#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00285 Uniform title: kulasāra Secondary title: kaulasārasaṃgraha Secondary title: kulācāranirṇaya Manuscript : NGMCP 3-251 reel number A 150/16 Description: This manuscript is called Kulasāra, but is in fact a collection of fragment of three Kaula tracts. The first is Kaulsārasaṃgraha which, according to the colophons is a part of the Somabhujavalī. It begins with chapter 24 and extends up to to chapter 26. It is followed by the Kulaacāranirṇaya which extends from chapter 1 to 5. The third fragment is chapter eighteen of a work belonging to the śrīvidyā lineage of Subhagānandanātha. It deals with the funerary rites of a Kaula. The texts of which these are fragments in the format of a Tantra, outlining the principles of Kaula ritual and practice. They are typical Kaula work belonging to the latter period, that is, after the 13th century. Indeed such texts can be treated as an independent class of Kaula works of which the Kulārṇavatantra is one of the earliest. Notes: Revision 0: December 17, 2013 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### ओं नमः शिवायै || श्रीदेव्युवाच || डेवदेव जगन्नाथ सर्वाङ्गमविसारद | श्रोतुमिच्छामि तत्वेन कौलिकानां मतं विभो || केचिद् वदन्ति मुनयः स्त्रीवर्गफलदं मतं | चतुर्वर्गप्रदं केचिद् वदन्ति मुनि सत्तमः || तस्याशामविधिं देव श्रोतुमिच्छामिछामि तत्वत | एतन्मे संसयं छिन्धि केनाचिन् तमिदं सतं || श्री ईश्वर उवाच || अहं ते कथयीष्यामि कुलसारं समासत | एतत् प्रसन्न मया देवि ब्रह्माग्रे कथितं पुरा || ततो ब्रह्मा समाग्रेण निजग्नाद यथा शृणु | देवयानि यदा देवि क्वचिनादेनु जालये || मोदयः मासमन्त्रार्थि मृतसंजीवमाय वै | तदात्मानांददौ तस्मै तत्र सत्वक विस्वरां || मध्यं यातुभिः सर्वत्र ह्लालामति विनासनी | ततो देवां सुरां त्यक्त्वा सोमपारासंख्या? भव || त्वद्व प्रभुति देवानां बलहानिरजायत | तदा देवारणे जघ्न दानवाम्वर्गकांक्षिणे || तदा मया विधि पृष्टो देवानां हितकाम्यया | १ब्) केनोपायेन देवेश देवानां विजयि भवेत् | सुराविहीनास्त्रि दशा बलहिना भवं इत || कथं सुद्धि भवेत् तस्या वासा मेध्या भवेन्नवा | कौलिकं मतमाध्यायं किमुवर्ग चतुस्रयं || प्राप्नुवन्ति यथामर्त्यो तन्मेत्यं वक्तुमर्हसि | ब्रह्मोवाच || मया श्रुत्वा पुरा देव वर्णास्र चतुरः किलं | तत्र सर्वस्य वर्णस्य ब्राह्मणं गुरुरुच्यते || तशोयमन्यथा कर्णं केन सक्यं मया विना | तं सर्वस्य गुरुसाक्षी वागमेतो विशेषतः || तन्मेध्यं कुरु मन्त्रेण गिरीशं गिरीजा प्रिये | येन सारव्यात्पवित्राणां जायते भुक्ति मुक्तिदां || तद्वा चरुस्य विधिवद्वे वैद्विप्रगणै सह | कौशिकत्वंमस्त्रपुत्र भविष्यति ममाज्ञया || चतुर्वर्गञ्च सर्वेसां तस्मिन्मार्गो भविष्यति | विशेषतः कलियुगे कौलिकेश मुक्तिभाजनाः || श्रीसुन्दर्यामनुस्तत्र प्रधानं कुरु शंकरि | सत्यं सत्यं पुनः सत्य सत्यमेव पुनः पुनः || त्वं कृतं कौलिकं मार्गं स्वर्गदं भुक्तिमुक्तिदं | २अ) रजासत्यं नमस्तेति त्रिगुणं श्रुतयोजगु || त्रिगुणात्महं भवेछक्ति त्रिगुणं श्रुयतां पुनः | प्रधानं पुरुषो भूत्वा विनिसाक्षिनिदोजगुः || प्रधानवाच्यां शक्तिस्तु पुरुषो निर्गुणात्मकः | सृष्टि स्थिति विनासानां वयं कूर्मस्तदाज्ञया || सास्माकं परमाशक्ति सृष्टिस्थिति विनासने | सा तुष्यति हालात्यानान्त सर्वं क्रियते परं || तेन मार्गेण सर्वेषां भुक्तिमुक्ति भविष्यति | तत्र निन्दा प्रकुयुयेस्तेषां हारि न संशयः || शुक्रश्राप विमोचाक्षं तन्मुख्यान्ति करिष्यति | तेन श्रीमन्त्री जपेन पंचरत्नेन मन्त्रिता || सुरासुर व्रजन्ति तेन तृप्ता च श्री सुन्दरी | तद्द्रव्यस्तु पिता सर्वे मामज्ञा विष्णुशंराहा? || तृप्ता स्युः सर्वलोकानां भुक्तिमुक्ति प्रदायका | कारण्यं शक्तिसंयुक्तं पूजा कर्मणि कारयेत् || श्रीसदैव उवाच || इति तस्य वच श्रुत्वा ब्रह्मणा परमेष्ठिनः | २ब्) शुक्रश्रापविमोचाक्षं मन्त्रतं निर्मितं मया | तस्माद्वर्गचष्टं वै मनुष्या कौलिके मते || तत्र युक्तं मया देवि जन्मत्वं परिपृछसि | तदन्यं सर्व नभ्यके? शृणुमत्प्राणवल्लभे || इति श्रीसोमभुजवल्याकुलसारसंग्रहे चतुर्विंशति पटल || श्रीदेव्युवाच || पुराजद्दमलदेवं तोयोक्तं विधिपूर्वकं | तुस्तव्यं मन्त्रितं द्रव्यं अन्यथा यतनं भवेत् || विनाद्रव्याधिवासेन मन्त्रेन स्मरं भवेत् | ये स्मरन्ति महामूढास्तेषां दुःखं पदे