#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00294 Uniform title: kulasāra Manuscript : NGMCP 4-137/vi reel number: A 40/11 Description: The manuscript is incomplete. It begins abruptly in the middle of chapter (paṭala) four and then continues from chapter eight to seventeen where it ends abruptly. The Kulasāra is quoted by non-dualist Kashmiri Shaiva authors and so preceeds the 11th century. It belongs to a genre of Kaula Tantras that are focused on the attainment of the direct experience of essential metaphysical principles and yogic powers through the practice of Yoga and insight. Through knowledge of these principles the Kaula Yogi attains liberation in this life (jñānāvabhāsena jīvanmuktye vyavasthitaḥ fl. 33b) and numerous yogic powers. The text focuses also on the worship of Bhairava and Devī and the host of Yoginīs. The first chapters are concerned with the four principles commonly mentioned in Kaula works, namely, Piṇḍa, Pada, ṛūpa and Rūpātīta. Unfortunately, here the manuscript is incomplete. Chapter nine deals with the attainment of the pervasion of transcendental śiva by the abandonment of śakti (9). The following chapter teaches the attainment of the supreme reality which is the Inexplicable free of phenomenal qualities, immobile and pervasive like the sky by merger with the space contained in the jar of the psycho-physical body (10). The next chapter deals with transcendent Akula and immanent Kula along with Kaula which is the union of the two (11). Chapter twelve describes the ascent through the centres of the body from the feet to the head. Corresponding to the spheres of the gross elements, they are the abodes of numerous types of Yoginīs the text describes and the damage they can do. The Yogi should know them and by his devotion to the deity, fire and the guru and practice of Yoga be protected from them. Those who are immoral are consummed by them. The chapter ends with a series of visualizations designed to protect the body of the Yogi (12). The next chapter continues with similar concerns for protection and the overcoming of disease and death by the use of Bhairava Mantra and visualization of his form which appears to be that of Svacchandabhairava and accompanying forms and their consorts (13). The next chapter discusses non-duality in the sense of the absence of pure and impure with regards to food and drink and the defects of those who do not follow this path. It goes on to talk about freedom from dualistic thought constructs and the purification of the mind and purification of the sacrificial substances that takes place in this way. It is applied to the sacrificial meat and then wine (14). Chapter fifteen deals with the observance (caryā) of the Kaula adept (vīra). He should travel to the inner Kaula sacred sites (pīṭha, kṣetra) in the body following the vital breath rather than the outer ones. There he plays with the Yoginīs and worships them and does so externally also with a pure mind. The manner the pilgrimage is to be performed externally is described next.The last chapter deals with the Three Jewels of Shiva, Shakti and the Self, their attainment and experience. Notes: Revision 0: December 17, 2013 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### एतदाख्या हि मे देव संशयं * * * * * ? | रूपेण व्याप्यविश्वं व्यवस्थिता || किंतु पूर्वमयाख्यातजदर्शनन्यासु प्रश्र(?) यस्यानुरूपतः | तत्पातं चापवर्गापयत्पातमित्युक्तं पद्मनां वोधनं परम् | वोधं सुवोधमेवात्र अ) * * * *? वाप्नोति शक्ति विद्धस्य देहि * * * *? याविना | तथा देहगता शक्तिनद्बोधयति देहिनाम् || तृवदाम्यहम् | कलाकलयते सा तु कालसंग्रह * * *? मेतक्षयं(?) नयेत् | मायामोहयते सर्वं वजे? * * *? क्षीरं हि सर्पिषा | सा परा * * * * * * *? ब्) वयलक्षं ज्ञानं तद्धि भैरवि | तं चादौ श्रूयतां सम्यक्त तत्वतो तु क्रमेण तु || कुलाम्नाय क्रमेणैव भिद्यते विस्तरेण तु | पिंडं पदं तथा रूपं रूपापातीतं चतुर्थकम् || एतदाद्यं महाकौलं सद्यः प्रत्ययकारकम् | पिंडस्थं तु चतुर्धा वै मुख्यतो वरवर्णिनिः || विचार्यते यदा सो हि तदा पिंडात्मकं जगत् | पिंडस्थं सर्वपिंडस्थं पिंडमावृत्यसंस्थितम् || तेन पिंडसमाख्यातं * * * * *? दाह्यतम् | पातालमूचक्रं तु चराख्ये तु द्विधा स्थितम् || चलत्कलोल देदीप्य प्रस्फुरंती व पिंडगात् | एवं सम * * * * * * *? क्षणात् || वज्रमुल गते लक्षे तेजसा सुदृढी कृते | * * * * *? देवेशि कूर्मवागानि यानि तु || २३अ) एकागदर्शमीभ्यास सर्वसहारश तथा | एकपिंडीकृत सर्व सर्वमृत्पिंड सुव्रते || पुनर्व्यक्ति समायाति कामाद्यास्तंभयेति च | मारये तृदशातस्मिं मनुजे नैव का कथा || चतुष्टय गताभ्यासात् क्रमेणजित यंत्रराट् | यक्षिणी साधनं तव शतजित् प्रथमे पदे || द्वितीये द्विगुणी षड्गं तृतीये तृगुणाद्रसम् | चतुर्था तु चतुर्थवौ पादुकादि प्रसिद्धिदम् || कामजा कामराजानं द्विरंध्र पदमूलगम् | तत्र प्राण शतैः पंचैकामदेव समो भवेत् || सेव्यते दिव्ययोगीभिः मानुषी सुचका कथा | एतत्ति उपरिस्तस्य काम * *? प्रपीडिता || प्रक्लिन्नजघनाः सर्वामदविभ्रान्न्तलोचनाः | २३ब्) नेच्छंतमपि वीरेंद्रं वलाद्गृह्नन्ति योषितः || द्विसप्तभुवनाद्देवि क्षोभयेत सहसुजिन् | सिध्यते सहपिंडेन कामराज प्रभावत् || कामतो सिध्यते तस्य यं यं मनसि वर्तते | तेन काममित्युक्तं इडानी योनजं शृणु || तदूर्ध्व संस्थमावर्त्तं तत्रस्थं जपमारभेत् | भ्रमद्वलय घूर्मिश्च आविष्टात्येव देहकम् || एतत् प्रत्ययमासाद्य स्थिरं कुर्यादेदिते | आहार्य परभावस्थ मनो ह्यमनतां नयेत् || चारजिनते मृत्युर्वास्थि द्विसंप्रवर्तते | काव्यं करोति ललितं सालंकारमनोहरम् || ग्रंथश्चार्थतो देवि वेदाद्यश्च समुद्गिरत् | वत्राये त्रीणि लोकानि देवासु रस किंनराः || मर्त्य इह शिवः साक्षात् सेव्यते सर्वयोगिभिः | २४अ) जीवते च असंख्यानं मृत्युनामृत्युजि नर || तदा कालक्षयं जाये यदा न च्यवते मनः | स्तंभनं मोहमुच्चाटवस्य विद्वेषणादयः || अन्यानि क्षेत्र सिद्धीनि तत्रस्था ध्यान योगतः | धारणात्सरसंयोगा स्वरूपांश्च निवेशनात् || सर्वं योगविदस्यैव योगजा जायते नघे | पंचरूपा महादेवि क्षमससंव्यवस्थिताः || स्वांसमादाय सुभगे यदा समरसी कृतत् | भावोह्य भावतां युतः तदास्तदगुणमावहेत् || पार्थिवे पार्थिव रूपं एकोनेकत्वां पुनः | रूपादि परिवर्तं च स्थावरे जंगमेपि वा || भवते स्वेच्छया योगी पार्थिवेन न संशयः | जलन प्लावयेत् सर्वं जगत्स्थावरजंगमं || २४ब्) मृत्युजिन्नति देवेशि जले समरसे भवेत् | जलैः भूत्वा व्रजेद् देवि यत्रेच्छा योगिनस्य तु || तेन सा दहते सर्वं जगदेवं क्षणेन तु | तन्मध्ये समतां याति वह्नि पुंजमिव स्वयत् || वायवे वायवं भावं वायोत् समरसं गतः | वियं दशदिशश्चैव भ्रमते च क्षणेन तु || नभसो सून्य भावश्च तदभावत्वदर्शनः | स्वेच्छायुर्भवते योगी तदभ्यासा न संशयः || तन्मध्यगतमभ्यासात् पंचैतां साधयेत् पृये | अथान्यतमं वक्ष्ये द्वेकुंठ लक्षवर्जितं || अभावं भावहीनं च तं तत्वं तु समभ्यसेत् | तत्र भावं स्थिरीकृत्य विष्णुतुल्य पराक्रमः || तत्पुरं सिध्यते तस्य स्वदेहेन व्रजेत् ततः | भोगार्तस्था भुवनक्ते तु अन्ते लीयति सास्वते || २५अ) अनोन्यं चित्तसंवेत्ति तृतीयो पिंडमुच्यते | चित्तालयं तु संवेत्ति चित्ते चैतन्यभावना || तत्र स्थित्वा कृतभ्यास प्राणसंख्यानियामितः | प्राणं चैव स्थिरं कृत्वा अणिमादि प्रसाधनम् || न मृत्योर्भयमेतेन जायतेभ्यासयोगतः | स्वेच्छायुर्जायते योगी स्वदेहेनीश्वरो भवेत् || भूतं भव्यं भविष्यं च यत्किंचिज्जगति स्थितिम् | तत्सर्वं तस्य प्रत्यक्षं जायते नात्र संशयः || तदूर्द्धाक्षजयंजाये मनोवृत्तनियामिते | लोलाख्ये नात्र संदेहस्तदूर्द्धे चामृती भवेत् || लंवकं तु स्तनं पीत्वा जरामृत्यु विवर्जितः | भवते साधकेंद्रस्तु दीप्तिकीर्तिसमन्वितः || उत्थाने तु यदाभ्यासं कृतं भवति सुंदरि | तदा तस्य महाभागे सिध्यते योगि मंडलम् || २५ब्) तदूर्ध्व तु समासाद्य शक्तिगोलक रूपिणी | धुनते कंपते चैव पतत्युत्यतते पुनः || तं निर्जित्य यदा चास्ते तदा सिद्ध्यति खेचरम् | चक्त्रं तु परमं देवि नास्त्यत्र प्रविचारणा || अर्धेन्नु रूपनिष्ठान्तु तत्र मभ्यसते क्रमात् | एह्रिवेत् कौलिकीं भासां मुद्रावंधमनेकधा || हसते गायते चैव नाना चेष्टानि कुर्वते | तनिर्जिन्य वरारोहे सद्यो मेलापकं भवेत् || दुर्लक्षं योगि वृंदस्य लीलया परमेश्वरि | चतुर्थं कथ्यते पिंडं मतोर्ध्व वीरवंदिते || चित्तप्रलयमुद्दिष्टं तत्रस्थोभ्यसते यदा | घूर्मि मात्रं भवेत् तत्र यदा निश्चलनांगतः || तदा सिद्ध्यत्यसंसिद्धै संगमं तस्य जायते | खगतिस्तु न संदेहं जायतेभ्यास योगतः || २६अ) क्रद्विंदु त्रयाभ्यासात् स्वपिंडं सूक्ष्मतां नयेत् | नादेवागीश्वरः साक्षात् सर्वशास्त्रविदो भवेत् || एवं पिंडं समाख्यातं वहुधा तु न प्रिये | चतुःपिंडविभागं च सरहस्यं प्रकाशितम् || आपादाद्यावमूर्द्धांतं तावत् पिंडं वीकीर्तितं | वोधव्यं लय भेदेन सद्यः प्रत्ययसंयुतम् || शतार्धमूर्ति परमातद्योन्यावर्त्त योजना | नानाकर्मविभागानि *? संख्या संभवंति च || सारतः सिद्धयः चित्रा नानागुणमहोदया || इति कुलसारे चतुर्थः पटलः || श्रीभैरव उवाच || पिंडस्थं कथितं देवि पदस्थ मधुना शृणु | एकं पिंडं द्विधा भूतम् द्विधाभूतमनेकधा || सूर्यसोमगति ज्ञात्वात् पदपिंडोपलक्षयेत् | धर्माधर्ममहोरात्र नादविंदुस्वरूपतः || स्पंद || २६ब्) पंचनिरीश्वरम् | निर्हेतु निर्विकारं च निर्द्वंदं निर्गुणं शिवम् | न तत्र लक्षणो लक्ष्यं लक्षातीतं निरंजनम् || हेतु वृष्ट्यान्तरहितं सर्वावस्थं परापरम् | व्योमव्यापिनमव्यक्तं परापरं विभावितम् || तस्थस्यैव समभ्यासादानंदं प्रथमं भवेत् | निरानंदमतो तस्य प्रकास्यं तदनंतरं || सर्वाधारगते लक्ष्ये घनव्याप्तिविभेदिते | चंद्ररश्मिकराभासं ज्योत्स्नां चैतन्य योजनात् || प्रकाशयतितं सर्वे शिवाद्यवनिगोचरं | ततः पश्यति देहस्थां पातालभुवनां तथा || तत्ववृन्दमध्ये स्रंतु यत् किंचि जगति स्थितम् | भूतं भव्यं भविष्यं च पश्य योगवित् तदा || मंत्रस्तन्मुखतां यांति प्रत्यक्षं खचरीगणम् | वारावीरेश्वरा सिद्धा विद्याधर सकिन्नराः || ३३अ) विमाने कोटिसंघैस्तु जयशब्दादिमांगलैः | दुंदुभिस्वरनिर्गोषै खेचक्रे तु नियंतितः || भुक्त्वा भागमशेषं तु परे तत्व स लीयते | नीनः सर्वगतो व्यापी मुक्तः संसारवंधनैः || अनेनोच्चारमार्गेण सिद्धिमोक्षमवाप्नुयात् | उच्चार्य शक्तिं शुभगे उच्चारं तस्य योजनम् || युज्यते च परे तत्वे शक्त्यन्ते *? ष्कली कृते | एतद्धि ज्ञानसद्गर्भे अप्रकाश्यं तु कौलिकम् || दुर्लभं सर्वयोगीनां न वाद्यं समुदीरितम् || इति कुलसारे अष्टमः पटलः || श्रीभैरव उवाच || शक्तित्यागे पराव्याप्ति त्वया देवि प्रकाशिताः | विंदन्ति सिद्धयस्तत्र मंत्रमातागुणोज्वला || ३३ब्) मंत्रोदाहरलाद्देव संशयं मनसि स्थितम् | विषभा प्रशतैं पातेकं चिन्मंत्रैर्वृताहरः || मक्षिकापदमात्रेण केचिर्नाशमुपागता | न मंत्रोद्धरणार्थाय तस्मात् सामर्थता न हि || श्रीभैरव उवाच || यत्रं ते पूर्वमाख्यातं सर्वतत्वप्रदीपकम् | शक्तितत्वं महाभागे मंत्रोद्वलियिलीयते || तत् तत्वं नियतं देवि नियते नियते तैस्तु उद्यते | तत्प्राप्त्यायतने जंतु न विसंकरणं पृये || मत्रैस्तदवपत्या तु स्वयु देव प्रभास्वते | गतीस्मीति महेशानि मंत्रशक्त्या निवारिता || तद्वद् ज्ञानावभासेन जीवन्मुक्त्ये व्यवस्थितः | दग्धजीव प्ररोहत्वकु?