादि सुबोधः | || इति सप्तमः पटलः || एवं यन्त्ररचनाप्रकार तथा कथनानन्तरं बाह्य पूजाविधानं वक्तुमुपक्रमते | अथेत्यादिना प्रथमस्नानादिना शुद्धिं विधाय देवग्रहे स्वग्रहे वा यागमण्डपं परिकल्प्य तज्जल गोमयाभ्या शोधयेदित्याह | शुद्धेत्यादिना भगवतः परमस्य पूर्वयुक्तं गगनं सा नलवामदृक् तथैवेति | भग एकारः | तत्परमैकारः आस्यो विसर्जनीयः | तत्पूर्वो बिन्दुः ऐम् इति | गगनं हकारः | अनलो रेफः | वामदृगीकारः | तथैवेति पूर्वोक्तो रूपो बिन्दुः | ह्रीम् इति प्. १८४) बीजद्वयात्मकेन मन्त्रेण कुशजाभ्यां पूजास्थलमभ्युक्षयेदित्याह | कुशजलेत्यादिना क्ष्मापूजास्थलम् | अकुलं सकुलादि तर्कबीजं शिवपूर्वेणयुतं सहेन्दुखण्डमिति | अकुलं हकारः | कुलं सकारः | तस्यादि तर्कबीजम् | तत् प्रतिलोम्येन षष्ठमक्षरं रेफम् | शिव उकारः | तत् पूर्वमीकारः इन्दुखण्डो बिन्दुः | ह्रीम् इति मन्त्रेण द्रव्यशुद्धिं कुर्याद् अमुनामनुनेति वाग्भवमैकारः | सदण्डं बिन्दुसहितम् ऐम् इति | वसुरग्निः | रेफ इति यावत् | वामदृगीकारः | इन्दुखण्डो बिन्दुः | तत् प्रातिलोम्येनानलगम् | तृतीयमक्षरं शकारः | अम्बरं हकारः | शकारहकारौ रेफ ईकारबिन्दुयुतावित्यर्थः | ऐं ह्रीं श्रीम् इति बीजत्रयात्मकेन मन्त्रेण भगादिदेवताः | पूजयेदित्यर्थः | ब्रह्माणीं हंसयानामित्यादि पत्रमूलमित्यन्तः सुबोधः | अब्धिवक्त्रा चतुमुखी | ब्रह्मादि देवतानां मन्त्रानाह | बीजान्यमीषामित्यादिना | अनन्तो दीर्घः | आकारः नभोन्तमिति नभो हकारः | तदन्तः क्षकारः | दीर्घः | आक्षा इति ब्रह्माणी मन्त्रः | नयनान्तमिन्द्रः | प्राङ्गुरिति | नयनान्तमिति | ककारः इन्द्रो लकारः | प्रांशुर्दीर्घ इत्यर्थः | ईत्वा इति माहेश्वरी मन्त्रः | दृगान्तपरः कुलान्तमन्तरुद्रेण ततः समेतमिति | दृगिकारः तदन्त ऊकारः | प्. १८५) तदन्त उकारः | तत्पर ऊकारः | कुलं सकारः | तदन्तो हकारः | अनन्त रुद्र आकारः समेत आकार सहित इत्यर्थः | ऊहा इति कौमारी मन्त्रः तिथीशः सानन्तो भृगुरिति | तिथीशो ऋकारः | भृगुः सकारः | सानन्त आकारसहितः | साॠसा | इति वैष्णवीमन्त्रः | हरोनन्तसहितं बकान्तमिति | हरः ॡकारः | बकः शकारः | तदन्तः षः अनन्तसहित आकारसहितः | षा ॡ षा | इति वाराही मन्त्रः भृतीशस्तदनुबकोनन्त सहित इति | भृतीश ऐकारः बकः शकारः | अनन्तसहित आकारयुक्तः | शा ऐशा इति | इन्द्राणी मन्त्रः | कपूर्वन्तं सूक्ष्मान्तन्वितमथवन इति | कम्बिन्दुः | तत्पूर्वमौकारः | सूक्ष्म इकारः | इकार अन्तो यस्य स आकारः | वनं जलम् | वकारः | वकारमनुप्राप्तः | आकारः वा औवा इति | चामुण्डा मन्त्रः | अनुवदनं शचीनाथोपेतमिति | वदनं विसर्जनीयः | अनु पुनरपि वदनमाकारः | शचीनाथो लकारः | उपेतम् | आकारो लकारेण सम्भिन्नमित्यर्थः | अः ला इति महालक्ष्मी मन्त्रः | वदमविक्रान्तान्वितमिति | वदनपि पूर्वोक्ताष्टसु मन्त्रेषु य आकारः | कान्तान्वितमपि भवति | अम् अकारः | तदन्त आकारः | तदनु इकारः | तदितः तदनन्तप्राप्तं ऊकारः | १८६) अपि शब्देन प्रकारमनुप्राप्त ईकार इत्यर्थः | एवं कृते | आ क्षा ई ला ई-ऊहा ई ॠ सा ई - ॡ षा ई - ऐशा ई - औवा ई - अः ला ऊ - इति भवतीत्यभिप्रायः | अथा सिताङ्गमित्यादि यौवनाड्या नित्यन्तः | सुबोधः | असिताङ्गादि भैरवाणां मन्त्रमाह | हयत् तृतीयम् | भगभूतसंयुतं कुलान्तमपि विलोचनान्दयुक् | निशाकरार्धाङ्कितमस्तं चेति | हरः ॡकारः | तन्त्रीय मैकारः | भग ऐकारः | तद्भूताक्षरम् | पञ्चमाक्षरम् | बिन्दु तत्संयुतम् | बिन्दुयुक्तमित्यर्थः | ऐं कुलान्तं कुलः सकारः | तदन्तो भकारः | अपित्तमग्निं रेफ इति | यावत् विलोचनान्तमीकारः | निशाकरार्धो बिन्धुः | तदङ्कितमस्तकं सबिन्दुकमित्यर्थः | ऐं ह्रीम् इति मन्त्रेणासिताङ्गद्यष्टभैरवाः | पूज्याः इत्यर्थः | यो हेतुकमित्यादि भीमा इत्यन्तः सुबोधः | हेतुकादीनां मन्त्रानाह | भौतीशनेति भौतीश ऐकारः | निशाकरार्धो बिन्दुः | तत्सहितेन | ऐम् इति मन्त्रेण हेतुकादि भैरवाः पूज्याः | प्रियङ्ग्वित्यादि साधक इत्यन्तः सुबोधः | छगलगतिं मेषवाहनम् | सेरिहाङ्गगतं महिषा * म् | वरशम्बरगतम् | कृष्णमृगारूढम् | ऊर्णायूरोमशोमेष विशेषः | इन्द्रादि लोकपालानां मन्त्रमाह | प्. १८७) मस्तकादि जलराशिगं सकमं मस्तकादल नगं वकान्तयुक् | सूक्ष्मपूर्वमुखसंयुतमिति | मस्तकम् | बिन्दुः तदादि जलराशिगम् | तत् प्रातिलोम्येन चतुर्थमक्षरम् | ऐकारः | सकं सबिन्दुकम् | ऐं मस्तका दनलगम् | मस्तकं बिन्दुः | तस्मादलगम् | तृतीयमक्षरं ककारः | बकः शकारः | तदन्तः षकारः | युक् ककारः षकारयुक्तः | सूक्ष्म इकारः | तत्पूर्वमाकारः | मुखं विसर्जनीयः | तत्पूर्वं बिन्दुः बिन्दुयुक्तम् | क्षाम् ऐम् इति मन्त्रेण इन्द्रादि लोकपालाः पूज्याः इत्यर्थः | वटुक इत्यादिरमत