#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00331 Uniform title: kulavṛtti Author : pūrṇānanda Manuscript : NGMCP Manuscript No. : 4 - 1390 Reel No. : B 119/2 Description: Notes: Data entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: Dec. 15, 2015 Internet publisher : Muktabodha Indological Research InstituteInternet published Muktabodha Indological Research Institute Publication year : 2015 Publication city : Publication country : United States #################################################### प्. १अ) श्रीगणेशाय नमः || दुर्गायै नमः || नमो गुरुभ्यो नमः || द * * * * (?) शतपत्रप्रोल्लसद्ब्रह्मपद्मप्रविमिलितगुणकोणप्रोन्मिलद्बिंदुपीठं | भजत गुरुपदाब्जं न्यत्कृताब्जं सदाभं हृदयकलुषशांत्यै सर्वशास्त्रार्थकांत्यै | कनके कटज्ञाप्तरिव यस्मिन् जगत्रयं | कायातीतं वचोतीतं मनोतीतमुपास्महे | नानातंत्रात् समाकृष्य संक्षेपेन कुलार्चनं || कुलवृत्तिं ततो मेनां पुरुषार्थफलाप्तये | संसारदुःखदावाग्ने दह्यतः सकलान् जनान् || उद्दिधीर्षुः कृपासारः पूर्णानंदोऽहमादरात् | संतीह यद्यपि ग्रंथाः संग्रहाः कृतिनिर्मिताः || तथापि क्रियते चात्र हेतुग्रंथो वदिष्यति | कुलवृत्तिरियं कन्या कुलीनायै प्रदीयते || यथा शास्त्रं कुलीनेन लालनीयासुखाप्तये | इह खलु सर्वधर्मकर्मसाध्यत्वं धनपुत्रादि स्वर्गांतः कलानामपवर्गस्य च स्वर्गकामो अग्निष्टोमेन यजेत् | तमेव तं वेदानुवचनेन यज्ञेन विविदिषंति | तज्ज्ञानात् कर्मणे प्रवृत्तिः || इष्टसाधनता ज्ञानस्य प्रवृत्तिकारणत्वात् | तत्र धनपुत्रकलत्रानामनित्यत्वेन हेयत्वात् | अपवर्गस्य मुख्यत्वं श्रूयते | यथा गीतायां | यं लब्ध्वा चापरं लाभं मन्यतेन ततोऽधिकमिति || कल्पसूत्रे च || स्वात्मलाभानुपरं विद्यते न परं विद्यते | श्रुतिरपि सर्वशयानन्दानि तस्यैवानंदस्यां संसमुपजीवंतीति | ननु किं तावदात्मवस्तु यस्य प्राधान्यं तदाह वेदांते | विश्वायतन स्थूलसूक्ष्मेतरनित्यशुद्धबुद्धस्वरूपजाग्रत्स्वप्नसुशुप्त्यवस्था त्रयातीत प्रपंचप्रकाशकत्वभावगुणत्रयातीतादि मध्यांतरहितमात्मवस्तु | आत्मत्वाध च | तिर्यगूर्द्ध्वमधः पूर्णं सच्चिदानंदमव्ययं | अनंतं नित्यमेकं यत् तद्भूष्णेत्यवधारयेत् || कैवल्योपनिषदि च | हृत्पुण्डरीकं विरजं विशुद्धं विचिंत्य मध्ये विशदं विशोकं अचिंत्यमव्यक्तमनंतरूपं शिवं प्रशांतममृतं ब्रह्मयोनिं | तथादि मध्यांतविहीतमेकं विभुं चिदानंदमरूपमद्भुतंमिति श्रुतिरपि नित्यं विज्ञानमानंदं ब्रह्मेति | प्. १ब्) तथा ब्रह्मा स शिवः सेंद्रः सोक्षरः परमः सुराट् स एव विष्णुः स प्राणः स कालोग्निः स चंद्रमाः | स एवं सर्वं यद्भूतं यच्च भाव्यं सनातनं | ज्ञात्वा तं मृत्युमत्येति नान्यः पंथा विमुक्तये | तथा मययेव सकलं यातं मयि सर्वं प्रतिष्ठितं मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहं | अनोरणीयानहमेव तद्वन्महानहं विश्वनहं विचित्रं पुरातनोहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि | अपाणिपादोहमचिंत्य शक्तिः पश्यमे चक्षुः स शृणोम्यकर्णः | अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाहंमिति | एवं स्वरूपस्य ब्रह्मणो अंसरूपा अनाद्यविद्योपहता जीवानन्मे शरीरमास्थाय सुखदुःखभोगं कुर्वंति | तत्वसारे च | नहि कश्चित् पुरा बद्धो अथ मुक्तिर्न विद्यते | वंधमुक्तिविकल्पोयं किंचिदज्ञानलक्षणं || वद्धो विकल्पपाशेन पुण्यात् पुण्योद्भवेन च | सहते सर्वदुःखानि सुखानि विविधानि च || तथा चोक्तं कर्तृत्वभोक्तृत्वातिमानी जीव इति | तेषां मध्ये कारणीभूतसत्वांश प्रति * * * * * (?) श्चिदाभासः | सोहमिति स्थिराध्यासनादीश्वर इत्युच्यते | तस्य सत्वगुणोपाधित्वात् | सर्वज्ञत्वं सर्वेश्वरत्वं | सर्वकार्यकर्तृत्वं * * * * * (?) विद्यायास्तदाश्रयत्वतद्वियत्वनियमात् | यथा गर्भगोरमंधकारस्य विषाश्रयौ तद्विषयत्ववलेनावरणविक्षेपरूपं प्राप्यत * * * (##? भाति यथा दर्पणे निकटस्थ वस्तु प्रतिविद्मितं जायते | तथा तस्य? चिदाभासोपि गुणत्रयात्मिका विद्ययो प्रतिफलति | तदन्यस्तु सत्वगुणप्रधानकारणरूप मायायाः कार्यरूपरजस्तमांशोपाधितः प्रतिविद्मितो यश्चिदाभासः स यदा कर्मानिमित्तवशाद् देशकालवस्तुविविधपरिछेदं गृहीत्वा स्वरूपं विहाय स्वजातीयविजातीय भेदं प्राप्य अहं ममेत्यध्यासस्तदा जीव इत्यु * * (?) तस्य कार्योपाधित्वात् ज्जाघं तेनाहं कर्ता सुखौ दुःखौ मामहं न जानामीति मनुते | श्रुतौ कार्योपाधिवयं जीवः कारणोपाधिरीश्वर इति | ईश्वरस्तु उपाधिगुणत्रयभेदेन विष्णुब्रह्मरुद्ररूपेणा विद्याया प्. २अ) आवरणविक्षेपरूपद्वयं प्राप्यता ब्रह्मस्तंभपर्यंतं संसारं सृजत्यवतिसंहरतीति | ब्रह्म तद्विकारविवरणं | अथ जीवस्य मुमुक्षो मुक्तिसिद्ध्यै अनाद्यविद्याप्रतिबंधनिवृत्यर्थं ब्रह्मज्ञानाधिकारितत्वेन प्राप्तत्वात् कर्मस्यंगीकार्याणि | ब्रह्माधिकारीत्वा अधीते वेदांगत्वेनाधिगतवेदशास्त्रार्थः अस्मिन् पूर्वजन्मनि वाक्यस्य निसिद्धं वर्जं | नित्य नैमित्तिकाद्यनुऽज्ञानेन निर्गतकल्मखतया निर्मलः स्वांतः साधनचतुष्ठयसंपन्नः | प्रमते | श्रुतिरपि | नित्यनैमित्तिकैरेव कुर्वाणी दुरितक्षयमिति | आत्मबोधेपि | तपोभिः क्षीणपापानां शांतानां वीतरागिनांमिति | अनुकूलानपेक्षोयमात्मबोधो विधीयते | इति साधनचतुष्टयं तु नित्यानित्यवस्तुविवेकः | इहामुत्रफलभोगविरागः स मदनांधि संपत् मुमुक्षुत्वादीनि | नित्यानित्यवस्तुविवेकस्तु ब्रह्मैव नित्यं तदन्यदखिलमनित्यं इति | ऐहिकानामुकचंदनादि विषयभोगानां | कर्मजन्यतया नित्यत्ववदामुष्मिकानामप्यमृतादिभोगानामनित्यतया तेभ्यो विरक्तिवितीहामुत्रफलभोगविरागः शमादयस्तु | समदमोपरति समाधि श्रद्धाः शमो मनोनिग्रहः समो वाह्येंद्रियनिग्रहः उपरतिः कर्मसन्यासः समाधि | तदंतगुणविषये समस्तसमाधानं समाधिः श्रद्धागुरुष्वेषवेदांतवाक्येषु विश्वासः श्रद्धा अधिकारि निरुपनं | तदुक्तं कुलार्णवे च | श्रीदेव्युवाच | भगवद्देवदेवेश पंचकृत्य विधायक | कुलेश परमेशान करुणामृतवारिधे || असारे घोरसंसारे सर्वदुःखमलीमसे | नानाविध शरीरस्था अनंता जीवजंतवः || जायंते च म्रियंते च तेषामंतो न विद्यते | महादुःखातुरादेव न सुखी प्रतिपद्यते || केनोपायेन देवात्र मुच्यते वदमे प्रभो || ईश्वर उवाच | शृणु देवि प्रवक्ष्यामि यन्मांत्वं परिपृच्छसि | तस्य श्रवण मात्रेण संसारान्मुच्यते नरः || अस्ति देवि परंब्रह्मा स्वरूपी निष्कलः शिवः | स्वयं ज्योतिरनाद्यंतो निर्विकारः परात्परः || निर्गुणः सचिदानंदस्तदंशा जीवसंज्ञकाः | अनाद्यविद्योपहिता यथाग्नौ विस्फुलिंगकाः || दर्वोघुपाधि संभिन्नास्तत्कर्मभिरुनादिभिः | सुखदुःखप्रदैः पुण्यपापरूपे नियंत्रिताः || प्. २ब्) तत्तज्जातियुतं देहमायुर्भोगं च कर्मजं | प्रतिजन्म प्रपद्यंते तेषामथपरं पुनः || शूक्ष्मं लिंगं शरीरं तदामोक्षाक्षयं प्रिये | स्थावराः कृमयश्चापि लोहिताः पशवो मृगाः || कामुका स्त्रिदशास्तद्वत् पक्षिणं च यथा क्रमं | चतुर्विध शरीराणि कृत्वा मुक्ता शहस्रशः || सुकृतात्मावरो भूत्वा ज्ञानी चेन्मोक्षमाप्नुयात् | चतुराशीतु लक्षेषु शरीरेषु शरीरिणां || न मानुष्यं विनान्यत्र तत्वज्ञानं न लभ्यते | अत्र जन्म सहस्राणां सहस्रैरपि पार्वति || कदाचिल्लभते जंतुर्मानुष्यं पुण्यसंचयात् | सोपान भूतं मोक्षस्य मानुष्यं प्राप्यदुर्लभं || यस्तारयति नात्मानं तस्मात् पापतरोत्रकः | नरः प्राप्योनुतं जन्म लब्धा चेंद्रिय सौष्टवं || न चेदात्महितं यस्तु स भवेद् ब्रह्मघातकः | विना देहेन कस्यापि पुरुषार्थो न विद्यते || तस्माद् देहं धनं राज्यं पुण्यं कर्माणि साधयेत् | रक्षेत् सर्वात्मनात्मानंमात्मा सर्वस्य भाजनं || विजितेंद्रियमातिष्ठेज्जीवन् भद्राणि पश्यति | पुनर्ग्रामः पुनः क्षेत्रं पुनः वृत्तिं पुनर्गृहं || पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः | शरीर रक्षणोपायः सर्वदा क्रियते जनैः || नहीछंति तनुत्यागमपि कुष्ठादि रोगिनः | तद्धारितं स्याद्धर्मार्थं धर्मोज्ञानार्थमेव च || ज्ञानं तु ध्यान योगार्थं सोचिरात् परिमुच्यते | अनात्म यदि नात्मान महितेभ्यो निवारयेत् || कान्यो हितकरस्तस्मादात्मानं तारयिष्यति | इहैक नरकव्याधेश्चिकिच्छानु करोति यः || गत्वा निरौषधं देहं व्याधिस्थः किं करिष्यति | यावत् तिष्ठति देहोयं तावत् तत्वं समन्यसेत् || संदीप्ते भवने कोंधः कूपं खनति दुर्मतिः | काश्रीवास्तेजरुचोधः जातिभिन्न घटांबुवत् || निघ्नंति रिपुवद्रोगस्तस्मात् श्रेयः समभ्यसेत् | यावन्न ज्ञायते दुःखं यावन्नायांति चापदः || यावन्नेंद्रिय वैकल्पं तावत् तत्वं समभ्यसेत् | कालेन ज्ञायते नानाकायैः संसारसंभवैः || सुखदुःखैर्जनौ पूर्णनवेन्तिर्हि महात्मनः | यातनार्त्तान्मृतानापनग्रस्तान दृष्ट्या च दुःखितान् || लोको मोह सुरां पीत्वा न विभेति कदाचन | संपदः सुप्त संकणि यौवनं कुसुमोपमं || तडिच्चंचलमायुष्यं कस्यापि ज्ञानत्ये धृतिः | शतं जीवितमत्यल्पं निद्रास्यादर्द्धहारिणी || बाल्यरोग जरादुःखैरुद्धं तदपि निष्फलं | प्रारच्च(?) वै निरुद्योगो जागर्त्तव्ये प्रसुप्तकः || विश्वस्तव्यो भयस्थानेह नरः कोन हन्यते | तोय फेन समोदेहे जीवे शोक व्यवस्थिते || प्. ३अ) अनित्येछ्रिय संवादे कथं तिष्ठति निर्भयः | अहिते हित संज्ञः स्यादध्रुवे ध्रुव चिंतकः || अनर्थे चार्थ विज्ञानी स्वमृत्युं नहि वेत्ति सः | पश्यन्नपि प्रस्खलति शृण्वन्नपि न बुध्यति || पठन्नपि न जानाति देवि माया विमोहितः | सन्निमजज्जगदिदं गंभीरे काल सागरे || मृत्युरोग जराग्राहे न कश्चिदपि बुध्यति | प्रतिप्रायात्पयं कालो जीवन्नपि न लक्षते || आम कुंभ इवांभस्थो विशीर्णस्तद्विभाव्यते | मुद्यते वेष्ठनं वायोराकाशस्य च खंडनं || ग्रथनं च तरंगानांमास्थानायुषि युज्यते | पृथिवी दह्यते येन मेरुश्चापि विशीर्यते || शुष्यते सागरजलं शरीरे देविका कथा | कापत्यमेकलत्रं मेधनं मे वांधवाश्च मे || लिंपंति मृतिमत्यर्थं हंति काल नृको बलात् | इदं कृतमिदं कार्यमिदमन्यत्कृताकृतं || एवमीहा समायुक्तं मृत्युरंति नरं प्रिये | स्वकार्यमप्य कुर्वीतपौवीह्निका पराह्निकं || न हि मृत्युः प्रतिक्षेते कृतं वाप्यथवा कृतं | जरादर्शित पंथानं प्रतिष्ठव्याधि शौनिकं || मृत्यु शत्र्यं प्रविष्टां तु मायां तं किं न पश्यसि | तृष्णा शूची विनिर्भिन्नं सिक्तं विषय सर्पिषा || रागद्वेषा न लेपकं मृत्युरुष्णाति मानवं | वालांश्च यौवनस्थांश्च वृद्धान् गर्भगतानपि || सर्वानाविशते मृत्युंरेवं भूतमिदं जगत् | ब्रह्मविष्णुमहेशाद्या देवतादृत जातयः || नाशमेवानुधावंति तस्मात् श्रेयः समभ्यसेत् | स्व स्ववर्णा समाचार लंघनान्दुष्प्रतिग्रहात् || परस्त्री धनकामाच्च नृणामामुक्षयो भवेत् | वेदशास्त्रार्थमभ्यासा तथैव गुरुवंचनात् || नृणामापुक्षयो भूयादिंद्रियाणामनिग्रहात् | व्याधिराधिर्विषं शस्त्रं क्षुत्सर्प पशवो मृगाः || सर्वं च येन निर्दिष्टं तेन गच्छंतिर्जंतवः | जीवस्तृणजलौका च देहं देहांतरं शिवे || संप्राप्यांतरमंशेन देहं त्यजति पूजां * | वाल्ययौवनवृद्धत्वं यथा देहांतरादिकं || तथा देहांतर प्राप्तिर्गृहाद्गृहमिवागतः | जनाः कृस्त्वेक कर्माणि सुखदुःखानि भुंजते || परत्राज्ञानिनो देवि यांत्यायांत्य पुनः पुनः | इह यत् क्रियते कर्म तत्परत्रोप भुज्यते || मूलसिक्तस्य वृक्षस्य फलं शाखासु दृश्यते | दारिद्र्य दुःखरोगाश्च वंधन व्यसनानि च || आत्मा पराध वृक्षस्य फलान्येतानि देहिनां | निःसंग एव मोक्षः स्याद्दोषाः सर्वे च संगजाः || प्. ३ब्) संगात् पतन्त्यधो ज्ञानीं अवश्यं किमुचाल्पवित् | संगः सर्वात्मनात्याज्यः सा च त्यक्तुं न शक्यते || समद्भिः सहकर्तव्यः सतः संसिद्धि भेषजं | सत्संगश्च विवेकश्च निश्चलं नयनद्वयं || यस्य नास्ति नरः सोंधः कथं न स्यादधर्मगः | यावतः कुरुतेऽजंतुः संबंधान् मनसः प्रिये || तावंतोस्य विशंन्त्येते हृदये शोक शंकरः | स्वदेहमपि जीवोयं त्यक्ता जातिकुलेश्वरि || दुःखमूलो हि संसारः स यस्यास्ति स दुःखितः || तस्य त्यागः कृतो येन स सुखीनावरः प्रिये | प्रभवः सर्वदुःखानां मालयः सकला पदां || आश्रयः सर्वपापानां संसारवर्ज्जयेत्प्रिये | अवध्यवंधनं घोरमस्वीकृत महाविषं || अशस्त्र खंडनं देवि संसाराशक्त चेतसां | आदिमध्यावसानेषु दुःखं सर्वमिदं जगत् || तस्मात् संत्यज्य संसारं तत्वनिष्ठः सुखी भवेत् | लोहदारुमयैः पाशैर्दृढवद्धोपि मुच्यते || स्त्रीधनादीष्ट संसक्तामुच्यते न कदाचन | कुटुंब चिंतायुक्तस्य शांतिशीलादयो गुणाः || अपंककुजलवन्नश्यत्यंगेन केवलं | संचिता शेषवित्ताद्यै नित्यं लोको विनाश्रितः || हाहंतु विषयाहारो देहातेंद्रियतस्करैः | मांसलुब्धा यथा मत्स्यो लोहशंकु स्वपश्यति || अथ लुब्धस्तथा देहीयमवाधां न पश्यति | हिताहितमजानंती नित्यमुन्मार्ग गामिनः || दक्षि पूरुण निष्ठायेते बुधानारकाः प्रिये | निद्रादि मैथुनाहाराः सर्वेषां प्राणिनां समाः || ज्ञानवान् मानवः प्रोक्तो ज्ञानहीनः पशु प्रिये | प्रभाते मलमूत्राभ्यां मध्याह्ने क्षुत्पिपासया || रात्रौ मदन निद्राभ्यां षाध्यंते मानवाः प्रिये | स्वदेह धर्मदारादि निरताः सर्वजंतवः || जायंते च म्रियंते च हाहंतु ज्ञानमोहिताः | स्वस्ववर्णाश्रमाचार निरताः सर्वजंतवः || न जानंति परं धर्मं वुधानश्यंति पार्वति | क्रियायाः स्वपराः केचित् केचित् व्रत परास्तथा || अज्ञान संवृतात्मानः स चरंति प्रतारकाः | नाममात्रेण संतुष्टाः कर्मकांडरतानराः || मंत्राचारस्तु होमाद्यैर्भ्रामिता क्रतु विस्तरैः | प्रकारक्तो प्रवासाद्यै नियमैः कायशोधनैः || मूढाः परोक्षमिच्छंति तव माया विमोहिताः | देहदंडेन मात्रेण का मुक्तिर विवेकिनां || वलरिक ताडना देवि मृतः कुत्र महोरगः | धनहारोजने मुक्तादांभिका वेशधारिणः || भ्रमंति ज्ञानिवल्लोके रमयंते जनप्रिये | सांसारिक सुखाशक्तं ब्रह्मज्ञोस्मीति वादिनं || प्. ४अ) कर्मवंधो भयभ्रष्टं तत्यजेदं त्यजं यथा | गृहारण्य समालोके गतव्रीडादिगंवरा || चरंति गर्द्धभाद्याश्च विविक्तास्ते भवंति किं | मृद्भस्मद्धू ततो देवि मुक्ताःस्यु यदि मानवाः || मृद्भस्मवासिनःम्माद्याः किं ते युक्ता भवंति हि | शीतवाता तपसहा भक्षाभक्ष समाः प्रिये || चरंति गर्दभाद्याश्च ज्ञानिनस्ते भवंति किं | तृणपत्रोदकाहाराः सततं च न वासिनः || हरिणादि मृगाः देवि तापसास्ते भवंति किं | आजन्ममरणांतं च गंगानीरं समाश्रिताः || मंडूकामत्स्य प्रमुखा व्रतिनस्ते भवंति किं | वदंति हृदयानंदं पठंति शुकसारिकाः || जनानां पुरतो देवि विवुधास्ते वदंति किं | पारावताः शिलाहाराः परमेश्वरि चातकाः || न पिवंति महीतोयं व्रतिनस्ते भवंति किं | तस्मादित्यादिकं कर्मलोकरंजन कारणं || मोक्षस्य कारणं साक्षात् तत्वज्ञानं सुरेश्वरि | षडदर्शन महाकूपे यति तान्य शवः प्रिये || परमार्थं न जानंति पशुपाश नियंत्रिताः | वेदशास्त्रार्णवे घोरे मुह्यमानार्ह तत् ततः || ज्ञानोर्निग्रहग्रस्तास्तिष्ठंतिह कुतार्किकाः | वेदागमपुराणदः परमार्थं न वेत्तियः || विडंवकस्य तस्यैव तत्सर्वं काकभाषितं | इदं ज्ञानमिदं ज्ञेयमिति चिंता समाकुलाः || पठंत्यहर्निशं देवि परतत्वपरांमुखाः | वाक्य छंदो निबंधेन काव्यालंकारशोभिना || चिंतया दुःखिता मूढास्तिष्ठंति व्याकुलेंद्रियाः | अन्यथा परमं तत्वं जनाः कॢश्यंति चान्यथाः || अन्यथा शास्त्र सद्भावो व्याख्यां कुर्वंति चान्यथाः | कथयत्त्पुन्मनी भावं स्वयं नानु भवंति च || अहंकारहताः केचिदुपदेशादि वर्जिताः | पठन्ति वेदशास्त्राणि विवदन्ति परस्परम् || न जानन्ति परं तत्वं दर्वीपाकरसं यथा | शिरो वहति पुष्पाणि गंधं जानाति नासिका || पठंति वेदशास्त्राणि दुर्लभो भावभेदेकः | तत्वमात्मस्थमज्ञात्वा मूढः शास्त्रे विमुध्वति || ज्ञेयः दक्षिगते शास्त्रे कूपं खनति दुर्मतिः | संसारमोहनाशायशाष्टवोधो हि न क्षमः || न निवर्तेति तिमिरं कदाचिद् दीपवर्तिया | प्रज्ञा हीनस्य पठनं अंधस्या दर्शनं यथा || देवि प्रज्ञावतः शास्त्रं तत्वज्ञानस्य साधनं | अग्रतः पृष्ठतः केचित् पार्श्वयोरिति केचन || तत्वमाख्यातमिति वै विवदंति परस्परं | सद्विद्यादान सौर्याद्यैगुणैर्विख्यात मानवः || इंदृशस्तादृशश्चेति दूरस्थः कथ्यते जनैः | प्रत्यक्ष ग्रहणं नास्ति वर्तेया ग्रहणं प्रिये || प्. ४ब्) एवं ये शास्त्रसंमूढास्ते दूरस्थान संशयः | इदं ज्ञानमिदं ज्ञेयं सर्वं तत् श्रोतुमिच्छति || देवि वर्ष सहस्रेण शास्त्रांत नैव गच्छति | वेदाघनेकशास्त्राणि खल्वायुर्विघ्नकोटयः || तस्मात् सारं विजानीयात् क्षीरं हंस इवांभसः | अभ्यस्य सर्वशास्त्राणि तत्वज्ञात्वाप्य बुद्धिमान् || पलालमिव धान्यार्था सर्वशास्त्राणि संत्यजेत् | यथामृतेन तृप्तस्य नाहारेण प्रयोजनं || तत्वज्ञस्य तथा देवि न शास्त्रेन प्रयोजनं | न वेदाध्ययनान्मुक्तिः न शास्त्रपठनादपि || ज्ञानादेव हि मुक्तिःस्यानान्यथा वीरवंदिते | नाश्रमाः कारणं मुक्तौ दर्शनानि न कारणं || तथैव सर्वकर्माणि ज्ञानमेव हि कारणं | मुक्तिदा गुरुवाक्यैकाविद्याः सर्वविडवंकाः || कष्ठभाव समायस्मदेकं संजीवनं परं | अद्वैतं हि शिवं प्रोक्तं क्रियायाम विवर्जितं || गुरुवक्त्रेण लभ्येत नान्यथागम कोटिभिः | आगमोत्थं विवेकोत्थं द्विधा ज्ञानं प्रचक्ष्यते || शब्दब्रह्मागममयं परंब्रह्म विवेकजं | अद्वैतं केचिदिच्छंति द्वैतमिच्छंति चापरेः || समं तत्वं न जानंति द्वैताद्वैत विवर्जितं | द्वेपदे वंढमोक्षाय ममेति निर्ममेति च || ममेति वाध्यते जंतुर्निर्ममेति विमुच्यते | तत्कर्म यत्र वंधाय सा विद्याया विमुक्तिदा || आयासायेतरत्कर्म विद्यान्या शिल्पकल्पना | यावत् कामाद्विमुच्येत यावत्सारवासना || यावदेंद्रिय चापल्यं तावत् तत्व कथा पुनः | तावत् तत्यो व्रतं तीर्थं जपहोमार्चनादिकं || वेदशास्त्रागम तथा यावत् तत्वं निविंदतिं | तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा || तत्वनिष्ठो भवे देवि यदीछेन्मोक्षमात्मनः | धर्मज्ञान सु पुष्पस्य स्वर्गभोगफलस्य च || ता पुत्रयार्ति संतप्त छाया वृक्षस्य चाश्रये || वाशिष्टे वशिष्टवाक्य || य इदं दृश्यते सर्वं जगत्स्थावरजंगमं | तं सुषुप्त विवस्वप्नः कल्पांत प्रविने नश्यति || ततस्ति मितगंभीरं न तेजो न तमं ततं | अनाख्य मनभिच्यक्रं सत् किंचिद वशिष्यते || * (?) नमात्मा परंब्रह्म सत्यमित्यादिका बुधैः | कल्पिता व्यवहारार्थं तस्य संज्ञा महात्मनः || श्रुतिरपि || एकमेवाद्वितीयं ब्रह्मनेह नामास्ति किंचन || इत्युक्ता दिशा वेदागमादिभिः || संसारस्य मिथ्यात्व ज्ञाते || मानवोधोऽपेक्षितः || शब्दाशाब्द एव बोधः न तु मानसः तस्मैवं मानस विपरीत भाचका संदेहनाशकत्वं मानस प्. ५अ) भ्रमत्वेन मानस विशेषदर्शनत्वेम | वहिरिंद्रिजं यजन्य भ्रमत्वे नैवं वहिरिंद्रियजन्य विशेष दर्शनत्वेन नाशानाशक भावस्य कॢप्तत्वादिति || मानस वोधं तु || कर्मभिर्मनः शुद्धिद्वारेति प्रागेवोक्तं | स च प्रकृति सेति || तस्मात् संसारमोहनाशाय श्रीभवानी भजनमावश्यं स्वीकार्यामिति || श्रीपूर्णानंदनाथेन कृतायां गुरुभावतः कुलवृत्तौ स्वतंत्रायां प्रथमः पटलः शुभः || यद्यपि मुक्तौ वहुदर्शन वहवः प्रकाराः संति तथापि प्रकृतिभजनमावश्यकं | अविद्या नित्यत्व साध्यत्वान्मुक्तेः | अविद्यां निवृत्तायां | केन मात्मैवापरमि वर्तते इति वेदांतिभिरपि प्रतिपादितं | तदुक्तं भावचूडामणौ || शाक्तं ज्ञानं विना मुक्तिर्यथाहास्याय कल्पते | इति अन्येषां कारणानां | * * * * * * (?) प्रयोजकत्वमिति | तदुक्तं भावचूडामणौ || नत्वं योगेन च ज्ञानैर्त्र श्रुत्या न गुरुक्रमैः प्रकृत्या क्रियते कस्य स प्रकृत्या ज्ञायते पुमान् स सर्व * * * * * * * (?) भवे सर्वेस्य जडतां गतः | साक्षात्कारण मे तत्तु प्रकृतिश्चैव भवेति | श्रुतिरपि | मायवासौ जगद्रूपेन परिणमते | अथ मायायैवनुरूपधावति | मायायैव बंधमुक्ता अर्थानुसारतः इति | वाशिष्ठे || अविद्यैवोत्त मया स्वात्मनाशोघमो यथा | विद्या सा प्राप्यते समसाधनैव तदेच्छया || भजनेपि वहुदर्शने विहिता वहवः प्रकाराः शंति | तेष्वपि कुलमार्गानु संध्येहः आवश्यकत्वात् || तदुक्तं कुलार्णवे || वहुनात्र किषुक्तेन रहस्यं शृणु पार्वति | कुलमार्गादृते मुक्तिर्नास्ति स तत्व संशयः || अथ कुलधर्म विवरणं | तत्र कुलधर्म लक्षणं | दिव्यवीर भावान्वित कर्तृका सिद्धियोगीश्वर मतविहित तत्तन्मंत्र पूर्वक पंचमकारक * * (?) जनमेव कुशलेधर्मः | कुलशब्दार्थस्तु कुलोडीशे | कुलं मद्यं कुलमांसं कुलसिद्धः कुलं रजः | कुलं कुंडलिनीं शक्तिरकुलं शिव उच्यते || तदुक्तं कुलार्णवे || श्री उमोवाच || कुलेशे श्रोतुमिच्छामि सर्वजीव दयानिधे | कुलेग्र संक्तयो देवसूचितो न प्रकाशकः || तस्य धर्मस्य माहात्म्य सर्वधर्मोक्तसस्य च | वद मे परमेशान यदि चास्ति कृपामपि || ईश्वर उवाच || * * * * * * (?) वक्ष्यामि यन्मां त्वं परिपृच्छसि तस्य स्मरण मात्रेण योगिनां सुप्रियो भवेत् | प्. ५ब्) ब्रह्मविष्णु गुहादीनां मया कथितं पुरा | कथयामि तव स्नेहात् शृणुष्वेकाग्र मानसा || पारंपर्य क्रमाश्रायातं वक्त्रादुक्त्रेषु संस्थितं | अकथ्यं परमार्थेन तथापि कथयामिते || त्वयापि गोपितव्यं हि न देयं यस्य कस्यचित् | देवं भक्ताय शिष्याय चान्यथा पतनं भवेत् || सर्वेभ्यश्चोत्तमा देवा देवेभ्यो वैष्णवोपरः | वैष्णवादुत्तमं शैवं शैवाद्दाक्षिण्यमुत्तमं || दक्षिणादुत्तमं वामं वामात् सिद्धांतमुत्तमं | सिद्धांतादुत्तमं कौलं कौलात्परतरं न हि || सर्वेभ्य उपास्येभ्य इत्यर्थः | विष्णुरेव वैष्णवः | स्वार्थेन शिव एव शैवः | अत्रापि तथा | दक्षिणं श्रुत्युक्त प्रकारेण देवी भजनं | वामे अध आम्नायोक्त वौद्धक्रमेण भजनं || सिद्धान्तस्त्वमसीति वाच्यार्थमननुरूपभजनं इत्यर्थः | गुह्याद्गुह्यतरं देवि सारात्सारं परात्परं | साक्षात् परशिवं देवि कर्णाकर्णिगतं कुरु || कर्णाकर्णिगतं कर्णेवकर्णे च कथनं गतं गुह्य कथन योग्यमित्यर्थः | मथित्वा ज्ञानदंडेन वेदागम महार्णवां सारज्ञेन मया देवि कुलधर्मः समुद्धृतः | एकतः सकलाधर्मा यज्ञतीर्थव्रतादितः | एकतः कुलधर्मस्तु तत्वं कौलाधिकं प्रिये || प्रविशंति यथा नघः समुद्रष्टजुर्वक्रगाः | तथैव समयाः सर्वे प्रविष्ठां कुलमेव हि || यथा हस्ति पदे लीनं सर्वप्राणिपदं भवेत् | दर्शनानि च सर्वाकुलमेव तथा प्रिये || यदा याम्व नदानां च शदृशं लौहमस्तिचेत् | तदा च कुलधर्मेण समयान्यः समो भवेत् || यथा मरतरंगिन्याः न समासकलापगाः | तथैव सम वा सर्वे कुलधर्मेण ना समाः || मेरुः सर्षपयो यद्वत् सूर्य खद्यो तयोरपि | तथान्य समयानां च कुलस्य महेदंतरं || अस्ति चेत् त्वत् समानारीमत्समः पुरुषोत्तिचेत् | कुलेन समधर्मस्तु कथयेतस्तदा प्रिये || कुलधर्मं हि मोहेन योन्यधर्मेण दुर्मति | स कृत्रीं सारिकं व्रूया सत्याद्योहीनयातिवत् || यो वै कुलाधिकं धर्ममज्ञानाद् वदति प्रिये | ब्रह्महत्याधिकं पापं स प्राप्नोति न संशयः || कुलमार्गं समारुह्य गुरुवक्त्रान् नरोममः | दुर्गाद्वीपांतरं गत्वा मोक्षरत्नं समश्रुते || दर्शनेषु च सर्वेषु चिराभ्यासेन मानवाः | मोक्षं लभंते कौले तु सद्य एव न संशयः || वहुनात्र किमुक्तेन शृणु मत्प्राण वल्लभे | न कौलसमधर्मोस्तित्वांशके कुलनायिके || प्. ६अ) योगी चेन्नैव भोगीस्या भोगी चेन्नैव योगवित् | योगभोगात्मकं कौलं तस्मात् सर्वाधिकं प्रिये || भोगोयोगायते साक्षात्पातकं सुकृतायते | मोक्षायते च संसारः कुलधर्मे कुलेश्वरि || ब्रह्मेंद्राच्युत रुद्रादि देवता मुनिपुंगवाः | कुलधर्म परादेवि मानवेषु च का कथा || विहाय सर्वधर्मांश्च नाना गुरुमतानि च | कुलं चैव हि जानीया यदी छेदात्मनोहितः || पूर्वजन्म कृताभ्यासात् कौलज्ञानं प्रकाशते | सुप्तोस्थित प्रत्यय वदुपदेशादिकं विना || जन्मांतर सहस्रेण या बुद्धिर्विहिता नृणां | तमेवाभ्यसते जंतुरुपदेशो निरर्थकः || शैव वैष्णव दौर्गार्के यातपत्येंदु संभवैः | मनौ विशुद्धचित्तज्ञा कौलज्ञानं प्रकाशते || शुद्धचित्तस्य मानस्य धर्मिणो गुरुसेविनः | अतिगुह्यस्य भक्तस्य कौलज्ञाने प्रकाशते || श्रीकुलशास्त्रेषु कौलिषुकेषु कुलान्वये | यस्य भक्तिर्दृढा तस्य कौलज्ञानं प्रकाशते || शुद्धैर्विनय हर्षाद्यैः सदाचारैर्दृढव्रतैः | गुर्वाज्ञा पालकै धर्मै कौलज्ञानं प्रकाशते || अनर्हे कुलविज्ञाननतिष्ठति कदाचन | तस्मात् परीक्ष्य वक्तव्यं कुलज्ञानं महोदयं || दयोग्या शिवधर्मं तु दयोग्ये शिवसासनं | आज्ञाभंगं द्वियः कुर्याद् देवता सापमाप्नुयात् || आराध्य समयाचारं कुलधर्मं वदेद्यदि | स गुरुश्चापि शिष्य सुयोगिनीनां भवेत् पशुः || बोधयित्वा गुरुः शिष्यं कुलधर्मं प्रकाशयेत् | लभते ता वुभौ सद्यो योगिनी वीरमेलनं || अनायासेन संसारसागरं यस्तितीर्यति | कुलधर्ममिमं ज्ञात्वा मुच्यते नात्र संशयः || कुलधर्म महामार्गगतो मुक्तिपुरी व्रजेत् | अचिरान्नात्र संदेहः तस्मात् कौलः समाश्रयेत् || कुलशास्त्रमनादृत्य पशुशास्त्रं समाभ्यसेत् | स्वगृहे पायसं त्यक्त्वा भिक्षा भवति दुर्मति || स धान्यराशि मुत्सृज्यपांशुराशि जिघृक्षति | कुलान्वयं परित्यज्य यो बाल्यान्वध्यमीक्षते || तृषार्त्तो वै तडागानि मृगतृष्णां प्रधावति | यथेंद्र जालया मायाः क्षणमेव सुखावहाः || श्रीकौलादन्य समयाः सदृशाः कुलनायिके | कुलधर्मं च न ज्ञात्वा मोक्षमिच्छति दुर्मतिः || पारावारमपारं च वाहुल्यांतर्त्तुमिच्छति | योवान्य दर्शनेभ्यश्च भुक्तिं मुक्तिं च कांक्षति || प्. ६ब्) स्वप्नलब्ध धनेनैव धनवास भवेद् यदि | शुक्तौ रजत विभ्रांतिर्द्यथा जायेत पार्वति || तथान्ये समयेभ्यश्च भुक्ति मुक्ति प्रशस्यते | सर्वकर्मविहीनोषो वर्णाश्रम विवर्जितः || कुलनिष्ठः कुलेशानि भक्तिम्मल्योः स भाजनं | कुलज्ञान विहीनोपि कुलभक्तो भवेद्यदि || सोपि सद्गतिमाप्नोति किमुतस्य परायणः | कुलधर्म हतो वृत्ति रक्षतश्च क्षतिं प्रिये || पूजितः पूजयायाशु तस्मात्तनु परित्यजेत् | निंदः तु वांधवाः सर्वेत्यजंतु स्त्रीसुतादयः || जनाः हंस तु मां नित्यं राजानो दंडयं तु वा | सेवे सेवे पुनः सेवेत् वा मेष परदेवते || तद्धर्मं नैव मुंचामि मनोवाक्वाय कर्मभिः | एवमाद्ययतिस्यापि यस्य बुद्धि सुनिश्चिता || स तु संपूज्यते देवैरसुत्र च शिवो भवेत् | दारिद्र्य दुःखरोगाद्यै पीडितोप्पनिशं प्रिये || यस्त्वा सुपास्ते सद्भक्त्या सत्वत्पदमवाप्नुयात् | जप्त्वास्तुवं तु निंदं तु लक्ष्मीर्गच्छंतु तिष्ठतु || मुक्तिरद्य पुगांते वा न कौलं परिवर्जयेत् | नार्थ लाभान् चक्रोधान्न भयत्वेन मत्सरात् || न कामान्न भयाद्दोपि कुलप्राप्तं परित्यजेत् | यो ज्ञात्वा नार्चयेत्वां तु कुलधर्म समाश्रितः || कुत्सितो यातमात्रेण सूभारेणात्र शत्रुना | पुलको इव धान्येषु जन्मांधा इव जंतुषु || शुद्धुदा इव तोयेषु ये कौलो विद्मयो हिते | तरवोपि हि जीवंति जीवंति मृगपक्षिणः || सजीवति मनो यस्य कुलधर्मे व्यवस्थितः | कुलज्ञान विहीनस्य दिनान्यायांति यांति च || स लोहकार भस्त्री वस्त्रशन्नपि न जीवति | गच्छतस्तिष्ठतो वापि जाग्रतः सुपतोपि वा || कुलोश्वरि कुलाज्ञास्य तत्पशोरिति जीवितं | विद्वानपि सुमूर्खो सौधार्मिको वाप्यधार्मिकः || व्रतस्थोप्य व्रतस्थोपिवस्थो हि यः कौल विमुखो जनाः | जातास्त एव जगति जंतवः साधु जीविनः || कुलधर्म परादेवि शेषा जरतगर्दभाः | स प्रभा मुच्यते सद्भि कुलधर्म परायनः || अपरस्तु परं पृष्ट्यांमस्ति दृढत्व चावृतः | चतुर्वेदी कुलाज्ञानी स्वपचादधनः प्रिये || स्वपचोभि कुलज्ञानी राक्षसादतिरिच्यते | गुरुकारुण्य पूतं तु देहनिर्द्धूतकल्मषः || कुलजीवरतो देवि सोयं कौलो न चापरः || यः कौलिकः कुलज्ञानं न पश्यति न विंदति न पूजयति धिक्तस्य काकस्य वहि जीवितं || प्. ७अ) तरंत्याः पुण्यकर्माणो वेत्तारस्ते च योगिनः | येषामुत्पद्यते चित्ते कुलज्ञानमयोदितं || यत् सर्वयज्ञारचितं धर्मेण प्रवेशितं | प्रविशंति कुलं धर्मं ये वै सुकृतिनो जनाः || ते पुनर्जननी गर्भ न विशंति कदाचन | प्रसंस्यनापि यः कश्चिकुलज्ञानमितीरयेत् || कुलं तस्या कुलं देवि भवति त्वदनु ग्रहात् | कुलयज्ञ कुलेशानि नान्यधर्मः प्रयोजनं || कुलाज्ञास्यापि तथा नान्यधर्मः प्रयोजनं | कुलेशि कुलनिष्ठानां कौलिकानां महात्मनां || ददामि परमं ज्ञानमंत्र कालेन संशयः | चिन्मयो सात्मफलदं काक्षंतं समयं जनाः || मुखेन सर्वफलदं कौलिकं हि न वेत्यहो | कुलज्ञो हि स पर्वज्ञो वेदशास्त्रो व्रतोपि वा || वेदशास्त्रागमज्ञोपि कुलाज्ञः प्यज्ञ एव सः | जानंति कुलमाहात्म्यं त्वद्भक्ता एव नापरे || एको वा एव जानंति नान्ये चंद्र रुचारुचिं | कुलज्ञा एव तुष्यंति श्रुत्वा कुलकथां प्रिये || बाल्यरूपं विवर्द्धंते ज्योत्स्नया किं समुद्रवत् | नान्यधर्ममवेक्षंते कौलिकाः पारवेदिनः || भृंगाः पुष्पांतरं तस्य मंदारामोदसेविनः | मानयंति च सर्वज्ञा कुलधर्मं न चे परे || शिरः शिरपिष्वंतेद्धं सिंहिके यो ग्रसेत्यहो | प्रतिज्ञा एव जानंति नवेत्ति कुलदर्शनं || जलमिश्रपयः पानं पक्षीकोवेत्ति हंसवत् | शिवशक्तिमया लोको लोके कौले प्रतिष्ठितः || तस्मात् सर्वाधिकं कौलं सर्वसाधारणं कथं | षड्दर्शनानि चांगानि पादौ कुक्षिः शिरः करौ || तेषु भेदं हि यः कुर्यान्मादं गच्छेत को हि सः | एतान्येव षडंगानि कुलस्यापि भवंति हि || तस्मान्मदात्मकं कौलमहं कौलात्मकं प्रिये | दर्शनेष्व खिलेष्वेक फलदं चैक दैवतं || भुक्ति मुक्ति प्रदाद्वारां ज्ञानेस्मिन् दैवतः प्रिये | लोकधर्म विरुद्धोपि सिद्धयोगीश्वरी मते || कुलं प्रत्यपूजा मालयं याति प्रत्यक्ष फलदं यतः | प्रत्यक्षं च प्रमाणानां सर्वेषां प्रथमं प्रिये || व्रपलब्धिवशात्तस्य हताः सर्वे कुतार्किकाः | परोक्षे को तु जानीते कस्यकिन्न भविष्यति || यद्वा प्रत्यक्षफलदं तद्देवोत्तम दर्शनं | कुलधर्ममिमं ज्ञात्वा मुच्यंते सर्वमानवाः || इति मत्वा महेशानि मया लोके विगर्हितं | त्वत्कारुण्य विहीनानां कुलज्ञान विरोधिनां || प्. ७ब्) पशूनाम न भिज्ञाना कुलधर्मो विगर्हितः | यस्य जन्मांतरे पापं कर्मबाधाधिका भवेत् || न तस्य गुरु कारुण्यं कौलज्ञानः न जायते | यथांधो नैव पश्यंति सूर्यं सर्वप्रकाशकं || तथा कुलेन जानंति तव माया विमोहिताः | शैव वैष्णव बौद्धादि दर्शवान्यपि भक्तितः || भजंते मानवा नित्यं वृथा यासु फलानि वै | वेदशास्त्रागमप्रोक्ते भोगमोक्षैक साधनं || मूढा निंदंति हा हंत मत्प्रियं तव दर्शनं | भ्रामिताश्च मया देवि पशवः शास्त्रकोविशु || कुलधर्मेन जानाति वृथा ज्ञानाभि मानिनः | पशुशास्त्राणि सर्वानि मयैव कथितानि हि || वृर्त्यंतर तु गत्वैव मोहनाय दुरात्मनां | महापापेषु जंतूनां परं वांछा विजायते || तेषामेव गतिर्नास्ति कल्पकोटि शतैरपि | प्रेच्यमानेपि पापात्मा ज्ञाने नैव प्रवर्तते || वार्प्यमानेन धर्मात्मा कुलमेवान मुच्यते | कुलधर्मेण देवत्वं देवाः संप्रतिषेदिरे || मुनियोगीश्वरायेतु कुलात्सिद्धिं परांगताः | पशुव्रतादि विरताः खुलभादंभिका भुवि || ये कौलदेव सेवंते ते महांतो हि दुर्लभाः | मानवा वहवः संति मिथ्या तत्वार्थवादिनः || दुर्लभा ये महेशानि कुलतंत्रविशारदाः | सदारोगा तुराद्देवि मानवाः कुलनायिको || दिव्यौषधं न सेवंते महाव्याधिविनाशनं | तस्या विवर्द्धना पथ्यं कुर्वंति हि कुभोजनं || तथैव जन्ममरणं कृती सांसारिकीं क्रियां | समाचरंति सततं त्वत्कारुण्य विवर्जिताः || न भजंते कुलधर्मं भव बंध विमोचनं | यथा लवणत्व शूनमरीचादि वनिग्जनं || पदार्थान् मानवाः प्रीत्या याचंते कुलनायिके | अनर्घ्यानि च रत्नानि न याचंते हि केचन || तथैव पशुशास्त्राणि कार्याया स फलानि च | इति पृच्छंति मूढा हि तव माया विमोहिताः || कुलधर्मं न पृच्छंति भुक्ति मुक्ति फलप्रदं | कस्तूरीं कर्दमधिया कर्पूरलवणेच्छया || शर्करां कर्करधियामणिं काचमनी मया | यथा दृष्ठं हि मनुते करस्थमपि पामरः || तथा कौलं न जानंति त्वत्प्रसाद विवर्जिताः || अह्ये मोहस्य माहा * * (?) त्वन्मायाजनितस्य च किन्नु वक्ष्यामि देवेशि मोहयेदमरानपि | पेयं मद्यं पलं खाद्यं मालोक्यं प्रियया मुखं इत्येषावरणं * (?) परां प्राप्य परं * * * (?) रुकारुण्य स * * * (?) मीदृशं कुलदर्शने || प्. ८अ) त्वद्भक्ता एव जानंति नेतरे भुक्तिमुक्तिदं | गुरूपादेश निरता न जानन् भक्ति केचनः || मोहयंति जनाः केचित् स्वयं पूर्व विमोहिताः | दुराचारपराः केचिद्वाचयंति हि पामराः || कथ्यं भूतोद्भवस्वामी सेवकाः स्युः कथं विधाः | वहवः कौलिकं धर्मं मिथ्याज्ञान विडंवकाः || स्वषुद्ध्या कल्पयंतीमं पारंपर्य विवर्जिताः | मद्यपानेन मनुजा यदि मूक्ति लभेत चेत् || मद्यपानरताः कैंचिं सर्वेसिद्धिं यांति समीहितां | मांसभक्षण मात्रेण यदि पुण्यगतिर्भवेत् || लोकेमां पासिनः सर्वे पुण्यवंतो भवंति किं | स्त्रीसंभोगेन देवेशि यदि मोक्षं व्रजंति चेत् || सर्वोपि जंतवो लोके मुक्ताः स्युः स्त्रीनिसेवनात् | कुलमार्गो यथा देवि न मया निंदितः क्वचित् || आचार रहिता येत्र निंदितास्तेन ये तरे | अन्यथा कौलिके धर्मेध्वावारः कथितो मया || विचरंते यथा देवि मूढाः पंडितमानिनः | कृपालं वादागमनाव्या प्रकंटावलंवनात् || भुजंगधारयान्ननमशक्यं कौलदर्शनं | वृथापानं तु देवेशि सूरापानं तदुच्यते || तन्महापातकं ज्ञेयं वेदादि सु निरुपितं | अनाघ्रेय मनालोक्य मस्पृश्यं चाप्य पेयकं || मद्यं मांसं पशूनां च कौलिकानां मतं फलं || एषे तु पर्युपासः शूचितः || अमेध्यानि द्वितजातीनां मद्यान्येकादशैख तु | द्वादशं तु सुरामद्यं सर्वेषां मधमं स्मृतं || सुरा वै मलमन्नानां दृष्ट्वा च मनमुच्यते | तस्माद् ब्राह्मणहाजातौ वैश्यशून सुरां पिवेत् || सुरादर्शनमात्रेण सूर्यदर्शन माचरेत् | तद्गंधघ्राणमात्रेण प्राणायाम त्रयं चरेत् || अन्न आतातुभ्यां भवेत् स्तालंघां भवेत् | स्त्राणं नियतेप्लुप्रवसेद्दिहधेदि || उर्द्ध्वं नाभैत्रिरात्रस्तु मद्यसंस्पर्शनैविधिः | सुरापाने कामकृते ज्वलंतीतो सुरां पिवेत् || अथं तस्य विनिर्दग्धं ततः शुद्धिममाप्नुयात् | मद्यस्पर्शादि दोषस्य प्रायश्चित्तीति संस्मृतिः || अविधानेन योहन्यादात्मानं प्राणिनं प्रिये | निवसेन्नरके घोरे दिनानि पशुरोमभिः || सम्मितानि दुराचारस्तिर्यग्योनिश्च जायते | अच्चमंता विश्वसितानि हताक पविक्रपौ || संद्धर्ता चोपभोक्ता च खादितातौ च ते समाः | उपभोक्तेति उपसमर्यस्तु इत्यनानार्थेकस्तेन भोजयितेत्यर्थः || प्. ८ब्) धनेन क्रयकोहंति खादिता चोपभोगतः | घातको वंधवंधाभ्यां मित्युक्त त्रिविधो वध || सदृश्य संस्पृश्य सूर्यदर्शन माचरेत् | तस्माद विधिना मांसं सेवयेन्त हि सेवते || विधिवत्सचे देवितरसात्वं प्रसीदति | संनाशयस्य परानज्ञा सत्य मे तद्दुरात्मने || तृणं वाप्य विधानेन हत्वा पाशैः वलिप्यते || छेदयेत् न कदाचना || विधिनायां द्विजं वापि ही * (?) पापैर्नलिख्यते | वहुनात्रं किमुक्तेन सारमेकं शृणु प्रिये || जीवन्मुक्ति सुखोयं बुद्धशास्त्रेषु गोपितं | यन्मुमुक्षोः फलं देवि कनकास्यवसौरभं || कुलज्ञो स्यूर्द्ध विज्ञानं तत्पदं तदमुत्तमं | कुलशास्त्राणि सर्वाणि मार्ययुक्तानि पार्वति || प्रमाणानि न संदेहो न दातव्यानि हेतुभिः | देवताभ्यः पितृभ्य * (?) मधुवातार्द्ध्यतायतेः || स्वदिष्टयानादेष्टया क्षीरं सर्पिमधूदकं || हिरण्य पात्रत्वा दिवाचावधूतः पुरुषः पशुं सद्यो दीक्षयतोत्पाद्याः प्रमाणं श्रुतयः प्रियो इति ते कथितं किंचित् कुलमाहात्स्यर्मबिके | समासन कुलेशानि किं भूयः श्रोतुमिच्छसि | एभिर्वचनैः श्रीमहादेवेनोक्त विधिभिसमं पर्युदानः प्रदर्शितः तत्रादौ सामान्यतः तंत्रशास्त्राणित्यं निरूप्य विशिष्य कुलतंत्र प्रामाण्य निरुप न मुचितं | तदंतर्गतस्य कुलतंत्रस्य | इत्यादौ सामान्यशास्त्रे निरूपणं | अत्र यद्यपि मूर्खान् पशून् प्रतिविचारो नास्तिकौ कौलिकाः पंडिताः स्वत एव जानते | तथापि प्रथमाधिकारिणत्वा शिष्यं विचारयामासः | मनु कथं तंत्रशास्त्रं प्रमाणं वेदामुलकत्वात् | सर्वेषां स्मृति प्रमणं भारत रामायणादीनां प्रामाण्य हेतुर्वेद मूलक तत्रैव | अत एव कापालिकादिनतानां बौद्धमतजलताडन चैत्य वंदन विधाय कामां वचनानां स्व स्वबुद्धिविहित क्रिया प्रतिपादकय च नानाप्रामाण्यं वेदामूलकत्वं | वेद प्रतिपादितार्था वोधकत्वंमिति | पुराणेषु तंत्रानां निंदा पशुपते | तथापि पद्मपुराणे | स्वागमैः कल्पितैरेवमनान भद्विमुखान् कुरु | तथा कूर्म पुराणे गौरीः हिमवताः संवादे || प्. ९अ) अतादृतानां तंत्राणां संख्यानमिह कथ्यते | तस्माद् वै वेदवाह्वानां रक्षणार्थाय पापिनां || विमोहनाय शास्त्राणि करिष्यामि वृषध्वज | एवं संबोधितो रुद्वो माधवेन शरीरिणा || चकार मोहशास्त्राणि केशवोपि शिवोरितः | कापालं भैरवं नाम भैरवं पूर्व पश्चिमं || पंचरात्रं पाशुपतं तथान्यानि वस्त्रस्वराः | सृष्टान्येतानिभो देवाः कुर्वाणाः शास्त्रचोदितं || पतंति निरयो घोरे वहु कल्पान् पुनः पुनः | कापालं पंचरात्रं च यामलं वा समाहितः || एवं विधानि चान्यानि मोहनार्थेनितानि तु | तस्मादागमशास्त्रेण प्रमाणं वेदामूलकत्वात् || किंतु वेदप्रामाण्यं अनित्य जनकत्वं इष्टजनकत्वं च || नान्यः हेतोरव्यापकत्वात् || यत्र यत्रत्व मूलकत्वं तत्रानि जनकत्वं नास्ति | रागपरिप्राप्ता निषिद्ध भोजनाद्यै व्यभिचारात् || नेतरः | वेदामूलकत्वेपि भोजनादौ स च जनक्त्वात् | ननु असामान्यं तावत् | अद्यष्टाजनकत्वं वाच्यं तेन तंत्रशास्त्रं अदृष्टाजनकं वेदा मूलकत्वात् | सत्ये वेदामूलकत्वेपि वेदस्यादृष्टजनकत्वात् | द्व्यभिचारः तितरः वेदामूलकत्वेपि भोज वेदस्य वेदमूलकत्वे अनवस्थात्र * * (?) | शास्त्राणां प्रामाण्यं तु वेदां तत्व निबंधनं | आप्तत्वं तु भ्रमत्वमपवाद विप्रलिप्साकरणा पाटवराहतत्वामिति तद्यथा वेदे तथा तंत्रे च | वेदमूलकता प्रागेवदर्शिता | प्रदश्यतेव यत्तु शास्त्रोक्तं | तस्यायमर्थ्यः | स्वपदेन महादेव उच्यते | हे महादेव भवदुक्तैचागमैशास्त्रै तंत्रै जनान् द्विमुखान् | मत्संबंधेन शुद्ध चैतन्य मुच्यते | तेन शुद्ध चैतन्य विमुखान् कुरु तंत्रैः कथं भूतैः कल्पितैः कल्पनं कल्पः पचादित्यादह पश्चात्तुरोकादिस्त्वादिच्छते कामनाविधायकैवेत्यर्थः | अत एव तस्यैव शेषार्द्ध | माच गोधुमये तस्मात् षष्ठिरेवोत्तमोत्तमे | न केवलं कामना विधायक मंत्रायंत निंदोषेदस्यापि यथा गीतायां | आपूर्यमानमचल प्रतिष्ठं समुद्रमापः प्रविशेति | यद्वत् तद्वत् कामायं प्रविशंति सर्वेस शांतिमाप्नोति न कामकामी | एवं त्रयी धर्ममनुप्रपन्नागतागतं कामकामा लभंते | स्कंदपुराणे || प्. ९ब्) कामना सहितं कर्म वंधनाय यतान् | तदासौ लिप्यते सत्यं निष्कामो नैव लिप्यते || वाशिष्टे अनागतानां भोगानां मत्कृत्रिममवांछनं | आगतानां च संभोग इति पंडित लक्षणं | अत्रायं निष्कर्षः | कामकृतकर्मत्वेन मोहजनकता | मोहस्तु अनात्मनि शरीरे अहं बुद्धिः | तत एव कामना प्रवर्तते | ततः संसारपातः | अत एव नित्यता | तदुभयोः साम्यं | तंत्रेपिकानिकृत कर्मानिंदा श्रूयते | यथा कुलार्णवे || यावत् कामा विमुच्यते यावत् संसारवासना | यावन्न मनसः स्थैर्यं तावत् तत्वकथा कुतः || कल्प सूत्रेपि | फलं त्यक्त्वा कर्मकरणं | अनित्यकर्मलोपोवेति | कालीतंत्रे च | अनित्यकर्म संत्यागी नित्यत्वेष्ठान तत्परः | इति यत्तु कूर्मपुराणे || तस्यायमर्थः | अनाद्यतानां जनकत्वा देवानादरः | यामलोड्डीशडामरादिषु | उषधीकुहकचेटक त्राटक मोहनन्न व्यंजन विवक्षयक्ष भूतपिशाच क्षेत्रपालोष्ठनायिका यक्षिण्याद्युपासन प्रतिपादक खंडानामहिक मात्र फलानां प्रतिपात्य कर्मणि मुमुक्षुगामनादरः | तथा च श्रुतिः | यो विद्यामुपासते सोंधस्तुनः प्रविशतीति | उपास्ते इत्यर्थः | वहुत्वे प्रयोगस्तु छांदसः | अविद्या पदेन इषद्विद्या उच्यते | क्षुद्रविद्येत्यर्थः | इषदर्थेन ञ तथा च वाराहीतंत्रे || शैद्धोक्तानि तंत्रानि कापालिकोक्तानि यानि च | अनादृतानि चोक्तानिजैमिन्युक्तानि यानि च || किंतु प्रोक्तानि छास्त्रां तिले काले विशेष तन | यक्षाणां यक्षिणीनां च पैशाचीनां च साधनं || भूतवेताल गंधर्वमारणोच्चाटनानि च | अधोगमेन मेतेषां साधनं ऐहिकां प्रिये || प्रलोपो देवमार्गस्य वैष्णवानां च कुत्सनं | भूतानां भावनाद्देव देवमार्गस्य लोपनं || तंत्रोत्तमोत्तमान्येष मत्स्यादीनि हि जातिभिः | ज्ञातव्यानि विभागेन षट्तंत्रान यथा क्रमं || यानि तंत्रानि नोक्तानि न हे | तन्यान हेतुभिः | ईश्वरेण प्रणांतानि यस्मात् तस्माद्विजातिभिः | ज्योतिषे मंत्रवादे च वैदिके मंत्रकर्मणि || अर्थमात्रस्तु गृह्नीयान्नोपशब्द विचारयेत् | शब्देमां संशयं कुर्यात् तदृश्यामिति कुत्रचित् | न विज्ञातं न चिंत्याश्च अनिद्याः शब्दरूपिणः | वशिष्टः कपिलश्चैव नारदगर्ग एव च || प्. १०अ) पुलस्त्यो भार्गवः सिद्धो याज्ञवल्क्यो भृगुस्तथा | शुक्रो बृहस्पतिश्चैव मन्येये मुनिसत्तमाः || एभिः प्रणीतोन्यन्यानि उपतंत्रानि यानि च | असंख्यातानि तंत्रानि सर्व विद्भिर्महात्मभिः || सारात् सारतरान्येव संख्यातानि निरोधत | यत् तत् पवित्रमायुष्यं धार्मिकैर्द्विजसत्तमैः || श्रोतव्यं पठितव्यं च ज्ञातव्यं च विशेषतः | दुर्गा मोक्षप्रदायस्मातस्मात् सेवेत नित्यगः || देवानां च यथा विष्णुदोषाणां मुदधिर्यथा | नदीनां च यथा गंगा पर्वतानां हिमालयः || अश्वत्थः सर्ववृक्षाणां रुद्रोमिंद्रो यथा वरः | देवीनां च यथा दुर्गा वर्णानां ब्राह्मणो यथा || तथा समस्तशास्त्राणां तंत्रशास्त्रमनुत्तमं | तथा च आसनानि विमोहजनकत्वां नत्वादि शक्ति भजनानां ते मां मुक्तिप्राप्तौ कारणत्वात् | वेद वाह्यानां शूद्रानां वदेत् नधिकारोपि | तंत्रेऽधिकारित्वात्यनुपदमेवाधिकारिनिरूपनेमेवाधिकारि निरूपणे लिख्यते | पापिनां स कामात्मनां मोहस्तु संसारपातः | आगमस्य प्रामाण्य रक्षणमेव न संभवतीति स्वोक्तेत समं विरोधः | अत एव च पुराणेपि | तंत्र प्रसंसा यथा गारुडे | अवेक्षेति च शास्त्रांनां तंत्रशास्त्रदधर्मादीनि द्विजोत्तमः | वैदिकानागमोश्चैव वेदांगानि च सर्वशः | प्राप्यान्नत्वा विशेषात्र भूयात्तृप्ति यथा विधिः | विना तंत्रेण यत्कर्मनेहा पुत्रफलप्रदां | कालिकापुराणे | आगमेषु पुराणेषु संधितासु यथामितान् | समुद्दिष्ट समाचारान् तद्गृह्नीयद् गृहस्थवत् || श्रीभागवतेपि भगवानुवाच | नह्यंतो नंत पारस्य कर्मकांडस्य चोद्धव | संक्षिप्तं वर्णयिष्यामि यथावदनु पूर्वशः || वैदिका तांत्रिको मिश्र इति मंत्रैविधोमखः | त्रयाणामिप्सिते नैव विधानानां समर्चयेत् || पद्मपुराणे | नारद उवाच | शृणु राजन् प्रवक्ष्यामि समासात् माधवार्चनं | वैदिकं तांत्रिकं चैव मिश्रकं पापनाशनं || देवीपुराणे च | कलावागमिकी पूजा न प्रशस्ता पुराणिका | वेदैः शिवागमैस्त्वेता पूजितास्तु मुमुक्षुभिः || शास्त्राणां पठनादानात्मातरस्य शुभावहाः | विश्वसारे च | प्. १०ब्) क्रिते श्रुत्युक्तमार्गेणन्न * * (?) स्मृति भरिते | द्वापरेत्व पुराणोक्तो कलायागम संभवाविदैः शिवागमैस्त्वेता पूजिता * * * * * * * * * * * (?) पठन्ते | तस्मातरस्युः शुभावद्व्या इति तत्रः संभवा अविरोधीनि कथं प्रमाण्यानि विरोधीनि कर्म प्रमाणानिर्विरोधियात् | * * * * * * (?) | विरोधश्च श्रुतौ हालानपि चेत् | स्मृति शास्त्रे | मद्यपान कृते तत्र ज्वलं * * * * * * * * * * * * * (?) ज्ञावत् | स्मृत्वा * * * * * * (?) पिबेत् | एवं पर्वणि मांसं बध्नीयात् | मत्स्यादः सर्वमांसादतस्मान् मत्स्यान् विवर्जयेत् | एवं परदारै * * * * * * * * * (?) स निरतः सदा प्रति | सत्यं पशुशास्त्रीय निषिद्ध वाक्ये श्रुतीवागमानां स्मृतीनामेकवाक्यता कातालाधवात् | पर्युदानः कल्पतो * * * * * * * * * (?) भामा * * * (?) कौलिकः तंत्रोक्तनाधारमाचरेत् | तदिचात पिबेत् | माश्रीया * * * * * * * * * * * * * (?) सौस्थितायामपि * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * (?) वत् | अमावास्यापि तृभ्योद * * * * * * * * * * * * * * (?) तायां | रात्रौ मार्द्धन * * * * * * * * * * (?) यो रूपी शिव च मन वि * * * * * * * * * (?) षो मद्यमाषा * * (?) या पितृभ्योदद्यादिति वचः | तत्पश्येमया * * * * * * * * * * * * द्धत्वेतभ्या यजन * * * * * * * * * * * * * * * * * (?) ता कथं * * * * * * * * * * * * * (?) तयागानु पापं किं त्वयागछत्रु वध जनकटिष्ठमुत्यपद्यते | * * * * * * * * * * * * * * (?) वधात्यां * * * * * (?) धस्तुरा * * * * * * * * * * * * * * * * * * * * * * * * * * (##? विषय * * * * * * * (?) पुराणा * * * * * * * * * * * * * * * * * * * * * * * * (?) यज्ञा * * * * * * * * * (?) मास्तुताद * * * * * * * * * * * * * * * * * * * * * (?) जायते स्वर्गं * * * * * * * * * * * * * * * (?) वन कत * * * * * * * * * * * (?) प्रजायते | विशुद्ध चिंतात्र * * * * * * * * * * * * * * * * * * (?) मीमांसी स * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * (?) ष्टाः | प्. ११अ) पंचभिर्मखैः पंचाम्नायानत्वानन्द्ये | अत्रायं सिद्धांतः षट्रिंश तत्वानि विश्वं शरीरं कंचुकितः शिवोजीवः निष्कंचुकः सुविमर्षः पुरुषार्थः | वर्णात्मकानिश्चनित्याः शब्दाः मंत्राणमचिंत्य शक्तितो | संप्रदाय विश्वासाभ्यां सव सिद्धिः | विश्वासे भूयिष्ठं प्रामाण्यं | गुरुमंत्र देवतत्व पवनमैक्यनिभालभाजनादंतराता निवृत्तिः | आनंदं ब्रह्मणोरूपं तच्च देवे प्रतिष्ठितं | तस्याभि व्यंजकाः पंचमं कारास्तैरर्चनं गुप्त्या प्राकटगन्निरयः | भावनादार्च्च्यादाकारसिद्धिः | कर्मदर्शना निंदनमगमनं | कस्मिस्वपि सच्छिष्ये रहस्य कथं सदाद्यार्थ संगतिः सतते शिवतामां शेषः | कामक्रोधलोभमोहमदमात्सर्य विहित हिंसास्तेय लोकविरुद्ध स्त्रीविद्धिष्ठ पर्जं सुरगुरूपास्तिरास्तिक्यम संशयः | सर्वत्र निष्पापता फलत्यक्त्वा कर्मकरणं अनित्य कर्मलोपः मपंचकलोभेपि नित्यक्रमात् प्रत्येय सृष्टिः | निर्भयता सर्वेसर्वं वेद्यं हविः | इंद्रियाणि शुचः | शक्तये ज्वाला त्रयमेव शिवः पावकः स्वयमेव हुतो निर्विष स्वचिद्विसृष्टिः फलं स्वार्थलाभानुपरं विद्यते | न परं विद्यते शैसाशास्त्रस्य शैवी श्रुतौ च पंचमकारेण सर्वं मानोति विद्यां पशुं धनं धान्यं सर्ववसत्वंध कवित्वं च नान्यः परमं पंथा विद्यते मोक्षा यज्ञनाय इति सौत्रामण्युपनिषदि च | सूत्रामातृप्यते पंचमकारैरिति सौत्रामंगीष्ठिः कुलाभूतसंहितायां | त्रिधा भित्वा यदादेवि त्रिषु पीठेषु पूजयेत् | दुर्गा पूजाविधिः प्रोक्तो यंत्रपूजाविधिस्तथा | इदानीं श्रोतुमिच्छामि योनि पूजाविधिं ततः | ईश्वर उवाच | अमीयान्यतरं भद्रां पूर्वोक्तानां च नायिकां | सुंदरी यौवनोत्मत्तां निर्लज्जां चारुहासिनीं || कृत्वा दिगंवरीतां च गंधचंदनकुंकुमैः | अवलिप्तां पुस्तकेशीं ततस्तद्योनिमंडले || गुरुपंक्तिं विधायाथ पूजयित्वा षडंगकं | पीठपूजां विधायाथ तन्मध्ये पूजयेच्छिवां || अत्राप्या वाहनं नास्ति जीवन्यासो न है वहि | उपचारैः पूजयित्वा चार्घ्यं दत्वा पुनः पुनः || जप्त्वा लिंगः भैरवं च पूजयित्वा महेश्वरि | गंधोक्तैः रक्षतैः पुष्पैःर्होमं कुर्यात् ततः || पूजाकालं विना नैव पश्येच्छक्तीं दिगंवरीं | पूजाकालं विना नैव सुरूपेया च साधकैः || प्. ११ब्) आयुषाहीयते दृष्ट्वा शीत्वा च नरके व्रजेत् | सौत्रामण्यां कुलाचारे ब्राह्मणस्य विशेषणं || अन्यत्रः कामतः पीत्वा प्रायश्चित्ती यते नरः | भार्गवेन पुरासप्तां श्रुत्वा देवीं च वारुणीं || ब्रह्मालोक गुरुः साक्षात् प्रययाउ भार्गवांतिकं | प्रसाधो वा * * * * (?) वाचामृत सामानया || देवानां ममृतं ब्रह्मन् यदियं लौकिकी परा | ब्रह्मज्ञानमयी देवी कुलाचारेण मुच्यते || सौत्रामिण्यांष देवेंद्र स्पृश्यते सुर * * * (?) | * * (?) सप्तात्ययां प्रध्वत् तस्य शापं प्रमोचय || ब्रह्माणं समु वा वेदं ब्राह्मणो भृगुनंदतः | मद्वाक्य विफलं नस्यावाक्यंतरवपिता मह || समय विस्तारिथाति वदर्थं नियमः कृतः | सौत्रा मन्यो कुलाचारेन्नराशाप विमुक्तये || मंत्र त्रयं प्रवक्ष्यामि शृणु चैकमनाः प्रभो | ओं एकमेव परंब्रह्म * * * * * * (?) सूक्ष्ममयं ध्रुवं || कचोद्भवं ब्रह्महत्या तेन तनासयाम्यहं | सूर्यमंडल संभूते वरुणालय संभवे || अमाबीजमयं देवि शुक्रशापाद्विमुच्यते | * * * * * * * * * * * * * * * * * (##? भार्गवः प्रणिपत्यहा जगाम भगेवनं देवि * * * * * * * * * * * * * *(?) | ब्रह्मज्ञानीकुब्जा परिमद्यं पीत्वा मुहुःर्मुहुः | भूमौ निपतितस्यांगे जगंति यदि रेणवः | वावत् कार्लरेण संख्यं ब्रह्मलोक महा * * * * * * * * * * * * * * * * * * * * * * * * * (?) महीतले | * * * * * * * * * * * * * * * * * (?) पुनर्जन्मनविद्यतो पीत्वा लिंग कुलावारे प्रमंदा यौवनोन्नता | कोटि * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * (?) कुलैः सहा ब्रह्मलोक वसेद् देवि सत्यं सत्यं न संशयः | तत्रेव व्या * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * (?) त्वा महादेवि महाज्ञानी लयोद्भवं | देहीते तन्मयोभूत्वातिष्ठेदा कू * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * (?) तत्वेनैव * * * * * * * * * * * * * * * * * * * * (?) ध्रुवं | पीत्वाग्निहोत्र हुत्वावत्रैलोक्येश्वरभाजनं | जायते देवदेवेशी महा * * * * * * * * * * * * * * * * * * (?) | पीत्वा ओगं योजयि * * * * * * * * * * * * * * * * * * * * (?) ते वीरो जीवन्मुक्तोतरामये | पुरावाणो हरौ सुप्ते पूजयित्वा दिगंबरा * * * * * * * * * * * * * (?) गोणप * * * * * * * * * * * * * (?) एवं ब्रह्मादय * * * * * * * * * * * * * * * * * * * * (?) दिगंवरीं | प्. १२अ) सृष्टिस्थितिलयादीनां कर्तारो जगदीश्वरी | रोगेभ्यो घोररूपेभ्यः पूजयित्वा विमुच्यते || अपुत्रो लभते पुत्रं दरिद्रो लभते धनं | आरभ्य शुक्ला प्रतिपद्यावत् पंचदशा भवेत् || प्रत्यहं पूजयेद्यस्तु तिथि संख्यां दिगंवरां | मंत्रसिद्धिर्भवेत् तस्य सत्यं सत्यं न संशयः || वीरसाधनकार्याणि दुःसाध्यानि पार्वति | सुसमंसाधनं ह्येकतवस्नेहात् प्रकशित गोपनीयं प्रयत्नेन पुत्रेभ्योपि तदर्शयेत् | कुलार्णवे च | सुरादर्शनमात्रेण सर्वपापैः प्रमुच्यते | तदद्याद्गंधघ्राण मात्रेण शतक्रत्व फलं लभेत् || तस्या दर्शनमात्रेण तीर्थकोटि फलं लभेत् | देवि तत्पानतः साक्षाल्लभेन् मुक्तिं चतुर्विधां || इच्छाशक्तिस्तदामोदे ज्ञानशक्तिस्तु तद्रसे | तत् स्वादौ च क्रियाशक्तिस्तदुल्लासे परास्थितिः || मदिरावृक्षमारुह्य चेतः शोधन साधना | मांसं संदर्शने वापि सुरादर्शन तत्फलं || पितृदैवत यज्ञेषु वेदे हिंसा विधीयते | आत्मार्थ प्राणिनां हिंसा कदाचिन्नोदिता प्रिये || मामनादृत्य पुण्येपि पापं स्यात् प्रत्यवा यतः | मंत्रिमंत्रकृतं पापं पुण्यं भवति सांभवि || यैरेव पतनं द्रव्यैः सिद्धिः स्तैरेव सूचिता | श्रीकौलदर्शने देवि भैरवेत महात्मना || हन्यान् मंत्रेण चानेनत्वययासंत्र्य पशुप्रिये | सामनादृत्य पुण्ये गंधपुष्पाक्षतैः पूजा चान्यथा नरकं व्रजेत् | स कृत् तर्पणमात्रेण यज्ञकोटिफलं लभेत् | शिवामृतमिदं पिंडं मत्तल्लं शिवतां गतः || अवुद्ध स्वपशोत्वां हि ना शिवस्त्वं शिरोसिहि | ब्रह्मास्थाछूलिलेविष्णुर्गंधेरुद्रस्तु तद्रसे || परमात्मा तदानंदं तस्मात् सेद्यमिदं प्रिये | पिषितं तिलमात्रेण तिलार्द्धेनापि विंदुना || स कृत् तर्पणमात्रेण यज्ञकोटिफलं लभेत् | कुलपूजा समं नास्ति पुण्यमन्य जगत्रये || तस्माद्यः पूजयेद् भक्त्या भुक्तिमुक्त्याः स भाजनं | चतुर्णामपि वस्मानामाश्रमानामाधीश्वरि || स्त्रीपुंनपुंसकानां च पूजितेष्ठं ददामिहि | इहामुत्रफलं दद्यात् पूजिता स्ववधूरिव || अपूजितात्वं देवेशि दुःखदोकुवधूरिव | कुलपूजांतरा यस्तु यः करोति हि दुर्मतिः || सजाति नरकं घोरे मे स विंसतिभिः सह | तस्मात् सर्वप्रयत्नेन कुलाचाररतो भवेत् || लभते सर्वसिद्धिं च नात्र कार्या विचारणा | अनधीतोथ शास्त्रज्ञो गुरुभक्तो दृढव्रतः || कुलपूजारतो यस्तु समे प्रियतमो भवेत् | शैवे च वैष्णवे शौरे स शाक्ते स्वागतदर्शने || प्. १२ब्) द्वेपाशुपते सांख्ये यंत्रे कालामुखे तथा | सदरक्षरामसिद्धांत वेदिकादिषु पार्वति || विना लिपिसिताभ्यं च पूजनं निस्फलं भवेत् || * * (?) मतभेदाः | कुलद्रव्यैर्विनादेव्यै कुर्या तदप पूजा तपो व्रतं | फलं च तद्भवेदेवि भस्मभूते यथा हुतं || कौलिकस्येत्यर्थः || यथैव चांतरा राज्ञाप्तिताः स्युर्न बहिश्चराः | तथांतर्यागनिष्ठाया प्रयासे देविना पुरे || समर्चयंति यो भक्त्या वाचपि पिसितासवं | तत्पाद पतितानंदं मत्प्रियाः कौलिका श्रुते || आवयोः परमाकारं सच्चिदानंदलक्षणं | कुलद्रव्योपभोगेन जायते नान्यथा प्रिये || सेविते वकुलद्रव्ये कुलतत्वार्थवादिनः | जायते भैरवावेशः सर्वत्र समदर्शनः || तमः परिकृतं वेश्म यथादी पुं न दृश्यते | तथा मायावृतो ह्यात्मा दिव्यरूपाणि दृश्यते || मंत्रपूतं कुलद्रव्यं गुरुसेवार्दितं प्रिये | ये पिवंति जनास्ते सा तुल्यमान न विद्यते || मद्यं तु भैरवो देवाप्रदः शक्ति समीरिताः | स्वाहा मुक्तं च मद्यस्तु मोदय त्रिदशामपि || तन्मैरेयं शिवे पीत्वा योनैर्विक्रियते तरः | मद्यान्नैक परो भूत्वा समुक्तः स च कौलिकः || सुराशक्तिं शिवो मांसं तद्भोक्ता भैरवः स्वयं | तयोरैक्यं समुत्पन्नं मानंदो मोक्ष उच्यते || तस्याभि व्यंजकं द्रव्यं योगिभिस्तेन पीयते | कुंडाकंद्रुकपात्राणि मद्य पूर्णानि विभ्रातः || किन्न पश्यति कौलोयं ब्रह्माविष्णुमहेश्वरान् | मंत्र संस्कार संभूत मृतपानेन पार्वति || जायते भैरवो भावो भवबंध विमोचकः | ब्राह्मणस्य समापेयं क्षत्रियस्य समागमे || गो स्थानेषु वैश्यस्य शूद्रस्यानैष्ट कर्मणि | अस्यार्थः ब्राह्मणः सदैव पूजां कृत्वा पानं कुर्यात् || क्षत्रियं तु रमागमे | वैश्यो गोलधने गोत्रयादिने गोष्ठ पूजायां च शूद्रेस्यांत्येष्टकर्मणि | मातापितामरण निमित्त श्राद्धदिने | कौलिको ब्राह्मणः क्षत्रियो वैश्यः शूद्रः श्रुतेषु समयेषु कुर्यादित्यर्थः | यद्यपि क्षत्रियादीनामपि नित्यं तथापि समय विशेषेत् करणेऽधिक पापं करणेऽधिकमिति | देवान् पितृन् समभ्यर्च्य देविशास्त्रार्थ वर्त्मनो गुरून् स्मरान् पिवेन् मद्यस्वादन्मासं त्न देशिभाक् | तृप्त्यर्थं सर्वदेवानां ब्रह्मध्यान स्थिरोयां सेवयेन् मधुमांसानि तृप्त्यर्थं चेत् स पातकी | प्. १३अ) मंत्रार्थ स्फुरणार्थं च मनसः स्थिति हेतवे | भवेमाश निवृत्यर्थं मद्यं पानं समाचरेत् || ये वेदात्म सुखार्थोयो मद्यादीनि स पातकी | यथाक्रतृशु विप्राणां सोमपानं न दूषणं || मद्यपानं तथाचार्यं समये भोगमोक्षदं | श्रीगुरोः कुलशास्त्रेभ्यः सम्यग् न ज्ञानवासनां || पंचमुद्रां निषैवत चान्यथा पतितो भवेत् | आवृत्तिं गुरुपंक्तीं च वधुकादीनि पूज्य च || वीराप्येवं वृथापायी देवता शापमाप्नुयात् | अमुष्ठा भैरवं देवं अकृत्वा मंत्र दर्शनं || पानविधौ पीत्वा रौरवं नरकं व्रजेत् | इत्यन्या पिवेदोक्त तंत्रोक्तानि ग्रंथगौरवभयारोदाह्लतानीति स्वस्थः पर्युदासः || श्रीपूर्णानंदनाथेन कृतायो गुरुभावतः कुलवृत्तौ स्वतंत्रायां द्वितीयः पटलः स्मृतः || लंवनेन धर्मेण प्रकृतिरूपास्यात् हाटवदि प्रकृति स्वरूपं ज्ञायते | तदर्थ प्रतिविवरणां संसारकारणम विचित्रं सत् तत्वानां प्रकृतिरुच्यते | गुणानां प्रकृतित्वात् प्रकृतिरत्यत्वे | वेदांतेषु अविद्या सदसद्भ्याम निर्वाध्येति || स्कंदपुराणे | सा शक्तिः परमा प्रोक्ता स पुमान् नीश्वरः परः | ताभ्यां च रममानाभ्यां तस्मिन् क्षेत्रे घटोद्भवं || परमानंद रूपाभ्यां परमानंदरूपिणी सुक्ष्मावस्थेना विभूतेच्यर्थः | सचिदानन्द विभवोत् सकलात् परमेश्वरात् | आसीत् शक्तिरित्यासि तंत्र वचने संवादः || अत्र वधिक तु संवादे | प्रणव उवाच | नह्येव भवान् शक्त्यास्तात्मनोच्यतिरिक्तया | कदाचित् परमो रुद्रो लीलारूपधरोहरः || असौ हि भगवानीशः स्वयं ज्योतिः शनातनः | आनंदरूप तस्यैषा शक्तिनामंतका शिवा || श्रीभागवते | व्यासनारद संवादे | अपश्यत् पूरुषं पूर्वं मायां च तदपाश्रयां | यथायं मोहितो जीव आत्मानं त्रिगुणात्मकमिति || तदपाश्रयां तवधीनामित्यर्थः | गीतायां दैवीह्येषा गुणमया मम माया दुरुत्यया | मामेवाय प्रपद्यंते मायामेतांतरंतिते | अन्यच्च तत्रैव | अपरेयमिति स्त्वन्यं प्रकृतिं विद्धि मे परां | जीवभूतां महावाहोय एवं धार्यते जगत् || सतद्योनीनि भूतानि सर्वाणीत्य वधारय | कौर्मे हिमवानुवाच ओं शिवोमापरमाशक्तिरनंता निष्कलामला | शांता माहेश्वरी नित्या साश्वरतो परमाक्षरा | अचिंत्या परमाशैस्ता शिवात्मा परमात्मिका || प्. १३ब्) अनादिरव्ययाव्यस्ता सैवान्या सर्व गोचला | एकानेक विभागस्था मायातीतो सुनिर्मला || भविष्ये || एवमे तत्रयो देवास्त्रयो लोकास्त्रयोग्नयः | त्रयो गुणास्त्रयो देवास्त्रीणि तेजांसि भवेत् || पुस्कराणि ततस्त्रीणि तिस्रो मात्रा नराधिप | अर्द्धमात्रा तु या सूक्ष्मा सा ज्ञेया चंडिका बुधैः | तस्या एतत् समुत्पन्नं जगतः कारण त्रयं | ब्रह्म्विष्णुशिवाख्यं वै चंडिकात्म समुद्भवं || आतिद्यपुराणे | आचक्षते तयोर्भेदमज्ञात् परमार्थतः | अभेदः शिवयोः सिद्धो वह्नि दाहिकयोरिव || समुत्पत्येन मर्थं हि महेशोपि महामुनिः | संवादश्च यामले | आकाशे निर्मले विद्युत् सहमेघेन संकुले | उत्पद्यते लीयते वज गदात्मन्य मूर्तके || इत्येव प्रत्यभिज्ञानं सर्वशक्तिमयी परा | शिवशक्तिमयैः सर्वैभिन्नैर्ब्रह्मादि मूर्तितैः || कर्ता भोक्ता च संहर्ता सकलः स हि चिन्मयः | इच्छा शक्तिर्ब्रह्महेतुः सापि ब्रह्मस्वरूपिणा || ज्ञानशक्तिर्विष्णुरूपा सापि विष्णुस्वरूपिणी | क्रियाशक्तिः शिवं सृष्टिः सापि रुद्रस्वरूपिणी || अतिरिक्तां शिवशक्तिरविनाभाव लक्षणा | अखंड परचिच्छक्ति व्याप्ता चिद्रूपिणी विभुः || समस्त तत्व भावेन विचर्द्धरच्छा समन्विता | प्रकाशयेज्जगस्तोममति वृष्ट्यानु कारयेत् || पूरुयः प्रकृतिश्चैव प्रकृतेस्तु परः प्रभुः | त्रयो विंशति तत्वाद्या परा प्रकृतिरुच्यते || प्रकृतेस्तु परं प्राहुः पुरुषं पंचविंशद्धं | तस्य प्रकृतिलीनस्य यः परः स महेश्वरः || तदधीन प्रकृतित्वात् प्रकृतिः पुरुषस्य च | असेवतीयसी मातुमहता वनहीयसी || सर्वतः पाणि चरणा सर्वतोक्षि शिरोमुख | सर्वश्रुतिमती लोके सर्वमावृत्य तिष्ठति || अथवा निष्कलं ब्रह्म सच्चिदानन्द लक्षणं | पुं नपुंसकयोस्तन्या अंगनासु विशिष्यते || परापर विभागेन परशक्तिरियं प्रिये | सर्वभावान्विताह्येष अंगनासु विशेषतः || न शिवेन कुतः शक्ति न शक्त्या रहितः शिवः | न तत्व तत् स्त्रयो भेदश्चंद्रचंद्रिकयोरिव || नोयं योषिः प्रसन्नोयं नायंषंड इति स्मृतः | तथापि कर्पूरवल्ली वस्त्री शब्दोऽत्र प्रयुज्यते || साधकानां हितार्थाय अरूपारूपधारिणी | सर्वजीवेषु संभूता सर्वचैतन्यरूपिणी || सर्वदेवमयी देवी सर्वसौभाग्यसुंदरी | सर्वलक्ष्मीमयी नित्या सर्वमंत्रमयी परा || सर्वतंत्रमयी पूर्णा सर्वमंत्र स्थितेति हि | प्. १४अ) विश्वसारे च | स्थूलं प्रकाशयेत् सूक्ष्मस्थूलं सूक्ष्मार्थ माश्रयेत् | न हि स्थूलैर्विनादेवि सूक्ष्मस्यापि प्रकाशकं || चतुर्द्धारूपमाधत्ते देवो मोक्षाय देहिनां | शक्तिर्हरिः शिवः सूर्य इति सर्वत्र निश्चितं || वाशिष्टे | क्वचिन्मनः क्वचिद्बुद्धिः क्वचिद्ज्ञानं क्वचित् क्रिया | क्वचिदेतदहंकारः क्वचित्पूर्यंतकं मतं || क्वचित् प्रकृतिरित्युक्तं क्वचिन्मायेति कल्पितं | क्वचिन्मनमितै प्रोक्तं क्वचित् कर्मेति संस्थितं || प्रोक्तं क्वचिदविद्येति क्वचिदिच्छेति सम्मतं | अर्थवशेपि | ओं मित्येकाक्षरस्य चत्वारो वेदाः चत्वारः पदाः | चतुष्पादे शुतदक्षरं परंब्रह्म || पूर्वास्यया मात्रा पृथिव्यकारः सहस्त्र्यग्निर्व्यग्रेदो ब्रह्मा वसवो गायत्री गार्हपत्येग्निः | द्वितीया अंतरीक्ष उकारः सहयजुभियजुर्वेदा विष्णुः सृष्टुप् दक्षिणाग्निः तृतीयाद्यौर्मकारः सहसामभिः | सामवेदो विष्णुरादित्या जगत्याहवनीयोऽग्नि न चतुर्थी विद्युन्मयी शक्तिः स तथा महास्वैर्मंत्रेरथर्वमंवेदः संवर्तको अविराट् भगवती स्वधा | ब्रह्माब्राह्मी ब्रह्मदैवत्या कृष्णा वैष्णवी विष्णुदैवत्या || कपिला ऐशानी ईशान दैवत्या चतुर्थो विद्युन्मयी सैषादैवीति | यो वै रुद्रः स भगवान् यश्च ब्रह्मा तस्मै नमो नमः || यो वै रुद्रः स भगवानुयश्च विष्णुयो वै विष्णुः स भगवान् सूर्यः यो वै रुद्रः स भगवान् याचो मासा महादेवीति | ब्रह्मोपनिषदि | जाग्रति ब्रह्मा स्वप्ने विष्णुः स्वप्ने * (?) रुद्रः सूर्ये परमा * * (?) ब्रह्मणश्चादित्यः स विष्णुः स पुरुषः स ईश्वरी स प्रजापतिः सर्वं ब्रह्मविभातीति | श्रुतिरपि | इंद्रोयं मायाभिः पुरुरूपमायते प्रकृते * * * * (##? कुलचूडामणौ देवीवाक्यं | शृणुपुत्र परानंद परापरा कलात्मक | मन्माया मुद्रिता शेष तंत्रज्ञानं महेश्वर || अहं प्रकृति रूपावेत् चिदानंद परायणा | त्वं ब्रह्मा त्वं हरिः शंभुः क्व देवः क्रमभोजनः || क्व दृष्टिः क्व स्थिरो वापि क्ववा संकति भूमिका | कयागः क्व सुखं दुःखं क्व मुक्तिः क्व च साधुता || आस्तिक्यं क्व च नास्तिक्यं क्व गुरुत्वं क्व शिष्यतां | माययाच्छाद्य चात्मानं द्विधा भित्वा यदोन्मुखो पराङ्मुख रसोन्मादामोदिनीत्वं विहारिणी | प्. १४ब्) पंचभूतानि लिंगानि चेकोत्तरगुणानि च | ब्रह्मादि भूर्भुवस्वश्च स्वभाव व्यक्तिजातयः || सर्वेप्याविर्भवे तत्र ततो भावादि कल्पना | शिवशक्ति विभेदेन गुणोत्पत्तिस्तु जायते || सर्वे ब्रह्मादयो ये ये मदंशभावं संभव | परस्पर विभिन्नांश्च चंद्रमंत्र समां कुलाः || पंचत्वं प्रापयित्वा तु निर्वाण पदलालिताः | पुनराविर्भवंत्यात प्रकृतेः परतः पुमान् || अहंकारः पंचमात्रा सत्वं वा राजसं तमः | एतच्छक्त्यात्मकं विश्वं पुनराविर्भवत्यपि || यदि मां विद्धि सर्वज्ञ क्वाम्नायाः क्वचयाजनं विद्धिमं चित्सर्वज्ञ क्वाम्नायाः क्व च याजनंमिति | तस्माद् भुक्तिमुक्त्यर्था दिव्यवीरभावाश्रितः प्रकृतिं सेवेत् | सेवनं च नित्यं नैमित्तिकं काम्यं तदैयास्मिन संग्रहे विवृयते इति भावोस्त्वग्रे लिख्यंते अथ दिव्यवीर भावाधिकारे निरूपणं | तत्र सर्वत्र वक्षमाण विशिष्टा स्वेष्ट साधनता ज्ञानवंतोऽधिकारिणः | चतुर्णामपि वर्णानामा श्रमेत्यादि कुलार्णव वचनात् | विशेषानि यथा कुलार्णवे | निःसंगो निर्ममोधीरो निर्लज्जो निःकुतूहलः निर्णीत कुलशास्त्रार्थो वरदां वारुणीं पिवेत् | अब्दात्वा कौलिकाचार ममुक्ष्वा गुरुपादुकां | योस्मिन् तंत्रे प्रवर्तेतं त्वं पीडयसे ध्रुवं | कौलिकाचारज्ञानं गुरुपूजनं | इति विशेषण द्वयं | कौलज्ञानेह्य सिद्धो यतद्रव्यं प्रोक्तुमिच्छति | स महापातकी देवि सर्वधर्म वहिष्कृतः समये हीन दुर्बुद्धेः स्वैरवृत्तिर्दुरात्मना | न सिद्धयः कुलभ्रंशस्तत् संसर्ग विवर्जयेत् | यः शास्त्रविधिमुत्सृज्य वर्तते कामचारतः || स सिद्धिमिहि माप्नोति परत्र च परां गतिं | स्वेच्छया वर्तमानो यो दीक्षासंस्कार वर्जितः तस्य सद्गतिः क्वापि तपस्तीर्थ व्रतादिभिः | अ संस्कृतं पिवेद्रव्यं वलात्कारेण मैथुनं | स्वप्रियेण हनं मांसं रौरवं नरकं व्रजेत् || कौलाः पशुव्रतस्थाःश्चेत् पक्षद्वय विडंवकाः | केशसंख्या स्मृता यावतावत्तिष्ठंति रौरवो कुलद्रव्यानि सेवंते येन्यदर्शनमाश्रिताः || मदंगरोमसंख्यातं भूतयोनिषु जायते | अजत्व व्याकुलाये च न किंचिद पिवेत्ति हि || न ध्यानं न तपोनार्चा न धर्मो न च सुक्रिया | न वेदो न गुरुर्नात्मा विचारो न च कौलिके || प्. १५अ) केवलं विषया शक्तः पतत्येव न संशयः | मद्याशक्तः प्रसत्तश्च मांसादी स्त्रीनि सेवकः || कौलोपदेश हीनोयः सोक्षयं नरकं व्रजेत् | असंस्कारी तु यौलौल्पात् पंचमुद्रां निषेकुले || शी ब्रह्महोसस्याद् विंद्यतामधि गच्छति | लिंगत्रय विभेदज्ञः षडाधार विभेदकः || पीत स्थानानि चागत्य महापद्मवनं व्रजेत् | आमूलाधार मा ब्रह्मरंध्रं गत्वा पुनः पुनः || चिद्ब्रह्म कुंडली शक्ति सामरस्य सुखोद्वयः | व्योम पंकजनिस्पंद सुधापानरतो भवेत् || मधुपानमिदं प्रोक्त मितरे मद्यं पापिनः | पुण्यापुण्य पशुं हत्वा ज्ञानखंडेन योगवित् || परेण येन येनायष्ठितुं पलाशीति निगमन सा इंद्रियगणं स यम्यात्मनि योजयेत् | मांसाशीन भवेद् देवि शेषास्तु प्राणि हिंसकाः | अप्रबुद्धाः पशोः शक्तिः प्रबुद्धाः कौलिकस्य तु || तां शक्तिं सेवयेघस्तु स भवेत् शक्तिसेवक | इति पंचमुद्राणां लक्षणं कुलनायिके || ज्ञात्वा गुरुमुखा देवि यः सेवेत विमुच्यते | निरस्तपातका ये च मानवाः पुण्यकारिणः || कुलज्ञान सुसंपन्न भजंते त्वां दृढव्रताः | पूजाभिषेक सहितो वेदशास्त्रार्थ तत्ववित् || देवता गुरुभक्तश्च नितात्मार्चयेत् प्रिये | कुलागम रहस्यज्ञो देवतारधनोसुकः || गुरुपदेश संयुक्तः पूजयेत् कुलनायिके | शुद्धात्मा वाति रुष्टश्च क्रोधलौल्य विवर्जितः || पशुव्रतादि विमुखः सम्मुखः पूजयेत् | यदापं संस्कृतार्थस्य कुलेन वहुना प्रिये || मत्प्रसादेनत्वं यायच्च दृढभक्ति समागमः | तदूर्द्धं तर्पयं कुर्याद्धव्यैः श्रीभैरवोदितैः || गुरुपदेश विधिना नान्यथा पतनं भवत् | मंत्रयोगेन देवेशि कुर्यात् श्रीक्रमपूजनं || तदहं च त्वया सार्द्धं गृह्नामि स्वयमादरात् | भैरवोहमिति ज्ञात्वा सर्वज्ञादि गुणान्वितः || इति स्ंचिंत्य योगींद्रः कुलपूजां समाचरेत् | इत्यादि लक्षणोपेतः कौलिको नियत व्रतः || यस्त्वां समर्चयेद्देवि भुक्ति मुक्त्योः स भाजनं | ननु स्त्रीशूद्राणां दीक्षायां कथमधिकारः || संहितायां निषेधोक्तः | यथा महाकपिल पंचरात्रे || न वेदः प्रणवं त्यक्त्वा मंत्रो वेदं समन्वितः | तस्माद् वेद परो मंत्रो वेदांगश्चागमः स्मृतः || वश्याकर्थादिकं कर्मदृष्टादृष्ट फलप्रदं | वेदेन साध्यते सर्वं ग्रहयोगादिभिः किल || प्. १५ब्) न वेदेन विना यज्ञा न यज्ञा वेदवर्जिताः | तस्माद् वेद परोमंत्रो न मंत्रो वेदवर्जितः || न मंत्रे चाधिकारोस्ति शूद्राणां नियमः परं | मंत्रो भावाद मंत्रेण भाषितं सर्वकर्म हि || तथा ताप संहितायां | यावत् पर्णानि मंत्रानां शूद्राय प्रतिपादयेत् | तावत्यां ब्रह्महत्याः स्युः स्वयमाह प्रजापतिः || सत्यं एभिर्वचनैः सामान्यतो यावत् वैदिकतां त्रिकमंत्रेषु नाधिकारः आयति | तत्र वैदिक मंत्रेन अनधिकार एव | केचितांत्रिक मंत्रेषु श्रूयते | यथा भविष्योत्तरे | ब्राह्मणाः क्षत्रिया वैश्याः शूद्रायेशु च यो मलाः कृषी मंत्रप्रदाया