पदे || न मन्त्रेण विनापानं न पानान्मनु चिन्तयेत् | कथं सिद्धे भवेद्रव्यं केनया पूजनं भवेत् || दर्शनं स्पर्शनं तत्वत्प्रोक्षणं द्रव्यसुद्धिदं | योनिमुद्रा मृताख्या च द्रष्टव्या मंत्रविसयै || ततो गुरु क्रमं कृत्वा गुरुपादमनुस्मरन् | पात्रं मेवा पात्रमेकं कर्तव्यं मम देसिकैः || तछिपज्यपनं वाला पंचरत्ना मृताज्ञया | सुराया चैव गायत्रीमानन्द भैरवन्तथा || आनन्द भैरवी देवी शुक्रश्राप विमोचनं | ३अ) एकैकं चाष्टवाल तु जप्तव्यं तर्पयेत् ततः || द्रव्यं मांसं च यागालं मुद्रावारमधुजनं | आनन्द भैष्ययेद् देवि एकाकारं नमाम्यहं || श्रीदेव्युवाच || देव्याप्रतिकरपञ्च त्रैर्विनानाच्चरं भवेत् | भैरवी चक्रमध्यस्थं सर्वमेध्यं यथामृतं || सर्वे पर्णाद्विजास्तत्र न विकारोस्ति किञ्चन | त्रिपात्रं पञ्चपात्रं वा सप्तपात्रमथापि वा || यावन्नस्मह्यंते किंचित् तावत् पानं प्रचक्ष्यते | असस्कारं भवेद्रव्यं बलात्कारेण मैथुनं || उभयोः सेचनाद्देवि विरोपि नरकं व्रजेत् | आज्ञायां संग्रहे देवि इति शास्त्रस्य निर्णयं || एकपात्रं कृतं पानं ब्रह्महत्यादि पातकं | शक्त्युछिष्टं पिबेद्रव्यं वीरोछिष्टं तु चर्वणी || वीरोछिष्टं तथाद्रव्यं शक्त्युछिष्टं तु चर्वणी | चक्रमध्य न कर्तव्यं मन्यथा पतनं भवेत् || यदा नन्दा वसा देवि शक्तिप्रार्थयते नर | मैथुनं तत्रा कर्तव्यं नात्र कार्य विचारणात् || ३ब्) याग द्वितीयं कर्तव्यं तेन द्रव्येण मोक्षदं | क्वचित्पानं क्वचिद्ध्यानं क्वचिच्चर्वनमाचरेत् || चर्वणेन विनापानं केवलं विषवर्द्धनं | चर्वणे यजं पान ममृतं परिकीर्तितं || श्रीदेव्युवाच || द्रव्यं कटिप्रकारस्यात् पात्रं वा केन निर्मितं | शक्तिपदविरूपाक्ष कीदृशं शक्तिरुत्तमः || ईश्वर उवाच || शृणु देवि प्रवक्ष्यामि द्रव्यं यावद् भवेदिहं | गौडी पौष्टि तथा माध्वी खार्जुरी नारिकेलजा || तालजातन्दुलाध्या च द्राक्षी चाष्टविधां सुरा | गौडी गुडोद्भवा प्रोक्ता पैष्टिपिष्टकसंभवा || माध्वी मधुकजा देवि छसर्वतण्डुलोद्भव्य | गौडी भोगविदा ग्राह्या माध्वी मुक्ति प्रदायनी || सर्वसिद्धि करी पैष्टी खर्जुरी रिपुनासनी | तालजस्थंभने प्रोक्ता नारिकेलं च मोहने || आकर्षनोच्चाटनं प्रोक्तमासवं मारणे विध | द्राक्षराज्य प्रदं ग्राह्यां ह्यदन्यंदाभिचारके || ४अ) गजवाजि नराणां च गवामेष वराहयोः | माहिषं खडगं चैव माहामासाष्टकं प्रिये || रजकी चैव कैवर्ती चाण्डाली च वलांगणौ | गोपारणी च गणीका पुष्पलित्यात्म शक्तयः || हीनाधिकांगिधिवृत्ता कर्कसा करहार्थनी | कृपाभक्तिं च रहिता वर्जनी पार्वना विधौ || सुश्रुक्ता मुदिता शक्ता सुरूपा शक्ति सेचिता | पूजनीया प्रयत्नेन कुलधर्मानुवर्तनी || बहुपर्ज्युसितं द्रव्यं यद्द्रव्यं गन्धवर्जिनी | उछिष्टं चैव दुर्गन्ध वर्जतीर्थनिदससं || पुत्रीमुछेष्टमांसं तु नाग्राह्यं देसिकै क्वचित् | ग्राह्यते दीक्षिता सर्वे एकपात्रेण संग्रहे || श्रीदेव्युवाच || कदा पूजा प्रकर्तव्यं शक्तिं तीर्था भवे च किं | मदोभावेन किं ग्राह्य शक्त्यार्भावे भवे च किं || फलं नित्यार्चनं किं वा अर्चिते वा भवे च किं | अशक्तेन पशुंभित्वा जया नित्यार्चनं भवेत् || तदा किं वा प्रकर्तव्या पात्रं वा केन निर्मितं | ४ब्) आधारं केन कर्तव्यं तत्र मोक्षार्त मर्हसि | श्री ईश्वर उवाच || नित्य पूजा प्रकर्तव्यं पंचपर्वणि या क्वचित् | मासमेकेन कर्तव्यमर्चनस्त्रिविधि मतं || अष्टमी नवमी चैव चतुर्दश्यां पार्वणेन तु | एकादश्यां सेवतेवं सर्वदेव महेश्वरि || उत्तमानित्य पूजा स्यात् पंचपर्वणि मध्यमा | अधमामास पूजास्यान्मासादूर्द्ध पशुं भवेत् || सर्वधर्म परिभ्रष्ट कौलोधर्मसमाचरेत् | कौलोधर्म परिभ्रष्ट रौरवं नरकं व्रजेत् || दुग्धदधिघृतं जौतं तैलं सौवेरसंभवा | आद्रयुक्तं प्रवानम्बा नारिकेरजलं तथा || अभावादष्टमिदं प्रोक्तं द्रव्या भावे तु सुन्दरि | मत्स्यवालावतं चैव कुक्कुटं वाकपिंजलं || पिंन्याकंस्विनमांसं च लवनं चाद्रकं प्रिये | अभावे चाष्टमांसानि गृष्टिनि सर्वदार्चनं || शक्त्याभावे सुरेशानि स्वात्मशक्ति प्रपूजयेत् | पानं च त्रिविधं प्रोक्तं दैववीरपशु क्रमात् || ५अ) देवदेव्या गतपानं शक्तिमांसासके त्रिभिः | एकान्ते तत्र कर्तव्यं मकारं पंचकै बुधिः || महामांन्सं च मत्स्यं च मुद्रामैथुनमेव च | मकारपंचकं कृत्वा पुनर्जन्म न विद्यते || उद्यान् भूमौ मौन्यासादिन् कृत्वा मुर्द्धि त्रिकोणकै | तत्पीत्वा विवेद्येतस्तु वीरपाणौ मृताहृतं || मंत्रयन्त्र विहीन च पशुपानमतपरं | कांचजं रजतं मुक्ता प्रवालोथ्य च कांचनं || स्फाटिका नारिकेलाक्षं नरका वालमुत्तमं | सर्वकामप्रदं हेमंत्रातालं सर्वसमृद्धिदं || स्फाटिकं वश्यदं