#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00318 Uniform title: kulamuktikallolinī Author : navamīsiṃha Alternate name : adyananda Manuscript : NGMCP Manuscript No. : 1-1675 Reel No. : B 120/6 Description: Description by Mark S.G. Dyczkoski: The author of the Kulamuktikallolinī is Navamīsiṃha also called Adyananda. He introduces himself in the beginning of his Tantracintāmaṇi (Asiatic Society of Bengal MSs no 6217-8) as the minister of King Bhūpālendra of Nepal who is said to be a pious and learned man. He was probably king Mahīndra Malla or Bhūpālendra Malla of Kathmandu who ruled for about five years between 1689-1694 ce. The Kulamuktikallolinī deals with śākta tantra ritual and practice, especially the worship of Kālī. Extending for over 9,000 verses in 22 chapters, it is a compendium that draws from a large number of sources. These include the kulacūḍāmaṇi, rudrayāmala, kumārītantra, mahākālasaṃhitā, phetkāriṇītantra, kālitantra, svatantratantra, merutantra, vīracūḍāmaṇi, piṃgalāmata, bhāvacūḍāmaṇi, kulārṇava, mahākapilapaṃcarātra, tattvasāre, ṣoḍaśārṇava, somaśaṃbhupaddhati, vīrāgama, śivapaddhati, devīmata, hayaśīrṣapaṃcarātra, śivasadbhāva, yoginītantra, candrayāmala, siddhayāmala, mohaśūrāntara, nāradapaṃcarātra, matsyasūkta, vaiśaṃpāyanasaṃhitā, and many more. Although the Navamīsiṃha writes little of his own, it is clear from the sheer extent of the sources from which he draws that he was very learned. He draws from Tantras of all schools, including the vaiṣṇava pāñcarātra and śaivasiddhānta but has a clear preference for kaula zAkta tantras mostly of the latter period. His primary concern is with ritual. He begins with the rites of initiation (dīkṣā), and continues systematically, chapter by chapter with the rites that constitute the worship (pūjā) of the deity. These include the fashioning and purification of firepits, the purification of the sacrificial fire (agnisaṃskāra) and Mantras, daily worship (nityavidhi), rites and Mantras for those who undertake a journey, the purification of the elements (bhUtazuddhi), the installation of the vessel containing the water offered in lustration (arghasthāpana) and so on. Although not original, the work, contains interesting and important source material, not infrequently from unpublished sources. Such compendiums, which became very popular from about the 12th century, can often be roughly dated on the basis of the compiler's date. Thus may contribute substantially to future research in the development of Tantric literature after the 11th century. Notes: Revision 0: Nov. 19, 2014 Data-entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### १अ) श्रीगुरुगणपतीष्ट देवताभ्यो नमः || नमामः सदानन्दरूपा सनाद्यान् सगोत्रां च गोत्रावतारां सुनन्दां | सुगोत्रोद्भवां भासमानां भवाच्- चौन्नृणां तारिणीं तारसर्गामनिन्द्यां || वाक्यान्युच्चावचानिप्रथमपतिकृतानीह वै ज्ञानिकैर्- यान्युक्तानि व्यक्तचर्यान्यनभिहितहृदां द्वापराधायकानि | तान्येवालोक्यभावं भवचरण सरोजार्चकानां गुरुणां ज्ञात्वा वक्ष्येहमाद्या भजन सृति विभेदाय यत् तद्विधानं || सव्यापसव्यपथभेदविवेकरूपां निःश्रेणि काममलमुक्तिमभीप्सितानां | श्रीमान्नवान्तगतमी मृगराजसंज्ञः कल्लोलिनीं वितनुते कुलमुक्ति पूर्वां || आद्यानन्दन ईत्येव ख्यातनामा गुरोर्मुखात् | भक्त्यूद्रेकादपर्णायां चंचलत्वं व्रजाम्यहं || कुलचूडामणौ || श्रीभैरव उवाच || असंख्या त्रिपुरादेवी असंख्याता च कालिका | वागीश्वरी तथा संख्या तथा तद्वत् कुला कुला || मातङ्गिनी तथा पूर्णा विमला चण्डनायिका | त्रिपुरैक जपचान्याया चान्या कुलसुन्दरी || वैष्णवं गाणपत्यं च महासौरमतन्तथा | शैवं शांकरजातं च यत्किंचिद् भूतसंभवं || चतुष्षष्टीनि तंत्राणि मातृणामुत्तमानि च | महामाया संवरं च योगीनी जालसंवरां || तत्वसंवरकं नाम भैरवाष्टकमेव च | वहुरूपाष्टकज्ञानं यामलाष्टकमेव च || तंत्रज्ञानं वासुकिं च महासंमोहनन्तथा | महाशंयं महादेवं वातुलं वातुलोत्तरं || हृद्भेदं मातृभेदं च गुह्यभेदं च कामिकं | कलापादं कलासारं तथान्यत् कुब्जिकामतां || नयोत्तरं वीरनाख्यं तोतुलं तोतलोत्तरं | पंचामृतं रूपभेदं भूतडामरमेव च || कुलसारं कुलोडीशं कुलचूडामणिं तथा | सर्वज्ञानात्मकं देवि महापिचुमतं तथा || महालक्ष्मीमतं देवी सिद्धियोगेश्वरीमतं | कुरूपि कामतं देवि रूपिकामतमेव च || सर्ववीरमतं देवी विमलामतमुत्तमं | पूर्वपश्चिममह्यं च उत्तरं च निरुत्तरं || तत्रैर्वैशेषिकज्ञानं वीरवल्लीमथापरं | अरुणेशं मोहिनीशं विशुद्धेश्वरमेव च || एवमेतानि तंत्राणि तथान्यन्यापि कोटिशः | १ब्) श्रुत्वा देवि न कुत्रापि जातानन्दासि भैरवि || तत् कथं वद सुश्रोणि मयि त्वत्पादवर्तिनि || देव्युवाच || शृणु देवपरानन्द परापर कुलात्मक | मन्माया मुद्रिता शेषं तंत्रज्ञानं कुलेश्वर || अहं प्रकृति रूपाचेच्चिदानन्द परायणा | क्व ब्रह्मा क्व हरिः शंभुः क्व देवः क्व मनोजनुः || क्व सृष्टिः क्व स्थितिर्वापि क्व वामज्ञो क्व भूमिका | क्व योगः क्व सुखं दुःखं क्व मुक्तिः क्व च साधुता || नास्तिक्यं क्व नु सात्विक्यं क्व गुरुत्वं क्व शिष्यता | माययाछाद्य चात्मानं द्विधा भिन्ना यदोन्मुखी || परा कुलरसोन्मादमोदिनी तु विकाशिनी | पंचभूतानि लिंगानि चैकोत्तर गुणानि च || ब्रह्मादि भूर्भुवः स्वः स्वः स्वभाव व्यक्तिजातयः | सर्वेप्याविर्भवंत्यत्र ततो भावादि कल्पना || शिवशक्ति विभागेन गुणोत्पत्तिस्तु जायते | सर्वे ब्रह्मादयो यूयं मदंश भावसंभवाः || परस्पर विभिन्नाश्च तंत्र मम? समाकुलाः | पंचत्वं प्रापयीत्वा तु निर्वाणयव लालिताः || पुनराविर्भवन्त्येते प्रकृतेः परतः पुमान् | अहंकारः पंचतन्मात्रा सत्वं वारजसंतमः || एतत् तयात्मकं विश्वं नष्टं चाविर्भवंत्यपि | यदिमांविद्धि सर्वज्ञ आम्नायैः क्व प्रयोजनं || नमां विद्धिचेत् सर्वज्ञ क्व स्नानं क्व च याजनं | नारीरूपं समास्थाय सृष्टिसारं सदात्मकं || भवंतं भवयोगज्ञं गुरुं ज्ञातुं विजृंभता | एतावतापि देवेश मम तत्वन्न जायते || शृणु पुत्र परानन्द परचर्या विशारदा | योगनिर्मुक्त कालुष्य उपायं कथ्यते मया || सर्वतंत्रैकसारं च सर्वदेव नमस्कृतं | सर्वे सर्वज्ञसंगुप्तं ततो बोधप्रबोधकं || पापपुण्यैकशारार्हं भोगमुक्ति प्रदायकं | सर्वाश्चर्यमयं वत्स विदु वामपि मोहनं || नानार्थ प्रसविप्राज्ञनानार्थसंकुलाकुलं | सदाचार्य परिज्ञप्तं सछिप्य परमास्पदं || सर्ववादि सदाचारं सर्ववादि विगर्हितं | नमया विष्णुवे प्रोक्तं न धात्रे गणपाय च || योगीव हृदये वत्स यत्नतः परिपालय | एतत् तंत्रं विनावत्स कंचित् कुल सुखावहं || २अ) रहस्यमद्भुतं वत्स गोप्तव्यं पशु संकटे | न कस्मैचित् प्रवक्तव्यं न कर्तव्यं कथंचन || इदानीं तव सर्वज्ञ सर्व तत्र विशारद | त्वमेव वक्ता शास्त्राणां नान्यः कोपि महेश्वर || गुरुस्त्वं सर्वतंत्राणां नाहं नापि हरिः प्रभुः | कारणावस्थामापन्ना यद्यहं कुलरूपिणी || न कार्यं नापि यत्किंचिद् ब्रह्मैवाहं स्फुरत् प्रभुं | कार्यता वस्तुमापन्ना यदाहं विश्वरूपिणी || तदा त्वमेव तंत्राणां वक्तानाहं महेश्वर | इदानीं वद सर्वज्ञ तंत्रज्ञानं महेश्वर || अहं विशामित्वद्देहे मया युक्तो भव प्रभो | मां विनाजनिका कापि नैव कार्य विभाविनी || अतः कार्यत्वमापन्ने पुत्रत्वं त्वयि वर्तते | त्वां विना जनकः कोपि नैव कार्य विभावकः || अतस्त्वमेव जनको नास्त्यन्योपि कथंचन | कदाचित् पतिरूपोसि कदाचिद् गुरुरेव च || कदाचित् पुत्रतापन्नः कदाचिच्चिन्त्य एव च | शिवशक्ति समायोगाज्जायते सृष्टि कल्पना || शिवशक्ति समायोगात् कुलादि युक्ति कल्पना | शिवशक्तिमयं सर्वं यत्किंचिज्जगती गतं || तन्नाववैव सर्वत्र सर्वत्राहं न संशयः | सर्वं त्वमेव देवेश सर्वं चाहं सनातन || गुरुस्त्वं यदि शिष्योहं तदा शास्त्र विवेचना | तस्माद् भव गुरुर्नाथ शिष्योहं परमेश्वर || श्री रुद्रयामले || श्रीमहादेव उवाच || अतः परं किं वक्तव्यं कथयस्व हरप्रिये | कुमारीतंत्रे || श्रीदेव्युवाच || भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थकोविद | कनोपायेन च कलौ नरा गच्छन्ति सद्गतिं || तन्मे वद महादेव यदि तेस्ति दयामपि || भैरव उवाच || अस्ति गुह्य तमं ह्येतदानन्दैक सनातनं | अतीव च सुगोप्यन्तु कथितुं नैव शक्यते || अतीवमत् प्रियासीति कथयामि तथापि ते | शब्दब्रह्ममयं ह्येतत् संसारं स्थूलसूक्ष्मकं || प्रकृत्या तु विना नैव संसाराद्युप पद्यते | तस्मात् तु प्रकृतेर्मूलं कारणं नैव दृश्यते || रूपानि वहु संख्यानि प्रकृतेरस्ति भामिनि | २ब्) तेषां मध्ये प्रधानस्तु कालिरूपं मनोहरं || विशेषतः कलियुगे नरानां भुक्तिमुक्तिदं | महाकालसंहितायां || कलौ काली महाविद्या कलौ काली तु सिद्धिदा | कलौ काली सुसिद्धा च कलौ काली वरप्रदा || कलौ काली साधकस्य दर्शनार्थं समुद्यता | कलौ काली केवलो स्यान्नात्र कार्या विचारणा || नान्य विद्यानान्द विद्यानान्य विद्याकलौ भवेत् |? कलौ कालीं विहायाथाय(?) कश्चित् सिद्धि कामुकः || सतु शक्तिं विना देवि रतिसंभोगमिछति | कलौ कालीं विना देवि यः कश्चित् कार्यमिछति || स नीर साधनं त्यक्त्या परिभ्रमति सर्वतः | कलौ काली विहायाथ यः कश्चित् मोक्षमिछति || गुरुं ध्यानं परित्यज्य सिद्धिमिछति साधकः | कलौ कालिं विहायाथ यः कश्चित् द्रात्यमिछति || स भोजनं परित्यज्य क्षुत्निवृर्तिमभिप्सति | न हि काली समापूजा न हि काली समास्तुतिः || न हि काली समोमंत्रो नास्ति ब्रह्माण्डगोलके | वक्त्रकोटि सहस्रै स्तुतिहा कोटि शतैरपि || वर्णितुं नैव शक्नोमि शताब्दे नापि सुन्दरि | जन्मान्तरसहस्रेण वर्णितुं नैव शक्यते || तस्या उपासकाः कं वै ब्रह्मविष्णुशिवादयः | चन्द्रः सूर्यश्च वरुणः कुवरोग्निस्तथापरः || दुर्वासाश्च वशिष्टश्च दत्तात्रेयो वृहस्पतिः | बहुधा किमिहोक्तेन सर्वदेवा उपासकाः || कालिकायाः प्रसादेन भुक्तिमुक्त्यादि भागिनः | महाकालसंहितायां || अथ दक्षिणकाल्यास्तु मंत्रमुद्धरयाम्यहं | यदेकवार स्मरणात् किं तद्यन्न करेस्थितं || फेत्कारिणी तंत्रे || प्रवक्ष्यामि मनुं तस्याः सर्वकामसमृद्धिदं | वर्गाद्याद्यं वह्नियुक्तं रतिविंदुसमन्वितं || त्रिगुणं च ततः कूर्च युग्मं लज्जा युगं ततः | दक्षिणे कालिका चेति पूर्ववच्च ततः पुनः || ठद्वयेन समायुक्तं मंत्रमेनं विदुर्बुधाः | कालितंत्रे || तस्यामंत्रं प्रवक्ष्यामि यतो वश्यं जगत्त्रयं | ककारं वह्निसंयुक्तं रतिविन्दुसमन्वितं || त्रिगुणं च ततः कुर्च युग्मं लज्जा युतं तथा | दक्षिणे कालिके चेति पूर्ववीजानि चोच्चरेत् || ३अ) वह्निजायावधिः प्रोक्तः कालिकाया मनुर्महान् || स्वतंत्र तंत्रे || क्रोधीशं वह्निसंयुक्तं त्रिमूर्तीन्दुसमायुतः | त्रिर्लिखेत् परतो देवि हुंकार द्वयमेव हि || माया द्वयं समालिख्य अत्रिः संवत्त सूक्ष्मयुक् | णे कालिके सप्तवर्णान् पूर्ववत् परमेश्वरी || स्वाहान्ते यं महाविद्या द्वाविंशत्यक्षरि परा || कुमारीतंत्रे || कामत्रयं वह्निं संस्थं रतिविन्दुसमन्वितं | कूर्चयुग्मं तथा लज्जा युगलं तदनन्तरं || दक्षिणे कालि चेति पूर्ववीजानि चोच्चरेत् | अन्ते वह्नि वधुं दद्याद् विद्याराज्ञी प्रकीर्तिता || तत्ववोधे || ब्रह्मा वह्नि समारूढश्चतुर्थस्वरसंयुतः | नादविन्दुसमायुक्तेस्त्रिगुणीकृतविग्रहः || कुर्चयुग्मं शिवायुग्मं दक्षिणे कालिके ततः | प्राग्वद्वीजं वह्निजायान्ता दक्षिणाया द्विविंशति || मेरुतंत्रे || अथान्या संप्रवक्ष्यामि देवीं दक्षिणकालिकां | क्रीं क्रीं क्रीं हुं समुच्चार्य हुं लज्जा द्वयमुच्चरेत् || दक्षिणे कालिके पश्चात् पुनर्वीजानि संवदेत् | क्रमेणैवाग्नि गृहिणी मंत्रो द्वाविंशदर्णकः || कुमारीतंत्रे || नात्र सिद्धादि चिन्तास्थि नारिमित्रादि लक्षणं | न वा प्रावास वाहुल्यं कायक्लेससंभवः || अस्याः स्मरण मात्रेण सिद्धयोष्टौ भवन्ति हि || कालितंत्रे || एवं समस्तविद्यानां राज्ञीस्तोतुं न शक्यते | वक्त्र कोटि सहस्रैस्तु जिह्वाकोटि शतैरपि || सर्वसिद्धि प्रदादेवि अनिरुद्ध सरस्वती | तस्मादस्या ज्ञान मंत्रात् सिद्धयः संभवंति हि || अनिरुद्धसरस्वत्या ज्ञानमात्रेण साधकः | पाण्डित्वे च कवित्वे च वागीशीमतां व्रजेत् || तस्य पाण्डित्य वै दग्ध्य विचित्र पदकल्पनात् | देवा अपि विलज्जन्ते किं पुनर्मानुषादयः || अपिचेत् त्वत् समानारी मत्समः पुरुषोस्ति चेत् | अनिरुद्धसरस्वत्याः समोमत्रस्तदा भवेत् || फेत्कारिणीतंत्रे || य एतं चिन्तयेत् तंत्री सर्वकाम समृद्धिदं | तस्य हस्ते सदैवास्ति सर्वसिद्धिर्न संशयः || ३ब्) गद्यपद्यमयी वाणी सभायां तस्य जायते | ब्रह्महत्या सुरापानमगम्यागमनं तथा || सर्वमाश्रुतरत्येव दक्षिणामेव चिन्तयेन् | वागिश्वर समो वाचि धनेन धनदोपमः || चन्द्रसूर्य समो भूत्वा वसेत् कल्पायुतं दिवि | इत्यादि मादिकं चैव वहु किं कथ्यते पुनः || न तस्य दुर्लभं किंचित् यः स्मरेत् घोरकालिकां | कुमारीतंत्रे || अश्वमेधैश्च गोमेधै नरवधै(?) तथापरैः | दानैश्च विविधैरन्यै होमैर्नानाविधैरपि || अन्यक पुण्य समाजैर्यदिमं प्राप्यते परा | विद्याराज्ञी घोरकाली ह्यनिरुद्ध सरस्वती || ज्ञात्वेव मुक्ति माप्नोति किं पुनः कथ्यते परं | अस्याज्ञानप्रभावेन सिद्धयौष्टौ भवंति हि || मंत्रस्य ज्ञानमात्रेण विजयी भुवि जायते | तस्यालोकेन मात्रेण वादिनो निःप्रभामताः || राजानोपि हि दासत्वं भजते किं परेजनाः | वह्नेः सैन्यं जलस्तंभं गतिस्तंभं विवस्वतः || दिवारात्रिं प्रत्ययं च सकन्तुं भवति क्षमः || तथा || अस्यास्तु ज्ञानमात्रेण जीवन्मुक्तः प्रजायते | वृहस्पति समो वाग्मी धरणी सदृशः क्षमी || श्रीराम सदृशो विर्यरूपे काम समः स्मृतः | समुद्र ईव गांभीर्य तेजसा भास्करोपमः || दुर्वासा ईव शापादौ क्रोधादौसयमोपमः | सृष्टौ प्रजापतिः साक्षात् स्थितौ विष्णु समस्तथा || प्रलयेह *? समो ह्येषः एतां यो वहि तत्वतः | वहुना किमिहोक्तेन समानो नास्ति भूतले || कालितंत्रे || अस्या जपो ब्रह्म जपो ध्यानमस्यात्म चिन्तनं | योगसंधारणं सम्यक् ध्यानमस्या न संशयः || महापदि महापापे महाग्रह निवारणे | महाभय महोत्पाते महाशोके महामये || महामोहे महासार्थे महादारिद्रसंकटे | महारणे महाशून्ये महाज्ञान महारणे || दूराध्वनि दुरावासे दुर्भिक्षे दुर्निमित्तके | समस्तक्लेशसंघाते स्मरणादेवनाशयेत् || अस्याज्ञानं ज्ञनमेव ध्यानमस्यात्मचिन्तनं | तस्यादस्याः समाविद्या नास्ति मंत्रेण संशयः || ब्रह्मादि भवनं तस्य न समः किमु चापरः | ४अ) स एव सुकृती लोके स एव कुलभूषणः || धन्या च जननी तस्य येन देवि समर्चिता | गाने च तुम्वरः साक्षात् दाने कर्णसमोपमः || दत्तात्रेय समोज्ञानी येन देवी समर्चिता || वीरचूडामणौ || अथान्यासंप्रवक्ष्यामि शारंगी सर्वसिद्धिदा | यस्या विज्ञानमात्रेण सर्वैस्वर्य प्रदो भवेत् || मेधा प्रज्ञा तथा लक्ष्मी वल्लभः सर्वजन्तुषु | अस्याः स्मरण मात्रेण देहज्ञानं प्रजायते || कृते चैवापि त्रेतायां परश्चा द्वापरे युगे | प्रत्यक्षो देवताः सर्वा भक्ताधीना हि देवताः || गुरुणा करुणा सिन्धौ वीरेण च विकाशिता | सेविता शुद्धवोधेन प्रत्यक्षो कालिका कलौ || फेत्कारिणीतंत्रे || अथान्यासंप्रवक्ष्यामि पुण्यं वै दक्षिणाविधिं | सर्वसिद्धिप्रदं साक्षान् महापातकनाशनं || देवैर्देवत्यधिपये सिद्धैः खेचरसिद्धये | पन्नगै राक्षसैर्मर्त्यैर्मुनिभिश्च मुमुक्षुभिः || कामिभिर्धर्मिश्चार्थमीप्सुभिः सविता सदा | देवी दक्षिण संज्ञातां प्रवक्षामि यथाविधि || मंत्रपद्युत्पत्तिराह || पिंगलामते || मननं विश्वविज्ञानं त्राणं संसारवन्धनात् | यतः करोति संसिद्धि मंत्र इत्युच्यते ततः || अन्यत्रापि || गुप्तोपदेशतो मंत्रो मननाम्नापनादधि | माननां त्राणनान्मंत्रो मंत्रिणां कल्पभू रुहः || इति तंत्रांतरवचनं || मेरुतंत्रे || न स्वर्गे न च तीर्थेषु नौषधीषु नभेषु च | ऋषयो देवताः संन्ति मंत्रा एवं हि देवताः || साधकानां फलं दातुं तलद्रूपं धृतं सुरैः | मुख्य स्वरूपं तेषान्तु मंत्रा एव न चेतरत् || महाकालसंहितायां || न शास्त्रमालोक्य वदेन्नाचरन्नजपेदपि | न पश्येन्नोपदिश्याच्च न कुर्यान् नैव साधयेत् || गुरुपदेशतोलब्ध जपन्यासार्चनादिके | पश्चात् तत्साधयेत् सर्वं सदा तद्भावभावितः || मेरुतंत्रे || यदृच्छया श्रुतं मंत्रं छद्मनापि वलेन वा | परेरितं वा गाथावा तज्जपेद्यद्यनर्थ कृत् || पुस्तके लिखितान् मंत्रानालोक्य प्रजपंति ये | ब्रह्महत्या समं तेषां पातकं परिकीर्तितं || ४ब्) अतो गुर्वपेक्षा || अथ गुरुलक्षणं || कुलचूडामणौ || कुलीनः सर्वविद्यानामधिकारिति गीयते | दीक्षा प्रभूः स एवात्र सर्वमंत्रस्य नापरः || कुलीनं तु कुलाद्गुर्वे युक्तः || यो भवेत् कुलतत्वज्ञः कुलासमविशारदः | कुलार्चन परः सस्यात् कौलिको दांभिकोऽपरः || कुलभक्तान् कुलाचारान् कुलज्ञानान् कुलव्रतात् | प्रीतो भवती यो दृष्ट्वा कौलिकः स तु मे प्रियः || तत्वत्रय स्वीकरणान् मूलमंत्रार्थ तत्ववित् | देवता गुरुभक्तश्च कौलिकः स्यात् तु दीषया || मेरुतंत्रे || अकुलं शिव इत्युक्तः कुलं शक्तिः प्रकीर्तिता | कुलाकुलानुसन्धान निपुनः कौलिकः प्रियः || पशोस्तु नाधिकारः || पशुस्तु द्विविधो देव पूर्वेण सह भैरव | अस्याधिकारः पूजायां न गुरुत्वे कदाचन || इति भावचूडामणि वचनात् द्विविधः कुलाचार निंदकोऽनिंदकश्च शाकु दीक्षापरमेतत् || गुरुलक्षणं || मेरुतंत्रे || विंशद्विंशो एकगुणैर्युक्तं गुरुमवेक्षयेत् | जात्युत् कृष्टो * *? क्तांगः शुद्धवेषो मनोहरः || सर्वागमार्थ तत्वज्ञः सर्वमंत्रविधानवित् | इंगिताकार चेष्टाचिद्दूरतः कृत दुर्जनः || अंतर्मुखो वहिर्दृष्टिः सर्वज्ञो देशकालवित् | आज्ञा सिद्धोदया युक्तः शांतोवेदांगवेदवित् || नित्यनैमित्तिके काम्ये रतः कर्मण्य निंदिते | अलोलुपो हिंसकश्च पक्षपाती गुरुर्मतः || अनीदृश गुरोर्मंत्रो मरणाया सुखायवा || कुलार्णवे || श्रीगुरुः परमेशानि शुद्धवेशो मनोहरः | सर्वलक्षणसंयुक्तः सर्वावयव शोभितः || सर्वागमार्थ तत्वज्ञः सर्वमंत्रविधानवित् | लोकसंमोहनाकारो देववत् प्रियदर्शनः || सुमुखः सलभः स्वच्छः शुद्धांतश्छिं न संशयः | इङ्गिताकार चेष्टाविद्दूरतः कृतदूर्जनः || अंतर्मुखो वहिर्दृष्टी सर्वज्ञो देशकालवित् | आज्ञा सिद्धस्त्रिकालज्ञो निग्रहानुग्रहे क्षमः || ५अ) वेदवेदांगविच्छान्तस्सर्वजीव दयापरः | स्वाधीनेन्द्रिय संचारः षड्वर्गविजयक्षमः || अग्रगण्योति गंभीरः पात्रापात्रविशेषवित् | निर्मलोनित्यसंतुष्टो निर्द्वंद्वो नित्य शक्तिमान् || सद्भक्ता वत्सलोधीरः कृपालुः स्मित पूर्ववाक् | भक्तप्रियः सर्वसमो दयालुः सिष्यशासिता || स्वेष्ट देवगुरुः प्राज्ञो वनिता पूजनोत्सुकः | नित्ये नैमित्तिके काम्ये रतः कर्मण्य निंदितो || रोगद्वेषभयक्रोध दंभाहंकारवर्जितः | स्वविद्यानुष्टान तपो विधानां चाप्रकाशकः || यदृच्छा लाभ संतुष्टो गुणदोष विभेदकः | स्त्रीधनादिष्वनां सक्तो दुःसंगव्यसनोत्रितः || अलोलुपोऽहींसकंश्चापक्षपाती विचक्षणः | वित्तविद्यादिभिर्मंत्र यंत्र तंत्राद्यविक्रयी || निःसंकल्पो निर्विकल्पो निर्णीतात्माति धार्मिकः | तुल्य निन्दा स्तुतिर्मौनी निरपेक्षो नियामकः || इत्यादि लक्षणोपेतः श्रीगुरुः कथितः प्रिये | शुद्धचित्तो दयालुश्च ब्राह्मणो वेदपारगः || कुलाचाररतो नित्यं कुलशास्त्र प्रयोजकः | शांतः स्वाधीन सर्वज्ञो लोभमोह विवर्जितः || क्रोधमोहपरित्यागी विरागी वीरवंदितः | निगमागमवेत्ता च प्रसन्नतरमानसः || सर्वाश्रय परित्यागी ललनार्चन तत्परः | इदृक् लक्षणसंयुक्तं पूजयेद् गुरुमादरात् || महाकपिल पंचरात्रे || नातिवालो न वृद्धश्च न खंजो न कृशस्तथा | नाधिकांगो न हीनांगो न खल्वाटो न दंतुरः || कृतज्ञं वाग्मिनं शूरं प्रतिष्ठागमपारगं | वास्तु विद्या कृताभ्यासं शल्योद्धारविवेकिनं || क्रियानुक्रमवेत्तारं मुद्रा तंत्रविवेकिनं || तत्वसारे || वह्वाशी? दीर्घसूत्री च विषयादिषु लोलुपः | हेतु वादरतो दुष्टो वाग्वादि गुणनिंदकः || अरोमा वहुरोमा च निंदिताश्रमसेवकः | कालदंतोऽमितोष्टश्च दुर्गंधश्वासवासकः || दुष्टलक्षणसंपन्नो यद्यपि स्वयमीश्वरः | वहुप्रतिग्रहासक्त आचार्यः श्रीक्षयावहः || ५ब्) षोडशार्णवो || अपुत्रो मृतपुत्रश्च कुण्डश्च वामनस्तथा | कुनखी श्यामदंतश्च स्त्रीजितश्चाधिकांगकः || हीनांगः कपटी रोगी वहुवल्गी च कुब्जकः | एतैर्दोषैर्विहीनो यः स गुरुः शिष्यभाजनः || वाराहीतंत्रे || स्वनाम्ना न गुरुः कार्यो भार्यां च मातृनामिकां || सोमशंभुः || देशकालश्रुताचार वृत्तशीलगुणान्वितः | अथ स्वभावसंपन्नो गुरुः स्याद् गुरुणाकृतः || वीरागमे || कुमारीहीमवन्मध्ये स्वतः कृष्ण मृगान्विते | देशे जातस्तु यो विद्वानाचार्यत्वमथार्हति || शिवपद्धतौ || मध्ये देश कुरुक्षेत्र नाभोजपिनि संभवाः | अंतर्वेदि प्रतिष्टाना आवंत्याश्च गुरुत्तमाः || गौडाः साखोद्भवाः सौरामागधाः केरलास्तथा | कोशलाश्च दशार्णाश्च गुरवः सप्तमध्यमाः || कार्नाट नर्मदाराष्ट्रकछाभीरोद्भवास्तथा | कालिंगाः कामरूपाश्च कांवोजाश्चाधमाः स्मृताः || देवीमते || आचार्यः शैवशास्त्रज्ञः सिंसितदेश समुद्भवः | ब्रह्मचारिः गृहस्थो वा शिवभक्ति परायणः || यजमानाऽनुकूलर्क्ष जन्मादेशिक उच्यते || हयशीर्ष पंचरात्रे || गृहस्थं ब्रह्मचर्यस्थं ककाराष्टकवर्जितं | गुरुं कुर्वीत सततमुपवासव्रतेरतां || शैव || शैवागमे || भिक्षुभ्यश्च वनस्थेभ्यो वर्णिभ्यश्च महेश्वरी | गृहस्थो भोगमोक्षार्थी मंत्रदीक्षां न चाचरेत् || त्यक्ताग्नयः क्रियाहीनायत योनिः परिग्रहाः | वनस्तास्ता दृशा एव वर्णी न्यूनाश्रमीयतः || अतस्तेषां नाधीकारो दीक्षादाने महेश्वरि || शिवसद्भावे || दिक्षायां न गुरुत्वेनयतीन् वैखानसान् प्रिये | वृणुयाद्भोगमोक्षार्थि गृहस्थो वर्णितं तथा || योगिनीतंत्रे || यतेर्दीक्षां गृहीत्वा तु कदाचिदपि मोहितं | प्रायश्चित्ते धेनुरेका त्रिरात्र व्रतमेव वा || ६अ) प्रायश्चित्तं ततः कृत्वा पुनर्दीक्षां समाचरेत् || चन्द्रयामले || पितृदीक्षायतेर्दीक्षा या दीक्षा वनवासिनां | विविक्ताश्रमिणां दीक्षा पुत्रायुर्धननाशिनी || सिद्धयामले || यदि भाग्यवशादेव सिद्धविद्यां लभेत् प्रिये | तदैव तान्तु दीक्षेत त्यक्त्वा गुरुविचारणां || स्वेष्टविद्या प्रदाने तु न कुर्याद् गुरु चिन्तनं || मोहशूरान्तरे || वर्णाचारव्रतो मंत्री ज्ञानवान् सुसमाहितः | नित्यनिष्टो यतिः ख्यातो गुरुः स्याद्धौतिकोपि वा || अत्र यतेर्गुरुत्वोक्तिर्गृहस्थाति रिक्तविषया || हयशीर्षपंचरात्रे || यस्य विष्णौ पराभक्तिर्यथा विष्णौ तथा गुरौ | स एव देशिको ज्ञेयः सत्यमेतद् व्रवीमिते || नारदपंचरात्रे || ब्राह्मणः सर्वकालज्ञः कुर्यात् सर्वेष्वनुग्रहं | तदभावाद्विजश्रेष्टः शांतात्माभगवन्मयः || क्षत्रविट् शूद्रजातीनां क्षत्रियोऽनुग्रहक्षमः | क्षत्रियस्यापि चतुरोरभावादीनां दृशो यदि || वैश्यः स्वात्तेन कार्यः श्याद्वयेवित्यमनुग्रहः | स जाति येन शूद्रेण तादृशेन महामते || अनुग्रहाभिषेकौ च कार्यो शूद्रस्य सर्वदा | वर्णोत्तमेथ चतुरौ सति वा विश्रुतेपि वा || स्वदेशतोथवान्यत्रनेदंन्तार्यं शुभार्थिना | विद्यमाने तु यः कुर्याद् यत्र तत्र विपर्ययं || तस्येहामुत्रनाशः श्यातस्माच्छास्त्रोक्तमाचरेत् | क्षत्रविट् शूद्रजातिनां प्रतिलोम्यं न दीक्षयेत् || मेरुतंत्रे || विप्र एवे दृशः कार्यो गुरुर्नोचेत्तदी दृशः | क्षत्रविट् शूद्रजातीयः प्रतिलोम्यं न दीक्षयेत् || तंत्रे || आचार्यमातुलौ ऋत्विक् पितृव्यः श्वगुरो नृपः | इति षड्गुरुवोप्यत्र प्रोक्ता मंत्रविशारदौ || ज्ञानोन्नयन योगिनी तंत्रयोः || निर्धीर्यं हि पितुर्मंत्रं तथा मातामहस्य च | सोदरस्य कनिष्ठस्य वैरि पक्षाश्रितस्य च || योगिनीतंत्रे || प्रसादाद्वा तथा ज्ञानात् पितृदीक्षां समाचरेत् | प्रायश्चित्तं ततः कृत्वा पुनर्दीक्षां समाचरेत् || ६ब्) अत्र पितुरित्यनादरे षष्टी तेन पित्रादिष्व भक्तिरूपोऽनादरोऽति परिचयादिना यदि भवति तदा पुत्रादिना मंत्रो न ग्राह्य ईत्यर्थः || तत्रापि भक्तियुक्ताय पुत्राय वसुदायवेति प्रयोगसार वचनाच्च || मनुर्विसृष्य दातव्यो ज्येष्टस्यापि विनीततामिति फेत्कारिण्यादि वचनाच्चेति मम प्रतिभाति || केचित् तु निजकुलतिलकाय ज्येष्ठपुत्राय दद्यादिति फेत्कारिण्यादि वचनात् || ज्येष्टपुत्रस्यैव भक्तस्य पितुः सकाशान्मत्र ग्रहणेऽधिकारो न कनिष्ठपुत्रस्य न वा माता महादेः सकाशाद्दौहित्रादीनामिति वदन्ति || अपरे तु || स्वीयमंत्रोपदेशे तु न कुर्याद् गुरु चिन्तनमिति भैरवतंत्र वचनादनुपासित मंत्रस्य पित्रादि सकाशाद्ग्रहण निषेध इत्याहुः || मत्स्यसूक्ते तु || निर्वीर्यं हि पितुर्मन्त्रं शैवे शाक्तेन दुष्यतीत्युक्तं || मेरुतंत्रे || दक्षमार्गो तु निर्वीर्यः पितुर्मातामहस्य च | सोदरस्या गृहस्थस्य वाममार्गेति वीर्यवान् || रुद्रयामले || न पत्नीन्दीक्षयेद्भर्ता न पिता दीक्षयेत् सुतां | न पुत्रं च तथा भ्राता भ्रातरं च न दीक्षयेत् || इदमप्य भक्तविषयमेव अत एवं ब्रह्मणा कथितं पूर्वं वसिष्टाय महात्मने | वसिष्टोपि स्वपौत्राय मत्पित्रे दत्तवानयमिति मत्स्य सूक्त वचमपि संगच्छते स्त्री सकाशान् मंत्रग्रहणं प्रशस्तं स्त्रियो दीक्षा शुभां प्रोक्ता मातुश्चाष्टतुणा स्मृता || इति योगिनीतंत्र वचनात् सापि विधवा निषिद्धा || साध्वी चैव सदाचारा गुरुभक्ता जितेन्द्रिया | सर्वमंत्रार्थ तत्वज्ञा सुशीला पूजनेरता || गुरु योग्या भवेत् सा हि विधवा परिवर्जिता || इति तंत्रैवोक्तेः || हयशीर्ष * *? च रात्रे || सर्वत्र व्यतिरिक्तं तु आत्मानं वेत्तियो द्विजः | सर्वलक्षणहीनोपि स गुरुर्नात्रसंशयः || पंचरात्र प्रवुद्धस्तु सिद्धांतार्थास्य तत्ववित् | सर्वलक्षण हीनोपि आचार्यः स निगद्यते || वैशंपायनसंहितायां || स्वप्नलब्धं स्त्रियादत्तं संस्कारेणैव शुध्यति || ७अ) संस्कारश्च तत्रैव || स्वप्नलब्धे च कलशे गुरोः प्राणान्निवेशयेत् | वटपत्रे कुंकुमेन लिखित्वा ग्रहणं कृतं || ततः सिद्धिमवाप्नोति विफलंत्वन्यथा भवेत् || चन्द्रपीठे || स्वप्नलब्धः स्त्रिया दत्तो दत्तः केनाप्य साधितः | फलदा अपिते मंत्राग्रहीतव्यास्तु सद्गुरोः || इति गुरुलक्षणं || अथ शिष्यलक्षणं || कुलार्णवे || सछिष्यंतं कुलेशानि सर्वलक्षणसंयुतं | शतादि साधनोपेतं गुणशीलसमन्वितं || शुद्धदेहान्व वायाद्यं धार्मिकं शुद्धमानसं | दृढव्रतं सदाचारं श्रद्धाभक्ति समन्वितं || कृतज्ञं पापभीतं च साधुसज्जनसंगमं | आस्तिकं दानशीलं च सर्वभूत हितेरतं || विश्वासविनयोपेतं वित्तशाठ्यविवर्जितं | असाध्य साधकं शूरं वलकांति समन्वितं || अनुकूल क्रियायुक्तं अप्रमत्तं विचक्षणं | हितसत्यमित स्निग्धभाषिणं मुक्तदूषणं || सकृदुक्त गृहीतार्थं चतुरं वुद्धि विस्तरं | गृहतल्यासनोत्संग निर्विकारमसेवकं || विमृष्यकारणं वीरं मनोदारिद्र्यवर्जितं | सर्वकार्याति कुशलं धीरं सर्वोपकारकं || अन्त्यार्थं परनिंदायां विमुखं सुमुखं प्रिये | जितेन्द्रियं सुखं तुष्टं धीर्मतं ब्रह्मचारिणं || त्यक्ताधिक्यादि चापल्यन्दुःशंकातंक वर्जितं | गुरुध्यान स्तुति कथा सेवना भजनोत्सुकं || गुरु देवेति भक्तं च कामिनिं पूजनोत्सुकं | गुर्वाज्ञा पालकं देवि गुरुकीर्ति प्रसंशकं || गुरुवाक्यप्रमाणज्ञं गुरु सुश्रुषणेरतं | चित्तानु वर्तिनं प्रेक्ष्यकारिणं कुलनायिके || लज्जाभिमानगर्वादि वर्जितं गुरुसंनिधौ | निरपेक्षं गुरुद्रव्ये तत्प्रसादाभिकांक्षिणं || गुरुध्यानादि निरतं मोक्षमार्गाभिगामिनं | इत्यादि लक्षणोपेतं गुरुः शिष्यं परिग्रहेत् || मेरुतंत्रे || परीक्षेत गुरुः शिष्यं विंशद्भिर्लक्षणैयुतं | द्वादशाब्दं तदर्धं वा तदर्धं वाथ दीक्षयेत् || गुरुवाक्य प्रमाणज्ञं गुरुसुश्रुषणेरतं | लज्जाभिमान गर्वादि वर्जितं कुलनायकं || ७ब्) निरपेक्षं गुरुद्रव्ये तत्प्रसादाभिकांक्षिणं | जपध्यानादि निरतं मोक्षमार्गाभिगामिनं || शमादि साधनोपेतं शुद्धदेहं च धार्मिकं | दृढव्रतं सदाचारं श्रद्धाभक्तिसमन्वितं || हित सत्यमित स्निग्धभाषणं साधुसंमतं | अनुकूल प्रियायुक्तं धीरं सर्वोपकारकं || सदैव सुमुखं कुर्याछिष्यं दैवत तुष्टये || अथ दुष्टलक्षणं || कुलार्णवे || दुष्टान्ववायजं दुष्टं गुणहीनं विरूपिणं | परशिष्यं च पाखंडं धूर्तं पण्डितमानिनं || हीनाधिकविकाराद्गंविकलावयवान्वितं | पंगुमंधं च वधिरं मलिनं व्याधिपीडितं || उछिष्टं दुर्मुखं चापि स्वेछावेशधरंविटं | दुर्विदग्धं कुचेष्टं च कुटिलं भीमवीक्षणं || निद्रालस्य युतं तन्द्राद्व्यूतादिव्यसनान्वितं | कपाटकुट्यस्तंभादौति रोहिततनं सदा || शून्यशक्तिकरं क्षुद्रं श्रद्धाभक्ति विवर्जितं | किमेकवादिनंस्तब्धं प्रेषकं चपलं शठं || धनस्त्री शुद्धिरहितं निषेधविधिवर्जितं | रहस्य भेदकं चापि देवकार्यार्थ घातकं || मार्जारवकवृत्तिं च रंध्रान्वेषण तत्परां | मायान्वितं कृतघ्नं च प्रच्छन्नांतरदायकं || विश्वासघातकं देव द्रोहिणं पापकारिणं | अविश्वासमविद्यां गमनर्थ सिद्धिकांछिनं || आततायि नमादित्सुं कुत्सितं कूटसाक्षिणं | सर्वत्र पाचकं देवि सर्वाकृष्टाभिगामिनं || असत्यनिष्ठं चाशक्तं ग्राम्यादि वहुभाषिणं | दुर्विचारकुतर्कादि कारकं कलह प्रियं || वृथा क्षेपकरं वापि भ्रामकं वाग्विदंवकं | परोक्षे दुषणकरं प्रत्यक्षे प्रियवादिनं || वाग्रूक्षवादिनं विद्या चोरमात्मप्रसंशकं | गुणासहिष्णुं सद्भीतमतिक्रोधसमन्वितं || चार्वाकं दुर्जनमुखं सर्वलोकविगर्भितं | पिशूनं परसंतापं सर्वप्राणि भयंकरं || अक्लेशवादिनं मित्रद्रोहिणं भ्रातृवंचकं | जिह्वोपस्थ परं देवि तस्करं पशु चेष्टितं || अकारण द्वेषहास्य क्लेशक्रोधादि कारकं | अभिहास्य प्रकर्तारं भ्रमांतः परिहासकं || ८अ) कामुकं चाति निर्लज्जं मिथ्यादुश्चेष्टसूचकं | असूयामदमात्सर्य दंभाहंकारसंयुतं || ईर्ष्यापैशुन्यपारुष्य कार्यण्य क्रोधमानिनं | अधरं दुःखितं द्वैष्यमशक्तं तत्ववर्जितं || अप्रसिद्धमतिं मूढं चिंताकुलितमानसं | तृष्णालोभयुतं दीनमतुष्टं सर्वयाजकं || वह्नाशिनं कपटिर्न भ्रामकं कुटिलं प्रिये | भक्तिश्रद्धादयाशान्ति धर्माचारविवर्जिततं || मातापितृगुरुप्राज्ञ महतां हास्य कारकं | कुलद्रव्यादि वीभत्सं गुरुसेवाभिमानिनं || स्त्री दुष्टं समय भ्रष्टं गुरुशंकं कुलेश्वरि | ईत्यादिविगुणोपेतं गुरुः शिष्यं परित्यजेत् || स्नेहाद्वा लोभतो वापि यदि गृह्नाति दीक्षयेत् | तस्मिन् गुरौ स निष्ये तु देवता शाप आपतेत् || मेरुतंत्रे || दत्वा दीक्षां तु लोभाद्वै देवताशापमाप्नुयात् | तथा || परशिष्ये दुष्टवंशे धूर्ते पंडितमानिनि | स्त्रीद्विष्टे समयभ्रष्टे व्यंगे दीक्षा तु निष्फला || कुलार्णवे || तस्मादेवं विधं शिष्यं न गृह्नीयात् कथंचन | यदि गृह्नाति मोहेन तत्पापैर्व्याप्यते गुरुः || मंत्रि पापं च राजानं पतिं जाया कृतं यथा | तथा शिष्य कृतं पापं प्रायो गुरुमपि स्पृशेत् || ज्ञानेन क्रियया वापि गुरुः शिष्यं परिक्षयेत् | संवत्सरं तदर्धं वा तदर्धं वा तदर्धतः || उत्तमानधमेकार्य नीचानुत्तम कर्मणि | प्राणद्रव्य प्रदानाद्यैरादेशैश्च समासमैः || तन्मर्म सूचकैर्वाक्यैर्मायाभिः कुल चेष्टितैः | पक्षपातैरुदासीनैरनैकैश्च मुहुर्मुहुः || आकृष्टः पीडितश्चापि यो विषादन्नयाति च | गुरुः कृपां करोतीति मुदा संचितयन्सदा || श्रीगुरुस्मरणे चापि कीर्तने चापि वन्दने | परिचर्या यमाह्वाने प्रेषणेन्वेषणे प्रिये || आनन्दकं परो मां च स्वरनेत्रादिविक्रिया | येषां स्यात्तेत्रयोज्ञा स्यूर्मंत्र सिद्धिरपीश्वरि || वोधकत्वं च विज्ञाय शिष्यो भूयान्ननान्यथा | आदि मध्यावसानेषु योग्याः शक्ति निपातिनः || अधमा मध्यमाः श्रेष्टाः शिष्या देवि प्रकीर्तिताः | आदौ भक्तिर्भवेद्देवि दीक्षार्थं संवदंति ये || ८ब्) पुनर्विलुप्ते भावास्ते आदि योग्या इतीरिताः | दीक्षा समय संप्राप्ता ज्ञानविज्ञानवर्जिताः || तस्मात् प्रध्वस्तवीर्याये मध्ययोग्या इति स्मृताः | आदौ भक्ति विहीनाये मध्ये भक्त्यस्ति नास्ति वा || अन्ते प्रभूत भक्तिः स्यादन्तयोग्या भवन्तितो || नारायणीये || कुर्वन्नाचार्य सुश्रूषां मनोवाक्वाय कर्मभिः | शुद्धभावो महोत्साहो वौद्धशिष्य इति स्मृतः || सभूपदेश्यः पुत्रश्च व्यत्ययी वसुदस्तथा | व्यत्ययी मंत्रीतरं दत्वा मंत्रांतर ग्राहकः || उक्तं चान्यत्र || गुरुसुश्रूषया विद्या पुष्कलेन धनेन वा | अथ वा विद्ययाविद्या चतुर्थे नोपपद्यत इति || प्रपंचसारे || नित्यशः कायवाक् चित्तैस्त्रिद्वैकाब्दाधिकावधि | सुश्रूषुः सपरिग्राह्यः स्याद्यः संयतमानसः || मेरुतंत्रे || गुरुशिष्या वुभौ मोहादपरीक्ष परस्परं | उपदेशं ददं गृह्नन् प्राप्नुयात्तां पिशाचतामिति || मंत्रमुक्तावल्यां || तयो वत्सरमात्रेण ज्ञानान्योन्यं भविष्यति | गुरुता शिष्यता वापि नान्यथेति विनिश्चयः || मेरुतंत्रे || भक्तिश्रद्धान्वितौ शिष्य गुरु संपूर्णलक्षणौ | सर्वोपि मार्गस्तत्कालं भुक्ति मुक्ति प्रदायकः || शिष्यश्चा सद्गुरो मंत्रं गृहीत्वातं परित्यजेत् || गुरुत्यागकरः शिष्यः प्रायश्चित्ती भवेद्ध्रुवमिति लिंगागमवचनात् || असद्गुरोर्मंत्रलाभस्तत् परित्यागोपि शास्त्रार्थः || तदुक्तं मेरुतंत्रे || असद्गुरुः स्वयं नष्टः कथं तारयते परं || तत्रांतरे || यदि दैवात्यशोर्विद्या लभ्यते कुलजैर्नरैः | द्विजं तु कौलिकं प्राप्य पुनर्विद्यामुपालभेद् इति || देव्यागमे || यो गृह्नाति पशोर्दीक्षां तस्याधिगात्रपीडनं | भवत्येव न संदेहो वंधुनां चैव वा भवेत् || वटपत्रे लिखित्वा च तत्मंत्रं स्रोतसि क्षिपेत् | सद्गुरुं वा समाश्रित्य गृह्नीयात् संस्कृतं मनुं || श्रीकुलार्णवे || श्रीगुरुं लक्षणोपेतं संशयच्छेदकारणं | लब्ध्वा ज्ञानमुदं देवि न गुर्वंतरमाश्रयेत् || ९अ) अनभिज्ञं गुरुं प्राप्य संशयछेदकारकं | शिष्यो गुर्वंतरं गत्वा तद्दोषैर्नानुलिप्यते || शैवागमेपि || गुरवो वहवः सन्ति कुमंत्रौयधवेदिनः | निगमागमशास्त्रोक्त मंत्रज्ञो दुर्लभो भुवि || भुविज्ञश्चोद्धरेन्मुर्खं न मूर्खो मूर्खमुद्धरेत् | शिलां संतारयन्नौर्हि किं शिला तारयेछिलां || मेरुतंत्रे शैवागमेपि || मधु लुब्धो यथा भृंगः पुष्पात् पुष्पांतरं व्रजेत् | ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वंतरं व्रजेत् || इति मंत्रस्य वचनानां परस्परविरोधे तु स्वगुरु प्रोक्त एव प्रकारो ग्राह्यः || तदुक्तं तत्रैव || पंथानो वहवः प्रोक्ता मंत्रशास्त्रे मनीषिभिः | स्वगुरोर्मतमाश्रित्य शुभं कार्यं न चान्यथेति || मेरुतंत्रे || संप्रदायमवच्छिन्नं कौलं कुर्यान्न कुत्रचित् | यावच्च संप्रदायोस्ति तावत् स्याद् योगिनी पदमिति शिष्यलक्षणं || इति श्री-आद्यानन्दनविरचितायां कुलमुक्तिकल्लोलिन्यां प्रथम पटलः || अथ दीक्षायां विधिः || मेरुतंत्रे || न वेदः प्रणवं त्यक्त्वा मंत्रो वेद समन्वितः | तस्माद् वेद परो मंत्रो वेदांगश्यागमः स्मृतः || वश्या कर्षादिकं कर्म दृष्टादृष्टफलप्रदं | वेदेन साध्यते सर्वं ग्रह यज्ञादिभिः किल || न वेदे न विना यज्ञो न वेदा यज्ञो वर्जिताः | तस्माद् वेद परो मंत्रो न मंत्रो वेद उत्रितः? || इति वचना छूद्राणां मंत्रेनाधिकारः || महाकपिल पंचरात्रे || न मंत्रे चाधिकारोस्ति शूद्राणां नियमः परः | मंत्राभावादमंत्रेण भाषितं सर्वकर्म हि || शातातपसंहितायां || यावंत्यर्णानि मंत्राणां स्त्री शूद्राय प्रदापयेत् | तावभ्यो ब्रह्महत्याः स्युः स्वयमाहप्रजापतिः || भविष्योत्तरे | ब्राह्मणाः क्षत्रिया वैश्याः शूद्राये शुचयोऽमलाः | तेषां मंत्रां प्रदेया वै न तु संकीर्णवर्णिनां || मेरुतंत्रे || ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः पौलस्त्यजातयः | पंचधा मनवः ख्याताः प्रदेयाश्चानूलोमतः || ९ब्) देवीयामले || स्वाहा प्रणवसंयुक्तं मंत्रं शूद्रेददद्द्विजः | शूद्रो निरयगामीस्याद्विप्रः शूद्रत्वमाप्नुयात् || ब्रह्मपुराणे || वैदिको मिश्रितो वापि विप्रादीनां विधीयते | तांत्रिको विप्रभक्तस्य शूद्रस्यापि प्रकीर्तितः || स्वागमोक्तेन मार्गेण स्त्री शुद्रैश्चापि पूजनं | कर्तव्यं श्रद्धया विष्णोश्चिन्तयित्वा पतिं हृदि || स्त्रीनामप्यधिकोरोस्ति विष्णोराराधनादिषु | पतिप्रियरतानां च श्रूतिरेखा सनातनी || या स्त्री भर्तृ वियुक्ता च शुभा स्वाचारसंयुता | सा च मंत्रान् प्रगृह्नीयात् स भर्त्री तदनुज्ञया || मरुतंत्रे || न मंत्रे चाधिकारोस्ति शूद्राणां नियमः परः | यावद्वर्णनि मंत्राणां शूद्राय प्रतिपादयेत् || तावभ्यो ब्रह्महत्याः स्यूस्तस्मात् संस्कारयेच्चतं | स्वाहोंकारेण रहितं दद्यात् पश्चाच्च तांत्रिकं || स्वागमोक्तेन मार्गेण स्त्री शूद्रैरपि पूजनं | कर्तव्यं संस्तुतैस्तैश्च आगमोक्तेन वर्त्मना || विधवायासुता देशात् कंन्यायाः पितुराज्ञया | नाधिकारः स्वतो नार्या भार्या या भर्तुराज्ञया || भर्तैव दीक्षयेद्भार्यां यतोसौ सर्वदा गुरुः | तस्यापि पूज्यो देवस्य बुद्ध्न्यासौ सर्वसाधनं || भविष्योत्तरे || विना स्वधर्मं यत्किंचिद् देवताराधनादिकं | परिभ्रंष्येत तद्यस्मात् क्षणात् सैकत हर्म्यवत् || कुलार्णवे || विधवायाः सुता देशात् कन्यायाः पितुराज्ञया | स्त्रीशूद्राणामयं मंत्रो नमोन्तश्च सुखावहः || एतत् ज्ञात्वा महासेन चांडालानपि दीक्षयेत् | न वैदिकं जपेच्छूद्रः स्त्रियश्चैव कदाचन || नमोन्तं शैवमंत्रं वा वैष्णवं चेष्यते वुधैः | इति याज्ञवाल्क्यसंहितायां || मेरुतंत्रे च || शैवो वा वैष्णवो वापि स्त्री शूद्राणां नमोन्तकः | नाम मंत्र इति ज्ञात्वा चंडालोनपि दीक्षयेत् || शारदायां || एकाब्देन भवेद्योग्यो ब्राह्मणस्तद्वयान्नृपः | वैश्यो वैर्षैस्त्रिभिः शूद्रश्चतुर्भिर्वत्सरैर्गुरौ || सुश्रूषुः परिग्राह्यो दीक्षायागव्रतादिभिः || १०अ) तंत्रराजे || एकद्वित्रिचतुःपंचवर्षाण्यालोक्य योग्यतां | भक्तियुक्तान् गुणांश्चापि क्रमाद्वर्णे च संकरेः || कुलार्णवे || ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः पौलस्त्य जातयः | ईति पंचभेदायुक्ताः || सौत्रामणीतंत्रे || मेरुतंत्रे च || मायावीजं ब्राह्मणः स्यात् श्रीवीजं क्षत्रियः स्मृतं | कामवीजं भवेद् वैश्यो वाग्भवं शूद्र ईरितं || चतुर्वीज परित्यक्तो मंत्रः पौलस्त्य संज्ञकः | चतुर्वीजं ब्राह्मणानां क्षत्रियाणां त्रिवीजकं || वीजद्वयं तु वैश्यानां शूद्राणां त्वेकवीजकं || मेरुतंत्रे || हीनवर्णायनो दद्यान् मंत्रं त्वधिकवर्णकं || कुलमूलावतारे || श्रीदेव्युवाच || शाक्तशांभवसौराणां गाणेशे वैष्णवेषु च | ब्रह्मक्षत्रादि वर्णानां शंकराणां विशेषतः || प्रवृत्तिं श्रोतुमिच्छामि साधकानां हिताय च | येषु येषु च ये मंत्रास्तद्भेदं वद शंकरा || इश्वर उवाच || उमामहेश्वरश्चैव दक्षिणामूर्त्यघोरकं | हयग्रीवं च वाराहमष्टाक्षरमतः || प्रवृर्तिश्रोतुमिच्छामि साधकानां हिताय च | येषु येषु च ये मंत्रास्तद्भेदे परं || प्रणवाद्यं वासुदेवं लक्ष्मीनारायणं तथा | वर्ण त्रये च दातव्यं नान्यवर्णे कदाचन || पाशुपतं नारसिंहं तथा चैव सुदर्शनं | वर्णद्वये च दातव्यं नान्ययोश्चैव कर्हिचित् || अग्निमंत्राश्चये केचित् सूर्यमंत्राश्च ये तथा | तारादि घृणिमंत्राश्च दातव्याश्च त्रिवर्णके || आनुष्टुभं शक्तिमंत्रास्तथा विंध्यनिवासिनी | तथा || नीलसरस्वती चैव दातव्या चादिवर्णके | मातंगिन्युग्रतारा च कालिका श्यामला तथा || छिन्नमस्ता च वाला च दातव्या सर्ववर्णके | तारादिस्तु गणेशश्च हरिद्रा संज्ञकस्तथा || त्रिवर्णेष्व वदातव्यः पुरंध्रीणां विशेषतः | प्रणवं मायां लक्ष्मीं च वाग्भवं चान्यवीजकं || एतद्वीजेन संयुक्तं दातव्यं चादि वर्णके | मायां लक्ष्मीं वाग्भवं वदातव्यं क्षत्रियेष्वपि || १०ब्) लक्ष्मीं च वाग्भवं चापि कथितं वैश्यवर्णके | वाग्भवं चान्यवीजं च शूद्राणां च समीरितं || हृदादि हुं फट्कारादि संकराणां प्रशस्यते || मेरुतंत्रे || कल्पोक्ता वैदिका विप्र देया विन्ध्यनिवासिनिं | ब्राह्मणे क्षत्रिये चापि देयाः पाशुपताभिधाः || सौदर्शना नारसिंहाः कार्तवीर्यस्य नान्यतः | वर्णत्रयेपि दातव्यं दक्षिणामूर्त्यघोरकं || अष्टाक्षरं हयग्रीवमुमामाहेश्वरं तथा | लक्ष्मीनारायणं चास्त्र देवंतारं वराहकं || अग्नेः सूर्यस्य घृणयस्ताराद्याश्च गणेश्वराः | सर्ववर्णेषु दातव्याः कालिका श्यामला तथा || छिन्नमस्ता च वाला च मातंगिन्युग्रतारि वा | योगिनीनां यक्षिणीनां त्रैपुरा वटुकादयः || शावराश्च पुलस्त्यानि न जप्या द्विज जन्मनि | अथ दीक्षाकालाः || तत्रादौ मासाः || तदुक्तं मेरुतंत्रे || चैत्राद्दीक्षा फलं दुःखं प्रतिष्ठा रत्नसिद्धयः | हीनता मरणे वंधुनाश दुष्टत्वते क्रमात् || आनंदवृद्धीदुःखेर्ष्याक्षय निन्दा इति क्रमात् | दारिद्र्य सिद्धीज्ञानं च शुभोत्कृष्टत्व सौख्यताः || ज्ञानमेधा विनाशश्च स्वर्णाप्तिज्ञा विवर्धने | समृद्धि सिद्धिश्रेष्ठत्वं मलमासंक्षयं त्यजेत् || श्रीकंठसंहितायां || शरत्काले च वैशाखे दीक्षा श्रेष्ठ फलप्रदा | मार्गफाल्गुनके श्रेष्ठा ज्येष्टे चैव तु साधमा || माघे मासे तु शुभदा दुष्टा चाषाढमासके | आनंदा श्रवणे मासि पौषे भाद्रे च निंदिता || आगमकल्पद्रुमे || चैत्र दुःखाय दीक्षास्याद्वैशाखे रत्नसंचयः | मरणं भवति ज्येष्ठे चाषाढे वंधुनाशनं || समृद्धिः श्रावणे नूनं भवेद्भाद्रपदेक्षयः | प्रजानाशोऽथाश्विने तु भवेच्चाशुभमेव च || ज्ञानं स्यात् कार्तिके सौख्यं मार्गशीर्षे भवेत् किल | पौषे ज्ञानक्षयो माघे भवेन्मेधा विवर्धनं || फाल्गुने सर्वसिद्धिः स्यात् मलमासं विवर्जयेत् | ११अ) आषाढः क्वचित् समीचीन तयाप्युक्तः || यथा || वैशाष पूर्वजे मासे मंत्रारंभः सुदुः सहः | वैशाखे धनदायी च ज्येष्ठे मृत्यु प्रदो भवेत् || आषाढे पुत्रलाभाय श्रावणे शुभदो मतः | भाद्रे चैव ज्ञानहानिस्तथा सिद्धिः प्रकीर्तिता || आश्विने सर्वसिद्धिश्च कार्तिके ज्ञानसिद्धिदः | शुभकृन्मार्गशीर्षः स्यात् पौषो दुःखविधायकः || माघे मेधावि वृद्धिश्च फाल्गुने सर्ववश्यतेति || सिद्धांतसेषरे || शरत्काले च वैशाखे दीक्षा श्रेष्टफलप्रदा | फल्गुने मार्गशीर्षे च ज्येष्ठे दीक्षा तु मध्यमा || आषाढे श्रावणे माघे कनिष्ठासद्भिरीरिता | निंदितश्चैत्रमासस्तु पौषोभाद्रपदस्तथा || निंदितेष्वपि मासेषु || दीक्षोक्ता ग्रहणे शुभा || गौतमीयतंत्रे || मंत्रारंभस्तु चैत्रे स्यात् समस्त पुरुषार्थदः | वैशाषे रत्नलाभः स्याज्येष्ठे तु मरणं ध्रुवं || आषाढे वंधुनाशः स्यात् पूर्णायुः श्रावणे भवेत् | प्रजानाशो भवेद् भाद्रे आश्विने रत्नसंचयः || कार्तिके मंत्रसिद्धिः स्यात् मार्गशीर्षे तथा भवेत् | पौषे तु शत्रुपीडा स्यात् माषे मेधा विवर्धनं || फाल्गुने सर्वकामाः स्युर्मलमासं विवर्जयेत् | अत्र चैत्र विधिर्गोपाल मंत्र दीक्षापरः || कालोत्तरे || शरद्वसंतयोर्योगो दीक्षाकर्मविधौ स्मृतः | तयोरसंभवे वर्षां विनानेत्र प्रशस्यते || क्रियाकांडशेषरे || न विना पर्वदीक्षा स्याद् वर्षासु मधुपौषयोः || कारणे || आषाढ पूर्वमासे च आषाढे मार्गशीर्षके | दीक्षां न कारयेद्धीमानन्यमासे तु कारयेत् || इति मासनिर्णयः || अथ पक्षनिर्णयः || अगस्तिसंहितायां || शुक्लपक्षेथ कृष्णे वा दीक्षा सर्वशुभावहा | कालोत्तरे तु || मुक्तिकामैः कृष्णपक्षे भक्तिकामैः सिते सदेत्युक्तं || मरुतंत्रे || भुक्ति मुक्तिप्रदः कृष्णो शुक्लो मोक्षप्रदः स्मृतः | वामाचारवतां शुक्लो न सत्कृष्णोपि मध्यमः || ११ब्) गौतमीयतंत्रे || शुक्लपक्षे शुभादीक्षा कृष्णा स्यात् पंचमावधि | तंत्रांतरे || शुक्ले वांछितसिद्धिः स्यात् कृष्णे चैवाशुभप्रदा || तथा || कृष्णपक्षस्य शुक्लत्वं यावत् कृष्णाष्टमीदिनं | अथ तिथिनिर्णयः || तंत्रे || प्रतिपदि द्वितीयायां तृतीयायां शुचिर्भवेत् | चतुर्थ्यां वित्तनाशः स्यात् पंचम्यां वुद्धिवर्धनं || षष्ट्यां ज्ञानक्षयं सौख्यं लभते सप्तमी दिने | अष्टम्यां वुद्धिनाशः स्यान्नवम्यां वपुषः क्षयः || दशम्यां राजसौभाग्यमेकादस्यां शुचिर्भवेत् | द्वादश्यां सर्वसिद्धिः स्यात् त्रयोदश्यां दरिद्रता || तिर्यग्योनिश्चतुर्दस्यां हानिर्मासा वसानके || मेरुतंत्रे || तिथेः फलं वुद्धिनाशः क्रमात् ज्ञेयाः सुसिद्धयः | अगौरीमात्रिका भ्रष्टा विगशेशाश्च दुःखिताः || सिद्ध्यन्ति मंत्रा सर्वेपि न सिध्यन्ति कदाचन | समृद्धिर्द्रूतसिद्धिश्च मूर्खता गुरुनाशनं || जडतारिजप?नाशश्च सर्वपूर्णं भवेत् फलं | शुक्ला श्रेष्टा नैव कृष्णा शुभाशुभनराहरेः || सिद्धिः स्यात् सर्वमंत्राणामशैवानां महाभयं | सिद्धिदातु विशेषेण पुत्रहानिः पितृ नृते || वैष्णवे || पक्षान्ते धर्मवृद्धिः स्यादस्वाध्यायं विवर्जयेत् | संध्यागर्जित निर्घोष भूकंपोल्कानि पातने || एतानन्यांश्च दिवसान् श्रुत्युक्तान् परिवर्जयेत् | सारसंग्रहे || पूर्णिमा पंचमी चैव द्वितीया सप्तमी तथा | त्रयोदशी च दशमी प्रसस्ता सर्वकर्मसु || विजयमालिनीतंत्रे || परम्येकादशी शुक्ला सप्तमी च त्रयोदशी | दशमी शुक्लपक्षस्य द्वादशी च विशेषतः || मंत्रसारसंग्रहे || तृतीया पंचमी वापि षष्ठी चापि विशेषतः | द्वादश्यामपि कर्तव्यं त्रयोदश्यामथापि वा || रुद्रयामले || कृष्णास्तस्यां चतुर्दश्यां दीक्षाकर्म शुभप्रदं || रत्नावल्यां || चतुर्थीं नवमीं षष्टिमष्टमीं च चतुर्दशीं | पौर्णमासीं विना शेषा हिता मुक्तु मुमुक्षुषु || तत्वसारसंहितायां || तां तां तिथिं समालोच्य तद्भक्तांस्तत्र दीक्षयेत् || १२अ) तथा || ब्रह्मणः पौर्णमास्युक्ता द्वादशी चक्रधारिणः | चतुर्दशी शिवस्योक्ता वाचः प्रोक्ता त्रयोदशी || द्वितीया च श्रियः प्रोक्ता पार्वत्याश्च तृतीयिका | चतुर्थी गणनाथस्य भानोः प्रोक्ता तु सप्तमी || नित्यामार्गेषु पार्वत्या अष्टमी च चतुर्दशी || नारद पंचरात्रे || द्वादश्यां शुक्लपक्षस्य सूर्यसंक्रमणे तथा || गौतमीयतंत्रे || द्वादश्यां सर्वथा कार्या चामलायां शुभेहनि | कृष्णप्रिया द्वादशी सा कृष्णदीक्षा प्रवर्तिनी || कालोत्तरे || दिनछिद्राशि मुक्ता च याश्वस्युस्त्रि दिन स्मृतः || तंत्रान्तरे || अमावाश्यां सोमवारे भौमवारे चतुर्दशी | सप्तमीरविवारेण सूर्य पर्वशतैः समा || अथवार निर्णयः || तदुक्तं मेरुतंत्रे || क्रमाद्वारफलं वुद्धिर्जडतामरणं तथा | नियोग हीनता पुत्राः धनाप्तिर्मृत्युरीतति || गौतमीयतंत्रे || रवौ गुरौसिते सोमे कर्तव्यं वुधशुक्रयोः | सिते शुक्लपक्षे सोमवारः प्रशस्तः कृष्णपक्षे तु निषिद्धः || तदुक्तं मंत्रसद्भावे || मंत्रारम्भे रवौ शुक्रे वुधजीवे विशेषतः | शनौ मृत्युः क्षयो भौमे सोमे सर्वं च निःफलं || रत्नवल्यां || आदित्यं मंगलं सौरिं त्यक्ता वारांस्तु भूतये || अथ नक्षत्रनिर्णयः || गौतमीयतंत्रे || उत्तरात्रय रोहिण्यां रेवति पुष्पवासवं | धनिष्टा वायुमित्राश्विपित्रं त्वाष्ट्रं च नै-ऋतं || ऐश वैष्णव हस्ताश्च दीक्षायान्तु शुभावहाः | वाशवं ज्येष्टा वायुः स्वाती मित्रं अनुराधापित्रं मघात्वाष्ट्रं चित्रा नै-ऋतं मूलं ऐशमार्द्रा वैष्णवं श्रवणं || कारणे || पौष्णं रोहिण्यथादित्यं श्रवणं चाश्विनी तथा | सावित्रस्वाष्ट्र वायव्य मैत्रनै-ऋतमेव च || तिष्यत्रीरुत्तरार्द्रा च सौम्यं शिष्य त्रिजन्मभं | नक्षत्राणि प्रशस्तानि दीक्षा कर्मणि सुव्रते || पौष्णं रेवती आदित्यं पुनर्वसुः सावित्रं हस्तः सौम्यं मृगशिरा || नीरतंत्रे || रोहिणी श्रवणार्द्रा च धनिष्टा उत्तरात्रयं | पुष्पः शतभिषक् चैव दीक्षा नक्षत्र मुच्यते || १२ब्) तंत्रे || तृतीय सप्तमे चैव षोडशाष्टादशे तथा | उनविंशैकविंशे च त्रयोविंशे तथैव च || पंचविंशति नक्षत्रे शुभकर्मणि वर्जयेत् || मेरुतंत्रे || क्रमाद्दीक्षाफलंभानां समता च तथा विपत् | मनस्तापः प्रियासौख्यं सौख्यं मंत्रस्य सिद्धयः || सिद्धिश्च क्रूरमंत्राणां शक्तिमंत्रस्य सिद्धयः | सर्वमंत्रां प्रसिध्यन्ति सर्पमंत्रस्य सिद्धयः || निधनं राजदण्डश्च वशित्वं सर्वसिद्धयः | रुद्रदैवत संसिद्धिः शीघ्रं सिद्धिः शुभामतिः || देवमैत्री सर्वहानिः कलहश्च महाभयं | संपद्रोगो जपात् सिद्धिः क्षोभः संताप ईशता || सर्वसिद्धिः फलंभानां क्रमाद्दक्षेऽथ वामके | चतुरस्रे त्वधः पादो दग्धालिंगित धूमिते || इति || शैवागमे || अधोमुखे शुभेभे च चन्द्रशुद्धौ विशेषतः | कृष्णे तारावलं कुर्यात् स्वनामादि विचिन्तनं || रत्नावल्यां || प्रतिपत् पूर्वाषाढा च पंचमी कृत्तिका तथा | पूर्वभाद्रपदा षष्टी दशमी रोहिनी तथा || द्वादश्यां सार्प नक्षत्रमर्यम्ना च त्रयोदशी | नक्षत्र लुप्ता इत्येते देवानामपि नाशदाः || अथ योगनिर्णयः || मेरुतंत्रे || विष्कुंभादिकयोगानां || नामतुल्यं फलं भवेत् || आनन्दादिक योगानां सर्वत्राविकलं फलं || रत्नावल्यां || योगाश्च प्रीतिरायुष्मान् सौभाग्यः सोभनः शुभः | सुकर्मा च धृतिर्वृद्धि ध्रुवः सिद्धिश्च हर्षणः || वरीयांश्च शिवः सिद्धो ब्रह्मा ईन्द्रश्च षोडश || गौतमीयतंत्रे || शुभयोगेषु सर्वेषु दीक्षा सर्वशुभप्रदा | अथ करणनिर्णयः || गौतमीयतंत्रे || शुभानि करणान्याहुर्दीक्षायां च विशेषतः | शकुन्यादीनिविष्टं च विशेषेण विवर्जयेत् || तथा च मेरुतंत्रे || विष्टिं विहाय करणें चरेत् सिद्धिर्द्रुतं भवेत् | सर्वसिद्धिर्विष्टि पुच्छे स्थिरे तु स्थिरता भवेत् || अथ लग्ननिर्णयः || सारसंग्रहे || मंत्राद्यारंभणं मेषे धनधान्यप्रदं भवेत् | वृषे मरणमाप्नोति मिथुनेऽपत्यनाशनं || कर्कटे सर्वसिद्धिः स्यात् सिंहे मेधाविनाशनं | १३अ) कन्यालक्ष्मी प्रदानित्यं तुलायां सर्वसिद्धयः || वृश्चिके सर्वसिद्धिः स्याद्धनुर्ज्ञानविनाशनं | मकरः पुत्रदः प्रोक्तः कुम्भो धन समृद्धिदः || मीनो दुःखप्रदो नित्यं मेवं राशिफलं प्रिये || मेरुतंत्रे || अथ लग्नफलं देवाधनं धान्यं समृद्धयः | मृत्युर्वाथ भवेद्धानिः पश्वपत्य विनाशनं || राज्यं वा देवता सिद्धिर्हानिर्मेधा विनाशनं | रत्नादि लक्ष्मी लाभश्च धनंधान्यं च सिद्धयः || पूर्णसिद्धिः प्रतापश्च हानिर्विज्ञाननाशनं | पुत्रप्राप्तिर्मंत्रसिद्धिः पशवो विपुलं धनं || सदा दुःखं तथा हानिर्वामिनां मिथुनः शुभः | वामिनां यवनानां च विरुद्धं वहुधा शुभं || शैवागमे || धर्मदः प्रातःकाल स्यात् संगवो राज्यदायकं | मध्याह्ने सर्वसिद्धिः स्यात् सायाह्ने मध्यमो भवेत् || रजनी मंत्रदाने तु निषिद्धा देशिकोत्तमैः || म्रुतंत्रे || धर्मदो राज्यदः सिद्धिप्रदो मध्यो विनाशकृत् | प्रातः संगवमध्याह्ना पराह्नंसायमेव च || गौतमीयतंत्रे || चरः सर्वो विवर्ज्यः स्यात् स्थिरराशिषु सौख्यदा | स्थिरलग्नं विष्णुमंत्रे शिवमंत्रे चरं शुभं || द्विःस्वभाव गतं लग्नं शक्तिमंत्रे प्रशस्यते || अथ ग्रहवलविचारः || गौतमीयेः || त्रिषडायगताः पापाः शुभाः केन्द्र त्रिकोणगाः | दीक्षायान्तु शुभाः सर्वे वक्त्रस्थास्सर्वनाशकाः || तंत्रे || तृतीयैकादशः षष्ठः दशमस्थः शुभः शशी | जन्मचन्द्रः शुभः प्रोक्तो जन्मनक्षत्रवर्जितः || शुक्लपक्षे द्वितीयस्तु पंचमो नवमस्तथा | गोचरे ये ग्रहाः शुद्धास्तैर्युक्तोपि शुभः शशी || शुभ मध्यस्थितो चापि चन्द्रमाऽशुभदो भवेत् || मेरुतंत्रे || त्रिषडायगताः पापाः शुभाः केन्द्र त्रिकोणगाः | रन्ध्रे मृत्युप्रदाः सर्वे व्ययेनैख्यं रिपौ च रुक् || मंत्रश्चन्द्रवले ग्राह्या न्यथा स्यादति संभवं | तारावलानु रूपेण देवतायाः कृपा भवेत् || गौतमीये || पंचाङ्गशुद्धे दिवसे स्वोदये चन्द्रसूर्ययोः | गुरुशुक्रोदये चैव शस्यते मंत्र संस्क्रिया || वाराहि तंत्रे || शुक्रोस्तोय दिवा वृद्धो गुर्वादित्यो भवेद्यदि | १३ब्) मेषवृश्चिकसिंहेषु तदा दीक्षा न विद्यते || तथा || शिष्य त्रिजन्मनक्षत्रे संक्रान्तौ विषुवेऽयने | अन्येषु पुण्ययोगेषु ग्रहणे चन्द्रसूर्ययोः || पंचपर्व युगाद्या सुव्यतीपाता दिवासरे | अत्र दीक्षा शुभा प्रोक्ता नात्र कार्या विचारणा || योगिनितंत्रे || यन्मास तिथि वारादि शोधनं प्रोक्तमेव हि | मंत्र दीक्षापरं तत्तु विज्ञेयं साधकोत्तमैः || विद्या दीक्षापरं नैव तिथिमासादि शोधनं | यदैवेच्छा तदा दीक्षा गुरोराज्ञानुसारतः || अथापवादः || क्रियाकांडशेखरे || सौमुक्षवीं प्रत्यथन कालादि नियमः स्मृतः | निंद्यानि तानि सर्वाणि प्रशस्तानि विमुक्तये || तंत्रे || शशिदिवाकरयोर्ग्रहणे जन्मनि शिष्यस्य मकरसंक्रांतौ | करुणा समये च गुरोर्नक्षत्रादीष्यतेनेन दीक्षयां || रुद्रयामले || सत्तीर्थेर्कविधुग्रासे तन्तुदामनपर्वणोः | मंत्रदीक्षां प्रकुर्वाणो मासर्क्षादिन्न शोधयेत् || योगिनीतंत्रे || रविसंक्रमणे चैव सूर्यस्य ग्रहणे तथा | तत्र लग्नादिकं किंचिन्न विचार्यं कदाचन || महाष्टम्यां विशेषेण धनकामार्थ सिद्धये || अगस्तिसंहितायां || सूर्यग्रहणकाले तु नान्यदत्वेषितं भवेत् | सूर्यग्रहणकालेन समान्यो नास्ति कश्चन || तत्र यद्यत् कृतं सर्वमनंत फलदं भवेत् | न मासतिथिवारादि शोधनं सूर्यपर्वणि || ददातीष्ठं गृहीयतत्तस्मिन्काले गुरोर्वृषु | सिद्धिर्भवति मंत्रस्य विनायासेन वै ततः || कर्तव्यं सर्वयत्नेन मंत्रसिद्धि नभीप्सुभिः || शक्तियामले || चन्द्रग्रहसहस्रेण सूर्यग्रह समो भवेत् | ततो लक्षगुणं प्रोक्तं ग्रहणं निजवासरे || तंत्रांतरे || तत्र सूर्यग्रहः शस्तो न तु चन्द्रग्रहः क्वचित् || मेरुतंत्रेपि || चन्द्रतत्रेपि || चन्द्रग्रहे तु दारिद्र्यं सौरे सर्वसमृद्धये || विष्णुयामले || देवी वोधं समारभ्य यावत् स्यान्नवमी तिथिः | कृता तासु वुधैर्दीक्षा सर्वाभीष्टफलप्रदा || तथा || वोधने चैव दुर्गायाः कालाकालं न शोधयेत् | अशोकाख्याष्टमी यत्र रामाख्या नवमी तथा || समयातंत्रे || युगाद्यायां जन्मदिने विवाहदिवसे तथा | विषुवाऽयनयोर्धंद्वे नैव किंचिद् विचारयेत् || अन्यत्रापि || अयने विषुवे चैव युगाद्यासु तथैव च | ग्रहणे महातीर्थे न कालस्य विचारणं || तुलसी निकटे विल्व मूले धात्री तले तथा | १४अ) अनादि देव सान्निध्ये महाक्षेत्रे गवां गृहे || देवी पूजा दिने वापि नास्ति कालस्य निर्णयः || योगिनीतंत्रे || चन्द्रग्रहे च या दीक्षा या दीक्षा वनचारिणां | जनकस्य तु या दीक्षा दारिद्र्यं सप्तजन्मसु || रुद्रयामले तु || न कुर्याछाक्तिकी दीक्षामुपरक्ते विभावसौ | न कुर्याद् वैष्णवी दीक्षां तथा चन्द्रमसोग्रह इत्युक्तं || मुण्डमालायां || कालीतारा महाविद्या षोडशी भुवनेश्वरी | भैरवी छिन्नमस्ता च विद्या धूमावती तथा || वगला सिद्धविद्या च मातंगी कमलात्मिका | एता एव महेशानि महाविद्याः प्रकीर्तिताः || नात्र सिद्धाद्यपेक्षास्ति नक्षत्रादि विचारणा | कालादि शोधनं नास्ति साध्यादि दूषणं नहि || इत्युक्तत्वादुक्तमेव || तत्वसारसंहितायां || तिथिं विनापि दीक्षाया विशिष्टावसरं शृणु | दुर्लभे सद्गुरूणां तु सकृत् सङ्ग उपस्थिते || तदनुज्ञा यदा लब्धा स दीक्षावसरो महान् | ग्रामे वा यदि वा रण्ये क्षेत्रे वा दिवसे निशि || मेरुतंत्रे || गुरावश्रुत दृष्टे च सिद्धक्षेत्रे सुशोभनं | आगच्छति गुरुर्दैवाद् यदा दीक्षा तदा भवेत् || तथा || यदैवेच्छा तदा दीक्षा गुरोराज्ञानुरूषतः | न तिथिर्न व्रतं होमो न स्नानं न जप क्रिया || दीक्षाया कारणं किंतु स्वेच्छा वाप्ते तु सद्गुरौः || इति कालनिर्णयः || अथ स्थानं || यामले || पुण्यतीर्थे कुरुक्षेत्रे देवीपीठे चतुष्टये | प्रयागे श्रीगिरौकाश्यां कालाकालं न शोधयेत् || योगिनीतंत्रे || गयायां भास्करक्षेत्रे विरजे चन्द्रपर्वते | चत्वरे च मत्तंगे च तथा कन्या श्रमेषु च || न गृह्नीयात् ततो दीक्षां तीर्थेष्वेतेषु पार्वति || अथ दीक्षा माहात्म्यं || वाराहितंत्रे || अदीक्षिते च मरण रौरवान्त निवर्तते | तस्माद् दीक्षां प्रकुर्वीत तंत्रमाश्रित्य तांत्रिकाः || मेरुतंत्रे || द्विजानामनुपेतानां स्वकर्माध्ययनादिषु | यथाधिकारो नास्ति हस्याच्चोप नयनादिषु || तथा चादीक्षितानां च मंत्रदेवार्चनादिषु | नाधिकारोस्त्यतः कुर्यादात्मनं मंत्र संस्कृतं || दीक्षाग्नि दग्धकर्मासौ मायाविच्छिन्नमानसः | १४ब्) ततः परां ज्ञानकाष्टां निर्विस्मः स शिवो भवेत् || मृडानीतंत्रे || मायया मोहितो यस्तु किल्विषैः परिवेष्टितः | स दीक्षामवमन्येत नारकी भविता हि सः || अन्यत्रापि || दीक्षाहीनं कृतं कर्म हुतं भस्मनि तुल्यवत् | अनीश्वरस्य मर्त्यस्य नास्ति त्राता यथा भुवि || तथा दीक्षा विहीनस्य स्वाम्य स्वाम्यमुत्र परत्रन || महाहारके तंत्रे || अथ दीक्षा विहीनो यो वर्तते भुवि पापभुक् | मोहान्धकारे नरके गर्ते पतति दुःखितः || दीक्षाहीनोऽशुचिर्नित्य मनर्हः सर्वकर्मसु | यदन्यत् कुरुते मोहान्न तस्य फलभाग् भवेत् || रुद्रयामले || अदीक्षिते न वामोरु कृतं सर्वमनर्थकं | पशुयोनिमवाप्नोति दीक्षाहीनोऽशुचिर्नरः || वाराहीतंत्रे || दीक्षामूलं जगत्सर्वं दीक्षा हि परमं तपः | दीक्षामाश्रित्य निवसेद् यत्र कुत्राश्रमे नरः || कोटिजन्म कृतं पापं ज्ञानाज्ञानकृतं चरेत् | दिक्षा ग्रहणमात्रेण परायन्तेन संशयः || ततो वांछित सिद्धिः स्याद्धनधान्यसमृद्धिदा | अन्ते देवालयं याति दिव्यभोग समंन्वितः || महाहारके तंत्रे || दीयते ज्ञानमत्यंतं क्षीयते पापसंचयः | तस्माद् दीक्षेति संप्रोक्ता वांछितार्थ प्रसाधिनि || ज्ञानं दिव्यं यतो दद्यात् कुर्यात् पापक्षयं नृणां | तेन दीक्षेति लोकेस्मिन् कीर्तिता तंत्र पारगैः || ब्रह्महत्या सुरापान स्वर्णस्तेयादि पातकान् | उपपातकलक्षाणि हंति दीक्षा श्रयान्नरः || दीक्षितो ब्राह्मणो याति ब्रह्मलोकमनामयं | इन्द्रलोकं क्षत्रियोपि प्राजापत्यं तथाविशः || याति गंन्धर्वनगरं शूद्रो दीक्षा प्रभावतः | चतुर्णामेव वर्णानामतो दीक्षा प्रशस्यते || किरणाख्य तंत्रे गरुडं प्रति ईश्वर वाक्यं | केचित् तत्व क्रिया योगात् तेषां मुक्तिस्तथैव सा || ज्ञानयोगात् तथा चान्ये चर्या योगात् तथापरे | एवं एषां तथा प्रोक्ता मोक्षस्ते नैव योजनात् || ज्ञानादीनामुपायानां दीक्षाकारणमिष्यते | दीक्षयैव विमोक्षं स्यादिति || वैशंपायनसंहितायां || १५अ) मनसा कर्मणा वाचा यत् पापं समुपार्जितं | तेषां विश्लेषकरणी परमज्ञानदायतः || तस्माद् दीक्षेति लोकेस्मिन् गीयते शास्त्रवेदकैः || मेरुतंत्रे || दीयते ज्ञानविज्ञानं क्षीयन्ते पापराशयः | तेन दीक्षा इति प्रोक्ता प्राप्ता चेत् सद्गुरोर्मुखात् || तंत्रातरे || पुस्तके लिखितो मंत्रो येन सुन्दरि जप्यते | न तस्य जायते सिद्धिर्हानिरेव पदे पदे || तंत्रराजे || आचार्यादनभिप्राप्तः प्राप्तश्चादत्त दक्षिणः | सततं जप्यमानोपि मंत्रसिद्धिं न गच्छति || द्विजानामनुपेतानां स्वकर्माध्ययनाधिषु | यथाधिकारो नास्तीह स्याच्चोपनयनादिषु || तथात्रा दीक्षितानां च मंत्रदेवार्चनादिषु | नाधिकारोस्त्यतः कुर्यादात्मानं शिव संस्कृतं || मेरुतत्रे तंत्रांतरे च || यदृच्छया श्रुतं वापि प्रच्छन्नेन छलेन वा | पत्रेक्षितं च गाथावत् प्रजप्तमपि निःष्फलं || प्रयोगसारे || स्नेहाद् वा लोभतो वापि यदि गृह्नात्य दीक्षया | तस्मिन् क्रियाः सर्वा भुक्ति मुक्ति फलप्रदाः || तस्मात् साध्यो गुरुर्नित्यमत्यर्थं तु समाहितः | गुर्वनुक्ताः क्रियाः सर्वा निःफलास्युर्यथा ध्रुवं || प्रपंचे || कृते श्रुत्युक्त मार्गस्तु त्रेतायां स्मृति संभवः | द्वापरे स्यात् पुराणोक्तः कला वा गमसंभवः || अशुद्धाः शूद्रकल्पा हि ब्राह्मणाः कलिसंभवाः | तेषामागममार्गे स्यात् सिद्धिर्न श्रोतु वर्त्मना || तस्मादावश्यकी दिक्षा पूर्वोक्ताऽनैक वाक्यतः | सम्यग् विचार्य सा ग्राह्या राशि चक्रादि भेदतः || कुलार्णवे || अदीक्षिता ये कुर्वंति जपपूजादिकाः क्रियाः | न फलंति प्रिये तेषां शिलाया सुप्तवीनवत् || मेरुतंत्रे || वामाचारैर्द्विजैः पूर्वं कर्तव्यं कुलदीक्षणं | पश्चाद् दीक्षा तु सावित्र्यां व्यत्यासात् पतितो भवेत् || दीक्षा तु लघु दैवत्या प्राक्यश्चान् महतस्तथा | वृहद् दैवत मंत्रे तु सिद्धे क्षुद्राः स्वयं वशाः || तेषां ग्राह्या यत्र दीक्षा पुरश्चर्या समाचरेत् | प्रयोगांश्चापि कुर्वीत न स्वेष्टस्य कदाचन || सछिष्यं वासुपुत्रं वा विनेष्ठं दापयेन्न च | १५ब्) अथ दीक्षोपमुक्तमण्डपार्थ भूमिपरीक्षा || यामले || प्लवस्थानं च गंभीरं दीर्घतोयाशयंसरः | अग्निशालाग्निहोतृणां पुण्यस्थानं परिश्रुतं || द्वीजानां स व्रतानां वा आश्रयः स्वाश्रमोथ वा | दीक्षायामति शस्तानि स्थानान्येतानि पार्वति || न च दीक्षां प्रकुर्वीत निकुंजे गहने वने | द्विसीस्त्रिय महारण्ये मात्सर्य मृगसेविते || तंत्रान्तरे || महानदीनां तीराणि गंगासागरसंगमे | प्रशस्तानि च तीर्थानि क्षेत्राणि चाश्रमा अपि || अरण्यानि च सर्वाणि पर्वताः सकला अपि | स निर्झरोप्युपगिरिदेवताश्च तन्त्रन्यपि || महाकपिल पंचरात्रे || तत्र भूमिं परीक्ष्येत वास्तु ज्ञानविशारदः | स्फुटिता च मशल्या च वल्मीक रोहिणी तथा || दूरतः परिवर्ज्याभूः कर्तुरायुर्धनापहा | स्फुटिता मरणं कुर्यादूषराधननाशिनी || सशल्या क्लेशदा नित्यं विषमा शत्रुतो भया | ईशकोण प्लवासा च कर्तुः श्रीदाशू निश्चितं || पूर्वप्लवा तथा भूमिर्नित्यमुद्वेगकारिणी || गौतमीयतंत्रे || भूमेः परिग्रहः कुर्याद् यावदायतनं भवेत् | शुक्लमृत्स्ना च या भूमिर्ब्राह्मी सा परिकीर्तिता || क्षत्रिया रक्तमृत्स्ना च हरिद्वैश्या प्रकीर्तिता | कृष्णा भूमिर्भवेच्छूद्रा चतुर्द्धा परिकीर्तिता || महाकपिल पंचरात्रे || ब्राह्मणीभूः कूशोपेता क्षत्रियास्याच्छरोकुला | कुशकाशा कुला वैश्या शूद्रा सर्व तृणा कुला || गोतमीय तंत्रे || ब्राह्मी सर्वार्थ सिद्धिः स्यात् क्षत्रिया राज्यदा तथा | धनधान्यकरि वैश्या शूद्रा तु निन्दिता मुने || प्रयोगसारे || वितस्ति मात्रविस्तारं निर्माय विवरंभुवि | निःक्षिपेत् तां मृदं तस्मिन् तासु शिष्टासुसोभनं || समासुमध्यमं विद्यान्न्युना स्वधममुच्यते || गौतमियतंत्रे || ततो भूमिं परीक्ष्येत वास्तु ज्ञानविशारदः | शल्यादिशोधनं कुर्या तुषांगारादि दूरयेत् || एतदकरणे मंत्री न किंचित् फलमाप्नुयात् || महाकपिलपंचरात्रे || खन्यमाने जले यावच्छल्य दोषो विनस्यति | १६अ) दूरनीचस्थितं वारि खनितुं नैव शक्यते || पंचहस्तं प्रखातव्यं शल्यदोषे न शांतये || तथाचोक्तं मेरुतंत्रे || स्थानादर्क्वांगुलोच्छ्रायं मंडपस्थलमीरितं | भूमिस्तु खननाच्छोध्या स्वेष्टकुंडा द्वितस्त्यधः || अस्थिकीर्ता?गारमलादिक हीनं शुभावहं | अन्यथा तां मृदं त्यक्ता पूरयेच्छुभया मृदा || ग्रामाद्वहिस्थया तत्र विप्राद्यैश्च स्ववर्णया | शल्योद्वारं ततः कृत्वा पूरयेत् सुसमं यथा || तस्यां भूमौ वास्तुयागं कृत्वा मण्डप कुर्यात् || अथ वास्तु निर्णयः || तत्र प्रसंगात् वास्तु पुरुषोत्पत्तिरपिरिष्यते || तथाचोक्तं मेरुतंत्रे || वास्तुनामापुरा कश्चिदसुरो भून्महावलः | त्रैलोक्यं निर्जितं तेन त्रिपंचाशच्च देवताः || यद्रणे शंमुखे जातास्तेनस्तेति निपीडिताः | पुनः पुनः जितायुद्धे स एवासीत् प्रजापति || दिव्यवर्षसहश्रांते देवाः शरणमागताः | विष्णोर्मम च पार्वत्या दैत्येंद्रेणापि तच्छ्रुतं || योद्धुकामः सोत्यधावन्नारदेन प्रचोदितः | कृतं युद्धन्ते न सार्धमस्माभिर्वर्ष पंचकं || ततो दैत्यो मदोत्सिक्तो विष्णुमायाविमोहितः | उवाच वचनं तुष्टो व्रीयतां व्रीयतामिति || नेन्द्रेण न कुवेरेण मम तोयकरं कृतं | ससैन्यनापि तद्युद्धं त्वया तु जटिलेन हि || कृतं विष्णु सहायेन पार्वत्यर्धांगधारिणा | तेनाहं तुष्टिमापन्नस्त्रैलोक्ये परमेश्वरः || अदेयं नास्ति मे किंचिद् या च यंतु त्रयोपि च | इत्याकर्ण्य वचस्तस्य शिवयो भूप्रचोदितः || हरिः प्राह महाधन्य दैत्येन्द्र त्वत् समोस्तिकः | सत्यं त्रिवाक्यं कुरुष्ट तदा वाच्यो वरो मया || शिवेनापि च पार्वत्या एक एवापरो न हि | त्रिरुवाच तथा दैत्यस्तदा विष्णुर्व्यजिज्ञ यत् || यथा ते तत्वरितं मृत्युः स उपायः प्रदर्श्यतां | विष्णोः छलमिति ज्ञात्वा दैत्येन्द्रः समभाषते || अवश्यमेव गंतव्यं सर्वैः कालमुखे हरे | तथापि स्वप्रतिज्ञार्थं यो गच्छति स जीवति || परं त्वेकं न मेवं शोयैश्चमत्सेवनं कृतं | १६ब्) तस्यमार्गं दर्शयित्वा देहोयं विनिपात्यतां || काले तस्मिंश्च भो देवा वागुवाचा शरीरिणी | दैत्येन्द्र कुरुमाशोकं भूमेर्जन्म तवा भवेत् || तत्रैव त्वं लयं या हि त्वत् तोषार्थं वरं शृणु | ये वर्णाः स्वस्य भोगार्थं करिष्यन्ति नव गृहं || तत्रत्वदुत्सव मृते नाना दुःखै रुपद्रुताः | कालकर्ण्यादिकादास्यो विनायक मुखाश्चते || सेवका पीडयिष्यन्ति इत्याज्ञा पारमेश्वरी | इत्याकर्ण्य वचः सोपि गर्तं कृत्वा महाविलं || प्रविवेश ततो देवैर्मृत्पाषाणैः प्रपूरितं | तेन ये निर्जिता देवाः पुनरुद्गमशंकया || तस्योर्धं तु त्रिपंचाशन्निवाशं च कुरुद्यताः | तस्मादवश्यन्ते पूज्या गृहवास सुखेच्छया || तदुक्तं तत्रैव || एवं कृते मंडपे तु वास्तुपूजां समारभेत् | नूतनेपि गृहे कार्यान्यथा मह रूपद्रवः || स्मार्ति च तांत्रिकी चेति द्विविधा तन्निगद्यते | शृण्वन्तु तद्विधिं देवा वामदक्षिणमार्गतः || पाषाने प्रतिमायां वा वास्तोःपतेः प्रतिजानि | इति वैदिकमंत्रेण तस्यावाहनपूजनं || सोमशंभुः || आकुंचितकरं वास्तु मुत्तानमसुरो कृतं | स्मरेत् पूजासु कुद्यादि निवेशे त्वधराननं || जानुनी कुर्पराशक्ते दिशिवात हुताशयाः | पैत्र्यां पाद पुटौ रौद्र्यां शिरोस्य हृदयंजलिः || इति ध्यानं || नाममंत्रेण चान्येषां पूजां कृत्वा प्रपूरयेत् | नै-ऋत्य कोणे गृहस्य चतुरस्रा कृतिं शुभां || कृत्वा समतलां भूमीं वितन्तुषां च वेदिकां | विस्ताराया मतो हस्त मात्रां तत्र लिखेद् बुधः || एकाशीति पदं चक्रं वैदिकस्तत्र देवताः | मध्यकोष्टेषु नवसुत्वादौ ब्रह्माणमर्चयेत् || अपवत्सं तदीशाने प्रागर्यस्त्रं त्रिकोष्टके | आग्नेय सवितारं च विवस्वंतमपाक्तिषु || इन्द्रं नै-ऋत्य दिग्भागे मित्रं पश्चिमगे त्रिषु | वायव्ये राजयक्ष्म्याणं सुमेरुं चोत्तर त्रये || वेदकोष्टेषु वैशान्यामीशकोणाच्च देवताः | शिखीपर्जन्य आपश्च दितिः प्राक्लेष्टयोर्द्धयोः || क्रमादेते पंचदेवा ज्ञातव्या सव्यमार्गतः | जयन्तेन्द्रो सूर्य सत्यभृशा आग्नेय कोणके || अन्तरिक्षं तथा वातः पूषासापित्र एव च | चतुष्क ईशतो देवास्ततो दक्षिणपंचके || युग्मे क्रमाच्च वितथो वृहत्क्षत यमो यथा | १७अ) गन्धर्वो भृंगराजश्च नैर्-ऋतीस्थ चतुष्कके || ईशानीतो जयनृपौ पितृदौ वारिकौ तथा | ततः पश्चाद्विके पंच सुग्रीव पुष्पदंतकः || वरुणासुरशेषाश्च वायव्ये इशतस्त्वहि | रुद्रश्च पापयक्ष्म्या च रोगश्चोत्तर पंचसु || मुख्यौ भल्लाटसोमौ च भुजगश्चादितिस्तथा | देवा एते पंचचत्वारिंश दर्ध्याश्च भक्तितः || अथ तांत्रिकमार्गे तु चतुःषष्टि पदे तथा | कोणयोः सुत्रयुगलं मध्ये ब्रह्माणमर्चयेत् || चतुःकोष्ठेषु तत्पूर्वाद्यासुकोष्ठ द्विके द्विके | आर्यकं च विवस्वंतं मित्रमन्यं महीधरं || सावित्रः सविता शक्र इन्द्रजिद्रूद्र तज्जयौ | अपायवत्सकौ चेति शैव्याः कोणार्ध कोष्ठयोः || शर्वं गुहं चार्यमाणं जंभकं पिलिपिच्छकं | चरकीं च विदारीं च पूतनां पूर्वतो द्वयोः || इशानश्चाथ पर्जन्यो जयंतः शक्रभास्करौ | सत्यो वृषांतरिक्षश्च पूर्वाशा कोष्ठगाः क्रमात् || अग्निः पूषा च वितथो यमाथ गृहरक्षकः | गंधर्वो भृंगराजश्च मृगोदक्षिण दिग्गताः || निर्-ऋतिश्च तथादौ वारिकः सुग्रीवकस्तथा | वरुणः पुष्पदंतश्चासुरः सोषाख्य रोगकौ || पश्चादथोत्तरे वायुर्नागो मुख्यस्ततः परं | सोमभल्लागर्गलाख्या अदितिर्दितिरुत्तरे || ब्रह्मस्थानं रक्तवर्णैर्दिशः पीतैर्विदिक्सितैः | ततो दिशस्तु हरितैर्विदिशः कृष्णवर्णकैः || अरुणः परिधिः कार्यः सुंदरं मंडलं भवेत् | व्रीहि मुद्गयवैः क्षौद्र घृतदुग्धप्लुतैः क्रमात् || अष्टोत्तरशतं चाष्टोत्तरविंशतिमेव वा | प्रत्येकं तैर्हुने द्रव्यैर्मंत्रैस्तद्वच्च पायसैः || वलिं च तेषां कुर्वीत पायसैर्व्यंजनान्वितैः | ससितैर्दूग्धकदलीफलापूषादिसंयुतैः || एवं सिंहगते भानौ पूर्णायां प्रतिवत्सरं | स्वगृहे वास्तु पूजां यो मंडपेषु समाचरेत् || न वालमरणव्याधि भूतप्रेतादि कानि च | न सर्पपीडामन्योन्य कलहाद्य शुभानि च || १७ब्) पुत्रपौत्र धनारोग्य पशुदासी समृद्धिभाक् | अरोगी विजयीख्यातश्चिरंजीवति तद्गृहे || राजवेश्मसु सर्वत्र तथा च महिषी गृहे | सचि वामाभ्य सेनानी भवनेषु पुरे तथा || विदध्यात् प्रतिवर्षं तु प्रोक्तसिध्यै तु देशिकः | न चेदुक्तान्यथा रूप फलैः क्लेशोऽनिशं भवेत् || भैरव क्षेत्रपालानां योगिनीनां विशेषतः | वामाचारैर्वलिः कार्यो महिषैर्वापि कुक्कुटैः || आराधितास्तु वामेन जायंतेति वुभुक्षिताः | देवता वलिमिच्छंति तद्धीनं हंति साधकं || मद्यमांस प्रमत्तास्ते प्राक्तनेन प्रचोदिताः | कदाचिछुभमिच्छंति तस्मात् सद्भिर्न वामतः || क्रियतेभ्यर्चनं तासां पातस्तु निकटे यतः | शुभं भवति वानो वा यथा शास्त्रे तथा जने || यावन्न मद्यमांसाशी जनस्तावदलोलुपः | भुक्ते तस्मिन्तन्मनाः स्यात् क्व जपः क्व च देवता || मद्यमांसादिकत्यागात्तस्य वाति निषेवणात् | दृश्यते तुल्य रूपोयः स सिद्धो न्यस्तु पातकी || एवं परीक्ष कर्तव्या सिद्धनामपि संगतिः | तत्संसर्गी पंचमोश्चमन्यसंगेन गण्यते || कालरूपेण कलना गीतागाथा विधेःपुरः | मययधैर्याद्वृषो नश्यत् तृष्णया द्वौ विनश्यतः || धातुर्वादास्त्रयं नश्येत् सर्वनाशस्तु वामतः | इति संचिंत्य भो देवाः स्वधर्मः श्रेयसंभवेत् || वास्तु शान्तिं विधायैवं सदसत् ज्ञान हेतवे | सप्तभिर्नवभिर्वापि दिनैदीक्षादिनात्पुरा || वीजारोपण कर्मेदं कर्तव्यं सर्वकामदं | मण्डपोत्तर दिग्भागे सुसंवृततरं परे || भवने मंडलं कुर्याद् दक्षाः प्राग्वरुणायतं | याम्यो दीच्यायतं वाम दीक्षायां संप्रश्यते || गोमयेनोपलिप्तायां भूमौ दक्षेथ वामके | स तैलकण्डरेणाक स तैल वीजया द्रवैः || तत्र रेखाः पंचकर दीर्घाः कार्यास्तु पंच च | वितस्त्यन्तरिता रुद्र रेखाः कार्यास्तथा यताः || चत्वारिंशत् कोष्टकाः स्युश्चतुर्विंशति कोष्टकैः | ब्राह्मगैस्तत्र वीथी स्यात् पूरयेद् रक्त चूर्णकैः || १८अ) पश्चात् कोष्ठचतुष्कंय ब्रह्मस्थानं तदीरितं | आग्नेयकोष्टमारभ्य इशानान्तं प्रपूरयेत् || पीतरक्तश्वेतकृष्ण रजोभिः सृष्टिमार्गतः | कोष्टद्वयं ततो वीथी रक्ते नैव प्रपूरयेत् || विष्णु स्थानं तदग्रे तु ज्ञेयं कोष्ट चतुष्टयं | प्राग्वद् रजोभिरापूर्यं तदग्रेपि च वीथिका || प्राकथं कोष्ठ चतुष्कं यद्रुद्रस्थानं तदीरितंः | तत्पूर्यं पूर्ववद्रंगैरारक्तैः सर्वरेखिकाः || विस्तारोन्नति दैर्घ्येण हस्तमात्रास्तु पालिकाः | कार्या डमरुकाकाराश्च तस्रो विष्णु दैवताः || दूर्वाम्र पल्लवाश्वत्थ दलोपेताश्च वेष्टिताः | सूत्रेण विष्णुष्ठानस्य चतुःकोष्टे निवेशयेत् || वैरच्यः पंचमुख्यस्ताऽकाष्टजाः षोडशांगुलैः | आयामोच्छ्राय दैर्घ्याख्यै युक्ताः पश्चान्निवेशयेत् || ब्रह्मस्थाने पल्लवादि सूत्रैः प्राग्वच्च योजिताः | शिवाः शरावाश्चत्वारो भान्वंगुल समुच्छ्रयाः || प्रक्षाल्य सूत्रैः संवेष्ट्य प्राग्वदग्न्यादिषु न्यसेत् | शालिपूंजेषु गन्धादि दर्भकूर्च युतेषु च || पूरयेत् तानि पात्राणि वालुका मृत्करीषकैः | शंखस्वनेननादैश्च पंचभिर्ब्राह्मणाशिषा || ततः स्वर्णादिके पात्रे दशवीजानि वापयेत् | वं वीजं प्रजपन्मंत्री दुग्धेन क्षालये ततः || वीजानि तानि प्रक्षाल्य जलैः क्षीरेण चक्रमादिति सारस्वत वचनात् प्रथमतो जलेन प्रक्षालन मुक्तमिति || तानि प्रियंगु श्यामाकतिलसर्षपशालयः | मुद्गाछकीसुरिष्या वा खल्वा माषाः प्रकीर्तिताः || ब्रह्मपात्रे तु विकिरेत् प्रथम वैष्णवे ततः | ततः शैवे पंचवाद्य ब्रह्मघोष पुरःसरं || हरिद्रोदैश्च संसिंच्य वस्त्रैराच्छादयेत् ततः | संध्ययोरुभयोरर्ध रात्रौ चापि वलिं हरेत् || गुरूपदिष्टमार्गेण सम्यक्यात्र त्रयाग्रः | नवाहं तु वलिं दद्यातत्तदुद्दिश्य दैवतं || शाल्योदनन्ति लालाजासक्तवः प्रथमे दिने | हरिद्राचूर्णसंयुक्तो भूतेभ्योयं वलिर्मतः || एवं द्वितीय दिवसे पितृभ्यस्तिलतंडुलैः | १८ब्) तृतीये सक्तवो लाजा यक्षेभ्यो दधि संयुताः || नागेभ्यः सक्तवस्तुर्यनालिकेरजलप्लुताः | दद्यात् पद्माक्षत वलिं पंचमे ब्रह्मणे मुदा || षष्टे शिवाय वा पूप युक्तं भक्तं प्रशस्यते | गुडोदनं सप्तमेह्नि विष्णवे विनिवेदयेत् || विष्णोर्देवाष्टमदिने दुग्धो दनवलिः स्मृतः | कृशरान्नस्तु नवमे विष्णोरेव प्रशस्यते || वाममार्गे चतुर्दिक्षु मण्डलस्य वलिं चरेत् | ब्रह्मस्थाने तु वेतालो मेषस्तस्य वलिः सुराः || विष्णुस्थाने भैरवी स्यादजस्तस्या वलिर्मतः | भैरवस्तु शिवस्थाने माहिषं वलिमिच्छति || गौडिमाध्वी च पैष्टि च सुरास्तत्र क्रमात् मताः | मत्स्यामांसं मद्ययुक्तं भूतेभ्यो वलिरिष्यते || पितृभ्यः सासवपलं यक्षेभ्यः कुक्कुटामधु | भेकौंदुरु वलिर्नागे वाममार्गे वलिस्त्वयं || एवं गतेषु नवसु दिवसेषु विलोकयेत् | सम्यक् कस्योद्गमाजातः किं नष्टं मध्यमं च किं || सम्यगत्युद्गमे सिद्धिः कुंठिते विघ्नमाप्नुयात् | कीटभुक्ते न्यस्य फलशटितैः सर्वनाशनं || सिद्धिः प्रियंगुभिर्ज्ञेया श्यामाकैः स्त्रीसुखं भवेत् | तिलैः पूज्यजनोल्लासः सर्षपे नापि चारकः || शालीभिः सर्वमान्यत्वं मुद्गे देव कृपा भवेत् | चतुःपादास्तदाढक्यां निष्या वा क्षेत्रमन्दिरे || खल्वैः सत्कर्म सिद्धिश्च माषैः शान्तिररेर्भवेत् | सर्वः समोद्गतैर्वामे सिद्धिः पातस्त्वतो न्यथाः || इति वास्तुयोगः || अथ मण्डपरचनार्थ पूर्वादिदिज्ञानोपायः || तंत्रराजे || भानोर्गत्यादिशो ज्ञात्वा कुर्यात् कर्माणि देशिकः | वास्तु वैषम्यतो यत्र सम्यक् ज्ञायते ककुप् || तत्र शंकुं प्रतिष्ठाप्य जानीयाच्छक्रदिक् स्थितीं | तद्गत्यादिक् परिज्ञानं शृणु वक्ष्ये यथाविधि || सुसमे भूतले कृत्वा वृत्तं भ्रमण रूपतः | तन्मध्ये विंदौ शंकुं तु स्थापये द्वादशांगुलं || अग्रच्छाया द्वयवशा वृत्ते पूर्वापर द्वये | पूर्वापराह्नतः कृत्वा चिह्ने तमभितस्तथा || १९अ) स्वसमान परिभ्रांत्या कृत्वा वृत्त द्वयं पुनः | तयोः संश्लेषसंजात मध्यदक्षोत्तर स्थिते || संधि द्वये च प्राक् प्रत्यक् सूत्रं मध्ये तु विन्यसेत् | सूत्रं दक्षोत्तरन्तेषामग्रैः प्रागादि कल्पयेत् || क्रियासारेपि || कृत्वा भूमिं समां तत्र वृत्तं हस्तमितं समं | द्वादशांगुलमानोच्चं शंकुं खादिरनिर्मितं || अलाभे यज्ञवार्क्षं वा तत्र संस्थापयेत् सुधीः | तच्छाया संस्पृशेद् यत्र तन्मध्ये मध्यमं स्मृतं || तिर्यक् प्रसारयेत् सूत्रं मध्ये याम्योत्तरे स्मृते | कोणाः पुरन्ये चत्वारश्चतुः सूत्रं प्रसारणात् || एवमाशा परिज्ञानं समाख्यातं यथा स्फुटं | ज्ञात्वैव मण्डपादीनि कुर्यात् सम्यक् विचक्षणः || मेरुतंत्रे तु || एवं समीकृतायां तु भूमौदिक् साधनं चरेत् | सूत्र कर्कट कीलानि गृहित्वादि निशान्तरे || आद्यन्तलंवसंयुक्ता नलिका ध्रुव वेधिका | याम्योत्तराशातन्मध्ये केन्द्राद्वृत्तं समालिखेत् || रेखान्तरो वृत्तमध्ये तेन कर्कटकेन तु | धनुः कुर्यात् ततश्चापं ततंष्कुर्याद्धनुः पुनः || एवं चापानि षट् तत्र पद्मं भवति षड्गुलं | सौम्ये याम्ये त्रयं कृत्वा दलानां मध्यदेशतः || दीर्घारेखा कृता सा तु भवेत् पूर्वापराभिधा | याम्य पश्चिमयोः सौम्य पूर्वयोरूपरिस्थयोः || चापयोरर्धगं सूत्रमीशानी राक्षसी भवेत् | अन्ययोश्चापयोरेवमाग्नेयी वायवी भवेत् || विदिक् संस्थानि सूत्राणि समान्या वहि वृत्तयः | यथेष्टं वहिरानीय निखनेत् तत्र कीलकान् || अथ मण्डपः || स तु त्रिविधः || उत्तमाधम मध्यमभेदात् || मेरुतंत्रे || गणेशं पूजयीत्वादौ पुण्याहं वाचयेत् सुधीः | ततः पंच निनादैश्च मण्डपं रचयेच्छुभं || मण्डपं कुलदीक्षायां कुर्याद् विंशति हस्तकं | मद्यमांसपुरंध्रीणां समावेशो यथा भवेत् || मण्डपोष्ट दशकरः सिद्धान्ते वाममार्गके | अल्पत्वात् तत्र कुण्डानामधिकेपि स पंचके || वैदिक्ये वहु सामग्र्यां न च कुण्डे तु षोडश | १९ब्) कुण्डाल्यतायां सामग्र्यामल्यायां चेन्द्रहस्तकः || दक्षिणे वहुसामग्र्यां सूर्यहस्तस्तु मण्डपः | अल्पायां दशहस्तः स्यान्नवहस्तः सदाविशां || शूद्राणां सप्तहस्तः स्यात् संकराणां तु पच च | प्रोक्तमानं मण्डपाणां सर्वतंत्रेषु गोपितं || तदुक्तं प्रतिष्ठासारसंग्रहे || स्वल्पो द्वादसहस्तोयं द्वि द्वि वृद्ध्या ततः क्रमात् || सोमसंभावपि || मण्डपोर्ककरोथवा || द्विहस्तोतर या वृद्ध्या शेषाः स्यूर्मण्डपाः शुभाः || महाकपिल पंचरात्रेपि || हस्तांस्तु द्वादशारभ्य क्रमाद् द्वौ द्वौ प्रवर्ध्य च | एवं च भूमि शुद्धिं विधायेत्यं रचयेद् यागमंडपं || नवहस्तं पंचहस्तं त्रिहस्तं वा यथा मतीति गौतमीय तंत्रे उक्तत्वात् | नवहस्तं पंचहस्तमित्यनेन चतुर्दश हस्तो नवहस्तं त्रिहस्तमित्यनेन च द्वादशहस्तौ मण्डप उक्तः || तथा || पंचभिः सप्तभिहस्तैर्नवभिर्वामतांतरमिति शारदायामपि || पंचभिः सप्तभिरित्यनेन द्वादशहस्तः पंचभिर्नवभिरित्यनेन चतुर्दश हस्तः सप्तभिर्नवभिरित्यनेन च षोडश हस्तोमण्ड उक्तः || अंगुलमानं यथा मेरुतंत्रे || यस्मिन् देशे च काले च समुत्पन्ना यथा यवाः | तेषामष्टोदराणां स्यादंगुलं तु द्विजन्मनां || समोदरैस्तु शूद्राणां स करादेस्तथा रसैः | अवैदिकस्य विप्रादेरे तत्संख्याक शालिभिः || यत्र कर्ता स्वयं तत्र मानमेतदतोन्यथा | आचार्य दक्षिणकरे मध्यमांगुलि मध्यमं || पर्वणोरंतरं दीर्घं मात्रांगुलमुदाहृतं | उच्छ्रायः प्रतिमायाश्च प्रासादादेस्तु निर्मितः || वेदिकापीठशिविकारथाद्य तत्प्रमाणतः || तदुक्तं तत्रैवं || देहलब्धांगुलं नाम जानीयात् तस्य तत्पुनः | एभिश्चतुर्विंशतिभिर्हस्तः स्यादंगुलैः पुनः || अनेन प्रतिमांगानि सतमुन्मानमेव च | नराणां चापि नारीणां कुर्यातोप्यं प्रकाशितं || तथा || अचलदोर्मितमत्र तु मण्डपं मसृण वेदिकमारचयेत् तत इति २०अ) क्रमदीपिकायामपि अचलानां सप्तानां दोर्द्वयं तेन चतुर्दश हस्तास्तत्परिमितमित्यर्थः यथा श्रुते कुण्डाष्टक वेदी ऋत्विक् प्रचरणाद्यनूपपत्तेः || यत्तुराज्ञां होमाभिषेकादि प्रयोगार्थं तु मण्डपं विदध्यान्नव हस्तेन विस्तारायाम संयुतमिति तन्त्रराज वचनं तन्तु दीक्षातिरिक्त कर्मोपयुक्त मण्डपपरं प्रथमार्थे तथैवोक्तः सिद्धान्तशेखरे मेरुतंत्रे च || स्थलादर्कांगुलोच्छ्राय मण्डपस्थलमीरितं || महाकपिल पंचरात्रे तु || उच्छ्रायो हस्तमानं स्यात् सुसमं च सुशोभनमित्युक्तं || शारदायां || षोडश स्तंभसंयुक्तं चत्वारस्तेषु मध्यगाः | अष्टहस्त समुच्छ्रायाः संस्थाप्या द्वादशाभितः || पंचहस्त प्रमाणास्ते निश्छ्रीद्रा ऋत्विजः शुभाः | तत्पंचमांसं लिखनेन्मेदिन्यां तंत्रवित्तमः || नारिकेलदलैर्वांशैश्छादयेत् तत्समंततः || मेरुतंत्रे || नारिकेर दलैर्वंशकटैराछादयेत् पुनः | झं झामारुत वृक्षादि भवनस्याद्यथा तथा || अष्टहस्तेति ईदं च षोडश हस्तमण्डप एव मण्डपाधोच्छ्रितान्वेद संख्या चूडान्वितांस्ततांस्तथेति पंचरात्र वचनात् मध्ये वहिर्वास्तंभ निवेशनमाग्नेयादि क्रमेण कार्यं || स्तंभोच्छ्राय शिलान्यासे सूत्रयोजनकीलके | खननावटसंस्कार प्रारंभो वह्निगोचर इति वचनात् || सिद्धान्तशेखरेः || मध्ये स्तंभ चतुष्कं स्यात् तन्मध्ये वेदिका सता || मेरुतंत्रे || स्तंभास्तु वेदिका कोणे मण्डपार्धोच्छ्रिता वहिः | पंचमांसं न्यसेद् भूमौ पुष्टताशांश सूत्रतः || मस्तके कलशाकारं तद्दशांशेन कारयेत् | स्वायामोच्चा भवेद् वेदी नवकोष्ठोत्थ संधिषु || मण्डपस्य तृतीयांश दीर्घात् स्तंभासु विन्यसेत् || तत्रांतरे || वेदिकोणेषु विन्यस्येत् स्तंभान् वेदस्वरूपकान् || पंचरात्रे || सारदारुभवान् स्तंभान् दृढान् कुर्यादृजून् समान् || क्रियासारे || यज्ञीय वृक्षो वेणुर्वा क्रमुक्रः स्तंभ कर्मणि | अन्ये विशुद्ध वृक्षा वा भवेयुर्नान्यभूरुहाः || २०ब्) गृहशल्यः स्वयं शुष्कः कुटिलश्च पुरातनः | असौम्यभूमिजनितः संत्याज्यः स्तंभकर्मणि || मध्यमाधमयोर्द्वादश स्तंभ प्रमाण त्रैराशिके नानेयं | पंचमांसं न्यद्भूमौ सर्वसाधारणो विधिरिति वास्तुशास्त्र मेरुतंत्रोक्त वचनात् || पंचमांसेन वा खातं सर्वेषां च शिवोदितमिति सिद्धान्तशेखर वचनाच्च खननं सर्वमण्डप स्तंभानां पंचमांसे नैव नारिकेलदलैरित्याद्युपलक्षणं कटैः सद्भिस्तु संछाद्या विजयाद्यास्तु मण्डपा इति वास्तु शस्त्र वचनात् || मेरुतंत्रे || पूर्वोक्त संसाधित दिक्षु कुर्याद्वाराणि चत्वारि तु मण्डपस्य पंचांशमाना खलु देहली स्याद् विप्राच्छ्रिते तत्र कपाटशाखे || मन्त्रमुक्तावल्यां || दिक्षु द्वाराणि चत्वारि विदध्यात् पंचमांशतः || पंचरात्रे || कनीयसि स्याद् द्विकरं चतुरंगुलवृद्धितः | मध्यमोत्तमयोर्द्वारमिति न्यस्येन् मनोहरं || हस्तमानेन मण्डपाद्वहिद्वारेषु तोरण चतुष्टयं कुर्यात् तदुक्तं मण्डपद्वारवाह्ये च वेदिमानेन दिक् क्रमात् || प्लक्षमौदुम्वराश्वत्थ वटोत्थ तोरणं न्यसेदिति || मेरुतंत्रे || कुर्याद् देहलिकां रंम्यां साष्टांगुलकर द्वयं | मध्यमे मण्डपे कुर्यात् साध्यांगुलकरद्वयं || हीने करद्वयं तस्योच्चता तु द्विगुणामता || सोमशंभुः || प्लक्षोदुम्वरकाश्वत्थ वटजास्तोरणाः क्रमात् | पूर्वादितो विधातव्या यद्वाद्यन्त विपर्ययः || अलाभादेकमेवैषां सर्वाशासु निवेशयेत् || सिद्धान्तशेखरे || एकमेषामलाभे स्यात् तदभावे शमीद्रुमः | जंवूखदिरसाराश्च तालावा तोरणे स्मृताः || मेरुतंत्रे || पूर्वद्वाराद्वहिर्हस्तमात्रां त्यक्ता भुवं ततः | श्रेष्टमध्यकनिष्टेषु सप्तषट्पंचहस्तकं || उच्छ्रितं फलकं कुर्याद् विस्तृप्ता तद्दशांगुलं | तथा पञ्चांगुल स्थूलं विषमं चतुरश्रकं || वितस्त्या चोन्नत शिखं द्वारस्यो भयपार्श्वयोः | स्थापयेत् फलकौ द्वौ तु श्रेष्ट मध्य जघन्यके || महाकपिलपंचरात्रे || २१अ) देवास्तोरणरूपेण संस्थिता यज्ञमण्डपे | विघ्नविध्वंसनार्थं च रक्षार्थं त्वध्वरस्य च || न्यसेन्न्यग्रोधमैन्द्र्यान्तु याम्यां चोदुम्वरं तथा | वारुण्यां पिप्पलं चैव कौवेर्यां प्लक्षकं न्यसेत् || सुशोभनन्तु पूर्वस्या मृग्वेदादि सुमन्त्रितं | इषेत्वेति च मंत्रेण सुभद्राख्यं तु दक्षिणे || सुकर्माख्यन्तु वारुण्यां सामवेदादि केन तु | शन्नोदेवीति मत्रेण सुहोत्रं नूत्तरे न्यसेत् || मेरुतंत्रे || मण्डपेतौ दीर्घतया क्रमात् साधकरद्वयं | स पाद द्वितयं युग्मं हस्तं पंचाशकं भुवि || निखनेदग्निमीलेति गायत्र्या पार्श्वयोर्द्वयोः | तत् सजातीय काष्टेन तावद् विस्तार गर्भकं || चतुरस्रं तु विषमं द्वयोरुपरि कीलयेत् | दर्भमालां च वध्नीयात् पूर्वद्वारे विधिस्त्वयं || एवं तु दक्षिणे द्वारे तद्वारे प्लक्षकाष्टजं | इषेत्वेतिं न्यसेत् मालां वंधयेत् पूर्ववत् तथा || औदुंवरमयं कुर्यात् पश्चिमद्वारतस्त्विदं | अग्न आया हि मंत्रेण प्लक्षज वैदिके मखे || प्राग्वदेवं प्रकुर्वीत वटवृक्षमयं तथा | शन्नोदेवीति मंत्रेण सौम्यदिग्द्वारतो न्यसेत् || शारदायां || द्वारेषु तोरणानि स्युः क्रमात् || क्षीरमहीरुहां स्तंभोच्छ्रायः स्मृतस्तेषां सप्तहस्तैः पृथक् पृथक् || दशांगुल प्रमाणेन तत्परीणाह ईरितं | तिर्यक् फलकमानं स्यात् स्तंभमानार्धमानतः || शूलानि कल्पयेत् मध्ये तोरणे हस्तमानतः | सप्तहस्तैरित्युत्तम मण्डप पक्षे यद्वास्तु शास्त्रे || पंचहस्त प्रमाणोस्ते विस्तारेण द्विहस्तकाः | षडंगुलादि वृद्व्यादि सप्तहस्तास्तथोत्तमे || षडंगुलादीति तेन अधममण्डपतोरणस्तंभयोरंतराल भूमिर्द्विहस्ता मध्यम षडंगुलाधिक हस्ता उत्तमे द्वादशांगुलाधिक द्विहस्ता एतेन मण्डप भेदेन तिर्यक् फलकमानमप्युक्तं भवति अधमोत्तमयोः पंचसप्तहस्तोच्छ्राय कथमान् मध्यमेष्वद्वस्तोच्छ्रायतोक्ता भवति || मेरुतंत्रे || तेषामुपरितिर्यक् स्थ?काष्टानां मध्यतो विलं | २१ब्) कृत्वा तोरण जातीय काष्टेन रचयेच्छुभं || तदुक्तं तत्रैव || स्तंभानामुपरिस्थाप्यान्य व्रणानि ऋजुइ च | एकजातिनि काष्ठानि विध्या स्तंभगले न्यसेत् || काष्टानाम भावे एकजातीय काष्ठानिग्राह्यानि || पिंगलामते || शूलेन चिह्निता कार्या द्वादशारस्तु मस्तके | ऋजु वै मध्यशृंगं स्यात् किंचिद्वक्रं च पक्षयोः || उभयं तत्समाख्यातं अंगुलं रोपयेत् तदा || मेरुतंत्रे || श्रेष्ट मध्य जघन्येषु शैव यागे त्रिशूलकं || क्रियासारे || तोरणं घटयित्वैवमूर्ध्वशूलत्रयं न्यसेत् | शूलेन वांगुलं दैर्घ्यं तुरीयांसेन विस्तृतिः || शेषाणां द्व्यंगुला वृद्धिर्वै पंचांगुलवृद्धितः || मेरुतंत्रे || ऋजु वै मध्यमं शृंगं किंचिद् वक्रं तु पार्श्वयोः | एवं शूलो गणपतिः शिवाद्याः शिववन्मताः || अयं च त्रिशूल विन्यासः गणपति शैव शाक्तादौ || वैष्णवे तु विशेषो वास्तु शास्त्रे || मस्तके द्वादशांशेन शंखचक्रगदांवुजां | प्रागादि क्रमयोगेन न्यसेत् तेषां सुदारुजं || मेरुतंत्रे || वैष्णवद्वादशांशेन शंखचक्रगदांवुजां | प्रागादि क्रमयोगेन न्यसेत् सौरोपि वैष्णवः || शारदायां || दिक्षु ध्वजानि वध्नीयाल्लोकपालसमप्रभान् | वितानदर्भमालाद्यैरलं कुर्वीत मंडपं || प्रतिष्ठा सारसंग्रहे || पित्तरक्तादि वर्णाश्च पंचहस्ताध्वजाः स्मृताः | द्विपंचहस्तैर्दंडैस्ते वंशजैः संयुता मता || द्विपंचहस्तैर्दशहस्तैः || अन्यत्रापि || पंचहस्ताध्वजाः कार्या वैकल्पेन द्विहस्तकाः | षडश्च दशहस्तः स्यादष्ट दिक्षु च तान् न्यसेत् || मेरुतंत्रे || ततःस्तु मंडपस्याग्रे भूम्यूर्धं दशहस्तकः | भूमौ करद्वयं वंशः स्वच्छवस्त्रावगुंठितः || विस्तृतश्चैक हस्तेन दीर्घः पंचकरैर्ध्वजः | मंत्र देवं लिखेत् तत्र सायुधं च स वाहनं || घंटा चामरसंयुक्तं देवता वर्णवर्णकं | स्थापयित्वा ध्वजं पश्चाद् दशदिक्षु प्रकल्पयेत् || दिगीशानां पताकाश्च ध्वजस्यार्ध प्रमाणतः | वेदोक्त तत्तन्मंत्रेण तत्तद्वर्णाश्च तद्दिशि || २२अ) त्रातारमिंद्रमिति च || पीतवर्णा हरेर्दिशि || आग्नेयां पिंगलात्वन्ना अग्ने वरुण मंत्रतः | सगंनुः पंथामनुना कृष्णवर्णा न या स्मृता || अनुत्वंतेति मनुना नै-ऋत्यां धूम्रवर्णिका | तत्वायामि ब्रह्मणेति वारुण्यांसित वर्णिका || आनोमियुद्भीरिति च वायव्यां हरिता भवेत् | वयर्ट सोमव्रत ईति सौम्यायां चन्द्रवर्णिका || तमीशानमिति शान्यामति श्वेतापताकिका | ईशान पूर्वयोर्मध्ये शेषं रक्तपताकिनं || तोय नैर्-ऋत्य मध्ये तु विधिं रक्तपताकिनं || हयशीर्षपंचरात्रे || ध्वजेन रहिते ब्रह्मन् मण्डपे तु वृथा भवेत् | पूजा होमादिकं सर्वं जपाढ्यं यत्कृतं वुधैः || रक्षकेन विना यद्वत् क्षत्रं नश्यति क्षेत्रिणः | ध्वजं विना देवगृहं तथा नश्येत सर्वथा विष्णुथा?रि यदाः क्रुराः कूष्मांडाद्यास्तु ये स्मृताः || पूजादिकं तु गृह्नंति देव दृष्ट्वा न रक्षितं | दृष्ट्वा ध्वजांस्तु देवस्य मंडपेषू ज्वलप्रभान् || नश्यंति सर्वते चार्क रश्मिक्षिप्तं तमो यथा || म्रुतंत्रे तु || वाममार्गे वेदमंत्रो वज्रपातसमः स्मृतः | ब्राह्मणानां वाममार्गो नरकायैव जायते || मंत्राभावे नाममंत्रान् प्रणवाद्यान् हृदंतकान् | पथे दक्षिणमार्गे तु वामे प्रणववर्जितान् || मण्डपोपरिवध्नीयादधिश्वेतं वितानकं | अलंकुर्यात् पुष्पमालादिभिरेनंतवेष्टयेत् || आम्रोश्वत्थ दलोत्पन्न युक्तया दीर्घमालया | स्तंभान्दू कूलैः संवेष्ट्य मध्ये कुर्याच्च वेदिकां || सिद्धान्तशेखरे || चूतपल्लवमालाख्यं वितानैरूपशोभितं | विचित्रवंशसंछन्न तुलास्तंभविभूषितं || सफलैः कदली स्तंभैः क्रमुकैर्नारिकेलजैः | फलैर्नानाविधैर्भोज्यैर्दर्पणैश्चामरैरपि || भूषितं मण्डपं कुर्याद् रत्नपुष्पसमुज्वलं || हयशीर्ष पंचरात्रे || दर्पणैश्चामरैर्घंटैः स्तंभान् वस्त्रैर्विभूषयेत् | कलशैर्घटिकाभिश्च साधारैः कर्करैस्तथा || २२ब्) तत्र प्रतितोरनं एकैकः कलशः स्थाप्यः प्रतिद्वारपार्श्वे द्वौ द्वौ प्रतिकोणं चैकैकः तदुक्तं गंधपुष्पांवरो पेतान् कुंभास्तेषु विनिःक्षिपेत् || तेषु तोरणेषु || ध्रुवंधरां वाक्यतिं च विघ्नेशं तेषु पूजयेत् | मण्डपस्य तु कोणस्थ कलशेषु क्रमादमी || अमृतो दुर्जयश्चैव सिद्धार्थो मंगलस्तथा | पूज्याद्वारस्थ कुंभेषु शक्राद्यास्तन्मनूत्तमैः || अन्यत्रापि || मण्डपे कलशे द्वौ द्वौ द्वारे द्वारे निवेशयेत् | गालितोदकसंपूर्णं चाम्रपल्लवशोभितौ || शारदायां || तंत्रीभागमिते क्षेत्रेऽरत्नीमात्र समुच्छ्रिता | चतुरस्रां ततो वेदीं मंडलाय प्रकल्पयेत् || अन्यत्रापि || ततो मण्डपसूत्रन्तु त्रिगुणं परिकल्पयेत् | पूर्वादिषु क्रमात् तस्य मध्ये भागेन वेदिका || मेरुतंत्रे || मण्डपं नवधा कृत्वा मध्यभागेस्य वेदिका || शिद्धान्तशेखरेपि || नवांशं मण्डपं कृत्वा मध्यां *? वेदिकामता | अरत्निमात्र समुच्छ्रितां हस्तमात्रोन्नतांतैश्चतुर्भिर्भवेत् पुष्टिर्वितस्ति स्त्रैस्त्रिभिर्गुणैः || अरत्निस्तद् द्वयेन स्याद्धस्तस्तद् द्वयतः शिवे || इति तंत्रराजवचनेनारत्निहस्त शब्दयोः पर्यायतोक्तेः || तत्रैव || तंत्रै भागैक भागतः || विदध्यान् मध्यतो वेदी करमात्र समन्वितामित्युक्तेश्च || मेरुतंत्रे || इष्टिकाभिरपक्वाभि हस्तविस्तृति पिंडका || मंत्रमुक्तावल्यामपि || ईष्टकाभिर्मृदा वापि वेदी दर्पणसंनिभा | राजहस्तो छ्रयाकार्या विदुषा सिद्धिमिच्छता || क्रियासारेपि || त्रिभागं मंडलं कृत्वा मध्यभागं तु वेदिका | हस्तमानं तदुत्सेधं चतुरस्रं समं यथा || मेरुतंत्रे || त्रिधारं वामदीक्षायां शंखाभं वैष्णवे मखे | चतुरस्रा चतुःकोणा वेदी सर्वफलप्रदा || तडागादि प्रतिष्ठायां पद्मीनी पत्रसंनिभा | राज्ञां स्यात् सर्वतो भद्रा चतुर्भद्राभिषेचने || विवाहे श्रीधरो वेदी विंशत्यस्रसन्विता | वाममार्गेन दीक्षायां गुप्ता त्र्यस्रा तु वेदिका || २३अ) मण्डपायाम रुद्रांश नव सप्तैषु रोमकैरिति मेरुक्त वचनं द्विजादिपरं || तथा क्रियासारे || वर्क्रा? पार्श्वा क्लिन्न मध्यापरुषादृगशोभना | मानहीनाधिका या सा कर्तुः कर्मविनासिनी || मण्डपा नामन्यथा भावे दोष उक्तः || क्रियासारे || अनुक्त साधनैः कॢप्तो यदि वा कुटिलाकृतिः | मानाधिकोथवा न्यूनो मंडपः कर्तृनाशनः || आख्यात साधनैः कॢप्तः शोभनः स समानकः | मनोज्ञो मण्डपायोसौ कर्मकर्तुः शुभावहः || मेरुतंत्रे || अंशैः समुन्नतां वापि तारनस्यं विलोक्य च | सामग्र्यादेः समावेशो यथास्यादिति मण्डपः || ईति मंडपरक्षणं || इति श्री आद्यानन्दनविरचितायां कुलमुक्तिकल्लोलिन्यां द्वितीयः पटलः || अथ कुण्डानि दक्षवामयोरपि || तदुक्तं मेरुतंत्रे || एकहस्तमितं कुण्डं दशलक्षावधि स्मृतं | लक्षाणां दशकेनैकं हस्तहस्तं विवर्धयेत् || दशहस्तं कोटि होमे वैदिकानामितीरितं || वामिनामपि तत्रैवोक्तं || मद्यमांसादि होमं तु कुण्ड एव विधीयते | पंचाशत् प्रमिते होमे प्रकोष्टः कृतमुष्टिकः || कुण्डस्य मानं भवति शतेऽरत्नि समं भवेत् | सहस्रं हस्तमात्रेस्या द्विहस्तमयुते मतं || वामिनामपि तत्रैवोक्तं || मद्यमांसादि होमं तु कुण्ड एव विधीयते | पंचाशत् प्रमिते होमे प्रकोष्टः कृतमुष्टिकः || कुण्डस्य मानं भवति शतेऽरत्नि समं भवेत् | सहस्रं हस्तमात्रे स्या द्विहस्तमयुते मतं || चतुर्हस्तमितं लक्षे षट्करं दशलक्षके | कोटि होमे चाष्टहस्तं कुण्डं वामैर्वीधीयते || किरणाख्य तंत्रेपि || शतार्धशत होमे तु मुष्टिरत्निमितम् भवेत् | सहस्रायुत होमे स्याद्धस्त हस्तद्वयम् भवेत् || तार्क्ष लक्षयुते होमे चतुर्हस्तं च शंकरं | कोटि होमेष्ट हस्त स्यात् तस्मादूर्धं न कारयेत् || तथा || एककुण्डविधाने तु चतुरश्रं विधीयते | ब्राह्मणानां विशेषेण स्तम्भने चापि पूर्वगं || २३ब्) नवकुण्डविधाने तु वह्निभागे भगाकृतिः | भोगार्थं चापि पत्रार्थं वासिनां चतुरस्रवत् || अर्धचन्द्रनिभं याम्य वैश्यानां सर्वकर्मणि | अन्न्येषां मारणे प्रोक्तं चतुःकुण्डेथ चेष्यते || त्रिकोण कुण्डं नैर्-ऋत्ये रिपुघाटकरं स्मृतं | विद्वेष कारकं चैतच्छूद्राणां च विशिष्यते || वायव्यां कारयेतच्च शंकराणां विशेषतः | वृतं मुख्यं क्षत्रियानां सर्वेषां शान्ति कर्मणि || पश्चिमायां तु तत्कार्यं वौद्धादीनां च सिद्धिदं | षट्कोणमुच्चाटयति छेदेषु च विशिष्यते || वायव्यां कारयेतच्च संकराणां विशेषतः | उदीच्यां पौष्टिके पद्मं हृष्टिदं तुष्टिदं तथा || सर्वप्रयोगेष्वनया परप्रीतिकरं मतं | अष्टकोणं मुक्तिकरमैशान्यां तद्वीधीयते || कारागृहात् तथा रोगाच्चिंतादेर्मोक्षमाप्नुयात् | भ्रष्टकुंडविधाने तु क्रमोयं नवकुंडके || नवमं चतुरस्रं स्यात् पूर्वेशान दिगंतरे || किरणाख्य महातंत्रे || चतुरस्रं योनिखण्डेन्दु त्र्यश्रम्वृत्त श्रडस्रकं(?) | पद्ममष्टास्रमे तेषां पूर्वादी क्रमतः स्थितः || गौतमीये || सहस्रे खलु होतव्यो कुर्यात् कुण्डं करात्मकं | द्विहस्तमयुते तच्च लक्षे होमे चतुष्करं || षट्करे वेदलक्षश्चाष्टकरे दशलक्षकं | दशहस्तं तु कोट्यां वै हस्तसंख्याव्यवस्थिता || दशहस्तात् परं कुंडं नास्ति होममहीतले | कोट्यामष्टकरं स्मृतमिति वामदक्षयोर्द्रव्यस्य गुरुत्वा गुरुत्वेन वोध्यं || एकहस्तमितं कुण्डं लक्षे होमे विधीयते | अत्रापि मेरुक्त दशलक्षमितेपि आज्यहोमे लघुदुर्वाकर वीरादि होमे च वोध्यं || तथा || मुष्टिमात्रमिदं कुण्डं शतार्धे च प्रचक्ष्यते | शतहोमेऽरत्निमात्रं हस्तमात्रं सहस्रके || द्विहस्तमयुते लक्षे चतुर्हस्तमुदाहृतं | दशलक्षे च षट् हस्तं कोट्यामष्टकरं स्मृतं || एकहस्तमिते कुण्डे लक्षमेकं विधीयते | लक्षाणां दशकं यावत् तावद्धस्तेन वर्धयेत् || मेरुतंत्रे || अयुताहुति होमस्तु विधेयः स्थंडिलो परीति दक्षमागेऽशक्तपरं || अथ तल्लक्षणं || शारदायां || प्राक्प्रोक्ते मण्डपेद्विद्वान् वेदिकाया वहिस्त्रिधा | क्षेत्रं विभज्य मध्येंशे पूर्वादि परिकल्पयेत् || अष्टास्वाशासु कुंडानि रम्याकाराण्यनुक्रमात् | २४अ) चतुरस्रं योनिमर्धचन्द्रं त्र्यस्रं सुवर्तुलं || षडस्रं पंकजाकारमष्टास्रं तानि नामतः | आचार्य कुण्डं मध्ये स्यात् गौरीपति महेन्द्रयोः || क्रियासारे || वृत्तं वा चतुरस्रं स्यान् मध्यस्थानं वृषेशयाः | पुरंन्दरेशयोर्मध्ये वृत्तं चा चतुरस्रकं || तदाचार्य विनिर्दिष्टमिति सिद्धान्तशेषर वचनाच्च || अथ चतुरस्रकुण्डं || तंत्रराजे || प्राक् प्रत्यक् सूत्रमास्फाल्य तन्मध्ये चिह्नकल्पनं | तं त्वात् तत् पूर्वतः पश्चाद्वादशांगुलमानतः || परं प्रसृज्य तत्रापि विदध्याच्चिह्नयुग्मकं | प्राक् प्रत्यक् चिह्नमानेन तयोरेवावलंवतः || दक्षिणोत्तरतो हंस पदे कृत्वा ततस्तयोः | प्रसार्यसूत्रं तचापि मार्जयित्वोक्त मानतः || ततस्तदग्राण्यालंव्यमध्यचिह्नस्य मानतः | कुर्यार्द्धं स पदे कोणेष्वभितेस्तेषु पातयेत् || चतुष्टयं तु सूत्राणां चतुरस्रं भवेत् समं | तस्मिन्नन्यानि कुण्डानि वदामि तव मानतः || गौतमीयतंत्रे || पूर्वापरायतं सूत्रं हस्तमानं प्रसार्य च | तस्याग्रयोर्मत्स्ययुग्मं कुर्यात् स्पष्टं यथा भवेत् || द्विभागौ कृत्य तत्सूत्रं पातयेद् दक्षिणोत्तरं | तदग्रयोर्मत्स्य युग्मं कुर्यात् स्पष्टं यथा भवेत् || चतुर्दिक्षु चतुःसूत्रं पातयेत् तत्प्रमाणतः | चतुरस्रं चतुःकोष्टं भवेदति मनोहरं || कोणसूर्त्रं द्वयं दद्यात् प्रमाणं तेन लक्षयेत् | चतुरस्रं भवेत् कुंडं सर्वलक्षणलक्षितं || तथा || अनेन जनयेत् सर्वं कुण्डानि मनुवित्तमः || सारदायां || चतुर्थि सत्यंगुलाढ्यं हस्तं हस्तविदो विदुः | कर्तुर्दक्षिण हस्तस्य मध्यमांगुलि पर्वशः || मध्यस्य दैर्घ्यमानेन मानांगुलिमुदीरितं || हस्तप्रमाणं पूर्वमप्युक्तं || हस्तमात्रकुंडस्य क्षेत्रफलं द्विहस्तादौ तद्वैगुण्यादि || गौतमीयतंत्रे || कर्णसूत्रप्रमाणेन द्विहस्तं कुण्डमुद्धरेत् | सर्वकुण्डेषु सर्वत्र वर्धयेद्विधिना ईति || इति चतुरस्र कुण्डे लक्षणं || २४ब्) अथ योनिकुण्डलक्षणं || तंत्रराजे || तन्मध्ये पंचमांशेन विकाश्य ब्रह्मसूत्रकं | पूर्वतः पश्चिम द्वन्द्वकोष्टयोर्मद्यदेशतः || तत्कोणमानेन तथा भ्रामयेत् पश्चिमाग्रकात् | उत्तरावधि तथा दक्षिणावधि प्रिये || तन्मध्य तिर्यक् सुत्राग्र द्वयावष्टम्भतस्तथा | विकाशित ब्रह्मसूत्रावधि सूत्रद्वयं भवेत् || योनिकुण्डमिदं भद्रे स्याच्चतुष्टभयात्मंत्र || मेरुतंत्रे || अस्वत्थदलसंकाशं योनिकुंडमुदङ्मुखं | प्राश्नानाश्चात्र कर्तव्या योनी रूपाः सुमेखलाः || इति योनिकुण्डलक्षणं || अथार्धचन्द्रकुण्डलक्षणं || यथा || मेरुतंत्रे || चतुरस्री कृतं क्षेत्रं दशधा विभजेद्वुधः | एकमेकं त्यजेदंशमेध ऊर्धं च तंत्रवित् || ज्यासूत्रं पातयेदग्रे तन्मानाद् भ्रामयेत् ततः | अर्धचन्द्रनिभं कुंडं रमनीयमिदं भवेत् || चतुःकोणे क्षेत्रे जिनलवक मध्यस्थितगुणे विहायोर्ध द्वयमुपरितावच्चमतिमान् || कलांशेनांशस्योनितमुपरितिर्यक्कुरुगुणं भ्रमार्थं तन्मानादपि शशिदलं कुण्डमिति तु || किरणाख्य महातंत्रेपि || पंचभाग कृतं क्षेत्रं मत्र्यासार्धं परित्यजेत् | तथोत्तरा त्रिभागस्य त्यक्त्वार्धं तत्समं पुनः || कृत्वा सूत्रभ्रमः कार्यो भवेत् तत्रार्ध चंद्रवत् || इति अर्धचन्द्रकुण्डलक्षणं || अथ त्रिकोणकुण्डलक्षणम् || तंत्रराजे || तस्यैव षष्टमासं तु पार्श्वयोस्तु विकाशयेत् | प्रत्येकं पश्चिमं सूत्रं तन्माने नाथ सूत्रयोः || विन्यसेद् ब्रह्मसूत्रान्तं तद्वयाग्रावधि लंवनात् || किरणाख्य महातंत्रेपी || पंचभाग कृतं क्षेत्रं द्वौभागौ वाह्यतो न्यसेत् | तद्द्वयोः पार्श्वयो त्यक्त्वा तस्मान् मध्यं विसृज्य च || लांछयस्तेन मानेन उभयोः कीलयोरपि | तत्र सूत्रत्रयं कृत्वा त्रिकोणं व्यज्यते स्फुटं || इति त्रिकोण कुण्डलक्षणं || २५अ) अथ वृत्त कुण्डलक्षंअं || मेरुतंत्रे || इष्टस्य चतुरस्रस्य चतुर्विशांस कल्पना | कृत्वा तन्मध्यतः सूर्यभाग कर्कोटकेन च || वृत्तं कुर्यादिति || इति वृत्त कुण्डलक्षणं || अथ षट्कोण कुण्डलक्षणं || क्रियाशारे || क्षेत्रंवस्वंशकं कृत्वा वहिः पार्श्वद्वयांसकौ | न्यस्त्वा तेन प्रमाणेन मध्यान्नूल्यं यथा न्यसेत् || कोणान्यन्यानि चत्वारि पार्श्वयोश्च द्वयं द्वयं | षट्सूत्राणि न्यसेत् तेषु तत् स्यात् षट्कोण कुण्डकं || किरणाख्य महातंत्रे || अष्टभाग कृतं क्षेत्रं भागैकैकं वहिर्नयेत् | उभयोरपि पार्श्वाभ्यां तस्मान् मध्यं विगृह्य च || लांछयेत् सर्वकोणेषु तत्र षट् सूत्रपातनात् | कृत्वा तत्र भवेत् कुण्डं षट्कोणं स्फुटलक्षणं || इति षट्कोण कुण्डलक्षणं || अथ पद्मकुण्डलक्षणं || लक्षणसंग्रहे || चतुरश्री कृतं क्षेत्रं विभजेदष्टधांविके | अष्टमांश प्रमाणेन कर्कटेन तु मध्यतः || वर्तुलं भ्रामयेत् सेयं कर्णिकाकेशरात्पुनः | अष्टमांश द्वये नैव मध्यतो वर्तुलं भवेत् || तृतीयनाष्टमांसेन पत्राणा मध्यतूर्मता | चतुर्थे नागभूक्षेत्रं व्यासतुल्येन च भ्रमात् || चतुर्विंशतिधामूक्ता ब्रह्मसूत्रं वरानने | तस्यैकं भागमादाय भक्त्या षोडशधा पुनः || पंचभिः षोडशैर्द्भागै न्यूनं पंचममष्टमं | भागमादाय तद्वाह्ये पंचमं मंडले शिवे || मध्यतो भ्रामयेत् सर्वैः पत्राणामग्रभूर्मता | शाक्रोक्त विधिना देवि ततः पद्मं समालिखेत् || वाह्यवृत्तान्तरालं यत्तन्मानं केसराग्रतः | तन्मानं कर्कटं कृत्वा केशराग्रे विधाय च || गुरुपदिष्टमार्गेण षोडशार्धे निशाकरान् | लिखित्वा कृत हस्तेन पत्राग्राणि समालिखेत् || कर्णिका व्यासमानेन परित्यज्य तदुच्चतां | निखनेदवशिष्टं तु केशराणां च मण्डलं || खनेदं तस्तदाकारं || कुर्वन्यत्र भुवं खनेत् || पत्राकारं यथा संम्यजायते परमेश्वरि || मेरुतंत्रे || पुनः सार्ध त्रिभागैर्द्वितीयकं || २५ब्) दिग्विदिक् चांतराले च सूत्रांण्यष्ट प्रपातयेत् | ततोत्तरवृत्तलेखाया ईशसूत्राग्रसूत्रकः || लेखानयेद्वाह्यवृत्त पूर्वसूत्रस्य मूर्धनि | ततो दक्षिण रेखाया मंतर्वृत्तस्य मूर्धनि || तयानयेद् दलं तत्स्यादेवमस्तौदलानि च | अंशव्यासार्धकेनापि यद्वृत्तं सा तु कर्णिका || ततः षडंशव्यासार्ध वृत्ते तत्केसराणि च | व्यास षष्ठांशमानोध्वा कर्णिका केशराणि च || गुरूक्त युक्त्या निखनेद्यथा पद्मा कृतिर्भवेत् || पद्मा कृतिं प्रकुर्वीतेति || इति पद्मकुण्डलक्षणं || अथाष्टकोणकुण्डलक्षणं || कुण्डेष्टाम्रे मध्यसूत्रं चतुर्विंशतिधा भजेत् | एकत्रिदशमांशाद्यद्व्यंशवृद्ध्या च वर्तुलं || तन्मध्ये दिक्ष्वष्ट सूत्रदानादष्टाम्रकं समं || मेरुतंत्रे || अथेष्ट चतुरश्रस्य व्यासः स्वद्वादशांशयुक् | तेनैव भ्रामयेद् वृत्तं चिह्नान्यत्रदिगष्टके || क्रमान्यस्येत् तदुपरिभुजान् दद्यात् समानिति | अष्टास्रं जायते कुण्डं तद्वत् कण्ठश्च मेखला || इति अष्टकोण कुण्डलक्षणं || वामिनां विशेषो वक्ष्यते || तांत्रे दीक्षादौ नवकुण्डविधानं तुल्यं || एतावत् कुण्डकरणा शक्तस्तु चतुरश्र कुण्डानि वृत्त कुण्डान्येव वा सर्वत्र कुर्यात् || कुण्डानि चतुरस्रानि वृत्त नाना कृती निवेत्याम्नाय हरस्यस्य || शस्तानि तानि वृत्तानि चतुरस्राणि वा सदेति सोमशंभोश्चापि वचनात् || मेरुतंत्रेप्युक्तमग्रतः || मध्यमस्तु पंचकुंडी पक्षः एककुण्डकरणपक्षस्तु कनिष्टः || नवपंचाथवैकं वा कर्तव्यं लक्षणान्वितमित्याम्नाय रहस्य वचनात् || तन्निवेशनमपि तत्रैवोक्तं || ज्ञानरत्नावल्यामपि || दिक्षु वेदाम्र वृत्तानि पंचमं त्वीशगोचरमिति || नारदीये तु || यत्रोपदिश्यते कुण्ड चतुष्कं तत्र कर्मनि | वेदास्रमर्धचन्द्रं च वृत्तं पद्मनिभं तथा || कुर्यात् कुण्डानि चत्वारि प्रागादिषु विचक्षणः | पंचमं कारयेत् कुण्डमीशदिग्गोचरं द्विजेत्युक्तं || मेरुतंत्रे || ख्यातान्येतानि कुण्डानि तांत्रिकस्मार्तकर्मणि | अनाधिकान्यकंठानिवियोनीति श्रुतिरिते || अष्टाशक्तौ तु चत्वारि दिक्षु कुण्डानि तांत्रिके | २६अ) तदशक्तावेकमेव चतुरस्रं प्रकल्पयेत् || विधाने यं कुण्डानामीशान पंचमं भवेत् || तथा च रत्नावल्यामेव एक कुण्डे पक्षे निवेशन मुक्तमाम्रार्यैः | अथ वा शिष्ट कुण्डमुत्तरस्यां प्रतिदध्या चतुरस्रमेकमेवेति || मेरुतंत्रेपि || आचार्यकुण्डं नवमं चतुरस्रं तु वैदिके | इति मेरूक्तं तु वैदिके || नवममिति नवकुण्डपक्षे || वामे तु मेरुतंत्रे || शक्त्या उपासने वामे पथ्येकं यानि कुण्डकं || सोमशंभुना तु || एकं वा शिवकाष्ठायां प्रतीच्यां कारयेद् बुध इत्युक्तं || एतच्च कुण्डं चतुरस्रं वृत्तं वा कार्यं || तदुक्तं क्रियासारे || चतुरश्रं भवेत् कुण्डं वृत्तं कुण्डमथापि वा || स्थिरार्चने चराचार्या नित्ये हवन कर्मणीति || पिंगलामतेपि || कुण्डमेककरं वृत्तं मेखला कण्ठनाभिमत् || नित्यकर्मणि दीक्षायां शान्तौ पुष्टौमतं शुभमिति || दक्षे चतुरस्रमेव सर्वाशक्तौ वामे योनि कुण्डमेव || अथ कुण्ड निषिद्धानि || तदुक्तं मेरुतंत्रे || अनेकदोषदं कुण्ड मानं न्युनाधिकं यदि | तस्मात् संम्यक् परीक्ष्येदं कर्तव्यं शुभमिच्छता || खाताधिके भवेद् रोगी हीने धेनु धनक्षय | ब्रह्मकुण्डे तु संतापो मरनछिन्नमेखले || मेखला रहिते शोको त्यधिके वित्त संक्षयः | भार्या विनाशकं कुण्डं प्रोक्तं योन्या विना कृतं || अपत्यध्वंसनं प्रोक्तं कुण्डं यत्कंठवर्जितं | शृंगाररहितं यच्च कुण्डं जर्जरमेखलं || यजमान विनाशाय प्रोच्चाटः स्फुटिते भवेत् | सूत्राधिके सुहृद्वेषः सूत्रहीने दरिद्रता || अनाले जठरे रोगः छिद्रे कुण्डेत्व वाच्यता | यथोक्त कुण्डेप्युत्याता देवं जाते फलं त्विदं || अथ कुण्डानां खातं || मेरुतंत्रे || यावान् कुण्डस्य विस्तारः खननं तावदेवहि | यावत् कुण्डमिहेष्टं स्यात् तावद् दिक्ताधने कृते || शारदायामपि || यावान् कुंडस्य विस्तारः खननं तावदीरितं || २६ब्) मेरुतंत्रे || चतुरस्रं चतुःकोष्टं सूत्रैः कृत्वा यथा पुरा | हस्तमानेन तन्मध्ये तावन्निम्नायतं खनेत् || गणेश्वर विमर्षिणां || चतुर्विंशांगुलायामं तावत् खात समन्वितं || माहेश्वरतंत्रे || हस्तमात्रं खनेत् तिर्यगूर्धं मेखलयासहेति || अथ च || व्यासाखातः परः प्रोक्तो निम्नं तिथ्यंगुलेन त्विति विश्वकर्मणि | कुण्डंजिनांगुलैस्तिर्यगूर्धं मेखलया सहेति प्रथम तंत्रे || सिद्धान्तशेखरेपि || खातं कुण्डप्रमाणं स्यादूर्धं मेखलया सहेति स्वल्पतर होमविषयं सुकुमारमालत्यादि पुष्प होमविषयं वोद्धव्यं || गौतमीये || ततः कुण्डं खनेन्मंत्री यथा शास्त्रविधानतः | त्यक्त्वा सर्पस्य गात्रं च शिरोदेशं प्रयत्नतः || सर्पशिरो ज्ञानं यथा || वास्तु प्रमाणेन तु गात्रकेन वामेन शेतेखलु नित्यकालं | त्रिभिस्तुमासैः परिवृत्य भूमौतं वास्तु नागं प्रवदंति सिद्धाः || भाद्रादिके वासवदि शिरास्यान्मार्गादिकेषु त्रिषु याम्य मूर्धा | प्रत्यक् शिरास्यात् खलु फाल्गुणादौ ज्येष्टादि कौवेर शिराः स नागः || शिरोघाटे भवेत् मृत्युः पिण्डेषु पिण्डघाटनं | पुच्छे तु दुःखसंभूतं क्रोडे सर्वार्थ साधनमिति || अथ कंठमानं || महाकपिल पंचरात्रे || चतुर्विंशति भागेन कंठो वै परिकीर्तितः | खाता द्वा भ्यांगुलः कंठः सर्वकुण्डेष्वयं विधिः || चतुर्विंशतिसंभागमंगुलं परिकल्पयेत् || मेरुतंत्रे || एकहस्तस्य यः कर्णो भुजास्तेतु वरद्वये | द्विहस्तत्य तु कर्णः स्या त्रिहस्त भुजसंमितिः || चतुर्हस्तादिकेप्येवं कंठः सर्वत्र भू समः || अथ मेखला || पिंगलामते || खातादेकांगुलं मुक्त्वा मेखलानां स्थितिर्भवेत् || मेरुतंत्रे || जिनभाग समस्तस्य वहिः कार्यास्तु मेखलाः || शारदायां || कुण्डानां यादृशं रूपं मेखलानां च तादृशं || २७अ) वायवीय संहितायां || मेखलानां त्रयं वापि द्वयमेकमथापि वा || मेरुतंत्रे || अथादौ चतुरश्रस्य वहिः स्यात् विधिरुच्यते | नाभि योनि समायुक्तं श्रेष्टं कुण्डं त्रिमेखलं || द्विमेखलं तु शूद्राणां संकराणां कुमेखलं || क्रियासारे || नाभि योनि समायुक्तं कुण्डं श्रेष्टं त्रिमेखलं | कुंडं द्विमेखलं मध्यं नीचं स्यादेकमेखलं || विशेष उक्तो मेरुतंत्रे || षट् वाणाद्धि वह्नि नेत्रमिताः स्यूः पंचमेखलाः | धर्मभेदे जातिभेदे चाचार्यजमानयोः || षष्टांशेनाष्टमांशेन मेखला द्वितयं मतं | कौलिके वाममार्गे च वौद्धे जैने च शावरे || इति तु स्पष्टमेवोक्तं || सोमशंभौ || त्रिमेखलं द्विजे कुण्डं क्षत्रियस्य द्विमेखलं | मेखलैका तु वेश्यस्ये त्युक्तं तथापि मेखला | रहिते शोक इति निन्दा श्रवनात् संकराणां कुमेखलमिति अनाधिकाण्यं कंठानि वियोनीति श्रुतीरिते इत्युक्त त्वात् स मेखलमिति प्रभासति || तत्रैव || कुंडानां यश्चतुर्विंशो भागः सोंगुलसंज्ञकः | विभज्यानेन कर्तव्या मेखला कंठनाभयः || महाकपिल पंचरात्रे || कुण्ड षड्भागिका त्वाद् या द्वितीयाष्टांशका स्मृता || तृतीया द्वादशां सास्यादिति || मेरुतंत्रे || द्वादशांगुल विस्तारा द्योत्साधाच्चतुरंगुला | तदुर्धमपरादीर्घाष्टांगुला तावदुच्चता || चतुर्भिरंगुलैर्दीर्घा तावदुच्चातदूर्धतः || योगिनी हृदये || मेखलाः शृणु मे देवि हस्तादिषु विशेषतः | षट्भागार्कांशमं भागैर्मिताः स्युर्गोपिताः शुभाः || तंत्रांतरे || या यातु मेखला पूर्वा सा सा भूमिरुदाहृदा || अत्र वाह्यमारभ्य पूर्वत्वं वोध्यं || क्रियासारे || प्रधान मेखलोत्सेध सूक्तमत्र नवांगुलं | तद्वाह्य मेखलोत्सेधं पंचागुलमिति स्मृतं || तद्वाह्य मेखलोत् सेधमंगुल द्वितयं क्रमात् | चतुस्त्रि द्व्यंगुला व्यासा मेखला त्रितयस्य तु || २७ब्) अत्रोच्चतोक्तिर्मूलभूमिमवधीकृत्य || लक्षणसंग्रहे || प्रथमा द्व्यंगुलायामा उन्नता सा नवांगुलैः | मध्यमा त्र्यंगुला वाह्य तृतीया तु यमांगुलैः || यत् तु सत्व पूर्वकांगुल विस्मृताः क्रमाद् द्वादशाष्ट चतुर्लंगुलोच्छ्रिता | सर्वतोंगुल चतुष्क विस्तृता मेखलाः सकलसिद्धिदामताः || इत्याचार्यैरुक्तं तत् फलविशेषपरं अतएव पथमा मेखला तत्र द्वादशांगुल विस्तृता || चतुर्भिरंगुलैस्तस्याश्चोन्नतिश्च समं ततः | तस्याश्चापरिवप्रःस्याच्चतुरंगुलसूत्रतः || अष्टाभिरंगुलैः सम्यक् विस्तीर्णास्तु समं ततः | अस्योपरि पुनः कार्यो वपुः सोपि तृतीयकः || चतुरंगुलविस्तीर्णश्चोत्तन्नतश्च तथा विध इति वसिष्ट संहितायामपि तथैव || यच्च व्यासे चतुर्विंशतिधा विभाजिते तिस्रश्चतुस्त्रीक्षण भागविस्तृताः || समं ततः कंठवहिस्तु मेखला नवर्तुरामांशकर्तुंगता मताः || विस्तार तुल्योन्नत यस्तु कैश्चिदुक्ता इमाः केन चिदर्कभागैः || आद्योच्चतोक्ता परयोस्तु नागवेदांशमाना विदधे क्रमेणेति वाजपेयिभिरुक्तं तत् तु प्रमाणाभावादुपेक्षणीयं || पंचमेखलपक्षे तन्मानमुक्तं लक्षण संग्रहे मेरुतंत्रेपि || मेखलाः पंच वै कार्याः षट् पंचाब्धि त्रिपक्षकैः || सिद्धांतसेषरेपि || षट्वाणाब्धि वह्निनेत्रमिताः स्यूः पंचमेखलाः || द्विमेखला पक्षे तंत्रांतरे || षष्टांशेनाष्टमांशेन मेखला द्वितयं मतं || एकमेखला पक्षे पिंगलामते || एकाषडंगुलात्सेध विस्तारा मेखला मताः || महाकपिल पंचरात्रेपि || सा चतुर्थ्यांश विस्तारा मेखलैकाथ वा स्मृता || प्रथमतंत्रेपि || कंठा गुणाद्वहिः कार्या मेखलैका षडंगुला || सिद्धांतशेषरेपि || कुण्डानां मेखलां कुर्यादेकां वै षड्भिरंगुलैः || किरणाख्य महातंत्रे || त्रिमेखलं भवेत् कुण्डे एकमेखलकंपि वा | २८अ) मुष्टिमात्रस्य कुण्डस्य मेखलायां पल द्वयात् || मेखला द्वितयं कार्यं अंगुलार्धांगुलं क्रमात् | रत्निमात्रस्य कुण्डस्य नेमिः स्यादंगुलैस्त्रिभिः || पूर्वानमि द्वयं चास्य द्व्यंगुलांगुलतः क्रमात् | हस्तमात्रस्य कुण्डस्य नेमिः स्याच्चतुरंगुला || अस्य नेमि द्वयं कार्यं त्र्यंगुलं द्व्यंगुलं क्रमात् | कुण्डस्य द्विकरस्यास्य पूर्वनेमिः षडाङ्गुला || अन्याङ्गुलि चतुष्केण तृतीयायांगुलैस्त्रिभिः | चतुर्हस्तस्य कुण्डस्य पूर्वनेम्यङ्गुलेष्टका || षड्भिरस्याङ्गुलैः कार्या चतुर्भिरपराङ्गुलैः | कर्तव्या मेखला पूर्व षड् हस्ता स्वदशांगुला || अंगुलैरष्टभिश्चान्या तृतीया षड्भिरङ्गुलैः | अष्टहस्तस्य या पूर्वा मेखला द्वादशांगुला || दशांगुला द्वितीया या तृतीयोष्टांगुला मता | कुण्डस्य यादृशं रूपं मेखला स्यात् तथा भवेत् || अथ मेखला फलं गौतमीये || सात्विकी मेखला पूर्वा द्वितीया राजसी स्मृता | तृतीया तामसी ज्ञेया इत्युक्तं कुण्डलक्षणं || अथ योनिः || शारदायां || हेतुरग्रे योनिरासामुपर्यश्वत्थ पत्रवत् || सोमशंभौ || तासामुपरि योनिः स्यान् मध्येऽश्वथ दलाकृतिः || गौतमीये || प्रथमे मेखले योनिं कुण्डोष्टीं होतुररग्रतः || मेरुतंत्रे || अश्वत्थदलसंकाशं योनिकुण्डमुदङ्मुखं || स्वायंभुवे || प्रागग्नि याम्य कुंडानां प्रोक्ता योनिरुदङ्मुखा | पूर्वामुखाः स्मृताः शेषा यथा शोभं व्यवस्थिता || मेरुतंत्रे || प्रागग्नी याम्य कुंडानां प्रोक्ता योनिरुदङ्मुखी || शेषाः पूर्वमुखा इति || त्रैलोक्यसारेपि || दक्षिणस्था पूर्वयाम्ये जलस्था पश्चिमोत्तरे | नवमस्थापि कुण्डस्य योनिर्दक्षदलस्थिता || स्वायंभुवे || मेखला मध्यतो योनिः कुंडार्धा त्र्यंश विस्तृता | अंगुष्टमानोष्ट कंठा कार्याश्वस्थ दलाकृतिः || मेरुतंत्रे || दैर्घ्यात् सूर्यांगुला योनिं त्र्यंशोना विस्तरेण तु | एकांगुलोच्छ्रिता सोतु प्रविष्टाभ्यंतरे तथा || सिद्धान्तसेषरेपि || दीर्घार्क पर्वभिर्योनिर्विस्तारेणाष्टकांगुला || उन्नतिर्व्यंगुले नास्याः || प्रयोगसारेपि || त्रिभागां मध्यतो योनि माया मे द्वादशाङ्गुलां | द्वादशांशोच्छ्रितां कुर्यात् किंचित् कुण्डनिवेशिनीं || एवं च || मुष्ट्य रत्नैक हस्तानां कुंडानां योनिरीरिता || २८ब्) शारदायां || षट्चतुर्द्व्यंगुला याम विस्तारोन्नति शालिनी || क्रियासारेपि || तत् षडंगुल माया संविस्तारं चतुरंगुलमिति वचन द्वयं चैक मेखल पक्षे इति राघवभट्टाः || वस्तुतः षट्चतुर्द्व्यंगुलेति समुच्चित मेवा यामादिष्वन्वेति || तदुक्तं पंचरात्रे || अर्कांगुलोच्छ्रयो योनिं विदध्यात्तावदायतां || अन्यत्रापि || उत्सेधायामततुल्या योनिः स्याद् द्वादशांगुला | इदं वसिष्ट संहिताद्युक्त स्थूल मेखला पक्षे || नारदीये तु || कुंड त्र्यंशेन विस्तारा योनिरुच्छ्रायातोंगुला || कुंडार्धेन तु दीर्घास्यादित्येकांगुलतोच्चता उक्ता || पिंगलामतेपि || विस्तारोष्टांगुलो योनेरुच्छ्रायोंगुलसंमितः | अष्टांगुलविस्तारत्वं चादिभागे संकुचितत्वात् || मेरुतंत्रे || एकांगुलोच्छ्रिता सा तु प्रविष्टाभ्यंतरे तथा | कुंभद्वये समायुक्ता चाश्वत्थ दलवन्मता || इति त्रैलोक्यसारेपि || वायवीय संहितायामपि || मेखला मध्यतः कुर्यात् पश्चिमे दक्षिणेपि वा | शोभनां मध्यतः किंचिन् निम्नामुन्मुलिकांशनैः || अग्रेण कुंडाभिमुखी किंचिदुत्सृष्टमेखलां || शारदायां || एकांगुलं तु योन्यग्रं कुर्यादीष दधोमुखं | अत्रैकांशेन विस्तारोन्नति शालिनी योन्युपरि परितो नेमिरपि कार्या || तदुक्तं रामवाजपेयिना || कुंडव्यासदलायताथवितता त्र्यंशेन तुंगा चतुर्विंशांशेन च तावता परिधिना योनिः समंताद्युता || तावन्मान निजाग्रकेणविशती कुंडांतरेंतर्विलासाधो वृत्तदल द्वयेन रुचिरावाश्वत्थ पत्रा कृतिरित्यन्तर्विलेति यथास्रूचि घृतधारणार्थं विलमेवं विलवतीत्यर्थः || अधो वृत्तेति मूलभागे कुम्भाकार वृत्तार्ध द्वय युतेत्यर्थः || मेरुतंत्रे || योनिकुण्डे योनिं च वर्जयेत् || गौतमीये || एकांगुलन्तु योन्यग्रं कुर्यादीषदधो मुखं | एकैकाङ्गुलितो योनिं कुण्डेष्वेन्येषु वर्धयेत् || यवद्वय प्रमाणेन योन्यग्रामपि वर्धयेत् | मुष्ट्यरत्नैककुण्डानां क्रमात् षट् चतुर्द्व्यंगुलायामविस्ताराद्य वध्येयं || अथनालं || शारदायां || २९अ) स्थलादारभ्यनालं स्याद्योन्या मध्ये स रंध्रके || पंचरात्रेपि || स्थलादारभ्यनालं स्याद् वाह्यमेखलया समं || गौतमीये || स्थलादारभ्यनालं स्यात् सरन्ध्रं योनिमध्यतः || सूक्ष्माग्रं स्थूलमूलं च सरन्ध्रं नालमिष्यते | योन्या मध्ये विलं कुर्यात् तदाह्य ग्राहि संज्ञकं || मध्यतो मध्यपर्यन्तमित्यर्थः || मेरुतंत्रे || तावद्दीर्घं तथोच्चं च नालं तन्मध्यतो नयेत् | तावदिति मेखला समानं || प्रयोगसारे तु || योन्याः पश्चिमतो नाल माया मे चतुरंगुलं | त्रिद्वेकांगुलविस्तारं क्रमा न्यूनायमिष्यत इत्युक्तं || चतुरंगुलोत्सेध विस्तारा वाह्ये मेखला संलग्ना चतुरश्र नालमूलवेदिः कार्येति संप्रदायः || अथनाभिलक्षणं || शारदायां || कुंडानां कल्पयेदन्तन्नाभिमंवुजसंनिभं | तत्कुंडानु रूपं वा मानमस्य निगद्यते || मुष्ट्यरत्र्यैक हस्तानां नाभिरुत्सेधता मतः | नेत्रवेदांगुलोपेता कुण्डेष्वन्येषु वर्धयेत् || यवद्वय क्रमेणैव नाभिं पृथगुदारधीः | कुण्डार्कांशस्तुं गतायां द्विनिघ्नः सव्यासस्याद्धीमता कल्पनीयः || शारदायां त्वल्यांतर त्वात् स्थूल हृष्ट्योक्तं || किरणाख्यतंत्रे || कुण्डमध्यगतानाभिः कर्तव्या मेखलानुगा | अश्वत्थ पत्रवत् कार्या विस्तारोष्टांगुला मताः || द्वादशांगुल दीर्घा तु तदष्टांगुल विस्तृता | शेषानां अंगुला वृद्धिर्विस्तारायामतो हिता || शारदायां || अज्वकुण्डे नाभि वर्जयेत् || यथा || नित्यनैमित्तिकं होमं स्थंडिले वा समाचरेत् | अंगुष्ठोत्सेधसंयुक्तं चतुरस्रं समं ततः || चन्द्रपीठे तु || त्रिरस्रं चतुरस्रं च वितस्त्युच्छ्रायसंमितं | सिकत्याद्यैर्विधातव्यं स्थंडिलं हस्तमातकं || द्विरंगुलोच्छ्रितो वप्रः प्रथमः परिकीर्तितः | द्व्यंगुलोच्छ्रायसंयुक्तां वप्रभूमिमथोपरि || द्व्यंगुलस्तत्रविस्तारः सर्वेषां कथितो वुधैः | होमाधिक्ये तत्रैव || सार्धा द्विगुणिता वापि करणी स्थंडिलं तयेत्युक्तं || अथ श्रुग्लक्षणं || शारदायां || प्रकल्पयेत् स्रुवं योगे वक्ष्यमाणे न वर्त्मना | श्रीपर्णीशिंशपाक्षीरस्याखिष्वेकतमं गुरुः || २९ब्) गृहीत्वा विभजेद्धस्तमात्रं षट्त्रिंशता पुनः | विंशत्यंशैर्भवेद् दंडो वेदिस्तैरष्टभिर्भवेत् || एकांशेनमितः कण्ठः सप्तभागमितं मुखं | वेदी त्र्यंशेन विस्तारः कण्ठस्य परिकीर्तितः || अत्र कण्ठसमानं स्यात् मुखे मार्गं प्रकल्पयेत् | कनिष्टांगुलिमानेन सर्पिषो निर्गमाय च || वेदिमध्ये विधातव्या भागेनैकेन कर्णिका | विदधीत वहिस्तस्या एकांशेनाभितोऽवटं || तस्य खातं त्रिभिर्भागैर्वृत्तमर्धांशतो वहिः | अंशेनैकेन परितो दलानि परिकल्पयेत् || मेखलामुखवेद्योः स्यान्नेमिरर्धांशमानतः | दंडमूलाग्रयोः कुंभौ गुणवेदांगुलैः क्रमात् || दंडीयुगं यमांशैः स्याद् दंडस्यानाह ईरितः | षद्भिरंशैः पृष्टभागो वेद्याः कूर्मा कृतिर्भवेत् || हंसस्य हस्तिनो वापि पात्रिणो वालिखेन्मुखं | मुखस्य पृष्ठभागे तु संप्रोक्तं लक्षणं स्रुचः || श्रीपर्णीगंभारीक्षीरशाखिनः अश्वत्थाडुम्वरवटप्लक्षाः || फेत्कारिणीतंत्रे || कारस्करेणामलकी पलाशखदिरैरपि | सूवर्णरूप्य ताम्रैर्वा अयोभिरपि कारयेत् || वायवीयसंहितायां || स्रूक्स्रूवौ तैजसौ ग्राह्यौ न कांस्याय ससीसकौ | यज्ञादारुमयो वापि तांत्रिकौ शिल्पिसंमतौ || पर्णे वा ब्रह्मवृक्षादेरछिद्रे मध्य उच्छ्रिते | अत्रायसे विधि निषेधौ क्रूरसौम्य कर्म विषयौ || तदुक्तं तत्रांतरे || सौवर्णौ स्रूक्स्रूवौ स्यातां सौम्यकर्मणि सर्वतः | भवेतामायसावेतौ स्तंभनादिषु कर्मसु || अन्यत्रापि || तदलाभे पलाशस्य पर्णाभ्यां हूयते हविः || वसिष्टसंहितामपि || पलाशपत्रे निश्छिद्रे रुचिरे स्रूक्स्रूवौ मतौ | विदध्याद्वाश्वत्थपत्रे संक्षिप्ते होमकर्मणि || हस्तमात्रमिति वाहुमात्रमित्यर्था || स्रूवं वाहू प्रमाणेन होमार्थं विदधीत वै || इत्यगस्ति संहिता वचणात् || षट्त्रिंशदंगुला स्रुक् स्यादिति फेत्कारिणी वचनाच्च || वेदी त्र्यंशेन वैदी तृतीयभागेन नत्वंशत्रयेण वै दीपदवैयर्थ्यापत्तेः || अत्र दलानां खननं नास्ति प्रमाणाभावात् || मूलाग्रयोः कारयेद् द्वौ कुंभौ चाति मनोहराविति मंत्रमुक्तावली वचनात् || श्रुचमधि कृत्यैव मंत्रमुक्तावल्यां || ३०अ) कंठाधः कारयेन्मार्गं विद्वानाज्यस्य निर्गमे | वेधं च मुखतः कुर्यात् तप्तलोहशलाकया || वसिष्ठसंहितायां || शुषिरं कंठदेशे स्याद् विशेद्याच्च कनीयसी || अथ श्रुवलक्षणं || शारदायां || श्रुवश्चतुर्विंशतिभिर्भागैरारचयेत् स्रुवं | द्वाविंशत्या दण्डमानमंशैरेतस्य कीर्तितं || चतुर्भिरंशैरानाहः कर्षाज्यग्राहित स्थितः | अंश द्वयेन निखनेत्यंके मृग पदा कृतिः || दण्डमूलाग्रयोर्गंडि भवेत् कंकणभूषिता || स्रुवस्य विधिराष्यात इति || अथ दीक्षाविधिः || मेरुतंत्रे || श्रीदेव्युवाच || वाममार्गे कथं दीक्षा दक्षीणे च कथं भवेत् | किं तत्रावश्यकं केषामिति मे निर्णयं वद || श्री ईश्वर उवाच || शृणु देवी प्रवक्ष्यामि सर्वतंत्रेषु गोपितं | दीक्षाविधिं पंचविधं तद्राज्ञामुत्तमोत्तमं || उत्तमं महदाढ्यानां सामान्यानां तु मध्यमं | ब्राह्मणा नामल्यमुक्तं यतीनामति चाल्यकं || तस्मादादौ प्रवक्ष्यामि तुभ्यं यच्चोतमोत्तमं | यस्मिंनाति चोत्तमादि भेदानां विषया भवेत् || तत्रादौ मण्डपं कुर्यादुत्तमोत्तम कर्मणि || मण्डप लक्षणमुक्तं || सारदायां || चतुर्विधा सासंदिष्टा क्रियावत्यादि भेदतः | क्रियावती वर्णमयी कलात्मावेधमप्यपि || ताः क्रमे नैव कथ्यंते तंत्रेस्मिन् संपदा वहाः | देशिको विधिवत् स्नात्वा कृत्वा यौर्वाह्निकीः क्रियाः || यायादलं कृतो मौनी यागार्थं यागमंडपं || मेरुतंत्रे || दीक्षादिनात् पूर्वदिने प्रातः कृत्यं निवर्त्य च | समलंकृत्य देहं स्वं स्वगृहे पूजनं चरेत् || गणेशस्य विधानेन पुण्याहं वाचयेत् ततः | नांदी मुखांस्तर्पयित्वा पंचवाद्य पुरःसरं || यथोक्त कृत संभारो गच्छेद् गुरु गृहं प्रति || गौतमीये || शिष्यः स्नानः सुवेशश्च सर्वद्रव्यसमन्वितः | आचार्यं वृणुयाद् भक्त्या वस्त्रालंकारभूषणैः || कूर्यान्नांदीमुखं श्राद्धं ब्राह्मणान् परितोषयेत् | गोभूहिरण्य वस्त्राद्यैस्तोषयेद्गुरुमात्मनः || ३०अ) यथा ददाति संतुष्टः प्रसन्नो वरदो मनुं || तथा || ऋत्विजं वृणुयात् तत्र दशपंच द्वयं तथा || यामले || तत आचमनं कृत्वा शिष्योपि विजितेन्द्रियः | आजन्म पापनाशार्थमुत्सृजेत् तिलकांचनं || मेरुतंत्रे || आचार्य ऋत्विग्वरणं संभारो दशधा मतः | श्रीपर्णी वृक्षपीठानि हस्तमानानि मानतः || अष्टांगुलसमुच्छ्राय सहितानि समानि च | सप्तविंशति दर्भाणां वेण्यग्रे ग्रंथभूषिताः || विष्टराः सर्वयज्ञेषु लक्षणं परिकीर्तितं | सीतोष्णोदक संभूताः पाद्यार्थे ताम्र गंडूकाः || शंखा अर्घ्यप्रदानाय गंधपुष्प जलान्विताः | सुताम्रस्यकमं उल्व आचम्योदकपूरिताः || ते युता मधुपर्कार्थं कांस्या दध्यादि पूरिताः | महदर्घ्याणि वस्त्राणि मुद्रिकाद्यं सुभूषणं || मयूरपत्र छत्राणि चोष्णीषाणि समाहरेत् | पादुकाश्चाहरेत् तत्र चर्माभरणभूषिताः || कृत्वै तत्फलमाप्नोति महायज्ञार्हणोपमं | अन्येभ्यो मधुपर्कस्य विप्रेभ्यः पूजनं स्मृतं || भक्त्या तद्विगुणं दद्यादाचार्याय सुभक्तिमान् | अन्यैर्द्विजैः समं यत्र देशिकस्य प्रपूजनं || तस्मिन् यज्ञे फलं स्वल्प मनः वृष्टौ यथाक्षितेः | एवं गुरु गृहं गत्वा प्रणम्य गुरुपादुकां || दत्वा वरणसामग्रीं संकल्प्य वृणुयाद्गुरुं | उच्चार्यामुक मंत्रस्य ग्रहणाय द्विजोत्तम || गुरुत्वेनेति संभाष्य त्वामहं च ततो वृणे | इत्युक्त्वा वृणुयाच्छिष्यो वृतोस्मीति ततो गुरुः || यथोचितं गुरोः कर्म कुरुष्वेति वदेछिशुः | करवाणीति चोच्चार्य गुरोरेवाह्वया ततः || ब्राह्मणान् वृणुयाद् दष्टौ वेदवेदांग पारगान् | तद्देवतोपाशकांश्च ऋत्वित्केनाथ वा यदा || चत्वारि कुंडानि तदा चत्वारो ऋत्विजः स्मृताः | ततः शिष्येण सहितो यायाद्याग गृहं गुरुः || उपविश्य च तद्वारे परीक्षामारभेत् ततः || प्रशस्तोयं विधिः || शारदायां || गुरुमुपक्रम्य || आचम्य विधिना तत्र सामान्यार्घं विधाय च | द्वारमस्त्रांवुभिः प्रोक्ष्य द्वारपूजां समाचरेत् || स्नानसंध्या तर्पण द्वारपूजादिकं नित्यार्चन पटले वक्ष्यते || ३१अ) तथा || किंचित् स्पृशन् वामशाखां देहलीं लंघयेद् गुरुः | अंगं संकोचयंन्नंतः प्रविशेद् दक्षिणां घृणाः || मेरुतंत्रे || अंगं संकोच्य किंचित् तु शीखां वामगतां स्पृशन् | उत्सारितानां विघ्नानां ददन्वर्त्म तु दक्षिणे || पादेन दक्षिणे नाथ प्रविशेद् यागमंडपं | वाममार्गेऽथ वा शाक्ते वामपाद पुरःसरं || शारदायां || नैर्-ऋत्यां चैव वास्त्वीशं ब्रह्माणं च समर्चयेत् | पंचगव्यार्घतोयाभ्यां प्रोक्षयेद् यागमंडपं || मेरुतंत्रे || ब्रह्माणं वास्त्वधीशं च नै-ऋत्यां दिशि पूजयेत् | अर्घ्यांवुना च गव्येन यागस्थाने सुसिंचिते || शारदायां || चतुःपथांतां तच्छुद्धिं विदध्याद्वीचक्षणादिभिः | वीक्षणं मूलमंत्रेण स्मरेण प्रोक्षणं मतं || तेनैव ताडनं कुर्याद् वर्मणाभ्युक्षणं मतं | चंदनागुरुकर्पूरैर्धूपयेदंतरं सुधीः || विकीरान्विकिरेत् तत्र सप्तजप्तान् शराणुना | लालचंदन सिद्धार्थ भस्मदुर्वांकुराक्षताः || विकिरा इति संदिष्टाः सर्वविघ्नौघनाशकाः | अस्त्र जप्तेन दर्भानां मुष्टिनामार्जयेच्चतान् || ईशस्य दिशि वर्द्धन्या आसनाय प्रकल्पयेत् || मेरुतंत्रे || वीक्षणाद्यै ततः शुद्धिं चतुर्द्वारां समाचरेत् | संवीक्ष्य मूलमनुना ह्यस्त्रेण प्रोक्षयेत् ततः || कुर्यात् ताडनमस्त्रेण कवचेनाव सेचयेत् | श्रीखण्डा गुरुचंद्रैश्च धूपितेस्त्रेण सप्तधा || जप्तां चंदन सिद्धार्थ दूर्वाभस्माक्षतान् कुशान् | सलाजान्विकिरेन्मंत्री प्रत्युहघ्नाह्नि मंडपे || मार्जये दण्ड मंत्रेण तान्मंत्री दर्भमुष्टिना | आसनाय तु वर्धन्ये इशाने स्थापयेच्चतान् || पुण्याहं वाचयित्वाथ विप्रान् संतोष्य यत्नतः || सोमसंभौ तु || विकिरान् शुद्ध लाजान् वा सप्तशास्त्राभि मंत्रितान् | अस्त्रांवु प्रोक्षिता मेतान् कवचेनावगुंठितान् || नाना प्रहरणा कारान् विघ्नौघ विनिवारकान् | दर्भाणां तालमानेन कृताः षट्त्रिंशतादलैः || सप्तजप्तांशि चास्त्रेण मुष्टिं वोधयसत्तमेत्युक्तं || शारदायां || ३१ब्) पुन्याहं वाचयित्वा च ब्राह्मणान् परितोष्य च | उक्तेषु मंडपेष्वेकं वेदिकायां समालिखेत् || मंडलं सर्वतो भद्रादि || अत्र मंडप प्रवेशात् प्राक् द्वारे स्थित्वा परीक्ष्यां कुर्यादित्युक्तं मेरौ तस्मात् तलिष्यते || मेरुतंत्रे || उपविश्य च तद्वारे परीक्षा मारभेत् ततः | शिष्याय मूलसंजप्तं प्रदद्याद् दंतधावनं || दन्तान् विशोध्य पुरतः स्थंडिले हस्तमात्रके | चतुरस्रे त्याजयतपरीक्षेत ततो गुरुः || तदग्रं यद्दिशासंस्थं तंत्रेदं पूर्वतः फलं | भूतिर्हृदय संतापो वंधुनाशस्तथा स्मृतिः || शोकश्च व्यग्रता सौख्यं ज्ञानलाभः क्रमात् फलं | अमंगलस्थान पाते प्रायश्चित्तं समाचरेत् || अष्टाधिकं सहस्रं वा शतविंशति देवतां | अस्त्र संपुटिते नैषां नाम्ना स्वाहान्वितेन च || दोषा अस्य तहीत्येवं पदं नामा वसानगं | केवलाज्येन जुहुयाद्दुःस्वप्नेष्वेव मेव हि || दंतकाष्टं पुनर्देयं पुनर्दुष्टे चतुर्गुणं | तृतीयमपि दुष्टं चेन्न ग्राह्या सा तु देवता || वाममार्गे सकृदपि गुरुशिष्यौ विनाशयेत् || इति परिक्ष्य प्रवेशयेत् || भावुकोयं विधिः तत्सामग्रीणां व्यर्थतापत्य भावात् | अथ संप्रदाय सिद्धोपि विधिरत्र प्रकथ्यते || तत्र सर्वतो भद्र मंडलं यथा || शारदायां || चतुरस्रे चतुःकोष्टे कर्णसूत्रसमन्विते | चतुर्ष्वपि च कोष्ठेषु कोणे सूत्र चतुष्टयं || मध्ये मध्ये यथा मत्स्या भवेयुः पातयेत् तथा | पूर्वापरायते द्वे द्वे मंत्रीयाम्योत्तरायते || पातयेत् तेषु मत्स्येषु समंसूत्र चतुष्टयं | पूर्ववत् कोणकोष्टेषु कर्णसूत्राणि पातयेत् || यावच्छतद्वयं मंत्री षट्पंचाशत् पदान्यपि | तावत् ते नैव विधिना तत्र सूत्राणि पातयेत् || षट्त्रिंशता पदैर्मध्ये लिखेत् पद्मं स लक्षणं | वहिः पंक्त्या भवेत् पीठं पंक्ति युग्मेन वीथीकाः || द्वारशोभाय शोभाख्यान् शिष्टाभ्यां परिकल्पयेत् | शास्त्रोक्त विधिना मंत्री ततः पद्मं समालिखेत् || पद्मक्षेत्रस्य संत्यज्य द्वादशांगं वहिः सुधीः | तन्मध्यं विभजेद्वृत्तै स्त्रिभिः समविभागतः || आद्यं स्यात् कर्णिका स्थानं केशराणां द्वितीयकं | ३२अ) तृतीयं तत्र पत्राणां मुक्तांशेन दलाग्रकं || वाह्यवृत्तांतरालस्य मानं यद्विधिना सुधीः | निधाय केसराग्रेषु परितोर्धनिसौ करान् || लिखित्वा संधि संस्थानि तत्र सूत्राणि पातयेत् | दलाग्राणां च यन्मानं तन्मानं वृत्तमालिखेत् || तदंतराले तन्मध्ये सूत्रस्यो भयतः सुधी | आलिखेद् वाह्यहस्तेन दलाग्राणि समं ततः || युग्मशो दलमूलेषु केसराणि प्रकल्पयेत् | एतत् साधारणं प्रोक्तं पंकजं तंत्र वेदिभि || पदानि त्रीणि पादार्थं पीठकोणेषु मार्जयेत् | अवशिष्टैः पदैर्विद्वान् पीठगात्राणि कल्पयेत् || यदानि वीथि संस्थानि मार्जयेत् पंक्त्य भेदतः | दिक्षुद्वाराणि रचयेद् द्विंचतुःकोष्टकैस्ततः || पदैस्त्रिभिरथैकेन शोभाः स्युर्द्वार पार्श्वयोः | उपशोभाः स्युरेकेन त्रिभिः कोष्ठैरनंतरं || अवशिष्टैः पदैः षड्भिः कोणानां स्याच्चतुष्टयं | रंजयेत् पंचभिर्वर्णै मंडलं तन्मनोहरं || पीतं हरिद्रा चूर्णं स्यात् सिंतं तंडुलसंभवं | कुसुंभचूर्णमरुणं कृष्णं दग्धपुलाकजं || विल्वादि पत्रजं श्याममित्युक्तं पंचवर्णकं || अथ मेरुतंत्रोक्त सर्वतो भद्रचक्रं || वेदिकायां लिखेत् पश्चात् सर्वतो भद्रमण्डलं | शृणु तस्य विधिं श्रोते स्यार्त यद्भद्रमुच्यते || धृतिवर्ग समाकार्याः कोष्ठकाश्चतुरस्रके | खडेंदु त्रिषट्कोणे श्वेतवर्णेन पूरयेत् || कोणस्थै पंचभिः कोष्ठैः शृंखला कृष्णवर्णिका | शृंखलो भयतो नीला वल्लीशकलकोष्ठका || शृंखलो भयतो भद्रमरुणं नवभिः पदैः | वापी जिनपदाश्वेता पीतांतः परिधीर्भवेत् || मध्ये षोडशभिः पद्मं रुचिरं वेष्टयेद् वहिः | श्वेतारुणासितैरेवं सर्वतो भद्रमण्डलं || अथ तांत्रिकाणां सर्वतो भद्रमण्डलं || मेरुतंत्रे || अथान्यत् संप्रवक्ष्यामि कुर्यात् तांत्रिक कर्मणि | नृपवर्गसमाः कार्याः कोष्ठकाश्चतुरस्रके || मध्ये षड्वर्गकोष्ठानि मार्जयेत् तत्र संलिखेत् | आयाम द्वादशांशं च वहिस्त्यक्त्वाथ मध्यतः || ततो वृत्तत्रयं मध्ये समं कुर्याद् यथा विधिः | ३२ब्) कर्णिका मध्य वृत्तेन द्वितीयेन तु केसरान् || अंतवृत्तेन पत्राणि पत्रांगं त्यक्तभागतः | किंजल्काग्रेषु संस्थाप्याः पार्श्वतस्त्वर्ध चंद्रकाः || तदग्रे तु त्रिभिः कोष्ठैः पादान् कोणेषु विन्यसेत् | शेषाणि पीठगात्राणि परतः षड्भि युग्मकं || वीथिं कुर्यान् मार्जयित्वा चतुर्दिक्षु च मध्यतः | क्रमाद्वाभ्यां चतुर्भिश्च कोष्टैद्वारचतुष्टये || कोष्ठत्रयेनेचैकेन प्रत्येकं द्वरपार्श्वयोः | शोभाभवंत्यतः कोष्ठैरेकतस्त्रिभिरेव च || उपशोभास्ततः कोष्ठैः षड्भिः कोर्णनि कल्पयेत् | शुक्लन्तंडूलचूर्णं स्याद्दुत्सेधायामतस्तथा || अंगुलेन समाकार्याः सीमारेखा दलानि च | पीठगात्राणि च द्वारश्चतुष्कं तेन पूरयेत् || अविप्रेपूरणीयानि रक्ते नैव दलान्यपि | कुसुंभचूर्णमारक्तं पूरणीयास्तु तेन तु || द्वारशोभाः पीठपादाः सर्ववर्णैर्विनिश्चयात् | पीतं हरिद्रा चूर्णं स्यात् पीठगर्भं च कर्णिकां || उपशोभाश्च विप्रान्यः पीठगर्भं च कृष्णतः | विल्वपत्रस्य चूर्णोत्थो हरितस्तेन पूरयेत् || संधींश्च कल्पवल्लींश्च पीतरक्तेन केसरान् | वीथी चतुष्क मध्ये तु कल्पवल्लीः प्रपूरयेत् || पत्रमूल फलाकार मण्डिता हृदयंगमाः | नानावर्णरजोभिस्तारं जयेत् कुशली गुरुः || कृष्णवर्णेन कोणानि वहिरेखा त्रयं ततः | शुक्लारुणाख्य कृष्णैस्तु रजोभि भूषये क्रमात् || सर्वतंत्रेष्विदं प्रोक्तं सर्वतो भद्रमण्डलं | अत्र च देवयोन्यादीनां सर्वतो भद्रमण्डलं प्रयोजना भावादुपेक्षितं || अथ तंत्रांतरानुसारेण वर्णभेदमाह || तथा दोषारजः क्षारसंयुक्तं रक्तमुच्यत इति || श्यामांतरमुक्तं प्रयोगसारे || श्यामं श्यामच्छदोद्भूतं रजः प्रोक्तं सुकर्मस्विति || तंत्रांतरेषु विशेषः || शक्तस्तु वाच्छेद्यदि सिद्धिमुग्रां तद्वर्ण रत्नैरिहमंडलानि || आभूषयेन्मौक्तिक पुष्परागमानिक्य नीलैहीरेतैश्च रत्नैः || महाकपिल पंचरात्रे त्वस्यावश्यकतोक्ता | पीतंक्षितिस्तु विज्ञेया शुक्लमाद्यः? प्रकीर्तिताः || तेजो वै रक्तवर्णा स्यात् श्याम वायुः प्रकीर्तिताः | ३३अ) आकाशं कृष्णवर्णं तु पंचमं तु महामुने || सितेऽधिदेवता रुद्रो रक्ते ब्रह्मादि देवता | पीतेऽधिदेवता विष्णुः कृष्णे चैवाच्युतः स्मृतः || श्यामेऽधिदेवता नागः समाख्यातो मयानघ | शुक्लं ग्रहापदं हंति रक्तं क्रूरगणोद्भवां || कृष्णं सर्वासुरोत्साहं नीलं वैनायिकीन्तथा | पैशाचीं राक्षसीं चैव निहंति हरितं रजः || तस्माद्धोमेऽभिषेके च यागे चैव विशेषतः | वर्तयेन्मण्डलं तस्तु देव संतुष्टिकारकं || सारदायां || अंगुलोत्सेध विस्ताराः सीमारेखाः सिताः शुभाः | कर्णिकां पीतवर्णेन केसराण्य रुणेन च || शुभ्रवर्णेन पत्राणि तत्संधीन् श्यामलेन च | रजसारंजयेन्मंत्री यद्वा पीतैव कर्णिका || केसराः पीतरक्ताः स्यूररूणानि दलान्यपि | संधयः कृष्णवर्णाः स्यूपीतनाथसितेन वा || रंजयेत् पीठगर्भाणि पदाः स्यूररूण प्रभाः | गात्राणि तस्य शुक्लानि वीथीषु चतसृष्वपि || आलिखेत् कल्पलतिका दलपुष्पसमन्विताः | वर्णैर्नानाविधैश्चिताः सर्वदृष्टि मनोहराः || गौतमीये तु || तद्वही रुचिरान् कुर्याच्चतुरः कल्पशाखिमः | ललितान्रूढ कुसुमान् फलपल्लवशालिनः || जलजैः स्थूलजैश्चापि सुमनोभिः समन्वितान् | हंससारसकारंडसूकभ्रमरकोकिलैः || मयूरचक्र वाकाद्यैरारूढवितपांतरानित्युक्तं || शारदायां || द्वाराणि रक्तवर्णाणि सोभारक्ताः समीरिताः | उपशोभाः पीतवर्णाः कोणान्यसितभासि च || तिस्रो रेखा वहिः कुर्यात् सितरक्तासिताः क्रमात् | मंडलं सर्वतो भद्र मेतत्साधारणं स्मृतं || वसिष्ट संहितायां तु विशेषतः || पीतं पूर्वं सितं देयं पश्चिमेप्युत्तरे तथा | रक्तं तु दक्षिणे कृष्णं पातलं वह्नि संस्थितं || नै-ऋत्ये नीलवर्णन्तु वायव्ये धूम्रवर्णकं | ईशे गौरं विनिर्दिष्टमष्टपत्रेष्वयं क्रमः || तत आसन उपविश्य भूतशुद्धि मातृकान्यास विशेषन्यासांतर्यजनार्घ ३३ब्) स्थापनादि विधाय सर्वतो भद्रमंडल कमलोपरि आधार शक्त्यादि पीठमंत्रपर्यंतं संपूज्य कलश स्थापनं कुर्यादिति सकल तंत्र क्रमः || शारदायां || हेमादि रचितं कुंभमंत्राद्भिः क्षालितांतरं | चंदनागुरुकर्पूरधूपितं शोभनाकृतिं || आवेष्टितांगं नीरंध्रंतंतुना त्रिगुणात्मना | अंचितं गंधपुष्पाद्यैः कुर्चाक्षत समन्वितं || नवरत्नोदरं मंत्री स्थापयेत् तारमुच्चरन् || मेरुतंत्रे || स्वर्णादि रचितं तत्र कलशं छिद्रवर्जितं | त्रिगुणात्मक सूत्रेण वेष्टितं सर्वतो वहिः || चन्दनागुरुकर्पूरैर्मध्ये सम्यक् च धूपितं | ध्रूवं जप विधानेन स्थापये देशिकोत्तमः || नवरत्नानि निक्षिप्य कुंभकूर्चमथोपरि | दुर्वाचन्दनसंयुक्तं विन्यसेदक्षतान्वितं || नवरत्नानि तत्रैव || पुष्पं नीलं च वैडुर्यं विद्रुमं मौक्तिकं तथा | ततो नरकतं वज्रं गोमेदं पद्मरागकं || तंत्रराजे || सप्तविंशति दर्भाणां वेण्याग्रंठि विभूषितं | वेष्टयेत् सर्वयज्ञेषु तत्कूर्चं परिकीर्तितं || मेरुतंत्रे || छिन्नमूलाः कुशादीर्घाः सप्तविंशति संष्यकः | ब्रह्मग्रंथियुतास्त्वग्र देशे कूर्च इहोच्यते || सारदायां || ऐक्यं संकल्प्य कुंभस्य पीठस्य च विधानवित् | क्षीरद्रुमकषायेन पलाशत्वग्भवेन वा || तीर्थोदकैर्वा कर्पूरगंधपुष्पसुवासितैः | आत्मा भेदेन विधिवन् मातृकां प्रतिलोमतः || जपेन्मूलमनुं तद्वत् पूरयेद् देवताधिया | शंखक्वाथांवु संपूर्णा गंधोष्टकमधीष्टकं || विलोक्य पूजयेत् तस्मिन् || मेरुतंत्रे || क्षाद्यंतं क्रमतो मंत्र मातृकामंत्रमाजपन् | मूलमंत्रं जपन्नंते चिन्तयन् नैक्यमात्मनः || घटस्य पीठभेदं च चिंतयेत् साधकोत्तमः | पंचासदौषधीक्वाथैः पूरयेत् तदनंतरं || ओषध्यो यथा तत्रैव || एकेन सहितास्ताश्च वर्णौषध्यश्चता इमाः | चंदनं चापि रक्ताख्यं चंदनंश्चापिग्रस्तथा || कर्पूरो क्षीरकुष्ठानि वालकं चापि केशरं | कंकोलकं जातिफलं जटामांसीमुरा तथा || ग्रंथिकं रोचना जाति पत्रं पिप्पल विल्वकौ | ३४अ) पृष्टिपर्णी चित्रकं च लवंगकतृणं तथा || कदूफलं चापि गुंजास्यादुदंवरककाश्मरी | पद्मकाष्ठं शंखपुष्पी मयूरस्य शिखा तथा || प्लक्षोग्नी मंथश्च तथा मुद्गपर्णी कुशाः पुनः | पाषाणु भेदकः कृष्णशंखपुष्पी च रोहिणं || स्योनाको वृहती चैव पाटली मुख कर्णिका | तुलसी शिखरी इन्द्रवल्ली भृंगीभिधो नृपः || ततोपराजिता तालमूली चापि कृतांजली | दूर्वा श्रीदेविकंन्याख्या भागथो भद्रमुष्टकं || लवंगरहिताश्चैता पंचासत् संख्यका इति || अथ च || तत्रैव || दुग्धवृक्षत्वचाक्वाथैर्ब्रह्मभूरुकृ?