वैदत्त संकीर्ण वर्णिनां | अत्र मंत्रपदं मंत्र विशेष परमिति स्वाहा प्रणव संयुक्तमंत्रं शूद्भेददद्विजः | शूद्रो निरयगामिः स्याद्विजः शूद्रत्वमाप्नुयात् | इति देवीयामल वचनात् | पद्मपुराणे | वैदिको मिश्रितो वापि विप्रादीनां विधीयते | तांत्रिको विप्रभक्तस्य शूद्रस्यापि प्रकीर्तितः || स्वागमोक्तेन मार्गेण स्त्री शूद्रैश्चापि पूजनं | कर्तव्यं श्रद्धया विष्णोश्चिंतयित्वा पतिं हृदि || स्त्रीणामथधिकारोस्ति विष्णोः राराधनादिषु | पति प्रियरतानां च श्रुतिरेषा सनातनीति || विष्णौरित्युपलक्षणं सर्वदेवतानामित्यर्थः | चिंतयेत्वेति मृतभर्तृपरां यास्त्री भतृ विमुक्ता च शुभास्वाधार संयुता || सा च मंत्राननु गृह्नेति स भर्ता तदनुज्ञया | नाधिकारः सुतोनार्या भार्या भर्तृरज्ञयेति तंत्रजामलः || विना स्वधर्मं यत् किंचित् देवता विधिनादिकं | परत्रश्चोत्तते धर्मात् क्षणात् सैकतहर्म्यवत् || इति भविष्योत्तर वचनाच्च | रुद्रयामलेव | स्त्रीशूद्राणां मयं मंत्रो नमोंतश्च सुखावहः | एतज्जप्त्वा महासेन चांडाल न दीक्षयेत् || यज्ञवल्क्य संहितायां | न वैदिकं जपेत् शूद्रः तथा स्त्री च कदाचन | नमोंतं शिवमंत्रं वा वैष्णवं चेष्यते बुधैः || नमोंऽतं इति नमः शब्दादंत अस्ति स्थितमित्यर्थः | अत्र वा शब्दः समुच्चयो तेन शाक्तादिष्वपि मंत्रेषु अधिकारोऽस्तीति ज्ञेयं || उक्त यामल वचनात् | तंत्रराजे || एकद्वित्रिचतुः पंचवर्षाण्याने योगयुतां इति सुक्तागुणांश्चापि क्रमाद्वर्णे स शंकरे | अत्रायं निष्कर्षः स्त्री शूद्राणां वैदिकमंत्र मात्रेनाधिकारः | तांत्रिकेषु स्वाहा पुरमुक्तिषु नाधिकारः | स्वाहा प्रणव संयुक्तेषुमधिकार इति || प्. १६अ) मनु स्वाहा प्रणव मंत्रागं स्वाहा प्रणवमुक्ते कथं स्यात् तस्मात्त निषेधात् सत्यं | शूद्रादीनां प्रधानवदांगेपीति न्यायात् तद्युक्तेप्यंगमंत्रेऽधिकारः || तथा च प्रधान लंबत्वने नैवनांग संबंधेत्वेनेति | ननुवृषोत् सर्गांगवत् रुद्रजापे शूद्राणां अधिकारः स्यात् || सत्यं सामान्यतो वैदिक मंत्रेनधिकारो गौतमेन नमस्कारोऽस्य मंत्र इति प्रधानांग वैदिक मंत्रास्थाने नमो मंत्र विधानात् तांत्रिके तु | प्रधान संबंधे नैव निषेधः | एतहृद्यंत्रो नास्ति यस्यांगं मंत्रे स्वाहा प्रदयोगो न दृश्यते | अंगमंत्रं विना मंत्रा जपोनास्ति | तस्मान्मंत्रविशेषेऽधिकारादेवांगमंत्रे स्वाहा पदादि योगेप्यधिकारः | इति अथ स्वाहा प्रणववर्जिते मंत्रेविशेषः श्रूयते | यथा कुलमूलावतारे | श्रीदेव्युवाच | शाक्त शांभव सौराणां गणेशो वैष्णवेषु च | ब्रह्म क्षेत्रादि वर्णानां शंकराणां विशेषतः || प्रवृत्तिं श्रोतुमिच्छामि साधकानां हिताय च | येषु येषु च ये मंत्रास्तं भेदं वद शंकर || ईश्वर उवाच | उमामाहेश्वर चैव दक्षिणामूर्त्यघोरकं | हयग्रीवं च वाराहमष्टाक्षर मतः परं || परां प्रणवाद्यं वा स्वदेवं लक्ष्मीनारायणस्तथा | वर्णत्रये च दातव्यं नात्यवर्ण कदाचन || पाशुपतं नारसिंहं तथा चैव सुदर्शनं | वर्णद्वये च दातव्यं नान्ययोश्चैव कर्हिचित् || अग्निमंत्राश्च ये केचित् सूर्यमंत्राश्च ये तथा | तारादि घृणि मंत्राश्च दातव्याश्च त्रिवर्णके || अनुष्टभं शक्ति मंत्रास्तथा विंध्यनिवासिनी | तथा नीलसरस्वत्या दातव्याश्चादि वर्णके || मतेन्युग्रतारा च कालिका श्यामला तथा | छिन्नमस्ता च वाला च दातव्या सर्ववर्णके || तारादिस्तु गणेशश्च हरिद्रा संज्ञकस्तथा | त्रिवर्णैष्वेव दातव्यः कथितः सर्वसिद्धिदः || त्रिपुरायाश्चये मंत्राश्च वटुकादयः | सर्ववर्णेषु दातव्याः पुरंध्रीणां विशेषतः || उक्त देवता भिन्न देवताक मंत्रे निर्वीज सर्वेषां अधिकारः स वीज विशेषमाह तत्रैव | प्रणवं मायां लक्ष्मीं च वाग्भवं चंड्यबीजकं एतद्वीजेन संयुक्तो दातव्यं चादि वस्तुके | मायां लक्ष्मीं वाग्भवं च दातव्यं क्षत्रियेथपि | लक्ष्मीं च वाग्भवं चैव कथितं वैश्यवर्णके || वाग्भवं चांत्यवीजं च शूद्राणां समुदीरितं | हृदादि हूं फट्कारादि शंकराणां प्रशस्यते || एतद् वीजमुक्ता मंत्रा वीजास्वरूपा वा मंत्रा तत् तज्जातिभेदेन देवा इत्यर्थः | प्. १६ब्) एते नियम पशुभावपराः | दिव्य वीरभावयो | पुनर्जात्यादि नियमोनास्ति तदुक्तं भैरवीतंत्रे | प्रवृत्ते भैरवी चक्रे सर्वेवर्णा द्विजातयः | निवृत्ते भैरवी चक्रे सर्वेवर्णा पृथक् पृथक् || भैरवी चक्राधिकारे प्रवृत्ते भैरवी चक्रानधिकारेत्यर्थः | चतुर्णामपि वर्णानांमपीत्वादि कुलार्णव वचनाच्च || कुलार्णवे च ब्रह्मानंदमये ज्ञाने कथयामि वरानने | न ब्राह्मणो ब्राह्मणःस्या नक्षत्रः क्षत्रियस्तथा || वैश्या न वैश्यः शूद्रो नः शूद्रस्तु परमेश्वरि | चांडालो नैव चांडालः पुंसको न च पुषकः || सर्वे समं विजानी हि परमार्थ समुच्चये | इति प्रागुक्तं स्वेस्वेष्ट साधनता ज्ञानवंतोऽधिकारिणः || इति तदविकलमिति | इति श्रीपूर्णानंदनाथेन कृतायां गुरुभाव तत कुलवृत्तौ * * * * * * (?) तृतीयः पटलः स्मृतः || ३ || नत्वा गौरवपादपद्मममलं नत्वा महाभैरवी | नत्वा विघ्नपदद्वयं सुकृतिनो नत्वा गुरून् पंडितान् || वक्षे मोक्ष वि* * (?) नाय विहितं तंरेषु कर्माखिलं पूजांगं सकलादि शक्ति विषयं श्रीपूर्णवामागिरिः | तत्र दिव्यवीरभावेषु भूयेशन् कर्मणासाम्यं कुत्रापि वैशस्यं तदुभयप्रदर्शन पूर्वकं भावोल्लेश कर्तव्यः | तत्रादौ दीक्षा निरूपणं | तव लक्षणं तत् तद्विधिपूर्वकं गुरोर्मंत्र ग्रहणं * * (?) | दीक्षा शब्दार्थ पश्चा हि | विवादीक्षां न मोक्षः स्यादुराणां शिवसासने | साधनस्याद्विनाचार्यमित्याचार परंपरा || इति कुलार्णव वचनात् | मोक्षस्य कारणं भावि भावस्य कारणं मनुः | मंत्रस्यकारणं पूजापूजायाः कारणं गुरुः || इति तंत्रराजवचनाच्च | अधिकारविशेषेण प्राप्ताया | दीक्षाया आचार्याधीनत्वादादौ गुरुविरच्या || तदुक्तं रुद्रयामले || उद्धर्तुं चैव संहर्तुं समर्थो ब्राह्मणोत्तमः | तत्वज्ञो मंत्रतंत्राणां मर्मवेत्ता रहस्यवित् || पुरश्चरणकृत्सिद्धौ मंत्रसिद्धिः प्रयोगवित् | परोपकारनिरतो जपपूजादातादातः शांतमना नितांतशांतविग्रहः || अध्यात्मविव ब्रह्मचारी कुलीना गुरुरुच्यते | सारदा तिलके च | मातृतः पितृतः शुद्धः शुद्धभावो जितेंद्रियः | सर्वागमानां सारज्ञः सर्वशास्त्रार्थ तत्ववित् || परोपकार निरतो जपपूजादि तत्परः | अमोघर्वचनः शांतो वेदवेदार्थ पारगः || प्. १७अ) योगमार्गानु संधायी देवता हृदयंगमः | इत्यादि गुण संपन्नो गुरुरूपम सम्मतः || कुलचूडामणौ | कुलनाथं परित्यज्यये शाक्ताः परसेविनः | तेषां दीक्षां च यागं च अभिचाराय कल्पते || तस्मात् सर्वप्रयत्नेन कुलीनं गुरुमाश्रयेत् | कुलीनः सर्वमंत्राणामधिकारीति गीयते || दीक्षा प्रभुः स एवात्रो सर्वमंत्रस्य नापरः | अन्यदुक्तं भावचूडामणौ | शिवाः शैवाश्चये विप्राःस्तेपि सर्वत्र देशिकाः | गणेशो गाणपत्यं श्वमदीक्षापितुर्मतः || सूरः सौरस्तथावत्स विष्णुर्विष्णु परायणाः | वाराहीतंत्रे च | अकल्पोक्तेन गृह्णीयादंभादि परिवर्जिते विष्णवे वैष्णवं ग्राह्यं शैवे शैवस्तु साधकं शाक्ते गुरौवा सर्वज्ञे विपरीतं न चाश्रयेत् | अयुग्मवर्षे शुद्धाद्या वेदमाश्रित्य तांत्रिकात् | अत्र गुरुणां पूर्वपूर्व संतति ज्ञानमावश्यकं || तदुक्तं भावचूडामणौ | न ज्ञात्वा गुरुकुलं देवनष्टमार्गो भविष्यति | नष्टमार्गान्मंत्रविद्येन तादृङ्फलगोचरं || गुरुणां शिष्यभूतानां नास्ति चेत् संतति क्रमः | तंत्र मंत्राश्च विद्याश्च निष्पलानात्र संशयः || विंशति पुरुषान् वापि भवस्तप्त त्रयोपि वा || न ज्ञात्वा गुरुत्वंशानां शिष्याञ्चान्नुष्ट संततिः | कुलार्णवे च | कुलेश श्रोतुमिच्छामि करुणामृत वारिधे | वक्तुमर्हसिमेनाथ लक्षणं गुरुशिष्ययोः || ईश्वर उवाच || शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि तस्यः श्रवणमात्रेण गुरुभावः प्रजायते | कलि प्रभावजं क्षुद्रं गुणहीनं विरूपिणं | न वंध चंड पाषंडं चंडं पंडितमानिनं || हीनांगंधि कलांगं च विकलावयवान्वितं | पंगुमंधं च वधिरं मलिनं व्याधिपीडितं || दुस्थितं दुर्मुखं वापि स्वेदावेशधरं प्रिये | निद्रातंद्रा जरालस्य दूतादिव्यतमान्वितं || कपाटकुद्यस्तंभादितिरोहित तनुं सदा | मार्जारकर वृत्तिं च वंधू द्वेष तत्परं || शारीरं च कृतघ्नं च प्रच्छस्तांतर दाहकं | विश्वासघातिनं स्वामिद्रोहिणं पापकारिणं || अपकार परं संशयात्मानं सिद्ध्यकंक्षिणं | आततायि नमादिष्ठं कुपितं क्रूरमक्षयं || सर्वप्रहारकं देवि दुष्टकेष्ठाभि मानिनं | बाह्यके वादिनं विद्युच्चौरमार्ग प्रशंशनं || गुणादि सहिष्णुमहितमार्तां क्रोधकमंविके | चार्वाक दुर्जनसखं सर्वलोक विगर्हितं || पिशुनं परसंतापं विवाद प्रवरं प्रिये | अधर्मवादिनं क्रूरं द्रोहिणं पापमार्गणं || प्. १७ब्) एतादृशं गुरुं चैव त्यजेदित्यर्थः | योगिनीतंत्रे | भातुर्मंत्रं गृह्णीयात् तथा माता महादपि | सोदराच्च कनिष्ठा वैरिपक्षाश्रिताच्च वा || गणेश्वर विमर्षिण्यां | मातुर्दीक्षा पितुर्दीक्षाय दीक्षावनवासिनः | विविक्तश्रमिणां दीक्षा न सा कल्याणदायिका || प्रमादाच्च तथा ज्ञानात् पितृर्दीक्षां समाचरेत् | प्रायश्चित्तं ततः कृत्वा पुनर्दीक्षां समाचरेत् || प्रायश्चित्तमयुत गायत्री जपः शूद्रस्तु ब्राह्मण द्वारा कार्यः मातुरित्यादि प्रतिप्रसवरित्यादिसयं | तथद्यथादि यामले | यदि भाग्यवसादेवि सिद्धविद्यां लभेत् प्रिये | तदेकतां दीक्ष्येत त्यक्त्वा गुरु विचारनां || निजकुल तिलकाय ज्येष्ठपुत्राय दद्यात् | दितिफेत्कारिण्यां मत्स्य सूक्ते | नीर्वीर्यतां पितुर्मंत्रं शैव शाक्तेन दुष्यति | साध्वी चैव सदाचार गुरुरुक्त्य जितेंद्रिया || सर्वमंत्रार्थ तत्वज्ञा सुशीला पूजनेरता | गुरुयोग्या भवेत् सा हि विधवा परिवर्जिता || स्त्रियोदीक्षां शुभा प्रोक्ता मातुश्चाष्ठगुणा स्मृता | अत्राय निष्कर्षः | शाक्त सिद्धविद्या कुलविद्या शैवशाक्तान्य मंत्रान्य मंत्रं मात्रादिभ्यो न गृह्णीयात् दित्यर्थः | अथ शुद्ध गुरुलक्षणम् कुलार्णवे | श्री गुरु * * * * (?) मेशानि शुद्धवेशो मनोहरः सर्वलक्षण संयुक्तः सर्वावयवशोभितः | सर्वागमार्थ तत्वज्ञः सर्वमंत्र विधानवित् | लोक सम्मोहनाकारो देववत् * * * * * (?) || * * * (?) लभः स्वच्छः शुद्धांताश्छिन्न संशयः इंगिताकार तत्वज्ञः दूरतः कृतदूर्जनः | अंतर्मुखो वहिर्दृष्ठिः सर्वज्ञो देशकालवित् | आज्ञासिद्धि स्त्रिकाल ज्ञानेद्यद्यानुग्रहक्षमः || वेदवेदांतवित् कांतः सर्वजीवदयापरः | स्वाधीनिंद्रिय संचारः षड्वर्ग विजयक्रमः || अग्रहाण्योति गंभीरः पात्रापात्र विशेषवित् | निर्ममो नित्य संतुष्टो निर्द्वंद्वोनंत शक्तिमान् || सद्भक्तवत्सलाधीरः कृपालुः स्मितपूर्ववाक् | भक्तप्रियः सर्वस्वमोदयालुः शिष्य सापिता || श्रेष्ठः शिष्ठां गुरुः प्राज्ञः वविता पूजनात्सुकः | नित्यनैमित्तिके काम्येरतः कर्मण्य निंदिते || अलोलुपः पक्षपाती अहिंसक विवक्षणः | वित्तविद्यादिभिः पूर्णोमंत्रयंत्रादि पारगः || निःसंकल्पो विकल्पानि निर्णीतार्थाभिधायकः | तुल्यनिंदास्तुतिर्मौनी निरपेक्षो नियामकः || इत्यादि लक्षणोपेतः श्रीगुरुः कथितः प्रिये | अथ गुरु प्रशंसा | प्. १८अ) कुलार्णवे | यः शिवः सर्वगः सूक्ष्मः चोन्मना निष्कलः व्ययः | न्योमाकारे ध्वजोनंतः स कथं पूज्यते प्रिये || अत एवः साक्षाद् गुरु रूपं समाश्रितः | भक्त्या संपूज्यते देवि भुक्तिं मुक्तिं प्रयच्छति || शिवोदिव्याकृतिर्देवि सदृग्भावचरो न हि | तस्मात् श्रीगुरुरूपेण शिष्यन् रक्षति धर्मिकान् || मनुष्य चर्मगावद्धः साक्षात् परशिवः स्वयं | सुशिष्या निग्रहादूय गूढः पर्पटति क्षितौ || सद्भक्ति लक्षणा निराकारोपि सा कृतिः | शिवः कृपानिधिर्लोके संसारी वहिचेष्ठते || ललाट लोचनं चांद्री कलामपि च देहिनं | अतन्निधायवर्तेत गुरुरूपो महीतले || अत्रि नेत्र शिवः साक्षादा चतुर्वाहुरच्युतः | अचतुर्वदनो ब्रह्मा श्रीगुरुन् कथितः प्रिये || नरवदृश्यते लोके श्रीगुरुः पापकर्मणा | शिव व दृश्यते लोके शिवेन पुण्यकर्मणा || श्रीगुरुं परमं तत्वं तिष्ठंतं चक्षुरग्रतः मंदभाग्या न पश्यंति चांधाः सूर्यमिवोदितं | गुरुः सदाशिवः साक्षात् सत्यमेव न संशयः | शिव एव गुरुर्लोके भुक्तिं मुक्तिं ददातिकः || सदाशिवस्य देवस्य श्रीगुरोरपि पार्वति | उभयोरंतरं नास्ति यः करोति स पातकी || देशिका कृतिमास्थाय पशोः पाशो न शेषतः | छित्वा परं पदं देवो न यत्वेननिति श्रुतिः || सर्वानुग्रह कर्तृत्वादीश्वरः करुणानिधिः | आचार्यनूपमास्थाय दीक्षया मोक्षयेत् पशून् || यथा घटश्च कलशः कुंभश्चैकार्थवाचकाः | तथा मंत्रश्च देवश्च गुरुश्चैवार्थवाचकाः || यथा देवस्तथा मंत्रो यथा मंत्रस्तथा गुरुः | देवमंत्र गुरुणां च पूजानां शदृशं फलं || गुरुरूपं समास्थाय पूजां गृह्नामि पार्वति | अविच्छिन्न सदानुग्रहप्रदो गुरुरुच्यते || यो विलंघ्यान् समान् वर्णान् नात्मन्यावस्थितः सदा | सोति वर्णाश्रमी योगी स गुरुः कथितः प्रिये || दृश्यं विनास्थिरा दृष्टिर्मनश्चालंबनं विना | विनायोः संस्थिरो वायुर्यस्य स्यात् स गुरुप्रिये || पंगुं संवित्तिजानंदं परमानंद समुद्भवं | तत् तत्वं विदितं येन स गुरुः कुलनायिके || भूतभावमांत्ररौद्रशाक्तशांभववेत्तियः विधस्य षड्विधं देवि स हि वेधकरो गुरुः | पदवर्ण कलामंत्र भुवनान् जुहुयान् | शोधयेद्वः षडध्वानि स गुरुः कथितः प्रिये || वेद्धुं घटं निरोधं च ग्रहणं मोक्षणं तथा | यो वेत्ति पंचकं सम्यक् स गुरुः कथितं प्रिये || षडाधारेन वा धारे षोडशाधार निर्णयं | योजानाति विधानेन स गुरुः कथितः प्रिये || प्. १८ब्) जाग्रत् स्वप्न सुषुप्तिश्चतूर्यां च तदंदीतीतकं | योवेत्ति पंचकं देवि स गुरुः परिकीर्तितं || पिंडं पदं तथा रूपं रूपातीतं चतुष्टयं | यो वा सम्यग्जानाति स गुरुः कथितः प्रिये || परापरं च पश्यंती मध्यमां वैखरीरपि | चतुष्टयं विजानाति स गुरुः कथितः प्रिये || आत्मविद्या शिवः सर्वमिति तत्व चतुष्टयं | यो वेत्ति परमेशानि स गुरुः कथितः प्रियः परिकीर्तितः || पाशस्तंभं वेधदीक्षां * * (?) ग्रहणमेव च | * (?) त्रिधं यो विजानाति स गुरुः कथितः प्रिये | यो नरं कार्मिकं चैव मायिकं च मनत्रयं | यो विशोधयित्वं शक्तः स गुरुः कथिता प्रिये || * * * * * * * (?) ख्यवरण त्रय वासनां | योजानाति महादेवि स गुरुः परिकीर्तितः || चक्र संकेतकं मंत्रपूजा स्ंकेतकं तथा | त्रिविधं यो विजानाति स गुरुः कथितः प्रिये || अंतर्यागं वहिर्यागः कालज्ञानस्थिति प्रिये | दधो यंत्रविधानं च यो वेत्ति स गुरुः प्रिये || पिंड ब्रह्मांडयोरैक्यं स्थितिं यो वेत्ति तत्पतः | * * (?) स्थितेत संख्यादि स गुरुणा परः प्रिये || पद्मानि चतुराशीति नानासन विचक्षणः | यमाद्यष्टांग योगज्ञः स गुरुः कथितः प्रिये || घृणा लज्जा भयं शंको * * * * * * * * (?) | कुलं तथा जातिरष्ठौ पाशाः प्रकीर्तिताः || पाशवद्धः पशूः प्रोक्तः पाशमुक्तः सदाशिवः तस्मात् पाशहरे मित्रे स गुरुः कथितः प्रिये | वंधनं योनि मुद्राया मंत्र चैतन्य दर्शनं | मात्राद्यं तत् स्वरूपं च यो वेत्ति स गुरुः प्रिये || विनिःक्षिप्तं गतायातं सश्लिष्टं सुविनीतं | चतुर्विधां तनेव * * * (?) स गुरुः प्रिये || मूलादि ब्रह्मरंध्रांतं सप्तां भोजदलेशु च | जीवाचार फलं वेत्ति स गुरुः नापरः प्रिये || शिवादिक्षिति पर्यंतं पारंपर्य क्रमेण तु | अव्यक्त तत्व सद्भावः स गुरुः कथितः प्रिये || येन वा दर्शिते तत्वे तत्क्षणात् तन्मयो भवेत् | मन्यतेषुक्तमात्मानं स गुरुः कथितः प्रिये || ये दत्वा सहजानंदं हरंती विघ्नस्थलं | सेव्यास्ते गुरवः शिष्येरन्येतूज्याः प्रतारकाः || ये मनस्थं सुशिथेषु दर्पणे शिवरूपतः | संक्रामयंतिते धन्या गुरवोन्यो प्रतारकाः || संसार भ * * * (?) तस्य शिष्यस्य गुरुरादरात् | व्रतोपवासनियमे नियंता स गुरुर्मतः || यः प्रसन्नेक्षणनार्येनमोक्षलक्ष्मी प्रयच्छति | दुर्लभं विजानीयात् गुरुसंसारतारकं || प्. १९अ) यः क्षणनात्म सामर्थ्यं सुशिष्याय ददाति हि | क्रियाया सादिरहितं स गुरुदुर्लभं प्रिये || यः सद्य प्रत्ययकरं सुलभं स्वात्म सौख्यदं | ज्ञानोपदेशं कुरुते स गुरुर्देवि दुर्लभः || दीपादीपांतरं देवि संचरेत यथा तथा | यो दद्यात् स गुरुज्ञानं मभ्यासादि विवर्जितं || क्षुधितस्य यथा तृप्तेराहारादाशु जायते | तथोपदेश मात्रेण ज्ञानदो दुर्लभो गुरुः || गुरवो वहवः संति स्वात्मनोल्प पदा भुवि | दुर्लभोयं गुरुर्देवि सूर्यवत्सर्व दीपकः || गुरवो वहवः संति वेदशास्त्रार्थ पारगाः | दुर्लभोयं गुरुर्देवि परतत्वार्थ पारगः || गुरवो वहवः संति कुलमंत्रौषधि देवताः | निगमागम शास्त्रोक्त मंत्रज्ञो दुर्लभो गुरुः || वर्णाश्रम तथाचार निरता गुरवो भुवि | सर्वसंकल्प हीनोयः स गुरुर्देवि दुर्लभः || गुरुर्यस्यैव संकल्पात् परानंदो विजायते | गुरुं तमेव शृणुयान्नापरं मतिमान् नरः || यस्यानु भवपर्यंता बुद्धिस्तत्वे प्रवर्तते | यस्या लोलमात्रेण मुच्यते नात्र संशयः || संकया भक्षितं सर्वं त्रैलोक्यं स चराचरं | साशंका भक्षिता येन स गुरुर्देवि दुर्लभः || यथा वहि समीपस्थं नवनीतं विलीयते | तथा पापं विलीयेत सदाचार्य समीपतः || यथादीप्तानलः काष्ठं मुष्कमात्रं च नर्दहेत् | तथा गुरु कटाक्षस्तु शिष्यपापं दहेत् क्षणात् || यथा महानिलोद्धूतं तूलं दशदिशोछ्रुजेत् | तथैव गुरुकारुण्यात् पापराशिः प्रलीयते || दीपदर्शनमात्रेण प्रणेश्यंति महातमः | सद्गुरो दर्शनाद्देवि तथा ज्ञानं विनश्यति || सर्वलक्षण संपन्न वेदशास्त्र विशारदः | सर्वोपाय विधानेषस्तत्वहीने गुरुर्नहि | पूजाहोमाश्रमाचार तपस्तीर्थ व्रतादिकं | मंत्रागमादि विज्ञानं तत्वहीनस्य निस्फलं || पुंसावाद्य परे तत्वे स्वात्मनोस्य न निश्चयः | आत्मनानुग्रहोनास्ति परस्यानु ग्रहोगतः || षट्प्रकारं मनोरूपं प्रत्यक्ष स्वात्मनः स्थितिं | यो न जानाति चान्यस्य कथं मोक्ष ददात्यसौ || सर्वलक्षण हीनोपि तत्व ज्ञानी गुरुः स्मृतः | तस्माद्भुवि देवेहयुक्तात्मा च एव हि || यस्तत्व चिन्महेशानि स पशुं वाधयत्यपि | तत्वहीनः कुतो बुद्धः कुतो ह्यात्म परिग्रहः || तत्वज्ञै रूपदिष्टाय तत्वज्ञा तेन संशयः | पशुभिरुपदिष्टाये पशवी देवि स स्मृता || चिद्धस्तु वेधकोदेवि ना विद्धो वेधकी भवेत् | युक्तस्तु मोचयेद्वत्संधं ना युक्तः मोचकः कथं || प्. १९ब्) मतिज्ञाश्चोद्धरे मूर्खं न मूर्खो मूर्खमुद्धरेत् | शिलां संतारयेर्न्नौर्हि स शिलातारयेछिलां || तत्वहीनं गुरुं लज्जा केवलं भव तत्परं | इहामुत्रफलं किंचित् स नरो नाप्नुयात् प्रिये || शौरे गुरुत्रयं प्रोक्तं वैष्णवे गुरुपंचकं | वेदशास्त्रेषु शतसो गुरुरेकः कुलागमे || प्रेरकः शूचकश्चैव वाचको दर्शकस्तथा | शोषको बोधकश्चैव षडेते गुरवः स्मृताः || पंचैते कार्यभूताश्च कारणं बोधको भवेत् | पूर्णाभिषेकः कर्तायो गुरुस्तस्यैव पादुकी || पूजनीया महेशानि बहुत्वेपि न संशयः | श्रीगुरुं लक्षणोपेतं संशय छेदकारणं || लब्ध ज्ञानप्रदं देवि न गुर्वं तत्वमाश्रयेत् | अनभिज्ञ गुरुं प्राप्य संशय छेदकारकं || शिष्यो गुर्वंतरंगत्वा तद्दोषैर्न्नानु लिप्यते | मधुलुब्धो यथा भृंगः पुष्पात् पुष्पांतरं व्रजेत् || ज्ञानलुब्धस्तथा शिष्योर्गुरुर्गुरुतरं व्रजेत् || इति सद्गुरुलक्षणं || अथ दीक्षायाः शिष्य प्रदानकत्वात् छिष्य निरुप्यते | तंत्रराजे | शिष्यः कुलीनः शुद्धात्मा पुरुषार्थ परायणः | अधीतवेदः कुशलोदूरमुक्तमनोत्तरः || हितैषी प्राणिनां नित्यमास्तिक्यं त्यक्त नास्तिकः | स्वधर्मनिरतो भक्तः पितृमातृ हितोद्यतः || वाङ्मनः कायवसुभिः गुरु शुश्रूषणेरतः | एतादृश गुणोपेतः शिष्यो भवति नापरः || रुद्रयामले | सुस्थिरः स्वच्छः सुद्धात्मा सुस्थिराशषः | अलुब्धः स्थिरगात्रश्च प्रेक्षाकारं जितेंद्रियः || आस्तिको दृढभक्तश्च गुरौमंत्रे च दैवते | एवं विधो भवेत् सिष्येस्ति तरोदुःख कृद्गुरोः || कुलार्णवे | सत्सिष्यं तु कुलेशानि सर्वलक्षण संयुतं | यमादि साधनोपेतं गुणं शीलसमन्वितं || शुद्धदेहा नवकं सिद्ध्यर्मिकं शुद्धमानसं | दृढव्रतं सदाधारं श्रद्धा भक्ति समन्वितं || अनुकूल क्रियो युक्तं मप्रमत्तं विचक्षणं | हितसत्यस्मित स्निग्ध भाषिणं मुक्तभूषणं || सकृदुक्त गृहीतार्थं चतुरबुद्धिविस्तरं | गृहतल्पात्सनोत्संग निर्विकारम सेवकं || सुस्वार्थ परनिंदायां सुमुखं विमुखं प्रिये | जितेंद्रियं सु संतुष्टं धीमंतं ब्रह्मचारिणं || त्यक्त्वाधि व्याधि चापल्यं दुःशंकामंक वर्जितं | गुरुध्यानस्तुति कंथा सेवना भजनोत्सुकं || गुरुदैवत भक्तश्चकामिनी पूजनोत्सुकं | नित्यं गुरुसमीपस्थं गुरुसंतोषकारिणं || जपध्यानादि निरतांङ्मनः कर्मभिर्नित्यं गुरुकार्य समुत्सुकं | गुर्वाज्ञा पालकं देवि गुरुकीर्ति प्रकाशकं | गुरुवाक्य प्रमाणज्ञं गुरुशुश्रूषणेरतः || प्. २०अ) चिंतानुवर्तिनं प्रेक्षाकारणं कुलनायिके | लज्जाभिमान गर्वादि वर्जितं गुरुसन्निधौ || निरपेक्षं गुरुद्रव्य तत्प्रसादाभिकांक्षिणं | जपध्यानादि निरतं मोक्षमार्गाभिगामिनं || इत्यादि लक्षणोपेतं गुरुः शिष्यं परिग्रहेत् || अथासात् शिष्यलक्षणानि | तत्रैव | दुष्टानुवायजं दुष्टं गुणहीनं विरुपिणं | परशिष्यं च पाषंडं धूर्तं पतितमानिनं || हीनाधिकधिकारांगं विकलाव यवान्वितं | पंगमंधं च बधिरं मलिनं व्याधिपीडितं || उच्छिष्टं दुर्मुखं वापि स्वच्छ विशधरं विटं | दुर्विदग्धं कुचेष्ठं च कुटिलं भीमदर्शनं || निद्रालस्ययुतं तंद्राद्यूत्यादि वसनान्वितं | कपाटकुद्यस्तं भादौ तिरोहित तनुं सदा || शूत्यमुक्तिकरं श्रद्धा क्षुद्रं भक्ति विवर्जितं | किमेकरादिनं स्तब्धं प्रेषकं प्रेषितं शठं || धनुस्त्रा शुद्धिरहितं निषेधविधि वर्जितं | रहस्यभेदकं वापि देवि कार्यार्थवातिकं || मार्जार वकवृत्तिं च रक्तान्वेषण तत्परं | मायान्वितं कृतघ्नं च प्रच्छन्नांतरतापके || विश्वासघातिमं स्वामिद्रोहिणं पापकारिणं | अविश्वासमवभ्यां गमनर्थ सिद्धिकांक्षिणं || आततायि नमादित्सुं कुत्सितं कूटसाक्षिणं | सर्वप्रकारकं देवि सर्वोत्कृष्ठाभिमानिनं || असत्या निष्ठुरापह्यं ग्रम्येदि वहुभाषिणं | दुर्विचार कुतर्कादि कारिणं कलहप्रियं || छेप्याक्षे पकरं भ्रांतं भ्रामकं वा विडंवकं | परोक्षे दूषणकरं प्रत्यक्षे प्रियवादिनं || वाग्रजवादिनं विद्याचौर आत्मप्रशंसकं | गुणा सहिष्णु हृदयमार्त क्रोधनमंविके || चार्वाक दुर्जन सठं सर्वलोक विगर्हितं | पिशुनं परसंतापं संविद प्रणयं प्रिये || सुक्लं शवादिनं स्वामि द्रोहिणं स्वात्मवंचकं | जिह्वोपस्थपरं देवि तस्कर पशुवेष्ठितं || अकारण द्वेषदास्यक्लेशक्रोधादि कारिणं | अहितास्यमकर्माणं मर्मांतः परिहासकं || कामुकं चाति निर्लज्जं मिथ्यादुश्चेष्ट शूचकं | असूयामदमात्सर्यदंभाहंकार वर्जितं || ईर्ष्यादि शून्यं पारुष्य कार्यण्य क्रोधमानिनं | अधीरं दुःखितं चेष्टं न शक्तं तत्ववर्जितं || अप्रशस्तमतिमूढं | चिंताकुलित मानसं || तृष्णालोभयुतं दीनमतुष्ठं सर्वपाचकं | वह्वाशितं कपदिनं कुटिलं भ्रामकं प्रिये || भक्ति श्रद्धादयाशांतं धर्माचार विवर्जितं | पितृमातृगुरुप्राज्ञ महतां यस्य कारकं || कुलद्रव्यादि वीभत्सं गुरुसेवाभिमानिनं | स्त्री द्विष्टं समयभ्रष्टं गुरुसुप्तं कुलेश्वरि || प्. २०ब्) इत्यादि लक्षणोपेतं गुरुशिष्यं परिग्रहेत् | स्नेहाद् वा लोभतो वापि यदि गृह्नति दीक्षयेत् || तस्मिन् गुरौ स शिष्ये तु देंतां शाप अपोतयत् | दस्मादेवं विधं शिष्यं न गृह्नीयात् कथं च न || यदि मोहेन लोभेन तत्पापै प्राप्यते गु * (?) | मंत्रिपापं च राजानं पतिं जाया कृतिं यथा | तथा शिष्यकृतं पापं प्रायो गुरुमपि स्पृशेत् | इति निंदित शिष्यदोषा श्रवणाद पशिष्यं न परिगृह्णीयात् || इति गुरुशिष्य लक्षणानि | अथ शिष्यपरीक्षा तत्रैव | ज्ञानेन क्रियया वापि गुरुः शिष्यं परिक्षयेत् | संवत्सरं तदर्द्धं वा तदं वा प्रयत्नतः || उत्तमामधमेकार्यै नीचानुत्तम कर्मणि | प्रागद्रव्य प्रदानाद्यैरादेशश्च समाससर्वे || जन्मर्मशू च कैर्वापि मतिः क्रूरचेष्ठितः | पक्षपातरुदासीनैरलोकैश्च मुहुर्मुहुः || अरिष्टभांडितश्चापि यो विषादं न जाति च | गुरुः कृपां करोतीति मुदा संचियते सदा || श्रीगुरोः स्मरणे वापि कीर्तनेपि च | वंदने परिचर्यायानाह्वाने प्रेषणेपि च | आनंदकं परो मां च स्वरनेत्रादि विक्रिया || येषां तत्र योग्याः स्युदीक्षाः संस्कार कर्मसु | शिष्योपि लक्षणैरेतै कुर्याद् गुरु परिक्षणं || आनंदादैर्जपैस्तोत्रै द्यानर्होमार्चनादिभिः | ज्ञानोपदेश सामर्थ्यं मंत्रसिद्धिमपीश्वरि || बोधकत्वं च विज्ञाय शिष्यो भूयान चान्यथा | अथ शिष्याणामुत्तमाश्रम मध्यत्वं च तत्रैवा || आदिमध्यावसानेषु योग्याः शक्ति निपाततः | अधमा मध्यमा श्रेष्ठाः शिष्यादेवि प्रकीर्तिताः || आदौ भक्तिर्भवेद्देवि दीक्षार्थं संवदंति च | पुनर्विलुप्तं भक्तास्ते आदियोग्याः प्रानुदीरिताः || दीक्षासमय संपातामज्ञानाज्ञान वर्जिताः | भक्त्यापि शुद्धवीर्याये मध्ययो इति संस्मृताः || आदौ भक्तिविहीनाये मध्ये भक्तिस्तु वागवा | अंते प्रभूत भक्तिश्चप्यंते योग्यवंतिके || उत्तमान ज्ञान संज्ञाश्च उपदेशस्तथा प्रिये | यथा पिपीलिकामन्नं मन्नं वृक्षायगं फलं || चिरेणाप्नोति कर्मोपदेशश्चाक्षि तथा विधः | यथा कपिश्च शाखायाः शामुल्लंघ्य यत्नतः || फलमाप्नोति भक्त्यास्यास्त्वत्पदेशस्तथा प्रिये | यथा विहंगमः शीघ्रं फलमेव निषीदति || तथा ज्ञानोपदेशश्च कथितः कुलनायिके | इति त्रिविध शिष्ये त्रिविध ज्ञानोपदेशः || इति श्रीपूर्णानंदनाथेन कृतायां गुरुभावतः कुलवृत्तौ स्वतंत्रायां चतुर्थः पटलः स्मृतः || ४ || अथ दीक्षाया गुरुशिष्याधीनत्वात् | गुरुशिष्यनिरुपणानंतरं दीक्षा निरुप्यते | तदुक्ते तंत्रराजे | दिव्यज्ञानं यदा दद्यात् कुर्यात् पापक्षयं यतः | तस्मादीक्षेति माप्रोक्ता देशिकैस्तंत्रवेदिभिः || अथवा गुरुणा सम्यक् दीक्षणान् मंत्रसिद्धयोः | दीक्षेति कथिता सर्वैः पापनाशनकारिणी || कोटिजन्मकृतं पापं ज्ञानाज्ञान कृतं च यत् | दीक्षा ग्रहण मात्रेण पलायंतेन संशयः || प्. २१अ) ब्रह्महत्या सुरापान स्वर्णस्तोयादिपातकं | उपपातक लक्षाणि हंति दीक्षाश्रयान्नरः || दीक्षिते ब्राह्मणो याति ब्रह्मलोकममालयं | इंद्रलोकं क्षत्रियोपि प्राजापत्यं तथा विशः || शूद्रो गंधर्वनगरं याति दीक्षा प्रभावतः | कुलमूलावतारे चादीयते ज्ञानविज्ञाने क्षीयते पापराशयः || तेन मोक्ष इति प्रोक्ता ताषां तत्व विचारकैः | ज्ञानार्णवे च | दीयते सकलं देवि गुरुप्राण सु संयुतं | धनं तत्र सुवर्णादि पट्टवस्त्र समन्वितं || क्षयं प्राप्नोति तद्भावान्नादा पादसमुच्चयः | तस्माद्दीक्षेति नामास्याः सर्वशास्त्रेषु सुव्रते || अथ दीक्षा नित्यैव | अकारणे प्रत्यवय श्रवणात् | तदुक्तं आगमकल्प इमे | असीक्षितानां मर्त्यानां दोषं शृण्वंति पंडिताः | अन्नं विष्ठामयं तेषां जलं प्रस्रावमे वध || तत् कृतं तस्य वा श्राद्धं गृहीत्वा वात्यधो गतिं | अशेष पुष्पनैवेद्य भक्ति संकुलितामपि || पूजा न देवा न गृह्नंति कन्यं च पितरस्तथा | कर्माखिलं वृथा यस्माददीक्षीतः पशुः || कालोत्तरे च | तथा च दीक्षितानां च मंत्र देवार्चनां विना | नाधिकारो मंत्र्य कुर्यादात्मानं शिवसंस्कृतं || वाराहीतंत्रे च || दीक्षामूलं जगत्सर्वे दीक्षा हि परमं तपः | दीक्षाश्रित्य विवार्सेशतं यत्र कुत्राश्वमेवशन् || अदीक्षिते चेन्मरणे रौरवान्न निवर्तते | तस्माद् दीक्षां प्रयत्नेन प्रोक्तमाश्रित्यतात्रिकात् || कुर्यादित्यर्थः | शारदातिलके | चतुर्विधा संदिष्ट क्रियवत्यादि भेदतः | क्रियावती वर्णमया कलात्वा वेधमत्यपि || ताः क्रमेणैव कथ्यंते तांत्रस्मिन् संपदावहाः | अथैकेकापि त्रिविधा भवंति || तदुक्तं कल्पसूत्रे | देश्यानुवेदादिद्याः सर्वे सुदर्शशेषु गुप्तेयं विद्याज्ञानवधूरिव | तत्र सर्वथामतिमान् दीक्षयेत् || दीक्षा च त्रिविधा शाक्ती शांभवी मांत्रीचेति | तत्र शाक्ती शक्ति प्रवेशनात् | शांभवी चरव विन्यासात् | मांत्री मंत्रोपदिष्टा सर्वाश्च कुर्यात् देकैकात्मुत्येके | कुलोड्डीशे च | शांभवी चैव शैवी च मांत्री चैव शिवागमे | दीक्षोद्दिश्य त्रिविधा शिवेन परमात्मना || मंत्रमागानुसारेण साक्षाकृत्वेष्ठदेवतां | गुरुश्चेद्वोधयेच्छिष्यं मंत्रं दीक्षेति चोच्यते || अथवा मंत्र पूजादि ध्यानेनापयोगिभिः | गुरुणा योगमार्गेण यथा शास्त्रानुरूपतः || मंत्रा कृयावती संतु कुंडमंडल पूर्विका | मंत्रोपदेश मात्रं तु मंत्रदीक्षेति चापरे || सामान्य भूता खलुखलुमंत्र कीर्त्या दीक्षा स्मृता मंत्रगलेषु तद्वत् | वर्णेषु चापि द्विज पूर्वकेषुस्था चैव शाक्तिष्वपि वैष्णवेषु च | सिद्धेषु शक्तिमालोक्यत्वया केवलया शिशोः निरपाशं कृता दीक्षा शाक्तयीं परिकीर्तिताः | प्. २१ब्) अथ ज्ञानवती दीक्षा शाक्ति दीक्षेति चापरां | अभिसंगि विनाचार्य वैष्णयोरुभयोरपि || देशिकामुग्र हत्वेन शिवतां व्यक्त रूपिणी | शैव तु शांभवी प्रोक्ता शिवावेशवकारिणी || गुरोरालोक मात्रेण स्पर्शा संभावनामपि | सत्य संज्ञाभवेन्मंत्रोः शांभवी चेति चागमे || इति दीक्षा निरूपणं | अथ शिष्योदीक्षार्थं गुरुमानयेत् | धर्ममूलं गुरोः मूर्तिः पूजामूलं गुरोः क्रिया | मूलमंत्रं गुरोर्वाक्यं तस्मादादौ गुरुं यजेत् || तदुक्तं महोग्र ताराकल्पे | करे दृष्ट्या तु तारां वै यो गृह्नाति नराधमः | मन्वंतर सहस्रं तु निकृतिर्न विधीयते || गुरोर्मुखान् महाविद्यां गृह्नीयात् पापनाशिनी | अत्र तारामित्युपलक्षणं मात्रं सर्वविद्यामित्यर्थः || तदुक्तं तंत्रराजे | आदौ सेवाः गुरोः कार्या शरीरवाङ्मनोधनैः | शुभेह्नि स्नानमाचर्य संपूज्य गणनायकं || सूर्यं हरिशिवं दुर्गां वाणीं च कमलालयां | मातरं पितरं नत्वा ब्राह्मणान् परितोष्य व || फल पुष्प सुभोज्यादीन् गृहीत्वा पक्ति संमत | पुरुषेरव्यं समावाप्त्यै सत् शिष्यो गुरु माश्रयेत् || शिववत् पूज्यते भक्त्या सिद्धान् प्रदायकाशिकं | त्रिधा प्रदक्षिणी कृत्य दंडवत् प्रणमेत् क्षिपौ || * * * * * * * * (?) नावुभ्यामवनीं गतः | कृतांजलि पुटो भूत्वा प्रणिपत्य पुनर्गुरु || गुरुच्यमानेव च दिन्यदिष्ठवचस्तदा | प्रसीद देवनार्थनि स तथेति कृतादरः || गुरोराजो समासाद्य विरमेद्विधिपूर्वकं | प्रतिकूलोर्गुरोर्नित्यं मनसापि न कारयेत् || नरो यतधि सा नित्यमेक ग्रामनिवासिनं | कर्मणा मनसा वाचा वदनं समुपाचरेत् || प्रतिः शिरसि शुक्लेब्जे त्रिनेत्रं द्विभुजं गुरुं | वरान् भयकरं शांतं स्मरेत् तन्नामपूर्वकं || गुरुनाम्ना न भाषे तज्जपकाले दृते क्वचित् | श्रीनाथ *** (?) मीति विषादे साधने वदेत् || ब्रह्मशिवादीनां पूजने यत् फलं भवेत् | तत्फलं समयामीति प्रत्यहं गुरुवंदनं || गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः | भवार्णव परिश्रांतो गुरुरेव परागतिः || गुरौति * * * * * * * * (?) पूजयेन्नरः | स दुर्गति मवाप्नोति सत्यं सत्यं न संशयः || प्रतिपत्य गुरुं यस्तु मोहाद्विप्र * * (?) द्यते | स्वर्गकोलः स नरके पच्यते नात्र संशयः || य गुर्वाज्ञा प्रकुर्वंति पापिष्ठाः पुरुषाधमाः | न तेषां नरकक्लेशा निस्तारो कथंचन || अधिक्षिप्य गुरुं मोहा पुरुषं प्रवदंति ये | शूकरत्वं भवत्येव तेषां जन्मशतेष्वपि || प्. २२अ) ये गुरुद्रोहिणो मूढाः सततं पापकारिणः | तेषां च यावत् सुंकृतं दुष्कृतं स्यान्न संशयः || गुरौ यस्य स्थिरा बुद्धिस्तस्य मुक्तिः करेस्थिताः | रात्रौ दिवा च स्तस्याज्ञां दासवत् परिपालयेत् || अशक्यम शुभं तत्व मुक्तवाक्यं न लंघयेत् | अभिमानं न कुर्वीत धनजात्यादिषु मानिभिः || गुरुद्रव्यं न भोक्तव्यं तेन दत्तं कदाचन | अत्यैतं देवपूजां च जपयज्ञस्तवादिकं || परिहासं प्रलापं च गुरुं साक्षाद् विराजं येत् | पादुका योगपट्टादि गुरुचिह्नानि साधनं || न लग्नायत् स्पृशेन्नैव पादाभ्यां प्रणमेत् सदा | काष्ठाशनोपवेशं च यानाद्यारोहणं तथा || पर्यंक शयनं तद्व तथा पाद प्रसारणं | अंगभंगां च लीलां च न कुर्याद् गुरुसन्निधौ || गमनागमनं कुर्यात् प्रणम्य गुरुपादुकां | विचार्य कार्य कुर्वात गुरुवाक्य प्रसादवान् || छायां न लंघये तद्वन्न गच्छेत् पुरतो गुरोः | पश्चात् पादेन निर्गच्छे प्रणम्य च गुरोर्गृहात् || गुरोरग्रेन कुर्वात प्रलयं शिष्यविहित | गुरौतुष्ठे शिवस्तुष्टः शिवेतुष्टौ जगत्त्रयं || शिवेतुष्टे गुरुस्ताता गुरौरुष्ठे न कश्चन | तस्मात् सर्वप्रयत्नेन गुरोः कोपं न कारयेत् || एवं विधि विधानेन सेवां कुर्याद् विधानतः || फेत्कारिणी तंत्रे च | उत्पादक ब्रह्मरुद्रोर्गरीयान् ब्रह्मदः पिता | तस्मान् मन्येन स ततं पितुरपिधिकं गुरुं || मिति भावचूडामणौ | स्ववंशादधिकं ज्ञेयं गुरुवंश शुभाशुभं | जनकादधिको ज्ञेयो मंत्रदश्च महेश्वरीति || मुंडमालातंत्रे चा प्रातः शिरसि शुक्लेऽब्जे द्विनेत्रं द्विभुजं गुरुं | वराभयकरं शांतं स्मरेतन्नामपूर्वकं | नमोस्तु गुरवे तस्मादिष्टदेव स्वरूपिणे || यस्य वाक्यामृतं हंति विषं संसार संज्ञकं | गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः || गुरुरेव परंब्रह्म तस्मादादौ तमर्चयेत् | प्रसन्ने तु गुरौ सर्वासिद्धरुक्ता मनीषिभिः || यथा शिवस्तथा विद्या यथा विद्यां तथा गुरुः | गुरुणा दर्शितेवेत् तत्क्षणात् तन्मयो भवेत् || गुरौ सन्निहिते यस्तु पूजयेदग्रतस्ततः | स दुर्गतिमवाप्नोति पूजा च विफला भवेत् || शिवेरुष्ठे गुरौ स्त्राता गुरौरुष्टे न कश्चनः | अविद्यो वा स विद्यो वा गुरुरेव तु दैवतं || आगमस्था हि मार्गस्थो गुरुरेव सदागतिः | प्रतिपद्य गुरुं यस्तु मोह विप्रति पद्यते || संकल्पकोटि नरके पच्यते पुरुषाधमः | अग्रेसुमग्रतो गच्छेगच्छस्तंभ मनुव्रजेत् || प्. २२ब्) आसने शयने वापि न तिष्ठदग्रतो गुरोः | अनुज्ञां चाथ तिष्ठे तमेवं पापमवाप्नुयात् || यत् किंचिदन्नपानादि प्रियद्रव्यं मनोरमं | समर्प्य गुरवे पश्चा स्वयं भुंजीत प्रत्यहं || महांधकार मध्यस्य यथा सूर्यः प्रकाशते | अज्ञानतिर्मिराधस्य गुरुरेव प्रकाशकः || यथा सिंहरसे स्पर्शातंत्रे भवति कांचनं | सन्निधाने गुरोरेव शिष्यः शिवमयो भवेत् || मंत्रे च यदेवतायां च तथा मंत्रप्रदे गुरोविष्णु भक्तिः सदाकार्या सा हि प्रथम साधना || यस्य मंत्रे च देवे च गुरौ भक्तिः स निश्चला | नव्यवच्छेदते चित्ते तस्य सिद्धिरदूरतः || मंत्रात्मा देवता ज्ञेया देवता गुरुरूपिणी | तेषां भेदो न कर्तव्यो यदीच्छेत् सिद्धिमात्मनः || इति | अथ पादुका भक्ति लक्षण | तत्र कुलार्णवे | श्रीदेव्युवाच | कुलेश श्रोतुमिच्छामि पादुका भक्ति लक्षणांमिति देवेशि वदमे करुणानिधेः | ईश्वर उवाच | शृणु देवि प्रवक्ष्यामि यस्मां त्वं परिपृच्छसि | तस्य श्रवण मात्रेण भक्तिराशु प्रजायते || वा गुरा मूल वलयेस्यूतार्थाः कवलीकृतः | एवं कुलार्णवे ज्ञानां पादुकानां प्रतिष्ठितं || कोटि कोटि महादानात् कोटि कोटि महाव्रतात् | कोटि कोटि महायज्ञात् परा श्रीपादुका स्मृतिः || कोटि कोटि जपात् कोटि पुण्यतीर्थावगाहनात् | कोटि देवार्चनाद्देविप्रसाक्षी पादुका स्मृतिः || महारोगे महोत्पाते महादुःखे महाभये | महापदे महापापे स्मृता रक्षं तु पादुका || दुराचारे दुरुपाये दुःत्संगदुः प्रतिग्रहे | दुरारोहे च दुर्बुद्धौ स्मृता रक्षति पादुका || तेनाधीते श्रुतशाननिष्ठादन्नं च पूजिताः | जिह्वाग्रे वर्तते यस्य सदा श्रीपादुका प्रिये || सकृत् श्रीपादुकां देवियोराजपति भक्तितः | स सर्वपापरहितः प्राप्नोति परमांगतिं || शुचिर्वाथ शुचिर्वापि यो भक्त्या स्मरति पादुका | अनायासेन धर्मार्थकाममोक्षान् लभेत् सः || श्रीनाथचरणां भोजं यस्यांदिशि विराजते | तस्यैदिशे नमस्कुर्युद् भक्त्या प्रति भक्तिं प्रतिदिनं प्रिये || न पादुका परो मंत्रो न देवः श्रीगुरोः परः | न हि शाक्तात् परोमंत्रो न पुण्यं कुलपूजनात् || ध्यानमूलं गुरोमूर्तिः पूजामूलं गुरोः पदं | मंत्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपाः || गुरुमूलाः गुरुमूलाः क्रियाः सर्वा लोलोकेस्मिन् कुलनायिके | तस्मात् सेव्यो गुरुर्नित्यं मोक्षार्थं भक्ति संयुतैः || तावदार्ति भयं दुःखं मोहश्चा शुभकामदः | यावन्नायाति शरणं श्रीगुरुं भक्तिवत्सलं || भवेति संसार सर्वदुःख मनीमसा | न भवंति गुरोर्भक्तायाव देवेशि देहिनः || मंत्रसिद्धि फलोह्येषा मंत्र स्कंदोति शोभितः | गुरुप्रसाद मूलोयं परतत्व महाक्रमः || प्. २३अ) यथा ददाति संतुष्टः युगांता वरदं मनुं | तथा भक्त्या धनैः प्राणैः गुरुं यत्नेन भावयेत् || यदा दद्याच्छिवायस्वमात्मनं देशिकात्मने | तदा तत्वच्छिष्यो न ततोस्ति पुनर्भवः || दावदाधारयेच्छिष्याः स्वप्नशान्ना यदा भवेत् | गुरोः प्रसन्नो शिष्यस्य सर्वपापक्षयो भवेत् || मनसापि न कांक्षंते जावत् कामत्व जीविनः | संपदं यांति तान् सर्वान् स्वमिनो भक्तवत्सलाः || ब्रह्मविष्णुमहेशादि देवतामुनियोगिनः | सर्वत्र्यग्रहं तुष्ठा गुरौ तुष्टेन संशयः || भक्त्या संतुष्ट गुरुणा ह्युपदिष्टं कृपात्मना | कर्ममुक्तो भवेच्छिष्यो भक्तिमुक्त्योः स भाजनं || शिष्यैणानि तदंग्राह्यं यदा संतोषितो गुरुः | तस्माद् गुरुं प्रियं कुर्युन् मनोवाक्वाय कर्मभिः || यदि वा परितुष्टेन गुरुणा यत्र कुत्रचित् | मुक्तासीति समादिष्टः सोपि मुक्तो यजेत् प्रिये || अथवानि प्रपंचेन धाम्ना केनाचिदीश्वरः | करोति गुरुरूपेण महापशो विमोचनं || नमो त्रयश्चतुर्वेशं मद्भक्तः स्वपचोपि वा त्स्मै ततो ग्राह्यं स तु पूज्योह्यहं यथा || विप्रोपि गुणसंपन्नोप्य भक्तो न प्रशस्यते | म्लेच्छेपि गुणहीनो वा भक्तिमान् शिष्य उच्यते || गुरुभक्ति विहीनस्य तपोविद्या व्रतं कुलं | शरण्ये वकुलेशानि भूषणालोकरंजकं || गुरुसद्भक्ति दहन दग्धधुर्जात कल्मषः | स्वपचो वा परः पूज्यो न विद्वान्नास्तिकः || धर्मार्थकामैः किं तस्य मोक्षात् साक्षात्कार स्थितः | सर्वार्थ श्रीगुरौ देवि यस्य भक्तिः स्थिरो भवेत् || स शिवो गुरुक्षदेश भुक्तिमुक्ति प्रदो मम | इति भक्त्या स्मरेद्यस्तु तस्य सिद्धिर दूरतः || यः स्सदार पराभक्तिर्यथा देवे तथा गुरौ | तस्यैते सकलाह्यर्थोः प्रकाशंते कुलेश्वरि || नारायण महादेवे मातापित्रोश्चराजनि | यथा भक्तिर्वेद्देवि यथा कार्या निजे गुरौ || लक्ष्मीनारायणौ वाणी धातारौ गिरिजागिरौ | श्रीगुरौ गुरुपंक्तीश्च पितराविति || शुक्त्या यथा देवि प्राप्यंते सर्वसिद्धयः | यज्ञदान तपस्तीर्थं जाव्रताद्यैर्यथा प्रिये || श्रीगुरौ निश्चला भक्तिवर्द्धते हि यथा तथा | तथा तथास्य विज्ञानं वर्द्धते कुलनायिके || किंतीर्थाद्यैर्महायोगैः किं व्रतैः कायशोषणैः | निर्व्याजसेवा देवेशि भक्तिर्येषां हि सद्गुरौ || प्. २३ब्) कायक्लेशेन महता तपसावपि यत्फलं | तत् फलं लभते देवि सुखेन गुरुसेवया || भोगमोक्षार्थिनां ब्रह्म विशेषपदकांक्षिणां | भक्तिरेव गुरौ देवि नान्य पंथा इती श्रुतिः || अशुभानि च कार्याणि महापातकिजानि च | भक्तिः क्षणे दहति तृण राशिनि वामलः || विश्वेशाय मनस्तस्मै सर्वसिद्धिप्रदायिने | येन त्वदारुदृशदो ददती विषदं फलं || न योगो न तपो नार्चः क्रमः कोपि प्रलीयते | अमाये कुलमार्गेस्मिन् भक्तिरेका विशिष्यते || साक्षाद् गुरुमये देवि सर्वस्मिन् भ * * * * * (##? गुरौ मनुष्यबुद्धिं व मंत्रेषाक्षर शुद्धिकां | मतिमान्सुशिलांबुद्धिं कुर्वाणी नरकं व्रजेत् || गुरु * * * (?) वुध्येत यदि बुध्येत तस्य तत् | कदाचिन्न भवेत् सिद्धिर्मंत्रैर्वा देवतार्चनैः || श्रीगुरुं प्राकृतैः सार्द्धं ये स्मरंति वदंति च | तेषां हि सुकृतं सर्वपातकं च भवेत् प्रिये || जन्महे नृहि पितरौ पूजनीयौ प्रयत्नतः | गुरुर्विशेषतः पूज्यो धर्माधर्म प्रदायकः || गुरुपितागुरुर्माता गुरुर्देवो गुरुर्गतिः | शिवेरुष्टे गुरौ त्राता गुरौरुष्टेन कश्चन || गुरौर्हितं हि कर्तव्यं वाङ्जनः कायकर्मभिः | अहिता चरणा देवि विष्टायां जायते कृमिः || शरीरचित्तं प्राणांश्च श्रीगुरोर्वं च यंतियं | कृमिकटि पतंगत्वं प्राप्नुवंति न संशयः || गुरु * * * (?) येन् मृत्युर्मंत्र त्यागाद्दरिद्रेत | गुरुमंत्रे परित्यागी रौरवं नरकं व्रजेत् || गुरुक्तं परंमवाक्यमाशिषं चिंतयत् प्रिये | तेन संताडितो वापि प्रसादंमिति संस्मरेत् || भोज्य भक्षानि * * * * * * * (?) समर्पयेत् | तत्सेषमिति संचिंत्य वा भूयात् कुलेश्वरि || गुर्वग्रेनः पुनः कुर्यात् * * * (?) दि मशेषतं | तीर्थयात्रां * * (?) कुर्यान् * * * * * * * * (?) || * * * * (?) गं गुरुः कुर्याम्वदा नैव भाषयेत् | ऋणं दासं तथा दानं व संगे क्रयविक्रयं || न कुर्योद्गुरुभिः * * (?) शिष्यो भूत्वा कदाचन | * * * * * * * * * * (?) स्थान * * * * (?) || विलोक्य दूरतो गत्वोन्नासीत सहतैः क्वचित् | गुरोः सन्ति हि तत्व गुरु प्रजपेद * * * (?) || सप्त विचरकेद्योरे सा पूजापि * (?) भवेत् | शिरसामं वहेद्भारं गुरुपादाब्ज धारिणा || तदांगया तत्कर्तव्यमाज्ञा रूपो गुरुस्मृतः | मंत्रागमादिमन्यत्र श्रुतं तस्मान्य वेदयेत् || गुर्वाज्ञया तद्गृह्नीयातवलिंगं * * * * (?) | Pअगे णो. २४ णोत् अवैलब्ले. प्. २५अ) श्च सेत् | सर्वं सर्वाज्ञया कुर्यानालिंगेकस्त्रियं प्रिये | भक्त्या प्रणम्यवोत्तिष्ठेत् क्रितांजलि पुटः प्रिये || पश्चात् पादेन निर्गच्छेन्नमस्कृत्य गुरो गृहात् | एकासनेनोप विशेत् गुरुणा तत्समैः सह || न विसेदासने देवि देवता गुरुसन्निधौ | गुरोः सिंहासनं देयं ज्येष्ठानामुत्तमासनं || दिव्यासनं कनिष्ठानामितरेशः समासनं | जातिविद्याधनाथो वा दूरैदृष्ट्या गुरुं मुदा || दंड प्रणामं कृत्वैकं त्रिः प्रदक्षिणं माचरेत् | ततस्त्रि नत्वा दशवाज्येष्ठादि स्वेकमेव वा || गुरुतद्गुरुयोगैति वंदेतद्गुरुं प्रिये | ततो नाम गुरुं सोपि गुर्वग्रे तं निवारयेत् || प्रगुरोः सन्निधैः शिष्यैः स्वगुरुमनसा नह्येत् | गुरुवुध्यानमेत्सर्वं दैवतं तृणमेव वा || ननमेदेव वुध्या तु प्रतिमालोहमृन्मया | गुरोः प्रणाम त्रितयं ज्येष्ठानामेकमेव च || पूज्यानामंजिलिस्तद्वदन्येषां वाक्यवंदनं | देवान् गुरुनंगनाधार्योन् ज्ञान बुध्यान् तपोधनान् || विद्याधिकान् स्वकर्मस्थान् प्रणमेत् कुलनायिके | स्त्री द्विजं गुरुसप्तं च पाषंदं पंडितं शठं || विकर्मिणं ऋतंगं च माश्रवस्थं तु नोनमेत् | अनिरे गुरुं भुक्ते यस्त्वेक ग्राम संस्थितः || तेन भक्तममेध्यं स्याद् वने जायेत शूकरः | एकग्रामे स्थितः शिष्यस्त्रिसंध्यं प्रणमे गुरुं || क्रोशमात्र स्थितो भक्त्या गुरुं प्रतिदिनं नमेत् | अर्द्ध योजनीयाः शिष्यं प्रणमेत् पंचपर्वसु || एक योजनमारण्य योजन द्वादशावधि | दूरदेशः स्थितः शिष्यो भक्त्यां तत्सन्निधिं गतः || तत् तद्योजन संख्यातमामेषु प्रणमेद् गुरुं | अतिदूरेस्थितः शिष्यौ यदीच्छास्यात् तदा व्रजेत् || रिक्तहस्तेन पश्येत राजानं दैवतं गुरुं | फलपुष्प पदार्थादीन् यथा शक्ति समर्पयेत् || एवं यो नाचरेदेवि ब्रह्मराक्षसतां व्रजेत् | गुरुशक्तिश्च तत्पुत्रो ज्येष्ठभ्राता गुरोः समः || आत्मवञ्चकनीयासः पुत्रवत् कुलनायिके | फुलाचार्यस्य देवेशि गुरुज्येष्ठ कनिष्ठयोः || गुरुकल्पस्य कुर्वीत प्रणमेत् स्वगुरोर्यथा | वाक्यन्येक्रमाज्येष्ठः कुलज्येष्ठस्तृतीयकः || गुरोश्चतुष्टयं देवि इति ज्येष्ठ चतुष्ठयं | यावज्येष्ठाति वादेन विमुकंष्टांगयोगतः || गुरोश्च कुलवृक्षस्य वंदनानि विधानतः | पितृमात्रादि सर्वेषु पूज्यकोटिषु बंधुषु || अभ्युत्थान प्रमाणाद्यैरशक्तो दोषभाक् न हि | वदादाचार्यरूपेण आत्मान संप्रकाशयेत् || प्. २५ब्) अभ्युत्थान प्रमाणाद्यै देवता व स भवेत् तदा | यदि भूत्वा प्रणामं पशुभ्यश्चयः करिष्यति || स महापशुरित्युक्तो देवतां शापमाप्नुयात् | यो गुरुं स्थाविकं प्राप्तः पादुका परिसंख्यया || गुरुवत् स च मंतव्यो ज्येष्ठैर्वंद्यो न च प्रिये | इति ते कथितं किंचित् पादुकाचारलकक्षणं || समासेन कुलेशादि किं भूयः श्रोतुमिच्छसि | अथ सेवायाकाल नियमः | तदुक्तं रुद्रयामले | अपि केन भवे * * (?) ग्यो ब्राह्मणो * * * * (?) | वश्यो वापी स्त्रिभिः शूद्रःश्चतुर्भिर्वत्सरैस्तथा || इति श्रीपूर्णानंदनाथेन कृतायां गुरुभावतः | कुलवृत्तौ स्वतंत्रायां पंचमः पटलः शुभम् || ५ || अथ मंत्राणां शब्दरूपत्वादादौ शब्दार्थसृष्टि निगद्यते | तदुक्तं शारदातिलके | निर्गुणः सगुणश्चेति शिवो * * * * * * * * * * * * (?) सगुणः * * (?) ञः स्मृतः | अस्यार्थः निर्गुणोगुणरहितः सगुणोगुणवाना स तदुमय रूपेण * * * (?) प्रति || गुणाः * * * * * * * * * * * * * * (?) | एकमेवा द्वितीयं ब्रह्मवेदकनापि किंचनेति श्रुति विरोधात् || सत्यं एकमेव ब्रह्म तस्य स्व * * * * * * * * * (?) चिंतायां ब्रह्मणो नावा * * * * * * * * * * * (?) मायायां प्रतिविद्धितत्वात् | एक एव सूर्यस्य नानार्थ प्रपूजने प्रतिन्वितस्य नानात्वं वत् | तथा * * * * * * * * (?) द्वाविमोह * * * (?) लोकेक्षरश्चाक्षरमेव चाङ्कुर सर्वाणि भूतानि कूटस्था कृस्नया * * * * (?) मापाभिः इंद्रोयं पुरुरुपमीहयते | इति एकप्रति * * * * * * (?) श्रुतिस्तु शुद्धचैतन्य विषयेदितिषु | सच्चोदामम्द वेभवात् सकलात्परमेश्वरि | * * * * (?) क्रियतो वादो नादाद्बिंदुसमुद्भवः अस्यार्थः | कला प्रकृति श्रुवाद्यविद्यातत्प्रति विद्धितत्वात् | परमेश्वरात् अविद्या क्रमष्टस्तिस्थिति संहार कर् * * * (##? ऐश्वर्य निर्वाहिकातस्या भावाभावस्याभ्यां अयम् शक्तिः | अयमशक्त इति लोकेपि प्रती निर्दृश्यते | तस्याचारः पुरुषनूपः मत्वाविति ततो बिद्भुः प्रकृति पुरुषात्मकः अंकारस्वरूपः शिवशक्तिमयः साक्षात् त्रिधा सौभिद्यते पुनः | बिंदुनादो बीजमिति तस्य भेद्दाः सनीरिताः | असुआर्थः असौर्बिदुः शिवशक्ति मयः सन् त्रिधाविभक्तो भवति || त्रिविद्वात्मको भवति शिवोहकारः शक्तिः सकारः तायां संयुक्तः | तदुक्तं योगतंत्रे | प्. २६अ) हः पुमान् प्रकृतिस्तु सः | इति तेषां मध्ये प्रथमविंदोर्विंदुरितिनाम | द्वितीय विंदोर्नाद इति नाम तृतीयविंदौर्वाजमिति नाम | विंदुः शिवाये को वीजं शक्तिर्न्नादस्त्रयोर्मिथः | समवायः समाख्यातः सर्वागमविशारदः || रौद्री विंदोस्तुते नाद्येदष्टाधीजाद जायत | वामाताभ्यः समुत्पन्ना रुद्रब्रह्मस्याधिक् || संज्ञानेच्छा क्रियात्मानो वह्नीं द्वर्क स्वरूपिणः | रौद्री रुद्रोत्यादिका भद्रस्य शिवात्मकं || रौद्री कारणविंदोः शिवात्मकत्वात् | ज्येष्ठा विष्णुपादिका शक्तिः विष्णोः शिवशक्त्याकत्वं || ज्येष्ठाकारणी भूतनारस्य शिवशक्त्यात्मकत्वात् | समा ब्रह्मोत्यादिका शक्तिः || तस्यां शक्त्यात्मकत्वं | रामाकारंध्री भूतवीजस्य शक्त्यात्मकत्वात् | रुद्ररमाधिप ब्रह्मणः इति कात्यायमात्रयः || एते ज्ञानेच्छा क्रियात्मानः || ज्ञानशक्तिः इच्छाशक्तिः क्रियाशक्तिः एताः शक्तयः इश्वरस्य तदात्मका इत्यर्थः | वह्नीं द्वर्क स्वरूपिणः उत्पस्यमानानां तेजसां वीजस्वरूपा इत्यर्थः ज्ञानार्णवे च || आत्मस्वरूपं जानीहि हंसस्तु परमेश्वरि | अस्मिन्नेव परे तत्वे विंद्वत्रय विभूषिते || मामका संपुटत्वेन संस्थितं यस्तु मागतं | अस्यार्थः मातृकामुक्तं सत् संस्थितं भवति || उच्चारसहितं भवतीति विंदुनां ब्रह्मस्वरूपत्वात् || उच्चारविषये भावः | अत एव योगवाह उच्यते | स्वरव्यंजन योगेने वावस्थानां विंदुत्रयं प्रवक्ष्या वीजरूपं महेश्वरि | हंकारे विंदुरूपेण ब्रह्माणं विद्धि पार्वति | सः कारे सर्गविंदुभ्यां हरिश्चाहं सुरेश्वरि || अनिमा भावसंबंधालोके हरिहरा इति | ब्रह्मविंदोः स्वातंत्र्येणवस्थिति विष्णुरुद्रविंदोः सहैवावस्थितिः सुश्रवात् || ब्रह्मविंदु महेशानि रामाशक्तिर्निगद्यते | विश्वं वमंती सायस्माद् वामाशक्तिः प्रकीर्तिताः || ज्येष्ठा तु वैष्णवी शक्तिः पालंती जगतः स्वतः | ज्येष्ठ धर्मत्वात पालनस्य | ततो रौद्री ग्रसंतींतं क्रमेण परमेश्वरि | ग्रासकभयं करत्वात् | एवं विंदुत्रयं विद्धि गुणत्रयं विभूषितं | सत्वगुणो विष्णुविंदुः रजोगुणो ब्रह्माविंदुः तमोगुणो रुद्रविंदुः | विंदुशब्देन शून्यं तु तथादि गुण सूचकं | तथापि मासमुनिना तत्वे नेत्यर्थः | इच्छाज्ञान क्रिया * * (?) भूर्भुवः स्वरूपकं | पुरत्रयात्मकं विद्धि तत्वत्रयं समं प्रिये || पुरत्रयात्मकं स्थूलसूक्ष्मा परशरीरात्मकं तत्व त्रयं आत्मविद्या शिवात्मकमित्यर्थः || विंदुत्रये महेशानि सर्वमे तत्प्रतिष्ठितं | अंबिका बिंदुभिर्देवि गुणत्रय परापरा || बिंदूनामिलनावस्था अंविका मूलबिंदुरुपागुण संबंधो नास्ति | बिंदुत्रयादेव गुणोत्यत्तेः | प्. २६ब्) गुणत्रय पराणां रामादीनां पराश्रेष्ठा इत्यर्थः | जाग्रत् स्वप्न सुषुप्तंस्तु विंदुत्रय भवा प्रिये || जाग्रत् सत्वगुणा ज्ञेया केवलं शक्तिरूपिणी | मनोवृत्ति विस्तारो सुखदुःखभिलाषिनी || शिवरूपा सुषुप्तिस्तु सर्वन्या वृत्ति हारिणी | तमोरूप इत्यर्थः | सुषुप्त्यां ते जागरादौ स्वप्नावस्था रजोमयी | उभयैर्लक्षणैर्दुक्ता कृष्णालक्षणलक्षिता || जाग्रत् स्वषुप्ति लक्षणाभ्यामित्यर्थः | स्वप्नेपि जीवस्य तृष्णा वर्तते || तदुक्तौ शृतौ | स्वप्नेपि जीवः सुखदुःख भोक्ता स्वमाया कल्पित विश्वलोके अतृप्ति काले सकलो वलीनेतमो * * * * * * * * * * * * * * * (?) || * * * * * (?) सुखेदु.खा भावेभावभ्रमः | अन्यथा सर्वन्या वृत्ति हारिणीत्यनेन विरोधः सुखस्यैव सत्वात् | पुनश्च जन्मांतर कर्मयोगा स एव नवः स्व * * * * * * * * * * * * * * * * * * * * * * * * * * * * * (?) | एतस्मिन् वै दवज्ञाने तूर्यावस्थां शृणु प्रिये | निद्रादौ जागरस्यांते स्फुरत्तामात्र लक्षणा || अवस्थाम् पक्तितां प्राप्तो * * * * * * * * * * * * * * * * * (?) भाव विनिर्मुक्ता गुणातीतास्युनिश्च * * (?) दयमेव वदाय देवि प्रत * * * * * * * * * * * * * * * (?) मसद्रुपा ज्ञानवली चिदात्मकादि * * * * * * * * * * * * * * (?) | निद्रां ते जापरादौ कदाचिज्जागरमपि संभवात् | स्फुरतान्यत्र लक्षणा * * * * * * * * * * * (?) स्थूलात्वादीर्घा पंक्तितुल्या || तूर्यावस्था * * * * * * * * * * * * * * * * * * (?) पिणी या कला प्रतिस्वरुपा इत्यर्थः | अस्तिनास्तीति ज्ञानरहिता * * * * * * * * * * * * * * * * * * (?) मांवी यत्र संकल्प विकल्पा भावात् | तथा बहव दीति * * * * * * * * * * * * * (?) विद्यानुवालीय मनोन्मयी | अमनो रोहिणः * * * * * * * * * * * * * * * * * * * * (?) व शून्यशुन्या मात्पर | जीवन्मुक्तिश्च सहजं तूर्यां च * * * (?) चक्रं | श्रुतिः | तदुक्तौ * * * * (?) | श्रीक्रमेध्यादि बीजं * * * * * * * * * * * * * * * * (?) दि चंद्रो नहा * * * * * (?) न चंद्रो मनोहरात् | तस्य बीजादि * * * * * * (?) चंद्र * * * * * * * * * (?) चंद्रमयो योगी * * * * * * * * * (?) योगे * * * * * * * ता योगी ते | * * (?) सहितः * * * * * * * * * * * * * * * (##? * (?) ति | शारदायं भिद्ययामात्परि * * * * * * * * * * * * * * * * * * * * (?) ब्रह्मेति तं प्रा * * (?) मेर्वागमनि शारदाः | शब्द ब्रह्मेति शब्दार्थ शब्दमित्यु परेबिन्दुः निहितेतां तनोः सिद्धिर् * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * (?) मतिः | अव्यक्तात्मा अगृहीतकत्वखत्वादिरूपः शब्दकारणं ध्वनिः वस्तुतस्तु ध्वनिरेव चैतन्य सम्मिलितः शब्द ब्रह्मेत्युच्यते | * * * * * * * * * * * * * * * * * * * * (?) मानस्य शब्दब्रह्म व्यपदेशः | प्. २७अ) तस्यैव योगशास्त्रे अनाहतश्च निरितिनामविस्तारस्तु योगप्रकरणे साच्यः | तत्प्राप्य कुंडलिनीं रूपं प्राणिनां देहमध्यगं वर्णात्मनाविर्भवति गद्यपद्यादि भेदतः | ज्ञानार्णवे | विंदुत्रयेणनादेन प्रसूता कल्परूपिणी | विस्तारस्तु प्राभातिक क्रमेण ज्ञेयः || अथ विष्ण्वात्मानः शंभोः कलावंधोः कलात्मनः द्यताथत जगत् साक्षी सर्वव्यापी सदाशिवः | कालबंधो दंडाय मामस्य भूतभविष्य वर्तमानस्य कालस्य बंधोरुत्पादकस्येत्यर्थः ते न कालोत्पत्तिः सूचितादंतरं मत्तेत्वोत्पत्तिन्कलावंधोरिति क्वचित्पाठः | तन्मते कमात्मनमिति पदस्य वैयर्थ्यं शक्ति शक्तिमतोरभेद इति न्यायादेव तदात्मकत्व लाभात् | शब्दार्थ मध्ये कालस्यापि प्रवेशात् तत्वोत्पत्ति विवरणस्यातः प्रियतावात् काल एव पाठः | सदशिवाद नदीशस्ततो रुद्र समुद्भवः | मूलभूताश्रमोव्यक्तिं हि कृतात्य स्वस्तुनः || आशीत् किलमहत्तत्वगुणांतः करणात्मकं अकृत्तस्मादहंकार स्त्रिविधः सृष्टिभेदतः | वैकारिकादहंकारोद्देवातैकारिकादशा | दिग्वातार्किर्नभोता श्रीर्वह्नींद्रोपेंद्र मित्रकाः || तेजसादिंद्रियान्यासं स्तन्मंत्रो क्रमयोगतः | भूतादिकादहंकारात् पंचभूतानि यज्ञिरे || शब्दात् पूर्वं वियत् स्पर्शोद्वौद्वन्वरु हुताशनः | रसादंतः क्षमागंधादिति तेषां समुद्भवः || तथा च सांख्ये प्रकृतेर्महान्न्यतोहंकारः अहंकारात् पंचतन्मात्रं पंचतन्मात्रेभ्यः पंचभूतानि पंचभूतेभ्यः इदं जगत् स्वच्छं वियन्मरुत् क्वचैतारुक्तो इति विषदं पयः | पीता भूमिः पंचभूतान्येकैकाधारतो विन्दुः | शब्दस्यर्शरूपरसगंधा वृतगुणाः स्मृताः || वृत्तं विधुस्ततषड्बिंदु लांछितमतिरिश्वनः | त्रिकोणं स्वस्तिकोपेतं वह्नेरुर्द्धेनु संयुत || अंभोजमतं सो भूमेश्चतुरस्व संवज्रकं | स्वस्वभूत समाभानि मंडलानि विधुर्वुधाः || मंत्रैश्चेव चितान्याहु स्वस्वनामा वृतान्यपि | धरादि पंचभूतानां निवृत्ताद्याः कलान् स्मृताः || निवृत्तिः स प्रतिष्ठास्याद्विद्याशांतिरनंतरं | शांत्यतीतेति विज्ञेया नाददेह समुद्भवा || पंचभूतात्मकं विश्वं चराचरमिदं जगत् | अचरा वहुधा भिन्नागौर वृक्षादि भेदतः || चरास्तु वहुधाभिन्ना स्वेदांद्रज जरायुजाः स्वेदजा कृमिदंशाद्याः अडजायस्तगादयः || जरा अजा मनुष्याद्यास्तेषां नृणां निगद्यते | उद्भवः पुंस्त्रियो योगात् शुक्रात् शोणित संयुतात् || विंदुरेको विसद्गर्भमुभयात्मा क्रमाददौ | रक्ताधिको भवेन्नारी भवेद्रात्राधिकः पुमान् || पूर्वकर्मानुरूपेण मोहपादौर्नियंत्रितः | कश्चिदात्मा तदा तस्मिन् जीव भावं प्रपद्यते || प्. २७ब्) अथ मात्रा कृतैरन्नपानाद्यैः पोषितः क्रमात् | दिनात् पक्षात् ततो मासावर्तते तत्व देहवान् || अथ देहोत्पत्ति विवरणं | तदुक्तं योगार्णवे | कौलिकं चैक रात्रेण पंचरात्रेण बुद्बुदं | क्षालितं दशरात्रेण मांसावली चतुर्दशे || घनमांसं च विंशाहे पेलीभावोपलक्षिते | पंचविंशति पुष्णाहे पलं सर्वांकुरायते || एकमासे तु संपूर्णे पंचभूतानि धारयेत् | मासद्वये तु संप्राप्ते शिवोभेदः प्रजायते || मज्जास्थीनि त्रिभिर्मामैरं सफगुल्फौ चतुर्थके | कर्णाक्षि नासिकानां व चक्रमासे तु पंचके || आस्यवक्तोदरं रष्ठेयायुकर्णं तु सप्तमे | सर्वांग तस्य संपूर्णं मासैरष्टभिरिच्युते || इति शारदा * * * * (?) दोषैर्दुःखैः सुखं प्राप्तो व्यक्तिं रिंजाति निरिंद्रियैः | वातपित्तकका दोषादुःखाःस्युः सप्तधातवः | त्वगष्द्रभेदयो सोस्थिमरज्जाशुक्रानि तान्य विद्धः || * * * * * (?) श्रोत्र त्वक् दृग्जिह्वानासिकाविदुः | ज्ञानेंद्रियार्चां शब्दाद्याः स्मृताः कर्मेंद्रियान्यपि || पाकपाणि पादपाद्यस्थ संज्ञानाहुर्मनीषिणः वचनाद * * * * * * * * * (?) विसर्गानंद संगताः कर्मेन्द्रियार्थाः संप्रोक्ताः अंतः करणम् मात्मनः | मनोबुद्धिरहंकारश्चित्तं च परिकीर्तितं | दशेंद्रियाणि भूतानि मनसामहसोडशं || * * * * (?) स कृतयः पंचभूतान्यहंकृतिः | अव्यक्तं महदित्यष्टौतन्मंत्रश्च महानपि || साहंकारा विकृतयः सप्ततत्वविदो विदुः | अग्नाषोमात्मकोदेब्जे विंदुर्यत्वतयात्मकः | दक्षिणाशः स्मृतो सूर्यो वामभागो निशाकरः | नाडी दशविधस्ता सुमुख्यास्तिस्रः प्रकीर्तिताः || * * * * * (?) योर्मध्ये सुषुम्ना पिंगला परे मध्यतो स्वपि नाडीस्यादग्नीषोम स्वरूपिणी | गंधारी हस्ति जिह्वाख्य | स्वपुषा लंवुषामता | यशस्विनी शंखिनी चूकुहूस्युः सप्तनाडिकाः | नाड्योनंताः समुत्पन्नाः प्राणाद्याः मरुतः सुषुम्ना पंचपर्वसु | तदाहुराधार्व्याः शाखोपशाखतां प्राप्ता शिवानक्षत्रयात्परं | अर्द्धलक्षमिति प्राहुः शरीरार्थ विचारकाः | मूलाधारो गतः प्रणस्ताभिर्गच्छंति तत्तस्तुं || वायवो व्रदशप्रोक्तो वह्नयोत्र दश स्मृताः | प्राणाद्यामरुतः पंचनागः कूर्मो धनंजयः || * * * (?) स्या देवदत्त इति मामति रीरिताः | प्राणादीनां विवरणं योगार्णवे || पद्मा स कर्ता प्राणःस्यादपानेधि गमस्तथा | समे न गमनाद् वह्नेः समानस्यादुदानकः || ऊर्द्ध्वगमाद्रव्यानस्याध्वा न नाडिकामुखे | उद्धारक्षारकोनाग उन्मीलयाति कूर्मकः || क्षत्कृत् कृकरको देवदत्तोर्जृंभेन कृत्कर्म | धनंजयोथ देहेस्मिन् कुर्याद् वहुविधान्वान् || शारदायां | प्. २८अ) अग्नयो दोषे दुःखेशु संलीनादश देहिनः | वह्निनामानि योगार्णवे | भ्राजको रंजकश्चैवत् केदकः स्नेहकस्तथा | धारको वंधकश्चैव द्रावकाख्यश्च सप्तमः || पावकः पाचकश्चैव शूयको दशमः स्मृतः | शारदायां च | वुभुक्षा च पिपाशा च प्राणस्य यमसः स्मृतौ | शोकमोहौ शरीरस्य जरामृत्युः षडुर्मयः || स्राद्यस्थिमज्जानः शुक्रात् त्वं * (?) साम्राणि शोणितात् | षटे कौशिकमिदं प्रोक्तं सर्वदेहेषु देहिनां || इत्थं भूतस्तदागर्भे पूर्वजन्म शुभाशुभं | स्मरंस्तिष्ठति दुःखात्माच्छन्नदेहे जरा मुना || योगार्णवे च | सततं चिंतयत्येवं सुमना ब्रह्मभावनां योनिद्वारे च संकीर्णे यदि मे निर्गमो भवेत् | अभ्यस्यामि शिवज्ञानं संसारार्णवतारकं | शिवयोगी ततो भूत्वा मोक्षं यास्यामि तत्परं || कालक्रमेण स शिशुर्मातरं क्लेशयत्यपि | स पिण्डित शरीरोथ जायते यमवी सुखः || क्षणं तिष्ठति निश्चेष्टो भीत्यारोदितु मिच्छति | तत्तचैतन्य रूपासा सर्वगाविश्वरूपिणी || शिवसन्निधि मासाद्य नित्यानंद गुणोदयाः | दिक्षालाद्ये नवछिन्ना सर्वदेवानुगाः शुभा || परापर विभागेन परशक्तिरियं स्मृता | योगिनी हृदयांभोजे नृत्यंती नित्यमंजसा || आधारे सर्वभूतां स्फुरंती विद्युदा कृतिः | शंखावृत्ति क्रमाद्देवी सर्वमावृत्य तिष्ठति || कुंडली भूत सर्पाणामंग प्रियसुपेयुषी | सर्वदेवमयी देवी सर्वमंत्रमयीगिरा || सर्वतत्वमयी साक्षात् सूक्ष्मात् सूक्ष्मतरा विभुः | त्रिधामजननी देवी शब्द ब्रह्मस्वरूपिणी || द्विचत्वारिंशदर्णात्मा पंचाशद्वर्णरूपिणी | गुणिर्भा सर्वगात्रेण कुंडली परदेवता || विश्वात्मना प्रबुद्धासौ सूते मंत्र मयं जगत् | अनेन क्रमयोगेन गुणिता शिववल्लभा || षट्त्रिंशतश्च तत्वानि शैवानि रचयत्यसौ | अन्या न मंत्रांश्च यंत्राणि शुभदानि प्रसूयते || द्विचत्वा चत्वारिंशमणे गुणिता विश्वनायिका | सा प्रसूतं कुंडलिनी शब्दब्रह्ममयं विभुः || शक्तिस्ततो ध्वनिस्तस्मान्नादस्तस्मान्नि वोधिका | ततोर्द्धेन्नुस्ततो विंदुस्तस्मादासीत् परा ततः || पश्यंती मध्यमा वापि वैखरी सप्तजन्म भूव मूलाधारेद्वि चत्वारिंशत् प्रकार गुणिता शब्दं प्रसूयते | तत्र क्रमः प्रथमं शब्दमयी शक्तिः कुंडलिनीं तं भाधन्यादयः शब्दानां पूर्वापूर्वावस्था वैखर्यताः कुंडिलिन्या एवोत्पन्ना तत्र वैखरीच्यक्तकत्व खत्वरुपा अन्यां विशिष्य वक्तुमशक्या शब्दपूर्वस्थोरूपत्वात् | इच्छाज्ञाना क्रियात्मासौ तेजोरूपगुणात्मिका | क्रमेणैनेन सृजति कुंडलीवर्णमालिकां || अकारादि क्षकारांतां द्विचत्वारिंशदात्मिका | भूतलिपिमित्यर्थः | पंचाशद्वारगुणिता पंचाशद्वर्णमालिकी भूतं तद्वतो भिन्नाकला रुद्रादिका क्रमात् | प्. २८ब्) रुद्रा श्रीकंठादयः कला अंशः महेशस्य भागरूपाः | आदि शब्देन पूर्णोदर्याकेरवकीर्त्यादयो गृह्यंते || निरोधिका भवेद् वह्निरर्द्धेन्दुःस्यान्निशाकरः | अर्कस्यादु भयोर्योगे विंद्ववो तेजसां निधिः || यातावर्णायतो विंदो शैव शक्तिमया ततः | अग्नीषोमात्मकास्तस्थुः शिवशक्तिमयद्रवेन येन संभावमापन्नाः सोमसूर्याग्निरूपिणः | वर्णानां अग्नीसोमासूर्यो आत्मकत्वं प्रतिपादवति | गिरोधिशब्दस्था वह्निः अर्द्धेन्दुवस्था चंद्रः तत्र यजन्यः विंद्ववस्था सूर्यः | अत एववस्थावयमिति | ततोद्यक्तिं प्रवक्ष्यामि वर्णानां वदने नृणां | प्रेरितामरुतानित्यं सुषुश्रा चक्र निर्गताः || कंठादि करणे भिन्नाः क्रमाद विर्भवंतिते | एषु स्वराः स्मृताः सौम्याः स्पर्शाः शौराः शुभोदया || म आग्रे व्यापकाः सर्वे सोम सूर्याग्नि रूपिणः | स्वराः षोडश विख्यातो स्पर्शास्ते पंचविंशतिः || तत्वात्मानः स्मृताः स्पर्शामकारः पुरुषो यतः | व्यापकादशते काम धनधान्य प्रदायिनः || वाराहीतंत्रे || स्वराः षोडश विख्याता वर्गाश्च पंचविंशतिः | जपकाश्च दशप्रोक्ता पादपास्ते प्रकीर्तिता || प्रथमे सात्विका प्रोक्ता द्वितीये राजसा स्मृताः | व्यापकास्तमसाशेक्तां यथोक्तांस्तां त्रियोजयेत् || ह्रस्वः स्वरेषु पूर्वोक्त परोदीर्घ क्रमादिमो | शिवशक्ति स यास्ते स्युर्विंदु सर्गवसानिकाः || विंदुः पुमान् रविः प्रोक्तः सर्गशक्तिः निशाकरः | स्वराणां मधमं यत्तु तच्चस्कं नपुंसकं || पिंगलाया स्थिताः ह्रस्वाः इडायां संगताः पिवें | सुषुम्ना मध्यमा ज्ञेयाश्चत्वारो ** (?) पुंसकां || विना स्वरैतु नान्यैषां जायते व्यक्तिरंजसा | शिवशक्ति मयान् प्राहुस्तद्वर्णान् मनीषिणः || कारणात् पंचभूताना संभूता मातृका यतः | ततो भूतात्मका वर्णवर्णाः पंचविभागतः || वाधग्नि भूजलाकाशाः पंचाशक्ति पयः क्रमात् | पंचह्रस्वाः पंचदीर्घाचिंद्वंताः संधिसंभवाः || पंचविंशकादयः लक्षण सहात्तरः समीरिताः वाम सूर्याग्नि वेदेन मातृकावर्ण संभवाः | अष्टत्रिंशाकलास्तास्तुत्तन्मंडला * * * (?) स्मिताः | तारस्ययं भेदेभ्यः पंचाशद्वर्णजाः कलाः सोमसूर्याग्नि प्रणवकलास्तु श्रीपात्रस्थापन प्रस्तार वक्तव्याः मातृका वर्णभेदेभ्यः सर्वे मंत्राः प्रयक्षिरो मंत्रविद्या विभागेन विविधा मंत्र जातयः | मंत्राः पुंदेवता ज्ञेयाः विद्या स्त्रीदेवताः स्मृताः स्त्री पुंनपुंसकात्मानो मंत्राः सर्वे समीरिताः पुंमंत्रा हंफडंताः शुद्धिठांताः शुः स्त्रियोमताः | नपुंसका नमोंताः स्युरित् युक्ता मनप्रस्विधा | शस्तास्ते त्रिविधा मंत्रावश्य शांत्यभिचारिके || अग्नीषोमात्मका मंत्रा विज्ञेया क्रूरसौम्ययोः | कर्मिणो वह्नितारात्य वियत् प्रायः समीरिताः || आग्नेया मनवः सौम्या भूयिष्टेंदु मृताक्रूराः | आग्नेयाः संप्रम आग्नेयाः संप्रबुध्यंते प्राणे चरति रक्षिणे || प्. २९अ) विद्यामंत्रीः क्रमात् स्त्री पुंदेवताश्च समीरिताः | स्त्री पुं नपुंसकं रूपामनवः स्त्रिविधाः धिये || स्त्रीमंत्राः वह्निजायां ताः हृदयांता नपुंसकाः | शेषाः पुमां स इत्युक्ताः स्त्री मंत्राश्चापि शांतिके || नपुंसकाः स्मृता मंत्रा विद्वेषे चाभिषारिके | पुमास्तुं स्मृताः सर्वे वश्योच्चाटन कर्मसु || अग्नी सोमस्वरूपास्युर्मनवः सर्व एव हि | रेकौकार वियत् प्रायं आग्नेया क्रूरकर्मणि || सौम्याश्चंद्र स्वधाप्राया | सोमकर्माणिप्ते स्मृताः || पिंगलायागर्त वापी प्रवृद्धाग्नि स्वरूपिणः | इडागते तु पवने बुध्यं ते सोमरूपिणः || पिंगले डागते वायौ प्रबुद्धा सर्व एव हि | प्रबुद्ध मनवः सर्वे साधकानां फलं त्विमे || श्रीपूर्णानंदनाथेन कृतायां गुरुभावता कुलवृत्तौ स्वतंत्रायां पटलो दस संज्ञकः || गुरुंश्चात्मविशुद्ध्यर्थं शिष्यांस्तु परितोषयेत् | चिरं विचार्य यत्नेन देय मंत्रा न विचारयेत् || इति मंत्रराजवचनाद् गुरुकृपात्यत्वेन प्राप्तत्वान्मंत्राणां दोषगुणान् विचार्यंते | तदुक्तं शारदातिलके | छिन्नादिदोषदुष्टाये पालयंति न साधकं | छिन्नोरुद्धः शक्तिहीनः परांङ्मुखनुदीरितः || वधिरो नेत्रहीनश्च कीलितस्तंभितस्तथा | दग्धः भ्रष्टश्च भीतश्च मलिनश्च तिरस्कृतः || भेदितश्च सुषुप्तश्च मदोत्तच्च मूर्छितः | कृतवीर्यश्च हीनश्च प्रध्वस्तो वालकः पुनः || कुमारश्च युवाप्रौढो वृद्धो निस्त्रिंशकस्तथा | निर्बीजः सिद्धहीनश्च मंत्रः कूटः पुनस्तथा || निरंशः सत्वहीनः स्यात् कैकरी वीजहीनकः | धूमिता लिंगितौस्याता लोहितश्च क्षुधार्तृकः || अतितृप्तोऽंगहीनः स्यादति क्रुद्धः समीरितः | अतिक्रूरश्च स व्रीडः शांतमान स एव च || स्थान भ्रष्टश्च विकलः स्येति वद्धः प्रकीर्तितः | निःस्नेहः पीडितश्चापि वक्ष्याम्येषां स्वलक्षणं || मनोर्यस्यादि मध्यांते स्वानिलं विमुच्यते | संयुक्तं वा वियुक्तं वा सुराक्रांतं त्रिधापुनः || चतुर्द्धा पंचधा वापि स मंत्र छिन्न संज्ञकः | संयुक्तं वा वियुक्तं वा वायुबीजं आदिमध्यांतस्थापिनी इत्येकं लक्षणं तदेव वीजं स्वरयुक्तं त्रिधा चतुर्द्धा पंचधा वा दृश्यते इत्यन्यत्व क्षणां | एकस्यैव दोषेत्यर्थः | आदिमध्यावसानेषु भूविंवद्वंद्वलांछितः | रुद्धमंत्रः स विज्ञेयै भुक्ति मुक्ति विवर्जितः || माया त्रितत्व श्रीवीजवावहीनस्तु यो मनुः | शक्तिहीनः स विज्ञेयं मध्ये यस्य न विद्यते || माया माया वीजं त्रितत्वं प्रणवं रविः फ्रें बीजं मध्य यस्य इति परेणान्वयः | कामवीजं मुखे माया शिष्यं कुशमेव च | असौ परांङ्मुखः प्रोक्तो हकारो विंदु संयुतः || आद्यंत मध्ये त्विं द्विर्वा न भवेद् वधिरः स्मृतः | पंचवर्णो मनुर्यस्माद्धे फार्केन्दु विवर्जितः || प्. २९ब्) नेत्रहीनः स विज्ञेयो दुःखशोकामयप्रदः | आदिमध्यावसाने तु संहं प्रासाद संभवाः || इकारो विंदुमांञ्छीत्या रविं वापि चतुष्कलं | मया नमामि च पदंमस्ति यस्मिन् स कीलितः || चतुष्कलं कलाशब्दः चतुर्थस्वरं स्वभावकः | चतुर्थस्वर इत्यर्थः एकं मध्ये द्वयं तूर्जितस्मिन्नस्व पुरंदरौ || न विद्यते स मंत्रः स्यात् स्तंभितः सिद्धिरौधकृत् | वह्निर्वायुः समायुक्तो यस्य मंत्रस्य मूर्द्धनि || सप्तधा दृश्यते तंतु दध्यं मन्येत तंत्रवित् | अस्त्र द्वाभ्यां त्रिभिर्यद्भिरष्टाभिर्दृश्यते क्षरैः श्रेष्ठः सोभिवितो मुखेन प्रणवस्थितैः || शिवो वा शक्तिरथ वा भीततः स प्रकीर्तितः | अस्त्रमित्यादि द्वाभ्यां त्रिभित्वष्टाभि रक्षरैःर्घटितो मंत्रः तत्र यदि अस्त्रं दृश्यते इत्यस्वयः | शिवो वा शक्तिरथवेति शिवो ह्यत्रदः सकार इति | आदिमध्यावसाने सुभवेन्मार्ण चतुष्टयं | यस्य मंत्रः स विर्मलानो मंत्रवित्तं विवर्जयेत् || यस्य मन्नेदकारो वा क्रोधो वा मूर्धनि त्रिधा | अस्त्रं तिष्ठति मंत्रस्य स तिरस्कृत ईरितः || ह्यो द्वयं हृदये शीर्षे वषवौषट् मध्यतः | यस्या सौ भेदितो मंत्रस्त्याज्यः सिद्धिषु सूरिभिः || त्रिवर्णोहं स हीनायः स्वत्युप्तः स उदाहृतः | मंत्रोवाप्यथ वा विद्या सप्ताधिक दशाक्षरः || फट्कार पंचकादिर्या मंदात् स उदाहृतः | तत्वदस्त्रं स्थितं मध्ये यस्य मंत्रः स मूर्छितः || तद्वदिति पंचधेत्यर्थः | विसंमोंऽगस्य यो मंत्रोद् गते वीर्यः स कथ्यते | यस्य मंत्रस्य विशिष्ट अंगमंत्रो नास्ति स इत्यर्थः योजना तु षडंग मंत्रस्य