इत्यन्तः सुबोधः | अथ त्रिलोकार्चितं शासनाया इत्यादि गिरीश इव संप्राप्त इत्यन्तेनैतदुक्तं भवति || अथ ब्राह्मे मुहूत्त उत्थाय श्रीमत् स्वगुरु चरणारविन्दं शिरसि निधायाभिमत देवतानुस्मृतिं कृत्वा पूर्ववत् तीर्थं गत्वा कृत शौचाचमनदन्तधावनमुखप्रक्षालनो विधिवत् स्नानं विधायाचम्यमूलमन्त्रेण कलमुद्रयात्मानमष्टोत्तरशतमभिषिच्याचम्य तीरमासाद्य क्षौममये वाससी परिधाय कृतविहित सन्ध्यावन्दनो भानुमण्डले भगवतीं ध्यात्वा तां स परिवारामृतमयैः सलिलैरष्टोत्तरशतं मूलविद्या सन्तर्प्य | महामातृकाविद्महे कालसङ्कर्षणी धीमहि | तन्नो देवि प्रचोदयात् | दिति | त्रैपुरगायत्र्यार्घ्यं प्. १८८) दत्वा जयथा शक्ति जपित्वोत्थाय पशुजनविहिते रमणी ये देवगृहे - हे वा सुरक्षित दृढ परिवीत यागमण्डपं परिकल्प्य द्वारोवान्ते पादौ प्रक्षाल्याचम्यान्तः प्रविश्य | ऐं ह्रीम् इति मन्त्रेण कुशजलाभ्युक्षालनेन मण्डपं भावयित्वा हुम् इति मन्त्रेण यागपात्राणि प्रक्षाल्यादि शुद्धान्यपरिमितानि पूजोपकरणानि सन्निधाप्य प्राङ्मुखोदङ्मुखो वा स्वस्तिकासनेनोपविश्य निजस्वभागे गुरुदक्षिणभागे गणपतिं च संपूज्य स्वमूलाधारे कुण्डलिन्यात्म चिन्मय परशक्तिस्वरूपं जीवात्मानं बुध्वा हंसमन्त्रेण ब्रह्माध्वनो द्वादशान्तं नीत्वा सहस्रदल पङ्कजमध्यवर्तिनि सोमात्मक परशिखात्मनि संयोज्य रम् इति बीजेन मूलाधारात् कला रुद्रमूढाप्य तेन सकलब्रह्माण्डमयं शरीरं दग्ध्वा भस्मसात् कृत्य नाभिस्थेन यम् इति बीजेन प्रचण्डवायु मुत्थाप्य तेन तं भस्मराशिमखिलवनी यद्वादशान्त स्थितः सहस्रदलपङ्कज कर्णिकामध्य स्थितेन वम् इति बीजेनामृताम्भोधिमयं ध्यात्वा ततः परिगलद्बहल सुधाधारया पूर्यमाणन्तं निष्कलं तेजो रूपमात्मानं बुध्वा लम् इति बीजेनात्मानं सुस्थिरं सञ्चिन्त्य सकली कृत्य मन्त्रमयो भूत्वान्यास जातं विदधीत | यथाद्रां द्रावणबाणाय नमः | द्रीं क्षोभणबाणाय नमः | प्. १८९) क्लीं वशीकरबाणाय नमः | ब्लूम् आकर्षणबाणाय नमः | सं सम्मोहन बाणाय नमः | इति पञ्चबाणानङ्गुष्ठादि कनिष्ठान्तं करद्वयाङ्गुलीषु विन्यस्यानन्तरम् | वदवदवाग्वादिनि ऐं हृदयाय नमः | क्लिन्ने क्लेदिनि महाक्षोभं कुरुकुरु | क्लीं शिरसे स्वाहा | ओं मोक्षं कुरु कुरु - सौम शिखायै वौ - वदवदवाग्वादिनि ऐं कवचाय हुम् | किन्ने क्लेदिनि महाक्षोभं कुरु कुरु क्लीं नेत्र त्रयाय वौषट् | ओं मोक्षं कुरु कुरु सौः अस्त्राय फड् इत्यङ्गषट्कं पूर्वोक्तप्रकारेण स्थित्या स्थितिन्यास विधिना यथा विधिकारमुभयकराङ्गुलीषु करतलयोश्च विन्यस्यानन्तरम् | ऐं ह्रीं क्षम् इति शिरसि | क्षां मुखवृत्ते | इम् ई नयनयोः | उम् ऊं श्रोत्रयोः | सृं सॄं कपोलयोः | ष्णुं ष्णूं चिबुकयोः | शें शैं दन्तपङ्क्त्योः | वों वौम् ओष्ठयोः | वं नाभौ | यः शिरस्यानन्तरम् | अं श्रीकण्ठेश पूर्णोदर शक्तिभ्यान्नमः शिवाभ्या | इत्यादि मातृकां यथास्थानं विन्यस्यानन्तरं मूलविद्या बीजत्रयं विभज्य स्वस्व दीपनीपुरःसरं वक्ष्यमाण क्रमेणन्यस्येत् | मूर्ध्नि गुह्ये हृदये चैकोन्यासः वामादि नयनयुगे ललाटे चेकोन्यासः | कर्णयुगल आस्येचैकः | अंसद्वये पृष्ठे चैकः | जानुयुगे नाभौ चैकः ऊर्ध्वाधो प्. १९०) दक्षिणवक्त्रेष्वेकः | वामापरमध्यमवक्त्रेष्वपरः | एवं सप्तविधं विद्यां विन्यस्यानन्तरं पूर्वोक्तषडङ्गानि हृदयादिषु विन्यसेत् | ततो गुह्यनाभि हृदयाननमूर्ध्वसु पूर्वो बाणपञ्चकं विन्यस्य | अथ ललाटवदनहृदयनाभि गुह्येषु | ह्रीं कामराजाय नमः | क्लीं मन्मथाय नमः | ऐं कन्दर्पाय नमः | ब्लूं मकरकेतनाय नमः | स्त्रीं मनोभवाय नमः | इति पञ्चक्रमान्विन्यस्य | मूलविद्या गोलकात्वेन पादादि केशान्तं केशादि पादान्तं विन्यसेत् | एवन्न्यासजातं विधाय गन्धपुष्पादिभिरात्मानमभ्यर्च्यात्मानं परमेश्वरमयं ध्यात्वा यथा शक्ति जपेत् | ततो विमल प्रक्षालितं पीठिकं वेदिकायां विन्यस्य चन्दनकुंकुम कर्पूरकस्तूरिगोरोचनादि गन्धनिष्यन्दैरलक्तकर स लुलितै स्वयम्भुं कुसुमोपेतैर्विलिप्य ततोर्घ्यमण्डं च यथा विधाय अर्घ्यपात्र पादमग्निमण्डलं बुध्या वाग्भवेन प्रतिष्ठाप्य अग्निमण्डलाय दशकलात्मने अर्घ्यपात्रपादाय नमः | इति पादसंपूज्य | सौवर्ण रजत ताम्र मयेष्वन्यतमं सवित्रमण्डलं बुध्या कामराजेन प्रतिष्ठाप्य सूर्यमण्डलाय द्वादशकलात्मने अर्घ्यपात्राय नमः | इति पात्रं संपूज्य यथोपदिष्टमर्घ्यजलं सोममण्डलं बुध्या तृतीयबीजेन प्रतिष्ठाप्य सोममण्डलाय षोडशकलात्मने अर्घ्यामृताय नमः | प्. १९१) इति अर्घ्यमृतं संपूज्य गन्धपुष्पाक्षत कुशयवतिलसर्षपपूर्वा यथा लाभमर्घ्यजले निधाय हृन्मन्त्रेणाभ्यर्च्य शिरसार्घ्य जलगतदोषं समुद्धृत्य शिखया विसृज्य कवचेनावकुण्ठ्य नेत्रेण सुरभिमुद्रयामृती कृत्यास्त्रेण संरक्ष्य मूलमन्त्रेणभ्यर्च्य तत्रामृतेश्वरीं