न्त तेषां महेश्वरि || श्रीदेव्युवाच || दग्धवीजपरावस्थ सकर्ममभिलक्षितः | कोपवर्गगतस्यैव शिवाच्छ्रेयः प्रवर्तते || ३४अ) श्रीभैरव उवाच || सुक्तस्य लक्षणं देवि त्वया पिष्ठं महातपे | यन्न कस्य चिदाख्यातं रहस्यं गूढगोचरम् || दुर्लभं सर्वयोगीनां तव स्नेहाद् वदाम्यहम् | प्रत्यक्षसंस्थितं तत्वं सर्वव्यापि महेश्वरम् || तत्र मुक्ता नराये तु स्वतेजकिरणोज्वला | शिवांग षट्कसंयुक्ता विचरन्ति शिवे वते || नानाभोगेषु सुरोस्वर्ग पातालजेषु च | इच्छया समतां याति इच्छया संभवन्ति च || तान्यंगा संवक्ष्यामि मुक्तानां शिवजा गुणान् | सर्वज्ञता भवेत्येषा नित्यतृप्तावभासना || गुह्यसारं समस्तानां भोगानां वीरनायके | अनन्तशक्तिपर्याय सर्वव्याप्ति करो गुणः || अनादि वोधवोधेन वोधस्तस्य तनूदरि | तद्वोधेन न विभुत्वं च विभुशक्तिरयंगुणः || ३४ब्) विभुत्वा लुप्तशक्तिश्च षड्भिरंगा शिवेव च | एवमुक्तो महादेवि शिवः सर्वद्यतः स्वयम् || शक्तिभिः क्रीडते तस्थ न तस्यद्यवनं भवेत् | तल्लीनस्तन्मनो ज्ञेयस्तद्गुणाधिक्सितं प्रिये || नवध्वस्तस्य देवेशि मुक्तस्य सुरसुंदरि | सर्वज्ञता तस्य विधेक मूलं क्रीडारतस्यैव परत्वता च | मुक्ति स्वशक्तेनन्तभानार्थं अनादि वोधाश्च समन्तता? च || एवं मुक्त्वानु संघस्य वीरेशि कथितं तव | सट्व्ययं परमं गुह्यं गोपनीयंथ यत्नतः || श्रीदेव्युवाच || अद्य तृप्ता महादेव स्वभावं लक्षितं मया | तत्प्रसादेन मे व्रूहि तत्प्राप्ति परमेश्वर || या सा काचित् पराकाष्ठा पराव्याप्तिरखंडिता | आकुलाकुलभावस्था यथावेद्मि सुनिश्चितम् || ३५अ) तन्मनाचक्षु देवेश सर्वव्यापि महेश्वर || श्रीभैरव उवाच || शृणु देवि परं गुह्यं रहस्यं परमं च यत् | तदवाप्तिकरं सम्पत् शृणु तत्वार्थखिल || शक्ति तत्व क्ष्ये दोषं त्वया देवि रुदाहृतम् | तदभावा च भावेन व्यज्यते च न चान्यथा || सर्वाधारं परं सूक्ष्मं अकुलं विश्वतो सुखम् | धार्यते तेन तत्सर्वं अकल्पेन कलादिकम् || कायाकरवुकायेषु इंद्रियोष्ठिंद्रियात्मकम् | तत्वेषु तन्मयश्चैव शक्तेः शक्ति वदीश्वरम् || सलक्षे तु सलक्षं तु लक्षातीते अरूपकम् | सर्वभावात्तरावस्थं सर्वभावविवर्जितम् || सगुणो निर्गुणः सोहि ज्ञातव्यं परमार्थतः | एक तत्वे स्थितिं तस्य कथं सर्वगतस्य तु || एकोप्यनेक भावैस्तु ग्राहयन्ति न गृह्यते | ३५ब्) आन्योन प्रविचारेण एकस्य नैकतां तदा || तदा संस्मृति हेत्वर्थं सारं वक्ष्यामि तं शृणु | यथा मोह व्रणाशं तु जायते तव सुंदरि || अन्योन्य वोधवोधेन मनसा कुलभानरा | तेन तेन विजानंति आत्मानं तेन गोपितम् || प्रत्यक्षसंस्थितं तंत्वं सर्वदेहेषु व्यापकम् | विपरीतं तु गृह्नंति देहमुक्तं तु केवलम् || नदन्तं देहमध्यस्थं घंटिकाग्रे परं शिवम् | ब्रह्मरंध्र प्रवाहेन नासाग्रे संव्यवस्थितं परं || केचिदुच्चार योगेन मात्रान्ते च लय स्मृते | मायातीतं वचं व्यन्येशक्त्यातीतं तथा परे || षडध्वा मातृकातीतम् वदंत्येन्ये परं पदम् | गमागम न योगेन हृच्चक्रेशं व्यवस्थितं || अग्राह्यं मुन्मनं सर्वं भावाभावविर्जितम् | ३६अ) अभावं तु वदं ल्यन्ये(?) महाश्वर्यं विधीयते || शक्तिस्तु व्यापिनी प्रोक्ता प्राशान्त विषुवस्तथा | अनन्तं शिवतत्वं तु गुरुवक्त्र इति स्मृतम् || विसर्गातीतमिच्छन्ति अन्येषामेव संस्थितम् | प्रकृयातीतमिच्छन्ति सर्वे ते आत्मरंजिता || तेन ते तत्वजा ज्ञेया शास्त्रजालेन मोहिता | शास्त्रागमेन ते वद्वा जन्तवो मूढचेतसः || न विकल्प्यन्तिते वस्तुं तेन ते वद्वपुद्गलाः | आत्मशक्ति परं तत्वं तृतत्वं देहमध्यतः || एकं भगवतं ज्ञेयं भिन्नभिन्नस्तनूदरि | त्रिगुणं भावयेद्भावं तदाभाव न भावना || शक्तिमत्रगुणं देवि द्विधन्यं तु मगोचरम् | एकतत्वे स्थिता व्याप्ति व्याप्तिश्च तृगुणा प्रिये || ज्ञातव्या च प्रयत्नेन मनोवंधव्यपोहनम् | ३६ब्) लवनं तु जलान्तस्थं विलीन समवस्थितम् || न विभाव्यति सुश्रोणि यावन्नास्वादिनं स्वतः | स्वादोपलध्वि पूर्वं तु ज्ञेयमित्य वधारयेत् || आत्मानमात्मसंस्थे तु भावयेत् परमं पदम् | अक्षराक्षरयोर्देवि तृतत्वगतिविंदनम् || ज्वरसात्यन्ति(?) विलयं द्विधा व्यज्यतिन्यथा | अक्षरं तु अनुच्चार्यं अघोषं व्यंजनं तु तम् || नगत्प्रपातात्सलिलं सुसंपक्षो हुताशनः | मारुता हतवद्देवि सतृणं मोक्षदौ ज्वारः || अक्षराक्षरयोच्चारा विभाव्य परमेश्वरं | तृतत्वाभासनामात्वान विकाराय सुंदरि || तृतत्व गति विज्ञाय स्वभाव स्वय संस्थिति | सर्वव्याप्तमिदं तेन परेण सुरदेरि || नागमोगमनं चैव न योगं नैव योजना | ३७अ) न ध्यानं न च वा ध्येयं धारणाश्च विवर्जितम् || तर्कादि वर्जितं तत्वं प्राणायामादिभिस्तथा | प्रत्याहारेण निर्मुक्तं वोधमात्रेण संस्थितम् || स्वभाव संस्थितं ज्ञात्वा लभंते तत्वमुत्तमम् | नोर्ध्वव्यानं न योगं तु नाधस्तात् पार्श्वयोरपि || नाग्रतः पृष्ठतश्चैव नोच्चारं ग्रंथिभेदनं | नलयं नलयां तं तु स्वाभावे स्वय संस्थितिः || स्वभावस्थस्य योगं तु अव्युच्छिन्न प्रवर्तते | अव्युच्छिन्न गति ज्ञस्य परमात्म विभावितः || भावनाभावनाशाय चित्रोपाधि वशात् फलम् | तृतत्वेकलयेशानि नान्यथा कदाचन || धर्माधर्मान्तरे किंचि स्पंदने सर्वदेहिनाम् | तस्य निस्पंदतामासु स्वभाव परिभावनात् || प्रविशे तन्मयो भूत्वा दर्पणेवतनूदरि | वृक्षागुल्मलतादीनि पर्वता तु वनानि च || ३७ब्) प्रसादधरणी नद्यो नभो देवि विभावयेत् | अकामादर्पणस्यैव प्रविंशन्ति समन्ततः || तद्वदात्मविदोगौरि प्रविश्यस्तन्मयो भवेत् | समीकृतसमं सर्वं समन्ता तत्वपद्धतिं || समंतात् समरसी भूत दिव्ये धाम्नि व्यवस्थितः | निर्मले शान्तभूते तु सर्वव्यापिनि मव्ययेत् || तदा तन्मयतां यांति एकान्तस्थो महामतिः | शंखभेरीमृदंगैश्च वीणावेणुं शतैरपि || ताड्यमानैर्न विंदेत यदा तन्मयतांगतः | ऋतृष्णादि(?) विनिर्मुक्तः हतमृत्युर्जरादयः || तेजसा परिपूर्णं तु द्वितीय इवशंकरः | गुहां वाथ सुविस्तीर्णां गृहं वाजनं वर्जितम् || तत्रैवाभ्य समानस्य सर्व द्वंद्व विवर्जितः | तृष्णारागभयः शोक आलस्य मरतिस्तथा || ३८अ) एतानि मनसा वर्ज्यनिर्मलाधीवधाय च | षण्मासाभ्यन्तरे तस्य सिद्ध्यन्ते सर्वसिद्धय || ये केचित् प्रत्यया प्रोक्ता वाचया कुरुते तु सः | उत्तिष्ठ खड्गवेतालरोचनांजनमेव च || रसं रसायनं खन्यं पादुके गुलिकादयः | घंटिकाकाशगमनं परकाय प्रवेशनम् || डाव्याडामरिकाश्चंडा घोराद्यायश्च मातराः | भूपाताल खगामिन्य सिद्ध्यन्ते तस्य नादरः || अहो तत्वस्य माहात्म्यं ज्ञाय मात्रस्य सुंदरि | श्रोत्तरे तु संप्राप्ते तु तक्षणा देव मुच्यते || सर्वद्यः पूज्यमानश्च नापमानेकदानः | तस्य दर्शन संभाषा दासनासहभोजनात् || कुलान्युद्धरते देवि असंख्याता महायशे | यस्य ज्ञानमिदं शुद्धं अकुलं देह संस्थितम् || शिववचसमंतव्यो मानुषं देहमासृत | पूजयंति सुरास्तस्य खस्था देव्यो महावला || ३८ब्) भैरवस्यैव देवेशि भूतसंघानि तु | नम कुर्वन्ति नित्यं वै दर्शन तस्य भैरवि || शदेश विनियोग्रामास्तेजनाः पुण्यभाजनाः | यन्न ज्ञान विशुद्धात्मा कुलयोगी व्यवस्थितः || भिक्षां यस्य स गृह्नाति कुलानां चोद्धरेच्छतम् | दर्शनान्मोचयेत् तासां स्पर्शनाद् दीक्षितो भवेत् || भुक्तोज्झितेन तस्यैव प्राश्येनिर्वागामिनः | भवते मनुजा देवि नात्र कार्य विचारणात् || कुलकौले च यत् सारं अकुलं तं महेश्वरि | कुलसारमिदं तेन त्वत् प्रीत्या कथितं मया || सर्ववाग्जालनिमुक्तः ज्ञानं ते प्रकटीकृतम् | उच्चार्य च मनुच्चार्य नोचार्यश्चार्यमिसृतम् || तृविधं तु समाख्यातं ज्ञानं तत् कुलमातृतम् | सारमादायते प्रोक्तं विस्तरं त्यज शोभने || ३९अ) सारात् सारतरं चैव गोपितं यच्च सर्वतः | आत्मप्रत्ययसंयुक्तं परप्रत्ययसंयुतम् || वोधनार्थं तु योगीनां द्विधा सकलनिष्कलं | गोपनीयं प्रयत्नेन नाभक्ताय प्रदापयेत् || इति कुलसारे नवमः पटलः || श्रीदेव्युवाच || श्रुतं देव मया ज्ञेयं निर्वाणं परमं च यत् | प्रवेशयेत् स्वरूपं तु ग्रहणं विस्तराद् वद || भैरव उवाच || अनाख्ये यस्य तत्वस्य निर्गुणस्य यशस्विनि | गुणवद् ग्रहणं कृत्वा कथयेत् परमेश्वरम् || किंचिदाभासमात्रं तु कृत्वा तु कथयेच्छिवम् | प्रयाध्वन * * * म उच्चारालंवनानि च || स्थातव्यं तु वरारोहे प्ररित्यज्यमशेषत | एवं स निर्जिता तिष्ठे मनो दुर्जय चंचलं || चलतेन कदाचित् सा ज्ञेयावस्थो भवेतु सा | ३९ब्) अनिर्जिता यथा मल्ल दर्पाणि कुरुते वहुः || निर्जितस्तिष्ठते वीरस्तथा ज्ञेयमिदं मनः | न हि गर्ता भवेत् कश्चिद् गतव्यं वा न विद्यते || गमागमविनिर्मुक्तं घटाकाशेव तिष्ठति | जलमध्य गते कुंभे पूर्णे वाह्यन्तगं जलम् || नान्यस्तत्र विकारं तु कृतिमात्रविभावना | घटसंवृतमाकाशं नीयमानं यतस्ततः || घटो नयति नाकाशं तद्वज्जीवं नभोपमम् | कदली सार्धवद्वेहं धृतं तत्वदले स्थितम् || तस्मात् तत्वदलत्यागी व्योमं च भवते तदा | निराकारात्मविज्ञानं भावनागतचेतसः || मोक्षेपि यस्य नोत्कंठ समोक्षमधिगच्छति | मोक्षो नाम समाख्यातो अशरीरो निराकृतिः || अचिन्त्यो निर्गुणो मोक्षो न तु मोक्षो लयान्वितः | न मोक्ष न मोक्षस्य भवेत् स्थानं न चाध्वानं कदाचन || ४०अ) सर्वत्र विदिता दृष्टि समोक्षो मोक्षवादिनाम् | वहुभिर्वाह्यवैराग्यं आत्मानिर्वापितस्तु यैः || तेषामेकोपि नास्त्यत्र गतानि रूपपत्तिकम् | एवमन्योपि ये केचि नि * प्यन्ते विरागिणः || तथातेपि च तिष्ठन्ति निर्वाणं प्रथमं यथा | * *? शिलाध्वतंतेयं क्षपितं सूर्यरश्मिभिः || तथा निर्वापितो ह्यात्मा गतो निरयपत्तिकम् | न तत्रोयं गतो भूम्यां न च तत्रैव तिष्ठति || न च केनचित् पीतंगरो निरूपपत्तिकम् | एवं गृह्य तु वैराग्यं यदुक्तं गुरुणा हितम् || ततो ह्यनादयं भावं यद्यप्येकं सनातनम् | वाह्या सा मोक्षवादीनां यत्र सर्वक्षयं गतः || एतदन्यत्र वैराग्यं अपि सत्व सुखावहम् | यन्नास्तिस्तत्र देहं प्रायश्चित्ते करिष्यते || ४०ब्) सामुक्तो निर्विकल्पस्तु सविकल्पस्तु वध्यंति | नदीनां सागरं प्राप्य नानारूपं निवर्तते || ते तत्र नाभि जानंति परस्पर विशेषणम् | न चान्ये जायते तत्र उदके तु विशेषणम् || तत्र क्षयं गता नद्यस्तथाप्येक महोदधिः | एवं नद्योपमं देहं निर्वाणं साधनोपमम् || निर्द्दंदंस्तिष्ठतस्ते वै सागरासृत सिंधवः | तिष्ठते निश्चलत्वं हि तृप्तित्वं तस्य जाते || सुखं दुःखं न संवेत्ति गृह्नाति शिवतांगुणान् | अभावे भावना यच्च भावं कृत्वा निराश्रयम् || आत्मसंस्थं मनः कृत्वा न किंचिदपि चित्तयेत् | अभावे भावना भावे भावलीनमसंकितः || विभुरित्ति समंतव्यो नात्र कार्य विचारणात् | अभावस्य कृतो भावो निष्कलस्य कुतो मनः || ४१अ) अमने यद्यवस्थानं निर्वाणं तस्य तत्पदम् | तस्य जाग्रे प्रलीयन्ते सर्वे भावासु गुप्तवत् || पर्याप्तं तस्य विज्ञानं तृपदं तेन लांघितम् | पूरको ह्यक्षरोज्ञेय सुरेचितमनक्षरम् || कुंभकेन स ज्ञेयं क्षराक्षरपरः शिवः | सर्वं त्यक्त्वा समाधिस्थो अन्तःकरण गोचरः || यस्तत्र विंदते नित्यं योगिभिस्तदुपास्यति | गुरुपदेश सुद्दिष्टं संप्रदायं यथास्थितम् || सवाह्याभ्यन्तरे सैव अनादि शिवमव्ययम् || देव्युवाच || अभावे भावमादाय न मया ज्ञातव्यं हरः | अक्षराक्षरयोरेवं विभागं परमेश्वर || येन विज्ञानमात्रेण मुच्यन्तिरविकल्पनाः | विशन्ति समन्य तस्य शिवतत्वस्य शूलिना || श्रीभैरव || निष्कलेन वरारोहे अक्लेशेनैव सिध्यति | ४१ब्) भिन्नावस्थं तृधा ज्ञात्वा न भूयो जन्ममाप्नुयात् || सृष्टिन्यायेन सिद्ध्यर्थं संहारे मोक्षमेव च | उत्पत्ति प्रलयं ज्ञात्वा सिद्ध्यते ना संशयः || श्रीदेव्युवाच || उत्पत्ति प्रलयं चैव भूतानांमागतिगतिः | एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हसि || श्रीभैरव उवाच || उत्पत्ति प्रलयं चैव एतत् प्रस्तवरं महत् | तत् प्रवक्ष्याम्यहं देवि त्वत्पृयार्थं वरानने || उत्पत्ति प्रयश्चैव विलयं शून्यता स्मृता | उभाभ्यां योगनिष्पत्ति न वद्धः कश्चि वद्ध्यति || अनेनैव तु यो जात ऊर्ध्वे नैवपृलो? भवेत् | रेतत्स्ततमित्याहु सर्वप्राणिषु संस्थितः || धर्मधर्ममहारात्र प्राणापानगतिः पृये | हंसमेतन्महादेवि अक्षरद्वय सोच्चरेत् || वुधे व्यजतेद् यस्तु सभवे तत्वपारगः | ४२अ) मृतके सूतके चैव मुक्तः सर्वमिदं जगत् || मृतं कयो(?) विजानाति सूतकं च स्वदेहतः | न च संज्ञा विना हेयं तस्य मोक्ष कथं भवेत् || भोक्तव्यं सततं देवि त्यक्ते मृतकसूतके | यष्टव्यं सततं देवि त्यक्ते मृतकसूतके || कर्तव्यं नुग्रं देवि त्यक्ते मृतक सूतके | सूतकं देहमध्यस्थं मृतकं च तथा वहि || अपरं देहमध्यस्थं प्रविचा पृथक् पृथक् | उत्पत्ति प्रलयं चैव भूतानामागतागतिः || ज्ञानार्थं तत्वविद्धि स्यात् संभवे तत्व पारगः | अधोशक्तिश्च विज्ञेया देवौ द्वौ तु प्रतिष्ठितं || उभयोर्मध्यतो देवि तेनोसौ मथनः स्मृता | उत्पत्तिप्रलये हंसोष्मन्यता विलये स्थितः || क्षराक्षरं विदित्वैवं प्रविशे तत्वमुत्तमम् | ४२ब्) अक्षरं परमं चान्यं स्वभावैकेन वर्तते || तत्वत्रयविदामुक्तस्तन्मनस्तुलयो भवेत् | एवं प्रविश्य तत्वं तु न च्यवेत कदाचनः || शिवीभूतः शिवः साक्षाविदित्व ज्ञेयमुत्तमम् | मूलाच्छिदो यदा वृक्षदग्धोवानं कुरायते || प्रत्यक्षे कुलभिन्नस्य तद्वत् कर्म निवंधनम् | क्षणे कर्मणि सर्वत्र त्रैंकल्यं संप्रवर्तते || शिवाद्यवनिपर्यन्तमननं सर्ववेदिता | गति दृष्टि परातस्य सिद्धिस्तिष्ठे परेप्सिताम् || कल्पकोटिषु तस्यैव क्षयं देवि न जायते | एतत् सारं मया प्रोक्तं त्वत् प्रीत्या न विचारितः || समस्तभवि विच्छेदं जायते तत्व विंदनात् | लयविलयविवेका भ्रान्तिनिर्नास वुद्धान् || ४३अ) विदित परमशुद्धं धाममेवं दित्वा व्यपगतलयदेहः शुद्धतत्वं प्रवोध | प्रविशति मजमाद्यं तत्ववितन्मनत्वा | कुलगतिविहितार्था भावना भाव्यतस्थास्वतनुरुदितभासां स्वांगतश्वानिवृत्तं विदित सकलतत्वै व्यापकं तत्वमेकम् | तृविध कुलगुणाढ्यं मुच्यते देवि सत्यं | न हि मपर विशिष्टं ज्ञानमन्योरिहास्ति | तरुण भवमहार्थे दुस्तरे घोररूपे | विदित कुलकलाढ्यं कौलिनावाधिरुह्य प्रतिरतिगुवक्त्रा वोधना नात्र चित्रां || इति कुलसारे दशमः पटलः || श्रीभैरव्युवाच || अकुलं च कुलं कौलं त्वयाख्यतं महेश्वर | तत्प्रसादेन मे व्रूहि यथा वेद्मि सुराधिप || भैरव उवाच || ४३ब्) अकुलं प्रथमं देवि सर्वमावृत्तसंस्थितम् | स वाह्याभ्यंतरावस्थं सर्वभूते स्ववस्थितम् || सर्वगं सर्वकर्तारं सर्वव्यापि महेश्वरं | हेयोपादेय रहितं यतत्तत्व मयोव्ययं || अकुलं तत्समाख्यातं कुलं यस्य न विद्यते | कुलं संघातमित्युक्तं यस्य नास्ति महेश्वरि || अयन्न न द्वितीयोस्ति एक एव हि केवलम् | अद्वितीय पतित्वं यं तत्र ज्ञेयोपमं परम् || तथेच्छाया सकुलेति निगद्यते | तत्परं व्यापकं तत्वं सर्वं तस्मिं व्यवस्थितम् | सृष्टोन्यत्तिलयं चैवतिरो भावाति कीर्तितम् || ज्ञानक्रिया च तत्रस्था तस्मा ज्ञेयं कुलंनुतम् | इच्छामात्राजिगीषस्य उत्पन्न स चराचरम् || सर्वाधानमशेषं तु स्थिता साव्यापकारिकां | पुनर्लीन परे तत्वे तद्वर्मित्वे व्यवस्थिताः || ४४अ) तद्वर्मित्वं प्रवक्ष्यामि शृणुष्वायत लोचने | शिवाद्यनि पर्यन्तं व्यापितं च मशेषकम् || सर्वव्यापीति सा ज्ञेया ईर्शत्वा च महेश्वरी | अरूपा वर्णरहिता अलक्ष्म्या ह्यमृतात्मभिः || स्वात्मोपलद्धि गम्यासादुर्गमाचान्यथा हि सा | पद्मसूत्र निभा सा तु ऊर्णातं तु निभा तथा || सर्वावस्था तु सूत्रेव सूक्ष्मत्वा च महेश्वरि | सर्वाध्वान्ते परे लीना ऊर्णां तत्वेव सुंदरि || सर्वोपाधिलयाद्गौरि स्फटिकोपलवद्यथा | सुधोतांवर वत्सा तु सर्वभावप्रदर्शिकाः || आत्मवोधे स्थिता देवि चिन्मात्रा परमेश्वरी | चिन्मात्रा चिन्नमात्रे तु तत्रोत्पन्ना पुनलयम् || मंत्री अप्रति वुधा च सर्ववाङ्मय व्यापिनी | ४४ब्) परतत्व कृताधारा सर्पिरेव पयोनगः || ज्ञानाख्या व्यापधर्मिण्य ज्ञानाख्य प्रतिपत्तिदा | तत्वस्था तत्व देवेशि नानाभाव गता तु सा || यदस्ति किंचिज्जगति सर्वं तत्कुलसंभवम् | कला सप्तादशी प्रोक्ता सा एवं तु न संशयः || तया चाप्यायितो सोमजगदाप्यायकारकः | सकलो निष्कलो भूत्वा शिवे लीनायशस्विनी || कलत्वं द्विधा जातं सोमसूर्यात्मकं पृये | कला षोडशकोपेतं चतुष्कल सगोलकम् || पुटद्वयसमायुक्तं अधोमुखविलंविनम् | कलाद्वादशसंयुक्तं सूर्यस्तस्योर्द्ध संस्थितं || ग्राहकस्तु स्थितस्तेषां युगपद्ग्रसते नघ | प्रतिक्षण विभागेन ग्रहणं विषुवं तथा || उत्पद्यंति महादेवि लक्षविज्ञेयसंयुता | ४५अ) कुलकौलमिदं सुभ्रु कलनं तत्प्रकीर्तितम् || अहर्निश विभागेन कलनं सर्वदेहिनां | कुलकौलविदो देवि अकुलं प्राप्नुया नरः || मुच्यते नात्र संदेहो तत्ववितत्परः स्थितः | एत चतुष्टयं प्रोक्तं रत्नभूतं यशस्विनि || शेषेका च स्वरू * * * * देवि अशेषतः | किमन्यं योगिनां योगिचित्तव्याकुलकारकैः || न मोक्षाय न सिद्ध्यर्थं अजग्रीवशनैरिव | तस्मात् सर्वप्रयत्नेन कुलकौलं समाश्रयेत् || अकुलावाप्ति हेत्वर्थे नान्यथानु कदाचनं | लभ्याते परमं तत्वं कुलस्या यतनं महत् || दुर्लभं सर्वयोगीनां नुः प्राप्यमकृतात्मनाम् | न कुलेन विना ज्ञेयं न ज्ञानं योगमेव च || न सिद्धि साधनं चैव न मंत्रोद्द्धारमेव च | ४५ब्) न च स्वरूपलक्षं तु नोपलाधध्वेर्महेश्वरि || तस्मात् सर्वप्रयत्नेन कौलमेवं समाश्रयेत् | भोगमोक्ष प्रसिद्ध्यर्थ सिद्धिसंदोहदायकम् || सद्यः प्रत्यय कृज्ज्ञानं महाश्वर्य प्रदायकम् | एवं वैध समासाद्य ज्ञानं परमदुर्लभं || गुरुवक्त्राद्विनिष्क्रान्तं अमृतोघं शिवप्रदम् | ये त्यजंति परास्वाद्य शक्तिपाताव वोधिताः || निंदयंति परं ज्ञानं यत्सुरैरपि दुर्लभम् | ते यांति नरकां घोरां यावदा भूमि संप्लवः || दीक्षितस्य न सिध्यंति अन्यतंत्रांतरेषु च | जायंति हीनयोनीषु तत्पातन्मोह संयुताः || भूयाद्भूयश्च पश्यंति नरकेषु न निःकृतिः | युगमन्वंतरां संख्यां तावत् तेषां च तत्फलम् || कौलिकं तु चरुं प्राप्य विनयं यदि भुंजति | ४६अ) हिंसंति तस्य भूतानि स्रियः भ्रंश प्रजायते || प्रसादादुष्टवुद्ध्या तु ज्ञानं जिज्ञासनाय च | कपटा भक्ति विस्तार्य गुर्वर्थ चल भेष्यति || तस्य श्रोतांतर प्राप्तं हरंति कुलजा प्रिये | तद् देशेन तु देवेशि पातयंति न नराधमाः || भक्षते घोरघोराभिघोरतर्येन संशयः | योग प्रारब्धघटनां विघटत्य विचारितम् || यदा विकल्पमापन्न गुरुणोक्तेपि वस्तुनि | ज्ञाने वा प्रतिपूज्या वैसनासमपि गच्छति || यथा मृत्कुंभ सलिलं सीर्यते दाह्यवर्जिते | एवं प्रारब्ध योगा तु शिथिलत्वाद्विनश्यति || निर्विकल्पविशंकी च गुरुभक्ति परायणः | ज्ञानैक निष्टोमतिमाम् स्थिरधीविगतालसः || ४६ब्) स सिद्धि मोक्षो लभते सिद्धि शिष्योत्र वर्त्मना | इति कुलसारे एकादशमः पटलः || श्रीदेव्युवाच || शत्रे मलं सुरेशान सर्वाधार जगत्पते | त्वत् प्रसादा श्रुतं ज्ञानं ज्ञेयं च विमलं पदम् || दुर्लभं सर्वयोगीनां तन्मया चावधारितम् | अद्य मे देवदेवेश तृप्तिजाता महेश्वर || स्थिताहं देवदेवेश यत्वया मे कृता दया | अधुना श्रोतुमिच्छामि संचारं देवतात्मकम् || कथं देहस्थिता तास्तु वं? भवंति सुरेश्वर | योगिभि कथं ते?भ्य रक्षणीयं स्वदेहकम् || एतत् संक्षेप त्र्ये? सर्वं वद मे कामसूदन || श्रीभैरव उवाच || अतिगुह्यमिदं देवि कौलिकं ज्ञानमं * * | गोपनीयं प्रयत्नेन त्वत्प्रीत्या प्रवदाम्यहम् || ४७अ) शृणुष्वावहितो भद्रे महत्तं लोमहर्षनं | सिद्धविद्यास्तुताः सर्वाश्चक्रे चक्रे स्वकेस्वके || क्रीडन्ति भुवनैर्दिव्यै हरिब्रह्मेंद्रयोरपि | तदाज्ञा च विधायिन्य मत्पुरे संस्थितास्तुता || पंचमं तुलगा लक्ष्य स्वदेहेस्था यथास्थिताः | कथयामि समासेन गतिस्तेषांमनिंदिते || गुदे लिंगे नखाग्रेषु पादयो वीरवंदिते | प्रविश्य पार्थिवं तत्वं भूचर्यां स समुद्भवाः || द्वरंनिरक्तमेदं च शुक्रां मांसं न संशयः | तत् क्रामयंति तत्रस्थास्तस्था नव? भवन्ति ताः || नाभिरंध्र समासाद्य यावत् कंठ्यन्त गोरम् | गोचर्यां ससमुद्भूता कर्षयंति न संशयः || तत्क्रमायन्निदेहस्था स्वस्थान प्रभवंतितोः | ४७ब्) तृतीयं वक्त्ररंध्रं तु नामासाद्य सुरेश्वरि || दिगाख्या स समुद्भूता कर्षयंति न संशयः | मूर्ध्नमासाद्य सुभगे खेचरीगणसंभवाः || तत्स्थामाकर्षयंते तां मानयंति हरन्ति च | वामेश्वर्यांगसंभूता योगिन्यो वलदर्पिताः || मारयंति क्षणातस्तु यस्य क्रुद्धा महेश्वरि | एवं पंचविधं चारं तवोक्तं वीरवंदिते || ताभिव्याप्रमशेषं तु पंचभूतात्मकं चुतम् | चरंति सर्वरंध्रेषु नाडिभिश्च वरानने || व्योमकूपादिभिः सर्वैः प्रवेशे तेषु सुंदरि | स्वचक्र परिवारास्ताः कथयामि समासतः || डाव्याडामरिकाश्चंडा पार्थिवं तत्वमाश्रिताः | धाभिराकर्षितः स्यैवशत्प्रचिह्नं वदाम्यहम् || वस्ति शूलं गुदेरोधं अत्रन्यन्निर्भगंदर | अर्वाश्चैवप्यती सारं जायते मनुजस्य तु || ४८अ) एवं ज्ञात्वा तु योगींद्रो कुर्या तत्र प्रतिक्रिया | व्यंजिनी शाकिनी चैव गोचरी गणमासृताः || ताभिराकर्ष तस्यैव भवते लक्षणं तनो | शूलं काशं भवे तस्य भ्रमस्वासं वरानने || वातावर्तमथोर्दीचं महासंदोहनं तथा | एवं विज्ञानचिह्नैस्तु कुर्यात् तत्र स्तुतिक्रिया || वक्त्र शूलं च सुभगे चक्षुश्रावं तथैव च | दन्तकर्णगतां पीडां सर्वरंध्रेषु जायते || क्षुद्र शाकिनि स्पर्शस्तु दिनान्यै गणमासृतम् | ताभिराकर्षितस्यैव इदं भवति लक्षणम् || एवं विज्ञान देवेशि तस्य कुर्यात् प्रतिक्रिया | मूशिकार्दिसमूहं तु खेचरीगणमासृतम् || नाभिराकर्षितस्यैव इदं भवति लक्षणम् | शि?रशूलं भवेत् तस्य कमलालूतमेव च || ४८ब्) एभिर्नामैस्तु विज्ञेय तुर्यात् तेषु प्रतिक्रिया | दिव्यं गणं तु परमं रक्तास्तां कर्षणे रता || विविधा ज्ञातु समासाद्य तद्रोहात् संहरंति च | एवं पंचविधस्यैव लक्षणं कथितं तव || यथा हरंति तं जीवं तच्छृणुष्व यथाक्रमम् | स्वस्थात् पीडनां कृत्वा वाह्यस्थं देवतागणं || देहस्था पंचभिश्चक्रे जीवं गृह्य त्यजंति तं | नाभित्य क्रोर जीवेत इत्याज्ञा पारमेश्वरी || देव्युवाच || भंगवंद्ये? त्वया ख्यातं महान्तं भयदायकम् | देहस्थं देवतावृदं तस्मिं जीवो व्यवस्थितः || स्ताहरंति कथं रक्षा वद मे कामसूदन | यदा संरक्षितो योगी नाभिभूयन्ति भूतले || श्रीभैरव उवाच || शृणु देवि यथा पृष्ठं कथयामि तवाखिलं | गुरुदेवाग्नि भक्तान्ता योगाभ्यासरतात्मनाम् || ४९अ) समयाचारसंस्थानां पालयंति सुराधिपे | सत्यचौचर तस्यैव लौल्यादिरहितस्य च || निर्विकल्पस्य वीरस्य पुत्रवत् पालयंति ताः | हिंसापैशून्य रहिते सदा निदार्विवर्जिते || सर्वभूतदयायुक्ते पालयंति च सुंदरि | कुलाचारपरिभ्रष्टादमू मायासमन्वितोः || निंदका दुष्टसत्वाश्च समयाचारपालकाः | हीनसत्वा विवेकज्ञा कुबोधपरिबोधिता || गर्विता मंदभक्ताश्च लौल्यालस्य नराधमाः | तेषां शिवाज्ञाया शुभ्रु निर्दहंति मरीचयः || मारयंति न संदेहो घोराज्ञा वीरवंदिते | मृत्युंजयविधानेन अस्त्रैव परिरक्षितः || न मृत्युर्भयमाप्नोति शृणु तस्यापि निष्कृति | ४९ब्) हानिशोकप्रमादश्च उद्वेगो भ्रंशमेव च || तस्य जायन्ति सुश्रोणि नास्त्यस्य परिरक्षणम् | या सा पूर्वं मया ख्याता क्रियाशक्तिर्महावला || शतार्धवर्णगा मूर्ति सदाशिवहने ध्वनि | आपादावस्तुमूर्धान्त ज्वलज्वालनसंन्निभा || ध्यात्वा मूर्ध्व पुनर्भद्रे तुहिणोघसमप्रभा | पूरयन्ति स्वकं स्थानं महदाप्येयकारिका || तृसंध्याध्यानयोगेन रक्षैषा कथिता मया | नित्यध्यानयुतोप्येवं अमरत्वमवाप्नुयात् || निशाचार्या महाविद्या सर्वविद्याग्रनायिका | दशानसा महादेवि एकार्थे दशधा कृता || पार्थिवेन विरुद्धा तु रक्षिते पंचधा ध्वरम् | केवलोच्चारमात्रेण स्वस्थाने याति नल्लयम् || गसपमनगता पार्थिव रुद्धा क्रमेण पंचैते | ५०अ) पृथिवीसलिलहुताशननभोमंडलेषु सुश्रोणि | ज्वलदनलकलाढ्यं प्रस्फुरंती समन्ता | द्विधृतम् परभासा स्फारमापूर्यतस्थः नभविमलसनात्ताद् भूयमापूर्य तेषु च | कृतपदधिपूर्वै सा मृतोघेन सर्वं सुतनु तनु विनिष्यां व्यायते वत्सरार्धं व्यपगत पशुभावालंवनान्येकचित्तः विगतभयमशोकं तत्ववित्तत्प्रसादा | विशति विजित मृत्युः शुद्धमध्वक्रमेण | भवभवन महान्ते मध्यगां दीपमानात् | परिगतपदमार्गो नंतरं वाथ गौरि | मपगतपरिभावा ध्यानमार्गे व्यतीतः | स्वपदपरिसमाप्त्या सिद्ध्यते नात्र चित्रं || स्वदैहं रक्षमानस्तु सिद्ध्यते साधकोत्तमः | एवं महात्म्यमतुलं विद्यायाः पारमेश्वरि || ५०ब्) आलेख्या चाति गोप्या च यदिच्छेच्चिरजीवितुम् | सर्वतत्वपदातीता सर्वन्नि?