नॄणां नारिकेलाष्टसिद्धिदा | अभिचार पदं काच आकर्षेषु प्रवालकं || मौक्तिकं मुक्तिदं नृणाकापालं मन्त्रसिद्धिदं | ताम्रकांशस्तथा लोहं मृन्मयं काष्टजं तथा || त्रिलोहिस्थिंविसोस्थि वर्जयेत् पात्रमिद्रिसं | आधारस्या त्रिलोहिया पात्रोक्ता वस्तुभिस्तथा || ताम्रकांशं वर्जयित्वा सर्वमाधारजोज्ञतां | ५ब्) इति श्रीसामभुजवल्यां कौरसारसंग्रहे देवदेवीसंवादे पंचविंशति पटल || श्रीदेव्युवाच || अहिंसा परमोधर्मं कटिवेदविदोपुरा | कथितं यत्त्वया देव विरुद्धं त्वदिदं ध्रुवं || प्राणहिंसा महाघोरा कथं कुर्यान्महासयान् | संसयं शांभवं देव कथं पूजा समाचरेत् || श्री ईश्वर उवाच || शिवशक्तिसमारोप्यं भेदाभेद न संशयः | ईश्वरी वन्दिते पूजा निष्कामं कर्मसंग्रहे || नरप्राणि वधे पापं न सुरास्वादृते तथा | परस्त्री गमनं तद्वद्यन्यं दृश्ये कृते कृते || कौलिका नैव वाध्यन्ते पातका ब्रह्महादये | यथापद्मपलासेषु नस्यन्ति जलविन्दवः || अपि ब्रह्मावधंत्वा च स्मितसं कुरुतो यदि | पात्रमन्तं युतलब्धं तत्पानं चस्यति ध्रुवं || भैरवी चक्रमध्यस्थं नलब्द्ध पिसितं यदि | तदर्थं गांच विप्रं च हन्या दोषो न विद्यते || आचार लभते ह्यापुराचारादि स्मिता प्रजा | ६अ) आचारबन्धनमपि देवता च प्रसिद्धति | आचारसर्वदा त्याज्यो मुनिभिर्जदुदा हृतं || आचारहीन पुरुषं कौलिकं पशुमेव वा | त्रिधा देवी च सेवन्ते तस्य मन्त्रेण किं फलं || प्रायश्चित्तं भृगुपातं संन्यासं व्रतधारिणं | तीर्थजात्रादि गमनं कौलाः पंचविवर्जयेत् || यं नरं वाध्यते पापं प्रायश्चित्ते न तत्कृते | भृगुपात मयानां च महापातकनासनं || सर्वकामफलं न्यासं परमाहेश्वरी जले | सर्वव्रतफलं प्रप्तो कुलपुत्रस्य वर्तते || वारुणी बिन्दुमात्रेण तीर्थकोटि फलं लभेत् | अपि सर्वेषु पापेषु प्रायश्चित्त मुदाहृतं || कुलधर्मविरक्तानां न दृश्यं न श्रुति क्वचित् | या नित्यं पूजयेन् मन्त्री तां मातेव पुत्रवत् || श्रीचक्र मध्यग कश्चिद्भैरवं कुरुते यदि | ततः सर्वे तदुछिष्टं भोक्तव्यं न श्रुतेन तु || यत्सूत्रं विक्रियां कुर्यान् मानवं सैव सुध्यति | अपि कुष्टेन सर्वागं व्यापनि मानव क्वचित् || श्रीचक्रसेष उछिष्टं भोजयेत् सशुषि भवेत् | ६ब्) ब्रह्माविष्णु कुवेरेन्द्राः सर्वे श्रीचक्रवर्तनं | मानवं पूजयेत्तेवं सापततु न संशत || अपि किं बहुनोक्तेन ब्रह्मभूतोदि सा नरः | य कौलिकं पथप्राप्ता ब्राह्मद्वारस्य किं नरः || वैश्यस्यं भानुकर्षेण विदेशोश्चाटनारणं | जपस्मि विभवो नूनं तस्य तुल्य कथं सुरा || इति श्रीसोमभुजगल्यां कुलसारसंग्रहे षट्विंशतिपटल || ओं नमः श्रीत्रिपुरायै || अथातसंप्रवक्ष्यामि समयाचारपद्धतिं | यो ज्ञात्वा च महादेवि साधका सिद्धिमाप्नुयात् || ईश्वर उवाच || न लंघयेद् गुरोराज्ञामुत्तरं न वदेत् तथा | रात्रौ दिवा तथाज्ञा च दासवत् परिपालयेत् || स्थानान्तर गतेरान्त वेशनामुक्ति चेतन | श्रीगुरुव्यापितं नित्यं दादिष्टं च ततो व्रजेत् || उक्तारुक्तेषु कार्जेषु नोपेक्षाकारयेत् क्वचित् | गछतः पृष्ठतो गछेद्गुरोश्छाया न लंघयेत् || अनादृत्य गुरोर्वाक्यं शृणुपादपराङ्मुखं | ७अ) अहीतम्वाहितं वापि रौरवं नरकं व्रजेत् | एवं भूत गुरुं चैव नावमन्यविचक्षणः || आज्ञाभंगो गुरोद्देवि पक्करोति विमूढधीः | सयाति नरके घोरे पिशाचत्व मवाप्नुयात् || आज्ञाभंगं तथा निन्दा गुरोश्चैव प्रवर्तनं | गुरुद्रोहं च यत्कुर्यात् तछंगन्नैव कारयेत् || गुरुद्रव्याभिलाखं च गुरुस्त्री गमने तथा | पातकत्व स्थिरस्तस्य प्रायश्चित्तेन नोत्यजेत् || गुरुहुंकत्यहुंकृत्य चिप्रानिर्जित्य वादत | अरण्यनिर्जने देशे स भवेद्ब्रह्मराक्षसः || पादुकामासनं वस्त्रं शयनं भूषणानि च | दृष्ट्वा गुरोर्नमस्कृत्वादात्मभोगं न कारयेत् || सदा श्रीपादुकामन्त्रं जिह्वाग्रे यस्य वर्तते | अनायासेन धर्मार्थं काममोक्षं लभेत् तसं || महारोगे महोत्पाते महादुर्गे महाभये | महापदे महापापे त्रायत गुरुपादुकां || वन्दे गुरुपदे द्वन्द्वे सच्चिदानंदविग्रहं | श्वेतरक्तविभागोयं शिवशक्त्यात्मकं परं || ७ब्) श्रीनाथ पदाम्भोजं यस्य दिशि विराजते | तस्य दिशि नमः कुर्यात् कायेन मनसागिरा || एकग्रामस्थितः शिष्यस्त्रिसंध्यं प्रणमेद्गुरुं | दूरदेशे स्थितः शिष्यो मासैक प्रणमेद्गुरुं || विद्यागमानसं मन्त्रं मन्त्रतन्त्राधिकं प्रिये | सर्वगुरुमुखाल्लब्धा सकलं नान्यथा ध्रुवं || कपटे वलके चैव प्रशादे संकते तथा | दीर्घकाष्टे शिलापृष्टे गुरोरेकासनं प्रिये || यद्यदात्महितं वस्तु तद्द्रव्यं नैव वंचयेत् | श्री गुरोः पादुकामन्त्रे मूलमन्त्रस्य पादुकां || शुशिष्येभ्यो वदे देवि न नवदेद्यस्य कस्यचित् | गुरोस्तर्पणमर्प्यं च तेन