ध्यात्वार्घ्य जलं स्पृशन् अर्घ्यममृती करोमीत्यन्तया मूलविद्यया सप्तवारं जपित्वा ततोर्घ्येण ह्रीमिति मन्त्रेण पूजोपकरणानि पीठमात्मानं च संप्रोक्ष्य ततः पीठोपरि त्रिकोण पञ्चदलाष्टदल चतुरश्रात्मकं पद्मं विलिख्य तन्मध्ये मूलमन्त्रेणाधारशक्तिं संपूज्य तदुपरि | अनन्ताय नमः | कूर्माय नमः | पृथिव्यै नमः | इति संपूज्य | पीठस्याग्नेयादिषु विदिक्षु पीठपादेषु धर्मादि चतुष्टयं पूर्वादि दिक्षु पीठगात्रेषु | अधर्मादि चतुष्टयं च नमोन्ते स्वनामभिः संपूज्य ततः पीठोपरि | संसत्वाय नमः | रं रजसे नमः | तं तमसे नमः | कन्दाय नमः | नालाय नमः | पद्माय नमः | कुलपद्माय नमः | योन्यासनाय नमः | वं वह्निमण्डलाय नमः | अम् अर्कमण्डलाय नमः सं सोममण्डलाय नमः | इत्युपरिर्यपरि विन्यस्य | तत्र हसौः | सदाशिवमहाप्रेतपद्मासनाय नमः | इत्यभ्यर्च्य | तत्र यथोपदिष्टवर्णाभरणाम्बरां भजमानपरिजातलितिका प्. १९२) मण्डल संवित्स्वरूपिणीं दवीमावाहनमुद्रया हृदयकमल कर्णिकागं वराद्दक्षिण न नासापुटेन कराञ्जलौ विरेच्यावाह्य संस्थापनमुद्रया संस्थाप्य सन्निधिकारिण्या सन्निधाप्य | सन्निरोधिन्या सन्निरुध्यावकुण्ठनमुद्रयावकुण्ठ्य | हंसमन्त्रेण मूर्तिं बध्वा योनिमुद्रां च प्रदर्श्य मूर्तौ स्वदेहवत् करन्यास वर्जन्यास जातं विधायार्घ्यादि षोडशोपचारैः मूलमन्त्रेणाभ्यर्च्य नीराज्यप्रणम्य तदनुज्ञा पुरः सरं परिवारानर्चयेत् | यथा | देव्याः परितो हृदयादि कवचान्त मनीशा सुरवायुषु पुरतो नेत्रं दिक्षु चास्त्रं पूर्वोक्त षडङ्गन्न्यासमन्त्रैः क्रमेणाभ्यर्च्य त्रिकोणमध्य वाम कोणाग्रेदृत कनकमय सन्निभा अतिरमणीयवेषां पाशनतिकरां रतिं वाग्भवेनाभ्यर्च्य | दक्षिणकोणाग्रे शशाङ्कनिभामतिसुन्दरगात्रीं सुमुखीं कुशनतिकरां प्रीतिं तृतीयबीजेनाभ्यर्च्य | अग्रकोणाग्रे बन्धूक कुसुमसंकाशमिक्षुचापपुष्पशरधं मणिमया कल्पालङ्कृतं कामं कामबीजेनाभ्यर्च्य ततः पूर्वादि पञ्चदलेषु द्रां द्राविण्यै नमः | ह्रीं क्षोहिण्यै नमः | क्लीं वशीकरिण्यै नमः | ब्लूम् आकर्षण्यै नमः | सः सम्मोहिन्यै नमः | इति शरपञ्चक देवताः | कर्पूर कनकसन्ध्यारागेन्द्रनीलमाञ्जिष्ठनिभाः सव्यकरकलित बाणाः | शेषकरकृतनमस्काराः सकलभूषाभूषिताङ्गाः प्. १९३) समादाः क्रमेणाभ्यर्च्य ऐं ह्रीं भगायै नमः | ३ | भगजिह्वायै नमः | ३ | भगपिण्यै नमः | ३ | भगाक्ष्यै नमः | ३ | भगाह्लादिन्यै नमः | इति भगादि देवताः | क्रमेणाभ्यर्च्य | ब्रह्माद्यायथोपदिष्ट वर्णाम्बरायुधा भरणधरा द्वन्द्वशः समर्चयेत् | यथा | आक्षायी ब्रह्माण्यै नमः | ऐं ह्रीम् | ऐं क्षम् असिताङ्ग भैरवाय नमः | ई ला ई माहेश्वर्यै नमः | ऐं ह्रीम् इं लं रुरु भैरवाय नमः | ऊ हा ई कौमार्यै नमः | ऐं ह्रीं उं हं चण्डभैरवाय नमः | ॠ सा ई वैष्णव्ये नमः | ऐं ह्रीं ऋं सं क्रोधीशभैरवाय नमः | ॡ षा ई वाराह्यै नमः | उ ऌं षं उन्मत्तभैरवाय नमः | ऐ शा ई इन्द्राण्ये नमः | ऐं ह्रीं एं शं कपाल भैरवाय नमः | औ वा ई चामुण्ड्यै नमः | ऐं ह्रीं ओं वं भीषण भैरवाय नमः | अः ला ई महालक्ष्म्यै नमः | ऐं ह्रीम् अं लं संहारभैरवाय नमः | ऐं हेतुकाय नमः | ऐं त्रिपुरान्तकाय नमः | ऐम् अग्निवेतालाय नमः | ऐम् अग्निजिह्वाय नमः | ऐं कालाय नमः | ऐं करालाय नमः | ऐम् एकपादाय नमः | ऐं भीमाय नमः | इत्यभ्यर्च्य | पीठस्योत्तरभागे वायव्यादीशानां गुरु पङ्क्तिमर्चयेत् | हेतुकादीशावरणयोर्मध्ये समन्त्रका गुरुपादुका पङ्क्तिः पूजनीया | ओं मों गुरुपादुकेभ्यो नमः | प्. १९४) ओं मिं पूज्य गुरुपादुकेभ्यो नमः | ओं मिं महागुरु पादुकेभ्यो नमः | ततस्वगुरुपङ्क्तिमर्चयेत् | इति गुप्तमुदाहृतम् | ततोष्टदलानां बहिर्पूर्वाद्यष्टदिक्षु | ऐं क्षाम् इन्द्राय वज्रहस्ताय सुराधिपतये स वाहन सपरिवाराय नमः | ऐं क्षाम् अग्नये तेजोधिपतशक्तिहस्ताय सवाहन स परिवाराय नमः | २ | यमाय प्रेताधिपतये दण्डहस्ताय सवाहन सपरिवाराय नमः | २ | नृ-ऋते रक्षोधिपतये खड्गहस्ताय सवाहन सपरिवाराय नमः | २ | वरुणाय जलाधिपतये पाशहस्ताय सवाहन सपरिवाराय नमः | २ | वायवे प्राणाधिपतये अङ्कुशहस्ताय सवाहन सपरिवाराय नमः | २ | कुबेराय यक्षाधिपतये गदा हस्ताय सवाहन सपरिवाराय नमः | २ | ईशानाय विद्याधिपतये शूलहस्ताय सवाहन परिवाराय नमः | इति संपूज्य | पुनः अग्नि नृ-ऋति वायव्येश दिक्षु | वां वीं वूं वं वटुकाय नमः | गां गीं ग्रं गं गणपतये नमः | दां दीं दूं दुं दुर्गायै नमः | क्षां क्षीं क्षूं क्षं क्षेत्रपालाय नमः | इति संपूज्य | बहिरैन्द्रयाम्य वारुण सोम्य दिक्षु अष्टवसुभ्यो नमः | एकादशरुद्रेभ्यो नमः | द्वादशादित्येभ्यो नमः | प्. १९५) सर्वेभ्यो भूतेभ्यो नमः | इति क्रमेणाभ्यर्च्य | ततः परमानन्दामृतसन्दोह निष्यन्दमान देहामखण्डसंवित् स्वरूपिणीं भजमानपारिजातलतिकां