द्याग्रनायिकाः || दीप्तिदीपकवर्ज्या सा कुलकौलासने स्थिता | सा परापररूपेण परतत्वे लयंगता || भोगमोक्षप्रदा देवि सर्ववंधविमोचनी | अस्वमेधसहस्राणि तथा ब्रह्मविनाशनम् || सकृज्जिह्वाग्रललिता नाशयेदपवर्गदा | अथानेन विधानेन शृणु रक्षा महातपे || कुलान्ते कौलमध्ये च स्थिताये जित्य वाजिनम् | न तेषां देवतावृन्दं न मृत्यु प्रभविष्यति || परिभावगतानां तु व्यक्तिर्नैवोपलभ्यते | तस्मान्न वाधकस्तेषान्नित्य श्रेयसि संस्थिता || स्वतत्वानि मरीचीनां तेजसो पूर्य भैरवि | परभाननयाभाव्य यस्मिं तत्वेद्रुपद्रवम् || ५१अ) स्वस्थतां यात्यसंदेहं विधानानेन भामिनि | अथान्यं संप्रवक्ष्यामि परं कौलूहलं प्रिये || येन विज्ञातमात्रेण योगेंद्रो नाभिभूयते | तदर्थं संप्रवक्ष्यामि त्वत्प्रीत्या चारुलोचने || चरशक्त्यादिमारभ्य वज्राधारान् महेश्वरि | ज्वालाकलापमुत्वाप्य तत्वं तं संपुटं कुरु || ऊर्ध्वा शिखा प्रभेदेन ताप्यतं यद्रुपद्रवम् | वाह्यं मंत्रेण वाद्यंद्यं वज्रध्यानेन संयुतम् || प्रथमेन तु तत् सर्वं कृतं वज्रमयं भवेत् | स्वध्यानमंडलांतस्थं तन्मयं वज्रवद् भवेत् || पंचमं सर्वतो ध्यात्वा विभुत्वमुप पादयेत् | पूर्वं चासनविन्यासं योगी कृत्वा नियोजयेत् || पंचमंडलविन्यासं आसनं शृणु तत्वतः | क्षीरांध्वि मध्यकल्लोलवलत्कमलपांडुरम् || ५१ब्) शशांक कर्णिकोपेतं नभाद्येन विभाद्येन विभावयेत् | प्रसरं तु चतुर्धा वै जाड्यांतेन युता गजाः || चतुर्धा तु स्थिताब्जस्य स्थितादापारतांवराः | तत्राशीनो महायोगी इदं यागवरं पृयेत् || पूजयेत् प्रत्यहं भद्रे अचिराद्वज्र संभवेत् | अव्यःस्त्रिदशैर्देवि जरारुग्भयवर्जितः || स्वच्छंद मृत्युवलवां सर्वयोगिनि संग्गतः | लीयते च महादेवि अन्ने च परमे पदे || इदं रहस्यं परमं त्वत्प्रीत्या संप्रकाशितम् | अब्दभ्यासा तु वीरस्य पंचधा देवतागणम् || पंचरूपविभांगस्थं स्वांशवृत्यानुरंजितम् | तावतन्मय भावेन सिध्यंते नात्रसंशयः || ददन्ति विपुलां भोगां स्वसिद्धि स्वपुरानि च | वीरेन्द्रस्य महाभागे स्वरागारागरंजितां || ५२अ) भैरवस्यैवता स्पर्शा पूजयंति च नित्यशः | अथ भोग विरक्तात्मान कुर्या तेषु चादरं || द्वादशाब्दन्महेशानि पिंडमादाय सो व्रजेत् | सूक्ष्मत्वं च महाभागे नात्र कार्य विचारणाः || अणिमाद्यैस्तु संयुक्त शिवागैश्च समर्चितः | पूर्वोक्तेन महायोगी युक्तो शान्तपदे स्थितः || शिव एषः स्वयं साक्षा विचरेत यथा सुखं | योगसंसाधनाद् देवि पिंडमादाय मोक्षभाक् || क्रमशः सूक्ष्मतां याति विधिनानेन भैरवि | कल्पकोटिशतानेकं नानाभोगसमन्वितं || लीयते परमे तत्वे स्वेच्छया वीरवंदिते | एवं ते उत्तमां रक्षां प्रोक्ता चात्र्यत्र भक्तितः || त्वयाराधि वा पूर्वं तेन तेनैव गोपितम् | ५२ब्) अथान्यं रक्षणार्थाय संक्षिप्तः कथयामिते || योगी जाप्य विहीनस्य आत्मन स्वपरक्ष्य वा | लेख्यमात्रा तु यत् तेन शृणु विद्यापरांश नभाद्यासनमासीनं साद्येशाद्यं तु पार्थिवे | सकलं? गालकोपेतं साब्धतन्मध्यसंस्थितम् | पुटितं नेत्रराजेन अर्धेन्दुपरिवेष्टितम् || अष्टा अदिष्ट सुभगे नेत्रराजेन रक्षिता | कलाषोडशकोपेतं इंदु संपुट वेष्टितं || दलषोडशकोपेतं तद्वाह्ये विन्यसेत् पृये || दलस्ये कर्णिकान्तेस्य नेत्रराजपुटीकृतम् | * * * मातृचक्रं तु नेत्रातांतावभासितम् || विंदुनादं क्रमेणैव उच्चारं वर्णकः क्रमात् | तृगुणेन कुसूत्रेण वेष्ट्ययापेनि निवेशयेत् || घटरक्षा मया प्रोक्ता सर्वरक्षाकरां परा | ५३अ) केन केन तु लोहेन धातुना वा वरानने || वेष्टितं धारये नित्यं सदा रक्षति सोभने | एतद्रक्षा महारक्षा सर्वोपद्रवनाशनी || इति कुलेसारे द्वादशमः पटलः || श्रीदेव्युवाच || पूर्वं देव त्वया प्रोक्तं स्नानं मृत्युंजयं परम् | अस्त्रैश्च रक्षणं देव तन्मया चक्षु भैरव || श्रीभैरव उवाच || शृणु देवि प्रवक्ष्यामि रहस्यं परमाद्भुतम् | येन विज्ञात मात्रेण सर्वदोषैर्विमुच्यते || वीराभिषे परमं मृत्युंजयमिदं परम् | दारिद्रदमनं देवि महाव्याधिविनाशनम् || महापातकनाशं तु सर्वोपद्रवनाशनं | सुखदं साधकेंद्राणां भोगमोक्षप्रदायकम् || ५३ब्) वक्ष्ये हं भैरवमंत्रं सर्वयोगिनिपूजितम् | येन संस्मृतमात्रेण मुच्यते घोरसंचयान् || महावीरविधानं च गोपितं सर्वतो मया | त्वत्प्रीत्यामविचारेण कथ्यमानो धुना शृणु || एकान्ते विजने रम्ये दुष्टसत्वविवर्जिते | सुलिप्ते च सुगुप्ते च पुष्पप्रकरभूषिते || धूपामोदसुगंधाद्ध्येन्मातृकां प्रस्तरे ततः | पूज्यसर्वोपचारैश्च यथावस्थं वरानने || ततोच्चार्यं महामंत्रं भैरवं योगिपूजितम् | सर्वमातृसमूहस्य प्रोक्तं तं हृदयं परम् || नवसंख्यं वीजवरं अनस्थं गोलकद्विसप्तते | मातृव्यूहाद् गदितं मंत्रवरं शान्तिदं परं सुतनु || चतुराद्यामध्यस्थं मंत्रवरं शशिकलासशिना | ५४अ) मातृव्यूहांतगतं मंत्रेशं एकपादशितवर्णं || शसिरविनिलोद्भासैर्नयनैयुक्ते तथोर्ध्ववाह्वेकम् | तृसुवनसकलमशेषं व्याप्तं नादेन नदमानम् | एवं वर्णविधिज्ञस्य व्यानं वक्ष्यामि सुंदरि | दशार्धवदनोपेतं कलानयन सुज्वलम् || दशवाहुमहात्मानं खड्गखेटकधारिणम् | कपालखट्वांगधरं शरधनुसमन्वितम् || * * * * * * * * वीजपूराख्य सूत्रकम् | हिमकुंदेदुवर्णाभं सर्वावरणभूषितम् || जटाजूटधरं देवं नागयज्ञोपवीतिनम् | मंत्र सिंहासनारूढं शवस्थं वीरनायकम् || गर्जनं भीषणं नादं सर्वकारणभाविनम् | ५४ब्) मंत्रेशमंत्र राजानं सर्वमातृगणालयम् || अस्य देहा समुद्भूता योगिन्यो योगमातरा | मंत्राश्चलयी भूता किं कुर्वाणव्यवस्थिताः || मंत्रराजवरं देवि सर्वमंत्रोत्तमोत्तमम् | विधानं चास्य वक्ष्यामि यथावदनुपूर्वशः || पूर्वोक्ते यागवेश्मे तु सुलिप्ते कुसुमान्विते | तत्र यागविधिं कुर्याद् वीरो वीरेश्वरस्य तु || द्विधावस्थे तु देवेशि इच्छयो साधकोत्तमः | संशिवैव निरंशं वा विधानं वीरवंदिते || शौचं तावत् प्रवक्ष्यामि मंत्र योगात्मकी क्रिया | पूर्वाधिवासिते शिष्ये मंडलं तु समालयेत् || चतुरस्रं चतुर्धारं सुसमं समभाजितम् | अष्टपत्रं महापद्मं कर्णिका समभाजितम् || ५५अ) अष्टपत्रं महापद्मं कर्णिका केसरान्वितम् | तद्विधा वाह्यतो तस्य तं द्विधानस्य वाह्यतः || एवं निष्पाद्यमतिमां पूजयेत् तत्र मंत्रराट् | स्वाद्यानोचार योगेन कर्णिकस्य तु भैरव || भरितं तेन चा शैषं अकल्पनकलादिकम् | तस्य मंत्र तनुस्थस्य विधामिदमुत्तमम् || कथ्यमानं सुरेशानि शृणुष्वेकमनाभव | परस्यामित तेजस्य तच्छक्ति समवायुगा || इच्छामात्रा व्रतस्यैव व्यापकालिखिले ध्वनि | सपरापरभावस्था तद्धर्मित्वे व्यवस्थिता || न तया रहितोन्यास्ति यत् किंचि जगति स्थितिं | द्रूतकर्मगुणैर्भावै स एव परिसंस्थिता || एकानेकत्व रूपेण कृष्टि कृत्वा लयंगताः | मंत्रमातातरमाता सा जनिता भैरवः परः || ५५ब्) जनिता जननी द्वैतु संयोगात् सिद्धिदायकौ | योगमात्रा च विन्यासं तस्मात् संयोगमिष्यति || तस्योत्सगे? परा मूर्तिमंत्रेणानेन भैरव | न्यस्तव्या वीरभावेन मंत्रं च शृणु तत्वतः || विशद्वयं रेफयुतं नित्यासन स गोलकम् | एष मंत्रो महादेवि सर्वदेवनमस्कृतम् || पूज्यते सिद्धसंघैश्च योगिन्यो वलदपीते | तस्य प्रसादात् सर्वास्तु विचरंति यथासुखम् || नानाभोगविलासैश्च भुवस्वेव निलेषु च | ध्यात्वा रूपरंतस्यात् परमामृतसंभवम् || चंद्रकोटिसमप्रख्या शुद्धास्मसदृशा त्विषां | चंद्रमंडलमध्यस्था एकवक्त्रं तृलोचनम् || जटामुकुटसंयुक्तं चतुर्वाह्वोपशोभिशोभितं | ५६अ) तृशूलस्फटिकाक्षाणां मालिकाव्यग्रहस्तिकान् || सितांवुजमृतः पूर्णं कुंभं चैव करे स्थितम् | सितवस्त्रपरिधानां सर्वाभरणभूषिताम् || सितस्रग्दामसंयुक्तां मौक्तिकाभरणान्वितान् | रूपातिसयसंयुक्तां सौम्यां प्रहसिताननाम् || श्रवंती चामृतं देवि महादाप्यायकारकम् | ऊर्ध्ववाहु महावीजं स्वपद्वादशभेदितम् || तताद्यागविभागेन वक्त्रानंगानि भैरवि | अष्टपत्रे च विन्यस्य क्रमेण सुरपूजिते || तद्वा तु कलाचक्रं पुष्पाद्यैस्तु सुरैन्यसेत् | मातृव्यूहमतो देवि कशान्तं वाह्यतो न्यसेत् || द्विसप्तगोलकोपेता एकवक्त्रा त्रिलोचना | शूलाक्षसूत्रधारिण्यां रक्षार्थं प * रितः स्थिताः | ५६ब्) वरदाभयहस्तास्ता शिताश्चैव शितांवराः | असौम्यासौम्यवदना सर्वाभरणभूषिता || चंद्ररश्मिप्रतीकाशानेकवक्त्रा त्रिलोचनां | मौक्तिका भरणोपेता वहुवाह्वोपशोभिता || अक्षसूत्रकरव्यग्रा चंद्रामृतघटान्विता | वरदाघतहस्वाश्च चंद्रवच्चंद्रमंडले || कलाचक्रं महेशानि अमृतोर्मि इवस्थितम् | एवं संपूज्य विधिना गुरु पूर्वमनु क्रमात् || गणेशं क्षेत्रपालं च पुष्पैर्गंधैर्मनोरमैः | सितं चंदकर्पूर दद्यास्तेवं विलेपनं || पुष्पान्ये वशिता देया सुगंधा वाथ सुंदरि | दधिक्षीरादि नैवेद्यं पायसं खंडसंयुतम् || खाद्यकाश्च महेशानि शुक्लानि विनिवेदयेत् | इंद्रवर्णे समायुक्तं धूपं दद्यान् महेश्वरि || ५७अ) मांसाद्याश्च सवानेका सुगंधा सवानि च | दापयेद्भक्तितो वीर वीरेशस्य वरानने || शोभा तु मंडलस्यैव वित्तशाठ्य विवर्जिते | कुर्यात् पूर्वोदितां देवि नानाकारां सुरेश्वरि || सौवर्णं रजतं वापि ताम्रमृन्मयमेव वा | यथा लाभान् महाकुंभं चंदनेनानु लेपितम् || सितवस्त्रयुगर्छन्नं रत्नादिसमलंकृतम् | चूतपल्लवसंयुक्तं सहिरण्यं सपंकजम् || सर्वौषधिसमोपेतं सर्वधा तु समन्वितम् | सर्ववीजसमायुक्तं सर्वमंत्राभिमंत्रितम् || पूर्वन्यस्त महाभागे अधिवासे सुपूजिता | तन्मध्ये तु सुरेशानं भूयो देवि यथाक्रमम् || मंडलत्रयसंयुक्तं सध्यानं सासनं पृये | मनसा ध्यानयोगेन गंधधूपैः पूजयेत् || ५७ब्) वर्धन्यास्त्रेण संयुक्तं भैरवास्त्रं सहं कृतं | न्यस्त पूर्वविधानेन स्वध्यानोश्चारसंयुतम् || ज्वलज्वलनसंकाशं घोरं दंष्ट्राकरालिनम् | ऊर्ध्वकेशं त्रिनेत्रं च सर्वायुधविहस्तकम् || अनेकदाणि पादं च कल्पान्ताग्निरिवोत्थितम् | संवर्तघोषगर्जंतं त्रैलोक्यव्यापिनं परम् || रक्तवर्णं महादेवि तेन ध्यानैकतत्परम् | कृतांजलि पुटं रौद्रं वीक्षुमानं विभौमुखम् || एवंविध महास्त्रं तु धरण्यां पूजयेच्छुभाम् | ततो शिष्ये महाहूय प्रोक्ष्य पूज्य क्रमेण तु || पुष्पां दद्यामहीशस्य वीरांज्ञा देविनान्यथा | पूर्ववच्च कृते कुंडे जनितै चानले शुभे || होमयेत्वसुतं देवि सृष्टिसंहारतः क्रमात् | पंचमंडलविन्यासं दीपयेच्छक्तितेजसाः || ५८अ) पंचमंत्रसमायुक्तं भैरवास्त्रेणसंयुतम् | विरूपानिकृंतां चैव मलिनामलिनांवरा || क्रोशंती प्रपलायंती अस्त्रेणांवथिता पृये | शूलेन ताडितां तांतु असिनाच्छेदितां तथा || अंकुशेन तु माकृष्णां वद्धापाशेन कंठतः | मुद्धरेनोत्तमांगा तु हता विह्वलतांगतः || छिन्ना परशुना भद्रे त्रासनं च विभेदिता | शरैश्च ज्वलमानैश्च असंख्याता सहस्रशः || सेदितां छिन्नदेहांश्च यंत्रस्थांश्च महेश्वरि | त्वचास्थिमज्जसंस्था वा दशनाधरसंस्थिताम् || नेत्रश्रोत्रगतां वाथ घ्राणस्ता युगतां पृये | करे वाहुभि ग्रीवां वा ललाटे मूर्ध्नितोदरे || नाभ्यां गुह्य अपानैवा ऊरुसंधिगतापि वा | जानुजंघानखौ पादैर्गुल्फै संधीषु सर्वतः || ५८ब्) पार्थिवे पार्थिवैर्भावै अपतत्वे तदुद् भवेत् | तेजौ तु तन्मयैच्छेद्य वायवो वायवात्मकेन च || नाभसे च तथा देवि पंचतत्वै विशोधयेत् | महादस्त्र प्रभावेन