तुष्यामि सुव्रते || गुरोः सेवा परो यस्तु तस्य तुष्यामि सुव्रते | भक्त्याचिन्तानुसारेण गुरुमुद्देश्य यत्कथं || स्वल्पेन महदितपुं तुल्यमन्यं दरिद्रया | सर्वस्वमपि यो दद्याद्गुरुभक्ति विवर्जितः || सनदः क्लेशसमाप्नोति भक्तिरेव हि कारणं | गुरुस्त्री पुत्रवन्धूनां दोषं नैव प्रकासयेत् || भक्षये सेचतं द्रव्यं न दद्यान्नोपसक्षये | कुमारी कन्यका वीरा योगिनी कौलिका अपि || ८अ) अन्यजात्यादि वनिता नापमान्यां कदाचन | सतापराधामपितं पुष्पं नापि न ताडयेत् || दोषं नगरण ये दिव्या गुनानैव प्रकाशयेत् | इति श्रीकुलाश्चरनिर्णये गुरुभक्तिपरिछमो नाम प्रथम पटल || विना द्रव्याधि वासेन न जपेन्न स्मरेत् प्रिये | ये यजन्ति महामूढास्तेषां दुःखं पदे पदे || देव्युवाच || न द्रव्येन विना मन्त्र न मन्त्रेण विनांगुलिः | परस्परविरोधित्वा कथं पूजा विधीयते || आलोक्याज्जिघ्रणाद्ध्यानान्नाना द्रव्य विशुद्ध्यति | तत्पीत्वा सर्वमन्त्राणां स्मरणं यजनं हितं || पञ्चद्द्रव्यस्य मन्त्रेण कुर्यात् संस्कारमुत्तमं | शुद्धेन तेन देवेशि तर्पयेत् कुलदेवतां || वीक्षणं प्रोक्षणं ध्यानं मन्त्रमुद्रादि सोधितं | तद्द्रव्यं स्पर्शयोग्यं स्यादन्यथा निष्फलं भवेत् || सदा भक्तिशु संपन्यो मन्त्रराधन तत्परं | मन्त्रोपदेश सहितं कुलद्रव्यं समर्पयेत् || स सव्यं योनखैः कुर्यात् कुलद्रव्यस्य तर्पणं | ८ब्) देवतासापमाप्नोति सत्यमेतन् महेश्वरि | अंगुष्ठा भैरवो देवी मध्यमा चण्डिका मता || मध्यमांगुष्टयोगेन तर्पयेत् कुलदेवतां | अंगुष्टानामिकाभ्यां च तर्पयेद्धर्मकर्मणि || तर्जन्यंगुष्टयोगेन तर्पयेदभिचारके | कनिष्टांगुष्टयोगेन स्तम्भने भूतकर्मणि || अन्यथा कुरुते यस्तु तर्पणं निष्फलं भवेत् | यावन्न वटुकं दद्यात्तावन्नैव कुलेश्वरि || सुन्दर्ये प्रथमं दत्ते पूजा च? त्रि?स्फला | तृप्यन्तु मातरः सर्वाः स रुद्रागणदेवताः || दक्षिणे वटुकं दद्यादुत्तरे योगिणी वलिं | पूर्वे भूतवलिं दद्यात् स्थानपालाश्च पश्चिमे || राजराजेश्वरी मध्य पूजयेत् परमेश्वरीं | अंगुष्टानामिकाभ्यां तु वटुकस्य वलिं हरेत् || कनिष्टांगुष्टयोगेन योगिनीनां बलिं हरेत् | अंगुष्टतर्जनीभ्याञ्च क्षेत्रपाल बलिंर्मतः || अङ्गुलीभिश्च सर्वाभिरुक्तो भूतवलिं प्रिये | अङ्गुष्टमध्यमाभ्यां च राजराजेश्वरं तथा || देवतार्थं यथाशास्त्रं कुलद्रव्यं समर्पयेत् | लभते वांछितं सर्वं मत्प्रसादान्नसंशयः || इति कुलाचारनिर्णये शिवप्रणिते द्वितीयपटलः || ९अ) मत्कर्मकुर्वतां पुंसां कर्मलोपो भवेद्यति | तत्कुर्मते प्रकुर्वन्ति कुलाचारविधानतः || तत्कुर्मकुर्वता श्रेष्टा त्रिंशत्कोट्यो मर्हर्षयः? | मण्डलेन विना पूजा निस्फला कथिता प्रिये || तन्पूजयेद्विधिवत्तामेव परमेश्वरि | अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितं || त्रैलोक्यं मण्डितं येन मण्डलस्तु सदाशिवः | ओडियानं चतुरस्रं कामरूपस्तु वर्तुलं || जालन्धरमर्द्धचन्द्रं ताम्रं पूर्णगिरिर्भवेत् | आधारं त्रिविधं प्रोक्तं षट्पदं वा चतुष्पदं || अथवा वर्तुलं कुर्यात् रमणीयं मनोहरं | स्वर्णरौप्य शिला कुर्मा कपालास्वावुमृन्मयं || नारिकेलञ्च शंखञ्च मुक्तासुक्तिसमुद्भवं | पुन्यवृक्षे समुद्भूतं पात्रं कुर्याद् विचक्षणः || तांम्रकांश्यादि लोहञ्च पात्रं नैव तु कारयेत् | पत्रं पुष्पां कुलफलं मूलवल्कलधान्यजं || रसवृक्षं लतातालं द्रव्यं दशविधि स्मृतं | पाल*?द्राधमाधूकं खार्जुरं तालमैक्षवं || माधूकमासवंसिधूमैरेयं नारिकेलजं | ९ब्) मद्यमेकादशेतानि भुक्तिमुक्ति प्रदानि च | द्वादशं च सुराद्रव्यं सर्वस्मादुत्तमोत्तमं || क्षीरवृक्षसमुद्भूतं माह्यवल्कलसंभवं | मधुपुष्परसोद्भूत मासवं तन्दूलोद्भवं || सर्वसिद्धिकरि यैष्टि गौडिभोग प्रदायिनि | माध्वी मुक्तिकरी प्रोक्ता द्राक्षीराज्य प्रदायिनी || तालजास्तम्भने प्रोक्त खार्जुरी रिपु नाशिनी | नारिकेल भवाश्रीदापानं सौख्य मता सदा || माध्वी ज्ञान प्रदा प्रोक्ता सारिष्टारोग हारिणी | मांसन्तु त्रिविधं प्रोक्तं जले खेचरभूचराः || गोनरेभास्वमहिखो वराहं च मृगोतवं | महामांसाष्टकं देवि देवता प्रीति कारकं || नखैः प्रजुपितैः रम्लैर्दूर्गन्धैर्गन्धवर्जितैः | हेतुभिः परपात्रछेतर्पितं निष्फलं भवेत् || अरिष्टैश्च वसारीय द्रव्यैरमृतसन्निभै | तर्पणं च महेशानि सर्वकामफलप्रदं || द्रव्यमांसाद्यभावेन नित्यं कर्मं च लोपयेत् | प्रमादाद्यदि लोपश्चेद्रौरवं नरकं व्रजेत् || तक्रं क्षीरं गुडं क्षौद्रं दध्याज्यतिलशर्करा | १०अ) वैलमययारणालं च द्रव्यं दशविध स्मृतं | लवनाद्रकपिण्याकं गोधूमं मांसपंचकं || गुंजनं च महेशानि मांसं दशविधं स्मृतं | उक्तेषु तेषु चैकेषु यथाशंभववस्तुना || अष्टगंधाच्च जायन्ते रसैरेभिस्त तर्पयेत् | शंखं सर्वोदक्षश्चैव वलिपात्राणि वै क्रमात् || दक्षादि वामाचार्यस्तु स्थापयित्वा पिष्टजयेत् | अनिवेद्यं च यः शक्तिः कुलद्रव्यं निषेवते || देवता सापमाप्नोति पूजा च निस्फला भवेत् | स्वशक्ति गुरुशक्तिं वा दीक्षितां गुरु वक्त्रतः || गाययित्वा पिवेद्रव्येऽति शास्त्रविदोविदु | गनिका शौण्डिनी चैव कैवर्तीरजकी तथा || तन्तुकारी च कामारी मातंगी उन्धसी तथा | कुलाष्टकमिदं प्रोक्तं मंगलाष्टकमुच्यते || कुमारी वा व्रतस्था वा योगमुद्राधरापि वा | पूजाकाले च या प्रोक्ता तर्पणं सहजा बुधैः || पूजा सद्यंगना भावे चातुर्वर्णं दिनां व्रजेत् | सुरूपा तरुणी शान्ता सुकुलामुदिता शुचि || १०ब्) अंगपूर्णा भक्तियुक्ता कुलशास्त्रेण दीक्षिता | मनोहरा सदाचारा शक्तिरेषा सुलक्षणा || दुष्टोग्रा कर्कशा क्रुरा कुक्षिता कुलदूक्षिता | दूराचारा पराधीना सत्यहीनान्तु लालसा || निद्राति युक्तादुर्मेधा हीनांगी व्याधि पीडिता | कुदृशी शत्रुयुक्ताषि दूतीयागे विवर्जिता || इति श्रीकुलाचारे शिवोक्ते तृतीयपटल || अथ कौलिका न गतं त्रिपुरा देव्या पार्वणं निदानं लिख्यते | व्यतिपाते च शंक्रान्तौ ग्रहणचन्द्रसूर्ययोः | देशिकाचार्य योगिन्योर्दिने यस्मिन् समागताः || साधकानां निक्षन्ते पलालि वलि निष्टय | अन्यथा विमुखायान्ति गुरुरिन्द्र मरीचयः || फल्गुवलि विरक्तं च योजयेन् पश्चिमं क्रमं | योगिन्यस्तस्य कुप्यन्ति शोषयन्ती रसामिषं || इति कौलिकान्तर्मतं त्रिपुरादेव्या उपचारविधि || मद्यं मांसं तथा मत्स्यं मुद्रामैथुनमेव च | मकारं पञ्चकं कृत्वा पुनर्जन्म न विद्यते || श्रीदेव्युवाच || प्रवन्ते गोपनी चक्रे सर्वे वर्णं द्विजातयः | ११अ) निवृर्ते योगिनी चक्रे सर्वे वर्णाः पृथक् पृथक् | एकचक्रं पृथक् पात्रं ज्येष्टानु क्रमतं कृतं || सामयेः साधकः पुत्र आचार्यो योगिनी तथा | एकचक्रं कुलीनानां ये केचिल्लियभाजनाः || एतैः सहप्रकर्तव्यमन्नै सह न संशयः | एकपात्रं न कर्तव्यं न कर्तव्यं पृथक् पृथक् || संप्राप्य द्रव्य चरिकमेकचिन्तः समाहितः | विकल्पो नात्र कर्तव्यं कृते च मरणं भवेत् || निर्वेशं केन चित्तेन भक्त्यासंयमनं कृतं | तेनस्येति भवेन्मुक्तिर्गुर्वेन्दु सदृसो भवेत् || प्राप्नोति परमं स्थानं यत्सुरैरपि दुर्लभं | एते वै कौलिकाचारं ज्ञात्वासिद्धिमवाप्नुयात् || आगते मेलके वापि अभिषेकं च पर्वणि | पूजार्थमाहरे फल्गुनात्मार्थन्तु कदाचन || विधैर्युक्तं तु देवेशि पार्वनं चाचरे शुभं | यज्ञ कोटि फलं तस्य हेमभारशतास्तथा || दत्वा तु कौलिकेभ्यश्च बिन्दुमात्रालिसंगनात् | पृथिवी हेम?पूर्णा च कन्या कोटि प्रदानतः || तत्फलं शक्तिदानञ्च कौलिके यागमन्दिरे | ११ब्) अनेकपुष्पसंभारैः कोटिलिंग प्रतिष्टवान् | तत्फलं लभते देवि योगिनी वरदा भवेत् || विघ्नानि न भवन्तेव निर्विघ्ना सिद्धितां भवेत् | तृप्यन्ति मातरः सर्वाः स गणाः स विनायकाः || तृप्यन्ति देवनिवहो ब्रह्मद्वामुनयः शिवाः | ब्रह्माक्षत्र तथा वैश्यं शूद्रं चापरमेव च || क्रियाहीनमवेत्तारं शक्तिज्ञानं विवर्जितं | लोभार्थिभिः प्रवृत्तानामयेयां पिवते सुरां || तपश्चश्चात्र(?) कर्तव्यं पतनं च पुनः पुनः | गुरु दैव तथाशास्त्रं मण्डलं क्रमयोगिनी || आवाहयेत् प्रयोगे च स्पर्शनं सिद्धिवान् भवेत् | सप्तजन्मकृतं पापं रौरवानिकृतानि च || द्रव्यदर्शनमात्रेण निष्पापो भवति क्षणात् | वैद्यशास्त्रे तथा ब्रह्मो प्रभक्ते च विशेषतः || दृष्टमात्रेण कर्तव्यं सिद्धिहानिश्च जायते | घृणा शंका न कर्तव्या यदिछेच्चिरजीवितं || अनाहुस्यो न यछेत आहुतो योनिनो विशेत् | तस्य संग्रहतो देवि शापमाप्नोति मूर्द्धनि || चक्रमध्य तु यं वृत्तं शुभस्वाय दिवा शुभं | १२अ) प्रभाते तनुवक्तव्यं मित्याज्ञा पारमेश्वरी | न भक्षः वियते किंचिन्नाययमपि विद्यते || गुरुवीरवधूं त्यक्ता रम्याः सर्वाश्च योषितः | ये विषन्ति महादेवीं ये विषन्ति च योगिनीं || तेषां च निग्रहो देवी आद्यापीठ विचारतः | ये निन्दन्तु साधकाः सर्वे विनश्यं तु विदूषकाः || अवस्था शाम्भवी मेन्तु प्रसन्नोस्तु गुरुः सदाः | दिवाज्ञसमयाख्यातं रात्रवीदु दिवा स्मृताः || प्रकाशेन विभागन्तु ज्ञात्वा रात्रौ प्रपूजयेत् | ये वस्तुवन्ति निन्दन्ति वर्णयेन्न च कौलिका || श्रीमतो ज्ञानिनो वीसुखिनो यन्मयन्मनि | यदि निपिधतोर्था सा कौलिकाः पशुमिछति || स्वादोधर्मश्च हानिश्च योगिनी सापमाप्नुयात् | गुर्वर्थत्यजेत्पानं देवार्थन्तु मथापि वा || देव्याग्रहस्तंतो भूत्वा मातृतः पितृभिः सह | कुलमार्गं समासाद्यं यो नरः प्रवलायितः || समहा पातकी देवि प्रयासन्तु न कारयेत् | नियुक्ता परयोगेन