परमेश्वरीं गन्ध पुष्पादिभिरभ्यर्च्य | स परिवारां यथोपदेशं सन्तर्प्य नीराज्यस्तुत्वा नमस्कृत्यमात्मानं मत्वा सकलपरिवार देतागणं परदेवतामूर्तौ लीनं परिभाव्यतां च सकल भुवनोद्भूति परिभूतिं मूलभूतां निष्कल तेजोरूपां सम्भाव्य मुद्रयोपसंहारिण्यामण्डलस्थ कुसुमेनादायाघ्राय हृदयारविन्द स्थानं नीत्वा तन्मयमात्मानं परिभाव्य गन्धादिभिरभ्यर्च्य तदनुगृहीतप्रसादः षडङ्गं विन्यस्य स्वयममृतानन्दमयो भूत्वा जीवन्मुक्तो यथा सुखं विहरेदिति शिवम् | || इत्यष्टमः पटलः || एवमिहलोक परलोक सुखसाधनभूत परदेवता समाराधन कथनान्तरं होमविधानं वक्तुमुपक्रमते | अथाग्निकार्य मित्यादिना एककुण्डविधाने कुण्डलक्षणं नियमं चाह | पूजाग्रहस्येत्यादिना | अयमर्थः | वक्ष्यमाण दीक्षामण्डप मध्यस्थ वेदिकायाः पूर्वस्यां दिशि वा ईशानकोणे वा धनद भागे वा बुद्धिकोणं चतुरश्रात्मकमेकमेव कुण्डं कुर्यादिति | अथ दीक्षामण्डपलक्षणमाह | नवहस्तमात्रमित्यादिना | प्. १९६) अयमर्थः | ऐन्द्रवारुणयाम्यसौम्यं च नवहस्तपरिमितम् | परिवीतदृढावरणं चतुर्द्वारतोरणोप शोभितम् | धौताम्बरवितानदर्भमाला परिवृतमुज्वलितमण्डपं कुर्यादिति | उतशैलदोर्मितम् | शैलाः सप्तसंख्याताः सप्तहस्तपरिमिता वा | हृषीक करसम्मितम् | हृषीकाणीन्द्रियाणि तानि च पञ्च पञ्च हस्तपरितं वेत्यर्थः | पूजा वेदिकानिर्माण प्रमाणमाह | ततस्तस्य मध्य इत्यादिना तन्मण्डपमध्ये त्रिभागैकभागं वेदिकां कुर्यादिति | यथा मण्डपं प्राक्प्रत्यगग्रं सूत्र चतुष्टयेनास्पाप्य दक्षिणोत्तराग्रं च तथैवास्पालयेत् | एवं कृते तत्तन्मण्डपं नवपदात्मं जायते | एषु मध्यपदं वेदिकामरत्निमात्रोन्नतान्त द्विगुणमाया विस्तारामादर्शतलवत्क्रममेणोन्नतां मुख प्रतिमा बिम्बा लोइकनार्हामुज्वलितरामति रमणीयां कुर्यात् | अवशिष्टेषु पूर्वाद्यष्टदिक्पदेषु क्रमेण वेदाश्रमित्यादिना वक्ष्यमाण कुण्डानि कुर्यादित्यर्थः | वेदाश्रं चतुरश्रम् | योनिमश्वर्थ पत्राकारः | अर्धोन्धुपनिभम् अर्धचन्द्राकारम् | अनलाश्रम् | त्रिकोणम् | गजाश्रम् | अष्टाश्रम् | हरहय हरिदारभ्य प्राचीदिशमारभ्येत्यर्थः | अन्येत्वेवमाहुरिन्द्रेशान् दृशोर्मध्ये वृत्तं वायव्ये पञ्चकोणम् ईशकोणे सप्तकोणम् | ञ्च कुर्यादिति | प्. १९७) कुण्डप्रस्तारप्रकारमाह | प्राक्सूत्रमित्यादि प्रथमं प्राक् प्रत्यगग्रं सूत्रमास्पाल्य तन्मध्ये मत्स्याङ्कितं कृत्वा तन्मानेन दिशोर्याम्योत्तरयोर्मत्स्य द्वयं विन्यसेत् | मत्स्योत्तरयोर्दक्षिणोत्तरं सूत्रमास्पालयेत् | तत् सूत्रयुगाग्राणि यथोक्तभ्यायेन वर्धयेत् | सूत्राण्यवष्टभ्य चतुर्षुकोणेषु मत्स्यं चतुष्कं विन्यसेत् | तन्मत्स्यादरेषु चतुर्षु दिक्षु सूत्र चतुष्कमास्फालयेत् | एवं कृते चतुष्पदोपेतं सम चतुरश्रमण्डलं जायते | एतच्चतुरश्रं कुण्डं पूर्वदिग्गतं भवति | एतदेव चतुरश्रं प्रतीत्यान्यानि कुण्डान्युद्धरेदित्याह | अत्र जनयेदन्या नीत्यादिना क्षेत्रे क्षिप्त्वेति प्रकृतचतुरश्रे आग्नेयमारुते नै-ऋतेशं च सूत्रद्व्यमास्फाल्य पुनस्तु चतुरश्रं पञ्चविधा विभज्य तेष्वेकोनेन मध्यसूत्रपाश्चात्य सूत्रस्य प्रागग्रं पूर्वदिग्गतदक्षिणोत्तरात् सूत्राद्बहिर्वर्धयेत् | ततः पश्चिमपदगतकोणसूत्रं चतुर्धा विभज्य तत्कोणाग्र प्रान्तमेकमेकमंशं परित्यज्यावशिष्टांश त्रयमानेन कोणमात्रमिन्दुशशिकलवद्भ्रामयेत् | उरकोणमपि तथैव कुर्यात् | ततो मद्धमकोणोत्तरसूत्राग्रद्वयमष्टभ्य मध्यप्राची सूत्राग्रपर्यन्तं कोणसूत्रवत् सूत्रद्वयमास्फालयेत् | सू * कलान्यन्यानि परिमार्जयेत् | प्. १९८) एतदश्वत्थ पत्राकारं योनिकुण्डमग्निदिग्गतं परित्यज्य भागद्वयमिति यथोक्तमानेन चतुरश्रं कृत्वा तस्य दक्षिणोत्तर प्राची सूत्रयोर्मध्ये समान्तरालं प्राक् प्रत्यग्रं नवसूत्राण्यास्फालयेत् | एवं कृते प्राक्प्रत्यग्राण्येकादशसूत्राण्यास्फालितानि भवन्ति | चतुरश्रं च दशधा विभक्तं स्यात्तेषु दक्षिणोत्तरांशं परित्यज्य वशिष्ट नवसूत्रांशं दक्षिणोत्तरांष्टांश क्षेत्रमानेन उत्तर प्राचीसूत्रयोर्मध्यावष्टभ्य तत्प्राचीसूत्रप्रागग्र पश्चिमा * * * वर्जयेत् | पुनरपि तन्मानेनैव तत्सूत्रमध्यात्तत् प्रागग्रमारभ्य तत्सूत्रपश्चिमाग्रपर्यन्तं खण्डेन्दुवद्भ्रामयेत् | सूत्रखण्डान्यन्यानि परिमार्जयेत् | एतदर्धचन्द्राह्वयं कुण्डं दक्षिणदिग्गतं भवति | वासरेशार्धभागिति | प्रकृतं चतुरश्रक्षेत्रं षोडशाविभज्य तदंशद्वयस्यैकैकांशेन मध्यप्राचीसूत्राग्रं पूर्वदिग्गतदक्षिणोत्तरसूत्राद्बहिर्धयेत् | ततो मध्यादारभ्य तन्मानेन परितो वृत्तं भ्रामयेत् | सूत्रखण्डान्यन्यानि मार्जयेत् | एतद्वृत्तकुण्डं पश्चिमदिग् गतम् | भूपांश इत्यादि | प्रकृतं चतुरश्रमष्टधा विभज्य तदंशद्वयस्यैकांशेन मध्य प्राचीसूत्रस्य पागग्रं