गुद्भवैः | गंधपंकप्रसूतादि वासितैर्वा शुभैर्जलैः || क्वाथादितोयैरापूर्य शंखं तस्मिं विलोडयेत् || शारदायां || आवाह्य सकलाः कलाः || दशवह्नेः कलाः पूर्वं द्वादशद्वादशात्मनः | षोडशापि च सोमस्य पश्चात् पंचाशतं कलाः || जपित्वा प्रतिलोमेन मूलमंत्रं च मंत्रवित् | समाहितेन मनसा ध्यायेन् मंत्रस्य देवतां || प्राणप्रतिष्ठां कुर्वीत तत्र तंत्र विचक्षणः | कलात्मकं शंखसंस्थं क्वाथं कुंभे च निःक्षिपेत् || मेरुतंत्रे || हंसः शुषिषडित्पाद्यां ऋचं संजप्य पूजयेत् | प्राणसंस्थापनं कृत्वा कलानां पूजयेच्चताः || शारदायां गन्धाष्टकमाह || चंदना गुरुकर्पूरचोरकुंकुमरोचनाः | जटामांसी कपि युता शक्ते गन्धाष्टकं विदुः || मेरुतंत्रे || चंदनागुरुकर्पूरचोरकुंकुमरोचना | जटामांस्यथ कस्तूरी शक्तेर्गंधाष्टकं विदुः || इति || स्वर्णादीति आदि पदाद्रौप्यादिः चोरो भेद उर इति प्रसिद्धः || कपिर्गेठि मन इति प्रसिद्धः || महाकपिलपंचरात्रे || सौवर्णं कलशं रंम्यं रौप्यं ताम्रमथापि वा | निर्दोषं मृण्मयं चापि चंदनेन विलेपितमिति || कलशपरिमानं तु मंत्रराजे || पंचाशदंगुलाव्यास उत्सेधः षोडशांगुलाः | कलशानां प्रमानं तु मुखमष्टांगुलं भवेदिति || वायवीय संहितामपि || ३४ब्) सौवर्णं राजतं वापि ताम्रं मृण्मयमेव वा | गंधपुष्पाक्षताकीर्णं कूशदूर्वांकुरार्चितं || * * *? त्रान्वितं कंठे नववस्त्रयुगावृतं || तंत्रांतरे सूत्रे विशेषः || कन्याकर्तिकसूत्रेण त्रिगुणेन च वर्मणा | गुणत्रयात्मके नैव वेष्टयेदभितः सममिति || मेरुतंत्रे || तत अश्वत्थपनस चूतान्यं पल्लवान् दृढं | वंधयेदिंदु वारुण्या लतयास्ये घटस्य तु || कल्पवृक्षधिपातं च भावयेत् कलशोपरि | पात्रं तंदुलसंपूर्णं नारिकेर फलान्वितं || कल्पवृक्षफलं ह्येतत् स्थापयेदनयाधिपा | पट्टवस्त्रयुगेनापि घटं संवेष्टयेत् ततः || शारदायां || पश्चादश्वत्थपनस चूतकोमलपल्लवैः | इन्द्रवल्ली समावद्धैः सरद्रुमधिया गुरुः || कुंभवक्त्रं विधायास्मिंश्चषकं स फलाक्षतं | संस्थापयेत् फलधिया विधिवत् कल्पशाखिनां || ततः कुंभं निर्मलेन क्षौमयुग्मेन वेष्टयेत् | मूलेन मूर्तिमिष्ट्वास्मिन् शाखायां कल्पशाखिनां || आवाह्य पूजयेत् तस्यां मंत्रीमंत्रस्य देवतां || तथा || अंगानि लोकपालांतंययेदा वरणान्यपि || मेरुतंत्रे || एतत् प्रधान कुंभस्य स्थापनं परिकीर्तितं | अथ पूर्वादि काष्ठासु तोरणानां समीपतः || यथेच्छया मंडलानि कुर्याद्वाष्ट दलानि च | तदूर्धशालिपुंजं तु प्रतिद्वारं समाचरेत् || तदूर्धं पूर्णकलशं तत्र चेतान् प्रपूजयेत् | प्राग्ध्रूवं च धरां दक्षे पश्चाद्वाक्यतिमुत्तरे || विघ्नेशमथ चाग्नेयादिषु कुंभान् सुविन्यसेत् | अमृतं दुर्जयं सिद्धार्थक मंगलमर्चयेत् || पुनः पूर्वादि काष्ठासु क्रमादिंद्रादिकान्यजेत् | लोकपालान् मंडलेषु कुंभोपरि च तदृचा || ऐरावतं पुण्डरीकं वामनं कुमुदोंजनं | पुष्पदन्तं सार्वभौमं सुप्रतिकं तदग्रतः || पंचायतन दीक्षापक्षे पंचकलशान् संस्थाप्य तत्र देवतामावाह्य पूजयेत् || प्रोक्ते नैवं कलश विधिनैकेन वानेक कुंभैरिति प्रपंचसार वचनात् || ज्ञानमालायां देवता स्थापन विशेष उक्तः | यदा तु शंकरं मध्ये ऐशान्यां श्रीपतिं यजेत् || ३५अ) आग्नेययां च तथा हंस नै-ऋत्यां पार्वती सुतं | वायव्यां च सदा पूज्या भवानी भक्तवत्सला || यदा तु मध्ये गोविंदमैशान्यां शंकरं यजेत् | आग्नेयां गणनाथं च नै-ऋत्यां तपनं तथा || वायव्यामंविकां चैव यजेन्मंत्री समाहितः | सहस्रांशुं यदा मध्ये ऐशान्यां पार्वतीपतिं || आग्नेयामेकदंतं च नै-ऋत्यामच्युतं यजेत् | वायव्यां पूजयेद् देवीं भोगमोक्षैक भूमिकां || भवानी तु यदा मध्ये ऐशान्यां माधवं यजेत् | आग्नेयां पार्वतीनाथं नै-ऋत्यां गणनायकं || प्रद्योतनं तु वायव्यामाचार्यस्तु प्रपूजयेत् | हेरंवं तु यदा मध्य ऐशान्यामच्यूतं यजेत् || आग्नेयां पंचवक्त्रं तु नै-ऋत्यां जगदंविकां | वायव्यांद्युमणिं चैव यजेन्मंत्री ह्यतंद्रितः || स्वस्थान वर्जिता देवाः शोकदुःखभयप्रदाः | तन्मंडलस्थितो राजा साधकश्च विनश्यति || तंत्रांतरे || शंभौ मध्यगते हरी न हर भूदेव्यो हरौ शकरे भास्ये नागसुतारवौहरगणेशाजांविका स्थापिताः || देव्यां विष्णु हरैकदंतरवयोर्लंवोदरजेश्चरार्यैनाः शंकरभागतो निगदिताव्यस्तास्तुते हानिदाः || मेरुतंत्रे || ततो गुरुः स्ववेद्यां तु गत्वा स्वस्यासने विशेत् | संचिन्त्य मूलमंत्रेण मूर्तिं तस्मिन् गुरुत्तमः || पूजा क्रमस्तु तंत्रांतरे || मुख्ये पुष्पांजलिं दत्वा गणेशाद्यर्चनें भवेत् | गणेश एव मुख्यश्चेत् तत्र सूर्य क्रमाद् भवेदिति || चामुंडातंत्रे || श्यामायां भैरवी तारा छिन्नमस्ता सुभैरवे | मंजुघोषे तथा रौद्रे पंचांगो नेष्यते वुधैः || पंचांगो यागः पंचायतन दीक्षारूपः || मेरुतंत्रे || वेदिकाया दक्षभागे कृत्वा स्थंडिलमुत्तमं | संस्थाप्य वह्नि संस्कृत्य वैश्वदेवं समारभेत् || यथाविधि ततस्तत्र गंधाद्यैर्देवतां यजेत् | तंत्र प्रणव पूर्वाभिर्हूत्वा व्याहृतिभिः पुरा || जुहूयान् मूलमंत्रेण पायसेन घृतेन च | पंचविंशतिभिः पश्चाद्धुत्वाव्याहृतिभिः पुनः || ३५ब्) संपूज्यतां चन्दानाद्यैः पीठमूर्तौ नियोजयेत् | अग्निं विसृज्य शिष्टेन पायसेन वलिं हरेत् || पार्षदेभ्यश्चन्दनादि पुष्पाक्षतसमन्वितं || शारदायां || दक्षिणे स्थंडिलं कृत्वा तत्राधाय हूतासनं | संस्कृत्य विधिवद्विद्वान् वैश्च देवं समाचरेत् || तत्र संपूज्य गंधाद्यैर्देवता मुक्तविग्रहां | तारव्याहृतिभिर्हूत्वा मूलमंत्रेण मंत्रवित् || सर्पिष्मता पायसेन पंचविंशति संख्यया | हूत्वाव्याहृतिभिर्भूयो गंदाद्यैः पुनरर्चयेत् || तां योजयित्वा पिठस्थ मूर्तौ वह्निं विसर्जयेत् | अवशिष्ठेन हविषा विकिरेत् परितो वलिं || देवतायाः पार्षदेभ्यो गंधपुष्पाक्षतान्वितं | अत्र वैश्वदेव पदेन नित्यहोम एव उच्यते कौमुदी कृता सर्वदेव संवंधि व्युत्पत्तिरीत्या ईति || नित्यहोमाद्भिन्न एवायं वह्निसंस्कार श्रुतेः | अग्न्याधानादिकं कर्म नित्यहोम न विद्यत इति वसिष्टसंहितायां नित्यहोमे वह्निसंस्कारापत्य भावात् || एतद्धोमानंतरं च लौकिकाग्नौ || ज्ञानार्णवै || परिषिच्य ततो देवि नित्यहोमं समाचरेत् | मूलमंत्रेण देवेशि हुनेत् पंचाहुतिः क्रमात् || प्राणापानौ तथा व्यान उदानश्च समानकः | एतत् स्वरूपं जानीयादाहूतीनां च पंचकं || षडाहूतीः षडंगेषु नित्यहोमोयमीरित इति वचनात् होमः कार्य इति राघवभट्ट आहतच्चिन्त्यं तंत्रांतरे क्वचिदपि वैश्वदेवस्य कर्मां तत्वा श्रुतेः || अगस्त्यसंहितायां || नित्यनैमित्तिके काम्ये एतदग्नि मुखं स्मृतंमिति | नित्यहोमेपि वह्निसंस्कार श्रवणात् || तस्मान्नित्यहोम शारदा ज्ञानार्नवयोर्विकल्प एवेति तत्वं || मेरुतंत्रे || सहस्रं च जपेन्मंत्री मूलमंत्रं समाहितः | देवतायै निवेद्याथ तं जपं संपदे ततः || इशानदिशि यः पूर्व स्थापितो विकिरेत्रि च | सूवर्णवस्त्रसंयुक्ता करकंजरपूरितां || न्यसेदत्र यजेदस्त्र देवतां घोररूपिणिं | पश्चिमाभ्यां षड्गखेटधारिणीं सिंहसंस्थितां || तिष्ठन् संपूज्य च ततो गृहित्वा तं प्रदक्षिणं | ३६अ) भ्रमेदं तस्तु रक्षेति लोकेशानामितिरयेत् || नालमुक्तेनोदकेन देवाज्ञां श्रावयंस्ततः | स्वस्थाने स्थापयेत् ततुत्फट् मंत्रेण ततोर्चयेत् || उपविश्य भूयास्त्र गंधाद्यैर्मंत्रवित्तमः | ततो वह्निं सुसंस्कृत्यचरुं गोपयमापचेत् || नवताम्रादिजे पात्रे क्षालिते च शराणुना | मूलाणू नाभिमंत्र्याथ तंडुलान् शालि संभवान् || तिथि प्रसृति मानेन शराणुं प्रजपन् क्षिपेत् | प्रक्षालितेन पात्रेण यावद् वक्त्रं पिधाय च || हूं मंत्रेण ततो मूलमनुना देशिकोत्तमः | पचेद् गुरुः प्राङ्मुखस्तु स्विन्नेतमभि धारयेत् || मूलेन श्रुवसंस्थेन घृतेनाथावतारयेत् | हुं मंत्रेणास्त्र संजप्ते कुशास्तीर्णे विसृज्यतं || त्रिधात्वेकं देवतायै परं वह्नौ निवेदयेत् | शिष्टं शिष्येण सहितो गुरुर्भुंजीत मंत्रवित् || प्रादेशमात्रं संजप्त यथोक्तं दंतधावनं | शिष्याय दद्यात् सरदान्विशोध्य क्षालितं त्यजेत् || शारदायां || सहस्रा वृत्या संजप्य मूलमंत्रमनन्यधीः | तं जपं सर्वसंपत्यै देवतायै समर्पयेत् || ततः शंभोर्दिशि गुरुर्विकिरे पूर्वसंचिते | हेमवस्त्रादि संयुक्ता कर्करीतोय पूर्णितां || संस्थाप्य तस्यां सिंहस्थां खड्गखेटकधारिणीं | घोररूपां पश्चिमास्यां पूजयेदस्त्र देवतां || चलासनेन संपूजयेदस्त्रदेवतां || चलासनेनसंपूज्यतामादायः गुरुः पुनः | रक्षेति लोकपालानां नालयुक्तेन वारिणा || देवाज्ञां श्रावयन्नंतः परिवृत्य प्रदक्षिणं | अस्त्रमंत्रं समुच्चार्य यथा पूर्वनिवेशयेत् || अभ्यर्च्य भूयो गंधांद्यैर्वस्त्रं तस्य स्थिरासनः | ततश्च संस्कृते वह्नौ गोक्षीरेण चरुं पचेत् || अस्त्रेण क्षालिते पात्रे न वेताम्र मयादिके | तंडुरान् शालि संभूतान् मूलमंत्राभिमंत्रितान् || प्रसृतीः पंचदशभिः क्षिप्त्वा चास्त्र मनुं जपेत् | प्रक्षाल्य पात्रवदनं पिधाय कवचाणुना || प्राङ्मुखो मूलमंत्रेण देशिकेन्द्रश्चरुं पचेत् | श्रुवेणाह्येन संपन्ने दद्यात् तप्ताभि धारणं || मूलेन पश्चात् तत्पात्रं कवचेनवतारयेत् | ३६ब्) अस्त्रजप्ते कुशास्तीर्णे मंडले विधिवद्गुरुः || तं विभज्य त्रिधा भागमेकं देवाय कल्पयेत् | अन्यमग्नौ प्रजुहुयादपरं देशिकः स्वयं || शिष्येन सार्धं भुंजीत विहिता च मनस्ततः | संस्कृत इति अयं च संस्कार आचार्य कुण्ड एव आचार्य कर्तव्यत्वात् || तदुक्तं प्रयोगसारे || कुंडं मंत्रेण संप्रोक्ष्य तत्राधाय हुतासनं | सान्नाधानादिकं देवं यथावत् पूजयेत् ततः || कृत्वा तंडुल निर्वायं तस्मिन् क्षीरे पचेच्चरुमिति | अन्यमग्नौ प्रजुहुयादिति आचार्य ऋत्विक् चेति शेषः तत् क्रमस्तु तत्रैव || आचार्य कुंडे आचार्य कर्तव्याग्नि संस्कारमुक्ता || ततोन्येष्वपि कुंडेषु संस्कृतेषु यथाविधि || आचार्यो विहतेदग्निं पूर्वादिषु समाहितः || ऋत्विजो गंधपुष्पाद्यैरंगाद्यावरणान्वितं | तंत्रोक्त देवतामिष्ट्वा पंचविंशति संख्यया || मूलेनाज्येन जुहुयुः साज्येन चरुणा तथेत्युक्तः | कुंडांतर संस्कारस्तु ऋत्विक्कर्तृकः शिष्येणेति अत्र विशेषः सोमसंभौ || चरोस्तृतीयभागं तु ग्रास तृतयसंमितं | अष्टग्रास प्रमाणं वा दशनस्पर्श वर्जितं || पालाशे पुटके मुक्तौ भुक्तौ पिप्पल पत्रके | हृदा स भोजयन्मंत्री पूतैराचामयेज्जलैः || शारदायां || आचांतं शिष्यमानीय सकलीकृत्य देशिकः | तालप्रमाणं हृज्जप्तं क्षीरवृक्षादि संभवं || दंतकाष्ठं तदा दद्याच्छिष्यापविनतात्मनं | दंतान् विशोध्य यत्नेन तत् प्रक्षाल्य विसर्जयेत् || नारायणीये || दंतकाष्ठं हृदाजप्तं क्षीरवृक्षादि संभवं | संमार्ज्ययं तांस्तच्छित्वा प्रक्षाल्यैतद्भुवि क्षिपेत् || दिक्षु पूर्वाद्यधोर्द्धासु तस्याग्र पतनं क्रमात् | वृद्धिस्तापो मृतिर्वित्तक्षयशान्तिर्गदोधनं || सुखं वृद्धिः परं दुःखं फलान्यतानिशं सतीति प्रागप्युक्तं मेरूमतेन || तंत्रांतरे || अथात्र चूत वृक्षस्य द्वादशांगुलमानेतः | दंतकाष्ठं प्रदातव्यं तद्दंताग्र विचर्वितं || ऊर्द्धाभं क्षेपयेत् तत्र मंडले पीठमुन्नयेत् | पश्चिमोत्तरे रुद्रेश्च शुभपातोन्यथाऽशुभः || दुर्निमित्त विनाशाय जुहुयाच्छत मंत्रतः || ३७अ) मेरुतंत्रे || ततः स्वप्न परीक्षां च कुर्यात् तद्विधिरुच्यते | वैदिकानां दक्षिणानां वैष्णवानां च वामिनां || शारदायां || यथाविधितमाचांतं शिखावंधाभि रक्षितं | विधाय सार्धमनुना वेद्यां दर्भास्तरे गुरुः || शयीततस्यांतां रात्रिमधिवासः समीरिताः || नारायणीये || पुनस्तं शिष्यमाचांतं शिखावंधाभि रक्षितं | कृत्वा वेद्यां सहानेन स्वपेद्दर्भास्तरे गुरुः || मेरुतंत्रे || आचान्तमंत्रं च यथाविधि तं शिखायां वन्धे सुरक्षितं ममुं प्रविधाय मंत्री || वेद्यांशयीत कुशसंस्तरणे धणन्यां शिष्येण सार्धममुनागदितोधिवासः || पिंगलामते || स्वप्नमानवमाश्रित्य स्वापयेत् पूर्वमस्तकं || सोमशंभावपि || गृहस्थान् दर्भसच्यायां पूर्वशीर्षास्त्र रक्षितान् | हृदासद्भस्म शययायां यतीन् दक्षिणमस्तकान् || वायवीय संहितायां || देवस्य दक्षिणे भागे शिष्यं तमधिवासयेत् | अहतास्तरणास्तीर्णे संदर्भाशयने शुचिः || मंत्रिते च शिवं ध्यायन् प्राक् शिरस्को निशि स्वपेत् | शिखावद्धस्य सूत्रस्य शिखयातच्छिखां गुरुः || आवेष्ट्याहत वस्त्रेण तमाच्छाद्य च वर्मणा | रेखात्रयं च परितो भस्मना तीलसर्षपैः || कृत्वास्त्र जप्तैस्तद्वाह्ये दिगीशानां वलिं हरेत् || महाकपिलपंचरात्रे || गुरुपादार्चनं कृत्वा उपवासी जितेन्द्रियः | दर्भशययांगतो रात्रौ दृष्ट्वा स्वप्नं निवेदयेत् || मेरुतंत्रे || योगिनीतंत्रेपि || यज्जाग्रतो दूरमुदेति दैवता वृत्यमंत्रान् प्रयतस्त्रिरेवान् | लघ्वैक भूक् दक्षिण पार्श्वशायी स्वप्नं प्रीक्ष्येत यथोपदेशं || मेरुतंत्रे || भगवन् देवदेवेश शूलभृद्वृशवाहन | इष्टानिष्टे समाचक्ष्व मम सुप्तस्य शाश्वतं || एवं सुप्तः कुशास्तीर्णे ततः प्रयतमानसः | निशांते पश्यति स्वप्नं शुभं वा यदि वाऽशुभां || मेरुतंत्रे मंत्रतंत्र प्रकाशेपि || ओं हृत् सकल लोकाय विष्णवे प्रभविष्णवे | विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः || ३७ब्) स्वप्नमानवमंत्रोयं कथितो नारदादिभिरिति पाठभेदेनः मुपवासी जितेन्द्रियः || दर्भशयया गतो रात्रौ स्वप्नं पश्येद् यथा तथं || नारदीयो || परंब्रह्म स्वरूपस्त्व मंतश्चरसि विश्व धृक् | शुभाशुभगतिं देव स्वप्न मे विनिवेदय || इत्युच्चार्य नमस्कुर्याज्जानुभ्यामवनिं गतः | प्रसन्नो वाग्यतस्तस्तिन् शयीतेष्टे विचिंतयेत् || मेरुतंत्रे || भुक्त्वा शयीत शयने सुशुद्धे वसुधातले | अर्धरात्रे समुत्थाय पादशौचं विधाय च || आचम्य देवं संस्मृत्य संपूज्य च स पंचकैः | शिवदैवतयोरैक्यं भावयेत् प्रजपेदिदं || नमोजाय त्रिनेत्राय पिंगलाय महात्मने | वामाय विश्वरूपाय स्वप्नाधिपतये नमः || स्वप्ने कथय मे नित्यं सर्वकार्यमशेषतः | क्रिया सिद्धिं विधास्यामि त्वत् प्रसादान्महेश्वर || दीक्षितादीक्षितानां च यथा स्वप्नं प्रजायते | शृण्वं तु देवादेव्यश्च सावधानास्तु तद्विधिं || पार्थिवे स्वरपूजान्ते रविलक्षं जपेन्मनुं | जुहूयातद्दशांशेन विल्वपत्रैर्घृतप्लुतैः || तर्पणं मार्जनं कृत्वा कुर्याद् ब्राह्मणभोजनं | सिद्धस्तस्य भवन्मंत्रः स्वप्नेवक्ति यदीप्सीतं || मेरुतंत्रे || पिंगलामतेपि || तारो हिलि द्वयं शूल पाणये द्विठ ईरितः | स्वप्ने मानवमंत्रायं द्वादशाक्षर ईरितः || अथ शुभस्वप्नाः || योगिनीतंत्रे || त्रिविधं दर्शनं तस्य यथार्थमयथार्थकं | अपाकजंपत्सुस्थानां संयतानां हि दर्शनं || यथार्थं तदसुस्थानां विकारजं || अपाकजं मानसं च यथार्थफलमुच्यते || आगमसिद्धांते || आद्यवर्षाद्वत्सरार्धाद्द्वितीये यामे पाको वर्षपादात् तृतीये | यामे पाकः शर्वरी भूर्ययामे सद्यः पाको यो विसर्गेषु दृष्टः || मेरुतंत्रे || स्वप्नस्तु प्रथमे यामे संवत्सरे फलो भवेत् | षड्भिर्मासै द्वियामोत्थ स्त्रिभिर्मासैस्त्रियामकः || चतुर्थमासमात्रेण प्रातःकाल तु सत्वरं | चिन्तारुग्जाल्पदीर्घं यत् तत्फलं नैव विद्यते || ३८अ) वाताधिक्याद् भवेत् स्वप्न साहसोडिन पूर्वकं | पित्तात् तेजोग्नि पीतादि रक्तं क्रोधादिकं तथा || अध्वासयेतादिसितशयनाद्यं वलांसितः | वाते प्रातस्त्वं गमर्दपित्ताद्वाहस्तु नेत्रयोः || कफात् प्रमेकस्ते नित्यं द्वंद्वे द्वंद्वं न किं त्रिषु || आगमसिद्धान्ते || क्रूरे धमामध्यमास्याददृष्टेऽनुत्तमोत्तमे | स्वप्ने पश्यति वै देवं निजेष्टं सर्वतोमुखं || गुरुं प्रसाद सुमुखं निर्मलं चन्द्रमंडलं | गं गां गां भारतिं भानु लिंगिनं लिंगमैश्वरं || प्रसन्नंत्तत्र जानीयात् सिद्धिं सुप्त निदर्शने || नारदपंचरात्रे || क्षितितिलाभः क्षतजाब्धि तरणं चाग्नि पूजनं | होमश्च ज्वलिते वह्नौ संग्राम विजयस्तथा || हंसकोकमयूराणां रथारोहणमेव च || महाकपिलपंचरात्रे || कंन्यां छत्रं रथं दीपं प्रासादं कमलं नदीं | कुंजरं वृषभं माल्यं समुद्रं फलीनं द्रुमं || पर्वतं च हयं मेध्यमाममांसं सुरासवं | एवमादीनि सर्वाणि दृष्ट्वा सिद्धिमवाप्नुयात् || मेरुतंत्रे || सिद्धं वा स्वशुरं देवं प्रसन्नं वा कुमारिकां | गं गां गां भारतीं भानु लिंगिनं लिंगमैश्वरं || वालं छत्रं रथं दीपं प्रासादं कमलं नदीं | कुंजरं वृषभं माल्यं समुद्रं फलितं द्रुमं || पर्वतं प्रज्वलं वह्निमाममांसं सुरासवं | ग्रहान्भाति विधुं सूर्यं रत्नान्याभरणानि च || सिंहासनं विमानं च ध्वजं राज्याभिषेचनं | श्वेतचंदनवस्त्राणि शालयः कुंकुमं मधु || राजा सिद्धार्थकं नार्यो न च भांडं च पायसं | अश्वं फलानि सिद्धान्नं दधिवारविलासिनी || दुग्धं वाद्यानि चाषं च मयूरं नकुलं मृगं | वद्धमेकं पशुं पुष्पं सद्वाक्यं चक्षुमंजनं || पूर्णकुंभं दर्पणं च मीनमाह्यं च रोचनं | शवं रोदनहीनं च शस्त्राणि च पताकिकाः || भारद्वाज नृपाणां च वेदशब्दं च गायनं | कशांमांगल्यगीतानी चांकुशं यद्धृदः प्रियं || स्वप्ने दृष्टानि चैतानि साधकः || सिद्धिमाप्नुयात् || व्याध्याध्यर्ते नास्ति दुःखं सामान्यसुखमाप्नुयात् | ३८ब्) यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति || कामयंतं नदी सिंधुतरणं भ्रमणं चखे | भास्करोदयनं चैव ग्रहणं चन्द्र सूर्ययोः || हर्म्यं प्रासादनागाश्च वृषशैलाग्निरोहणं | भोजनं दधि भक्तस्या पक्वमांसस्य भक्षणं || कृमिविष्टानुलेपश्च रुधिरेणाभिषेचनं | तांवूलभक्षणं मद्यपानं दध्यमि वंदनं || प्रचंड किरणः स्वस्थ कार्य सिद्धेस्तु लक्षणं | कृष्णांवरधरा नारी कृष्णगन्धानुलेपना || अवगूहतियं स्वप्ने सारात्रिस्तस्य पश्चिमा | एवं तु रक्तया व्याधिः शोकोरुण समानया || भीन्नया कलहो हत्या पीतयाकीरयानियेत् | श्वेतांवरधरा नारी स्वेतमाल्यानुलेपना || अवगूहतियं स्वप्ने तस्य श्रीः सर्वतोमुखी | आसने सयने याने शरीरवाहने गृहे || ज्वलमाने विवुध्येत तस्य श्रीः सर्वतोमुखी | सितोरगस्य दंशश्चेज्जायते दक्षिणे करे || दशाहाभिर्भवेल्लाभो रोगीरोगाद्विमुच्यते | निगडैर्वाहुपाशेन वध्येते वा सुतो भवेत् || प्रतिष्ठा वर्धते तस्य दुग्धपानाद्धनात्ययः | सुरां रक्तं पिवन् विद्या लभेद्विप्रोधनं परः || दधि दृष्ट्वा भवेत् प्रीतिर्गोधूमैश्च धनागमं | सिद्धा विष्टागमं विद्याल्लाभः सिद्धार्थकैस्तथा || दधिलाभाद् भवेदर्थो घृतलाभाद्ध्रुवंजयः | घृताशनाद्धन क्लेशो जयन्तु दधि भक्षणे || लिंगाद्यभ्यर्चन दृष्ट्वा व्यवहारे जयो भवेत् | यस्तु मध्ये तडागादेर्भुंजीत घृपायसं || निष्कंपं पुष्करे पत्रे तं विद्यात् पृथिवीपतिं | देवता लिंगनोगावः पितरो ब्राह्मणो नृपा || पंचदंति नरं स्वप्ने तत्तथैव भविष्यति | अंत्रैः संवेष्टयेद् यस्तु ग्रामं वा नगरं तथा || ग्रामे मंडलराज्यं स्यान्नगरे पार्थिवो भवेत् | चंद्रतारार्क ग्रसनं परिमार्गणमेव च || भूम्यं वुद्धिनां ग्रसनं शत्रुणां च वध क्रिया | जयो विवाह द्यूतेषु शत्रूणां च तथा जयः || वडवा महिषी सिंही गोहस्तिन्यादि दोहणं | प्रसादो गुरुविप्रेष्ठ देवसिद्धादिकाच्छुभः || स्नानं राज्याभिषेकश्च स्वशिरछेदनं मृतिः | ३९अ) तीर्थोदकानां तरणं तथा विषमलंघनं || गोहस्ति वडवा सूतिर्वह्नि लाभस्तथैव च | परस्त्प्रालिंगनं तस्या लाभो रोदनमेव च || विष्टालेपः कुंदजातीवकुलक्ष्मेश दर्शनं | रणद्यूतविमर्देषु जयो निगडवंधनं || पशुमद्य मृगाणां च लब्धिरध्यशनं तथा | शिखिलाभः श्वेतवस्त्रे पुष्पचंदनधारणं || मणितारसुवर्णादि पात्रे भोजनकं यदा | पश्यत् तदा साधकस्य ज्ञेया सिद्धिरुप स्थिता || कार्यार्तानां कार्यसिद्धिरिणरेखां धनागमः || अथा शुभस्वप्नाः || वंध्या चर्म तुषाग्न्यादि लवणांगारमिंधनं | विट् क्लीवान्मत्त तैलानि जटिलानि वणौषधं || रोगांस्तृणं च सन्यासी लग्नात्यक्तौ क्षुधातुरः | किमुक्तकेशः पतितोत्यंगा सृक् शरटः क्षुतं || मार्जार युद्धं कार्पासा गर्भिणी चरस्वरा | गुडस्तक्रं च काषायी पंचरंडाकलिर्गृहे || वस्त्रादिकस्य स्ववलणं लुलापसमरं तथा | अंधः कुब्जो दुर्वचनो वधिरः खंजकुब्जकौ || वमनं च घटोरिक्तो रजकी मलिनांवरा | एतैर्दृष्टैर्न कार्यं स्याद् रोगीमृत्युमवाप्नुयात् || अशोकं करवीरं च पालाशं वापि पुष्पितं | स्वप्नेपि शलिलं दृष्ट्वा नरः शोकमवाप्नुयात् || रूपांतरे प्रवेशश्च दक्षिणाशागतिस्तथा | पंके निमज्जनं स्नानं पुत्रभार्या विनाशदं || गोहस्ति द्विज विप्रादि वर्ज्य कृष्णं न शोभनं | रक्तगंधांवरः स्रग्वी कृष्णो वा दक्षिणामुखः || घरोष्ट्रं महिषारूढः त्रिमासं न सजीवति | श्वम्रे वापि टटे गेहे द्वारं चास्य पि धीयते || न चोत्तिष्ठति यस्तस्मत् तदंतं तस्य जीवीतं | वांति मूत्रं पुरीषं च संतान जननं च्युतिः || शुक्लस्य पश्येद् यः स्वप्ने तस्यायुर्दशमासिकं | वाध्यते विकृतैः कृष्णैः पुरुषैरुद्यतायुधैः || पाषाणैस्ताद्यते वापि तस्य मृत्युर्न शंसयः | महिषोषुखरो रूढस्तैलाभ्यक्तश्च मुंडितः || ३९ब्) दक्षिणा सांप्रस्थिनो यस्तस्य मृत्युर्न संशयः | पश्येत् प्रासादपतनं गृहस्य शशिसूर्ययोः || पर्वतानां च वृक्षाणामधिकाराच्युतिर्भवेत् | हानिश्चैव स्वगात्राणां व्याधिनाभि भवस्तथा || गृहसंमार्जनं लेपो गोमयेन मृदापि वा | तीर्त्वा नदीं समायातस्तीरेन्यद्वसनं धृतं || रोगीरोगाद्विमुच्येत हानिः स्वस्थस्य जायते | पुंनामानो मृगखगाः पोतकी सूकरीरला || पिंगलाछुछुका पल्ली वामांगे कोकिला शिवा | स्त्रीनामानामृगखगाः श्रीकंठायाभरा रुरुः || छिकरः पिपलो भासः दक्षे काकर्क्षकुर्कुराः | दृष्टाश्चेद्रोगिणो रोग नाशः साधक सिद्धयः || स्वस्थस्य चोद्यमाल्लाभो दिग्व्यत्यासान्न शोभनं || अथ दुःस्वप्नशान्ति || त्रिरात्रो पोषितो भूत्वा हविष्याशि पुरोहितः | सक्षीराणां घृताक्तानां समिधानां शतं दहेत् || पालाशानां तु गायत्र्या शूद्रः स्नात्वा हविष्य भुक् | दीपं दद्याद् विप्र गृहे विष्णोर्गेहे शिवालये || एवं दृष्ट्वा शुभं स्वप्नं गृह्नीयान् मनुमन्मथा | गृहीते हानिरेवस्याद् वान्यदेवं विचिन्तयेत् || अथ स्वप्न निवेदनं || नारदीये || शिष्यन्तु शुचिराचांतः पुष्पहस्तो गुरुत्तमं | प्रणम्य शिरशा हृष्टस्तस्मै स्वप्नं निवेदयेत् || स्वप्ने वाक्षि समक्षाम्वा आश्चर्यमति हर्षदं | अकस्माद् यदि वा पश्येत् नाख्यातव्यं गुरोर्विना || अन्यदपि मेरुतंत्रे || स्वप्नान्निद्रा फलघ्नी स्यात् स्वप्नो वाच्यो न चान्यथा || महाकपिल पंचरात्रे || गुरुपादार्चनं कृत्वाः उपवासि जितेन्द्रियः | दर्भसययां गतो रात्रौ दृष्ट्वा स्वप्नं निवेदयेत् || अत्रोपवासविधिः कालांतरीय स्वप्ने परीक्षापरः | दीक्षायां प्रोक्त पायस भोजनस्यावस्यकत्वात् || पिंगलामते || सद्योधिवासमधवा प्रकुर्वीत यथाविधि || मंत्र तत्र प्रकासे || ४०अ) दिनद्वये नैव कुर्याद् दीक्षा कर्मविचक्षणः | सद्योधिमासनं वास्यादेकस्मिन् दिवसे यदि || ईति श्री आद्यानन्दनविरचितायां कुलमुक्तिकल्लोलिन्यां तृतीयः पटलः || अथोक्त होमापयुक्ताग्नि संस्कारविधिः | तत्र प्रथमं कुंडसंस्कारो यथा || मेरुतंत्रे || वह्नेःस्तु स्थापनं कुर्याद् वैदिकः कल्पमार्गतः | तांत्रिकः कुण्डसंस्कारानष्टादशसमाचरेत् || मूलमंत्रेणसंपश्येत् प्रोक्षयेदस्त्र मंत्रतः | कुशैः संताडयेत् कुण्डं अस्त्रमंत्रं पठन् तृधा || ततः कवच मंत्रेण कुण्डस्या भ्युक्षणं मतं | अस्त्रमंत्रेण खननं कुण्डस्यांगुलमानतः || अंगुष्ठानामिकाभ्यां तां मृदमंत्रेण चोद्धरेत् | पुनः शुद्धमृदातं च पूरयेत् हृदयाणुना || समी कुर्यात् ततोस्त्रेण सेचयेत् कवचेन च | काष्ठादिना कुट्टयेतमस्त्रेण स्याद् यथा दृढं || कुशैः संमार्जयेत् कुण्डं ततश्च कवचाणुना | विलेपनं गोमयाद्भिः कवचे नैव कारयेत् || कवचेनाग्निसूर्येन्दु कलाः कुण्डे विचिन्तयेत् | त्रिसूत्री कृत सूत्रेण वेष्टयेत् प्रतिमेखलं || त्रिवारं वर्ममंत्रेण कुण्डपूजां ततश्चरेत् | तारश्चामुक कुण्डाय आसनं ते नमो इति || एषोर्घ इत्याद्युहैश्च सकलं पूजनं चरेत् | नाभिश्च मेषलानां च कुर्यादेवं प्रपूजनं || संचिन्तयेत् ततोस्त्रेण तत्कुण्डं वज्रवदृढं | वह्नेर्ज्वाला निलासाय हृन्मंत्रेण कुशैस्ततः || कुण्डस्य तु चतुर्दिक्षु कुर्यात् मार्गचतुष्टयं | अछिन्नाग्रैः कुशैरस्त्र मंत्रितैः कुण्डभित्तिषु || भूतप्रेतादि दृष्टीनामशुचीनां समाचरेत् | उच्चाटनमिमे प्रोक्ताः संस्काराधृतिसंमिताः || भवेदनेन विधिना कुण्डस्याप्यक्ष पाटचं || शारदायामपीत्येव || नारदपंचरात्रे || अच्छिन्नाग्रैरस्त्र मंत्राभिमत्रितैः || कुण्डभित्तिगणं सर्वं वर्मणा परिभूषयेत् | इत्यैवमक्ष पापख्यं कुण्डसंस्कारमीरितमित्युक्तं || यागे कुण्डानि संस्कुर्यात् संस्कारैरेभिरीरितैरिति शारदायां || ४०ब्) एते च संस्कारा यदि कुण्डकरण कालेन कृतास्तथा सिद्धेपि तस्मिन्न दृष्टार्थमवश्यमाचरणीयाः || तदुक्तं नारद पंचरात्रे || कुण्डस्यारंभकाले तु संस्कारे तु संस्कारा न कृता यदि | निःपन्नस्य च ते सर्वे विधेयाः स्युः क्रमेण च? इति || मेरुतंत्रे || वामहोमे तु संस्कारा आद्याश्चत्वार एव हि | अथ वा तानि संस्कुर्याच्चतुर्भिर्वीक्षणादिभिरिति शारदायां || मेरुतंत्रे || तिस्रस्तिस्रो लिखेद्रेषाः प्रागुदग्रा हृदाणुना || शारदायामपि || तिस्रस्तिस्रो लिखेल्लेखा हृदा प्रागुदगग्रगाः || सौत्रामणी तंत्रे लिखन क्रमः || प्राचीमूर्धमुदक् संस्थं दक्षिणारंभमालिखेत् | उदगग्रंपुरःसंस्थं पश्चिमारंभमालिखेत् || तिस्रस्त्रिस्रो लिखेत्वैव प्रोक्षयेद्वाग्भवेन च || मेरुतंत्रे || स्मृताश्च प्राङ्मुखाग्राणां देवा विष्णीश वासवाः | उदङ्मुखाग्र रेखाणां ब्रह्मसूर्येन्दवः क्रमात् || विलिखेद् दर्भकाण्डेन वाममार्गेस्त्रमत्रतः || शारदायां || प्रागग्राणां स्मृता देवा मुकुन्देश पुरंदराः | रेखाणामुदगग्राणां ब्रह्मवैवस्वतेन्दवः || अथवा षट्कोणा वृतं त्रिकोणं तत्र संलिखेत् || मेरुतंत्रे || त्रिकोणो परिषट्कोणं त्रिकोण द्वितयस्य तु || यामलेपि || षट्कोणेनावृतं देवि त्रिकोणं वा समालिखेत् || मेरुतंत्रे || विष्णी शवासवदीनां षर्नां तत्र तु पूजनं | वाममार्गेत्विष्ट देव्यास्त्रिकोणे पूजनं भवेत् || शारदायां || सर्वाणभ्युक्ष्यतारेण योगपीठमथार्चयेत् | अत्र प्रणववाग्भवयोर्विकल्पः || योगपीठमिति || आधारशक्तीमारभ्य पीठमंत्रपर्यंतमित्यर्थः || अत्र विशेषो मेरुतंत्रे || संप्रोक्ष्य प्रणवे नाथ योगपीठं समर्चयेत् | तद्विधिसंप्रवक्ष्यामि मण्डूकं चिन्तयेत् तले || कालाग्नि रुद्रं तस्यार्धं शक्तियुक्तं विचिन्तयेत् | तदूर्धं चिन्तयेत् कूर्मं तस्य पृष्टे वसुधरां || स्वेतद्वीप तत चिंन्त्यं सुधासिंधु सुवेष्टितं | ४१अ) मन्दारान् पारिजातांश्च संतानान् हरि चन्दनात् || कल्पवृक्षांश्च तत्रैव चिन्तयेत् पूजयेदपि | एतादृश गृहे चिंत्यं रंम्यं मणिमयं गृहं || स्वर्णपीठन्तु तन्मध्ये तस्य पादान्विचिंतयेत् || एवं क्रमेणेति || तदुक्तं तत्रैव || स्वाग्रादि प्रादक्षिण्येन तत्पद्मकेशरेषु तु | मध्यान्तं पूजयेदेता जयां च विजयां तथा || अजिताख्यां चापराजितां नित्यां च विलासिनीं | दोग्ध्रीमघोरां च तथा मंगलामथ तत्र तु || एतानेव पीठशक्तयः क्रीं वागीश्वरीश्वरयोर्योगपीठात्मने नम इति पीठमंत्रः || तदुक्तं तंत्रांतरे || वागीश्वरयोर्योगपीठात्मने नमः || ह्रीं माद्यः पीठमंत्रो यमावाह्यास्मिन् प्रपूजयेत् || मेरुतंत्रे विशेषः || ह्रीं सर्वशक्ति कमलासनाय नम उच्चरेत् | दत्वा पुष्पांजलिं कुण्डे पूजयेद् भुवनेश्वरीं || आवाहनादि परमीकरणांतं च पूजयेत् | कामोन्मत्तं शिवं तत्र देवी मृतुमतीं तथा || गाशेश शैवशाक्तेषु ध्यायेत् संपूजयेतिदिं || शारदायां || वागीश्वरी मृतु स्नातां नीलेन्दीवर संनिभां | वागीश्वरेणसंयुक्तामुपचारैः प्रपूजयेत् || गणेश्वरविमर्षिण्यां || शक्तिवीजेन वागीशीं वागीसं साध्यमंत्रतः || पूजयेदिति शेषः || रुद्रयामले तु || ततः शिवाय शक्त्यै च नमोन्तौ कथितौ मनू | आभ्यां त्रिस्त्रिश्च संपूज्य प्रणवन्मनुनाऽमूना || वागीश्वरी मृनुस्नातां समस्ता भरणान्वितां | वागीश्वरेणसंयुक्तां नमाम्यखिल सिद्धय इत्युक्तं || मेरुतंत्रे || वैष्णवे च तथा शौरे लक्ष्मी मृतुमतीं स्मरेत् | नारायणस्य संयोगाज्जातमग्निं विचिंतयेत् || तत्वशारसंहितायामपि || लक्ष्मी मृतुमती तत्र प्रभोर्नारायणस्य च | ग्राम्य धर्मेण संजातमग्निं तत्र विचिन्तयेत् || अत्र च विभूतिरुन्नतिः || कान्तिः सृष्टिः कीर्तिश्च सन्नतिः || पुष्टिरुत्कृष्टि ऋद्धिश्चश्च संप्रोक्ता नवशक्तय इति पीठशक्तयः || ४१ब्) वीजाद्यमानसंदत्वेति वचनात् || श्रीलक्ष्मीनारायणयोर्योगपीठात्मने नम ईति पीठमंत्रः || श्रीविद्यायानुज्ञानार्णवे || कामेश्वरीं कुण्डमध्ये स कामा मृत्यु तु संयुतां || समावाह्य च संपूज्य तद्गर्भवह्निमावहेत् || शारदायां || सूर्यकान्तादि संभूतं यद्वा श्रोत्रिय गेहजं || आनीय वह्निं पात्रेण क्रव्यादांशं परित्यजेत् || गौतमीये || पाषाण भवमग्निं च यदि वारणि संभवं | श्रोत्रियाणां गेहजं च वनस्थमथ वा हरेत् || यदृच्छा लाभ संप्राप्तश्चायोग्योयागकर्मणि | निरग्नि ब्राह्मणाल्लब्धो ह्यर्धलाभकरो भवेत् || क्षत्राल्लब्धे चतुर्थांश फलं दद्याद्धूताशनः | वैश्यशूद्राच्च विफलं जायते होमकर्म तत् || मेरुतंत्रे || अरण्यां मणितो विप्र गेहाद् वह्निं कुमारिकां | सुवासिनी वा सद्वस्त्रां कृत शौचां समाहरेत् || पात्रांतरेण पिहिते ताम्रपात्रादिकें शुभे | अग्निप्रणयणं कुर्या छरावे वाथ नूतने || दद्यादस्त्रेण पात्रेग्निं कवचेन पिधाय च || उडीशे || श्रोत्रियागारजं वापि सूर्यकांतोद् भवं तु वा | अरणि संभवं वापि क्षिप्तं स्वर्णादि भाजने || स्मृतिसारे तु || शरावे भिन्नपात्रे वा कपाले चोल्मुकेपि वा | नाग्नि प्रणयनं कुर्याद् व्याधिहानिभयावहमिति || मेरुतंत्रे || जीर्णे शरावे कापाले भिन्नपात्रे तथोल्मुके | नाग्नि प्रणयणं कुर्याद् व्याधिहानिभयावहमिति तांम्रादि पात्र सद्भावे सरावनिषेधो वोध्यः || तंत्रान्तरे || क्रव्यादांश परित्याग विशेषः अस्त्रेणाग्निं समाधाय कवचेन पिधाय तु || क्रव्यादांशं तु चास्त्रेण नै-ऋत्य संत्यजेत् प्रिये || मंत्रमुक्तावल्यामपि || आनीयास्त्रेण नै-ऋत्ये क्रव्यादांशं परित्यजेत् | देवांशं मूलमंत्रेण स्थापयेत् प्रयतः सुधीः || मेरुतंत्रे || क्रव्यादांशं च नैर्-ऋत्या त्यजेदस्त्रेण वह्नितः | देवांशं मूलमंत्रेण स्थापयेदग्रतः सुधीः || उडीशे तु || कूर्चास्त्रांभ्यां च नैर्-ऋत्यां क्रव्यादांशं परित्यजेदित्युक्तं || ४२अ) गणेश्वरेपि || हूं फडंतेन मूलेन क्रव्यादांशं परित्यजेत् || क्रियाशारे || श्मशानादा वामं मांसमत्तियो वह्निरुच्यते | क्रव्यादस्तस्य नामा स्यात् यजेत् किंचिद्धुताशनात् || शारदायां संस्कूर्यात् तं यथान्यायं देशिको वीक्षणादिभिः | द्रौदर्य वैन्दवाग्निभ्यां भौमस्यौक्यं स्मरन् वसोः || योजयेद् वह्नि वीजेन चैतन्यं पावके तदा || सारसंग्रहे || प्रदीप कलिकाकारं तेज आवाह्य यत्नतः | ऐक्यं जाठरवैन्दे च वह्निभ्यां पार्थिवस्य च || स्मृत्वाग्नि वीजके नाथ चैतन्यं योजयेदथ || वैन्दवस्तु धूममध्यस्थो वह्निः || मेरुतंत्रे || पश्चात्तमग्निं संस्कारैः संस्कुर्याद् वीक्षणादिभिः | प्रदीप कलिकाकारं तेज आवाहयेत् ततः || ऐक्यं जाठरवैन्दे च वह्निभ्यां पार्थिवस्य च | स्मृत्वाग्नि वीजके नाथ चैतन्यं योजयेदथ || उड्डिशे || दीपाद्दीपांतरं न्यायात् स्फुरंतं सर्वतो मुखं | श्वासमार्गेण मनुवित् कवचेन ततोर्चयेत् || शारदायां || तारेण मंत्रितं मंत्री धेनुमुद्रा मृतीकृतं | अस्त्रेण रक्षितं पश्चात् तनुत्रेणावगुंठितं || अर्चितंत्रिः परिभ्राम्य कुंडस्योपरि देशिकः || मेरुतंत्रे || ओंकारेणाभिमंत्र्याथ धेनुमुद्रा मृतीकृतं | संरक्ष्ये च शरे नाथ कवचेनावशुंठयेत् || ततः संपूज्य कुंडस्य भ्रामयत्रिः प्रदक्षीणं | प्रणवेण ततः स्वस्य संमुखं स्वीय कुण्डके || देव्यायोनौ तत्र जानु स्पृष्टमूमौ च देशिकः | शिववीजमिति ध्यात्वा निःक्षिपेदाशुशुक्षणिं || देवदेव्योराचमनं मैथुनांतधिया चरेत् || उड्डीशे || भूमौ च जानुनी कृत्वा कूर्चवीजं च वह्नि च | चैतन्यं ङे नमो तः स्यादनेनोत्थापये छुचिं || शिवे वीजधिया तस्या योनौ वह्निं विनिःक्षिपेत् || त्रिपुरासार समुचये || योनावेनं विंन्यस्येत् स्वाभिवक्त्रं पश्चादग्निं मूलमंत्रेण मत्त्रीत्युक्तं || शिववीजमिति गोद्योशेशैवशाक्त विषयंसौर वैष्णवयो विष्णुवीजधिया वोध्यं || वायवीय संहितायां || वह्निवीजं समुच्चार्य त्वादधीताग्निमासने | योनिमार्गेण वै तद्वदात्मनः संमुखेन वा || मेखलो परिस्थित योनि रन्ध्रेणेति भावः || शारदायां || ४२ब्) पश्चाद् देवस्य देव्याश्च दद्यादाचमनीयकं | ज्वालयेन्मनुनानेनतमग्निमथ देशिकः || मेरुतंत्रे || चित्पिंगल हन हन पच पच दह दह | सर्वज्ञा ज्ञापय स्वाहेति तारादिर्जिन वर्णकः || अमुं मनुं प्रभाष्यै च कृशानं ज्वालयेत् ततः || रुद्रयामले तु || ह्रां ह्रीं ज्वलयुगं देवि प्रज्वले द्वितयं ततः | हूं फट् स्वाहेति मंत्रेण ज्वालयेत् पावकं सुधीरित्युक्तं || ज्वालनं मुखे नैव || जुहुषुश्च हुताग्निश्च पाणि सूर्यस्तु वादिभिः | न कुर्यादग्नि धमनं न कुर्याद्व्यजनोदिना || मुखे नैव धमेदग्निं मुखादेयो ह्यजायत | नाग्निं मुखेनेति तु यल्लोकिके योजयंति तदिति || मणिवंधौ समौ कृत्वा करौ तु प्रसृतोंगुली | मध्ये मे मिलिते कृत्वा तन्मध्यंगुष्ठकौ क्षिपेत् || इयं सा परमामुद्रा ज्वालानि होमकर्मणीत्युक्तं लक्षणा मुद्रा प्रदर्शनीया || तत उत्थाय विधिवत् कृत्वा पाणिपुटं सुधीरिति यामले || अग्निं प्रज्वलितं वंदे जातवेदं हुतासनं | सुवर्णवर्णममलं समिद्धं सर्वतोमुखं || अनेन ज्वलितं मन्त्रेनोपतिष्ठेद्धुताशनमिति मेरौ || उड्डीशे || प्रादेशमात्रं समिधं मूलाग्रघृतसंप्लुतां | उष्णीं वह्नौ समुत्क्षिप्य जिह्वाया देवता न्यसेत् || शारदायां || विन्यसेदात्मनो देहे मंत्री जिह्वा हविर्भुजः | लिंगपायुशिरोवक्त्र घ्राननेत्रेषु सर्वतः || वह्निरार्घ्रीश संयुक्ताः सादियांताः स विंदवः | वर्णा मंत्राः समुद्दिष्टा जिह्वानां सप्तदेशिकैः || मेरुतंत्रे || कुशैः पलाशादि पर्णैर्ना पवित्रेण केनचित् | ततः प्रविन्यसेज्जिह्वा देहे मंत्रे विभावसोः || स लिंगगुदमूर्धास्य नासा नेत्रेषु च क्रमात् | स सर्वांगेषु जिह्वास्ता वह्यंते त्रिविधात्मिकाः || शारदायां || जिह्वा सा त्रिविधा प्रोक्ता शुभभेदेन कर्मस्विति || मेरुतंत्रे || हिरण्यागगणारक्ता कृष्णा चैव तु सुप्रभा | वहुरूपाचाति रक्ता जिह्वाः सप्तेति सात्विकाः || वह्नी रेफः अर्घीशो दीर्घोकारः अत्र सात्विकरसनायां ४३अ) वहूरूपाति रक्तयोः पौर्वापर्य वीज क्रमानुरोधेन न तु न्यास क्रमानुरोधेन वहुरूपायाः सर्वांगे न्यसनीय त्वात् || एकैकं विन्यसेद्वेविलिंगे पायौ शिरस्यथ || वक्रे घ्राणे तथा नेत्रे सर्वाङ्गे च न्यसेत् तत इति वीरचूडामणि वचनं || शारदायां || पद्मरागा सुवर्णान्या तृतीया भद्रलोहि * | लोहितानंतरं श्वेताधूमिनी च करोलिका || राजस्यो रसना वह्नेर्विहिता काम्यकर्मसु | विश्वमूर्ति स्फुलिंगिन्यौ धूम्रवर्णामनोजवा || लोहितान्या करालाख्या कालितामस्य ईरिताः | एताः सप्तनियुह्यन्ते क्रूरकर्मसु मंत्रीभिः || स्वस्वनाम समाभाः स्यूर्जिह्वाः कल्याणरेतसः | अमर्त्य पितृगन्धर्व यक्षनागपिशाचकाः || राक्षसाः सप्तजिह्वानामीरिता अधिदेवताः | अधिदेवतोक्तीस्तत्तज्जिह्वा स्थाने न्यासार्थं पूजार्थं च || जिह्वासु त्रिदसादीनां तत्तत्कार्य समाप्तये | जुहुयाद्वांछितां सिद्धिं दद्युस्ता देवता मता || इति प्रपंचसारवचनार्थं च तत्तज्जिह्वायां तत्तद्द्रव्येण होमपक्षे तासां होमार्थं च || क्रियासारे || अस्य भृगु ऋषिछंदो गायत्र्यग्निश्च देवता | वीजं शक्तिश्चरं स्वाहा ऋष्यादीन् पूर्ववत् न्यसेत् || शारदायां || वह्नेरंगमनून्न्यस्येत्तनावुक्तेन वर्त्मना | सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठ पुरुषः पुनः || धूमव्यापी सप्तजिह्वो धनुर्धर इति क्रमात् || मेरुतंत्रे || मंत्रि प्रवीन्यसेद्भूयो वह्नेरंगानि वै क्रमात् | सहस्रार्चिः स्वस्तिः पूर्ण उतिष्ठ पुरुषस्तथा || धूमव्यापी सप्तजिह्वो धनुर्धर इतिरिताः || शारदायां || षडंगमनवः प्रोक्ता जातिभिः सहसंयुताः | मूर्तीरष्टौतनौ न्यस्येद् देशिको जातवेदसः || मूर्धांस पार्श्वकवंधु कटिपार्श्वांसकेषु च | प्रदक्षिणवशान्न्यस्येदुच्यन्तेता यथा क्रमात् || जातवेदाः सप्तजिह्वो हव्यवाहनसंज्ञकः | अश्वोदरज संज्ञोन्य पुनर्वैश्वा नराह्वयः || कौमारतेजाः स्याद् विश्व मुखो देवमुखः स्मृताः | ताराग्नये पदाद्याः स्यूर्न्नत्यंता वह्निमूर्तयः || ४३ब्) मेरुतंत्रे || न्यसेत् प्रदक्षिणे देहे वह्निसूर्यष्टकं क्रमात् | मूर्धांस पार्श्वकट्यांधू कटिपार्श्वांसकेषु च || प्रणवादि नमोंतास्ता अग्नयपदं पूर्वकाः | जातवेदाः सप्तजिह्वो हव्यवाहस्तृतीयकः || अश्वोदरजवैश्वानराख्य कौमार तेजसः | विश्वमुखो देवमुखो मूर्तयोष्टौ प्रकीर्तिताः || रुद्रयामले || परिषिंचेत् ततस्तोयैर्विशुद्धै मेखलोपरि | दर्भैरगर्भै मध्यस्थ मेखलायां परिस्तरेत् || कुलोड्डीशे || एवं विन्यस्तदेहः सन्परिस्तरणमाचरेत् | अर्घोदकेन संप्रोक्ष्य मध्यस्थमेखलोपरि || उत्तराग्रं पूर्वदेशे पूर्वाग्रं दक्षिणे ततः | उत्तराग्रं पश्चिमे तु प्रागग्रमुत्तरे तथा || मूलमाच्छादितं कृत्वा त्रिवारं तु परिस्तरेत् || मेरुतंत्रे || प्रदक्षिण क्रमेणैव संसिंच्य च ततो जलैः | मेखलो परिसंसुद्धैः पुनर्दर्भ चतुष्टयैः || प्रागग्रैरुदगग्रैश्च हित्वा पूर्वां परिस्तरेत् | दक्षिणोत्तरयाः पूर्वाग्रैः पूर्वपश्चिमयोरुत्तराग्रैरित्यर्थः || तथा || मेखलासु च सर्वासु दीपमालां प्रकल्पयेत् || त्रिपुरासारसमुच्चये || एकमेखल कुण्डे निशितमतिर्मेखलाधस्तात् | परिस्तरे द्विमेखले द्वितीयमेखलोपरि || त्रिमेखले तदंतराल मेखलोपरि न्यसेत् || शारदायां || निःक्षिपेद् दिक्षु परिधीन् प्राची वर्जं गुरुत्तमं || तथा मेरुतंत्रे || एकमेखलके कुण्डे मेखलाधः परिस्तरेत् | द्विमेखले द्वितीयां वा मध्यमायां त्रिमेखले || कात्यायनः || परिधीन् परिदधत्यार्द्रानेक वृक्षान्वाहुमात्रान् पालाश वै कंकतकाश्मर्य विल्वानिति || मेरुतंत्रे || पलाश काश्मरी विल्वविकंकतसममुद्भवान् | एकवृक्षोद्भवानार्द्रान् परिधीत्वाहु * *? कान् || तत्रांतरे || वाह्येथ स्थंडिलं च त्रिपरिधि सहितं प्रागुहग्राग्रदर्भं || त्रिपुरासारसमुच्चयेपि || स्थण्डिलके सिकतानां वाह्येथ त्रिर्न्यसेत् परिधीन् || मेरुतंत्रे || स्थंडिले सिकतानांस्तु वास्तु भूमौ परिस्तरेत् || ४४अ) तत्रैव || प्राणानायम्य विधिवत् परिस्तीर्य कुशांतरैः | स्वगृह्योक्त विधानेन वायु देशाच्च पूर्वतः || स्रुक्स्रूवौ च प्रणीतां च प्रोक्षणी पात्र युग्मकं | आज्यस्थालीं च परिधीनिध्मं च कुशमुष्टयः || अधो मुखानि पात्राणि होमद्रव्यं वलिं तथा | गंधपुष्पाक्षतादीनि सर्वान्या सादयेदथ || तान्यत्प्रक्ष्य पवित्रेण चोत्तानानि निधाय च | प्रोक्षणी पात्र युगलं परिपूर्यं शुभांवुना || दत्वाक्षतान् पवित्रं च तदुत्पूप निधापयेत् | दिश्युत्तरस्यां तत्पात्रं प्रणीतेत्युच्यते वुधैः || ततः किंचित् प्रणीतां तु प्रोक्षण्याधाय तज्जलैः | यज्ञसाधनसंभारे प्रोक्षयेन् मूलमंत्रतः || वृणुयाद्ब्राह्मणं शांतं देवता मंत्र दीक्षितं | कुण्डस्य दक्षिणे भागे वेशयेत् तं कुशासने || अमुकामुकगोत्रोहममुकामुकगोत्रितं | दीक्षांगभूत होमेस्मिन् ब्रह्माणं त्वां वृणे इतिः || वस्त्रालंकारादिकेन वृत्वा तं परिपूजयेत् | कुर्यात् कुशवटुं वापि लभ्यते ब्राह्मणो नचेत् || कुंडमध्ये तु षत्कोण गर्भितं स्वर्णकर्णितं | नानाकेसरसंयुक्तं चतुर्द्वारसमावृतं || चिंतयेदष्टदलकं चतुरस्र त्रयावृतं | पूजापीठं तु तद्वह्नेस्तत्र मण्डूककादिकान् || ज्ञानात्मान्तं योगपीठं संपूज्याष्ट दलेषु च | प्रादक्षिण्येन मध्यांतं पीतां श्वेतां तथारुणां || कृष्णां धूम्रां च तीव्रां च पूजयेद्विस्फुलिंगिनीं | रुचिरां ज्वालिनीं चेति सर्वपीठं प्रपूजयेत् || सर्वशक्ति कमलासनाय हृद्वादशाक्षरः | समस्तपीठपूजायां वह्नेर्मंत्र उदाहृतः || ततो हुतासनं ध्यायेद्वरस्वस्तिक शक्तिभिः | अभयेन च संयुक्तैर्भुजैः सम्यग्विराजितं || सिंदूरवर्ण पद्मस्थं स्वर्णालंकारभूषितं | त्रिनेत्रं च जटामौलिमरुणस्रक्तितांवरं || ध्यानान्तरं शारदायां || इष्टं शक्तिं स्वस्तिकाऽभीति मुच्चैर्दीर्घैर्दैर्भिर्धारयन्तं जवाभं | हेमाकल्पं पद्मसंस्थं त्रिनेत्रं ध्यायेद्वह्निं वद्धमौलिं जटाभिः || रुद्रयामलेपि || वंधूकपुष्पसंकाशं सुतप्तकतकप्रभं | ४४ब्) पद्मस्थं यजमानार्थं वदनद्वयशोभितं || सप्तच्छन्दो मयं देव विमानोपरिसंस्थितं | त्रिधाग्रीवं त्रिपादाब्धं हव्यकव्यविनाशकं || ब्रह्माध्वर्यूद्गातृ होतृ चतुःशृंगी विराजितं | पंचरात्रं पाशुपतं कापिलं च महामतं || वौद्धवैदिकमित्ये तत् षट् पिंगल विलोचनं | वेदार्थं च चतुःश्रौतशास्त्रमय ध्वनिं || सपाटल जटावद्ध मणिकोटीरभास्वरं | हेमालंकारसंयुक्तं हेमकुण्डलमण्डितं || रक्तांभोरुह मध्यस्थं स्वस्तिकासनसंस्थितं | पृष्टदेशसमालंवि तार्तीय चरणांवुजं || सदाशदायमान च राजमानं स्वतेजसा | शक्तिंवजं स्रूक्स्रूवौव चतुर्भिर्दक्ष वाहुभिः || तोमरं तालवृन्तं च सौवर्णघृतपात्रकं | समैस्त्रिर्भिर्वाहुभिश्च दधानं रक्तवाससं || हिरण्या कनका रक्ता कृष्णा दक्षानने स्थिताः | सुप्रभावति? रक्ता च वहुरूपा च जिह्विका || ईमा रसज्ञास्तद्वाम वदने नित्यमास्थिताः | एताभिः सप्त जिह्वाभिरूपेतं पाटिताननं || इति ध्यानं || ध्यानं वह्निं यजेन् मध्ये गन्धाद्यैर्मनुनाऽमुना || मेरुतंत्रे || ध्यात्वैवं मनुनानेन पूजयेदूपचारकैः | वैश्वा नरजातवेद इहावह लोहिताक्ष || सर्वकर्माणि साधय स्वाहान्तः प्रणवादिकः | सप्तविंशत् परोक्षेयं मंत्रः स्याद्वह्नि पूजने || शारदायां || मध्ये षट्स्वपि कोणेषु जिह्वा ज्वालारुचो यजेत् | अत्र षट्कोणेषु मध्येष यजेदिभ्यन्वयः || कोणेषु च ईशानादि क्रमः || तदुक्तं सोमशंभौ || रुद्रेन्द्र वह्निमांसादवरुणानिलगोचरे | हिरण्याद्याः स्थिता वह्ने रसनाः षडनु क्रमात् || मध्येतो वहुरूपात्विति || वायवीज संहितायां || हिरण्या प्रागुडग्जिह्वा कनका पूर्वतः स्थिता | रक्ताग्नेयी नैर्-ऋती च कृष्णान्या सुप्रभामता || अतिरक्तामरुज्जिह्वा सुप्रभाः || त्रिशिखा मध्यमा जिह्वा वहुरूपा समाह्वया | तस्थिष्येका दक्षिणतो ज्वलंती वामतः परा || ४५अ) स्ववीजानंतरं वायव्या इति || गणेश्वरविमर्षिण्यामपि || कोणषट्के च मध्ये च जिह्वाः संपूजयेत् ततः | हिरण्योत्तक हेमाभावारुण्यां दिशि संस्थिता || वैडूर्य वर्ण गगना प्राच्यांविदिशिष्यवस्थिता | तरुणादिभ्य संकाशा रक्ता जिह्वानि दिक् स्थिता || कृष्णा नीलाब्जसंकाशा नै-ऋत्यांदिशि संस्थिता | सुप्रभा पद्मरागाभावारुण्यांदिशि संस्थिता || अतिरक्ता जवाभासा वायव्यां दिशि संस्थिता | वहुरूपा यथार्थाभा दक्षिणोत्तरसंस्थिता || एता ज्वालारुचावीता वराभयकरा अपि || त्रिपुरासारसमुच्चयेपि || सुतप्तचामीकरचारुवर्णा स्थिता हिरण्यादिशि शूलपाणेः | वैदूर्यवर्णा कनकाभिधानायासानिषर्णादिशि वासवस्य || या रक्ता तरुण दिवाकराभवर्णा सा जिह्वा हरिति सुसंस्थिता कृशानोः || या कृष्णा विकशितनीलनीरजाभासा रक्षः परिवृढदिग्विभागलग्ना पद्मरागसदृश प्रभो ज्वला सुप्रभा वरुणदिश्यवस्थिता || या महारजन पुष्पसन्निभागन्धवाहदिशि साति रक्तिका || यथार्थ संज्ञा वहुरूपिका सा जिह्नोत्तरे दक्षिणतः स्थिता स || होमेपि विशेष उक्तो गणेश्वरविमर्षिण्यां | एषांसि च हिरण्यायां गगनायां चरुं घृतं || सिद्धार्थं वहुरूपायां रक्तायां तु यवास्तथा | कृष्णायां तु हुनेत्वाजान् सुप्रभायां तु सक्तुभिः || तिलांश्चैवाति रक्तायां कनकायां तु सर्वदा | सर्वद्रव्याणि जुहुयात् साधकः सर्वकर्मसु || तन्त्रान्तरो फलं तु कामभेदेन क्रमादाशामुदीर्यते | वश्याकर्षणयोराद्यागगनास्तंभने मता || विद्वेष मोहयो रक्ता कृष्णामारण कर्मणि | सुप्रभा शांतिके पुष्टौ सुरक्तोच्चाटने मता || एकैव वहुरूपातु सर्वकामफलप्रदा || मेरुतंत्रे || ततः षट्कोण मध्ये च जिह्वा ध्यानं च पूजननं | जिह्वा ज्वालारुचः सर्वावरोभय करास्तथा || ऐश्यां हिरण्या स्वर्णाभा शांतिपौष्टिक सिद्धिदा | वैडूर्यवर्णा कनका प्राच्यां स्तंभन कार्यकृत् || ४५ब्) विद्वेषे तरुणादित्य निभारक्ताग्नि कोणगा | कृष्णांजन चयप्रख्या नै-ऋत्यां मारण क्षमा || सुप्रभा पद्मरागाभा वारुण्यां धनदायका | अतिरक्ताजवाभासोच्चाटे वायुर्दिशा गता || वहूरूपा तु षट्कोण मध्ये षट्वर्णसंयुता | अनेककार्यसंसिद्धि नाशकर्त्री च सा मता || यथा कार्यं तथा जिह्वा दृश्यते चत्स्वदिग्गता | ज्वाला रूपा तदा सिद्धि विपर्य तु विपर्ययः || वैष्णवमते जिह्वायां विशेषमाह तत्रैव | प्रभादीप्तिः प्रकाशा च मरीचिस्तापनी तथा || करालालेलिहा चेति जिह्वा वैष्णव कर्मणि | ईश प्राग्वह्नि नै-ऋत्य पश्चाद्वायव्य मध्यतः || संस्थिताः सकला जिह्वा वरोभय लसत्कराः || शारदायां || केशरेष्टक्तमार्गेण पूजयेदंग देवताः | दलेषु पूजयेन् मूर्तिं शक्ति स्वस्तिक धारिणीः || लोकपालांस्ततो दिक्षु पूजयेदुक्त लक्षणात् || मेरुतंत्रे || अग्नीशासुरवायव्य देवाग्रे चापि दिक्षु च | पूजयेच्च षडंगानि पत्रेष्वा वृत्ति देवताः || इंद्रादीन् सायुधान् पश्चात् संपूज्याग्निं पुनर्यजेत् | अत्र मेखलास्थ दर्भोपरिदिक्पालपूजाकार्या || तंत्रांतरेपि || कोण षट्के च मध्ये च जिह्वाभिः केसरेष्वपि | अंगमंत्रैस्ततो वाह्ये त्वष्टाभिर्मूर्तिभिः क्रमात् || मेखलाश्रित दर्भेषु दिक्पतीन् पूर्वतो यजेत् || शारदायां || पश्चादादाय पाणिभ्यां स्रुक् स्रूवौ तावधो मुखौ | तिश्रः प्रतापयेद् वह्नौ दर्भानादायदेशिकः || तदग्र मध्य मूलानि शोधयेत् तैर्यथा क्रमात् | गृहीत्वा वामहस्तेन प्रोक्षयेद् दक्षिणेनतौ || पुनः प्रताप्यतौमत्री दर्भानग्नौ विनिःक्षिपेत् | आत्मनो दक्षिणभागे स्थापयेत् तौ कुशास्तरो || तंत्रांतरो गृहीत्वा स्रूक्स्रूवा वूर्ध्वमुखौ चाधोमुखौ क्रमात् || प्रताप्याग्नौ त्रिधा दर्भ मूल मध्याग्रको स्पृशेत् | पुनस्त्रिशः प्रताप्याधो मुखो वग्नौ कुशान् क्षिपेत् || मूलमध्याग्रके न्यस्ये छक्तीरिक्षादिकाः क्रमात् | स्रूचि शक्तिं स्रूवे शंभुं विन्यसेद्धृदयाणुना || इच्छादिका इति इच्छाज्ञाना क्रिया ईत्यर्थः || मेरुतंत्रे || ततश्चाधो मुखौ कृत्वा स्रुक्स्रूवौ तु प्रतापयेत् | ४६अ) कुशाग्रैस्तु तयोरग्रं मध्यं मध्यैश्च मार्जयेत् || मूलं मूलैस्त्रिधा चैवं मार्ययित्वा प्रतापयेत् | धृत्वातौ वामहस्तेन प्रोक्षयेत् प्रोक्षणी जलैः || दक्षिणेन कराग्रेण पुनः संतापयेच्चतौ | कुशान् क्षिप्त्वा ततो वह्नौ स्वदक्षेतौ कुशास्तरे || संस्थाप्य स्रुक्स्रूचौ पश्चात् घृत संस्कारमाचरेत् || तदुक्तं शारदायां || आह्यस्थालीमथादाय प्रोक्षयेदस्त्रवारिणा | तस्यामाज्यं विनिःक्षिप्य संस्कृतं वीक्षणादिभिः || शैवागमे || गव्यमाह्यं समादाय मूलमंत्राभिमंत्रितं | स्वकां ब्रह्ममयिं मूर्ति संचिंत्याग्नौ प्रतापयेत् || गव्यमृत्युत्तम कल्पाभिप्रायेनोक्तं || मेरुतंत्रे || समादाय घृतस्थाली मंत्रमंत्रैण सेचयेत् | घृतं तत्र समापूर्य वीक्षणादिभिसस्कृतं || तदुक्तं पिंगलामतेपि || उत्तमं गोघृतं प्रोक्तं मध्यमं महीषी भवं | अधमं छागली जातं तस्माद्गव्यं प्रशस्यत इति || मेरुतंत्रेपि || उत्तमं गोघृतं प्रोक्तं मध्यमं महिषी भवं | अधमं छागलीजातं निषिद्धं त्वेडकादिजं || क्रीतं यदा पणेचाज्यं स्वादुचेद्गव्ययन्तु तत् || प्रसस्तानामभावे || वायवी संहितायां || न्यस्य मंत्रं घृते मुद्रां दर्शयेद्धेनु संज्ञिकां || मेरुतंत्रे || वायव्ये वाह्यतो गारान् कृत्वा तेषु हृदा न्यसेत् | तापनं तु समुद्दिष्टं कुशद्वयमतः क्षिपेत् || आज्य प्रज्वलितं वह्नौ विन्यसेत् तत् घृतान्वितं || विन्यसेद्वह्नौ क्षिपेदिति || पवित्रीकरणं दर्भ द्वयेन ज्वलिते हृदा | वर्मणज्यं च नीराज्य वह्नौ दर्भ द्वयं क्षिपेत् || अभिद्योतन मे तत्स्यादुद्योतन मथोच्यते | कुशं प्रज्वलितं चाह्यदर्शयत्तद्धृदादाक्षिपेत् || व्रह्ना वुद्धास्य च घृतं मंगारानग्निषु क्षिपेत् | अपःस्यं स्पृश्य मंत्रज्ञः कुर्यादुत् प्रचनं ततः || अस्त्रमंत्रं जपेन्मंत्री कुशौ प्रादशमात्रकौ | अंगुष्टानामिकाभ्यां च गृहीत्वा घृतमुत्प्लयेत् || ततो दृढं कुशाभ्यां तु स्वाभिमुख्येन संप्लवेत् | घृतं तत् स्यात् संप्लवनं षट्संस्कारा इतीरिताः || अंगुष्ठोपक निष्ठाभ्यामिति हस्तद्वयस्येति वोध्यं उत्प्लवेदिति अग्निसंमुखमिति भावः || तदुक्तं शैवागमे || प्रादेशमात्र दर्भाभ्यांमगुष्ठाऽनामिकाग्रकैः | ४६ब्) घृताभ्यां संमुखे वह्नेरस्त्रेणोत्यवमाचरेदिति || शारदायां || प्रादेशमात्रं स ग्रंथिदर्भयुग्मं घृतांतरे | निःक्षिप्यभागौ द्वौ कृत्वा पक्षौ शुक्लेतरौ स्मरेत् || वामे नाडीमिडां भागे दक्षिण पिंगलां पुनः | सुषुम्नां मध्यतो ध्यात्वा कुर्याद्धोमं यथाविधि || मेरुतंत्रे || कुशद्वयं घृते न्यस्य ततः प्रादेश संमितं | सग्रंथि कृत्वा साग्रौ द्वौ शुक्लकृष्णौ विचिन्तयेत् || पंक्तौ वाम इडां दक्षे पिंगलां मध्यतस्ततः | सुषुम्नां संस्मरेन्मंत्री ततो होमं समाचरेत् || स्रूवधारण प्रकारो नारदीये यथा || हीयते यजमानो वै स्रुव सूलस्य दर्शनात् | तस्मात् संगोपयेन् मूलं होमकाले स्रुवस्य च || अग्रे व्याधिकरं प्रोक्तं मध्ये शोककरं स्मृतं | मूले हानिकरं प्रोक्तं स्रुवंधास्यते कथं || वेदांगुलं परित्यज्य अग्रे चैव द्विरष्ठकं | वेदांगुलं तु तन्मध्ये धारयेच्छंखमुद्रया || होमसारे || मूलात् षडंगुलं त्यक्त्वा चतुरंगुलमेव वा | प्रकोष्ठे मूलमाच्छाद्य धारयेच्छंख मुद्रया || मेरुतंत्रे || दक्षभागात् स्रुवेनाज्यं प्रगृह्नीयाद्धृदाणुना | दक्षनेत्रे हुताशस्याग्नये स्वाहेति होमयेत् || गृहीत्वाज्यं वामभाग्यद्धृता वामेग्नि लोचने | हुनेत् सोमाय स्वाहेति त्यागः सर्वत्रनो मम || हृन्मंत्रेण गृहीत्वाज्यं मध्यतो मध्य लोचने | हुनेत् तस्याग्नीषोमाभ्यां स्वाहेति च तृतीयिकां || दक्षभागात् पुनस्त्वाज्यं हृन्मंत्रेण समाहरेत् | अग्निवक्त्रेग्नये स्विष्टि कृते स्वाहेति होमयेदिति || हेति संपातयेद्भागेष्वाज्य स्यान्वाहुति क्रमात् | इत्यग्नि नेत्रवक्त्राणां कुर्याद् घाटनं गुरुरिति शारदायां || संपातयेद्भाग इति यस्माद्भागादा संगृहीत्वा हुतं तद्भागे हुतशेषं क्षिपेदित्यर्थः || त्यागः सर्वत्रनो मतेति अन्वाहुति क्रमाद्यस्मैहुतं तन्नाम्ने प्रोक्षण्या संपातयेदिति शेषः || तदुक्तं शैवागमे || स्रुवेणादाय होमयेत् || स्वत्यग्नौ हेति तद्भागे शेषमाह्यं क्षिपेत् क्रमादिति || शारदायां || सताभिर्व्याहृतिभिराज्येन जुहुयात् पुनः | ४७अ) अत्र ओं स्वाहा ओं भुः स्वाहा ओं भुवः स्वाहा ओं स्वः स्वाहा ओं भूर्भुवः स्वः स्वाहेति व्यस्त समस्ताभिः पंचाहुतयः पंचभिर्मनुभिर्हुनेदिति नारायणीय तंत्र वचनात् || मेरुतंत्रेपि || सताराभिर्व्याहृतिभिराज्येन जुहुयात् पुनः || उड्डीशे तु || देव्याव्याहृतिहोमं च ताराद्येन चतुर्हुनेत् | भूरग्नये पृथिव्यै च महते वह्नि वल्लभा || भूवः पदाद्वार च ये अंतरीक्षाय शब्दतः | दिव्याय महते चैव वह्निजायावधिः स्मृतः || स्वरादित्य चन्द्रमसौ ङेतौनक्ष पदान्ततः | त्रेभ्यः स्वाहा पदांतश्च भुर्भुवः स्वः पदं ततः || अग्न्यादित्य चन्द्रमसा ङेता नक्षत्र इत्यपि | त्यंसंतश्चैव दिग्न्यश्च महते वह्निवल्लभा || मेरुतंत्रे || जुहुयादग्नि मंत्रेण त्रिवारं देशिकोत्तमः | गर्भाधानादिका वह्ने समुद्वाहावसानिकाः || शुभे कर्मणि कर्तव्या आज्याहुत्यष्टकैः क्रियाः | प्रणवं पूर्वमुच्चार्यर्कर्मनाम समुच्चरेत् || संपादयामि स्वाहेति सर्वकर्म स्वयं विधिः | गर्भाधानं पुंसवनं सीमंतोन्नयनं चरेत् || जातं वागीश्वरी गर्भात् प्राग्वध्यायेद्धुताशनं | जातकर्म ततः कृत्वा नालछेदं समाचरेत् || सूतकं शोधयित्वाथ कुर्यान्नाम यथाविधि | तृप्तये यस्य यदेतस्याग्निस्तन्नाम पूर्वकः || चौलोपनं वह्नेर्महानाम्नीव्रतं तथा | महाव्रतं चोपनिषद्धंतं गोदानमेव च || समावर्तनमुद्वाहः शाक्ते वाग्भव पूर्वकाः | शुभेषु स्युर्विवाहांताः क्रियास्ताः क्रूरकर्मसु || मरणांताः समुद्दिष्टा वह्ने रागमवेदिभिरिति विसेस्वः शारदायां || उड्डीसे तु || इदमग्नेः करोम्यत्र गर्भाधानमिति क्रमात् | प्रणवं पूर्वमुधृत्य शेषे वह्नि वधूं वदेत् || हुत्वा सप्ताहुतीरेवं समिधां क्षेपणं तथा | एवं क्रमात् पुंसवनं सीमंतोम्नयनं तथा || जातकर्मसमाप्याथ श्रमापनोदनाय च | प्रादेशमात्रं समिधं मुलाग्रघृतसम्प्लुतं || ओं कामेश्वर कामेशीभ्यां स्वाहेति विनिःक्षिपेत् | वह्निश्च पितरौ मंत्री स्वदेहे विनियोजयेत् || ४७ब्) इष्टदेवस्य नाम्ना तु वह्नेर्नाम समाचरेत् | कामेश्वर कामेश्वरीभ्यामिति तु श्रीविद्यायां अंन्यत्र वागीश्वरीभ्यांमिति ज्ञेयं || मेरुतंत्रे विशेष उक्तः शैवशाक्त गाणेशेस्विवे देवीभ्यामिति सौरवैष्णवे तु लक्ष्मीणारायनाभ्यामिति || तुर्णायागे || आज्याहुत्यष्टकं हुत्वा नामकर्मसमाचरेत् | देशिकस्त्वमुकोसीति मूलमंत्रेण कल्पयेत् || वायवीयसंहितायां || जातं ध्यात्वैव साकारं जातकर्मसमाचरेत् | नालापनयनं कृत्वा ततः संशोध्यसूतकं || शिवाग्निरिति नामास्या कृत्वाहुति पुरःसरं | पित्रोर्विसर्जनं कृत्वा चौडोपनयनादिकं || अथोद्वाहावसानं च कृत्वा संस्कारमस्य तु | नालापनयनसंस्कारस्तु शैवागमे || वह्नेरिहास्त्रमंत्रेण ततो नालायनुत्तये | समिधः पंच जुहुयात् प्रान्ते मूले घृताप्नुता इति || मेरुतंत्रे || ततश्च वह्नेः पितरौ देवदेव्यादिकौ तथा | पूजयित्वा विसृज्याथ मूलाग्रेषु घृतप्लुताः || समिधो निःक्षिपेत् पंचवह्नावथ च पूर्ववत् || वायवीयसंहितायां || ताः पालाश्यः परावापि यज्ञीया द्वादशांगुलाः | अवक्रान स्वयं शुष्काः सत्वयोनिर्व्रणाः समाः || दशांगुला वा विहिताः कनिष्टांगुलि संमिताः | प्रादेशमात्रा वा लाभे दातव्याः सकला अपीति || एवं च सकलसंस्कारशेषे तत्पित्रोर्विजनं नालायनयनीय पंचसमिद्धा पंचवदन शारदाकारोवभ्रामैव || अत्र गोदानानंतरं समावर्तनमपि कर्तव्यं || तदुक्तं गणेश्वर विमर्षिण्यां || समावर्तनमुद्वाहमाधानं च ततः परमिति || ते नैव समावर्तन विवाहयोराहुतीर्जुहुयादिति त्रिपुरासारसमुच्चयेपि || मेरुतंत्रे || पूर्ववत् || स वीज रसना नाम्ना चैके कामाहुतिं हुनेत् || शारदायां || मंत्रैर्जिह्वांगमूर्तिनां क्रमाद्वह्नेर्यथाविधि | प्रत्येकं जुहुयादेकामाहुतिं मंत्रवित्तमः || गणेश्वर विमर्षिण्यां || जुहुयादंगमंत्राद्यैस्ताराद्यैश्च सकृत् सकृत् | ४८अ) तत्र स्थानेषु शितधीः स्वाहांतैश्च यथाक्रमं || अत्राद्य पदेन लोकपालतदस्त्रान्तानां ग्रहणं || मेरुतंत्रे || ततश्चांगानि जुहुयाद् वह्नेर्मूर्त्यष्टकं तथा | इन्द्रादि लोकपालाश्च आयुधानि ततः परं || मंत्रेणोंकार पूर्वेण स्वाहांतेन विचक्षणः | स्वाहावसाने जुहुयाद्ध्यायत्वैमंत्र देवतां || शारदायां || अवदायस्रुवेणाज्यं चतुःस्रुचि पिधायतां | स्रुवेण तिष्ठन्नेवाग्नौ देशिको यतमानसः || जुहुयाद् वह्निमंत्रेण वौषडंतेन संपदे || मेरुतंत्रे || चतुर्वारं स्रुवेणाज्यं गृहीत्वा स्रुचि निःक्षिपेत् | तेनैव तां विधायाग्नौ हुनेत् तिष्ठन् गुरुः स्वयं || वौषडंतेन वह्नेस्तु मनुना संपदे ततः | जिह्वायां मध्य संस्थायां मंत्री ज्वालावलीतनोः || घृतेन स्रुचि पूर्णायां निधायाधो मुखं स्रुवं | शृंगाग्रे पुष्पमारोप्य पश्चाद्वामेन पाणिना || पुनः सव्येन तौ धृत्वा शंखसंनिभमुद्रया | समुंगतोर्धकायश्च समपादः समुत्थितः || नाभौ तत्मूलमाधाय शृंगाग्रव्यग्रलोचनः | वामस्तनांतरानीय तयोर्मूलमतंद्रित इति विशेषः शैवागमे || गणेश्वरविमर्षिण्यां || महागणेशमंत्रेण पूर्व पूर्व युतेन च | तारादि वीजषट्के तु करेणेष्वद्रिरर्णकैः || भिन्नेषु दशधा हुत्वा समस्तेन सुरेश्वरि || प्रपंचसारेपि || ताराद्यैर्दशभिर्भेदैः पूर्व पूर्व समन्वितैः | मनुना गाणपत्येन जुहुयाच्च दशाहुतीः || जुहुयाच्च चतुर्वारं समस्ते नैव तेन तु || मेरुतंत्रे || ताराद्यै दशभिर्भेदैः पूर्वपूर्व समन्वितैः | मनुना गाणपत्येन हुनेत् पूर्वं दशाहुतीः || जुहुयाच्च चतुर्वारं समस्ते नैव तेन तु | संपूज्य देवता पीठं वह्नौ सम्यक् ततो गुरुः || अग्नि रूपधरां तत्र पूजयेदिष्ठ देवतां || वीरचूडामणावपि || पश्चात् पीठ देवतानामेकैकाज्योहुतिस्ततः || अर्चयेद् वह्निरूपांतं || गन्धापुष्पादिभिः क्रमादिति || अनेन आधार शक्त्यादि पीठमंत्रान्तं पूज्यतेभ्य एकैकामाहुतिं दत्वा इष्टदेवतां तत्रावाह्योपचारैः संपूज्या वरण देवता || ४८ब्) अपि पूजयेदिति सिद्धं || उड्डीशे || तत आवृति देवानानेकै कामाहुतिर्हुनेत् | संकल्पे च ततः कृत्वा काम्यहोमं समाचरेत् || स्वाहान्तं मूलमुर्च्चाये देवतायै त्विदं व्रुवन् | जुहुया ज्वलिते वह्नौ संख्यां च परितश्चरेत् || शारदायां || तन्मुखे जुहुयान् मंत्री पंचविंशतिसंख्यया | आज्येन मूलमंत्रेण वक्त्रैकी करणं त्विदं || इतीष्ट वक्त्रे वक्त्राणामन्तर्भावस्तु चैकताः | अथवा कुण्डमानत्वं यदिष्टं वदने स्मरेत् || अंतर्भाव्यात्म वक्त्राणि तदेकी करणमतमिति शैवागमे || मेरुतंत्रे || आज्येन साध्यमनुना पंचविंशतिसंख्यकं | हुनेन्मंत्री चाग्नि मुखे वक्त्रैकी करणं त्विदं || आत्माग्नि देवतानां च चिंतयन्नैक्यमात्मवित् | एकादशाथ मूलेन हुनेदाज्येन वाहुतीः || नाडी संधानमेतद्धि प्रोक्तं देशिकं सत्तमैः | अंगप्रभृत्यावृती नामेकैकामाहुतिं हुनेत् || पूर्वादि दिक्षु कुण्डेषु सर्वष्वपि यथाविधि || त्रिपुरासारसमुच्चय शारदयोः परिवारस्यैकैकामाहुतिं अन्ते देव्यादशाहुतिर्जुहुयादित्यधिवासविधिः || अथ दीक्षादिन कृत्यं || मेरुतंत्रे || समुत्थायोषसिषुनः स्नान संध्यादिकं चरेत् | गुरुः शिष्यो ऋत्विजश्च गच्छेद्याग गृहं प्रति || सर्वे ते स्व स्व कुण्डेषु जुहुयुः स घृतैस्तिलैः | पुनः सार्धेन(?) मनुना ह्यष्टोत्तर सहस्रकं || शारदायां || प्रातरुत्थाय जुहुयुः पुनराज्यान्वितैस्तिलैः | द्रव्यैर्वा कल्पविहितैः सहस्रं साष्टकं पृथगिति || स्रूवेणाज्यं समित् पाण्यो स्रुचासेषं करेण वा | तत्र दिव्येन होतव्यं तीर्थेणाषेण वा तथेति || वायवीय संहिता मेरुतंत्रयोरुक्त त्वात् तिलोदयः स्रुचा करेण वा होतव्याः || महाकपिल पंचरात्रे || अप्रदीप्तेन होतव्यं मध्यमेनाप्य निंधिते | प्रदीप्ते लेलिहानेग्नौ होतव्यं कर्मसिद्धयो || वह्व? च परिशिष्टेपि || अंगो वुधः स धूमे तु जुहुयाद्याहुताशने | ४९अ) यजमानो भवेदैधः सपुत्र ईति च श्रुतिः || योनर्चिषि जुहोत्यग्नौ व्यंगारिणि च मानवः | मंदाग्निरामयावी च दरिद्रश्चोप जायते || इति मेरुतंत्र छन्दोगपरिशिष्टयोरपि || त्रिपुरासारे || अग्नेः कर्णे होमतो व्याधि वाधानेत्रं धत्वं नासिकायामथाधिः | द्रव्य छेदो मस्तके स्यान् मुखांतर्होमं कुर्यात् तेन नित्यं विपश्चित् || नवदुर्गाकल्पे || यत्र काष्टं तत्र श्रोत्रे यत्र धूमस्तु नासिके | यत्राल्प ज्वलनं नेत्रं यत्र भस्म तु तच्छिरः || यत्रै च ज्वलितो वह्निस्तत्र जिह्वा प्रकीर्तिता || तंत्रांतरे || यत्र काष्टं ततः श्रोत्रं यतो धूमोत्र नासिका | यत्राल्प ज्वलनं नेत्रं यत्रांगारस्ततः शिरः || यत्र प्रज्वलिता ज्वाला जिह्वा साजायत वेदसः || अन्यत्रापि || सधूमोग्निः शिरो ज्ञेयो निर्धूमश्च क्षुरेव च | ज्वलत् कृशो भवेत् कर्णः काष्टलग्नश्च नाशिका || अग्निर्लालायते तत्र शुद्ध स्फटिक संनिभे | तन्मुखं तत्र विज्ञेयं चतुरंगुलमानतः || शारदायां || वैश्वानरं स्थितं ध्यायेत् समिद्धो मेषु देशिकः | शयानमाज्य होमेषु निषण्डं शेषवस्तुषु || तथा || स्वर्णसिन्दूरवालार्क कुंकुमक्षौद्रसंनिभं | सुवर्णरेव सौवर्णः शोभनः परिकीर्तितः || भेरिवारिदहस्तीन्द्र ध्वनिर्वह्नेः शुभावहः | नागचंपकपुन्नाग पाटलायूथिका निभः || पद्मेन्दीवर कल्हार सर्पिर्गुर्गुलुसंनिभः | पावकस्य शुभो गन्ध इत्युक्तस्तंत्र वेदिभिः || प्रदक्षिणास्त्यक्तकंपाञ्छत्राभाः शिखिनः शिखाः | शुभदा यजमानस्य राज्यस्यापि विशेषतः || कुण्डेन्दु धवलो धूमो वह्नेः प्रोक्तः शुभावहः | कृष्णः कृष्णे गतेर्वर्णो यजमानं विनाशयेत् || श्वेतो राज्यं निहंत्याशु वायसस्वरसन्निभः | खर स्वर समोवह्ने ध्वनिः सर्व विनाशकृत् || पूतिगंधो हुतभूजो होतुर्दुःखप्रदो भवेत् | ४९ब्) छिन्नवृत्ताशिखा कुर्यान् मृत्युं च न परिक्षयं || शुकपक्षनिभो धूमः पारावतसमप्रभः | हानिन्तुरगजातीनां गवां च कुरुतेऽचिरात् || एवं विधेषु दोषेषु प्रायश्चित्ताय देशिकः | मूलेनाज्येन जुहुयात् पंचविंशतिमाहुतीः || त्रिपुरासारसमुच्चयेपि || वस्वधिकं शतमाज्यैर्जुहुयाच्छांतिक समीषु दोषेषु | अस्त्रेण साधकेन्द्रेस्तनुयादथ चक्रपूजा चेत्युक्ते || चक्रपूजा शेषपटले द्रष्टव्यमिति वामे | दक्षे आज्याहुतय एव || मेरुतंत्रे || द्रव्यै विधान प्राक्तैर्वाहुनेदष्टाधिकं शतं | इदमपि वामदक्षयोर्विधिविषयं || शारदायां || ततः सुधौतदंताद्यं स्नानं शिष्यं समाहितं | पाययित्वा पंचगव्यं कुंडस्यांतिकमानयेत् || मेरुतंत्रे || शिष्यं स्नातं पंचगव्यं पाययेन् मंत्रवित्तमः | कुंडस्याभ्यासमानीय दिव्यदृष्ट्यं विलोकयेत् || प्रयोगसारे || पंचगव्यं यथा प्रोक्तं पीत्वा चांतं यथाविधि | द्वारेण दक्षिणे नाथ यागस्थानं प्रवेशयेत् || विलोक्य दिव्यदृष्ट्यातं तच्चैतन्यं हृदंवुजात् | गुरुरात्मनि संयोज्य कुर्यादध्य विशोधनमिति शारदायां || मेरुतंत्रे || हृत्पुण्डरीकाच्चैतन्यं तस्यात्मनि नियोजयेत् | आचार्यस्तत्र आध्वानं षड्विधं शोधयेत् क्रमात् || तंत्रांतरे || हृदिस्थितं तच्चैतन्यं प्रस्फुरत् तारका कृति | आदाय स्थापयेत् स्वीय हृदयांकुश मुद्रया || षडन्वय महारत्ने || शोधनं नामतत्वानां कारणैकत्व चिंतनं | वर्णादिनां कलानां च तस्यां चिदैक्य चिंतनं || शारदायां || उक्तं कलाध्या तत्वाध्वा भुवनाध्वेति च त्रयं | वर्णाध्वा च पदाध्वा च मंत्राध्वेत्य परं त्रयं || वायवीयसंहितायां || तत्र शब्दास्त्रयोध्वानं त्रयेस्त्वर्थाः समीरिताः || तंत्रांतरे || मंत्राध्वा च पदाध्वा च वर्णाध्येति च शब्दतः | भुवनाध्वा च तत्वाध्वा कलाध्वाचार्थतस्तथा || ५०अ) अत्र तु संहार क्रमेणोक्तिः शारदायां मेरौ च सृष्टि क्रमेणेति वोध्यं || निवृत्याद्याः कलाः पंचकालाध्वेति प्रकीर्तितः | तत्वाध्वा वहुधा भिन्ना शैवाद्यागम भेदतः || षट्त्रिंशच्छैव तत्वानि द्वात्रिंशद्वैष्णवानि तु | चतुर्विंशति तत्वानि मैत्राणि प्रकृतेः पुनः || उक्तानि दशतत्वानि सप्त च त्रिपदात्मनः | तत्वानि शैवान्मुच्यंते शिवः शक्तिः शदाशिवः || इश्वरो विद्ययाशार्थं पंचशुद्धान्यसूनिहि | मायाकालश्च नियतिः कलाविद्या पुनः स्मृतिः || रागः पुरुष एतानि शुद्धा शुद्धानि सप्त च | प्रकृतिर्वुध्न्यहंकारौ मनोज्ञानेन्द्रियाण्यथ || कर्मेन्द्रियाणि तन्मात्रा पंचभूतानि देशिकाः | एतान्याहुर शुद्धानि चतुर्विंशतिमागमे || शैवानामिति तत्वानां विभागोत्र प्रदर्शितः | शुद्धानिति आणव कार्मणमायीय मलत्रयरहिततत्वं शुद्धत्वं तत्राणचोनाम सदाशिवत्वेन स्वस्या नवमर्षः || कार्मणो नाम पुण्यपाप वानहमिति प्रतीतिः || मायियो नाम अहंकारादावात्मवुद्धिः शुद्धानीति कारणत्वेन मलत्रयराहिन्यंतच्छुद्धानि कार्यरूपत्वेन तद्युक्तत्वा दण्डत्वादण्ड शुद्धानीत्यर्थः || तथा || जीवप्राणधियश्चित्तं ज्ञानकर्मेन्द्रियाण्यथ | तन्मात्रा पंचभूतानि हृत्पद्मं तेजसां त्रयं || वासुदेवादयश्चेति तत्वान्येतानि शाङ्किनः | पंचभूतानि तन्मात्रा इन्द्रियानि मनस्तथा || गर्वोवुर्द्धिः प्रधानं च मैत्राणीति विदुर्वुधाः | निर्वृत्याद्याः कलाः पंच ततो विन्दुः कलाः पुनः || नादः शक्तिः सदा पूर्वः शिवस्य प्रकृतेः परः | आत्माविद्या शिवः पश्चाच्छिवो विद्या स्वयं पुनः || सर्व तत्वं च तत्वानि प्रोक्तानि भयदात्मनः | तत्वाध्वा कथितो ह्येषस्तत् तदागमभेदिभिः || ५०ब्) ईरीतो भुवनाध्वेति भुवनानि मनीषिभिरिति शारदायां || भुवनानि चतुर्दश भुवनाध्वेति कथितो भुवनानि चतुर्दशेति गौतमीयतंत्रवचनात् || वायवीयसंहितायां || आधाराद्युन्मन्यंतं च भुवनाध्वा प्रकीर्तित इत्युक्तं || तथा || वर्णाध्वेति वदंत्यर्णानादिक्षांतान्मनीषिणः | वर्णसंहः पदाध्वा स्यान् मंत्राध्वा मंत्रराशयः || वायवीयसंहितायां तु || अनेकभेदसंभिन्नः पदाध्वा पदसंहतिः | महामंत्रोपमंत्राणां वर्तते वयवात्मनां || प्रधानावत्वेन सोध्वा पंचपदात्मकः || गौतमीयेपि || पदाध्वा पदमूहः स्यादित्युक्तं मंत्रराशय इति वैदिक तांत्रिकमंत्र समूहः || मंत्राध्वा मंत्रराशिः स्यात् ते हि वैदिकतांत्रिका इति || शारदायां || क्रमादेतानध्वनः षट्शोधयेद्गुरु सत्तमः | पदांधूनाभि हृद्भाल मूर्धस्वपिशिशोः स्मरेत् || ततः कूर्चेन विधिवत्तं स्पृशन् जुहुयाद् गुरुः | आचार्यकुंडे संशुद्धैस्तिलैराज्य परिप्लुतैः || शोधयाम्यमुमध्वानं स्वाहेति पृथगध्वनां | ताराद्यमाहुतीरष्टौ क्रमात् तां विलयं नयेत् || अत्र मेरुतंत्रे || भिन्न क्रमतयोक्तः || ते कला तत्व भुवनार्ण पदामंत्र पूर्विकाः | शिष्यस्य पादयोश्चिंत्या गुरुणा तु कला ईमाः || निवृर्तिश्च प्रतिष्टा च विद्याशान्तिस्तथैव च | शांत्यतीतेति पंचाथ शोधन क्रम उच्यते || कूर्चेन च गुरुः शिष्यं स्पृशत् कुण्डे स्वके हुनेत् | तिलैर्घृताक्कैस्ताराद्यममुकाध्वनमत्र च || शोधयामि द्विठान्तेन मंत्रेणाष्टाहुती हुनेत् | तत्व ध्वनि विलीनन्तु कलाध्यानं विचिन्तयेत् || ततो लिंगप्रदेशेस्य तत्वान्येतानि चिन्तयेत् | गाणेशानि च शौव्य?नि तत्रैतानि रसाग्नयः || तद्यथा शिवशक्ती च सदाशिव महेश्वरौ | विद्येति पंचशुद्धानि शुद्धा सुद्धानि सप्त च || मायाविद्या कलारागः कारोति यतिरेव च | पुरुषश्चाप्य शुद्धानि प्रकृतिर्वुध्यहं कृती || ५१अ) मनश्चेन्द्रिय दशकं तन्मात्रा भूतपंचकं | अथ वैष्णव तत्वानि द्वात्रिंशत् प्रतितानि तु || जीवः प्राणो मनोवुद्धिस्तन्मात्रा भूतपंचकं | दशेन्द्रियानि हृत्पद्मं सूर्यसोमाग् भयस्तथा || वासुदेवश्च संकर्षणः प्रद्युम्नो निरुद्धकः | सौरानि भूततन्मात्र्य मनो गर्वेन्द्रियाणि च || प्रकृतिर्वुद्धिरिति च चतुर्विंशतिसंमिताः | दशैव शक्तितत्वानि आत्मा विद्या शिवा इति || शिवा विद्या तथात्मेति चात्मविद्या शिवाः पुनः | सर्वतत्वचेति पुनः प्राग्वदूहेन होमयेत् || तत्वाध्यायं विलीनस्तु चिन्तयेद्भुवना ध्वनिं | शिष्यस्य नाभौ चिन्त्यानि भुवनानि चतुर्दश || तानि क्रमेण पाताल रसातल महातलं | तलातलं च सुतलं वितलं चातलं च भूः || भुवः स्वर्महश्चापि जनस्तप इति क्रमात् | सत्यं च भुवना ध्यान होमाद्यूहस्तु पूर्ववत् || विलीनं भुवनाध्वानं वर्णाद्ध्वनि विचिन्तयेत् | अकारादि क्षकारान्तान् वर्णात् संचितयेद्धृदि || वर्णाध्यायं विलीनस्तु पदाध्वनि विचिन्तयेत् | होमोहः प्राग्वदेवात्र ललाटे चिन्तयेत् ततः || पदाध्यानं मूलमंत्र पदवर्ण स्वरूपकः | पदाध्यातोर्हहोमादि प्राग्वदेव समाचरेत् || मंत्राध्वनि विलीनस्तु पदाध्यानं विचिन्तयेत् | संपूर्ण मंत्राध्वा चिन्तयेच्छिष्य मूर्धनि || होमोहः प्राग्वदेवात्र विलीनोयं परे शिवे | ब्रह्मरन्ध्रस्थिते ध्यायेदेतत्स्यादध्वशोधनं || सृजे सृष्टा विलीनानतान् शिवान्ताच्च गुरुत्तमः | इति सुधीभिरवधेयं || अग्रे तुल्यां || मेरुतंत्रे || देशिकेन्द्रश्च तं शिष्यं दृष्ट्वा दृष्ट्वा च दिव्यया | तच्चैतन्यं स्थितं स्वस्मिन् तस्मिन् नेव च योजयेत् || कुलार्णवे || शूद्रशंकरजातिनां नाध्वशुद्धिर्विधीयते | पादोदक प्रदानाद्यैः कुर्यात् पाशविमोचनं || शारदायां || स्रूचा पूर्णाहुतिं दत्वा मूलमंत्रेण देशिकः || ५१ब्) वायवीयसंहितायां || ततो होमावशिष्टेन घृतेनापूर्य वै स्रूचं | निधाय पुष्पं तस्याग्रे स्रूवेणाधो मुखेन तां || सदर्भेण समाच्छाद्य मूलेनांजलिनोत्थितः | वौषडन्तेन जुहुयाद्धारां तु यवसमन्वितां || मेरुतंत्रे || सर्पिषास्रूवमापूर्य पुष्पं चोपर्यधो मुखं | स्रुगुपरिस्रुवं दत्वा पुष्पं तत्र प्रपातयेत् || हयशीर्ष पंचरात्रे || हुत्वा च हविषा दद्यात् स्रूचा पूर्णाहूतित्रयं || वौषडन्तेन मंत्रेणेति || नारदपंचरात्रे || अभावे तु घृतस्यैव होमद्रव्येण पूरयेत् | तस्योपरि घृतं दद्यात् तदूर्ध्वं कुंकुमादिकं || भूर्णायागे || मूलं नमोंतमुच्चार्य वामपादपुरःसरं | दद्यात् पूर्णाहुतिं मंत्री परामृतधिया ततः || अत्रेष्ट देवतावरण देवताभ्य एकैकामाहुतिं प्रयच्छन्ति || इति युक्तं || मूलं नमोन्तवौषडन्तेनति यदुक्तं भूर्णयागादौ तच्चिंत्यं दक्षेतर विषय त्वात् || मेरुतंत्रे विशेषेणोक्तो यथा || दक्षपादं पुरस्कृत्य दक्षः पूर्णाहुतिं चरेत् | दद्यात् पूर्णाहुतीस्तिस्रः सर्वकाम प्रपूरणीः || पूर्णादर्वीति मंत्रेण मूले नैव सुसंयुतंः | कुर्यात् स्वाहान्त मंत्रेन फलाज्येन तु वैदिकः || शक्तिहोमे वामपादं वामपादं पुरस्कृत्य || वाममार्गी च सर्वतः || मूलेन वौषडन्तेन स्वाहान्तेन तु यत्नतः | होमस्तु मद्यमांसाभ्यां तीर्थाज्याभ्यां च पूर्णतामित्युक्त त्वात् तत्वमेतत् || अन्यदपि || नक्षत्राणां सवाराणां राशीनां च पृथक् पृथक् | देवताभ्यः पदं प्रोक्ता दिवा नक्तं वदेत् तथा || चारित् पश्चाथ सर्वेभ्यो भूतेभ्यश्च नमो वदेत् | इत्येषस्तांत्रिको होमविधिः प्रोक्तो मया सुराः || गौतमीये || स्रुक्स्रुवौ च समादाय घृतोनापूर्य तत्पुनः | होमद्रव्याणि निःक्षिप्य नाभौ संस्थाप्यतौ पुनः || ब्रह्मार्पणेन मनुना दद्यात् पूर्णाहुतिं पुनः || मेरुतंत्रे || ब्रह्मार्पणाख्य मंत्रेण सर्वकर्मछिदे सुधीः | जुहुयादाहुतीरष्टौ केवलाज्येन मंत्रवित् || इतः पूर्वं प्राणवुद्धि देहधर्माधिकारतो जाग्रत् स्वप्न सुषुप्त्यवस्था सुमनसा वाचा कर्मणा हस्ताभ्यां पद्भ्या सुदरेणशिस्नायत् स्मृतं यदुक्तं यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा || ५२अ) ब्रह्मार्पणमनुः सायं ब्रह्मार्पण विधौ स्मृतः | एवं होमविधिं कृत्वा कुण्डस्थंडिलदेवताः || दिक्पाल देवताश्चापि अंकुलार्पण देवताः | आनयेत् कलशे चापि कृष्णैक्यं भावयेद् गुरुः || कृष्णेति प्रकृताभिप्रायेण || मेरुतंत्रे || पुनसंपूज्यगन्धाद्यैर्मूलमंत्रेण मंत्रवित् | कुण्डादुद्वास्य चाचार्यो देवजां कलशो न्यसेत् || सांगां सावरणां तत्र पूजयेच्च यथाविधि || शारदायां || उद्वास्य देवतां कुम्भे सांगां सावरणां गुरुः || मेरुतंत्रे || सप्तव्या हृत्यग्नि जिह्वांगं मूर्तीनामथैकिकां || दुग्धेन परिषिच्य || शारदायां || पुनर्व्याहृतिभिर्हुत्वा जिह्वादीनां विभावसोः | एकैंकामाहुतिं दत्वा परिषिंच्याद्भिरात्मनि || पावकं याजयित्वा स्वेपरिधीत् सपरिस्तत्रान् | नैमित्तिके दहेन् मंत्री नित्ये तु न दहेदिमान् || मेरुतंत्रे || ततः परिष्टरानग्नौ परीधीन् प्रक्षिपेन्नतु | नित्ये नैमिर्त्तिके तास्तु क्षिपेद् देशिक सत्तमः || व्याहृतिभिः || पुनः समापयेद्धोमं महाव्याहृति पूर्वकमिति शारदा वचनाच्च || तत्प्रकारस्तु गौतमीये || पूर्णाहुतिं ततो दद्यात् षड्भिश्चैव विधानवित् | ओं भूरग्नये पृथिव्यै च महते स्वाहया तथा || भुवो वायवे चांतरिक्षाय महते स्वाहया ततः || स्वश्चन्द्रमसे दिग्भ्यश्चन क्षेत्रेभ्यश्च स्वाहा || ओं भूर्भुवः स्वश्चन्द्रमसे नक्षेत्रेभ्यो दिग्भ्यश्च महते स्वाहा || पावकं योजयित्वेति तत्प्रकारस्तुमेरौ || अग्निं प्रार्थयीत् ततो गुरुः || भो भो वह्ने महाशक्ते सर्वकामप्रदायक | कर्मान्तरेपि संप्राप्ते सांनिध्यं कुरु सादरं || इति मंत्रेण संप्रार्थ्य वह्निमुद्वासयेदपि || गणेश्वर विमर्षिण्यांमपीत्ये वा || शारदायां || नेत्रे शिष्यस्येवध्नीयान्नेत्रमंत्रेण वा ससा || ५२ब्) मेरुतंत्रे || वस्त्रेण नेत्रेण मंत्रेण सिध्यनेत्रे निवध्यते || महाकपिल पंचरात्रे || नवेन शुक्तवस्त्रेण नेत्रे वधेत्युक्तं || पिंगलामते || नेत्रवस्त्रेण तन्त्रेत्रेनेत्रमंत्रेण वन्धयेत् || नारायणीये || नेत्राद्यैर्नेत्रे नेत्रेण वन्धयेदिति || मेरुतंत्रे || कुण्डाद्धस्ते समादाय जयन्मंत्रन सन्निधौ | सुमनोभिः प्रयूर्यास्य ह्यंजलीः क्षेषयेत् पते || मूलमंत्रोच्चार पूर्वं देवता प्रीतये गुरुः || शारदायां || करे गृहीतं शिष्यं कुंडतो मंडलं नयेत् | तस्यांजलिं पुनः पुष्पैः पूरयित्वा यथाविधि || कलशे देवता प्रीत्यै क्षेपयेन् मूलमुच्चरेन् || नारायणीये || न्यासं शिष्य तनौ कृत्वा तं प्रदक्षिण मानयेत् | पश्चिमद्वारमानीय क्षेपयेत् कुसुमांजलिं || पिंगलामते || पुष्पैरंजलिमापूर्य योगपीठे प्रदापयेत् | पश्चिमोत्तर रुद्रेन्द्रैः पुष्यमातः शुभः शुभे || आत्मयोग क्रमाद्भूयः संहृत्यो पाद्य देशिकः | तत्तन्मंत्रोदितान्यासाद् कुर्याद् देहेशिशोस्तदा || आत्मयागो भूतशुद्धिः || प्रयोगसारे || गुणांशेन पृथिव्यादि भूतानि विलयं नयेत् | यथावत् पिण्ड संस्थानि संहार क्रमयोगतः || ततः सृष्टि क्रमेणैव पिण्डं संभावयेत् तदा || मेरुतंत्रे || नेत्रवन्धमपास्योयं वेशयेत् कुशसंस्तरे || मंत्रतंत्र प्रकासे || उपविश्यासना दिव्ये संहरेत् तस्य विग्रहं | गंधादि घ्राणसंयुक्तो पृथिवीमप्सु संहरेत् || इत्यादि || मेरुतंत्रे || ततश्च पाटयेच्छिष्यं मंत्रमेनं गुरुत्तमः | अज्ञान तिमिरान्धस्य ज्ञानांजनशलाकया || चक्षुन्मीरुलीतं येन तस्मै श्रीगुरुवे नमः || शारदायां || पंचोपचारैः कुंभस्थां पूजयित्वेष्ट देवतां | तस्या तंत्रोक्त मार्गेण विदध्यात् सकली कृतीं || मेरुतंत्रे || पंचोपचारैरभ्यर्च्य कलशस्थेष्ट देवतां | तंत्रोक्त वर्त्मना तत्र सकली कृति माचरेत् || एतदनंतरमाचार्यैर्देवता शकाशाद्वरप्रार्थमुक्तं || ५३अ) कारुण्य निलये देवि सर्वसंनिधि संश्रये | शरण्यवत्सले मातः कृपामस्मिन् शिशौ कुरु || आणव प्रमुखैः पाशैः पाशितस्य सुरेश्वरि | दीनस्यास्य दयाधारे कुरुकारुण्यमीश्वरि || ऐहिकामुष्मिकैर्भागैरपि संवर्धतामसौ | सुभक्तिः सकला चास्मै दीयताण् निष्कला श्रय इति || प्रयोगसारे || अथैशान्यां दिशि यथा मंत्र विन्यस्त विग्रहं | पीठस्था चतुरस्रायां वेद्यान्दर्भाग्रपाणिनं || अभिषिंचेत् स्वकं शिष्यमात्मतत्वानुवर्तिनं || मेरुतंत्रे || अथोपवेशयेच्छिष्यं भूमितं मण्डलांतरे | अथ शिष्यं चाभिषिंचेदाशु संपदवाप्तये || सोमशंभौ || यागालयाद् दिशी शस्य रचिते स्नानमंडपे | कुर्यात् करद्वयायामाचेदिनष्टांगुलोच्छ्रितां || श्रीपर्णाद्यासने तत्र विन्यस्यानंतमासने | शिष्यं निवेश्य पूर्वास्यं सकलीकृत्य पूजयेत् || तत्रैव || स्नानेनूदङ्मुखं मुक्तौ पूर्ववक्त्रं च भुक्तये || अन्यत्रापि || मंडलं त्वीशदिक् कृत्वा मुमुक्षुनुत्तरननात् | भुक्तये पूर्ववक्त्रांश्चाशिष्यांस्तत्र निवेशयेत् || मेरुतंत्रे || अथोपवेशयेच्छिष्यं भूषितं मण्डलांतरे || कुंभास्यस्थ्वसुरद्रूंश्च मूर्धन्यश्य शिशोर्गुरु || अथ पंचनिनादैस्तु विप्राशीर्वचनैः सहः | सुस्थितं नियतात्मांनं सिंचत् कलश पुष्पकैः || शारदायां || नदत्सु पंच वाद्येषु सार्धं विप्रा सिखा गुरुः | विधिवत् कुंडमुद्धृत्य तन्मुख स्थानसुरद्रुमान् || शिशोः शिरसि विन्यस्य मातृकां मनसा जपन् | मूलेन साधतैस्तोयैरभिषिंचेत्तमात्मवित् || मातृकां विलोम मातृकां || क्षाद्यैरांतै वर्णैरभि पूर्णां || शिष्य शिरसि संयोज्य विलोममातृकां जपन् || मूलमंत्रं तथा जप्त्वा कुर्याद्देवाभिषेचनमिति गौतमीयवचनाच्च || तथा || पूजितां पुनरादाय वर्धनी मंत्ररूपिणीं | ५३ब्) तस्याः सुसाधितैस्तौयैः सिंचेद् रक्षार्थमंजसा || अवशिष्टेन तोयेन शिष्यमाचमयेद् गुरुः | ततस्तं सकलीकृत्य देवतात्मानमात्मवित् || उत्थाय शिष्यो विमले वा ससी परिधाय च | आचम्य वाग्वतो भूत्वा निषीदेत् संनिधौ गुरोः || देवतामात्मनः शिष्ये संविक्तां देशिकोत्तमः | पूजयेद् गंध पुष्पाद्यैरैक्यं संभावयंस्तयोः || दद्याद्विद्यां ततस्तस्मै विनीतायांदु पूर्वकं || मेरुतंत्रे || अथ शिष्यं चाभिषिंचेदाशुसंपदवाप्तये | गृहीत्वाभ्यर्चितं पूर्वं करकं ह्यस्त्ररूपिणं || तत्तोयैरभिषिंचेत्तं रक्षायै देशिकोत्तमः | जेलन शिष्टेन शिशुं गुरुराचामयेत् ततः || तद् देवता स्वरूपे च विदध्यात् सकलीकृतिं | वाससा विवलिरंम्ये परिधायाज्ञया गुरोः || आचम्य निकटे तस्य सम्यक्तस्य मनुं त्रिशः | दक्षकर्णे वदेद्विद्वान्विप्रायोदकपूर्वकं || गौतमीये || न्यासजालं तस्य देहे गुरुः संन्यस्य यत्नतः | दक्षकर्णे वदेन्मंत्रं त्रिवारं पूर्णमानसः || कुलामृते || विद्यांत्रिः कथयेत् कर्णे यावज्ञानं च वा पुनः || दीपिकायां || ऋष्यादि युक्तमथ मंत्रवरं यथावद्द्रूयात्रिशो गुरुरनर्घ्य स वामकर्णे || अन्यत्रापि || दक्षकर्णे त्रिशो विद्यामेकोच्चारेण चोच्चरेत् | एव विधिर्द्विजातीनां स्त्री शूद्राणां च वामतः || तत्रांतरे || आवयोस्तु फलदो भवत्वे च मुदीरयेत् | प्रसन्न वदनस्तस्मै शिष्याय मुनि पुंगवाः || ततो ज्योतिर्मयीं विद्यां गच्छंती भावयेद् गुरुः || आगतां भावयेच्छिष्य इति || मेरुतंत्रे || अन्येभ्यस्तु वदे देवमेव मंत्रं विचक्षणः | अन्यभ्य इति विप्रे तरेभ्यो मंत्रपाठ मात्रं नोदक पूर्वमिति || तथा || स्वयं ज्योतिर्मयीं विद्यां गच्छंती भावयेद् गुरुः | आगतां भावयेच्छिष्यो न सोस्मीति विशेषदः || अष्टोतरशतं शिष्यः प्रजपेद् गुरुणोदितं | ५४अ) अष्टाविंशतिवारं वाह्यष्ट कृत्वोथ वा जपेत् || गुरुदेवात्म मंत्राणामैक्यं शिष्यो विभावयन् || गौतमीये || गणेशादि मनुं चोक्ता समयात् कथयेद् गुरुः | इदन्तु पंचायतन दीक्षा पक्षे || समीपे चक्रराजं च सम्यगभ्यर्च्य यत्नतः | आद्याक्षरेण संलग्नं सुन्दरं नाम कल्पयेत् || आत्मानं योजयित्वा तु गुरुभिर्मानवैस्ततः | स्मर्तव्या गुरवः सर्वे सम्यक् प्रणति पूर्वकं || भूमौ लिखित्वा विद्यां च सम्यक् पुष्पादिभिर्यजेत् | शिष्याय दर्शयेद् विद्यां प्रजप्तां शतधा प्रिये || यदि स्यान्महती प्रीति शिष्यस्य प्राणदस्य च | तदैकोच्चार मात्रेण दक्षकर्णे जपेत् परामिति दक्षिणामूर्ति संहितायां || तंत्रराजेति || उक्त लक्षणसंपन्नं शिष्यमाचारभूषणं | पंचषट्कूटविद्याभ्यां शोधितं वहुवासरैः || कलशैरभिषिंच्यामुं श्रीचक्रे संनिवेश्य च | आधारे हृदये मूर्ध्नि चक्रं संचिंत्य मध्यतः || स्वांतादावाह्य संस्थाप्य संपूज्य न्याससंयुतं | त्रिंशो विद्यां वदेत् कर्णे दिव्यात्मा पूर्णमानसः || देवता गुरुमंत्रात्म तत्वैक्यं भावयन् सदा | शतं जपेत् तदग्रस्थो निकटे त्रिदिनं वसेत् || न चेत् संचारिणी शक्तिर्गुरुमेति न शंशयः | तस्मात् तदंतिके तस्य पूजादेशादि कृद्वसेत् || गौतमीये || त्रिदिनं निवसेद् भक्त्या सिद्धये गुरुसंनिधौ | अन्यथा तद्गतं तेजो गुरुमेति न संशयः || मंत्र तंत्र प्रकाशे || आचार्यादनभिप्राप्तः प्राप्तश्चादत्त दक्षिणः | सततं जप्यमानोपि मंत्रः सिद्धिं न यच्छति || सर्वस्वं वा तदर्धं वाविर्तंशाध(?) विवर्जितं | गुरवे दक्षिणां दत्वा ततो मंत्रग्रहो मतः || मेरुतंत्रे || अलंकारांश्च वासांसि दद्या दृग्विगभ्य(?) आदरात् | ईश्वरावर्णवुध्या तु द्विजाशीर्भिश्च नंदितः || प्रदद्याद्गुरवे शिष्यः स्वधनार्धं तदर्धकं | दशांशं वा प्रदद्याच्च वित्तशाठ्यविवर्जितः || गो भू हिरण्य विपिन गृहक्षेत्रादिकं तथा | ५४ब्) अक्लेशादन्नवस्त्रादि दद्याद्वित्तानुसारतः || गौतमीये || गुरुचे दक्षिणां दद्याद्विर्तार्धं भक्ति तत्परः | तदर्धं वा ततो दद्याद् यथा शक्त्याथ भक्तितः || वित्तशाध्यं न कुर्वीत कृतेऽनर्थं समावहेत् | गो भू हिरण्य वस्त्रादि गुरवेथ निवेदयेत् || गुरुपुत्रेपि तत्पत्न्यै तच्छिष्यैपि स्वशक्तितः | वस्त्रालंकारणं दद्याद्भोक्यमिष्टं यथा रुचि || ऋत्विग्भ्यो दक्षिणां दद्या वस्त्रालंकारसंयुतां || तंत्रांतरे || गो भू हिरण्य विपुलं गृहक्षेत्रादिकं वहु | न चेदर्धं तदर्धं वा तद्दशांशमथापि वा || अक्लेशादन्नवस्त्रादि दद्याद्वित्तानुसारतः || मेरुतंत्रे || प्रकारांतरमालंव्य गुरुं यत्नेन वोधयेत् | तदधीनमना नित्यं तच्चिंतनपरायशः || तत्पादाव्ज रजोभूषो भवेत् साधकसत्तमः || ब्रह्मसंहितायां || अदक्षिणं कृतं कर्म वृथा नारद निश्चितं | वीणां मे दक्षिणां देहि साक्षसूंत्रं कमंडलुं || ततो मंत्रं गृहाणत्वं यथाविधि महामुने | विधिहीनं कृतं कर्म सिद्धिं नैव प्रयच्छति || तथा || प्रणीतामार्जनं कृत्वा दद्याच्च ब्रह्मदक्षिणां | स्वस्ववित्तानुसारेण लोभमोहविवर्जितः || ततो ब्रह्माणमुद्वास्य ब्राह्मणान् भोजयेदथा || मेरुतंत्रे || ततो ब्रह्माणमुद्वास्य ब्राह्मणाय प्रदापयेत् | द्वात्रिंशत्पल मात्रे योनिर्मीतं ताम्रपात्रकं || तण्डुलैस्तत्समापूर्य स हिरण्यं स दक्षिणं | दद्याद्विप्रायतन्तुष्टौ पूर्णमितिरितमिति || अत्र प्रणीता मार्जन ब्रह्मोद्वासनं कृत्वा दीक्षामिति मेलौ || दीक्षानन्तरमिदमिति वहवः || मेरुतंत्रे || ततो नानाविधै भक्ष्यैर्लक्ष्य चोष्यैस्तथापरैः | ब्राह्मणान् भोजयेत् सम्यक् प्रदद्याद्भूरि दक्षिणां || लेह्य चोष्यैरिति पथ द्वये प्यन्वयः || ब्रह्मसंहितायां || हुतशेषं ततः प्राश्य कुक्कुटाण्डु प्रमाणकं || मंत्रितं मंत्र गायत्र्येति || ५५अ) वायवीयसंहितायां || मण्डपं गुरवे दद्याद्यागोपकरणैः सह | मंत्रं दत्वा सहस्रं वैस्वसिध्यै देशिको जपेदिति नारायणीय महाकपिल पंचरात्रयोः || अष्टोत्तर सहस्रं स्वशक्तिहानानवाप्ते ये जप्यादित्यन्यत्रापि || कुलामृते || दण्डवत् प्रणतं शिष्यं सर्वाचारांश्चाशिक्षयेत् || तंत्रान्तरे || स्नानसंध्या सदाचारं नित्यं काम्यं तथैव च | मंत्रसिद्धि प्रकारांश्च शिष्यायाभि वदेद् गुरुः || समयाचारश्चाग्रे वक्षते || दीक्षादिवसे उपवासो निषिद्धः || तदुक्तं योगिनीतंत्रे || मत्रं दत्वा गुरुश्चैव उपवासं यू आचरेत् | महान्धकार नरके कृमिर्भवति नान्यथा || दीक्षा कृत्वा यदा मंत्री चोपवासं समाचरेत् | तस्य देवः सदारुष्टः शापं दत्वा पुरं व्रजेत् || अथ वीर दीपिकायां विशेषः || यथा मेरुतंत्रे || कुलद्रव्यैः समभ्यर्च्य कुलचक्रं विधानतः | शिष्याय दर्शयेत् सम्यग् दीक्षै वा कौलिकी मता || तत्र भूतशुद्धि मातृकान्यास सोढान्यासादिकं सर्वं गुरुः स्वशरीरे शक्तिशरीरे च विधाय कलश स्थापनं च कृत्वा दूतीयाग क्रमेण कुण्डगोलोत्थ द्रव्यमुत्पाद्य संस्कृत्य मत्स्यमांसादेरपि संस्कारं विधाय वक्ष्यमाण वीरपूजा क्रमेण देवतां संपूज्य शिष्याय मंत्रदान समये शिष्यहस्ते महेशानि पात्रं दत्वा कुलेश्वरीति वीरचूडामण्यूक्त वीरपात्रं || इदं पवित्रममृतं पीयतां भवे भेषजं || पशुपाश समुच्छेदकारणं भैरवोदितमिति कुलार्णवोक्त मंत्रेण शिष्यहस्ते दद्यात् || शिष्योप्यने नैव मत्रेण पीयतामित्यत्रपि वामीति पथित्वा वक्ष्यमाण धर्माधर्महवीर्दीप्त इत्यादि मंत्रेण पिवेत् || ततो गुरुर्मंत्रं दद्यात् || तत्र यामले || ऋष्यादि सहितामेनां लिषित्वा भूमिमध्यगां | पुष्पादि नाममभ्यर्च्य शिष्यायाथ प्रदर्शयेत् || यदि शिष्ये महाप्रीतिस्तदा कर्ण वदेत् गुरुः | ५५ब्) ततोप्यतितरां शिष्यो गुरोश्चेत् प्रीतिभाजनं || तदा गंडुष पूर्व हि दद्यादेनां गुरुत्तमः | निर्विकल्पोपि शिष्यस्तद्गृह्नीया दृष्टमानसः || तदभावेन सिद्धिः स्याद् देवताशापमाप्नुयात् || मेरुतंत्रे || सिद्धद्रव्यं मुखे पूर्य पंचव्यो मातृतान्वितं | अभिषिंचेत् प्रियं शिष्यं गण्डुषाख्योयमीरिताः || दक्षिणामूर्तिसंहितायां || कलशस्थैः पल्लवैस्तु त्रिवारं प्रोक्षयेच्छुभां | भवेद्यदभिषिक्तस्तु तदासौ देशिकाग्रणीः || गंदुष तत्व संयुक्तस्तदार्होयं शिवार्चनं | अन्यथा नैव सिद्धिः स्यात् स विकल्पस्य पार्वति || गंडूषदाने शिष्यस्य विकल्पो यदि जायते | न सिद्धिस्तस्य कुत्रापी श्रीविद्यापि पराङ्मुखी || शेषं पशु समानं || अथ तारा दीक्षायां विशेषः || विल्वपत्रेन अष्टोत्तर सहस्रं अष्टोत्तरशतं वा अष्टाविंशतिवारं वा होमं कृत्वा पायसं कृशनं मोदकं शर्करां छागवलिं दत्वा गोधामांसं रंभा पुष्पं साल मत्स्यं च जुहुयात् || ततः शाल्पेन्नं यवं क्षीरं हुत्वा दीक्षेयेत् गो भू हिरण्यादि दक्षिणामिति नीलतंत्र वचनात् || चामुण्डतंत्रे || उपविद्यासु सर्वासु षट्कर्मादि प्रसाधने | नात्र दीक्षास्ति नात्रांगादि प्रपूजनं || उपविद्या यदिण्यादिः षट्कर्मादि प्रसाधन विद्यायां वश्यादौ मंत्र प्रयोगे मंत्रविशेषाः || ननुः पुस्तके लिखिता मंत्रो येन सुन्दरि जप्यते || न तस्य जायते सिद्धिर्हानिरेव पदे पदे | गुरुमुख्याः क्रियाः सर्वा भुक्ति मुक्ति फलप्रदाः || गुर्वनुक्ताः क्रियाः सर्वा निष्फलाः स्युर्यतो ध्रुवं || इत्यादि नानावचनात् कथमेवमिति चेत् न कुण्डपाचार्यादि वरण होमादि पूर्वक दीक्षानिषेधेप्युपदेशानिषेधात् || तंत्रांतरे || चन्द्रसूर्य ग्रहे तीर्थे सिद्धिन्तत्रे शिवालये | मत्रमात्र प्रकथनमुपदेशः स उच्यते || इत्यादिना उपदेशस्यापि विहितत्वात् || ५६अ) न च शास्त्राद्वा ज्ञात्वा मंत्रं प्रसाधयदिति वचनात् || पुस्तकादपि मंत्रज्ञानं सिद्धि जनकमिति वाच्यं अत्रेति कर्तव्यता याः शास्त्रेण ज्ञानविधानात् मंत्रमित्यस्य साधयेदित्येनेनैवान्वयात् || मेरुतंत्रे || एवं क्रियामयी दीक्षा रूपं दात्री निरूपिता | राज्ञां धनाद्य वैश्यानां विप्राणां व्यवसायिनां || अयं दीक्षाक्रमः प्रोक्तो भोगयुक्सिद्धिमिच्छतां || इति क्रियावती दीक्षाविधिः || अथ वर्णमयी दीक्षा || मेरुतंत्रे || अथ वर्णमयीं दीक्षां श्रुण्वं तु ज्ञानदायिनीं | पुंप्रकृत्यात्मकत्वं च वर्णानां समुदीरितं || तादृक्तं च शरीरस्य प्रोक्तो मेवास्ति देशिकैः || शारदायां || पुंप्रकृत्यात्मका वर्णाः शरीरमपि तादृशं | यतस्तस्मात् तनौ न्यस्येद् वर्णान् शिष्यस्य देशिकः || मेरुतंत्रे || ततस्तनौ शिशोर्न्यस्योदर्णान्देशिक सत्तमः | संहरेद् वैपरीत्येन वर्णात् तत्स्थानसंस्थितान् || देशिकेन्द्रः स्वसामर्थ्यादाज्ञया देवतात्मनः | देवतात्मा भवेच्छिष्यस्तदा संलीन तत्वकः || ततस्तु शिष्य चैतन्यं परमात्म नियोजयेत् | तानर्णांस्तत उत्पाद्य न्यसेच्छिष्य शरीरके || तस्मिंश्च शृष्टि क्रमतस्तच्चैतंन्यं पुनर्न्यसेत् | भवेच्छिष्यो देवतात्मा नित्यानन्दात्मकः शिवः || ज्ञानदार्शमयी दीक्षा कथिता सर्वसिद्धिदा || शारदायामपीइति || इति वर्णमयी दीक्षाविधिः || अथ कलावति दीक्षा यथा || तत्रैव || अथ वक्ष्ये कलां दीक्षां मणिमाद्यष्ट सिद्धिदां | वदे पंच कला दीक्षा दक्षेष्ट त्रिकलामता || कुपंचाशत्कला वामे सिद्धमंत्रं गुरोस्तु सा | ग्राह्याद्रूतं सिद्धिकर्त्रि विषरीते विपर्ययः || कलानिवृत्ति प्रमूखा भूतानां पंचचरिताः | शिष्यकाये भूतमये वेधयेत् ताः क्रमात् सुधीः || शारदायां || निवृत्याद्याः काला पंचभूतानां शक्तयो यतः | तस्माद् भूत मये देहे ध्यात्वाता वेधये छिशोः || ५६ब्) मेरुतंत्रे || पादादी जानुपर्यतं निवृत्तिः संस्थिता कला | भान्वोः सकाशादानाभि प्रतिष्ठाख्या कलास्थिता || नाभितः कण्ठपर्यन्तं विद्याख्या संस्थिता कला | कण्ठतोस्रा?ललाटं तु शांत्याख्या संस्थिता कला || भालाक्षिरावधि प्रोक्ता शांत्यतीता कला तथा | संहृति क्रमतो विद्वान् वेधये स्थानतोन्यतः || स्थाने स्वीयाज्ञया चैवं दीक्षा पंचकला स्मृता | अष्टत्रिंशत्कलादीक्षा युक्तिं शृण्वं तु देवताः || क्रमेण कादिका वर्णा पत्रे द्वादशसंस्थिताः | विलोमाभादिका यत्र तत्र स्थान द्वये कलाः || भावनीयास्तु सूर्यस्य षोडशासुविधोस्तथा | यकारादि स्थले वह्नेर्भावनीयाः कलादश || ततो वर्ण कलानां तु वर्णस्थानाच्च संहृतिः | पुनश्च जनयेच्छिष्यं कला दीक्षाविधिस्त्वयं || इति कलावती दीक्षाविधिः || अथ वेधमयी दीक्षाविधिः || स्पष्ठं मेरुतंत्रे || कौलिके वाममार्गो च वेधदीक्षा फलप्रदा | अन्यास्ता दक्षिणे मार्गेऽन्यथा तु परितो भवेत् || तत्रैव || दीक्षां वेधमयीं वक्ष्ये यां लब्धा तेजतेजनः | तत्कालमेव संसारं जीवन्मुक्तोभिजायते || मूलाधारे तु शिष्यस्य ध्यायेत्कजं चतुर्दलं | तस्या मध्ये त्रिकोणं तु तन्मध्ये चापि कुण्डलीं || त्रिरावर्तमयीं देवीं विद्युत्पुंज स्वरूपीणीं | महादेवमयीं साक्षाज्ञानमात्ररीरिणीं || अणोरणीयसीं देवीं चक्र षट्क प्रभेदिनीं | सुषुम्ना वर्त्मना दिव्यां यांगीं शिव गृहं प्रति || सांतवादि दलस्थार्णान् पद्मस्थाने समाहरेत् | षड्दले कमले तंतु लांतवाद्यर्ण यूग्दले || स्वाधिष्ठाने गुरुः सम्यग् योजयित्वा तु वेधयेत् | तदर्णानानयद्विष्णौ विष्णं तं नाभिषंकजे || फांतडाद्यर्ण संयुक्ते दिग्दले वधयेत् स्वयं | वर्णान् तान्योजयेद्रुद्रे रुद्रं तं हृत्सरोरुहे || ५७अ) कांतठाद्यर्ण पत्राब्जे वेधयेदीश्वरे स्वयं | वर्णान्तानाहरेदस्मिं कंठपद्मे च तं तथा || कलादलमये पद्मे स्वरान् संयोज्य यत्नतः | सदाशिवेथ संयोज्यतास्तद्भूमध्य पद्मके || द्विदलेहक्ष संयुक्ते वेधयित्वाथ देशिकः | शक्त्या सहैवमात्मानं नयेत् परशिवावधि || देशिकाज्ञावशाच्छिष्यो दग्धा ज्ञानस्तदाक्षितौ | पतेदवाप्त विज्ञानः सर्वज्ञो जायते ततः || सदाशिवः स्वयं भूयात् सत्यमेव न संशयः | इयं ज्ञानप्रदा प्रोक्ता दीक्षावेधात्मिका शुभा || शारदायां || साक्षाच्छिवो भवत्यष नात्र कार्या विचारणा | एषावेधमयी दीक्षा प्रोक्ता संवित् प्रदायिनीं || इति वेधमयी दीक्षाविधिः || अथ विविधविधदीक्षा || कुलरत्नोद्याते || दीक्षा च शांभवी शाक्ती आणवीति त्रिधा मता | शोभं वीनिष्पती शाक्ती शक्ताभिन्ना प्रकल्पयेत् || शाक्तशांभवसंमिश्रा आअणवी सा प्रकीर्तिता | एवं त्रिभिः प्रकारैश्च देवी दीक्षा भविष्यति || षडन्वय महारत्ने || आणवी वहुधा दीक्षा शाक्तेयी शांभवी पुनः | एकाधैवेति विद्वद्भिः पठ्यते शास्त्रकोविदैः || आणवी वहुध्येत्युक्त्वा तद्भेदस्त्वधुनोच्यते | स्मार्ती मानसिकीयौगी चाक्षुषी स्पार्शनी तथा || वाचिकी मांत्रिकी होत्री शास्त्री चेभ्यभिषेचिकी | विदेशस्थं गुरु स्मृत्वा शिष्यं पाशत्रयं क्रमात् || विश्लिष्यलय भोगस्य विधानेन परे शिवे | सम्यग्योजनरूपैषा स्मार्ती दीक्षेति कथ्यते || स्वसंनिधौ समासीनमालोक्य मनसा शुचिं | मलत्रया कुपायैर्या मोचकी सा तु मानसी || योगोक्त क्रमतो योगी सिष्यदेहं प्रविस्य तु | गृहीत्वा तस्य चात्मानं स्वात्मना योजनात्मका || योगदिक्षेति सा प्रोक्ता मलत्रय विनाशिनी | शिवोहमिति निश्चित्य वीक्षणं करुणाद्रया || दृशा सा चाक्षुषी दीक्षा सर्वपाप प्रणाशिनी | ५७ब्) अयं परशिवो भूत्वा निःसंदिग्धमना गुरुः || शिवहस्तेन शिष्यस्य स मंत्रं मूर्ध्नि संस्पृशेत् | स्पर्श दीक्षेति सा प्रोक्ता शिवाभिव्यक्ति कारिणी || गुरुवक्त्रं निजं वक्त्रं विभाव्य गुरुरादरात् | गुरुवक्त्र प्रयोगेन दिव्य मंत्रादिकं शिशौ || मुद्रान्यासादिभिः सार्धं दद्यात् सेयं हि वाचिकी | दीक्षा परा तथा मंत्रं न्यास संयुक्त विग्रहः || स्वयं मंत्र तनुर्भूत्वा सक्रसं मंत्रमादरात् | दत् शिष्याय सा दीक्षा मांत्री मलविद्यातिनी || कुण्डे वा स्थण्डिले वापी निःक्षिप्याग्निं विधानतः | लयभोग क्रमेणैव प्रत्यध्वानं यथाक्रमं || मंत्रवर्णा कला तत्व पदपिष्टपमेव च | शुध्यर्थं होमयेदषांहौत्री दीक्षा समीतिता || योग्यशिष्याय भक्ताय सुश्रुषार्चापराय च | सार्धं सास्त्रपदांत्रम्यां शास्त्री दीक्षेति चोच्यते || शिवं च शिवपत्नीं च कुंभे संपूज्यसादरं | शिवकुंभाभिषेकान्मा दीक्षास्यादाभिषेचिकी || लयभोगस्येति वेध दीक्षा क्रमेण मूलाधारादिस्थ वर्णदेवता संहाररूपस्येत्यर्थः || शिवहस्तेनेतीतंध्यैर्मण्डलकं स्वीये विदध्याद् दक्षिणे करे || विधिनात्रार्चयेद् देवमिस्थं स्याच्छिव हस्तकमिति सामशंभु प्रोक्त रूपेणेत्यर्थः || मेरुतंत्रे || गुरुः स्वस्य गुरुं ध्यायेत् स्वहस्ते शिवरूपिणं | मूलविद्यां षडंगं च मातृकादि मनुं जपन् || शिष्यस्य मस्तके दत्वा कृपया दक्षिणं करं | पश्चाद्रुपहिशेन् प्रोक्ता स्पर्शदीक्षाति सिद्धिदा || सदाशिवे तु चिद्रूपे गुरुश्चित्तं निधापयेत् | मंत्रान् समस्तान्ताज्जातान् ध्यायन् स्वयं तदात्मकः || जातो गुरोश्च कृपया केवलोहं सदाशिवः || इति ध्यायन्नुषदिशेद्वाग्दीक्षात्वियमीरिता | निमील्य नयने ध्यात्वा परमात्मनि देवतां || तद्दर्शनानंदपूर्ण नेत्राभ्यां वीक्षयेद् गुरुः | शिष्यं प्रसन्नचित्तेः सन्यश्चादुपदिशेदिति || ५८अ) मंत्रसिधस्य सिध्यैस्यादृग्दीक्षेयं फलदा | गुरोरालोकमात्रेण भाषणात् स्पर्शनादपि || सद्यः संजायते जानं सा दीक्षा शांभवी स्मृता | भुक्ति मुक्ति प्रसिध्यर्थं परीक्ष्ये विधिवद् गुरुः || पश्चादुपदिशेन् मंत्रं मन्यथा निःफलं भवेत् | अन्यायेन च यो दद्याद् गृह्नात्पन्यायतश्चयः || ददतो गृह्नतो वापि कुलशायो भविष्यति | गुरु शिष्या तु भौमो हादपरीक्ष्य परस्परं || उपदेशं ददं गृह्नत् प्राप्नुयातां पिशावतां | अशास्त्रीयोपदेशं तु यो गृह्नाति ददाति च || भुंजिते तावुभौ धारान्नरकानेक विंशतिः | असंस्कृत्योपदेशं तु यः करोति विमूढधीः || विनश्यंति च तन्मंत्राः सैकते शालि वीजवत् | अनर्हे मंत्र विज्ञानं न तिष्ठंति कदाचन || तस्मात् परिक्ष्य वक्तव्यमन्यथा निःफलं भवेत् | सच्छिष्याया विभक्तायत ज्ञानमुपविश्यते || तत्प्राप्नोति व्रती नित्यं गोक्षीरोत्तूयथा घृतं | धनेच्छा भयलाभाद्यैरयोग्यं यदी दीक्षयेत् || देवताशाप माप्नोति कृतं च विकृतं भवेत् || अथ पूर्णाभिषेकविधि || तदुक्तं तत्रैव || एवं दत्वा गुरुर्दीक्षां कूर्यात् पूर्णाभिषेचनं | विनायेनाभिषेकेण साधकः पूर्णबोधतां || आचार्यत्वं च माप्नोति सद्गतिं च समीहितां | तस्माद् गुरुः प्रियं शिष्यं वोधयित्वाभिषेचयत् || विरव्य विपुलं चक्रं मण्डपेति मनोहरं | खारीतो प्रभृतं कुंभं स्थापयेच्चक्र मध्यतः || अन्येषु कलशांस्तत्र वस्त्र हेमसमन्वितान् | दलोषु विविधाः स्थाप्यास्तत्रा वाह्येष्ट देवतां || अभ्यर्च्य मध्ये चान्येषु सांगावरण देवताः | स्पृशंश्च मध्यकलशमाचार्यः प्रपठेदिति || सांगांश्च चतुरो वेदान् ततस्तेन जलेन तु | अभ्यषिंचेद् गुरुः शिष्यमिति पूर्णाभिषेचनं || वेदेभ्यः सर्वतंत्राणि तत्रेभ्यो मनवस्तथा | यतो जातास्ततः शिष्यः सर्वमंत्रैकभाजनः || ५८ब्) भवेदाचार्यनामा च कुर्यान्नामांतरं गुरुः | एतादृशस्य या दीक्षां गृह्नीयात् स तु सिद्धिभाक् || सर्वमत्र प्रदानेषु समर्थः स तु जायते | सर्वदेवावशास्तस्य वेदपंठा तु सान्विकः || एष एव विधिस्तत्र मार्गे स्यादक्षिणाभिध्य | विशेषस्तत्रतो यानि तीर्थानामाहरेत् सुधीः || गंगाया यमुनायाश्च सरस्वत्या महोदधेः | सिंधुगोदावरीरेवा कावेरीत्यः पृथुदकान् || महेन्द्रजायाः सरयू चर्मश्चत्योश्च पुष्करात् | महानद्या वेदिकाया क्षिप्रावेत्रवतीजलं || कुरुक्षेत्रस्य गंडक्याः पूर्णाया मानसस्य च | घटे दद्याज्जपेन् मंत्रान्नानातंत्रगतानपि || अभिषिक्तस्तु तैस्तायैः सिद्धास्ते मनवोस्य तु | प्रयागार्थं तथान्यस्य दानार्थमिति पूर्णाभिषेकः || अथ वामिनां पूर्णाभिषेकविधिः || तदुक्तं तत्रैव || अथ वामके || मध्ये तीर्थघटः स्थाप्यः शेषास्तोय घटामत | ये ये आवाहि हिता देवा गुरुणा तु सुरोघटे || ते ते कूर्वंति सांनिध्यं मंत्ररूपाश्च तन्मुखे | स्वयं सिध्यति वागस्य मूर्धानं नैव नामयेत् || यदर्थं नामितो मूर्धा तस्य मृत्युर्न संशयः | वाममार्गे गुरुर्यस्य ईदृक् सिद्धो यदा भवेत् || शिष्यश्च निरहंकारः सदा दैवत तत्परं | देवतार्थं यस्यनांतत्रयं भोगे मनोन च || स एव सिद्धो वामस्यादन्योनिरयभाजनं | दरिद्रो दुःखितो मूर्ख इहलोके परत्र च || क्रिया दीक्षाविधिं कुर्याद् यथा शक्त्या गुरुक्तितः || अथापरविधिः || सजीव मीनयुक्तेन सुरया पूरितेन च | पंचामृतैः सुसंपूर्णं शंखेन कलसेन वा || अभिषेकं ततः कुर्यात् कूलवृक्षोत्थ पल्लवैः | अयं पूर्णाभिषेकोग्र कुलमार्गे प्रकीर्तितः || तथा तत्रैव महात्म्यं || उपपातक लक्षाणि महापातक कोटयः | क्षणाद् दहति दीक्षेयं विधिना गुरुणा कृता || रसन्द्रेण यथा विद्धमयः सौवर्णतां व्रजेत् | ५९अ) दीक्षाविद्धस्तथा ह्यात्मा शिवत्वं लभते ध्रुवं || गतं शूद्रत्वं गता विप्रस्य विप्रता || दीक्षा संस्कारसंपन्ने जातिभेदो न विद्यते | दार्वश्मलोह भृद्रत्न जातिलिंगं प्रतिष्ठितं || यथोच्यते महादेवस्तथा वर्णास्तु दीक्षिताः || सारसंग्रहे || अयं पूर्णाभिषेकः स्यात् साधकाभी सिद्धिदः | उभयः कौलिका नामा वश्यकोयं पूर्णाभिषेकः || तदुक्तं कुलार्णवे मेरुतंत्रे च || पूर्णाभिषेक हीनस्तु कौलिको म्रियते यदि | पिशाचत्व मवाप्नोति यावदाहूत संप्लवमिति || खारीमानमाह स्कण्डपुराणे || पलद्वयं तु प्रसृतिः कुंडवद्विगुणं मतं | चतुर्भिः कुडवैः प्रसृ आढकस्तैश्चतुर्गुणैः || चतुर्गुणो भवेद् द्रोणः कुंभस्तद्वयतः स्मृतः || कुंभैस्तैरष्टभिः खारीति || इति वामे पूर्णाभिषेकः || मेरुतंत्रे || अन्य गुह्यतमं वक्ष्ये सर्वतंत्रेषु गोपितं | यथा दद्याद्दैव तैव मंत्रंत्प्रव्रवीम्यहं || वर्णानाम्नाय पठितान् विद्धि चन्द्रादि वाचकान् | युक्तान् स्वरचतुष्केणाथोत्तरोत्तरसंख्यकान् || पूर्वदैवतसंकेतो मपायं समुदीरितः | अनामाद्याश्चाअत्र वर्णा ग्राह्याश्चांक युतौ तथा || अंकास्तु दक्षिणाम्नाये त्वनामाद्यर्ण वर्जिताः | द्वा द्वा वेकः पुनर्द्वौ च वर्गौ संकेत पाचकौ || आम्नाय क्रयतो वर्णा मात्रादि क्रमतस्तथा | अचस्वरास्तत्क्रमेण पश्चिमोत्तर देवयोः || चतुराम्नाय संकेताद्वणे वर्णेंकयोजनं | उर्धाम्नाय प्रकर्तव्यं वैदिके तु न किंचन || येन क्रमेण यद्देशे ये य वर्णाः प्रकीर्तिताः | तेन क्रमेण ते ग्राह्या वर्णा एकादि शंख्यकाः || मंत्रवर्णांक संयोगः स्वनामां केन संयुतः | तस्य मूलं यदा याति तदा स्वप्नः प्रजायते || मूलाभावे देवताया नामांकांन्योजयेत् पुनः | ग्राह्यं मूलं नैति यदा पीठनामांक योजनं || पुनमूलं नैतियया पीठनामांक योजनं | ५९ब्) पुनर्मूलं नैति यदा तदा स्वप्नो न जायते || गुरोरपि गृहीतश्चेत् समंत्रो नाशको भवेत् | याम्योत्तरं प्रागपरं मूलांक समकोष्ठकान् || लिखीत्वैकादिकानंकान् लिखेत् स्याद् गणना यथा | सर्वतः समसंख्याकातद्युक्तिरधूनोच्यते || विषमे प्रथमो लेख्य उदङ्मध्ये तथांतिमे | अश्वगत्या द्वितीयः स्यान् मंत्रिगत्पाततः परं || आदि गंतं लिखेत् पश्चादश्वगत्यैव पूर्ववत् | मंत्रिगत्याथ तद्रोधे नृपस्य गमनं चरेत् || पुनर्मंत्री गतिं कुर्यात् प्राग्वदश्व गतिं पुनः | एवं पुनः पुनः कार्यं गुरुदर्शित वर्त्मना || अंकानां जायते पूर्तिः सर्वतः समता तथा | एवं विषमयं त्राणामुद्धारः परिकीर्तितः || इन्द्रेण वाणवेदेन्दु वसुदिक् तिथि भास्कराः | विश्वत्रयः षट् सप्तद्विषोडशांकमितात् क्रमात् || चतुर्णां वर्गकोष्ठेषु लिखेदंकान्समा इति | एतन्मध्यं प्रकल्प्याथ माहेश्यामंतिमं न्यसेत् || उ?पान्तिमन्तथाग्नेयां नै-ऋत्यां प्रथमं न्यसेत् | वायव्यां तु द्वितीयं स्या ततः संख्या यथा भवेत् || पूर्णा तथैव संधार्याः काष्टायामंविकेंककाः | तत्प्रतिस्पर्धिनः स्थाप्यास्तत्स्पर्धिन्यां तथा दिसि || एवं तु समयं त्राणां परिपूर्तिः प्रकीर्तिता | भाज्यभाजक यंत्राणामथ वा लेखयेत् क्रमं || न ज्ञायते विनाचार्यं यथादित्यं विलाखिलं | आदित्य वासरे स्नात्वा प्राक् सूर्योदयतस्ततः || सूर्योदय तदर्प्याणि दत्वा गृहं विशेत् | स्वतो नीचं तु नेक्षेत शब्दं नैव प्रयोजयेत् || सुमुहुर्ते लिखेद्यग्रं भूर्जे वाता उपत्रके | तत्तद्देवाष्टगंधेन दले वाऽमंडके लिखेत् || आदौ गणेशं संपूज्य ततः खेषं?श्च दिक्पतीन् | एकान्ते च लिखेद् यंत्रं तद्दिनै मौनमाचरेत् || न पश्येन् निंदितं द्रव्यं ब्रह्मचारी हविष्य भुक् | यंत्रोर्धं विलिखन्मंत्रं तदुदकुथपद्वयं || ङेतं स्वाध्यंतले दक्षे ठद्वयं विलिखेदिति | ६०अ) कौसुम्भे पीतवसने रक्ते कृष्णे सिते तथा || नीले प्रादेश मात्रेषु प्रागाद्याम्नाय दैवते | यंत्रं सुवेष्टये तत्र स्नेहः कुडवसंमितः || तिलतैलं महिषाज्य मतस्याः स्वास्वसं तथा | गोघृतं च वसा चेति पूर्वादीष्ट प्रकल्पयेत् || अक्षेतैर्वीलिखेद्भूमौ पद्ममष्टदलं तथा | कर्णिकायामुत्तरतोह्यविघ्नं गणपं यजेत् || ईष्टदेवं तथा मध्ये क्षेत्रपालं च दक्षिणे | अष्टौ दिगीशान् पत्रेषु पूजयित्वा विसर्जयेत् || ततः पश्चात् कर्णिकायां स्थापयेद् दीपिकां शुभां | तत्र दीपं प्रतिष्ठाप्य ज्वालयेत् पूजयेत् ततः || सावधानः स्वपेत् तत्र ह्वाम्नायामरदिक् शिराः | तस्मिन्नहनिनिःपापः प्राप्नुयोद् देवतागणः || तन्मंत्रं येन रूपेण देवता संप्रयच्छति | तद्भूतं च गुरोर्ध्यायेत् तज्जानीयांश्च मानयेत् || मध्यमायो द्वितीयेर्के तृतीये वहुपातकी | तृतीयेर्के मर्त्यगणो निःपापः प्राप्नुयान्मनुं || मध्यपापश्चतुर्थे तु पंचमे वहुपातकी | पंचमे राक्षसोऽपायो मध्यः षष्ठे स पापकः || अवश्यमेव प्राप्नोति मंत्रं सप्तम भास्करे | एतद् गुह्यं तमं प्रोक्त सर्वतंत्रेषु गोपितं || अथ गुरुव्यतिरेकदीक्षा || मेरुतंत्रे || गुरौ लोभादयो दोषास्तस्मादुद्विजते मनः | अतः शास्त्रे गुरुं कृत्वा दक्षिणाभूतितो ममुः || ग्राह्य इति || तथा || अथ तांत्रिक मंत्राणां दीक्षां शृंणु गुरुं विना | शुक्लपक्षे त्रयोदश्यां चन्द्रतारा वलान्विते || गत्वा च दक्षिणामूर्तेः सन्निधौ पूजयेद् गुरुं | कलश स्थापनं कृत्वा तदग्रेस्योपरिक्षिपेत् | तालपत्रे मनुं लेख्य मंत्रं देवं च पूजयेत् | देवा गुरुरिति ध्यात्वा मंत्रं व्यक्तं तु चाचयेत् || अष्टोत्तरशतं चैतन् मंत्रग्रहणमुच्यते | एतत् तत्वं मयाख्यातं गोप्यं मातरि जारवत् || इति गुरुच्यतिरेक दीक्ष्याविधिः || इति श्री आद्यानन्दनविरचितायां कुलमुक्तिकल्लोलिन्यां चतुर्थः पटलः || ६०ब्) अथ मंत्राणां दशसंस्काराः || तंत्रशेखरे || छिन्नादि दोषदुष्टाये मनवः संप्रकीर्तिताः | सततं सेव्यमानास्तेव भवंति फलप्रदाः || अतस्तद्दोष नाशाय संस्कारां दशचक्ष्महे || मेरुतंत्रे || वाचिकानां तु शापाणां नाशाद्यर्थमथोच्यते | श्रीपर्श्या वा चन्दनस्य पीठे चूतादिकस्य वा || कस्तुरी कुंकुमाब्जैश्च विलीखेत् पांचभौतिकं || तंत्रसेखरे || त्रिकोणं सप्तधा मत्री विभज्यात् समभागतः | ईशकोणात्तथा कुर्यात् तथा पावक कोणतः || ऊनपंचाशदेवं स्युर्योनयस्तत्र सर्वतः | ईशानादि लिखेन्मंत्री वरुणान्तं लिपिं क्रमात् || गौतमीये || स्वर्णादि पात्रे विलिखेन् मातृका यंत्रमुत्तमं | काश्मीर चन्दने नापि भस्मना वाथ सुव्रत || काश्मीरं शक्ति संस्कारे चन्दनं वैष्णवे मणौ | शैवे भस्म समाख्यातं मातृकां यंत्रलेखन || मेरुतंत्रे || चक्रमावाहयेत् तत्र मातृकाख्यां सरस्वतीं | यथोक्तविधिना पूजां कृत्वा चाष्टौत्तरं शतं || जपित्वा मातृकां तस्या मध्यात् स्वाभीष्ट मंत्रकं | स्वरव्यंजन विन्दुंश्च सर्ग योगाक्षराणि च || पृथक् पृथग्गथोद्धृत्य चैकी कृत्य गुरुक्तितः | गृहीतं जनयेन् मंत्रं प्रोक्तं संजननं त्विदं || आद्यं तं प्रणवं कृत्वा प्रणवांतरिता जपेत् | अष्टोत्तरशतं मंत्र वर्णानेतद्भूजीवनं || रोचना कुंकुमाभ्यां च भूर्यपत्रे लिखेन्मनुं | प्रत्यक्षरं शतवारं ताडयेच्चन्दनांभसा || समुच्चरन् वायुवीजमेतत् ताडनमुच्यते | कुंठिताः शावरामंत्रास्ताडिताः सिद्धिकारकाः || पूर्वोक्त पीठे संलिख्य तन्मंत्राक्षरसंख्यया | आदाय करवीरस्य पुष्पान्यथ समुच्चरन् || प्रत्यक्षरं च तैः पुष्पैः शतवारं हुनेदिति | उच्चरंन् वह्नि वीजं च वोधनं त्वेतदुच्यते || प्राग्वत् पीठे चतै द्रव्यैः पद्ममष्टदलं लिखेत् | तत्कर्णिकायां मालभ्यालिषेत् कलिकयैकया || ६१अ) एकैकार्णं तु मत्रस्य तन्मत्राक्षर संख्यया | वोधिद्रूपल्लवाद् गृह्वतमेवं मंत्रमुच्चरन् || अभिषिंचाम्यमुंमंत्रं नम ईत्यभिषेचयेत् | नानासुगंधितो येन पल्लवैकेनाचाक्षरं || एकमष्टोत्तर शतमभिषिंचेदयं स्मृतं | अभिषेको मंत्रशुद्धिं कुर्यान्नृणां यथा जलं || ज्योतिर्मंत्रश्चिंतनीयो मूलाधारेग्नि मण्डले | संस्कर्तव्यं मनुं तस्य अधमेवं विभावयेत् || आणवाष्पः साहजिक आगंतुः कार्मणः स्मृतः | योगाख्यो मायिकः प्रोक्तः स्वमंत्रे तु मलत्रयं || ज्योतिर्मंत्रेण निर्देग्धमेकमेकं विचिन्तयेत् | एवन्तु विमलोजातः स्वमंत्र इति चिन्तयेत् || ज्योतिर्मंत्रस्तु वेदादिह्नौमिति द्व्यक्षरो मतः | वीमलीकरणंत्व तत्प्रयोगांतेपि कारयेत् || प्राग्वत् पीठे कुंकुमादि द्रव्यैर्मंत्रं विलेखयेत् | ताम्रादि पात्रं कर्पूरं वासितेन जलेन च || शुद्धेनापूर्य विलिखेन्मंत्रेणास्तोत्तरं शतं | अभिमंत्र्य जलं तेन मंत्रेण कुशविन्दुभिः || प्रत्यक्षरं प्रोक्षयेयुरे तदाप्यायनं मतं | पुरश्चर्याक्तेशितानां समावर्तन च त्विदं || कस्तूर्याद्यैस्ताम्रपात्र मध्ये मंत्रं विलेखयेत् | पात्रांतरे च कर्पूरादिक वासितसज्जलं || गृहीत्वा चार्यपात्रेण पठन्मंत्रमिमं मनुं | तर्पयामि नमश्चोक्त्वाप्तर्पयेदिति तर्पणं || ओं ह्रीं श्रीं पूर्वकं मंत्रं जपेदष्टोत्तरं शतं | जपेदेतद्दीपन स्यात् सर्वमंत्रेप्यपीष्यते || जप्यमानस्य मंत्रस्य गोपनंत्व प्रकाशनं | संस्कारा दशप्रोक्ता सर्वतंत्रेषु गोपिताः || एवमेकादश प्रोक्ताः संस्कारा अथ पंच च | प्रतिमंत्रं वश्यमाणा जपा होमश्च तर्पणं || मार्जनं भोजनं चापि द्विमानामिति षोडश || ६१ब्) पूटितं हंसमंत्रेण सहस्रं जपेत् मनुं || इदं दीपनमिति मंत्रशेषरे विषः || गौतमीये || श्वेतचन्द्रानु ग्रहेन्दु संपूटं प्रजपेन्मनुं | एतदाप्यायनं प्रोक्तं मंत्रशास्त्र विशारदैः || श्वेतः षकारः चन्द्रः सकारः अनुग्रह भोकारः || तत्रेव || मधुना शक्ति मंत्रे तु वैष्णव चेन्दुमज्जलैः | घृतेन तर्पणं शैवे मंत्रिभिः सम्यगीरितं || मंत्रसंस्कारा गुरुणा प्राक् कृत्वा पश्चाच्छिष्यमुपदेशयत् || तदुक्तं मेरुतंत्रे || अनुक्तशापान्निर्मुक्तः पश्चादूपदिशेच्चतमित्युक्त त्वात् || इति मंत्रसंस्काराः || अथानिष्टफलदमंत्र परित्यागविधिरुच्यते || तत्रे || अथानि मंत्र संत्यागविधिः सम्यक् प्रकाश्यते || अरीत्यूप लक्षणं || अनिष्टफलदेपि वोध्यं || तथा || शुचिः समाहितो भूत्वा प्रारभेत् प्रवरे दिने | अशेष दुःखनाशाय देशिकः प्रवरं विधिं || तत्रादौ रम्य भवने कुंभं दीक्षा विधि क्रमात् | मंडपे स्थापयेद् विद्वान् पूरयेत् तज्जलैः शुभैः || विलोम मंत्र पाटेन तत्रावाक्य तु देवतां | सकली कृत्य संपूज्या वरणानि प्रपूजयेत् || एवं सावरणामिष्ट्वा मंत्रीमंत्रस्य देवतां | हुत्वा विलोममंत्रेण सर्पिषा गौरपि द्विजः || ततो यथा वद्वग्धान्नै देवताभ्यो वलिं हरेत् | विदिक्षु दिक्षु च तथा वक्ष्यमाणैर्मनुत्तमैः || आयाहिन्द्र सुराधीश शतमन्यो शचिपते | नमस्तुभ्यं गृहाणेमं पुष्पधूपादिकं वलिं || आया हि तेजसां राशे हव्यवाहवरप्रदा | गृहाण पुष्पधूपादि वलिमनं सुपूजितं || प्रेतराज समायाहि भिन्नांजन समद्युतिं | वलिंन्दत्तं गृहीत्वेमं सुप्रीतो वरदो भव || नमस्ते रक्षसांनाथ निर्-ऋतेत्वमिहागतः | गृहाण वलिपूजादि मया भक्त्या निवेदितं || एहि पश्चिम दिक्पाल जलनाथ नमोस्तुते | भक्त्या निवेदितां पूजां गृहीत्वा प्रीति माप्नुया हि || प्रभंजन प्राणपतेत्व मे हि सपरिच्छदः | ६२अ) मया प्रयुक्तं विधिवद् गृहाण वलिमादरात् || कुवेर तारकाधीशा वा गच्छेतां सुरोत्तमौ | पुष्पधूपादिभिः प्रीतौ भवेतां वरदौ मम || ईशत्वमेव भगवन् सर्वविद्याश्रय प्रभो | पूजितः पुष्पधूपाद्यैः प्रीतो भवति भूतयं || आयाहि सर्वलोकानां नाथ ब्रह्मन् समर्चनं | गृहाण सर्वविघ्नान् मे निवर्तय नमोस्तुते || आगच्छ वरदाव्यक्त विष्णो विश्वस्य नायक | पूजितः परया भक्त्या भवत्वं सुखदो मम || ततः सपरिवारां च पूजयेन् मंत्र देवतां | आन्नूकूल्यमनालोक्य मयातरल वुद्धिना || यदुपात्तं पूजितं च प्रभो मंत्र स्वरूपकं | तेन मे मनसः क्षोभमशेषं विनिवर्तये || पापं प्रतिहतं चास्तु पूजा श्रेयः सनातनं | नमो तु मम कल्याणं पावनी भक्ती रेवते || इति संप्रार्थ्य देवशीं मंत्रं पत्रे विलोमतः | लिखित्वा मलकर्पूरचन्दनेन समर्चयेत् || कलशो परिसंस्थाप्य भक्त्या परमया पुनः | तत्पत्रं मतिमान्यश्चाद्वध्वानिज शिरस्यथ || स्नायात् पूजित कुंभस्थ तोयैर्मंत्रमयैः शुभः | भूयश्चान्येन तोयेन कुंभमापूर्य संयतः || तन्मध्ये मंत्रपत्रं च निक्षिप्यांथ प्रपूजयेत् | तं कुंभं निम्नगा तीरे शुद्धे वान्ये जलाशये || निःक्षिपेदथ विप्रांश्च यथा शक्त्याथ भोजयेत् | इत्थं कृत विधानस्य रिपु मंत्रोद्भवारुजः || नश्यंतो च न सन्देहः क्रमाच्चित्त प्रसन्नता | जायतेतीव संपन्ना वर्धते च कुल क्रमादिति || अथ गुरुभक्तिः || मेरुतंत्रे || कुलागतस्त्वयमार्गो गुरुणा संप्रदर्शितः | सम्यगाचरितश्चोत्स्या भुक्ति मुक्त्योः प्रसाधनं || विप्रोपि गुणयुक्तोपि न भक्तश्चेन्न शस्यते | म्लेच्छापि गुणहीणोपि भक्तिमान् शिष्य उच्यते || तथा || गुरुभक्ति विहीनस्य तपो विद्या व्रतं कुलं | व्यर्थं सर्वं शवस्येव नानालंकारभूषणं || ६२ब्) कुलार्णवे || नारायणे महादेवे माता पित्रोश्च राजनि | यथा भक्तिर्भवेद् देवि तथा कार्या निजे गुरौ || मेरुतंत्रे कुलार्णवे च || एकग्रामस्थितः शिष्यस्त्रिसंध्यं प्रणमेद् गुरुं | एकक्रोश स्थितश्चापि गुरुं प्रतिदिनं नमेत् || अर्धयोजनगः शिष्यः प्रणवेत् पंचपर्वसु | एकयोजनमारभ्य योजनं द्वादशावधि || तत्तद्योजनसंख्यातैर्मार्गे गत्वानमेद्गुरुं | दूरदेशस्थितः शिष्यो भक्त्या तत्संनिधिं गतः || तत् तद् योजनसंख्यात मासेषु प्रणमेद् गुरुं | अति दूरे स्थितः शिष्यो यदेच्छा स्यात् तदा व्रजेत् || रिक्तहस्तस्तुनोपयाद्राजानं देवतां गुरुं | फलपुष्पाम्वरादीनि यथा शक्त्या समर्पयेत् || तथा || गुर्वग्रेन तपः कुर्यान् न स्नायादात्म शुद्धय | न नियोगं गुरोर्दद्याद् युष्मदानाभि भाषयेत् || तथा || ऋणदानं तथा दानं वस्तूनां क्रयविक्रयं | न कुर्याद् गुरुभिः सार्धं शिष्योभुष्णुः कदाचनः || गुरोः संनिहितें यस्तु पूजयदन्यमंविके | स जाति नरकं घोरं पूजा सा विफला भवेत् || यस्मिन् द्रव्ये गुरोरस्ति स्पृहानानु भवे च तत् | अवश्यं यदि वांछास्यादनुभूयोत्तदाज्ञया || अभ्यल्पं हि गुरो द्रव्यमदत्तं स्वीकरोति यः | तिरश्चां योनिमाषन्नः क्रव्यादैर्भक्ष्यते प्रिये || गुरुद्रव्याभिलाषि च गुरुस्त्रीगमनोत्सुकः | पतितः स्यान्न संदेहः प्रायश्चित्तं न विद्यते || गुरुस्थानं संप्रदायं तधर्मं योनि वारयेत् | गुरुभिः स वहिः कार्यो दंड्यो वध्यश्च पातकी || पांडुकामासनवस्त्रं वाहनं छत्रचामरे | दृष्ट्वा गुरोर्नमस्कुर्यान्न तत्भोगाय कल्पयेत् || उक्तानुक्तेषु कार्येषु नोपेकां कारयेत् प्रिये | सदसद्यद्गुरुर्पूयात् तत्कार्यमविशंकया || ब्रह्महत्याशतं कृत्वा गुर्वाज्ञां परिपालयेत् | ६३अ) निग्रहेनुग्रहे चापि गुरुः सर्वस्य कारणं || निर्गतं यद्गुरोर्वक्त्रात् सर्वशास्त्रं तदुच्यते || तथा || आज्ञांभंगोर्थं हरणं गुरोर प्रियवर्तनं | गुरुद्रोहमिदं प्राहुर्यः कुर्यात् स तु पातकी || न विशेहासने देवि देवता गुरुसंनिधौ | जाति विद्या धनाढ्यो वा दूरे दृष्ट्वा गुरुं मुदा || अभिमानो न कर्तव्यो जाति विद्याधनादिभिः | तत्पापं समवाप्नोति गुर्वग्रे नृतभाषणात् || गोब्राह्मणवधं कृत्वा न तत्पापमवाप्नुयात् | दंड प्रणामं कृत्वैकं त्रिःप्रदक्षिणमाचरेत् || तथा || गुरु तद्गुरु यागे तु वंदेत प्रगुरुं प्रिये | ततो नमेद् गुरुं सोपि गुर्वग्रे तन्निवारयेत् || प्रगुरोः सन्निधौ शिष्यः स्वगुरुं मनसा नमेत् || तथा || गुरोः प्रणाम त्रितयं ज्येष्ठानामेकमेव हि | पूज्यानामं जलिस्तद्वदन्येषां वाक्यवन्दनं || देवान् गुरून् कुलाचार्यान् ज्ञानवृद्धांस्तपोधनान् | विद्याधिकान् स्वकर्मस्थान् श्रोत्रियोन् प्रणमेत् सदा || श्रीगुरुं न त्यजेत् क्वापि तदा दिष्टो व्रजेत् प्रीये | अधस्थिते गुरोरूर्ध्वं न तिष्ठे तु कदाचन || नगश्चेदग्रतस्तेषां न तिष्टेदु स्थिते गुरौ || तुष्टेदुपविष्ट इति शेषः || यत्र श्रीगुरुनिन्दा स्यात् पिधाय श्रवणे स्वके | सद्य तस्मादयः क्रामे दूरं न शृणुयाद्यथा || गुरुना स जपे पश्चाच्छ्रवणे सा प्रतिक्रिया | गुरुमित्र सुहृद्वासी दासाद्यान्नाव मानयेत् || गुरुशक्तिश्च तत्पुत्रौ ज्येष्टा भ्राता गुरुः समः | आत्मवच्च कनीयांसः पुत्रवत् कुलपालिकाः || उपचर्यामिति शेषः || मेरुतंत्रे || एवं योनार्चयद्विप्रो ब्रह्मराक्षसतां व्रजेत् || विप्र इत्युपलक्षणं क्षत्रियाद्यैरपि || अथाचाराः || मेरुतंत्रे || कालितंत्रे च यामले || अथाचारं प्रवक्ष्यामि यत्कृते मृतमश्नूते | ६३ब्) सर्वभूतहिते रक्तः समयाचारपालकः || अनित्यकर्मसंत्यागी नित्यानुष्ठान तत्परः | परस्यां देवतायां तु सर्वकर्म निवेदकः || स्यादिति शेषः अनित्यककमेत्यादि मोक्षकामः कामनया किमपि कर्म न कुर्यात् नित्यनैमित्तिक कर्मपरो मंत्राराधने नैव मम शिवं भवतेति भावयेन् कृतं कर्म देवतायै समर्पयेदि खंडलकार्थः || अन्यमंत्रार्चन श्रद्धामंन्य मंत्रस्य पूजनं | कुलस्त्री वीरनिन्दां च तद्द्रव्यस्यापहारणं || स्त्रीषुरोषं प्रहारं च वर्जयेन्मतिमार सदा | स्त्रीमयं च जगत्सर्वं स्वयं तावत् तथा भवेत् || पेयं चर्व्यं तथा चोष्यं भक्ष्यं लेज्यं गृहं सुखं | सर्वं च युवती रूपं भावयेद् यतमानसः || कुलजां युवतिं वीक्ष्य नमस्कुर्यात् समाहितः | यदि भाग्य वशे नैव कुलदृष्टिस्तु जायते || तदैव मानसीं पूजां तदा तासां प्रकल्पयेत् | वालांवा यौवनोन्मंत्तां वृद्धां वा सुन्दरीन्तथा || कुत्सितां वा महादुष्टां नमस्कृत्य विभावयेत् | तासां प्रहारं निन्दां च कौटिल्यमप्रियं तथा || सर्वथा न च कर्तव्यमन्यथा सिद्धिरोध कृत् | स्त्रियो देवाः स्त्रियः प्राणाः स्त्रिय एव विभूषणं || स्त्री संगीना सदाभाव्य महावेस्वस्त्रियामपि | तद्धस्ता वचितं गुरुसुप्तं च ज्येष्ट सुप्तं च नग्नकान् || दैवात् तदर्शने देवी श्रीचक्रं कारयेद् वुधः || सुप्तामित्युपलक्षणं अनवधानेन नग्नानेतान्न पश्येदित्यर्थः || कुलार्णवे || श्रीगुरोः पादुकां सुद्रां मूलमंत्रं च पादुकां | शिष्यादन्यत्र देवेशि न वदेद्यस्य कस्यचित् || मेरुतंत्रे कुलार्णवे च || पारंपर्यागमाम्नायं मंत्र तंत्रादिकं प्रिये | सर्वं गुरुं *? खाल्लब्धं सफलं स्यान्न चान्यथा || स्वदारवन्निषेचेत कुशलास्त्राणि पार्वति | पशु शास्त्राणि सर्वाणि वर्जयेत् परदारवत् || स्वाचर्मस्थं यथा क्षीरं न पेयं स्याद् द्विजोत्तमैः | ६४अ) तथा पशुमुखाधर्मो न श्रोतव्यश्च कौलिकैः || आमनांसं सुराकुंभंमन्तेवं सिद्धलिंगिनं | सहकारमशोकं च क्रीडालोलाः कुमारिकाः || एक वृक्षं श्मशानं च समूहं योषितामपि | नारीं च रक्तवशनां दृष्ट्वा वंदेत भक्तितः || गुरुशक्ति सुत ज्येष्ट कनिष्ट कुलदेशिकान् | कुलदर्शन शास्त्राणि कुलद्रव्याणि कौलिकान् || प्रेरकान् सूचकांश्चापि वाचकान् याचकांस्तथा | शिक्षकान् वोधकान् योगि योगिनि सिद्धपूरुषान् || कन्याः कुमारीका नग्ना उन्मत्ताः प्रकतस्तनीः | ननीन्देत जुगुप्सेतन हसेन्नाव मानयेत् || नानृतं नाप्रियं ब्रुयाकस्यापि कुलयोगिनः | कुरुपेति च कृष्णेति न वदेत् कुल योगिनीं || मेरावपि || कुरूपासति कृष्णेति न वन्देत् कुलयोषितं | परीक्षयेत् न भक्तानां वीराणां च कृता कृते || तथा || पिष्वन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा | तत्पत्रेषु न भोक्तव्यमर्कपत्रे विशेषतः || न स्वपेत् कुल वृक्षाधो न चोपद्रवमाचरेत् | दृष्ट्वा भुक्त्वा नमस्कुर्याच्छेदयेन्ने कदाचन || न पश्येत् पतितां नग्नामुन्मत्तां प्रकटस्तनीं | नदिवासेवयेन्नारीं न तद्योनिं रीक्षयेत् || याकाचिदंगना लोके सामातृकुलसंभवा | कुप्यंति कुलयोन्यो वनितानामति क्रमात् || रुद्रयामले || मेरुतंत्रे च || असंस्कारं पिवेद् द्रव्यं वलात्कारेण मैथुनं | स्वहस्तेन पशुं हत्वा रौरवं नरकं व्रजेत् || मेरुतंत्रे || प्रायश्चित्तं भृगोः पातं सन्यासं व्रतधारणं | तीर्थयाभिगमनकौले पंच विवर्जयेत् || वीरहत्या वृथापानं वीरद्रव्यापहारणं | वीरस्त्रीगमनं चैव तत्संयोगश्च पंचमः || महापातकमित्युक्तं कौलिकानां कुलागमे | प्रायश्चित्तं तंत्रोक्त भिन्नं व्रतधारणामपि तथैव तीर्थयात्रागमनं स्मार्त प्रकारेण पीठयात्राषास्तंत्रेष्व विहितत्वात् || वरेस्त्रीगमनं च ततत्स्वाम्यनुमत्याननिषिर्धं || ६४ब्) भगिनीं वा सुतां भार्यां प्रदयात् कुलयोगिने | मधुमत्ताय देवेशि तस्य पुण्यं न गण्पते || इति कुलार्णव वचनाच्च || तथा || गुरौ मनुष्य वुद्धिं च मंत्रे चाक्षर वुद्धितां | प्रतिमासुशिला वुद्धिं कुर्वाणो नरकं व्रजेत् || गुरुत्यागाद् भवेत् मृत्युर्मंत्रत्यागाद् दरिद्रता | गुरुमंत्र परित्याद्रौरवं नरकं व्रजेत् || पूर्वदोषयोः सतोरेव उभयत्यागे दोषाधिक्यमिदं | विण्मुद्रोच्छिष्टशंकाभिर्युक्तः कर्म करोति यः || तपोर्चनादि तत्सर्वमपवित्रं भवेत् प्रियेः || तथा || विविक्षुर्देशिकावासं शांतचित्तोति भक्तिमान् | व्यंजनं पादुकां छत्रं वसनं वाहनादिकं || तांवूलमूल्वणं वेषमूत्सृज्य प्रविशेच्छनैः | पादप्रक्षालनं स्नानमत्यंगं दंत धावनं || सुत्रं निष्ठीवनं क्षौरं शयनं स्त्री निषेवनं | वीरासनं च दुर्वाक्यमतिहासांगमोटनं || केशमोचनमुष्णीषं कंचुकं नग्निमां तथा | पादप्रसारणं चैवं कलहं दूषणं प्रिये || अंगवाद्यांगभंगादि करस्पर्शनधूननं | द्यूत कुक्कुट मल्लादि युद्धमित्यादि चाम्विके || गुरुयोगि महासिद्धि पीठक्षेत्राश्रमादिषु | नाचरेदाचरेन्मोहाद् देवताशापमाप्नुयात् || कालीकल्पे || रात्रौ पर्यटनं चैव रात्रौ शक्ति प्रपूजनं | अकृत्वा कथमीशान मद्भक्तः कौलिको भवेत् || कुलामृतदीपिकायां || पूजाकालं विना नैव मुपेयासा हि साधकैः || अयंचाचारः सर्वदा गौपनीयः || तथा हि कुलार्णवे || वेदशास्त्रपुराणानि स्पष्टा वेश्यांगमा इव | इयं तु शांभवी विद्या गुप्ता कुलवधूरिव || सुगुप्ते कौलिकाचारमनुगृह्नन्ति देवताः | वांछा सिद्धिं प्रयंति नाशयंति प्रकाशकान् || कुलचूडामणौ || कुलाचारन्दक्षिणाख्यं कथितं तव सुव्रतं || समयाचारे || आचारो द्विविधो देवि वामदेवि वामदक्षिणभेदतः || पंचमुद्रादि संयुक्तो वामचारः प्रकीर्तितः | पंचमुद्रादि रहितो दक्षिणाचार संज्ञकः || ६५अ) अत्र च आम्नाये || भेदेमपंचकेप्यावश्यकता || मेरुतंत्रे || उत्तराम्नाय संप्रोक्ता देवास्तुष्यंति पंचमैः | ऊनः पदार्थ एकश्चेत् साधकंतेशपंति च || पश्चिमाम्नाय देवानां सुरापानं कृता कृते | मचेत्तुष्टयमिच्छन्ति तं विनाद्यशपंति च || पूर्वाम्नायोक्त देवानां तन्मांसं च कृता कृतं | आवेश्यकं मंत्रयं च तं विना प्रशयन्ति ते || ऊर्ध्वाम्नायोक्त देवानां ते मत्स्याश्च कृता कृते | आवस्यकंमद्वयं च विनातं प्रशयंति ते || दक्षिणाम्नाय देवानां निषिद्धंमचतुष्टयं | मनैकेन विना तेपि प्रशयंति हि साधकं || कुलचूडामणौ || न कस्मैचित् प्रवक्तव्यं यदीच्छेत् प्रियमात्मनः | कुलपुष्पं कुलद्रव्यं कुलपूजां कुलं जपं || गुरुं कुलपतिं चापि कुलमालाकुलं | कुलचक्रं कुलध्यानं सर्वथा न प्रकाशयेत् || प्रकाशात् सिद्धिहानिः स्यात् प्रकाशोद्वंधनादिकं | प्रकाशाद्वल हानिः स्यात् प्रकाशाद् देव हिंसनं || प्रकाशान् मृत्युलाभः स्यान् न प्रकाश्यं कदाचन | पूजाकाले महेशानि यदि कोप्यत्र गच्छति || दर्शयद्वैष्णवीं मुद्रां विष्णुन्यासं तथास्तवं | कदाचिदंगहानिः स्यान् न च व्यक्तिः कदाचन || परं पूजा न कर्तव्या न च व्यक्तिः कदाचन | अन्तः शाक्ता वहिः शैवाः सभायां वैष्णवा मताः || नानारूपधरा वीरा विचरंति महीतले || मेरुतंत्रे || अन्तः कौलं वहिः शैवं जन मध्ये तु वैष्णवं | कौलं तु गोपयेद् देवि नारिकेल फलाम्वुवत् || गुरुं प्रकाशयेद्धीमान् मंत्रं येत्नेन गोपयेत् | अप्रकाश प्रकाशाभ्यां क्षीयते संपदायुषं || गुरुप्रकाशनमपि कादाचित् कालेमिति ज्ञेयं || फेत्कारिणीतंत्रे || श्रीताराप्रकरणे || सर्वदा गोपयेदेनं मनुं च गुरुमेव च | तेन वीर्यवती विद्यानिर्चीया स्यात् प्रकाशतः || तंत्रे || नोपवेश्यं महातीव्रे न शयया तिमिरांतरे || ६५ब्) ननिद्येद्वामलोचनां || भस्मस्नानं प्रकुर्वीत सदा शक्त्यवलोकनं | वज्र पुष्पांकितं यंत्रं वज्र पुष्पेण पूजयेत् || पूजाकाले विशेषेण न स्मरेद्धरिनाम च | अन्यगंधं परित्यज्य चन्दनं रक्तचन्दनं || रक्तपुष्पैः समभ्यर्च्य विल्वपत्रेण चार्चयेत् | तुलसी मालती धात्रीमरुवकेन नार्चयेत् || शक्तिं विनापि देवेशि जपे होमादि तर्पणं | ध्यानपूजादिकं सर्वं सिद्धिरोध्याय जायते || पैष्टी पौष्ट्यादिकं द्रव्यमन्य द्रव्यं परित्यजेत् | वीरपूजा महेशानि यामिन्याः प्रहर गते || नोपवासं प्रकूर्वीत न चान्यद्व्रूतमाचरेत् | मंडपं विधिवत् कृत्वा पताका नीलतोरणं || नागशूलांकितं देवि कुर्यात् कुण्डं त्रिकोणकं || अथ भावा || भावचूडामणौ || श्रीदेव्युवाच || वीरभावो महादेव कथ्यते शृणु भैरवः | निर्धंद्व मानसो भूत्वा हृदा कामकला तनुः || निशासुपूजा प्रवरा हेतु युक्तो स दैव हि | निरंकुण्डलं समाधाय स्वयं भैरव रूपधृक् || कुलं च भैरवी रूपं तद्गात्रे न्यास विस्तरं | विन्यस्य सकलं न्यासं नवयोन्यात्मकं तथा || नवयोन्यात्मकमिति श्रीविद्यापरं || प्रसूनभूलिका मध्ये पुष्प प्रकरसंयुते | नानागंधसमाकीर्णे कुलद्रव्येण यंत्रयं || लिखित्वा पूजयेच्छक्तौ घटस्थापन पूर्वकं | स्ववामभागे षट्कोणं तन्मध्ये ब्रह्मरन्ध्रके || लिखित्वा तत्र कुंभं वै सौवर्णं राजतं तथा || ताम्र भूमि मयं वापि || महालोह विवर्जितं || स्थापयेत् कलशाधारं कुंभं सुगंधी वासितं | हेतु द्रव्यं ब्राह्मणादि भेदतः संप्रपूरयेत् || ब्राह्मणादि भेदत इति क्षीराज्य मध्वासवरूपं ब्राह्मणादिभिः पूरणीयमित्यर्थः एवं च वीरस्यापि ब्राह्मणस्य हेतु स्थाने क्षीरमेव अन्यस्य तदपि न इति वाद्ध्यं || तत्र यंत्रं विलिख्यादौ यद्यत्कुल समुद्धवं | ध्यात्वैष्टं देवतां तत्र जपेदष्टोत्तरसतं || ध्यनु योनि प्रदर्श्याथ प्रसृतं तद्विचिंतयेत् | ६६अ) दृष्ट्वामृतमुपात्तं वै नृत्यंति योगिनी गणाः || नृत्यंति भैरवाः सर्वे नृत्यंति मातरोपि च | इन्द्रादयः सुराः सर्वे नृत्यंति मधुलोलुपाः || ब्रह्मविष्णुमहेशाद्या नृत्यंति हर्षतत्पराः | अर्घभाण्डं त्रिधा कृत्वा गुरवे चैक भागकं || एकं कुलाय वै दत्वा एकेन देवतर्पणं | पीत्वा कुलरसं नानावस्त्रालंकारभूषितः || साक्षाद् यदि गुरुर्न स्यात् तदातोये विसर्जयेत् | आनन्द रूपवान् भूत्वा पूजयेत् परमेश्वरीं || तत् तत् कल्पविधानेन तत् तद् यत्नेन पूजयेत् | विसर्जनं विधायांतर्मुकुले योजयेत् ततः || तद्विंवरसयानेन अमृतं भुज्यते मया | तच्चकोर रसास्वादे संमदो मम जायते || तत् फलग्रहणादवमेरु शृंगे वरोहणं | लटालिंगन मात्रेण सुधाधौत कलेवरः || मूलयोगे कृते तत्र जपेदष्ट सहस्रकं | नित्यजापे च होमे च यत्र संख्या न चोदिता || तत्रेयं गणना प्रोक्ता अष्टोत्तर सहस्रकं | जलं पूतं हविर्द्रव्यं गृहित्वा तर्पयेत् ततः || विधाय तर्पणं देव प्रदक्षिणमनु व्रजेत् | स्तुत्वा प्रणम्य कल्पोक्तस्तवेनतोपयेत् ततः || इति वीरकुलं देव देव वंद्यं मनाहरं | यद् देशे विद्यते वीरस्तत्कुलं वापि भैरव || न च मारीभयं तत्र न चरोज भयादिकं | सुमंगलं सदा तत्र धनपुत्रविवर्धनं || लक्ष्मीस्तत्र महादेव सुस्थिरा भवति ध्रुवं | मंत्रं स्वप्न प्रवोधिन्या अवश्यं वृक्षमूलके || योजनीयं प्रयत्नेन न च विघ्नः प्रजायते | नान्य वीरस्य तद्योग्यं ग्रहणे दैवतैरपि || योगिनीभिन्नलुप्तं च तन्न पापेन युज्यये | यत्र तत्र कुले वारे श्मशाने गमने कृते || पूजाफलं भवेत् तत्र सप्तवारसंमितं | चतुर्दश्यां गते तत्र पक्ष पूजाफलं भवेत् || न गच्छेन्नार्यतः स्थाने पशुरेव न संशयः | नास्त्यस्मादधिके देव इति चिंता परायणः || मदेन द्रव्य भोक्ता तु भवेत् कुलपरायणः | साधके क्षोभमापन्ने मम क्षोभः प्रजायते || ६६ब्) न गच्छेन्नार्यतः स्थाने पशुरेव न संशयः | नास्त्यस्मादधिकं देव इति चिंता परायणः || मदेन द्रव्यभोक्ता तु भवत् कुल परायणः | साधके क्षोभमापन्न मम क्षोभः प्रजायते || तस्माद् यत्नाद् वीरवरो भवद् भोगयुतः सुखी | भोगेन मोक्षमाप्नोति भोगेन कुलसाधनं || विना हेतु मनास्वाद्य क्षोभयुक्तो महेश्वरः | न पूजां ममपर्कं न ध्यानमनु चिंतनं || तस्माद् भुक्त्वा च पीत्वा च पूजयेत् परमेश्वर | नात्र मच्युति दोषोस्ति नापदं दोषभुषणं || यद्यद्वदति निद्रापि यत् करोति यदर्चति | तत्सर्वं कुलरूपं तु ध्यात्वा चत्तरेत् सुधीः || एकाकी निर्जने देशे श्मशाने पर्वते वने | शुन्यगेहे नदीतिरे निःसंगो विहरेन्मुदा || वीराणां जपकालस्तु सर्वकालः प्रशस्यते | सर्वदेशे सरपीठ्ये कर्तव्यं च न संशयः || यदि विप्रो भवत्रस्तः कुलद्रव्य परायणः | तदानेन विधानेन कर्तव्यं कुलतोषणं || विप्रो वीर एच || मेरुतंत्रेपि || अपरा पुष्पगर्भे तु कुलस्थानं मनोहरं | सर्वदेव सुखं तत्र महाकाम कलात्मकं || हयारि कुसुमे देव स्वयमस्ति सदाशिवः | तन्मध्ये लघुमादाय पुष्प मध्ये तु चंदनं || रक्तं वा कुसुमन् दत्वा ध्यात्वात्मानं शिवात्मकं | योजयेच्छिव शक्त्योस्तु ऐक्यं संभावयन् धिय || क्षणं विचिंत्य तत्रैव संपुज्य परमेश्वरीं | जप्त्वा तदेव कुण्डाख्यं द्रव्यं परमदुर्ल्लभं || तथा || यत्रा पराजिता पुष्पं जवा पुष्पं च भैरव | करवीरे रक्तशुक्ले द्रोणपुष्पं च तिष्ठति || तत्र देवीवसंन्नित्यं तद्यंत्रे पूजयेन् मम | दत्ते चैव जवा पुष्पे पट्टवस्त्रं फलं लभेत् || ब्रह्महथ्यादिकं पापं क्षणान्नश्यति निश्चितं | अपरायास्तु माहात्म्यं वक्तुं न हि महेश्वर || वीरसाधन कार्यं च कर्तव्यं वीरपुरुषैः | दिव्यैरपि च कर्तव्यं पशुभिर्न च पामरैः || वरं पामर कार्यं च न पशोरिति निश्चितं | ६७अ) यद्यन्न सत्पुरो प्रोक्तं संकेतं मंत्रसाधने || अंजनं गुटिकादिं च कुर्याद्विरो महावलः | दिव्यवीरेण भेदोस्ति यद्भेदं तत्तु कथ्यते || शांतो विनीतो मधुरः कलालावश्य संयुतः | दिव्यन्तु दिव्यवत्प्रायो वीरश्योद्धतमानसः || विभूति भूषणै वापि चंदनै वापि लेपितः | आकारे गोपनो वापि त्यक्तो वा कुलभैरव || रक्त चंदन दिग्धो वा वैष्णव चाप्य वैष्णवः | अपमाने च पूजायां हृष्टः पुष्टः सदा भवेत् || देवनिंदा परो वापि तत् तत् पूजापरोपि वा | पूजारेतस्तु विहितः कुलाकुलमते स्थितः | निजभाव समायुक्तो देववद्विरहेत् क्षितौ || स्वकुलांते पुरश्चर्या कार्या रात्रौ न चान्यथा | वेदहीने द्विजदेव यथा न श्रुतिसिं कथा || विष्णु भक्तिंना देवी भक्तिर्न प्रभवेद्यथा | शाक्त ज्ञानं विना मुक्तिर्यथा हास्याय कल्पते || गुरुं विना यथा तंत्रे नाधिकारः कथंचतु | पतिहीना यथा नारी सर्वकर्म विवर्जिता || कुलं विना देवविधौ कदापि मम साधने | नाधिकारिती कौलेय तस्माद् भाव परो भव || अविनीतं कुलं यस्य स कथं मम पूजकः | तस्माद् यत्नात् तथा कार्यं यथा स्याद्विनयान्वितं || भावाभावात् कुले शास्त्र नाधिकारः कथंचन | तेन भावविशुद्धस्तु साधकः कौलिको भवेत् || देव्युवाच || पशुभावं प्रवक्ष्यामि शृणुवत्स समाहितः | यथाविधि पशोर्विद्यां गृहीत्वा भाव तत्परः || प्रथमं पूर्वसेवाथ यत्नतः शुद्धिमाचरेत् | नमत्स्य भोजनं कुर्यान्न स्त्रियं मनसा स्मरेत् || न परद्रव्यालोहीस्यान्न भोगे मान संभजेत् | सिंधुतीरे पर्वते च कानने वा सुरालये || विल्वमूले विविक्ते च पुण्यक्षेत्रे च शोभने | न शूद्र दर्शनं कुर्यात् कौटिल्यं यत्नतस्त्यजेत् || देवता शुभवर्णा तु ध्यातव्या सुसमाहितैः | त्रिसंध्यं देवपूजा तु त्रिसंध्यं जपमाचरेत् || रात्रौ मंत्रं च मालां च न स्पृशेत कदाचन | ६७ब्) न मंत्रमुच्चरेद् भुक्त्वा मौनी स्यात् सर्वकर्मसु || पर्वकाले स्त्रियं नैव गच्छेत् साधकसत्तमः | पुष्पं गंधं जलं चैव स्वयमानीय पूजयेत् || मैथुनं तत्कथालापं तद्गोष्ठिं परिवर्जयेत् | ऋतुकालं विना चापि गच्छन्न स्त्रियमादरात् || पुराण श्रवणे श्रद्धा वेदवेदार्थ तत्परः | न रात्रौ भोजयेद् विद्वान् तांबुलं परमेश्वर || गुरुणा पद्यदातिष्ठं तत्सर्वं यत्नतश्चरेत् | स्वजात कुसुमं चैव हेतु द्रव्यं च भैरव || स्पृष्ट्वा तथा समाधाय पंचगव्येन शुद्ध्यति | रक्तवस्त्रं न गृह्नीयाद् देवी भक्ति परायणः || विष्णु तंत्रेषु कल्पानि तदनुष्ठानमेव च | कार्यं वीर कथालापं न कुर्याद् वीरवंदीत || नित्य श्राद्धं गया श्राद्धं संध्यावंधनमेव च | तीर्थस्नानं पीठदेशगमनं धर्म तत्परः || पशुस्तु द्विविधो देव पूर्वेन सह भैरव | अस्याधिकारः पूजायां न गुरुत्वे कदाचन || पूर्वस्य नाधिकारोस्ति पूजा देशगतागतौ | पूर्वस्तु सर्वकौलार्है वहिः कार्यः स्वदेशतः || पूर्वदर्शनमात्रेण कुलदर्शनमाचरेत् | ब्रह्महत्यादिकं पापं वरं सत्यं न च प्रभो || पूर्वदर्शन मे वात्र सत्यं सत्यं वदाम्यहं | ममात्मासापि देवेश विभूरित्यपि स प्रभो || तथापि तत्र मे शंकां जायते तत्पदे पदे | वरं कुलं परित्याज्यं वरं स्वकुल हिंमनुं || वरं स्वकुलहानिस्तु वरं स्वकुल कुदृशं | कायेन मनसा वाचा वरं स्वकुलपातनं || न कुर्वीत पशोः संगं स्वमार्ग क्षय कारणात् | कुलशास्त्रे द्वयं पापं गरिष्ठं कुलनाशनं || स्वकुले महती निंदा परयोगः कुलेश्वरः | तस्मादपि महापापं पशुसंगात् प्रजायते || सर्वथा तत्र भावौ द्वौ न प्रकाश्यौ कुलेश्वर | सभावश्च विभावश्च पशुद्धेयात् प्रजायते || दैवाच्च ज्ञायते वीरो वीरा दैवः प्रजायते | ६८अ) सर्वथा तत्र भावौ द्वौ न प्रकाश्यौ कुलेश्वर || दैव वीरेण संदेहः साम्यमित्यभिधिःयते | भावस्तु मानसो धर्मः शाब्दः स हि कथं भवेत् || तस्माद् भावो न वक्तव्यो दिङ्मात्रं समुदाहृतं | यथेक्षु गुडमार्धुर्यमशनै जायते प्रभो || तथा भावविभावस्तु मनसा परिभाव्यते || ईति श्री आद्यानन्दविरचितायां कुलमुक्तिकल्लोलिन्यां पंचमः पटलः || अथ नित्यविधिर्ल्लिख्यते || मेरुतंत्रे || देव्युवाच || धनीनां मध्यमानां च दरिद्राणां गृहासिनां | परदेश स्थितानां च कारागेहादि वासिनां || कार्यादौ व्यावृतानां च युक्तानां सूतकादिभिः | कार्यांगे च स्वभावे वा वामकानां कृपानिधे || षडाम्नाय रहस्ये न कथं नित्यक्रिया भवेत् | लोकलज्जायतां वापि दिनचर्यां वद प्रभो || श्रीशिव उवाच || महाकालेन यत्प्रोक्तं यन्मयाहामायया श्रुतं | रहस्याति रहस्यं तत्सर्व मंत्रेषु गोपितं || आम्नायानां रहस्यं तदाह्निकं प्रोच्यते मया | शृण्वं तु सर्व भो देवाः साधकानां प्रसिद्धिदं || तत्र नित्यं त्रिधा प्रोक्तं गुणत्रय विभेदतः || तदपि त्रिविधं भवेत् || शुद्धं मिश्रं च गलितं तत् तथैव फलप्रदं | शुद्धं संपूर्ण फलदं मिश्रे किंचित् फलप्रदं || अकृत प्रत्यवायो न गलिते सत्फलं न च | अहंकारविहीनं चेत्मानं संज्ञान पूर्वकं || स्वस्थ चित्तेन यतिना कृतं तच्छुद्धमुच्यतेः | तादृशं चेद् गृहस्थेन निर्द्रर्व्यणाथ वा कृतं || लुग्लेन पथिके नापि कारा गृहे गतेन वा | भक्तितो वापि तन्मिश्रं वाह्यपूजाधिकारतः || शीतादिभीत्या वा चित्त संक्षयादल्पकार्यतः | स्त्र्यादेर्नियोगाद्गलितं गृहिणो मान संमतं || वाह्यपूजादिकं यच्च एकान्ते नियमेन च | भक्त्याकृत गृहस्थेन तच्छुद्धं राजसं मतं || पूजार्थं यद्या च यित्वा श्रद्धाभक्तिं विधाय वा | ६८ब्) लोकभीत्या देवभीत्या यत् तद्राज समिश्रितं || प्रतारणार्थं लोकानां पातितं देव नामतः | द्रव्यं कृतं तद् देशेन गलिगतं तत् तु राजसं || वाममार्गं समाश्रित्य कोलं धर्मं विचार्य च | अन्य धर्मस्य चाद्वेषात् कृतं शुद्धं तु तामसं || कृतं यत्कामतः कर्म चैहिकं पारलौकिकं | वाममार्गं समाश्रित्य मिश्रितं तत् तु तामसं || जिह्वा लोभेन यत् खानं पानं यत् कामतो रतं | अथवा मारणाद्यर्थं गलितं ततूतामसं || शुद्धसत्वेन मोक्षः स्यात् स्वर्गः स्यान् मिश्र सत्वतः | सिद्धिर्गलित सत्वात्स्या दैहिकी च मनुष्यता || स्वर्गः स्याद्राज साच्छुद्धात् कामः स्यान् मिश्र राजसात् | गलिताजसार्तिर्यग्यो नावपि सुखं भवेत् || सात्विकात् तामसाद् देव योनित्वं प्राप्नुयान्नरा | मिश्रतामसतो दुःखी नारकि चात्यतासमात् || कर्म पंचविधं प्रोक्तं पंचधा मुक्तिदायकं | प्रसर्पणमुपादानमीज्याध्यायस्तथा युतिः || संमार्जनो पलपादि संस्कारो देव मन्दिरे | भक्तार्जवं सर्पणं स्याद् देव सालोक्यकारकं || पूजासाधनसामग्र्यामलनं भक्त सेचनं | तत्प्रीतिः स्यादुपादानं देवता रूपदायकं || पीठपूजन पूर्वं यत् षोडशाद्यूपचारकैः | मूर्तौ यंत्रेथ वा पूजा सज्या सामीप्य कारका || तच्छास्त्राध्ययनं सम्यक् कृत्वा मंत्रार्थ भावनं | कृत्वा जपः स्यात् स्वाध्यायो देव सायुज्यकारकः || गुरुदेवात्मकालानां संम्यगैक्य विभावनं | सयोगो लिंगदेहस्य नाशकः कालयोगकृत् || अथ प्रातकृत्यं यथा || तदुक्तं तत्रैव || निशायाः पश्चिमे भागे स्मरेदिष्टां च देवतां || कुलचूडामणौ || साधकः प्रातरुत्थाय कुलवृक्षं प्रणम्य च | मूलादि ब्रह्मरंध्रांत कुलं ध्यात्वा गुरुं स्मरेत् || कुलवृक्षा रुद्रयामले मेरुतंत्रे च || श्लेष्मातकं करंजं च निंवाश्वत्थ कदंवकं | विल्वपटं शालं तालं शाखाटं खर्जुरं तथा || कुलवृक्षाः समुद्दिष्टा इति || वस्तुतः कुलवृक्षो वरांगनेति रहस्य विदः || माध्यर्णवे || ६९अ) ब्राह्मोरात्रे समुत्थाय चिन्तयेत् कुलकुण्डलीं | मूलमंत्रमयीं साक्षादमृतानन्दरूपिणीं || महाकर्मार्चनेः || शक्तिः कुण्डलनीति या निगदिता आद ईमसंज्ञायमं निर्माने शततोद्यता प्रविलसत्सौदानीं संनिभां || शंखावर्तनिभां प्रसुप्त भुजगाकारां जगत्मोहिनीं तन्मध्ये परिभावयेद्विशलता तन्भूपमनाकृतिं || क्रमकल्लोलिन्यां || ब्राह्मे मुहूर्त्ते सुमतिः स्वतल्पादुत्थाय योगादि विधिंविधाय || विभावयन्मस्तक पद्मर्कोषे शिवादि नाथावलि पादुकाब्जं || कुब्जेश्वरीं कुण्डलिनी स्वरूपामाधार मध्यादकुलं व्रजन्तीं || काकाश सोमामृतपानमुग्धामथ स्मरेदस्वरपानयुक्तं || कुलमूलरत्न पंचकावतारमते तु || सहस्रारे गुरुं ध्यायेच्छुद्ध स्फटिक सन्निभं | वराभयकरं शान्तं शुक्लालंकारभूषितं || रक्तशक्ति समालिङ्ग्य कामानन्दरसोत्सवं | प्रसन्नवदनं शुद्धं सर्वकर्म फलप्रदं || भैरवतंत्रे || अथात प्रातरुत्थाय शयास्थः सुसमाहितः | शिरस्थ कमले ध्यायेत् स्वगुरुं शिवरूषिणं || असुकानन्दनाथान्तं स्मरेत् तन्नाम पूर्वकं | मानसैरूपचारैस्तु पूजयेद् गुरुमात्मनः || मेरुतंत्रे विशेषः || उत्थाय दक्षिणांगे च वामपादं न्यसेद्भुवि | ततो गृहाद्वहिर्गत्वा कृत्वा वश्यकमादरात् || रात्रिवासः परित्यज्ये वाससी परिध्याय च | आचम्य शुद्धदेहः सन्देवता योगमंदिरं || मार्जयित्वो परिष्याथ भक्तियुक्तः स्वशक्तितः | उपविश्य शुचौ देशे प्राङ्मुखः प्रोक्त आसने || प्राणायाम त्रयं कृत्वा कृत्वा न्यासं विधानतः | निर्माल्यमयपकृष्याथ दद्यात् पुष्पांजलिं तथा || अर्घ्यपात्रे निवेद्याथ दद्याद् वै दंतधावनं | मुख प्रक्षालनं कृत्वा दद्यादाचमनीयकं || करास्य प्रोंछनायाथ दद्याद्वासोमलं शुभं || अथ गुरु ध्यानं || ततः स्वमस्तके चिंत्यं सहस्रं दलपद्मकं | कर्पूराभं स्मरेत् तत्र श्रीगुरुं निजरूपीणं || ६९ब्) सुप्रसन्नं लसद्भूषामंडिनं श्वेतचंदनै | वराभयज्ञानमुद्रा पुस्तकैर्व्यावृतैः करैः || युक्तं श्वेतांवरं शांतं श्वेतपुष्पविभूषितं | वामांकगतया शक्त्या लिंगितं रक्तवर्णया || रक्तवस्त्राभरणया रक्तचंदनमाल्यया | वामे लीलो कमलया लिंगंत्या दक्षिण न च || ध्यायेदंतर्मुखं शांतं योगिनं शिवरूपिणं | तत्पाद पद्मयुगलस्त्रूत पीयूषधारया || अभिषिक्तं स्वस्य देह एवं शिष्यो विचिंतयेत् | अर्चयेद् गंधपुष्पाद्यैर्वाह्यस्थैर्मानसैस्तु वा || नामभिस्तस्य संकेत संसिद्धैर्गुरुकीर्तितैः | प्रणम्येत्थं हृत्मंनुना भावयेत् तल्लयं हृदि || अत्र गुरुमंत्र जयोप्युक्तस्तत्वचिंतामणौ | अथवा वाग्भवं मायां लक्ष्मीवीजं समुद्धरेत् || हसखफ्रें तथा नन्दभैरवाख्यं सहखफ्रें गुरुनाम तथा शक्तिनाम श्रीपादुकां स्मरेत् || दशधा सप्तधा वापि त्रिधा वापि त्रिधा वा प्रजपेत् सुधीः || जपं समर्पयेत् पश्चात् श्रीगुरोर्दक्षिणे कर इति || भैरवतंत्रे || ध्यात्वा हृदम्वुजे कालीं ध्यानोक्तां पूजयेत् ततः | गन्धादिभिश्च गायत्रीमष्टविंशति संख्यकां || प्रजपेद् दशसंख्यां वा श्रूयतां सा च भैरवि | कामोल्लाक्षिनादान्तो दक्षिणोङ्गे युता ततः || विद्महे कूर्चवीजं च चामुण्डा ङें युता ततः | धीमहीति वदत्तन्नः काकाली प्रचोदयात् ततः || गायत्रीषामया प्रोक्ता सर्वतंत्रेषु गोपिता | यां विना सकला विद्या न सिध्यंति कदाचन || कुमारीतंत्रे तु गायत्री अन्यथैवोक्ता || श्रीदेव्युवाच || देवदेव महादेव जगत् प्रलयकारक | कुलाचारेण एतैर्वा कथं सिद्धिर्भवेत् प्रभो || अधर्म कारणं ह्येतत् संशयं छिन्धि मे प्रभो || श्रीभैरव उवाच || साधु पृष्टासि देवेशि कथयामि शृणु प्रिये | पुरा दारुवने रम्ये मुनयो रोगमाहिताः || परस्त्रियं धर्वयन्ति द्रव्यं खादन्ति नित्यशः | तं दृष्ट्वानुचितं कर्म विष्णुर्मांसमुपस्थितः || ७०अ) देवदेव महादेव सृष्टिस्थितिलयात्मक | रता दारुवने या पा द्रव्यपानरतास्तथा || परस्त्रियं धर्षयन्ति मुनयो रागमोहिताः | दिगंवराश्च मोहाच्च गतिः केषां भविष्यति || इति विष्णुवचः श्रुत्वातमुवाच रुहं प्रिये | कालिकाया महाविद्या अनिरुद्ध सरस्वती || विद्या राज्ञीति संप्रोक्ता एतन्मंत्र प्रजायकाः | परं मुक्ता भविष्यन्ति तद्गायत्री जपंति च || एतस्याश्च प्रभावेन सर्वेदेवा विमोहिताः | तन्मे गूढं प्रवक्ष्यामि श्रुत्वा गोप्यं सदा वुधैः || कालिकायै पदं चोक्ता विद्महे तदनंतरं | श्मशानवासिनी ङेन्तं धीमहीति ततो वदेत् || तन्त्रो घोरे पदं प्रोच्य प्रवदेच्च प्रचोदयात् | अस्याः प्रसादमात्रेण महापातक कोटयः || सद्यः प्रलयमायान्ति साधकस्य न चान्यथा | रावणस्य वधाच्चैव रामचन्द्रो विमोचितः || मातृवधात् पर्शुरामो मोचितोऽस्याः प्रसादतः | सुरापानाच्च श्रीकृष्णो दत्तात्रेयस्तथैव च || ब्रह्मणश्चै शिरछेदादहं रुद्रो विमोचितः | एवमेषा महाविद्या गायत्री देवि सुन्दरि || महापातक युक्तोपि प्रजपेद् दशधा यदि | सत्यं सत्यं महादेवि मुक्तो भवति तत्क्षणात् || ब्रह्महत्यादयः पापा खंडखण्डं व्रजन्ति हि | अनया शदृशी विद्या नानेन शदृशो जपः || नानेन सदृशं ज्ञानं न भूतं न भविष्यति || श्रीदेव्युवाच || गायत्री या पुराप्रोक्ता देवदेव जगत्पते | ऋष्यादि चैव किं ध्यान जपपूजादिकं तथा || साधनं च महादेव कथयस्वमपि प्रभा || श्रीभैरव उवाच || कथयामि महादेवि शृणुष्व प्राणवल्लभे | श्रीकृष्णस्तु ऋषिस्तस्याः गायत्री छन्द एव च || शिवशक्ति स्वरूपा हि देवता परिकीर्तिता | ध्यानं चैव वदाम्यत्र शृणुष्व देवि भक्तितः || श्मशाने च महाकालीं देवीं ध्याये दिगंवरीं | द्रष्ट्राकरालवदनां मुण्डमालाविभूषितां || दक्षिणोर्द्धे धनुर्धर्ते वामे चैव तथाशरान् | ७०ब्) अधः पाशं च खड्गं च तत्क्रमात् परिकीर्तितं || एवं ध्यात्वा महाकालिं जपेल्लक्ष चतुष्टयं | रुधिराक्तैर्विल्वपत्रैस्तद्दशांशेन होमयेत् || साधनं च माहादेवि पूर्ववत् समुपाचरेत् || मेरुतंत्रे || ततस्तु मूलाधारादि ब्रह्मरंध्रांतमुद्यतं | तेजो दण्डं सुषुम्नांतः सहस्र रविसंनिभं || तदात्मकं मूलमंत्रं ध्यात्वा तत् तेजसा वृतं | स्वशरीरं विचिंत्येति प्राणायाम त्रयं चरेत् || मूलमंत्रेण मंत्रस्य ऋष्यादि न्यासमाचरेत् | अंगन्यासं विधायाथ हृदि देवं विचिंतयेत् || मानसै रूपचारैश्च पूजयित्वा मनुं जपेत् | यथा शक्त्याथ देवाय तं जपं च समर्पयेत् || स्तुत्वा प्रणम्य देवाज्ञां श्लोकैरेभिश्च प्रार्थयेत् || वीरचूडामणौ || वीरहंस महाविद्या संकल्पं कारयद्वुधः | हंसाख्या साधनं वक्ष्ये मंत्रिणां हितकाम्यया || यस्य विज्ञानमात्रेण सर्वज्ञो भुवी जायते | हंसात्मिकां भगवतीं जीवो जपति सर्वदा || अस्याः स्मरण मात्रेण जीवन्मुक्तो भवेन्नरः || ऋषिर्हंसः समाख्यातः परमंसश्च देवता | अव्यक्तश्छंदो जायत्री विनियोगश्च सिद्धिदः || सुरेन्द्र संहितायां || ऋषिर्हंसोऽव्यक्त पूर्वा गायत्री छन्द उच्यते | देवता परमादिस्तु हंसोहं वीज उच्यते || अः शक्तिः कीलकं सोहं प्रणवस्तत्वमेव हि | उदात्तस्वर इत्यवं मनोरम्य प्रकीर्तितः || मोक्षार्थे विनियोगः स्यादेवं कुर्यात् सदा नरः || वीर चूडामणौ || सूर्यात्मन च हृद् देवी सोमात्मने शिरस्तथा | निरंजनं शिखाज्योतिर्निराभासा तथा प्रिये || अव्यक्तं नेत्रयोर्न्यस्य अनंसोस्त फडं जपेत् | एवं न्यासविधिं कृत्वा गणेशादौ समर्पयेत् || दक्षिणामूर्ति संहितायांस्तु || अस्य हंसस्य देवशि निगमागम पक्षकौ | अग्नि सोमावथो वापि पक्षौ तारः शिरो भवेत् || ७१अ) विन्दु त्रयं शिखा नेत्रे मुखे नादः प्रतिष्ठितः | शिवशक्ती पदद्वंद्वं कालाग्नी पार्श्वयुग्मकं || अयं परमहंसस्तु सर्वध्यापी प्रकाशवान् || सुरेन्द्रसंहितायां || हंसात्मिकां भगवतीं जीवो स जपति सर्वदा | हकारेण वहिर्याति सकारेण विशेत् पुनः || अस्याः संवोधमात्रेण जीवन्मुक्तो भवेन् नरः | प्राणायाम प्रभावेण जीवन्मुक्तश्च जायते || एकविंशति साहस्रं षट्शताधिकमेव च | प्रजपेत् प्रत्यहं जीइवो ब्रह्मानंदमयीं परां || उत्पत्तिर्जप आरंभो मृतिरस्य निवेदनं | विना जपेन सततं जपो भवति सर्वदा || एवं जपस्तु विज्ञातो गणेशादौ निवेदयेत् || वीरचूडामणौ || षट्शतानि गणेशस्य षट्सहस्रं प्रजापतेः | षट्सहस्रं गदापाणेः षट्सहस्रं पिनाकिनः || सहस्रं आत्मने चैव सहस्रं परमात्मने | सहस्रं गुरुवे चैव संकल्पायं यथाविधि || रक्तवर्ण गणेशं च मूलाधारे चतुर्दले | वादिवेद समायुक्ते षट्शतं च समर्चयेत् || स्वाधिष्ठानं विद्रूमांभं षट्कोणवादि षट्ककं | सावित्र्यावसमायुक्ते ब्रह्मणे च समर्पयेत् || विद्युत्पुंज प्रभाभं च दलंडादि दशाक्षरं | लक्ष्मीनारायणौ वंदे षट्सहस्रं निवेदयेत् || महानील प्रभावे च कादि द्वादशपत्रके | उमामहेश्वरौ वंदे षट्सहस्रं निवेदयेत् || विशुद्धे धूम्रवर्णे च कलापत्रेश्वरान्न्यसेत् | प्राणशक्त्यात्मकौ वंदे सहस्रं च समर्पयेत् || आज्ञायां विद्युदाभायां शुभौ हक्षौ नियोजयेत् | परमात्मनि पराशक्तौ सहस्रं च समर्पयेत् || समुद्रमेषले देवि पर्वतस्तनमण्डले | विष्णुपत्नि नमस्तेस्तु पादस्पर्शं क्षमस्वमे || चरणं धारयेद् देवी आत्माश्वासोनुसारतः | देहशौचादिकं कूर्याद् भस्मस्नानं समाचरेत् || वीरासनोपविष्ठस्तु वीरभस्मानुलेपनं | वीरं ध्यात्वा महादेवी वीरमाला जपेद्वुधः || ७१ब्) अष्टोत्तर सहस्रं च वामहस्ते समर्पयेत् | वीरभस्म श्मशान भस्म वामहस्ते इत्यविधानात् || मूलमंत्रं जपोयमिति प्रतिभाति || विशुद्धे स्वरे तु || यथा शक्त्या जपं कृत्वा स्तुत्वा संतोषयेच्छिवां || भैरवतंत्रे || ततो विद्या शतं जप्त्वा गुह्यादिना विसर्जयेत् || मेरुतंत्रे || त्रैलोक्य चैतन्य मयादि देवं श्रीशंकरत्वच्चरणाज्ञेयै वा || प्रातः समुत्थाय तव प्रियार्थं संसारयात्रा मनुवर्तयिष्ये || संसारयात्रा मनुवर्तमानं त्वदाज्ञया शंकर देवदेव || स्पर्धा तिरस्कार कलिप्रमोद भयाअनिमांमाभिभवं तु नाथ || शंकर इत्युपलक्षणं इति संप्रार्थ्य देवेशमाज्ञामादाय तस्य तु || प्रार्थयित्वा धरां श्वासयुक्तं पादं निधापयेत् | आत्मस्वासानुसारेण भूमौ पादं निधापयेत् || समुद्रमेखले देवि पर्वतस्तनमंडले || विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमश्वमे || इति प्रार्थ्य कवचं पठेत् || इदं च प्रातः कृत्यमावश्यंकं || तदुक्तं यामले || प्रातः कृत्यमकृत्वा तु यो देवीं भक्तितोर्चयेत् | पूजा च विफला तस्य शौचहीना यथा क्रिया || अथ विघ्ननिवारण कवचं च शाम्भवीय संहितायां || भैरव उवाच || देवि ते यंत्र मंत्रस्य ध्यानं तस्य विजानतां | क्षिप्रं प्रजायते सिद्धिः प्रयोग पूजनं विना || इति निश्चित्य मनसि कथ्यतां मयि सादरात् | तत्कथं ध्यानमात्रेण हि सिध्यन्ति साधकाः || श्रीदेव्यूवाच || अस्याध्यानसमायुक्तं नरं पश्यति देवरात् | स्वयं सुरगणैः सार्धं शची प्रीयमिवा परं || इति ध्यानं यथा तस्या सम्यगेव प्रजायते | तथा करोति देवेशः यदा वज्रधरोवली || हन्ति साधकमेवास्य वातुलो वा करोति सः || भैरव उवाच || केनोपायन देवेशि हन्ति विघ्नं सहश्रसः | दक्षि साधकानां हि तदुपायं वदस्व मे || ७२अ) देव्युवाच || गुह्याति गुह्यं कवचं देवराज भयापहं | पठित्वा प्रातरुत्थाय मम ध्यान परो भवेत् || कवचं तु यथा पूर्वं स्वयं वक्त्रं विनिसृतं | मम शृणुष्व हे स्वामिन् वदामि प्रिय भावतः || ओं पूर्वपश्चिमभागे दक्षिणे चोत्तरे तथा | दक्षिणा कालिका पातु खड्गमुण्डधरो शुभा || आग्नेयां नै-ऋते देसे वायव्यां रुद्र गोचरे | सरस्वती देवमातापात्व निरुद्ध पूर्विका || ब्रह्मदेशे सदा पातु भैरवा ऋषिरुत्तमः | अधो देशे पातु नित्यं शवरूपो महेश्वरः || नेत्रेषु श्रोत्रयोश्चैव दन्तोष्ठाधर देशके | चण्डिका भैरवी दुर्गा सिता पातु यथा क्रमात् || भ्रूमध्ये कण्ठदेशे च हृदये नाभि देशके | लिंगमूले तथा मूर्ध्नि केशस्थाने तथाम्वरे || काली कपालिनी कुल्ला कुरु कुल्लाविरोधिनी | विप्रचित्ता विरुद्धाश्च वारुन्योत्कर्षणी क्रमात् || पातु नित्यं साधकान् वै सर्वा असिकरास्तथा | श्मशान भैरवी पातु विमला चोत्कला तथा || एकांते विजया पातु कामाक्षा योनिमण्डले | दिग्वस्त्राशयने पातु स्वप्ने पातु महेश्वरी || सभायां पातु भिन्नास्या निर्जने कालिकायं | क्षोभे चैक जटापात्वभिचारे खड्गधारिणी || भवनेशी सदा पातु चक्र मध्ये तथारणे | लक्ष्मीं धन प्रिया पातु वाणीं च वाक्प्रदा तथा || रतिं रतिप्रिया पातु प्रीतिं प्रीति विवर्धनी | कीर्तिं कीर्ति प्रिया पातु पुष्टिं पुष्टि प्रदायनी || तुष्टिं तुष्टि प्रदा पातु शांतिं शांति प्रदायनी | एतान् रक्ष तु भूतानि कालिकासनसंस्थिता || कामत्रयं हृदयं पातु कुर्चयुग्मं मुखं तथा | मायायुग्मं करौ पातु पादौ च दक्षिणे तथा || कालिके जानुनी पातु कीं त्रयं रोमकूपकं | सर्वांगं दक्षिणे दक्षं कूर्चयुग्मं पुनः पुनः || मायायुग्मं वसादेशं पातुजात्र्यस्य नाशनी | वह्नीजाया सदा पातु साधकानां च विग्रहं || तत्सर्वं तारिणी रक्षेद्धर्मं त्रिपुरसुंदरी | भयाद्रक्षाकरं पुण्यं कवचं सर्वदा जपेत् || ७२ब्) महासिद्धिकरं साक्षान् महापातकनाशनं | वारमेकं पठेद् यस्तु पूजायाश्च फलं लभेत् || मोक्षार्थी लभते मोक्षं धनार्थी धनमाप्नुयात् | मोक्षार्थी लभते मोक्षं धनार्थी धनमाप्नुयात् || राज्यार्थिराज्यमाप्नोति कवच श्रवणाच्छीव | इदं कवचराजं चैत्वयुक्तं स्नेह भावतः || त्वयागुप्तंतरं कार्यं प्रकाशे सिद्धिरोध कृत् || इति शांभवीय संहितायां कालिका कवचं संपूर्णं || अथ मातृका कवचं || श्री इश्वर उवाच || शृणु कमलमत्राक्षि मातृकां ब्रह्मरूपिणीं | ब्रह्मादिभिः सदाध्येयां सूक्ष्म्यां पद्मवनस्थितं || अवर्णामपि सवर्णान्तां प्रणम्य निगदामिते | सदाकरमयीं नित्यां योग पद्म व्यवस्थितां || सूक्ष्मातिसूक्ष्म परमां कोटि चन्द्रप्रभां परां | चतुर्भुजां त्रिनेत्रां च विद्या पुस्तकधारिणीं || वराभयधरित्रीं च चतुर्वेदोपरिस्थितां | ब्रह्मेण विष्णुनमितां ब्रह्माण्ड जननीं परां || शब्द ब्रह्ममयीं देवीं ऐहि ब्रह्मस्वरूपिणीं | ऐ एवं मातृकां ध्यात्वा मातृका कवचं पथेत् || कवचेन विना देवी यदि न्यासं समाचरेत् | सभक्षोज्जायते देवि मातृकानां वरानने || मातृका कवचं देवि ब्रह्मलोकेषु दुर्लभं | यन्त्रोक्त्रं यामले तंत्रे यन्त्रोक्तं रुद्रयामले || इदानीं परमेशानि निगदामि शुचिस्मिते | निगदामि वदारोहे तव भक्त्या वरानने || अस्य श्रीमातृका जगन्मंगलनाम कवचस्य ब्रह्मविष्णुरुद्रा ऋषयः ऋग्यजुः सामाथर्ववेदश्छन्दः श्रीमातृका जगन्मंगल कवचाधर्मार्थ काममोक्षार्थ सिद्ध्यर्थ विनियोगः || ओं अं रक्ष तु शिरोदेशं ओं आं मुखमण्डलं रक्ष तु स्वाहा || वलवीजं ओं ईं दक्ष चक्षुः रक्ष तु सदा स्वाहा || ओं ईं वाम चक्षुः सदा रक्ष तु स्वाहा वलवीजं ओं उं दक्षकर्णं रक्ष तु स्वाहा || ओं ऊं वामकर्णं सदा रक्ष तु स्वाहा || ओं ऋं दक्षनाशां रक्ष तु स्वाहा || ओं ऋं वामनासां रक्ष तु स्वाहा || ७३अ) ओं ऌं दक्षगण्डं रक्ष तु स्वाहा || ओं ॡं वामगण्डं रक्ष तु स्वाहा || ओं एं अधरक्ष तु स्वाहा || ओं ऐं ओष्टं रक्ष तु स्वाहा || ओं ओं ऊर्ध्वदन्तं रक्ष तु स्वाहा || ओं औं अधो दन्तं रक्ष तु स्वाहा || ओं अं शिरः पातु स्वाहा स्वाहा स्वाहा स्वाहा स्वाहा || ओं अंः आस्यं स्वाहा स्वाहा स्वाहा स्वाहा स्वाहा || ओं ओं ओं कं खं गं घं ङं दक्षहस्तं रक्ष तु स्वाहा स्वाहा स्वाहा स्वाहा स्वाहा || ओं ओं ओं चं ५ वामहस्तं रक्ष तु स्वाहा ५ || ओं ३ टं ५ दक्षपादं रक्ष तु मां च मातृका स्वाहा ५ || ओं ३ तं ५ वामपादं रक्ष तु मम स्वाहा ५ || ओं ३ पं ५ दक्ष पार्श्वं रक्ष तु स्वाहा ५ || ओं फं वाम पार्श्वं रक्ष तु स्वाहा ५ || ओं वं पृष्ठदेशं रक्ष तु स्वाहा ५ || ओं भं नाभिं रक्ष तु स्वाहा ५ || ओं मं उदरं रक्ष तु सदा मम स्वाहा ५ || ओं यं हृदयं रक्ष तु सदा मम स्वाहा ५ || ओं रं दक्ष स्कंधं सदा रक्ष तु स्वाहा ५ || ओं लं ककुद्देशं सदा रक्ष तु स्वाहा ५ || ओं वं वाम स्कंधं सदा रक्ष तु स्वाहा ५ || ओं घंटां रक्षं र तु मम सदा स्वाहा ५ || ओं हृदि दक्ष वाहौ ओं शं रक्ष तु मम स्वाहा ५ || ओं हृदि वाम वाहौ ओं षं रक्ष तु स्वाहा ५ || ओं हृदादि दक्षपादं ओं सं रक्ष तु सदा मम स्वाहा ५ || ओं हृदादि वामपादं ओं हं रक्ष तु सदा मम स्वाहा हा ५ || ओं हृदादि मुखं सदा रक्ष तु ओं क्षं मम स्वाहा ५ || ओं ३ अं आमित्यादि अ स्वाहा ३ || ओं ३ कं ५ स्वाहा ३ || ओं ३ चं ५ स्वाहा ३ || ओं ३ टं ५ स्वाहा ३ || ओं तं ५ स्वाहा || ओं पं ५ स्वाहा ३ || ओं ३ यं ९ स्वाहा ३ || ओं ३ हूं ३ सर्वविघ्नान्नाशय मम रिपु नखादय २ मारय ३ हूं ३ स्वाहा ५ ठं ठं ठं ठं हूं फट् हूं फट् हूं फट् हूं फट् हूं फट् यत एवागतं पापं तत्रैव प्रतिगच्छ तु स्वाहा स्वाहा स्वस्ति स्वस्ति ओं ओं ओं || इतीदं कवचं देवि सदा मम हृदिस्थितं | त्रैलोक्य मोहनं नाम मातृका कवचं परं || इदं कवचमज्ञात्वा मातृकां यदि विन्यसेत् | स भक्षो जायते देवि मातृकानां वरानने || ७३ब्) तस्मादादौ यहेशानि मातृका कवचं परं | प्रातरुत्थाय शययायां प्रपथेद्यत्नतः सुधीः || ततः परं महेशानि मातृकान्यासमाचरेत् | इदं हि कवचं दिव्यं मम शूलोपमं प्रिये || शूलिनी नाम कवचं निर्मितं विश्व हेतुना | त्रिपुरोतिहतो दैत्यः कवचेस्य प्रसादतः || इदं हि कवचं देवि मम शूले सदास्थितं | अत एव महेशानि शूलिनीति निगद्यते || अत एव हहेशानि शूलं हस्ते सदा मम | शूलं च परमेशानि सदा हस्ततलस्थितं || शर्वशक्तिमयं शूलं सृष्टिस्थित्यन्तकारणं | नाम्ना कमलपत्राक्षि अहं मृत्युंजयः प्रिये || कवचस्य प्रसादेन पिनाकी धनुरुत्तमं | निर्मितं परमेशानि कवचन वरानने || सुदर्शनं महेशानि कवचस्य प्रसादतः | निर्माय वहुपन्नेन वहुकालेन सुन्दरि || सुदर्शनं नाम कवचं अत येव वरानने | पांचजंन्यं महेशादि निर्माय वहु यत्नतः || पांचजन्यं महेशानि कवचं प्रपठेत् प्रिये | इदं कवचमज्ञात्वा सर्वन्निःफलतां व्रजेत् || एतस्य धारणाद् देवि त्रैलोक्य विजयी भवेत् | कवचं हि महेशानि वहुयत्नेन धारयेत् || दीक्षिता दीक्षितो वापि कवचस्य धारणात् | ब्रह्माविष्णु शिवशाक्षात् स एव त्रिंसदाशिवः || भूर्जपत्रेत्विमां विद्यां गन्धचन्दनचर्चितां | कृत्वा वै धारयेद् यस्तु पूजा कोटिफलं भवेत् || दक्षिणे वाहुमूले वै यदि तिष्ठन्ति सर्वदा | तदा सर्वार्थ सिद्धिः स्यान् नात्र कार्या विचारणात् || इदं कवचमज्ञात्वा चतुर्वर्णाद्विजादयः | न जपेत् परमेशानि न पूजा समूपासयेत् || कवचेन विना देवि सर्वं च हानिता मियात् | सर्वार्थ साधनकरं सर्व पूजासुसंस्थितं || एकोच्चारेण गिरिजे कोटि पूजाफलं भवेत् | एतदेव महेशानि कवचं शूलिनी परां || सर्वसिद्धिप्रदं देवि कवचं मोक्षदं प्रिये | धर्मदं मोक्षदं देवि कवचं सततं प्रिये || ७४अ) सुसमाहितो भूत्वा च पठेत् कवचमुत्तमं | ततस्तु परमेशानि मातृकां यत्नतो जपेत् || पंचाशदक्षरमयीं विन्द्वर्दर्शंयुतां जपेत् | ततः परं महेशानि मातृकान्यासमाचरेत् || कचवन्तु विना देवि उच्चरेद्यदि मूढधीः | एकाक्षरं महेशानि पशुयानौ प्रजायते || तस्माद् यत्नेन जप्तव्यं कवचं मातृकामयं | ब्रह्माण्डरूपिणं देवि कवचं सर्वकामदं || यदि वा पुरुषो देवि नारि वा कमरानने | पठित्वा धारयित्वा च चतुर्वर्गफलं भवेत् || वन्ध्या वा काक वंन्ध्या वामृतं पुत्रा च या प्रिये | पुत्रवान् सततं देवि धनवान् सततं प्रिये || चतुर्दश्या ममावास्यां पूर्णमास्यां विशेषतः | चतुःपथगतो भूत्वा नग्नो भूत्वा वरानने || यदि भाग्यवशा देवि रात्रौ मैथुन संयुतः | मुक्तकेशो महेशानि भूत्वा च षट्सतं जपेत् || स भवेत् परमेशानि साक्षाद्विष्णु न संशयः | मम तुल्यो भवेद् देवि ब्रह्मतुल्यो न संशयः || सदा विद्यानिधिर्देवि स भवेत् कमलानने | एतद्रहस्यं परपंपरस्वस्त्यययनं महत् || एतस्य वचनाद् देवि सर्वागम निधिर्भवेत् | आगमेषु पुराणेषु सर्वशास्त्रेषु पार्वति || वागीश समतां याति तत्क्षणात् कमलानने | शृणु वक्ष्यामि देवेशि रहस्यमति गोपनं || गुह्यात् गुह्यतमं पुण्यं सर्वपाप प्रनाशनं | शब्दब्रह्मपरं ब्रह्म ब्रह्मद्वन्द्वयुतं सदा || अमृतं मातृका मंत्रं जपेत् प्रणवसंयुतं | प्रतिवर्णं पूटी कृत्य प्रणवेण शुचिस्मितो || सहस्रं परिसंजप्य कवचं ब्रह्मसंमितं | अतः परं वरोरोहे होमं कुर्याद् विचक्षणः || अष्टोत्तरशतं हुत्वा सर्वविद्यानिधिर्भवेत् | राजा वा राजपुत्रो वा वशयेत् सकलं जपेत् || केशवं वशयेद् देवि लक्ष्म्या सहसुचिस्मिते | ब्रह्माण्डं वशयेद् देवि सप्तावरणसंयुतं || देविपुत्रसमोभूत्वा विचरन्ति महीतले | दिवारात्रिव्यभ्ययं च तस्य स्यात् क्षयता प्रिये || ७४ब्) अन्यं हि कवचं देवि न जपेत् कमलानने | त्रैलोक्य मोहनं नाम मातृका कवचं विना || एतदेवसमाख्यातं सर्वसिद्धिकरं नृणां | लिखित्वा भूर्जपत्रे च मातृकार्णेन वेष्टितां || गोरोचना कुंकुमेन लिखेत् परमगोपनीं | श्वेत सूत्रेण संवेष्ट्य लाक्षया परिमण्डलं || पंचामृतैः पंचगव्यैः स्नापयित्वा शुभेहनि | संपूज्य दिव्यरूपान्तां गुठिकां सर्वकामदां || प्राणप्रतिष्टा मंत्रेण प्राणास्तत्र नियोजयेत् | स्वर्णस्थां धारयेद् देवि दक्षवाहौ वरानने || सर्वकर्म परित्यज्य कवचं धारयेद् यदा | अन्यथा दुःखमाप्नोति सर्वं च हानितामियात् || श्रीगुरोश्च प्रसादेन महाविद्यां लभेद् यदि | कवचं परमं दिव्यं प्रपठेद् यत्नतः सुधीः || स भवेत् परमेशानि सर्वविद्यासुमंत्रेषु स एव दीक्षितः प्रिये | महाविद्यां विद्यां विना देवि दीक्षां कुर्यान्तुयो नरः || इदं हि कवचं देवि न पठे तु कदाचन | शूद्रस्य वा च देवि अधिकारो हि वर्तते || तंत्रोक्तं प्रणवं देवि वह्निजायां च पार्वति | वाचनं धारणं देवि कर्तव्यं सततं प्रिये || पुरानोक्तं महाशानियोजपेच्छुद्रपामरः | सदा स पच्यते घोरे यावदिन्द्राश्चतुर्दश || प्रणवं वह्निजायां च न शूद्रोप्यूचरेत् क्वचित् | प्रणवोच्चारणाद्धोमाच्छालग्रामशिलार्चनात् || ब्राह्मणी गमनाच्चैव शूद्रश्चाण्डलतां व्रजेत् | शूद्रस्य प्रणवोच्चारं पूराण समतां प्रिये || तस्माद् यत्नेन कर्तव्यं तंत्रोक्तं शूद्रजातिना | महाविद्या प्रभावेन शूद्रा वैश्यत्व माप्नुयात् || प्रणवाद्यं महेशानि गृह्नीयात् शूद्रजातयः | एतद्दीक्षा परं तत्वं सुगोप्यं परमेश्वरि || न विद्यां परमेशानी दीक्षा कूर्याच्छुचिस्मिते | दीक्षां कुर्यान् महेशानि महासपर्वब्दासु पार्वति || विद्यां हि वह्निजायान्तां प्रथमं दिक्षितां प्रिये | न कुर्यात् परमेशानि कदापि शूद्र जातयः || कवचं हि पठेद् देवि वह्निजाया समन्वितं | एतत् तत्वं महेशानि योजानाति नरोत्तमः || ७५अ) सोहम च महादेवि देवी रूपश्च शक्तिमान् | सशाक्तः शिवभक्तश्च स एव वैष्णवोत्तमः || स एव धन्यो यस्यार्थे महेशो व्यग्रमानसः || इति श्रीभूतशुद्धि तत्रे हरगौरी सम्वादे जगन्मंगलं नाम मातृका कवचं समाप्तं || इति प्रातकृत्यं || इति श्री आद्यानन्देन विरचितायां कुलमुक्तिकल्लोलिन्यां षष्ठः पटलः || अथ वहिर्महीगमनं || तदुक्तं मेरुतंत्रे || ततो गृहाद्वहिर्याम्यां नै-ऋतीं वा दिशं व्रजेत् | पदे पदे स्मरदस्त्रं दूरे या या द्वि जालयात् || अतीत्य वाणमात्रां तु भुवं ग्रामाद्द्विलोक्य च | कीटतो पादिरेहितं शौचस्थानमिदं पठेत् || वाणमात्रामिति तु स्थान विशेषाद्धोध्यं | ग्रासे क्रोशमितमित्याद्यपि संगच्छति || कालोत्तरे || ततो या योद्वहिर्मंत्री विजनं शरिलाश्रयं | नोषरेन श्मशाने च त्रिपथे वा चतुष्पथे || गोकुले राजमार्गो वा वने चोपवने तथा | देवता यतने वर्ज्य गोरथ्यायां विशेषतः || वर्चो मूत्रादिकं वर्ज्य यस्माद्वै कार्तिके सुत | कर्णे कृत्वा पवित्रं च विन्मुत्रं कारयेत् तदा || उदङ्वक्त्रेण तु दिवारात्रौ च दक्षिणाननः | एवमावश्यकं कृत्वा पायुं लोष्टेन मार्जयेत् || नावलोक्यं स्वकं वर्च इति || मेरुतंत्रे || उत्तिष्ठंत्वृषयो देवा गंधर्वा यक्ष राक्षसाः | परितस्त्यज्यतां स्थानं विण्मुत्रोत्सर्जनायमे || अनेन मनुना लोष्ट तृणैरुद्धास्य देवताः | कुर्यान्मलच्यूतिं तत्र वाससाकं प्रवेष्ट्य च || खंदिशश्चन पश्येत शौच मुद्धृत्त वारिभिः | एकालिंगे गुदे सप्त दशवामकरे तथा || उभयोः सप्तदातव्यास्तिस्रोंर्घ्र्याश्चापि मृत्तिकाः | मूत्रोत्सर्गे वामहस्ते लिंगे पंचैव मृत्तिकाः || त्रिःकर द्वितये चैका पादयोरथ वा चरेत् | गंधलेप क्षयकरं मनोग्लानि हरं परं || कुर्या द्वादश गंडूवात् पुरीषोत् सर्जनोत्तरं | ७५ब्) मूत्र त्यागे तु चतुर आचामेत्त्रिस्ततः परं || अथ दंतधावनं यथा || अर्कन्यग्रोध खरिदकरंभककुभादिजं | कनीन्यत्र समस्थौल्य प्रगुणं द्वादशांगुलं || महाकर्मार्चने || द्वादशांगुलं विप्राणां क्षत्रियाणां दशांगुलं | षडंगुलं तु वैश्यानां शूद्रस्य चतुरंगुलं || निषिद्धमपि सोमजुजगावल्यां || अर्धदग्धं पथिभ्रष्ठं श्मशानस्थं तथैव च | उच्छिष्टविष्ठामुत्रादि लग्नं यत्नात् परित्यजेत् || एषामेकं गृहीत्वा || मेरुतंत्रे || क्रीमुक्ता कामदेवाय सर्वजन प्रियाय च | नमंतोस्तिथि वर्णोयं मंत्रो दंत विशोधने || प्रक्षाल्य दंतकाष्ठं च शुद्धदेशे पुरस्त्ययेत् | वक्त्रं मूलाणुना नित्यं क्षालयेत् सिद्धिदेतवे || अथ स्नानं || तंत्रिविधं औदकमांत्रमान स भेदात् || मेरुतंत्रे || अथ पूजा होम कर्मसिद्धये स्नानमुच्यते || तत्रादा वौदकं निरुप्यते || मेरुतंत्रे नारद पंचरात्रेपि || शंकुनास्त्राभि जप्तेन शुचिस्थाना तु मृत्तिकां | गृहीत्वास्त्रेण संसिंच्य यायाज्जल निकेतनं || तत्रादौ जलकूलं तु क्षालयेदस्त्र वारिणा | मृद दत्वा द्विधा तत्र एकभागोपगं ततः || निधाय गोमयं दर्भान्तिलांश्चाप्यभि मंत्रितान् | मृत्तिका गोमयाभ्यां च कद्यंतं स्नानमाचरेत् || वहिरुद्ध ततो येन मलस्नानं ततः परं || नीलतंत्रे || मृत्कुशानथ संगृह्य गत्वा जलांतिकं ततः | मलापकर्षणं कृत्वा मंत्रस्नानं समाचरेत् || कुलचूडामणौ || अथ वक्ष्यामिते वत्स स्नानं कुल सुखावहं | कृष्णा रक्ता हरिन्नीला विविधा मम मूर्तयः || तत्र यत् कुलगः शिष्यः सतद्रूपं परामृशेत् | आचांतः कुलद्रव्येण सदर्भः कुलपुष्पकं || कुलपात्रे सदर्भं च सतीलं सजलं ततः | गृहीत्वा कुलदेवस्य प्रीतये स्नान माचरेत् || ७६अ) कृत संकल्प एवासौ कुलचक्रं जले न्यसेत् | कुलस्थरात् समानीय कुलमुद्रांकुशेन च || कुलतीर्थानि तत्रैव समानीय कुलात्मकं | तत्तोयं च त्रिधा पीत्वा त्रिधा च प्रोक्षणं तनोः || यत्कुलगः यन्मंत्र दीक्षितः || कुलदर्भो यथा || रुद्रयामले || त्रयोदर्भाः समुद्दिष्टाः सुवर्णै रजतैः कुशैः | तत्र शाक्ते द्वयं चान्यमन्येषां तु त्रयो मतां || सुवर्णं रजनं चैव जपपूजादि कर्मसु | कुशकार्यकरं प्रोक्तं न तु वन्यकुशाः कुशाः || तर्जन्या रजतं धार्यं स्वर्णं धार्यमना मया | एष एव कुशः प्रोक्तो न दर्भोधन संभवः || यामले || विना वैदूर्य या देवी पूजानास्तीहकर्हिचित् | तस्माद्दूर्वा ग्रहीतव्या सर्व पुष्प मयी शुभा || हस्ते दुर्वा कुलं दत्वा आचामेद्विधि पूर्वकं || कुलपुष्पं जवा पुष्पादिकं || कुलपांत्रं स्वर्णादि पात्रं || कुलदेवस्य इष्टदेवतायाः कुलचक्रं त्रिकोणचक्रं तल्लिखन प्रकारस्तु मालिनीतंत्रे || त्रिकोणं मूलवीजेन सावित्रेहंसकं जपन् | दक्षावर्त क्रमेणैव लिखेद् देवि समाहितः || मूलवीजेनेति मंत्रांतरे सावित्रे सूर्यमंत्रे हंसकं हंस इति मंत्रं || मेरुतंत्रे || विधाय वैदिकस्नानं तदगंधर्पणं तथा || अंकूश मुद्रा यथा तदुक्तं तत्रैव || दक्षमुष्टिं विधायाथ तर्जन्यं कुशरूपिनि | अंकुशाख्या महामुद्रा त्रैलोक्या कर्षणक्षमा || गंगे च यमुने चैव गोडावरि सरस्वति | नर्मदे सिंधु कावेरि जलेस्मिन् संनिधिं कुरुः || इति मेरौ श्रीक्रमसंहितायां च || त्रिधा तोयपानमाचमनु रूपमेव तच्च मूलमंत्रेण प्रोक्षणमपिते नैव || तदुक्तं त्रिशक्तिरत्ने || त्रिराचम्य च मूलेन मुद्रया कुंभसंज्ञया | त्रिवारं मंत्रपूतेन शिरः संप्रोक्षयेत् सुधिः || मुद्राचेय मुक्ता गुप्तार्णवे || दक्षांगुष्ठे परांगुष्टें क्षिप्त्वा हस्तद्वयेन तु | सावकाशाचैक मुष्टि मुद्रेयं कुंभसंज्ञिता || गन्धर्वतंत्रे || मूलं पठन्मूर्ध्नितोयं मुद्राया कुंभसंज्ञका | ७६ब्) छिप्त्वावारत्रयं पश्चादाचमेत् साधकाग्रणीः || आत्मविद्या शिवैस्तत्वैरिति || आत्मतत्वेन स्थूलदेहं शोधयामि स्वाहा | विद्या तत्वेन सूक्ष्मदेहं शोधयामि स्वाहा || शिवत्वेन परदेहं शोधयामि स्वाहेति मंत्र त्रयेण चुलुक त्रयं गृह्नीयादित्यर्थः || नीलतंत्रे || विद्यया त्रिर्निमक्ष्यैवमाचमेत्याथ सा तथा || मेरुतंत्रे || ततस्तांत्रिक स्नानस्य विधिरस्त्रेण मृतिकां | समायास्त्र मंत्रेण मत्रयित्वा तृणादिकं || शिखामत्रेणाप हृत्य त्रिर्मूलेनाभिमंत्रयेत् | मूर्धादि पादपर्यन्तं विलिप्य प्रणयेज्जलं || आधारः सर्वभूतस्य विष्णोरतुल तेजसः | तद्रूपाश्च ततो जातास्ता आपः प्रणमाम्यहं || संमुखी करणीं मुद्रां वध्वा प्राणां निरुंध्य च | निमज्य तूष्णीमुत्थाय नाभिमात्रे जलस्थितः || तांत्रिक स्नान संकल्पं मासोल्लेखादि पूर्वकं | कृत्वाथ मूलमत्रेण प्राणायाम त्रयं चरेत् || विन्यस्य च षडंगानि कल्पयेत् तीर्थमग्रतः | चुतुरस्रे हस्तमात्रे तर्जले परिकल्पिते || ब्रह्मांडोदरतीर्थानि करै पृष्टानि तेरवे | तेन सत्येन देवेश तीर्थं देहि दिवाकर || इति सूर्यं प्रार्थयित्वा क्रोमित्यं कुशमुद्रया | भित्वार्कमण्डलं तस्मात् तीर्थान्या वाहयेदिह || गंगे चेति || एवमुक्त्वा तु तीर्थानि तस्मिन् तोये नियोजयेत् | मूलमंत्रेणाथ तीर्थशक्ति तत्र समाह्वयेत् || अर्कस्य मंडलं ध्यात्वा तन्मंत्रेण च पूजयेत् | प्रसंगांगंगोत्पत्तिराहललित स्वच्छन्दे || श्रीदेव्युवाच || कथं गंगा समुत्पन्ना सुरसिद्ध नमस्कृता | कथयस्व प्रसादेन समासात् सुरमत्तम || श्रीभैरव उवाच || गंगायां वै समुत्पत्तिः कथयिष्यामि सुव्रते | जगत्माता महादेवी मम पत्नी पुराहीसा || मम नेत्रोदकश्चैव करजैस्थापिता त्वया | पुनरुत् घाटितैन्नेत्रै जगन्मात्रै त्वया पुरा || मम नेत्रे स्रवंतोयं त्वदीयाङ्गुलिभिर्द्देशैः | ७७अ) दशैव निसृता गंगा कपाला वरणो मम || सप्तैव संस्थिता तत्र एकाविष्णुपुरे स्थिता | द्वितीया ब्रह्मलोके तु तृतीया सप्तलोकगा || स्वर्गे चैव पुनः सा वै संस्थिता सोममण्डले | सोमाच्चैव विनिसृज्य पुनाकाशे व्यवस्थिता || ततो हंसस्तु देवे वै ब्रह्मविष्णु पुरस्सरैः | गंगानदी महापुण्या मर्त्यानां हितकाम्यया || अवतार्य महादेव मर्त्यलोकं विसर्जयेत् | ततो स या पुरेशानि ऊक्ता सा अपराजिता || लोकानां च हितार्थाय आगच्छ सुरसुंदरि | आगत्य ममगर्धे तु मेरु मध्ये पुरा गता || तस्मात् निर्गत्य देवेसि चतुर्दिक्षु दधिंगता | पूर्वेशीता समुर्द्दिष्टा सुवक्षा दक्षिणेन तु || सुनन्दा पश्चिमे भागे भद्र सोमा तु चोत्तरे || ध्यानं यथा || सर्वानंदमयीमशेषदुरितध्वंसां मृगांकप्रभां त्र्यक्षा मूर्ध्व करद्वयेन दधतीं पाशं सृणिं वामतः || अंतश्वामृत पूर्णहेमकलशं मुक्ताक्षमालांवरां गंगां सिंधुसरिद्वरोदि सहितां श्रीतिर्थशक्तिं भजे || ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति सर्वानंदमये पदं || तीर्थशक्तिं तथाचैहि युगलं वह्नी गेहिनी | एकविंशाक्षरः प्रोक्तस्तिर्थशक्ते महामनुः || तज्जलं गांगमंत्रेण मंत्रयदष्टवारकं | तारो नमो भगवते भूयादं वेदतोंविके || अंवालिके माहामालिन्ये ह्येहि भगवन्यथा | असेषतीर्थालवाले माया श्रीवीजमुर्चरेत् || शिवजटाधि रूढे च गंगे गंगास्वीके द्विठः | गंगा विद्येयमाख्याता त्रिपंचाशद्भिरक्षरैः || भुवनेश्या समालोत्र्यामृती कृत्य सुधाणुना | कवचेनोवगुठ्याथ संरक्षास्त्रेण मत्रवित् || मूलेन देवतां तत्र सांगां सावरणां तथा | समावाह्य जले ध्यात्वा तत्पादद्वयनिर्गतां || ध्यात्वा तीर्थं स्मरण मूलमंत्रं स्नायाज्जले त्रिशः | हृदिदवं स्मरंन् पश्चात् सिंचत्कंकुंभमुद्रया || त्रिभिः श्लोकैर्मूलमत्र तारवं वीजपूर्वकैः | ७७ब्) सिसृक्षोर्विलिलं विश्वं मुहुः शुक्लं प्रजायते || मातरः सर्वभूतानामायो देव्यः पुनस्तुमां | लक्ष्मी मलरूपाया सर्वभूतेषु संस्थिता || क्षारयन्तु निजस्पर्शादापोय देव्यः पुनस्तुमां | यन्मकेशेषु दौर्भाग्यं सीमंते यच्च मूर्धनि || ललाटे कर्णयो रक्षोरापस्तंघ्नंतुवो नमः | ततः स्वाहान्त मूलेनेत्रिरोचमनमाचरेत् || त्रिधा देवं च संतर्प्यतोय मध्यात् ततो व्रजेत् | इति प्रकारेण एतेषां प्रकाराणामविरोधे समुच्चयः विरोधे विकल्पः मेरौ सर्वसाधारणः वसिष्ठ संहितोक्तस्तु समानत्वान्नलिषितः त्रिपुरार्णवोक्त प्रकारस्तु त्रैपुर एवेत्यपि वेदंति || वामे तु गंगामंत्रध्याने विशेषः || तदुक्तं तत्रैव || तारो नमो भगवति वाग्भवं च हिलि द्वयं | भिलिद्वयं च गंगे मां पावय द्वितयं वदेत् || स्वाहान्तस्तारका वर्णा मनुः पापप्रणाशनं || ध्यानं || रक्तांवरां रक्तवर्णां शूलकुंभवराभयान् | करैः संदधतीं स्मेरां कच्छपस्थां सुरादिभिः || तद्रूपाभिः सपायस्य नाशाय सुनिषेवितां || इति स्नानविधिः || अथ मंत्रस्नानं || तत्रैव || मंत्रस्नानं प्रकर्तव्यं शीतयोद्देशकालयोः || तोयाभागे तथा मुने || मेरुतंत्रे || प्रक्षाल्यपादा वाचम्य प्रोद्धृतेन तु वारिणा | स्थानं दशदिशः प्राग्वत् संशोध्योप विशेत् ततः || जलं हस्ततले न्यस्य क्रमान्यासांस्ततश्चरेत् | मातृकादींस्तथा मूलमंत्रस्नानस्य निश्चयात् || स्वविद्यया अस्त्रमंत्रं प्रकुर्वीत हृदये नित्ययोगिन || नारद पंचरात्रे मेरुतंत्रेपि || ध्यानस्नानमथोवक्ष्ये द्वाभ्यामपि परं चयेत् | खस्थितं पुण्डरीकाक्षं मंत्रमूर्तिं प्रभुं स्मरेत् || तत्पादोदकजांधारां निपतंतीं स्वमूर्धनि | चिंन्तयत् सूक्ष्मरंध्रेण प्रविशन्तीं स्वकांतनुं || तस्मात् संक्षालयेत् सर्वं मे तद्देहगतं मलं | तत्क्षणाद्विरजोमत्री जायते स्फटिकोपम || इदं स्नानवरं मंत्रस्नानोच्छतगुणं मतं | ७८अ) मनसो यस्तु संशुर्धः सशुद्धः सर्वकर्मसु || पुण्डरीकाक्षमित्युपलक्षणं स्वस्वाराध्य देवतामेव स्मरेदिति तत्प्रमाण मुक्तं मेरौ || शिवादिक स्थले भावमूहं स्वष्टस्य चाचरेत् | अल्पायासेन तत्फलकत्वाद्द्वाभ्यां श्रेष्टं || न तद्वतस्तत्प्रधानमिमिवोध्यं असितादेस्तु महाचीनादि क्रमोपास्यत्वादत्रमानसमेव प्रधानं || इति मानस स्नानं || अथ शिवस्नानं || तत्रैव || यद्वा शिवात्मकैःर्मंत्रैः कृत्वा तीर्थ शिवात्मकं | मार्जनं संहितामत्रैः शिवस्नानमितीरितं || संहिता मन्त्रैरितिमार्जनादि मंत्रैरित्यर्थः || तथा || स्नान पूर्वाः क्रियाः सर्वाः शुद्धांसिद्धिं प्रयांति च | तस्मास्नानं पुरा कुर्यादेष्वेकं देहशक्तितः || अथ धौतवस्त्र परिधानं || तदुक्तं तत्रैव || धौतवस्त्रयुगं धृत्वा प्रक्षाल्यो हरौ तथा || मृदाद्भिस्तत्र आचामेदिति || कुलचूडामणौ || उत्थाय कुलवस्त्रे द्वे परिधाय कुलेन तु | तिलकं कुलरूपन्तु कृत्वा वश्यं समाप्य च || कुलवस्त्रमिति उत्कृष्ट रक्त वक्त वस्त्रचापि परं कुलेन मूलमंत्रेण कुलरूपं तिलकं सततं त्रिपुण्ड्रधारणं कारयेत् || तत् श्मशान मृद्भिः सुधीरितिमत्स्य सूक्तोक्तं वीरतीलकं || नारद पंचरात्रे || सूधौतं परिधायाथ वस्त्रयुग्म सखेददं | तदभावो दधः शाटी योगपत्तकसंयुता || न चैक वाससा यस्माद् भवितव्यं कदाचन || स्वतंत्रतंत्रे || मोक्षार्थि रक्तवस्त्रे द्वेभागार्थीश्वत वाससी | परिधाय ततो विद्वान् योगभूमिमथा विशेत् || यामले || वितृयाद्वाशसी शुभ्रे तिलकं वर्णभेदतः || मेरुतंत्रे || ततस्तु तिलकं कुर्याज्जातेर्वा दैवतस्य च | यद्यच्छुभ फलं तीर्थे मृद्भिवार्भक्तिभावतं || वर्णभेद इति यामले || ब्राह्मणस्योर्द्ध पुण्ड्रं स्यात् क्षत्रियस्य त्रिपुंण्ड्रकं | वैश्यानामर्धचन्द्रं स्यात् शूद्रस्य वर्तूला कृति || ७८ब्) मेरुतंत्रे || ब्राह्मणस्योर्ध्व पुण्ड्रं स्यात् क्षत्रियस्य त्रिपुण्ड्रकं | अर्धचन्द्रन्तु वैश्यस्य शूद्राणां वर्तुला कृतिं || ऊर्ध्व पुण्ड्रं मृदा कुर्यात्रिपुड्रं चापि भस्मना | केशरेण च कस्तूर्या शेषंशीतं यथा रुचि || वैष्णवस्योर्ध्व पुंड्रं स्या त्रिपुंड्रं शिवसेविनः | अर्धचन्द्रो गणेशस्य देवी भक्तस्य वर्तुलं || नारायण परो यस्तु चन्दनस्य त्रिशूलकं | भाले विभूति वद्योसौ ब्रह्मविष्णुशिवात्मकं || अथ विभूतिधारण फलाफलं || तथा || भूतिदातु विभूतिः स्यात् विधिना विधृता यदि | यथा कथं चिद्विधृता भत्स्मसात् कुरुते जनमिति || प्रसंगात् भस्मविधिर्धारणविधिरपिलिष्यते शैवशाक्ताणामावस्यकत्वात् || तदुक्तं तत्रैव || शिवाग्नेर्भस्मसंग्राह्यमग्नि होमोद्भवं तु वा | वै वाह्यग्न्युद्भवं वापि पक्वं शुचि सूगन्धि च || कपिलाया सकृच्छस्तं गृहीतं गगने पतत् | न क्लीन्ननापि कठिनं न दूर्गन्धि न चोषितं || उपर्यधः परित्यज्य गृह्नीयात् पतितं यदि | पिशुं कृत्य शिवाग्नौ च तत्क्षिपेन् मूलमंत्रतः || अपक्वमति पक्वं च संत्याज्यमसितंसितं | आदाय वाससालोद्य भस्माधारे विनिक्षिपेत् || भस्मसंग्रहणं कुर्यादेवेनुद्वासिते सति | उद्धासने कृते यस्माच्च सुभस्म प्रजायते || यद्वा द्विजाभस्म कुर्युः सद्येनानीय गोमयं | वामेन पात्रे संयोज्या घोरमत्रेण निर्दिहेत् || पुरुषेण समुद्धृत्य ईशानेन विशोधयेत् | इत्थं तु संस्कृतं भस्म अग्निरित्यादि मंत्रतः || तद्रूद्रायेति यजुषा मंत्रयद्रूदसंज्ञया | प्रणवाद्यैश्चतुर्थो हृदन्तै नामभिरंशकैः || पंचवर्णाद्यक्षराद्यैर्भालांसोदर हृत्सु च | त्रिपुंड्रधारणं कुर्यात् मूर्ध्नि पंचाक्षरेन च || एभिश्च नामभिर्धार्यं पुनर्भस्म द्विजादिभिः | ब्रह्मा ललाटे विज्ञयो हृदये हव्यवाहनः || नाभौ स्कंन्दो गले पूर्षा रुद्रो दक्षिण वाहुके | ७९अ) आदित्यो वाहुमेध्ये च शशी च मणिवन्धके || वामदेवौ वामवाहौ वाहुमध्ये प्रभंजनः | मरिवन्धे च वसवः पृष्ठदेशे हरिः स्मृतः || शंभुः ककुदि संप्रोक्तः परमात्मा शिरस्मृतः || कस्तूर्यादि सुसंयुक्तं भस्म शाक्तस्तु धारयेत् | अद्विजैर्मूलमंत्रेण शिवपंचाक्षरेण वा || त्रिपुण्ड्रं कारयेद् भाले ब्रह्मविष्णुशिवात्मकं | मध्यांगुलिभिरादाय तिसृभिर्मूलमंत्रितं || अनामा मध्यमांगुष्ठैरथवा स्यात् त्रिपुंड्रकं || शंभु नित्यातंत्रे || षडंगुलं प्रमाणन्तु ब्राह्मणानां त्रिपुण्ड्रकं | नृपानां चतुरंगुल्यं वैश्यानां तु त्रिरंगुलं || एकांगुलं तु शूद्राणां नारीणां भस्मधारणं | भस्मनाचार्ध पुण्ड्रं तु तिर्यक् पुण्ड्र मृदा तथा || ऊर्ध्व पुण्ड्रं त्रिपुण्ड्रं स्यान्नोर्द्धपुण्ड्रं त्रिपुण्ड्रकें | ब्रह्महत्या समं प्रोक्तं मुणिभिर्वेदपारगैः || धृत्वा भस्म तु यो माहात्कलौ प्रक्षालयेद्भुवि स रौरवे वसेन्मर्त्या यावदा चन्द्रतारकं || यावन्तः पतिता भूमौ भस्मनः परमोणवः तावद्वर्ष सहस्राणि नरो भावति किल्विषी || समयातंत्रे || भस्मना तिलकं कुर्यान्मृन्भिर्वा पुण्ड्रकं त्रयं || भैरवीतंत्रे || त्रिलकं रक्तगन्धेन गोपं चन्द्रनकेनवो | देव्येस्त्रं विलिखेद्भारे तारवीजन्ततो हृदि || शक्ति मध्यगतं कुर्यात् साधको नरपुंगवः | विभूति धारानन्तरमनुलेपनमिति सप्रदायः || अथ संध्या || भैरवीतंत्रे || आचम्य प्राङ्मुखा भूत्वा उपविश्य च तंत्रवित् | वैदिकीन्तांत्रिकीं कुर्यात् ततः सध्यां समाहितः || शैवागमे || प्राणायाम त्रयं कृत्वा मूलमंत्रेण मंत्रवित् | अंगानि विन्यसेद् देहे करंन्यास पुरस्सरं || अमृती कृत्य पुरतो जलं वंध्येनु मुद्रया | अभिमंत्र्य च मूलेन सप्तवारं च साधकः || अकारादि क्षकारान्तैम्मातृकान्तैस्मविन्दुभिः | प्रत्यर्णं प्रोक्षयेन्मूर्ध्नि कूशैर्मूलेण वा त्रिधा || ७९ब्) मेरुतंत्रे || वज्येथ तात्रिकीं संध्यां मूलेनाचमनत्रयं | शिषां वन्ध्वां च मूलेन प्राणायाम त्रयं चरेत् || अंगानि विन्यसेद् देहे करं न्यास पुरःसरं | अमृती कृत्य पुरतो जलं वंधेनुमुद्रया || अभिमंत्र्ये च मूलेन सप्तवारं ततः परं | अकारादि क्षकारांतैर्मातृकार्णेः स विन्दुभिः || प्रत्यर्णं प्रोक्षयेन् मूर्ध्नि कूशै मूलेन च त्रिधा || कुमारीकल्पे || प्रणवं पूर्वमुधृत्य मणि धरिणी वज्रिणी | रक्षद्वयन्तक्षा हूं फट् स्वाहेति तदनन्तरं || अनैनैव हि मंत्रेण रक्षां कुर्याद् विचक्षणः | पुनराचम्य विन्यस्य षडंगानपि मंत्रवित् || वामहस्ते जलं गृह्य गलितोदक दुंदुभिः | सप्तधा प्रोक्षणं कृत्वा मूर्ध्नी मंत्रं समुद्गिरं || अवशिष्टोदकं दक्षे हस्ते संगृह्य मंत्रवित् | हृदया कृष्यदेहान्तः क्षालितं पाप संचयं || कृष्णवर्णन्तदुदकं दक्षनासाभिरेचितं | दक्षहस्तेन तन्मंत्री पापरूपं विचिंत्य *? || पुरतो वज्रपाषाणे प्रक्षिपेदस्त्र मंत्रतः | रक्षा शिखा वन्धन रूपैवेति तत्वविदा || भीमक्रमतंत्रे || पुनराचम्य विन्यस्य षडंगमपि मंत्रवित् | वामहस्ते जलं गृह्यग?