विरामः विरा * (?) नवः स इति | प्रादौ मध्ये तथा मूर्द्ध्निर चतुरस्त्रयुतो मनुः | ज्ञातव्यो हीन इत्येषयः स्यादष्टा दशाक्षरः | एको न विंशत्पर्णो यो मंत्रस्ताहयं युतः || हृल्लेखां * * * * * * (?) अधस्थः प्रचक्ष्यते | सप्तवर्णो मनुवाल कुमारोन्नाक्षरः स्मृतं || षोडशार्णो युवा प्रौढःश्चत्वारिंशल्लिपिर्मनुः | त्रिंशदर्पः * * * * * * * * (?) षडाक्षरः || चतः शतक्षरश्चापि वृद्ध इत्यभिधीयते | नवाक्षरो ध्रुवयुते मनुर्निस्त्रिंश ईरितः || यस्यावसाने हृदयं शिवौ मंत्रो च मध्यतः | * * (?) वर्म च संस्यातीवौ षट्फट्कारं एव च || शिवशक्त्य तु हीनो वा स निर्वीज इति स्मृतः | एष स्थानेषु फट्कारः षोढायस्मिन् प्रदृस्यते || स मंत्रः सिद्धिहीनः स्यात् मं वा पंक्त्यक्षरो मनुः | सार्द्ध द्वादशमंर्णो वा धूमिता स तु निंदितः || सार्द्ध वीजत्रयस्थश्चेदेक विंशति वर्णकः | क्षुधार्तः स तु विज्ञेयःश्चतुर्विंशतिवर्ण || प्. ३०अ) विंशत्या तु त्रिंशदर्णोयः स्यादालिंगि तृस्तु सः | द्वात्रिंश दक्षरो मंत्रो मोहितः परिकीर्तितः || चतुर्विंशति वर्णोयः सप्तविंशति वर्णकः | क्षुधार्तविद्धे यक्षंतुर्विंशति वर्णकः || एकादशाक्षरो वापि पंचविंशति संज्ञकः | त्रयो विंशति वर्णो वा मंत्रस्तृप्त उदाहृतः || षड्विंशदक्षरो मंत्रो मोहितः परिकीर्तिता | त्रिंशदेको नवर्णो वाप्यंग हीनो विधीयते || अष्टाविंशत्यक्षरोय एकविंशदथापि वा | अतिक्रुद्धः स कथितो गर्हितः सर्वकर्मसु || चत्वारिंशतमारभ्ययाव त्रिषष्ठिना पतत् | तावत् संख्या निगदिताः मंत्राः स व्रीड संज्ञकाः || पंच षष्ठाक्षरो यस्य मंत्रास्ते शांतमानसाः | एकोन शतपर्यंतं पंचषष्ठ्यक्षरादितः || ये मंत्रास्तेलिपस्थान भ्रष्टास्रया बुधैः | त्रयोदशाक्षरोयेस्युर्मंत्राः पंचदशाक्षराः || विकलास्तेति धीयंते शतं सार्द्धशतं तु वा | शतद्वयं द्विनवति मेरुहीनात् यथापि वा || शत त्रयं वा तत्संख्या निःस्नेहात्ते समीरिताः | चतुः शतान्यथारभ्य यावद्वर्ण सहस्रकं || अति वृद्धः स यागेषु परित्याज्यः सदाबुधैः | सहस्रार्णाधिका मंत्रा दंडका पीडिताह्वयाः || द्विसहस्राक्षरो मंत्रः खंडशः शतधार्यताः | ज्ञातव्यास्तौत्र रूपास्ते मंर एते यथा स्थिताः || तथा विद्याश्च वोद्धव्या मंत्रिभिः सर्वकर्मसु | दोषानि मनविद्याययो मंत्रान् भजते जडः || सिद्धिर्न जायते तस्य कल्पकोटि शतैरपि | इत्यादि दोषदुष्टास्तान् मंत्रान् स्वात्मान योजयेत् || शोधयेदूर्ध्व पवनो वह्वया योनिमुद्रया | योनिमंत्रा वंधस्तु प्राभातिक प्रस्तावे वक्तव्यः || गौतमीये | पशुभावस्थितो मंत्राः केवलं वर्णरूपिणः | सोषुप्त धन्युच्चकिताः पुत्रत्वं न्यप्नुवंतिते || पद्मनारदीययोः मंत्राक्षराणि चित् शक्तौ प्रेतोनि प्रविभावयेत् | तामेव परमव्योम्नि परमामृत वृंहिते | दर्शयित्वात्म सद्भावं वह्निहोमादिकं भवेदिति || अथ चक्र परीक्षा | तदाह चक्रभेदो हरचक्रं षडदलं च सिद्धादि चक्रमेव च | राशि नक्षत्र चक्रं च स्वकुलाकुलमेव च | अडकडमंचा कडंवं वर्गचक्रं तथैव च || उक्तानि नवचक्राणि मंत्रसिद्धि कराणि च | नवचक्र विभुक्ष्त्वात्मामंत्रेभीष्टाय कल्पते || गणचक्र विचारोपि केषांचित् सम्मतिः प्रिये | अथातः संप्रवक्ष्यामि हरचक्रं महोदयं || यज्ञात्वा ज्ञानवान् लोके जायते मंत्रवित्तमः | अन्यथा वर्जयेन्मंत्रमित्याह भगवान् शिवः || तस्मात् सवप्रयत्नेन यः स्वधीः प्रविकुर्यात् देवानां कोष्ठ सत् समन्वितां ताराकोष्ठ न क्षत्राणां प्. ३०ब्) आगमशास्त्रगण न शास्त्र जन्म संपादित्यादि नवधानास्ति एतेन संस्कृतानां चतुर्दिक्षु चतुष्कोष्ठ निवेदित दिक्षु चतुष्कोष्ठानि मध्यकोष्ठमेकं | तन्मध्ये विभजेत् कोष्ठे चतुष्कं कर्णसूत्रके | चतुष्कमिति मध्ये सूत्रपात न नास्तीति चतुष्टयत्वं अन्यथा कर्ण सूत्रस्य द्वितयत्वमेव कर्णसूत्र चतुष्टयेदत्ते वाणे चक्रात्मकं कोष्ठं भवतीत्यर्थः | पातये दिक्षु दुर्गां च वाणी तारां च भैरवीं | कर्णसूत्रस्यो भयतः इनादिषु योजयेत् || त्रिपुरां भुवनेशीं च पीठे चैवं त्र्यंवकं | वासुदेवं प्रियं चैव छिन्नमस्तां च चंडिकां || इशानाद्यं विवस्वांतं क्रमाच्चत्वरितास्तथा | इंद्रांक्षीं चैव हेरंवं पितां महमनंतरं || महामाया व कालीं च यदन्यात् सौम्यदैवतं | पंचाशद्वलिखेद् वर्णन्नीशकोष्ठादिकं क्रमात् || अत्र क्रमपदेन क्रमपदेन दिग्पात कोष्ठानां ग्रहणं | मातापितृकृतं वाम वेदमंत्रं परिस्कृतं सर्वकर्मणि यथोग्यणस्त्रं तन्मंत्र वीक्षणे || नमोंतु समारभ्य यद्देवास्तु गोचरं | संशुद्धौ ग्रहणं कुर्याद शुद्धौ न कदाचन || धनं पुत्रं च लाभं च निधनं चैव विह्वलं | मुक्तिं सौख्यं च धर्मं च अरित्रिं च कामदं || तीरणं चिंतयेत् कोष्ठ चक्रमितीरितं | अत्रापि दक्षिणक्रमः | इति हरचक्रं | अथ अकहडा चक्रं | तदुक्तं तंत्रराजे | पूर्वाग्राः पंचरेखाः स्युदक्षिणाग्रा लिखेत् तथा | चतुःश्चतुः प्रकारेण चतुःकोष्ठं भवेदथ || इशानस्तु चतुःकोष्ठं माग्नेयांस्तु च चतुःस्तथा | तादंतस्थ चतुःकोष्ठं तद्वामस्थं चतुस्तथा | सिद्धं साध्यं सुसिद्धिं च रिपुं च समुदाहृतं | एतेषामाद्य कोष्ठेषु द्वितीयेषु ततः परं || तृतीयेषु चतुर्थेषु क्रमादा वृत्तिते पुनः | अकारादि विसर्गांतान् कादिक्षांतान् लिखेत् सुधीः || यादिशांतानमालिख्य हलक्षांश्च लिखेत् ततः | रामाचं न चंद्रिकायां || इंद्वग्रे रुद्र न च नेत्र मूणार्क दिक्षु ऋत्वष्ट षोडश चतुर्दश भूतगेषु | पाताल पंचदश हिमांशु कोष्ठवर्णान् द्विपेक्रमसस्तु धीमान् निजनामादि वर्णस्तु यत्र कोष्ठे प्रदीप्सते || तत्कोष्ठाद् गणयेन्मंत्रीन्मंत्रस्यादक्षरावधि | सिद्धसिद्धं सुसिद्धारि मरौ ततः | अरिसिद्ध मरिं साध्य मरिस्वसि क्रमेणैव साध्यकोष्ठे लिखेत् ततः | साध्यसिद्धं साध्यसाध्यं साध्यं सुसिद्धमेव च | साध्यारिं च क्रमेणैव सुसिद्धं गणयेत् ततः || सुसिद्धः सिद्धमादौत्व सुसिधः साध्यमेव च | ततः सुसिद्धस्तु सिद्धं सुसिद्धारि मरौ गतः || अरिसिद्धमरि साध्यमरि सुसिद्धल्पनं अर्यरिं चैव विज्ञेयं वर्जयेतच्चतुष्टयं | प्. ३१अ) सिद्धसिद्धो यथोक्तेन सिद्धसाध्यो गुण द्वयात् | सिद्धसिद्धोर्जपात् सिद्धो वांधवान् द्विगुणात् साध्यं सिद्धस्तु साध्यसाध्यो निरर्थकः | त्रिगुणात् साध्य सुसिद्धःस्या साध्यारिर्हंति गोत्रजा च सुसिद्धार्द्धर्जरासाध्योर्धनाधिकारात् तत् सु सिद्धः क्षणादेव सुसिद्धारिश्च जातिहा | अरिसिद्धिः सुतान् हंति अरिसाध्यस्तु कल्मरि | पत्नीमर सुसिद्धस्तु मार्य निर्मूल नाशयेत् || अन्ये मुक्तं माइनी तंत्रे | आदावंते सुसिद्धस्तु सर्वकाम विभूतिदः | आकारांत रिपुर्यस्य तवैछाद्यः स मंत्रकः || आदौ सिद्धास्तु साध्यंतो द्विगुणेन स सिध्यति | आदावंत सिद्धवर्णो मंत्रे यस्मिन् वरानने || अचिरेणैव कालेन स भवेत् सर्वसिद्धिदः | साध्याद्यस्तु युतो यस्तु सोति कृच्छ्रेणं सिद्ध्यति || आदौ सिद्दोंत्य शत्रुघ्नः सत्याद्यो मंत्रवित्तमैः | साध्यादिश्चैव सिद्धांत त्रिगुणात् सिद्ध्य जपात् || आसाध्यः सुसिद्धंतः प्रोक्तमार्गेण सिध्यति | आदौ साध्यः स्त्वधः शत्रुः यत्नाच्च परिवर्जयेत् || सुसिद्धादिस्तु सिद्धांतो यथोक्ता देवसिद्ध्यति | सुसिद्धादिश्च साध्यतश्चतुर्गणमवेक्षते || शुद्धादिश्चांत मध्यमः परिकीर्तितः | आधारिस्त्वंत सिद्धारिः सोपि त्याज्यो प्रक्रमणि || आदौ मध्ये तथा चांते सिद्धः शुभफलप्रदः | सर्वसाध्य उदासीनः प्रोक्तस्तंवेषु यस्तु वा || स्थान त्रय सुसिद्धस्तु सर्वानर्थांश्च साधयेत् | स्थान त्रय गतारिश्च मंत्रोमृत्युर्न्न संशयः || सिद्धादि साध्यसाध्यंतो व्यर्थ इत्युच्यते बुधैः सिद्धादि सिद्धमध्यांतः सर्वकामार्थ साधकः सिद्धादिमरिमध्यंतो नाशकः परिकीर्तितः शत्रुं यदंते यस्यासौ मध्ये सिद्धस्तु साधकः | कष्टेन कार्यसिद्धिः स्यात् फलं स्वल्पतमं भवेत् | अंते यदि भवति रिप्वग्रे प्रथमे मध्ये भवति साध्य युगं || कार्यं विलंवितं स्यात् प्रणस्यति क्षिप्रमेवासौ | आद्यंतयोर्यदा साध्यो साध्य सिद्धः प्रजायते || तां वुभौ साध्यसिद्धौ हि जपाधिक्येन सिद्ध्यतः | अरिसंपुटितः सिद्धः सुसिद्धो वा तथा भवेत् || सर्वनाशकरो ज्ञेयः साधकस्य न संशयः सिद्धांतरितसाध्यं तु सुसिद्धांतरितस्तथा | शीघ्रं सिद्ध्यति मंत्रोय मलीनस्वयम व्रवीत् | सिद्धांतरित शत्रुश्च सुसिद्धेनाथ वा भवेत् || नासौ रिपु भवेराष्ट्रः किंतु कृच्छ्रेण सिद्ध्यति | साध्यं त्वरित सिद्धास्तु सुसिद्धोपि पिता यदि || सिद्धात्यंतीव कष्ठेन साधकस्य च मन्यथा | रिपुनांतरिता मंत्री नैव देयः कदाचनः || नारदीये | दुष्टां तु चुरोमंत्रोयःस्याद्विनिंदितः सदा | अरिनादि विचारः | तदुक्तं तंत्रराजे | प्. ३१ब्) पूर्वापरं द्वादश संख्य सूत्रं याम्योब्जरस्थं च तथा च पंच | साध्यास्तु मध्यतोर्णान्धो लिखेत् साधकमंकमीशात् | द्वौ द्वौ पंचस्वरौ पंचस्वकोष्ठकेषु शेषान् स्वरान् षट्स्वषडेकमेकं | कादी न शेषान् विलिखतांतार्णा वनेकैकमेकादशस्वक्रमेण | इंद्रर्क्षनेत्र रविपंचदशर्तवेदवह्न्या स्वधाष्ट नवभिर्गुणितांश्च साध्यान् | दिग्त्रागविश्रुति गजाग्नि मुनीशु षद्विभिश्च गुणितानथ साधकार्णान् | नमो ज्वलादक्वठद्गजभुं शेषाज्जात्वो भयोरधिकशेष मृणंधनस्यात् | अथान्य प्रकारस्तत्रैवाषकलेद्विष्टवियदग्नि समुद्रवेदरवाकाशशून्यदहनाः खलु साध्यवर्णाः | मुखाग्नि पंचविदस्वरमुकशशाव्योमाच्चिवेदशशिनः खलु साधकार्णाः | मालिनीतंत्रे च | षडृतुर्द्धाशार्द्धं च खं वह्निर्वेदवेदखं | व्योमवह्नि संख्याश्च साध्यंकाः मंत्रशोधने || मुखाग्नि वाणस्वं व्योमनेत्रेस्त्वं गगणं श्रुतिः | श्रुतींदुशंख्याः संप्रोक्ता साधकांकश्च तांत्रिकैः योधिकः सक्राणी ज्ञेय इति तंत्रविदां मतं | सर्वपक्षे कोष्ठ समानमेव | अन्य प्रकार तदुक्त फेत्कारिणीये | निजनामाधिक वर्णमादाय परितः स्तुदीः | मंत्राद्यक्षर पर्यंतं गणनीयं तु सर्वतः | वामेन गुणितं कृत्वा सप्तभिश्च हदेद्बुधः || शेषो भवति या मात्रारृणं तावदुदाहृतं | एतदेव * * * * (?) माध्यंताव वदाम्यहं || विलोमस्तु मंत्राद्यक्षरमादाय साध्याद्यक्षरपर्यंतं गणनं | कृते भागेन शिष्टांकान् द्वयोः सम्यगयोधिकः स ऋणी ज्ञेयः इति मंत्रविदो वि * * * * * * (?) कारस्तदुक्तं श्रीतत्वे | साध्यनाम द्विगुणितं स्वरव्यं जनभेदतः साधकस्य च नामार्णं स्वरव्यंजनमंडितं | च करात् साधकस्यापि द्विगुणितं एकीकृत्य हरेत् पश्चाद्वसुभिः साधकस्य च | वोधिकः स ऋणी ज्ञेयः प्रकारश्चापरः स्मृतः | ऋणीमंत्रः शुभफलो धनीस्याद शुभादयः || तुल्योदयशुभप्रोक्तो इति तंत्र विदांमतं | अथ नक्षत्र चक्र विवरणं यामले || अस्विनी मुखयुग्मेन श्रवणीकारतो भवेत् | कृत्तिका तु त्रिभिः प्रोक्ता रोहिणी च चतुष्टयात् || एकाश मृगशीर्षा स्यातस्त्रा चैकारतो भवेत् | ऋक्ष्यातः संप्रवक्ष्यामि स्वरव्यंजन भेदतः || द्वाभ्यां पुनर्वसुः प्रोक्तः ककारा तदुष्य ईरितः | अश्वे पाचति द्वाभ्यां मघाद्वाभ्यांक्ष्यदीरिता च कारत् तु भवेत् पूर्वाद्वयेन ततोत्तराद्वयात् ततो भवेद्धस्ता चित्राभ्यां प्रकीर्तिता | तस्मात् पर्व समिक्षरात् ष्वस्ता विषा तु लिपिद्वयामी अनुराधा त्रिभिर्मस्त्रैर्ज्येष्ठावर्णैकतो भवेत् | वर्णत्रयात् ततो मूलं पूर्वाषाढा वकारतः | वकारादुत्तराषाढा श्रवणं चमकारतः || धनिष्ठा च ततो द्वाभ्यां लार्णाछतभिषा भवेत् | पूर्वभाद्रपद द्वाभ्यां त्रिभिः स्यादुत्तरापदं || प्. ३२अ) स्वरद्वयेन लक्ष्याभ्यां रेवती परिकीर्तिता | नक्षत्राणां क्रमादेवं योगो वर्णेषु कीर्तितः || नामाद्यक्षरमारभ्य मनोराद्याक्षरावधि | गणयेत् साधक श्रेष्ठो जन्मादीनि पुनः पुनः || अनुराधाश्विनत्पुष्पां पुनर्वसुकरा मृगा | रेवतीश्वरगान्वाती नरदेवगणाः स्मृताः || रोहिणी भरणी चैव तथा पूर्वोत्तरात्रयं | एतामर्त्यगणास्ताराशेषा रक्षोगणाः स्मृताः || कुलमूलावतारे च | अश्विनी मृगशीर्षं च तथा पुष्पपुनर्वसु | हस्ता स्वाती चानुराधा रेवती विष्णुदैवतं || भरणी चैव आर्द्रा पूर्वोत्तरात्तथा | पूर्वाषाढोत्तराषाडा पूर्वभादोत्तरानुजः || कृत्तिका हि मघा चित्रा विशाखा ज्येष्ठिका तथा | मूलं धनिष्ठा शतभिषा च रक्षो गणा प्रिये || विष्णु श्रवण नक्षत्रं दैवतं देवतागण इति | अहिरश्लेषा नृजोमनुष्यगणः || अथैषा प्रीतिशात्रवं रुद्रयामले | स्वगणेचोत्तमाप्रीतिर्मध्यमादेव मानुषे | अधमाराक्षसो देवे मृत्युर्मानवराक्षसे || अयं विचारस्तु नक्षत्राद्भिन्न एव नक्षत्र प्रसंगादत्र लिकितं || शारदादिलके च | प्रापलोभात् पटुषाद्यं रुद्रस्याद्य रुरुः करः | लोकलोपपटुप्रायंखलो घातेशु भेदिताः || वर्णात् क्रमात् स्वरांत्यौ तु रेवत्यंत गतौ तदा | अस्यार्थः वर्णास्वकारादयो तेषु नक्षत्रेषु || उदिता भागत्वेनोपस्थिताः क्रमात् शंकेत क्रमात् | शंकेतस्तु प्रादीनां अंत्य व्यंजनेन यस्य वर्णस्यु यत् संख्यकस्थाने अंत्यव्यंजनं वर्तते तत्संख्यक वर्णाः अकरामि क्रमेण कोष्ठे पातनीयाः इति | जन्म संपद्विपत् क्षेम प्रत्परिः साधको वधः | मिपरममैत्रं च जन्मादी न पुनः पुनः || अन्यच्च यामले | शुभा एक द्विवेदत्तु वसुस्कां इतरेशु भाजन्मर्क्षनामभावे तु नामान्नर्क्षं विचारयेत् | कुल उड्डीशे | दशरेखाः प्रकर्तव्याः पूर्वपश्चिमयोगतः | रेखा चतुष्ठयं चैव विलिखेदक्षिणायतं || तत्साध्य विलिखेद् वर्णान् रक्षमान क्रमेण तु | द्वेकत्रिवेद शशिचंद्र युग्मयुग्मं कलाधरयुगं स्वययुग्मभूमिः | पक्षत्रिचंद्रहरनेत्र महींद्वच पक्षैकपक्ष शिवलोचन देववर्णं विंद्वस्वर्गस्वरांत्यौशेषवर्णान् समालिखेत् || अश्विन्यादि क्रमेणैव वर्णनाम समीरितं | जन्मभादाद्यवर्णाद्वानाम्नस्तु विलिखेत् सुधीः | साध्याद्यक्षरपर्यंतं जन्मादीनि पुनः पुनः | जन्मसंपद्विपक्षेमप्रत्यरिः साधको वधः || मित्रं परममैत्रं च नामतुल्य फलप्रदाः | अथ राशिचक्रं | तदुक्तं शारदायां | वालं गौरं खुरं शोणिं संमीशोभेतिराशिषु | क्रमेण भेदिताः वर्णाः कन्यायां शादयस्थिताः || लग्नं धनं भातृबंधु पुत्रशत्रु कलत्रकाः | मरणं धर्मकर्मायव्यायाद्वारदाराशयः || तंत्रराजे || प्. ३२ब्) राशिचक्रं समालिख्य तत्र वर्णान् लिखेत् क्रमात् | वेदाग्नि वह्नियुगलश्रवणाक्षिं संख्यानि पांशु वाणशर पंचचतुष्टया न तारामेषादितः परिलिखेदथ सादिवर्णान् कन्यागृहे च पुनरव ततो लिखेच्च | यस्तु स्वराशितो मंत्रीयावत् साध्यादि वर्णके | लब्ध धनं भ्रातृबंधु शत्रु कलत्रकाः || मरणं धर्मकर्मायव्यया द्वादशयशयः | नामानु रूपमेतेषां शुभाशुभफलं लभेत् || मालिनी तंत्रे च | एकोवाप्यथ वा पंचामोक्ष तवामो राशि स्वका | वांधवः राशिः स्याद्दशमद्वितीय सहितः ऽऽषष्ठे भवेत् सेषकः || रुद्रादि स्वरसंख्या यानि गदितश्चंद्रे अथ षोषकः सस्या द्वादश चाष्टकः श्रुतिमितो मृत्रस्पृत्येघातकः || अथ षडदलचक्रं || तदुक्तं कुलमूलावतारे || षड्दलं चक्रमालिख्य युगादिषु दलेधिमान् | अकारादिक्षकारां * * (?) कानि विलिखेत् क्रमात् || स्वनामाद्यक्षरं यावत् तदारभ्य विचारयेत् | उदये संपदे द्विद्वितीय संपदक्षयः || तृतीये च मृतिं विद्यां मृतोर्थं * * * * * * * * * (?) स्यात् तुष्ठे सर्व विनाशनं || अथाकडमं चक्रं | राशिचक्रेनि वर्णान् क्लीवहीनान्सुरान् वुधः | ककारादिक्ष कारणादक्ष क्रमेण * * * * * * * * (?) सीमांतं गणयेच्च तथा सुधीः | यस्तु स्वनामतो मंत्री यावन्मंत्राद्यमक्षरं | सिद्धसाध्य सुसिद्धारिः क्रमेणैव पुनः पुनः || सिद्धिः सिद्धि प्र * * * * * * * (?) कृतादिभिः | स सिद्धः प्राप्तमंत्रेण साधकं भक्षयेदरिः || पूर्वापरायता षड्वरेखास्तु विलिखेत् ततः | पंचभूतात्मकावर्णाः * * * * * * * * (?) || * * * * * * * * * * * (##? पंचशः कादयः लक्षलसहांताः समीरिताः || वायु तेजो महीवारि नभसश्चक्रमेण तु | साधकः स्याक्षरः पूर्वमंत्रं * * * * * * (?) || * * * * * * * * * * (?) यवत् स्वकुलं हि तत् | पार्थिवेवारुणे मैत्रमाग्नेयस्यापि मारुतं || पार्थिवानामक्षराणां शत्रुत्वे मारुतं स्थितं | आग्नेयस्य जल शत्रु वस्तुतरः समीरितानि || एतेषामेव सर्वेषां मविरोधि * * * (?) सं | परस्पर विरुद्धानां वर्णानां यत्र संस्थितिः || स मंत्रः साधकं हंति सर्वथा तपसंदति | * * * * * (?) चक्रस्य विधानमपिधीयते || मंत्रग्राम विशोधार्थं नमोत्पक्षर पूर्वकं | अष्ठौ कोष्ठान् समालिख्य वर्गान्नष्ठौ क्रमान् लिखेत् || * * * * * * * * * * * * * * * * (?) | मेष क्रमादकारादिरस्ववर्गश्रिता इमे || साध्य साधकयोः प्रीति ज्ञातव्यः जातितः सदा | एषु दोषेशु संवन्न मायां * * * * * * (##? * * * * * * * * * * * * * शुद्धये (?) | तारसंपुटितं कृत्वापि दुष्टमंत्रापि सिद्ध्यति || यस्य यत्र भवेद्भक्तिः सोपि मंत्रस्य सिद्ध्यति | * * * * * * * * * * * * * * * * (?) || * * * * * * * * * * * * (?) र्णषुङ्मंत्राः | प्. ३३अ) सप्तास्युः सर्वसिद्धिदाः | अरिमंत्रा अपि नृणां मन्ये मंत्राश्च किं पुनः | स्थानस्थाः वरदामंत्रा ध्यानस्थाश्च फलप्रदाः || ध्यानस्था तु विनिर्मुक्ताः सुसिद्धा अपि वैरिणः | प्रसंगेनैव तत्स्थानं कथयामि न संशयः || सकलं निश्चलं सूक्ष्मं तथा विकल निष्कलं | कलाभिन्नं कलातीतं षोडामंत्रंश्चिवो व्रवीत् || सकलं ब्रह्म चक्रस्थं तदधो विद्धि निष्फलं | मानसं सूक्ष्मनामानं हृत्स्थं सकल निष्कलं || विंद्वस्थितं कलाभिन्नं कलातीतं तदूर्द्ध्वतः | कलाकुंडलिनी सैव वादशक्तिः शिवोदिताः || एषु स्थाने स्थिता मंत्राः स्थानस्था परिकीर्तिताः | तत्रैव | नृसिंहार्कवराहानां प्रासादे प्रणवस्य च | सम्पिंडाक्षर मंत्राणां सिद्धादीनां न शोधयेत् || एकाक्षरे तथा कूटे मालामंत्रे विवीजके | स्वप्नलब्धे स्त्रियादत्ते सिद्धादी नैव शोधयेत् || वैष्णवेषु च मंत्रेषु केचिदिच्छंति तात्रिकाः | कालीतारामनौमंत्री तथा छिन्नामनावपि || सुंदरी मंत्रवर्येत सिद्धादी नैव शोधयेत् | वाराहीतंत्रे || ताराचक्रं राशिचक्रं नामचक्रं तथैव च | अत्र चेत् सस्तगोमंत्रोनास्य चक्रं विचारयेत् || इति प्राधान्यं | तारात् शुद्धिर्वैष्णवानां कोष्ठ शुद्धिः शिवस्य च | राशि शुद्धिस्त्रै पुरे च गोपालेश्चकद्रमः स्मृतः || अकाद्रमो वामनस्य गणेशे वर्गचक्रकं | कोष्ठ चक्रं वराहस्य महालक्ष्म्याः कुलाकुले || नामादि चक्रे सर्वेषां भूतचक्रं तथैव च | मालामंत्रस्तु तत्रैव | विंशत्यक्तोधिकामंत्रा मालामंत्रा प्रकीर्तितः | नपुंसकस्य सिद्धादीनां नैव शोधयेत् || हंसस्याष्ठाक्षरस्यापि तथा पंचाक्षरस्य च | एकद्वित्रादि बीजस्य सिद्धादीन्नैव शोधयेत् || एकाक्षरस्य मंत्रस्य मालामंत्रस्य पार्वति | वैदिकस्य च मंत्रस्य सिद्धादीन्नैव शोधयेत् || अत्र मंत्र विचार प्रसिद्धनाम ग्राह्यं || तथा च कुलार्णवे | सिद्ध साध्यादि योगेषु मंत्रदाने विशेषतः | प्रसिद्धनाम गृह्नीयात् प्रसुप्तो येन जागृवान् || पिंगलामते | प्रसिद्धं यद्भवेन्नाम किंवास्य जन्ममेव च | यतीनां पुष्पपातेन गुरुणा यत्कृतं भवेत् || नाम्नस्तस्यैव वर्णानि विभक्तानि च कारयेत् | अत्र पुष्पपातेन यतीनां नामद्वयं गुरुं कृतं || पितृ कृतं च | तत्र पुष्पपातः कार्यः यस्मिन्नाम्नि पतते नैव वीचारः कर्तव्यः अयं च यती विशेषः | अन्येषां तु जन्मनाम प्रसिद्धनामद्वय साध्य प्रसिद्धे जनाम्ना विचारः कर्तव्यः किमेतिपादपूरणार्थकः || पूर्वोक्त वचन विरोधादिति | श्रीपूर्णानंदनाथेनकृतायां गुरुभावतः कुलवृत्तौ स्वतंत्रायां सप्तमः पटलः स्मृतः || ७ || अथ काल विचारः | प्. ३३ब्) योगिनी हृदये || एवं विचार्यमतिमान् नामादीन् परिशोधयेत् | चैत्रे दुःखाय दीक्षा स्यात् वैशाखे रत्नसंचयः || मरणं भवति ज्यैष्ठे आषाढे वंधुनाशनं | समृद्धिः श्रावणे नूनं भवेद्भाद्रपदेक्षयः || प्रजानामासि दीक्षादा सर्वकर्म फलप्रदः | ज्ञानं स्यात् कार्तिके सौख्यं मार्गश्रीर्षे धनं हरेत् || पौषे ज्ञानक्षयोमाद्ये भवेन्मेधा विवर्द्धनं | फाल्गुने सर्वसिद्धिः स्यान्मलमासं विवर्जयेत् || मंत्रारंभं तु चैत्रे स्यात् समस्तं पुरुषार्थदः | इति * * * * (?) वचनात् | तद्वैष्णव परमिति | रुद्रयामले च | असिद्धि भूमिसंपत्तिर्मरणं वंधुनाशनं | आयु बुद्धिः प्रजानाशः संपत्तीरत्न संचयः || पूर्णं * * * * (?) सिद्धि मेधा काम प्रपूर्णता | चैत्रादीनि फलं ज्ञेयं मलमासं विवर्जयेत् || विस्वावप्ययने चैव आषाद्यां मदनोत्सवे | दीक्षा कार्या प्रयत्नेन पर्व (?) गुरु सद्मनि || गुरुपर्वनियमांस्तत्रैव | षष्ठी भाद्रपदे मासि ईशे कृष्ण चतुर्दशी | कार्तिके नवमी शुक्ला मर्गे शुक्ल तृतीयका || पौषे च नवमी शुक्ला माघे वर चतुर्धिका | फाल्गुने नवमी शुक्ला चैत्रेकामत्रयोदशी || वैशाखे चाक्षयाशस्ता ज्येष्ठे दशहरा तथा | आषाढे पंचमी शुक्ला श्रावणे कृष्णपंचमी || एतानि मुद्धृत्पर्वाणि तीर्थकोटिफलं लभेत् | यत्तु वैष्णवतंत्रे | प्रतिपत्तिर्द्वितीयायां तृतीयायां शुचिर्भवेत् | चतुर्थ्यां चित्तनाशःस्यां पंचम्यां बुद्धिवर्द्धनं || * * (?) ज्ञानक्षयं सौख्यं लभते सप्तमी दिने | अष्टम्यां बुद्धिनाशः स्यान्नवम्यां वपुषः क्षयः || दशम्यां राजसौ भाग्यं एकादश्यां शुचि भवेत् | द्वादश्यां सर्वसिद्धिःस्या त्रयोदश्यां दरिद्रता || तिर्यग्योनि चतुर्दश्यां हानिस्त्व मावसानके | पक्षांते धर्मवृद्धिः स्यादस्वाध्यायं विवर्जयेत् || संध्या निर्जित निर्घोष भूकंपोल्कानिपातने | एतानन्यांश्च दिवसान् श्रुत्युक्तान् परिवर्जयेत् || इति वैष्णव परं | निंदितेष्वपि मासे दीक्षौक्ता ग्रहणे शुभा | सूर्यग्रहणकालस्यां समाप्नो नास्ति भूतले || तत्र यद्यत्कृतं कर्म तदनंत फलं लभेत् | शक्तियामले | चंद्रग्रह सहस्रेण सूर्यग्रह समो भवेत् | ततो लक्षगुणं प्रोक्तं ग्रहणे निजवासरे || रविसंक्रमणे चैव सूर्यस्य ग्रहणे तथा | तत्र लग्नादिकं किंचिन्न विचार्यं कदाचन || महाष्टम्यां विशेषेण धर्मकामार्थ सिद्धये | नात्र काल विशुद्धादिन च नक्षत्र शोधनं || प्. ३४अ) श्रीगुरोः करुलणा काले तथा काश्यां प्रयागके | पुण्यतीर्थे कुरुक्षेत्रे देवी पीठ चतुष्टये || तथा श्रीपर्वते मंत्री कालाकालं न शोधयेत् | रविवारे भवेदुःखं सोमेशांतिप्रदा भवेत् || आयूरंगारकेऽहंति दीक्षां तत्र विवर्जयेत् | वुधे सौंदर्यमाप्नोति ज्ञानं स्यात् तु बृहस्पतौ || शुक्ले सौभाग्यमाप्नोति यशोहानिः शनैश्चरे | चतुर्था नवमी चैव चतुर्दश्यष्टमी तथा || पूर्णिमा पंचमी चैव द्वितीया सप्तमी तथा | त्रयोदशी च दशमी प्रसस्ता सर्वसिद्धिदा || शुक्लपक्षे शुभादीक्षा कृष्णेथा पंचमाह्निकात् | मुक्तिकामैः कृष्णपक्षे भूमिकामैः सिते तथा || कृष्णाष्टम्यां चतुर्दश्यां दीक्षाकर्म शुभप्रदं | अश्विन्यां सुखमाप्नोति भरण्यां धनवान् भवेत् || कृत्तिकायां भवेदुःखी रोहिण्यां वाक्पतिर्भवेत् | मृगशीर्षे सुखावाप्ति अद्रायां वंधुनाशनं || पुनर्वसौ धनाद्यंस्यां पुष्पे शत्रुविनाशनं | अश्लेषायां भवेदुःखीमघायां क्षयमाप्नुयात् || फाल्गुणी द्वितये चैव पशोर्बुद्धिर्भवेत्किल | हस्तायां धनहानिःस्याचित्रास्वात्यैः सुखी भवेत् || विशाखायां सुखं चानुराधायां वंधुनाशनं | ज्येष्ठायां स्रुत बुद्धिः स्यान्मूलायां कीर्तिवर्द्धनं || पूर्वाषाढोत्तराषाढे भवेत्तां कीर्तिदायिके | श्रवणायां भवेदुःखी धनिष्ठायां दरिद्रता || बुद्धिः शतभिषायां स्यात् पूर्वभाद्रे दरिद्रता | सौख्यं चोत्तरभाद्रे च रेवत्यां कीर्तिवर्द्धनं || वृषसिंह च कन्यायां धनुर्मानाख्य लग्नके | चंद्रतातरानुकूले च कुर्याद् दीक्षा विवर्द्धनं || तृतीयैकादशः षष्ठोदशमत्थश्च चंद्रमा | जन्मचंद्रशुभः प्रोक्तो जन्मनक्षत्र वर्जितः || शुक्लपक्षे द्वितीयस्तु पंचमो नवमस्तथा | गोचरे ये ग्रहाः शुद्धातैर्युक्तोपि शुभः शशी || शुभमध्यस्थितो वापि चंद्रमा शुभदो भवेत् | पंचमे सप्तमे चैव षोडशाष्टादशे तथा || उनविंशकविंशे च त्रयोविंश तथैव च | पंचविंशति नक्षत्रे शुभकर्माणि वर्जयेत् || रुद्रयामले | प्. ३४ब्) पंचांग शुद्ध्या दिवसे शोभने शशितारयोः | गुरु शुक्रोदये चैव विशिष्य मंत्र संकृया || पंचांगेति योगकरणमासतिथि वाराणाम् शुद्धावित्यर्थः | वाराहीतंत्रे | शुक्रोस्तो यदि वा वंधो गुर्वादित्या भवेद्यदि | मेष वृश्चिक सिंहेषु तदा दोषो न विद्यते || योगिनी हृदये | रत्नावल्यां | योगश्च प्रीति आयुष्मान् सौभाग्यः शोभन धृतिः | वृद्धि ध्रुवः सुकर्मा च साध्यः शुक्रश्च हर्षणः || वरीयांश्च शिवः सिद्धो ब्रह्मा ऐंद्रश्च षोडश | शुभानिव योगानिस्युर्द्दाक्षायां च विशेषतः || शंगन्यादीनि विशिष्ट विशेषण विवर्जयेत् | योगिनी हृदये | जन्मतिथि वारराशीनां प्रोक्तमिति हि | मंत्रदीक्षा परं तत्तु विक्षोयं साधकोत्तमैः || विद्यादीक्षा परमिति तिथिमासादि शोधनं | यदैवेच्छातदादीक्षा गुरोराज्ञानुसारतः || अथ स्थान नियमः | योगिनी हृदये | गोशालायां गुरोर्गेहेदेब्जागारे च कानने | पुण्यक्षेत्रे तथोद्याने नदीतीरे न मंत्रवित् || धात्री विल्वसमीपे च पर्वताग्रे गुहासु च | गंगायां तु तव वापि कोटि कोटि फलं लभेत् || इति संक्षेपतः | विस्तारस्तु पुरश्चरण प्रस्ताववत् गंतव्यः | दीक्षायाः पुरश्चरणस्य नित्यपूजायाः एकस्थानत्वात् || निषेधश्च योगिनी हृदये | गयायां भास्करक्षेत्रे विरजे चंद्र पर्वते | पटलेषु मतंगेषु तथा कन्याश्रमेषु च || न गृह्नीयान्नरो दीक्षां तीर्थेषं तेषु पार्वति | दीपस्थानं समाश्रित्य जपयोगादिकं चरेत् || इति विवरणादावश्यकत्वात् | कूर्म चक्र विवरणं | तदुक्तं * * * * * (?) | आदौ च वह्वलं कृत्वा नवकोष्ठानि कारयेत् | नवभाग मध्यकोष्ठं तथैव पूर्वतो लिखेत् || कवर्गादिषु * * (?) मीशे तदन्तरं * * * (?) | * * * * * * * * * * * * * (?) रांश्च युग्मतो लिखेत् || मध्यकोष्ठ क्षेत्र नामचक्रं कूर्माख्यमुत्तमं | यस्मिन् कोष्ठे सक्षनाम पूर्वा * * * (?) संस्मरेत् || * * स्य * * * (?) पाणियुग्मं पार्श्वं द्वयं ततः | कुक्षिस्थानं पादयुग्मं तदंते पुच्छमीरितं || मुखे कार्याणि सिद्ध्यंति कारक्लेषा मवाप्नुयात् | उदारदुःखमधिकं पादयोर्हनिरुच्यते || प्. ३५अ) पुच्छे तु धानहानिः स्याद्दीपस्थानं मुखं स्मृतं | दीपस्थानं विना यो हि दीक्षा होमादिकं चरेत् || तदेव निष्कलं विंद्यादभिचाराय कल्पयेत् || भालतंत्रे च | कूर्मस्थितिमविज्ञाय यो जपादि विधिस्थितिः | समाप्नोति फलात्युक्तानान्यथा नाशमेति च || तस्मात् कूर्म विधिं यस्तु विज्ञातखिलमाचरेत् | स चतुर्द्धास्ति लोकेस्मिन् किं तत्प्रकारं शृणु प्रिये || प्रथमस्तु परः कूर्मस्ततो देशगतस्तथा | ग्रामादि कूर्मो द्वितयं परकूर्मे च तद्वयं || फले च विशेषः | पृष्ठे सर्वार्थसाधनं | ज्ञानार्णवे च | दीपस्थान समाद्धृत्य कुंडस्य रचना भवेत् | वर्तुलं रचयेद्देवि कूर्माकृति सुलोचने || तन्मध्ये नवकोष्ठानां कृत्वा वर्णान् समालिखेत् || शताधिकृत्य दीपस्थानं | पुरे पश्यन् ग्रामे वा विषमेपि वा | यत्र कुत्रापि चोपास्यत् कार्यसिद्धि भवेत् प्रियो क्षत्राधिपस्य नाम्ना इ दीपस्थान विचारयेत् | क्षेत्राधिपस्य नाम्नानि चारयेदितीच्छा विकल्पः | अथवा यत्र क्षेत्रादीनां विशिष्टां नामास्ति तत्परमित्यर्थः | दीपस्थानं जपं कुर्याद्धोमं च फलदं सदा | गौतमीयो पर्वते वा सिंधुतीरे पुण्यारण्ये नदीतटे || यदि कुर्यात् पुरश्चर्यां तत्र कूर्म न चिंतयेत् | ग्रामे वा यदि वाव्यस्तौ गृहेतं च विचारयेत् || पुरश्चर्यमित्युपलक्षणं विहित कर्मेत्यर्थः || अथेदानीं वास्तु यागो निरुप्यते || प्. ३५ब्) अथेदानीं वास्तु यागो निरुप्यते || दीक्षायाः पूर्वांगत्वात् || तदुक्तं कुलोड्डीशे || अथ वक्ष्यामि दीक्षांगं वास्तु याग पुरःसरं | कृतेन येन विधिवद् दीक्षायाः फलमाप्नुयात् || राक्षसं वास्तु नामानं हित्वाधिष्ठाय तत्तनुं | स्थिताः सुरास्त्रि पंचाशत्तेभ्यः पूर्वं वलिं हरेत् || वलिमंडलमेतेषां वक्ष्यामि विघ्ननाशनं | चतुरस्वंभुवं कुर्यान् मंत्री हस्त प्रमाणतः || चतुर्विंशत्युंगुलाढ्यं हस्तं तंत्र विदो विदुः | कर्तुर्दक्षिणहस्तस्य मध्यमांगुल पर्वणः || मधस्य दीर्घमानेन मानांगुलमुदीरित | कर्मकर्तृनिजांगुष्ठं मध्यमं तिर्यङ्मानेन || प्रमाणांगुलमाने तु सर्वकर्माणि चापरे | कर्तुरिति यजमानस्येत्यर्थः || अथाचार चंद्रिकायां || अंगुलावत्निमुष्ट्यादि यजमानमिहोच्यते || इति परिशिष्ठे च || मानक्रियाया मुक्ताया मनुक्तेमानकर्तरि | मानक्रिद्यजमानस्यत्तद्विदामेष निर्णयः || कुलोड्डीशे || जलांतर गते भानौ यत्सूक्ष्मं दृश्यते रजः | प्रथमं तत्प्रमाणानांत्रसरेणुः प्रवक्ष्यते || इसरेणुरत्रतेस्युरष्टौ | रेण्वस्तु संस्मृतः | तोरणवस्तथात्वष्टौ वाणाग्रं तत्स्मृतं बुधैः | वालाग्रान्यष्ठौ लिख्या तु यूका लिखाष्टकं स्मृतं || अष्टौ यूकायवं प्राहुरंगुले तु यवाष्टकं | जालंतरेति स्वरूपकथनं | दन्यथा यवाष्टको पादानादेव मानांगुलसिद्धेः | मानांगुलप्रमाणतंत्रोक्तमित्य परे बुधैः | तिर्यग्यवोदरान्यष्टा वृज्वग्नाच्छीद्वयः त्रेयः तिर्यग्यवोदरेन्न्यादि यवाष्टकस्य विवरणेमिदं | मानांगुल प्रतानाच्च किंचिदिच्छंति तांत्रिकाः | श्रुक्श्रुवे मंडले कुंडे हस्तमानं समीरितं || उड्डीशे || कर्मकर्तु निजांगुष्ठतिर्यङ्मानेन मध्यमे | प्रमाणांगुल मेतन्तु सर्वकर्मणि चापरे || इदं तु महामानांगुलं || छंदोग परिशिष्टे || अंगुष्ठांगुलमान यत्र यवोपदिश्यते | तत्र तत्रे वृहत्पर्व ग्रंथिभिर्मन्वयात् सदा || चंद्रिकायां च | समस्थि गुरुत्वे नदि स्थिते वा | य उर्द्ध्ववाहौ नारि पंचमांशः || हस्तः स तस्या देशिनांशको त्रांगुलं यवस्तस्य नवोष्टमस्त्विति || पंचरात्रे || उच्छ्रायः प्रतिमायाः स्यान् महामानांगुलाश्रयः | महामानांगुलमितिं मानांगुलमिहोदितं || प्रासादिंदीश्चते नैव कुर्यान् मानांगुलेन च | वेदिकापीठि शिविकारुथादीनां विधिः पुनः || यागोपकरणं सर्वं कुर्यान्मानांगुलेन वै | मंडलादि श्रुवादीनां कुंडमुष्ट्यंगुलानि च || प्. ३६अ) मानांगुलेन कुर्वीत यथाशास्त्रं विचक्षणः | द्विहस्तादि कुंडयोनि मेखलादौ विचारः || तदुक्तं वृहद्योगिनी हृदये || द्विहस्तादिषु कुंडेषु व्यास सूत्रं च यद्भवेत् | तच्चतुर्विंशभागेन मानांगुल परिग्रहः || अथ तद्विभजन्मंत्री चतुषष्ठिपदं यथा | इशानवासं यावत् यावदग्रे प्रभंजनं || कर्ण सूत्रद्वयं दद्यात् ततो ब्रह्माणमर्चयेत् | मध्यकोष्ठ चतुष्के च पूर्वादिक चतुष्टये || चतुश्चतु प्रकोष्ठे तु यारुदार्य मनंतरं | चिरस्वस्तं ततो मित्रं महीधरमतःपर || कोर्द्ध द्वंद्व साध्यकोष्ठेषु वह्न्यादि परितस्ततः | उपर्यधः क्रमेणैव पूजयेन् मंत्रवित्तमः || कोणेत्यादि कोण कोण सूत्रेण अर्द्धीभूत द्वंद्वकोष्ठेशु कोष्ठ द्वंद्वेषु व्यत्यायनान्वयः | ब्रह्मकोष्ठे कोण चतुष्के उपर्यधः | क्रमेण द्वे द्वे कोष्ठे वर्तते तेष्वित्यर्थः | सावित्र्यं सवितारं च शक्रमिंद्रजयं पुनः | रुद्रं रुद्रजयं विद्वाना पंचाप्या परत्सकं || तत्कर्ण सूत्रो भयतः कोष्ठ द्वंद्वेषु साधकः | शरं गुहं तार्यमानं जंभकं पिलिपिच्छकं || चरकीं च विदारीं च पूतनामर्चयेत् ततः | पूर्वादि दिक् चतुष्केषु सार्द्धाद्यंत पदेष्विमान् || अष्टावष्ट विभागेन क्रमादीशविधिः सुधीः | यजेदीशान पर्यन्य यजंतान् शक्रभास्करौ || सद्यो वृषांतरीक्षौ च तथाग्नि पूषणावथ | वितथोयमसंगं च गृहरक्षक संज्ञकः || गंधर्वो भृंगराजश्च मृगोथ निर्-ऋतिस्ततः | द्वौ वारिकाख्य सुग्रीवौ वरुणः पुष्पदंतकः || असुरः गोषवो गौ च धम्मो नागाख्य सुख्यकाः | सोमभल्लाटक वकुलाख्यादित्यदितीति च || उक्ता सामाद देवानां पदान्या पूर्य पंचभिः | रजोभिस्तेषु देवेभ्योर्दद्यादेभिर्वलीमथ || पायसोदनमाद्यैश्च युक्तं धूपैः प्रसूनकैः | अकृतं तिल संयुक्तै माष भक्तादि मंडितं || गृहाणेमं वलिं ब्रह्मन् वास्तुदोष प्रनाशय | गंधादि कर्पूर पूपं पयसो परिसंस्कृतम् || आर्यत्वं वै गृहाणेमं सर्वदोषं प्रणाशय || १ || चंदनाभ्यर्चितं नाथ कर्पूरा गुरुमंडितं | विस्व नैव गृहाणेमं सर्वदोषं प्रनाशयं || स गुडं पायसं नाथ पुष्पादिषु समन्वितं | गृहाणेमं वलिं हृद्यं मित्रशांतिं प्रयच्छमे || सारोदनं स्वामिसं च गंधादि क्षीरसंयुतं | गृहाणेमं महीकृत्वं सर्वदोष प्रणाशय || ८ || एवमस्तु वलिं दत्वा त्वन्येषामीशतो हरेंत् | दक्षावर्त क्रमेणैव वलिः सामान्यभाषितः || प्. ३६ब्) सर्वेषां खलु वास्तूनां विशेष पदनिर्णयः | पुष्पादि कुशपानीयं कर्पूरा गुरुमंडितं || सावित्रे वै गृहाणेमं शांतिमत्र प्रयच्छमे || ६ || पिष्टकं स गुडं नाथरक्त गंधादि पूरितं | गृहाणेमं वलिं सूर्यविघ्नमंत्र प्रणाशय || ७ || सितमन्नं तथा पुष्पं कुंकुमादि समन्वितं | गृहाणेमं वलिं हृद्यं शक्र देव नमोस्तुते || ८ || उदनं घृतसंप्रक्रं * * * (?) धादि मंडितं | गृहाणे संवलिं हृद्यमिंद्र जय नमोस्तुते || पक्वापक्वमिदं मांसं वस्त्रपुष्पादि संयुतं | गृहाणेमं वलिं हृद्यं रुद्रदेव नमोस्तुते || द्वन्(?)मांसं घृतं पक्वं गंधपुष्पादि संयुतं | गृहाणेमं वलिं रुद्र जय स्वस्तिं प्रयच्छ मे || ११ || क्षीरखंडसमायुक्तं पुष्पादिभिस्तु शोभितं | गृहाणेमं वलिं हृद्यमापः शांतिं प्रयच्छ मे || दधीदं गुडसंमिश्रं गंधादि सुसमन्वितं | गृहाणेमं वलिं वत्स विघ्नमत्रविनाशय || १३ || स घृतं मास भक्तंत्व गंधभक्तमलंकृतं | वलिं गृहाण देवेशि रक्षौ विघ्नं विनाशय || १४ || मीन पुष्पादि संयुक्तं माषभक्तो परिस्थितं | गृहाणेमं वलिं स्कंदरक्षो विघ्नं विनाशय(?) || मांस पिष्ठकं चैव पक्वमांसोदकान्वितं | अर्यमन गृहाणैक रक्षो विघ्नं विनाशय || रक्तमांसोदनं मत्स्यं गंधधूपसमन्वितं | जंभकत्वं गृहाणेमं रक्षविघ्नं विनाशय || १७ || छागकण्वान्वितं मांसं रक्तगंधादि संयुतं | पलिपिच्छ गृहाणेमं रक्षो विघ्नं प्रणाशय || १८ || रक्तपुष्पं समायुक्तं रक्तवस्त्रादि संयुतं | विदारिके गृहाणेमं रक्षो विघ्नं विनाशय || १९ || पीतवस्त्रादि संयुक्तं रक्तगंधादि संयुतं | गृहानेमं वलिं ते ने रक्षो विघ्नं विनाशय || २२ || घृतेन साधितं मांसं रसगंधादि संयुतं | चरकिं वै गृहानेमं रक्षो विघ्नविनाशय || स घृतं चाक्षतं च रक्तवस्त्राद्यलंकृतं | गृहाणेमं वलिं त्वीश वास्तु दोषापहारकं || उत्पलं पायसैर्युक्तं वस्त्रादिक समन्वितं | गृहाणेमं वलिं हृद्यं देवराज नमोस्तुते || पंचहस्तं सुपीतं च ध्वजं भक्तादि मंडितं | गृहाणेमं वलिं हृद्यं जिष्णुभूत नमोस्तुते || २४ || ओंदनं घृतसंयुक्तं पंचरक्तादि मंडितं | गृहाणेमं वलिं हृद्यं देवराज नमोस्तुते || रक्तपुष्पयुतं भक्षं रक्तगंधादिभिर्युतं | गृहाणेमं वलिं हृद्यं भास्करत्वं नमोस्तुते || २६ || प्. ३७अ) वितानं धूम्रवर्णाभं गंधादि रूपशोभितं | रक्तपुष्पं गृहाणेमं वलिं सत्य नमोस्तुते || इदं तु मांसभक्षं वै गंधपुष्पादि पूरितं | गृहाणेमं वृषवलिं वास्तुदोषं प्रनाशय || २८ || इदं तु शार्दूल मांसं नैवेद्यांदिसु संयुतं | गृहाणेमं वलिं हृद्यं व्योमशांतिं प्रयच्छ मे || २९ || सुवस्तुं पिंडितं वापि वस्त्रगंधादिभिर्युतं | घृतादि * (?) गृहाणेमं सप्तजिह्वा नमोस्तुते || क्षीरं लाज समायुक्तं रक्तपुष्पादि मंडितं | गृहाणेमं वलिं हृद्यं पूषदेव नमोस्तुते || ३२ || दधि गंधादिभिर्युक्तं पीतपुष्पैः समन्वितं | वलिं वितथ गृह्नेमं विघ्नमन्न प्रनाशय || २२ || भक्तं मधुप्लुतं रक्तवस्त्रादि परिमंडितं | गृहानेमं वलिं हृद्यं यमदेव नमोस्तुते || ३३ || रक्तमांसौदनं नव पीतवस्त्रादि मंडितं | प्रीतिकरं गृहानेम गृहदेव नमोस्तुते || ३८ || नानागंधसमायुक्तं रक्तपुष्पादिभिर्युतं | वलिं गृहाण गंधर्व सदा दोष प्रणाशय || ३५ || इमां तु नाकुलीं जिह्वां मांसभक्षो परिस्थितां | गृहाणेमे भृंगराज शुभशांतिं प्रयच्छ मे || ३७ || एवं घृत तिलोपेतं गंधपुष्पादि संयुतं | गृहाणेमं वलिं हृद्य मूलदेव नमोस्तुते || ३७ || शर्करा संयुतं खंडं रक्तखंडादि मंडितं | प्रीतो वलिं गृहाणेमं सर्वदोषं प्रनाशय || अयं मंत्रस्तु नैर्-ऋते || ३८ || चंदना गुरुकाष्ठं च गंधपुष्पादिभिर्युतं | गृहाणेमं वलिं हृद्यं दौवारिक नमोस्तुते || ३९ || इदं तु पायसं नाथ गंधपुष्पादि मंडितं | सुग्रीव वै गृहानेमं वलिं शांतिं प्रयच्छ मे || यवशालि च गोधूमं भक्तोपरि सुशोभितं | गृहाणेमं वलिं हृद्यं जलराज नमोस्तुते || ४२ || कुशा गुरुं मासभक्तं घृतं गंधादि संयुतं | पुष्पदंत गृहाणेमं वलिं शांतिं प्रयच्छ मे || मधुना सहितं पिष्टं गंधाद्यै रूपशोभितं | वलिं गृहाणा सुरेंद्र सर्वदोष प्रणाशय || ४३ || घृतं मधु समायुक्तं कर्पूरादि समन्वितं | गृहानेमं वलिं शेष सर्वशांतिं प्रयच्छ मे || ४४ || जलजं तंडुलं नाथ गंधपुष्पादि मंडितं | गृहानेमं वलिं रोग सर्वदोषं प्रणाशय || सघृतंमंशुकं चैव मन्नाद्यै रूपशोभितं | गृहाणेमं वलिं हृद्यं मृगवाह नमोस्तुते || ४६ || इदं कृशरं चान्नं दुग्धगंधादि मंडितं | पातालेश गृहाणेमं विघ्नमत्र प्रणाशय || ४७ || नारिकेलोदकं भक्तं पीतवस्त्रादि संयुतं | गृहाणेमं वलिं मुख्य वास्तुदोषं प्रणाशय || ४८ || प्. ३७ब्) उदनं मधुनामिश्रं गंध पुष्प समन्वितं | गृहाणेमं वलिं नेम सर्वदोष प्रणाशय || ४९ || उदनं मधुनामिश्रं गंधधूप समन्वितं | गृहाणेमं वलिं हृष्यं भल्लाठत्वं नमोस्तुते || ५० || माषान्नं च घृताभ्यक्तं गंधपुष्पादि संयुतं | गृहाणेमं वलिं हृद्य मंगलाख्य नमोस्तुते || ५२ || पालिनीं मधुसंमिश्रां रक्तगंधादि संयुतां | गृहाणेमं वलिं हृद्यं दैत्यमातर्नमोस्तुते || क्षीरखंड समायुक्तं नाना पूजोपशोभितं | देवमात गृहाणेमं सर्वदोष प्रणाशय || ५३ || अथवा पायमात्रैश्च वलिदानं समाचरेत् | नामादौ प्रणवदत्वा नमों तेन च मंत्रवित् || अयं वलिः प्रोक्तः सर्वविघ्नविनाशकः | गृहादि करणे यस्तु नार्चिवान् वास्तु दैवतं || तत्र शून्यं भवेत् सर्वं रक्षो विघ्नादिभिर्वृतं | तस्माद्वास्त्वर्चनं कार्यं सर्वसंपदभिप्सुभिः || श्री पूर्णानंदनाथेनकृतायां गुरुभावतः कुलवृत्तौ स्वतंत्रायामष्टमः पटलः स्मृतः || कुलोडीशे च | अथ लग्ने शुभे भूमौ तुषांगारादि वरिते | निःष्ककारगत्यहीने तृणादि रहितेससे || पुण्याहं वाचयित्वा तु मंडलं रचयेत् | पद्महस्तेन विधिवत् पूर्वोक्तेन करेण वा || पुन्.याहं वाचयित्वा तु मंडलं रचयेच्छुभं | पंचभिः सप्तभिर्वापि न वभिर्वा मतांतरं || तत्रेयं येजना पंचभिः सप्तभिःरेकः पक्ष तेन द्वादश सप्तमिग्नवधिरेकः पक्षः तेन षोडशब्दत्येक वाक्यता वागादौ अत्र समुच्चये | कुलोड्डीशे च | चतुरस्रं चतुर्द्वारं वेदिकादि समन्वितं | षोडशस्तंभ संयुक्तं चत्वारस्तेन मध्यगाः || अष्ठहस्त समुच्छ्राया वेदिका परितः स्थिताः | पंचहस्त प्रमाणास्ते अजवो द्वादशातितः || तत् पंचमांसं लिखनेम्मेदिनीद्देनीदेशिकोत्तमः | वास्तुशास्त्रे | पंचमांसं न्यसेद्भूमौ सर्वसारेणविधिः | द्वारस्य पार्श्वयो द्वौ द्वौ कोणश्चाचार एव च || हस्तद्वयं प्रमाणेद्वा नरं कुर्याद् विचक्षणः | स्थलादर्कांगुलश्चायं मंडपस्थानमीरितं || नारिकेलदले रंगैर्वेष्टयेद् वामपार्श्वतः | समसूत्रं चतुर्द्धरं चतुस्तोरण भूषितं || न्यग्रीधतोरणं पूर्वे याम्ये * * (?) श्वरं मतं | पश्चिमेश्वत्थ संभूतमुत्तरे प्लवतोरणं || सर्वे च प्लवसंभूतं नग्रोधश्चोत्तरे तथा | एतेषामेव वृक्षाणाम भावे तु समीद्रुमः || जंतूखदिरगारग्रेम्यला वा तोरणस्थिता | नद्यापि तोरणो मंत्री वहिर्द्वारं पुरद्वारांत गोपुरं || प्. ३८अ) इति कोषः तथापि तत्प्रतिनिधि माला इत्यर्थः | स्ततोश्रायः स्मृतस्नेम्नां सप्तहस्तैः पृथक् पृथक् पदसांगुल प्रमाणेन तत्परिणाह ईरितः | तिर्यक् फलकमानं तु स्यादैर्घ्यं सार्धकरद्वयं | शुलानि कल्पयेन् मध्ये तोरणे हस्तमानतः | शरणलं मध्यशृंगस्यात् किंचिन्दुक्तं न पार्श्वयोः || उभयं तत्समाख्यातं द्व्यंगुलं रोपयत् तदा | क्रियान्यसेत्तेषां स्वदारुजानारद संहितायां || वैष्णव कल्पादेवि शंख चक्र गदांवुजान् | तत्रैव | गंधपुष्पं आरोपितान् कुंभास्तेषु विनिक्षिपेत् | ध्रुवंधरी वाकपतिं च विघ्नेशं तत्र पूजयेत् मंडपस्य च कोणस्य कलशेषु क्रमादमी | गलितोदक संपूर्णारान् प्रपत्र परिस्थितौ | स्वर्णादि कलसौ द्वौ द्वौ द्वारेद्धरे निवेशयेत् || अमृतो दुर्जपश्चैव सिद्धार्थो मगलस्तथा | गंधपुष्पादिभिर्मंत्रीकमादेतान् प्रपूजयेत् || पूज्याद्वारस्थ कुंभेषु मंत्राद्यास्तन्मनूत्तमैः | दिक्षु ध्वजान्नि वध्नीया लोकपाल समप्रभान् || पथहस्ताद्वजाः कार्या आयामेन द्विहस्तकाः | सप्तहस्ता ध्वजा वास्युविस्तारे द्वादशांगुलाः || दंडश्च च शजास्तेषां दशहस्त प्रमाणतः | दिग्गजान् विलिखेन् मंत्री ध्वजगध्ये स्वलिंकृतान् || पूजा होमादिकं सर्वं जपाद्यं यत्कृतं वुधैः | रक्षणेन विना यद्यत् क्षेत्रं नश्यति क्षेत्रिणां || ध्वजं विवादे च गृहं तथा नश्यति सर्वथा | ततः कार्या देवता का हि ध्वजे नैव समन्विता || सप्तहस्ताः पताकांस्यु सप्तमांशेन विस्तृता | चंद्रिकायां च लोकेशवर्णाः परितः पताका || मध्वजः किं कीलकाञ्चितः स्यादिति | चूतपल्लव मालाघ्नं वितानै रूपशोभितं | तत्त्रिंभागमिते क्षेत्रे मध्यभागे तु वेदिका || हस्तमानं तदुच्छ्रायं चतुरस्रं स संयथा | इष्टकाभिर्मृदावाथ वेदीद्दर्पणसन्निभा || त्रिपुरासारे | चतुर्द्दरयुक्तं ततस्तस्य मध्यं वुधस्तंत्रिभागैक भागे न वेदीं अरत्वि प्रमाणावितां | दर्पणांतर्निभां मनोहारीं चापि कुर्यात् | इति मध्यभागस्य यावद्विस्तारस्ताद्दीर्घतातावदायामा इत्यर्थः | शारदायां च | तंत्रितामिते क्षेत्रे रत्निमात्रे समन्वितं | चतुरस्रां ततो वेदीं मंडपे च प्रकल्पयेत् | अत्र परिमाणयोरिच्छा विकल्पः | अंकुरार्पणं | कुलड्डीशे | प्रतिष्ठायां च दीक्षायां स्थापने चोत्सवे तथा संरक्षणेन सामर्थ्यं विवाहे मौंजिवंधने | प्. ३८ब्) नववेश्म प्रवेशेन तथाभिषेक कर्मणि | सर्वमंगल कार्येषु विदध्या वृछरार्पणं || प्रतिदिनात् पूर्वं नवमे सप्तमेदिने | तृतीये पंचमे वापि सद्यो वाचां कुरार्पणं | मंडपास्योत्तरे भागेशानां पूर्वां परायतां || दशहस्त सुविस्तारां पंचहस्त सुविस्तृतां | गूढी कुर्यात् ततस्तास्यां मंडलं रचयेत् सुधीः || पंचहस्त प्रमाणानि पंचसूत्राणि पातयेत् | पूर्वा परायतान्येषामंतरं द्वादशांगुलं || दक्षिणोत्तर सूत्राणि तद्वदेकादशार्पयेत् | पंक्त्या वीथी चतुस्रोंतश्चतुष्को भयपार्श्वयोः || विथ्याद्दे च चतुःकोष्ठ त्रयमात्र विशिष्यते | पदा निरंजयेत्तानिश्वेतरुङ्पीतशितैः || इशानादि क्रमेणैव राजाभिः श्यामले न च | वीथी वा पूरयेन्मंत्री संप्रदाय विधानतः || पात्रानि त्रिविधान्याहुरंकुरार्पण कर्मणि | पालिका पंचमुख्याच्च शरावाश्च चतुःक्रमात् || प्रोक्तास्युः सर्वतंत्रज्ञेर्हरिर्ब्रह्मा शिवात्मिकाः | पालिका वक्त्रविस्तारः षोढा मंगल उच्यते || भवेत् कंठविलं चास्यास्तदंष्ठांगुल विस्तृतं | पादपीठस्य विस्तारः षडंगुल उदाहुतः || चतुरंगुल उत्सेधस्तत्संधिश्चांगुलं भवेत् | तत्संधिस्तु भवेन्नो वा पादपीठार्द्धमानतेः || भवेत् पंचमुखी चैव घटिका सर्वकामदा | चतुरंगुल विस्ताराण्याहुर्वक्त्राणि चापरे || चत्वारि च चतुर्दिक्षु ऊर्द्धमेकं यथाविधिः | घटिकायाम विस्तारो द्वादशांगुल उच्यते || आचार्याः कथयं त्वेकं षोडशांगुलमेव च | द्वादशांगुल विस्तारं शरावस्य मुखं स्मृतं || चतुरंगुल विस्तार मधस्तान् मूलमुच्यते | यथा संभव मानानि केन पीत्वा विधीयते || सुवर्ण रौप्य ताम्रे वा मृदावारचयेत् सुधीः | त्रिगुणीकृत सूत्रेण संभत्या वेष्टयेत् प्रिये || प्रक्षाल्या देशिकास्तेषु प्रच्छादित गणेषु | सतानुदित कूर्चे सुपश्चिमादि निवेशयेत् || करीष वालुका मृद्भिस्तानि पूरयेत् | प्रोतेषु तेषु पात्रेषु हरिं ब्रह्मा शिवान् यजेत् | श्रुत कर्मादिवत् कुर्याद्रात्रौ न बुद्धिमान् || वीजरोपण कार्यस्तु निशायाश्वेम्रविस्तमैः | वीजानामधिपो यस्मा नित्यं कुमुद वांधवः || जलवीजेन वीजानि जलैः प्रक्षाल्य मंत्रवित् | मूलमंत्राति जप्तानि पंचधीषः पुरःसरं || आशीवाम्निर्द्विजातीनां मंगलानिर्वपेत्तशु | पात्रेस्युदङ्मुखोप्युदङ्मुखः | श्यालिस्यामाढकी मुद्गातिलमिष्याषसर्षपाः | कुलोत्थकं कुमाषाश्च वीजन्यंकुरकर्मणि || स्कंदस्कंकौ च निष्पारे वायूग्नि कुलोत्थके | मोटक्यां निरृतिं सोमं मुद्गं वै वस्वतं तिले || प्राजापत्यंशालि वीजे जनंत सर्षपैर्चयेत् | मायामर्चयेदिंद्रंमाषे तु वरुणं यजेत् || प्. ३९अ) सोमं संपूजयेन्नित्यं मधिवास दिनावधि | हरिद्राभिः समुभ्युक्ष्यरस्त्रैरछाद्यते वुधैः देशिकः || वलिं त्रिविध पात्राणां दिक्षु पूर्वादितः किरेत् | प्रणवाद्यैर्नमोंतैश्च रात्रौ रात्री शनामभिः || भूतानि पंच यक्षाणागा ब्रह्मा शिवो हरिः | सप्तानामपि रात्रीणां देवताः समुदीरिताः || भूतेभ्यस्युः लाजातिल हरिद्रादधि शक्तयः | सन्नो पितृभ्यः स तिलास्तंदुलाः परिकीर्तिताः || करंभलाजं यक्षेभ्यो नारिकेलोदलान्वितं | शक्तुं पिष्ठं च नागेभ्यो ब्रह्माणं पंकजाक्षतं || सा पूपमन्नं सर्वाय विष्णवेस्या गुडोदनं | नवरात्रविधौ मंत्री दुग्धान्न कृषकं पुनः || प्रदद्याद् वैष्णवे चैवं सर्वेभ्यः पायसैश्चरा | ततश्च लोकपालेभ्यः पायसान्नर्वलिं हरेत् || अथांकुरं परीक्षेत यजमानः शुभाशुभं | सम्यगूर्द्ध प्ररूढानिको मलानि सूतानि च || अंकुराणि शुभां न्यांहुरिति तंत्रविदो विदुः | धूम्रवर्णान्य पूर्णानि तथा तिर्यग्तोनि च || श्यामलानि च कुब्जानि वर्जयेद शुभानि च | तद्दोष समनार्थं च शांति होमं समाचरेत् || गुरुर्मूलेन जुहुयात् छतमुखे सहस्रकं | अथ दीक्षा पूर्वदिने कुंड श्रुक्श्रुव मंडलानि कुर्यात् | तत्रादौ कुंड गृहानिर्माणं | गणेश्वर विमर्षिण्यां | वास्तोः संगृह्य पूर्वस्य मैशान्यामुत्तरस्य च | दिशि संकल्पयेन्मंत्री मंडपं तु विभावसोः || नवहस्त प्रमाणं वा सप्तहस्तमथापि वा | पंचहस्त प्रमाणं वा चतुर्हरस्रं समन्वितं || निच्छिद्र तु चतुर्द्वार वैदिका कृष्टि भूषितं | दर्ममाला परिवृतं तंतुना परिवेष्टितं || वशिष्ठ संहितायां | वास्तोरीशाम भागे तु मंडपं रचयेत् सुधीः | षडद्वादशाष्ठाभिर्हस्तै षोडशैर्वा समं ततः || चतुर्द्वार समायुक्तं तोरणाद्यैरलंकृतं | त्रिपुरासारे | अथाग्निकार्यं कथयामि पूजा गृहस्य कुर्यादौ शिवा शिवस्य | ईशस्य यद्वादिशि वित्तयस्य विभावसोर्मंडपमद्धिकोणं | नवहस्तमात्रमथ शैलदोर्मितं | यद्वा हुषीककरसम्मितं मतं | रुचिरैश्चतुर्भिरुपरंध्र मुत्तमं | कुशतोरणः सित वितान शोभितं | चतुर्द्वारयुक्तं ततस्तस्य मध्ये वुधस्तत्रिभागैकभागेन वेदी | अवुत्विप्रमानोन्नतां दर्पननं | तर्निभां मनोहारिणी चापि कुर्यात् | इति एककुंड पक्षे पंचहस्तमतं गृहं | तदुक्तं होम निरूपने | एककुंडमते नान्यत् पंचहस्त गृहं भवेत् | तदपि कुंडं गृहोत्तरे | तदुक्तं गणेश्वर संहितायां | गृहस्योत्तरतः कुंडमेकं वेदा समुद्धरेत् | लक्ष होमे तु तत् कुर्याद्गृहं मध्येन दूषणं | इदं तु गृहं वेदशून्यं गृहमध्येन दूषणमिति वचनात् | अष्टकुंडवक्षे मध्ये वेदिकार्येत्यर्थः | प्. ३९ब्) अथ कुंडानि | तदुक्तं शारदातिलके | प्राक् प्रोक्त मंडपे विद्वान् वेदिका या वहिस्त्रिधा | क्षेत्रं विभाव्य मध्यंशे पूर्वादि परिकल्पयेत् || अष्ट स्वाशासु कुंडानि स्थाकारान्यनु क्रमात् | चतुरस्रं योनिमध्यर्द्धचंद्रं त्यस्रं सुवर्तुलं || षडस्रं पंकजाकारं अष्ठास्रंतानि नामतः | आचार्य कुंडं मध्येस्याद्गौरींपति महेंद्रयोः || हस्तमात्रमितां भूमिं पूर्ववत् परिसूत्रयेत् | समंतात् कुंडमे तस्याच्चतुरस्रं शुभावहं || चतुरस्रीं कृतं क्षेत्रं पंचधा विभजेत् सुधीः | न्यसेत् पुरस्तादेकांशं कोणार्द्धार्द्ध प्रमाणतः || प्रमायत् कोणमानेन तथान्यदपि मंत्रवित् | सूत्रयुग्मं ततो दद्यात् कुंडं योनि निभां भवेत् || चा गुरुं स्वीकृतं क्षेत्रं दशधा विभजेत् सुधीः | एकमेकं त्यजेदंशं अधकुर्द्धं च तंत्रवित् || ज्यासूत्रं पातयेदग्रे तन्माना भ्रामयेत् ततः | अर्द्धचंद्रानिभं कुंडं रमणीयं प्रचक्षते || चतुर्द्धाभेदिते क्षेत्रे न्यसेदु भयपार्श्वयोः | एकैकमंशतंत्र्यानादग्रतो लांछयेत् ततः || सूत्रयुग्मं वुधः कुर्याद्र्य स्वं कुंडमुदीरितं | अष्टादष्टांगे क्षेत्रेशं न्यसेदेकं वहिर्वुधः || भ्रामयेत् तेन मानेन वृत्त कुंडमनुत्तमं | अष्टधा विभजेत् क्षेत्रं मध्यसूत्रस्य पार्श्वयोः || भोगं न्यसेदेकमेकं भागेनानेन मध्यतः | कुर्यात् पार्श्वद्वये मत्स्य चतुष्कं तंत्रवित्तमाः || सूत्रषट्कं वुध्यं | ततो दद्या षडस्रं कुंडमुत्तमं | चतुरस्री कृतं क्षेत्रं विभज्य च दशांशतः | एकं भागं वहिर्न्यस्ये चतुरस्रं प्रकल्पयेत् भ्रामयेत्तेन वर्तुलं | वृत्तानि कर्णिकादीनि वही स्त्रीनि प्रकल्पयेत् | पद्मकुंडमिदं प्रोक्तं विलेन च मनोहरं || पूर्वोक्तं विभजेत् क्षेत्रं चतुर्विंशति भागतः | एकं भागं वहिर्न्यस्य चतुरस्रं प्रकल्पयेत् || अंतस्थ चतुरस्रं स्याकोणार्द्धत्र प्रमाणतः | वाह्यस्य कोणसूत्र चतुरस्रस्य कोणाभ्यां परिलांछयेत् || दिश प्रति यथा न्यायमष्टौ सूत्राणि पातयेत् | अष्टास्रं कुंडमेतद्धि मंत्रविद्धिरुदाहुतं || क्रमेण तेषामर्थ विवरणं | आचार्य कुंडमित्यादि | प्रथमो स्थितत्वात् सर्वसामान्यत्वाच्च चतुरस्रसेवकुंडं | तेन चतुरस्रं * * (##? कुंडं द्वयमधिकं | केषां चिन्मते पुनः चतुरस्रमेव सर्वेषां यथा शारदा तिलके चतुरस्रं तु सर्वेषां केचिदिच्छंति तांत्रिकाः | कुलसारे च | चतुरस्रे महेशानि सर्वकार्याणि साधयेत् | इति क्रियासारे च | सर्वेषामेव वर्णाना सर्वकर्मणि सर्वतः | चतुरस्रं प्रकुर्वीत अथवा विधितानि च | इति शक्ता शक्ता भेदेन ज्ञेयं | अष्टकुंडानि विवृयंते | हस्तमात्र इत्यादि | अत्र कोण सूत्रं मत्स्यादिकं कुर्वंति | प्. ४०अ) तंत्रे तंत्रेरपि श्रुते तत्तुना मानतार्थं वक्रे कुंडे मनस्ताप इत्यादि दर्शनात् एवं मंडलादिष्वपि ज्ञेयं | न त्वदृष्टार्थकत्वं दृष्टार्थत्वेन निर्वाहे श्रुत्यष्टार्थकत्वत् फलकल्पनायामन्यार्थत्वात् | चतुरस्रीत्यादि चतुरस्र पंचमां शस्ताधिकतया अंकायित्वा सम्मुखे कोणे सूत्र चतुर्थांश प्रमाणतः | चतुर्थांशी भूतसूत्रं दक्षतो वामतोश्च भ्रामयेत् | तेन यलुब्धं स्थान भवति उभय सूत्रे पार्श्वेपातनात्मानात् सूत्रद्वयं अधिकभागावधि मन्मुखे एकीकुर्यादित्यर्थः अत एव ईशानकोण सूत्राग्रेय कोणसूत्र चतुर्भागानतिवत्ववलि रुद्रप्रमाण एतत्संवादः | हस्तमानमितं सूत्रं परिते लांछयेत् ततः चतुःकोष्ठात्मकं कृत्वात् कोण सूत्रं निपातयेत् | चतुरस्रं भवेत् कुंडं सर्वसिद्धि प्रदायकं | क्षेत्रं पंचाशकं पूर्वास्यामेकमंशकं || न्यसेत् तस्मान्यसेत् सूत्र पार्श्वयोर्मध्यमावधि | ततः प्रत्येक पदद्वंद्वं भ्रामयेतत्तद्वर्द्ध्वतः || पृथक् यथा सम्यग्यथा कोणद्वयावधि | एवं कृते स्थिर कुंडं भवेदश्वत्थ यत्रवत् || उत्तराभिमुखं कुंडं योन्याख्यं सिद्धिदायकं | चतुरस्रीत्यादिज्या सूत्रं परिमाणं सूत्रं जपेवत् प्रासूर्वं ज्यासूत्रं शरलाकारेण पततीति धनुर्गुण समानता | पातयेद वशिष्टां शाधोतरेखायां दशोत्तराग्रां रेखां कुर्यादित्यर्थः | तन्मात्राभ्या सूत्र निपाताग्र स्थानमानांत् | अवशिष्टांश समसूत्रं रेखायां संस्थाप्याग्रतो दक्षावधि वा मारधे च भ्रामयेत् | पुरस्थित रेखावधीत्यर्थः | संवादश्च क्रियासारे | क्षेत्रदेशांशकं कृत्वा द्वौभागौ च परित्यजेत् | उपन्युध स्नात् ज्या सूत्रं संपाद्य भ्रामयेत् ततः | तन्माने नैव तत्कुर्यादर्द्ध चंद्रानिभं भवेत् | इति | चतुर्द्धेत्यादि उभय पार्श्वयोर्द्दक्ष वामयोः | क्षेत्र चतुर्थांशमेक दक्षे एकं वामे अधिकतया अंकं पित्वा ततः सन्मुखावधि सूत्रद्वयमेकी कृत्य त्र्यस्रं दंडं लिखेदिति | संवादो यामले | द्वात्रिंशदंगुलं सूत्रं पातयेत् परितः सुधीः त्रिकाराकाररूपेण पूर्वरंध्रं समालिखेत् | त्रिकोणकुंडमाख्यातं सर्वसिद्धिप्रदायकं | अष्टादशा इत्यादि | वहिरिति | अविशेषा चतुर्देवि अधिकांगमं कपित्वा मध्ये सूत्रं निधाय अधिकांशमाने न वृत्तं कुंडं भवति संवादस्तु यामले | क्षेत्रेष्टादशं भागं कत्वेकवाद्यूतः क्षिपेत् | भ्रामयेत् तेन मार्गेण मध्ये सूत्रं निधाय च | तदावृत्तं भवेत् कुंडं प्राचीमुखमनुत्तमं | अष्टधेत्यादि अष्टमाम्शस्यया वा न विस्तारः | तद्विस्तारण मध्याद्भांग द्वय क्रमेण पार्श्व द्वये द्वौ द्वौ मत्स्यौ चिह्नितौ कृत्वा ऊर्ध्वरेखाया मध्यमागतः | प्. ४०ब्) दक्ष मत्स्यावधि एकरेखा वा मत्स्यावधि एकारेखा नुपूरेण विलिखेदक्षधो मत्स्यावधि एकारेखा एवं वाधो मत्स्यावधि एकारेखा दक्ष मत्स्यतो अधो दक्ष मत्स्योवधि एकारेखा वा वा मत्स्यतो वा मत्स्यावधि एकारेखा क्रुद्ध मत्स्यते कुर्द्ध मत्स्यावधि एकारेखा अमत्स्यतो अधमत्स्यावधि एकारेखा रेखाष्टकं सूत्राष्टके निपातन भवतीत्यर्थः | एतस्य संवादस्त्रिपुरासारे | भूपाशेयमिहवहिः * * * * * (?) मध्यात् क्षेत्रव्यासे स्वविमलमतिं तेन मानेन कृत्वा पार्श्वद्वंद्वे ऋष ऋष युगं सूत्रषट्कस्यपातं कुर्यात् कुंडे भवति तदिदं तर्ककोणं मनोज्ञं चतुरस्री कृत सित्यादि अष्टादशीशत इति केचित् पाठः | तत्र तंत्र विरोधात् यथा त्रिपुरासारे | दशांसत्र विन्यस्य वाष्ण्वं समेकं परिरम्यते नैव वर्तनानां | वहिर्मध्य संकर्णिकां चापि कुर्यात् | तावद परं बुधः पद्मकुंडं | वहिरिति चतुरस्राद्वहि स्त्रीनिवृत्तानित्यर्थः | एकं वृत्तं कर्णिकाव्यवच्छेदार्थं वर्तुलमेव कर्णिकां तस्याः परिचयार्थं एकं वर्त्तं अन्यद्धस्त द्वयं केशर पत्रार्थं कर्णिकात्मकमेव कुंडं केशरादीनि पद्मपरिचायकानीत्यर्थः | रुद्रयाम लभते पुनः कर्णिका केशर पत्रार्थकमेव कुंडं | यथा यामले | वृत्तं कुंडं समुद्धृत्य समभागेन साधकः मध्ये वृत्त त्रयं कुर्यान्मध्यभागे तृकर्णिकां | केशराणि च तद्वाह्ये दलमध्यामि तद्वहिः तदाह्यानि दलाग्रानि कल्पयेद्देशिकोत्तमः | कर्णिका त्र्यंगुलोच्छायां संलिख्य लिखनेत् ततः अधो भागे केशराणि पद्मकुंडमितीरितं एतन्मते पद्मकेशर कर्णिकात्मकं कुंडं मध्ये वृत्तत्रयं विधानात् | मध्य पदेन वृत्तमध्येमेवोच्यते | अथ नलस्य विधानं | चंद्रिकायां | कर्णिकां व्यासमानेन परित्यज्य समुन्नतां निखनेदेव शेषं तु केशराणां च खनेदंतस्तदाकारं पत्रभुवं खनेत् पत्रकार यथा | सम्यक् जायंते निपुनस्तथा | इति यतन्मतेपि कर्णिकात्मकमेव कुंडं व्याकुंडव्या समाने कर्णिका लिखनादिति अत्र संप्रदायः सरणमिति पूर्वोक्तं विभजेत् क्षेत्रं मित्यादि एकमिति अपि कतयेत्यर्थः | चतुरस्रमिति वाह्वत इत्यर्थः कोणार्द्धेत्यादि कोण चतुर्थभाग प्रमाणत इत्यर्थः कोणाभ्यां कोण पार्श्वद्धयाभ्यां तेन प्रतिदिशि द्वौ द्वौ मत्स्यावित्यर्थः | मत्स्यं यावतो वदष्टौ सूत्राणि पातयित्वा हिंते अष्टांस्रि कुंडं भवेदित्यर्थः | चतुरस्रमिति वाह्यत इत्यर्थः एतस्य संवादस्त्रिपुरासारे | क्षेत्रे क्षिप्त्वात्र वाह्वादिशि दिशि मिहिरद्वंद्वकांशेमेकं कृत्वानेनच्चिकोणं पुनरपि मतिमान कोणतोर्द्ध गृहीत्वा | प्. ४१अ) तत्कोणाभ्यां विदध्याहि खलु परितस्तेन मानेन चिह्नादष्ट्रांशस्यात् समस्तारायत वितनु पादष्ट सूत्र प्रयोगं | इत्यष्ट कुंडानि | आचार्य कुंडेन सह नव कुंडानि | कुंडखनन मेखले | ललितेश्वरे च | कुंडविस्तारमानं तु खनने तादृशं पुनः | तन्मान् मवटं कुर्याता वडूपाच मेखलेति || शारदायां च | यावान् कुंडस्य विस्तारः खननं तावदेव हि | कुंडानां यादृशद्रूपं मेखलानां च तादृशं || कुंडानां मेखलास्तिस्रो मुष्ठिमात्रे तु तां क्रमेत् | उत्सेधायं मतो ज्ञेया द्वेकार्द्धांगुलि सम्मिता || अत्रिमात्र कुंडेस्युस्त्रि द्वेकांगुलि नात्मिका | एव हस्तमिते कुंडे वेदांतेन यनांगलाः || कुंडे रसकरेतास्युर्दशांगुल समन्विताः | वसु हस्तमिते कुंडे ताम्रपंक्त्यांष्टकांगुलाः || दशहस्तामिते कुंडे मन्वता तु दर्शांगुलाः | विस्तारोत् सेधतो ज्ञेया मेखला सर्वतो बुधैः || सिद्धांतेशेखरे च | पंच वा मेखलाः | कार्यास्तंत्रवित् सर्वकुंडके | मेखला त्रितयं वाथ द्वितयं चेकमेव वा | विदाग्नि नयनोन्मेध मेखला त्रितयं क्रमात् || क्रियासारे च | प्रधानमेखलोत् सेधमुक्तमत्र नवांगुलं | तद्दाह्व मेखलोत् सेधं पंचांगुलमिति स्मृतं || तद्वाह्ये मेखलोत् सेधमंगुल त्रितयं भवेत् | चतुस्त्रिद्व्यंगुलायाम मेखला त्रितयस्य च || एकांगुलं तथात् पक्त्वा कुंडांते मेखला भवेत् | एकहस्ते तु कुंडे तु अन्य कुंडो तृवर्द्धयेत् || अर्द्धांगुल प्रमाणेन कंठे च तंत्रवित्तमः | ज्ञानार्णवे च | शृणु देवि प्रवक्ष्यामि चतुरस्रस्य लक्षणं | चतुरस्रं समं हस्तमात्रं विरचयेत् सुधीः || मेखला सहितं देवि शृणु लक्षणमुत्तमं | पंचादशांगुलं कुंडै रमणीयं यथा भवेत् || कंठदेशेंगुलं त्यक्त्वा नवां कुल समन्वितं | वेदाग्नि पंचविस्तारा कर्तव्या मेखला प्रिये || षडंगुल सुविस्तारा मेखला प्रथमा भवेत् | द्वितीये मेखला देवि चतुरंगुर विस्तरा || सप्तांगुलोच्चर कर्तव्या तृतीया मेखला ततः | पंचांगुलोच्च देवेशि विस्तारे द्व्यंगुला भवेत् || एतेन खननं तावदेव तु इति यदुक्तं | तन्मेखलया स हेति वोद्धव्या कर्तव्य खननाखात द्वादशांगुल सम्मितं | द्वादशाष्टत तद्वास्तुं मेखला देवि कारयेत् | चतुरंगुल मायामांगुलो च तथा भवेत् द्वादशांते च तदोर्द्धेत्सेधा इत्यर्थः | अथवा सर्वकुंड हि खनेद्धस्तैकमानतः | पंच वा मेखला कार्या षट्पंचाब्धि त्रिपक्षकैः || अथवा त्रितया कार्या वेदाग्नि नयनांगुलैः | अथवा मेखलैकाहि वेदां गुल समन्विता || उत्सेधयामाद्यामित्यर्थः | एक मेखले भेदः | तथैके मेखला पक्षे शृणु वक्ष्यामि लक्षणं | अष्ठादशांगुलं खातं कुंडं कुर्याद् विचक्षणः || प्. ४१ब्) चतुरंगुल विस्तारो षडंगुल समुसृता | मेखला पूर्ववत् कार्यायो निश्चापि तथा भवेत् || द्वात्रिंशदंगुलं कुंडं त्रिकोणं पथितः पृथक् | खातं तु पूर्ववज्ञाय कंठे हि द्व्यंगुलं तथा || पूर्ववम्मेखला कार्या एकापिष तथा भवेत् | त्रिकोणं त्रिकोणादि ज्ञानार्णवे त्रिकोणस्य मुक्तत्वात् || तत् खातं पूर्ववत् पंचदशांगुलं पूर्ववन् मेखला प्रधान मेखला नवांगुला द्वितीया पंचांगुला तृतीया त्र्यंगुला उत्सेधतः तेन खननस्य | मेखलायां मिलित्वा द्वादशां त्रिंशदंगुलमिति एवां वा सर्वकुंडमिति एकापि च तथा भवेत् | सप्त दशांगुला भावेत् दित्यर्थः | हस्तमा परिमाणस्योक्तत्वात् | इत्यपि शब्दाल्लभ्यते | अथ मेखलानि विवरणं || तदुक्तं शारदायां | होतु रग्रेयो निरेखामुपर्यश्चत्थ पत्रवत् | मुष्टपराम्तकहस्तानां कुंडाना योनिरीरिता || वद्ध तु द्व्यंगुलायाम विस्तारोन्नतिशालिनी | एकांगुलं तु योन्यग्रं कुर्यारीशद्रधोमुखं || एकैकांगुलतोनेमिं कुंडेधन्येषु वर्द्धयेत् | यवद्वय क्रमेणेयोन्यग्रमपि वर्द्धयेत् || ज्ञानार्णव च | दंडस्य पश्चिमे भागे योनि कुंर्यास्तु लक्षणं | द्वादशांगुल दीर्घां तु तथाष्टांगुल विस्तरां || अश्वत्थ पत्ररूपां वा त्रिकोणं वा विचक्षणः | इत्यपि एकहस्त कुंडस्य अन्यकुंडस्य पूर्ववत् || वर्द्धयैदित्यर्थः | क्रियासारे च प्रथमे मेखले योनिं कुंडोष्ठीं हेतुरग्रतः | कुर्याकुजोष्ठशमृशीं कुंडो * * * (?) लक्षणां | योनिः षडंगुलायामाचवत्पुरंगुल विस्तृता || उन्नतौ द्व्यंगुला प्रोक्ता कुंडे हस्तमिते बुधैः | होमसारे च | दक्षस्था पूर्वयाम्येत जलं स्थाप * * (?) तरं | सिद्धांते द्वादशांगुल दीर्घां तु तथोष्टांगुल विस्तृतां || योनिं प्रकल्पयेत् मंत्री तदग्रं द्व्यंगुलं मर्वत् | दशहस्तांतरं यावत् पूर्ववद्वर्द्धयेत् क्रमात् || ना * * (?) त् कोणकुंडेक्षयोनिंतां तंत्रचित्तमः | यामले च | योन्या मध्ये विलं कुर्यात् कविषाज्य हि मंत्रकं | अथ नाल विवरणं | शारदायां | मेखला वाक्य स्थान मारभ्य कारयेत् | तदुक्तं भास्कर आचार्येणं | यो नाले स रंध्रकमिति | * * * * (?) योन्याः पश्चिमतो नालं रंध्रं व चतुरंगुलं त्रिद्व्यकांगुल विस्तारं मूलमग्रमिष्यते | इति नाल विवरणं | अथ नाभि विवरणं | शारदायां | कुंडानां कारयेदं तनीतिमंवुज सन्निभं | तत् तत्कुंडानुरूपं वा मानस्य च निगद्यते | मुष्ट्य रत्न्येकहस्तानां वातिरुत्सेधतावतः || द्वित्रिवेदांगुलोपेता कुंडे धन्येषु वर्द्धयेत् | यवद्वय क्रमेणैव नातिं पृथगुदारधीः || नाभिक्षेत्रं द्विधा कृत्वा मद्ये कुर्वीत कर्णिकां | वहिरं शद्वयेनाष्टौ पत्राणि परिकल्पयेत् || प्. ४२अ) मुष्टिमात्रमितं कुंडं शतार्द्धे संप्रचक्ष्यते | शतहोमेवत्रिमात्रं हस्तमात्रं सहस्रके || द्विहस्तमयुते लक्षे चतुर्हस्तमुदाकृतं | यामले च | चतुर्हस्तं लक्षहोमे षठस्तं दशलक्षके | अष्टहस्तं कोटि होमे दशहस्तं तथैव च || अथवाकारयेदेक हस्ते लक्षं यथा क्रमात् | लक्षाणां दशकं यावता वद्धस्तेन वर्द्धयेत् || दशहस्तोत्परं कुंडं नास्ति सर्वागमेष्वपि | कोटि होमात् परो होमो नास्त्येव वेदतंत्रयोः || शारदायां दशलक्षेषु षठस्तं कोद्यामष्टकरं स्मृतं | दशहस्तमितं कुंडं कोटि होमेपि दृश्यते | अत्र विरुद्धार्थ कवचनीय हव्य द्रव्य गुरुत्व लघुत्वा पेक्षया एकवाक्यता कर्तव्या | लघु द्रव्ये पुष्प होमादौ स्वल्पं कुंडं गुरुद्रव्येपन स फलादौ मे तत् कुंडमिति दिक् अत्रायं निष्कर्शः | एकहस्तस्य पंचदशांगुलं स्वातंतत्र नवांगुलोच्च मेखला तेन हस्तपूर्णता | द्वादशांगुल खातपक्षे द्वादशांगुलोच्च मेखला तेन हस्तपूर्णता | एकमेखल पक्षे अष्टादशांगुलं खातं षडंगुलोच्चा मेखला तेन हस्त पूर्तिः | द्वादशांगुल पक्षे पंचदशांगुल खातं मेखलानां सप्तदशांगुलीभिर्हस्तपूर्तिः एतत् पक्षे एकमेखलापि सप्तदशांगुलोच्च | अथवा सर्वेषां हस्तमात्र खननं मुष्ट्यवत्त्रिकुंडयोस्तु कुंडविस्तारमाणं मेखला योनिलेमीनां शारदायां तु विशेषः | अथ योनि दिग्विवरणं | दक्षस्था पूर्वयाम्ये तु जलस्था पश्चिमोत्तरे | योनिरुक्त वुधैर्होमे तंत्रविद्भि यथा क्रमं || सोमशंभु वाप्युक्तं | पूर्वादि याम्य कुंडानां योनिः स्यादुत्तरानना | पूर्वानना तु शेषाणां माशान्योर्हुत चातयोः || तयोः पूर्वोत्तरायाः ऐशान्ये इत्युपलक्षणं विवस्थानमित्यर्थः | इति वचनात् पूर्वदक्षिण कुंडे तु तन्मुखा होतारः | पश्चिमोत्तर कुंड पूर्वमुखाहोतारः इति | अथ कुंडफलादि विवरणं | शारदायां | सर्वसिद्धिकरं कुंडं चतुरस्रां मुदा हुतैः | पुत्रप्रदं योनिकुंडमर्द्धेद्धाभं शुभप्रद || शक्षयकरं त्र्यस्रं वर्तुलं शांतिकर्मणि | छेदमारणायः कुंडं षडस्रं पद्मसन्निभं || पुष्टिदं रोगशमनं कुंडमष्टास्रमीरितं | विप्राणां चतुरस्रं स्याद्राज्ञीं वर्तुलमिष्यते || वैश्यानां मर्द्ध चंद्राभं शूद्राणां त्र्ययमीरितं | यामले च | चतुरस्रं शांति लक्ष्मी पुष्टिवृद्धेश्च कारणं | योनि कुंडं वाक्प्रदं स्यादाकृष्टिकरणं महत् || लक्ष्मीप्रदं वर्तुलंस्या चंद्रार्द्धे तृतयं भवेत् | पद्माख्यं सर्वसंपात्तः कारणं पुष्टिदं भवेत् || चतुरस्रं ब्राह्मणानां राज्ञां च वर्तुलं मतं | वनिजामर्द्ध चंद्रं तु त्र्यस्रं च शूद्रजन्मनां || प्. ४२ब्) आचार्या कथयंत्येके सर्वेषां चतुरस्रकं | अथ कुंडवासना | यामले | कुंडस्य रूपं जानीयात् परमं प्रकृते वपुः | प्राच्यां शिरः समाख्यातं वाम दक्षिण सौम्ययोः || उदरं कुंडमित्युक्तं योनिः पादौ तु पश्चिमे | अथ निंदा विवरणं | पूर्वादि याम्य कुंडातां मेखला रहितः शोको ह्यविके वित्त संक्षयः भार्या विनाशनं कुंडं यत्कंठवर्जितं | भैरवश्वोतसि | सूत्रादि केषु कृद्भेदो नले हीने दरिद्रता | वातुलः कंठहीने स्याद सिद्धिर्न्यूनकादिके || अधिके वित्तनाशः स्यात् हीने दुःखं प्रशस्यते | व्याधयश्च प्रवर्तंते हीनोच्चे स्यादप स्मृतिः || उच्चाटे स्फुटिते छिन्न अंकने वा मूर्ति भवेत् | तस्मात् सर्वं गुरोर्ज्ञात्वा तत्कुंडं रचयेत्सुधीः || वृत्तरतंत्रे च | अथ द्विहस्तादि परिमाण विवरणं | मंत्रमुक्तावल्यां | एकहस्तस्य कुंडस्य कोन्.