पश्चिमाग्रं च वर्धयेत् | ततो मध्यमादारभ्य तन्मानेन पार्श्वयोर्मत्स्य चतुष्कं जनयेत् | तत्र मत्स्योदरेषु परिमित षट्सूत्रपातेन षट्कोणात्मकं कुण्डं भवेत् | प्. १९९) तद्वायव्यदिग्गतम् | दशांशांशेत्रेति | प्रकृतं चतुरश्रक्षेत्रं दशधा विभज्यते | तेष्वेकेनां केन पूर्वोक्त वृत्तकुण्डाद्बहिर्वृत्त भ्रामयेत् | पुनरपि तेनैवमानेन तद्बहिर्वृत्तं भ्रामयेत् | कुण्डात्मकमध्यवृत्तेन कर्णिका द्वितीयवृत्तेन केसराणि तृतीयेन चतुर्दलाद्यष्टदलानि वा कुर्यादित्यर्थः | इदं पद्मकुण्डम् | कौबेर दिग्गतं भवति | क्षेत्रं क्षिपेत्वति | प्रकृतं चतुरक्षेत्रं चतुर्विंशतिधा विभज्यष्वेकेनांशेन मध्यसूत्रप्रागग्रं पूर्वदिग्गत दक्षिणोत्तरसूत्राद्बहिर्वर्धयित्वा पुनस्तेनैवमानेन बहिरपि प्राकारचतुरश्रं कुर्यात् | पुनरपि प्रकृत चतुरश्रकार्धमानेन बाह्य चतुरश्रकोणाग्रमवष्टभ्य तद्भुजद्वयमभितो लाञ्छयेत् | एवमन्यान्यपि कोणानि लाञ्छयेत् | पुनश्चतुर्षु कोणेषु लाञ्छनद्वयानुबन्धि तिर्यसूत्रचतुष्टयमास्फालयेत् | दिक्ष्वपि चिह्नाचिह्नं सूत्राणि यथास्थितं वलयेत् | कोणानि सूत्रशकलानि च परिमार्जयेत् | एतदष्टाश्रं कुण्डं भवति | तदीश्वरदिग्गतम् | हयांशेत्रेति प्रकृतं चतुर * क्षेत्रं सप्तधा विभज्य तेष्वेकेनांशेन मध्यप्राची सूत्राग्रं पूर्वदिग्गतदिक्षिणोत्तर सूत्राद्बहिर्वर्धयित्वा पुनस्तेनैवमानेन परिवृतो वृत्तं भावयेत् | पुनरपि चतुरश्रं चतुर्धाविभज्य तेष्वप्येकमंशं प्. २००) परित्यज्यावशिष्टं त्रयमानेन्तवृत्त लेखनम् | पञ्चधा तृतीयं प्रमीय तत्र पञ्च चिह्नानि कृत्वा चिह्नात् चिह्नं दीर्घाकाराणि पञ्चसूत्राण्यास्फालयेत् | सूत्रशकलान्यन्यानि परिमार्जयेत् | एतत् पञ्चकोणात्मककुण्डं वायुकोणगतम् | क्षेत्रव्यासे इति | प्र तं चतुरश्रक्षेत्रं दशधा विभज्य तेष्वेकेनांशेन मध्य प्राचीसूत्राग्रं पूर्वदिग्गतदक्षिणोत्तरसूत्राद्बहिर्वर्धयित्वा पुनस्तेनैव मानेन परितो वृत्तं भ्रामयेत् | पुनरपि चतुरश्रं चतुःषष्टिधा विभज्य तेष्वेकत्रिंशमंशं परित्यज्य अवशिष्टेश त्रयस्त्रिंशदंशेन वृत्तरेखां सप्तधा प्रमीय तत्र सप्त चिह्नानि कृत्वा चिह्नात्चिह्नं ऋजूनसप्तसूत्राण्यास्फालयेत् | सप्तकोणात्मकं कुण्डमीशदिग्गतमित्यर्थः | यावतामानेन कुण्डस्यायं विस्तारौ तावतामानेनखातमपि कुर्यात् | यदाकारं कुण्डं मेखलाश्च तदाकाराः कुर्यादित्याह | यावन्मानेनेत्यादि एककुण्डानां मेखलायोन्योः सामान्यलक्षणमाह | तिस्रः कुण्ड इत्यादि होतर्दिशेह इत्यन्तेन | मुष्टिमात्रमिति मुष्ट्यङ्गुलपरितमित्यर्थः | यद्वा मुष्टिरिति | तालद्वय स वाचकः | मुष्टिपरिमिते कुण्डे मेखलानामुत्सेधविस्तारयोर्लक्षणमाह | द्व्यङ्गुलैकांगुलार्धाङ्गुलेति | अरत्निमात्राद्यष्टहस्तां प्. २०१) तेषु कुण्डेषु मेखलानामुत्सेध विस्तारयोर्लक्षणमाह | रत्निमात्रे त्रता इत्यादि वसुहस्त इत्यन्तेन अरत्निपरिमितयोरपि द्व्यङ्गुलं त्र्यङ्गुलैकाङ्गुलेति हस्तपरिमिते युगार्वित्त नेत्राङ्गुल इति युगाङ्गुलं चतुरङ्गुलम् | अर्पित्ताङ्गुलमग्न्यङ्गुलम् | त्र्यङ्गुलमित्यर्थः | नेत्राङ्गुलद्व्यङ्गुल इति | हस्तद्वयपरिमिते | रसाम्भो * वन्यङ्गुलमिति | रसाङ्गुलं षडङ्गुलम् | षट् परिमितेदङ्कुशम्भ्यङ्गा इल इति | दशाङ्गुलम् | त्रभ्यङ्गुलम् | अष्टाङ्गुलम् | अङ्गाङ्गुलमित्यर्थः | वसुहस्ते अष्टहस्ते परिमिते | भास्करपङ्क्तिः | गजाङ्गुलमिति | भास्कराङ्गुलम् | द्वंदशाङ्गुलम् | पङ्क्त्यङ्गुलम् | दशाङ्गुलम् | गजाङ्गुलः अष्टाङ्गुल इत्यर्थः | कुण्डमध्ये नाभिनिर्माण प्रकारमाह | नामिहां * जवदिति | मुष्टिपरिमिते कुण्डनाभियोन्योरायाम विस्तारेत् सेति स लक्षणमाह | रसाम्भोधीत्यादिना षडङ्गुलीयतां चतुरङ्गुलविस्तारद्व्यङ्गुलोन्तामश्वत्थपत्रवत् क्रमसङ्कुचिता ग्रामेकाङ्गुलोष्टा कुण्डान्तनिविष्टाग्रामिव योनिं चतुरङ्गुलायामविस्ताराद्व्यङ्गुलोनन्तामष्टदलाम्बुजरूपां नाभिं च कुर्यादिर्थः | रत्न्यात्रिष्वपि कुण्डेषु नाभि योन्योर्लक्षणमेतदेवेति | इति दिशतियोन्या लक्षणमित्यादि | तदेव खलु मात्रस्येत्यतेन करद्वयादि प्. २०२) कुण्डानां योनिं नाभिं चोत्तरोत्तरमेकैकाङ्गुलेन वृद्धिमानेन कुर्यात् | योन्यष्टमपि प्रत्येकं यवद्वयमानेन वर्धयेत् | नाभि वृत्ताकारकुण्डानुरूपां वा कुर्यात् | योनिकुण्डे योनिः | पद्मकुण्डे पद्मं च न विहितेत्याह | एकैकेनाङ्गुलेत्यादिना विदध्यार्चनाभिमित्यन्तेन | अन्येत्वेकाहस्य परिमित कुण्डेनस्य योनिनिर्माणं यथा वर्णयन्ति | कुण्डस्यैक इत्यादि बोधिष्ठानरूपमित्यन्तेन | भूताद्व्यङ्गुलं भूतादि प्रकृतिः प्रत्यङ्गुलमष्टाङ्गुलमितिवात् | व्यास आयामः | तत्र शसंख्यं षडङ्गुलम् | एकाद्व्यङ्गुलम् | बोधिष्ठापत्रानुरूपा | अश्वत्थ पत्राकाराम् | एतदुक्तं