शक्त्यंते याव भैरवि || शक्ति तत्वगते लक्षे चिन्मात्रं तत्र संस्थितम् | तया शोध्यसमुच्चार्य परे संधानगोचरम् || एवं हुत्वा क्रमेणैव पंचतत्वानि भैरवि | शास्त्रेण मंत्रराजेन पंचपूर्णाहुती हुनेत् || शक्ति तत्वे महेशानि केवलेन नियोजनं | एवं विशोध्य तत्वानि अलक्ष्मी च्छेदनं भवेत् || सृष्टिन्यायं प्रयोगेन पूरयं ममृतोघसा | तत्वे तत्वे क्रमाद् देवि पूर्ववत् कर्ममुत्तमम् || वज्र त्वात् यतनं मंत्रैः पंचभिश्चानु पूर्वशः | घृतं क्षीरं मधुर्देवि तिलतंडुलमिश्रितैः || ५९अ) होमयेत् पूर्वसंख्या तु पंचपूर्णाहुनेत् क्रमात् | शक्त्या स्वच्छं या सुभ्रु तत्वे चाप्यायनं भवेत् || घनौघप्लावितं सर्व शिवाद्यवनिगोचरं | एवं निष्पाद्यमतिमां स्नात्वा सम्यशिसोः सहः || परयाच्छक्तिसंधाय लक्षध्यानं समारभेत् | सुसौम्यां सौम्यवदनां सर्वाभरणभूषिताम् || शिताब्जासनमासीनां सितवर्णां सुरूपिणीम् | सर्वाभरणसंयुक्तां पद्महस्तां घटान्विताम् || महादमृतसंपूर्णां करत्वाक्ते तु सौदये | अक्षसूत्रकरे तस्य वरदोद्यतपाणिनी || असीमष्टाद्य वह्निस्थं चतुर्थं तसि विंदुकम् | लक्ष्मीनामसमायुक्तं मंत्रमेतन्मनुत्तमम् || ध्यात्वा प्रविशते तस्य सप्ताहं तृसंध्यये | ५९ब्) सप्ताहे तु ततः पूर्णे कुर्यादस्याभिषेचनं || अष्टाधिके सहस्रं तु वीरोसन्नाभि मंत्रिणम् | अस्त्रेण वर्धते देविमेकचित्तसमाहितः || भैरवे मात्म सहिते कलाभि परिपालिते | व्याने जपेत मंत्रे तु मंत्रं मंत्रेश्वरेश्वरम् || गीतवादित्र निर्घोषैर्वेदध्वनिनिनादिभिः | सामृती करणां ध्यात्वा परानुस्मृत मंत्रराट् || अस्त्रपूर्णोभिषिंचेत परतत्वानु चित्रकः | एषयागो महादेवि भाग्यरोहणमुत्तमम् || नष्ट भाग्या नरादेवि रार्जनोराजमासृता | विनायकैश्च ये ग्रस्ता साधका मंत्र तत्पराः || व्याध्यान्तां दुःखितांदीनां दुर्भगाश्च महेश्वरि | स्वभावादिषु ये त्यक्ता मोहलस्यादिभिर्युता || सर्वोपायंषु संमूढा देवादिभिरुपद्रुताः | सर्वोपार्येषु संमूढा देवताभिरुपद्रुताः || ६०अ) तेषां स्नानाद्भवेद्रक्ष्या न मृत्युर्भयमेव च | राजाविजयमाप्नोति संग्रामे स्नानयोगतः || अलक्ष्मीनस्य देहा महालक्ष्मी प्रवर्तते | नाकाले जायते मृत्यु दुर्भगः सुभगो भवेत् || न वंध्या जायते नारी न मृयंते च वालकाः | न मोहं न विषादं च नालस्यं योग युंजनात् || न विघ्नैश्चाभि भूयेत न च दिव्यैः सुरेश्वरि | जीवते सुचिरंकालं सुखसौख्यमनेकशः || सेव्यते वीर योगीभिः कामदेव इवापरः | अत्यद्दयः(?) प्रकुर्वीत स्नानं मलविनाशनम् || विजित्य मृत्युरोगांश्च कुलशक्तो प्रसिध्यति | नास्त्यत्र संशयं देवि वीरेशस्य प्रभावतः || पूज्यते ध्यायते वाथ जपते मनसा स्मरेत् | ६०ब्) तेपि वीरत्वतां याति अपि दुष्कृतकर्मणः || कुलानु क्रमयोगेन ये जपन्ति कुलस्थिताः | ते सुक्तानात्र संदेहं मंत्रस्यास्य प्रभावतः || रजमंडल कुंडा नित्यज पूर्वविधानतः | वक्त्रांगन्यास रहितं रक्तवस्त्रे परि पृये || पूजितं वीरनाथेशं दीपमालाभिसंयुतम् | कलामातृपरीवारं शक्त्या शोध्याध्वरं क्रमात् || अनुलोम विलोमेन मंत्रैरेभिश्चे मंडलैः | कलशं शक्तिना दत्वा महालक्ष्मी प्रवर्धनम् || कौलियं विधिर्देवि सिद्धाख्यं वीरनायके | द्विधा स्नानमिदं प्रोक्तं मंत्रं सिद्धिक्रमं स्थितम् || अपरीक्ष्येन दातव्यं इत्याज्ञा पारमेश्वरी | श्रीदेव्युवाच || मृत्युंजयविधानं तु अस्त्रेण परिरक्षितं | ६१अ) पृच्छितं तु मया देव उक्तं भाग्यादि रोहणम् || श्रीभैरव उवाच | अलक्ष्मी यस्य देहस्था अस्य विघ्न परंपरा | आलस्यं जटता मोहं स्मृति भ्रंश वरानने || मोहा तस्य भवेत् सुप्ति समयानाम पालनम् | छिद्यते च तदा देवि रुद्रशानि गो व्रजेत् || भक्षते घोरघोराभिघोरतर्येन संशयः | हानिशोक प्रमादस्तु व्याधयो विविधास्तथा || अरतिश्चैव जायंते अलक्ष्म्याधिष्ठितस्य च | तस्मान्नाशे कृते तस्या स्वस्थ श्रेयमवाप्नुयात् || श्रीभैरव्युवाच || लक्ष्मी युक्तान्मदोन्मत्तां मोहमायाति शंकर | सर्वदोषाश्रयः सोहि यस्य लक्ष्मी व्यवस्थितः || श्रीभैरव उवाच || मोहनो यं महादेवि वस्तु चोद्यमिदं कृतं | ६१ब्) तत्प्रवक्ष्यामि संक्षेपाद्भेदास्या वीरवंदिते || स्थिरास्वस्था च कर्तार रवला च चतुर्धिका | चतुर्विधा समाख्याता धन्यंत शृणु तत्वतः || जन्मादो संस्थिता यस्य जन्मं तं याव भैरवि | स्थिरा शान्त विजानीया ना गुणेषु प्रवर्तयेत् || स्वभावे नैव वर्तेत यावज्जीवं न संशयः | पुण्यार्जिना भोगवती रजमाशृत्य वर्तते || योगभ्रात्या न तद्योगं कुवोध परिवोधितः | तमेवासृत्य जन्मात्रा जायते श्रीमहागृहे || यागानुस्मरणान्नस्य स्वेच्छता चित्तमाशृताः | चित्तशुद्ध्या तु वै तस्य स्वेच्छा लक्ष्मी प्रवर्तते || अभावं तस्य जायेत भोगेषु परमेश्वरि | एते भोगानं भोगाश्च भोगेनैश्रसंस्मरन् || एतदा मोक्षमतिमां चित्तं(?) पात्रेषु योजयेत् | ६२अ) ज्ञानं निर्वातकायेषु तत्प्राप्यायात्यसौ परम् || स्वेच्छयाधिष्ठितस्यैव मोक्षमेव न संशयः | कांताकान्तेव रागाव्यतृणा वैश्यवधूरिव || वंधये वहुधा भावै धृतिनो पलभेद्य वा | एभिर्याति स्थिराणे वरक्ष्या वाल्या च ते सदा || नाशये नैव भोगाय न धनै नाप्य वर्गतः | मोहमायासमाच्छाद्य हाहाकष्ट गतागता || नाहं निशि सदा तस्य क्रोशमानस्य याति सा | अपुण्य वहुलत्वाश्चा स्वल्प पुण्यतया वृतम् || तत्कृपा(?) जातमात्राताकात्रावर्त प्रवर्तते | तमादनुत्वमापन्नं लध्वक्ष्मीर्धयाजयेत् || निधनत्वं समापन्नो याति कूष्मांडमंदिरे | चपला स्वल्पपुण्यानां भोगं दत्वा प्रयाति च || न सा संभवते भूय दृष्टादृष्ट्या पिशाचवत् | ६२ब्) वंच्यते छलते नैव पाशभाजत्वतां नयेत् || भाग्यरोहे कृते योगी स्वेच्छा लक्ष्मी प्रवर्तते | भोगमोक्षाय सुष्रोणि नान्यथा विभवाम्यहम् || एष मृत्युंजयोयाग सर्वदेवैन सेविताः | ते परास्तेन संपूर्वाजित्व मृत्युर्महावला || अथास्य मंत्रराजस्य विधानं शृणु तत्वतः | स्वकर्ताधनसंस्थं तु इंद्रगोलकसन्निभम् || तावत् पिवे समाह्लाद्य यावत् सोणितगंधिनं | ध्यानाशक्ते वरारोहे जिनेन्मृत्युर्न संशयः || एष योगो महादेवि सिद्धसंघैर्निषेवितम् | योगिनीनां प्रसादेन ताभिदंतं स्ववक्त्रतः || तेन सिद्धेन सिद्धी हि योगस्यास्य प्रभावतः | इंद्रसंपुटमध्यस्थं मातृभिः परिवारितम् || सामृतं ध्यानमाशृत्या मंत्रराजं करेस्थितम् | ६३अ) तोयांजलित्यिवेत् प्रातत्सोमामृतजलोषधीं || एष मृत्युंजयो योग भवेत् सतत सेवनात् | रसतत्वे स्थितं नार्यध्यातं मंत्रेश्वरः पृयेत् || पवित्रीकृत देहस्था क्षोभयेन्मंदयेत् स्मृरन् | मंत्रेश रस तत्वस्थं यावतद्रसमागतम् || पवित्रं पावनं द्रव्यं सर्वयोगेंद्र सेवितम् | प्राशयेन महायोगी मंत्रेश ध्यानसंयुतम् || तस्य सिद्ध्यन्ति सिद्धानि न विघ्नं तस्य चाधति(?) | मृत्युंजयं परं तस्य भवेत् सतसेवनात् || सेवनास्पर्शनात् पुण्यं प्राशनादनरोपर | सौभाग्यमतुलं तस्य जायते देविने नरौ || सौश्रीकरः कीर्ति भवेत् सर्वजन प्रियः | आयुरारोग्यमेवं च सर्वत्र सुखमेव च || महाप्रयोग राजानं मृत्युना भयकीर्तितं | त्वत्प्रीत्या न विचारेण शृणुमन्यतमं पृये || ६३ब्) शिववारिमनेनैव विधिना कारयेत् सुधीः | अरुणोदयवेलायां काकेरनुदितैः सदाः || मंत्रध्यानसमायुक्तं चुलकं चुलकं तया | पिवेत वीरयोगी तु मुखमुद्धर्तने च || दृढकायो भवेद् वीर हनमृत्युर्जरामयः | सतताशक्र भावस्य नास्त्यत्र प्रविचारणा || तद्वारि समता किंचि विधानं परमेश्वरि | गुणान्येतानि जायन्ते आकृष्टि सिध्यते नघे || रसतत्व गतं मंत्रं चंद्रमंडलसंस्थितम् | नित्यध्यानाज्जिनेन् मृत्यु स्थिरधीर्नात्रसंशयः || तन्मध्यगं महायोगी विचरे च यथेच्छया | संग्रामे तु मुले युद्ध स्मशाने भूतसंकुले || व्यालसिंहगजैव्याघ्रै शत्रुसंकटमध्यतः | न भयं जायते तस्य सर्वत्रैव जयं भवेत् || ६४अ) पात्रे विन्यस्य मेधावी भुंजानो मृतमस्नुते | स्वपेतन्मध्यगो योगी इंदु संपुटवेष्टितः || रसतत्वे स्थितिं कृत्वा नाभि भूयति रूपिकै | मृत्युंजय मवाप्नोति देवि नास्त्यत्र संशयः || मंत्रराजप्रभावेन तन्नास्ति यन्न सिध्यति | अथान्यं मंत्रराजस्य विधानं वक्ष्यते पृये || ग्रामे वा नगरे वाथ न्यसेद्वै रविमंडले | चंद्रमंडलवर्ज्यन्तु मातृमंडलसंयुतम् || तापयंतं समंतातु शिवाद्यवनिगोचरं | तेजसा परमे नैव सूर्यकोटि मयेन च || तन्मध्यमात्मनि स्थित्वा घटिका द्वयमेव च | तिथ्यंते याववीरेंद्रो ध्यानैक गतचेतसः || यावतत्रस्थ देवेशि देवतांशावृहस्थिताः | दात्मनस्तस्य दास्यंति मंत्रराज प्रतापिताः || मेलापं वीरनाथस्य मनेष्टं चापि सुंदरि | ६४ब्) आदेशं वाथ सिद्धिश्च स चरुं नात्र संशयः || तद्गुणा तत्प्रभावं च भावश्चरुक भक्षणम् | हठमेलापकं देवि कथितं तव शोभने || किंतु चोद्यमिदं देवि चरुके विघ्नमुत्तमम् | वक्ष्यामि तव देवेशि येन सिद्ध्यति साधकः || दुर्गंधं कृमिसंपूर्णं अभक्ष्यापेयमेव च | सहदुद्वेक जनकं चित्तसंमोहकारकम् || विरक्तिं तत्र यः कुर्यात् यनिश्च स भक्तितः | इहो युष्मापि देवेशि नरके रतिरिष्यते || तस्माद्विकलमुत्सृज्य जुगुप्सां वीरवंदिते | प्राशयेच्चरुकं देवि देवताभिनिवेदितं || प्राशयेच्च महासत्वो सिध्यते संशित व्रताः | सवीरो वीरतां प्रोक्त योगींद्रो योगपूजितः || सिद्धमंतरमार्गस्था सिद्धेषु समतां व्रजेत् | ६५अ) स्वपिंडे पिंडमध्ये तु मंडला नारितः प्रभुः || तन्मध्यगं पुरं ग्रामं देशं जगदिदं पृये | रक्तधानाद्वशं याति मंत्रस्यास्य प्रभावतः || स्त्रीणां च हृदये वश्यं रात्रौ ध्यानात् सुलोचने | रक्तवर्णैधरात्रं तु पीइतेन तु विरज्यते || स्तंभयेत् तत्र देवेशि तदस्थयुतमंडले | मोहनं हरित ध्यानादुच्चाटं धूम्रयोगतः || मारणं कृष्णवर्णेन मात्रीभिः सहितः प्रभुः | भक्षं संकटकटद्भिन्दन्त पंक्तिभि देवतैः || मृयते सप्तरात्रेण नात्रसंदेह पूर्वकं | अपि ब्रह्म समादेर्व? पतते नात्रसंशयः || विषादि हरणं देवि शृणु मंत्रेषु मूर्तिना | मूर्ध्नि सम्यन्नियोज्यादौ जपेत् सप्त त्रयं वुधः || ध्यानामृतमहौघेन निर्विषो भवति क्षणात् | ६५ब्) वामहस्ते द्विचिन्त्येवं मंत्रसंमंडलान्वितम् || मुष्ट्या संहरते क्षिप्रं विषं स्थावरंजंगमम् | नेत्रयोर्मध्यराजानन्यस्था सम्यक् प्रयोजयेत् || मूर्धादि पादपर्यंतं दृष्ट्यासंहरते विषं | स्वदेहेदेता क्षोभं ज्ञात्वा मंत्रीन्यसेदिमं || मंत्रेशं सर्वदेहस्थं तन्मध्ये स्वयसंस्थितम् | जीवस्थाने पुनर्णस्य स वाह्याभ्यन्तरस्थितम् || एवं रक्ष्यस्वमात्मानं अधोर्ध्वं ध्यानमारभेत् | ज्वलच्चक्र द्वयं भद्रे पंचमंडलगं क्रमात् || तत्रस्थं देवता क्षोभं तत्रावेशयुतं नघे | प्रविशेदात्मनो वाथ परस्येव न संशयः || किंतु क्षौद्रमिदं कामेन(?) कुर्यात् क्रीडनार्थतः | आत्मरक्ता विधिर्मुक्त्वा नान्यथा तु कदाचनः || महावीर विधानं तु संक्षेपात् कथितं मया | ६६अ) भैरव्या शृणु देवेशि सिद्धयः कथयामिते || एकान्ते विजने रम्ये सुप्ते भूगृहेपि वा | तत्र मौनं गृहीत्वा तु देव्या मंत्रमनुस्मरेत् || तस्या न गत चित्तस्तु पिंडमध्ये समासृतः | मनसा जपमानस्तु प्राणजित्तत्परस्थितः(?) || अनेनैव विधानेन जित्व मृत्युर्महावला | जीवते सुचिरंकालं पूर्यते सर्वसिद्धिभिः || प्रथमारंभकाले तु तस्य विघ्नपरंपरा | पश्यते देवतारूपं स्वप्नान्ते चक्षुमीलितः || दृष्टि नष्ट पुनर्देवि पुनः प्रत्ययदर्शनम् | न भयस्तत्र कर्तव्यं स्मरन्मंत्रो व्यवस्थितः || न तस्य जायते दोषं मंत्रैक गतचेतः | पुनः भार्यस्वरूपा यौवना वृताः || ६६ब्) मदनोद्भ्रान्त सलिला विशीर्णा मदलोचना | पीनोन्नतकुचाः सर्वा विस्तीर्णा जघनास्तथा || मुष्टि ग्राह्य सु मध्याश्च सितरंग शिरोरुहा | सुनाशाश्चैव विंवोष्ट्यकरकोमललोलालसा || अशोकदलसादृश्यैकरैः पादैः सुदारुणैः | अष्णिष्टांगुलि गुल्फैश्च निर्गूढैर्मणि वंधकैः || शशि ज्योत्स्नानिभैर्दंतैः दर्पणा प्रतिमेर्णखैः | सर्वाभरणसंयुक्ताः दिव्यमाल्यांवरान्विता || सुतांवूलस्तु लावण्या पेशलालापसंयुताः | अमृत स्पंदिनी वाचा