रितोदक विन्दुभिः || सप्तधा प्रोक्षणं कृत्वा मूर्ध्नी मंत्र समुच्चरन् | अवशिष्टोदकं हस्ते दक्षे संगृह्य वुद्धिमान् || ईडया कृष्यदेहान्त इत्यादि कूमारी कल्पेवत् || मेरुतंत्रे || देवं ध्यात्वाथ मनुवित् भानुमण्डलसंम्भृतं | आदाय तोय मा मंत्र्य वीजैर्भूतात्मकैस्तथा || लं वं रं यं हं इति च तान्येतैः सप्तधा जलं | मंत्रयित्वा पुनः सप्तवारं मूलेन मंत्रयेत् || तर्जलं वामहस्तेन धार्यं तत्मूतविन्दुभिः | दक्ष हस्तेन संप्रोक्ष्यं कं पठन्मूलमंत्रकं || यामले || षडंगन्यासमाचार्य वामहस्ते जलं ततः | गृहीत्वा दक्षिणे चैव संपूटं कारयेत् ततः || शिव वायु जल पृथ्वी वह्नि वीजैस्त्रिधा पुनः | ८०अ) अभिमंत्र्य च मूलेन सप्तधा तत्वमुद्रया || निःक्षिपेत् तज्जलं मूर्ध्नि शेषं दक्षे निधाय च | शरीरान्त स्थितं पापं क्षालयेत् साधकाग्रणीः || मूलेन तिलकं कुर्यात् सन्ध्यैषैव हि कौलिकी | उद्दिश्य कुलगं शिष्यं कथिता कुलसुन्दरि || शिववीजं हकारः वायुवीजं यकारः जलवीजं वकारः पृथ्वी वीजं लकारः वह्निवीजं रेफः एषां च सानुस्वाराणां वीजत्वं स जलं वामहस्तं दक्षे हस्तेन संपूटीकृत्य एभिर्वीजैस्त्रिधा जलमभिमंत्र्य तत्वमुद्रया हस्तस्थमेव जलं मूलमंत्रेण सप्तधा मूर्ध्नि क्षिपेत् || अत्र कुमारीकल्प भीमक्रम तंत्रयोः मेरूयामलयोर्विकल्पे पुनः मेरु यामलयोः विकल्पे गुरु क्रम एकपरिच्छेद्यः सृष्टि क्रमस्तु मेरौः || वामे तु || हस्तव्यन्यासतो वामाचारी सेवनमाचरेत् | दक्ष हस्तस्थ जलमभिमंत्र्य वामेन मार्जनमित्यर्थः || तत्रैव || नासामाश्लिष्य शिष्टेन तेजोरूपेण तेन तु | प्रविश्यांतर्गतं सर्वं मलं संशोध्य निर्गतं || दक्षनासा पुटेनैतत् स्मृत्वा दक्षिणहस्तगं | वामभागे वज्रशिलां ध्यात्वास्त्रेण च तं क्षिपेत् || प्रक्षाल्य हस्ता वाचम्य मूलमंत्रेण मंत्रवित् | गायत्र्या वाथ मूलेन दद्यादर्घ्य त्रये ततः || रविमंण्डलसंस्थाय स्वेष्ट देवाय तर्पयेत् || शैवागमे || गायत्र्या वाथ मूलेन दद्यादर्घत्रयं ततः | शिवाय मण्डलस्थाय मूखे मूले तर्पयेत् || मेरुतंत्रे || जलेन मूलमंत्रांते ह्यमुकं तर्पयामि || उक्त्वा त्रिधा तर्पणीयमिति || वामकैः कारणेन तु || शैवागमे || त्रिधा जप्त्वाथ गायत्रीमष्टाविंशतिवारकं || मेरुतंत्रे || इष्टदेवस्य गायत्रीमष्टाविंशति संख्यका | जयेदभावे ब्राह्मी तु वैदिकं मतमाश्रित्यः || तांत्रिकः शिवगात्रीं जपेत् साथ निरूप्यते | ओं तन्महेशाय विद्महे वाग्विशुद्धाय धीमही || ८०ब्) तंन्नः शिवः प्रचोदयादिति || गायत्री ध्यानन्तु तंत्रे || उद्यदादित्य संकाशां पुस्तकाक्ष करां स्मरेत् | कृष्णांजिनधरां ब्राह्मीं ध्यायेत् तारकितास्वरे || संध्याह्ने || श्यामवर्णां चतुर्वाहुं शंखचक्रलसत्करां | गदापद्मधरान्देवीं सूर्यविम्बकृताश्रयां || सायाह्ने वरदान्देवीं गायत्रीं संस्मरेद्वुधः | शुक्लां शुक्लांवरधरां वृषासन कृताश्रयां || त्रिनेत्रां वरदां पाशं शूलं च नृकरोटिकां || मेरुतंत्रे || मूलमष्टोत्तरशतं || जपित्वा चार्पयेद् देवे स्तुत्वानत्वेष्ट देवतां | सूर्यमण्डलतो देवं विन्यसेद्धृदये स्वके || ततो गुरुं च प्रणमेदिति संध्या तु तांत्रिकी || गौतमीये || संक्षेपसंध्यामथ वा कुर्यात् मंत्री ह्यशक्तितः | सायं प्रातश्च मध्याह्ने कृष्णं ध्यात्वा मनुं जपेत् || इति संध्या त्रयं प्रोक्तं कर्मिणां सिद्धिदायकं | कृष्णमित्युपलक्षणं स्वाभीष्ट देवतामित्यर्थः || मेरुतंत्रे || त्रिकालमेवं कर्तव्या संध्यालोपात् फलं न हि | दैवतो यदि लोपश्चेत् तदा मूलं शतं जपेत् || प्रायश्चित्तायतां कृत्वा कूर्वीत समयागतां || शैवागमे || संध्यालोपो न कर्तव्यः शम्भोराज्ञैव सवधि | दीक्षितस्सन्ध्यया हीनो न दीक्षा फलमश्नुते || संध्याहीनोन्य संध्यायां पूर्वसन्ध्या क्रियामथ | विधायोत्तरसन्ध्यायाः क्रियां कुर्यादतन्द्रितः || गौतमीये || सन्ध्यायां पतितायाम्वा गायत्रीन्दशधा जपेत् || मंत्रराजे तु || स्नानसंध्यार्चनालोपेदष्टोत्तरं शतमित्युक्तं || इति संध्या || अथ तर्पणं || मेरुतंत्रे || वैदिकं तर्पणं कृत्वा ततस्तांत्रिकमारभेत् || कुलचूडामणौ || देवानृषीन् पितृंश्चैव तोषयेत् कुलवारिणा | कुलात्मकान् पुनर्ध्यात्वा कुलशंलीयतोषयेत् || कुलवारिणा आहूत कुलवीर्यमयवारीणा कुलात्मकान् दिव्यौद्य मानवौद्यान् कुले पूजा चक्रे संलीय आवाह्य || तथा || भैरवाय च देवाय भैरवावेश कारिणे | ८१अ) भैरवाख्यं प्रदातव्यं मंत्रमुर्चार्य पूर्वतः || भैरवाख्यम्मंत्रमित्यन्वयः सचानन्द भैरवमंत्रो वक्ष्यते पूर्ववत् ओघत्रय तर्पणात् पूर्वं || यामले || तर्पणादौ प्रयुंजीत तृप्यतां ब्रह्मभैरवः | तर्पणे पितृणाम्भैरवत्वेनोल्लेखस्तु वीरविषयः पशूनान्तु || मालिनीतंत्रे || दक्षिणाशा मुखो भूत्वा संगृह्यमोटकन्ततः | तृप्यन्तु पितरः प्रोक्त्वा चैतत् तर्पणमाचरेत् || शैवागमे || ध्यात्वा देवं जले सम्यक् पूजयित्वाथ मूलतः | अष्टोत्तर शतावृत्या तर्पयेन् मूलमंत्रतः || तदर्धेन तदर्धेन दशधा वाथ तर्पयेत् | ततस्तदङ्गावरण देवतास्तर्पयेत् क्रमात् || एकैकांजलिनातद्वन्मूलमंत्र पुरस्सरं | ततः संपूज्य देवेशं साङ्गावरणकन्ततः || समुद्धास्य हृदिस्वीये आत्मानं तन्मयंस्सरेत् || मेरुतंत्रे || प्राणायाम त्रयं कृत्वा मूलेन न्यासमाचरेत् | ऋष्यादि त्रितयस्याथ पुरतो धेनु मुद्रया || वं जपन्नमृती कृत्य जलं तत्र स चक्रकं | सांगावरणकं देवं ध्यात्वा मूलं समुच्चरन् || अमुकं तर्पयामीति प्रोक्त्वा चाष्टोत्तरं शतं | तदर्धमथ वा विंशदष्ट युक्तं मुखाब्जके || देवस्यामृत वुध्न्यातत्तीर्थतोयैः प्रतर्पयेत् | तदावरण देवांश्च तद्वदेकैकवारकं || सतर्प्यदेवं स्वहृदी तीर्थे सूर्य विसर्जयेत् || यामले || तंत्रराजं जले ध्यात्वा तत्र देवी निधाय च | देवर्षि पितृ पूर्वास्तु सायुधां सपरिवारां || जले वा तर्पये देवीं गृहिवा तर्पयेत् सुधीः | गुरुपंक्तिं च संतर्प्य वटुकादींश्च तर्पयेत् || मूलदेवीं च संतर्प्य तर्पयेत् परिवारकान् | तर्पयेद्धारपारादीन् तथैवांगोदि देवताः || शेषिकां सुन्दरीं पश्चादैश्यां च परमं गुरुं | अग्नौ परापरञ्चैव नैर्-ऋत्यां परमेष्ठिनं || वायव्यादीशपर्यन्तं गुरुपक्तिश्च तर्पयेत् | अङ्गानि तत्तत् स्थानेषु मध्ये देवीं च तर्पयेत् || मालिनीतंत्रे || मूलान्ते तर्पयामीति स्वाहान्तं तर्पणमतं | ८१ब्) एवं त्रिधा तर्पणन्तु कृत्वा पापक्षयो भवेत् || तर्पयामीत्यतः || ताराया विशेषः || तीर्थोदकं तिलं कल्कं क्षीराक्षत समन्वितं | उत्तराशामुखो भुत्वा देवीमात्रं प्रतर्पयेदिति मालिनीतंत्रे परिवारन्तु केवल जलेनैव तर्पणं मूलांते तारिणीं प्रोच्य तर्प्ययाम्यग्नि वल्लभेति मूलांते तर्पणमिष्ट देवता परं || विष्णवे विशेषो गौतमीये || आदौ मंत्रं समुच्चार्य श्रीपूर्वकृष्णमित्यपि | तर्पयामि पंचोक्ता नमोन्तत्तर्पयेन्नरः || अन्यत्र तु || तर्पयामि पदं योज्यं मंत्राते स्वेष्टनाम च | द्वितीयान्तेषु चेत्येवं तर्पणस्य मनुर्मतः || इति || एवं तु प्रधान तर्पणमष्टोत्तरशतं प्रमथमः पक्षः तदर्धमथ वा विंशदष्टवारं वा प्रत्येकमङ्ग परिवार तर्पणाशक्तौ सांगा सपरिवारामित्यादि कल्प्य अमुकदेवतां तर्पयामि स्वाहेति यथाशक्ति देवतामेव तर्पयेदित्यागमिकाः || महाकालसंहितां श्रीदक्षिणकालिकां || तर्पयामि स्वाहेति || तत्र भैरवरूपं च देवीमपि च कालिकामिति यामल वज्रनात् || ततः सूर्यायार्घं दद्यात् || तदुक्तं यामले || मातण्ड भैरवायेति त्रिधा चार्घं प्रकल्पयेत् | मार्तण्ड भैरवायेत्येक देश ग्रहणं तन्मंत्रस्तु || ह्रीं हंसः मार्तण्ड भैरवाय प्रकाश शक्तीसहिताय इदमर्घं स्वाहेति || तंत्रराजोत्तरे || संस्मृत्य भैरवन्देवम्मार्तण्डाख्यमुमापतिं | मूलेन मनुनादेवं सूर्यस्य मनुनाथ वा || मायावीजं समुद्धृत्य सोहन्तु विपरीततः | मार्तण्ड भैरवं ङेन्तं प्रकाशशक्तिसंयुतं || सूर्यस्य मंत्रंत्रस्संप्रोक्त इति || मेरुतंत्रे || प्राणायाम त्रयं कृत्वा सूर्यमंत्रेन मंत्रवित् | ह्रीं ह्रं सः इति सूर्यस्य त्र्यक्षरो मंत्र उच्यते || विन्यस्य च तथेन्द्रादीन् ध्यात्वा सूर्य मनन्यधीः || ८२अ) ध्यानं यथा || पद्मद्वया भयवरान्दधतं कराब्जैर्माणिक्यमौलिमरुणागरुचिं त्रिनेत्रं || रक्तांवुजासनमशेष गुणैक सिंधुं भानुं समस्त जगतामधिपं भजामि || स्वतंत्रे || दिनेशाय क्षिपेत् तिष्ठन् वारिणाचांजलि त्रयं || नन्दिकेश्वर संहितायां || यावन्न दीयते चार्घं भास्कराय निवेदनं | तावन्न पूजयेद् विष्णुं शंकरम्वा सुरेश्वरिं || नित्याह्निक तिलकेपि || कुलमार्तण्डकं चात्र संक्षेपार्चनकं ध्रुवे | ततः प्रोक्तं पुरार्घस्य दानात् पूजाफलं भवेत् || ततः सूर्यमण्डलस्थायै देव्यै अर्घन्दद्यात् || तदुक्तं नीलतंत्रे || कुपीतमोढ्रपुष्पं च कुशपुष्पं कुशाजलं | अक्षता च तथाम्रे कृत्वा चार्घ्यं निवेदयेत् || मूलान्ते चोद्यदादिभ्य पदान्मण्डलवर्तिन्यै | शिवचैतन्यमययै च स्वाहेति तन्मनुः स्मृतः || कूपीतं रक्तचन्दनं कुलपुष्पमार्तवं || अत्र कालितत्व कृतं || उक्ते नैव विधानेन स्नानं कृत्वा तु तांत्रिकमिति वचनात् | सन्ध्यैषैव हि कौलिकी || उद्दिश्य कुलगं शिष्यं कथितेति ब्रह्मयामलवचनात् || कौलिकं कुर्वतः कर्म कौवैदिलिकं नाभीधीयते || वैदिकं कुर्वतः कर्म कौलिकं नाभि धीयत इति रुद्रयामलवचनात् || अथया निरक्षेमे कर्मेत्यथर्व वेदार्च कौलिकै वैदिकस्नान संध्यातर्पणादीनि न कार्याणीति वदन्ति || तन्न कृत्वादौ वैदिकं स्नानं ततस्तान्त्रिकमाचरेदिति मेरुतंत्र वशिष्ठसंहितयोः विधाय वैदिकं स्नानं ततस्तान्त्रिकमाचरेदिति त्रिपुरार्णव वचनस्य मेरुतंत्रस्य च वैदिकीं तान्त्रिकीं सन्ध्या कृत्वा तर्पणमाचरेदिति मेरुतंत्रस्य विरोधात् तद्वचनानामन्यथार्थः कल्प्यते || तत् तथैवास्तु विवादमात्रं सुधीभिरवधेयें || मेरुतंत्रे || गुरुंदिगीशांश्च खगात्नत्वाभांडंकरे दधन् | जलपूर्णं व्रजेन्मौनी स्वष्टदेवं हृदिस्मरन् || ८२ब्) एकांतं निर्जनं यायात्मनोज्ञं दोषवर्जितं | दिगंतरं न वीक्षेत यावत् प्राप्नोति वै गृहं || इति तर्पणम् || इति श्री आद्यानन्दविरचितायां कुलमुक्तिकल्लोलिन्यां सप्तमः पटलः || अथ पूजाविधिः || सा च त्रिविधा उत्तम मध्यमाधम भेदादिति प्रागुप्तं || तथा चोक्तं || फेत्कारिणितंत्रे || शक्तिभिर्मूर्तिभिश्चैव लोकपालैश्च संयुतः | पीठयंत्र क्रमाद्यागो नित्ययागस्स उत्तमः || पीठे नैव समस्तेन वहिरावरणम्विरा | अग्निकार्येण हविषा भूषणैश्च समन्वितः || मंत्र पूर्वं कृतो यागो नित्ययागस्स मध्यमः | द्रव्यशुद्धिसमायुक्तं तत् तत्संपूजनन्तथा || वस्त्रालंकालवस्तुनि वर्जयित्वा पृथग्विधं | अग्निकार्यं विहीनं च कालदेशानुसारतः || उपचारैयत द्रव्यैरधमं पूजनं मतं | अत्र शक्त्यापेक्षमाचरणमिति वहुतरत्वादुपेक्षितं || तत्रादौ स्थान नियममाह || फेत्कालीये || एकलिङ्ग श्मशाने वा शुन्यागारे चतुःपदे | तत्रस्थं साधयेद् योगी विद्यां त्रिभुवनेश्वरीं || रुद्रयामले || एकलिङ्गे श्मशाने च शून्यागारे चतुःपथे | शवो परिचितास्थो वा कुलपादपमूलके || यानौ वा योनि यंत्रे वा योनिपुष्पे विशेषतः | सुद्रव्यैः पूजयेद्विद्यां जवायावक सिंन्दुरैः || मत्स्यमांसैर्धूपदीपैर्न्नैवेद्यैर्विविधैस्तथा | षट्सहस्रमाणेन प्रतिसन्ध्यं जपेन्नरः || महाविद्या विशेषेण जपमात्रेण सिद्धिदा | तत्रस्थः साधयेद् योगी विद्यां त्रिभवमोचिनीं || एकलिङ्गमुक्तं फेत्कारीये || पंचकोशान्तरे यत्र न लिङ्गांतरमीक्षते | तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा || श्मशानादि मुक्तं त्रिशक्तिरत्ने || दह्यन्ते व्यसवो यत्र शवकीलकसंकुले | गृध्रगोमायुकाकाद्यैर्मांशलुब्धैर्यदावृतं || तत् श्मशानमिति ख्यातं पिशाचगण सेवितं | ८३अ) काकादिनीतसंयुक्तं कृमिच्छत्रादि संयुतं || नागरैर्दूरनिर्मुक्तं साध्वसोद्भवकारणं | सौधसंरूढघासौघं शून्यागारं तदुच्यते || चतुर्णा च पथां यत्र संपातो युगपद्भवेत् | तच्चतुष्पथमित्युक्तं रजन्यासिष्टदायकं || पूर्वपूर्वमिदंशस्तं जघन्यं चोत्तरोत्तरं || हरगौरी सम्वादो || पूजनीया प्रयत्नेन शून्यागारे चतुष्पथे | शिवालये विल्वमूले सर्वदा कुलमण्डले || वीरतंत्रेपि || सर्व एव शुभः कालो नाशुभं विद्यते क्वचित् | न वीशेषो दिवारात्रौ सन्ध्यायामथ वा निशि || फेत्कारिण्यां || वलिपूजादिकं सर्वं रात्रौ तु क्रियते यदी | तत्तदक्षयतां याति तारा देव्याः प्रशादतः || कुलार्णवे || आत्मस्थानमनुद्रव्य देहशुद्धिस्तु पंचमी | यावन्न क्रियते देवी तावद् देवार्चनं न हि || आत्मशुद्ध्यादिर्वक्ष्यते || सम्मार्जनोपलेपाद्यैर्दर्पणोदरवत्कृतं | वितान धूपदीपादिविततध्वज शोभितं || पंचवर्णरजश्चित्रं स्थानशुद्धिरितीरिता | ततश्च साधकश्रेष्टो हृदिमंत्रं परामृषन् || अवहिर्मानसो योगी योगभूमिमथाविशेत् || मेरुतंत्रे || प्रदक्षिणं यज्ञवाढं कृत्वा पादौ च हस्तकौ | प्रक्षाल्यचम्य पूजाया गृहाघा?रान्तरे स्थितः || कुमारीकल्पे || ओं वज्रोदके हूं फट् स्वाहा मंत्रेण मंत्रवित् | जलमानीय सव्येन आसनं शोधयेत् ततः || सव्येन वामदिशीत्यर्थः || तथा || प्रणवं पूर्वमुद्धृत्य लक्ष्मी वीजन्तथैव च | ततो विशुद्धान्ते सर्वपापानि शमयेति च || अशेषान्ते विकल्पं स्यादपनय ततः परं | कूर्ववीजं भवेन्मंत्रः पादप्रक्षालने प्रिये || वेदाद्यं च तथा माया स्वाहेत्या च मने ऋतं || भैरवतंत्रे || आचम्यसंविशेद्विद्वान् कम्वलाद्यासने ततः | ८३ब्) उत्तराभि मुखो भूत्वा वीरपद्मासनात्ततः || उपविश्या चमेन्मंत्री आचमनं सर्वसिद्धिदं | कल्पादिभिस्त्रिभि पीत्वा काल्पादिभिरुप स्पृशेत् || द्वाभ्यामोष्टौद्विरुन्मृज्य चैकेन क्षालयेत् करं | आस्य घ्राणे क्षण श्रोत्रनात्पुरष्कं भुजौ स्पृशेत् || आचम्यैवं भवेच्छस्तुर्वत्सरात्तां प्रपश्यति | पूर्ववत् स्नानमिति इदमुपलक्षणं प्रातः कृत्यान्तरे स्नानसन्ध्याअर्पणपादप्रक्षालनाचमनशिखावन्धनादिकं द्वारपूजा आसनोपवेशनादिकं च ज्ञातव्यं || उत्तराभिमुख इति तेन दिगन्तराभिमुखत्ववाधः || काल्पादिभिरिति ह्रींकार त्रयेणाचमन त्रयं कृत्वेत्यर्थ इति तंत्ररत्न कृतः वस्तुतः काल्पादिभिः कालीकूर्चलज्जावीजैरित्यर्थः || कल्पादिभिरित्यत्र कालीकपालिनित्यादि पंचदशशक्तिभिरित्यर्थः || उपस्पर्शमेवाह द्वाभ्यामिति कालीकपालिनीत्यामित्यर्थः || एकेन कुल्लारूपेण कुरु कुल्लादिभि रूपस्पर्शमाह || आस्येत्यादि घ्राणादिषु द्वि द्वि शक्तिन्यासःकंशिरः भुजयोः शक्तिद्वयं न्यासः || अयमाचमनक्रमः स्नानादावपि कर्तव्यः तदुपाशकैः || आसने उपविश्येति पूजास्थले एव || उत्तरतंत्रे || आचान्तः शुचितां प्राप्तः सुस्नातो देवपूजने | पूजावेद्यावहिः स्थित्वा चतुर्हस्तान्तरे धिया || गृहे च द्वारदेशस्थः प्रणम्य शिरसा गुरुं || मेरुतंत्रे || गेहे च द्वारदेशस्थः प्रणम्य मनसा गुरुं | प्रणमेदिष्ट देवं स्वं द्विक्यालानपि चेतसा || यत्पूर्वमर्जितं पापं तद्दिनेन्यदिनेपि वा | तत्पापस्यापनोदार्थं मंत्र द्वयमुदीरयेत् || हे देवि प्रातकृतं चित्तं पापांक्रांतमिदं मम | तन्निःसारयचिन्भान् मे पापं फट् फट् च ते नमः || सूर्यः सामायमः कालो महाभूतानि पंच च | एते शुभाशुभस्यह कर्मणो न च साक्षिणः || हुं फदिति ध्रुवत्क्रोध दृष्ट्वा पश्येच्च पार्श्वयाः | एवं कृते प्रथमतः पापात् सादन कर्मणे यत्स्या दृढतरं पापं तद्दूरे वा वतिष्ठते || ८४अ) अतीते पूजने स्थानं स्वं प्रयाति पुनश्च तत् | यत् स्यादल्पतरं पापं तन्नाशमुप गच्छति || पूजनेत्यक्त पापस्य काममिष्ठं क्षणाद् भवेत् || अत्र सूर्यार्घ दानं दातव्यमिति मेरुतंत्रे विशेष उक्तः तद्यथा गोमयेनोप लिप्तायां भूमौ कृत्वा तु मण्डलं || सिंदूरेण ततः पश्चाद् रूपविश्य निजासने | प्राङ्मुखः प्रणमेदिष्ट देवतां भक्ति तत्परः || प्राणायाम त्रयं कृत्वा सूर्यमंत्रेण मंत्रवित् | पूर्ववत् ध्यात्वा तत्कल्पोक्त विधानेन पूजयित्वा || पुरतो मण्डलं कृत्वा जलेन चतुरस्रकं | निधाय तत्र साधारं सजलं ताम्रपात्रकं || गंन्धपुष्पाक्षतान्दर्भान्दूर्वा सर्षपसंयुतान् | मूर्धांतं सूर्यमंत्रेण दद्यार्घ्यं विचक्षणः || ह्रां ह्रीं सः स ग्रहराशि नक्षत्र पदमुच्चरेत् | ततश्च योगकरण परिवृत्तासनेति च || संस्थितः श्रीसूर्यायैषतेर्घः स्वाहा मनुः स्मृतः | चतुस्त्रिंशदक्षरोयं सूर्यस्यार्घ निवेदने || जपेत् ततो यथाशक्त्या सूर्यमंत्रमनन्यधीः | तदर्धांवुप्लूतं सूर्यं ध्यायदेशीक सत्तमः || स्तुत्वा प्रणम्य विसृजेन् मण्डलांते दिवाकरं | तत उत्थाय विधिवद्वारे पूजां समारभेत् || अत्र सूर्यार्घदानमप्य विरोध एव || स्वतंत्रे || भूमि व्योमस्थितान् सर्वान् विघ्नजातान् सहाक्षतैः | सिद्धार्थैस्तिलसंमिश्रैः प्रोत्सार्यवासने विसेत् || भैरवतंत्रे || ततः आचमनं कृत्वा सामान्यार्घं प्रकल्पयेत् | त्रिकोणवृत्त भूविम्वमण्डलं रचयेत् ततः || आधारशक्तिं संपूज्य तत्राधारं विनिःक्षिपेत् | अस्त्रेण पात्रं संशोध्य हृत्मंत्रेण प्रपूजयेत् || निःक्षिपेत् तीर्थमावाज्य गन्धादीन् प्रणवैन च | दर्शयद्धेनु मुद्रास्वै सामान्यार्घविधिर्मतः || सामान्यार्घण देवेशि पूजयेद्वारदेवताः | गणेशं क्षेत्रपालं च वटुकं योगिनीममि || गंगां च यमुनां चैव लक्ष्मीम्वाणीं ततो विशेत् || मेरुतंत्रे || द्वारमर्घांवुना प्रोक्ष तन्मध्ये विघ्नपं यजेत् | नामस्याद्यक्षरं विन्दु युक्तं नाम च ङेंतकं || ८४ब्) समुच्चार्य हृदन्तं च देवानतान् प्रतिपूजयेत् || तंत्रांतरेपि || याम्वीजाद्यङ्गणेशं च वामाद्यम्वटुकं तथा | क्षामाद्यं क्षेत्रपालं च यामाद्यां योगिनीन्तथा || उर्ध्ववामे च दक्षे च दक्षे च अधश्चैव यथाक्रमं | उर्द्धादिकं देहल्यां प्रकरणात् एवं गं गंगायंमुनां श्रीलक्ष्मीं ऐं सरस्वतीं पूजयन्ति || मेरुतंत्रे विशेष उक्तः || देव्याः सूर्यस्य योगिन्योष्टावेता द्वारपालकाः | ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा || वाराही च तथेंद्राणी चामुण्डा च श्रिया सह | इति पश्चिम द्वारतः पूजादंदेहल्यै नमस्त्वधा || आसां ध्यानं वक्षते || यमुना ध्यानं यथा || वरा भयकरां वंदे कालिंदिं कालविग्रहां | कृष्णकच्छपमारूढां कंठनीलोत्पलस्रजं || लक्ष्मीध्यानमपि || निर्दग्ध हेमगौरांगीं महालक्ष्मीं सुशोभनां | अक्षस्रक्युस्तकाभीति वरहस्तां त्रिलोचनां || देहली ध्यानं यथा || सिंहारूढां श्यामवर्णां खड्गखेटकधारिणिं | अधस्थां देहली वंदे पश्चिमास्यां सुलक्षणीं || ततो दूर्वादिकं गृहे परितो विकीर्यविघ्ना न पशृतान् ध्यायेत् || तन्मंत्रं कुमारीकल्पे || प्रणवं पूर्वमुद्धृत्य सर्वविघ्नास्ततः परं | उत्सारयद्वयं हूं फट् स्वाहा च तदनन्तरं || एते नैव च मंत्रेण विघ्नानूत्सादयेत् सुधीः || मेरुतंत्रे || पश्चिमद्वारमासद्य तालत्रितयपूर्वकं | द्वारमुद्घाद्य चास्त्रेण मंत्रितान् सर्षपाक्षतान् || पुष्पयुक्तांस्तु विकिरेन्मण्डपाभ्यन्तरे वुद्धः | नारा च मुद्रया सम्यगस्त मंत्रेण शदेशिकः || अपक्रामं तु भूतानि पिशाचाः प्रेतगुह्यकाः | ये चात्र निवसंत्यन्य देवता भुवि संस्थिताः || अपसर्पं तु ये भूता ये भूता भुवि संस्थिताः | ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवोज्ञया || श्लोकयोरं ततश्चास्त्रं पठन्नाराच्च मुद्रया | क्षिप्त्वा तान्मंडपस्यान्तस्ततो विघ्नांस्तु निर्गतान् || ८५अ) स्ववामांगस्य संकोचान् मार्गं दत्वापसारयेत् | अस्त्र मंत्रं स्मरन्वाम पार्ष्णिघात त्रयेण च || भौमानुत्सादयत् ताल त्रितयेणांतरीक्षगान् | तिर्यग् दृष्ट्यवलोकेन दिव्यान्विघ्नान्निवारयेन् || दक्षपादं पुरस्कृत्य प्रविशेद् देव मन्दिरं || वामे तु || शाक्तस्तु वामपादेन द्वारमाच्छाद्य वाससा || इति प्रविशेदित्यर्थः || प्रणवं पूर्वमुद्धृत्य रक्षरक्षेत्यनन्तरं | हूं फट् स्वाहेति मत्रेण भूमिं च परिशोधयेत् || शोधनं जलसेकरूपमिति तांत्रिकाः || फेत्कारीय मते विघ्नोत्सादनात् पूर्वमुक्तं भूमि सोधन मेरुतंत्रादौ उक्तक्रमेसेव पंचगव्यार्घतोयाभ्यां प्रोक्षयेन् मण्डपान्तरं || संमार्जनोपलेपाद्यैः पूपदीप पुष्पदामनानावर्णेः स्थानमलं कुर्युः || ततः पवित्र वज्रादौ प्रणवं पूर्वमुद्धरेत् | रक्ष द्वयमतो हुं फट् स्वाहा च तदनन्तरं || अनेनैव च मंत्रेण कुर्याद् भूम्यभिमंत्रणमिति कुमारी कल्पवचनं || मेरुतंत्रे || नैर्-ऋत्यामर्चयेद्वास्तु पुरुषं चन्दनादिभिः | तत्रैव वास्त्वधीशाय ब्रह्मणेन म इत्यपि || रक्तवर्ण रक्तवस्त्रं शक्ति द्वादशसंयुतं || पूजयित्वा दीपनाथमिति || अथासनविधिः || तदुक्तं तत्रैव || अः फडिति च मंत्रेण पूजावेदीं ततो विशेत् | संस्कुर्यादासनस्थानं चतुर्मिवीक्षणादिभि || संस्कारे तत्र संपूज्या वेद्यान्ता वेद्यान्ताः पीठदेवताः | आधारशक्ति सारभ्येति || स्वतंत्रतंत्रे || भूमौ त्रिकोणमालिख्या धारशक्तिं प्रपूजनं || आधार शक्त्यादि पृथिव्यंतं || मेरुपृष्ट ऋषिः प्रोक्त सुतलं छन्द इरितं | कूर्मोत्र देवता देवि आसनोप निवेशने || विनियोगश्च कथितः पथेद्धृत्वा समन्ततः || मेरुतंत्रे तु || आसनस्य पृथिवी देवता प्रोक्ता तदुचितमिति | पृथ्वी त्वया धृता लोका विल्वम्विष्णुनाधृता || त्वञ्च धारयमान्नित्यं पवित्रं कुरुचासनं || ८५ब्) इति प्रार्थनातः || इति धृत्वा तु देवेशि कुशांस्तत्रैव दापयेत् | कुशानिति वक्ष्यमाण पक्षप्राप्तानुवादः || तथा || माया वीजसमुच्चार्य आधारशक्तये ततः | कमलासनमालिख्य ङे नमोंते च पूजयेत् || ङें नमोंतं कमलासन पदं चतुर्थ्यन्तं नमस्कारेण योजयेदित्यर्थः || आसनस्य चतुष्कोणे गणेशं च सरस्वतीं | दुर्गां क्षेत्रपतिं चापि ब्राह्म्यादिषु समर्चयेत् || मृद्वासनादौ मंत्रभेद उक्तः || मंत्रचूडामणौ || तत्र मृद्वासनं देवि पीठमंत्रेण पूजयेत् | ओं ऐं क्लीं कामपीठाय हृदयान्तायमीरितः || तत्र वध्वासनं वीर आत्मानं शोधयेत् ततः || उत्तरतंत्रे || आत्मा मंत्रेणोपविशेत् तदा तस्मिन् वरासने | दुःशिल्पि रचितत्वादि पदन्यासन दूषणं || अज्ञानं विलयं याति उपवेशे तु मत्रितं | स्वान्वयस्याक्षरं पुंसः सोमसापि समन्वितं || आद्यवर्णम्विजानीयादान्म मंत्रं तु साधकः || सोमसामिचन्द्रार्धं || यामले || आत्मानं रक्षयेत् तत्रे वह्नि प्राकारयोगतः | वह्निवीजेन परितः ध्वाकारं भावयेद्धिया || कुमारीकल्पे || आःकारान्ते सुरेखे च वज्ररेखे ततः परं | हूं फट् स्वाहेति कुर्या तु मण्डलं वै शवाशने || आसन विशेषामत्स्यसूक्ते || मृदू कोमलमासीने अन्येषु कोमलेषु वा | विष्टरे वा समासीनस्साधयेत् सिद्धिमुत्तमां || संग्रामपतितम्वापि व्यापादितमचूडकं | षण्मास निःसृतं प्राप्य चितायाम्वा तदन्तिके || कृष्णे सारद्वीपि चर्ममचूडं कम्वलं तथा | पीतं च श्वेतवर्णम्वा आसनाय प्रकल्पयेत् || षण्मास निःसृत पदेन मृदुकम्वरस्य पुनरभिधानमादरातिशपार्थं || चिता तदन्तोक्तिः प्रसङ्गात् || श्रीक्रमेपि || षण्मासानन्तरं यावद् दशमासाच्च पूर्वकं | गर्भच्यूतं मृतम्वारं गर्द्भाष्टमात् परं शवं || ८६अ) वालमित्यन्तोक्तमेव मृदुपदेन मत्स्य सूक्ते उक्तं || तंत्रे || निवृत्त चूडको वालो हीनोपनयनः पुमान् | यो मृतः पंचमे वर्ष तमेव कोमलं विदुः || पंचवर्पाभ्यंतरं यावद् भवेद्वालमचूडकं | अत्र नपुंसकलिंगता तांत्रिकी || वीरतंत्रे || शवाभावे विष्टरं तु शरूपं प्रकल्पयेत् | पंचाशद्भिर्भवेद् ब्रह्मा तदर्धेन तु विष्टरं || कालीतंत्रे || मृताभावे कुशरूपं विष्टरं परिकल्पयेत् | मृताभाव इति वचनात् पशोः शवानुकल्पकूशविष्टरमपि नास्ति मुख्याधिकारिण एवानुकल्पेधिकारात् || यन्तु स्वतंत्रादौ कम्वलमासनमुक्तं तन्तु न स्वतंत्रासन किंतु सरूपविष्टरे युतमिति वोध्यं || विष्टरार्थं कुशमानमाह || रुद्रकालानलतंत्रे || पंचपत्राणि यस्मिन् वै स कुशस्त्वभिधीयते || अन्यच्च || त्रिणि पत्राणि यस्मिन् वै स कुशस्त्वभिधीयते || तंत्रराजे उत्तरार्द्ध || कुशपत्र शतेनैव विष्टरं कारयेद्विजः | जीवन्यासं तत्र कृत्वा तस्योपरिजपं चरेत् || हस्ते पादे दशदशगदिता मूर्ध्नि दृक् कर्णयोश्च जीवे लिंगे मुखकमलयोर्दिक् समस्तेषु देहे || इत्येवं शवरूप साधनवरं कुर्वन्ति देवासुरास्ते धन्याः कृत पुन्यसिद्धचरणादेवा महेशादयः || तत्रेस्मिन् गदितो मया विधिनयं देव्याः कृपा प्रेरणात् || शक्तिसंगमतंत्रे विशेषः || पूज्यं पीठं विष्टराख्यं पूज्या तारांविका परा | श्रीदेवी विष्टरो देवि ध्याने तस्याः स्फुटोस्ति च || विष्टरः साधकस्याथ कथ्यते शृणु सांप्रतं | भूत पत्राणि यस्मिन् वै स कुशेभ्यभिधीयते || हस्ते पादे दशमितादिक् युगं हृत्सरोजें विंशत् संख्या स करवरदे मस्तके कीर्तिकाश्च || गुह्ये जिह्वारदन वदने घ्राण कर्णस्तनेषु लिंगे चन्द्रे युगलपरिमिता योजनीयां कुशाश्च || इत्येष विष्टरः ख्यातः सर्वसिद्धिप्रदायकः | कुशैर्वा वन्धनं कार्यं नाड्या वा परमेश्वरि || ८६ब्) रक्तमिश्रित सूत्रेण वा पुनः || विष्टरं परिकल्प्याथ तस्योपरि जपं चरेत् | विधिविष्टर पद्मस्य विधिः प्रोक्तो मया तव || शवरूपं प्रकल्प्याथ कविर्वाग्मी भवेन्नरः | स्वयं भुवाक्तं सूत्रं च कर्तव्यं सर्वसिद्धये || शवाभावे विष्टरस्तु शवरूपः प्रकीर्तितः | साक्षान्तु विवरूपो हि विष्टरः परिकीर्तितः || विष्टरः शिवरूपः स्यात् स्वस्य शक्तित्व कल्पना | विवशक्ति समायोगात् किं न सिध्यति भूतले || शववीरोत्तमं वस्त्रं द्वितीयो विष्टरः स्मृतः | तृतीये शृणु देवेशि सर्वसिद्धि प्रदायकं || विष्टरं शंभूरूपः स्यात् स शिवाशिव विष्टरः | सिंहासनं च पर्यको विष्टरन्तु तृतीयकः || चतुष्पादे महादेवि ब्रह्मविष्णुमहेश्वराः | ईश्वरस्तु चतुर्थः स्यात् तन्मध्ये तु सदाशिवः || मध्ये तु आसन स्थानं महासमरसात्मकं | हस्तौ पादौ प्रकल्प्याथ मस्तकं हृदयं तथा || सांगं सावयवं देवि शव वा परिकल्प्य च | स पाद शतपत्रेण भूतपत्रे कुशैः क्रमात् || अस्थि वा तत्र संस्थाप्य शवांशं वापि सुंदरि | नारी रजोन्वितं सूत्रं तेन चाग्रथनं चरेत् || पट्ट सूत्रेण सूत्रेण यथा योगेन वा पुनः | जीवन्न्यासं तत्र कृत्वा ध्यात्वा तारां जपं चरेत् || अनेन क्रमयोगेन किन्न सिध्यंति भूतले | सदाशिव प्रेतरूपो विष्टरः कथितो मया || गायत्र्यात्रोतनं कार्यं मूलेन ग्रथनं चरेत् | यत्रनोक्ता तु गायत्री तत्क्रमं शृणु तारिके || तन्नाम पद देव्यन्ता गायत्री शंभुसामता | तन्नाम कर्मदेव्यन्ता गायत्री तारिणी मया || अथ विष्टाराद्यासनसंस्कारमाह वीरार्दन तंत्रे | कृत संकल्पको मत्री कोमलं कल्पको मंत्री कोमलं वामपाणि || कूर्चवीजेन संगृह्य अस्त्रमंत्रेण प्रोक्षणं | प्रणवं भुवणेशीं च समुच्चार्य तु तं वदेत् || शवरूप महाप्रेताप्यष्ट सिद्धिं प्रयच्छमे | ईतिस्तुत्वा तु तं सम्यक् कुशमध्ये निधापयेत् || ८७अ) तस्य देहे त्रिकोणंन्तु रक्तचन्दन केन वै | मायां तन्मध्यगां लिख्य वहिर्मण्डलकं चरेत् || प्रणवं आः सुरेखे वज्रलेखे ततः परं | कूर्च चास्त्रं वह्नि वध्वं मयं च मण्डले मनुः || आंकारं च ततो मायां क्रौंकारं हंश एव च | वह्निजायां समुच्चार्य शवप्राणाः पदं वदेत् || इह प्राणापदं चोक्ता शवजीव इहस्तितः | शवस्यो सर्व इन्द्र्यानि पुनर्वाङ्मन चक्षु च || श्रोत्र घ्राणा इहागत्य सुखं च चिरमेव च | तिष्ठं तु स्वाहया युक्तो प्राणसंस्थापनो मनुः || अथ विष्टराज्ये विशेषमाह || प्रणवं पूर्वमुच्चार्य आधारशक्ति पदन्ततः | कोमलासन पदं ङेतं नमोन्तेनतमर्चयत् || प्रणवं कामपीठाय नमः शब्दान्नमस्क्रिया || अथ विष्टराद्येर्विशेष तत्रैव || सोर्णै मासत्रयैः पत्ते कार्यामूर्ति शवस्य च संस्थाप्यविष्टरस्यान्ते || सर्वपूर्ववदा चरेत् || स्वतंत्रतंत्रे || कम्वरे लोहिते वापि कृष्णे वा व्याघ्र चर्मणि | सन्यासी ब्रह्मचारी तु विशेत् कृष्णस्य चर्मणि || व्याघ्राजिनं सर्वसिद्ध्यै ज्ञानसिद्धिमृगाजिने | वस्त्रासनं रोगहरं वेत्रजं प्रीतिवर्धनं || कौशेयं पुष्टिदं प्रोक्तं कम्वलं सर्वसिद्धिदं | शुक्लं वा यदि वा कृष्णं विशेषाद् रक्त कम्वलं || मृदुकम्वलमास्तीर्णं संग्रामपतितं चयेत् | जन्तु व्यापादितम्वापि मृतम्वानरमासनं || गर्भच्युतं च नारीणामथ वा योनिजंनवां | त्वचम्वातच्छीरम्वा कुर्याच्छिवे ततोर्चनं || ऋतुरक्ताक्त वस्त्रम्वा आसनाय प्रकल्पयेत् | श्मशान काष्ठघटितं पीठम्वा यज्ञे दारुजं || नादीक्षितो विशेज्जातु कृष्णसाराजिन गृही || तथा || एकहस्तं द्विहस्तंम्वा चतुरङ्गुलमुच्छ्रितं | विशुद्ध्ये आसने कुर्यात् स्थापनं पूजनं वुधः || केचित् तु || स्वतंत्रे तंत्रादौ कम्वलोदिविधिर्न स्वतंत्रेण किंतु वीरासना च गुण्ठनत्वेन चीरासनस्या वश्यकत्वात् || ८७ब्) तदुक्तं कालीतंत्रे || मृतासनं विना देवी योजयेत् कालिकान्नरः | तावत् स नारकी ज्ञेयो यावदाहूतसंप्लवं || वस्तुत इदं वीरपरं || अत्र शवासनेष्वैच्छिको विकल्पः काष्टासनं विहिते तरं निषिद्धं || ब्रह्मयामले || नृपपल्लवकाष्टानि पाषाणं मृण्मयन्तथा | वंशासनं च वस्त्रं च केवलं क्षितिमासनं || एवमष्टविधन्देवि चासनं परिवर्जयेत् || वस्त्रासन विधिः काम्ये || वाराहीतंत्रे || उत्तराभिमुखो भूत्वा विशेन् मृद्वासनोपरि | कम्वरे सत्वरासिद्धिः श्रीमोक्षौ व्याघ्रचर्मणि || अजिने श्रीर्भवेत् काम्ये वश्य च पीतवाससि | दारवे सिद्धिनाशः स्यात् भूतले कुलनाशनं || त्वचि पत्रे दरिद्रः स्यात् तृणे चापि हतास्त्रियः | कुशस्य कटके मोक्षः काष्ठे श्रीपर्णी शस्यते || अभावे चूतविल्वानां मत्तकेपिवुमर्दके | आम्रविम्वकदम्वानामासनं सर्वनाशनं || आम्र आम्रातकं || तथा || पनसे किंशुके चापि वहुले च हताःस्त्रियः || कुमारीकल्पे || वीरासनेनोपविशेत् संपूज्यासनमेव तु | तत्रोपविश्य विधिना भुक्त्वा द्रव्यं स हेतुकं || वीरासनमुक्तं गोरक्षसंहितायां || एकपादमथैकस्मिन् विन्यस्यो रूणि संस्थितः | इतरस्मिन्नथोरूं वीरासनमुदाहृतनिति || मेरुतंत्रे || उदङ्मुखः प्राणमुङ्मुखो वा स्वस्तिकासनमास्थितः | पद्मासन गतो वापि ऋजुकोयो मनः स्थितः || इदमपि वीरभिन्नपरं वोध्यं || यामले || रात्र्या वुदङ्मुखः कुर्यात् पूर्वोत्तर मुखोपि वा | सदोत्तर मुखः कुर्याच्छिव पूजाम्विचक्षणः || फेत्कारिण्यां || पद्मासन विद्यार्थी कुर्यात् सर्वसमासतः | प्राङ्मुखोदङ्मुखो वापि वक्ष्यमान क्रमेण तु || श्रीकामः स्वस्तिकेनेह पश्चिमाभिमुखः स्थितः || ८८अ) कालिकापुराणे || दिग्वीभागेषु कौवेरी दिक् शिवा प्रीतिदायिनी | तस्मात् तन्मुख आसीनः पूजये चण्डिकां सदा || मेरुतंत्रे || स्थापये दक्षिणे भागे पूजा द्रव्याणि चात्मनः | सुवासिताम्वु संपूर्णमव्यकुंभं सुशोभनं || प्रक्षालनाय करयोः पात्रं पृष्टे निवेशयेत् | घृतादि ज्वलितान् दीपान् स्थापयेत् परितः शुभान् || दर्पणं चामरं छत्रं तालवृंतं च पादुके | यथायथं तु संस्थाप्य संस्कूर्यात् तानि चात्मवान् || पुष्पनैवेद्य गंधादी ह्रां हूं फडिति मंत्रतः | नारा च मुद्रयाष्ट्या समया च विलोकयेत् || दृष्टं वा चात्मविज्ञातं सम्यक् पुष्पादि दूषणं | अस्पृश्य स्पर्शनं चापि पदन्यायार्जितं च वा || यथा निर्माल्य संसृष्टं कीताद्यारोहनं चयेत् | तत्सर्वं नाशमायाति नैवेद्याद्यवलोकनात् || ततो रमिति मंत्रेण शिखां दीपस्य संपृशेत् | स तु स्याच्छुभदो दीयो निष्क्रव्यादः सुखप्रदः || पतंग कीटकेशादि दाहात्क्रव्याद संहतेः | वसा मज्जादि संभूतैर्घृताद्यैरूपयोजितं || अज्ञातरूपं तत्सर्वं दोषस्पर्शाद्विनश्यति | छ्रोंवीजमुच्चरन्मंत्री देवतीर्थेन संस्पृशेत् || पानीयं घटमध्यस्थं दृष्ट्वा संम्यक्त्रसाधकः | वामेन पाणिना धृत्वा वामपार्श्वस्थितं घटं || पात्राधारेण मंत्रेण संस्कुर्वन् संस्पृशेज्जलं | स्वसंज्ञाद्यक्षरं विन्दू चन्द्रार्धपरियोजितं || तत्पात्रनाम ङंतं च हृदंतः पात्रमंत्रकः | पदज्ञानादमेध्यादि संसृष्टिरिह संगता || यदन्यद्दूषणं पात्र तोय चाज्ञानतो भवेत् | जलाशय शवस्पर्शा जलस्थानाच्च संगतं || इत्यादि दूषणं नश्येत् तत्प्रिये देवपूजने || इति वस्तु प्रसारणं शोधनं च || इदं तु दक्षिणे पथे इति मेरुतंत्रोक्तिः || अत्र हेतु ग्रहणानन्तरं शोधनमिदमित्युक्तं तत्प्रकारोप्यत्रैवोच्यते यथा || भावचूडामणौ || विना हेतुकमास्वाद्यक्षोभयुक्तो महेश्वरः | न पूजामासनं कुर्यान् न च ध्यानं च चिन्तनं || ८८ब्) तस्माद् भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरीं || कुलार्णवेपि || विना द्रव्याधि वासेन न स्मरेन् न यजेत् प्रिये | ये स्मरंति महादेवी तेषान्दुःखं पदे पदे || नाशवेन विनामंत्रं न मंत्रेण विनासवं | परस्पर विरोधि त्वात् कथं पूजा विधीयते || तत्संशय निवृत्तिं च ज्ञात्वा गुरुमुखाद् यजेत् | वीक्षण प्रोक्षण ध्यानमत्र विद्या विभूषितं || द्रव्यं तर्पण योग्यं स्याद् देवता प्रीतिकारणं || वीक्षणं दिव्यदृष्ट्या प्रोक्षणं मूलाभिमंत्रित जलेन ध्यान ममृतत्वेन मंत्रमष्टवार जप्तं मुद्रा धेन्वास्येति संप्रदाय विदः || इदमुपलक्षणं || अग्रे वक्तव्य सकल संस्कारोपि ज्ञेयः | पूर्व दिवसीय पूजा वसिष्ट तत् सत्वेनैतत् समाचरणमिति || तर्पणमत्रपानमेव || इदं तु ब्राह्मणेतरे विषयं ब्राह्मणस्य तदुपादान निषेधात् || तन्न || ब्राह्मणैस्तु सदापयं क्षत्रियैस्तु णागमे || वैश्यैर्द्धन प्रयोगे च शूद्रैन् नैव कदाचनेति कुलार्णवे || सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिवेत् सुरोमिति समयाचारे || सत्य क्रमाच्चतुर्वर्णैः क्षीराज्य मधुपिष्टजैः | त्रेतायां पूजिता देवी घृतेन सर्वजातिभिः || मधुभिः सर्ववर्णैस्तु पूजिता द्वापरेयुगे | पूजनीया कलौ देवी केवलै रास वैरितियामले चोक्त त्वात् कथंन्न ब्राह्मणस्याधिकार इति चेत् || उच्यते कुण्डाश्च गोलका जाति विच्युताः कर्म विच्युताः || असंस्कृताश्च ये विप्रास्ते व्रात्याः परिकीर्तिताः | ब्राह्मण्यहानि कृत् तेषां मद्यं मांसं च मैथुनं || अब्राह्मण्याद्वाममार्ग प्रवृत्तैस्तैस्तु सेवितं | कौलेन वाथ वामेन सिद्धांती येन वा पुनः || सिध्यै संजायते न्यषां नरकायैव केवलं | तस्मात् कदाचिदपि न त्याज्यो वेदमार्गो द्विजैः सदा || कामलोभादिभिर्ग्रस्ता ब्राह्मण्येन विहीनिताः | म्लेच्छास्ते तु भविष्यंति क्षीनपुण्याश्च रौरवे || ८९अ) पतिष्यन्तीति शेषः || अन्यदपिकुगुरोर्मुखतो वापि ज्ञानाभासाच्च पुस्तकान् || स्वधर्मं संपरित्यज्ये येत्रमग्नास्तुते हताः | तस्याद् ब्राह्मण राजन्यौ वैश्यश्च न सुरां पिवेत् || सुरो दर्शनमात्रेण कुर्यात् सूर्यावलोकनं | तस्य संसर्ग मात्रेण प्राणायाम त्रयं चरेदित्यादि मेरुतंत्र वचनात् ब्राह्मणानां वा मेनास्त्येवाधिकारः || नन्वयमपि विवाद रूप एव लक्षते वीर ब्राह्मण परमिदमिति तंत्रे तत्रे लिखितत्वात् क्वापिनस्पष्टार्थः उच्यते मेरु भूते तु तंत्राणां मेरुणा प्रकटी कृते || मेरुतंत्रे द्रष्टव्यमिति महाकालोक्तेः || यथा वाममार्गी यदा दक्षं प्रविशेत् तत् सुरैरपि || विघ्न्यते पीड्यते चापि न सिद्धिमधि गच्छति || दक्षमार्गी यदा वामं प्रविशेत् तत्सुरास्तदा लोकद्वयाद्व्यापयन्तितं ग्रसंति चव्यमिनः || तस्मात् स्वकुलमार्गं तु ज्ञात्वा कुर्यादुपासनां | ईति स्पष्णोर्थः || माविवादपराः संतु संतः || सुरासेवनाधिकार निरूपनं तु शेषपटले द्रष्टव्यं || अत्राधिकारिणामास वा लाभे विजयोपादानमप्युक्तं विजयाल्पे || सम्विदानन्दयोपादानमप्युक्तं विजयाल्पे | सम्विदानन्दयोर्मध्ये सम्विदेवगरीयसी || सम्वित् प्रयोगस्ते नेह पूजादौ साधकोत्तमैः | कर्तव्या च महापूजा करणीया सुनन्दितैः || अस्य श्रीसमया मंत्रस्य आनन्दभैरव ऋषिः सम्राट् छन्दः समया वाग्वादिनी देवता ह्रीं वीजं क्लीं कीलकं सौशक्तिः मम सर्वशत्रुक्षयार्थे वाक् सिद्ध्यर्थं समया शोधने विनियोगः || यथा क्रमेण रिष्यादि कर षडङ्गन्यासान् कृत्वा सम्विद् देवी ध्यानं कुर्यात् || दंडाधिरूढ परिपूरित भोगमोक्षदण्डक्रमेण मदनांजनकामिनीनां || आराधयामि वर शत्रु पराजयंती विश्वेश्वरीं त्रिभुवनीं विजयेति देवीं || ८९ब्) एवं ध्यात्वा सप्ताभिमंत्रयेत् || सप्ताभिमंत्रितं कृत्वा पूतं सर्वं भवेध्रुवं || मंत्रस्तु || क्रीं ह्रीं दुर्जय दुर्जय विजय विजय परंब्रह्मस्वरूपिणि सर्वजनंमेव समानय स्वाहा || इति समया तंत्रे || सापुनश्चतुर्द्धा ब्राह्मणी क्षत्रीया वैश्या शूद्रा च श्वेतरक्तपीत कृष्णविभेदात् || साचिदे ब्रह्म सम्भूते ब्रह्मपुत्रि सदानघे | भैरवाणां च दत्त्तात्वं पवित्रा भाव सर्वदा || ओं ब्राह्म्यै नमः स्वाहा ब्राह्मणीं शोधयेदिति | सिद्धमौलि क्रिय देवि हीनवोध प्रवोधिनि || राजा प्रजा वशङ्करि शक्र कण्ठनि सूदिनि | ऐं क्षत्रियायै नमः स्वाहा शोधये तु ततः परं || अज्ञानेन्धन दीप्ताग्नि ज्वालाग्ने ज्ञाने रूपिनि | आनन्दस्यागमं प्रीतिं सम्यज्ञानं प्रयेच्छमे || ह्रीं वैश्यायै नमः स्वाहा शूद्रां च शोधयेत् ततः | नमस्यामि नमस्यामि योगमार्ग प्रदेशिनि || त्रैलोक्य विजये मातः समाधि फदा भवे | क्लीं शूद्रायै नमः स्वाहा कथितो मंत्रमुमे || यद्वा एकेनैव मंत्रेण सर्वाः शोधयेत् || तदुक्तं तत्रैव || अमृते अमृतोद्भवेऽमृतवर्षिणि पदन्ततः | अमृतमाकर्षयद्वन्द्वं सिद्धिन्देहि पदं ततः || सर्वम्मेथ ततो व्रूयाद् वशमानय तत्परं | द्विठान्तोयं मनुः प्रोक्तंश्चतुर्णामपि शोधने || उत्तरतंत्रे || सर्वसाधारण प्रकारान्तरमपि कथितं यथा || मूलमंत्रं सप्तवारान्तस्योपरिनियोजयेत् | आवाहनादि मुद्राश्च धेनुयोनी ततः परं || दग्वन्धनं छोटिकाभिस्तारत्रंयपुरस्सरं | दिव्यदृष्ट्वा तथा पार्ष्णिघातैर्विघ्नान्विघातयेत् || सप्तधा तर्पयेद् ब्रह्म रन्ध्रे मूलं समुच्चरन् | गुरुं पद्मे सहस्रारे तथा तत्वाख्य मुद्रया || त्रिधैव तर्पयेद् भक्त्या साधकः सिद्धिमानसः | ऐं वद वद पदं व्रुयाद् वाग्वादिनि पदन्ततः || ९०अ) मम जिह्वाग्रे स्थिरीति भव सर्वपदं ततः | सर्ववशङ्करि स्वाहा मंत्रेण जुहुयान्मुखे || नन्वेषु वचनष्वुधिकारिणामश्रुतेष्कथं ब्राह्मणेतर परमाच्यत इति चेत् || मादकं सकलं वस्तु वर्जयेत् कनकादिकं | करंजं पातकी तस्माद्धर्मो वेदविदाम्वरे || ब्राह्मणस्तु सुरान्दत्वा ब्रह्मण्या देव हीयते | स्वगात्र रुधिरन्दत्वा || आत्महत्या मवाप्नुयादिति भैरवतंत्र वचनाद्गृहाण || ततः प्राणायामादिकात्म शुद्धिमारभेत् || तदुक्तं कुलार्णवे || सस्नानभूति संशुद्धिः प्राणायामादिभिः प्रिये | षडङ्गोद्यखिलन्यासैरात्म शुद्धिरितीरिता || तत्रादौ प्राणायामः || सनत्कुमारीये || सुखासने समाविश्य प्राणायामं विधाय वै | भूतशुद्धिन्ततः कृत्वा न्यासं कुर्यादनन्तरं || कुम्भसम्भवः || प्राणायामैर्विनायद्यत् कृतङ्कर्म निरर्थकं | अतो यत्नेन कर्तव्याः प्राणायामाः शुभार्थिभिः || तंत्रे || प्राणायाम त्रयं कुर्यान् मूलेन प्रणवेन वा | अथवा मंत्रवीजेन यथोक्ते विधिना शुद्धिः || तथाः || पूरयेत् षोडशभिर्वायुं कुम्भयेच्च चतुर्गुणैः | रेचयेत् कुम्भकार्धेन अशक्त्यात तुरीयतः || अन्यत्रापि || तदशक्तौ तच्चतुर्थैस्यादेवं प्राण संयमः | प्राणायामं विनानैव पूजनादिषु योग्यता || विशुद्धेश्वरे || प्राणायाम त्रयं कुर्याद्विव्यया तददन्तरं || समयाङ्क मातृकायां || इडया पूरयेद् वायुं सकृच्च मूलविद्यया | मध्यामाद्या कुंभयेच्च वेदसंख्या वरानने || नेत्रसंख्या क्रमेणैव रेचयेत् पिङ्गलाब्धना | पुनः पुनः क्रमेणैव यथावार त्रयं भवेत् || कुमारीतंत्रे || ततः षोडशवर्षीयां नारी मानीय यत्नतः | युवतीम्वामदोन्मत्तां सुवेषां चारूहासिनीं || सदा रस साभिलाषां सिन्दूरांकितभालिकां | ९०ब्) साधके प्रमशीलां तां वामे संस्थापयेद् वुधः || वाम इत्युपलक्षणं वीरचूडामण्युक्त पूजित यंत्रोपरित्यपि दृष्टव्यं || समयाचारे || वाम स्कंन्धे करन् दत्वा तदङ्गे देहमात्मनः | दत्वा वालस्य भावेन पूजाकार्या यथाविधिः || फेरवीया || अथाचमन मंत्रं च पुष्पाधिष्ठातमेव च | ग्रन्थिवन्धनमंत्रं च कायवाक् चित्तशोधनं || अत्र मंत्रमुखेन कर्मण एवाभिधानं आचमनमंत्रः पूर्वमेवाभिलिखितः || पुष्पाधिष्ठान मंत्रश्च कुमारीकल्पे || अधिस्थानेन पुष्पस्य प्रणवं पूर्वमुच्चरे | शताभिषेकेति पदं शताभीति ततः परं || षकेति च पदं प्रोक्तं हूं फट् स्वाहा ततः परं | प्रणवं पुष्पकेतुश्च तथा राजार्हतेपि च || पुष्पपुष्पे महापुष्पे सुपुष्पे पुष्पसंभवे | पुष्प च यावकीर्णे हूं फट् स्वाहा ततः परं || मनुनानेने देव्यास्तु पुष्पशुद्धिमथा चरेत् | ग्रंठि वन्धनं च उत्तरीयांचले विकिरद्रव्यैः सन्ध्या वन्दनोक्त शिषावन्धमंत्रेणेति संप्रदायः || कायादि शोधनमंत्रः कुमारीतंत्रे || प्रणवं पूर्वमुद्धृत्य तदनन्तरंमेव च | हूं फट् स्वाहा मनुः प्रोक्ताः कायवाक् चित्तशाधने || रक्ष रक्ष हूं फट् स्वाहा मंत्रः स्यादात्म रक्षेणे || अथ करशुद्धिः || तत्प्रकारो मेरुतंत्रे || ततः कृतांजलि पुटो वामदक्षिण पार्श्वयोः | गुरुं गणपतिं नत्वा पुरतः स्वष्ट देवतां || सुगंध पुष्पान् पादाय चन्दनाक्तानि मंत्रवित् | क्लौं मंत्रेण करयारस्त्र मंत्रेण मर्दयेत् || तत्पुष्पं वामहस्तेन समादाय च मस्तकं | भ्रामयेत् परितस्तारं जपन्नाघ्राय तत्पुनः || हौं ओं पूर्वपठे श्लोकमिमं सम च निगद्यते | ते सर्वविलयं यां तु ये मां हिंसंति हिं सप्ताः || मृत्पूणो(?) भयः क्लेशाः पतं तु रिपुमस्तके | अस्त्रमंत्रेण नारोच मुद्रयेशदिसित्यजेत् || करशुद्धिरिति || ९१अ) उत्तरतंत्रे || कुसुमं विष्णुमंत्रेण आंगुल्यग्रेण साधकः | विमर्दनार्थं गृह्नीयात् करशोधन कर्मणि || प्रासादेन तु मंत्रेण कराभ्यां पुष्पमर्दनं | निर्मंचत्कामविजेन जिघ्रेदाक्षेण तत्पुनः || प्रासादेन परित्यागो दिश्यैशान्यां विशेषतः | संमृज्य सव्यहस्तेन घ्रात्वा वामकरेण तु || ऐशान्यां निःक्षिपेदे तत पुष्पं हस्ततल स्थितं | एवं कृते तु तलयार्विशुद्धिरतुला भवेत् || अंगुल्यग्राणि शुद्धानि पुष्पाणां ग्रहणाद्विदुः | तालत्रयविमर्दा तु विशुद्धमभिजायते || निर्मं च नात् पाणिपृष्टं घ्राणान्ताग्रमुत्तमं | तीर्थानि च समायान्ति नासिकाग्रं करं प्रति || तस्माद् यत्नेन कार्याणि कर्माण्येतानि भैरव | उपार्श्व आदि चन्द्रेण रंजित शून्यसंयुतः || रुद्रातोपरिसंस्पृष्टो मंत्रोयं वैष्णवा मतः | उपान्तो हकारः आदौ मस्तके चन्द्रेण अर्धचन्द्रेण शून्य मनूस्वारः रुद्रान्तो दीघोकारः तेन हूं || प्रान्तादिर्वासु देवेन वर्णेनापि च संयुतः | शंभू चूडाशिस्वाविन्दुः युक्ता प्रासाद उच्यते || प्रान्तादिर्हकारः || वासुदेव ओकारः ततः सन्धिः तेनहौ शंभू चूडा शिखा अर्धचन्द्रः || कामवीजन्तु विज्ञेयं वासुदेवेन्दु विन्दुना | व्यंजनं चाद्यदन्त्यं च प्रान्त्यदन्त्यार्ण पूर्वकं || आद्यदन्त्यद्वयं पश्चाद् व्यंजनं प्रणवोत्तरं | ब्रह्मवीजमिदं प्रोक्तं सर्वपाप प्रणाशनं || विज्ञेयं तंत्रांतरादिति शेषः || ब्रह्मवीजमुद्धरति || वाशुदेव ओकारः इन्दुरर्धचन्द्रः विन्दुरनुस्वारः तेन ओं आद्यदन्त्यंतकारः व्यंजनं स्वरशून्यं प्रान्त्यदन्त्यार्ण सकारः स एव पूर्वं यस्य तेन सत् प्रणवोत्तरं प्रणवात्ते आद्यदन्त्यद्वयंतकार द्वयं तत्र विशेषमाह पश्चाद् द्वितीयतकारः व्यंजनं स्वरशून्यः तेन ओं तत्सदिति निष्पन्नं || मेरुतंत्रेपि || ततोस्त्रेण कुर्यात् तारत्रयं ततः || ऊर्ध्वोध्वमंत्रमंत्रेण दिग्वन्धमपि तेन च | ९१ब्) तेन संजनितं तेजो वह्नि प्राकारमुद्रया || रक्षेदात्मनि मूलेन प्राणायाम त्रयं चरेत् || उत्तरतंत्रे || करशुद्धिं समाप्याथ कुर्यात् तालत्रयन्ततः | ऊर्ध्वोर्धं मूलमंत्रेण दिग्वन्धमपि देशिकः || तेन संजनितं तेजो रक्षां कुर्यात् समन्ततः || भैरवतंत्रे || कूर्चं वियद्विन्दु युतं शक्त्यस्त्राय फडित्वपि | अनेन मनुना कुर्याद् दिग्वन्धं छोटिकादिभिः || कूर्च हूं वियेत् हकारः विन्दुरनुस्वारः शक्तिः ह्रींकारः | अत्र विसर्गलोप संहिते देवे अस्त्राय फडिति स्वरूपं || तथा || संकल्पं पूर्ववत् कृत्वा ततो यंत्रं समालिखेत् | स्वर्णादि रचिते पात्रे रक्तचंदनचर्चिते || अत्र केचित्त भूतशुद्धि यंत्रलिखनयोः पौर्वापर्य विकल्पमेवेच्छन्ति तथा दर्शनात् || इत्थं विन्यस्तदेहस्सन् चक्रराजं समालिखेदित्यनेन विरोधाभावापत्तेः || यंत्रोग्रे लिख्यते || इति श्री आद्यानन्दनविरचितायां कुलमुक्तिकल्लोलिन्यामष्टमः पटलः अथ भूतशुद्धिः || मेरुतंत्रे || भूतसुद्धिं ततः कुर्यात् तत्प्रकारमथक ध्रुवे || भैरवतंत्रे || अङ्गे पाणियुगं कृत्वा वियद्विन्दु युगं भृगुः | सर्गवानिति मंत्रेण सतत्वं कुण्डली युतं || वीजं चक्राणि भित्वाथ शिरस्थ कमले शिवे | संयोज्य चित्कालां रक्तां नाभौ ध्यायन् पठन् शनैः || वामनासरितवायु ज्वलिते नापि वह्निना | संशोध्य देहं सन्दह्य स पापन्दक्षया ततः || रेचयेन् तु वधूवीजं पीताभं वायुरूपिणं | हृदि ध्यायन् पथन् दक्ष नासया पूरिता निलैः | वामनासा पूटे नैव भस्म प्रोत्सारयेद्वहिः || हूंकारं पूर्णचन्द्राभं ललाटे शशिमण्डले | नीत्वै तस्य जपादस्मान्निपात्य चामृतं ततः || तदस्थि प्लावितं कृत्वा देहमुत्पादयेत् ततः | सोहं मंत्रेण तत्वानि वीजं कुण्डलिनीं क्रमात् || ९२अ) यथा स्थानं समानीय निर्वत्यतारिणी मयं | तारिणी मयमिति स्वपास्य देवता मयमिति भावनीयं || वाराहीतंत्रे || मूलाधारोद्गतो प्राणं ब्रह्ममार्गेण तान्त्रिकाः | हंसेन पुष्करस्थाने परमात्मा नियोजयेत् || रुद्रयामले || वर्णसंहारकं कुर्यात् क्ष्याद्यकारादि वर्णकं | प्रतिलोमेन संहृत्य परमात्मनि योजयेत् || पंचभूतन्ततः पंचाद्योजयेत् परमात्मनि || मेरुतंत्रे || पादतो जानु पर्यन्तं चतुरस्रं स वज्रकं | लं युतं पीतवर्णं च भुस्थानं ब्रह्मदैवतं || अधिष्ठितं निवृत्याख्य कलया स्थानमुच्यते | उत्पत्तेस्तस्तु जीवानामेकं रूपं विचिन्तयेत् || जान्वोरानाभिपर्यन्तमपां स्थानं सितप्रभं | अर्धचन्द्रनिभं शृंग द्वयं तत्पद्मलांछितं || षट्कोणं विन्दुभिः षड्भिर्युक्तं वं वीजसंयुतं | प्रतिष्ठा कलया युक्ते ध्याये तद्विष्णु दैवतं || नात्यादि कण्ठपर्यन्तमारक्तं रुद्र दैवतं | रं वीजं युक्तं कलया युतं विद्याख्यया तथा || दीप्ति मत्स्वस्तिकोपेत त्रिकोणाकारतां गतं | महाप्रलयसस्थानं वह्नितत्वं विचिंतयेत् || कंथा भ्रूमध्ये पर्यन्तं षट्कोणाङ्कारतां गतं | षड्विन्दु लांछितं वृत्त वेष्टितं कृष्णवर्णकं || वायुस्थानं शांतिकलाधिष्ठितं शिव दैवितं | यं वीजं युक्तं सर्वैषां प्राणरूपं विचिन्तयेत् || भ्रूमध्याद्ब्रह्मरन्ध्रांतमाकास स्थानमुच्यते | वृत्ताकारं धूम्रवर्णं महोच्च ध्वजलांछितं || शांत्यतीताख्य कलयाधिष्ठितं शिव दैवितं | हंवीजं युक्तं ध्यायेत्थं देहे भूतानि विन्यसेत् || धर्मकंद समुद्भूतं ज्ञाननालसुशोभितं | कृत्वा तत्कर्णीकासंस्थं प्रदीपकलिकानिभं || सुषुम्ना ब्रह्मणा जीवं परमात्मनि योजयेत् | योगयुक्तेन विधिना सोहं मंत्रेण साधकः || तत्रैव सर्वभूतानि विलीनानि विचिंतयेत् | शरीरे वामकुक्षौ तु चिंतयेत् पायपुरुषं || वामकुक्षि स्थितं पापं पुरुषं कज्जलप्रभं | ९२ब्) ब्रह्महत्या शिरस्कंध स्वर्णस्तेय भुजद्वयं || सुरापान हृदायुक्तं गुरुतल्प कटिद्वयं | तत्संसर्ग पदद्वंद्वमंगप्रत्यंगपातकं || उपपातकरोमाणं रक्तश्मश्रूविलोचनं | खड्गचर्मधरं क्रूरं रूक्षं पापं विचिंतयेत् || तंत्रान्तरे || खड्गचर्मधरं पापंमङ्गुष्ट परिमाणकं | अधोमुखं कृष्णवर्णं दक्ष कुक्षौ विचिन्तयेत् || तत्पुरुषनिभं पापमनादि भवसंचितं | खड्गचर्मधरं कुक्षौ कृष्णं दक्षिणतः स्मरेदिति स्वतंत्रे || मेरुतंत्रेपि || शुद्धसंचिन्मयो भूत्वा चिन्तयेत् पापपुरुषं | दक्षकुक्षि स्थितं कृष्णमंगुष्ठ परिमानकंमित्यादि || दक्षकुक्षौ पापपुरुषं वामामिभिर्ध्येयं वामकुक्षौ दक्षिणमार्गिभिर्मध्ये यमिति मेरुतंत्रे प्रकाशः || यामले || भूतशुद्धिन्ततः कुर्यात् स्थिरचित्तस्तु साधकः | विनिधायनिजाग्रे तु ममुत्तानौ करौ स्वयं || मूलाधारे मूलविद्या स्वरूपाद् कुलमुण्डलीं | प्रसुप्त भुजगाकारां सार्धत्रिवलयात्मिकां || नीवारशुकवत्तन्वीं सर्वविद्यास्वरूपिणीं | विद्युत्कोटि प्रतीकाणां स्वयम्भूलिङ्गवेष्टनीं || ध्यात्वा तां हंसमंत्रेण प्रणवे नाथ वा पुनः | कूर्चवीजेनावादेवि दृढं विद्रावयेद् गुरुः || एकीभावन्तयोः कृत्वा जीवात्म परमात्मनोः | विचिन्त्य शून्यं परमं पार्थिवांश जले गतं || जलं च तेजसा कृष्णं तेजो रूपं विचिन्तये || निर्वाणम्वायु रूपं विभावयेत् || आकासे नाहृतो वायुः स्वस्वै मनसि लीयते | मनोहंकारवशगमहं तु महाताहृतं || प्रकृत्या च महत्तत्वं प्रकृतिं चितयेदथ | प्रकाशरूपीणी नित्या ब्रह्मविद्या स्वरूपिणी || कैवल्या केवला शांता निर्गुणा परमात्मिका | सैषा च परमाज्योतिः परमं च निरामयं || सहस्रदलमध्यस्थं शून्यरूपं परं पदं || तथैव || नाभिदेशे च मंगारं धूम्रं वायुं विचिंतयेत् | ९३अ) तेन वै शोषयेल्लिङ्गन्तुनुं षोडश मात्रया || कर्मात्मकं चतुःषष्ट्या कुंभयित्वा समाचरेत् | द्वात्रिंशन्मात्रया दक्षे रचनन्तेन वा पुनः || रक्तवर्णम्वह्निवीजं मेढ्रमूले वीचिन्तयेत् | मलासनात्मकं लिंगं शरीरं तेन दाहयेत् || पूर्वोक्त क्रमयोगेन दक्षमासा क्रमेण तु | देशिकन् मात्रया दक्षे रचरन्तेन वा पुनः || रक्तवर्णम्वह्नीवीजं मेढ्रस्तु तथा संख्या वामनासे न रेचयेत् || वाङ्कारम्वारुणी || वीजं घण्ठिकायां विभाव्य च || तेनामृतं समुत्पाद्य सहस्रदलपंकजात् | प्लावयेत् पूरकादीनि कृत्वा पादतलावधि || लङ्कारं पृथिविवीजं गुदमूले विभावयेत् | तेनैव क्रमयोगेन धिया संप्लावयेद्वुधः || पापपुण्यविनिर्मुक्तं शरीरं शांभवं परं | तेनैव पूर्वमार्गेण संपादयेदननन्तरं || सोहं मंत्रेणा जीवन्तु हृत्सरोजे समानयेत् | पुनस्तां कुण्डलीं देवीं मूलोधारे समानयेत् || फेत्कारीण्यां || लिंगं कार्यं हृदिस्थन्तु चैतंन्यं सर्वसाक्षिणं | प्रणवेन विनिस्सार्य ब्रह्मरन्ध्राद् वहिर्वुधः || तेनैव संपूटीकृत्यमस्त्यकोपरिधारयेत् | चैतन्य रहितं देहं वाह्यमभ्यन्तरन्तथा || नाभिमण्डलमध्यस्थ वायुमण्डप मध्यगं | यं वीजं धूम्रवर्णं च ध्यात्वा तेन विशोधयेत् || अग्निमण्डलसंस्थेन रंवीजेनाग्नीरूपिणा | निर्दहेदथ तं भस्म राशिर्देहा कृतिर्भवेत् || भ्रूमध्येगं हृदिस्थम्वा ध्यायेद्वरूणमण्डले | अर्धचन्द्राकृतिश्चेतं पद्मद्वयपदाङ्कितं || ततस्तेन प्रकारेण प्लावयेन्मधुरूपिणीं | वीजं तु पार्थिवं न्यस्य चिन्तयद्धेम कुण्डलं || प्रणवेण द्विधा कृत्वा तत्र चैतन्यरूपिणं | आत्मानं चिन्तयेन् मंत्र देवता रूपिणं ततः || प्राणायाम रूपां भूतशुद्धिमुक्त्वा || वीरतंत्रे || भूतशुद्धिं ततः कुर्यात् स्वतंत्राक्षरयोगतः || ९३ब्) गन्धर्वतंत्रे || यथा काली तथा तारा यथा तारा तथोन्मुखीति वचनात् || भूतशुद्ध्यादिकं सर्वं तारिणीवत् समाचरेतिति वीरचूडामणि वचनात् || अत्रापि नीलसरस्वती वीज त्रयणैव उक्त क्रमेन भूतशुद्धिरविरुद्धा तथापि इति यंत्रं विनिर्माय स पुष्पं स्थापयेत् पुरः || भूतशुद्धिन्तत कुर्यात् दात्मानं कुण्डली युतं | जीवं हंसेन संयोज्य शिवे च मध्यनाड्यया || पापं कुक्षि स्थितं क्रूरं वायुग्निमनिलाक्षरैः | शोषयदाहयेदन्तः प्रक्षाल्या चरयेद्वहिः || सोहं मंत्रेण तामेव यथास्थानं समानयेत् | ततः शुद्धशरीरोसौ मंत्रन्यासं समाचरेत् || इति भैरवी तंत्रोक्तामेव भूतशुद्धिं कुर्यात् | तारिणी च दित्यस्य वीजत्रयाति रिक्तेति कर्तव्यतानुपपत्तेः || उड्डीशे || अथवा कुण्डली देवी पंचभूतादिना सह | परमात्मनि संयोज्य तयोरैक्यं विभावयेत् || ध्यानयोगेन मनसा सोहं सोहं विभावयेत् | इदं चाशक्त परं शारदायामेप्ययमेव क्रम उक्तः || वसिष्ठसंहितायां || सोहं मंत्रेणतामाद्यां नादान्ते सिद्धभावितां | ध्यात्वैवं ब्रह्मरन्ध्रा भुजहृदि जीव कला न्यसेत् || कुमारीकल्पे || भूतशुद्धिं विधायत्थं देवीरूपेण चिन्तयेत् | जीवन्यासं ततः कुर्यादात्मानं देव चिंतिते || आत्मानं देवी रूपेण चिन्तयेदित्यर्थः || मेरुतंत्रे || आत्मानं हृदया भोज मानयेत् परमात्मनः | हंसमंत्रेण विधिवत् तेजोरूपं कलेवरं || देवताराधनयोग्यमुत्पन्नमिति भावयेत् || तथा || भूतशुद्धिविहीनेन कृता पूजाभिचारवत् | विपरीत फलं दद्यादभक्त्या पूजनं यथा || तंत्रे || ततो जीवं प्रविन्यसेत् प्राणमंत्रेण देशिकं || मेरुतंत्रे || भूतशुद्धिं विधायैवं प्राणस्थापनमाचरेत् || शारदायां || ब्रह्मविष्णुशिवाः प्रोक्ता मुनयस्तंत्रवेदिभिः | ९४अ) उक्तं ऋग्यजुषां सामच्छन्दश्छन्दो विशारदैः || चैतन्य रूपा प्राणात्मा देवता शक्तिरीरिता | कवर्गाद्यैर्विपत् पूर्व भूतै हृदये मीरितं || शिवश्च वहुशब्दाद्यैरीरितं तदनंतरं | ज्ञानेन्द्रियैष्ठ वर्गाद्यैस्तच्छिखा परिकीर्तिता || कर्मेन्द्रियैः स वर्गाद्यैः कवचं परिकीर्तितं | वचनाद्यैः पवर्गाद्यैर्विलोचनमुदीरितं || वुद्ध्याद्यैर्यादि संयुक्तैरस्त्रमस्य समीरितं | आत्मानेन्तास्समाख्याता अङ्गमंत्राश्च जातिभिः || नाभेश्चरणपर्यंते पाशवीजं प्रविन्यसेत् | हृदयान्नाभिपर्यन्तं शक्तिवीजं ततः परं || मूर्धादि हृदयं यावदंकुशं विन्यसेत् सुधीः | हृदये धातुषुन्यस्येद्यादीन् सप्त यथाक्रमं || प्राणे जीवे ततो न्यसेत् हंसवर्णद्वयं पृथक् | कुर्याद्व्यापकमेतेन समस्तेन विधानवित् || मेरुतंत्रे || प्राणप्रतिष्ठा मंत्रस्य मुनयोजेस पद्मजाः | छंदो ऋग्यजुषां सामप्राणशक्तिस्तु देवता || ऋषिः सिरसि वक्त्रे तु हृदांसि हृदि देवता | आवीजाय नमो गुह्य पादे ह्रीं शक्तये नमः || नाभौ नमः क्रों कीलाय नियोगो सुस्थिताविति | ओं आं ह्रीं क्रों मं कवर्गं सानुस्वारेनभो मुखं || पंचतत्वं समुच्चार्य आत्मने आं हृदिन्यसेत् | ओं आं ह्रीं क्रों मिं च वर्गं तद्वच्छब्दादि पंचकं || आत्मने इममुच्चार्य शिरसे वह्नि गेहिनी | तानि वीजानिडंता दृक् ट वर्गं श्रोत्रकादि च || प्रोक्त्वा तदात्मनेकं च शिषायै च वषड्वदेत् | तानि वीजा ईयं तं च वागादीनि तदात्मने || ऐमुक्त्वा कवचायेति हूं वदे तदनन्तरं | चतुर्वीजं च पूर्वोक्त मां पं वर्गं च तादृशं || वचनादि च तद्वत् स्याद्दौ नेत्राय तदंतकं | चतुर्वीजं च अंतादृग्यवर्गो मन आदि च || तदात्मने स्वरश्चांत्योस्त्राय फट्वेतिसं वदेत् | अंगुष्ठादौ हस्ततलांतं न्यसेदेवमेव हि || ९४ब्) नात्यधश्चापि कंठाधो मूर्धाधो तदंतकं | आं ह्रीं क्रों क्रमेतोन्यसे हृत्पद्माष्ट दलेषु च || पूर्वतः क्रमतो वर्णा कर्णिकायां हृदंन्तकान् | लं रं हं यं वं च पंचसंशं क्षमिति वर्गतः || दिक्षु न्यसेत् ततो ध्यायेत् प्राणशक्तिं हृदिस्थितां || वीरचूडामणौ षडंगन्यासादिरन्य प्रकारेणोक्तः || यथा || अ आ मध्य कवर्गश्च इ ई मध्ये च वर्गकं | उड्डु मध्ये ट वर्गश्च ए ऐ मध्ये त वर्गकं || ओ औ मध्ये पवर्गश्च शेष मध्ये यवर्गकं | न्यासं कुर्यात् महेमशानि हृदयादि षडंगकं || तथा || एवं न्यासविधिं कृत्वा वर्णन्यासमथा चरेत् | नाभौ नारायणः प्रोक्तो माया भूदलमध्येतः || अंकुशं भूदरादूर्धं हृदये त्वद्भवर्णकं | असृग्वैदक्षिणांशे च मांसं ककुदि मध्यतः || वासांशे मदो विन्यस्य मज्जास्थिनी करे न्यसेत् | शुक्रम्वै दक्षिणे पादेवियद्वामे प्रविन्यसेत् || न्यसेत् क्रोधस्महादेवि मस्तकाच्चरणावधि || नारायणः आकारः || शारदायां || ततो विचिन्तयेद् देवीं जीवभूतां जगन्मयीं || मेरुतंत्रे || रक्ताब्धिपातारुण पद्मसंस्थां पाशांकुशा विषणनासवाणान् || शूलं कपालं दधतीं कराब्जै रक्तां त्रिनेत्रां प्रणमामि देवं || ततो वक्ष्यमाण लेलिहा मुद्रया हृदयं स्पृशन् प्रासन् प्राणमंत्रं जपेत् || हस्ते निधाय हृदये प्राग्वीजं यादि काष्टकं | हंसः साहं मम प्राणावदेदिह स्थिता इति || प्रोक्ता तथैव च पुनर्मम जीव इहा स्थिताः | पुनस्तदुक्त्वा मम तु वदेत् सर्वेन्द्रियाणि च || पुनस्तदुक्त्वा मम तु वाङ्मनश्चक्षुरुच्चरेत् | श्रोत्र घ्राण प्राणं इहागत्य सुखं चिरं ततः || तिष्ठन्तु वह्निजायांत मुक्त्वा तारं ततो जपेत् | वपुर्ज्यातिर्मयं ध्यायेदिति स्यात् प्राण संस्थितिः || अत्र मम इति स्थाने अमुख्या देवताया इति वोध्यं || प्रयोगस्तु || ओं आं ह्रीं क्रों हं सः सोहं श्रीदक्षिणकालिकायांः प्राणाः इह प्राणा इत्यादि || तदुक्तं रुद्रयामले || ९५अ) अमुक पदं यद्रूपं यत्र मंत्रे च दृश्यते | साध्याभिधानन्तद्रूपं तत्र स्थाने नियोजयेदिति || कुमारीकल्पे || भूतशुद्धिं विधायेत्थं देवी रूपेण चिंतयेत् | प्रणवं पूर्वमुद्धृत्य पूर्वं लाङ्गलमेव च || हूं फट् स्वाहा मनुष्योक्तः काय वाक् चित्तशोधना || इति काय वाक् चित्तानि संशोध्या रक्ष रक्ष हूं फट् स्वाहा मंत्रस्यादात्मरक्षणे || इति भूतिशुद्धिः || अथ मातृकान्यासः || फेत्कारिणीतंत्रे || मंत्रामूकत्वमायान्ति विन्यासेन विनालिपेः | सर्वमंत्र प्रसिध्यर्थं तस्मादादौ लिपिं न्यसेत् || मातृका पदव्युत्पत्तिस्तु विशुद्धेश्वरे || माति विश्वं पराशक्तिस्त्राति स्वात्मनि दर्शनात् | मातृकेति समाख्याता वेदमाता परा परा || मेरुतंत्रे || प्राणायाम त्रयं कृत्वा मातृकान्यासमाचरेत् | प्राणायामा त्रिधाः प्रोक्ताः स्तांत्र वैदिकयौगिकाः || मंत्रसिद्धिः पापनाशो योगसिद्धिः फलं क्रमात् | मात्रिकाख्यश्च मंत्र्याख्यस्तांत्रिकोद्विविधो मतः || मातृकाख्यो जपस्यादौ जपान्ते च कृतो यदि | वर्णव्यत्यासादितोषान शेषान् हंति तं शृणु || वामया पूरयेद्वायुं स्वरैः काद्यैश्च कुंभकं | रचयेद्यादिभिर्दक्ष नासा यं मातृकाभिधः || तंत्रांतरे || इडया पूरयेत् प्राणं स्वरैः स्पशैश्च कुंभयत् | रेचये घादिकैरुष्मैस्ततः पिङ्गलया पुनः || तथैव पूरणम्वायोः कुंभनं रेचनं पुनः | ईडया स्यात् ततो द्वाभ्यां पूरणादि त्रयं पुनः || प्राणायाम त्रयं कृत्वा पश्चाद् व्यापकमाचरेत् | अकाराद्यैः क्षान्तवर्णैरोपादतलमस्तकं || मेरुतंत्रे || यावच्छक्यं नियम्यासून्मनसैव मनुं जपेत् | कनिष्ठानामिकांगुष्ठै नासां धृत्वा तु मांत्रिकः || प्राणायामस्त्वयं प्रोक्तो यदन्य मनसा कृतं | जय पूजादिकं तस्य दोषमेव व्यपोहति || गायत्रीं शिरसा सोर्धं सप्तव्या हृति पूर्विकां | ९५ब्) प्रति प्रणवसंयुक्तां त्रिरयं वैदिको मतः || मध्या मूलाद्यावदग्रमङ्गुष्ठेन निपीड्यते | मात्रा सा प्रोच्यते सड्भिर्योगेभीष्टं प्रयच्छति || तथा || ऋगताविति धातुस्तु ऋवर्णः प्रायको मतः | पिवर्णार्धस्तु विज्ञानमतस्तत्प्रापकस्तु सः || छतीति धातुरिच्छायां दादिर्दानार्थको भवेत् | अत इच्छा प्रदंछंति शेषाद्गहणवर्णतः || क्रीडार्थकार्देर्दि वुधातोः संपूर्ण देवता पदं | साधकाय ददानाति देवता परिकीर्तिता || रज्यमानो हृदात्मायं हृदयेस्ति चिदात्मकः | ऋषिर्गुरुत्वा शिरसि वर्णत्वार्छन्दसो मुखे || धारणं प्रोच्यते चित्त ज्ञेयत्वाद् देवता हृदि || इति मेरुतंत्रवचनं || शारदायां मेरुतंत्रे च || ऋषिर्ब्रह्मादेवता तु मातृकाख्या सरस्वती | हलोवीजानि गागात्री छन्दः शक्तिः स्वरामताः || व्यक्तिः कीलकमुद्दिष्टं नियोगो भीष्टसिद्धये || दक्षे करतले तस्येत्यादि अत्र वचन वाहुल्यात् न्यासमुद्धृत्य लिख्यते || दक्ष करतलस्य पृष्टे करभे अंगुष्टादिषु वामकरेपि विन्दुयुक्तान् स्वरान् व्यत्यासेन विन्यसेत् इति संहारक्रमः || पापशत्रुक्षयाद्यर्थं कर्मण्यादौ समाचरेत् || प्रयोगादि कर्तव्यता सिद्धये स विसर्गैः स्वरै न्यसेत् क्रमादिति सृष्टिन्यासः || वामात् करतरात् कनिष्टांतं तथैव दक्षात् ऌकारादीनष्टौ स्वरान् अकाराद्यान् विन्दुविसर्गयुक्तान् न्यसेदिति स्थिति न्यासः || तथा || अं आं मध्ये कवर्गः स्यादी ईमध्ये च वर्गकः | उ ऊ मध्ये टवर्गस्तु ए ऐ मध्ये त वर्गकः || ओ औ मध्ये प वर्गः स्यादं अ मध्ये तु यादिकाः | एभिः सविन्दुकैरंगुल्यादि न्यासो हृदादिकः || कर्तव्योनास्य ऋष्यादि विनियोगोस्य सिद्धये | षडंग शुद्धे क्रोधादि जात पाप निवृत्तये || तारत्रयं च दिग्वन्धन कुर्यादस्त्रमंत्रतः | ततो ध्यायेद् वर्णपद्मं श्वेतं स्वशिरसि स्थितं || कर्णिकायां निजं मंत्रं संस्मरेत् केशराष्टके | स्वरयुग्मं तथा यत्रेष्वष्टस्वपि च कादिकान् || ९६अ) सप्तवर्ग नष्टमे तु लक्षावेवं विचिंतयेत् | एवं चिन्तयतो रोगाश्चाल्पमृत्युर्विनश्यति || सारदायान्तु || पद्वर्गकैः क्रमात् षडङ्गानि विध्येयानिजानियुक्तानि देशिकैः || पंचाशल्लिपिभिर्विभक्त सुखदोष्य मध्य वक्षस्थलां भास्वन्मौलिनि वद्ध चन्द्र सकलामापि न तुङ्गस्तनीं || मुद्रामक्षगुणं सुधाढ्य कलशं विद्यां च हस्ताम्वुजौर्विभ्राणाम्विशदप्रभां त्रिणयनां वाग्देवामाश्रये || मंत्रतंत्रप्रकाशे || आदावभ्यंतरे न्यस्य षडाधारेषु पार्वति | आकारादि क्षकारांतान् स्थूलदेहे वहिर्न्यसेत् || दक्षिणामूर्तिः || कलापत्राम्वुजे कण्ठे स्वरान् सम्यक् प्रविन्यसेत् | हृद्यर्कपत्रे तद्वर्णान् नाभौ दशदलेन्यस् || दशवर्णान् लिङ्गमूले खद्दलेश्वरी || चतुर्दले तथाधारे चतुर्वणास्ततो न्यसेत् || भ्रूमध्ये द्विदले हक्षाविति || मेरुतंत्रे || अथार्तर्मातृकान्यासं वक्ष्यंतः शुद्धिकारकं | यं कृत्वा योगीनि चित्तं पातकेन प्रवर्तते || मूलाधार ध्वनिं श्रुत्वा प्रवुद्धा शक्ति कुण्डली | ज्वलत्पावकसंकाशा सूक्ष्यातेजस्वरूपिणी || मूलाधाराच्छिरः पद्मं स्पृसन्ती विद्युदाकृति | जया स्पृष्टशिरः पद्मादमृतौघ स्वरूपिणः || निर्गतान् मातृकावर्णान् सुषुम्ना वर्त्मना तनुं | स्थापयित्वा स्थितानेताने वंध्यात्वा प्रविन्यसेत् || कण्ठे विशुद्धि चक्राख्यं पद्मं षोडश पत्रकं | उर्द्धास्यं प्राग्दलात् तत्र संस्थिताः षोडशस्वराः || एवं संचिंत्यतारादिन् विन्दुयुक्तं नमोन्तकं | वदेत् स्वरं च सर्वेषु वर्णेष्वप्येष पद्धतिः || हृदयेनाहतं चक्रं ध्याये द्वादशपत्रकं | पूर्वपत्रात् तद्दलेषु प्राग्वत्कादीन् प्रविन्यसेत् || मणिपूरं ततश्चक्रं चिन्तयेन्नाभि मण्डले | दशपत्रं तत्रडादि वर्णान् प्राग्वद्विचिन्तयेत् || ९६ब्) स्वाधिष्ठानं लिंगमूले चक्रषद्दलमुच्यते | चिंतयेद्वादिकां तत्र षट्वर्णानपि पूर्ववत् || मूलाधाराभिधं चक्रं पद्माकृति चतुर्दलं | वं शं षं सं तत्र चिंत्यं पूर्वासादि दलेषु च || आज्ञाष्य चक्रं भ्रूमध्ये द्विदले कमला कृति || हं क्षं ध्यायेत् इति || वैष्णवे तु विशेषो गौतमीये || एकैकम्वर्णमुच्चार्य मूलाधाराच्छिरोन्तिकं | नमोन्तमिति च न्यास आन्तरः परिकीर्तितः || पद्मवर्णभेदापि तत्रैव || पीतरक्त नीलरक्त धूम्रश्वेत भेदात् || अनेनैव क्रमेन वैष्णवेन न्यसनीयः || अन्तर्मातृकान्यासा मनसैव कार्यः || पुष्पैर नामया वापि मनसा वा न्यसेद मूनिति मंत्रतंत्र प्रकासः || मेरावपि || अयं कार्यो मनसा केवलेन तु || स्वदेहे नामया कार्यः पुष्पेन सुरमूर्तिषु || सांगुष्ठा नामया || तदुक्तं पद्यवाहिण्यां || अंगुष्ठानामिकाभ्यान्तु न्यासस्सर्वत्रसम्मत इति || अत्रायं सिद्धान्तः || पुष्पैद्देवतामूर्तौ अनान्यया स्वदेहे || मनसा मूलाधारादिषु || ऋष्यादि करषंडङ्ग न्यास वहिर्मातृकादिषु मुद्रान्तरमुक्तं || कुलार्णवे || यति वैषाणसैष्काययैः संहारान्तः कुलेश्वरि | न्यासो गृहेस्थैः स्थित्यन्तः सृष्ट्यन्तो वर्णिनां भवेत् || मेरुतंत्रे || न्यासाः कायान्तु वटुभिः स्थिति संहार पृष्टयः | शंहार शृष्टिस्थितयो गृहस्थस्तु न्यसेत् क्रमात् || वानप्रस्थाश्चयतयः सृष्टिस्थिति लय क्रमात् || इत्यन्तमातृका || अथ वहिर्मातृका || तत्रैव || वहिर्न्यासमथो वक्ष्ये पूर्वोक्त ब्रह्मरन्ध्रके | वर्णारविन्दे संध्यायेन् मातृकाख्यां सरस्वतीं || ध्यानन्तु पूर्ववत् पंशल्लिपिभिरित्यादि | ललाटे मुखवृत्तेक्षिश्रवोर्नाशा सुगंधयोः || ओष्टयोन्दन्त पंकमेश्च मूर्ध्नि वक्त्रे न्यसेत् स्वरात् | वाह्योः संधिषु साग्रेषु क च वर्गो न्यसेत् सुधीः || ट तो वर्गौ पदोस्तद्वत् पार्श्वयोः पृष्टि देशतः | ९७अ) भौकुक्षौ पवर्गं च हृदं शककुंदं ततः || न्यस्ययादि चतुर्वर्णान् शादिषट्कं ततो न्यसेत् | हृदादि करयोरंघ्र्योर्जठरे वदने तथा || न्यासस्त्वयं वर्णमात्रा हीनपाटप्रपूरकैः || वीरचूडामणौ || मूर्ध्नि वक्त्रै तथा नेत्रे कर्मयोन्नासिकापुटे | कपोले ओष्ठदन्ते च जिह्वाग्रे कण्ठदेशतः || कादिं दक्षिणहस्ते च च वर्गां वामहस्तके | टवर्गं दक्षिणे पादे तवर्गं वामतो न्यसेत् || कुक्षौ पृष्ठेथ नाभौ च उदरे पादि पंचकं | त्वगसृङ्ग्यांस मेदोस्थि मज्जाशुक्लाणि धातवः || जीवात्मा परमात्मा च न्यसेद्यादींस्ततः क्रमात् | हृदये दक्षिणांशे च ककुद्वामांसतो न्यसेत् || हस्तयोः पादयोः पश्चाच्चरणान्मस्तकावधि | मूर्द्धादि चरणपर्यन्तं न्यसेत् साधकसत्तम इत्युक्तं तदनंयोरपि विकल्पः || कुलावतारे || पंचाशादक्षरन्यासः क्रमेण परिकीर्तितः | ओमाद्यन्तानमोन्ता वा सविन्दुर्विन्दुवर्जितः || पंचाशद्वर्णविन्यासः क्रमादुक्तो मनीभिषिः | स विसर्गः सोभयश्च रहस्यन्तन्तु कथ्यते || वित्तप्रदो विन्दुयुतो विद्यादो विन्दुवर्जितः | पुत्रप्रदस्सविसर्गः सोभयोर्भक्तिदायकः || मायालक्ष्मीवीजपूर्वो वाग्भवाद्याथ वा पुनः | त्रिताराद्यारमाद्यो वा न्यस्तव्यः साधकोत्तमैः || वीरचूडामणौ || मातृका तृतयं कुर्यात् सृष्टिसंहारकस्थितिं | न्यासं कुर्यान् महेशानि कल्पोक्तं च विशेषतः || कुलावतारे || सृष्टेस्तु सुत पुष्ट्यादि स्थितेस्तत्पालनं भवेत् | संहृतेद्दोषसंहारस्तस्मात्रितयमाचरेत् || शारदायां || न्यसेत् सर्गान्वितां सृष्ट्या ध्यात्वा देवीं यथाविधि | विन्दुयुक्तामिमां न्यस्येत् संहृत्या प्रतिलोमतः || विद्यात् पूर्वादितान् विद्वान् ऋष्यादीनङ्ग संयुतान् | ध्येया वर्णमये पद्म देवी वाग्वल्लभा शिवा || मेरुतंत्रे || क्षमारभ्य अकारान्तो न्यासश्चेत् क्रीयाते यदि | संहारन्यासनामास्या विन्दुन्यास ईतीरितः || ९७ब्) वाममार्गे प्रवृत्तानां शक्तिसेचनकारिणां | अंन्तर्न्यासात् परं विन्दु न्यासस्या छुक्रधारणं || यावत् क्रिन्नाभ भवेछुक्तिस्तावद् भोगो विधीयते | वामेत्र दक्षिणे मार्गे देवताध्यानमुच्यते || अक्षस्रजं हरिणपोतमुदग्रटंकं विद्यां करैरविरतं दधतीं त्रिनेत्रां || अर्धेन्दुमौलिमरुणामरविन्दवासां वर्णेश्वरीं प्रणमतस्तनभारनम्रां || शक्तेर्मनोरथे पूर्णे विसर्गन्यासमाचरेत् | ततो विन्दुः पतेत् तस्मादेतौ विन्दुविसर्गकौ || न्यासौ प्रोक्तौ यदा शुक्रं वामिनः कौलिकस्य वा | शक्तैस्तृप्तिं विना सर्ग न्यासेनापि विना च्युतं || तदासौ निरयं याति यावच्चन्द्रदिवाकरौ | इहलोकेप्यवंशः स्याद् विहीनो ब्रह्मतेजसा || भोगमोक्षधिया वामे पतितुं ये समुद्यताः | विना मंत्रं सर्पमणिं ते गृहीतुं समुद्यताः || विसर्गमातृकान्यासो भवेत् केवलमात्रिवत् | विशेषस्तु विसर्गान्तो वर्णाचारो भवेद्दिति || विंदुसर्गयुतान् डादि ठांतान् वर्णान् स्फितौ न्यसेत् | पूर्वोक्ता एव मुन्याश्चाऽषडंगं ध्यानमुच्यते || शारदायां || विसर्गविन्द्वन्तिकान्यस्य ऊर्णाद्यां स्थिति वर्त्मना || फेत्कारिणितंत्रे || उदरोपक्रमान्न्यासो हृदयान्त स्थितिर्मत इत्युक्तं | इदं चांतिर्मातृकारीत्याक्तं फलतो विशेषो न कश्चित् || त्रिशक्तिरत्ने || अथ कादि त्रिभेदेन विभज्य मनुविल्लिपिं | कवर्ग पंचमं न्यस्य दवर्गा च ततः परं || थवर्गं विन्यस्येत् पश्चात् स्थिति रेखा प्रकीर्तिता | यकासद्यन्तथान्तं च क्षमारभ्यममंतिकं || यथास्थानं प्रविन्यस्येत् स्थितिर्यत्वेयमीरिता | भमारभ्यक्षकारान्तामकाराद्यंवपश्चिमं || पूर्वस्थानेषु विन्यस्येदथवेयं स्थितिर्भवेत् || शारदायां || ९८अ) विद्यात् पूर्वोदितान् विद्वान् ऋष्यादिः नंगसंयुतान् | ध्यायेद्वर्णेश्वरी मंत्र वल्लभेन समन्वितां || ध्यानं यथा || मेरुतंत्रे || सिन्दुरकान्तिममिताभरणं त्रिनेत्रं विद्याक्ष सूत्रमृगपोतवरान्द ध्यानं | पार्श्वस्थितां भगवतीमपि कांचनाङ्गीन्ध्यायेत् कराक्षधृत पुस्तक वर्णमालां || मातृकान्यासमुद्राश्च तंत्रान्तरे || ललाटनासिका मध्ये न्यसेच्च मुखवृत्तके | तर्जनी मध्यमानामा विन्यसेच्चैव नेत्रयोः || तर्जन्य नामे संपुज्य न्यसेन् साधकसत्तमः | अंगुष्ठं वर्णयान्यस्य मध्यमामोष्ठयोन्येसेत् || अनामादन्तयोर्न्यस्य मध्यमामुत्तमांगके | मुखे नामाम्मध्यमां च हस्तपादे च पार्श्वयाः || कनिष्ठा नासिका मध्ये न्यस्तव्याः पृष्टस्तस्तथा | तासांगुष्ठानाभिदेशे सर्वाः कुक्षौ च विन्यसेत् || हृदये शाधकस्सर्वसंशयोश्च ककुत्थले | हृत्युर्व हस्तपत् कुक्षि मुखेषु तलमेव च || एतास्तु मातृका मुद्राः क्रमेण परिकीर्तिताः | अज्ञात्वा विन्यसेद् यस्तु न्यासः स्यात् तस्य निफलं || इति मात्रिकान्यासः || अथ श्रीकंठादिन्यासः || स्वतंत्रतंत्रे || आदौ तु मातृकान्यासं ततः श्रीकण्ठसंज्ञकं | तथा || ऋष्यादि त्रितयं न्यस्येत् कास्य हृत्सु यथाक्रमं || अत्र तु मातृकान्यासो नोक्तः तथापि भूतशुध्यादिकं सर्वं तारिणि वत्समाचरेदिति वीरचूडामणि वचनात् मातृकान्यास मायात्येव || अत्न्यदपि कालिक्रमे || विन्यसेन् मातृकास्थाने श्रीकंठादीन् यथाक्रमं || तद्यथा मेरु शारदयाः || अथ शैवहिता वक्ष्ये श्रीकंठादिकमातृकाः | मुनिः स्याद् दक्षिणामूर्तिर्गायत्री छन्द ईरीतं || अर्धाद्रिजाहरो देवो नियोगः सर्वसिद्धये | हंलो विजानि गुह्ये तु पादयोः स्वरशक्तयः || ९८ब्) ह्रस्व दीर्घान्तरे कृत्वा प्राग्वद्वर्गान्हसौरयं | षड्दीर्घसंयुतात् कृत्वा षडंगादि न्यसेत् तनौ || वंधुक कांचननिभं रुचिराक्षमालां पाशांकुशौ च वरदं निजवाहुदण्डैः | विभ्राणमिन्दु शकलाभरणं त्रिनेत्रमर्धांविकेशमनिशंव पुराश्रयामः || हसौ ते मातृकां युक्त्वा देवान्ते वेशमुच्चरेत् | ङेन्तं ङेन्तां च तच्छक्तिं नमोंतां मातृकास्थले || त्वगसृङ्मांसमेदोस्थिमज्जा शुक्लाण्यसून् वदेत् | शक्तिं क्रोधं तथा स्नानं ङेन्तं यादि दशस्वपि || श्रीकण्ठपूर्णौदर्यौचानंतो विरजयान्वितः | सूक्ष्मेशः शात्मली मुक्तो लोलाक्षी युक्त्रिमूर्तिकृः || अमलेणो वर्तुलाक्षो चार्घीशो दीर्घघाणया | भारभूतिर्दीर्घमुख्यातिथीशो गोमुखी युतः || स्थाश्वीणो दीर्घजिह्वायुग्धरः कुंडोदरी युतः | उर्ध्वकेश्या च ऋण्ठीशो भौतिको विकृतास्यया || सद्योजातो ज्वालामुख्यानुग्रहोल्कामुखी युतः | अक्रूरे श्रीमुखी महासेनो विद्यामुखी युतः || क्रोधेशश्च महाकाल्या चंडेशेन सरस्वती | पंचांतकः सर्वसिद्धि गौर्यायुक्तः प्रकीर्तितः || शिवोत्तमेशो विन्यस्यो युक्तस्तैलोक्य विद्यया | एकरुद्रो मंत्रशक्त्या कूर्मशश्चाष्ट शक्तियुक् || एकनेत्रो भूतिमात्रा युक्तोथ चतुराननः | लंवोदर्या युतः प्रोक्तस्त्वजेशो द्राविणी युतः || सवेशानागरी युक्तः शामेशः खेचरी युतः | लांगलीशश्च मंजर्या दारुकेशेन रूपिणी || वीरण्या चार्ध नारीशो ह्युमाकान्तः पुनर्युतः | काकोदर्यातथाषाढी पूतनायुक्त ईरितः || डण्डीशो भद्रकाली युगत्रीशो योगीनी युतः | मीनेशः शंखीनी युक्तो मखेशस्तर्जुनी युतः || लोहितः कालरात्र्या च शिखीशः कुर्दिनी युतः | छगलंडः कपर्दिन्या द्विरण्डेशश्च वज्रया || ९९अ) महाकालो जयायुक्तो वालीशः सुमुखी युतः | भुजगो रेवती युक्तो पिनाकी माधवी युतः || खड्गीशो वारुणी युक्तो वकेशो वायवी युतः | श्वेतो रक्षोवधारिण्या भृगुः सहजया युतः || नकुलीशश्च लक्ष्मी युक् शिवेशो व्यापिनी युतः | संवर्तको महामाया युक्त एतास्तु मातृकाः || श्रीकण्ठाद्याय ईशान्तस्तत्रनेशं प्रयोजयेत् | सर्वे रूप्राः स्मृता रक्ता धृतशूलकपालकाः || शक्तोयो रुद्रपीठस्था सिन्दूरोरुणविग्रहाः | रक्तोत्पल कपालाभ्यां मलं कृत करांवुजाः || प्रयोगस्तु हसौं अं श्रीकण्ठेशाय पूर्णोदर्यै नमः || हसौं आं अनंताय विरजयायै नमः || इत्यादि || यकारादि दशसु ह्रीं हूं हसौं यंत्वगात्मने वालीशेशाय सुमुख्यै नमः इत्यादि ज्ञेयं || शारदायां तु || ह्रीं त्रीं हूं अं श्रीकण्ठेशपूर्णोदरीभ्यां नमः || इति विशेषः || इति श्रीकण्ठादि न्यासः || अथ षडंगन्यासः || मेरुतंत्रे || प्राणायाम त्रयं कृत्वा मूलमंत्रेण साधकः | विन्यसेत् तदृषि छन्दो देवतानि यथाविधि || कराङ्गन्यास पूर्वांस्तु न्यासानन्यान् समाचरेदिति || कालिकल्पे || भैरवोऽस्य ऋषिः प्रोक्त उष्णिकुच्छन्द उदाहृतः | देवता कालिका प्रोक्ता लज्जावीजन्तु वीजकं || शक्तीस्तु कूर्चवीजं स्यादनीरुद्धसरस्वती | कवित्वे विनियोगः स्यादेवमृष्योदिकल्पना || कालीक्रमे || कीलकं चाद्यवीजं स्याच्चतुर्वर्गार्थसिद्धये || तंत्रांतरे || ऋषिं न्यसेन् मूर्ध्नि देशे छन्दस्तु मुखपंकजे | देवतां हृदय चैव वीजं तु गुह्यदेशके || शक्तिन्तु पादयोश्चैव सर्वाङ्गे कीलकं न्यसेत् | ऋष्यादिन्यास यथा मुद्रा सारसंसग्रहे || ऋषिछन्दो दवतानां न्यासेप्यंगुलय स्मृता || चतश्रोंगुष्टरहिताः || शक्त्यन्तं विन्यसेत् ततः || कीलकं वस्तहस्ताभ्यां सर्वांगे साधकाग्रणी || ऋष्यादिन्यासमाहयोगितंत्रे || ऋष्यादीन् विन्यसे देवी चतुर्थि हृदयान्तकान् || ९९ब्) कालीतंत्रे || अंगन्यास करन्यासौ यथावदभिधीयते | षड्दीर्घभात्तावीजेन प्रणवाद्येन कल्पयेत् || वीजमंत्र ह्रींकारः प्रणवं चाद्यवीजं च षड्दीर्घस्वरभेदितं || कुर्यात् षडंगविन्यासं मूलखण्डत्रयेणवेति स्वतंत्रे तंत्र वचनात् || तत्र मूलखण्डत्रयेण द्विधा वृत्तेन षडंगं वोध्यं || षडंगन्यास लक्षणमाहतारोपनिषदि | षडंगं विंन्यसेन्मंत्री हृदयाय नमो वदेत् || स्वस्वमंत्रं समुच्चार्य शिरसे वह्निवल्लभा | स्कंधमध्ये न्यसेत् पश्चात् शिवखायवषदित्यपि || कवचाय वाहुमुले कूर्चवीजं समुच्चरेत् | नेत्रत्रयेभ्यो वौषदित्यन्तं नेत्रतो न्यसेत् || करयो विन्यसेन् मंत्री अस्त्राय फदित्यपि | षडंगन्यास यथा तंत्र चूडामणौ || हृदये मध्यमानामातर्जनिभिर्न्यसेद्वुधः | मध्यमा तर्जनीभ्यां तु शिरशि न्यासमाचरेत् || अंगुष्टेन शिखायां च दशभिः कवचं न्यसेत् | नेत्रेषु तिम्रिभिः च स्यादस्त्र मूर्ध्वोर्द्धंगंत्रिशः || मध्यमा तर्जनीभ्यां स्यादंगमुद्रा स्मृता अमी | मध्यमा तर्जनीभ्यां मूर्द्धार्द्ध क्रमेण तालत्रयमित्यर्थः || अथ षडंगमंत्रार्थमाह यामले || हृदयायेति शब्देन हृष्टो दोठः स विग्रहः | उच्यते मन इत्यस्य ज्ञानं तद्विषयं परं || शिरः शब्दो देवेताया उत्कृष्टत्वाद्भिध्ययक | स्वाहेति विषया सर्वे देवतायां समर्पिता || शिखायै च स्वरूपत्वं वषडपि तदुच्यते | देवताया व्यापकत्वं कवचायाभिधीयते || हूंमपि व्यापकं तेजो देवताया प्रकाश्यते | नेत्रशब्देन देवस्य प्रकास्यत्वं प्रकाश्यते || वौषदपि तदैवोक्तमंस्त्रशब्देन वारणं | अनिष्टस्य फट् शब्देन दाहकं तेज उच्यते || ज्ञात्वैवसंग मंत्रार्थमंगन्यासं करो यः | प्रचयास्तस्तस्य सर्वार्था पूज्यते स्त्रिदशैरपि || भैरवीतंत्रे || षडंगानि न्यसेन्मंत्री त्रिःसकृद्वा यथाक्रमं | एवं यथा विधिन्यस्य वर्णन्यासं समाचरेत् || १००अ) भैरवतंत्रे || वर्णन्यासं ततः कुर्याद् दिव्यभाव फलप्रदं | हृद्वाहुपादयुग्मेषु सविन्दुन् मातृकाक्षरान् || पंक्तिशो विन्यसेत् पश्चाद् व्यापकन्यासमाचरेत् | दोभ्यां च व्यापकं कुर्यान् मूलविद्यां समुच्चरन् || पदादि शिरो अंतं शिर आदि पदांतकं | सकृदेवं प्रविन्यस्य साधकस्तन्मयो भवेत् || वीरचूडामणावपि || हृदये विन्यसेद् वापि अकारादि दशाक्षरं | एकारादि दश चैव परन्तु दक्षिणे भुजे || भुजे वामे प्रविन्यस्य डंकारादि दशाक्षरं | परंतु दक्षिणे जंघे णकारादि दशन्यसेत् || मकारादि क्षकारांतं वामजंघे प्रविन्यसेत् || प्रयोगो यथा || अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं नमो हृदय न्यसेत् || एं ऐं ओं औं अं अः कं खं गं घं नम इति दक्ष भुजे || ङं चं छं जं झं ञं टं ठं डं ढं नम इति वाम भुजे || णं तं थं दं धं नं पं फं वं भं नम इति दक्षजंघायां || मं यं रं लं वं शं षं सं हं क्षं नम इति वामजंघायां || इति वर्णन्यास || अथात्र वामिनामावश्यकत्वात् प्रपंचन्यासो लिखेते || मेरुतंत्रे || मातृकान्याससंस्थाने वामे कौलिक वर्त्मनि | प्रपंच योगनामानं न्यासं कुर्यात् तदुच्यते || श्रीप्रपंचे द्वीपमाये कमलो जलधी तथा | गिरिविष्णुवल्लभे च पत्तनं पद्मधारीणी || समुद्रतनया पीठे क्षेत्रयुश्लोकमातृका | वनकमलवासिन्यौ इन्द्रीराचाशमस्तथा || मागुहेतुरमानद्यौ पद्मचत्वरकौ तथाः | नारायण प्रियाद्भिज्जौ स्वेदजा सिद्धिलक्ष्मिका || अंत्रजश्च महालक्ष्मी जरापूजाजलक्ष्मीका | स्वरस्थाने षोडशैव युग्मानि स्पर्शजान्यथ || आर्यालवौत्रुतिर्माच चंडिका च कलान्विता | काष्ठा दुर्गे निमेषाख्य शिवेश्चा सोह्यपर्णिका || अंविका घटिके चैव मूहूर्तश्च सनीयुतः | इश्वरी प्रहरवैव शांभवि दिवसान्विता || इशानी वापी संध्या च पार्वती रात्री संयुता | सर्वमंगलयायुक्तां स्थितिं न्यस्य ततः परं || दाक्ष्यापिन्या तथा वाराहैमवत्यायुतं न्यसेत् | १००ब्) नक्षत्रं च महामाया युक्तं योगं न्यसेत् ततः || माहेश्वर्या च करणं मृडान्या पक्ष एव च | रुद्राणी माससंयुक्ता शर्वाणी राशि संयुता || अथर्तु परमेश्वर्यौ काली चायनसंयुतां | कात्यायनी वत्सर युक् गौरी युग समन्विता || भवानि प्रलयौ चाथ यादि स्थानेषु विन्यसेत् | पंचभूतयुता ब्राह्मी पंचतन्मात्रसंयुता || वागीश्वरी ततो वाणी पंचकर्मेन्द्रियान्विता | संज्ञानेन्द्रिय सावित्री सा निला च सरस्वती || गायत्री गुणयुक्ता वाक् प्रदातः करणान्विता | अवस्था युक् शारदा च धातु युक्ता च भारती || दोषयुक्ता प्रिया चेति व्यापकं विद्यया न्यसेत् | त्रितार मूल विद्यांते मातृकाक्षरतः परं || वदेत् प्रपंच रूपायै श्रियै नम इति क्रमात् | प्रपंचन्यास एवं स्याद् भुवनन्यास उच्यते || त्रितारमूलमंत्रांते विभागेनाक्षराणि च | सानुस्वारानि चोचार्य ह्यतलादिक नाम च || लोकनिलयशतेति कोटि प्रह्यपदं वदेत् | यागिनी मूलदेव्यास्तु नामाथाधारशक्ति च || देव्यै नम इति प्रोक्ता प्रोक्तांगेषु प्रविन्यसेत् | अक्षराणां विभागस्तु अकारादि त्रयं त्रयं || अर्धेन्दु युक् चतुः स्थाने स्थान युग्मे द्वयं द्वयं | कादिकाः सप्तवर्गाश्च लक्षं चापि चतुर्दशे || अथ नामानि लोकानाम तलं वितलं तथा | सुतलाख्यं महातलं तलातल रसातरे || पातालं भूर्भुवः स्वश्च महर्जनस्तपस्तथा | सत्यं चेत्वथ गुह्यादि स्थाने यत्र यदुच्यते || गुह्यांतलं द्वितीयेथ चाति गुह्यमचिंत्यकं | महागुह्यं स तंत्रं च परमं गुह्यमग्रतः || इच्छां च योगिनी स्थाने रहस्यं ज्ञानमग्रतः | रहस्यं च क्रिया मुक्ताथाष्टमे विनियुह्यते || रहस्यं डाकिनि चाथ महारहस्य हाकिनी | महागुप्तं काकिनीं च गुप्ततराच्च शाकिनी || गुप्तं श्रीहाकिनीं पश्चान् महागुप्तं च याकिनी | अथांगानि क्रमात् पादौ गुल्फौ जंघे च जानुनी || ऊरूगुह्यं च मूलाधारं स्वाधिष्ठाननाभिकं | १०१अ) हृत्तालनासाभालानि ब्रह्मरंध्रमिति क्रमात् || त्रितार मूलमंत्रान्ते चतुर्दश भुवं वदेत् | नाधिपायै परां वायै देव्यै हृद्व्यापकं न्यसेत् || मूर्तिन्यासं प्रवक्ष्यामि तत्रादौ प्रणव त्रयं | मूलमंत्रं समूर्च्चार्य न्यासं कुर्यात् तदुच्यते || चतुर्थी नमसा युक्तात् प्रोक्तांगेषु च विन्यसेत् | प्रमानादौ प्रिया वांते मस्तके केशवाक्षये || मुखे नारायणे श्रेष्टे च दक्षस्कंधे च माधवः | ईशान्या सहितो वामे गोविंदश्चोग्रयान्वितः || विष्णुर्धनयनाद्वध्वा पार्श्वेर्थ मधुसूदनः | ऋद्धिश्च वामपार्श्वेथ दक्षकट्यां त्रिविक्रमः || रूपिणियुम्वामकट्यां लुप्त्यायुश्चक्तस्तु वामनः | दक्षौरौ श्रीधरालून दोषा वामोरुसंस्थितौ || एकनासा हृषीकेशौ दक्ष जानुनि संस्थितौ | एकारिणी पद्मनाभौ वामे चाद्यवती भवेत् || दामोदरोथ दक्षायां जंघायां वासुदेव भुक् | अर्कमाणार्थ वा मायां जंघाया मंत्र न प्रभा || संकर्षणयुता दक्ष पादे प्रद्युम्नसंयुता | अस्थिमाला वामपादे ह्यनिरुद्धोऽधरायुताः || एते षोडशविन्यस्याः सानुस्वाराच्च पूर्वकाः | विष्णुशक्त्यान्वितानान्तु न्यासोयं परिकीर्तितः || शैवन्यास दक्षपादे करे भद्रा भवौ मेतौ | वामे खगवलाशवौगरिमाद्रि फलप्रदा || रुद्रयुक्ता दक्षपार्श्वे वामे पशुपतिः स्मृतः | घंटा पद्मधरो युक्तो दक्षवाहौ तथोग्रकः || ङार्नानन्दान्वितो वाम वाहौ चन्द्रधरान्वितः | महादेवाथ कंठे तु भीमछंदो मयी युतः || मुखेषु विन्यसदेतान् प्रागादिषु च पंच सु | ईशानश्च जगस्थाना तत्पुरुषो जलभारा || अघोरो ज्ञाननादा च ततष्टंकधरायुतः | वामदेवाथ सद्याख्यो जातष्टंकरडामरी || ब्रह्माख्योथ भवेन्न्यासः पादे ब्रह्मा च पक्षिणी | प्रजापतीरंजिनि च जंघयोरथ जानुनो || वेधा लक्ष्म्यौ चोरु युगे परमेष्ठी च वक्रिणी | गुह्ये पितामहः प्रोक्तस्तथा च शिशुधारिणी || नाभिदेशे विधाता च षडाधारलया तथा | १०१ब्) हृदये विन्यसे तद्वद्विरिंचिः सर्वनायिका || तथैव विन्यसेत् कंठे स्रष्टारं हसिताननां | ललाटे ललितान्यस्यत्तथैव चतुराननं || क्षमां हिरण्यगर्भं च ब्रह्मरंध्रे प्रविन्यसेत् | त्रितार मूलमंत्रांते श्रीत्रीमुत्येतिकां वदेत् || आर्या परां वा देव्यै च नमसा व्यापकं न्यसेत् | मूर्तिन्यासं विधायेत्थं मत्रन्यासं समाचरेत् || एवं न्यास विधिं कृत्वा कुर्याद्यश्च जयादिकं | भूतप्रेतजनाद्यैश्च सवामी नैव वाध्यते || इति || अथ षोढान्यासः || तदुक्तं वीरतंत्रे || केवलां मातृकां कृत्वा मातृकां तारसंपुटां || मातृकांतारसंपुटां || मातृका पुटितं ताढं न्यसेत् साधकसत्तमः | श्रीवीजपूटितां तां तु मातृका पुटितं तु तत् || कामेन पुटितां देवीं पुनस्तत्पुटितं न्यस्येत् | तथा शक्त्या च पुटितां शक्तिं च तत्पुटा न्यसेत् || वीजद्वंद्वं पुनर्न्यस्त्वा ऋं ॠं ऌं ॡं च पूर्ववत् | अनुलोम विलोमेन न्यस्त्वा मंत्रं यथाविधि || मूलेनाष्ट शतं कुर्याद्व्यापकं तदनन्तरं | इति गुप्तेन दुर्ग्गाया अंगषोढा प्रकीर्तिता || तारायाः कालिकायाश्च उन्मुख्याश्च तथा परा | कृतेस्मिन् न्यासवर्य तु सर्वपापं प्रशश्यति || विषाय मृत्युहरणं ग्रहरोगविनाशनं | दुष्टाः सर्वे विनश्यंति शत्रवो यांति मित्रतां || कविता लहरी तस्य द्राक्षा रस परंपरा | अणिमाद्यष्ट सिद्धिस्तु तस्य हस्ते व्यवस्थिता || कायिकं वाचिकं वापि मानसं यच्च दुस्कृतं | सर्वं तस्य विनाशत्वं यातिन्यांसस्य चिंतनात् || ब्रह्महत्याक्षयं यांति यत्किंचिदुपपातकं | यद्रूपं दृश्यते यैस्तु सतद्रूपं च गच्छति || यं नमन्ति महादेवी षोढापुटित विग्रहाः | अल्पायुः स भवेत् सद्यो देवता कंपतेभिया || तारसंपूटामित्यर्थः || तेन श्रीं अं श्रीं अं श्रीं अं नम इति ललाटे || श्रीं आं ग्रीं आं श्रीं आं नम इति मुखवृत्ते || एवं मातृकास्थाने न्यसेत् || एवं ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नम इति ललाटे || एवं मातृकास्थाने न्यसेत् || मूलं ह्रां ह्रां ऋं ॠं क्लं मूलं ह्रीं ह्रीं ऋं ॠं क्लं ह्रां ह्रां ऋं ॠं क्लं मूलं नम इति ललाटे || १०२अ) एवं मूखवृत्तादौ न्यसेत् || अनुलोम विलोमाभ्यां मातृकास्थाने केवलं मूलं विन्यस्याष्टोत्तरशतं मूलें न व्यापकं कुर्यादित्यर्थः || तदुक्तं हरगौरी संवादे || वक्ष्ये षोढात्मकं न्यासं दुर्लभं भुवनत्रये | यं कृत्वा साधकाश्चेष्टो भवद्भैरवसन्निभः || विन्यसेन् मातृकां पूर्वं न्यासोयं प्रथमः स्मृतः | श्रिया संपूटितं वर्णं वर्णसंपूटितां श्रियं || एवं क्रमेण विन्यस्य द्वितीयश्च समीरितः | कामसंपूटितां लक्ष्मीं लक्ष्मी संपूटितं च तं || विन्यसेन् मातृकास्थाने तृतीयायं समीरितः | लज्जाया संपूटां लक्ष्मीं श्रीया संपूटितां ह्रियं || पूर्ववद्विन्यसेन्मन्त्री न्यासस्तूर्य उदाहृतः | मुखवृत्त समारूढ लज्जाद्वन्द्वं नमो द्वयं || शशांकशकलारूढं कामं शक्र पदे स्थितं | मूलसंपूटितं कृत्वा तत्पुटं च मनुं तथा || विन्यसेदुक्तमार्गेन न्यासायं पंचसो भवेत् | अनुलोम विलोमेन लिपिस्थानेषु केवलं || मूलं विन्यस्य मेधा || वीमूलमष्टोत्तरं शतं || संजप्यव्यापयद्देहे न्यासः षष्ठोयमीरितः | कालिकामत्र राजस्य षोढान्यासो यमीरितः || एवं न्यासं ततः कुर्यात् समन्त्री भैरवोपमः | स हरः स हरिः साक्ष्यात् स देवी नात्र संशयः || तारायाश्च तथोन्मुख्या इदं न्यासं समाचरेत् | अनिमाद्यष्ट सिद्धीनामीश्वरश्च भवेन्नरः || अथ गुह्य षोढान्यासः || तदुक्तं रुद्रयामले || ईश्वर उवाच || शृणु देवि प्रवक्ष्यामि गुह्य षोढामिमां प्रिये | न प्रकाश्यमिदं क्वापि यदीक्षेदात्मनोहितं || कपूरं मातृका वर्णौः पुटितं मातृकास्थले | तेनैव पुटितं वर्णं न्यसेदत्रैव पार्वति || कूर्चवीजयुगं देवि विन्यस्तव्यं प्रयत्नतः | शक्तिवीजं तथा देवि विन्यसेन्मुलमादितः || दक्षिणे कालिकेत्यादि पूर्ववीजत्रयं न्यसेत् | कूर्चवीजद्वयं देवि लज्जा वीजद्वयं पुनः || विन्यस्तव्यं तथा देवी मिलितं वह्नियायया | ततस्तत् सकलं न्यस्य व्यापकत्वेन देवते || द्वाविंशत्यक्षरे मंत्रे षोढान्यास इहोदितः | १०२ब्) अयन्तु सिद्धिदो लोके तथा देवासुरेषु च || अवस्यं प्रत्यहं कार्यं न पूजा न जपस्तथा | कृतेपि साधकश्रेष्ठो महादेवो समा भवेत् || इति ते कथितं किंचिद् रहस्यं घोरदक्षिणे | न प्रकाश्यं कदाचित् तु देवेषु च तथा नरि || कर्पूरं आदि वीजत्रयं मूलं मातृकायाः आदितः अकारादितः || अथ तत्वन्यासः || स्वतंत्रतंत्रे || आत्मविद्या शिवैस्तत्वैस्तत्वं न्यासं समाचरेत् || मूलाद्यखण्डान्ते आत्मतत्वाय नम ईति हृदादि शिरष्पर्यन्तं न्यसेदित्यर्थः || अथ वीजन्यासः || कुमारीतंत्रे || ब्रह्मरन्ध्रे भ्रूवौर्मध्ये ललाटे नाभिदेशके | गुह्ये वक्त्रे तु सर्वाङ्गे सप्तवीजानि विन्यसेत् || अथ मंत्रवर्णन्यासः || वीरभद्रतंत्रे || शिरसि नयनभाले भ्रूयुगे कर्णगण्डे वदनरदन जिह्वास्कन्ध देशे गले च || भुज हृदय स पार्श्वे पृष्ठनाभौ च रुद्रे कटिगुदकर पादे सर्वतो मंत्रवर्णान् || रुद्रे लिङ्गे सर्वतः सर्वशरीरे || त्रिशक्तिरत्ने तु || मूर्ध्नि गण्डद्वय नेत्रद्वये श्रोत्रद्वये तथा | नासिका युगले भूयो रदच्छदयुगे तथा || दन्तद्वये भ्रूवोर्मध्ये हृदये गुह्यदेशके | भुजद्वन्द्वे पदद्वन्द्वे सर्वाङ्गेऽर्णान् प्रविन्यसेत् || वामादि प्रकमो द्वन्द्वे विज्ञेयो न्यास कर्मणीति क्रम उक्तः || स्वतंत्रे तंत्रे || मूलेन व्यापकन्यासं नवधा कारयेत् प्रिये || भैरवतंत्रे || पंचधा नवधा वापि मूलेन सप्तधा तथा || व्यापयेदिति शेषः || कुमारीकल्पे || ततः स्त्रीवेधधारीस्यात् सिन्दूराङ्कितभालकः | शृंगाराज्वलचेशाढ्यस्ताम्वूलपूरिताननः || एवं वेशादिकं सर्वं वेनितामपि कारयेत् || आदिपदेन भूतशुद्ध्यादि व्यापकान्तं पंचमयागोक्तन्यासादिकं वोच्यते || १०३अ) पीठन्यासस्ततः पश्चादाधारं शक्तिपूर्वकं | प्रकृतिं कमठं चैव शेषं पृथ्वीं तथैव च || सुधाम्वुधिं मणिद्वीपं चिन्तामणि गृहं तथा | श्मशानं पारिजातं च तन्मूले रत्नवेदिकां || तस्योपरिमणेः पीठं न्यसेत् साधकपुंगवः | चतुर्दिक्षु मुनीन् देवान् शवांश्च शवमुण्डकान् || धर्मादींश्चाप्य धर्मादीन् पादगात्र चतुष्टये | हृदिपह्ये तथा पद्मं सूर्यसोमौ महेश्वरि || वैश्वानरं तथा सत्वं रजश्चैव तमस्तथा | आत्माने चैव विन्यस्य शक्तीर्हृत् पद्मके न्यसेत् || अंसद्वयोरुष्टधर्मादीन् मुखवाम पार्श्वनाभिदक्षपार्श्वेष्व धर्मादीन् प्रादक्षिण्येन न्यसेत् || आत्मशब्देनात्मान्तरात्मज्ञानात्म चतुष्टये मुच्यते || शक्तीः पीठशक्तीः तथाः || ज्ञानार्णवे || इच्छाज्ञाना क्रिया चैव कामिनी कामदायिनी | रतीरतिप्रियानन्दा कर्णिकायाम्मनोन्मनी || वाग्भवं प्रथमं चोक्त्वा परायै तदनन्तरं | अपरायैपरापरायै ह्सौंर्वाच्यमतः परं || सदाशिव महाप्रेत ङेन्तं पद्मासनं ततः | नम इत्येव मंत्रोयं पीठन्यास उदाहृतः || भैरवतंत्रे || पीठपूजां ततः कुर्यात् प्रधाने नवशक्तिभिः | उग्रोग्र चण्डा चामुण्डा प्रचण्डा विकटोत्कटा || संकटा चैव चण्डोग्रा तथा मंगलचण्डिका | इत्यष्ठ दिक्षु मध्य च संपूज्या नवशक्तय इत्युक्तं || पीठशक्तयः पीठमंत्रस्य ताराया इवात्रापि || इति वीरचूडामणिमतं || अत्रन्यास प्रसंसा || कुलप्रकाशे || न्यासं विराजपं प्राहुरासुरं विफलं वुद्धाः | न्यासात् तदात्मको भूत्वा देवो भूत्वा तु तं जपेत् || मेरुतंत्रे || आगमोक्तेन मार्गेन न्यासान्नित्यं करोति यः | देवता भावमाप्नोति मंत्रसिद्धिः प्रजायते || यो न्यास कवचच्छन्नो मंत्रं जपति यः प्रिये | दृष्ट्वा विघ्नाः पलायन्ते सिंहं दृष्ट्वा यथागजाः || अकृत्वा न्यासजातं यो मूढात्मा कुरुते जयं | विघ्नैः स वाध्यते नूनं व्याघ्रैर्मृगशिशुर्यथा || १०३ब्) न्यासानां प्रचुरत्वेन फलानामपि भूरिता | उक्तन्यासो न हित्याज्येस्त्वधिकं कामतश्चरेत् || कुमारीकल्पे || एवं देहमये पीठे चिन्तयेदिष्ठदेवतां || तत्र विशेषः || स्वतंत्रतंत्रे || ततः कामकला ध्यानादावाह्यकालिकां शिवां | कुर्माख्य मुद्रया पुष्पैश्चक्रमध्ये निधापयेत् || आवाह्येति विसर्गामृतं पाययित्वा कुण्डलीरूपं हृदये समानीयेत्यर्थः || चक्र मध्ये हृद्गतेऽष्टदलकमले कर्णिकायामित्यर्थः || कामकलाध्यानं कुलचूडामणौ || मुखं विंदुमदाकारं तदधः कुचयुग्मकं | सर्वविद्यामृतापूर्णं सर्ववाग्विभवप्रदं || सर्वार्थसाधकं सर्वजनरंजनकारंकं | तदधः स परार्धं च सुपरिस्कृतमण्डलं || सर्वदेवादिभूतं च सर्वदेव नमस्कृतं | सर्वाह्लादनसंपूर्णं सर्वरंचनकारकं || सर्वार्थसाधकं सर्वदेववश्य प्रवर्तकं | एतत् कामकलाध्यानं सुगोप्यं साधकोत्तमैः || वामहस्तस्थ तर्जन्या दक्षिणस्य कनिष्ठयो | तथा दक्षिण तर्जन्यां वामाङ्गुष्ठं नियोजयेत् || उन्नतं दक्षिणाङ्गुष्ठं वामस्य मध्यमादिकाः | अंगुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य च || वामस्य पितृतीर्थेन मध्यमानामिका तथा | अधो मुखे च ते कुर्याद् दक्षिणस्य च हस्ततः || एवं विधः सर्वसिद्धिं ददाति करकच्छपः | कुर्यां तु हृदयासंन्नं निमील्य नयन द्वयं || समकाय शिरोग्रीवं कृत्वा स्थिरतरो वुधः | ध्यानं समारभेन्मंत्री सर्वपापप्रनाशनं || मेरुतंत्रे || ध्यानं कुर्यात् ततो मंत्री तत् तत्कल्योक्त वर्त्मना | तदपि द्विविधं प्रोक्तं सगुणं निर्गुणं तथा || आत्मनो हृदयाम्भोजे कर्णिका केशरो ज्वले | प्रफुल्ले सोमसूर्याग्नि मण्डलेन विराजिते || स्वीयेष्ट देवतान्तत्र जपदागमवोधितां || निर्गुणध्यानं यथा तत्रैव || यज्जीव ब्रह्मणोरैक्यं सोहं स्यामिति वेदनं | तदेव निर्गुणं ध्यानमिति ब्रह्मविदो विदुरिति || एवं यद्वदनं तद्धि सगुणं ध्यानमुच्यते || तद् ध्यानं यथा स्वतंत्रतंत्रे || १०४अ) देव्याध्यानमथो वक्ष्ये सर्वदेवोपशोभितं | अंजनाद्रिनिभां देवीं करालवदनां शिवां || मुण्डमाला वलीकीर्णां मुक्तं केशींस्मिताननां | महाकाल हृदंभोज स्थितां पीनपयोधरां || विपरीतरता सक्तां घोरदंष्ट्रां शिवेन वै | नागयज्ञोपवीतां च चंद्रार्धकृतशेखरां || सर्वालंकार युक्तां च मुक्तामणिविभूषितां | मृतहस्त सहस्रैस्तु वद्धकांचींदिगंवरां || शिवाकोटि सहस्रेस्तु योगिनीभिर्विराजितां | रक्तपूर्णमुखाम्भोजां मद्यपान प्रवर्तिकां || वह्न्यर्क शशिनेत्रां च रक्तविस्फुरिताननां | विगतांसुकिशोराभ्यां कृतकर्णावतंसिनीं || फेत्कीरिणी तंत्रे कालितंत्रे च || करालवनां घोरां मुक्तकेशीं चतुर्भुजां | कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषणां || सद्यश्छिन्न शिरः खड्ग वामोर्द्धाधःराम्वुजां | अभयं वरदं चैव दक्षिणाधोर्धपाणिकां || महामेघप्रभां श्यामां तथैव च दिगंवरां | कंठावसक्तमुण्डालींगलद्रुधिरचर्चितां || कर्णावतंसतांनीत शवयुग्मभयानकां | घोरद्रष्ट्रां कारालास्यां पीन्नोन्नतपयोधरां || शवानांकरसंघातैः कृतकांची हसन्मुखीं | सृह्यद्वयगलद्रक्त धाराविस्फुरिताननां || घोररूपां महारौद्रीं श्मशाना लयवासिनीं | दंतुरां दक्षिणव्यापि मुक्तलम्वकचोच्चयां || शवरूप महादेव हृदयोपरिसंस्थितां | शिवाभिर्घोरनादाभिश्चतुर्दिक्षु समन्वितां || महाकालेन च समुपविष्टरतातुरां | मुखप्रसन्ननयनां स्मेरानन सरोरुहां || एवं संचिन्त्यकालीन्तु श्मशानालयवासिनीं || महाकाल कृतस्तवेतु || उर्ध्वं वामे कृपाणं करकमलतले छिन्नमुण्डन्तथाधः सव्येभीतिं वरं चेति हस्त ध्यानमुक्तं || भैरवीतंत्रे त्वन्यथैव ध्यानमुक्तं || करालकरवदनांघोरां मुक्तकेशीं चतुर्भुजां || कालिकां दक्षिणां दिव्यां मुण्डमालां विभूषितां || सद्यः कृतशिरः खङ्गमूर्द्धद्वयकराम्वुजां | अभयं वरदं चै * अधोद्वय कराम्वुजां || महामेघ प्रभां तन्वी तं धैव च दिगम्वरां | १०४ब्) कण्ठावसक्त मुण्डाली गलद्रुधिरचर्चितां || कर्णावतं सतां नीतं शवयुग्मभयानकं | घोरदंष्ट्रां करालां च पीनोन्नतपयोधरां || सर्वालंकारभूषाङ्गां सर्वाशुभविमोचिनीं | शवरूप महादे * हृदयोपरिसंस्थितां || शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्वितां | महाकालेन च समं विपरीतरतातुरां || तस्मादत्र हस्त ध्याने विकल्प एव नत्व पदार्थ व्याख्यानेनैक वाक्यता कल्पनं विनिगमकाभावात् || महाकालसमायुक्तां शवापरिरतातुरामिति मेरुतंत्रे विशेषः || हस्तध्याने || खड्गाभयवरान् छिन्नं मुण्डं च दधतीं करैरिति || कुलचूडामणौ तु || स कुंतपक्षसंयुक्त वाणकर्णविभुषितामित्युक्तं || तत्र वाण ध्यानं कर्णोर्द्धभागे || तातंकस्थाने तु || विगतासु किशोराभ्यां कृत कर्णावतंसिनीं | इति स्वतंत्रोक्तमेव ध्येयं न तु विकल्पः || भैरवतंत्रे || तत्र देवीं स्मरेदाढ्यां कालिकां दक्षिणाभिधां | मुक्तकेशीं महाभीमां करालवदनां शिवां || घोरां चतुर्भुजां दिव्यां मुण्डमालाविभूषितां | सद्यश्छिन्नशिरः खड्गमूर्ध्वाधो वामहस्तेयोः || अभयं वरदं दक्षपाणि युग्मे स्मरेद् वुधः | नवीन नीरद श्यामां भिन्नांजन चयोपमां || गलभूषणमुण्डसृग्गलद्रुधिरचर्चितां | घोरवाशशवद्वन्द्व कर्णभूषणभीषणां || दिगंवरां करालास्यां पीनोन्नत पयोधरां | सद्यश्छिन्नकरव्यूह कृत कांची हसन्मुखीं || सक्वद्वयगलद्रक्त धारा विस्फुरिताननां | घोरोदृभैरवां देवीं श्मशानवासिनीं भजेत् || घोरवाणेति वाणः सायकः कर्णोर्ध्वगतः शवद्वन्द्व सधोगतं ताटङ्कस्थानीयं || वीरचूडामणौ तु || अथ ध्यानं प्रकुर्वीत हृच्चक्रे परमेश्वरीं | करोलवदनां घोरां मुक्तकेशीं चतुर्भुजां || चामुण्डां दक्षिणां दिव्यां मुण्डमालाविभूषितां | सद्यश्छिन्नशिरः खड्गवामोर्ध्वाधः कराम्वुजां || अभयं वरदं चैव दक्षिणोधार्धपाणिकां | १०५अ) महाममेघप्रभां श्यामां दिग्वस्त्रां मुण्डभूषितां || कण्ठावसक्त मुण्डालीगलद्रुधिरचर्चितां | कर्णावतंस पत्राणि शिवयुग्मभयानकां || घोरदंष्ट्रां करालां च पीनोन्नतपयोधरां | शवानांकरसंघातैः कृत कांचीं हसन्मुखीं || सृक्वद्वयगलद्रक्त धारा विस्फुरिताननां | घोररूपां महारौद्रीं श्मशानालयवासिनीं || श्मशानस्था महारुद्रो महाकालो दिगम्वरः | कपालं कर्तृकां वामे शूलं खट्वांग दक्षिणे || भुजंगभूषिताङ्गोपि भस्मास्थि मणिमण्डितः | ज्वलत्पावक मध्यस्थो भस्मशर्या व्यवस्थितः || विपरीत मैथुनां तत्र कालिकां हृदयोपरि | पेयं खाद्यं च चोष्यं चत्तौ कृत्वा च परस्परं || एवं भक्त्या यजेद् देवीं सर्वसिद्धिः प्रजायते || कुमारीतंत्रे || एवन्तु मानसैर्भोगैर्गन्धपुष्पैः स दीपकैः | सुरया वलियुक्तैश्च पूजयेद्वै यथाविधि || ततो वै मानसं जापं कुर्याद्धोमादि भैरव | नमस्कृत्य तथा स्तुत्वा वहिर्यागमथाचरेत् || अथान्तर्यागः || तदुक्तं रुद्रयामले || अथान्तर्यजनं वक्ष्ये दृष्टादृष्ट फलप्रदं | योगिनां येन जायन्ते अधीरामानवाः सदा || गुरोर्ध्यानं प्रकुर्वीत यथापूर्वं विशालधीः | स्नानं वुद्धस्ततः कुर्यात् सच्चिदानन्द सिद्धये || स्नायाच्च विमले तीर्थे पुष्करे हृदयो श्रिते | विन्दुतीर्थे नरः स्नायात् पुनर्जन्म न विद्यते || मूलाधारात् कुण्डलिनीमुत्थाप्य सदाशीव ललाट चन्द्रामृतं स्रावयित्वा विन्दुचक्रप्लावनमनाहत चक्रप्लावनं स्नानमित्यर्थः || अथवा इडा सुषुम्ना शिवतीर्थकेस्मिन् ज्ञानांम्वु पूर्णे वहतः शरीरे || ब्रह्माम्वुभिः स्नाति तयोः सदायः किं तस्य गांगैरपि पुष्करैर्वा || इति स्नानं || शिवशक्त्याः समायोगो यस्मिन् काले प्रजायते | सा सन्ध्या कुलनिष्ठानां समाधिष्ठैः प्रगीयते || इति संध्या || मूलाधारात् सोमसूर्याग्नि रूपिनीं कुण्डलिनीं समुत्थाप्य परविंदुं निर्भिद्यतदुद्भवामृतेन देहदेवतां तर्पयेत् || १०५ब्) तदुक्तं नवरत्नेस्वरे || चन्द्रार्कानलसंघट्टाद्गलितं यत् परामृतं | तेनामृतेन दिव्य न तर्पयेत् परदेवतां || ब्रह्मरंध्रादधोभागे यच्चान्द्रं पात्रमुत्तमं | कलासारेण संपूर्य तर्पयत् तेन खेचरीं || इति तर्पणं || आधारे लिंगनाभौ हृदय सरसिजे तालुमूले ललाटे द्वे पत्रे षोंशारे द्विदश दशदले द्वादशार्धे चतुष्के || वासान्ते वालमध्ये उफकण्ठ सहिते कण्ठमूले स्वरांश्च हक्षौकोदण्ड मध्ये न्यसतु विमलधीर्न्यास संपत्ति सिद्ध्यै || इत्यन्तर्मातृकान्यासः || अथान्तर षडंगन्यासः || गोतमीये तु || सहस्रार मणिनिभे सर्ववर्णविभूषिते | अकथादि त्रिरेखाढ्येह लक्षत्रय भूषिते || तन्मध्ये परविंदुं च सृष्टिस्थिति लयात्मकं | एवं समाहित मना ध्यायेन्न्यासोयमान्तरः || मूलादि ब्रह्मरंध्रान्तं विन्द्वं ध्यायेच्चिदात्मकं | विन्दुस्रुत सुधा सारैस्तर्पयन्मातृकांस्यत् || एकैकं वर्णमुच्चार्य मूलाधारा भ्रुवान्तिकं | नमोन्त इति विन्यासः आन्तरः परिकीर्तितः || गोतमीये || हृद्यमानो हृदात्मायं हृदयस्याच्चिदात्मकः | क्रियते तत्परत्वेन हृन्मंत्रेण ततः परं || सर्वज्ञादि गुणो तुङ्गे संचिद्रूपे परात्मनि | क्रियंया विषया हारः शिरो मंत्रेण देशिकैः || हृच्छिरो रूपचिद्धाम लयता भावना दृढा | क्रियते निज देहस्य शिखामंत्रेण देशिकैः || मंत्रात्मकस्य देहस्य मंत्र वाह्येन तेजसा | सर्वतो वर्मतो वर्म मंत्रेण क्रियतेऽहन्य संवृतिः || यद् ददाति परं ज्ञानं संविद्रूपे परात्मनि | हृदयादि मयं तेजः स्यादे तन्नेत्र संज्ञितं || आध्यात्मिकादि रूपं च साधकस्य विनाशयेत् | अविद्या जालमंत्रं तत्परंधाम समीरितं || अहंन्यसंवृतिः अहिंसनीय लक्षणं || अथ ध्यानं || उदयाकर पद्धभ्यां || शक्तिद्वय पुटान्तस्थ कमलद्वयसंज्ञितं | ज्योतिस्तत्वमयं ध्यायेत् कुलाकुलनियोजनात् || १०६अ) अपरं || शृगाटद्वय मध्यस्थं शक्तिद्वय पुटीकृतं | सदा समरसं ध्येयं ध्यानं तत्कुलयोगिनां || मेरुतंत्रे || किरणस्थं तदग्निस्थं चन्द्रभास्करमध्यगं | महाशून्यें लयं कृत्वा पूर्णः तिष्टति योगिरात् || महाशून्यं ब्रह्मरंध्रं || तथा || निरालम्व पदे शून्ये यत् तेज उपजायते | तद्गद्भमत्यसन्नित्यं ध्यान मेतद्धि योगिनां || गङ्गर्भमित्यं तष्करणस्थां तदत्यसेदिति | यज्जीव ब्रह्माणौरैक्यं सोहं स्यामिति वेदनं || तदेव निर्गुणं ध्यानमिति वेदविदोविदुः || इति ध्यानं || अथार्चनं || अर्चयेद्विविधैः पुष्पैः तत्क्षणात् तन्मयो भवेत् || अन्यत्रापि || न्यासस्तन्मयता वुद्धिः सोहं भावेन पूजयेत् | अमायामनहंकारमरागममदं तथा || अमोहकमदम्भं च अद्वेषाक्षोभकौ ततः | अमात्सर्यमलोभं च दशपुष्पं विदुर्वुधाः || अहिंसा परमं पुष्पं पुष्पमिन्द्रिय निग्रहः | दयापुष्पं क्षमापुष्पं ज्ञानपुष्पं च पंचमं || इत्युक्तैरुत्तमैः पुष्पैः पूजयेत् परदेवतां || इत्यर्चनं || मातृकार्णवे || मालापंचाशिकी प्रोक्ता सूत्रशक्ति शिवात्मकं | ग्रथिता कुण्डली शक्तिः कलान्ते मेरु संस्थितिः || इति जपः || अथ होमः || आत्मांतरात्मपरमात्मेति चतुरस्रं चित्कुण्डमानन्दमेखेल मर्धमात्रात्मक योनि विभूषितं नौसंविभाव्यवासनेन्धन दीप्ते तन्मध्ये चिदग्नौ जुहुयात् || तदुक्तं चन्द्रिकादौ || मूलाधारगते कुण्डे देवताग्नि समुज्वले | धर्माधर्मान्विते त्र्यस्रे मूलमंत्रे पुरःसरं || अहं जुहोमी स्वाहेति प्रत्येकं जुहुयात् सुधीः | अहंताऽसत्यपैशुन्य कामक्रोधादिकं हविः || मन एव श्रुवः प्रोक्तः उन्मनी स्रूगुदीरिता || अन्यच्च तंत्रान्तरादवगंतव्यं || अत्र मूलान्ते || नाभि चैतन्यरूपाग्नौ हविषा मनसा श्रुवा | ज्ञान प्रदीपिते नित्यमक्षवृर्त्तीर्जुहोम्यहं || स्वाहा इति प्रथमाद्धुतिः || मूलान्ते || १०६ब्) धर्माधर्म हविर्दीप्ते आत्माग्नौ मनसा श्रुवा | सुषुम्नावत्मना नित्यमक्षवृर्ती जुहोम्यहं || स्वाहा इति द्वितीयाजुतिः || मूलान्ते || प्रकाशाकाश हस्ताभ्यामवलंव्योन्मनी स्रुच | धर्माधर्म कलास्नेह पूर्णमग्नौ जुहोम्यहं || स्वाहा इति तृतीयाजुतिः || मूलान्ते || अन्तर्निरिन्धन निवन्धन मेधमाने मायान्धकार परिपश्विनि संविदग्नौ | कस्मिंश्चिदद्भुतमरीचि विकाश भूमौ विश्वं जुहोमि वसुधादि च खावसानं || स्वाहा इति चतुर्थाहुतिः || इत्यन्तर्यजनं कृत्वा साक्षाद् ब्रह्ममयो भवेत् | न तस्य पाप पुण्यानि जीवन्मुक्तो भवेद्ध्रुवं || कुमारीकल्पे || एतान्तु मानसैर्द्भोगैर्गन्धपुष्पैः स दीपकैः | सुरयावलि युक्तैश्च पूजयद्वै यथाविधि || ततो वै मानस जपं कूर्याद्धोमादिमेव च | नमस्कृत्य तथास्तुत्वा वहिर्यागमथा चरेत् || इत्यन्तर्यागः || अथ मेरुतंत्रोक्तार्यागः || अथान्तर्यर्जनं वक्ष्ये यथावदवधारयाः | वामनाडी समाकृष्य किंचिदाकुंचयेद्गुदं || रेचयेत् सममार्गेन जिह्वां तालुगतां चरेत् | शक्तिं शिवपदे योज्य किंचिदाकुंचयेदधः || कृत्वैवं तु यजेत् पीठं न्यासमार्गेन मंत्रवित् | तस्मिन् पीठे स्थितामिष्ट देवतां मुर्तिविग्रहां || ध्यात्वा यजेच्चन्दनाद्यैर्मानसैर्भोजनान्तकैः | भोजनावसरेत्वंतर्वैश्वदेवं समाचरेतः || अहंता सत्य पैशून्य कामक्रोधादिकं हविः | मन एव स्रुवं प्रोक्त सुषुम्ना सुगुदीरिता || तदन्ते तन्मयो भूत्वा जपेदष्टोत्तरं शतं | मूलं तत्सर्व संपत्यै देवतायै निवेदयेत् || ततः प्रणम्य च गुरुं पूजाचक्रं समुद्धरेत् || इति श्री आद्यानन्दनविरचितायां कुलमुक्तिकल्लोलिन्यां नवमः पटलः || अथ हिर्यागः || एव विन्यस्तदेहः सन् यंत्रराजं लिखेदित्युक्तत्वात् अस्यामते तु न्यासात् प्रागेव यंत्र निर्माणं एवं विन्यस्तेत्यादिना विरोधाभावः || भैरवतंत्रे || ततो यंत्रं समालिखेत् स्वर्णादि रचिते पात्रे रक्तचन्दन चर्चिते || स्वयंभु कुसुमाक्ते वा रक्ताक्ते वा तथा शुचिः | रक्तचन्दनलेखन्या स्वर्णशलाकया विधा || अत्र वा शब्दो व्यवस्थित विकल्पेन तेन पशुना रक्तचन्दन चर्चिते || १०७अ) वीरेण स्वयंभु कुसुमाक्ते यंत्रं लिखनीयमित्यर्थः || मुण्डमालायां || ताम्रपात्रे कपाले वा श्मशान काष्ठनिर्मिते | शनि भौम दिने वापि शरीरे मृतसम्भवे || स्वर्णरूप्ये तथा लोहे चक्रमर्च्यं विधानतः || अत्रापि कपालादि विधिर्वीरपरः || एवमत्रेपि || स्वतंत्रे तु || ईत्थं विन्यस्य देहे तु चक्रराजं समालिखेत् | स्वर्ण वा राजते ताम्रे पाषाणेष्वष्ट धातुषु इति || रुद्रयामले || सौवर्णे राजते ताम्रे स्फाटिके वैद्रूमे तथा | चक्रे यथोक्त विधिना पूज्या देवी नरोत्तमैः || स्फटिकादौ स्थिर रूपे रेखामपि यंत्रं प्रशस्तं || सारसंग्रहे || ताम्रे द्वादशकं वर्षं स्फटिकादौ तु सर्वदा | तेषा मध्ये स्फोटिकं तु सर्वसिद्धिप्रदं भवेत् || तंत्रांतरे || यावज्जीवं सुवर्णे स्याद्रौप्ये द्वाविंशतिं प्रिये | ताम्रे द्वादशकं वर्षं तदर्धं भूर्जपत्रके || रुद्रयामले || एकतोलं द्वितोलम्वा त्रितोलं वेदतोलकं | स्वेच्छातोलं नरः कृत्वा प्रत्यवायं समुश्नुते || तथा || ताम्रे लक्षगुणं प्रोक्तं रौप्ये कोटिगुणं भवेत् | सौवर्णेऽनन्तफलदंमण्यादौ किम्वदामिते || विद्रुमे रचिते यंत्रे पद्मरागेथ वा प्रिये | इन्द्रनीलेथ वैदूर्य स्फाटिकमरकटेपि वा || धनं पुत्रं तथा दारां यशांसि लभते ध्रुवं || रत्नसागरे || अध्यङ्गुल न हेमत्स्य रजतस्य तथैव च | ताम्रस्य पूर्वसंख्यौ च माणिक्यादौ यथेच्छया || गौरियामले || चातुर्विघ्न्यां हि चक्रस्य प्रस्ताराश्च भवन्तीहि | भूकूर्म पद्मप्रस्तारा मेरुश्चापि तथाविधः || निम्नरेखा समायोगो भूप्रस्तारे मयोदितः | कूर्मपद्मक प्रस्तारे उर्ध्वरेखं मयोदितं || सौत्रामणीतंत्रे || ऋजुरेखे भवेल्लक्ष्मीर्वक्ररेखे दरिद्रता || मेरुतंत्रे || सुवर्ण रचिते पीठे भूपाला वशवर्तिनः | रजतेन कृतं यंत्रमायुरोराग्यकामदं || ताम्रेण रचितं यंत्रं सर्वैश्वर्य प्रदं मतं | यंत्रं तु स्फाटिकं स्वच्छं मनोभिलेषितप्रदं || माणिक्य रचितं यंत्रं राज्यदं भुक्तिमुक्तिदं | कृतं मरकते यंत्रं सर्वशत्रू विनाशनं || लोहत्रयोद्भवं यंत्रं सर्वैश्वर्य पदं मतं | १०७ब्) यंत्रं तु स्फाटिकं स्वच्छं मनोभिलेषितं प्रदं || माणिक्य रचितं यंत्रं राज्यदं भुक्तिमुक्तिदं | कृतं मरकटे यंत्रं सर्वशत्रुविनाशनं || लोहत्रयोद्भवं यंत्रं सर्वसिद्धिकरं मतं | श्रीखंडं शान्तिदं ज्ञयं पौष्टिकं रक्तचंडनं || श्रीपर्णी पीठमुर्दिष्टं पूजार्थधनराज्यदं | वैद्रुमे वहुला संपत् भूर्जपत्रे चतुःपदाः || गंडकी भवपाषाणे भुक्तिमुक्तिरदूरतः | भूमौ सिन्दुर रजसा रचितं सर्वकामदं || सीसकांस्यादिषु कृते संपर्ति संततिं हरेत् | फलकायां पदेभित्तौ स्थापयन्नदाचन || स्थापितं यदि माहेन नाशयेत् तधनकुलं || भैरवतंत्रे || शक्त्याग्नित्यां च षट्कोणं तत्र शक्ति त्रयं लिखेत् | पद्ममष्टदलं भूमि पूश्चतुर्द्वारसंयुतं || इति यंत्रं विनिर्माय स पुष्पं स्थापयेत् पुरः | शक्तिरधोमुखं त्रिकोणं अग्निरूर्द्धमुखं त्रिकोणं तेन षट्कोण मध्ये अधोमुख त्रिकोणत्रयं सिध्यसि || कुमारीकल्पे || आदौ त्रिकोणं विन्यस्य त्रिकोणं तद्वहिर्न्यसेत् | वहिस्त्रिकोणमालिख्य षट्कोणं तु लिखेद्वहिः || मध्ये तु वैन्दवं चक्रं वीजमाया विभूषितं | षट्कोणा तु वहिः पद्मं भूपुरैकेन संयुतं || ज्ञात्वैवं मुक्तिमाप्नोति यंत्र मे तन्न संशयः || स्वतंत्रतंत्रे || एतेन गन्धयोगेन योनिचक्रं समालिखेत् | योनिद्वयं ततः कुर्यात् षट्कोणं च ततः परं || ततश्चाष्टदलं भूमि चतुर्द्वारसमन्वितं | एतत् ते कथितं चक्रं मत्र पुष्पांजलिं किरेत् || कालीतंत्रे || आदौ त्रिकोणं विन्यस्य त्रिकोणं तद्वहिर्न्यसेत् | ततो वै विलिखेन्मंत्री त्रिकोणत्रयं मुत्तमं || ततो वृत्तं समालिख्य लिखेदष्टदलं ततः | वृत्तं विलिख्यविधिवल्लिखेद्भूपुरमेककं || नीलतंत्रेपि || पंचशक्तिं समालिख्य अधोवक्त्रांसुलक्षणां || कुलसंभावे || त्रिकोणं विन्यसेत् पश्चापुनश्चापि त्रिकोणकं | नवकोणं पुनस्तत्र तन्मध्ये स्थापयेच्छिवां || वीरचूडामणौ || शक्तिमाद्यां समालिख्य पुनः शक्तिद्वयं लिखेत् | वह्निशक्तिं समालिख्य वाह्यशक्तिं विभेदयेत् || १०८अ) ग्रंठिभेद क्रमेणैव वह्निविस्तारयेदधः | ग्रन्थिभेद क्रमेणैव शक्त्यौर्धं चापि भेदयेत् || उर्ध्ववह्निविभेदेन अधौ वह्नीं विभेदयेत् | त्रयं शक्ते द्वेयं वह्नेर्दक्षिणायंत्रमुच्यते || अत्र भैरवतंत्रे कुमारीकल्प स्वतंत्रमते षट्कोणमध्ये गताधोमुख त्रिकोण त्रयरूपं || कालीतंत्र नीलतंत्रयोर्मते अधोमुख पंचत्रिकोणात्मकं || कुलसद्भावमते षट्कोण मध्यगत वाला पूजोक्त नवयोनि चक्ररूपं || वीरचूडामणिमते भूर्द्धमूख त्रिकोणद्वयाधोमुख त्रिकोणत्रयरूपं मध्यचक्र मुक्तं भवति || केचितु प्रमाणत्वाप्रमाणत्व परित्याग प्रकल्पनात् || प्रत्युज्जिवनहानात्यामेवं स्यादष्ट दोषतेत्युक्तोष्ट दोषापत्तिभिया वीरचूडामणि भिन्नतंत्राणामधोमुख पंचत्रिकोणरूपार्थपरतैवेत्याहुर्मेरु तंत्रस्वरसात् || आदौ त्रिकोणानि पंच तदग्रे चाष्टपत्रकं | भूपुरं च चतुर्द्वारं पूजायंत्रमुदा हृतमिति || कुमारीकल्पे || एतन्तु विलिखेत् ताम्रे कुण्डगोल विलेपिते | स्वयंभू कुसुमैर्युक्ते कुंकुमा गुरुसेविते || स्वतंत्रे || स्वयंभू कुसुमं कुण्डगोलोत्थं रोचना गुरुः | काश्मीरमृगनाभी च मद्यं च मलयोद्भवं || एषगन्धः समाख्यातः सर्वदा चण्डिका प्रियः | एतेन गन्धयोगेन योनिचक्रं समालिखेत् || यंत्रलिखन मंत्रस्तु मेरुतंत्रे || आः सुरेख वज्ररेखे हूं फट् च वह्निवल्लभा | मंत्रेणानेन विलिखेत् पद्मतत्रं मनोहरं || अत्र च कुलार्णवे || न रात्रा वङ्कयेद्यन्त्रं साधकस्तु कदाचन | प्रमादादङ्किते चैव देवताशापमाप्नुयात् || सिद्धेश्वरीतंत्रे || संस्थाप्य पुरतो देवि शुभे पीठे सुरेश्वरि | दद्यात् पुष्पांजलिन्तत्र मूलमंत्रेण साधकः || श्रीखण्ड रक्त श्रीखण्ड श्रीपर्णी सम्भवे पटे | चक्रं संस्थापयद्देवि नान्यत्र च वरवर्णिनि || मत्स्यसूक्ते || अमुक्त कल्पे मंत्रं तु लिखेद् पद्मं दलाष्टकं | षट्कोणकर्णिकं वृत्तवेदद्वारोपशोभितं || स्वतंत्रे || एवं यंत्रं लिखित्वा तु भूतशुद्धिं समाचरेत् || भूतशुद्धिमिति भूतपदस्य पंचसंख्यार्थक त्वात् मकारपंचकशुद्धिमित्यर्थः || १०८ब्) कुमारीतंत्रे || स्वयंभू पुष्पसंयुक्ते कुंकुमारुण सेविते | शुद्धासने च पशुभिरदृष्टे पुरतो न्यसेत् || दक्षिणामूर्तिसंहिता || गंडकी भव पाषाणे भुक्तिमुक्तिरदूरत इत्युक्तत्वाच्च || अत्र च यंत्र प्रतिमादौ वक्ष्यमान दूषणभियान्यदप्युक्तं मेरुतंत्रे || खंडिते स्फुटिते दग्धे भ्रष्टे मान विवर्जिते | व्यंगेऽनर्हपण्डस्पृष्टे पतिते दुष्टभूमिषु || अन्यमंत्रार्चिते चैव पतित स्पर्शदूषिते | दशस्वेतेषुनाकुर्युः संनिधा नंदि वौकसः || गणेश सूर्यविष्णीश देवीनां पूजनं क्रमात् | दशस्थानानि देवानां पूजार्थं कल्पितानि च || सानिध्यं सर्वदेवानामवश्यं मंत्रंतो भवेत् | मंत्रस्तु जीववत् प्रोक्तः प्रतिमाद्यं शरीरवत् || सिद्धायामपि सामग्र्यां विनामंत्रं फलं न हि | शिवलिंगे मणौ यंत्रे शालिग्रामे घटे रवौ || स्थंडिलेग्नौ मूर्ध्नि हृदिस्थानेश्वेतेषु पूजयेत् | भूमाययव कृता पूजा पुत्रायुर्धननाशिनी || अत्र शालग्रामशिरोर्चनं किमित्यत्राह महाकालिकाया अपि तच्च ह्नांकित शिलायां पूजाप्राशस्त्यात् तत्प्रसंगेन शालिग्रामोत्पत्तिर्लिख्यते तत्रैव || इश्वर उवाच || शालिग्राम समुत्पत्तिं श्रुण्वं तु परमाद्भुतां | गंडक्या प्रोक्तयस्तप्तं भवं तु मम देवता || सर्वे पुत्रोः सुखं दातुं जन्ममिति ते सदा | तस्यास्तु तपसा कृष्णो ब्रह्मविष्णु महेश्वराः || वरं दातुं समुद्युक्ता वव्रे सास्वस्य पुत्रतां | अशक्तास्तं वरं दातुं तदा शप्तास्तयाक्रुधा || प्रतारणं ममसुणः कृतं यस्मात् पुनः पुनः | कीटयोनी प्रपद्यथाः क्रूधास्ते ह्यशपंश्चतान् || अविचार्ये वयं शप्तास्त्वयायत्तपसाद्रुते | तेन कर्म विपाकेन जडा कृष्णानदी भवः || अन्योन्यशायं श्रुत्वेत्थं महान्कोलाहलाहला भवेत् | प्रकंपिता सुराः सा च ब्रह्माणंते व्यतिज्ञियुः || ब्रह्मस्त्रा हि महाशापादन्योन्य पतितात् क्रुधा | इति देव वचः श्रुत्वा ब्रह्मा शंकरमव्रवीत् || शिवः प्रोवाच धातारमहं संहारकारकः | त्वं सृष्टिकर्ता विष्णुपालको वुद्धिमत्तरः || स प्रष्टव्यो यथा सौख्य सुभयोः संभवेदिति | इति माहेश्वरं श्रूत्वा वचनं विष्णुरव्रवीत् || १०९अ) शृणु ब्रह्मन्महादेव शृणु देवि गजानन | मद्गणौ ब्राह्मणौ ग्राहमातंगौशापतोत्र तु || भविष्यतस्तयोर्मोक्षं करिष्यामि कलेवरं | शीर्णं भविष्यति यदा तन्मेदोमज्जसंभवाः || पाषाणांतर्गताः कीटा व्रज्राख्याः प्रभविष्यथा | अद्यैव गंडकी पुण्या गंगातुल्या महानदी || सर्वदेव प्रीतिकरा भुक्तिमुक्ति प्रदायिनी | भवत्वस्यां तु पाषाणा ये तदंतर्गताः सुराः || पार्थिवांशं विना सर्व वज्र कीटाभवंत्विति | अनेनैव तु गंडक्याः पुत्रत्वं भवतामपि || भविष्यति तदंतश्च चिह्नं तद्देवतोद्भवं | विज्ञाय यर्चयिष्यंति सा प्रीता तस्य देवता || न यंत्रस्य न मूर्तेश्च न वृक्षस्यापि पूजनात् | संतोषो जायते तेषां गंडक्य श्मार्चनाद्यथा || इति विष्णुवचः श्रुत्वा ब्रह्मावचनमव्रवीत् | किदृक् पूज्या शिला विष्णो किं चिह्नाकस्य वल्लभा || किं फलं चाधिकारीकः केन मार्गेन तद्वद | इति ब्रह्म वचः श्रुत्वा विष्णुर्वचनमव्रवीत् || स्वीयवर्णा शीलापूज्या ब्राह्मणाद्यैः सुखाप्तये | स्निग्धाणि शिलामंत्र सिद्धिं रूक्षाऽसिद्धिं करोति च || मेचका कीर्तिदाधौतांगारवत्सायशोहराः | पांडुराघापशमनी मलिना पापधीकराः || पीता पुत्रफलं दद्यादारवर्णासुतान् हरेत् | नीलासं दिशते लक्ष्मीं धूमाभारतेमितिं || रोगप्रदा रक्तवर्णा सिंदुराभा महाकलिं | दारिद्रकारिणीवक्रा समासर्वार्थसाधिका || स्थूलानि हंति चैवायुः सूक्ष्मा स्वल्प मृतिं हरेत् || पूजाफलं लांछितयोनिः फलं लांछित योनिः फलं लांछन विना || कपिलाचित्त वैकल्पं नेत्ररोगं च कर्वुरा | भग्नाभंगकरी ज्ञेया वहुचक्राप मानतां || लक्षणांतरहीना वेदेक चक्रावियोगतां | वृहत्मुखी कलतघ्नी वृहच्चक्रा सुतान्हरेत् || संलग्न चक्रात्वसुखं वद्धचक्रा महागदं | भग्नचक्रा तु दारिद्र्यं सर्वनाशं त्वधोमुखी || कुष्टादिकं व्यालमुखी विषमा विविधा पदं | विकृता वर्तनाभिश्च विकारान् कुरुते वहुन् || वंश छेदो गृहस्थानां नारसिंज्याः प्रजायते | रेखावर्ता दुःखदात्री यथा सूक्ष्म्या तथा सुखं || यथा स्लाक्ष्णा तथा * क्ष्मीमद्विभेदानतः शृणु | १०९ब्) लक्ष्मी हरिः स विज्ञेयो यत्र पद्मं स चक्रकं || केवलावनमाला वा गृहस्थानामभीष्टदः | वासुदेवः स विज्ञेयो यद्वारे चक्रयुग्मकं || निरंतरं समं वापि सश्वेतः पापनाशनः | संकर्षणः स विज्ञेयः प्राक्यश्चाच्चक्र युग्मकं || संलग्नं पूर्वभागस्थं महद्रक्तः सुशोभनः | प्रद्युम्नः सूक्ष्मचक्रः स्याच्छिद्रं दीर्घं विचित्रितं || मुखिरांतर्वहुच्छिद्रं पीत इष्टप्रदायकं || अनिरुद्धस्तु नीलाभो वर्तुलश्चाति शोभनः | रेखाद्वयं तु तद्वारि पृष्टं पद्मेन लांछितं || केशवः स तु विज्ञेय एकं वा द्वयमेव वा | प्राग्वायश्चास्त्रचक्रं स्याच्चतुःकोणः स भाग्यकृत् || नारायणः स्यामवर्णो नाभौ चक्रं तथोन्नतं | दीर्घरेखा समायुक्तं दक्षिणे सुषिरं पृथु || हरिरूपा शिलोसास्याद् यस्या ऊर्ध्वं मुखं भवेत् | हरिवदृश्यते द्वारं भुक्तिमुक्ति प्रदा तु सा || परमेष्ठी स विज्ञेयः पद्मचक्रान्वितस्तुयः | विल्वा कृतिश्च शुक्लाभः पृष्ठे च सुखिरं महात् || विष्णुस्तु कृष्णवर्णः स्यात् स्फुले चक्रे सुशोभने | द्वारोपरि तथा रेखा दृश्यते मध्यदेशतः || नरसिंहस्तु कपिलः पृथु चक्रो वृहन्मुखः | त्रयो वा पंच वा तत्र विन्दवो गृहिणां न सत् || कपिलो नरसिंहस्तु गुडलाक्षानिभो भवेत् | स्थुलचक्र द्वयं मध्ये द्वारे रेखा सुशोभना || महानृसिंहो विज्ञेयः पूर्वोक्तैर्लक्षणैर्युतः | रेखाश्च केसराकारामुखं दीर्घं भयानकं || लक्ष्मी नृसिंहो विज्ञेयश्चतुश्चक्रस्त्रिविंदुकः | पूर्वोक्त लक्षणै युक्तो वनमाला विराजितः || वाराहोसौ शक्तिलिंगे चक्रे च विषमे तथा | इन्द्रनीलनिभः स्फुलस्त्रिरेखा लांछितो भवेत् || पृथ्वी वाराहनाम्नी साया वराहा कृतिः शिला | आभुग्ना चक्ररेखैका गत राज्य प्रदापिका || मत्स्याख्या सा शिला ज्ञेया विंदुत्रयविभूषिता | कांस्या भावा स्वर्णनिभा दीर्घा सा भुक्तिमुक्तिदा || कूर्माख्या तु शिलापृष्टे वर्तुला चोन्नता भवेत् | हरितं वर्णमाधत्ते कौस्तुभेन च चिह्निता || शिला कूर्मः स विज्ञेयः कूर्माकारस्तु यो भवेत् | चक्रांकिता तथा वृत्ता पूजिता सा पदप्रदा || ११०अ) हयग्रीर्वो कुशाकारा रेखाचक्रसमीपगा | वहुविंदुसमायुक्तं पृष्ठं नीरदनीरकं || ज्ञेयः सौम्य हयग्रीवो हयग्रीवा समाशिला | दीर्घया रेखया युक्ता रेखाया युक्तारेखा वातादृशी भवेत् || हयशीर्षः स विज्ञेयो मुखं यस्य हयाकृति | पद्माकृतिर्भवेद्वापि साक्षमालं शिरस्तथा || वैकुंठस्ति लवर्णाभश्चक्रमेकं तथा ध्वजं | हारोपरि तथा रेखा पूजाकारा सुशोभना || श्रीधरस्तु तथा देवश्चिह्नितो वनमालया | कदंव कुसुमाकारो रेखा पंचकभूषितः || वामनः स तु विज्ञेया योतिह्न स्वश्च वर्तुलः | अतसी कुसुमप्रख्यो विंदुनो परिशोभितः || दधिवामननामा तु उर्धाधश्चक्र संयुतः | महाद्युति रति ह्रस्वः सुभिक्षक्षेमदायकः || सुदर्शनस्तथादेव श्यामवर्णो महाद्युतिः | वामपार्श्वे गदाचक्रे रेखैकैव तु दक्षिणा || सहस्रार्जुन नामासौ नानारेखामयी भवेत् | चक्राकारायत्रयंक्तिः स नष्ट द्रव्यदायकः || स्थूलदामोदरो यस्य मध्ये चक्रं प्रतिष्ठितं | दुर्वाभं द्वारिसंकीर्णः पीतारेखा धनप्रदः || रांधादामोदरो ज्ञेय ऊर्ध्वाधश्चक्रमान्विलं | नाति दीर्घमुखं मध्ये लंवारेखा स भोगदः || दामोदरः स विज्ञेयोयश्चक्र द्वय लांछितः | सूक्ष्मं भवेच्च विवरं पूजितः सुखदः सदा || अनंतो वहुवर्णः स्यान्नागभोगेन चिह्नितः | अनेक चक्र संभिन्नः सर्वकामफलप्रदः || पुरुषोत्तम नामासौ यस्य दिक्षु विदिक्षु च | ऊर्ध्वान्यास्यानि दृश्यंते पुरुषार्थ फलप्रदः || योगेश्वरः स विज्ञेया लिंगं यस्य शिरोगतं | ब्रह्महत्यादि पापानां नाशको योगसिद्धिदः || पद्मानाभस्तथा रक्तः पंकज छत्र संयुतः | तुलस्या पूजितो नित्यं दरिद्रस्त्वीश्वरो भवेत् || रस्मिज्वाला हिरण्यास्यश्चन्द्राभः स्फटिकोपमः | अथवा जायतेनास्वर्णरेखाभिरन्वित || गरुडः स तु विज्ञेयो मध्ये पक्षद्वयान्विता | सूदीर्घा दृश्यते रेखा स सर्पविषनाशकः || जनार्दनः स विज्ञेयः केवलानि स्फुतानि च | यस्योदरे तु चत्वारि चक्राणि पितृ तृप्तिकृत् || ११०ब्) लक्ष्मीनारायणो ज्ञेयो वनमालांकितोदरः | सुक्ष्मद्वारश्चतुश्चक्रो भुक्तिमुक्ति प्रदायकः || हृषीकेशः स विज्ञेयः श्यामवर्णो महाद्युतिः | वामपार्श्वे चक्रयुग्ममेकारेखा तु दक्षिणे || कृष्णो ज्ञेयः शिला कृष्णा स चक्रा वा विचक्रिका | प्रदक्षिणावर्त कृत वनमाला विभूषिता || चतुर्मुर्खः स विज्ञेयो द्वे चक्रे मध्ये देशतः | चतस्रः पार्श्वमारेखा वेदशास्त्रागमप्रदः || विष्णोर्भेदा ईमे प्रोक्ता अत्रैवा वाहयेद्धरिं | विसर्जयेच्च पूजान्ते प्रतिष्ठां नात्र कारयेत् || शालिग्रामाः समापुज्याः समेषु द्वितयं न हि | असमानैव पुज्यन्ते एकः पुज्यतमो मतः || शिला द्वादशयो नित्यं भक्त्या संपूजयन्नरः | दिने दिने धर्मवृद्धिः पापनाशः प्रजायते || शालग्राम शतं यस्तु भक्त्या संपूजयन्नरः | शतं दिनानि यस्तेन कृतकामः स सिध्यति || शालिग्रामामत्स्वरूपाः शृणु तेषां तु लक्षणं | यत् सेवनाद्भवेदिष्टमिहलोके पत्र च || शिवनाभः स विज्ञेयः स लिंगाकारतांगतः | स्वयंभु लिंगाकृतिमान्मंत्रसिद्धिविधायकः || त्रैयंवकः स विज्ञेयो यो विन्दुत्रयभूषितः | शूलाकारा तथा रेखा गत पुंस्त्वप्रदायकः || धूर्जटिः स तु विज्ञेयो यत्र रेखा जटा समाः | तिस्रो यत्र प्रदृश्यन्ते सार्चितो ज्ञानदायकः || शम्भुस्तु पाण्डरो ज्ञेयो विन्दुः कृष्णस्तु मस्तके | विल्वपुमानस्तेजस्वी पूजितस्त्रीवशंकरः || इश्वरः मतु विज्ञेयो रक्तो विन्दुस्तु मस्तके | एकचक्रो द्विचक्रो वा भ्यन्तरेधश्च गोः पदं || मृत्युंजयः स विज्ञेयः स्वल्प मृत्यु विनाशकः | अधश्चक्रं तदूर्ध्वं च श्वेतारेखा त्रिशूलमान् || चन्द्रशेषर नामा सा वर्धचन्द्राकृतिस्तुके | मध्ये चक्रद्वयं तस्य सवनाद्रोगनाशनं || रुद्रः स एव विज्ञेयः कपिलो मूर्ध्नि रुक्षितः | चक्रमध्ये भवेद्रेखामरयेद्रिपुसंतन्तिं || शालिग्रामानथो वक्ष्ये शक्तिकीटसमुद्भवान् | येषां पूजनतो देवी भवानी सुप्रसिःदति || श्रीविद्यासातले चक्रमूर्ध्वं छत्रं प्रदृश्यते | वाह्य घटांकितो मूर्धा स्निग्धा श्यामाखिलेष्टदा || महाकाली तु सा ज्ञेया यानि चिह्नसमन्विता | १११अ) रुक्षास्थुलाचिपिट्टा च वाममार्गेण पूजयेत् || वाराही तु वराहास्य चिह्नितांतः समन्विता | स्नापिता वलिरक्तैः सायदर्थं भक्षयेच्चतं || द्विछिद्राद्याः सर्वशिलास्त्रिकोणेनांकिताश्च याः | यदा युधा कृतिश्चोर्द्धं तान्देवीं तत्र निर्दिशेत् || देवी शिला स चक्राया दक्षमार्गेणतां यजेत् | सार्चिता वाममार्गेण लोकद्वयसुखावहा || या चक्ररहिता देवी शिलातां वामतोर्चयेत् | स्पर्शः कार्यो न विप्राणां रंगं वां क्षोभकृद् भवेत् || सौरीशिला दुर्लभैव प्रायः कलियुगे सुराः | स्फटिकाभा भवेत् सातु घर्मे मुक्ता विमुंचति || तुलस्योर्ध्व स्थिते वह्निं साभिषिक्ता प्रवर्षणं | कुरुते शपथो मिथ्या कृतोस्यां कुष्ठकारकः || गणेशः स तु विज्ञेयो यः स्वशुण्डांकितो भवेत् | शुंडाकाराशिला वापि गजानन समापि वा || यस्या मध्यमहच्चक्रं सूक्ष्मचक्रं च यद्दिशि | सा शिला तस्य दिक् यस्य सेव्या तद्दिशि राज्यदा || अर्धचन्द्राकृतिर्यत्र दृश्यते शकलद्वयं || सा तु चन्द्रशिला त्र्यस्र युक्ता भौमसिलामता | वाणाकारेण चिह्नेन ज्ञेया वुधशिलासुरा || दीर्घण चतुरस्रेण युक्ता गुरुशिलामता | पंचकोणा तु शुक्रस्य चापाकाराशनेर्मता || शूर्याकारा तु रोहोः स्यात् कतोस्तु ध्वजरूपिणी | प्राप्ते कलियुगे घोरे वामाचारे विमिश्रितोः || भक्षाभक्षविचारादि रहित म्रेच्छसंकुले | कामक्रोधादिभिर्व्याप्ते जनस्त्रीभिर्विनिर्जिते || क्वशिष्यः क्वगुरुर्मंत्रः क्वजपः क्व च सिद्धयः | अयुताब्दे कलेर्याते त्यजेद्विष्णुः शिलां महिं || तदर्धां जाह्नवी तोयं तदर्धाद्देवता शिलाः | जपयेवं कलौ श्रेयान् शालिग्रामार्चनं यथा || यंत्र इति || कुलार्णवे || येत्रेशा पूजिता देवी सहसैव प्रसीदतिः | कामक्रोधादि दोषोत्थ सर्वदुःख नियंत्रणात् || यंत्रमित्याहुते तस्मिन् रेतस्मिन् देः प्रीणाति तत्वतः || शरीरमिव जीवस्य स्नेहवत् प्रिये || सर्वेषामपि देवानां तथा यंत्रं प्रतिष्ठितं | तस्माद् यंत्रं लिखित्वाथ ध्यात्वा वा सा वृत्तिं शिवं || ज्ञात्वा गुरुमुखा पूर्वं पूजयाद्विधिना प्रिये || १११ब्) अथात्रैव यंत्रसंस्कारः || तत्रादौ दक्षिणोपचारविधिनासंस्कारः | लग्ने शुभग्रहोपेतेनुकूलगुणशालिनि || प्रतिष्ठां कारयेदषां स्वक्ष तिथ्यादिके क्षणे | क्षौद्राज्यदुग्धैः प्रथमं नालिकेलांभासा ततः || अभिषिंच्याथ तोयेन क्वथिते नाक्षरौषधैः | आवाज्याभ्यर्च्य तल्लग्ने चक्रे संस्थाप्य पूजयेत् || गंधपुष्पैर्नवैर्धूपैर्दीपैर्नैवेद्यं दर्पणैः || त्रिरात्रं पूजयेद् देवीं त्रिसंध्यं चेति || अथ वामिनां यंत्र संस्कारविधिः || तदुक्तं तत्रैव || तथानिशि || मकारैः पंचभिर्युक्तं चरेर्पूर्वामिनोर्चनं | निशायां शक्तिपूजां च दूतीयागं च कौलिकाः || एव दिने त्रयं कृत्वा ततो नित्यत्र्यक्रमं भजेत् | एवं देवी प्रतिष्ठायां क्रमः सान्निध्यकारकः || स्त्री शूद्राणां वामिणां च कौलिकानामयं विधिः || यंत्रयोगोपनमप्युच्यते || महापापं न कुर्वीत पशुवद्धदमार्गगाः | अग्निः शुचिर्व्रततमः शुचिर्विप्रः श्रुतीरितं || अज्ञानजैश्च लघुभिः संध्यावंदननाशितैः | पातकैस्तेन लिप्यन्ते तस्मात् ते पशवः स्मृताः || वामेनोपाशितं यंत्रं तेषां दृष्टिपथं मतं | तद् देवता क्षोभकरं विक्षिप्तः साधको भवेत् || दक्षिणोपासित यंत्रं सूर्याग्निसमतेजसं | पापिनादृष्टि दहनमूलुकानां यथा रविः || यथा तृभिदिनकरोदये सर्वनिरीक्षते | दक्ष संस्थापिते यंत्रं तथा पुण्यात्मा नामतं || सर्वेषामेव भूतानां तुल्य दुःखसुखावुवौ | वामदक्षिणहस्तो च तद्वन्मार्गौ दिवौकसां || प्राधान्यन्तुषुरन्ध्रीनां वामांगे दक्षिणांगके | पुमां तथैव मार्गोपि काययाकार्यविभेदतः || आयुवेदौदितैर्मंत्रै विप्रोग्न्युत्तारणं चरेत् | धातुनिर्मित यत्रणां मूर्तीणां च विशेषतः || अग्निः सप्तिं वाजमिति सप्तर्चां सप्तिरुच्यते | मुनिस्त्रिष्टुप्छंदमुक्तं देवताग्निः प्रकीर्तितः || अग्निशब्देन रहितं सुक्त मेतच्छतं पथन् | अभिषिंचेच्छुद्धतोयैस्ततः संपूर्णसुक्तकैः || अभ्यचिंचेच्छतावृत्याऽग्न्युत्तारणमिदं स्मृतं | क्षालयेद्धातुजं यंत्रं मादायाम्नेन नित्यशः || ११२अ) पिष्टातकाद्यैः काष्टस्य मण्यादेः केवलं जलात् | एवं प्राक्षालितं यंत्रं मण्डपे चंदनादिना || पुरतः स्थापयेत् पीठे दद्यात् पुष्पांजलिं ततः || मूलमंत्रेणाथ वामे || अथ सुवर्णादि सिंहासने पुरतो यंत्रं संस्थाप्य पुष्पांजलिनाछाद्य अर्घस्थापनं कुर्यात् || स्वस्य देवाग्रतश्चरेत् || वृत्तेन वेष्टितं सम्यक् त्रिकोणं चंदनाभसा | तद्वहिश्चतुरस्रं च विदध्यान्मत्स्यमुद्रया || संपूज्यगेधेर्देवार्घ्यं मंडलाय नमोणुना | अंगानि चतुग्न्यादि कोणेषु पुरतस्तथा || दिक्षु चास्त्रं समभ्यर्च्य शंखाधारं प्रविन्यसेत् | आधारेण विनाभंशो न तृप्यन्ति च मातरः || तस्माद्विधिवदाधारं त्रिपदं वा चतुष्पदं | पद्माभं वा त्रिकोणं वा योन्याभं धातुजंतु तत् || मूलांते वामुकाधार पात्रं संस्थापयामि च | उक्त्वा शंखादिकाधारं मंडले स्थापयेदथ || मंरं धर्म प्रदे त्युक्त्वा