भवति | हस्तमात्रस्य कुण्डस्य योनिमष्टाङ्गुलायताम् | षडङ्गुलविस्तृताद्व्यङ्गुलोनन्तमश्वत्थ दलवत्क्रमसङ्कुचिताग्रं कुर्यादिति | पूर्वोक्तनाभेदनकर्णिका विभागमा * नेत्र भूताङ्गुलमित्यादि कुण्डन्त इत्यन्तेन | तां चतुरङ्गुलायामविस्ताराभि स्त्रिधा विभज्य मध्यांशेन कर्णिकामवशिष्टांश द्व्येनाष्टदलानि कुर्यादित्यर्थः | मुष्ट्यादि कुण्डाना * * म् करणमेकाङ्गुलमनेनेत्याह | कुण्डसेकरस्येति करद्व्यादि कुण्डानाग्नेमि करणमुत्तरोत्तरं प्रत्येकमर्ध्याङ्गुलमनावृद्धेत्याह | विलोचनकरादारभ्येतित्यादि यथोक्तक्रमादित्यन्तेन किमङ्गुलिरिति | प्. २०३) स्वकराङ्गुले दीर्घतिर्यं मानयोरन्यतमेन | यद्वामानान्तरे नोच्यते | अङ्गुलिर्लक्षणभेदेन पञ्चधा भवति | मानाङ्गुलिर्मानान्तराङ्गुलिर्मात्रान्तराङ्गुलिर्मुष्ट्यङ्गुलिर्देह लब्धाङ्गुलिरिति | तथा चोक्तं श्रीपञ्चरात्रे तन्त्रे | वातायनपथं प्राप्य ये भान्तिरविश्मयः | तेषु सूक्ष्मा विसर्पन्तिरेणवः परमाणवः | तेष्टौ केशान्वयास्तेष्टौ लिक्षोयूकस्तदष्टकम् | तदष्टकं यवास्तेष्टं वङ्गुलिः समुदाहृता | तदुक्तमाङ्गुलिः सप्तयवासैव तु मध्यमा | षड्यवासाधमाप्रोक्तामानाङ्गुलं भवेत् | विस्यस्तैस्तिर्यगष्टाभिर्यवैर्मानान्तराङ्गुलम् | शालिभिर्वारि जान्यस्तै स्त्रिभिर्मानान्तरं भवेत् | आचार्यदक्षिणकरे मध्यमाङ्गुलिमध्यमे | पर्वणोनन्तरदीर्घमात्रान्तरमुदाहृतम् | विनाङ्गुष्ठेन शेषाभिर्मुषिरङ्गुलिभिः कृता | चतुर्धा विभजेदेकोमानोमुष्ट्यङ्गुलि स्मृता | आचार्यहस्त कनिष्ठिकाद्यैश्चतुर्भिरेवाङ्गुलीभिर्महर्षेर्मध्यमाङ्गुलेर्मध्यमपर्वभागे तिर्यक् विसर्पद्भिरिहैवमेयम् | यः कश्चित् कौतुकायामं विभज्य दशधा पुनः | एवं द्वादशया भागं कृत्वा तेष्वेकमङ्गुलम् | देहलब्धाङ्गुलं नामेति महामानाङ्गुलिरिति | परमाणुक्रमसिद्धमानाङ्गुलि वाचकः | प्रतिमोत्सेधनिर्माणे महामानाङ्गुलिमानो प्. २०४) प्रासादगोपुरादि निर्माणे मानाङ्गुलमानान्तराङ्गुले नैव नान्येन केनचित् | योगोपकरणानि स्रावादीनि मन्त्राङ्गुलेनैव कुण्डनिर्माणेमुष्ट्यङ्गुलेनैव प्रतिमां गोपाङ्गानिन केनचित् | योगोपकरणानि स्रावात् | तथा चोक्तं श्री पञ्चरात्रतन्त्रे | उच्छ्रायः | प्रतिमानास्यान्महामानाङ्गुलाश्रयः | प्रसादादींश्च तेनैव कुर्यान् मानान्तरेण वा | वेदिकापीठशिबिकारथादीना विधा पुनः | मानान्तराङ्गुलेनैव भवेनान्येन केनचित् | योयोपकरणानां च कुर्यान्मात्राङ्गुलेन वै | होमाङ्गानि स्रवादीनि कुण्डमुष्ट्यङ्गुलमाश्रयः | देहलब्धाङ्गुलेनैव प्रतिमाङ्गानि कल्पयेदिति | द्वादशाङ्गुलपरिमितस्तलः | तलद्वयं मुष्टिः | पञ्चविंशाङ्गुलोपत्ति | षड्विशाङ्गुलवर्तिः | सप्तविंशाङ्गुलो हस्तः | तेषामेवकुण्डादि शब्दानां पर्यायशब्देन नामादीनि पठ्यन्ते | निष्कुः प्रजापत्यं धनुर्मुष्टिर्धनुग्रहश्चेति | तथा चोक्तं श्री पञ्चरात्रतन्त्रे | चतुर्विंशाङ्गुलनिष्कुः पञ्चविंशः प्रजापतेः | षड्विंशतिर्धनुर्मुष्टिः सप्तविंशद्धनुग्रह इति | दीक्षानां नित्यनैमित्तिकयोः शान्तिकपौष्टिकयोरुत्सवादिषु च किष्कुविमानोत्सवे प्राजापत्यं वास्तुनिर्माणेन तु मुष्टिः | ग्रामादिस्थाने धनुग्रहः | अथवा सर्वेष्वपि कार्येषु किष्कुरेवाभिमत इति | प्. २०५) तथा श्री पञ्चरात्रतन्त्रे | या ते च शनये किष्कुं प्राजापत्यं विमानके | वास्तूनां तु धनुर्मुष्टिर्ग्रामादीनां धनुर्ग्रहः | कर्मणामपि सर्वेषां किष्कुरेवाथ वामत इति | कथमत्यन्तविलक्षयोः संवित् पञ्चरात्र तन्त्रयोः संवादकृतिरुच्यते | तयोः प्रतिपाद्य देवतायाः परस्परा भेदा सम्भवतात्तन्त्रभेदोऽपि नास्तीत्यव गच्छामः | भेदव्यवहारस्तु स्वसंहिता भेदवत् संज्ञिता मात्र भेदादुपपद्यत एव | पञ्चरात्रतन्त्रे पुरुषप्राधान्यं संवित् तन्त्रे तत्प्राधान्यमित्येतावता भेदेन तन्त्रभेदोनाभ्युपगन्तुं युक्तुः | तथा चोक्तं श्रीपञ्चरात्रोपनिषदि | ओं भगवान् वासुदेवः | परा प्रकृतिञ्ज्यायसी विभूतित भूतय एव सस्वयं भवतीति | तथा च श्री पौष्कर संहितायाम् | या परा प्रकृतिर्मात्री वासुदेवाख्य लक्षणा | षाड्गुण्यविग्रहा सर्वशक्ति तत्वगुणान्विता | कोशभूतत्वमापन्ना स्वयमानन्दलक्षणेति | तथा च श्री सात्वत संहितायाम् | नादावसान गगने देवोनन्तः सनातनः | शान्तुः संवित् स्वरूपस्तु भक्तानुग्रहकाम्यया | शक्तिः साचात्मकामी या चेश्वरीत्यभिधीयत इति | तथा च वैरिं च नृसिंह व्यूह प्रकरणे | शक्तिर्या वैष्णवी माया वासुदेवात्मिकाव्यया | ये वै पराङ्मुखास्तस्यां संसारे संसन्तित इति | प्. २०६) तथा चेश्वरसंहितायां परां प्रकृतिं विद्धिवासुदेवाम्भिधांसुत | कोशभूतां तनुं तस्य शक्तिव्यूहस्य निष्कलामिति | तथा च जायाख्य संहितायाम् | तनिर्मुक्तदेहस्य केवलस्य चिदात्मनः | उदेति महदानन्दः सा