तासामुत्सादकारिणी || मंडूकवर्णवद् देवि मनोयैषां क्षयं गतः | प्रावृष्ट्यलघनोघेन पुनरुत्थापयेति च || पेशलालाप संधानै लंभयंति च साधकं | ६७अ) विकारानैव कुर्वंति मदनोदीपनानि च || पुष्पचाप कृतावस्था दर्शयंति वदन्ति च | मिथ्या तस्य ततस्तुभ्यं नरके गति शास्वती || दग्धा त्वया सहृदयं ताड्य ध्यान समाश्रतम् | रसस्च विविधौर्भोगै सा *? र्चास्या सृसाधकः || पुरेः संसिद्धगंधर्वैर्यक्षैर्नागा सुरेषु च | विद्याधर महौद्यानैत्यजक्लेशनिरर्थकम् || स्त्रीवधाभिरणेकाभि पच्यते नरकेषु च | गायंति चैव नृत्यंति पुरतः साधकस्य तु || मानापहारिणेन्येपि विकाराणि वहूं तथा | यदा न चलते वीरस्तदा सिद्धैसुमागमे || वीरैवीरैश्वरैश्चैव योगिन्यो योगसंस्थितैः | तदा सिद्ध्यत्यनायासातृभिरब्दै दृढव्रता || एवं देव्या विधानं तु संक्षेपात् सिद्धिदायकम् | ६७ब्) मासैके पूज्यतां याति स्वस्थने तु समाश्रयः || द्विमासा नृपतिर्वश्य सामान्यं स परोहितम् | तृभिर्मासै स देसस्तु तदायन्तं स्वभावतः || षण्मासा सिध्यते तस्य पृथ्वी सागर मेखला | सादरं तत्र कर्तव्यं वीरेंद्रेण महात्मना || खेचत्व जिगीशाय पिंडस्य साधनाय च | पिंडं तु साधयेत् पिंडं देव्यामंत्रमनुत्तमम् || रहस्य परमं देवि अतिगुह्यं प्रकाशितम् | अथान्यं मंत्रराजस्य देव्याधरस्य तु || मौनमास्ताय मतिमां पदस्थं ध्यानमाचरेत् | प्राणैकगचित्तस्तु षण्मासात्तस्य सिध्यति || असृज्जीव तथा पिंडं सूधात्वाकर्षणं परम् | प्रवेशं परपुरे चैव रूपादि परिवर्तनम् || अन्यानि यानि कर्माणि कृतादीनि च साधयेत् | ६८अ) विसृज्यनादसंध्यायां तंन्नास्ति यन्न साधयेत् || रेफ हीनं तु तं कृत्वा ताडयेद्वद्गुहांतरे | ग्रंथि भिन्नं शरास्त्रेण फट्कारान्तेन सुंदरि || विमर्द्य प्राणजिन्नं तु वरोर्ह्यकारकर्मणा | सूङ्कारेण सुसूक्ष्मेन रक्तमाकर्षयेद् वहून् || तश्करास्थं चराम्यदि(?) तत्साच्छा? गत क्रमात् | छेदयेद् ग्रंथयेद् देवि विमर्दसंहसाधकः || चरद्वयं वज्रमूलं लोलाधः परिमंडलम् | ग्रंथि पंचकमध्यस्थं पंचैताश्च क्रमेण तु || भेद्य गृह्य सुसंविद्यावनु कृत्यमानयेत् | एवं स्वमानयेद् देवि स देवासुर मानुषान् || संधाय परमे लक्षं भेद्य ग्रंथ्यात्मकं क्रमात् | तद्व्यादि प्रयोगैश्च विशेत् परपुरे तथा || किंचिद्दुद्देशनोद्देविरेव्यासिद्ध्यानुसारिणम् | विधानं कथितं सुभ्रुविस्तरं त्यज संदरि || ६८ब्) अथान्यं संप्रवक्ष्यामि रहस्यं परमं प्रिये | पुस्य लोहमयैर्देवि नलिकां कारयेद् व्रती || नरमेढ्रं तु संगृह्य नेत्रमार्जारकस्य तु | स्रोताजरसमोपेतं सौवीरकसमन्वितम् || तेन तां नलिकां पूर्य पुष्पै कृष्णचतुर्दशी | शवश्य हृदये न्यस्त्वा दिग्धातच्छेषसंस्थितम् || अंजनं नेत्रयो दत्वा पश्यते साधकोत्तमः | जंतुचक्रमिदं सर्वं यह्येज्यं(?) यत्र भुज्यति || यो वह्नि समभा ऊष्ण्याकाकोलूकाथ जंवुकं | श्वानमार्जार राक्षश्च हंसश्चादिरनेकधा || यस्तत्र मानुषोपेतं संभोज्यं तच्च सिद्धिदम् | तस्या सृण्मासमेदश्च त्वचाद्यस्सर्वं सिद्धिदम् || शेषा निरर्थका देवि किमाकृष्ट प्रयोजनम् | नामेव नालिकां गृह्य पुष्पेनाद्दुदकंलरम्(?) | ६९अ) तस्य लिंगेनमापूर्य स्त्रीर्योन्या तु विनिक्षिपेत् | अंजन द्वयसंयुक्तं दग्धा तच्छेषतां पुनः || गृह्य देव्याभिमंतृत्वा लक्षमेकं न संशयः | पश्यते च निधानानि भूसंस्थानि महेश्वरि || रसांश्च विविधांनेकां गृह्यतो सिध्यते प्रिये || इति तव परमार्थ दर्शितं तत्र मेतन् मय विदमतुलाख्ये नागपर्णानमीदृक् | व्यपगत भवभावो भोगमध्वान्तमग्रे स्थितमल ममचिन्त्यो तत्पदे ध्यानेन तु || इति कुलसारे त्रयोदशमः पटलः || श्रीदेव्युवाच || लोकर्मविनिर्मुक्तं गर्हितं सर्वजंतुषु | चिन्तयं मोहजनकं त्वयोक्तं परमेश्वर || द्रव्यादिसंग्रहं यच्च ते द्रव्याश्च जुगुप्सिता | मनसासु विजानीकमश्च वंधकारणम् || ६९ब्) मनामलं मलाद्वर्ध्व मनोशुद्ध्या तु तत्फलम् | वामना मूलभेदेन पतंति नरके हर || कथं तै सिद्ध्यते चात्र योगवित् कुलमासृतः | एतदाख्याहि मे देव मनवत्वव्यपोहनं || श्रीभैरव उवाच || वेदसिद्धान्तशास्त्राणां वौद्धारहंतवादिनां | अद्वयं कथितं तेषां न ते जानंति मोहिता || सौत्रामण्यं सुरापानं पौरुषे ब्राह्मणो वध | क्षत्रियं राजसूये तु विवाहे सो विधिः स्मृतः || अश्वमेध तु चास्वं वै एवमादि पशोर्वधं | उत्क्षेपा स्त्रीप्रमादाय उत्पन्नं यो निजोद्भवं || उद्ग्राह्यं पावनं वुध्वादपूतंगतसम् | कष्टे च मथितं हीनं एकोत्थं रसवर्जितम् || परानंदविनिर्मुक्तं न तं शुद्धि परं स्मृतम् | हुत्वा दत्वा च देवानां पितृणां सुहृदेषु च || ७०अ) हुतशेषं तु भुंजन्ति देवेषु द्विजसत्तमाः | जनत्यारुहणं तेषां गौरिवंनदतां द्विज || एकैकं दुष्करं कर्म महतं रोमहर्षणं | सर्वपापोत्तमं सर्वं विधानं खमसंस्थितम् || अभक्षभक्षणं कृत्वा दपेयात् मानमेव च | अगम्यगमनं चैव कृतं सर्वाभिलासितम् || द्विजेभ्यो वैदिकं धर्मंमखादि परिसंस्थितम् | धर्ममूलं तु तं प्रोक्तं स्व?र्गसोपानमुत्तमम् || महतायाससंप्राप्य स्वर्गं भोगादिकांक्षया | पातयत्येवतरसा एकं ब्रह्मविनाशनम् || एवं वेदेषु सर्वेषु वौद्धद्वा हरतेषु च | अद्वयं कथितं देवि चित्तशुद्धिकरं परम् || न ते जानंति मूढात्मा शक्तिपातविवर्जिता | तत्वशुद्धि स्वसुद्धिश्च ज्ञात्वा तत्परमा द्वयं || अद्वयं येन जानंति पदमद्वितत्तक्षणम् | ७०ब्) कर्माद्वैतरता देवि पतंते वैदिकेवते || अदृष्ट्वानु भवेन्मंत्री कर्माद्वैतं तु लौल्यतः | ये कुर्वंति सुरेशानिस्तेयान्ति नरके ध्रुवम् || जन्मपंकार्ण्णवे घोरे जीर्णे वन्य गजा इव | सीजंति मज्जमनास्ते परतत्वमजानताः || स्वस्मिं दुःखे सुखे चैव जीविते मरणे प्रिये | अपृये कांचने लोष्टे सोमेमेध्ये सुतेरिपे || भार्यायां मातरिगवि ब्राह्मणेष्वं पचेसुनि | जाग्रः स्वप्ने समं भावं वुद्धिर्यस्य निरंतरम् || वासी चंदनयोः कल्प्य समं यस्य व्यवस्थितः | अहं ममेति मिथ्यत्वं निवृत्तिर्यस्य सर्वदा || तस्य गम्यं न गम्येशु तमसुभं नैव पुण्यं न पापम् | भक्षाभक्षं न वायं न च विधिविर्हितं || नित्यनैमित्तिकं चार्मुक्तोसौ सर्ववंधैर्भवतिर्यदि मम पुण्याः कथ्यमानोत्रसारः | ७१अ) एवं भावं समाशृत्य तत्व युक्तस्य कथ्यते | शृणु देवि यथाद्वैतं अद्वैतं परमार्थतः || एवं हि तत्पदं प्रोक्तं निर्वाणं एकवीरजम् | एक एव हितं ज्ञेयं अद्वयं तेन कथ्यते || तत्र भावं सदा कृत्वा द्वितीयंत्यभेरवि | द्वितीयस्त्यतिनो यस्मादद्वैतस्तेन कथ्यते || परमाद्वयसंस्थस्य भावाद्वैतरतस्य च | कर्माद्वैतस्य भावं तु आत्मशुद्धि निर्गद्यते || धर्माधर्ममहोरात्र वंधं तु परमेश्वरि | न ते संश्लेषतांयातांदात्मनस्य कदाचन || स्थित्युत्पत्तिर्लयं ज्ञात्वा विचार्यं परमेश्वरि | गतिं च निकृत्वस्य(?) मलाभावत्वंतानघे || तत्र द्रव्य विभागं च शृणुष्वायत लोचने | शिवस्य परिपूर्णस्य परस्यामित तेजसः || ७१ब्) तस्येच्छानु स्मृता शक्ति तद्धर्मगुणसंयुता | तत्रोत्पन्ना महामंत्रार्मंत्रैः सादाशिवी तनुं || भूतपंचकमाशृत्य पंतै कारणास्थिता | एकवीजप्रसूतं हि सर्धं जगदिदं पृये || तस्माज्जाति विचारं तु भ्रान्ति पूर्वमिदं कृतम् | वीजोपालन निर्लक्षि * भिविभक्ति सद्व्योमात् || एकं न द्वये विदिते परर्थः सर्वतां समता | तान्यवीजोस्ति देवेशि येन भेदमिदं कृतम् || गजत्व भोगवोंधेन वासने यमलोमयी | एकवीजप्रसूतस्य द्वितीयं लभ्यते कुतः || द्वयं वर्ज्या महाभागे समत्वा भावयेज्जगत् | द्रव्यसंस्था क्षितिर्देवि सत्याधिष्ठ तवानघे || ब्रह्मा तत्रा तत्राधिपस्तत्र घनं द्रव्यं तु तन्मयम् | भक्षाभक्षेषु सर्वे हि सत्वं सद्येन भैरवि || ७२अ) पविपावनं सर्वं द्वयं चात्र न विद्यते | अपतत्व नामं तु विष्णुस्तत्राधिपं स्मृतम् || द्रवद्रव्यगुणं चात्र पेयापेये द्वयं कुतः | जगद्वैचित्रता रूपं तत्तेजं घोरसंभवम् || रुद्रो विकारिणस्तस्मिं न कुर्यान्न विकल्पनात् | पुरुषा वायुमाख्यात वायुस्पर्शसमासृता || ईश्वराधिष्ठितः सो हि स्पर्श स्पर्श पुनद्वयं | सर्वच्छिद्राणि संपूर्य नभो देवि व्यवस्थितः || ईशानं परमं ब्रह्म स च शिवमधिष्ठितम् | सुभ्रत्वं सर्वथा तेषां नाशुचत्वं न च द्वयं || संयोगात् पिंडनिष्पत्ति ब्रह्मविद् क्षत्र जातिषु | स्वपचान्नादिनेकत्वं पंचभूतसमागमम् || स विवेकत्व भूतानां पक्षपातं तु जातिषु | तस्मात् सैव समालंव्य नाम मद्भुत चेतसाम् || ७२ब्) निर्विकल्पेन मनसा आसाद्य परमम् | द्वैताद्वैतपरित्यज्य एकभावेन सुंदरि || वर्तितव्यं हि वीरेण समत्वं च विवर्जयेत् | समत्थमज्ञतामूलं तस्मर्ति परिवर्जयेत् || एकयोन्योद्भवं सर्वं मानुष्यं वीरवंदिते | नानात्वं मोहमेवात्र स्थित्यर्थं परिकल्पितं || योशित्सक्तियुमांशंभुन्मेलकेशंकरं कुतः | लिंगेर्विष्णुर्भगे ब्रह्मा अंकुरे तु महेश्वरः || रोमस्था देवत्वानंताद्वव्यार्थे संव्यस्थिताः | वीजं शक्तिः परासूक्ष्मा आनंदे परमः शिवः || येन मुच्यति देवेशि कर्मणा जंतवो ध्रुवम् | विकल्प तत्र उत्पन्नं परमार्थ न जानतः || तदुत्थममृतं देवि पवित्रं पावनं शुभम् | शोधनं मोक्षदं देवि सम्यज्ज्ञानं विवेकतः || शब्दस्पर्शरसोरूपगंधश्च परमेश्वरि | ७३अ) विषयानि तु भुंक्त्येवं यो सिद्रा?वयति पुमान् || उक्षेपादत्र काले तु पंचैते दास्तमंति च | तदभावात् पुरानंदं मनोवृत्तिविवर्जितम् || मनोवृत्तिक्षये देवि परं भावं प्रवर्तते | आत्माशक्ति परं तत्वं एकभावत्वतां गताः || भवन्ति देवदेवेशि तदा मुक्तितनुर्भवेत् | मोक्षे तु वंधनं गोरि भावयंति नराधमाः || ते वद्ध्वा नात्र संदेहं अज्ञान तमसा वृताः | न विजानंति वीजाख्यं तत्वमेकं शिवप्रदम् || एकोप्यनेकधा जात सृष्टि हेतो न चान्यथा | तत्वशुद्धिर्यदा जाता तदा तु विमलो हि सः || विमलो विमला कार्या वासना वंधरूपिणी | वासना विमले तत्वे तत्वसंवेदना नादितः || ७३ब्) चित्तशुद्धस्य देवेशि न वंध स्यात् कदाचन | सर्वावस्थ स्थितस्यैव मोक्षमेव न संशयः || शुधवुद्ध्या प्रवुद्धस्य तत्वविद्धस्य देहिनः | सौचाचारं न चान्योस्ति दृते तत्वानु भावना || *? वारिणा मृत्तिकाभिश्च शौचामिच्छन्य पंडिताः | रक्तरेतोद्भवं पिंडं विण्मूत्रकफसंयुतम् || रक्तपित्तादि चान्यैश्च दोशैर्युक्तो व्यवस्थितः | सतत्प्रक्षालनाच्छुर्धि कथं सव्यतेनघे || शिलायां घृष्यमानायां मृद्भवत्व प्रदर्शनम् | क्षयंयाति न चान्यत्वं तद्वदेहवता पुनः || घृष्यमानो यथांगारक्षाल्य मानो जलेनतम् | न जहाति स्वभावं तु तद्वत् सर्वं शरीरिणां || वाह्यतो भस्मसंस्थाना उल्मुकात्त स्वभावतः | कालिका न जहंत्येवं क्षालनाद् भस्मवारिभिः || ७४अ) न षष्टकालेन तृरात्रकालेननोपवासाध्ययनै शुभैर्वा संप्राप्यते शुद्धिचरेण लोके || ध्यानार्ण्णवं यस्तु न संप्रवृष्टः न यज्ञदानैर्न तपोभिरुग्रैर्णसौ च जाप्यैर्ण वर्भक्षै चर्यैः संप्राप्यते शुद्धवरेण शुद्धवरेण लोके | ध्याना न ध्येयस्तु न संप्रविष्टः | सर्वतत्वस्य सारोयं ज्ञानमुष्टिरिवा परम् | वक्ष्याम्यहं महाभागे शृणु संक्षेपतस्त्विमाम् || शौचाचारे तथाद्वैते अद्वैते च विशेषतः | अग्रहं तु न कर्तव्यो मुक्तानुमजमव्ययम् || अद्वैते द्वैतमेवं स्या अग्रहेण सुरेश्वरि | अग्राह्याद्वुध्यते लोको तस्मात् तं परिवर्जयेत् || अवध्यं वासना मूले मलव्या मोहकारकम् | व्यामोहात् पतते देवि संसारा परिवर्तते || ७४ब्) यथा वातो नुवर्तेत न विकल्पत योगवित् | विकल्पमविकल्पं च द्वावेतौ ब्रह्ममोक्षयोः || अग्रभूता स्थिता द्वौ तु द्वैताद्वैतं महातपे | स भयं द्वैत युक्तानां तस्मान्नं परिवर्जयेत् || अद्वैतं भावमाशृत्य अद्वैते परमास्थितिः | कार्या योगविदे नैव कुलकौलानु भावना || तदानु भावनाभावं लयं यस्य गतं प्रिये | अद्वैते च स विज्ञेयो परमा द्वैत वर्तिनः || स मुक्तो मोचयत्येवं स योगी योगपारगः | द्वैताद्वैतं समंतस्य समं तत्वानु संततिम् || समं सर्वत्र सद्व्यापी समं सर्वगतः स्वयं | समं समतया स्थित्वा स्वदेह समता विशेत् || न विभाव्यति तत्र स्थक्षीरे क्षीरमिवापरं | न तत्वान्यावनं तस्य कल्पकोटि शतैरपि || ७५अ) समत्थात् सिद्ध(?)