धर्मस्या वक्षणाय च || इत्यादिपीठावतारे कौलिकविदाने कुत्रिकातन्त्रे(?) क्रमशूत्रं समयाचारचतुर्थपटलसमाप्त || १२ब्) पाणभेदप्रमाणं च गली लक्षणमेव च | अविज्ञाया चरेद् यस्तु स भवेदापदापदं || अनुमूलत्रिकोणोद्य कोटिसूर्यसमप्रभ | कुण्डलिशक्तिविद्वह्नौ कुलद्रव्यं समन्तृकां || चरुकं सिद्धिदं प्रोक्तं दीपोज्ञान प्रदायकं | पानात्परतरः प्राप्तिः कौले त्रितयमुत्तमं || गुरुदैवतमन्त्राणांमैक्यं संचिन्तयेद्धियां | यावदूल्लासपर्यन्तं उपदेशैः पिबेन्मधुं || चर्वणेन युतं पानं ममृतं परिकीर्तितं | चर्वणेन विनापानं केवलं विषवर्द्धनं || पानं च त्रिविधं प्रोक्तं दिव्यवीरपशु क्रमात् | दिव्यं देव्याग्रतः पानं वीरमेकान्तवासिनं || स्वेछया पशुपानञ्च पशुपानमिति स्मृत | विधिमन्त्रविहीनं च पशुपानमतः परं || भुक्तिमुक्तिस्तथा भुक्ति नरकं तत्फलं प्रिये | यावन्न चरते दृष्टि यावन्न चरते मनः || तावत्पानं प्रकर्तव्यं पशुपानमतः परं | पूर्णाभिषेकहीनांग पानमत्यन्त दुर्गति || पूर्णाभिषेक युक्तानां पानमत्यन्तु मेष्यते | पीत्वा पीत्वा पुन पीत्वा पीत्वा पतति भूतले || १३अ) उथाय च पुनः पीत्वा पुनर्जन्मो न विद्यते | पात्रं ब्रह्मारसोविष्णुब्बुद्बुदोरुद्रदेवता || आमोदाशेखरंः प्रोक्त आनन्दन्तु सदाशिवः | इछाशक्तिः सुरामोदे ज्ञानशक्तिश्च तद्रसे || क्रियान्मा च सदानन्दे तस्मात् स्येव्यं सदा प्रिये | द्रव्यं शक्तिः शिवो मांसं तद्भोक्ता भैरव स्वयं || तत्तुल्यासः पराशक्ति आनन्दो मोक्ष उच्यते | आनन्दो ब्रह्मणो रूपं तच्च देहे व्यवस्थितं || तस्माच्च व्यंजकं द्रव्यं योगिभिस्तेन पीयते | गायन्ति गायकामन्ता मन्ताध्यायन्ति योगिनः || रमन्ति कामुकामत्ता मत्ताः कुर्पन्ति कोपिनः | मन्त्राणा स्मरणार्थादि मनसंस्थीर हेतवे || भयक्लेश निवृत्यर्थमलिमांसं समाचरेत् | नन्तार्थं सर्वदेवानां ब्रह्मज्ञान स्थिराय च || सेवन्ते मधुमांसानि न लौल्याञ्च कदाचन | घृतकुम्भ सहस्राणि क्षीरकुम्भशतानि च || अलिना बिन्दुमात्रेण कलानार्हन्ति षोडशी | चन्द्रार्काग्नि संपर्का गलितत् परासृतं || तेनामृतेरदिव्येन तर्पयेद्यै गुरुं परां | १३ब्) श्रीगुरोः कुलशास्त्रेभ्यः सम्यक् ज्ञानकुलेन वा | कुलद्रव्यं निषेदेन यायते नान्यथा प्रिये || गुरयो परमाकाशं सच्चिदानन्दलक्षणं | कुलद्रव्यानुभान * जायते नान्यथा प्रिये || अन्तरानन्तरात्मानं मनोवाचिरगेव च | संरसामृतपाणेन जायते नान्यथा प्रिये || *? धकं जगत्सर्वं तवमासदाहृतं | सिद्धद्रव्यै कौलिकानां कुलीनाय प्रकासयेत् || मन्त्रसंस्कारसंशुद्ध्यममृतं पानपार्वति | जायते देवताभाव महापातकनाशनं || सुसंस्कृतासुरारोग्यदुःखदारिद्रहारिणी | असंस्कृता भवेदोग कलहं व्याधिः दुःखहा || भैरवाष्टमिदं द्रव्यं शुद्धं द्रव्यैस्तु तर्पयेत् | ब्रह्महत्या भ्रुणहत्या विनश्यति न संशयः || सप्तजन्मकृतं पापमलिबिन्दुर्विनाशयत् | पशुपानविधौ पीत्वा वीरोपि नरकं व्रजत् || लिंगयोनि विभेदेन रौरवै नरकं व्रजेत् | असंस्कारं पिबेद् द्रव्यं बलात्कारेण मैथुनं || स्वहस्तेन पशुं हत्वा रौरवं नरकं व्रजेत् | तर्पणो होमहीनञ्च शक्तिहीनञ्च शक्तीहीन च योजयेत् || १४अ) द्वितीयेन विहीनञ्च तर्पणं निस्फलं भवेत् | अज्ञात्वा तु कुलाचारं स्पृष्ट्वा तु गुरुपादुकां || यस्मिन् शस्त्रे प्रवर्तेत योगिनिनामसो पशुः | यत्पुरन्द्री विना द्रव्यं विना द्रव्य न योषितं || द्वितीयेन विना तेन रौरवं नरकं व्रजेत् | जाज्ञकेन विनामन्त्रं विनामन्त्रेण यज्ञरात् || न कदाचित् फलादाप्ति यज्ञं च निस्फलं भवेत् | सदापरशरीगेन नात्मानं च प्रकाशयेत् || अच्युत्कान प्रमानेन देशकाल पशुं भवेत् | न तीर्थयात्रा कुरुतेन वयज्ञो नमेव च || न त योनोपवासेषु सदा भक्तिरतो हि यः | गुरुबुध्या नमेत्सर्वं देवता प्रणमेव च || स कुले च प्रऽसूतावान् विरुद्धोचार वर्जिनः | मंत्रशक्ति विहीनानां प्रणामं नैव कारयेत् || पदं वाक्य प्रमाणं च श्रुतिमार्गाति वेदिनः | कुलोपदेश हीनानां प्रणामं नैव कारयेत् || कुलोपदेश युक्तानां विरुद्धानां कुवर्तिनां | अत्युत्थान प्रमादायां प्रणामं कारयेत् प्रिये || १४ब्) मत्स्यं मांसं सुराकुम्भं मन्त्राणां सिद्धिदं भवेत् | सहकारमशाकञ्च क्रीडालोलकुमारिका || एकवृक्षश्मशानञ्च पूजास्थानानि यानि च | नारीशरच्चन्द्र वदना दृष्ट्वा वन्दे च भक्तितः || श्रीपत्रेण विनाद्रव्यं पूजा नैव तु कारयेत् | अन्यथा चरते यस्तु पूजा च निस्फला भवेत् || ग्रिष्योदीक्षित मन्त्रश्च यदि स्वर्ग गतो पुरिः | एकसन्तानके नैव प्रादियोगाभिषेचनं || वालोपि दीक्षितः पूर्व ज्येष्टस्या कुलमागतः | वृद्धोपि दीक्षितः पश्चात् कनिष्टः स्यान्न संशयः || द्विजो वा दीक्षितः पश्चादन्यजः पूर्वदीक्षितः | द्विजः कनिष्टः स ज्येष्ट इति शास्त्र विनिश्चयः || गुरोश्च गुरुकन्यानां मांस शिष्यस्य परस्परः | यथालोके पुरिश्चैव सन्निधौ नैव पूजयेत् || पुत्रश्चापि वन्नं च स्त्रियः सर्वामहेश्वरि | गुरुरर्थे च कार्पण्यं रौरवं नरकं व्रजेत् || गुरुवर्गे ज्येष्टवर्गे नैव पूजावलादिकं | अनुष्टानं न कुर्वीत सस्त?