ए सूत्र प्रमाणतः | कोणादौरभ्य सूत्रं स्यार्द्विहस्त परिकीर्तितं || एवमन्येषु कुंडेषु वर्द्धयेत् क्रमतः सुधीः | उत्तरतंत्रे च | हस्तमात्रमिते कुंडे समंता वृत्तरंगुलं | वर्द्धयेत् तेन मानेन द्विहस्तं च प्रचक्ष्यते || एवमन्येषु कुंडेषु हस्तमानं प्रकीर्तितं | रुद्रयामले | त्रयस्त्रिंशांगुलं सूत्रं तिलं वा दशकोणितं | सप्तषष्ठ्यंगुलं सूत्रं तिलद्वादशकोविमं || द्विहस्त कुंडे विधिवत् पूर्ववत् परिसूत्रयेत् | द्विहस्ते द्विचत्वारिंशत् तिलद्वादशको नितं || चतुर्हस्ते च कुंडे च पंचाशदंगुलोत्तरं | तिलद्वादशकं सूत्रं पंचहस्ते निवोधमे || चतुःषष्ठ्यंगुलं सूत्रं तिलद्वादशकोनिभं | सप्तषष्ठ्यंगुलं सूत्रं तिलद्वादशकोविभं || षढस्त कुंडे विधिवत् सप्तहस्तनिवोधमे | नव सप्त्यंगुलं सूत्रं तिलद्वादशको निभं || अष्टाशात्यंगुलं सूत्रं तिलद्वादशको निभं | अष्टहस्ते तु कुंडं तु कुंडेद्वा न सूत्रे परिवेष्ठयेत् || सप्त नवत्यंगुलं सूत्रं तिल द्वादशकारिता नवहस्ते तृकुंडे वै सूत्रं तत्र विदाम्मतं | तिलद्वादश संयुक्तं षडतुरशतागुलं | दशहस्तस्य कुंडस्य उद्धरे तंत्र वित्तम || इति | अत्र सर्वत्र द्वैधे इच्छा विकल्पतो गुरुणां चरणोपदेश परिणमिति || अथ स्थंडिलं | तदुक्तं वृहद्योगिनी तंत्रे नित्यं नैमित्तिकं होमं स्थंडिले वा समाचरेत् | हस्तमात्रेण तत् कुर्यात् वालुकाति सुशोभनं | अंगुलोत् सेधनं मुक्तं चतुरस्र स्वयं ततः || क्रियासारे च | हस्तमात्रं स्थंडिलं वा संक्षिप्तो होमकर्मणि | अत एव का स्थंडिले कुर्यात् संक्षेपस्तु हस्तमानश्रुतेः सहस्रावधिरित्यर्थः | अथ श्रुगविवरणं | तदुक्तं यामले | यज्ञकाष्ठं हस्तमितं षट्त्रिंशता विभागव्येत् | विंशत्यं शैर्भवेत् कुंडो वेदिस्तैरष्टभिर्भवेत् || प्. ४३अ) एकांशेनमितः कंठः सप्तभागमितं मुखं | विदित्र्यंशेन विस्तारः कंठस्य परिकीर्तितः || मुखं कंठ समानं स्यात् मुखेमार्गं प्रकल्पयेत् | कनिष्ठांगुलिमानेन सर्पिषो निगमाय च || वेदीमध्ये विधातव्या भागिकेन च कर्णिका | विदधीत वहिस्तस्या एकांशेनाभितोवटं || तस्य खातंत्रिभिर्भागैवर्तमेह्नीशतो वहिः | अंशेनैकेन परितो दलानि परिकल्पयेत् || मेखला मुखवेद्याश्च परितार्द्धांशमानतः | कुंद्र मूलाग्रयो कुंभौ गुणवेत्यंगुलैः क्रमात् || * * * (?) गयमांशैः स्यात् कुंडस्यानाह ईरितः | षड्भिरंशैः पृष्ठभागे वेद्याः कूर्माकृतिं भवेत् || हंस्यवाहस्तिवो वा पात्रिगोत्र स्वं लिखेत् | मुखस्य पृष्ठभागेस्याः श्रुचौ लक्षण दृशं || यज्ञकाष्ठमितियांगे विहितमित्यर्थः | शारदायां च || श्रीपर्णी सिंशिका क्षीरशाखि * * * * * * (##? गृहीत्वा विभजेद्धस्त मात्रं षड्त्रिंशत्ता पुनः || इति वेदिरिति वेदिका वा इत्यर्थः | वरमुभया विरचिते वेदिका तुला भवेत् | अविशेषा द्वित्तारे दैर्घ्येध कंठ इति वेदी तु स्वयोर्मध्ये एकांशेन एकांशदीघीवेन कंठशमानाकारत स भिन्नत्वेन चिहिनितं कार्यमित्यर्थः | सप्तभागे सप्तभाग दीर्घमग्रमतामित्यर्थः | वेदीति वेदीं चतुर्द्धा विभज्य उबयतः अर्द्धोशत्य मध्यभागविस्तारेनेत्यर्थः | तस्येत्यादि | अवष्टस्य ह्वातं निम्नतां वहिरिति अतटस्यत्यर्थः | दलानि अष्टौ दलानि सामात्यत्वा परिशेषात् | स केषांरन्येपि संप्रदायः मुख इति स कंठ इत्यर्थः | तेन कंठस्य मुखांता | वहिरिति वेद्याः समुत्यतः अर्द्धां शास्त्र विवेशांके द्वे उभयतो गृहीत्वा वित्यर्थः | गंडीत्यादि कुंभयोनि योरग्र मूलभागेयमीशैन युग्मां शमानेन एकागंडी मूलस्थ कुंभांग्रे अन्याग्रस्थ कुंभाग्रे अत एव रत्नावलीकारः | गंडीद्वयमंशद्वयेनोभयगः इति | तदुक्तं सोमशंभुना | मूले चाग्रेव दंडस्य गंडीकं कणवद्भवेत् | अथ श्रुव विवरणं कुलोड्डीशे | श्रुक् चतुर्विंशभागेन श्रुवस्य रचना भवेत् | द्वात्रिंशत्या दंडमानं चतुर्भिः परिणाह्रकः कर्षास्वग्राहि मस्तेस्यां दंशदय विभेदतः | निखनेत् * (?) किले स्थाने यथा मृग वक्ष्यामि | दंडमूलाग्रयोर्गंडी भवेत् कंकविभूषिता || श्रुव लक्षण संयुक्तं तंत्रे वैदिककर्म सूचितुर्विंशतिरिति हस्तं परिमित श्रुषट् त्रिंशद्भागस्य चतुर्विशेत्यर्थः | दंडमानं दैर्घ्यमित्यर्थः परिणाहकस्थौल्यं कर्षेति अशीति रक्तिकः कर्षः सुवर्णादेर्मीनमिष्यते | प्. ४३ब्) इति दद्मिना निरूपने | गेंडूया इत्यर्थः | तेन दंडस्य मूले एकगंडीत्यर्थ ततः कंकणं दलाग्रे कंकणं | अत एअ रत्नावलीकारः | गंडीद्वयमंशद्वयेनोभत इत्यर्थः || अथ भागे प्रतिनिधि विवरणं | यामले | मध्यमाभ्यां पलाशस्य पत्राण्यां हूयते हविः | * * (?) नाश्वत्थ पत्राभ्यां संक्षिप्ते होमकर्मणि || वशिष्ट संहितायामपि पलाशयांत्रति छिद्रे रुधिरौ श्रुक्श्रुवौ मुने | कुर्यादश्वत्थ पत्रे संक्षिप्ते होमकर्मणि | अत्र संक्षितंतु सहस्रवेधिरित्यर्थः | तेनाशक्तौ स्थंडिले यत्र होमस्तत्र स्रुक्श्रुवा भावे प्रतिनिधिरिति | अथ मंडल विवरणं | शारदायां | चतुरस्रे चतुःकोष्ठे वर्णसूत्र समन्विते | चतुर्वापि च कोष्ठे स्वकोण सूत्रं चतुष्टयं || मध्ये मध्ये यथा मत्स्यो भवेयुः पातयेत् तथा | अस्यार्थः चतुरस्रे चतुःकोणे कर्णसूत्र समन्विते || कोण सूत्रान्विते चतुर्षुकोष्ठेषु अंतवर्तिशु तथा कोण सूत्राणि पातयेद्यथा मध्ये मध्ये मत्स्याः भवेषुः इति चतुरस्र विवरणं | पूर्वा परायते द्वे द्वे मंत्री याम्योत्तरायते | पातयेत् तेषु मध्येषु समसूत्र चतुष्टयं || अस्यार्थः | पूर्वपश्चिमभागे द्वे मिलित्वा सूत्र चतुष्टयं | पर्ववत् कोणकोष्ठे कर्णसूत्राणि पातयेत् || कोष्ठकोणेष्विति व्यत्ययेनान्वयः | ततश्चकोणे मत्स्याः स्युस्तेषु सूत्राणि पातयेत् | यथा कोणेशु मत्स्याः स्युस्तथा कोणेषु सूत्राणि पातयेत् | ततो मत्स्या भवंति तेषु सूत्राणि पूर्वपश्चिम भागानि वक्षोत्तरगानीत्यर्थः | तेन पुनः पुनःश्चतुःकोष्ठानि मिलित्वाष्ठा कोष्ठानि अष्ट स्वकोष्ठानि भवंति | तेन षट्पंचाशदधिकश तदुपरिमितांति इत्यर्थः | यावच्छत द्वयं मंत्री षट्पंचाशत् पदात्यपि | तावत् तेनैव विधिना तंत्रा निपातयेत् | तेन दक्षिणोत्तरगा सप्तदशरेखा पूर्वपश्चिमगा सप्तदशरेखेत्यर्थः | षट्त्रिंशत्यपदेर्मध्ये लिखेत् पद्मं सुलक्षणं | वहिः पंक्त्या भवेत् पीठं पंक्ति युक्तेन वीथिका || षट्त्रिंशतेति चतुर्दिशि पंचसुपंचत्वकांष्थेशुत्पक्तेषु षट्त्रिंशतपदान्य वशिष्टानि भवंति इति पद्मस्य सूचना विवरणं पश्चात् एवं पीठस्य एवं वीथिकायाः द्वारशोभोपशांभाग्रान् शिष्टाभ्यां परिकल्पयेत् | एषामपि सूचना व्यक्तिं स्वरे | शास्त्रोक्त विधिना मंत्री ततः पद्मं समालिखेत् | पद्मक्षत्रस्य संत्यज्य द्वादशांशं वहिः सुधीः || तन्मध्यं विभजेद्वृत्तै स्त्रिभिः समविभागतः | आद्यं स्यात् कर्णिका स्थानं केशराणां द्वितीयकं || तृतीयं तत्र पत्राणां मुक्तांशेन दलाग्रकं | एतेषा मयमर्थः | प्. ४४अ) पद्म यत्र द्वादशधा विजन एकांशंत्यक्त्वा अवशिष्टं मध्याक्षरं पुनः षोढा विभज्य मध्यं रेखायां कीलक मेकं स्थापयित्वा तत्र सूत्रं वंधयित्वा ताम क्रमेण त्रिःपरिभ्राम्य भागत्रयेण वृत्तत्रयं कुर्यात् | आज्यमिति वृत्तमित्यर्थः | वाह्यवृत्तांतरालस्यमाने विधिमासुधाः निधायके शराग्रेषु परितो अर्द्धनिशाकरान् | वाह्यवृत्तस्य द्वितीयं वृत्तावधियन्मानं तेन दीर्घानये अर्द्धस्नान मध्यवृत्तस्याष्टादिक्षु चिंतयेत् | लिखित्वा संधि संस्थानं यत्तेषां तत्र सूत्राणि पातयेदित्यर्थः | क्वचिदपि सूत्रत्वं स्थानी तथा पाठः तन्मते सूत्राणीत् यस्य विशेषणं संधौ सूत्रानि पातनीयानीत्यर्थः | दलाग्राणां च यन्मानं तन्मानं वृत्तमो खेत् | तदंतरालं तन्मान सूत्रस्यो भयतः सुधीः आलिखेद् वाह्यहस्तेन दलाग्रानि समं ततः दलाग्रानां स्थानं यत् त्यक्त्वा द्वादशभाग रूपं तस्यया वा विस्तारः तेन माने वृत्तं भ्रामयेदित्यर्थः | तदंतरालं वृत्तांतरालं लक्ष्मी त्र्यंत्य तन्मध्ये सूत्रस्य पद्मपत्र परिचायक सूत्रस्य पद्मस्येत्यर्थः | उभयतो वामतः रेखे आकृष्य वाह्य हस्तेन हस्तं वाह्यतः कृत्वा लिखेत् | पूर्वादि शिष्टं पश्चिमाभिमुखं दक्षे उत्तरामुखं पश्चात् पूर्वमुखं उत्तरेदक्षमुखं लिखति | तदावतीत्यर्थः | दलमूलेषु युगशः कराणि प्रकल्पयेत् | तत्साधारण प्रोक्तं पंकजं तंत्रवेदिभिः | दलमूलेषु द्वितीय वृत्तांतरालस्थार्द्ध चंद्रलक्षितियित्यर्थः | पदानि त्रीणि पदार्थं पीठकोप्तोशु मार्जयेत् | अवशिष्ट पदे विद्वान् पीठगानि कल्पयेत् | पदानि वीथि संस्थानि मार्जयेत् पंक्त्यभेदतः | पदानीत्यादि कोणस्थ प्रदामेकं तदुभय पार्श्वतः पदद्वयं | तेन त्रीणि पदानि प्रतिकोणेषु पीठपादार्थं मार्जयेदित्यर्थः | कोणावशिष्ट पदानि चतुर्दिशि स्थितानीत्यर्थः | पदानीत्यत्रशक्तिद्वय स्थितानि पदानि मार्जयित्वा वीथीकार्येत्यर्थः दिक्षु द्वाराणि रचयेद्दि चतुःकोष्ठकेस्ततः | पदे त्रिमिरथैकेन शोभाख्यर्द्वारपार्श्वयोः | द्विचतुरिति उर्द्ध्वे द्वेकोष्ठे अधश्चत्वारीत्यर्थः | पदैरित्यादि दूर्द्ध्व त्रीणि पदानि अधश्च एकं पदं द्वारपार्श्वयोः प्रतिद्वार पार्श्वयोरित्यर्थः | उपशोभास्युरेकेन त्रिभिः कोष्ठैरनंतरं | अवशिष्टैः पदैः यद्भिः कोणानां स्याच्चतुष्टयं || रंजयेत् पंचभिर्वर्णैर्मंडलं तन्मनोहरं | पीतं हरिद्रां चूर्णस्यात्सित तंडुल संभवं || कुसुंभ चूर्णमरुणं कृष्ण दग्ध पलासजं | विल्वादि पत्रजं श्याममित्युक्तं वर्ण पंचकं || अंगुलोत् सेध विस्ताराः सीमारेखाः शिताः शुभाः | कर्णिकां पीतवर्णेन केशराण्ये रुणानि च || प्. ४४ब्) शुभ्रवर्णेन पत्राणि तत्संधी श्यामलेन च | रजसारं जयेन्मंत्री यद्वा पीतैव कर्णिकां || केशराः पीतवर्णाःस्युररुणादि दलानि च | संधयः कृष्णवर्णाः स्युः पीतेनाथसितेन वा || रंजयेत् पीठगर्भाणि पादात्पुररुणप्रभाः | गात्राणि तस्य शुक्लानि वीथीषु च चतुर्षु च || आलिखेत् कल्पलतिकाः दलपुष्प समन्विताः | वर्णैर्नानाविधैश्चित्रा सर्वदृष्टि मनोहराः || द्वाराणि श्वेतवर्णा निशोभारुच्छाः समीरिताः | उपशोभाः पीतवर्णाःस्युः कोणान्यसिततानि च || तिस्रो रेखाः वहिः कार्याः सितरक्ताशिताः क्रमात् | मंडलं सर्वतो भद्र मे तत्साधारणं स्मृतं || सीमेति द्वार वीथी पीठ पद्मसीमेत्यर्थः | यद्वेति | इच्छा विकल्पह् संधय इति सर्वेषां मित्यर्थः | सितेन कृष्णेन कृष्णे नीलासित श्यामेत्यमर दर्शनात् || तथापि श्यामपदं न दग्धं पत्र रज उच्यते | पीतं हरिद्रा चूर्णं स्यादित्यादेः | शक्ति ग्राहकत्वात् | तेन पंचभिर्वर्णैर्हरिद्राचूर्णादि पंचद्रव्यैरित्यर्थः | पीठगतामित्यादि वहिः पंक्त्यांतर्गत पद्मक्षेत्रस्य कोङ्स्थानानीत्यर्थः | पादा इति कोणे त्रीणि पदानि मर्जयित्वा स्थानं कृतंतानीत्यर्थः | गात्राणीत्यादि पीठस्य गात्राणि पादुद्वय मध्यवृत्तिस्थानानीत्यर्थः | साधारणं | सर्वदैवत्यमित्यर्थः | उर्द्ध्व विद्यायां पुनदीक्षामंडल प्रागेवीक्तं | अथ क्षुद्र सर्वतो भद्र विवरणं | तदुक्तं शारदायां | चतुरस्रां भुवं कृत्वा दिग्भ्यो द्वादशधा सुधीः पातयेत् तत्र सूत्राणि कोष्ठानां दृश्यते शतं | चतुश्चत्वारिंशदाद्यं पश्चात् षट्त्रिंशंतांवुजं | अस्यार्थः | चतुरस्रं भुवं पूर्वपश्चिम दक्षिणोत्तरेभ्यः द्वादशधा विभजेत् | चतुरस्र मध्ये पूर्वपश्चिमगात्रका रेखा दक्षोत्तर गात्रका दशरेखा तत उभयतः | द्वादश कोष्ठानि लभ्यंते | द्वादशांकेन द्वादशांके पूरिते सति चतु चतुश्चत्वारिंशदुत्तर शतकोष्ठानि लभ्यंते | कोष्ठैः प्रकल्पयेत् पीठ पंक्त्या नैवात्र वीथिका | द्वारशोभा यथा पूर्वं उपशोभान विद्यते || अवशिष्टैः पदै कुर्यात् पद्भिकोणानि तंत्रवित् | विदध्यात् पूर्ववच्छेषमेवं वा मंडलं लिखेत् || न विद्यत इति कोष्ठा भावादित्यर्थः | पूर्वषदिति सर्वतो भद्रमंडलदित्यर्थ शेषमिति उक्तशेषमित्यर्थः | तेन पद्मनिर्माणं पंचवर्ण चित्रं द्वारादिकं वाह्य त्रिरेखा च | प्. ४५अ) सर्वतो भद्रमंडलमित्यर्थः अथ नवनाभ विवरणं | चतुरस्रे चतुः षष्ठि पदाना मरयेत् सुधीः | पदैश्चतुर्भिः पद्मंस्यान्मध्ये तत्परितः पुनः || वीथी चतस्रः कुर्वीत मंडांतरनालिका | दिखा तेषु चतुष्केषु पंकजान्नि समालिखेत् || विदिश्यते चतुष्कानि भित्वा षोडधा सुधीः | पद्रैश्चतुर्भिः मार्जयेत् स्वस्तिकाकारं श्वेतद्वीपारुणा सित्वा | रजोभिः पूरयेत्तानि स्वस्तिकानि शिवादितः | प्राक् प्रोक्त नैव मार्गेण शेषमन्यं समापयेत् || नवनाभमिदं प्रोक्तं मंडलं सर्वसिद्धिदं | वृत्तः षष्ठीति चतुरस्रस्य मध्ये पूर्वापरायता सप्तरेखा दक्षोत्तरायता सप्तरेखां अष्टांके नाष्टांकि पूरिते चतुःपदं भवतीत्यर्थः | प्रदैश्चतुर्भिरिति सर्वतः कोष्ठ त्रयेत् पक्ते चत्वारि कोष्ठानि शिष्यतेत्यर्थः | वीथीत्यादि वहिः पंक्त्या वीथीः कुर्यादित्यर्थः | मंडलानंतरं मध्यं अस्मिन्नित्यर्थः | मानावेष्टनत्वेन वर्तमानत्वाप्तं | दिग्गतेषु चतुष्केषु विदिग्जत चतुःकोष्ठात्मक चतुष्केष्वित्यर्थः | विदिग्जतेति कोणस्थ चतुःकोष्ठात्मक चतुःकोष्ठेष्ठित्यर्थः | दक्षोत्तर सूत्रद्वये | पूर्वात् परद्वयां | दत्वांकिते सति षोडश कोष्ठल्कानि भवंति प्रतिकोणा कोष्ठेषु षोढा विभक्तेषु | दकाराकार चतुष्ठयं शेषयित्वान्यन्मार्जयेदित्यर्थः | तेन फलाधिक्यं शेष पद्मरचना चित्रादित्यर्थः | अथ चाब्ज विवरणां शारदायां | पंचाब्ज मंडलं प्रोक्त मे तत्स्वस्तिक वर्जितः | एतदिति मंडलं नवनाभमित्यर्थः | स्वस्तिकवर्जितं नांकनीयमित्यर्थः | षोडश कोष्ठा एकानि कोणकोष्ठान्ये रक्षयेत् | पूर्वयष्ठिवितमपि कुर्यदित्यर्थः | दीक्षायां देवपूजायां मंडलां चतुष्टयं | सर्वतंत्रानुसारेण प्रोक्तं सर्वसमृद्धिदं | देवपूजायां सामान्यतो देवपूजायां तेन वार्षकृत्ये दुर्गोत्सवादौ कर्तव्यमित्यर्थः || श्रीपूर्णानंदनाथेन कृतायां गुरुभावतः | कुलवृत्तौ स्वतंत्रायां नवमः पटलः स्मृतः || अथ मंत्राणा दशसंस्कार विवरणं || उड्डीशे | जननं जीवनं पश्चात् ताडनं वोधनं तथा | अथाभिषेको विमलीकरणाथायने तथा || तर्पणं गोपनं गुप्तेर्दशैता मंत्र संस्कृयाः | कुंकुमेन विलिप्ताया मथवा रोचनादिना गोमयेन विलिप्ता च काचिन्या कमलं लिखेत् | काश्मीर चंदनेनापि भस्मना वाथ सु व्रता काश्मीर शक्तिसंस्कार चंदने वैष्णवे मनौ | शैवे भस्म समाख्यातं मात्रिका मंत्रलेखने | विरच्य केशरं वर्गं पूर्वतो युग्मसो लिखेत् || केशरे वर्गमिति अत्राकार प्रश्लेषः अवर्गमित्यर्थः | प्. ४५ब्) तेनाष्टदले षोडश केशरे युग्मं युग्मं कृत्वा लिखेत् कादिवर्गं सप्तपत्रे लक्षम एमपत्रके | तदक्षरात्तु मंत्राणा मुद्धारो जनतं स्मृतं | प्रणं वांतरितं कृत्वा मंत्रवर्णा यजेत् सुधीः || तज्जीवन मित्याहुः शता वृत्याच्च तांत्रिकाः भूर्जे मंत्राक्षरं कृत्वा वायुवीजेन ताडयेत् | एकैकं शतवारं तु मंत्र कृच्चंदनाभसा | मंत्रवर्जे समालिख्य करवीर प्रसूनकैः || तन्मंत्राक्षरं ख्यातैर्हन्याम्नार्णेन वोधनं | मालती कलिकाधिस्तु कुममूलेन वा सुधीः || मूर्ते मंत्र समालिख्य मंत्री मंत्रस्य संख्यया | अश्वत्थ पल्लवैर्वापि मंत्रमभिषिंचेद् विशुद्धये || सहयागं च मायां च ज्योतिर्मंत्रणनिदहेत् | मलत्रयं तारो संते मनंना निर्मलो भवेत् || तारं शिवाग्रितारास्तं विंदुर्ज्योति मनुर्मतः | मायिकं नामे चा यात्थं पौरुषं कर्मिणं मनं || आतव्यं तद्वयं ज्ञेयं निसिद्धं तन्मलं त्रयं | कुशोदकेन जप्तेन प्रत्यर्णं प्रक्षणं मनोः || अष्टोत्तरशतं लिखित्वा भूर्जपत्रके | तेन मंत्रेण निधिंवदेवता आयायनं मतं | तवूज्योनि मंत्रेणा मंत्रेण विधिना मंत्रे तर्पणं तर्पणं मतं | मधुना शक्ति मंत्रेषु वैष्णवे चेंदुमज्जलैः | शैवे घृतेन दुग्धेन तर्पणे शस्यते वुधैः || तारमायारमा ** (?) मलभ्यादौ नियोज्यते | सप्तधा प्रजपन्मंत्रमिति दीपनमीरितं || जप्यमातस्य मंत्रस्य गोपनं च प्रकाशनं | संस्कारा दशमं प्रोक्ताः सर्वतंत्रेषु गोपिता || यान कृत्वा संप्रदायेन मंत्री वांछितमाप्नुयात् | इति * * * * * * * * (?) कर्तव्या | दीक्षा पूर्वां गत्वेन विहितत्वात् | अथावासः | कालं तु पूर्वादिनि पूर्वदिनेव पूजाक्रमेन बलिदानं कर्म समा * * * (?) नाच्यहितादि पूर्वकं मुख्यं पूजयित्वा पंचदेवताः संपूज्य परिवारानर्चयित्वा जपपूजास्तक्कवचपीठांतं समाप्याधि वासयेत् | तदुक्ते यामले | गणेशं स वितारं च शंकरशंकरप्रियां | पूजयेत् कमलानाथं षोडशैरुपचारकैः || तत्र क्रमने तत्रैव यदा तु शंकरं मध्ये ऐशान्ये श्रीपति यजेत् | आग्नेययां च तथा हंसं नैरृत्यां पार्वतीसुतं | वायव्यां च तथा पूज्य भवानी भक्तवत्सला || यदा तु मध्ये गोविंद ऐशान्यां शंकरं यजेत् | आग्नेययां गणनाथं च नैरृत्यां तपतं तथा || वायव्यामंविकां चैव जपेन्मंत्री समाहितः | सहस्रांशुं यदा मध्ये ऐशान्यां पार्वतीपतिं || आग्नेययां मेकदंतं च नैरृत्यां मच्युतं यजेत् | वायव्यां पूजयेद्देवा भोगमोक्ष करात्मिकां || भवानीस्तु यदा मध्ये ऐशान्यां माधत्वं यजेत् | आग्नेययां वचवक्त्रं च नैरृत्यां गणनायकं || प्. ४६अ) प्रद्योतनं च वायव्या माचार्यं तु प्रपूजयेत् | हेरंवं मुपदा मध्ये ऐशान्यां मच्युतं यजेत् || वायव्यां पंचवक्त्रं च नैरृत्यां जगदंविकां | वायव्यांघु मनिं चैव यजेन्मंत्री समाहितः || स्वस्थान वर्जिता देवाः शोकमोहमयप्रदाः | मुख्ये पुष्पानि दत्वा गणेशाभ्यर्चनंच्चरेत् || गणेश एव मोक्षश्चेत् तत्र सूर्य क्रमाद्यजेत् | आग्नेययां पंचवक्त्रैश्च नैरृत्यां जगदंविकां || गणेश्वर विमर्षिण्यां | शंभौ मध्यगते हरीन् | हरभूदेव्या हरौ शंकरो तस्ये नागमेतरे हरगणेशायां विकास्था देवताः | देव्यां विष्णु हरैकदंत वरयो लंवोदरे वेश्वरे | नायया शंकरभोगतोति सुखदां व्यस्तास्तुंते वानिदा | अनभ्यर्च्य नरो याति नरकं मात्र संशयः | इति पंचातनी दीक्षायां तत् तद्व्यो न क्रमेणाधिवास पूजनं कृत्वा दीक्षा दिनेपि तत् क्रमेण तान् पूजयित्वा | मूल न भवं * * (?) ण पंचमंत्रादेयोः | एकायतनी पक्षे दिन द्वयेपि पूजनमेव न तु मंत्रग्रहण एतत्तु पशुभाव एव दिव्यवीरे तु | ग्राह्य देव्याः पूजनमेव | अन्यपूजायाश्च निषेधात् | एतत् प्रमाणमग्रे विदितव्यं | अथ दिक्पाल देवेभ्यो वलि दद्याद् गुरुत्तमः | परिवार पूजन क्रमे दिक्पाल मंत्रा ज्ञातव्याः | कुलमूलावतारे च | क्षेत्रपालाय मातृभ्यो भूतेभ्यश्च वलिं हरेत् | वटुभ्यो योगिनीभ्यश्च काम्ये नैमित्तिके वुधः || मंत्र तंत्रेन | एस्येहि पुरुषि पुरप्रच्य भजंजवभंजय विघ्नय महाभैरवं क्षेत्रपाल वलिं गृह्न गृह्न स्वाहा || ये रौद्रा रौद्रकर्मणो रौद्रस्थान निवासिनः | मातरारौद्ररूपाश्चगनानामधिपाश्चये || विघ्नरेतास्तथा चान्ये दिग्विदिक्षु समाश्रिताः | सर्वे ते प्रीति मनसः प्रतिगृह्नत्विमं वलिं || भूतानि यानी हवसंति भूतले वलिं गृहीत्वा विधिवत् प्रयुक्तं | अन्यत्र वासं परिकल्पयं तु क्षयं तु वान्यत्र नमोस्तुतेभ्यः | वलिं ओं एह्येहि देवीं पुत्र वटुकनाथेत्यादिः | योगिनी वलिः | ऊर्द्धे ब्रह्मांडतो वेत्यादि | एवं गणेशायापि निजमंत्रेण वलिर्देवः | वलिद्रव्यं तु पशुभावे माषभक्तादि दिव्यवीरयोस्तु पंचोपचारः | पूर्वोक्तं तु स्ववामभागे त्रिकोणवृत्त चतुरस्र मंडलं आधारशक्ति पूजा वामांगुष्ठानामिकाभ्यां स्पर्शः इति सर्वत्र | एष वलिः स्वस्वमंत्रांतरं क्षां क्षेत्रपालाय नमः | एवं ओं मातृभ्यो नमः ओं भूतेभ्यः वां वटुकाययां योगिनीभ्यां आनंदभैरवाय गां गणपतये इति वलिदानमधिवासदिने | अशक्तौ तस्मिन्नेवदिने कुर्यादिति || ततः शिष्यं समाहूय सुस्नातं सूमलं कृत | तद्वात्रेवन्यसेद्विद्वानृष्यादीनंगसंयूतान् || प्. ४६ब्) देयं मंत्रं तस्य मुक्ति जपेदष्टोत्तरं शतं | शंखंतो येन तन्मंत्रै शुभः संप्रोक्षयेच्छिशां तन्मंत्रैः अभिषेक मंत्रैः | सुरास्त्वामभिषिंचोदित्यदेयो अभिषेकस्य भावे ज्ञातव्या | ततः पुष्पादिकं दत्वा वालकः प्रणमेद्गुरुं | आशिर्वादं ततो दद्या ब्राह्मणैः सहसाधकैः || एकवारे हविष्यान्नं भोजयित्वा गुरुत्तमः | दर्भशययां परिस्कृत्य शिष्यं तत्र निवेशयेत् || स्वप्ने मंत्रेण मंत्रेज्ञाः शिशोः शिखां प्रवंधयेत् | तन्मंत्रं स्वाप समये पठिद्वारत्र * * (?) शुः || श्रीः गुरोः पादुकां ध्यात्वा अधिवासः समीरितः | स्वाप मंत्रो यथा यामले | तारो हि निद्वयं शूलशूलपाणयेद्विव इरितः | स्वप्नमानव मंत्रोयं क * * * (?) सुरेश्वरि | नमो जयाय त्रिनेत्राय पिंगलाय महात्मिने || गणाय विश्वरूपाय स्वप्नाधिपतये नमः | स्वप्ने कथयये तथ्यं सर्वकार्येषु शेषतः || क्रिया सिद्धिं विधायायित्वत् प्रसादान् महेश्वर | इति मंत्रेण शिष्यासो देवं प्रार्थ्य स्वपेत् सुधीः || स्वप्ने शुभाशुभं दृष्टं पृच्छत् प्रातः शिशुं गुरुं | कन्यां छत्रं रथं द्वीपं प्रासादं * * * (?) नदीं || कुंजरं वृषभं माल्यं समुद्रं फलिनं द्रुमं | पर्वतं तु रमं मेध्यमाम मांस सुरासवं || एवमादीनि सर्वाणि दृष्ट्या सिद्धिमवाप्नुयात् | आदि शब्देन स्वप्नाध्याप क्रमेण शुभाशुभानि ज्ञातव्यानि परोक्त मघरोधि चितिन्यायादित्यर्थः | तंत्रोक्तानि च ज्योतिषे तद्दृष्ट चोक्तं यथा उड्डीशे | अनुकूलस्या चिह्नानि शृणु साधविमुस्तथा | स्वप्ने याचे च रचिता सिंहैः संशीसिद्धनिशि || पूजादांदौशंगेषु विहारो राजदर्शनं | गजानामंगना ना च दर्शनं नृत्यगीतयोः || उत्सवो वांधुवानां च दर्शनं स्पर्शनं तथा | निंद्यानि शृणु देवेशि विघ्नानते फलानि च || कृष्णवर्णै भटः स्वप्ने प्रहारस्तैल लेपने | मैसुने परनारीभिषि स्त्रियव्यवयवं तथा || नष्टक्षोभो वह्नि वायु जपनी वंधुनाशनी | गुरोदपि द्वासं पति वंधूजां व्याधिदर्शनं || अन्यमंत्रार्चने श्रद्धा विघ्नान्यन्यार्चने * * (?) | शुभाशुभं गुरुर्ब्रह्मा जुहुयाद प्रभेशतं (?) || अस्त्रणेति क्रमेत् प्रोक्तो विधिः * * * * (?) विधिवासने | फटस्वाहेति होम इत्यर्थः || श्रीपूर्णानंदनाथेन कृतायां गुरुभावता कुलवृत्तौ स्वतंत्रायां पटलो दशमः स्मृतः || अथ दीक्षा * * * * * * (?) मुहूर्तर्वीत्थाय गुरुः प्राभातिकं कुर्यात् | अकरणे प्रत्यवायस्त * * * * * * * * * * * * * * * * * (?) कृत्वा तु यो देवी भक्ति मार्चयेत् | तस्य पूज्य मुनि फलाशौच हीना यथा क्रिया | वीरतंत्रे च | प्राभातिकम कृत्वा तु * * * * (?) कृत भवेत् * * * * * * * * (?) मंत्रज्ञः कुलवृक्षं प्रणम्य च | प्. ४७अ) शिरः पद्मे गुरुं ध्यात्वा तत्सुधां प्लावितं स्मरेत् | मानसैरुपचारैस्त माराध्य नियताशयः || मूलादि ब्रह्मरंध्रांतं मूलविद्यां विभावयेत् | सूर्यकोटि प्रतीकाशां सुधा प्लावित विग्रहां || कुलचूडामणौ च | साधुसिद्धतवच्छायं कुलवृक्षं प्रणम्य च | ओं कुलवृक्षेभ्यो नमः इति प्रयोगः | कुलवृक्षा यथा रुद्रयामले | पादाघाता दशोकेन वेदमदिरयाकेशवः | कर्णिकारश्चुते वृक्षा हस्ताभ्यांतिकतनामरूपयानश्चैव पीत्यया संलापात् सिंधुवारः कलयति शतभीलिंगं नाच्चस्पर्शा स्वीकार दुःखकामिनीनां मदयति नियत स्पर्शना लिंगनाभ्यां | प्रकारांतरं ज्ञानार्णवे | श्लेषांतर रंजकानि आश्वत्थ कदंवकाः विल्वोवटोदुंवरौ च चिंचाचेति दशंस्कृतः | ततः षट्दलकमल कर्णिकांतर्गत हंसपीठ त्रिकोणं त्रिविदूलसितं अकथादि त्रिरेखाषुकं कोल लक्षत्वमं लक्षण मंडलं विभाव्य तत्रस्थ हंसपीठ निजगुरुं ध्यायेत् | यथा रुद्रयामले | प्रातः शिरसि शुक्लेब्जे द्विनेत्रं द्विभुजं गुरुं | वराभय करं शांतं स्मरेतन्नाम पूर्वकं || नाम पूर्वकं गुरुपादुका पूजकमित्यर्थः | ध्यानं यथा यामले | शुद्ध स्फटिक संकाशं शुद्ध क्षौम विराजितं | गंधादुलेपनं शांतं वराभय करांवुजं || मंदस्मितं निजगुरुं कारुण्ये नावलोकिनं | वामे शक्ति समं युक्तं शुक्ला भरणभूषितं || स्वशक्त्या दक्षहस्तेन धृत चारु कलेवरं | वामे धृतोत्पलायाश्च सुरुक्तायाः सुशोभितं || परानंद रसोल्लास लोचन द्वय पंकजमिति | कुलार्णवे च | सहस्रदल पंकजे स कलशी | तराज्ञि प्रभांवरा भयकरांवुजं निजकुलेन संश्लेषितं | प्रसन्नवदने क्षणं सकलदेवता रुपिणं | स्मरेच्छिरशिहं स गंतद विधान पूर्वं गुरुं स्वविधान पूर्वं पादुका पूर्वकमित्यर्थः | भैरवतंत्रे च | प्रातरुत्थये शिरसि सहस्रदलपंकजे | तरुणारुण किंजल्के विधो मंडल संयुते || ध्यायेन्निजगुरुं धीरो रजता चल सन्निभं | पद्माशीनं स्मितमुखं शुक्लगंधानुलेपनं || वामोरुशक्ति संयुक्तं कारुण्येनावलोकिनं | धियायाः सव्यहस्तेन धृत चारु कलेवरं || वामेनोत्पलधारिण्या रक्ता भय सुशोभितं | ज्ञानानंद समायुक्तं स्मरेत्तं नामपूर्वकं || नामपूर्वकमिति पूर्वं रद्व्याख्या | ततो मानस गंधाद्यैरर्चयेत् स्वस्वमुद्वया ततश्च वाग्भवं जप्यादष्टोत्तरशतं सुधीः जपं समर्प्य भक्त्या तु प्रणमे दंडवद्भुवि | अत्र ध्याने रक्तवस्त्र वोधकानि सुरक्तं रक्त विष्टमित्यादि वचनानि ओंपाधिक पराणि श्वेतवर्ण प्रतिपादकानि साहजिक परावस्तु निरक्ताभाया स्वाशातितमिति वचनात् | प्. ४७ब्) श्रीपादुका यथा | तंत्रराजोत्तरे | हंसौः पदं समालिख्य हसक्षमलवालि नाना वह्नियुक्तां त्रिधा कृत्वा पूर्वदीर्घ्यंतयाधिवात् | विंदुनादकला युक्तां श्रीपरांते च पात्रकाः | सर्वाराध्य पदं पश्चात् सर्वदूर्ध्व पदं ततः | नाथ शब्द गुरुं प्रांते गुरु स्वयं ततो गुरुः श्रीगुरुनाथ शब्दांते सह सुमन वलिनान रेफदीर्घ श्रुति युतान् विंदु नादकलायुतान् | पिंडीकृतं लिखेदाद्यं चतुर्थं च ततो लिखेत् | तृतीयं च द्वितीयं च पूर्ववद्विलिखेत् ततः | मंत्रीशं तु गुर्वात प्रणवाद्यं समालिखेत् | आद्यं कूटं चतुर्थं च प्रणवाद्यं तृतीयकं || चत्वारिंशन्नागवर्णै मंडितोयं गुरुर्ननः | अथवा वाग्भवं मायां लक्ष्मी वीजं समुद्धरेत् || हसखप्रें तथा नंदभैरवाख्यं सहस्फ्रं | गुरुनाम तथा शक्तिनाम श्रीपादुकामपि || एवमेव महामंत्रं दशधा वा जपेत् कृती | अयं जपस्तु स्मरणात्मकः | पूजांगस्तु जपो वाग्भवःस्यैव प्रागुक्त भैरवतंत्र वचनात् | श्रुतो पचारक्त यथा भैरवतंत्रे | तत् तद्भूतो पचारांश्च तत् तद्वीजेन कल्पयेत् | गंधं भूम्यात्मकं पुष्पमाकाशात्मकमेव च || धूपौ वाष्टात्मको दीपो वहुत्वक उदीरितः | जलात्मकं च नैवेद्यं मेते भूतोपचारका || मुद्भातु तत्रैव | अंगुष्ठादि कनिष्ठातं क्रमान्मुद्राः प्रकीर्तिताः | प्रयोगस्तुलं पृथिव्यात्मकं गंधं कल्पयामिहं आकाशात्मकं पुष्पं कल्पयामि एवं यं वाद्यात्मकं धूपं वह्न्यात्मकं दीपं वीजात्मकं नैवेद्यं इति | संपूज्य जप्त्वा स्तुतिं कुर्यात् | तदुक्तं यामले | ओं नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे | विद्यावतार संसिद्ध्यै स्वीकृतानैक विग्रहा नारायण स्वरूपाय परमात्मकरूपिणे सर्वाज्ञान तमो भानोद्यनानंदायते नमः | स्वतंत्राय दयात्किप्त विग्रहाय शिवात्मने | परा त्रये च भक्तानां भव्यानां भव्यदायिने || विवेकिनां विवेकाय विमर्ष्य यविमर्षिणां | प्रकाशितां प्रकाशाज्ञानिनां ज्ञानरूपिणे || पुरस्ता पार्श्वयोत् पृष्ठयो पार्श्वे नमस्कुर्यामुपर्यधः | सदामच्चित्तरूपेण विधे हि भवदासनं इति अथ नमस्काराः तत्रैव | अज्ञानतिमिरांधस्य ज्ञानांजन शलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरोत्तमः | अखंड मंडलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः | त्वत् प्रसादादहं देवकृत कृत्योस्मि सर्वतः | माया मृत्यु महापाशा विमुक्तोस्मि शिवोस्पि च || अथ पादुकास्तोत्रं | ब्रह्मरंध्र सरसीदरे विश्वलग्नमधदते मद्भुती कुंडली विवरकांड शोभितं द्वादशांत सरसी रुहंभजे | प्. ४८अ) कंदूलित कर्णिका पुटं कॢप्त रेखमत्कथादि रेखया | कोण लक्षि हलक्ष मंडलीभाव लक्षमन लालयं भजे | तत् पुटे पटु तडित् कराद्रिमस्यर्द्धमान परिपाटल प्रभं | चिंतयामि कृदि चेन्मयं सदा विंदुनाद मणिपीठमंडलं | ऊर्द्ध्व मत्स्यहुत भुक् शिखा सखं तद्विला स परिवृंहि नास्पदं | विश्वघम्मरुमहोश्छटोत्कटं व्यामृषामिसु गमादिहं मयोः | तत्र नाध्यचरणारविंदयोरंतरामृतवरीमंदयोः | द्वंद्वमिंदुकरकंद शीतलं मानसंस्मरति मंगलास्पदं | निशक्त मणि पादुकं नियमिताघकोलाहलं | स्फुरत् किशलयारुणं नखररश्मि सच्चंद्रिकं | परामृत शरोवरादित शरोज स्फुरं भजामि शिरसि स्थितं गुरुपदारविंदद्वयं | पादुका पंचकस्तोत्रं पंचवक्त्र मुखोत् स्थितं | पंचवाह क्रमप्राप्तं प्रपंचेचाति दुर्लभं || इति महाहारकाख्यतंत्रे कुलमुद्रां विवरणे पादुकास्तोत्रं समाप्तं | ततो मूलानि ब्रह्मरंध्रांतं कुलं ध्यात्वा कुंडलिनी मुखे | आचार्याष्टकं ध्यायेत् | तदुक्तं कुलचूडामणौ | मूलादि ब्रह्मरंध्रांतं कुलं ध्यात्वा गुरुं स्मरेत् | प्रह्लादनानंदनाथंशन कानंदमेव च || कुमारानंदनाथं च वशिष्टानंदनाथकं | कोधानंद शुकानंदौ ध्यानानंद मतः परं || वोधानंद मथाभ्यर्च्य ध्यायेत् कुलमुखोपरि | ध्यात्वास्यर्चयोदित्यर्थः | महारसरसोल्लास हृदया घूर्णलोचना कुला लिंग न सभिन्नं चूर्णिता शेषताम सृष्टा कुलशिष्यैः परिवृताः पूर्णांभः करणोघताः | वराभययुताः सर्वे कुलतंत्रार्थवादिनः | एवं कुलं गुरु नत्वा विसृज्य मातृकां || कुलस्थानं समलिनम्नानाथं तीर्थमाश्रयेत् | शाक्तं झुलु गुरुं वत्स कथितं कुल सुखावहं || रहस्य मद्भुतं प्रोक्तं गोप्तव्यं पशुशंकटे | इति ध्यात्वा परं विंदुभि स यान् संतर्प विसृज्य तत्ततंत्रोक्त क्रमेण परापर गुरुं परमेष्ठि गुरुं स्वगुरुं संततिं तत् तदृष्टिं दिव्यौघ सिद्धौघ मानवौघान् प्रणम्य श्रीपरमगुरो राज्ञी गृहीत्वा कुंडली समे रहस्यं विधायां मृतधारया संतर्प्य प्रतिचक्रस्थ देवतां संतर्पयंतं कुंडलिनीं मूलाधारं समानयेत् | कुंडलिनी ध्यानं यथा श्रुतौ | मूलाधारे स्मरेन्नित्यं त्रिकोण तेजसां निधिं | तस्याग्र रेखामासीय अध ऊर्ध्वं व्यवस्थितां || नीलतो यद मध्यस्थ तडिल्लेखावभास्वरां | नीवार शुकवतंत्री पीतां भास्करदनूपमां || तस्याः शिखाया मध्ये च परमार्द्ध व्यवस्थितां | स ब्रह्मा स शिवः सेंद्रः सोक्षरः परमः स्वराट् स एव विष्णुः स प्राणः स कालाग्निः स चंद्रमाः | इति कुंडलिनीं ध्यात्वा सर्वपापः प्रमुच्यते | प्. ४८ब्) स महापातकेभ्यः पूतो भवतीति सर्वमंत्र सिद्धिं कृत्वा केवलं भैरवो भवतीति | तथा प्रकाशमाना प्रथमे प्रयाणे प्रतिप्रयाणेप्य मृतायमानां अंतः पदच्या मनुसंरचरंती मानंद रूपामवलां प्रपद्ये | नीलतंत्रे च | उत्थाय चोत्तरेया मेर्वितयेदुग्रतारिणीं | मूलादि ब्रह्मरंध्रांतं विषतंतुतनीयंसी || मूलमंत्रमयी साक्षाद् मृतानंदकारिणीं | सूर्यकोटि प्रतीकाशां चंद्रकोटि सुशीतलां || तडित्कोटि समप्रख्यां कामानंद शिखोपति | तत्प्रभा पटल व्याप्तं पटल कृत देह च || न सर्वमंगल संपन्नः स्नानकर्म समाचरेत् | स्वतंत्रे च | पूजाविधिं प्रवक्षां येन कामाल्लभेन्नरः प्रातरुभ्यांय देवेशि ध्यायेत् श्रीगुरुपादिकां | मनसैः पूजयेद्देव गंधाद्यैर्भक्तिभावतः | ततश्च यामलोक्तां योनि मुद्रां प्रदर्शयेत् || रुद्रयामलोक्तं यथा | उत्तराभिमुखं लिंगं योनिस्थं परिकल्पितं | हृद्ग्रंथि विंदुसंयुक्तं स्वयं भूषाण वाथकं || इतरं चांतरासस्थं विसर्गाधस्तथा परं | महापद्मवनं चात्र योगपीठं प्रकीर्तितं || कदंव गोलकाकारं तत्कामं विंदुरूपिणं | ब्रह्मरंध्रं तु तत्रैव सुषुम्नाधार मंडले || पृथिव्यादीनि तत्वानि मंत्राणां पंचकानि च | पूर्णाख्यं वै दंवं तत्वं कोदंड द्वय मध्यगं || तदूर्द्धे नाम नामाध मुद्भियानं तदूर्द्ध्वतः | कामरूप भवेच्छक्ति विसर्ग कुलवत् प्रिये || कामरूपं मूलाधारस्थ त्रिकोणं सहस्रारं महापद्मं रक्तकिंजल्कशोभितं | तत्रस्थं लक्षयेच्छंशुं वर्षंतव्यक्त विंदुभिः | पूर्वया सुचिता मुद्रा गुह्याख्या मृतरूपिणी || वंधं तस्या प्रवक्ष्यामि संविदं लभते यथा | आदौ पूरकयोगेन आधारे योजयेन् मनः || गुदा मेद्रंतरे योनिस्तामा कुंच्य निवंधयेत् | भ्रमं वै निगतं ध्यायेत् कामं वंधूक सन्निभं || ज्वलत् कालानल प्रख्यं तडित्कोटि समप्रभं | तस्योर्द्धे तु शिखा सूक्ष्म चिद्रूपा परमाकला || तया सहितमात्मानमेकी भूतं तु चिंतयेत् | गच्छंती ब्रह्ममार्गेण लिंगं तद क्रमेण तु || सूर्यकोटि प्रतीकाशं चंद्रकोटि सुशीतलं | अमृतं यदि सर्गस्थं परमानंदरूपिनं || रक्तं सुशीतलं दिव्यं धारापातैः प्रवर्षिणं | पीत्वा कुलामृतं दिव्यं पुनरेव विशेत् कुलं || पुनरेवाकुलं गच्छे मंत्रयोगे मनान्यथा | सा च प्राणमयी साख्या तंत्रे स्मिन् परमेश्वरि || उद्घातः प्रोच्यते सोहि प्राणस्तं स्पृशते यदा | एकमभ्यस्य मानस्य अहन्यहनि निश्चयात् || जरामरण दुःखाद्यैर्मुच्यते भव वंधनात् | चतुर्विधा च सा सृष्ठि यस्या योनौ प्रवर्त्तते || पुनः प्रलीयते तस्या कालाग्न्यादि शिवांतकं | योनिषुद्रा परा सा तु वंधोस्याः परिकीर्तितः || प्. ४९अ) अनया मुद्रया देवि तन्नास्ति यत्र साधयेत् | अन्यथा कुरुते यस्तु अन्यथा जपते तु यः || नासौ सिद्ध्यति देवेशि सत्यं सत्यं हि नान्यथा | छिन्ना रुद्धास्तथा मंत्राः प्रौढ यौवन गर्विताः || अरिपक्षे स्थिता ये च विवीर्याः सत्ववर्जिताः | अंशकेन विहीनाश्च खंडकां शतधा कृताः || विधिनानेन संयुक्तास्ते भवंत्य चिरेण च | सिद्धा मोक्षप्रदाः सर्वे देशिकेन नियोजिताः || यद्य उच्चारणान् मंत्री वर्णरूपं शुभाशुभं | तत् तत्सिद्ध्यंत्य संदेहो योनिमुद्रा निवंधनात् || दीक्षयित्वा विधानेन अभिषिंच्य विधानतः | ततो अधिकारी देवेशि तंत्रेस्म्न्नान्यथा भवेत् || मुद्रा मंडल विन्यासैर्यज्ञहोम व्रतादिभिः | ज्ञात्वा योनि लिंगं भावं ततो मुद्रां प्रकाशयेत् || अथवा यस्य कालेन देव्यादेशः प्रजायते | तस्येदं कथयेद्गुह्यं अन्यथा नरकं व्रजेत् || ब्रह्महत्या सहस्राणि त्रैलोक्यमपि धातु येत् | त्रासौलिंपतिपापेन योनिमुद्रा निवंधनात् || तस्मादभ्यसनं नित्यं कर्तव्यं मुक्त्यकांक्षिभिः | अभ्यासाज्जायते सिद्धिरभ्यासान् मोक्षमाप्नुयात् || कालवंचनमभ्यास दद्यासान् मुक्तिदं भवेत् | त्रिपुरासारेषु | तडित्कोटि प्रख्यां सुरुचिजितकालानलरुचिं सहस्रादिभ्यांशु प्रकर सदृशो ज्योति कलितां भ्रमंतं योन्यतः स्फुरदरुण वंधूक कुसुम प्रभाकामंध्यायेजर च शशभृत् कोटि शुशिरं | तस्योर्द्धे तु शिस्वाचिरघुतिलता पुंज प्रभा भास्वराः सूक्ष्मा ब्रह्म पथांतरांतरगता चैतन्य मात्रा कला | एकीभूतमनंतरं सहतया ध्यायेद्धिया निश्चलं | स्वात्मानं च निवातदीपनि भया हंसः स्वरूपं वुधः | शक्तिः कुंडलिनाति यानि गदिता आ-ईम संज्ञा जगविमान सत | गद्यता प्रविलसत् सौदामिनी सन्निभा | शंख वर्तनिभां सुषुप्त भुजगाकारं जगन्मोहिनीं तन्मध्ये प्रविभावयेद्विलसतीतंतू पमेया कृतिं | हूंकारेण गुरुपदिष्ट विधिना प्रोत्थाप्य सुप्तांततः | कृत्यातां कलया तया परमया चिद्रूपया संगतां | मायां कुंडलिनीं समाहित मनास्ता मुच्चरेत् कौलिनीं | शक्तिं ब्रह्मपथेन सहितामाधारतः स्वात्मना | भित्वा लिंगत्रयमथ वधो ब्रह्मनाद्येव चोर्द्धं गच्छंतींतां कमलनिलयात् प्रापयेदात्मशक्तिं | व्योमा भोजं प्रणयि परमानंद कुंडे | विसर्गस्थानं लब्धो परिगलद्रक्त पीयूषधारं || पीत्वा कुलामृतरसं पुनरेव दिव्यं मध्ये विशेदं पदमत्स्य समाहितात्मा | यायात् कुलादकुलेमेव पुनश्च मात्रा योगेन देशिक वर प्रतिपादितेन || सा शक्तिः सकल शरीर जीवरता प्राणो साधिति गदिता एतव मुख्यैः | प्. ४९ब्) उद्घातः स तु परिपठ्यते मुनींद्रैः प्रमणान्तं स्मृति यदा क्रमेण सीतः | अमुं स्वाचारस्थः प्रतिदिवस मैत्यानिरतैः करोति श्रद्धावान् सतत मवधूता खिलमलः | समुक्तो दुःखोद्यैरगतजरामरतो गुण आमोपेतः सुर इव चिरंजीवति भुवि | चतुर्विधाय काथ सृष्टिः प्रवर्तते सकलापि यस्यां | प्रलीयते चापि जगत् समस्तं कालाग्नि रुद्रादिवि वावसानं | सेयं मयोक्ता खिल योनिमुद्रा वहुस्तु देवैःरपि दुर्लभास्या | अनेन वंधेन न साध्यते यत् स्नास्त्येव तत्साधक पुंगवस्य | छिन्नारुद्धांतस्थिता कीलिता वा वाला वृद्धा मूर्छिता हीनवर्याः | दग्धाः स्रस्ताः शत्रुपक्षे स्थिताये सुप्तानेत्ता गर्विता यौवनेन | येनि वीर्या येन सत्वेन हीनाः खंडी वृताश्चांग मंत्रै विहीनाः | ततो मुद्रावंधने नैव योन्याः मंत्राः सर्वे वीर्यवंतो भवंति | गुरुतल्पनिसेवनः पानं द्विजहत्या मधुनः सुवर्णवौर्यं | अमुना विलयं प्रयांति सम्यक् सकृदथ चरिते न वंधेन || स तु मंत्रि वरः स एव योगी गुणसिद्धेः पदमास्थितः स एव | अमुना वरती वंधयः स ततं स्वोचित धर्मकर्मनिष्ठः | अमुना देंहं भवती देहभाजां स तताभ्या स तताभ्या सकृतेन वंधेन | न जरा पितृराज वै जयंती नव मृत्यु प्रतिपादिता च भीतिः | श्रुतस्यैव हि वंधनस्य मनुजः प्राप्नोति सम्यकृतादभ्यासादनिमादि सिद्धि मतुलां संवित्ति मप्युर्जितां | योगं वा प्रतिमंजयं च मरुतः कालस्य वा वंचनं तद्विद्याः परमं पदं च स ततं पश्यंति यत्सूरयः | षट्चक्रस्थग्रे लिख्यते | श्रीक्रमे च | या सा मधुमतीनाम्नी माया मोहनकारिणी | वाह्याभ्यंतर भेदेन चिंतपनीयां च तां शृणु || त्रैलोक्यमेक रूपेण आत्मनानेकरूपिणीं | एकाकृति स्वरूपेण सर्वां शक्तिं विचिंतयेत् || कामयेत् कामिनीं सर्वादेवीं मां मंत्ररूपिणी | चिंतयेत् सुंदरीं देवीं सर्वव्यापकरूपिणीं || ईंकार भूत मंत्रस्या वयवं च चतुष्टयां | विंदु त्रयस्य देवेशि प्रथमं देवि वभ्रकं || विंदु त्रयं स्तन द्वंद्वं हृदिस्थाने नियोजयेत् | हकालार्द्ध कलां सूक्ष्मां योनिमध्ये विचिंतयेत् || तथा कामकलारूपं मदनांकुर गोचरेत् | उद्यदादित्य संकाशां सिंदूराभां स्तनद्वये विंदुंशं कल्पवक्त्रे च स्फुरद्दीपशिखां प्रिये | आधाराद् ब्रह्मरंध्रांतं तत् तन्मार्गेण भावयेत् | कामो विंदुरहं देवि तत्रस्था परमेश्वरी || शिवशक्तिमयं देवि चिद्रूपा परमाकलाः | तदधः स परार्द्धं च चिद्रुपां परमां कलां सापि कुंडलिनी शक्तिः कामकला स्वरूपिणी | प्. ५०अ) सा शिखावर्त्मगंछंती भित्वा ग्रंथी चतुर्दश | प्रविश्य परमार्गं तु सूक्ष्माकार स्वरूपिणी || सापि च त्रिविधा सृष्टि ब्रह्मविष्णुस्वरूपिणी | संचिंत्य साधक श्रेष्ठः स्त्रैलोक्यं वशमानयेत् || एतत्ते कथितं देवि कामकला सु निर्णयं | गोप्तव्यं हि प्रयत्नेन यदीच्छेदात्मनोहितां || रुद्रयामले च | मूलाधारे चतुर्दलेथ परमां विद्युल्लता भास्वरां | सूक्ष्मां पद्ममृणाल तंतु सदृशीं हंसे नमोक्षालये | नीत्वा ब्रह्म सनातनेम सहितं संभाव्य रूपैकतां | ममृतष्णुतां च निलये सोहं परं भावयेत् || स्वतंत्रे च | अहं वै वीन चान्योस्मि ब्रह्मैवाहं न शीकभाक् | सच्चिदानंद रूपो हं मात्मानमिति भावयेत् || मूलं जप्त्वा यथा शक्तिं जपं दिव्यै समर्प्य च | स्वदेवतां नमस्कृत्य तन्मयं भावयेज्जगत् || जामलेत् यजेत् प्रभाते वरणं विधिज्ञः समीरणा | उक्रमतो धरायां | शिवोक्त मंत्रं परिभाव्य तल्पात् | समस्त दोषोप उते जनानां | ओं समुद्रवलये देवि पर्वतस्तन मंडले विष्णुपत्नि नमस्तुभ्यं पादस्पर्शंक्षमस्वमो अनेन मनुनादेवि भूमौ पादं विनिक्षिपेत् | अथ प्रयोगः | षट्चक्रं लिंग त्रयभेदेन गुदा कुंचन पूर्वकं | षोडशवार जपन् वायुमुत्थाप्य कुंभयित्वा कुलं हंसः सोहमिति मंत्रेण परमशिवेन संगमप्य तयोः सामरस्यं विभोव्या मृतेन त्रिखंडा पात्रं पूरयित्वा तदमृतवारिणि मूलमंत्रमयीं मूलदेवीं स्वरूपां कुलकुंडलिनीं संतर्प्य सर्वचक्र देवता तर्पण पूर्वकं मूलाधारमानीया मृतधाराभि पुनः परमशिवेन संगमः पुनर्मूलाधार संगमः पुनः परमशिवसंगमः पुनर्मूलाधार संगमः ततो मूलाधारात् कुंडलिनीं परमशिवावधि अवच्छिन्न रूपेण ध्यात्वा तद्रश्मिजालैः समस्तं शरीरं व्याप्तं विभाव्यन्तैक्ये लक्षणं ध्यात्वा मूलदेवता स्वरूपं विभाव्य मूलमंत्रं जपित्वा स्वाशन्निक्रमेण चरणं भूमौ निक्षिप्य वहिर्गच्छेत् || इति प्राभातिकं | विन्मूत्रादिवि रेचनं परमन्नं संभावयन साधकः कृत्वा मृज्जलसेचने च न करपत् संशोधने कारयेत् | कामं काम च सर्वदेव जगतां ङेंतः | प्रियो हृद्युतो मंत्री दंतविशोधनाय गदिते नान्येन शुद्धिं लभेत् | सोमभुजगावल्यां च | ओं वसंतेश्वरान्य हूं मंत्रेणानेन पार्वति | अभिमंत्र्य दंतकाष्ठं यज्ञकाष्ठादि संभवं || अर्द्धदग्धं समानस्थं तथैव च | उच्छिष्ट विष्ठामूत्रादि लग्नं यत्नात् परित्यजेत् | कामवीजं कामदेवो वाङेंतः सर्वजन प्रियः || हृदंतो मार्जयेद्दंतान् मंत्रेणानेन साधकः | चुलूकं मूलमंत्रेण क्षालयेत् सर्वतो मुखं || इति प्रक्षालनं || श्रीपूर्णानंदनाथेनकृतायां गुरुभावतः | कुलवृत्तौ स्वतंत्रायां पटलो रुद्रसंख्यकः || प्. ५०ब्) अथ स्नानं | तदुक्तं कुलचूडामणौ | एवं कुलगुरुं नत्वा विसृज्य कुलमातृकां | कुलस्थानं समानीय स्नानार्थं तिर्थमाश्रयेत् || अथ वक्ष्यामिते वत्सस्नानं कुलसुखावहं | कृष्णरक्त हरिल्लीलाविधि धामममूर्तयः || तत्र यत् कुलगः शिष्यः स तद्रूपं परामृषन् | दिवं सर्वामयोवीं च पाताल नभ संभवं || आचांतः कुलदर्भेण स दर्भ कुलपुंड्रकः | शक्त्यात्मक त्रिकोण तिलक सुक्तमित्यर्थः || अथ तिलकं | तारातंत्रे | तिलकं रक्तगंधेन गोपीचंदनकेन वा | देव्यंस्त्रं विलिखेद् भाले तारवीजं ततो हृदि || शक्तिं मध्यगतां कुर्यात् प्राणायामं समाचरेत् | अत्र तिलकवस्तूनि सर्वविद्यायां साम्यं अस्त्रवीजादि लिखनस्तु नक्षत्र विधा विषयमेवा कुलदर्भोयथा | सोमभुजगावल्यां | तर्जन्यो रजतं धार्य मनामायाः सुवर्णकं | एष एव भवेदर्भो तदभावेन संभवः इदं तु दिव्यवीरयोः तदभावे तु वन्य कुलग्रहणं | कुलचूडामणौ | कुलपात्रं सदूर्वां च स तिलं स जलं तथा | गृहीत्वा कुलदेवस्य प्रीतये स्नानमाचरेत् || कृअ संकल्प एवादौ कुलचक्र जले क्षिपेत् | अथवा संकल्पपात्रमेव कुलपात्रत्वेन भावनीयं | सर्वेषां यागवस्तूनां कुलचूडामणौ कुलत्व प्रतिपादनात् | संकल्पे मासपक्ष तिथ्याद्युल्लेखनं कुर्वंति | परोक्तमविरोधि चेतिन्यायात् | तत्र पशुभावाल्लेखन मानन्या येन नत कुलधर्मे | नाचरेत् पशुशास्त्रोक्तं कुलशास्त्रोक्त माचरेत् | दिति कुलार्णवोक्तमिषेधात् | अत एव तंत्रे | कुलदेवस्य प्रीतये स्नानमाचरेदिति फलमात्रस्यैवोल्लेखः | कुलचक्रं शक्ति त्रिकोणमित्यर्थः | कुलस्थानात् समानीय कुलमुद्रांकुशेन तु | कुलतीर्थानि तत्रैव समावाह्य शिवात्मके || तत्तोयं च त्रिधा | पीत्वा त्रिधा च प्रेक्षणं तनोः शिवात्मके शक्त्यात्मक त्रिकोण इत्यर्थः | अत्र संकल्पात् परं कुंभ मुद्रया अंजलिना वा मूर्द्ध्नि त्रिंजलिदानं प्रोक्षणात् पूर्वतर्पण मुह्यं ज्ञानार्णवौदि तंत्रैक वाक्य तालाद्यवात् | स्नानकर्म ततः कुर्यान् मूलमंत्रं स्मरन् वुधः | त्रिवारं मजलौ वारि मंत्रयित्वा स्वमूर्द्धनि || निक्षिपेत् परमेशानि त्रिधा चाचम्य तर्पयेत् | त्रिधा च प्रोक्षयेद्देहं सूर्यायार्घ्यं निवेदयेत् || अत्र पूर्वैक वाक्य तया सर्वादौ संकल्प त्रिकोण चक्र लिखन तीर्था वाहन तंत्रराजे | स्नानकल्पे तु संप्राप्ते मूर्द्ध्नि मस्त्री जलांजलिं | विद्ययाथ त्रिशः कुर्यात् त्यूता स्त्रिरपः पिवेत् || तर्पणं च त्रिधा भूयस्विधा च प्रोक्षणे तनोः | स्वतंत्रे च | मूलं पठन मूर्द्ध्नि मंत्री मुद्रयाब्जलसंज्ञया | क्षिप्त्वा वारत्रयं मंत्री आचामेत् साधकाग्रनी || प्. ५१अ) आत्मविद्या शिवस्तत्वैस्ततो याग गृहं विशेत् | कुलदर्भा कुलतिलकी सन्ना चम्प त्रिकोणचक्रं जले विभाव्यां कुशमुद्रया तीर्थमावाह्य कुंभमुद्रयांजलिना वा मूलेन शिरसि त्रिर्निक्षिप्य पुनस्विराचम्यदेवीं संतर्प्य त्रिधा मूलेन देहं प्रक्षालयेदिति | अंकुशमुद्रया यथा ज्ञानार्णवे | दक्षमुष्टिं विधायाथ तर्जन्यं कुशरूपिणीं | अंकुशाख्या महामुद्रा त्रैलोक्यात्कर्षणक्षमा || तीर्था वाहन मंत्रश्च श्रीक्रमे गंगे च यमुने चैव गोदावरि सरस्वती नर्मदे सिंधुकावेरि जलेस्मिन् सन्निधिं कुरु | इति कुंभमुद्रा यथा गुप्तार्णवे | दक्षांगुष्ठ परांगुष्ठं क्षिप्त्वा हस्त द्वयेन तु | सावका सांततो सृष्टिं कुंभमुद्रां विदुर्वुधाः || इति असंपादयेत् सर्वांते मूलमंत्र जपः | इति दिव्यवीरयोः स्नानं | अथ पशव स्नानं | नीलतंत्रे | मृत्कुशानपि संगृह्य गत्वा जलांतिकं ततः | मलापकर्षणं स्नात्वा मंत्रस्नानं समाचरेत् || विद्यया त्रिनिमययैव नाचमेत् पथि संतिया | मूलविद्ययेत्यर्थः | वीरतंत्रे | सप्तछिद्राणि संरुध्य ततो मज्जे त्रिधा सुधीः | आत्मविद्या शिवस्तत्वैरा वामेत् साधकांग्रणीः || वह्निजायां परे दत्वा शुद्धेन पार्थसात् प्रिये | आत्मतत्वाय स्वहा एवं विद्या तत्वाय स्वाहा एवं शिवतत्वाय स्वाहा इति सर्वभाव साधारणः | तारायास्तु विशेषः | मालिनीतंत्रे | आचामेदात्मतत्वाद्यैः प्रणवाद्यै स्वाहांतिकै | मंत्रैस्त्रिधारक्तनासाक्षि श्रोत्र वाहूनाभिकृत् | मस्तकाग्रान् स्पृशेन् मंत्री कुर्याद्वात्राभिवंदनं | आत्मविद्या शिवंस्तवा प्रणवं वाग्भवं स्मृतं || वाग्भवं कूर्चशद्देवी जमिति यावत् | अघमर्षणकं तत्र कूर्चवीज जपो मतः | इति | मृत्तिका मूलमंत्रेण संगृह्य च करद्वये | सूर्यया दर्शयेत्तं च पश्चाद्विलेन स्मृतं | गोपूकरीषं नासिकायावन् मंत्रेण ठद्वये | जलांजलिं त्रयं दद्यान् मूर्द्ध्नि हृन्नाभोगोचरे || तत आचमनं कृत्वा त्रिकोणे दक्षिणेन तु | गृहीत प्राणिना देवि शंखावर्त क्रमेण तु || विलोद्य तंत्र निर्मज्जे अघमर्षणकं त्रिधा | दद्याज्जलाञ्जलीन्मंत्रीणि वरुणाय ततः परं || सोमाय भानवे पश्चाज्जलादुत्थाय वाससी | परिधाय ततो मंत्री यथाविधि समाचरेत् || अघमर्षणेत् पारिना संध्या सूचिता | निर्मज्जनपर्यंतं मलापकर्षणं स्नानं | त्रिकोण लिखनो मंत्रो यथा मालिनीतंत्रे | त्रिकोणं मूलमंत्रेण वीजेन सवित्रे हंसकं जपन् लिखेदित्यर्थः | प्रयोगस्तु मृत्कुशानादाय जलांतिकं गत्वा गृह्योक्त विधिना स्नानं निर्वत्य संकल्पं कृत्वा मृत्तिकां मूलमंत्रेण कराभ्या मालोड्य सूर्याय दर्शयित्वा सर्वांगे विलोप्य गोकरीषण् नासा पुटद्वयेवं इति मंत्रेण विलिप्य मूर्द्ध्नि हृन्नाभिषु जलांजलिं निक्षिप्य आचमनं कृत्वा वामपाणे गृहीतेन दक्षपाणिना | प्. ५१ब्) मूलमंत्रस्य वीजेन सूर्यमुद्दिश्य ह हूंसः शुचिरित्यादि पठं स्त्रिकोणं विलिख्य शंखावर्त क्रमेण नोद्यं तत्र निर्मज्जेदिति मलापकर्षणं गौतमीये | आचम्य विधिवन् मंत्री शुचौ देशे च संविशेत् | जल संयोज्य तीर्थानि त्रिवारं मूलमंत्रकं || क्षिपेद् भूमौ कुशाग्रेण सप्तधा मूर्द्ध्नि संचयेत् | अथ कुलीनाम्ना न प्रयोगः | तद्यादौ गत्वा अंकुश मुद्रया इभ तेजसा जगचराचरं नीलं विभाव्य कुशतिल कम्वकन्निराचम्य कुलपात्रे तिलकुशजलान्यादायाद्य कुलदेव्याः प्रीतये स्नान महं करिष्ये | इति संकल्प त्रिकोण चक्रं जले निक्षिप्य गंगावेत्यादिनातीर्थमावाह्य कुंभमुद्रयां जलिना वा मूलमंत्रेण शिरसिर्विनिक्षिप्या चमनं कृत्वा त्रिमूलं संतर्प्य मूलेन शिरसि निक्षिपेत् | इति कौलिक स्नानं | अथ संध्या रुद्रयामले | उक्ते नैव विधानेन कृत्वा स्नानं तु तांत्रिकं | वैदिकी तांत्रिकी संख्यां कृत्वा तर्पणमाचरेत् || तंत्रराजे | उनराचम्य विन्यस्य षडंगमपि मंत्रवित् | वामहस्तजलं गृह्वगलितोदक विंदुभिः || सप्तधा प्रोक्षणं कृत्वा मूद्भिर्मंत्र समुच्चरन् | अवशिष्टोदकं हस्ते दक्षे संगृह्य बुद्धिमान् || इडया कृष्य देहोतः क्षालितं पापसंचयं | कृष्णवर्णं तदुदकं दक्षनाड्या विरेचयेत् || दक्षहस्तेन तन्मंत्री पापरूपं विचिंत्य च | पुरतो वज्र पाषाणो निक्षिपेदस्त्र मंत्रतः || कमार्चन दीपिकायां | ध्याते वज्रशिला पृष्ठे प्रहरो फट् यामले | षडंगन्या समाचर्य वामहस्ते जलं ततः || गृहीत्वा दक्षिणे नैव संपुटं कारयेत्तः शिवत्वायु जलं पृथ्वी वह्नि वीजैस्त्रिधा पुनः | अभिमंत्र्य च मूलेन सप्तधा तत्वमुद्रया | निक्षिपेतज्जलं मूर्द्ध्नि शेषं दक्षे निधाय च || शरीरांतः स्थितं पापं क्षालयेत् साधकाग्रणीः | मूलेन तिलकं कुर्या संध्ये त्र्यैव हि कौलिके || उद्दिश्य शिष्यतिलकं कथिता देवि सुंदरि | शिवोहकारः वायुर्जलयः पृथ्व्यौ सः वह्नी रेफः || कुत्रापि भूतवर्णाः क्रमेण प्रदर्शितः | तदुक्तं सोमभुजगावल्यां | आकाशादि क्रमाद्देवि भूतवर्णैस्त्रिधा पुनः | मंत्रयित्वा संपुटस्थं तेजो रूपं विचिंतयेत् || सैंध्येषै वहि कौलिकैरिति अत्रैव कारेण कौलिकानां वैदिक संध्या निवासः पशुभिस्तु संध्यां द्वयमुपास्यमिति | सर्वभाव साधारणी संध्या | संध्याया नित्यत्वं लक्ष्मी क्कुलार्णवे | संध्यायां च विहीनो यो नदीक्ष फलमाप्नुयात् | वैष्णवादौ विशेषः गौतमीये | प्. ५२अ) इदानीं पूर्व कृत्यं च प्रसंगात् कथयामिते | कृत्वाधिकारितां याति संतु मंत्रार्चनादिषु || षडंगन्या समाचर्य अघमर्षणकं ततः | मूलदेवं च मभ्यर्च्य परिवारं पृथक् पृथक् || नारदं पर्वतं जिष्णुं निषणोद्ध वदारुकं | विश्वक्सेने च शैलेयं गुरु च तर्पयेद्विधा || अथ प्रयोगः | त्रिराचम्य षडंगं विन्यस्य मूलेन दक्षहस्तेन वामहस्ते जलं त्रिर्निधाय दक्षहस्तेनाच्छाद्य हं यं रं लं वं इति मंत्रेण त्रिरभि मंत्र्य तज्जलं तेजो रूपं विभाव्य दक्षतत्व मुद्रया शिरसि सप्तधा भिषिच्य शेषजलं दक्षहस्तेमादाय दक्षनासा यत् वामनामया निरुध्य वामना सपातज्जलं शरीरांतरा कृष्य समस्तं शरीरं क्षालयित्वा दक्षनासया कृष्णवर्णं तज्जलं दक्षहस्ते विरेच्य पुरः कलिवत वज्र शिलायां निक्षिपेत् | यामले | ततश्चतांत्रिकीं संध्यां कृत्वा तर्पणमाचरेत् | देवऋषि पितृपूर्वां तु सायुधां स परिकरं || जले वा तर्पयेद्देवीं गृहे वा तर्पयेत् सुधी | गुरुपंक्तिं च संतर्प्य वटुकादींश्च तर्पयेत् || तर्पयेत् श्रीगुरुपालादीन् तथैवांगादि देवताः | शेषिका सुंदरीं पश्चादेश्यां च गुरुतर्पणं || अग्रौ परापरं चैव नैरृत्यां परमेष्टिनं | वायव्यादीश पर्यंतं गुरुपंक्तिं च पूजयेत् || तर्पयेत् अंगादि तत्तस्थानेषु मूलदेवीं च तर्पयेत् | तर्पण प्रयोगे च | हस्तप्रक्षाल्य जले स्वेष्टयंत्रं विभाव्य ततमूलं साधारणं ध्यात्वा ऐशान्यां ऐं स्वाहा | अमुकानंदनाथ श्रीअमुकी देव्यया सु शक्ति श्रीपतिं अग्नो ऐं स्वाहा श्रीमहानंदा देवनाथ परापर गुरुश्री पादु | नैरृत्यां श्रीमहादेव्या वा परमेष्टि गुरु श्रीपातं | वायव्यां सु गुरुसंततिं ऋषिं दिव्यौघ मानवौघ सिद्धौघाचार्येष्टाकान तर्पयेत् | सर्वत्र ऐं स्वाहेति मंत्र | परिवारानां तु | स्वाहांतं तत्तन्मंत्रं स्वाहांतं मुच्चार्य द्वितीयोतनामोत्तरं तर्पयामीति तर्पयेत् | एवं मूलं स्वाहा देवीं तर्पयामीति तर्पयेत् | पश्चाच्छेषिकां तर्पयेत् त्रिपुरायां विशेषः | यामले | वाग्भवेन विशोध्या य कामराजेन दीपनी अमृतं शक्तिकूटेन तेनैव तर्पयेत् परां | तेनैव विशुद्धि जलेन तारायास्तु विशेषः | मालिनीतंत्रे | तीर्थोदकं तिलकल्कं क्षीराक्षत समच्चितं उत्तराशामुखो भूत्वा देवीमात्रं प्रतर्पयेत् | तीर्थोदकादिभिरित्यर्थः | मूलांतेतारिणीं तर्पयाम्यग्नि वल्लभा | स्वर्णपात्रेण रौप्येण ताम्रपात्रेण वा पुनः | मूलांते स्वाहा इति वारत्रयं | ऋजुकुश त्रयेणैव संतर्प्य भक्तितः सुधी | दक्षिणाशा मुखो भूत्वा संगृह्य मोटकं ततः || प्. ५२ब्) तृप्यस्तु पितरः प्रोक्त्वा चैत तर्पण माहरेत् | तृप्यं तु पितर इति वाक्यं प्रोक्त्वाय एततर्पण एतेषां पितृणां तर्पणं तत् तन्नाम्ना तर्पयेदित्यर्थः | इदं वाक्यं पशूनां कौलानां तु स्वतंत्रे तर्पणादौ प्रभुंजीत तृप्यतां ब्रह्मभैरव | आवाहने स्वपितृणा भैरवानि चिकीर्तयेत् | तृप्यतां कालिकामातां तृप्यतां भैरवः पिता एवमेव विधानेन यथा शक्त्यां तु तर्पयेत् | ब्रह्मात्मना भैरवो निर्वाच्यः | न केवलं मनसा वचसापि वाक्यस्तु तृप्यता भैरवः पिता तृप्यतां भैरवी माता इत्यादि ज्ञानार्णवे | कुलचूडामणौ | देवान् पितृनृषींश्चैव तर्पयेत् कुलवारिणा | कुलात्मकान् पुनध्यात्वा कुलेसंनीयतोषयेत् || भैरवीतंत्र एतेषां संज्ञान विद्यते | भैरवी तंत्रे कौलिक धर्मे तेषां पितृणां भैरवाय च देवाय भैरवेन च कर्तृणा | भैरवाख्यं प्रदातव्यं मंत्रमुच्चार्य पूर्वतः | दातृदान गृहीतृंश्च तप्तलिंगानुरूपतः || भैरवी भैरवात्मानं भवो यस्त्र दशेषतः | श्राद्धदाने विवाहे च स्नाने चांग प्रपूजने || एवं चिंता परे देवि प्रसीदामि न संशयः | ततश्च तृप्ताते देवशेषान् लोकान् प्रीणामि तत्वतः || अथ वाक्यं नीलतंत्रे || मूलांत तर्पयामीति स्वाहांतं तर्पणं मतं | स्वतंत्रे च | स्वाहांते मूलमंत्रेच्चार्य तर्पणां तेन मापदं | मूलं स्वधां अमुकदेवीस्तुर्पयामि नमः || वैष्णवादौ गौतमीये | आदौ मंत्रं समुच्चार्य श्रीपूर्वं कृष्णमित्यपि | तर्पयामि पदं चोक्त्वा नामांतं तर्पयेत् ततः || कृष्णमित्युपलक्षणं | सर्वस्वं देवता परमिति | श्रीत्रिपुरसुंदर्यास्तु मूलं स्वाहांतं श्रीत्रिपुरसुंदरी श्रीपादुकां तर्पयामि नमः | एतत् प्रमाणमग्रे | ततः सूर्यायार्घ्यं दद्यात् | तदुक्तं कुलचूडामणौ | कुलसूर्याय देवाय त्रिधार्घ्य परिकल्प्य चा इति | नदिकेश्वर संहितायां | यावन्न दीयते चार्घ्यं भास्कराय निवेदनं | तावन्न पूजयेद्विष्णुं शंकरं वा सुरेश्वरीं || स्वतंत्रे च | दिनेशाय क्षिपेत् तिष्ठ न वारिणाचांजलि त्रयं | अष्टोत्तर शता वृत्या गायत्रीं प्रजपेत् सुधीं || सूर्यध्यानं | शारदायां | हेमांभोज प्रवालवाल प्रथममिजचारु खट्वांग पद्मौ चक्रं शक्तिं स पाशं शूलमपि रुचिरां चक्षमाली कपाली हस्तांभोजैर्दधानं त्रिनयन विलसद्वेदवक्त्राभिरामं मार्तंडं भैरवाख्यं मणिमय मुकुटं हारदीप्तं भजामः | संस्मृत्य भैरवं देवं मार्तंडाख्य मुमापतिं | मूलेन मनुनामंत्री सूर्यस्य मनुनाथवा || मायावीजं समुद्धृत्य मोहार्णवे परीततः | सूर्यस्य मंत्र स प्रोक्तो रक्त पुष्प यवादिना || मार्तंड भैरवत्यंतं प्रकाशशक्ति संयुतं | चार्घ्यं दत्वा मूलमंत्रं जपेदष्टोत्तरं शतं || प्. ५३अ) मूलमंत्रं गायत्रीत्यर्थः | पूर्वोक्त स्वतंत्र वचनै कलाघवात् | ज्ञानार्णवे च | मूलमंत्रेण वा मंत्री सूर्यमंत्रेण वा प्रिये | शीववीजं वह्नि संस्थं वामनेत्र विभूषितं || विंदुनाद समायुक्तं हंसः पद ततो लिखेत् | अनेन मनुना देवि सूर्यार्घ्यं निवेदयेत् || अर्घ्य द्रव्यं वीरतंत्रे || असीति मोद्र पुष्पं वकुलपुष्पं कुशादिकं | प्रस्थग्राहिताम्रपात्रे कृत्वा चार्घ्यं निवेदयेत् || इति कौलिकपरं | पशूनां तु जलेन वारिणाचां जलिना मित्यादि वचनात् | वाक्ये तु | इदमर्घ्य ह्रीं हंसः मार्तंड भैरवाय प्रकाशशक्ति संयुताय स्वाहा | स्वाहा मंत्र प्रक्षेपस्तु अर्घ्यत्वात् | ततो मूलदेवी स्वमंडले ध्यात्वा पूर्ववदर्घ्यं गृहीत्वा दद्यात् | तदुक्तं स्वतंत्रे | अर्घ्यं दत्वा ततो ध्यात्वा देवीं सूर्यस्य मंडले | पूर्ववत् साधितार्घ्यं तु त्रिवारस्तु समर्पयेत् || गायत्र्या मूलमंत्रेण नमोंते वह्निवल्लभा | इति तारायास्तु | वीरतंत्रे | मूलांते चोद्यदादित्य वर्तिन्यै तदनंतरं | शिव चैतन्यतः प्रांतेमयै स्वाहेति तन्मनुः || नीलतंत्रे | इद्यदादित्य मंडलवर्तिन्यै पदमुद्धरेत् | शिवचैतन्यमयै स्वाहेति तन्मनुः स्मृतः || इति मंत्रद्वैधे इच्छा विकल्पतो गुरुपदेशः शरणं | सुंदर्यास्तु सूर्यार्घोन्निरकार्यं श्रीक्रमोशिरः कंठ मुखः श्रोत्रे नेत्रे नासंतु येषु च | हृत्कुक्षि पृष्ठदेशे वनाभौ जठर वै गुदो | पादे गुल्फे महादेव्यान्यसेत् पंचदशाक्षरं || संपूर्णां चिंतयेद्विद्यां ब्रह्मरंध्रेरुण प्रभां | श्रवत् सुधा षोडशार्णां महासौभाग्य संस्मरेत् || वामांगदेशे सौभाग्य दंडिनीं भ्रामयेत् पुनः | रिपु जिह्वा ग्रहां मुद्रां पादमूले प्रविन्यसेत् || व्यापकत्वे योनिमुद्रां मुखे क्षिप्त्वाभिनंद्य च | अनामिकां परिभ्राम्य मूर्द्धांशः परितः सुधीः || ब्रह्मरंध्रे क्षिपेच्चैव मणिवंधेन् परोत्ततः | ललाटे नामिकां कुर्या षोडशार्णां स्मरन् वुधैः || सौभाग्यदंडिन्यादि यथा कुलार्णवे | वामहस्तं न मुष्टीस्तु दृष्ट्वा कर्ण प्रदेशके | तर्जनी शरणं कृत्वा भ्रमेयोत्तंत्र वित्तमः || सौभाग्यदंडिनी मुद्रान्यास काले तु सूचिता | अंतरंगुष्ठ मुष्ठ्या तु निरुद्ध जगतीमिमां || रिपु जिह्वाग्रहा मुद्रान्या स काले तु सूचिता | तेनैतत्कर्मवारद्वयं संध्यायां न्यासेपि इति ज्ञानार्णव सुरसः || श्रीक्रमादौ संध्यायामेव | श्रीक्रमे | त्रैलोक्य मरुणं ध्यायेन् श्रीविद्यां मनसि स्मरन् | ओंकारं वाग्भवं वीज आकारं कामराजकं || सांतांतकादि संयुक्तमेक वर्णां तयोजितं | त्रिपुरा परमेशानी करशुद्धौ विधीयते || मूलाधारे वाग्भवार्णं तडिद्वर्ण त्रिकोणके | तदुद्भयां तडिद्वर्णां द्विभुजांधारिणी ततः || प्. ५३ब्) पुस्तकं चाक्षमालां च त्रिनेत्रां वालरूपिणीं | किमाधार पीतवर्णां विसतंतु तनीयसी || वाग्भवांत स्वरूपंतां परशक्तौ नियोजयेत् | शुद्धस्फटिक संकाशां गोक्षीर रजतोपमां || कदंव कलिकाकारं ब्रह्मरंध्रे व्यवस्थितां | अभयं चाक्षसूत्रं च पाशं विद्यां च विभ्रतीं || वाग्भवांस्तु समुच्चार्य त्रिपुरा परमेश्वरी | पादुकां पूजयामीति त्रिधार्घ्यं परिकल्पयेत् || सूर्यार्घ्यात् परं गायत्री ध्यायेद् यथा | उड्डीशे | उद्यदादित्य संकाशांधृत पुस्ताक्षरी स्मरेत् | कृष्णाजिनां वरां ब्राह्वीं ध्यायेत् तारकितेंवरे || इति प्रातः | श्यामवर्णां चतुर्वाहु शंखचक्रलसत्करां | सूर्यमंडल मध्यस्थां गदापद्मधरां देवीं सूर्यासन कृताश्रयां | इयं वैष्णवी इति मध्याह्ने | सायाह्ने वरदां देवीं गायत्रीं संस्मरेदिति | शुक्लां शुक्लां वरधरां वृषासन कृताश्रयां || त्रिनेत्रां वरदां पाशं शूलं च नृकरोटिकां | सूर्यमंडल मध्यस्थां ध्यायन् देवी समभ्यसेत् || श्रीक्रमो त्रिपुरा देवि विद्महे वाग्भवेश्वरि पदं ततः धीमहीति ततस्तत्व प्रवोदयांदिमां | त्रिजपेदथ तत्वज्ञः पूरकादि विधानतः | मध्याह्न कृत्यं | हृदयांभोज मध्यस्थकेशरे सूर्यमंडलो द्वितीयं कामराजं तु तरुणारुण सन्निभं || तदुद्भवा रक्तवर्णां चतुर्भुजां त्रिलोचनां | पाशांकुश धनुर्वाणधारिणीं यौवनोन्नतां || अथवारुण संदीप्तो कामराज स्वरूपिणीं | सहस्रकमले नीत्वा ध्यायेदित्य समप्रभां || चतुर्भुजां महादीप्तां त्रिनेत्रां च वरांशुकां | शिवज्ञानमयं वामे पुस्तकं प्रणवात्मकं || दक्षिणेक्ष ग्रजां पूर्यकांतितुल्य वराभयौ | दक्षवाम कराभ्यां तु विभ्रतीं परमेश्वरीं || एवं ध्यात्वा करजि मुद्धृत्य त्रिपुरापदं | कामेश्वरी पादुकां च स्मृत्वार्घ्यं त्रिःप्रकल्पयेत् || कामराजं समुद्धृत्य चार्य त्रिपुरा विद्महे | कामेश्वरी धीमहीति तन्नः किन्ने प्रचोदयात् || त्रिःप्रज्यप्य च गायत्रीं शक्ति वीजे ततोन्यसेत् | सायाह्ने शक्तिवीजं तु श्वेतत्वे सोममंडले || तदुद्भवां श्वेतवर्णां जटामुकुटधारिणीं | त्रिनेत्रां द्विभुजांमीश स्फुर दंष्ट्रां करां शुभां || अथवा शक्तिरूपां तां ध्यायेच्छंख शरोरुहो | सर्वालंकार भूमिष्ठां दक्षिणे च करद्वये || अक्ष मालांवरं वा मेदधतीं पुस्तकाभयां | आकाशे परमानंदे समावाह्य सुरेश्वरीं || तदुद्भवां महादेवी पद्मराम समप्रभां | शक्तिबीजं समुद्धृत्य पद्मराग समप्रभां || शक्तिबीजं समुद्धृत्य त्रिपुराममृतेश्वरीं | पादुकां पूजयामीति त्रिधार्घ्यं परिकल्पयेत् || गायत्रीं प्रजपेद्धीमान् शक्तिबीज स्वरूपिणीं | त्रिपुरादेवि विद्महे स्वशक्तिरपि धीमहि || प्. ५४अ) तत्रो मृते प्रचोदयादर्द्धवामे परं | सर्वबीजं समुद्धृत्य पद्मराग समप्रभां || आकाशे परमानंद समावाह्य सुरेश्वरी | तदूद्भवा महादेवीं पद्मराग समप्रभां || पाशांकुशशरां चापं धारिणीं लोचनात्रयां | तुरीय वीजमुच्चार्य महात्रिपुरसुंदरीं || पादुकां पूजयामीति त्रिधार्घ्य परिकल्पयेत् | गायत्री प्रजपेद् विद्वान् तुरीय वीजरूपिणीं त्रिपुरासुंदरि शब्दांते विद्महे तदनंतरं | कामेश्वरी धीमहीति तत्र किन्ने प्रचोदयात् | सर्वबीजं तुरीयवीजं षोडशीमित्यर्थः || मालिनीतंत्रे च | एतत् संध्या त्रयं मुर्द्धरात्रौ च वंदना | महारात्रावपि तथा कार्या साधकसत्तमैः || अर्द्धरात्रा परं यच्छमुहूर्त द्वितयं भवेत् | स महारात्रिक दृष्ट्या तत्र कृत्वा क्षयं भवेत् || ततो विद्यां हृदि ध्यात्वा चाष्टोत्तरशतं जपेत् | अवहिर्मानसो योगी यागभूमिमथाविशेत् || मालिनीतंत्रोक्तं सर्वसामान्यं | केवल संध्यावार पंचकमुपास्या अ.