वदेद्दशकलात्मले | ङेन्ते वह्नेर्मंडलं च देवनाम च कीर्तयेत् || ततोर्घ पात्राधाराय नमः प्रोक्त्वा प्रपूजयेत् | वह्नेर्दशः कलाः पूज्यास्तत्र प्रोक्तः प्रदक्षिणं || अस्त्रमंत्रेण च ततः || कनकादि विनिर्मितं || अर्घ्यादि पात्रमथ वाणं खमंत्राणुजलैः | प्रक्षाल्यामुक देवार्घ पात्रं प्रतिष्ठापयामि || एवमुक्त्वा तदाधारे संस्थाप्यैवं वदेत् पुनः | अर्थप्रद द्वादशेति कलात्मने वदेत् ततः || सूर्यमण्डलमुचाङेन्तं देवस्य नाम तु | अर्घपात्राय च नमो मनुनानेन पूजयेत् || तत्पात्रमथ तत्रैव भावयेद् भूमि मण्डलं | षट्कोणं तत्र चांगानि पूजयेत् पूर्ववत् ततः || कला द्वादश सूर्यस्य प्रोक्तः पात्रे प्रदक्षिणं | ततः सुधामयैस्तोयै मूलान्ते मातृकां पठन् || विलोमां पूरयेत् तस्मिन् पूजको मनुनामुना | ङेंसंकामप्रदेत्युक्त्वा षोडशेति कलात्मने || नमः पंचदशोणोयं मंत्रः शंखप्रपूरणे | गंधपुर्याक्षतयवकुशाग्र तिलसर्षपान् || दूर्वा इत्यर्घ पात्रस्य प्रोक्तं द्रव्याष्टकं सुराः | दत्तोयं गंधपुष्पाद्यैः पूजयित्वा समर्चयेत् || कला षोडशकं चाद्रं पश्चात् सर्वकलासु च | अत्रार्घपात्रेण प्रतिष्ठामपि कृत्वा पुष्पादिकं दत्वा गालिनीमुद्राधेनुमुद्रामृतीकरणमुद्रां प्रदर्श्य || ११२ब्) इष्टदेवतां तत्र ध्यात्वा षडंगानि पुज्यदिगवन्धनं कृत्वा शंखमुद्राप्रदर्श्य मत्स्यमुद्रयाच्छाद्य मूलमष्टवारं जपेदित्यर्घ स्थापनं अर्घे प्राणप्रतिष्ठां कुर्वीत पूजान्ते साधकस्ततः || प्राग्वत् तीर्थं समावाह्य मूलमंत्रेण तत्रः | संयोज्य नेत्रमंत्रेण पुष्पं न्यस्य शिखाणुना || प्रदर्श्य गालिनीं मुद्रां मुद्रया धेनुसंज्ञया | अमृतीकृत्यविधिवत् सुधावीजेन साधकः || ध्यात्वेष्टदेवतां तत्र सकलीकरणं चेत् || अंगन्यासेन चास्त्रेणेत्यादि || अर्स्यात्तरे पाद्यमाचमनीय मधुपर्कादि पात्राणि स्थापयेत् || इदं तु दक्षिणमार्गोपयोगि || विशेषार्घमग्रे वक्षे ते वामिनां || मंत्रशुद्धिस्तु मेरुतंत्रे च || ग्रंथित्वा मातृकावर्णैर्मूलमंत्राक्षराणि च | क्रमोत् क्रमात् त्रिरावृत्या मंत्रशुद्धिंरियमता || अथ द्रव्यशुद्धिः || कुलार्णवे मेरुतंत्रे च || पूजा द्रव्याणि संप्रोक्ष्य मूलास्त्राद्भिर्विधानतः | दर्शयेद्धेनु मुद्रां च द्रव्यशुद्धिः प्रकीर्तिता || समाचारे || तक्रं क्षीरं गुडं क्षौद्रं दध्याज्यतिलशर्करा | तैलं मज्जारनालं च द्रव्यं दशविथ स्मृतं || मेरुतंत्रे || पीठे देवं प्रतिष्ठाप्य सकलीकृत्य प्रोक्षेयेत् | अर्घ्योदकेन मूलेन त्रिर्दीपनीं प्रदर्शयेत् || देवशुद्धिं विधायेत्थं पश्चाज्जगनमाचरेदिति देवशुद्धिः || दिपनी अग्रे वाच्या || अथ विशेष शुद्धिः || कुलद्रव्यशक्ति शुद्धी अग्रे वाच्ये || ओं प्रतद्विष्णुस्तवते वीर्येण नगो न भीमः कुचरोगविष्टाः || यस्योरुषु त्रिषु विक्रमणेषु विक्षियंति भुवना विश्वा इति मंत्रेण मांसं शोधयेत् || प्रतविष्णुरिति मंत्रं मांसशुद्धौ नियोजयेदिति वचनात् || ओं त्र्यंम्वकं यजामहे सुगन्धिं पुष्टिवर्धनं उर्वारुकमिव वन्धनान् मृत्योर्मुक्षीय मामृतान् || इति मंत्रेण मत्स्यं शोधयेत् || त्र्यम्वकस्य तु मंत्रेणमत्स्यशुद्धिं समाचरेदिति वचनात् || ओं तद्विक्ष्योः परमं पदं सदा पश्यन्ति सूरयः दिवी च चक्षुराततं तद्विप्रासो वियश्यवोजागृवांसः सम्विन्धत विष्णोर्यत् परमं पदं || आभ्यां मंत्राभ्यां मुद्रां शोधयेत् || तद्विष्णोरिति मंत्रेण तद्विप्रासो मुनो तथा | ११३अ) मुद्रान्तु शोधयेन्मंत्री देवता प्रीतिकारकामिति वचनात् || ओं विष्णुर्योनिं कल्पयन्तत्वष्टा रूपाणिपिशतु || आसिंच तु प्रजापतिर्द्धातागर्भन्दधातु वै | गर्भन्धे हिसिनीवाली गर्भन्धे हि सरस्वति || गर्भन्धेत्क्ष्यश्चिनौ देवा वाधन्तां पुष्करस्रजौ | आभ्यां मंत्राभ्यां कुण्डगोलाथौ शोधयत् || विष्णर्योनिममुं मंत्रं गर्भन्धेहीति वै तथा | कुण्डलात्थयाः शुद्धौ साधको विनियोजयेदिति वचनात् || तंत्रे || तारं कूर्चास्त्र मुहृत्य शिवादित्रयविन्दुयुक् | वह्निजातार माया श्रीवीजं स्वरतप्रिये || तारमायारमास्त्रं च वह्निजायां वर्तुलं | ततो मृतोद्भवायेति अमृतवर्षिणि तत्परं || प्रिये देवि पदं युक्तं शापम्मोचय युग्मकं | अमृतं चाश्राययद्वंद्वममृतं कुरु युग्मकं || वह्निजायान्त मंत्रेण शुक्तशुद्धिं समाचरेत् || मेरुतंत्रे || मांसं तु त्रिविधं प्रोक्तं खभूजल च नोद्भवं | यथा संभवमेष्केकं तर्पणाय प्रयोजयेत् || तथा च रुद्रयामलं || मांसन्तु त्रिविधं प्रोक्तं जलखेचरभूचरं | गोनरेभाश्व महिष वराहाजमृगोद्भवं || महामांसाष्टकं प्रोक्तं देवता प्रीतिकारकं || कुलार्णवे || मत्स्यं च त्रिविधं प्रोक्तमुत्तमाधममध्यमं | उत्तमं त्रिविधं देवि शालपाठी न रोहिताः || प्रवीणं कंठकैर्हीन तैलाक्तं स्वादुसंयुतं | देव्याः प्रीतिकर चैव मध्यमं तदुदाहृतं || क्षुद्राणि तानि सर्वाणि अधमान्याहुरुत्तमाः || ज्ञानार्णवे || व्रैहेयं मण्डलाकारं चन्द्रविम्व निभं शुभं | चारु पंकमनोहारि शर्कराद्यैः प्रपूरितं || पूजाकाले च देवीमां मुद्रैषा परिकीर्तिता || तंत्रांतरे तु || मुद्रा तु देवी संप्रोक्ता भर्जितं चणकादिकमित्युक्तं || तृष्टधान्यादिकं यद्यच्चर्वणीयं प्रवर्चयेत् | तस्य संज्ञा कृता मुद्रा महामोदप्रवर्धिनी || मुण्डमालातंत्रे || सधवारे तु संभूतं कुण्डमुत्तम भूमिदं | विधवारति संभूतं गोलं सिद्धिप्रदं शुचि || कुलार्णवे || कुलद्रव्यैर्विनो कुर्याज्जपपूजां तथा व्रतं | निःफलं तद् भवेद् देवि भस्मना च वहुतं यथा || अथतद्रव्या भावे अनकल्पः || तथा च कुलार्णवे || द्रव्याभावे तु वटकं || जले मंतोद्यु तर्पयेत् || ११३ब्) गुडमिश्रेण तक्रेण तच्च वा मधुभाजनं | सौवीरेनाथ वा कुर्यादेतत्कर्म न लोपयेत् || मेरुतंत्रे || मद्यं मांसं च विजयामष्टगंधैर्विमिश्रयेत् | संमर्घवटिकाः प्राग्वजले देयास्ततोर्चयेत् || धत्तूरविजं विजयाजाती पत्रं फलं तथा | अकारकर भो वत्स नागं खाखसवत्कलं || मद्यं च भोगवृद्धांशं मर्दयित्वावतीकृतं | अयं विंदुश्चाश्वगंधाभिधानो देवता प्रियः || गुडमिश्रेण तक्रेण तथा च मधुभाजिना | सौवीरेणाथ वा कुर्यादेतत्कर्मनरोपयेत् || प्रमादाद्य विलूप्येत देवता शापमाप्नुयात् | विजया वा द्रवैर्वाथा भावे तर्पणमाचरेत् || मधुभाजनं कुर्यादित्यनुषंगः || सौवीरंकांजिकं || कुमारीतंत्रे || नालिकेलोदकं कास्ये ताम्रे वा विसृजेन्मधु | गव्यं च माम्रपात्रस्थं सुरातुल्यं घृतम्विना || अथापरानुकल्पो भावचूडामणौ || यदि विप्रो भवेद् भक्तः कुलपूजापरायणः | न दानेन विधानेन कुर्यात् कुलसमुद्भवं || अपरापुष्पगर्भे तु कुलस्थानं मनोहरं | हयारि कुसुमे देवः स्वयमस्ति सदाशिवः || तन्मध्ये लघुमादाय पुष्पमध्ये तु चंदनं | रक्तं वा कुसुमन्दत्वान्मानं शिवात्मकं || योजयेच्छिव शक्त्योस्तु ऐक्यं संभावन् धिया | क्षणं विचिन्त्य तत्रैव संपूज्य परमेश्वरीं || जप्त्वा तदैव कुण्डाख्यं द्रव्यं परमदुर्लभं || लघु कृष्णा गुरु कृष्णा गुरुणी शीघ्रं च क्लीं व गुरौ त्रिष्विति कोषात् || पुष्पमध्ये करवीर पुष्पमध्ये चन्दनं श्वेतचन्दनं || समयाचारे || कुंडगोरोद्भवं द्रव्यं अभावे शृणु सुन्दरि | कथं स्नान प्रकुर्या च देवतातोष हेतवे || यस्य कस्यतरोः पुष्पं गृहीत्वाशुप्रयत्नतः | तेषां मध्यद्वयं ग्राह्यं हस्ताभ्यां मनसा तदा || उभयं पंचमं तत्र कुर्वित विधिवन्नरः || रक्तचंदनघ्रष्टेन जले चैव क्षिपेत् तदा | तज्जलेन प्रकुर्वीत देवतास्नानमुत्तमं || वांछितं फलमाप्नोति सत्यं सत्यं वरानने || भैरवतंत्रे || स्वयंभु कुसुमाभाव रक्तचंदनकं क्षिपेत् || इदं सर्वं वीरमात्र परमिति वोध्यं || अथासाधनं || तत् तू पूर्वमप्युक्तं तत्साधारण परं अधुनान्यथोच्यते कुलचूडामणौ || ११४अ) नानाविधानि पुष्पाणि गन्धानि विविधानि च | कर्पुरं जाति धूपादि वासितं पटवासितं || ताम्वूलं देय द्रव्यं च धूपदीपादिक चयेत् | सर्वारंकारभूषाभिर्भूषितः कौलिकेश्वरः || मूलमंत्र जप्ततोयैः प्रोक्षितं स्थापयेत् ततः | सर्वं स्वदक्षिणे स्थाप्यं वामे चार्घ्यन्निवेशयेत् || पश्चिमे देवतायाश्च कुलद्रव्याणि धारयेत् || कालिकापुराणे || मदिरां पृष्ठतो दद्यादन्यत् पानं तु पृष्ठतः || तुकारो अप्यर्थः || तथा || प्रक्षालनाय करयोः पश्चात् पात्रं निधापयेत् | घृतादि ज्वलितान् दीपान् स्थापयेत् परितः शुभान् || अथ कलश स्थापनं || तल्लक्षणमाह तंत्रांतरे || कलां कलां गृहीत्वा च देवानां विश्वकर्मणा | निर्मितोयं सुरैर्यस्मा कलशैस्तेन उच्यते || पादपद्माचार्यस्तु || कलाष्परित इति कलशः || कलशमानमाह || तदुक्तं स्वतंत्रैव || पंचाशदङ्गुलव्याप्ते उत्छ्रायो द्वादशाङ्गुलः | कलशानां प्रमाणन्तु मुखमष्टागुलन्तथा || सौवर्णं राजतं वापि मार्तिक्यं वा यथोदिनः | क्षालयेदस्त्रमंत्रेण कुंभं संम्यक्तुरेश्वरि || स्थापयेत् कलशाधारं कुंभं सुगंधिवासितं || आधारश्च उक्तः || तथा || आधारेण विनाभ्रंशो न हि तुष्यंति देवताः | तस्माद् विधिवदाधारं कल्पयेत् कुलनायिके || तथा कलशमुपक्रम्यवेष्ठितं रक्तवस्त्रेण रक्तमाल्पनभूषितं || वामभागे महेशानि मंण्डले चतुरस्रके | तत्र संस्थापयद्भद्र देवी वुद्ध्या वरानने || मण्डले कलशे द्रव्यवंन्ह्यर्क शशिमण्डलं || पूजयेदिति शेषः || चतुरस्रक ईति यथोक्त मण्डलोपलक्षकं || तंत्रे || योनि द्वयं हेति मंत्रेण रक्तमाल्यविभूषितं | स्थापयेत् कलशं तत्र सौवर्णादि विभेदतः || कलाद्वादशसंयुक्तं भानुविम्वंप्यजेदिह | शुद्धेन हेतुना मंत्रि मूलमंत्रेण पूरयेत् || कलाषोडशसंष्याप्तमिन्दुविम्वंप्यजेदिह | रक्षयेदस्त्रमंत्रेण तनुत्रेणावगुण्ठयेत् || वीक्षयेन् मूलमंत्रेण तैनैवाप्युत्युक्ष्मसाधकः | गन्धादिना समत्यर्च्य भावयेद् देवतात्मकं || तारभागैस्त्रिभिर्मंत्री विम्वत्रितयमर्चयेत् | ११४ब्) तारभागैरिति अकार उकार मकारैरित्यर्थः || अथ प्रयोगः || स्ववामे षट्कोणन्तर्गत त्रिकोणविन्दुं वाह्यवृत्त चतुरस्रं कृत्वा सामान्यार्घ्योदकेण संप्रोक्ष्य तत्राधारशक्त्यादिभ्यो नम इति पूजयेत् || ततो नम इत्याधारं प्रक्षाल्य मण्डलोपरिसंस्थाप्यमं वह्निमण्डलाय दशकलात्मने नम इति संपूज्य फडिति प्रक्षाल्य आधार रक्त वस्त्र रक्त माल्यादिना देवी वुध्या संस्थाप्य अं अर्कमंडलाय द्वादशकलात्मने नमः || इति संपूज्य || विलोम मातृकां मूलमंत्रं च पठन् कारणेन कलशमापूर्य द्रव्ये ओं सोममण्डलाय षोडशकलात्मने नमः || इति पूजयेत् || ततः फडिति संरक्ष्यहूमित्यवगुण्ठने मुद्रयावगुंठ्य मूलमंत्रेण सम्वीक्ष्य नम इत्यत्युक्ष्य मूलेन त्रिर्गन्ध्यमादाय कलशे पुष्पं दत्वा शापमाचनं कुर्यात् || एतत् प्रकरणवशात् सुराकरणमपि प्रचक्ष्यते || मेरुतंत्रे || अंभसां द्वादशप्रस्थं चतुःप्रस्थं च तंडुलाः | प्रस्थार्धन्तंडुलं पर्त्क्वा तावन्मात्रास्तदंकुरान् || शीतादि रहिते स्थाने दिवसद्वयमास्य तत् | पश्चादग्नौ समारोप्य जंवाल शदृशं पचेत् || पादप्रस्थं तंडुलांश्च तन्मात्रानंकुरा क्षिपेत् | पुनर्दिन द्वयं स्थाप्य पुनरेवं प्रकल्पयेत् || अर्धं तस्य समादाय तंदुलेषु विनिःक्षिपेत् | पुनरेवं त्रिधा कुर्यात् तांडूली सा सुरास्मृता || अयमेव भवेत् सोमः सोमयाग फलप्रदः | दूतीयागो भवेद् यागः सोमपानं तु तत्स्मृतं || यो गतिः सोमयज्ञेन कौलिकानामनेन सा | भोगः श्वर्गश्च भवति विना कष्टेन वामिनां || एवं तु यवपिष्ट्वात्थो देव सोम इति स्मृतः | यवं तंदुलयोगेन शक्तिसोमो निगद्यते || स्विन्नकुद्दिगगो धूमाः समकिश्वेन संयुताः | स्थापिता द्वादशाहं च वारुण्यां परिपाचिताः || तन्मद्यं सूर्यसंज्ञे स्यात् योगिनिमदवर्षनं | पीतं तच्चक्रं पूजान्ते वा जपेय फलप्रदं || इदमेव त्रिधा युक्तं दलं मद्यं च साधितं | अग्निर्भवेत् तस्य पानादग्निहोत्र फलं लभेत् || अग्निर्यदा सप्तवारं वारुणी यंत्रगः कृतः | वडवानलनामासौ महापातकलाशनः || ११५अ) दशप्रस्थं गुडः प्रोक्तः सावद्धच्छूलजात्व च | जंवुत्वग्पातकी पुष्पं तदर्धं नालिकेरजं || कुसुमं च तदर्धंर्धं स्यात् तूदर्धं च हरीतकी | तावद्धि भीतकं प्रोक्तं चतुर्थांशं कटुत्रयं || तावच्च चित्रकं तस्माद् गुडो द्वादशभागिकः | करेण भ्रामयेत् सम्यगनुलोमविलोमतः || अष्टोत्तरशता वृत्या त्रिसंध्यं प्रतिवासरं | द्वादशांसेन पाकः स्याद् वारुणी यंत्रगं पचेत् || एषागौडीति विख्याता महामद करीमता | शिवेन निर्मिता पूर्वं स्वयं पीता च भैरवैः || द्विगुणं मकरंदाख्यवारिसंयोजयेद्गुडे | षोडशाहेन प्राकः स्याच्छेषमन्यत् पुरोक्तवत् || सर्वदेव प्रियाचेयं वशीकरणमद्भुतं | देवानां शक्तयो वश्या मानुषीणां तु का कथा | हरीतकी चित्रकं च मरिचं धातकी तथा || मधूकपुष्पं क्षौद्रं च भागैक न विवर्धितं | अशीति गुडसंमिश्रं शेषमन्येत् पुरोक्तवत् || इदं मनोहरं द्रव्यं योगिनीपानमुत्तमं | मद्याभावे प्रवक्ष्यामि विंदुं मद्याधिकं सुराः || माहिषं दधिसंग्राह्यं चतुर्दशगुणांमुरां | मोचा फलस्य पक्वस्य मर्दितस्य रसस्तथा || ग्राह्योदधि चतुर्थांशस्तत्संमर्द्यघटे क्षिपेत् | चत्वारिंशद्दिनान्यष्टौ पंके पंकज संकुले || निधायाद्वृत्य किरणैः सौरैः सम्यग् विशोषयेत् | यदा तत्कद्विणी भावस्तदा कुर्याद्वटीं क्षुभां || गुंजाभांजलसंपूर्णे तांपात्रप्रणिधापयेत् | इदं सुतोप्यधिकं ब्राह्मणानां प्रशम्यते || गौडीमाध्वी तथा पैष्ठी त्रिविधा तु सुरास्मृता | शूद्राणां मुचिता चेयं वंशा क्षत्रिय वैश्ययोः || ब्रह्मानंदसुरायैस्तु विप्रैः पीता तु कौलिकैः | न चोन्मादकरी तेषां सुरेयं वुद्धिवर्धिनी || ब्राह्मणस्य मुखान्मद्य वासना प्रभवेद्यवि | चंडालवद्वहिः कार्यो नासौ वामिन कौलिकः || वामिनां कौलिकानां च मुखे तिष्ठंति देवताः | नयंति ते तु तद्गंधं स तु वेद्यो हरेरपिः || देवता यस्य न मुखे साक्षा चंडाल एव सः | सर्वसिद्धिकरा पैष्टि गौडी भोगप्रदायिनी || माध्वी मुक्तिकरीज्ञयाद्राक्षाराज्य प्रदामता | विद्या प्रदैक्षवीहालाखार्जुरीरिपुनाशिनी || ११५ब्) तालजा स्तंभने शस्तापन साख्या शुभप्रदा | नालिकेलोद्भवा श्रीदानिं वजारोगनाशिनी || मधुकजा ज्ञानकरी चैरेयाषापनाशिनी | यत्सानंदं रुचिकरं सामोदं च मनोहरं || मद्यं तदुत्तमं देवा देवता प्रीतिकारकं | ब्रह्मा स्यात् सलिले विष्णुर्गंधे रुद्रश्च तद्रुचौ || परमात्मा तदानंदे तस्मात् सेव्यमिदं प्रिये | सुसंस्कृता सुरारोग दुःखापद्भयहारीणी || आयुः श्रीकीर्ति सौभोग्य धर्मविद्याविवर्धिनी | अन्यथा नरकं यान्ति दाता भोक्ता न संशयः || असंस्कृता सुरापापा कलहव्याधि दुःखदा | आयुश्रीकीर्तिशौभाग्यधर्मविद्याविनाशिनी || तस्मात् संस्कृत्य विधिवत् कुलद्रव्यं ततोर्चयेत् | विना द्रव्याधि वासेन न स्मरेन्न जयेत् तथा || य स्मरन्ति महामुखस्तेषां दुःखं पदे पदे | नासवेन विनामंत्रं विनामंत्रेण रासवं || अतोस्याः शोधनं कुर्यादिति शेषः || कुलामृतदीपिकायां || दृष्ट्वा प्रणम्य प्रथमं तद्रूपाम्वारुनी कलां || गुह्य सिद्धितंत्रे || वरुणे नार्चिता देवी वारुणी इति विश्रुता | सुरैस्तु पिवते नित्यं सुरानाम इति स्मृताः || मदनेनार्चिता नित्यं मद्यदयं तु प्रकीर्तिता | परमार्थेन उत्पन्ना पराशक्तिः प्रकीर्तितेति || तारेन कुसुमं दत्वा प्रोक्षयेदस्त्रवारिना | नाराचेनाक्षतां दत्वा मूलान्ते नाभि रक्षयेत् || मोचयित्वा शुक्रणापात् पवमानेन पावयेत् | शोंषयेद्वायु मंत्रेण वह्निना सन्देहेदनु || ऊर्ध्वं संचितयेन् मंत्री भास्करे चार्कमंडलं | सौरमंत्रेण देवेशि वारुणीम्मनसारन || अर्कादमामयीन्धारां पतन्ती चिन्तयेदनु | सोमवीजं पठन् हांतंसेन्दु खंडं सुधामयं || जपन् संपूरयेत् पात्रं कॢप्तया धेनुमुद्रया | अमृतां प्रजपेन्मंत्री सप्तधा कूर्ममुद्रया || अमृतत्वन्ततोनीत्वा कर्पूराद्येन चासयेत् | किंचिदुत्थाप्यान्यपात्रे निःक्षिप्य ज्वलनं क्षिपेत् || विद्या तत्वेन देवेशि दर्शयद्योनि मुद्रिकां | सर्वभूतमयीन्देवीं तत्र संचिन्तयेदनु || तामात्मनैक्यं नीत्वा तु योजयेत् तां महात्मना | सर्वभूतमयं पश्चादात्मानं परिचिन्तयेत् || तद्रूपां देवतारूपा सौरमंत्रोहंस इति अमामयिं अमृतमयीं सोमवीजं स इति हान्तं हकारांतं अर्धचन्द्रयोगो हकारे एव एवं ११६अ) सोहमिति सिद्धं अमृता कूर्ममुद्रा च वक्ष्यते ज्वलनं क्षिपेत् अन्यपात्रस्था मृते विद्या तत्वेनेति विद्या तत्वेन सूक्ष्मदेहं शोधयामि स्वाहेति मंत्रेण सर्वभूतमयीमिति पूर्ववत् कुण्डलिनीमुत्थाप्य शिवेन सहसंयोज्यात्मानं सर्वभूतमयं ध्यायेदित्यर्थः || शुक्रशाप विमोचन मंत्रा उक्ताः || कुमारीतंत्रे || अन्यच्च शृणु देवेशि यथा कुलादि कर्मणि || हानिर्न जायते वितान् वै मत्रान् वै मत्रान् शृणु प्रिये || एकमेव परं ब्रह्म स्थूल सूक्ष्ममयं ध्रुवं | कचोद्भवां ब्रह्महत्यां तेन तेनाशयाम्यहं || सूर्यमण्डलसंभूते वरुणालय संभवे | अमावीजमय देवी शुक्लशाद्विमुच्यतां || वेदानां प्रणवो वीजं ब्रह्मानन्दमयं यदि | तेन सत्येन ते देवी ब्रह्महत्यां व्यपोहतु || एवं मंत्र त्रयेणैव अभिमंत्र्य कुलं शुभं | प्रदद्या चानुकाये वै नैवेद्यमुदरे हरेत् || शापमोचन प्रकारान्त तारार्णवे || प्रणवं पूर्वमुद्धृत्य चन्द्रवीजम्वरानने | षड्दीर्घस्वरसंयुक्तं विन्दुनाद कलान्वितं || शुक्रशापप्रमोचितायै सुरादेव्यै नमस्ततः | जपेद् द्वादशधा मंत्रं शुक्रशाप विमुक्तये || वृत्तौ तु || वेदादि वरुणांतं च षड्दीर्घस्वरभेदितं | शुक्रशाप विमोचितायै सुधा देव्यै नमोस्तुते || द्वादशधा जपेन्मंत्रं शुक्रशाप विमुक्तय इत्युक्तं || तदनयोः शुक्रशापविमोचन प्रकारयोर्विकल्पः तुल्यार्थयोः समर्थयोः समुच्चयो संभवत् || आत्यामपि विशेषो मेरुतंत्रे || मायया रमया वाला संवुध्यं तात्रिवर्णका | शुक्रशापं विमोचय पुनस्तद्वर्णकांतिका || यस्या उपासना तस्या वीजेन पुटितो मनुः | षोडशार्णस्तया ख्यातो मंत्रिताष्टारं शतं || निःशापं कुरुते साध्यं भुक्ति मुक्त्यैक भाजनं || तत ओं वां वीं वुं वैं वौं वः ब्रह्मशापविमोचिकायै सुरादेव्यै नम इत्यनेन दशवार जप्तेन ब्रह्मशापविमोचनं || ह्रीं श्रीं आं क्रां क्रीं क्रूं क्रैं क्रौं क्रः सुरो कृष्णपापं मोचय || अमृतं स्रावय स्रावय स्वाहा इत्यनेन द्वादशवार जप्तेन कृष्णपापमोचनं कूर्यात् || तदुक्तं || वेदादि वारुणम्वीजं षद्दीर्घस्वरभेदितं | ब्रह्मशापविमोचितायै सुधा देव्यै नमोस्तु च || ११६ब्) दशकृत्वा जपेन्मंत्रं ब्रह्मशाप विमुक्तये | मायाश्रियाङ्कुशं च षड्दीर्घस्वरभेदितं || सुरो कृष्णस्वरूपान्ते पापं मोच तत्परं | अमृतं स्रावय द्वं द्वं वह्निमायो ततः परं || अनेन मनुनामंत्री कृष्णपापं विमोचयेत् | पवमानः परानन्दः पवमानः परो रसः || पवमानं परंज्ञानं तेन ते पावयाम्यहमिति पचमानमंत्रं च लिखित्वा || श्लोका नेतान् पठेत् पश्चात् दीपन्यमृतेशी मनून् | अखंडैकरसानंदकले परशुधात्मनि || स्वच्छंद स्फुरणाकारे निध्ये ह्यमृतरूपिणि | अकुलस्था मृताकारे शुद्धिज्ञानकरे परे || अमृतत्वं निधे ह्यस्मिन्वस्तुनि क्लीन्नरूपिणि | तद्रूपिनि करस्पर्श कृत्वा ह्येतत्स्वरूपिणि || भूत्वा मृता पराकारे मयि विस्फुरनं कुरु || इति मेरुतंत्रे || द्रव्य मध्ये भैरवभैरव्योद्ध्यानं || तदुक्तं तारार्णवे || सूर्यकोटि प्रतीकाशं चन्द्रकोटि सुशीतलं | अष्टादश भुजन्देवं पंचवक्त्रं त्रिलोचनं || अमृतार्णव मध्यस्थं ब्रह्मपद्मोपरिस्थितं | वृषारूढं नीलकण्ठं सर्वाभरणभूषितं || कपालखट्वांगधरं घण्ठाडमरु वादिनं | पाशांकुशाधरन्देवं गदामुशलधारिणं || खड्गखेटकपट्टीश मुद्गलं शूलदन्तकं | विचित्र खेटकं मुण्डं वरदाभयवाशिनं || लोहितं देवदेवेशं भावयेत् साधकोत्तमः | एवं ध्यात्वा स्वमंत्रेण पुष्पांजलि त्रयण पूजयेत् || ततः आनंद भैरवीं ध्यायेत् || तत्रैव || तस्यौत् संगे सुरान्देवीं चन्द्रकोट्य युतप्रभां | हिमकुन्देन्दु धवलां पंचवक्त्रां त्रिलोचनं || अष्टादशभुजैर्युक्तां सर्वानन्दवरोद्यतां | प्रहसंतीं विशालाक्षीं देवदेवस्य संमुखीं || अथवा देवदेवेशमर्धनारीश्वरं यजेत् || एवं ध्यात्वा स्वमंत्रेण पूजयेत् || मंत्रौ चोक्तौ तंत्रे || शिवचन्द्रौ मातृकान्तं तथाक्ष मलवह्नयः | वायुश्च वामकर्णेन भूषितो विन्दुनाटतः || वीजमेतत् समुच्चार्य तथा चानन्दभैरवं | ङेन्तं शिखामंत्र युतं पूर्ववीजं तु संलिखेत् || चन्द्रं हित्वादिमं कुर्यात् कर्णे वामाच्छि योजयेत् | ११७अ) सुरा देव्यै ततो वौषडियमानन्दभैरवी || अनेन मेनु युग्मेन ध्यानपूर्वं यजेच्चतौ | शिवो हकारः चन्द्रः सकारः मातृकान्तं क्षकारः वह्नी रेफः वायुर्यकारः वामकर्ण उकारः एकौ युक्तौ कार्यौ ङेन्तं चतुर्थ्यंतं शिषामंत्रो वौषडिति || भैरवी मंत्रमाह पूर्ववीजमित्यादि प्रथम वर्णयोर्व्यत्ययः कार्यः चरमोक्षरे उकारं त्यक्त्वा वामाक्षि इकारो योज्यः सोयमानन्दभैरवीमंत्रो भवतीत्यर्थः || मायया चादि संयुक्तं वह्निमायेन्दु संयुतं | परमस्वामिनि प्रोप्ते परमाकाशशून्य च || वाहिनि चन्द्रपदान्ते सूर्याग्नि भक्षिणीति च | पात्रं विश विश स्वाहा दशधा प्रजपेन्मनुं || वाङ्माया कमला प्रान्ते आनन्देश्वरि विघ्नहे | सुधा देव्यै धीमहीति तन्नोर्द्ध नारीश्वरीति || प्रचोदयादिति जपेद् गायत्रीन्दशधा सुधीः || स्वतंत्रे || ततश्च भावयद्द्रव्य अमृतं रक्तभं प्रिय | अथ कादि त्रियंक्त्या तुहलक्षत्रय मण्डितं || पूर्वोक्त योनि मुद्रायां शिवशक्त्योस्तु सङ्गमं | अमृतं चिन्तयेद् द्रव्यमष्टधा अमृतां जपेत् || अकथेत्यादि त्रिकोणे षोडश स्वरान् वामपंक्तौ ककारादि सोडश वर्णानधः पंकृक्तौथ कारादि षोडश वर्णान् दक्षिण पंक्तौहलक्षान्मध्ये लिखित्वा पूर्वोक्तविधिना कुण्डलिनीमुत्थाप्य शिवशंयोज्य तद्गलितामृतधारां वहन्नासांपुट न द्रव्यमध्ये पतितां ध्यात्वा द्रव्यममृतं ध्यायेदित्यर्थः || अमृतामंत्रः || मेरुतंत्रे || ऐं क्लीं ह्रौं जुं स इत्युक्त्वा अमृते अमृतोद्भवे | अमृतेश्वरि अमृतवर्षणीति पदं वदेत् || अमृतं स्रावय युगं स्वाहांतो द्रव्य शुद्धये | अमृतेसि मनुः प्रोक्तः पंचत्रिंशद्भिरक्षरैः || कुलार्णवे तु || ऐं प्लुं स्रौं जुं सः स्वाहा इत्यभिधाय अमृते अमृतेश्वरीत्यादि तुल्यं || त्रिधाभिमंत्र्य प्रागुक्त दीपनीमंत्रग त्रिधा || दिपिनी मंत्रो यथा मेरौ || वाग्भवं वदयुग्मं च वाग्वादिनि च वाग्भवं | क्लीं क्लिन्ने क्लेदिनि क्लेदय महाक्षोभयमित्यपि || ११७ब्) कुरु युग्मं कामवीजं सौमोक्षं कुरु युग्मकं | प्रासादश्च पराप्रासादः सप्तत्रिंशदशाक्षरः || दीपनीं मनुराख्यातः इति || कुण्डलिन्युत्थानात् पूर्वमयं जप उक्तः कुलामृते तदत्र यथा स्वसंप्रदायमाचरणीयं || इदं तु कारणन्देवि सुरसंघनिषेवितं | अत एव तस्य नाम सुरेति भुवनत्रये | अस्य गन्धः केशवस्तुतेनागन्धेन कौलिकः || पूजयेत् परमान्देवीं चण्डिकां कालिकां शिवां || भावचूडामणौ प्रकारान्तरेण शोधनमुक्तं तथा हि || घटं हेतु द्रव्येण पूरयेदित्यनुवृत्तौ | तत्र यंत्रं विलिख्यादौ यद्यत् कुलसमुद्भवं || ध्यात्वेष्ट देवतां तत्र जपेदष्टोत्तरं शतं | धेनु योनी विचिन्त्याथ प्रसृतं तद्विचिंतयेत् || दृष्ट्वामृतमुपोत्तम्वै नृत्यन्ति योगिनी गणाः | नृत्यन्ति भैरवास्सर्वे नृत्यन्ति भैरवी गणाः || यद्यत् कुलसमुद्भुतं यद्देवताया यादृशं यंत्रमित्यर्थः || एवं ध्यात्वा जपेद् विद्या द्वयं च साधकोत्तमः | मायालक्ष्मी द्वयस्यान्ते नमो भगवतीति च || महेश्वरि स्वरूपान्ते सर्वपशु जनेति च | नमश्चक्षुस्तिरस्करणं कुरु द्वन्द्वं च ठद्वयं || तथान्य तिरस्करिणी लज्जाद्व?तमेश्वरीन्ततः | वाणीग्नौं तिरस्करणं सकल जनेति वै ततः || वाग्वादिनीति सकल पशुव्रतजनेति च || मनश्च श्रोत्रजिह्वाघ्राणोक्तिरस्करणं कुरु द्वयं ठद्वयं च स विसर्गं शिरो मनुः || तस्योपरि स्वमूलं च वरुणं सप्तधा जपेत् | इत्यनेन विधानेन द्रव्यशुद्धिं समाचरेत् || धेनुमुद्रा योनिमुद्रा च || अन्योन्याभिमुखाश्लिष्टा कनिष्ठानामिका पुनः | तथा च तर्जनी मध्या धेनुमुद्राऽमृतप्रदा || मध्यमे कुटिले कार्ये तर्जन्युपरिसंस्थिते | अनामिके मध्य गते तत्रैव हि कनिष्ठिके || सर्वा एकत्र संयोज्या अंगुष्ठ परीपीडिताः | योनिमुद्रासमाख्याता त्रैलोक्योत्पत्ति मातृका || इति तंत्रोक्ते || इति श्री आद्यानन्देन विरचितायां कुलमुक्तिकल्लोलिन्यां दशमः पटलः || अर्घस्थापनं || भैरवतंत्रे || स्ववाम चेततः कुर्यादर्घ्यादि स्थापनां क्रियां | ११८अ) पाद्यार्घाचमनीयानि सामान्यार्घविशेषकं || नरकं स्वर्णताम्रेन्दु नारिकेलोद्भवानि च | पात्राणि भगरूपाणि विशेषार्घं शृणु प्रिये || तथा || शंखं वीरपात्रं स्थापयन् मध्यभागः || नरकं नरकपालं इन्दुरजतं || मध्य इति || तत्रे || साध्यसाधकयोर्मध्ये षट्त्रिंशदंगुलं भवेत् | द्वादशाङ्गुलमूर्ध्वं च अधोभागे तथाङ्गुलं || द्वादशाङ्गुलमध्यस्थं तत्र संस्थापयेद्वुधः || तथाङ्गुलं द्वादशांगुलं || तथा || स्वार्थ च द्वादशत्यक्त्वा देवार्थं द्वादश त्यजेत् | द्वादशांगुलमध्यस्थं तत्र चार्घन्निधापयेत् || कुमारिकल्पे || ततोर्घं स्थापयेन्मंत्री स्ववामे सुरसुन्दरि || त्रिशक्तिरत्ने || कलशाद्दक्षिणे भागे त्रिकोणं वृत्तसंयुतं | षट्कोणं चतुरश्रं च कृत्वा तन्मध्यभागतः || विलसच्चन्द्रसकलं गन्धर्व च समालिखेत् | ओजा पूकादिकं पीठं तच्चतुर्दिक्षु पूजयेत् || अङ्गमंत्रैश्च षट्कोणे शक्तौ मूलत्रिभेदतः | आधारशक्तिं संपूज्य पूर्ववद् यंत्रिकामपि || महाशंखं नालिकेर सौवर्णं राजतं तथा | ताम्रं शुक् त्युद्भवं वापि पात्रं तत्र निधापयेत् || विलसदिति गन्धर्वमीकारं ओजापूकादि ओद्यान जालन्धर पूर्णगिरि कामरूपाणि तेषां च पूजनं स्वाग्रादि प्रादक्षिण्येन चतुरस्रे रेखासु संप्रदायात् || अङ्गपूजने तन्मन्त्रेषु सर्वान्तेषु नमस्कार एव योज्यः न तु जात्यन्तरं अंगं मंत्रैर्नमान्तकैरित्यादेरावरण पूजायान्तथा दर्शनात् || शक्तौ त्रिकोणे मूल त्रिभेदतः मूलखण्ड त्रयेण आधारशक्ति पूजनं इकारे यंत्रिका आधारः तत्पूजनं च दशकरात्मक वह्निपूजनमेव || भैरवतंत्रे || स कूर्च च भगे पात्रे विन्यस्य शुद्धयाथसा | कुण्डगोलोद्भवनापि स्वयंभू कुसुमेन वा || वीरद्रव्येण चापूर्य मूलविद्यां समुच्चरन् || पात्रभेदा मेरुतंत्रे || नालिकेरस्वर्णतांनंका च शुक्ति शिरोद्भवं | संखसद्दारुकूर्मोत्थं कपालालावु मृन्मयं || उत्तमं मध्यमं हीनं विप्रादिनां प्रकीर्तितं | ११८ब्) नाति स्थूलं नाति सूक्ष्मं छिन्नं भिन्नं विवर्जयेत् || ताम्रकांस्यादिभिर्लोहैः पात्रं नैव तु कारयेत् | सर्वसिद्धिः सुवर्णे स्यादुद्यमस्तार पात्रतः || शांतिः शिलायां स्तंभस्तु मृन्मये नालीकेरजे | वश्याद्यं कूर्मजे ज्ञानं शुक्तिं मुक्तिप्रदायिनी || पुण्यवृक्षजपात्रं तु पापघ्नं मृत्यु वृत्तिकृत् | कपाले वीरसंसिद्धिरलावौ योगसिद्धयः || कास्यस्य वाथ रूप्यस्य शैवशंखवरीह नालिकेल सर्वमेव प्रणश्यति || कंन्याकोटिप्रदानानि तथा हेमशतानि च | यो ददाति महेशानि राहुग्रस्ते दिवाकरे || तत्फलं कोटिगुणितं नालिकेरार्घपात्रतः | अलाभे तस्य पात्रस्य अन्यपात्रेण पूजयेत् || तथा || नरपात्रं महाभागे ज्ञेयं चोत्तमं || नालिकेलाभिधन्देवि ज्ञेयं चोत्तम मध्यमं | रत्नपात्रं च सुश्रोणि ज्ञेयं चोत्तम कल्पकं || त्रिशक्तिरत्ने || पात्रमित्यनुवृत्तौ || समर्च्य पूर्ववन्मन्त्री शंखं द्रव्येण पूरयेत् | जपन् विलोमतो वर्णान् मूलमंत्र समुज्वलान् || संपूज्य पूर्ववत् तत्र वृत्तं षट्कोणमालिखेत् | अकथादि त्रिरेखान्तं त्रिकोणं वृत्तमध्यतः || मूलखण्डत्रयणाथ त्रिकोणं परिपूजयेत् | षट्कोणे च षडङ्गानि ततस्तीर्थमय स्मेरेत् || आनन्दभैरवं व्येपि पूज्यायुगनद्धवा हि त्वात् || पंचरत्नेन पूजनं चार्घस्थ द्रव्ये म्लूं गगनरखाय नमः || म्लूं खर्गरत्नाय नमः || प्लूं पातालरत्नाय नमः || म्लूं मत्पं रत्नाय नमः || न्लूं नागरत्नाय नमः || इति स्वाग्रादि चतुर्दिक्षु मध्ये च कुर्यात् || कुलद्रव्याणि कुंभोद्भवादीनि || कुमारीकल्पे || अर्घद्रव्यं चार्घपात्रे निःक्षिप्य यत्नतः सुधीः | कुण्डगोलोद्भवं द्रव्यं स्वयंभू कुसुमं तथा || नाधर्मो विद्यते स्वभ्रू महामंत्रस्य साधने || सारसंग्रहे || त्रिकोणं वृत्तसंवीतं चतुरस्रेण वेष्टितं | गन्धं लिप्ते स्ववामाग्रे विदध्यान्मत्स्यमुद्रया || ११९अ) संपूज्यगन्धैर्देवार्घं देयान्ते नमोनुना | अंगानि चतुरस्रस्य कोणेषु पुरतस्तथा || दिक्षु चास्त्रं समभ्यर्च्य शंखाधारं प्रविन्यसेत् | मूलेन क्षालितं शंखाधारं संस्थापयामि च || कालं स विन्दुकन् तद्वद्भुजंगेशं समुद्धरेत् | वह्न्यन्ते मण्डलायेति तथा धर्मप्रदेति च || दशकलात्मने चोक्त्वा नमो गन्धादिभिर्यजेत् || त्रिकोणमित्यादि चक्रनिर्माण प्रकारान्तं तत्रैव चतुरस्र कोणादिषु षडार्चनं || तदत्र पक्षद्वये यथा स्वगुरुपदेशमाचरणीयं || मत्स्यमुद्रा च तंत्रे उक्ता || दक्षिणपाणि पृष्टदेशे वामपाणि तलं क्षिपेत् | अंगुष्ठौ चालयेन् मत्स्यमुद्रेयं मत्स्यरूपिणी || कालं मकारं विन्दुरनुस्वारः भुजंगेणो रेफः तद्वत् बिन्दुयुतं || अत्र प्रत्येकं वह्निकला अपि पूज्याः अन्यत्र तथा दर्शनात् || तथा || शस्त्रेण क्षालितं शंखं तत्र संस्थाप्य पूजयेत् | अर्घमानन्तु प्रादेशं चतुरंगुलमुच्छ्रितं || अर्घपात्रमिति प्रोक्तं स्थापयामीति मंत्रतः || अमर्कमण्डलायेति वदेद्वादश इत्यथः | कलात्मने पदं चोक्त्वा अर्घपात्राय हृन्मनुः || अनेन शंखमभ्यर्च्य कलाः सूर्यस्य पूजयेत् || तंत्रांतरे || क्रोधवीजास्त्र वीजात्यामाधारे क्षालितं शुभं | महाशंखं तथा मंत्रि स्थापयेत् स्त्रीं पठन् ततः || शिवां दीर्घत्रयोपेतां काली ब्रह्मरमान्वितां | दीर्घः शचीपतिर्वायुर्हृदयं मन्मथान्विमं || दीर्घत्रयसमोपेतं तारिणी पूर्ववत् पुनः | शिवं दीर्घत्रयोपेतं लीलाशब्दान्तु पूर्ववत् || मायां शरांति मंशंतुं वामकर्णेन्दु संयुतं | सर्वकामः कालरात्रि दीर्घालाय पदान्ततः || सर्वधाराय सर्वाय सर्वाभवाय शब्दतः | सर्वशुद्धिमयायाथ सर्वास्वर पदात् ततः || रूधिरारूणकान्तिक्षुत् शुभ्राय सुरभाजनः | आयदेवी कपालाय हृदयान्तो मनुर्मतः || एभिश्चतुर्भिमनुभिर्महाशंखं प्रपूजयेत् || क्रोधवीजास्त्रवीजाभ्यां हूं फडिति वीजाभ्यां क्रीमिति स्वरूपं || शिवां ह्रींकारं दीर्घत्रयं ११९ब्) अ ई ऊ रूपं कालीति रूपं ब्रह्मककारः रमापकारः आन्विता आकार युक्ता दीर्घः आकरायुक्तः शचीपतिल्लकारः वायुर्यकारः हृदयं नमः तेन ह्रां ह्रीं ह्रूं कालीकपालाय नम इति प्रथमो मंत्रः || मन्मथान्ति मम्त्रींकारं दीर्घत्रयं आ ई ऊ रूपं कालिकेति स्वरूपं पुनः पूर्ववत् कपालाय नम इति तेन म्त्रां म्त्रीं स्त्रं तारिणी कपालाय नम इति द्वितीयो मंत्रः || शिवं हकारं दीर्घत्रयोपेतं आ ई ऊ युतं नीला शब्दात् नीलेभ्यक्षरद्वयानन्तरं पूर्ववत् कपालाय नम इति तेन हां हीं हूं नीलाकपालाय नम इति तृतीयो मन्त्रः || माया ह्रींकारं परान्तिमं स इति वीजं शंभुं हकारं वामकर्णेन्दु संयुतं उकारोनुस्वारयुतं सर्वेति स्वरूपं कामः ककारः कालरात्रिः पकारः दीर्घा आकारः युक्ता लाप्यति स्वरूपं कांतिराकारः क्षुत् यकारः तेन ह्रीं सः हूं सर्वकपालाय सर्वाधाराय सर्वाय सर्वाद्भवाय सशुद्धिमयाय सवासुररुधिरारुणाय सुभ्राय सुरभाजनाय देवी कपालाय नम इति चतुर्थो मंत्रः || तत्र संपूजयेत् मंत्री मण्डलं तिग्मरोचिषः | मूलेन पूरयन्मंत्री सुधा वुध्या विधानवित् || गन्धपुष्पाक्षतान् क्षिप्त्वा त्रिखण्डन्दर्शयेत् पुनः | पीयुष रोचिषो मंत्रि मण्डलं तत्र पूजयेत् || तारं शक्तिरमे शक्तिमनुस्वारविभूषितां | मूलं तृतीयं भैरवव्याः क्रोधवीजसमुज्वलं || अनेन मनुना मंत्री भावयेदष्टशोज्वलं || शक्तिरेकारः शक्त्या सुधां विनिःक्षिप्य शंखयानि प्रदर्शयेत् || वृत्ताष्टदलषट्कोणे मूलगर्भे मनोहरे | वक्ष्यमाण प्रकारेण संविचिंत्य कुलेश्वरीं || उपचारैः प्रपूज्येनां मूलमंत्रेण मंत्रवित् | अंगुष्ठानामिका योगा तर्पयत् तेन तारिणीं || तर्जन्यंगुष्टयोगेन मध्यमांगुष्टयोगतः | अनामांगुष्टयोगेन कनिष्ठांगुष्टयोगतः || तर्पयद्वेदवारांतां मूलमंत्रेण देवतां || तथान्यत्रापि || ततः सुधामयैस्तोयैर्मूलांतां मातृकां पठन् | विलोमां पूरयेत् तस्मिन् पूजको मनुणाऽमुना || अर्घपात्रं पूरयामीत्युक्त्वा संपूरयेत् ततः | १२०अ) कर्णचन्द्रौ विन्दुयुतौ कामप्रदं प्रयत्नतः || षोडशान्ते कलाशब्दमात्मने नम इत्यथः | गन्धपुष्पैस्समभ्यर्च्य कला षोडशकं यजेत् || कर्ण उकारः चन्द्रोऽर्ध चन्द्रः विन्दुरनुस्वारः तेन ओं || कलास्तूक्ताः मेरुतंत्रे कुलार्णवे || धूम्रार्चिरुष्मा ज्वलिनी ज्वालिनी विस्फुलिगिनी | स्वश्रीः स्वरूपा कपिला हव्यकव्यवहे अपि || आग्नेयान्यादि वर्णोत्था दशधर्मप्रदाः कलाः | तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः || सुषुम्ना भोगदा विश्वा वोधिनी धारिणी क्षमा | कभाद्याः वसुदाः सौराधान्ता द्वादश ईरिताः || अमृता मानदा भूषा तुष्टिः पुष्टी रतिद्धृतिः | शशिनी चन्द्रिका कान्तिर्ज्योस्नाश्रीः प्रीतिरंगदा || पूर्णपूर्णामृता चेति कथिताः कुलनायिके | सौम्याः कासप्रदायिन्यः षोडश स्वरजाः कलाः || विन्दुयुतान् यादि दशवर्णान् पूर्वन्दत्वा अग्निकलाः ककारादि ठकारान्तात् भकारादि डकारान्तान् प्रतिलोम वर्णाश्च विन्दुयुक्तान् आदौ दत्वा सूर्यकलाः अकारादि षोडश स्वरान् विन्दुयुतान् आदौ दत्वा चन्द्रकलाः पूज्या इत्यर्थः || तथा || प्राग्वत्तिर्थं समावाह्य तीर्थमंत्रेण तत्र च | संयोज्य नेत्र मंत्रेण पुष्पं न्यस्य सिखाण्डना || प्रदर्श्य गालिनी मुद्रां मुद्रियाध्येनु संज्ञेया | अमृतीकृत्य विधिवत् सुधावीजेन साधकः || ध्यात्वष्ट देवतां तत्र सकलीकृत्य साधकः | अङ्गन्यासस्मचास्त्रेण कलयेच्च दिशो दश | नेत्र मंत्रेण संवीक्ष्य मुद्रया शंखसंज्ञया || गन्धपुष्पादिभिस्तत्र पूजयेदिष्ट देवतां | षडागानि च संपूज्य मंत्रयेन् मूलमंत्रतः || अभिचारषु कार्यषु विलोपेन जपेदितीति कर्मोपदेशिन्या मूलमंत्रजपे विशेष उक्तेः || अष्टकृत्वस्ततश्चार्घं छादयेन् मत्स्यमुद्रया | तछंखस्य जलं किंचित् कुंभतोये विनिःक्षिपेत् || प्राग्वदकुश मुद्रया तीर्थमंत्रेण गङ्गे चेत्यादि मंत्रेण संयोज्य तीर्थानि || १२०ब्) गालिनी मुद्रामंत्र तत्र प्रकाशे उक्ता || कनिष्ठांगुष्ठकौ युक्तौ करयोरितरेतरं | तर्जनी मध्यमास्संहताभुग्नवर्जिताः || सुद्रैषागालिनी प्रोक्ता शंखस्योपरिचालिता || सुधावीजं वमिति सकलीकृत्य अंगन्यासेनेत्यन्वयः कलयेत् तालत्रयं दत्वा छोटिकाभिर्वन्धयेदित्यर्थः || शंखमुद्रा मेरुतंत्रे उक्ता || वाममुष्ट्यन्तरेऽङ्गुष्ठं निवेश्य सरलाङ्गुलीः | दक्षिणस्य करस्यैव वामाऽङ्गुष्ठेन संस्पृशेत् || शंखमुद्रेषमाख्याता मंत्रविद्भीरनुत्तमा || त्रिशक्तिरत्ने || करणोक्तविधानेन स्थापयेत् पात्र सन्ततिं || स्थापन क्रमश्चोक्त || कुलार्णवे || श्रीपात्रघटयोर्मध्ये सर्वपात्राणि स्थापयेत् | घटान्ते श्रीगुराः पात्रं भोगपात्रं तदन्तिके || तदन्ते शक्तिपात्रं च योगिनीनां तदन्तिके | तदन्ते वीरपात्रं च वलेः पात्रं तदन्तिके || पाद्यमाचमनीयं च अर्घेन नवमं विदुः | उत्तमं नवपात्राणी सप्तपात्रानि मध्यमं || केचिद्वदन्ति मत्रज्ञा पंचपात्राणी मध्यमं | अधमंत्रीणि पात्राणी पात्रद्वयं तथैव च || एकपात्रं न कुर्वीत यदि साक्षात् कुलेश्वरः | मंत्राः पराङ्मुखां यान्ति क्रुद्धा भवति सुन्दरि || ईहलोके च दारिद्र्यं मृते च नरकं व्रज्येत् | श्रीगुरुभोग पात्राणि त्रिषु पात्रेष्वयं विधिः || पूजापात्रं वलः पात्रं पंचपात्रेष्वयं विधिः | शक्तिपात्रं वीरपात्रं सप्तपात्रेष्वयं विधिः || पूजापात्रं च दारिद्र्यं मृते च नरकं व्रज्येत् | श्रीगुरुभोग पात्राणि त्रिषु पात्रेष्वयं विधिः || पूजापात्रं वलः पात्रं पंचपात्रेष्वयं विधिः | शक्तीपात्रं वीरपात्रं सप्तपात्रेष्वयं विधिः || पूजापात्रं च विज्ञेयं योगीनिनां च पूजयेत् | पाद्यमाचमनीयं च वलिपात्रात् प्रदापयेत् || पाद्यादीनि च सर्वाणी भोगपात्रात् प्रदापयेत् | पाद्यमाचमनियं च नवपात्रेष्वयं विधिः || एकैकपात्रमंत्रेण ह्यष्ट कृत्वाभि मत्रयेत् | एकैकपात्रं मूलेन ज्यष्ट कृत्वाअभिमंत्रयेत् || अन्तशब्दः सन्निधान वाचकः || पाद्यमाचमनीयानीत्युपलक्षणं || अर्घमधुपर्क पुनराचमनीयं || १२१अ) स्नानीय पात्रान्येन स्थापनीयानि त्रिपात्रमशक्तपरं || त्रिशक्तिरत्ने || अथवा कलसं शंखं शक्तिपात्रं त्रयं भवेत् | अत्रापि पाद्यादि पात्राणि स्थापनीयानीति वोध्यं || नवरत्नेश्वरे || जले नैव च पाद्यादि पात्राणि पूजयेदिति संप्रदायः || क्रमोयं वीरकल्पे || पशुकल्पे तु || स्वदक्षे प्रोक्षणी पात्रमायाद्भिः प्रपूरयेत् || किंचिदर्घांवुसंगृह्य प्रोक्षण्यंभसिद्योजयेत् || ततः साधारकं पात्रं पुरतः स्थापयेद् वुधः | तत्पार्श्वे पाद्य दानं च तत्पार्श्वेऽर्घ प्रदानकं || आचमनीयन्तु तत्पार्श्वे तद्वामे मधुपर्ककं | पुनराचमनीयं च स्नानीयन्तत् क्रमान्न्यसेदिति क्रमः || पाद्यादि द्रव्याण्युक्तानि || फेत्कारिण्यां || उशीरं रोचनाश्चैव पाद्य पात्रे सुकल्पयेत् | कुशाभ्रा नक्षतं चैव यवव्रीहि तिलानपि || आज्यसिद्धार्थ पुष्पाणि क्षिपेदर्घस्य पात्रके | जाती कर्पूरकंकोल वहू मूलतमालकान् || चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके | माक्षिकं शर्करा सर्पिर्दधिक्षीरयूतं तथा || मधुपर्कं कल्पयित्वा प्रदद्याद्विधि पूर्वकं | पुनराचमनीयदेव || स्नानीयं शुद्धसुगन्धी जलेन गन्धाद्भिष्कारयेत् || स्नानमिति पुरश्चरण चन्द्रिका वचनात् || त्रिशक्तिरत्ने || पुष्पादिनासमुद्धृत्य विन्दुं शंखां मृतस्य च | निःक्षिपेत् सर्वपात्रेषु सर्वन्दिव्यम्विचिन्तयेत् || तंत्रे || एवं पात्राणि संस्थाप्यते नैव तर्पणं चरत् || मेरुतंत्रे || अथागमोक्त मार्गेण तर्पयेदलि विंदुभिः | अंगुष्ठा नायिकाभ्यां तु नखैनिःशब्दमुत्थिपेत् || अपात्रस्यंदमष्टौ च तर्प्ययद्देवतामुखे | सकृत् तर्पणमुत्सृज्ये जप्त्वा मूलं च पादुकां || अंतःशक्ति मनुस्मृतर्प्ययेद्देह देवतां | अंगुष्ठोनं चण्डिकायात्वनामिका || तस्माद्वाभ्यां तर्पणीयं यत एतत् तयोः प्रियं | अंगुष्ठमध्यमातौ च वश्यकर्मणि तर्पयेत् || तर्जन्यंगुष्ठयोगेन तर्पयेदाभिचारके | कनिष्ठांगुष्ठयोगेन स्तंभकर्मणि तर्पयेत् || तत्वार्णवे || पूर्वोक्त ध्यानमुक्त्वा || ध्यात्वैवं तर्पयेन्मुद्ध्नि तावुभौ साधकः सुधीः तावुभौ भैरवभैरव्यो || १२१ब्) अन्ते स्वनामसंयोज्यतौ तर्पयेदिति पर्यवसितं || अत्र गुरुंस्तर्पयेत् || मेरुतंत्रे || मूर्ध्नि श्रीगुरुपंक्तिं च मूलाधारे तु पातुकां || दिव्यौघं तर्पयेदादावित्यादि ओघत्रयं तर्पयेत् तदग्रे वक्ष्यते || त्रिशक्तिरत्ने || ब्रह्मरन्ध्रे स्वके मंत्री मुद्रया तत्व संज्ञया | तर्पयेद् गुरुपात्रीय द्रव्येणौघ त्रयं सुधीः || स्वगुरुनपि सन्तर्प्यत्रिस्सकृद्वा विशेषतः | आत्मनो हृदयांभोजे परिवारणावृतां || देवी पात्रामृतेनापि तर्पयेत् कुलनायिकां | तत्व मुद्रा तर्पणे अनामांगुष्ठयोगेन भवति || तदुक्तमेव || यातु तर्जन्यंगुष्ठयोगेन तत्वमुद्रा प्रकीर्तितेति तत्प्रोक्ता सा तर्पणादन्यत्र ध्यानादौ || गुरुणां लौकिकं नाम श्रीपूर्वकमुचार्यशेषे गुरु परमगुर्वादि पदं योजयित्वा अमुकपादुकान्तर्प्ययामीत्येवं तर्पयेदिति संप्रदायः || ओघत्रयानन्तरमनेन क्रमसे त्र्यर्थः || देवीपात्रं विशेषार्घ पात्रमेव तद्द्रव्येन सांगां सपरिवारां सायुधां स वाहनां श्री अमुकदेवीन्तर्पयामित्यवं तर्पयेदित्यर्थः || आवाहनात् प्राक् भोगयात्रामितेन तर्पयंति || समयाचारे || शुद्धिद्रव्यं समादाय तर्पणन्तत्व मुद्रय | अंगुष्ट तर्जनी मध्ये सुद्धिं संगृह्य वामतः || वामेण दक्षिणे नापि देवीं सन्तर्पयेत् सुधीः || वामेन दक्षिणेनापीत्यभिधानाद्देवी तर्पणे करयोरैच्छिको विकल्प इति केचित् || अन्य तु वामेन शुद्धिं संगृह्ये दक्षिणहस्त तत्वमुद्रया देवीन् तर्पयेत् || अङ्गुष्ठ तर्जनी मध्य इति शुद्धि ग्रहणमात्रान्वतां तर्पणे तत्वमुद्रयाः प्रकारांतरेणोक्तत्वादित्याहुः || अथ तत्वशुद्धिं कुर्यात् || तत्र श्रूतिः || ओं प्राणायानव्यानोदानसमानामे शुद्ध्यन्तां ज्योतिरहं विरजामिविपाशोभूयासं स्वाहा || ओं पृथिव्यप्तजो वायवाकाशानिमे शुद्ध्यन्तां ज्योतिरित्यादि || ओं प्रकृत्यहंकारवुद्धिमनः श्रोत्राणि मे शुद्ध्यन्तामित्यादि ओं त्वक् चक्षुः श्रोत्रजिह्वा घ्राणवचांसि मे शुद्ध्यन्तामित्यादि || ओं पाणिपादपायुपस्थ शब्दा मे शुद्ध्यन्तामित्यादि || १२२अ) ओं स्पर्शरूपरसगन्धाकाशानि मे शुध्यन्तामित्यादि || ओं वायुः तेजः सरिरभूम्यात्मानो मे शुध्यन्तामित्यादि || सप्त मन्त्रान् परामृशन् हस्ताभ्यां सप्तधा सर्वाङ्गे स्पृशेदिति तत्वशुद्धिः || अथ वटुकादि वलिदानं || तदुक्तं मेरुतंत्रे || अवश्यमादौ वामादौ कुर्याद्वटुक पूजनं | मार्गेस्मिन् वटुको मुख्यः सुराद्यंतेन निर्मितं || विना तंतु न गृह्नंति देवास्तस्मात् तदर्चनं | अपूज्यवटुकं यस्तु मोहाद् देवं प्रपूजयेत् || तस्य पूजाफलं नास्ति वटुकश्च प्रकुप्यति | स गणं पूजयेत् तस्माद् गन्धपुष्पा सवामिषैः || तत् तन्मंत्रैर्विधानेन देवता प्रीतिमाप्नुयात् || वटुक इत्युपलक्षणं || वटुकादी नित्यर्थः || तथा ततो वलिं क्षेत्रयेभ्यो दद्यात् || ज्ञानार्णवे || ईशानवह्नि नैर्-ऋत्य वायुकोणेषु पूर्ववत् | मण्डलानि विधायाथ पूर्ववत् पूजयत् प्रिये || पूर्ववद् वलिदानं च दद्यात् सर्व समृद्धये | वटुकाय महेशानि योगिनीभ्यश्च वल्लभे || गणेश क्षेत्रपालाभ्यां पूर्ववद्वलिमुत्सृजेत् || समयाचारे तु || दक्षिणे वटुके दद्यादुत्तरयोगिनीवलिं | पूर्वे भूत वलिन्दद्यात् क्षेत्रपालाय पश्चिमे || तथा || अंगुष्ठानामिकाभ्यां तु वटुकाय वलिर्मतः | कनिष्ठांगुष्ठयोगेन योगीनि वलिमाहरेत् || अंगुष्ठतर्जनीभ्यां च क्षेत्रपाल वलिं हरेत् || मेरुतंत्रे || वटुमनुं शृणु || तारत्रयं ततो देवी पुत्रोक्त्वा वटुकेति च | नाथेति कपिल जटाभारभास्वरपिंगल || त्रिनेत्राग्नि ज्वालामुख इमां पूजां वलिं वदेत् | गृह्न गृह्न हूं फट् स्वाहा षट् चत्वारिंश दर्शकः || मंत्रमेवं समुर्च्चार्य ततः श्लोकं पठेदिदं | वलिदानेन संतुष्टो वटुकः सर्वसिद्धिदः || शांतिकरो तु मे नित्यं भूतवेतालसेवितः | तारात्रयं सर्वपूर्वेत्य संतानि वदेत् क्रमात् || योगिनी भूतभूताधिपतीनथ च डाकिनी | शाकिनी त्रैलोक्यवाशिनी इमां पूजां वलिं गृह्न || गृह्न हूं फट् तथा स्वाहा एकपंचाशदक्षरः | पाकाचिद्योगिनी रोद्रा सौम्या घोरतरा परा || १२२ब्) खेचरी भूचरी व्योमचारी प्रीतास्तु मे सदा || तारत्रय स्थाने एह्यहीति वटुक मंत्रे विशेषो ज्ञानार्णवे योगिनीनां तु || ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनतले निष्कले वा क्षितौ पाताले वाऽनले वा सलिल पवनयोर्यत्र तत्र स्थिता वा || क्षत्रे पीठोय पीठादिषु च कृतपदाः पुष्पधूपादिकेन प्रीता देव्यस्सदानः शुभवलिविधिनायान्तु देवेन्द्र तुल्याः || एतदन्ते महेशानि यां वीजं योगिनी ततः | भ्यः स्वाहा सर्ववर्णान्ते योगिनी पदमालिखेत् || कवचं वस्त्रमालिख्य वह्निजायां पुनल्लिखेत् | अनेन मनुना देवी योगिनी वलिमाहरेत् || मेरुतंत्रे || तारत्रयं तथैह्येहि देवी पुत्र वटुकना | थोछिष्टहारिणे हं हूं हं हूं वारद्वयं वदेत् || क्षेत्रपालेति सर्वेति विघ्नान्नाशययुग्मकं | सर्वोपचारसहितामिमां पूजां वलिं वदेत् || गृह्न गृह्न हूं फट् स्वाहा || षष्ठ्यक्षरो मनुं || क्षेत्रपालस्य संप्रोक्तः सर्वसिद्धिप्रदायकः | योस्मिन् क्षेत्रनिवासी च क्षेत्रपालस्य किंकरः || प्रीतोयं वलिदानेन सर्वरक्षां करो तु मे || अपरं च श्रेष्ठक्षेत्रपालस्य || ओंकार त्रितयं फ्रें श्रीं शौंः ह्रां ह्रीं वदेत् ततः | हूं युगांत भैरवाधिष्ठितायाक्षो वदेति || स्वानन्द हृदयाभीष्ट सिद्धयेवतर द्वयं | क्षेत्रपाल महाक्षेत्र मातृपुत्र पदं वदेत् || कुलपुत्र स्वानाधिपतये ततः || मेघनादप्रचण्डोग्र कपाली भीमभीषण | सर्वविघ्नाधिपते च इमां पूजां वलिं गृह्नं || गृह्न कुरु कुरु मुरु मुरु चूर्णय चूर्णय | ज्वल प्रज्वल युग्मे च सर्वविघ्नानिनाशय || नाशय क्षां क्षीं क्षं क्षेत्रपालाय वौषट् हूंमिति | द्विचत्वारिंशदधिक शतैकाक्षरको मनुः || श्रेष्ठस्य क्षेत्रपालस्य महाप्रीतिकरः स्मृतः || राजा राजेश्वर क्षेत्रपालमंत्रः || तारत्रयं वदेत् पश्चादमुक क्षेत्रपालाय | राजराजेश्वर इमां पूजां वलिमतः परं || गृह्न युग्मं द्विठांतोर्णैरष्टाविंशतिभिः स्मृतः || अनेन वलिदानेन वटुवर्गसमन्वितं || राजराजेश्वरो देवो मे प्रसीद तु सर्वदा | वटुकाय वलिं पश्चादुत्तरे योगिनी वलिः || १२३अ) पूर्वभूतवलिं दद्यात् क्षत्रपालाय दक्षिणे | राजराजेश्वरं मध्ये पूजयित्वा हरेद्वलिमिति || ज्ञानार्णवे तु || षड्दीर्घस्वरसंभिन्नं क्षकारं पुनरालिखेत् || क्षकारे विन्दुराचारात् || पुनः क्षेत्रपदं पालधूपदीपादि चालिखेत् | सहितम्वलिमालिख्य गृह्न गृह्न ततो वदेत् || वह्नि जायान्वितो मंत्रः क्षेत्रपालस्य सुन्दरि | अनेन मनुना देवि क्षेत्रपाल वलिं हरेत् || गां गीं गुं त्रयमालिख्य ङेन्तं गणपतिम् वदेत् | वरान्ते वरदान्ते च सर्वान्ते जनमालिखेत् || मेवशं चानयेत्युक्त्वा वलिं गृह्न द्विधा पदं | वह्नि जायान्वितो मंत्रो गणपस्य वलि हरेत् || वामभागे कृतस्याथ मण्डलस्यापरिक्षिपेत् | आधारं पूजयेत् तत्र पात्रं चान्योदकान्वितं || सकारणं मंत्रयित्वा सर्वभूत वलिं हरेत् | षोडशार्णेन मनुना त्रिवारं वीरवन्दिते || तारं च भुवनेशानीं सर्वविघ्नपदं ततः | कृत्यश्च सर्वभूतेभ्यो हूंकारं वह्निवल्लभां || समुच्चरन् वलिन् दद्यात् मुद्रया तत्वसंज्ञया || मेरुतंत्रे || तारत्रयं वदेत् सर्व भूतेभ्यो सर्व एव च | पश्चात् भूतपतिभ्यो हृदुक्तः सप्तदशाक्षरः || भूताये विविधाकारा दिव्यभौमांतरीक्षगाः | पातालतलसंस्थाश्च शिवयोगेन भाविताः || ध्रुवाद्याः संत्यसंधाश्च इन्द्राद्याश्च व्यवस्थिताः | तृप्यं तु प्रीत मनसो भूता गृह्नं त्विमं वलिं || अत्र च वटुकादि वलिदानमावश्यकं वामिनांतदिते तराणां विकल्पं तारारहंस्यावौ अन्तेपि प्रोक्त त्वात् || अथ पीठपूजा || वीरचूडामणौ || पीठपूजाविधानेन पीठं संपूजयेद्वुद्धः | आधारादींश्च संपूज्य नवशक्तिं प्रपूजयेत् || आधारादीनिति आधार शक्तिं प्रकृतिं कूर्म अनन्द पृथ्वी सुधा समुद्र नवरत्नद्वीपमणिमण्डप श्मशान कल्पवृक्षरत्नवेदिका रत्नपीठ मुनि देवशवशवमुण्ड वहुमांसादि मोदमान शिवा कर्णिकायां संपूज्य भुपूरस्याग्नेयादि कोणेषु धर्मश्वर्याणि पूर्वादि द्वारेषु अधर्म अज्ञान अवैराग्य अनैश्वर्याणि || १२३ब्) मध्ये आनन्दकन्दसंविन्नाल प्रकृतिमय पत्र विकारमय केशर पंचाश वर्णवीजाढ्यकर्णिका सूर्यन्दु वह्निमण्डलसत्वरजस्तमोसि आत्मान्तरात्म परमात्मज्ञानात्मानश्च पूजयेदित्यर्थः || नवशक्तिमिति अष्टसुकेसरेषु मध्ये च इच्छाज्ञाना क्रिया पश्चात् कामिनी कामदायिनी || रतीरतिप्रियानन्दा नवमी स्यान्मनोन्मनीति कुमारीतंत्रोक्ता || उग्रोग्र चण्डा चामुण्डा प्रचण्डा विकटोत्कटा | संकटा चैव चण्डोग्रा तथा मंगल चण्डिकेति || भैरवीतंत्रोक्ता वा || वीरचूडामणि मतेन वतारोक्ता चेत्यर्थः || इदमुपलक्षणं || ऐं परायै अपरायै परापरायैत् ह्यौः सदाशिव महाप्रेत पद्मासनाय नमः इति कुमारीतंत्रोक्त पीठमंत्रेण मध्ये पीठमपि पूजयेत् || तथा || तत्रैवा वाह्यसारङ्गीमुपचारैः प्रपूजयेत् | कुंडलिनीं समुत्थाप्य ब्रह्म ग्रंथिं विभेदयेत् || नादमार्गे समानीय संस्थाप्य द्वादशे दले | ब्रह्मतीर्थं ततो भित्वा संतर्प्य तेन धारया || संपूज्य हृदये देवीं वाह्यपूजां समाचरेत् | सुषुम्ना मध्यमार्गेन नीत्वा चैव विलांतरे || सामरस्यात्मकं भाव्य ध्यानस्था जपमाचरेत् | तत्रस्थां देवींमावाह्य आज्ञाचक्रं विभावयेत् || नाशिका मध्यमार्गेन स्थापयन्नासिकोपरि | मूलमंत्रं समुच्चार्य संवोध्य कालिका पदं || एह्येहि च महादेवि पादुकाभ्यां दयानिधे | संकल्प चासनादीश्च योनिमुद्रां प्रदर्शयत् || कालीतंत्रे || ततो हृदयपद्मान्तः स्फुरंती परमां कलां | यंत्रमध्यसमावाह्य न्यासजालं प्रविन्यसेत् || कुमारीकल्पे || ततो हृदय पद्मान्तः(?) स्फुरंतिं विद्युदा कृतिं | देवेशीत्यादि मंत्रेण विम्वादावाहयेत् सुधीइः || देवेशि भक्ति तु लभे परिवार समन्विते | यावत् त्वां पूजयिखामि तावद् देवी स्थिरा भवेत् || ननु कथमत्र यंत्रांदौ देवताविर्भाव प्रतितिर्न्निष्कलत्वात् || पूर्वमुक्तमपि तथापि अत्रोच्यते || मेरुतंत्रे || अरूपं रूपिणं कृत्वा कर्मकांडरता जनाः | गवां सर्वांगजं क्षीरं स्रवेत्स्तनमुखाद्यथा || १२४अ) तथा सर्वगतो देव प्रतिमादौ विराजते | आभिरूप्याच्च विंवस्य पूजायाश्च विशेषतः || साधकस्य च विश्वासात् सांनिध्यं देवता लभेत् | गंवां सर्वशरीरस्थं न करोभ्यात्म पोषणं || स्वकर्मरचितं दत्तं पुनस्तानेव पोषयेत् | एवं सर्वशरीरस्थः सर्पिवत् परमेश्वरः || उपासनां विनां देवा न ददाति फलं नृणां | सकलीकृत्य तत्प्राणान्तदीयानीन्द्रियाणि च || प्रतिष्ठाप्यार्चयेद् देवानन्यथा निःफलं मतं | देवस्य मंत्ररूपस्य यंत्रव्याप्तिमजानतां || कृतार्चनादिकं सर्वं व्यर्थं भवति शांभवि || अतो यंत्रादौ पूजा प्रशस्ता || देवेशीत्यादि मंत्रेण चक्रात् शिरस्थ पद्मात् || स्वतंत्रतंत्रे || ततः कामकला ध्यानादावाह्य कालिकान्ततः | कूर्माख्य मुद्रया पुष्पं चक्र मध्ये निधापयेत् || कुर्ममुद्रा तंत्रे उक्ता || वामहस्तस्य तर्जन्यां दक्षस्य च कनिष्ठिका | तथा दक्षिण तर्जन्यां वामांगुष्ठं निजा जयेत् || उन्नतं दक्षिणांगुष्ठं वामस्य मध्यमादिकाः || अंगुलीर्यो जयेत् पृष्ठे दक्षिणस्य च || वामस्य पितृतीर्थेन मध्यमानामिका तथा | अधोमुखे ततः कुर्याद् दक्षिणस्य न हस्ततः || कूर्मपृष्ट समं कुर्याद् दक्षिणस्य च मण्डलं | एवंम्विधस्सर्वसिद्धिन् ददाति करकच्छपः || आवाहनादि मुद्राः प्रदर्श्य षडंगन्यासेन सकलीकृत्य लेलिहान मुद्रया प्राणप्रतिष्ठां कुर्यात् || मुद्रा यथा || तंत्रे || आवाहन स्थापनं च सन्निधापनमेव च | सन्निरोधनमित्युक्तं संमुखिकरणं तथा || विधाय स्वस्वमुद्राभिः प्राणस्थापनमाचरेत् || आसां लक्षणं मुक्तं लक्षसंग्रहे || हस्ताभ्यांमंजलिम्वध्वाऽनामिकामूलपर्वणः | अंगुष्टो निःक्षिपेत् सेयं मुद्रात्वा वाहनी मता || अधोमुखी त्वियं वै स्यात् स्थापनमाचरेत् || आसां लक्षणमुक्तं लक्षणसंग्रहे || हस्ताभ्यामंजलिम्वध्वाऽनामिका मूलपर्वणः | अंगुष्टो निःक्षिपेत् सेयं मुद्रात्वा वाहनी मता || अधोमुखी त्वियं वै स्यात् स्थापनमाचरेत् || आसां लक्षणमुक्तं लक्षणसंग्रहे || हस्ताभ्यामंजलिम्वध्वाऽनामिकामूल पर्वणः | अंगुष्टो निःक्षिपेत् सेयं मुद्रात्वा वाहनी मता || अधोमुखी त्वियं वै स्यात् स्थापनीति निगद्यते || १२४ब्) उच्छ्रितांगुष्ठमुष्ट्योस्तु संयोगात् सन्निधापनी | अंतः प्रवेशितांगुष्टा सैव संवोधिनी मता || उत्तानमुष्टि युगलासंमुखीं करणी भवेत् | सव्य हस्तकृतामुष्टि दीर्घाधो मुखतर्जनी || अवगुण्ठन मुद्रेयमभितो भ्रामिता सती | देवताङ्गे षडंगानां न्यासः स्यात् सकलीकृतीः || अमृती करणन्धेनु मुद्रयामाच प्रोक्ता | अंन्यसंग्रंथितांगुष्ठा प्रसारित पराङ्गुलिः || महामुद्रेय मुदिता परमी करणे प्रिये | प्रयोजयेदिमा मुद्रा देवताह्वान कर्मणि || अत्राद्यं पंचमुद्रासु ईहागच्छ इह तिष्ठ इह संन्निध्येहि इह सम्मुखी भवेति क्रमाद् वदन्ति || उडीशे || अत एवाभि पूर्णया देवतायाः प्रपूजने | सादरं संमुखीभावमावाहनमिहोच्यते || अत एव आवाह मुद्रा दर्शना देव || तथा || विभोर्निवेशनं यंत्रे स्थापनं कथितं वुद्धैः | पूजां प्रपूज्ये मानान्तु गृहीत्वानुग्रहादिकं || कर्तुं सामर्थ्यमस्यास्तु तत्सानिध्यं प्रपक्षते | आकर्मकाण्डपर्यन्तं सानिध्य मे विभोश्च यत् || ससन्विरोध उद्दिष्टो भक्तितो मंत्रविन्नरैः | आनन्दाय तन्तत्वं सचिदानंदलक्षणं || तदत्र सकले व्याप्तं ध्येयं स्यादवगुण्ठनं | सकलीकरणं कृत्वा मंत्रैरेभिरथैकतां || आंगानामङ्गिनाशार्द्धं विदध्यादमृती कृतिः | क्षमा तस्यापराधानां विज्ञेया परमीकृतिः || अपराधानां अपरिच्छिन्न ब्रह्मण आवाहनादि मुद्रया परिच्छिन्नता भाव न रूपापराधानां || मुद्रान्तराणि भैरवतंत्रे || पंचमुद्रा विभूषितामित्यभिधाय || योनिश्च भूतिनीश्चैव वीजाख्या दैत्यधूमिनी | लेलिहानेति संगुप्ताः पंचमुद्राः प्रकीर्तिताः || आसां विजानि तत्रैव || योनिर्मायोधरोधेनुर्वुधुः कूर्चं क्रमाद्विदुः | वीजान्यासां लक्षणं तु क्रमेण कथयाम्यहं || यानिः ऐं माया ह्रीं अधरां एतदनंतरी भूताधेनुं वं वधुः स्त्री क्वच्च(?) हूं वीजान्या || तथा तर्जन्य नामिके मध्ये कनिष्ठे चक्रमदपि || करयोर्यो जपेच्चैव कनिष्ठा मूल भेदतः | अंगुष्ठाग्रं तु निछिप्य महायोनि प्रकीर्तिता || तंत्रान्तरेपि || १२५अ) वध्वा तु यो निद्राम्वै मध्येम कुटिले कुरु | अंगुष्ट च तदग्रे तु मुद्रेयं भूतिनी मता || भैरवतंत्रे || परिवत्यकरौ स्पष्टावंगुष्ठ तर्जनी युतं | अर्धचन्द्राकृति न्यायं युगपत् कारयेत् समं || अधः कनिष्ठामाकृष्य मध्यमे विनियोजयेत् | मुद्रैषां कथिता देवी वीजाख्या ज्ञानरूपिणी || परिवर्त्यकरौ कृत्वा कनिष्ठा कृष्णमध्यमां | अनामयोर्युगं चाधस्तर्जनी युगलं पृथक् || अन्योन्यं विविड स्वध्वा अंगुष्ठाग्रे अनामिके | दैत्यानां धुमकेत्वाख्या मुद्रैषा कथिता प्रिये || वक्रं विस्फारितं कृत्वा प्यधो जिह्वा च चालयेत् | पार्श्वस्थमुष्ठियुगलं लेलिहानेति कीर्तिता || ततः पूर्वक्रिया प्राण प्रतिष्ठा मंत्रेण देव्या हृदि ललिहा मुद्रया प्राणप्रतिष्ठां कुर्यात् || ललिहा मुद्रा यथा || तर्जनी मध्यमानामासमां कुर्यादधोमुखीं | अनामायां क्षिपेद्वृद्धीं ऋंजुं कृत्वा कनिष्ठिकां || लेलिहानाम मुद्रेयं जीवन्यासे प्रकीर्तिता || स्वतंत्रतंत्रे || ध्यात्वा देवीं समावाह्य योनिमुद्रां च दर्शयेत् | खड्गमुण्डवराभीति परयानिन्तु दर्शयेत् || कनिष्ठानामिकां वध्वा अंगुष्ठे नैव दक्षकः | शेषांगुलि तु प्रसृते संस्पष्टे खड्गमुद्रिका || वरदाभयमुद्रे तु वरदाभयवत् कुरु || करौ तु संपुटौ कृत्वा कनिष्टा मूलदेशतः | अंगुष्टाग्रं योजयित्वा परयोनिरितीरिता || अंतरंगुलिमुष्ठिं च कृत्वा वामकरस्य च | मध्यमाभ्यां दक्षिणस्य तथा लंव्य प्रयत्नतः || मध्यमे नाथ तर्जन्यामंगुष्टाग्राग्रिमोह्यथा | दक्षिणं योजयेत् पाणिं वाममुष्टौ तु साधकः || दर्शयेद् दक्षिणे भागे मुण्डमुद्रेय मुच्यते || भैरवतंत्रे || ततो हृत्पद्मतो देवीं तेजो रूपां कराम्वुजे | निःसार्य नासया यंत्रे स्थापयेद्वीजमुच्चरन् || मूलेन मूमूर्ति संकल्प्य प्राणान् संस्थापयेत्तः | पूर्वोक्त प्राणमंत्रेण देवीमावाहयेत् ततः || आवाहनादि मुद्रा वीजैर्मुद्राः प्रदर्शयेत् | योनिश्च भूतिनी चैव वीजाख्याऽसुरनाशिनी || १२५ब्) दानवध्वंसिनी व्याख्या लेलिहाना क्रमेण च | आसां च लक्षणं वीजं ताराकल्पे प्रकीर्तितं || इदं तु तत्प्रयोजकमेव || लक्षणं वा सुरनाशिन्याः कथयामि शृणु प्रिये | वामांगुष्ठं विरचयय मोचयित्वा च तर्जनी || भुजाकोर्द्ध दक्षमुष्टिं प्रसार्य तर्जनीन्ततः | रचिता वैरि विध्वंसी मुद्रैषासुरनाशिनी || कामाग्निरति विन्द्वाढ्यं वीजमस्याः प्रकीर्तितं | मुद्रयासिंच फलकं विधृत्यवीमुच्चरन् || उत्तरतंत्रे || वाग्भवस्य द्वितीयेन कामराजेन भैरव | मुद्रया वन्धनं कार्य मूलमंत्रेण दर्श च || परित्यागस्तु मुद्रया कुर्मवीजेन मोचयेत् || कालीहृदये || देवीं ध्यात्वा समावाह्य योनि मुद्रां तु दर्शयेत् | खड्गमुण्डधराभीतिं पद्मयोनिं तु दर्शयेत् || मेरुतंत्रे कुलार्णवेपि || पीठे देवीं प्रतिष्ठाप्य ध्यायन्नर्घ्योदकेन च | त्रिसिंचेन् मूलमंत्रेण दीपिनी मंत्र तत्रिधा || अकारादि क्षकारांता मातृकाभिस्त्रिधा पुनः || दीपिनी मंत्रस्तु सुरासाधने प्रोक्तः || दीपिनी मनुराख्यातो देवतेजोभि वृद्धिकृत् | एवं च यत्रे देवीमावाह्य आवाहनदी मुद्राः प्रदर्श्य प्राणप्रतिष्ठां कृत्वा षडंगेन सकलीकृत्यावगुण्ठन धेनुयोनि खड्गमुण्डा भयवरमुद्राः प्रदर्श्य पूजयेत् || मेरुतंत्रे || यथा वालस्याभिनयं दृष्ट्वा दृष्यन्ति मातरः | तथा भक्तकृतां मुद्रां दृष्ट्वा हृष्यन्ति देवताः || तथा || न जातु दर्शयेन्मुद्रां महाजन समागमे | क्षुभ्यन्ति देवतास्तस्य किं फलं तु कृतं भवेत् || कुलार्णवे || सकलीकृत्य तत्प्राणांस्तदीयानिन्द्रियाणि च | प्रतिष्ठाप्यार्चयेद् देवमन्यथा निस्फलं भवेत् || त्रिशक्तिरत्ने || पूर्ववत् तर्पयेद् देवी देवीयात्रा मृतेन हि || वीरचूडामणौ || पाद्यादि मधुपर्कं च उपचारस्तु षोडश | कृत्वा संपूज्यतां कालीं साङ्गां सावरणां यजेत् || उपचाराश्चोक्ता मेरुतंत्रे || ततः संपूजयेद् देवं शक्त्या लभ्यापचारकैः | १२६अ) तत्राढ्यैः पूजनं कार्यं षोडशैरूपचारकैः || आसनं स्वागतं चार्घ्यं पाद्यमाचमनीयकं | मधूपर्कोथाचमनं स्नानं वस्त्रमलंकृतिः || गंधपुष्पाणि धूपश्च दीपनैवेद्य चंदनाः | प्रयोजयेदर्चनायामुपचारां तु षोडश || दशोपचारा मध्या स्यात् सा गृहस्थैर्विधीयते | अर्घ्यं पाद्यं तथा चामो मधुपर्कस्तथाचमः || गंधादयो निवेद्यांता उपचारा दशस्मृता | गंधादयोनिद्यांता पूजापंचोपचारिकाः || मंत्ररत्नावल्यां || पाद्यार्घाचमनीयं च स्नानं वसन भूषणं | गन्धपुष्पधूपदीपनैवेद्याचमनानि च || ताम्वूलमथ च स्तोत्रं तर्पणं च नमस्कृया | प्रयोजयेदर्चनायामुपचारांस्तु षोडश || पाद्यमर्घ्यन्निवेद्याथ तथैवाचमनीयकं | मधूपर्का च मनश्चैव गन्धप्रसूनके ततः || धूपदीपौ च नैवेद्यं दशोपचारकं मतं || मेरुतंत्रे || अगृहस्थैर्गृहस्थैर्वा कर्तव्या कार्य तत्परैः | आदौ कूर्याद् वैदिकस्तु वेदमंत्रेण पूजनं || ततश्च त्रांत्रिकैर्मंत्रैर्वामी शूद्रश्च तंत्रतः || प्रपंचसारे || सपर्या त्रिविधा प्रोक्ता मासामेकतमंश्रयेत् | त्रिविधा षोडशदशपंचोपचार भेदात् || कुलोड्डीशे || उपचारेषु सर्वेषु यत्किंचिदुल्लभं भवेत् | तत्सर्वं मनसा ध्यात्वा पुष्पक्षेपेण कल्पयेत् || तत्र तत्र जलन्दद्याद्रूपचारान्तरान्तरा || मेरुतंत्रे || अहं हंहमिदमिदमिदं गृहाणठ द्वयं | याह्येः सर्वोपचारेषु मंत्रः पंचदशाक्षरः || पठेद्वा वैदिकस्यान्ते तंत्रमंत्रं तु वैदिकः | सर्वत्र वह्निजायाद्याः स्थाने शूद्रो नमः पठेत् || अथोपचारेण || सारसंग्रहे मेरुतंत्रेपि || देवस्य वामभागे तु दद्यान्मूलेन चासने | पौष्पं दारुमयं वास्त्रं चार्मं कोशं च तैजसं || षड्विधं चासनं प्रोक्तं देवता प्रीतिकारकमिति | पौष्पं पुष्पादि रचितं कूशसूत्रादि संयुतं || नानावर्णं सुगंधं च कोमलं सर्वकामदं | यस्य यानि निषिद्धानि पुष्पाण्युक्तानितैः कृतं || केवलैराशनं हन्ति साधकस्य मनोरथान् | १२६ब्) यज्ञदारु समुद्भूतं तैत्वं वा चंदनोद्भवं || गंभार्याविष्टरो वापि श्रीपर्न्यावेप्सीत प्रदं | सकंटकं क्षीरयुतं तारसारविवर्जितं || चैत्य श्मशान संभूतं वर्जयेच्च विभीतकं | रोमजं वाल्कलं कोश जातं कार्या स संभवं || वास्त्रं चतुर्विधं श्रेष्टं पूर्वपूर्वमुदाहृतं | सिंहव्याघ्रतरक्षुणां छागस्य महिषस्य च || गजानांतुरगाणां च कृष्णसारस्य चर्मणां | आसनं निर्मितं श्रेष्टं निषिद्धं खरकुक्कुरं || शृंगालस्य वृकस्यापि गोःशशस्य कपेस्तथा | कूशः काशः शरो ग्रंथो यवो दूर्वाश्च वल्वजाः || गोकेशभुजौ कुंदश्च पूर्वाभावे परः परः | योगपीठस्य सदृशस तेषांमासनं स्मृतं || पूर्वपूर्वं श्रेष्टतमं कौशं दशविधं स्मृतं | स्वर्णतारास्रजसदवंगानां तु परं परं || हीनं निषिद्धं लोहं च कास्यंसीसं च पित्तलं | कौशं सप्तविंशति कुशपत्राणाम्विष्टरः || एवं विषिना || स्वागतं तु स्वागत मुद्रां प्रदर्श्य श्री अमुकदेवी स्वागतमित्युच्चार्य कर्तव्यं || कालीकल्पे || पाद्यन्तु पादयोर्दद्यात् नमामंत्रेण मंत्रवित् || शारदायां || एतढ्यामाकदूर्वाप्त विष्णुक्रांताद्भिरीरितं || मेरुतंत्रे || आगते स्नानकाले च नैवेद्याप क्रमेपि च | त्रिविधः पाद्यकालः स्यात् पाद्यं स्यात् पादधावनं || भैरवतंत्रे || ततो देवीं पुनर्ध्यात्वा सर्वोपचारतः सुधीः | पूजयेत् मूलमुच्चार्य दक्षिणां कलिकां वुद्धः || कालीकल्पे || महाकालं यजेत् पूर्वं पश्चार्देवीं प्रपूजयेत् | महाकालं यजेद् देव्या दक्षिणे धूम्रवर्णकं || विभ्रतं दण्डखट्वांग दंष्ट्राभीममुखं शिशुं | व्याघ्रचर्मावृतकटिं तुन्दिलं रक्त वा समं || त्रिनेत्र मूर्ध्वकेशं च मुण्डमालाविभूषितं | जटाभारलसेच्चन्द्रखण्डमुग्रं ज्वलन्निव || इति ध्यात्वा महाकाल मंत्रेणैव प्रपूजयेत् | कवचं स्फौ समुद्धृत्य यां रां लां वांचकौं ततः || महाकालभैरवेति सर्वविघ्नान्नाशयेति च | नाशयेति पुनः प्रोच्य मायां लक्ष्मीं समुद्धरेत् || फट् स्वाहया समायुक्तो मंत्रः सर्वार्थसाधकः || १२७अ) वीरचूडामण्युक्त ध्यानादिस्तु वैकल्पिकः || महाकालसंहितायां || मूलमंत्रं समुच्चार्य एतत् पाद्यं वदेत् ततः | दक्षिणकालिकायै च नम इति पदे शिवे || जलं सुशोभनं देवि सुगन्धि द्रव्यसंस्कृतं | मया निवेदितं भक्त्या पाद्यं च प्रतिगृह्यतां || अनेन मनुना देव्यै पाद्यं दयात् पदस्थले || कालीकल्पे || स्वाहा मंत्रेण देवेशि अर्घन्दद्याच्छिरोपरि || मेरुतंत्रे || ततोर्घ्यं मूर्ध्नि दद्याच्च कालोस्य त्रिविधो मतः | आगताय तथार्चायां स्नातु मासनगाय च || पूजान्ते गंतुकामाय देवायार्घ्यं प्रदापयेत् | मूलमुच्चार्य देवेशि एषोऽर्घ इति च स्मरेत् || श्रीदक्षिण कालिकायै स्वाहया च शिरस्थले | शंखस्थे नार्घ्यणीरेण अष्टद्रव्येण संयुतं || मया निवेदितं चार्घ्यं प्रगृह्यतां महेश्वरि | मनुनानन देव्यास्तु शिरोदेशे निवेदयेत् || इति संहिता प्रोक्त त्वात् || मेरुतंत्रे तु || सुगन्ध तैलैरत्यज्य सुगंधा मलकादिभिः | उद्वर्तनं विधायाथ स्नापयेदुष्णवारिणा || गंधोदकैश्च मूलेन यथाशक्त्यभिषेचयेत् | क्षीरदध्याज्य मधुभिः खण्डेन च पृथक् पृथक् || नालिकेरोदके नापि तथा तालफलांवुना | गंधद्रव्यैश्च वहुभिस्तथा गंधोदकेन च || ऐक्षवेनोदकेनापि स कर्पूरादि गंधिना | कदलीपनसाम्राथ रसनापि सुगंधिना || शतं सहस्रमयुतं शक्त्या वाप्यभिषेचयेत् | शंखं प्रपूर्यते नैव स्नापयेत् तमनन्यधीः || सर्वेषां प्रीतिदः शंखो न सूर्यस्य कदाचन || शारदायां || गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपैः | सदूर्वैस्सर्वदेवाना मेतदर्घमुदीरितं || कालीकल्पे || आचमनं मधुपर्कं च सुधामंत्रेण वै मुखै || शारदायां || स्वधामंत्रेण वदने दद्यादाचमनीयकं | जातीलवङ्गकञ्कोलैस्तदुक्तं मंत्रवेदिभिः || मेरुतंत्रे || जातीफललवंगैलाचंद्रकंकोलचूर्णयुक् | पुनराचमनीयार्थं तोयं देवमुखेर्पयेत् || शारदायां || सुधानूना ततः कुर्यान् मधुपर्क्वम्मुखाम्वुजे | १२७ब्) आज्यन्दधिमधुन्मिश्रमयमुक्तो मनीषिभिः || कुलोड्डीशे || माक्षिकं शर्करा सर्पिर्दधिक्षीरयुतन्तथा | मधुपर्कङ्कल्पयित्वा प्रदद्याद्विधि पूर्वकं || सर्वतः क्षौद्रमधिकं दधिसर्पिः सितासमं | जलन्तु सर्वतः स्वल्पं मधुपर्क उदाहृतं || शारदायां || तेनैव मनुना कुर्यादद्भिराचमनीयकं || आचमनीयकं पुनराचमनीयकं || मेरुतंत्रे || पाद्या च मधुपर्के च स्नाने वस्त्रोपवीतयोः | भोजने चाचमः शुद्ध तोयैः षोढा प्रकीर्तितः || कालीकल्पे || स्नानं गन्धं हृदा दद्यात् पुष्पाणि वौषडित्यपि | ततो निवेदयामीति सर्वन्दद्यान् महेश्वरी || सुधामंत्रेण वमिति वीजेन || मेरुतंत्रे || क्षौद्रं कृत्वा कांस्यपात्रे दद्याद्दैव मुखांवुजे | दिवसे दधिसंयुक्तेमुपचारमनुं पठन् || एतन्मते उपचार मंत्रमुक्तं पंचदशाक्षरं || स्वतंत्रे || मधुपर्कं मुखे दद्याज्जलमंत्रेण देशिकः || यामले || वारुणेन च वीजेन मधुपर्कम्मुखाम्वुजे | तनैव मनुना कुर्यादद्भिराचमनीयकं || गन्धाद्भिः कारयेत् स्नानं वाससी परिधापयेत् || मेरुतंत्रे || स्नानं पुरुष सुक्तेन कार्यं मूलेन वामिभिः | तथा || वस्त्रदानं || विष्णवे वगला मुख्यै पीतकौशेय संवरं | शिवाय च सरस्वत्यै पार्श्वनाथाय शुभ्रकं || रत्नं शक्त्यार्क विघ्नानां भौमसौगतयारपि | कृष्णं भैरव काल्यादेराधादेर्नीलमंवरं || अछिद्रं मलहीनं च सदर्शयन्न धारितं | कार्पासजं वा कौशेयं रांकवं वा विशिष्यते || तैलादि दूषिताद्रोगः स छिद्राद्वाभ्यता भवेत् | परकीपाच्च दारिद्र्यं जीर्णदायुः क्षयो भवेत् || दग्धाद् विपत् भवेद् दास्यं दत्ते गात्रावलंविते | सूची विद्धात् स्फोटकादि मलिनात् कांतिहीनता || उप्तकेशे पुत्रनाशश्चाधौते दीनता भवेत् | मिथ्याभिशापो भवति श्लेष्म मूत्रादि दूषिते || यामले || दद्याद् दिव्योपवीतं च हाराद्याभरणानि च | गन्धश्चन्दनकर्पूर कालागुरुभीरीरितः || वसनं च दूकूलन्देयं दत्वा सूक्ष्मे दुकूलके || १२८अ) इति पुरश्चरण चन्द्रिका वचनात् || तत्रापि शक्ते रक्तवस्त्रं प्रशस्तं रक्तं शक्त्यर्क विघ्नानामिति यामल वचनात् || यज्ञोपवीतं दत्वाथ भूषणानि समर्चयेत् | ङेंतं नमोंतं तन्नाम पूजनादौ प्रयोजयेत् || तानि नाना विधानि स्यूर्मुकुटादि प्रभेदतः | स्त्रीपुं प्रभेदतश्चापि विज्ञेयानि विचक्षणैः || सारसंग्रहेपीत्येव || यज्ञोपवीतं पुन्दैवतेयमित्यर्थः || गंधाः पुरश्चरण चन्द्रिकाया मुक्ताः || चन्दनं मलयोत्पन्नमनाघ्रातं सुशीतलं | कर्पूरां गुरु कस्तूरी हिमाम्वुक्षोदितं शुभं || क्षोदितं घृष्टं कुंकुम रक्तचन्दन अपि प्रशस्ते तंत्रान्तरात् || मेरुतंत्रे || चूर्णं घृष्टं धूमसारः संमर्द प्राणि संभवः | गन्धः पंचविधो ज्ञेया मोददः स्वर्गवासिनीं || प्रशस्त गंधयुक्तानां यत्रचूर्णानि यानि च | तानि गंधः ह्वयानि स्यूश्चूर्णजः प्रथमः स्मृतः || घृष्टो मलयजो गंधः सरलो देवदारु च | कृष्णा गुरुः करंवश्च द्वितियोयं प्रकीर्तितः || शतपती रसमग्नाच्चन्दना गुरुकादिकान् | पीठवी यंत्रतः का च कूर्यात् सिद्धस्तृतीयकः || कृष्णागुरुश्चंदन देवदारु कालीयकंवालक भद्रमुस्तं | शिलारसः कुंदरकोकिलाश्च सवंतिकाकेतु नगाहलीनाः || मृत्कर्पतैः संयुत काच कूप्यां दत्वा मुखं मुद्रपलोह सूत्रैः | निष्कोषितो धूमरसस्तु तस्य सौगंधिकैः काच कटारकेयः || महामादनामासुरामोदकारी तथा भूतयक्षोरगातंककानी | ज्वरारोचकच्छर्दिशं कापहारी ललाटेस्थि दोषापहारी || यथा भागमनेके तु सुगंधागंधवारिभिः | मर्दिताः स चतुर्थस्तु संमर्द इति कीर्त्यते || कस्तूरिका चैक भागाद्वौ भागौमुस्तकस्य च | तदर्धैला जटामांसी त्वक्कुष्ठं च शिलारसः || चतुर्भागं वालकं च घृतभृष्टा तथा नखी | सुगंध कोकिला लोह वाणो राजवचा तथा || अष्टौ भागाः केसरस्य मुरायाश्चाथ षोडश | कृष्णागरुश्चाकसीरं कालीयमथषाद्धयः || १२८ब्) भागाः सवन्ति कार्कस्य चन्दनेन विमर्दयेत् | कामोदनामा संमर्दौ देवता राजतोष कृत् || कस्तुरीका चातुमदः प्राणिजात इतीरितः | पंचमोयं सुगंधस्तु देवदानवतोषकृत् || अथ पुष्पदानं || तदुक्तं यामले || पुष्पैर्देवाः प्रसीदंन्ति पुष्पैर्देवाश्च संस्थिताः | किं चाति वहुनोक्तेन पुष्पस्याति मतल्लिका || परं ज्योतिः पुष्पगतं पुष्पे नैव प्रसीदति | त्रिवर्जसाधनं पुष्पं पुष्टि श्रीस्वर्गमोक्षदं || पुष्पमूले वसेद् ब्रह्मा पुष्प मध्य तु केशवः | पुष्पाग्रे च महादेवः सर्वदेवा स्थिता दले || तस्मात् पुष्पैर्यजेद् देवं नित्यं भक्ति युतो नरः || मेरुतंत्रे || पुष्पं पंचविधं प्रोक्तं परं चापरमेव च | उत्तमं मध्यमं हीनं तेषां वक्ष्यामि लक्षणं || परं सुवर्ण पुष्पं स्यात् तत्सदायाग्यमव हि || अत्याग पूर्वकं देयमर्चनार्हं पुनर्भवेत् | अपरं राजत पुष्पं ताम्रजं च प्रकीर्तितं || सदा योग्यं चेदमपि त्रिवर्षं चैक वर्षकं | तुलसी केतकी पद्मं करवीरं च मालती || पंचैतान्युत्तमान्याहुर्मध्यमानि तथा दश | मल्लिकाकुन्दमन्दारतगरार्जुन किंशुकाः || पारिजातमशोकं च विल्वं च पकमेव च | एतद्भिन्नं सुवर्ण च सुगन्धं हीन मुच्यते || तत् तन्मंत्रविधानेषु विहितानि समर्पयत् || कालितंत्रे || नानोपहारवलिभिर्नानापुष्पैर्मनोरमैः | अपामार्ग दलैर्भृंगैस्तुलसी वर्जितैः शुभैः || पूजनीया सदा भक्त्या नृणां शीघ्रफलाप्तये || तथा || सुगंधैः श्वेतलोहित्यैः कुसुमैरर्चयेत् कुलैः | विल्वैर्मरुवकाद्यैश्च तुलसी वर्जितैः शुभैः || द्रोणपुष्पैर्विशेषेण वज्रपुष्पेण मिश्रितैः || मुण्डमालातंत्रे || पुष्पान्यपि तथा दद्याद्रक्त कृष्णासितानि च | श्वेतपुष्पं जवापुष्पं करवीरं तथा प्रिये || तगरं मालती जाती सेवन्ती यूथिका तथा | धुस्तुराशोकवकुल श्वेताकृष्णापराजिता || वकपुष्पं विल्वपत्रं चंपकं नागकेशरं | मल्लिका ऋंठिकां कांची रक्तं यत् परिकीर्तितं || अर्कपुष्पं कोङ्कनवदं वर्वरं च प्रियम्वदा | १२९अ) अष्टम्यां च विशेषेण तुष्टा भवति कालिका || पद्मपुष्पेण रक्तेन संतुष्टा सर्वदेवता | कृष्णा वा यदि वा शुक्ला कालिका वरदा भवेत् || श्मशानधूस्तूरेणैव तुष्टा धूमावति परा | वन्यपुष्पैश्च विविधैस्तुष्टा भवति सर्वदा || आमलक्यस्तु पत्रेण तुष्टा भवति पार्वति || रहस्य कल्लोलिन्यां || अथ पुष्पस्य माहा *? स्पंल्पेशमात्रं वदाम्यहं | यं ज्ञात्वा साधकः सिद्धिं लभेन्मूनं न शंसयः || चम्पकपुष्पं दानेन स्वर्णं वहुविधं लभेत् | नागकेशरदानेन रूपवान् शुभगो भवेत् || पुंन्नागस्य च पुष्पेण ज्वरशांतिर्भवेत् सदा | केशरस्य प्रदानेन शक्रं नाशयते ध्रुवं || पारिजात पारिभद्र दानमायुः प्रवर्धते | कुन्दपुष्पप्रदानेन कामान्नाप्नोति वै ध्रुवं || जातिमालति कुब्जेन श्रीघ्रं तुष्यंति मातरः | कोकिलाख्य प्रदानेन अकालमरणं हरेत् || द्रोद्र पुष्पप्रदानेन तुष्यते परमेश्वरी | यथा छागादि वलिना तथा तुष्पति निश्चितं || करवीरेण पुष्पेण पूजयेज्जगदीश्वरीं | प्रतिपुष्पेषु मंत्रेण योजयीत्वा निशासुवै || लभते वांछितान् कामान् आज्ञासिद्धिश्च लभ्यते | लोहितम्वाथ रक्तम्वा करवीरस्तु सिद्धिदं || वंधुकस्य प्रदानेन पट्टवस्त्रं च लभ्यते | अपराजितायामात्म्यंनेवशक्यं व्रवीम्यहं || अपराजिता प्रियतरं प्रिया देव्या न विद्यते | अपराजितायां पर्णासास्ठिता पूर्वशतं समा || योनिरूपेण तत्रासौ स्थित्वा निर्गच्छतां शिवा | करवीरे लिंगरूपे शिवो वसति वै सदा || शिवशक्त्योश्च संयागात् करवीरापराजिता | रक्तचन्दण मिश्रेण तयोर्योगेन पूजयेत् || तुष्यते परमेशानि सा पूजा सफला स्मृता | पुष्पैररण्यसंभूतैः पत्रैर्वा गिरिसंभवैः || एक(?)रोमोद्भव पुष्परिवा त्रिसन्ध्याश्वेतरोहितैः || पुष्पमालां चाह || महाकालसंहितायां || एकजातियकैः पुष्पैः भिन्नजातीयकैरपि | माला तथैक वर्णास्याद्भिन्नवर्णापि वा प्रिये || १२९ब्) सा पुनस्त्रिविधाज्ञेया परिणाहवणेन तु | पठेद्धृतयपर्जन्तं यामाला नित्यमालिनी || रैक्षिका सा परिज्ञेया सर्वावरतयास्थिता | अधोवलं विनानाभेः कौसुमीयाम्रगुच्यते || साधारणी परिज्ञेया मध्यमा पूर्वतोधिका | आगुल्फम्रविनीयातु पादद्मो परिस्थिता || वनमालति विख्याता सर्वाभ्यः स्रग्भ्य उत्तमाः | किंचिद्विशेषमत्रापि तमपि व्याहरामिते || करवीरैज्जवापुष्पैर्वकैर्दमनकैरपि | नीलोत्पलैः सरसिजैर्लवंगैन्नागकेशरैः || जातिभिर्मारतीभीश्च मल्लीकाचम्पकादिभिः | रचितायाभवेयुर्हि स्रजः परम शोभनाः || मालाभ्योऽन्याभ्य एतास्तु देव्याः प्रीति प्रदायिकाः | अतोन्येषु प्रसुनेषु तिष्टत्सु वरवर्णिनी || अमीभिः कुसुमैस्तासां ग्रथने यत्नमाचरेत् || रुद्रयामले || स्वद्रयामले || स्वद्रव्यैः पूजयेद् विद्यां जवा यावक सिन्दुरैः || तथा || चन्दनं रक्तसंज्ञन्तु शोणितं समुदाहृतं | ओद्र पुष्पं महेशानि योनि पुष्पं निगद्यते || वज्रपुष्पं त्रैविध्यं मुण्डमालायां | आषोडशादनूढाया उत्तमं सर्वसिद्धिदं || वलात्करेण ऊढाया मध्यमं भोगवर्धनं | रजो योगवशादन्यदधमं सुखदायकं || स्वयंभु कुसुमं देवी त्रिविधं भुवि जायते | अनूढाया अनुपभुक्तायाः उढाया उपभुक्ताया || शारदायां || सर्वै पुष्पैः सदा पुज्या विहिता विहितैरपि | कर्तव्या सर्वदेवानां भक्तियोगोऽत्रकारणं || अथाविहिनं || मेरुतंत्रे || नार्पयेद्भूमि पतितं कोरकं कृमिभक्षितं | अंगलग्नं समाघ्रातं म्लानं पर्यूषितं तथा || उग्रगन्धमगन्धं च कृमिकेशाविदूषितं | असुधापात्र प्राण्यं गवासोभिः कुत्सितात्मभिः || आनीतं तन्निषिद्धं स्यान्मध्याह्न स्नान तस्तथा || गौतमीये || स्वयंविकाशितैः पुष्पैः स्वयं च पतितं भुवि | भूगतं वर्जयेत् पुष्पं सफालि वकुलं विना || कलिकाभिस्तथा त्याज्या विना चंपक पद्मकैः | विल्वस्य खदिरस्यैव तथा धात्री दलस्य च || १३०अ) तमालस्य च पत्रस्य छिन्नछिन्नं न दुष्यति || मेरुतंत्रे || पत्रं वा यदि वा पुष्पं फलं नेष्टमधोमुखं | दुःखदं तत्समाख्यातं यथोत्पन्नं तथार्पणं || चित्रपूजासू सर्वासु न विरुद्धस्य दूषणं | अधोर्मुखार्पणं नष्टं पुष्पांजलि विधौ न तत् || न पर्युषित दोषास्ति तुलसीविल्वचंपके | जलजे वकुलेगस्त्ये माला कारागृहेषु च || केटकी कुटजेनेशं न वर्वर्याक्षतैर्हरीं | न दूर्वयायजेदुर्गां विल्वपत्रैर्दिवाकरं || लंवोदरं तुलस्या च वृंतहीनैः समर्पयेत् | देवीनामर्कमन्दारा वादित्ये तगरं तथा || गणेशाय च सूर्याय यस्तु पुष्पमति प्रियं | पुष्पाभाव प्रवालैर्वा तदभावे च कोरकैः || तदभावे फलैः पत्रैःस्तदभाके तृणां कुलैः | कदलं डादिमं कोलं जंवुचिंचामनाश्रवं || मातुलुंगं च वीरं पणसंश्रेष्टमुच्यते || मालिनीतंत्रे || पूजयेत् परमेशानी पुष्पाभावा तु पत्रकैः | पत्रानामप्य लाभे तु द्रुमगुल्मोद्भवादिभिः || तद्भवानाम लाभे तु तत्फलेन प्रपूजयेत् | अक्षतैर्वा जलैर्वापि तदभावे तु शर्षपैः || सितैस्तेषांमलाभे तु मानसं पूजनं चरेत् || तंत्रे || अंगुष्ठतर्जनीभ्यां च चक्रपुष्पं निवेदयेत् | पुष्पं सुसोभनं देवी सौरत्येन समन्वितं || मया निवेदितं भक्त्या सुपुष्पं प्रतिगृह्यतां || अथ धूपदानं || तदुक्तं मेरुतंत्रे || धूपपात्रं ततोस्त्रेण क्षालयेत् पूजयेत् ततः | हृदाणुनाथ चास्त्रेण घंटां संपूज्यवादयेत् || पुरश्चरणचण्डिकायां || इथं धूपं प्रकूर्वित ताम्रकांस्यादि निर्मिते | भाजने द्विपदेभुग्ननालेपद्मा कृतौ शुभे || सारांगारविनिःक्षिप्तैर्गुर्गुल्व गुरुवृक्षजैः | निर्यासाद्युत्थितैर्द्धुपैः कुन्ध्रद्रव्यैरथोदितैः || निर्यासः सर्जरसादिः || मेरुतंत्रे || धूपं दहेद् गणेशस्य प्रियः प्रोक्तस्तु गुर्गुलुः | सर्जं देव्या महेशस्य निर्यासो देवदारुजः || १३०ब्) विष्णोः || कृष्णो गुरुः शीतं भास्करस्य प्रियं मतं || तंत्र लीलावत्यां च || जटामांसी गुग्गुलुश्च चन्दनागुरुकैस्तथा | चन्द्रैरजनि संयुक्तैर्माक्षिकैस्सहकुंकुमैः || सर्पिः संमिश्रितैर्दद्याद् देव्यै धूपै महेश्वरौ | स गुग्गुलुगुरुशीरसिता *? मधुचन्दनैः || सारांगारविनिक्षिप्तैर्धूपं नीचैः प्रधूपयेत् || मेरुतंत्रे || शक्ते दशांगं वक्ष्यामि शैलेयं मलयोद्भवं | नखं कुष्टं सर्जरसमेकैकांशं प्रकल्पयेत् || शिलारसा गुरु जटामांसी भागद्वयं मतं | षट्माक्षिकंसिता चाष्टौ धूपोयं शक्तिमोहनः || हरीतकी सर्जरसपुरमांस्यःकभागिकाः | लाक्षा त्रिभागा चत्वारो भागाशैलजमुस्तयाः || पंचभागं नखं प्रोक्तं षड्भागं कुष्टमुच्यते | द्वादशांशो गुडोर्केश विघ्नविष्णुदशांगकः || मधुमुस्ताघृतं गंधो गुर्गुल्वगुरुशैलजं | सरलं सिह्लसिद्धार्थौ शेष देवदशांगकः || कुलोड्डिशे || गुग्गुलं सरलं दारूपत्रं मलयसंभवं | ह्रीवेलमगुरुं कुष्ठं गुडं सज्जलसंशनं || हरीतकी नखी लाक्षा जटामांसी च शैलजं | षोडशांगं विदुर्धूपं दैवे पैत्रै च कर्मणी || अथवाऽगुरुकर्पुरचन्दनैस्सहगुग्गुलुं | मधुसर्पि जटामंसी शैलजं कुंकुमं तथा || एभिर्विमिश्रितः कार्यो धूपोयं पार्वती प्रिये | मधुमुस्तं घृतं गन्धं गुग्गुरुशैलजं || चन्दनं सिह्लसिद्धार्थ दशाङ्गो धूप इष्पते | सिताज्य मधु संमिश्रं गुग्गुल्वगुरुचन्दनं || षडंगधूपमेतन्तु सर्वदेव प्रियं सदा || तंत्रे || अस्त्रेण धूपदीपादीन् संपूज्यदापयेत् ततः | यथागंधस्तथा देवी धूपं दद्या विचक्षणाः || मध्यमांगुष्ठाभ्यांमित्यर्थः || वामनस्तु तथा धूपमश्रेवाण तु दक्षीणे | न धूपं वितरे धूमौ नाशनेन घटे तथा || यथा तथा धारगतं कृत्वा तं विनिवेदयेत् | मेदोमज्जायुतानेष्टा विष्णवे दारसंभवः || घण्टा पूजनमंत्रो यथा || मेरुतंत्रे || तारा जगध्वनि पदं मंत्रमातोग्नि गेहिनी | १३१अ) एकादशाक्षरो मंत्रो घंटायाः सर्वसिद्धिदः || पूजयीत्वा स्वमंरेण घंतां तन्नादपूर्वकं | दीपं दद्या तु विभवे नानावाद्य पुरःसरंः || आवाहनार्घ धूपे च पुष्पे नैवेद्य दीपयोः | घंटानादं प्रकुर्वीत विशेषाद्धूपदीपयोः || पूजाकालं विनान्यत्र कुर्यादस्याः प्रवादनं | नानया च विना पूजां कारयेत् सिद्धिलालसाः || अथ दीपविधिः || कुलोडीशे || घृतदीपः प्रथमतस्तिलतैलसमुद्भवः | सार्षपः फलनिर्यास जातो वा वारिजोद्भवः || दधिजश्चान्मजश्चैव दीपास्सप्त प्रकीर्तिताः | पद्मसूत्र भवावर्तिर्दर्द्भसूत्रभवाथ वा || जालजावादरी वापि भूलकोपाद्भवाथ वा | वर्तिका दीप कृत्येषु सदा पंच विधाः स्मृताः || तैजसं राजतं लौहं मार्तिक्यं नालिकरजं | तृणराजोद्भवस्वापि दीपपात्रं प्रशस्यते || एवं दीपं प्रकुर्वीत नेत्ररंजनकारणं | दीपं तु यागपर्यन्तमधोमुखं प्रकल्पयेत् || कालिकापुराणे || लभ्यते यस्य तापस्तु दीपस्य चतुरंगुलात् | न स दीप इहाख्यात अघवृद्धिस्तु संमृतः || तथा || शनं वादरकं दीर्णं वस्त्रं मलिनमेव वा | उपभुक्तन्न दद्यातु वर्तिकार्थं कदाचन || नैव निर्वापयेद् दीपं देवार्थमुप कल्पितं | दीपहर्ता भवेदन्धः काणो निर्वापको भवेत् || मेरुतंत्रे || गो सर्पिषा वा तैलेन वर्त्या च लघुगर्भया | उच्चैः प्रदर्शयेद् दीपं नवमदादिना क्वचित् || न मिश्रीकृत्य दद्या तु दीप स्नेहान् घृतादिकान् | कृत्वा मिश्रीकृतं स्नेहं तामिश्रं नरकं व्रजेत् || कालिकापुराणेपीत्य च || पुरश्चरण चन्द्रिकायां || वर्त्या कर्पूरगर्द्भिण्या सर्पिषा तिलजेन वा | आरोप्य दर्शयेद् दीपानुच्चैः सौरभशालिनः || तथा दीपश्च धूपवत् पात्रे पद्माकारविर्जिते | प्रतीपत्रं प्रदीप्तं च वर्त्यागव्य घृताक्तया || अत्र गव्यघृततैलादीनां विकल्पो न तु समुच्चयेः || १३१ब्) मेरुतंत्रे || दक्षिणे सार्षपं दीपं तिलतैलस्य वामतः | सितावर्तिर्दक्षिणेतो रक्ता वर्जिस्तु वामतः || तूर्णायागे || पारावत भ्रमाकारं दीपं नेत्रादि दर्शयेत् | दक्षिणे सर्पिषा दीपं तिलतैलेन वामतः || सितावर्तिर्दक्षिणातो रक्ता वर्तिस्तु वामतः || कालिकापुराणे || वृक्षेषु दीपो दातव्या न तु भूमो कदाचन | सर्वसहावसुमती महतेन त्विदं द्वयं || अकार्यपादघातं च दीपतापन्तथैव च | अकुर्वंस्तु पृथिवी तापं यो दीपमुत्सृजेन्नरः || स ताम्र पाप नरकं प्राप्नोत्येव न संशयः || मेरुतंत्रे || वृक्षेषु दीपा दातव्या न तु भूमौ कदाचन | कृत्वा तु पृथिवी तापं दीपमुत्सृजते नरः || स ताम्रपापं नरकं प्राप्नोत्यवशतं समाः | नैव निर्वापयद्दीपा लक्ष्मी नाशकरोयतः || तंत्रे || अंगुष्ठाग्रेण देवेशि धृत्वा दीपन्निवेदयेत् | उत्तोलणं तथा कुर्या गायत्र्या मूलयोगतः || मेरुतंत्रे || पारावतभ्रमाकारं भ्रामयेच्च प्रदर्शयेत् | देवस्य सर्वावयवान् श्लोकमेकं ततः पठेत् || सुप्रकाशो महादीपः सर्वत्र तिमिरापहः | स वाह्याभ्यंतरं ज्योतिर्दीपोयं प्रतिगृह्यतां || अत्रांजन करणमप्युक्तं || तत्रान्तरे || सौवीरं यांवलं नख्यं मायूरं श्रीकरन्तथा | दर्विकामेघ नीला च अंजनानि भवंति षट् || घण्टानिषाभ्यतैलानि शिलायां तैजसेथ वा | प्रदद्यात् सर्वदेवेभ्यो देवीत्पश्चापि भक्ति युक् || घृततैलाति युक्ते तु ताभ्रादौ यातितेऽनले | यदंजनन्तु जायते दर्विका तत्प्रकीर्तिता || विधवानांजनं कुर्या महादेव्यामनुत्तमं | न मृत्पात्रे योजयन्तु साधको नेत्ररंजनं || अथ नैव्यद्यं || तदुक्तं मत्स्यमुक्ते || पायसं कृशरं तिलं तंडुलं कृशरं दद्याच्छर्करागुडसंयुतं || आज्यं दधिमधुन्मिश्रं तस्मात् तानि प्रदापयेत् | शालमत्स्यं च पापीनं गौधिकामांसमुत्तमं || अन्नं च मधुना युक्तं यत्नाद्दद्याच्च मंत्रवित् | शालमत्स्यो महाशाल इति प्रसिद्धः || १३२अ) स्वतंत्रे || कंदुपक्वं स्नेहपक्वं घृतसंयुक्तपायशं | मनः प्रियं च नैवेद्यं दद्या देव्यै पुनः पुनः || कन्दु पक्वंमिति भृष्ट तंडुल पृथुकादिकं स्नेहपक्वं लडूकादि || मुण्डमालायां || शालमत्स्यं च पाठीनं शकुलं चेद्गठं तथा | मद्गुलं चेल्लिसं दद्यान्मांसं मोहिषमेव च || पक्षिमांसं नानासमुद्भवं || कृष्णछाग महामांसं गोधिकां हरिणन्तथा | जलजं मत्स्यमांसं च गंडकी मांसमेव च || नाना व्यंजन दुग्धानि व्यंजनानि वहूधानि च || शक्तियामले || इत्याराध्य निव्येद्यं च पृथक् पृथक् निवेदयेत् | सरक्तं सघ्रितं चास्थि मांसं दद्यात् सलोमकं || साज्यं सुपंकदुग्धं च भृष्टं षड्रस संयुतं | मांसं च विविधं दद्याद् वियद् भूचरसंचरं || चर्व्यं चोष्यं तथा लेह्यें पेयं च विविधं तथा | मद्यं दशविधं प्रोक्तं वर्णभेदेन दापयेत् || कुमारीतंत्रे || अन्यानि च नैव्यद्यानि साधकानां शृणुष्वमे | ताम्वूलं च स कर्पूरं नारिकेरं स शर्करं || पायसं स घृतं चैव आद्रकं स गुडन्तथा | स तण्डुलं तिलं चैव दधि चैव स शर्करं || जंवीरं पनसं चैव फलमाम्रातकन्तथा | कदलीर्त्तितिली चैव श्रीफलं फलमुत्तमं || करंजम्वकुलं चैव तारं खजूरमेव च | अन्यानि च सुगंधानि स्वादुनि च फलानि च || रुद्रयामले || तैजसेषु च पोत्रेषु सौवर्णे राजते तथा | ताम्रे वा प्रस्तरे वापि पद्मपत्रेऽथ वा पुनः || यज्ञ दारुमये वापि नैव्यद्यं कल्पयेद्वुधः | सर्वाभावे तु माहेय स्वहस्त घटितं यदि || यद्योग्यमर्घपात्रे च तन्निधाय निवेदयेत् || सारसंग्रहे || निधाय स्वर्णजे पात्रे साधारेन्तच्च मण्डले | निधाय चतुस्रेव संस्कुर्याच्छास्त्रमार्गतः || अस्त्रमंत्रेणसंप्रोक्ष्य चक्रमुद्राभिरक्षितं | वायुवीजेन संशोष्य वह्निवीजेन संदहेत् || स्पृशन् दक्ष कराग्रेण सुधावीजेन मंत्रवित् | १३२ब्) अमृतिकृत्य तत्सर्वं मूलमंत्रेण तत्पुनः || स्पृशन् कराभ्यां विधिवदष्टधा चाभि मंत्रयेत् | धेनुमुद्रां प्रदर्श्याथ गन्धपुष्पैस्समर्चयेत् || तंत्रे || तत्वाख्य मुद्रया देवि नैवेद्यानि निवेदयेत् | मूलेन दत्वा ताम्वूलं साधकस्तेन मुद्रया || तेन मूले मंत्रेण मुद्रया || यामले || सर्वोपकरणादीनि मूलान्तेन निवेदयेत् | अशक्तौ मनसा दद्यादेतत्कर्म न लोपयेत् || चुलुकं विधिवद् दद्यात् पंचमुद्रां प्रदर्शयेत् | पुनश्च चुलुकं दत्वा दद्यात् ताम्वूलमुत्तमं || एलालवङ्गकर्पूर जातीफलादि संयुतं | तमालदलकर्पूरयूगभागैस्तु रङ्गितं || स्वतंत्रे || अन्यतोयैर्यदुत्सृष्टमर्घपात्र स्थितेतरैः | न गृह्नाति महादेवी दत्तम्विधिशतैरपि || नैवेद्य क्रमश्च स्वतंत्र तंत्रे || दक्षिणे वायुरोभागे वामे वा मंडलं लिखेत् | त्रिकोणवृत्त भूविम्वमाधारशक्तिमर्चितं || यामले || निवेदयेत् पुरोभागे गन्धं पुष्प च भूषणं | दीपान् दक्षिणतो दद्यात् पुरतो वा न वामतः || वामतस्तु तथा धूपमग्रतो वा न दक्षिण | नैवेद्यं दक्षिणे वामे पुरतो न तु पृष्टतः || योगिनीतंत्रे || गन्धः पुष्पन्तथा धूपो दीपो नैवेद्यमेव च | यस्य यद्दीयते वस्त्रमलंकोरादिकांचनं || तेषां दैवतमुच्चार्य कृत्वा प्रोक्षण पूजने | उत्सृज्य मूलमंत्रेण प्रतिनाग्नानिवेदयेत् || मेरुतंत्रे || पाद्यमाचमनीयं च दत्वा नैवेद्यमर्पयेत् | निधाय स्वर्णजे पात्रे साधारं तच्च मंडले || संस्थाप्य चतुरस्रे च संस्कूर्याच्छास्त्र मार्गतः | अस्त्रमंत्रेण संप्रोक्षं चक्र मुद्राभिरक्षितं || स्पर्श दृष्ट्यादि दोषांश्च वायुवीजेन शोषयत् || स्पृशन्दक्ष कराग्रेण || वह्निवीजेन निर्दहेत् || वंवीजनामृती कृत्य मूलमंत्रेण तत्पुनः | स्पृशेत् कराभ्यां विधिवदष्टधा चाभि मंत्रयेत् || ध्यनुमुद्रां प्रदर्श्याथ गन्धपुष्पैः समर्चयेत् | देवमभ्यर्च्य कूर्या च पुष्पांजलि समन्यधीः || १३३अ) हेमपात्र स्थितं दिव्यं परमान्नं सुसंस्कृतं | पंचधाषद्रसोपेतं गृहाण मम सिद्धये || मूलमंत्रं समुच्चार्य स्वाहांतं जलमर्पयेत् | कराभ्यां संस्पृशन्पात्रं नैवेद्यांते नमो वदेत् || देवस्य दक्षिणे हस्ते जलं दत्वा पठेदिदं | अमृतोपस्तरणमसि स्वाहेति च भवाक्षरः || दर्शयेद् वामहस्तेन विकचोत्पलसंनिभां | दर्शयित्वा ग्रासमुद्रां पंचप्राणाहुतीश्चरेत् || कनिष्ठानामिकांगुष्ठयोगः प्राणस्य मुद्रिका | तया ग्रासं गृहीत्वा तु प्राणाय स्वाहेति संवदेत् || तर्जनी मध्यमांगुष्ठयोगेनापानकं वदेत् | ङेन्तं स्वाहान्तमथ च व्यानाय च ततो वदेत् || स्वाहाथ मध्यमानामांगुष्ठयोगेन निर्वपेत् | हित्वा कनिष्ठां सर्वाभिसमानायाग्नि गेहिनी || सर्वाभिस्तु समानाय स्वाओक्त्वाग्रासमापयेत् | ततः स्वर्णादिजे पात्रे सुतोयं धेनुमुद्रया || अमृतीकृत्य देवाय देयं मंत्रमिमं पठन् | नमस्ते देवदेवेशि सर्वतृप्तिकरं वरं || अन्यानिवेदितं शुद्धं प्रकृतिस्थं सुशीतलं | परमानन्दसंपूर्णं गृहाणजलमुत्तमं || उक्त्वैव देवता वामे जलपात्रं निवेशयेत् || तथा || त्रिभिर्वर्णैः प्रदातव्यं देवार्थं पाकभोजनं | घृतपक्वं दुग्धसिद्धं साधितं केवलाग्निना || युक्तं वैक्षवश्वंकेन तच्छूद्रस्य प्रशस्यते | ततः पुष्पांजलिं दद्यादस्त्रमंत्रेणवंधनं || दिशां कृत्वा जवनिकां देवस्य परितो न्यसेत् | अमृतात्मक नैवेद्यं नम इत्युच्चरेत् पुनः || धेनुमुद्रां प्रदर्श्याथ भुंजानां देवतां स्मरेत् || गौतमीये || क्षणंम्विमृष्यमतिमान् दद्यान्नैवेद्यमर्घ्यवारिणा || भोजनान्ते च गण्डुषं दद्यादाचमनं ततः | ताम्वूलं सलिलं दत्वा नत्वा योनिं प्रदर्शयेत् || उपचार मुद्रा यथा || लक्षणसंग्रहे || आसने पद्ममुद्राया हस्तद्वयमधोमुखं | मुद्रैषा कुशल प्रश्नेत देवोर्द्धमुखं पुनः || १३३ब्) मुद्रा स्यात् स्वागते चार्घ मुद्रात्वंजलिरुच्यते | अनामांगुष्ठयार्यागात् मैवोक्ता पाद्य मुद्रिका || उत्तानन्दक्ष हस्तन्तु कृत्वा निम्नतलं सुधीः | कनिष्ठहीनास्संयुक्ताश्चतम्रांगुल्य उन्नताः || मुद्रैषा चमने प्रोक्ताऽधोमुखी सात्वना मया | स्पृष्टांगुष्ठा भवेन्मुद्रा मुद्रावस्त्रस्य कीर्तिता || एषैवानामिका स्पर्शान् मुद्राभूषणसंज्ञिका | कनिष्ठा स्पर्शतो ह्यषा उपवीतस्य मुद्रिका || ज्येष्ठाग्रेण कनिष्ठाग्रं स्पृशे गन्धस्य मुद्रिका | अधोमुखं करं कृत्वा तर्जन्यग्रे तु योजयेत् || अंगुष्ठाग्रन्तु मुद्रेयं पुष्पाख्या परमेश्वरि | अंगुष्ठाग्रेण तर्जन्याः स्पृशेदग्रम्महेश्वरि || धूपमुद्रेयमाखाता सर्वदेव प्रियंकरी | ज्येष्ठाग्रेण स्पृशेदग्रं मध्यमा वा सुराच्चिते || दीपमुद्रे च मुदिता सर्वदेवप्रिया शुभा | अमामाग्रं स्पृशेद् देवि ज्येष्ठाग्रेण तु देशिकः || नैवेद्य मुद्रा कथिता देवता तृप्तिकारिणी || कालि हृदये || देवी वामोर्द्धाधो हस्ते खड्गं मुण्ड च पूजयेत् | देव्यादक्ष हस्तोर्द्धाधः पूजयेदभयंवरं || इति श्री आद्यानन्दनविरचितायां कुलमुक्तिकल्लोलिन्यामेकादशः पटलः || अथावरण पूजा || मेरुतंत्रे || अथ पुष्पोपचारांते कुर्यादावरणार्चनं | मंत्रसंपूटितैर्वर्णैर्मातृकायाः स विंदुकैः || क्रमेण गंधपुष्पाद्यैर्देवस्यांगे समर्चयेत् | लयागत्वेण मातृणां स्थानांगेषु ततः परं || प्रथमावरणं पूज्यं तदंते देवतां यजेत् | पुनरावरणं चष्टा देवतामर्चयेत् तथा || सोमभुजगावल्यां || ततश्च मूलमंत्रेण त्रिवारन्तर्पयेत् सुधीः | गृहीत्वा ज्ञाम्महादेव्याः परिवारान् समर्चयेत् || षडङ्गैः प्रथमः कल्पो गुरुभिस्तु द्वितीयकः | परिवारैस्तृतीयः स्याल्लोकपालैश्चतुर्थकः | तदस्त्रैः पंचमप्रोक्त इति सामान्यतः क्रमः || शक्तियामले || विज्ञाप्य च ततो देव्याः परिवारानथार्चयेत् | ततश्च षडंगं पूजयित्वा गुरुपक्तिं पूजयेत् || तदुक्तं वायव्या नित्यास्यादलुप्तशक्तिरेव च | षडंगदेवताज्यता नामतः परिकीर्तिताः || १३४अ) मेरुतंत्रे || केशरेष्वग्निकोणादौ हृदयादीनि पूजयेत् || नेत्रमग्रे दिशास्वस्त्रं || तंत्रांतरे || षडंगमर्चयेद् देव्या देहेषु केशरेषु च || केसरेष्विति || अर्चाक्रमो ज्ञानार्णवेपि || अग्नीशासुरवायव्य मध्ये दिक्ष्वंगपूजनं || सोमभुजगावल्यां || इष्ट्वा हृदयमाग्नेययामैशान्यां च शिरो यजेत् | नैर्-ऋत्यां च शिखा पूज्या वायव्यां कवचं यजेत् || अभ्यर्च्या पुरतो नेत्रं दिक्षु चास्त्रमथार्चयेत् || षडंगदेवताध्यानं || मेरुतंत्रे शारदायां च || ध्यातव्याश्चांगदेवताः || तुषारस्फटिकश्यामनीलकृष्णारुणार्चिषः | वरदाभयधारिण्यः प्रधानतनवः स्त्रियः || ध्यातव्या विदुषा तेन क्रमेणैवांग देवताः || मानसोल्लासे || पूज्यपूजकयोर्मध्ये प्राची प्रकीर्त्यते वुधैः | तद्दक्षिणं दक्षिणं स्यादुत्तरं चोत्तरं भवेदिति || सारसंग्रहे पि || यष्टुरभिमुखा देवा देवाभि मुखतो दश | प्राच्यादि हरितो ज्ञेयाः पूजाहोमादि कर्मसु || मेरुतंत्रे || देवस्य पुरतः प्राची ज्ञेयावरणपूजने | तदादि परिवाराणां प्रादक्षिण्येन पूजनं || एवं च || ब्राह्म्यादि पूजनन्तु देव्यग्रदलमालभ्य प्रादक्षिण्ये नैव विशेषानभिधानात् || अथ वरणपूजाः स्यु पुरः प्राचीं प्रकल्पयेत् || तदादि परिवाराणां प्रादक्षिण्येन पूजनमिति नृसिंहकल्पवेचनाच्चापि वोध्यं || चक्रपूजादावपीत्थं वोध्यं आग्नेयादि कोणेषु धर्मादिनां पूर्वाद्यष्टकेशरेषु पीठशक्तिनां पूजनं देवतावाहनात् प्राकजदुक्तं तत् तथैव पूज्यम्याना वाहि तत्वेन तदानीं पूज्यपूजकयोरन्तरत्वा भावात् || तंत्रे || वायव्यादीशपर्यन्तं गुरुपक्तिं समर्चयेत् || गुरुपक्तिंः दिव्यौघ सिद्धौघ मानवौघ समुदायः प्रागे प्रोक्तः || तंत्रचूडामणौ || भैरव उवाच || मातर्देवि माहामाये वन्धमोक्षप्रवर्तिनि | इदानीं श्रोतुमिच्छामि गुरुरूपमनूत्तमं || १३४ब्) देव्युवाच || गुरुक्रमस्तु वहुधा मंत्रविस्तरगौरवान् | कालानामप्यनादित्वात् कथं तत् कथयामि ते || अज्ञात्वा कुलवर्गन्तु नष्ठमार्गो भविष्यति | नष्ठमार्गे मंत्रविद्य न तादृक् फलगोचरे || गुरुणां शिष्य भूतानां नास्ति चेत् संतति क्रमः | मंत्रतंत्राश्च विद्याश्च निःफला नात्र संशयः || विंशति पुरुषान् वापि नवसप्तत्रयो पि वा | अज्ञात्वा गुरुवंशानां शिष्यश्चेन्नष्टसंततिः || स्ववंशादधिकं ज्ञेयं गुरुवंशं महद्भुतं | जनकानधिको ज्ञेयो मंत्रदश्च महेश्वर || तस्मात् सर्वत्र देवेश संक्षेपान् शृणुतान् गुरून् | आदौ सर्वत्र देवेश मंत्रदः प्रथमो गुरुः || परापरा गुरुस्त्वं हि परमेष्टी त्वहं ततः | सर्वमंत्रेषु विद्यासु स्वयं प्रकृतिरूपिणी || ततः पुरुषरूपं च ततः स्वगुरुसन्ततिः | ते चैव हि मदंशाश्च मद्भक्ताश्च विशेषतः || सर्वमंत्रेषु पुरतः सर्वत्र सिद्धिदायकाः | दिव्यौघा गुरवो देव सिद्धौघा गुरुवस्तथा || मानवौघाः समासेन कथयामि तवाग्रतः | तत्रासौ कालिका देवी तस्याः शृणु गुरुक्रमं || महादेवी महादेवः त्रिपुरा चैव भैरवः | दियौघा गुरवः प्रोक्ताः सिद्धौघान् कथयामिते || ब्रह्मानन्दश्च पूर्णश्च चलचित्तश्चलाचलः | कुमारः क्रोधनश्चैव वरदः स्मरदीपनः || माया मायावती चैव मानवौघान् शृणु प्रिये | विमलः कुशलश्चैव भीमसेनः सुधाकरः || मीनो गोरक्षकश्चैव भोजदेवः प्रजापतिः | मूलदेवोरंतदेवा विघ्नशो वै हुताशनः || समयानन्दसंतोषौ कालिकागुरुवः स्मृताः || तथा देवीं प्रतिशिववाक्यं दिव्या देवांतिके नित्यं सिद्धां भूमा विहापि च || मानवौघानवेषु मम रूपधराः सदा | आनन्दनाह शब्दांत गुरवः सर्वसिद्धिदाः || स्त्रियोपि गुरुरूपाश्च आद्यान्ताः परीकीर्तिताः | मानवौघान्तिके देवि स्वगुरुं परिपूजयेत् || भावचूडामणौ || अथवा सर्वशास्त्रेषु गुररः पूर्वसूचिताः || १३५अ) पूर्वेति प्रातः कृत्येषूक्ताः || कुलचूडामणौ || येषु येषु च मंत्रेषु ये ये गुरुगणाः स्मृताः | ते ते पूज्याः सपर्यादौ संक्षेपाद्गदितं मया || अज्ञात गुरुनामावै गुरुत्रितयमर्चत् * | चतुष्टयं वा संकोचो न च कार्यस्ततः परं || गुरुः परगुरूंश्चैव परापरगुरूस्तथा | परमेष्ठि गुरु चैव कथिता गुरवस्तव || गुरुपूजां विनावत्स यदि पूजां समाचरेत् | विगुणं यत्र तत्र स्यात् सगुणं कुलपूजनात् || दीक्षा प्रभूः कुलीनश्च कुलं वा वटुकेश्वर | तद्देहे गुरुमानीय कुलरूपं गुरुं स्मरेत् || कुलं यथा गुरुस्तत्र न तथा कुलसाधकः | गुरुक्रमश्च कथितो गोपनीयः प्रयत्नतः || नादेयो यत्र कुत्रापि योग भ्रष्टे च साधकेः | पशोरग्रेन चैवैषां नामग्राह्यं कुलेश्वर || वैष्णवे शक्तितंत्रे वा गाणपत्येऽथवा पुनः | निजं गुरुं पुरा ध्यात्वा ततो गुरु चतुष्टयं || पूजयित्वा यजेदेवं न च संकोचमाचरेत् | ततश्च सर्वकालेषु देवीरावाह्य पूजयेत् || प्रयोगस्तु श्रीमहादेव्यं वा श्रीपादुकां पूजयामि नमः || इति संपुज्य पूर्ववत् गुरुपात्रामृतेन त्रिःसकृद्वा तर्पयेत् || एवं क्रमेण || अथ रश्मिवृन्द देवताः पूजयेत् तर्पयेच्च || मेरुतंत्रे || ततः पूर्वादि कोणेषु वामावर्तेन पूजयेत् | कालीं कपालिनीं कुल्यां प्रथमे तु त्रिकोणके || नीलांघनां चलाकांच द्वितीये तु त्रिकोणके | कुरु कुल्ला विरोधिन्यौ विप्रचित्ता तृतीयके || उग्रामुग्र प्रभां दीप्तां चतुर्थे तु त्रिकोणके | मात्रां मुद्रांमितां चैव त्रिकोणे पंचमे यजेत् || कालीकल्पे || काल्पादयः पूजनीयाः क्रमेण परमेश्वरी | त्रिः त्रिः पूजा प्रकर्तव्या सर्वासामपि साधकैः || अथासांध्यानं || कालितंत्रे मेरुतंत्रे च || सर्वाः श्यामा असिकरो मुण्डमाला विभूषणाः | तर्जनीं वामहस्तेन धरयन्त्यश्च सस्मिताः || अथाष्टदले || कुमारीकल्पे || ब्राह्म्याद्यां पूजयेत् पत्रे पत्राग्रे भैरवान् जयेत् | लोकपालांस्ततो वाह्ये तदस्त्राणि च तद्वहिः || १३५ब्) कुलसद्भावे || वहिर्मण्डलतश्चापि ब्राह्मी नारायणी तथा | माहेश्वरी च चामुण्डा कौमारी चापराजिता || वाराही च तथा पूज्या नारसिंही तथैव च || मेरुतंत्रे || ब्राह्मी नारायणी माहेश्वरी चामुण्डा च कुमारिका | अपराजिता वाराही नारसिंहि दलाष्टके || तथा || अंगमंत्रास्तु पूजायामों नमोंता हुतौ तथा || स्वाहांताथ || ब्राह्म्यादीनां ध्यानं पूजनं च यथा महाकालसंहितायां || तारं पाशां तदाश्रीश्च ब्राह्मी श्रीपादुकां ततः | पूजयामि ततश्चैव ध्यायेत् तां ब्रह्मणः प्रियां || ब्रह्माणींहंसमारूढां स्वर्णवर्णां चतुर्भुजां | चतुर्वक्त्रां त्रिनेत्रां च कूर्चं च पंकजन्तथा || दण्डं पद्माक्ष सूत्रं च दधतीं चारुहासिनीम् | जटाजूटधरां देवीं भावयेत् साधकोत्तमः || एवं ध्यात्वा ब्रह्मपत्नीं यथा शक्त्या यजेत् प्रिये | इ स्मृत्वा नारायणी पादुकां ततः परं || पूजयामीति चोद्धृत्य ध्यायेत् तां वैष्णवीं प्रिये | नारायणीं महादीप्तां श्यामां गरुडवाहिणीम् || नानालंकारसंयूक्तां चारुकेशी चतुर्भुजां | घण्टां शंखं कपालं च चक्रं संपदधतीं परां || मधुमुत्तमदोल्लोल वृष्टि सर्वांगसुन्दरीम् | इति ध्यात्वा महेशानि यत्नतो भावयेत् ततः || पूजयित्वा महादेविं माहेश्वरीं यजेत् पुनः | स विन्दूंसस्तु मुचार्यमाहाश्वरीं ततः प्रिये || श्रीपादुकां ततश्चोक्त्वा पूजयामि ततः शिरः | ध्यानमस्या वरारोहे व्रवीमिते निशा मया || माहेश्वरीं वृषारूढां शुक्लां त्रिनयनान्वितां | कपालं डमरुं चैव वर्दाभयशूलकं || टंकचं दधतीं देवीं नानाभरणभूषितां | पूजये च यथाशक्त्या ध्यानं कृत्वा महेश्वरीं || ऋं वीजं चामुण्डामुक्त्वा श्रीपादुकां पूजयामि | पूजयित्वा महादेवीं ततो ध्यानं समाचरेत् || चामुण्डां चण्डहासां प्रकटित वदनां भीमवक्त्रां त्रिनेत्रां नीलांभोज प्रभाभां प्रमुदितवपुषं नारमुण्डालि मालां || खड्गं शूलं कपालं नरशिरघटिकं खेटकं धारयंतीं प्रेतारूढां प्रमत्तां मधुमदमुदितां भावये चण्डरूपां || १३६अ) एवं ध्यात्वा यजेद् देवीं चामुण्डां जगदीश्वरीं | ॠंकारेण च कौमारीं संपूजा ध्यानमाचरेत् || कौमारी कुंकुंमाभाभां त्रिनेत्रां शिखिसंस्थितां | चतुर्भुजां शक्तिपाशमंकुशाभयदायिनीं || नानालंकारसंयुक्तां प्रमत्तां परिचिंतयेत् | ध्यानं कृत्वा कौमारी च यथा शक्त्या प्रपूजयेत् || वाग्भवेन महादेवीं पूजयेदपराजितां | सर्वं पूर्वेण विधिना ततो ध्यानं समाचरेत् || अपराजितां च पीताभामक्ष मुद्रा वरप्रदां | कमलं मातुलुंगं च दधतीं परिचिंतयेत् || एवं संपूज्य विधिवत् साधको भक्तितो यजेत् | औंकारेण सुवेशानि वाराहीं पूजयेत् तदा || ध्यानमस्यानिवोधत्वं वाराह्याः परमेश्वरि | वाराहीं धूम्रवर्णाभां वराहवदनां शुभां || फलकं खड्गमुशलं हलं वेदभुजै धृतां | विधिना पूजयेद्देनां वाराहि परमेश्वरीं || विशर्गेन नारशिंहि चर्मये साधकाग्रणीः | नारसिंही नृसिंहस्य विभ्रती सदृशं वपुः || ध्यानं तस्याः प्रवक्ष्यामि देवीते तन्निसामय || कोपादालोलजिह्वां विवृतनिजमुखां सोमसूर्याग्नि नेत्रां पादादानाभिरक्तामुपरिशितां भिन्नदैत्येन्द्रगात्रां || चक्रं शंखं पाशांकुश कुलिशगडा पारणानुद्वहंतीं भीमांतिच्छ्लाग्रदंष्ट्रां मणिमय विविधकल्पामीडे नृसिंही || एवं ध्यात्वा पूजये तु यथाशक्त्या महेश्वरी || ज्ञानार्णवे || असितांगो रुरुश्च शुःक्रोध उन्मत्त भैरवः | कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः || अथैषा ध्यानं || त्रिपुरोसार समुच्चये || दधतोंजनवुजनीलवर्णान्धरु वेताल कपाल शूलदण्डान् || लघुत्वन्त्वभि संयुतां स्त्रिनेत्रान् करदण्डैः कवि हस्तदण्डचण्डैः || गजकृत्ति निवर्तितो तुरीयानभ्रूकुटी संघटितैर्ललाटपत्तै || ललिटालि कुलाभकुन्तलाग्रान् मुदितांतः करनान् स्वयौवना ध्यान् || एतेषां मंत्रो यथा || ह्रस्वार्णा विन्दुसंयुक्ता वाङ्माया पूर्वभूषिताः || १३६ब्) पूर्वतः प्रदक्षिण क्रमेण पूजयेत् || तेन ऐं ह्रीं अंअसितांग भैरव श्रीपादुकां पूजयामि नमः || ऐं ह्रीं इं रुरु भैरव श्रीत्यादि वोध्यं || महाकालसंहितामते तु || भैरवस्थाने भैरव्य एव उक्ताः || पत्राग्रेषु ततः पूज्या भैरवी तदनंतरं | महाभैरवी च तदा सिंह भैरवी ततोप्यनु || धूम्र भैरवी तथा कृत्वा भीम भैरवी ततः परम् | उन्मत्त भैरवी पूज्या वशीकरणभैरवी || मोहनी भैरवी पूज्या भूगृहे च ततो यजेत् || तंत्रांतरे || भैरवीं च महासिंह धूम्र भीमादिकांचतां | उन्मत्त भैरवीं पश्चाद् वशीकरण भैरवीं || पत्राग्रे भैरवी प्रकृति भूत संपत् || प्रदा भैरवीवदेव ध्यानमासां || तत्र शारदातिलके || उद्यद्भानु सहस्रकांतिमरूणक्षौमां शिरो मालिकां रक्तालिप्तपयोधरां जपटीं विद्यामभीतिं वरं || हस्ताब्जैर्दधतीं त्रिनेविलसद्वक्त्रारविंदश्रियं देवीं वद्धहिमांशु रत्नमकुटां वंदे समन्दस्मितां || महाकालसंहितायां || पूर्वारभ्य ईशानान्तं दिक्पालान् पूजयेत् सुधीः | इन्द्रवीजं समुचार्य इन्द्राय तदनंतरं || सुराधिपतये चाक्त्वा सांगाय तदनंतरं | सपरिवाराय च ततः सायुधाय ततोप्यनु || स वाहनाय च ततो नमोन्तेन प्रपूजयेत् || लं रं यं क्षं वं यं शं हं अं कं एवं स्वस्ववीजादिना दिक्पालान् पूजयेत् || ध्यानं तु मेरुतंत्रे तूर्णा यागे च || इन्द्रं सुराधिपं पीतमैरावतगतं विभुं | सहस्रनेत्रं द्विभुजं पीतं वज्रधरं भजे || अग्नितेजोधिपं रक्तं श्वेतशक्तिकरं प्रभुं | सुभूषणंमेषवाहं वंदे रक्तांत लोचनं || यमं प्रेताधिपं कृष्णं महिषोपरिसंस्थितं | कालदंडधरं क्रूरं वृतं दूतैर्भयानकैः || रक्षोधिपंचनिर्-ऋतिं शवाशन समास्थितं | धूमाभं खड्गहस्तं च पिंगश्म श्रुसुकूर्चकं || मकरे सस्थितं विद्युन्निभयाशकरांवुजां | शुभ्रांगंतुंदिलं वंदे वरुणं यादसांपति || वायु प्राणाधिपं धूम्रं रक्तांकुश करं परं | वातप्रमी समारूढं धावंतं वेगतो भजेत् || यक्षंपतिं कुवेरं च शुक्लं शूलगदाधरं | १३७अ) नरसिंहासनारूढं मेदलं चित्रिणीयुतं || विद्याधिपं नीलशूलधरं वृषभवाहनं | त्रिनेत्रं भालचंद्रं च जटाजूटधरं सितं || गोरं नागाधिपं मूर्ध्नि फणामंडलभूषितं | पीनोतुगं चक्रधरमनंतं विसगं भजे || लोकाधिपं विधातारं रक्तं पद्मं करं शुभं | हंसारूढं वेदपाठं कुर्वंतं तमहंभजे || महाकालसंहितायां || इन्द्रोक्त विधिना सर्वं पूजयेत् परमेश्वरी | रक्षो वरुणयोर्मध्ये शेषनागं प्रपूजयेत् || ईशान शक्रयोर्मध्ये ब्रह्माणं पूजयेत् ततः || तद्वहिरर्चयेद् देवि वज्रं शक्तिं च दण्डकं | खड्गं पाशमंकुशं च गदां त्रिशूलमेव च || रक्षो वरुणयोर्मध्ये चक्रं पूज्यं तथैव च | ईशान शक्रयोर्मध्ये पद्मंशं पूजयेत् ततः || कालीतंत्रे || सर्वासामपि दातव्या वलिः पूजा तथैव च | अनुलेपनकं गंधं धूपदीपौ च पानकं || त्रिस्त्रिः पूजा प्रकर्तव्या सर्वासामपि साधकैः || तत्रैव || देव्यास्तु दक्षिणे भगे महाकालं समर्चयेत् || परिवार पूजामत्रस्तु भैरवतंत्रे || नामाद्य वर्णवीजाश्च ङेन्तास्तास्तु नमोन्तिकाः || कालीकल्पे || श्रीपदं पूर्वमुद्धृत्य पादुका पदमुद्धरेत् | पूजयामि ततः पश्चात् पूजयेदंग देवताः || कुमारीतंत्रे || पाद्यादिभिर्मूल देवीं संपूज्य तर्पयेत् ततः || भैरवीतंत्रे || ततो देव्यै धूपदीपौ दद्यान्नैवेद्यकं तथा | पुष्पांजलि त्रयं भक्त्या विशेषार्घोघोदकाक्षेतैः || काली हृदये || देवी वामोर्द्धाधो हस्ते खड्गं मुण्डं च पूजयेत् | देव्या दक्ष हस्तोर्द्धाधः पूजयेद भयंवरं || मेरुतंत्रे || पुनर्मूलं समुच्चार्य सांगायै स परेति च | वारायै नाम देव्याश्च चतुर्थ्यंतमुदीरयेत् || अथ वलिः || यामले || पूजान्ते भोजनादौ च वलिं दद्यान्महेश्वरि || महाकाल वलिदान मंत्रो यथा || कालीकुलार्णवे || हुमन्ते च महाकालात् श्मशानाधिप इत्यपि | ईममंते सामिषान्नं वलिं गृह्नयुगं ततः || गृह्नापय पदद्वन्द्वं विघ्ननिवारनं ततः | कुरु सिद्धिं च मे चैव प्रयच्छ स्वाहया युतः || महाकालाय देवाय प्रणवाद्येन दापयेत् || काली वलिदान मंत्रोपि तत्रैव || १३७ब्) एह्यहि जगतां मातर्जगतां जननी तथा | गृह्न गृह्न इमं नित्यं वलिदानमतः परं || सिद्धिन्देहि पदद्वन्द्वं ततः शत्रुक्षयं कुरु | युगशब्दं समुचार्य ततः कुर्चयुगं पुनः || हृल्लेखा द्वितयं पूर्वेऽन्ते च द्वयं पुनः | तदा मंत्रं समुद्धृत्य फडंते वह्नि सुंदरी || वलिदानमिदं चित्रं सर्वतंत्रेषु गोपितं | सर्वासु काली विद्यासु यथा नाम्ना क्षिपेद् वलिं || अत्र छागादि वलिः अग्रे वाच्यः || कालीतंत्रे || एवं पूजां पुरा कृत्वा मूले नैव यथा विधि | नैवेद्यादि यथाशक्त्या दद्याद् देव्यै पुनः पुनः || कुमारीकल्पे || ततो नीराजनं कुर्याद् दशवारं पदीपकैः || कालितंत्रे || ततः समाहितो मंत्री गुरुं नत्वा शिरः स्थितं | देवीं ध्यात्वाष्टोत्तरं च सहस्रं प्रजयेन्मनुं || दंताक्ष मालया चैव राजदंतेन मेरुणा | तेजोमयं जपफलं दद्या हस्ते समर्पयेत् || गुह्याति गुह्यगोप्त्रीत्वमिति मंत्रेण मंत्रवित् || अत्र मूल जपात् पूर्वं महाकाल मंत्र जपोप्यावश्यकः || तदुक्तं वीरचूडामणौ || महाकाल महामंत्रं जपेदष्टोत्तरं शतं | प्रणवं चैव हृल्लेखां कौलिनी वीजमुद्धरेत् || पतंतु कर्तृका वीजं महाकालाय चोर्चरेत् | वीजं प्रसादमुच्चार्य महादेवाय तत्परं || क्रोधीशं वह्निमारूढं वामनेत्रं सविन्दुकं | कालिकायै पदं पश्चात् प्रासादवीजमुद्धरेत् || महादेवो महाकालः सर्वसिद्धि प्रदायकः | कौलिनी वीजं क्ष्म्रीं कर्तृका वीजं हूं क्रोधीशः ककारः वह्निःरेफः शेषं सुगसं महाकाल जपानन्तरं मूलमंत्र जपात् प्राक् काली कुल्लुकापि जप्या || न्यस्तव्या इत्यर्थः || तदुक्तं रुद्रयामले || ईश्वर उवाच || कुल्लुकां मूर्ध्नि संचिन्त्य हृदि सेतुं विचिन्तयेत् | महासेतुं विशुद्धौ च सहस्रारे समुद्धरेत् || मणिपुरे तु निर्वाणं महाकुण्डलिनीमधः | स्वाधिष्ठाने कामराजं काकिनीं मूर्ध्नी संस्थितां || विचिंत्य विधिवद् देवी मूलाधारांतिकाच्छिरे | विशुद्धान्तं स्मरेद् देवि विसतन्तु तनीयसीं || वेदस्थानाद्धि जिह्वान्तं मूलमंत्रा वृतां विभुः || मेरुतंत्रे || १३८अ) मूलमंत्रेणाथ पूर्वे न्यासान् सर्वान् समाचरेत् | अष्टोत्तर सहस्रं तु तदर्धं त्रिशतं तु वो || अष्टोत्तरशतं वापि जपेन्मूलमतंद्रितः || मंत्रतंत्रप्रकाशे || अष्टोत्तरसहस्रं तु कृत्वांतर्यागमादरात् | जपेत् प्रतिदिनं यं तु नित्य एष जप स्मृतं || उत्तरतंत्रे || न जपे त्रिशतां न्युनं साधकश्च कदाचन | अष्टोत्तर सहस्रन्तु तदर्धं त्रिशतन्तु वा || अष्टोत्तर शतम्वापि जपेन्नित्यमतन्द्रितः || जपश्च ध्यानपूर्वकं कर्तव्यः || दीपिन्यन्ते जप आह तंत्रान्तरे || कांतातं जीवनी वीजं त्रिपदो परिभूषितं | कलामनुस्वरोपेतं वीजत्रयमुदाहृतं || तुम्वुरुं च ततो दद्यात् संहारं च ततः परं | विद्यादौ याजयेद् देवि विन्दुत्रय कलान्वितं || एषो तु दीपनी विद्या सर्वाम्नायैर्नमस्कृता | अज्ञात्वा दीपनीं विंद्यां यो जपेत् कालिकां परां || सोचिरान् मृत्युमाप्नोति मृतेन नरकं व्रजेत् || तदुक्तं नीलं तंत्रे || मंत्र ध्यानं प्रवक्ष्यामि जपात् सार्वज्ञ दायकं | मंत्रध्यानान् महेशानि सिद्ध्यते ब्रह्महायतः || मूलचक्रे तु हृल्लेखां सूर्यकोटि समप्रभां | स्वाधिष्ठाने पीतवर्णं द्वितीयं परिभावयेत् || नाभौ जीमूतवर्णाभं कूर्चवीजं महाप्रभं | मंत्री चन्द्रप्रतीकाशं योगिभिर्दृष्ट पूर्वकं || कूर्चवीजं हृदि ध्यायेत् कालाग्नि सदृशभं | अथवा पूर्णचंद्राभं कूर्चं मूर्धनि सुधा प्रभं | तत् प्रभापटलैर्जिह्वां प्रदीप्तां च विभावयेत् | मूलादि ब्रह्मरन्ध्रान्तं सर्वाम्विद्यां विभावयेत् || सूर्यकोटी प्रतीकाशां योगिभिर्दृष्ट पूर्विकां || हृल्लेषा मायावीजं || यद्वा मूलादि ब्रह्मरन्ध्रान्तं तेजोमयीं कुण्डलिनीं ध्यायन् || जपलक्षणन्तु पुरश्चरण चन्द्रिकायां || जपः स्यादक्षरो वृत्तिस्तस्य भेदान् व्रवीम्यहं | जपश्च द्विविधा प्रोक्तो वाचिकोमानसस्तथा || आद्यापुपांशुरुच्चैश्च द्विविधः परिकीर्तितः | जिह्वा जपः सविज्ञेयः केवलं जिह्वया तु यः || धिया यदुच्चरेन् मंत्रं स उक्तो मानसो जयः | उच्चैर्जपाद्विशिष्टः स्यादुपांशुर्दशभिर्गुणैः || जिह्वा जपः शतगुणः सहस्रो मानसो जपः | १३८ब्) देवतां हृद्गतां कृत्वा हृदयं च स्थिरं निजं || शिवादीश्च गुरुन्नत्वा जपेन्मंत्रं समाहितः | शनैः शनैरविस्पष्टं न द्रुतं न विलम्वितं || मेरुतंत्रे || जपःस्यादक्षरावृत्तिः सत्रिधा परिकीर्तितः | हीनो वाग्जपः कायिकस्तु मध्यः श्रेष्ठस्तु मानसः || च उच्चनीच स्वरितैः शब्दैः स्पष्ट पदाक्षरैः | मंत्र उच्चार्ये ते वाचा हीनासौ वाचकः स्मृतः || शनैरुच्चारयेन्मंत्रमीषदोष्टौ प्रचालयेत् | किंचिछ्रवणयोग्यश्च कायिकः स तु मध्यमः || वुध्या पदाक्षर श्रेणी यथास्थानेषु चोच्चरेत् | अर्थ स्मरण पूर्वन्तु सश्रेष्ठा मानसा जपः || मंत्रार्थ स्मरणं यामले || देवता गुरुमंत्राणामैक्यं संभावयन् धिया | सवासनां जपेन्मंत्रं संतुष्ठः स्थिरमानसः || सवासनांसार्थवासनामाह उत्तरतंत्रे | अथ वक्ष्ये महेशान्या वासना तत्वनिर्णयं || वीजत्रयाच्छांभवी सा केवलं चित्कलात्मिका | हृल्लेषा द्वय मात्रेण सृष्टि स्थित्यंत कारिणी || शब्दवीजद्वये नैव शब्दशास्त्र प्रवोधिनी | संवोधन पदेनैव सदा संवित्ति रूपिणी || जागर्त्यषा महाविद्या केवलं चित्प्रकाशिनीं | न सुप्ता न च शप्ता च तस्माच्छास्त्र फलप्रदा || शब्द वीजद्वयं प्रागुद्धारादार्थ क्रमाच्छब्द क्रमवोधः || एकाक्षरार्थं वक्ष्यामि साक्षान्मोक्षफलप्रदं | ककाराच्छिव रूपत्वात् केवलं मोक्षदायिनी || वीजत्रयेण देवेशि सृष्टिस्थित्यन्तकारिणी | ज्वलनार्क समायोगात् सर्वतेजोमयी शुभा || विन्दुना निष्कलत्वा च कैवल्य फलदायिनी | वीजत्रयेण देवेशि चिदीश्वर परायणा || जीवात्मना वीजत्रयाच्छिव शक्तिस्वरूपिणी | वीजद्वयादर्थ शब्दभाविनी भाववर्जितेति || मेरुतंत्रे || षट्कर्म कृद्वाचिकः स्यात् कायिकः सर्वसिद्धिकृत् | मानसः साधयेन्मोक्षं ततोन्यः छुद्रकर्म कृत् || जपेन देवता नित्यं स्तूयमानो प्रसीदति | जपात् सिद्धिर्जपात् जपात्सिद्धिर्जपात्सिद्धिर्न दूरतः || यथा धनेन संतुष्टो जायते क्षुल्लकः प्रभूः | तथैव वलिदानेन पूजया क्षुद्रदेवताः || यथा महागुणैर्वश्यो जायते गुणवात् प्रभूः | १३९अ) तथाहं त्वं च विष्ण्वर्का जपादेव फलप्रदाः || उष्णीषी कंचुकीत्यादि नैषिवद्धं पुरश्चरण प्रकारणे वोध्यं || मालाग्रहमंत्रः || अर्घादकेन संप्रोक्ष्य ततस्तां प्रार्थयेदिति | ओं मां माले महामाये सर्वशक्ति स्वरूपिणी || चतुर्वर्गस्त्वयिन्यस्तस्तम्मान्मे सिद्धिदा भव | पूजयित्वा ततो मालां गृहीयाद् दक्षिणे करे || वीजं गणपतेः पूर्वमुचार्य तदनंतरं || अविघ्नं कुरु मालत्वमीति दक्ष हस्ते मालां कृत्वा चिंतयन् मनसा देवीं || चिंतये च गुरुं मूर्ध्नि यथा वर्णादिकं भवेत् | मंत्रं ध्यायेत् कंठमध्ये पीतवर्णं हिरण्मयं || महामायां च हृदये स्वात्मानं गुरुपादयोः || एवं ध्यात्वा मालां स्वहृदयासन्नां धृत्वांगुष्ठाग्रेण मणिमेकैकं चालयन् जपं कुर्यात् || जपान्ते ह्रीं सिध्यै नमः इति प्रार्थ्यत्वं माले सर्वदेवानां प्रीतिदा शुभदा मम || शिवं कुरुष्व मे भद्रे यशोवीर्यं च वर्धय | इतीज्ये जयमालाथ स्थाप्यारहसि वेष्टिता || कालीतंत्रे || तेजोमयं जपफलं देव्या हस्ते समर्पयेत् | गुह्याति गुह्यगोप्तित्वमिति मंत्रेण मंत्रवित् || देवस्य दक्षिणे हस्ते तोयं दत्वा समर्पयेत् || देव्या वामहस्त ईति || भैरवतंत्रे || स्तुवन् प्रदक्षिणी कृत्य दण्डवत् प्रणमेद्भुवि | श्रीजगन्मङ्गलं नाम कवचं प्रपठेत् ततः || ततस्तवी तन्तुतिभिर्घंटावादन पूर्वकं || इति श्री आद्यानन्दनविरचितायां कुलमुक्तिकल्लोलिन्यां द्वादशः पटलः || कर्पूरं मध्यमान्त्य स्वरपररहितं सेन्दु वामाक्षि युक्तं वीजन्ते मातरे तंत्रिपुरफर च धूत्रिः कृतं ये जयन्ति || तेषां गद्यानि पद्यानि च मुख कुहरादुल्लसंत्येव वाचः स्वच्छन्दं ध्वान्तधाराधरे रुचिरे सर्वसिद्धिं गतानां || १ || ईशानः सेन्दु वाम श्रमण परिगतो वीजमन्यन्महेशि द्वन्द्वन्ते मन्देतेजायदि जपति जनो वारमेकं कदाचित् | जित्वा वाचामधीशं धनदमपि चिरं मोहयन्नम्वुजाक्षी वृन्दं चन्द्रार्ध चूडे प्रभवति स महाघोरशावावतंसे || २ || इशो वैश्वानरस्थः शशधरविलसद्वाम नेत्रेण युक्तो वीजने द्वन्द्वमन्यद्विगलितचिकुरे कालिके ये जपन्ति || १३९ब्) द्वेष्टारंघ्नंतिते च त्रिभुवनमपिते वश्यभावं नयंति | सृक्वद्वन्दास्त्र धाराद्वयधरवदने दक्षिणे त्र्यक्षरे च || ३ || ऊर्ध्वं वामे कृपाणं करकमलतले छिन्नमुण्डं ततोधः सव्येऽभीतिं वरं च त्रिजगतढ्य हरे दक्षिणे कालिके च | जप्त्वैतं नामये वा तव मनु विभवं भावयन्त्ये तदर्थं तेषामष्टौकरस्थाः प्रकटित वदने सिद्धयं त्र्यम्वकस्य || ४ || वर्गाद्यं वह्नियुक्तं विधुरतिललितं तंत्रयं कूर्चयुग्मं लज्जार्द्वंद्वं च पश्चात् स्मितमुखि तदधः ठद्वयं योजयित्वा | मातर्ये ये जपन्ति स्मरहरमहिले भावयंतः स्वरूपं ते लक्ष्मीलास्य लीला कमलदल दृशः कामरूपा भवन्ति || ५ || प्रत्येकं वा द्वयं वा त्रयमपि च परंवीज सत्यन्तगुह्यं त्वन्नाम्ना योजयित्वा सकलमपि सदा भावयंतो जपन्ति | तेषां नेत्रारविन्दे विहरति कमला वक्त्र शुभ्रां शुविम्वे वाग्देवी देविमुण्डस्रगतिशयलत्कण्डिपीनस्तनाढ्ये || ६ || गतासूनां वाहु प्रकरकृत कांची परिलसन्नितम्बां दिग्वस्त्रां त्रिभुवन विधात्रीं त्रिनयनां | श्मशानस्थां तल्पेशवहृदि महाकालसुरत प्रशक्तां त्वां ध्यायन् जननि जडचेता अपि कपिः ||७ || शिवाभिर्घोराभिः शवनिवह मुण्डास्थिनि वहैः परं संकीर्णायां प्रकटित चितायां हरवंधूं | प्रविष्टां संतुष्टामुपरि सुरतेनाति युवतीं सदात्वां ध्यायंति क्वचिदपि न तेषां परिभवः || ८ || वदामः किं वा त्वां जननि वयमुच्चैर्जडधियो विधाता नापीशो हरिरपिनते वेत्ति परमं || तथापि त्वद्भक्तिर्मुखरयति चास्मान नमिते | तदेतत्क्षन्तव्यं न खलु पशुरोषः समुचितः || ९ || समंतादापीनस्तनजघन धृक् यौवनवतीरता सक्तो नक्तं यदि जपति भक्तस्तव मनुं | विवासास्त्वां ध्यायन् गलित चिकुरस्तस्य वशगाः समस्ताः सिद्धौघा भुविचिरतरं जीवति कविः || १० || समाः स्वस्थीभूतां जपति विपरीतां यदि सदा विचिन्त्यत्वां ध्यायन्नतिशय महाकालसुरतां | तदा तस्य क्षोणीतलविहरमाणस्य विदुषः कराम्भोजे वश्या हरवधु महासिद्धिनिवहाः || १४०अ) प्रसूते संसारं जननि भवती पालयति यत् समस्तं क्षित्यादि प्रलयसमये संहति च | अतस्त्वांधातापि त्रिभुवनपतिः श्रीपतिरहो महेशोपि प्रायः सकलमपि किं स्तौति भवतीं || अनके सेवन्ते भवदधिकगीर्वाण निवहान् विमूढास्ते मातः किमपि नहि जानन्ति परमं | समाराध्यामाद्यां हरिहर विरिंच्यादि विवुधैः प्रपंन्नोस्मि स्वैरंरति रस महानन्दनिरतां || धरित्री कीलालं शुचिरपि समीरोपि गगनं त्वमेका कल्याणी गिरिण रमणी कालि सकलं | स्तुतिः काते मातस्तव चरणयोर्मामगतिकं प्रसंन्नात्वं भूया भवमनुन भूयान् ममजनुः || श्मशानस्थः सुस्थोगलितचिकुरो दिक् पटधरः सहस्रं त्वर्काणां निजगलित वीर्येण कुसुमं | जपन् त्वत् प्रत्येकं मनुमपि तव ध्यानं निरतो माहाकालि स्वैरं संभवति धरित्री परिवृतः || गृहे संमार्जन्याषरिगलित वीर्यं हि कुसुमं समूलं मध्याह्ने वितरति चितायां कुजदिने | समुच्चार्य प्रेम्नामनुमपि सकृत् कालि सततं गजारूढो यातिक्षिति परिवृतः सक्तविवरः || सुपुष्पैराकीर्णं कुसुमधुनुषो मन्दिर महोपुरो ध्यायत् ध्यायत् यदि जपति भक्तस्तवमनुं | सगंधर्वश्रेणी पतिरिवकवित्वा मृत न दीन दीनः पर्यन्ते परमपदलीनः प्रभवति || त्रिपंचारे पीठे शवशिवहृदि स्मेरवदनां महाकालेनोर्च्चैर्मदनरसलावण्यनिरतां | समायुक्तो नक्तं स्वयमपि रतानन्दा निरतो जनाया ध्याये त्वां जननि किल स स्यात् स्मरहरः || मलोमास्थिस्वैरं पललमपि मार्जारमपि वा परंमौषं मेषं नरमहिषयोश्छागमपि वा | वलिं ते पूजायां मयि विरलवक्त्रे वितरतां न किं सिद्धिः सर्वा प्रतिपदमपूर्वा प्रभवति || वशीलक्षं मंत्रं प्रजपति हविष्याश नरतो दिवामातर्युष्मच्चरण कमल ध्याननिरतः | परं नक्तं नग्नानिधुवमविनोदेन च मनुंजनो लक्षं सम्यक् स्मरहर समानः क्षितितले || इदं स्तोत्रं मातस्तवमनु समुद्धारण जप स्वरूपाख्यं पादाम्वुजत्युगलपूजाविधियुतं | १४०ब्) निशार्धं वा पूजा समयमधि वायस्तु पठति प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः || कुरङ्गाक्षी वृन्दंतमनुरसति प्रेमतरलंवशस्तस्य क्षोणीपतिरपि कुवेर प्रतिनिधिः | रिपुः कारागारं कलयति च तत्केलि कलया चिरंजीवन्मुक्तः प्रभवति सुभक्तः प्रतिनिधिः || इति श्रीमहाकालकृतं कर्पूरस्तोत्रं समाप्तं || अथ त्रैलोक्यमोहनकवचं || श्रीदेव्युवाच || देवदेवमहादेव संसारप्रीतिकारक | सर्वविद्येश्वरी विद्या मयित्वं कथय ध्रुवं || श्रीमहाकाल उवाच || शृणु देवि महाविद्यां सर्वविद्यात्तमोत्तमां | सर्वेश्वरीं महाविद्यां सर्वदेव प्रपूजितां || यस्याः कटाक्षमात्रेण त्रैलोक्य विजयि हरः | वभूवकलामानाथो विभुर्ब्रह्मा प्रजापतिः || सचीस्वामी देवराजो यमोपि धर्मनायकः | त्रैलोक्य पावनी गंगा कमला श्रीर्हरिप्रिया || दिनस्वामी रविश्चन्द्रो निशापति ग्रहेश्वरः | जलाधिपोपि वरुणो कुवेरादि धनेश्वरः || अव्याहत गतिर्वायुर्गजास्यो विघ्ननायकः | वागीश्वरः सुराचार्यो दैत्याचार्यो ग्रहंकपिः || एवं हि सर्वदेवोपि सर्वसिद्धीश्वराः प्रिये | तस्यास्तु कवचं गुह्यं गोपयेत् मातृजारवत् || श्रीमहाकाल उवाच || अस्य श्रीदक्षिणकालिका कवचस्य महाकाल भैरव ऋषिरनुष्टुप् छन्दः श्मशान कालिका देवता सर्वकाममोक्षार्थे जपे विनियोगः || ललाटं मे पातु क्रीं महेशेनाराधिता सदा | नेत्रं रक्ष तु क्रिं क्रिं च विष्णुनाराधिता पुरा || क्रीं हूं ह्रीं नासिकांप्य तु ब्रह्मणा सेविता ध्रुवं | क्रीं क्रीं क्रीं वदनं पातु शक्रे नाराधिताशदा || ह्रीं स्वाहा श्रवने पातु यमे नैव प्रपूजिता | क्रीं हूं ह्रीं स्वाहा रसनां गंगया सेविता च तु || दन्तपंक्तिं सदा पातु ओं क्रीं हूं ह्रीं स्वाहा मम | भुक्तिमुक्तिप्रदा काली श्रीयानित्यं सुसेविता || ओष्ठाधरं सदापातु क्रीं क्रीं हूं हूं ह्रीं ह्रीं मम | सूर्यनाराधिता विद्या सर्वसिद्धि प्रदायिनी || कंठं पातु महाकाली ओं ह्रीं क्रीं स्वाहा वै सदा | १४१अ) चन्द्रे नाराधिता विद्या चतुर्वर्ग फलप्रदा || हस्तयुग्मं सदापातु क्रीं क्रीं हूं हूं ह्रीं ह्रीं स्वाहा | सौख्यदा मोक्षदा काली वरुणेन प्रसेविता || ओं क्रीं हूं ह्रीं फट् स्वाहा च हृदयं पातु सर्वदा | सर्वसंपत्करी काली कुवेरेणोप सेविता || ऐं ह्रीं ओं ऐं हूं फट् स्वाहास्तन द्वन्द्वं सदा पातु | वायुनोपासिता काली यशोवल सुखप्रदा || क्रीं क्रीं हूं हूं ह्रीं फट् स्वाहा पातु पृष्टं सदा मम | सर्वसिद्धिप्रदा काली गणनाथेन सेविता || क्रीं दक्षिणकालिके ह्रीं स्वाहा नाभिं सदावतु | शुद्धवुद्धप्रदा काली गुरुणा सेविता सदा || लिंगं पातु सदा हूं हूं दक्षिणे कालिके ह्रीं ह्रीं | शुक्लेणाराधिता काली त्रैलोक्य जयदायिनी || पात्वण्डकोषे क्रीं क्रीं दक्षिणे कालिके क्रीं स्वाहा | धरया सेविता विद्या सर्वरत्नप्रदायिका || पातु गुदं क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा | द्वादशी च महाविद्या राघवेनार्चिता सदा || जानुनी पातु ओं ह्रीं दक्षिणे कालिके ह्रीं स्वाहा | एकादशी महाविद्या मेघनादेन सेविता || क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा जंघावतु | द्वादशी च महाविद्या प्रह्लादेन प्रसेविता || क्रीं हूं ह्रीं दक्षिणे कालिके क्रीं हूं ह्रीं स्वाहा | चतुर्दशी पादयुग्मं शुकदेव न सेविता || क्रीं ह्रूं ह्रीं दक्षिणे कालिके क्रीं हूं ह्रीं दक्षिणे कालिके क्रीं हूं ह्रीं तथांगुलीः || पातु मे द्वादशी काली क्षेत्रपालेन सेविता | ओं क्रीं हूं ह्रीं दक्षिणे कालिके क्रीं हूं ह्रीं स्वाहा || नखं सर्वं सदापातु पंचदश्रीग्रहेश्वरी | क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं क्रीं क्रीं क्रीं हूं हूं ह्रीं स्वाहा || षोडशीं भैरवी पातु भैरवेन प्रसेविता | क्रीं क्रीं क्रीं पातु लोमानि हूं हूं रक्ष तु चर्मणि || मांसं पातु सदा ह्रीं ह्रीं रक्तं दक्षिण कालिके | क्रीं क्रीं क्रीं पातु मे अस्थिमज्जां हूं हूं सदावतु || ह्रीं ह्रीं शुक्लं सदापातु सन्धि रन्ध्रे स्वाहावतु | द्वाविंशत्यक्षरी विद्या सर्वलोक प्रपूजिता || सर्वविद्येश्वरी विद्या सर्वतंत्रेषु गोपिता | सूर्यवंशेन शौम्यनरामनय(?) जमदग्निना || जयंतेन सन्देन वलिना नारदेन च | १४१ब्) विभीषणच्यवणेन तृगुणाकाश्यपेन च || कपीन्द्रेण वशिष्टेन भौमेन त्रिपुरेन च | मार्कण्डेय नकृपेन द्रोणेन सत्यभामया || ऋष्यशृंगेनकश्वेन भारद्वाजेन जह्नुना | सर्वैरारोधिता विद्या जरामृत्यु विनाशिनि || पूर्णविद्या महाकालि विद्याराज्ञी प्रकीर्तिता | कालीकपालिनी कुल्ला कुरुकुल्ला विरोधिनी || विप्र चित्ता तथोग्रा च उग्रदिप्ता प्रभापि च | नीलाद्यनावलाका च मात्रा मुद्रामितापि च || येताः सर्वाः खड्गधरा मुण्डमालाविभूषणाः | हूं हूंकारादृहासेन सर्वत्र पातुमां सदा || ब्रह्माणी पातु मां पूर्व आग्नेर्यां वैष्णवी सदा | माहेश्वरी पातु याम्य चामुण्डा नै-ऋते सदा || कौमारी वारुणे पातु वायव्य चापराजिता | वाराही चोत्तरे पातु चैशान्यां नारसिंहिका || अध ऊर्ध्वं पातु काली पार्श्वपृष्टे च कालिका | जले स्थले च पाताले शयने भाजन गृहे || राजस्थाने नलदुर्यो विवादे मरणे रणे | प्रान्तरे पर्वते शून्ये पातुमां कालिका सदा || शवासने श्मशाने च शून्यागारे चतुष्पथे | यत्र तत्र भये प्राप्ते सर्वत्र पातु कालिका || नक्षत्रतिथिवारे च योगकरणयोरपि | मासे पक्षवत्सरे च यामे दण्ड निमेषके || दिवारात्रौ शिवा पातु सन्ध्ययोः पातुकालिका | सर्वत्र कालिका पातु कालिका पातु सर्वदा || यः पठेच्छृणुयाद्दिव्यं कवचं शिवनिर्मितं | सर्वपापं परित्यज्य गच्छेच्छिव समालयं || त्रैलोक्य मोहनं दिव्यं कवचं देव दुर्लभं | यः पठेत् साधकश्रेष्ठः सर्वकर्म जयान्वितं || सर्वधर्मोद्भवो धर्मः सर्वविद्येश्वरेश्वरः | कुवेरे वधनाध्यक्षो स्वरेण कोकिल स्वरः || कवित्वे व्यास सदृशो गणेशेव श्रुतीधरः | कामदेव समारूपो वायुतुल्य पराक्रमः || महेश ईव योगीन्द्र ऐश्वर्य सुरनायकः | वृहस्पति समोधीमान् जरामृत्यू विवर्जितः || सर्वदर्शी च निःपापी सकल प्रियः || अव्याहत गतिः शान्तो भार्यापुत्रसुतान्वितः | यद्देहं कुरुते नित्यं कवचं मंत्रविग्रहं || न शोको न भयः क्लेशो न रोगो न पराजयः | १४२अ) महाविषविषादेपि परिवाद भयन्नहि || संग्रामे च जय छत्रून् यथा वह्निर्दहेतृणं | ब्रह्मास्त्राद्यस्त्र शास्त्राणि याम्या हि कण्ठकानि च || तस्य देहं न भिन्दंति वज्रतुल्यं भवेद्वपुः | ग्रहभूतपिशाचाश्च यक्षराक्षसकिन्नराः || सर्वे दूरात्पलायन्ते हिंसको नश्यति ध्रुवं | तद्देहं न दहत्यग्निर्नतापयति भास्करः || न शोषयति वातोपि क्लेदनं कुरुते ययः | पुत्रवत् पाल्यते काल्या हिमवत् कुरुते शशी || जलसूर्यन्दूवानाश्च रक्षन्तु नास्ति संशयः | वहू किं कथयिख्यामि सर्वसिद्धिमुपा लभेत् || नानाभोग सूखंलद्वा स्वेच्छयापि शिवो भवेत् | लिखित्वा पूजयित्वा वा धारयेदङ्गसंगतं || मोहनस्तम्मनाकर्ष मारणोच्चाटनं भवेत् | काकवन्ध्या च या नारी वन्ध्या वा मृतपुत्रणीः || कण्ठे वा वामहस्ते वा लिखित्वा धारयेद् यदि | तदा पुत्रो भवेत् सत्यं चिरायूः पण्डित शुचिः || स्वामिनो वल्लभः सोपि धनधान्यसूतान्वितः | इदं कवचमज्ञात्वा योजयेत् कालिका मनुं || ध्यानेन कोटि जापेन तस्य विद्या न सिध्यति | पदे पदे भवेद् दूःखं लोकानां निन्दितं ध्रुवं || इहलोके महादुःखी परे च नरकं व्रजत् | गुरूमन्न समं ज्ञात्वा योरभेत् कवचोत्त्रमं || तस्य विद्या भवे सिद्धाः सत्यं सत्यं वरानने | य इदं कवचं दिव्यं प्रकाशा छिवहा भवेत् || भक्तायजष्ट पुत्राय साधकाय प्रशयेत् || इति श्रीरुद्रयामले देवी शङ्करसंवादे त्रैलोक्य मोहन्नाम कवचं समाप्तं || अथ शतनाम स्तोत्रं || ओं अस्य श्रीकालिकाशतनामस्तोत्रस्य भैरव ऋषिः अनुष्टप्छन्दः श्रीदक्षिणकालिका देवता शतनामया विनियोगः || करालिनी महातेजा लोकधात्री अरुंधती | सरस्वती विशालाक्षी प्रज्ञा विद्यश्वरी तथा || मनोज्ञा शांभवि माया दुष्टदैत्य विनाशिनी | महान्मक्रामदोन्मत्ता मदिरामदिरक्षणा || महामांस प्रिया श्यामा श्यामंलांगी सूखप्रदा | चिदानन्दाचिद्विलासा चित्स्वरूपा च चित्कला || १४२ब्) कामेश्वरी करालास्या कालीकंकालधारिणी | विपरीत रताशक्ता कामान्ता कामिनीकलो || शवरी डाकिनी चैव चाण्डाली चापराजिता | कौलिनी कुलचक्रस्था कुमारी कालपंचमी || भगप्रिया भगाकारा भारूण्डा भगमालिनी | प्रत्यंगिरा प्रतरावोव्य प्रीतिदा प्रतमध्यगा || योगिनी तन्त्रकारी च महामारी शवासना | घोराट्टहासिनी घोरा जयन्ती विन्ध्यवाशिनी || जयदूर्गा भद्रकाली चामुण्डा चण्डनाशिनी | त्रिगुणा शुद्ध चैतन्या कान्ता कान्तारवाशिनी || योगेश्वरी महादेवी योगगम्या निरञ्जना | महाचण्डेश्वरी भीमाकाकालाकालानलस्थिताः || पद्मावती शिवाङ्कस्था ललज्जिह्वा भयानका | गान्धारी किन्नरी पूषा तु हिनांचनाचलवासिनिः || वशिनीन्जोभिनी जेमा योनिमण्डलमध्यगा | जेमंकरी फेरुरूपा वाराही वारुणी शिवा || महाप्रलयरंगस्था नर्तकीनर्तन प्रिया | विरूपा विश्वरूपा च विक्रमासारागेद्भवा || महाप्रचण्डा प्रमदा चन्द्रिका चण्डशीतलो | नादविन्दूश्च रूपा च सर्वा वीजस्वरूपिनी || निष्कलानिष्कृयाशान्ता प्रशान्ता शान्तरूपिनी | अष्टास्तरशतं नाम कथितं हित काम्ययाः || दुःखितोपि सुखी नित्यं दरिद्रो धनमाप्नुयात् | मूर्षापि लभते वाणी मनर्गलविजृंभिनी || अचिरोज्जायते सिद्धिः यादूकाञ्जन खेचरी | अष्टम्यामर्धराते तु पथेदष्टान्तरं शतं || तदा ष्ट्कर्म संसिद्धिर्जायते लोकसुन्दरी | सभायां व्यसन चैव संग्रामे शंकते तथा || महाभये समुत्पन्ने महावन्धविपस्तिषु | पथेत् स्रोत्रं हृदि ध्यात्वा कालिकां साधकोत्तमः || ते सर्वनाशमायान्ति महादेव वचो यथा || इति श्रीर्कालीकुलसर्वस्वदक्षिणकालिकाया अष्टोत्तरशतनामस्तोत्रं समाप्तः || अथ हरकुमारसम्वादे मन्त्रगर्भे नाम सहस्रनाम स्तोत्रं लिष्यते || कैलासशिखररम्य नानापूषोप शोभिते | कल्पपादप मध्यस्थे नानारणोप शोभिते || मणिमण्डप मध्यस्थे मुनिगन्धर्व सेविते | तं कदाचित् सुखासीनं भगवन्तं जगद्गुरुं || कपाल खट्वांगध * चन्द्रार्धं कृतशेखरं | १४३अ) त्रिशूलडमरुहस्तं महावृषभवाहनं || जटाजुटधरं देवं कण्डे वासुकि भुषितं | विभूति भुषशं देवं नीलकण्डं त्रिलोचनं || द्वीपिचर्मपरीधानं शुद्धस्फटिकसन्निभं | सहस्रादित्य संकाशं गिरिजार्धाङ्गभुषणं || प्रणम्य शिरसा नाथं कारणं विश्वरूपिणं | कृतांजलि पुटो भुत्वा प्रार्थयन्छिखि वाहनः || श्रीकर्तिकेय उवाच || देवदेव महादेव सृष्टिस्थित्यन्तकारक | त्वं गतिः सर्वदेवानां त्वंगतिः सर्वदेहिनां || त्वं गतिः सर्वलोकानांन्दीनानां च त्वमेव हि | त्वमेव जगदाधारस्त्वमेव विश्वकारणः || त्वमेव पूज्येः सर्वषां त्वदृते नास्ति मे गतिः | किं गुह्यं परमं लोके किं वात्वेक परायणः || किमेकं परं श्रेष्टं को योगः सर्वमोक्षदः | विनातीर्थेन तपसा विनादानैर्विना मखैः || विनालयेन ध्यानेन केन सिद्धिमवाप्नुयात् | कस्यामुत्पद्यते सृष्टिः कस्यां च प्रलया भवेत् || कस्या उत्तीर्यते देव संसारोर्ण्ड वटात् || तदहं श्रोतुमिच्छामि कथयस्व महेश्वर || श्रीमहादेव उवाच || साधु साधु त्वया पृष्टं मम पार्वतिनन्दन | अस्ति गुह्यतमं पुत्र कथयिष्याम्य संशयं || सत्वं रजस्तम इति ब्रह्म विष्णु शिवादयः | ये चान्ये वहवो भूताः सर्वप्रकृति संभवाः || सैव देवी महाशतिः श्यामा दक्षिणकालिकालिका || सैव प्रसुयते विश्वं विश्वं सैव प्रपाल्यते | सेव संहरते विश्वं जगदेतच्चरारं * || आधारः सर्वभुतानां सैवं रोगार्ति हारिणी | इच्छा क्रिया तथा ज्ञाना ब्रह्मविष्णु शिवात्मिका || त्रिधा शक्ति स्वरूपेण सृष्टिस्थित्यंतकारिणी | सृजति ब्रह्मरूपेण विष्णुरूपेण पाल्यते || संहरेद्गुरूद्रपेण जगदेतच्चराचरं | येस्यायोनौ जगत्सर्वं मध्ये प्रवर्ततेखिलं || यस्यां प्रलीयते विश्वं यस्यां तज्जायते पुनः | यां समाराध्य त्रैलोक्यं संप्राप्तं पदमुत्तमं || तस्या नाम सहस्रं तु कथयामि शृणुष्व तत् || ओं अस्य श्रीश्यामा भगवती सहस्रनामामस्तोत्र मन्त्रस्य श्रीभगवान्दक्षिणमुर्ति वामदेव १४३ब्) ऋषिर्जगती छन्दः समस्त प्रटगुप्ततरसंप्रदाय कुलकौलान्तीर्ण निर्भरहस्याति रहस्या चिंत्य प्रभावा श्रीभवा श्रीभगवती श्यामा देवता क्रींवीजं हं शक्तिः ह्रीं कीलकं जीवोवीवीजं वुद्धिः शक्ति उदानः कीलकं सुषुम्ना नाडी सरस्वती शक्तिः धर्मार्थ काममोक्षार्थे जपेपाथे विनियोगः || अध्यारे तरूणार्क विंवरूचिरां काली त्रयेणांकितां वर्षामेघनिभां हि मांशु मुकुटां कुर्चद्वयान्तः स्थितां || ब्रह्माविष्णुमहेश्वरास्थिवसनां प्रेतासने संस्थितां हीं वीजेन विभुषितां भगवतीं श्यामां भजे मानसे || इति ध्यानं || ओं क्रीं हीं कामदा नमः || ओं रां क्रीं श्रीं पयः काम्या ओं स्त्रीं हूं क्रैतुं कामना | ओं ऐ सौः रां ग्लौं ह्रुं ह्रं ह्रीं ह्रीं ह्रीं क्रीं कामचोरिणी || कालरात्रिः हसौः नीरं महारात्रीः म्लौं म्लौं पय | ह्रं श्रीं हीं कालिनी स्वाहा क्रीं कुं वां कालरूपिणीः || ओं फूं जं क्रीं तु कौमारि क्रीं श्रीं हीं करुणा नमः | ओं हौं क्रां पयः कीर्तिजं रां वीं कुलदेवता || ओं ऐं क्लीं सौं ग्लौं नीरं कलिकल्मषनाशिनी | ओं क्रीं कायनी स्वाहा कलाधरीत्कु नमः || क्रीं क्रौं क्रैं कौमुदी स्वाहा श्रीं क्रीं हीं कमल प्रिया | ओं हीं कः कींर्क्तिदा स्वाहा ओं जं रां वुद्धिदापयः || ओं श्रीं सौंः ह्रां वनं मधा ओं क्रोनं नातिदापयः | ओं नीं श्रीं क्लीं तु नीतिज्ञा ओं ऐं सौः नीति वत्सलो || ओं क्लीं महेश्वरा स्वाहा महामाहा क्लें नमः | ओं मं रां श्रीमहातेजा ओं श्रीं क्लीं म्लां माहेश्वरी || ओं श्री ऐं सः महाजिह्वा महालोलाला म्त्रं(?) वनं | ओं क्रीं रां महादंष्ट्रा ओं क्लीं रं लं महाभुजा || महामोहान्धकार घ्नीं ह्रीं ह्रीं श्रीं वं ह्रुं वनं | ओं कं खं गं ह्मौं नीरं महामोक्ष प्रदायिनी || महादारिद्र्य राशिघ्नीं ओं जुं घं फं क्ष्णै नमः | ओं चं छं जं क्ष्णैंः नीरं महाशत्रु विमर्द्विनी || ओं ऐं सौ ह्लीं मन्तमयी ओं श्रीं क्रीं त्त्रं(?) महासखा | ओं ह्ल्रं श्रीं ऋं ञं क्ष्णैः श्रीमणिपुरनिवासी || ओं क्रों क्रीं श्रीं महाकाया महावार्यास्फां पय | ओं वां वीं श्रीं म्लुं(?) नीरं महापातकनाशिनी || ओं श्री शुः मानसि स्वाहा ओं त्रुं त्रौं मानदानदापयः || १४४अ) ओं क्लीं ऐं सः पयोन्या ओं श्रीं क्रीं मन्तिव वल्लभा | ओं ऐं सौः ओं प्नु स्वाहा मनश्चक्षुर गौचरा || ओं श्रा कुं हूं क्लुं स्वाहा मोदकहारपालिनी | ओं श्रीं मंदोदरी स्वाहा ओं ऐं मातंगिनी पयः || ओं ह्रीं श्रीं म्लुं स्त्रीं क्ष्णैः स्वाहा मन्त्रमातंगगामिनी | ओं ग्लौं गं गुणमाता च गायत्रीयां हरं पयः || ओं श्रीं वांगी ग्लुं स्वाहा गणगर्वसेविताः || ओं श्रीं गीं गिरिजा स्वाहा ओं ग्लौगः गिरिजा नमः | ओं श्री न्रुं क्लीं पयः सान्धी गिरिस्था श्रीक्ष्णैः नमः || ओं जं त्रं गन माता च ओं श्रीं गीं गिरि संभवा | ओं न्रुं चं चण्डिका स्वाहा ओं क्रीं चं सिद्धसेविता || ओं श्रीं सिद्धिप्रदा स्वाहा ओं टें टं टां सुराप्रिया | ओं टं णं सरसि स्वाहा ओं तं थं चण्डिकेश्वरी || ओं क्लीं अं अंविका स्वाहा ओं चं चंडेश्वरी पयः || ओं न्रुं चण्डरूपा ओं प्रीं वीं श्री चलाचला || ऐं प्रचंडाहरं नीरं ऐ सौः क्रीं चण्डमालिनी | ओं श्रीं क्लीं चर्चिता स्वा ओं दं धं नं सुरप्रिया || ओं श्रीं चं चंचितकरा ओं श्रीं चं चास रूपिणी | ओं स्त्रीं चर्मांवरधरा ओं श्रीं चंद्रनिभानना || ओं श्रीं क्रीं हुं हुं स्वाहा चंद्रमण्डल मध्यगा | ओं क्लीं चं चापिनी स्वाहा ओं चं चामिकर प्रभाः || ओं ह्रं ह्रां श्रीं तु चार्वंगी ओं श्रीं चन्दनलेपिनी | ओं यं यज्ञक्रिया स्वाहा ओं रं यज्ञश्वरी परीपयः || ओं यं यज्ञ परा स्वाहा ओं यं रं यज्ञे दक्षिणा || ओं क्लंः यज्ञवल्लिपयः ओं पं फं यज्ञ रक्षिका || ओं वं भं मं तु यज्ञ श्री ओं यं रं लं वं प्लुंक्ष्सौः | श्रीं शं षं सं क्ष्णैंः लं क्षंः याज्ञिकेष्टवरप्रदा || ओं यं वं स्तीं यज्ञभा क्रूं डं सौः वां वीं यशः प्रदा | ओं जुं ह्रं पवनी स्वाहा ओं रां यवल्लभा || ओं क्लीं यशौवती स्वाहाः ओं यं रां गीं यम स्वाहा ओं यं रां गीं यम स्वसा || ओं रंः लः क्ष्णैः स्वाहा यम किंकरहारिणी || यम स्त्री ऐ हरं स्वाहा ओं यमेष्ट फलप्रदा | ओं जुं श्रीं यक्षिणी स्वाहा यज्ञांगी ह्रां म्लपयः || ओं श्रीं स तुरगं स्वाहा जपयज्ञ परायणी || ओं क्लीं वीं ग्लुं याज्ञी ओं ह्रीं यज्ञक्रियालया ओं श्री श्रौ श्रीं क्ष्णैः स्वाहा यजमान वरप्रदा || ओं जुं जालंधरा स्वाहा जगन्मस्ताक्ष्णै पयः || ओं जातवेदा म्लुं स्वाहा ऐं क्लीं सौंः क्लीं नरा प्रिया || ओं श्रीं जूं जां जितक्रोधा ओं श्रीं जितेन्द्रियावनं || १४४ब्) ओं सौंः क्लीं जननी स्वाहा ओं श्रीं क्लीं जन्मदायिनी | ओं वां वीं जयदा स्वाहा ओं श्रीं क्लीं विजया तथा || ओं श्रीं जयाहरं नीरं ओं शुःद्योतिष्मती वनं | ओं श्रीं जंभारि वरदान्द्र श्रीं जगन्निवासिनी || ओं जुं जलधिकन्या तु ओं श्रीं जूंजाति वल्लभा || ओं क्लीं जूं वां ह्सौंः स्वाहा जंवूद्विपनिवासिनी वासिनी || क्रीं श्रीं क्रीं श्रीं ह्लीं स्वाहा झंकार भयदा तथा | ओं श्रीं क्लीं जानकी स्वाहा ओं श्रीं श्रीं जगती पयः || ओं जु ऐं जटिला स्वाहा ओं कपर्द्धि फलप्रदा | ओं श्रीं जांवुनदद्योतिः ओं रां रामप्रिया पयः || रां गीं रूं श्रीं ह्सौंः स्वाहा रजोगुण समन्विता | ओं रां रूं राजसी स्वाहा रं वां रंभाहरं वनं || ओं स्त्रीं रत्नेश्वरी स्वाहा रां रूं रोवणहाणी | रां रां रोजेश्वरी स्वाहा ओं रां रमणवल्लभा || ओं क्लीं राजेन्द्र वरदा ओं श्रीं रां रूं रतीपयः | ओं श्रीं क्लीं रोहिणी स्वाहा ओं श्रीं क्लीं रोहिणी वनं || ओं श्रीं रीं क्लीं रेसास्वाहा रों रूं रसिक वल्लभा | रां रूं रूपवती स्वाहा ओं जुं रात्रिवनं पयः || ओं श्रीं रां राक्षसी स्वाहा ओं श्रीं रां रोगापहारिणी | ओं क्लीं श्रीं रां हूं वीं रू रू दानवज्रासिनी || ओं रूं रूक्मां गदा स्वाहा ओं रूं श्रीं क्लां तु रूक्मिणी | ओं श्रीं त्रां ह्लां रेमा स्वाहा रंभो रू ह्लां ह्नूं वनं || ओं क्लीं प्रीं पार्वती स्वाहा ओं प्रीं पर्वतवोसिनी | ओं श्रीं जूं वां ह्सौंः प्लीं स्त्रीं त्रीं त्रीं त्रं पर्वत नन्दिनी || ओं पूं प्रीं श्रीं वं नं प्रों ची ओं पीं प्रेमस्वरूपिणी | ओं वां गीं क्लीं ह्सौः स्वाहा पातालतलवासिनी || ओं श्रीं जुं सां पद्म स्वाहा ओं श्रीं प्रीं क्लीं परापयः | ओं रां रीं गीं हरं पद्मकेशरसन्निभा || ओं श्रीं प्रीं क्लीं म्लुं स्वाहा पद्म यत्रायते क्षण | ओं श्री ऐं सौः ह्सैं स्वाहा पद्मकेशर सन्निभाः || ओं ज भुः सः हरं नीरं पद्मात्म वरप्रदा | ओं क्लीं क्रीं श्रीं न्म्यां स्वाहा पद्मनाभ निषेविता || ओं जीं म्त्रीं श्रीं क्लीं स्वाहा पुरारिजप दायिनी | ओं प्रीं श्रीं क्लीं ह्सौंः पद्मा ओं क्लीं ऐं प्रिया पयः || ओं क्लीं श्रीं क्रं तु पौलोमी ओं पूरन्दरसेविता | ओं श्रीं क्लीं सौंः तु पांचाली ओं क्लीं पारमितापयः || ओं श्रीं सौंः क्लीं पयः प्रज्ञा ओं सौंः क्लीं श्रीं प्रभावती || १४५अ) ओं श्रीं क्लीं ऐं प्रियापयः || ओं क्लीं श्रीं क्रं तु पौलोमी ओं पूरन्दरसेविता | ओं श्रीं क्लीं सौंः तु पांचाली ओं क्लीं पारमितापयः || ओं श्रीं कमल यत्राक्षी ओं श्री ओं श्रीशीहरं पयः | ओं क्रीं श्रीं गीं सौः तु काश्मीरी ओं ज्ञं क्रीं कूंकूमप्रिया || ओं गां गीं सौंः स्वाहा कोलाहल प्रियंकरी | ओं श्रीं शीतांशु सूर्याग्नि नयना क्लीं पयः तथा || ओं श्रीं शा-ईलसंस्था च ओं श्रीं ऐं सौंः तु सारदा | ओं ऐं सौंः क्लीं तु शर्वाणी ओं जुं शशि कलापयः || ओं श्रीं श्रीं सौंः ह्लीं स्वाहा नरशार्दूलसेविता | ओं श्रीं शक्रेष्टवरदा श्रींशरीर फलप्रदा || श्रीं शौनकार्चिता स्वाहा श्रीं सौः क्लीं शर्वरी पयः | ओं श्रीं स्त्रीं भरं नीरं शशांक कृत शैखरा || ओं क्लीं सौं || ओं क्लीं सौंः श्रीं हरं नीरं शेषाहे रूपरिस्थिता | ओं क्लीं सौंः त्रिपूरस्था च त्रीं श्रीं तुर्याहरं वनं || ओं त्रुं त्रीं तारिणी स्वाहा ओं जुं स्त्रीं तोतलापयः | ओं श्रीं क्लीं उग्रतारा च ओं श्रीनीरसरस्वती || ओं ऐं सौंः क्लीं एकजटा ओं ऐं सौंः तरलक्षणा | ओं श्री तिपूहन्त्री च श्रीं ह्लीं क्लीं ह्रीं त्रिलोचना || ओं श्रीं त्रिमार्गगा स्वाहा ओं श्रीं घक्षीहरंवनं | ओं ऐं तु खुरूहस्ता च ओं श्रीं क्लीं त्रिपुरावनं || श्रीं ह्रीं क्लीं ऐं ह्सौः स्वाहा महात्रिपुरसुन्दरी | ओं अं श्री सौःवनं अम्वा ओं श्री क्लीं अंतु असिता || ओं अं अनल शिखा स्वाहा अं आरण्य निवासिनी | ओं ह्लूं क्लीं श्रीं ग्लूं स्वाहा अंवरीष वरप्रदा || ओं श्रीं क्लीं अनद्या स्वाहा || ओं श्रीं क्लीं अनियमापयः || अश्रीं अभयदा स्वाहा श्रीं श्रीं अन्तकरूपिणी | ओं श्रीं क्लीं ऐं क्षमा स्वाहा असुरोनन्तघातिनी || श्रीं अं श्रीं अदितिः स्वाहा श्रीं अं आदित्य सेविता | अं क्लंः श्रः अमिता स्वाहा ओं अं श्रीं अजयावनं || अं अनन्ताहरं नीरं अं असत्यक्षयंकरी | अं क्रीं कूं हूं हरं स्वाहा अनोदिनिधनावनं || ओं श्रीं क्लीं सुमुखी स्वाहा ओं ऐं क्लीं सदयापयः | स्त्रीं श्रीं सत्याहरं स्वाहा ओं श्रीं स्त्रीं सत्यसंगरो || ओं श्रीं सत्यवती स्वाहा ओं क्लीं श्रीं साम्विकीपयः || ओं श्रीं साडंवरा स्वाहा || १४५ब्) ओं रां श्रीं सरस्वती || ओं श्रीं क्लीं सौः सिता स्वाहा ओं श्रीं सागरसंभवा | स्त्रीं वां गीं श्रीं स्वरूपा च ओं श्रीं सुदक्षिणपयः || ओं श्रीं स्त्रीं गीं हुं स्वाहा शालिग्राम शिला तथा | ओं श्रीं स्त्रीं त्रूं तु सानन्दा श्रीं सुन्दाहरं वनं || ओं सुं सामरता स्वाहा श्रीं स्वामि जयदायिनी | ओं श्रीं हषांकिता स्वाहा ओं श्रींहातकरूपिणी || ओं ह्रां हास्यरता स्वाहा ओं श्रीं साधीहरं वनं | ओं श्रीं हारावलि स्वाहा ह्रीं ह्रं हालाहरंवनं || ओं ह्रीं हरिवधूः स्वाहा ह्रं हः हलिवरप्रदा || श्रीं शु ह्रः हारिणि || श्रीं ह्रीं हुं हरवल्लभा || ओं श्रीं क्लीं हूं ह्सं स्वाहा नानाहेति धरा सदा | नीं श्रीं नारोयणी स्वाहा ओं नीं हुं नलिने क्षण || नीरं नीलांवरधरा ओं श्रीं नाकि वरस्तुता | ओं श्रूं ह्रं वां ह्सौंः स्वाहा नयनानन्दकारिणी || ओं श्रीं स्त्रीं क्लीं ह्लीं स्वाहा नादापूरित दिङ्मुखा | ओं श्रीं नुं नृंत्य संतुष्टा ओं नां नागौपरिस्थिता || ओं नू श्रीं क्रीं ह्सौः स्वाहा नागाभरणभुषिता | ओं श्रीं शिवनोरी च ओं सौंः नुतनवल्लभा || ओं श्रीं क्लीं सौंः नुनौरूपा ओं शुं लुयकारिणी | ओं लीं वीं पयोलर्चा ओं श्रीं लक्ष्मीर्हरंवनं || श्रीं श्रीं क्लीं वीं लता स्वाहा ओं श्रीं लंवोदर प्रिया ओं श्रीं क्लीं द्रीं दया स्वाहा ओं द्रीं श्रीं क्लीं दयावती || श्रीं सौंः दितिर्हरं नीरं ओं श्रीं दामोदरेष्टदा | ह्रां वां दर्पवती स्वाहा ओं श्रीं दासीजनप्रिया || ओं श्रीं क्लीं वां व्लुं स्वाहा दानवानां क्षयंक्षरी | ओं श्रीं क्लीं द्वारिका स्वाहा ओं श्रीं दूंगुलिनी || ओं दं श्रीं क्लीं पयोदुर्गा ओं श्रीं श्रीं दुर्द्धरे क्षण | ओं श्रीं कस्तुरिणी स्वाहा ओं श्रीं कर्पुरवासिता || ओं कुं कुं कुब्जिका स्वाहा ओं श्रीं कीं तारवासिनी | ओं श्रीं प्रासायुधा स्वाहा श्रीं प्रीं ओं परिघायुधा || ओं मुं मुशल हस्ता च ओं व्लुं वां वाणधारिणी | कुं क्रां कपालिनी स्वाहा ख्रीं खट्वांगायुधापयः || ख्रीं गीं खड्गायुधा नीरं ओं चं चर्मधरापयः | अं कुं अंकुश हस्ता च ओं डं डमरुधारिणी || १४६अ) श्री क्रीं श्रीं शुलहस्ता च अं आं श्रीं असिधारिणी | ओं गां गुं श्रीं गदा हस्ता ओं श्रीं गरुडवाहिनी || र श्रीं खापयः || ओं श्रींशघ्नी हस्ता च ओं चं चक्रालया तथा | ओं भीभीषण रूपा च ओं भींभगंगिवासिनी || भै वां श्रीं भाग्यदा स्वाहा ओं वां वाण सुरेष्टदा | ओं भीं मुं मां पया भीमा ओं भैभर्गशिखापयः || ओं श्रीं क्लीं भास्वती स्वाहा ओं भैभीं भद्रकालिका | ओं भीं वां भद्रदा स्वाहा वीं भैवंधुजनेष्टदा || ओं वीं भै वैंधवेशानी ओं वों ऐं वलिघातिनी | ओं ऐं क्लीं सौं पयौ वला श्रीं षां षोडशवार्षिकी || ओं श्रीं ह्लीं क्लीं ह्सौंः वा गीं श्रीं स्वाहा वंधमोक्षदा स्वाहा वंधमोक्षदा || ओं श्रीं कुं हुं क्ष्मां स्वाहाकारावन्धन मोचनी | ओं श्रीं सौं वारुणी स्वाहा वां वीं वासुकि भूषिता || ओं श्रीं सौंः वीं तुवात्याली ओं वां वागीश्वरी पयः | वां वीं श्रीं चैव वारोही वां वीं वारांगनापयः || वां वीं श्रीं गों क्ष्मीं स्वाहा वारांनिधिनिखेचिताः | ओं वां वैद्येश्वरी स्वाहा ओं चं रूं गीं चिकित्सका || ओं श्रीं चाण्डालिनी स्वाहा ओं श्रीमहापिशाचिनी || वां वीं विद्याहरं नीरं नीरं वां श्रीं वीं वातदापयः || ओं वीं श्रीं वागुरा स्वाहा श्रीं वीं श्रीं रां वधोद्धता | वीं श्रीं त्रुं वध रूपा च वां वीं वंदिस्तु तापयः || श्रीं वां हुं ह्रीं ह्सौंः स्वाहा वातात्मज निषेविता | वां वीं श्रीं वानरी स्वहा वीं श्रीं वानीरवासिनी || श्रीं क्लीं ह्रीं विष्णुरूपा च श्रीं क्लीं विष्णु निषेविता | वै वैकुण्ठ निषण्डा च वां वी विश्वेश्वरी पयः || वां त्रुं सौः क्लीं वितस्ता च वीं हे वैत्रवती पयः | वां वीं श्रीं वरदा स्वाहा वीं विपश्च इहरंवनं || ऐं श्रीं क्लीं सौंः तु इन्द्राणी इ श्रीं इंगुदि वल्लभा | ओं श्रीं इं वां श्रीं ह्लीं स्वाहा ईषीकासनं संस्थिता || इं वां श्रीं चीं इलां स्वाहा इं वां श्रीं क्लीं ईडावनं | ओं इं इंद्र समानाभा इं इं युतरूपिणी || इं श्रीं वीं स्त्रीं ल्फुं स्वाहा इनकोटि समप्रभा | धं वां श्रीं कुं कामधेनुः कीं कामवरदापयः || क्रीं धुं धत्रिस्तुता स्वाहा ओं श्रीं वतालसेविता | १४६ब्) वां श्रीं ऐं शं श्वरी स्वाहा ऐ एणांक कलाधरा || वां वीं वसुमती स्वाहा वां वीं वासवे वां तदा || वीं वै श्रवण सेव्या चं सेवा फलदायिनी क्रीं श्रीं कमलिनी स्वाहा क्रीं क्रीं कुमुदिनी पयः || क्रीं लीं कालीहरं नीरं स्वाहा कपालधारिणी ह्नीं | श्रीं श्मशान स्थिता स्वाहा श्रीं श्रीं श्मशानकालिका || ओं श्रीं भैं भैरवी स्वाहा त्रुं त्रां त्रिपुरभैरवी || उं ऊं उस्रर काली च गेसौः पश्चिमकालिका || ओं श्रीं सौः क्लीं ह्लीं ऐं सौः भैरववेश्वरपूजिता | ओं क्रीं क्रीं क्रीं कराली *? क्रीं क्रीं कणकरूपिणी || ओं श्रीं कारुण्य रूपा च ओं श्रीं कारुण्यरूपिणी | वां श्रीं मीं शारिका स्वाहा शं शां शां री हरं वनं || ओं श्रीं श्रीं जुं ह्सौंः स्वाहा शिववामांगवामांगवासिनी | ओं द्रीं ऐं शांकरी स्वाहा क्रीं हुं ह्रीं हरिणे क्षण || क्रीं क्रीं क्रीं हूं द्वंयं ह्रीं ह्रीं स्वाहा दक्षिणकालिका | क्रीं क्रीं क्रीं हुं हुं ह्रीं ह्रीं श्यामा दक्षिणकालिका || ओं || एवं सहस्रनामदंश्यामायां भुक्ति मुक्तिदं | मंत्रगर्भ महात्म्यं हि वकुं शक्तो न कश्चन || श्यामा सहस्र नामेदं त्रैलोक्य विजया विधं | रुद्रयामल त *? क्तं कुमारेण प्रकाशितं || पुण्यं पुरारि वरदं पुरारिमुखनिस्सृतं | यस्ति कालं पथेत् पुत्र शुद्धया सहितो नरः || शृणुवत्स फलं तस्य साधकस्य महोदय | आदौ यथायं स्यामा तथा सोपि भविष्यति || तस्यापरः कोपि श्रेष्टो *? स्माकं तु कथैवका | ब्रह्माद्या ब्राह्मणाः सर्व कृष्णाद्या वैष्णुवास्तथा || नदाद्या(?) भैरवाः सर्व शिवाः प्रभृतयस्तथा | इन्द्रप्रभृतयो देवारामाद्याः क्षत्रियास्तथा || नद्यादयश्च प्रमदा गणेसाद्या गणास्तथा | रावणाद्या यातुधाः पूरस्भाद्यारिषीश्वराः || यमादयोयमदूताश्चित्र गुफादि लेखकाः | तेजस्विनश्च सुर्याश्च शुद्राद्यास्तारकास्तथा || १४७अ) वाल्याद्ग्रावा(?) नराः सर्व आदित्याद्या नवग्रहाः | उपग्रहा महासेन स्वर्भानु प्रभृतिस्तथा || अश्विन्याद्याश्च न क्षेत्रामेषाच्चाराशयस्तथा | गंगाद्याश्चैव नद्यश्च मानसाद्याः सरोवराः || शेखाद्या तु जगा सर्व गरूडाद्याश्च पक्षिणः | ऐरावतादया नागा उच्चैशु वादयो हयाः || सत्य प्रभृतयः पुत्र चत्वारश्च युगास्तथा | त्रिदेवास्त्र्याग्नयश्चैव वशिष्टाद्या मुनीश्वराः || चतुर्थदास्तथा पुत्र सर्वे त्रिभुवनं तथा | स्मरणार्च स्वश्यामायाः साक्षास्तस्य च पाठतः || शुवणाद्वा तथा षान्ति वशमेते शिखिध्वज | रोगिणां मुच्यते रोगो वद्वो मुच्येत वन्ध च || भीमा भयात् प्रमुच्येत पुत्र सत्यं न संशयः | कोटिदान सदृशं कल्पवृक्षा युतप्रभं || मेरूदानायुतनिभं पथनं चास्य वैसवृत् | कुष्ठी च मुच्येते कुष्टात् नेत्रलोगी तथैव च || भगन्दर रूक्यं युक्तो लक्ष चारं पथन्नरः | भगन्दरात् प्रमुच्येत पुत्र सत्यं न सं * यः || राजावातत्स्तियो वापि यस्य शत्रुर्भवेत् सुतः | शतावर्तं पथेन्मर्त्यः सहसा वशुमानयेत् || पुत्र शक्र समो राजा मम भक्तिपरायणः | पथनाच्छ्रवणद्वापि शत्रुस्तस्य न जीवति || तत्पुत्रैः पार्वती पुत्र संपुर्णा संभवेद्धराः | तद्गहेप्य चला लक्ष्मीर्नग्नस्त्रीवशिखिध्वज || न शास्त्रा न लतोयोघाप्भयं तस्य न जायते | राक्षसी यक्षणी घोरा पिशाची खेचरी तथा || स्मरणच्चास्य वैताश्च मोहमष्यांति तत्क्षणात् | इतीदं तु सहस्राख्यं पमंया हृतं मया || सर्ववोधा प्रशमरं रहस्यं सर्वदेहिनां | यः सदा धारयन्मर्त्यः सहस्राख्यं स्तवोत्तमं || न तस्य जायते क्वापि भयं देव्या अनुग्रहात् | क्षीणायुः प्राप्त मृत्युर्या महाराग हृतोपि वा || सद्यः मुखमवाप्नोति श्यामाया वरदानतः | १४७ब्) सर्वदरिद्र्यशमंनं सर्वमागल्यवर्धनं || यः पथेन्निवाचाह्नि स योगन्निदिवं व्रजेत् | पुत्रार्था च धनार्था च दारार्था चापि मानवः || मासमेकं दिवारात्रौ पथित्वा प्राङ्मुन्नरः | वहुनात्र किमुक्तेन महिम्नः शिखिवाहनः || इहलोके नरः पश्चान्मुक्तो भवेद्ध्रुवं | अन्यच्च पुत्र वक्षामि विशेषं सिद्धिदं करौ || मृतचर्माने मर्त्यः साधक उपविश्यह | इमं मन्त्र मयं देव्याः सहस्राख्यंस्तन्तमं || साक्षात् भगवती श्यामा दर्शनं जायते सदा | देयं पुत्राय शिष्याय गुरुभक्तिरतांय च || साधकापच दातव्यं नन्देयं यस्य कस्यचित् | अभक्तेभ्योपि पुत्रभ्यो दत्वा नरक माप्नुयात् || मुलभैस्य फलं नोस्ति दुर्ल्लभस्य कथं भवेत् | सत्य महासन कर्मणा मनसा गिरा || अभक्ताया कुलीनाय दत्वा कृष्टी भवेन्नरः || इति श्रीरुद्रयामले महातन्त्रे कार्तिकेय महादेवसंवादे त्रैलोक्ये विजयाभिधं मन्त्रगर्भश्यामासहस्रनामस्तोत्रं समाप्तं || अथापरहरपरशुरामं संवाद सहस्रनाम स्तोत्रं || १४८अ) श्रीसंकर उवाच || कथितोयं महामन्त्रः सर्वमन्त्रोत्तमोत्तमः | यमासाद्य मया प्राप्तमेश्वर्य पदमुत्तमं || संयुक्तः परया भक्त्या यथाक्र विधिना भवान् | कुरुतामर्चनं देव्यास्तैलोक्ये विजिगीषया || परशुराम उवाच || प्रसन्नोयदिवं परमेश पुरातने || रहस्यं परया देव्या कृपया कथय प्रभो | विनोर्चने विनोहोमं विना न्यासं विनो वलिं || विनोगंधं विनोनिभ्योदितां क्रियां || प्राणायामं विना ध्यानं विना भूतविशोधनं | विनो जपं विना दानं यथा काली प्रसीदती || श्रीशंकर उवाच || पृष्टं त्वयोत्तमं प्राज्ञ भृगुवंश समुत्भव | भक्तानामपि भभक्तोसि त्वमेवं साधयिष्यसि || देवीं दानव कोटिघ्नींलीत्वया रुधिर प्रियां | मदास्तोत्र पिया मुग्रो कामकौतुकलालसां || सर्वदानन्द हृदया मास वा सक्तमानसां | माध्वीक मत्स्यमांसानु रोगिणीं रूधिरधिरप्रियां || श्मशानवासिनीं प्रेत गणवृत्य महोत्सवां | योगप्रभां योगिनीशीं योगीन्द्र हृदयस्थितां || मामूग्र कालिकां रोम प्रसादयितु मर्हसि | १४८ब्) तस्याः स्तोत्रं महापुण्यं स्वयं काल्या प्रकाशितं || तव तत्कथयिष्यामि श्रूत्वा वत्सा वधारय | गोपनीयं प्रपन्न न पठनीयं परात्परं || यस्मैक कालपठनात् सर्वविघ्नाः समाकुलाः | नण्यन्ति दहने दीप्तपतक्ता इव सर्वतः || गद्यपद्य मयी वाणी तस्य गंगा प्रवाहवत् | तस्य दशनमात्रेण वादिनो निःप्रभामताः || राजानोपि च दासत्वं भजन्ति किं परजनाः | तस्य ह दैवास्ति सर्वसिद्धिर्न संशयः || निशीद्ये सुक्रे केशस्तु नग्नः शक्तिसमन्वितः | मनसा चिन्तयेत् कालीं महाकालेन नालितां || पठेत् सहस्रनामाख्यं स्तोत्रं माक्षस्य स्मधनं | प्रसन्ना कालिका तस्य पुत्रत्वेनानु कम्पते || यथा ब्रह्मामृतैर्ब्रह्म कुसुमैः पूजिता परा | प्रसीदति तथानेन स्तुता काली प्रसीदति || अस्य श्रीकालिका सहस्रनाम स्तोत्रस्य महाकालभैरव ऋषिरनुष्टुप्छन्दः श्मशानकालिका देवता धर्मार्थ काममोक्षार्थे विनियागः || ओं श्मशान कालिका काली भद्रकालिनी || गुह्यकाली महाकाली कुरुकुल्ला विरोधिनी | कालिकाकालरात्रिश्च महाकालनितम्विनी || कालभैरव भार्या च कुलवर्त्म प्रकाशिनी | १४९अ) मामदा कामिनी कास्या कमनीय भाविनी || कस्तुरी रस नीलाङ्गी कुञ्जरगामिनी || ककारवर्ण सर्वाङ्गी कामिनी कामसुरी | कामार्ता कामरूपा च कामधेनुः कलावती || कान्ताका कामस्वरूपा च कामाक्षा कुलपालिनी | कुलीना कुलवन्यम्वा दूर्गार्ति नाशिनी || कौमारी कुलजा कृष्णा कृष्णदेहा कृशोदरी | कृशाङ्गी कुलिशाङ्गी च क्रींकारी कमलाकला || करालास्या कराली च कुलकान्ताऽपराजिता | उग्रा उग्र प्रभादीप्ता विप्रचिन्ता महानना || नीलाघनावलाका च मात्रा मुद्रासिताऽसिता | व्रीग्नी नारायनी भद्रा सुभद्रा भक्तवत्सला || माहेश्वरी च चामुण्डा वाराही नारसिंहिका | वज्राङ्गी वज्रकंकाली नृमुण्ड सृग्विनी शिवा || मोलिनी नरमुण्डालीगलद्रक्त विभूषणा | रक्तचन्दनसिक्ताङ्गी सिन्दूरोरुणमस्तका || घोररूपा घोरदंष्ट्रा घोरातरा शुभा | महादंष्ट्रा महाकाया सुदती युगदन्तुरा || सुलोचना विरूपाक्षी विशालाक्षी त्रिलोचना | शारदेन्दु प्रसन्नास्या स्फरत्स्मेराम्वुजे क्षणास्य प्रसन्नात्या स्मेरवक्मा सुभाषिणी || प्रसन्न पद्म वदना स्मितास्या प्रियभाषिणी | कोटराक्षी कुलश्रेष्टा महती वहुभाषिणी || सुमतिः कुमतिश्चण्डा चण्डमुण्डाति वेगिनी | प्रचण्डाचण्डिका चण्डी चर्चिका चण्डवेगिनी || १४९ब्) सुकेशी मुक्तकेशी च दीर्घकेशी महत्कचा | प्रेतदेह कर्णपूरा प्रेतपाणि सुमेखला || प्रेतासना प्रिये प्रेता प्रेतभूमि कृतालया | श्मशानवासिनी पुण्या पुण्यदा कुलपण्डिता || प्रण्यालया पुण्यदेहा पुण्यश्लोका च पावती | पूतापपित्रा परमा पुरा पुण्य विभूषणा || पुण्यनाम्नीभीतिहरा वरदा खड्गपाणिनी | नृमुण्डहस्ताशस्ता च छिन्नमस्थासु नासिका || दक्षिणा श्यामला श्यामा शान्ता पीनोन्नतस्तनी | दिगम्वरा घोररूपा सृक्कान्ता रक्तहारिणी || घोररावा शिवा संगा विसंगा मदनातुरा | मत्ता प्रमत्ता प्रमदा सुधासिन्धू निवासिनी || अतिमत्ता महामत्ता सर्वाकर्षशकारिणी | गीतप्रिया वाद्यरता प्रेतनृत्य परायणा || चतुर्भूजा दशभुजा अष्टादशभुजा तथा | कात्यायनी जगन्माता जगती परमेश्वरी || जगद्वन्धूर्ज जगद्धात्री जगदानन्दकारिणी | जगज्जीव मयी हैमवती माया महाजवा || नागयज्ञोपवीताङ्गी नागिनी नागगामिनी | नागकन्या देवकन्या गन्धर्वी किन्नरीश्वरी || माहरात्रिर्महारात्रिर्दारुणाभाश्वरी || विद्याधरी वसुमती यक्षिणी योगिनी जरा | राक्षसी डाकिनी वेदमयी वेदविभूषणा || श्रुतिः स्मृतिर्महाविद्या पुरातनी || चिन्त्या चिन्त्या स्वधा स्वाहा निद्रा तन्द्रा च पार्वती | अपर्णा निश्चला लोला सर्वविद्यापतस्विनी || गंगा काशी शची सीता सत्ती सत्यपरायणा | नीतिः सुनीतिः सुरुचिस्तुष्टिः पुष्टिर्धृतिः क्षमा || वाणी वुद्धिर्महालक्ष्मीर्लक्ष्मीर्नीलसरस्वती | स्त्रोतः स्वतीसरस्वती मातङ्गी विजयाजया || नदीसिन्धूः सर्वमयी तारा शून्यनिवासिनी | शुद्धातरङ्गिनी मेधा लाकिनी वहूरूपिणी || स्थूला सूक्ष्मो सूक्ष्मतरा भगवत्यनुरूपिणी | परमात्म स्वरूपा च चिदानन्द स्वरूपिणी || सदानन्दमयीमत्या सर्वानन्द स्वरूपिणी | सुनन्दा नन्दिनीस्तुभ्यास्तवेनीय स्वभाविनी || १५०अ) रङ्किणी टङ्किणी चित्रा विचित्रा चित्ररूपिणी | पद्मपद्मालया पद्म सुखी पद्म विभूषणा || हाकिनी शाकिनी शान्ता राकिणी रुधिरप्रिया | भ्रान्तिर्भवानी रुद्राणी मृडानी शत्रुमर्दिनी || उपेन्द्राणी महेन्द्राणी ज्यत्स्ना चन्द्र स्वरूपिणी | सूर्यात्मिका रुद्रपन्नी रौद्री स्त्री प्रकृतिः पुमान् || शक्तिः सूक्तिर्मतिर्माता भुक्तिर्मुक्तिः पतिव्रता | सर्वश्वरी सर्वमाता सर्वाणी हरवल्लभा || सर्वज्ञा सिदासिद्धा भव्याभाव्याभयापहा | कर्त्री हर्त्री पालयित्री शर्वरी तामसी दया || तमिस्रा यामिनी स्थाष्टुः स्थिरा धीरा तपस्विनी | चार्वङ्गी चंचला लोलजिह्वा चारु चरित्रिणी || त्रपात्र पावतीलर्जा विलज्जाह्नी रजोवती | सत्यवती धर्मनिष्ठातिष्टुरवादिनी || गवष्ठा दुष्टा संहर्न्त्री विशिष्टा श्रेयसी घृणा | भीमो भयाणका भीम नादिनीभीः प्रभावती || वागीश्वरी श्रीर्यमुना यज्ञकर्त्री यजुः प्रिया | ऋक्सामाथर्वनिलया रागिणी शोभन स्वरो || कलकण्ठी कम्वुकण्ठी वेणुवीणा परायणा | वंशिनी वैष्णवी स्वच्छा धात्री श्रीर्जगतीश्वरी || मधुमती कुण्डलिनी ऋद्धिः सिद्धिः शुचिस्मिता | रम्भोर्ध्वशीरती रामा रोहिणी रेवती मघा || शंखिनी चक्रिनी कृष्णा गदिनी पद्मिनी तथा | शूलिनी परिघास्त्रा च पाशिनी शार्गपाशिनी || पिनाकधारिणी धूम्रा शरभीर्वनमालिनी | रथिनी समरप्रीता वेगिनी रणपण्डिता || जटिनी वज्रिनी नीला लावण्याम्वुद्धि चन्द्रिका | वलिप्रिया सदा पूज्या दैत्येन्द्रमथिनी तथा || महिषासुरसंहन्त्री कामिनी रक्तदन्तिका | रक्तपा रुधिराक्ताङ्गी रक्तखर्परधारिणी || रक्तप्रिया मांसरुचिरा सवासक्तमासा | गलच्छोणित मुण्डाली कण्ठमालाविभूषणा || १५०ब्) शवासना चितान्तस्था माहेशी वृषवाहनी | व्याघ्रत्वगम्वरोचीन चेलिनी सिंहवाहिनी || वामदेवी महादेवी गौरी सर्वज्ञभाविनी | वालिका तरुणी वृद्धा वृद्धमाता जरातुरा || सुभ्रूर्विलोसिनी ब्रह्मवादिनी ब्राह्मणी सती | स्वप्नावती चित्ररेखा लोपा मुद्रा सुरेश्वरी || अमोघाऽरुन्धती तिछ्णा भोगवत्यनुरागिनी | मन्दाकिनी मन्दहासा ज्वालामुख्य स्वरान्तका || मानदामानिनीमान्या माननीया मदातुरा | मदिरा मेदिरोन्मादा मेध्या साध्या प्रसाधिनी || सुमध्यानन्तगुणीनी सर्वलोकोन्तमोत्तमा | जयदाजित्वरीजैत्री जयश्रीर्जय शालिनी || सुखदा शुभदा सत्या सभा संक्षोभकारिणी | शिवदूतीर्भूतिमती विभूतिर्भीषणानना || कौमारी कुलजा कुन्ती कुलस्त्री कुलपालिका | कीर्तिर्यशस्विनी भूषा भूष्याभूतपति प्रिया || सगुणाधिष्ठानिष्ठाकाष्ठा प्रकातिष्ठिताशिनी | धनिष्ठा धनदाधन्या वसुधा स्वप्रकाशिनी || उर्वीगुर्वी गुरुः श्रेष्ठा षड्गुणा त्रिगुणात्मिका | राज्ञामाज्ञा महाप्राज्ञा सड्गुणा निर्गुणात्मिका || महाकुलीनानिःकामा स कामाकाम जीवनी | कामदेव कलारामाभिरामा शिवनर्तकी || चिन्तामणिः कल्पलता जाग्रती दिनवत्सला | कार्तिकी कृर्तिका कृत्या अयोध्या विषमासमा || सुमन्तामंत्रिणी घूर्णा ह्लादिनी क्लेशनाशिनी | त्रैलोक्य जननीजुष्टानिर्मांसामलरूपिणी || तलागनिम्न जठरा शुष्कमांसास्थि शालिनी | अवन्ती मथुरा हृद्या त्रैलोक्य पावन क्षमा || व्यक्ताव्यक्तानक मूर्तिः शरभी भीमनादिनी | क्षमङ्करी शङ्करी च सर्वसंमोहकारिणी || ऊर्ध्व तेजस्विनी क्लिन्ना महातेजस्विनी तथा | अद्वैता भोगिनी पूज्या सूभीर सर्वमंगला || सर्वप्रियङ्करी भोग्या धनिनी पिशिताशना | भयंकरी पापहरा निष्कलंका वशंकरी || आशा तृष्णो चन्द्रकला निद्राणा वायुवेगिनी | सहस्रसूर्य संकाशा चन्द्रकोटि समप्रभा || १५१अ) निशुंभशुंभसंहर्न्त्री रक्तवीज विनाशिनी | मधुकैटभहर्न्त्री च महिषासुरघातिनी || वह्निमंडलमध्यस्था सर्वसत्व प्रतिष्ठिता | सर्वाचारवती सर्वा देव कन्याति देवता || दक्षकन्या दक्ष यज्ञ नाशिनी दुर्गतारिका | ईज्या पूज्याविभीर्भूतिः स कीर्तीर्ब्रह्मरूपिणी || रम्भोरुश्चतुराराका जयन्ती करुणा कुहुः | मनस्विनी देवमाता यशस्या ब्रह्मचारिणी || सिद्धिदा वृद्धिदा वृद्धिः सर्वाद्या सर्वदायिनी | अगाधरूपिणी धेया मूलाधार निवासिनी || आज्ञा प्रज्ञा पूर्णमनाश्चन्द्रमुख्यनुकूलिनी | वा वटूका निम्न नाभिः सत्या सन्ध्या दृढव्रता || आन्वीक्षिकी दण्डनीतिस्त्रयीत्रिदिव सुन्दरी | ज्वलिनी ज्वालिनी शैल तनया विन्ध्यवासिनी || प्रत्यया खेचरी धैर्या तुरीया विमलातुरा | प्रगल्भा वारुणी छाया शशिनी विस्फुलिङ्गिनी || भुक्तिः सिद्धिः सदा प्राप्तिः प्राकाम्या महिमाऽणिमा | इच्छासिद्धिर्वशित्वा च ईशितोर्द्धनिवासिनी || लघिमा चैव सावित्री गायत्री भुवनेश्वरी | मनोहरा चिता दिव्या देव्युदारा मनोरमा || पिङ्गला कपिलो जिह्वा रसज्ञा रसिकारसा | सुषुम्नेढा भोगवती गान्धारी नरकान्तका || पांचाली रुक्मिणी राधाराध्याभामाधिकाधिका | अमृता तुलसी वृन्दा कैटभी कपटेश्वरी || उग्रचण्डेश्वरी वीर जननी वीरसुन्दरी | उग्रतारा यशोदाख्या देवी देवमानिता || निरंजना चिता देवी क्रोधिनी कुलदीपका | कुलवागीश्वरी ज्वाला मातृका द्राविणी द्रवा || योगीश्वरी महामारी भ्रामरी विन्दुरूपिणी | दूती प्राणेश्वरी गुप्ता वहुला भ्रामरी प्रभा || कुब्जिका ज्ञानिनी ज्येष्ठा भुशुण्डी प्रकटा कृतिः | द्राविणी गोपिनी रामा कामवीजेश्वरी प्रिया || शाकंभरी कोकनदासुमना च तिलोत्तमा | अमेय विक्रमा क्रूरा सम्यछीला त्रिविक्रमा || स्वस्तिर्हव्य वहाप्रीतिरुष्माधूम्रार्चिरङ्गदा | तपिनी तापिनी विश्वा भोगदाधारिणी धरा || त्रिखण्डा वोधिनी वश्या सकला शब्दरूपिणी | १५१ब्) वीजरूपा महामुद्रा वशिनी योगरूपिणी || अनन्गाकुसुमानन्गा मेखलानन्गरूपिणी | अनङ्गामदनानङ्गा रेखानङ्गाङ्कुशेस्वरी || अनङ्गमालिनी कामेश्वरी सर्वार्थसाधिका | सर्वमंत्रमयीमोदिन्यरुणानङ्गरूपिणी || वज्रेश्वरी च जयिनी सर्वदुःखक्षयंकरी | षडङ्गा युवती योग युक्ता ज्वालांशुमालिनी || दुराशया दुराधारा दुर्जया दुर्गरूपिणी || दुरंन्ता दुःकृति हरादुर्द्ध्ययादूरतिक्रमा | हंसेश्वरी त्रिकोणास्था शाकंभर्यनुरागिनी || त्रिकोण निलया नित्या परमामृतरंजिता | महाविद्येश्वरी श्वेता भेरुन्दा कुलसुन्दरी || त्वरिता भक्तिसंयुक्ता भक्तिवश्या सनातनी | भक्तानन्दमयी भक्त भाविता भक्तशंकरी || सर्वसौन्दर्य निलया सर्वशौभाग्यशालिनी | सर्वसम्भोग भवनी सर्वसौख्यानुरूपिणी || कुमारी व्रतचारिणी || कुमारी भक्तिसुखिनी कुमारी रूपधारिणी | कुमारी पूजक प्रिता कुमारी प्रीतिदा प्रिया || कुमारी सेवकासंगा कुमारी सेवकालया | आनन्दभैरवी वालभैरवी वटुकभैरवी || श्मशानभैरवी काल भैरवीपुर भैरवी | महाभैरवपत्नी च परमानन्दभैरवी || सुरानन्दभैरवी च उन्मदानन्दभैरवी | यज्ञानन्दभैरवी च तथा तरुणभैरवी || ज्ञानानन्दभैरवी च अमृतानन्दभैरवी | महाभयंकरी तीव्रातीव्रवगातरस्विनी || त्रिपुरा परमेशानी सुन्दरी सुरसुन्दरी | त्रिपुरेशी पञ्चदशी पञ्चमीपुरवासिनिः || महासप्तदसी चैव षोडशी त्रिपुरेस्वरी | महांकुश स्वरूपा च महाचक्रेश्वरी तथा || नवचक्रेश्वरी चक्रेश्वरी चक्रेश्वरी त्रिपुरमालीनी | राजचक्रेश्वरी राज्ञी महात्रिपुरसुन्दरी || सिन्दूरपूररुचिरा श्रीमंत्रिपुरसुन्दरी | सर्वान्गासुन्दरी रक्ता रक्तवक्त्रोत्तरीयिनी || जवायाव सिन्दूर रक्तचन्दनधारिणी | जवायावकसिन्दूर रक्तचन्दन रूपधृक् || १५२अ) चमरी वालकुतिल निर्मल श्यामकेशिनी | वज्रमौक्तिक रत्नाघ किरीटकुण्डलो ज्वला || रत्नकुण्डलसंयुक्त स्फुरङ्गण्डमणोरमा | कुंजरेश्चर कुंभात्थ मुक्तारञ्जितनासिका || मुक्ता विद्रूममाणिक्य हाराद्यस्तन मण्डला | सूर्यकान्देन्दु कान्ताद्य स्पर्शाश्य गणभूषणा || वीजपूरस्फुरद्वीज दन्तपंक्तिरनुत्तमा | कामकोदण्डकाभुग्न भ्रूकटक्ष प्रवर्षिणी || मातङ्ग कुम्भवक्षो जालसत्कोकणदक्षणा | मनोज्ञशक्यूली कर्णाहंसीगति विडम्विनी || पद्मरागान्गदद्योतदोश्चतुष्क प्रकाशिनी | नानामणि परिस्फुर्जच्छुद्धकाञ्चनभूषण || नागेन्द्र दन्तनिर्माण वलयाङ्कितपाणिनी | अङ्गुरीयक चित्राङ्गी विचित्रा क्षुद्रघण्टिका || पट्टाम्वर परीधाना कलञ्जीनी || कर्पूरागुरु कस्तूरी कुंकुमवलेपिता || विचित्ररत्न पृथिवी कल्पशाखितलस्थिता | रत्नद्वीप स्फुरद्रत्न सिंहासननिवासिनी || षट्चक्रभेदनकरी परमानन्दरूपिणी | सहस्रदल पद्मान्तश्चन्दमण्डलवर्तिनी || ब्रह्मरूप शिवक्रोड नानासुखविलासिनी | हरविष्णुविरिंचीन्द्र ग्रहनायकसेविता || आत्मयोनिर्ब्रह्मयोनिर्जगद्योनिरयोनिजा | भगरूपाभगस्थात्री भगीनि भगमालिनी || भगात्मिका भगाधारारूपिणी भगशालिनी | लिङ्गाभिधायिनी लिंग प्रियालिङ्गनिवासिनी || लिङ्गस्थालिङ्गिनी लिङ्गरूपिणी लिङ्गसुन्दरी | लिङ्गगीति महाप्रीतिर्भगगीति महासुखा || लिङ्गनाम सदानन्दा भगनाम सदारतिः | भगनाम सदानन्दा लिङ्गनाम सदारतिः || लिङ्गमाला कण्ठभूषा भगमाला विभूषणा | भगलिङ्गा मृतप्रीता भगलिन्गा * * * * * * ? || १५२ब्) * * * * * * * * * * * * * * * * |? भगलिंग स्वरूपा च भ्गलिंग सुखावहा || स्वयंभू कुसुमप्रीता स्वयंभू * *? नार्चिता | स्वयंभू कुसुम प्राणा स्वयं * * * * * * ||? स्वयंभू * * * * * * * * * * * * * |? स्वयंभू पुष्पघटिता स्वयंभू पुष्पधारिणं || स्वयंभू पुष्पतिलका स्वयंभू पुष्पचर्चितां | स्वयंभू पुष्प न लता स्व * * * * * * * ? || स्वयंभू * * * * * * * * ? कुसुमात्मिका | स्वयंभू पुष्पनिचिप्य स्वयंभू कुसुमप्रिया || स्वयंभू कुसुमादान लालसोन्मत्तमानसा | स्वयंभू कुसुमानंद लहरी स्नि * * * * ? || * * * * * * * * * * * * * * * * ? | स्वयंभू पुष्पनिलया स्वयंभू पुष्पवासिनी || स्वयंभू कुसुम स्निग्धा स्वयंभू कुसुमोत्सुका | स्वयंभू पुष्पकारिणी स्वयंभू पुष्प * * * * ? || * * * * * * * * * * * * * * * * ? | स्वयंभू कुसुमज्ञाना स्वयंभू पुष्पभोगिनी || स्वयंभू कुसुमोल्लासा स्वयंभू पुष्पवर्षिणी | स्वयंभू कुसुमानन्दा स्वयंभू पुष्पपु * * ? || * * * * * * * * * * * * * * * * ? | स्वयंभू कुसुमकादी स्वयंभू पुष्पसुन्दरी || स्वयंभू कुसुमाराध्या स्वयंभू कुसुमोद्भवा | स्वयंभू कुसुमव्यग्रा स्वयंभू पुष्पपूर्णि *? || * * * * * * * * * * * * * * * * ? | * * * * * * * * * * * * * * * * ? || स्वयंभू कुसुमप्राणा स्वयंभू पूजकप्रिया | स्वयंभू वन्दकाधारा स्वयंभू निन्दकान्तका || स्वयंभू * * * * * * * * * * * * * ? | स्वयंभू * * * * * ? स्वयंभू दशरीरिणं || सर्वकालोद्भवा प्रीता सर्वकालोद्भवात्मिका | सर्वकालोद्भवोद्भावा सर्वकालोद्भवोद्भवा || कुण्ड * * * * * * * * * * * * * * ? | कुण्डगोलोद्भव * * ? कुण्डगोलोद्भवात्मिका || शुक्राधारा शुक्ररूपा शुक्रसिन्दुनिवासिनी | शुक्रालया शुक्रभोगा शुक्रपूजा सदारतिः || १५३अ) शुक्रपूज्या शुक्रहोम संतु*? शुक्रवत्सला | शुक्रमूर्तिः शुक्रदेहा शुक्रपूजकपूत्रिणी || शुक्रस्था शुक्रिणी शुक्र संस्पृहा शुक्रसुन्दरी | शुक्रस्नाता शुक्रकरी शुक्रसेव्याति शुक्रिणी || महाशुक्रा शुक्रभवा शुक्रवृष्टि विधायिनी | शुक्राभिधेया शुक्रार्हा शुक्रवन्दकवन्दिता || शुक्रानन्दकरी शुक्र सदानन्दविधायिनी | शुक्रोत्सवा सदाशुक्र पूर्णाशुक्र मनोरमा || शुक्रपूजक सर्वस्वा शुक्रनिन्दकनाशिनी | शुक्रात्मिका शुक्रसंपत् शुक्राकर्षणकारिणी || रक्ताशयारक्तभागारक्तपूजा सदारतिः | रक्तपूज्या रक्तहोमा * * * ? रक्तवत्सला || रक्तवर्णा * *? हा रक्तपूजकपुत्रिणी || रक्तवह्नी रक्तस्पृहा देवी च रक्तसुन्दरी | रक्ताभिधेया रक्तार्ह रक्तकन्दरवन्दिका || महारक्ता रक्त भ * * * * * विधायिनी ? | रक्तस्नाता रक्तप्रीता रक्तसेव्या विरक्तिनी || रक्तानंदकरी रक्त सदानंदविधायिनी | रक्तसक्ता रक्तपूर्णा रक्तसेव्या मनोरमा || रक्तपूजक सर्वस्वा * * * * * * * * ? | रक्त * * * * ? रूपा रक्ताकर्षणकारिणी || रक्तोत्साहारक्तव्यया रक्तपान परायणा | शोनितानंद जननी कल्लोलस्निग्धरूपिणी || साधकान्तर्ग * * * * * * * * * * * ? | शाधकानां सुखकरी साधकारि विनाशिनी || साधकाना हृदिस्थात्री साधकामन्दकारिणी | साधकानां च जननी साधकप्रियकारिणी || साधक प्रचुरानंद सपर्ति सुखदायिनी | शारदा साधकप्राणा साधकासक्तमानसा || साधकोत्तम सर्वस्वा साधकाऽभक्त रक्तपा | साधकानंद सन्तोषा साधकारि विनाशिनी || आत्मविद्या ब्रह्मविद्या परंब्रह्म कुटुम्बिनी | त्रिकूटस्थापश्च कूटा सर्वकूटशरीरिणी || सर्ववर्णमयीवर्ण जपमाला विधायिनी || श्रीशंकर उवाच || इति श्रीकालिकानाम्नां सहस्रशिवभाषितं | १५३ब्) गुह्या * * * * ? साक्षान् महापातकनाशनं || पूजाकाले निशीथे वा संध्यायोरुभयोरपि | लभते गाणपत्यं सद्यः पठ्येत् साधकोत्तमः || यः पठ्येत् पाठयेद्वापि शृणो * * * ? पदपि | सर्वपाप विनिर्मुक्तः सयाति कालिकापदं || श्रद्धयाऽश्रद्धया वापि यः कश्चिन्मानवः पठेत् | दूर्गादूर्गतरंतीर्त्वा * * * ? परमां गतिं || वंध्या वा काकवन्धा वा मृतवत्सा चयांगना | श्रुत्वा स्तोत्रमिदं पुत्रान् लभते चिरजीविनः || यं यं कामयते कामं पठन् स्तोत्र म * * * ? | * * * *? प्रसादेन तं तं प्राप्नोति नित्यशः स्वयंभू कुसुमैः शुक्रैः सुगन्धि कुसुमान्वितैः | जवापावक सिन्दूर रक्तचन्दनसंयुतैः || मत्स्य मांसादि * * * * * * * * ? पायसैः | भक्तोपनीतैर्मंत्रेण साधितैः शक्तिभिः सह || पंचोपचारै नैर्वेद्यैर्वसिभिर्वहुशोणितैः | धूपदीपैर्महादेवीं पूजयित्वा मनोहरैः || सप्त्वा म * * * ? स्तोत्रं पठेत् भक्ति समन्वितं | अनन्य चेताः स्थिरधीर्मुक्तकेशो दिगम्वरः || शवारूढश्चितास्थो वा श्मशानालयमागतः | शून्यालयगतो वापि शययाण्डो वा शिवात्मकः || स भवेत् कालिका पुत्र इति ख्यातिमुपागतः | सर्वविद्यावतां श्रेष्ठो धनेन च धनाधिपः || वायुतुल्य वलोलोके दुर्जयः शत्रुमर्दनः | सर्वसंकट मुत्रीर्णः सर्वसिद्धि समन्वितः || मधुपत्या(?) स्वयं देव्या सद्यमानः सुरोपमः | महेश इव योगीन्द्रः सर्वसत्व पुरस्कृतः || कामिनी कामरूपोसौ सर्वाकर्षणकारकः | जलसूर्ये * *? मुनां स्तंभको राजवल्लभः || यशस्वी सत्कविर्धीमान् यसन्ती(?) कोकिलस्वरः | वहुपुत्री गजाश्वानामीश्वरो धार्मिकः कृती | मार्कण्डेय इवायुष्मान् जरापलित वर्जितः || १५४अ) नवयौवन युक्तः स्यादपि वर्षसहस्रभाक् | वहु किं कथ्यतां तस्य यः पठेत् स्तवमुत्तमं || न किंचिदुर्लभं लोके यद्यन्मनसि कल्पितं | ब्रह्महत्या सुरापानं स्तेयं गुर्वं गनागमः || सर्वमाशुतरत्येव स्तवस्यास्य प्रसादतः | रजस्वला भगं पश्यन् जप्त्वा काली महामनुं || स्तवेनानेन संस्तुत्य साधकः किं न साधयेत् | परदाररतो वापि जप्त्वा मन्त्रं पठन् स्तवं || कुवेरदेव(?) वित्ताद्येः जायते मदनो पमः | अष्टोत्तरशतं जप्त्वा योनि मामन्त्र्य तत्ववित् || संगम्य पठनादस्य सर्वविद्येश्वरो भवेत् | दिगम्वरो मुक्तकेशा शययास्थो मैथुं नरतः ||? जप्त्वा स्तुत्वा महाकाली खेचरो जायते चिरात् | शुक्रोत् सर्जन काले च जप पूजा परायणः || श्मशान कालिकां स्तुत्वा वाणी वत्सु कविर्भवेत् | आरोकलन् चिन्तयन् वा विवस्त्रां परयोषितां || जप्त्वा स्तुत्वा महाकालीं सर्वपापैः प्रमुच्यते | सुरतेपि मनुं जप्त्वा स्तुत्वा भगवतीं शिवां || सर्वपापै * * * ? मानवः स्यात् शुकोपमः | कुहु पूर्णेन्दु संक्रान्ति चतुर्दश्यष्टमीषु च || नवम्यां मंगल दिने पठेत् स्त्रोत्रं सुसाधकः | भौमावास्यां निशीथे च चतुःपथ गतो नरः || माष भक्त वलिं दत्वा स दुग्ध मीन शोणितं | अष्टोत्तरशतं जप्त्वा पठेन्नाम सहस्रकं || सदाशिवो भवेदाशु देवगन्धर्वसेवितः | येन तेन प्रकारेण काली स्तुति परायणः || स्तंभयेदखिलान् लोकान् राजानमपि मोहयेत् | आकल्पयेद् देव कन्यां वशयेदपि केशवं || मारयेदखिलान् द्वेष्ट्रीन् उत्सादयति शात्रवान् | नरमार्ज्जारमहिषछाग मूषक शोणितैः || सास्थिमांसैः स मधुभिः सामृतै दुग्ध पायसैः | योनि क्षालिततोयेन भगलिंगामृतेन च || शुक्रैः पूजा जपान्ते यः कालीं संतर्प्य साधकः | सहस्रनामभिर्देवीं स्तौति भक्तिपरायणः || १५४ब्) मातेव कालिका तस्य सर्वत्रष्ठितकारिणी | परनिन्दा परद्रोह परीवाद पराय च || खलाय परतन्त्राय ज्येष्टा या साधकाय च | शिवा भक्ताय दुष्टाय दूषकाय दुरात्मने || हरिभक्ति विहीनाय परदारा पराय च | पूजा जप विहीनाय स्त्री सुरा निन्दकाय च || न स्तवं दर्शयेद् दिवं *? दर्श्य शिवहा भवेत् | कुलीनाय महेच्छाय दुर्गा भक्तिपराय च || वैष्णवाय विशुद्धाय भक्तभक्ताय मन्त्रिणे | अद्वैतानन्दरूपाय निवेदित पराय च || दद्यात् स्त्रोत्रं महाकाल्याः साधकाय तदा ज्ञया | गुरुविष्णुमहेशा नाम भेदेन महेश्वरीं || समन्ताद् भावयेत् मन्त्री महेशो नात्र संशयः | स शाक्तः शिवभक्तश्च स एव वैष्णवोत्तमः || संपूज्य स्तौति यः कालीमद्वैतं भावमावहन् | देव्यानन्देन सानंदो देवी भक्तौ च भक्तिमान् || सष्टवधन्यो यस्यार्थे महेशो व्यग्र मानसः | कामयित्वा यत्रा कामां स्तवसेन मुदीरयेत् || सर्वरोगैः परित्यक्तो जायते मदनोपमः | चक्रं वास्तवसेनं वा धारयेदंग संगतं || विलिख्य विधिवत् साधुः स एव कालिका तनुः | देव्यै निवेदितं यद्यन्नदन्नं भक्षयेन्नरः || दिव्यदेहोधरो भूत्वा देव्याः पार्श्वन्दरो भवेत् | नैवेद्य निन्दकं दृष्ट्वा रूपन्ति योगिनी गणाः || रक्तपानोद्यताः सर्वे मांसास्थि तर्पणोद्यताः | तस्मान् निवेदितं देव्यै दृष्ट्वा भुक्त्वा च मानवः || न निन्देन् मनसा वाचा सर्वव्याधि पराङ्मुखः | आत्मानं कालिकात्मानं भावयन् स्तौति मानवः || शिवोपमं गुरुं ध्यात्वा स एव हि सदाशिवः || यस्यालये तिष्ठति नूनमेतत् स्रोत्रं भवान्या लिखितं विधिज्ञैः | गोरोचना लक्ष ककुंकुमाक्त कर्पूर सिन्दूरमदुद्रवेण || न तत्र चौरस्य भयं न शत्रोर्मनोव्यथा नाशन वह्निभीतिः | उत्पात वायोरपि नात्र शंकाल स्रीः स्वयं तत्र * * * * *? || १५५अ) स्तोत्र पठन्ते तदनन्त पुण्यं कालीपदां भोजपरो मनुष्यः | विधान पूजा फलमेव सम्यक् प्राप्नोति संपूर्ण मनोरथोसौ || मुक्ताः श्रीचरणारविन्दनिरताः स्वः * * * ? | * * * योगिनो ब्रह्मो * * ? शिवात्मकार्चन सुखं लोकेपि संलेभिरे || श्रीमच्छंकर भक्तिपूर्वक महाकाली पदध्यायिनो मुक्तिर्मूर्ति स्वयं स्तुति पराभुक्तिः करस्थापिनी || * * * * * *? कालिका नाम्नां सहस्र संपूर्णं || महाकालसंहितायां || एवं कवच पाठान्तं स्तोत्रपाठं समाप्ये हि | वलिं च वै * * * * * * * * * * * * * ? त्या तत्रौक्त(?) श्रीदेवि मन्त्रैस्तन्त्रोदितैरपि | वलेरनल आधारं इतरस्य कृतिस्तव्या || पूर्वस्य तदभावेपि जलं भूरुन्तरस्य च | द्रव्यं वै स्वा * * * * * * * * * * * * ? || गृहीना मोदनाः खिन्नमात्मास्तिलजमोदकाः | कौलिकानान्तु पलंलं सुरोक्तं प्रथमं मतं || मध्वक्ता दग्ध मीनश्च द्वितीयं समुदाहृतं | द्वयोरभावे * * * * * * * * * * * ? || * * * * ? धरित्रीणां शुद्धिरत्र विधीयते | अथाद्यस्य मनुम्वक्षे सुमुद्धरेण पूर्वतं || प्रत्येकं तमुदीर्यैव तत्तद्द्रव्यं विगृह्य च | क्रमेण जुहुया * * * *? वा तदभावतः || पिशाचनी भूतिनीं च सिद्धाश्चाप्सरे सोपि च | भादण्डा चापि कुष्माण्डी घोणकी शक्तिरेव च || एताविंशतिरुद्दिष्टा सदा देव्यनुगाः प्रिये | तत्त * * * ? भूतं तदन्ते ताभ्य सन्निभाः || शिरोमन्त्रोन्ति मे चापि वलेर्मन्त्रो मयेरिताः | वैश्व देवाग्रतः पात्रे तैजसे मार्तिकेपि वा || द्वयोरभावे पात्राणां पुटके वा विधीयते | वैश्वदेव क्रममतः शृणु देवी समाहिताः || वैश्वं देव इतीयं या संज्ञा प्रासिध्यमागता | सानश्राद्धाद्याधिष्ठात्री देवता परिकीर्त्यते || विश्वं समस्तमुद्दिष्टं देवा चैता दृशा इह | पूज्येन्ते तः कारणा द्वि वैश्व देवो निगद्यते || १५५ब्) इदानीं मण्डलश्चास्य भूमौ यदृग पेक्षितेः | सपुना वुध्यतां देवि ततो मन्त्र क्रमादपि || सामान्यार्घं स्थापितं यत् पूजायां कालिकापुरः | न देवा जाग्रतः कृत्वा वैश्वदेवं समाचरेत् || द्वात्रिंशदंगुलेसितो गर्भो यत्राभि जायते | एतादृशो मण्डलस्तु चक्राकारः सुवर्तुलः || दक्षहस्ता नामिकाया कुर्यादर्घस्थ * *? णा | तन्मण्डलं द्विलावृत्या कार्यन्त्रिदशवन्दिते || तथा दिग्विदिक्षोर्द्वे द्वेरेखे कार्यक्रमेण हि | ते मण्डलं विनिर्भिद्य किंचिदूर्धं गते तथा || चन्द्ररेखो प्रकारेण कार्ये ते चावगुण्ठिते | एवं गृहाणि रेखाश्च जायन्ते षोडशैव हि || सर्वत्रा नामिकाग्रस्थ जलेन स्पर्शमाचरेत् | द्वयोरधस्तां गृहयोः प्रत्येकं चाष्ट संस्पृशेत् || एवमष्टस्वपि *? नदारंभस्तु तयोरधः | सर्वादि स्थितयोर्गेहे युग्मयोर्मध्य मध्यतः || मध्यमण्डलमागत्य सर्वेषामवसानिका | तदधस्त्यत् संस्थितयोश्चक्रमध्यगयोरपि || युगं युगं स्पृशेद् देवि तयोरेक * *? स्थितं | सर्वमध्य स्पृशेदेकं देव्यष्ट पठ्यगं स्थलं || एवं समभि जायन्ते एकविंशोन्नरंशतं | तत्तन्मन्त्रं समुच्चार्य तत्र द्रव्यं प्रगृह्य च || तयद्देवमभिध्याय तत्तत्स्थान वलिं न्यसेत् | वलिं दत्वा ततोर्घस्थ वारिणा नामिकाजुषा || अविहाय क्रमं सेकं सर्वत्रैव समाचरेत् | आदौ तारो हृदन्ते च देवानां नाम मध्यतः || तच्चतुर्थी विभक्त्यंन्तं कार्यं सर्वत्र पार्वति | तत्रैकत्वं वहुत्वं च वक्ष्यनाम ग्रहादनु || यष्टुरभि मुखा देवा देवाभिमुखतो दश | प्राच्यादि हरितो ज्ञेया वलिजागार्चनादिषु || एवं ज्ञात्वा वलिर्देयस्तत्तद्दिक्षु विदिष्वपि | इन्द्रश्च वरुणश्चापि कुवेरोपि यमादनु || अग्निर्निर्-ऋति वायू च शेष ईशान नामकः | १५६अ) एतानेकवचो रूपान् स्थानेष्वेषां प्रपूजयेत् || क्षेत्रपालः पुरोविघ्न विनायक इतः परं तृतीया भैरवः प्रोक्तस्ततो वटुकनाथ युक् || भूतः पिशाचो रक्षश्च यक्षश्चेति क्रमादिमे | पौलस्त्य वल्यधो भागे वहुत्व वचनै युताः || महामाया कालरात्रिरग्निजिह्वा प्रभंजना | संहारिणी ततो जारंधरी लंवोदरी तथा || फेरुराविण्यपि ततः सर्व शेषे मयेदिता | प्राच्यादिशि समभ्यर्च्या स नीरवलिदानतः || अथापराजिता लक्ष्मीः शाक्तागौरी तथैव च | श्रद्धा च विजया सर्व मंगला मेषयान्विता? || प्रतिव्या मुदिता एता वलिदानाय पार्वति | कुंभोदरी डमरुका विरुपोओल्कामुखी तथा || पुतना खरकर्णी च विकराली कपालिनी | दक्षिणस्यामिमाः पूज्या स तोयै वलिभिः || गायत्री चापि सावित्री सरस्वत्यर्पतः शिवा | जया पद्मावला भद्रा उदीच्यामिरिता इमाः || रौद्रा कात्ययनी दुर्गा चण्डिकोग्रा च शूलिनी | भीमा च कालिकाग्नेययां विदिश्येतामयेरिताः || प्रदीप्ता मेघनादा च क्षोभणा तामसी तथा | जयन्ती विस्वरूपा च कराला तदनन्तरं || विकराली च च रंभे वायव्यां विदिशीरिताः | ब्रह्माणी वैष्णवी माहेश्वरी कौमार्यनन्तरं || वाराही नारसिंह्यैन्द्री शिवदूती तथैव च | अमूर्चि दिशि नैर्-ऋत्यां वलिदानाय कीर्तिताः || चण्डेश्वरी च मातंगी ततोनु भुवनेश्वरी | कुब्जीका सिद्धि लक्ष्मीश्च तथा त्रिपुरसुन्दरी || हरसिद्धा च फेत्कारीण्यैशान्यां विदिशीरिताः | चतुषष्ठिरिमा देव्यः स्युरेकवचं नान्विताः || प्राच्यादिशस्तथाग्नेप्या विदिशो मध्य एव हि | द्वौ द्वौ प्रपूजनीयौ हि तद्रीतिमवधारय || प्राची ततोनु प्राची च प्रतीची तदनन्तरं | उदीची च चतस्रो मूर्हरितोभिहिताः क्रमात् || आग्नेयी नैर्-ऋती चापी वायव्यै शान्यपि प्रिये | १५६ब्) विदिशोमूश्चतस्रश्च कीर्त्यन्ते तत्तदा ह्वया || सूर्यः शुक्रस्तथांगारोरोहुश निरतः परं | सोमस्ततोनु च वुधः सर्वशेषे वृहस्पतिः || एते तत्तद्दिग्विदिशोः क्रमेणाधीश्वरामताः | पदन्दिग्विदिशोस्तत्तत्सासा दिग्विदिगेव च || तदधीश पदं चापि चतुर्थ्यं कवचोन्वितं | कृत्या तत्तत्स्थले पूज्या वलिदानेन पार्वति || पृथग्वाक्यं प्रकर्तव्यं देवि दिग्दिगधीशयोः | पदद्वयं पूर्ववाक्ये मध्यतार हृदोः स्थितं || शेषवाक्ये पदं चैक पूर्वमचोदितं स्थलं | रक्रारमध्ये तदनु द्वौ द्वौ देवौ प्रपूजयेत् || ब्रह्मविष्णु तु पूर्वस्यामेते नैव क्रमेण हि | पूज्यौ दिग्विदिशोर्देवि नामानि कलयाधुना || कालाकाशौ रुद्रमृत्युषडेक वचनान्विताः | वस्यमाणा दशपूनर्वहूत्वेन व्यवस्थिताः || युगानि वै वा ऋतवः पर्यन्यो निधयस्तथा | वनस्पतय ओषध्यो नक्षत्राणि ततः परं || यज्ञाश्च पितरश्चेति द्वौ द्वावष्ट सुकीर्तितौ | द्वयोरधस्तादेकैकं चक्रमध्ये पुनर्न्यसेत् || समुद्राः पर्वताश्चैव नागा ऋषय एव च | छन्दांस्यब्दास्तथा द्वीपास्तीर्थानि तदनन्तरं || वत्वन्त वचने नैव चतुर्थ्याः परिकीर्तिताः | अथावधेहि देवेशि सर्वमध्यगतस्तरि? || गृहीत्वा दक्षहस्तेन चालयं द्रव्यमुत्तमं | वक्षमाणान्मनूनेतानुच्चरेत् साधकः शनैः || सुरा सुरा नरानागाः पितरश्चाप्सरो गणाः | भूताः प्रेताः पिशाचाश्च यक्षारक्षो गणास्तथा || विश्वे देवास्तथा साध्याः सिद्धावसव एव च | आदित्याश्च तथा रुद्रा मरुतोमवोग्रहाः || वृक्षाः पशव ओषध्यः पक्षिणो वारि भूचराः | पंगवोन्धाश्च कुब्जा श्रवामनाः क्षुत् प्रपीडिताः || मूका महारोगवन्तस्ति यग्योनिगतास्तथा | शृंगिणो दंष्ट्रिणश्चापि दंशकीटपिपीलिकाः || स्वकर्म भोगतो ये च ना योनि समुद्भवाः | १५७अ) येन्नारण्योद्भवाः सत्वास्तथा निरयगामिनः || जाताश्च जायमानाश्च भुंजानाये च यातनाः | येषामुपायो नस्त्येव क्षुधा तृष्णानिवृत्तये || प्राणिनो ये गर्भगता वेदना परिपीडिताः | जंगमाः स्थावराये च प्राणिनो प्राणिनोपि च || चराचरं त्रिभुवणं कीर्तितं यन्न कीर्तितं | वलिं तेभ्यः प्रयच्छामि सर्वेभ्यः शु?न्निवृत्तये || एतानान्त्रान् समुच्चार्या सर्वमध्ये वलिं न्यसेत् | ततोर्घ मध्यसंस्थेन जलेन स्वस्य मूर्धनि || अभिषेकं चरेद्देवि मन्त्रारेतानुदीरयेत् | ओं संपदः सन्तु मे नित्यं विपदायान्तु चक्षयं || प्रसन्नाकासिकाभूयान्नश्यन्तु व्याधयो खिलाः | पापानिनाशमायान्तु सहशत्रुगणैर्मम || विघ्ना विनश्यन्त्वखिला मोदन्तां मित्रवान्ध्वाः | शश्वद्धि वृद्धिमायां तु पुत्रपौत्रादि सन्ततिः || मृत्युर्विलीयतां क्षिप्रं वांछितं सिद्धि मे तु मे | युद्धे जयो मे भवतु विवादे कलह तथा || भक्तिः सदा मे भवतु गुह्यकाली पदद्वये | चतुर्भिरेतैः पद्यैस्तु कुर्यान्मूर्ध्यभिषेचनं || कुशैर्वा कुसुमैर्क्वपि करांगुलिभिरेव च | इति ते कथिते देवि वैश्वदेवो वलिस्तथा || कार्योयं प्रत्यहं भक्त्या कालिका तुष्टिमिच्छता | करणात् फलवाहुल्यं भवेद करणाद्भयं || ज्ञात्वेथमस्य नित्यत्वं कर्तव्यं साधकैः सदा | पात्राणां शुद्धिरेतेन सुराया मीनमांसयोः || देहस्य शक्तेद्देव्यास्तु सिद्ध्यर्थस्याखिलस्य च | अकृत्वेमं वैश्वदेवं श्रीपात्रं स्वीकरोति यः || भुक्तेसकेसकेवलमद्यं दुर्गन्धं पूयशोणितं | नीचो मद्यं यथा भुक्ते मांसं चोदिरपूर्तयेः || अवैश्वदेवोपि तथा साधकोत्ति सुरामिषे | अन्यन्निदर्शनन्तेहं कथयामि वेरानने || भूपालो हि यथा वृत्वान् सर्वान् दत्वा ततः स्वयं | अवनीयं समश्रानिदन्ते वाऽस्वासनादनु || १५७ब्) तथा त्रैलोक्ये भरणकारिणी गुह्यकालिका | चराचरेभ्यो विश्वेभ्योऽदत्वैव कथमीश्वरी || ग्रहीष्यति स्वयं पूजां वैश्वदेवो ह्यतः स्मृतः || अथ नित्यहोमं कुर्यात् || तदुक्तं ज्ञानार्णवे || संकल्प्य परमेशानि नित्यहोमविधिं चरेत् || संकल्पस्तु || अमुकदेवता प्रीत्यै एतदाहुतीरहं होष्य इत्येवं रूपंः || नीलतंत्रे || नित्यहोमं प्रवक्ष्यामि सर्वार्थं येन विन्दति | विधिवद्वह्निमानीय क्रव्यादांशं परित्यजेत् || ततश्च मन्त्रमुच्चार्य कुण्डे वा स्थण्डिले तथा | भूमौ वा संस्तरेद्वह्निं व्याहृति वितयेन तु || आहुति त्रय मुक्षिप्य षडंग हवनन्ततः | ततो देवीं समावाह्य मूलेनैव षडाहुतिं || कृत्वा स्तुत्वा नमस्कृत्य विसर्जये विन्दुमण्डले || क्रव्यादांशमग्नेरेकमंगारं नैर्-ऋत्यां क्रव्यादेभ्यो नम इत्युच्चार्य क्षिपेदिति संप्रदायः || सारसंग्रहे || दुत्थं तु संस्कृते वह्नौ देवमावाह्य मन्त्रवित् | संपूज्य मूलमनुना पंचविंशतिमाहुतिं || मेरुतन्त्रे || होमविधिं चरेत् || पूर्ववत् संस्कृते वह्नौ देवमावाह्य मन्त्रवित् | संपूज्य मूलमनुना पंचविंशतिमाहुतिः || हुनेदाज्येन हविषा तिलैर्घा पायसैः शुभैः | तण्डुलैस्तिल संमिश्रैः केवलैर्चाघपुष्पकैः || अंगावरणदेवनामेकैकामाहुतिं हुनेत् | उद्वास्य देवम्वह्निश्च पूजास्थानं व्रजेत् ततः || उपविश्यासने मन्त्री दद्याद् भूतवलिन्ततः || तथा || वामिनसूपचारान्ते कुर्युर्सद्येन तर्पणं | तेषामनित्यो होमस्तु नित्ये तर्पण सेचने || एवं पंचविंशति षोडशाहुत्योर्विकल्पः || अग्नेस्तु संस्कारो नीलतन्त्रोक्त एव कर्तव्योनाधिकः || अग्न्याधानादिकं कर्म नित्यहोमेन विद्यते इति विशेष वचनात् || वलिं यथा मेरुतन्त्रे || ईशाने मण्डलं कृत्वा आधारं तत्र निःक्षिपेत् | १५८अ) अन्नव्यंजनतोयाढ्यं पात्रं पुष्पादि पूरितं || तत्र भूतानि संपूज्य ततस्तेभ्यो वलिं हरेत् | ये रौद्रा रौद्र कर्माणो रौद्रस्थाननिवासिनः || योगिन्योप्युगुग्ररूपाश्च गणानामधिपाश्चयो | भूचराः खेचराश्चैव ये तिष्ठंत्यंतरिक्षगाः || सर्वे ते प्रीतमनसो भूतागृह्नं त्विमं वलिं | वामहस्तेन तत्पात्र जलधारां समर्पयेत् || पुष्पांञ्जलिं समादये भूतानि प्रार्थयेदिति || भूतानि यानीहवसंति भूतले वलिं गृहीत्वा विधिवत् प्रयुक्तं | संतोषमासाद्य व्रजंतु सर्वे क्षमं तु तान्यत्र नमोस्तुतेभ्यः || मेरुतन्त्रे || दत्वा पुष्पांजलिं नत्वा विहरं तु यथा सुखं | भूतानीति च नारा च मुद्रया विसृजेत् ततः || देवं तृप्तमिति ध्यात्वा नैवेद्यं गतसारकं | संचित्य रक्षोदिग्भागे पात्रं तत् स्थापयेत् ततः || गोमयाद्भिस्तदस्त्रेण नैवेद्य स्थान शोधनं | देवोच्छिष्टं गृहीत्वा तु निर्माल्य भोजिने नमः || इत्यैशान्यां विनिःक्षिप्य हस्तं प्रक्षालयेत् ततः | पुनराचमनं दद्यात् करोद्वर्तनमेव च || शुद्धमाचमनं दत्वा सुगंधैर्गंधयेत् करौ | ततो दद्याच्च तांवूलं विष्णवे द्वादशांगकं || खदिरैलोलवंगेंदु चूर्णपर्ण न मालकं | जातीकोशदलत्वग्भिः कस्तूरी केसरैर्युतं || पूगीफलमथ प्रोक्तं वशागं भास्करस्य तु | मृगनाभि तमालाभ्यां हीनं विघ्नेश्वरस्य तु || पंचांगं चूर्णखदिर पर्णपूंगीफलेंदुकं | सैलं देव्या जातिकेश युगं तच्च महेशितुः || ततश्च मुकुटादीनि दद्याद् भूषण कानि च | दर्शयेच्च तथा दर्शं कल्पयेच्छत्र चामरे || शिरस्यारोप्य देवस्य दूर्वाक्षत पवित्रकं || अथ आरात्रिकदानं || ज्ञानार्णवे || तत आरात्रिकं कुर्यात् सर्वकामार्थ सिद्धये | १५८ब्) सौवर्णे राजते कांस्ये लोकनेत्र मनोहरं || कुंकुमेन लिखेत् पद्मं वसुपत्रं वरानने | कर्णिकायां दीपमेकं वहुपत्रेषु दीपकान् || यवगोधूमरवितान् शर्करादुग्धसंयुतान् | वलयाञ्चित शोभाभिः शोभितान् घृतपुरितान् || अभिमन्त्र्य ततो मन्त्री रत्नैश्वर्या ततः परं | मूलमस्त्रेण चाभ्यर्च्य ततश्चारात्रिकं चरेत् || तत्पात्रन्तु समुहृत्य मस्तकान्नं पुनः पुनः | नवचारं महादेव्यास्तेन नीराजनं चरेत् || नीराजने महादेव्याश्चक्रमुद्रां प्रदर्शयेत् || मेरुतन्त्रे || आरात्रिकं ततः कुर्याद्धर्मकामार्थ सिद्धये | सौवर्ण राजते कांस्ये लोकनेत्र मनोहरं || कुंकुमेन लिखेत् पद्ममष्ट पत्रं सुशोभनं | महादीपं कर्णिकायां वसुपत्रेष्ट दीपकान् || यवगोधूमरचितान् शर्करादुग्धसंयुतान् | वलयांचित शोभाभिः शोभितान् घृतपूरितान् || अभिमन्त्र्य ततो मन्त्री रत्नेश्वर्यो नवार्णतः | श्रीं ह्रीं ग्लुं म्लुं मयौ प्राग्वनश्च श्रीं ह्रींमिति क्रमात् || दलेश्वर्याः समुद्दिष्टस्ततो मूलेन तां यजेत् | ततस्तत्पात्रमुद्धृत्य मस्तकान्तं पुनः पुनः || नववारं भ्रामयेच्च चक्रमुद्रां प्रदर्शयेत् || रत्नेश्वरी विद्या ज्ञानार्णवेप्युक्ता || श्रीवीजं च परावीजं संलिखेन् मनुवित्तमः | गसौ च यमनात् पश्चादिन्द्रस्थान् क्रमतो लिखेत् || वामकर्णसमायुक्तान् विन्दुनादसमन्वितान् | पूर्ववीजे विलोमेन रत्नेशी यं नवाक्षरी || परा माया वीजं इन्द्रो लकारः वामकर्ण ऊकारः पूर्ववीजे श्रीवीज परावीजे एवं || श्रीं ह्रीं ग्लूं म्लूं प्लूं म्लूं म्लूं ह्रीं श्रीं इति रत्नेश्व्री सिध्यति || चक्रमुद्रा उक्ता लक्षणसंग्रहे || विपर्यस्ते तले कृत्वा वामदक्षिण हस्तयोः | अंगुष्ठौ ग्रथयेच्चैव कनिष्ठानामिकान्तरे || १५९अ) चक्रमुद्रेयमुद्दिष्टा सर्वसिद्धिकरी शुभा || अन्न प्रदक्षिणा || उत्तरतन्त्रे || पौराणिकैर्वैदिकैश्च मूलमन्त्रेण चैव हि | प्रदक्षिणं प्रणामञ्च कुर्यार्द्धर्मार्थसानुकं || यामले || त्रिकोणाकारा सर्वत्र ननिःशाक्ते समीरिता || नतिः प्रादक्षिण्यं || तथा || अर्धचन्द्रा महेशस्य पृष्टतश्च समीरिता | शिवप्रदक्षिणे मन्त्रैरर्द्धचन्द्रक्रमेण तु || सव्यास्वय क्रमेणैव सोमसूत्रं न लंघयेत् | त्रिधा च वेष्टयेत् सम्यग् देवतायाः प्रदक्षिणे || एकहस्त प्रणामश्च एकम्वापि प्रदक्षिणं | अकाले दर्शनं विष्णोर्हन्ति पूण्यं पुरातनं || एकञ्चण्ड्यां रवौ सप्त त्रीणि दद्याद् विनायके | चत्वारि केशवे दद्याच्छिवे चार्धं प्रदक्षिणं || अथ नतिः || सा च द्विधा अष्टांग पंचंग भेदात् || तथा चोक्तं मेरुतन्त्रे || साष्टांगश्चाथ पंचांगः पूजाकर्मसुसंयतः | हस्ताभ्यां चरणाभ्यां च जानुभ्यां वक्षसा तथा || मूर्ध्ना दृष्ट्या तथा वाचा चित्ते नाष्टांगदूरितः || अत्र च नतेः प्रकारान्तरमप्युक्तन्तंत्रे || संमुखं चतुरस्रञ्च वृत्तं गोमुखमेव च || योनि मुद्रेति कथिता मुद्राः पञ्च नमस्कृताविति || तत्र भूमि संलग्नाञ्जलिः शिरः संयुक्ता संमुख मुद्रा || भुमि संलग्नोत्तान वामकरतलोपरि तिर्यक् स्थापित वामाग्राधामुख दक्षिणकरपृष्ठसंयुक्ते शिरसि चतुरस्रमुद्रा || भूमि संलग्नादुत्तानांगुष्टमुष्टि द्वय संलग्ने शिरसि वृत्त मुद्रा केचित् तु हस्तद्वयांगुलीर्ग्रथयित्वा व्यत्ययाष्टांगुष्ठ द्वय निवेशने वृत्तमुद्रेत्याहुः || महाकालसंहितायां नति फलमुक्तं || प्रणामस्य महादेवि शृणु फलसमुच्चयम् | पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा || वचसा मनसा चेति प्रणामेष्टांग ईरितः | पद्भ्यां च सह जानुभ्यां शिरसा वचसदृशा || १५९ब्) पंचागो यं प्रणामः स्यात् पूजासु प्रणया विमौ | भूमौ निपत्य यः कुर्यात् देव्यै च प्रणतिं सुधीः || सहस्रजन्म * * * *? प्त्वा वैकुण्ठ माप्नुयात् | त्रिकोणाकारो सर्वत्र नतिः शाक्तेः समीरिता || अर्धचन्द्रं महेशस्य प्रणतिश्च समीरिता | वेदविद्भ्यो धरान् दत्वा यत्फलं लभते नरः || तत्फलं लभते भक्त्यः स कृत्वा प्रदक्षिणम् || मेरुतन्त्रे || ततोर्घ्य पात्र माषय मूलमुच्चार्य मन्त्रविवत् | साधु वा साधु वा कर्म यद्यदा चरितं मया || तत्सर्वं भगवन्देव गृहाणाराधनं परं | इत्यर्घ्योदकमुत्सृज्य गृहाणाराधनं परं || इत्यर्घ्येदकमुत्सृज्य किंचिद्देवस्य दक्षिणे | करे समर्पयेद्विद्वां कृतमाराधनं ततः || भक्त्या प्रणम्य देवेशं श्लोकैरेभिः क्षमापयेत् | यदन्नं भक्तिमात्रेण पत्रं पुष्पं फलं जलं || निवेदितं च नैवेद्यं तद्गृहाणानुकंपया | आवाहनं न जानामि न जानामि विसर्जनं || पूजां चैव न जानामि त्वं गतिः परमेश्वरि | कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम || अंतश्चारेण भूतानां इष्टात्वं परमेश्वरि | नाथयोनि सहस्रेषु यासु यासु व्रजाम्यहं || तासु तासु सदा भक्तिरव्ययास्तु सदा त्वयि | देवो दाता च भोक्ता च देवः सर्वमिदं जगत् || देवो जयसि सर्वत्र यो देवः सोहमेव हि | ततोर्घ्य पात्रतोयेन कुर्यादाराधनार्पणं || कुलार्णवे || कृतार्चनादिकं सर्वं समन्त्रोदपुरस्सरं | इतः पूर्वादि मनुना देवतायै समर्पयेत् || मन्त्रोद्धारः सारसंग्रहे || वदेदितः पदं पूर्वं प्राणवुद्धिन्ततो वदेत् | देहधर्माधिकारतो जाग्रत् स्वप्न सुषुप्तिषु || वदेत् सर्वा स्ववस्थासु वाचेति पदमुच्चरेत् | कर्मणा चैव हस्ताभ्यां पद्भ्यामुष्कोदरेण च || १६०अ) वदेद्दिष्णा च मच्छन्दं स्मृतं यत् पदमुच्चरेत् | उक्तं च यत्कृतं तत्सर्वं ब्रह्मणार्पणं भव तु || स्वाहान्तश्चापि संप्रोक्तं ब्रह्मणार्पणं भवतु | स्वाहान्तश्चापि संप्रोक्तं ब्रह्मार्पणमनुत्तमं || मेरुतन्त्रे || ब्रह्मार्पणस्य मनुना कुर्याद्ब्रह्मार्पणं ततः | तारादतः पूर्वमिति प्राणवुद्धीति संवदत् || देहधर्माधिकारेति जाग्रत् स्वप्न सुषुप्त्य च | स्थासूक्त्वा मनसा वाचा कर्मणाभ्यां ततष्यदः || यच्छब्दश्चोदरेणेति शिष्ना यच्च स्मृतं च येत् | उत्तं यच्च कृतं तच्च सर्वं ब्रह्मार्पणं भव || तु स्वाहेति च मंत्रोयं षट् षट् अर्णः समीरितः || समर्पण प्रकारस्तु शैवागमे || इत्यर्घोदकमुत्सृज्य किञ्चिद् देवस्य दक्षिणे | करे समर्प्ययेद्विद्वान् कृतमाराधनं प्रिये || अत्र देवीनां वामहस्ते समर्पणं वामहस्ते समर्पयेदिति || वीरचूडामणि वचनात् || मेरुतन्त्रे || उद्वासयेत् ततो देवं परिवारगणैः सह | इति पुष्पांजलिं दत्वा प्रणम्य परिभावयेत् || देवस्यांगे विलीनं तद्रश्मिवृंदमशेषतः | तेजो रूपं शिवं ध्यात्वा क्रमस्वेति पुनः पुनः || संहारमुद्रया विसर्जयेत् || पृष्ठलग्नौकरौ कृत्वा अंगुल्यो न्योन्य मध्यतः || परिवर्त्यतः || कुर्यात् तर्जन्यौ सरला कृती | विसर्जने निगदिता मुद्रा संहार संज्ञिकेतिता मुद्रा संहारसंज्ञिकेति तन्त्रोक्ता || मेरुतन्त्रे || क्षमाप्यारोपयेत् स्वीय हृदंभोजे तु देवता | गच्छ गच्छ परं स्थानं स्वस्थानं परमेश्वर || एते ब्रह्मादयो देवा न विदुः परमं पदं | विसृज्यानेन मन्त्रेण ततः पूरक वायुना || ध्यायंश्च मंत्रेणानेन ध्यात्वा तां स्थापयेद्धृदि | तिष्ठ तिष्ठ परे स्थाने स्वस्थाने परमेश्वर || यत्र ब्रह्मादयः सर्वे सुरास्तिष्ठंति मे हृदि | इति संस्थाप्य संपूज्य ह्यात्मानं तन्मयं स्मरेत् || तदुक्तं कुलमूलावतारे || १६०ब्) ऐशान्यास्मण्डलं कृत्वा द्वारपद्मविवर्जितं | विसर्जनार्थं निर्माल्य धारिण्याः पूजनाय वै || निःक्षिप्य तस्मिन्निर्माल्यं मन्त्रेण तु समर्चयेत् || मेरुतन्त्रे || ईशान्यां मण्डलं कुर्याद्वारपद्मविवर्जितं || निर्माल्य भोक्तुः पूजार्थं इति || मन्त्र रुद्र || चण्डेश्वरि महादेवि निर्माल्यैश्चन्दद्मा?दिभिः | लेह्यचोष्यान्नपानादि निर्माल्य स्रग्विलेपनं || निर्माल्य भोजनं तुल्यं ददामि श्रीशिवाज्ञया | इति नैवेद्य शेषन्तु दत्वा नत्वा विसर्जयेत् || निर्माल्यं मस्तके धार्यं मूलमन्त्रेण मन्त्रिणा || पंचायतन पक्षे || कर्तव्यानि तु पंचैव इशादा मध्यमर्चयेत् | लंवोदरो गणेशस्य तेजश्चंडो विवस्वतः || विष्यक्तेनोहरेः प्रोक्तश्चंडेश्वरी महेशि तुः | चण्डेश्वरो भवान्याश्च मन्त्रोहंता दृशं चरेत् || इति मेरुवचनात् || अथ सूर्यार्घमपि || अथ ह्रीं ह्रीं स वीजैस्तु सहितेनामुना पुनः | मन्त्रेण भास्करायार्चामछिद्रार्थं निवेदयेत् || नमो विवस्वते तुल्यं भास्वते विष्णुतेजसे | जगत्सवित्रे शुचये सवित्रे कर्मदायिने || ततः कृतांजलिश्चित्ते स्थिरीकृत्य पठेदिति | यज्ञ छिद्रं तपः छिद्रं यच्छिद्रं पूजने मम || सर्वन्तदच्छिद्रमस्तु भास्करस्य प्रसादतः || इति सूर्यार्घं दत्वा तदव शेषं जलं आरोद्र्य मूलेन अष्टधाभिमन्त्र्यात्मानं प्रोक्षयेत् || ततः प्राश्ययादोदकं पश्चान्नैवेद्यं विभजेत् पुनः || तद्भक्तेभ्यः स्वयं भुक्ता तन्मया विहरेत् सुखं || अथ शैवा निर्माल्य प्राशने तु || शैवस्तु शिवनिर्माल्य प्रसादस्याधिकारवान् | अन्योनिरयमायाति न दोषः पंचसंगमे || स्वयंभु लिंगतीर्थं वा प्रसादं वापि भक्तितः | अशैवावाथ वा शैवा मुच्यन्ते पापराशितः || १६१अ) इति श्री-आद्यानन्दनविरचितायां कुलमुक्तिकल्लोलिन्यां त्रयोदशः पटलः || वाममार्गे तु || कौलिकैः शक्तिसहितैस्तदुच्छिष्टं च सेवयेदिति मेरु वचनात् || अत्र वीरैर्विसर्जनानन्तरं ब्रह्मार्पणात् प्राक् प्रथमं गुरवे गुरुपात्रं स भक्त्यार्चयित्वा देयं || तथा हि तन्त्रे || ततः श्रीगुरुरूपाय साक्षात् परशिवात्मने || कराभ्यां पात्रभ्यां पात्रमुद्धृय सद्वितीयं निवेदयेत् || भावचूडामणावपि || त्रिपात्रपक्षे | अर्घभाण्डं त्रिधा कृत्वा गुरवे चैक भागकं || एवं कुलाय दत्वा वै एकेन देवतर्पणं || कुलाय शक्तये || तथा मेरुतन्त्रेपि || अनिवेद्य तु यः शक्तौ कुलद्रव्यं निषेवते | निःफला तस्य सा पूजा देवता न प्रसीदति || देवतर्पणं पानरूपमेव || तथा हि मेरुतन्त्रे कुलार्णवे च || स्वात्ममूल त्रिकोणोद्यत् सूर्यकोटिसमप्रभे | कुण्डल्याकृति चिद्रूपे हुनेद् द्रव्यं समन्त्रकं || मेरुतन्त्रे || अनन्तपात्रं भरितमिदं तत् परमामृतं | पराहन्तामये वह्नौ होमस्वीकारलक्षणं || समयाचारेपि || कुण्डलीतर्पणार्थं च भोगपात्रं समाचरेत् | अन्तःशक्तिमनुस्मृत्य तर्पयेद् देहदेवतां || कौलिकेभ्यो वीरपात्रादपरशक्ति योगिनी || पात्रादमृतं सशुद्धिं दत्वा स्वयं स्वीकुर्यादित्यधिक पात्रतापक्षे || कुलार्णवे मेरुतन्त्रे च || निर्मन्त्रं पिवेद् द्रव्यं प्रायश्चित्तं विधीयते | न कदाचित् पिवेन् मद्यं निर्मन्त्रं न पिवेत् तथा || विना मन्त्रं पिवेन् मद्यं स सुरा यो निगद्यते || मनुस्तत्रैवोक्तः || इदं पवित्रममृतं पिवामि भव भेषजं | पशुपाशसमुच्छेदं कारणं भैरवोदितं || चित्तस्य तन्त्रसारत्वात् तस्यानन्दमयत्वतः | १६१ब्) तन्मयत्वाच्च भावानां भावश्रान्तर्हिता रसे || स्वस्य तंत्राविकाशाय सुरा संस्थेन पीयते | तस्मादिमां सुरान् देवां पूर्णाहन्तां जुहोम्यहं || मन्त्रेणानेन देवेशि मूलमन्त्रेण मन्त्रवित् | अनाकुल मनाः कुर्यान् मधुपानं शनैः शनैः || यावदुल्ला सपर्यन्तमु * * *? पिवेन् मधु || पानभेदफलोल्लोस प्रसाणस्थिति लक्षणं | अविज्ञाय चरेद् यस्तु स भवेदापदां परं || पानभेदस्तत्रैव || पानन्तु त्रिविधं प्रोक्तं दिव्य वाह(?) पशु क्रमात् | दिव्यं देव्यग्रतः पानं वीरमुद्वासने कृते || स्वेच्छया पशुवत् पीतं पशुपानं तदुच्यते || * *? न्तु || मन्त्रसंस्कारसंशुद्धाऽमृतपानेन पार्वति | जायते देवता भावो भववन्ध विमोचकः || इत्यादि तत्रैवोक्तं || प्रमाणमपि तत्रैव || आनन्दं ब्रह्मणो रूपं तच्च मोक्षे व्यवस्थितं | तस्याभिव्यञ्जकम्मत्वा योधिगिस्ते(?) न पीयते || * * * * * * * * * * * ? स भेदस्तत्रैव | आरंभस्तरुणश्चैव यौवनः प्रौढ एव च || तदन्तश्चोन्मना *? श्चानवस्थाश्चैव सप्तमः || अद्यैषां लक्षणं || तत्र त्रयं स्यादारंभः कथितः * * * * * ? | कथितस्तरुणश्चैव तरुणं सुखमम्विके || यौवनं मनसः सम्यगुल्लासः कथितः प्रिये | स्खलनं * * * * * ? ढ मित्यभिधीयते || स्वाभीष्टचेष्टान्तरणं * * *? परिकीर्तितः | उन्मनाः पतनोत्थान मूर्छनाच्च मुहुर्मुहुः || देहेन्द्रियानामवशश्चानवस्था निगद्यते | तत्वन्वय || मन्त्रपूर्वकमद्वयाऽमृत चुलुकत्रय * *? स्यारंभत्वमूर्द्धा * * * * *? त्र च तत्व शुद्धेः प्रकारान्तरस्योक्त त्वात् | एवं चा *? यान्तरे वारत्रय ग्रहणमा *? इति प्रतिभा *? || मेरुतन्त्र || पिशितं माषमादंसुमद्यं * *? क संमितं | स्वीकार्य * * *? रुणाशिष्येभ्यः शे * दो भवेत् || स्थितिर्मर्यादा यथा || १६२अ) मेरुतन्त्रे || निस्संको निर्मलो धीरो निर्लज्जा निःकुभूहरः | निर्णीत वेदशास्त्रर्थे वरदाम्वारुणीम् पिवेत् || देवान् पित्तृ न समभ्यर्च्य देवी शास्त्रोक्त वर्त्मना | गुरुं स्मरन् पिवन् मद्यंषादन्मांसं न दोषभाक् || गुरु दैवतमन्त्राणामैक्यं संभावयध्विया || पितरोत्र गुरु परगुर्वादय एव || तथा || सव्यनोद्धृत्य पात्रन्तु मुद्रां कृत्वाऽपसव्यतः | यथाविधि द्वितीयेन गृह्नीयान् मन्त्रमुच्चरन् || मुद्रां शुद्धिं द्वितीयेनेति सहयोगे तृतीया | भोजनान्ते विषं मद्यं माद्यान्ते भोजनं विषं || अमृतं तद्वीजानीयाद्यदन्नं सुरया सह | चर्वणेन युतं मद्यममृतं कथितं सदा || चर्वणेन विनापानं केवलं विषभक्षणं || चर्वणं भर्जित चणकादीनां श्रीचक्रस्य कुलद्रव्यं यः पशुभ्यः प्रयच्छति || स्नेहाल्लोभाद्भयाद्वापि स भवेद् योगिनी पशुः | यथाधिकारं तत्रापि कर्तव्यं पात्रमेलनं || अदीक्षितैरनाचारैरतन्त्रज्ञैरदेवतैः | दूषितैः समयभ्रष्टैर्न्न कुर्याद् द्रव्यसंगतिं || अभिज्ञमन्यमानैश्च प्रपंच व्रतधारिभिः | पशुभिः क्षुद्रकर्मस्थैर्न्न कुर्याद् द्रव्यसंगतिं || अपात्र स्थित हेतुं च न दद्याद् भैरवाय च | यदि दद्यान् महेशानि देवताशापमाप्नुयात् || भैरवाय साधकाय || तथा || स्रोतो भेदेन वा कुर्यात् कौलिकः पात्रमेलनं || कदाचिदति विश्रंभे षोडश आम्नायस्यैक्ये च शंकरं कुर्यादित्यर्थः || तथा || पूर्वदक्षिणयोरैक्यमुदक पश्चिमयोरपि | तस्मिन् क्रमार्चन परैर्वीरैस्तु सदृशैरपि || कामिनीभिश्च तत्कुर्यात् स्रोतसां च चतुष्टय | इत्येनेन उर्द्धाम्नायस्य न केनाप्यनेनैक्ये च तदुपचार इति ध्वनितं || तथा || शक्त्युच्छिष्टं पिवेद् द्रव्यं वीरोच्छिष्टं च चर्वणं | आत्मोच्छिष्टं न दातव्यं परकीयं न भक्षयेत् || १६२ब्) परकीयं परपुरुषोच्छिष्टं तत्रापि विशेषस्तत्रैव | गुरुशक्ति सुतानां च गुरुज्येष्ठ कनिष्ठयोः || स्वज्येष्ठस्यापि चोच्छिष्टं खादेन्नान्यस्य पार्वति | उच्छिष्टं भक्षयेत् स्त्रीणां ताभ्यो नैव प्रदापयेत् || कनिष्ठानां स्वशिष्याणां दद्यात् स्वोच्छिष्ठमम्बिके | दद्यास्नेहेन योन्येभ्यः सो भवेदापदांपदं || असमोच्छिष्ट पात्रन्तु यो गृह्नाति विमूढधीः | स्नेहाल्लोभाद्भयाद्वापि देवताशाप माप्नुयात् || अत्र ज्येष्ठ कनिष्ठता स तीर्थानामुपदेश क्रमेणैव || तथा हि रुद्रयमले मेरुतन्त्रे च || वालोपि दीक्षितः पूर्वं ज्येष्ठस्स तु कुलागमे | द्विजोपि दीक्षितः पश्चादन्त्यजः पूर्वदीक्षितः || द्विजः कनिष्टः स ज्येष्ट इति शास्त्र विनिश्चयः | यावन्न चलते दृष्टिर्यावन्न चलते मनः || तावत् पानं प्रकुर्वीत पशुपान ततः परं || तथा च यौवनोल्लास पर्यन्तमेव पानं न कर्तव्यमिति भावः || इदन्तु पूर्णाभिषेक रहितानामभिषिक्तानान्तु सप्ताप्युल्लासा विहिताः || स्वशक्तिं वीरशक्तिं च दीक्षितां गुरुरूपिणीं | पाययित्वा पिवेन्मद्यमिति शास्त्रस्य निश्चयः || तस्मात् सुलक्षणां शक्तिं गन्धपुष्पाक्षतादिभिः | अभ्यर्च्य देवता वुद्ध्या भोगपात्रं निवेदयेत् || तद्यथा || चक्राकारेण पंक्त्याकारेण वा साधकैः सह | पंक्त्याकारेण वा सम्यक् चक्राकारेण वा पुनः || स्त्रीणामन्यतमं स्थानं पुंसामन्यतमं तथा | अथ वा मिथुनं कृत्वा क्रमात् समूपवेशयेत् || शक्तियुक्तश्चेत युग्मयुग्मक्रमेण आसनमुपविश्य || सामयिक ललाटे चन्दनाक्षतं दत्वा || शिवशक्तिधिया प्रणमेत् || यदि गुरोस्तत्राधिष्ठानं स्यात् || तदादौ गन्धपुष्पचन्दनादिना गुरुं भूषयित्वा(?) | शुद्धिसहितपात्रं तस्मै निवेद्य प्रणमेत् || गुरोरभावे तत्पात्रं जले निःक्षिपेत् || १६३अ) ततश्च शक्तिपात्रं शुद्धियुतं तस्यै दत्वा || सामयिकेभ्योपि ज्येष्ठानु क्रमेण शुद्ध्यादि युतपात्रं दद्यात् || ततः सामयिकोपि हस्ताभ्यां पात्रं गृहीत्वा मूलमंत्रमष्टधा जप्त्वा पूर्ववदानन्दभैरवभैरव्यौ पूर्ववत् सन्तर्प्य गुरून् देवतान् तर्पयेत् || ततः तत्वशुद्धिं कुर्यात् || ततश्चक्रेश्वरः साक्षात् सामयिकैः सहपात्र वन्दनं कुर्यात् || अन्योन्यं वन्दनं कृत्वा पिवेत् तत् तदनुज्ञया || यथा || श्रीमद्भैरवशेषरामृतलसच्च आ?मृतप्लावितं क्षेत्राधीश्वर योगिनीजनगणैः सिद्धैः समाराधितं || आनन्दागमनं नवात्मकमिदं साक्षात् त्रिखण्डामृतं वन्दे श्रीप्रथमं करांवुजयुतं पात्रं विशुद्धिप्रदं || इत्यभिवन्द्य || वामहस्तेन पात्रमुत्तोल्य अन्योन्य वन्दनं कृत्वा गृह्नामी गुरुशक्ति साधकाज्ञां गृहीत्वा ते चक्षुषाजुष स्वेति क्रमः || ततो मूलाधारात् कुण्डलिनीमिष्टदेवतारूपां आजिह्वाक्तां विभाव्य || गुरुपादुकां स्मृत्वा शिवोऽहमिति विचिन्त्य हस्ताभ्यां परिगृज्य मूलमुच्चरन् कुण्डलिनीमुखे देवीं तर्पयेत् || तदुक्तमुदयाकर पद्धत्यां || कृत्वा मन्त्रतनुं स्मरेद् गुरु पदं देवीं कलां चिन्मयीं || पश्चात् पात्रवरं पलासवधृतं दीपैर्युतं प्रोज्वलैः || पुष्पादिष्वभिमन्त्रितं विरचितं संमोहकध्वंसनं ये संचिन्त्यपि वन्नियान्ति खलु ते भुक्तिं च मुक्तिं परां || तन्त्रान्तरेपि || सिन्दूरतिलकं भाले पाणौ च मदिरासवं | कृत्वापि वेद्गुरं ध्यायेत् तथा देवीञ्च चिन्मयीं || ततः पात्रं साधारो परिसंस्थाप्य पुनस्तेन क्रमेण परामृतं गृहीत्वा पात्रवन्दनं कुर्याद् यथा || हैमं मीन रसावहंदपि तया दत्तं च पेयादिभिः किं विच्चं चल रक्तपंकज दृशा तस्यै समावेदितं || वामे शुद्धिविशुद्धिकरणं पाणौ निधायात्मक वन्दे पात्रमहं द्वितीयमधुनानन्दैक सम्वर्धनं || १६३ब्) तत पूर्ववत् पात्रं स्वीकृत्य || अन्यपात्र वन्दनं कुर्यात् || यथा || आधारे भुजगान्य प्रमुखैः सुरासुर गणैराज्ञांकरैः किंकरैः || इत्यभिवन्द्य || अत्र शान्तिस्तोत्रंशे पात्रवन्दनात्यागिति संप्रदायः || तद्यथा || जयंति देव्या हरपाद पंकजं प्रसन्न वामामृत मोक्षदायकं || अनन्तसिद्धान्तमति प्रवोधकं नमामि साष्टाष्टक योगिनीगणं || योगिनी चक्रमध्यस्थं मातृमंडलवेष्टितं | नमामि शिरसानाथं भैरवं भैरवी प्रियं || अनादि घोरसंसारध्वांतविध्वंशकारिणे | नमः श्रीनाथवैद्याय कुलौषधविधायिने || आपदोदुरितं रोगाः समयाचार लंघनात् | ये सर्वे ते व्यपोहं तु दिव्यचक्रस्य मेलनात् || आयुरारोग्यमैश्वर्यं कीर्तिलाभः शुभं जपः | काकिर्मनोरथाश्चास्तु पांतु सर्वश्च देवताः || संपूजकानां प्रतिपालकानां यतीन्द्र योगिन्द्र तथा धमासां || विश्वस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शांतिं भगवात् कुलेशः || नन्दं तु साधक कुलादपि दर्शकाये सृष्ट्वाघनाख्य चतुरुक्त महाम्बुयाये || मन्दं तु सर्वकुलकौलरताः पराये त्वन्ये विशेषपदभेदकं शांभवायं || नन्द तु सिद्धगुरुवस्तदनूक्रमौघा ज्येष्ठानुजाः समयिनो वटुकाः कुमार्यः || षट्योगिनीन्द्रवरवीरकुलैः प्रसूताः नन्दं तु भूमिपति गो द्विज साधु लोकाः || नन्दं तु नीति निपुणा निरवद्यनिष्ठा निर्मत्सरानिरुपद्रवाश्च | नित्यं निरंजनरता गुरुवो निरताः शांतोग्रशांतमनसो हृत शोकशंकाः || नन्दं तु योगनिरताः कुलयोग मुक्ता आचार्य सामयिक साधक पुत्रकाश्च || गावो द्विजायुवतयोयतयः कुमार्यो धर्मो भवस्तु निरता गुरुशिष्य युक्ता || नन्दं तु साधक कुलान्मणिमाद्य निष्ठाः शापाः पतंतु ममयद्युषि योगिनीनां || १६४अ) सा शांभवी स्फुरतु कापि समाप्यवस्था यस्यां गुरोचरण पंकजमेवलभ्यं | याश्चक्र क्रमभूमिका वसतयो नाडीषु या संस्थितायाः कायद्रुमरोमकूपनिलया याः संस्थिता धातुषु || उच्छ्वासोर्मितरुन्तरंगलि श्वास वासाश्च यास्ता देव्यो रिपु पक्ष भक्षण परास्तृप्यंतु कौलार्चिताः || या दिव्याः कुलसंभवाः क्षिति क्षितिगताया देवतास्तोयगा या नित्यं प्रथित प्रभा शिखि गता मातरः स्वाश्रमाः || या व्योमामृतमंबुलामृतं या याः सर्वगाः सर्वदाताः सर्वाः कुलमार्ग पालनपराऽशांतिं प्रयच्छन्तु मे || उर्ध्वे *? ब्रह्माण्डके वा दिवि गगनतले भूतले निष्कले वा पाताले वा नले वा सलिल पवनयोर्यत्र कुत्र स्थिता वा || क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिः मांसे प्रीता देव्यः स दानः कृत वलिविधिनायां तु वीरेन्द्र वन्द्याः || ब्रह्मा श्रीशेषदुर्गागुहवटुकगणा भैरवाः क्षेत्रपाला वेतालादित्य रुद्राग्रह वसु मुनयः सिद्धयो गुह्यकाद्याः || भूता गंधर्वविद्याधर ऋषिपितरः किन्नरायक्षनागायोगिशाश्चारणाः किं पुरुष मुनिसुराश्चक्रगाः पांतु सर्वे || देहस्थाखिल देवता गजमुखाः क्षेत्राधिपा भैरवाः योगिन्यो वटुकाश्च यक्षपितरौ भूताः पिशाचा ग्रहाः || अन्ये भूचरदिक्कराश्च खचरा वेतालकाश्चेटकास्तृप्ताः स्युः कुलपुत्रकस्य पिवतः पानं मदीयं वरं || सत्यं चेद्गुरु दक्षदेवपितरौ वेदागमायोगिनी || प्रीतिश्चेसर देवता यदि भवेद्वेदाः प्रमाणं हि चेत् || शाक्तेयं यदि दर्शनं भवति चेदा ज्ञाप्य मोद्यास्ति चेत् सत्यं चापि च कौलिकाश्च यदि चेत् स्यान् मे जयः सर्वदा || तृप्यन्तु साधकाः सर्वे समुद्राः स गणाधिपाः || योगिन्यः क्षेत्रपालाश्च मम देहे व्यवस्थिताः | शिवाद्यवनि पर्यन्तं ब्रह्मादि स्तंभसंयुतं || कालाज्ञादि शिवान्ते च जगद्यज्ञेन तृप्यतां || १६४ब्) रुद्रयामले || पूर्णाभिषेक युक्तानां या नन्दे विनिगद्यते | कराभ्यां पात्रमुद्धृत्य स्मरन् मूलं च पादुकां || आगलांन्तं पिवेन्मद्यं स मुक्तो नात्र संशयः | पीत्वा पीत्वा पुनः पीत्वा यावत् पतति भूतले || उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते | आनन्दात् तृप्यते देवी मूर्छया भैरवः स्वयं || वमनात् सर्वदेवास्तु तस्मात् त्रितयमाचरेत् || कुलामृते || ब्रह्मज्ञानी कुलाचारे सुरां पीत्वा स्खलन् मुहुः | भूमौ पतति तस्यांगे लगन्ति? यदि रेणवः || तावत् कालं रेणुसंख्यं ब्रह्मलोके स मोदते || तथा || पीत्वा पीत्वा जपित्वा च मुक्तः कोटि कुलैस्सह | ब्रह्मलोके वसेद् देवि सत्यं सत्यं न संशयः || तत्रैव व्याप्ति माप्नोति न पुनः प्रपतेदिह | पीत्वा च पूजयित्वैशामीशत्वं लभते ध्रुवं || तत्रैव लयमाप्नोति पुनर्नैवनिवर्तत इति || इदन्तु कौलिकानामावश्यकं || तदुक्तं हरगौरी सम्वादे || निवेदितं च यद्देव्यै भोक्तव्यं चावधानतः | तन्न चेद्भुज्यते मोहाद् भोक्तुं नृत्यन्ति देवताः || अथ पंचमयागः || कुमारीतन्त्रे || ततस्तुत्वा नमस्कृत्य कुर्यात् संभोगमेलनं | देवताग्रे तु संभोगे देवता प्रणमं भवेत् || तथा नटीकापालिनी वेश्या रजकी नापितांगना | ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका || मालाकारस्य कन्या च नवकन्याः प्रकीर्तिताः | एतासुकांचिदानीय ततस्तग्नो?निमण्डले || पूजयित्वा महादेवीं ततो मैथुनमाचरेत् || देवीयामले || अथ पूजाफलंम्वक्ष्ये उत्तरोत्तरतोवरं | स्वशक्त्या अयुतं पुण्यं परशक्ति प्रपूजने || ततो वेश्याधिका ज्ञेया रजकी च ततोधिका | रजक्याः शुल्लकी श्रेष्टा शुल्लक्याश्चर्मकारिणी || ततोधिकतरा प्रोक्ता हेतु नारी वरानने | ततोप्यन्तजसंभूता चाण्डाली च ततोधिका || १६५अ) ततो मातंगिनी श्रेष्ठा मातंग्याः पुष्कशी तथा | पुष्कश्या अक्षता श्रेष्ठा ततोऽति सुदति सुदती स्मृता || सुन्दरी परतः प्रोक्ता प्रीति मत्यनुंरोगिनी | तत्परा परमेशानि उन्मत्ता शुभलक्षणा || समयाचार संपन्ना मन्त्रज्ञा भयवर्जिता | विदग्धा च प्रसूता च धैर्य स्वातन्त्र्य संयुता || एवं गुणसमायुक्ताः पूजयेत् सर्वयोषितः | आत्मीया च परा चैव शक्तिमात्रं महेश्वरि || मन्त्राधि देवता वुध्या पूज्या सर्वोपचारकैः | विविधैः फलताम्वूलैर्वस्त्रालंकार हेमभिः || संपूज्य विधिवद् भक्त्या वहु हेतुं प्रदापयेत् | संभोग वासनां धृत्वा यः कुर्याच्छक्ति पूजनं || स दारिद्र्यमवाप्नोति नारकी च भवेद्ध्रुवं || वीरचूडामणामपि || आनीय युवतीं रम्यां कुलकर्मविशालिनीं | षोडशाब्देन युवतीं पीनोन्नतपयोधरां || उन्मत्तां मत्त मातंगी मदाघूर्णित लोचनां | मृगशावकनेत्रां च शारंगी मृदुहासिनीं || क्रोधलोभदयादंभमोहमायाविवर्जितं | स्वामि धर्मरनां? सत्यवादिनीं च सदाशुचिं || गणिका नटीनाण्डाली जीवनी जारजाथ वा | योग मुद्रा धरां माश्रीचर्मदी(?) वापि चित्रिणी || चतुर्वर्णसमायुक्ता उत्तमा पर्वतोद्भवा | वामभागे समालिख्य त्रिकोणं पद्मवर्तुलं || श्वेतरक्तसमायुक्तं नीलं सिन्दूरचर्चितं | साधकः प्राङ्मुखो भूत्वा देवी प्रत्यङ्मुखां यजेत् || पीठशक्ति विधानेन नवशक्तिं प्रपूजयेत् | रतिः प्रीतिः प्रियाकान्तिः कामिनी काममालिनी || कन्दर्प्य दलिनी दुर्गा भाविनी नवशक्तयः | वियद्भृगुं समुच्चार्य मनुविन्दु कलान्वितं || महाप्रेतपदं पश्चाद्धृदयान्तमिदं मनुं | मूलमन्त्रं समुच्चार्य सम्वुध्यातारिणी पदं || एह्येहि च पदं पश्चात् पादुकाभ्यां पुनः पुनः | गृहीत्वा वामहस्तेन आसने चोपवेशयेत् || रक्तचंन्दन लिप्तांगी रक्त पुष्पविभूषितां | १६५ब्) सर्वालंकारसंयुक्तां विवस्त्रां पूजयेत् प्रिये || वारूणी मदमत्तां च हावभावसमावृतां | यावदा कण्ठपर्यन्तं तावत् पानं प्रदापयेत् || ध्यानं कुर्यान् महेशानि गह्वरे मकरानने | ताम्रचूडशिखाकारं गजवक्त्रसमप्रभं || तत्रस्थां चिन्तयेद् देवीं विद्यां भुवन मोहिनीं | तारम्वै हृदयान्तं च पश्चान् मदनमन्दिरं || चतुर्थ्यन्ते यजेद् देवि भगे पुष्पं विनिःक्षिपेत् | प्रक्षाल्य कुलं द्रव्येण गन्धपुष्पैः समर्चयेत् || धूपदीपादिकं कृत्वा पश्चादावरणं यजेत् | इच्छा ज्ञाना क्रिया पश्चाद् वामा ज्येष्ठा च रौद्रिका || रतिः प्रीतिस्तथा कामं पुष्यवाणधनुर्धरं | वसन्तं पूजयेत् पश्चात् पत्रांकुरसमन्वितं || चिकुरं पूजयेद् देवि अलिस्पन्द समन्वितं | विरंचिं पूजयेन् नाभौ हृदये च हरंहरिं || स्तेने वक्त्रे महेशानि त्रिमूर्तिं पूजयेत् ततः | कामेशी चैव वज्रीशी पयतु भगमालिनी || भ्रुवोर्मूले महेशानि पंचवाणान् प्रपूजयेत् | द्रामाद्यां द्राविणीं मूर्ध्नि द्रीमाद्यां क्षोभिणीं पदे || क्लीं वशीकरिणीं वक्त्रे गुह्य व्लूं वीजपूर्विकां | आकर्षिणीं हृदि पुनः सर्गान्त भृगु संयुतां || संमोहिनीं क्रमादेवं वाणपूजेयमीरिता | कर्मयोः पूजयेद् वक्त्रे भानुं चन्द्रं क्रमेण च || रसनायाम्वह्निं संपूज्य मंत्रे नक्षत्रमालिनीं | प्राणं संपूजयेद् घ्राणे आज्ञायां त्रिपथगामिनीं || अक्षोभ्यं पूजयेन् मूर्ध्नि गन्धपुष्पोपचारकैः | पुष्पमालांगले दद्यादथ शक्त्या जपेद्बुधः || अयं पूजाक्रमोनाक्षत्रे || ज्ञानार्णवे || दूती देह कृतान्न्यासान् स्वदेहेपि विचिन्तयेत् || वीरचूडामणौ || अथन्या संप्रवक्ष्यामि शिवात्मानं विभावयेत् || शिवात्मानमिति शिवात्मानमित्यर्थः || तथा || पंचवक्त्रे महादेवं कलायुक्तं न्यसेत् क्रमात् | इशानस्सर्वविद्यानां शशिनी पथमा कला || १६६अ) इश्वरस्सर्वभूतानामंगदा तदनन्तरं | ब्रह्माधिपति शब्दान्ते ब्रह्मणोधिपतिः पुनः || ब्रह्मेष्टदा शिवोमेस्तु मरीचि संपुटं न्यसेत् | सदाशिवो समुच्चार्य अंशुमालिन्यथा परा || तत्पुरुषाय विद्महे कलाशान्तिरितीरिता | महादेवाय धीमहि कलाविद्या तथैव च || तन्नो रुद्रः पदं पश्चात् प्रतिष्टा कथिता कला | प्रचोदयात् समुच्चार्य निवृत्तिः स्यात् ततः परं || पूर्वपश्चिम याम्येषु उत्तरेष्वप्यनुक्रमात् | हृदये विन्यसेद् देवि अघोरेभ्यन्तमः कलां || अथ घोरेभ्यो मोहां च ग्रीवायां विन्यसेत् ततः | घोरान्ते स्यात् क्रिया पश्चाद् दक्षिणांशे प्रविन्यसेत् || नमस्तेस्तु क्षुधां पश्चात् कलां पृष्ठे न्यसेत् क्रमात् | रुद्ररूपेभ्य इत्यन्ते नृषान्तार नमोन्तका || वामदेवाय नमोन्ते रजास्यां गुह्य देशके | मुष्के सव्ये प्रविन्यस्य रक्ष्यं ज्येष्ठाय वै नमः || रुद्राय नमो रतिं पश्चाद् वाम मुष्के कलामिमां | कलाय नम इत्यन्ते पालिनी उरुदक्षिणे || कलकामा च देवेशि वामे विकरणाय च | नमः पदं समुच्चार्य संयमनीन्दक्षजानुनि || वलक्रियासमादिष्टा वामे विकरणाय च | नमोन्ते वृद्धिमुच्चार्य दक्षिणे स्फिचि विन्यसेत् || वल प्रमथनाय नामो रात्रिं वामे प्रविन्यसेत् | सर्वभूतदमनाय नमोऽन्ते ब्राह्मणी कला || कटिदेशे प्रविन्यस्य मनान्ते मोहिनीं कलां | दक्षिणे पार्श्वके न्यस्य उन्मनायमोज्वरां || पादयोःस्ततनासासू मूर्ध्नि वाहुयुगे न्यसेत् | सद्यो जातोद्भवास्सम्यगष्टौ मन्त्री कलाः क्रमात् || सद्योजातं प्रपद्यामि सिद्धिः स्यात् प्रथमा कला | सद्यो जाताय वै भूयो नमः स्याद् वृद्धिरीरिता || भवेद्युतिस्तृतीयास्याद भवे तदनन्तरं | लक्ष्मीश्चतुर्थी कथिता ततो नाति भवे पदं || निधाख्या पंचमी प्रोक्ता कला भूयो भवस्वमां | १६६ब्) प्रज्ञा समीरिता षष्ठी भवान्ते स्यात् प्रभा कला || उद्भवाय नमः पश्चात् सुधा स्यादष्टमी कला | प्रणवाद्याश्चतुर्थ्यंता नमोन्ताश्च प्रविन्यसे || एवं न्यासविधिं कृत्वा स्वयं शैवं विभावयेत् | पंचाक्षरं पुरस्कृत्य रुद्र ध्यानपरायणः || सामरस्य मयं कृत्वा रक्षार्थं कवचं पठेत् | वध्वा तु क्षोभिनीं मुद्रां यन्त्रमध्ये विनिःक्षिपेत् || भंगं कुंडं भ्रुवोलिंगमाज्यं चैव तु वीर्यकं | सर्वतत्वं समुच्चार्य सहस्रजपमाचरेत् || ज्ञानार्णवे || धूपादिकं समर्प्याथ स्वलिंगे तदनंतरं | तारं च भुवनेशीनी महात्रिपुरसुन्दरी || नमः शिवाय विद्येयं दशार्णा परिकीर्तिता | अनया विद्यया देवि स्वलिंगं पूजयेच्छिवे || महात्रिपुरसुन्दरी त्रिकूटात्मिका विद्यया यजेत् | तत् पुरुषा घोर सद्यो वामेय संज्ञकान् || निवृत्तिं च प्रतिष्ठाञ्च विद्यां शान्तिन्तथैव च | शान्त्यतीतां च संपूज्य षडंगावरणं यजेत् || समग्र विद्यामुच्चार्य नन्दिकेशं प्रपूजयेत् | मध्ये वृषणयोर्देवि गन्धपुष्पाक्षतादिभिः || निवेद्य पुष्पधूपादिर्विजितेन्द्रिय मानसः | सर्वसंक्षोभणां मुद्रां वध्वा योनि प्रचालयेत् || क्षोभिण्या चाथ वा देवि जगतुण्डाख्ययाथ वा | उच्चरन् भगमालाख्यां द्राविणी वीजमुच्चरन् || अक्षुब्धस्सन्(?) वरारोहे यावद्रेतः प्रवर्तते || भगमाला मन्त्रस्तु तत्रैव || वाग्भवं भगशब्दान्ते भगे भगिनि चालिखेत् | भगोदरि भगान्ते तु भगमाले भगावहे || भगगुह्ये भगप्रान्ते योनिप्रान्ते भगान्तके | नि?पातिनि च सर्वान्ते ततो भगवशंकरि || भगरूपे ततो लेख्यं नीरजायत लोचने | नित्यक्लिन्ने भगप्रान्ते स्वरूपे सर्व चालिखेत् || भगानिमेह्या नमोन्ते वरदेथ समालिखेत् || रेतेस्वरे भग च क्लिन्नद्रवे ततः || क्लेदय द्रावय चाथ सर्वसत्वान् भगेश्वरि | १६७अ) अमोघे भग विच्चे च क्षुभः क्षोभय सर्व च || सत्वान् भगेश्वरि ब्रूयाद्वाग्भवं व्लुं जमादिकं | भें व्लूं मों व्लूं च हैं क्लिन्ने च ततः परं || सर्वाणि च भगा *? न्तेमेवशंचानयेति च | स्त्रीवीजं च हरप्रान्ते वलमात्मकमक्षरं || भुवनेशीं समालिख्य विद्येयं भगमालिनी || वीरतन्त्रे || धर्माधर्म हविर्दीप्ते आत्माग्नौ मनसा स्रुचा | सुषुम्ना वर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहं || स्वाहान्तोयं महामन्त्र आरंभे परिकीर्तितः | ततो जपेत् प्रियां गच्छन् स्त्रियं त्रिभुवनेश्वरीं || कुलामृते || स्वाहान्तो होममन्त्रोयं प्रतिघाताहुतिं प्रिये | पूर्णाहुतिं रतान्ते च जुहुयान् मनुनामुना || प्रकाशाकाश हस्ताभ्यामवलंव्योन्मनी स्रुचा | धर्माधर्म कलास्नहं पूर्णवह्नौ जुहोम्यहं || स्वाहान्तोयं भवेन्मन्त्रो घोरपातक मुक्तिदः || वीरतन्त्रे || स्वाहान्तोयं महामन्त्र शुक्रत्यागे प्रकीर्तितः || एतद् देवतामते तु महाकाल संहितायां | शैवाः स्मार्ता याज्ञिकाश्चतां न कुर्वन्ति पार्वति || कौलानामागम ज्ञानां च तान्त्रिकाचारवर्तिनां | अनुकल्प प्रदान्नृणां मध्यस्थानान्तथैव च || देवीति वुद्धिर्योषित्सु येषामचंचला तथा | तेषां काल्यपि भक्तानां सर्वदा निश्चितात्मनां || आवश्यकी शक्ति पूजापीठ पूजावदीश्वरि | काली वुद्ध्यैव संपूज्या न कामाकुलयाधियाः || चतुर्थाश्रमिणो मुक्त्वा ये काल्यर्चन तत्पराः | कौलिका वाप्य कौलाचाये चैतन्मतवर्तिनः || तेषां नित्याशक्ति पूजा प्राहैवं मांपुर द्विषः | कृतायां शक्तिपूजायां सफलं नित्यपूजनं || अकृताया मनुष्यास्तु निष्फलं नित्यपूजनं | तस्माद्यत्नेन संपूज्या शक्तिर्नित्यार्चनादनु || देवीधियैव संपूज्या न सामान्य वधू धिया | सा शक्तिर्द्विधा ज्ञेया स्वकीया च परांगना || १६७ब्) स्वजाति संभवायातु परिणीता भवेत् प्रिये | सास्वकीया समुद्दिष्टा तथानेयं प्रशस्यते || परकीया पंचविधाताः क्रमेण व्रवीम्यहं | संजीवद्भर्तृकाऽन्येका तादृगेव मृत प्रिया || दासी वेश्या तथाऽनूढा प्रशस्ता चोत्तरोन्तरं | अजातवत्सा युवती तास्वाद्यैव प्रशस्यते || कदाचिज्जातवत्सापि सा सर्वसदृशी मता | अभावे पूर्वपूर्वायाः पराग्राह्या हि साधकैः || साधिकायास्तु कौलाया एवमेव पुमानपि | न साधकं विनानार्या न पुंसः साधिका मृते || मन्त्रासिध्यन्ति देवेशि कल्पकोटि शतैरपि || तथा || परस्त्री संगमो मद्योपसे वा प्राणिमारणं | स्वार्थं चेन्नरकायैव दिव्यर्थं सुकृताय हि || को हेतुर्न विजानामि देवी प्रीति करा इमे | न पाप जनकं यद्वद्यज्ञार्थं पशुघातनं || न किल्विषकरस्तद्वत् परस्त्री संगमादिकः || तथा || इमं विधिमकुर्वाणैर्यैः कैरपि वरानने | अवहेला न कर्तव्या जुगुप्सा च कदाचन || न निन्दा न परीवादो न द्वेषो नैवधि कृतिः | कृतेन सर्वनाशः स्यान्मरणं रोग एव च || दारिद्र्यं पुत्रनाशश्च वंधनं निगडादिभिः | राजा ज्ञेया प्राणदेयं सैव व्रूते सनातनी || मदनोन्मादिनी कामातुराचापि भगप्रिया | सामरस्य पदं प्राप्तेत्येवं ह्युपपदानि हि || मन्त्रमध्ये वरारोहे तिष्ठन्ति कथमन्यथा | अत्रस्थां महती वध्वा देव्याज्ञां संभवां सदा || स्वीया सुताजनीइजायाः साधकेभ्यो ददत्यपि | गृह्नन्ति स्वयमन्येषां वीजन्तत्रैश्वरी वचः || तथा निषिद्धा || नानूनांग्योनाधिकांग्यो न स्थूलानाधिकं कृशाः | न छिन्ननासांगुलिका न दीर्घा न च वामनाः || न मुण्डिता न कुब्जाश्च मूकान्ध वधिरान च | न केकरा न खंजाश्च भिन्नयोनि गलत्कुचाः || १६८अ) वालामत्माश्च वित्यभ्यो न कार्याः शक्तयस्त्विमाः | वदामि योग्या साधिक्यं याभिस्तुष्यति कालिका || गौरांगी युवती रम्या स्मेरास्या चारुविग्रहाः | विशाललोलनयना पीनोन्नत पयोधरा || विशालजघना भोगा वलित्रय विराजिता | सुपार्श्वतनु मध्या च सुस्वरा कुंचितालका || विचित्रवेशा भरणा विचित्राम्वरधारिणी | विचित्र स्रक् समाकीर्णा विचित्ररति दायिका || सदा प्रसन्नवदना देव्यां भक्तिपरायणा | कौलिका चरणज्ञा च साधके भक्ति तत्परा || भयहीनो स्मेरमुखी सर्वदा प्रियवादिनी || वहुभिः किं वचो जालैः समासात् समये शृणु | निर्दिश्यते शक्तिपूजा कौलिकानां दिने दिने || प्रत्यहं च सुरादानं तत् स्वीकारोऽत्वहं तथा | नित्यतोक्तै तयोर्देवि कुलमार्गरतेषु च || हेयाहेय विचारोपि विरलः शक्तिषु प्रिये | अनुकल्प प्रदातृणामपि नित्यत्वमेव हि || विहायगर्हिता शक्तीर्योग्या एव हि गृह्यते | इतरेषां शक्तिपूजा काम्या नैमित्तिकी तथा || समाधिष्ठ वितानांस्यादितरासां निराकृतिः | विधानं कलये दानीं मन्त्रानपि च पार्वति || स्नातां दिव्यां वरधरां नानालंकाररमंडितां | युवतीं पीनवक्षोजां तथा चाकृत भोजनां || हस्ते गृहीत्वा वामोरौ स्थापयेच्छक्तिमुत्तमां | अशक्नुवानोवोढुं तां देव्या वामेथ वासने || ऋष्यादिकं शृण्वि दानीं एतस्य सुरवन्दिते | श्रीशक्तिपूजनस्यास्य गोनर्द ऋषीरीरितः || विकृतिश्छन्द आख्यातं शक्तिरूपा पदादनु | गुह्यकाली देवता च कामो वीजमुदा हृतं || शक्तिर्वधूर्भौवनेशी कीलकं समुदाहृतं | शिवशक्ति सामरस्य प्रकाशे विनियोगता || ससर्ग पंचदीर्घाढ्यैर्वधूवीजैः षडंगकं | विधायात्मनिशक्त्यंगेन्यास्यं वाच्य मथाचरेत् || १६८ब्) स्त्री चेछक्ति पदस्थाने भैरवेति पदं वदेत् || योषिल्लिंग पदकल्पना || गुरूपदेशतश्चापि स्ववुध्याया सुरेश्वरि | ऊहः सर्वत्र कर्तव्यो लिंगे तत् तत्पदेपि च || स नाहः किंतु गायत्र्यां सा समानो भयन्न हि | न्यासोद्धारमिदानीं त्वं सावधाना निशामय || त्रया कामो रमाशवो योगिनीरोषयोषितौ | डाकिनी प्रलयोहारः फेत्कारी कर्णिकापि च || प्रेतो नृसिंहः कुलिकं चिच्छक्तिः सर्वशेषगाः | एकैकं परतो दद्याद्वीजन्नाम्नां सुरार्चिते || तान्यब्दादौ कौलिकी च भगमालिन्यनन्तरं | रतिप्रिया तथानं गोऽकुला समयपालिनी || मदनोन्मादिनी कामा वेशिनी तदनन्तरं | चित्तोन्माथिन्यपि ततो महन्या कर्षणी तथा || स्मरातुरानंग रूपा हृप्रमोदिन्यनन्तरं | सन्तापिनी ततः संक्षोभिणी च त्रि?शार्चिते || सर्वशेषे परिज्ञेया सामरस्य स्वरूपिणी | एताः षोडश वै कार्या ङेन्ताः पूर्वार्ण संयुताः || श्रीकर्तृकत्वे पुंलिंगा भैरव्यर्चण कर्मणी | नमः शेषेषु सर्वेषु स्थानानि कलयाधुना || शिरः कपोलौ च गलः स्कंधौ वक्षः कुचौ तथा | पार्श्वौ कुक्षिश्च नाभिश्च वस्तिर्वक्षण एव च || ऊरूजानू च जंघे च पादौ योनिश्च शेषगा | जीवन्यास वदे तस्याः सामरस्यमथाचरेत् || एतदेवेति संप्रोक्तं शक्तिशोधनमीश्वरि | कृत्वा प्रहस्तं तु करं दत्वा हृद्गुरो जयोः || कामपीठेथ वा देवि नाभौ मौलीयकी मते | मनुं गृणन्वक्ष्यमाणं वारैकं वा त्रिवारकं(?) || जीवन्यासा कामिदं शक्ति शोधनमाचरेत् | अनेन शुद्ध्यते शक्तिर्नान्यथा मन्त्रकोटिभिः || मायाअ कामोवधूर्लक्ष्मीः कूर्चः प्रासाद एव च | शाकिनी डाकिनी चापि वीजान्यष्टौ पुरः स्मरेत् || भोगो नन्द कलाशक्ति जीवात्म परमात्मकाः | प्रतिविंव्य द्वैतसंज्ञैकात्माना मलयाऽभिधान् || दशकूटान् क्रमात् प्रोच्य ब्रह्म तद्विपरीतकं | १६९अ) द्वयं दशान्त उच्चार्यमेवमर्द्धार्द्ध सम्मितं || ततो ममानु हृदये तवानु हृदयम्वदेत् | दधातु मम वाच्युक्त्वा ते वाचं समुदीरयेत् || ममेन्द्रियेषु तदनु प्रवदेत् कमलानने | ते इन्द्रियाणि च संभाष्य मम वाचं जुषस्व च || ततः सिद्धिकरालीति त्वां मह्यं निपुनक्तु च | यैवत्वं च स एवाहं य एवाहमितीरयेत् || सैवत्वं सन्धिना युक्तमुभौ तदनु कीर्तयेत् | शिवशक्तिसामरस्य मापन्नौ तदनन्तरं || तदैक्यमिति संकीर्त्य साधयाव इतीरयेत् | ससन्धिस्तार हृच्छीर्षमन्त्रस्तदनु सुन्दरि || अयं मन्त्रः समुद्दिष्टः शक्तिशोधन कर्मणि | अष्टोत्तर शतार्णाद्व्यो न न्यूनो नोपि चाधिकः || ध्यानं पूर्वोदितं यन्ते भगवत्या मया तव | शक्तिं तां तादृगाकारां ध्यायेद् वीक्ष्यांग संचयं || नृसिंह ध्यान सदृशमात्मानं च विभावयेत् | तत आवाहयेद् देवीं शक्त्यंगे पीठसंनिभे || वक्ष्यमाणे नवमन्त्रेण साधकोंजलि मुद्रया | माया काम वधूराव कमला योगिनीरुषः || डाकिनी चापि फेत्कारी तवैतान्यादिगापि हि | एह्येहि भगवत्युक्ता गुह्यकालि समीरयेत् || शक्तिपीठेऽमुसांनिध्यमावेशयसमुद्धरेत् | ततस्ता महमुल्लिख्य महापि परिकीर्तयेत् || सर्वशक्ति समाभाष्य स्वरूपिणि ततो वदेत् | तारं प्रतिष्ठ शीर्षञ्च शक्तिमूलमनुं शृणु || मायारावः स्मरो नारी शक्तये हृदयन्ततः | मन्त्रो नवाक्षरः प्रोक्तः शक्तिपूजन कर्मणि || ऋष्यादिर्नास्ति चैतस्य न छन्दो वीजशक्तयः | किंतु पाद्यादि सर्वोपचाराद्यर्पण हेतुकः || जप्तव्यो नैव चायं हि त्रिपुरघ्न वचो यथा | सर्वोपचारानेतेन प्रदद्यात् किंतु शक्तये || पाद्यदानादि नैवेद्य दानान्तं यद्य दिष्यते | न चात्म मन्त्रो विन्नोस्ति मन्मते जगदीश्वरि || कुर्वते यन्तु मौले या तदमूलं विभाव्यतां | १६९ब्) शक्तिपूजावशिष्टं यत् पुष्पस्रगनुलेपमं || यदात्मने दीयते तत् सामरस्यार्चनं भवेत् | तदा मन्त्रं प्रकर्तव्यमेवमीशानशासनं || ततो दत्वा करं शक्ति योनि पीठे जपं चरेत् | साधकः शक्ति गायत्र्या शतमद्धार्धमेव वा || योनि पीठे जयप्रख्यो न जपऽक्वापि विद्यते | सद्यः प्रभावजनदो मन्त्राणां पीठ उत्तमः || मन्त्राणां वलहीनानां प्रयोगक्षीण चेतसां | अनुद्धृतानां शापेभ्यो नानाधिक्यार्णता जुषां || गुरुस्तिष्ठानामपि च प्रदानोनौजसां तथा | अज्ञानविधि पूजानाम यात्रार्प्यण भागिनां || त्यक्तानां विस्मृतानां च तथा चैवा प्रभाविनां | संधुक्षणार्थमुभयं प्रोक्तं त्रिपुर वैरिणा || एकं निर्वाण मंत्रेण संपुटीकृत्य तज्जपं | कौलासनेनापरं च योनिपीठे जप क्रिया || कौलासनं योनिपीठ जपःस्त्रीभ्यामनुग्रहः | गुरुस्त्री शक्तिता चापि मिश्री भूय जपो द्वयोः || अन्यैः समिन्धनं मन्त्रैर्वीजाधिक्य करं परं | अथातः शक्तिगायत्रीं शृणु देवि महाफलं || कामवीजाद्भगवंती ङेन्तां पुरत ईरयेत् | विद्महे योनि मालिन्यै धीमहीति ततः परं || तत्र शक्तिरिति प्रोच्य सर्वशेषे प्रचोदयात् | एषा हि शक्ति गायत्री सर्वागम सुगोपिता || एतां विना न शक्त्यर्चा न शक्त्यर्चांगिको जपः | यथाशक्ति यषि?त्वैनां तत्समर्प्य च शक्तये || वामोरावुपवेश्चैव कुर्यान् मूलजयं प्रिये | कुलमार्गानुसारेण स्मृत्युक्त विधिनापि वा || यदि चादीक्षिता शक्तिर्भवति तदा प्राक् तच्छुद्धिमपि कुर्यात् || तदुक्तं कुलमन्त्रे || अभिषेकाद्भवेच्छुद्धिर्मन्त्रस्योच्चारणाद्रूतौ | रतिकाले महेशानि दीक्षाकाले च कन्यकाः || शुध्यन्तीति शेषः || स्वरया रेतसा वापि जलेन मनुनामुना || यामलेपि || अदीक्षिता तु या शक्तिः सैव शुद्धा भवेत् सदा | अदीक्षितासु या शक्तिर्मायान्तस्यै निवेदयेत् || १७०अ) मेरुतन्त्रे || अदीक्षिताः स्त्रियः कुर्यात् सद्यः संस्कार मत्र तु || मातंगी तन्त्रेप्युक्तं || दीक्षा मात्रेण शुध्यन्ति स्त्रियस्सर्वत्र कर्मणि || कुलामृत दीपिकायां || अदीक्षित कुलासंगात् सिद्धिहानिः प्रजायते || तथा || आदौ वालां समुच्चार्य त्रिपुरायै समुच्चरेत् | नमः शब्दं समुच्चार्य इमां शक्तिन्ततो वदेत् || पवित्री कुरु शब्दान्ते मम शक्तिं कुरु प्रिये | वह्नि जायां समुच्चार्य शुद्धिमन्त्रः प्रकीर्तितः || अनेन विधिना देवि अभिषिक्ताः स्त्रियः सदा | रममाणोत्र सन्नित्यं सर्वसिद्धि मवाप्नुयात् || तथा || पीत्वा लिंग्य कुलाचारे प्रमदां यौवनान्वितां | कोटि जन्मार्जितं पापं तत्क्षणा देवनाशयेत् || एते च दूती संस्कारा अर्घस्थापनात् प्राक् कुण्डं गोलोद्भवार्थ मनाचरण पक्षे तदर्थं तत्राचरण पक्षे तु धर्माधर्म हविर्द्दीप्त इत्यादि मन्त्राभ्यां निधुवन मात्रं इयांस्तु विशेषः यदत्र निधूवनान्तमेव कर्म तत्र तु अर्घप्रक्षेपार्थं देवादि तर्प्यणार्थं च निधुवनान्ते द्रव्यग्रहणमपि || तदुक्तं ज्ञानार्णवे || संस्कारो मन्त्ररूपस्तु वचनं स्तवनं भवेत् | आलिंगनन्तु कस्तूरी कर्पूर घृसृणादिकं || मथनं तर्पणं विद्धि वीर्यपातो विसर्जनं | दशद्रव्येण संशोध्य शिवशक्तिमयं प्रिये || वीजामृतं परंब्रह्म रूपं विक्षिप्य सुन्दरि | अर्घपात्रामृते युक्तो निर्विकल्पः सदानघः || श्रीविद्याक्रममभ्यर्च्य परंब्रह्ममयो भवेत् || कौले || आलिंगनं चुम्वनं च स्तनयोर्मर्दनं शनैः | दर्शनं स्पर्शनं योनेर्विकारो लिंगघर्षणं || प्रवशश्चालनं शक्तेर्नवपुष्पैश्च पूजनं || ब्रह्मयामले || न दद्याच्चुम्वनं यस्तु दरिद्रो जायते ध्रुवं | आलिंगनम्विना देवि कुष्ठी भवति पार्वति || विना दन्त कृतैर्देवि लोके भवति निन्दितः || तथा || आलिंगने हरेद्रोगान् धनधान्यादि चुम्वने | नखदन्त कृताद्यैश्च तदामोक्षः प्रजायते || १७०ब्) सायुजां संगमेन स्यात् सत्यमेव न संशयः || रौद्रे || तदंग स्पर्शनात् सौख्यं संयोगामृत लक्षणं | महाकामकलां ध्यायेत् संयोगामृतरूपिणीं || संयोगाज्जायते सौख्यं परमानन्दलक्षणं | कुलद्रव्यामृतं यत्नां गृह्नीयाद् दुर्लभन्नरः || कुण्डगोलग्रहण प्रकारस्तु कुलामृते | भोवयेत् कामभावेन आत्मतत्वं नचोत्सृजेत् || शुद्धमन्त्रौषधे नैव योनेस्तु मथनं चरेत् | मध्य?माने च तस्या हि जायते तत्वमुत्तमं || गृहीयात् तत्प्रयर्त्नेन द्रव्यं कुण्डोद्भवं शुभं || ब्रह्मयामले || तेनामृतेन दिव्येन त्रिपुरान्तर्पयेत् सदा | सान्निध्यात् तत्क्षणाद्वापि प्रीता सिद्धिं प्रयच्छति || समस्त देवतानां च तर्पणं च सदा मृतैः | गुरुणां साधकानां च सर्वेषां तर्पणं चरेत् || तेनामृतेन दिव्येन सर्वे तुष्टा भवन्ति च | यत्कामं कुरुते मन्त्री तत्क्षणा देव सिध्यति || कुलामृतं समादाय तत्रार्घे निःक्षिपेद्वुधः | ततः सोमकलाः पूज्याः साधकैर्निर्मलाशनैः || कौले || मधुभाण्डसहस्रैस्तु मांसभारशतैरपि | नैव तुष्टा भवेद् देवि भगलिंगामृतादृते || अथ दूतीयागः || देवीयामले || दूतीयाग विधिम्वक्ष्ये कौलधर्मोत्तमोत्तमं | तस्यानुष्ठान मात्रेण स्वयं ब्रह्मत्व माप्नुयात् || तथा दूती यागे कृते मन्त्री सर्वज्ञो जायते ध्रुवं | न तस्य पुनरावृत्तिः कल्पकोटि शतैरपि || यैः कृतं यजनं दूत्यास्तैरिष्टाः क्रतवोऽखिलाः | सर्वतीर्थ मयः प्रोक्तः सर्वदेवमयो भवेत् || पुरश्चर्यादि सकलं कृतं तेन न संशयः | अश्वमेध सहस्राणि वाजपेय शतानि च || आसमुद्रा च धरणी दत्ता तेन स दक्षिणा | मेरुमन्दरतुल्यानि सुवर्णान्यर्पितानि वै || गो कोटि दानाद्यत् पुण्यं तत्पुण्यं जायते प्रिये | तस्मात् सर्वप्रयत्नेन दुतीयागं समाचरेत् || १७१अ) पूजा संपूर्णदं भद्रे सर्वारिष्ट प्रणामकं | योनि पूजां विना पूजा कृतमप्य कृतं भवेत् || आयुरारोग्यविभवानमितान लभेन्नरः | अनेनैव विधानेन विषार्तो निर्विषो भवेत् || पुत्रार्थी लभते पुत्रं धनार्थी लभते धनं | मातंगी शक्ति मध्यर्च्य तया साकं समर्चयेत् || मातंगी मन्मथोपेतां सर्वकामार्थ सिद्धिये | शक्त्यासीकं सदा पूज्या मातंगीं मन्त्र देवता || सा देवी शक्तिहीना तु न ददाति मनोरथं || ब्रह्मयामले || नारद उवाच || सर्वज्ञ जगतान्नाथ शाक्तं चेत् श्रुति चोदितं | मातंगीं पूजनन्तत्र कथं मुक्तिप्रदायकं || अर्चने प्रथिता वेश्यावेश्या सा तु रजस्वला | रजस्वला च मातंगीं सा दूती सर्वमंगला || इति प्रोक्तं त्वया पूर्वमिदानीन्तद्विपर्ययः | तववाक्यमभूद्ब्रह्मन्नेतद्वदपिता मह || ब्रह्मोवाच || मा कुरुष्वात्र सन्देहं वेदोक्तं शाक्तमुत्तमं | अस्ति सर्वज्ञ कल्पोसौ मातंगो मुनिसत्तमः || वर्षाणामयुतं वत्स तप उग्रं च चारह | तेन प्रीता महादेवी देवानां हितकारिणी || वरं वृणीष्व भगवन् दास्यामि तव वांछितं | तच्छ्रुत्वा द्विजवर्यस्तां ययाचे धर्मसाधनं || हे देवि जगतां मातः प्रीता चेद्यदि सांप्रतं | अपत्यतां समासाद्यमत्कुलालम्वनं कुरुः || इत्यभ्यर्च्य मुनिश्रेष्ठो जनयामास तां सुतां | श्यामलां चारुवदनां वीना शुक समन्वितां || सारिकां ज्ञान सम्पन्नां जपमालां कलाम्वुजैः | धारयन्तीं विशालाक्षीं शंखताटंकशोभिनीं || सावभूव महादेवी मतंग कुलनन्दिनी | मातंगीति तदा देवि विख्याता वरदायिनी || ताम्विलोक्य तदा शंभुर्दूतीं चक्रेसूलक्षणां | त्रिपुरंजे तु कामेन योनि पूजा तदा कृता || प्रत्यालीढास्तथा देवि पूजां स्वीकृत्य निश्चला | तदा दृष्ट रजोभूतां ताम्वव्रेशं करः प्रियं || तदा प्रभृति संजातो दूतीयागो मनोहरः | १७१ब्) प्रणयेन तदा शंभुस्तया सार्धं रतं भजेत् || प्रणवान्तर्गतं मन्त्रं मातंग्याख्यं विनिर्गतं | सर्वसौभाग्य जननं मालामन्त्रंमभूत्तदा || रमाचापि पदं दिव्यं अनिन्द्यं लोकरंजनं | मातंगी मन्त्रमत्यर्थं मन्मथ प्रतिपादकं || आद्यन्त शून्या सा देवी तस्मात् स्याता तदन्त्यजा | मातंगी अन्त्यवर्णस्था तदा सा अन्त्यजा भवेत् || अन्त्यजानां द्विजानां च चक्रे ऐक्यं प्रशस्यते | सा देवी सर्ववर्णानां वरन्दत्वा निरुत्तरं || कृत्वा संकेत समयं चक्रे मातंगमुत्तमं | न दोषः सर्ववर्णानामिदन्दत्वा वरन्तदा || न दोषन्तत्र विज्ञेयं सर्वन्ते श्रुति नोदितं | देवीमुद्दिश्य मोक्षार्थं कृतं यद्दोष वर्जितं || एतच्छास्त्रमिदन्दिव्यं न वाक्यं श्रुति चोदितं | अन्तर्यागमिदं ज्ञेयं वहिर्यागं च वैदिकं || मन्त्रतन्त्रसमायुक्तं तद्वयं ब्रह्मवोधकं | चक्रसंकेत समयं सर्वं तुभ्यं प्रकाशितं || गोपनीयं प्रयत्नेन न वाच्यं पशुसन्निधौ | त्यजशंकाम्महाभाग सत्यमेतन्मयोदितं || मातंगी पूजनं श्रेष्ठं दूती यागे मनोहरं || दूतीयागादौ तु विप्राणान्ताधिकारः || तदुक्तं वृहच्छ्रीक्रसंहितायां || वामागमोंघ्रि विप्रस्तु मद्यमांस न भक्षयेत् | स्वकीयां परकीयाम्वा नाकृष्य ब्राह्मणो यजेत् || इति || अगस्त्य संहितायामपि गौरीं प्रति शिववाक्यं | आवाभ्यां पिशितं रक्तं सुराम्वापि सुरेश्वरि || वर्णाश्रमोचितन्धर्ममविचार्यार्ययन्ति ये | भूतप्रेतपिशाचास्ते भवन्ति ब्रह्मराक्षसाः || रक्तमार्तवं || इदमपि ब्राह्मण परमेव अन्यथा तद्विधायकवचनानां निर्विषयत्वा पत्तेः ब्राह्मणेतराणामपि योगिनामेव दूतीयागेधिकारः || तदुक्तं सिद्धिनाथसंहितायां || अद्वैतज्ञाननिष्ठोयो योसौ संसारपारगः | स एवयजनं इत्युनाधिकारीपरो भवेदिति तु || १७२अ) प्रसंगाल्लिखितं || शक्त्यार्चनावश्यकत्वमाह || मेरुतन्त्रे || पुरुषेण विना किंचित् प्रकृत्या क्रियतेन हि | तथा शक्तिर्विना देवं फलं क्षमुं(?) क्षमो न हि || विनाशक्तिं फलं देवो दातुं नैव क्रमो ह्यतः | तस्मात् पुंशक्ति संयोगं कृत्वा मन्त्रं प्रसाधयेत् || कौलिके वाममार्गे च पुमान् देवो न सिध्यति | आत्मानं तु शिवं ध्यायेद् देवतां शक्तिरूपिणी || क्रडेत् पंच मकारैस्तु सुप्रीता तस्य देवता | दक्षमार्गे मातृवुद्धिः स्त्रीवुद्धिः कौलिके पथि || यस्य जाता दृढ तदा तस्य तुष्टा तु देवता | एतद्रहस्यमाख्यातं गोप्यं मातरि जारवत् || तथा || इन्द्रियाणामधृष्यत्वात् कामलोभादि संभवात् | प्रायः कलौ कौलिकोयं पंथा नरक हेतवे || धर्मनाशः कौलिकेन रसेनार्थविनाशनं | कामनाशः फिलंगेन मोक्षनाशो जनैवया || भविष्यति कलौ देवा दंभः पापं गृहे गृहे || एतेषामभावपक्षेः शक्तानु प्रत्यन् कल्पो महाकालसंहितायां || अनुकल्पेन वा कुर्याद्धर्मलोपं न कारयेत् | आद्रकस्य गुडस्यापि समभागे भवेत् सुरा || ताम्रपात्रे तथा क्षौद्रंपयोगव्यं तथात्र च | नारिकेरोदकं कांस्ये ऋतौ ताररसोपि च || मांसा भावे तु लसुनं आद्रकं नागरं चख | मुद्राभावे तथा देवि तंडुलं परिकीर्तितं || पंचमस्याप्य भावे तु प्रकारान् शृणु सुन्दरि | वामारौ संलिखेद्रक्त चन्दनेन त्रिकोणकं || तन्मध्ये शक्तिवीजं हि विलिखेत् साधकोत्तमः | तत्र संपूजयेत् कान्तां मन्त्रेणानेन पार्वति || अनेनेति पूर्वोक्त माया वीजादि अष्टोत्तरशतसंष्यमन्त्रेण इति || शक्ति गायत्र्या अष्टोत्तरशतं तदर्धं तदर्धं वा तत्र त्रिकोणे जपेत् गायत्री तु तत्रैवोक्ता || शक्तौ शक्त्यां प्रकूर्वीत कर्मलोपं न कारयेत् | प्रमादाद्यदिलुप्येत देवता सा प्रकुप्यति || १७२ब्) विना भुक्त्वा विना पीत्वा विना कृत्वा तु पंचमं | स पापिष्ठः कथं व्रूते काली मन्त्रं जपाम्यहं || तस्मात् सर्वप्रयत्नेन साधयेत् पंचमं प्रिये | यदि चेत् क्रियते नैव तस्य दुःखं पदे पदे || यदि योषिन्न संगस्स्यात् तदानेन विधानतः | कर्तव्यं कर्मसांगार्थं नोचेद्विफलमीरितमिति || इति धनित्यं(?) नित्यार्चनविधिः || अथ मध्यमानां नित्यार्चनविधिः || मेरुतन्त्रे || अथाल्पं संप्रवक्ष्यामि यं विनादुःखमाप्नुयात् | प्रातरुत्थाय गुर्वादि स्मृत्वा शौचं समाचरेत् || स्नानं संध्यां तर्पणं च वेदिकं तांत्रिकं तथा | आगत्य च गृहे पश्चात् प्राणायामत्रयं चरेत् || कुर्याच्च मातृकान्यासं तथा छंदधिं दैवतं | तन्मन्त्रस्य करांगाख्य न्यासं शंखार्घसंस्थितिः || मन्त्र स्नानं देवतायाः पूजा पंचोपचारिका | चंदनांते त्वा वृतीनां पुष्पैरेव प्रपूजनं || वैश्वदेवोत्तरं तत्र तदन्नाहुति पंचकं | मूलेन होमयेत् तत् प्राग् जपश्चाष्टोत्तरं शतं || वैदिकाकाशवत्यंते पूजाचोच्छिष्ठ भोजिनं | ततः संप्रार्थयेद् देवं सायं संध्या समाचरेत् || देवागारे दीपदानं प्रोक्तं संक्षेपमाह्निकं || अथ प्रवास कारागृहाद्य शुभस्थानाह्निकं || तत्रैव || अथापराह्निकं वक्ष्ये तत् स्थान देशके भवेत् | मार्गे प्रवासे दुर्गे च नात्र प्राप्तौ मनो भये || कारागृहेऽशुभे स्थाने न्यपि व्याघ्रादिजे भये | परचक्रागमे कुर्याच्छौचाद्यं तु यथा तथा || मन्त्रस्नानादिकं किंचित् कृत्वा मानस पूजनं | मनसा हृदयस्यांतर्ध्यात्वा योगाख्य पीठकं || तत्रैव पृथिवी मध्ये पूजां देवस्य चाचरेत् | यथा पुष्पादिभिः पूजा वहिर्देशे विधीयते || तथा हृद्यपि कर्तव्याः सर्वास्ताः प्रतिपत्तयः | मनसा जठरे होम एतद्विपदि चाह्निके || अथ रोगिनामाह्निकं || तत्रैव || अथातुराह्निकं वक्ष्ये नित्यं स्वास्थाधिकस्य तत् | यदि लंघन पर्यंतो व्याधिरात्मनि दृश्यते || तदा पूजा न कर्तव्या स्थंडिले प्रतिमासु च | १७३अ) न स्नानं दंतकाष्ठं वा कुर्याद्धोममथापि वा || रविमंडलमालोक्यं प्रतिमामथ वा पुनः | मूलमन्त्रं स कृज्जप्ता पुष्पं साक्षतमुत्सृजेत् || श्रांतो व्याधिभिरत्युग्रैर्जरयाचेन्द्रियैश्च्युतः | निजसामयकैर्वापि स्वकर्तव्यं समापयेत् || अग्निवृत्तस्तत स्नात्वा पूजयित्वाग्नि देवताः | गुरुविप्रांस्तदग्रे च वाक्यमेतदुदीरयेत् || एतावत् कालविच्छिन्ना पूजा युष्मत् प्रसादतः | न दोषोस्त्विति संप्रार्थ्य पुनः पूर्ववदाचरेत् || यस्तु रोग दशाद्दोषो जातस्तत्क्षालनं चरेत् | जपेन वाथ दानेन होमेन ध्यानतोपि वा || अथाशौचाह्निकं तत्रैव || अथ सूतकिनानित्यं वैदिकं तु स्मृतीरितं | कृत्वा तान्त्रिक पूजादि मनसैव समाचरेत् || कामनार्थं प्रयोगश्च तदा पूर्ववदा चरेत् | मृतगेहं परित्यज्य वामाचारेन सूतकं || स्पृहां हित्वा ज्ञानपूर्वं कुलतो धर्ममागतं | ययालयेद्वामधर्मं देवता तु स जायते || गुरुपदिष्टं यः कर्म भक्त्या वामे करोति यः | शास्त्रतत्वं देवतत्वं गोवेत्ति स तु गुह्यकः || जानन्वामेन भजते सुखार्थी तत्र जायते | क्षुत्तृष्णामर्दितं प्रेतस्तस्माद्धर्मं विचारयेत् || संत्रस्तेन न चेल्लभ्यमर्घ्यपात्रादि साधनं | पूज्योदकेन कर्तव्या तोयं येन्नैव विद्यते || तदा संपूजयेद् देवं भावना कुसुमादिभिः | भक्तिश्रद्धा भावना च पूजानां जीव उच्यते || अथ जडाह्निकं || तदुक्तं तत्रैव || जडानामाह्निकं वक्ष्ये तथा संक्षेप कर्मणि | रत्नमंडप धर्मादि चतुष्कमुरगोंवुजं || मूलमूर्तिः षडंगानि तेषां पूजा विधीयते | सर्वषामपि वस्तूनाम लाभे भाव नैव हि || निर्मले नोदके नैव पूजयेत् स्थिरमानसः | सामान्यतस्त्रिधा पूजा चोत्तमा मध्यमाधमा || १७३ब्) अधिकारि निमित्ताभ्यां भिद्यते शतधा पुनः | यागोपकरणैः कृत्स्नैः क्रीयमाणोत्तमामता || यथा लब्धैर्विनिष्पाद्या द्रव्यैः पूजा तु मध्यमा | यत्र पुष्पांवु निष्पाद्या पूजा चाधमसंज्ञका || विहिताखिल वेदोक्तैर्ब्रह्मर्षिभिरकल्मषैः | क्रीयमाणा तु या पूजा सात्विकी सा विमुक्तिदा || राजर्षिभिस्तयोनिष्टैर्भगवत् तत्व वेदिभिः | या पूजा क्रीयतेयस्य गा?जसी सा सुखप्रदा || स्त्री वालवृद्धमूर्खाद्यैर्भक्तैरक्षुद्रमानसैः | या पूजा क्रीयते नित्यं तामसी सामकीर्तिताः || अरण्ये स्वल्प कामानां सिध्यर्थं पूजनं हितं | निस्कामानां गृहस्थानां हितगेहे तु पूजनं || कदाचिदपि न त्याज्यो वेदमार्गो द्विजैः सदा | वेदच्युतानां विप्रत्वं देवत्वं चापि दुर्लभं || इति श्री-आद्यानन्दनविरचितायां कुलमुक्तिकल्लोलिन्यां चतुर्दशः पटलः || अथ नैमित्तिकं || स्वतन्त्रतन्त्रे || नित्यं नैमित्तिकं काम्यं सापेक्ष्यं पूर्वपूर्वतः | अन्यथा चिन्तयेदिर्त्थं कुर्यादापत्परंपरां || नीलतन्त्रे || नित्याचाररतो मन्त्री कुर्यान्नैमित्तिकार्चनं | नैमित्तिकार्चने सिद्धः कुर्यात् काम्यमखण्डितं || कुलचूडामणौ || देवता तिथि नक्षत्र वारयोगेषु चेश्वरि | सोमसूर्योपरागेषु मन्वादिषु युगादिषु || पूजाकार्येति शेषः || अत्र देवता तिथ्यादयः कुलाख्या एवते च वक्ष्यन्ते || यामले || आत्मनो जन्मदिवसे तथा निज गुरोरपि | विद्यायाः प्राप्तिदिवसे नाथव्याप्ति दिने तथा || दर्शे युगादावयने विषुवे संक्रमे तथा | पूजां च महतीं कुर्याद् देवता तोषहेतवे || मेरुतन्त्रे || शुद्धा नैमित्तिका पूजा प्रोक्ता विंशति भेदिका | पर्वानि च महापाता व्यतीपातः स वै धृतः || मन्वादयो युगाद्याश्च वेदांगं देवता भवं | पुष्पाश्च रविवाराश्च त्रिगुरुणां स्वकीयकं || १७४अ) जन्माहश्चापि दीक्षाया दिवसं न वरात्रके || कुलार्णवे || कृष्णाष्टमी चतुर्दस्योश्चामावास्याथ पूर्णिमा | संक्रान्तिः पंचपर्वाणि तेषु पुण्य दिनेषु च || पीठोय गमने देवि वीरे स्वजन दर्शनात् | देशिकागमन पुण्यं तीर्थ्यं दैवत दर्शने || यथावलं यथा श्रद्धं यथा देशं यथोचितं | यथा जलं यथा द्रव्यं यथा पूजां समाचरेत् || न कुर्यात् कौलिको मोहाद् देवताशापमाप्नुयात् || मेरुतन्त्रे || विशेषान्न कृता यस्मिन् पूजा भवति निःफला | देशिकागमने चैव वीरस्वजनदर्शने || चन्द्रसूर्योपरागे च लाभे होमे व्रतोत्सवे | पीठे पीठगमे पुण्य तिर्थदैवतदर्शने || रोगेष्वापत्सु दोषेषु दुःसंगे दुर्निमित्तके || तन्त्रराजे || गुरोस्तु जन्मदिवसे विद्याप्राप्ति दिनेषु च | स्वधर्मदिवसे नाथ व्याप्तिवासर एव च || अक्षरत्रयसंपात दिने पूर्ण दिने तथा || पूजा कार्येति शेषः नाथ व्याप्तिर्गुरुमरणं अक्षरत्रयसंपातः युगाक्षर दिनाक्षर उदयाक्षराणामैक्यं तत्तु सुन्दरीमधिकृत्यैवोक्तमतस्तत्रैव निमित्तं || कुलचूडामणौ || कुलवारे कुलोष्टम्यां चतुर्दश्यां विशेषतः | योगिनी पूजनन्तत्र प्रधानं कुलपूजनं || यथा विष्णु तिथौ विष्णुः पूजितो वांछित प्रदः | तथा कुलतिथौ दुर्गा पूजिता वांछितप्रदा || कुलतिथावितिवार नक्षत्रयोरुपलक्षणं || कुलवारादयो यामले उक्ताः || रविश्चन्द्रो गुरुः सौरिश्चत्वारस्त्वकुला मताः | भौमसुक्रौ कुलाख्यौ तु वुधवारः कुलाकुलः || द्वितीया दशमी षष्ठी कुलाकुल मुदाहृतं | कुलानि समधिष्ठ्यानि तच्छेषान्य कुलानि तु || त्रिकुले च पूजावश्यकी || त्रिकुले पूजयेद् देवीमुपचारैस्समाहितः || इति वचनात् || १७४ब्) शक्तिपूजापि तत्रावश्यकी || कुलवारे कुलर्क्षे च कुललग्ने कुलक्षणे | योगिनीनां सदा पूजा मनशापि न हीयतेः || इति कुलचूडामणि वचनात् || कुलवृक्षे यजेद् देवीं कुलदृक्षान्नमेत् सदा | न स्वपेत् कुलवृक्षाधो नारोहेत कदाचन || न चैतांश्छेदयेन्मन्त्री न पदातान् स्पृशेदपि | तत् पत्रेषु न भोक्तव्यं प्राणैष्कण्ठगतैरपि || कुलवृक्षा मेरुतन्त्रे || सहकारः कर्णिकारा केशरस्तिलकस्तथा | कदम्वः सिन्दुवारश्च कंकेलिं चम्पका ह्वयः || श्लेष्मातकः कुलवको निम्वश्चल दलस्तथा | यज्ञांगो जटिलो विल्वः कुलवृक्षामता अमी || एषु सन्निहिता नित्यं योगिन्यस्सर्वकामदाः | सर्वपीठेषु पीठस्तन् कामरूपं फलप्रदं || सकृदप्यर्चितो यत्र देवी वांछित सिद्धिदा | तस्माच्छतगुणं पुण्यं कामाक्षा योनिमण्डलं || द्विविधं तत् समाख्यातं व्यक्तमव्यक्तमेव च | व्यक्तादव्यक्तमनघं महापुण्यफलप्रदं || लभ्यते यदि भाग्येन कुलज्ञेन मनीषिणा | तदा तत्र यजेद् देवी मनेकैरुपचारकैः || दृश्यतेपि यदा भाग्यान्तदार्चा मनसा चरेत् | पर्वते विपिनोद्देशे निर्जने मण्डपे तथा || चतुष्पथे श्मसाने वा गच्छन् साधक सप्तमः | ध्यात्वा देवीं मनुं जप्त्वा नत्वा स्थाने व्रजेत् ततः || पशुशक्तिं पक्षिशक्तिं गृद्धं वीक्ष्य नमेच्छिवां | कृशोदरि महाचण्डे मुक्तकेशि वलि प्रिये || कुलाचार प्रसन्नास्ये नमस्ते शंकर प्रिये | श्मशाने च शवं वीक्ष्य मन्त्रपूर्वकमानयेत् || प्रदक्षिणमनुव्रज्य लभते सिद्धिमुत्तमां | घोरदंष्ट्रे कठोराक्षि कटिशब्द प्रसाधिनि || घोरघोर करास्फाले नमस्ते चितिवासिनि | रक्तं वस्त्रं तथा पुष्पं विलोक्य त्रिपुरां नमेत् || वन्धुक पुष्पसंकाशे त्रिपुरे भयनाशिनि | भाग्योदय समुत्पन्ने नमस्ते वरवासिनि || राजानं राजपुत्रम् वा हस्त्यश्च स्पन्दनान्यपि | अस्त्राणि वीरपुरुषं महिषं कुलनायकं || कृष्णवर्णन्तथा पुष्पं दृष्ट्वा दुर्घा?न्नमेद्वुधः | जय देवि जगाधात्री त्रिपुराम्व त्रिदैवते || १७५अ) भक्तेभ्यो वरदे देवि महिषघ्नि नमोस्तुते | प्रथमं च द्वितीयं च क्रीडालोलां कुमारिकां || युवतीनां समूहं च युवतीमेकवृक्षकं | निरीक्ष्य मंत्रविन्मूलं प्रजपेद् भैरवीन्नमेत् || नमामि वरदे देवी मुण्डमाला विभूषिते | रक्तमालासमाकीर्ण वरदे त्वात् नमाम्यहं || प्रणमेत् सर्वसिध्यर्थं दृष्ट्वैतानि विचक्षणः | अन्यथा न भवेत् तस्य मन्त्रसिद्धिः कदाचन || मत्स्यसूक्ते || अष्टम्यां पूजने देव्यास्सर्वकामफलप्रदं | रम्भा पुष्पं वीजपूरं सुगंधि परिमिश्रितं || मिश्रीकृत्य वलिन्दद्यादष्टम्यां च विशेषतः | कुलं क्रीरन्तथा दद्याद्दधिशर्करयान्वितं || दानमक्रयय सिद्ध्यर्थं दद्याद् देव्यै प्रयत्नतः || पारमेश्वरीमते उदयाकरेपि || षष्ठी भाद्रपदे मासि कृष्णाश्विन चतुर्दशी | कार्तिके नवमी शुक्ला मार्गे कृष्णा तु पंचमी || पौषे तु पूर्णिमा देवि माघेसित चतुर्थिका | फाल्गुनैकादशी कृष्णा चैत्र कृष्णत्रयोदशी || वैशाखे च तृतीयाख्यां जेष्ठे दशहरा स्मृता | आषाढे द्वादशी कृष्णा अमावास्या च श्रावणे || एतानि देवि पर्वाणि क्षपार्धे साधयेद्वुधः | अर्चां कृत्वा यथा न्यायमश्वमेधफलं लभेत् || अत्र च यत्र विशेषः न श्रूयते तत्र शुक्लैव ग्राह्येति तान्त्रिकाः || मेरुतन्त्रे || नैमिर्त्तिकाच्चने कालाः प्रातर्मध्याह्न संगवाः | प्रदोषरात्री विघ्नेश रविविष्णवीश शक्तिजाः || अथ दमनारोपणं || त्रिशक्तिरत्ने || चैत्र प्रभृतिमासानां पौर्णमास्यां महाशिवां | अच्चयेद्वक्षमाणेन विधिनो साधकोत्तमः || चैत्रे दमनकैः पूज्या कृत्वा नित्यार्चनं प्रिये || ज्ञानार्णवे || दमनेन च यो मन्त्री वर्ष मध्येन पूजयेत् | तस्य साम्वत्सरी पूजा मदनाय भविष्यमिति || मेरुतन्त्रे || १७५ब्) दमनेन च यो देवं वर्षमध्येन पूजयेत् | तस्य वर्षकृतं पूजाफलं गृह्नाति कामराट् || ज्ञानार्णवे || दमना रोपणं वक्ष्ये साधकानां हिताय वै | सम्वत्सर कृता पूजा पूर्णायेन भवे प्रिये || महाकालसंहितायां || दमनारोपणाख्यैका पवित्रा रोपणी परा | प्रतिसम्वत्सरं च ते यो न कुर्वीत साधकः || तस्य वर्षकृता पूजा व्यर्था भवति भाविनि | कृतामपि विलुम्यन्ति भूतप्रेतादयो गणाः || प्रतिसंवत्सरं तस्मात् कुर्याद्यत्नेन साधकः | दमनारोपणं कर्म पवित्रा रोपणन्तथा || पूजाकालेस्तु मेरुतन्त्रे || चैत्रादयस्त्रयो मासाः प्रसस्ताः पूर्वपूर्वतः | अष्टमी नवमी पूर्णमास्यमा च चतुर्दशी || एतन्मध्ये त्विति || दक्षिणामूर्ति संहितायां तु || चैत्रादयस्त्रयो मासाः पक्षौसितसिते तरौ | एतेषां पूर्वपूर्वस्तु कालस्सर्वोत्तमोत्तमः || महाकालसंहितायां || कालस्तदीयो मुख्येस्तु शुक्लपक्षो मध्योर्मतः | मध्यमो माधवो ज्येष्ठः शुचिस्त्वधम उच्यते || चातुर्मास्ये प्रतिष्ठे तु यः कुर्यादामनं विधिं | न तस्य दुर्मतेः सिद्धिर्विपरीतं च जायते || भूताः प्रेताऽप्रनृत्यन्ति क्षुधा संपीडितोदराः | अस्माकं भाग्ययोगेन चेत् कश्चित् साधकाधमः || सुप्ते जनार्दने कुर्याद् दमनारोपणं विधिं | तदावयं विष्णुंपायो भक्षया मोर्चनं च तत् || अन्तौ वसन्ते शिशिरे ग्रीष्मे कुर्यादमुं विधिं | नैव वर्षासु शरदि हेमंतर्तौ न च प्रिये || तस्मादृतु त्रये पूर्वोदिते दमनकार्चनं | न परर्तुत्र ये कार्यं देवी प्रीतिं विधित्सता || तथा || आद्योत्तरो फल्गुनीभं तिथिश्चापि त्रयोदशी | शुक्लपक्षश्चैत्र मासो योगे वृद्धिस्तथैव च || तथा || तमंतिथिरनंगाख्या तवनाम्ना भविष्यति | त्वामस्यां येर्चयिख्यन्ति गन्धपुष्पादि विस्तरैः || १७६अ) नैवेद्य धूपदीपाद्यैर्गीतपाद्यादि नर्तनैः | अश्लीन वचनाक्षेपैर्मादकद्रव्यभोजनैः || योनि लिंगादि शब्दानां प्रलापै हास्य पारकैः | तत्तदाकार वचनैर्महोत्सव समन्वितैः || त्वस्वरानीप्सितान् दद्यास्तेषाम् मद्वचना स्मर | तत्परेहनि विस्तार्यामत्पूजा मकरध्वजः || दक्षिणामूर्तिसंहितायां || अष्टम्यास्वा चतुर्दश्यां पौर्णमास्या मथापि वा | पूर्वरात्रौ प्रकुर्वीता सद्योवाप्य विसर्जनं || महाकाल संहितायां || अधिवासन कर्मांग भूतं संकल्पमाचरेत् | राशितिथ्यादिकं प्रोच्य वर्तमान तया स्थितं || वार्षिकार्चा समाप्त्यर्थं स्वःकर्तव्यस्य कर्मणः | दमना रोपणस्यांग भूतमधिवासनं || करिष्य इति संकल्प्य पंचायतनमर्चयेत् || दक्षिणामूर्ति संहितायां || आमंत्र्यदमनं चादौ चतुष्कल्प लतादिभिः || चतुष्कल्पलता मन्त्रास्तु || ह्रीं क्लीं ऐं व्लूं स्त्रीं ओं ह्रीं ह्सैं ह्रीं ओं सरस्वत्यै नमः || ह्रीं श्रीं क्लीं द्रां द्रीं क्लीं व्लूं सः || मेरुतन्त्रमते तु || अधिवासनं || कस्याश्चित् प्राग्दिनेसु प्रदोषके || कृतनित्य क्रियः शुद्धौ युक्तऽसामयिकैर्जनैः | दमनस्य समीपन्तु गत्वासन उपाविशेत् || प्राणायाम त्रयं कृत्वा ऋष्यादीन्विन्यसेत् ततः | कामभस्मसमूद्भूत रतिवाष्पजलोद्भव || ऋषिगन्धर्व देवादि मोहनाय नमोस्तुते | सांवत्सरिक पूजायाः परिपूर्णत्व सिद्धये || दमनत्वं समायाहि क्षमस्व च नमोस्तुते | शिवप्रसादसंभूत अत्र संनिहितो भव || शिवकार्यसमुच्छेद्य नेतव्योसि शिवाज्ञया | एवं मदनमामन्त्र्य कामदेवं तथा रतिं || प्रीतिं च पूजयेत् तत्र तत्तन्मन्त्रेण साधकः | १७६ब्) ओं तातः क्लीं कामदेवाय नमश्चेति नवाक्षरः || श्रीं श्रीं श्रीं क्रोंमिति प्रोक्ता रत्यै हृच्चाष्टवर्णकः | रति स्थाने प्रीति पदादयमप्यष्टवर्णकः || ततः स्वगृहमागच्छेद्विति यदि वसे पुनः | कृतनित्य क्रियः स्वेष्ठैर्युक्तो दमन मा व्रजेत् || उत्पाटयेच्छेदयेद्वा स्वमूलस्यास्त्र मन्त्रतः | गृहमानीयतो येन मन्त्रेणानेन सेचयेत् || ओं अघोर ऐं च ओं च घोरे ह्रींमिति कीर्तयेत् | घोरघोरतरे श्रीं च सर्वेभ्यः सर्वसर्वेभ्यः || नमस्तेस्तु रुद्ररूपेभ्य ह्रीं श्रींमिति मनुः स्मृतः | चतुस्त्रिंशदक्षरात्मा दमनन्तं निधापयेत् || पूजास्थाने च पीठादौ नवभागान् दमनानां | कृत्वा चाष्टदलं पद्मं तत्र भागान् प्रविन्यसेत् || दक्षिणामूर्ति संहितायां || ततस्तत् पद्मपूर्वादि पत्रेषु प्रतिपूजयेत् | अष्टाशा अष्टको मन्त्रैरष्ट द्रव्ययुतैः क्रमात् || कामो भस्म शरीरश्च अतंगो मन्मथस्तथा | वसन्तसखनामा च स्मर इक्षु धनुर्द्धरः || पुष्पवाणश्च ताराद्या ते हृदन्ताः प्रकीर्तिता || तथा || चंदना गुरुकर्पूर कुंकुमैर्लपयेच्चतान् | आनन्देशी वीजवर्णैर्विन्दुमद्भिर्नमोन्तकैः || पृथक् पूज्यास्तु तद्वीज सहक्षमलवरयीं | ओं नमो इति मध्यर्चा ह्यस्त्र मन्त्रेण रक्षयेत् || त्रिशूलमुद्रां वध्वाथ भ्रामयेद् दमनोपरि | अस्त्रमन्त्रेणाथ नूतवस्त्रेणाच्छादयेच्चतं || रहसि स्थापयेदेतत् संप्रोक्तमधिवासनं || तथा || पूर्वेद्युर्दमना रामं गत्वासने उपविस्य गुरुगणपति स्वेष्ट देवतां नत्वा कलशं स्थाप्यवर्धनीं स्थाप्य || ह्रीं श्रीं सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हुं फट् स्वाहेत्यनेन वलिं दत्वा पूर्वमन्त्रेण भूतोत्सारण मन्त्रेण भूतमुत्सार्य अघोरमन्त्रेण वर्धनी जलेन सिक्त्वा त्रिशूल मुद्रया भ्रामयेत् || इत्यधी वासनं || १७७अ) अथ पूजादिनकृत्यं || महाकालसंहितायां || ततः प्रभात उत्थाय कृत्वा नित्य क्रियां स्वकां | कृतार्चा संभृतिः पूजा मण्डपं समुपाविशेत् || मूर्ति यन्त्रालयादीनि कुर्यादुज्वलितानि हि | संकल्पं पुरतः कुर्यात् तदनन्तरमीश्वरि || दमनारोप कर्माहं करिष्य इति चोल्लिखेतात् | द्वितीयेह्नि ततः स्नात्वा नित्य कृत्यं समाप्य च || पुण्याह वाचनं कृत्वा दमनं तं समानयेत् | पूजास्थाने प्रकुर्वीत सर्वतोभद्रमण्डलं || तस्याष्ट दिक्षु संस्थाप्या घटाः स्वर्णादि निर्मिताः | मध्येथ वा कुंभमेकमशक्तः स्थापयेत् तथा || तत्रस्थासन पूजादि योगपीठांतमर्चयेत् | तस्य दक्षिणदिग्भागे सिंदूरेणाष्ट पत्रकं || पद्मं कुर्यावृत्तयुग्म वेष्ठितं भूपुरेण च | पंचवर्ण रजोभिश्च कर्णिकायाम शोककं || लिखित्वा प्रार्थयित्वा तं पूजयेच्चन्दनादिभिः | अशोकाय नमस्तुभ्यं कामस्त्रीशोकनाशकः || शोकार्तिं हरमे नित्यमानदंजनयस्व मे | तस्य दक्षिणतस्तादृन्मंडले पूजयेत् पुनः || वरखड्गधरं कलं पंचरंगैर्विचित्रितं | सृष्ट्यादि प्रलयांतो यः कालरूपो महावलः || कलयत्यपि विश्वं यस्तस्मै कालान्मने नमः | अशोकस्य ततो धस्तात्त्रिकोणमंडले शुभे || मद्भकादि ज्ञानात्मान्तं पीठपूजां समाचरेत् | तद्वाह्येष्ट दले प्रोक्ताः शक्त्यष्टक समर्चनं || सौभाग्यां च तथा हृद्यां वृषां चापि धृतिं रतिं | प्रीतिं च संगमां निर्वाणाख्यां मध्ये तु कामुकां || आवाह्य कामदेवं च तद्गायत्र्या तदुत्तरं | का देवाय विद्महे पुष्पवाशाय धीमहि || तन्नोनंगः प्रचोदयात् || कृत्वा प्राणप्रतिष्टान्तं ततो मुद्राः प्रदर्शयेत् | पाशांकुशधनुर्वाणाभिधा ध्यायेत् ततः परं || रक्तांवरं रक्तवर्णं रक्तगंधानु लेपनं | रक्तमाल्यं च तरुणं वामदक्षिणयोर्युतं || १७७ब्) नत्या प्रीत्ये क्षुको दंड पुष्पवाणसधः करे | उर्धं पाशांकुशौ पूज्यौ पूर्वोक्त मनुना त्रयं || रक्तवस्त्र परीधानां सर्वाभरणभूषितां | पद्म द्वयकरां गौर वर्णां ध्यायेद् रतिं शुभां || श्यामवर्णां रक्तवस्त्रां सर्वाभरणभूषितां | तांवूलास्यां भजे प्रीतिं घटपुष्पलसत्करां || अग्रे तु कामदेवस्य वसन्तं परिपूजयेत् | सुधा कुम्भं वामहस्ते दक्षिणे कुसुमाकरं || कदंववनमध्यस्थं रक्तमाल्यां शुकावृतं | ध्यायेद् वसन्तं गौरां सुरूपं लोकमोहनं || वं वसन्ताय हृदयं तस्य सप्ताक्षरो मनुः | पूजाद्यर्थं ततोग्नीश रक्षो वायव्य मध्यतः || चतुर्दिक्षु च षट् दीर्घ युगलं तस्य वीजकं | पठित्वा हृदयादीनि षडंगानि प्रपूजयेत् || तदग्राष्टदले देव मुखतस्तु प्रदक्षिणं | कामं भस्मशरीरं चानंगं मन्मथमेव च || वसंतस्य सखापंच स्मरमिक्षु धनुर्धरं | पुष्पवाणं तदग्रे तु लोकेशाना युधानि च || ततस्तु काम गायत्र्या यथा शक्त्या जपं चरेत् | वसन्तं कामदेवं च श्लोकाभ्यां प्रार्थयेदिति || वसंताय नमस्तुभ्यं वृक्षगुल्मलता प्रिये | सहस्रमुखसंवाह कामरूप नमोस्तुते || नमोस्तु पुष्पवाणाय जगदानंदकारिणे | मन्मथाय जगन्तेत्रे रतिप्रीति प्रियाय च || कामदेवं प्रणम्याथ मूलन्यासं समाचरेत् | आवाहयेन् मध्य कुंभे देवं सांगं च पूजयेत् || आवाहितोसि देवेश सद्यः काले मया विभो | कर्तव्यं तु यथा लाभं पूर्णं पर्वत्वदाज्ञया || इति सावरणे देवं दमनैः पूजयेत् ततः | धूपदीपादिकं दत्वा नित्यहोमं समाचरेत् || द्रव्यैस्तद्देवकल्पोक्तैर्होमस्तु त्रिगुणो जपात् | पूजाशेषं समाप्याथ प्रार्थयेद् देवतामिति || सर्वरूप जगन्नाथ वांछितार्थ फलप्रद | हृत्स्थान् पूरय मे देव कामान् कामेश्वरेश्वर || १७८अ) एवं संप्रार्थ्य देवेशं विसृज्य च गुरुं ततः | द्रव्याद्यैस्तोषयेद्विप्रान् भोजयेदिति तद्विधिः || महाकालसंहितायां || शक्तिपूजा च कर्तव्या दमनारोहणोत्तरं | कृते पुरस्तात् सकलं विफलं जायते प्रिये || अतकार्या शक्तिपूजा दमनारोहणोत्तरं || तथा || स पुष्पदमनञ्चैत्रे तेन चाभ्यर्च्य कालिकां | सप्तजन्म कृतैः पापैर्मुच्यते नात्र संशयः || चैत्र शुक्ल त्रयोदश्यामधिवासन पूर्वकं | आरोप्य दमनं दुर्गा विधिनानेन पूजयेत् || मयोक्तेन वरारोहे तस्य पुण्यफलं शृणु | अश्वमेध सहस्रस्य रोजसूयश तस्य च || तत्फलं समवाप्यासौ देवेवद्दिवि मोदते || तथा || एवं यः कुरुते पूजां दमनारोपणाभिधां | भवन्तिना पदस्तस्यन्मदा चिदपि सुन्दरि || सिध्यन्ति तस्य मन्त्राश्च नारी शाम्वल्लभो भवेत् | सर्वसंपद्युतः श्रीमान् मोदते दिवि देववत् || इति दमनारोपणविधिः || अथ पवित्रारोपणं || तच्च प्रतिवर्षमावश्यकं || मेरुतन्त्रे || पवित्रनामनागायवरोदत्तस्तु शंभुना | पवित्रा रोपणं यैस्तु न कृतं तत्फलं तव || कुर्यान् मिथुनसंक्रान्ते तुलासंक्रमणावधि | आषाढ उत्तमो मासः श्रावणो मध्यमो भवेत् || हीनो भाद्रपदः पक्षः श्वेतः सन्मध्यमोसितः || महाकालसंहितायां || कालो ग्रीष्मः शरद्वर्षा एष मुख्यतमः प्रिये | केचिद्वसन्तमिच्छन्ति कालं माध्यमिकं वुधाः || नैव हेमन्तः शिशिरौ प्रशस्यैते कदाचन || तथा || तच्च कार्पासजं ज्ञेयं शाणम्वा यदृजन्तथा || तथा || सूत्रं द्रव्यमशक्तौ स्याद् देवि कार्या स संभवं | शक्नौ तु कृमिकोषोत्थं पट्टसूत्रं प्रशस्यते || तथा || कृतन्नवगुणं सूत्रमुपवीतमुदीर्यते | १७८ब्) त्रयाणान्तद्धि वर्णानामंशे तिष्ठति सुन्दरि || तदेव सूत्रन्देवानां कण्ठे वहुगुणी कृतं | पवित्रमिति नाम्नेव कथ्यते निगमादिषु || तथा || आम्नाय भेदाद्भिद्यन्ते सूत्रवर्णाः सुरेश्वरि | पूर्वोर्द्ध्वयोस्सितं सूत्रं रक्तसूत्रं तथोत्तरे || पश्चिमेप्यथ पीतं हि अधो दक्षिणयोर्मतं | निलिन्याक्तं भवेत् सूत्रं षडाम्नायेक्ष कर्हिचित् || आम्नायेष्यथ सर्वेषु प्रशस्तंसितमेव वा | कुमारी कर्तितं सूत्रमति प्राशस्त्य कारकं || पतिमत्त्या कृतं मध्यमधमं विध वा कृतं | विप्रक्षत्रार्य जातीनां पत्नीभिरचितं शुचि || आवर्जितं यच्छुद्राभिस्वदशुच्येव कथ्यते | विशेषो ह्यमीषां विहितं पतिहीनया || वेश्यया कर्तितं सूत्रं मेध्यमित्य परेगजुः | रजक्या वाथ मान्त्रिक्या काषाय पदयाथ वा || गोप्यावोप्यथ मुण्डिन्या पवित्रं यद्विनिर्मितं | तत् सूत्र जयवित्रेण सान्वयो नरकं व्रजेत् || तस्मात् सूत्र विनिर्माने यत्नः कार्या विशेषतः | मध्यमस्त्री ग्रहीयस्तु पुम्वारः श्रेष्ठ उच्यते || षण्टाहोधमकल्पः स्यात् तिथीरिक्ता विवर्जिता | सापि भूततिथौ ग्राह्या चतुर्थी भौम एव च || रवौ तु सप्तमी वर्ज्या गुरोवपि || तिथिस्त्याज्या न कापीह भौमेन सहिता यदि | पुत्रक्षत्रस्य योगेन फलाधिक्यं हि जन्यते || तानीन्दु जीव दिन कृद्विश्च?वोनि ऋतिस्तथा | केष्वप्येतेषु पूर्वेद्युः परेद्युरपि वा पुनः || मेरुतन्त्रे || अष्टम्यां च चतुर्थ्यां च चतुर्दश्यां पवित्रकं | नवम्यामपि कर्तव्यं कृतादिषु यथाक्रमं || सौवर्णं राजतं ताम्रं कलौकार्पासजं शुभं | यदृजं तु गृहस्थानां वनस्थानां तु वाल्कलं || पद्मजातं सौगतानां शूद्राणां क्षौमपिष्यते | वटुनां दर्भसंजातं वैश्यानां तु शणोद्भवं || १७९अ) मुंजजातं व्रतस्थानामाविकं समरैषिणां | सरस्तु नवसूत्राणामष्टोत्तर शतैः सरैः || पवित्रं परमं प्रोक्तं तदर्धं मध्यमं स्मृतं | कनिष्ठं सप्तविंशत्यातावदंगुल दीर्घकं || पूजावरणदेवानां तुल्यानि रचयेद्वुधः | षट्त्रिंशद्ग्रंथयः श्रेष्टे चतुर्विंशच्च मध्यमे || द्वादशैव कनिष्ठे स्युरथान्यच्च पवित्रकं | पूजास्थानस्य विस्तारदैष्ये मानं पवित्रकं || अष्टोत्तर शतैर्युक्तं तावतुल्यैश्च ग्रंथिभिः | वितानवन्निवध्नीयात् पूजास्थानोर्धतस्तु तत् || स्कंधाच्च नाभिपर्यंतं दशग्रंथि समन्वितं | क्रमज्ञानां च शिष्याणां पवित्रं तदुदाहृतं || दक्षिणामूर्ति संहितायां || पट्टसूत्रं विशिष्टन्तु कार्यासजनितन्तथा | त्रिगुणं त्रिगुणीकृत्य प्रकाल्यामलवारिणा || पश्चिमास्योद्गतैर्मन्त्रैर्दाक्षिण्यैः शोषयेन्ततः | मन्त्रैरथ पवित्राणि मनोरम्याणि कारयेत् || अष्टोत्तरशतं श्रेष्ठं तदर्धं मध्यमं प्रिये | तदर्धं च कनिष्ठं स्याद् यथा शक्त्याथ कारयेत् || उत्तरास्योदितैर्मन्त्रैर्दशग्रंथिस्तु कारयेत् | विचित्रया चित्रयेत् ताः कुर्कुमादिभिरद्रिजे || पवित्रदानदिवसात् पूर्वद्युरधिवासनं | सद्योधिवासनं वापि कुर्यात् तु परमेश्वरि || रात्रौ सामयिभिस्मार्द्धं नित्यपूजाद्यनंतरं | उर्द्धसिंहासनैर्मन्त्रैस्सूत्रपात्रं तु वामतः || स्थापयित्वास्त्र वर्माभ्यां कृत्वा रक्षावगुण्ठने | दन्तकाष्ठं तथा गंधं भस्मचन्दनमृर्त्तिकाः || सिद्धार्थश्च तथाधात्री फलंवकुलसंभवं | पूर्वोदि दिक्षु क्रमतः पवित्र सूत्र भाजनात् || अश्वत्थ पत्रपात्रेषु प्रक्षिपेत् सिद्धि हेतवे | कुमार सोमस्वाहेश ब्रह्मनाग शिखिध्वजाः || सूर्यः सदाशिवः सर्वो देवताः स्युर्नवामराः | सूत्रेषु पूजयेद् ब्रह्म विष्ण्वीशाश्च त्रिसूत्रके || क्रिया च पौरुषी वीरा गायत्री चापराजिता | विजया च जया देवी मुक्तिदा च सदाशिवा || १७९ब्) मनोन्मनी च नवमी दशमी सर्वतोमुखी | गुण्ठिस्थ देवताः पूज्या उपचारैः समर्चयेत् || नित्याः षोडश देवेशि श्रीविद्यां च स्मरेत् प्रिये || पश्चिमास्योंगतैरित्यादि श्रीविद्या परं अत्र तु मूलमन्त्रेण भूष्णीमेव वा क्षालनं कुर्यात् कुमारः सनत्कुमारः शिखिध्वजो गुहः षोडश नित्यापूजनमप्रिं शीविद्यापरमेव || महाकालसंहितायां || यावत् यो देवतास्सन्ति नित्ये नैमित्तिकेपि च | याश्चावृत्ति परिवाराः पंचायतन संयुताः || अपेक्षितं हि सर्वेषां पवित्रमत्र कर्मणि || तथा || कृतांजलिः पद्यमेनं मन्त्ररूपमुदीरयेत् || त्वं सूचनात् वेदमख क्रियाणां प्राप्तोसिकर्पासजसूत्रसंज्ञां | त्वग्रा विनिर्मायवहुपवीतं दास्येऽमरेभ्यो भवसूत्रपूतं || मेरुतन्त्रे || ग्रंथयो वर्ममन्त्रेण कर्तव्याः प्राग्दिने ततः | तत्रौ सामपिकैः सार्धं पवित्राणि समानयेत् || पूजास्थानेथ सिंदूरं कुंकुमारक्तचन्दनैः | कस्तुरी विधुराक्षाभिर्गैरिकाद्यैर्विचित्रयेत् || ग्रंथिस्थानेषु संस्थाप्य पीठे तन्नवतन्तुषु | देवतां नवकं पूज्य मोंकारश्चंद्रमास्तथा || वह्निर्ब्रह्मा नागगुरूरविश्चापि सदाशिवः | सर्वदेवाश्चाभि पूज्य शिरोमन्त्रेण मंत्रयेत् || अभ्युक्षयेच्च हृन्मन्त्रेणास्त्र मन्त्रेण रोधयेत् | तेषां दशग्रंथिषु च संयुक्ता दशशक्तयः || ताश्च क्रियोदय उक्ताः || तथा || पवित्रेषु ततः पूज्यं मूलमन्त्र षडंगकं | घटेषु निक्षिपेत् तानि गन्धपुष्प युतानि च || सर्वोषधी पंचरत्न युतानि छादयेत् पुनः | वस्त्रयुग्मेन नीलं च वज्रं मुक्त्वा फलं तथा || पद्मरागं मरकतं सर्वौषधि गणस्वयं | रजनी द्वय सिद्धार्थ कुष्ठं सुस्ता प्रियंगवः || १८०अ) लामर्ज शैलफलिनीमुरामांसी च लोध्रकं | वंधयेच्च वितानाद्यं पवित्रं च महत्तथा || कृत्वा न्यासादिकं तत्र प्राग्वत् पूजां प्रकल्पयेत् | कुंभे देवं समावाह्य यजेदावरणैः सह || देवाय मूलमन्त्रेण पवित्रस्य समर्पणं | देवतेभ्यः पवित्राणि दत्वा होमं समाचरेत् || नित्यार्चनाऽनन्तरन्तु नैमित्तिकमिदं भवेत् || महाकालसंहितायां || नैवेद्य धूपदीपानां कर्तव्या भूयसी स्थितिः | आकारणीया यत्नेन स्वस्ववंध्यास्तु देशिकैः || कुसुमैस्तोरणं कार्ये वहिरन्तर्गृहस्य च || दक्षिणामूर्तिसंहितायां || समयित्यश्च चित्राणि कन्यकाभ्यश्च भोजनं | खस्वगुरुं पूजयेद् भक्त्या वस्त्रालंकार गोधनैः || यथाविधि नमस्कृत्य देवीरूपेण चिन्तयेत् | आरोपयेत् पवित्रन्तु वित्तशाठ्यविवर्जितः || गुरुं संपूज्यते यत्र तत्कर्म सफलं भवेत् | सचेन्न पूज्यते यत्र क्रिया सा निःफला भवेत् || गुरोरभावे तत्पुत्रं तदभावे तदंगनां | भार्या भावेर्चयेदन्यं गुरुगोत्र समुद्भवं || कृत्वा पूर्णाहुतिं पश्चादग्नौ दद्यात् पवित्रकं | श्रीचक्रमध्य सिद्ध्यये पूजयेत् तन्निवेदयेत् || मेरुतन्त्रे || मूलेन वह्नयेद्वद्यात्पवित्रं पूजयेच्च तं | संतोष्य च गुरुं पश्चाद् दक्षिणाद्यैः पवित्रकं || दत्वा तस्मै स्विष्ट कृतं हुत्वा पूर्णाहुतिं चरेत् | गुरोरनुज्ञा या कुर्यात् स्वयं पवित्र धारणं || दत्वा सामयिकेभ्यश्च ब्राह्मणान् भोजयेत् ततः | ते भो दत्वा पवित्राणि दीनानाथांश्च तर्पयेत् || १८०ब्) महाकालसंहितायां || यस्य यस्य तु देवस्य यो योर्चावसरो भवेत् | तस्य तस्य तु देवस्य तस्मिस्तस्मिन्वरानने || पवित्रं तस्य दातव्यं तन्मन्त्रोच्चार पूर्वकं || तथा || छागाश्चावश्यकत्वेन दातव्या वलि कर्मणि || तन्त्रे || दिवा नित्यार्चनं कुर्याद् रात्रौ नैमित्तिकं भवेत् || मेरुतन्त्रे || दत्वा च भूयसी पश्चात् स्वयं भुंजीत वाग्यतः | अति स्पष्टोत्र संप्रोक्तः पवित्रा रोपणे विधिः || इति पवित्रारोपणविधिः || अथ शिवावलिः || कुलचूडामणौ || विल्वमूले प्रान्तरेवा श्मशाने वापि साधकः | मांस प्रधानं नैवेद्यं संध्याकाले निवेदयेत् || महाकालसंहितायां || पुराद्वहिर्न्निसि काले महारण्य समीपतः | गृहीत्वा भक्ष्य वस्तूनि पूजा संभृतिमप्युत || आप्तैरनुगतो द्वित्रैः प्रदद्यात् फेरवी वलिं | आमानि पक्वान्यपि च मांसानि विधिनार्प्ययेत् || तत्रोदीची दिग्वदनो वीतभीः शुचिरुर्जितः | प्राणायामं षडंगं च विधायार्घं प्रपूज्य च || उत्थाय मुक्तविकुरः शिवायाकारयेच्छनैः || कुलपू *? गणौ || कालि कालीति वक्तव्यं तत्रो मा शिवरूपिणी | पशुरूपा समायाति परिवार गणैस्सह || भुक्तारौति यदैशान्यां मुखं मुत्तोल्य सुखलं | तदैव मंगलन्तस्य नान्यथा कुलभूषणं || अवश्यमन्नदानेन नियतन्नोषयेच्छिवां | नित्यश्राद्धं यथा सन्ध्या वन्दनं पितृतर्पणं || तथेयं कुलदेवीनां नित्यता कुलपूजने | पशुरूपां शिवान्देवीं योनार्चयति निर्जने || शिवासवेण तस्याशु सर्वन्नश्यति निश्चितं | जपपूजाविधानाअनि यत् किंचित् सुकृतानि च || गृहीत्वा शापमासाद्य शिवारोदिति निर्जने | एकया तुष्यते यत्र शिवया देव भैरव || तत्रैव सर्वशक्तीनां प्रीतिः परमदुर्लभा | पशुशक्तिर्न्नरशक्तिः पक्षिशक्तिश्च भैरव || पूजिता विगुणं कर्म सगुणं कारयेद् यतः | १८१अ) तेन सर्वप्रयत्नेन कर्तव्यं पूजनं महत् || राजादि भयमापन्नं देशाक्तर भयादिकं | शुभाशुभानि कर्माणि विचिन्त्य वलिमाहरेत् || गृह्नदेवि महाभागे शिवे कालाग्नि रूपिणि | शुभाशुभफलव्यक्तिं व्रूहि गृह्नं वलिन्तव || एवमुच्चार्य दातव्यो वलिः कुलजनः प्रिये || महाकालसंहितायां || स्थानादस्मादपसरेत् किंचिद् दूरतरं प्रिये | शिवाय *? त्रीतभया आगच्छत्यम्नसन्निधौ || तत्र स्थित्वा निरीक्ष्येत किं किन्ना भक्षयन्ति हि | सर्वा आगत्य चेत् सर्वं प्रदत्तं भक्षयन्ति हि || विनिर्दिशेत् सर्वसिद्धिं राज्यलाभं धनागमं | यद्यन्ता भक्षयन्त्यन्तं तत् तत्फलमवाप्नुयात् || यद्यच्च नैव खादन्ति तत् तत्रैव फलं लभेत् | कुमारी पूजनादौ तु विशेषस्योपवर्णितः || तेन नात्र व्रुवे देवि कण्ठाधिक्य भयादपि | कुमारी रूपमास्थाय यथा याति महेश्वरी || शिवारूपन्तथा कृत्वा स्वयमायोति कालिका | ततो भक्तिः प्रकर्तव्या तासु यत्नेन साधकैः || शिवासु भक्षयन्तीषु सर्वेभ्यो वलिमाहरेत् | संहारभैरवायादौ वटुकेभ्येस्ततः परं || विनायकेभ्यो मातृभ्यः क्षेत्रपालेभ्य एव च | योगिनीभ्यो डाकिनीभ्यः शिवदूतीभ्य एव च || पुरोक्तो मन्त्र आसां हि तेन तेन वलिं हरेत् | महदैश्वर्य माप्नोति निःशेषं भक्षयन्ति चेत् || अर्धे तु मध्यमासिद्धिरभक्ष्ये तु विपद्भवेत् || कुलचूडामणौ || यदि नो गृह्यते वत्स तदा नैव शुभं भवेत् | शुभं यदि भवेत् तत्र भुज्येते तदशेषतः || महाकालसंहितायां || खादित्वोत्थाय तिष्ठत्सु शिवावृन्देषु तत्र हि | दण्डवत् प्रणमेत् सर्वाः स्वेष्टदेवीधियास्वया || पुष्पांजलिं समादाय गन्धचन्दनचर्चितं | १८१ब्) उत्थाय मुक्तचिकुरो मीलिताक्षो दिगम्वरः || भक्तिशाली वीतभयः किंचित् प्रणत कन्धरः | स्तुतिं कुर्यात् स्तवैरेतैर्वरप्रार्थनपुर्वकं || शिवारूपधरे देवि गुह्यकालि नमोस्तुते | उल्कामुखिललज्जिह्वे घोरे रावे शृगालिनि || श्मशानवासिनि प्रेते शवमांस प्रियेऽनघे | अरण्य चारिण्य नघे शिवे जम्वुकरूपिणि || नमोस्तुते महामाये जगत्कारिणि कालिके | मातंगि कुर्कुटे रौद्रि महाकालि नमोस्तुते || सर्वसिद्धिप्रदे भीमे भयंकरि भयापहे | प्रसन्ना भवदेवेशि मम भक्तस्य चण्डिके || संसारतारणतरे जय सर्वशुभंकरि | विप्रस्तु चिकुरे चण्डे चामुण्डे मुण्डमालिनि || संहारकारिणि क्रुद्धे सर्वसिद्धिं प्रयच्छ मे | दुर्गे किराति शवरि प्रेतासनगतेऽभये || अनुग्रहं कुरु सदा कृपया मां विलोकये | राज्यं प्रयच्छ विकटे वित्तमायुः सुतान् स्त्रियं || शिवावलिप्रदानेन त्वं प्रसन्ना भवेश्वरि | नमस्तेस्तु नमस्तेस्तु नमस्तेस्तु नमोस्तुते || इत्येतैरष्टभिः श्लोकैः शिष्यस्तोत्रमुदीरयेत् | ततस्तच्छेषमन्नं यद्भावनस्वात्म देव वा || सर्वं हि निखनेद् भूमौ प्रयत्ने नैव पार्वति | यदि काकाः स्वराःश्वनो ये चान्ये पाप जानया || भक्षयन्ति तदुच्छिष्टं तदा विघ्नः प्रजायते | रात्रावेव समागच्छे निर्भयो विपिनान्तरान् || आगत्य गन्धपुष्पाद्यैः पुनदेवीं प्रपूजयेत् || कुलचूडामणौ || एवं ज्ञात्वा महादेव शान्ति स्वस्त्ययनं चरेत् | कुलाचारन्दक्षिणाख्यं कथितं तव सुव्रत || न कस्मैचित् प्रवक्तव्यं यदीच्छेछाश्वतं सुखं | निर्जने चैव कर्तव्यं न च मानुष सन्निधौ || किम्वा पक्षिपतंगादि दर्शने नैव कारयेत् | पातालमण्डले वापि षट्करे वा सुयन्त्रिते || निश्छिद्र मण्डपे वापि कर्तव्यम् तवसन्निधौ || इति शिवावलिः || अथ कुमारी पूजा || महाकालसंहितायां || न तथा तुष्यति शिवा वलि होमस्तुतीरणैः | १८२अ) कुमारी पूजने नात्र यथा सद्यः प्रसीदति || न केवलं पूजयेच्छा भोजयेन् वापि यत्नतः || तथाव्यं गता चाप्य करणात् पूजायाः परिकीर्तिता | करणात् सांगतापि स्यादन्यस्मिन् न कृतेपि हि || तथा || कौलानां निशि पूजोक्ता स्मार्तानाम पराह्निकी | नित्या तु शारद्यर्चायां काम्या नैमिर्त्तिकीतरा || सुस्नातां रक्तपीतादि नानारागो ज्वलांशुकां | सर्वालंकार चित्रांगीमज्ञातानंगचेष्टितां || अजातपुंमनस्संगां सप्ताष्ट नववार्षिकीं | अनीचजातिं गौरांगी पितृमातृमतीमपि || अदन्तुरा वाग्दन्तामधिकोनांगवर्जितां | अदीर्घकेशी मुद्रीकां सुस्मिता स्याम लोभनां || श्यामान्दीर्घदतीमोतु नयनां पिंगमूर्धजां | तनु सुतगतिं क्रुद्धां कुब्जां खंजां च खर्वटां || भ्रूकेशाल्यत्व सहितां तथा चैव गलद्व्रणां | जातस्तन रजोनंगां प्रयत्नेन विवर्जयेत् || एतद्भिन्ना कुमारी तु वरणीयार्चन क्रमे || यामले || या कुमारी यजेन् मन्त्री सर्वपर्वसु सर्वदा | तेनार्चिता महादेवी सत्यं सत्यन्न संशयः || संध्यैकवर्षा संप्रोक्ता द्विवर्षा च सरस्वती | त्रिधा मूर्तिस्त्रिवर्षा च चतुरब्दा च कालिका || सुभगा पंचवर्षेयमुमा षड्वार्षिकी भवेत् | मालिनी सप्तवर्षा च अष्टमी कुब्जिका मता || नवाब्दा कालसंकर्षा दशवर्षा पराजिता | एकादशाब्दा रुद्राणी द्वादशाब्दा च भैरवी || तत्परा स्यान् महालक्ष्मीस्तत्परा कुलनायिका | क्षेत्रज्ञा तत्परा प्रोक्ता षोडशाब्दा च चण्डिका || एवं क्रमेण विज्ञेया विना पुष्पं कुमारीका || महाकालसंहितायां || गीतवादित्र निर्घोषैरानन्दादरपूर्वकं | नीत्वा पूजागृहद्वारि कुमारीस्था अयुग्मिका || पंच वा सप्त वा चापि नवैका दश वा पुनः | पंचैकातासुकर्तव्या या स्यात् सर्वांगसुन्दरी || १८२ब्) वह्नीनामप्यभावे हि भवेदेका कुमारिका | काम्ये नैमित्तिके चैका वह्यूः शारदपूजने || श्रेणी भूता उत्थिताश्च नग्नीभूता नना अपि | स्थापयित्वा क्रमेणैता मुख्यामादौ नियोज्य च || देवी वुद्धिं विधायास्यां साधको विगतत्वरः | गृहीतमदिरामत्तः कल्पितार्चन संभृतिः || प्राणायामं विधापादौ ततो भूतापसारणं | गुरुं गणपतिन्तत्वा वामदक्षिणयोस्ततः || मध्ये कुमारीञ्च तथा मूलदेवी स्वरूपिणी | छोटिकाभिस्तथा ताल त्रितयैर्वन्धनं दिशां || तथा || कुमार्या मूलभूताया पादौ प्रक्षालयेत् ततः || तथा || तज्जलं मस्तके दद्याद् देवी पादोदप्रज्ञेया | सोत्तरीयांशुके नैव पादाद्युपनयेत् ततः || पुनरक्षतमादाय विघ्नानुत्सादयेत् प्रिये | उदीर्य मानमन्त्रेण तालत्रय पुरस्सरं || तारपाश कलाकूर्चास्त्राणि प्रथमतो वदेत् | भूतान्यपसारय च विघ्नान्नाशय चेत्यपि || हृच्छीर्ष चरमे दद्यादेकविंशाक्षरो मनुः | कुमार्या सहितास्सवे तया देवी स्वरूपया || दर्शनार्थं समायान्ति यावत्यो देवयोनयः | प्रेताभूताऽपिशाचाश्च गन्धर्वा गुह्यका अपि || राक्षसा दानवायक्षाये चान्ये क्रूरकर्मिणः | सह प्रविश्य कौमार्या मण्डपं शारदार्चनं || ग्लपन्ति च कुमार्यार्चां पूजां विध्वंसयन्ति च | अतो द्वारे द्वयं कार्यं विघ्नस्योत्सारणं प्रिये || ततः स्ववामहस्तेन कुमार्या दक्षिणं करं | गृहीत्वा दक्षचरण विनिःक्षेप पुरस्सरं || पंक्ती भूताः कुमारीस्ताः श्लोकरूपं मनुं पठन् | पूजा गृहान्तः शनकैर्नमन्मौलिः प्रवेशयेत् || त्वमम्वजगतामाद्ये जगदाधाररूपिणि | कुमारी रूपमास्थाय प्रविशेदं गृहं मम || भवत्याः कीदृशं रूपं जाने मातरहं न हि | कुमारी रूपमेवेदं पश्यामि नर चक्षुषा || भक्तिर्मदीयास्विंज्ञायत्वत् पादाम्वुजजा शिवे | त्वया प्रकटितं रूपं मीदृशं सर्वसिद्धये || १८३अ) दृष्टिः कार्या न मे पापे संचारे नाऽसतः पथः | दृढायां केवलं भक्तौ दातव्या सुरवन्दिते || शिवाद्यास्तव रूपं हि कीदृशन्नेति जानते | ज्ञास्यामिको वराकोहं पांचभौतिक विग्रहः || इति पंचपठन् श्लोकान् स्वपृष्ठे नैव तारयेत् | अनीक्षमान एवेशि गीतवाद्य पुरस्सरं || यामले || स्नापिता गन्धतैलेन नानाभरणभूषिताः | आनीय देवता पार्श्वे स्थापनीयाः सुधी मता || महाकालसंहितायां || मुख्यं यत्पूजनं प्रोक्तं मुख्याया एव तन्मतं | तत् पूजयैवतास्सर्वाः पूजिताः स्युर्न संशयः || तथा || वलिन्दत्वा ततो देव यो नित्यः परमेश्वरि | आरभेत निरालस्यः कुमारीन्यासमुत्तमं || तथा || नामान्यादौ खलु महाचण्डयोगेश्वरी मता | ततः सिद्धि कराली च पुनः सिद्धि कराल्यपि || महान्तामार्प्यथ ज्ञेया वज्रकापालिनी ततः | मुण्डमालिन्य वृहासिन्यतो द्वे परिकीर्तितं || चण्डकापालिनी कालचक्रेश्वर्यप्यनन्तरं | गुह्यकाली ततः कात्यायिनी कामाख्यया सह || चामुण्डा सिद्धिलक्ष्मीश्च कुब्जीका तदनन्तरं | मातंगी तदनुज्ञेया चण्डेश्वर्यथ कीर्त्यते || सर्वशेषे तु कौमारी एता अष्टादशेरिताः | अंगान्यतो वच्मि शिरो मुखन्तदनु चक्षुषी || कर्णो नासाउटे चापि कपोलौ तत्परौ पुनः | अधरोष्ठौ दन्तपंक्ति स्कन्धौ हृदयमेव च || वाहु च जठर पृष्ठमुरूजानू तथैव च | जंघे पादौ च सर्वांगंतावन्त्येव स्थलानि च || त्रिशक्तिरत्ने || कलादि च कलान्तंता पूजयेद् विधिनाविधः | उपवेश्यासने दिव्ये कुमारीं साधकोत्तमः || वक्ष्यमानेन विधिना देहे न्यासं समाचरेत् | कुमारीका स्यात् प्रथमा द्वितीया नायिका मता || तृतीया भैरवीख्याता तुर्या वागीश्वरी भवेत् | १८३ब्) पालिकां पंचमी प्रोक्ता संवुध्यन्ताः कुलादिकाः || न्यस्याः पंचांगयोगेन कुमारीणां कलेवरे | वामावर्त क्रमादास्य चतुःकं पूजयेत् क्रमात् || ततः सिद्धा जया पूर्वा जयान्या कुब्जिका परा | कालिका पंचमी प्रोक्ता विज्ञेया वोधिता इमाः || पूर्वादि वक्त्र संयुक्ताश्चतुर्थ्यन्ता नमोन्तका | तत्तत्स्थानेषु विन्यस्याः स्वक्रियाक्रम पूर्वकं || पंचप्रणवयोगेन चैतन्य मनुना सह | न्यासजालं हि पूर्वोक्तं कुर्यात् साधकसत्तमः || महाकालसंहितायां || ततोर्घ स्थापनं कुर्यान्नित्यके यदुदाहृतं | पूजोपकरणस्यापि शुद्धिरुक्ता पुरोक्तवत् || तथा || ततो ध्यानं प्रकुर्वीत कुमार्या वक्ष्यमाणकं || तथा || उपचारांस्ततस्सर्वान् पाद्यादीन् स्तुति पश्चिमान् || यामले || यष्टव्याः पूर्वमार्गेण वक्ष्यमानेन वा पुनः | स्वनामभिश्चतुर्थ्यन्तैष्वि?ताराद्यैर्नमोन्तकैः || देवता पश्चिमे मन्त्री यजेदेताः सुलक्षणाः | आद्या शुद्धा वालिकान्या तृतीया ललिता स्मृता || चतुर्थी मालिनीख्याता पंचमी स्याद् वसुन्धरा | सरस्वती रमा गौरी दुर्गा तु नवमी भवेत् || पंचाब्दन्नववर्षं च यजेद्वालं विचक्षणः | पंचाब्दो वटुकः प्रोक्तो नववर्षो गणेश्वरः || तथा || प्रदद्यादासनं वाचा ह्रिया पाद्यं समर्पयेत् | रमयार्घ्यन्निवेद्याथ स्त्रिया चन्दनमर्पयेत् || कुमारी शक्तिवीजेन प्रदद्यात् कुसुमोच्चयं | चैतन्य मनुना मन्त्री धूपदीपादिकं दिशेत् || तारा एते समाख्याता भृगुर्भव समन्वितः | विन्दुनादसमाक्रान्तश्चैतन्यमनुरीरितः || क्वचिद्भैरव वीजन्तु पंचमः प्रणवो मतः || महाकालसंहितायां || भूषणानि दुकुलानि सिन्दूरालक्तकावपि | कर्जलादर्शविख्यात तालवृत्तानि पेटिका || परिकर्मा धारवोलमंचिका पीठदोलिकाः | पंचालिषा च मंजुषा पादुके कुथ पत्टके || चंद्रातयोपसंद्याने तथोद्वर्तनभाजनं | १८४अ) शययोपधानपर्यंका समुद्रश्च प्रसाधनी || प्रतिग्राहश्च सिंदोला तथा सीमन्तवर्तिका | गोरोचना मृगमदौ कर्पूर कुंकुमन्तथा || एवमादीनि चान्यानि यावच्छक्यानि सुन्दरि | प्रदातव्यानि वस्तूनि कुमारी तुष्यते यथा || तथा || ततो यत् स्थापितं पात्रं कुमार्यै प्रतिपादयेत् | स्वीकुर्यात् सा च तत्रैव तथा यत्नं समाचरेत् || अगृहीते तु तत्पात्रे महान् दोषोऽभिजायते | अतो यत्नस्तथा कार्यः स्वीक्रियेत यथा तया || ततो गृहीत्वा कुसुमाक्षते तस्याः कलेवरे | पंचाशत् संख्यकाः शक्तीः क्रमतः परिपूजयेत् || ता इदानीं प्रवक्ष्यामि सावधाना निशामय | आद्या जया च विजया ऋद्धिदामाययाम्विता || कला च सिद्धिदा सूक्ष्म्य प्रभा स्यात् सुप्रभा ततः | विघ्नता च विशुद्धिश्च नन्दिनी च विभूति युक् || अपराजिता च ललिता लक्ष्मीगौरी तथैव च | अथ मेधा च गायत्री सावित्री च सुधा पुनः || स्वाहेच्छे च क्रिया विद्या प्रज्ञादीप्ता च चेतना | भद्रा ज्येष्ठा तथोमाच शिवा च मुदिता क्षमा || श्रद्धाथ विमला कौमुद्यपि वै विशदा ततः | अशोका ज्ञानदा चैव वलदा राज्यदापि च || मैत्री तनुरुद्राणी भवानी च मृडान्यपि | सर्वज्ञा चण्डिका चापि कुमारी सर्वशेषगा || पंचाब्दात् संख्यका एताः कुमार्याः शक्तय स्मृता | भैरवानष्ट तदनू पूजयेदक्षतादिभिः || भैरवीभ्यस्ततो विघ्न विनायके द्य? एव च | वटुक क्षेत्रपालाभ्यां योगिनीभ्यस्तथैव च || भूतेभ्यः प्रेतयक्षोभ्यो डाकिनीभ्यस्तथैव च | कुर्वीत पूजनेन्देवि कुसुमाक्षतचन्दनैः || पुनरष्टौ सर्वशेषे ङेन्ता देवीं यजेत् प्रिये | महामाया कालरात्री ततो वै सर्वमंगला || पूज्या डमरुकापश्चाद्राजराजेश्वरी तथा | संपत्प्रदा भगवती कुमारी तदनन्तरं || यामले || कुलान्तः पूजयेदेनां कुलकोणेष्विमों यजेत् | १८४ब्) कामेश्वरी च वज्रेशी तृतीया भगमालिनी || उपविष्टा कुलद्वन्द्व कोणेष्वेतास्समर्चयेत् | अनंग कुसुमानंग मन्मथानंग पूर्विका || मदनानंग शब्दाद्या चतुर्थी कुसुमातुरा | पंचम्यनंग मदनातुरानंग पदादिका || शिशिरा कथिता ह्येताः शक्तयो रस संख्यकाः | अनेन विधिना पूज्या कुमारी साधकोत्तमैः || महाकाल संहितायां || समाप्येत्थं कुमार्यर्चां तत्पुरो भुवि वारिणा | वर्तुलं मण्डलं कृत्वा तन्मध्ये कुलकामिनीं || विलिख्य जलकुसुमाक्षत चन्दननागजैः | पूजयेन्मण्डलं तच्च शुभदायै नमो वदन् || स्थाली गतं यत् तत्सर्वमत्तत्तत्र निवेश्य हि | नानाविधां च सामग्रीं हेलचोष्यादि घट्टितां || मांसमीनसुरापूर्णां भक्ष्य चर्व्यादि पूरितं | कुमारी दक्षहस्तं च स्थापयित्वान्न मूर्धनि || उत्तानमुस्यमानेन मनुनान्तं समुत्सृजेत् || तथा || इतरोसां कुमारीत्यां प्रत्येकं पूजनं चरेत् | गन्धपुष्पैर्धूपदीपैर्नैवेद्यैरत्नसंभृतैः || तथा || अन्नानि यादृशान्यस्यै मुख्यायै कल्पितानि हि | अन्याभ्यस्ता दृशान्येव दातव्यान्येष निश्चयः || फलाफलं तु मुख्याया ज्ञेयमत्रविपश्चिता | भुंजाना सुकुमारीषु न तूर्य ध्वनिमाचरेत् || नान्यत्र च मनो दद्यात् सम्वाधन्नैव कल्पयेत् || कोलाहलं निषेधेत अमंगल्यानि योनि चारुदिताया नवा मूढ प्रयत्नेन विवर्जयेत् || सावधानो भवेदत्र किमादौ भक्षयन्तिताः | मिथः किम्वा प्रज्रल्पन्ति कुत्र वाचस्तु निस्पृहा || कुत्र दृष्टिं प्रक्षिपन्ति भीताः किम्वा वदन्त्यसूः | इत्यादि नाना जातीया श्वेष्टां आसां प्रयत्नतः || सावधानतया ज्ञेया भद्रा भद्रस्य सूचकाः | भक्षयन्तीषुता स्वेयं पठेत् तत्स्तोत्र सत्वरं || कृतांजलिर्नम्र शिरा आसामन्वे क्षिपन् दृशौ | जय कालि महाभीमे भीमरावे भयापहे || संसारदावा शिखरे वृजिनार्णवतारिणि | ब्रह्मेन्द्रोपेन्द्रभूतेश प्रभृत्यमरवन्दिते || १८५अ) सर्गपालनसंहार कारिण्य हितमोरिणि | गुह्यकालि परानन्द रसपूरितविग्रहे || परंब्रह्म रसास्वाद कैवल्यानन्ददायिनि | गुणातीतेपि सगुणे महाकल्पान्त नर्तकि || कुमारी रूपामास्थाय विज्ञाप्यज्ञास्वरूपिणी | आगतासिममागारं शारद्यर्चा स्माप्तये || साम्वत्सरिक कल्याण सुचनाय तथैव च | धन्योस्मि कृतकृत्योस्मि सफलं जीवितं मम || यस्मात्वमीदृशं कृत्वा कौमारं रूपमुत्तमं | गुह्यकालि समायाताब्दिक पूजाजिघृक्षया || त्वमेवै तेन रूपेण दैवेभ्यः प्रार्थिता पुरा | दत्तवत्यसि साम्राज्यं वरोनपि समीहितान् || मह्यमप्यद्यदेवेशि वरन्देहि सुपूजिता | ब्रह्मणे सृष्टिसामर्थ्यं त्वं पुरादत्त वत्यसि || विष्णवे च त्वमेवादास्तथा पालन शक्तिता | महारुद्राय संहार कर्तृत्वमददः शिवे || देवेभ्यश्चापि दैत्यानां नाशने दक्षतामपि | अन्तर्यामिन्यसीशानि त्रोलोकीवोसिनामपि || निवेदयामि किन्तेहं सर्वकर्णैक साक्षिणि | शत्रुनाशं राज्यलाभं शरीरारोग्यमेव च || त्वत् पदाम्वुजयोर्भक्तिं या चेहं चतुरो वरान् | नमस्ते भगवत्यम्व नमस्ते भक्तवत्सले || नमस्ते जगदाधार रूपिणि त्राहि मां सदा | मातर्न वेद्मि रूपन्ते न शरीरं नवागुणं || भक्त्या हृत् स्थितया पूजां तवजानाम्य नन्यधीः | त्वं माता त्वं पिता वन्दुस्त्वमेव जगदीश्वरि || त्वं गतिशरणं त्वं च स्वर्गस्त्वं मोक्ष एव च | विहाय त्वां जगन्मातर्नान्यां जानामि देवतां || नमस्तेस्तु नमस्तेस्तु नमस्तेस्तु नमो नमः | एभिः श्लोकैः स्तुतिं कुर्यात् कुमारीणाम्वरानने || दद्यादाचमनीयं हि भोजनान्ते गतत्वरः | ततः प्रदद्यान्ताम्वूलं मृगचन्द्राधिवासितं || सहवाद्यादिभिस्तावदनु व्रज्य विसर्जयेत् | शुभाशुभफलं वच्मि सांप्रतं तव पार्वति || तत्राप्यादौ शुभम्वक्ष्ये विपरीतन्ततोस्य च | तदृच्छिष्टं ततो दद्याज्जम्वुकेभ्योथ भूतले || निखनेदथ वा देवि समलोड्य विसर्जयेत् | १८५ब्) आदौ भक्ते करेदत्ते सुभिक्षं विषये भवेत् || पायसे यजमानस्य पशुवृद्धिः प्रजायते | घृते स्यादायुराधिक्यं पूजामैश्वर्यमृद्ध्यते || तथा मोदकशक्युल्योः सन्ततिर्भूयसी भवेत् | मत्स्यजातिष्वर्थलाभः कृशरेयान संपदः || मांसे तु पुत्रलाभः स्यात् ते मने कामिनी भवेत् | फलं मांस विशेषस्य भिन्नं भिन्नं व्रुवे हि तत् || अर्थलाभस्तु वाराहे खाड्गे? तु विजयोरणे | माहिषेन तु मांसेन राज्यप्राप्तिर्भवेद्ध्रुवं || आरोग्यं हारिणे नाशु कार्ष्ण्यसारेण वाग्मिता | शासे मेधावितां गच्छेद्राज्येप्यजरतामपि || आवेये पलले देवि सर्वकल्याणामाप्नुयात् | कामठे मेदिनी लाबो वह्वन्तत्वं चरोंगवे || वार्ध्नीनसे शत्रुनाशोहांसे मनुजवश्यता | तैत्तिरेऽभीष्ट सिद्धिश्च वर्तके पापसंक्षयेः || मनस्तोषो रसालायां फलेत्स्वोर्चिश्व वश्यता | कीर्तिस्तु महती दाधौ दुग्धे संपदनुत्तमा || पिष्टके तनया वाप्तिः शाके च रिपु संक्षयः | हालायां पुण्य वृद्धिः स्याच्चोष्ये संपत् सुवाग्मिता || धनागमः फाणिते तु कूर्चिकायां वलोन्नतिः | तुम्वी वृत्ताक्त कूष्माण्डकारवेल्लपटोलकैः || घोषसूरणदीर्घांघ्रिमूलकैस्ते मने कृते | विद्यालाभो भवेद् देवि तक्र वाक् पटुतापि च || गोधूमचूर्णघटित वस्तुनि प्रतिभा वने | देव्यान् दृष्टौ भवेन् मोक्षो मण्डपेप्युन्नतिर्भवेत् || चामरच्छत्रयोस्ताल वृन्तपर्यंकयोरपि | घण्टादर्पणयोश्चापि दृग्दाने भूतिरुत्तमा || आकल्या करणयोः स्पर्श चालन दृष्टिषु | नानाविधानि सौख्यानि भवन्ति महितुः प्रिये || एवं विधानि भूयांसि चेष्टितान्यशनानि च | शुभादेशीनि जायन्ते विपरीतान्यतः शृणु || मुख्यभूता कुमारी चेदुन्मतिर्द्वित्रिवारकं | दुर्भिक्षं जायते वश्यं प्रजास्युः पीडिता अपि || राजा विनाशमायाति कुमार्या रोदने कृते | उच्चारे तु महामारी पुरीषे पुरदाहनं || १८६अ) अभोजने शत्रु भयमापदो वहुभोजने | अभाषणे त्वा पदाः स्युर्विपदो वहुभाषणे || उपसर्गा वहुविधाश्चेष्टयाकरपादयोः | अतिलज्जा विनाशाय तथानिर्लज्जता शुचे || नानोत्पातास्तु मौने स्युः स्वापे वान्कोर्चि नाशनं | सर्वनाशस्तु भीतायां क्रुद्धायां मृत्युरेव च || आवेशेतत्क्षणाद्राजा मृयते नात्र संशयः | शंकितायां शत्रुशंका श्रान्तायामीतितो भयं || चिन्तितायान्तु विज्ञेयं तद्राष्ट्रस्यैव पातनं | मोहे वित्तविनाशः स्याज्जाढ्ये पूजा च निःफला || चांचल्ये चंचला लक्ष्मीः पूजकस्यैव जायते | विषादवत्पथ यदि कुमारी तत्र जायते || सरुजं सप्रजं राष्ट्रं तदासीदति पार्वति | रोगेण मृयते राजा यदि रुग्ना प्रजायते || दुर्भिक्षमरकातंकायद्यश्रूणि विमुंचति | सर्वनाशो भवेत् तर्हि धूनोति यदि मस्तकं || त्रस्तायां रिपु तस्त्रात्यस्तस्य राज्ञः प्रदिश्यते | कल्पे सति स्याद् विमुखी कालिका परमेश्वरी || नीचैः शिरश्चेत् कुरुते असन्तुष्टातयेश्वरी | हीनायुः स्यात् तदा पृथ्वीपतिश्चेद्गद्गदस्वरा || पूजकस्य भवेद्दैन्यं व्याकुला यदि जायते | मोहेन व्याकुलायान्तु सर्वन्नगरमाकुलं || पीडितायां भवेद्रोगः स्वेदेदारधनक्षयः | अधोवायुन्त्यजति चेत् कुमारी दैव योगतः || पीडितं परचक्रेण तदा भवति पत्तनं | गीतं गायति चेत्तत्र कुमारी रहिता क्रिया || स प्रजाराष्ट्रतन यदारस्य नृपतेर्मृतिः | सहागताभिष्कदा चिन्मुख्याविवदते यदि || तदा स मायत्य कस्मात् परचक्रं सुदारुणं | यया कयाचित् सार्धम्वा येन केन चिदेव वा || कुमारी भाषतेवीत भयमन्दोक्ष साध्वसा | प्रजायन्ते तदा तस्य विषयेषु षडीतपः || व्यत्या संपदि भक्ष्यस्य कुर्वते करचालनैः | व्यस्तं समस्तं भवति मनसो वांछितं प्रिये || उपायनी कृतं पद्मद्द्रव्यं देव्यै तु पण्डपे | तच्चेत् कराभ्यां स्पृशति कान्दिशीको भवेन् नृपः || निर्वापयति चेद्दीपं कुमारी मुखमारुतैः | वुद्धिभ्रंशो भवेत् तर्हि ज्ञानदीपं च नश्यति || १८६ब्) दैवयोगाद्धि नृत्यन्ति कुमार्यश्चेत् स्वराकुलाः | सराजकः सविषयः श्मशानमिव जायते || वासांस्युत्सृज्य नग्नाः स्युर्यदि तत्र कुमारिका | शत्रुभिर्द्वियते तर्हि राजासमरमूर्धनि || यदि प्य?त्कृत्य कुर्दन्ते करौ धृत्वा भ्रमन्ति च | भूतावेशः क्षितीशस्य जायते नात्र संशयः || उच्चरिष्यासि वृस्ये वा वदतीत्थं कुमारिका | भोजनावसरे तर्हि महामारी भयं भवेत् || वामे वा दक्षिणे वापि चलत्तारक यादृशा | रक्तोग्रया घूर्णयते शिरः स्वस्य कुमारिका || कुरुते वाट्टहासंसाये तत्रस्यन्ति मानवाः | भूतावेशो भवेत् तर्हि प्रेता नृत्यन्ति वा पुरे || दन्तैर्दन्तान् पीडयित्वा कुर्यात् कुटकटारवं | प्रयाति सदरं मृत्योस्सदारसुतवान्धवः || दृशावनिमिषे कृत्वा सन्दश्यौष्ठंरदेन हि | सन्तर्जयति शीर्षं चेत् कल्पयन्त कुमारिका || तदेव फलमुद्दिष्टं यत् स्यात् कटकटारवे | अत्यन्तिकं भजेन्मौनं करेणान्नं स्पृशेन्न च || शिरोत्यर्थं च नमयेदंगुष्ठेन लिखेद् भुवं | विदध्याद्भूतले रेखां करजैर्न्निः प्रयोजनं || संहताभ्यां कराभ्यां च कण्डुयदथवा शिरः | भृणान्य कारणं छिन्द्यादंगुली स्फोटमाचरेत् || पाणिभ्यां मुद्रयेन्नेत्रे द्यैकर्णौपि दधाति वा | कुर्वीत वा वाहुरिकां पार्ष्णि घृष्टिं करोति वा || महान्तं ग्रासमादत्ते मुखं व्यादाय तिष्ठति | अन्नो परिक्षुतन्धत्ते जृंभणम्वा मुहुर्मुहुः || गृहीत्वा पाणिनावान्नं चेतुर्दिक्षु क्षिपत्यपि | उत्थाय वा प्रचलति त्यक्त्वान्तं पूजनं तथा || आयाति वमनम्वास्याः स्यातां रोमाञ्चवे पथू | निर्गच्छतो वा तदगात्रात् पूया स्नेहे तु मन्तरा || अकस्मादेव कुरुते काकुञ्चेत्कारणम्विना | अश्लीनं वल्गुति तथा स्ववन्धार्थे प्ररोदिति || आमुक्तालं कृतीर्मुञ्चेद्गृहं यास्यामि वा वदेत् | यस्य कस्यापि वा कुर्याद् भर्त्संनं तत् स्थले स्थिता || उपालभेत वा कञ्चित् सहैवास्या उपेर्युधी | १८७अ) भिनर्ति वाऽनिदानं सास्वहस्त वलयानि वा || कृते मृतस्य कस्यापि वन्धोः शोचति तत्र सा | यत् किंचिद् वा प्रलयति निर्णिमित्तं कुमारिका || सर्वमेतदमंगल्यं विज्ञेयं त्रिदशार्चिते | दुर्भिक्षं धननाशश्च रोगोमारी भयन्तथा || पदे पदे च विपदः शोकोव्याधी रिपून्नतिः | परचक्रागमे कस्मादग्निदाहः पुरे गृहे || मृत्युत्रासश्च दारिद्र्यं विच्छेदो वन्धुभिस्सहः | भूतप्रेतपिशाचापि निवेशोपि गृहे गृहे || अष्टभिस्तु महारोगैष्प्रजानां निधनं भवेत् | इतस्ततः प्रधावन्ति लोकाभय निपीडिताः || किम्वहूक्तेन देवेशि शिल्प आकालिको भवेत् | इतरेषामल्पभयमयस्तु भयं राज्ञाम्महद् भवेत् || कुमारी चेष्टितद्वाराज्ञायते हि शुभाशुभं | वार्षिकं च फलं राज्ञो जया वाथ पराजयः || मृत्यु दुःखन्धनं सौख्यं शत्रुभीतिर्वलोन्नतिः | राज्यवृद्धिः प्रजापीडा व्यंगताऽनीकसंक्षयः || कुमारी पूजनात् सर्वं ज्ञायते भोजनादपि | परीक्ष्ये यत्नतस्तस्माद्राज्ञा स्वस्य शुभाशुभं || अर्चातोपि विशेषेण भोजनेन सुरेश्वरि | जाते शुभे समीचीनं वृत्ते तदितरत्रहि || काम्यार्चा वहुसंभारैर्दोषन्तज्जन्ति वारयेत् | निवृत्य स्वगृहं याता यदि रुग्ना कुमारिका || तस्मिन्नेवाहनि भवेत् तथापि न शुभं फलं | इत्यादि फलवाहुल्यं शुभस्याप्य शुभस्य च || मया विविच्य कथितं धृय स्वहृदि यत्नतः | ततो निशीथ समये विधिवत् पूजनं ततः || पीठमुर्त्योः प्रकुर्वीत धूपदीपानुलेपनैः | नैवेद्यैरुपहारैश्च गीतवाद्यादिभिस्तथा || यामले || कुमारी पूजिताहन्ति कलुषं सर्वसंचितं | कुमारिकां वीजानीयात् साक्षात् प्रकृति रूपिणीं || पत्रं पुष्पं फलं तोयं यत् किंचिद् वस्तु शोभनं | अनन्त फलदं प्रोक्तं कुमार्यै चेत् समर्पयेत् || भोजिता चेत् कुमारी स्याद् भोजितं भुवन त्रयं | ब्राह्मणाय सुशीलाय कुमारी यस्समर्पयेत् || १८७ब्) पृथिवी दानजं पुण्यं सोश्नुते नात्र संशयः | सर्वसिद्धिमवाप्नोति यः कुमारीं समर्पयेत् || वसन्ति सततन् देहे कुमार्या योगिनी गणाः | अतः पूज्या नमः स्यास्याज्जालनीया तदिच्छयाः || अशक्त्या पूजयेदेकां कुमारी साधकोत्तमः | विना कुमारिका पूजां न पर्वपरिहापयेत् || योनित्यमर्चयेदेतां तस्य स्यात् सिद्धिरुत्तमा | नवरात्रौ समायाते नवम्यन्तं निशीतधीः || नानोपचारैरभ्यर्चेत् कुमारी वृद्धिपूर्विकं | वृद्धिक्रमेण प्रयजेद्वांछितां सिद्धिमाप्नुयात् || अथवा पूजयेन् मन्त्री युवतीर्न्नवसंख्यकाः | हृल्लेखा गणनारक्ता महोच्छुष्मा करालिका || इच्छाज्ञाना क्रिया दुर्गा नवनामभिरीरिता | पूर्ववत् पूजयेन्मन्त्री जयेत् साग्रं सहस्रकं || यदि साक्षोभमायाति स्वयमेव विलासिनी | तया सह नयेद्रात्रिं वा सरम्वा निशीतधीः || कुमारीन्न स्पृशे देव भावयुक्तेन चेतसा | अन्यथा मृत्युमाप्नोति नोचेदेवी पराङ्मुखी || इति कुमारी पूजाविधिः || कुमारी पूजननन्तरं शिवा वलिदानमिति संप्रदायः || शिवावलिस्तु नित्यस्तत्रैवोक्र त्वात् || अथ प्रायश्चित्तं || त्रिशक्तिरत्ने || निषिद्धा चरणे पुंसां विहिता करणे तथा || प्रायश्चित्तोपपातःस्यादिति || तन्त्रराजे || सर्वेषामेव पापानां संकरे समुपस्थिते | प्रायश्चित्तं विजानीयादयुतं मंत्रजापतः || नित्यादि क्रमदोषणां शान्त्यै विद्या शतं जपेत् | नैमित्तिकाति क्रमणे सहस्रं प्रजपेन् मनुं || लिंगागमे || शृणु देवि प्रवक्षामि प्रायश्चित्तविधिन्तत | गुरुत्यागकरः शिष्यः प्रायश्चित्ती भवेद्ध्रुवं || लक्षं श्रीपादुकां जप्त्वा तस्मात् पापाद्विशुद्ध्यति | मन्त्रत्यागकरो यस्तु तत्संगं वर्जयेत् प्रिये || लक्षमेकं जपेन्मन्त्रं होमतर्पणतः शुचिः || श्रीपादुकां गुरुपादुकां न्योगस्तु कौलिकस्यैव गुरोः कौलिकानां निसिद्धः न तु कौलकत्वस्यापि || १८८अ) तथा हि यामले || मधुलोभाद्यथ भृंगः पुष्पापुष्पान्तरं व्रजेत् | गुरुलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् || गुरोः पशोः गुर्वन्तरं कुलीनं एतच्च | यदि दैवात् पशोर्विद्या लभ्यते कुलजैन्नरैः || द्विजन्तु कौलिकं प्राप्य पुनर्विद्यामुपालभेदिति वचनेन सुतरां व्यक्तं एवं पशुनामपि पशु गुरु त्यागे || दोषो वोध्यः लक्ष जपस्तन्मन्त्रस्यैव होमो जपदशांशेन तर्पणन्तु होमदशांशेन अन्यत्र तथा दर्शनात् मन्त्रोप्य दुष्ट एवात्याज्यः दुष्टस्त्याज्य एव शकलो वीज हीनस्तु सन्दिग्धो निन्दितस्तथा || मनवस्तु न सिध्यन्ति गुरुः स्याद्ब्रह्मघातकः | तदा तं सहसा ज्ञात्वा मन्त्रं देवं गुरुं त्यजेत् || शकली दोषास्तूप लक्षण मात्रं अन्येपि तत्र तच्छास्त्रोक्ता वोद्धव्याः अदुष्टमन्त्रत्यागे क्षमस्वमातस्तत् पापं हरे देवि कृपां कुरुः || इति क्षमाप्यतामेव विद्यां गृह्नीयादिति विशेषः || तथा || अनेकधापशोरन्नं भुंजते ये तु कौलिकाः | लक्षत्रयं जपेल्लापां लक्षम्वाप्य जपां जपेत् || होमयेद्धे विषान्नेन निष्पापः स्यात् तथा ध्रुवं || अनेकधा वर्षपर्यन्तं अत्रापि होमदशांशतैव तर्पणादौ तु न प्रमाणं || तथा || एकपात्रे पिवेद् द्रव्यं वीरो माहेश्वरो यदि | श्वानोच्छिष्टं भवेत् पानं प्रायश्चित्तं स कौलिकः || गायत्र्यास्तु सहस्रेण उपवास त्रयेन च | सम्यक् शोधित चित्तस्तु सुवर्णं गुरुवे ददेत् || गायत्री स्वदेवता गायत्र्येव || मंत्र्यार्णवे || वलात् स्वरसतो वापि योरमेन्मन्त्रमातरं | दशलक्षं मनुं जप्त्वा तु या नलं समाचरेत् || मन्त्रमाता गुरुशक्तिः गुरुस्त्रि गुरुरेव वा | मन्त्र पुत्र्याः स्वपुत्र्याश्च भगिन्याश्च कुलस्त्रियः || रमणाल्लक्ष जापेन पूतो भवति कौलिकः || मन्त्रपुत्री पुत्रित्वेनः कृतोपदेशा शुध्यर्थं स्वभोग्याया || अप्युपदेशाभिधानात् || कुलस्त्री वीरपत्नी तद्गमनञ्च तत्रानुज्ञैव दोषायेति || १८८ब्) ब्रह्मयामले || कृत्वा वीरवधं मन्त्री वृथापानगुरोः स्तुषां | मन्त्रपुत्रीम्वीरपत्नीं रमित्वा लक्षमा जपेत् || इदं चात्य कृष्टनाममात्र वीर विषयं एवञ्च त्रयोदश सहस्रन्तु दिव्यवीरवधं जपेदिति | अकामकृत वधविषयं वधानुकूल व्यापारविषयम्वा || आततापि विषयम्वा || तथा || अनस्थि प्राणि संघातं हत्वा च नरकं व्रजेत् | हत्वा च पक्षिणस्सर्वान् स्त्रियं चैकादशं जपेत् || एकादशं शतं अनस्थि प्राणिसंघातं जलौकादि स्त्रियन्तेषामेव | एकादशमित्यमुखारस्तान्त्रिकाः || तथा || सर्पमार्जारनकुलमूखमुष्ट्रखरं हयं | गजान्वाथ मृगान् सर्वान् हत्वा चाष्टशतं जपेत् || जपेदष्ट सहस्रन्तु क्षुद्रजन्तु वध कृते || अष्टसहस्रं अष्टोत्तरसहस्रं क्षुद्रजन्तु वध उक्तभिन्ना च्छागादयः || यत्तु छागादि हनने जप्यास्त्रि सहस्रमिति तन्त्रान्तरे उक्तं तदभ्यास कृत विषयं || त्रिशक्तिरत्ने || वलिदानम्विनामन्त्री पातयेन् न पशून् क्वचित् | अन्यथा स्मार्तु मुदितं प्रायश्चित्तम् मनीषिभिः || तथा || गोवधे दशभिर्लक्षैम्मुच्यते नरकार्णवात् | लक्षै द्वादशभिर्मन्त्री वृषं हत्वा विमुच्यते || गुरुं हत्वा प्रमादेन पंचलक्षैर्भवेच्छुचिः || इदं चोद्यममात्र परं वधे तु प्राणान्तिकस्यैवोक्त त्वात् || तथा || दशभिः कोटिभिर्मन्त्री स्त्री वधात् प्रविमुच्यते | नक्ताशीख्यापय न पापं पीठक्षेत्रे परिभ्रमेत् || प्रमादात् पतिते विप्रे लक्षैर्विंशतिभिः शुचिः | छत्रादयो यथोक्तेन मुच्यन्ते किल्विषादितः || यथोक्तेन ब्राह्मणा पेक्षया यथाक्रमं द्वैगुण्याद्याधिक्येन || तथाहि तत्रैव || ब्राह्मणस्य वधे लक्षं क्षत्रिये द्विगुणं स्मृतं | १८९अ) वैश्ये त्रिगुणमुद्दिष्टं पादजे च चतुर्गुणं || अत्र लक्षम्वध इत्युभयमप्युपलक्षणं || यस्मिन् पापे विप्रस्य प्रायश्चित्तं तस्मिंस्तद्वर्णस्य तदाधिक्यमिति || अर्हद्वौधा वधे मन्त्री खाप्तिलक्षं मनुं जपेत् || अर्हद्वौद्धा आर्हतो पासकावौद्धाः खाब्धिलक्षं चत्वारिंशल्लक्षं || तथा || वभ्रोश्च शूकराणाञ्च वधे पंचसहस्रकं || जपेदित्यनुषंगः वभ्रूर्नकुलः || तथा || यक्षिणां हनने मन्त्री द्विसहस्रेण शुध्यति | सर्पमार्जारमत्स्यानां वधे वेदसहस्रकं || देवद्रोहाद्गुरुद्रोहात् त्रिंशत्कोटिम्मनुं जपेत् || पक्षीणां सर्पमार्जारयोश्च प्रायश्चित्त ह्रासोऽकामकृत विषयः द्रोहो मरणाऽनुकूल व्यापारः एतच्च गुणवद् गुरुविषयं || तथा || देवद्रव्यं गुरुद्रव्यं भुक्त्वा तावत् मनुं जपेत् || भुक्त्वा तदनुज्ञया तावत् त्रिंशत् कोटिं || तदनुज्ञा विप्लवयोस्तदर्थं जपमाचरेत् विप्लव उद्वेगः || निन्दने समयानां च योगिनी वीरयो शिव | शास्त्राणां मन्त्रिणां स्त्रीणां सहस्रं जपमाचरेत् || वामदक्षिण सिद्धान्ते शैव व्रतधरे हते | चतुःकोटि मितं मन्त्री जपन् शुध्यति किल्विषात् || आर्घादि निन्दने मन्त्री दशावर्तेन शुध्यति | अर्घामृतं पिवेत् पूर्वं देवीमुत्थापयेत् ततः || पशुपानं भवेत् तस्य तत्क्षयो लक्षतो भवेत् || अर्घामृतं विशेषार्घामृतं || अनिवेद्य भुंक्ते प्रजपेत् स शताष्टकं || अनिवेद्य देव्यनुज्ञामगृहीत्वा || तथा || वीरपत्नीं वृथापानं वीरपुत्रीं स्थू?