षां चैव कारयेत् || १५अ) ज्येष्ठो दीक्षित मत्रश्च दभिषेकादि वर्जितः | कनिष्ठो यं दिशं पूर्णं क्रमपूजां समाचरेत् || ललातमुखं वृत्ताक्षि श्रुतिघ्राण गण्डयो | ओष्टदन्तोस्तमांगस्य दोःसंधग्रहेषु च || पार्श्वयोः पृष्ठतो नाभौ जथरे हृदयांशके | ककुद्वंगे च कृत्पूर्वं पानिपाद तरन्तथा || जठरानानमोन्त्यस्य मातृकानां यथा क्रमात् | तस्मिन्निवेद्य तत्सर्वं शेषं भुंजित पार्वति || स्थम्भनं चतुरस्रं स्यान् मत्स्यां गोमुखमेव च | योनि सुरभि विख्याता मुद्रापंच नमस्कृता || गुरुर्वा गुरुपत्नी वा पुत्रोवाथ समाचरेत् | ज्येष्ठा वा व्यर्चना मध्ये सद्यशिष्योर्चनान्त्यजेत् || आज्ञाया पूजयेछिष्य इति शास्त्रेस्य निर्णयः | गुरो ज्येष्ट वधुश्च तथा वकुलनायिके || नोपविश्यपिने द्रव्यं विनिशास्त्रस्य निर्णयंः | स्वपात्रेवस्थितं द्रव्यं वन्दना भैरवाय चः || स नरसिद्धिहानिः स्याद्विपदश्च पदे पदे | पदा तु परमानन्दो दिव्यपानेन जायते || १५ब्) तदात्मममजायान्तु रौरव नरकं व्रजेत् | परदत्तार्घपात्रं च पादुकामूलमन्त्रतं || चक्रमध्ये ग्रहीतव्यमन्यथा पतनं भवेत् | एकपात्रं न कर्तव्यं यदि साक्षान् कुलेश्वश्वरी || मन्त्राः पराङ्मुखा यान्ति विपदश्च पदे पदे | मत्स्यं मांसं तथा मद्यं मुद्रामैथुनमेव च || कुर्या च गुरु भक्तिश्च तुट्यर्थं च वरानने | दारिद्र नाशिनी मुद्रा दुःखाकर? स्वरूपिणी || कुष्टरोगोपशमनी तस्मान्मुद्रां सदार्चने | अदीक्षितैरणाचारै अनिष्टञ्च विवर्जितैः || स पशुश्चैव व्यक्तव्य इति शास्त्र विनिश्चयः | अवस्यै समय द्रष्टैः कुर्याद्द्रव्यं स गछति || अदुष्टैरन्य पुरुषैर्देशान्तर निवासिभिः | विनासंकेत योगेन न कुर्याद्द्रव्य सस्मृतं || आसनं समनं चैव भोजनवस्त्रभूषणं | परेरवां नैव कर्तव्यं यदीछेदैश्वरी कलां || अदीक्षितेन यः कुर्या पानभोजनसंगति | श्रीचक्रं कारयेद् देवि सत्संसर्गाद्विशुद्धये || स्त्रीसुप्तं गुरुसुप्तं च ज्येष्ट सुप्तं च नास्वकां | अनाहूतश्च योग छेदा हूता यो न गछति || श्रीचक्रं प्रतिमूढात्मा योगिनी साप माप्नुयात् | १६अ) भोजनान्ते विषपानं पानान्ते भोजनं विषं | भुक्ता च महा च पीत्वा च कुलद्रव्यं निवेदये || देवताशापमाप्नोति रौरवं नरकं व्रजेत् | भोजनांन्ते पानविषं पानान्ते भोजनं विषं || अमृतं तद विजानीयादित्यर्थः स कमेव चः | चक्रमध्ये घटे भग्नं पात्रे वा पतिते यदि || दीपनाशा प्रमाणञ्च श्रीचक्रं कारयेत् पुनः | पात्रमाधारयेद्यस्तु यस्थापयति मूढधीः || योगिनी शापमाप्नोति विपदश्च पदे पदे | पूजागोष्टं च नो कुर्यात् प्रमादादहिकारकेः || पूजा निस्फलता तस्य योगिनी सापमाप्नुयात् | मूलदीक्षा विहीनं च पूजां चैवा परेत्सदा || गुरुसापं समसाद्यं योगिनी शापमाप्नुयात् | एकहस्त पिबेद्द्रव्यं मुद्रा चैवापवर्जितं || सवसेन्नरके घोरे यावदिन्द्रोश्चतुर्दशः | एकासने निशानाथ मच्चयेत् कुलदेवतां || सपुस्तश्चैव विज्ञेयः प्रायश्चितं च कारयेत् | गात्रं चैव वितानं च कौलानुग्रह विग्रहौ || यदेव पतनं लोके न देवोत्पादनं कुले | लोकोत्कृष्टं च निःकृष्टं विक्रं च तथोत्तमं || १६ब्) ईश्वर उवाच || शृणु देवि प्रवक्ष्यामि मन्त्रयोग यथाविधि | आर्तोविधायमनसाधकः संप्रपूजेयेत् || देशे वानपरे ग्रामे जपत्योभः प्रजायते | ते स्थाने आसनं दत्तं स्मरेज्जय न मण्डला || इति श्रीकुलाचारनिर्णये पटलं समाप्तं || अष्टि तत्वांति मे जन्तोरभ्यष्टेः साधनोच्यते | ज्ञानिनां कर्मिणां चैव सर्वथात्यष्टि रुच्यते || कर्मात्मीलयते ज्ञानं ज्ञानेन शिवता भवे | शिवैक्यमेव मुक्तिस्यादतः सर्वकर्म समाचरेत् || परव्याप्ति गतो यस्य देशिको ज्येष्ट एव वा | कनिष्टो वा स्वयं तस्य देशिकत्वं गतेन सं || आत्मना वापि केनार्पित्यष्टि पन्नन कारयेत् | यतु ज्ञानक्रिया तीव्रादत्या साचिचिरा शिवे || मृत्युज्ञात्वात्मनोनिद्वान्तत्पूर्वं सप्तमे दिने | पंचमेवा तृतीये वा प्रथमेवा स्वशक्तितः || आरभ्य प्रत्यहं देवि त्वत्पूजा चरणान्तिकं | पूर्वामृत्युदिवसे गोत्रि भियज्वनां गणैः || शोभिनीभिश्च तन्मध्य मध्यासीनं गुरुं परं | सर्वोपचारैः संपूज्य योगिनी द्रव्य पूजकैः || १७अ) प्रणिपत्यक्षमस्वेह मामना चारिणं प्रभो | मयाकृतं यदुष्कर्म प्रसीदसुकृत कुरु || विज्ञाप्येवं गुरुं शिष्यो स्वर्त्रिनानिधनानि च | भृत्यपुत्रकलत्रादि शरीरं चान्मन्म सह || एतसर्वं गृहाणेति विज्ञाप्य गुरवे ददेत् | परव्याप्तो गुरुश्चैतन्मध्य श्रीपादुका गुरोः || शुद्धासने प्रतिष्ठाप्य संपूज्यैव निवेदयेत् | व्याध्यादि नाथ पूजायामशक्तौ पद्यसो भवेत् || ज्येष्ठैः कनिष्ठैः पूर्वैर्वा गुरोपूजां तु कारयेत् | मृतेस्मिन्नास्ति गुरुर्वाथ सदस्वदभावतः || तदार्जित धनं सर्वं चतुर्द्धादि भजे ततः | भाद्वयं कलत्रेभ्यो दत्वान्यभ्यो द्वयन्तथा || द्वयमभ्यष्टि पुत्राया भावे भाग द्वयोर्द्वयोः | गुरवे च सदस्येभ्यो गुर्वभावे गुरोः कुले || दत्वाशिष्यत्रत्रावं पश्चात् प्रक्षाल्य कुसुमादिभिः | अलंकृत्य स्मशानीतं नात्वा तत्र निधीपयेत् || संहारक्रमशस्तस्य देहे न्यस्तां प्रविन्यसेत् | सहीरमुद्रयादाय देवतास्तस्य वेहनः || स्वदेहे विन्यसेत् पश्चाशान्तागौ विश्वघस्मरे | ध्यात्वा श्रीभैरवं तन्त्र नत्वात्ममिथुन द्वयं || १७ब्) विघ्नधनं भास्त * * दनलेशुचि वचसे | महानलाय महसे विश्वैक हविषे नमः || इति मन्त्र समुच्चार्य कुनछिवयं हवि | स्वल्पद्दौर्विहिगं भाग द्वयसर्वधनाधिकं || विभग्यतत्सुविधिना श्राद्ध कुर्यात् सहादरं | आसनं शापनं पानं वासासि विविधानि च || पानीय भुक्तपात्राणि सर्वोय करणानि च | सर्वोपचार सहितं भूमीं च गुरवे ददेत् || गुरुस्थानीयकेभ्यो वासगोत्रेभ्योथ वा पुनः | कौलिकेभ्योथवा देयं पशुभ्यो तदाचन || मरणादि नमारभ्य मासेवाथ दाशाह्निकं | चक्रपूजासमायुक्तं यागं कुर्याद् दिने प्रतिः || मासाहे वादशाहे वा योगिन्यो योगिनोपि वा | प्रातनि मन्त्र्यसुभ्राताराचार्बाहुय सादरं || पादप्रक्षालनं कृत्वा निवेदय * * नान्त | संपूज्य शिवभैर्क्यर्थं गन्धपुष्पाक्षतादिभिः || सापुंन्य व्यंजनं दत्वा दक्षिणां चम्ब शान्तितः | साधाराणि विनिक्षिप्य पात्राणि गुरुतः पृथक् || दिव्य इत्येणसंपूज्य मांसमत्स्योदनादिभिः | सायूपः व्यंजनं दत्वा दक्षिणां च स्वशक्तितः || १८अ) योगिनी चक्र पूजान्ते कलशस्थापयेदथ | शालितन्दुल मध्यस्थ दिव्यद्रव्येण पूरितं || वस्त्र द्वयेन संवेष्ट्य नवरत्नं विनिक्षिपेत् | नवात्म मिथुनैश्चापि वशिन्यादिभिरेव च || मूलेनापि समामंत्र्येन दूर्ध्वं कश्यभाजनं | सुवर्णरोप्यप्रतिनिश्रेपि चात्रसंक्षिपेत् || नवात्मनाथं संस्थाप्य कलशा स्थित वारिणि | तत्र प्रेतं विचिन्त्यार्थ पूजयेत् कुशुमादिभिः || शालिपिष्ट कृतदीपभाजनं द्वादशांगुलं | तत्पात्रे स्थापयेत् पात्र मनुनानेन तत्परः || दीपं प्रज्वाल्य गव्येन घृतेन परमेश्वरि | विद्यारूपं विचित्यार्थमनुनानेन तत्परं || स्वर्गारोहपसोपानं निश्रेवित्वधिरोहिनी | नमारोयपप्रागे दिव्यस्वेचरपी पदं || इति मन्त्रं समुच्चार्य षट्त्रिंशत्तत्वरूपिणीं | निश्रेणिकां समारोप्य नयेदूर्द्ध क्रमेण तु || पृथ्वी तत्वं लयं नीत्वा शिवतत्व पदावधि | तत्वातीते परेधाम्नि प्रकाशानन्द विग्रहे || निर्विकल्पे निराभासे चैतन्ये तत्र योजयेत् | १८ब्) प्रणम्य योगिनी चक्रं क्रियेयं स परा भवेत् | इति विज्ञाप्य मद्याद्यैः प्रीणयेद्योगिनी गणं || रात्रौ जागरणं कुर्या सा नन्दं कौलिकैः सह | प्रातः पूर्णात्मवं कुर्या चक्र पूजा पुरःसरं || उलूखले समारोप्य हरिद्रा मन्त्रमस्त्रिणः | मूलेन योगिनीभिस्ता मूलेनापि च चूर्णयेत् || गुरुवे देवतायै ना मूले नैव समर्पयेत् | भैरवानाञ्च शाक्तीनां प्रत्यैकं मूद्ध्नि निक्षिपेत् || पूजयेद् योगिनी चक्रमाचार्याय सदक्षिणां | प्रणम्य प्रार्थना पूर्वं प्रदद्यात् प्रतिमादिकं || यावत् संवत्सरं नित्यं शक्तिमेका समर्चयेत् | त्रिमासे वा मृते त्राक्षे निधोवा वत्सरोवधि || पूजये योगिनी चक्रं मत्स्यमांसौदनादिभिः | संवत्सरसमापूर्ण बाह्याभ्यंतर पूजनं || कृत्वाखिल क्रमाणां च तत्वातीतै परात्परे | निराभासे रशे शान्ते शीवकूर्वीत योजनं || ततः प्रत्यन्दमेवं हि कुर्यादृक्षेथवा निधौ | कुलज्ञानविहीनाये संसार भयमाछिताः || मरणात् पूर्वंमतीति गुरुज्येष्टमथापि वा | १९अ) स्वगोत्रज्ञात्वा शात्यर्थं गुरु तत्वा प्रयत्नतः | संतोष्ये धनं धान्याद्यैमादरं विहितांजलि || देवेश देव स्वीकृत्य रक्षारक्षां स्वमां प्रभा | मह्यं प्रसीदमन्नाथ चैवं विज्ञापय वष्टधः || रोगादज्ञमृते तस्य पुत्र्यवाद्या स्वगोत्रजा | स्वशान्त्यान् गृणम्बित्र दत्वां त्वष्टिं च कारयेत् || शवसंहारमारभ्य सर्ववत्सरावधि | साधारण तु सर्वेषां कर्मवांत्यष्टिके मते || इति तत्वामर्शांत्यष्टिक्रमः अष्टादशोल्लासः संपूर्णं || सुभगानन्दनाथमते तु इदं अष्टादशोल्लाशस्तु ईश्वरोक्तं वा क्वचित् आचार्यै कृतं वक्तुं नैव सक्यते साधकेनापि विचारं कृत्वा कर्मादिकं कुर्यात् इति सम्वत् १९२९ शुभम् || ########### END OF FILE #######