शक्तो वारमेकमिति | अघमर्षणं तु सर्वत्र | सुंदर्या पुनः कूट त्रैविध्या त्रैविध्यं संपूर्णा वारद्वयमुपास्य | अथ दक्षिण काली गायत्री यथा | कुमारीतंत्रे | कालिकायै पदं प्रोक्त विद्महे तदनंतरं | श्मशानवासिनी ङेंतां धीमहीति ततो वदेत् || तन्नोघोरेपदं प्रोच्य प्रचोदयात् पठेदिति | अस्या प्रसादमंत्रेण महापातक कोटयः || सद्यः प्रलयमायांति साधकस्य न चान्यथा | रावणस्य वधाच्चैव रामचंद्रो विमोचितः || गुरुदाराकर्षणाच्च देवश्चंद्रो विमोचितः | निजकन्याकर्षणाच्च ब्रह्मा चैव न संशयः || मातृवधात् पर्शुरामोचितास्यात् प्रसादतः | सुरापानाच्च श्रीकृष्णोदत्तात्रयस्तथैव च || एवमेषा महाविद्या गोप्तव्या देवि सुंदरि | अथ तारा गायत्री यथा | यथा तारार्णवे | हूं भगवत्येक जटे विद्महे च पदं ततः | विकटदंष्ट्रे धीमहीति तन्नस्तारे प्रचोदयात् || अथ भैरवी गायत्री यथा | ज्ञानार्णवे | यथा शक्ति जपं कुर्याद्गायत्रीं परमाक्षरीं | मूलविद्यां समुच्चार्य वागीश्वरी च विद्महे द्वितीयं वीजमुच्चार्य कामेश्वरी च धीमही | तृतीयं वीजमुच्चार्य तन्नः शक्तिः प्रचोदयात् | त्रिशक्ति गायत्री यथा | ज्ञानार्णवे | यथा शक्ति जपं कुर्या भैरवतंत्रे | वैरोचन्यै विद्महे च छिन्नमस्तके यधीमहि | तन्नो देवी पदं प्रोच्य प्रचोदयात् समुद्धरेत् | गायत्री छिन्नमस्तायान् सर्वकाम प्रदायिनी || अथ दुर्गा गायत्री यथा | तंत्रचूडामणौ | महादेव्यै च विद्महे दुर्गायै धीमहि प्रिये | तन्नो देवी च शब्दांते धीयो योनः प्रचोदयात् पूर्वोक्ताया एतस्याश्च इच्छा विकल्प न प्रयोगः || प्. ५४ब्) गौतमीये | एवं ते कथिता मंत्र संध्या मंत्र फलाप्तये | न कुर्याद्यदि मोहेन न दीक्षाफलमाप्नुयात् || सायं प्रातश्च मध्याह्ने देवं ध्यात्वा मनुं जपेत् | संध्यायां पतितायां गायत्रीं शतधा जपेत् || मनुमिति मूलं अयं जपः संध्यांगकः एवं सूर्य ध्यायेत्यर्थः गायत्री शतमष्टोत्तरशतं प्रजप्य संहारमुद्रया कौलो हृदिदेवं विसर्जयेदिति | पद्मस्तु मालिनीतंत्रे | उपास्य प्रजपेद्धीमा गायत्रीं परमाक्षरीं | वामपादं ततः कृत्वा पादे च परमेश्वरि || दक्षपादो परिवामपादं कृत्वेत्यर्थः | उपविश्य पुनर्हसमूर्द्धवाहुस्त्रिधा जपेत् || पुनरिति स्नानकालीन जपाक्षया | हंसमंत्रस्तु श्रीपात्रस्थान प्रस्तारे ज्ञातव्यः | ततः संहारमुद्रया | सूर्यमंडलात् हृदि विसर्जयेदिति | सांगां सर्वभावीया संध्या इति पूजास्थानं गच्छेत् | कुलचूडामणौ | उत्थाय कुलवस्त्रे द्वेपरीधाय कुलेन च | तिलकं कुलरूपं च कृत्वा चम्पकुलेश्वरं || कुलेन कुलपुष्पेण कुलतिलकं शक्तित्रिकोणं | कुलीनैः कुलवस्त्रं रक्तपट्टादिशु शुभिस्तु शुक्लपट्टादिशुक्लां वरधरः शुद्धः शुभ्रः यज्ञोपवीतकः | इति क्रियासार वचनात् | कामनायां पुनः स्वतंत्रे | मोक्षार्थी शुक्लवस्त्रेण भोगार्थी पीतवाससी | मारणे कृष्णवस्त्रं च वश्ये रक्तं सदागृही || अत्र गृहीत्यु पादानादन्येषां निगमोनास्तीति उच्चाटने व्याघ्रचर्म वृक्षस्त्वक् स्तंभकर्मणि | परीधयेत् ततो मंत्री यागभूमि मया विशेत् | यामले | स्नात्वा च साधक श्रेष्ठो हृदिमंत्रं जपेन्मदं | अवहि मनिशो योगी यागं भूमिमथा विशेत् || जलशंखंकरे कृत्वा गत्वा द्वारि महेश्वरि | क्षालयेद्धस्तपादौ वरक्षमाणे च वर्त्मना || इति श्रीपूर्णानंदनाथेन कृतायां गुरुभावतः कुलवृत्तौ स्वतंत्रायां द्वादशः पटलः शुभः || हस्तप्रक्षालनं कृत्वा चमनं कुर्यात् स्वतंत्रे | आचमनं ततः कृत्वा सामान्यार्धं प्रकल्पयेत् || अथ जलशोधन उत्तरातंत्रे || नारसिंहेन मंत्रेण देवतीर्थेन संस्पृशेत् | पाणीयं घटमध्यस्थं वीक्षन् गृह्यं तु साधकः || वामेन पाणिना धृत्वा वामपार्श्वस्थितं तदा | अत्र माधारमंत्रेण सस्कुर्वन् संस्पृशेज्जलं || यदज्ञानादपेयादि संसृष्टिरिहसंगता | यदन्यद्रूपणं पात्रतोये वा ज्ञानतो भवेत् || जलाशय शवस्यश जलस्नानाच्च पातक | दूषणानि विनश्यंतितानि वै देव पूजने || गुह्यं पानीयं घटमध्यस्थत्वात् | प्रजापति सुतोहांतः वांत्यः स्वरसमन्त्रितः || चंद्रार्द्ध विंदु सहितो मंत्रो स नारसिंहकः | प्रजापतिकहांतः सः वांत्य स्वररेफांत्यः स्वरांभ्यां सहितः ओंकार एतेकांत्यं स्वरत्वं वै याकरण मालं वोक्त्यं | स्वशंगाद्यक्षर विंदुं चंद्रार्द्ध परियोजितं | आधारमंत्रं जानीयात् साधकं कार्यसिद्धये || प्. ५५अ) अं आसनी तस्याद्यक्षरं अनादविंदु कलायुतं | इदं तु सामान्यं विशिष्य शोधनमस्ति तत्र तदोरति | प्रयोगस्तु घटादिना जलमानीय स्रौं इति मंत्रेण देवतीर्थेन संस्पृश्य पात्रांतःस्थं चक्षुपिनिरीक्ष्य वामपार्श्वस्थित जलपात्रं वामेन पाणिने | इति मंत्रेण यं स्पृशेत् तत उत्तरातंत्रे | आचांतः शुचितां प्राप्त्य सुस्नातो देवपूजनें | पूजाविद्या वहिः स्थित्वौ चतुर्हंस्तांतरे धिया || गृहे चोद्धार देशस्थः प्रणम्य शिरसेद्गुरुं | प्रणमेदिष्ट देवं स्वं दिक्पालानपि चेतसा || गुरुं परमगुरुमित्यर्थः | किंतु भूतशुद्धे प्राक्कर्तव्येवर्तते | तथाप्यत्रापि वचनिकमिति यत् पापमर्जितं | पूर्वं तद्दिने न्यदिनेवत्स | प्रायश्चित्तेर्नलिप्यते शुद्धि पापं स्मरद्धिया तत्पापस्योपुनोदार्थ श्लोकद्वय मुदीरयेत् | देवित्वत्पद्गतं चित्तं पादाक्रांतमभून्ममे | तन्तिवारयत्रित्तान्मे पापं हूं फडतेन सः || सूर्यः सोमोयमः कालो महाभूतानि पंच च | एते शुभाशुभस्तेह कर्मणो ममसाक्षिणः || ततः पुन हूंफडिति पार्श्वे मूर्द्ध्नमधस्तथा | आत्मनः क्रोधं सृष्ट्याथ निरीक्ष्य ननुमन् भवेत् || एवं कृते प्रथमतः पापोत् सारणकर्मणि | यत्स्याच्च उत्तरं पापं तद्दरेचाव तिष्ठते || अतीते पूजन स्थानं स्वं प्रयाति पुनश्च तत् | वत्स्यादेल्पतरं पापं तन्नाशमुपगच्छति || पूजनेत्यक्त पापस्य काममिष्ठं क्षणाद्भवेत् | पूर्वमिति पूर्वजन्मनि तदेव दृढं || भोगायतजनकं | शरीरांभकीवृत पापस्य भोगा देवनाशः | तत्पापं दूरे तिष्ठति पूजायां वृत्यायां पुनरात्मानं प्रयाति तद्दिनान्यदिन कृतं एकांतवासं गच्छतीत्यर्थः | यथा सामान्यार्घस्थापनो तदुक्तं मुड्डीशं | पूर्वद्वारे वामभागे समान्यार्घं प्रकल्पयेत् || त्रिकोणवृत्त भूविं च मंडलं रचयेत्सुधीः | अधः शक्तिं संपूज्य साधारं तत्र निक्षिपेत् || अस्त्रमंत्रेण संशोध्य हृन्मंत्रेण प्रपूजयेत् | निःक्षिपेत् तीर्थमावाह्य गंधादीन् प्रणवेन तु || दर्शयद्धेनुमुद्रां वै प्रणवं दशधा जपेत् | धेनुमुद्रा पदेन | अमृतीकरणावगुंठन तालत्रय छोटिका दिग्वंधनात्मकं कर्मलक्ष्यति | एकसार्थवाहित्वात् | सामान्यार्घस्यतोयं न पूजयेद्वामपार्श्वयोः | शारदातिलके | द्वारवामेषु त्रिःसंप्रोक्ष्य द्वारपूजां समाचरेत् | ऊर्द्ध्वेदुंवरके विघ्नं महालक्ष्मीं सरस्वतीं || ततो दक्षिणायां विघ्नक्षत्रे समन्यतः | तयोः पार्श्वयुगे गंगायमुन समपुष्पवारिभिः | इहल्यां पूजवेदस्त्रं प्रतिद्वारमिति क्रमात् | अत्र द्वितीय विघ्नपदं वटुकपदमिति || प्. ५५ब्) कुमारीतंत्रे | गांवीजाद्यं गणेशानं वामाद्यं वटुकं तथा | क्षामाद्यं क्षेत्रपालं च यामाद्यं योगिनीं ततः || ऊर्द्ध्वे वामे दक्षिणें च अधश्चैव प्रकीर्तिताः | अथ सामान्यार्घ प्रयोगः | स्ववामे त्रिकोणवृत्त चतुष्टयं स्वमंडलं विलिख्य ह्रीं आधारशतये नम इति संपूज्य फडिति साधारं पात्रं संस्थाप्य नम इति जलेन त्रिभाग पूर्यं गंगे चेत्यादिनां कुशमुद्रया सूर्यमंडलान्तीर्थमावाह्य ओंमिति गंधपुष्पे दृत्वावमिति धेनुमुद्रयामृती कृत्यद्रूमिति अवगुंठ्य फडित्यूर्द्धोर्द्धतालत्रयं छोटिकाभिर्दशदिग्वंधनं कुर्यात् ततः ओंमिति दशधा जपेत् | तेनोदकेन गुरुद्देशं पूजोपकरणं वास्युक्ष्य द्वारदेवताः पूजयेद्यथा तत्र प्रयोग उर्द्धशाखायां गणेशाय नमः वामशाखायां वो वटुकाय नमः | दक्ष शखायां क्षां क्षेत्रपालाय नमः अध च यां योगिनीभ्यां नमः | गणेश पार्श्वयो श्रीसरस्वत्यै वाटक पार्श्वं गंगायै क्षेत्रपार्श्वेयं यमुनायै देहल्यां अस्त्राय फट् इति दक्षिण शाखायांमिति हारस्य ऊर्ध्वं वामे दक्षिणे चेति साधकस्य तेन तंत्रयोर्न विरोधः इति सामान्यद्वारपालाः विशेषस्तु तंत्रे | इति ज्ञेयः इति | ततः विघ्नोत्सारणं | तदुक्तं स्वतंत्रे | भूमिव्योमगता सर्वान् विघ्नजाताम सद्दाक्षतैः सिद्धार्थै तिलसंमिश्रैः प्रोत्सार्य चाशने विशेत् | यामले च | भूतोपसारणं कुर्यान् मंत्रेणानेन साधकः | यस्मिन् कृतिं स्थले भूतादूरयांति सुरार्चने || स्थितेषु तत्र भूतेषु नैवेद्य मंडले यथा | विलंम्यंति सदा लुब्धान गृह्नंति च देवताः || अपसर्पंतु ये भूताते भूता भुवि संस्थिताः ये भूता विघ्नकर्तारस्ते नश्यंति शिवाज्ञया | शारदायां | किंचित् स्पृशन् वामं शाखायां देहलीलंघयेद्गुरुः अंगं संकोचयेन्नंतः प्रविशेदक्षिणां घ्रिणा | गृहप्रवेश मंत्रस्तु उत्तरतंत्रे | ओं मेषफडिति मंत्रेण पूजा वेदीं ततो विशेत् | वेदीमिति गृहाभावे पक्षे वेदी कृत्वा पूजयेत् तत्र वेदी प्रदेशः | गृहपक्षे गृहांते च प्रवेशः इति नित्यपूजायां दीक्षायां च प्रागेव स्फुठं फेत्कारिणीतंत्रे | गंधपुष्पादिभिः सम्यक् द्वारपूजां समाचरेत् | कांश्य घंटार्चनं कृत्वा नैरृत्यांदिशि साधकः || इति कुमारी तंत्रे | नैरृत्यांदिशि वास्त्वीशं ब्रह्माणं च समर्चयेत् | नित्यपूजायामपि | शारदायां | पंचगव्यार्घ्यतोयाभ्यां प्रोक्षयेद्यागमंडपं पंचगव्यं यथा मेत तंत्रराजे | मूत्रस्थं गोमयंस्या २ पलार्द्धं क्षीरं प्रस्थं दधिस्यात् क्षीरतोर्द्धं | आज्यं दध्नोप्यर्द्धमानं प्रदद्यात् स्वैस्वैमंत्रै योजयेत् | पंचगव्यैः | स्वैरिति वैदिके वित्यर्थः | तद्यथा संहितायां गायत्र्या गृह्य गोमूत्रं गंधद्वारेति गोमयो पयः पृथिव्ये दुग्धं दधिक्षाब्दोप्यर्द्धमा तेजोसीति घृतमिति पंचगव्यमुदीरितं | प्. ५६अ) अथवा पंचगव्यानां समाने भाग इष्यते | मूलमंत्रेण संगृह्यते तेनैव परिशोधयेत् | इति दिव्यवीरविषयं | शारदायां | चतुःष्पथां ततः शुद्धिं विदध्याद्वीक्षणादिभिः | वीक्षणं मूलमंत्रेण शरेण प्रोक्षणं मतं || तेनैव ताडनं कुर्या वर्मणाभ्युक्षणं मतं | चंदना गुरु कर्पूर धूपयेत् तदनंतरं || विकिरान् विकिरेत् तत्र सप्तजप्तां क्षुरात्मना | नाजवंदन सिद्धार्थं तस्मादूर्वांक्षं कुशाक्षताः || विकिरा ईनिर्दिष्टा सर्वविघ्नौघनाशनाः | अस्त्रयुक्गे दर्भानां मुष्टिनामार्जयेच्चतान् || इशस्य दिशि वर्द्धन्या आसनाथ प्रकल्पयेत् | पुण्याहं वाचयित्वा तु ब्राह्मणान् परिभोज्य च || उक्तेषु मंडलेष्वेकं वेदिकायां समाविशेत् | उक्तेंषु सर्वतो भद्र मंडलादिषु इदं तु सर्वसामान्यं मंडलं सुंदर्यास्तु विशेष | तंत्रराजे पुण्याहं वाचयित्वा तु ब्राह्मणान् परितोष्य च | सिंदूररज सा वापि कुंकुमेनाथ वा ततः | वेदिकायां लिखेन् मंत्री चक्रराजं मनोहरं || षट्कोणं विलिखेदादौ त्रिकोणं मध्यदेशतः | वृत्तं वसुदलं चैव द्वादशारं वसुद्वयं || द्विदशारं समालिख्य ततोष्टदलमालिखेत् | चतुरस्रं लिखेद्वाह्ये चेतुद्वार समन्वितं || अथवा नवकोणं चतुचतुरस्रं लिखेत् ततः | इदं तु दीक्षायामेव शारदायां | विशेन्मुद्वासने मंत्री प्राङ्मुखो वाप्युदङ्मुखः | त्रिपुरासारे च | प्रागाननो धनदं दिग्वदनोथ वापि वद्धासनो गणपतिं च गुरुं च नत्वात् | तत्र दिशेषो यामले | यत्रावुदंङ्मुखः कुर्यात् पूर्वोत्तर मुखोदिवा | सदोत्तरमुखं कुर्याच्छिव पूजांपि चक्षणः || फेत्कारिण्यां | धृतोत्तरीय सद्वस्त्र उत्तरः प्राङ्मुखः शुचिः | उपविश्यासनं योज्य पद्मं स्वस्तिकमेव वा || पद्मासनेन विद्याथौ कुर्यात् सर्वं समाहितः | प्राङ्मुखोदंङ्मुखो वापि वक्षमाण क्रमेण तु || श्रीकामः स्वस्तिकेनेहपश्चिमाभिमुखस्थितः | शारदायां | वद्ध पद्मासना मंत्री समाहित जितेंद्रियः | दिगासनयो विशेषस्तु कर्मभेदाद्धोद्धव्यः || अथ कुलपीठतर्पण नियमः | तदुक्तं मत्स्यसूक्ते | मृदुचूडकमासीनश्चान्येषु कोमलेषु वा | विष्टरेषु समाश्रित्य साधयेत् सिद्धिमुत्तमां || अर्वाक् सन्मासते गर्भच्युतमाहुर्मुहुंवुधाः | चूडापनयनैहीनै मृतमचूडकं विदुः || निवृत्त चूडको वालोहीनोपनयनः पुमान् | यो मृतः पंचमे वर्षेतमेव कोमलं विदुः || श्रीक्रमे | वीरासनमभावे तु वृतासन शृणु प्रिये | पंचवर्षाभ्यंतराया यावन्मृतं वालमचूडकं || प्. ५६ब्) षण्मासानंतरं यावद समासाच्च पूर्वकं | गर्भच्युतं मृतं वालं गर्भाष्टमात् पुरःसरं || एतत् कोमलमित्याहुर्विष्ठरेषु कुशेवुधा | वीरतंत्रे च | शवाभावो विष्टरे तुं | शवरूपं प्रकल्पयेत् | विष्टरो यथा | उक्तं स्मृतौ | पंचाशड्भिर्भवेद्वृक्षा तदर्द्धेन तु विष्टरं | अत्र विहितं शवासनं मुख्यं तदभावे नृत्वादि धृत्वम उत्क कोमलानां प्रतिविध्यंतरमाअ | मत्स्यसूक्ते | मृदुकंवलमास्तीर्ण संग्राम पतितं हि यत् | जप्तव्या पादितं वापि मृगया नवमासनं || गर्भच्युतया नारीणां अथवा यानिनांत्वचं | त्वचं वा यौवनस्थानां कुर्याद्वीरो वरासनं || श्मशानकाष्ठघचितं पीतं वा यज्ञदारुजां | इति पशुपरं | कोमलाभ्यासन विवरणं | मुंडमालायां | दशाजिनांभरेणाथं चतुरस्रं समं ततः | एकहस्तद्विहस्तं वा चतुरंगुरूस्मृति || विशुद्धे आसने कुर्या संस्कारं पूजनं वुधः | मत्स्यसूक्ते च | द्वातु सारद्वीप चर्मै अचूडं कंवलं तथा | पीत तथा श्वेतवस्त्र तथा आसनाय प्रकाल्पयेत् || प्रोतं चरित्रे तथा अथवा कुंडली कृतिः | मृताल्प नित्यत्वं | कालीतंत्रे | मृतासनं विना देवि पूजयेद्यस्तु कालिकां | तावत्कालं नारकीस्या यावदाहूत संप्लवं || कालीत्युपलक्षणं | कुलादरीतित्यर्थः | श्रीक्रमादि तंत्र विहितत्वात् | एतत्तु दिव्य वीरपरं | पशूनास्ति | कंवलं लंवितं वापि कृष्णे वा व्याघ्र चर्मणि | कृष्णे कृष्ण चर्मणि | तत्र विशेषस्तत्रेदं | संन्यासी ब्रह्मचारी वा वसेत् कृष्णस्य चर्मणि | मुंडमालायां | न दीक्षितां विशेद्यातु कृष्णसारादिग्री उदासी नवानासीन् स्नाना ब्रह्मचारिणः | विशेतं ब्रह्मचारिणः विशेत इत्यर्थः | मुंडमालायां च कृष्णांविनं सर्वसिद्धै ज्ञानसिद्धिमृमादिनी वस्त्रासनं रोगहरं वेवजाप्रीतिवर्द्धनं | कौशेयां दृष्टिदं प्रोक्तो कंवलं सर्वसिद्धिदं | रुद्रयामले भूमौ त्रिकोण मालिख्य वह्निमंडल रूपकं | आधारशक्तिं संपूज्य तत्र ऋष्यादिकं स्मरेत् | आधारशक्ति पूजानंतरं विहितासनरोपः || मेरुपृष्ठ ऋषिप्रोक्तः सुतलं छंद इरितं | कूर्मं त्रिदेवता प्रोक्त त्रास नारोपन प्रिये || विनियोगस्तु कथित पठेद्धृत्वासनं ततः | ओं पृश्वित्वयाधृता लोकादेवित्व विष्णुना धृता || त्वेन धारषुगात्तिन्य पवित्रं कुरुचासनं | इति संपूज्य देवेशि कुशांस्तत्रैव दापयेत् || आसनं पूजातत्रैव | मायावीजं समुच्चार्य आधारशक्ति पूर्वकं | कब्रह्मांसन मालिप्य ङें नमोंतं प्रपूजयेत् || अर्द्धात्र सर्वसामान्यः पशुस्तु सूस्तिकाद्यन्यतमेन दिव्यवीरौ तु वीरासने नैव विशेतं | प्. ५७अ) वीरासनेनोप विशेत् संपूज्यासनं सेवतेति कुमारीतंत्र वचनात् | अथ देवेश विवरणं | उनरातंत्रे | तत आधीरमंत्रेण पाणिभ्यां विनियोजितं | तदाधाय निधायाशुषुनः संस्पृश्यपाणिना || आत्ममंत्रेणोपविशे तदा तस्मिन् वरासने | विनियोजितं आसन पूजासमये भूमौ विनियोजितः | पुनर्भूमौ निधाय दक्षहस्तेन संस्पृश्य आत्ममंत्रेण विशेदित्यर्थः | दुःशिल्पि रचितत्वादि यद्वान्यासन दूषणं | अज्ञानं विलयं याति उपचारं तु मंत्रकं || स्वास्व यस्याक्षरं पूर्वं सोमसान्नि समन्वितं | स विंदुकं विजानीयादात्म मंत्रस्तु साधकः || नाम्न आद्यक्षरं वीजमाधार मंत्रकं विदुः | स्वाश्रयस्य साधकनात्रः | सोमसामि चंद्रार्द्धं आधार इति नाम्नः तेन आं | अथासनो परेशन प्रयोगः कर्तव्य पूजा वेद्याः पश्चिम दक्षिणे वा सामान्यार्घ्यतो यो येनाभ्युक्ष्य त्रिकोणे तु चतुरस्र मंडलं विलिख्य पूर्वान्युभ्युक्ष्य ह्रीं आदारशक्तये नमः | इति संपूज्य स्वस्वविहितासने | इत्यासनं धृत्वामारोप्य | मेरु पृथ ऋषिः सुतलछंदः कूर्मोदेवता आसनरोपने विनियोगः | इति ऋष्यादिकं स्मृत्वा ओं पृथित्वया धृता लोका देवित्वं विष्णुना धृता | वचधारयमां नित्यं पवित्रं कुरु वासनं | इत्यासनं धृत्वा पठेत् | ततः कुशत्रयमासने दत्वा | ह्रीं आधारशक्ति कमलासनाय नमः इति आधारमंत्रेणासनं कराभ्यांमादाय शीघ्रं पुस्तग्रेवनिधाय दक्षिणे न मणिना संस्पृश्य आत्ममंत्रेण दिव्यवीरौ वीरासनेन शंभुस्तु स्वस्तिकाद्यन्यतमेनविशेत् | इत्युपविश्य द्रव्य सोदनं कुर्याद्यथा | शारतातिलके | स्थापये दक्षिणेभागे पूजाद्रव्याणि साधकः द्रव्यासादनस्य दीक्षायांमेवकालः | नित्यपूजायां तु श्रीपात्रस्थापन पश्चादव गंतव्यं | यथा कुलचूडामणौ | कुलपीठं समारुह्य कुलदेवस्य पूजनं | कुलपीठं पुरश्चरण प्रस्तारे उक्तस्थानमित्यर्थः || शुद्धादेशेत नृत्यगीत वाद्यादितोषितः | कुलंतं चाभिसार्य कुलस्थानं प्रपूजयेत् || कुलासनं ततः क्षिप्त्वा तदभ्यर्च्य यथासुखं | कुलाशनं ततो वद्धा गुरुपूजा क्रमेण तु || प्लवीदिन गुर्वादि नमस्कार पूर्वकमित्यर्थः | आत्मशुद्धिं पीठशुद्धिं देवशुद्धादि भेदतः || कृत्वा चार्घ ततो विद्वान् कुर्यात् कुलविचेष्टितं | दीक्षिताभि कुलीनाभिर्युवतीभिः कुलात्मभिः || प्. ५७ब्) देवता गुरुभक्ताभिः संचितं यागभूमिषु | नानाविधानि पुष्पाणि गंधानि विविधानि च || कर्पूरजाती धूपादि वासिता पट्टवासितं | तांबूलं देय द्रव्यं च धूपदीपादिकं च यत् || मूलविद्या जप्ततो यैव प्रोक्षयेत् स्थापितं ततः | सर्वस्वं दक्षिणे स्थाप्यं वामे चार्घ्य निवेशयेत् || पश्चिमे देवतायाश्च कुलद्रव्यानि धारयेत् | तत्र भावानुक्रमेण द्रव्या साधनमवधेयं || कुलद्वारा दिव्यवीराभ्यां मेव तद्धस्तारचितं पुष्पं भक्षं वारचितं जलं तदुच्चारचितं भोज्यं देवताभ्यो निवेदयेत् | इति वचनात् | पशुस्तु समान जाती दीक्षिता द्वारा द्रव्यासादनं कर्तव्यं अन्यान्यपि तत् तत्तंत्रानुसारेनासादनीयानि | इति द्रव्यसादनं कृत्वा शिष्यमाहूय गुरुं वरयेत् | यामले | ततः शिष्यं समाहूय दक्षिणे समुवेश्य च | नानालंकार संयुक्तं वौतवस्त्र समन्वितं || तत आचमनं कृत्वा शिष्योपि विजितेंद्रियः | आजकृतपापार्थस्नात तिलककांचनं || उपविश्य गुरोर्वामे संकल्प्यविधि पूर्वकं | अथ संकल्पः | अद्येत्यादि जन्मकृत पापक्षयं कामः इदं तिलकांचनं विष्णुदैवतं यथा नाम गोत्राय ब्राह्मणयतुभ्यमहं सं प्रददे | इति संकल्प ब्राह्मणाय दद्यात् | गुरुमावरयेद्विद्वान् विधिना भक्ति संयुतान् | गोभूहिरण्यवस्त्राद्यै कुलादिभिरुज्जलैः || अन्यैराभरणाद्यैश्च यथाचित्त स वचयन् | गुरुं संपूजयेद्भक्त्या कृतांजलि पुरस्सरः || गुरुं प्रदक्षिणी कृत्य स्वात्मानं च समर्पयेत् | अथातो भगवात्म स्वरूपिण परमकारुणिक गुरो पुरुषार्थ साधके अमुकविद्या दीक्षाभिषेक पूर्वकं माप्नुसादया पुंदेवताधाता वेदमुक मंत्रदीक्षाभिषेकपूर्वकं माप्नसाधय इति वाच्यं | इत्युक्त्वा तु चिरंतिष्ठे द्विनयी दक्षिणे गुरोः भूतशुद्धादिकं कृत्वा कल्पोक्तन्या समाचरेत् | गुरुद्वारेत्यर्थः | अथ रूप संकल्पः | यथा अद्येत्यादि मास पक्षादीना सुमेखलं कृत्वा अमुकदेवतान्द्राम प्रदीक्षाभिरेक कर्मणि गुरुत्वेन भवं तु महं वृणे | अद्येत्यादि अमुकदेवता अमुकमंत्रदीक्षाभिकर्मणि होतृत्वेनस्तमहंवृणे | अत्र गुरवेत्रहोता | अमुकमंत्रदीक्षाभिषेकर्मणि सदस्यत्वेन भवंत महंवृणे | अद्येत्यादि अमुकमंत्रादीक्षाभिषेककर्मणिकृताकृतावेक्षरत्वेन भवत् महंवृणे | त्रीदेवता पद्मेविद्यादीक्षतेति वाच्यं | एवं द्वारपालादीनां विवरणं | अत्र वरणे संकल्प्यस्यावश्यकत्वं | भविष्ये | संकल्पेन विना विप्रा यत्किंचित् कुरुते नरः फलं चाल्याल्पकं तस्यद्धर्मस्यार्द्धेक्षयो भवेत् | प्. ५८अ) अथ सूतकं | व्रत यज्ञ विवाहेषु श्राद्धेहो मार्चने जपे | आरच्चे सूतकं न स्याद नारच्चे च सूतकं || प्रारंभो वरणं यज्ञे संकल्पो व्रत यज्ञयोः | नांदी श्राद्ध विवाहादौ श्राद्धे वाक्य परिक्रिया || निमंत्रणे तु वा श्राद्धे आरंभस्यादिति श्रुतिः | इति पशूनां कौलिकानां तु | सूतके मृतके चैव कर्मलोपं न कारयेत् | मंत्र मुक्तावल्यां च जपो देवार्चने विधे च कार्या दीक्षाच्चिते जनैः | पापं नास्ति यतस्तेषां सूतकं वा यतात्मनां | ततो विजयां स्वीकुर्याद्यथा | तदुक्तं भावचूडामणौ | विना हेतु कमासाद्यक्षोभ मुक्तो महेश्वर | न पूजा मम संकुर्या न ध्यानं नव चिंतनं || तस्माद् भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरीं | विजयाकल्पे | संविदा सवयोर्मध्ये सम्यग्देवगरीयसी | सष्ठि प्रयोगस्तेनेह पूजादौ साधकोत्तमैः || करव्यश्च महापूजा करणीया सुनिश्चितैः | वीरतंत्रे | आनंदेन विनाभ्रंशो न च तृप्यंति देवताः | सा न चतुर्द्धा श्वेतं पीतं तथा रक्तं कृष्ण प्रसून भेदात् | नासा क्रमेण शुद्धिर्विजयाकल्पे | ओं संविदे बह्मसंभूते ब्रह्मपुत्रि सदानघे | भैरवानां च दत्तार्थं पवित्रा भव सर्वदा | ओं ब्राह्म्यै नमः स्वाहा इति मंत्रेण शोधयेत् | सिद्धिं मूल क्रिया देवि हीन वोध प्रवोधिनी | राजा प्रजा वशकरि शत्रुकंठे त्रिशूलिनि | ऐ क्षत्रियायै नमः स्वाहा शोधयेद परां ततः | अज्ञाने धनदीप्तानिर्ज्ञानाग्निर्ज्वालाग्नेर्ज्ञानरूपिणी | आनंदभ्याहुतिं प्रीतिं सम्यज्ञानं रचक्षते | ह्रीं वैश्यायै नमः | स्वाहा सूद्रां मां शोधयेत् ततः | नमस्यामि नमस्यामि योगमार्गप्रदायिनि | त्रैलोक्यविजये मातः समाधि फलदा भव || क्लीं शूद्रायै नमः | स्वाहा कथितं मंत्रमुत्तमं | ओं अमृते अमृतोद्भवे अमृतवर्षिणिं पदं ततः | अमृतमाकर्षय द्वंद्वं सिद्धिं देहि पदं ततः | आत्मकर्मे ततो व्रूद्वशमानय ततः परं | दिग्वंध छोटिकाभिश्च तालत्रय पुरःसरं | दिव्यदृष्ट्या तथा पार्ष्णिघातैर्विघ्ना न घातयेत् || सप्तधा तर्पयेद्देवि ब्रह्मरंध्र जपन् मनुं | गुरुं पद्मे सहस्रारे तथा शंकेत मुद्रया || त्रिधा च तर्पयेद् भक्त्या साधकः सिद्धिमानसः | ऐं वदवद पदं व्रूयाद् वाग्वादिनि पदं ततः || मम जिह्वाग्रे स्थिरीति भव सर्वपदं ततः | सर्ववशंकरि स्वाहा मंत्रेण जुहुयान्मुखे || मूलं जपन्मनुमिति गुरुपादुकामित्यर्थः | तर्पणं तु परमगुरुदेवतयोरेवं अन्येषां वटुकादीनां संध्योक्त क्रमेणेति | इदं तु दिव्यवीरविषयं | प्. ५८ब्) ततः पंचशुद्धिं कुर्याद्यथा | कुलार्णवे | आत्मस्थान मनुद्रव्य देवशुद्धिस्तु पंचमी | यावस्त कुरुते देवितां देवार्चनी हि | स स्नानवृत सुद्ध्यादि प्राणायामादिभिः प्रिये | षडंगन्यासु नन्यासैरात्मशुद्धिवितीरिताः || सम्मार्जनानुलेपाद्यै दर्पणोदरवत्प्रभं | विमलं धूपदीपादि पुष्पमाला विभूषितां || पंचवर्ण रजः चित्रं स्नानशुद्धिरितीरिता | ग्रथिता मातृका वर्णैर्मूलमंत्राक्षराणि च || क्रमोक्तमाद्विरावृत्तिर्मंत्रसिद्धिरितीरिता | ग्रथित्वेति मातृका प्रत्येकाक्षरेण मूलग्रथनं | न तु मूलप्रत्येक्षकाक्षरस्य अननुष्ठान लक्षणा प्रामाण्या पाठः | अत्र प्रोक्षणात् पूर्वं षठशोधनं कर्तव्यं | पीठे देवीं प्रतिष्ठाप्य सकली कृत मंत्रवित् | मूलमंत्रेण दीपिण्यामभिताष्योदकेन च || त्रिवारं प्रोक्षयेद् विद्वान देवशुद्धिरितीरितो | पंचशुद्धि विधायेत्थं पश्चाद्यजन माचरेत् || सा पूजा सफला ज्ञेया अन्यथा विफला भवेत् | स्वतंत्रे च | पंचशुद्धि विहीनेन कृतेन च न तत्कृतं | पंचशुद्धिं विना पूजा अभिचाराय कल्पते || मात्मशुद्धिः स्थानशुद्धिःर्मद्यस्य शोधनं ततः द्रव्यशुद्धिर्देवशुद्धि प्रकीर्तिता | तत्रादौ आत्मशुद्धिः | स्नानः प्रागेवोक्तं | अथेदानीं भूतशुद्धिरापौ सप्तमृदावृत्तिं कुर्यात् | यथा वशिष्ट संहितायां | ततस्तु कारयेहिहा न सप्तच्छदवृतिं द्विजा | ह्रिं संपुटं कृत्वा ओंकारेण समन्वितं | पूजादौ प्रत्यहं विप्र सप्त कृत्वे जपेन्मनुं | अनेन तु विधानेन संरक्षा मंत्रिते जलः || देवी भूतानि सर्वाणि सर्वे च साधकोत्तमाः | भैरवस्तु सुरदेवो मंत्रतेजंसि लोलुपः || हरंति सर्वतेजांसि सूक्ष्मां सप्तछदंविना | अथ भूतशुद्धिः तत्रादौ गुर्वादि नमस्कारो वाराही तंत्रे | स्वगुरुं चिंतयेत् पूर्वं कपोलस्य च दक्षतः गणेश्वरं च प्रथमेच्छिखायां परमं गुरुं | हृदये देवताश्चैव भूतशुद्धिं समाचरेत् | शिखायां वा इत्यर्थः | स्वश्च गुरुपरमगुरु शब्दयोरेक वाचकत्वात् | तथा शारदायां | कृतांजलि पुटो भूत्वा सव्य दक्षिण पार्श्वयोः | नत्वा गुरु गणेशानं भूतशुद्धिं समाचरेत् || यामले | वामे गुरुं गणेशानं दक्षं मध्ये च दैवतं | अत्र गुरुदेव नमस्कारयोद्वैधे इच्छा विकल्पये गुरुपदेशः शरणं | शारदायां | करशुद्धिं समासाद्य कुर्यात् तालत्रयं ततः | ऊर्द्ध्वार्द्धमस्त्रमंत्रेण दिग्वंधनपि मोनसुः || तेन संचिलितं तेजाः रक्षां कुर्यात् समं ततः | स्वतंत्रे पार्ष्णिघातकरा स्फोट समुदेचितवक्त्रकैः || प्. ५९अ) तालत्रय यथो दद्या स शब्दं संप्रदायतः | फेत्कारिणी तंत्रे | आसीनः प्रणवेनाथ परामृज्य करावुभौ | अंगुलीशु च विन्यस्य अंगमंत्राणि वै क्रमात् || अस्त्रमंत्रेण दिग्वंधं कुर्यात् सर्वासु हिक्षु च | अग्निप्राकारवत् कृत्वा तंतो मंत्रेण साधकः कमदीपिकायां | ततो अस्त्रमंत्रेण विशोध्य पानी त्रितारादि | ग्वंधस्थशशालान् | विधाया भूतात्मक मे तदंगं विशोधयेच्छुद्धति क्रमेण | यामले च | करशुद्धिं गंधपुष्पैः कृत्वा भूतानि वारयेत् | भूतवारणस्तु करमार्जनादि वह्नि प्राकार चिंतनांता कर्मणा तत्पूर्वं पुष्पमर्दनं | तदुक्तं उत्तरतंत्रे | कुसुमं विष्णुमंत्रेण स्वांगुल्यग्रेण साधकः | विमर्दनार्थं गृह्नीयात् करशोधन कर्मणि || प्रासादेन तु मंत्रेण कराभ्यां पुष्पमर्दनं | निर्मज्जेत् कामबीजेन जिघ्रेद् ब्राह्मेण तत्पुनः || प्रासादेन परित्यांगादिश्यैश्यान्यां विशेषतः | सन्मृज्य सव्यहस्तेन घ्रात्वा वामकरेण तु || तीर्थानि च समायांति नासिकाग्रं करं प्रति | तस्माद् यत्नेन कर्माणि कर्माण्येतानि भैरव || उपांतः सादि चंद्रेण रंजितः शुन्य संयुतः रुद्रांते परिसंस्पृष्ठो मंत्रोयं वैष्णवो मतः | पांतादि वा सु देवेन वर्णेनापि च तेन तत् | वह्नि चूडा शिखा विंदु युक्तः प्रासाद उच्यते || कामवीजस्तु विज्ञेयं वा सु देवो विंदुना व्यंजनं चाद्यरंत्यं च प्रांतदंत्यां तु पूर्वकं | अद्यदंत्य द्वयं पश्चाद्व्यं जनं प्रणवोत्तरं | ब्रह्मबीजमिदं प्रोक्तं सर्वपाप प्रणाशनं || उपांतः हः आदि चंद्रेण मस्तकस्य चंद्रखंडेन सहरंजितः | शून्यसंयुतः | अनुस्वार संयुक्त इत्यर्थः रुद्रांते परिसंस्पृष्ठः रुद्र उकारस्तस्यांतोकारः तेन लमिति वीजं सिद्धिः वैष्णव नारसिंह इत्यर्थः | पांतः क्षः तस्यादिहः वासुदेवः ओंकार ततः तेनहौ शंभुचूडाशिखा अर्द्धचंद्रः विंदुरनुस्वारस्तेन प्रासाद वीजसिद्धिः कामवीजं प्रसिद्धं वासुदेवेन ओंकारेण आस्वरेण अनुस्वारयुक्तेन ओंकारेन्.एत्यर्थः तेन ओं क्लीं व्यंजनमित्यादि आद्यदंतं आद्यवर्गाद्यं व्यंजनं स्वरशून्यं तेन तत्रांतदंत्य वर्णः सः तत्पूर्व तेन सदिति | अंत्येदंत्यद्वयं तारकद्वयं तयो मध्ये पश्चाद्यत्तद्वयंजनं स्वरशून्यं तेन तदिति | प्रणवोत्तरं तु ओंकारस्य पूर्वापश्चात् सर्वमित्यर्थः | तेन ओं तत्सिद्धि | शारदायां | सुषुम्ना वर्त्मनात्मानं परमात्मनि योजयेत् | योग युक्तेन विधिना चिन्मंत्रेण समाहितः || कारणे सर्वभूतानां तत्वान्यपि च चिंतयेत् | वीजभावेन लीनानि व्युत् क्रमात् परमात्मनि || यामले | भूतशुद्धिं ततः कुर्यात् स्थिरचित्तस्तु साधकः | विनिधाय निजांके तु समुज्जानौ करदमं || प्. ५९ब्) मूलाधारे मूलविद्या स्वरूपां कुलकुंडली | प्रसुप्त भुजगाकारां सार्द्ध त्रिवलयात्मिकां || नीवार सूकवतश्रीं | विद्युत्कोटि प्रतीकाशां स्वयं भूलिंवेष्टनी | ध्यात्वा अहिंसम्मंत्रेण प्रहा एवेनाथ वा पुनः || कूर्चवीजेन वा देवि दृढं विद्रावयेद् गुरुः | एकीभावं तयो कृत्वा जीवात्म परमात्मनोः || विचिंत्य शून्यं परमं पार्थिवानां जले गतं | जलं च तेजसा कृष्टं तेजोरूपं विधिंतयेत् || निर्द्वाणं वायुनाराध्रिं वायुरूपं विभावयेत् | आकाशेन हृतो वायुः स्वन्नैम न सिलीयते || मनोहंकारवशगमहं तु महदा कृति | प्रकृत्यां च महत्तत्वं प्रकृतिं चिंतयेदथ || प्रकाशरूपिणी न्त्यं ब्रह्मविद्यास्वरूपिणी | कैवल्या कैवल्यं तानि गुणा परमत्रिका || सैषा च परमाज्योति मरमं च निरामयं | सहस्रदल मध्यस्थं शून्यरूपं परं पदं || शून्यं च प्रतिविवं चंद्रसदृशं सूक्ष्मति सूक्ष्म परं | सर्वव्यापि तमो मयंत्र विदितं शून्यं प्रकाशं परं | दृश्या मृश्य विभागभाग सकलं ज्योतिर्मयं सर्वदा | ज्ञात्वा तत्वदेवीं तु साधक वरैःर्दूरी कृतयातका | तत्रैव | * * (?) योगधोघ्राणं ववाह्वाखलन्तथा | जलं रसश्व जिह्वा च पारन्यादानानि वै क्रमात् || तेजोरूपं च चक्षुश्च पादौ च गमनं तथा | वायु स्पर्शोत् वक्व पायुः विसर्गश्च प्रकीर्तितः || आकाशः श्रोत्रं च शवृं रक्षपस्थान संज्ञकौ | मनश्चाहं महत्वंध तत्वमूलादिषु संस्थितं || शारदायां || ततः संशोषयेद्देहं वायुवीजेन वायुना | वह्निवीजेन तेनैव संदहेत् कललां तनुं || विप्रोषयं तदा दोषान् सृते नामृतांभसा | आपाद्य प्लावयेद्देह मायादतलमस्तकं || आत्मलीमानि तत्वानि स्वस्थान प्रापयेत् ततः | आत्मानं हृदया भोजमानयेत् परमात्मना || मनुना हंसदेवस्य कुर्यान् न्यसादिकं ततः | नाभिदेशे वयंकारं धूम्रवर्णं विचिंतयेत् || तेनैव शोधयेल्लिंगं तनुं षोडश मात्रया | कर्मात्मकं चतुःषष्ठ्या कुंभयित्वा समाचरेत् || द्वात्रिंशन्मात्रया दक्षे रेचयेत् तेन वा ततः | रक्तवर्णं वह्निवीजं मेढ्र मूलं विचिंतयेत् || मलासनामेकं लिंगं शरीरं तेन दाहयेत् | पूर्वोक्त क्रमयोगेन दक्षनासा क्रमेण तु || देशिकस्तु तथा संख्यां वा सहस्ते मकारयेत् | वकारं वरुणं वीजं घंटिकायां विभाव्य च || ते नामृतं समुत्पाद्य सहस्रदल पंकजात् | प्लावयेत् पूरकादीनि कृत्वा पादतलावधि || लंकाहं पृथिवीवीजं गुदमूले विभावयेत् | तेनैव क्रमयोगेन धिया संप्लावयेद् वुधः || प्. ६०अ) आत्मानं भावयेन्मंत्री पापपुण्य विनिर्मुक्तं शरीरं शांभवं परं | तेनैव पूर्वमार्गेण संपादायेदनंतरं | सोहं मंत्रेण जीवं तु हृत्सरोजे समालयेत् || पुनस्तां कुंडलीं देवीं परमामृतलोलितां | पंचभूतानि च वुधः स्वस्वस्थाने समानयेत् || आत्मानं भावयेन्मंत्री महाश्रीत्रिपुरालयं | एतन्मते स्थान भेदः दृढी करणादि पूरकादीनि कुर्यात् || ज्ञानार्णवे च | भूतशुद्धि विधिं वक्ष्ये कुर्यात् प्राणायाम क्रमेण तु | वायुवीजं समुच्चार्य षट्काशांतर्गतं महत् | कृष्णवर्णं महेशानि शोषयेद्धैतेन वै तनुं || वामकुक्षि स्थितं पापं पुरुषं कज्जलप्रभं | ब्रह्महत्या शिरस्कंश्च स्वर्णस्तेय भुजद्वयं || उपपातकरो माणमंग प्रत्यंगपातकं | सुरापान हृदायुक्तं गुरुतल्प कटिद्वयं || खड्गचर्मधरं क्रुद्धं पापं कुक्षौ विचिंतयेत् | चंद्रिकायां | पुररस्यनिभं पापं मनादि भव लंछितं | ब्रह्महत्या शिरस्कं च स्वर्णस्तेय भुजद्वयं || पापेन सहितं शुष्कं कृत्वा तेन क्रमेण तु | वह्निवीजेन सन्नह्य पापेन सहितं शिवे || स्रापपातकरो माणं रक्तश्मश्रु विलोचनं | खड्गचर्मधरं कुक्षौ कृष्णं च वामतः स्मरेत् || तत्रैव | शोषयेत्तेन वीजेन देहं च परमेश्वरि | पापेन सहितं शुष्कं कृत्वा तेन क्रमेण तु || वह्निवीजेन संदह्य पापेन सहितं शिवे | पापेन सहितं पश्चात् प्लावयेन सृतांवुना || प्राणप्रतिष्ठया पश्चाज्जीवं देहि निधापयेत् | फेत्कारिण्यां | लिंगं कार्य हृदिस्थं तु चैतन्यं सर्वसाक्षिणं | प्रणवेन विनिस्मार्य ब्रह्मरंध्राद् विदुर्वुधः || तेनैव संपुटीकृत्य मस्तको परिधा चयेत् | चैतन्य रहितं देवं वाह्यमभ्यंतरस्तथा || नाभिमंडलमध्ये स्थरं वीजेनाश्चिरूपिणा | निर्दहेदथ तद्भस्म राशिर्भस्माकृतिर्भवेत् || हूं मध्यगं हृदिस्थं वा ध्यायेद् वरुण मंडलं | अर्द्धचंद्राकृति श्वेतं पद्मद्वय पदांकितं || ततस्ते नवकारेण प्लावयेन् मधुरूपिणीं | वीजं तु पार्थिवं न्यस्य चिंतयेद्धेम मंडलं || प्रणवेन द्विधा कृत्व तत्र चैतन्यरूपिणं | आत्मानं चिंतयेन् मंत्रदेवता रूपिणं ततः || इति मतांतरं उड्डीशे च | आधारात् कुंडलीं देवीं विशतं तु तनीयसीं | सुषुप्त भुजगाकारां सार्द्ध त्रिवलयान्वितां || विद्युत्कोटि प्रतीकाशां स्वयं भूलिंगवेष्टनी | कूर्चवीजेन तां मंत्री दृढं विद्रावयेत् ततः || पंचभूतेन वै सार्द्धं संहारक्रमयोगतः | ब्रह्ममार्गेण तां देवीं मनोजीवात्मना सह || सहस्रदल मध्ये तु संपूर्णे चंद्रमंडले | तन्मध्यस्थ त्रिकोणांतर्विन्दुरूपे परात्मनि || प्. ६०ब्) संयोज्य वायुवीजेन तत्वं पापसमन्वितां | प्राणायाम क्रमेणैव संशोध्य वह्निना ततः || तामेव स दहेत् पश्चात् कुंभकेन समाहितः | जलवीजामृतेनैव तद्भस्म प्लावनं चरेत् || रेचक क्रमयोगेन भूवीजेन ततः परं | शरीरं सुदृढी कृत्वा शेषं पूर्ववदा चरेत् || इत्यशक्तपरं | पूरणादिं विनापि भूतशुद्धिंस्तत्रैव | अथवा कुंडलीं पंचभूतादिना सह || परमात्मनि संयोज्य तयोरैक्यं विभावयेत् | ध्यान योगेन मनसा हंसः सोहं विभावयेत् || इत्यतदुस्थ पराक्रम दीपिकामतस्तु | वैष्णवपरं | यामले | प्राणायामम कृत्वा तु भूतशुधि मथापि वा | अकृत्वा * (?) धे वन्न्या सात्रार्वयोमधिकारवान् || पंचभूतानि देहेस्मिन् समं तान्येव भूतानि ब्रह्मांशानि विशेषतः | सदैव परशुद्धिः स्यान् मातृकाभिरणादिभिः | तत्र जीवाभिमानेन दोषजालेन चैव हि || ब्रह्मणः स्वकृयेवेति देवा च स्वानि संस्थिताः | देहाभिमानिता चैव ते दोषाः समुदाच्छताः || तेषामात्म परिज्ञाना विज्ञायस्वस्य ब्रह्मतं | अहंकार परित्यागः शुद्धिरित्यवगन्यता || अथ प्राणायाम विवरणं | यामले | प्राणायाम त्रयं कुर्यात् मूलेन प्रणवेन वा | अथवा नयेत् कुर्या श्रीविद्या प्राण सवमः || मूलाधार परालक्ष्मीं ध्यात्वा चैतन्यरूपिणीं | हूंकारेच्चारणो नैवंता मुत्थाप्य समाहितः || मृडया कर्षयेद्वायुं वाह्वं षोडशमात्रया | चतुः षष्ठ्या कुंभकं च तदर्द्धेन विरेचनं || कनिष्ठानामिकांगुष्ठैयन्ना सांपुटधारिणं | प्राणायामः स विज्ञेयस्तर्जनीं मध्यमा विना || एवं क्रमात् क्रमेणैव प्राणायाम त्रयं चरेत् | प्राणाः शरीर पवनाग्रयो मस्तस्य निग्रहः || प्राणायाम इति प्रोक्तः शूरिभिः पापनाशनः | फेत्कारिण्यां || घ्राणायाम त्रयं कुर्यान् मूलेन प्रणवेन वा | उच्चारयंस्तु प्रणवं स्वरेणैकेन मंत्रवित् || उदरं पूरयित्वा तु वामेन यावदास्थितः | प्राणायामां मरणेन पूरको देह पूरकः || पिधाय सर्वगात्राणि निश्वसेत् स्वासवर्जितः | संपूर्य कुंभवन्तिष्ठेत् प्राणायामः स कुंभकः || मुंचेद्वायुं तथैकेनश्चासिनैकेन मंत्रवित् | निश्वास योगमोक्षस्तु वायुं वाह्येन रेचयेत् || रेचकं चैव संप्रोक्तः प्राणायामो न संशयः | ततो द्वादशमात्राभिः पूरकः क्रियते सदा || तस्माद्विगुणमात्राभिः रेचकः क्रियते वुधः | प्राणायाम त्रयं त्वेवमेकैकं त्रितयात्मकं || स्वतंत्रे च | ऋतुचंद्रै नेत्र वामै रसैर्वेदाधिक प्रिये | मात्राभिः प्रणवं त्यक्त्वा पूरके रेचक कुंभकैः || त्रिपुरासारे च | शीतांशुमार्गिण गणैः शमीरमापूरयत् सोदरमादरेण | प्. ६१अ) विकरेतंत्रातिरपेत तंत्रः कालाग्नि मूलार्पित चित्तवृत्तिः | ततो धारये मारुतं धारये पुरे चेताश्चुः षष्ठिमात्राः समाः पूरितंतं | वहिर्भास्वतारे च येन्मंदमेनं तदर्द्धातिरंत निरुद्धंनुतातिः | विपरीतमतो विदधीत वुधैः पुनरप्यथ तद्विपरीतमिति | स्वमनाविधिरासुमनाः स ततो मतों विदधीत सुसंयमं | नं | अथ मात्रा विवरणं | फेत्कारिणीतंत्र | जानु प्रदक्षिणी कृत्य न द्रुतं न विलंवितं | क्रियते चांगुलि स्फोटैरा मात्रा परिकीर्तिताः || स्वच्छंदसंग्रहे | ओंकारोच्चारकालं तु सा मात्रा परिकीर्तिता क्रियासारे | तर्जनी मूलपर्यंतक निष्ठा मूलमादितः | वर्णैः षोडशभिर्भिन्नां मात्रां तां च विदुर्वुधाः || वर्णैः अ आ इत्याद्यैः एवं ६४३२ इत्यर्थः | मात्रा संख्या मात्राद्वैधे शक्ता शक्तभेद व्यवस्था | स्वतंत्रे मनो जीवात्मनः शुद्धिः प्राणायामेन जायते त्रिपुरासारे | अयं प्राणायामः सकलदुरितंध्वसनकर इत्यादि फल कथनं | योगधूस्तावे विस्तारः | एतत् प्राणायामे भू क्रमेण भूतशुद्धिं कुर्यात् | तत्र प्राणायामः कुत्रापि भूतशुद्धेः पूर्वं कुत्रापि भूतशुद्धिः पश्चात् | इति भेदस्तत्तंत्रे ज्ञेयः | ननुनस्तावत् क्रमः | मात्रा योगः पूरकादि योगो वा | वामनासादि योगो वा सत्यं एतैर्मात्रा योगपूरकादि योग वा मनासादि योगे भूतशुद्धिं कुर्यात् | क्रमस्थायमेव कुत्रापि पूरक समये शेषः कुंभक समये दाहः रेचमं समये अमृतीकरणं | तन्मते तस्मारर्णनास्ति | भस्मीभूतस्य शरीरस्य प्लावनं | इत्यशक्त परमिति प्रागे वोक्तं ततो देवी रूपमात्मानं विचिंत्य प्राणप्रतिष्ठा कुर्यात् यथा | शारदायां | पाशादि त्र्यक्षरात्मांते स्पदमुष्यपदं ततः | क्रमात् प्राण इह प्राणास्तथा जीव इह स्थितः || अमुष्य सर्वेन्द्रियाणि भूयामुष्यपदं भवेत् | वाङ्मनो नयन श्रोत्र घ्राण प्राण पदान्यथा पश्चादिहागत्य सुखं | चिरं तिष्ठं तु उद्वयं | अयं प्राण मनुप्रोक्त सर्वजीव प्रदायके | इति चलासने प्राण प्रतिष्ठा मंत्रः सामान्यः || स्वतंत्रे | देवी रूपं ततो ध्यायेदात्मानं कमले क्षणे | ततो जीवं प्रविन्यस्य प्राणादि त्र्यक्षरेण च || द्वाण मंत्रेण युक्तेन ततो मुष्याः पदं वदेत् | प्राणा इति वदेत् पश्चादिह प्राणस्ततः परं || आमुष्या जीव इह च स्थितो मुष्याः पदं ततः | सर्वेन्द्रियाण्य मुष्याश्च वाङ्मनो नयनात् ततः || श्रोत्र घ्राणपदात् प्राणा इहागत्य सुखं चिरं | तिष्ठं तु वह्नि जायांतः प्राणमंत्रोयमीरितः || त्रिपुरायाश्च यथा ज्ञानार्णवे | मुखवृत्तिं समुच्चार्य हंसस्तु विपरीततः | मुद्धरेत् परमेशानि विद्येयं त्र्यक्षरी मता || प्. ६१ब्) अमुष्या इत्यादि ऊहनीयं | अत्रामुष्येति पद स्थाने विभक्ति रचनक साध्य देवतानाम ग्राह्यं | तदुक्तं नारायणी संहितायां | अदः पदं यद्रूपं यत्र स्थाने हि दृश्यते | साध्या विधानं तद्रूपं तत्र स्थाने निवेशयेत् | जवन्यासे मुद्रा यथा यामले | तर्जनी मध्यमाः समं कुर्यादधौ सुखं | अनामायां क्षिपेद्वृद्धामृज्वी कृत्वा कनिष्ठिकां | लेलिहानाम मुद्रेयं जीवन्यासे प्रकीर्तिता || तत आत्मानं पूजयेद्यथा | नारायणीये | विना नैवेद्यमुने मुपचारैः समर्चयेत् | उत्तरतंत्रे | पाणि कच्छपिकां कुर्यात् कूर्ममंत्रेण साधकः | तत्र संस्कृत पुष्पेण पूजयेदात्मावपुः || पूजिते तेन पुष्पेण देवत्वं स्वस्य जायते | द्वितीयं वैष्णवी तंत्रवीजं विंदुसंयुतं || षष्ठ स्वरो परिचरं कूर्मबीजं प्रकीर्तितं | द्वितीयं वैष्णवी तंत्रवीजकाः अन्यसुगमं || मुद्रा ध्यान प्रस्तारे ज्ञेया | अथ भूतशुद्धि प्रयोगः | श्रीगुर्वादि प्राणामात्परं | कूर्चवीजेन गंधपुष्पं अंगुल्यग्रेण गृहीत्वा प्रादेन मर्दयित्वा कामवीजेन पाणिपृष्टद्वयं निर्मज्य ब्रह्ममत्रेण तथाघ्राय वामेन पाणिना प्रासादेन ऐशान्यांदिशि निक्षिपेत् | ततः प्रणवेनास्त्र मंत्रेण वा करौ संमार्ज्योग मंत्रान अंगुलीषु विन्यस्य पार्ष्णिघा तत्रयं दत्वा अस्त्रमंत्रेण तालत्रयं दत्वा छोटिकाभिर्दशदिग्वंधनं कृत्वा सामान्यार्घ जलेनात्मानं संवेष्ट्याग्नि प्रकारं विभाव्य स्वांगे उत्तान करौ कृत्वा मूलाधार स्वाधिष्ठाने मणिपूरानाहत विशुद्धाज्ञा सहस्रदलकमलानि विभाव्य हूंकारेण प्रणवेन वा प्रफुल्लतां विभाव्य गुदाकुंचन पूर्वकं पवन दहन योगात् कुलकुंडलिनीं चैतन्यं विधाय हंस इति मंत्रेण तं जीवात्मना सहमंत्तत्वो परिसंस्थाप्य मूलाधारादिभ्यः पृथिव्यादि पंचतत्वं चतुर्विंशति तत्वैः सहकुंडलिन्यां लयं विभाव्य कुंडलिन्यां लयं विभाव्य कुंडलिनीं परमशिवेन मंगमयय शून्यं विश्वं दिचिंत्य यमिति वायुवीजं धूम्रवर्णं वामनासापुठे विभाव्य षोडशारं जप नवामना सा पुटेन वायुना पूयय चतुःषष्ठि मात्रयां उभयनाड्या कुंभयित्वा हृत्स्थ षड्विंदुलांछित वृत्त मंडलस्थद्वायुवीजाद्वान्नोतन वायुनाषाय पुरुषेण सहसंशोष्य द्वात्रिंशन्मात्रया दक्षेण वायुं रेचयेत् | ततोरमिति वह्निवीजं जपद्धवासनासा पुटेन वायुनापूर्य चतुःषष्ठिमात्रया उभक्तवर्णं विभाव्य दक्षनासया वायुमापूर्य कुंभयित्वा पापेन सह नाभिस्थ स्वस्तिक भूषित त्रिकोणमंडलस्थ वह्निवीजाद्वायु तेन वह्निना शरीरं संदह्यमस्मना सहरेचयेत् | प्. ६२अ) वामेनरेचत् | ततो रमिति वरुणवीजं शुक्लं विभाव्य वामेन वायुमापूर्य कुंभयित्वा | वरुणमंत्रं घटिकायां विभाव्य तदुद्भवामृतेन मातृकां तु स्वरूपेण दग्धशरीरं प्लावयित्वा दक्षिणेन रेचयेत् | ततः पृथ्वीजं गुदमूले विभाव्य नूतनं शरीरं विभावयेदिति केषां चिन्मते दृढीकरणेपि कुर्यात् | ततः पंचतत्वै सहपंचभूतानि स्वस्वस्थाने संस्थाप्य कुंडलिनीं ममृतलोलितां कुलकुंडेषु संस्थाप्य स्वदेवीं रूपमात्मानं विभाव्य प्राणप्रतिष्ठां कुर्याद्यथा लेलिहान मुद्रा हृदिहस्थं दत्वा आं ह्रीं क्रों हंसः इष्टस्य प्राणा इह प्राणाः ५ जीव स्थितः | सर्वेन्द्रियाणि वाङ्मनश्चक्षु श्रोत्र घ्राण प्राणा इहागत्य सुखं चिरं तिष्ठं तु स्वाहा | इति प्राणान् संस्थाप्य साहं साहमिति विभाव्य कूर्ममुद्रयाक्लुमिति पुष्पं दत्वा विना नैवेद्यं गंधाद्यै संपूज्यन्यासान् कुर्याद्यथा | फेत्कारिणीतंत्रे | ऋषिछंदो देवता निशिरोवदन हृत् सु च | स्मरेजपादथात्मानमलं कृत्य ततोर्चयेत् || स्मरेन्यसेदित्यर्थः | ऋष्यादिन्यासानंतरं मलंकारी भूत्वा पूजयेदित्यर्थः | शारदातिलके | ऋषिछंदो देवतानि न्यसेन् मंत्रस्य मंत्रचित् | आत्मनो मूर्द्ध्नि वदने हृदये च यथाक्रमं || स्वतंत्रे | ऋषिन्यास मूर्द्ध्निदेशे छंदस्तु मुखपंकजे | देवतां हृदये चैव वीजं तु गुह्यदेशके || शक्तिं च पादयोन्यस्य सर्वांगे कीलकं न्यसेत् | फेत्कारिणीतंत्रे | ऋषि छंदो देवतानि स्मृत्वा न्यासं समाचरेत् | गौतमीये | महेश्वरमुखा ज्ञात्वा यः साक्डात् तपसामनुं | संसाधयाति शुद्धात्मा स तस्य ऋषिरीरितः || गुरुत्वान् मस्तके चास्य न्यासस्तु परिकीर्तितः | सर्वेषां मंत्र तत्वानां छादना छंद उच्यते || क्षरत्वात् पदत्वाच्च मुखे छंदः समीरितं | सर्वेषां मेव जंतूनां भाषणात् प्रेरणात् तथा || हृदयांभोज मध्यस्थां देवतां विन्यसेत् ततः | दक्षिणामूर्तौ | निःसरंति महामंत्रा महाग्रे स्फुलिंगकत्वा तथैव मातृकावर्णानिसृता वाग्भवात् प्रिये | अत एव तदेवास्या वाग्भवं वीजमुच्यते | यस्य यस्वीजं तस्मादेव तन्मंत्रारंभका मातृकावर्णा उत्पन्नास्तेन तन्मंत्री वूजत्वं इति योषित् पररूपे स्फुरंती विश्वमातृका | महामोहेन देवेशी कीलयंति जगत्रयं | अनस्तुत् कीलकं देवि तेन सौभाग्यगर्विता || वीजानां जगन्मोहकत्वं पालयंती जगत्संवर्तनासौ शक्तिरुच्यते | इति वीजादि विवरणं | ऋषिछंदोत विद्वानानु मंत्रः फलभाग्भवेत् | दौर्वल्ययाति मंत्राणाम्. विनियोगमजानतां || सर्वन्यासे नमः शब्दयोगाच्चतुर्थ्यत एव प्रयोगः | तेन ऋषये नम इत्यादि | केचित्तु ऋष्यादीनामति नान्यसेत् | प्. ६२ब्) प्राग्रेव कुर्वंतित चिंत्यं विनियोगस्यैवं ज्ञानं तु न्यासः | तन्नुशाब्दंतेन विनियोगस्यैवाभिलापः इति एतन्यासानंतरं शारदायां | विधाय मूलमंत्रेण प्राणायामं यथाविधिः | विदध्यान् मातृकान्यासं मंत्रन्या समनंतरं || अंगुष्ठाद्यंगुलीषुवन्यसेदंगै स जातिभिः | अस्त्रंतु तलयोर्न्यस्य कुर्यात् तालत्रयादिकं || दिशस्तेनैव वध्नीयात् छोटिकाभिः समं ततः | फत्कारिणीतंत्रे | अंगन्यास करन्यासौ देहन्यास इति त्रिधा | उत्पत्तिं स्थिति संहारभेदभिन्नगुणेन सः प्रथमं स्यात् करन्यासो देहन्यासस्तु मध्यतः | अंगन्यासस्तृतीयं स्यादिति शास्त्रस्य निश्चयः | ओंकारं संपुटी कृत्वा मनुना व्यापकं चरेत् || इति देहन्यासः | अत्र शारदामते | ऋषिन्यासात् परं प्राणायामः तत्परं मातृकान्यासः तदनंतरं मातृकान्यासस्तत्परं करषडंगौ तत्परमन्यसाः इति दीक्षायामेवं | फेत्कारिणीमते ऋषिन्या सात्परं करांगन्यासौ ततो मंत्रन्यासः इति नित्यपूजाक्रमः | मूलेन व्यापकं न्यासे इति मंत्रन्यासः | अंगे अंगमंत्रैः सजातिभिः जातिमंत्र मुक्तैस्तेनैवास्त्र मंत्रेणैवांगुष्ठादिष्विति प्रायेण इति शारदार्थः | अथ करन्यासस्य सृष्टिस्थिति संहाराः फेत्कारिणीये | वृद्धांगुष्ठं समारभ्य कनिष्ठांतं तथा पुनः उत्पत्ति संगको न्यासः संहारोस्य विपर्ययः | मध्यमा मूलमारभ्य उभयोरपि हस्तयोः | तर्जन्यं तंत्ररेन्न्या संस्थितिर्न्नाम महोदयः || अथ देहन्या साः सृष्टिस्थिति संहाराः | तत्रैव | शिरः प्रभृति पादांतं नयसं उत्पत्तिरिष्यते | पादांतिकः शिरो तश्चसात्म संहारणं भवेत् || उदरोप क्रमोन्या सोकृदयातस्थितिर्भवेत् | फेत्कारिणीये | कूर्परादि कनिष्ठांतं करस्याह पूर्वतः सर्वेएंगेषु च विन्यस्य क्रमेणैवो क्रमेण च | मूलमित्यर्थः | अन्याश्रवणात् | अत्रायं क्रमः ऋष्यादिः कूर्परादिन्देहन्यासः करषडंगन्यासौ ततोन्यन्यासाः | इति नित्यपूजायां | करंगन्यास मंत्रास्तलपृष्ठावधि क्रमात् | अथांगन्यासः शारदायां | इत्यादि स्थानोल्लेखे प्रमाणं तंत्रराजे | वाला वीजत्रयादूर्द्ध्वं ततस्त्रिपुरसुंदरीनाम इत्यमुलांगुष्ठाद्यंगुलीभ्यां नमोंतिकाः | न्यस्तव्याया समं वाह्यास्तल पृष्ठावधि क्रमात् | षडंग मंत्रानि त्युक्त्वान् षडंगेषु नियोजयेत् || पंचागानि मनोर्यस्य तत्र मंत्रमनुर्यजेत् | अंगहीनस्य मंत्र स्वेनैवांगानि कल्पयेत् || पदाक्षरं मंत्रावृत्या | तदुक्तं स्वतंत्रे | अनुक्तांगेषु मंत्रेषु पदर्शो वर्णमोपि वा स्वेनैवांग करन्यासांगानि मूलेन सकलेन वा | फेत्कारिणीतंत्रे | छदि मूर्द्ध्नि शिखास्थाने वाहौ पार्श्वे च दिक्षु च | नेत्रयोरंग मंत्राणांषा श्रीन्यासः क्रमाद् भवेत् || प्. ६३अ) अस्त्राष्टान्यंग मंत्राणि शैवे शाक्ते विदुर्वुधः | नेत्रांतानि तथोक्तानि वैष्णवन्यास पूजने || अथ जाति विवरणं | हृदये विधि नमोनि मुंच्याच्छिरसि द्वितयं वषट्शिखायां | कवचे हुति स्मृतं तु नेत्रेननु वौषट् कथितस्तु फट् तथा | तथास्त्र इत्यर्थः | चंद्रिकायां | नम इत्याद्यधिकृत्य जातयः षट् क्रमादेताः षडंगए नियोजयेत् | अथ मुद्रा | फेत्कारिण्यां | अंगुष्ठवर्जमंगुल्यश्च तस्रो हृदि मूर्द्धनि | शिखायां मुष्टि वैवस्यादंगुष्ठ कृतनालकः || सर्वांगुलीभिरानाभेः पाण्योः कवच वंधनं | तर्जन्या त्रिनेत्रे अस्त्रे हस्त तलद्वयं || हस्तयोरंगुलीभिर्वा ततो वै वधयेदिशः | अंगुष्ठ तर्जन्यग्राभ्यां दिशः पूर्वादिकं क्रमात् || मध्यमानामिकाभ्यां तु न्यसेच्छिरसि मंत्रवित् | शिखांगुष्ठेन विन्यस्य सर्वाभिः कवचं न्यसेत् || हृद्वातैर्नेत्रदिग्नागे विन्यसेत् परमेश्वरि | तर्जनी मध्यमाभ्यां तु ततोस्त्रं विन्यसेत् प्रिये || ज्ञानार्णवे च त्रिद्वेकदश कृत्रिद्वि संख्याया शैलसंभवे | अत्राद्वैधे गुरुः गुरुस्मरङ्ं | अथ मातृकान्यासः ज्ञानार्णवे || षडंग क्रमयोगेन मातृकां विन्यसेत् ततः | ऋषिर्ब्रह्मास्य मंत्रस्य गायत्री छंद उच्यते || देवता मातृका देवी वीजं व्यंजन संचयः | शक्तयस्तु सुरा देवि षडंगन्या समाचरेत् || अं आं मध्ये च वर्गस्तु इं ईं मध्ये च वर्गकं | उं ऊं मध्ये ठ वर्गं तु ए ऐं मध्ये त वर्गकं || ओं ओं मध्ये प वर्गस्तु विंदुयुक्तं न्यसेस्तिये | अनुस्वार विसर्गांतर्य शवर्गौ स लक्षकौ || इति कर षडंगन्यास मंत्राः शेषं पूर्ववत् | स्वतंत्रे च | ऋषिर्ब्रह्मा भवेत् संगात् गायत्री देवता पुनः | देवता व्यंजनं वीजं शक्तयस्तु स्वरास्ततः || अयक्तं कीलकं ज्ञेयं न्यसेदुक्त क्रमेण तु | सडंग मातृकायास्तु कारयेत् साधकस्ततः || स्वराणां क्ली वहीनानां स विंदूनां क्रमेण तु | युग्म युग्मांतराले च पंचवर्गं स विंदुकं || निःक्षिपेद्यादिवर्गांस्तु शेषवर्णांतरालके | क्ली वहीनानां ऋ ॠ ऌ ॡ वर्जितानां | इति न्यासंविधाय ध्यानं तत्र मातृकायाः सृष्टि स्थिति संहारभेदेन ध्याने न्यासेपि भेदः यथा शारदा तिलकं | न्यसेत् सर्गान्वितां स्वेष्ठ्या ध्यात्वा देवीं यथाविधि | सर्गविद्वांतिकां न्यस्येच्चांताभ्यां स्थिति वर्मना || विंद्वक्तमिमान्यस्येत् संस्कृत्य प्रतिलोमतः | ध्यानानि तत्र क्रमतः | पंचाशल्लिपिभिर्विभक्त सुखदोः यन्मध्यस्थली भास्वन्मौलि विवद्धरत्न सकलोमापी न तुंगस्तनौ | मुद्रामक्षगुणं सुराद्यकलशं विद्यां च हस्तां वुजौर्विभ्राणां विषद प्रभां त्रिनयनां वाग्देवतामाश्रयेत् | इति सृष्टि मातृकायाः | शारदातंत्रे | प्. ६३ब्) न्यसेत् पूर्वापिता नन्यास्तानुष्ठादीन षंगतान् ध्यायेद्वर्णेश्वरी मत्र वल्लभेन समन्वितां | सिंदूरकांति रसना तरुणं त्रिनेत्रं | विद्याक्षि सूत्र मृगयोत वरं दधानं | पार्श्वस्थितां भगवतीमपिकां च नाभां ध्यायेत् कराब्जधृत पुस्तक वर्णमालां | इति सृष्टिमातृकाया | संहारमातृकायर्था | शारदायां | न्यसेत् पूर्वोदितानन्यासानृष्यादीनि संयुतान् | ध्येया वर्णमये पद्मे देवी वाग्वल्लभा शिवा || अमुस्रंतां हरिणयोत मुदग्रटंकं विद्यांकरै रविरतंदधंती त्रिनेत्रां | अर्द्धेन्दु मौलिमरुणामरविंदुवासा वर्णेश्वरी प्रणमतस्तनभारनस्रां | अथांत मार्तृका | ज्ञानार्णवे | द्यष्टपत्रांवुजे कंठे स्वरान् षोडश विन्यसेत् | द्वादशच्छद हृत्पद्मेकादीनि द्वादश विन्यसेत् || दशपत्रांवुजे नाभौ उकारादीन्न्यसेत् ततः | षट्पत्रा लिंगमध्यस्थे वकारादीन्यसेच्च षट् || आधारे चतुरोवर्णान् वा दीन्यस्य चतुर्दले | हक्षौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत् प्रिये || अन्यः प्रकारास्तु अंतर्याग प्रस्तावे ज्ञेयः | अथ न्यास स्थानं श्रीक्रमे | ललाटमुखवृत्ताक्षि श्रुति घ्राणेषु गंडयोः | उष्ठदंतेषु मंगास्येदौ यत्संध्यग्रकेषु च || पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयेशके | ककुद्यंशे च हृत्यर्ष्वं पाणि पादयुगे ततः || जठरानन योर्व्याप्त्या न्यासदित्यं तु रूपिणीं | व्याप्त्येति हृदयेन सहकर युगादि मुखांतेषु स्पर्श इत्यर्थः | स्वतंत्रे | ब्रह्मरंध्र तथार्वक्त्रेवेष्टने नयनद्वयोः | श्रुति नासा पुटद्वंद्वगंडोष्टद्वय केषु च || छंदयुग्मे च मूर्द्धास्य द्वयोः षोडश विन्यसेत् | दोःपत् संधिषु साग्रत् सुपार्श्वयुग्मेन्यसेत् क्रमात् || पृष्ठनाभिद्वयै चैव जठरे विन्यसेदथ | त्वगस्वङ्मासमेदोस्थिमज्जाशुक्राणि धातवः || प्राणजीवौ च परमौ यकारादिषु संस्थितः | एवं क्रमेण देवेशिन्यस्तयाः समुदा कृताः || हृदोर्मूलेपि संन्यस्य तथा परगलेन्यसेत् | संतुतौ मुखादि स्थाने मुखादि स्थानेक्षं नमः करमूले कृदारभ्य पाणिपादद्वये तथा | जठरानन योर्याप्तिन्यसेदित्यं तु रूपिणीं | इति सृष्टि क्रमेण वर्णानां स्थान प्रदर्शनं सृष्टौ ललाटादि स्थाने अं नमः इत्यादि न्यसेत् | स्थितौ गुल्फादिस्था नेत्रं नम इत्यादि क्रमेन्यसेत् | संजुतौ मुखादि स्थाने मुखादिस्थानेक्षं नमः इत्यादि क्रमेण न्यसेत् | अथ मुद्रा | यथा ज्ञानोड्डीशे | ललाटे नामिका मध्ये विन्यसेन् मुखवृत्तके | तर्जनी मध्यमा नामावृद्धानामा च नेत्रयोः || अंगुष्ठ कर्णयोन् यस्य कनिष्ठांगुष्ठकौनसोः | मध्यास्तिस्रो गंडयोश्च मध्यमांमोष्ठयोर्न्यसेत् || अनामादंतयोर्न्यस्य मध्यमानुत्तमांगके मुखेनामा मध्यमां च हस्तपादे च पार्श्वयोः | प्. ६४अ) कनिष्ठानामिका मध्या च पृष्ठदेशे च विन्यसेत् | ताः सांगुष्ठानाभिदेशे सर्वाः कुक्षौ च विन्यसेत् || हृदये च तलं सर्वं मंशयोश्चककुस्थले | हृत्पूर्वहस्तपात् कुक्षि मुखेषु तलमेव च || एतास्तु मातृका मुद्रा क्रमेण परिकीर्तिताः | अज्ञात्वा विन्यसेद्यस्तु न्यासः स्यात् तस्य निःष्फलः || न्यासे विशेषस्तु कुलमूलावतारे | पंचाशदक्षरन्यासः क्रमेण परिकीर्तितः | ओंमाद्यंतो नमोत्तारा स विंदुवर्जितः || पुत्रप्रदः स विसर्गः सोभयो भक्तिदायकः | माया लक्ष्मी वीज पूर्वो वाग्भवाद्याथ वा पुनः || त्रितारा घोरमाद्या वैन्यस्तव्यः साधकोत्तमैः | अस्यार्थः ओंकार पुटितः वा शब्दोत्र समुच्चये तेन स विंद्वादि चतुःप्रकारेषु ओंकारपुटितत्वं नमः शब्दयोगस्तु सर्वन्यास साधारणः स विंदुर्विन्दु मात्र युक्तः विंदुवर्जितः विंदु शून्यः | सविसर्मः विसर्ग मात्रा सतिः | सोतयः विंदु विसर्गयुक्तः एतः चत्वारः प्रकाराः | अन्यत् फलकथनं वीजयोग फलातिशयः | तथा चोक्तं तंत्रसारे | चतुर्धा मातृका प्रोक्ताः केवला विंदुसंयुता | स विसर्गौ सोभया च रहस्यं शृणु कथ्यते || विधाकरी केवला च सोभया भक्तिदायिनी स विसर्गादास्यत् स विंदुर्वित्तदायिनी | मालिनीतंत्रे च | शुद्धं विंदुयुतं विसर्गं सहितं कृल्लेखया संयुतं वाला संपुटितं तथा च परया श्रीविद्ययालंकृतं | आरोहावारणं च कुरुते न्यासं च हंसात्मकं यो जानाति समुवजगतां सृष्टि स्थितिधंसकः | एतन्मते सप्तप्रकारास्य मातृका अथ सामान्यतोन्या समुद्रा | मनसा वा न्यसेन्न्यासा न पुष्पैर्वा नमयाथ वा | अंगुष्ठानामिकाभ्यां तु न्यसेद्वां सर्कमर्मसु || एवमेव विधानेन न्यासानन्यान् समाचरेत् | उक्तानुक्तानां न्यासानां मुद्रानुक्ता एभिः प्रकारर्न्यसेदित्यर्थः | यथा फेत्कारिणीतंत्रे | उत्पत्ति संज्ञको न्यासः प्रथमाश्रमवासिनां | गृहस्थानां स्थिति न्यासः संहाराख्यायते भवेत् || क्रमदीपिकायां च | न्यासः संहारांतो मदरेखान्यासेषु विहितायां स्थित्यंतो गृहमेधिषु सृष्ट्यंतो वर्णिनामिति प्राहुः | वैराग्यमुक्ति गृहस्थे संहारं केचिदाहूराचार्याः | सहजानो वनवासिनि स्थितिं च विद्यार्थिनां सृष्टिं | स्वभावतस्तु ब्रह्मचर्यादीनां सृष्ट्यादिषु यथाक्रममधिकारः | ते यदा फलार्थिनस्तदा नियमोनास्तीत्यर्थः | फलं तु कुलमूलावतारे | सृष्टेस्तु सुत पुष्पादि स्थितेस्तत्पालनं | संहृतेर्दोषसंहारस्तस्मात्रितयमाचरेत् | अथ पीठन्यासः पूर्वं स्वस्वकल्पोक्तन्यासाः | तदुक्तं सारदातंत्रे | स्वस्वकल्पोक्त विधिना न्यासान्यासान् समाचरेत् | प्. ६४ब्) अथ पीठन्यासः | शारदातिलके | कल्पयेदात्मनादेहे पीठं धर्मादिभिः क्रमात् | अंशारुयुग्मयोर्विद्वान् प्रादक्षिण्येन देशिकः || धर्मज्ञानं स वैराग्यमैश्वर्यं चाप्यनुक्रमात् | मुखपार्श्वनाभिपार्श्वे अधर्मादीन् प्रकल्पयेत् || धर्मादयः स्थिता पादाः पीठगात्राणि चापरे | अनंतहृदये पद्ममस्मिन् सूर्येन्दु पावकान् || एच्छ स्वस्वकलान्यस्येनामाद्यक्षरपूर्विकाः | सत्वादी त्रिगुणान्ये तथैवात्र गुरुत्तमः || आनंदमंतरात्मानं परमात्मा स एव तु | ज्ञानात्मानं प्रविन्यस्य न्यसेत् पीठमनुत्ततः || एवं देहमये पीठे पूजयेदिष्ठ देवतां | इति सर्वसामान्यं | कुमारीतंत्रे | पीठन्यासं ततः कुर्यादाधार शक्तिं पूर्वकं | प्रकृतिं कमठं चैव शेषं पृथ्वीं तथैव च || सुधां वुधिं मणिद्वीपं चिंतामणि गृहं तथा | श्मशानं पारिजातं च तन्मूले रत्नवेदिकां || तस्योपरिमणेः पीठं न्यसेत् साधकसत्तमः | चतुर्दीक्षु मुनीन् देवान् शिवाश्च शवमुंडकान् || धर्मांश्चैव अधर्मांश्च पादगात्र चतुष्टये | हृदिकंदं तथा पद्मं सूर्यं सोमं महेश्वरि || वैश्वानरं तथा सत्वं रजश्वेवतमस्तथा | आत्मानं चैव विन्यस्य शक्ती हृत्पद्मकेशरे || इच्छाज्ञाना क्रिया चैव कामिनी कामदायिनी | स्तीरति प्रियानंदा कर्णिकाया मनोन्मनी || वाग्भवं प्रथमं चोक्त्वा परायै तदनंतरं | अपरायै द्विरुपायै हसौ वाच्य मतः परं || सदाशिव महाप्रेत ङेंतं पद्मासनं ततः | नम इत्येव मंत्रोयं पीठन्यास उदाहृतः || एवं पीठमये देहे चिंतयेदिष्ठ देवतां | इति कालिकायाः | रुद्रयामले | पीठन्यासं ततः कुर्यादुपर्युपरि भेदतः | मंडूकं विन्यसेदादौ रुद्रं कालाग्नि रूपकं || आधारशक्ति कूर्मं च तथानंतं वराहकं | पृथ्वीं सुधा समुद्रं च मणे द्वीपमनंधरं || स्वर्णशैलं रत्नद्वीपे भूमिं नंदनोद्यानमेव च | नानावृक्षमयोद्यानं तथैव कल्पवाटिकां | मंदार वाटिकां पारिजातवाटीं समर्चयेत् || कदंव वनवाटीं च रत्नप्राकारकं तथा | पुष्पराग पद्मरागं गोमेध वज्रकं तथा || वैडूर्यमिंद्रनीलं च मुक्तां मरकतं तथा | विद्रुमंचेति नवक रत्नप्राकार संज्ञकान् || माणिक्य मंडपं चैव सहस्रस्तंभ मंडपं | अमृत वापि कामेवमानंद सापिकां ततः || विमर्षवापिकां वाला तपोद्दारकमेव च | चंद्रिकोद्दारक महाशृंगार परिखामपि || महापद्माटंवी कल्पवृक्षस्तं पूजयेत् ततः | ततःश्चिंतामणि गृहं रत्ननिर्मितवेदिकां || पूर्वाम्नाय मयं पूर्वे द्वारं समर्चयेत् ततः | दक्षिणे पश्चिमे सौम्ये तत् तदाम्नायमथथ || तव सिंहासनं श्वेतछत्रं मृद्भि प्रपूजयेत् | धर्मं ज्ञान च वैराग्यं ऐश्वर्यं चाग्नितो यजेत् || प्. ६५अ) अपूर्वान् पूजयेदेतान् दिक्षु पूर्वादितः क्रमात् | अथांतरात्म परमज्ञानात्मानः क्रमेण तु || चक्रमध्यस्थ पद्मं च कदम्.व सुदलं ततः | नालमूर्द्धाच्छदाधश्च तत्वरूपां च चंद्रिकां || मंडलं चंद्रसूर्येन्दोः सत्वं रजस्तमस्तथा | ज्ञानमाया कला विद्यात्वानश्च प्रपूजयेत् || नामादि वर्णवीजादि चतुरस्रांतरे पुनः | इशाग्नि निरृति मरुत् मिंद्रीशोड्डीशनाथकं || जालंधरं तथा पीठं पीठं पूर्णगिरि तथा | कामेन पूजयेन् मंत्री क्रमेणानेन पूजयेत् || पूर्वादि क्रमयोगेन फलके वासनस्य च | पृथिव्याश्च पतिं चैव ब्राह्मण मवनीश्वरं || विष्णुं तेजोधियां रुद्रं वायुधीरं तथेश्वरं | दलाष्टकेषु संपूज्याः क्रमात् तु पीठशक्तयः || मोहिनी क्षोभिणी चैव वशिनीस्तंभिनी तथा | आकर्षिणी द्राविणी ह्लादिनी क्लेदिनी तथा || मध्ये पद समुच्चार्य वियत् पदमुदीरयेत् | ततोधिपतये चोक्ता परक्रये योजयेत् || सदाशिवयाथ महाप्रेत पद्मासनाय च | यजेदासन मंत्रेण परेण मनुनाथ वा || प्रेतवीजं समुच्चार्य सदाशिव महापदं | प्रेत पद्मासना येति ततो छन्मनुरीरितः || ततोन्यास क्रमेणैव तस्यो परिमृडासनं | तस्योपरि यजेन्मंत्री प्रसून तूलिकोमसि || कामेश्वरि तथा कामं श्रीमूर्तिं समर्चयेत् | अत्र शारदामते न्यासे धर्मादीनां विधानां पीठपूजायां आधारशक्त्यादीनामिति अनतंत्र मतेन्यास पूजायां चाधार शक्त्यादीनांमिति | अथ यत्र कल्पे मातृकां श्रीकंठ न्यासानोक्तास्तत्र नित्यपूजायां न कार्याः दीक्षायां पुनः कर्तव्याः दीक्षामधिकृत्य सामान्यतंत्र विहितंत्वात् | श्रीकंठस्तु यत्कल्पेस्ति तत्र कर्तव्यः | यत्र नास्ति न कर्तव्य इति अथ श्री कंठादिन्यास कालस्तु मातृकान्यासात् परतः | तदुक्तं स्वतंत्रे | आदौ तु मातृकान्यासः पश्चात् श्रीकंठ उच्यते | इति स्वतंत्रे | विन्यसेन् मातृका स्थाने श्रीकंठादीन यथाक्रमं | पूर्णोदर्यातिष्ठ सार्द्धं मातृकार्ण समन्वितं | श्रीकंठेनंत सूक्ष्मौ च त्रिमूर्तिरमरेश्वरः || अधी शोभारभूतिश्चतिथीशः स्थाणुकोहरः | घंटीशो भौतिकः सद्यो जातश्चानुग्रहेश्वरः || अक्रूरश्च महासेनः षोडश स्वरमूर्तयः | पश्चात् क्रोधीश चंद्रेश पंचांतक शिवोत्तमाः || अथैके रुद्रकूर्मैक नेत्राहु चतुरानना | अजेश सर्वसोमेशास्तथा लांगलि दारुकौ || अर्द्धनारीश्वरश्चोमाकांतःश्चाषाडदंडिनो | स्पुरद्रिमीनमेषाख्या लोहितश्च शिखी ततः || छागलंडद्विरंडेशौ संवहाकालवानिलौ | भुजंगीश पिनाकीश खड्गीशख्यावकेश्वरः || श्वेतभृंगीशनकुलिशिवाः संवर्तकः स्मृतः | एते रुद्राः स्मृतारक्ताधृत शूलकपालकाः || प्. ६५ब्) पूर्णोदरी स्याद्विरजा शल्मली तदनंतरं | लोलाक्षी वर्तुलाक्षी च दीर्घघोणा ततः परं || सुदीर्घमुखि गोमुख्यौ दीर्घजिह्वा तथैव च | कुंडोदव्यूर्द्धकेशी च तथा विकृत मुख्यपि || ज्वालामुखी ततो ज्ञेया खेचरी चैव मंजरी | कपश्चादुल्कामुखी ततः | सुश्री मुखी विद्या मुख्येता सुरशक्तः महाकाली सरस्वत्त्यौ सर्वसिद्धि समन्विता | गौरी त्रैलोक्य मुख्यास्यान् मंत्रसिद्धिस्ततः परं | आत्मशक्तिर्भूतमाता तथा लंवोदरीमता || द्राविणी नागरी ज्ञेया खेचरी चैव मंजरी | रूपिणी वीरिणी पश्चात् काकोदर्यपि पूतना || स्यात् तत्र काली योगिन्यौ शंखिनी तथा | स कालरात्रिः कुब्जिन्यौ कंपर्दिन्यपि वज्रिणी | जया च सुमुखेश्वर्या रेवती रोहिणी तथा || वारुणी वायवी चैव पश्चाद् रक्षो विदारिणी | तथा च सहजा लक्ष्मीर्व्यापिनी माययान्विताः || एता रुद्रांक पीठस्थाः सिंदूरारुण विग्रहाः | रक्तोत्पल कपालाद्यान् अलंकृत कलेवराः || फेत्कारिणीतंत्रे | श्रीकंठोनंतमूक्ष्मौ च त्रिमूर्तिरमरेश्वरः | अर्घाशोभारभूतिश्चतिथीशः स्थाणुको हरः || मिंटीशो भौतिकश्चैव सद्यो जातोप्यनुग्रहः | अक्रूरश्च महासेनः षोडशस्वर मूर्तयः || ततः क्रोधीश चंडेश पंचांतक शिवोत्तमाः | एकरुद्रैस्तु कूम्मैक नेताक्ष चतुराननाः || अजेशः सर्वलोमेशस्तथा लांगलिदारुकौ | अर्द्धनारीश्वरश्चेमोकांतश्चाषाढदंडिनौ || तथा मेषो लोहितश्च शिखी तथा | छव्यलंडद्विरंडौ च स महाकाल वालिनौ | भुजंगीश पिनाकीश स्वड्गीश्वरवकास्तथा || श्वेतभृग्वीश नकुली शिवाः संवर्तकस्तथा | एते रुद्रावर्णेभ्यो जाता जरान्विता क्रमात् || कांतालिंगित देहाश्च शूलकपालपाणयः | आदौ पूर्णोदरी प्रोक्ता विजया शल्मनी तथा || लोलाक्षी वर्तुलाक्षी च दीर्घघोणा ततः परं | सुदीर्घमुखि गोमुख्यौ नवमी | दीर्घजिह्विका | कुंडोदप्यूर्द्धकेशी च ततो विकृतमुख्यपि | खेचरी मंजरी चैव रूपिणी * (?) रिणी तथा || ज्वालामुखी तथोल्काद्या मुखा च श्रीमुखी तथा | विद्यामुखी सुरोत्पन्ना एताश्च सुराशक्तयः || महाकाली सरस्वत्यौ सर्वसिद्धिस्तथैव च | गौरी त्रैलोक्य व्द्यास्या तथा मंत्रात्मशक्तिके || भूतम्मता लंवोदरीद्राविणी नागरी तथा | कोदरी पूतना चैव भद्रकाली च योगिनी || शंखिनी गर्जिनी चैव कालरात्रिः कपर्दिनी | कर्षिणी च महावज्रा जया च स्वमुखेश्वरी || रेवती माधवी चैव वारुण्यापि च वायवी | रक्ताविदाइणी सहजा लक्ष्मीश्च व्यापिनी तथा || माया चैवेति संप्रोक्ताः कादिभ्यः शिवशक्तयः | रुद्रांकस्थाजवा भासा अतिसुंदर विग्रहाः || प्. ६६अ) रक्तोत्पलाक्षि पाणिभ्यां विराजमानवेश्वरः | शारदातिलको श्रीकंठोनंत सूक्ष्मौ च त्रिमूर्तिरमरेश्वरः | अर्घाशो भारभूतिश्चस्तिथीशोस्थाणुकोहरः | फिंडौशो भौतिकः सद्योजातश्चानु ग्रहेश्वरः || अक्रूरश्च महासेन षोडश स्वरमूर्तयः | ततः क्रोधेश चंडीश पंचांतक शिवोत्तमाः || अथैक रुद्रकूर्मैक नेत्रांध चतुराननाः | अजेशः सर्वसोमेशः तथा लांगलि दारुकौ || अर्द्धनारीश्वरश्चेमेकांताश्चाषा हृदंडिनौ | स्पुरंडिमीनमेषाख्याः लोहितश्च शिखी तथा || छगलं डद्विरंडेशौ स महाकालवालिनी | भुजंगेश पिनाकीश खड्गीशाख्य वकास्तथा || श्वेतभृंगीशन कुली शिवाः संवर्तकेस्ततः | एते रुद्राः स्मितारक्ताधृत शूलकपालकाः || पूर्णोदरीस्याद्विरजा शाल्मली तदनंतरं | लोलाक्षी वर्तुलाक्षी च दीर्घघोणाः प्रकीर्तिताः || सु दीर्घस्वास गोमुख्यै दीर्घजिह्वा तथैव च | कुंडो दययूर्द्धकेशी च ततो विकृत मुख्यपि || ज्वालामुखी ततो ज्ञेया पश्चादुल्कामुखी तथा | सुश्री मुखी च विद्या मुख्यताः सुरशक्तयः || महाकाली सरस्वत्यौ सर्वसिद्धि समन्विते | गौरी त्रैलोक्यविद्यास्यान्मंत्रशक्तिश्च ततः परं || आत्मशक्ति भूतमाता तथा लंवोदरी मता | द्राविनी नागरी भूयः खेचरी चापि मंजरी || रूपिणी वीरेणी पऽऽचात् काकोदर्याणि पूतना | स्याद् भद्रकाली योगिन्यौ शंखिनी गर्जिनी तथा || कालरात्रिश्च कुब्जिन्या कपर्दिन्यपि वज्रया | जया च सुमुखेश्वर्या रेवती माधवी तथा || रारुणी रायवी प्रोक्तो पश्चाद् रक्षो विदरिणी | ततश्च सहजा लक्ष्मीर्व्यापिनी मयान्विताः || एतारुद्रांगपीठस्थाः सिंदूरारुणविग्रहाः | रक्तोत्पल कपालाभ्यांम संकृतकरांवुजाः || अत्रापि सृष्ट्यादि क्रम उहनीयः | मातृकांतर्गतत्वात् | या मातृका यस्य विहिता तया मातृकया सार्द्धन्यसेदित्यर्थः | तथा च त्रिपुरासारे | पश्चाद्देहे केवलामातृका वा विन्यस्तव्या रुद्रशक्त्यन्विता वा इति एतैयान्यासानां दीक्षाया मुक्त क्रमः | नित्यपूजायास्तु कल्पोक्तः इति | कुलप्रकाशेन्यासं विना जपं प्राहुरामुरं विफलं वुधाः | न्यासात् तदात्मको भूत्वा देवो भूत्वा तृतं जपेत् | स्वागमोक्तेन मार्गेण न्यासानित्यं करोतियः || देवता भावमाप्नोति मंत्रसिद्धिः प्रजायते | अकृत्वा न्यासजालयो भूतात्मा प्रजपेन्मनुं || सर्ववीर्यैः प्रवाध्येत व्याघ्रैर्मृग पशुर्यथा | अत्र जपमित्युपलक्षणं पूजामपि | समस्तं हृदये | प्रातःकालेथ वा पूजामये होमकर्मणि | जपकाले वापि तेषां विनियोगः पृथक् पृथक् || प्. ६६ब्) पूजाकाले समस्तं वा कुर्यात् साधकसत्तमः | इति न्यासान् विधात्य प्राणायामं कुर्यादिति आत्मशक्तिः || श्रीपूर्णानंदनाथेन कृतायां गुरुभावतः कुलवृत्तौ स्वतंत्रायां पटलस्तु त्रयोदशः || अथांतर्यागः यथा ज्ञानार्णवे | इत्थं विन्यस्तदेहः सन्समाहितः समास्ततः अंतर्याग विधिं कुर्यात् साक्डाद् ब्रह्ममयं प्रिये | मूलाधारे मूलविद्यां विघ्नकोटि समप्रभां | सूर्यकोटि प्रतीकाशां चंद्रकोटिं प्रभां प्रिये || ऊर्द्ध्वकां शक्तिनिपातेन सक्तेत वरानने | मूलशक्ति दृढत्वेन मध्ययांय प्रवोधतः || परमानंद संदोहसानंदात्वंतये परां | अथ ऊर्द्ध्वेश स्वावस्थ परमशिवे शक्तिनिपातेन कुंडली संयोगेन सहजेन सहाभ्यां जातेन मंत्रेण हंसमंत्रेनेत्यर्थः | विपरीत निर्देशो शुद्धत्वात् | मूलेत्यादि मूलाधारस्थ त्रिकोणमति दृढत्वेनां कुचानादित्यर्थः | मध्यवीज काम्वीजं काम स जवाज तेन पुरोधतः | कुंडलिन्या पुरोधादित्यर्थः | कामराजं त्रिपुरायामेवात् पुत्र कूर्चवीजमिति प्रागेव स्फुटं | इत्यर्यजनं कृत्वा वहिर्यागं समाचरेत् | इति प्रस्तावे भैरव्याः | सुंदरी प्रस्तावे पुनरपि तत्रैव | शृणु देवि प्रवक्ष्यामि यजनं चारं महत् | मूलादि ब्रह्मरंध्रांतं विशतंतु तनीयसी || उद्यत् सूर्य प्रभा जाल विद्युत्कोटि प्रभामयीं | अंशेत्व जगदुत्पत्ति स्थिति संहारकारिणीं || ध्यायेद्यथाशनो देवि निश्चल जायते तथा | नंद संदोह मंदिरं भवति क्षणात् | मनो निश्चलतां प्राप्तं शिवशक्ति प्रभावतः | समाधि जायते तत्र संज्ञाद्वय विजृंभितः || सुरं प्रज्ञात नामैको असं प्रज्ञातनामका | स्वयं प्रज्ञात शक्तिस्तु शिवाधिकोमजायते || असंप्रज्ञातनामातृ शिवतत्वेन वै भवेत् | स्वयं प्रज्ञात भेदेस्तु तीव्रतीव्रतरो भवेत् || असंप्रज्ञातभेदस्तु मदमदतरस्तथा | हास्य रोदन रोमांच विद्युत् स्वेदादिभाविता || वीव्रतीव्रतरोदेवि समाधिरूपलक्षितः | निमेष वर्जिते नेत्रे पुरस्ताल्लक्षणास्थितं || मंदोमंदोमंदतरोदेवि समाधिरुपलक्षितः | शांभवेन च वैधेन सुखी भूय निरंतरं || अंतर्यागं विधायेत्थं वहिर्यजन नरो भवेत् | अयमंतर्यागः परः | सूक्ष्मांतर्यागमोहां अथांतर्यजनं वक्षे दृष्टदृष्टफलं प्रदं | योगिनां येन जायंते अधिपा मानवाः सदा | गुरो ध्यानं प्रकुर्वीत यथा पूर्वं विशालधीः || अर्थः यथा पूर्वं वाह्यपूजांगतया प्राप्ते प्राभातिक क्रमेणेत्यर्थः | तत्तु प्रागेवोक्तं | इति प्राभातिकं | स्नानं वुधःस्ततः कुर्यात् संविदानंद हेतवे | स्नाया च विमले तीर्थे पुस्करे हृदयाग्निते || विंदुतीर्थेथ वा स्नायात् पुनर्जन्म न विद्यते | इडा सुषुम्ना शिवतीर्थकेश्मिन् ज्ञानांवु पूर्णे वहतः शरीरे | प्. ६७अ) स्नानं वुधस्ततः कुर्यात् संविदानं दहेतव्रे | ब्रह्मां वुभिः स्राति तयो सदायः किं तस्य गांगेरपि पुस्करैर्वा | अर्थः कृदयं पुस्करतीर्थे निवासः | तज्जलं मनसा विभाव्य मज्जनं कुर्यात् | संप्रदाय भेदेन विंदुतीर्थे सहस्रारस्थ त्रिकोण विम्डुरूप परमशिववंधिनि षोडशकलानिर्गता मृता वा इडा पदेन पिंगलाप्युपलक्ष्यते सहचरितत्वात् | इडापिंगला सुषुम्नामृतवारिणि त्रिवेणीस्थे इत्यर्थः अत्र वा कुर्यात् | इति स्नानं | अथ संध्या | यामले | शिवशक्त्याः समायोगो यस्मिन् काले प्रजायते | सा संध्या कुलनिष्ठानां समाधस्थैः प्रलीयते || अथः सहस्रारस्थ परमशिवः शक्तिमूल निलया जीवशक्तिरुच्यते | कुंडलिनी त्वेन यागेन सिद्धांता मूला गुरुपदिष्ठविधिना परमशिवं प्रापयित्वा क्रिया समभिव्याहारेण सामरहस्यं भावयेत् | संयोगमंत्रस्तु | अंतः प्रकाश शिवशक्त्योः समायोगो यत्र यत्र प्रजायते | तत्र तंत्र च मंत्रोयं हंसः सोह द्विठंतिकः | इति संध्या अथ तर्पणं | रुद्रयामले | चंद्रार्कातलसंघट्टा कुलितं यत् परामृतां तेनामृतेन दिव्येन तर्पयेत् परदेवतां | अथः चंद्रार्कानलपदेन कुंडलिनी शक्तिरुच्यते | तेजस्त्रितयात्मिकत्वात् | संघट्टः संबंधः तेन परमशिव कुंडलिनीं संयोगलितेन परामृतेन परदेवता स्वरूपोहं तर्पयेत् | तर्पण विवरणं | यथा स्वच्छंद भैरवो ब्रह्मरंध्रः दधो भागे यच्चांद्र परमुत्तमं | कलाशारेण संपूज्य तर्पयेत् तेन खेचरीं | अथ ब्रह्मरंध्रादयो भागे सहस्रारस्थ त्रिकोण चंद्रे पात्रं कला कला सारेण षोडशी कला आशारः धारा संपातः तेन संपूर्य परामृतेन खेचरीं कुंडलिनीं तर्पयेत् | अथ न्यासाः तत्रादौ मातृकान्यासाः यथा रुद्रयामले | आधारे लिंगनाभौ हृदय सरशिजे तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदल दशदले द्वादशार्द्धे चतुष्के वा सांते वाल मध्ये डफ कठ सहिते कंठदेशे स्वराणां हक्षौ को दंडमध्येन्य स तु विमल धीर्न्यास संपत्तिसिद्ध्यै | आधार वहावरोह क्रमेण नाम पदसंख्याक्षर कथनं कंठादि चक्रमारभ्य आज्ञाचक्रांतं ध्यात्वा तत् तत्पत्रेषु पूर्वादि क्रमेण अं नम इत्यादि क्रमेण न्यसेत् | विशेषो यथा गौतमीये | सहस्रारे मणिनिभे सर्ववर्ण विभूषिते | अकथादि त्रेरेखीये हलंक्षत विराजिते || तन्मध्ये परविंद्वं च सृष्टिस्थिति लयात्मकं | एवं समाहित मनाध्यायेन्न्यासोयमांतितः || मूलादि ब्रह्मरंध्रांतं विंद्वां ध्यायेचिदात्मिकां | विंद्वश्रुत सुधासारैस्तर्पयेन्मातृकां न्यसेत् || प्. ६७ब्) एकैकं वर्णमुच्चार्य मूलाधार कवांतिकं | नमोंत इति विन्यास आंतरः परिकीर्तितः || एतेषामर्थः शुद्धं वर्ण सहस्रारस्थ त्रिकोणे समुख कोणादारभ्य प्रदक्षिण क्रमेण | आदि षोडशकादि षोडशादि षोडशकत्रयं लक्षीकृत्य लंक्षमिति मचिंत्य तन्मध्ये परविंदुं विभावयेदिति | अथवा मूलाधारादि ब्रह्मरंध्रांत विंद्वीं कुंडलिनीं ध्यात्वा मृतेन संतर्प्य अकारादिक्षु कारांतं उपर्यु परिक्रमेण मूलाधारादि परविंद्वांतं अं नम इत्यादि क्रमेणन्यासदिति इति प्रकारत्रये संप्रदाय. शरणं | इति मातृकान्यासः | अथ षडंगन्यासाः | यथा गौतमीये | इद्यमानो हृदार्थोयो हृदवेत्या चिदात्मकः | क्रियते तत्परत्वेन हृन्मंत्रेण ततः परं || अर्थः इद्यमानः पूज्यमानः हृदार्थः हृदामृग्यः स आत्मा पूरुषः हृदयस्योद्वसति तत्परत्वेन आत्मनी तत्वेन ततः परं आत्मनो भिन्न आविद्यकं यद्वस्तु जगत् स्वरूपं हृन्मंत्रेण नम इति मंत्रेण भावयेदिति हृदयांगः सर्वज्ञादि गुणोत्तुंगे संविद्रूपे चिदात्मनि क्रियते विषयाहारः शिरो मंत्रेण देशिकः अर्थः सर्वज्ञता शक्तिरनादिवोधः | स्वतंत्रता नित्यता अलुप्तता | अभिर्गुणेनुक्ते ज्ञा स्वरूपिणे आत्मनिशिरो मंत्रेण स्वाहा इति मंत्रेण विषयानां चक्षुरादि दशवाह्येंद्रिय विषयानां अंतरिंद्रिय मनोविषयानां च प्रत्याहारः समर्पणं तत् कुर्यादि निशिरोगं | छन शिरोरूपचिद्धोयेयता भावना दृढा | क्रियते निजदेहस्य शिखामंत्रेण देशिकः | अर्थः हृद्रूपं जगतां ब्रह्मणो भेदः | शिरोरूपं विषु संप्रत्याहारः एतद्रूपद्धय विशिष्ठे चिद्वान्नि | रमयता निजदेहस्य वषड इति मंत्रेण कार्या इति शाखांगं | मंत्रात्मकस्य देहस्य मंत्रराजस्य तेजसा | सवतो ब्रह्ममंत्रेण त्रियहन्यस स्मृतिः | अर्थ गृहीत मंत्रात्मकस्य देहस्य हस्तपादाद्य वयव रूपस्य गृहीतमंत्र * (?) जमाने मंत्र मंत्रेणस्यमिति मंत्रेण अन्यत्र संवृति क्रियते अहन्यः अवध्यः तत्स्मरण हस्तमादादीनां अवध्यानां हिंसा न हार्या उत्तमं च बलिदानं हिंसा सर्वत्र वर्जयेत् वलिस्तु हिंस्य एव अकारण प्राणिः धाम्नि वर्तकस्य हिंसानास्ति अन्योपि कवचाभांगः खड्गादिनिपाते विषयो न भवति तथा अहिंसा कवचावृंगस्य हिंसानास्ति | इति कवचांगं | यद् ददाति परं ज्ञानं संविद्रूपं चिदात्मनि हृदयादि मयं तेजःस्यादेतन्नेत्र संज्ञितं | अर्थः यद्धृदय शिरः इति नेत्रांगं | अध्यात्मिकादिरूपं यत् साधकस्य विना मयेत् | अविद्याजात मतंरणे अस्त्रं मंत्र शब्दस्य तंत्रेण पुंसक लिंगता इत्यस्त्रांगं | प्. ६८अ) इति षडंगं || अथ ध्यानं | उदयाकर पद्धत्यां | शक्तिद्वय पुटांतस्थं मलक्ष द्वयसंयुतं ज्योतिस्तत्व मंत्रं अपरं धाम समीरितं | अर्थः अध्यात्मिकामनः काल्पितरूप आदि शब्देन अधि भौतिक मुच्यते | पांचभौतिकरूपं | एतद्रूप द्वयं साधकस्य विनाशयेत् तत् किं अविद्या जातमंत्रं अविद्या कुंडलिनी शक्तिः तद्ज्ञातं कथं भूतं परमे परतेजः तदेव दुष्ट निग्रहकं मेध्यात्म कुलाकुल नियोजयेत् | अर्थः शक्ति द्वयं त्रिकोण द्वयं सहस्रारंस्थैकं त्रिकोणं मूलाधारस्थमेकं एतद्वय मध्यस्थं अंत ब्रह्मांडस्थं अलक्षद्वयं स्वयंभु लिंगं परमशिवस्थं पूर्वापराधि करणत्वेन तयो रवस्थानात् | कुंडलिनी परमशिव संयोगात् ज्योतिस्तत्वं तन्मयं जगच्चराचरं भावयेत् | संहार क्रमयोगेन कुंडलिनी योगे सति अंतर्ब्रह्माडं भवतीत्यर्थः | शृंगाट द्वय मध्यस्थं शक्तिद्वय पुटीकृतं | सदा समर संध्येयं ध्यानमेतद्धियोगिनां || अर्थः शृंगाट द्वयं त्रिकोण द्वयं शृंगाटकाकारत्वात् शक्तिद्वयं ऊर्द्ध्ववर्तिनी निर्वाण शक्तिधारावर्तिनी कुंडलिनी शक्तिः एतद्वयमध्यस्थं यत्समरं शिवशक्त्यानंदरूपं ब्रह्म ध्यायेत् | एतदेव योगिनी ध्यानं न तु साकारं | तस्य प्रपंच प्रकाशकत्वात् | किरणस्थं तदाग्रस्थं चंद्रभास्करमध्यगं | महाशून्यालयं कृत्वा पूर्णस्तिष्ठति | योगिराट् | किरण पदेन मयूखा उच्यते | ये मयूखा मूलाधारादिषु वर्तमानाः वत्सरान् यामकाः | तत्स्थं यद्ब्रह्मांडं तदाग्रस्थं कुडलिन्यंशभूतीग्रस्थं तत्संवधिनो चंद्रभास्करौ तयोः संसर्गि ब्रह्मांडं तन्महाशून्ये सर्वोपरिशून्येलीनं पूर्णतिष्ठति | सर्वोपाधौ विलीने विभागाभावात् | पूर्ण एव पूर्णाहस्ता मात्रावशेषाः | विसलंव पदे शून्येयत्तेज उपजांयते | तद्गर्भमभ्यसन्नित्यं ध्यानमेतद्धियोगिनां | निरालंवकृते माया शरीराद्य भावात् | आलक्षाभावः तत्र यत्तेजः प्रकाशस्वरूपकत्वात्तेजः ब्रह्मस्वरूपं तेजः | उपजायते | अवशिष्ठा भवति अतन्निरसने स एवावविशिष्यते | अत एव भागवते | निषेधशेषो यतादशेषः | श्रुतिरपि अतद्ध्या वृत्यै वावगम्यते | एतद्दर्भमात्मानमभ्यसेत् | वारंवारं मननं कुर्यात् | योगिना मे तदेव ध्यानं | एते ध्यान प्रकाराः शक्ताशक्त भेदेन ग्राह्याः इति ध्यानं | अथ पूजा भैरवतंत्रे | अर्चयन् विषयैः पुष्पैस्तत्क्षणात् तन्मयो भवेत् | ब्रह्माकाराकारिता चिद्वृत्तिर्भवेत् | उल्लसतीति पदानां परिशोधिनार्थे भवतीत्यर्थः | एकादशेंद्रिया विषयस्वरूपाण्यैव पुष्पाणि तेषामात्ममयत्व भावनमेव पूजा | प्. ६८ब्) तदुक्तं वाशिष्ठे | सुखं वा यदि वा दुःखं प्रवाहपतितं भवेत् | सर्वमात्ममयं कुर्यादित्यात् मार्चपरोवरः || भावचूडामणौ न्यासस्तन्मयता वुद्धिः सोहं भावेन पूजयेत् | भैरवतंत्रे | अमायमनहंकार मरागममदं तथा | अमोहंकमदभं च अद्वेषाक्षो भक्तो ततः || अमात्सर्यं च मलाभवं दशपुष्पं विदुर्वुधाः | अहिंसा परमं पुष्पं पुष्पमिंद्रिय निग्रहः || दया पुष्पं क्षमापुष्पं ज्ञानपुष्पं च पंचमं | इत्यष्ठ सप्तभिः पुष्पैः पूजयेत् परदेवतां || सार्द्ध श्लोकद्वयेन विषय पुष्पविवरणं | अथ जपः | मातृकार्णवे | मालापंचाशिका प्रोक्ता सूत्रं शक्ति शिवात्मकं | ग्रथिता कुंडली शक्तिः कलांता मेरुसंस्थितिः || अर्थः | पंचांगेका पंचाशद्वर्ण घटितां सूत्रशक्तिं शिवात्मकं चित्रिणी नाद्येव सूत्रं ग्रथनं करोति कुंडलिनी तस्य एव सर्वेषां वर्णानुत्पत्तिः अकारादिक्षकारांता क्रमेण वर्णोत्पत्ति देवग्रथनं कलार्णै वर्णांते कला कलाजनक एव कलाः अथवा कलामातृका कला पदेन प्रकृति रुच्यते | मातृकाया प्रकृति स्वरूपकत्वात् | इति संक्षेपः | विस्तारस्तु वर्णमाला प्रस्तारो ज्ञेयः | इति जपः अथ होमः | यामले | नाभि चैतन्य रूपाग्रौ हविषा मनसा श्रुचा | ज्ञानप्रदीपिते नित्यमक्षवृत्ती जुहोम्यहं || मूलमंत्रांतरे दत्वा मंत्रोयं परमेश्वरिं | अर्थः | नाभौ चैतन्यरूपाग्रे आत्मांतरात्म परमात्म ज्ञानात्म स्वरूप चतुरस्र कुंडस्थः अर्द्धमात्रा यो विलक्षितः आत्मनां यच्चे तन्यंत देवाग्नेः अंक्षमिंद्रियं तस्य वृत्तिच्चर्विषयः स एव हविषाहवीं पीत्यर्थः प्रयोगस्तु तांत्रिकः मूलाद्येनानेन जुहुयात् | तदुक्तं ज्ञानार्णवे | आवांतरात्म परमात्म ज्ञानात्मनः प्रकीर्तिताः | तद्रूपं चित्कुंडं चतुरस्रं वरानने | आनंद मेखलारम्यं विंदु त्रिवलया किंता अर्द्धमानायोनिरूप ब्रह्मानंदमयं सदा पराहंता मये सर्वज्ञ नदी पविजृंभते | सविदग्नौ हुनेदेवि प्रपंच हविरुत्कटं | शब्दाख्यं मातृकारूपं मक्षरं तु विराजितं || अक्षरां द्विजता यच्च निशब्दं ब्रह्मजायते | पुण्ययायेह विर्दशे कृत्या कृत्य हविं प्रिये || संकल्पाश्च विकल्पाश्च धर्माधर्मो हविस्तथा | जुहुयात् परमेशानि मंत्राभ्यां विमलानने || मूलविद्यां ब्रह्मरूपां ध्यात्व तु तदनंतरं | तदंते * (?) च्चरेत् पश्चात् ब्रह्मप्राप्त्यै तु देशिकः || धर्माधर्म हविदीप्त आत्माग्नौ मनसा श्रुचा | सुषुम्ना वर्त्मना नित्यमक्षवृत्त्तार्जुहोम्यहं || अर्थः आत्माग्नौ पूर्वोक्त इत्यर्थः | पुण्यपापाभ्यां हविर्भ्यां ज्वलिते पुण्यपापाभ्यामेव जीवत्वस्थितिः अन्यत् सुगमं | स्वाहां तेन हुनेदेवि सकलं निष्कलं जगत् | अंतर्होममनुर्देवि सर्वमाया विकृतनः || प्. ६९अ) प्रकाशाकाश हस्ताभ्यां मवलं व्योन्मनी श्रुचा | धर्माधर्मफला स्नेहपूर्णमग्नौ जुहोम्यहं || अग्निजायाच्चितो मंत्रो विद्यांते कथितस्तव | अर्थः ब्रह्मणो रुद्वयं एकं तु प्रकाशः वोधमयता आकाशः अवयव शून्यता एतदुभय स्वरूपाभ्यां हस्ताभ्यां अवलंव्य गृहीत्वा उन्मन्येन श्रुकतया मनसो उन्मना नादुन्मनी प्रागेव विस्तारिता प्रकाशरूपेनावगमः | सर्वजगतां आकाशस्वरूपेण शून्यता तदेवोन्मनी विषया भावात् | अनेन प्रकारेण धर्मकला अधर्मकला एतदुभयं स्नेहः घृतं तत्पूर्णं तज्जन्यं धर्माभ्यां जगवुत्पत्तेः अग्नौ चैतन्याग्नौ जुहोमि आत्ममयत्व भावनं तेन निर्विषय विद्विशिष्टिरूपानुभावः इत्याहु त्रितयं हुत्वा पूर्णहोमं कुर्याद्यथा यामले अतनिरंतर निरुंध एधमानेमायांधकार परिपंथिनि संविदाग्नौ कस्मिंश्चिदद्भुतमरीचि विशभूमौ विश्वं जुहोमि च सुधा दिशिवावसानां अंतर्मनसि निरंतरं विरति शून्यं निरंधने ईंधन शून्ये एधमाने वृद्धिमतिमायै वांधकारः तस्य वैरिणि ज्ञानाग्नौ चैतन्याग्नौ पूर्वोक्त होमः इत्यर्थः | कस्मिंश्चिदद्भुतविकाशमरीचि भूमौ अनिर्वचनीये नामान्यं शून्ये अद्भुतामरीचिः जगद्रूपा ब्रह्मंडं तस्य मरीचिविति श्रुतिः | तस्य उत्पत्ति स्थाने एभिर्विशेषणैरण्याग्रे वै लक्षण्यंन् प्रदिष्ठं तस्मिन्नग्नौ विश्वं जुहोमितन्मयत्वभावनं करोमि | विश्वस्य विवरणं वसुधादीभि अनेन साधकस्य सचिदानंद भावगम्यते | इति * * * (?) तर्यागः || स्थूलांतर्यागस्तु यामले | अथांतर्यजनं वक्षे दृष्टादृष्ट फलप्रदं | एकमाशीत् परंब्रह्म सूक्ष्मनित्यमंतीद्रियं || जनीयभागे चातीते सिसृष्ट्या चैव जायते | संसारस्यांतरं सूक्ष्मं वुद्धदाकार सुत्तमं || तदंत भुवनानि स्युस्तदंडं च द्विधा भवत् | सवश्चोभ्यंतरे तोयं तदधोभेक मव्ययं || यजेत् पुच्छे तस्य मंत्री कालाग्नि रुद्ररूपकं | आधारशक्तिं तत्रैव मूलां प्रकृतिरूपिणीं || कूर्मावलिना रूढां कूर्मं च मूर्द्ध्नि विभ्रती | नीलाभं पूजयेत् कूर्ममनंतं कुंदसन्निभं || कूर्मोपरि समासीनं पूजयेत् साधकोत्तमः | तस्य मूर्द्ध्नि स्थितं देवं श्वेतं वाराह रूपिणं || तमनेश्यमनादंते धारयंती वसुंधरां | नीलेंदीवरहस्तां च हारकेयूरभूषितां || अभ्यर्चयेद्वसुमंती स्फुरत् सागरमेखलां | रक्तांवुमवृतं दिव्यं शुद्ध लाक्षारसोपमं || समुद्रं पूजयेन् मध्ये द्वीपं विद्रुम सन्निभं | नवरत्न समाकीर्णमष्टसिद्धि निषेवितं || शक्तिनाद्रिकयोर्मध्ये उड्डियानं प्रपूजयेत् | जालंधरं तथा वक्त्रे गुदे च कामरूपकं || पूर्णगिरिं हृदि मध्ये श्रीहदृस्तालुकोपरि | गिरौ पूर्णगिरिः पीठं ततः संपूजयेद्वुधः || कल्पोद्यानं यजेत् तस्य परितो गंध चंदनैः | मध्ये मध्ये कल्पद्रुमं मंत्री सर्वासा परिपूरकं || प्. ६९ब्) सर्वभूतमयं वृक्षं सर्ववस्तुमयं परं | पृथिव्यक्षरसाखिभिः | सर्वाशास्त्र विजृंभितं | शलिलाक्ष पत्रैश्च संछादित जगत्रयं | वह्निवर्णाक्षरैर्दीप्तं प्रवालांकुर सन्निभं || मरुद्वर्ण लसत् पुष्पैद्योतयंतं वपुः श्रियं | आकाशां तु फलैर्नम्रं सर्वभूताश्रयं परं || परामृताक्ष मधुभिः सिंचंतं परमेश्वरीं | वेदागमादिभिः कॢप्तं समुन्नति मनोहरं || शिवशक्तिमयं छायाछिदितं भुवनत्रयं | तन्मूले भावयेन्मंत्री पारिजातं मनोहरं || कदंवनागपुन्नाग चंपकादीन विभावयेत् | कल्पमूले रत्नभूमिं वालुकां कांचन प्रभां || चिंतामणि गृहं मध्ये ज्योतीरूपमनंतमं | उद्यदादित्य संकाशं व्याप्त ब्रह्मांडमंडलं || शतयोजन विस्तीर्ण नानारत्न सुशोभितं | चतुर्द्वार समायुक्तं हेमप्राकारमंडितं || रत्नसंस्कॢप्ति संशोभि वराटा कुलसंयुतं नवरत्नेन संकॢप्त शुभतोरण संयुतं | हेमदंड शिखा लंविध्वजावलि परिस्कृतं | मध्यकोणस्थितस्तेन नवरत्न समन्वितं || महामाणिक्य वैडूर्य रत्नचामरभूषितं | मुक्तादामवितानाढ्यं स्वर्णकुंभै विवर्जितं || मंदारक्वसुमैर्युक्तं गंधपुष्पैरलंकृतं | कंवुद्धीप शंखघंटा नानाद्रव्यैर्विराजितं || मधुमत्त भ्रमद्भृंगं भ्रमरध्वविशोभितं | गृहप्रकार संलग्न फलकाशिनि मद्भिदं || इंद्रादिभिर्देवगणैर्विक्षितं तदिगंतरं | सुवर्णरत्नरचितच्छवं तु मंडपोपरि || ज्वलरूपं तु तन्मध्ये रत्नमंडलं | नंदनोद्यान मध्यस्थवेदिकां रत्ननिर्मितां || तन्मध्ये चिंतयेद्रक्तां चतुरस्रोपशोभितां | नानारत्न समायुक्तं सिंहासन तदंतरं || तस्य मध्ये महाचक्रं पीयूष परिपूरितं | तन्मध्ये स्फुरितं ध्याये स्त्रिशृंगं ज्योतिरात्मकं || अस्त्रेण रक्षणं कुर्यात् तत्रैव धेनुमुद्रया | योनिमुद्रां ततो वध्वा वाह्यमभ्यंतरं तथा || चिंतयेन् मूलमाकुंच्य ब्रह्मसूत्रं तथा परं | स्फुरद्दीपशिखाकारां संचिंत्य मृतमंडलं || सुधाधारामृते भूयः प्रयांति मूलपंकजं | एवं च सप्तधा कुर्यादेवी सन्निमूलेन ध्यानयोगेन स्मृत्वा ब्रह्ममयी परां | पूरकेन समापूर्य संस्थाप्य कुंभकेन तु | सुंदरीं तां समाराध्य योगिनी गणसेवितं || स्रवता मृतसंयुक्तां दिव्यांग कमलांतरे | ब्रह्मविष्णु भवैर्वंद्यां श्रीमन्त्रिपुरसुंदरीं || ततो ध्यायेद्वारपालान् प्रतिद्वारे स शक्तिकान् | सहस्रदल मध्ये तु चिंतयेत् सुंदरीं परां || भैरवानंद लिंगस्तु तन्मध्ये योनिसंस्थितं | एकीभावं ततः कृत्वा स्रावयेदमृतं वुधः || जिह्वानन समायोगात् पिवे सुतमृतं वुधः | हृदये तु समानीय सुंदरीं पूजयेद् वुधः || अत्रैवा वाहनं नास्ति हृदयेमानमार्चने | पाद्य पात्र त्रयं कुर्यादर्घपात्र त्रयं तथा || षडा चमनीय पात्राणि मधुपात्र त्रयं तथा | एकं च भोगपात्रं तु कारयेत् षोडशेदले || प्. ७०अ) सहस्रदल भृंगार नालिका नमो विघृतं | परामृतं च पानीयं भावपुष्पैः सुवासितं || यथाविधि विधानेन स्वर्णपात्रं प्रपूरयेत् | मानसैरुपचारैस्तु दीयते द्रव्यमुत्तमं || स्वयंभू कुसुमैः कुंडगोलोत्थं वापि साधकः | भावपुष्पैः प्रयत्नेन पूजयेत् परमेश्वरीं || सुधांवुधिं मांस शैलं मत्स्यराशिं निवेदयेत् | स्ववामे मंडलं कृत्वा तत्र नीत्वा सुरेश्वरीं || उद्वर्तनं यथान्यायं विधाय सर्पिषा वुधः सुगंधिदिष्य तैलेन देवकन्या सहस्रकैः | नागकन्या सहस्रैस्तु किन्नाइरप्सरोगणैः | पंचामृतैः पंचगव्यैःर्दुग्धैर्दध्नागवामपि || नारिकेलोदकैरिक्षु जलैश्च शिशिरोदकैः सप्तमृत्तिकया मुक्ततो येन शीतलेन च | शीतलोष्णोदकैः शुद्धैःस्तथारत्नोदकैः जलैः | सर्वोषिधीनां च जलैरपि | सहस्रशीर्षा मंत्रेण परेमान्या समाहितः | शृंगारैरष्ट कुंभेश्च देव्याः स्नानं समाचरेत् || शरीरं तेजसा सज्यंदुकूलं परिधापयेत् | कंकत्य केशसंस्कारं विधिवद्वंदनं तथा || ललाटे तिलकं कुर्यात् सिंदूरं केशमध्यतः | रक्तपुष्पं रक्तमाल्यं रक्तालंकरणं तथा || स्तथा द्विलेपनं कार्यं गंधचंदनादि सिह्वकैः | श्रीरत्नपादुकैर्दत्वा प्रवाल दंडचिह्नितो || यंत्रमध्ये समानीय नमस्कुर्यात् समाहितः | समाहितमहं वंदे श्रीमत्रिपुरसुंदरीं || सर्वसौभाग्यजननीं सर्वदेव स्वरूपिणीं | पुनः पाद्यादिकं दत्वा पूजयेत् परमेश्वरीं || नासाग्रे गंधतत्वेन गंधदेव्यै निवेदयेत् | भाव पुष्पैश्च संपूज्य धूपं दद्यात् समीरणं || परतेजः प्रदीपं च नैवेद्यादि निवेदयेत् | पृथ्वीं दत्वा ततो वायोस्तत्वेना च मनं प्रभोः || रविमंडलमादर्शं छत्रं पूर्ण निशाकरं | पद्मं स मेखलं नालमानंदहारमुज्जलं || पुष्पं नानाविधं रम्यं सप्तद्वीप समुद्भवं | आमूलाद्ब्रह्मरंध्रांत सुषुम्ना मूलवायुना || अनाहतध्वनिमयीं घंटामितां निवेदयेत् | प्रदीपैर्वन्दनं कृत्वा दत्वा च प्रतिरोधयेत् || आधारदुत्थिअं वायुं षोडशार्णं सुषुम्नया | वयने नासिकाग्रस्ते निमिषोन्मेषवर्जिते || भ्रुमध्ये तु समानीय दंतैर्दतान संस्पृशेत् | न्मेष्ठानोष्ठं न वा ताल्वं जिह्वया ज्ञान खड्गकः || शक्तौ लक्षं वहिः कुर्यान्निमेषोन्मेषवर्जितं | एषा सा शांभवी मुद्रा भैरवा मोदकारिणी || दक्षिणा मिलिता मुष्ठिं नासिकापि च तर्जनी | मुद्रा विस्मयं संज्ञास्याद्विस्मयावेशकारिणी || मुष्टिं कृत्वा विनांगुष्ठां दक्षिणां नादमुद्रिका | तर्जन्यंगुष्ठ संयोगविंद्वाख्या शैव कीर्तिता || ज्ञानमुद्रा स दैवास्याद्दाभिमुख्यैन संयुता | हृत्प्रदेशे सु संवद्धा योगमुद्रेति कथ्यते || प्. ७०ब्) योनिमुद्रां ततः कृत्वा सैव चांतर्भवेद्यदि | तस्या आलोकितो वायुः प्रमत्ता मुक्ति हेतवो एषा सा परमामुक्ति शृंगाररसभाजिता | तस्याः स्वेच्छा स्वयंभूतं परमानंद भैरवं | कंदस्थिता वायुशक्तिः सुषुम्नाद्वारगामिनी || नीवारशूकतुत्तन्वीविशतं तृतनीयसी | विद्युत्कोटि प्रतीकाशां सूर्यकोटि समप्रभा || अशेषजगदुत्पत्तिस्थिति संहारकारिणी | हृदिस्थितांदुका ग्रंथिकवाटस्फोटनाकुलं || विनालिकयोर्मध्ये त्रिकोणेन भवेनयेत् | प्रविश्य रमते षाढं पुरुषेण सहानिशं || स्थिरचित्तः सदाध्यायेप्यथा स्यायुसः स्थिरः | समाधिर्जायते तत्र संज्ञा द्वय विजृंभितः || स्वयं प्रज्ञातनामैकां संप्रज्ञातनामकः | स्वयं प्रज्ञातसंज्ञस्तु शिवतत्वेन वै भवेत् || स्वयं प्रज्ञात संज्ञस्तु वसमाधिर लक्षितैः | शांभवेन च रोधेन सुखी भूया निरंतरं || तयोः संयोग संभूय परमामृतनामकं | पानीयं मनसा दत्वा पुनर्जन्म न विद्यते || तथा नंदमयं ज्ञानं प्रीता भवति सुंदरी | पुष्पेण प्रांततः कृत्वा तत्र नीत्वा महेश्वरीं || मनोनत्तक शैलैश्च शृंगारादि रसोद्भवैः | तस्मान् कामेश्वरी माता पिता कामेश्वरश्च सः || मनसैक्यं महापूजा अंतर्यजनमुत्तमं | कृत्वा सिद्धिमवाप्नोति न स संधेन वध्यते || इति स्थलांतर्यागः | अथ पूर्वोक्त होमकुंड विवरणं | यथा ज्ञानार्णवे | ज्ञानेन चतुरस्राख्यं कुंडं संचिंत्य सर्ववित् | आत्मेतिश्चतुरस्रं तु विज्ञेयं वीरवंदिते || आत्मनो वेदसंख्या हि ज्ञातव्याः साधकोत्तमैः | एषां विज्ञानमात्रेण पुनर्जन्म न विद्यते || साधारणे न पक्षेण वर्तते | सर्वजंतुषु | स आत्मा परमेशानि प्राणरूपी वरानने | प्राणस्तुं पवनो देवि हृदयस्था न मंदिरः || शरीरं व्याप्य सकलं चरस्याप्य चरस्य च | हसस्वरूपी विज्ञेयः स्वासोच्छासा दिवासरान् || जीवस्तस्यैव न स्यात् संति सर्वत्र तस्मादात्म पदं महत् | आत्मज्ञानं मया प्रोक्तं द्वितीयस्य शृणु प्रिये || अंतरात्मेति किन्नाम शृणुष्व च पदं महत् | अंतः शब्देन देवेश रहस्यं सूक्ष्मवाचकं || परमात्म स्वरूपेण सर्वं व्याप्य विजृंभिते | अंतर्गत तया तेन च रम्मप्येथ वाक्षरं || व्याप्यते सकलं यस्मादंतरात्मेति कथ्यते | स एव हंस आत्मा हि योगेगम्यो यदा भवेत् || तावचंचुर्वरारोहे निगमागम पक्षवान् | शिवशक्ति पदद्वंद्वो विंदुत्रय विलोचनः || अयं परमहं सस्तु यदा सर्वत्र तिष्ठति | तदा भूतानि जायंते क्रमेण कमलेक्षणे || आकाशं पवनोग्निश्च जलं पृथ्वी वरानने | पंचकस्यास्य देवेशि प्रथमं चित्त मुच्यते || अविद्याख्या शरो मध्ये व्योमपंकं प्रपूरिते | प्रपंच कमले भूतपक्षापक्ष विभूषिते || प्. ७१अ) विहारोंस्य महेशस्य सृष्ट्या माया मयो भवेत् | अयमेव महादेवि निःप्रपंचो यदा भवेत् || संहाररूपी हंसस्तु तदात्मानं प्रदर्शयेत् | पक्षित्व मत्स्यनास्त्येव सोहमात्मा प्रतिष्ठितः || परमात्मा हि जानी हि त्रयमे तदुपाहृतं | ज्ञानात्मा कथ्यते भद्रेयः साक्षात् साक्षि रूपधृक् || येनिदं ज्ञायते सर्वं समत्वेन वरानने | चंद्रसूर्यो यथा देहे जलक्षीरेषु दृश्यते || अकृत्तिस्तस्य * * * (?) नीरक्षीरादि भेदतः | कर्दमे चंदने विद्रां न भवेल्लिप्तमद्रिजे || सर्वसाक्षी तदा भद्रे ज्ञानात्मा परिकीर्तितः | इत्यात्म कुंडनिरूपणं | एषु पूर्वपूर्वाशक्तौ उत्तरोत्तराधिकारः | अयमंतर्यागानित्य पूजाया | मवगंतव्यः | ततः पूर्वोक्त प्रकारेण स्थान मंत्रद्रव्यशुद्धीर्विदध्यात् | इति सर्वभाव साधारणं || श्रीपूर्णानंदनाथेन कृतायां गुरुभावतः कुलवृत्तौ स्वतंत्रायां पटलोयं चतुर्दशः || शारदायां | एवं देहमये पीठे चिंतयेदिष्ठ देवतां | मुद्राः संदर्श्य विधिवदर्घ स्थापनमाचरेत् || तत्रादौ शूचीकठहं न्यायेन पशुभाव क्रमोलिख्यते | शारदायाः | शंखमस्थाम्वुभिः प्रोक्ष्य वामतो वह्निमंडले | साधारं स्थापयेद्विद्वान् विंद्वग्नि स्वधामयैः || तोयैः सुगंधिपुष्पाद्यैः पूरयेत्तं यथाविधि | यामले च | जलछतगुणं प्रोक्तं गंधोदकमनुत्तमं | दुग्धं दधि ततश्चापि दक्षः शतगुणं घृतं || घृतं छतगुणं हेतिर्देवी देहेतुरिति देव्यादि परमिति | आधारं पावकं शंखं सूर्यं तोयं सुधाकरं स्मरेत् वह्यर्क चंद्राणां कलास्तास्तेष्वनु क्रमात् | मूलमंत्रं जपेत् स्पृष्ट्वा न्यसेस्तस्यांगमंत्रवित् | हृन्मंत्रेणाभि संपूज्य द्वाभ्यां छाया पुष्पजं विद्या यथान्यायं देशिको देवताधिया | अस्त्रमंत्रेण संरक्ष कवचेनावगुंठ्य च | धेनुमुद्रा समाछाद्य वोधयेत् स्तत्सुमुद्रया | दक्षिणे प्रोक्षणी पात्रं मादायद्भिः प्रवोधयेत् || किंचिदीर्घामि संगाह्य प्रोक्षाण्यंभसि योजयेत् | अर्घस्योत्तरतः कार्यः पाद्यमाचमनीयकं || आत्मानं यागवस्तूनि मंडलं प्रोक्षयेद्गुरुः | प्रोक्षणी पात्रतोयेन मनुनान्यो क्रमात् || इत्यर्घ स्थापनं कृत्वान्यास क्रमेण धर्मादीन् पूजयेत् | अथ दिव्यवीरभावः क्रमः | कुलार्णवे | शंखमर्घतोय पूजा वलि पात्राणि पंच च | सुदक्षिणा दिवानांतं स्थाप्याभ्यर्च्यासनेन च || संपूज्य मूलपूतेन कुलेश्वरि विधानवित् | तत्र माष प्रमाणं तु मत्स्यं मांसं विनिक्षिपेत् || दुष्टैः पर्युषितोच्छिष्टै दुर्गंधैर्गंधवर्जितैः | हेतुभिः पाणि पात्रस्थैस्तर्पणं निष्फलं भवेत् || स्वादिष्टैश्च मदाद्यैश्च द्रव्यैरमृतसन्निभैः | मनोहरैर्महेशानि तर्पणं सफलं भवेत् || प्. ७१ब्) असंस्कृता सुरापाप कलहव्याधि दुःखदा | असंस्कृता सुरारोग दुःखापत् पापनाशिनी || आयुः श्रीकीर्तिसौभाग्य धर्मविद्या विवर्द्धिनी | तस्मात् संशोध्य विधिवत् कुलद्रव्यं ततोर्धयेत् || अन्यथा नरकं याति दाता भो * (?) न संशयः | विनाद्रव्याधिवासेन जपेत् न स्मरेत् प्रिये || ये स्मरंति महामूढास्तेषां दुःखं पदे पदे | मासवेन विना मंत्रं न मंत्रेन विनासवं || परस्पर निरोधित्वां कथं पूजाविधीयते | तत् संशय निवृत्तिं च ज्ञात्वा गुरुमुखांवुजात् || आसवेन विना मूलमंत्रेणाधिकारी न मंत्रेण विनाशोधन मंत्रेण विना आसवेनाधिकारीति संशयनिवृत्तिः | वीक्षण प्रोक्षण ध्यानमंत्रमुद्रा विशोधनं | द्रव्यं तर्पणयोग्यस्याच्चतुर्णां रतिशोधितं || उदयाकर पद्धत्यां | असंस्कृतं विना पानं संस्कृतं भैरवः स्वयं | चक्रपूजा विधानस्तं सर्वसिद्धिकरं शुभं || असंस्कृतं पशोः पाणं विकलोद्वंगकारणं | संस्कृतं सिद्धि जनकं प्रायश्चित्तादिशोधनं || मद्रोहाणां स्फुरणं तेन महापातकनाशनं | आयुः श्रीकीर्ति सौभाग्यज्ञानं संस्कृतपाणतः || अष्ठैश्वर्यं खेचरत्वं पतनं विधिवर्जनात् | कुलामृत संहितायां | असंस्कृतं पिवेद्रव्यं वलात्कारेण मैथुनं | स्वप्रियेण हतं मत्स्यं भैरवं नरकं व्रजेत् || इत्याद्या संस्कृता निंदा श्रवणात् श्रवणात् तत्संस्कारो लिख्यते | तत्रैव | देवतार्थं यथा शास्त्रं कुलद्रव्यं समाहरेत् | लभते वांछितं सर्वं त्वत् प्रसादान् महेश्वरि || अशक्तः स्वगृहे कर्तुं दीक्षितालतो हरेत् | आलोक्य जीवनात् घ्राणात् पाणाद्रव्यं विशुद्ध्यति || आलोकेन मतः कार्यमन्य योगो भवेन्न वा | जीवनाख्य वायुयोगाज्जीवनं दारकीर्तितं || मूलाधार यथोक्तेन ध्यानेन कुंडलीं यजेत् | घ्राण योगात् भवेत् पानं तस्या श्राप्ययते कृते || चतुःसंस्कारतः शुद्धि द्रव्याणां परिकीर्तिता | द्रव्यं तत् स्पर्श योग्यं स्यादन्यथा निष्फलं भवेत् || तत्वानंदतरंगिन्यां | सर्वे शृंगार वेशाद्या युवती वेश उज्वलः | सिंदूरांकित सद्भालस्तांवूल पूरिताननः || परामृतरसामोद विघूर्ण नयनांवुजः | वामे कलासु संपन्ना नवयौवनगर्वितां || गुरुदेवरतां दक्षां दीक्षितां लोललोचनां | सर्वालंकार संयुक्तां सु नासां चारुहासिनीं || जितामृत कुचद्वंद्वकरि कुंभ विराजितां | साधक प्रेम शीलास्तु घृणा लज्जा विवर्जितां || साधकाकांक्ष हृदयां दूतीमेनां निवेश्य * (?) | * (?) स्या गात्रेन्यसे न्यासान् कल्पोक्तान् साधकोत्तमः || इदं तु दीक्षिता शक्तिविषयं अदीक्षिताया पुनः कुलपुरश्चरणे ज्ञेयं | प्. ७२अ) स्वं वामे विषट् कोणं पूर्णेन्दु भूपुरावृतं | लिखित्वा वेक्षयेद्विद्वान् सामान्यार्थ जलेन च || तत्रैव संस्कृता वीरे वह्नि कलायजेत् | अस्त्रशुद्धं घटं तत्र सौवर्णं राजतोद्भवं | कांश्यजं मृन्मयं वापि यद्वा लौहवर्जितं || रक्तां शुमाल्य संवीतं चर्चयेच्चनेनतं | भावचूडामणौ | प्रसून तूलिका मध्ये पुष्पप्राकार संकुले | नानाशब्द समाकीर्णे कुलद्रव्येण यंत्रकं || लिखित्वा पूजये २ छंख घटस्थापन पूर्वकं | स्व वामे वट तु षट्कोणं तन्मध्ये ब्रह्मरंध्रकं || लिखित्वा तत्र संखं च सौवर्णं राजतं च वा | ताम्र भूयमयं वापि यद्वा लौहविवर्जितः || स्थापयेत् कलया देव कुंभगंध सुवासितं | स्वतंत्रे च | तश्चकारणं दिव्यं समानीय घटस्थितं | वेष्टितं रक्तसूत्रेण रक्तमाल्येन भूषितं || वामभागे महेशानि मंडलं चतुरस्रकं | तत्र संस्थापयेद्भक्त्या देवी बुद्ध्या वरानने || आधारे कल स द्रव्ये वह्न्यार्क शशिमंडलं | स्वतंत्रे | अथ सूत्रा मे षट्कोणं तन्मध्ये ब्रह्मरंध्रकं | तदंते तत् ततो वृत्तं तद्वाह्ये भूपुरद्वयं || तत्राधारमारोप्य वह्निमंडलमर्चयेत् | कले पूजयेन् मंत्री कलाभिः सूर्यमंडलं || पूजयेदित्यर्थः | कुलमूलावतारे | आधारे स्थापयेन्मंत्री सौवर्णं वाथ राजत | कांश्यजं मृन्मयं वाथ घटमंत्रेण शालितं || सौवर्ण भोगदं प्रोक्तं राजतं मोदकं स्मृतं | कांश्यं शांतिकरं चैव मृन्मयं पुष्टिदं भवेत् || रक्तवस्त्रेण संवेष्ट्य रक्तमाल्येनतं घटं | इष्टदेव स्वरूपं च भावयेत्तं च साधकः || कलां कलां गृहीत्वा तु देवाना. विश्वकर्मणा | निर्मितोयं सुरैर्यस्माकलशस्तेन कथ्यते || पादपद्माचार्यस्तु | कलाः सेवते इति कलसः | एतेन कल सकल सत्वेति द्वैरूप्यं | अथ श्रीहस्ता भरणन्यासः | यथाशक्ति यामले | श्रीहस्ता भरणन्या सम कृत्वा यदि संस्पृशेत् | तीर्थतस्य करस्पर्शात् सा देवी कुपिता भवेत् || वाङ्माया कमला प्रांते मूलमंत्र समुच्चरन् | श्रीमन्त्रिपुरसुंदर्या वामाधो हस्तमित्यपि || ङेंयुतं चा मृतं प्रोच्य पूर्णहस्ताय वै नमः | पूर्ववत् सर्वमुद्धृत्य वामोर्द्ध्व हस्तमित्यपि || ङेंयुतं चायांते च दानकराय कृत् ततः | सर्वं पूर्ववद्वद्धात्य दक्षधाहस्तमित्यपि || वरदाने करायेति नमोंतेन करेन्यसेत् | सर्वं पूर्ववमुद्धृत्य वक्षोर्द्ध्व हस्तमित्यपि || वरा भयकरायेति नमोंतेन करेन्यसेत् | प्रयोगस्तु ऐं ह्रीं श्रीं मूलं श्रीत्रिपुरसुंदर्यावधोहस्तपि अष्टेत पूर्णहस्ताय नमः | इति स्वकरद्वयं न्यसेत् | सुंदर्या इत्युपलक्षणं स्वेष्ट देवताया इत्यर्थः | एवं न्यासं समाचर्य स्पृशे तु दमृतं सुधीः स्वयमाहरकश्चेदाद्वरणसमय एव अन्योयद्याहरकस्तदापूरण समय एव | प्. ७२ब्) तत्व वंद तरंगि * * * * * * * * * * * * * (?) पूरयेद्वुधः | मूलं समुच्चरन् मंत्री इंदोर्ः कला प्रपूजयेत् | इष्टदेव धियाः कुर्याद्वंदनं पंचमुद्रया || शक्तियामले | इष्टदेव स्वरूपं * * * * * * * * * (?) | प्रणमेत् पूरया भक्त्या मुद्रया पंचसंख्यया || अधो मुखौ करौ कृत्वा भूमौ संस्थापयेद्वुधः | शरलाकाररूपेण मुद्रेयं * * * * * (?) || * * * * * * * * * * * * * योजयेत् (?) | सम्वृत्तानाम मुद्रेयं सर्वपाप विनाशिनीं || अन्योन्याभिमुखौ हस्तौ पुटाकारेण योजयेत् | * * * * * * * * * * * * * * * * (?) || तस्या एव मुद्राया कनिष्टा मूलदेशके | अंगुष्ठौ च क्षिपेत् तत्र पुटांजलि वितीरिता || योनिमुद्रां ततः कुर्यात् पू * * * * * * * (##? * * * * * * * * * * * * * * * * (?) || * * * * * * * * * * (?) दौ योजयेत् क्रमात् | वाणमंत्रो यथा ज्ञानार्णवे | थांतद्वयं समालिख्य वह्नि संस्थं क्रमेण हि | मुखवृत्तेन * * * * * * * * * * * (?) || * * * * * * * (?) क्तमादनं भूमिसंस्थितं | चतुर्थं स्वरविंद्वाद्यं नादरूप वरानने || फांतं शक्र समायुक्तं वामकर्णं विभूषितं | * * * * * * * * * * * * * * * * (?) || योगमुद्रां च मद्वत्यादि रक्तचंदन सिंदूरकुंकुमैकतनेन तु | त्रिकोणवृत्त भूविंवं कुंभ पार्श्वे समालिखेत् | * * * * * * * * * * * * * * * * (?) || * * (?) लक्ष्मीं समुच्चार्य * * * * * * (?) पदं | अनेन मनुना दद्या वलिं भक्तादि पूरितं || शुद्धिमानान्वितं कृत्वा वामेन * * * * * (##? * * * * * * * * * * * * * * * * (?) || * * * * * * * * * * * (##? ततः स्वमपिते द्रव्ये पंचीकरण माचरेत् || तङेनंशर मंत्रेण कवचेनावगुंठनं | दर्शनं मू * * * * * * * * * * * * (?) || * * * * * * (?) लैः स्त्रिः पंचीकरणमारितं | तोरेणदमुकशरवीजं समुच्चार्य पूजयेद्देवताधिया || कुसुमं कुंभे * * * * * * * * * * * (?) | * * * * * * * * * * * * * * (?) नमः || तारामृते वामदेवं नेत्र मंत्र समन्वितं | समुच्चार्य यजेन्मंत्री वामदेवं समाहितः || वाहिनीति पदा * * * * * * * * * * (?) | * * * * * * * * * * * * * * * * (?) || * * * * (?) समुच्चार्य पूजये देवताधिया | महामायां कुशाख्ये च योजयेद् वाम लोचनं || परम स्वामिनि प्रांते पर * * * * * * (?) | * * * * * * * * * * * * * * (?) परि || दक्षहस्तेन संस्थाद्य दशकृता जपेन्मनुं | वाङ्माया कमला वीजं ङेंता नंदेश्वरीं पदं || विद्महे च सुधा देवधीमहीति * * * * (?) | * * * * * * * * * * (?) प्रचोदयादिति || प्. ७३अ) आनम्नाख्ये च गायत्री जगतां च सुखप्रदा | अनयाकारणं वीर त्रिवारमति मंत्रयेत् || हंसेत्पादिका चा कुर्यात् त्रिवारमभिमंत्रणं | ब्रह्मकृष्णशुक्लशापमोचनैरभि मंत्रयेत् || प्रणवं वारुणं बीजं दीर्घषट्क विभेदितं | सुधा कृष्ण पदस्यांते पापं मोचय तत्परं || अमृतं श्रावयेद्वंद्वं वह्निजाया तदंतरं | दशधा च जपेन्मंत्रं कृष्णशापं प्रमोच्येत् || प्रणवं वारुणांतं च षट्दीर्घ स्वरभेदितं | शुक्रशाप पदांते विमोचितायै समुद्धरेत् || सुधादेव्यै नम इति शुक्रशापं प्रमोचयेत् | तत्वानंदतरंगिनीमतं | एकमेवादिभिर्मंत्री कव्यशाप प्रमोचयेत् | कुमारीतंत्रे | अन्यच्च शृणु देवेशि यथा पाणादि कर्मणि | दोषो न जायते देवितान् वै मंत्र शृणु प्रिये || एकमेवेत्यादि मंत्रस्तु प्रागे लिखिताः | एकमेत्र त्रयं प्रोच्य विंदुदीर्घ त्रयान्वितं || माया लक्ष्मी वीजपूर्वं छुरिकाकारेति शोभितं | विकारानस्य शब्दांते द्रव्यस्य हरहरेति च || ठद्वयं छुरिकाख्येयं त्रिर्जपाद्दोष जानुत् | एकनेत्रः छकारः | शक्तियामले च | मत्स्याग्नियावेक नेत्रद्वयं विंदुविभूषितं | दीर्घस्वरतयाक्रांतं छूरिकारेति शोभिनि || विकारानस्य तत् पश्चाद्रव्यस्य हरत्मकं | वह्निजायां समुद्धृत्य त्रिधा च प्रजपेन्मनुं || तत्र क्रमाश्रीवाग्भवं प्रोच्ये तथा मृते मृतोद्भवे | अमृतवर्षिणि प्रांते महाप्रकाश शब्दतः || मुक्ते वह्निवधूं व्रूयाजपात् प्रनाशिनीमिति | अथ तिरंकरिणी ध्यानं यथा शक्ति यामले || तिरस्कारीं महाविद्यां ध्यायेच्च साधकोत्तमः | निलं हयं समधिरुह्यपुरः प्रयांतीं नीलांशु भरण माविलेशनाद्यानिद्रापटेन भुवनानितिरोदधाना खड्गा युधा भगवती परिपातु भक्तान् | लज्जां कामेश्वरीं वाणीं ग्लैमात्मक समुद्धरेत् तिरः शब्दोत्करिणीति स कालेति जनां ततः | रग्रोदिनी सकलपशुव्रात जलेति च | मनःश्चक्षुः पदाछ्रोत्र जिह्वा घ्राणोक्ति शब्दतः | तिरः शब्दात्करिणीं च कुरु द्वयं समुद्धरेत् | ठद्वयं सर्ग संयुक्तं वह्नि कातामिति क्रमात् | प्रकारांतरां शक्तियमले | मायालक्ष्मी द्वयस्यांते नमो भगवतीति च | माहेश्वरि पदस्यांते सर्वपशुजनेति च || मनंश्चक्षुस्तिरस्करी कुरु द्वंद्वं च ठद्वयं | अत्र मंत्र द्वैधे संप्रदायः शरण | पात्रमानेन मंत्रेण पावयेत् कारणं ततः | मंत्रः श्रौतः | ओं पावमानः परानंदः पावमाणः परोरसः | पावमानं परं ज्ञानं तेन ते पावयाम्यहं || वामवीजेन संशोष्य वह्निना संदहेत् ततः | उर्द्ध्वं संचिंतयेन् मंत्री भास्करं सूर्यमंडलं || प्. ७३ब्) सौरमंत्रेण वरुणां संस्मरन् मस्तकोपरि | तस्मादमा संवीधारां पतंती चिंतयेत् ततः || आकाशं कुलसंयुक्तं मनुसर्गेंदु खंडवत् | महानंदकरो वीरवंदितो वरुणा मनुः || सोमवीजं ततो हांतं सेंदूसर्गं सुधामयं | जपन् संपूरयेत् पात्रं मृप्तया धेनुमुद्रया || अमृतां पूजयेत् सप्तधा कूर्मसंज्ञया | मायां विष्णुप्रियां प्रोच्य अं आं इं रूपतो मृते || अमृतोद्भाव शब्दांते वदेद मृतवर्षिणि | अमृत श्रावय द्वंद्वं पाशदीर्घश्रुती ततः || सेंदुखंडौ भृगुः प्रोच्य ततोमृतेऽमृतेश्वरीं | ङें नमोस्तां समुद्धृत्य प्रोच्चरेदमृतामनुं || तमृतत्वं ततः कृत्वा कर्पूराद्यैः मवासयेत् | विद्या तत्वेन मंत्रेण योनिमुद्रां प्रदर्शयेत् || आनंदभैरवं ध्यात्वा तथा चानंद भैरवीं | पूजयेत् कारणे देवि मंत्र शृणु यथा क्रमं || अथ ध्यानं शक्तियामले | तन्मध्ये भावयेन् मंत्री ज्ञानानंद प्रदायकं | सूर्यकोटि प्रतीकाशं चंद्रकोटि सुशीतलं || अष्ठादशभुजं देवं पंचवक्त्रं त्रिलोचनं | अमृतार्णव मध्यस्थं ब्रह्म पद्मोपरिस्थितं || वृषारूठं नीलकंठं सर्वाभरणभूषितं | कपाल खट्वांगधरं घंटा डमरून्नांदिनं || पाशांकुशधरं देवं गदामुशलधारिणं | खड्गं खेटकपट्टीश मुद्गरं शूलकुंतकं || विभ्रती खेटकं मुंडं वरदा भयपाणिनं | लोहितं देवदेवेशं भावयेत् साधकाग्रणीः || भावयेच्च सुधां देवीं चंद्रकोटि समप्रभां | हिमकुंदेंदु धवलां पंचवक्त्रां त्रिलोचनां || अष्टादश भुजैर्युक्तां सर्वानंदकरोद्यतां | प्रहसंती विशालाक्षीं देवदेवस्य षण्मुखीं || इति ध्यानं | मंत्रो यथा तत्वानंदे | अकुलं कुलसंयुक्तं संवर्तं वालभूजलं | तेजः समीरणं श्रोत्रं दीर्घमर्द्धेन्दु संयुतं || आनंदभैरवं ङेंतं शिखायुक्तं समुद्धरेत् | अस्याद्यं विपरीतस्तु श्रवणे वामलोचनं || सुधादेव्यै पदं नेत्रमियमानंदभैरवी | सर्वभूतमयीं देवीं ध्यायन् मूलत्रिकोणके || सुषुम्ना ब्रह्ममार्गेण परमात्म निशंकरे | वक्षमाणेन मनुना वीरैक परिभावयेत् || तदुद्भवामृतं कुंभे योजयेत् स्वपिनालया | शिवशक्तिमयी जीवो वुक्त्रमेण क्रमेण तु || तदंतं संस्मरेन् मंत्री वह्निकांतां रविप्रभां | एकीकरण मंत्रोयं सर्वयोगज्ञ योगिनां || अमृत मंत्रो यथा कुलामृते | वंषट् दीर्घसमायुक्तं वरुणाय नमोंतिकं | अमृतं चेतदाख्यातं द्रव्यशोधनकारकं || अमृतं चिंतयेद्रव्यं अमृतं रसुधा जपेत् | वंषड् दीर्घ समायुक्तं वरुणायननोंतिकं || अष्टधा मूलमंत्रं च जपेद्धृत्वा घटं ततः | स्वतंत्रे | विभाव्य भावयेद्रव्ये दिव्यालक्तनिभं प्रिये | अकथादि त्रिपक्त्यां तु हलक्ष मथमंडितं || प्. ७४अ) पूर्ववद्योनि मुद्रायां शिवशक्ति समागमं | ततो घटसूत्रं | समुद्रे मथ्यमाने तु क्षीरोदे सागरोत्तमे | तत्रोत्पन्नं सुरां देवीं कनकारूपधारिणीं || गोमुत्र सदृशा काराफेणा मृत समुद्भवा | अष्टादश भुजां देवीं घूर्णितैर्न्नयनौर्युतां || प्रतप्त स्वर्णवर्णा चतुवर्णा च दंडिका | गोमुत्राक्षीरवर्णा च कृष्णवर्णा परा शुभा || पशुहंत्री सुरानित्यं देवानामति दुर्लभा | या सुरा साद्रवी देवीयो भोक्ता स स्वयं शिवः || योगंधः स स्वयं ब्रह्मायो रसः स जनार्दनः | इच्छायां मन्मथो देवो जलमध्ये च भैरवः || फेणो गंगा नमः साक्षाद्घटस्थाः सप्तसागराः | देवानां रक्षणार्थाय दैत्यानां निधनाय च || अनेन घटसूत्रेण जायते द्रव्यशोधनं | पूजयेद्गंधकुसुमैः ततः कामाल योजयेत् || एवं होमे तथा यागे पाने द्रव्यं विशोधयेत् | संशोधन मनाचर्य न कुर्याद्रव्य संहतिं || मोहादज्ञानतः पीत्वा प्रायश्चित्तीयते नरः | भावचूडामणौ तु घटस्थापनानंतरं || हेतु द्रव्य ब्राह्मणादि भेदतः परिपूरयेत् | तत्र यंत्र विलिख्यादौ षट्कुलसमुद्भवं || ध्यात्वेष्ट देवतां तंत्र जपेदष्टोत्तरं शतं | धेनुमुद्रां प्रदर्श्याथ अमृतं तद्वि चिंतयेत् || संप्रदाय भेदादयमेकः || अथ पंचप्राशस्त्यं | उत्तरातंत्रे | मद्यं मांसं तथा मत्स्यं मुद्रा मैथुनमेव च | मकार पंचमं देवि महामोक्ष प्रकाशकं || विना पानं चोपचारेण देवी पूजां करोतियः | योगिनीना भवेदभ्यः पापं चैव पदे पदे || कालिकापुराणे | यजेन्मद्येन मांसेन मैथुनाद्यैर्विशेषतः | महाभैरवरूपेण तथा च नंग संगमे || नान्यथा जायते सिद्धिर्मंत्रस्य कोटि जायतः | ननु सामान्यतः कथं विधिः | हेतु द्रव्यं ब्राह्मणादि भेदतः परिपूजयेदिति | जातिभेदो पादानात् | कुलचूडामनौ च यत्र विश्यं विनिर्दिष्ठं मदिरादान पूजितं | ब्राह्मणस्ताम्रपात्रे तु मधुमद्यं प्रकल्पयेत् | अथवा कुलमद्येन तर्पयेत् कुलमातृकां || योगिभिः पूजयेन् मद्यं तन्मद्यं द्विजपुंगवैः | न मद्यं पानयोग्यं स्यानमद्यं गुडदेष्टजं || यामले | पैष्टी माध्वी च गौडी च कादऋवी चरुणी | एते पंचप्रकाराः स्युः सुरायाः शिवसाशने || ब्राह्मणे नैव दातव्या विना माध्वी कथंचन | अन्येषु च प्रकारेषु नाधिकारो द्विजन्मनां || पैष्ठी तु सर्वजातीनां दानयोग्या ना जायते | क्वचित् क्षत्रियादिभिर्ज्ञेया यदि स्याद् गृहसंभवा || माध्वी कादंवरी गौडी वारुणी दीयते सदा सत्यं एतत् स विकल्प परं | निविकल्पानां तु सोमभुजगावल्यां | यत्याने दूषणं प्रोक्तं प्रायश्चित्तं तदेव हि | ज्ञानतो भैरवी चक्रे ज्ञानिनां नैव दूषणं || प्. ७४ब्) न मांसभक्षणे दोषो न मद्यै न च मैथुने | फलार्थिनां महं भावरतां दूषणमेव हि || निरहंकारिणां चैव न निषेधो न वा विधिः | शरीरे अहं भावतां निरहंकारिणां शरीरमित्यर्थः | तत्राहं भावतां नाधिकारः जीवात्म शक्तौ कुंडलिन्यां महं भावरतांमधिकारः | खद्योत पीयतेयद्यत् दित्यादि वचनात् | न निषेधो न वा विधिःरिति | वेदोक्तरित्यर्थः | आनंदं ब्रह्मणो रूपं तच्च देहे व्यवस्थितं | तस्य तिरंचकं द्रव्यं योभिस्तेन पीयते || निर्विकल्पमनो भूत्वा कुर्यादेवं समाहितः | ब्राह्मणस्य सदा पेयं क्षत्रियस्य रणागमे || इत्यादि प्रागे लिखितं | सौत्रामण्यां कुलाचारे ब्राह्मणः प्रदिरेदित्यादि प्रागेव | चतुर्णामपि वर्णानामित्यादि समोन्यतः पूजोपदेशश्च | ज्ञानार्णवे | ईश्वर उवाच || नैमित्तिकं प्रवक्ष्यामि येन ब्रह्ममयो वुधः | निर्विकल्पेन देवेशि नान्यस्य सुरवंदिते || सर्वशंका विनिर्मुक्तः सर्वज्ञः साधकोत्तमः | दूतीयागविधिं कृत्वा खेच्रो जायते || पेयो अर्घपात्रे वह्नि सूर्य सोमामृतमये शिवे | सोमामृतं तु जानीहि नानाद्रव्यमयं सदा || स विकल्पस्य देवेशि वर्णानु क्रमभेदतः | कथंते द्रव्यभेदस्तु क्रमेण परमेश्वरि || क्षीरवर्क्षे मधुसौरया द्रव्यभेदा भवंति हि | सर्वज्ञत्वाद्वरारोहे यज्ञे दोषो न जायते || अश्वमेधादि यज्ञेषु वा जिहत्या कथं भवेत् | द्रव्यभेदा वरारोहे महापातकनाशनं || ब्रह्महत्या सुरापात्र स्वर्णस्तोयादि पातकान् | नाशयेत् पूजनाद्देवि हवः शंति भेदतः || जलं क्षीरं घृतं भद्वेमधुमैरेयमिक्षुजां | पौष्पंतं च भवं धान्य संभवं चेक्षुनिर्मितं || सहकार भवं देवि विविधं वस्तु भेदतः | मादकं धर्म संछदादुर्यमासीत् सुलोचने || ज्ञानेन संस्कृतं तत्तु महापातकनाशनं | ब्रह्महत्या सुरापान स्वर्णस्तोयादि पातकान् || नाशयेत् पूजनादेवि निर्विकल्पः स मंत्रवित् | विचारयेत् सदा सर्वं सर्वं वा वीरवंदिते || सर्वत्र सर्वतिष्ठंतीत्यर्थः | जलं जलचरं विद्धि घटपूर्णं समानय | स्थापिते दिन सप्ताहाज्जलं क्षीरसमन्वितं || क्षीरं वै यस्य जीवस्य तस्य मासं न संशयः | जगा पुत्रवती नारी पुष्टा वंध्या ततः || मादकं फलजं रम्यं द्रव्यं सेव्यं द्विजातिभिः | जमादकत्वात् देशिकं ऐक्षवं सेव्यते वुधैः || अनामिषं नास्ति किंचित् सर्वं नीरादिकं प्रिये | वेदशास्त्र पुरानेषु गूढो ज्ञान समुछ्रयः || समीवृक्ष यथा वह्निस्तथा तिष्ठेति सुंदरि | सर्वभूतेषु ज्ञानं हि ज्ञातव्यं साधकोत्तमैः || काष्ठनिर्मथना देवि प्रकटी वह्निरुच्यते | तत्काष्ठं दह्यते तेन तथा ब्रह्ममयं जगत् || प्. ७५अ) पापपुण्य विनिर्मुक्तं ज्ञान मे तद्वरानने | किंचिदुक्त्वा स पर्यंतं ज्ञातव्यं तत्सुरेश्वरि || यस्माद्वेदशास्त्रेषु ज्ञानं हि ज्ञातव्यं गुप्तं अत एव निषिद्धं किंतु सर्वप्राणिषु तत्र दृष्टांतः समीवृक्षवत् निर्मंथनं विप्राकद्यं नास्ति तथा कर्म विनामनसि प्राकट्यं नास्ति प्रकटे काष्ठवत् कर्मापि दहति | एतत् स्वासवे शेषपर्यंतं ज्ञातव्यमित्यर्थः | यज्ञांज्ञं तु यदा नाद्या पातका ब्रह्महा भवेत् || मादनं वस्तु सकलं वर्जयेद् भक्षणादिकं | जलजं पातकी यस्माधर्म ब्रह्मविदांवरः || उभयवेत्ता सर्वमेव वर्जयेदित्यर्थः | धर्माधर्म परिज्ञात सकलेपि पवित्रता || विक्षत्तस्त्री रजो वापि मांसास्थि सकलं प्रिये | विचरेयेन् मंत्रवेत्ता पवित्राण्ये वसुव्रते || अन्नं ब्रह्मविजानीयात् तेन यस्य समुद्भवः | नानाजीवाश्रयं तस्तुपुरीयं केन दुष्यते || नानाविधा हि देवेशि देवताः सलिले स्थिताः | तेनोदकेन यज्जातं मूत्रं केन प्रदूष्यते || गोमूत्र प्राशनं देवि गोमयस्यापि भक्षणं | प्रायश्चित्तं तु कथिते ब्रह्महत्यादिक प्रिये || मलमूत्रे कथं देवि प्रांतिकेव न संशयः एतेना घोरोपासना सूचिता प्रसंगात् | स्त्रीरजः परमेशानि देहस्ते नैव जायते | कथतं दूषणं तेन प्राप्यते परमं पदं || पुरुषस्य तु वीर्यं हि विंदुरित्यभिधीयते | विंदुस्तु परमेशानि कामोयं शिवरूपधृक् || शिवतत्वेन साक्षाद्धि दूषणं नास्ति वैंदवों | रेतः पवित्रं देहस्य कारणं केन निंद्यते || ज्ञानमार्गेण सकलं पवित्राण्येव सुंदरि | विकल्पश्चेन् महेशानि पापभोक्तायतेनरः || मातृगर्भा द्विनिंसृत्य शिशुरेव न संशयः | इंद्रियन्यखिलान्यस्य देहस्थान्यपि वल्लभे || निर्विकारतया नात्र भगलिंग समायोगो जन्मकाले भवेत् सदा | काम्यते स यदा देविं गुरुतल्पस्तदा भवेत् | अत एव यत्र यस्य वा सनाकुत्सिता भवेत् || तत्तु दूषण संयुक्त मन्यत् सर्वमदूषणं | पवित्रं सकलं भद्रे वा सनाकुत्सिता स्मृता || अत एव यंत्रस्ये प्रतिष्ठानं ततः परं | अन्यच्च ज्ञानार्णवे | ब्रह्मानंदमये ज्ञाने कथमीत्यादि | आकाशात्यतितं तोयं लिंगमार्गेण गच्छति | ग्राममध्यगतं सर्वं विष्ठा मुद्रादिं पूरितं || समस्तमपि देवेशि गंगायां मिलितं यदा | गंगामृतं तदैवास्ति कालुष्यं नैव तिष्ठति || तथा स चिन्मये ज्ञाने समता सर्वजंतुषु | शोषयन् दुग्धमुद्राणि चंदनं क्षेत्रकर्दमं || अत एव महेशानि मंत्री सर्वमयो यदा | सिद्धिस्तस्यैव विज्ञेया श्रीगुरोः कृपयाः प्रिये || तंत्र चूडामणौ | द्विजानामनुकल्पस्तु न साक्षाच्च विकल्पिनां | अत्र यत् पतितं तद्वेष्टनी पंक्तिषु वोध्यं || अत्रायं निष्कर्षः | प्. ७५ब्) स विकल्पानां ब्राह्मणादीनां आभिषेषिकैर्हेतुभिषेकः तैरेव पूजनं च | निर्विकल्पेमभिषेको मुख्ये नैव पूजायां तु मुख्या भावे प्रतिनिधिः पशूनां तु जलेनैवाभिषेकः पूजनं च | निर्विकल्पता च गुरुक्त शास्त्रोक्त श्रवणादे तस्मात् पापं न भवतीति ज्ञानमिति | अथाद्य तत्वभेदाः | यथा कुलार्णवे | पानसंद्राक्ष मधुकं खार्जूरं तालसंभवं | मधुकंसीधुमाध्वीकं मैवेयं नारिकेलजं || मद्यान्येकादशैतानि भुक्तिमुक्ति कराणि च | द्वादशं तु सुरामद्यं सर्वेषा मुत्तमं स्मृतं || गौडी पैष्ठी च माध्वी च विज्ञेया त्रिविधा सुरा | सर्वसिद्धिकरी पैष्टी गौडी भोगप्रदायिनी || माध्वी मुक्तिकरी ज्ञेया सुरास्या देवता प्रिया | वित्त प्रा ईक्षवीहालाद्राक्षी राज्यप्रदा भवेत् || तालजा स्तंभने शस्ता खार्जूरी रिपुनाशिनी | नारिकेलोद्भवाग्नीदाहालासाक्षाछुभं प्रदा || मरुजा ज्ञानकरी अरिष्टा रोगनाशिनी | मैरे आख्या कुलेशानि सर्वपाप हराणि च || क्षीरवृक्ष समुद्भूत माद्यं वल्कल संभवं | मधुपुष्प समुद्भूत मांसवंत शुलोद्भवं || यत्सानंद रुचिवरं आमोदं च मनोहरं | मद्यं तदुत्तमं देवि देवता प्रीतिकारिकं || अथ मांस विवरणं | कुलामृते | मांसं तु त्रिविधं देवि जलखेचर भूचरं | गो नरेभाश्च महिष वराहोज मृवोद्भवं || महामांसाष्टकं देवि देवता प्रीतिकारकं | न दद्या स्त्री पशोमांसं गोधिकां हरिणीं विना || अप्रोक्षि तस्य न ग्राह्यं वै मृतस्य च | खड्गादिं नाम वृत्तस्य प्रोक्षितस्य विशेषतः | विश्वामित्र प्रोक्षितस्य वनस्थस्य सुरेश्वरि || अथ शुद्धिस्तत्रैव | ओं प्रतद्विस्तुस्तरते वीर्ये ममृगो न भीमः कुच रोगरिष्ठायस्योत्रिषु विक्रमणेष्वपि क्षिपंति भुवनानि विश्वा | अनेन मन्वादरि मास शोधनमाचरेत् | अथ मीनविवरणं | मत्स्यस्तु त्रिविधं देवि उत्तमाधम मध्यमं | उत्तमं त्रिविधं देवि शालपाठी नरो हिताः || प्रवीनं कंटकैहीनं तैलाक्तं स्वादु संयुतं | देव्याः प्रीतिकरं चैव मध्यमं तच्चतुर्विधं || क्षुद्राणि तानि सर्वाणि अधमान्या कुरुत्तमाः | शालपाठी नरो हितानामुत्तमत्वं प्रवीणादीनां चतुर्णा मध्यमत्वं इत्यर्थः | शुद्धिस्तत्रैव | ओं त्र्यंवकं यजामहे सुगंधिं पुटिवर्द्धनं | उर्वारकमिव वंधनान् मृत्योर्मुक्षीय मामृतात् || इत्यने नैव मनुनामान शुद्धि भवेत् प्रिये | मुद्रा विवरणं तत्रैव छ्रैहेयं मंडलाकारं चंद्रविवं निभं प्रिये | चारुपंक्वमनोहारि शर्कराद्यैः प्रपूरिते | पूजाकाले देवताया मुद्रैवा परिकीर्तिता || पृष्ठनान्यादिकं यद्यच्चर्वनीये | तेषां संज्ञा कृता मुद्रा महामोद प्रवर्द्धिनी | शुद्धिः कुलामृते | प्. ७६अ) तद्विष्णोः परमं पदयुग्मं सदा पश्यंति शूरयः | दिवीव चक्षुरा ततं तद्विप्रसोवितन्यनोजा गृवांसः समीक्षा तु विष्णोर्यत् परमं पदं | अथ कुलामृतं | तत्रैव | पुष्पितायास्त्रियो रक्तं वज्रपुष्पं प्रकीर्तितं | शिवशक्त्योस्तु संघट्टाग्गलितं यत्परामृतं || कुंडगोलं तदेवास्थः सर्वसिद्धि प्रदायकं | विना शिवेन या नारी स्वयं भवति पुष्पिता || अरुटा कुल्ममंतस्याः स्वयंभूविद्धि भैरवि | त्रयाणां नाम देवेशि कुलपुष्पं प्रकीर्तितं || शुद्धिस्तत्रैव | ओं विष्णुर्योनिं कल्पयतुष्टा रूपालिं सत्तमाषिंच | तु प्रजापतिर्धातागर्भं दधातुते गर्भं देहिसिनीवाली गर्भं दधेहि सरस्वती गर्भंते अश्विनौ देवावाधतां पुष्करस्रजौ | नांतं हांतं ततो वद्मं मासं वहुं च दक्षिणं | इंद्र संस्थं क्रमेणैव वामकर्णेन संयुतं || नादविंदु कलाक्रांतं ठद्वयं चामृते पदं | अमृतोद्भवे अमृतवर्षिणी अमृतं श्रावय वह्निजायां समुद्धरेत् | तारतूर्यास्त्रमुद्धृत्य शिवत्रयं लिखेत् || विंदुयुक्तं वह्नि कांतां तारं मायां द्वरिप्रियां | अरातेति ततो मायां रमां पुनः | अस्त्रमग्नि प्रिया चैवं अतो मृतोत्तरायचां अमृतवर्षिणी प्रांते देवि शुक्र पदं लिखेत् | शापं प्रमोचय द्वंवं अमृतं श्रावयेद्वयं | अमृतं कुरु युग्मं च वह्नि कांतां स्मरेद्वुधः || अनेन मनुना कुर्यात् कुलामृत विशोधनं | इत्यनयोरेकतमेन संशोध्य अभिमंत्रयेद्यथा कुलामृते | देव्या अंगे समुद्भूते पीठ छिद्रेण निःसृते | देवित्वं पुष्परूपेण सर्वसिद्धिं प्रयच्छमे || काली द्वाविंशतिं मंत्रं तारोयास्त्र्यक्षरं तथा | मर्दिन्या वसुवस्तुं च भुवनेश्या स्त्रिवीजकं || विन्यसेदित्यर्थः | भगवत्यै ततो दद्याच्छरीरे धारयेत्तथा | सर्वोपरि मूलमंत्रं प्रजपेद् दशधा पुनः || अथ पंचतत्वा भावे प्रतिनिधिः | तत्र स्राध्य प्रतिनिधिर्यथा कुलार्णवे | मद्यमांसादि विजया चाष्टगंधैः सुमिश्रिताः | सम्मध्य वटिकां कृत्वा साग्राह्या च विचक्षणैः || मघा भावे तु वटिका जले संमर्घ तर्पयेत् | गुण्डमिश्रेण तर्केन तथा वै मधुभाजिना || सौवीरेणाथ वा कुर्यादे तत्कर्म न लोपयेत् | प्रमादाद्यदि लुप्येत देवता शापमाप्नुयात् || दुग्धं दधि तथा क्षौद्रं तैलं सौ वीरमेव च | आर्द्रयुक्त प्रपालं वा नारिकेल जलं तथा || अभावाष्टमिदं प्रोक्तं द्रव्या भावे सुरेश्वरि | तत्वानंदे | मघाभावे ताम्रपात्रे गव्यं दद्याद्यतं विना | अथवा वितरेत् तत्र मधु पुष्परसोद्भवं || नारिकेलोदकं कांश्यो धारयेद्वाद्विजः | गुडाद्रकं रसं किवा वितरेत् तु निजेच्छया || स गुडावदरीं वापि मद्य प्रतिनिधविति | अथ मांस प्रतिनिधिः | लवणार्द्रकपि न्याक् मीना भावे गो धूम मास पुत्रकं | लशुतं च महेशानि मांस प्रतिनिधि स्मृतं || प्. ७६ब्) सोमभुजगावल्यां | पिन्याकं लशुन चैव लवण सार्द्रक प्रिये | भावेष्टमांसानि प्रशस्तादि सदार्चने || अथ मीन प्रतिनिधिः | मीनाभावे तु कुष्मांडं सुदग्धं सुपरिस्कृतं | जंवीरं रक्तशाकं वा सु पक्वं विनिवेदयेत् || मुद्रायां दौर्लभ्यात् प्रतिनिधिर्नास्ति | अथ शक्ति प्रतिनिधिः | सोमभुजगे | शक्त्याभावे महेशानि स्वात्मशक्तिं प्रपूजयेत् | कुंडलिनीत्यर्थः | अथ कुलपुष्प प्रतिनिधिः | भावचूडामणौ | अपरा पुष्पगर्भे तु कुलस्थानं मनोहरं | सर्वदेव सुखं तत्तु महाकाम कलात्मकं || हयारि कुसुमे देवि स्वयमस्ति सदाशिवः | तन्मध्ये लघुमादाय पुष्पमध्ये तु चंदन || रक्त कुंकुमरागं वा दत्वा तत्रा शिवात्मकं | योजयेच्छक्ति शिवयोरैक्यं संभावयद्धिया || ततस्तदुद्भवं द्रव्य मर्घ्य मध्ये नियोजयेत् | अथ सामान्यार्घं यथा ज्ञानार्णवे | विधाय वामभागे तु चतुरस्रं च मंडलं | यंत्रिकां तत्र संस्थाप्य शंखं तत्र विनिःक्षिपेत् || शुद्धोदकेन संपूर्य पूजयेत् कारणान्वितं | षडंगं तत्र संपूज्य सामान्यार्घमिदं प्रिये || कल्पसूत्रे च | शुद्धांभसा वामभागे वृत्तं चतुरस्रं च मंडलं कृत्वा पुष्पैस्तमभ्यर्च्य साधारं शंखं तत्र स्थाप्य षडंगेनाभ्यर्च्य शुद्धांभसा पूर्यादिमविंदुं दत्वा विद्यया त्रिरिभिमंत्र्य तज्जलेन त्रिकोण वृत्त षट्कोण चतुरस्र मंडलं कृत्वेति | यामले च | वामभागे तु त्रिकोणं वृत्त भूपुरं | आधारं तत्र संस्थाप्य पूजयेद् वह्निमंडलं | पात्रं निधाय तत्रैव कलाभिः सूर्यमर्चयेत् | तीर्थोदकेन शुद्धेन पूरयेन् मूलमुच्चरन् || प्रणवेन गंधपुष्पं दत्वा सोमकलार्चनं | आनंदभैरवं तत्र यजेदानंदभैरवीं || सप्तधा मूलमंत्रं च तस्योपरि जपेत् कृती | सामान्यार्घमिदं प्रोक्तं विशेषार्घमिदं प्रिये || इति दिव्यवीरयोः प्रोक्षणी पात्रं | अथ पात्र संख्या कुलार्णवे | घटांतेः श्रीगुरोः पात्रं भोगपात्रं तदंतिके | तदंते शक्तिपात्रं च योगिनीनां तदंतिके || तदंते वीरपात्रं च कलेः पात्रं तदंतिके | पाद्यमां चमनीयं च अर्घेण नवमं विदुः || उत्तमं नवपात्राणि सप्तपात्राणि मध्यमं | केचिद्वदंति मंत्रज्ञाः पंचपात्राणि मध्यमं || अधमंत्रीणि पात्राणि पात्रद्वयं तथैव च | एकपात्रं न कुर्वीत यदि साक्षात् कुलेश्वरः || मंत्राः पराङ्मुखायांति क्रुद्धा भवति सुंदरी | इहलोके च दारिद्र्यं मृते च नरकं भवेत् || श्रीगुरोः भोगपात्राणि त्रिषु पात्रे स्वयं विधिः | पाद्यादीनि च सर्वाणि भोगपात्रात् प्रदापयेत् || पूजापात्रं वलेः पात्रं पंचपात्रेष्वयविधिः | शक्ति वीरपात्रं सप्तपात्रेष्वयं विधिः || प्. ७७अ) पूजापात्रं च विज्ञेयं योगिनीनां च पूजने | पाद्यमाचमनीयं च वलिपात्रात् प्रदापयेत् || पाद्यमाचमनीयं च नवपात्रेष्वयं विधिः | तत्वानंदे च | घट श्रीपात्रयो मध्ये पात्रस्थानेपयेदथा | घटांत श्रीगुरोः पात्रं भोगपात्रं तदंतिके || शक्ति श्रीयोगिनी वीरवलीना पात्रमुत्तमं | पाद्यमात्मनयोः पात्रमर्घ्येण नवमं विदुः || नवात्मकं महाश्रेष्ठं श्रेष्ठं सप्तात्मकं मतं | पंचमं मध्यमं प्रोक्तं मध्मंत्रितयात्मकं || सृकपात्रं सर्वथैव न कर्तव्यं कुलेश्वरैः | श्रीगुरोभोग पात्राणां त्रितये त्रितयं भवेत् || योगिनी वलिपात्रे द्वेषं चात्मकमिति क्रमात् | पाद्यमाचमनीयं तु वलिपात्रामृतेन तु || शक्ति वीरात्मके पात्रे सप्तात्मकमितीरितं | सामान्यार्घस्य विधिना पात्रा त्रिस्थापयेद्वुधः || श्रीपात्र घटयोर्मध्ये पात्राणि शापयेत् सर्वं गुरुपात्रं घटस्यांते तदंते भोगपात्रकां तदा तु शक्तिपात्रं च योगिनी नां नां तदंतिके | वीरपात्रं तदंते च वालुपात्रं तदंतिके | पाद्यमाचमनीयं तु पात्राणि स्थापयेत् क्रमात् || अथाधारः | कुलार्णवे | आधारेण विना भ्रंशो न च तृप्यंति देवताः | तस्माद्विधि वदाधारं कल्पयेत् कुलनायिके || आधारं त्रिपदं प्राहुः षट्पदं वा चतुः | अथवा वर्तुलाधारं कुर्याद्देवि मनोहरं || महाराज न तंत्रे | स्वर्ण रौप्यादि रचितं त्रिपदं वापि पूजयेत् | पात्र संज्ञाख्यया आधार संख्ययो ज्ञातव्या || दैर्घ्य विस्तारादिकमपि पात्राच्छपमेव | अथ पात्रं कुलार्णवे | स्वर्णरौप्य विना कूर्म कपालो ना वृमृन्मयं | नारिकेल संखमुक्ता शुका च समुद्भवं || पुण्य वृक्षत्वं च रम्यं पात्रं कुर्याद् विचक्षणः | अति सूक्ष्ममतिः स्थूलं छिन्नं भिन्नं विवर्जयेत् || ताम्रकाश्यादि लोहैश्च पात्रं नैव तु कारयेत् | स्वर्णरौप्यस्य पात्राणि सर्वसिद्धिकराणि च || णांतिके च शिलापात्रं स्तंभने चैव मृण्मयं | मारिकेलं च वश्यादा वाभिचारे च कूर्मकं || शंखज्ञानप्रदं मुक्ता शुक्ति ज्ञानप्रदायिनी | कपालावुप पात्राणि ज्ञानसिद्धिकराणि च || पुण्यवृक्षज पात्राणि सर्वपापहराणि च | उक्तेष्वेतेषु देवेशि पात्रमेक समुद्धरेत् || वीरतंत्रे | पात्रं कांच न रोप्यका च जनितं मुक्ता कपालोद्भवं | विश्वामित्र मयं च कामदमिदं हैमं श्रियं स्फाटिकं | तारं श्रीति दमष्टसिद्धिजनकं श्रीनारिकेलोद्भवं | कापालं स्फुट मंत्रसिद्धि जननं मुक्तिप्रदं मौक्तिकं | वश्याकर्षण कार्येषु हेमपात्रं प्रशस्यते | शांतिके पौष्ठिके चैव राजतं कारयेद्वुधः || लौहपात्रं विजानीयान्सारणोच्चाटने सदा | स्तंभका पाषाणे विद्वेषे लोहमृण्मयं || प्. ७७ब्) कुलोत्साधन कार्येषुका च पात्रं प्रशस्यते | कांश्यपात्रं विजानीयान् मंत्रराधन कर्मणि || सर्वकार्येषु सर्वत्र विश्वामित्र समुद्भवं | शंखं ज्ञानप्रदं प्रोक्तं मलावुं सर्वसिद्धिदं || षोडशांगुलमानस्तत् पात्रं सर्वसिद्धिदं | द्वादशांगुलमानं तु वसुगुलमथापि वा || एतं परं च यत्पात्रं तत्पात्रमधमं स्मृतं | यत् तु लिंगप्रमाणं | षड्त्रिंशदंगुलं पात्रमुत्तमं परिकीर्तितं | मध्यमं तु त्रिभागोलं कर्तव्यं षोडशांगुलं || वसुंगुलविहीनं तु न पात्रं कारयेद्बुधः | यत् तु श्रौतं नारिकेलपात्रं | महार्णवतंत्रे || ईश्वर उवाच || शृणु देवि प्रवक्ष्यामि नारिकेल विधिं शुभं | पुरा वै निर्मितं पात्रं विश्वामित्रेण धीमता || विश्वामित्र कपालं तु सर्वपात्रोत्तमोंत्तमं | तस्मिन् पात्रे पूजयेच्च सिद्धदेवीश्च सर्वशः || सिद्धविद्या इत्यर्थः | तस्य दर्शनमात्रेण एकविंशतिकं कुलं | उद्धरष्यंत्यशं देहा गृहस्थोपि तव प्रियः || ब्रह्महत्यादि पापानि तथा विश्वस्तघातिनं | दृष्ट्वा पात्रं नारिकेलं सर्वपापं प्रणश्यति || कन्या कोटि संहस्त्राणि हेमकोटि शतानि च | यो ददाति महेशानि राहुग्रस्ते निशाकरे || तत् फलाकोटि गुणितं नारिकेलार्घपात्रतः | अलां तस्य पात्रस्य अन्यपात्रं प्रकल्पयेत् || दृष्टवार्घ पात्रं देवेशि ब्रह्माद्या देवताः सदा | नृत्यंति सर्वयोगिन्यः प्रीताः सिद्धिं ददंति च || श्रीपूर्णानंदनाथेन कृतायां गुरुभावतः पटलो दशपंचकः || अथ श्रीपात्र स्थापनं || स्थापनं तु सु सन्मुखदेशः | आत्म श्रीचक्रयोर्मध्ये श्रीपात्रं स्थापयेद्वुधः | इति वचनात् | सुदक्षिणादि नमोंते मित्यादि कुलार्णवं वचनाच्च | पशुभावे पुनः स्ववाम एव वामतो वह्निमंडले इत्यादि शारदा वचनात् | कुलार्णवे | आत्म श्रीचक्रयोर्मध्ये चतुरस्रं तु मंडलं | सामान्यार्घस्यतो येन देवेशि भूमिजानुकः || वहत् करोर्द्ध पुटितो यंत्रिकां तत्र पूजयेत् | त्रिकोणवृत्त षट्कोण यजेतत्र तु मंडलं || कल्पसूत्रो तज्जलेन त्रिकोणे वृत्त षट्कोण चतुरस्रमंडलं कृत्वा मध्यं विद्यया विद्या खंडै त्रिकोणं वीजवत्या खडत्वं संपूज्यति | महारजते | इंकारं वायुगेहं च वृत्त षट्कोण भूपुरं | लिखित्वा प्रपूजये तत् तत्सामान्यार्घस्य वारिणा || चतुरस्रे चतुः पीठं षट्कोणेषु षडंगकं | अथवा पूजयेन् मंत्री षडापनं क्रमेण तु || पूजासनं श्रीविद्यायामितिर्यः | अथात्मये त्रयोर्मध्य तत्वानंदे | अथात्म यंत्रयोर्मध्ये विलिखेद् वामलोचनं | त्रिकोण वृत्त षट्कोण भूविंवक्रमतोपि च || प्. ७८अ) कुलार्णवे | मंडलेन विना पूजा विफला परिकीर्तिता | तस्मान् मंडलमालिख्य विधिवत् तत्र पूजयेत् || अखंडमंडलाकारं विश्वं व्याप्य प्रतिष्ठितं त्रैलोक्य मंडितं येन मंडलं तत्सदाशिवं | इति मंडल स्वरूप ज्ञानं | उद्यानं चतुरस्रं स्यात् कामरूपं तु वर्तुलं | जालंधरमर्द्ध चंद्रं स्यात्र्यस्रं पूर्णगिरिर्भवेत् || अभ्यर्च्य मंडलं पश्चादाधारं स्थापयेत् क्रमात् | एतेन त्रिकोणवृत्त चतुस्रात्मकं | तत्र मंडल द्वैधे संप्रदायः शरणं | तत्वानंदो सामान्यार्थस्यतो येन प्रोक्षयेन् मंडलं वुधः | पूजोपकादिकं पीठं संपूज्य मंडले ततः | पूर्वादि क्रमेणेत्यर्थः | ज्ञानार्णवमते | यत् पीठात्मकं यन्मंडलं तत् तत्र पूजयेत् | षडंगानि षट्कोणे मूलखंडैस्त्रिकोणकं || आधारशक्तिं मध्ये तु पूजयेत् कुलनायकः | हृदांवु प्रोक्षिताधारं मंडले तत्र योजयेत् || वह्नेर्दश कलास्तत्र यजेम्वादि दशाक्षरैः | तन्मंडलं तु मंत्रज्ञो तत् तेन विंदुना सह || तद्वह्नि मंडलं मं इति मंत्रेण | प्रणवस्य त्रिभिर्भागैरिति दर्शनन् | धूम्रार्चिरुष्माज्वलिनी ज्वालिनी विस्फुलिंगिनी | सुश्रीः स्वरूप कपिला हव्यकव्य वहे अपि || आग्नेयाया वर्गोथा दशधर्मप्रदाः कलाः | प्रयोगयं धूम्रार्विषे नमः इत्यादि || मं वह्निमंडलाय धूम्रार्चिरादि दशकला व्याप्तात्मने अर्घपात्रासनाय नमः | पूर्ववन्मंडलं तत्र आधारे विनियोजयेत् | षट्कोणे च षडंगानि मुखखंडैस्त्रिकोणकं || व्यस्तु मूले मध्यं तु पूजयेत् कुलनायकः | उत्तरतंत्रे | आदानं स्थापनं धारणं चैव तथा स्थापन पूजने | प्रणवं सलिले नैव निक्षिपेद् गंधपुष्पयोः मंडलस्याथ विन्यासः पुनः पुष्पस्य संशयः | अमृतं करणी पात्र प्रतिपत्तिरियंनष | अनिरुद्धेन चादानं अस्त्रमंत्रेण धारणं || पूरणं मातृका मूल सुधा वीजैः पुनः स्मृतं | गंधादीनां च विक्षेपः प्रणवेन भवेत् किल || पात्रेण मंडलन्यासंरग्नी साग्र्येण कल्पयेत् | पुष्पस्य संश्रयः | पूजा वरुणे नामृतीकृतिः | शलिले नैवेति पशुभावपरं | अनिरुद्धः अकरैः रग्रीजाग्र्येण आद्य वाग्वीजेन ऐमिति कूर्चस्यापि वद्मीजत्वा | इति सूत्रं | अग्रदो नालादि पात्रस्यैव आधारस्य तु पूर्वमुक्तं | तत्वानं देयजेन् मध्ये तत्र पात्रं स्थापयेच्छरशोधितं | यजेत् सौर कलास्तत्रकादिठांतं स विंदुकं | भादि ठांतं समुच्चार्य तथान्योन्य क्रमेण तु || मंडलं तु यजेत् तत्र ललाटाक्षर संयुतं | तपिनी तापिनी धूम्रार्मरीचिर्व्जालिनी रुचिः स्वच्छंदा भोगदा विश्वारोधिनी धारिणी क्षमा | प्. ७८ब्) कादयठांताः क्रमेण द्वादशभादिडांताव्यु क्रमेण ग्राह्याः | अन्योन्य योगः खवयोः गफयोरित्यादि | कं भं खं वं गं फं इत्यादि | पूर्वयंत्रं पात्रमध्ये विलिखेत् कुलनायकः | पूजयेत् पूर्ववत् तत्र षडंगादि क्रमेण तु || घटामृतेन तत्पात्रं पूरयेन् मूलमुच्चरन् | प्रतिलोम क्रमेणैव मातृकार्णमपि स्मरन् || उत्तरतंत्रे | त्रिभागैः पूरयेत् पात्रमधिकारवशात् पृथक् | अतिविधौ तृतीया तेन विभागमभिव्याप्येत्यर्थः | तत्वानंदे | तत्र मोष प्रमाणेन मत्स्यं मांसं विनिक्षिपेत् | स हि चरित्वाचेतुर्णवति घटकत्वात् तत्र द्रव्यं निक्षिपेद्देवि श्रीपात्रेर्घ्य कर्मणीति श्रीक्रमदर्शनाच्च मुद्धां कुल पुष्पमपि निक्षिपेत् | गंधपुष्पाक्षतं पत्रं वैल्वं च रक्तचंदनं | करवीरं रक्तशुक्लं श्वेता चैवा पराजितं | वर्वरां तु क्षिपेत् तत्ग गंधाष्टक स नन्यधीः || अत्र यंत्र नमोवश्यकत्वं | अन्येषां यथा लाभं अन्यथा यत्र देशेनास्ति तत्र न स्यात् तस्माच्चतुर्ण व्रति घटकान् मावश्यकत्वं | कुलार्णवे | ब्रह्मांड खंड संभूतमशेष रससंभूतं | आपूरितं महापात्रं पीयूष रसमावहे | शुद्धद्रव्येण तेनापि गंध पुष्पाक्षतैरपि | एतैः पूरयेत् वा ब्रह्मांडेत्यादि पठेत् | तत्वानंदे | कलावंदाः कलास्तत्र श्रीकंठादि स्वरैर्यजेत् | शिवां तु पूर्वमुच्चार्य कलाभिः षोममंडलं | शिव उकारः अमृतामानदा पूषा तुष्टि पुष्ठीरति धृतिः शशिनी चंद्रिका कांतिर्ज्योत्स्ना श्रीप्रीतिरंगदा | पूर्णापूर्णामृता कामदायिनाः स्वरजाः फलाः तासां ध्यानं शारदातिलके | अभयेष्ठकरा ध्येयाः श्वेतपीतारुणा क्रमात् | अत्रैव प्रणव कला पूजा फुस्फुटमंग्रे भविष्यति | पूर्वयंत्रं मर्घ्यमध्ये विलिखेत् कुसुमेन तु | अकथांदी स्त्रिरेखा स्वहंलंक्षं मध्यतो लिखेत् | षडंगादि यजेत् तत्र पूर्वोक्त क्रमयोगतः गंगेत्यादि मंत्रेण तीर्थं तत्र समाद्धयेत् | गगणादि पंचरत्वं पूजयेदिक्षु मध्यतः | कांतां तं सोमं तपनं भांतं धांतं महीयुगं | दक्षकर्ण विंदुयुतं पंचमंत्रा इति क्रमात् | ज्ञाणार्णवे च | गमो च मपनाः पश्चादिंद्रस्याः क्रमतः प्रिये | वामकर्ण समायुक्ता विंदुनाद विभूषिताः || वीजदं च क्रमे तत्तु पंचरत्नानि सुंदरि तत्वानंदे | आनंद भैरवीं देवीं तत्र संपूजयेद्वुधः अखंडाद्यैः पंचमंत्रैरभिमंत्रेण माचरेत् | कुलार्णवे | अग्नि सूर्येषु स ब्रह्मविष्णु रुद्रेश संछिवैः | चतुर्णरभिमंत्रैः स्यान्मंत्रितं परमामृतं || धूम्रार्चिरुष्मा ज्वालिनी ज्वालिनी विस्फुलिंगिनी | सुश्रीः स्वरूपा कपिला हव्यकव्य वहेतथा || आग्नेयायादि वर्गोत्था दशधर्म कलाः प्रदाः | तपिनी तापिनी धूम्रा मरीचि ज्वालिनी रुचिः || प्. ७९अ) सुषुम्ना भोगदा विश्वावोधिनी रोधिनी क्षमा | रभाद्यावमुदाः सौराष्ठादांता द्वादशारिता || अमृता मानदा पूषा तुष्टिः पुष्ठिरते धृतिः | शशिनी चंद्रिका ज्योत्स्ना श्रीप्रीतिरंगदा || पूर्णा पूर्णामृता चेति कथिताः कुलनायिके | सौम्या कर्मप्रदायिन्यः षोडशः स्वरजाः कलाः || सृष्टि ऋद्धिः स्मृति मेधाः कांतिर्लक्ष्मीर्द्युतिः स्थिरा | स्मृतिः सिद्धिःरि प्रकठ वर्ग कलादश | अकारा प्रभवाद् ब्रह्मजातास्युः सृष्टये कलाः वज्रा कपालिनी शांति भैरवी रतिकामिके | वरदा ह्लादिनी प्रीति दीर्घा सुतवर्गजाः | ठकार प्रभवा विष्णोर्जाताःस्युः स्थितये कलाः || तीक्ष्णा रौद्री भया निद्रा तांत्रीक्षत् क्रोधिनी क्रिया | उत्कारी मृत्पुरित्युक्त्वार च वर्ग कलादशा || मकार प्रभवा रुद्रजाताः संकृतये कला | स वर्गस्य * * * (?) स्युः पीताः श्वेतारुणासिता || कलाश्चेश्वर मंजातास्ति रोधानाय विंदुजाः निवृत्तिः स प्रतिष्ठा च विद्याशांतिः कुलेश्वरि | ईंधिकारेचिका चैव मोचिका परा | सूक्ष्मा सूक्ष्मा मृता ज्ञाना मृता चाप्यायनी तथा | व्यापिनी व्योमरूपा च षोडशाः स्वरजाः कलाः | सदाशिवोच्च वा नंदाच्चानुग्रहकलाः क्रमात् || प्रथमं प्रकृतेर्हंसः प्रतरद्विष्णुरनंतरं | त्र्ययंवकस्तु तृतीयं चतुर्थस्तत्पदादिंभिदः || विष्वर्येकनिकमित्यादि पंचमः कल्पतां मनुः | चतुर्णवति मंत्रात्मादेवता वाह्य पूजयता || मिलित्वा चतुर्णावति मंत्रात्मक देवता मिर्वाह्य पूज्यतां याति पात्रमित्यर्थः | तेन चतुर्ण नवतिभिः पूजाः अत्रेयाः पंचसंप्रोक्ता ऋचस्तारस्य पंचभिः | कला प्रभेदश्च मिधोमुह्यं तताः पृथक् पृथक् | आत्रेया इति ऋचां नमे | हंसादीनां ब्रह्मादि कला भेदैः सहयोगः | तेनादौ ब्रह्मकला ततो हंसः | विष्णु कला प्रतद्विष्णुरित्यादि पूजायां आमंत्रणे च | तत्र वह्नि कला पूजा | आधारे सौरकला पूजापात्रे सोम प्रणवरृचांजले कालस्तु तत्वानंदे | अर्घ्ये शुद्ध्यादिकं दत्वा साधकः पूजयेदिमान् | सोमकला पूजानंतरमेव प्रणवकला पूजनं | इति चतुर्णव्ति पूजा | कल्पसूत्रे | ऐं अग्निमंडलाय दशाकलात्मने अर्घ्यपात्राय धाराय नमः | इति प्रतिष्ठाप्याधारं संपूज्य पावकीः कलाः मादनं देयमुपरि सूर्यमंडलाय द्वादश कलात्मने अर्घ्यपात्राय नमः इति संपूज्य विमृष्य सौरीः कलाः सौः सोममंडलाय अमृतादि षोडश कलात्मने अर्घ्यपात्रा मृता नमः इति आदिमं दत्वा उपादि मध्यमौ पूजयित्वा विधोः कला षोडशकं अकथादिमय त्रिरेखं हलक्षमुक अंतस्थ हंसभास्वरं | प्. ७९ब्) वाक् कामशक्तिमुक त्रिकोणं हंसेनाराध्य वहिवृत्त षट्कोणं कृत्वा षडंगं पुरोभासुभ्यर्च्य मूलेन सप्तधाभिमंत्र्यदत्त गंधाक्षत पुष्पधूपदीपद्विपुरद्भिः प्रोक्षित पूज द्रव्यः | तत् स्पृष्ट्वा चतुर्णवति मंत्रात् जपेत् | त्रितार नमः संपुटितां तेजस्त्रितय कला अष्टत्रिंशत्कचत्वर्गजा दशकलाः टतवर्गकागा विष्णु कलादशपयवर्गजा रुद्रकलादश वर्गगा ईश्वर कलाश्च तत्वः सर्वकलाः स्वरजाः षोडश ओं हं हू सः शुचिः सहस्र वर्णवीक्ष्य सद्धोता वेदि सदतिथिर्द्वरेन सत्वर सदृतत्संध्योम सदुरागो जरृतजा अद्रिजा ऋतं वृहत् | ओं प्रतद्विष्णुस्तवते वीर्येण नृगेन भीमः कुधरो गरिष्ठायस्योरुषु त्रिषु विक्रमणेषुधिक्षिपंति भुवनानि विश्वा | ओं त्र्यंवकं यजामहे सुगंधिं पुष्टिवर्द्धनं ऊर्वारकमिव वंधनान् मृत्योर्मुक्षीयमामृतात् | ओं तद्विष्णोः परमं पदं | हूं सदा पश्यति सूरयः दिवीं च चक्षुरा ततं तद्विद्मासो विपन्यवोज गृधहः समिंधात विष्णोर्यत् परमं पदं | ओं विष्णुर्योनिं कल्पय तु त्वष्टा रूपाणिपिंष तु आसिंच तु प्रजापतिर्धातागर्भंधेहिसिनी वाली गर्भं धेहि सरस्वती गर्भंते अश्विनौ देवा वाधतां पुस्करस्रजौ | ओं ज्लूं म्लूं स्लूं ग्लूं स्वाहा अमृते अमृतोद्भवे अमृतवर्षिणी अमृतं श्रावय श्रावय स्वाहा | एते पंचमंत्रा मूलविद्या महत्यंत चतुर्नवति मंत्रा | अथ हैके अखंडताद्यैनभिमंत्र नमामनंति एतन्मते चतुर्नवति मंत्रजपः | तथा * * * (?) ति चतुर्नवति पूजा ज्ञानार्णवमते चतुर्नवति पूजा चतुर्नवति न खंडाद्यैः पंचभिरमंत्रणं मूलमंत्रेण च तदुक्तं कुलार्णवे | चतुर्णवति संप्रोक्ता मंत्रास्ते कुलनायिके | अखंडैकरसा नंदकार परस्वधात्मानं स्वच्छंद स्फुरणां मंत्रनिधेह्य कुलरूपिणि | अकुलस्था मृताकारे शुद्धज्ञानकरं परे | अतत्वं निधेह्य स्मिन् वस्तुनिक्लिन्नरूपिणि | सौठद्रुवकस्यं च कृत्वास्यै तत्स्वरूपिणि भूत्वा परामृताकारं मयि चित्करणं कुरु | वाग्भवं पावनी भूमिः पुष्टि विंदु समन्विता | स्थितिः स पावकानुग्रहार्द्धेन्दु समलंकृता || स्थिरार्घी सेंद्रु संयुक्ताग्रेतारिं तु युगान्विता | ऐं ह्लुं वौं जूं सः | तथा मृते द * * * (?) यो स्तत् तपति | दमृतोद्भवे | तथा मृतेश्वरी युद्धा पश्चाद मृतवर्षिणि | अमृत श्रावयेद्वयं द्विठांते द्रव्यशुद्धि कृत् || अमृतेशी मनु प्रोक्तः पंचत्रिंशद्भिरक्षरैः | वाग्भवं वद युग्मं च वाष्वादिनि च वाग्भवं || कामराजं च क्लिन्नें च क्लेदिनि क्लेदयेति च | महाक्षोभं कुरु युगं कामराज मतः परं || तातीयं मोक्षशब्दांते कुरु युग्मं वदेत् ततः | स्यात् प्रासाद परांते च सप्त त्रिंशद्भिरक्षरैः || प्. ८०अ) दीपनी मनरित्युक्तः सर्वसिद्धिकरः प्रिये | एतत्कला मातृकां च | थ खंड कादिका न मनून् | अमृतेशीं दीपनीं च मूलमंत्रमपि क्रमात् | एकद्वित्रिर्चाद्धः पंचद्विचतुर्वारुमंविके || पूर्वाचन पात्रं तु पूजयेद्धेनु मुद्रया | एताः कला वह्नि सूर्य सोमः प्रणव कलाः || ऋग्भिः सहतैः मातृका अकारा दिक्षु कारांता १ अखंडादि ७ अमृतेशी दीपनी मूलं १ मिलित्वा | एकवारं तेजः | कला संक्षक प्रणवकलाभिः | द्विकारं मातृका मातृवारं अखंडादिभिः चतुर्वारं अमृतेश्या | पंचवारं दीपिन्या | द्विचतुरष्टवारं मूलेन | इति यथा संख्येनान्नयः | इत्यभिमंत्रणं | धेनुमुद्रादिभिः पूजयेत् | चतुर्नवति पूजानंतर कल्पसूत्रे | अथ हैके पंचभिरखंडाद्यैरभिमंत्रेण मामनंति | ऐं अखंडैकर सानंदकरे पर सुधात्मनि | स्वच्छंद स्फुरणामत्र निधेह्य कुलरूपिणि | अकुलस्यामृताकार शुद्धज्ञान करै परे | अतत्वं अस्मिन् वस्तु लिंगिन्न रूपिणि | सौः तद्रूपेणैकवस्यं च कृत्वस्यै तत्स्वरूपिणि | भूत्वा परा मृतो भूत्वा परा मृताकारःमयि चित्स्फुरणं कुरु | इत्यानुष्टुभ्यो देवता विद्याः | अथो वाचं प्लुं चक्रोमिति जूंसः इत्युक्त्वा अमृते अमृतोद्भवे अमृतवर्षिणि अमृतं श्रावय श्रावय स्वाहा | इति चतुर्द्धेयं विद्या वाग्भवं वदवदं ततो वाग्वादिनि वाक् मादनं क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरु युगलं मादनं शक्तिर्मोक्ष कुरु कुरु शब्देह स चतुर्दश | सह चतुर्दश षोडशपिंडः | पंचमीयं | एताभि मंत्र्य ज्योतिर्मयं विधायेति | ए अखंडद्यैवेवाभिमंत्रणं केषामापि मतं केषामेपि मते चतुर्णवति जप एव अहैके इति पदनिर्देशात् | अभिमंत्रोत्तरल्यंत्य | तत्वानंदे | त्रिकोणे प्राणमंत्रं च लिखेत् कामकलामपि | समावाह्य ततो देवीं त्रितालं दिक्षु वंधनं || अगुंठा मृतकरौ | कृत्वा मुद्रा प्रदर्शयेत् | अग्नीशा सुरवायव्य मध्येदिक्ष्वंग पूजनं | शंखमुद्रां प्रदर्श्यामी न मुद्रां प्रदर्शयेत् || इष्टदेवधिया गंधपुष्पैः समर्चयेद्वुधः | सर्वो ते दर्शयेद्देवि योनिमुद्रा स लक्षणा || महाहारकतंत्रे | आधार स्थापन पात्रस्थापन पात्र पूजावरण कर्म सु संकल्प दर्शनं | यथा वाला त्रिवीज त्रिपुरसुंदर्यार्घ्यासनं ततः | साधयामि नमों तेन मनुनाधार मानयेत् | वाला वीजत्रयस्यांते ततस्त्रिपुरसुंदरि || अर्घपात्र पाद्यपात्रं प्रतिशब्दमनंतरं | स्थापयांमीति मनुना प्रतिष्ठाप्य तदर्चयेत् || काम त्रिवीजं त्रिपुरं सुंदर्यार्घ पदोपरि | पात्रं संपूरयामीति संकल्प मनुना ततः || प्. ८०ब्) वालावीज निर्देशात् श्रीविद्यायामेव वदंति | तत्र ततः शंखं वीरपात्रं स्थापयेन् मध्यभागतः | इति श्रीविद्योक्त विधानेन तत्र पूजां समाचरेत् | दिति कुलार्णव वचनात् | किंतु वालायामस्तु श्रीविद्यायामेव | अतत्र तु वाला स्थाने यत्र सामान्यतो मंत्रोस्ति तत्र स एव यत्र नास्ति तत्र मूलं एवं कल्पता दिव्याख्या इति श्रीपात्रस्थापनं | सामान्यार्घ प्रयोगः | घट समीपे वाम भागे त्रिकोणवृत्त चतुरस्र मंडलं विलिख्य आधार शक्तिं संपूज्य नम इति क्षालितं साधारं तत्र संस्थाप्य वह्निमंडल संपूज्य फडिति स्कारितं पात्रं संस्थाप्य सूर्यमंडल संपूज्य शोद्धोदकेन त्रिभागमापूर्य पंचतत्वं निक्षिप्य सोममंडलं संपूज्य तीर्थमिति गंधपुष्पं दत्वा आनंदभैरव भैरव्यौ ध्यात्वा पूजयेत् | अग्नीशास्त्र खायव्य मध्ये दिक्षु षडंग पूजनं धेनुमुद्रादि संदर्श्य मूलं सप्तधा जपेत् | तेनोदकेनाभ्युक्ष्य श्रीपात्रादी मंडलादीनि कुर्यात् | अथ श्रीपात्र स्थापन प्रयोगः | आत्म श्रीचक्रयोर्मध्ये सामान्यार्घ जलेनाभ्युक्ष्य वहत् कराभ्यां ईंकार गर्भ त्रिकोणवृत्त षट्कोण चतुरस्रमंडलं त्रिकोणार्द्ध चंद्रवृत्त चतुरस्र मंडलं विलिख्य सामान्यार्घोदकेनाभ्युक्ष्य चतुरानु पूर्वादितः | पूपूर्ण शैलपीठाय नमः जंजालंधर पीठाय नमः काम कामरूप पीठाय नमः इति संपूज्य द्वितीय मंडल पक्षे त्र्यस्त्रार्द्ध चंद्रवृत्त चतुरस्र मंडलं तेषु पीठ चतुष्टयं अग्नीशादिषु षडंगं संपूज्य मूलकंड त्रयेण त्रिकोणं व्यस्त मूलेन मध्यं स्त्री आधारशक्तये नमः इति संपूज्य मूलं अमुकदेवि अर्घासनं कल्पयामि नमः | इति सुंदरी पक्षे मूलस्थाने वा प्रक्षेपः | एवं सर्वत्र नम इति क्षालिताधारं संस्थाप्य धूम्रार्चिषे नम इत्यादि सकलाद्रमं वह्नि मंडलाय धूम्रार्चिरादि दशकला व्याप्तात्मनै अर्घपात्रासनाय नमः इति सामान्यं श्रीविद्यापक्षे ह्रीं श्रीं यं धूम्रार्चिः श्रीपादुकां पूजयामि नमः ऐं अग्निमंडलेत्यादिषं दशकलात्मने अर्घपात्राय धाराय नमः | इति मूलं अमुकदेवि अर्घ्यपात्रं प्रतिष्ठापयामि नमः इति मंत्रेण आधारो परिसंस्थाप्यकंभे तपिन्यै नमः श्रीविद्यां ह्रीं श्रीं पूर्ववत् सर्वत्र इत्यादि क्रमेण सौरार्द्ध दशकलाः संपूज्य अंसूर्य मंडलाय द्वादशकला व्याप्तात्मनेऽर्घ पात्राय नमः | श्रीविद्यायां ईसूर्यमंडलाय द्वादश काला व्याप्तात्मनेऽर्घ पात्राय नमः | प्. ८१अ) इति संपूज्य पूर्ववन्मंडलं विलिख्य पूर्ववत् संपूज्य मूलं आत्माकं देवि अर्घपात्रं पूरयामि नमः | श्रीविद्या पक्षे वाला इति मनुना प्रतिज्ञाय विलोम मातृका मूलं वमिति पठमं त्रिभागपर्यंतं पूरयित्वा तत्र शुद्ध्यादि चतुस्तत्वं निक्षिप्य यथा लाभं गंधादि निक्षिप्य अं अमृताय नमः श्रीपक्षे ह्रीं श्रीं इति क्रमेण संपूज्य ओं सोममंडलाय अमृतादि षोडशकला व्याप्तात्मान अर्घपात्रा मृताय नमः श्रीपक्षे सौ इति संपूज्य प्रणवकलाः पूजयेद्यथाकं सृष्ट्यै नमः इत्यादि क्रमेण ब्रह्मकला दशकं संपूज्यन् हूं स इत्यादि पठेत् टं जराये नम इति विष्णु कलाः संपूज्य ओं प्रतद्विष्णुरित्यादि पठेत् यं तीक्ष्णायै नमः इति रौद्री दशकलाः संपूज्य प्रणव कलाः पूजयेद्यथा | ओं त्र्यंवकमित्यादि पठेत् | यं पीतायै नमः द्रां पक्षे द्रीं द्वींपि पीतायै नमः इत्यादि क्रमेण ईश्वर कलाः संपूज्य ओं तद्विष्णोरित्यादि पठेत् | अंनिर्त्यै नमः | श्री पक्षे ह्रीं श्रीं अं निवृत्यै नमः इत्यादि षोडश षोडश सदाशिव कलाः संपूज्य ओं विष्णुर्यो निमित्यादि पठेत् | केषां चिन्मते ऋचामपि पूजनं इति संप्रदायः | पूर्ववद्यंत्रं द्रव्यमध्ये विलिख्य पूर्ववत् संपूज्यं ओं गंगे चेत्यादिनातीर्थ आवाह्य ग्लूं गगनरत्नेभ्यो नमः स्लूं स्वर्गरत्नेभ्यो नमः | ग्लूं मत्परेत्रेभ्यो नमः प्लूं पातालरत्नेभ्यो नमः न्लूं नागरत्नेभ्यो नमः इति पूर्वादिक्षु मध्ये स पूज्याभि मंत्रयेत् | तेजः कला सत्राक प्रणवकलाभिरेकवारं मातृकाभि द्विवारं अखंडाद्यैस्त्रि चतुर्वारमभि मंत्रयेत् | अमृतेश्यां चतुर्वारं दीपिन्या पंचवारं मूलेनाष्टवारं अभिमंत्रयेत् | तत्र स्त्रिकोणे हंस इमिति मंत्रं विलिख्य तत्र देवीं ध्यात्वा धेनुमुद्रां प्रदर्श्य हूमित्यवंगुठ्य फडिति तालत्रयं छोटिकाभिर्दशदिग्वंधन योनिमुद्रां प्रदर्शयेत् | इति प्रयोगः | अथ तेजः कलानां नामभोगदो ज्ञानार्णवे | धूम्राचनी लवर्णा च कपिला विस्फुलिंगिनी || ज्वाला हेमवती कव्यवाहिनी हव्यवाहिनि | रौद्री संकर्षिणी चैव वैश्वा नर कलादश || तपिनी तापिनी धूम्रा विवुधा रोधिनी तथा | ज्वालिनी षोडशी चैव वरेण्या कर्षिणी तथा || माया विश्वावती हेमप्रभा सौरकला इमाः | अमृता मानसी तुष्टिः पुष्टिः प्रीतिवतीस्तथा || श्रीश्च ह्रीश्च स्वाधारात्रिर्ज्योत्स्ना हैमवती तथा | छाया च पूर्णिमा नित्या अमावास्या च षोडशी || अत्रापि संप्रदायः श्रणं | ततो गुर्वादि पात्रं पूर्वोक्त द्वितीया सामान्यार्घवत् स्थापयेत् | शंखमुद्रा स्वतंत्रे | वाममुष्टवंतरेंगुष्ठं नियोज्य शरलंगुलीः | दक्षिणस्यं करस्यैव वामांगुष्ठेन संस्पृशेत् || प्. ८१ब्) शंखमुद्रेयमाख्याता मंत्र विद्भिर उत्तमाः | मीनमुद्रा तत्रैव | दक्षपाणि पृष्ठ देशे वामपाणिं विनिःक्षिपेत् | अंगुष्ठो चालयेत् सम्यक् मत्स्येयं मुत्स्यरूपिणी || अंकुशमुद्रा स्नानकालोक्ता अवगुंठनर्धनु मुद्रे पश्चाद्वक्तव्ये | योनिमुद्रा ज्ञानार्णवे | परीवर्त्य करौ सम्यक् तर्जनी वदने समे | मध्यमे कुरुं तन्मध्ये योजयेत् तदनंतरं || अन्योन्यानामिकेदेवि कनिष्ठे च तथाविधे | अंगुष्ठा योजिताभ्यां योन्याकारेण योजयेत् || योनिमुदेयमाख्याता परा त्रैलोक्यमातृका | अथ विधेय अन्योन्य युक्ते कनिष्ठे अंगुष्ठाभ्यां योजयेदित्यर्थः | इति पात्र स्थापनं || श्रीपूर्णानंदनाथेन कृतायां गुरुभावतः | कुलवृत्तौ स्वतंत्रायां पटलो यस्तु षोडशः || न्यास क्रमेण देहेषु धर्मादीन् पूजयेत् ततः | पुष्पाद्यैः पीठमन्वंतं तस्मिंश्च परदेवतां पूजयेत् तु न्यसेत् | पीठन्यास क्रमेणेत्यर्थः | देवतां ध्यात्वा पूजयेत् | पंचकृत्वा पुनः कुर्यात् | पुष्पांजलि मनन्यधीः | उत्तमांगे कृदाधारे पादे सर्वांगके क्रमात् | विना नैवेद्य गंधाद्यैरूपचारकैः समर्चयेत् | गुरुपदि विधिनाशेषमन्य समापयेत् | अंतर्यागोप विधिना इत्यर्थः | यद्यपि | एवं देहमये पीठे पूजयेदिष्ठ देवतामित्यनेनार्घ स्थापनात् प्रागेव विहितः | तथापि दीक्षायां धर्मादीनां पूजनामंतरामपि | नित्यपूजायां तु न्यासानंतरं | सर्वमे तत् प्रयुंजीत प्रोक्षणीस्थेन वारिणा | विसृज्यतोय प्रोक्षण्याः पूरयेत् तां यथा पुरा || पशुभावे प्रोक्षणी दिव्यवीरयोः सामान्यार्घ्य पात्रं इति विशेषः | ततस्तं मतुलं मंत्री गंधाद्यैः साधु पूजयेत् | ओं मंडलाय नम इत् प्रयोगः | शालिभिः कर्णिकामध्येमां पूर्योपरि तंडुलैः | अलंकृत्य पुनस्तेषु दर्भोनास्तीर्य तंत्रवित् || कूर्चमक्षत संयुक्तं न्यसेत्तेषा मथोपरि | आधारशक्तिमारभ्य पीठमन्वंत मर्चयेत् || अधः कूर्मशिलारूढां शरच्चंद्रनिभ प्रभां | आधारशक्तिं प्रयजेत् पंकजद्वयधारिणीं || मूर्द्ध्नि तस्याः समासीनं कूर्मं निभं मर्चयेत् | ऊर्द्ध्व ब्रह्मशिलां सीनसनंत कुंदसन्निभं || यजेच्चक्रधरं मूर्द्ध्नि धारयंत वसुंधरां | तमालश्यामलादांतनिलेंदीवरधारिणीं || अभ्यर्चयेद्वसुमंती स्फुरत् सागरमेखलां | तस्यां रत्नमयं द्वीपं तस्मिंश्च मणिमंडपं || यजेत् कल्पतरुं तस्मिन् साधकाभीष्ट सिद्धिदं | अधस्तात् पूजयेत् पश्चाद्देदिकां मंडलो ज्वलां || पश्चादभ्यर्चनीयं तु पीठं धर्मादिभिः पुनः | रक्तश्यामहरिदिंद्रनीलाभान् पादरूपिणः || प्. ८२अ) वृषकेशरि भूतेभरूपाणि धर्मादिकान् स्मरेत् | गात्रेषु पूजयेत्तांस्तु न ज पूर्वा तु लक्षणाम् || अग्न्यादिषु च कोणेषु दिक्षु चाथांवुजं यजेत् | आनंदकंद प्रथमं संविन्नाल मनंतरं || सर्वतत्वात्मकं सर्वपद्म मभ्यर्च्य तदनंतरं | मंत्री प्रकृति पत्राणि विकारमय केशरान् | पंचशत्वं वीजाद्यां कर्णिकां पूजयेत् ततः || कलाभिः पूजयेत् पक्षं तस्यां सूर्येन्दु पावकान् | प्रणवस्य त्रिभिर्वर्णै रजः सत्वांदिकान् गुणान् || आनंदमंतरात्मानं परमात्मान मर्चयेत् | ज्ञानात्मानं च विधिवत् पीठमंत्रावसानकं || पीठशक्तीः सुपकेशरेषु मध्ये चैव वराभया | पीठशक्तयः कल्पोक्ताः | द्धेमादिरचितं कुंभमस्त्राद्भिः क्षालितांतरं | चंदना गुरुकर्पूरधूपितं शोभनाकृतिं || द्वावेष्टितांगं नीरंध्र तंतुना त्रिगुणात्मना | यामलोकन्याकर्तित सूत्रेण त्रिगुणेन च वर्मणा || गुण त्रयात्मके नैव कोष्टयादभितः स्वयं | शरत्रयं वेष्टयेद्वाकेनापीत्यभिधीयते || इति शारदायां || चर्चितं गंधपुष्पाद्यैः कूर्चाक्ष्त समन्वितं | नवरत्नोदरं मंत्री स्थापयेत् तारमुच्चरन् || ऐक्यं संयुज्य पीठस्य कुंभस्य च विधानतः | यामले | साधारं कलशं मंत्री पीठवुद्ध्या ततः परं | जपेन्मूलमनुं तत्रंद्वत् पूरयेद्देवता धिया || इदं तु सर्वसामान्यं पूरणं तु यामरकल्पे | कषायादिरेव | दिव्यवीरयोस्तु कारणे नैवेति | तदुक्तं ज्ञानार्णवे | रौप्यता आदिरचितान् मूर्तिकां रचितानरः | जलपूर्णान् विशेषाद्यान् स्वर्णरत्न प्रपूजितोन् || फलैः पुष्पैश्च शुभगान् सुगंधेन च चर्चितान् | अत्र विशेष पदेन कारण मुच्यते | आगमशास्त्रे शंकितत्वात् | यामले च | क्षीरवृक्ष कषायेन पलाशत्वग्रसेन वा | विशेषरुदकैर्वापि कर्पूर गंध वासितैः || पूरयेत् कलशं मंत्री मातृणां प्रतिलोमतः | जपेन् मूलमनुं तद्वत् साधको देवताधिया || ताद्वदिति प्रतिलोमतः इत्यर्थः | श्रीमत्रिपुरसुंदर्याश्चक्रं तत्र विनिःक्षिपेत् | अत्र सुंदरित्युपलक्षणं उपास्य देवत्यया इत्यर्थः | अरय सुंदरी कलस पूजा यथा तंत्रराजे | पूर्वोक्त मंडलं मंत्री गंधाद्यैः परिपूजयेत् | ओं मंडलाय नम इति प्रयोगः | कूर्च मक्षत संयुक्तं दर्भानास्तीर्य तत्र तु | पीठपूजां ततः कुर्यात् स्वकल्पोक्त कमेण तु | अथ कूर्च लक्षणं तत्रैव | सप्तविंशति दर्भाणां वेण्य ग्रंथि विभूषितं | वेष्ठयेत् सर्वयज्ञेषु तत् कूर्च परिकीर्तितं || यंत्र मध्ये यजेदादौ त्रिवारं कुलभूषणां | षट्कोणेषु षडंगानि त्रिकोणं पूजयेत् ततः || प्. ८२ब्) रतिं संमुखकोणे च प्रीतिमुत्तरकोणके | मनोभवं दक्षकोणे मातृरष्टदले ततः || द्वादशारे ततो वामां ज्येष्ठां रौद्रीं तथैव च | अंविकेच्छे तथा ज्ञानो क्रियांचे कुब्जिका मथा || विचित्रां च ततो मंत्री विषघ्निकां च भूधरीं | आनंदां च क्रमेणैव कला पत्रे यजेदथा || नित्यां निरंजनां क्लिनां क्लेदिनीं मदनातुरां | मदद्रवांद्राविणीं च रुचिरां रागिनीं तथा || कामेश्वरीं तथा कामदीपनीं वामकेश्वरीं | ललितां क्षोभिनीमंवां स्वच्छंद ललितं क्रमात् || ततो विंशति पात्रेषु पूर्वादि क्रमतो यजेत् | मायावतीं महाक्षीं च तथा सर्ववशंकरीं || हूंकारींत्वीश भावां च कमलां कमलेश्वरीं | मीनग्रीवां विशालाक्ष्मीं भेरुंडांडामरेश्वरीं || समयां समयेशानीं नित्य क्लिन्नां महोदयां | सर्वसौभाग्यदा नंदां यंत्रिकां यंत्ररूपिणीं || सर्वेश्वरीं च संपूज्य पीठानि वसुपत्रके | कामरूपं च मलयं कोष्णागिरि कुलांतकं || चौहारं च ततोमंत्री जालंधर मतः परं | उड्डियानं देविकोद्यं पीठाष्टकमिदं क्रमात् || भूगृहे त्रिपुरेशानीं पूजयेत् साधकोत्तमः | शेय मंडल पक्षे षडंगमग्नितो यजेत् || रत्यादिकं त्रिकोणे तु मध्ये सर्वं प्रपूजेयेत् | पीठाष्ठकं भूमिगृहे त्रिपुरेशीं च मध्यमः || इति विशेषः | अथ घटलक्षणं यामले | पंचाशदंगुलायाने उत्सेधः षोडशांगुलः | कलसानां प्रमणं हि मुखमष्टांगुलं भवेत् || इदं करलक्षणं | सर्वकर्त्रि साधारणं | अथ नवरत्नानि यामले | मुक्तामाणिक्य वैदूर्यगोमेध वज्रविद्रुमाः | पद्मरागं मरकतं नी ** (?) नवेति च || इति कुंभस्थापयित्वा शंखांतरं स्थापयेद्यथा | शारदायां | शंखे क्वथांषु संपूर्णं गंधाष्ठकमभीष्टदं | विनीष्व पूजये यस्मिन् वोष्ट सकलाः कलाः || दशवह्नेः कलापूर्य द्वादश द्वादशात्मकः | कलाः षोडश सोमस्य पश्चात् पंचाशतं कलाः || जपित्वा प्रतिलोमेन मूलमंत्रं च मंत्रवित् | प्रतिलोमेन शांतिक पौष्टिक घटस्थापन अभिचारिकेण व्युक्त्क्रमेण | तदुक्तं कर्मोपदे नित्यां अभिचार कार्याये विलोमेन जपेदिति | शारदायां | समाहितेन मनसाध्यायेन् मंत्रस्य देवतां | प्राणप्रतिष्ठां कुर्वात तत्र तत्र विचक्षणः || कलात्मनं शंखसंस्थं क्वाथं कुंभे च निःक्षिपेत् | अथ प्रयोगः | स्ववामे संमुखे वा त्रिकोणवृत्त धूविंवं विलिकेषाधार शक्तिं संपूज्य क्षालिताधारं संपूज्य तत्व परिशम्.