शक्तिर्वैष्णवीपरा | अलुप्तकर्म कर्तारं जीवं कृत्वा तदात्मसात् | यन्त्रोदिता च तत्रैव पुनरेवाव तिष्ठते | तच्च सङ्कल्पनिर्मुक्तमवाच्यं विधिनारदेति | तथा च श्वेताश्वतरोपनिषदि | ते योगानुगता पश्यं देवताशक्तिं स्वगुणैर्निगृढामिति | यो योनिमधितिष्ठति | एत इति च | तथा ब्रह्माण्ये पुराणे | शक्तिः शक्तिमतो भेदाद्वासुदेव इतीरितः | शक्तिस्थिता शक्तिमानपि शाक्तिष्वपि किञ्च ब्रह्मादि पिपीलिकां तेषु मूलाधारमन्दिरे कुण्डलिनी शेष पर्यङ्के कामाख्य चिन्मय वैश्वानराग्न्यात्मा भगवान् वासुदेवः शेते | तथा च श्रीतिः | तस्यान्ते सुचिरं सूक्ष्ममित्यादि विश्वतो मुख इत्यन्तम् | तथा च श्री भगवद्गीतायाम् | अहं वैश्वानरो भूत्वा प्राणिना देहमाश्रितः | प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् || इति | किञ्च | संविदुपासकानां फलत्वेन वैष्णवं परमं पदं दर्शयति | प्रपञ्चसारे | यां ज्ञात्वा सकलमपास्य कर्मबन्धेतद्विष्णोः प्. २०७) परमं पदं प्रयाति भूयः | तामेनां जगदिहजं तु जीवभूतां हृल्लेखां जपति च नित्यमर्चयीत | हृल्लेखां जपविधिमर्चनाविशेषादेतां स्तुतिमपि नित्यमादरेण | योभ्यस्येत् स्वखलु परां श्रियं च गत्वा शुद्धं तद्रज इति पदं परस्यधाम्नः | इति च | एवं श्रुतिस्मृतीतिहास पुराणागमानि अहमहमिकया प्रकृति पुरुषयोरैक्यमेव प्रतिपादयन्ति | तान्यत्र न लिख्यन्ते ग्रन्धविस्तारभयादित्यवगन्तव्यम् | शतार्द्रहोम इत्यारभ्यरन्धतायोनिरित्यन्तः सुबोधः | || इति संप्रदायदीपिकायां नवमः पटलः || एवं कुण्डमण्डपविधानान्तरं स्थण्डिलविधानं होमविधानं च वक्तुमुपक्रमते | नित्यादिना | स परिस्तरां दहेन्मन्त्रीत्यन्तस्यायमर्थः | अथोक्त कर्म सिध्यर्थम् | पूर्वो कुण्डेष्वन्यतमे स्थण्डिले वा होममारभेत | यथा वेदिकायां पूर्वस्यां दिशि पञ्चविंशाङ्गुलायामतारमङ्गुष्ठपर्वोन्नतं वा सप्तविंशाङ्गुलायामतारं चतुरङ्गुलोन्नतं वा समचतुरश्रं स्थण्डिलं कृत्वा नखकेशलोष्टादीन् संशोध्य गोमयाम्बुना कुण्डमुपलिप्य स्थण्डिलं चेदमभ्युक्ष्य वायुबीजेन संशोष्याग्निबीजेन पावयित्वा तत्र हृन्मन्त्राख्य प्. २०८) वाग्भवेन नमोन्तेन बर्हिषाद्विगुणितेन दक्षिणादुत्तराग्रं पश्चिमादि पूर्वाग्रं रेखात्रयं विलिख्यतासु दक्षिणादुत्तरागेषु मध्यम पश्चिमपूर्व * * * तानां क्रमेण ब्रह्मयमसोमाः पश्चिमादि पूर्वाग्रेषु मध्यदक्षिणोत्तराणामीश श्रीशसुरेशाश्च देवता इति ध्यात्वा प्रोक्ष्य ततो दक्षिणभागे गन्धपुष्पाक्षतादीनि होमद्रव्याणि संस्थाप्य वामभागे दर्भान् संस्थाप्य तदुपरि ययोक्तानि पात्राण्यधोमुखानि द्वन्द्वशो विन्यस्य पवित्रे कृत्वा प्रोक्षणी संस्कृत्य तत् संस्पृश्यंमूलविद्यया त्रिवारमभिमन्त्र्य तत् सकलतीर्थमयं ध्यात्वा तेन दर्भमय कूर्चेन दक्षिणभाग स्थितद्रव्यजातं पात्राणि च पूर्वोक्त ब्रह्ममन्त्रेण संप्रोक्ष्य कुण्डस्थण्डिलयोरन्यतम मध्ये कुशगन्ध पुष्पाक्षतमय योग विष्टरं सङ्कल्प्य गन्धादिभिरभ्यर्च्यात्र नीलोत्पलदल श्यामलाङ्गीमशेष लोकजननीं वागीश्वरी मृतु स्नातां सञ्चिन्त्येतद्योनौ भास्करकान्तभवं वा आरणेयं वा श्रोत्र्यागारतो वा हुतवहमानीय पवित्री कृते पात्रे वह्निबीजेन निधायक्रव्यादांशत्वेन किञ्चिदङ्गारखण्डं परित्यज्यास्त्रेण संशोध्य कवचेनावकुण्ठ्यामृतबीजेन धेनुमुद्रयामृती कृत्योत्थाप्य प्राददक्षिण्य क्रमेण स्थण्डिलं कुण्डं वा त्रिः परिभ्राम्य स्वसम्मुखीकृत्य मूलमन्त्रेण निधाय प्रज्वाल्य प्. २०९) सुसंस्कृतेन घृतेन पूर्वोक्तहृन्मन्त्रेण गर्भाधान पुंसुवन सीमन्तोन्नयन जातकर्मणां प्रत्येकं सप्तसप्ताहुतीर्हुत्वा गायत्र्युष्णिगनुष्टर्प बृहती पङ्क्ति तृष्टुर्प जगतीछन्दोमय सप्तबाहुगार्हपत्याहवनीय दक्षिणाग्निमयं त्रिपादं यजमानपत्न्यात्मक द्विशीर्षमध्वर्युहोतृ ब्रह्मोद्गात्रमय चतुरङ्गं शृङ्गम् | प्रातर्मध्याह्न सायाह्न सवनत्रयबद्ध शरीरं वेदलोकाधिक पञ्चरात्र पाशुपत बौद्धार्हत समय पिङ्गषण्णयाम् | हव्यकव्यात्मकद्विनासम् | वदनत्रयेषु ऋग्यजुः सामात्मकैर्मन्त्रैस्तोत्र शस्त्ररूपेण * धमानं ऋग्यजुः समाथर्वात्मक चतुश्रोत्रं महान्तं दीप्यमान वपुषं साधकाभिमतकामवर्षकतया वृषभं तदाननयोर्दक्षिणास्येन हिरण्या कनकारक्ता कृष्णा चेति च त * * मास्येन सुप्रभातिरक्ता बहुरूपिका चेति सप्तजिह्विका दक्षिणगैश्चतुर्भुजैः शक्तिं वह्निं स्रुक् स्रुवौ वामकरैस्त्रिभिस्तोमरं तालवृन्तं घृतपूर्ण सौवर्णपात्रं च दधानं प्रविलम्बितैकपादमितराभ्यां पादाभ्यां बद्धपद्मासनमरुण कमलकर्णिकासमासीनमनेका कल्पमरुणवर्णं पशुपति पर्जन्यपावकरक्षो वरुणमरुतां दिग्गलेषु क्रमेलभिरज्या कनका रक्ता कृष्णा सुप्रभातिरक्तोस्तपनीय वैडूर्य तरुण दिवाकरेन्दीवर पद्मराग सुवर्णवर्णादि शोर्याम्य सौम्ययोर्दलयोर्मध्ये प्. २१०) च