षां तथा | प्रायश्चित्तं चरेन् मन्त्री दिव्यवीरार्चनादिकं || दीपनाशे पात्रनाशे पात्रप्रस्खलने तथा | पूजयित्वा महादेवीं जपेदष्टोत्तरं शतं || अज्ञानादेतदुच्छिष्टं जानतो द्विगुणं भवेत् | इदन्तु कामतो द्वैगुण्यं सर्वत्र वोध्यं || १८९ब्) भूतभैरवे || भग्नं च स्फुटितं यन्त्रं हृतं चौरेण वा प्रिये | उपवासं प्रकुर्वीत दिनमेकमतन्द्रितः || लक्षमात्रं जपेद् विद्यां होमतर्पणपूर्विकां | संभक्त्या च गुरुन्तोष्य ब्राह्मणानपि भोजयेत् || कदा विज्ञप्त चिह्नम्वा स्फुटितादि विभूषणं | भग्नं करोति यो मर्त्यो मृत्युस्तस्य भवेद्ध्रुवं || तस्मात् स तीर्थराजे वा गंगादि सरिताम्वरे | समुद्रे वा क्षिपेद् देवि अन्यथा दुःखमाप्नुयात् || इति प्रायश्चित्तं || कुलचूडामणौ || पर्वते विपिने चैव निर्जने शून्यमण्डपे | चतुःपथे कलामध्ये यदि दैवाद् गतिर्भवेत् || कुलं ध्यात्वा मनुं जप्त्वा नत्वा गच्छेद् यथा मुखं | कलामध्ये प्रमदामध्ये कुलं इष्टदेवतां || पुरश्चरणकारे तु यदि स्यात् पीठदर्शनं | तदा तत्र पीठपूजा मनसापि न हीयते || देवीकूटे महाभागामोड्डियाने च हैरव | योगनिद्रां कामरूपे महिषासुरमर्दिनीं || कात्यायनीं कामभूमौ कामाख्यां कामदायिनीं | जालन्धरे च पूर्णेशीं पूर्णशैले च चण्डिकां || कामरूपान्तु चौहारे पूज्यादिक्करवाहिनी | अथवा कामरूपस्य दर्शनं यदि भाग्यतः || तदाभगादि देवीनां पूजा तत्र विधीयते || तथा || प्रथमं साधकश्रेष्ठो देवीकूटस्य मस्तके | विलिख्य यन्त्रं पूर्वोक्तं पूजयेत् कुलवर्त्मना || पीठादि देवीं प्रथमे पूजयेंद्गन्धपुष्पकैः | महाभागास्ततो मूल देवीमावरणैस्सह || लक्षैकं तत्र जप्त्वा तु उड्डियानं ततो विशेत् | तत् पीठे योगनिद्राख्यां पूजयित्वा ततो यजेत् || निजेष्ठ देवता मन्त्रं जपेल्लक्षं समाहितः | कामरूपं ततो गत्वा ततः कात्यायनीं यजेत् || जप्त्वा लक्षं ततो नाभौ कामाभ्यां प्रथमं यजेत् | ततो जालन्धरे गत्वा पूर्णेशीं प्रथमं यजेत् || तत्रापि लक्षसंख्यातं जप्त्वा मन्त्रं समाहितः | ततः पूर्णगिरौ गत्वा यजेच्चण्डीन्ततो जपेत् || कामरूपान्तरे वत्स कामाख्यां प्रथमं यजेत् | १९०अ) तत् प्रान्ते च महादेवि यजेद् दिक् करवाहिनीं || एवं पीठेश्वरीमिष्ट्वा पूजयित्वेष्ट देवतां | सप्तपीठे सप्तलक्षं जपेद् रात्रौ समाहितः || पीठानां परमं पीठं कामरूपं महाफलं | तत्रया कृयते पूजा सकृद्वापि महेश्वरि || विहाय सर्वपीठानि तस्य देहे वसाम्यहं | तस्माच्छत गुणं प्रोक्तं कामाक्षा योनिमण्डलं || इति श्री आद्यानन्दविरचितायां कुलमुक्तिकल्लोलिन्यां पंचदशः पटलः || अथोक्त जपोपयोगिमाला विधानं लिख्यते || मेरुतन्त्रे || अथ मालां प्रवक्ष्यामि द्विविधा सास्थिराचला | स्थिरा तु स्थिर चित्तानां चंचलाचलचेतसां || एतस्या मन्त्र जपे तु वीरस्य दन्तमालासुष्या || तद्धक्तं कालीतन्त्रे || दन्ताक्षमालया चैव राजदन्तेनमेरुणा || जपेदित्यर्थ || द्वादश पटलेपि || दन्तेन कालिका यास्तु मालोक्ता भुवि दुर्लभा || मुण्डमालायां || नाडीभिर्ग्रथिता माला महासिद्धिं प्रदापयेत् | नरांगुल्यस्थिभिर्मालां ग्रथिता पर्वभेदतः || सर्वसिद्धिप्रदा मोक्ष पापिनी वरवर्णिनि | नाड्यासंग्रथनं कार्यं रक्तेन वाससा अपि || सदा गोप्या प्रयत्नेन मातुश्च जारवत् प्रिये || त्रिशक्तिरत्ने || महाशंखमयी माला पंचाशन्मणि निर्मिता | रहस्य माला संप्रोक्ता गोपनीया प्रयत्नतः || तदभावे तु कस्यापि कर्तव्याऽवयवस्य वै || महाशंखो वृशिरोस्थि तच्चादग्धं विहितमिति रहस्य विदः || यामले || नरेभाश्चोष्ट्रमुण्डानां छिन्नानां रणसंकटे | मालाम्वै कारयेद् वृत्तां महाविद्या सुसाधकः || तदभावे स्फाटिकी स्यात् माला सर्वत्र सिद्धिदा || मुण्डमालायां || अंगुष्ठया अक्षमालां चालयन्मध्यमाग्रतः | अशुचिन्न स्पृशेदेनां करभ्रष्टान्त कारयेत् || १९०ब्) अथ वर्णमयी माला || तदुक्तं महासिद्धेश्वर तन्त्रे || मालाविधानं परमं शृणु पार्वति तत्वतः | येन विज्ञानमात्रेण मन्त्रा सिध्यन्ति तत्क्षणात् || अनुलोम विलोमेन मन्त्रमातुर्विभेदतः | मन्त्रेणान्तरितान् वर्णान् वर्णेनान्तरितं मनुं || कुर्याद्वर्णमयीं मालां सर्वमन्त्र प्रदीपिणी | चरमार्णमेरुरूपं लंघयेन्न कदाचन || एतत् परम रहस्यं कथितं ते कुलेश्वरि | त्वया गुप्ततरं कार्यं नाख्येयं यस्य कस्यचित् || त्रिशक्तिरत्ने || अथवा मातृकामर्या मालया प्रजपेद् वुधः | एकैकं वर्णमुच्चार्य वर्णेनान्तरितं जपेत् || सुधीरेवं लकारान्तं तत आन्तं समानयेत् | मेरुरूपं क्षकारं हि साधको नैव लंघयेत् || मेरुतन्त्रे || अकारादि क्षकारान्तैर्विन्दुमन्मातृकाक्षरैः | अनुलोम विलोमस्थैः कॢप्तया वर्णमालया || प्रत्येक वर्णयुग्मन्त्रा जप्ताः स्युः सर्वसिद्धिदाः | अर्थाद्या अपि किं चान्ये प्रोक्ते यं स्थिरमालिका || अकारादि क्षकारान्ता प्रोक्ते यं त्वक्षमालिका | जपे चाष्टोत्तर शते पुनर्वर्गार्ण योजनं || चलेति || मुण्डमालायां || अनुलोम विलोमस्थ कॢप्तया वर्णमालया | आदिवर्ण क्रमेणैव लान्तं च परमेश्वरि || क्षकारम्मेरु रूपन्तु लंघयेन्न कदाचन | मेरु हीना च या माला मेरुं लंघा च या भवेत् || अशुद्धा तु भवेदत्र सा माला निःफला भवेत् | चित्रिणी विसतंत्वा भावह्मनाडी गता तु या || तया संग्रथिता ध्येया सर्वकामफलप्रदा | अष्टोत्तरशते जप्ते त्वादौ क्लीवं समुच्चरेत् || ऋ ॠ ऌं ॡं वर्णचतुष्टयं क्लीवं प्रचक्षते | वर्णाणामष्टकम्वापि काम्यभेदक्रमेण तु || अ क च ट त पयशा इत्येवं चाष्टवर्गकं | अष्टोत्तर शतजपे कर्तव्ये क्लीव चतुष्टयमादौ || उच्चार्य विलोम समाप्तावपि तच्चतुष्टयं विलोमेन जपेदित्येकः कल्पः || १९१अ) अनुलोम विलोमाभ्यां पंचाशद्वर्णानुच्चार्य शेषे अष्टवर्गाक्षरान्युच्चरेदिति अपरः कल्प इत्यर्थः || तन्त्रान्तरे || अन्तर्विद्रुमभासमान भुजगी सूत्रोप्त वर्णो ज्वलां आरोहामचरो हि कांशतमयीं वर्गाष्टकाष्टोत्तरां || सक्षं ब्रह्ममयीं सुमेरु शिखरीं श्रीमातृकाक्षावलीं विद्यां नौमि समस्तमन्त्र जननीं ज्ञानैक दीपांकुरां || इति वर्णमाला ध्यानं || यामले || सविन्दुं वर्णमुच्चार्य पश्चान्मन्त्रं जपेत् सुधीः | क्षं मेरुं कल्पयित्वा तु जपेत्तान्नाभिलंघयेत् || क्षं सकृदेव मेरुत्वेन शुद्धमुच्चरेत् || न तु तदुत्तरं मन्त्रमुच्चरेदित्यर्थः || तन्त्राकुलमूलावतारे सारसंग्रहे च || ब्रह्मनाडी गतानादिक्षान्ता वर्णान्विभाव्ये च | अर्णविन्दुयुतं कृत्वा श्रेष्ठं मन्त्रं जपेत् सुधीः || अकारोदिषु संयोज्य तथाकादिषु च क्रमात् | आर्णमेरुमथो तत्र कल्पयेज्जगदीश्वरि || तदा लिपिर्भवेदक्ष मालार्द्धशतसंख्यया | अनया सर्वमन्त्राणां जपः सर्वार्थसाधकः || तथा || अकारादि क्षकारान्तं पंचाशन्मणि सूत्रकं | क्षकारं मेरु संस्थाने लकारादि विलोमतः || वर्गाष्टक विभेदेन शतमष्टोत्तरं भवेत् | एकैकान्तरितं मन्त्रं जपेदेवं फलप्रदं || अनुलोम विलोमस्थैः कॢप्तया वर्णमालया | प्रत्येक मन्त्रार्ण युता जप्ताः स्युः शीघ्रसिद्धिदाः || वैरिमन्त्रा अपि नृणामन्ये मन्त्राश्च किं पुनः | तेनात् पत्राक्ष माला पदप्रयोगो गौणः || तथा || पंचविंशतिभिर्मोक्षस्त्रिंशर्भिर्द्धन सिद्धयः | सर्वार्थास्सप्तविंशत्या पञ्चदश्याभिचारिकं || पंचाशर्भिष्कर्मसिद्धिः स्यात् तथा चतुरुत्तरैः | अष्टोत्तर शतैस्सर्व सिद्धिरक्षैः कृत स्रजा || तथा || अष्टोत्तर शतैर्माला पंचाशच्चतुरुत्तरैः | सप्तविंशतिभिश्चाक्षै सर्वसाधारणो जपः || १९१ब्) मेरुतन्त्रे || अथवा कथ्यते मालाभिचारे तिथिसंख्यकैः | मुक्त्यर्थं पंचविंशत्या स शंख्यैः सर्वदा जपेत् || त्रिंशद्भि धर्मवृद्धिः स्याच्चतुःपंचाशतेप्सितं | शतात् साम्यं तथाष्टाधि शतात् सकलसिद्धयः || अथ करमाला || तत्रैव || अथवांगुलि मालाभिर्जपं कुर्यात् तदुच्यते | अनामा मध्यमारभ्य कनिष्ठानुक्रमेण तु || मध्यमा मूलपर्यन्ता करमाला प्रकीर्तिता | मध्यमानामिका मध्य पर्वयुग्मं प्रकल्पयेत् || मेरुं वा नामिका मूलात् कनिष्ठानुक्रमेण च | तर्जन्यग्रादितो मध्यान् मूलान्तं दशसंख्यकाः || मन्त्रतन्त्रप्रकाशे || अंगुली जपसंख्याने जपमेकगुणं स्मृतं | रेखास्वष्टगुणम्विद्यादक्षैश्च शतसंगुणं || तत्रांगुलि जपं कुर्वन् सांगुष्ठांगुलिभिर्जपेत् | अंगुष्ठेन विना कर्म कृतन्तन्निःफलं भवेत् || अंगुली पर्वभिर्मन्त्रं जपन्नित्यं प्रकल्पयेत् || तथा तन्त्रान्तरे || अनामिका द्वयं पर्व कनिष्ठादि क्रमेण तु | तर्जनी मूल पर्यन्तं करमाला प्रकीर्तिता || तथा || आरभ्यानामिका मूलात् प्रदक्षिण क्रमेण तु | मध्यमामूलपर्यन्तं जपेदष्टसुपर्वसु || अनामा मध्यमं पर्व मेरुं कृत्वा न लंघयेत् | इदं चाष्टोत्तरशतसंख्य जप विषयं || तन्त्रान्तरे || अनामामूलमारभ्य प्रादक्षिण्य क्रमेण तु | तर्जनी मूलपर्यन्तं जपेन्नवसु पर्वसु || मध्यमा त्रितयं ग्राह्यमनामामूलमेव च | अनामा मध्यमं चैकं मेरुं कृत्वा न लंघयेत् || तर्जन्यग्रे तथा मध्ये योजयेत् तत्र मानवः | चत्वारि तस्य नस्यन्ति आयुर्विद्या यशोवलं || इदं च द्वादशा वृत्या अष्टोत्तरशतसंख्य जप परं || सुन्दर्यान्तु यामले || अनामा मध्यमायाश्च मूलाग्रं तु द्वयं द्वयं | कनिष्ठायाश्च तर्जन्यास्त्रयं पर्व महेश्वरि || अनामा मध्यमायाश्च मेरुः स्याद्वितयं शुभं | प्रदक्षिण क्रमाद् देवि जपेन्त्रिपुरसुन्दरीं || १९२अ) वैष्णवादौ तु सनत्कुमार संहितायां || अनामा मध्यमारभ्य कनिष्ठादित एव च | तर्जनी मूलपर्यन्तं दशपर्वसु संजपेत् || तथा || अंगुलीर्न वियुज्जीत किंचित् संकोचयेत् तलं || मेरुतन्त्रे || अंगुलीर्न चियुंजीत जपकाले कदाचन | अंगुलीनां वियोगेन छिद्रेषु श्रवते जपः || नोल्लंघयेच्च गणनां किंचित् संकोचयेत् नलं | न दर्शयेत् करं नोचेत्फलं गृह्नंति राक्षसाः || मुण्डमालायां || नित्यं जपं करे कुर्यान् न तु काम्यं कदाचन | काम्यमपि करे कुर्याद् यदि माला न विद्यते || न विद्यत इति न विहितास्तीत्यर्थः || अत एव कुलामृते || वुद्धिरूपा यदा देवी मनः पीठेऽर्चनं तदा | पूर्वमेव मया प्रोक्तं महामन्त्रे विशेषतः || वर्णमर्यामनोमर्घ्य जपो मानस उच्यते | मालया देवदेवेशि मोक्षदः कामदस्तदा || चितिरूपा यदा देवी कुलकुण्डलिनी परा | यन्त्रे पूजा तदा ज्ञेया होमः कुण्डे विधीयते || मण्यादि गुटिकामयया जपश्चैवाक्षमालया | उपांगुः स्यान् महादेवि शीघ्रसिद्धिप्रदायकः || योनिरूपा यदा देवि पूजयेद् योनिमण्डले | होमस्तत्रैव देवेशि मैथुनेन विधानतः || जपः कार्यो महेशानि तथैव करमालयेन्मुक्तः || कुलमूलावताले || मणयः शंखसंभूताः प्रोक्ता लक्ष्मी प्रदायकाः | भुक्तिप्रदाः स्फटिकजाः पद्माक्षाः पुष्टिवर्धनाः || भुक्तिमुक्तिप्रदाः पुण्या रुद्राक्षास्सर्वसिद्धिदाः | पुत्रजीव भवाः पुत्र पशुधान्यद्धि सिद्धिदाः || विद्रुमोत्थाश्च मणयो धनसौभाग्यवश्यदाः | मौक्तिका मुक्तिदाः प्रोक्तास्तथा सर्वसमृद्धिदाः || पापापहः कुशमयाः कामदा स्वर्णरूप्यजाः || मेरुतन्त्रे || समस्तसिद्ध्यैरुद्राक्षा मनयोधनदामताः | गतस्वाप्तिकरः शंख्ये भोगकृत् स्फटिको मतः || पुत्रप्रदाः पुत्रजीवाः पद्माक्षाः पुष्टिवर्धनाः | १९२ब्) विद्रुमोस्था वश्यकरा मौक्तिका मौक्तिदा मताः || पापापहाः कुशमयाः स्वर्णजाः कामदायकाः | कामवृद्धिस्तारजातैरिंद्राक्षैः स्यांद्गतं पदं || स्त्रीवश्यार्थं हरिद्रायादार्याः पुरुष वश्य कृत् | ज्वरहर्त्री तु लाक्षायाः खड्गस्य पितृतृप्तिकृत् || अर्कस्योच्चाटने कार्या श्रीफलैर्ज्ञानसाधने | गजदन्तस्य सर्वार्थं मोहने ताम्रजा मता || मारणे चापसी प्रोक्ता धनार्थं श्वेत पद्मजा | विषोन्तारे चन्दनोत्था शान्ति कृच्छेत काष्ठजा || रक्तचन्दनवीजोत्था यक्षिण्यादिक सोधने | पद्मकाष्ठोद्भवातुष्ट्यै देवदारूद्भवैर्विरुक् || कृष्णकाष्ठसमुद्भूतैस्तामसं कर्मसिध्यति | भूतस्तंभे निंवजाता जनस्तंभे समी भवा || महानिम्वेन डाकिन्या भूनिम्वैस्तंभनं रुजां | इन्द्रवृक्षाद्रणस्तंभोभिचारो वानरा स्थितः || ऋक्षा स्थितो वन्य सिद्धिः शार्द्धुलान्तस्य देवता | नरास्त्या राक्षसा वश्या वीरा वश्याहयास्थिभिः || रासभास्थ्नान्क्षुद्र सिद्धिर्मान्यता तु गजास्थिभिः | मृत्तिकाभृष्टमणिजा माला शावरसिद्धिदा || कुशग्रंथ्या जपेद् विप्रः सुवर्णमणिभिर्नृपः | पुत्रं जीवैर्जपेद्वैश्यः पद्माक्षैः सर्व एव हि || तथा || रुद्राक्ष स्फटिकैन्द्राक्ष मध्ये किंचिन्नदापयेत् | मध्ये दत्वा जपं कुर्वं काममोक्षौ विनाशयेत् || तथा || युता रुद्राक्षाणामधिवक्षफलविशेषादुच्यते | एकचक्रः शिवस्तस्य माला तु जपतो हरेत् || ब्रह्महत्यादि पापानि तथा राज्यादिकेष्टदा | उमाशंकर नामाख्यो द्विमुखोयं व्यपोहति || गोहत्यादिक पापानि गार्हस्थ्याश्रमसौख्यदः | त्रिमुखस्स्वग्निरूपः स्यात् स्त्रीहत्यादिक पापहा || धर्मार्थकामाः सिध्यन्ति धारणात् तज्जपादपि | चतुर्मुखो भवेद् ब्रह्मा गुरुहत्यादि नाशकः || स्फुरंति सकला विद्या वाक् सिद्धिश्चापि जायते | पंचवक्त्रः शिवः साक्षात् सर्वपाप हरः स्मृतः || १९३अ) शैवगानेश शाक्तानां द्रुतं सिद्धिस्तु तज्जपात् | कार्तिकेयैस्तु यद्वक्त्रै स्खलित व्रतपापहा || विधिना दक्षिणे वाहौ धारणात् समरे जयः | सप्तवक्त्रो महानागो नन्त्ये नामाथ तज्जपात् || अनन्ताः सिद्धयः सर्प विषभीश्च न जायते | अष्टवक्त्रो गणेशः स्यात् सर्वविघ्ननिवारकः || नस्यन्ति तज्जपात् सर्वे कामक्रोधादि शत्रव | नववक्त्रो भैरवः स्याद् वाममार्गस्थ देवताः || जपादेव प्रसीदन्ति वामवाहौ स्थितोघहा | जनार्दनो दशमुखो जपान्नश्यन्ति धारणात् || पिशाच ग्रह वेताल ब्रह्मराक्षसप?न्नगाः | एकादशमुखः साक्षाद्रुद्र एवास्य धारणात् || जपाच्च हयमेधादि यज्ञानां फलभाक् भवेत् | द्वादशास्यो भास्करः स्यात् तज्जपाद्धारणात् तथा || तेजस्वी च प्रतापी च गोमेध फलभाक् भवेत् | त्रयोदशमुखः साक्षाद् विश्वे देवात्मकः स्मृतः || श्राद्धकाले धृतो दद्यात् पितृणामक्षंयां गतिं | चतुर्दशमुखै जप्तं तदानंत्याय जायते || पूज्यते देव मनुजै रक्षयां लभते गतिं || शारदायां || इन्द्राक्षैर्यदि जप्येत रुद्राक्षैः स्फाटिकैस्तथा | नान्यन्मध्ये प्रयोक्तव्यं पुत्रं जीवादिकं चयेत् || यद्यन्यग्नु प्रयुज्येते मालायां जपकर्मणि | तस्य कामं च मोक्षं च न ददाति प्रियंकरी || जन्मान्तरे जायते स वेदवेदान्नपारगः | मित्रभावं ततो देवि चाण्डालैः पापकर्मभि || रित्युत्तर तन्त्र वचनं समस्त व्यति रिक्त किंचित् प्रक्षेप परमिति ज्ञेयं || नारदः || कुशग्रन्थ्या जपेद्विप्रः सुवर्णमणिभिर्नृपः | पुत्रं जीवैर्जपेद्वैश्यः पद्माक्षैस्सर्व एव च || तन्त्रे || तथामलक संभूतैस्तुलसी काष्ठनिर्मितैः | एभिश्च मालिकां कुर्यान्मतिमान् वैष्णवे मणौ || गोपालस्य शुक्लपद्माक्षं प्रशस्तं | समाहित मनाः शुक्ल पद्मवीजाक्ष मालयेति || गौतम वचनात् || १९३ब्) नारद पंचरात्रे || जपस्य गणनां प्राहुः पद्माक्षैर्भक्तिवर्धनैः || यस्तु भागवतो भूत्वे त्युपक्रम्य रुद्राक्षैश्चोत्तमेति वराह वचनात् वैष्णवानामपि रुद्राक्षमामाला प्रशस्ता || रुद्राक्ष मालयादि वा शक्तिमंत्रजपो निषिद्धः || तदुक्तं योगिनीतन्त्रे || रुद्राक्षैः शक्तिमन्त्रस्तु अह्नियोजापति प्रिये | स दुर्गति मवाप्नोति निष्फलस्तस्य तज्जपमिति || भैरवी विद्यायाम्वाराही तन्त्रे || सुवर्णमणिभिर्मालां स्फाटिकीं शंखनिर्मितां | प्रवालैरेव वा कुर्यात् पुत्रं जीवं विवर्जयेत् || पद्माक्षं चैव रुद्राक्षं इन्द्राक्षं चक्षं च विशेषतः || अथ निषिद्धं || मेरुतन्त्रे || अति स्थूलोति सूक्ष्मश्च स्फुटितो भंगुरो लघुः | भिन्नः पुराधृतो जीर्णो रुद्राक्षो न शुभ स्मृतः || अन्योन्यघर्षणादेव जपहानिर्भवेद्ध्रुवं | मध्ये ग्रंथयः कुर्यानात्रमुक्तादि विन्यसेत् || अथ संस्कार कालः || चतुथ्यां प्रोतयेन्मालां गणे नाथस्य मंत्रकैः | मध्याह्नेर्कस्य सप्तम्यां रवौ वा तस्य मन्त्रकैः || द्वादश्यां वैष्णवी माला प्रोतव्या विष्णुमंत्रतः त्रयोदश्यान्तु संध्यायां तन्मन्त्रैः शिवमालिकां || अष्टम्यां वा चतुर्दश्यां नवम्यां भूमि नन्दने | शक्तीनामपि कर्तव्या भुक्त्वा रात्रौ यथा विधिः || * * * * ? भेदः || मेरुतन्त्रे योगिनी हृदये च || ग्रथिता पट्टसूत्रेण देव्याः प्रीत्यै तु मालिका | कार्या सैर्वैष्णवी माला पद्मसूत्रैरथापि वा || उर्णाभिर्वा वल्कलैर्वा शैवीकार्पाससूत्रजा? || कार्पाससूत्रे विशेष उक्तः || मेरुतन्त्रे || प्रायशः सर्वदेवानां सूत्रोत्पत्ति विधिं शृणु | सूत्रं द्विजेन्द्र पुण्यस्त्री निर्मितं ग्रन्थिवर्जितं || त्रिगुणं त्रिगुणीकृत्य ग्राह्यं प्रक्षाल्य यत्नतः || उमामहेश्वर संवादे || या जीववत्सका नारी सुन्दरी पतिवल्लभा | तया कर्तित सूत्रेण व्यूढामाला शुभावहा || मेरु सूत्रेण पट्टेण त्रेसरेण्ड विनिर्मिता | १९४अ) निर्मिता स्वर्ण रजतैः स्वर्णे नापि शुभावहा || कन्याकर्तित सूत्रेण ग्रथिता गुरुणा स्वयं | मण्डलीकृत गोपुच्छ रूपधृष्ट्यालिका शुभा || हारिद्रं सर्वथा सूत्रं ग्रामकर्पाससंभवं | चैत्रकर्पासजम्वाथ त्यजेद्ग्रथन कर्मणि || मेरुतन्त्रे || एकभक्तं विधायादौ साधको ग्रथयेत् स्वयं | कृतनित्यक्रियः शुद्ध उक्तेष्वृक्षेष्वतन्द्रितः || श्वेतरक्तसुवर्णाभ कृष्णवर्णा द्विजादितः | एतेषु ब्राह्मणः श्रेष्ठो जपमाला कृते भृशं || अलाभे तु द्विजातीनामपिवा स्वस्वजातयः | कलौ तु दुल्लभा विप्रा यथा विप्रा स्वधर्मगाः || तथा || अथ माला कृतिं वक्ष्ये क्षालयेत् पंचगव्यकैः || गौतमीये पंचगव्य परिमानमाह || पलमात्रं दुग्धभागं गोमूत्रं तावदिष्यते | घृतं चपलमात्रंस्यां गोमयं तोलक द्वयं || दधि प्रसृति मात्रं स्यात् पंचगव्यमिदं स्मृतं | अथ वा पंचगव्यानां समानो भाग उच्यते || एकभक्तिं विधायादौ साधको ग्रथयेत् स्वयं | कृत नित्य क्रियः शुद्ध उक्ते क्षेत्रेषु मन्त्रवित् || यथाकामं यथालाभमक्षाण्यानीय यत्नतः || गोवर्णभेदेन पंचगव्याहरणमाहामेरुतन्त्रे | दुग्धं कांचनवर्णायाः श्वेतायाश्चैव गोमयं || गोमूत्रं ताम्रवर्णाया नीलायाश्च भवेद् दधि | घृतन्तु कृष्णवर्णाया एवं पंचामृतेपि च || गवां वर्णास्तु सुलभाः संति देशेषु तत्र च | तत्र वर्ण विभागेन पंचगव्यानि चाहरेत् || वर्णालाभेन दोषोस्ति मात्राहीनन्तु वर्जयेत् | गोशक्त? द्विगुणं मुत्रं सर्पिर्दद्या चतुर्गुणं || क्षीरमष्ट गुणं प्रोक्तं पंचगव्ये तथा दधि | गायत्र्यादाय गोमूत्रं गंधद्वारेति गोमयं || आप्यायस्वेति च क्षीरं दधिक्रावणतो दधि | तेजोसि शुक्रमित्याज्य देवस्य त्वा कुशोदकं || क्षालयेत् पंचगव्योदैः सद्यो जातेति मंत्रतः | चन्दना गुरुगंधाद्यैर्वामदेवेन घर्षयेत् || धूपयेदप्य घोरेण कृष्णागुरु सुगुग्गुलैः | १९४ब्) तत्पुरुषाख्य मन्त्रेण लेपयेच्चन्दनादिभिः || ईशानः सर्वमिति च प्रत्येकं मन्त्रयेच्छतं | तेनैव मन्त्रयेन् मेरुमघोरेण च मन्त्रयेत् || योगिनी हृदये || अन्योन्य समरूपाणि नाति स्थुल कृशानि च | कीटादिभिरदुष्टानि न जीर्णानि नवानि वैः || गव्यैस्तु पंचभिस्तानि प्रक्षाल्य तु पृथक् पृथक् | आदौ पूर्व दिने शक्ति व्यतिरिक्त परमे तदिति ज्ञेयं || गोमुत्रं गोमयं क्षीरं दधिसर्पिं कुशोदकं | पंचगव्यमिति प्रोक्तं महापातकनाशनं || अश्वत्थपत्र नवकं पद्माकारेण कल्पयेत् | सूत्रं मणीश्च गन्धाद्भिः क्षालितन्त्रत्र निःक्षिपेत् || तारं शक्तिं मातृकां च सूत्रेणैव मणिष्वथ | विन्यस्य पूजयेदाह्यैर्जूह्वयाच्चैव शक्तितः || रुद्राक्षे तु विशेष उक्तः कालोत्तरे || स्कन्द उवाच || देवदेव महादेव सृष्टिस्थितिलयेश्वर | रुद्राक्षैर्जपमाला तु कथं कुर्यान् महेश्वर || संस्कारश्च कथन्नाथ कर्तव्यः कीदृशं फलं || इश्वर उवाच || शृणु खण्मुख वक्ष्यामि रुद्राक्षैः क्रियते यथा | जपमाला विधानेन येन सा जपसिद्धिदा || मेरुतन्त्रे कालोत्तरे च || एके वक्त्रैर्द्विवक्तैश्च चतुर्वक्त्रैश्च पंचभिः | षड्भक्त्रैर्वाथ कर्तव्यामिथोमिश्रास्तु वर्जयेत् || मुखे मुखन्तु कर्तव्यं मुखं मूले तु वर्जयेत् | मुखं मूखेन संयोज्य पृष्ठं पृष्ठेन योजयेत् || रुद्राक्षस्योन्नतं प्रोक्तं मुखं पुच्छं तु निम्नकं | धात्री फलोपमश्रेष्ठो मध्यो वदर संनिभा || वदरोवदरवीजं || अधमश्च न कामः स्यात् ततो हीनो विपत्ति कृत् || मेरुतन्त्रे || एको मेरुस्तत्र देयः सर्वेभ्यः स्थौल्य युक्क्षयः || कालोत्तरे || अस्योर्धवक्त्रं मेर्वाख्यं कर्तव्यं तल्ललंघयेत् || मेरुतन्त्रे || आद्यं स्थुलं ततस्तस्मान्यूनं न्यूनतरं ततः | सर्पाकारां प्रकुर्वीत ब्रह्मग्रन्थिर्मणिं प्रति || शैवागमे || गोपुच्छ सदृशी कार्या एकाग्रावासमेरुका || १९५अ) उत्तरतन्त्रे || एको मेरुस्तत्र देयस्सर्वेभ्य स्थूलसंभवः | विन्यसेत् क्रमतस्तस्मात् सर्पाकारा च सा यतः || ब्रह्मग्रंथि युतं कुर्यात् प्रतिवीजं यथाविधिः || मेरुतन्त्रे उत्तरतन्त्रे च || अथ वा ग्रन्थिरहितं दृढरज्जु समन्वितं || ब्रह्मग्रन्थिर्यथा तत्रैव || त्रिरावृत्याथ मध्येन चार्धवृत्यान्त देशतः | ग्रन्थिः प्रदक्षिणावर्तो ब्रह्मग्रन्थिरितीरिता || मेरुतन्त्रे || अथान्यमाला संस्कारं वक्ष्येश्वत्थस्य पत्रकैः | पद्माकारेन नवभिः स्थापितैस्तत्र विन्यसेत् || मणीसूत्रं च गंधोदैः क्षालयित्वाथ मन्त्रयेत् | ओं ह्रीं पूर्वमातृकार्णैः क्रमादेकैकशौ मणिं || सूत्रं च तत्र विन्यस्य पूजयित्वा हुनेत् ततः || तिलाज्यैः केवलाज्यैर्वा सद्योजातादिभिः पृथक् | पंचमन्त्रैः शतं चाष्टावष्टाविंशतिरेव वा || होमाभावे जपः प्रोक्ता प्रोतयेन् मालिकान्ततः | गोपुच्छ सदृशी कार्या एकाग्रावासमेरुका || आवाहनादि मुद्राणामष्टकं दर्शयेत् ततः | सद्यो जातादिभिर्मन्त्रैः पूर्ववत् क्षालणादिकं || अनन्तरं पूजास्वकल्पोक्तविधिना || वामे विशेषः || तत्रैव || कौलिकादौ विशेषोयं सुरयामणि तर्पणं | इति रुद्राक्षादि माला संस्कारविधिः || अथ रुद्राक्षधारणफलमपि प्रसंगात् लिष्यते || तथा || रुद्राक्षमालिकां कण्ठे धारयेन् भक्ति वर्जितः | पापकर्मापि यो नित्यं रुद्रलोके महीयते || रुद्राक्षधारी भूत्वा च यत्किंचित् कर्मवैदिकं | यो विप्रः सततं कुर्यात् तत्कर्म सफलं भवेत् || स्नाने दाने जपे होमे वैश्व देवे सुरार्चने | प्रायश्चित्ते तथा श्राद्धे दीक्षाकाले विशेषतः || कण्ठे शिरशि हस्ते च कर्णयोरूपवीतके | रुद्राक्षधारणा देव रुद्रो भवति मानवः || खादत् मांसं पिवन्मद्यं संगच्छन्नंत्यजातिषु | सद्यो भवति पुतात्मा रुद्राक्षं मूर्ध्नि धारयन् || १९५ब्) देवान्युर्ष्णंति ये देवाः पशवस्ते तु वैदिकाः | तान्यातयन्ति ये कोले तेषां शास्ता स्वयं यमः || तेषां संरक्षनार्थाय नान्यो रुद्राक्षतो भुवि | रुद्राक्षाः सर्वदेवानां मन्त्रसिद्धिविधायकाः || उच्छिष्टो वा विकर्मस्थो युक्तो वा सर्वपातकैः | मुच्यते सर्वपापेभ्यो नरो रुद्राक्षधारणात् || रुद्राक्षं कंठमाश्रित्य शुनको म्रियते यदि | सोपि रुद्रत्वमाप्नोति किं पुनर्मानुषादयः || अरुद्राक्षधरो भूत्वा यत् किंचित् कर्मवैदिकं | कुर्याद् विप्रस्तु यो मौद्ध्यान्ता(?) सामाप्नोति तत्फलं || अथ स्त्रीशूद्रार्थमालासंस्कारः || तदुक्तं मेरुतन्त्रे || शूद्रार्थं च स्त्रियामर्थे मालासंस्कार उच्यते | गणेशसूर्यविष्ण्वीशदुर्गाः संपूज्य भक्तितः || मालायामथतां मालाहसौः वीजेनाभिमंत्रितां | अष्टोत्तरशतं पंचगव्येतां स्थापयेत्र्यहं || चतुर्थे तु समुद्धृत्य क्षालयेदस्त्रमन्त्रतः || योगिनीतन्त्रे || उक्तेष्वक्षेष्ट?क्तमन्त्रैर्ग्रंथिता साधकोत्तमः | मालां विधाय वै पात्रे क्वचिद् गन्धादि चर्चितां || भूतशुद्ध्यादिकं पूजां समाप्य तत्र पूजयेत् | गणेशसूर्यविष्ण्वीश दुर्गाश्चावाह्य पूजयेत् || तत्र मालायां || पंचगव्येन तां सिक्त्वा हौं मन्त्रेण च मन्त्रयेत् | तस्मादुत्तोल्यतां मालां स्वर्णपात्रे निधाय च || पयोदधिघृतक्षौद्रशर्कराद्यैननु क्रमात् | ततो धूपान्तरैः कृत्वा पंचामृतविधिं वुधः || क्रमात् तत्रैव संस्थाप्य स्नापयेच्छीतलोदकैः | ततश्चन्दनसौगन्धि कस्तूरीकुंकुमादिभिः || तामालिप्य जपेच्च ह्मौं मन्त्रमष्टोत्तरं शतं | * *? न्नवग्रहान् पंक्ति दिक्पालांश्च प्रपूजयेत् || ततः संपूज्य च गुरुं गृह्नीयान्मालिकां शुभां || भैरवी तन्त्रे || आदौ गणपतिन्देवं सूर्यविष्णुमुमापतिं | दुर्गां च पूजयेद् विद्वान् मालायां सुसमाहितः || पंचगव्ये क्षिपेन् मालां प्लासादेनाभिमन्त्रयेत् | उत्तोल्य च ततो मालां स्थापयेद्धेम पात्रके || पंचामृतेन संस्नाप्य शीतलेन जलेन च | चन्दनेन सुगन्धेन कस्तूरी कुंकुमादिभिः || १९६अ) अभिषेकन्ततः कृत्वा मन्त्रेणानेन मन्त्रवित् | प्राणं जीव समारूढमौंकार स्वररूषितं || विन्दुनादसमायुक्तं मन्तराजं प्रविन्यसेत् | नवग्रहान् पूजयित्वा ततो दिक्पाल पूजनं || तिलेन घृतयुक्तेन शक्तितो होमयेत् ततः || प्रविन्यसेत् अष्टोत्तरशतं कृत्वा प्राणो हकारः जीवः सकारः || मेरु तन्त्रे तु || हृन्मन्त्रेण ग्रंथयित्वा स्थण्डिले तां निधापयेत् | ततस्तु तोल्यतां मालां स्थापयेद्धेम पात्रके || पंचामृतेन संस्नाय शीतलेन जलेन च | चन्दनेन सूगंधेन कस्तूरी कुंकुमादिभिः || आभिषेकं ततः कुर्याद्धसौं मन्त्रेण साधकः | नवग्रहान् पूजयित्वा दिक्पालांश्चापि पूजयेत् || तिलेन घृतयुक्तेन शक्तितो होमयेत् ततः | स्वर्णन्तु दक्षिणां दद्याद् गुरवे मणिसंख्यकान् || तन्मन्त्रे जापिनो विप्रान् भोजयेद् वाथ वैदिकान् | अभावे स्वर्णपात्रस्य ग्राज्यमश्वत्थपत्रकं || मालासंस्कार इत्युक्तो जपः स्यात् सिद्धिदायकः || अन्यच्च || कुब्जिकातन्त्रे || वर्णमानेन साकार्या पंचगव्येड्यहं क्षिपेत् | सूत्रम्वापि चतुर्थेह्नि क्षालयेदस्त्रमन्त्रकैः || समानवर्णसूत्रेण ग्रथयेद्धृदयाणुना | सुवर्णादि गुणैर्वापि ग्रथयेत् साधकोत्तमः || ब्रह्मग्रन्थिं ततो दद्यान्नागपाशमथापि वा | कवचेन च ग्रशीयान्मालां ध्यानपरायणः || सर्वशेषे ततो मेरु सूत्रद्वयसमन्वितं | ग्रथयेत् तार योगेन वध्नीयात् साधकोत्तमः || एवं निःपाद्य देवेशि प्रतिष्टां च समाचरेत् | स्थण्डिले मण्डलं कृत्वा यथा भाग विधि क्रमात् || पूजयित्वा यथान्यायमिष्ट देवमनुक्रमात् | न्यासपूर्वं जपेन् मन्त्रमष्टोत्तर सहस्रकं || जुहुयाच्च दशांशेन यस्य देवस्य यत् प्रियं | ततो मण्डल मध्ये तु तां मालां स्थापयेद् वुधः || अस्त्रमन्त्रं ततो न्यस्य देववत् परिचिन्तयेत् | अभेदरूपमासाद्य मालां कुर्यात् तथात्मिकां || ततोवलिं यथान्यायं दद्यात्तैः साधकोत्तमैः | एवं प्रतिष्ठामापाद्य मालायामिष्ट देवतां || १९६ब्) आचार्यं पूजयेन्मन्त्री शिल्पिनं च यथाविधि | नान्यमन्त्रं जपेत् तत्र यदीच्छेत् सिद्धिमात्मनः || अस्त्रादिर्जप्तव्य मन्त्रस्य ग्राह्यः वलिं मालायाः तैर्होमद्रव्यैः || अथ कौलिकार्हकी कलादि मालासंस्कारः || तदुक्तं मेरुतन्त्रे || कीकसादिकमालानां कौलिकानां च वामिनां | सिध्यै वक्ष्यमि संस्कारं सर्वतन्त्रेषु गोपितं || शिल्पिनं पूजयेदादौ वस्त्रगंधानुलेपनैः | संहृष्टः कारयेन्मालां मन्त्रपूतं पिवन्मधु || कुब्जिकातन्त्रे || शिल्पिनं पूजयेदादौ वस्त्रगन्धानुलेपनैः | संहृष्टः कारयेन्मालां विशुद्धां वररूपिणीं || यथायोग्यं वेधवती मालां कुर्याद् विचक्षणः | वर्णरूपिणीं पंचाशद्वीजरूपात्मिकां || मेरुतन्त्रे || पंचाशन्मणिभिः कार्या ऋतुमत्या भगे क्षिपेत् | निशामेकां समुद्धृत्य कारणैः क्षालयेत् ततः || शुद्धोदैर्मूलमन्त्रेणाभिषिंचेद् विजयारसैः | प्रक्षाल्य धूपयेत् पश्चात् प्रोतयेदिष्ट सूत्रकैः || सूत्रं स्वेष्ट जपे नीलं कृष्णं मारण कर्मणि | मोहने हरितं स्तंभे धूमाभं द्विषितालभं || शान्तौ पौष्टौसितं द्वेषे रक्तमुच्चाटने भवेत् | वश्ये पीतं कषायन्तु विक्षेप करणे मतं || चक्रपूजां ततः कृत्वा साष्टौत्तर सहस्रकं | हुनेन्मद्यपलाभ्यां च मूलमन्त्रेण साधकः || ततो वलिं यथान्यायं महिषादेः प्रदापयेत् | शक्तींश्च साधकांश्चापि भोजयन्मणिसंख्यकान् || एवं संसाधितां मालां पशवेन प्रदर्शयेत् | येन मन्त्रेण या माला कृतातन्तु जपेत् तया || अन्यमन्त्र जपाच्छापो देवतायाः प्रजायते || अथ संप्रदाय सिद्धो रहस्य मालासंस्कार विधिः || ओं श्रीं ह्रीं श्रीं क्लीं ह्रं फट् स्वाहा इति मन्त्रेण सप्तधाभिमन्त्र्य च क * *? क्षिपेत् | तत आवाहनादि मन्त्रादिभिर्भगवतीमावाह्य सपरिवारां षोडशोपचारैरभ्यर्च्य मूलमावर्त्य यतुं वीजमनुस्मन् धेनुमुद्रया अमृतीकृत्य कवचेनावगुण्ठ्य महामुद्रया तदा छादयन् देवी रूपान्तां मालां ध्यायन् विन्दुप्रक्षेपं कुर्यात् || १९७अ) तत्र मन्त्रः ओं ह्रीं स्वाहा ओं हुं स्वाहा ओं फट् स्वाहा ओं स्त्रीं स्वाहा ओं ह्रीं हूं स्वाहा ओं ह्रीं फट् स्वाहा अनेन शतधा विन्दु प्रक्षेपं कुर्यात् || कस्तूरिका गुरु सुधा करैर्धूपादिकन्दत्वा च कषादुत्तार्य एभिर्मन्त्रयेत् || तत्र मन्त्रः || ओं ह्रीं श्रीं महावज्रिणि महाघोररूपे कक्कश महास्थिमण्डले प्रविश सर्वसिद्धिं प्रयच्छ ओं हूं क्रीं ह्रीं स्वाहा महाकपालिनि महाघोररूपे स्वाहा || ओं ह्रीं ह्रीं हूं फट् स्वाहा दूर्वाक्षतैरभ्यर्च्य कन्दर्प्य वीजेनोद्दीपनं कृत्वा षोडशोपचारैरभ्यर्च्य मातृका मन्त्रेण सन्दीप्य हूंकारेण वेष्टयित्वा वलिन्दद्यात् || तद्यथा || ओं ह्रीं ह्रीं ओं हूं हूं ओं फट् हूं ओं ओं हूं स्वाहा ओं हुं महायोगिनि त्रिभुवनतारिणि महाशंखास्थि मालामध्ये निवासं कुरु कुरु सर्वसिद्धिं देहि देहि सुरामांसोपहारान् गृह्न २ गृह्नापय २ ह्रीं त्रीं हूं फट् स्वाहा अनेन यथोदित द्रव्येण वलिन्दत्वा देवीम्विसर्ज्यनिभृत स्थाने मालान्धारयेदिति || मेरुतन्त्रे || * *? रतन्त्रे च || दृढं सूत्रं नियुंजीत जपेत्रुद्यतिनो यथा | जीर्णे सूत्रे पुनः सूत्रं योजयित्वा शतं जपेत् || मेरुतन्त्रे || परिवर्तनकाले तु संघट्टं नैव कारयेत् | कलिः खटखटाशब्दे दोलमाने चलन्मतिः || शैवागमे || यदा सात्रुद्यते माला ग्रंथयित्वा च पूर्ववत् | प्रतिष्ठितायां तस्यान्तु मन्त्रं जप्यादनन्यधिः || इति माला संस्कारविधिः || अथ कुल्लुका कीदृशी नाथ सेतुर्वादेवकीदृशी || कीदृशो वा महासेतु निर्वाणं त्वथ कीदृशं | अन्यद्वा कथितं यन्मे कीदृशं तद्वद प्रभो || श्री ईश्वर उवाच || गुह्यान् गुह्यतरं देवि तव स्नेहेन कथ्यते | विनायेन महेशानि निष्फलन्तु जपादिकं || तारायाः कुल्लका देवि महानीलसरश्वती | पंचाक्षरी कालिकायाः कुल्लुका परिकथ्यते || कालीकूर्च वधूर्माया फडन्ता परमेश्वरि | छिन्वा?याश्च महेशानि कुल्लकाष्टाक्षरी भवेत् || १९७ब्) वज्र वैरोचनीये च अन्ते वर्म प्रकीर्तयेत् | संपत्प्रदायाः प्रथमं भैरव्याः कुल्लुका मता || श्रीमत् त्रिपुरसुन्दर्याः कुल्लुका द्वादशाक्षरी | वाग्भवं प्रथमं वीजं कामराजमनन्तरं || लजावीजं ततः पश्चात् त्रिपुरेशी ततः परं | भगवतीति पदं पश्चादन्ते ठद्वयमुद्धरेत् || इयंते कथिता देवी संक्षेपात् कुल्लुका मया | अज्ञात्वा कुल्लकामेनां जपते योधमः कुधीः || पंचत्वमाशु लभते सिद्धि हानिः प्रजायते | मन्त्राः पाराङ्मुखायान्ति मन्त्रहानिश्च जायते || तथा जपादिकं सर्वं निःफलं नात्र संशयः | तस्मात् सर्वं प्रयत्नेन योजयेन् मूध्नि कुल्लकां || अथातः संप्रवक्ष्यामि तत् शृणुष्व प्रियं प्रदे | यस्या ज्ञानेन विफलं जपहोमादिकं भवेत् || विप्राणां प्रणवः सेतुः क्षत्रियाणां तथैव च | वैश्यानान्तु फडर्णः स्यान् माया शूद्रस्य कथ्यते || अजपता हृदि देवेशि यो वै मन्त्रं समुच्चरेत् | सर्वेषामेव मन्त्राणामधिकारो न तस्य हि || महासेतुश्च देवेशि सुन्दर्या भूवनेश्वरी | कालिकायाः स्ववीजन्तु तारायाः कूच्च वीजकं || अन्यासान्तु वधूवीजं महासेतुर्वरानने | आदौ जप्त्वा महासेतुं जपेन्मन्त्र मनन्यधीः || धने धनेश तुल्योसौ वाण्या वागीश्वरो पमः | क्रुद्धौ कृतांत सदृशो नारीणां मदनोपमः || जपकालो भवेत् तस्य सर्वकालो न संशयः | निःसेतुकं यथा तोयं क्षणान्निम्नं प्रसर्पति || मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्वनां | तस्मात् सर्वत्र मन्त्रेषु चतुर्वर्णा द्विजातयः || पार्श्वे याः सेतुमादाय जपकर्मसमारभेत् | मन्त्राणां प्रणवः सेतुर्द्विजानां परिकीर्तितः || चतुर्दश स्वरो न्येषां चन्द्रानुस्वारसंयुतः || अथ वक्ष्यामि निर्वाणं शृणु सा रहिता नघे | प्रणवं पूर्वमूर्चार्य मातृकाद्यं समुच्चरेत् || अथ मूलं महेशानि ततो वाग्भवमुच्चरेत् | मातृकां च समस्तां च पुनः प्रणवमुच्चरेत् || एवं पुटित मूलन्तु प्रजपेन्मणि पूरके | एवं निर्वाणमीशानि यो न जानाति पामरः || १९८अ) वर्षकोटि शतेनापि सिद्धिस्तस्य न जायते | तस्मात् सर्वप्रयत्नेन यदुक्तं तन्महेश्वरि || तत् तदाचर्यविधिवज्जपेन्मन्त्रमनुत्तमं | ऋषिश्छन्दो देवता च वीजं शक्तिश्च कीलकं || भावयेद् यत् ततो देवि ततः स्वेष्टादिकं जपेत् | एवं यदि जपेन्मन्त्री मन्त्रराजमनुत्तमं || षण्मासात् सिद्धिमाप्नोति नात्र कार्या विचारणा | साक्षात् स एव जगतामधीशो नात्र संशयः || शरण्यः स च विज्ञानी स एव मन्त्र तत्ववित् | स एव निर्वृतो भूमौ विहरेत् तु यथा गृहे || तस्य दर्शन मात्रेण पलायन्ते च वैरिणः || एवं कृत्वा प्रणवपुटितं यो जपेन्मन्त्रराजं तन्निर्वाणं भुवनसहिते कुल्लुकांतां च जप्त्वा || तेषां तद्वन्निखिल भुवनं सिद्धयोष्टौ च हस्ते स्नेहादुक्तं रहसि वचनं जन्मजन्मान्तरेषु || अथ श्रापोद्धारः || तदुक्तं रुद्रयामले || पुरामातृवधो द्विग्नो भार्गवो मुनि पुंगवः | सरांसि सरितः पुण्याः पुण्यान्या यतनानि च || वभ्रामभृशमुद्विग्नो मुमुचेन प्रसूवधात् | ततः समनसा प्राज्ञो जगामशरणं हरं || सिद्धाश्रममनप्राप्य सर्वसंगविवर्जितः | तपोभिर्दुस्तरैस्तेये वहुकालमतन्द्रितः || तपः प्रभावतस्तस्य पुरः प्रादुरभूच्छिवः | समाधिस्थं मुनिं वीक्ष्य विहसन्निदमव्रवीत् || रामराम महावाहो प्रीतोस्मि वरदो स्मिते | वरं व्रूहि महाप्राज्ञ यस्ते मनसि वर्तते || भार्गवोपि मुनिः प्रेक्ष्यै भगवन्तं पुरस्थितं | स्तवैस्तुत्वा च नत्वा च विनीतोगिरमूचिवान् || यथाहमचिरेणैव मुक्तः स्यांजननीवधात् | तथाशाधि महादेव यदि प्रीतोसि मे विभो || इत्थं परशुरामेण प्रार्थितः परमेश्वरः | अवोचन्मधुरां वाणीं शृणु पुत्र भृगू द्वह || दक्षिणाया महाकाल्या गायत्रीं जपतस्तव | जननी वध संभूतमंहस्तन्नाशमेष्यति || एवमाश्वासितोरामः पुनराह महेश्वरं | दक्षिणानामकादेवी तां मे कथय शंकर || १९८ब्) किंरूपा सा किमाचारा कथं सेव्याकिमान्मिका | एवं संप्रार्थितो देवः पुनः प्राहमुनीश्वरं || साधु साधु महाप्राज्ञे सम्यक् त्वं पृष्टवानसि | हन्तते कथयाम्येनां पुत्र सावहितो भव || सच्चिदानन्द रूपाया चिच्छक्तिरिति गीयते | या स्थिता व्याप्य सकलं विधितां दक्षिणां मुने || उन्नीयतन्यते सृष्टिर्यस्यां च परिलीयते | यस्याः प्रसादमासाद्य ब्रह्मा सृष्टिकरो भवेत् || विष्णुस्तां पालयामास संजहारे सदाशिवः | नानारूपधरायासौ परिक्रीडति भूतले || पुरेयं स्मृति मात्रेण सर्वसिद्धिप्रदा मता | पुरेयं पूजिता ध्याता साधकाभीष्टसिद्धिदा || इति श्रुत्वा मुनिर्वाक्यं पुनराह सदाशिवं | पुरेति संशयोमेस्ति तं त्वं छिन्धि महेश्वर || इत्युक्तो भार्गवेणाथ जगादगिरिजापतिः | एकदा समये कोपि साधकः स्थिरमानसः || संस्मार दक्षिणां देवीं सदाभक्तैकमानसां | द्यूतक्रीडां मयासार्धे प्रवृत्तां च विहायसा || गता ससाधको यत्र दत्वा तस्मै वदं ततः | विवृत्ता सा मया शप्ता क्रुद्धेन मनसामुने || यतो मांस्वं विहायैव गता साधकसन्निधिं | अतस्त्वं शीघ्रफलदान भविष्यसि दक्षिणे || ततो दीन मना देवी संतुतोषष्तवैर्नवैः | ततस्तुष्टोह मनया पुनरेमांसमूचिवान् || महाविद्या संपुटितां जप्ता यस्त्वां सुमध्यमे | ततस्त्वं शापनिर्मुक्ता भविष्यसि फलप्रदा || ततः प्रभृति विद्येयं द्रुतं च फलदायिनी | साधयत्वं महाभाग जननी वधमुक्तये || इत्युक्त्वान्तर्दधेशस्तु भार्गवस्य हि पश्यतः | भार्गवोपि मुनिश्रेष्टस्तपस्येव मनोदधे || अयं शापो द्वाविंशत् पक्षर्यामेव | द्वाविंशत्यक्षरी विद्या क्षिप्र सिद्धि प्रदायतः || तेन विद्धा महेशेन संवादे च हरो मयोः | महाविद्या पुटीकारः प्रवोधाय प्रकल्पयेत् || एवं गुरुप्रसादेन सिद्धिर्भवति भैरवी | तिसिद्ध विद्या प्रदीप वचनादिति वदन्ति || और्द्वशापोद्धाराय द्वाविंशत्यक्षर्यां आद्यन्तयोर्वीजानां वैपरीत्यं विधेयं || अथवा सर्वादौ काली वीजं चतुर्द्धा उच्चारणीयमिति महाकालसंहितायामुक्तं || १९९अ) विश्वसारे || श्रापोद्धारं प्रवक्ष्यामि वसिष्ठमुनिना कृतां | चतुर्विंशति लक्षाणि जप्त्वा कोपेन शप्तवान् || अद्य प्रभृति देवेशि कालिके कालरूपिणि | तवमन्त्रेषु संसिद्धिः कष्टे नैव भविष्यति || इति श्रुत्वा महादेवी प्रादुर्भूता प्रसाद्यतं | उवाच पुत्र किमिदं शाप दानं वृथाकृतं || एवं फलं यथा न स्यात् तथा कुरु मुनीश्वर | ज्ञानं दत्तं दुराराध्यं दुर्लभं यत्सुरैरपि || ततः प्रीत्या वरं लब्ध्वा ज्ञानं विज्ञान प्रं?युतं | उवाच प्रीतमनसाशापाक्तं मन्त्रसंकटे || मातः क्रोधेन कथितं तत्रोपाय महं वदे | प्रणवं पूर्वमुद्धृत्य घोररूपे च दक्षिणे || सिद्धिं कुरु द्वयं प्रोच्य कालिकेति पदं ततः | ममाभीष्टफलं शीघ्रं देहि द्रविण संपदं || जपादौ मन्त्रमुच्चार्य जपान्ते च पुनष्पठेत् | भविष्यति ततः सिद्धिरचिरात् परमेश्वरि || अथ वलिदानं || तदुक्तं मेरुतन्त्रे || तद्विधिं संप्रवक्ष्यामि चातुकल्पं प्रकल्पयेत् | वलिस्तु त्रिविधो ज्ञेयस्तांत्रिकः स्मार्त एव च || वैदिकश्चेति तत्रादौ तांत्रिकोष्टविधः स्मृतं | नरश्च महिषः कोलः छागो *? सारसस्तथा || कपोतः कुक्कुटश्चेति सामान्याः पूर्वपूर्वतः || वाराही सहिषां || अथातो वलिदानस्य विधिरत्र प्रचक्षते | चामरं कृष्णसारं च मत्स्यो मेषोथ शूकरः || महिषो वानरः खड्गो वलिश्छागादिको भवेत् || मेरुतन्त्रे || श्रेष्ठस्तत्र कलौ देवि महापीठे नरो वलिः | कर्तव्यः साधकेन्द्रेण स चारोगी च सुंदरः || धातुवद्धः कृष्णकूर्चो कृतादिरनुलोमजः | मूल्याद् ग्रीहीतो वा पिष्टो देवतै स्वयमागतः || वर्षं षन्मासमथ वा यथेच्छाचारपालितः | स भवेद्वलि याग्यस्तु नान्यश्चौरादिका हृतः || महिषः पंचमादूर्धं दशाधस्ताद्वनोद्भवः | ग्रामजोपि महाक्रूरो नी *? कसांडैक वर्णकः || आरक्ताक्षश्चोर्ध शृंगो दीर्घपुच्छश्च मांसलः | १९९ब्) अभारवाहको भीतो वलि योग्यथरो न सत् | वनस्थः श्वेतवर्णोयो वन एव प्रपालितः || महाशूलो मांसलश्च शूकरो योग्य उच्यते | ऊर्धं त्रिवर्षात् सप्तार्वाक् मणिहीनश्च मांसलः || एकवर्णावेषता या वर्णरूपोगदोज्झितः | सांद्रः स शृंगो यूथेशो गंधिमानौषधादिभिः || विगंधी कृत्य वलये योज्यः सर्वोत्तमस्त्वयं || वाराही संहितायां || कृष्णछागद्वयं दद्यात् पश्चाद् दद्यान् महावलिं || कामधेनुमते || अजस्य लक्षणं देवि कथयामि विशेषतः | ऊर्द्धशृंगं ऊर्धरोम लम्वकर्णश्च पीवरः || साहंकारः पुष्ट तनुर्वलीपलित वर्जितः | लम्वकर्णः शुद्धकृष्णः प्रशस्तपशु लक्षणं || श्वेतः कृष्णो लोहितश्च कपिलश्चित्र पांडरौ | षड्विधश्छागलः प्रोक्तो गृहस्थानां परोवलिः || धत्तमौसित कृष्णौ च मध्यमौ चित्रपांडुरौ | लोहिता कपिलश्चैव कनिष्ठः परिकीर्तितः || त्रिमासात् परतश्चैव यावद्वर्षद्वयं भवेत् | उत्तमोसौ वलिः प्रोक्तस्तस्माद्धिनोधमः स्मृतः || कृष्णवर्णो वलिं षस्तु श्वेतपुच्छो यदा भवेत् | छागलं तादृशं विद्वान् कूरतः परिवर्जयेत् || एवं सिते कृष्णपुच्छे वर्जयेन् मतिमान् सदा | कृष्णवर्णो छागलस्तु पृष्टवंशे सितो यदि || प्रशस्तंतं विजानीयाद्विपरीतं तु वर्जयेत् | पंचाब्दं महिषं श्वेतं प्रशस्तं परिकीर्तितं || एव महिषः कृष्णः पांडरश्चाधमो वलिः | पक्षिणस्तु प्रशस्ताः स्युः सर्वे वर्णाः सुशोभनाः || त्रिपक्षात् परतश्चैव दिने चापि विवर्जयेत् || मेरुतन्त्रे || सर्वेषामेव वर्णानां देवतानां तथैव च | अधिकारः प्रीतिदश्च यज्ञेप्येषो विशिष्यते || मेषसशृंग *? जवच्छृंग हीनोपि कुत्रचित् | वर्षद्वयार्धं च गृहे पालितो वलवन्नरः || मांसभाराप्तथो दाने न क्षमा सारसोवरः | नीलकंठ छविः कंठे कपोतः पुष्टकं धरः || वर्षादूर्धं गृहे पुष्टो वल्यर्थं योग्य उच्यते | सर्वेषामग्रतो रौतिपः प्रातर्वहुवर्णकः || २००अ) मांसलस्त्वेक वर्णो वा ताम्रचूडो विशिष्यते || निषिद्धानि यथा महाकालसंहितायां | कांश्चिन्निषिद्धान् वक्ष्यामि विहितेषु वलिष्वपि || ग्राम्यानामथ वान्यानां पशूनां पक्षिनास्तथा | स्त्रियं नैव प्रजुंजीत वलिकर्मणि साधकः || ज्ञानपूर्ववलिं दत्वा नरकं प्रतिपद्यते | अज्ञानेन विनिर्याति किंचित् पापं समश्नुते || अत्रिमास समुत्पन्नं पशुं न विनियोजयेत् | पुनस्तदर्धानुगतं जातु देव्यै समर्पयेत् || भग्नशृंगं भग्नदन्तमच्छिन्ना लाल(?)मेव च | कार्णष्यंगरोगिनं च शृगाहतनरं तथा || दुष्टंगलितरोमानं क्षीरपंचगलद्विशं | पशुं न दद्यादीदृक्षं तथा चैव विहायसं || छिन्नत्रोटिच्छिन्नपक्षं रुग्नमाहारवर्जितं | अनुड्डीनं तथा काशे मातुरंके परिस्थितं || विहितावप्य विज्ञातौ न दद्यात् पशुपंक्षिणौ || मेरुतन्त्रे || रुगं गांडहीनः कृत्तोर्णो वालो वृद्धो न शस्यते || वाराही संहितायां || खंजंकानं तथा कुब्जं स छिद्रं व्याधि संयुतं | व्यशने दन्तरहितं वर्जयेत् तं विचक्षणः || तथा || न दद्यात् स्त्रीपशोर्मासं हव्यकव्ये विशेषतः || इति || अथ प्रोक्षणं || कामधेनुमते || श्रीपार्वत्युवाच || पशूनां प्रोक्षणं देव प्रकाराणि कथं विभोः || श्रीभैरव उवाच || यज्ञार्थे वाथ पूजार्थे प्रोक्षणार्थं सदा पशु | विना प्रोक्षण घातस्य व्यर्थं वा पातकोधिकः || महाकालसंहितायां || देयादेय विचारस्तु एतावानुपवर्णितः | स्थान पात्राधिकारीष्ट दान काल क्रमोपि च || इदानीमेक रूपेण सर्वेषां प्रोक्षणं शृणु || वाराही संहितायां || ओं वाराही यमुना गंगा करतोया सरस्वती | कावेरी चन्द्रभागा च सिंधु भैरव सागरा || अजस्नाने महेशानि सांनिध्यमिहकल्पयेत् *? वाह्य | अर्घपात्रोदकैः शुद्धैर्मूलेन प्रोक्षयेन्निशः || २००ब्) पशुपाशविनाशाय हेमकूट स्थिताय च | परापराय परमेष्ठिने हूंकाराय च मूर्तये || विल्वपत्रोदकैरेभिः प्रोक्षणं कारयेदथ | पशूनां यत्र वाहुल्यं भवेद्वित्तानुसारतः || तत्रैव प्रथमं देवि सर्वलक्षणलक्षितं | ऊर्जस्विनं सुन्दरं च वलिनं पशुमुत्सृजेत् || अनन्तरं क्रमेणैव न च तत्र विचारना | चैतन्य पाशरावंत्य आपस्त परिकीर्तयेत् || पुनः पशुत्व भयन नयन्तु स्वाहा समुदीरयेत् | अमुं मन्त्रं समुच्चार्य जलेन स्नापयेत् पशुं || ततो माल्यं प्रसूनम्वा करेणादाप लोहितं | वक्ष्यमानेन मन्त्रेण प्रदद्यात् पशुमस्तके || प्रणक योगिनी कूर्च गरुडौ तदनन्तरं | गन्धन्यन्ते(?) समुच्चार्य गन्धर्वत्वं दिशान्तु फट् || शिरोऽष्टादशवर्णात्मा मनुरेव उदाहृतः | पुनर्गृहीत्वा सिन्दूरं मन्त्रमन्यमुदीरयत् || शृंगयोरपि तन्मध्यं भूषयेद् देशिकोत्तमः | सारस्वतं तथापाशं कामलं वीज सत्वतः || इमं लोकंजहि परं लोकं तदनु कीर्तयेत् | प्रजापतिस्ते कल्पयति पशोनं प्रविशापि च || माक्रुधस्तर्जनी चान्ते मनुं सिंदूर दान कृत् | पूजाकाले स्थापितं यत् सामान्यार्घं वरानने || तत्स्थितेनोदके नैव वक्ष्यमाणान् मनून् गृणन् | शनैरेव सिंचत् पशूनां मस्तकं प्रिये || मन्त्रास्तेऽष्टौ विनिर्दिष्टा अभिषेचन कर्मणि | तानुद्धरामि देविशि सामान्याश्च विशेषतः || पंचवीजानि पुरतः स्थिराणि प्रतिमन्वपि | ततोनुच्छन्दसां नाम भिन्नभिन्नमुदीरितः || * *? || परैश्च तेषा च विग्र * *? न्न ईरितः | सर्वत्रेदं निश्चलं च विज्ञेयं जगदीश्वरि || ततः पशुत्वमित्य तत् पदं सर्वत्र च स्थिरं | सुवन्त्यस्तत्परं शब्दा भिन्नभिन्न स संधवः || पंचवर्णास्त्रिवीजी च पंचवर्णाः पुरस्ततः | त्रयोदशार्णा सर्वत्र एकरूपतया स्थिता || संधिना सहिताः सर्वे सन्धियोग्य स्थलादयः | एष सामान्य ऊद्धारो विशेषमणुना शृणु || २०१अ) तारमैधौ कामकुच्चौ नृहरिस्तदनन्तरं | एतानि पंचवीजानि छन्दसामभिधां शृणु || गायत्र्यनुष्टुवुष्णिक्व वृहती पंक्तिरेव च | जगदीशर्करी तृष्टुविति छन्दांसि पार्वति || अग्निर्वायुश्च सूर्यश्च चन्द्रोयमदूतः परं | वरुणो रुद्र देव्यौ च क्रमतोऽष्टौ समीरिताः || ते व्यपोहन्तु इत्यवं पंचवर्णाः प्रकीर्तिताः | कुलांगनामधु योगिनी तारश्चेति त्रिवीज्यपि || प्रतिष्ठैशिर इत्येवं पश्चात् पंचाक्षराणि हि | इत्येवमष्टभिर्मन्त्रैः प्रोक्षेणं पशुमस्तके || विधाय तत् तन्मन्त्रेण तत्रत्थानं पशोः स्पृशेत् | तन्मन्त्ररीति मधुनाऽकलये प्रेयसि क्रमात् || आदौ वीजत्रयं स्थाष्णु ततोंऽगानि पृथक् पृथक् | स्थिरमेकाकरं तस्मात् ततो देवगणः पृथक् || नववर्णाः पुनर्देवि सनातनतया स्थिताः | इत्येष गौण उद्धारः सांप्रतं मुख्य उच्यते || प्रणवो भौवनेशी च योगिनी तदनन्तरं | वीजत्रयमिदं देवि सर्वेषामादिमं मतं || शिरोग्रीवा च पृष्टं च जंघापादस्तथैव च | वृषणो जठरश्चापि हृदयं चेत्यनुक्रमात् || कथनीयन्ततस्तेऽर्णे संधियुक्तमुदीरयेत् | चामुण्डा योगिनी वापि भैरवी डाकिनी तथा || पंचमो वटुको ज्ञेयो विनायक इतः परं | ततो मातृगणः काली क्रमशः प्रतिपादितः || भागस्तं शोधयान्युक्त्वा शिरः शेषे नियोजयेत् | इत्येवमष्टौ कथिता मनवो भोगकल्पने || वक्ष्यमाणैः पुनर्मन्त्रैः पशुं कुसुम वारिभिः | अभिषिंचेद्वपुस्तत् तत् स्थान पूर्वकमीश्वरि || तन्मन्त्रोद्धारमधुना प्रवदामि शुचि स्मिते | स्थिराणि त्रिणि वीजानि प्रथमं कथितानि ते || भिन्नभिन्नानि नामानि ततोऽनन्तरमेव हि | एको वर्णः पूर्ववच्च स एव तदनंतरं || पृथक् पृथक् ततो नामङ्ग्रे?न्तं स्व स्व स्वरूपि हि | एकं क्रियापदं पश्चात् स्व स्व कर्तृपदक्रमात् || एकद्धित्व वहुत्वे च वर्तते जगदीश्वरि | पुनर्वर्णाः पंचशेषे गौणोद्वृतिरियं मता || २०१ब्) मुख्योद्धारं शृण्विदानीं येन व्यक्तिर्भविष्यति | चैतन्य काम डाकिन्यो वीजत्रयमिदं स्थितं || वाक् पादास्तस्परं पायुरूपस्थश्चक्षुषी ततः | कर्णौ सर्वांगानि ततो मनः शेषे निगद्यते || सरस्वती च पृथिवी मित्रश्च नलमेव च | तेजो नभो दिशः काली लीयतां च क्रियापदं || हृदस्त्र शीर्षाणान्ते च मनवोऽष्टौ स्फुटा मताः | पाद्यार्घा चमनीयाद्यैर्गन्ध पुष्पैर्वलिं ततः || पूजयेद् देवता वुध्या प्रणमेन् मनसा तथा || त्रैपुर पद्धत्यां || सर्वलक्ष्णसंयुक्तं पंशुंसंस्नाप्य मन्त्रतः | देव्यग्रे स्थापयित्वार्घोदकैस्संप्रोक्षयेत् ततः || अस्त्रमन्त्रेण संरक्ष्य कवचेनावगुण्ठ्य च | मूलमन्त्रं समुच्चार्य धेनुमुद्राऽमृतीकृतं || गन्धपुष्पाक्षतैस्सम्यक् परिपूज्योपचारकैः || मेरुतन्त्रे || वलिं संपूज्य विधिवद्गंधपुष्पाक्षतांदिभिः || महाकालसंहितायां || उक्ताः पशुशिरः पुष्पसमर्पणं कराः क्रमात् | कलपालः परंदेवि संकल्प करणे विधिं || तदशुद्ध तया देवि अशुद्धं सर्वमुच्यते | प्रणवामृत्समुच्चार्य मासपक्षविथी स्मरेत् || संभवे सतिराश्यं कष्वेन्नं(?) भास्करमीरयेत् | सणेवतत् तन्नामापि ङसन्तत् तदनन्तरं || यस्य यस्य पशोयोयः कालस्तस्य कृदीरितः | तत् तद्वर्षाद्यवच्छिन्नस्तत् तद्देवाख्ययां सह || प्रीतिका मनया प्रोच्य मूलमन्त्रं प्रकीर्त्य च | ह्रीं योगिनी कूर्चवधू शाकिन्यस्तदनन्तरं || भगवत्यै गुह्य काल्यै विसंध्येष वलिर्नमः | ततस्तत् तत् पशोराख्यामिदमन्तस्य दैवतं || कृत्वा मन्त्र त्रयेमपि ङेन्तां देव्यभिधामधि | घातयिष्ये समुच्चार्य सुवन्तः प्राक् विपद्मपि || पशोः कर्णे चापि पशुगायत्रीं तदनुच्चरेत् | तत्परं तन्मनुं चापि समुद्धारं शृणु(?) द्वयोः || योगिनी वीजतो ङेन्तं वलिरूपं तु विद्महे | देवी प्रियः पूर्ववच्च धीमहीति ततः परं || तन्नः पशुरिति प्रोच्य वदेच्चाथ प्रचोदयात् | द्वितीयस्तार चैतन्य माया रुट् कामशाकिनी || २०२अ) डाकिनी चापि फेत्कारी वीजान्यष्टाविमानि हि | हिलि द्वयं किलि युगं द्वयं धक कह द्वयं || वहुरूपधरा ङेन्ता योगिनी स्त्री नृकेशरी | इमं पशुं च स्वपदं दर्शय द्वितयन्तथा || मुक्तिं नियोजय नमः स्वाहा च चरमे वदेत् || वक्ष्यमाणेन मन्त्रेण || मेरुतन्त्रे || देवीरूपं पशुं ध्यावा तोयं तस्मिन्विनिःक्षिपेत् | मंत्रितं मूलमन्त्रेण स पुष्पाक्षत चंदनं || यदा च चालयेद्गात्रं गृहीतस्तु तदेशया | यावन्न चालयेद् गात्रं पशुस्तावन्न हन्यते || उत्तरोभि मुखो भूत्वा वलिं पूर्वमुखं तथा | निरीक्ष्य साधकः पश्चादिदं मन्त्रमुदीरयेत् || पशुस्त्वं वलिरूपेण ममभाग्यादुपस्थितः | प्रणमामि ततः सर्वरूपिणं वलिरूपिणं || चण्डिका प्रीतिदानेन दातुरापद्विनाशनं | चामुण्डा वलिरूपाय वले तुभ्यं नमोस्तुते || यज्ञार्थे वलयः सृष्टाः स्वयमेव स्वयंभुवा | अतस्त्वां घातयाम्यद्य तस्माद् यज्ञे वधोऽवधः || शिवात् कृतमिवं पिण्डं मतस्त्वं शिवतांगतः | उद्वुध्य स्वपशोत्वं हि ना शिवस्त्वं शिवो ह्यसि || ऐं ह्रीं श्रींमिति मन्त्रेण तं वलिंमत्स्वरूपिणं | चिन्तयित्वा न्यसेत् पुष्पं कुंभकेनास्य मस्तके || महाकालसंहितायां || अथ वक्ष्यामि खड्गाणां लक्षणं तन्त्र वर्मना | येन संछेदने नापि साधकः सिद्धिमालभेत् || सर्वेषामुत्तमः खड्गश्चन्द्रहासः सुखावहः | पंचाशदंगुलैः कार्यः किम्वा तालत्रयेण तु || करवीरदलाकारः किम्वा पद्मदलाकृतिः | अथवा कुब्ज खड्गेण दण्डखड्गेण भेदयेत् || महावलीनां सर्वेषां दात्र मत्र प्रकीर्तितं | कर्तृकयाक्षुरेणापि छिद्मांछरिकयान च || कुठार पर्शुखंडाभैश्छेदयेन् न कदाचन || त्रैपुर पद्धत्यां || खड्गाग्रमध्येमुष्टा तु मिथुनामां त्रयं यजेत् | वागीशी सहितो ब्रह्मा लक्ष्मी नारायणौ तथा || उमा महेश्वरौ चैवेति || तथा || २०२ब्) तारकांलियुगं यज्ञेश्वरि लोहपदं वदेत् | दंडायै नम इत्येतन्मंत्रः षोडशवर्णकः || अष्टोत्तर शतं जप्ता तत उत्थाय साधकः || तथा || खड्गाया सुरनाशाय शक्तिकार्याय तत्परः | पशुश्छेद्यस्त्वया शीघ्रं खड्गनाथ नमोस्तुते || इति प्रार्थ्य छेदनमिति संप्रदायः || विशेष उच्यते || तत आवाहयेदसौ || काली कृतान्त सदृशीं येन छेद्यो वलिः प्रिये | माया कूर्चः शाकिनी च एह्येहि भगवत्यपि || चामुण्डे चाथ सान्निध्यं कुरुरु?ग्मेत्यधिष्ठिता | भवद्वयं सन्धिहीनं फट् युगं हृदयं शिरः || खड्गस्य मूलमन्त्रेण खड्गं समभि पूजयेत् | तारपाशत्रया कूर्च शाकिनीभिः स उच्यते || ध्यायेत् कुसुममादाय खड्गमादौ वरानने | कृष्णं पुनाक पाणिं च कालरात्रि स्वरूपिणं || उग्रं रक्तास्य नयनं रक्तमाल्यानुलेपनं | रक्ताम्वरधरं चैव पाशहस्तं कुटुम्विनं || पिवमानं च रुधिरं भुंजानं क्रव्य संहतिं | क्षोभयन्तं जगत्सर्वं कंपनादि प्रचारणैः || वेष्टितं मृत्युकालेभ्यां वामदक्षिणभागतः | पूर्वोदितेन मन्त्रेण प्रत्येकं कीर्तितेन हि || गन्धपुष्पाक्षतैर्धूपदीपैः पाद्यादिभिर्यजेत् | ततो वद्धांजलिर्मन्त्रं पठेत् खड्गन्निरीक्ष्य वै || रसनात्वं चण्डिकायाः सुरलोक प्रसाधकः | भुंक्तै तस्य पशो रक्तं क्रव्य संहतिमेव च || छिंधी ममैव मे शत्रुं मंगलानि प्रयच्छ च | दैत्यदानवरक्षो सृक् मदोन्मत्त नमोस्तुते || एतेन खड्गमामन्त्र्य तन्नामाष्टकमुच्चरेत् | गृह्नीयान्निशितं खड्गं येन सद्यो भवेद् वधः || असिर्विंश समः खड्गस्तीक्ष्णधारो दुरासदः | श्रीगर्भो विजयश्चैव धर्मपाल नमोस्तुते || छेदकाले तु मन्त्रं यं पठेन्तं कलसाधुना | वेदादि लज्जा शाकिन्यो डाकिनी कूर्चमेव च || कालि द्वयं च विकट दंष्ट्रतो डाकिनी द्वयं | फेत्कारिण्यनु युग्मं स्यान् खादय छेदय द्वयं || सर्वदुष्टन् समाभाष्य मारयमेव च || २०३अ) पशुं खड्गेन युगलं छिन्धि युग्मं किलीत्यपि | किंचि द्वयं पिव युगं रुधिरं तदनन्तरं || भूतवीजद्वयं प्रोच्य किलि द्वितयमेव च | कालिकायै हृदस्त्रे च सर्वपश्चिमगंशिरः || छित्वानेन पशुं सद्यस्तदीयं रुधिरं प्रिये | पूर्वोदितेषु पात्रेषु गृह्नीयादुष्ण फेणिलं || पात्राणि यथा || कालिका पुराणे || सौवर्णं राजतं ताम्रं रैत्यं पत्रपुटं च वा | माहेयं कांस्यपात्रं च यज्ञकाष्ठमयन्तु वा || पात्रं रुधिरमादाय कर्तव्यं विभवावधि || नलो हे वास्फलेनापि पचेद्रेवांगेथ शेषर्के दद्याद् रक्तं वलीनां च भूमौ श्रुति श्रुवे घटे || वाराही संहितायां || मायाद्वन्द्वं खड्गपदं कालिकालि पदं ततः | वज्रेश्वरि ततो लोहदंडां ङेन्ता नमः पदं || मायावीजं लिखेत् खड्गे सिन्दूरचन्दनादिना || तथा || वलिं पूर्वमूखं स्वयमुदं मुखः || छागलादि पशूनां च विपरीत मुखेन तु || तथा प्रहाराणां चाधिकारी तेषामेव विधीयते | स्वयं वा भ्रातृ पुत्रो वा भ्राता वा सुहृदेव वा || स पिण्डश्छेदयेद् वापि शुद्धांतः करणो यदि | नरिपूर्नांगहीनो वानकानं नापि कुब्जकं || न योजयेच्छत्रुपक्षं वलि छेदन्य कर्मणि || तथा || यदि वायव्य दिग्भागे नैर्-ऋत्ये दक्षिणेपि वा | मस्तके पतिते चैव हानिरत्र विनिर्दिशेत् || शेषेषु दिक्षु सर्वासु विदिक्षु च फलं शृणु | पूर्वे चोत्तर दिग्भागे पतते यदि मस्तके || सर्वसंपत्करं विद्याद् राजाराज्यं विनिर्दिशेत् | भ्रमित्वा दक्षिणे कर्णे यदा पतति वै शिरः || तदा सिद्धिं च मासांते वामकर्णे विपद् भवेत् | राज्ञामग्रे भवेद्धानिर्गृहस्थानां शुभं भवेत् || ऐशान्य मध्ययोश्चैव पतते यदि मस्तकं || तदा स्वल्पेन सर्वसिद्धिर्भवेद्ध्रुवं || छिन्नं शिरो निपतितं सहास्यं यदि दृश्यते | विभूतिं तस्य जानीयाद्राजाराज्यं विनिर्दिशेत् || एकवारे भवेत् सिद्धिर्वारे हानि रुच्यते | गृहस्थानां विजानीयाद् राज्ञां तु विपरीतकं || २०३ब्) यदा श्रु दृश्यते नेत्रे तदा हानिं विनिर्दिशेत् | यदा कटकटा शब्दो दन्तान्तं श्रूयते क्वचित् || तदा तु मरणं विद्याद्धानिं सर्वत्र निर्दिशेत् | दद्याद् राक्षस दिग्भागे मंत्री वलिशिरः स्वयं || तद् दक्षिणे रक्तपात्रं विपरीतं न संददेत् | देवस्य संमुखं कृत्वा छिन्नं भागं कल्पयेत् || तदैवणस्तं जानीयात् मध्यमं विपरीतकं | वलीनामिति संज्ञानां शिरश्च पुरतो ददेत् || कीलकान्ते न्यसेत् सर्वं यथा कम्पो न जायते | शीर्षो परिज्वलद्दीपं प्रदद्या *? न्दनाक्षतं || घृतेन सार्वभौमः स्यार्तेन सिद्धिं च विन्दति || महाकालसंहितायां || शिरश्च संमुखे स्थाप्यं स दीपं पात्रवर्जितं | स चापि हविरक्तः स्यादथ वा तिलजोक्षितः || सार्वपत्त प्रदातव्यं न चान्य फलसंभवं | मूर्द्धाभिधिक्तो हविषा तैलेन वहुसिद्धिभाक् || अन्यवीजोद्भवैरागं शोकं मृत्युं च विन्दति | यथा लोमानि दह्यन्ते यत्नात् कार्यन् तथा नरैः || वाराहीये || सूत्रवर्तिं प्रदद्याच्च वस्त्र वर्त्या प्रशस्यते | अंगुष्ठस्य प्रमाणं च दीर्घं चैव षडंगुलं || कार्प्यास सूत्रैर्वा दद्यादेकविंशति सूत्रकैः | सुगंधि द्रव्यैस्तत् कुर्यात् कर्पूरा गुरुचंदनैः || ग्रहाणां कच्छपानां च गोधायाश्च विशेषतः | मत्स्यानामपि पक्षीणां नदीयं दापयेच्छिरे || शीर्षोपरि ज्वलद्दीपो यावत् कालं प्रवर्तते | तावत्कालं वसेत् स्वर्गे त *? द्यत्नेन दापयेत् || *? सदाहोद्भवं गंधं घ्रात्वा देवी प्रसीदति | तस्मात् संवर्धये द्वीपं तस्मात् पात्रं विवर्जयेत् || निर्वाणे मृत्युमाप्नोति दीपमाने प्रदीपके | न क्षीरं शोनिते दद्या * *? वाज्य च कदाचन || * *? गयुत दूर्वाणां प्रदद्यान्निर्महाघृतं | सैन्धवं शृंगं वैरं च कदलीफलमेव च || पातयन् मधुराणां च काममुद्दिश्य साधकः | वलिप्रकारमुद्दिष्टं वाराही संहिता क्रमात् || * * * ? लसंहितायां || ततः पात्रं पुरःकृत्वा देव्याः स पशुशोणितं | अष्टधादि भजेद् दिग्वन् मध्ये चैकं कुशादिभिः || २०४अ) दत्वा किंचित् घृतं तत्र कुर्यात् तर्पण मुद्र *? | * * * ? भाग भाजां वै देवीनां द्विर्द्विरेष च || आद्यन्तिमौ तारहार्द्दी मेध्य आदि मनोरपि | तत् तन्नामामन्तद्यपि तर्पयामीति संयुतं || द्वितीय रूपे ङेन्तं च तद्वितीय पदोदितं | मध्ये लत्वोदितं श्राख्य पात्रवत् पीठगा क्रिया || पूर्वस्यां दिशि चामुण्डा दक्षिणस्यां तु योगिनी | डाकिन्युक्ता पश्चिमायामुत्तरस्यान्तु भैरवी || विदारिकाग्नेय कोणे नैर्-ऋतें पापहाकु?सी | पूतना चापि वायव्ये ऐशाने कालिका तथा || ततस्तुतिं प्रकुर्वीत वद्धांजलि पुटोग्रगः | जयदेवि जगन्मातर्जप पापौघहारिणि || जयजन्मजराव्याधि तृणादावानलाकृते | जयसर्व विपत्त्रिघ्ने जपश्रि(?) दरु?वन्दिते || जयनित्यानन्दरूपे जयकल्याणदायिनि | जय भूतेश गृहिणि जयसिद्धि प्रदायिनि || जयशत्रुक्षयकरे जयरोग प्रणाशिनि | जयभीमे जयाघोरे जयशंकटतारिणि || जयामृतरसा स्वाद तुन्दिला मन्दविग्रहे | त्रिनेत्रे विकरालास्ये मुण्डमाला विभूषिते || सर्वासुरक्षयकरि खड्गखट्वांगधारिणि | महाघोरे महारावे दैत्यदर्प्यनिसूदनि || इमं पशुवलिं देवि गृहीत्वा कालरात्रिके | प्रीता भव महाचण्डे रक्षमां शरणागतं || आयुर्देहि धनं देहि भाग्यं कीर्तिं च देहि मे | स्त्रियं देहि सुतान् देहि सर्वां कामांश्च देहि मे || उग्रचण्डे प्रचण्डासि प्रचण्डकरचालिनि | महाचण्डोग्रदोर्दण्ड विश्वेश्वरि नमोस्तुते || रक्षमां शरणापन्नं त्वत् पादार्पित मानसं | हरपापं हरक्लेशं हरशोकं हरा सुखं || हररोगं हराक्षोभं हरदैत्यं हरप्रिये | स्तुतिमेतां पठित्वैवं दण्डवत् प्रणमेद्भुवि || गुह्यकालि जगद्धात्रि सर्वान्तर्यामिनीश्वरि | गृहीत्वेमं पशुवलिं यथोक्त फलदा भव || कायेन मनसा वाचा त्वत्तो नान्यागतिर्मम | अन्तश्चरसि भूतानां दंष्ट्री त्वं परमेश्वरि || तथा || २०४ब्) एवं दत्वा वलिं देव्यै वलिदानविधीर्य वा | शुभाशुभं त्वं जानीयाद् राज्यस्य च नृपस्य च || भूमौ संस्थापितं छिन्नं नारं शीर्षर्न्ह सेद्यति | राज्ञो जयस्तदा ज्ञेया राज्य लाभस्तथैव च || म्रियतेऽश्रुप्रयाते न राष्ट्रभंगश्च जायते | उत्सर्गं मूत्रमलयाः कुशपः कुरुते यदि || महामारीं च दुर्भिक्षं जायतेग्नि भयन्तथा | छागादिनां च दिशिरः परिवर्तेत भूतले || हास्यवत् तत्फलं ज्ञेयं खगानामपि चेदृशं | पशोस्तनुश्चेच्चलति चरणान्युर्द्धगानि चेत् || विपरीत फलं ज्ञेयं नरशीर्षाश्रु पातवत् | इत्यादि फलवाहूल्यं यामलादौ प्रकीर्तितं || महिषादेः पूजने विसेषमाह || सुस्नातं मनुजं दीप्तं पूर्वेह्नि नियताशनं | मांसमैथुनभोगेन हीनं स्रक्वन्दनोच्छितं || कृत्वोत्तरामुखं तन्तु तदङ्गेष्वङ्गदेवताः | पूजयेत् तं च नाम्ना तु दैवतेन च मानुषं || तद्यथा || तद्ब्रह्मरन्ध्रे ब्रह्माणं तन्नासायां च मेदिनीं | कर्णयास्तु तथाकाशं जिह्वायां सर्वतो सुयं || ज्योतिषि नेत्रयोर्विष्णुं वदने परिपूजयेत् | ललाटे पूजयेच्चन्द्रं शक्रं दक्षिण गण्डतः || वामगण्डे तथा वह्निं ग्रीवायां समवर्तिनं | केशाग्रे निर्-ऋतिन्मध्ये भ्रूवोश्चापि प्रचेतसं || नासा मूले तु श्वनं स्कन्धेपि च धनेश्वरं | हृदये सर्वराजन्तु पूजयित्वा पठेदिमं || यथा वाहं भवान्द्वेष्ठि यथ वहसि चण्डिकां | तथा ममरि पू?ह्नि स शुभं वहनुलापह || यमस्य वाहनस्त्वन्तु वलिरूपधराव्यय | आयुर्वित्तं यशो देहि काशराय नमोस्तुते इति || आदिशब्दात् महिष सिंहसरभव्याघ्रगण्डक कृष्णमाराः || न छागादिः || मेरुतंत्रे || नरो द्विजैर्न हंतव्यो विप्रेण महिषस्तथा | शूकरः शमिता हन्यात् कुक्कुटा जावयोखिलैः || तथा || २०५अ) न कदाचिन् महादेव्यै प्रदद्याद्धय हस्तिनौ | सिंहव्याघ्रान्नरान्दत्वा ब्राह्मणो नरकं व्रजेत् || न कृष्णसारं वितरेद्वलिन्तु क्षत्रियादिकः | ददतः कृष्णसारन्तु ब्रह्महत्यामवाप्नुयात् || तथा || नारं सव्ये शिरोरक्तं देव्यै सम्यक् निवेदयेत् | छागन्तु वामतो दद्यात् माहिषं वितरेत् पुरः || पच्छिनन्वा मतो दद्यादग्रतो देह शोणितं | क्रव्यादानां पशूनां च पच्छिणाञ्च शिरो सृजे || वामे दयेत् पार्श्वे जलजानाञ्च सर्वशः | कृष्णसारस्य कूर्मस्य खड्गस्य शशकस्य च || ग्रहाणामथ मत्स्यानामग्र एव निवेदयेत् || वाराही संहितायां || मनुष्ये कोटि वर्षाणि तृप्तिङ्गच्छति देवता | गण्डैर्वर्षसहस्राणि महिषैः शरदः शतं || छागलैर्वत्सराद्दूर्धे द्वादशाब्दं दशाब्दकं | पूर्णः संवत्सरं चैव त्रिवर्षं कच्छपेन तु || वराहेन तु पंचाशत् तदर्धं चामरेन तु | अब्दैकं गोधिकाभिश्च षन्मासं गात्रशोनितैः || पायसेनापि षन्मासं तृप्तिं गच्छति देवता | रोहितस्य च मत्स्यस्य मांसैर्वार्द्धी?नसस्य च || तृप्तिं प्राप्नोति वर्षाणां शतानि त्रीणि मत्प्रिया || कालिकापुराणे || वलिभिः साध्यते मुक्तिर्वलिभिः साध्यते दिवं | वलिदानेन सततं जये छत्रुन्नृपान्नृपः || वाराहीये || होमे वुक्काग्रमांसं च रोमं चार्धं रात्रके | सिंहे विल्वा कृतिं चैव रमंतु पृशमेव च || वुक्काग्रमांसमानं स्याल्लुलापस्य नरस्य च | तथा प्रमाणमात्रं स्यादजस्य वनजस्य च || धातकी फलमानं तु गोधिकाया इतीरितं | एतदा ममजस्येव भर्जिते मानवर्जितं || हीनेन्द्रिय पशोर्मांसं दूरतः परिवर्जयेत् | दिवान जुहुयान् मान्सं संध्यायां सावसानके || ब्राह्म्ये मुहूर्ते जुहुयादथ वा पर्वसंधिषु | एकेन च सहस्रं स्याद् द्विगुणं चार्धरात्रके || ब्राह्म्ये मुहूर्ते त्रिगुणं संध्यायां च चतुर्गुणं | पर्वसंधौ शतगुणं तिथि संधौ शतोत्तरं || काम्येषु जुहुयान्मान्सं पुरश्चरण शेषके | २०५ब्) योन्यारढे शतगुणं स्थंडिलेपि न चाचरेत् || मेरुतन्त्रे || कूष्माण्डं नालिकेरं वा श्रीफलं चेक्षुमेव च | वस्त्रसंवेष्टितं कृत्वा छेदयेच्छूरिकादिभिः || एष स्मार्तो वलिः प्रोक्तो धर्मशास्त्रानु गामिनां | पूर्वपूर्वोत्रापि चोक्तो विशिष्टो देवतोषकः || यस्य यत्राधिका भक्तिस्तेन तुष्यति देवता || तथा || वैदिकं तु वलिं दद्यादोदनं खिन्नमाषवान् | स रोचनमति क्रुर दैवते वटकान्वितमिति || तथा || वानप्रस्थो ब्रह्मचारी गृहस्था वादया परः | सात्विको ब्रह्मनिष्ठश्च यश्च हिंसा विवर्जितः || तेन दद्युः पशुवलि मनुकल्पं चरन्त्यपि | तत् तत्पशु प्रदानानां फलावाप्त्यै वरानने || घृतगोधूमजवाद्यैः फाणितैरनुजैस्तथा | कृत्वा तं तं पशुं दद्युस्तत् तत्फलमवाप्नुयात् || अतोन्यथा शक्तिसंगमतन्त्रे || देवेश चानुकल्पस्य विधिं मे ब्रुहि त्वहं | सात्विको जीवहत्यां च न कदाचित् प्रकाशयेत् || सात्विकोयं वलिद्देवि कथ्यते यत्नत शृणु | माहिषत्वेन कुष्माण्डं छागत्वेन च कर्कतीं || वृत्ताकं कुर्कुटत्वेन मेषत्वेन चतुर्थिका(?) | रंभापुष्पं वीजरूपं पिंडं जीवकलौ भवेत् || मानुषत्वेन पनशं मत्स्य त्वेनेक्षु दण्डकं | शूरणं शवरत्वेन तथा कोशातकं मृगे || पायसं तु गजत्वेन मार्जारत्वे कुलत्थकं | पटोलं शूकरत्वेन शर्करा वालुकं तथा || खड्ग त्वेन महेशानि मत्सत्वे कदलीफलं | मूषत्वे मूलकं चैव सारंगत्वे कलिंजकं || करित्वे नारिकेलं च मत्स्य स्वेकदलि तथा | मायाः सर्ववलित्वेन सर्वेषां कृशरान्ततः || पायसा पूपसंपाताल्लड्डुकैः कृशरान्तकैः | शाकोदलैस्तथा सूपै पिण्याकार्द्रकपोलिका || वटकालसुनं गृंजं कलिंजं वीज सहोदरं | नानोपायैः षड्त्रसैश्च वलिरेखा प्रकीर्तिता || क्रुरविद्या विधौ देवि पशुं पिष्टमयं चरेत् | यवक्षोदमयं वापि यद्वा धान्य समुद्भवं || माषपिष्टमयं देवि सर्वकर्माणि कारयेत् | २०६अ) गुडार्धके दधिगुडो लवणं गुडमेव च || यद्यनुकल्पयोगेन योजनीयं महेश्वरि | यथोक्तविधिमासाद्य यथोक्तं फलमाप्नुयात् || इति शक्तिसात्विक वलिदानं || भविष्ये || वलिहीने तु दुर्भिक्षं गंधहीनं *? रोगिता | धूपहीने तथो द्वेगो वस्त्रहीने धनक्षयः || दीपहीन विनाशः स्यान्नगरस्य पुरस्य च | दक्षिणा रहितं सर्वं व्यर्थं स्यान्नात्रसंशयः || इति वलिदानविधिः || इति श्री आद्यानन्दनविरचितायां कुलमुक्तिकल्लोलिन्यां षोडशः पटलः || मेरुतन्त्रे || श्रीदेव्युवाच || ततशोत्र जनादेव तन्त्रमार्गेषु संस्थिताः | सिद्धिर्न दृश्यते क्वापि किं परत्र भविष्यति || यदि कर्म प्रधानं चेद् देवताराधनेन किं | देवताराधनं सत्यं साधका दुःखिनः कथं || एतन्मे संशयं छिंधि किं चक्रैश्चापि मात्रिकैः | संस्काराश्च कथं कार्य मात्रिकाणां वदस्व तत् || ईश्वर उवाच || गर्भे कर्मत्रयं कुर्याज्जातमात्रे तथा दश | ततः कर्मत्रयं चेति संस्काराः षोडश स्मृताः || द्विजातीनां तथा मन्त्रे कुर्यात् कर्म त्रयं गुरुः | दशशिष्यस्ततः कुर्यात् सिद्धमन्त्रे पुनस्त्रयं || षड्रेव जन्मसंस्काराः प्रोक्ताः स्त्रीशूद्रयोरपि | तथैव मन्त्र संस्काराः षडेव परिकीर्तिताः || चाण्डालादेस्तु चत्वारो मन्त्रे तावन्त एव हि | त्रयश्च यवनादीनां तन्मन्त्रेष्वपिते त्रयः || वामदक्षिणभेदेन तेषां कर्तव्यतां शृणु | आज्यस्थाने सुरां वामे होमाद्यर्थं प्रकल्पयेत् || पाकाद्येषु च मांसं स्याच्छ्येकादौ स्त्रीमयः स्मृतः | मैथुनं ब्रह्मचर्ये च मुद्रास्तत्कर्मकास्तथाः || गर्भाधानं स्वकल्पोक्त व्रत्मना प्रथमं भवेत् | दक्षिणा नामथो वामे दूतीयागं समाचरेत् || संतर्पयेदंगदेव मन्त्रैर्योनिं च तीर्थतः | तस्या अंगे देवनाया मन्त्रन्यासं समाचरेत् || सर्वान्यासात् स्वस्य देहे भावयेत् तां च भैरवीं | स्वयं च भैरवो भूत्वा रतिकर्म समाचरेत् || २०६ब्) सुखासनस्थो भगमं ध्वजं कृत्वा जपेदमुं | मंत्रं पंच सहस्रं तु यथेष्टं लभते सुतं || लक्ष्मी प्राणेश्वरी चेद्धि(?) मम पाहि नवाक्षरः | तस्याः सोमे तस्य सूर्ये गर्भस्तिष्ठेद्धसतले || अथ द्वितीय संस्कारः कार्यः पुंसवनाभिधः | तृतीये मासि कुर्वीत अथ पुंसवनं वुधः || वेदोक्त प्रोक्तदिवसे स्वकल्पोक्तेन वर्त्मना | तत्र वैदिक मुख्यस्य होमस्थाने स्वदेवता || जुहूयात् कारणे नैव चतुराहुति संख्यया | तदा वरण देवानां पुरुषाणां द्वयं द्वयं || एकास्त्रीणां वाममार्गे शेषं पूर्ववदीरितं | सर्वार्थं * * ? रशुं मात्रं मासायां भैरवो वलिः || * * * * * ? संस्कारः सीमन्ताख्यः प्रकीर्तितः | चतुर्थे षष्टाष्टमेषुमास्सु सन्मध्यमाधमः || ज्योतिः शास्त्रोक्त दिवसे स्वकल्पोक्तेन वर्त्मना | वामी तु देवतामन्त्रं सीमन्ते सुरुचा * *? || न्यासंकुर्यात् तदंगेषु सूति रुग्रोहहारिणं | ततो न गच्छेत्तां भार्या देवता शापभीतितः || कामेन वाथ मोहेन दुःकाले वा विधानतः | अन्येन वा कृतः संगः सीमन्तः * * * * * ? || *? थतुर्यं तु संस्कारं कुर्यात् स्त्री शूद्रयोरपि | जातकर्माभिधं विप्रः स्वकल्पोक्तेन वर्त्मना || कन्या जन्मनि विप्राणां शूद्रस्य सुतजन्मनि | भूष्णीमेव क्रियां कुर्याद् विष्णुस्मरणपूर्वकं || वामाचारी न कुर्वीत मेधा जनन संस्कृतिं | किंतु स्वर्णस्य लेखन्या विलिखेत् कारण्यग्रया || तालु देशे मूलवीजं रसनायां तथा मनुं | देवानां तर्पयेत् पश्चादन्यत् कर्म तु दक्षवत् || अथ पंचमसंस्कारं नाम कर्माहयं ध्रुवं || सर्वेषामयमुद्दिष्टः सूतकांते सुभे दिने | स्वकल्पोक्त विधानेन नामकर्म समारभेत् || तंत्रेषु यानि चोक्तानि मात्रा चक्राणि षोडश | विचार्य तानि कुर्वीत नामयत् सफलं भवेत् || न कृतं चेदत्र नाम तादृशं चेद्गुरुस्तदा | पूर्णाभिषेके कुर्वीत तत्सवीजं निरूप्यते || यस्माद् दक्ष गुणैः सिद्धिर्विप्राणां संप्रजायते || २०७अ) ताराचक्रं प्रवक्ष्यामीत्यादि ताराचक्रादौ स्वमन्त्रान् कूलनामकरणं कुर्यादित्यभिप्रायः || चक्रोप्यत्रैवावलोकानीयं || चौरमात्रादि चक्रं तु प्रकरण वशाल्लिखितं || तत्रैव || अन्नप्राशनं संस्कारः षष्ठः सार्वजनीनकः | स्वकल्पोक्त विधानेन शूद्रादी नाममंत्रकः || पित्रा तु तत्र संपूज्या वाममार्गे तु भैरवाः | स्वेष्ट देवाश्च चक्रस्य पूजांते ह्यवशेषितं || स तीर्थं सपलं दद्यान् मूलमन्त्रमुदीरयेत् | एवं कृत विधानस्य छुद्विपर्त्तिर्न जायते || अथ सप्तमसंस्कारं चौलाख्यं शृणु पार्वति | सर्वेषामेतदुद्दिष्ठं वाल्यपातकनाशनं || वौद्धानां यवनानां च शिखात्र स्थाप्य तेन च | स्त्रीणामपि च कर्तव्यं सौभाग्यारोग्यवृद्धये || वामे चूडास्तूधर्तव्या मंत्रवीजसमाःकचा | तीर्थे क्षिप्ता खनेद्भूमौ विशेषो वामि नामिति || अथ ताराचक्रं || ताराचक्रं प्रवक्ष्यामि वालोनां मन्त्रसिद्धये | अ आ हयेदूर्प्यमे च ई उ ऊ वह्नि भे मताः || ऋ ॠ ऌ ḻऋ च रोहिण्यं ए मृगे शिवभे च ऐ | ओ औ पुनर्वसौ पुष्पे *? पुनः सर्पभे खगौ || पितृभे च घ ङौ भाग्य च आर्यमणे च्छजौ मतौ | हस्ते ऋतौ टठौ त्वान्द्रे खात्यांडोद्वीशभे दृणौ || तथदा अनुराधायां ज्येष्ठायाअधाथ मूलभे | न प फा पूर्वाढायां वकारो भस्तु वैश्वभे || मः कर्णेथ धनिष्ठायां यरौलशततारके | वशौ तु पूर्वभाद्रायां ष सहास्युरुपांति मे || लक्षं अं अश्च रेवभ्यां गण्यान् मंत्राक्षरर्क्षतः | साध्यनामादि वर्णक्षे त्रिरावृत्या फलानि तु || स्थाननाशः सतां संगो वहुमैत्री मृतेः समं | आधिं वा व्याधि माप्नोति साधकात् कार्य सिद्धयः || वहुभिः शत्रुताक्षय विपत्ति संपदात् पयः | एतत् तु तारा चक्रस्य फलं ज्ञात्वा चरेदिदं || अथ गणमातृका चक्रं || तारोक्त मातृकाभिर्भे ज्ञात्वा साधकसाध्ययोः | स्त्री पुंसोर्वाच्यस्तयोश्च *? ण चक्रं विचारयेत् || २०७ब्) स्थिराणि विमघाग्राणि रौद्रं नरगणः स्मृतः | हर्षन्य मित्रादिनींदु वा तेज्ये करघोटकाः || देवाः शेषाराक्षसाः स्युसाध्य साधकयोः फलं | नृदेवेयोः फलं शीघ्रं व्यस्तयोः कष्टतः फलं || नृदैत्ययोर्मनुग्राहाद्व्यस्तयोर्मरणं भवेत् | देवदानवयोर्युद्धं व्यस्तयोनिः फलं भवेत् || नागमातृकाचक्रं -------------------------------------------------------------- | अश्वि|भर|कृत्ति | रोहि | मृग | आद्रा | पुन | पुष्य| अश्ले | --------------------------------------------------------------- | अ आ | इ ई | उ ऊ | ऋ ॠ | ए | ऐ | ओ औ | क | ख ग| --------------------------------------------------------------- |मघ|पूर्वा| उत्रा |हस्त |चित्रा | स्वाति| विसा | अमु |ज्येष्ठ| -------------------------------------------------------------- |घङ| च |छ ज|झ ञ|ट ठ| ड |ढ ण|त थ| ध | -------------------------------------------------------------- गणमातृकाचक्रं || ------------------------------------------------------------- | न र| रोह् |उ फा| उ षा|उ भा|पू |पूर्वा | पू |भर|आद्रा| | | | | | |फा | | भ् | | | ------------------------------------------------------------- | देव |श्रव|रेव | अमु |पुन |मृग|स्वाति |पुष्य|हस्त|अश्वि| ------------------------------------------------------------- |राक्षे |कृर्ति|अश्ले |मघ|चित्रा|विशा|ज्यष्ठ|मूल |धनि|शत| ------------------------------------------------------------- अथ वक्ष्ये महाविद्या साधने सिद्धिमातृकां | मूलक्रमेण ज्ञेयानि तत्र कोष्ठानि षोडश || क्रमादेतेषु कोष्ठेषु मातृकार्णात्सुविन्यसेत् | कुत्रीशां कन्काभि सुर्पदिक् षदुष्टेन्दुपावृषा || पंचाग तिथि विश्वे च कोष्ठकास्तत्र कीर्तिताः | आदौ ज्ञेयं चतुष्केषु सिद्धायं विदिशासु च || तत्थान समकोष्ठा तु पुनर्गण्यं गुरूक्तितः | सिद्धः सिद्धो जपात् सिध्येत् सिद्धः साध्यो द्विसंगुणात् || सिद्धः सुसिद्धः संप्राप्तेः सिद्धारिर्हंति गोत्रजान् | साध्यः सिध्यति संक्लेशात् साध्यसाध्योति दुःख कृत् || साध्यः सुसिद्धो भजनात् साध्यारिः स्वस्त्रियं हरेत् | सुसिद्ध सिद्धोर्ध जपात् वहुजाप्याच्च तत्परः || २०८अ) अतिद्रुतं द्विः सुसिद्धः सुसिद्धारिः कुलापहः | अरिसिद्धः सुतं हन्यादरि साध्यस्तु कन्यकां || अरिसुसिद्धः पत्नीघ्नो अर्यरि साधकापहः || पिंगलामते || प्रसिद्धं यद्भवेन्नाम किम्वास्य जन्मनाम च | यतीनां पुष्पपातेन गुरुणा यत्कृतं भवेत् || नाम्नस्तस्यैव वर्णानि विभक्तानि च कारयेत् || अन्यत्रापि || लोके प्रसिद्धनामाथ मात्रापित्रा तथा कृतं || अन्यत्रापि || सुप्तो जाग्रति ये नासौ दूरस्थश्च प्रभाषते | वदन्त्यन्य मनस्कोपि तन्नाम ग्राह्य मंत्र तु || अन्यत्रापि || मातापितृ कृतन्नाम शोधनीयं प्रयत्नतः || तच्चः जन्मर्क्षाक्षरतो वीक्ष्यं तत्र मन्त्रादिमाक्षरमित्युक्तं तज्जन्मनाम्नेव यत्र प्रसिद्धिस्तत्परं || मेरुतन्त्रे || अत्र प्रसिद्धं नाम स्यात् प्रसुप्तो येन जागृवान् || अत्रैव प्रत्यक्षरं सिद्धादि गणनोक्ता || माता पितृ धृतन्नाम यच्चाप्यभि जनैःकृतं | विश्लिष्य तस्य वै वर्णन् स्वरवर्णविभेदतः || तथैव मन्त्रवर्णस्तु ततः शोधनमारभेत् | बिन्दु द्वि विन्दुको पध्मानीय जिह्वांघ्रिसंभवः || संहतोच्चारण प्राप्तमधिकाक्षरमेव च | अपभ्रंशाक्षरं लक्षौत्यक्त्वा खण्ढ चतुष्टयं || मन्त्राक्षरैः सहैकैकं नामवर्णोन् विशोधयेत् | व्यंजनैर्व्यंजनान्येव स्वरैस्सार्धं स्वरास्तथा || आद्यमाद्येन संशोध्यं द्वितीयेन द्वितीयकं | मन्त्रे वाप्यथ वा नाम्नि वर्णाः स्युर्विषमा यथा || तदा मन्त्रं समारभ्य समं यावत् प्रपूरयेत् | २०८ब्) आद्यन्त्रयोत् सिद्धवर्णा मन्त्रे यस्मिन् वरानने || अचिरेणैव कालेन स तावत् सर्वसिद्धिदः | साध्यान्तादि युतो यस्तु सोति कृच्छ्रेण सिध्यति || आदावन्ते सुसिद्धस्तु सर्वकाम विभूतिदः | आदावन्ते रिपूर्यस्य भवेन्त्याज्यस्समंत्रकः || आदौ सिद्धोऽन्त्यसाध्यो यो द्विगुणेन सिध्यति | आदौ सिद्धः सुसिद्धान्तो यथोक्तात् सिद्ध्यते जषात् || आदौ सिद्धोऽन्त शत्रुश्च स त्याज्यो मन्त्रि सत्तमैः | साध्यादिश्चैव सिद्धान्तस्त्रिगुणात् सिध्यते जपात् || आदौ साध्यः सुसिद्धान्तः प्रोक्तमार्गेण सिध्यति | सुसिध्यादिस्तु साध्यान्तश्चतुर्गुणमपेक्षते || सुसिद्धादिश्चान्त शत्रुर्मध्यमः परिकीर्तितः | आद्यारिश्चान्त सिद्धारिः सोपि त्याज्योत्र कर्मणि || आदौ मध्ये तथा चान्ते सिद्धः शुभफलप्रदः | सर्वसाध्य उदासीनः प्रोक्तस्तन्त्रे स्वयंभुवा || स्थान त्रितय सुसिद्धस्सर्वानर्थाश्च साधयेत् | स्थान त्रितयगतारिर्मन्त्रो मृत्युर्न संशयः || सिद्धादिः साध्ययुग्मान्तों व्यर्थ इत्युच्यते वुधैः | सिद्धादिर्द्धि सुसिद्धान्तस्सर्वकार्यार्थ साधकः || सिद्धादिररि युग्मान्तो नाशकः संप्रकीर्तितः || शत्रुर्भवति यदादौ मध्ये सिद्धस्तदन्तके साध्यः | कष्टेन कार्यसिद्धिस्तस्य फलं स्वल्पमेव भवति || अन्ते यदि भवति रिपुः प्रथमे मध्ये च भवति साध्ययुगं || कार्यं विलंवितं स्यात् प्रशस्यति क्षिप्रमेवान्ते | आद्यन्तयार्यदा साध्यो मध्ये सिद्धः प्रजायते || आद्यन्तयार्यदा सिद्धो मध्ये साध्यः प्रजायते | तावुभौ साध्यसिद्धौ हि जपाधिक्येन सिध्यतः || अरिसंपुटितः सिद्धः सुसिद्धो हि तथा भवेत् | सर्वनाशकराज्ञेयस्साधकस्य न संशयः || सिद्धेनान्तरितः साध्यः सुसिद्धान्तरितोऽथवा | शिघ्रं सिध्यति मंत्रोयमीशानः स्वयमव्रवीत् || सिध्येनान्तरितः शत्रुः सुसिद्धेनापि चेद्भवेत् | नासौ रिपुर्भवेन्मन्त्रं किंतु कष्टेन सिध्यति || २०९अ) साध्यान्तरित सिद्धस्तु सुसिद्धोपि तथा यदि | इदृशं लक्षणं दृष्ट्वा दूरतः परिवर्जयेत् || रिपुणादूषितो मंत्रो नैव देयः कदनेति || नारायणीयेपि || दुष्टार्ण प्रचुरो मन्त्रो यः स्यात् स च विनिन्दित इति || एवञ्चानुकूलेन स्वष्टं परानुकूलेन मन्त्रेण परानिष्ठं साधयेदित्यर्थः || पिंगलायां || एषु दोषेषु सर्वत्र मायां काममथापि वा | क्षिप्त्वा चादौ श्रियं दद्याद् दोषाणां च विमुक्तये || ग्रेहोय ग्रहमन्त्रेषु राशिचक्रं विचारयेत् | वेदारामास्त्रयो युग्मं युग्मं षष्टांतिमौशषट् || षट्वर्गाश्च ततः * *? नाम वर्णस्तुलात्मनोः | भवेद् यत्रादिमो वर्णः फलं तत्र भवेदितं || इष्टादासः पोषकश्च रागकृत् पुत्रदः शुभं || स्त्रीसौख्य कृद्वातकारी || भाग्यदः कार्यसिद्धकृत् || लाभकृद्व्ययकृच्चेति प्रोक्तेयं राशिमातृका | स्त्रीशूद्रपतिरामानां नाममत्रैरूपासना || पूर्वोक्ताराशयो ज्ञेया || मीमाद्याश्च द्विजादितः || वर्णात् तमोमनुर्ग्राह्यो वैदिकोत्र विशेषतः || ------------------------------------------------------------------------------------------------ | प् फ ब भ म ११ |य फ ब भ म १२|अ आ इ ई १ |उ उ ऋ २ |ऋ ऌ ॡ ३| ------------------------------------------------------------------------------------------------- | त थ द ध न १० | रासिमातृका चक्रं | ए ऐ ४ | ------------------------------------------------------------------------------------------------- |ऌ? ॡ? ण ढ? छ ९| च***? ञ ८ |क ख ग घ ङ ७|अं अः म प ह न क्ष ६| ओ औ ५ | ------------------------------------------------------------------------------------------------- ----------------------------------------- | ब्राह्मण | क्षत्री | वैश्य | शूद्र| ----------------------------------------- | मीन | मेख | वृष | मिथु | ------------------------------------------ | कर्क | सिंह | कन्य | तुल | ------------------------------------------ | वृश्चि | धनु | मक्र | कुंभ| ------------------------------------------- | वर्णमातृकाचक्रं | २०९ब्) ----------------------------------------- | वायु| अग्नि| पृथ्वी | जल | आका | ------------------------------------------ | अ | इ | उ | ऋ | ऌ | ----------------------------------------- | आ | ई | ऊ | ॠ | ॡ | ------------------------------------------ | ए | ऐ | ओ | औ | अं | ------------------------------------------- | क| ख | ग | घ | ङ | ------------------------------------------- |च | छ | ज | झ | ञ | ------------------------------------------ | ट | ठ | ड | ढ् | ण | ------------------------------------------ | प | फ | ब | भ | म | ------------------------------------------ | य | र | ल | व | श | ------------------------------------------ | ष | शु | लं | स | ह | ------------------------------------------ ------------------------------------------------------- |ओं|न|नो|भ|ग|व|ते|वा|सु |दे|वा | य |मन्त्रः | ------------------------------------------------------- |ए |आ |आ |ज?|य|ज|वा|ज|ज |ए | ज | व |त स्वामि| ------------------------------------------------------- |१ |१ |० |० |२ |० |० |० | ||| |० | ||| | ||| |इष्टम् | ------------------------------------------------------- |० |० |१ |१ |० |१ |१ |१ | | |१ | | | | |कष्ट | ------------------------------------------------------- वक्ष्येथ कौलिके मार्गसिद्धि कृत्यां च भौतिकं | वायवग्नि भूजलाकाश पंचतत्वानि विन्यसेत् || द्वौ द्वौ स्वरौ तले लेख्यौ एकाराद्यास्ततः पुनः | कादिकाश्चापि षड्वर्गा यक्षरासश्चहस्तथा || पुनः पुनर्नामलेख्यं || मंत्राक्षर समो ममुः तस्मात् पुनर्मनुलेख्यो युगपत् स्यात् समापनं || यावत् तावल्लिखित्वा || अथ वर्णतत्वं विचारयेत् || स्थाप्यं रूपं त्वेक तत्वे मित्रतत्वे तु तद्वलं | उदासीने पादमेकं तद्योगः पंक्तिभाजितः || इष्टं स्यादथ कष्टं तु रात्रौ रूपं समेदलं | पादो मित्रे ततद्वच्च तत्कष्टं स्यात् कलात्मकं || इष्टेधिकेष्टे तु मंत्रसाधनयामाचरेत् | कुर्वन्ति भूतवेतालापिशाचेच्चान्यथा नरं || महीसलिलयो मैत्र मनला निलयोरपि | सामान्यमग्निर्भूम्योस्तु सलिलानिलयोस्तथा || शात्रवं वैपरीत्येन चक्रं स्यात्वां च भौतिक || वक्ष्येथ कौलिक इति || चक्रं न्यासो व्याख्या || अथ वालावषोधार्थ गणितो दाहरण चक्रं || तत्र रेखा रेखाभिः पादसूचना || इष्टयोग ५ | १५ || अथ द्वादशक्षरा पंक्ति || द्वादशभक्ते लब्धं शून्यं शेषं ५ षष्ठि गुणं ३०० कलायुक्तं ३१५ द्वादशभक्तं २६ लब्धाः कलाः शेषं ३ षष्ठिघ्नं १८० द्वादश भक्तं लब्धंः एवं विकला १६ एवं जातं कष्टं ३० || ४५ || इति पंचभूतमात्रा चक्रं || २१०अ) || अथ षट् पदमातृकाचक्रं || सिद्धादि चक्रं वक्ष्येहं यज्ञात्वा नाम कारयेत् | दक्षिणोपासना मार्गे स्वमंत्रं स्वस्य देवतां || द्वादशारे तथा चक्रे कूटषंढ विवर्जितान् | आदि हांताल्लिखेद्वर्णान् पूर्वतो यावदीश्वरं || स्वनामाक्षरमारभ्य ज्ञेयो मंत्राक्षरावधिः || सिद्धः साध्यः सुसिद्धोरिरिति ज्ञेयं पुनः || सिद्धः सिध्यति कालेन साध्यः सिध्यति वानवा | सुसिद्धोग्रहणादेव रिपूर्मूलं निकृंतति || यस्तु वीजात्मको मंत्रस्तत्र षट् पदमातृकां | विज्ञेयं तत्र पद्मन्तु रचयेत् षड्दलं शुभं || तत्रन्यसेन् मातृकार्णान् कूट खंद्व विवर्जितान् | स्वनामाद्यक्षरं यत्र तदारभ्य विचारयेत् || संपद् दारिद्र्यधैर्याणि वन्धुविग्रहसंशयाः | सर्वनाशः क्रमादेतन्नामाद्यर्णत्य कोष्ठतः || वाराहीतन्त्रे || कोष्ठ शुद्धिर्वराहे च महालक्ष्म्याः कुलाकुलं | नामादि चक्रं सर्वेषां भूतचक्रं तथैव च || ताराशुद्धिर्वैष्णुवानां कोष्ठशुद्धिः शिवे भवेत् | त्रैपुरे राशि शुद्धिः स्या गोपाले कद्रमः स्मृतः || २१०ब्) कथं मन्त्रस्य सिद्धिः स्यादेतदेर्थमहं व्रुवे | धनर्ण मातृकां तत्र षट् त्रिद्वित्र्थग षट् कृताः || वह्न्यभ्रात्र भुवो लेख्या अंका एकादशस्वराः | तत् तले काच्चठान् वाच्चलेख्या वर्णा हरोन्मिताः || तदधो द्विकुंसप्ताद्धि खत्रि सप्तेषु सागराः | षट् पंचसाधकस्यां कां मंत्रांकाः पुर्वमीरिताः || स्वरव्यंजनभिन्नानां मंत्रार्णानां पृथक् पृथक् | अंकयोगस्तथा कार्यः साधकस्य तु नमजः || नागशेषावुभौ स्थाप्यौ यावन्नामांकतो मनुः | अधिकस्तत् साधकस्य देयं मंत्रेण साधितः || तावत् संख्यात्मको योगा न साध्यानपि साधयेत् | हीनांश्च ग्रहयोगेन तथा दृष्टोपपत्तितः || पुरश्चर्या पुनः कुर्यान् मंत्र संदीप्तये पुनः | ऋणी तु साधको ज्ञेयः साधकांको यदाधिकः || यावत् स्यादधिकस्तावत् संख्यकानि यदा चरेत् | पुरश्चरणसंज्ञानी तदास्य समता भवेत् || पुरश्चर्यां पुन कृत्वा तदा स्यात् कार्यसाधकः | एकस्मिन् साधिते कार्य पुनर्याति *? कुंठतां || तावज्जपं पुनः कृत्वा चैक कार्ये क्षमो भवेत् | तत्व मंत्र प्रकटितं सर्वतंत्रेषु गोपितं || वाराही तंत्रे || मंत्रोयद्यधिकां कस्यात् तदा मंत्रं जपेत् सुधीः | समेपि च जपेन्मंत्रं न जपे तु ऋणाधिके || शून्यं मृत्युं विजानीयात् तस्माच्छुन्य परित्यजेत् || मेरुतंत्रे || २११अ) मल्लमातृकाचक्रं || --------------------------------------------------- |१ | १ | ३| ३ |३ | ६ |६ |० | ० | ० | १ | अंका | ---------------------------------------------------- |अ |आ | इ| ई |उ | ऊ |ए |ऐ | ओ |औ |अं | स्वरा | ---------------------------------------------------- |क |ख|ग|घ|च |छ|ज|झ|ट |ठ |ड |वर्णा | ------------------------------------------------- |ढ|ण |त|थ|द |ध|न|प |फ| ब |भ| | --------------------------------------------------- |म |य |र|ल |व |श |ष|स |ह | ल |क्ष| | --------------------------------------------------- |० | ४ |६ |४ |७ | ३ |१ |२ | ५ | ३ | |शेषांक| --------------------------------------------------- योधयोर्नियार्थं तु प्रसंगान् मल्लमातृकां | वक्ष्यामि तस्याश्चक्रं तु रचयेदेव मे वहि || पंचपंचाग्नि रामाग्नि रसर्तुगगशात्रखं | भूश्चोढपत्भौ संलेख्यास्तदेधः षंढवर्जिताः || एकादश स्वराश्चांत्य हीना लेख्याश्च तत् तले | कढमाद्याल्लिखेद् वर्णान् ङ ञ णाक्षरवर्जितान् || नामाक्षरांक संयोगाद्व्याप्तोजेतामशेषकः | तुल्यतायां द्वयोर्योगः कार्यश्चाष्टावशेषितः || खवेदर्तुशरागाग्नि भूद्वयेष्वग्निमोजयी | समयोरुभयोर्यत्र मंत्र यंत्रं विनाकलिः || चौरमातृकाचक्रं || --------------------------------------------------- |६ |४ | २| ५ |७ | ४ |७ |२ | ६ | ० | १ | --------------------------------------------------- |अ |आ |इ | ई |उ |ऊ |ए |ऐ | ओ | औ | अं | --------------------------------------------------- |क |ख|ग|घ|च|छ|ज|झ| ट | ठ | ड | --------------------------------------------------- |ढ|ण |त|थ|द|ध|न|प |फ | ब | भ | -------------------------------------------------- | म|य |र|ल |व|श |ष|स | ह | ल | क्ष | --------------------------------------------------- चौरमात्रां प्रवक्ष्यामि ज्ञेयाधनिक चोरयोः | षद्वेदद्वीषु सप्ताद्धि नगद्विरसखंधरा || वुध्नांका पूर्ववच्छेषमंक योगोष्ट शेषितः | हीनस्य हानिरधिके जयो गोप्यमिदं सुराः || १११ब्) राजमातृकाचक्रं ---------------------------------------------------- | अ| क | च | ट | त | प | य | श | य | र्ग्| ---------------------------------------------------- | ३| ५ | ६ | ४ | ० | १ | ३ |२ | शं | क | ---------------------------------------------------- राजमात्रां प्रवक्ष्यामि भूपयोर्विजय प्रदं | वर्गाष्टकांका वह्नीषु षड्वेदाभ्रेंदु वह्नयः || द्वयं च योजयेद् वर्णान् सप्ततष्टेधिके जयः | तुल्यशेषे वर्गवलाद्वर्गैक्य प्राणवीर्यतः || कलमातृकाचक्रं ---------------------------------------------- | ३ | १ | ४ | २ | १ | ---------------------------------------------- | अ | इ | उ | ए | ओ | -------------------------------------------- | क | ख | ग | घ | च | --------------------------------------------- | छ | ज | झ | ट | ठ | --------------------------------------------- | ड | ढ | त | थ | द | --------------------------------------------- | ध | न | प | फ | ब | -------------------------------------------- | भ | म | य | र | ल | -------------------------------------------- | व | श | ष | स | ह | -------------------------------------------- मातृकां कलहां वक्ष्ये कलहेपि जयप्रदां | वह्नीन्दु वेदयुग्मेंदुत लेपं च स्वराल्लिखेत् || क छ ड ध व सुखान् ङ् ञ णौ नांश्च तद्युतौ | पंचभक्तेधिके शेषे जपो हीने पराजयः || ७ || द्वंद्वमातृकाचक्रं ------------------------------------------------------------- | १ | ० | ६ | ५ | ४ | ३ | २ | १ | ० | ६ |५ | ४ | ३ | २ | १ | -------------------------------------------------------------- | अ |आ | इ | ई | उ | ऊ | ऋ |ॠ |ऌ |ॡ |ए |ऐ | ओ |औ |अं | ------------------------------------------------------------- |क |ख|ग |घ|च |छ| ज|झ|ट |ठ|ड|ढ | त|थ|द | ------------------------------------------------------------- |ध|न |प |फ|ब |भ| म|य | र|ल |व| श | ष|स |ह | ------------------------------------------------------------- २ कामे रणेधा स्त्री पुंसोर्जयदां मातृकां शृणु | भूखं षट्पंच वेदाग्नि द्विभूखं षट् शराः कृताः || त्रिद्विभूस्तदधो वर्णान् ङ ञ णांत्य स्वरोदितान् | संगृह्य नामवर्णांकान्मात्राभेदेन भेदितान् || सप्ते तष्टेधिके शेषे जपो हीने पराजयः | समशेषे विवेकस्तु कुर्यात् प्राणांच्च वर्गत्या(?) || २१२अ) सेनापति विजयमातृकाचक्रं || ------------------------------------------------- |६ | ३ | २ | ४ | ८ | ६ | ९ | ४ | ३ | | १ | -------------------------------------------------- |अ | आ | इ | ई | उ |ऊ | ए | ऐ | ओ | औ | अं | -------------------------------------------------- |क |ख|ग |घ|च |छ|ज |झ | ट | ठ| ड | -------------------------------------------------- |ढ|त |थ|द |ध|न |प |फ | ब | भ| म | -------------------------------------------------- |य |र |ल |व |श |ष |स | ह | ल |क्ष |ज्ञ | -------------------------------------------------- सेनापति जयार्थं तु मात्रां शृण्वं तु देवताः | रसाग्नि लोचनां भोधिनाग षट् गोद्धि वह्नयः || खं भूश्च दधो रेख्या ङ ञ र्णात्य स्वरोज्झिताः | आद्यास्तदंकयोगोर्क हीनोष्टाप्तोधिके जयः || गदिमातृकांक्यः राधांक्यः || ------------------------------------------------- |६ |३ |२ | ४| ८ | ६ | ९ | ४ | ३ | ० | १ | ------------------------------------------------- |अ |आ |इ |ई |उ | ऊ | ए | ऐ| ओ | औ| अं | ------------------------------------------------- |क |ख|ग |घ|च |छ| ज| झ| ट | ठ| द | ------------------------------------------------- |ढ|त |थ|द |ध|न |प | फ| ब | भ| म | ------------------------------------------------- |य |र |ल |ष |श |ष |स | ह | ल | क्ष |ज्ञ | ------------------------------------------------- कादिहान्ता लिखेद्वर्णान् वद्वात्य ङ मणोज्झितान् | रसाग्नि युग्मवेदांग षट् हूताग्नींदु शून्यभूः || विलिख्यांकां तधोदूत गदिनोरंक संमितिः | नष्टाष्टभिश्चेदधिको गदितो जीवितं भवेत् || साम्ये याप्यत्वमित्युक्ता एताः षोडशमातृकाः | विज्ञायै तद्गुरु मुखान्नाम कर्म समाचरेत् || अन्नप्रासनसंस्कारः षष्ठः सार्वजनीनकः || स्वकल्पोक्त विधानेनेति || २१२ब्) अथाष्ट मन्त्रसंस्कारं मौं जीवं धमहं भ्रुवे | गुरोः समीपे नयनं तश्चोपनयनं स्मृतं || स्वकल्पोक्त विधानेन तत् कुर्याद् ब्रह्मवर्चसे || वामाचारैर्द्विजैः पूर्वं दीक्षा कर्तव्येति प्राक् दीक्षायामुक्तं || तेषां ग्राह्या यत्र दीक्षा पुरश्चर्य समाचरेत् || संस्कारं नवमं विद्यात् प्राजापत्य व्रताभिधं | स्वकल्पोक्तेन मार्गेण वैदिकस्तान्त्रिकः पुनः || एतद् व्रतस्य संस्थाने गाणपत्यो मनुः स्मृतः | वक्रतुण्डादिका दक्षे उच्छिष्टाद्यास्तु वामके || संस्कारं दशमं सौम्य व्रतं वैदिकमाचरेत् | स्वकल्पोक्त विधानेन तत् स्थाने तान्त्रिकः पुनः || गृह्नीयां भैरवं मन्त्रं वटुकाख्यस्य वामके | कालभैरव भेदस्य यस्य कस्यापि दक्षिणे || पुरश्चर्यो पासकानां नाशको भैरवो यतः | दरिद्रैः साधकैर्ग्राह्यः स्वर्णाकर्षण भैरवः || एकादशं तु संस्कारमाग्नेयाख्यमतंद्रितः | कुर्याद् गृह्योक्त मार्गेण तस्मिन् स्थाने तु तांत्रिकः || गृह्नीयादंग देवानां मन्त्रानादौ गुरोर्मुखात् | पूजादि मन्त्रांस्तच्छिक्षांस्तद्द्र *? नियमांस्ततहा || द्वादशं चापि संस्कारं वैश्वदेव व्रताभिधं | तस्मिन् स्थाने भवेद् दीक्षा स्वेष्टमन्त्रस्य तांत्रिके || त्रयोदशं तु संस्कारं गोदानाख्यं प्रकीर्तितं | तत् स्थाने तान्त्रिकः कुर्यात् सर्वपापविमोक्षणं || सत् स्थले तु समासीन आदर्शं वाद्यटोदकं | स्थाप्यग्रे सत्यया वाचा ततः संप्रार्थयेदिति || पुरश्चरण कामोहं पापं क्षयि तु मुद्यतः | अपराह्नं जपं कूर्चे देवताः संतु साक्षिणः || पृथिव्यप्तेज आकाशवायु सूर्येन्दु भानि च | यावच्छरीरे पापानि तिष्ठन्ति मम देवताः || तावच्च प्रतिविंवो मे मलिनो भातु पातके | शान्ते पारद मध्ये च यथा संदृश्यतां तथा || शुद्धः संचिन्मयो भूत्वा चिन्तयेत् पापपुरुषं || दक्षकुक्षि स्थितं कृष्णंमंगुष्ठ परिमानकमित्यादि पूर्ववत् || २१३अ) एवं संचिन्तयित्वाथ जपं कुर्वन्विचिन्तयेत् | २१३अ) क्षीयमानं पापनरं जपान्ते प्रेक्षयेत् पुनः || आदर्शादि यदा स्वच्छा सर्वच्छाया प्रदृश्यते | तदा तु निर्गतं पापं पूरश्चरण योग्यता || चतुर्दशं तु संस्कार समावर्तनमुच्यते | तस्य स्थाने पुरश्चर्या कर्तव्या तान्त्रिकैर्जनैः || अत्र द्रव्या भावाद् दरिद्रैः स्वर्णाकर्षण भैरवस्य पुरश्चर्या कर्तव्येत्यर्थः || विवाहः पंचदशमः सर्वेषां स विधीयते | षोडशः पितृ मेधाख्यः स्वगृह्योक्तेन वर्त्मना || वैदिकस्तान्त्रिकस्तत्र देवस्थाने स्वदेवतां | स्थापयित्वा चरेच्छ्राद्धं ब्राह्मणा मृत पंथिनः || अथ वा यजमानस्य मार्गस्था तदभावतः | आश्रार्धं प्रकुर्वीत वामी तु पल पैतृकं || शक्तियुक्ता द्विजाः कौले भोज्याश्चक्रार्चने यथा | वर्जयेत् तुलसीन् तत्र भृंगराजं न पूजयेत् || पाकः कौलिकवस्तूनां पिंडाश्च रुधिरोक्षिताः | एतैः षोडश संस्कारैः संस्कृतः साधकोत्तमः || जीवन्मुक्तस्तदा ज्ञेयः सामर्थ्यं देवतार्चनं || अथ षोडश वक्ष्येहं संस्कारा मन्त्र संस्थिताः | शापैर्मन्त्रा विमुच्यंते यान्कृत्वा दैव निर्मितैः || अथादौ सर्वमन्त्राणां जागृतिः प्रोच्यते मया | गुरुणा सा प्रकर्तव्या शिष्यस्य सिद्धि हेतवे || तारात्याग्नि विहत्यु द्वे यस्मिन्नाग्नेयकः स तु | अन्य सौम्यः स्वापकाल इडायामाग्नि रूपिणः || सौम्यस्य पिंगलायां स्यात् तयोरन्यत्र जागृतिः | पवोधकाले संजप्तो जागृतो जायते मनुः || अथ वा संपुटीकृत्य लांता नाद्यान् स विन्दुकान् | पुनश्च स विसर्गां तान् क्षकारं केवलं पठेत् || एवं जप्तोपदिष्टश्चेत् प्रवुद्धः शीघ्रसिद्धिदः | अथशावर मंत्राणां जागृतिं शृणु पार्वति || कांस्य भाजन मानीय शुद्धं भस्मादिभिः कृतं | प्रजपेद् रविरात्रौ तु यामे यामे शताष्टकं || खादिर्या ताडयेद् यन्द्या(?) कांस्यपात्रं वदेदिति | जागृतो भवमंत्रस्य भाषयाथ तुरीयके || २१३ब्) यामे दद्याद् वलिं काल्या मण्डजं भैरवस्य तु | कुक्कटं चान्य देवेषु स्फोटयेन् नालिकेरकं || अथो मन्त्राणां जननादि दशसंस्काराश्चोक्ताः संस्कारा अथ पंच च || प्रतिमंत्रं वश्यमाणा जपो होमश्च तर्पणं | मार्जनं भोजनं चापि द्विजानामिति षोडश || एवं कृते मन्त्रसिद्धिर्भवतीति भावः || प्रोक्ता मंत्रस्य संस्काराः किमन्यच्छ्रोतु मिच्छसि || श्रीपार्वत्युवाच || पुरश्चरण शब्दस्य व्रूह्यर्थं च विधिं तथा | वैदिकाद्याः सर्वमंत्रा न सिध्यंति च यं विना || श्री ईश्वर उवाच || तंत्राण्यष्टोत्तरशतं मया प्रोक्तानि पार्वति | येन येन तु यत्पृष्टं तस्याधिक्यं तु वर्णितं || यस्या यस्या देवतायाः प्रशस्तिर्यत्र यत्र च | तत् तन्मार्गे प्रशस्ता सा स्वराज्ये राजवद्भवेत् || यमुद्दिश्य कृतं तन्त्रं तस्य तत्र महन्तत | निःपक्षपातं वक्ष्यामि मेरुतन्त्रे यथार्थतः || मेरुतन्त्रे तु यत्प्रोक्तं तत्स्थिरं नान्यथा भवेत् | रहस्यं सर्वतन्त्राणां कथयामि तवाग्रतः || कल्पार्थं सर्वतन्त्रेषु यत्सारं तच्च गोपितं | धर्मार्थ काममोक्षाणां साधको मन्त्र उच्यते || तत्सिद्धये पुरो यच्च चर्यते तत्प्रकीर्तितं | पुरश्चरण कर्माख्यं वेदादौ शावरांतके || मन्त्रे यन्त्रे तथा वश्यं तत्प्राकारान् व्रवीम्यहं | जपो होमस्तर्पणं च मार्जनं विप्रभोजनं || पंचांग कर्मरूपं तदाहुः केचन तत्र तु | चतुरंगास्तथाद्र्यंगाद्र्यंगा एकांगिनोपि च || मंत्रास्तिष्ठंति वेदेषु तथा तन्त्रेपि शावरे | केचित् षडंगा मंत्रास्युस्तदंगानां जपादिति || अघमर्षण सूर्यार्घ जलपान प्रणामकैः | देवार्चया पंचभिश्च तैरेवं स्युर्दशांगकाः || दूतीयागान् तथोचोत्ती कर्मतश्चक्र पूजनात् | ध्वजलिंग समायोग जपाच्च वलिदानतः || महावलि प्रदानाच्च भवंत्येकादशांगतः | षोडशांगाः कौलिकानां वामकानां द्विकेरिताः || अमर्यश्मरि सेव्यतोष्टा दशांगास्त्वघोरिणां | सर्वपाप क्षयं कुर्यादथ वा सिद्धि वंधकृत् || २१४अ) यावत् पापं तस्य नाशं कृत्वा कुर्यात् पुरस्कृतिं | यथा प्रोक्तेन मार्गेण तस्य सिद्धिरदूरतः || सर्वपाप क्षयस्तत्र भवेद् वैदिकवर्त्मनां | तांत्रिकानां कौलिकानां वामिनां नाधिकारता || तस्मिं कर्मणि तेषां तु नाधिकारोस्ति वैदिके | ऋक् शाखाध्यायिभिः कार्यो गणहोमोथ तद्विधिः || स्नातः कृत क्रियः पत्नी सहितो दर्भसंस्तरः | प्राणानायस्य संकल्प्य पूजयित्वा गणेश्वरं || स्वगृह्योक्त विधानेन संस्थाप्याग्निं चरु श्रयेत् | आज्यं विलाप्य तद्भक्तं द्विराद्यारपते ततः || अग्नेन येति सूक्तेन षडर्चेन हुनेत् ततः | प्रतिमंत्रं भवेन् त्यागोग्नये इदं न मम || इत्यथोता ऋचो वक्ष्ये मास्तु शायवा विपर्ययः || अग्नेनय सुपथारोपे अस्मान् विश्वानि देववद्युनानि विद्वान् || युयोध्मस्मज्जुहुराणमेणो भूयिष्ठां तेन म उक्तिं विधेम || प्रवः शुक्राय भानवे भारध्व हव्यं मतिं चाग्नयेसुपूतं || यो दैव्यानि मनुष्य तर्विश्वानि विमना जिगाति || अक्षागिरो मतयो देवयंतिरग्नियंति द्रविणंभिसमाणा || सुसंदृशं सुप्रतीकं स्वं च हव्य वाहमरतिं मारुषाणां || अग्नेत्वमस्मद्विपोध्यमी वा अनग्नित्वा अभ्यसंत्व कृष्णीः || पुनरस्मभ्यं सुविताय देवक्षां विश्वेभिरजरेर्भियंजत्र || अग्नेत्वं पारयानन्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा || युश्च पृथ्वी वहुलान उर्वी भवातोकायतनयोयशंयोः || प्रकारव्ये मननावच्यमाना देवद्रींची न यथदेवयंतः || दक्षिणा वाद्धाजिनी प्राच्येति हविर्भिर्भरं त्यग्नये घृताची || याजुष्काष्टादशर्चन पौरुषेण ततो हुनेत् | जगत् वीजाय पुरुषाय नममेति च त्यजेत् || अवैष्णवो वैष्णवस्तु नारायणाय नमः | देवदेवी प्रियं सूक्तं तदिदानीं निगद्यते || सहस्र शीर्षा पुरुषः सहस्राक्षः सहस्रपात् | सभूमिं विश्वतो वृत्वा अत्य तिष्ठद् दशांगुलं || २१४ब्) पुरुष एवेद *? सर्वं यद्भूतं यच्च भाव्यं | उतामृतत्वस्येशानो यदन्ते नाति रोहति || एतावानस्य महिमा अतोज्यायांश्च पुरुषः | श्रोदोस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि || त्रिपादूर्ध्व उदैत् पुरुषः पादोस्येहा भवत् पुनः | ततो विष्वंङ्घ?क्रामत्साशनानशने अभि || ततिपि(?) रज्जयत(?) विराजो अधिपुरुषः | सजातो अत्परिच्यत पश्चाद्भूमिमथोपुरः || यत्पुरुषेण हविषा देवायज्ञमतत्वत | वसंतो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः || सप्तास्या सत्परिधयस्त्रिःसप्तसमिधः कृताः | देवायद्यज्ञं तत्वाना अवध्नन् पुरुषं पशुं || तं यज्ञं वर्हिषि प्रोक्षन् पुरुषं जातमग्रतः | तेन देवा अयंजंत साध्या ऋषयश्चये || तस्माद्यजात् सर्व हुतः संभृतं पृषदाज्यं | पशूंस्तांश्चक्रे वायव्या नारन्याग्राम्याश्चये || तस्माद् यज्ञात् सर्वहुतं ऋचः सामानि जज्ञिरे | छंदांसि जज्ञिरे तस्माद् यजुस्तस्मादजायत || तस्मादश्वा अजायंतः ये केचो भयादतः | गावोहजजिरे तस्मात् तस्माज्जाता अजावयः || यत् पुरुषं व्यदधुः कतिधाव्य कल्पयन् | मुखं किमस्यासीत् किं वाहु किमूरूपादा उच्येते || ब्राह्मणोस्य मुखमासीद् वाहू राजन्यः कृतः | उरू तदस्य यद्वैश्यः पद्भ्या *? शूद्रो अजायते || चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायते | मुखादिंद्रश्चाग्निश्च प्राणाहापुर जायते || नाभ्या आसीदंतरिक्ष *? श्रीर्ष्णोद्यौः समवर्त | पद्भ्यां भूमिर्दिशः श्रोत्रात् तथा लोकां अकल्पयेत् || वेदाहमेतं पुरुषं महांतं आदित्य वर्णं तमसस्तुप्यारेरणात् || सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभि वदन्यदास्ते || धातापुरस्ताद्यमुदा जहार शक्रः प्रविद्धान् प्रविद्धान् प्रविशश्च तम्रः || तमेवं विद्वानमृत इह भवति नान्यः पंथा अपनाय विद्यते || यज्ञेन यज्ञे मयजं तदेवास्तानि धर्माणि प्रथमान् न्योसत् || २१५अ) तेहनाकं महिमानः सचंत यत्र पूर्वे साध्याः संति देवाः || अग्नेर्मन्वेति सूक्तेन द्वाविंशत् पृचकेन च | हुनेत् तत्र त्रिषुत्यागो अग्नये नममेति च || तुर्ये चन्द्रायन मम त्यागः पंचम षष्ठयोः | मित्रावरुणाभ्यामिति सप्तमोष्टमयोस्तथा || वायुसूर्याभ्यामिति नवमे दशमे तथा | अश्विभ्यां च मरुद्भ्यस्तु द्वादशैकादशे भवेत् || विश्वेभ्यो देवेभ्य इति त्रयोदश चतुर्दशे | अनुमत्ये हव्य वाहाग्नय च तिथि संख्यके || अनुमत्यै षोडश स्यात् ततः सप्तदशे भवेत् | वैश्वानरायाग्नये च तथैवाष्टादशेपि च || द्यावा पृथिवीभ्यामिति विंशत्येकोन विंशत्येकोन विंशयोः || शेषयोरग्नये चेति ऋचस्ता शृणु सांप्रतं || अग्नेर्मन्वे प्रथमस्य प्रचेतसायं पांचजन्यं वहवः समिंधते || विश्वययां विशिप्रविशिवांसमीमहे मनोमुंचत्वं गुं हसः || यस्येदं प्राणं निमिषद्यदेजति यस्य जातं जनमानं च केवलं || स्तौम्यग्नि नार्थितो जोहवीमि समो मुंचत्व *? हसः || इंद्रस्य मन्ये प्रथमस्य प्रचेतसो वृत्तघ्नस्तोमा उपमामुपागुः || र्येदाशुषः सुवतोहवसुपगंतासनो मुंचत्व गुं हसः || यत् संग्रामं नयति संव्यशी भुषेयः पुष्ठानि संसृजति त्रयाणि || स्तौमींद्रं नार्थितो जोहवीमिसनो मुंचत्वं हसः || मन्वेवां मित्रावरुणा तस्य वित्तं सत्यौजसाद्रिं हायंनुदथे || रायाजानं सरथं पात उग्रातानो मुंचमागसः || योवां रथरज्जुरश्मिः सत्यधर्मामिथश्चरं तमुपयाति दूषयन् | स्तौमि मित्रा वरुणा नार्थितोजोहवीमितौनो मुंचतमागसः || वायोः सवितुर्विदथानि मन्महे यावान् सम्वर्धि तृतोयौ च रक्षं तः || यौ विश्वस्य परिभूवमूचतुस्तौनो मुंचतमागसः || उपश्रेष्ठा न आशिर्षा देवयो धर्मो अस्थिरन् || स्तौमि वायुं सवितारं नार्थितो व्रोहवीमितौ नो मुंचतमागसः || रथीतमौरथी नामः ह्वव्रतये शुभंगमिष्ठौ सुयमेभिरश्वैः || यपोर्वां देवौ देवेष्.व निशितमोजस्तौनो मुंचतमागसः || २१५ब्) यदयातं षहनुं सूर्याया स्त्रिवक्त्रेण संसदिमिच्छमान्यौ || स्तौमि देवावश्विनौ नार्थितोजोहवीमितौ नो मुंचतमागसः || मरुतां मन्तें अधिनो व्रुवं तु प्रेमां वाचं विश्वामवं तु विश्वे || आशुह्नये सूयमानौतये तेनो मुंचत्वेन सः || तिग्ममायुधं पीडितं सह स्वदिव्यं शर्ध पृतनासु जिष्णु || स्तौमि देयान् मरुतो नार्थितो जोहवीमिते नो मुंचंत्वेन सः || देवानां मध्ये अधिनो व्रुवप्नु प्रेमां वाचं विश्वामवं तु विश्वे || आशून् ह्रूवे सुस्वमा भूतये तेनो मुंचत्वेन सः || यदिदंमाभिशोवति पौरुषेयेण दैव्येन || स्तौमि विश्वान्देवीन्नार्थितोजोहवीमिते नो मुंचंत्वेन सः || अमुनोद्यानु मतिर्यज्ञं देवेषु मन्यतां || अग्निश्च हव्यवाहनो भवतादाशुषे मयः || अन्विदनुमते त्वं मन्यासेशं च नः कृधि || क्रत्वे दशापणो हिणः प्रण आयुंधितारिषः || वैश्वानरो न व्रत्या प्रपातु परावतः || अग्नि ऋत्वेन वा हसा || पृष्टो दिवि पृष्टे अग्नि पृथिव्यां पृष्टो विश्वा औषधीरा विवेश || वैश्वानरः सहसा पृष्टो अग्निः सनोदिवा सरिषः पातु नक्तं || ये अप्रथेताममितेभिरोजोभिर्ये प्रतिष्ठे अभवतां वसूनां || स्तौमिद्या वा पृथिव्याधिनार्थतो जोहवीमिते नो मुंचतमंहसः || उर्वीरोदसीवरियः कृणोतं क्षेत्रस्य पत्नी अधिनो व्रुयातां || स्तौमिद्यावा पृथिवी नार्थितोहवीमिते नो मुंचतमं हसः || यत् ते वयं पुरषत्रा पविष्ठा विद्वांसश्च कृमाकच्च नागः || कृधिष्व स्नात् आदितेरनागास्योन्यंसिश्रिश्रयो विश्वगग्नये || यथाह तव सवोर्गौर्यं चित्परिधिममुंचता यजत्राः || एनात्ममस्मत् प्रमुंचात्यंहः प्रोतार्यग्ने प्रतराम्न आयुः || यावामिन्द्रा वरुणेति चतुर्याजुक्ककैस्ततः | इन्द्रावरुणाभ्यामिति त्यागः सर्वत्रता यथाः || यावामिन्द्रा वरुणायतनूस्तये मम गुं हसो मुंचतं || यावामिन्द्रा वरुणा सहस्यातनूस्तय मम गुं हसो मुंचतं || २१६अ) यावामिन्द्रा वरुणा सहस्यातनूस्तयमम गु. हसो मुंचतं | यावामिन्द्रा वरुणा तेजस्यातनूस्तये मम गुं हसो मुंचतं || यावामिन्द्रा वरुणेति ततोष्टभिश्च होमयेत् | इन्द्रा वरुणाभ्यामिति त्यागः सर्वत्र यथा || यो वामिन्द्रा वरुणावग्नौ प्रामस्तं वामे तेनो वयजे || यो वामिन्द्रा वरुणा द्विपात् सु *? शुषुस्रामस्तं वामे तेनावयजे || यो वामिन्द्रा वरुणा चतुस्यात् सुस्रामस्तं वामे तेनाव यजेत् || योवामिन्द्रा वरुणा गृहेषु स्रामस्तं वामे तेनावयजे || योवामिन्द्रा वरुणा वप्सु स्रामस्तं वामे तेनावयजे || योवामिन्द्रा वरुणावोषधीषुस्रामस्तं वामे तेनावयजे || योवामिन्द्रा वरुणावनस्पतिषु स्रामस्तं वामे तेनावयजे || पावमानानुना कोपः ख्यातः सप्तदशर्चकः | त्रिषष्ठि वाक्यैस्तत्राद्यात् सक्तिवाङ्मात्रशाक्तिकैः || यावमानीभ्यो न मम त्यागो वाच्यस्त्व शाक्तकैः | या वृसानैह्यथो शैवैः यवमानाय सा यथा || यवमानः सुवर्जनः पवित्रेण विचर्थणिः || यः पोता स पुनातु मा || द्वितीया पित्रि वाक्या स्याद् देव जनेभ्यो मरुद्भ्यः | विश्वेभ्यश्च तथा पुंभ्यो न मम त्याग ईरितः || पुं नं तु मा देव जनाः पुनन्तु मन *? धिया || पुनन्तु विश्वा आपवः || तृतीया तु चतुर्वाक्या अग्नये जातवेदसे | इदं न मम इत्युक्तस्त्यागः सा ऋक् प्रकाश्यते || जातवेदः पवित्रवत् पवित्रेण पुनीहि मां | शुक्लेण देवदीद्यत् अग्ने ऋत्वाक्र *? क्तृ? गुं रनू || चतुर्थीन्तु त्रिवाक्या ऋगग्ने ये न ममेति च | त्रिवाक्या पंचमी त्यागः सवित्रेत्रे उभे यथा || यत्ते पवित्रमर्चिषिः अग्ने विततमन्तरा || ब्रह्म तेन पुनी महे || उभाभ्यां देव सवितः || पवित्रेण सवेन च || इदं ब्रह्मपुनी महे || ऋ.चा षष्ठी चतुर्वाक्या त्यागश्चास्या निरूप्यते || वैश्वे देव्यैरति न ममेति च सा यथा || वैश्व देवी पुनती देव्यागात् || यस्यै वह्नीस्तनु वोवीत पृष्ठाः || तया मदन्तं स धमाद्मेषु || २१६ब्) वप गुं स्याम यतयोरपीणां || वैश्वानरायवाताय इषि गुं राय मयो भुवे || द्यावा पृथिवीभ्यां चेति सप्तम्यां त्याग इष्यते || वैश्वानरो रश्मिभिर्मां पुनातु || वानः प्राणे नेषिरोमयो भूः || द्यावा पृथिवीपयसा पयोभिः || ऋतावरीयसि ये मा पुनीं तां || सप्तमी तु चतुर्वाक्या त्रिवाक्या चाष्टमी मता | सवित्रेग्नये न मम त्यागोष्टम्यां च सा तथा || वृहद्भिः सवितस्तृभिः || वर्षिष्ठैर्देवमन्त्रभिः || अग्ने दक्षैः पुनीही मा || अतः परं चतुर्वाक्या दिव्याय ब्रह्मणे त्यजे | नवम्यां यावमानीभ्यो दशम्यादिषुता यथा || येन देवा अपुनत येना यो दिव्यंशकः | तेन दिव्येन ब्रह्मणा इदं ब्रह्मपुनी महे || यः यावमानीरध्येति || ऋषिभिः संभृत गुं रसं || सर्वं गुं स पूतमश्नाति || यदितं मातरिश्वना || यावमानीर्यो अध्येति || ऋभिः संभृत गुं रसं || तस्मै सरस्वती द्रुहे क्षीर गुं सर्पिर्मधूदकं || यावमीनीः स्वस्त्ययनीः || स्फुटद्याहि पयस्वती || ऋषिभिः स तृतो रसः || ब्राह्मणेष्व मृत गुं हितं || यावमानीर्दिशं तु नः || इमं लोकमथो अमुं || कामान् समर्धयं तु तः | देवी देवैः समातृताः | यवमानीः स्वस्त्ययनी | सुदुद्याहि घृतश्चुतः | ऋषि संभृतो रसः || ब्राह्मणेष्व मृत गुं हितं || यावमानीर्दिशं तु तः || रमेन्येकमथोण्यं(?) *?मां समर्द्वयं तु नः || देवी देवै समातृकाः यवमानीः स्वत्ययनीः सुद्रद्याहिद्यत श्रुतः || ऋषिभिः संभृतो रसः || ब्रह्मणेष्वमृतरीहिताः | येन देवाः पवित्रेण आत्मानं पुनतुते सदा ते नः रेण || यावमान्यः पुनं तु मा || प्राग्वत् त्यागस्तु षोडश्यां विशेषः श्रोत्रिपस्य तु || प्राजापत्याय पवित्राय चेति षोडशीं शृणु || प्राजापत्यं पवित्रं ||| शतोद्याम गुं हिरण्मयं | तेन ब्रह्मविदोवयं | पूतं ब्रह्मपुनीमहे | सुनीत्या सहितेंद्राय स्वेस्त्या सहित सोमाय | समीच्या सहिता येति वरुणाय ततो वदेत् || प्रघृणाभिः सहिताय पमायराज्ञे द्रीरयेत् | मूर्जयंभ्या सहिताय जातवेदं स इत्यपि || न ममेति वदेत् सप्त दश्यास्त्यागेथ यैर्नरैः || २१७अ) मार्जनं कृतमेताभिस्तैः स्नातं जाह्नवी जले || इन्द्रः सुनीती सह मा पुनातु | सोमः स्वस्त्या वरुणः समीच्या || यमोराजा प्रघृणाभिः पुमातु मा | जातवेदा मूर्जयंत्या पुनातु || यद्देवा देव हेडनं विंशत्यर्चेन होमयेत् | त्यागः प्रथमतस्तत्र आदित्येभ्यश्च तद्यथा || यद्देवादेव हेडनं देवासश्च कृमावयं | आदित्यास्तस्मान्मुंच ज ऋतस्य तेन मामुत || अग्नये गार्हपत्याय द्वितीयेथ तृतीयके | द्यावा पृथिवीभ्यां सरस्वत्यै चेति ऋचे यथा || देवा जीवन काम्याय द्वाचामृतसूदिम || अग्निर्मां तस्मादेन सो गार्हपत्यः प्रमुंचतुदुरिताया निच कृमकरो तु भामनेहसं || ऋतेन द्यावा पृथिवी ऋतेन सरस्वति || ऋतान् मा मुंचती हसो पदन्य कृतमारिम || जातवेदसेन मम चतुर्थे त्वथ पंचमे | अग्नये गार्हपत्याय त्यागस्तदृग् द्वयं यथा || स जात संसादत वा जामिषं सानु वायसः शंसादुत वाकसायसः || अमाज्ञात देवकृतं पदेनस्तस्मात्वमख्याज्जातवेदोमुमुग्धि || यद्वा वायन्मनसा वाहुभ्यामुरुभ्यामष्टीवद्भ्यां शिश्नैर्यदनृतं च कृमावयं || अग्निर्मातस्यादेनसो गार्हपत्यः प्रमुं चतुदुरिता यानि च कृम करोतु मामनेहसं || राष्ट्रभृतेभ्योप्सरेभ्यः षष्टे त्यागोष्ट सप्तमे || अग्नये गार्हपत्याय न ममे चाग्नये वदेत् || यद्धस्ताभ्यां च करकिल्विषाणि अक्षाणां त्वगुमुपजिघ्रमाणः || दूरे पश्चाच्च राष्टभृच्चताप्यप्सरे सावनुदत्ता मृणानि || अदीच्यं नृपां यदयं च कारयद्वास्यत् संज्ञा राजतेभ्यः || अग्निर्मातस्यादेनसो गार्हपत्यः प्रमुंचमुदुरिता यानि च कृमकरो तु सासने हसं || यन्मषि माता गर्भे सति पनश्च कारयत्यिता || अग्निर्मातस्मादेनसो गार्हपत्यः प्रमुंचतु दुरितायानि च कृमकरो तु मामने हसं || यद्वापि येष मातरं पुत्रंः प्रमुदितो धयेत् || २१७ब्) अहिंसितौमि नरौ मया तत् तदग्ने अनृशोभि भवामि || अग्नये गार्हपत्याय दशमेकादशे वदेत् | द्वादशे त्वग्नयेथागेग्नये गार्हपत्याय च || यवंतरिक्षं पृथिवी मुतद्यां यम्यतरं पितरं वा जिहु गुं सिम || अग्निर्मातस्मादेनसो गार्हपत्यः प्रमुंचतुरितायानि च कृमकरोतु मा मनेहसं || पदाशसानिशसापत्यरा समापर्यदेनस्त्वकृत मानुतमं यत् परायणं || अग्निर्मातस्यादेनसो गार्हपत्यः प्रमुंचतु दुरितायानि च कृमकरोतु मामनेहसं || अतिक्रमाभिदुरितं त्वदेन ङाहामिरित्रं मे सधस्थे || यत्र संति सुकृतिनोपि दुःकृतस्तमारोहामि सुकृतान् लोकं || त्रितदेवा अमृजे तैन देवः त्रित एतं मनुष्येषु मामृजे ततो मा यदि किंचिदानशे || अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुंचतुदुरितायानि च कृमकरो तु मामनेनसं || चतुर्दशेग्निमेत्वद्भ्यो वरुणाय ततो दोंद्वयोः || अष्टादशे चोन विंशे त्वग्नि वरुणाभ्यामिति | दिविजाता अप्सुजाताया जाता ओषधीभ्यः || ऋथोया अग्निजा आपस्तानः शुंधं तु शुंधतीः || यदा यो नक्तं दुरितं च रामय द्वादिवो नूतनं यत् पुराणां || हिरण्यवर्णास्तत उत्पनीतन || इमं मे वरुणश्रूधीहवमघावमृडयालामवश्यराचके || तत्वयामि ब्रह्मयाणा वंदमानस्तदाशास्ते यजमानो हविर्भिः || अहेडमानो वरुणो हवोध्युरु षट् समान आयुप्रमोषीः || त्वस्रो अग्नेवणस्य विद्वान्देवस्य हेडो अवयाशि शिष्टाः | यजुष्टो वह्नितमः शोशुचानो विश्वा द्वेषा गुं सिप्रमुमुग्ध्यस्मत् || तत्वन्नो अग्ने वरुणो वमो भवोतीने दिष्टो अस्यां उशसो च्युष्टौ || अवयक्ष्यणो वरुण गुं रराण्ये देहि मृडीक गुं सुहवोम एधि || अग्नयेश्च यसे विंशे सूक्तं वैश्वानरं ततः || अग्नये वैश्वनरायाष्टर्वत्यागो यमीरितः || त्वमग्ने अयस्ययासन्मतसाहितः || २१८अ) अपासंहव्यमूहिषे या नोधे भेषज गुं || वैश्वानरो न व्रत्या प्रयातु परावतः || अग्निरुक्ष्वेन वाहसा || ऋतावानं वैश्वानर मृतस्य ज्योतिं || अज अंघर्ममीमहे || वैश्वानरस्यदंसनाभ्यो वृहदरिणादेकः स्वयस्य पाकविः || उभा पितरा मह पत्रजाताग्निर्द्योवा पृथिवी भूरि तेजसा || पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वायधी गुं राविवेश || वैश्वानरः सहसा पृष्टो अग्निः सनो दिवा सरिषः पातु नक्तं || जातो यदग्ने भुवनाव्यस्यः पशुं नगे | पा-ईर्यः परिज्मा || वैश्वानरे ब्रह्मणे विन्दगातुं यूयं पातः स्वस्तिभिः सदातः || त्वमग्ने शोचिषाशो शुचान आरोदसी अट्टमजायमानः || त्वं देवां अभिशस्तेरमुंचो वैश्वानर जातवेदो महित्वा || अस्माकर्मान मयवत् सुधारयानामि क्षत्रमजरं सुवीर्यं || वयं यजे मरिनं सहस्तृणं वैश्वानरवाजमग्ने तवो निभिः || वैश्वानरस्य सुमतौस्यामरजाहिकं भुवनानामभि श्रीः || इतो जातो विश्वमिदं विचष्टे वैश्वानसे पतते सूर्याय || ततः स्विष्ट कृतं कृत्वा परिधीन्यर्य गृह्य च | पूर्णं कलशमादाय नै-ऋत्यां तु चतुष्पथे || पादप्रक्षालनं कृत्वाथाचस्य प्राङ्मुखस्तदा | पत्नीभिः सह वीक्षेत छायान् तस्मिन् शुभाशुभां || सिंहो मे मन्यस्यां प्रेमे तु पाकं च जपेत् ततः | सुमित्रान् आप ओषधयः संत्विति निःक्षिपेत् || भूम्यों किंचिज्जलं पश्चादुत्तिष्ठेत् कलशाम्वितः | दुर्मित्रास्तस्मै भूयासूः पृष्ठतः कलशं क्षिपेत् || यस्यामस्य दिशि द्वेष्यो भवेत् तत्रैव निःक्षिपेत् | पश्चादप उपस्यश्य स्वगृहं प्रविशे द्विजः || त्रिसंध्यमेवं सप्ताहं कुर्याद्रूपं निनीक्षपेत् | यदा पश्येत् तोय मध्ये छायामच्छां तदा भवेत् || यजमानः सुपूतोयमन्मथा पुनराचरेत् | तत आशीर्वचो गृह्य ब्राह्मणान् भोजयेत् ततः || २१८ब्) यावत् कर्म प्रकुर्वीत तावत् मौनं समोचरेत् | सकृदेव समग्नीयाद्ध विष्यं ब्रह्मचर्य भाक् || जितेन्द्रियो भूमिशापी पूर्वजन्मार्जिता दद्यात् | मन्त्रसिद्धे विघ्नकर्तुर्मुक्तो भवति नान्यथा || अज्ञानाद्वाप्नमानाद्वा जन्मन्यस्मिश्च यत्कृतं | पातकं तस्य नाशार्थं कूष्मांडीभिस्तु होमयेत् || वैदिके यस्य निष्नाताः पितरो ज्ञान दोषतः | पतित्वा कौलिके मार्ग दारिद्र्यादिभिरर्दितः || मनसा उपतप्तश्चेत् तत्पातक निवृत्तये | लोकद्वय प्रतिष्ठार्थं सोपि गुप्तं समाचरेत् || स्वर्णचौर्य सुरापाने गोवधे ब्रह्मघातने | गुरुतल्प गमे वर्षं व्रतमेतत् समाचरेत् || चौर्य च भ्रुणहत्याया मयोनौ वीर्य सिंचने | विश्वासघातने न्यास हरणे त्वयनं चरेत् || दुष्टप्रतिग्रहे द्योब्दे ग्रहणे चन्द्रसूर्ययोः | जले शिवालये दानं गृहीत्वा ऋतु सककं || कूटसाक्षं वार्धुविक नृत्तौह कर ग्रहे | देवविप्राधिकारे वा यदन्ते पक्षमाचरेत् || संस्कार भोजने वेश्या गमने पशुघातने | देवाद्यर्थं गणान्ते च त्रिसंध्या लोपने त्वहः || केशश्म श्रुत्वा परित्वा स्नातं पुण्ये जलाशये | आज्यभागानन्तरं च कुष्माण्डीभिस्तु होमयेत् || सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः | ब्राह्मणो दुग्धपायी स्यात् क्षत्रियस्तु यवागुलेत् || आमिक्षां भक्षयद् वैश्यो यदा शक्तो भवेत् तदा | ओदनः शक्त वोधाना घृतं वापि समाश्रयेत् || एतद्भिन्नं न भोक्तव्यं ब्रह्मचर्यादि पूर्ववत् | होमस्तु गोघृतेनैव तदभावेच्छमापणं || प्रथमा कण्डिका तत्र यद्देवादेव हेडनं | देवेभ्य आदित्येभ्यश्चत्यागस्तत्र समीरितः || विश्वभ्यो देवेभ्य इति द्वितीयायाश्च सोच्यते | प्राग्वत्यागस्तृतीयाया ऋग्भिन्ना सा च कथ्यते || देवा जीवन काम्या च यद्वा चानृत सूदिम | तस्मान्न इह मुंचेत विश्वे देवाः र?जोषसः || २१९अ) ऋतं नद्या वा पृथिवी ऋतनत्व गुं सरस्वति | कृतान्तः पाह्येनसो यत्किं चानृतसूदिमः || इन्द्राग्नि मित्रावरण सोमधातृ वृहस्पति | भ्यस्त्यागस्तु चतुर्थाया अधुनासारि मुच्यते || इन्द्राग्नि मित्रावरुणौ सोमो धाता वृहस्पति | तेन मुंचत्वेन सो यदन्य कृत मारिषः || स जातसंसादिति तु पूर्वोक्ता पंचमी मता | यद्वा च यन्मनसा षष्टिपूर्वमुदीरिता || ज्योतिषेन मम त्यागः सप्तम्याः सा च कथ्यते | अग्नयेन मम त्यागस्तथाष्टम्याश्च सोच्यते || येन त्रितो अनवात्त्रिर्वभूवयेन सूर्य तमसो निर्मुमोचयेनेन्द्रो विश्वा अजहादराति तेनाहं ज्योतिषाज्योतिरानशान आक्षि || यत्कुसीदमप्रतीतं मये हयेनपमस्य निधिना चरामि || एतत् तदग्ने अनृणो भवामि जीवन्नेव प्रतितन्ते दधामि || यन्मयि मातेति पूर्वं प्रोक्ता सानवमाहुतिः | यदापि पेषमातरं प्राक्येक्ता दशमाहुतिः || यदंतरिक्षं पृथिवी प्राक् प्रोक्तैकादशाहुतिः | यदाशसानिशसेति प्रोक्तात्र द्वादशाहुतिः || तदग्निमास्ततस्तिस्र एवं पंचदशाहुतीः | यदापो नक्तमिति पूर्वोक्ता षोडशी भवेत् || अभ्यो हिरण्य वर्णाभ्य गुं स्यास्त्यागो विधीयते | इदमेवरुणे त्यादि पंचर्चः पूर्वमीरिताः || स त्यागास्ते नैकविंशदाहुतयः समीरिताः | इन्द्राग्नीभ्यां च द्वाविंशे त्यागः सा ऋगथोच्यते || पद दीव्यं नृशमहं वभूवादित्संवासंजगरजनेभ्यः || अग्निर्मातस्मादिंद्रश्च सविदानौ प्रमुंचताम् | उग्रं पस्याराष्ट्रभृड्भ्यामप्सरोभ्यामिदं वदेत् || उग्रं पश्याराष्ट्र भृत्किल्विषाणि यदक्ष वृत्तमेतत् | नेत्र ऋणानृणव इत्समानो यमस्य लोके अधिरर्जुराप || अवते हेडो वरुण नमोभिरवयज्ञेभिरीमहेहविर्भिः || २१९ब्) क्षयन्नस्मभ्यमसुरप्रचतो राजन्नेनांसिशि अथः कृतानि || उदुत्तमं वरुणपाशमस्मदवाधमं विमध्यम गुं अथाय || अथापयमादित्य व्रते तवा नागसो अदितये स्याम || एकत्रिंशे संकुसुकविकूसुकौच नैर्-ऋथः | निस्वनेभ्यस्त्याग उक्तः सा ऋचा प्रोच्यतेधुना || संकुसुकोविकुसुकोनिर्-ऋथोयश्च निःस्वनः | ते अस्मद्यक्ष्ममनागसो दूरादूरमचीचतं || ततो द्वयोरग्नये च त्वष्ट्रेत्यागस्तदग्रि मे | आयुष्मतेग्नये त्यागः पंचत्रिंशत्तमे मतः || निर्यक्ष्ममवी च ते कृत्यां निर्-ऋतिं च || तेन यो स्मत् समिच्छातै तमस्मै प्रसुवामसि | दुःश गुं सानुस गुं साभांपणेनानूद्य *? न च || तेनान्योऽस्मत् समृच्छातैतमस्मै प्रसुवामसि || संवर्चसा पयस्नासंतनूभिणन्महिमनसा स गुं शिवेन || त्वष्टानो अत्र विदधातुरापान् माष्टु तन्वोऽपच्छिलिष्ठं || आपुष्टे विश्वतोदधदयमग्निर्वरेण्यः | पुनस्ते प्राण आयाति परायक्ष्म गुं सुवासिते || आयुर्दायाग्नये त्यागः षट्त्रिंशेथ तदग्रिमे | अग्नये वरुन्.आयादित्यै विश्वेभ्यो देवेभ्यश्च || आयुर्दा अग्ने हविषाजुषाणो घृत प्रतीको घृतयोनिरेधि | घृतं पीत्वा मधुचारुगव्यं पितेवपुत्रमभिरक्षतारिमं || इममग्न आयुषे चर्चसे कृधितिग्ममोजा वरुण स गुं शिशाधि | माते वास्मा अदिते शर्मयच्छ विश्वे देवायरदष्टिर्यथा सत् || अग्नये पचमानाय त्वागोष्ट त्रिंशतस्त्रिषु | तस्माद्वयोर्जात वेदसेग्नये त्याग उच्यते || अग्न आयु गुं षि यवस आसुवोर्जमिषंचनः || आरेवाध स्वदुच्छुनां || अग्नेयवस्वस्वया अस्मै वर्षः सुवीर्यं || दधत्योष गुं रपिंमपि || अग्निर्-ऋषिः पवमानः पांचजन्यः पुरोहितः || २२०अ) तमीमहेमहागयं || अग्नजातान्प्रणुदानः स पत्नान्प्रत्यजातां जातवेदोन् दस | अस्मेदीदि हि सुमना अहेच्छंछर्मते स्यामत्रि वरुथ उद्भौ || सहसा जातान्प्रणुदानः स पत्नान् प्रत्यजातां जातवेदोनुदस्व | अधितो व्रूहि सुमनस्य मावय गुं स्यान प्रणुदानः स पत्नान् || अग्नये वृत्रघ्नायेति त्रिचत्वारिंशके ततः | अग्नय इति तस्मात् तु उषसेनिस्सुचे भवेत् || अग्ने योनोभितोजनो एकोवारो जिघा गुं सति | ता गुं स्त्वं वृत्रहंजहि वस्वस्मभ्यमाभर || अग्नेयोनोभिदा सति सति समानोयश्य निष्ठाः | तं वय गुं समिधं कृत्वा तुभ्यमग्नेपि दध्यसि || योनः स पादशपतो यश्चनः शपतः शपात् | उषाश्च तस्मैनिस्तु *? सर्वपाप गुं समूहतां || षट् चत्वारिंशके त्यागो देवेभ्यश्च तदग्रिमे | जातवेदसे अग्नय च ततस्त्यागोग्नये भवेत् || योनः स पत्नो यो रणो मत्तोमिदा सति देवाः | इध्मस्येव प्रक्षायतो मानस्योच्छेषि किंचन || यो मां द्वेष्ठि जातवेदा पंचाहं द्वेष्मियश्च मां | सर्वा गुं सा नग्ने संदहया गुंश्चाहं द्वेष्मि ये च मां || यो अस्मभ्यमराती याद्यश्चनो द्वेष तेजनः | निंदाद्यो अस्मांदिप्साच्च सर्वासुंस्तान्नष्मषा कुरु || शीत्रिया ब्रह्मणेऽन्येग्नय उनपंचाशत्तमे | तदग्निमेपि च तथान्ति मे वैश्वानराय च || स गुं शितं मे ब्रह्म स गुं शितं वीर्यां इवलं | स गुंशितं क्षत्रं जिष्णुर्यस्याहमस्मि पुरोहितः || उदेषां वाहू अतिरमुद्वर्चो इदोवलं | क्षिणोमि ब्रह्मणा मित्रानुन्नयामिस्यां इह अहं || पुनर्मनः पुनः पुनरायुर्म आगात्युनश्चक्षुः पुनः श्रोत्रं म आगात् पुनः || पुनः प्राणः पुनराकूतं म आगात् पुनश्चित्तं पुनराधीतं म आगात् || वैश्वानरो मे दध्मस्तनूपा अववाधतां दुरितानि विश्वा || एवं हुत्वा ततस्तिष्ठेत् स मित्याणि रुदङ्मुखः | २२०ब्) अग्नेर्दक्षिणतो वह्निं स्तुवीत द्वादशर्चभिः || वैश्वानराय प्रतिवेदयामोपरी नृण गुं संगरो देवता सु | स एतान्याशान्यु मुंचन् प्रवेदसन्नो मुंचा तु दुहितादवद्यात् || वैश्वानरः यवयान्तः पवित्रैर्यत् संगरमभिधावाम्यासां | अनाजानन्मनसा या च मानो यदत्रै नो अवतत् सुधाम || अभीद्येसु भगे दिवि विविवृतौनासतारके | प्रेहामृतस्मयच्छतामेतद्वद्धकमोचनं || विजीहिषं लोकांकधिषंधान्मुंचासि वद्धकं | योनेरिवमच्युतो गर्भः सर्वान्यथो अनुष्टः || स प्रजानन् प्रतिगृह्नीत विद्वत् प्रजापतिः प्रथमजा ऋतस्य | अस्माभिर्दत्तंजरसः परस्ता दक्षिन्तं तं तु मनुसंचरेम || तप्तंततु मन्वेके अनुसंचरति येषां दत्तं पित्र्यमापत्रवत् | अवंधेके ददतः प्रयच्छाद्दातुं चेच्छक्रवा गुं स स्वर्ग एषां || आरभेथा मनु स गुं स भेथा गुं समानं पन्थामवथो घृतेन || यद्वा पूर्तं परिषिष्टं यदग्नौ तस्मै गोत्रायेह जायापती स गुं रभेथां || पदान्तरिक्षं पृथिवी मुतद्यां यन्मान्तरं पितर गुं वा जिहि गुं सिम || अग्निर्मा तस्मादेनसो गार्हपत्य उत्तोनेष दुरिता यानि च कृमः || भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिसस्त एनः || औ?र्नः पिता पितृयाच्छं भवासिजामि मित्वा माविवित्सि लोकान् || यत्र सुहार्दः सुकृतो मदन्ते विहाय रोगं तन्वार गुं स्वायां || अश्लोणांगैरह्नुताः स्वर्गे तत्र पशोम पितरं च पुत्रं || यदन्त मदस्य ऋतेन देवादास्यन्तदास्युन्नुत वा करिष्यन् || यद्देवानां चक्षुष्यागो अस्तिय देव किं च प्रतिजग्राहमग्निर्मातस्मादनृणं करोतु || यदम्नमद्मि वहुधा विरूपं वासो हिरण्यमुतगामजामविं || यद्देवानां चक्षुष्या गो अस्विय देव किं च प्रतिजग्राहमग्निर्मातस्मादनृणं कृणोतु || एवमग्निमुपस्थाप्य करस्थां समिधं हुनेत् | वक्ष्यमानेन मन्त्रेण त्यागो वैश्वानराय च || २२१अ) यन्मया मनसा वाचा कृतमेना कदाचन || सर्वस्मात् तस्मान्मेलितो मोग्धित्व गुं हिवेत्थ यथा तथ गुं स्वाहा || जपादि होमश्च ततः कुर्याद् देतन्निरूपितं | इह जन्म कृताद्यानां प्रायश्चित्तं निवारकं || इदमुक्तं द्विजातीनामिति || अथ शूद्राणां पापक्षय प्रकारः || तदुक्तं तत्रैव || शूद्राणामथ चोच्यते || मार्गशिर्षसिताष्टम्यां कृतनित्य क्रियः शुचिः | एकभक्तं हविष्येण नवम्यां नक्तमाचरेत् || अष्टावितं(?) दशम्यां च एकादश्यामुषोषणं | द्वादश्यां वपनं कृत्वा पूजयेद् विप्र देवताः || नमो नारायणायेति स्वेष्टवीजादिकं मनुं | अष्टाक्षरं गुरुमुखाद् गृहीत्वा जपमाचरेत् || अष्टलक्षं द्विजोच्छिष्ट भोजी तत् सेवने रतः | अमध्याह्नं जपं कुर्याद् भूशायी ब्रह्मचर्यकृत् || निःपापो जायते पूर्णे जपेनोचेत् पुनश्चरेत् | निःपाप चिह्नें वक्ष्येत्र तथा पूर्वोक्त होमयोः || होमाद्यारंभ दिवसे निर्व्रणं मृन्मयं दृढं | आनयेच्छुद्ध कलशं स्थापयेन्निर्भयस्थले || तस्मिन् तीर्थादि जंतोयं निःक्षिपेत् कलशोन्मितं | शृंगलद्वीपजं सूत्रं काचपात्रे निधापयेत् || पलमात्रं द्वयोस्तत्र कुर्याद्धरि हरार्चनं | परीक्षा दिवसे पूजां कृत्वा तत्प्रार्थयेज्जलं || आपो नारायणः साक्षादप्सु सत्यं प्रतिष्ठितं | तेन सत्येन सत्याफ?ज्ञानं सत्यं ममास्तु तत् || इति तोयं प्रार्थयित्वा दद्यात् पु *? जलिं ततः | पश्येत् स्वस्य शरीरस्य छायां तोये तथा रसे || यथा रसे तथा तोये दृष्ट्वा चेत् पातकं गतं | म्लाना तोये यदा छाया तदा पायं गतं न हि || प्रायेश्चित्तं पुनः कुर्याद् यावच्छायाति निर्मला | नष्टपाया भवे देवं पुरश्चरण सिद्धिभाक् || यः कश्चिद् वैदिको मन्त्रे जप्तश्च दर्वुदाक्षरं | एकजन्मकृतं पापं नाशयेन् नाम मन्त्रकः || विष्णोर्मम गणेशस्य रवेस्तव तदर्धक | हन्ति पापं तान्त्रिकस्तु तदर्धं प्राकृता दलं | अपभ्रंसस्तदर्धं चेत् मेतत् सर्वत्रर्गापितं || २२१ब्) इति श्री-आद्यानन्दनविरचितायां कुलमुक्तिकल्लोलिन्यां सप्तदशः पटलः || १७ || इस्थं निष्पापं शरीरं विधाय पुरश्चरणमारभेत् || तद्यथा || कालीतन्त्रे || आदौ पुरस्क्रियां कुर्यान् नियमेन यथाविधि | ततः सिद्धे मनुर्मन्त्री प्रयोगार्होन चान्यथा || वायवीय संहितायां || जीवहीनो यथा देही सर्वकर्मसु नक्षमः | पुरश्चरण हीनोपि तथा मन्त्रः प्रकीर्तितः || वीरचूडामणौ || पुरश्चरण हीनस्य मन्त्रसिद्धिर्न जायते | आदौ पुरस्क्रियां कुर्यान्नियमेन यथाविधि || सुरेन्द्रसंहितायां || लक्षमात्रं जपेन्मन्त्रं दशांश लोहिताम्वुजैः | जुहुयादर्चिते वह्नौ मन्त्रः सिद्धा भवेत् ततः || वीरचूडामणौ || चतुर्लक्षं जपेन्मन्त्री दशांशं जुहुयात् सुधीः | पद्मैस्त्रि मधुरो ये तैर्वाक्पतिर्जायते नरः || एकवीराकल्पे || भावना रहितानां च क्षुद्राणां क्षुद्र चेतसां | चतुर्गुणो जपः प्रोक्तः सिद्धये नान्यथा भवेत् || तारार्णवे || एवं ध्यात्वा हविष्याशी जपेल्लक्षचतुष्टयं | रहस्य मालामादाय जपेद्वा लक्षमेव च || वैशंपायनसंहितायां || कल्पोक्तैव कृते संख्या त्रेतायां द्विगुणा भवेत् | द्वापरे त्रिगुणा प्रोक्ता कलौ संख्या चतुर्गुणा || इति वैशंपायनीय संहिता वाक्यार्थे प्रतियुगं द्विगुणादि पुरश्चरणाधिक्येन मन्त्रसिद्धिरिति स्पर्ष्टार्थः अत्रैवं प्रतिभाति दुःकृताद्युपाधिजनित प्रत्युहा एव मन्त्रसिद्धिरोधकान तु युगभेदाः चतुर्गुण जपस्तु एकवीरा कल्पोक्त वाक्ये स्पष्ट भावना रहितानां च शुद्राणां क्षुद्र चेतसां चतुर्गुण इति यावत् पापं तस्य नाशं कृत्वा कुर्यात् पुरस्कृतिमिति मेरुतन्त्रे वचनाच्च दुःकृतापनोदे सति युगसेवा परिश्रमोऽवहेलनीयः || २२२अ) तथा च मुण्डमालायां || कालीतारा महाविद्या षोडशी भुवनेश्वरी | भैरवी छिन्नमस्ता च विद्या धुमावती तथा || वगला सिद्धि विद्या च मातंगी कमलाम्विका | एता दश महाविद्या सिद्धिविद्या प्रकीर्तिता || सिद्धिविद्या महाविद्या युगसेवा परिश्रमः | नास्ति किंचिन्महेशानि दुःख साध्यं कदाचनेति || स्वस्व कल्पोक्त जपसंख्ययैव मन्त्रसिद्धिरिति पापघ्न विधान मुक्तमेव || वीरचूडामणौ || सुस्नात व्रत संशुद्धिर्लक्षमेक जपेद्वुधः | नक्तंभोजी हविष्याशी स्त्री मांसादि विवर्जयेत् || होमं कुर्यात् प्रयत्नेन पायसेन तिलेन वा | स्नातः शुक्लाम्वरधरो नित्यकर्म दिवा शुचिः || रात्रौ पूजां प्रकुर्वीत पंचमुद्रा विधानतः | अनेनैव विधानेन लक्षमेकं जपेद् वुधः || स्वस्वकर्म पुरस्कृत्य जपं कुर्याद् दिवा शुचिः | तत् संख्यया तथा रात्रौ वाम दक्षिण योगतः || रात्रौ तां पूरे(?) पूर्णस्मः शर्यायां च व्यवस्थितः | लक्षमेकं प्रकुर्वीत सर्वसिद्धीश्वरो भवेत् || हावभावादिकं कुर्यान् महाचीन लतां हरेत् | ते नैव तर्पणं कुर्यात् स्नानपानादिकं सदा || स्वस्वकर्म पुरस्कारेण ब्राह्मणानां दिवा शूद्रानां रात्रौ पुरश्चरणमनुज्ञातं द्विजानां चैव सर्वेषां दिवा विधिरिहोच्यते || शूद्राणां च तथा प्रोक्तं रात्राविष्टं महाफलमिति मेरुतन्त्रे वचनात् || कालीक्रमे || स्वाचारनिरतो नित्यं दिवालक्षं जपेत् शुचिः | दिव्यो वाप्यथवा वीरो रात्रौ लक्षजपं चरेदित्यपि || फेत्कारिण्यां || भैक्ष्यादि नियता हारः सकृद् रात्रौ विधीयते | दिवा चैव जपं कुर्यात् पौरश्चारणिको द्विजः || शाकं यावकभक्ष्याणि चरुणा सहसर्पिषा | दध्नायुत फलैर्वापि कुर्यादशन मन्वहं || ब्रह्मचर्यं तथैवोक्तं स्नानं त्रिसंध्यकं तथा | पूर्वाह्ने देवतायाश्च पूजां कृत्वा विशेषतः || सर्वे मन्त्राः प्रजप्तव्याः प्रायशः प्रणवादिकाः | २२२ब्) अनन्यचेता आसीनो वाग्यतो विहितासनः || मेरुतन्त्रे || लक्षमेकं जपेन्मन्त्रं हविष्याशी दिवा शुचिः | अशुचिश्च तथा रात्रौ लक्षमेकं जपेन्मनुं || दशांश होमयेदाज्यैस्तर्पयेदभिषेचयेत् || कुलसंभारेपि || ततः शुक्लाम्वरधरः शुचिः प्रयतमानसः | दिवा चैवं प्रकर्तव्यं सर्वकामार्थसिद्धये || स्वतन्त्रतन्त्रे || दिवा लक्षं शुचिर्भूत्वा हविष्याशी जपेद् वुधः | ततस्तस्य दशांशेन होमयेद्धविषा प्रिये || तर्पयेत् तीर्थतोयेन पयसा सर्पिषापि वा | मधुना वा सितामिश्र तोयेन परमेश्वरि || देवीं चाभिषिंचेत् तोयैस्तर्पणस्य दशांशतः | तद्दशांशैर्हविर्द्रव्यैर्भोजयेद् भक्तितः प्रिये || कालीमन्त्र विदो विप्रान् दक्षिणां गुरवे दयेत् | पाशवं कथितं कल्पं शृणु चैवं ततः प्रिये || रात्रौ मांसा सवैर्देवीं पूजयित्वा विधानतः | ततोनेग्नांस्त्रियं नग्नो रमन् क्लेद युतोपि वा || जपेल्लक्षं ततो देवि होमयेज्ज्वलितेऽनले | योनि कुण्डे स्थिते सर्पिर्मांसमेद्य युतं तथा || दशांशं तर्पयेन् मद्यैर्मांसमिश्रैः सुसाधकः | तर्पणस्य दशांशेन अभिषिंच्य जगन्मयीं || दशांशं भोजयेत् साधु साधकं कालिका प्रियं | मद्यं मांसं च मत्स्यं च तर्पणं च प्रदापयेत् || ततस्तु तोषयेद् भक्त्या गुरुं स्वर्णादिभिः प्रिये | एतत् कल्प द्वयाद् देवि मन्त्रः सिद्ध्यति वै ध्रुवं || अत्र होमो योनि कुण्डे अभिषेकश्च तर्पण द्रव्येणैव एतदुक्तं || कालीतन्त्रे || लक्षमेकं जपेद्विद्यां हविष्याशी दिवा शुचिः | रात्रौ तांवूल पूर्णस्यः शययायां लक्षमानतः || भैरवतन्त्रे || लक्षं जपेद्धविष्याशी दिने चैव जितेन्द्रियः | ब्रह्मचर्य परो भूत्वा पुरश्चरण कर्मणि || तथा रात्रौ जपेल्लक्षं तन्त्री मैथुन तत्परः | कुलाचार क्रमेणैव साधयेत् मन्त्रमात्मनः || २२३अ) विधाने नाथ सिद्धा स्यान् मनुरेव न संशयः || एवं लक्षद्वयं जप्त्वा तद्दशांशेन मन्त्रवित् || अयुतं होमयेद् देवि दिवा रात्रि प्रभेदत इति कुमारीकल्पे || दीक्षाविधानमधिगम्य गुरोः सकाशाल्लध्वा मनुं जपति लक्षमिदं दिवा यः || रात्रौ हविष्य भुगमत्सर कामकोपलो भाद्य चंचल मनाः स तु साधकेन्द्रः || लक्षं निशिभ्य वनिता सुरता वसाने नग्नो विमुक्त विकुरस्त्वयि दन्त चिन्तः || इति भैरवयामले || वसीलक्षं मन्त्रं प्रजपति हविष्याशनरतो दिवा मातर्युष्मच्चरण युगल ध्याननिरतः || परं नक्तं नग्नो विधुवनविनोदेन च मनुं जनो लक्षं स स्यात् स्मरहरसमानः क्षितितले || इति महाकालस्तुतौ सामानाधिकरण्य श्रुतेः समुच्चित एव पुरश्चरने लक्षद्वय जपः || अत्रोयं विशेषः लक्षणत्रययुक्त द्विजस्य दिने रात्रावपि पशु भावेन लक्षण द्वय युक्त द्विजस्य दिवा पशु भावेन रात्रौ वीरभावेन पंचलक्षण चतुर्लक्षण युक्तस्य पशोर्द्विवातनैक पुरश्चरणमात्रं वचनस्वरसात् लक्षणैक मात्र युक्त द्विजस्य शूद्रवद्गुरु क्रम एक चरणी यः लक्षण विचारस्तु द्वाविंशति पतले द्रष्टव्यः || तन्त्रान्तरे || योनि रूपं तु कुण्डं वै कृत्वा वै हस्तमानतः | हस्तविस्तारतस्तावत् कृत्वा चापि तथाप्यधः || तत्र कायया हि मन्त्रेण अग्नि स्थापनिका क्रिया | महाकालाय देवाय दद्याच्च प्रथमाहुतिं || एवं सद्येन मांसे च भक्तेन रुधिरेण च | कृष्ण पुष्पेण या वाद्यै रक्तेन च विशेषतः || आसिषादिभिरप्येवं श्मशाने जुहुयात् सुधीः | तर्पयेच्च पयोभिश्च रक्तधारा युतैस्तथा || मज्जाभिश्च तथा तद्वत् स्वकीयेन मलेन च | आकर्षितायाः कन्यायाः कुलप्रक्षालनेन च || मेषमाहिषरक्तेन नररक्तेन चैव हि | मूषमार्जाररक्तेन तर्पयेत् परदेवतां || ते नैव वलिद्रव्येण मार्जये तद्दशांशतः | यद्यदंग विहीनं स्यात् तत्संख्या द्विगुणं जपं || २२३ब्) मत्स्यसुक्ते || मृदुकोमलमासीनो महाशंखाक्ष मालया | मासत्रयं त्रिपक्षं वा जपेद् विद्यां समाहितः || नक्तं भोजी हविष्याशी जपेद् विद्यां द्विलक्षकमिति वचनं च भ्रष्ट वीर परमिति तत्वं || तन्त्रे || यस्मिन् काले भवेद् दीक्षा तस्मिन् काले भवेदिदं || मेरुतन्त्रे || शुभे मुहूर्ते नक्षत्रे तिथौ स्नात्वा यथाविधि | विप्रान् संतर्पयन्नेव भोजनाच्छादनादिभिः || भूविन्ते वस्त्रभूषाद्यैः संतोष्य गुरुमात्मनः | आरभेत जपं पश्चात् तदनुज्ञा पुरःसरं || दक्षिणामूर्तिकल्पे || आरभेत् प्रवरो विद्वान् पूर्वपक्षं समाश्रितः | पुण्ये मुहूर्ते नक्षत्रे तिथौ स्नात्वा यथाविधि || नत्वा गुरुं गणेशानं नत्वा दुर्गां च मातरं || पूर्वपक्षं शुक्लपक्षं || मेरुतन्त्रे || प्रारभेत पुरश्चर्यां दीक्षोक्त दिवसे शुभे | प्रणम्यादौ गुरुं विप्रान् गणेशं परिपूज्य च || वैशंपायनसंहितायां || चन्द्रतारानुकूले च शुक्लपक्षे शुभेहनि | आरभेन्मकरादौ सुप्ते विष्णौ जपेन्न च || योगिनीमन्त्रे || गुरोराज्ञां समादाय शुद्धाक्तष्करणो नरः | ततः पुरस्क्रियां कुर्यान् मन्त्र संसिद्धिकाम्यया || तथा || तस्मादादौ स्वयं कुर्याद् गुरुं च कारयेद् वुधः | गुरोरभावे विप्रम्वा सर्वप्राणि हिते रतं || स्निग्धं शास्त्रविदं मित्रं नानागुणसमन्वितं | स्त्रियम्वा शीलसंपन्नां सदाचारां पतिव्रतां || अथ पुरश्चरण स्थानानि || महाकपिल पंचरात्रे || क्षेत्रतीर्थ वनाराम देवालय नदी ह्रदाः | कुटी विविक्तमित्येते देशाः स्युर्मन्त्र सिद्धिदाः || यामले || म्लेच्छ दुष्ट मृगव्यालशंकातंक विवर्जिते | एकान्ते पावने निन्दा रहिते भक्तिसंयुते || स्वदेशे धार्मिके राष्ट्रे सुभिक्षे निरूपद्रुते | रम्ये भक्तगण स्थाने निवसेन्न पराश्रये || २२४अ) राजानस्सचिवा राजपुरुषाः प्रभवो जनाः | चरन्ति येन मार्गेण न वसेत् तत्र तत्ववित् || जीर्णदेवालयोद्यान गृहवृक्षतलेषु च | नदी कूलाद्रि कूलेषु भूछिद्रेषु च नो वसेत् || मेरुतन्त्रे || जपस्थानानि वक्ष्यामि स्थाना विकृत्रिमाणि च | गुप्तानि सर्वतन्त्रेषु देवतानां पृथक् पृथक् || महागणपति क्षेत्रं मायूदं नर्मदा तटं | महाश्मशानं मायूरं गणेश मनु सिद्धदं || प्रभासं च कुरुक्षेत्रं पुष्करं भृगु पर्वतं | यमुनायास्तटं काशी दिनेश मनुसिद्धदं || अयोध्या मथुरामाया काशिवदरिकाश्रमं | गया च गंडकी तीरं द्वारका विष्णु सिद्धिदा || केदारस्त्र्यंवकं काशी कान्त्यवन्त्यौवनानि च | गंगातीरं वैद्यनाथं रामेशः शिव सिद्धिकृत् || ज्वालामुखी प्रयागं च कामिनी मालिका पदे | सरस्वत्यास्ततीरं शक्तिमन्त्रस्य सिद्धिकृत् || तीरं च कमलेश्वर्यामेकलो यक्ष पर्वतः | अंगवंग कलिंगाश्च क्षुद्र दैवतसिद्धिदाः || कामरूपं च नेपालं हिंगुला विंध्यवासिनी | जालंधरं पूर्णगिरि वाममार्गेण सिद्धिदाः || तटं पद्माकराणां च कदलीक्ष्वर्क वाटिकाः | विद्रुमा कुलितो ग्रामो गणेशस्याति वल्लभः || पद्माकरतटारण्य करवीरोर्क वाटिकाः | गोधूम दूर्वाक्षेत्राणि शिला भानु मतः प्रियाः || तुलस्यश्वत्थ धात्रीक्षु शालिग्रामादि संनिधौ | गोष्ठ श्रोत्रिय युग्ग्रामे हरेर्मुद्वैदिकांतिके || पश्चिमाभिमुखे लिंगे नन्दी वर्ज्ये शिवालये | शिवातोषो वटस्यारात् संगमे विपिने ह्रदे || कदली चूतचंवेली सेवन्ती वर्वरी वने | ग्रंथख्यात नदी तीरे शक्तेः प्रीतिश्च निर्जने || पल्वला(?) रात्रिं वकोल शाकोटमधुका कुले | २२४ब्) वल्मीके शुष्क नद्यां च मोदन्ते क्षुद्र देवताः || पितृगेहे श्मशाने च त्रिपथे च चतुष्पथे | शून्यालये शवाकीर्णे भुवि तुष्यन्ति वामकः || गृहे गोष्ठे तथोद्याने वने पर्वतमस्तके | नद्यां तत्संगमे देवालये स्याद् वैदिकोधिकः || यस्मिन् देशेन गोभूत्वा नापि ब्रह्मवचो भवेत् | न श्रावयन्ति शूद्रांश्च सिद्धिस्तत्र तु वैदिकी || कुमारीतन्त्रे || कालिकायाः श्मशानं वै नान्यत् स्थानं प्रशस्यते | तस्मात् श्मशाने पूजा च कर्तव्या भूतिमिच्छता || महामन्थान भैरवतन्त्रे || सर्वपीठोपपीठेषु सर्वक्षत्रोपक्षेत्रके | तत्रस्थाः पूजिता मन्त्राः क्रियामार्गा वलंवकाः || पीठानि यथा मेरुतन्त्रे || अथ गुह्यतमं वक्ष्ये रहस्यं पीठसंभवं | यद् ज्ञात्वा साधकाः सर्वे सिद्धिं यान्ति न चान्यथा || पीठानि चैक पंचाशत् पंचाम्नायस्थ देवताः | तत्र तिष्ठंति भो देवास्त्रयस्त्रिंशन्मितानि च || उपपीठानि ये प्रोक्ता षष्ठाम्नाये तु देवताः | तत् तेषां स्थानमुद्दिष्टं तत्राथ हृदयोर्ध्वतः || तेंगपातो यत्र जातस्तत्र तिष्ठंति वैदिकाः || तथा दक्षिणमार्गश्च सिद्धयेन् यत्र वामकः || अकारः कामरूपाख्यमादिपीठं तदुच्यते | यस्मिन् पीठे मया देवि कुलमार्गः प्रवर्तितः | तत्र ते पतिता योनिस्तां दृष्ट्वा तत्प्रियं कृतं | कुलशास्त्रं तु कौलानां ज्ञानिनां मुक्तिदायकं || पंचमानां द्रुतं सिद्धिरमानां नैव जायते | तद्युत् पाद्यादिमादीनां सिद्धिकालोवगम्यतां || श्रीविद्यायास्तु मूलं तन्मासि क्षरेद्रजः | कुलसिद्धस्य लोपे तु रजस्तंभः प्रजायते || अस्योपपीठ द्वितयमऽसामंतव मूत्रणात् | वंगाख्यं लोमतो जातं सिद्धिः शावर चेतकी || आकारः काशिका पीठं त्वद्धृदो भेदतां गतं | २२५अ) प्रलयेपि न नाशोस्य यत्प्रोक्तं तन्महोखरं || न पापं यत्र पुण्यं न देह त्यागोत् परं पदं | द्वयमेव फलं तत्र भुक्तिः स्याद्धर्म कर्मतः || यातना भैरवी पापात् तत्र पीठं पदे पदे | मया न शक्यते मातुं तत्र ते स्तन कुंभतः || निःसृतं धारयोर्युग्मं सासिश्च वरुणाभवत् | काश्या वहिर्योजनैकं देवभूमिरिति स्मृता || तत्र चाराधिता मन्त्रास्तत्कालं फलदायकाः | यथा स्थानं चतुर्दिक्षु तत्राम्नायस्थ देवताः || तिष्ठंति देवतास्तत्सिद्धिः पुरश्चरण मात्रतः | गंगायाः परपारे यः काशिभागोपवित्रितः || व्यासशापेन तज्जातं गर्दभक्षेत्रमद्भुतं | तत्कालं तत्र संसिद्धिः षडाम्नायस्य जायते || उपपीठमसेस्तीरे सारनाथस्तु दक्षिणः | तत्र दक्षिणमार्गस्य मंत्राः सिधिप्रदायकाः || वरुणायाः सौम्यभागे सारनाथस्तथोत्तरः | तत्रोपपीठं वामस्य मार्गस्यामी च सिद्धिकृत् || नेपालं तु इकारः स्याद् भुदं तत्र तु पार्वति | तस्माद् वामस्य मार्गस्य मूलस्थानं तदुच्यते || षट्पंचाशल्लक्षमिता भैरव्यो भैरवास्तथा | शक्तीनां च सहस्रे द्वे पीठानां च शतत्रयं || चतुर्दश श्मशानानि तत्र संनिहितानि च | दक्षमार्गे सिद्धिदानि पीठान्यष्टौ तु तत्र च || सिद्धिर्वैदिकमंत्राणां तत्र पीठ चतुष्टये | तन्मलं यत्र पतितं जातं तदुपपीठकं || नेपालात् पूर्वदेशे तत् किरातै रूपवेष्टितं | त्रिंशत् तत्र सहस्राणि देवयोनीनिसंति हि || ईकारस्य समुत्पर्ति स्थानं स्यात् प्रौंड्रवर्धनं | पतितो वामनेत्रस्ते महत्पीठं तदुच्यते || यस्य कस्यापि मंत्रस्य जपात् सिद्धिः प्रजायते | वामाचारास्तत्र देवा देवता दर्शनं भवेत् || २२५ब्) उकारस्य समुत्पर्ति स्थानं काश्मीरमीरितं | कर्णो निपतितस्तत्र तस्मात् पीठोत्त संतु तत् || यस्य कस्यापि देवस्य तत्र मंत्रं जपन्नरः | विद्यानां पारदर्शी स्यात् तत्वज्ञानी भवेत् तथा || वैदिकाद् वा कौलिकाद् वा स्मार्ता द्वादक्षमार्गतः | च्युतानां तत्र देवेशि प्रायश्चित्त कराणि च || मया कृतानि तीर्थानि सद्यः प्रत्ययदान्यपि | करिष्याम्यति गुप्तानि कलौ म्लेच्छा वृतानि च || ऊकारस्य समुत्पत्ति स्थानं स्यात् कान्यकुब्जकं | तत्र ते दक्षकर्णस्तु पतितोतीव शोभनं || गंगायमुनयोर्मध्ये तदंतर्वेदि संज्ञकं | तत् सोमपानां देवानानिवासायोपकल्पितं || तत्र ब्रह्मादयो देवाः स्वस्वतीर्थानि चक्रिरे | तत्र वैदिकमन्त्राणां सिद्धिर्देवाः पदे पदे || तस्य देविमलाज्जातं यमुना तटमास्थितं | इन्द्रप्रस्थं नामलोके प्रसिद्धमुपपीठकं || ब्रह्मणा विस्मृता वेदा यत् पीठस्य प्रभावतः | पुनर्लब्धास्ततो जातं तीर्थं निगमवोधकं || तत्र काली तपस्तेपे परितोष्यंति ये च मां | पंचमैस्तदुदर्कस्तु भूयादिति वरेप्सया || सा तु तत्र परं प्राप्य महाकालाज्जगन्तदा | पंचमे प्रेरयामास सिद्धिं च प्रकटं ददौ || ऋकारो भूत्पूर्णगिरौ पतिता तत्र नासिका | अतो योगस्य संसिद्धिस्तत्र चूर्णं प्रजायते || ऋकारस्य समुत्पत्ति स्थानं स्यादर्वुदाचलः | वामस्ततो निपतितस्तेन मेतच्च वल्लभं || शक्तिस्तत्रांविका नाम वामाचार प्रिया सदा | पुरश्चर्या यदैकापि भोगकाले प्रजायते || तत्र पत्यक्षतां याति मंत्राधिष्ठान देवता | तस्मिन् पीठे भवेन् मुक्तिः सहस्र भगसंगमात् || दिव्यस्त्रीणां तु तत् स्थानमवतारस्य पार्वती | प्रतिज्ञा महती जाता तया देव्या मया सह || निर्वाहयेन् मम क्षेत्रे ब्रह्मचर्यं तु यः पुमान् | द्वादशाब्दं तु मद्भर्ता स एवैको भविष्यति || २२६अ) वौद्धोपि स्खलितस्तत्र || त्रिदिनोनेर्कवत्सरे || निर्वहास्तत्र वामस्य दक्षे विद्या भवंति हि || उकारस्य समुत्पत्तिर्यत्र चासातकेश्वरः | दक्ष गंडो निपतितस्तत्पीठं महदद्भुतं || धनदाद्यास्तत्र यक्षायक्षिण्यो धनदादिकाः | वसंति तत्र जपतस्तेषां सिद्धिः प्रजायते || उकारस्य समुत्पत्तिरेकाम्रे तु पुरा भवत् | नखास्ते गलितास्तत्र तप्तं विद्याधरैर्वहु || विद्यार्थिनां तु तत्पीठमिष्टविद्या विधायेकं | अश्रुतं वुध्यते ग्रंथं तत्र सारस्वताज्जपात् || एकारजन्मत्रिश्रोते पतिता त्रिवली तव | त्रिधा ते वसनं जातं प्राक् पश्चाद् दक्षिणे पतत् || त्रीणितान्युपपीठानि गृहस्थस्तत्र सिध्यति | द्विजश्च नेतरो वर्णो मनवः पुस्तक स्थिताः || ऐकारो भूत्कामकोटे नाभिस्तत्र तु ते पतत् | तत्र सर्वेपि सिध्यंति काममंत्रा न संशयः || कामिनीत्वां समाराध्य छाछिकातीरसंगतां | षोडश स्त्री सहस्राणां भोगे सामर्थ्ये माप्तवान् || चतुदिक्षूपपीठानि तत्र जातानि पार्वति | स्थानमप्सरसां तत् त्रये मंत्रा स्त्री प्रसंगिकाः || सर्वे ते तत्र सिध्यंति तत् तदाम्नाय देवताः | तेषां तु दर्शने नापि लभेदिष्टां मनोरमां || ओकारो भूच्च कैलासे हिमाचल नगोदरे | अंगुल्यः पतितास्तत्र पर्वशो लिंगतां गताः || करमालिकया तत्र यद्यन्मंत्रं जपे द्विजः | पुरश्चरण मात्रेण तुष्टा भवति देवता || औकारस्य समुत्पत्ति भृगुपीठे भवत् पुरा | तत्र ते पतिता दंतास्तत्पीठं महदद्भुतं || समस्तवैदिका मंत्राः कल्पोक्ताश्च स्वरूपतः | तत्र तिष्ठंति सेवात?