खं प्रक्षाल्य स्थापयित्वा कुंभ पूरणेन भावा तु क्रमेण क्वाथादिना संपूर्य गंधाष्ट्रकं विलोष्व कला आवाहयेत् | प्. ८३अ) यं धूम्रार्चिरिहागच्छेत्या वाह्य आं ह्रां क्रों धूम्रार्विषे नमः प्राणा इत्यादि पंचमंत्र पर्यंत मावाहन प्राणप्रतिष्ठे कुर्यात् | ऋचा प्रयोगो यथा | ओं हं हूं सह ऋचं पठित्वा इति ऋक् इहागच्छेत्यादि आं ह्रीं क्रों हंसेत्यादि मंत्रस्य प्राणात्यादि एवं च तसृणांरृचां | अथ गंधाष्टकं | शारदायां | गंधाष्टकंत त्रिविधं शक्ति विष्णु शिवात्मकं | चंदना गुरुकर्पूर चोलकुंकुमरोचना | जटामांसी कपियुता शाक्त गंधाष्टकं विदुः | अयं पशवो गंध द्रव्यवीर भावयो स्वतंत्रे | स्वयंभू कुसुमं कुंड गोलोत्थ रोचना गुरुः काश्मीरं मृगनाभि च मद्यं च मलयोद्भवं | एष गंधः समाख्यातः सर्वदा चंडिका प्रियः | शारदायां | चंदना गुरुरेवेर कुष्ठ कुंकुम सेव्यकाः | जटामांसी सुरमिति विष्णोर्गंधाष्टकं विदुः || चंदना गुरुकर्पूरतमालजल कुंकुमं | कुसीत कुष्ठ संयुक्तं शैवं गंधाष्टकं स्मृतं || चोरं शची कपि हवि ह्रींवेरं वाला कुष्ठं कुड सेव्यकीद्यथा | जटामांसी प्रसिद्धा मूलिकामूरं देवदारुः तमालोवृक्ष विशेषः जलं यथा कुशीतं रक्तचंदनं | पश्चादश्वत्थपन सच्युत कोमल पल्लवैः | इंद्रवल्ली समावद्धैः सुरद्रुमधिया गुरुः || कुंभरक्तं पिधाया स्मिन् च सकं सफलाक्षतं | संस्थापयेत् फलधिया विधिवत् कल्पशाखिनां || यामले | अथापन सोश्वत्थ वटोन्दुंवर पल्लवैः किवात्थपनसाश्वत्थ वटोदुंवर पल्लवैः | इंद्रवल्ली समावद्धैः स्वरक्रमधिया गुरुः | कुंभवस्त्रं विधायास्मि च सकं फलमाक्षतं || संस्थापयेत् फलधिया विधिवत् कल्पशाखिनां | यामले | अथाम्र पनसाश्वत्थ वटोदुंवर पल्लवैः इंद्रनील समावद्धैः सुरद्रुमधिया गुरुः | कुंभवक्त्रं विधायास्मिन् चषकं सफलाकृतं | संस्थापयेत् फलधिया विधिवत् कल्पशाखिनां | शारदायां यामले | ततो देवि दुकूलाभ्यां कलसंवेष्टयेत् सुधीः | दध्यक्षतं गंध पुष्पं सिंदूरं वाह्यतः क्षिपेत् || वेदिकायाश्चतुकोणे गलितंडुलिको परि | जलपल्लवशंखं च चतुः कुंभं विनिर्दिशेत् || द्वाति सर्वतो भद्रादौ सुंदरी पक्षे च | शेषमंडल पक्षे तु नवकुंभं सुशोभनं | स्वर्ण रत्नादिभिः पूर्णं नवयोनौ विनिःक्षिपेत् || इति सर्वभावसाधारणं | शारदायां | मूलेन मूर्तिं कॢप्त्वा स्मिन् छायां कल्पशाखिनां | मनसा भावितस्य कल्पशाखिन इत्यर्थः || एतेन देवशुद्धिः सूचिता | अयं क्रमोदीक्षायामेव नित्यपूजाय तु विनिंक्षिपेत् | प्. ८३ब्) इति सर्वभावं साधारणे षडार्घं स्थापनां पूर्वं चतुःशुद्धिं कृत्वा यत्तु पीययूजां कृत्वा मूर्ति मूलेन कॢप्त्वा शेषं समापयेदिति | इति देवशुद्धिः | पशुभावे अधुनै वा वाहनं पूजा च | दिव्यवीरभावयोस्तु तर्पन तत्व विंदु स्वीकाराद् वलिदानानि कृत्वा आवाहनादिकं कार्यं | तर्पन प्रमाणं यथा | भावचूडामणौ | दृष्ट्वार्घस्य पात्रं वै वृत्यंति योगिनी गणाः | नृत्यंति भैरवाः सर्वे नृत्यंति मातरोगणाः | इंद्रादयः स्वराः सर्वे नित्यंति मधु लोलुपाः || ब्रह्मविष्णु महेशाद्या नृत्यंति हर्ष तत्पराः | अर्घभांडं त्रिधा कृत्वा गुरवे चैक भागकं || एकं कुलाय दत्वा वैशेषेण देवतार्पणं | कुलार्णवे च | आवृत्तिं गुरुपंक्तिं च वटुकादीनि पूज्य च | वीरोप्येवं वृथा पायी रौरवं नरकं व्रजेत् || अपूज्य अतर्प्य इत्यर्थः | कल्पसूक्ते च | तद्विंद्वति स्त्रिगः | स्वशिरशि गुरुपादुकासिच्छेति | उड्डीशे च | आनंदभैरवं मूर्द्ध्नि तथा चानंदभैरवी | हृदिर्वा तर्पयेद्देवि पूर्वोक्त विद्यया पृथका गुरुं च तर्पयेत् तत्र हृदि देवीं च तर्पयेत् | इति तर्पदेवता निरूपनं | अथ क्रमः | गुरुपंक्ति वटुकयोगिनी क्षेत्रपाल गणेश सर्वभूताः | आनंदभैरव भैरव्यो मूलदेवी आवरण देवता | अथ तर्पण मुद्रा स्वतंत्रे | अंगुष्ठानामिका योगाद्वामहस्तस्य पार्वति | तर्पयेत् कालिका देवीं सायुधां स परीकरां || अत्र कालिकत्युपलक्षणं | तर्पणस्य सामान्यत्वात् | अतरोड्डीशे | शुद्धिं समादाय मुद्रया पश्चा त्रिवारं तर्पयेत् सुधीः | अनामांगुष्ठयोगेन मुद्रां तु कौलिकी स्मृतां | अंगुष्ठा भैरवी देवि अनामा चंडिकामता | ततः प्रयत्नतो मंत्री तपयेदनया सदा | तत्वानंदे | अथ शुद्धिं समादाय मुद्वया तत्व संज्ञेया | वाम दक्षिण योगेन तर्पयेत् कुलनायकः | अथवा वामया देवि श्रीगुरोः पादुका स्मरन् | तत् पात्रस्थामृते नैव त्रिः स कृत्वा यथेच्छया | आनंदभैरवो मूर्द्ध्नि श्रीपात्रामृतधारिणा | हृदये श्रीमहादेवीं मूलमंत्रेण मंत्रवित् || रश्मिवृंद समेतां च तद्भक्तिं भावतः | वीरपात्र स्थितैर्द्रव्यैस्तर्पयेदथ पीठकामा शक्ति पात्र स्थितैर्द्रव्यै पीठदेवीं च तर्पयेत् | वीरपात्र स्थितैर्दूष्यैः परिवारांश्चतर्पयेत् | शक्तिपात्रं स्थितैर्द्रव्यैस्तर्पयेत् कुलनायिकां स्वीयदेवीद्ध्याने पान तर्पयेद् वीरपात्रके | वीरपात्रस्थितैर्द्रव्यैस्तर्पयेदथ भैरवान् | वीरपात्रस्थितैर्द्रव्यै दिक्पालांश्चैव चिंतयेत् || पूजापात्रं च विज्ञेयं योगिनीनां च पूजने | वलिपात्रामृते नैव वटुकादींश्च तर्पयेत् || प्. ८४अ) इति नवपात्रविधिः | सप्तपात्रोदिकल्पे वलिपात्रं तथा तर्पणं | तत् तत्पात्रा भावे भोगपात्रेणैवेतिदिक् || कुलार्णवे | यथागमोक्त मार्गेण तर्पयेदलि विंद्वभिः | अंगुष्ठा नामिकाभ्यां तु नखैःर्निःशब्दमुद्धृतं || अपात्र स्पंदमस्यंदं विधिवत् कुलनायिके | सकृत् तर्पणमुत्सृज्य जप्त्वा मूलं च पादुकां || अंतः शक्तिमनुस्मृत्यस्तर्पयेद्देहदेवतां | अंगुष्ठ भैरवोदेवि मनामाचंडिकामता || अथ काम्य तर्पणं यथा | अंगुष्ठानामिकाभ्यां तु वश्य कर्मणि तर्पयेत् | तर्जन्यंगुष्ठ योगेन तर्पयेदभिचारिके || कनिष्ठांगुष्ठयोगेन स्तंभने तर्पयेत् प्रिये | एवं संतर्प्य देवेशि कुलद्रव्यैर्यथाविधिः || देवतायुता देवि गुरुपंक्तिं च पूजयेत् | पंक्ति त्रय क्रमेणैव ध्यात्वा सम्यगनन्यधीः || ध्यानं तत्रैव | कराभ्यां चिन्मुद्रां स मधुनृकपालं च दधतीं द्रुतस्वर्ण प्रख्या अरुण कुसुमालेपनसना | कृपापूर्णायांगी अरुण नयना चर्चककचा उपेता सिद्धौघैर्जयति गुरुपक्तिः कृतमति | एवं संपूज्य धूपं च दीपं नैवेद्यमेव च | आसवं देवितोपेतं भक्षाणि विविधानि च || कदंवादि फलं यच्चतांवूलं चैव मर्पयेत् | इति तर्पणं | अथ तत्वशुद्धिस्तत्वानंदो तत्वशुद्धिं विनानेव पूजयेत् परमेश्वरीं | पूजा तु विफला ज्ञेया सिद्धिहानिः पदे पदे | अत्र वीरभावे | आनंद रूपवान् भूत्वा पूजयेत् परमेश्वरीं | विना हेतु कमासाद्य न जपेन्न जपेत् क्वचित् || आनंदेपि विना भ्रंशो न च तृप्यंति देवताः | साधक क्षोभमापन्ने मयिक्षोभः प्रजायते || तस्माद् भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरी | यावन्न मांस शुद्धिस्यान्मखमासवगंधिकं || तावन्न पूजयेद्देवींन्न जपेन्न स्मरेत् प्रिये | इत्यादिभिर्वचनैर्वांधितस्य पूजा पूर्वांगत्वेन कर्तव्यताकस्य आनंदस्य समयः तत्वशुद्धेः समयः इति सचेन्नित्यपूजायां न वृत्तस्तदा तत्वशुद्धिः पश्चात् कर्तव्यः | दिव्यभावे तु तत्वशुद्धे वा नंदावस्थात्वेन प्रतिपादनात् तस्या एव आनंदः न तु पानात् | यथा कुलार्णवे | तत्व त्रयं स्यासारंभ इति | तत्वानंदे | अथ स्वपात्र तीर्थेन पाणी मूलेन शोधयेत् | मध्य चक्रं वृत्त युतं संलिख्य दक्षिणे करे || मुखदक्षोत्तरे मह्ये शुद्धिं माष सहोदरां | तिलमुद्गप्रमाणं वा स्थापयेद् देशिकोत्तमः || वामेन पाणिना मेनां धारयेन् मृगमुद्रया | मृगमुद्रा यथा यामले | मिलित्वा नामिकांगुष्ठं मध्यमाग्रे नियोजयेत् | शेषांगुल्यश्रियं कुर्यान् मृगमुद्रेयमीरिता || प्. ८४ब्) अथ तत्वादि शारदायां | प्रकृतिर्बुद्ध्यैहंकारौ मनोज्ञानेंद्रिया तथा | कर्मेन्द्रियाणि तन्मात्राः पंचभूतानि देशिकाः || एतस्यात्तुर शुद्धानि चतुर्विंशति रागमे | माया कालश्च नियतिः कला विद्या पुनः स्मृताः || रागाः पुरुष एतानि शुद्धा शुद्धानि सप्त च | तत्वानि शैवान्युच्यंते शिवः शक्तिः सदाशिवः || ईश्वरो विद्यया सार्द्धं पंचदूरान्य मूनिहि | व्युत् क्रमेण शारदातंत्राल्लिखितं | तत्व शुद्धेन क्रमत्वात् | तत्व शुद्धावयमेव क्रमः | अध शोधन सारदा क्रमः | स तु होम समये वक्तव्यः | प्रमाणं तु कुलार्णवे | प्रकृत्याद्यैः पृथिव्यंते चतुर्विंशतिभिः प्रिये | सुरैव शुद्ध तत्वेन वाग्भवेन कुलेश्वरि | संयुक्तेनात्म तत्वेन स्थूल देहं विशोधयेत् || मायादिषुरुष्मंतैश्च शुद्धा शुद्धैश्च सप्तभिः | तत्वैः स्पर्शाद्वयैर्मंत्रैः कामराजेन मंत्रवित् || युक्तेन विधातत्वेन सूक्ष्म देहं विचिं शोधयेत् | शुद्धैः शिवादि विद्यांतैः पंचतत्वैश्च व्यापकैः || परया शिवतत्वेन परदेहं विशोधयेत् | षट्त्रिंश तत्व सहित मालिन्या वालया प्रिये || तन्मुद्रयां जीवं सर्वतत्वेन शोधयेत् | शोधय त्रितयं दद्यात् स तृतीय मलिंगुरुः | चुलुकं गुरुणादत्तं शोधयामीति चोच्चरन् || भक्त्याचारनतः शिष्यो निःशब्दश्चपि वेच्छनैः | पाणिभ्यांगं स्पृशेद्देहं सर्वतत्वं समुच्चरन् || शिरः प्रकृति पादांतं शुद्धं देहं विचिंतयेत् | स्थूलां तमात्मतत्वं स्यात् सूक्ष्मं विद्यांतगोचरं || परांतं शिवतत्वं स्यादिति तत्वत्रययगत् | एवं तत्व त्रयं ज्ञानं गुरौ ज्ञात्वा समाश्रुयात् || सजीवन्नेव मुक्तः स्यादिति भाषितं | वाक्यं भुवनेशो विष्णु शक्तिं वस्तून् मंविंदुकान् स्मरन् | तत्वाहु यस्य परत चतुर्थं तस्य चात्मऽह् | तत्वेन स्थूलदेहं तु शोधयाम्यग्नि वल्लभा || अनेन मनुना देवि सन्मुखस्थां समाहरेत् | इति सोमधुजगावल्यां | चुलूकग्रहणं | अन्यमते मंडलस्थ शुद्धिग्रहणं | प्रसाद ग्रहण समये शिष्यैरपि कर्तव्यं चक्र विधि प्रस्तावे वक्तव्यं | अथ श्रौतं प्रकारांतरं | यथा ओं प्राणापान व्यानोदान समानोमं शुद्ध्यतां विरजानि पाद्मा भूयासं स्वाहा || ओं पृथिव्यप तेजो वाह्याकाशानिमे शुद्ध्यंतां ज्योतिरहमित्यादि | ओं प्रकृत्यहंकार बुद्धिमनुः श्रोत्राणि शुद्ध्यता | ज्योतिरहमित्यादि | ओं त्वक् चक्षु रसमाघ्राणेवचांसि मे शुद्ध्यंतां विरजेत्यादि | ओं पाणिपाद पूपापूपस्य शब्दा मे शुद्ध्यतां विरजेत्यादि | ओं स्पर्श ** (?) समंधाकाशानि शुद्ध्यंतां विरजेत्यादि | ओं वायूतेजः शलिल भूम्यात्मनो मे शुद्ध्यंतां विरजेत्यादि | इति सप्तधा विमृष्यं कारणं मकरतलं सम्मार्ज्य दक्ष हस्ते त्रिकोण विलिख्य त्रिकोण सम्मुख दक्षोत्तर मध्येषु कला सदृशीं शुद्धिं विधाय वामांगुष्ठानामा मध्यमायेगैरेकी गृहीत्वा ह्रीं श्रीं ऐं आत्मतत्वेन स्थूलदेहं शोधयामि स्वाहा | प्. ८५अ) ऐं ह्रीं श्रीं हूं क्लीं विद्यातत्वेन शूक्ष्मदेहं शोधयामि स्वाहा | ह्रीं श्रीं सौः | शिवतत्वे परदेहं शोधयामि स्वाहा | ह्रीं श्रीं ऐं क्लीं सौः तन्मुद्रयाश्रयंजी शोधयामि स्वाहा | ततोरस्त्रेण हस्तं संशोध्य व्यस्तहस्ताभ्या शिर आदि पादपर्यंतंमार्जयेदिति | अत्रापि द्वैधे संप्रदायः शरणं | अथ विंदु स्वीकारः | तदुक्तं तत्वानंदे | मूलकंद स्थितां देवीं सुषुम्ना मध्यगामिनी | पात्र साग्रं समानीय साधकस्तन्मयो भवेत् || आर्द्रगित्यादिभिर्विदून् स्वीकुर्यात् तत्वमुद्रया | कल्पसूत्रे | ओं आर्द्रं ज्वलति | ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहंमस्मि सोहमस्मि अहमैवमां जुहोमिं स्वाहा | इति आत्मनः कुंडलिन्यां प्राहूयादित्यर्थः | विशोधनंमिति शिवं | एतन्मते एकयैरृचा | मतातरेण तु अस्त्रयेणैव अर्कत्रयं यथा | ओं च मे प्रत्यक्षं ब्रह्मसिद्धामेव प्रत्यक्षं ब्रह्मदिष्यामि ऋतंवदि सत्यंवदितन्ममेव तु तदुक्तारमव तु अतुमां अवतू वक्तावं | यच्छदं सामृषं वोच्छंदोभ्य अध्यमृता भुवसमेंद्रो मेधया स्पृशो तु विशुवं गोपायतु | इति मंत्रद्वयं || अत्रापि संप्रदायः शरणं | अथ वलिदानं | कुलार्णवे | यावत्र वटुके दधातावन्नैव कुलेश्वरि | तृप्यंति देवताः सर्वास्मरणा पूजना || वटुकादीन् यजेद्भक्त्या गंधपुष्प सरामिषैः | तत् तन्मंत्रविधानेन दिव्या प्रीतिमवाप्नुयात् | आदिशब्देन योगिन्यादयनुच्यते | यत्किंचिद्रव्य संघातं पूजां भोगार्थ हेतुना | आनीतं दीयतां भक्त्या क्षत्रयेभ्यः सुरेश्वरि || अदत्वा क्षत्रनाथेभ्यः कथं क्षेत्रेषु पूजयेत् | याचत्वा वटुके दद्यात् कथं पूजाविधीयते || गणेश योगिनीभ्यां तु नोदत्वा पूजयेत् कथं | बलिदानं विनायस्तु पूजये त्रिपुरां यदि || पूजांते विफला सर्वा विघ्नस्तस्य पदे पदे | कुलार्णवे | ईशाने च तथाग्नेये नैरृत्ये च तथा प्रिये | वायव्ये क्रमतो देवि मंडलानां चतुष्टयं || श्रीचक्रमभितो देवि त्रिकोणं व्योममालिखेत् | पूर्वमत्रैः समभ्यर्च्य वटुकादिकमद्रिजे || यामले | ईशाने वह्निकोणे च नैरृत्ये वायुकोणके | अथ वापि चतुर्दिक्षु मंडला रचयेद्वुधः || चतुष्टया शक्तौ कुलार्णवे | अथवा वामभागे तु मंडलं चैव मालिखेत् | अत्रैव वलिदानं तु कुर्यात् सर्वार्थ सिद्धये || कुलामृते च | स्वीकार वामभागे साधको जानुकः | त्रिकोणवृत्त भूविंवमष्टकं रचयेत् क्रमात् | त्रिकोणं चैव षट्कोणं चतुरस्रं लिखे तु वा || प्. ८५ब्) एवं प्रकारे तु चत्वारो वलयः सिद्धाः | मतांतरे पंचवलयः अशक्तौ पंचव्यापक मंडल एव कुर्यात् | तत्वानंदे | अथ सिंहासनस्याधः पूर्वादिदिक् चतुष्टये | इशान वह्नि रक्षः स्ववायुकोणेथ वा पुनः || त्रिकोणवृत्त संलिख्य मंडलानां चतुष्ठयं | वामभागे पुनः कुर्यात् चक्रं भूपुर सन्निभं || अथवा व्यापको वामे प्रदद्या देवि पंचकं | अशक्तः सर्वभूतेभ्यो वलिमेकं समाहरेत् || मंडल पूजाशक्ति यामले | वाग्भवं च महामायां कवचमंडलाय च | हृदंतोयं मनु प्रोक्तः पूजयेन् मंडलान् वुधः || व्यापकांते मंडलाय मुखे वाणीं परिक्षिपेत् | नमों तेन यजेन्मंत्री वामे व्यापक मंडलं || अथ मंडले वटुकादि पूजनं | शक्तियामले | वटुकं पूजयेदादौ ध्यात्वा पाद्यादिभिः सदा | पीयूष दंड मद युक्त कपालखंड चंडादि चंड भुजदंडमति प्रचंडं | श्रीकुंडल द्वय विमंडित गंडमीद्र्यं नीलं वटुं वटुकनाथ महींद्रहारं | ध्यात्वैव पूजयेन् मंत्रीवोंकार वीजपूर्वकं | अर्द्धान्न पूर्णसलिलं रक्तपुष्पेण संयुतं || तर्जन्यगुष्ठ योगेन कनिष्ठां गुष्ठतोपि वा | वामानांगुष्ठकाभ्यां दापयेत् साधकोथ वा || ज्ञानार्णवे | एह्येहि देवी पुत्रांते वटुकांते च नाथ च | कपिल जटाभार भासुरां तत्रिनेत्र च || ज्वालामुखं च सर्वांते विघ्नाम्ना शयनाशय | सर्वोपचार सहितं गृह्न द्विधा पदं | वह्निजायान्वितो मंत्रो वटुकस्य उदाहृतः | शक्तियामले | ततश्च योगिनी ध्यात्वा पूजयेद् वाममंडले | योगिन्यः कामरूपा सकलगुणयुतस्तप्तचासीकरामामत्ता कंकालमालाकलितगलतठी रक्तवस्त्रोत्तरीया शूलं पाशं कपालं शृणिमपि विधृताः सम्मिता सुप्रसन्नः भक्तानां साधकानांमभिलसित फलं दीयमानाः सुरेशाः | ध्यात्वा संपूज्य धूपादिना सुधीः | योंकारं वीजमुच्चार्य योगिनीं पूजयेत् ततः | मंत्रस्तु ज्ञानार्णवे | ऊर्द्ध्वे ब्रह्मांडतो वा दिवि गगनाले भूतले निष्कले वा पाताले वा नले वा शलिल यवनयोर्यत्र कुत्रस्थिता वा | क्षेत्रे पीठोप पीठादि सुकृत पदा धूपदीपादिकेन प्रीतादेव्यासनस्थः शुभवलि विधिनायां तु वीरेंद्र वंधान एतदंते महेशानि यांवीजं योगिनी ततः | भ्यः स्वाहा सर्वमंत्रांते योगिनी पदमालिखेत् | कवचं चास्त्रमालिख्य वह्निजायां पुनर्लिखेत् || अनेन मनुना देवि योगिनीनां वलिर्भवेत् | दक्षागुष्ठा नामिकाभ्यां कनिष्ठांगुष्ठतश्च वा || क्षांकारं वीजमुच्चार्य क्षेत्रपालं प्रपूजयेत् | वचत् कपाल सु कृपाण शूलदंडमुद्यत् सु दंड परिमंडितपाणि दंडां निलंजन प्रचयपुंजमिव प्रसन्नं श्रीक्षेत्रनायकमहं शरणं भजामि | प्. ८६अ) वाममुष्टिं विधायाथ तर्जनीं शरलां कुरु | अंगुष्ठ तर्जनीभ्यां वा क्षेत्रपाल मनुर्मतः || मंत्रस्तु ज्ञानार्णवे | षट्दीर्घ स्वरसंभिन्नं क्षकारं विलिखेत् प्रिये | स्थान क्षेत्रपदं पाल धूपदीपादि वा लिखेत् || सहितं वालि मालिख्य गृह्न गृह्न ततो लिखेत् | वह्नि जायान्वितो मंत्रो क्षत्रपालस्य सुंदरि || शक्तियामले | संपूजयेद्गनेशानं ध्यानमेवस्थ मंडले | पाशांकुशामृत कपाल स्वमूल हस्तहस्त्याननं विविध भूषण नीलदेहं | नित्योत्सवं सकल विघ्नविनाश हेतुं श्रीमद्गणेश्वर महं प्रणमामि नित्यं | संकुंच्य अंगुलीर्दक्षे दंडवत् कारयेद्बुधः | मध्येंगुष्ठं विनिक्षिप्य गणेशस्य वलिर्मतः || मंत्रस्तु ज्ञानार्णवे | गां गीं गूं त्रय मुद्धृत्य ङेंतं गणपतिं ततः | वरां ते वरदां ते च सर्वां ते जनमालिखेत् || मेव शंचानय प्रोच्य वलिं गृह्न द्विधा पदं | वह्निजायान्वितो मंत्रो गणेशस्य वलिं हरेत् || सर्वभूत वलिं दद्यात् ध्यात्वा च सर्वभूतकं | सुरामंडले मंत्री साधारं स्थापयेद्वलिं || मंत्रस्तत्रैव | वर्तुलं भुवनेशानीं सर्वविघ्नपदं ततः | हृदं त्यश्च सर्वभूतेभ्यो हूं फट् स्वाहा पदं लिखेत् || अनेन षोडशार्णेन रविं साधकसत्तमः | प्रदद्यात् सर्वभूतेभ्यो मुद्रया तत्वसंज्ञया || वलिं पंचकमाख्यातं सर्वरक्षाकरं सदा | कुलार्णवे वटुकादि मंत्रे वलिदाने च विशेषः || यथा वटुमंत्रं प्रवक्ष्यामि शृणुष्व कुलनायिके | यैः समर्चित मंत्रेण सर्वेनश्यं त्युपद्रवाः || तारत्रयं ततो देवी पुत्राथ वटुकेति च | नाथस्यात् कपिल जटाभार भासुरपिंगल || त्रिनेत्रेति पदं पश्चा ज्वालामुख पदं ततः | इमां पूजांवलिं गृह्नयुगं पावक वल्लभा || उक्तो वटुमनुश्चतुश्चत्वारिंशद्भिरक्षरैः | वलिदानेन संतुष्टो वटुकः सर्वसिद्धिदः || शांतिं कला तु मे नित्यं भूतवेताल सेवितः | तारत्रयं ततः सर्वायोगिनीभ्यः पदं लिखेत् || तत्पश्चात् सर्वभूतेभ्यः सर्वभूतादिवर्ति च | पदं ततो डाकिनीभ्यः शाकिनीभ्यो ततः परं || त्रैलोक्यति पदं चैव वासिनीभ्यः इमा. वदेत् | पूजां वलिं गृनयुगं स्वाहांता योगिनी मनुः || कथितोयं कुलेशानि एकपंचाशदक्षरैः | याका वियोगिनी रौद्रा सौम्या घोरतरा परा || खेचरी भूचरी व्योमचारी प्रीतास्तु मे सदा | तारत्रयं वदेत् सर्वभूतेभ्यः सर्व एव च || पश्चाद् भूतपतिभ्यो हूं फट् दुक्तं सप्तदशाक्षरः | भूताये विविधाकारा दिव्यभौमांतरीक्षगाः || पातालतल संस्थाश्च शिवयोगेन भाविताः | ध्रुवाद्याः सप्तसंख्याता इंद्राद्याः स्वर्गसंस्थिताः || प्. ८६ब्) तृप्यंति प्रीति मनसो हूं ततो हृत्विमं वलिं | तारत्रयं वदे हि युगं देवी पदं ततः || पुत्राथ वटुनाथाय पश्चादुच्छिष्ठहारिणे | हूं युगंम्वदेत् पश्चात् क्षत्रपाल पदं ततः || सर्वविघ्नापदं पश्चान्नाशय द्वितयं पुनः | सर्वोपचार सहितो मांसपूजां वलिं वदेत् || गृह्नयुग्म द्विठांतोयं क्षेत्रपाल मनुर्मतः | चतुःषष्ठ्यक्षरो मंत्रः सरसिद्धि प्रदायकः || यो स्मिन् क्षेत्रे निवासी च क्षेत्रपालस्य किंकरः | प्रीतोयं वलिदानेन सदा रक्षां करोतुमां || तारत्रयं वदेद्देवि श्रीप्रासाद परामनुं | ह्रीं ह्रीं हूं च युग्मंतेथ भैरवाधिष्ठिताय च || अक्षोभ्यानंदतः पश्चा * (?) द्धमंभीष्ट संपुनः सिद्ध्यर्थं पदमाभाष्य पश्चाद्वरद ठद्वयं | क्षेत्रपाल पदं पश्चान् महाशास्त्र पदं ततः | मातृ पुत्रपदं पश्चात् कुलपुत्रपदं भवेत् || सिद्धि पुत्र पदं चास्मिन् स्थानाधिपतयेत् ततः | अस्मिन् स्थानाधिपतयेस्मिन् देशाधिपतयेत् ततः || मेघनादपदं पश्चात् प्रचंडोग्र पदं ततः | कपाली भीमतः पश्चाद्भीषणेति पदं ततः || स्यात् सर्वविघ्नापते इमां पूजां वलिं वदेत् | गृह्न युग्मं कुरु युग्मं गुरुचूर्णय युग्मकं || ज्वलयुग्मं प्रज्वलयुग्मं सर्वविघ्नानि तीरयेत् | नाशय द्वितय क्षां क्षीं तत्पश्चात् क्षूमितीरयेत् || क्षेत्रपालाय वौषट् हूं फट् त्यूत्त शताक्षरः अनयोरेकतमेन क्षेत्रपालाय दद्यात् वलिद्वयं वा | तारद्वयं वदेत् पश्चादमुकं क्षेत्रपाल च | राजराजेश्वरमिमां पूजा वलिमतः परं || जुहुयुग्मं द्विठांतांतै अष्टाविंशतिभिः स्मृतं | अनेन वलिदानेन वटुवर्ग समन्वितः || राजराजेश्वरो देवो मे प्रसीद तु सर्वदा | पश्चिमे वटुको देवि उत्तरे योगिनी वलिः || पूर्वे भूतवलिं दद्यात् क्षेत्रपालं च दक्षिणे | राजराजेश्वरं मध्ये पूजयेत् कुलनायिके || अंगुष्ठानामिकाभ्यां तु वटुकस्य वलिर्हरेत् | तर्जनी मध्यमानामांगुष्ठैःस्तांद्योगिनी वलिः || अंगुलीभिश्च सर्वाभिरभूत वलिः प्रिये | अंगुष्ठ तर्जनीभ्यां तु क्षेत्रपाल वलिः स्मृतः || अंगुष्ठ मध्यमाभ्यांत राजराजेश्वरस्य च | एतन्मते वलिस्थानं पृथक् | मध्ये राजराजेश्वर वलिविधानात् | पूर्वमते मध्यदेव पूजा चतुर्दिक्षु वलिरिति प्रकारद्वये संप्रदायः सरणं || श्रीपूर्णानंदनाथेनकृतायां गुरुभावतः कुलवृत्तौ पटलोयं पाताल * * * (?) ज्ञकः || १७ || इति बलिदानं समाप्यन्तांभ * (?) त्रस्य देवताः पूजयेत् | तदुक्तं शारदायां | आवाह्य पूजयेत् तस्यां मंत्री मंत्रस्य देवताः | तस्यामिति देवशुद्ध्यर्थ कल्पित मूर्ते आवाह्येत्यर्थः || मूलमंत्रं समुच्चार्य सुषुम्ना वर्त्मना सुधीः | आनीय तेजः स्वस्थानात्रासिकारंध्रनिर्गतां || प्. ८७अ) एकस्थ मातृकां भोजे चैतन्यं पुष्पसंचयेत् | संयोज्य ब्रह्मरंध्रेण मूर्त्या मावाहयेत् सुधीः || अत्रा वाहनं ध्यानपूर्वकमेव | ध्यानं तु तत् तत्कल्पे | अनुसंधेयं | तत्र प्रकारः | कालिकापुराणे | वामहस्तस्य तर्जन्यां दक्षिणस्य कनिष्ठया | तथा दक्षिण तर्जन्यां वामांगुष्ठं नियोजयेत् || उन्नतं दक्षिणांगुष्ठं वामस्य दक्षिणादिकाः | अंगुली योजयेत् पृष्ठे दक्षिणस्य करस्य च || वामस्य पितृतीर्थेन मध्यमानामिका तथा | अधोमुखे ततः कुर्या दक्षिणस्य करस्य च || कूर्मपृष्ठ समं कुर्या दक्षिणस्माच्च हस्ततः | एवं विधः सर्वसिद्धिं ददाति करकच्छपः || इति सामान्यं | त्रिपुरायास्तु त्रिखंडैवैव | सा तु तत्कल्पे लिख्यते | कालिकापुराणे | कुर्यात् तु हृदयासन्ने निमील्य नयनद्वये | समकाय शिरं ग्रीवं कृत्वा शिरतमो वुधैः || ध्यानं समारभेन्मंत्री सर्वपाप प्रनाशनं | कालीतंत्रे | ततो हृदय पद्मांतः स्फुरंती परमां कलां | यंत्रमध्ये समावाह्य न्यास जालं प्रविन्यसेत् || कुमारीतंत्रे || ततो हृदय पद्मांतः स्फुरंती विद्युदाकृतिं | सुषुम्ना वर्त्मनानीत्वा शिवस्थाने महेश्वरि || देवेशि भक्ति सुलभे परिवार समन्विते | यावत्वां पूजयिष्यामि ततो वै हृदया सत्वे मंतरेण समानयेत् | नासयाया मया देवि वायुवीजेन मंत्रवित् | देवेशीति च मंत्रेण विंद्वमा वाहयेत् सुधीः || कुलार्णवे || मयस्मरणांतस्थे परमानंद निर्भरो अपारभवसंसारे पाहिमां परमेश्वरि | देवेशि भक्ति सुलभे परिवार समन्विते | यावत्वां पूजयिष्यामितावत्वं सुस्थिराभव || मंत्रे चानेन नावाह्य यजेद्देवी मनन्यधीः | ध्यानमुद्रां प्रदर्श्यार्घ्य गंधपुष्पाक्षतादिभिः || चिन्मयस्या प्रमेयस्य निर्गुणस्य शरीरिणः | साधकानां हितार्थाय ब्रह्मणौ रूपकल्पना || लिंगस्थंडिलं ब्रह्मस्त्र ह्यर्चाद्दाद्य पठेषु च | मंडले फलके मूर्द्ध्नि हृदि वा दशकीर्तिता || गौतमीये | शालग्रामे मणौ यंत्रे प्रतिमा स्थंडिलेषु वा | नित्यं पूजाहरेः कामना न तु केवला भूतले || नारदीये | आशा हि हृदयं चक्रं विष्णोः क्षेत्र समुद्भवं | यंत्रं च प्रतिमा स्थाने मर्चनं सर्वदा हरेः || अत्र शालग्राम चक्रं तु विष्णु परमिति यस्य तस्यैव तत्र पूजा अन्यानि संवादीनि यंत्राभिरिक्तानि सर्वानि | यामले | लिंगस्थां पूजयेद्देवीं पुस्तकस्थां तथैव च | स्थंडिलस्थां महामायां पादुका प्रतिमासु च || चित्रिते त्रिशिखे वाथ जलस्थां वापि पूजयेत् | पंचाशदङ्गुलं खड्गं त्रिशिखं च त्रिशूलकं || प्. ८७ब्) तेषां मध्ये यंत्रस्यैव प्राधान्यं यथा कुलार्णवे | देवस्य मंत्ररूपस्य यंत्रव्याप्तमजानतां || कृतार्चनादिकं सर्वं व्यर्थं भवति शांभवि | यंत्र मंत्रं मया प्रोक्तं देवता मंत्ररूपिणी || यंत्रे सा पूजिता देवी सहसैव प्रसीदति | कामक्रोधादि दोषोत्थ सर्वदुःख नियंत्रनात् || यंत्रभित्याहुरे तस्मिन् देवः प्रीणाति तत्वतः | शरीरमिव जीवस्य दीपस्य स्नेहवत् प्रिये || सर्वेषामपि देवानां तथा यंत्रं प्रकीर्तितं | तस्माघ्यंत्रं लिखित्वाथ ध्यात्वा वा सावृतिं शिवं || ज्ञात्वा गुरुमुखात् पूर्वं पूजयेद्विधिना प्रिये | एकपीठे पृथक् पूजां विना यंत्रं करोतियः || अंगांगित्वमपि त्यक्त्वा देवताशापमाप्नुयात् | एकपीठे कुलेशानि स्वस्वयंत्रं पृथक् पृथक् || यजेदावरणोपेतां देवीं तत्वविधानतः | आवाह्य देवतायेकामर्चयेदन्य देवतां || उभाभ्यां लभते शापं मंत्री चंचल मानसः | इत्यादि लक्षणं ज्ञात्वा गुरुतः शास्त्रतः प्रिये || विधानेनार्चयेत् सम्यक् देवता सुप्रसीदति | षोडशैरुपचारैस्तु सांगं सावरणं शिवं || पूजयेन् मूलमंत्रेण गंधपुष्पाक्षतादिभिः | कुलार्णवे | एषु स्थानेषु देवेशि यजंति परमं शिवं | अरूपं रूपिणं कृत्वा कर्मकांडरतानराः || गवां सर्वांगकं क्षीरं क्षरेत् स्तनमुखे यथा | तथा सर्वगतो देवः प्रतिमादिषु राजते || अभिरुप्याच्च विंवस्य पूजायां च विशेषतः | साधकस्य च विश्वासाद्देवता सन्निधिं भजेत् || गवां सर्पिः शरीरस्थः न करोत्माता पोषणं | स्वकर्म रचितं दत्तं पुनस्तामेव पोषयेत् || स्वपदेन सर्पिरुच्यते | तस्य कर्म उत्पादकं | कर्ममथनादि तेन रचित सर्पिदातुं चेत् गवां पोषणं | करोतीत्यर्थः | एवं सर्वशरीरस्थः सर्पिवत् परमेश्वरः | विना चोपासनं देवि न ददाति फलं नृणां || सफलीकृत्य तत्प्राणांस्तदीया निंद्रियाणि च | प्रतिष्ठाप्यर्चयेद्देवमन्यथा निष्फलं भवेत् || नियम व्यतिरेकेन यद्यत् कर्मकरोति च | किंचिदप्यस्य न फलं सिध्यति क्रमदोषतः || न्यूनाति रिक्तकर्माणि न फलंति कदाचन | यथाविधि कृतानी हसत्कर्माणि फलंति हि || तद्विधान कृतं कर्म जपहोमार्चनादिकं | देवता प्रीतिदं भूयाद्भुक्तिमुक्ति फलप्रदं || इदं तु प्रसंगतः || अथ प्रयोगः | मूलाधारात् कुंडलिनीं परमशिवे संगमह्या मृतलोलि एवस्थ मातृकां भोजे वामनासा पुटेन वायुवीजेन निःसार्य कल्पित मूर्तो ब्रह्मरंध्रंनांतः संस्थाप्या वाहनादि कुर्या | यथा शारदायां | संस्थापनं सन्निधानं सन्निरोधमनंतरं | सकलीकरणं पश्चाद्विदध्यादेवं गुंठनं || अमृतं करणं कृत्वा कुर्वीत परमीकृतं सुमुद्वाभिः समाहितः | प्. ८८अ) क्रमादेतानि कुर्वीत | एषां मुद्रां यथा ज्ञानार्णवे | इश्वर उवाच | संस्थापनं सन्निधानं आवाहनादि मुद्रास्तु कथयामित वानघे | ऊर्द्ध्वांजलिमधः कुर्यादियमावाहनी भवेत् | इयं तु विपरीता स्यात् तदा वै स्थानीमता || मिलितं मुष्ठियुगलं सन्निधापन रूपिणी | अंतरांगुष्ठ मुष्टिभ्यां सन्निरोधन सपिणी || एतस्या एव मुद्रायास्तर्जन्यौ शरले यदा | अवगुंठन मुद्रेयं सर्वकार्यार्थसाधनी || अंगमंत्रैर्न्यसेद्देवि देव्यांगे साधकोत्तमः | सकलीकरणं वाम मुद्रेयं तु ततः परं || परीवर्त्यकरौ पश्चात् तर्जनी मध्यमायुगं | व्याप्ति रूपिणी | प्राणप्रतिष्ठां तु सकलीकरणांतर्गत इव सकलीकृत्य तत्प्रागामिति कुलार्णव वचनात् | प्राणप्रतिष्ठा मंत्र मुद्रे प्रागे वर्त्मना | भूतशुद्धि प्रस्तारे कथिते | करारेकत्र संयोज्यामारात्रिकमिव प्रिये | परमीकरणं नाम मुद्रेयं तु ततः परं || परीवर्त्यकरौ पश्चात् तर्जनी मध्यमायुगं | कनिष्ठानामिका युग्मं परस्परयुतं || धेनुमुद्रेय माख्याताऽमृतीकरणे प्रिये | एताः साधारणा मुद्रा दर्शयित्वा ततः परं विशेष मुद्रा देवेशि दर्शयेद् भक्तिभावतः | विशेष मुद्रास्तु स्वस्व आयुधमुद्रा अन्याश्च कल्पविहिता तत् तत्कल्पे उत्तर खंडे ज्ञेया | अथा वाहनादीनां विवरणं | उड्डीशे | अत एवाभि पूर्णाया देवतायाः प्रपूजने | सादरं संमुखी भावमावाहनमिहोच्यते || अत एवा वाहनादि मुद्रा दर्शनादेव एवं सर्वत्रा विभो निवेशनं यत्र स्थापनं कथितं वुधैः | पूजां च पूज्यमानां तु गृहीत्वानुग्रहादिक | कर्तुः सामर्थ्यमस्यास्तु तत्सान्निध्यं प्रचक्षते || आकर्मकांडपर्यंतं सान्निध्यं हि विभोश्च यत् | स सन्निरोधा उद्दिष्टे भ्राजितो मंत्रविन्नरैः || आनंदा यतनं तत्वं सच्चिदानंद लक्षणं | तदत्र सकले व्याप्तं ध्येयं स्यादवगुंठनं || अत्र सर्वसकलशरीरे | सच्चिदानंदस्याच्यभिचारेण संवंधः सकलीकरण प्रयोजनं | अवगुंठनस्य ध्यानं प्रयोजनं परिच्छिन्नत्वेन सावयवत्वेन अवगत अपराधा ब्रह्मणो व्यापकत्वात् | निवयवत्वात् | आवाहनादीनां अपराध जनकत्वात् | एवं कृत्वा तच्छरीरावयवानाकराद्वहिः विप्र स्मृत्यकरी भवेत् परिवारं विचिंतयेत् | एवं कृत्वा परमीकरण मुद्रां कृत्वा स्वीकरान् करादि शरीरा वयवान् स्थिरीभूतान् परिवारं च वहिर्वाह्यं चक्र स्वस्वस्थान्यस्थानं प्रकर्षेण विस्मृत्य स्थिरीभूतं इति विचिंतयेत् | इत्या आवाहनादीना प्रयोजन स्वरूपकथनं | अथ संस्थापनादि विचारः | पदार्थ विचारः | तत् तद्देवता साधनांतनामतवार्य यथा गुरूपदेशतः | वहधातो रागमार्थकस्य धातोर्वा पंचस्यंत पदप्रयोगः | प्. ८८ब्) तत्र लंबोधामयुष्म छब्दस्यैवोपयोगान् मध्यम पुरुष एव इत्यभिमुखी करणेनरुक्त संप्रदाय सिद्धं तेन इहावह इहागच्छ २ इति वा द्विरुच्य यस्तु आवाहन पदादिस्थ उपसर्गाल्लभ्यात् | प्रापनार्थकस्य वहधातो निरूपसर्गेन पदेन निर्वाहे अंगा व्यर्थत्वं एतदेव हि षम्यक्तं पद्विरुच्चारण पूर्वकं कार्यनिर्देशः स च कर्तृणां ग्रहिणता व्यंजकः प्रवेशो लोकानामार्त्तिभीत्यादिषु द्विरुक्तिरिति | एवं संस्थापनादिष्ववगंतव्यं | ततः पूजनं कुर्याद्यथा | शारदायां | अथोपचारान् कुर्वीत तंत्रवित् स्वागतादिकान् स्वागतं कुलप्रश्नं निगतेदयुतो गुरुः अग्रतः सर्वोपचारानामादौ एतद्वयं कर्तव्यमित्यर्थः | अत्र इदमासनमास्यतो नित्या सदानंतस्योपचारा तर्पणं वा | प्रमाणमनुपदमत्रैव लिख्यते | उपचारा यथा फेत्कारिणी तंत्रे | आसना वाहनाचार्घ्यं पाद्यमाचमनं ततः | स्नानं वा सोपचीतं च भूषणानि च सर्वशः || गंधं पुष्पं तथा धूपं दीपं माल्य ततः परं | माल्यांनु लेपनं चैव नमस्कार विसर्जने || अष्टादशैपचारैस्तु मंत्री पूजां समाचरेत् | पाद्यार्घा चमनीयं च स्नानं वसन भूषणे || गंध पुष्प धूप दीपं नैवेद्या चमनं ततः | तांवूलमर्चनास्तोत्रंतपीणं च नमस्क्रिया || प्रयोजयेदर्चनाया सुपचारं तु षोडश | अथ षोडशोपचार भेदो मंत्रमुक्तावल्यां || आसनं स्वागतं पाद्यमर्घ्य माचमनीयकं | मधुपर्कश्चा चमनं च गंध प्रसूनके ततः || धूपदीपौ च नैवेद्यं स्नान माचमन भूषणे | सुगंध सुमनो धूपं दीप नैवेद्य वंदना || प्रयोजयेदर्चनीयामुपचारांश्च षोडश | अर्घ्यं पाद्यं निवेद्याथ तथैवा चमनीयकं || मधुपर्का चाचमनं च गंध प्रसून केतनः | धूपदीपौ च नैवेद्यं शोपचारक स्मृतं || नानागंधादयोत्यंता पूजा पंचोपचारिका | अथ चतुः षष्ठ्योपचाराः तदुक्तं कल्पसूत्रे || वैन्दवे परचित माचाह्यं चतुः षष्ठ्युपचारानु कुर्यात् | उपचार मंत्राः कल्पयामि नम इत्यताः कर्तव्याः पाद्यं कल्पयामि नमः १ अर्घ्यं कल्पयामि नमः २ इति क्रमेण आसनारोचणं ३ सुगंधि तैलास्वंगं | मज्जनं शाप्रवेशनवां मज्जन मंडपमनि पीठोपवेशनं ६ दिव्यस्नानीयं ७ उद्वर्तनं ८ उष्णोदक स्नानं ९ कनक कलशच्युत सकलतीर्थाभिषेकः १० पीतवस्त्र परिमार्जनं ११ अरुणद्ध कूलपरिधापनं १२ अरुणदुकूलोत्तरीयं १३ आत्ममंडल प्रवेशनं | आत्ममंडप मणिपीठौ प्रवेशनं वंदना गुरु मृगमद कुंकुम कर्पूर कस्तूरी गोरोचन दिव्यगंध सर्वांगीन प्. ८९अ) विलेपनं १६ केशपासस्य काला गुरुधूपनं १७ मल्लिकामालती जाती चंपकाशोकशतपत्रपूतिगंधहरकह्लार पुन्नाग मुख्य संवर्तु कुसुममालारोपणं | १८ भूषण मंडप प्रवेशनं | १९ भूषण कणक चित्रमंडपमणि पीठोपवेशनं २० ललाटं मुकुटं २१ चंद्रसकलं २२ श्रीमंतसिंदूरं | ३२ रत्नतिलकं २४ एकावलीं २५ पालीयुगलं २७ मणिकुंडलयुगलं | २८ नासाभरणं २९ अधरयावकं ३० दशनभूषणं ३१ कनकचित्र पादुकां ३२ महापदकं ३३ मुक्तावली ३४ देवच्छंदकं ३५ केयूर युगल चतुष्टयं ३६ वलयावली ३७ मूर्मिकावलं ३८ कांचीदाम कटिसूत्रं ३९ सौभाग्यभरणं ४० पादकं कननवूरत्ननूपुरं | ४२ पादांगुरीयकं | ४३ एककरेपाशं ४४ अन्यकरेंकुशं ४५ इतरकरेषुडेक्षु चापं ४६ अपरकरे पुष्पवाणान् ४७ श्रीमन्माणिक्य पादुके ४८ सु समानवे शास्त्रा भरणा देवताभिः महाचक्राधिरोहणं | ४९ कामेश्वरां कपर्यंकां रोहणं | अमृताशव चशकं ५१ आचमनीयकं ५२ कर्पूरवीटिका | ५३ आनंदोल्लास विलासहासं ५४ मंगला रात्रिकं ५५ श्वेतछत्रं ५६ चामरयुगलं ५७ दर्पणं ५८ तालवृत्तं ५९ गंधं ६० पुष्प ६१ धूपं ६२ दीपं ६३ नैवेद्यं ६४ इति चतुःषष्ठ्युपचारो न विधायेति | कुलोड्डीशे | उपचारेषु सर्वेषु यत्किंचिदुर्लभं भवेत् | तत्सर्वं मनसा ध्यात्वा पुष्पक्षेत्रेन कल्पयेत् | तत्र तत्र जलं दद्यादुपचारांतरातरा | उपचारदाने अंतराप्रत्युपचाराअनांतर इत्यर्थः | उपचारदानांतरं जलदानं त्यागार्थं जलं तु त्रिपात्रस्थमेव | यथा स्वतंत्रे | अन्यतो यैयदु सृष्टं अर्घपात्रां स्थिते तरैः | न गृह्नाति महादेवी दातुं विधि शतैरपि || केचित्तु प्रत्युपदानानंतरं जलं दत्वा अर्घ्यपात्रोदकेनोत्सर्गः | इति तविचार्यं | देवतायाः कार्यं कर्मोपि हित सदा | अथोपचारार्पण विवरणं | पाद्यं पादांवुजे दद्यादेवस्य हृदयात्मना | एतद्ध्यांमाकदुर्वाक विष्णुक्रांताद्भिरीरितं || स्वधात्मना ततः कुर्यान् मधुपर्क मुखांवुजे | अथ मधुपर्क विवरणं | कुलोड्डीशे | माक्षिकं शर्करा सर्पि दधिक्षारयुतं तथा | मधुपर्कं कल्पयित्वा दद्याद्विधि पूर्वकं || सर्वतः क्षौद्रमधिकं दधि सर्पिः सिता समं | जलं तु सर्वतः मुनवं मधुपर्क उदाहृतः || स्वतंत्रे च | पाद्य च पादयोर्दद्यान् नमोंतेन च मंत्रवित् | शिरो मंत्रेण देवेशि दद्यादर्घ्यं शिरोपरि || आचमनं मधुपयः स्वधामंत्रेण वै मुखे | स्नानं गंधं हृदा दद्यात् पुष्पाणि वौषडित्यपि || प्. ८९ब्) ततो निवेदयामीति सर्वं दद्यान् महेश्वरि | स्वधा मंत्रेनेति केचिदुकार मध्यपाठं पठंति | तत्र स्वतंत्र तंत्र विरोधात् | मधुपर्कं मुखे दद्याज्जलमंत्रेण देशिकः | जामले च | वारुणेन च वीजेन मधुपर्कं मुखांवुजे | इति | तेन स्वधामंत्रेण वरुणवीजेनेत्यर्थः | तेनैव मनुना कुर्यादद्भिराचमनीयकं | तेनैव मधुप मनु नैवेत्यर्थः | गधाद्भिः कारयेत् स्नानं वाससी परिधाय च | दद्या दीव्योपवीतं च हाराद्या भरणानि च || गंधंस्तु प्रागेव निरूपितः स तु दिव्यवीर पशुभावभेदेन यथाधिकारतो देयः | अथ पुष्पविवरणं | कालिकापुराणे | पुष्पैःर्देवाः प्रसीदंति पुष्पे देवाश्च संस्थिताः | वराश्च सकलाः सर्वे सदा पुष्परसाः स्मृताः || किंचाति वहुनोक्तेन पुष्पस्योक्ति मल्लिका | परं ज्योति पुष्पगतं पुष्पेणैव प्रसीदति || त्रिवर्गं साधनं पुष्पं पृष्टि श्रीस्वर्गमांडकं | पुष्पमूलेवसेद् ब्रह्मा पुष्पमध्ये तु केशवः || पुष्पाग्रे तु महादेवः सर्वदेवास्थितादले | तस्मात् पुष्पैर्यजेद्देवान् नित्यं भक्ति युतो नरः || उक्तिमतल्लिकेति प्रशस्ता उक्तिरित्यर्थः | तदुक्तं शारदायां | कमले करवीरेद्वे कुमुदे तुलसीद्वयं | जातीद्वयं केतकी द्वेकल्हारं चंपकोत्पले || कुंदे मंदार पुन्नाग पटे लीनाग चंपकं | आरग्वधं कर्णिका च पारंत नवमल्लिकाः || धुस्तूरसर्जकं विल्वमर्जुन मुनिपुत्रकं | अन्यान्यपि सुगंधीनि पुष्पपत्राणि देशिकैः || उपदिष्टानि पुजांत आददांत विचक्षणः | मुंडमालायां | पुष्पाण्यपि तथा दद्याद् रक्तपीता सितानि च | श्वेतं रक्तं जवा पुष्पं करवीरं तथा प्रिये || तगरं मल्लिका जाती यूथिका मालती तथा | धुस्तूरा शोकवकुल श्वेत कृष्णापराजिता || वकपुष्पं विल्वपत्रं चंपकं नागकेशरं | मल्लिका गिंटिका कांची रक्तं यत्परिकीर्तितं || अर्कपुष्पं यवा पुष्पं वर्वरं च प्रियं मृदो अष्टम्यां च विशेषेण तुष्टा भवति पार्वती | पद्मपुष्पेण रक्तेन संतुष्ठ्यः सर्वदेवताः | कृष्णं वा यदि वा शुक्लं कालिका वरदा भवेत् || श्मश्मानेधुस्तुरेणैव तुष्टा धूमावती परा | वन्यपुष्पैश्च विविधैः | संतुष्टा देवि पार्वती | आमलक्यास्तु पुष्पेण तुष्टा पत्रेण पावती | अष्टम्यां च चतुर्दश्यां नानापुष्पैः समर्चयेत् || श्मशाने रात्रिशेष शनिभौमदिनेनिशि | मत्स्यसूक्ते | सुगंधि श्वेतलौहित्य कुसुमैरर्चयेत् कुलनायिके | विल्वैर्मरुवकाद्यैश्च तुलसी वर्जयेत् शुभैः | उद्र पुष्पै विशेषेण वज्रपुष्पेण मिश्रितः || सर्वं पुष्प प्रदद्याच्च भक्तियुक्तेन चेतसा | कालिकापुराणे | प्. ९०अ) पुष्पं कोकनदं पद्मं यवावंधूकमेव च | सर्वेषां पुष्पजातीनां रक्तपद्मं विशिष्यते || क्रियासारे | देवीनामर्कमंदारावादित्येतगरं तथा | गणेशस्य च सूर्यस्य रक्तपुष्पमतिप्रियं || अथ सिद्धानि यथा शारदायां | मलिनं भूमिसंस्पृष्टं कृमिकेषादिदूषितं | अंगसंस्पृष्टमाघ्रातं त्यजेत् पर्युषितं गुरुः || क्रियासारे च | मुकुलैर्नार्चयेद्देवी न पक्वं न निवेदयेत् | फलं कथित विद्धं च काला पक्वमपित्यजेत् || नाक्षतैरर्चयेद्विष्णुं न तुलस्या गणाधिपं | न दुर्वयार्चये चंडी विल्वपत्रैर्विनायकं || उन्मत्त मर्कपुष्पं च विष्णोदर्यं सदावुधैः | गौतमीये | रक्तरचंदनं जातु गृह्नीयाद्रक्त पुष्पकं | विल्वपत्रै तत्प्रसूनैर्नाचये देवकीसुतं || शुक्लैश्च नार्चयेद्विष्णुं पत्रैः पुष्पैः फलैरपि | स्नात्वा नीतैः पर्युषितैः यार्चितैः कृष्णवर्णकैः || स्वयं विकसितैः पुष्पैः स्वयं च पतितं भुवि | वर्जयेद् वृहती पुष्पमगंधिं च विशेषतः || त्रिपत्रा न्यून कुसुमैर्नाचयेत् तु कदाचन | कुरुमं पाटलिं चैव शिरीषं परिवर्जयेत् || इति विष्णोः | भूगृहं वर्जयेत् पुष्पं सेफालीं वकुलं विना | इति सामान्यं | वासोभिः संवृतैर्नातं मतिमान्नार्पयेच्छिवे | कलिकाभिस्तथा त्याज्या विना पद्मक चंपके || शुष्कैश्चनार्चयेद्विष्णुं पत्रैः पुष्पैः फलैरपि | स्नात्वा नीतैः पर्युषितैःर्याचितैः कृष्णवर्णकैः || स्वयं विकाशितैः पुष्पैः स्वयं च पतितैर्भुवि | वर्जयेद् वृहती पुष्पमगंधं च विशेषतः || त्रिपत्रा न्यूनकुसुमैनार्चयेत् तु कदाचन | कुमुदं पाटलिं चैव शिरीषं परिवर्जयेत् || इति विष्णुरेव | भूगतं वर्जयेत् पुष्पं शेफालीं वकुलं विना | विल्वस्य खदिरस्यैव तथा धात्री फलस्य च || तमालस्य च पद्मस्य छिन्न भिन्नेन दूष्यति | शिवे कुंदं भवंतीं च यूथि वंधूक केतके || यवीरक्तां त्रिसंद्ध्येद्वे मालतीं केतकीं तथा | धृस्तणं कुमुदं रक्तहयारिं परिवर्जयेत् || पुष्पमालायां | गुंजा पराजितोन्मत्तं वराहक्रांतया सह | आम्रातकमिदं पुष्पं निसिद्धं सूर्यपूजने || निसिद्धं विहितं सूर्येतगरं कटिकारको | मंदारमर्कधस्तूरं शाल्मली कांचनं जुनं || निषिद्धं विष्णुपूजायां पुष्पं वैभीतकं तथा | निसिद्धं विहितं शिरीषं शक्रपुंड्रकं || निषिद्ध विहितमिति विति पुष्पाभावे एताद्विहितं विहित संभवे एतन्निसिद्धं | नरसिंहस्य पूजायां निषिद्धं केतकी द्वयं | उक्तातिरिक्तमरुणं कुसुमं न शस्तं शुकान्य कंटकितरु प्रभावं च विष्णोः | निर्गंध पर्युसित कोकटकीट दुष्टानि स सर्वत्र सर्वसुर पूजितानि | प्. ९०ब्) शिरीष वंधूक विभीतकानां मदंतिका केतकि पुंडूकानां करंजसाजांद्रमहीरुणारुणां कुंदस्य पुष्पं शिवे प्रशस्तं | अंतर्जलक्षालितमान स स्वयं विशीर्णं भुवि सन्निरीवं | एतानि पुष्पानि समस्तदेव पूजाविधा वहुकर्मकानि दुर्गान्य देवी पूजायां मंदारार्कं न शस्यते | पूजने कमलायास्तु द्रोण पुष्पं न शस्यते | कमलैः कमलान्नैव न शंभु शंखवारिणा || याचितं निष्कलं पुष्पं क्रयक्रीतं च निष्फलंमिति पठंति | विहितेष्वपि सत्याज्यं कथयति मलिनमिति | पर्युषितं पूर्वदिन संपादितं | तच्चतुलस्या दिव्यतिरिक्तं | यथा स्मृतिः | तुलस्य गस्त्य विल्वानां नास्तिं पर्युषितात्मता | वकस्यापि न सन्मासा यावत् पर्युषितात्मता || वर्यं पर्युषितं पुष्पं वर्यं पर्युषितं जलं | अवर्यं जाह्नवी तोयं मवर्यं तुलसीदलं || तुलसीवर्जिता पूजा न पूजाफलदा भवेत् | कालीतंत्रे च | नानोपहारवलिभिनीना पुष्पैर्मनोहरैः | अपामार्गदलैर्भृंगैस्तुलसी वर्जितैः शुभैः || पूजनीया सदा भोज्या नृणां शीघ्रफलाप्तये | तुलसी वर्जितैरिति दिव्यवीरपरं | यत्तु कोलावलीये | तुलसी वर्जिता पूजा न पूजा फलदा भवेत् | एतत्तु पशुभावे | तत्रापि विशेषः | भैरवी सुंदरी काला ब्रह्मविघ्नविवस्वतां तुलसी वर्जिता पूजा सा पूजा निष्फला भवेत् | अत एव तुलस्या गंधमात्रेण क्रुद्धा भवति सुंदरीति यामल वचनं | अत्र निषिद्धानां दानंमपि श्रुयते | क्रियासारे सर्वैः पुष्पैः सदा पूज्या विहिता विहितैरपि | कर्तव्या सर्वदेवानां भक्तियोगात्र कारणं | देवी पूजा सदाशस्ता जलजैः स्थलजैरपि || विहितरिवानिषिद्धैर्वा भक्तियुक्तेन चेतसा | अथ दान विवरणं | सोमभुजगावल्यां | पुष्पं वा यदि वा पत्रं सर्वं सेष्ठमधोमुखं | दुःखदं तत् समाख्यातं यथोत्पत्र तथा तर्पणं || अधोमुखं फलं मेष्ठं पुष्पांजलि विधौ नतं | मालिनी तंत्रे | पूजयेत् परमेशानीं पुष्पाभावे तु पत्रकैः | मंत्रानामप्यलानां तु द्रुमगुल्मा भवादिभिः || तद्भावा नामलाभे तु तत्फलेन प्रपूजयेत् | अक्षतैर्वा जलैर्वापि तदभावे तु सर्षपैः || सितैस्तेषामलाभो तु मानसं पूजनं चरेत् | अथ धूपविवरणं | शारदायां | स गुग्गुलुगरुशीरशर्करा मधु चंदनैः | धूपयेदाज्य संमिश्रैर्नाचै देवि चतुष्टये || कुलोड्डीशे | गुग्गुलुं शरलं दारुपत्रं मलय संभवं | ह्रीवेरमगरं कुष्ठं गुडं सर्वरसंघनं || हरीतकी नखी लाक्षा जटामासीं च शैलजं | षोडसांगी विदूधूपं दैवे पैत्रे च कर्मणि || प्. ९१अ) अथवा सहकर्पूर चंदनैः सहगुग्गुलुः | मधुसर्पि जटामांसी शैलजं कुंकुमं तथा || एताव मिश्रितः कार्यो धूपोयं पार्वती प्रियः | अशक्तौ तु गुग्गुलु दहेत् | क्रियासारे | धूपभाजन मंत्रेण प्रोक्षाभ्यर्च्य हृदात्मना | अस्त्रेण पूजितां घंतां वादयन् गुग्गुलुं दहेत् || उड्डीशे च | जगध्वनि ततो मंत्रमातः स्वाहेत्युदीर्य च | अभ्यर्च्य वादयन् घंटां धूपदीपौ निवेदयेत् || स्वतंत्रे | ततः समर्दयेद्धूपं घंटा वाद्यं | अत्र घंटा मंत्र द्वैधे इच्छाविकल्पः | अथ दीप विवरणं | शारदायां | वर्त्या कर्पूर गर्भिन्या सर्पिषापि जलेन वा | आरोप्य दर्शयेद्दीपानुच्छैः सौरभशालिनः || उड्डीशे | घृतप्रदीपः प्रथमस्तिलतैल समुद्भवः | सार्षपः फलनिर्जा स जाता वा वारिजोद्भवः || दधिदश्चांवुजांश्चैव दीप्ताः सप्त प्रकीर्तिताः | पद्म सूत्र भवेद्वर्ति दर्भसूत्र भवाथवा || शालजा वादरी चापि फलको षोद्भवाथ वा | वर्तिकादीप कृत्येभ्यः सदा पंचविधाः स्मृताः || तैजसं राजसं लौहं मार्तिक्यं नारिकेलजं | तृण धान्योद्भवं वापि दीपपात्रं प्रशस्यते || एवं दीपं प्रकुर्वीत नेत्ररंजन कारणं | दीपस्तु यागपर्यंत मधोमुखं प्रकल्पयेत् || कालिकापुराणे | नाद्रनादकरः स्वर्चिदूरत परिवर्जितं | स शिखशब्दरहितो निर्द्धूमोनाति ह्रस्वकः || दक्षिणे दीपसृक्ष प्रदीपः श्रीविवर्द्धयेत् | स्वसृप्त वृत्त वस्त्रेहं पात्रे बग्ने सुदर्शने || सूश्रायविक्षकोटे तु दीपं दद्यात् प्रयत्नतः | वर्त्या कर्पूरगर्भिण्या सर्पिषा तिलजेन वा || लभ्यते यस्य तापस्तु पीतस्य चतुरंगुलात् | न स दीप इति ख्याते अघवृद्धिस्तु स स्मृतः || वृक्षे प्रदीपो दातव्यो न तु भूमौ कदाचन | सर्वे सहा च सुमती सहते नत्विदं द्वयं || अकार्य पादघातं च दीपतापस्तथैव च | नम श्रीदेत्यु दद्यात् तु दीपे स्नेहान् घृतादिकान् || कृत्वा मिश्रीकृतां स्नेहंतामिथं नरकं व्रजेत् | पद्म सूत्राभवापि दर्भसूत्र भवाथ वा || शालजा वादरी वापि फलकोषोद्भवापि वा | वर्तिका दीपकृत्ये तु दशपंचविधाः स्मृताः || वादरी कार्या स सूत्रोद्भवा फलकोषेयः तदुद्भवा | शालं वादरकं जीर्णकं वस्त्रं मलिनमेव वा || उपभुक्तं न दद्यात् तु वर्तिकार्थं कदाचन | नैव निर्वापयेद्दीपं दैवार्थमुप कल्पितं || दीपहर्ता भवेदंधः कानोनिर्वापको भवेत् | अथांजनां सौवीरं यामुनं नख्यं मायूरं श्रीकरं तथा | दर्विकामेघ लीला च अंजनानि भवंति षट् | घृष्ट्वानि पात्यतैता निशिलायां तेजसेथ वा || प्. ९१ब्) प्रदद्यात् सर्वदेवेभ्यो देवीभ्यश्चापि पुत्रक | सौवीरादि पंचाजनानि प्रस्तररूपाणि घृष्टेव देयानि दर्विकांजनमाह | घृततैलादिषुक्ते तु ताम्रादौ पातितानलोयदंजनं तु जायेत दर्विका तत्प्रकीर्तिता | विधवानांजनं कुर्यान् महादेव्या अनुत्तमं | न मृत्पात्रे योजयेत् तु साधको नेत्ररंजनं || अथ नैवेद्य विवरणं | शारदायां | स्वादूप दशविमलं पायसं सहाशर्करं | कदलीफल संयुक्तमाज्यं मंत्री निवेदयेत् || मत्स्यसूक्ते | पायसं कृशरं दद्याच्छर्करा गुडसंयुतं | गव्यं मुखे मधुपयस्तथान्यानि निवेदयेत् || शालमत्स्यं च पाठीनं गोधां मांसमनुत्तमं | अन्नं च मधुनायुक्तं यत्नं दद्याच्च मंत्रवित् || स्वतंत्रो कंदुपक्वं स्नेहपक्वं घृतपक्वं युक्त पायसं | मनः प्रियं च नैवेद्यं दद्या देव्यै पुनः पुनः || कुमारीकल्पे | तांबूलं च स कर्पूरं नारिकेलं स शर्करं | पायसं च घृतं चैव आद्रकं स गुडं तथा || स तंडुलं तिलं चैव दधिकै रस शर्करं | जंवीरं पनसं चैव आम्रातक फलं तथा || कदलीं तिंमिडीं देवि श्रीफलं फलमुत्तमं | अन्नं च मधुना युक्तं पक्षिमांसं च वाराहं करंजं वकुलं चैव तालं खर्जूरमेव च | अन्यानि च सुगंधीनि स्वादूनि च फलानि च | मुंडमालायां | शालमत्स्यं च पाठीनं स कुलं चेंगजस्तथा मद्गुरुं चेल्विषं दद्यान्मांसं माहिषमेव च | पक्षिमांसं च वाराहं डिंवं नानासमुद्भवे | कृष्णछागं महामांसं गोधिकां हरिणं तथा || जलजं मत्स्यमासं च गंडकीम समुत्तमं | नाना व्यंजन दुग्धानि व्यंजनानि वहूनि च || कुलामृत संहितायां | प्रदद्यान् मधुरं द्रव्यं परमानंद मानसः | तर्पयेन् मधुरद्रव्यैर मृतैर्मधुमिश्रितैः || अमृतश्चामृत द्रव्यैस्तर्पयेत् परमेश्वरीं | ततः संस्कृते वह्नौ गोक्षीरेण चरुंपचे || अस्त्रेण क्षालितं पात्र नेवे ताम्र मयादिके | तंडुलान् शालि संभूतान् मूलमंत्रेण मंत्रितान् || प्रसूतैः पंचदशभिर्निक्षिप्यास्त्र मनुस्मरन् | पिधाय पात्र वदनं प्रक्षाल्य श्रुवचात्मना || प्राङ्मुखो मूलमंत्रेण साधकेंद्रश्चरुं पचेत् | श्रुवेणाग्रेण संचिंत्य दद्यात् तत्राभिधारणं || मूलमंत्रेण तत्पात्रं कवचेनाव भावयेत् | अस्त्रमंत्र कुशात्तीर्णे मंडले विधिवद्गुरुः || तद्विभज्यैकभांगस्तु देवतायै प्रकल्पयेत् | अन्यमग्नौ प्रजुहुयाद परं भागमुत्तम || एवं तु चरुक प्रोक्तमारात्रिका विधावपि | अत्र वेदविरोधीनि पशुभावाग्नित शक्ति वैष्णवादि परानि विरोधीनि सर्वाणि दिव्यवीरपरानीति वोध्यं | अथ नैवेद्य पात्र विवरणं | रुद्रजामले | तेजसेषु च पात्रेषु सौवर्णे राजते तथा | ताम्रे वा पुस्तकं वापि पद्मपत्रेथ वा पुनः || यज्ञदारुमये वापि नैवेद्यं कल्पयेद्वुधः सर्वाभावे तु माहेये अहस्तगादते यदि | यद्योग्य मर्घपात्रे तन्निधाय निवेदयेत् | अथ पाद्यादीनां स्थानं निवतमेव | प्. ९२अ) गंधादीनां विधिरुच्यते | यथा रुद्रयामले | निवेदयेत् पुरोभागे गंधं पुष्पं च भूषणं | देवस्य मस्तकं कुर्यात् कुसुमोपहितं समा || इति तत्प्रकरणोक्त शारदा वचनात् | संमुखा वा छादनत्यर्थः | वामतस्तु तथा धूपमग्नि वामे तु दक्षिणे तु | दीपं दक्षिणतो दद्यात् पुरतो न तु वामतः || नैवेद्यं दक्षिणे वामे पुरतो न तु पृष्ठतः | न भूमौ स्थापयेद्धूपमासने वा घटेत वा || घृतप्रदीपं दक्षे तु स्ववामे तेन संभवं | अभिसंदर्शयेन् मंत्री दीपमालां सुशोभनीं || आरात्रिक विधानं तु सुंदरी प्रस्तारे लिख्यते | अथ नैवेद्यं दान विवरणं | यामले | दक्षिणे वा पुरो भागे वामे वा मंडलं लिखेत् | त्रिकोण भूवृत्त भूर्विवं निर्दशेच्छक्तिं मर्चयेत् || नैवेद्यं तत्र संस्थाप्य प्रोक्षयेदस्त्र मंत्रतः | पुष्पं दत्वा तंत्र मंत्री सप्तधा प्रजपेन्मनुं || हेमपात्रे गतेत्यादि पठित्वा साधकोत्तमः | चुल्लुकादि ततो दद्यात् पंचमुद्रां प्रदर्शयेत् || चुल्लुकादीति | अमृतोपस्तरणमसि अमृतापिधानमसि मंत्राभ्यामादावंते च दद्यात् | निवेदन मंत्रस्यांते उपस्तरणं | पंचमुद्रा दर्शनानंतरं आपधानमिति | अथ इदं नैवेद्यं अमुकदेवतायै निवेदयामीति अर्घपात्रोदकेरुत्सृज्य जलगंडूषादिकं दद्यात् | यथा तत्वानंदतरंगिन्यां | शुद्धद्रव्य समादाय च स केन सुवासितं | ग्रासाख्य मुद्रया मंत्री शुद्धं दक्षिणपाणिना || निवेदयेन् महादेव्यै वदनामृत मंडले | वामभागे सन्मुखं वा स्थापयेत् साधकः सदा || एवमेव समादायमीन युक्तं निवेदयेत् | मुद्रान्वितं ततो दद्यान्नमस्कुर्यात् समाहितः || शुद्धा सवरस स्वाद परमानंद निर्भरे | अपार भव संसारे पाहिमां परमेश्वरि || ततो निवेदयेद् देव्यै चर्व्य चोष्यादिकं क्रमात् | निवेद्य विधिवद् विद्वान् प्राणमुद्रात् प्रदर्शयेत् || वृद्धानामा कनिष्ठाभिः प्राणमुद्रा प्रकीर्तिता | वृद्धा मध्यातर्जनीभिरपानस्य प्रकीर्तिताः || मृगमुद्रा व्यान वायो रुद्रानस्य ततो भवेत् | कनिष्ठायुक्त सर्वाभिश्च समानतः || दर्शयन् पंचमुद्रास्तु पंचवायोरि वा स्मरेत् | वामांगुष्ठांगुली कुर्या विकचे त् पलसन्निभाः || ग्रासमुद्रा समाख्याता विद्वद्भिःस्तंत्रवेदिभिः | निवेदनमिति प्रोक्तं नैवेद्यं स्यादनुत्तमं || यामले | सर्वोपकरणादीनि मूलां तेन निवेदयेत् | अशक्तौ मनसा दद्यादे तत्कर्म न लोपयेत् || चुल्लुकं विधिवद् दद्यात् पंचमुद्रां प्रदर्शयेत् | पुनश्च चुल्लुकं दत्वा दद्यात् तांबूलमुत्तमं || एलालवंग कर्पूरजाती फलादि संयुतं | तमालदलकर्पूरपूगभागेत वंदितं || क्रमदीपिकया च | ग्राममुद्रां वामदोष्णाविक चोत्पल सन्निभां | प्रदर्शये दक्षिणेन प्राणादीनां च दर्शयेत् || स्पृशेत् कनिष्ठिकेपि कनिष्ठिके देवांगुष्ठ मूर्द्ध्ना प्रथमेहमुद्रा | प्. ९२ब्) तथापि वा तर्जनिमेस्यादनामिका मध्यमिके च मध्वा अनामिका तर्जनि मध्यमा स्यात् तद्वा चतुर्था स कनिष्ठिकास्ताः | स्यात् पदी तत्वादिनुष्ठिताः प्राणादि मुद्रा निज मंत्रमुक्ताः | प्राणापान व्यानादान समानाः क्रमा चतुर्थ्या मुक्ताः अवोधवोधावविद्ध चेद्धा कृष्णाद्धास्त एते मनवः | अत्र जल गंडूषादीनां प्रागुक्तं | अमृतोपस्तरणमसीति प्रथमगंडूषदानं | द्वितीयं अमृत पिधानमसीति ततो ग्राह मुद्रां प्रदर्शयेत् | ओं प्राणाय स्वाहा इत्यादि जपन् प्राणादि मुद्रां दर्शयेत् | अथ नैवेद्य प्रशंसा | कालिकापुराणे | नैवेद्यं वितरामितियो भाषते मुब्जः | सोपिका मानवाप्येह मम लोके प्रमोदते | इदं तु दिव्य वीर साधारणं | पशुस्तु वेदविरोधीनि च | त्यक्त्वा अन्यन्नैवेद्यं दद्यात् | अथोपचार उत्सर्ग मुद्रा स्वतंत्रे | कौलिन्या मुद्वयादेवि उपचारान् समुत्सृजेत् | इति तर्पण प्रस्तावे विवृतं | अथ उपचारार्पण प्रयोगः | यथा मालिनीतंत्रे | नमः सर्वोपचारेषु प्रथमांतेषु कल्पयेत् | अत्र नम इत्युपलक्षणं | तेन यत्रयो यंत्रो विहितः समः स्वाहेत्यादिः उपचारस्य नाम्नः प्रथमां तस्य पश्चांतं मंत्रमुच्चार्य उच्चारं दद्यात् | तेन एतत्पाद्यं नमः अर्घ्यं स्वाहेत्यादि | कल्पसूत्रमते कल्पयामीति नमः प्रागेवोक्तं | अथोपचारमुद्रां | यथा रुद्रयामले | प्रसारयेद्धतौ हस्तौ हृद्देशे विनियोजिते | अंगुल्यो विस्मृताः कार्याः मध्येंगुष्ठौ तु तत् क्रमात् || देवतासना विन्यासे पद्ममुद्रां प्रकीर्तिता | इदमासनमास्ततामिति वक्तव्यमित्यर्थः || ईषन्नम्नांगुलि ज्ञेया संवृत्तांगुष्ठकं धरं | नम्रे कनिष्ठा तर्जन्यौ करयोरग्र संगते || मध्यमानामिके कुर्या मध्यमानामिके कुर्यादियमासनमुद्रिका | यत्र चतुःषष्ठ्युपचारादौ आसन दानं तंत्रेयं मुद्रेत्यर्थः | ईषन्नम्नांगुलिर्दक्षा संवृत्तांगुष्ठकंधरं | आसने स्वस्तिका मुद्रमध्या मूलगतांगुलिः || उपचारे दर्शने च प्रयोक्तव्या विपश्चिता | तौ च प्रसारितौ हस्तौ पाद्यमुद्रा प्रकीर्तिता || स्वस्ति मुद्रांकितौ हस्तौ मुद्रात्वर्घस्य कीर्तिता | देशिनी मूलसांगुष्ठा दक्षिणाधः कनीयसी || प्रसार्य मध्यमास्तिस्रो मुद्रा वामे प्रकीर्तिताः | संयुक्ता नामिकांगुष्ठौ तिस्रोन्याः संप्रकीर्तिता || मधुपर्कस्यया मुद्रा कथिता तंत्रवेदिभिः | मुष्ठिमुक्तं तथा स्नानि अंगुष्ठाग्र मधोमुखं || मध्यमांगुष्ठकेलग्नौतिस्रोन्याः संप्रसारिताः | वस्त्र ** (?) समाख्याता वस्त्रदान विवर्द्धनी || प्. ९३अ) कनिष्ठांगुष्ठकौ लग्नौ तिस्रो मुद्राः प्रकीर्तिताः | यज्ञोपवीत मुद्रेयं कथिता तंत्रवित्तमैः || मधुपर्क समुत्ताना मुद्रालंकारकारिणीमत | विमुक्ता नामिका स्वस्तिगंधमुद्रेतिकीर्तिताः || उत्थिताधोमुखी मध्या अंगुष्ठा तर्जनीयुता | पुष्पमुद्रा समाख्याता पुष्पदान विवर्द्धिनी || अंगुष्ठा तर्जनी लग्नातिस्रः संकुचिता परे | मुद्रा धूपप्रदानेस्या देवानां तुष्टिकारिणी || उत्तानापौष्पिकी मुद्रा दीपमुद्रेति गीयते | पंचांगुल्योग्रसल्लग्न प्रोत्थिताधोमुखी यदि || त्रिधा निरुद्धा मुद्रेयं नैवेद्यस्य प्रकीर्तिता | द्वौकरौ तल संलग्नौ भ्रामयेदुत्थितांगुलिः || स्फोटिकेति समाख्याता प्रणामेति प्रदर्शयेत् | अथ वा दर्शयेन् मुद्रा इमा गंधादिषु क्रमात् || कनिष्ठांगुष्ठ संमुद्रा गंधमुद्रा प्रकीर्तिताः | दिष्टांगुष्ठेन पुष्पस्य युक्ता धूपस्य तर्जनी || दीपस्य मध्यमाना मानैवेद्यस्य प्रकीर्तिता | इतरांगुलि संयोगात् पंचमुद्राः प्रकीर्तिताः || मुद्रया यत्कृतं कर्मतदेव सफलं भवेत् | अथ गंधादिदाने | ग्रहणमुद्रा | सांभव संहितायां | मध्यमानामिकाभ्यां तु अंगुष्ठाग्रेण पार्वति | दद्याच्च विमलं गंधं मूलमंत्रेण देशिकः || अंगुष्ठ | तर्जनीभ्यां तु चक्रे पुष्प निवेदयेत् | यथा गंधस्तथा देवि धूपं दद्याद् विचक्षणः | मध्यमानामिकाभ्यां तु मध्यपर्वणि देशिकः | अंगुष्ठाग्रेण देवेशि धृत्वा दीपं निवेदयेत् || उत्तोलनं त्रिधा कृत्वा गायत्र्या मूलयोगतः | तत् सांख्यमुद्रया देवि नैवेद्यं च निवेदयेत् || मूलेना चमनं दत्वा तांबूलं च निवेदयेत् | एतद्वयं अंगनैवेद्यमित्यर्थः | इति यथा विध्युपचारैः संपूज्य मूलदेवीं तर्पयेत् | तदुक्तं सोमभुजगावल्यां | ततश्च मूलमंत्रेण त्रिवारं तर्पयेत् सुधीः | ततः अनंतर पूजानंतरमित्यर्थः | ततः परिवारान् पूजयेत् | तदुक्तं शारदातिलके | अंगादि लोकपालांतं यजेदावरणान्यपि | रुद्रयामले | अथ कल्पोक्त्या साद्य पूजयेत् साधकोत्तमः | आवाह्येस्मिन् कल्पतरोच्छायायां परमेश्वरी | सोमभुजगावल्यो | गृहीत्वाज्ञां महादेव्याः परिवारान् समर्चयेत् | षडंगैः प्रथमं कल्पगुरुभिस्तु द्वितीयकः || परिवारेः तृतीयःस्याल्लोकपालैश्चतुर्थकः | तदस्त्रैः पंचम प्रोक्त इति सामान्यतं क्रमः || विशिष्य तु तत् तत्कल्पोज्ञेयः | षडंग देवता यथा | षडंग पदेन हृदासि षडंगन्युच्यंते | तेषधिषधिष्ठिता देवताः | तासां नामानि यथा | मालिनीतंत्रे | अथ सर्वज्ञाता तृप्तिरनादिवोधिना | स्वतंत्रतान्या नित्यास्यास्यांदू लुप्तशक्तिरेव च | षडंगदेवताह्येताः नामतः परिकीर्तिताः || तुषार स्फाटिक श्याम कृष्ण नीलारुणार्विषः | वरदा भयधारिण्यः प्रधान तनवः स्त्रियः || स्थानं यथा शारदायां | प्. ९३ब्) केशवेष्वग्नि कोणादि हृदयादीस्र पूजयेत् | नैत्रमग्रे दिशा स्वस्त्रं ध्यातव्या अंगदेवताः || तुषारेत्यादि | ज्ञानार्णवे | अमीशा सुरवायव्य मध्ये दिष्वंग पूजनं | सोमभुजगावल्यां | इष्ट्वा हृदयमाग्नेययां मैशान्यां च शिवो यजेत् | नैरृत्यां च शिखा पूज्या वायव्यां कवचं यज्ञेत् || अभ्यर्च्य पुरतो नेत्रं दिक्षु शस्त्रमथार्चयेत् | मालिन्यां | वह्न्यादि पुरतः पूज्या तत् तदंगेषु वा क्रमात् | अथ प्रयोगः | मंत्रास्तु तत् तत्कल्पे ज्ञेयाः | ह्रीं सर्वताज्ञ शक्तये नमः इत्यादि | कल्पसूत्रमते ऐं श्रीमहात्रिपुरसुंदरी सर्वज्ञता हृदय शक्ति श्रीपादुकां पूजयामि | एवं नित्य तृप्ता शिरः शक्ति श्रीपापू | अनादि शिखा शक्तिः श्रीपादुकां नित्यो नेत्रशक्तिः श्रीपापू अलुप्ता अस्त्र श्रीशक्तिः श्रीपादुपू | इति हृदादि स्थानोल्लेखः | अत्र संप्रदायः शरणं | पादुकोल्लेखस्तु श्रीविद्यायामेव | प्रमाणं तत् तत्कल्पे लेख्यं | अथ गुरु विवरणं | भावचूडामणौ | आदौ सर्वत्र देवेश मंत्रदः परमो गुरुः सर्वमंत्रेषु तंत्रेषु स्वयं प्रख्यातरूपिणी | ततः पुरुषरूपस्तु ततः स्वगुरु संततिः | तेन राहमदंसाश्च मद्भक्ताश्च विशेषतः || सर्वमंत्रेषु प्रभवः सर्वत्र सिद्धिदायिकाः | दिकौघ गुरवो देवि सिद्धौघ गुरवस्तथा || मानवौघा समासेन कथयामित वाग्रतः | इत्युदेशतः | दिव्यौघादयो विशेष्य तत् ततत्रे ज्ञेयाः | येषां तु दिव्यौघादयोनंदयंते | तेषा भावचूडामणावुक्तं | अथ वा सर्वशाक्तेषु गुरवः सर्वसूचिता | कुलचूडामणौ | देवशृणु वा स समाहितः | तेन प्रह्लादानंदनाथादयः प्रातःकृत्य प्रस्तारे निरूपिताः | अन्यच्च भावचूडामणौ | येषु येषु च मंत्रेषु ये ये ऋषिगणाः स्मृताः | ते ते पूर्याः स पर्यादौ संक्षैपाद्यादितं मया || अज्ञानाद् गुरुना नाम्ना गुरुत्रितय मर्चयेत् | चतुष्टयं वा संकोचो न च कार्यःस्ततः परं || गुरुं परगुरुं चैव परापरगुरुं ततः | परमेष्ठिगुरुं चैव कथिता गुरवस्तया || गुरुमिति चतुष्टयमिति पदस्यान्वयि विशेष्यं पदं | तेन चतुष्टयं गुरुं वा पूजयेदित्यर्थः || गुरु त्रितयस्य कलनामात् परगुरुमित्यर्थः | दि परमगुरुमित्यर्थः | आदौ सर्वत्र देवेशि मंत्रदः परतो गुरुरित्यादि प्रागुक्त वचनात् | तत्रस्थ सर्वत्र पदस्य नमस्कार तर्पण पूजा परत्वात् | चतुष्टयत्व पुनः इदं त्रितयं ऋषिरेकः | स्थान मंत्र निर्णयस्तु सामान्यत्वात् संधायां मुक्तमेव विद्या विशेषस्तु तत् तत्कल्पो ज्ञेयः | प्रयोगस्तु स्वाहांत श्रीगुरुपादुका मंत्रमुच्चरन् | श्रीअमुकानंदनाथ श्रीपादुकां पूजयामि नमः | इत्यादि विद्या विशेषे | प्. ९४अ) विशेषस्तु तत् तत्कल्पो ज्ञेयः | परिवारा सुवृन्द देवता कोणा पत्रादि संस्थाः तत् तत्कल्पे ज्ञेयाः || अथ लोकपाल विवरणं || शारदायां | अंते जयेल्लोकपालान् मूलपार्श्वदान्वितान् | हेति जात्यधियोपेतान् दिक्षु पूर्वादिषु क्रमात् || मूलपारिषदान्वितानिति | इष्टदेवानामंते पार्षद पदयुक्त मंत्रपूज्यामित्यर्थः | तेन देवी पार्षदायेति सिद्ध्यति | इति जात्याधियोत्पेतानिति हेति पदम्. अस्त्रं वाचकं | तेन वज्रहस्तायेति | जाति पदेन सुरत्वादयो जातय उच्यंते | तेजत्यधिपतिर्यो लोकपालान्स्तेषां जातिपुरस्कार प्रवृत्त पदमुक्ता अधिपतित्व पुरस्कार प्रवृत्त पदमुक्त मंत्र पूजानित्यर्थः | तेन सुराधिपतये इ सिद्ध्यति | तूर्णायागे च | इंद्राय पदमाभाष्य सुराधिपतये पद स वाहनाय तत्पश्चात् स परिवारायेत्यै | नमोंते चैव मन्येषां वाहनादिक मुद्धरेत् | अत्र प्रयोगमंत्रेतात्पर्यं न क्रमे स वाहनाय इत्यधिक तया सिद्ध्यति | कल्पसूत्रे च | लं इंद्राय वज्रहस्ताय रक्षाधिपतये ऐरावत वाहनाय सपरिवाराय नमः | रावह्नये शक्तितेजोधिपतये अजवाहनाय सपरिवाराय नमः | वां वायवे ध्वजहस्ताय प्राणादिपतये रुरु वाहनाय सपरिवाराय नमः | सं सोमाय शंखहस्ताय ताराधिपतये नमः | अश्ववाहनाय सपरिवाराय नमः | हं इशानाय त्रिशूलहस्ताय विद्याधिपतये वृषवाहनाय सपरिवाराय नमः | ओं ब्रह्मणे पद्महस्ताय स्वर्लोकाधिपतये हंसवाहनाय स परिवाराय नमः | श्रीविष्णवे चक्रहस्ताय नागाधिपतये गरुडवाहनाय सपरिवाराय नमः | गुंवास्तु पुरुषाय वास्त्वादिपतये ब्रह्मणे नमः | इत्येकादश दिकपालान् पूजयेत् | रेभिर्वचनैरेक वाक्यतालीघ वादयं प्रयोगः सिद्ध्यति | लां इंद्राय देवी पार्षदाय वज्रहस्ताय सुराधिपतये ऐरावत वाहनाय सपरिवाराय नमः | इति क्रमेण सर्वत्र | वास्त्वाधिपति ब्रह्मपूजां तु मतभेदे दश दिक्पालान् एकादशवेति | अत्र कुवेर पूजानस्थाने सोमपूजनमुक्तं | शारदायामपीदमेव यथा इंद्रमाग्रेयमं रक्षो वरुणं पवनं विधुं | ईशानं पन्नगाधीशं मध ऊर्ध्व. पितामहं | कोषादौ तु कुवेरपूजनं | कुवेर ईशः पतयः पूर्वादीनां दिशां क्रमात् | इत्यमरः त्रिपुरासारेपि | स्वर्णप्रचय समवर्णं धनपतित्यन्द पदमेव लिख्यते | अरिमंत्रत्याग प्रस्तावे उभयोरपि पूजनं मुक्तं | यथा कुवेर तारकाधीशावगच्छेतां स्वरौ तु मा विति | तथा च संप्रदायानुसारेण गुरुना मज्ञेया एकस्य पूजनं कार्यं इति दिक् | अथैतेषां वाहन विवरणं | प्. ९४ब्) चंद्रिकायां | ऐरावतस्तथा गोषा महिषः प्रेतसंज्ञः मकराख्यौ मृतः पश्चात्तुरगो वृषभस्तथा | कूर्मो हंसः क्रमा देवां वाहनानि विदुर्वुधाः | अथैतेषां ध्यानं | शारदातिलके | पीतोरक्तः शितो धूम्रः शुक्लो धूम्रः शितावुभौ | गौरोरुणः क्रमादेते वर्णतः परिकीर्तिताः || त्रिपुरासारे च | प्रियंगुं गगनांगं