देहस्य भावे निष्कलतां गते | अद्वैतं भावितं येन स्पंदनं वस्थिरी कृतम् || तस्य कालं जराजन्म स्थित्वा दूरव्यवस्थया | न तस्य पुनरावृत्ति वीजे निर्वीजतांगते || निर्वीज योगा न परं नोन्यमद्वैतमुत्तमं | अद्वैतभावितं येन कुलकौलव्यवस्थया || स्वभावं स्वस्वरूपस्थं परं सर्वगतं यथा | युक्त्या युक्तिविवेकेन स साक्षाद् भैरवः स्वयम् || जीवन्मुक्तो वरारोहे सर्वयोगिनि संमतः | एतदद्वैतसारं तु मयोक्तं तव नान्यथा || अद्वैतं न च वाद्वैतं दृते तत्वानु भावनात् | परमाद्वैतसारं तु भावयित्वा तु निश्चयात् || भावशुद्धिमतो तस्य यथा शास्त्रानुसारिणा | कृयाकर्मेषु चाद्वैतं आचारे च विशंकितः || ७५ब्) तस्य सिद्धिरविघ्नेन मोक्षश्चैव न संशयः | अथान्येन विधानेन पुनरेव वदाम्यहम् || मंत्रशंकात्मसंका च द्रव्यसंका तथैव च | येषां ते तु न साधकाः तावैते चातुरोवया || यावतत्वं न विंदंति | विदित्वा तु परे तत्वे मुर्वे(?) वर्णाः शिवात्मकाः | शिवं सर्वगतं ज्ञात्वा वर्णावर्णव्यवस्थितः || आनंदरूपं सर्वेषां वर्णानां तु शिवस्थितः | शिवादिमशकांतानां संसारे येद्व्यवस्थितं || शक्त्यानंद शिवानंद व्याप्तिमानंद वर्जिता | चैतन्याधिष्ठितं सर्वं पक्षेन(?) परिरंजितम् || अतिद्रव्यमशेसं तु काशंकाशंकये कुतः | पंचभूतात्मकं पिंडं तत्स्था द्रव्यानि यानि तु || तानाह(?) तत्स्वरूपाणि मेध्यमेध्यतांकुतः | ७६अ) शरीरे संस्थिता देवि या तिष्ठति देहिनः || तावन्मध्ये तु मेतेषां कथं घटयते पृये | निर्यातामेध्यतां यांति एतेव ममराचते || एकतस्तु समुत्पन्ना एकतः प्रणयांगताः | एको समरसी भूत एकतत्वेन वृंहिताः || व्याप्ताश्चैकेन तत्वेन तत्राशुद्धिः कथं भवेत् | चित्तमात्रविकल्पोयं त्यजे देवि पलालवत् || चित्तमात्रमलं त्यक्त्वा निर्मला भव भैरव | वंधमोक्षे परं मूलं चित्तं शोध्य प्रयत्नतः || चित्तशुद्धो विशंकी तु शंकाहीनेन वंधनम् | न भयं तस्य विद्येत इहलोके इहलोके परत्र च स्वतनुं निहताता भावं भाव्यतः शुद्धवुद्ध्यता | व्यपगतमलशंकां तत्ववितत्वसंस्थं शिवपद रविकाशश्रोतसि क्षल्य चित्तं ततदनुगतमशेषं आचरोन्मोक्षभाजनः || ७६ब्) श्रीदेव्युवाच || श्रुतं देवमयाशेषं अद्वैतं परमार्थतः | ज्ञातं श्रोतप्रवाहैस्तु स्वचित्तं क्षालितं मया || निधौतनागतमसं विकल्पातीतगोचरम् | समत्वात् समतायातं समेत्युज्झित भावंनम् || मोहमात्सर्यरहितं वहुत्व परिवर्जितम् | सदसिद्धेकहीनं तु सद्भावपरिसंस्थितम् || त्वत्प्रसादा सुरश्रेष्ठ मनोनिश्चलतां गतः | एकोप्येनेकता भेदै एवं पश्यामि भैरव || किंतु विकल्पमात्रं तु पृच्छामि परमेश्वर | अग्रहग्रहके द्वैत त्वयोकंतु मद्यमांसादृते पूजा न कर्येति उदाहृतं स्वल्पमल्यं ग्रहग्राहं भ्रान्तिरापादयेत् तदा | एतत् प्रसादतो व्रूहि यथावेद्मि न संशयः | ७७अ) कोमद्येति समाख्यातं मांसमित्यं व किं वद || श्रीभैरव उवाच || साधु साधु महाभागे परं प्रश्नं त्वया कृतं | वदामि तव संक्षेपादतिगुह्यतरं प्रिये || मद्यमांससमुत्पत्तिद्रव्ये प्राधान्यतांवच | वदामि सक्षिप्ततरं यथार्थं च न चान्यथा || नामित्येव परं वीजं परानंदसमुद्भवम् | धूति वाह्यतरा भावात् संयोगाद्व्यरतांगताः || स एव दर्शितो देवि मांसमित्यभिधीयते | एतद्रव्यं परं प्रोक्तं पवित्रं सिद्धिदायं * || होमयेत् प्राशये देवि पितृं देवांश्च तर्पयेत् | निवेदये महावीरो नित्यं मंत्र प्रपूजने || अशेषद्रव्यसंघातं यत्किंचिद्वसुधा तलः | सर्वनिवेदिनं तेन मांसस्य विनिवेदनात् || देवतातृप्तिमायांति मंत्रंश्च फलदो भवेत् | ७७ब्) शिवयज्ञ तदा तेन यष्टो भवति सुंदरि || सर्वयज्ञोपमं प्रोक्तं शिवयज्ञ विशिष्यते | मंत्रज्ञान पराभासा इज्यते यस्तु भैरवि || तेन यष्टेन देवेशि मुच्यते भववंधनात् | सासेन वेदितं सर्वं संपन्नं भवते पृये || या सा पूर्वं मयाख्याता परामृतविधायिनी | तस्मिंलीना महाभागे कला सप्तादशी परं || अमानामसमाख्याता परामृतविधायिनी | जगस्याप्यायनार्घाय सोस्थिता सा च मंडले || सोमभासाजले न्यस्ता स वाचाप्यायनर्थतः | पितृणां देवसंघस्य जंतुचक्रस्य सुंदरि || स्थिताप्यायनहेत्वर्थ द्रवद्रव्येषु संस्थिता | क्षीराध्वि मध्यमथना व्यक्तित्व समुपागता || अवस्था वारुणी ज्ञेया सुरैः पीतासुरा स्मृताः | ७८अ) आदितत्वसमुद्भूता मद्या मेद्ये तु सोभने | मदेति मदिरा ज्ञेया शक्तिस्थाधारसंस्थिताः || वामामृतविधायिन्य वामामृतमतोच्यते | सा परापररूपस्था शक्तिराद्या मनोन्मनी || आनंदजननी पुण्यामनस्योन्मनकारिणी | सोमस्था सोमपानं सा सर्वपापक्षयंकरी || सर्वयज्ञफलं देवि सर्वतीर्थाभिषेचनम् | स्पर्शमात्रामृता देव्या कला नार्घन्ति षोडशी || दर्शनाद् विघ्ननाशं तु स्पर्शनाद् धर्मसंचयः | दत्तामंत्रक्रियाद्येषु गुरुदेवाग्नितर्पणा || विदित्वा नादितत्वं तु यत्रोत्पन्ना वरानने | तां विदित्वा परा योनि संस्कृतं विनियोजयेत् || सानिध्यं देवतावृंदं मंत्रास्तन्मुखतां स्थितः | मोचयेद्धननापीता नित्यानंदकरी परा || ७८ब्) नित्यानंदं च क्रीडा च नित्याभ्यासा क्षणंक्षणः | तत्रस्थस्तद्गुणानंद यस्य पुण्यव्रतः स्तुसः || निर्विकल्पेन सा नित्ययुक्तो वरानने | द्रव्यन्मन्यते गौरि स सिद्धिफलभाग् भवेत् || अन्यथा लौल्यतो देवि विदित्वे वतांकलां | तत्पानात्पातकं तस्य नरके गतिरिच्यते || स्तोतव्या(?) नित्यमेवं साननिं न निंद्या तु कदाचनः | आङ्कयानेन मंत्रेण तत्पात्रं पूजये तु ताम् || अमृतं वारिमाकाशं त्रयोदश कलान्वितम् | एतन्मंत्रवरं तस्यात् प्रथमोवीजनायकम् || अमृतौ तु पदं प्रोक्तं वामेति तदनंतरं | अमेति नमश्चान्ते ताराद्यं परिकीर्तितम् || एवं स्मृत्वामृता ध्यानात् सानेध्यं सा तदा भवेत् | ७९अ) सापीता मोचये जंतु अपि दुःकृतकर्मणा | सापीता देवतैः सर्वैः ऋषिभ्यां मातृगुह्यकैः || संसारोद्धरणार्थान्यस्ता देवेन भूतले | सिद्ध्यर्थं वीरसंघस्य सिद्धसंताना न संततौ || यज्ञर्थे वैदिकानां तु स्वर्गे सोपानसंतति | तस्माद्रव्यद्वयं ह्येतत् सर्वद्रव्योत्तमोत्तमम् || देयं पूजाग्नि कार्यार्थे गुरुपर्वप्रपूजने | विशेषाद्वीरदाने च योगिनीचक्रपूजने || इति कुलसारे चतुर्दशमः पटलः || श्रीभैरव उवाच || अथातः संप्रवक्ष्यामि चर्यस्य विधिरुत्तमा | येन विज्ञातमात्रेण साधको छिन्नसंशयः || सिद्ध्यर्था पर्यटे देवि तथातं शृणु तत्वतः | लोभं मोहं तथा क्रोधं को मोहंकारमेव च || ७९ब्) एतानि वर्जयेत् पूर्वं पश्चाच्चर्यात् समारभेत् | तस्य भेदं प्रवक्ष्यामि शृणुष्वायत लोचने || तालको चुंवकश्चैव चार्वाकोराधाकस्तथा | शिवो भूतमनः प्रोक्तः पांचभेदोपि साधकः || तालको गूढमित्युक्तं चुंवको चोदकस्तथा | चार्वाको दैशिकः प्रोक्तः आराध्यो पीठमासृतः || शिवोद्भूतजहोन्मन्तः पंचभेदोपि साधकः | साधानुद्यत भावत्वात् साधकत्यभिधीयते || साधयेत् सिद्धयश्चित्रा कुलमार्गव्यवस्थिताः | सुगुप्ते सुप्रसंनैश्च कुलचर्या विचार्यते || ग्रामे देशे तथाध्यात्मे त्रिविधं पर्यटेद् व्रती | कामरूपे पूर्णगिर्ये ऊड्याने तृभिरेव च || पीठैर्योगी समासेन मतक्षेत्रेषु सुव्रते | क्षेत्रोपक्षेत्र संदोह एवं संक्षेपतस्तव || ८०अ) दायं प्रवक्ष्यामि साधकानां सुखावहम् | वामदक्षिणमग्रे तु तृधा पीठं तु संदरि || पर्यटे देहसंस्थं तु योगी वाह्ये विवर्जयेत् | रजसत्वतमो ग्रंथ्य एतन्नृतयं परम् || एभिस्थितस्य पीठानि सिद्ध्यते नात्र संशयः | अष्टपत्रे तु कमले प्राणसंख्यास्थितस्य तु || विंशाधिकगताद् देवि चलसंध्या चलाग्रतः | शतात्र्येवमधिका षष्टि प्राणाण्यतः पृये || पीठोपपीठसंदोदेहे प्राणवित् परतः स्थितः | सिद्ध्यते हंसजापी तु नास्त्यत्र प्रविचारणात् || द्विधावस्थं पथं देवि तेषु पर्यटनं पृये | शान्तं नादात्मकं चैव शेषासेश्वतरस्थिताः || सिद्ध्यन्ते सर्वसिद्धीनि पंचतन्मयतां गते | क्षेत्रपीठ पथश्चैव चरमादाय वेहगाः || ८०ब्) उक्त संक्षेपतो देवि सर्वसिद्धिप्रदायकः | नरके संप्रवक्ष्यामि अटनं वीरनायके || अटतो सिध्यते यत्र देव्यासानि वृतां यतः | राजद्वारे तथान्ये तु मले कलहे तथा || जलाश्रयेषु देवेशि सानेध्यं देवतागणम् | ज्ञाननिर्धैत देहस्य त्यक्त लोलस्य सुंदरि || परतत्वेकभावस्य स्वतनुं दर्शयंति ताः | मेलापे यांति संकेतं वरं दास्यंति साधके || शिवो भवति देवेशि विधानं शृणु तत्वतः | उन्मत्तलीलपादाय पंचमं शसितव्रतम् || सर्वाचारविनिर्मुक्तं सर्वाकारे व्यवस्थितम् | यथा न लक्ष्यते लोकै स्थिता तस्मिं स्थिति प्रिये || कार्या योगविदेनैव गच्छतस्तिष्ठतस्तथा | तन्मुक्त्वा नान्यते भावं सर्वे चाष्टा स्थितेन तु || ८१अ) विद्विष्टे जानमध्ये तु कौलिकाचारवर्जिताः | हसते गायते चैव क्रीडतश्च परिचमेत् || भिक्षाहारो निराहारो जितद्वंदो सदा भवेत् | नाहारस्य वशं गच्छेनोद्विजेद् भूतसंयमेत् || आत्मर्थे निस्पृहो तिष्टेत् परार्धैर्वद्वसा हृदः | न मोहस्य वशं गच्छे न रागं तु समाश्रयेत् || यदा लब्धोपजीवि च सर्वभक्षः कृतांतवत् | अकाम्यं शक्तिरारे तनयोर्ह तत्र कारयेत् || न क्षुधां क्षोभयेच्छक्तिं क्षुधाकाम्या सकृत् पृयेत् | क्षुधा तु न विचार्या सा मनसा पूज्य भुंजयेत् || तन्मतो नैव भावेन द्रव्यमेतं तु गृह्नयेत् | न स्वभावं प्रदर्शेत वंचते नात्र संशयः || यष्ट्वा तु देवता वृंध(?) प्रत्यक्षं तु मंक्षणम् | ८१ब्) स्वरूपस्थं यदा देवि वरन्मात्रमिहामता || यावद् वदन्ति वीरेशि तदा चोत्थाय साधकः | वामांगौ भेदयित्वा तु तेषामर्घप्रदापयेत् || प्रणम्य दंडवत् तेषा यथेष्ठं तु निवेदयेत् | रसं रसायनं खड्गं गुलिका पादुकेथवा || अंजनेखन्य वेतालं रोचना खटिकापि वा | चरुकं वाथ वीरेंद्रो पूर्वं ये तिष्ठ भैरवि || ते लब्ध्वा सिध्यते देवि सिद्धदेहा महामतिं | सूक्ष्मं तां च स्वदेहां वै लये कुर्यात् परे पदे || न विघ्नं वाधते तस्य वीरेंद्रस्य महातपे | आत्मचित्तः परश्चैव क्षेत्रपीठविदस्तथा || वाह्यं ग्रामे तथाध्यात्मे पथवित् पथसंस्थितः | एव वेत्ता यदा देवि साधकोंसंयतेंद्रियः || तस्य सिद्धिरविघ्नेन संपदा च पदे पदे | पूज्यन्ते देवतास्तस्य साधकस्य न संशयः || ८२अ) अन्यघोदर(?) मात्रस्य पूरणार्थं परिभ्रमेत् | न तस्य सिद्ध्यते कार्यं किद्यते च पदे पदे || तस्य विघ्नसहस्राणि जायंते च न संशयः | वीरः शूरः प्रतापी च शुद्धचित्तः शुनिर्मलः || जितेंद्रियोजितध्याय समयाचार पालकः | सुगुप्तो देवता चक्रो जित क्रोधो दृढव्रतः || आलस्य मरतिर्दैन्यं पैशून्यं वाग्विनुच्चरन् | तृष्णा निद्रा भयं मोहं रागं चामृतमेव च || यस्य देहेन संश्लिष्टा विकारा कीर्तितस्त्वमे | स एषा चर्यमादाय सिद्ध्यते देवि नान्यथा || अन्यथामपि वक्ष्यामि चर्याभेदं सुरेश्वरि | भस्मं लिंगं जटात्यज त्यजलिंगादिकां? क्रियाम् || सदा गुप्तेर्गुप्तेन भावेन गूढगोच संस्थितः | ८२ब्) तान्निगूढतरैर्भावै भावतेर्तर संयमी || सार्वमभिविनस्यैव मर्गवेदिनाम् | एवं भूतस्य देवेशि कुलचर्या कुलास्थिते || नान्यथा अत्र योग्योस्तु सिद्धसंतानवात्मनि | ता शृणुष्व समासेन सिद्धिदां ष? वदाम्यहम् || दीक्षा व्याख्या सदा त्यज्य द्रव्यसंग्रहणं तथा | जनवादं च गोष्ठी च दूरतः परिवर्जयेत् || दंडं तु धारयेद्येकं सिंसपाखदिरसाजलं | चतुर्हस्तप्रमाणं तु तदर्धं एक एव वा || दशपर्वमष्ठमष्ठ(?) पर्वं पंचाशांगुलमेव वा | याज्ञिकैस्तरुभिश्चैव भिक्षापात्रं तदुद्भवम् || षडगुलसमुच्छे वा विस्तारा चाष्टमेव च | वर्तुलं चतुरश्रं वा पद्माकृति यदृच्छया || कर्तव्यं पात्रमेवं तु यथामानेन सुंदरि | वसु?