यथोक्तवर्णा बहुरूपिका चेति सप्तजिह्वाभिरा वृत्तव्यावृतोत्तानवक्त्रं जातवेदसं ध्यात्वा अर्घ्यपाद्यादि धूपदीपान्तैरुपचारैरभ्यर्च्य ततः प्रागग्रैरुदगग्रैर्दर्भैरेकमेखले कुण्डे मेखलाधस्ताद्विमेखलेद्वयोर्मध्ये त्रिमेखले मध्यममेखलायां परिस्तीर्य यदि स्थण्डिले सिकतानां बाह्ये दक्षिणोत्तरपश्चिमभागेषु त्रीन् परिधीन् अग्नीशयोर्दिशोराघारबेन समिद्वयं च विन्यस्य परिषिच्य ततो वह्नेर्नामान्नप्राशन चौलोपनयन प्राजापत्याग्नेय वैष्वदेव सौम्यगोदान समावर्तन विवाहान्तानां संस्काराणां पूर्वोक्त हुन्मन्त्रेण प्रत्येकं सप्तसप्ता हुतीर्हुत्वा ततस्तन्मध्ये पूर्वोक्त पूजापीठं परिकल्प्यात्र यथोक्तरूपां सपरिवारामम्बिकां समावाह्याभ्यर्च्या शेषपरिवारं देवतानां प्रत्येकमेकाहुतिं हुत्वा मूलविद्यया दशाहुतीर्जुहुयादेवं स्वाहा प्रिये शक्तिमये सिद्धे तस्मिन्यथोक्तकार्याय यथोदितैर्द्रव्यैर्यथोक्त संख्यया हुत्वा गन्धादिभिरभ्यर्च्य स्तुत्वा नमस्कृत्य प्रसाद्यानन्तरं महाव्याहृतीर्जुहुयात् | यथा | भूरग्नये च महते च स्वाहा इत्यादि च तस्रः | आम् इतः पूर्णं प्राणबुद्धि देह धर्माधिकारतो जाग्रत् स्वप्न सुषुप्त्यवस्था सुमसना वाचा कर्मणा हस्ताभ्यां * * * मुदरेण शिश्नायत् स्मृतं यदुक्तं यत्कृतं सर्वं ब्रह्मार्पणं भवतु स्वाहेति प्. २११) ब्रह्मार्पणमन्त्रेणाष्टाहुतीर्हुत्वा पूर्णाहुतिं हुत्वा परमेश्वरीं सपरिवारामुद्वास्य हृदयभवनं नीत्वा गन्धादिभिरात्मानमभ्यर्च्य कृतकृत्यमात्मानम्मत्वा यथा विभवं ब्राह्मणान् सन्तर्प्य स परिवारं हुतवहमुद्वासयेत् | नैमित्तिके होमे स परिधीन् परिस्तरां दहेत् | नित्यहोमेन दहेत् | यत्र कामनाहोमविन्यस्तासु जुहुयादिति | विचकिलैन्नव मल्लिकाभिः शाड्वलपल्लवैर्दूर्वादलैराघारेण घृतेन सिद्धार्धैसितसर्षपैः हरिरिपू कुसुमैरक्तकरवीरकुसुमैः कासमर्दैपोरिः बु इति द्रव्य विडाः किं करातैः कुरण्डैः छगलां गजमांसलेशेन अजमांसलेशेन नग्नजितस्थि कार्पासबीजम् | नीलाम्भोजैर्नीलोत्पलैः सौगन्धिकैः कल्हारैः कङ्केलि कुसुमैरशोकपुष्पैस्पष्टमन्यत् | || इति संप्रदायदीपिकायां दशमः पटलः || श्री तेजानन्दनाथसंविदाम्बा श्रीपादुकां पूजयामि | तेजानन्दस्य शिष्येन कृष्णानन्दस्य सूरिणा | लिखितं संप्रदायस्य दीपिकाचाम्बिकाज्ञया || ऐं ह्रीं श्रीं पुरुषोत्तमानन्दाय नमः | प्. २१२) || शिवाय नमः || * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * स्युः कोणयोनिषु | ब्रह्माणीमसिताङ्गेन माहेशीरुरुणा सह | कौमारीं चण्डसंज्ञेन क्रोधेन सह वैष्णवीम् | उन्मत्तेन च वाराहीमिन्द्राणीं च कपालिना | भीषणेनापि चामुण्डीं संहारेणापि चण्डिकाम् | अम् असिताङ्गभैरवाय | आं ब्रह्माण्यै नमः | इत्यादि दलेषुभिर्यजेत् | देहाश्चतुर्थ्यन्ते स नामभिः | आं ब्रह्माण्यै नमः | * * * * * भैरवाय इत्यादि पुनरिन्द्रादिकां दिक्षु बहिर्वज्रादिकास्ततः | एवं परिवारान् स गन्धाक्षत कुंकु?मामृता बिन्दुभिरभ्यर्च्य देवी मूर्तौ चतुश्चत्वारिंशम्मूलम * * * * * * * कृत्वा धूपदीपां दत्वा आरात्रिकं विधाय स घृतकदली नालिकेरो पदं शंसशर्करं च सुशृतम् | शाल्योदनं निवेद्यं समर्प्याग्निकार्यं कृत्वा | ओं ह्रीं सकृद्भ्यः सर्वभूतेभ्यो हुं स्वाहेति बलिं विकीर्यनत्वापानीयामृतं दत्वा निवेद्यं विसृज्य | ऐम् उच्छिष्टचाण्डालिमातङ्गि सर्ववशङ्करिणि स्वाहेति तस्यै दत्वा गण्डकुषादि दत्वा प्रसन्नपूजां विधाय ब्रह्मार्पणमात्मार्पणं च कृत्वा तीर्थं स्वीकृत्य स्तुत्वा नत्वा स्वयं तन्मयो भूत्वा लयाङ्गं प्. २१३) विधायात्मान्युद्वास्य प्राणप्रतिष्ठां कृत्वा स्वात्मनि देवी मूर्तौ चैकवारं पुष्पाञ्जलिं कृत्वा शङ्खमभ्यर्च्य निधायां गरिष्यादि पूर्वकं यथाकालं यथारुचि च मन्त्रं जप्त्वा योगान् कृत्वा देवतामयो भूयादिति शिवम् | परापरमयीमित्यत्र किं वा तत्परं रूपं देवा अपररूपं वा किमित्याकाङ्क्षायां परं रूपं तावदाह | शब्दानां जननीति | हेवायादिनि वाचं वागिन्द्रियं वादितुं शीलमस्या इति वाग्वादिनी तत्र सम्बोधनम् | तथा हेसरस्वति अत्र शब्दार्थात्मके भुवनेत्वं शब्दानां जननीति सद्भिरुच्य सेस परापश्यन्तादि क्रमेण पञ्चाशद्वर्णात्मना परिणतत्वात् सर्वेषां वेदादि लक्षणानां शब्दानां तन्मयत्वाच्च नैवं वयं ब्रूमः | किन्तु केशववासव प्रभृतयः | केशवप्रभृतयो वास प्रभृतयश्च प्रधानार्था अपित्वत्तं कल्पादावाविर्भवन्तिकं पुनरितरेर्याः | ध्रुवं निश्चितमेतत् | अर्थस्य शब्दविवर्तत्वाद्यदाहुः | अनादिनिधनं ब्रह्मशब्दशतसङ्ग्रहविस्तराभ्यां यथा शक्ति विमृश्यते | इह द्विविधं वृत्तं मातृवृत्तं वर्णवृत्तं चेति | तत्र चतसृभिश्च तसृभिर्मात्राभिः पञ्चगणा यत्र कल्प्यते | * * श्लोकाग्रथ्यन्ते ########### END OF FILE #######