स्तत्र सिद्धा भवंतिभि || अंतु केदार संभूतो दक्षं करतलं तव | पतितं तत्र पीठे तु सिद्धयः करसंस्थिताः || तस्य दक्षे चोपपीठमगस्त्याश्रम संज्ञितं | २२६ब्) कंकणं पतितं तत्र सर्वसिद्धिविधायकं || तत्पश्चान् मुद्रिका पातो जातस्ते पीठमद्भुतं | इंद्राक्षी नाम यत्र त्वमिंद्रेणोपासिता पुरा || तत्पश्चाद्ध वला नीरे वलयानि तवांविके | पतितान्युच्यते तच्च राजराजेश्वरीति च || वामाचारेण तत्रापि सिद्धिस्तूर्णं प्रजायते | जपा देव तु यक्षिण्यस्तत्र स्युर्दृष्टि गोचराः || अःकारो भूच्चन्द्रपुरे पतितो वामगंडकः | तत्र सर्वेपि मनवः सिध्यंत्यत्र न संशयः || श्रीपीठे तु ककारो भूत्मस्तकं पतितं तव | प्रायस्तत्र स पापानां दुर्लभं गमनं कलौ || समस्ताः शक्तयो यत्र अमत्तिनिशियेच्छया | अप्रमत्तं न वाधन्ति विधर्मं भक्षयंति च || कर्णा भरणतो जातमुपपीठं तु पूर्ववत् | ब्राह्मी तत्र स्थिता शक्ति ब्रह्मविद्या प्रकाशकां || कर्णोर्ध्वा भरणाद् वह्नि कोणे भूद्रपपीठकं | माहेश्वरी तत्र शक्तिर्मुख सुद्धिकरी मता || यत्र वल्यस्तु तद्दक्षे पतितास्ते तदा भवत् | उपपीठं तत्र शक्तिः कौमारी जयकारिणी || कण्ठमाला तु नैर्-ऋत्यां पतिता चोप पीठकं | वैष्णव्यधिष्ठितं जातमिन्द्रजालसुसिद्धिदं || नासामुक्ता तु तत्पश्चात् पतिता चोपपीठकं | वाराह्यधिष्ठितं जातं शत्रुमर्दनकारकं || मस्तकाभरणं वायौ पतितंद्युपपीठकं | इन्द्राण्यधिष्टितं जातं तद्राज्य पद दायकं || शृंखणिका चोत्तरस्य पतिता ह्युपपीठकं | चामुण्डाधिष्टिजातं क्षुद्र दैवत सिद्धिदं || वेश्याभरणतस्ते भू दीशान्यामुपपीठकै | अधिष्ठितं महालक्ष्म्या सूक्तानां तत्र सिद्धयः || खकारो भूत्तथोंकारे क्षेत्रे चामरकंटके | तद्ग्रीवा पतनात् पीठं नर्मदाधिष्टितं भवत् || तत्र सर्वै मुनिवरैः प्रणवोपाशकैः कृतं | महत्तपस्ततो जाता जीवन्मुक्ता महर्षयः || तदुत्तरे चोपपीठं कंचुकी पतनादभूत् | ज्योतिष्मत्या निवासोसौ ज्योतिम्मन्त्र प्रकाशकः || २२७अ) तत्प्राच्याशोन भद्रस्य तीरेतेंग विलेपनं | पतितं चोपपीठं तन्नारीणां पुंस्त्वकारकं || जालन्धरं ग कालस्य स्थानन्ततत्रस्तनस्तव | दक्षो निपतितस्तत्र जातं पीठं महद्भुतं || विख्याता जालपा तत्र वह्निना च तपः कृतं | स देव मुखतां प्राप्त स्थितस्तस्योपपीठके || ज्वालामुखीति विख्यातं स वह्निर्देवता मुखं | पुरश्चर्याया द्रव्यस्य पुरश्चरणं संख्यया || तत्र होमः प्रकर्तव्यो मन्त्रसिद्धिः प्रजायते | गोरक्षेण भु तत्रैव प्राप्तं सिद्ध्यष्टकं पुरा || मालवं तु घकारस्य वामस्कन्धोत्र संस्थितं | उपासितं तु गंधर्वै रागज्ञानमशंकितं || कुलान्तके फुकारो भूत्कक्षानि पतिता तव | द्वेषोच्चाटन मृत्युनां प्रयोगास्तत्र सिद्धिदाः || को दृके तु चकारो भूद्वाम कक्षा प्रतिष्ठिता | लब्धा तु राक्षसैस्तत्र सिद्धिर्दैव जयाभिधा || छकारस्य समुत्पत्तिर्गोकर्ण परिकीर्तिता | जठरं पतितं तत्र तच्च पीठं महद्भुतं || मारुतेश्वरसंजातो जकारस्तत्र ते वलिः | प्रथमा पतितापीठं शिवमंत्र प्रकाशकं || अट्टहासं झकारस्य स्थानं तत्र परावलिः | पतिता तं गणेशस्य मंत्रसिद्ध करं मतं || विरजं तु ञकारस्य स्थानं तत्रान्तिमावलिः | समस्त विष्णु मंत्राणान् तत्र सिद्धिरदुरतः || तस्योत्पत्ती राजगृहे वस्तिपातस्तु तत्र ते | तदधस्तात् क्षुद्रघंटा पतिता चोप पीठकं || तद्व्यंतिकाभिधं प्रोक्तमिंद्रजालं प्रसिध्यति | उपवेदार्थ निष्पत्तिर्भवेद्राज गृहेद्भुता || महापथे ठकारो भून्नितम्वः पतितस्तव | जानिदुष्टैर्द्विजैस्तत्र स्वशरीरं समर्पितं || प्राप्य जन्मात्तर ते स्तु वेदमार्गप्रलुंपकाः | अघोराद्याः करामार्गाश्चात्विता देव सौख्यदाः || उकारो भूत्कौल्लगिरौ जद्यनं पतितं तव | समस्तवलदेवानां तत्र सिद्धिरदूरतः || २२७ब्) एलापुटे ढकारो भूद्दक्षोह पतितस्तव | वालायास्तत्पीठमुक्तं स्वल्पार्णमनुसिद्भिदं || कालेश्वरेण कारो भूद्वामोरुः पतितस्तव | मृत्युंजयायुः करणमंत्राः सिध्यन्ति तत्र तु || जयन्ती तु तकारस्य स्थानं जानुनिपातितः | तत्र दक्षो जपात् सिध्येर्धनुर्वेदो न संशयः || उज्जयिन्यां थकारो वामजानुस्तत्र ते पतत् | सिध्यः कवच मन्त्राणामवन्तीति निगच्छते || दस्योत्पत्तिस्तु योगिन्यां तत्र जंघा निपातिता | कौलिका वामका मन्त्रास्तत्र सिध्यन्ति नेतरे || धकारो भूत् क्षुरिकायां वामजंघा तु तत्र ते | तत्र वैतालिका मन्त्राः सिद्धिं यान्ति च शावरोः || हस्तिनापुर उत्पत्तिर्नकार उत्पत्तिर्नकारस्य प्रकीर्तिता || दक्षेस्ते पतितस्तत्र गुल्फो नूपुरमेव च | उपपीठं तु तज्जातं यत्ख्यातं नूपुरार्णवं || पीठोपपीठयोस्तत्र मन्त्रा सिध्यन्ति भास्कराः || उड्डीशाख्यं पकारस्य पीठं तत्र तु वामप्तः | गुल्फो निपतितस्तत्र कृतं साधकसिद्धिदं || उड्डीशाख्यं महातन्त्रं सिद्धं भवतु तत्र तु | नूपुरं पतितं यत्र डामरं चोपपीठकं || प्रयागन्तु फकारस्य स्थानं देह रसोत्र तु | यत्रैव पतितस्तत्र दृश्यते श्वेतमृत्तिका || गंगायमुनयोर्मध्ये वारावारे तथैव च | एवं स्थानेषु ते स्थी निपतितानि द्विजोत्तमैः || कृन्तानि तानि भूम्यन्तं तत्र पीठानि यज्ञिरे | गंगायाः प्राक् च वगला ह्युपपीठं महद्भुतं || उत्तरे स्यास्तु चामुण्डा ह्युपपीठं महाद्भुतं | गंगायमुनयोर्मध्ये राजराजेश्वरी स्वयं || यमुना दक्षिणे कूले भूवनेशी समाश्रिता | प्रयागोऽतस्तीर्थराजः पीठराजश्च कथ्यते || षष्ठीशस्तु वकारस्य स्थानं पार्ष्णीस्तु तत्र ते | दक्षिणः पतितो देवि पादुका सिद्धिरत्र तु || २२८अ) मायापुरे वामपार्ष्णिः पतितो भूस्थलं तु तत् | देवदानवगांधर्व्यो मायाः सिध्यन्ति तत्र तु || मलयाख्ये मकारो भूत्पीठे सृग्यत्र ते पतत् | रक्तांवरादि वौद्धानां मंत्रसिद्धे स्थलं तु तत् || श्रीशैले तु यकारो भूत्तत्र पित्तं तवांविके | सर्वे मंत्रास्तत्र सिद्धा वैष्णवास्तु विशेषतः || रस्थानं तु हिमागस्य मेरुनामक शृंगकं | त्वन्मेदः पतितं सिक् थात् स्वर्णाकर्षण भैरवः || लकारस्य सुमुत्पत्तिर्गिरपीठे तु यत्र ते | जीह्वाग्रं पतितं तत्र जापाद् वाक् सिध्यति ध्रुवं || माहेंद्रस्तु वकारस्य स्थानं मज्जापतत्तव | सर्वेषां शक्तिमंत्राणां सिद्धिस्तत्र न संशयः || वामनं तु शकारस्य स्थानन्ते गुष्ठतो भवत् | जपात् तत्र तु मुख्यं त्वं मंत्रिषु प्राप्नुवंति हि || हिरण्यपुरसंभूतः षकारो वामतो भवेत् | अंगुष्ठा देव तत्पीठं वाममार्गेधिको भवेत् || पीठे चापि महालक्ष्म्या सकारो भूद्रूचिस्तव | शरीरात् पतिता तत्र सर्वसिद्धिः प्रजायते || हकारश्चोड्डियाने भूद्धमनी तत्र ते पतत् | दृग्गोचरास्तवांवंत्यः सिद्धयस्तत्र संस्थिताः || छायापीठे लकारो भू दृष्टा छाया मया तव | सती चेयन्तु लब्धा भूत्छाया पीठमतस्तु तत् || छत्रपीठे समुत्पन्नः क्षकारः केशपाशकः | यत्र ते पतितो देवि तत्र सिद्धिरदूरतः || एतद् देवि मया प्रोक्तं रहस्यं पीठ संभवं || तथा || म्लेच्छाः पाखण्डिनो धुर्ता राजानः स विवादयः | युवत्यश्च न वर्तन्ते तत्र सिद्धिरदूरतः || जीर्ण देवालयोद्यान गृहे वृक्षतलेषु च | नदी कुलाडि कूटेषु भूच्छिद्रादिषुनोवसेत् || जीर्णत्वं वृक्षपर्यन्त मन्वेति नदी कुलनिषेधः समुद्रांगाकूलभिन्नपरः || एवं विचार्य मतिमान् कुर्याद्भूमि परिग्रहं | पृथ्वी वराहं संपूज्य भूसुतस्य वलेन च || व्रुयादमुकमन्त्रस्य पुरश्चरण सिद्धये | २२८ ब्) मयेयं गृह्यते भूमिर्मंत्रोयं सिध्यतामिति || यामले || भूमेः परिग्रहं कृत्वा परिमाणाच्च सर्वतः | ग्रामे क्रोशमितं स्थानं नगरे तद्वयं स्मृतं || नदीपर्वततीर्थादौ परिमाणेन वर्जितं | क्षीरवृक्षमयान् कीलानम्र मन्त्राभिमन्त्रितान् || मेरुतन्त्रे || न्यग्रोधो दुंवराश्वत्थ प्लक्षान्यतर वृक्षजान् | वितस्तित् प्रमितान् वृत्तान् गृह्नीयात् कीलकान्दश || अष्टौ निखातयेदष्ट दिशास्वीशान पूर्वयाः | मध्ये निखन्यान्नवममूर्ध्ववुध्या तथाप्यधः || पश्चान्नैर्-ऋत्ययोर्मध्य ह्यस्तु मन्त्रेण कीलयेत् | पूजां तथास्त्र मन्त्रेण तेष्वेम्रं? च प्रपूजयेत् || तथा || क्षेत्रे च कीलिते मन्त्री न विघ्नैः परिभूयते || अस्त्रमिति यस्य यस्य यायादिक् तत्र तत्रन्तद्दिक्पालास्त्राणि पूजयेदिति केचित् || मूलमन्त्र स्यास्त्रं षष्ठमंगंतदीयास्त्र मन्त्रेण पूजयेदित्यपरे || यामले || क्षेत्रपालादिकांस्तत्र पूजयेद् विधिवित्तमः | दिक्पतिभ्यो वलिं दत्वा ततः क्षेत्रं समाश्रयेत् || मेरुतन्त्रे || दिक्पालेभ्यो माषभक्त विलिं दिक्षु प्रकल्पयेत् | क्षेत्रमध्ये क्षेत्रपालं पूजयेच्च गणेश्वरं || तृतीयं वास्तु पुरुषं तेभ्यो दद्याद् वलित्रयं || क्षेत्रपालवलिमन्त्रो यथा || तदुक्तं प्रथमतन्त्रे मेरुतन्त्रे च || क्षेत्रपालं च संपूज्य वलि दद्याद् यथाविधिः || एह्ये हि विदुषीत्युक्त्वामुरुभंजययुग्मकं | नर्तयद्वितयं पश्चाद् विघ्नविघ्न महेति च || भैरव क्षेत्रपालेति वलिं गृह्न द्वयं स्वाहा | त्रिचत्वारिंशद्वर्णोयं क्षेत्रपालवलेर्मनूः || तस्मै स परिवाराय वलिं दद्यान्न भक्षयेत् || पूजाक्रमस्तु || जयः स्थाने ततः कुर्या त्रिकोणं वर्तुलं वहिः | तद्वहिश्चतुरस्रं च तत्र क्षेत्रे समर्चयेत् || इहागच्छेत्यादि वाक्यैस्त्रिकोणादग्रतः पुनः | अत्रोदकादि संपूर्णं वलिपात्रं निधापयेत् || २२९अ) वामिभिर्महिषो देयः कौलिकैर्वर्करस्तथा | अविः सिद्धान्तिभिस्तत्र निवेद्यो मनुनामुना || एह्येहीत्यमुना || वीरचूडामणौ तु || ऋषिछन्दादि विन्यस्य दिग्देवेभ्यो वलिं हरेत् | असितांग भैरव ब्राह्मी पदं ङेन्तं समालिखेत् || वलिं गृह्न द्विधा कुर्याद् द्विठान्तो दिग्वलेर्मनुः | असितांगो रुरुश्चण्डः क्रोध उन्मत्तभैरवः || कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः | ब्राह्मी माहेश्वरी पश्चात् कौमारी वैष्णवी तथा || वाराही च तथेन्द्राणी चाण्डा तदनन्तरं | महालक्ष्मीः समाख्याता स्वस्व वीजाद्यनुक्रमात् || धूपदीपैस्समभ्यर्च्य पश्चात् || प्रणवं पूर्वमुच्चार्य मायालक्ष्मीश्च मन्मथः | इन्द्राण्यै पदमुच्चार्य चामुण्डे च पदन्ततः || विच्चे इति पदं पंचान्नैर्-ऋत्यै च मनुं पुनः | वारुण्यै वायवी चेति कौवेरीशान भैरवी || आदौ मन्त्रं समुच्चार्य पुनर्देवीं वदेत् प्रिये | वलिन्दद्यात् क्रमेणैव दिग्विदिक्षु वलिं हरेत् || प्रणवं पूर्वमुद्धृत्य हृल्लेखा वीजमुद्धरेत् | वटुकाय पदं पश्चादापदुद्धरणाय च || कुरुद्वयं समुच्चार्य मास्य?न्तारं समुद्धरेत् | वह्निजायान्वितो मन्त्रो वटुकस्य वलिं हरेत् || आग्नेययां वलिमुत्सृज्य माया लक्ष्मीश्च मन्मथः | वाहाही वीजमुद्धृत्य वीजं पंचान्तकं पुनः || गणपतये पदं पश्चाद् वरदवरद तथा पुनः | सर्वजनं वदेच्चैव वदेन्मेव शमानय || अन्ते वह्नि वधून्दद्यां गणध्वा?थो महामनुः || वाराही वीजं ग्लौं रौद्रं त्रिगुणमुद्धृत्य नारायणन्तथोद्धरेत् || वीजसूक्ष्मेश मुद्धृत्यामरेसं? वीजमुद्धरेत् | ङेन्तन्तु क्षेत्रपालं च वलिं गृह्न द्वयन्ततः || वह्निजायान्वितो मंत्रः क्षेत्रपालस्य कीर्तितः | वायुवीजं त्रिधा लिख्य अनन्तो माधवस्तथा || वत्तुलाक्षीन्ततोधृत्य योगिनीभ्यस्तथैव च | वह्निजायान्वितो मन्त्रो वायव्यां योगिनी वलिः || २२९ब्) रौद्र क्षकारः त्रिगुणं त्रिवारं नारायणं आं सूक्ष्मेशं इं अमरेशं उं वायुवीजं यकारः अनन्त आकारः माधव इकारः वर्तुलाक्षी उकारः || क्षकारं कालमारूढं तदन्ते अनलाक्षरं | सर्वविघ्नपदं कृद्भ्यः सर्वेभ्यो भूत उद्धरेत् || भ्योवर्म फट् समुद्धृत्य वलिं गृह्नापय ततः | द्विठान्तः सिद्धिदः प्रोक्तस्सर्वभूत वलिं हरेत् || मालेमकारः माद्रीकारः तेन क्ष्ली? ओदनं पायसं क्षीरं मत्स्यमांसं तथैव च || मोदकं पूलिका पूपं वटकं त्रिविधा सुरा | हृद्यौदनानि पक्वान्नमाज्यं मधु स शर्करं || सर्वत्र विधिवत् कुर्यात् दुर्गे नोत्संगमाचरेत् || मेरुतंत्रे यामले च || क्षेत्रमध्यं समाश्रित्य कूर्म चक्रं विचारयेत् | कूर्मचक्रमधिज्ञातुर्महाविघ्नोभिजायते || सारसंग्रहे || तच्चतुद्धा स्थितं लोके तत्प्रकारस्तथोच्यते | प्रथमस्तु परः कुर्मस्ततो देशगतस्तथा || ग्रामगोगृहे गश्चेति चतुर्द्धा स व्यवस्थितः || मेरुतन्त्रे || परदेश ग्रामगृहभेदात् कूर्मश्चतुर्विधः || तन्त्रराजे || व्यंजनं देशकूर्मे स्याद् गुहकूर्मे स्वरास्तथा | ग्रामकूर्मे तद् द्वितयं परकूर्मेन तद् द्वयं || मेरुतन्त्रे || कुरुक्षेत्रे प्रयागे च गंगासागरसंगमे | महाकाले च काश्यां च कूर्मस्थानं न चिन्तयेत् || देवी यामलेपीत्येव || गौतमीये || पर्वते सिन्धुतीरे वा पुण्यारण्ये नदी तटे | यदि कूर्यात् पुरश्चर्यां तत्र कूर्मन्न चिन्तयेत् || देशं ग्रामं गृहम् वापि नवधा विभजेन्नरः || मेरुतन्त्रे || वृत्तद्वयं प्रकुर्वीत नवकोष्ठकभेदितं | कवर्गाद्याः सप्तलेख्याः पूर्वाशादिषु लक्षकौ || ईशान्यां विलिखेन् मध्य वृत्तकोष्ठे द्वयं द्वयं | स्वराणां पूर्वतो लेख्यं श्रीवीजं मध्यकोष्ठके || प्राङ्मुखः परकूर्मस्तु सर्वदैव प्रजायते | देशनामादि * * * * ? स्यां दिशि व्यवस्थितः || २३०अ) देशकूर्म मुखं तस्यां दिशि स्याद् ग्राम कूर्मके | मुखद्वयं तु विज्ञेयं स्वराद्व्यंजनतस्तथा || गृह कूर्मस्य वदनं यदि द्वारं मुखं भवेत् | मुखस्य पार्श्वयोः पाणी कुक्षी पादौ ततस्ततः || पुच्छमेकमथो मध्यं पृष्ठमेव षडंगवान् | मुखे सर्वार्थ सिद्धि स्यात् करयोरल्प सिद्धयः || कटौ न किंचिद् दासत्वं पादयोः पुच्छगे मृतिः || गौतमीये || कुक्षौ तु नित्यनैष्फल्यं पादयोर्नैव सिद्धयः | पुच्छे मृत्युस्तु नियतः पृष्ठे सर्वार्थसिद्धयः || तस्मात् तत् साधु विज्ञाय कुर्यात् सर्वं जपादिकं || सिद्धेश्वरीतन्त्रे || तस्मात् मुखं समाश्रित्य सर्वं कार्यं समारभेत् | तदलाभे करम्वापि कूर्मस्थानं समाश्रयेत् || कालिकोद्भवे || स्थान साधकयोर्न्नाम्नो रवित्वं यत्र विद्यते | ते दक्षशास्त्रतो ज्ञात्वा तत् तत्स्थानं परित्यजेत् || गौतमीयें || मन्त्राक्षरेण मैत्रं च दीपनाम्नो भवेद्यपि | साधकस्य च नाम्नाथ किन्न सिध्यति मन्त्रिणः || पंचाशद् वर्णरूपेण क्षेत्रेशा विश्वविग्रहाः | तस्मात् तत् सगुणं क्षेत्रं सिद्धये स्यान्न चान्यथा || विगुणं चेन्मुखस्योपि ते नैव सिद्धिमाप्नुयात् | तस्माच्चक्रं विचार्यैवं मित्रं चेत् सर्वसिद्धिदं || यस्मिन् देशे दीपपतिः सगुणन्नाम मन्त्रयोः | तत्र यत्नेन गन्तव्यं स पीठो दुल्लभो मतः || मेरुतन्त्रे || क्षेत्रसाधक मन्त्राणामेकमेवाद्यमक्षरं | यदि स्यात् स ध्रुवं मन्त्रः सर्वसिद्धिफलप्रदः || तथा || महारित्वे जीवनाशो वैरे स्याद् धननाशनं | किंचिद् वैरे सुखाल्पत्वं तदिदानीं निगद्यते || अगौ ऋठौ *? पौजषौ पषौजठौ इवौ ऊतौ | फधौ भरौ यसौ चेति महारी परिकीर्तितौ || ऋच्छौ ओदयषौ तद्वत् तटौरिखावुधौढलौ || अत्र स्वराह्रस्वदीर्घौ ग्राह्यौ || वैरन्तु पंचमे वर्गे तात् किंचित् कटयो भवेत् | चटयोर्य च योश्चापि तटयोर्ढशयोरपि || २३०ब्) एकवर्गे यदा प्रीतिः स्ववर्ग द्विगुणं कुरु | स्थानवर्ग युतं तष्ठमष्टभिश्चाप उच्यंते || स्थानवर्गो द्विगुणितः || स्ववर्गस्याष्टशेषितः || स्थाना यत्रो भयोः कार्यमन्तरं यस्य शेषकं | यावत् स्थितं सोर्थदः स्यात् साधकोर्थ प्रदो नसेत् || तन्त्रान्तरे || एवं क्रमेण विज्ञाय रिपुस्थानं त्यजेद् वुधः | क्षेत्रसाधकमन्त्राणामेवाद्यमक्षरं शिवे || यदि स्यात् स ध्रुवं मन्त्रः सर्वसिद्धि फलप्रदः | रिपुत्वे निश्चिते तस्य द्वितीयार्णादि शोधयेत् || इत्थं स्थानग्रहं कृत्वा तत्र मन्त्री वलिं हरेत् || गौतमीये || दीपनाथं लिखेन्मध्ये पूजयेत् तं विभावयेत् || मेरुतन्त्रे || अमृतो वृषभः शैलरजो वासुकिरेव च | अर्थ कृच्छक्ति कृत् पूर्वकाष्टादौ वलिनार्चयेत् || पद्मयोनिं महाशंखं छायाख्यं चापि मध्यमः | कूर्म पृष्ठे गृहं कृत्वा गृहस्थो जपमाचरेत् || पुरश्चरण चन्द्रिकायां || मुखन्तस्य समाश्रित्य वा तापतपसंहां कुटीं | चतुर्हस्तां चतुरस्रां हस्तोन्नत सुवेदिकां || चन्द्रा तप पताकादि तोरशैरप्यलंकृतां | विविक्तामतिलिप्तां च प्राकारेणाभि वेष्टितां || निर्माय च ततः कुर्यादेकभक्तं शुभे दिने | प्रातः स्नात्वाऽथ गायत्र्या अयुतं प्रयतो जपेत् || ज्ञाताज्ञातस्य पापस्य क्षयार्थं प्रथमन्ततः || गायत्री वैदिकीति वहवः || स्वदेवता गायत्रीतिरद्ध?स्य विदः || ताराप्रदीपे || विरच्य विधिवद् विद्वान् मंडपं युमनोरमं | तस्मिन् कलशमारोप्य तीर्थतोयैः प्रपूजयेत् || निःक्षिप्य नवरत्नानि तत्र गन्धाष्टकं पुनः | आवाह्य पूजयत् तत्र देवी * * * * ? स्सह || कलशाग्रे जपेत् मन्त्रं संख्याया पूरणावधिः | संपूर्णं तु समागत्य गुरुदेवा विधानतः || अभिषिंचेच्छिवा मूर्ध्नि कल्लशो दलवारिभिः | ततः शिष्यः प्रयत्नेन धनाग्रैस्तोषयेद्गुरुं || २३१अ) सनत्कुमारः || अथ वक्ष्यामि मन्त्रस्य पुरश्चरणमुत्तमं | कृताभिषेको विधिवन्मन्त्रं लब्धा गुरोर्मुखात् || शुभे मुहूर्तेन क्षेत्रे तिथौ स्नात्वा यथाविधिः | विप्रान् सन्तर्प्य यत्नेन भोजनाच्छादनादिभिः || भूवित्तवस्त्रभूषाद्यैस्सन्तोष्य गुरुमात्मनः | आरभेत जपं पश्चात् तदनुज्ञापुरस्सरं || अगस्त्यसंहितायां || भुंजनो वा हविष्यान्नं शाकं यावकमेव वा | पयो मूलं फलम्वापि यत्र यत्रोपलभ्यते || चिंचां च नालिकाशाकं कलायं निकुनन्तथा | कदम्वन्नालिकेलं च व्रते कुष्माण्डकं त्यजेत् || मलिनाम्वर केशादि मुखदौर्गन्ध्य संयुतं | यो जपेत् तं दहत्याशु देवता गुप्तिसंस्थिता || आलस्यं जृंभणं निद्रां द्युतं निष्ठीवनं भयं | नीचसंस्पर्शनं कोपं जपकाले विवर्धयेत् || तन्त्रान्तरे || अधःशायी ब्रह्मचारी निशाशी प्रजपेन्मनुं || कुलार्णवे || नियम व्यतिरेकेन यद्यत् कर्म करोति यः | किंचिदप्यस्य न फलं सिध्यति क्रम दोषतः || न्युनाति रिक्तकर्माणि न फलन्ति कदाचन | यथाविधि कृतानीह सत्कर्माणि फलन्ति हि || तद्विधान कृतं कर्म जपहोमार्चनादिकं | देवता प्रीतिदं भूयाद् भुक्तिमुक्ति फलप्रदं || अत्र ऋतुकाले स्वस्त्री संभोगो न निषिद्धः || ऋतुकालं विनामन्त्री न स्वस्त्रियमपि स्पृशेदिति गौतमीय वचनात् || मेरुतन्त्रे || स्वभार्या या प्रमादेन सृवलितश्वेत्तदोषसि | स्नात्वार्द्रवासामौनी दशकुंभमितं जलं || श्रोत्रियस्य गृहे दद्यात् परमार्यां सहस्रकं || जपश्च संकल्प्यकत्तव्यः || तदुक्तं कुम्भसंभवेत् || ततः संकल्प्य कुर्वीत पुरश्चरणमादशत् || संकल्पस्तु || मेरुतन्त्रे || पुण्याह वाचनं कृत्वा कुशहस्तो वदेदिति | सूर्यः सोमो यमः कालः संध्ये भूतान्य भक्षया || पवनोदिक्यतिर्भूमिराकाशं खेचरामराः | २३१ब्) ब्राह्म्यं शासनमाधाय कल्पतामिद संनिधिः || पठित्वेत्थं ताम्रपात्रे कृत्वा कुशतिलाक्षतान् | उदस्तु?खस्तु संकल्पं कुर्यात् संवत्सरादिकान् || कामनान्तानुच्चरेत तत्र विंशति संख्यकान् | संवत्सरायते मासः पक्षः पंचांगमेव च || नवग्रहस्थितिंद्यस्रभागमुहूर्तके त्विति | स्वदेशभेदान्त तुल्यान् कामना सहितान् वदेत् || द्वीपे मुके मुके खण्डे मुके वर्षे च नीवृति | अमुके चामुके? क्षेत्रे गोत्रप्रवरमुच्चरेत् || स्वनामजाति नामान्तं द्विजाच्छर्म च वर्म च | गुप्तोदासोथामुकस्य मन्त्रस्य सिद्धिकामुकः || करिष्येहं पुरश्चर्या मेतत्संख्यां जपात्मिकां | अद्यारभ्य दिनैरेतै रसति प्रतिवाधके || करिष्य इति संकल्पं मनसैव प्रकल्पयेत् | वदेद्वाचाभिलाषं च कर्मणाचोप पादयेत् || गुरुं गणपतिं दुर्गां मातृन्तत्वा च पूजनं || सनत्कुमारसंहितायां संकल्पस्त्वन्यथोक्तः || पुरश्चरण चण्डिकायां || संपूज्यैवज्जपं कुर्यान्न मन्त्रं केवलं जपेत् || नारद पंचरात्रे || संपूज्याथ जपं कुर्याद् यावद् वै प्रहर द्वयं || तन्त्रे || त्रिसंध्यमर्च्चयेद् देवं द्विः सकृद्वा विधानतः || तन्त्रान्तरे || एकदा वा भवेत् पूजा न जपेत् पूजनम्विना | जपान्ते च भवेत् पूजा पूजान्ते वा जपेन्मनुं || मुण्डमालायां || यदि पूजा घ शक्तः स्याद् द्रव्याभावेन सुन्दरि | केवलं जपमात्रेण पुरश्चर्या विधीयते || यामले तु || स्त्रीणां विशेष उक्तः || नियमः पुरुषे ज्ञेयो न योषित्सुकदाचन || वीरतन्त्रेपि || न न्यासो योषितां चात्र न ध्यानं न च पूजनं | केवलं जपमात्रेण मन्त्राः सिद्ध्यन्ति योषितां || अथ जपविधिः || गौतमीयतन्त्रे || पशुभावे स्थिता मन्त्राः केवलावर्णरूपिणः | स्वस्वध्वनि प्रोचरिताः प्रभुत्वं प्राप्नुवन्ति ते || मन्त्राक्षराणि चित् सूत्रे प्रोतानि परिभावयेत् | तामेव(?) यमे(?) व्योम्नि परमामृतसंज्ञके || २३२अ) दर्शयेदात्म सद्भाव पूजा होमादिभिर्विना || कुलार्णवे || ज्ञातसूतकमादौ स्यान् मृतं सूतकमन्त्रके | सूतक द्वय संयुक्तो यो मन्त्रस्सन सिध्यति || ब्रह्मवीजं मनोर्दत्वा आद्यन्ते परमेश्वरि | सप्तवारं जपेन् मन्त्रं सूतक द्वय मुक्तये || एवं जपं पुरा कृत्वा तेजो रूपं समर्पयेत् | देवस्य दक्षिणे हस्ते गन्धपुष्पार्घवारिभिः || सफले तद्विभाव्यैव प्राणायामं समाचरेत् | जपस्यान्ते जपादौ च त्रितयं त्रितयं चरेत् || रुद्रयामले || स्वापकाले तु मन्त्रस्य जपो न च फलप्रदः | स्वापकालो वामवहो जागरो दक्षिणावहः || तन्त्रान्तरे || मनसा च जपेत् स्तोत्रं वचसा वा मनुं जपेत् | उभयं निष्फलं याति भग्नभाण्डमिवोदकं || रुद्रयामले || जपं यस्य शृणोत् यन्यः स मन्त्रः शून्य उच्यते | ऋषिच्छन्दो देवताभिष्परित्यक्तो भुजंगमः || स्त्री शूद्राभ्यान्नभाषेत रात्रौ जप परो न च | जपेन्न सन्ध्या काले च न प्रदोषेन चातुरः || वैशंपायनः || यज्जले शुष्कवस्त्रेण स्थले चैवार्द्र वाससा | जपो होमस्तथा दानं सर्वन्तं निःफलं भवेत् || मेरुतन्त्रे || त्यजेद् विंशति कर्माणि सिद्धि विघ्न करानि च | कुर्याद् विंशति कर्माणि जप सिद्धिकराणि च || लोभं क्रोधं च मार्त्सर्ये कामं द्वेषं च ताडनं | दंभमुच्चाटनाभ्यंगा प्रियमिथ्या वचस्तथा || गीतवाद्यं मधुच्छायां विभीतक करंजयोः | मांसं प्रतिग्रहं माल्यं ताम्वुलं पापि भाषणं || एतानि वर्जयेद् विद्वान् कर्तव्याण्यथ मे शृणु | मनो निरोधो मन्त्रार्थ चिन्तनं नित्यकर्म च || नैमित्तिकं शौच मौने वरसंमारनंदमः | भूमिशर्या त्रिषवण स्नानं प्रात्य हि कार्चनं || नित्यदानं गुरोः पाद पूजाहार नियंत्रणा | स्नानं च पंचगव्येन पवित्रकरधारणं || त्रिसंध्या वंदनं पंच यज्ञास्तर्पणकं चतुः | २३२ब्) यथोक्त वस्त्रधरणं प्रायश्चित्तमथोच्यते || सकृदुच्चरिते शब्दे प्रणवं समुदीरयेत् | प्राप्तेयां सरशब्देपि प्राणायामं स कृच्चरेत् || वहु प्रलापे चावश्यं न्यास्यांगानि ततो जपेत् | क्षुतेप्येवं तथा स्पृश्य स्थानांनां स्पर्शनेपि च || मौन त्यागे जपेन्मन्त्रं वैष्णवं वा स्मरेद्धरिं | पतितां त्यज संदर्शे तेजोवन्तं निरीक्षयेत् || सूर्याग्निश्चन्द्रमाः खेता मुनयोभानि तारकाः | विद्वान् गो ब्राह्मणाश्चेति तेजो हीनः पदे पदे || क्षुतेधो वायुगमने पतितादिकभाषने | त्यक्त्वा जपं तथा चम्य प्राणायामं षडंगकं || कृत्वा पश्चाज्जपेन्मन्त्रं जृंभायां विष्णुमुच्चरेत् | मार्जारं कुर्कुटं क्रौचं स्वानं गृध्रं खरं कपिं || दृष्ट्वा चम्पा चरेत् कर्म स्पृष्ट्वा स्नानं विधीयते | दैवा सत्यभाषी चेत् सरुहं पौरुषं जपेत् || वहुवस्त्रैक वस्त्रो वा मुक्तकेशो गलावृतः | उष्णीषी कंचुकी नग्नः शिरशि प्रावितोपि वा || चिन्ताद्व्याकुल चिन्तो वा क्रुद्धो भ्रांतः क्षुधान्वितः | उपानद्गुढ(?) पादा(?) वा पानशर्या गतस्तथा || शपानो वाऽधौतपादः पश्चाद् वा दक्षिणामुखः | म्लानवस्त्रोर्ध वस्त्रश्च तथा द्विगुण वस्त्रकः || च्युत वस्त्रो रक्तवस्त्रः स्निग्धवस्त्रोद्दिकच्छकः | वहिः कच्छोनुत्तरीयो विकच्छश्चैक कच्छकः || कौपिनी प्रौढपादश्च तथा सीवित वस्त्रवान् | जपासक्तः प्रामादाच्चेद् राक्षसैर्गृह्यते फलं || रुद्रयामले || विश्वासास्तिक्य करुणा श्रद्धानियमनिश्चयैः | संतोषैः शुद्धधर्मादिर्गुणैर्युक्तो जपेत् प्रिये || अत्याहारः प्रवासश्च प्रजल्पो नियमाग्रहः | जनसंगोथ लौल्यं च षड्भिर्मन्त्रो न सिध्यति || कुलार्णवे || मानसः सिद्धिकामानां पुष्टिकामैरूपांशुकः | वाचिको मारणे चैव प्रशस्त्ये जप ईरितः || अशुचिर्वाशुचिर्वोपि गच्छन्नपि स्वपन्नपि | न दोषो मानसे जप्ये सर्वदेशेपि सर्वदा || २३३अ) उत्तरतन्त्रे मेरुतन्त्रे च || जपादौ पूजयेन्मालां तोयैरभ्यूक्ष्य यत्नतः | विधायमण्डलस्थात्तां सव्यहस्तगतां च वा || इष्टमन्त्रेण मालायाः प्रोक्षणं परिकीर्तितं || ओं माले मालेति पूर्ववत् पूजयित्वा ततो मालां गृह्नीयाद् दक्षिणे करे || जपं समाचरेत् पश्चात् पूर्ववद् ध्यानमास्थितः | चिन्तयित्वा गुरुं मूर्ध्नि यथावर्णादिकं भवेत् || मन्त्रं ध्यायेत् कंठमध्ये पीतवर्णं हिरण्मयं | महामायां च हृदये स्वात्मानं गुरुपादयोः || आज्ञाचक्रे ततः पश्चाद् गुरोर्मन्त्रस्य चात्मनः | देव्याश्वाप्येकतां नीत्वा सुषुम्ना वर्त्मना ततः || तत्व स्वरूपमेकं तत् षट् चक्रं प्रतिलंघयेत् | षट्चक्रेपि महामायां क्षणं ध्यात्वा प्रयत्नतः || लंवयेन् मूलमन्त्रेण चादि षोडश चक्रकं | आदि षोडश चक्रस्थं साधकानां ददायिनी || चिन्तयेत् साधकोदेको देवीं जपकर्म समारभेत् | भ्रुवो रुपरिन्मडीनां त्रयाणां प्रात उच्यते || तत्प्रान्तं त्रिपथ स्थानं षट्कोणं चतुरंगुलं | रक्तं वकुलयोगज्ञैराज्ञा चक्रमितीरितं || कंठे त्रयाणां नाडीनां वेष्टनं विद्यते नृणां | सुषुम्नेडा पिंगलानां षट्कोणं तत् षडंगुलं || तत् षट्चक्रमिति प्रोक्तं शुक्लं कण्ठस्य मध्यगं || षोडशचक्र मुक्तं तत्रैव त्रयानामपि नाडीनां हृदये चैकता भवेत् || तत्स्थानं षोडशारं स्यात् सप्तांगुल प्रमाणतः | तत्पीतमुक्तं योगानामादि षोडश चक्रगं || मेरुतन्त्रे || एवं विचिन्त्य मध्याया मध्यभागे तु मालिकां || उत्तरतन्त्रे मेरुतन्त्रेपि || मालां स्वहृदया सत्रा(?) धृत्वा दक्षिणपाणिना || जपेदिति शेषः || मेरुतन्त्रे शैवागमे || अस्पृशत् तर्जनी मालामंगुष्ठाग्रेण चालयेत् | पूर्वमन्त्रं जपन्यस्तु संस्पृशेदे परं मणिं || अंगुष्ठेन भवे तस्य निःफलः स जपः सदा || कियाल्लक्षणमुक्तं नित्यजपे || २३३ब्) देवी विचिन्तयेत् जप्यं कुर्याद्वामेन *? स्पृशेत् || मेरुतन्त्रे महाकपिल पंचरात्रे च || एकचित्तः प्रसन्नात्माऽप्यक्षे सुत्रकरः शुचिः | भग्नं ग्रीवोन्नतः शान्तः कण्डून्मीलनवर्जितः || स विसर्गं समात्रं च सविंदुं साक्षरं स्फुटं | तद्रुतं नापि विश्रान्तं क्रमात् मन्त्रं जपेत् सुधीः || वायवीयसंहितायां || देवतागुरु मन्त्राणामैक्यं संभावयन् धिया | जपेदेक मनाः प्रातः कालान् मध्य दिनावधि || यत् संख्यया समारब्धं तत्कर्तव्य महर्निशं | यदि न्यूनाधिकं कुर्याद् व्रतभ्रष्टोऽभिजायते || मुण्डमालायां || प्रातर्मध्यदिनं यावज्जपकालः प्रकीर्तितः | न न्यूनं नाति रिक्तं वा जपं कुर्याद् दिने दिने || नैरन्तर्यविधिः प्रोक्तो नदि नान्यति लंघयेत् | दिवसाति क्रमे पुंमां सिद्धिरोधः प्रजायते || मन्त्रे जप्तान्न पानीय स्नाना च मन भोजनं | प्रातरित्यादि दिवा तन पुरण विषयं || पुरश्चरण चन्द्रियां || ध्यात्वेष्टे देवता रूपमात्मानं प्रजपेन्मनुं | संख्या पूर्तौ पुनः कुर्याद् दृष्ट्यादि प्राणसंयमान् || संख्या पूर्तौ दैनं दिन संख्या पूर्तौ ऋष्यादीति ऋष्यादिन्यासाभिप्रायं || मेरुतन्त्रे || जपान्तेष्टोत्तरशतं जप्त्वा शिरसि धारयेत् || मालामिति || ग्रहणे स्थापने पूजायां प्रोक्ता मालिकामनुः | पंचाक्षरस्ततो देवं स्वेष्टं संप्रार्थयेदिति || गुह्यातीति || मूलमंत्रं समुच्चार्य देवहस्ते निवेदयेत् | तं जपं चार्घ्य तोयेन मध्याह्न समये त्विदं || तदूर्ध्वं पूर्ववत् स्नात्वा विशेषेण विधानवित् | न्यासा वसानमखिलं कर्म कुर्यात् पुरोदितं || सिद्धान्तसारे || एवं जपं तथा कृत्वा दशांशमसितोत्पलैः | आज्याक्तैर्जुहुयान्मन्त्री तद्दशांशेन तर्पयेत् || काला गुरु द्रवो पेतैर्विमलैर्गन्धवारिभिः || मेरुतंत्रे || पूजाग्नि होमपर्यंतं ततश्च जपमारभेत् | यावद् दिनावसानं तु भूयः स्नात्वा ततो द्विजः || उपास्य पूर्ववत् संध्यां देवं संपूजयेत् पुनः | तन्त्रान्तरे || संख्या पूर्तौ निजैर्द्रव्यैर्जपसंख्यादशांशतः || २३४अ) यथोक्त कुण्डे जुहुयाद् यथा वत्सु समाहितः || अथवा प्रत्यहं जप्त्वा जुहुयात् तद् दशांशतः | ततो होम दशांशेन जले संपूज्य देवतां || तर्पणादि कुर्यादिति || मेरुतन्त्रे || विसृज्य भोजनं कुर्यात् सततं तारकोदये || विसृज्येति पुरश्चरणे नित्य कृत्यान्ते संध्या वंदनानन्तरं मीत्यर्थः || तथा || सत्कन्दफलमूलाशी सद्भिक्ष्याशी हविष्य भुक् | पयोव्रती भवेच्छ्रेष्ठस्तेषां लक्षणमुच्यते || आरुष्करं रत्नमूलं पिण्डारुंकसेरुकं | रक्तहस्ती शंख मधुसारुकं श्रेष्ठमुच्यते || द्राक्षाम्रजंवूपनसं कपित्थं खर्जूरिका दाडिमनालिकेरं || परूषकं क्षीरिणि चारतिन्नूकर्केन्धुधात्र्यारु भवेत् पवित्रां || शत्रमूलं त्वचामूलं विमलं पंचमी जटा | अकवाकुः कुवाकुश्च मूले पावित्र्यकारकं || वैदिकाचार युक्तानां शुचीनां श्रीमतां सतां | सत्कूल स्थान जातानां भिक्षाशी चाग्र जन्मनां || चरुमूलं फलं क्षीरं दधिभिक्षान्न सक्तवः | एतत् सप्तविधं भिक्षालब्धं भक्ष्यं व्रतस्थितैः || हविष्याणि तु पंचाशत् श्वेतास्विन्न हिमोद्भवाः | तण्डुलाः षष्ठिकानां चाराश्च त्रिविधत्रिध तंडुलाः || मूनगाय वास्तिलाः कृष्णाः कलायास्त्रिपुटा अपि | कंगवश्च मकुष्ठाश्च पावमानः कनंशिका || कारकं शोचवास्तूकं करं वूर्हिलमोचिका | चक्रवर्ती चक्र?मर्दपलंकः शतपुष्पिकाः || मूलं हेमन्तजं श्वेतं राजकल्माषजं तिलं | मृणालं मुशली द्योटां शतमूली विदारिका || सर्वपिंडालवोर्शघ्नो वाराही च कसेरुकं | आरुष्करः कंचुकश्च केलूटो माणवारुकौ || सामुद्रे सैन्धवं गावो दध्याज्यं गोजमाहिषं | दुग्धं ससारं मधुरं फलं पत्र्यल्प वीजकं || पनसाम्रामलं चिंचा विफाणिन गुडैक्षवं | भविष्यं शेषजं सर्वं हित्वा मीनात् सुरां पलुं || श्रेष्ठं गवां दुग्धमुक्तं मध्यमसुरभी भवं | २३४ब्) अधमं माहिषं चान्यद् व्रतस्थानां निषिध्यते || त्यजन्निषिद्धमाहारं मध्योसौ शास्त्रवश्च यत् | निषिद्धदेश कुलतः प्रशस्तं सोधमः स्मृतः || निषिद्धान्यथ कथ्येंते पंचाशत् प्रतितानि तु | श्वेतमुद्गाम सुराश्च कोद्रवाश्चणकास्त्रिधा || माषाश्च भूमिलवणं पत्रजातं रसांतरं | क्षौद्रं क्षारं च चपलां गृंजनं कांस्य भोजनं || मांसं च स्विन्न लवण माढकीचारं मालकं | अन्नं पर्युषितं तैलं तांवूलं क्षुद्रधान्यकं || पटोलं चापि वृंताकं मूलकं च कलिंजकं | दग्धान्नं चेद्विपक्वे च गणानं च विरूढकं || उपोदिकां च लसुणं पलांडूं फाणितं गुडं | तुंडी मलावू कूष्मांडं गो जिह्वां च गडंविदं || छत्राकं क्षुद्र खर्जूरी मधुकं तालजं फलं | तूंदं कुर्क्कुट पादां च वंशांकुरकं चिर्भिटे || राजकोशातमाम्रातं वंध्या कर्कोटकीमिति | देवाविशेषं शृण्वं तु वर्णांश्रम विभेदतः || तिलतैलं मंत्रपूतं पावनं देवदुर्लभं | मर्दयित्वा गृहस्थेन स्नानं कार्यं हि सर्वदा || द्विजैस्तु भोजनं कार्यमुपस्तीर्याभिषार्य च | पाचयेद् वैदिकैर्मन्त्रैः प्रोक्षणादिक कर्मणा || पुनर्मूलेन संमंत्र्य भुंजीयाद्धृदयाणुना | मूलाभिमन्त्रितं तोयं भोजने तृषि संपिवेत् || पलाशपत्रे भुंजीयान् मध्य पत्र विवर्जिते | तद भावे कदल्यां वा मधूकेसर्जकेपि च || भुक्त्वाशयीत शयने सुशुद्धे वसुधातले | अहतास्तरणास्तीर्णे सदर्भशयने शुचौ || मंत्रिते मूलमंत्रेण जितक्रोधो जितेन्द्रियः | अभीष्ट देवतां ध्यायन् प्राक् शिरस्को निशिस्वपेत् || अर्धरात्रे समुत्थाय पादशौचं विधाय च | आचम्य देवं संस्मृत्य शीघ्रं संपूज्य पूर्ववत् || जप कुर्याद् यथा शक्तिरर्पयेच्च तथेश्वरे | स्वपेत् ततस्तु यदृष्टं स्वप्नं तं गुरवे वदेत् || जपश्चायं वनस्थानां प्रोक्तोयं ब्रह्मचारिणां || इति जपसमाप्त्यवधि प्रात्यहिकं || २३५अ) ततो होमादिः || पुरश्चरण चन्द्रिकायां || ततो जपदशांशेन होमं कुर्याद् दिने दिने | अथवा लक्षसंख्यायां पूर्णायां होममाचरेत् || लक्ष पूर्णाविति पृथगुपादानं यत्र वहुलक्षात्मकं पुरश्चरणन्तत्परं || सिद्धसारस्वते || एवं जपं तथा कृत्वा दशांशमसितोत्पलैः | अकोडैर्जुहुयान्मन्त्री तद् दशांशेन तर्पयेत् || सारसंग्रहे || ततो होमदशांशेन जले संपूज्य देवतां | तर्पयामीति मन्त्रान्ते प्रोक्ताऽद्भिर्मूर्ध्नि तर्पयेत् || ततो मार्जनं || तथा हि वैशंपायनः || तर्पणस्य दशांशेन नमोन्तं मन्तमुच्चरन् | अभिषिंचेत् स्वमूर्द्धानं जलैः कुंभाख्य मुद्रया || अत्र शीर्षे अमुकमभिषिंचामीतिर्योजयन्ति कुंभमुद्रा नित्य स्नान प्रकरण एवोक्ता || वीरचूडामणौ || तर्पणान्ते महामन्त्री अभिषेकन्तु कारयेत् | गोमयेनोपलिप्तायां भूमौ पद्मदलं लिखेत् || कलशं स्थापयेत् तत्र कलां चैव प्रपूजयेत् | गन्धदुर्वांकुरैर्वापि अशोकैश्चूत पल्लवैः || संपूज्य गन्धपुष्पाद्यैरुपचारैः प्रपूजयेत् | मातृकामन्त्रमुच्चार्य प्रत्येकं मन्त्रमुच्चरेत् || अभिषिंचामीति पदं शिरसि चाभिषिंचयेत् || ततो मार्जन दशांशेन पूर्वोक्त द्रव्यैः स्वेष्ट देवता भक्तान् कौलिकान् भोजयेत् || तन्त्रे || होमकर्माद्य शक्तानां विप्राणां द्विगुणो जपः | इतरेषांन्तु वर्णानां त्रिःचतुःपंचसंख्यया || द्वैगुण्यादि होमाद्ययेक्षयैव || सनत्कुमारीये || यद्यदंगं भवेद्भग्नं तत्संख्या द्विगुणो जपः | होमाभावे जपः कार्या होमसंख्या चतुर्गुणः || विप्राणां क्षत्रियाणां च समः संख्या गुणः स्मृतः | वैश्यानां वसुसंख्याकमेषा स्त्रीणामयम्विधिः || यं वर्णमाश्रितः शूद्रस्स च तस्य विधिं चरेत् || अगस्त्य संहितायां || यदि होमेन शक्तः स्यात् पूजायां तर्पणेपि वा | २३५ब्) तावत् संख्या जपेनैव ब्राह्मणाराधनेन च || भवेदंग द्वयेनैव पुरश्चरणमत्र वै || अन्यत्रापि || सर्वथा भोजयेद् विद्वान् कृतसांगार्थ सिद्धये | विप्राराधन मात्रेण कर्मसांगं भवेत् सदा || मेरुतन्त्रे || अथ वक्ष्ये दरिद्रस्य मंत्रसिद्धिर्यथा भवेत् | होमकर्मण्य शक्तस्य विप्रस्य द्विगुणो जपः || इतरेषां तु वर्णानां त्रिगुणादिर्विधीयते | होमद्विगुण जप्येन संपूर्णं तर्पणं भवेत् || अकृते मार्जने प्रोक्तस्तर्पणा द्विगुणो जपः | प्रत्याम्नायो ब्रह्मभोज्येन कुत्रापि मया श्रुतः || सर्वथा भोजयेद् विप्रान् कृतसांगत्व सिद्धये | विप्राराधनमात्रेण व्यंगं सागं प्रजायते || यानियान्यपि कर्माणि हीयेते द्विजभोजनैः | निरर्थकानि तानि स्युर्वीजान्यु खरगानिव || अत्र स्त्री शूद्रयोश्च होमस्थाने यथोक्त जप एव न तु शक्तावपि होमः || स्त्रीशूद्राभ्यां न होतव्यं मन्त्रोच्चारण पूर्वकमिति वचनात् || वाराहीतन्त्रे तु || द्विजानामधिकारोस्ति तान्त्रिके होमकर्मणि | यदि कामी भवेच्चैव शूद्रोपि होमकर्मणि || वह्निजायां परित्यज्य स्वाहान्ते च नमो नमः इत्युक्तं || तन्त्रे || होमाभावे द्विजानान्तु यः प्रोक्तः सूरिभिर्जपः | तत्सुभ्रुवां च तद्भक्त शूद्राणां च एव हि || सामान्यतस्तु शूद्राणां पंचगुणत्व मुक्तमेव || पुरश्चरण चंद्रिकायां || पुरश्चर्यां विधायेत्थं सम्यक् साधकसत्तमः | तदन्ते महतीं पूजां कुर्याद् ब्राह्मणभोजनं || वहुभिर्वस्त्रभूषाभिः पूजयेद् गुरुमात्मनः | दीनानाथाश्च सन्तोष्य मन्त्राः सिध्यन्ति मन्त्रिणां || मेरुतन्त्रे || गुरुं संतोषयेत् पश्चां गो हिरण्यां वरादिभिः | गुरौ तुष्ठे हि संतुष्टो मत्रः सिध्यति मंत्रिणः || होमांगनिरुपणे || जपहोमार्चनैर्मन्त्रा नियमस्तस्य सिद्धिदाः | जपेन त्रिगुणेनापि मनवः सिद्धिदाः स्मृताः || २३६अ) रुद्रयामले कुलमूलावतारे च || भोजनेन विना देवि तर्पणेन विना पुनः | होमेनापि विना सिध्यै मन्त्राणां त्रिगुणं जपेत् || प्रारब्ध पुरश्चरणे देशाद्युपद्द्रव भयेऽन्यथैवोक्तो मेरुतन्त्रे || देशाद्युपद्रवत्रासात्वरयाचेत् समापनं | कर्तव्यं चेदयं काल्यः प्रोक्तोत्वा वश्यकेपि च || आमध्याह्नं जपः श्रेष्ठो मध्यमः प्रहर त्रयं | सार्धयामत्रयं हीनोऽवश्यके प्रोक्त लक्षणः || पंचधात्रविधिः प्रोक्तो जप संपूर्णकारकः | आद्र्यकल्प प्रतिदिनंमामध्याह्नं जपं चरेत् || तद् दशांशेन कल्पोक्त द्रव्यैर्होमं प्रकल्पयेत् | तर्पणं मार्जनं कृत्वा तथा ब्राह्मण भोजनं || तत् तद्दशांशतश्चायां प्रथमः कल्प ईरितं | अयं द्वितीय कल्पस्तु लक्षमेकं जपं चरेत् || होमादिकं तस्य कृत्वाग्निमं लक्षं समारभेत् | अयं तृतीय कल्पस्तु संपूर्णं जपमाचरेत् || पूर्णे होमे तर्पनारि पूर्वमेवा चरेदिति | चतुर्थस्तु तथाकल्पो दरिद्रै द्विगुणो जपः || होमाद्य भावे कर्तव्यस्त्र्यादिनिघ्नो नृपादिकैः | पंचमस्तु तथा कल्पो यस्य देवस्य यत्प्रियं || तदेव द्विगुणं कार्यं शीघ्रं दैवत तुष्टये | जपः प्रिया सर्वदेव्यो वाममार्गे वलि प्रियाः || पानप्रियोस्तु सिद्धान्तैः कौलिकैस्तु रति प्रियाः | होमप्रियो महादेवो भास्करस्तर्पणा प्रियेः || मार्जनन्तु गणेशस्य विष्णोर्ब्राह्मणभोजनं | प्रायश्चित्तं तु न कृतं तदा शुद्धो भवे द्विजः || पुरश्चर्या चतुष्केण द्वित्र्याद्यैः क्षत्रियादिकाः || इति पुरश्चरणं || इति श्री-आद्यानन्दविरचितायां कुलमुक्तिकल्लोलिन्यामष्टदशः पटलः || अथ वीरपुरश्चरणं || तत्र जपादौ कालो रात्रिदेव || तदुक्तं कालाग्नि तन्त्रे || गते तु प्रथमे यामे त्रितीये प्रहरोवधि | प्रजप्तव्यं निशायां च रात्रिशेषे जपेन्न च || २३६ब्) माला च रहस्य मालामादाय जपेदिति प्रागुक्तं || वीरचूडामणौ कुलचूडामणौ च विशेषान्तरमुक्तं || पुरश्चरण काले च परशक्तिं प्रपूजयेत् | दीक्षितो वस्त्रपुष्पाद्यैर्भोज्यैः पायससंभवैः || शून्यगेहे समानीय अर्घोदक विशोधितं | अमृतीकरणं कृत्वा शक्तीरभिमुखन्नयेत् || समानीय शक्ति पूजोपयुक्त द्रव्यादि अमृतीकरणन्तेषामेव || तथा || अर्घोदकेन सर्वास्तास्संप्रोक्ष्यविधि पूर्वकं | अमृतीकरणं कुर्या सकलीकरणन्ततः || अत्रामृतीकरणादिकं शक्तीनां पूज्यशक्तीराह || कुमारीतन्त्रे || अथाष्ट कन्यका वक्ष्ये देवीरूपधरायतः | ब्राह्मणी क्षत्रिया वैश्या शूद्रा च कुलभूषणा || वेश्यानापित कन्या च रजकी योगिनी तथा | विशेषवैदग्ययुताः सर्वा एव शुभांगणाः || कारोत्तरतन्त्रे || अष्टकन्या रूपभेदं विलोक्यामर्ष चेष्टितं | ब्राह्मण्याद्यष्ट शक्तीनां नामभिः कृत संज्ञकाः || गौरकृष्णादिकं रूपं सौम्यत्वं च गुणादिकं | शक्तीनो नामानि वक्ष्यमाणस्तोत्र एव वक्तव्यानि || पूजाप्रकारमाह || आसनं प्रथमं दत्वा स्वागतं च वदेत् पुनः | अर्घ्यं पाद्यं च पानीयं मधुपर्कं जलन्ततः || स्नापयेत् गन्धपुष्पाद्भिः केशसंस्कारमाचरेत् | धूपयित्वा ततः केशं कौशेयं विनिवेदयेत् || ततः स्नानोत्तरे पीठमास्तीर्य पादुका द्वयं || दत्वा तत्र समासीनां नानालंकार भूषयित्वाऽनुलेपं च गन्धमाल्यं निवेदयेत् || तान्तां शक्तिं समावाह्य मूर्ध्नि तासां समानयेत् | भोज्यमण्डप मध्ये तु स्वर्णपात्रे सुशोभने || चर्व्यं चोष्यं लेज्यं पेयं भोज्यं चैव हि भक्ष्यकं || अदीक्षिता यदा स्युस्तु तदा मायां निवेदयेदिति काली कुलसर्वस्वेपि || तान्तामिति यस्या नाम्नाया संकेतिता तस्याः शिरसि तां शक्तिमावाज्य पूजयेदित्यर्थः || इद वा वाहनम्मध्येप्युक्तमादावेवार्हति सर्वत्र तथा दर्शनात् || २३७अ) तत्रासां सव्यकर्णेषु ततस्तोत्रं समाचरेत् | मातर्देवि नमस्तेस्तु ब्रह्मरूपधरेऽनद्ये || कृपया हरविघ्नं मे मन्त्रसिद्धिं प्रयच्छमे | महेशि वरदे देवि परमानन्दरूपिणि || कृपयेत्यादि || कौमारि सर्वविघ्नेशि कुमारक्रीडने वरे || कृपयेत्यादि || विष्णुरूपधरे देवि विनतासुतवाहिनि || कृपयेत्यादि || वाराहि वरदे देवि दंष्ट्रोद्धृत वसुन्धरे || कृपयेत्यादि || शक्ररूपधरे देवि शक्रादि सुरपूजिते || कृपयेत्यादि || चामुण्डे मुण्डमाला सृक् वर्चिते विघ्ननाशिनि || कृपयेत्यादि || महालक्ष्मी महामोक्षे क्षोभसन्तापनाशिनि || कृपयेत्यादि || मितिमातृमये देविमिति मातृवहिः कृते | एके वहुतरे देवि विश्वरूपे नमोस्तुते || एतत् स्तोत्रं पठेद् यस्तु मन्त्रारंभेषु संयतः | विदग्धाम्वा समालोक्य तस्य विघ्नं न जायते || यदि व्रीडापरास्तास्तु भोजने तद्गृहाद्वधिः | स्थितस्तोत्रं पठेत् तावद् यावत् तृप्तिः प्रजायते || आचम्य मुखवादि ताम्वूलं च निवेदये || तथा || ततो दद्यात् पुनर्माल्यं चन्दनं पंकितं शुभं | विसृज्य प्रदक्षिणी कृत्य वरं प्रार्थ्य सुखी भवेत् || अन्याद्यदि न गच्छन्ति निजकन्या निजानुजा | अग्रजामातुलानी वा जननी तत् स पत्नीका || वयस्याज्ञातिजा वापि सधवा वापि निःपतिः | पूर्वाभावेपराः पूज्यामदंशा योषितो यतः || एकावेद्युवतिस्तत्र पूजिता वा विलोकिता | सर्वा एव तदा देव्यः पूजिताः कुलभैरव || इदं च पुरश्चरण स्यादौ मध्ये चान्ते कर्तव्यं तथा हि तत्रैव || आदावन्ते च मध्ये च लक्षपूर्णै विशेषतः | न पूजयन्ति चेत् कांता तदा विघ्नैर्विलुप्यते || वीरचूडामणौ || क्षेत्रमादौ तु सशोध्य समसूत्रं मनोहरं | वेदिकां कारयेत् तत्र मध्ये मुण्डं विनिःक्षिपेत् || अलिना लेपनं कुर्यान् मध्ये चाष्टदलं लिखेत् | पूर्वादि क्रमतो ज्ञेयं स्वरयुग्मं लिखेत् क्रमात् || २३७ब्) वर्गाष्टकं लिखेत् तत्र मध्ये प्रासादमालिखेत् | गगनं विन्दुसंयुक्तं लांगुलीशं तथैव च || स विसर्गं वरारोहे केसरेषु लिखेत् ततः | तत्राधारादि संपूज्य आसनं स्थापयेद् वुधः || उपविश्यासने वीरो यत्र कुत्राप्य चूडके | पार्ष्णि घात त्रयं कुर्याच्छोचिकात्रितयं ततः || दिग्वन्धनास्त्र मन्त्रेण पूर्वादि क्रमतो वुधः | वके शान्ते पिनाकीशं नादविन्दुविभूषितं || पशुपदं समुच्चार्य रमान्तेस्त्र मनुत्तमं | पाशुपताख्य विद्येयं सर्वविघ्नविनाशिनीः || वकेशः शकारः पिनाकीशो लकारः || भूतशुद्धि विधायादौ न्यास पूर्वं विधानतः || तथा || गोमयेन विलिप्तायां भूमौ मण्डलमालिखेत् | अलिना लेपनं कुर्याद् यक्ष कर्दमकेन वा || सूत्रेण सूचितं पद्मं समसूत्रं मनोहरं | रक्तं श्वेतं हरिद्वर्ण कृष्णपत्रं सुकेसरं || चतुरस्रं सुशोभाढ्यं तन्मध्ये योनि युग्मकं | त्रिकोणं चैव तन्मध्ये शून्ये शून्यं विचिन्तयेत् || योजयेद् दीपितान्नारीं तत्र संपूजयेन् मनुं | तत्रैव देवि संस्थाप्य इषद्धासां सुलोचनां || षोडशाब्देन युवती सप्रसुतान्तपस्विनीं | स्वाधीनां स्वच्छवस्त्राश्च भीतिहीनाट्टहासिनीं || तीव्रवुद्धिं दृढाचारां मुक्तकेशां दिगम्वरां | योगमुद्रा धराम्वापि योगाचार परायणां || इदृशीं मन्त्रयुक्तां वा यागकाले प्रपूजयेत् | मातंगी तन्तु कारी च भवाद्धिभीति नाशिनी || खट्वांगाची चर्मकारी छिम्पिनी नापितांगना | हट्ट *? री विशेषान्तु सुपुष्प कीर्ण कोमला || सामान्यार्घं विशेषार्घं स्वपात्रं शक्तिपात्रकं | तन्मध्ये निःक्षिपेद् द्रव्यं सामरस्या मृतोद्भवं || तत्व पंचकमन्त्रेण एकेकं शोधयेद् वुधः | वह्नि सूर्यकला चन्द्र कलान्ते हृदयं मनुः || त्रिकोणं विलिखेन् मध्ये त्रिकोणमकथादिकं | खान्तं षान्तं तथा नान्तं यान्तं धान्तं स शक्रकं || वामकर्णसमायुक्तं विन्दुनादैरलंकृतं | रत्नेश्वरीति विद्याख्यं पंचरत्नात्मकं मनुं || षडंगे नैव संपूज्य मूलमन्त्रेण मन्त्रयेत् || २३८अ) अत्रान्त्रर्यजनं पूर्ववत् || तर्पणं तु || सन्तर्प्य कुण्डलीं शक्तिं पंचमुद्रा विधानतः | अलिना पिशितं मीनं मुद्रा मैथुनमेव च || मकार पंचकं यत्र तत्र देवी न संशयः | न मद्यं माधवी मद्यं मद्यं शाक्ते रसोद्भवं || सुषुम्ना शंखिनी मत्स्यं मुद्रा उन्मन्यनुत्तमा | सामरस्या मृतोल्लासं मैथुनं तत् सदाशिवं || दिव्यं वीरं पशुं चैव पानं त्रिविधमेव च | पशुपानरतो वीरस्स भक्ष्यो योगिनी गणैः || दिव्यपानरतो वीरो देवी सायुज्य माप्नुयात् | देशिको वीरपानेन देवी लोकं हि गच्छति || साधकः पशुपानेन रौरवं नरकं व्रजेत् | प्राणापानौ समाहार प्रत्याहारं मनः स्थिरं || भानुमण्डलभेदित्वाद्रिन्दुमण्डल मध्यगं | सुषुम्ना वर्त्मना नित्यं सुधाधारा प्रवर्षिणी || दिव्यपानमिदं प्रोक्तं सर्वसिद्धिकरं परं | त्यक्त सर्वाशयामूल वासनामूलसंचयः || कालिकाचार योगेन पंच तत्वेन तर्पयेत् | षट्चक्र मध्य भेदेन हुनेद् द्रव्यं समन्त्रकं || ध्यानार्चने परावस्था वीरपानर्मनुत्तमं | आसक्त लोलुपो दंभो मंत्रार्थे अप्रसंगतः || कामुकः कार्यनिर्देशे पशुपावन्तदुच्यते || सिद्धेश्वरतंत्रे || मूलकन्देषु या शक्तिर्भुजगाकाररूपिणी | तद्भुमावर्तजा नेय(?) तस्मादित्युच्युते वुधैः || चलन्ती व्यक्तमधुरा कूजन्ती सा तथोत्थिता | गच्छन्ती ब्रह्मरन्ध्रेण प्रविशन्ती स्वकेतनं || यातायात क्रमेणैव तत्र कुर्यान् मनोलयं | तेन मन्त्रशिखा जाता सर्वसिद्धि प्रदीपिका || ततो युक्ते यथा गेहे न किंचित् प्रतिभासते | शिखाहीने तथा मन्त्रे न शुद्धिः कल्पकोटिभिः || स्वच्छन्द माहेश्वर || चक्रभेदेप्य सक्तश्चेद् भावनामात्रमाचरेत् || अयमन्तर्या गो नित्य पूजायामर्प्यर्घ स्थापनात् प्राक् पशुनापि कार्यः || स्वतन्त्रतन्त्रे || रात्रौ मांसा सवैर्देवीमित्यादि पूर्वमुक्तं तेन विधिना कर्तव्यं || २३८ब्) वीरचूडांमनावपि || तर्पणम्विधिवत् कुर्याद् रक्तधारेणसंख्यया | मध्वाज्य सुरया वापि पायसेनोदकेन तु || अत्र वीरेण सुरादिना पशुना जलादिनेति विवेकः || अगस्त्यसंहितायां || सम्यक् सिद्ध्यैक मन्त्रस्य पंचांगो पासनेन च | सर्वमन्त्राः प्रसिध्यन्ति त्वत् प्रसादान् महेश्वरि || तन्त्रशेषरे || एवं प्रकुर्वतस्तस्य प्रथमे वत्सरत्रये | भवन्ति वहवो विघ्नाः श्रद्धा भावो दयाऽशुभाः || अस्मिन्नर्थे भवेन् मन्त्री यदिनोद्विग्न मानसः | सेत्स्यतीति च विश्वासस्तदासौ सिद्धिभाग् भवेत् || अथ च मुण्डा भावेपि रहस्य पुरश्चरणस्यावश्यकत्वात् रहस्य मालया गुरुं शिरसिं हृदि देवीं ध्यायेन जपेत् कृत पूर्वकृयः अन्यत् समानमिति || दीक्षापुरश्चरणाद्यांरंभदिने समाप्ति दिने वारावौ स्वप्नं प्रार्थयेदिति संप्रदायः || तत्प्रकारस्तु पूर्वमेवोक्तः || अथ सिद्धि चिह्नानि || वक्रतुण्डकल्पे || चित्तप्रसादो मनसश्च तुष्टिरल्पासिता || स्वप्न पराङ्मुखत्वं || स्वप्नेषु यानाद्युपलंभनं तु सिद्धस्य चिह्नानि भवन्ति सद्यः || भैरवीतन्त्रे || ज्योतिः पश्यति सर्वत्र शरीरम्वा प्रकाश युक् | निजं शरीरमथ वा देवतामयमेव हि || नारद पंचरात्रे मेरुतन्त्रे || मन्त्राराधन शक्तस्य प्रथमं वत्सर त्रयं | जायंते वहवो विघ्ना नियमस्तस्य नारद || नोद्वेगं साधको याति कर्मणा मनसा यदि | तृतीय वत्सरादूर्ध्वं राजानश्च महीभृतः || प्रार्थयन्ते पुराधेन गर्विता अपि मानिनः | प्रसादः क्रियावा?न्नाथ मनोद्धारण कारणं || प्रज्वलन्तं च पश्यन्ति तेजसा विभवेन च | अतस्ते मुनिशार्दूल निष्ठुरं वक्तुमक्षमाः || नवमाद्वत्सरादूर्द्धं स्वयं सिध्यति मन्त्ररोट् | नाना सूर्यादि हृदये मन्त्रसिद्धिमयानि वै || अत्यानन्द प्रदान्याशु प्रत्यक्षेण वहिस्तथा | जडधीस्तु क्षणं विप्र क्षणमस्ति प्रहर्षितः || अलंदुन्दुभि निर्घोषं शृणोत्पप्यन्तरिक्षतः | क्षणं च मधुराम्वाद्यं नानागीतसमन्वितं || २३९अ) आजिघ्रति क्षणं गन्धात् कर्पूरमृगनाभिजान् | उत्पतन्तं क्षणम्वापि पश्यत्यात्मानमात्मना || चन्द्रार्क किरणाकीर्णं क्षणमालोकयेत् नभः | गजगोवृषनादांश्च शृणुयान्वक्षणं द्विजः || निर्भराद्युतसंक्षोभं क्षणमाकर्णयत्यपि | तारकाणि विचित्राणि योगिनो नभसि स्थितान् || पश्यत्युद् ग्राहयन्तं च क्षणं मन्त्रव्रती सदा | क्षणं किलिकिलारावं हंसवर्हिरवं तथा || क्षणम्मेद्योदयं पश्येत् क्षणं रात्रिंन्दिने सति | रात्रौ च दिवसा लोकं स सूर्यं क्षणमीक्षते || वलेन परिपूर्णश्च तेजसा भास्करोपमः | पूर्णेन्दु सदृशः कान्त्या गमने विहगोपमः || समेन युक्तः प्रौढेन गांभीर्येण मुखेन च | स्वल्पासनेनासकृता वहुनापि न विद्यते || विण्मुत्रयोरल्पत्वं हि भवेन्निद्रा जयस्तथा | जपध्यानगतो मन्त्री नखेदमधि गच्छति || विना भोजन पानाभ्यां पक्षमासादिकं मुने | इत्येवमादिभिश्चिह्नैर्महाविस्मय कारिभिः || प्रवृत्तेः संप्रवोद्धव्यं प्रसन्नो मन्त्रसंततिः || मेरुतन्त्रे || सिद्धिद्वारा महन्तस्य चिह्नं लक्षणमुच्यते | स्वप्ने वाक्षिसमक्षं वा आश्चर्यमति हर्षदं || अकस्माद्यदि जायते तस्या तव्यं गुरोर्विना | प्रकाशनीयं न क्वापि ऐहिकीं सिद्धिमिच्छता || प्रकाशयति यो मोहादौत्सुक्यान् मंत्रजं सुखं | निकटस्थाश्चता तस्य सिद्धयो यांति दूरतः || आविर्भवति दुःखानि शोकाश्च विविधा अपि | अल्पाशनं स्वल्पनिद्रा सदा चित्त प्रसन्नता || प्रकाश युक् शरीरं च वाक्यं सत्यं प्रजायते || वौधाय नमः || सिद्धेस्तु त्रीणि चिह्नानि दाता भोक्ता अयाचकः || प्रपंचसारे || ततो हि प्रत्ययास्त्वेवं जायन्ते जपतो मनुं | अधिष्ठितं निश्यदीपं निस्तमिस्रं गृहं भवेत् || अर्काभस्तेजसासौ भवति नलिनजासंततं किं करिस्याद्रोगानस्यन्ति दृष्ट्याद्रुतमथ धनधान्या कुलस्तत्समीपं || २३९ब्) देवानित्यं नमोस्मै विदधति फणिनो नैव दश्यन्ति पुत्राः पौत्रा मित्राणि वृद्धस्तदनु विपदि परंधाम विष्णोः प्रयाति || फेत्कारिणी तन्त्रे || कर्मणा प्रवरे नैव प्रतिवन्धा विरोधिना | यादि सिद्धिर्न लभते द्विस्त्रिर्वा पुनराचरेत् || मेरुतन्त्रे || एवं सिद्धे मनौ देवा मोक्षमार्गनिरोधकाः | तपः क्षयकराश्चैव जायंतेऽनेकसिद्धयः || स्वल्पसिद्धौ निम्नमश्वेन्न जायंतेणिमादयः | अणिमादिषुमग्नश्चेन् मोक्षवार्ताति दुर्लभा || अल्पं तपः क्षणन्नश्चेन् मध्यमं चापि गर्वतः || मुख्यपुरश्चरण शक्तं प्रतिपुरश्चरणानन्तरमप्युक्तं || मुण्डमालायां || कृष्णाष्टमीं समारभ्य यावत् कृष्णाष्टमी भवेत् | सहस्रसंख्या जप्ते तु पुरश्चरण मिष्यते || मेरुतन्त्रे || वाममार्गीय मन्त्राणामेवमेवान्यदुच्यते | कृष्णाष्टमी समारभ्य यावत् कृष्णचतुर्दशी || देवं ध्यात्वा जपेन्मन्त्रमयुतानां चतुष्टयं | दशांश होमयेत् पश्चात् तर्पयेदभिषेचयेत् || मुण्डमालायां || कृष्णां चतुर्दशीं प्राप्य नवम्यष्टं? पहोत्सवे | अष्टमी नवमी रात्रौ पूजां कुर्याद् विशेषतः || दशम्यां पारणं कुर्यान् मत्स्यमांसादिभिर्युतः | षट्सहस्रं जपेन्नित्यं भक्तिभाव परायणः || चतुर्दशी समारभ्य यावदन्या चतुर्दशी | तावज्जप्ते महेशानि पुरश्चरणमिष्यते || केवलं जपमात्रेण मन्त्राः सिद्धा भवन्ति हि | वलिहौमादि दानेन विशेषात् पीठ पूजने || योनिपीठं महापीठं कामरूपं तथा परं | तयोरेकतमं पूज्यं रुद्रदेह इवापरः || चन्द्रपीठे || महालक्ष्मीं समारभ्य आमहानवमीश्वरि | कृष्णाष्टम्यामानवमिमधौ शाक्ते मनौ स्मृतं || उर्जे तपसिराधे वा शुक्लः पक्षस्तु वैष्णवे || एकादशे तु भूतान्तः फाल्गुने स्मृतं || भाद्रेपि वैघ्नराजे तु माद्य भाद्रौ सु वासरात् | अन्येष्वपि च मन्त्रेषु पूर्वोक्तन्नवरात्रकं || जपो मातृकया प्रातःकालान् मध्यदिवावधि | २४०अ) रात्रौयामतितः कार्यः पयोमूल फलाकृतिः || चतुर्थयामे कर्तव्या मालामन्त्रे दशांशतः | विंशांशा द्वादशांशाद्वा अन्येष्वपिर्गतं मतं || दक्षिणा च यथोक्तात्र वित्तशाठ्यं न कारयेत् | एवं मन्त्रः स योगार्हो भवत्येव न संशयः || कालीतन्त्रे || अथवान्य प्रकारेण पुरश्चरणमुच्यते | कुजे वा शनिवारे वा नारं मुण्डं समाहृतं || पंचगव्येन मिलितं चन्दनाद्यैर्विशेषतः | निःक्षिप्य भूमौ हस्तार्ध मानतः काननान्तरे || तत्र तद् दिवसे रात्रौ सहस्रं यदि साधकः | एकाकी पूजयेन् मन्त्रं स भवेत् कल्प पादपः || अथवान्य प्रकारेण पुरश्चरण मुच्यते | शवमानीय तद्वारे तेनेव परिखन्यते || तद्दिनान्तद्दिनं यावत् तावदष्टोत्तरं शतं | स भवेत् सर्वसिद्धीशो नात्र कार्या विचारणा || तद्वारे शनिमंगलवारे || तेनैव प्रकारेण हस्तार्धमानत इति यावत् | प्रत्यहमष्टोत्तरशतं जपेदित्यनुषंगः || अथवान्य प्रकारेण पुरश्चरणमुच्यते | अष्टम्यांम्वा चतुर्दश्यां पक्षयोरुभयोरपि || सूर्योदयात् समारभ्य यावत् सूर्योदयांतरं | तावज्जप्त्वा निरातंकं सर्वसिद्धीश्वरो भवेत् || अत्र होमादिकमपि कर्तव्यं पुरण श्रुतेः || अथवान्य प्रकारेण पुरश्चरणमुच्यते | चन्द्रसूर्यग्रहे चैव ग्रासावधिविमुक्तितः || यावत् संख्यं मनुं जप्त्वा तावद्धोमादिकं चरेत् || अथवान्य प्रकारेण पौरश्चारणिको विधिः | चन्द्रसूर्योपरागे च स्नात्वा प्रयतमानसः || संस्पर्शादि विमोक्षान्तं जपेन्मन्त्र मनन्यधीः | दृष्ट्वा स्नात्वा ससंकल्पो विमोक्षान्तं जपं चरेत् || तावद्धोमादिकं कुर्याद् ग्रहणान्ते शुचिः पुमान् || तावदिति यावान् जपो जात इत्यर्थः || इदं च गोपाल विषयं वचनस्य सनत्कुमारी यत्वादिति वदन्ति | पुमानित्यनेन स्त्रीणां होमनिषिद्धोभ्यनुज्ञातः || मेरुतन्त्रे || अथवान्य प्रकारेण पुरश्चरणमुच्यते | ग्रहणेर्कस्य चेन्दोर्वा शुचिः पूर्वनुपोषितः || २४०ब्) नद्यां समुद्रगामिन्यां नाभिमात्रे जले स्थितः | स्पर्शादि मुक्तिपर्यन्तं जपेन्मन्त्रं समाहितः || तावत् काल जपित्वेत्थं ततो होमादिकं चरेत् | ब्राह्मणान् भोजयेत् पश्चात् पुरश्चर्या समंत्विदं || यद्वा शुद्धोदके स्नात्वा शुचौ देशे समाहितः | स्पर्शाद् विमुक्ति पर्यन्तं जपं कुर्यादनन्यधीः || अनन्तरं तुल्यमिति तन्त्रान्तरे || उपवास त्रयं कृत्वा एकम्वा शक्त्यपेक्षवा | श्राद्धानिवाति संक्षेपाद् ग्रहणे स्पर्श मात्रतः || समुद्रयां सरिति कण्ठमात्रे जले स्थितः | जपं कुर्यादुग्रहान्तं होमाद्यं तद्दशांसतः || संपूर्णां दक्षिणान् दत्वा मन्त्रसिद्धिमवाप्नुयात् | ततः प्रयोगान् कुर्वीत मन्त्रवित् कल्पनोदितान् || इति चन्द्रपीठ मन्त्रदेव प्रकाशिका रत्नावल्यादौ || अत्र स्पर्शयदं स्पर्श ज्ञानपरं अन्यथा तत् समयस्य सूक्ष्म त्वात् || चक्षुषा दर्शनं राहोर्यत् तद्ग्रहणमुच्यते || तत्र कर्माणि कुर्वीत गणनामात्रतो न हीति स्मार्त वचनात् || तथा || सूर्यग्रहणकालाद्धिनान्यकालः प्रशस्यत इति || मन्त्रिणान्तु ग्रहणमावश्यकं || यस्तु श्राद्धानुरोधेन ग्रहणे चन्द्रसूर्ययोः | न करोति पुरश्चर्यां नरके स विपच्यत इति वचनात् || एवं च सर्वस्वनापि कर्तव्यं श्राद्धं वै राहु दर्शने || अकुर्वाणस्तु नास्ति व्यात् पंके गौरिवसीदतीति श्राद्धाकरणे स्मार्तनिन्दार्थ वादो दीक्षितान्यपरः || केचित् तु ब्राह्मणादि द्वारा श्राद्धमामनन्ति || अपरे तु अत्राभावे द्विजाभावे प्रवासे पुत्रजन्मनि || हेम श्राद्धं संग्रहे च शूद्रैः कुर्यात् सदैवहीति वचनात् | पिड्युद्देशेन किंचिद्धिरण्यं दत्वा पुरश्चरणमिच्छन्ति || अथवान्य प्रकारेण पुरश्चरणमुच्यते | शरत्काले चतुर्थ्यादि नवम्यन्तं विशेषतः || भक्तितः पूजयित्वा तु रात्रौ तावत् सहस्रकं | जपेदेकस्तु विजने केवलन्तिमिरालये || अष्टम्यांदिनवम्यन्तमुपवासपरो भवेत् | २४१अ) स भवेत् सर्वसिद्धीशो नात्र कार्या विचारणा || तावत् षट्सहस्रं शरदि देवी पक्षे चतुर्थीमारभ्य नवमी पर्यन्तं प्रतिरजनि षट् सहस्रं जपेदष्टमी नवम्योरुपवासं कुर्यादित्यर्थः || भैरवतन्त्रे || अष्टाधिकं च साहस्रं कृत्वा प्रतिदिनं जपेत् | षण्मासात् सिद्धिसंयुक्तः कविविद्या निधिर्भवेत् || मुण्डमालायां || शरत्काले महापूजा क्रियते या च वार्षिकी | तस्मिन् पक्ष विशेषण रहस्य पुरश्चरण तत्परः || अष्टम्यादि नवम्यन्तमुपवास परोभत् | पूजयेद् भक्तितो रात्रौ नित्य षट्सहस्रं जपेत् || अत्र प्रतिपदादि जपः प्रतिभाति || कालीतन्त्रे || अथवान्य प्रकारेण पुरश्चरणमिष्यते | अष्टमी संधिवेलायामष्टोत्तर लता गृहं || प्रविश्यमन्त्री विधिवत्तास्समभ्यर्च्य यत्नतः | पूर्वोक्त कल्पमासाद्य पूजादिकं समाचरेन् || केवलं कामदेवोसौ जपेदष्टोत्तरं शतं | तासान्तु पत्रमूले च उप्त्वा संगृह्यमस्तके || महासिद्धिर्भवेत् सद्यो लतादर्शन पूजनात् || अष्टमी संधिवेलायां || अष्टमी नवम्योस्संधि वेलायां अष्टोत्तर लता गृहं यथा संभवमष्टपर्यन्तानां शक्तिनां गृहं मदनं मन्दिरं पुर्वोक्तकल्पं दूतीयागाख्यं पत्रमूले वलांगे उप्लावीजं विन्यस्य न देववीजंमष्टके विन्यस्य तिलकं कृत्येत्यर्थः || इदन्तु वीरपरं एवमग्रेपि वोध्यं || अथवान्य प्रकारेण पुरश्चरणमिष्यते | आकृष्टायाः कुलागारे लिखित्वा मन्त्रमेव च || संपूज्य तत्र संस्कारं कृत्वा तस्यै निवेद्य च | किंचिज्जप्त्वा मनुं नीत्वा देवता भाव तत्परः || तांविसृज्य नमस्कृत्य स्वयसुप्त्वासुसंयतः | प्रातः स्त्रीभ्यो वलिदत्वा मन्त्रसिद्धिर्न संशयः || संस्कारं पंचयागोक्तं अत्र पूजनमात्रं न तु संभोगो पीत्यवधेयं || गुरुमानीय संस्थाप्य देववत् पूजनं विभोः | २४१ब्) वस्त्रालंकार हेमाद्यैस्सन्तोष्य गुरुमेव च || तत्सुतन्तत्सुतां चैव तत्पत्नीं चैव पूज्य च | पूजयित्वा मनुं जप्त्वा स्वयं सिद्धीश्वरो भवेदिति || इति प्रकारान्तरपुरश्चरणं || अथ सालस पुरश्चरणं || तदुक्तं मेरुतन्त्रे || अयोग्य गुरुतो लब्धावार्यादि स्थानमाश्रिताः | दुर्देश त्वात् पुरश्चर्या कर्तुं चेच्छक्यतेन हि || राज्ञो भाग्यमतो वापि सुकुमारस्य वा यथा | सिद्धिर्भवेत् तथावक्ष्ये वर्णौषधि पुरस्क्रियां || सप्तधा सा परिज्ञेया वर्णमासैस्तु सिद्धिदा | मन्त्रवर्णौषधीकाष्ठै रचयेद्गुद्रि?काः शुभाः || वर्णक्रमेणता प्रोज्या अनुलोम द्विलोमतः | स्थूलादिकाश्च लघ्यंताः कर्तव्या मणयो यथा || सर्पद्वयाकृतिं मालां भवेन्नित्यं तया जपेत् | मालायामणि संख्याकं प्रथमोयं जपः स्मृतः || सर्वे समानामणयः प्रोतव्याः स्वर्णसूत्रके | कंठे धार्या कंठमाला निभ्यमेषो द्वितीयकः || तथैव राजते सूत्रे प्रोच्यताः परिपूजयेत् | तद्देव कल्पमार्गेण प्रक्रमोयं तृतीयकः || वर्णौषधीनां क्वाथेन नित्यस्नानं चतुर्थकः | वर्णौषधि रजोलिज्यां गोघृतेन तु पंचमः || तच्चूर्णोद्वर्तनं कुर्यादेष षष्ठः प्रकीर्तितः | तद्भस्मधारणं नित्यं कुर्यादिति तु सप्तमः || ब्रह्मद्वेषाद् गुरोर्द्वेषात् स्त्रीद्वेषाच्चन्न जायते || सिद्धिरिति शेषः || वर्णौषधस्तु प्रपंचसारे || चंदनकुचंदनागुरु कर्पूरो सिररोग जलघुसृणा | कंकोलजातिमांसीमुरधारग्रंथिरोचनाः पत्राः || पिप्येल्वे विल्वगुहारुणक तृणालवंगात्थ?कुंभिवंदिन्य | सौदुंवरकास्मरिका स्थिर ज्वदरपुष्पिकामयूरशिखा || प्लाक्षाग्नि मंथसिहीकुह्वदाभाथ कृष्णदरपुष्पी | रोहिणी कुंदक वृहती पाटल चित्रातुलस्यपामार्गः || शतमेखलताद्विरेप्तो विष्णुक्रांता मुसल्यव्यां नलिनी || दुर्वा श्रीदेवी सहित तथैव लक्ष्मी सदा भद्रे || २४२अ) आदीनामिति कथिता वर्णानां क्रमवशादि भौषधयः || अथ शावरमन्त्रपुरश्चरणं || तत्रैव अथ शावरमन्त्राणां पुरश्चरण मुच्यते || कामरूपाख्य देशे तु कामाक्षा यत्र देवता | कामशेलोस्ति यत्रासौ कामपीठं तदुच्यते || तत्र संलेख्य मंत्रं हि वंशोपरि यथाक्रमं | गुरुणा वाचनीयः स स्वयं पश्चात् पठेन्मनुः || गुरोरभावे तस्यैव मूले शैलस्य पर्वणि | लिखित्वा प्रपठेन्मन्त्रं कामपीठं गुरुर्मतः || अथवा योगिनी शैले दक्षिणस्यां दिशि ध्रुवं | योगां वा यत्र देवी सा लिखित्वा प्रपठेन्मनुः || ज्वालामुखी समीपे वा हिंगुल्यज समीपतः | लिखित्वा प्रपठेन् मंत्रं नान्यथैव प्रसिध्यति || मुख्यतः स्त्रीसमीपे हि कामपीठे मनोग्रहः | अथवा सर्वदेशेषु मन्त्रग्रहणमुच्यते || तालपत्रे मनुं लेख्य पूर्णकुंभे निधापयेत् | भास्करं तु गुरुं ध्यात्वा वाचयेत्रिर्गुरूरविः || इति शावरमन्त्रोपदेशः || इति शावरमन्त्रपुरश्चरणविधिः || अथ कृत पुरश्चरणे मन्त्रेऽसिद्धेसति संस्कारः || तत्रैव || असिद्धत्वाद्गुरुर्देवाः शिष्ये सिद्धिर्न जायते | तदोपायं प्रकुर्याद् यत् तं गोप्यमधुनोच्यते || अनुलोम विलोमेन विन्दुमन् मातृकाक्षरैः | जपेत् संपुटितं मन्त्रं प्रत्यहं शतसंख्यया || एकमासं ततो होमादिकात् सिद्धो भवेत् मनुः | पुरश्चर्योक्त मखिलमाहिकं च समाचरेत् || एवं वैदिक मन्त्रस्य सिद्धये त्रिदशार्णकाः | वर्णादेया विंदुयुक्ताः क्रमतश्चोत् क्रमेण च || ह्रस्वदीर्घप्लुतैर्भेदैर इ ड ऋद्धिधामताः | ह्रस्वः प्लुतौ *? द्विविधो एवोपि द्विविधामताः || दीर्घप्लुत विभेदेन ज्यनुस्वारो विसर्गकः | चतुर्विंशतिराख्याताः स्वरा एवं यमैः सह || चत्वारः कादिका वर्णा जिह्वा मूलीययुष्ककः | एवं कवर्गो दशधा चाद्याः पंचदश स्मृताः || उपध्मानीय संयुक्तः पकारस्तेन तत्र षट् | २४२ब्) याद्याष्टाविति संप्रोक्ता यजुर्वेदे तु मातृकाः || लक्षौ द्वावधिकौ ऋक्षुजोधिकोथर्वणि स्मृताः | जपश्चाष्टोत्तरशतं प्रत्यहं मासमात्रकं || अनध्यायान् वर्जयित्वा चत्वारिंशद् दिनं तथा | होमादि सकलं प्राग्वन् नित्यमेव प्रकल्पयेत् || कुलदैवतमन्त्रस्तु भूतलिप्या पुटी कुरु | क्रमोत् क्रमाच्छता वृत्तिं कुर्यात् सिद्धिस्तु मासतः || अचोहयरवालश्चांतिमादि द्विचतुर्थकं | तृतीयं च क्रमेणैव वर्गाणामक्षरं पठेत् || उष्मत्रयं ततश्चैव द्विचत्वारिंशदक्षरैः | अत्युग्र दैवते जप्यस्त्वष्टोत्तर सहस्रकं || त्रिकालं गंधपुष्पाद्यैर्निशीथे पंचमैः पुनः | षण्मासं कौलिकाद्यैश्चेदर्चितासु प्रसीदति || तथा || शापतो वा कीलितत्वात् तत्रोपायाष्टकं भवेत् | संपाताप्यायनं द्रावो वोधनं च वशीकृतिः || पीडनं पोषशोषौ च दहनं तत् क्रियोच्यते | भूर्जपत्रं समानीय पद्ममष्टदलं लिखेत् || अष्टगंधेन देवस्य रोचना चंदनेन वा | साधकस्य तु नामार्णै मंत्रं संदर्भितं लिखेत् || यावद्वयोः समाप्तिः स्यातस्य चाद्यं ततो लिखेत् | तारादिकं साधकस्य नामाथाष्ट दलेषु तु || द्वौ द्वौ लेख्यौ स्वरौ तच्च सम्यग् ध्यायन् सुधात्मकं | तत् संवेष्ट्य मृदा सम्यग् वेष्टयेद् ब्राह्मणादिकः || शुक्लादि वर्णया पश्चात् सिक्छकेन च वेष्टयेत् | क्षिपेत् त्रिमधुरे तं तु मृन्मये लघु भाजने || क्षीरपूर्णेनवे कुंभे तत् क्षिपेत् लघुभाजने | अग्निसंस्थापनं कृत्वा संनिधौ तस्य तं घटं || संस्थापये त्रिमधुरैर्मूलमंत्रेण होमयेत् | अष्टाधिक सहस्रं तु संपातं कलशो क्षिपेत् || होमं समाप्यतं कुंभं निक्षिपेच्च जलाशये | स्वगुरुं ब्राह्मणाश्चान्नैस्तोषयेद् दक्षिणादिभिः || संपाताप्यायनं चैतदुक्तं सिद्धिर्न वेद् भवेत् | द्रावणं तु तदा कुर्यात् तत्प्रकार इहोच्यते || वं वीजेन ग्रंथयित्वा भूर्जपत्रे लिखेत् मनुं | २४३अ) उशीर रोचनाभ्यां च शिला कर्पूरकुंकुमैः || क्षीराज्य मधुतोयानां मध्ये तं लिखितं क्षिपेत् | पूजनाच्च जपाद्धोमा द्रावितः फलदो भवेत् || द्रावितोपि न सिद्धश्चेद् वोधनं तस्य कारयेत् | वाग्भवेन च वीजेन संपुटी कृत्य तं जपेत् || एवं वुद्धो भवेत् सिद्धो नोचेत् कुर्याद् वशीकृति | कुचंदनं महादारु हरिद्रा मदनी शिलाः || एतैस्तु लिखितो मंत्रो भूर्जपत्रेसु शोभने | कंठं धृतो भवेद् वश्यो नोचेत् कुर्यात् प्रपीडनं || अनुदात्त स्वरे शाद्यमुदान्तेन द्वितीयकं | तृतीय मनुदान्ते च पठेन्तूर्य मुदान्ततः || एवं पदानि सर्वाणि पठेन् मंत्रस्य साधकः | अनुदात्त पदोच्चारे देवं ध्यायेदधः स्थितं || उर्ध्वं स्थित मुदात्तस्योच्चारेष्ठाधि सहस्रकं | जपेन् मन्त्रं ततो भूर्जे भानुदुग्धेन लेखयेत् || मंत्रंतमाक्रमेद्वाम पादे नाथ च होमयेत् | अष्टोत्तरशतं मंत्रः पीडितः सत्प्रसीदति || न सिद्धश्चे तदा पोष्यः प्रोच्यते तत्क्रियाधुना | सौः वीज पुटितं मंत्रं विलिखेद् भूर्जपत्रके || रोचना कुंकुमाभ्यां च धारयेद् दधिदुग्धयोः | इदं पोषणमित्युक्तं दोषशोषणमुच्यते || यज्ञस्य भस्मना लेख्यं वायुवीज विदर्भितं | भूर्जपत्रे स्वेष्टमंत्रं तत्कंठे धारयेद् इति || एतच्छोखणमित्युक्तं दहनं प्रोच्यतेधुना | पृथक् पृथक् क मंत्रार्णान् चतुर्दिक्षु समावृतम् || रं वीजेन पलाशस्य वीजतैलेन संलिखेत् | भूर्जपत्रेथ तद्धार्यं कंठे दाह क्रियात्वियं || इति मन्त्रे संस्काराः || अथ मन्त्रसिद्धि कवचं || श्रीकालिकायै नमः || ओं कैलास शिखरासीनं प्रणिपत्य जगद्गुरुं | पप्रच्छ पार्वतीनाथं विनया नम्रकं धराः || १ || श्रीदेव्युवाच || देवदेव परंब्रह्म संसारार्णवतारकं | केन सिद्धिंर्भवेच्छीघ्रं कालिकामन्त्र उत्तमः || २ || श्रीभैरव उवाच || शृणु देवि प्रवक्ष्यामि कालिकवचमुत्तमं | यस्य संकीर्तनाच्छीघ्रं मन्त्रसिद्धिः प्रजायते || ३ || २४३ब्) अपुत्रो लभते पुत्रं दरिद्रो लभते धनं | ग्रहचौर नृपाणां च भयनैवात्र विद्यते || ४ || शिरोदेशे गले वापि करे वामे च दक्षिणे | धारणात् सर्वसिद्धिस्याद्भुर्जे स्वर्णे त्रिलोहके || ५ || पीतवस्त्रे स्थितं वेदं सर्वस्तंभनकारकं | कृष्णवस्त्रे प्रयुक्तं चेच्छत्रुणां मरणं ध्रुवं || रक्ते स्थितं महासौख्यं करोति वशगं जगत् || ६ || प्रणम्य शिरसा काली कवचं शृणु पार्वति | पूर्वे वाग्नौ याम्य भागे नै-ऋत्ये वारुणे तथा || ७ || वायौधनद दिग्भागे ऐशान्यामध ऊर्द्धके | खड्गमुण्डधरा देवी पायाद् दक्षिणकालिका || ८ || अग्रतः पार्श्वयोः पृष्ठरोमकुपेषु सर्वतः | वराभयकरादेवी कालिका पातु सर्वदा || ९ || मूर्ध्नि देशे ललाटे च लोचने कर्णनासिके | मुखे कण्ठे च हृदये जठरे रक्ष कालिके || १० || गुह्यदेशे करे पादे चागुलीषु नखेषु च | सर्वसिद्धिप्रदा काली रक्षां करोतु सर्वदा || ११ || अधमोत्तम मध्यानि यानि चांगानि संति मे | सर्वत्र रक्ष मां देवि सर्वसिद्धि प्रदायिनी || १२ || त्रिकोणं रक्षयेत् पूर्वं दक्षिणं च त्रिकोणकं | पश्चिमं शक्तिकोणं च त्रिकोणमुत्तरेऽवतु || १३ || सर्वमध्ये च या शक्तिः सामर्चं रक्षयेत् सदा | चक्रस्या मातरः पातु योगिन्यः पातु सर्वदा || १४ || सदाशिवः सदापातु शवरूपी महेश्वरः | ब्रह्माद्योमातरः सर्वा रक्षां कुर्वन्तु सर्वदा || १५ || जले स्थले महावने महामोहे महाभये | कालीकोपं सदापातु रक्षज्ञानं कपालिनी || १६ || सुखं कुल्ला स दापा तु कुरु कुल्ला च दुःखकं | इच्छां विरोधिनी पातु विप्र चिन्तामनः सदाः || १७ || भार्यामुग्रा सदापातु पुत्रमुग्र प्रभामता | दीप्ता मे भ्रातरं पातु नीला मे मांतरं तथा || १८ || राजस्थानंद्यनारक्षेद्वलाकाशत्रुतोऽवतु | मात्रा धर्मं सदापातु मुद्रा चाधर्मतस्तथा || १९ || मितामित्रकुलं रक्षेद् खड्गमुण्डविधारिणी | २४४अ) चक्रमध्ये स्थिता देवी महाचक्र निवासिनी || २० || रक्षां करोतु मे नित्यं या मूला प्रकृतिः सदा | अधः पंचानकं रक्षेद् दक्षिणस्थं तथा पुनः || २१ || वामस्थं पंचकोणं च सर्वान् रक्षतु सर्वदा | काली त्रयं शिरोरक्षेत् तथा माया द्वयं मुखं || २२ || कूर्च द्वन्द्वं च हृदयं जठरं दक्षिणेव तु | कालिके रक्ष मे गुह्यं पादौ काली त्रयं तथा || २३ || लज्जा द्वयं सर्वगात्रं पार्श्वपृष्टे च कूच्चकं | स्वाहाग्रं पातु मां नित्यं रोमकूपेषु संधिषु || २४ || दुष्टेभ्यो रक्ष मां कालि सर्वदुष्ट भयावहे | भूतप्रेतपिशाचेभ्यौ दक्षिणे रक्ष सर्वदा || २५ || राजचौर ग्रहेभ्यश्च सर्वग्रहनिवारिणी | स्मरणात् ते सदा कालि पादयो भावनाच्च मे || २६ || नश्यन्तु सर्वविघ्नाश्च शान्तिर्भवतु निश्चला | इति ते कथितं देवि कालिका कवचं शुभं || २७ || नैतद् देयं मनुष्याय चाभक्ताय न मत्सरे | पठनान् मन्त्र सिद्धि स्याद् धारणाच्च न संशयः || २८ || यस्य गेहे स्थितं चेदं चंदनेन विलेपितं | कमला निश्चला तत्र सदा तिष्ठति पार्वति || २९ || यः शृणोति निराहारः शुचिस्तद्गतमानसः | अष्टम्यां च चतुर्दश्यां तस्य सिद्धिः करे स्थिता || इति श्रीकाली कुलामृते कालीकवचं समाप्तं || अथ मन्त्रसिद्धि करदीपः प्रस्तूयते तदनुरोध्याद्वीपान्तरान्यपि || यथा मेरुतन्त्रे || श्रीदेव्युवाच || देवदेव महादेव तेजो पात्रं तु सूर्यजं | तदा दीपस्य मे मन्त्रं फलं च कृपया वद || श्री ईश्वर उवाच || शृणु देवि प्रवक्ष्यामि दीपस्य विधिमद्भुतं | आदौ गणेश दीपस्तु कार्याकार्य विनिर्णय || कर्तव्यस्तत् प्रवक्ष्यामि कार्यमष्टविधं स्मृतं | शान्तिकं पौष्टिकं चैव मारणं स्तंभनं वशं || मोहोच्चाटौ द्वेषणं च तेषु दीपं चरेत् क्रमात् | गोधुमयवमाषाणां मृत्तिका स्वर्णमुंडजं || तांम्रायासैः क्रमात् पात्रं वर्तयः श्वेत पीतके | कृष्णनीलारुणा रक्त हरित् कापोत सूत्रकैः || २४४ब्) पूर्वाशाद्यष्टकाष्ठानां क्रमात् संमुख माचरेत् | उदक् प्राग्दक्षतोयेश वह्नि रक्षः समीश दिक् || संमुखं तु मुखं कुर्यात् साधकः स्वस्य कर्मणि | गव्याज्यं तिलतैलं च राजिकोत्थं च सार्षपं || महिष्याज्यमुमा तैलं वसां तैलं कुसुंभजं | लिखेत् सूर्यदलपद्मं लिप्त गोमये मंडले || दीपास्य दिशमारभ्य गणेशांस्तत्र पूजयेत् | सुमुखश्चैक दंतश्च कपिलो गजकर्णकः || लंवोदरश्च विकटो विघ्ननाशो गणाधिपः | धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः || द्वादशैतानि नामानि यः पठे छृणुयादपि | विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा || संग्रामे संकटे चैव विघ्नस्तस्य न जायते | एतान्तत्र यजेद्विघान् पश्चाद् दीपं च लापयेत् || दीपिका संस्थिते पात्रे शुद्धया तु शलाकया | उर्धाधः कंपते दीपस्तदाकार्यम् प्रसिध्यति || तिर्यक् कंपेन कार्ये स्यात् सम्यग् ज्योतिषि सत्परं | तेजोमांद्ये विलवेन चात्र कौतुक मुच्यते || जाता देवगणे कन्यां कुमारं वा समानयेत् | स्त्रियं वा शुद्धवेषां च सम्यगानीय पूजयेत् || अधस्तात् स्थापयेत् पूतं विस्तीर्ण कांस्य भाजनं | जलपूर्णं चेतन् मध्ये सा पश्यत् स्थिर दृक् ततः || चिन्तयित्वा स्वीयकार्यं तदुपर्यक्षता क्षिपेत् | कार्यानुसारं सा पश्येत् पुत्तलीनां च कौतुकं || अथातः संप्रवक्ष्यामि वगलादीपमुत्तमं | कृतेन येन विघ्नौघा विलयं तांति मंत्रिणः || शुद्धानि खल्वा वीजानि क्षपाण मुद्गरेण वः | एकीकृत्य विधातव्यो दीपः सुस्विग्य शोभनः || षट्त्रिंशत् तंतुभिः कार्या दृढावर्तिः सुरंजिता | गव्यमाज्यं च कौसुभं तैलं वा दीपकर्मणि || एतान्यानीय पूर्वे तु ततो दीपं प्रदापयेत् | हरिद्रा रंजितं वस्त्रं परिधाय शुचिः क्षमी || पीतासतोपविष्टश्च पीतमाल्यानुलेपनः | उत्तराशामुखो भूत्वा हरिद्रा सिक्ता भूतले || २४५अ) त्रिकोणं कारयित्वा तु दीपं संस्थाप्य यत्नतः | घृतमापूर्यवर्ति च दीपं प्रज्वालयेत् सुधीः || मूलं मन्त्रं समुच्चार्य इमं दीपं ततो वदेत् | गृह्नापय युगस्यान्ते वह्निजायां ततो वदेत् || संकल्प्यन्यास पूर्वं तु जपेदष्टोत्तरं शतं | एवं रात्रौ प्रकुर्वाणो मासमात्रेण साधकः || असाध्यं साधयेदिष्टं वशयेदात्मनो रिपून् | क्षोभये द्वेषये चापि स्तंभयेत् प्रक्षिपेदपि || अथातः संप्रवक्ष्यामि सर्वतन्त्रेषु गोपितं | दीप वटुकनाथस्य सर्वकाम फलप्रदं || तारं मायां रमां कामं मायां लक्ष्मीं च वाग्भवं | सर्वज्ञाय प्रचंडेति वदेत् पराक्रमाय च || वटुकेति इमं दीपं गृहाण पदमुच्चरेत् | सर्वकार्याणीति पदं साधयेति वदेत् ततः || दुष्टान्नाशये युग्मं च त्रासय द्वितयं वदेत् | सर्वतो मम रक्षां च कुरु युग्मं च वर्म फट् || स्वाहा षट् षष्टि वर्णोयं दीपमन्त्र उदाहृतः | भवेद् भैरव मन्त्रस्य साधकोय उपासकः || ते च वर्तिः प्रकर्तव्या मन्त्रार्णमित सूत्रकैः | आदौ तु लघु दीपेन ज्ञात्वा कार्यस्य साध्यतां || पश्चात् कुर्यात् सुसाध्ये तु कार्ये प्रोक्तं तु दीपकं | साध्यकार्ये द्विगुणितं कष्टे तु त्रिगुणं मतं || असाध्ये नैव कर्तव्यो दीप त्रास प्रदो भवेत् | यस्य कार्यस्य पात्रादि यदुक्तं लघु कर्मणि || तदेव सर्वं विज्ञेयं द्विपलं पात्रमुच्यते | अष्टसूत्रा भवेद्वर्तिः स्नेहः पलमितः स्मृतः || कार्यं तु द्विविधं प्रोक्तं शुभं वा शुभमेव च | रस्मिन्नान्यस्य कष्टं स्यातच्छुभं शांन्ति पौष्टिकं | तत्रोच्यते भैरवस्य ध्यानं श्वेतं चतुर्भुजं || श्वेतदंन्तं दक्षहस्ते वामे भृगं तु राजतं | जपं मुकुटमौलिं च श्वेतकौपीन वाससं || त्रिनेत्रं नीलकंठं च मुक्ताभरण भूषितं | परस्य दुःखजनक मलु?भं मारणादिकं || नीलवर्णं मुक्तकेशं शिरोमाला विभूषितं | किंकिणी मालया युक्तं त्रिनेत्रं च भयानकं || नागपाशं च घंटां च वामयोर्दक्षयोः पुनः | २४५ब्) वलं कपालं दधतं ध्यायेत् तं क्षुरविग्रहं || सर्वस्मिन् शुभकार्ये तु तैलं स्यात् पुष्पवासितं | गोधूम पिष्ठजं पात्रं मथवा तन्दुलोद्भवं || कर्तव्यं कुडवग्राहि शोभने श्वेतवर्तयः | जलप्लुतं तु तद्धान्यं सोमे कृत्वा विशोषयेत् || कुमार्या हस्तके नैव भौमे पेष्यं समाचरेत् | दीपपात्रं साधकस्तु भैरवं कवचं पठेन् || स्वेतमन्त्रस्य ये वर्णाः साध्यनाम समन्विताः | काम्य प्रयोगे कर्तव्या वर्तिकायास्तु तं तु वः || तिम्रः पंच तथा सप्त वर्तयः कार्यगौरवात् | देवानामालये दीपः शुभकर्मणि शस्यते || उत्तराभिमुखः शान्तौः प्राङ्मुखः पौष्टिके मतः | दीपयंत्रमथो वक्ष्ये कुर्याद् वृत्त त्रयं शुभं || महत्रिकोणं तस्योर्ध्वं त्रिकोणेष्वस्य संलिखेत् | षट्कोणं षोडशदल युक्तं तस्य च वाह्यतः || लिखेदष्टदलं पद्मं दीपमंत्रमुदाहृतं | परीक्षार्थ नित्यदीपे काम्यकर्मणि चोच्यते || पुष्पवासित तैलं च सर्वकाम फलप्रदं | माषगोधूममुंगाश्च तिलतण्डुलकाः समाः || तैर्निर्मितं दीप पात्रं सर्वकाम फलप्रदं | एकविंशति सूत्रैश्च श्वेतैः स्यात् सर्वकामदः || निकटे भैरवस्यापि शालिग्रामस्य संनिधौ | तथा स्फाटिक लिंगस्य निकटे सर्वकामदं || अश्वत्थतरु मूले च सर्वकाम प्रसिद्धये | शतान्यष्टौ तथा चाष्ट गुरुकार्ये पलानि तु || मध्ये मेष्टाशीति पलः साध्येष्टाविंश संमितैः | सहस्र सूत्रजावर्ति महाकार्येथ मध्यमे || शतत्रयेण कर्तव्या लघुकार्ये शतेन तु | श्रीकामस्तिलतैलेन पात्रं कस्तूलिका भवं || यद्वा लवंग कर्पूर करभूर्येलासमुद्भवं | दीपं कुर्यान्नृपद्वारे वर्षात् स्यान्महद्दीरमा || दरिद्रस्ताम्रपात्रे वाक् स्तूर्यादिकलेपिते | पथिकागमनार्थं तु तिलतैलेन दीपकं || गोधूमतन्दुलसमचूर्ण पात्रं प्रशस्यते | राजद्वारे वरेद्दीपमेकविंशति सूत्रकाः || वर्तयः पंचधवला द्विघ्नमार्गदिनैरियात् | २४६अ) वश्यार्थमतसी तैल पात्रं तंदुल पिष्टजं || राजद्वारे चरे दीपं वर्तिः कौसुभ रंजिता | सार्षपं रोगनाशाय तैलं पात्रं तु मुंगजं || हनुमत् संनिधौ दीपो वर्तिः कौसुंभरंजिता | मारणे राजिकातैलं यद्वा वै भीतकोद्भवं || दीपं दद्यान्मारणार्थं राजद्वारेपितुर्गृहे | दक्षिणाशामुखं दीपं लोहपात्रे प्रकल्पयेत् || शत्रोर्मृत्युस्वरे कार्यं वर्तिः स्यात् कृष्णतंतुभिः | करजं तैलमुच्चाटे पात्रं कृष्ण तिलोद्भवं || वर्तिश्च नीलसूत्रस्य राजद्वारे चरेदिदं | मधूक तैल विद्वेषे पात्रं चात्र कुलित्थजं || चतुःपथे दीपदानं वर्तिः स्यादत्र कर्वुरा | मोहने चाढकी पात्रं मांजिष्ठं सूत्रमूच्यते || प्रदीपे तिलतैलं स्यान् नृपद्वारे चरेदमुं | संग्राम विजयार्थं तु पात्रं स्यान् माष पिष्टजं || दुर्गायाः संनिधौ दद्याद् रक्तसूत्रैश्च वर्तिका || संधौ त्रिपिष्टजं पात्रं वा नदीकूलमृद्भवं | दीपं च संगमे दद्याद् वर्तिस्त्रिगुण रूपका || एकविंशति संख्याकास्तंतवोज्य ध्वनि स्मृताः | पात्रं च मृन्मयं कुर्याद् दीपदान चतुःपथे || वालग्रहे च भूतादौ खेटेषु विषमेषु च | शैलकूटे देवतायाः संनिधौ दीपमाचरेत् || मारणादिक षट्कर्म साधने वा चतुःपथे | माहिषेण घृतेनैव पात्रं नरकपालजं || विद्याकामो गणेशस्य संनिधौ दन्त पात्रके | श्वेता वर्तिं गोघृतेन चतुथ्यां तु समारभेत् || राजद्वारे वन्धमुक्त्यै कारागेहेथ वा चरेत् | पात्रे तु ताम्रजे दीपं धूमवर्णा तु वर्तिका || अथातः संप्रवक्ष्यामि दीपयो लघुकाम्ययोः | शुभाशुभानि चिह्नानि यैः कार्याकार्य निर्णयः || विप्रादि दर्शने दीपां रंभे सिद्धिः क्रमेण च | पूर्णापादोनितार्धा च पादतुल्याथ वन्धनं || म्लेच्छादि दर्शनं प्रोक्तं मार्जारादिक दर्शनं | मध्यमं निलकंठादेः श्रीकीर्ति विजयप्रदं || दीपज्वाला समाश्लक्ष्ण जायते च प्रदक्षिणा | अष्टभिर्दिवसैस्तंस्य कार्या सिद्धिर्न संशयः || २४६ब्) खरकंठ प्रभाज्वाला मरणं वान्धवैः सह | कृष्णा ज्वाला तदा शत्रोः कार्यं स्वस्य न जायते || दीपस्य नाशस्तूर्णं चेत् कार्यसिद्धि विलंवतः | यदा च रचनेद् दीपः कार्यं नष्टं तदा वदेत् || दीपस्य वमनं चौर्यं गोनाशः पात्र संम्रवे | दीपवर्षे पुनर्दीप लोपनान्मन्दने तत्रा || कृत्वा न्यासादिकं सर्वं प्रान्मुखो दीपमाचरेत् | एतद्दीपविधानं तु वटुकस्य प्रकीर्तितः || अथातः संप्रवक्ष्यामि शक्तीनां तुष्टि कारकं | पात्रे त्रिकोणे शक्त्यार्थं दीपदानं प्रकल्पयेत् || दक्षिणाम्नाय शक्तीनां त्रिलोहान्यतरे भवेत् | उर्धाम्नाये पिष्टपात्रं काचपाषाणसंभवं || पश्चिमाम्नाय देवीनां प्राच्यानामार्तिकं मप्तुं(?) | नृकपालं वामगानां क्रमाद्गावों घृतं घृतं || तैलं च सार्षपं प्रोक्तं वसा चेति यथाक्रमं | श्वेतरक्त हरित्पीत कृष्णसूत्रास्तु वर्तिकाः || देवाम्नाय मुखाद्दीपाः कर्तव्या देवताब्दये | देवागारे सरित्तीरे राजगेहे चतुःपथे || श्मशाने च कृता दीपास्तत्तदैवत तुष्टिदाः | गणेशवत् परीक्षात्र कार्याकार्यविनिर्णयं || अथातः संप्रवक्ष्यामि शिवदं शिवदीपकं | सर्वपाप प्रशमनं सर्वोपद्रवनाशनं || शून्यर्तु वह्नि सूत्राणां दीपवर्तिं प्रकल्पयेत् | विल्वपत्रोद्भवं पात्रं दद्यादीपं शिवालये || एवं द्वादश वर्णानि प्रज्वलेद्दिन रात्रिकं | तस्य वंशेन दारिद्र्यं नाकालमरणं भवेत् || पूर्वद्वारे श्रियै दीपः स्वर्गमोक्षाय दक्षिणे | पश्चात् सुवृष्टयेदेषः शेषकार्येषु चोत्तरे || गोघृतेन कृतो दीपः शिवस्याति प्रियंकरः | तिलतैलेनाभिचारे तारतम्यं विचारयेत् || अथातः संप्रवक्षामि रोगघ्नं भानुदीपकं | कुर्यात् स्वर्णमये पात्रे तद भावे तु ताम्रजे || कुसुंभवत्या कृतया सूत्रै द्वादशभीरवौ | द्वादशांगुल दीर्घा सा कुडवन्तु घृतं स्मृतं || लापयित्वा स कृद्दीपं न स्पृशेतं यदाखिलं | २४७अ) घृतं प्रज्वाल्य शान्तश्चेद्रोगनाशस्तदा ध्रुवं || पलमारभ्य खार्यं तं दृष्ट्वा रोग वलावलं | कल्पयेद् दीप हव्यस्य मानं लोकानुसारतः || अथातः संप्रवक्ष्यामि विष्णोर्दीप महाद्भुतं | सर्वः कामो गोघृतेन मारणं माहिषेण च || विद्वेषादि तु वर्कर्या स्त्रिषु पात्रं क्रमाद् भवेत् | ताम्रजं लोहजं काचं क्रमाद्विषु च कर्मसु || विष्णोस्तु प्रीतये कुर्यादामल्येत्थ रजोद्भवे | दुःस्वप्नोत्यात भूतादि विष्णोर्दीपेन नश्यति || अथातः संप्रवक्ष्यामि सर्वतन्त्रेषु गोपितं | मंत्रसिद्धिकरं दीपं न वाच्यं यस्य कस्यचित् || शक्त्याद्यहर्गणार्क्तिषु भक्तो वर्णा प्रजायते | मन्त्रवर्णस्य दिवसे क्रमाद् दीपं प्रकल्पयेत् || सायं तु कुडवाज्यस्य वर्तिर्भूपं च तंतुभिः | यावज्जलति दीपोसौ तावत् पश्यन् मनुं जपेत् || मन्त्रार्ण संख्य दीपेषु ज्वलितेष्वथ तद्दिने | पुनर्दीपे कृते सा तु दीपे संदृश्यते स्फुटा || इष्टं स्वकीयं कथयेद्याचयेन् मनसेत्प्सितां | ददाति देवता तुष्टा गुह्यमेतत् प्रकाशितं || कार्तवीर्य समोन्योन भवे दीप प्रियः सुरः | तन्त्रेषु तद् दीपनिधिर्वहुधा परिकीर्तितः || इति ते भास्करस्योक्ता विधिर्दीप समन्वितः | अतः परं यत्र चेच्छा तत्र पृच्छन्तु मां प्रति || इति मन्त्रसिध्यादि शुभप्रद दीपविधिः || अथ वीरसाधना || योगिनी हृदये || देव्युवाच || भगवन् सर्वतन्त्रज्ञ सर्वशास्त्रविशारद | श्मशाने च पुरचर्या त्वया संसूचिता पुरा || कथयस्व तदेदानीं यदि स्नेहोस्ति सांप्रति || ईश्वर उवाच || यस्मिन् परिश्रमेणापि नृणां सिद्धिस्ममीरिता | न जाता तत्र कर्तव्या साधकैर्वीरसाधना || पुरा सिद्ध्यै नृपानां च कर्तव्ये समुपस्थिते | नान्यत् सिद्धिकरं शीघ्रं वीरसाधनवर्जितं || तस्मात् सर्वप्रयत्नेन विधेया वीरसाधना | भयमुक्तेन शुचिना सर्वसिद्धिमभीप्सता || २४७ब्) नानया दुर्लभं किंचित् साधकस्य समीहितं | गिरिजे तत् प्रयत्नेन मयाचेयं प्रकाश्यते || अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि | कृष्णपक्षे विशेषेण साधयेदनया हितं || वीरतन्त्रे || देव्युवाच || महावीर क्रमन्देव सूचितन्न प्रकाशितं | कथयस्व महादेव सर्वसिद्धिप्रदं महत् || भैरव उवाच || सर्वसिद्धिप्रदं साक्षात् सर्वदेव नमस्कृतं | सर्वपाप हरन्देवि सर्वरोग विनाशनं || ब्रह्मविष्णु शिवादीनां दिक्पालानां च भाविनि | भैरवाणां च सर्वेषां गंधर्वाणां च योगिनां || शश्वत् सिद्धिप्रदं देवि सर्वेषामालयं महत् | नान्यत् सिद्धिप्रदं देवि वीरसाधन वर्जितं || महावलो महावीरो महासाहसिकः शुचिः | महास्वच्छोदयावांश्च सर्वभूतहिते रतः || तेषां कृते महादेवि कथितं वीरसाधनं || तथा || घटी(?) वस्त्रेण वन्धस्वै मूलेन परिधाय च | तद्वाज्य च पुनर्वस्त्रं मूलेनाङ्ग विलेपनं || कृतोष्णींशश्च मूलेन सिन्दुरेनोर्ध्वपुण्ड्रकं | इष्टदेवं गुरुन्नत्वा यात्रा प्रहर मध्यतः || कार्या च साधकैस्सार्धं हृदिमन्त्रं परामृशन् | अक्षुब्धो भुक्तो भोज्यस्तु यदि स्याद् वीरसाधकः || दिव्योवान पशुस्तत्र भुक्त्वा साधनमाचरेत् | अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि || भौमवारेतमिश्रायां साधयेत् सिद्धिमुत्तमां | उपचारं समादाय कुलामृत रसन्तथा || सामिषान्नं गुडं छागं सुरापिष्टकमेव च | नानाफलं च नैवेद्यं स्वस्वकल्पोक्त साधितं || चिता स्थाने समानीय सुहृद्भिः शस्त्रपाणिभिः | समानगुणसंपन्नैः साधकोगतभीः स्वयं || न निरीक्षेच्चतुर्दिक्षु देवताख्या न तत्परः | भीतश्चेत् साधकस्तत्र चतुद्दिक्षु च साधकाः || नोचेत् केवलमेवासौ भैरवः परिकीर्तितः | वस्त्रालंकार भूषाद्यै भूषितः पूर्वसंमुखः || अप्रक्षालितां चिताभूमिं गत्वा साधकसत्तमः | २४८अ) प्रक्षालितां यदि प्रायः कारयेदस्थि संचयं || अस्त्रान्त मूलमन्त्रेण प्रोक्षणं यागभूमिषु | गुरुपाद रजो ध्यात्वा गणेशन् वटुकन्तथा || योगिनीं मातृकाश्चैव वा *? पादपुरस्सरं | ये चात्र संस्थिता देवा राक्षसाश्च भयानकाः || पिशाचाः सिद्धयक्षाश्च गन्धर्वाप्सरसार्गणाः | योगिन्यो मातरो भूताः सर्वाश्च खचरस्त्रियः || सिद्धिदास्ता भवन्तत्र तथा च मम रक्षकाः | प्रणम्य मनुनानेन पुष्पां वलित्रयं क्षिपेत् || श्मशानाधिपतिं पश्चाद् भैरवं कालभैरवं | महाकालं यजेद् यत्नात् पूर्वादि दिक् चतुष्टये || पाद्यादिभिश्च मन्त्रज्ञो वलिं पश्चान् निवेदयेत् | शब्दवीजं ततः पश्चात् श्मशानाधिप तत्परं || इममन्ते सामिषान्नं वलिं गृह्न पदन्ततः | गृह्नगृह्नापय युगं विघ्न निवारणन्ततः || कुरु सिद्धिं मे समुक्त्वा प्रयच्छस्वाहयान्वितं | ताराद्यमनुना देवि प्रथमो वलिरीरितः || मायान्ते भैरवात् पश्चाद् भयानक पदन्ततः | पूर्ववद् वलिमाहृत्य दक्षिणे वलिमाहरेत् || हिमन्नेव(?) महाकालात् पश्चात् पूर्ववदुद्धरेत् | पश्चिमे काल देवाय प्रणवाद्येन कल्पयेत् || शब्दान्ते कालशब्दान्ते भैरवान्ते पदन्ततः | श्मशानाधिप इत्येव पूर्ववच्चोत्तरे हरेत् || चिता मध्ये ततो दद्याद् वलित्रयमनुत्तमं | कालरात्रि महाकाले कालिके घोरनिस्वने || गृहानमम्वलिम्मातर्देहि मे सिद्धिमुत्तमां | हुं कालिकायै स्वाहेति दत्वा भूतनाथाय चार्प्ययेत् || शब्दान्ते भूतनाथान्ते शशानाधिपः इत्यपि | प्रणवाद्येन मन्त्रेण दापयेद् वलिमुत्तमं || हुं सर्वगणनाथ श्मशानाधिप इत्यपि | प्रणवाद्येन मन्त्रेण दापये वलिमुत्तमं || ततश्चिता पश्चिमत एकीकृत्यास्थि संचयं | ओं ह्रीं आधारशक्तये नम इत्यमुना पुनः || पंचगव्येन संप्रोक्ष्य भूर्जे यावत् पत्रके | हसौरिति लिखेन्मन्त्रं स्थापयेत् तच्च तत्पुनः || कम्वलाद्यासनं तत्र विन्यस्था धारशक्तये | २४८ब्) नम इत्यमुना तत्र हीमाद्यां च प्रपूजयेत् || वीरार्दनेन देवेशि उपविश्यासने ततः | कूर्चवीज द्वयन्देवि माया युग्मं ततः परं || कालिके घोरदंष्ट्रे च प्रचण्डे चण्डनायिके | दानवान् दारयेत् युक्त्वा हरेति द्वितयन्ततः || परवीरं महाविघ्नं छेदय द्वितयं ततः | वर्मास्त्रोन्तो द्विठान्तोयं वीरार्दन मनुर्मतः || अनेन मन्त्रितं लोष्टं दशदिक्षु विनिःक्षिपेत् | तन्मध्ये भैरवो देवो न विघ्नैः परिभूयते || यदि प्रमादाद् देवेशि साधको भयविह्वलः | तैस्तैस्तैश्च सुहृद्भिश्च रक्षितो नाभि भूयते || अर्केन्दुसित वाद्याल मूलैर्निर्मित वर्तिकां | प्रदीपन्तत्र संस्थाप्य अस्त्रन्तत्र प्रपूजयेत् || हते तस्मिन् महादीपे विघ्नैश्च परिभूयते | तदधश्चास्त्र मन्त्रेण निखनेत् कुलदीपिकं || तत्तत्कल्पविधानेन भूतशुध्यादिकं चरेत् | षोढाम्वातारकाम्वापि विन्यस्य पूजयेत् ततः || अत्रैव वामलादिः || ततः पंचोपचारेण पुरतो देवतां यजेत् | निमील्य चक्षुषी पश्चाद् देवं ध्यात्वा मनुं जपेत् || एकाक्षरी यदि भवेद् दिक् सहस्रं ततो जपेत् | द्व्यक्षरे चाष्ट साहस्रं त्र्यक्षरे वायुतार्धकं || ततः परन्तु मंत्रज्ञो गजान्तक सहस्रकं | गजान्तक सहस्रं अष्टोत्तर सहस्रं || निशार्द्धान्तु समारभ्य उदयान्तं समाचरेत् | यद्य सभ्यं भग्नं कर्णनेत्रे वस्त्रेण वन्धयेत् || ततोर्ध रात्रिपर्यन्तं यदि किंचिंन्न लक्ष्यते | जयदुर्गा मनुनार्घं ते नैव सर्षपान् क्षिपेत् || ओं निलोसिमोम देवत्यो गोसवस्तृप्तिकारकः | पितृणां स्वर्गदातात्वं मर्त्यानां समरक्षकः || भूतप्रेतपिशाचानां विघ्नेषु शान्तिकारकः | इति क्षिप्त्वा तिलास्तत्र चतुर्भागैः शिवादितः || ततः सप्तपदं गत्वा पुनस्तत्रैव संविशेत् | एवं तत्रापि संपूज्य प्रजपेन् मनुमुत्तमं || निर्भयः प्रजपेत् तावद् यावत् सिद्धिः प्रजायते | भयं तु स्वप्न वज्ञेयं परेह्नि शेषमादिति || २४९अ) वामकेश्वरतन्त्रे || जपान्ते च वलिन्दद्याद् देवतायै यथाविधिः | महिषं छागलम्वापि गृहीत्वा वरमेव च || गृहं गच्छेत् सुहृद्वर्गैस्सार्धं संहृष्टमानसः || इति चिता साधनविधिः || अथ शवसाधनविधिः || वीरतन्त्रे || पूर्वोक्तमुपहारादि समादाय तु साधकः | साधयेत् स्वभितां सिद्धिं साधन स्थान माश्रयेत् || गुरुध्यानादिकं सर्वं पूर्वोक्तमाश्रयेत् सुधीः | वीरार्दनांकिते भूमौ माया मोह न विद्यते || ये चात्रेत्यादि मन्त्रेण भूमौ पुष्पांजलि त्रयं | श्मशानाधिपतीनान्तु पूर्ववद्वलिमाहरेत् || अघोराख्येन मन्त्रेण वलिसाधनमाचरेत् | सुदर्शनेन वा रक्षा उभाभ्याम्वा प्रकल्पयेत् || माया स्फुर द्वयं भूयः प्रस्फुरद्वितयं पुनः | घोरघोरतरेत्पन्ने तदनुरूप पदन्ततः || चटयुग्मान्ते च प्रचट द्वितयं ततः | कहयुग्मं वमयुग्मं ततो वन्धयुगन्ततः || घातय द्वितयं वर्म फडन्तस्समुदाहृतः | एकपंचाशदर्णोयमघोरास्त्र मयो मनुः || हालाहालं समुद्धृत्य सहस्रारस्वरूपकं | वर्मास्त्रान्तं महामन्त्रं सुदर्शनस्य कीर्तितं || भूतशुद्धिन्ततः कृत्वा न्यास जालं प्रविन्यसेत् | जयदुर्गाख्ये मन्त्रेण सर्षपान् दिक्ष निःक्षिपेत् || ओं दुर्गे दुर्गे रक्षिणि स्वाहेति जयदुर्गाख्य मन्त्रः | तिलोसीति च मन्त्रेण तिलानपि विनिःक्षिपेत् || यष्टिविर्द्धं शूलविद्धं खड्गविद्धं पयोमृतं | रज्जुविद्धं सर्पदष्टं चाण्डालम्वाभि भूतकं || तरुणं सुन्दरसूरं रणे नष्टं समुज्वलं | पलायन विशून्यं च संमुखेरण वर्तिनं || स्वेच्छामृतं द्विवर्षं च वृद्धस्त्रीं च द्विजन्तथा | अन्नाभावमृतं कुष्ठं सप्तरात्र्योर्ध्वगं तथा || एवं चाष्टविधत्यक्ता पूर्वोक्तान्यतमं शवं | गृहीत्वा मूलमन्त्रेण पूजास्थाने समानयेत् || चाण्डालाद्यभि भूतशीघ्रं सिद्धिफलप्रदं | प्रणवाद्यस्त्र मन्त्रेण शवस्य प्रोक्षणं चरेत् || प्रणव कुर्चवीजं च मृतकाय नमस्तु फट् | २४९ब्) पुष्पांजलि त्रयन्दत्वा प्रणपेत् स्पर्श पूर्वकं || रे वीर परमानन्द शिवानन्द कुलेश्वर | आनन्दभैरवाकार देवीपर्यंकशंकर || वीरोहंत्वां प्रपद्यामि उत्तिष्ठ चण्डिकार्चने | प्रणम्यानेन मन्त्रेण क्षालयेत् तदनन्तरं || तारं शब्दं मृतकार्यनमोन्तं मन्त्रमुच्यते | शवस्नापन मन्त्रोयं सर्वतन्त्रेषु देशितः || धूपेन धूपितं कृत्वा गन्धादिना प्रलिप्य च | रक्ताक्तो यदि देवेश भक्षयेत् कुलसाधकं || गत्वा शवस्य सान्निध्यं धारयेत् कटिदेशतः | यद्युपद्रावयेदस्य दद्यान्निष्ठी वनमुखे || पुनः प्रक्षालितं कृत्वा जपस्थानं समानयेत् | कुशशययां परिस्तृत्य तत्र संस्थाप्ययेच्छवं || एलालवंग कर्पूरजाती खदिरसारकैः | ताम्बूलं तन्मुखे दत्वा शवं कुर्यादधो मुखं || स्थापयित्वा तस्य पृस्थं चन्दनेन विलेपयेत् | वाहुमूलादिकघन्तं चतुरस्रं विभावयेत् || मध्ये पद्मं चतुर्द्वारं दलाष्टक समन्वितं | ततश्चेणेयमजिनं कम्वलान्तरितं न्यसेत् || द्वादशांगुलमानेन यज्ञकाष्ठानि दिक्षु च | संस्थाप्य पूजयेत् तत्र इन्द्रादि दशदेवताः || विषमिन्द्राय संलिख्य सुराधिपतयः ततः | इमं वलि गृह्नयुगं गृह्नापययुगन्ततः || विघ्ननिवारणं कृत्वा सिद्धि प्रयच्छ ठद्वयं | अनेन मनुना पूर्वे वलिन्दद्याच्च सामिषं || स्वस्वनामादिकं दत्वा पूर्ववद् वलिमाहरेत् | सर्वेषां लोकपालां ततः साधकसत्तमः || शवाधिष्ठाभृ देवेभ्यो वलिन् दद्यात् सुरया सह || चतुःषष्ठि योगिनीभ्यो वलिन्दिशेत् || पूजाद्रव्यं सन्निधौ च दूरे चोत्तरसाधकं | संस्थाप्यासनमभ्यर्च्य सुमन्त्रान्ते त्रपान्ततः || फडित्यन्तेन मन्त्रेण तत्राश्वारोहणम्विशेत् | कुशान् पादतल दत्वा शवकेशान प्रमार्ज्य च || दृढन्निवद्ध्यजुटिकां कृत संकल्पसाधकः | शवोपरि समारुंह्य प्राणायामं विधाय च || वीरार्दनेन मन्त्रेण दिक्षु लोष्टान् समाक्षिपेत् | २५०अ) ततो देवं च संपूज्य उपचारैः सहस्रकैः || शवास्ये विधिवद् देवि देवस्याप्यायनं चरेत् | उत्थाय संमुखे स्थित्वा पठेद् भक्तिपरायणः || ओं वशो मे भव देवेश ममाम्क पदन्ततः | सिद्धिन्देहि महाभाग भूताश्रम पदं पुनः || मूलं समूच्चरंन् मन्त्री शवपाद द्वयन्ततः | पट्टसूत्रेण वध्नीयात् तदोत्थातुं न शक्यते || ओं भीमभीरु भयाभाव भव्यलोचन भावुक् | त्राहि मां देवदेवेश शवानामधिपाधिप || इति पादतले तस्य त्रिकोणं चक्रमुल्लिखेत् | तदोत्थातुं न शक्नोति शवोपि निश्चलो भवेत् || उपविश्य पुनस्तस्य वाहूनिस्सार्यपार्श्वयोः | हस्तयोः कुसुमांस्तीर्य पादौ तत्र निधापयेत् || ओष्ठौ तु संपुटौ कृत्वा स्थिरचित्तः स्थिरेन्द्रियः | सदा देवीं हृदि ध्यात्वा मौनी तु जपमाचरेत् || श्मशाने प्रोक्त संख्याभिर्जपं कुर्यात् कुलेश्वर | अथवा रंभकालान्तु यावच्छोदयते रविः || यद्यर्ध रात्र पर्यन्तं जप्ते किंचिन्न लभ्यते | तदा पूर्ववदर्घादि सप्तपाद गतानि च || कृत्वा पविश्य तत्रैव जपं कुर्यादनन्यधीः | चलासनाद्भयन्नास्ति भये जाते वदेत् ततः || यत् प्रार्थयसि देवेशि दातव्यं कुंजरादिकं | दिनान्तरे प्रदास्यामि स्वनाम कथयस्व मे || इत्युक्त्वा संस्कृते नैव निर्भयस्तु पुनर्जपेत् | पुनश्चेन् मधुरं वक्ति वक्तव्यं मधुरन्ततः || तदा सत्यं च संकार्यं वरं च प्राथयेत् ततः | यदि सत्यं न कुर्याच्च वरम्वान प्रयच्छति || तदा पुनज्जपेद्धीमानेकाग्रमानसं जपन् | नररूपेणात्र देवो नरो यो वोप सर्पति || यत्नतस्तेन वोद्धव्यं नरो वा देवयोनयः | माता वा तत्सुता वापि मातुलानी तथापि वा || आगत्य विघ्नं चरते माययाच्छाघ विग्रहं | उत्तिष्ठ वत्सते कार्यं सर्वजातन्न संशयः || प्रभात समयो जातस्त्वत् पिताक्रोशते गृहे | प्रायेण सकलालोका राजानो दण्डधारिणः || कदाचित् केनाप्याद्विष्टस्तदाकिन्ते करिष्यति | २५०ब्) इत्यादि विविधैर्वाक्यैन्न जापं परिसंत्यजेत् || मृताः पितृगणास्तत्र दूरदेश निवासिनः | वांधवास्तत्र आयान्ति देव रूपधरास्ततः || स्त्रीपुत्र सेवकादींश्च गृहीत्वा नीयते परैः | वदन्ति पुत्रकास्सर्वे भ्रातरोऽनुज शिष्यकाः || निजकान्तांग संस्पर्शं वस्त्रद्याभरणादिकं | गृहीत्वा नीयते पत्नि पालकैस्तद्भयं त्यजेत् || दिवसे यत्रया शंका सैव तत्र प्रजायते | यदि न क्षुभ्यते तत्र तदा किम्वा न लभ्यते || स्त्रीरूपधारिणी देवी द्विजरूपधरः पुमान् | वरं गृह्नेति शब्दं वै त्रिवारान्ते वरं लभेत् || साधुना साधुना वापि योषिच्चेद्वरदायिनी | तदा वीरपतेस्तस्य किं न सिध्यति भूतले || निःपाप पुरषश्चैव कुले चैव सुसंस्कृतः | असंस्कृतवरादेवी पाप युक्ता न संशयः || संमुखे संमुखे वापि संस्कृतं वक्ति चापरं | सैव देवी न संदेहः स देवो भैरवः स्वयं || नचद्देवं भवेच्चैव माया पुटित निग्रहात् | वरयन्नवरं तत्र न वरं प्रवदेत् क्वचित् || सचेत् संस्कृतमाख्यानं वक्तिवक्तव्यमीदृशं | नदेत् स्वयं लौकिकोक्त्यावरं ग्राह्यं निराकुलं || अथवा उत्कटं चिल्लभेताप्यात्मनो हितं | शब्दो वा जायते सम्यगमृतम्वापि लभ्यते || सर्वविचार्य गृहीतव्यमेवं दिक् परिकीर्तिता | देवा कृतयो वहुधा नराद्या कृतयः क्वचित् || अवश्यं तत्र भेतव्यं न तत्र प्रत्ययः क्वचित् | भैरवा वटुकाश्चैव कुलशास्त्र परायणाः || एतच्छास्त्र प्रसंगेन कृत्वा कुटिलविग्रहाः | पुत्रो भूत्वा वरये तुं नारी भूत्वा विमोहयेत् || तस्मात् तत्वपरो विरो विचारे यत्नमाचरेत् | सत्ये कृते वरं लब्धा सन्त्यजेच्च जपादिकं || जातं फलमिति ज्ञात्वा गुटिकां मोचयेत् ततः | संप्रक्षाल्य च संस्थाप्य वंधनं मोचयेत् पदे || पदचक्रं मार्जयित्वा पूजा द्रव्यं जले क्षिपेत् | शवं जलेथ गर्ते वा निःक्षिप्य स्नानमाचरेत् || २५१अ) ततस्तु स्वगृहं गत्वा वलिन्दत्वा दिनान्तरे | अग्निमरात्रौ च येषां देवानां यजमानोहं || ते गृह्नन्तु मयादत्तं वलिमिमं || अथयैर्या चितश्चाश्व नरकुंजर शूकरात् | दत्वा पिष्टमयानेव कर्तव्यं समुपोषणं || तन्त्रान्तरेपि || यवक्षोदमयं वापि शालिक्षोदमयं च वा | चन्द्रहासेन विधिवत् तत् तन्मन्त्रेण घातयेत् || परेह्नि नित्यमाचार्य पंचगव्यं पिवेत् ततः | ब्राह्मणान् भोजयेत् तत्र पंचविंशति संख्यकान् || पंचपंचविहीनान्वा क्रमाच्चैव दशावधिः | ततः स्नात्वा च भुक्त्वा च निवसेदुत्तम स्थले || यदि न स्याद् विप्रभोज्यं तदानिर्धनतां व्रजे | तेन चेर्न्निर्द्धनत्वं स्यात् तदा देवः प्रकुप्यति || त्रिरात्रम्वाथ षड्रात्रं गोपयेत् कुलसाधनं | शर्यायां यदि गच्छेद् वै तदा व्याधिः प्रजायते || गीत श्रुत्वा च वधिरो निश्चक्षुर्नृत्य दर्शनात् | यदि वक्ति दिने वाक्यं तदा समूकतां व्रजेत् || पंचदशदिनान्ता हि देहे देवस्य संस्थितिः | गोब्राह्मणानान्देवानान्निन्दां कुर्यान्न कुत्रचित् || देव गोब्राह्मणादींश्च प्रत्यहन्तु स्पृशेच्छुचिः | प्रातर्नित्य क्रियान्ते तु विल्वपत्रोदकं पिवेत् || ततः स्नायान्तु तीर्थादौ प्राप्ते षोडश वासरे | स्वाहान्त मूलमुच्चार्य तर्पयामि नमष्यदं || एवं शतत्रयाद्दूर्धं देवानां तर्पणं जलैः | मुनितर्पणं शून्यस्य न स्याद् देवस्य तर्पणं || तृप्तिरित्यर्थं || इत्यनेन विधानेन सिद्धिं प्राप्नोति निश्चितं | इह भुक्त्वा चरान् दिव्यानन्ते याति हरेः पदं || आसांगं सांगमपि वा निष्फलं सफलं च वा | कृत्वा साधन मे वै तत् शक्तेः प्रियतमो भवेत् || शवाभावे श्मशाने वा कर्तव्या वीरसाधना | यो भावो यस्य यः प्रोक्तस्तैर्भावैर्यदि नार्चयेत् || इदृशक्रमयोगेन भ्रष्टो भवति साधकः | २५१ब्) नोपदिशेत् तत्र भावं न पूजान्तत्र सन्दिशेत् || श्मशानान्तं गृहीत्वा तु यावच्छुद्धिः प्रजायते || इति वीरसाधनं || अथ प्रकारान्तरवीरसाधनं || तदुक्तं कालीतन्त्रे || शृणु देवि वरारोहे वीरसाधनमुत्तमं | नृणां शीघ्रफलावाप्त्यै प्रकारान्तरमुच्यते || चतुष्पथे चतुर्दिक्षु पुरुषं हृदयं खनेत् | दीपमेकं ब्रह्मरन्ध्रे दीपान् प्रज्वालयेत् ततः || मध्ये तथा खनेदेकं तत्र मृद्वासनं विशेत् | महाकालादि देवेभ्यो वलिं दत्वा यथाविधि || कल्पोक्त पूजा निर्वर्त्य जपेन्नियत मानसः | दक्ष क्षमालया चैव राजदन्ते न मेरुणा || दिग्वासाः प्रजपेन्मन्त्रं अयुतं सर्वदैवतं | जपान्ते च वलिं दद्याद् दक्षिणा विभवावधि || सर्वसिद्धीश्वरो विद्वान् सर्वदेव नमस्कृतः | अथवा विजने रण्ये अस्थिशर्यासने नरः || उदयांतं मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् | निजे क्रोडे विल्वमूले शवमारोप्य यत्नतः || नृसिंह मुद्रया वीक्ष्य जपेन् मातृकया नरः | सहस्रं तत्र जप्त्वा तु सर्वसिद्धीश्वरो भवेत् || करकांची समादाय मुण्डमाला विभूषिताः | तेनैव तिलकं कृत्वा तद्भस्म परिभूषितः || श्मशाने च सकृज्जप्त्वा सर्वसिद्धीश्वरो भवेत् | कुंकुंमा गुरु कस्तूरी रोचनाद्येन चंदनं || कर्पूरं समभागं च केशरं हरिचन्दनं | एकत्र साधितं कृत्वा प्रत्येकं साधयेत् ततः || जिह्वाग्रे रुधिरं वीरः आकाशे च समाहरेत् | तेनैवटिकां कृत्वा भद्रकाली मनुं जपेत् || नीलानीलपताकां च ललजिह्वां करालिकां | ललाटे तिलकं कृत्वा साधको वीतभीः स्वयं || महाष्टमी नवम्योश्च संयोगे पुरतः स्थितः | छागमाहिषमेषाणां चतुर्दिक्षु शवान् क्षिपेत् || कवन्धान मुण्डपुच्छं च दीपादिभिरलंकृतं | मध्येक वन्धमास्तीर्य तत्र गन्धर्व रूपधृक् || तांवूल पूरितास्थं च अंजनांजित लोचनं | कृत्वात्मानं मनुजप्त्वा सर्वसिद्धीश्वरो भवेत् || २५२अ) वियद् वह्नि युतं देवि नेत्रान्तं चन्द्रभूषितं | वीजं प्रत्येक द्रव्याणां मिलितानां च पार्वति || मूलमन्त्रेण मन्त्रज्ञो जपेत् साग्रं शतत्रयं | जिह्वाग्रे रुधिरं गृह्न चामुण्डे घोरनिस्वने || वलिं गृहीत्वा वरं देहि रुधिरं गगणिमले | कालिका प्रचण्डोग्रे ततोऽस्त्रं कवचं ततः || कालिकेयं समाख्याता वीराणां हितकाम्यया | कूर्चयुग्मं महादेवि नीलायाः कथितं तव || वियद्भृगुवलं देवि वलामित्र वलीरतिः | चन्द्रखण्डसमायुक्तं ततो नीरपदं वदेत् || पताके हूं फडन्तं स्यात् पूर्वकूटं मनुर्मतः | संगुप्तेय महाविद्या तव स्नेहादिहोदिता || उग्रचण्डा महाविद्या पुराया कथिता प्रिये | सा ललज्जिह्विका प्रोक्ता संयोज्या नीलसाधने || यासौ विद्या महातारा सा करालेति कीर्तिता | भूमिपुत्र समायुक्तायामावास्था शुभप्रदा || भद्रे पुष्करयोगेन तस्यां वीरवोत्तमः | विष्णुक्रान्तां समानीय निःक्षिपेत् मृतभूमिषु || तत्र तां साधितां कृत्वा तद् दिने मृतहदृके | तत्र प्रसाधितं मत्स्यमेक शूलेन दापयेत् || तज्जलेनाभिषेकं च पूर्ववच्च शवोपरि | साधितां विजयां तस्य उदरे मुखवर्त्मणा || क्षिप्त्वा तत्र खनेन्मत्स्यं अंजनांचितलोचनः | तीलकी पूर्वद्रव्येण उत्थाय च मनुं जपेत् || स्वयं वै तत्र भगवान् भैरवो ल *? गुडांकितः | भ्रमतीतस्ततो वीरस्तं विलोक्य मनुं जपेत् || यदि भाग्य वशाद् देवि लगुडस्तत्र लभ्यते | तदा स्वयं भैरवोसौ स्वयं वीरेश्वरो भवेत् || मत्स्यमानीय देवेशि निःक्षिपेन् मृतहदृके | तत्रा सकृज्जपित्वा तु देवता मेलनं भवेत् || तत्र नत्वा महादेवं महादेवीं च भाविनि | तद्भस्म तिलकं कृत्वा स्वयं वीरेश्वरो भवे || निशायां मृतहट्टे च उन्मत्ता नंदभैरवः | दिग्वासा विमली भस्म भूषणो मुक्तकेशकः || २५२ब्) कपाली खड्गहस्तश्च जेपेन् मातृकया यदि | तदा तस्य महादेवि सर्वसिद्धिः करे स्थिता || डाकिनी योगिनी वापि अन्यां वापि कुलांगनां | आनीय तत्र संपूज्य सर्वसिद्धीश्वरो भवेत् || सर्वेषां जीवहीनानां जन्तूनां नीलसाधने | ब्राह्मणं गां स्त्रियं त्यक्त्वा साधयेद् वीरसाधनं || ब्राह्मणं गोमयं त्यक्तेति क्वचित् पाठः | तत्र स्वार्थे मषट तत्र गोमयमित्यस्य गामित्यर्थः || मृतासनं विना देवि पूजयेत् पार्वती शिवां | तावत् कालं वसेद् घोरे यावदाहृत संप्लवं || महासवाः प्रशस्ताः स्युः प्रधाने साधने प्रिये | क्षुद्राः प्रयोग कर्तृणां शस्ताः सर्वाः सुसिद्धिदाः || एवं नीलक्रमो देवि कथितश्च तवानघे | न कस्यचित् प्रवक्तव्यं मम प्रीत्या महेश्वरि || अथ वीरचूडामण्युमक्त वीरसाधन विधिः || अथवान्य प्रकारेण साधनं कथयामिते | जपस्थानं तु संशोध्य खनना विप्र यत्नतः || तन्मध्ये च वलिं दद्याल्लिखेद्यन्त्रं त्रिकोणकं | तन्मध्ये च महाशंखं निवेश्य मुण्डपंचकं || तत्रोपरि महाप्रेतं अखण्डांमं सुशोभनं | उद्धर्तनादिकं कुर्यात् स्नापयेद् विधिपूर्वकं || परिधाप्य रक्तवस्त्रं नेत्रांजनं समीरितं | तांवूलादि मुखे दद्याल्ललाटे रक्तचन्दनं || हृदये च लिखेद्यन्त्रं पद्ममध्ये त्रिकोणकं | पूजायन्त्रं ललाटे च शस्त्रेण विलिखेत् ततः || मूर्ध्नि वाहौ तथा हस्ते पादे चैव तथा कटौ | खदिरादीनि काष्ठानि लीलान्यारोपयेत् सुधीः || रज्जुकं वन्धयेत् तत्र दृढवंधेन वंधयेत् | षट्पात्रेषु वलिं दद्यात् कीले कीले पृथक् पृथक् || माषं मासं तथा मत्स्यं पायसं त्रिविधासुरा | मोदकं च तथा पूपं दुग्धेनोत्सर्गमाचरेत् || क्रोधीशं वह्निमारूढं तुर्यस्वर सविन्दुकं | वर्मवीजं समुच्चार्य श्मशान कालिकेति च || पूर्ववीजं समालिख्य अस्त्रोन्तो मन्त्र उत्तमः | मायावीजं समुच्चार्य श्मशान * * * * * ? || २५३) Fओलिओ २५३ इस् मिस्सिन्ग् २५४अ) तु जन्मरासि नक्षत्र *? मिति * * * * * * ? || अन्यत् संकलित मुक्तं मेरुतन्त्रे || काम्यकर्मणि वक्ष्यामि तत्रादौ शान्तिरुच्यते | शान्तिर्नाम मनुष्याणां रोगकृत्यादिनाशनं || षोढाधिभज्याहोरात्रं पंचम्यं सेतु शान्तिकं | हेमन्ते च प्रकर्तव्यं नासाधश्चलते यदा || वायुस्तदातोय तत्व तस्मिंशान्तिकमाचरेत् | श्वेतवर्णेन निर्माय चतुरस्रं तु मंडलं || पूजयेच्च जलं वादौ वं वीजे नात्र शान्तिके | उत्तराभिमुखो भूत्वा शान्तिकं तु समाचरेत् || शान्तिकादौ रतिः पूज्यो पद्ममुद्रां प्रसर्शयेत् | वध्वा पद्मासनस्थोयं नमोन्तः शान्तिकं मनुः || शान्तौ कुशासनं ग्राज्यं होमयेन् मृगमुद्रया | मुक्त्वा कनिष्ठिकां यत्र हूयते सामृती भवेत् || त्रिषुन्तरासु पूर्वासु शान्तिकं स्यात्रिजन्मसु || अथवश्यं प्रवक्ष्यामि स्वायतीकरणं तु तत् | देवरक्षो राजलोक सर्पस्त्रीहयहस्तिनां || प्रथमंशे वश्य कर्म वसंते च प्रसिध्यति | नासोर्ध्ये वहते वायुरग्नि तत्वं वहेत् तदा || वश्यं कूप्यां त्रिकोणे तु रंवीजेनाग्नि पूजनं | रक्तवर्णेन निर्माय वश्यं पूर्वमुखश्चरेत् || वाणीं संपूजयेद् वश्य पाशमुद्रां प्रदर्शयेत् | स्वस्तिकासनमारुज्य स्वाहान्तं मंत्रमुच्चरेत् || छागलचर्मवश्ये स्याद्धोमयेन् मृगमुद्रया | रक्तद्रव्यैरत्रहोमो ध्यानमारक्तकं मतं || मृगांत्पवित्रामित्रर्क्षे विशाखो कृत्तिकात्र तु || अथ स्तंभं प्रवक्ष्यामि तदुद्योग निवारणं | गजराजोरग व्याघ्रादिककोपनिवारणं || शिशिरे स्तंभनं प्रोक्तं षष्ठांशे तु दिनस्य तत् | अग्नेरपां च सैस्य क्रूद्धस्य विषदंष्ट्रिणां || जानुभ्यामवनीं गत्वा स्तंभनस्य क्रियां चरेत् | जारचोररुजां स्तंभो धर्मः प्रेतादि रक्षसां || नासा दंडेन संलग्नो वायुश्चेत्तूदयो भवेत् | स्तंभ कर्म तदा कुर्याल्लं वीजेन वसुन्धरां || अष्टवज्रयुते मंडले तां समर्चयेत् || प्राङ्मुखस्तंभणं कुर्याद्रमां तत्र च पूजयेत् | विकटासन गो देव्यै गदा मुद्रां प्रदर्शयेत् || २५४ब्) स्तंभने वषडंतश्च होममंत्रः प्रकीर्तितः | गजचर्मासनं स्तंभे मृगीमुद्राद्धृतौ तथा || पीतद्रव्यैश्चोत्र होमः पीतवस्त्रादि धृक् स्वयं | स्तंभने भरणी चित्रा रोहिणी चोत्तरात्रयं || अथ विद्वेषणं वक्ष्ये प्रीतिनाशः स तु द्वयोः | ग्रीष्मे विद्वेषणं घस्र(?) षष्ठांशे तु द्वितीयके || नासायां मध्यगे वायौ खादय द्वेषणं मतं | वर्तुले धूम्रवर्णे तु मंडले खं समर्चयेत् || हं वीजे नाथ विद्वेषं नै-ऋत्याभिमुखं चरेत् | पूज्या धूमावती द्वेषे मुद्रा तु मुशला भवेत् || होमे मन्त्रः फडंतोत्र विशेदुत् कटुकासने | विद्वेषे जांवुकश्चर्म लोहासनमथापि वा || धूम्रवर्णेश्च होतव्याः तादृग्वस्त्रादि साधकः | आद्रा चतुष्टयं मूलं ज्येष्ठा विद्वेषणे मता || उच्चाटनमथो वक्ष्ये तदरीणां प्रवासनं | प्रावृडुच्चाटने शस्ता त्रिषष्ठांशे दिनस्य च || तिर्यग् पाते समीरे तु वायुर्वहति तत्र तु || शत्रोरुच्चाटनं कुर्यात् || यं वीजेन तमर्चयेत् || षट्कोणमंडलं वायो कृष्णं षड्विंदुलांछितं | मृगचर्मासनं तत्र वायव्यास्यं च कर्मणि || दुर्गां संपूजयेन्मुद्रामशनिर्नाम दर्शयेत् | वज्रासने समारूढः फडंतश्च हुतौ मनुः || तर्पणार्थं मेषरक्त मिश्रितं तोयमावहेत् | धूम्रमुच्चाटने ध्यानं कृष्णद्रव्यैस्तथा हुनेत् || उच्चाटनं क्षिप्रभेषु चरभेषु प्रशस्यते || मारणं प्राणहरणं शत्रुणामीरितं तु तत् | मारणे वर्जयेद् विप्रानन्यांश्चापि सुधार्मिकान् || स्त्री वालव्यतिरिक्तेषु राजवैरिषु योजयेत् | स्वदोषतो वा लोकानां रक्षार्थं वा तदा चरेत् || न तु लोभाद् भ्याद् वापि कुर्यान् मंत्री तु मारणं | प्रायश्चितं च कर्तव्यं देवि तद्दोषशांतये || अयुतं प्रजपेन् मन्त्रं जुहुयात् तावदेव हि | सघृतेः पायसैः कृष्ण तिलैर्वा घृतसंप्लुतैः || आत्मरक्षा प्रकर्तव्या कर्मकाले सदा वुधैः | अह्नश्चतुर्थ षष्ठांशः शरन्मारण कर्मणि || २५५अ) वश्यवन्मारणे कार्यं पूजाद्यं वह्नि मंडले | दक्षिणाभिमुखः कुर्याद् भद्रकालीं समर्चयेत् || दर्शयेत् खड्गमुद्रां च विशेद् भद्रासने हुनेत् | हुंकारा तेन मन्त्रेण माहिष वाथ लोहजं || आसनं सूकरी मुद्रा कर संकोचतो भवेत् | ध्यानं कुर्यात् कृष्णवर्णं कृष्णद्रव्यैश्च पूजनं || उग्रतीक्षणेषुधिष्ण्येषु स्वस्य चंद्रवलादिके | शत्रोश्चैतद्वलाभावे चैक पादोपरिस्थितः || उष्णोदकं समरिचं तर्पणार्थं तु मारणे | तिष्ठत् कुर्यान् मारणं वा भूमौ पादं निवेशयेन् || आमपादनिविष्ठः सन्चरेत् तत्र तु तर्पणं || प्रकीर्णान्यथ वक्ष्यंतेऽत्यभिचारांश्च तत्र च | दक्षिणाभिमुखः कुर्यान् मेषी चर्मणि संस्थितः || लोहासन गतो वापि सूकर्या मुद्रया हुनेत् | धनसिद्धिकरं कर्म पश्चिमाभिमुखश्चरे || मृगांत्य चित्रा मित्रेषु देवध्यानं तु राजसं | गोचर्मणासनं मोहे स्वाहातं मंत्रमुच्चरेत् || हरिद्रा मिश्रितं तोयं तर्पणार्थं प्रयोजपेत् | स्वाती च रोहिनी तत्र श्रेष्ठा चापि सुखासनं || अथ सर्वाणि कर्माणि रौद्रभे तु प्रसाधयेत् | नानाविधेषु कार्येषु व्याघ्रचर्म समीरितं || सर्वं रत्ननिभाकारं ध्यायेन्निश्चलमानसः | पीयूषवर्षसंयुक्तं पूर्णचंद्रसमप्रभं || ध्यायेदेवं विधं वापि सर्वकार्य प्रसाधने | आयुःकरं श्रवणे देवं ध्यायेच्च राजसं || अपमृत्यु जय प्रोक्तं पूर्वा चैवोत्तरा त्रयं | वषडंतो होममंत्रो ध्यायेद् राजस दैवतं || आकर्षणं वह्निकोणसंमुखस्तु समाचरेत् | वश्योक्तमखिलं ज्ञेयमाकर्षे कार्यसिद्धये || सर्वज्ञान प्रसिध्यर्थमीशानाभिमुखो भवेत् | सर्वविज्ञान कार्येषु श्वेतकंवलमासनं || पुष्पादि साधने मंत्रो वौषस्पल्लवसंयुतः | हंसी स्यातर्जनो मुक्ता मुद्रा होमे तु पौष्टिके || यथोक्तं देवता ध्यानं कुर्यात् पौष्टिक कर्मणि | सर्वत्र भयनाशाय वषडंतो हुतो मनुः || महाशोषसमायुक्तं ध्यानं वैरिभये भवेत् | २५५ब्) मंत्रभंजन कार्येषु वषडंतो हुतौ मनुः || खडने तु फडंतः स्याद्धोमो ध्यानं तु तामसं | सौख्यायोदङ्मुखः कुर्यार्जपं च रुरुवर्मणि || कल्पांताग्नि समं युद्धे ध्यायेद् देवं च तामसं | अथ वक्ष्यामिकान्पादौ संपूज्यायाश्च देवताः || नित्यं समर्चयेद् विघ्नं वारे शौच तिथीश्वरं | न क्षेत्रेशं ततः पूज्यास्तत् तत् कर्माधि देवताः || ततोर्चयेदिष्टदेवं ततो होमं समाचरेत् | क्रमाद्वारेश्वरौ सूर्य शिवौ सोमांविके तथा || गुहांगारौज्ञे विष्णुं च चतुर्वक्त्र वृहस्पती | शुक्रेदौश *? कालो च सूर्यादौ पूज्यताममूः || ब्रह्मा विधाता विष्णुश्च यमः शीतकरो गुहः | इन्द्रश्च वसवो नागा धर्मः शिवदिवाकरौ || कंदर्पश्च कलि विश्वे देव्यश्च पितर * *? | * * *? च यतो वह्निर्ब्रह्मा चंद्रः शिवोदिति || गुरुः सर्पाश्च पितरो भगोर्यम दिवाकरौ | त्वष्टा वायुरथेन्द्राग्नी द्वौ मित्रश्च सुरेश्वरः || निर्-ऋतिश्च जलं विश्वे देवाश्चापि विधिर्हरिः | वसवो वरुणोजैक पादोहिर्वुध्नमूषकौ || नक्षत्रेशा इमेशाभि जित्का अष्टौ च विंशतिः | प्रणवादि चतुर्थ्यन्ता नमसा च समन्विताः || एतेषां नाममन्त्रास्तु ग्राह्याः पूजादि साधने | सिद्धमन्त्रः प्रकुर्वीत काम्यकर्माणि नान्यथा || कृतानि विपरीतानि भूत्वानिरयमाप्नुयात् | गुरुभक्तः शुचिस्नातः काम्यकर्म विधानवित् || आत्मनश्च परस्यापि काम्यकर्माणि वा चरेत् | षट्कर्माणि परार्थे चेत् कुर्यात् मंत्र विदुत्तमः || एतेषांमेव कुर्वीत नान्येषां तु कदाचन | राज्ञो वा राजपुत्रस्य धनाढ्यस्येतरस्य वा || आस्तिकं स्याति भक्तस्य न्यायार्जित धनस्य च | कृतज्ञस्य वदान्यस्य गुरुदेवार्चकस्य च || सुशीलस्य सुभक्तस्य कार्यकुर्याच्च देशिकः | राजाकारपितान्यो वा साधकं प्रणिपत्य च || वृणुयात् कर्मकत्तारं दीक्षोक्त विधिना ततः | साधकः प्रयतो भूयात् सम्यक्तं तोषवान् शुचिः || जितेन्द्रियोजित क्रोधो मानक्षोभ विवर्जितः | नित्यनैमित्तिकरतः कुर्यात् काम्यान्यनेकधा || २५६अ) क्रूरकर्म यथोक्तं तु कृत्वाभ्यंगं समाचरेत् | स्नात्वा सावरणांसांगां पूजयेदिष्ट देवतां || अष्टोत्तर सहस्रं च रक्षार्थं प्रजपेन् मनूः | मां रक्षरक्षेत्युक्त्वा च नत्वा देवं समुत्सृजेत् || अन्यैः सुहृद्भिः सुस्निग्धैरात्म रक्षां तु कारयेत् | मृत्युंजयादिभिर्मन्त्रैः सूर्यसे वार्घ्य दानकैः || जपहोमार्चनाद्यैश्च ब्राह्मणाराधनादिभिः | प्रयोगकरणं सम्यग् गुरुतः शास्त्रतः तथा || ज्ञात्वा प्रयोगात् कुर्वीत नान्यथा दुःखमाप्नुयात् | ततः कारयिता राजा तोषयेत् साधकं धनैः || प्रणिपत्य मुहुश्चापि यथास्या तुष्टिमास्तथा | सिद्धमंत्रस्य सिध्यंति षट्कार्माणि न संशयः || नैव सिध्यंत्य सिद्धस्य देवताशाप माप्नुयात् || तथा || काम्य प्रयोगकाराणां परलोको न विद्यते | प्रयोगसिद्धिरेवैषां फलमन्यन्त विद्यते || एकस्य हि विधानस्य न कुत्रापि फलद्वयं | देवेशि दृश्यते यस्मान् निष्कामो देवतां भजेत् || तथा || होमतर्पण मन्त्राद्यै नानाध्यानि विशेषकैः | आत्मनश्च परस्यापि षट्कर्माणि समाचरेत् || एकलक्षं जपेन्मन्त्री ध्यान विन्यास योगतः | प्रयोग दोषशांत्यर्थमात्मरक्षार्थमेव च || न चेन्न फलमाप्नोति देवताशापमाप्नुयात् | अग्निप्रभा धूम्रवर्णधनिगंध शिखा कृतीः || दूत चेष्टादिकं ज्ञात्वा कथयीत शुभाशुभं | मंत्रतत्वानुसंधानं देहावेशादि लक्षणं || गुरुभक्तिः सदाकार्या कर्मकाले विशेषतः | ऐहिकामुष्मिकानां तु गुरुदेव परायणं || मारणोच्चाटनादीनि क्षुद्राणां वाममार्गिणां | क्षुद्रदेवाः साधयंति सुखं दातुं न ते क्षमाः || परनिष्टापराणां तु वामिनां परनाशतः | यावदिष्टं तावदेव न प्रतिष्ठा धनादिकं || दक्षिणात् पान कुर्वंति कदाचिदपि दुष्कृतं | अधिकारादि लाभार्थ यथा चारंति तथाहिते || तेषामतो वंशवृद्धिः परलोकश्च शाश्वतः || इति मेरुतन्त्रोक्त प्रकारः || ऋतुज्ञानं यथा तन्त्रान्तरे || सूर्योदयं समारभ्यघटिकादशतः क्रमात् ऋतवः स्युर्वसन्ताद्या अहोरात्रं दिने दिने || २५६ब्) वसन्त ग्रीष्म वर्षाख्य शरद्धे मन्तशैशिराः | हेमन्तः शान्तिक प्रोक्तो वसन्तो वश्य कर्मणि || शिशिरः स्तंभने ज्ञेयो विद्वेषे ग्रीष्म ईरितः | प्रावृदुच्चाटने ज्ञेया शरन्मारण कर्मणि || फेत्कारिणीतन्त्रे || संलिखेत् स्तंभनं कुम्भे हर्यक्षे वृश्चिकोदये | द्वेषोच्चाटादिकन्नक्र कुलीराज तुलोदये || यमकन्या धनुर्मीने वश्यशान्तिकपौष्टिकं | मारणं चाष्टमे राशौ रिपोश्छेदादि निग्रह || हर्व्यक्षः सिंहः न क्रोमकरः कुलीरः कर्कटः अजोमेषः यमो मिथुनः || तथा || वश्यादौ लेखनी दूर्वा कर्षणे शिखिपिच्छजा | विद्वेषोच्चाटनं काकपक्षण्य पिच मारणं || वश्ये चाकर्षणे स्तंभे रक्तवर्णम्विचिन्तयेत् | निर्विषीकरणे शान्तौ पुष्टौ चाप्यायनेसितं || पीतं स्तम्भन कार्येषु धूम्रमुच्चाटने स्मरेत् | उन्मादे शक्र गोपाभं कृष्णं मारणकर्मणि || सात्विकं मोक्षकामानां राजसं राज्यमिच्छतां | तामसं शत्रुनाशार्थं सर्वव्याधिनिवारणं || सर्वोपद्रवशान्त्यर्थं तामसन्तु विचिन्तयेत् || कुलप्रकाशतन्त्रे || श्वेतद्रव्यैर्यजेच्छात्त्यामारक्ते वश्य कर्मणि | स्तम्भने पीतवर्णेश्च धूम्रैर्विद्वेषणे यजेत् || उच्चाटने मारणे च कृष्णद्रव्यैः प्रपूजयेत् | आत्मानस्तादृशैरेव वस्त्राद्यै भूषयेत् तदा || रतिर्वाणी रमाज्येष्ठा दुर्गा काली यथा क्रमात् | षट्कर्म देवताः प्रोक्ताः कर्मादौताः प्रपूजयेत् || कात्यायनाभिचाने च दक्षिणा प्लवगामही | वसनं लोहितं प्रोक्तमुष्णीषं लोहितं स्मृतं || सौम्ये सुवर्ण दुर्द्वर्णं यज्ञसूत्रमुदाहृतं | स्तंभ विद्वेषयोः प्रोक्तं मार्जारान्त्र समुद्भवं || कूर्कुटान्त्रे समुद्भूतं यज्ञसूत्रं मनीषिभिः | उच्चाटने वकान्त्राणामुपवीतमुदाहृतं || उलूकान्त्र समुद्भूतं यज्ञसूत्रन्तु मारणे | वश्यशशाक्त्योहविष्यं स्यात् स्तंभने पायसं मतं || विद्वेषे माषमुंगाः स्युर्गोधूमा वायु दैवते | श्यामाकान्तंमसूरान्नं शाल्यजादुग्य पायसे || मारणे भक्ष्यमेतत् स्यादित्युक्तो भक्ष्यसंयमः | पद्मासनं स्वस्तिकं च विकटं कुक्कुटन् तथा || २५७अ) वज्रं भद्रकमित्यारासनानि मनीषिणः || लक्षणमुक्तं तन्त्रान्तरे || वामो रूपरिदक्षिणन्तु चरणं संस्थाप्य वामन्तथा याम्योरूपरि पश्चिमेन विधिना धृत्वा कराभ्यान् दृढं | अंगुष्टौ हृदये निधाय चिवुकं नासाग्रमालोकयेदेतद्व्याधि विद्यातकारियमिनां पद्मासनं प्रोच्यते || जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे | ऋजुकायस्समासीनः स्वस्तिकन्तदुदीरितं || एकपादमथै कस्मिन् विन्यस्योरुणि संस्थितः | इतरस्मिस्तथा चोरुं विकटासनमीरितं || पद्मासनन्तु संयोज्य जानूर्वोरेत्तरेकरौ | निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनं || मेढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि | गुल्फान्तरं च निःक्षिप्य वज्राअनमिहेरितं || गुल्फे च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् | पार्श्वपादौ च पाणिभ्यां दृढम्वध्वा सुनिश्चलः || भद्रासनं भवेदेतत् सर्वव्याधि विनाशनं | आसनाधार मधुना वक्ष्ये तन्त्रानुसारतः || सर्वसिद्धौ द्वीपि चर्म ज्ञानसिद्ध्यै मृगाजिनं | वस्त्रासनं रोगहरं वेत्रजं श्रीविवर्धनं || कौशेयं पौष्टिकं प्रोक्तं कम्वलं दुःखमोचनं | अभिचारे कृष्णवर्णं रक्तं वश्यादि कर्मसु || शान्तिके धवलं प्रोक्तं चित्रकं सर्वकर्मसु | स्तंभने गजचर्मस्यान् मारणे महिषन्तथा || मेषीचर्म तथोच्चाटे खड्गिजम्वश्य कर्मणि | विद्वेषे जाम्वुकं प्रोक्तं भवेंगो चर्मशान्तिके || वशीकरण कर्म स्याद् देवता यतने शुभे | शान्तिकर्म भवेंगेहे श्मशाने क्रूर कर्म च || अथवा सर्वकर्माणि भवेयुर्देवता गृहे | षण्मुद्राः क्रमतो ज्ञेयाः पद्मपाश गदान्कयाः || मुशला शनि खड्गाख्याः शान्तिकादिषु दर्शयेत् | हस्तौ तु संमुखौ कृत्वा सन्नतावुन्नतांगुलीः || तलान्तर्मिलितांगुष्ठौ मुद्रैषा पद्मसंज्ञिका | वामपुष्टिस्थ तर्जन्या दक्षमुष्टिस्थ तर्जनी || संयोज्यांगुष्ठकाग्राभ्यां तर्जन्यग्रे स्वके क्षिपेत् | एषा पाशा ह्वया मुद्रा विद्वद्भिः परिकीर्तिता || अन्योन्याभिमुखौ हस्तौ कृत्वा तु ग्रथितांगुली | २५७ब्) अंगुल्यौ मध्यमे भूयः संलग्ने सुप्रसारिते || गदामुद्रेयमाख्याता विष्णोस्सन्तोषवर्धिनी | मुष्टिं कृत्वा तु हस्ताभ्यां वामस्योपरिदक्षिणं || कुर्यान् मुशलमुद्रेयं सर्वविघ्नविनाशिनी | कनिष्ठांगुष्ठ संयोगा त्रिकोणा शनिसंज्ञिता || कनिष्ठा नामिके वध्वा स्वांगुष्ठे नैव दक्षतः | शिष्टांगुली च प्रसृते संसृष्टे खड्गमुद्रिका || चतुरस्रार्ध चन्द्रं च त्रिकोणं च षडस्रकं | वर्तुलं च पृथिव्यादि मण्डला कृतयः क्रमात् || पीतं श्वेतन्तथारक्तं कृष्णं धूम्रमिति क्रमात् | नाभौ स्मरेन्मण्डलन्तु वायोस्तद्वीज संयुतं || त्रिकोणं पिंगलम्वह्नि मण्डलं हृदि चिन्तयेत् | चतुरस्रंगलेपीतं पृथिवी मण्डलं स्मरेत् || अर्धचन्द्रं ललाटे तु श्वेतपद्म दयांकितं | मस्तके धूम्रवर्णाभं वर्तुल व्योममण्डलं || स्वस्ववीज युतेष्वेषु चैतन्यं परिचिन्तयेत् | जलं शान्ति विधौ स्तंभ वश्य वह्निरुदाहृतं || स्तंभने पृथिवीशस्ता विद्धेषे व्योम कीर्तितं | उच्चाटनेम्मृतो वायुर्भूयोग्निर्मारणे मतः || तत् तद्भयोदये सम्यक् तत् तन्मण्डलसंयुतं | तत् तत्कर्म विधातव्यं मन्त्रिणा निशितात्मना || दण्डाकारा गतिर्भूमेः पुटयोरुभयोरधः | तोयस्य पावकस्योर्ध्वं गतिस्तिर्यग्नभस्वतः || गतिर्व्योम्नो भवेन् मध्ये भूतानामुदयः स्मृतः | धरणे रुदये कुर्यात् स्तंभन वश्यमानिले || शान्तिकं पौष्टिकं कर्म तोयस्य समये वसोः | मारणादीनि मरुतो विपक्षोच्चाटनादिकं || क्षेडादि नाशनं शस्तमुदये च विहायसः | धरादि पंचभूतानां निवृत्याद्याः कलाः स्मृताः || निवृत्तिः स्वप्रतिष्ठास्याद्विधा शान्तिरनन्तरं | शान्त्यतीतेतिताज्ञेयास्संपूज्यास्तत्र तत्रताः || मन्त्रान्ते योजनं नाम्नः पल्लवः स तु कथ्यते | मारणे विषसंहारे ग्रहभूत विनिग्रहे || उच्चाटने च विद्धेषे पल्लवस्तु प्रशस्यते | नामान्ते मन्त्रसंस्थानं योग इत्यभिधीयते || शान्तिके पौष्टिके वश्ये प्रायश्चित्ते विशोधने | मोहने दीपने योगं प्रयुंजंन्ति मनीषिणः || २५८अ) स्तंभनोच्चाटनोच्छेद विद्धेषेषु स चोच्यते | नाम्न आद्यन्त मध्येषु मन्त्रः स्याद्रोध इष्यते || मन्त्राभिमुखकरणे सर्वव्याधि निवारणे | ज्वरग्रहविषार्द्यार्ति शान्तिकेरोध उच्यते || सम्मोहने स एवाथ मन्त्रनामाक्षराणि च | एकैकान्तरितं यन्तु ग्रथनन् तत्प्रकीर्तयेत् || तच्छान्तिके विधातव्यं नामाद्येन्ते यदामनुः | तत्संपुटं भवेत् ततु कीलने परिभाषितं || स्तंभे मृत्युंजये दिव्ये रक्षादिव्येव संपुटः | मन्त्राक्षराभ्यामेकैकं साध्यनामाक्षरं क्रमात् || कथ्यते स विदर्भ्यस्तु वश्याकर्षण पौष्टिके | वर्श्याकर्षण सन्ताप ज्वरे स्वाहां प्रयोजयेत् || क्रोधोपशमने शान्तौ प्रीतौ योज्यं नमो वुधैः | वौषट् सम्मोहनोद्दीप पुष्टि मृत्युंजयेषु च || हुंकारं प्रीतिनाशे च छेदने मारणे तथा | उच्चाटने च विद्धेषे वौषट् चान्धी कृतौ वषट् || दण्डोद्दीपन कार्ये च लाभालाभे वषट् स्मृतं | मन्त्रविद्या विभागेन द्विविधा मन्त्रजातयः || मन्त्राः पुन्दैवता ज्ञेया विद्याः स्त्रीदेवताः पुनः | स्त्रीपुन्नपुंसकान्मानो मन्त्रास्सर्वे समीरिताः || पुंमन्त्रा हुं फटन्ताः स्युर्द्विठान्तास्तु स्त्रियो मताः | नपुंसका नमोन्ताः स्युर्विभक्ता मनवस्त्रिधा || शस्तास्ते त्रिविधा मन्त्रा वश्यशाक्त्वाभिचारिके | अग्नीषोमात्मका मन्त्रा विज्ञेया क्रूरसौम्ययोः || कर्मणोर्वह्नितारान्ते वियत् प्रायास्ममीरिताः | आग्नेया मनवः सौम्या भूयिष्टेन्दु मृताक्षराः || आग्नेयाः संप्रवुध्यन्ते प्राणे चरति दक्षिणे | भागेन्यस्मिन् स्थिते प्राणे सौम्या वोधं प्रयांति च || नाडी द्वय गते प्राणे सर्ववोधं प्रयांति च | प्रपच्छन्ति फलं सर्वे प्रवुद्धा मन्त्रिणां सदा || शीतांशु सलिल क्षौणी व्योमवायु हविर्भुजां | वर्णाः स्युर्मन्त्र वीजानि षट्कर्मसु यथाक्रमं || मन्त्रदेवता प्रकासिकायान्तु || वश्याकर्षण सन्तापे होमे स्वाहान् प्रयोजयेत् | क्रोधोपशमने शान्तौ पूजने च नमो वदेत् || वौषट् संमोहनोद्वीप पुष्टि मृत्युजयेषु च | हुंकारं प्रीतिनाशे च छेदने मारणे तथा || उच्चाटने च विद्वेषे तथा विधै कृतौ तु फट् | २५८ब्) विघ्नग्रहविनाशेन च हुं फट्कारं प्रयोजयेत् || मन्त्रोद्दीपन कार्ये च लाभालाभौ वषट् स्मृतं | एवं कर्मानुरूपेन तन्त्रन्मन्त्रं प्रयोजयेत् || शंभु नित्यातन्त्रे || ग्रथितादि प्रभेदश्च मन्त्राणां वक्षेतेधुना | ग्रथितं संपुटं ग्रस्तं समस्तं च विदर्भितं || तथा चाक्रान्तमाद्यन्तं गर्भस्थं सर्वतो वृतं | तथा युक्ति विदर्भं च विदर्भ ग्रथितं तथा || इत्येकादशधा मंत्राः प्रयुक्ता कार्यसिद्धिदाः | साध्यनामार्णमेकैकं मन्त्रार्णे संप्रयोजितं || ग्रथितं तत्समाख्यातं वश्या कृष्टिकरपरं | मन्त्रमादौ वदेत् सर्वं साध्य संज्ञामनन्तरं || विपरितं पुनश्चान्ते मन्त्रं तत्संपुटं स्मृतं | शान्तिपुष्टिकरं ज्ञेयं त्रैलोक्यैश्वर्य दायकं || अर्धमर्धन्तथाद्यन्ते मन्त्रं कुर्याद् विचक्षणः | मध्यान्तस्य भवेत् साध्यं ग्रस्तमित्यभिधीयते || अभिचारेषु सर्वेषु योजयेन् मारणेषु च | अभिधानं वदेत् पूर्वं पश्चान्मन्त्रं तथा भवेत् || एतत् समस्तमित्युक्तं शत्रुच्चाटनकारकं | द्वौ द्वौ मन्त्राक्षरौ यत्र एकैकं साध्यवर्णकं || विदर्भितं तु तत्प्रोक्तं दुष्टघ्नं वश्यरक्षणं | मन्त्रेनांतरितं साध्यं समत्ना तिष्ठते यदि || आक्रान्तन्तद्विजानीयात् सद्यः सर्वार्थसिद्धिदं | गर्भस्थं तु समानेन स वश्योच्चाटन कर्मसु || सकृत्पुर्वं वदेन्मन्त्र मन्त्र चैव तथा पुनः | मध्ये चास्य भवेत् साध्य माद्यन्तमिति तद्विदुः || अन्योन्य प्रीति युक्तानां विद्वेषण करं परं | आदौ चान्ते तथा मन्त्रं द्विवारं संप्रयोजयेत् || साध्यनाम सकृन्मध्ये गर्भस्तन्तु तदुच्यते | मारणोच्चाटणं वश्य प्रयुक्त कारयेन् नृणां || हेतिनौ सैन्यधी गर्भस्तंभने च गतेस्तथा | त्रिधामन्त्रं वदेत् सर्वं तथैवान्ते पुनस्त्रिधा || सकृत् साध्ये भवेन् मध्यं तद्विद्यात् सर्वतो वृतं | सर्वोपसर्ग शमनं महामृत्यु निवारणं || सर्वसौभाग्यजननं मृतानाम मृतं परं | आदौ मन्त्र ततो नाम पुनर्मन्त्रं समालिखेत् || २५९अ) एवमेव त्रिधा कृत्वा भवेद् युक्ति विदर्भितं | सर्वव्याधि हरं प्रोक्तं भूतापस्मारमर्दनं || एकैकं साध्यवर्णन्तु कृत्वा मन्त्रविदर्भितं | पूर्ववत् कथितं चान्यं तस्याद्यन्ते प्रकल्पयेत् || विदर्भ ग्रथितं नाम मन्त्रलक्षणमुत्तमं | सर्वकर्मकरं प्रोक्तं सर्वैश्वर्य फलप्रदं || एवमेव प्रयोगाश्च सिद्धमन्त्रस्य सिद्धिदाः | संप्रदायात् सुसिद्धश्च गुरुतः सिद्ध एव वा || स्वसिद्धश्चेति सर्वेपि मन्त्रास्युस्त्रिविधामता || तथा || जपं स्यादक्षरावृत्तिस्तस्य भेदान् प्रभेदतः | यदुच्च नीच स्वरितैः शब्दैः स्पष्ट पदाक्षरैः || मनुमुच्चारयेद्वाचा स उक्तो वाचिको जपः | शनैरुच्चारयेन्मन्त्रमीषदोष्टौ प्रचालयेत् || किंचिछ्रवणयोग्यः स्यादुपांशुस्स जपः स्मृतः | जिह्वा जपः स विज्ञेयः केवलं जिह्वया वुधैः || धियायदुच्चरेन्मन्त्रं स उक्तो मानसो जपः | उच्चैर्जपाद्विशिष्टं स्यादुपांशुर्दशभिर्गुणै || जिह्वा जपः शतगुणः सहस्रो मानसो जपः | मानसस्सिद्धि कामैस्तु पुष्टिकामैरुपांशुकः || वाचिको मारणे चैव प्रशस्तो जप ईरितः || तथा || प्रणवाद्या मुक्तिकरी श्रीवीजाद्या धनागमे | हृल्लेखाद्या महासिद्धिकरी सर्ववशंकरी || वाग्भवाद्या वरेद्विद्यां कामाद्याजनवंचनी || रुद्रयामले || ऊर्ध्व दृष्टिर्जपेच्छान्तावधो दृष्टिस्तु मोहने | समदृष्टिः स्तंभने च पार्श्वतो दर्शन क्रमात् || विरोधे च समुच्चाटे मारणे सूर्यदर्शनः | विद्यार्थं जलमध्यस्थो भानुमण्डल दर्शनात् || भ्रूमध्य दर्शनाद् देवि मोक्ष शान्तौ शुभेखिले | नासाग्र दर्शतो देवि सर्वत्र शुभकर्मणि || मेरुतन्त्रे || नित्यं जपं करे कुर्यान् न प्रयोगे कदाचन | प्रयोगे विहिता माला तत् तत्कर्मानुरूपतः || तन्त्रशेखरे || वश्ये पद्माक्षमालास्याच्छान्तौ शंखमयी भवेत् | निम्वारिष्ठात्मिका स्तंभे द्वेषणे प्रेत दन्तजा || अश्वदन्तोद्भवोच्चाटे मारणे खरदन्तजा || तन्त्रे || रुद्राक्षैर्विहितामाला सर्वकाम प्रसाधिनी | २५९ब्) निर्मिता शंखमणिभिर्द्धन कीर्ति च यच्छति || पद्माक्षापुष्टि लक्ष्मीदा शत्रुनाशकरी सदा | पुत्रं जीव भवा पुत्र पशुधान्य समृद्धिदा || मुक्ताभीरचिता?माला सौभाग्यं विपुलां श्रियं | मन्त्रयत् पक्षता सिद्धिं शान्तिकं चाथ पौष्टिकं || मुक्तिं च तनुते तद्वत् फाटिक्यप्यक्षमालिका | सारस्वते पद्मरागा पुष्कले च धने तथा || सौवर्णी राजती माला सर्वान् कामान् प्रयच्छति | सारस्वते प्रवालोत्था वश्येधिक धनागमे || पापक्षयकरी कौशी रुद्राक्षादि कुशान्तकैः | सर्वैरेभिर्विरचिता माला स्यात् मुक्तये नृणां || उच्चाटने श्वदन्तानां माला प्रोक्ताश्च वालकैः | खरदन्तैरधो दन्तैर्मनुष्यस्नायुतन्तुना || ग्रथिता निर्मिता माला शत्रुणां नाशिनी मता | प्रेतदन्तैरधो भूतैः कर्तव्या जपमालिका || साध्यदेह भवैः केशैः प्रोतव्या द्वेषकर्मणि | शतम्वाथ तदर्धम्वा सर्वसाधारणे जपे || पंचाशद्भिः काम्यकर्म सिद्धिः स्याच्चतुरुत्तरैः | अष्टोत्तरशतैस्सर्वसिद्धिरुक्ता कृतस्रजा || मोक्षार्थी पंचविंशत्या पंचदश्यांभिचारके | मध्यमांगुष्ठकाभ्यान्तु जपेदाकर्षणन्वहं || अंगुष्ठ तर्जनीभ्यान्तु विद्वेषोच्चाटयोर्जपात् | जपे ज्येष्ठ कनिष्ठाभ्यां शत्रुमारण कर्मणि || अंगुष्ठानामिकाभ्यान्तु जपेदन्येषु कर्मसु | सूत्रं संपादयेद्विद्वान्मालाग्रह न हेतवे || सितरक्तपीतमिश्र कृष्णधूम्राः प्रकीर्तिताः | वर्णतो मन्त्रतः प्रोक्ता देवताः षट्सु कर्मसु || क्वचित् कल्प विशेषेण प्रयोगे ध्यानमीरितं | तत्सर्वं सम्यमालोच्य प्रयोगविधिमाचरेत् || आकर्षणम्वश्यवत् स्याच्छुभं शान्तिवदीरितं | उग्रं मारण वज्ञेयं कर्म सर्वत्र साधकैः || होमप्रयोगे कुण्डानि तत् तत्कर्मानुरूपतः | दर्शितानि वुधैस्सम्यगीर्यन्ते विधिवन्मया || सर्वसिद्धिकरं कुण्डं चतुरस्रमुदाहृतं | पुत्रप्रदं योनिकुण्डमर्धेन्द्वाभं शुभ प्रदं || शत्रु क्षयकरं त्र्यस्रं वर्तुलं शान्तिकर्मणि | छेदमारणयोः कुण्डं षडस्रं पद्मसंनिभं || वृष्टिदं रोगशमनं कुण्डमष्टा समीरितं | २६०अ) कुण्डभेदफलं प्राहुरन्येव मुनयोन्यथा || ऐन्द्र्यां स्तंभे चतुष्कोणमग्नौ भोगे भगाकृति | चन्द्रार्धं मारणे याम्ये त्र्यस्रं द्वेषे तु नै-ऋते || वारुण्यां शान्तिके वृत्तं षडस्मुच्चाटने निले | उदीच्यां पौष्टिके पक्षं रौद्र्यामष्टाम्रि मुक्तिदं || पंचाम्रि कुण्डम्वां यव्यां भूतादि ग्रहनिग्रहे | अभिचारेपि शान्त्यर्थमीशे सप्तास्रि विन्यसेत् || शुक्लमृत्सा च या भूमि ब्राह्मी सा परिकीर्तिता | क्षत्रिया रक्तमृत्सा च हरिद्वैश्यापि कीर्तिता || कृष्णवर्णा तथा शूद्रा भूमिरुक्ता मनीषिभिः | ब्राह्मी सर्वार्थ सिद्धिः स्यात् क्षत्रिया राज्यदा मता || धनधान्यकरी वैश्या शूद्रा तु निन्दिता वुधैः | कुण्डमध्ये त्रिकोणान्तष्कर्णिकायां लिखेद्वुधः || शक्तिवीजं च पतितस्तत् तद्भूतार्णमालिखेत् | मूलमन्त्रस्य वर्णेन ग्रथितम्वा विदर्भितं || संपुटम्वा तथा मन्त्री तत् तत्कर्मानुरूपतः | साध्यनामाक्षरं मन्त्री लिखेन्नियतमानसः || अग्रैर्जिह्वास्तथा प्रोक्ता गुणभेदेन कर्मसु | हिरण्या गगनारक्ता कृष्णान्या स्वप्रभा मता || वहुरूपाति रक्ता च सात्विक्यः शुभकर्मसु | पद्मरागा सुवर्णान्या तृतीया भद्रलोहिता || रोहिता च ततः श्वेता धूमिनी च करालिका | राजस्यो रसना वह्नेर्विहिता वश्य कर्मसु || विश्वमूर्ति स्फुलिंगिन्यो धूम्रवर्ण मनोजवा | लोहिता च करालाख्या कालीतामस्य इरिताः || एतास्सप्तनियुज्यन्ते क्रूरकर्म सुमन्त्रिभिः | अष्टाभिराज्याहुतिभिः प्रणवेण पृथक् पृथक् || गर्भाधानं पुंसवनं सीमन्तोन्नयनन्तथा | अनन्तरं जात कर्म स्यान्नाम करणन्तथा || वहिर्निःक्रमणं पश्चादन्नप्राशनमीरितं | चूडोपनयने भूयो महानाम्यं महाव्रतं || ततोपनिषद पश्चांगो दानो द्वाहकौ मृतिः | शुभेष्वस्तुर्विहान्ताः क्रियास्ताः क्रूरकर्मसु || मारणान्तास्समुद्दिष्टा वह्ने रागमवेदिभिः | प्रोक्षण्यादीनि पात्राणि स्वर्णरूप्य मयानि च || ताम्राणि शान्तिकादौ च द्वेषाश्मोच्चाटनादिषु | २६०ब्) वहुवारकारक्ष शोभांजनान्यतमकानि तु || श्रोत्रादि कल्पना वह्नेराख्याता तन्त्र वेदिभिः | मुखं मध्ये शिरो दक्षे पादावुत्तरदिग्गतौ || इन्द्रेशयोम्मुखं शान्तौ दिश्यग्नेः काम्यकर्मणि | रक्षसा मारणे वायोराकर्षेन्यत्र मध्यतः || रुद्रयामले || होमे मुद्रा त्रयं प्रोक्तं मृगीहंसी च शूकरी | शूकरी करीकरसंष्मवी मृगी मुक्त कनिष्टिका || हंसी स्यात् तर्जनी मुक्ता त्रिधा मुद्रा प्रकीर्तिता | शान्तिके पौष्टिके चैव मारणोच्चाटने तथा || विद्वेषे स्तम्भने चैव वश्ये च परमेश्वरि | शान्तिके च मृगी ज्ञेया हंसी पौष्टिक कर्मणि || अभिचारे शूकरी स्याद् विद्वेषोच्चाटनादिषु || होमांग निरूपणे || न देवाः प्रतिगृह्नन्ति मुद्रा हीना तथाहुतिं | मुद्राहीनन्तु यो मोहाद्धोतुमिच्छति मन्दधीः || यजमानन् तथात्मानं पातयेत्येव निश्चितं | होमश्चाग्नि स्थितिं विज्ञाय कर्तव्यः || अथ वक्ष्ये महादेवि होमकर्म सुसिद्धिदं | अग्निचक्रं वरारोहे सर्वचक्रेषु गोपितं || नवग्रह मयो वह्निस्ते च वह्नि मया ग्रहाः | अतस्तेषां स्थितिं ज्ञात्वा वह्नौ होमं समाचरेत् || शान्तिके पौष्टिके वृद्धौ क्रूरेष्वपि च कर्मसु | तेषां स्थिति क्रमं वक्षे नक्षेत्रेषु यथाविधि || सूर्यो बुधो भृगुश्चैव शनिश्चन्द्रो महीसुता | जीवो राहुश्च केतुश्च नवैते देवि खेचराः || त्रीणि त्रीणि च ऋक्षाणि रविभादीनि दापयेत् | सूर्याभाच्चद्रभं यावं गणयेच्च महेश्वरि || सूर्यादीनां फलन्देवि शृणु वक्ष्ये यथा क्रमं | आदित्ये तु भवेच्छोको बुधे चैव धनागमः || शुक्ले लाभं विजानीयाच्छनौ पीडा न संशयः | चन्द्रे लाभो महादेवि भौमे चैव तु वन्धनं || गुरुणा च धनाप्राप्ती राहौ हानिस्तथैव च | केतुना जायते मृत्युः फलमेवं महेश्वरि || एवं ज्ञात्वा महेशानि होमकर्म समाचरेत् | सौम्यग्रह मुखे यस्मिन् दिने विशति चाहुतिः || आरंभः सौम्य होमस्य दिने तस्मिन् विधीयते | क्रूरहोमस्तथा देवि क्रूरग्रहमुखे भवेत् || २६१अ) इति ज्ञात्वा महेशानि काम्य होमं समाचरेत् | अन्यथा त्रियमाणे तु नैष्फल्यं चात्मनाशनं || मेरुतन्त्रे || ग्रहश्चिनोति तच्छ्रेयो यथा नाद्योन्तजं रसं | निर्दोषा तु यथा नाडी वहेदत्नरसंलघु || देवयोश्यो ग्रहस्तद्वच्छ्रेयोशंवहते सुरे | सुर्यभा त्रिषुभेष्वर्क नाड्यां श्रेयोभिवर्धते || पोषयेद् वैदिकान् मन्त्रा नितरान्हंति वामवत् | ततस्त्रिभीषु सौम्यस्य नाडी वुद्धि विलासकृत् || तस्मात् त्रिषुसि तस्यापि वामिनामति पुष्टिदा | ततस्त्रिषुशनः सर्वं नाशयेन् मन्त्र संचयं || चन्द्रस्य सर्वमन्त्राणां पुष्टिकर्त्रि ततस्त्रिषु | ततः सत्रिष्ष्वारनाडी पलेन्यत्र विनाशकृत् || तस्मान्त्रिषु गुरोर्नाडी सत्वरं मन्त्र सिद्धिदा | राहुनाडीधिषु ततो न सत्यैशाचकेतरे || त्रिष्वतः केतु नाडी तु सद्भूत देवमन्त्र हृत् || गणेश विमर्षिण्यान्तु विशेषान्तरमुक्त | नवकोष्टं समालिख्याप्यै शनैर्-ऋतयोः क्रमात् || वारुण्यैन्द्र्योर्वायु वन्द्यो दक्षिणोत्तरयोर्न्यसेत् | सूर्यादीन् मध्यकोष्ठे तु केतुं न्यस्य फलन्दिशेत् || आदित्ये च भवेच्छोको वुधे धन समागमः | शुक्रे स्थानेऽर्थलाभः स्याच्छनिहानिकरो भवेत् || चन्द्रे लाभ विजानीयाद् भौमे च वधवन्धनं | गुरस्यादर्थलाभाय राहुर्हानि करो मतः || केतुना मृत्युमाप्नोति ह्यग्नि चक्रे स देव हि | त्रयन्त्रयं च गणयेत् सूर्यर्क्ष्यादि न भावधि || कुण्डे च स्थण्डिले चैव होतव्यन्देशिकोत्तमैः | नित्ये नैमित्तिके दुर्गा होमादौ न विचारयेत् || ब्रह्मयामले || अथ वह्नेः स्थितिम्वक्ष्ये होमकर्म सुसिद्धये | स्वर्गलोके च पाताले भूमौ तिष्ठति हव्यवात् || तत्प्रकारमहम्वक्ष्ये साधकानां हिताय च | धृतिं च तिथिवारांश्च सप्तद्वीपं चतुर्गुणं || एकीकृत्य हरेद्भागेन्त्रिभिः शेषेण पावकः | एकेन वसति स्वर्गे द्वयं पाताल एव च || शून्ये च मर्त्यलोके स्यादेवं वसति पावकः | उत्पातः स्वर्गलोकस्थे पातालस्थे धनक्षयः || २६१ब्) मर्त्यलोके स्थितौ वह्नौ होमेऽभीष्ट फलप्रदः | इत्थम्विज्ञाय मन्त्रज्ञो होमकर्म समाचरेत् || मेरुतन्त्रे || तिथिवासरसंयोगात् कृत शेषाद् हुतासनः | खे खे कौकुतले नेत्रे प्रत्यक्षोग्नौ स्वरूपकः || मारयेत् साधकं स्वस्थो हरते भूतले धनं | प्रत्यक्षोग्निः फलं दन्ते शुभमेव स्वरूपगः || तन्त्रान्तरे || सौवर्णो स्रुक्स्रुवौ स्यातां सौम्यकर्मणि सर्वतः | भवेतामायसावेतौ स्तंभनादि कर्मसु || लौकिकाग्रौ शान्तिकं स्याद् वश्यं लौकिक पावके | स्तंभनाख्यं भवेत् कर्म वटजे जातवेदसि || विद्वेषोक्षशुचौ ज्ञेयः श्मशानोषर्वुधे स्मृते | उच्चाटमारणे प्रोक्ताः षट्कर्म ज्वलना इमे || वश्येदादिम पुष्पाणि शान्तौ स्युर्दूर्वया सह | समिधो गोघृतस्नाताः स्तंभने राजवृक्षजाः || मेषी घृतेन संयुक्ता द्वेषेक्षतरुजामताः | उच्चाटने रसालोत्थाः कटुतैलेन संयुताः || मारणे खादिरा प्रोक्ताः कटुतैलेन संयुताः | होमद्रव्यमिदं प्रोक्तं षट्सुकर्म सुमन्त्रिभिः || तथा || घृतहोमे धनावाप्तिस्सिद्धार्थेः कीर्तिरुत्तमा | किंशुकैस्सर्वकामाप्तिः फलहोमे सुखं भवेत् || गुडेन प्रियक्ता चम्पकैः पाटलैरमापुत्र होमस्तुता वाप्तिः करवीरैः स्त्रियोवशाः || आयुष्करी भवेद् दूर्वा गुडुची रोगशान्तिदा | तिला अभि तथा प्रोक्ताः सौभाग्यं गन्धहोमतः || श्रीपलैर्विल्वपत्रैश्च तथा जलरुहैरपि | राज्यभ्रष्टस्य राज्याप्तिर्मल्लिका कीर्तिदा मता || कर्णिकारैः किंशुकैश्च भवेयुर्विवुधावशाः | काशमर्दैर्नृपावश्याः कृतमालैर्विशोवशाः || शूद्रास्सूः पाटलैर्वश्या नीलपद्मैर्द्भवेद्रुजा | जाती पुष्पैर्भवेद्वाशी मधुरैरिष्ट संपदः || अश्वत्थो दुम्वरप्लक्ष समिद्भिर्वाश्छिताप्तये | इष्टद्रव्यैर्भवेदिष्टं यवैश्च व्रीहिभिस्तथा || माषे रिपूणां मूकत्वं कोद्रवैर्व्याधि संभवः | कलाय होमतोऽरीणां भीतिः स्यान्महती ध्रुवं || विभीतक समिद्भिः स्यादुन्मन्तं द्विषतांकुलं | शाल्मले समिधा शत्रोः पक्षान्नाशो भवेद् ध्रुवं || २६२अ) फेत्कारिणीतन्त्रे || अथ द्रव्याणि वक्ष्यामि तत् तत्कर्मारुरूपतः | शान्तिके तु पयः सर्पिस्तिलक्षीरद्रुमेधिकाः || अमृताख्या लता चैव पायसन् तत्र कीर्तितं | पौष्टिके विल्वपत्रैश्च जाती पुष्पैर्नृपो भवेत् || कन्यार्थीकु जुहुयाल्लाजै श्रीकामः कमलैस्तथा | दध्ना च श्रियमाप्नोति अन्नैरन्नं घृतप्लुतैः || क्षीरेण सर्पिषा वापि कमलैर्मधुराप्लुतैः | समृद्ध्यै जुहुयान् मन्त्री महानैर्धन्य शान्तये || लक्षहोमाल्लभेच्छान्तिं घृतैर्विल्वतिलैर्निधिं | आकर्षणे तु लवणं प्रियंगुम्विल्वकं फलं || जातीपलाश कुसुमैस्सर्वैरेकैकमेव वा | राजीलवणकैर्वश्यं वश्यम्वा पौष्टिकेदिते || वश्यार्थी जाती कुसुमैराकृष्टौ करवीजैः | कर्पास वीजैषुक्राक्तैर्नरकेशैस्तथापि वा || एकीकृत्य हुनेन्मंत्री शत्रुमारण कांक्षया | जुहुयात् सार्षपैस्तैलैरथवा शत्रुमारणे || रोहीवीजैस्तिलोपेतैरुच्छादै जुहुयान्नरः | तुष्ट कण्ठक संयुक्तैर्वीजैष्कार्पासिकैरपि || सर्षपैस्तिलसंमिश्रै हुनेत् सर्वाभिचारके | काकोलूकच्छदैक्रूरैः कारस्करविभीतकैः || मरीचैस्सर्षपैः शुद्धै रक्तक्षीरैः कटुत्रयैः | कटुतैलैः स्तुहीक्षीरैः कुर्यान्मारण कर्मणि || शत्रुनाशकरं होमे अग्नष्कर्णादौ होमाच्छेत्रीः कर्णादि नाशः || तदुक्तं || वह्नेः शिरसि नासायां श्रोत्रेष्वक्षिषु वा तथा | जुहुयाच्चेत् तदाक्षिप्रं तत् तदंगानि नाशयेत् || अग्नेष्कर्णादि लक्षणन्तु पूर्वमेवोक्तं || तथा || आयुः कामो घृत तिलैर्दुर्वाभिश्चाम्र पल्लवैः | पयोक्तेराम्रपत्रैश्च ज्वरं सद्यो विनाशयेत् || गुडुची मृत्यु जयने तथा शान्तौ गताश्वयोः | गौरैस्तु सर्षपैर्हुत्वा सद्योरोग हरेज्ज्वरी || वृष्टि कामो चेतसीभिस्समिद्भिप्यत्रकैस्तथा | हुत्वा पुष्टिमवाप्नोति पुत्रं जीवैस्तु पुत्रकं || घृतगुग्गुलु होमेन वाक्यति त्वं प्रजायते | मल्लिका जाति कुसुमैर्न्नाग पुन्नाग संभवैः || पुष्पैस्सरस्वती सिद्धिस्तथा सर्वार्थसाधनं | २६२ब्) पयसा लवणैर्वापि हुनैद्वृष्टि निवारणे || रक्तपुष्पैरपामार्ग्गैरं कोलैश्च सुभद्रकैः | एभिर्मधुरसंयुक्तैर्मन्त्री कुर्या तु वश्यकं || वातोद्धूतैः शुष्कपत्रैः काष्ठैर शनिपातितैः | उष्ट्रास्थिनाववांगारैः शत्रोरुच्चाटनं भवेत् || दूर्वा गुडूची गव्येन सर्पिषा तिलतण्डुलैः | अन्नैस्समिद्भिः पालाशैः शान्तिं कुर्याद् विचक्षणः || तन्त्रान्तरे || सौम्यकर्मणि संप्रोक्ता हरिद्राजलसंयुता | उष्णोदकं स मारीचं मारणस्तंभयोर्भवेत् || द्वेषोच्चाटनयोः प्रोक्तं जलं मेषा सृजायुतं | तर्पणं द्रव्यमाख्यातमिदमागम पारगैः || सौम्यकर्मणि तन्त्रेज्ञः सुखासीनः प्रतर्पयेत् | जानुभ्यामवनीं गत्वा तर्पणं स्तंभने भवेत् || द्वेषादावेक वरणस्तर्पयेत् साधकाग्रणी | वश्यशान्त्योः स्वर्णपात्रं मृत्पात्रं स्तंभने मतं || द्विद्वेषे खादिरं पात्रमुच्चाटे लोहनिर्मितं | मारणे कुर्कुटाण्डं स्यात् पात्राणी मानि तर्पणे || इति प्रयोगाः || अथान्यथा काम्यविधिः || तत्र प्रथमं षट्कर्म साधनं कवचं || श्रीकालिकायै नमः || परापर परेशान महादेव जगत्पते | स्वत्(?) प्रासादात् श्रुतं सर्वं कालिका पूजनं महत् || न्यासजालं मन्त्रघा?