सु समं चैव ग्रंथ्यादि परिवर्जिते || ८३अ) वेष्टना द्वादशार्धेन प्रमाणं तस्य कीर्तितम् | न्यासं तस्य प्रवक्ष्यामि दंडस्य वरवर्णिनि || येन संधार्य मानेन सिध्यते विघ्नवर्जितः | चतुर्विशांगुलमाने हस्तं तु परिकीर्तितम् || चतुर्धासंस्थितं मानं पंचधा भाग्यसुंदरि | पंचमंडलविन्यासं पंचमंत्रैस्तु कारयेत् || द्विरष्टकं तु यद्भावं सर्वेषां च परिस्थितम् | व्योमभागं तु तं देवि तं तु षोडशकं न्यसेत् || कलानां चैव सुभगे मंत्रमंडलमुत्तमम् | व्यापितं व्योमसस्थं तु वशं तममृथोघसा || तेन संपूज्यमानं तु शिवाद्यवनि गोचरम् | तस्मिं लीलोस्वत ध्याना भवेन्मृत्यु वहिष्कृतः || सर्वविघ्नविनिर्मुक्तो सिध्यते नात्र संशयः | ८३ब्) पंचाशांगुलमानस्य क्रियाशक्तिर्महात्मा || प्रत्येकांगुल विन्यासा तदन्ते ध्यानं परम् | तद्ध्यानगत चित्तस्तु पूर्ववच्च वरानने || अष्टांगसर्वगा देवी अष्टपर्वे तु विन्यसेत् | दशपर्वे महादेवि दशवर्णोपलक्षिताम् || विन्यसे परया भक्त्या परे लीना महातपे | गंधधूपोपहाराद्यैर्वासना वाथ भक्तितः || पूजये नित्य नैमित्ये ध्यानाशक्तो सदा भवेत् | एकीकृत्य स्वदेहे तु तत्वै समरसीकृतम् || परे तत्वे नियोज्या तु दंडवद् दंडमुत्तमं | योगन्यासा तु योग्ये यं योगददंति(?) कीर्तिनं || शेषैस्तु पूर्वविन्यासं पंचधा भाज्य सुव्रते | षड्भिधस्यास्य देवेशि वधानं कथितं तव || दीक्षाकाले द्विधा तस्य ध्यानं वीरेशि कथ्यते | ८४अ) ज्वलज्वलनकल्लोलशक्तिरंध्रात सर्पिणी || ध्यात्वा ध्याननिर्योगेन पूज्य सर्वोपचारिभिः | शिष्यहस्ते तु तं दत्वा पातयेद् विह्वलेंद्रयः || पूर्वध्यानान् महादेवि आप्यायनविधिः स्मृतः | तेन चोत्थापनं कार्यं अमृतीकरणं तथा || एकद्वितृचतुःपंचषड्सप्ताष्टनवस्तथा | यावन्तस्तत्र संलग्नास्तेषां दीक्षा न संशयः || पतंति जानसंक्रात्या पाशविश्लेषणे चदा | तस्मात्(?) प्रदं(?) सदा धार्यं कौलिकेन सुरोत्तमे || भिक्षापात्रे परां न्यस्य क्रियाशक्ति महावला | मध्यदेशे वरारोहे अष्टधा वाह्यतो न्यसेत् || अष्टमूर्तिधरां देवीं न्यस्ता विघ्नविनाशनी | नादेन दीपितं कृत्वा परभावनया पुनः | सामृतीकृत सर्वाद्भ्या? भवेत् कौडिलिनी परा | ८४ब्) कुंडाकारोदरं यस्य जगदेतच्चाचरम् || तेन तत् कौंडिली ख्याता नान्यथा विभवाम्यहम् | तस्मिंन्यस्तं तु ये द्रव्या पवित्रास्ते तु भैरवि || प्रासितैश्चरुका वाप्तिर्जायते नात्र संशयः | विषारग महारोगै विघ्नेशैनाभि भूयते || अन्य संपर्क वाह्यस्य द्वादशाद्दारं शायनम् | भवतेपि विना देवि नित्यं पर्यटने स्थिते || साधकस्य रसंते होम दारु?द्भयवर्जिता | सिध्यते सर्वसिद्धीभि विधानानेन भैरव || तालकादिविधानं तु पंचधा मंदयोदितम् | वाह्यमाभ्यन्तरं देवि शृणु दानी गणांविके || पंचधा तु स्मृता संज्ञा सा च नैमित्तिकी प्रिये | योगजा योगिनस्यैव वीरेशि तव कथ्यते || तालको ताडये रंध्री विषयाकारणानि च | ८५अ) मनोत्तसम्बिमाधत्ते(?) एकमार्गे निवर्तके || तेन कालकमित्युक्तं योगींद्रो योगचित्रकः | चुंवके चोदयेन्मार्गं उदनादिक्रमे क्रमात् || ग्रंथिग्रंथालयेद् वारा तेन चुंवकमुच्यते | चार्वाको चर्वयेत् सर्वां इंद्रियाणि मनोनुगान् || स्थिरतायां सुरेशानि चार्वाकस्नेन कीर्तितम् | आराथरात् सुशीलत्वादेकीभावेन चान्यथा || व्याधृच्छिन्ना * * * *? पीठ सर्वाश्रये स्थितम् | अनादितमिदं ज्ञेयं योगी मोक्षपदानुगः || शिवोद्भूतं शिवीभूतं शिवतत्वव्यवस्थितम् | सर्वाध्वा व्यापकं चाद्ये सर्वाधारं तु निष्कलै || तन्मनस्तन्मयस्तस्य सर्वभावक्षयंगतः | नेंद्रियाणि न वै प्राण न भाव्यं भावना न हि || सर्वभावक्षयोत्पन्नाय कीलाभाव सुनिश्चये | ८५ब्) निर्मले विरजे शुद्धे एकवरे निरामये || सर्वाभावाश्रयी भूते सर्वाभावनिराश्रये | संधायात्मनिमेवं तु सर्वभावेषु तन्मयं || शिववनिर्विकारं तु तदा तन्मयतांगतः | अग्रतः पृष्ठतः पार्श्वै अधोर्धे चैव सुंदरि || निर्विकारेण भावेन तन्मनस्तन्मयं यदा | शिवोद्भूत समंतव्यो शिववद्विचरेन्मही || एवं पंचविधे नैव योगेन परमेश्वरि | शिवोद्भुतम(?) * *? ष्यंन्ति पंचमात्र यथातनुः || शिवस्य परमेशानि तथा शैवा शिवोद्भुते | तालकादि प्रभेदेन तेषां वक्ष्यामि भैरवि || तालको सद्यमूर्तिस्तु चुंवको वाचमेव च | चार्वाको घोरमाख्यात आराध्यं पुरुषः स्मृतः || शिवोद्भूत तथा ईश पंचभेदाः प्रकीर्तिताः | ८६अ) एवं भूताः कलामंत्रा विषयाः करणानि च || पंचधा पंचमस्यैव लयभूता यशस्विनि | सर्वेषामेव भेदानां शिवोद्भूतशितेन तु || सर्वेषां पतिनाख्यातो तस्मिं लीलेन शेषतः | शिववत्सर्वगत्वा च सर्वभक्ष कृतान्तवत् || जटवर्दि दृयर्थिभ्य मूकवज्जन्नसंसदि | वज्रवद्वेधकस्तत्वे अभेद्यः सर्वभावभिः || वलेवलोलुपत्वास्तु माताप्यय चंद्रकम् | दधिरेव कृत्ति? वर्ह्नि(?) सर्पिरेवं स्वतत्वतः || स्थितोतं न विभाव्येतनिस्तृंशब्द व वंधने | स्फटिकोमलवत्वच्छन्न्ये पाध्यानंजितं ततः || जलवज्जलमध्यस्थ एकीभावत्वतां गतः | क्षूरवत् सेवते कामं भक्षं तु न विचारयेत् || न कामं रजिते भूत्वा कामार्थं मनसा स्मरेत् | सवीरो वीरनाथश्च सिद्धि योगिनि संमतः || ८६ब्) स वंद्यः पूज्यमानस्तु शिवेन तु शिवोद्भवः | जीवन्मुक्तः सदा पूर्व सर्वावस्थ यथार्थतः || एवं ते सर्वमाख्यातं चर्याभेदं सुरेश्वरि | सिद्धसंतानगं भद्रे सिद्धकौलानुवर्तिनम् || चर्यापादनिगूढस्तु अपवर्गप्रसाधकं | पिंडसाधनकार्यार्थं परभावानु रंजितम् || तन्मयत्व प्रदं गौरि अशेषकलुषापहम् | किमन्यं कथयिष्यामि तद्व्रूहिद(?) विचारितः || इति कुलसारे पंचदशमः पटलः || श्रीदेव्युवाच || कथं रत्नानि देवेश श्रूयन्ते कुलमातृताः | कथं ज्ञायति नान्येव व्यक्ताव्यक्ताथ चाहर || भावाभावे कुतो संस्था अभावे भावना कुरु | भावे विनाशमायाति अभावे नास्ति लक्षणम् || ८७अ) लक्षहीनो निरालंव अभावे प्रतिपत्तिद | व्यक्ता वाथ यथाव्यक्ता संख्याता संख्यमेव वा || किं कार्यं केन वान्तेषां रत्नेति गतिता यतः | रत्नार्घं व्रूहि मे देव यथानिःसंशयो भवेत् || श्रीभैरव उवाच || वाष्यं कंठनिरोधेन विश्वेसि किमद्भुताः | कार्यकारण कर्त्येसि जगद्धात्री त्रियंविका || यन्न कस्यचिदाख्यातं रहस्यं परमं च यत् | तं च ते सर्वमाख्यातं क्वाचित् संक्षेपविस्तरम् || आत्मशक्ति परं चैव तृतीयं परिकीर्तितम् | तद्रत्नत्रयं सारं शेषं का च स्वरूपकम् || आब्रह्मशिवपर्यन्तं तत्वग्राममशेषकम् | नानाकारविकारैश्च रंजिताश्वानु वर्तति || उत्पत्तिस्थितिनासाभ्याभ्यां गुणाद्ये कर्मवम्धने | ८७ब्) स्वच्छस्योपाविमात्रेण संक्रान्त्य परिवर्तनम् || तत्वशात तदावस्थस्तन्मयस्तंमजानत | मूढता द्वंद्वमेवात्र एकोनेकत्वेना प्रिये || एतदेव हि संसारं सदा संसरते नरः | तत्र घातेन तस्येच्छा भ्राम्यमानो जगत्स्थितिः || इच्छाज्ञानक्रियाद्यैश्च शक्तिभिः परिवारितम् | स्वर्गापवर्गनरकस्तत्पातावववुद्ध्यतिं || उक्तं देवि मया तुभ्यं वीरेशि न तदन्यथा | प्रवुद्धः पश्यते देवि शिवतत्वे समन्ततः || सर्वमापूरितं तेन स्वंस्वत स्वेच्छया नघे | शिवोपलब्धिदं यस्मा शिवतत्वेति कीर्तितम् || सर्वरत्नोरमं रत्नं सर्वज्ञत्व प्रदायकम् | तन्निमित्ता तु सा ज्ञेयं शिवतत्वे तु भैरवि || श्रीदेव्युवाच || रत्नेनि?कोवरं यस्य परतत्व प्रकाशनात् | ८८अ) तन्मया चक्षु देवेश यथा तदनु भावनात् || श्रीभैरव उवाच || भावनाचोभयाभाव अभाव प्रतिपत्तिदः | निराहारात्म विज्ञानं अव्यच्छिन्नं प्रवर्तते || निराहारात्म विज्ञानं चिचितिः परिभावितम् | भावना विगते वेत्ति सरत्न शिवमव्ययम् || चिचिन्तिः परसंस्था च न विवेकि तु मुद्धरेत् | विना तत्स्थान वंधत्वा न विनास्तै विभाव्यतं || चिच्चे तन्यो समायोग धर्मार्थ समुदाहृतः | धर्मार्थ भाविनो भावी अभावस्तस्य ते प्रिये || सदा सद्भावनाद् देवि आत्मरत्नं शिवो व्ययः | द्वितीयं तस्य पर्यायं आत्मरत्नेति कीर्तितम् || धर्मार्थे स्वस्वरूपं तु ज्ञानेकेवता पुनः | तदन्तत्सर्व चैतन्यं चित्तानं यत्स्वरूपतः || ८८ब्) त्यक्त भावमभावे तु अक्षरार्थ प्रदर्शनात् | तंन्निगूढतरैर्भावै एकीभावविभाविभाव्यते || शक्तिरत्ने शिवावाप्तिस्तेन रत्नः प्रकीर्तितम् | एतद्रत्नत्रयं देवि योगिनां योगदायकम् || किमन्यैः कारणं देवि संचा *? त्र प्रतिष्ठितम् | गोपितव्यं प्रयत्नेन चौरभ्यो द्रविनं यथा || परोपलब्धि सौरं तु सर्वरत्न प्रकाशकम् | रत्नत्रयं महाभागे न देयं मपरीक्षिते || देयं सांता? यदान्ताय शिवभक्ति परायणे | सुप्रसंनाय वीराय क्रमसे दीक्षिताय च || अभिशिंच्य विधानेन श्रावयित्वा कुलस्थितं | समयाचारसंस्थस्य नान्यथा वीरवंदिते || पुनरेवं प्रवक्ष्यामि पंच * त्नोपदेशकम् | एकस्य पंचधा भेदस्त शृणुष्व गणांविके || ८९अ) प्रोदितं प्रथमं प्रोक्तं दंडधारं वरानने | तस्य व्राप्त्या सुसूक्ष्मत्वं सपिंडं मोक्षसाधनम् || नित्या कलारगवती प्रसुप्तां पंचधा पुनः | आयुराप्याय कर्माणि स्थिरत्वं पिंडसाधनं || पंचरत्नोपदेशोयं एकरत्नोद्भवं प्रिये | तस्यानं तत्वतां देवि यत्र तत्र विभाव्यते || परसंयम्य यत्नेन स्थिरता सर्वसिद्धयः | शक्तिरत्नं न संदेहं सर्वरत्नप्रकाशकम् || स्वरत्नेशं स्थितिर्वध्वा प्रतिष्ठस्तन्मयत्वता | शिवीभूत शिवोरत्ननान्य रत्नो विभाव्यते || यथा नदी नदाः सर्वा सागरे याति निवृतिः | एवं हि सर्वरत्नानि तत्रैक स्थान चाग्रतः || स्थूलसूक्ष्मविभागेन रत्नार्थं कथितं तव | स्थूलस्थूलतरो चैव पंचधा पंचभिः क्रमात् || मंडलश्च महादेवि पंचरत्नानि भावयेत् | ८९ब्) एतत् सारतरं सिद्ध प्रत्ययानेक स कुलम् || ससिद्धे साधना सैव अथान्नत युतः **? |? संपुटानिलसुद्धोधा आत्मरं विभाव्यते || आत्मरत्न प्रभालोका सर्वं पश्यंति योगवित् | आत्मरत्न शिवं रत्नं शक्तिरत्नं तृधा शिवम् || रत्नं तु वीरनाथेसि प्रथमं परिकीर्तितम् | आत्माशक्ति तृधा देवि शक्तिरत्नं तु पंचधा || चतुर्दश समाख्याता ज्ञातव्या वीरवंदिते | ज्ञानार्थिनां वरारोहे यथा सिध्यर्थिना प्रिये || नानाकारैः सुभैःर्भावै वहुधा प्रविभाजिता | गुरूपदेश मार्गेण स्वशरीर गौरवम् || सर्वरत्नमयं यस्मा तदा पाल्यं प्रयत्नतः | भक्षभोज्यान्नपानैश्च शस्त्रालंकारभूषणैः || ९०अ) देहपीडा न कुर्वीत उपवासादि पूर्विका | पवित्रं पारनैश्चैव शनर्थः सर्वमुत्तमम् || स्वपिंडं विदितं येन समुक्तः स शिवोव्ययः | तस्मात् सर्वप्रयत्नेन विदितव्यं सुलोचने || इति कुलसारे षोडशमः पटलः || श्रीभैरव उवाच || अथातः संप्रवक्ष्यामि लक्षभेदं सुरेश्वरि | येन विज्ञातमात्रेण सर्वमेतत् प्रसिध्यति || च रत्नं चाप्यरत्नस्तु न योगं युंजना न हि | विना लक्षेण सुभगे सर्वमेत निरर्थकम् || तस्य भेदं प्रवक्ष्यामि यथा भेदै व्यवस्थितम् | अन्तर्लक्षं वहिलक्षं लक्षं च भयतस्तथा || स वाह्याभ्यंतरं चान्यं निलक्षं चापर स्मृतः | लक्षपंचकवेत्तायं ससिद्धिफलमस्नुते || मोक्षश्चैव न संदेह प्रत्यक्षं च व्यवस्थितं | ९०ब्) लक्षज्ञानं ततः ज्ञेयं योगं च परमेश्वरि || दीक्षाभिषक संक्राम उत्क्रान्ति वारवदेत्(?) | परदेह प्रवेश * * * * * * *? नघे || सर्वलक्षविधास्येव तज्जयां संप्रवर्तते | रजमंडल कुंडाद्यै मुद्रानेक हुतिर्जपैः || महाश्मशानगमनैः घोरसाधनकर्मभिः | न तत् साध्यति कृच्छ्रे * * *? स्थे यत् प्रसिध्यति || लक्षवेत्ता स सर्वज्ञः स योगी योगपारगः | दीक्षा कर्मविधानं तु संक्रामहरणं तथा || निग्रहानुग्रहं चैव लक्षवित् कुरुते क्षणात् | लक्षं तु स्थिरता तस्य भावे चा भावना तथा || सुनिगूढविवेकं तु स्वतः स्वात्मव्यवस्थिति | एतच्चतुष्टयं देवि स्थिरं यस्यैव सुंदरि || स कौलवित् कुलाचार्यो कुलाचारविदस्तु सः | ९१अ) अकुलाकुलवेत्तासौ स दीक्षा कर्तुमर्हर्ति | स्थिरां बुद्धिं समाधाय सित्तं(?) संयम्य यत्नतः || शृणु लक्षस्य सारं तु तद्रत्नं(?) * * *? कासिकम् | अन्तलक्षं तु प्रथमं तस्य भेदचतुष्टयं | चतुधास्थिर सालस्य(?) कार्ययोगविदेन तु || विनालक्षे * * * * * * * *? स्थिरतान् हि | जायते तेन तं भद्रे लक्षे लक्ष प्रसा *? नं || यावनस्थास्थिता मध्ये वालकेप्येस्थि * * *? | * * * * * * *? त्ता वृद्धाद्यैवस्थिरं कुरु || वालाद्यं यत्र यं गौरि या चले तु स्थिरं कुरु | चतुर्धाजित लक्षस्य * * * * * * * *? || * * * * * * * * * * * *? जनं परे | तत्रैव क्रमसौ देवि * *? भ्यां स्थिरता * *? || * * * * * * * * * * * * * * * *? | Eन्द् ########### END OF FILE #######