लं प्रयोगं शवसाधनं | प्राणेश किन्तु कवचं सूचितं न कथं त्वया || तत् किं मययपि गोप्यन्ते प्रायशः परमेश्वरः | ब्रह्माण्डगोलके किंचिदीदृशं न हि विद्यते || यद कथ्यमपि भवेदपि प्राणाधिकाधिकं | तत् किं गोपयसि प्राज्ञ कवचं दैवतं महत् || यद्यस्मिते दया पात्रं मान्यास्मि स्नेहभाजनं | अनुग्राह्यास्मिकान्तास्मि तदेवं वद सांप्रतं || श्रीसदाशिव उवाच || अतिगुप्ततमं वच्मि कवचं प्राणवल्लभे | यत्र कस्य चिदाख्यातं स्नेहाद् वक्ष्यामि ते शृणु || त्रिपुरासुरसंग्रामे वद्ध्वा कवचमुत्तमं | पुराणि त्रीणि दैत्यानां शरेनैकेन भेदितः || नारायणोपि भगवान् यत् प्रसादात् सुरेश्वरि | त्रैलोक्य पूज्यतां प्राप्य लक्ष्मीपतिरभूत् स्वयं || द्वाविंशत् कवचं देवि दक्षिणायाः पुरोदितं | २६३अ) प्राणाधिकमिति ज्ञात्वा मयात्वययपि गोपितं || शपेत्वत् शिरसा देवि त्वयि यद्यन्यथा व्रुवे | न कोपि भविता कश्चित् तत् तुल्यः पृथिवीतले || सर्वसिद्धिमवाप्नोति सुराणामपि दुर्लभां | कस्याप्यग्रे महादेवि न प्रकाश्यं कथंचन || प्रकाशात् सिद्धि हानिःस्याद् देवताशाप माप्नुयात् | श्रीमद्गुप्ततमस्यास्य त्रिपुरारि ऋषिः शिवे || छन्दस्तु बृहती ख्यातो देवी दक्षिण कालिका | षट्कर्म साधनैश्वर्य साधने विनियोगिता || श्मशान कालिका पातु शिरो मे प्रेतगामिनी | महाकाली ललाटं मे क्रीं क्रीं क्रीं कालविग्रहा || हुं हुं क्रोधकाली मे नेत्रयुग्मं सदावतु | ह्रीं ह्रीं कर्णयुगं पायान्नाद कालीकरालिनी || दक्षिणे कालिके पातु गण्डयुग्मं महोत्कटा | क्रीं क्रीं क्रीं मे कामकली कण्ठदेशं सदावतु || हूं हूं प्रलयकाली मे स्तनयुग्मं सदावतु | ह्रीं ह्रीं घोरतरा काली पातु दोर्दण्ड युग्मकं || स्वाहा रक्षतु कुक्षि मे रौद्रकाली स्वरूपिनी | सदा रक्षतु ख्फ्रें फ्रें मे पृष्ठं श्री चण्डकालिका || हसखफ्रें सदापातु कटिकां तारकालिका | ऐं क्रीं क्लीं सदा गुह्यं पातु उन्मत्तकालिका || उरुयुग्मं सदापातु क्रीं हुं कंकालकालिका | पादौ रक्षंतु क्रीं क्लीं मे तीव्रकाली भयानका || नवकाली सदापातु सर्वांगं कालवंचनी | ओं क्रीं द्रीं दैत्यदलिनि शत्रुन् स्तम्भय स्तम्भय || मारयेति द्वयं प्रोच्य जिह्वां कीलय कीलय | हुं हुं क्रोधानल ज्वाला जलिते वह्नि वल्लभा || एतद्वर्णात्मिका काली शत्रु मध्ये सदावतु | ओं क्रीं हुं हुं सर्वजनमोहिनि शंकर प्रिये || नरचर्म कृता वासे अट्टहासे भयानके | सर्वाकर्षिनि सर्वमुखमोहिनी मोहय द्वयं || राजाप्रजा तथा राजपत्नी सेवक चेचकान् || वशं कुरु कुरु स्वाहा || मन्त्रराजः समुद्धृतः || एतन्मन्त्रात्मिका काली राजद्वारे सदावतु | हुं ऐं हुं मृत्युंजयिणि अपमृत्यु विनाशिणि || परमन्त्रं तथा यन्त्रं कृत्यां चूर्णया प्रत्यंगिरे महारावे तथा भंजय भंजय || २६३ब्) नाशय द्वितयं चोक्ता क्रीं हूं ह्रीं फट् फट् स्वाहा || मंत्राधिष्ठितमंथान कालिका सर्वदा चतु | श्मशाने जलमध्ये तु राजमार्गे च शंकटे || अरण्ये प्रान्तरे घोरे कान्तारोन्तुंगपर्वते | सभायां व्यसने युद्धे राजचौरभयार्द्दित || सर्वत्र पातु मां देवी कुलकाली कुलेश्वरी | इति ते कवचं देवि कथितं परमाद्भुतं || यस्य संस्मरणाद् देवि सर्वसिद्धिः प्रजायते | भक्तितः कौलिकमुखादुपविश्य यथाविधि || मकार पंचकैः कालीं समभ्यर्च्य महानिशि | गुरुं संतोष्य विधिवत् कवचं प्रपठेन्नरः || षत्मासात् सिद्धिमाप्नोति नान्यथा शिवभाषितं | गद्यपद्यात्मिका वाणी भवेद् गंगा प्रवाहवत् || कमला निश्चला तस्य गृहे स्वजन वल्लभः | इन्द्रोपि दासतां याति सत्यं सत्यं न संशयः || षट्कर्म सिद्धिर्भवति कवचस्य प्रसादतः | स योनि चन्दनेनाष्ट गन्धसंपेष्य यत्नतः || भूर्जसंलिख्य कवचं धारयेद् दक्षिणे भुजे | सर्वैश्वर्य युतो भूत्वा स भवेद् भुवनाधिप || यं यं कामं हृदि ध्यात्वा कवचं देवि धारयेत् | तं तं काममवाप्नोति ईश्वरस्य वचो यथा || अयुतं कवचं देवि शरत् काले महानिशि | पठनीयं प्रयत्नेन चतुर्वर्ग फलाप्तये || अज्ञात्वा कवचं यस्तु काली पूजां करिष्यति | प्रतिज्ञातं मया देवि समे वध्यो भविष्यति || इति श्रीहाहारावतन्त्रे श्रीदक्षिणकालिकवचं समाप्तं || मेरुतन्त्रे || ततः प्रयोगा कुर्वीत काम्यानिष्ट फलाप्तये || तन्त्रान्तरे || एवं नैमित्तिकं कुर्वन् काम्यकर्मसमाचरेत् | अतः काम्यार्चनं वक्ष्ये साधकाभीष्ट सिद्धिदं || वन्धूक पुष्पहोमेन वशयेत् पृथिवी पतीन् | सर्पिलवण होमेन समाकर्षति कामिनीं || वकुलैर्जुहुयाद् वह्नौ सौभाग्यं लभतेऽव्ययं | मल्लिकाजाति पुन्नाग कदम्वैः पुष्टिमाप्नुयात् || राजवृक्ष प्रसूनानां होमात् संपदमश्नुते | दूर्वातिलाज्य होमेन दीर्घमायुरवाप्नुयात् || २६४अ) संपूज्य विल्वपत्रेण मूलमन्त्रेण सर्पिषा | सहस्रं प्रत्यहं हुत्वा प्राप्नोति परमां गतिं || घृताक्त मालती पुष्प होमाद्भूत कविर्भवेत् | आज्यक्षीर घृतैर्होमैः कविता महती भवेत् || रक्तपुष्पेण जुहुयाच्छतमष्टोत्तर वुधः | वशयेदाशु सकलं नात्र कार्या विचारणा || पायसं पललं मीनं भक्ताक्षत तिलान्वितं | जुहुयाद् वत्सरादर्वागभीष्ट्यं सिद्धिमाप्नुयात् || चन्दनागुरु काश्मीर कस्तूरी चन्द्रहोमतः | संवत्सरेण लभते सौभाग्यमतुलं सुधीः || मधुना तर्पयेद् देवी सर्वकामानवाप्नुयात् || कालीकल्पे || रक्तपुष्पस्य होमेन पक्षाद्वै श्रवणे भवेत् | विल्वपत्रस्य होमेन राज्यं भवति निश्चितं || रक्तप्रसून होमेन वशयेदखिलं जगत् | पीतपुष्पस्य होमेन स्तंबयेद् विश्वमप्यथ || मालती पुष्पहोमेन साक्षाद्वाचस्पतिर्भवेत् | कृष्णपुष्पस्य होमेन शत्रुन्मारयतेऽचिरात् || अत्र सर्वस्य होमस्य संख्यास्यादयुतावधि | शिवावलिश्च दातव्यः सर्वसिद्धिरभीप्सुभिः || मेरुतन्त्रे फेत्कारिणीतन्त्रे च || नागयज्ञोपवीतां च चन्द्रार्ध कृतशेखरां | जटायुटाश्च संचित्य महाकाल समीपगां || कूर्च मज्जा युगं वीजं युग्मं चान्ते तथैव च | एवं संचिन्त्य देवी च रक्तपुष्पैः प्रपूजयेत् || कामवाणसमाविद्धा निर्लजा विह्वलाः स्त्रियं | स्वं स्वं संत्यज्य भर्तारमालिंगन्ति स दैवत || एवमाकर्षणे योज्यमादौ हुं क्रीं तथान्ततः | जपपूजाविधानेन द्रुतमाकर्षणं भवेत् || अन्ते दक्षिणे कालिके इत्यस्येति शेषतः | लोहितां शूलहस्तांतामेकां शूलधरां परां || महाकालाग्र संस्थां च ध्यात्वा पुष्पैस्तु पीतकैः | अभ्यर्च्यै कैकशश्वाद्ये तथैवान्तेपि योजयेत् || आकर्षणं भवेदेवं सदा स्थावरजंगमे | पातालतलगं वापि किमन्यद्भूतले स्थितं || आकृष्टिमेति तत्सर्वं महाकाल वचो यथा | कपिलां द्विभुजां कर्तृकपालसव्य दक्षिणे || ध्यात्वा चैवं हि सर्वस्य शेषेठ द्वयमेव च | २६४ब्) एवं प्रपूज्य पुष्पेण कृष्णेणात्र प्रपूजयेत् || भवेत् मारणमेतेन यमुद्दिश्य कृता क्रिया | उच्चाटयति पिंगाक्षी संत्रासयति केकरा || विद्रावयति मुक्तास्या प्रोन्मत्तयतिघूर्णिता | विक्षो भवति संक्षुद्धा संपातयति सन्नता || संकोचयति संरुद्धा विप्ररुद्धा विवोधयेत् | यं यं भावं जनो *? यस्तद्भावस्थां स्मरेदपि || अत्र सर्वत्र कर्तव्यं भावमात्रस्य चिन्तितं | उच्चाटनं वितान्यत्र सर्वत्र सुरतं मतं || स्नातः शुक्लाम्वरधरः कृत नित्य क्रियो दिवा | रात्रौ नग्नः शयानश्च मैथुने च व्यवस्थितः || अवाक्यो मुक्तकेशश्च तेन सर्वार्थसिद्धयः | स्तम्भनं मोहनं चैव वशीकरणमेव च || नग्नोपरस्त्रियं वीक्ष्य प्रजपेदयुतं नरः | स भवेत् सर्वविद्यानां पारगः सर्व दैव हि || तस्य दर्शनमात्रेण वादिनो निःप्रभा मताः | गद्यपद्यमयी वाणी तस्य सर्वविधा भवेत् || अथवा मुक्तकेशश्च हविष्यं भक्षयन्नरः | प्रजपेदयुतं तावदेष प्रतिनिधिर्मतः || अथवेत्यादि कल्पः पशुभावोपाशकपरः पूर्वकल्पस्तु वीरमात्रपरः एवमग्रेपि वोध्यं || तथा अष्टोत्तरशतं जप्त्वा भगमामन्त्र्य यत्नतः || मैथुनं यः प्रकुर्वीत धनधान्य सुतान्वितः | सर्वविद्यावतां श्रेष्टो भवेन्नैवात्र संशयः || भैरवतन्त्रे || अनादित्यन्तथा दृष्ट्वा लक्षमेकं जपेन् नृपः | निर्मलां च तथा दृष्ट्वा वश्यार्थमयुतं जपेत् || अनादित्यं रात्रौ तथा पुष्पिता वराङ्ग निर्मला पुष्पिता भिन्ना तथाग्नां || मेरुतन्त्रे गन्धर्वतन्त्रे च || धनकामस्तु यो विद्वान् महदैश्वर्य कामुकः | वृहस्पति समोयस्तु भवितु कामयेन् नरः || अष्टोत्तरशतं जप्त्वा योनि मामन्त्र्य मन्त्रवित् | मैथुनं याति यत्नेन सहस्रं मानसं जपेत् || षण्मासिक प्रयोगेन वाचस्पत्यं प्रजायते | तथा | अनावृतां तथा दृष्ट्वा लक्षं जपति भूमिपः || यो जपति स भूमि यो भवतीत्यर्थः || २६५अ) सुरतेषु च जप्तव्यं सदापाप विशुद्धये || मेरुतन्त्रे फेत्कारिणीतन्त्रे च || स्वदेह रुधिराक्तैश्च विल्वपत्रैः सहस्रशः | श्मशानेभ्यर्चयेद् देवी वागीश समतां व्रजेत् || स्वरेतोभ्यक्त पत्रेणाप्यर्कस्य च सहस्रशः | श्मशानेभ्यर्चये देवीं सर्वसिद्धिं स विंदति || धनवान् वलवान् वाग्मी सर्वयोषित् प्रियो भवेत् | सुखी स्यान्नात्र सन्देहो महाकाल वचो यथा || श्मशाने योषितं नीत्वा मन्त्रेणार्च्य सहस्रशः | रक्तचन्दन दिग्यांगी रक्तपुष्पैरलंकृतां || तावत् पुष्पैर्मनु प्रोच्य ततो ध्यायेत् तु चण्डिकां | ततो गत्वा लभेद् राज्यं यदि सा न पलायते || श्मशान शयने चैव शवाशनगतः पुनः | असकृत् प्रजपेत् मन्त्रं सर्वसिद्धिप्रदो भवेत् || तर्पयेच्च शवास्ये तु रक्तमांसादिभिः क्रुधा | एभिर्मन्त्रमुदीर्प्यैव सर्वसिद्धीश्वरो भवेत् || तर्पयेच्च पयोभिश्च रक्तधातु युतैस्त्रिधा | मेषमाहिष रक्तेन नररक्तेन चैव ही || मूषमार्जार रक्तेन वाग्मित्वं तस्य जायते | रेतोभिश्च तथा तद्वत् स्वकीयेन कचेन च || मैथुने नरयोषाया भगप्रक्षालनेन वा | धनित्वं जायते तस्य सर्वसिद्धिः प्रजायते || वचसा स भवे जीवो धनेन च धनाधिपः | आज्ञया देवराजोसौ रूपे नैव मनो भवः || वलेन पवनो ह्येष सर्वतत्वार्थसाधकः | साधिता सहितं मांसं सास्थि दद्यात् सदा वलि || मूषमांसं छागमांसं मेषमाहिषमेव च | सर्वसास्थि प्रदातव्यं सर्वं लोम समन्वितं || प्रत्येकं प्रजपेत् मंत्रं ततस्तं मोहयेद् वुधः | युगानाम युतं तेन दक्षिणा पूजिता भवेत् || सुखी स्यान्नात्र सन्देहो महाकाल वचो यथा | श्मशाने योषितं नीत्वा मन्त्रेणार्च्य सहस्रशः || सर्वसिद्धि भवे तस्य वाग्मीवीरः प्रजायते | न तस्य दुर्लभं किंचित् त्रैलोक्ये यच्च विद्यते || योनिरूपं च कुण्डं हि कृत्वा वितस्ति मानतः | हस्तविस्तारतस्तावत् कृत्वा चैव तथाप्यधः || २६५ब्) अत्र कार्या हि यत्नेन वह्नि स्थापनिका क्रिया | महाकालाय देवाय दद्यात् प्रथममाहुतिं || रुरुमांसेन चाज्येन भक्तेन रुधिरेण च | कृष्णपुष्पेन साज्येन स रक्तेन विशेषतः || आमिषादिभिरप्येवं जुहुयात् श्मशानानले || मेरुतन्त्रे || नारी रजो युतं कृत्वा पर्णानां शतमुत्तमं | प्रत्येकं प्रजपन्मन्त्रं ततस्तद्धोमयेद्वुधः || युगानामयुतं तेन पूजिता दक्षिणा भवेत् | सर्वसिद्धिर्भवेत् तस्य वाग्मी धीरश्च जायते || न तस्य दुर्लभं किंचिन् पृथिव्यां जातु जायते | श्मशानालयमासाद्य मुक्तकेशो दिगम्वरः || जपेदयुत संख्यं तु सर्वकामार्थ सिद्धये | प्रेतमारुज्य तत्रैव यो जपेन्मन्त्रवित्तमः || अयुतं वाग्यतो भूत्वा विभीः सत्यपरायणः | सयाति परमासिद्धि देवैरपि सुदुर्लभं || वीरचूडामणौ || ततो होमं प्रवक्ष्यामि योनिकुण्डे त्रिकोणके | अथवा पिचिता होमं कुर्यात् प्रयत्नतः || लतापुष्पं समुद्धृत्य कुलपात्रे तथोद्धरेत् | नागवल्यादल्ं शुद्धं लताक्तं चैव होमयेत् || अयुतं च सहस्रं वा शतमष्टोत्तर च वा | होमयेच्च प्रयन्तेन त्रैलोक्यं वशमानयेत् || तस्य प्रत्यक्षतां याति सारंगी शववाहिनी | सर्वसिद्धिमवाप्नोति त्रिषु लोकेषु दुल्लभां || वाक् पतिर्जायते मन्त्री धने वै श्रवणो भवेत् | दत्तात्रेय समो योगी भोगी चैव पुरन्दरः || वैवस्वतसमः क्रोधी सत्ये तु पाण्डुनन्दनः | हरिश्चन्द्र समत्स्यागी मन्त्रे च भृगुनंदनः || पराक्रमेंऽजनासूनुर्वले च वारुणी प्रियः | अस्य विज्ञान मात्रेण अष्टसिद्धिर्भवेद्ध्रुवं || विभज्य च त्रिधा मन्त्रं होमं कुर्यात् प्रयत्नतः | मांसं तिलरक्त केशं दधि भक्तं च पायसं || जुहुयाच्च त्रिमध्वक्त त्रैलोक्यं वशमानयेत् | परन्तु तर्पणं कुर्यात् क्षीराज्य मधु चैन्सुवं(?) || रक्तधारां तथामज्जां तेनैव तर्पयेत् सुधीः | तर्पणान्ते महामन्त्री कुमारी पूजनंचरे || २६६अ) आवाहनादिकं कुर्यान् मधुपर्केण पूजयेत् | कुमारी कुलं प्रक्षाल्य उपचारेण पूजयेत् || तर्पयेत् तु महामन्त्री रक्तधारां कुलोपरि | मूषमार्जार रक्तं च नरमेषं च माहिषं || तर्पयेत् तत् प्रयत्नेन देवीलोकं स गच्छति | कविता जायते तस्य वृहस्पतिरिवापरः || देववन्मानवो भूत्वा भुक्तिं मुक्तिं च शाश्वतीं | न कर्म पाप पुण्यानि जीवन्मुक्तो भवेन्नरः || भक्ताज्यं च तथा मांसं अस्थिरक्तं सशर्करं | कृष्णपुष्पं समध्वं रक्तेन च विशेषतः || महाकालाय देवाय दद्यात् प्रथममाहुतिं | पुष्पितायाः कुलागारं संदृष्ट्वा अयुतं जपेत् || गुरुवुद्धिरभेदेन जप्त्वा सायुज्यमाप्नुयात् | नग्नां परलतां पश्यन् लक्षमेकं जपेद् वुधः || अनर्घ्य कविता वाणी गद्यपद्यमयी भवेत् | श्मशाने च तथारश्ये पर्वते वा चतुष्पथे || संपूज्य विधिवन्मन्त्री सुन्दरीं च वरांगनां | भगे लिंगन्तु संस्पृश्य लक्षमेकं सुसाधकः || जप्त्वा च महतीं प्रज्ञां कवीनामग्रणी भवेत् | अथवा विजने स्थाने कुलाचार क्रमेण च || स्वजिह्वां भगमध्ये च अयुतं प्रजपेन्नरः | अश्रुत वेदशास्त्राणां वक्ता मन्त्री च नान्यथा || भगं स्पृशन् जपन्मन्त्री अयुतं जपसंख्यया | महापापोपपापाभ्यां प्रायश्चित्तं विधीयते || लताभ्यंगन्तु निर्वीत अयुतं च जपेन्नरः | राजानो वशमायान्ति नगरं नगरांगना || लताभ्यंगे जपेन्मन्त्री महापातक मुक्तये | लता भावे तथा मन्त्री उत्सार्यरेतो यत्नतः || स्वहस्ते गृह्य संजप्तं सर्वसिद्धीश्वरो भवेत् | साधकः प्रातरुत्थाय न्यासं कुर्यात् समाहितः || शक्त्यांगें गन्तु संयोज्य न्यासं कुर्याद् विचक्षणः | तन्मयं च जगत्सर्वं जपहोमादि तर्पणं || तासां निन्दा न कर्तव्या पुष्पेणापि न ताडयेत् | कौटिल्यम प्रियं वाक्यं भक्ष्यभोज्यादि वंचनं || सर्वथा च न कर्तव्यं सिद्धिरोधश्च जायते | स्त्रियः सृष्टिः स्थितिश्चैव स्त्रियः संहारकारिणी || २६६ब्) महाचीन क्रमेणैव लता पुष्प प्रधानतः | लताक्तोयं जपेन्मन्त्री सैव कल्पलता भवेत् || महाचीन क्रम लता? मर्जाभिस्त्रीणि पत्रकं | श्मशाने चैव संपूज्य सहस्रं साधकोत्तमः || तदा राज्यमवाप्नोति भयभीतो न जायते | स्वरक्तैर्विल्वपत्रैस्तु समाभ्यर्च्य सहस्रशः || श्मशाने च तथा रात्रौ वागीश समतां व्रजेत् || मेरुतन्त्रे || स्नातः शुक्लांवरधरः शुचिः प्रयतमानसः | दिवा सर्वं प्रकर्तव्यं सर्वकामार्थसिद्धये || रात्रौ नग्नो मुक्तकेशो मैथुने नापि तत्वतः | प्रकर्तव्यं प्रयत्नेन सर्वकामार्थसिद्धये || द्विजानामत्र सर्वेषां विधिरत्न च दर्शितः | शूद्राणां चैव संप्रोक्तं रात्रौ दृष्ट महामतं || महाकालं यजेद्यत्नात् पश्चाद् देवी प्रपूजयेत् | त्रिधा विभज्य मन्त्राद्यैर्यत्नात् साधकसत्तमः || मांसं रक्तं तिलं केशं नखं भक्तं च पायसं | आज्यं चेति प्रयत्नेन होतव्यं सर्वसिद्धये || एवं कृत्वा विधानेन भजते सिद्धिमुत्तमां | यद्यत् पार्थयते जन्तुस्तन्तुत्प्राप्नोति नित्यशः || देवत्वं दानवत्वं च सिद्धचारणतां तथा | सदा हुत्वा समाप्नोति नित्यमेव मतंद्रितः || एकचित्तो जपेत् मन्त्री चत्वारिंशत् सहस्रकं | होमस्तु रक्तपुष्पेण कुण्डं कुर्याद् यथाविधि || एतत् मन्त्रजपान्मन्त्री मुच्यते ब्रह्महत्यया | पितृमातृवधाद्यैश्च किमन्यैः क्षुद्रपातकैः || कपिलारत्नसंपूर्ण पृथ्वीदानस्य यत्फलं | कोटि होम सहस्रैर्वा देव्या ध्यानेन तत्फलं || स्पृष्ट्वा स्पृष्ट्वा जपेन्मन्त्रं यं यं तं तं वशनयेत् | शतमष्टोत्तरं जप्त्वा रक्तपुष्पेन होमतः || कुर्यात् नृपवशं मन्त्री ना साध्यं भुवनत्रये | शून्यागारे देवगृहे स्वयं भूस्थान एव च || हविष्याशी ब्रह्मचारी भवेदिंद्र समो जपात् | कुण्डे त्रिकोण संज्ञे तु शांतौ पुष्टौ तथैव च || अयुतं जुहुयान्मन्त्री सहस्रस्य त्रयं पुनः | काम्ये सहस्रमारक्तैः पुष्पैर्हुत्वा दशांशतः || तर्पणं च पुनस्तद्वद् देवीं ध्यात्वा हुताशने | संपूज्य मूलमन्त्रेण विल्वपत्रैर्घृतान्वितैः || २६७अ) सहस्रं प्रत्यहं हुत्वा प्राप्नोति परमां गतिं | घृतारक्तमालती पुष्पैर्होमाद्रुत कविर्भवेत् || नासाध्यं विद्यते किंचिदेतन्मन्त्रविदः सदा | देव्याराधन सक्तस्य गुरुभक्तस्य नान्यथा || कालीतन्त्रे || तत्र होमविधिं वक्ष्ये सर्वसिद्धि प्रदायकं | लतापुष्पान्वितं कृत्वा पर्णानां शतकं सुधी || ताविसं मन्त्र्य विधिवदशकृत् साधकोत्तमः | ततो वै होमयेत् तानि संस्कृताग्नौ यथाविधि || युगानामयुतं तेन पूजनं जायते शिवे | अनेन क्रमयोगेन यण्वरेद्भुवि दुर्लभं || न तस्य दुर्लभं किन्चिन् त्रिषु लोकेषु विद्यते | वीरो भवति वाग्मीकः सर्वसिद्धिमुपालयेत् || हुनेदाज्येन भक्तेन मांसेन रुधिरेण च | कृष्णपुष्पेण साज्येन स रक्तेन विशेषतः || आमिषादिभिरप्येवं श्मशाने जुहुयात् सुधीः | महाकालं हुनेद् यत्नात् पश्चाद् देवीं प्रयत्नतः || त्रिधा विभज्य विद्यां वै साधकः शुद्धमानसः | मांसं रक्तं तिलं केशं नखं भक्तं च पायसुं || आज्यं चैव विशेषेण जुहुयात् सर्वसिद्धये | एवं कृते च सर्वत्र लभते सिद्धिमुत्तमां || यद्यत् कामयते कामं तत् तदाप्नोति निश्चितं | देववन्मानुषो भूत्वा भुनक्ति वहुलं सुखं || तर्पणस्य विधिं वक्ष्ये येन कार्याणि साधयेत् | तर्पयेच्च पयोभिश्च रक्तधारायुतैस्तथा || मज्जाभिश्च तथा तद्वत् स्वकायिक मनेन च | आकर्षितायाः कन्यायाः कुलप्रक्ष्यालनेन च || मेषमाहिकरक्तेन नररक्तेन चैव हि | मूखमार्जार रक्तेन तर्पयेत् परदेवतां || एवं तर्पण कृन्मन्त्री साक्षात् सिद्धीश्वरो भवेत् | कविता जायते तस्य द्राक्षारसपरंपरा || वृहस्पति समो भूत्वा देववद् भुवि मोदते | न तस्य पापपुण्यानि जीवन्मुक्तो भवेद्ध्रुवं || तथा || कुलागारं पुष्पिताया दृष्ट्वा यो जपते नरः | अयुतैक प्रमाणेन साधकः स्थिरमानसः || केवलं गुप्तभावेन स तु विद्यानिधिर्भवेत् | २६७ब्) संस्कृताः प्राकृताः शब्दा वैदिका लौकिकास्तथा || वशमायान्ति ते सर्वे साधकस्य न चान्यथा | अथवा मुक्तकेशश्च हविष्यं भक्षयेन् नरः || प्रजप्यादयुतं प्राज्ञ एतदेव फलं लभेत् || तथा || लतायुतेषु जप्तव्यं महापातक मुक्तये | लता यदि न संगच्छेत् तदा मज्जां प्रयत्नतः || समुत्सार्य जपेन् मन्त्री धर्मकामार्थ सिद्धये | तासां निन्दां प्रहारं च कौवि?ल्यमप्रियं तथा || सर्वथा न च कर्तव्यमन्यथा सिद्धिरोध कृत् | स्त्रियो देवाः स्त्रियः प्राणाः स्त्रिय एव विभूषणाः || स्त्रीसंगिना सदाभाव्यमभावे स्वस्त्रियामपि | विपरीतरता सा तु भविता हृदयोपरि || तद्धस्ता रचितं पुष्पं तद्धस्ता रचितं जलं | तद्धस्ता रचितं भोज्यं देवताभ्यो निवेदयेत् || महाचीनद्रुमलतावष्टितः साधकोत्तमं | रात्रौ यदि जपेन् मन्त्रं सैव कल्पलता भवेत् || महाचीन द्रुम लता वेष्टनेन च येत् फलं | तस्यापि षोडशांशेन कलान्नार्हन्तिते शवाः || शवासनादपि फलं लता गृह प्रवेशनं | श्मशानालयमागत्य मुक्तकेशो दिगम्वरः || जपेदयुत संख्यं च सर्वकामार्थसिद्धये | महाचीनद्रुमलता मज्जाभिर्विल्वपत्रकं || सहस्रं देवीमभ्यर्च्य श्मशाने साधकोत्तमः | तदा राज्यं मवाप्नोति यदि सा न पलायते || स्वगात्र रुधिराक्तैश्च विल्वपत्रैः सहस्रशः | श्मशानेभ्यर्च्य कालीं तु वागीश समतां व्रजेत् || अनावृत कुल दृश्यार्थमयुतं जपेत् || शुक्लेन ध्यानमात्रेण कविता वशवर्तिन | अनया विद्यया मंत्री स्पृशेत् पातकिनं यदि || स तु संस्पर्शमात्रेण वक्तिवाणीमनाकुलां | पीतेन ध्यान योगेन संभयेदखिलं जगत् || कृष्णाभां शत्रुशमने धूम्राभां वैरि निग्रहे | कुमारी पूजनं कुर्यात् सर्वकामार्थसिद्धये || अथान्यं संप्रवक्ष्यामि प्रयोगं शत्रुनिग्रहं | सर्वान्ते वह्नि ललनां योजयित्वाऽयुतं जपेत् || कपिलां द्विभुजां कर्तृ कपाले सव्यदक्षिणां | एव ध्याय तु शत्रुणां मारणं समुपाचरेत् || २६८अ) एवं काली मनुः प्रोक्तः सर्वसिद्धि प्रदायकः || कुलचूडामणौ || याममात्रे गते रात्रौ कुलगेहं ततः पुमान् | प्रसून तुलिका मध्ये स्थित्वा कुलपरायणः || मूलचक्रं साध्यनाम टंकितं कुलचक्रके | स्वनामाद्यंकिंतं कृत्वा कुलाचारं समाचरेत् || स्वशक्त्या परशक्तिं च समानयति साधकः | परशक्त्याकर्षणं च शृणु पुत्र समाहितः || निजकान्त्यं समानीय सुशीलांसु यशस्विनीं | कुलभक्त्या गुरुं प्रार्थ्य दीक्षयेत् कुलदीक्षया || परानन्द रस पूर्ण लोचनां कुलजां सतीं | ताम्वुलया स पूर्णास्यो गुरुरक्षोभितः सुखी || निजपुत्री वदाचार्यस्तद्भाल पट्टके लिखेत् | शक्ति चक्रं द्विधा कृत्य लिखेत् कामकलां ततः || तन्मध्ये देय मन्त्रेण दर्भितं नामरंजितं | तत्र देवी समावाह्य ध्यात्वा देवीं प्रपूजयेत् || ततः तत्पुत्रिकाकर्णे ऋषिच्छन्दः समन्वितं | मूलमन्त्रं त्रिधा वृत्य कथयेत् वामकर्णके || अद्य प्रभृति पुत्रित्वं कुलमन्त्रार्चने रता | स्वकुलाज्ञां समादाय लज्जालस्य विवर्जिता || यथोपदिष्ट विधिना सामरस्यं समानय | इत्यनुज्ञां समादाय प्रणवेद् दण्डवद्भुवि || त्राहि नाथ नाकुलाचार पद्मिनी पद्मनायक | त्वत् पदाम्भो रुहच्छायां मूर्ध्नि देहि यशोधन || स्वकुलं परमीकृत्य यथा दृष्टं समाचरेत् | अंगावरण पूजादौ यदि न क्षमते तु सा || तदा मूर्ध्नि गुरुं ध्यात्वा कुलामृतरसेन तु | तर्पयित्वा कुलं ध्यात्वा जपेन्मंत्रं निराकुलं || अथ तद्राधि समये स्वकुलं भूलकोपरि | वामभागे समासत्वं रक्तवस्त्र विभूषितं || गन्धपुष्पधूपदीपभूषितं सुमनोहरं | सर्वशृंगारवेशाढ्यं स्फुरच्चकितलोचनं || ततामित कुच द्वन्द्व विशालकरि कुंभकं | ललाटे यन्त्र मालिख्य साध्यनाम विदर्भितं || तत् स्कंधे वाहुमादाय भक्त्याधृत कुचाचलः | तांवूलपूरित मूखं कुलं तदभि संहितं || अनाकुलं जपं कृत्वा समां नयति तत्क्षणात् | २६८ब्) यन्नाम्ना लिखितं यन्त्रं तमाकर्षति तल्ल्वणात् || शतयोजनमात्रस्थां नदीपर्वतमध्यगां | द्वीपान्तर सहस्रेषु रक्षितां निगडादिभिः || पयोधरभरक्षुद्ध मध्यमालोललोचनां | नितंवविम्वविस्रस्तपवनापहृतां शुकां || साधका कांक्षि हृदयां विवरान्तः प्रसर्पिणी | कपाटलोहसन्नद्ध प्रकार विचरान्तरे || साधकान्तः समासीनां देवतामिवचारिणीं | एवमाकृष्णसिद्धिश्चेत् साधकः कौलिको भवत् || तथा || भौमवारे चिता स्थाने कुलसिन्दूरमानयेत् | तेनैव कुलकाष्ठे तु यंत्रं कृत्वा तदन्तरे || स्फें स्फें किटि किटि द्वन्द्वं लिखेच्चण्डमनुं ततः | पत्रे महिषमर्दिन्या नववर्णलिखेत् ततः || तद्वाह्ये जयदुर्गाख्यां श्मशानभैरवी ततः | लिखित्वा पूजयेद् रात्रौ तत्र काली समाहितः || कामाख्यादि समास्थाय ध्यात्वा कामकलां तनुं | दिग्वासा गलिता शेष चिकुरः कौलिकस्तथा || ध्यायेद् देवीं करालास्य दंष्ट्रा नीलविलोचनां | स्फुरच्छव करश्रेणी कृत कांस्त्री दिगंवरां || वीरासनसमासीनां महाकालोपरिस्थितां | श्रुतिमूलसमाकीर्ण सृक्काणी चण्डनादिनी || मुण्डमालागलद्रक्त चर्चितां पीवरस्तनी | मदिरा मोदनास्फालकम्पिताखिलमेदिनी || वामहस्ते खड्गमुण्डधारिणीं दक्षिणे करे | वराभय युतां घोर नादां विलोल जिह्विकां || शकुन्तपक्षसंयुक्त वाणकर्णविभूषितां | शिवाभि घोररूपाभिः सेवितां प्रणयोदितां || चण्डहास चण्डनाद चण्डास्फालैश्च भैरवैः | गृहीत नरकं काल द्वय शब्दपरायणैः || सेविताखिल सिद्धौघ सेविभिः सेवितां परां | एवं तां कालिकां ध्यात्वा पूजयेत् कुलनायकः || यां विनापरपुरावेश विवरान्तः प्रसर्पणं | यत् किंचित् कुलसिद्धिस्तु न जायते मनागपि || सर्वसिद्धिप्रदा देवी हेलयापि च चिन्तया | अतः सा दक्षिणानाम्नी त्रिषु लोकेषु गीयते || २६९अ) अतोंष्ट शतमामन्त्र्य सिद्धार्थ श्वेतसंभवं | काली मन्त्रेण साध्यादि कथितेन च भैरव || विसृज्य देवीं हृदये स्थापयित्वा चतुष्पथे | वरालंकार रहितो विशेत् पर पुरंततः || देवी ध्यात्वा द्वारदेशे नमस्कृत्य कुलं गुरुं | सिद्धार्थ वामहस्तेन गृहीत्वा मन्त्रमुच्चरन् || यत्र चत्वारनिगलं लोहशंकुसमावृत | भित्वा तत्र विशेद्वीरो निःशंकः क्षोभवर्जितः || शतावृतां समुल्लंघ्या विहरेत् स्वेच्छया ततः | अश्वागारे रथागारे कौलिकागार सन्निधौ || देवायतन एवापि अंजनांचित लोचनः | ध्यात्वा स्वप्नावतीं विद्यां प्रविशेत् काममंडपं || यदि कोपि कलारौति न भयं तत्र चिन्तयेत् | केयूयमिति वक्तव्ये वयं च वीरपुरुषा || तंत्रहीतुं च स्मर्तुं वानशक्तः पुरयालकः || इत्यादि कुलचूडामणौ विस्तरः || अथ दण्डपादुकासाधनं || तत्रैव || भैरव उवाच || वेतालादि महासिद्धिः कथं भवति चण्डिके | तन्मे कथय देवेशि यदि स्नेहोस्ति मां प्रति || देव्युवाच || निम्व वृक्षोद्भवं काष्टं श्यशाने साधकोत्तमः | भौमवारे मध्यरात्रे शवाशन युगांकिते || खनित्वा चाष्टलक्षं वै जपेन्महिषमर्दिनी | तत् सहस्र हुनेद् वत्स तत्रैव पितृकानने || काष्ठमुद्धृत्य तेनैव दण्डपादुक चिह्नितं | कृत्वा दुर्गाष्टमी रात्रौ श्मशाने निःक्षिपेत् ततः || एतद् दण्डो महाभाग योगिनी हृदये प्रियः | मम हस्त स्थितो नाथ ममाज्ञां परिपालय || एवमामन्त्र्य वेतालं यत्र यत्र प्रमुच्यते | तं तं चूर्णी विधायाथ क्षणादायाति कौलिकं || गच्छ गच्छ महाभागे पादुके वरवर्णिनि | मत्पादस्पर्शमात्रेण घ्रां घ्रीं घ्रूं शतयोजनं || अथ खड्गसाधनं || तदुक्तं तत्रैव || अष्टलोहं समासाद्य पंचाशदंगुलाकृति | खड्गं कृत्वा तत्र यन्त्रं लिखित्वा प्रजपेन्मनुं || तत् सहस्रं ततो हुत्वा महाशव कलेवरे | खनित्वा जीववृत्ताग्रे वध्या शुष्कं विभावयेत् || कुलाष्टम्यामर्धरात्रे चिता मध्य समाहितः | नति पूर्वं समामन्त्र्य हुनेत् पितृवने ततः || २६९ब्) मधुरत्रयसंयुक्तं विल्वपत्रेणसंयुतं | पादादिमुर्द्ध पर्यन्तं होमान्ते वलिमाहरेत् || वल्यन्ते परमा माया देवी महिषमर्दिनी | आयाति वलिपूर्णास्या वरहस्तावरोन्मुखी || दृढं वत्सेति शब्देन खड्गमुत्तोल्य धारयेत् | घोरदंष्ट्रे महाकालि करवाल स्वरूपिणि || कां कीं कूं कुरु कल्पाणि विपक्षच्छेद विस्तरं | एवमामन्त्र्य खड्गन्तु यमुद्दिश्याक्षिपेन्नरः || छित्वाछित्वा पुनश्छित्वा गच्छत्यागच्छत्या हृवते पुनः || वलिदान प्रकरणे खड्गलक्षणमुक्तं || अथांजन साधनं || अथवा कृष्णमार्जारमेक घातेन घातयेत् | कुजे चतुःपथे रात्रौ निखने मन्त्रितं ततः || तत्र मोचां समारोप्य यावत् पत्रं प्रजायते | तावद्भुक्त्वा हविष्यान्नं प्रतिरात्रं जपेत् सुधीः || अष्टोत्तर सहस्रन्तु एकाकी दीपवर्जितः | उत्पन्नं पत्रर्मात्मेक्य छित्वा निश्छिद्र माहरेत् || तत्र भुक्त्वा हविष्यान्तं तद् दिने तटिनी तटे | तमानीय सुहृत् संगः क्षालयन् मन्त्रमुच्चरन् || प्रतिस्रोतो मुखं वत्स यदस्थि प्रतिगच्छति | तदानीं च यजेत् तत्र कालिकां घोरविस्वनां || अभिमन्त्र्य सहस्रन्तु काली मन्त्रं समन्ततः | सिद्धांजनो भवेन्मन्त्री नात्र कार्या विचारणा || चन्दना गुरु कस्तुरी मिश्रणं चास्थि घर्षणं | कृत्वा तिलकमादाय सर्वं जयति साधकः || कुलमीनं कुलान्तं च कुलमद्यं कुलेश्वर | कुलस्थाने समानीय कुलद्रव्यैः प्रयत्नतः || अष्टोत्तर सहस्रन्तु जप्त्वा भूमितल स्थितः | भूमौ फुत्कारमात्रेण विवरं तत्र जायते || शतयोजन दूरे वा यत्र साध्यस्थितिर्भवेत् | तत्रैव गमनं तस्य भूतलान्तः प्रसर्पणः || एवं विवरमध्ये वा गवाक्ष कुहरेपि च | काय संकोच मासाद्य गच्छत्य विकरो नरः || दुर्गामन्त्रं विनावत्स कालीमन्त्रं तथैव च | सिद्धयः कुलनाथेश जायन्ते न कथंचन || तारामन्त्र प्रयोगा अययनेन कर्तव्याः || एतन्मन्त्र प्रयोगाश्च तारामन्त्रे विधेयाः || २७०अ) पूर्वलिखित गन्धर्व तन्त्र वचनात् || यथा काली तथा दुर्गा यथा दुर्गा तथोन्मुखी | यथा तारा तथा नीला यथा नीला तथोन्मुखी || दुर्गायाः कालिकायाश्च ध्यानसममिहोदितमित्यादि कालीतन्त्र भैरवतन्त्रयोर्वचनाच्च || रुद्रयामले || तृतीया चैत्रमासीया रेवती संयुता यदि | तस्यां कालीं समभ्यर्च्य तावाप्यं भुवि वर्तते || तस्या रात्रौ हुनेद् यस्तु द्रव्यवह्नौ सुसंस्कृतं | कालीतन्त्र विधानेन तस्य देवी प्रसीदति || प्रपंच वागं यः कुर्यात् तद् दिने साधको दिवा | तस्य तुष्टा महामाया स देवी पुत्रतां व्रजेत् || प्रपंचयागो होमः अस्यैव प्रपंच यागत्वे नात्राग्रे विधानात् || तथा || श्मशाने योजयेन् मन्त्रं सर्वाशुभनिवारणं | स भवेत् सर्वसिद्धार्थो ममैव वचनं यथा || शक्तिमभ्यर्च्य विधिवन्तीर्थांभः संस्कृतं सुधीः | पाययेत् कृतसंकल्पः शतमष्टोत्तरं तु यः || शुद्धिग्रहणसंयुक्तंः स भवेदखिलं तमः | तमः पदे नात्र ग्रहरोगादि जनितं दुःखमुच्यते || तथा || अर्काहनि दिनं व्याप्य पश्यन्नर्कं जपन्नरः | ह्रीं ह्रीं सः हंसः ह्रीं हंस इति वीजाष्टकं प्रिये || ग्रहदोषा विनश्यन्ति तस्यापि नात्र संशयः || यद्यप्ययं सूर्यमन्त्रस्तथापि तद्विधानाश्रुतेः काली प्रयोग प्रकरणाम्नानात् कालीमन्त्र सिद्धा देवता दृशेषु प्रयोगेष्वधिकारः || तथा || सत्खण्डं सघृतं चाममांसं स रुधिरं प्रिये | यो हुनेत् कृत संकल्पो निशीथे कुलपावके || तस्य वश्यो भवेद् देवि यमुद् दिश्य जुहोत्यसौ | पायसं मधुसर्पिभ्यां खण्डेनापि समन्वितं || कान्तारके हुनेद् यस्तु हुं हुं स्वाहेति देशिकः | शतमष्टोत्तरं रात्रौ मुक्तकेशो दिगम्वरः || एकाग्र मनसा देवि वशीकुर्याज्जगत्त्रयं | अथ शक्ति सतारुण्यं महामंत्री दिगम्वरां || चन्दनैरनुलिप्तांगीं स्ववामे स्थापयेन् नरः | ऐं ह्रीं श्री मति मन्त्रेण पाययेत् संस्कृतं मधु || स्वयं चानेन मन्त्रेण पिवेत् तच्छेषमादरात् | पाने देवि समुत्पन्ने तस्या योनिं च चन्दनैः || २७०ब्) समालिप्य यजेत् तत्र देवीं मूलेन साधकः | दद्यान्नवांजलीस्तत्र मूलमन्त्रं समुच्चरन् || अष्टोत्तरशतं देवि हुनेन्मूलेन देशिकः | शिवलिंगेन विश्वेशि पिवन्नपि च पाययन् || सघृतं परमान्नं च भोजयेदन्तरान्तरा | भुंजन्नपि च विश्वेशि वीज प्रस्खलनावधि || तस्मिन् काले महासूक्ष्मे कृत्वा वीजार्पणं प्रिये | वशयेदखिलं लोकं दर्शनादनु भाषणात् || स्पर्शनादपि संसर्गादिति सर्वज्ञभाषितं | तस्य नाम समालिख्य पृथिव्यां रक्तचन्दनैः || ह्रींकारपुटितं चैव पार्श्वयोरप्युपर्यधः | तत्र पात्रं समारोप्य ह्रीं वशंकरिणि प्रिये || स्वाहान्तेनाहितमतिः सघृतं तत्र पापयसं | निधाय कूर्चवीजेन ह्रीं स्वाहेति तपोधनः || भुंजीत कृतसंकल्पः सतं वशयति ध्रुवं | अथ पिष्टमयीं देवि कृत्वा पुत्तलिकां शुभां || पाचयेत् क्षीर नीराभ्यां मुक्तकेशो दिगम्वरः | भुंक्ता प्रतिष्ठित प्राणां साध्यनाम्ना स्वधा स्वाहा || वशयेन् निश्चितं देवि महेन्द्रमपि मानुषः | ह्रीं वशीकरिणि स्वाहा वामुकं वशमानये || हुं फट् स्वाहेति दयिते भोजयेत् कुलपालिकां | शाल्पत्रं सघृतं क्षीरं तीर्थाम्वु समपाचितं || सशर्करं स तस्य स्यादिन्द्रोपि निजसेवकः | श्मशानाग्नौ हुनेन् मांसं मन्त्रेणानेन योनिशि || वशीकुर्यादशावेतं यदि साक्षात् स्वयं शिवः | मन्त्रेणामन्त्रितं देवि चन्दनं सप्तवारकं || यस्मै दद्यादसौ कान्ते वश्यः स्याच्चेत् स्वयं यमः || तथा || तीर्थाम्वु जुहुयादास्ये यद्वाजेति सुसंस्कृतं | मन्त्रेणानेन कासिन्याः शतमष्टोत्तरन्तु यः || स कुर्याद् दासवद् विश्वं ममैव वचनं प्रिये | स कृष्णां युवति दीर्घां पृथुस्तन नितम्विनीं || कुलवा काममन्ता च पुरुषासंगलोलुपां | समादाय दिने रण्यं स्थापयेदासने शुभे || विस्तीणे प्रस्तरे वापि पर्यंके वा शुभासने | यद्वा जामन्त्रितं तोयं हुत्वा तेन दशाहुती || तस्यामुखे समां सन्तु पलमर्द्धपलन्तु वा | सानन्दाया योनि देशं रक्त चन्दन परिस्कृतं || २७१अ) जवापुष्पेण दशधा संपूज्यमनुवित्तमः | लिंगेनैतेन मन्त्रेण हुनेद् वीजार्पणावधि || पाययंस्तां महान्तां पिवन्नपि च देशिकः | ततः स दक्षिणां दत्वा नत्वा तां च मुहुर्मुहुः || मोहयेदखिलां लोकान्नात्र कान्ते विचारणा | गौरांगी गत तारुण्यां कुलाजां पतितस्तनीं || अभ्युक्षयेत् त्रिधा देवि मन्त्रेणानेन मन्त्रवित् | स्ववामभागे संस्थाप्य पुनरभ्युक्षये त्रिधा || षडंग विन्यसेत् तस्यां मायया जाति युक्तया | इमं न्यसेत् त्रिधा नाभौ नवधा योनि मण्डले || यथावन्मन्त्रितं तीर्थमेक पात्र व्यवस्थितं | पातव्यं शिवशक्तिभ्यां मांसं भक्षयेत् तथाविधं || त्रिपात्रान्तं ततो हुत्वा रमयेन्नामनन्यधीः | पान चर्वणसंयुक्तां महामन्तां दिगम्वरां || अश्लीन वाणी संयुक्तां विलज्वां विस्मृतां खिलां | जपेन्मन्त्रमिदं देवि दिवा वाप्यथ वा निशि || इहलोकान् वशीकृत्य परत्र शिवतां व्रजेत् || तथा || अथ कामकलावीजं जप्त्वा वै सप्त सप्तधा | यस्यै विल्वफलं दद्यात् स सद्यो वशतामियात् || श्मशाने कामकलया पुटितं यस्य नाम हि | प्रतिवर्ण तीर्थ जलैः शतधाभ्युक्षयेत् प्रिये || जपेच्च दशधा देवि प्रत्यर्ण हिमशैलजे | एवं सप्ताह पर्यन्तमष्टमे चैव पार्वति || पुत्राद्यैः सह वश्यः स्याद् यदि कालान्तकोपमः || तथा || वाक्यसंस्तंभने देवि वाग्भवं समुदाहृतं | छेदसंस्तंभने दौर्गं मृत्युसंस्तंभने शिवे || भवेत् कामकलावीजं कायसंस्तम्भने परां | सर्वसंस्तंभने कार्यं श्रीवीजं जगदीश्वरि || तथा || ययोर्विद्वेषमुद्दिश्य मन्त्रं जपति षष्टिधा | तयोर्वैर प्राणहरं छेदभेदेन पार्वति || चण्डालिनी मरण्ये सुरेशां प्रोन्नतस्तनीं | समभ्यर्च्य मुखे तस्या हुनेद् यदि जगन्मपि || मन्त्रेणानेन तीर्थाम्वु शतमष्टोत्तरं शिवं | तदासौ वह्नि वेतालः सम्यक् तुष्यति पार्वति || वेतालमन्त्र पठितं यस्य नाम विधाष्टकैः | निर्दहेदकं वह्नौ वहतः श्रीकः सजायते || अन्ये प्रयोगा अपि अत्रैव ज्ञेयाः || अथ काली दीपः || २७१ब्) तदुक्तंमगस्ति संहितायां || अथादि साधने दीपं दक्षिणाया मनोहरं | भार्गवेन कृतं दीपं भर्गस्थाज्ञां पुरत्कृतं || नानारोगार्तिहरणं नानाक्लेश निवारणं | महाशत्रुभये प्राप्ते प्राप्ते प्राणस्य संकटे || दत्वा दीपं प्रयत्नेन कालिकाकल्पं भूरुहं | मूलं जप्ता हविष्यानां देवसंत्व पुतार्धक || रात्रौ तु प्रहरेतीते ततो दीपं प्रकल्पयेत् | न्यासादिकं ततः कुर्यात् षोढा कवचं संयुतं || प्रथमा च द्वितीया च नैवेद्यं परिकल्पयेत् | स्वयं गृहितदिग्वासा दीपं प्रज्वाल्य चादरात् || कुमारी पूजयेत् पश्चाद् यत्र कृत्वा हि शांभवः | षट्कोण द्वय मध्यस्थं त्रिकोणं चतुरस्रकं || चतुर्द्वार समोपेतं तत्कोणं कुलिशान्वितं | तन्मध्ये पूजयेद् देवी महाकाल समन्वितं || दीपं तस्योपरिन्यस्य संकल्पं कामनान्वित | गोघृतेन पलाष्टेन दीपं पाशि दिशामुखं || अथापर प्रकारोपि || ब्रह्मयामले || कालिकाया महाविद्या कौलपेश्वरराधिता | दीपं दत्वा फलं ज्ञात्वा वीजं च प्रथामाहृतं || सिंदुरेण कृतं यन्त्रं मूलेनावेष्टितं ततः | तस्योपरि घृतं दीपं दीपाग्रे दीपिनी जपेत् || वेदाद्यं कमला काम वाग्भवं भुवनेश्वरी | एषा तु दीपिनी विद्या कालिका वशकारिणी || सौवर्णे राजते ताम्रे कांस्ये लोहे च मृन्मये | यथा लाभं तथा कुर्योत्तिसीथे मुक्तकुक्तलः || श्वेतं पीतं तथा रक्तं पाटलं कर्पुरान्वितं | वर्ति कुर्यात् समां सौम्यं क्रूरे विषमवर्तिकाः || सौम्यगावो महिव्याश्च घृतं वानवनीतकं | अजैडिक कपोः क्रूरे कवचं सप्तधा पठेत् || संकल्पं च ततः कुर्याद् गुरु कार्ये तथाद् लघु || अत्र कुलचूडामण्युक्त प्रकारेण स्वयं गन्धर्व रूपवान् भूत्वा शक्तीरयितादृग्रूपवती भूत्वा दीपं प्रज्वालयेत् || महानील क्रमेणैव कालिका सिद्धि दायिनीति यद्यपि काली तन्त्रे उक्तं तथापि कलौ वीरेण कुलचूडामण्युक्तमर्ग एवावरणीयः || तस्यैव दीपदाने प्रसिदति न तु पशोः वशीकारे नारीरजामिश्रितावर्तिः || २७२अ) सूत्रं च गुरुमुखादेवाव गंतव्यं || अथ मन्त्र भेदात् कामना भेदोपि विशेषादुक्तो मेरुतन्त्रे || अथातः संप्रवक्ष्यामि मन्त्रमष्टात्तरं परं | दक्षिणे कालिके स्वाहा मन्त्रोष्टाक्षर ईरितः || न्यासः प्राग्वद्ध्यानमत्र शवरूप शिव स्थितां | महाकालरता सक्तां शिवाभिर्दिक्षु वेष्टितां || नवशक्ति युते पीठे ताजया विजयाजिता | तथा पराजिता नित्या विलासिन्यपि कीर्तिता || दोग्ध्र्यघोरामंगलेति पीठमन्त्रोर्कवर्णकः | ह्रीं कालिका योगपीठात्मने नम उदाहृतः || अंगानि पूर्वमाराध्य षट्पत्रेषु समर्चयेत् | कालीं कपालिनी कुल्लां कुरुकुल्लां विरोधिनी || विप्र चिन्तां च संपूज्य नवकोणेषु पूजयेत् | उग्रामुग्र प्रभां दीप्तां नीलांद्यनांवलाकिकां || मात्रामुद्रां तथा मित्रां पूज्याः पत्रेषु मातरः | पूर्वोक्ता भूपुरे पूज्या भैरव्योष्टौ च भैरवी || ततो महाभैरवी च तृतीया सिंहभैरवी | धूम्राख्या भैरवी तु पापं च मी भीमभैरवः || उन्मत्त भैरवी षष्टी वशीकरण भैरव | सप्तमी स्यादष्टमी तु प्रोक्तामोहन भैरवी || दिक् पतींश्च तदस्त्राणि पूजैवं परिकीर्तिता | पुरश्चर्यादिकं प्राग्वत् प्रयोगानाचरेत् तथा || स्त्रीणां प्रहारं निदां च कौटिल्यं वा प्रियं वचः | आत्मनो हित मन्विच्छक्त्वाली भक्तो विवर्जयेत् || असृजा महिषादीनां कालिकायस्तु तर्पयेत् | तस्यस्युरचिरादेव करस्था सर्वसिद्धयः || अथान्यं संप्रवक्ष्यामि एकविंशति वर्णकं | ओं ह्रीं ह्रीं ह्रूं युग त्रिः क्रीं दक्षिणे कालिके वदेत् || त्रिः क्रीं हूं हूं शक्ति युग्ममस्य न्यासादि पूर्ववत् | विल्वमूले शवारुढो वटमूले तथैव च || लक्षं मनुमिम जप्त्वा सर्वसिद्धीश्वरो भवेत् | पंचम प्रतिनिध्यायं दक्षिणाम्नाय सिद्धिदः || अथातः संप्रवक्ष्यामि शक्रवर्णमनूत्तमः | क्रीं हुं ह्रीं दक्षिणे कालिके क्रीं ह्रुं ह्रीं दहन प्रिया || यजनं पूर्ववत् प्रोक्तं न्यास ध्यान जपादिकं | विशेषात् तृसुरादीनामयमाकर्षण क्षमः || हूं हूं त्रिः क्रीं द्विश्चलर्जां दक्षिणे कालिके पुनः | हूं हूं त्रिः क्रीं द्विश्चलज्वां स्वाहेत्या कृतिवर्णवान् || न्यास पूजादिकं प्राग्वत् विशेषेण वशीकृतिः | जपादेतस्य भवति सर्वमन्यं तु पूर्ववत् || २७२ब्) क्रीं क्रीं क्रीं हूं समुच्चार्य हूं लज्जाद्वयमुच्चरेत् | दक्षिणे कालिके स्वाहा निविवर्णः प्रकीर्तितः || मन्त्रराजो यमाख्यातः पूर्ववत् स्यादुपासना | विशेषाङ्गतराज्यानामयं राज्यप्रदो भवेत् || क्रीमित्येकाक्षरो मन्त्रः कालिकायाः प्रकीर्तितः | जपपूजादिकं प्राग्वविशेषाद्भोगमोक्षदः || क्रीमुक्त्या कालिके स्वाहा षडर्णो मन्त्र ईरितः | न्यास पूजादिकं प्राग्वद् विशेषाद्भोगदोमतः || क्रीं हुं त्र्यक्षरात्मायं मन्त्रः काल्या प्रकीर्तितः | प्राग्वज् जपादिकं चास्य विशेषात् संतति प्रदः || काली वीजं च हूं मायां हूं फट् पंचाक्षरो मनुः | न्यास ध्यानादिकं प्राग्वद् विशेषाद्भूतनाशन || क्रीं हूं ह्रीं फडित्युक्त्वा स्वाहांतः सप्तवर्णकः | प्राग्वन्यासादिकं सर्व विशेषाच्छान्ति कारकः || अथ भक्तानुग्रहार्थमापदुद्धार कवचं लिष्यते || श्रीदेव्युवाच || देवदेव जगन्नाथ भक्तानुग्रहकारक | सर्वापदेभ्यः प्राप्नोति परित्राणं कथं नरः || श्री ईश्वर उवाच || शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं परं | आपदुद्धारणं नाम कवचं परमाद्भुतं || शतमष्टोत्तरं चैव जप्त्वा ध्यात्वा च कालिकां | इन्द्रजिद्वन्धनान्मुक्तः पुरा देवि शचीपतिः || ओं भैरवोस्य ऋषिश्छंदो गायत्री देवता प्रभुः | कालिका विनियोगोस्य सर्वापद्धि निवारणे || शिरो मे कालिका पातु क्रीमाद्यादेयुताननि | ललाटं चण्डिका पातु कण्डं पातु परांविका || चामुण्डा हृदयं पातु नाभि मंगल चण्डिका | उग्रचण्डा करौ पातु प्रचण्डा पातु पद्युगं || भैरवी त्वरिता दुर्गा चण्डोग्रां चण्डनायिका | जयदुर्गा विशालाक्षी भद्रकाली कपालिनी || शिवदूती मृताः पातु दशदिक्षु च मांसदा || ताराकाली शिवा स्वाहा || जयन्ती मंगला स्वधा || योगिनी योगनिद्रा च छिन्नमस्ता च डाकिनी | राजद्वारे जले शून्ये संयुगे संकटे ग्रहे || राजखड्गे निपाते च कारागारादिभीषणे || इति सर्वत्र रक्षन्तु सदा मां परमा युधैः | २७३अ) इति ते कथितं देवि कवचं ब्रह्मरूपिणं | आपदुद्धारणं नाम सर्वापद्विनिवारणं || आस्यापि धारणाद् देवि सर्वापन्नाशयेत् क्षणात् | देव्यै पुष्पांजलिं दत्वा कवचं प्रपठेत् सकृत् || सर्वापन्नाशयेत् सत्यं तत्क्षणान्नात्र संशयः | त्रिवारं पठनात् सत्यं नाशयित्वा खिलापदं || सर्वप्रियतमो भूत्वा सर्वेश्वर्यमवाप्नुयात् | लोहपंजर मध्यस्थो गलपद्वंधनैर्दृढं || देवीं हृदि समाराध्य पठित्वाष्टाधिकं शतं | खड्गादिभिरवध्यः स्यात् वन्धान्मुच्यते ध्रुवं || गुरुवक्त्रात् समासाद्य लक्षं यः पठते शुचिः | परितुष्टा तथा काली तस्य प्रत्यक्षतां व्रजेत् || इति श्रीरुद्रयामले कालिकल्पे आपदुद्धारणं नाम कवचं समाप्तः || श्रीदेव्युवाच || श्रूतं पूजाविधानं च कालिकायाः सुरेश्वरः | त्वत् प्रसादाच्च सकलं सर्वकामार्थ साधनं || सांप्रतं श्रोतुमिच्छामि कवचं सर्वकामदं | भुक्तिदं मुक्तिदं धर्म्यं मनोज्ञं पापनाशनं || श्रीमहादेव उवाच || कथयामि सुरेशानि देवानामपि दुर्लभं | कवचं कालिकामूर्ति यदि कुत्र न कथ्यते || महागुप्ततरं देवि तन्त्रमध्येपि दुर्लभं | मन्त्ररावृत पूजाभिः सारं शृणु सुरेश्वरि || पठनाद्धारणाद्वापि सर्वकामार्थ सिद्धिदं || अस्य श्रीकालिका कवचस्य भैरव ऋषिः अनुष्टुप्छन्दः श्रीकालिका देवता ह्रीं वीजं हूं शक्तिं क्रीं कीलकं चतुर्वर्गसाधने विनियोगः || माया पातु ब्रह्मरन्ध्रे कामपायाद्धृदांवुजे || त्रयाचाधार देशे तु कालिका चतुराक्षरी | वागाद्या सर्वगात्रेषु पंचवर्णा शुभानना || एकाक्षरी पातु भा *? क्रींकारीकोकविश्रुता | कंठे तु कवचं पातु त्रिगुणामाहृदांवुजे || कामाख्या सापदच्छिविजंघ मध्ये सदावतु | क्रीं हूं ह्रीं सर्वगात्रेषु या काली दक्षिणा मता || अष्टाक्षरी महाकाली पायान्नित्यं करांवुजे | दशाक्षरी रक्तकाली पायात् पदयुगे सदा || २७३ब्) द्वात्रिंशद्वर्ण घटिताया सा दक्षिणकालिका | पातु मां मानसं देवी दक्षिणांगे सुरेश्वरी || चतुर्विंशति वर्णा सा वामाक्षी पातु कालिका | षट्त्रिंशद्वर्णका देवी पृष्ठभागे सदावतु || त्रिंशद्वर्णा तु जठरे कालिका कामदायिनी | त्रिंशद्वर्णका देवी पातु सर्वांगकेषु च || उत्तरे पातु गशया रुद्रचण्डस्तु दक्षिणे | वाराही पश्चिमे पातु पूर्वस्यां नन्दिनोवतु || आग्नेयं हृदयं पातु अंशे शीर्षे सदावतु | वक्षदेशे शिखा पातु नेत्रमध्ये सुरक्षतु || अस्त्रं पातु चतुर्दिक्षु कालिकाया सुरेश्वरी | आद्या पातु सृष्टिकाले स्थितौ नित्या सदावतु || सुभद्रा भवने पातु मंगला मंगलालये | कामालये सदा पातु देवी चानंगचारिणी || कामाख्या कामकाले तु कामनायान्तु कामदा | महाकाली घोरभये भद्रा पातु सुभावहे || भीमाभीमरणे पातु जया व्याधि जने वने | माया माहे सदा पातु ऐश्वर्यं भुवनेश्वरी || भैरवी भीषणे कार्ये त्रिपुरापुरसाधने | दुर्गादुर्गार्ति समये पायात् काली धनागमे || कालरात्रिर्निशाभागे कामेशी दिवसे वतु | कामेश्वरी च संध्यायां कमला च विभूतये || शत्रुनाशे पातु काली कान्ता कांता श्रयेवतु | कुरु कुल्लागणे पातु स्थले पातु विरोधिनी || विप्रचिन्तावने पातु घोराराज भये तथा | उग्रप्रभा मन्त्रभये दीप्ता राजप्रियेषु च || नीलारक्षतु विप्रेभ्योद्यनारक्षतु क्षत्रितः | वलाका वैश्यतः पातु मात्रा रक्षतु शूद्रतः || मित्रामित्र कुले पातु मुद्रा पातु च वैरितः | ब्रह्माणी पातु नः पातु नारायणी च यक्षतः || माहेश्वरी भूतगणे चामुण्डा प्रेततोवतु | कौमारी पातु कुष्माण्डे पातु ध्याने पराजिता || उन्मादे पातु वाराही नारसिंही च सर्वतः | दिक्षुदिक्पतयः पातु सायुधैश्च समं प्रिये || सर्वत्र सर्वरोगेषु सर्वशोके च सर्वदा | सर्वसूत्रेषु सर्वेषा सर्वलोकेषु सुव्रता || कालिका परमेशानी पायात् सर्वार्थ सिद्धिदा | इति ते कथितं देवि कवचं सर्वकामदं || रक्ष मन्त्रैः समं सर्वं वर्णैरपि तु सुंदरं | यः पठेत् कालिकां ध्यात्वा धीयते वा सुरेश्वरी || तस्य पुण्यं निवोध्येदं नानासिद्धिकरं परं | सर्वतीर्थेषु सस्नातः सर्वदेव नमस्कृतः || यः पठेत् परया भक्त्या कवचं भैरवोदितं | २७४अ) कोटिजन्मार्जितं पापं ज्ञाता ज्ञातकृतं चयेत् || सकृत् कवच पाठेन भस्मी भवति तक्षनात् | ब्रह्महत्या सुरापानं स्तेयं गुर्वं गनागमः || तत्सर्वं भस्मसात् कृत्वा मुक्ति गच्छति पाठकः | यः पठेत् कवचं नित्यं नियमेन समाहितः || वाचां सिद्धिर्भवेत् तस्य मानवस्यापि सुन्दरि | वचनं स्तंभनं चैव शैत्यं वह्नेः सुखावहं || यं स्तंभनसुरेशानि कर्तुं शक्तो भवेन्नरः | अन्त्यस्य वरदः सोपि जायते भुवि दूर्लभः || किं पुनर्वहुनोक्तेन पठे मानस्य नित्यशः | यद्यधीवांछितान् कामान् तत्सर्वं लभते नरः || भूर्जपत्रे समालिख्य लाक्षाकुंकुम संभवैः | रोचना चन्दनैर्वापि पुष्पे च शिवभं तथा || शुभवारे शुभतिथौ गण्डभद्रा विवर्जितं | पूजयित्वा विधानेन तत्रैव परमेश्वरी || मासै नाष्टोत्तरं हुत्वा मधुरक्तैर्मधुक्रमैः | आदाय कवचं तस्मात् दष्टलोहेन वेष्टयेत् || अथवा हेमगर्भस्थ धारयेन् दक्षिणे भुजे | वामे वा कण्ठदेशे वा शिखे वा हृदये तथा || विना पूजा क्रमेणैव पूजा फलमवाप्नुयात् | किं पुनर्वहुनोक्तेन परमन्यं न विद्यते || गोपनीयं यथा भद्रे जननीजारगर्भवत् | यत्र कुत्र न वक्तव्यं कवचं भैरवोदितं || कथिते सिद्धि हानिः स्यात् सत्यं सत्यं वदाम्यहं | देयं शान्ताय शिख्याय पुत्राय प्राणदाय च || गुरुभक्तिरते वापि पूजापालन तत्परे || इति महामायातन्त्रे महाकालविरचितं कालिका कवचं संपूर्णं || अथ धारण यन्त्रार्थं कवचं लिख्यते || उत्तरतन्त्रे || कैलास शिखरासीनं भैरवं चन्द्रशेखरं | वक्षस्थले समासीना भैरवी परिपृच्छति || भैरव्युवाच || देवेश परमेशान लोकान् ग्रहकारक | कवचं सूचितं पूर्वं किमर्थं न प्रकाशितं || यदि मे महती प्रीतिस्तवास्ति कुलभैरव | कवचं कालिका देव्याः कथयस्वानु कम्पया || भैरव उवाच || अप्रकाश्यमिदं देवि नरलोके विशेषतः | २७४ब्) लक्षवारं वारितापि स्त्री स्वभावाद्धि पृच्छसि || भैरव्युवाच || सेवका वहवो नाथ कुलधर्म परायणाः | यतस्ते त्यक्तजीवाशाः शवोपरि चितोपरि || तेषां प्रयोगसिध्यर्थ स्वरक्षार्थं विशेषतः | पृच्छामि वहुशो देव कथयस्व दयानिधे || भैरव उवाच || कथयामि शृणु प्राज्ञे कालिका कवचं परं | गोपनीयं पशोरग्रे स्वयोनिरपरा यथा || सर्वविद्या महाराज्ञी कथिता भुवि दुर्लभा || अस्य श्रीकालिकाकवचस्य भैरव ऋषिरुष्णिक्छन्दोऽद्वैतरूपिणी कालिका देवता ह्रीं वीजं हुं शक्तिः क्रीं कीलकं सर्वार्थसाधन पुरःसर मन्त्र सिद्धये विनियोगः || ओं सहस्रारे महापद्मे कर्पूर धवलो गुरुः | वामोरुस्थि ततच्छक्ति सर्वत्र सर्वदावतु || परमाख्य गुरुः पातु परापर गुरुस्तथा | परमेष्टी गुरुः पातु दिव्यः सिद्धश्च मानवः || महादेवी सदापातु महादेवस्तथावतु | त्रिपुरा भैरवः पातु दिव्यरूपधरः सदा || ब्रह्मानन्दः सदा पातु पूर्णदेवस्तथवतु | चलचित्तः सदापातु चलाचलश्च पातुमां || कुमारः क्रोधनश्चैव वरदः स्मरदीपनः | माया मायावती चैव सिद्धौघाः पात्तु सर्वदा || विमलः कुशलश्चैव भीमसेनः सुधाकरः | मीनो गोरक्षकश्चैव भोजदेवः प्रजापतिः || मूलदेवो रत्तिदेवो विघ्नेश्वर हुताशनौ | सन्तोषः समयानन्दः पात्तुमा मानवाः सदा || सर्वेप्यानन्द नाथान्ता अम्वान्ता मातरः क्रमात् | गणनाथः सदापातु भैरवः पातुमां सदा || वटुकोनः सदापातु दुर्गामां परिरक्षतु | शिरसः पादपर्यन्तं पातुमां घोरदक्षिणा || तथा शिरसि मां काली हृदिमूलं च रक्षतु | संपूर्ण विद्यया देवी सदासर्वत्र रक्षतु || क्रीं क्रीं क्रीं वदने पातु हृदि हूं हूं सदावतु | ह्रीं ह्रीं पूर्वे ह्रं ह्रं दक्षे क्रीं क्रीं क्रीं वामतोवतु || पृष्ठे पातु सदा स्वाहा मूलं सर्वत्र रक्षतु | षडंग युवती पातु षडंगेषु स दैवतां || यन्त्रराजः सदा पातु ऊर्ध्वाधो दिग्विदिक् स्थितः | २७५अ) चक्रराज स्थिताश्चापि देवताः परिपातु मां || उग्रा उग्र प्रभादीप्ता पातु पूर्वत्रिकोणके | नीलाघनावलाका च तथापर त्रिकोणके || मात्रा मुद्रामिता चैव तथा मध्यत्रिकोणया | काली कपालिनी कुल्ला कुरुकुल्लाविवोधिनी || वहिः षट्कोणगाः पात्तु विप्रचिन्ता तथा प्रिये | सर्वाः श्यामाः खड्गधरो वामहस्तेन तर्जनीः || ब्राह्मी पूर्वदले पातु नारायणी तथाग्निके | माहेश्वरी दक्षदले चामुण्डा वाह्यमेव तु || कौमारी पश्चिमे पातु वायव्ये चापराजिता | वाराही चोत्तरे पातु नारसिंही शिवेवतु || ऐं ह्रीं असितांगः पूर्वे भैरवः परिरक्षतु | ऐं ह्रीं रुरुश्चाग्नि कोणे ऐं ह्रीं चण्डस्तु दक्षिणे || ऐं ह्रीं क्रोंशों नै-ऋत्या ऐं ह्रीं उन्मत्तकस्तथा | पश्चिमे पातु ऐं ह्रीं मां कपाली वामकोणके || ऐं ह्रीं भीषणनामा च उत्तरेव तु भैरवः | ऐं ह्रीं संहार ऐशान्यां मातॄणामंगगाशिवाः || ऐं हेतुकः पूर्वदले वटुपातु सदैव मां | ऐं त्रिपुरान्तक वटुराग्नेययां सर्वदावतु || ऐं वह्नि वेतालोपि दक्षिणे मां सदावतु | ऐं अग्नि जिह्ववटुको नै-ऋत्यां पश्चिमे तथा || ऐं काल वतुकः पातु ऐं कराल वटुकस्तथा | वायव्ये ऐमेकपाद उत्तरे वटुकोवतु || ऐं भीम वतुकः पातु ऐशान्यां दिशि सर्वदा | ऐं ह्रीं क्रीं हूं फट् स्वाहायाश्चतुःषष्टि मातरः || ऊर्द्धाधो दक्ष वामाग्र पृष्टदेशेषु पात्तु मां | ऐं हूं सिंहव्याघ्रमुखी पूर्वे मां परिरक्ष तु || ऐं कां कां सर्पोष्ठमुखी अग्निकोणे सदावतु | ऐं मां मृगं मेषमुखी दक्षिणे मां सदावतु || ऐं चौं चौं गजवाजिमुखी नै-ऋत्यां मां सदावतु | ऐं में मेंतिडालश्च मुखी पश्चिमे पातु मां सदा || ऐं षौं षों क्रोष्ट्वाखुमुखी वायुकोणे सदावतु | ऐं हां हां ह्रस्वदीर्घमुखी लंवोदरी महोदरी || पातु मामुत्तरे कोणे ऐं ह्रीं ह्रीं शिवकोणके | ह्रस्वजंघातालजंघः प्रलम्वौष्टी सदावतु || एताः श्मशान वासिन्यो भीषणा विकृतानना | पात्तु मां सर्वदा देव्यः साधकाभीष्टदायिका || २७५ब्) इन्द्रो मां पूर्वतो रक्षेदाग्न्येययामग्निरेव च | दक्षे यमः सदापातु नैर्-ऋत्यां निर्-ऋतिस्तथा || वरुणोवतु मां पश्चाद्वायुर्मां वायव्येन तु | कुवेरश्चोत्तरे पायादैशान्यान्तु सदाशिवः || उर्द्धं ब्रह्मा सदापातु अधश्वानन्त देवता | पूर्वादि दिक् स्थिताः पातु वज्राद्यस्त्र गणाश्च मां || कालिका पातु शिरसि हृदये कालिकावतु | आधारे कालिका पातु पादयोः कालिकावतु || दिक्षु मां कालिका पातु विदिक्षु कालिकावतु | ऊर्ध्वं मे कालिका पातु अधश्च कालिकायातु || चर्मा सृङ्मांसमेदोस्थि मज्जाशुक्रांश्वमेव तु | इन्द्रियाणि मनश्चैव देहसंधिं च मेव तु || आकेशात् पादपर्यन्तं कालिका मे सदावतु | विशन्तं कालिका पातु पथिमां पातु कालिका || शयने कालिका पातु सर्वकार्येषु कालिका | प्राणान् मे कालिका पातु दारान् मे पातु कालिका || पुत्रान् मे कालिका पातु *? न मे कालिकावतु | यत्र मे संशयाद्विघ्नास्ते नश्यन्तु शिवाज्ञया || इतीदं कवचं देवि ब्रह्मलोकेपि दुर्लभं | तव प्रीत्या मयाख्यातं गोपनीयं स्वयोनिवत् || तवनाम्नि स्मृते देवि सर्वयज्ञफलं भवेत् | सर्वे पापाः क्षयं यान्ति वाच्छा सर्वत्र विन्दति || नाम्नः शतगुणस्तोत्रं ध्यान तस्याच्छताधिकं | तस्माच्छताधिको मन्त्रः कवचं तच्छताधिकं || शुचिः समाहितो भूत्वा भक्ति श्रद्धा समन्वितः | संस्थाप्य वामभागे तु शक्तिं स्वामि परायणां || रक्तवस्त्रसमासीनां शिवमन्त्रधरां शुभां | या शक्तिः सा महादेवी हररुपस्तु साधकः || अन्योन्य चिन्तनाद् देवि देवत्वमुपजायते | शक्तियुक्तो यजेद् देवीं चक्रे वा सलसापि वा || भोगैश्च मधुपर्काद्यैस्तांवूलाद्यिअः सुवासितैः | ततःस्तु कवचं दिव्यं पठेदेक मनाः प्रिये || तस्य सर्वार्थसिद्धिःस्यन्नात्रकार्याविचारणा | इदं रहस्यं परमं परस्वस्त्ययनं महत् || यः सकृच्च पठेद् देवि शृणुयाद्वा समाहितः | सर्वान् स लभते कामान् परं देवी पुरं व्रजेत् || सकृद् यस्तु पठेद् देवि कवचं देवदुर्लभं | २७६अ) सर्वयज्ञ फलं तस्य भवेदेव न संशयः || संग्रामेषु जयेच्छत्रून् मातंगानिव केसरी | तास्त्राणि तस्य शस्त्राणि शरीरे प्रभवन्ति च || तस्य व्याधिः कदाचिन्न दुःखं नास्ति कदाचन | गतिस्तस्यैव सर्वत्र वायोस्तुल्यः सदा भवेत् || दीर्घायुः कामभोगीशो गुरुभक्तो भवेत् सदा | अहो कवच माहात्म्यं पठ्यमानस्य नित्यशः || विनापि योगचर्येण योगीण समतां व्रजेत् | भूर्जे त्वचि समालिख्य चक्र तत्र सुनिर्मितं || मध्ये त्रिकोणे संलिख्य साध्यसाधकयोर्लिपिं | उद्धरेन् मूलमन्त्रं च मातृकार्णेन वेष्टयेत् || लघुमिश्रेण चंद्रेण चन्दनाभ्या च सुन्दरि | एतद् यन्त्रं महेशानि सुरासुरेपि दुर्लभं || गोरोचनां कुंकुमेन तद्वाह्ये कवचं लिखेत् | श्वेतसूत्रेण संवेष्ट्य लाक्षया परिमण्डयेत् || पंचामृतैः पंचगव्यैः स्नापयित्वा शुभेहनि | संपूज्य देवता रूपां गुटिकां सर्वकामदां || प्राणप्रतिष्ठा मन्त्रेण प्राणं तन्त्र नियोजयेत् | अन्तर्योनिं ततो ध्यात्वा तत्र संस्थापयेद् वुधः || एषा तु गुटिका देवि कण्ठलग्ना धन प्रदा | शीर्षे वश्यकरी देवि नाभौ स्तंभन कारिणी || वध्वा वामभुजे *? षा वैरिपक्ष क्षयंकरी | जठरे रोगदमनी पुत्रदा हृदि संस्थिता || विद्याकरीललाटस्या शिखायां तु यशस्करी | सर्वकामप्रदा देवी सर्वरोगक्षयंकरी || दक्षिणे वाहु मूले वै यदि तिष्ठति सर्वदा | तदा सर्वार्थ सिद्धिः स्याद् यद्यन् मनसि वर्तते || त्र्यहाच्च कवचस्यास्य पठनाद्धारणात् प्रिये | सर्वान् कामानवाप्नोति तव स्नेहात् प्रकाशितं || गुरोः पादप्रसादेन सद्विद्या यदि लभ्यते | तथैव कवचं देवि त्रिषु लोकेषु दुर्लभं || स च देवोहरः साक्षात् तत्पत्नी परमेश्वरी | यस्य भक्तिर्गुरोर्नित्यं वर्तते देववत् प्रिये || तदा मन्त्रस्य यन्त्रस्य सिद्धिर्भवति नान्यथा | कवचस्य तथा सिद्धिर्गुटिकायाश्च सुंदरी || अज्ञात्वा कवचं देवि अजप्त्वा गुरुपादुकां | तत्फलं न समाप्नोति परत्र नरकं व्रजेत् || सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः | २७६ब्) न शक्रोमि प्रभावन्तु कवचस्यास्य वर्णितुं || यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभं | न देयं परशिष्येभ्यः कृपणेभ्यः सुरेश्वरि || शिष्याय भक्तिहीनाय चुम्वकाय तथैव च | गुरुभक्ति विहीनाय परदाररताय च || निन्दकाय कुशीलाय दांभिकाय च सुन्दरि | यो ददाति निषिद्धेभ्यः कवचं मन्मुखोदितं || अमुत्र कष्टमाप्नोति परत्र नरकं व्रजेत् | देयं शिष्याय शान्ताय गुरुभक्तिपराय च || सर्वलक्षणयुक्ताय तत् तन्मन्त्र युताय च | इत्यन्तरतन्त्रे कालीभैरवसंवादे श्रीदक्षिणकाली कवचं समाप्तं || अथापरयन्त्रसंस्कारः || वामकेश्वरतन्त्रे || श्रीभैरव्युवाच || चक्रभेदो महादेव त्वत् प्रसादान् मयाश्रुतः | इदानीं श्रोतुमिच्छामि प्रतिष्ठा कर्मनिर्णयं || श्रीशंकर उवाच || शृणु देवि प्रवक्ष्यामि जगत्कारिणि कौलिनि | तस्योद्यापन कर्मांगं सर्ववर्ण विनिर्णयं || स्नात्वा संकल्पयेन् मन्त्री गुरोरर्चन माचरेत् | गुरुर्मन्त्रेण विलिखेद् यन्त्रं स्वर्णशलाकया || पंचगव्यन्ततः कृत्वा शिवमन्त्रेण मन्त्रितं | तत्र चक्रं क्षिपेन् मन्त्री प्रणवेन समाहितः || तस्मादुद्धृत्यतच्चक्रं स्थापयेत् स्वर्णपंकजे | पंचामृतेन दुग्धेन शीतलेन जलेन च || स्नापयेत् चन्दनेनापि कस्तूरी कुंकुमेन च | हाटकैष्कलशैर्द्देवि अष्टभिर्वारिपूरितैः || कखाय जलसंपन्नैः स्नापयेन् मन्त्रमुच्चरन् | तत उत्तोल्यतद्यन्त्रं स्थापयेद्धेमपात्रके || यन्त्र राजाय विग्रहे महायन्त्राय धीमही | उच्चरेदेतदन्ते तु तत्रो यन्त्रः प्रचोदया || स्पृष्ट्वा यन्त्रं कुशाग्रेण सावित्र्या चाभिमन्त्रयेत् | अष्टोत्तरशतं देवि देवताभाव सिद्धयेत् || आत्मशुद्धिन्ततः कृत्वा त्वाद्ध्यन्कैदेवतां भवेत् | कुलताम्वुलनैवेद्यैद्देवीं तत्र समर्चये || पट्टसूत्रादिकं दद्याद् वस्त्रालंकारमेव च | मुकुलं चामरं घण्ठां यथायोग्यम् महेश्वरि || सर्व मेतत्प्रयत्नेन दद्यात् महिद्व्यतेरतः | ततो जपेत् सहस्रं च सकलेप्सित सिद्धये || २७७अ) वलिदानं ततः कृत्वा प्रणमेद्यन्त्र राजकं | अष्टोत्तरशतं हुत्वा संपाताज्यं विनिःक्षिपेत् || हेति संपातरीत्पातु गुरुस्सर्वं समाचरेत् | गुरुवे दक्षिणां दत्वा यथा शक्त्या विसर्जयेत् || इति श्री-आद्यानन्दविरचितायां कुलमुक्तिकल्लोलिन्यां विंशतितमः पटलः || अथ कालीभेदाः || तन्त्रशेखरे || उत्पत्ते कालिकाभेदाः सर्वतन्त्रेषु गोपिताः | आस्यान्तंयान्तसंरूढं शिवप्रान्तसमन्वितं || आस्यान्तशेखरं प्रोक्ता विद्याभुवन वन्दिता || आस्यान्तः ककारः यान्नोरेफः शिवप्रान्त दीर्घ ईकारः आस्यान्तो विन्दुः || वीजमान्त्रिता देवी षड्वर्णा शिवसान्विता || तेन क्रीं कालिके स्वाहा इति मन्त्रः || पूर्वोक्त मन्त्रराजस्य प्रान्तवीजानि संत्यजेत् | तिथिवर्ण भवेद् विद्या षोडशीयं रमान्विता || विद्यायास्तिथिवर्णायायः स्याद्वीजस्य संचयः | तमेव वैपरीत्येन ठद्वयात् पूर्वमूच्चरेत् || कामपूज्या भवेद् विद्या त्रिवीजा ब्रह्मणो मता | वीडाद्या शक्रपूज्येयं हूं फडन्ता तु वैष्णवी || अक्षरत्रयहीनाया वैष्णवी भैरवी भवेत् | भैरवी नारदीं प्रोक्ता हार्दा चाधन धर्मदा || हार्दं नमः || विद्या स्थिति वर्णाया वीजं वह्नि प्रिया स्मृता | कुवेरो पासिता विद्या काली भेदा स्मृता इमे || वीजं वीजसप्तकं || ऋष्यादिकं पुराप्रोक्तं पूर्ववद्यान पूजने || कुलचूडामणौ || ब्रह्मा सरस्वती युक्तो देव वा मुखसंस्थितः | विद्याशक्ति समायुक्तः कालीमन्त्र उदाहृतः || ब्रह्माककारः || सरस्वती दीर्घ ईकारः || देवतामुखं रेफः || विद्याशक्तिर्विन्दुः || एकं वा द्विगुणं वापि त्रिगुणं वापि भैरव | जप्त्वा चाकर्षयेत् सर्व जगत्स्थावरजंगमं || एषाविद्या महाविद्या गुह्यागुह्यतरा स्मृता | पूर्ववीजं परं शक्ति वीजेन मूर्तिकल्पना || षड्दीर्घभाजा वीजेन कुर्यादंगादि कल्पनां | अन्यत् सर्वं द्वाविंशत्यक्षरी वदुक्तं || कालीतन्त्रे || २७७ब्) काली हृदय विद्यां च सिद्धविद्यां महोदयां | पुरायेन तथा सिद्धिमवायुस्त्रिदिवौकसः || कामाक्षरं वह्निसंस्थं इन्दिरा नादविन्दुभिः | मन्त्रराजमिदं ख्यातं दुर्लभं पाप चेतसां || सुकृतांसुलभं भक्त्यां साधकानां महान्मनां | त्रिगुणेन्दु विशेषेण सर्वशास्त्र प्रवोधिनी || अनया सदृशी विद्या न हि सारस्वत प्रदा | ध्यान पूजादिकं सर्वं साधनं च पुरस्क्रिया || अनिरुद्ध सरस्वत्याः समानं परिकीर्तितं | विद्यारत्नप्रवक्ष्यामि श्रुत्वा कर्णाऽवतं सद्य || माया द्वयं कूर्चयुग्ममैन्द्रान्तंमादन त्रयं | माया विंद्वीश्वर युतं दक्षिणे कालिके पदं || संहारक्रमयोगेन वीज सप्तकमुच्चरेत् | एकविंशाक्षरो मन्त्रस्ताराद्यैर्विश्वपूजितः || स्वाहान्तश्च त्रयो विंशाक्षरोयं मन्त्रराजकं | स्वाहांविनैक विंशत्यक्षरोयं कामदो मनुः || विंशत्यर्णा विद्या स्वाहा प्रणववर्जिता | ध्यानपूजादिकं सर्व दक्षिणावदुपाचरेत् || कुमारी तन्त्रेपि || द्वाविंशत्यक्षरी मुद्धृत्य पूर्ववीजं महाविद्या || पूर्ववीजत्रयं तथा || कूर्चयुग्मं महाविद्या कूर्चकश्च महेश्वरि | लज्जा द्वयं महाविद्या लज्जैकं च तथा भवेत् || दक्षिणे कालिके स्वाहा विद्यान्या परिकीर्तिता | एषा विद्या राजविद्या जपने पूजने तथा || अथ वक्ष्ये महाविद्यां सिद्धविद्यां महोदयां | ईश्वरेण पुरा प्रोक्तां देवी हृदये संज्ञकां || यस्य ज्ञान प्रभावेन कलयामि जगत् त्रयं | प्रणवं पूर्वमुच्चार्य हृल्लेखा वीजमुच्चरेत् || रतिवीजं समुद्धृत्य पपंचमं भगान्वितं | ठद्वयेन समायुक्तां विद्याराज्ञी प्रकीर्तिता || अनया सदृशी विद्या कालीतन्त्रे सुदुर्लभा | रतिवीजं क्रींकारः जगन्मगल कवच स्वरसात् || पपंचमोमकारः || भैरवोस्य ऋषिः प्रोक्तो विराट् छन्द उदाहृतः | सिद्धकाली ब्रह्मरूपा देवता भुवनेश्वरी || रतिवीजं वीजमस्या हृल्लेखा शक्तिरुच्यते | हृल्लेखया षड्दीर्घेन प्रणवाद्येन कल्पयेत् || २७८अ) अंगषट्कं ततो न्यस्य ध्यात्वा देवीं शिवो भवेत् || खड्गोद्भिन्नेन्दु विम्वस्रवदमृतरसाप्लावितांगी त्रिनेत्रा सव्ये पाणौ कपालां कुलमसृजमथोन्मुक्तकेशी पिवन्ती || दिग्वस्त्रावद्ध कांचीमणिमय मुकुटाद्यैर्युतादीप्त जिह्वापायान्नीलोत्पलाभारविशशिविलसत् कुण्डलालीढ पादा || जपेद्विंशति साहस्रं सहस्रैकेन संयुतं | होमयेत् तद्दशांशेन मृदु पुष्पेण मन्त्रवित् || त्रिकोणं कुण्डमासाद्य सिद्धविद्यः शिवो भवेत् | पूजनं च प्रयोगश्च दक्षिणावदूपाचरेत् || एकाक्षर्या महाकाल्या विधानं सर्वमेव वा || विश्वसारतन्त्रे || षडक्षरीं महाकालीं वक्ष्यामि शृणु पार्वति | वीजत्रयं समुद्धृत्य अस्त्रवर्ण समुद्धरेत् || वह्निजायावधिः प्रोक्ता विद्या त्रैलोक्य मोहिनीं || भैरवीतन्त्रे || वाग्भवो स्यादि हृदयं वह्न्यारूढं प्रजापतिं | द्वितीय स्वरसंयुक्तं विन्दु षंण्डेन्दु संयुतं || द्विरुच्चार्य पुनः पूर्वश्चतुर्थस्वर विन्दु युक् | द्विरुच्चार्य कालिकायै वह्निजाया वधिर्मनुः || कामाक्षा पंचाशिकायामपि || शृणु देवि महाविद्यामेकादशाक्षरी परां | आदौ वाग्भवमुच्चार्य वद्भ्यारूढः प्रजापतिः || मुखवृत्तेन संयुक्तमेवं वीजद्वयं पुनः | काली वीजद्वयं देवि कालिकायै ततो वदेत् || वह्निजायान्तिको मन्त्रः प्रोक्तः सर्वसमृद्धिदः | ऋषिश्च दक्षिणामूर्तिश्छन्दः पंक्तिरुदाहृतः || परात् परतरा शक्तिर्देवता कालिका स्मृता | एकादशाक्षरी विद्या कालिकायाः सुदुर्लभा || भाग्येन लभते चैषा सर्वैश्वर्य सुख प्रदा | लक्षं द्वयं भवेज्जप्यं पुरश्चरण कर्मणि || सांगोपांग विधानेन तथा चाष्ट सहस्रकं | चतुर्भुजां कृष्णवर्णां मुण्डमाला विभूषितां || खड्गं च दक्षिणे पाणौ विभ्रतीं सशरं धनुः | मुण्डं च खर्परे चैव क्रमाद्वामेन विभ्रतीं || द्यांलिखन्तीं जटामेकां विभ्रतीं शिरसा स्वयं | मुण्डमालांधरां शीर्षे ग्रीवायामपि सर्वदा || २७८ब्) वक्षमाना इहागन्तु विभ्रतीं रक्तलोचनां | कृष्णवस्त्रधरां कट्यां व्याघ्राजिन समन्वितां || वामपादं शवहृदि संस्थाप्य दक्षिणं पदं | विन्यस्य सिंहपृष्टे च लेलिहानां शवस्वयं || साट्टहासा महाघोररावयुक्तां विभीषणां | एवं विचित्र्य भक्तैस्तु कालिका परमेश्वरीं || सततं भक्तियुक्तैस्तु भोगैश्वर्यमभीप्सुभिः || स्वतन्त्रे || श्मशान कालिका मन्त्रं शृणुष्वावहिता प्रिये | वाणी मायां ततो लक्ष्मी कामवीजं ततः परं || कालिके संपुटत्वेन चतुष्कं वीजमालिखेत् | एकादशार्णा देवेशि चतुर्वर्ग प्रदायिनी || ऋषिर्भृगुर्निवृच्छन्दो देवता कालिका परा | श्मशानाद्या च वाङ्मया वीजशक्ती महेश्वरि || कीलकं कामवीज स्यात् शृणु पूजां वलिं प्रिये | चतुस्त्रिभिश्चतुवर्णे द्विरावृत्या षडंगकं || विन्यस्य ध्यानं कुर्वीत कालिकायाः समाहितः | अंजनाद्रिनिभां देवी श्मशानालयवासिनीं || त्रिनेत्रां मुक्तकेशीं च शुष्कमांसातिभीषणां | पिंगाक्षीं वामहस्तेन मद्यपूर्ण कपालिका || सद्यः कृत्त शिरोदक्ष हस्तेन दधती शिवां | स्मित वक्त्रां सदा वाम मांस चर्वणे तत्परां || नानालंकार भूषांगी नग्नामत्तां सदाशवैः | एवं ध्यात्वा यजेद् देवीं श्मशाने तु विशेषतः || गृहे वापि गृहस्थश्च मत्स्यमांसैः सुभोजनैः | नग्नो भूत्वा महापूजां कुर्याद् रात्रौ समाहितः || पद्मं चाष्टदलं वृत्तं तद्वाह्ये धरणीतरं | चतुर्द्वार समायुक्तं मध्ये मूलं समालिखेत् || दलेष्वष्टाभ्य विलिखेत् कवर्गाद्यष्टवर्गकं | धरण्यांः विलिखेद्द्वारं चतुर्दिक्षु चतुष्ककं || पूर्वादि उत्तरान्तायां || मध्ये देवीं प्रपूजयेत् || ब्राह्म्याद्याः पूजयन् मातृर्दलेष्वष्टभ्य पूर्वतः | भैरवानसितां गाद्यान् धरण्यां पूजयेत् प्रिये || अस्य पुरश्चरणं एकादश लक्ष जपः | वर्णलक्षं जपेन्मन्त्रं तद्दशांशेन होमयेत् || स्वतन्त्रे || कामवीजं समालिख्य कालिकायै पदं लिखेत् | २७९अ) नामान्तेन च देवेशि सप्तार्णो मनुरुत्तमः || सवांगं कालिकादेवी अन्यत् सर्वन्तु पूर्वत् || भैरवतन्त्रे || कालीवीजद्वयं देवि दीर्घ हूंकारमेव च | त्र्यक्षरी सा महाविद्या चामुण्डा कालिका स्मृताः || वाग्भवं प्रथमं देवि कूर्चवीजं तथैव च | वेदादिर्वाग्भव चैव मायावीजं तथैव च || फट् स्वाहया समायुक्तं मन्त्रं सर्वार्थसिद्धिदं | कालीवीज द्वयं देवि कूर्चयुग्मं तथैव च || मायायुग्मं च देवेशि कालीविद्या षडक्षरी | स्ववीजं पूर्वमुद्धृत्य दक्षिणे कालिके ततः || स्ववीजं चैव स्वाहा च कालिका सा दशाक्षरी | माया वीजद्वयं देवि दक्षिणे कालिके पदं || कूर्चवीजं तथा माया तदन्ते वह्नि वल्लभा | एषा काली महाविद्या सर्वसारस्वतप्रदा || कालीवीजं समुद्धृत्य कूर्चं माया तथैव च | दक्षिणे कालिके चेति स्ववीजं कूर्चवीजकं || माया स्वाहा पदं देवि चतुर्दशाक्षरी शुभा | खड्गमुण्डधरादेवी वरदाऽभयधारिणी || रुद्रयामले || सर्वाद्यं कूर्चवीजं च लज्जाद्वयं तथैव च | दक्षिणे कालिके चैव कूर्चयुग्मं परन्ततः || वह्निजायान्विता विद्या ताराद्या कथिता परा | पूर्ववत् पूजनं सर्वं मन्त्रः पंचदशाक्षरं || लज्जावीजं त्रिवारं च दक्षिणे कालिके ततः | पुनस्त्रितय लज्जां च वह्निजायान्वितस्ततः || विधानं पूर्ववत् प्रोक्तन्त्रवनार्णः समीरितः | शब्दवीजयुगं देवि कालिके दक्षिणे पदं || तथा वर्मयुगं देवि स्वाहान्तो द्वादशाक्षरः | न्यास पूजादिकं सर्वं पूर्ववत् परिकल्पयेत् || नामादौ चर्मवीजन्तु नामान्ते ह्रीयुगन्ततः | ठद्वयेन समायुक्ता द्वादशार्णा कुलेश्वरि || वर्म हूं वीजं ह्रीं || ध्यानादिकं तु सर्व हि पूर्ववत् परिकल्पयेत् | आदौ लज्जायुगं देवि दक्षिणे कालिके ततः || क्रींकार युगलं चैव कूच्चयुग्मं ततः परं | स्वाहान्ता च तथालज्जा षोडशीयं सुगोपिता || तथा लज्जेति लज्जायुगित्यर्थः || लज्जा द्वयेन पुटितं दक्षिणे कालिके पदं | मन्त्रोयं द्वादशार्णस्तु वह्निजाया समन्वितः || २७९ब्) ह्रीं वीजपुटितं कूर्च दक्षिणे कालिके ततः | पूर्वोक्तानि च वीजानि वह्निजायान्वितानि च || शक्रार्णायं महामन्त्रः कालिकायाः समीरितः | एतासां ध्यान पूजादीन् दक्षिणावत् समाचरेत् || रुद्रयामले || शृणु देवि प्रवक्ष्यामि दुर्लभं हृदयंगमं | शक्तिवीजं समुद्धृत्य कालीवीजमनन्तरं || कूर्चयुग्मं ततो देवि स्वान्तं मन्त्रमुद्धरेत् | एषा विद्या महाभागे त्रिषु लोकेषु दुर्लभा || इमां प्रजयतः कस्य किं न सिध्यति भूतले | ऋषिश्छन्दो देवता च जपहोमादिकं तथा || द्वाविंशत्यक्षरी देव्याः समानं सर्वमीरितं | प्रासादातं वदेत् कालि महाकालि पदं वदेत् || कलावक्षि युतौ द्वेधा तदन्ते च फडुच्चरत् | स्वाहा चतुर्दशार्णोयं महाकाली मनुर्भवेत् || कलौककारलकारौ अक्षि ह्रस्व इकारस्तयुतं | ककारलकार द्वयं तेन किलिकिलीतिसिद्धं || हों कालिमहाकालि किलिकिलि फट् स्वाहा | लज्जा वीज ततः कूर्चं फडन्ता त्र्यक्षरी भवेत् || प्रलयाग्नी स रुधिरा वूर्धकेशी समन्वितौ | नादविन्दु समायुक्ता वेवं क्रोधद्वयं पुनः || इदं गृहाण पदतो वर्मास्त्रानल वल्लभा | चतुर्दशाक्षरी प्रोक्ता महाकाली ध्रुवादिका || प्रलयाग्नी फकारौ तथा च तुं फ्रें फ्रें हूं हूं इदं गृहाण हूं फट् स्वाहा || विष्णुयामले काली सार्वज्ञ विद्या || आदौ वाग्भव वीजन्तु वह्न्यारूढः प्रजापतिः | श्रिया युक्तो विन्दुना च वीज मेतत् त्रिधा पठेत् || कथितेयं महाविद्या कौलिकी कुलसुन्दरी || श्रियायुक्तः ईकारयुक्तः || सर्वसौभाग्यनिलया सर्वसौख्यप्रदायिनी | सार्वज्ञे दायिनी श्यामा कवित्ववित्तवर्धिनी || सुप्तादि दोषरहिता स्मरणात् सर्वसिद्धिदा | नापेक्षा जपहोमस्य नाचारस्य विशेषतः || ग्रहणात् सिद्धिदा विद्या नन्दिकेश्वर पूजिता | भैरवोस्य ऋषिः प्रोक्त उष्णिक् छन्द उदाहृतः || देवता दक्षिणा काली समस्तफलसिद्धिदा || २८०अ) श्रीवाराहीतन्त्रे || श्रीभगवानुवाच || अथ काली मनुंवक्ष्ये समस्त पुरुषार्थदं | स्वामिनं च नमस्कृत्य वक्ष्ये मात्स्य मतं यथा || कपिलोर्घीशमारूढा नादचन्द्रविभूषिता || कपिलाकारः अर्घीशः षष्ठस्वरः || एकाक्षरमाद्यवीजं मयावीजं द्वितीयकं | तुर्याक्षरं शरं युतं वागाद्यं वाणवर्णकं || ऋषिः स्यात् कृष्णकश्छन्दोप्यनुष्टुप् परिकीर्तितः | देवता च भवेत् काली इष्टार्थे विनियोजयेत् || यमलक्षं जपेद् वीजं तत्वन्यास उदाहृतः | होमं पंचाशमुदिष्टं कलांशेनरविर्भवेत् || तर्पणं द्विगुणं प्रोक्तं पुरश्चरणमीरितं | पुरश्चरण हीनो हि न सिद्धिश्च प्रजायते || अष्टास्रगर्भं कमलं गुणत्रयविभूषितं | धराकृत चतुर्द्वारं यन्त्रमेतत् समीरितः || माया षड्दीर्घ योगेन करांगेषु निवेशयेत् | स जाति संयुतं कुर्यात् स्व स्व मुद्रा समन्वितं || उत्तराभिमुखो भूत्वा पीठनिर्माय पूजयेत् | अथवा मणिपूरे च योनिलिंगे प्रशस्यते || महालिंगे मणौ यन्त्रे श्वेतलिंगेऽथवा भवेत् | प्रतिमायां सरोजेषु पूजाकार्या विभूतये || मन्त्रे मन्त्रे दशगुणं योनि लिंगे दशोत्तरं | ललना हृदि योनौ च फलवै पंचविंशतिः || गणेशं रुद्रचण्डं च वाराहं नन्दिनं तथा | उत्तरादि क्रमेणैव द्वारपारान् समर्चयेत् || द्वीपं त्रित्रिणं विपुलं स्वर ह्रं सुमनोहरं | कूजत् कोकिलनादाद्व्यं मन्दमारुत सेवितं || भृंगपुष्पलताकीर्णं उद्यच्चन्द्र दिवाकरं | स्मृत्वा स्वधा विध मध्यस्थं तस्मिन् माणिक्य मण्डपे || रत्नसिंहासने पद्मे त्रिकोणो ज्वलकर्तिके | पीठे संचित्तयेद् देवीं साक्षात् त्रैलोक्य सुंदरीं || नीलनीरजसंकाशां प्रत्यालीढपदेस्थितां | चतुर्भुजां त्रिणयनां खण्डेन्दु कृतशेषरां || लंवोदरीं विशालाक्षी श्वेतप्रेतासनेस्थितां | दक्षिणोर्धेन निस्त्रिंशं वामोर्धे नीलनीरजं || कपालं दधतीं चैव दक्षिणाधश्च कर्तृकां | नागाष्टकेन संवद्ध जटाजुटां सुरार्चितां || २८०ब्) रक्तवर्तुल नेत्रां च प्रव्यक्त दशनोज्वलां | व्याघ्रचर्म परीधानां गन्धाष्टक प्रलेपितां || तांवूला पूर्णवदनां सुरासुर नमस्कृतां | एवं ध्यात्वा षोडशारे निवेश्य प्रतिपूजयेत् || अंगपूजां विधायाथ दलेषु पूजयेत् ततः | आद्यां नित्यां सुभद्रां च मंगलामंगचारिणीं || कामाक्षां रूपदां तारामथ कालीं समर्चयेत् | केसरे पूजयेदेता ऐशान्यादि क्रमेण तु || भद्रां भीमांजंयां मायां भुवनेशीं च भैरवीं | त्रिपुरां कामदां दुर्गां ठ द्वयान्तेन चार्चयेत् || मध्ये कालींकारे रात्रिं कामेशीमथकामनां | कमलां कालिकां कान्तां स्वस्ववीजेन चार्चयेत् || सर्वायुवत्यो द्विभुजा वीणावादन तत्पराः | रक्ता मनोहरा दूत्यः सुवेशामदमत्थराः || आद्यान्त युग्मरहिताः स्वराः क्लीवविवर्जिता | विन्द्वन्ता मनवस्तासां वह्निजायान्तमेव च || यमलक्षं जपित्वा तु मधुराक्तैर्मधूकजैः | कुसुमैरयुतं हुत्वा तोषयें गुरुमान्मनः || शक्तिपीठे यजेद् देवी वक्ष्यमाणेन वर्मना | सिद्धमन्त्रं जपेन् मन्त्री सहस्रं शयनत्थितः || यां विचिन्त्य स्त्रियं रात्रौ सा समायाति तत्क्षणात् | अष्टासु मध्ये प्रविलिख्य मायां कोणेषु कामं वहिरस्त्रवर्णौ || तद्वाह्यतो मातृकयाभिरीतं यन्त्र च काल्याः शुभदं प्रशस्तं || कवचं च न्यसेद् भाले ललनामास्तु गह्वरे | कुंकुमेन कुशीतेन लिखित्वा धारयेद् यदि || प्रियो भवति नारीणां भवेत् काम इवापरः | वाग्भवां शिरसिन्यस्य देवीं संचिंत्य कालिकां || शक्तिं वीजं न्यसेद्भाले संस्मृत्य भुवनेश्वरीं | शवर्णौ विन्यसेन् नेत्रे ध्यात्वा सूर्यं हुताशनं || मुख वृत्ते न्यसेत् सान्तं सार्घाशंरस्मिसंयुतं | जिह्वायां विन्यसेदेवं सभायां वाक्पतिर्भवेत् || सहस्रं हयमारैश्च हुत्वामुच्येत वन्धनात् | पद्मैर्हुत्वा जपेच्छत्रून् दूर्वाभिः शान्तिमाप्नुयात् || पलाश कुसुमैः पुष्टिं धान्यैर्धान्य श्रियं व्रजेत् | काकपत्रैः कृतो होमो द्वेषंवितनुते नृणां || मरीच होमैर्मरणं रिपुराप्नोति सर्वथा | २८१अ) क्षुद्राभिचारभूताद्यान् ध्यात्वा देवीं विनाशयेत् || नीरजैररूणैः पुष्पैरतिरम्य सुगन्धिभिः | पूजयेद् धूपदीपाद्यैर्नृत्यगीतै मनोहरैः || एवं सिद्धमनुर्मन्त्री नरनारीश्वरो भवेत् | मन्यते वत्सरा दर्वाक् लक्ष्माजित धनेश्वरः || योनिकुण्डं प्रकल्प्याथ कुर्याद्धोम निजेच्छया | मल्लिका कुसुमैर्हुत्वा वशयेदखिलं जगत् || कृत्याद्रोहादि शमनं पृष्ठकैर्मधुराप्लुतैः | इक्षु दण्डैः शुभै हुत्वा महतिं सिद्धिमाप्नुयात् || यवैर्धान्यसमृद्धिः स्यात् गोधूमैरिष्ट सिद्धियुक् | तण्डुलैरक्षासिद्धिः स्यात् श्रीधृतिश्चायुतस्तिलैः || मन्त्रै नीलोत्पलै हुत्वा नृपपत्नी वशं नयेत् | प्रवुद्धैः पंकजै हुत्वा वशं नयति मेदिनीं || अशोकैः पुत्रमाप्नोति मधुकैरिष्टमाप्नुयात् | फलैर्जम्वुद्भवैर्हुत्वा शीघ्रमुच्छादयेदरीन् || केतकी पत्र होमेन सपत्नं नाशयेद्ध्रुव | अयुतं होमसंख्या स्यात् जपस्तावान् प्रकीर्तिताः || स्नानं तन्मन्त्रितैस्तोयैः सर्वव्याधिहरं स्मृतं | तज्जप्तच्छत्रकं तोयं मुखेच्छिप्तं विषापहं || आर्ताय भैषजं दद्यात् मन्त्रेनानेन मन्त्रितं | सतद्व्याधि विनिर्मुक्तो मानुषोऽस्य प्रभावतः || त्रिलोही मुद्रिकानेन मनुना साधु सोधिता | कृत्या द्रोहादि शमनी सर्वव्याधि विनाशिनी || सर्वसम्पत् प्रदानित्यं सर्ववश्यकरीमता | यद्यद्वांछति मन्त्रेण तत्रदेतेन साधयेत् || अर्धरात्रौ च संध्यायां दिवारात्रौ समर्चयेत् | हुत्वा भुक्त्वा जपेन् मन्त्रं सर्वपापैः प्रमुच्यते || अष्टम्यां च उभे पक्षे नवम्यां च विशेषतः | नृच्छाग महिषाद्यैश्च वलिं दद्याद् विधानतः || आषाढस्य पंचदश्यां संप्राप्ते तुर्य यामके | तत्र दानं जपो होमः सर्वं रात्रौ तदाक्षयं || पुष्ययोगे तु संप्राप्ते गोमेधस्य फलं लभेत् | शुभयोगः कदाचित् स्यात् तत्र तत्र विशिष्यते || फेत्कारीये || प्रासादवीजमुच्चार्य कालीति पदमुद्धरेत् | महाकाली पदं चोक्त्वा कालियुग्ममतः परं || अस्त्रमग्नि प्रियान्तोयं भद्रकाली महामनुः | आराध्य प्रजपेन्नित्यमष्टोत्तरशतं मनुः || २८१ब्) अस्थिमाला विधातव्या अष्टाधिक शतं न च | ध्यातव्येयं महाविद्या भद्रकाली भयापहा || क्षुत्सामा कोटराक्षी मसिमलिनमुखी मुक्तकेशी रुदन्ती नाहं तृप्ता वदन्ती जगदिदमखिलं ग्रासमेकं करोमि || हस्ताभ्यां धारयन्ती ज्वलदनल शिखा सन्निभं पाशयुग्मं दन्तैर्जम्वूफलाभैः परिहरतु भयं भद्रकाली कराला || अशेष कालिका तन्त्रे कथिता कार्य सिद्धये | इय देवी महादेवि शत्रु निग्रहकारिणी || अस्याः पूजादिकं सर्वं कालिका वदुपाचरेत् || रुद्रयामले || शृणु देवि प्रवक्ष्यामि दुर्लभं भुवनत्रये | शक्तिवीजं समुद्धृत्य कालीवीजमनन्तरं || कूर्चयुग्मं ततो देवि स्वाहान्तं मन्त्रमुद्धरेत् | एषा विद्या महादेवि त्रिषु लोकेषु दुर्ल्लभा || शक्तिवीजं भुवनेश्वरी || ऋषिश्छन्दो देवता च जपहोमादिकं तथा | द्वाविंशत्यक्षरी देव्याः समानं सर्वमेव च || नमः पाशांकुशौ द्वेधा फट् स्वाहा कालिकालिके | दीर्घतनुच्छदं कालि मनुः पंचदशाक्षरः || ऋषिच्छन्दादिकं चास्य दक्षिणा वदुपाचरेत् || विश्वसारे || मन्त्रभेदान् प्रवक्ष्यामि शृणुष्व कमलानने | एषां विज्ञानमात्रेण भवेद् गंगाधरः स्वयं || त्र्यक्षरीया महाविद्या तामद्य कथयामिते | मूलवीजं तथा माया लज्जावीजं ततः परं || माया हूं || महाविद्या महाकाल्या महाकाल मता प्रिये || अथ पंचाक्षरी विद्यां शृणुष्व कमलानने | प्रजापतिं समुद्धृत्य वह्न्यारूढं ततः परं || चतुर्थस्वरसंयुक्तं विन्दुनाद विभूषितं | वामश्रवणसंयुक्तं ईशानं च समुद्धरेत् || विंदुखण्डेन् ज्वलं कृत्य कूर्चवीजमिदं स्मृतं | ईशो वैश्वा नरा रूढा रति विन्दु विभूषिताः || लज्जा वीजमिदं प्रोक्तं सर्वतन्त्र समन्वितं | वीजत्रयं क्रमेनैव तदन्ते वह्नि सुन्दरी || पंचाक्षरी महाविद्या कथिता पद्मयोनिता | षडक्षरी महाकाली वक्ष्यामि शृणु पार्वति || वीजत्रयं समुद्धृत्य अवर्णन्तु समुद्धरेत् | वह्निजायावधिः प्रोक्ता विद्या त्रैलोक्यमोहिनी || २८२अ) अष्टाक्षरी महाविद्या कथ्यते शृणु पार्वति | वीजत्रयं क्रमेणैव पुनर्वीज त्रयं सुधीः || स्वाहान्ता कथिता विद्या चतुवर्ग फलप्रदा | एकादशाक्षरी विद्या कथ्यते शृणु पार्वती || वाग्भवं हृदयं ब्रूयाद् वद्या रूढं प्रजापति | चतुर्थस्वरसंयुक्तं नादविन्दुविभूषितं || द्विगुणं च ततः कृत्वा ङेन्तं च कालिका पदं | स्वाहन्त कथिता विद्या प्रियेष्टका दशाक्षरी || ऋषिः स्याद् दक्षिणामूर्तिश्छन्दः पक्तिरुदाहृतं | परात् परतरा शक्तिः कालिका देवता स्मृता || एकादशाक्षरी विद्या कालिकायाः सुदुर्लभा | भाग्येन लभ्यते चैषा चतुर्वर्ग फलप्रदा || लक्षत्रयं जपेद् विद्यां पुरश्चरण कर्मणि | अन्यासां वर्णलक्षं स्यात् कथितं पद्म योनिना || आसां ध्यानमहं वक्ष्ये शृणुष्व कमलानने | ऋषिणा यत्पुरा प्रोक्तं दक्षिणामूर्ति संज्ञिना || चतुर्भुजां कृष्णवर्णां मुण्डमालाविभूषिता | खड्गं च दक्षिणे पाणौ विभ्रतीन्दीवरद्वयं || कतृकां खर्परं चैव क्रमाद्वामेन विभ्रतीं | द्यां लिखन्ती जटामेकां वीभ्रतीं शिरसा स्वयं || मुण्डमालाधरां शीर्षे ग्रीवायामपि सर्वदा | वक्षसा नागहारेण विभ्रतीं रक्तलोचनां || कृष्णवस्त्रधरां कट्यां व्याघ्राजिन समन्वितां | वामपादं शवहृदि संस्थाप्य दक्षिणं पदं || विन्यस्य सिंह पृष्ठे तु लेलिहानां शवं स्वयं | अट्टहासां महाघोररावयुक्तां च भीषणां || एवं संचिन्तयेत् कालीं कलिकल्मषनाशिनीं | सततं भक्ति नम्रैस्तु भाग्यैश्वर्य सुखेप्सुभिः || गुरुं नत्वा विधानेन चिन्तयेत् परदेवतं || अथापरं प्रकारं हि वक्ष्यामि शुभलक्षणं | शृणुष्व परया भक्त्या कालीकल्मष नाशिनी || मूलवीजं तथा माया लज्जावीजं ततः परं | दक्षिणे कालिके चेति तदन्ते वह्नि सुन्दरी || एकादशाक्षरी काली चतुर्वर्ग फलप्रदा | कवच मूल वीजाद्यं तदन्ते भुवनेश्वरीं || तदा च दक्षिणे चेति अस्त्रान्ता समुदीरितां || चकारात् कालिके इति || २८२ब्) अथापरां प्रवक्ष्यामि विद्यां तां च नवाक्षरी | मूलवीजं समुद्धृत्य संवुध्यन्त पदद्वयं || स्वाहान्ता कथिता विद्या सर्वशत्रु क्षयंकरी | चतुर्दशाक्षरी विद्या कालिकायाः प्रतन्यते || यस्याः कटाक्ष मात्रेण भवेद्वागीश्वरोपमः | कवचं मूलवीजाद्यं तदंते भुवनेश्वरी || दक्षिणे कालिके चेति ततो वीजत्रयं पुनः | स्वाहान्ता कथिता विद्या सर्वधर्म फलप्रदा || चतुर्दशाक्षरी विद्या दक्षिणा परिकीर्तिता || अथापरां प्रवक्ष्यामि विद्यां विंशति वर्णिकां | यस्याः प्रसादमात्रेण भवेद्भूमि पुरन्दरः || मूलवीजद्वयं व्रूयात् ततः कूर्चयुगं ततः | लज्जायुग्मं समुद्धृत्य संवुध्यन्त पद द्वयं || पूर्ववत् सट् तथा वीजं तदन्ते वह्नि सुन्दरी | ऋषिः स्याद् दक्षिणामूर्तिः पंक्तिश्छन्द उदाहृतं || देवता कथिता सद्भिः काली दक्षिण पूर्विका | एकादशाक्षरी विद्या कथ्यते शृणु पार्वति || मूलं कवचं मायां च संवुध्यन्त पद द्वयं | स्वाहान्ता कथिता विद्या चतुर्वर्ग फलप्रदा || ऋषिः स्वाद्दक्षिणामूर्तिश्छन्दोऽनुष्टुवुदाहृतं || अथापरां प्रवक्ष्यामि विद्यां त्रिभुवनेश्वरीं | निजवीजं समुद्धृत्य तदन्ते वह्नि सुन्दरीं || भैरवा ऋषयः प्रोक्ताः सर्वतन्त्र समन्विताः | असितांगो रुरुश्चण्डः क्रोधश्चोन्मत्त संज्ञकः || कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः | एषामेता महाविद्या शृणुष्व कमलानने || अष्टाक्षरी तया प्रोक्ता सर्वतन्त्रेषु गोपिता | निजवीजद्वयं कूर्च द्वयं लज्जाद्वयं ततः || स्वाहान्ता कथिता काली धर्मकर्म फलप्रदा | नवाक्षरी महाविद्या शृणुष्व कमलानने || निजवीजत्रयं कूर्च युग्मं लज्जा युगन्ततः | स्वाहान्ता कथिता विद्या सर्वसंपत्करी शुभा || नवाक्षरी महाविद्या नवलक्षणसंयुता || अथापरां प्रवक्ष्यामि दशतत्व समन्वितां | यस्याः कटाक्षमात्रेण भवेत् त्रैलोक्य मोहनः || मूलद्वयं कूर्चयुग्मं लज्जाद्वयं ततः परं | पुनस्तान्येव तेनैव तदन्ते वह्नि सुन्दरी || २८३अ) चतुर्दशाक्षरी विद्या चतुर्वर्ग फलप्रदा || अथ वक्ष्ये महेशानि कालीं कल्मषनाशिनीं | यस्याः कटाक्षमात्रेण भवेद् वागीश्वरोऽपरः || धनंधान्यं सुतं जायां हयं हस्ति न मेव च | यद्यन्मनसि वांछन्ति तत् तत्सर्वं लभेद्ध्रुवं || नातः परतरा विद्या तीर्थं नातः परं परं | नातः परतराकार्यं मुनीनां मोक्षप्रदायनी || गृहीनां च यतीनां च * * * * * * * * ? | सर्ववांछा फलप्रदा || नार्चनं पूजनं तस्या मन्त्रमात्रं जपेन् नरः | करस्थाः सिद्धयः सर्वा भवन्त्यस्य कलौ युगे || ब्रह्मत्रयं समुद्धृत्य रति वह्नि समन्वितं | नादविन्दुसमायुक्तं लज्जा कूर्च द्वयं परं || पुनः क्रमेण उद्धृत्य वह्नि जायावधिस्ततः | षोडशीयं समाख्याता विद्या कल्पद्रुमोपसा || पूर्ववत् पूजनं तयाः सर्वन्यासादिकं प्रिये | चतुर्दशी षोडशी च त्रिंशद्वर्णात्मिका च या || तासां लक्षप्रमाणं स्यात् पुरश्चरण कर्मणि | अन्यासां सर्वविद्यानां वर्णलक्षं प्रकीर्तितं || सर्वासान्तु महापूजा दक्षिणावत् प्रकीर्तिता || अथ वक्ष्ये महेशानि सर्वकामफलप्रदां | गुह्यकालीं महाविद्यां त्रैलोक्येषु सुदुर्लभं || इन्द्रादि रूढं वर्गाद्यं रति विन्दुं समन्वितं | त्रिगुणं च ततः कृत्वा ईशौ द्वौ च समुद्धरेत् || वामाक्षि वह्नि संयुक्तो नादविन्दु विभूषितौ | लज्जाद्वयमिदं प्रोक्त सर्वविद्या वसानुगं || ततो गुह्यकालिकेति पुनः सप्तकमुद्धरेत् | स्वाहान्ता कथिता विद्या सर्वतन्त्रेषु गोपिता || नातः परतरा विद्या तीर्थं नातः परंवरं | विविधा च महाविद्या कथिता पद्मयोनिना || तत् शृणुष्व महेशानि यदुक्तं ब्रह्मवादिभिः | कामवीजं तथा कूर्चं तदन्ते भुवनेश्वरी || गुह्ये वा कालिके वापि तथा वीज त्रयं भवेत् | स्वाहान्ता कथिता विद्या सर्वविद्यास्तनुत्तमा || द्वौ द्वौ वीजौ समुद्धृत्य तदा संवोधने वदेत् | पुनस्तथैव षड्वीजं तदन्ते वह्नि सुन्दरी || विंशद्वर्णात्मिका विद्या एकोनावा प्रकीर्तिता | २८३ब्) कामवीजं ततो व्रूयात् कवचं भुवनेश्वरी || संवोधनं तदा व्रूयात् स्वाहान्तेत्य परा स्मृता | एकादशाक्षरी विद्या दशवर्णात्मिका भवेत् || एकाक्षरी कामवीजं त्र्यक्षरं च त्रिवीजकं || षडक्षरी षड्वीजानि स्वाहान्ता त्र्यक्षरी भवेत् | द्व्यक्षरं कामवीजं च फडन्ता त्र्यक्षरी भवेत् || वीजत्रयं ततोऽस्त्रं च कथिता चतुरक्षरी | वीजानि द्विगुणी कृत्य त्यक्त्वा संवोधनं पदं || स्वाहान्ता कथिता विद्या सर्वतन्त्रेषु गोपिता | दक्षिणे पदमाभाष्य भवेत् पंचदशाक्षरी || कामवीजं परित्यज्य अथ वा षोडशाक्षरी | एवं वहुविधा विद्या तन्त्रे तन्त्रे प्रकीर्तिता || विश्वसारे || अथ वक्षे महेशानि विद्यां सर्वफलप्रदाम् | चतुर्वर्ग प्रदां साक्षान् महापातकनाशिनीम् || सर्वसिद्धिप्रदां देवीं भुक्तिमुक्ति प्रदायिनीम् | गुह्यकाली महाविद्या त्रैलोक्ये चातिदुर्लभा || इन्द्रादि रूढं वर्गाद्यं रति विन्दुसमन्वितम् | त्रिगुणं च तथा कृत्वा ईशानं च समुद्धरेत् || षष्ठस्वरसमायुक्तं विन्दुनाद कलात्मकम् | द्विगुणं च ततः कृत्वा ईशद्वयं समुद्धरेत् || वामाक्षि वह्नि संयुक्तं नादविंदुविभूषितम् | तद्गुह्ये कालिके प्रोक्ता चाथ वा दक्षिणे वदेत् || सप्तवीजं पुनः पूर्वं क्रमेण योजयेत् ततः | वह्नि जायावधिः प्रोक्ता विद्या त्रैलोक्य मोहिनी || अथ वेति ह्येगु दक्षिणेवेति मन्त्रः || अथ वक्ष्ये महाविद्या सर्वतन्त्रेषु गोपिता | भृगुरामेन या प्रोक्ता तत् शृणु कमलानने || कामवीजं समुद्धृत्य संवुध्यन्त पदद्वयं | पुनः कामं तदन्ते च दद्याद् वह्नेश्च सुन्दरीं || एषा नवाक्षरी विद्या गुह्यशब्द समन्विता | दक्षिणे पदमाभाष्य भवेद् विद्या दशाक्षरी || लक्षधाभिद्यते विद्या महाकालेन भाषिता | तत्र काल्यादयो विद्याः कथ्यन्ते शृणु पार्वती || कामराजादिकं वीजं पूर्वापरविभागतः | भद्रकालिं तथा ङेन्तां वीजमध्य नियोजयेत् || २८४अ) स्वाहान्ता कथिता विद्या विंशवर्णात्मिका प्रिये | चतुर्वर्गप्रदा देवी भद्रकाली शुभानना || वीजानि उद्धरेत् पूर्वं महाकालि पदं ततः | तदन्ते सप्तवीजानि स्वाहान्ता तन्त्र सम्मता || विंशत्पर्णा महाविद्या महाकाल्याः प्रकीर्तिता | आसां ध्यानमहं वक्ष्ये शृणुष्व कमलानने || महामेघ प्रभां रक्तां कृष्णवस्त्रविधायिनीं | ललज्जिह्वां घोरदंष्ट्रां कोटराक्षि हसं मुखीं || नागहारलतो येतां चन्द्रार्धकृतशेषरां | द्यां लिखन्तीं जटामेकां लेहिहानां शवं स्वयं || नागयज्ञोपवितांगी नागसर्यानिपुषिनी | पंचाशन्नरमुण्डेन वनमालां महोदरी || सहस्रफणसंयुक्तमनक्तं शिरसोपरि | चतुर्दिक्षु नागफणावेष्टितां गुह्यकालिकां || तक्षकनागराजेन वामकंकणभूषितां | अनन्तं नागराजानं कृतदक्षिनकंकनां || नागेन रसनाभार कल्पिता रत्नगेहिनीः | अट्टहासां महाभीमा साधकाभीष्टदायिनीं || द्विभूजां चिन्तयेद् देवी नागजज्ञोपवितिनी | नवरत्नसमावद्ध कुण्डल श्रुतिमण्डिता || प्रसन्नवदनां सौम्यां सर्वरत्न विभूषितां | नारदाद्यै मुनिगनैः सेवितां शिवगेहिनी || अट्टहासां महाभीमां साधकाभीष्टदायनी | एवं ध्यात्वा जयेद् देवी कीलीकल्मषनाशिनीं || अथवा चिन्तयेत् कालीं महाकालमतां प्रीये | महामेघप्रभां श्यामां रक्तावस्त्रपिधायनी || ललज्जिह्वां करालास्यां घोरद्रंष्ट्रा भयानकां | शवकुण्डलयुग्मेन भूषितां सुमनोहरां || सर्वलावण्य वसतिं सृक्वद्वये गलत् कचां | सवानांकरसंहातैः कृत कांची हसंमुखीं || शवरूप महादेव हृदयोपरिसंस्थितां | मुण्डमालां वहतीं च प्रत्यालीढ पदे स्थिता || अभयं च वरं चैव खड्गं मुण्डसुसोभनं | सहस्रफणसंयुक्तैर्नानानार्गैर्विभूषितां || शवरूप महादेव कल्पितं कामरूपकं | अन्तनागराजेन दक्षिनकर मण्डिनां || नाना देवैश्च गन्धवैर्नानातालसमन्वितैः | नानानागसमायुक्तैः सेवितां शुमनोहरां || एवं सचिन्तयेद् देवी कुरु कुल्लादि संयुतां | पूजयेत् परया भक्ता गुह्यकालीं महोदयां || २८४ब्) यन्त्र पूजादिकं सर्वं दक्षिणावत् समाचरेत् || पीठमन्त्रो यथा || सदाशिवं वदेत् पूर्वं महाप्रेत पदं ततः | गुह्यकाल्पासनंन् ङेन्तं गुह्यकाली तथान्विता || प्रणवाद्या ह्रूपाद्या च हूमन्ता च नमन्तिका | गुह्यकाल्यासने विद्या कथिता पद्मयोनिना || वलिमन्त्रो यथा || एहि एहि पदे द्वंद्वं गुह्यकालि तथा पदं | गृह्न गृह्न पदं द्वन्द्वं मम शत्रुन् वदेत् ततः || नाशय द्वितयं व्रूयात् खादय द्वितयं वदेत् | तुरु तुरु पद द्वन्द्व ततः स्कुरस्कुरेति च || छिन्धि छिन्धि पद द्वन्द्वं सिद्धिं देहि पदं द्वयं | कवच द्वितयं व्रूयात् तदन्ते वह्नि सुंदरी || पंचाशद् द्वितयारुण वलिदानमनुः स्मृतः | एषाविद्या महाविद्या वलिदाने नियोजयेत् || गायत्रीं प्रजपेत् काल्या गुह्यशब्द समन्वितैः | कामराजं समुच्चार्य गुह्ये च कालिके ततः || विद्महे च तदन्ते वै उर्द्धरेद् यत्न पूर्वकं | विद्ये पुण्ये समाभाष्य धीमहीति तदुत्तरं || तन्नः पदं समाभाष्य तदा देवी प्रचोदयात् | गुह्यकाल्यास्तथा देवि गायरी कथीता प्रिये || कालीकुलार्णवे || रतिविजैकमादाय शब्दवीज ततोद्धरेत् | हृल्लेखां च तथा चोक्त्वा कालिके दक्षिने तथा || पुनश्चैतानि वीजानि क्रमेण विनियोजयेत् | जपपूजादिकं सर्व दक्षिणावदुपाचरेत् || कामाक्षा पंचासिकायां || प्रणवचांकुश द्वन्द्वं मन्त्रस्याच्च सिरोन्तिकः | पदं कालीति कालिके हृन्मन्त्रो मन्त्रनायकः || तारसंयुतं यावद् दीर्घं याहृल्लेखया ततः | खडंगानि समासाद्य ध्यायेद् देवी मनन्यधीः || खड्गोद्भिन्नेन्दू विम्वेत्यादि ध्यानं | षट्कोण पद्ममधे तु देवीमावाह्य पूजयेत् || मुलेनैव च पाद्याद्यैः षडंगमर्चये ततः | षट्कोणं पूजयेद् देव्यास्तद्रूपा वृतयः शुभाः || भैरवीं च महत् पूर्वां भैरवी सिंहपूर्विकां | धूम्रभैरवी विश्वभैरवी मुन्मत्त भैरवीं || २८५अ) वशीकरण भैरव्या मोहनभैवीत् ततः | प्रणवाद्या नमोन्तास्ताः पूज्याश्चाष्टदलेष्विमाः || ईति संपूज्य देवेशिमुपचारैः पुनर्जपेत् | पुष्पांजलि त्रयं दत्वाजस्वाहृदि समानयेत् || पुरश्चरणमुद्दिष्टं दशसाहस्रिकं भवेत् | कलौ चतुर्गुणासंख्या तेन शीघ्रफलप्रदा || होमन्तु रक्तपुष्पेन कुष्ठं कृत्वा यथाविधि | एतन्मन्त्र जपेन् मन्त्रीमुच्यते ब्रह्महत्यया || पितृमातृ वधाच्चैव किमन्यैर्वहुपातकैः | कपिला रत्नसंपूर्णा पृथ्वी दानस्य यत्फलं || तत्फलं समवाप्नोति देव्या ध्यानेन साधकः | अणिमादि महासिद्धिं लभते साधकोत्तमः || स्पृष्ट्वा दृष्ट्वा जपेन् मन्त्रं यं यं तं तं वशं नयेत् | शतमष्टोत्तरं जप्त्वा रक्तपुष्पस्य होमतः || कुर्यान् नृपं वशं मन्त्री नासाध्यं भुवनत्रये | शून्यागारं देवगृहं पितृकाननमेव च || ब्रह्मचारी हविष्याशी भवेदिन्द्र समो जपात् | कुण्डे त्रिकोणे संज्ञे तु शान्त्ये पुष्ट्यै तथैव च || अयुतं जुहुयान्मन्त्री सहस्र त्रितयन्तु वा | तर्पणं च पुनस्तत्र देवीं ध्यात्वा हुताशने || संपूर्ण मूलमन्त्रेण विल्वपत्रै घृतान्वितैः | सहस्रं प्रत्यहं हुत्वा प्राप्नोति परमांगति || घृताक्त मालती पुष्प होमाद्द्रुत कविर्भवेत् | नासाध्यं विद्यते किंचिदेतन्मन्त्रविदः सदा || महाकालसंहितायां || अतः परं निवोधत्वं मालामन्त्रं मम प्रिये | मूलवीज त्रयं चोक्त्वा त्रयं चोक्त्वा च कूर्चकं || लज्जा त्रयं रमावीजं वाग्भवं च चतुष्टयम् | डाकिनी फेत्कारी चैव पाशक्रोटन्तथैव च || पुनस्तान्येव चोद्धृत्य खेचरी काल इत्यपि | कार्मुकं च तथा चण्ड भगवत्यै नमश्चरेत् || पंचादशक्षरी विद्या सर्वसिद्धिफलप्रदा | ऋषिर्दक्षिणामूर्तिः स्यात् विरावच्छन्दः प्रकीर्तितं || भोगेश्वरी दक्षिणकाली देवता परिकीर्तिता | फेत्कारी वीजं लज्जा च शक्तिः स्यात् कीलकं रमात् || विनियोगः सुखैश्वर्या वाप्तये परिकीर्तितः | अतः शताक्षरीं विद्यां सावधानां निशामय || २८५ब्) प्रणवं भगवत्यै च दक्षिणे कालिके ततः | चामुण्डे च ततः स्मृत्वा योगिनीवीजमुद्धरेत् || कपाल त्रितयं चोक्त्वा दानव त्रितयं वदेत् | निज वीजत्रयं देवि कूर्चत्रयं ततो वदेत् || मदनोन्मादिनि संप्रोच्य दक्षिणे कालिकेत्यपि | चामुण्डाचण्डकापाल भालुण्ड शक्तयेस्तथा || कूर्मानन्त हयग्रीव क्षेडमानस वाग्भवाः | पाशक्रोध महाक्रोध प्रासादगारुडाः प्रिये || घोराट्टहासिनि प्रोच्य शिवनिर्वाणदे ततः | ब्रह्मरूपनिभं भाष्य महातमः प्रकाशिनि || ततोऽपि चक्र निलये शाकिनी त्रितयं ततः | विद्युदमृन्महाकाल भूतकार्मुक पन्नगाः || प्रलयाप्सर फेत्कारी तदन्ते वह्नि सुन्दरी | इयं शताक्षरी विद्या महाकिल्विषनाशिनी || ऋषिः सन्तानकोमुष्याश्छन्दो मध्याः प्रकीर्तिताः | दक्षिण काली देवता स्यात् वीजं स्ववीजमुच्यते || शक्तिश्च योगिनी वीजं कीलकं दानवं मतं || इदानीं सावधानात्वं सहस्रार्णमनुं शृणु | मूलवीजत्रयं चोक्त्वा कूर्चद्वयं समाहरेत् || रामारामा माया चैव नादहार समाधयः | महाभीमद्वयं प्रोच्य भीमानके तथैव च || विरिंची सिंहस्त्रिकुटा समाधीन द्वयं प्रिये | भगवति च संभाष्य दक्षकाली महानघे || ततो नरा अत्युरुधिरमांस इत्यपि चोद्धरेत् | परिपूर्ण कपाले च नवदीप ततः परं || सिंहफेरुकपीत्युक्त्वा क्रमेणक इतीरयेत् | भल्लुक गरुड प्रोच्य गजतो मकरेति च || हयतो वदन्येऽनुद्यपाशलक्ष्मी स्मरार्णकाल | वीजे माने स वज्राख्ये कापालं चापि काकिनीं || मुक्ता नागारिति नवरक्तार्णव ततो वदेत् | दीपमध्ये इति प्रोच्य प्रज्वल ज्वल इत्यपि || वह ज्वाला जटालाच्च महा इत्यपि कीर्तयेत् | ततः श्मशानवासिन्याः समृद्धि कथम प्रिये || चण्ड विश्वोभूतमयूघ नसोमक्षण प्रभानीलद्यक्षावितिन भैरवी तदनन्तरं || २८६अ) चामुण्डाशतकोद्युक्त्वा ततः परिवृते वदेत् | गुह्याति गुह्य परम रहस्य तदनन्तरं || कूलाकूलाच्च समयचक्रपाद्वन्ति नीति च | सान्विष्टि तुंगांश्चतुरो मेखलान्तान् समुद्धरेत् || मन्दारसे तु तश्चूडामणि वलिमतः परं | सर्वशेषे तथा जम्भं वीजानां नवकं त्विदं || नवकोटि इति प्रोच्य गुह्यानन्त इतीरयेत् | तत्वधारिणि चोद्धृत्य ततः परमतः शिवः || सामरस्याच्चारिणि च सृष्टि स्थिति वदेत् ततः | प्रलयात् कारिणि प्रोच्य ततो भल्लार्ध चंद्रकौ || वत्स दन्तः क्षुरप्रौच ततः सन्दं सकं वदेत् | नालीकं चतुभुशुण्डी च गदा प्रासौ च तेन च || वह्नि स्फुलिंग पिंगाच्च वदेन्निते जटा पदं | भावशब्दाद् भासुरे च महादैत्याच्च दानवः || पिशाच राक्षसे त्युक्त्वा भूतप्रेत पदं वदेत् | कुष्माण्ड भयतो व्रूयाद् विनाशिनि पदं प्रिये || अनाहतो भोग सृष्टी फेत्कारी च तया सह | करालिनी कृत्यया च युक्ता तर्जनी च कटंकटा || एतानि नववीजानि सर्वदीर्घानि तानि हि | ततः कटकटायेति मानतो विकटेति च || दीर्घदंष्ट्रा चर्चितेति नृकपाले ततः परं | लेलिहान महाभीम रस?ना तदनन्तरं || विकराले चन्द्रखण्डांऽकितभाले ततो वदेत् | सृष्टिः कूटं स्थितेः कूटं कूटं संहारमेव च || ततोऽनाख्या कूटयुक्तं भासाकूटमतः परं | कुण्डलिन्यास्ततः कूटं पौरुषं कूटमेव च || पैशाच कूटं च ततः सिद्धकूटमतः परं | नवकूटानि संकीर्त्य ततो नारायणादि च || ततः पाशुपतास्त्राच्च त्रयस्त्रिंशत् समुद्धरेत् | ततः कोटि महादिव्यास्त्र संधार इतीरयेत् || विधायिनि इति प्रोच्य सकराच्च सुरात्सुर | सिद्ध विद्याधरेत्युक्त्वा किन्नरो रग इत्यपि || सेवितेति प्रकीर्तेति चरणेति प्रकीर्तयेत् | ततः कमल इत्युक्त्वा युगले वद्ध इत्यपि || नारास्त्र योग पट्टेति भूषिते तदनन्तरं | विभूति रुषित प्रोच्य असंख्येति विसन्धिमत् || २८६ब्) ततोमदि संकीर्त्य विभवे च प्रकीर्तयेत् | तैजसाऽमरमौडुम्वर कूर्मौ द्रावणं तथा || आसुरं च समूहं च वुद्धिं च त्रिशिखामपि | वीजान्ये तानि नववै समुद्धृत्य वरानने || चतुःपंचाश व?दतोर्मण्डलविराजिते | ततो हरिहरेत्युक्त्वा विरिंचि इति कीर्तयेत् || सभ्यजिते समुद्धृत्य शोणितार्ण च उद्धरेत् | मज्जानोन्मज्जन पदात् प्रिये इति पदं प्रिये || जगज्जननि संलिख्य प्रवदेज्जगदाश्रये | शिवविष्णु पदं प्रोच्य रूपशब्दं ततो वदेत् || सिंहासनाधि रूढे च कूटं पुष्करमग्रतः | हैरण्यं गर्भकूटं च सत्वकूटं ततः परं || वृहद्रथन्तरे कूटे कूटं ज्येष्ठं महत्तथा | सामगुह्ये ततः कूटेन वै तानि भवन्ति च || जय द्वयं जीवयुग्मं ज्वलयुग्मं ततः परं | प्रज्वल द्वितयं प्रोच्य अचिन्तेति विसन्धिकं || प्रभावे तत्वदमितरमतश्च पराक्रमे | पूर्ववच्चागणे येति ततो गुण गणेपि च || ततोऽजीतेऽमिते चैव तथा चैवा पराजिते | अलक्षिते च अद्वैते सर्वं चैव विंसंधिकं || नित्य प्रभा विहंगाच्च पौष्यदानव मन्मथा | कुंभदाश्चौषधीकाश्च नवै तानि विनिर्दिशेत् || महामाये महाविद्ये महाविद्ये ततः परं | विकटोत्कट दंष्ट्रातो रौद्ररूपिणी चोद्धरेत् || पुस्कराभिंधहैरण्ये गर्भसत्वाख्य कूटकाः | स्वाधिष्ठानं ततः कूट कूटं च मणिपूरकं || कूटं चानाहतं पश्चात् पौण्डरीकं ततः परं | वाजिमेधस्ततः कूटो राजसूयस्ततः परं || क्रमादेतानि कूटानि न चोद्धृत्य वरानने | व्योमकेशि ततो लोलजिह्वे इत्यपि कीर्तयेत् || सहस्र द्वय उल्लिख्य करतश्चणे(?) तथा | सहस्र द्वय नेत्रे च महामांस ततः परं || रुधिर प्रिये संकीर्त्य मदघूर्णित लोचने | महामारि ततः खर्पर हस्ते परिकीर्तयेत् || महाशंख सदा प्रोच्य कूले उक्त्वा सतर्द्रण(?) | २८७अ) रचर्मावृत उल्लिख्य शरीरे तदनन्तरं || तूणज्याशंकूवतालकोटि घंटाख्य पिंजला | चिता ध्वजौ चेति न च विश्वकर्ति ततः परं || विश्वतो व्यापिके प्रोच्य विश्वाच्च जननीत्यपि | विश्वेश्वरि ततो विश्वाधारे इत्यपि कीर्तयेत् || विश्वसंहारिणि कुलाकुल चक्र इतीरयेत् | ततः समुद्भूत पदं चोद्धरेद् वरवर्णिनि || परमानंद रस च सामरस्य प्रतिष्ठिते | ततः समुद्धरेद् देवि संहारणि विहारिणि || प्रहारिणि ततः प्रोच्य दैत्यमारिणि इत्यपि | नरनारी विमोहि स्यान्निखड्गांजन पादुका || धातु वादाच्च गुटिका यक्षिणी सिद्धितः प्रदे | कूटं महाव्रतं सौत्रामणी तदनु षोडशी || विश्वजित् कूटतो दीक्षा सामसर्वस्वदक्षिणे | ततो वार्हिरथं कूटं नरमेध गवामयौ || अमूनि नव कूटानि ततो रक्त समुद्र च | वासिनि प्रज्वलित च पावक ज्वालजाल च || जटालाष्ट पदान्मुण्डाष्ट त्रिशूलांतोद्धरेत् | श्मशान कृत वासे च षोडश द्वादशाष्ट च || दलतः सरसि रुह च वद्ध पद्मासनेपि च | रोगदारिद्र्यतो वन्ध वियोग परमीरयेत् || मरकौत्यां ततो नाशिनि द्वादश पदं प्रियो | कोटि ब्रह्माण्ड संकीर्त्य वर्तिभूत शिरस्तथा || किरीट निघृष्ट चरणयुगले तदनन्तरं | ततस्त्रिंशच्च वीजानामुद्धरेद्वरवर्णिनि || वेदादि मेधपाशक्ती लक्ष्मी कामा च योगिनी | वधू कूर्चो शाकिनी च डाकिनी प्रलयो तथा || फेत्कारी कालिका चापि हयग्रीवश्च धर्मयुक् | तार्क्ष चण्डौ विश्वभूतौ किन्नरश्च महारुषा || क्षत्रपालामृते सोमः शक्तिर्विद्युच्च खेचरी | चामुण्डा च त्रिशक्तिश्च त्रिंशद्वीजान्य मूनि हि || तथैकादश कूटानि सर्वपाप हराणि च | नारसिंह च लैंगं च संशोभोगश्च शक्तियुक् || निर्वानं च महानिर्वाणं रजश्च तमसी ततः | विशुद्धाज्ञे च देवेशि मया ते परिकीर्तिते || ततो महामन्त्रमय शरीरे इति कीर्तयेत् | २८७ब्) सर्वांगमाशुद्ध रूपे इति उद्धारयेत् प्रिये || गुडत्रयं तथाध्वेकः संभ्रम त्रितयं तथा | एकारूड श्रुतितयं रम्भावेद्योर्युगं युगं || अस्त्रयान्ते हृन्मन्त्रस्तदन्ते पावकोऽवलो | सहस्रार्चिको मन्त्रपदस्तव देवि मयोदितः || न्यूनाति रिक्तता दोषादस्यमन्तस्य पार्वति | जया मृत्युमवाप्नोति तदर्थ निर्णयं शृणु || यस्मिन् वर्णे शतं पूर्णं तन्मयैव निगद्यते | द्वीपमध्यस्य मे वर्णि पूर्णमेकं शतं भवेत् || वारिण्याश्चाक्षरे विद्विशती पूर्णतामिता | भीमवर्णे त्रिशती भीम रसनायां वरानने || पिवर्णे रुषिते शब्दश्यापि पूर्णाच्चतुः शती | ज्वलज्वल युगस्यान्त पूर्णा पंचशती प्रिये || महाकाल प्रिये मेह वर्णे षट्शति पूर्णतां | गता चर्मावृत शरीरेत्र वीवर्णे शतसप्तकं || गुटिकायागुवर्णे च समाप्ताऽष्टशती तथा | वर्णे ब्रह्माण्ड शब्दस्य पूर्णा नवशती ध्रुवं || स्वाहान्ते तु सहस्रार्णं पूर्णं भवति निश्चितं | अस्यर्षिश्च्यवनः प्रोक्तः छन्दोति जगती तथा || त्रिंशद्वक्त्रा गुह्यकाली देवता परिकीर्तिता | वीजं हि डाकिनी प्रोक्ता शक्तिर्भासाख्य कूटकं || फेत्कारी प्रलयश्चापि कीलकं तत्वमित्यपि | सर्वाभीष्ट प्रसिध्यर्थं विनियोग उदाहृतः || दशाननादि षट्त्रिंशदाननाऽवधिकालिका | उपासनीया भवति मन्ते नानेन सुन्दरि || वहुभिः किं वचो जालैर्म्हिमास्य मनोवियान् | इति वक्तुं न शक्नोमि सत्यं सत्यं वदाम्यहं || देव्युवाच || मन्त्राद्धिपारग श्रेष्टनाथ हे करुणा निधे | त्वत् तः श्रुता मया मन्तोद्धारो ऋष्यादिभिः सह || आरभ्यैकाक्षरान्मन्त्रादा सहस्रार्णमीश्वर | इदानीमयुताक्षर्याः समुद्धारं वद प्रभो || तया कीदृग्विधा देवी समुपास्या नृणां भवेत् | केन चाराधिता तेन मन्त्रेन जगदम्विका || तत्सर्वं श्रोतुमिच्छामि कथ्यमानं त्वया शनैः | अनुक्षणं मे शुश्रुषा वर्ततत्वदुदीरणात् || २८८अ) श्रीमहाकाल उवाच || सत्यं धन्यासि देवेशि शुश्रुषाऽनुक्षपांयतः | वर्धते तव मन्त्राणां माकर्ण न विधौ सदा || शुश्रुषुभ्यः प्रवक्तव्यमित्याम्नायस्य निश्चयः | त्वं चशुषसेऽत्यर्थमतो वक्ष्यामि निश्चितं || वीजमालामयी मन्त्र माला नाम्ना प्रथांगता | मुमुक्षन् कृत वैराग्या न त्यक्त संसार वासनान् || उपदिष्टवानहं पूर्व मुनीन् कैवल्य लब्धये | आम्नाय शीर्षयैधक्री श्रीकामो योगिनीरुषौ || योषिच्छाकिनी डाकिन्यः फेत्कारी प्रलयादिमा | कुलिकाः काकिनि नृहरि भासा कूटास्ततः परं || जगत्रयाद्भगवति गुह्यकालि ततः परं | कात्यायन्यनु वै सिद्धि कलालि तदनन्तरं || कापालिश्च वराहिन्यतः परं स केलेरयेत् | सुरतस्यानु च मनोरंजनि स्यात् ततः परं || दैत्य दानवदर्प्येतिर्भजन्यनुदशोद्धरेत् | वदन प्रोच्य तस्यानु धारिणि प्रतिकीर्तयेत् || नृमुण्डमालाधारिण्य नृसृष्टि स्थिति कीर्तयेत् | प्रलये प्रोच्य कारिण्यतोवेति पदोद्धृतिः || रुधिरान् वसामांसमस्तिक्षान्त्रेति चोद्धरेत् | परिपूरित इत्युक्त्वा ततो द्योनक इत्यपि || क्षेत्रपालाद् भैरवेति कुष्माण्ड वटुकेत्यपि | सिद्धतः खेचरादांति ततो नवति चोद्धरेत् || महापद्म समाजाच्च भासुरे च सुरेश्वरि | त्रिशूल खड्ग उच्चार्य खेटकेति ततः परं || खट्वांग इति संकीर्त्य तस्यान् परिघोच्चरेत् | गदा चक्र भुषुण्डी च तोमर प्राशपष्टिश || भिन्दिपालाच्च परशुक्ति वज्र ततः परं | पाशांकुशाच्छंख नागशिरापोताक्ष कीर्तयेत् || मालामुण्डादूर्ध्व शैल न कुलापि ततः परं | ततः कुण्डवरा प्रोच्य भयव्यापृतकर्कशः || भुजदण्ड ब्रह्मविष्णु महादेवेद्र चन्द्र च | वायुतो वरुण प्रोच्य कुवेरात् पावके तथा || शाननि-ऋति सिद्धेति विद्याधर ततो वदेत् | गन्धकिन्नरमितिरगशब्दं ततोप्यनु || विभावनीयवरण कमलाद्युगले तथा | २८८ब्) नियुतोत्करतश्चापि चरणे इति कीर्तयेत् || सर्वेश्वरी ततः प्रोच्य सर्वदुष्टभयंकरी | सर्वदेवेति संकीर्त्य माहेश्वरि ततः परं || कोटितो नियुतेत्युक्त्वा तत प्रहरणायुध | विसंधे विचिन्त्य प्रभावे ततोऽमितवलेत्यपि || पराक्रमेऽगणेयेति ततो गुणगणेपि च | असंख्य महिम प्रोच्य विभवे अजिते तथा || ततः आख्याय अमिते ततश्चैवा पराजिते | अलप्तिते च अद्वैते ततोनन्त प्रकीर्तयेत् || अव्यक्ते च ततोऽदृश्ये अग्राह्ये च अतीन्द्रिये | अपारे उग्र चण्डे च प्रचण्डोग्रतरे तथा || श्मशानचारिणि प्रोच्य ब्रह्मापि तदनन्तरं | नारायणि ततः शांकरे ऐंद्रि कौमारि चेत्यपि || वाराही नारसिंहे स्याच्चामुण्डे भैरवीत्यपि | आग्नेयि ऐशानि तथा तारारुणि प्रकीर्तयेत् || ततः कौवेरि वायव्ये शोणितार्नव ईरयेत् | मज्जनोन्मज्जन पदात् प्रिये इत्यपि च प्रिये || जगज्जननि संकीर्त्य ततश्च जगदाश्रये | उक्त्वा जगत्कारिणि च ज्वल प्रज्वलयो युगं || जय द्वंद्वं जीवयुगं भासाकूटः मतः परं | नृसिंहः कालिकलिकः फेत्कारी प्रलयास्तथा || डाकिनी शाकिनी रामा कूर्चयोगिनी मन्मथा | लक्ष्मी त्रयामैध ताराः शिवविष्णु ततः परं || रूपसिंहासना प्रोच्यधि रूढेग्र इत्यपि | नक्षत्रो पात भूतोन्मादावेश भय इत्यपि || विनासिनि ततः प्रोच्य तथात्रैकालिकालिव | मम पातकोप उल्लिख्य पातकाति ततः परं || पुनरुक्त्वा पातक महापातकानि ततोप्यन् | शमय द्वितयं प्रोच्य ततः प्रशमय द्वयं || ततश्च नाशय युगं विनाशय युगं तथा | पंचद्वंद्वं हन युगं विद्रावय युगं ततः || युगं विध्वंशय तथा भस्मी कुरु तथैव च | ततो निखिल फरित विमोचिनि पदं वदेत् || देवदेवि महादेवि महाघोरे ततः परं | २८९अ) महारामे महाप्रोच्य जटाजुट पदं ततः || भावे ज्ञान ततो वुद्धिमान लक्ष्मी कवित्व च | सर्वशेषे ततो व्रूयाद् देवि राज्य प्रदे पदं || सृणि प्रासादोरुरोष भूतापीयूपमेव च | रति कालौ खेचरी च भारुण्डा मानसादिमा || कापालं द्रावनं नीलं वेतालो वच्चमेव च | चामुण्डा शक्ति चक्राणि रौद्रकूर्चौ च योगिनी || लज्जावध्वौ महाचण्ड योगेश्वरि ततो वदेत् | मम शत्रुनिति प्रोच्य वलिं गृह्नयुगं ततः || गृह्नापय युगं पश्चाद् युगलं भक्षभक्षय | नाशयोच्चाटन हनत्रुटच्छिन्धिपचापि च || मथविद्रावय तथा मारयापिदमापि च | निवारय स्तंभय च ततो मर्दय शोषय || पातयातः ख्यादया च ततो हरधमेत्यपि | उद्वासय मोहय चक्षो भयच्छिन्धि त्राशय || मुटोन्मूलय संकीर्त्य जृंभय स्फोटयापि च | विक्षोभयः तुरु प्रोच्य ततो हिलि किलित्यपि || चलचालयतश्चिन्तय स्मरोत्तिष्ठ पश्य च | सप्त त्रिंशत् क्रियाणां हि युगं युग मुदीरयेत् || षट् पंचाशच्च देवीनां संवोधन पदं ततः | आदौ दक्षिण काल्याश्च भद्रकाल्यास्ततः परं || श्मशान काल्याश्च ततः कालकाल्यास्ततः परं | गुह्यकाल्याः कामकला काल्याश्च तदनन्तरं || धनकाल्याः सिद्धिकाल्या कुलकाल्यास्तथैव च | महालक्ष्म्याश्च मातंग्यास्तस्या राजपदात्पुनः || ततोनू भुवनेश्वर्या वागीश्वर्यास्ततः परं | तत उच्चिष्ट चाण्डाल्याः क्लिन्नयो नित्य पूर्वतः || मदद्रवाया भैरव्याश्चाण्डालिन्यास्ततोप्यनु | त्रिपुटायास्त्वरितायाः शूलिन्यास्तदनन्तरं || ततो रण जयार्णाभ्यां दुर्गयारपि पार्वति | प्रस्तारिण्या वज्र शब्द पूर्वायास्तदनन्तरं || सिद्धि राज्ये जयेभ्यो हि लक्ष्मीनां तदनन्तरं | पद्मपत्याः ततः कालसंकर्षन्या वरानने || कुब्जिकायास्ततोप्यन्न पूर्णायाः परिकीर्तयेत् | कुर्कुट्यायाः शवरेश्वर्यास्ततः परं || २८९ब्) किरात्याश्चैव वालायास्ततोपि परिकीर्तयेत् | तथा त्रिटभैरव्याः सुन्दर्यास्त्रिपुरास्ततः || ततो नील सरस्वत्यास्ततः परं || ततश्च छिन्नमस्ताया नाशायाच्छिन्नतस्तथा | पुनर्नाल पताकाया घंटायाश्चण्डतोपि च || चण्डेश्वर्यास्ततः प्रोच्य चामुण्डायास्ततोप्यनु | वगला हरसिद्धानुत फेत्कारिण्यास्ततोप्यनु || ततो नृमृत्युहारिण्या नाकुल्याश्च ततः परं | ततोऽनुरणेश्वर्या नित्यायाः षोडशोत्तरात् || ततो जये च विजये अघोरेऽरुन्धति क्रमात् | सावित्री गायत्री ततो विश्वरूपे ततः परं || वहुरूपे च विकटरूपेऽरूपे ततः परं | महामाया समुच्चार्य रूपेपि तदनन्तरं || महाविद्ये महामेधे भगमालिनि चोद्धरेत् | भगप्रिये समुद्धृत्य ततोपि च भगांकिते || भगरूपिणि संलिख्य ततो भगवतीत्यपि | महाकामातुरे प्रोच्य महाकाल प्रिये तथा || प्रचण्डो शब्दतो व्रूयात् ततोऽपि च कलेवरे | विकटोत्कट दंष्ट्रातो रौद्ररूपिणि चोद्धरेत् || व्योमकेशी ततो लोलजिह्वे इत्यपि कीर्तयेत् | सहस्र द्वय इत्युक्त्वा करतश्चरणे ततः || सहस्र त्रये नेत्रे च महामांस ततोपि च | रुधिरप्रिय चोद्धार्य मदतश्च विघुर्णितः || लोचने च महामारि हस्ते खर्परवर्णतः | शोणिता च इत्युक्त्वा महाशंखसमाकुले || सदार्द्र नरचर्मावृत् शरीरे च ततः परं | तारावाणाग्रहारा वा लज्जार्का योगिनी पुनः || वसु चंद्राजिनाः कुच्चा दन्तवर्धस्ततः परं | तर्कानना शाकिनीं च डाकिनी भारती ततः || आवध्य प्रणवात्तानि प्रतिलोम्ना च तावती | फेत्कारि त्रितयं पश्चात् त्रिसौपर्णास्तमेव च || द्विश्चित्र कूटमरुण कूटमेकं ततो वदेत् | विश्वकत्रि ततो विश्व व्यापिके परिकीर्तयेत् || विश्वतो जननीत्युक्त्वा ततो विश्वेश्वरीत्यपि | विश्वाधारे च संकीत्य विश्वसंहारिणीत्यपि || २९०अ) कुलाकुल समुद्भूत परमानन्द इत्यपि | रस सामरस्य संकीर्त्य ततश्चापि प्रतिष्ठिते || सर्वदुष्टानिति प्रोच्य युगलं ततः || एकत्रिंशत् क्रियाणां हि क्रमेणैव वदेत् प्रिये | चूर्णघ? प्रथमं प्रोच्य चूर्णापय हसापि च || ततः कहकरेत्युक्त्वा मारभिन्वितो वदेत् | छिम्वि प्रोच्य दहोल्लिख्य ततश्चालय कीर्तयेत् || मुख प्रवेशय किरि ततः किलि कुरु प्रिये | रुवुत् कीर्त्य किंचीत्युक्त्वा कचग्रसवघातय || इत्युन विंशमुच्चार्य मोटयानु च भंजय | घूर्णापयस्तोभयवधरागिरवमेत्वपि || ततोभिनिविदीत्युक्त्वा भ्रमभ्रामय चोद्धरेत् | उर्धरेत् सर्वशेषे तु मूच्छापय पदं प्रिये || पाशः कलाशर्वमेधाऽश्वत्थनिश्रेनयः क्रमात् | पंचास्त्राणि शिखाः पंच पिशाचिन्यपि तावती || केशवकाकिनीनेमिश्छन्दो विश्वश्वकौणपी | मम सर्वाभीष्ट सिद्धिंदददे हि युगं युगं || दापय द्वितयं प्रोच्य निष्पादय युगं वदेत् | ततोनुपूरये युगं तद्वद् दीपयचे तपः || आनन्दय युगं धेहि च युगं युगं || विभावय युग प्रोच्य योजय द्वंद्वमुल्लिखेत् | ततः समुद्धरेद् देवि संहारिणि विहारिणि || प्रहारिणि समुल्लिख्य ततोदिति जमारिणि | दण्डलज्जागोऽशुशुक्लाः कामवेगाः कुले ततः || विभावधूर्विराट चैव फेरवं च कुमारिका | सुरतात्तुरे चाल्लिख्य प्रतिष्ठां चरमां वदेत् || कैकरं चापि शुची च वैराजं तदनन्तरं | मदनोन्मादित प्रोच्य नदीकामेवतील्लिखेत् || प्राणमेद्यौ समुद्धृत्य नरनारी विमोहिनी | गुटिका प्रोच्य यक्षिण्याद्यष्ट इत्यपि कीर्तयेत् || खंगोजनं समुद्धृत्य पादुका धातु वाद च | महासिद्धी इति प्रोच्य रचय द्वितयं ततः || ततो विरचय द्वंद्वं पूरयोन्न प्रपूरय | अनुकम्पानु वितर चतुर्णां च युगं युगं || २९०ब्) कृपा कटाक्षं मयि च मुंचद्वयं दिश द्वंद्वं | विदिश प्रेरय तथा युगलं युगलं मतं || पोषय द्वय मुल्लिख्य भुष्य द्वंद्वमतः परं | रक्त समुद्रयासिन्य न प्रह्वलित पाअक || ज्वालाजाल जटालोष्ट मुण्डाष्ट तदनन्तरं | त्रिशूलांकित उच्चार्य श्मशानमिति कीर्तयेत् || कृतवासे षोडशे च द्वादशाष्ट दलेत्यपि | ततोनु शरसि प्रोच्य वहुवद्धे इतीरयेत् || पद्मासने ब्रह्मविष्णु शिवादि पदमीरयेत् | त्रयस्त्रिंशत् कोटि शब्दाद्विवुधाष्ट समुद्धरेत् || चत्वारिंशत् कोटि दैत्य दानवा तदनन्तरं | विज्ञाता गणिता प्रोच्य प्रभावेऽमित शब्दतः || दारिद्र्य वन्ध प्रोद्धृत्य वियोग कथनं ततः | त्रिविधोत्यात वाणेति ग्रहोपसर्ग इत्यपि || राजचौर रिपु प्रोच्य दावाग्नि समुरोद्धरेत् | शस्त्रास्त्रपातसंकीत्य ततः केशरि संलिखेत् || शार्दूलः शरभेत्युक्त्वा महिषाच्च वराह च | केररात्रा सभाच्चैव मातंगाच्च वृकादि च || ततो विपिन जन्तु स्याद् भुजंगम ततः परं | सागरावर्तदस्युः स्यात् ततश्चतुरशीत्यपि || क्वरशोथाच्च शूलाद्य साध्यरोग प्रकीर्तयेत् | महामार्यनुदुःस्वप्नं ग्रहपीडा इतीरयेत् || विषो संकीर्त्यपरिद्याऽभिचार तदनन्तरं | विश्वसंघातकेत्युक्त्वा दुष्ट चंचक इत्यपि || सर्वस्वहारक प्रोच्य मायावि तदनन्तरं | न्यासाहारि वृषल नष्टभूपाल इत्यपि || कलहात् कारका कृत्य शिवदानपि सुन्दरि | स्यार्दोर्दण्डाऽयुतेनेति उद्धासय युगं ततः || महांकुक्षेन संकीर्त्य विघट्टय पद द्वयं भयंकराच्छंशवरेण उत्कालयजुगं ततः क्रोधा वेशेन संकीर्त्य धूनयानुविधूनया एतयोर्युगलं प्रोच्य वधाधिक कठोर च | भवाच्चपेटाद्या तेन लोढये द्वितयं पुनः | विलोढय युगलं प्रोच्य संप्रहारेण मुष्टितः || तुदद्वयं समाभाष्य करतालिकयो ततः | २९१अ) त्युद युग्मं च खड्गेन भजयुग्मं ततो वदेत् || त्रिशूलेन कृतयुगं चक्रेण तदनंतरं | विश्वेषये द्वयं दण्डेनाऽभ्युदिः शमयाच्चरेत् || युगं प्रसमयं प्रोच्य वज्रेण विकियुग्मकं | कुन्तेनानुयुगं फेरुगदयापोथय द्वयं || विपोथय युगं प्रोच्य तोमरेण ततः परं || प्राणान परिघातय द्विर्भिन्दिपालेन द्विःकिंचिशक्त्यामुखण्डय द्वंद्वं विषण्डययुगं ततः || तत कटायाच्च मारण त्रासनया तथा | चर्वय द्विःसमुच्चार्य युग्वलेन ततः परं || विंसद्विर्नागपाशेन वेष्टय द्वितयं ततः | कुन्तेन मर्माणि युगापातं यद्विर्विपाटय || पट्टिशनेति संकीर्त्ये तिलशाव्यधम द्वयं | अपो गुडेन संकीर्त्य उड्डापय युगं ततः || तुलया स्फोटय प्रोच्य प्रस्फोटये वधोच्चरेत् | वन्धमोहय संकीर्त्य विमोहय ततोप्यनु || मूर्छयानन्तरं मूर्छा पय शब्दं समुच्चरेत् | द्विद्विरष्टो समुच्चार्य ततो द्वादश ईरयेत् || कोटि ब्रह्माण्डोदरार्च वर्ति भूतशिरस्ततः || किरीटकोटि मणितो मय शेखे इत्यपि || निघृष्ट चरेणेत्युक्त्वा कमला युगले ततः | खेचरोद्भूचराद्वारि चरात् पातालेतश्चरु || रोदशीतश्च वाहनन्तः शक्तितोनिवहा तथा | नान्दे ते च समुल्लिख्य त्रिलोकी वन्दिते तथा || सपुत्राच्च सकलत्राच्च परिवारं च मां तथा | रक्ष पा हि समुल्लिख्य ततः पालय पालय || वद्धया नन्दया ह्लादय साधय समुद्धरेत् | प्रसाधयेति संकीर्त्य पूरयानु प्रपूरय || भूषयति समुद्धृत्य विभूषय च हर्षय | प्रहर्ष यव उल्लिख्य मोहयोनु प्रमोदय || युगं युगं सप्तदश क्रियापदमुदीरयेत् | रूपं चक्षुर्महाप्राणो नागः पुरुष एव च || मोहतृष्णाश्वाश ईतिन्निर्वेदो वैश्व देवकः | कालं संतोष वैराग्य कृपाभेरि च पंचमः || हुवायि भीभाभौ सामवियाजोमाथसामकौ | आश्विनश्च समुज्यश्च कौटिल्यं निष्ठुरस्तथा || वृर्तिप्रगीढो वेधी वहवी दर्वीमयी वया | वुध्नश्चैषां यावतिथो योयः कमललोचने || २९१ब्) समाव * * * * * * * * * * * * * ? | मूर्तिभेद विभिन्नेति पंचाशल्लिपितः क्रम || * * * * * * * * * * * * *? कीर्तयेत् | ततोनु देवता प्रोच्य स्वरूपिणि समुद्धरेत् || ततः सन्मुनि * * * * * *? मानुलोमतः | प्रणयस्त्रिपुटा सम्मिन्मित्र आंगिरसस्तथा || रथन्तरश्च * * * * * * ? हृदयस्यथा | ज्येष्ठश्च कौमुदी चापि मण्डलं पूतना तथा || प्रेतोद्राहः शंखिनी च सुदर्शनमथापि च | द्रावरोधन दायीनं तत्वं भैरव्यनन्तरं || ब्रह्माप्यनुविरिविश्व अग्गले च सृणी ततः | भूतचण्ड निराकारः परन्तपश्च कच्छपं || अनन्त विकुटा सिंह यक्ष पक्षि समाधयः | एकसारभ्य यावत् स्यादं कीनां पंचसप्ततिः || अष्टत्रिंशच्च वीजानामुक्तानां परमेश्वरी | क्रमाद्विवर्धिता ज्ञेया विषमांकेन निश्चितं || प्रासादपाशं भैरव्या नृसिंह हृदनेन सः | आधारो मानसे विश्वपूर्णकुंभद्गरं भयः ||(?) माला?कूटं च फेत्कारी प्रलयो डाकिनी तथा | वधू कूर्चो योगिनी च लज्जा कामरमास्तथा || काली सुधाक्षमा शक्तिः प्रासादो मानसं तथा | भारुण्डा चा * * * * * * * * *? कधरौ || पुनः हुत्वा *? विद्युच्चमैधरावौ(?) श्रुतेम्मुखं | वीजान्ये तानि तावन्ति तैरेवांकैर्वरानने || पंचसप्ततिमारभ्य यावदेकं भवेत् पुनः | व्युत्क्रमाद्विनियोज्यानि * * * * * * * * ? || पूनर्वधू(?) समारभ्य *? वदूपोक्षर भवेत् | तैरत्रांकै वियोज्यं हि विपरीत क्रमेण च || मेरुगह्वर उद्धृत्य निष्क्रान्त इतीरयेत् | पंचसप्तति वीजेति ततो वर्णा वलित्यपि || ततः सकलि *? प्रोच्य * * *? वलिनापि च | * * * * * * * * * * *? कलितेत्यपि || सृष्टिसंहारमन्त्राच्च क्रमतो रूपधारिणि | सर्वमन्त्रात्मिके प्रोच्य सर्वमन्त्रात्मिके तथा || सर्वतन्त्रात्मिके पद्मान् स्वेच्छाकारि * * *? पि | * * * * * * * * * * *? रूपधारिणि || ब्रह्माप्रजापत्युक्त्वाद्रौहिणेति ततः परं | हैरण्यृण्यगर्भ उच्चार्य नारायण च वैष्णव || सौदर्शनाच्च त्रैविक्रमाग्नेयञ्चलनेत्यपि | प्राकम्पनैन्द्रानलतो याम्यनै-ऋतवारुणः || २९२अ) वायव्य कौवेरैशान परमेष्ठ्या इतीरयेत् | ततश्चानन्त कालेति भो तपर्जन्य विद्युतः || वारिवाहेय इत्युक्त्वा पार्वतेति समुद्धरेत् | पाषाणराग सौपर्ण कालकंज ततः परं || वैश्वदेवत्वाष्ट्रशब्दांडामसान्तैमिरेत्यपि | प्रस्वापनाच्च मातंका जंभकैषीक दानव || ततो जृंभ न गान्धर्व पैशाचो डुम्वरस्वपि | राक्षसाच्चौरचान्द्राच्चक्रहैमनसावर || भारुण्ड ब्रह्मा इत्युक्त्वा ततो ब्रह्मशिरो वदेत् | गुह्यकात् कालकूटाच्च वेतालात् सारभार्क्षव || वेताले राज स प्रोच्य ततो वैनायकेत्यपि | स्कान्द प्रामथ गाणौत्पात ज्वराच्च मौर्छनेत्यपि || कौष्माण्ड भ्रामकपोच्यमाकरांगालेन्त्यपि | ततस्तांभनसां मोहनवलाऽति वलापि च || ततौ नैमील वलस्वाप्नो च तनोन्मा समुद्धरेत् | आपस्मार मारणोच्चाटन भैरव इत्यपि || चामुण्डा डाकिनी प्रोच्य योगिनी नारसिंह च | वाराहसैंह शार्दूल माहिषा कैरवेत्यपि || पाशुपातद्यूत त्रिंशत् कोटि कोटि समुद्धरेत् | महास्त्रसंधानपदात् कारिण्यस्त्र त्रयं पुनः || पूर्वोद्धृतां भोगविद्यां वारमात्रं ततो वदेत् | ततः समुच्चरेद् देवि नववारं शताक्षरीं || हैरण्यकैशिपूपास्यां नववार ततोप्यनु | ब्रह्मोपास्यां च तस्यान् नववारं समुद्धरेत् || वाशिष्ठिं नववारांश्च रामौपास्यां च तावतः | नववारान् विष्णु तत्वं नवाम्वा हृदयानि च || वदेन् महाषोडशीं च नववारांस्ततः परं | ततः समुद्धरेद् देवि द्विवारं जयमंगलां || रावणोपासिता षष्ठि त्रिंशदर्णां द्विवारकं | द्विवारं त्र्यक्षरीं दाक्षीं षड्वारं भारतीं ततः || भारं ततो मुषकलमन्त्र शब्दात् स्वरूपिणि | मनोराग समुद्धृत्ये गोचरे गुह्यकालि च || त्रिशाकिन्यस्त्रियोगिन्यस्त्रिवध्वश्च स्त्रिरस्रकं | हृन्मन्त्रान्ते शिरो मन्त्र समाप्तैषा युताक्षरी || न्यूनाति रिक्तवर्णा तां ज्ञानार्थं परमेश्वरी | मयानि मद्यमानंतं निर्नयं शृणु सादरा || वसाशब्दस्य साकारे समाप्तिमगमच्छतं | रावणे * * ? सस्यापि द्वे इति पूर्णतां गते || २९२ब्) पोथाक्षस्य क्षकारेपि पर्याया त्रिशती प्रिये | यमक्षरे क्षयकर्याः परिपूर्णा चतुः श *? || प्रचण्डोग्रतरेवऽर्णे पूर्णं पंचशत तथा | फेत्कार्यण्डे षट् शती च परिपूर्णा वरा * * ? || हनयुग्मस्य हे वर्णे प्रथमे शतसप्तकं | तथाचाष्टशतीपूर्णा महाचण्डेति मेऽक्षरे || स्तंभयस्य द्वितीयंभे शतानां नवकं गतं | हिलि द्वंद्व स्यादि मे हौ सहस्रं पूर्णतामिते || छौतत् * * * ? चाण्डाल्या गता रुद्रशती प्रिये | भैरव्या वेक्षरे सूर्य शतीपूर्णेत्वमागता || कवर्णे कट रूपायाः पूर्णाविश्वशती तथा | महामांसस्य मे वर्णे पूर्णेन्दु शतिकापि च || चतुर्विंशति? कुर्चयाऽष्टमेऽर्णे तिथि सत्यपि | षट्त्रिंशत् डाकिनीकस्य षोडशे क्षितिं भूछतं || षष्ठे द्वादश माया योगिनीन्दु शतिका भवेत् | हस द्वयस्य प्रमेसार्ने द्वीशती तथा || स्तोभयप्रथाभेन्ने उनविंशशती गता | निष्पादयतिष्या वर्णे प्रथमे विंशतिः शतं || एकविंशशती जाती वीजे वै राजके प्रिये | विदिशेत्यादि मे वौ च द्वाविंशति शती मता || चत्वारिंश शकारेऽर्णललपक्षशती मता | पूर्णे चतुरशीत्या च चतुर्विंशशती मता || विघट्टय द्वितीयेघे पंचविंशती न्यगात् | कुन्तान्तन्ताक्षरेप्याघे षड्विंशतिशती स्मृता || विखण्ड च द्वितीये खे शतानां सप्तविंशतिः | व्यधमेति द्वितीये मेऽष्टा विंश *? ती मता || चरणस्य न वर्णे तु ऊनत्रिंशच्छतीव्यगात् | साधयस्य द्वितीये धे गता त्रिंशच्छती तथा || समाप्ता सप्तमा *? से एकत्रिंशच्छती प्रिये | भेर्याः पंचदशार्णे तु द्वात्रिंच्छतिका गतां || त्रयस्त्रिंशच्छती पूर्णा चतुर्थमथ सुन्दरि | चतुस्त्रिंशच्छचापि कौटिल्य *? दशमे प्रिये || प्रगाढान्ते समाप्तोयं पंचत्रिंशच्छती तथा | मथास्तु सप्तमे वर्णे षट्त्रिंशच्छतिकापि च || विभिन्नेत्य स्ववौधर्णे सप्तत्रिंशच्छती तथा | वृहद्वीज द्वादशे तु अष्टाविंशच्छती व्या? तत्? || २९३अ) प्रमस्य सप्तमे वीजे न वा *? लशनीगता | सुदर्शनस्य विंशार्णे चत्वारिंशच्छती तथा || नीलपंचदशावीजे भूवे दशति कापि च | पंचविंशत् सु भैरव्याः करवेद * *? मता || विरिच्यन्ते समाप्ता च त्रिवेदग * *? प्रिये | युगाद्विंशतिका पूर्णा दानवान्ते तथैव च || सप्त चत्वारिंशद्भूत वाणाविंशतिका गता | पंचत्रिंशत द्विराकारे षड्विंशति * * * ? || तिथ्यर्णेक मथस्यापि मुनिवेशती तथा | द्विपंचाशदनन्तस्य गजार्नवशती मता || विंशत्पर्णे मृगेन्द्रस्य ग्रहवेदशती गता | यक्षार्णस्यैक पंचाशद्वर्णेखेषु शतीव्रणात् || समाधि सप्तमेऽर्णे तु भूत्वा वाणातिक्य तथा | प्रसादस्य कराग्रौ तु द्विपचाशच्छतिका गता || पाशस्य शैलवाणार्णे तलवाण शती प्रिये | त्रयोदश नृसिंहस्य वेददः * * * * * ? || वाणषाण शती वेद वेदां * * * ? सोपि च | आधार द्वादशार्णे तु षट्पंचाशच्छती गता || मानवस्यो न पंचाशवर्णेतिषु शती *? था | पूर्णेन त्रिंशदशदर्णे तु ना *? शती प्रिये || करांभः सप्तदशके * * * * * *? तथा | त्रयोदशे तु फेत्कार्याः षट्सहस्री प्रपूजिता || त्रयोदशे तु डाकिन्याश्चंद्रन्तुं शतिका गता | कूचौकोण त्रिशदर्णे क * * * * * *? गात् || त्रिषष्टि * * * * * * * * *? द्वादशाक्षरे | वध्नानागांगशतिका नागांगशतिका व्यगात् ||? अंकतर्कशती पूर्णा कोटिल्य नवमाक्षरे | मध्येकादशवर्णे * * * * * ? सहस्रकं || एकाद * * ? विमस्य * * *? शति काव्यगात् | इति * * * * * * * * ? शतिका पूर्णता || मन्त्रात्मिके मकारेर्णे त्रिसप्तति शतीगता | पर्जन्य पाक्षरे पूर्णा * * * ? शतिका प्रिये || सा वीरवर्णे तु * * * * ? वाजि शती गता | कैरवान्ते * * * * * * * ? पूर्णतामिता || फट् त्रयान्ते पक्षकरांग तु वेदा प्रकीर्तिता | ततश्च भोगविद्यायाः सप्ताशीति शतद्वयं || २९३ब्) नववारं शताक्षर्युच्चारगात् परमेश्वरि | शतानि नवजायन्ते वर्णानां तस्य वै मनोः || न प्रवन्ते पिण्डिताग्र ग्रहाऽम्ररचसु द्विपाः | हिरण्यकणिपूपास्या देवतादेन्दु वर्णिका || ब्रह्मवाशिष्ठ रामाणामङ्केषु युयवर्णसः | विष्णु तत्वाऽम्वा हृदय महाषोडशिकासु च || चन्द्रर्तु करसंख्या कामंत्रवर्णा भवन्ति हि | पिण्डिताङ्कास्तु जायन्ते गुणा स्वर्णग्रहोरिता || वशेषसंख्यका देवि ज्ञातव्या जयमंगला | द्विसप्तस्यार्णका चापि रावणोपासिता प्रिय || दाक्षी षडर्णापर्णवतिर्भारती परिकीर्तिता | सर्वशेषे च वर्णानां सप्तत्रिंशद्व्यवस्थिता || मिलिता दशसाहस्रवर्णाः सर्वे भवन्ति हि | अयन्ते कथितो देवि माला मन्त्राऽयुताक्षरः || सर्वेषा मूलमन्त्राणां वीजमेतदुदीच्यते | मन्त्रस्यास्य प्रभावं किं व्याख्यास्याम्यहमीश्वरि || शिवोवक्तुं न शक्नोति यस्या मंत्रोयमीदृशः | न भवतीं न वाशिष्ठीं न ब्राह्मीं न च राघवीं || हिरण्यकशिपुं नापिन्यम्वा हृदयमेव च | मंगलां च सहस्रार्णां रावणेपासितामपि || नवेत्तियो भोगविद्यां न च वेत्ति शताक्षरीं | न षोडशीं सप्तदशीं मनार्हत्य युताक्षरीं || मालामंत्रोस्य यं प्रोक्तो दक्षकाल्या वरानने | एतस्य महिमानं नोवक्तुं शक्नोमि विस्तरात् || वलेन यश्च गृह्नाति यो ददाति वलेन च | पततः खर्परे काल्यास्तावुभौ पुरुषाधमौ || अयुताक्षरनामानं मंत्रराजं पुराहरिः | लक्षवारं जजापाऽमुं ततः सिद्धिं परांगतः || मालां नरास्थि घटितां कृत्वा पोऽष्टोत्तरं शतं | जपत्यवस्य माप्नोति ससिद्धिं नात्र संशयः || मालामंत्राऽयुतार्णस्य वामदेव ऋषिर्मतः | तृष्टुप् छन्द इति ख्यातं दक्षकाली च देवता || योगिनि किरकं प्रोक्तं शाकिनी शक्तिरुच्यते | २९४अ) डाकिनी वीजमुद्दिष्टं प्रयोगः सर्वसिद्धये || विशेषतश्च कैवल्य लङ्घये परिकीर्तितः | इति श्री-आद्यानन्दनविरचितायां कुलमुक्तिकल्लोलिन्यामेकविंशतिःतमः पटलः || अथ कौलिकानामन्यथा पापक्षयविधिः || तद्यथा मेरुतंत्रे || अथ कौलिकमार्जाणां पापनाशय वक्ष्यते | पापनाशे सुखोत्पर्त्तिस्तद्वर्ष पक्ष पूजनं || माघशुक्ल प्रतिपदि दिवाचाहार वर्जीतः | स्नात्वा शुक्लांवरधरः सायं संध्यामुपास्य च || सूर्यार्चनं तु मार्गेण सर्वद्रव्यसमन्वितं | चन्द्रास्तमनपर्यन्तं जपेन्मन्त्र मनन्यधीः || एवं प्रतिदिनं शुक्लचतुर्दश्यं तमर्चयेत् | पौर्णिमास्यां यथाशक्ति पूजच्छक्ति कौलिकान् || यौवनोल्लास सहितश्चन्द्रस्थां देवतां स्मरेत् | एवं शुक्लार्चनं कृत्वा रात्रि पापैः प्रमुच्यते || शुक्लपक्षार्चनं यद्वत् पक्षे सिते तरे | यकरोति विधानेन सर्वान् कामान् समष्णुते || अथ वैशाखमासस्य शुक्लप्रदिपदीश्वरि | ब्राह्म्ये मुहूर्ते चोत्थाय स्नानं संध्यामुपास्य च || मनोज्ञेरहमि स्थाने पूर्वाशाभिमुखः स्थितः | आत्मानं तु पुष्पगंधाद्यैरलंकृत्य च वर्तयेत् || संध्याद्यमुद्गते सूर्ये मण्डले त्विष्ट देवतां | ध्यात्वा सा चरणां सर्वैरूपचारैः प्रपूजयेत् || चक्रपूजां ततः कृत्वा कुलदीपं प्रदर्शयेत् | शिवाय गुरुरूपाये मत्स्यमांदि भक्ष्यकं || देव्यै निवेद्यतच्छेषं पिवेच्छक्यायुतः स्वयं | यौवनोल्लास सहितो निर्विकल्पेन चेतसा || ध्यायंस्तन्मंडले देवीमष्टोत्तरं सहस्रकं | जप्त्वा समर्प्यतां पूजां देवताश्च समुद्वसेत् || एवं शुक्लप्रतिपदं समारभ्य दिने दिने | कुर्याज्जपार्चनं कृष्णचतुर्दश्यवधि स्थिरः || अमावास्या दिने पूज्यास्त्र्याद्र्या विषम कौलिकाः | युग्मी भूतास्तदाद्यस्त्र कृतं पापं व्यपोहति || २९४ब्) अथ नवमिथुन पूजनं || तदुक्तं तत्रैव || वक्ष्येथ सर्वकामानां साधनं मिथुनार्चनं | संक्रान्तौ विषुवत्यां वायने वा तत् समाचरेत् || गौरी शिवौ रमा विष्णु वाणी सरसिजामनौ | शचीन्द्रौ रोहिणी चंद्रौ स्वाहाग्नी च प्रभा रवी || भद्रकाली वीरभद्रौ भैरवी भैरवावपि | मिथुनानि नवाभ्यर्च्य पूर्वोक्ते नैव वर्त्मना || त्रितारादि नमोंतेन तत् तन्नामा विधानवित् | गंधपुष्पादिभिः पूज्यामर्घाद्यैः परितोषयेत् || प्रौढांतोल्लास युक्तानि कुर्वीत मिथुनानि च | एवं कृतेन संदेहस्तुष्टास्युर्नव देवताः || वर्षे वर्षे तु यः कुर्यान्न स दुःखमवाप्नुयात् | पुत्रार्थं पंचवारं तु धनार्थं प्रतिमासकं || अयने विषुवे चैव कारागृह विमुक्तये | नपुंसकस्य पुंस्त्वार्थमष्टवारं समाचरेत् || अथ वक्ष्ये मान हरलक्ष्मी संवादोक्त चक्रपूजाविधिः || मेरुतंत्रे कुलार्णवे च || ईश्वर उवाच || चक्रपूजां प्रवक्ष्यामि सर्वतन्त्रेषु गोपितां | अभीष्टसिद्धिदानातः परं किंचन विद्यते || सर्वेषांमेव देवानां श्रिया प्रोक्तेप्सित प्रदा | वैदिकेरपि कर्तव्याभीष्ट सिध्यै पुरोदितं || कृत्वा तु कौलिकं देवि पूर्णाः स्यूस्तन्मनोरथाः | समयश्चक्र पूजाया अष्टधा परिकीर्तितः || सहसोत् पतिते कार्य कार्ये वा पूर्णतां गते | देवतोत्साहदिवसे कौलिकस्यागमेपि वा || उमामाहेश्वरे योगे योगे वा शक्तिसंगमे | वलिराज्ये कामदिने चक्रपूजाति हर्षदा || प्रदोषे वाभिजिति वा निशीथे वाष्टमी युता | नवम्या चेद्भवेद् योग उमामाहेश्वराभिधः || भौमोष्टम्यां चतुदश्यां योगोयं शक्ति संगमः | आश्विणस्यासिते पक्षे त्रयोदश्यादि पंच च || वलिराज्यमिदं प्रोक्तं यथेच्छ क्रीडतायतु | तत्कामदिनमित्याहुः सोमवारे त्रयोदशी || पूर्वस्मिन् दिवसे स्नात्वा देवीमभ्यर्च्य कामनां | कृत्वा संकल्पयेच्चक्र पूजा दद्याद् वलिं पशोः || वलिदानविधिरुक्तः || एवं दत्वा वलिं संम्यङ्नित्य कृत्यं विधाय च | २९५अ) तृतीये प्रहरे रोमानराः श्वोर्थं निमंत्रयेत् || अमुख्याः प्रीतये देव्या मन्मनोरथ सिद्धये | चक्रपूजोत् सवार्थं त्वंश्वो मया मंत्रिता ह्यसि || अष्टाधिकानि मंत्र्यास्तु स्त्रिया न्यूनास्तु तत्कृतेः | स्त्रीत्यश्च पुरुषा न्यूना अधिकास्ते तु हानिदाः || सर्वे कौल व्रतस्था वा प्राग्दक्षापवर्जिताः | भवंति दीक्षानिरतानि मंत्र्याश्चक्र पूजने || तस्यां रात्रौ तु संपूज्य देवं स्वयमतिंद्रितः | कुलशब्द द्विधा प्रोक्ता कुलजेति पिशाचिनि || त्रयादशार्णं स्वाहांतंमष्टोत्तर सहस्रकं | जपेन्निशि ततः पश्यच्च्करे विघ्नं तथा शुभं || विघ्ने दृष्टेन कर्तव्यं कार्यं शांति पूर्वकं | शांतिर्गणेश्वरो होमा ग्राहाणां भैरवस्य च || ततो वहिर्वलिं दद्यादिमं मंत्रमुदीरयेत् | ओं नमश्च त्रिरुचार्य ह्यमुक क्षेत्रपालक || एह्य हि भगवन् पूजां गृह्नयुग्मं वलिं तथा | भक्षयुग्मं चक्रविघ्नकरान् स्तंभय युग्मकं || हूं फट् स्वाहा सप्त चतुर्वर्णो मन्त्र प्रकीर्तितः | दिनस्य कृत्यं निवर्त्य साद्यं चक्रं प्रपूरयेत् || अर्चाचक्रं स्वविद्यायास्तन्मध्ये स्थापयेद् घटं | मद्यपूर्णं तत्र देवींमावाह्यार्चनमाचरेत् || नानाविधानि मांसानि ह्यनेकामत्स्य जातयः | चतुर्विधानि भक्ष्याणि उपदंशापदंशकाः || एतैः सम्यक् पूजयित्वा सांगां सावरणांसुरीं | शक्तयश्च तथा वीराः पूज्याः पुष्पाक्षतादिभिः || पूजा गृहादुत्तरतस्त्रिकोणे भूगृहांतरे | उच्छिष्ट भैरवं तत्र गंधपुष्पादिभिर्यजेत् || उच्छिष्ट दोषो भविता चक्रे पूजा महोत्सवे | तर्दोष परिहारार्थं भैरवं पूजयाम्यहं || तारत्रयं तथोच्छिष्ट भैरवै हि द्वयं तथा | वलिं गृह्नयुगं हूं फट् स्वाहा द्वाविंशदक्षरः || अनेन वलिदानन्तु पूजांतेस्या प्रकल्पयेत् | पूजागारं समागत्य प्रणमेच्चक्रं संस्थितान् || गुरुपात्रं समादाय मद्यामृतयुतं करे | परिधिं चेत्सामयिकानिति शांतिः स्वयं पठन् || जयंति देव्यो हरपादपंकजमित्यादि शान्तिस्तोत्रं पूर्वमुक्तं || २९५ब्) पठित्वभ्यर्चनापात्रं समुद्धास्य गुरुस्ततः || पठित्वेति शान्तिस्तोत्रं || दद्याच्छिष्याय कुंभस्थं योगिनीभ्यः पृथक् पृथक् | पात्रे तथैव वीरेभ्यश्चेतरेभ्यः स्वयं पिवेत् || स्त्रीणामन्यतमं स्थानं पुंसामन्यतमं पृथक् | अथ वा मिथुनं कृत्वा क्रमात् समुप वेशयेत् || पंक्त्याकारेण वा सम्यक्चक्राकारेण वा पुनः | शिवशक्ति धिया सर्वान् चक्रमध्ये समर्चयेत् || तत्र मत्तेषु वीरेषु कार्याकार्यं न विद्यते | तत्र यद्यत् कृतं कर्म शुभं वा यदि वा शुभं || तत्सर्वं देवता प्रीत्यै जायते नात्रसंशयः | जल्पो जप फलं तंद्रा समाधिरभिधिःयते || विक्रिया पूजनं प्रोक्तं छर्दितं भैरवो वलिः | मुक्तिः स्याच्छक्ति संयोगस्तोत्रं तत्कामभाषणं || न्यासो वयसस्पर्शो भोजनं हवन क्रिया | ध्यानस्तु वीक्षणं प्रोक्तं शयनं वंदनं भवेत् || तदुल्लास कृतानां च या चेष्टा सा च सत्क्रिया | कार्याकार्यविचारं तु यः करोति स पातकी || एतच्चक्रगता वीरा विज्ञयाः परयोगिनः || येनाप्तुवंति मनुजाः || साक्षाद्भैरवरूपतां || संमोदकोपशमनं पतनोन्काननर्भनं | वेणु वीणादि वाद्यं च कविता रचनादिकं || रोदनं भाषनं पातः समुत्थानं विजृंभणं | गमनं विक्रिया देवि याग इत्यभिधीयते || विकृतिं मनसो हित्वा यदोल्लासः प्रवर्ततो | तदा तु देवता भावं भजंते योगि पुंगवाः || कौलिकां भैरवावेशान्यो वा निंदति मूढधीः | तन्नाशयंत्य संदेहोद्योगिन्यो नात्र शंसयः || यद्यद्वक्तिमदा वेशादद्भुतं कौलिकोजना | तत्तत्भवत्य संदीग्धं शुभं वा यदि वा शुभं || तारोवमो भगवति मद्यमांसं विहारिणि | रतिप्रिय चक्रदेवी वद कौलिक वल्लभे || सत्यं मनोगतं मह्ये त्युक्त्वा मद्यं पलान्वितं | प्रदद्यात् कौलिकेभ्यस्तत् तन्मताः प्रकूर्वन्तिते || तत्र कश्चिदकौलश्चन्न सास्फुरति भारती | २९६अ) न निन्देन्न हसेत् कुप्येच्च्करे मधु सदा कुलान् || एतच्चक्रतां वार्तां वहिर्नैव प्रकाशयेत् | तेभ्याद्रोहं न कुर्वीत नाहितं च समाचरेत् || भक्त्या रक्षयत्तान्वै गोपयच्च प्रयत्नतः | चक्रे मदाकुलां दृष्ट्वा चिंतयेद् देवताधिया || मोदते वन्दते भक्त्या स गच्छद्योगिनी पदं | प्रवृत्ते भैरवी चक्रे सर्वे वर्णाद्विजातयः || निवृत्ते भैरवीचक्रे सर्ववर्णाः पृथक् पृथक् | स्त्रियो पुरुषः षंढश्चण्डालो वा द्विजोत्तमः || चक्रमध्ये न भेदोस्ति सर्वदेव समाः स्मृताः | चक्रमध्ये गता सर्वे पुरुषाः शिवरूपिणः || स्त्रियः सर्वाश्च पार्वत्यस्तस्माद्भेदं कारयेत् | मद्यकुंभ सहस्रैश्च मांसभारशतैरपि || न तुष्यति महामाया भगलिंगामृतं विना | कामुको न स्त्रियं गच्छेदमिच्छंतिमदीक्षितां || सद्यः संस्कार संशुद्धां विहितत्वाद् व्रजेत् स्त्रियं | सहस्रचक्र पूजातो राज्य भ्रष्टा नृपो भवेत् || पंचाशद्भिश्च पुत्राप्ति निरोगो दशभिर्भवेत् | यस्य चक्रस्य पूजायां रतत्स्खलति चांगता || अवश्यं सार्वभौमो सौवर्षमध्ये भविष्यति | यथेप्सित प्रिया प्राप्त्यै पंचधा पूजनं चरेत् || सप्तभिः धनप्राप्तिश्चक्रपूजाविधिस्त्वयं | भगीनी वा सुतां भार्यां यो दद्यात् कुलयोगिने || मधुमत्ताय कौलाय चक्रे वा पुण्यभाक् स तु | उत्तमानित्यपूजा स्यान् मध्यमं पर्वपूजनं || मास पूजाधमा प्रोक्ता मासादूर्ध्वं पशुर्भवेत् | मासेथ वा त्रिमासे वा षन्मासे वत्सरेपि वा || श्रीगुरुं पूजयेद् भक्त्याऽव्याप्तौ तत् स्त्री सुतादिकान् | तदभावे तत्कुलीनं तच्छिष्यं वान्य योगिनं || संतोषयेत् कुलद्रव्यैश्चक्र पूजापुरःसरं | रोगेष्वापत्सु दोषेषु दुःसंगे दुर्निमित्तके || पूजयेद् योगीनी वृन्दं देवी तद्दोष शांतये || गुह्यसिद्धितंत्रे || अथ कुलाचार्य वीरपूजादानफलं | विप्राणां वेदविदुषां कोटिभुं जाप्य यत् फलं || २९६ब्) भिक्षापात्र प्रदानेन तत्फलं क्रमयोगिनां | सोमपानमृते कोटि यत्पुण्यं प्राप्यते सदा || तत् पुण्यं कोटिगुणितं संभारख्य? क्रमयोगिनां | तत्पुण्यं क्रतु लक्षण अश्वमेध शतेन च || तत् पुण्यमेक पात्रेण दत्तेन क्रमयोगिनां | लक्षचान्द्रायणात् पुण्यं यत्पुण्यं लक्षधेनुभिः || तत् पुण्यं प्राप्नुयात् सद्यो वीराणां पात्र दानतः | हेमभार सहस्राणि यद् दत्वा वेदपारगे || तत् पुण्यं वस्त्रदानेन प्राप्नुयात् कुलयोगिनां | कूपाराम सहस्रैश्च सरोलक्षं च यत्फलं || तत् फलं पुष्पदानेन आचार्य क्रम पूजको | कोटि प्रतिष्ठिते लिंगे यत्फलं लभते भृशं || तत् फलं हेमदानेन योगिनी क्रमयोगिनां | रत्नपूर्णामही सर्वागवां कोटि प्रदानतः || तत् पुण्यं लभते शंभोर्भिक्षापात्रेण देशिके | दीर्घिका प्रयुतै केन मरुदेशे च यत्फलं || तत् फलं तोयदानेन आचार्या क्रम पूजके | भ्रमणात् कोटि तीर्थानां यत्फलं लभते भृशं || तत् पुण्यं स्वल्पभिक्षायां पश्चिमान्वय योगिनां | रत्नपूर्णामही सर्वा सप्तदीपा स सागरा || दत्वा पुण्यं द्विजातीणां गुहादानेन कौलिके | मासोपवास लक्षण यत्पुण्यं लभतेयने || तत् पुण्यं युगपूर्णाश्च श्रीक्रमस्य प्रपूजके | वेदानां भोजिते कोट्या यत्फलं लभते स्फुटं || तत्फलं च रुदानेन पश्चिमान्वय योगिनां | दिगंवराणां तु कोस्रा? च भोजिते यत्फलं भवेत् || तत् फलं प्राप्नुयादेव पिशित दानेन योगिनां | वैष्णवानां तु लक्षेण वस्त्रदानेन यत्फलं || तत्फलं क्रमिते भूल कौशेन लभते वुधः | सौरभागवेतानां च हेमदानेन यत्फलं || तत् फलं क्रमिकानां तु कोपिका दानतो भवेत् | शैवानामेक लक्षेण वस्त्रदानेन यत् भवेत् || २९७अ) तत्फलं योगपट्टेन क्रमिकानां न संशयः | तांत्रिकानां तथा कोट्या अश्वदानेन यत्फलं || तत्फलं चास्वदानेन क्रमार्चन परायणे | मेरुप्रासाद लक्षस्य यत्फलं लभते कृते || तत्पुण्यं पादुकाच्छत्रदत्ते चान्वय पूजनेः || अथात्र भू देवानां वामदक्षिणे योर्मार्गयोरर्हानर्हं निरूप्यते || तदुक्तं मेरुतंत्रे || देव्युवाच || वामदक्षिणभेदेन पंचपंचक्रमेन च | उपासना वामदक्षा तत्र तत्र प्रसस्मिता || तत्र भोगः कयो मोक्षः कया युग्मं कयापि च | लभ्यते देवता काया सर्वाभ्यश्चोत्तमोत्तमा || शिव उवाच || देवासुरैः पुराकल्पे मथ्यमाने महादधौ | तत्र श्यामा समुत्पन्ना सुरा कलशधारिणी || गौरांग्ये रुणचैला च भास्यद्धरिते कंचुका | श्वेतोत्तर पदा देवी त्रैलोक्यस्यापि मोहिती || दृष्ट्वा तां दानवाः सर्वे शुक्राचार्य वलात् सुरान् | जित्वातांजगृह्नस्तस्याः कलशाच्च पपुः सुरां || देवान्य लायिता दृष्ट्वा शक्तयस्तत्र संस्थिताः | पषुस्ता अपि तां पुण्यां सुरां दैवत मातरः || वरानपि वहुन्दद्युः सुरायाः सुरमातरः | अभयास्मातर्पयन्ति शेषं गृह्नतिजे नराः || ते स्माद्रूपा न संदेहो भुक्ति मुक्तैक भाजनं | सुरागंगा सुरासिन्धुः सुरादेवी सरस्वती || सुरा गोदावरीरेवा सुरैव परमं पदं | सुरां निन्दन्ति ये मूढा मूढास्ते जन्मनि || गंधर्वस्तूयमानास्ता शक्तयस्ते च दानवाः | पुनर्ममन्थुर्जलधिं वरहीनैः सुरैः सहः || धन्वतरिः समायातः सुधाकलश हस्तवान् | सुरामत्तास्तुते प्रोचुः कीमिदं पुरुषाहृतं || उवाच मधुरं विष्णुः सांत्वयंश्च प्रतारयन् | पूर्वदेवाः संतु युयं यज्ञपानेस्य पानतः || अग्नेर्यदिदमुत्पन्नं पीयुषं तस्य यत् स्थितं | अज्ञाप्यतां तद्देवार्थं निःसारं पुरुषा हृतं || २९७ब्) ततो हरिर्मोहिनी रूपधारी वामेन तां प्रापयेत् पूर्वदेवान् || शक्तीः सर्वास्तद्गणान्भैरवादीन् ते तन्मत्ताः पूर्वदेवान वाधन् || हाहाभूतं समरं तं समस्तं शुक्राचार्यो ज्ञातवान् तत्समग्रं || ततः स क्रोधताम्राक्षो जलं कृत्वा करेशपत् | धिग्धिग्ज्ञानं मुरारीणामनया सुराया हृतं || तस्मादि मां ये पिवंति सर्वपातकिनस्तुते | प्रयांतु निरयं घोरं तिष्ठं त्विह पिशाचवत् || श्रुत्वा तद्दारुणं शापं प्रजज्वाल तदा सुरा | निर्दहन्निवलोकास्त्रीत्प्रकंपंत सुरासुराः || ततो मयास्तुता देवी वीजगर्भैस्तवोत्तमैः | पादयोः पातितः शुक्रः पुत्रोयं तेद्य पाल्यतां || मापपारमपावारा संवुध्यंता त्रिवर्णका | शुक्रशापं विमोचय पुनस्तद्वर्णकांतिका || यस्या उपासना तस्या वीजेन पूटितो मनुः | षोडशार्णस्तयाख्यातो मंत्रिताष्टोत्तरं शतं || निःशापं कुरुते साध्यं भुक्ति मुक्त्यैक भाजनं | इति दीक्षा क्रमो येषां वंशे देवि समागतः || स कौलो दुर्लभो देवि दाता भोक्ता अयाचकः | यस्मिन् मार्गे प्रधानेयं स तु वाम पथः स्मृतः || मद्यमांसं च मत्स्याश्च मुद्रा मैथुनमेव च | कुलमार्ग प्रतिष्ठेन सदा सेव्यं सुखैषिणा || कौलिकोंगुष्ठतां प्राप्तो वामः स्यात् तर्जनी समः | चीन क्रमो मध्यमः स्यात् सिद्धांतीयो वरो भवेत् || कनिष्ठः शावरो मार्ग इति वामस्तु पंचधा || तथा || सर्वेभ्यो वैदिकं श्रेष्ठं न्यूनं स्मार्तं ततः स्मृतं | ततस्तांत्रं तु तत्रापि संहिता अर्णवास्ततः || यामला संगमास्तंत्रमुद्दीशानी च ताण्ड च | इन्द्रजालं कक्षपूटा वौधं जैनं च शावरं || क्रमाद पाचितं(?) ज्ञेयं यथा योग्यं च मुच्यता | नीचे उच्चेस्य पातः स्यान्नीच उच्चात्मतेद्ध्रुवं || ज्ञातिदार्ढ्याय सर्वेपि स्वाचारात् कर्म कुर्वते || देव्युवाच || क्वचिद् देक्षं क्वचिद् वामं क्वचित् सौरं च शांभवं | उर्ध्वाम्नायं क्वचिद् दक्षमुत्तरं पश्चिमं क्वचित् || अध आम्नायकं चापि गाणपत्यं च वैष्णवं | पारसिकं क्वचिद्धौद्धा पाखंडं च क्वचित् क्वचित् || २९८अ) क्वचिन्निर्दैवतं मार्गं वेदान्तं वैदिकं क्वचित् | द्वीपधर्मान् खण्डधर्मात् कुलधर्मात् क्वचित् क्वचित् || देशधर्मान् कालधर्मान् प्रानिधर्माङ्क्वचित् क्वचित् | तत् तत्प्रकरणेस्तौषि क्वचिन्निंदसितं पुनः || तंत्रोत्तममिदं तंत्रं प्रसन्नश्चेत् सुरोपरि | तदा तत्वं मम व्रूहि निःसंदेहान्मुनीङ्कुरु || श्री शिव उवाच || अहो कालस्य महात्म्यं तंत्रे तत्रे त्वया पुनः | पृछ्यते तत् तदाधिक्यं माहंकारं व्रवीमि तत् || वेलेयं स्वात्विकी काचिज्जाता कालस्य यत् त्वया | उपकाराय सर्वेषां पृष्ठं तत्वं व्रवीमि तत् || यथा वेदे तथा लोके यथा कालं प्रजायते | यथा ब्रह्मांण्ड गोलोयं लिख्यते यत्र मध्यतः || सत्ये तत्र च पश्यत्वं पतितं किं पदंतरं | तथा नरेण कालेन वदेनेतर शास्त्रतः || अंतरं पश्य देवेशि शृणु तत्वं सनातनं | यथा चानहतः शब्दो नरेक्षययः प्रवर्तते || स नित्योपि पतेत् कर्णे न कदापि मूमूर्षतः | महापुरुष कालस्य तथा वेद ध्वनिः स्मृतः || कलेर्दश सहस्राणि यदाष्वर्षाणि यांति च | वेदो नारायणः साक्षात् काला वयव जंतुभिः || न श्रूयते तदा देवि ज्ञेयः समागतः | वाग्शृंभाक्षुतपर्दादि शब्दाश्चोत्पत्ति नश्वराः || वेदभिन्नानि शास्त्राणि तथा जानं तु देवताः | यस्य शास्त्रस्य लोकेस्मिन् प्रवादो यावदस्ति हि || तावत् तन्मार्गिणां सौख्यं वेदमार्गो ह्यकुंठितः | तस्मातन्मार्ग कर्तारः शिष्यात् स्तन्मंत्रदायिनः || तानानयंति स्वेमार्गे यतस्तावत् सुखं भवेत् | नृणां ज्ञानं यथा षड्भिरिंद्रियैः परिजायते || तथा षडंगैर्वेदार्थ ज्ञानं भवति निश्चितं | कर्मेन्द्रियाणि च यथा नृणां पंचमितानि तु || तद्वत् काल महेशस्य पंचास्तायामयोदिताः | उर्धाम्नाय समुद्दिष्टं वाचिकं कर्म तस्य तत् || तत्र प्रमाणं वेदाः स्युस्तदंशाः स्मृतयस्तथा | तदंगानि पुराणानि गायत्र्याद्याश्च देवताः || ब्रह्मवीर्यं तथा क्षेत्रं संस्कारा ब्रह्मसंभवाः | ब्राह्मणा चरणं ब्रह्म विद्याभिर्ब्राह्मणो भवेत् || २९८ब्) यस्या वस्या वयं यस्य वाचमर्थोनु धावति | एकस्मिन् लक्षणे हीने वागर्थमनुधावति || द्विहीने लक्षणे देवि स्वाचाराद् ब्राह्मणो भवेत् | लक्षणत्रयहीनोयस्तंत्रमार्गेन सिध्यति || चतुर्लक्षण हीनानां मार्गाः स्यूः कौलिकादयः | एतल्लक्षणभिन्नेन यथा देशं यथा कुलं || यथा जाति यथा कालं कर्तव्यो धर्मसंग्रहः | मिथ्या संभाषणं स्तेयं सर्वमार्गेषु गर्हितं || यत्किंचिज्जन्मयत् कर्म न जपो न तपः क्रिया | जीवन्मुक्तः सत्यवक्ता सर्वे सत्ये प्रतिष्ठितं || अहिंसा परमो धर्मः स च वाक्वाय कर्मभिः | दृढा यस्य न चाचारो न जातिः सोपि मुक्तवत् || परसत्ता यत्र तन्तु विष्टावद्यस्य चेतसि | स प्रक्वलोपि जानीहि जिवन्मुक्तो न संशयः || षडिंद्रिय ज्ञानवतां सृष्टिर्भवति मैथुनात् | त्यक्तं तन्मनसा येन जीवन्मुक्तः स कोपि हि || देवाः पूजनमिच्छंति तस्माद् वद्धाः प्रतिग्रहात् | शुकवद्व्यो प्रतिग्राही जीवन्मुक्तः स एव हि || शौचं प्रकुर्वतो नित्यं विष्ठा वुद्धिः करे वरे | देहाभिमानो गलितो जीवन्मुक्तः स एव हि || यथेच्छालाभसंतुष्ठः स्तौतिनो न च निंदति | नमुत्सुखेन रुग्दुःखे कर्मनाशात् समुच्यते || हित्वा विषय सौख्यं यस्तपस्तपति निर्जने | न फलं कामयेत् किंचिज्जीवन्मुक्तः स एव हि || यावद् देहस्य निर्वाहस्तावत् कालं परिक्षिपेत् | वेदस्प्यत्यासतः(?) सर्व योनयेत् स तु मोक्षमान् || कोहं किं दृश्यते कर्ता कोस्ययाति क्व चेतसि | इति संभावयं नित्यं महाकाले लयं व्रजेत् || एते तु सुगमो पाया नात्र चित्तं स्थिरं भवेत् | कामक्रोधारि संतप्तं महामाया विमोहितं || दुर्विज्ञयादुनिवारा माहाकालस्य गेहिनी | तदं साराधनात् सातु प्रसन्ना चेद्विमुंचति || सुवुद्धिभिः प्रियैः पुत्रैर्यथा माता प्रजार्यते | तथा प्रतार्यत चेयं जीवन्मुक्तः स जायते || कृतं वंधार्थ मनया खानपानं च मैथुनं | तेनैव चेदियं वद्धा स्वयं मुक्तस्तदा भवेत् || वामिकैः कौलिकैस्तस्मादज्ञानैश्च गुरुं विना | समस्तै रथवा ज्ञातैर्वध्यो तेयं न चेतरैः || वध्येयं वंधनैः स्वस्वस्य त्रोटयेद् वंधनानि च | २९९अ) भावयेच्च माहाकालं जीवंन्मुक्तस्तदा भवेत् | वंधमोक्षप्रकारास्तु तंत्रे संकलिता मया || यैर्ज्ञाता गुरुमार्गेण तैर्वद्धेयं सुदुस्तरा | कुरुरोर्मुखतो वापि ज्ञानाभासाच्च पुस्तकान् || स्वधर्मं संपरित्यज्य येत्र मग्नास्तुते हताः | तस्माद्धर्मं प्रवक्ष्यामि वामिनामधिकारिणां || येषां भोगोपि मोक्षोपि भवेद् येषां च दुर्गतिः | अवश्यमेव कर्तव्याः शिष्या वामेधिकारिणः || गुरोस्तेन भवेत् तेजः शिष्योपि लभते मुखं | मोहेन वाथ लोभेन दीक्षामनधिकारिणे || यो दद्यात् स दरिद्रस्या छिष्यः स्याद् दुःखभाजनं | पूर्वोक्ता रक्षणेष्वेकं यस्मिन् विप्रे प्रदृश्यते || तप्यते चोप तापेन किंचिद् ब्राह्मणतांगतः | अधिकारो न मे जातः समस्त ब्रह्मकर्मणां || इहलोके परत्रापि कथं लप्स्याम्यहं सुखं | अंधश्च यः परद्रव्ये परस्त्रीषु नपुंसकः || परापवादेयो मूर्खो नित्यमित्थं विचारयेत् | तस्यैव ब्राह्मणस्यात्र वामे स्यादधिकारेता || अब्राह्मणस्तु ये केचित् मांसमद्य रताचयं | कथं लभामहे मोक्षमिति चिंता परायणाः || पूर्वोक्त लक्षणैर्युक्तास्तेपि शिष्याः प्रकीर्तिताः | पंचलक्षणसंयुक्तो ब्राह्मणः काल एव सः || अहं ब्रह्मा तथा विष्णुस्तदाज्ञावशवर्तिनः | स चेद् वामपथं प्राप्तः पुनः श्वानोभिजायते || चतुर्लक्षणसंयुक्तो विप्रो ज्ञेयस्तु मध्यमः | ताभ्यां दत्तो भाग्यवशात् तांत्रिकः कोपि चेन्मनुः || सद्यः फलति चाद्यस्य क्रियया चापरस्यस्तु | लक्षणत्रय युक्तोयस्तस्य वैदिक तांत्रिके || यथोक्ता चरणादेव फलदस्तो न वामकः | लक्षण द्वय संयुक्तस्तस्य वामश्च दक्षिणेः || समतुल्य फलौस्यातां न कदाचन वैदिकः | एकलक्षणसंयुक्तो शमस्तस्य फलप्रदः || सूत्रादि यवनांतानां सिद्धिर्वामपथे स्थिता | वाममार्गः स्थिता विप्रस्तुलसीं न पृस क्वचित् || न स्पृशेद् वैष्णवं विप्रं प्रणमेत्न च वैदिकं | हीन विप्रक्षत्रियाद्या वाममार्गरता अपि || तद्धर्मत्वा धनैर्विष्णौः प्लूतानिः किल्विषास्तथा | सर्वत्यः कौलिकः श्रेष्ट उर्ध्वाम्नायी च वामगः || २९९ब्) अधिकारी भक्ति युक्तोयश्च सद्गुरु सेवकः | स एव कौलिक वंद्य इतरे मद्यपा मताः || स्मरणं कीर्तनं तस्य दर्शनं वंदनं तथा | संभाषणं च कुरुते राजसूयाधिकं फलं || स यत्र वसते देवास्तत्र श्रीर्विजयो भवेत् | अनामयं सुवृष्टिश्च सुभिक्षं निरुपद्रवः || दृष्ट्वे दृशं च प्रणमेदन्यो वर्ज्यः सुदूरतः | पूर्वाम्नायः सृष्टिरूपः स्थिति रूपस्तु दक्षिणः || संहारः पश्चिमाम्नाये उत्तरे तु ग्रहो भवेत् | मंत्रयोगं विदुः पूर्वं भक्ति योगस्तु दक्षिणं || पश्चिमं कर्मयोगं तु ज्ञानयोगं तथोत्तरं | अन्यच्च तत्रैव || दक्षे यज्ञे यदा देवि त्वया त्यक्तं कलेवरं | अहं गृहीत्वा तत् स्कंधे चित्रां प्रवेष्टुमुद्यतः || वडवार्गेर्गवेषार्थं यत्र यत्रा भवत् स तु | तत्र तत्र तु शक्रेण तूर्णं निर्वापिता जलैः || एवं पर्यततो वर्षं प्रस्वेदो मे महानभूत् | तद्विंदु पातर्निर्दग्धाधरणीयं भविष्यति || तदा संप्रार्थितो विष्णुर्धरणी रक्षणाय च | तदा स लघुभिर्वाणैस्तदंगानि समाच्छि तत् || चतुराशीति खंडानि कृत्वासौ पातयद्भुवि | वातेन वीजितश्चाहं प्रीतोद्यमौखिलस्तदा || विष्णुश्च प्रकटी भूय पादयोः पतितो मम | उत्थाप्य च परिष्ठक्तस्तव शोकश्च विस्मृतः || तावद् ब्रह्मादिका देवानारदाद्यामहर्षयः | मां तुष्टुवुस्तदा वाक्यं विष्णुः प्रोवाच पार्वति || ज्ञानदोसि महेशत्वं कथं मोहमुपागतः | मत्याः शरीरेण सह प्रवेष्टुं हव्यवाहनं || अनुगच्छेत् पतिं नारीं न युमानतां च गच्छतिः | इति शास्त्र मनाद्वत्य कथं देव विमोहितः || एववति देवेशे ब्राह्मणामां हरिं तथा | श्लेषालंकार वाक्यैश्चतुष्टुवुर्विधिना सह || आवाभ्यां तु तदा प्रोक्तं याचयध्ववरं द्विजाः | तदातैर्ब्राह्मणैरुक्तं यातोयं धर्म विप्लवः || दक्षयज्ञाश्रितैः शैवा ब्राह्मण्याद्भ्रंशिता द्विजाः | यज्ञागताश्च सर्वेपि शैवे शप्ता द्विजातयः || विष्णुना कर्तितैरंगैः सत्याश्चेदं धरातलं | स्थले स्थले शवस्पर्शाद् ब्रह्मकर्म विवर्जितं || तस्माद्धरायाः संशुद्धिं विप्राणां चापि शुद्धतां | ३००अ) ब्रह्मवाक्यस्य सत्यत्वं यथा भवति तत्कुरु || ततो ध्यात्वा मया प्रोक्तं संमतीकृत्य विष्णुया | यत्र वेदक्रिया ध्वस्ता तत्र तंत्रं प्रवर्त्यतां || ये विप्राः शापनिर्दग्धा ब्रह्मकर्मविवर्जिताः | तेषां तु कुलधर्मोयं भुक्ति मुक्त्योस्तु साधनं || ये विप्राः पीठसंजाताः शापनिर्दग्ध विप्रता | तेषां कुलेधिकारोयं मार्गस्यास्य प्रजापते || तत्कुले एव पूज्य त्वात् कौलोयं पथ उच्यते | वाममार्गस्ततो न्यूनस्तेषां नाक्षत्र वैश्यकौ || यजमानौ तयोस्तत्राधिकारः समुदाहृतः | सिद्धांतीयस्तदोन्यूनस्तत्र शूद्राधिकारेता || ये पारंपर्यमज्ञात्वा कौलधर्मं विशंतिते | निःस्वाः संतति हीनाश्च रोगिणो नात्र संशयः || कौलज्ञाने ह्यसिद्धोयस्तद्रव्यं भोक्तुमिच्छति | स महापातकी देवी सर्वकर्म वहिष्कृतः || समयाचार हीनस्य स्वैरवृत्तेर्दुरात्मनः | न सिद्धयः कुलभ्रंशस्तत्संसर्गं न कारयेत् || यः शास्त्रविधिमुत्सृह्यवर्तते कामचारतः | स सिद्धिमिहनाप्नोति परत्र च परांगतिं || कुलद्रव्याणि सेवंते येन्य दर्शनमाश्रिताः | तदंगरोमसंख्यातं भूतयोनिषु जायते || मद प्रस्फालितात्मा च न किंचिदपि वेत्ति चेत् | न ध्यानं न पश्चर्वां न धर्मन्न च सत्क्रियां || न दैवं न गुरुर्नात्म विचारो यदि कौलिके | केवलं विषयासक्तः पतत्येवन संशयः || अथ वा तत्रैव हरगौरि संवादे || लक्ष्मी कोलासुरं हत्वा रोषात् तद्रुधिरं ययौ | पानमत्ता तदा विप्रैर्यथेच्छं हसिता तु सा || ब्रह्मणा विष्णुना वापि मया विप्रेष्ठमिच्छता | तदा क्रूद्धा महालक्ष्मी भूमावंतर्हिता भवेत् || निःश्रीफंसकलं जातं मुमुर्षुरिव दृश्यते | धर्मो न चलते क्वापि न चतुष्पन्ति देवताः || एवं वर्षशतं जातं ब्रह्माणं शरणं गताः | ब्रह्मापि तत्र निःश्रीको दरिद्र इव दृश्यत || प्रोक्तवंतस्तु मनयो विधे निःश्रीकताकुतः | तदा विप्र कृतं हास्यं ब्रह्मणा वोधितं प्रिये || ब्राह्म्यं तेजो महदिती विष्णुस्तूष्णीं व्यवस्थितः | युष्मत्पक्षावरोधेन हसिता श्रीशिवेन च || ३००ब्) तेनेयं कुपिता जाता गता तस्माद् रसातलं | सर्वे श्रियाश्रिताविसाचकंचन नाश्रिताः || तस्माद् विष्णुः शिवोहं च यूयं शक्र पुरागमाः | नागाश्च पितरः सिद्धा दिक्पाला यक्षराक्षसाः || आराधयं तु तां देवीस्तुवंतु च महास्तदैः | ततः संमिलिताः सर्वे गताः श्रीशैलपर्वतं || किंचिद् को भो श्रिया दृष्ट्वा च क्रुराराधनं ततः | वैदिकैस्तांत्रिकैर्मार्गैर्नानास्तोत्रैः प्रतुष्टुवुः || एवं वर्षत्रयादूर्धं प्रत्यक्षा श्रीर्व्यजायते | अपश्यच्च कृपा दृष्ट्या महासंवाक्यमव्रवीत् || किमर्थं हसितं विप्रैर्देवैश्चाकलितं कुतः | उपासना पुनः कस्मादुर्दर्शायाः कृता धुना || ततः सा तु मया प्रोक्ता सर्वं विश्वं त्वया ततं | त्वत् सामर्थ्यं न जानंति हसंति त्वं च कर्मषः || एतद् वुध्या मया हास्यं कृतं हृदय साच्छिणि | प्रभावस्तु तव ज्ञातः सर्वै विप्रैः सुरासुरैः || अतः परं प्रसीदेशे लोकयात्रा च निर्वह | इति श्रुत्वा मम वचस्तदा प्रोक्तं श्रिया किल || इदं सुरा मे भगिनी तत्प्रधानं तु पूजनं | ये करिष्यंति देवस्य स देवो मोदमेष्यति || यावन् माया प्रपंचोयं वृथा भवति मां विना | समस्ताश्च तथा पूजाश्चक्र पूजां विना वृथा || इहलोके भोगवांछा देवता त्वं परत्र चेत् | अपेच्छितं तदा कार्यमनुजैश्चक्र पूजनं || सर्वदेव प्रियं गोप्यं गोपनीयं प्रयत्नतः || इति || एवं प्रकारेण भू देवानामपि सुरया देवतार्चन तर्पणादि दृश्यते तथापि वारं पर्यागता नामेव कौलत्वमुक्तं न तु ब्राह्मण मात्रपरं तत्प्रमाण मात्र परं तत्प्रमाणममि मेरुतंत्रे एव || वाममार्गी यदा दक्षं प्रविशेत् तत्सुरैः स तु | विघ्न्यते पीड्यते चापि न सिद्धिमधि गच्छति || दक्षमार्गी यदा वामं प्रविशे तत्सुरास्तदा | लोकद्वयाद्व्यापर्यंति तं ग्रसंति च वामिनः || तस्मात् स्वकुलमार्गं तु ज्ञात्वा कुर्यादुपाशनामिति || अधिकारानुवृत्तौ || पिशितं तिलमात्रं तु तिलार्धमपि विन्दुना | सकृत् तर्पणमात्रेण वामिनां यज्ञजं फलं || ३०१अ) निःशंको निर्भयो धीरो निर्लज्जो निःकुतूहलः | निर्णीत वेदशास्त्रार्थो वरदां वारुणीं पिवेत् || मंत्रसंस्कारसंशुद्ध सुरापानेन जायते | नराणां देवता भावो न्यथा प्रेत विभावनं || ब्राह्मणैः कौलिकैः पेयं सर्वक्षत्रैरणागमे | वैश्यैर्गोलंभने पेयं शूद्रैरन्वेष्ट कर्मणि || देवान् पितृन् समभ्यर्च्य शक्तिशास्त्रोक्त वर्त्मना | गुरुं स्मरन् पिवन् मद्यं खादन् मांसं न दोषभाक् || ब्रह्मध्यानस्य स्थैर्यार्थं देवता तृप्ति हेतवे | सेवेत मधुमांसानि तृष्णा या चेत् स पातकी || मत्स्यमांसा स वादीनां पदार्थानां निषेवणात् | योग कालं वित्पत्र स महापातकी भवेत् || यथाक्रतुषु विप्राणा सोमपानं न दूषितं | मद्यपानं च कौलानां पूजान्ते न विर्हितं || श्रीगुरोः कुलशास्त्रेभ्यः सम्यग् विज्ञाय वासनां | पंचमुद्रा निखेवेत चान्यथा पतितो भवेत् || आवृत्तिं गुरुपंक्तिं च वटुकादीन पूज्ययः | वीरोव्येवं वृथापानाद् देवताशाप माप्नुयात् || वाममार्गे गुरुस्त्वेता दृशस्तूक्तेः || तत्रैव || स्वविद्यानुष्ठान तपोधर्मा नाम प्रकाशकः | वर्णाश्रमज्ञानतपोधर्माणां च प्रकाशकः || षट्कर्मसु सुसिद्धोयो दाता भोक्ता न याचकः | स एव कौलिका चार्यस्त्वन्यः कुलविडंवकः || पिंडं पदन्तथा रूपं रूपातीतं निरंजनं | यस्तु सम्यग् विजानाति स गुरुश्चोद्धरेत् परं || पाशस्तंभं वेध दीक्षां पशुग्रहणमेव च | त्रिविधं या विजानाति स गुरुः कथितः प्रिये || मूलादि ब्रह्मरंध्रान्तं सप्तांभोज दलेषु यः | जीवचारफलंवेत्ति स गुरुर्नापरः प्रिये || गुरोर्यस्यैव संपर्कात् परो नंदोभिजायते | गुरुंतमेव वृणुयान्नापरं मतिमान्नरः || शंकया भक्षितं सर्वं त्रैलोक्यं स चराचर | साशंका भक्षिता येन स गुरुर्दुर्लभः क्षितावित्यादि || इश्वर उवाच || आमूलाधार मा ब्रह्मरंध्रं गत्वा पुनः पुनः | चिच्चन्द्र कुडली शक्ति मुद्रया स्यात् सुखोदयः || व्योमपंकज निस्पंद सुधाया नरतो भवेत् | मधुपानमिदं प्रोक्तं मितरे मद्य पापिनः || ३०१ब्) पुण्यापुण्य पशुं हत्या ज्ञान खड्गेन योगवित् | परे लयं नयेच्चित्तं पलाशीसनी पद्यते || मनसा स्वेन्द्रिय गणं नियस्यात्म नियोजयेत् | मत्स्याशी स जनः प्रोक्तः शेषाधीवर वृत्तयः || अप्रवुद्धा पशोः शक्तिः प्रवुद्धा कौलिकस्य च | शक्तिं तां सेवयेद् यस्तु स भवेच्छक्ति सेवकः || इत्येवं पंचमुद्राणां गुप्तं तत्वं मयोदितं | ज्ञात्वा गुरुमुखात् सम्यग् यः सेवते समुच्यते || कालीतंत्रे || श्रीपार्वत्युवाच || भगवत् प्रसीद देवेश सर्वप्राणीहिते रसः | येनावश्यं भवेत् सिद्धिरूपायं वद भैरव || श्रीभैरव उवाच || शृणु देवि परं तत्वं सर्वज्ञानोत्तमोत्तमां | येन विज्ञान मात्रेण क्षिप्र विद्या प्रसीदति || मूलभूताभुया शक्तिर्भुजगाकाररूपिनी | तद्भूमि वृत्त वातोयं प्राणा इत्युच्यते वुधैः || ध्वनिनाव्यक्त मधुरं कूजन्ति शततोषितां | गच्छन्ती ब्रह्मरंध्रेण प्रविशन्ति स्वके स्थले || यातायात क्रमेणैव तंत्र कुर्यात् मनोलयं | तेन मंत्र शिखायाता सर्वसिद्धि प्रदीपिका || तमः पूर्णगृहे यच्छन्न किंचित् प्रतिभाषते | सिखा हीनास्तथा मंत्रा न सिध्यन्ति कदाचन || शिखोपदेशः सर्वत्र गोपितः परमेश्वरि | विनायेन न सिद्धिः स्याद् वर्षकोटि शतैरपि || तस्मात् स्वयापि गिरिजे गोपनीयं प्रयत्नत इति || आत्मनि तत् समायोज्य देवीरूपं कुलेश्वर | न पूजनं नापि न्यासं न निष्ठा न व्रतादिकं || पूर्णाह भैरवात्माहं नित्यानन्दोहमव्ययः | निरंजनं स्वरूपोहं निराकारस्त्वहं प्रभुः || सर्वशास्त्राभियुक्तोहं सर्वमत्र उपासकः | नास्मात् परनरा देवो न जातो न जनिष्यति || अनेक रूप तत्वज्ञः सर्वेषां प्रिय कारकः | तस्य भावनं संतुष्टो भवात् मुक्तिन्न संशयः || आधारादिनिलम्वं नाना स्थानं तनुं स्थिताः | यत्र यत्र समालोप्यं तत्र ब्रह्ममयं ध्रुवं || आत्मा ब्रह्मविजानीहि भ्रान्ति ज्ञानं परित्यजेत् | अनेन सृजते देवी अनेन पाल्यते तथा || ३०२) अनेन संहरे विद्धि जगतामेक कारणं | तस्माद् यत्नेन विवुधैः आत्मज्ञानं समभ्यसेत् || यामीसो हरिरव्ज योनिरमराराकापतिस्तच्छिरस्थाप्यप्यग्नि रहष्यतिर्न परमामाह्यन्त मध्यातिगां || याचानन्दमयी हृषीक गहना प्राचिष्कृताधीन्द्रियैर्गुर्वाज्ञा मनुन्यमान हृदयैस्तस्यै भवत्यै नमः || कल्लोलिनी वलित वोध सहस्रपत्र प्रोद्यन्मधुक्रमगकौलिकसंहभृंगाः || वर्गार्थिनः सरभसंप्रपिवन्तु नित्यं गुर्वंघ्नि पद्म भजनात् तदपीहलभ्यं || इति श्री-आद्यानन्दनविरचितायां कुलमुक्तिकल्लोलिन्यां द्वाविंशतितमः पटलः समाप्तः || शुभम् || ########### END OF FILE #######