परिकलिपालं मणिमयलसत् चूडापीडं द्विरदनवराधिष्ठित तनुं | सहस्रं विभ्राणां नयनकमलात्यं हरिहयं यजेत् पूर्वस्यां वैदिशि कुसुम रत्नादिभिरत्र | अथ विकसित कुसुमाभमग्निं छगलगतं शितशक्तियुक्त हस्तं | मणिमय मुकुटं यजेत् सुगंधैः धृत कुसुमवरै धृतरं कुंडलं च | अर्चयेत् तदनु दक्षिण भागे नील वीर इनिभां पितृनाथं | दंडहस्त मरुणावत नेत्रं संवितांग सममुज्वलवेशं | नरारुक्षो रूढोरुक्षो दिशि विकट दंष्ट्रं सु निशितं कृपाणं विभ्राणं स जलजलं दश्या मल तनुं | यजेत् वाला लोलं पुलक पलमारक्त नयनं विचित्रालंकारं तदनु विधिवद्राक्ष स पतिं | शरदभ्रशशांक त्रिभं वरुणं मकरस्थि तमुज्वलवेशधरं | मणिमंडलमंडितगंद युगंधर पाशकरं यजेत् स्वशिरसि | वर स मुरगं शृणु शक्तकरं शुचि केतन धूम्रनिनांगरुचिं | निजदिश्य निलं विधिनाथ यजेत् कुसुम प्रमुस्वैर्मणि हारधरं | अथोर्णायौ स्वर्ण प्रचयसंमवर्णं धनपतिं समासीर्णं यक्षैः परिवृतमशेषैश्च निधिभिः | गदाहस्तं पिंगां करकमल युगं सु कुसुमैर्यजेद्गंधैर्धूपैः | स्वदिशिल सदा कल्पमपि च | ऐशान्यां शशिखंडमंडित जठाजूटं त्रिनेत्रं हरं सिंदूरारुण विग्रहं दिशि यजेच्छूलं कपालं सदा | विभ्राणं स्वभुजै चतुर्भिकभयं योगाख्य मुद्रां तथा भस्मोद्धूलित विग्रहं वृषगतं गंधादिभिः साधकः | एतेषां मंत्र स्त्रिपुरासारो मस्तकादि जलराशिगंसकं मस्तक चंदनं व कार्मुकं | सूक्ष्म पूर्वमुख पूर्वसंयुतं लोकपाल मनुरेषकीर्तितः | मस्तकादनुस्वारा जलराशि समुद्रगः चतुर्थस्थानगं ऐशकं स्वानुस्वारं तेन वाग्भव वीजोद्धारः | मस्तका दनलगं अनुस्वारास्तृतीयस्थानगंककार इति यावत् वकारांतमुकवकःशः तदतःषः तशुक् ककारवकार संयोगात् क्षः सूक्ष्म पूर्व आकारमुख पूर्व अनुस्वारः ताभ्यां संयुक्तं तेन ऐक्षां इति अत्रा पीच्छा विकल्पः तदस्त्राणि यथा | वज्रं शक्तिं दंडमासं पाशंमंकुशं गदां शूलं चक्रं पद्ममषा आयुधानि क्रमाद्विदुः | शितारक्तः शिताकाश विद्युद्रक्तमिताशिताः | कुरुविंद परैलाभा वघ्न्याद्याः परिकीर्तिताः || स्थानं स्वतंत्रे | चतुरस्रे लोकपालान् तदस्त्राने च तद्वहि | प्. ९५अ) मंत्रस्तु | स्वनामाद्यक्षरं उक्ति विमलातंत्रे | स्वनामाद्यक्षरं वीजं मंत्रालाभे प्रकीर्तितं | अत्र नित्यपूजायां यत्र लोकपाला पूजनं नास्ति तत्रानि दीक्षायां कर्तव्यमेव दीक्षायां सामान्यतो विधानात् | नित्यपूजायां तृयनास्तिने कर्तव्यं यत्र नास्ति तत्र नेतिदिक् | इति परार्चनत्वात् पुनर्मूलदेवीं पाद्यादिभि पूजयेत् | तदुक्तं स्वतंत्रे | पुनः षडंगं विन्यस्य ध्यानं कृत्वा विभाव्य च | संतर्प्य पूर्ववच्चैव पाद्यादिभिः पुनर्यजेत् || अथ पूजावाक्य विवरणं | यथा | पाद्यपात्रात् पात्रांतरेण तत्वमुद्रया पाद्यं गृहीत्वा एतत्पाद्यं स्वकल्पोक मंत्रमुच्चर्य श्रीअमुकदेव्यै नमः | इति पादयोर्दद्यात् | अर्घपात्रामृते न तत्व मुद्रया उत्सृज्य पाद्यमुद्रां प्रदर्श्य निवेदन मंत्रं पठेत् | निवेदन मंत्रास्तु वामकेश्वर तंत्रोक्ताः | गंधपुष्प समायुक्तं सुगंधि जलसंयुतं || पाद्यं गृहाण देवेशि सर्वकार्यार्थ सिद्धये | एवमर्घ्यं गृहीत्वा इदंर्घ्यं मंत्रं च अमुक देव्यै स्वाहा इति शिरसं दत्वा अर्घ्यपात्रामृतेनोत्सृज्यमुद्रां प्रदर्श्य निवेदन मंत्रं पठेत् | दुर्वा तंदुल संयुक्तं गंध चंदन चर्चितं | चतुर्वर्ग फलावाप्त्यै गृहाणार्घ्यं सुरेश्वरि || इदमाचमनीयं अमुकदेव्यैवं इति मुखे दत्वा मुद्रां प्रदर्श्य | सुवासित जलैर्युक्तंदुकूलैः परिशोधितैः | गृहाणा चमनीयं त्वं श्रीमत्रिपुरसुंदरि || अन्यदेवता पूजने अन्यनामग्राह्यं | इदं स्नानीयं अमुकदेव्यै नमः सुगंधि जलसंयुक्तं कर्पूरादि सुवासितं स्नानीयं देवदेवेशि गृहाण मम सिद्धये | एवं एक मधु पर्कः च मुखे दत्वा मुद्रां प्रदश्या दध्याज्य मधुसंमिश्रं सुरसं सुमनोहरं | मधुपर्कं गृहाणत्वं धर्मकामार्थ सिद्धये | पुनराचमनीयं तु आचमनीयवत् दद्यात् || एष गंधयं इति संमुख वच्छेदेन मध्यमानामुमिकाभ्यां अंगुष्ठाग्रेण सर्वांगं दत्वा मुद्रां प्रदर्श्य | चंद्र चंदन कस्तूरी रोचना गुरु कुंकुमैः | संस्कृतं सुरसैरात्रंकगंधमां कल्पयाम्यहं || एतत् पुष्पं वौषडिति पुष्पमुद्रया अंजलिना दत्वा मुद्रां प्रदर्श्य विचित्र ममलं रम्यं वासितं गंधवारिभिः | सुगंधि विकसत् पुष्पं मादरात् कल्पयाम्यहं | एष धूपः नमः वामे संमुखेंवा स्थापयित्वार्ध जलेनोत्सृज्य | ओं गजध्वनि मंत्रमान स्वाहा इति मंत्र पूजितां घंतां वामेन वादयन् धूपधारण मुद्रया त्रिवारं देवी सम्मुखे भ्रामयन् | वनस्पति रसोत्पत्रो गंधाव्यः सुमनोहरः | आघ्रेयः सर्वदेवानां धूपोयं प्रतिगृह्यतां || अथवा धूपयेद्धूपैर्मूलमंत्र पुरःस्सरैः | सुरभी मृतसंयोगोदुत्पन्नं गंधमुत्तमं || स कर्पूरासनं दिव्यं धूपमुन्मीलयान्यहं | प्. ९५ब्) एवं धूपं निवेदयामि इति दक्षिणे स मुखे वामे वा घृतवर्तिकाभेदेन संस्थाप्यार्घ जलेनोत्सृज्य मुद्रां प्रदर्श्य वामेनं घंटां वादयन् दीपधारण मुद्रया दक्षेण दीपमादाय त्रिवारं मस्तको परिभ्राम्य सुप्रकाशो महादीपः सर्वतस्तिमिरापहः | स वाह्याभ्यंतरं ज्योति दीपोयं प्रति गृह्यतां अथवां घृत संयुक्तवर्त्यद्धे प्रज्वलंतं निरंतरं | दिव्यदर्शन दातारं दीपं संदर्श याम्यहं | नैवेद्यं दक्षिणे वामे पुरतो मंडलं कृत्वा श्रीपात्रामृतेन संप्रोक्षाधारशक्तिः संपूज्य यथोक्तपात्रं ययो वलिभरितं संस्थाप्य अस्त्रमंत्रेणाभ्युक्ष्यमृतं यथाशक्ति जप्त्वा इदं नैवेद्य मंत्रं अमुकदेव्यै निवेदयामि इत्यर्जलेना उत्सृज्य मुद्रा प्रदर्श्य | हेमपात्र गतं रम्यं परमान्नं सुसंस्कृतं | पंचा वा षट् रसोपेतं गृहाण परमेश्वरी || अन्यत् सर्वं निवेदयामीति यथा संभव स्थाने दद्यात् | अलंकाराणि यथा योग्यांगं विभाव्यं दद्यात् | इदमित्यपि ज्ञेयं | इति नैवेद्यांतं संपूज्य होमं कुर्यात् | यथा शारदायां | एवं संपूज्य विधिवन्नैवेद्यांतं ततो गुरुः | दक्षिणे स्थंडिले कृतत्राधाय हुताशनं | संस्कृत्य विधिवद्विद्वान् वैश्वदेवं समाचरेत् | वैश्वदेव सर्वदेवी विश्वशब्दस्य सर्वनामत्वात् || श्रीपूर्णानंदकृता गुरुभावतः कुलवृत्तौ स्वतंत्रायां पटलोष्टादशः स्मृतः || अथ तांत्रिक कुशंडिका || होमावामासु संस्काराधीनत्वात् तत्संस्कार विवरणं | तदुक्तं कुलोड्डीशे | आदौ कुंडस्य संस्कारानष्टादश च कारयेत् | मूलेन वीक्षणं कुर्यादष्टस्त्रेण प्रोक्षयेद्वुधः || तेनैव ताडन दर्भे ब्रह्मणाभ्यक्षणं मतं | प्रोक्षणं नाम उत्तान हस्ते जल विक्षेपः || स ए जल विक्षेपः तिर्यक् चेदभ्युक्षणं तथा च स्मृतिः | उत्तानेन तु हस्तेन प्रोक्षणं समुदाहृतं || तिरश्चाभ्युक्षण. प्रोक्तं * * * * * * (?) खननं मृतिदोद्वारः शरमंत्रे पूरणं | हृदाय जलास्त्रमंत्रेण समीकरणमेव च | खननमिति तद्दिने कुंड खनन पक्षे पूर्वखनित कुंडात् एत्तनि मनसा विभाव्यानि इति सांप्रदायिकाः | केचित् कृत कुंडस्यैव शोधन. | वीक्षणादपि कृत कुंडस्य शुद्धत्वात् अनुत्यस्य स्वरूपो भावादिति वदंति | वयं तु वीक्षणादि खननांतं कुंडभूमेव च शुद्धः | प्रथमतः तदनु चतुः संस्कार संस्कृते स्थाने कुंडविधानादेव कुंडशुद्धिः | अशुद्धस्थानत्वात् | तेन चतुर्णां पूर्वांगता खननस्य उत्पादकता शून्ये मपरां गता इति क्रमः | पूरणं क्षुद्रगर्तादि पूरणार्थं समीकरणं दत्त मृत्तिकाया हस्तादिना चालयित्वा निम्नोन्नता खंडनार्थं | सेवनं कवचेनैव हेति मंत्रेण कुट्टनं | प्. ९६अ) सेचन स्थूलमुद कोमलतार्थं कुट्टनं मृदस्ताडनं दृढीकरणार्थं मार्जनं छूममंत्रेण ततः कुर्याद् विलेपनं | मार्जनं अलक्त मृत्तिंकादृढीकरणार्थां विलेपनं तु गोमयोदकेन | सोमसूर्यनलानां च कलास्ते नैव कल्पयेत् | त्रिसूत्रीकरणं चैव स्तन्मंत्रेण प्रपूजयेत् || सोमेत्यादि तेजस्त्रितयकलाः अष्टत्रिंशत् तदभेदभावनं तेनैव वर्त्मना त्रिसूत्रीकरणं गुण त्रयात्मकसूत्रेण त्रिधा वेष्टनं इति भद्दमतं | केचित्तु त्रिकोणं विलिख्य तत्र पूजयंतीति | मार्जनादीनां मंत्रः कूर्चं तदुक्तं सोमशंभुना संमार्जनं समालेपं कलारूप प्रकल्पनं | त्रिसूत्रीकरणं चैव वर्मणाभ्यर्चनं हृदा | शारदायां च | कुट्टनं इति मंत्रेण वर्म मंत्रेण मार्जनं | विलेपन कलारूपं कल्पनं तदनंतरं || त्रिसूत्रीकरणं पश्चाधृदयनार्चयेनं मतं | इति | वज्रीकरण मंत्रेण हृन्मंत्रेण ईशैः शुभैः | चतुष्पथ भागरूपं नयने नाक्षपाटनं वज्रीकरणं दृढता भावनं केषां चिन्मते वज्रमुद्रादर्शनं | सन्यासिवां तु षट्त्रिंशदर्भैरस्त्र मंत्राभिमंत्रितैः | प्रादेशमात्रं कृत्वा कुंडमध्ये रेखात्रयं कुर्यादिति वदंति | कुशैरिति पूर्वाग्रैरुत्तराग्रैरुर्द्धाधो भावितै कुंडमध्ये स्थापितै चतुष्पथं भागरूपं समभागरूपं कुर्यात् | चतुष्पथ मध्ये आवसत्यं प्राच्यां सत्यं पश्चिमे आहवनीयं दक्षिणे अन्नाहार्यं सोमेगार्हपत्यं भावयेत् | तदुक्त मुड्डीशे | आवग मध्यभागे प्राच्यां सत्यं तु पश्चिमे | आहवनीयं ततोन्नाहार्यं दक्षिणदेशतः गार्हपत्यं च मंत्रज्ञो भावयेद् भागमित्यपि | अक्षपाटलमिति अक्षपदेन इंद्रियाणि उच्यंते | इंद्रियान्नाशतिरित्यर्थः पटधातोर्गन नार्थत्वात् | इंद्रियाणि संतिति याअत् | इति केचित् | विष्टरास्तरणार्थं तु मूलमंत्राभिमंत्रितं | द्वादशांगुल तीर्थं अक्षपाटं प्रकीर्तितं | इति केचित् तु सांप्रदायिकायास्तुक्षपायामटनं यस्य समक्ष पाटनः राक्षस इति यावत् न विधतेक्ष पाटनो रक्षेशो यत्र कुंडे तदक्ष पाटनं रक्ष शून्यत्वभानं कुर्यादित्यर्थः | शारदायां तु तन्नात्रनत मुद्रया दक्षपाटनं | मंत्रद्वैधे इच्छाविकल्पः | एतदशक्तौ चतुसंस्कारेण शोधयेत् | तदुक्तं शारदायां अथवा तानि संस्कुर्याच्चतुर्भिर्वाक्षणादिभिः | इत्यष्टादश चतुःसंस्कारः | कुंडाशक्तौ स्थंडिले होमः | अथवा स्थंडिले होमं कुर्यात् साधक सत्तमः अंगुष्ठ मध्यमा छेदं वायुकामयमंडलं | चतुरस्रं हस्तमानं योमयेनोपलेपितं | शोधयेत् कारयेत् स्थानं वीक्षणादि चतुष्टयैः | प्. ९६ब्) इति नीलतंत्रे | पुनरीक्षण मंत्रेण कुंडशुद्धिरुदाहृताः | यथा | मूलमंत्रेण कुंडानां वीक्षणं कुंडसंस्कृतिरिति अत्र सांप्रदायिकाः वीक्षण पदेन वीक्षणादयः अष्टादश संस्कारा उपलक्षिताः एकसार्थ वाहित्वा एकवाक्य तालाघवाच्च | केचित्तु शक्ताशक्त भेदेनाष्टादशश्चत्वारः एको वा संस्कारः ** (?) संस्कृति कवचने | पादानात् दिति वदंति इति संस्कृतयः | नवकुंडपक्षे आदौ आचार्य कुंडे चतुःकुंडी पक्षे आदौ चतुरस्रे एककुंडीपक्षे तस्मिन्नेव | एव संस्कृत्य द्रव्यासादनं कुर्यात्तानि तु शुद्धिं धनव्यजने प्रणीता प्रोक्षणी वह्न्याधार स्वर्णादिपात्र ताम्रादि घटित पात्रै पात्राणि श्रुक्स्रुवौ आद्यस्थाली चरुस्थाली अगर्भ दर्भमुष्ठि प्रादेश दशकुशपत्र चतुष्टव्यं दर्भाष्टमित् षट्कं ब्रह्मग्रंथियुतैः स्त्रिभिः पंचभिर्वाघटिता जुटिका कूर्चः प्रादेशमात्र स ग्रंथि कुशपत्र द्वयं परिधि त्रयं प्रच्य घृतं कल्पोक्त होमद्रव्यं गंधाधुपचाराः | वलिद्रव्यं कुश सहितोदक पात्रं एतान्यासादनीयानि | शारदायां तिस्रः तिस्रो लिखेल्लेखा हृदा जप्रागुदग्रजाः | प्रागरणां स्मृता देवाः मुकुंदेश पुरंदराः | रेखानां उदगग्रिणां ब्रह्म वैवस्वतेंदवः || अथवा षट्कोणावृतं त्रिकोणं तत्र संलिखेत् | सर्वाण्युभ्युक्ष्यतारेण योगपीठ मथार्चयेत् || तत्र रेखानां देवता निरूपणां पूजार्थं तेन क्रमेण त्रिषुत्रीं स्त्रीन् देवान् पूजयेत् | ओं मुकुंदाय नम इत्यादि | अथ चेति | अत्र वा शब्दो विकल्पेन समुच्चयोक्षयोरुभयोश्चापि त्रिकोणं शक्तिमालिखेत् | इति लघुदीपिका दर्शनादिति वदंति | तत्र रेखा पक्षे त्रिकोणं नास्त्यैव कथमुभयपक्षे त्रिकोणं उभय पक्षत्वं पुनः | योगपीठ मंडलमावश्यकं | शक्तश्चद्वेखां कुर्यात् | देवताः पूजयेच्च अशक्तश्चेत् न कुर्यान् न पूजयेत् | कुलोड्डीशादौ उभयस्यैव लिखनं | यथा रेखात्रयं सुधीः कुर्यात् पश्चिमात् पूर्वदिग्गतं | प्रादेशमात्रं विज्ञेयं मुक्तं देसेंद्ररूपकं | हृदये नैव मंत्रेण दक्षिणादुत्तरावधि || रेखात्रयं तथा ब्रह्मवैव स्वतेंद्ररूपकं | लेखनीं निःक्षिपेत् तत्र तर्जन्यंगुष्ठ योगतः || रष्ठस्तासां समुद्धृत्य प्रोक्षयेत् प्रणवेन तु | योगपीठं च सिंदूर कर्पूर कुंकुमेन वा || ध्यानष्टेनत वा मध्ये चूर्णेया वा हरिद्रयां | त्रिकोणं चैव षवके * * * * * * (?) पुरं द्वार संयुते लिखित्वा वाल पुष्पं च तन्मध्ये च विनिक्षिपेत् | ज्ञानार्णवे च | अत्र वेल्लेखनं तत्र त्रिरेखात् पश्चिमात् प्रिये | पूर्वाग्र विलिखेत् पश्चास्तिस्रो रेखा * * * * (?) || तत्तराग्रास्ततो देवि लेखनी तत्र संलिखेत् | प्रोक्षणं च ततः कृत्वा सिंदूरेण ततः || कुंकुमेनाथया देवि कर्पूर रजसापि वा | चूर्णेन वाहरिंद्रायाधान्यं पृष्टेन वा प्रिये || प्. ९७अ) त्रिकोणं चैव षट्कोणं वसुपत्रं समालिखेत् | चतुरस्रं चतुर्द्वारभेदं मंडलमालिखेत् || मध्ये पुष्पं विनिक्षिप्य त्रिपुरेश्या वरानने | तस्मात् समुच्चा * * * * (?) यार्थ एव वा शब्दः || ज्ञानार्णवोक्त ततः परमिति वाक्ये स्पष्टीकृतः रेखारेखा करणात् परमित्यर्थः | अन्यथा वह्निपूजाया मंडलाभावः | रेखा सु मुकुंदादि पूजा विधानात् | वियुक्त विनियोग विरोधात् | शक्तिमिति मायावीजमिति यावत् | कामेशी योगपीठं यथा | उड्डीशे | उपर्युपरिभेदेन पीठं तत्र प्रपूजयेत् | मंडूकं पूजयेत् तत्र माधारं कूर्म शूकरान् || पृथिवीं कंदनाले च पद्मकर्णिक केशरान् | धर्मादींश्चाप्य धर्मादीन्दिक्षु पूजयेत् || अष्ठपत्रेष्वष्ट शक्तीः पूजयेत् पूर्वदि क्रमात् | मोहिनी क्षोभिनी चैव वशिनी जंभिनी तथा || आकर्षिणी द्राविणी वह्लादिनी सप्तमी तथा | क्लिन्नाष्टमी सर्वमध्ये सुंदरी पक्षे कामेश्वरि कामेश्वरौ | अन्यत्रयं वागीश्वरी पीठपूजा यथा | शारदायां | मातृकोदीरिते पीठे वागीशी मर्चयेत् सुधीः | मातृकापीठं तत्रैव आधारशक्ति पीठमत्यंत मर्चयेत् | मेधा प्रज्ञा प्रभा विद्या श्रीधृतिः स्मृति वुद्धयः विद्येश्वरीति संप्रोक्तास्तवाद्या नव शक्तयः | वर्णाब्जेनासनंदद्यान्मूर्ति मूलेन कल्पयेत् | रक्ताब्जौ ह्सौरिति वीजं सर्वत्र मुक्तमातृका पीठे मध्यस्थित वीजमिति यावत् | पीठवीजै वामे मेदौ वसनां तु कर्णिकमित्यादि तारापूर्णश्लोकः प्रयोगः | ओं ह्रीं कामेश्वरी कामेश्वर योगपीठाय नमः | ह्यौ वागीश्वरी वागेश्वर योगपीठाय नमः | मूर्ति ** (?) कुलोड्डीशे | कामेश्वरीं महाप्रौढां नीलेंदीवर सन्निभां | कामेश्वरेण संयुक्तं ध्यात्वा पाद्यादिभिर्यजेत् || शक्तिवीजेन कामेशीं कामेशं मध्यदेशतः | वालाया इत्यर्थः | वागीश्वर मंत्रस्तु वदवदेत्यादि दशाक्षरः | प्रयोगस्तु सौः कामेश्वरीं क्लीं कामेश्वरी पापू | वदेत्यादि १० वागीश्वरीभ्यां नमः इति संक्षेपः स्वीकुर्वंति | * (?) डाद्रा विडास्तु विस्तारतः तत् तत्कल्पोक्त स्वीकुर्वंति | उड्डीशे | श्रोत्रियागारजं वापि सूर्यकांतो भद्भवार्णवा | अवनी संभवापि क्षिप्तं स्वर्णादि भाजने | गौतमीये | पाषाण भवमग्निं च यदि वा वा न संभवं श्रोत्रियानागेहं च वनस्थमथ वाहरेत् यदिच्छालाभ संप्राप्तो अयोग्यो यागकर्मणि | निरग्नि ब्राह्मणालुब्धो अर्द्धलानरवो भवेत् क्षत्रालुब्धे चतुर्थाशं फलं दद्याद्धुताशनः | वैश्य शूद्रा च विफलं जायते होमकर्मवित् | वह्नियुक्तं समाहरेत् | उड्डीशे | तस्मात् समादत्य किंचिद् वह्निवीजे साधकः चतुःसंशुद्धं अवगुल्यं ततः परं | दशदिग्वंधनं कृत्वा धेनुमुद्रां प्रदर्शयेत् | कूर्चास्त्राद्यांश्च नैरृत्यां क्रव्यादां संपरित्यजेत् || प्. ९७ब्) कुर्चास्त्राद्यां युक्तेन मंत्रेणेत्यर्थः | लघुदीपिकायां | अस्त्रेणाग्निं समादाय कवचेन विधाय चक्र व्यादांशं तु तेनैव नैरृत्यांदिशि निःक्षिपेत् | समादा वह्निस्थानां निधाय स्वर्णादि पात्रे इत्यर्थः शारदायां सूर्यकांतादि संभूतं यद्वा श्रोत्रियाग्रजं | आनीय वह्निं पात्रेण क्रव्यादां संपरित्यजेत् | क्रियासारे च | श्मशादा वाम मांसमंतियो वह्निरुंच्यते | क्रव्यादतस्तस्य नाम स्यांत्यजेत् किंचिद्धुतारानात् | ज्ञानार्णवे च | संपुटादाग्र दंडं तु हूंफडांत न संत्यजेत् | क्रव्यादांशं कोणभागे रक्षसां वीरवंदिते || हूंफडंतेन मूलेन तदुक्तं गणेश्वरे | हूं फडंतेन मूलेन क्रव्यादाश परित्यजेत् || तत्रायं क्रमः उक्तस्थानात् | स्वर्णादि पात्रे फडिति मंत्रेनादाय ताम्रपात्रेणछाद्यानीय संपुटादोग्र दंडं प्रज्वलितं रक्षोदिशि हृमूलं हूंफट् इति मंत्रेण क्रव्यादांशं परित्यजेत् | अत्र कुत्रापि तंत्रमते | क्रव्यादांशं परित्यज्य वह्निसंस्कारः कुत्रापि संस्कारानंतरं क्रव्यादंशं त्यागः अत्रेच्छविकल्पः | अत एव वेदेपि क्रव्यादांशंमित्यादिनानि सिद्धः उड्डीशे | पश्चात् प्रज्वालयेद् वह्निं ज्ञानाग्निं संमर्य च | अदार्य वैष्टिवाग्निभ्यां भौमस्यैकं स्मरणवशोः | चैतन्यं वह्निवीजेन चैतन्यं पावके तदा | दीपाद्दीपांतरं न्यायात् स्फुरंतं सर्वतोमुखं || विश्वमार्गेण मनुवित् कवचेन ततोर्चयेत् | ज्ञानार्णवे | कामेश्वरीं कुंडमध्ये स कामामृत संयुतां | समावाह्य च संपूज्य तद्गर्भे वह्निमाहरेत् || इति सूत्रं विवरणमाह तत्रैव मूलविद्या नेत्र मंत्रात् सिद्धये च विलोकयेत् | अस्त्रमंत्रेण संपूज्य संपुटस्थं ततः परं | भ्रामयेत् कुंडपरितः स्त्रिधा दक्षिणतः क्रमात् || कुंडमध्यं प्रतिष्ठाप्य तद्गर्भ कामवीजं च वह्नि च मूर्तयेन न लिख्य मनुना पूजयेच्छुचिं | नाभिमंडल मध्यस्थं वहन्नाडी पुट क्रमात् | ज्ञानाग्निं वाह्य वह्निं च एकीकृत्य प्रपूजयेत् || पूर्वविधां समुच्चार्य आः सोहमिति चोच्चरेत् | वह्नि चैतन्यषुच्चार्य ङेंत हृन्मनु संयुतं || अनेन मनुना गर्भे कामेश्वर्या विचिंतयेत् | उड्डीशे | भूमौ जानुनी कृत्वा कूर्चवीजं च वह्नि च | चैतन्यं ङें नमों तस्यादनेनोत्थापयेच्छुचिं || शिव वीजधियास्तस्या योनौ वह्निं विनिक्षिपेत् | आत्मनोभिमुखं कृत्वा पूर्वोक्त मंडवास्तरे || कामवीजं समुच्चार्य वह्नि मूर्ति समर्चयेत् | वाला मंत्रं समुच्चार्य आं सोहमिति संलिखेत् || वह्नि चैतन्यमुच्चार्य ङेंतंसं हृन्मंत्र संस्मृतं | कामेश्वर्या गर्भदेशे वह्निमनेन भावयेत् || शारदामंत्र | संस्कुर्यात्तं यथा नामं देशिको वीक्षणादिभिः | अदर्पवैन्दवा श्रीभ्यां भौमस्यैद्यं स्मरन् वसोः || प्. ९८अ) योजयेद् वह्निवीजेन चैतन्यं परके तदा | तारेण मंत्रितं मंत्री धेनुमुद्रा मृतीकृतं || अस्त्रेण वायुतं कृत्वा तन्मंत्रेणावगुंठितं | अर्चितंत्रिः परिभ्राम्य कुंडस्यो परिसाधकः || प्रदक्षिणं तदातार मंत्रोच्चारण पूर्वकं | आद्वानाभिमुखं मंत्रं वह्निं जानु स्पृष्ठ महीतलः || शिववीजाधिया देव्यायोनानेनं विनिक्षिपेत् | पश्चादेवस्य देव्याश्च कुर्यादा चमनीयकं || अत्रायं क्रमः | क्रव्यादां संत्यक्त्वा मूलमंत्रेणमीक्षितं | अस्त्रेण प्रोक्षितमंत्रं अस्त्रेण कुशादिना ताडितं हूं वह्नि चैतन्याय नमः इति दक्ष हस्तां भूमित्यभ्युक्षितं वमिति धेनुमुद्रां प्रदर्श्य भूमित्यवगुंठ्य फडिति तालत्रयेण छोटिकाभि दिग्वंधनं कृत्वा नाभि संडनस्थ चैतन्यांग्निं भूमिति श्वासनासयासंक्रमयय क्लीं वह्नि मूर्तयेन म इति वह्निं संपूज्य वह्नि चैतन्याय नम इति दक्षिहस्तेन वह्निमुत्थाप्य ऐं क्लीं सौः आं सोहं वह्नि चैतन्याय नम इति कामेश्वरी गर्भोपरि वीर्यवुद्धा निक्षिपेत् | इति त्रिपुरा पक्षे सामान्ये पुनः शारदोक्त क्रमः तद्यथा | क्रव्यादांशं त्यक्त्वा चतुः संप्रतं वह्नि कृत्वा अदर्प भौमग्नोरैक्यं विभाव्यश्वासनासया वमिति वह्नौ चैतन्यं संयोज्य ओंमिति सम्मंत्र्यरमिति धेनुमुद्रयामृती कृत्य भूमित्यवगुंठ्य फडिति तालत्रय छोटिकाभि विम्वंधनं विधायरं वह्नये नमः इति संपूज्य दक्षेणादाय प्रादक्षिण्येन त्रिःपरिभ्राम्यात्वानाभिमुखं कृत्वा कुंडमध्ये कॢप्त मंडले ओंमिति मंत्रेण शिववीज वुद्धा वागीश्वर्या योनौ निक्षिपेत् | ततो देवाय देव्यै * (?) स्नी माचमनीयं दद्यात् | शारदातंत्रे | क्रान येन तु नानेनतमग्निमथ देशिकः वित्पिंगल हनदहपठयुग्म मुदीर्य च | सर्वज्ञ ज्ञापय स्वाहा मंत्रोयं प्रागुदीरितः | उड्डीशे | आदौ व्याहृतिभिः पाश्चाद् वह्निमंत्रं च वर्तुलं | चित्पिंगल हनद्वंद्वं पठद्विधा | सर्वज्ञा ज्ञापय स्वाहा वह्नि पक्षनयेत् सुधीः | शुष्क काष्ठादिना | मानवद्धौ समौ कृत्वा करौ तु प्रसृतांगुली | मध्यमे मिलिते कृत्वा तन्मध्येंगुष्ठकौ क्षिपेत् || इमां च ज्वालिनी मुद्रां दर्शयेत् साधकोत्तमः | क्रियासारे च मनुवुद्धौ स्थिरौ कृत्वा प्रसृतांगुलिकौकरौ | कनिष्ठांगुष्ठ युगलं मिलित्वांतः प्रवेशयेत् | सप्तजिह्वाख्य मुद्रेयं वैश्वानरप्रियंकरी || इति मुद्राध्द्वेधे इच्छाधिकल्पः | उड्डीशे अग्नि प्रज्वलितं वंदे जातवेदं हुताशनं | सुवर्ण वर्णममलं समिद्धं सर्वतो मुखं | उपस्थानं विधायेत्थं मनुना पावकं सुधीः || प्. ९८ब्) शारदामप्येवं | उड्डीशे प्रादेशमात्रं समिधं सूना प्रघृत संयुतं | तूष्णी वह्निं समुक्षिप्य जिह्वायां देवता न्यसेत् | शारदायां विन्यसेदात्मनो देहे मंत्रै जिह्वा हविर्भुजः | लिंगं पाद्म शिरोमंत्रा घ्राण नेत्रेषु सर्वतः | वह्नी वाग्मीश संयुक्ताः सादियांताः स विष्णवः || वह्नेर्मंत्राः समुदिष्टो जिह्वानां सप्तदेशिकैः | जिह्वाम्ना स्त्रिविधाः प्रोक्ताः गुणभेदेन कर्मसु || हिरण्या गगना रक्ता कृष्णान्या सुप्रभामता | बहुरूपा तिरिक्ता च * * * (?) याग कर्मसु || पद्मरागा सुवर्णान्या तृतीया भद्रलोहिता | लोहितानंतरं श्वेता धूमिनी चरवालिका || राजसो रजसा वह्नेर्विहिता काम्यकर्मसु | विश्वमूर्ति स्फुलिग्नड्यंग्नौ धूम्रवर्णामनोयथ्वा || लोहितान्याकरं लाख्या कालीतामस्य ईरिताः | एताः सप्तसमुद्यतै क्रूरकर्म स मध्यमाना मंत्रिभिः स्वस्वनाम समाभाष्युः जिह्वा कल्याणरेतसः | अमर्त्य पितृगंधर्व यक्षनागा पिशाचकाह् | राक्षसाः सप्तजिह्वानामीरिता अधिदेवताः || वह्नीत्यादि | वह्नीरेफः इरावायुः यः | अर्घाशो दीर्घाकारः एतैर्युक्ता सादि यांता स विंदवः | विंदुनादकलाभिर्युक्ताः तेन स्त्र्यूंष्ट्र्यं श्र्यू व्यूं न्यूं श्रां यप्रां एतानि सप्तवीजानि एकैक वीजानामंते एकैक जिह्वा नाम प्रयोक्तव्यं तदुक्तं ज्ञानार्णवे | क्रमेण जिह्वा राजांतेनामानि परिपूजयेत् | उड्डीशमते जिह्वा देवता न्यासः | शारदादिते जिह्वान्यासः | केचित् तु द्वादशमानंति | केषां चिन्मते | ज्ञातदेवताकानां जिह्वानां न्यासः मन्मते उभयत्र न्यासेदिति श्रवणादेक वाक्यता लाघवात् | एक एवन्यासः | जिह्वानामेकदेवतानाम्नारेकदेवतामुखः प्रयोगस्तु त्र्यु अमर्त्य देवता कायै हिरण्यायै नमः स्त्र्यं पितृदेवताकायै हि व गगनायै नमः श्र्यं गंधर्व देवतायै न रक्तायै नमः व्यंगक्ष देवताकायै नमः | त्र्यं नागदेवतायै सुप्रभायै नमः | र्यपिशाच देवताकायै वहुरूपायै नमः हूं राक्षस देवताकायै प्रतिरक्तायै नमः | एता सत्विक्यः तांत्रिक नित्य होमो श्रूं अमर्त्य देवताकायै पद्मरागायै नमः | इत्यादि सप्ततांत्रिक काम्य कर्म सुविहितादौमे | स्प्रूं अमर्त्य देवता कायै विश्वमर्त्यै नमः | इत्यादि तांत्रिक विदुषोच्चाटमारणेषु विहित होम शारदायां वह्नेरंगमनुः न्यसेत् | तनावुक्तेन वर्णना सहस्रार्चिः स्वस्ति पूर्णतुष्ठिस्तु पुरुषः पुनः | धूमव्यापी सप्तजिह्वा धनुर्द्धर इति क्रमात् | षडंगमंत्रः प्रोक्ता | जातिभिः सहसंयुताः | ज्ञानार्णवो वह्नेर्देह षडंगानि योजयेत् सुरवंदिते | प्. ९९अ) सहस्रार्चिवह्नेरंगमनुन्यसेत् | स्वस्तिपूर्णतुष्ठिष्ट पुरुषस्तथा | धूमव्यापीं सप्तजिह्वा धनुर्द्ध सुदाहृतः | चतुर्थ्यंतान् षडंगेषु योजयेत् कमलेक्षणे | प्रयोगस्तु सहस्रार्चिषे हृदये नमः | उक्तेन वर्त्मना हृदादिषु तत् तन्मुद्राभिरित्यर्थः | स्वस्ति पूर्णाय शिरसे स्वाहा उत्तिष्ठ पुरुषाय शिखायै वषट् धूमव्यापिने कवचाय हूं सप्त जिह्वाय नेत्रत्रयाय वौषट् धनुर्द्धराय अस्त्राय फट् यद्यपि | शारदादि मतेनश्च वषोल्लेखादेत एवनर्तव्याः अस्य भृगु ऋषि छंदो गायत्र्याग्निस्तु देवतावीजं शक्तिश्चरं स्वाहा ऋष्यादीन् पूर्ववन्यसेत् | इति क्रियासार वचनात् | ऋष्यादिकर षडंग जिह्वामूर्तिन्यास व्यापकन्यासाः क्रमेण कर्तव्याः अथ करन्यासः | मूर्तिन्यासस्तु पश्चाल्लिख्यते | व्यासकोपि मूलेन पश्चाद् वक्ष्यमानेन | तेनावुक्तेनति शारदा वचनमे तदनुसारेण व्याख्यात उक्तेन वर्त्तवर्त्मना आदौ ऋष्यादिन्यासः | पश्चात् करन्यासः न्यास प्रस्तावे उक्तेनेत्यर्थः | सूत्रास्थानानीति तत्प्रसिद्धानीति | सहसंयुताः | इति षडंगन्यासः | उड्डीशे | अष्टमूर्तिं न्यसेत् पश्चात् प्रणवाद्येन वै क्रमात् | अग्निना सह सर्वत्रमाहुविर्जातवेधसं || सप्तजिह्वं हव्यषाहमश्नोदरं प्रविन्यसेत् | वैश्वावरं च कौमार तजसं तदनंतरं || विश्वमुखं देवमुखमेषु स्थानेषु विन्यसेत् | मूर्द्ध्निदारांशकेचैव तथा पार्श्वकठौ तथा || वामपादौ तस्य देशे पार्श्वं शक्तमतो न्यसेत् | शारदायां | ततोग्नये यदाद्यांस्पुर्नह्वंत वह्निमूर्तयः ओं अग्नये जातवेधसे नमः इत्यादि प्रयोगः | ज्ञानार्णवेमते | आदौ षडंगन्या स मात्रं कुर्याद्यथा | उड्डीशादि मते आदौ जिह्वान्यासः तदंनु मूर्तिन्यासः अत्र संप्रदायः शरणं | तत्रापि क्रमेनैव ऋष्यादि करषडंग जिह्वामूर्ति व्यापकन्यासाः प्राणायामः प्रदर्पिताः | क्रियासारे अस्य भृगुरिषि छंदो गायत्र्या देवता | वीजं शक्तिश्चवं स्वाहा ऋष्यादीन् पूर्ववन्न्यसेत् | पूर्ववद्दीक्षा पटलोक्त क्रमवदित्यर्थः | जिह्वाकर षडंगं मूर्तिन्यासः प्रागेव प्रदर्शिताः व्यापकस्तु मूलमंत्रेण मंत्रोद्धारस्तु पाठात् | शारदायां | आसनं कल्पयित्वाग्ने मूर्ति मूलेन कल्पयेत् | मासनं पीठं तद्यथा शारदायां वह्निपटलं | स्वमंडलांत प्रजयेत् पीठं मन व शक्तिकं | पीताश्वेतारुणा कृष्णा धूम्रा तीव्रा स्फुलिंगिनी | रुचिरा कालिनी प्रोक्ता क्वशालोर्णव पक्तयः | स्ववीजनासनं दद्यान् मूर्तिमूलेन कल्पयेत् | स्ववीजेन वमिति वीजेनेत्यर्थः | रं वह्निमंडलाय योगपीठाय नम इति पीठं संपन्न मूलेन ओं वैश्वानरेनादि वक्ष्यमाणेनेत्यर्थः | प्. ९९ब्) ध्यान यथा शारदातंत्रेनेष्ट शक्तिं स्रस्तिराभीतिश्वरैदीर्घैर्दोर्भिधारै षडंगं जवाभिर्हेमाकल्पं पद्मसंस्थं त्रिनेत्रं | ध्यायेद् वह्निं वद्धमौलं जटाभिः | होमसारेव | त्रिनयन मरुणाभंवद्धमौलिं सुशुक्लां सुकममलमनेकाकल्पसंतेजसंस्थं | अभिगहवरशक्तिं स्वस्तिराभीति शुच्चैद्दीर्घैर्दोर्भिधीरयंतं जवाभं | हेमाकल्पं पद्मसंस्थं त्रिनेत्रं हस्तं नयनकमलमालां कृतांगं हुशानुं | त्रिपुराहारेव ततः सप्तहस्तं त्रिपादं द्विशीर्षं चतुर्भिर्विषानैस्त्रिधावद्मध्यं | पिषंगैयुतं नोवलैस्तर्कसंखौर्विनासंवटंतं चतुःश्रोत्रमग्निं रक्तांवुजस्थं | शुवलंवितै कपादं च * (?) ष्टेन गतं वृषेंद्रं | सु संमुखे दक्षिणगैश्चतुर्भिर्वाहुमैस्त्रिभिरप्युत्येतां | शक्तिं वज्रं श्रुक्सुवौ सव्यहस्तेर्वामैर्हस्तेस्तोमरं तालवृंतं | सर्पिः पूर्णं तप्त सौवर्ण वर्णं | पात्रं शश्वत् स जिह्वां दधानं | विस्तारोपासने | वंधूक पुष्पसंकाशं सु तप्त कनकप्रभं | पद्मस्थं यजमानार्थं वदनद्वय शोभितं || सप्तछंदोमयं देवं विमानो परिसंस्थितं | त्रिधा नीरं त्रिपादाब्जं हव्यकव्य विनाशकं || ब्रह्माध्वर्युद्दवाप्तहोत्व चतुः शृंगी विराजितं | पंचरात्रं पाशुपतं कानिनं च महामतं || वौद्धं वैदिकमित्ये तत् षट्पिंगललोचनं | वेदार्थं च चतुःश्रोत्रंश्चैत्र शास्त्रमयध्वनिं || स पाप न जटावद्धमनि कोटी जवावरं | हेमालंकार संयुक्तं हेमकुंडलमाश्रुतं || रक्तांभोरुह मध्यस्थं स्वस्तिकासन संस्थितं | पृष्ठदेश समालंवितार्तीय वरणांवुजं || सदा शब्दाय मानं च राजमानं स्वतेजसा | शक्तिं वज्रं श्रुक्स्रुवौ च चतुर्भिर्दक्ष वाहुभिः || तोमरं तालवृंतं च सौवर्ण मृतपात्रकं | वामैस्त्रिभिर्वाहुभिर्दधानं रक्त वाससं || हिरण्या कनका रक्ता कृष्णा दक्षानने स्थिता | सुप्रभावातिर्क्ता वहुरूपा च जिह्विका || इमावसंगास्तं वा मदने सर्वमास्थिताः | एताभि सर्वजिह्वाभिरूपेतं पाटिताननं || इति ध्यानं क्रमेण वह्नि मूर्ति संकल्प्य परिस्तरेत् | कुलोड्डीशे एवं विन्यस्तदेहः सन् परिस्तरणमाचरेत् | आत्मादरेण संश्रोम्य मध्यस्थमेखलोपरि | उत्तरानं पूर्वदेशं पूर्वाग्रं दक्षिणे ततः उत्तरानं पश्चिमे तु प्रागग्र उत्तरे तथा मूलमाहादितं कृत्वा त्रिवारं तु परिस्तरेत् | तस्योपरि सिवोंडायस्पृध मंत्रेण साधकः | शारदायां | दर्भैवगर्भैर्मध्यस्थमेखलो परिसंस्तरेत् | त्रिपुरासारे च | पूर्वाग्रैरुदगाग्रैश्च परिस्तरेदथ सम्यक् | एकमेखल कुडेनिशितधीर्मेखलाधस्तात् || परिस्तरेद्विमेखले द्वितीयमेखलोपरिद्वितीयमेखले तु मध्यमस्थमेखलोपरि | स्थंडिल कोणरतानां वाह्यविर्न्यसेत् | परिन्यसेत् | प्. १००अ) शारदायां निक्षिपेत् परिधीन् प्राचीवर्जं गुरुत्तमः | कात्यायनः परिधान् परिदध्यादित्यार्द्राने कुवृक्षीयान् वाहुमात्रान् | पलाशवैकऋंत काश्मिर्य वैल्वान् पूर्वलाभेर्हुतवान् खादिरो दुंवरान् मेखला सा नाब्धेति | शारदायां | प्रादक्षिण्येन संपूज्यास्तेषु ब्रह्मादि मूर्तयः | ब्रह्मादीति ब्रह्मवैवस्वं सेंदूनित्यर्थः | प्रकृतरेखाया पूजायामुपस्थितत्वात् | अनुपस्थित आदिशब्द योगात् | तेन ब्रह्माविष्णुमहेश्वरानिति | व्याख्यानं निरस्तं | चंद्रायै ङेंतलोहिता कृष्णायै नमः | इल्वेष मनुनिरृतिकोनके | यूं युक्तात्मान् वर्णायैश्वेतायै तदंतकं | सुप्रभायै नम इति मनुः पश्चिम कोणके म्लूं मंत्रेण पद्मवर्णायै रक्तायै तदनंतरं | धूमिन्यै नम इत्येष मनुर्वायव्य कोणजोनरे | व्यूं चंद्रकोटि शब्दांते वर्णायै तदनंतरं | वहुरूपा ततोंङेंतारौ भौनसततीरयेत् || दक्षिणोत्तरगा मध्ये क्रमेण परिपूजयेत् | दक्षिणोत्तरगा जिह्वां मध्ये षट्कोणस्य मध्ये पूजयेत्यर्थः | ध्यातं रतिं यजेन्मध्ये गंधं वैर्मनुनामुना | वैश्वानरजातवेद पदे पश्चादि हरेत् | लोहितास्यु पदस्यांते सर्वकर्माणि साधय | वह्निजायावधिः प्रोक्तो मंत्रः पावक वल्लभः | ज्ञानार्णवे | एवं वैश्वानरं चांते जातवेद इहावह | लोहिताख्य ततः सर्वकर्मानीति च साधया वह्निजायान्वितो मंत्रो वह्निं सम्यक् समर्चयेत् | जिह्वाः सप्त भवंति हि एवमेन समभ्यर्च्य तन्मुखे कमलेक्षणे | षट्कोणं चिंतयेत् तत्र सप्तजिह्वाः समर्चयेत् | वह्निं वायुं वामकर्णभूषितं नादविंदुना || अनेन योजयेद्देवि हृदेश रसनाः प्रिये | सरानादियकाकांतान् जिह्वाः सप्त भवंति हि || अथ जिह्वा प्रजाराज्यां | गणेश्वरेदिशादिकोणे युतयो जिह्वाः सप्त समर्चयेत् | सर्वत्र सुस्वरी जानासादौ वागु करिष्यते | वामीकरांते वर्णायै सरयूं तदनंतकः || पद्मराग द्वियां ङेंतां हिरण्यायै नमस्तुतः | ईशानकोणे वरयूं वैडूर्येति पदोपरि || वर्णायै च स्रुवर्णायै कनकायै नमो मनुः | इंद्रकोणे श्र्यूं मंत्रं च प्रोद्यदादित्य शब्दतः || वर्णायै तत्र शब्दांते लोहितायै ततः परं | रक्तायै नम इत्यकोणे यूंमिति वीजतः || इंद्रनील पदस्यांते | उड्डीशे | अनाग्निं समभ्यर्च्य तन्मुखे वासना यजेत् | इशादारभ्ययेद्कोणे मध्ये च साधकोत्तमः || केशरयुक्त मार्गेण पूजयेदंग देवताः | अष्ठपत्रेषु मूर्ति हूं विद्मेदिगीश्वरात् | आद्रानि च सहनि तत्वात् | शारदातंत्रे च | मध्ये षड्वपि कोणेषु जिह्वा ज्वालारुचो यजेत् | केशरेषुक्लमार्गेण पूजयेदंवता | प्. १००ब्) दंगेषु पूजयेन्मंत्री शक्ति साधकधारिनी | लोकपालास्ततो दिक्षु पूजयेदुक्त लक्षणान् || उड्डीशे पुनर्वैश्वानरं ध्यात्वा पूजयेत् साधकोत्तमः | प्रोक्षयेदर्घतो येन पात्राणि शुद्ध हेतवे | अत्र ज्ञानार्णवमिति षट्कोण मंडल पूजानंतरं द्रव्यासादनं | शारदादिमते स परिवार वह्निपूजानंत्रं | ज्ञानार्णवे | ततः शृंगादि पात्राणां परित्रीकरणं यजेत् | दधिदर्भाश्च दुर्वाश्च त्रिधा कृत्वा वरानने || आ * (?) स्थाली चरुस्थानीं स्थापये युग्मभेदतः | सुरं सुरं पुनः पश्चात् प्रणीत प्रोक्षणी युगं || द्वंद्वशः परमेशानि स्थापयाधो मुखानि च | अर्घपात्रस्थ मुदकं गृहीत्वा प्रोक्षणी यजेत् || प्रणीता पात्रोदकं गृहीत्वा प्रोक्षणीं स्थापयेदित्यर्थः | त्रिधा चोत्पवनं कृत्वा प्रोक्षयेत् तेन वारिणा | तानि सर्वाणि पात्रानि पवित्रीकरणं चरेत् || उन्मुखानि ततः कृत्वा वालया वाधि मंत्रयेत् | वालया श्रीविद्यायामेव अन्य तु मूलेनं || त्रिपुरासारे च | ततो वामभागे परिस्तीर्य दर्भान् त्र्यलोमजानि वल्लेभासा दिग्गताग्रान् तदूर्द्धन्यस्येद्वंद्वरूपा पत्रान्यथा वौणता सानि सर्वानिधीमान् | सौवर्णान्यपि राज्तान्यपि तथा पात्राणि सौकानि वा मुत्पात्रान्यपि शांतिकादिषु परं शस्तानि कर्मस्विव | सेलुकाद्रुमसिभ्रुरुह क्वतान्येतानि विद्वेषणोच्चाटौ सादन मारणादिषु भृशं शस्तानि पात्रान्यपि अथोक्तानि तेषु पात्रं जलैरेवमापूर्णतीर्थानि तत्र सुसंचिंत्यतैः प्रोक्षवेद्गर्भरुच्चै हृदा सव्यभागे स्थितं द्रव्यजातं | उड्डीशे संमुखानि ततः कृत्वा वालयाचाभि मंत्रयेत् | प्रणीता प्रोक्षणी युग्मे जलं पुष्पं विनिक्षिपेत् | श्रुवं चाधोमुखं कृत्वा शरेण क्षालनं चरेत् | श्रुचमासं शारदायां पश्चादादाय पाणिभ्यां स्रुक्स्रुवौतावधो मुखौ | त्रिशः प्रतापयेद्वह्नौ दर्भानादाय देशिकः तदग्र मध्यमूलानि साधयंते यथा क्रमात् | क्रमादिति दर्भाग्रेनाग्रंदर्भमध्येन मध्यं दर्भमूलेन मूलमित्यर्थः | गृहीत्वा वामहस्तेन प्ररक्षाय दक्षिन्.एनता पुनः प्रताप्यतो मंत्री दर्भानग्नौ विनिक्षिपेत् | आत्मनो दक्षिणे भागे स्थापयेत्तौ कुशांतरो आज्यस्थालीनामुदाय प्रोक्षयेदस्त्र वारिणा | तस्यामाज्यं विनिक्षिप्य संस्कृतं वीक्षणादिभिः | अन्यत्र पात्रे संस्कृतं अतीतार्थेकत्वात् उक्त प्रत्यस्य निरुध्य वायव्येंगावान् शाब्दा तेषु विनिक्षिपेत् | इदं तापनमुद्दिष्ठं देशिकैस्तंत्रवेदिभिः | निरुह्यं कुंडाद्धुद्धृत्य कुंड वायुकोणं स्थापयित्वा तेषु धृतस्थाली स्थापयेदित्यर्थः | संदीप्य दर्भ युगलमाज्येक्षिप्त्वा नले क्षिपेत् | गुरुहृदय मंत्रेण पवित्रीकरणं त्विदं || प्. १०१अ) संदीप्य संकल्पेत्यर्थः | दीप्तेन दर्भयुग्मेन निराज्यान्येन वर्त्मना | अग्नौ विनिक्षिपेद्गर्भमभिद्योतमीरितं || दीप्तेन ज्वलितेन स गुरुवर्मना कूर्चेन इत्यर्थः | घृत प्रजितवान् दर्भान् प्रदर्श्यास्त्रात्मना गुरुः || जातवेदसि विन्यस्येद्यूते तेन मिदं स्मृतं | गृहीत्वा घृतमंगारान् संयोज्याग्नौ जलं स्पृशेत् || तापनार्थस्यापितामाज्यस्थालीं संमुखे समानीयतान् | गारानाग्नौ विनिक्षिप्य जलं स्पृशेदित्यर्थः | दीप्तेन दर्भं युग्मेन उड्डीशे दर्भांगारान् क्षिपेदग्नौ वालमाज्यं स मंत्रितं | धूपं विस्तारयेत् सम्यक् कुंडमंडपूरितं | मेखला सुच सर्वासु दीपमालां प्रकल्पयेत् || स प्रादेशमगर्भां च ग्रंथमुक्तिं विनिक्षिपेत् | एतन्मते उत्पवन घृत संप्लवौ नस्त इति शारदायां || अंगुष्टोप कनिष्ठाभ्यां दर्भ प्रादेश सम्मितौ | धृत्वोन्युनीयादस्त्रेण घृतमुत्पवनं त्विदं || उभयोर्हस्तयोरंगुष्ठानामिकाभ्यां मूलाग्र लग्नयो दर्भाया स भयपार्श्वे धृत्वा दक्षो परिभावेन हस्त वैरित्येन | दर्भ मध्यतः यथा घृतं पतति तथा वह्न्याभिमुखं तथा वह्न्याभिमुखं विभजेत् | तद्वद्धिदय मंत्रेण कुशाभ्यामत्वदंमुखं | घृतेन संप्लवं कुर्यात् संस्काराः षडुदीरिताः || तदुदिति उत्पवनवत् तत्र वह्न्यभिमुखं अत्र आत्मसंमुखमिति भेदः | इति षट्संस्कारा विकृत्वा मूलमंत्रेण शोधयेद्यथा | श्रुतौ मूलमंत्रेण जप्तेनाद्येन जुहुयात् श्रीविद्यायां वालयाभिमंत्रणं अन्यत्र मूलेनेत्यर्थः | शारदायां च | प्रादेशमात्रं स ग्रंथि दर्भयुग्मं घृतांतरे | निःक्षिप्य भागौ द्वौ कृत्वा पक्षौ पूर्वापरौ स्मरेत् || शुक्लपक्षा वित्यर्थः वामे नाडीं मिडाभागे दक्षिणे पिंगलां पुनः सुषुम्नां मध्यतो ध्यात्वा कुर्याद्धोमं यथाविधि | श्रुवेण दक्षिणाभागादादायाज्यं हृदागुरुः | जुहुयादग्रहेत्पये दक्षिणलोचने | वामतस्तदुदादाय वामे वह्नि विमोचने | जुहुयादथ सोमाय स्वाहेति हृदयात्मना || मध्यमाज्यं समादाय वह्नेर्भाल विलोचनो जुहुयादग्नीषोमाभ्यां स्वाहेति हृदयात्मना | हृन्मंरेण श्रुवेणाज्यं भागादाय दक्षिणात् | जुहुयादग्नये स्विष्टि कृते स्वाहेति तन्मुखे || हेति संपादयेद्भागे आज्यस्याद्वाहुतिं क्रमात् | हेतिदा इति स्वाहा इत्यस्थाज्य भागेन स्वापदेन होमं विधाय हा इत्यंतभागेन भागे संपातस्य भागे प्रोक्षण आहूत पश्चा स्थापयेत् | श्रुवेण शेषं हस्तलग्नं वेत्यर्थः | तदुक्तं सोमशंभुना क्रमाद्भागः त्रयादाज्यं श्रुवेणादायसाधकः | प्. १०१ब्) स्वेत्यग्नौ हेति तद्भागे शेष माज्यं क्षिपेत् क्रमात् | शारदायां | इत्यग्नेर्नेत्र वक्त्रानां कुर्यादुद्घाटनं गुरुः | स ताराभिर्व्या हृदिभिराज्येन जुहुयात् पुनः || अथ श्रुवधारणं नारदीये | हीयते यजमानो वै श्रुवमूलस्य दर्शनात् | तस्मात् संगोपयन्मूलश्होमकालश्रुवस्य च || अग्रे व्याधिकरं प्रोक्तं मध्ये शोककरं स्मृतं | मूले हानि करं प्रोक्त श्रुवं धारयते कथं || वेदांगुलं परिस्कृत्यज्य अग्रे चैव द्विमुष्टिकं | वेदांगुलं तु तन्मध्ये धारयेच्छंखमुद्रया || होमसारे | मूलात् षडंगुलं त्यक्त्वा चतुरंगुलमेव वा | प्रकोष्ठे मूलमाच्छाद्य धारयेच्छंखमुद्रया || अथव्याहृतयः उड्डीशे | देव्या व्याहृति होमं च ताराधं न चतुर्हुनेत् | भूरग्नये पृथिव्यै च महते वग्निवल्लभा || श्रुवः पदा द्वयेवे च अंतरीक्षाय शब्दतः दिव्यामहत्ते चैव वह्निं जायावधिः स्मृतः | स्वरादित्य चंद्रमसौ ङांतौ न क्षप्दां ततः | तेस्यः स्वाहा पदांतश्च भूर्भुवस्वः पदं ततः || अग्न्यादित्य चंद्रमास नक्षत्रेभ्यः समन्वितं | अग्न्यादित्य पदं प्रोच्य निर्विभक्ति समन्वितं || चंद्रमसेनक्षेत्रेभ्यः दिन्न्पश्च महते च वै | महाव्याहृतयस्त्वेता सर्वशोदेवता मया || शारदायां च | जुहुयादग्नि मंत्रेण त्रिवारं देशिकोत्तमः | गर्भघोणादिका वह्नेः क्रियाणिवर्तयेत् क्रमात् || ज्ञानार्णवे | एवमग्निं च संपूज्य कामेशी गर्भसंभवं | दर्भकं कनमादाय करवंधस्व मूलमंत्रेण देवेशि चतुर्थ्यां तेन होमयेत् | गर्भाधानं विधायेत्थं सीमंतोन्नयनादिकं | मूलमंत्रो वह्निमंत्रः स तु वैश्वानरेत्यादि || शारदायां | अष्टाभिराज्याहुतिभिः प्रणवेन पृथक् पृथक् | गर्भाधानं पुंसवनं सीमंतोन्नयनं तथा अनंतवीजजात कर्मस्यानुपकरणं तथा | जपानिष्ठ मनं पश्चादन्न प्राशनमीरितं | चौडोपनयनं भूया महानाम्नां महाव्रतं || महानाम्नां इष्टदेव नाम्नां वह्नीनां महाव्रतं | समावर्तन तथोपनिषधं स्नानं पादानोष्ठात् हकौ मृतिः || मुभेयूं स्युर्विवाहांताः क्रियास्ताः क्रूरकर्मसु | मारणांताः समुदिष्ठाः वह्नेरागमवेद्रिभिः || उपनिधनं वेदावस्त्रः | उड्डीशे | इदमग्ने करोष्य दर्भाधानमिति क्रमात् | प्रणवं पूर्वमुभ्युक्ष्य शोषवह्नि वपुं वदेत् || हुत्वा सप्ताहुतीरेवं समिधां क्षपनं तथा संहोतं सप्तके समित् क्षेमकं मिलित्वा अष्टातिरिति शार्दा वचनेन वाक्यता एवं क्रमात् पुंसवनं सीमंतोन्नयनं तथा | जातकर्म समाप्याथ मलापनोदनायच | प्रादेशमात्रं समिधं मूलाग्र घृतसंयुतं || ओंकामेश्वरार्चकामेशीभ्यां स्वाहेति विनिक्षिपेत् | ऊर्द्धविद्या पक्षे कामेश्वरादि सामान्यं पुरावागीश्वरवानी पुरीभ्यां स्वाहा | प्. १०२अ) इति वह्नेश्च पितरौ मंत्री स्वदेहे विनियोजयेत् | एतान्यते जातकर्मानंतरं | शारदामते तु सर्वसंस्कारानंतरं वह्निसेक विसर्जनं | इति संप्रदाय भेद व्यवस्था | इष्टदेवस्य नाम्ना तु वह्नेर्न्नाम समाचरेत् | तूर्णायागे च | आद्याहुत्यष्टकं हुत्वा नाम कर्म समाचरेत् | देशिकस्त्वमुकोसीति मूलमंत्रेण कल्पयेत् || क्रमाजिह्वांगमूर्तीनां मंत्रैर्होमं समाचरेत् | वह्नेः षडंग मंत्रेण पुरोडादिति समाचरेत् || शारदायां च | समिधः पंच जुहुयात् मूलाग्र घृतसंप्लुता | मंत्रैर्जिह्वांगमूर्त्तीनां क्रमाद् वह्ने यथाविधि || प्रत्येकं जुहुयादेकामाहुतिः तंत्रवित्तमः | मूर्त्तीनामिति वहूनात् पूजासु क्रमेण सर्वोपरिमानानां कुर्यात् | अवदाय श्रुवेणाज्यं रतुलस्वद्विशिधायती स्वरेणोन्तिष्ठन्नैवाग्नौ देशिकामतमानसः | जुहुयादग्नि मंत्रेण वौषडंतेन संपदे | अग्निमं तेन ओं वैश्वानररित्यादिना वौषडंतो स्वाहा पदांते वौषडिति पदं मुच्चार्य इत्यर्थः केचित् स्वाहा स्थाने नदंति संपादद्या दृश्यं चतुर्थी | एतेन काम्यत्वं | उड्डीशे | महागणपति मंत्रेण स्थान पूर्वं दशाहुतीः | जुहुयाद्वृत्तर्वारं समष्ठे नैव तु | शारदायां च | विघ्नेश्वरस्य मंत्रेण जुहुयादांहुतीर्दश | सामान्यं सर्वदेवानां मे तन्नाग मुखं स्मृतं || मंत्रो यथा उड्डीशे | प्रणवं श्रीर्महामाया स्मरंग्लौमात्मकं पुनः | पंचात्मकं विंदुयुतं ङेंतं गणपतिं ततः || वरांते वरदं चेति सर्वांते जनमालिखेत् | मेवशमानय स्वाहा विंशत् पर्णो गजांतकं || अत्र सर्वमतयेदशाहुतयः | तत्रेयं व्यवस्था | वीजानि षट्गणपतये प्रथम वीजेनाहुतिमेकं पूर्व पूर्वयुत पंचवीजैः पंच एवं षडाहुतयः समस्तमंत्रेण चतुराहुतयः मिलित्वा दशाकुतयःप्रयं च मते चतुर्दशाहुतयः तत्रेयं व्यवस्था वीजानि षट्गणपतयेत्येकं पदं सर्वजनं मेत्येकवशमानय इत्येकं पदं मिलित्वा चत्वारि पदानि इतिर्दशभेदाः | पश्चात् समस्तमूलेन चतुरा हुतयः इति च | चतुर्दशाहुतिः अत्रापि संप्रदाय व्यवस्था | वह्निमुखे मंत्रराजं रश्मिजाल समन्वितं || विभाव्याराधयेन्मंत्री श्रीमत्रिपुरसुंदरीं | सुंदरीत्युपलक्षणं | शारदायां | ततः पीठं समभ्यर्च्य देवताया हुताशने | अर्चयेदग्नि रूपांतां देवतामिष्टदायिनीं || तन्मुखे जुहुयान्मंत्री पंचविंशति सक्षया | आज्येन मूलमंत्रेण वक्त्रैकीकरणंत्विदं || वह्निदैवतयोरैक्यं मनुना सह भावयन् | मूलमंत्रेण जुहुयादाज्येनैकादशाहुतीः || नाडी संधानमुद्दिष्ट मे तदागम वेदिभिः | जुहुयादंगमुं * (?) नामाहुतीनामनु क्रमात् || प्. १०२ब्) एकैकामाहुती सम्यक् सर्पिषा देशिकोत्तमः | अंगमुख्यानांमंग षडंगं तदेव मुख्यं येषां परिवाराणां एतेन द्वारद्देवता होमो नास्तीति सूचितं | एवमन्येषु कुंडेषु संस्कृतेषु यथाविधि | आचार्योवित वेदाग्रं पूर्वादिषु समाहितः || उड्डीशे च | ततः आवृति देवानामेकै कामाहुतिं हुनेत् | संकल्पं च ततः कृत्वा काम्यहोमं समाचरेत् || स्वाहांतमुच्चार्य देवतायैस्त्विदं वदन् | जुहुयाज्वलिते वह्नौ संख्यांत परितश्चरेत् | अथ होमाधिकारी | वाराहीतंत्रे | जिह्वानामधिकारोस्ति तांत्रिके होमकर्मणि | यदि कामां भवेच्चैव शूद्रोपि होमकर्मणि || वह्निजायां परित्यज्य हृदयांते नमो नमः | अथ होम जिह्वा | दश पूर्वाग्नि जिह्वायां हवनं सिद्धिदायकं | वृक्षछायां शांतिकार्यं प्रतीच्यां स्तंभकर्मणि || उच्चाटे वायु जिह्वायां मधस्थाया तु मारणे | अथ मुद्धा तत्रैव | तिस्रोः मुदाः स्मृता होमे मृगी हंसी च कस्तूरी | कस्तूरी करसंकोची हंसी युक्त कनिष्ठया || मृगी कनिष्ठा तर्जन्यौ त्यक्त्वा मुद्रा त्रयं भवेत् | यज्ञे शांतिक कार्य सुन्दरी हंसी प्रकीर्तिता || आभिचारिक कार्येषु कस्तूरी परिकीर्तिता | नमः स्वाहा स्वधा वौषट् हूंफडंताश्च ज ** (?) || * * * * * * (?) वश्येस्तथा स्तंभे विद्वेषं *** (?) णे इति मंत्र निर्णयः * * * * * * * * * (?) समिद्धोमेषु साधकः सयानमाज्य होमे च तिष्ठंतं शेषवस्तेषु * * * (?) स्यात् जुहुयान्मंत्री * * * * * (##? मनः पीडामस्तके धनसंक्षयः यतः काष्ठं ततः श्रोत्रं यतो धू ** (?) नासिका | यत्रान् प्रज्वलितं नेत्रं षडंगानस्ततः | षडंग ज्वलितो वह्निस्तत्र जिह्वा प्रकीर्तितः | स्वर्णसिंदूरवालार्क कुंकुमाक्षौद्र सन्निभः सुवर्ण रेतसां ** (?) शोभनः परिकीर्तितः | भेदीवारिदहस्तौद्वधति वह्नेः स्वभावहः नागचंपक पुन्नागपाठली यूथिका ** (?) | पमेंदकार कह्लार सर्पिर्गुग्गुलु सन्निभः | पावस्कलु सुभोगंधः सर्वसंपद्विधायकः || प्रदक्षिणात्मक कलाक्षमाभा शिखिनः शिखा | शुभदा यजमानस्य राहुस्यापि विशेषतः || कुंदेव धवलो धूमो वह्ने प्रोक्तः सुभावहः कृष्णगतो वर्णो यजमानं विनाशयेत् | * * * * * * * (?) शुवाय सस्वर सन्निभः | स्वरस्वरनिभावह्ने ध्वनिः सर्वविनाशकृत् || पूतिगंधंहुत वहोहो तु दुःखप्रदो भवेत् | छिन्ना वृत्ता शिखा कृष्णां मृत्युंधन परिक्षये || * * * * (?) निभो धूमः पारावत समप्रभः | हानि तु रंगजातीनां गवां च कुरुते चिरात् || एवं विधेषुदा शेषु प्रायश्चित्ताय देशिकः | मूलेनाद्येत जुहुयात् पंचविंशस्त संख्यया इति सुशुभलक्षण प्रतीकाराः | शारदायां | ततः स्वधा तदंताद्यस्रात शिष्यं समाहितं | पाययित्वा पंचगद्यं कुंडस्यांतिकमामयः || प्. १०३अ) विलोक्य दिव्य हष्ठ्यांतां तच्चैतन्यं हृदांवुजात् | गुरुरात्मनि संयोज्य कुर्यादध्व विशोधनं || गणेश्वर विमर्शिन्यां | हृदिस्थितं तच्चैतन्यं विस्फुरत्तारकाकृतिः | आदाय स्थापयेत् स्वीये हृदयेंकुश मुद्रया || उड्डीशे च || विलोक्य दिव्यदिव्यांत षडध्वं चिंतयेत् ततः | पादांवुनाति हृद्भाले मस्तकेषु यथा क्रमात् || ज्ञानार्णवे | वामतः परमेशानि स्वासने पूजिते शुचिं | सर्वशृंगारवेशाद्यं शिष्यं तत्र निवेशयेत् || जंडध्वरूपं श्रीचक्रं मूर्ध्नि तस्य विचिंतयेत् | श्रीचक्रस्व स्वमित्यर्थः षडध्व चिंतास्थान द्वेधे संप्रदायः | शारदायां | उक्तं रुदाधा तत्वाच्चा भुवनाध्वति तत्रयं | वर्णाध्वा च पदाध्वाव मंत्राध्वेन्य पदत्रयं || निवृत्ताद्याः कलाः पंचकलाध्वेति प्रकीर्तिताः | तत्वाध्वा वहुधा भित्वाः शैवाद्यागमभेदतः || षट्त्रिंशच्चैव तत्वानि द्वात्रिंशद् वैष्णवानि तु | चतुर्विंशति तत्वानि मैत्राणि प्रकृतेर्विदुः || उक्तानि दशतत्वा सप्त च त्रिपदात्मनः | तत्वानि शैवान्यंते शिवः शक्तिः सदाशिवः || ईश्वरो विद्यया सार्द्धं पंचशुद्धान्य मुनि हि | मायाकालश्च नियतिः कला विद्या पुनः स्मृताः || रागः पुरुष एतानि शुद्धाशुद्धानि सप्तचा प्रकृतिर्वुद्धि हंकारौ मनोज्ञानेंद्रियान्यपि | कर्मेन्द्रियाणि तन्मात्राः पंचभूतानि देशिकाः | एतान्या हरशुद्धानि चतुर्विंशति रागमे || शैवानामपि तत्वानां विभागोत्र प्रदर्शिताः | जीवं प्राणधियंश्चित्तं ज्ञानकर्मेन्द्रियान्यथ || तद्गात्रा पंचभूतानि हृत्पद्मं तेजसाद्वयं | वासुदेवाहयश्चेनि तत्वान्येतानिशांर्ङिनः || पंचभूतानि तन्मात्रा इंद्रियानि मनस्तथा | गर्वो वुद्धिः प्रधानं च मैत्राणीति विदुर्वुधाः || निवृत्ताद्याः कला पंच ततो विंदुन्कलात्मनः नादः शक्तिः सदा पूर्वं शिवश्च प्रकृतिर्विदुः | आत्मा विद्या शिरः पश्चाच्छिरो विद्या स्वयं पुनः | सर्वज्ञत्वं च तत्वानि प्रोक्तानि त्रिपदात्मनः || दूरितो भुवनाच्चेति भुवनानि मनीषिभिः | वर्णाधेति वदत्यर्णानादीक्षाटान् मनीषिणः || वर्णशंघः पदाध्यास्यान् मंत्राध्वा मंत्रराशयः | क्रमादेतानध्वनः घटशोधयेद्गुरुत्तमः || ततः कूर्चेन विधिवस्तं स्पृशन् जुहुयाद्गुरुः | आचार्य कुंडे संशुद्धौस्तिलैराज्य परिप्लुतैः शोधनास्यंवुमध्वानं खातेति पृथगध्वनः | ताराद्यमाहुतीरष्टौ क्रमात्तान् विनयं नयेत् | शिरोशिरस्तान् संलीनान् जनयेत् सृष्टिमार्गतः || शिरेशिरमंत्रग्राह्ये तत् तत्क्रमेण शिरपर्यतंलीनान् विभाव्य पुनस्ते नैव क्रमेण उत्पन्नान् विभावयेत् | कुलार्णवे | शूद्रशंकर जातीनां नाध्व शुद्धिर्विधीयते | पादोदक प्रदानाद्यै कुर्यात् पार्श्व विमोचनं || विलोकमन दिव्यदृष्टांतं शिशुं ज्ञापकोत्तमः | आत्मस्थितं तच्चैतन्यं संख्यया | भूत्वा वा पुनः शिष्यो नियोजयेत् | प्. १०३ब्) श्रुचा पूर्णाहुतिं कृत्वा मूलमंत्रेण देशिकः | उद्वास्य देवतां कुंभे सांगां सावरणां ततः || यामले तत्र संगृह्य गंधाद्यै देवतासुक्त विश्रुतां | तारव्याहुतिभिर्भूत्वा मूलमंत्रेण देशिकः || सर्पिषा पायसेन पंचविंशति संख्यया | भूत्वा व्याहुतिभिर्भूयोगंधाद्यै पुनरर्चयेत् || तां योजयित्वा पीठस्तु मूर्तौ वह्निं विसर्जयेत् | पुनर्व्याहुतिभिर्भूत्वा जिह्वादीनां विभावसोः || एकैकामाहुतिं हुत्वा परिषिच्याद्भिरात्मनि | पावकं योजयित्वाग्रे परिधीन् स परिस्तरान् || नैमित्तिके इहेन्मंत्री नित्ये तु न दहेदिमान् | पूर्णा इति यथा | उड्डीशे | अथ संपूजयेन् मंत्री कुमारीं च सुवासिनीं | देव्या व्याहुति होमं च कृत्वा पूर्णाहुतिं चरेत् || तूर्णायागे च | आद्येते श्रुवमा पूर्य पुष्पमग्रे निधाय च | स दर्भे न श्रुवे नैव उत्थायाच्छादनं चरेत् || अंजलिना गृहीत्वा तु मूलांतेन मनुं पठन् | जमरूपां हुनेद्धारां जयघोष पुरः सरः || आत्मापनेन मनुना हुनेदष्टा हुतिं क्रमात् | तूर्णायागे | आद्येन श्रुवमापूर्यतेनापूर्य श्रुचं पुनः | चतुर्विधा मुखं कृत्वा श्रुव यथाय मंत्रवित् || ऋजुकामतयोर्मूलंरग्निज्ञान निधाय च | मूलं नादांतमुच्चार्य वामपाद पुरःसरं || फलपुष्पान्विता पेतं मविच्छान्नार्य धारया | दद्यात् पूर्णाहुतिं मंत्री परामृतधियात् ततः || मंत्रो यथा उड्डीशे | प्रणवं पूर्वमुच्चार्य मूलमंत्र पुरःसरं | इतः पूर्वमिति प्रोच्य प्राणवुद्धीति चोच्चरेत् || सर्वमित्यपि तद्ब्रह्मार्पणं मस्त्वग्नि वल्लभा | प्रणवं च ममेदीयं सकलं साध्य देवतां || ङेंतां समर्पितं तारं तत्सदा आत्मार्पनोमनुः | अभ्युक्ष्य पूजयेद्वह्निं गंधपुष्पादि वा सुदीः || पुनर्व्याहृतिभिर्हुत्वा जिह्वादीनां विभावसोः | एकैकामाहुतिं हुत्वा तत् तन्मंत्रेण देशिकः || भो भो वह्ने महाशक्ते सर्वकर्म प्रदायकः | कार्यांतरे च संघट्टे कुरु सादरं || अनेनाग्निं च संप्रार्थ्यक्षमस्वेति विसर्जयेत् | नैमित्तिकेष्वपरिधीन् न नित्येषु च संदहेत् || इति अयं होमोन्युब्जपाणि कर्तव्यः | उक्तं त्रिपुरारत्नसारे | चित्रहस्तैर्हविदानं क्रियते च हुताशने | दातुः पुण्यफलं नास्ति होता च नरकं व्रजेत् || भैरवतंत्रे च | हविरुत्तान हसेन वैश्वानरमुखेहुतं | होतश्चक्षु विनाशाय यजमानो विनश्यति || मौनेनापि च कर्तव्यस्तदुक्त मनुना | स्नानस्य वरुणास्त * * * (?) तोग्ने श्रियं हरेत् || मुंजानस्ययमस्त्वायुस्तस्मान व्याहरेत्रिषु | होमसंख्या श्रुवे होमांख्या | त्रैलोक्य मोहनतंत्रे | लक्षं वा अयुतं वापि सहस्रं शतमेव वा | कार्याणां गौरवान् मंत्री तत् तद्धोमं समाचरेत् || प्. १०४अ) श्रीपूर्णानंदनाथेनकृतायां गुरुभावतः कुलवृत्तौ पटलोयनवविंशति संख्यकः || अथ होमोत्तरकृत्यं | शारदायां | नेत्रेशिष्य वध्नीयान् मूलमंत्रेण वासना | करं गृहीत्वा शिष्यं वै दाता मंडपमानयेत् || पुष्पांजलिं पुनस्तस्य पूरयित्वा यथाविधि | कलसे देव प्रीत्यै क्षेपये मूलमुच्चरन् || पुष्पांजलिं तस्य करे दत्वा मूलं समुच्चरन् | कला संक्षेपयेन्मंत्री देवता प्रीति हेतवे || पश्चिमोत्तरतः पुष्पपातः स्वभावहः | अस्त्रमंत्रेण जुहुयाद शुभेषु शतं गुरुः || शारदायां | व्यपोह्यतं नेत्रवंधमासीनं देव संस्तरे | आत्मजागः क्रमाद्भूयः संस्कृत्योत्यायुदेशिकः || तत् तत्कल्पोदितानन्यासान् कुर्याद्देहे शिशोस्तदा | अनंतरं शारदायां | अवशिष्टेन हविषा विकिरेच्च ततो वलिं | देवतायाः पारिषदेभ्यो गंधपुष्पाक्षतान्वितं || ततो नैव समुद्धृत्य शोधयित्वा स्थलं पुनः | पंचोपचारैः संपूज्य दर्शयेच्छत्र चामरे || कर्पूर सकलोन्मिश्रं तांवूलं च निवेदयेत् | अवशिष्ठेन होमावशिष्टेन चरुणा इत्यर्थः || परितो देवता परितः स्थला शोधनं गोमयोदकेनैव चंद्रिकायां नैवेद्यं तद्भुजे दत्वा किंचित् स्थानं विंशोधयेत् | विशक्सेनः स्मृतो विष्णोस्तेजश्चंडो विभावसोः | शेषिका सुंदरी शक्तेश्चंडेशः शंकरस्य च || लंवोदरां गणपते उच्छिष्ट भेजिनः | इति नैवेद्याग्रभागं | उच्छिष्टभोजिनं शेषं आत्मने साधकाय च स्थापयेत् | गौतमीयेनिमील्यं शिरसाधार्यं नैवेद्यं मुदरे हरेः हरेरित्युपलक्षणं | सर्वेषामेवमित्यर्थः | सह आवृत्या संपूज्य मूलमंत्र मनन्यधीः | तंजपं सर्वसंपत्यै देवतायै निवेदयेत् || नित्यपूजायां तु कामेश्वरि तंत्रे | सहस्रं वा जपेन्मंत्रं सताद्याष्ट स्वसंयतं | विंशतिं वा जपेन्मंत्रं मतो न्यूनं समाचरेत् || शारदायां ततः शांतादिशि गुरुविकिरेत् पूर्वसंचिते | हेम वस्त्रादि संयुक्तां गर्गरातोयपूरितां || संस्थाप्यतंभां सिंहस्थां खड्गखेटकधारिणीं | घोररूपां पश्चिमास्यां पूजयेदस्त्र देवतां || चलासने संपूज्यतामादाय पुनर्गुरुः रक्षेति लोकपालानां नामयुक्तेन वारिणा | वेदाज्ञां श्रावयेनंतः परिवृत्य प्रदक्षिणं | अस्त्रमंत्रं समुच्चार्य यथापूर्वं निवेशयेत् || अभ्यर्च्य भूयो गंधाद्यैरस्त्रं तत्र स्थिरासने | रक्षेत्यादि देवाज्ञापयति इंद्र प्राचीं रक्ष एवमष्ट दिक्षु | अथ जपरहस्य विवरणं | तत्रादौ सेतु विवरणं | कालिकापुराणे | मंत्राणां प्रणवः सेतुस्तत्सेतुः प्रणवः स्मृतः | भवत्यानंकितं पूर्वं परस्ताच्च विशीर्यते || निःसेतुना यथा तोयं निम्नमार्गेण गच्छति | मंत्रस्तथैव निःसेतुः क्षणात् क्षरति यज्वनां || प्. १०४ब्) तस्मात् सर्वेषु मंत्रेषु चतुर्दर्णाद्विजातयः | पार्श्वयोः सेतुमादाय जपकर्म समाचरेत् || शूद्राणामादिसेतुर्हिद्वेसेतुर्वायथेछतः | द्विसेतवः समाख्याताः सर्वदेव द्विजातयः || द्विजातन्य इव वहुवचनेन क्षत्रिय वैश्यो गृह्यतेद्वामीश्वरीतंत्रे | आदावेव गृहस्थस्य प्रणवः सर्वमंतरे | आद्यंतयोर्विनस्तस्य भवति ज्ञानवृद्धये || प्रणवाद्यं जपेत् मंत्रं भुक्तिमुक्ति प्रदायकं | वाराहीतंत्रे | प्रणवाद्यं गृहस्थानां तच्छून्यं विफलं भवेत् | आद्यं तयोर्वनस्थानां यतीनामेव मादिशेत् || एतेषा मयमर्थः | मंत्राणां सर्वेषां | प्रणवस्य च प्रणव सेतुः आदौ प्राणकृतं प्रश्रप्रणरितं क्षरति फलमित्यर्थः | परस्तादपि विस्तीर्या तद्यथाधिकारतः तत्रापि विपदं पारिभाषिकं | यथा वाराहीतंत्रे | मूद्राद्विसेतव एकसेतवोपि यथेच्छया आदौ वांते वा ब्राह्मणादयस्तद्विसेतर एव तत्रापि विशेषः गृहस्थानां द्विजातीनां आदावेव वनस्थादीनां तत्र यत्र शूद्राणां सर्वदेव गृहस्थानां विशेषः | अत्र प्रणव पदं पारिभाषिकं | यथा वाराहीतंत्रे वाक् कामशक्ति प्रणवाः प्रणव मंत्राश्च कथ्यते इत्याद्यंतेषु तंत्रेषु प्रणवं नवयोजयेत् | चाचयांते चाचयं च नामांते च नामार्चनं च | स्मरांते च स्मरोवर्य फडंते वीस्रमंत्रकः | यः स्मिन् यः सेतुस्तदंतं मंत्रे तदादौ वा मंत्रे स्वभावा देवमेव तत् तत्र सेतुर्नादयः | चत्वयांत इत्यादि प्रसंगादुक्तं | वैष्णव प्रणवं प्रणवं दद्याच्छिवशक्तिं नियोजयेत् | शक्तौं कामंमणेशे च रमावीजं न्यसेत् ततः | सूर्ये वाग्भवमन्येषां प्रणवं विनियोजयेत् || वैष्णव शूद्रानां विशेषः | द्विजातीनां प्रणवः सेतुस्तदंते च पदक्षरं उच्चारनुस्वारयोगेन शूद्राणां सेतुरुच्यते | ज्ञानार्णवेप्येवं | कालिकापुराणे | जपं समारभेत् पश्चात् पूर्वरत्यात् ततः परः | हस्तेमस्र जमादाय चिंतयेन् मनसा शिवां || चिंतयित्वा गुरून् मूर्द्ध्नि यथा वणीदिकं भवेत् | मंत्रश्च कर्ततो ध्यात्वाशितवर्णं हिरण्मयं || महामायां च हृदये आत्मानं गुरुपादयोः | आज्ञाचक्रं ततः पश्चाद्गुरोमंत्रस्य चात्मनः || देव्याश्चाप्येकतां ध्यात्वा तव स्वरूपमेकं तु षट्चक्रे प्रविलंवयेत् | षट्चक्रेपि महामायां क्षणं ध्यात्वा प्रयत्नतः | लंवयेन् मूलमंत्रेण आषोडशं चक्रकं || आदिशोडश चक्रस्थां साधकानंदकारिणीं | चिंतयेत् साधकोदेवीं जपकर्म चरेत् || भ्रुवोरुपरिनाडीनां नाडीनां प्रांत उच्यते | तपांते त्रिपथस्थानं षट्कोणं चतुरंगुलं || श्वेतवर्णं च योगंगैराज्ञा चक्रमितीरितं | कंठे त्रयानां नाडीनां वेष्टनं विद्यते नृणां || सुषुम्नेडा पिंगलानां षट्कोणं चतुरंगुल | तत् षट्चक्रमिदं प्रोक्तं शुक्लं कंठस्य मध्यगं || प्. १०५अ) त्रयाणामथनाडीनां हृदये चैकता भवेत् | तत् स्थानं षोडशारं स्यात् सप्तांगुल प्रमाणतः || तत्पीठयुक्तं योगज्ञैरादि षोडश चक्रकं | ध्यानानामथ मंत्राणा चिंतनस्य जपस्य च || यस्मादाद्यं तु हृदयं तस्मादादी तु कथ्यते | अथ जपकाल कृत्यं | विमलातंत्रे | मनः संहरणं शौचं मौनं मंत्रार्थ चिंतनं | अव्यग्रत्वमनिर्वेदे जपसंपत्ति हेतवः जपसमयेकर्तव्यान्य विषयोक्त्यमानो निवृत्तिः | तंत्रोक्ताचारः मंत्रार्थस्तु | तत् तत्कल्पोज्ञेयः | त्वराहित्य जिह्वोष्ठ चालनादि दुःखानुद्भावनं एतानि जपफलप्राप्तौ कारणानि | इति मंत्रार्थः | मंत्रार्थं न चैतन्यं येकनिमुद्रां नरोतुयः | अक्षराक्षर संयुक्तं शतकोटि जपेनापि तस्य सिद्धिर्भवेन हि | अथ जपः | योगिनीतंत्रे उच्चैर्जपाधमः प्रोक्तः उपांशुर्मध्यमः स्मृतः उत्तमो मानसो देवि कथितस्त्रिविधो जपः | अति ह्रस्वो व्याधि हेतुरतिदीर्घोवमुक्षयः | अक्षराक्षर संयुक्तं जपेन्मौक्तिक हारवत् || मनसा यत् स्मरेत् स्तोत्रं वचवा मनुं जपेत् | उभयं विफलं विंदाद्भिन्न भांडोदकं यथा || यामले | माहात्म्यं वाचिकस्यैव जपज्ञस्य प्रकीर्तितं | तस्माच्छतगुणोपांशु सहस्रं मानसो जपः || मानसः सिद्धिकानां पुष्टिकामैरूपांशुकः | वाचिको मारणे चैव प्रशस्तो जप ईरितः || मंत्रमुच्चारयेद्वाराचावाचिकः परिकीर्तितः | काचिच्छवणयोग्यं स्यादुपांशुः परिकीर्तितः || धियाय दक्षरश्रेणीमंत्र स्वरपदातिकां | उच्चरेदथ संस्मृत्य स जयो मानसः स्मृतः || अथ मंत्रसुतरं | यामलो जातसूतेकमादौ स्यान्मृते च मृतसूतकं | सूतक द्वय संयुक्तो यो मंत्रः स न सिध्यति | ब्रह्मवीजं मनोर्दत्वा चाद्यंते परमेश्वरि || सप्तवारं जपेन्मंत्रं सूतकद्वय मुक्तयं | इति जपादौ जपेत् | अथ जप समर्पणं | यामले | गुह्याति गुह्यगोप्त्रित्वं गृहाणास्मत्कृतं जपं सिद्धिर्भवतु मे देवित्वत् प्रसादात्वयिस्थिते | मंत्रेणानेन देवेशि अर्घोदक पुरःसरं | तेजोरूपं जपफलं वामहस्ते समर्पयेत् || एवं जपं पुरा कृत्वा गंधक्षत कुशोदकैः | जपं समर्पयेद्देव्या वामहस्ते विशेषतः || गौतमीये | एवं जपं पुरा कृत्वा तेजोरूपं समर्पयेत् | देशिदक्षिण हस्तेन कुश पुष्पार्घवारिभिः || स फलं तद्विभाव्यैवं प्राणायामं समाचरेत् | जपादौ च जपांते च * * * (?) त्रितयं भवेत् || दक्षिण इति पुंदेवता परं प्राणायामास्तु सामान्यः | अथोपचारनां यामले | छत्रं च चामरं घंटा जपांते चोपचारयन् | स्त्वं पठेत् समाधानात् स्वकल्पो क्रमेण तु | प्. १०५ब्) वाराहीतंत्रे | गृहीत्वा च ततो घंटांमिदं मंत्रमुदीरयेत् | विद्युत्पुंडनिभांमित्या | प्रपंचसारे दद्यात् सर्वनिवेद्यानिदेविविद्वान्यु यत्नतः | सर्ववाद्यमयीं घंटां वाद्या भावे प्रदापयेत् | गरुत्मतांकितां घंटां विष्णुना आच चिह्नितां | एकहस्तेन पूजांते स्नानकाले विशेषतः | न स्पृशेद् वामहस्तेन न भूमौ स्थापयेत् क्वचित् || पूजामध्ये तु यो घंटां वादयेत् तु प्रमादतः | संवत्सर कृतं पुण्यं तत्क्षणादेव हीयते || पूजाकाले सदा विष्णोर्द्रिंडि मंत्र प्रदापयेत् | श्रवणात् तस्य द्रवस्य अंतदाहंर्द्धानं सदा भवेत् || शिवागारे धूर्वरं च सूर्यागारे च शंखकं | दुर्गागारेवं शवाद्यं मधुरं च न वादयेत् || विरिंचेश्च गृहे घंठां लक्ष्मीं गृहेत् यजेत् | वामेनाति धूपदीपेतरविषयं | अथस्तव पाठविवरण वाराहीये | स्तोत्राध्यायादि पाठेषु अध्याये च स्थितिर्भवेत् | अध्याय समाप्तं | यदि नाध्याय संस्थानं अध्यायादि पुनर्यचेत् | तदध्यक्षं च प्रथमं दृष्ट्वा देवं प्रणम्य च || प्रणवं च ततो जप्यं स्तोत्रं वा संहितां जपेत् | अंते च प्रणवं दत्वादित्युवाचादि पूरुषः || सर्वत्र पाठेदि ज्ञेयं हवन्यथा विफलं भवेत् | शुद्धेना वलचित्तेन पठितव्यं प्रयत्नतः || न कार्या शक्त मनसा कार्यं स्तोत्रस्य वाचनं | आधारे स्थापयित्वात् पुस्तकं प्रजपेत् सुधीः || हसंस्थापनादाय तस्मादल्प फलं भवेत् | अब्राह्मणेन लिखितं तच्चापि विफलं भवेत् || न च स्वयं कृतं स्तोत्रं मन्येनापि कृतं न च | यस्मात् कलौ न प्रशस्तं मृषिनिर्भाषितं पठेत् || देवाचांगेतयेत्यर्थः ऋषिछंदादिकं न्यस्य पठेत् स्तोत्रं विचक्षणः | स्तोत्रेण दृश्यंते यत्र प्रणवन्या समाचरेत् | यत्र ऋष्यादि न श्रुयते तत्र प्रणवं ततु || न्यास स्थाने ओं नम इत् क्रमेन्यसेत् | भीष्मपर्वणि यागी तासु प्रशस्ता कलौ मता | विष्णोः पद्मपुराणीयं तथा माम सहस्रकं || गजेंद्र मोक्षणं वामिकारुण्यस्तवमेव च | नारसिंहस्तथास्तोत्रंत्रोत्रं श्रीरामशंकरं || मार्कंडेय पुराणोक्ता देव्याः सप्तसतीं तथा | तस्याः स्कंदपुराणीयं तथानाम सहस्रकं || श्लोकाष्ठकं नीलकंठं शवनाम सहस्रकं तथैव दंडकस्तोत्रं तारायाः षट्पदीयके त्रिपुराया प्रसादाख्यं सूर्यस्यस्तव राजकं | पैत्रे रुचिस्तवोयश्च इंद्राक्षीस्तवमेव च | वैष्णवे च महालक्ष्म्यां स्तोत्रमिंद्रेण भाषितं || अन्यानि तत्र रूपानि पुराणोक्तानि यानि च | भार्गवाख्ये न रामेनै शप्तानि कारणांतरे || तानि चेत् पठितव्यानि तत्रादौ वीजमुच्चरेत् | यस्य यस्य वदेवस्य तस्य तस्य सहस्रकं || पठित्वा प्रथमं स्तोत्रं नस्य तस्य ततः पठेत् | संकल्पितोस्तोत्र पाठे संख्यां कृत्वा जपेत् सुधीः || मंत्रजापे च संख्यानेन न्यूनं नाधिकं | होमे जपे च संख्यानि अष्टादष्ठौ जपेदनु || प्. १०६अ) संहिता पठनं स्तोत्रे शुभं प्राप्य समापयेत् | अशुभे अशुभं यस्माच्छुभे शुभफलं लभेत् || अध्यायं प्राप्य विरमेन्नतु मध्ये कदाचन | कृते विरामे मध्ये तु अध्यायानि पुनर्जपेत् || व्यवस्थेयं पुराणादौ स्तोत्रं पूर्वादितः पठेत् | अवश्य पाठे कर्तव्ये स्तोत्रे यदि कथंचन || अर्द्धजप्यं तथा ध्येयं स्थितं स्वाध्याय शेषकं | दिनांतरे पठेत् सर्वतद्दिनेनास्ति दूषणं || मत्स्यसूक्ते च | यावन्न पूर्यर्तध्यायस्तावन्न विरमेत् क्वचित् | अनुक्रमं पठेद्देवि शिरः कंपादिकं त्यजेत् || एवं कवचपाठेपि मादिशब्दां | अथ प्रणाम विवरणं | तदुक्तं नीलतंत्रे | ततो वै शिरसे पुष्पं दत्वाष्टांगं प्रणम्य चेति * * * * * * * * (?) शिर | स इति इष्टदेव तस्येत्यर्थः | योगिनीतंत्रे | कायिकस्तु नमस्कारैर्देवास्तुस्यंति नित्यशः | नमस्कारेण लभते चतुर्वर्गं महामतिः सर्वत्र सर्वसिध्यर्थं नतिरेव प्रशस्यते | नत्या विजयते लोका नत्या स्वरपि वर्द्धते | नमस्कारे नदी गुरुछित्वा लभते प्रजाः | नमस्कार महादेव्यै प्रदक्षिणमतो देव्या वामकेश्वरो नमनं मान प्रोक्तं वाचिकं कायिकं तथा | त्रिविधे च नमस्कारे कायिकं चोत्तमः स्मृतः | पौराणिकै वैदिकैर्वामंत्रैस्तु क्रियते स्तुतिः || मध्यमो सौ नमस्कारो भवेद्वाचनिकः सदा | यः स्वयं गद्य पद्याभ्यां घटिताभ्यां नमस्कृतिः || क्रियते भक्ति पूर्वेण वाचिकः सूत्तमः स्मृतः | पुटीकृत्यकरौधीर्विदीयते तद्यथा तथा || न स्पृष्टो जानुशीर्षाभ्यांक्षिती शोधम उच्यते | चिषुकेन मुखो नाथ नासयाद्वसु केन तु || ब्रह्मरंध्रेण कर्णाभ्यां यद्भूमेः स्पर्शनं क्रमात् | अष्टांगो सौ नमस्कारो विद्वद्भिः परिकीर्तितः || अपरं च तत्रैव | दोर्भ्यां पार्श्वभ्यां च अंसाभ्यांश्वरसाच्चमा | मनसा वचसा चेति प्रणामाष्टांग ईरितः दशांक्तौ पंचागं प्रणामः | तत्रैव वाहुभ्यां सत्वजानुभ्यां शिरसा वचसा धिया | पंचांगकः प्रणमं च विद्मद्भिः परिकीर्तितः | गंधर्वतंत्रे च | त्रिकोणमथ षट्कोणमर्द्ध चंद्र प्रदक्षिणं | दंडमष्टांगमुंमुंग्रं च सप्तधा न तिलक्षणं || ऐशानी वाथ कौवेरी दीक्षामाख्या प्रपूजने | प्रशस्तास्तंडुलादौ च सर्वमुष्टिस्तु सर्वतः || त्रिकोणादि व्यवस्थां तु यदि पूर्वमुखो यजेत् | पश्चिमाछांभवीं गत्वा व्यवस्थां निर्दिशेत् तथा || यदोत्तरमुखा कुर्यासाधना देवपूजनं | तदायाम्याहु वायव्यां गत्वा कुर्याच्च संस्थितिं || दक्षिणाद्वायवीं गत्वा दिशं तस्माच्च शांभवीं | तथोप दक्षिणं गत्वा नमस्कार स्त्रिकोणवत् || त्रिकोणाख्या नमस्कार स्त्रिपुरा प्रीतिदायकः | दक्षिणाद्वायवीं गत्वा वायवाच्छांभवीं तथा || प्. १०६ब्) ततोपि दक्षिणं गत्वा तस्मादग्नौ प्रविश्य च | अग्नेये राक्षसीं गत्वा तत् पश्चादुत्तरादिशं || तदुत्तरा तथाग्नेयीं भ्रमणं त्रिकोणको भवेत् | सट्कोणोयं नमस्कारः प्रीतिदः शिवं दुर्गयोः || दक्षिणाद् वायवीं गत्वा तस्माद्वा प्रत्यदक्षिण. | गत्वात्मासौ नमस्कारो अर्द्धचंद्र प्रकीर्तितं || सकृत् प्रदक्षिणं कृत्वा वर्तुला कृतिसाधकः | नमस्कारः प्रमुक्तो सौ प्रदक्षिण इति द्विजैः || त्यक्त्वा स्वमासनं स्थानं पश्चाद्गत्वा नमस्कृतिः | प्रदक्षिणं विनायस्तु निपात दंडवद्भुवि || दंड इत्युच्यते देवैः सर्वदेव प्रमोदकः | पूर्ववद्दंडवद्भूमौ निपत्य हृदयेन तु || चिवुकेन मुखे नाथ नासयाहनु केन तु | ब्रह्मरंध्रेण कर्णाभ्यां प्रमेर्यत्स्पर्शनं क्रमात् || तदष्टांगमिति चोक्त नमस्कारो मनीषिभिः | रदक्षिण त्रयं कृत्वा साधको वर्तुलाकृतिः || ब्रह्मरंध्रेण संस्पर्शःक्षितिर्यस्या नमस्कृतेः | स उग्र इति देवौघैरुच्यते विष्णु तुष्टिदः || नदानां सागरानां च यद्वद्दिपदां ब्राह्मणो यथा | नदीनां जाह्नवीया तृदेवानांमेव चक्र धृक् | नमस्कारेषु सर्वेषु तथैवोग्रैः प्रणस्यते || त्रिकोणाद्यैर्नमस्कारैः कृतैवतु भक्तिभक्तितः | चतुर्गुणं भवेद्भक्तो न चिरेण देवसाधकः || नमस्कारो महायज्ञः प्रीतिदः सदा | सर्वेषामादि देवानां मन्येपिमपि भैरवं | यो साधूग्र नमस्कारः प्रीतिदः सततं हरेः महामाया प्रीतिकरः नमस्कारणोत्तमः | अथ प्रदक्षिण क्रमः | तदुक्तं वाराहीतंत्रे | एवं देव्यां वसौ सप्तत्रीणि दद्याद् विनायके | चत्वारि केशवे दद्याच्छैवेमर्द्ध प्रदक्षिणं || पूजादौ जपादौ पूजांते चांते च तथैव च | त्रिविधां च नतिदर्शार्षाष्टांगविधानवित् || एतेषामन्यतमेनत्वा हृदिदेवो विसर्जयेत् | यथाविधि विधानेन हृदिदेवा विसर्जयेत् || विसर्जनं तु चक्रविधि प्रस्थाविधि प्रस्था विज्ञेयं | ईशांतरेश देशे गर्गरी नाल संयुतां | संस्थाप्ये जपपूर्णां तु क्षौमयुग्मेन वेष्टयेत् | तन्मध्ये निक्षिपेन् मंत्री त्रिकटू त्रिफलं तथा || भस्मदूर्वा मृत्तिकाश्च कर्पूरं रोचनं तथा | चंदनं कुंकुमं चैव चक्रराजं तथैव च || अस्त्रमंत्रेण संरक्ष धेनु योनी च दर्शयेत् | सिंहसंस्थां महादेवीं खड्गखेटकं धारिणां || घोररूपां पश्चिमास्यां पूजयेदस्त्र देवतां | तस्या उपरि मंत्रज्ञो दशधा मूलमंत्र जपेत् || शारदायां भुजपाणितरमेवगर्गरी स्थानं | उड्डीशमते | देवी विसर्जनानंतरं | इति स्नानार्थे गर्गरी संस्थाप्य स्ववामे मंडलं विलिख्य शिष्यं स्थापयेद्यथा | शारदायां मंडले लिख्यते शिष्यमन्यस्मिन् परिवेशयेत् पूर्वं दर्भ संस्तरेण मंडलत्विशान दिग्भागे मुमुक्षुनुत्तराननान् | प्. १०७अ) भुक्तये पूर्ववक्त्रांश्च शिष्यांस्तत्र निवेदयेत् | मंडलं यथा उड्डीशे | ततः पद्मं लिखेद्वामे केशरेस्वरमालिखेत् | युग्मयुग्म क्रमेणैवरादिवर्गान् लिखेत् ततः || तन्मध्ये कर्णिकायां तु शिष्यं संस्थापयेद्गुरुः | शिष्यस्य मुखमावेष्ट्य अस्त्रेनोत्थाय गर्गरी || मूलं जांठनाल मुक्ता जलैः स्नायाच्च वालकं | कुंभमुद्धृ विधिवत्तमुखस्थान् स्वरक्रमान् || सुरक्रम वुध्या कुंभवक्त्रस्थापितान् इत्यर्थः | मातुर्मंत्रं विलोमेन जनमूर्द्ध्नि शिशोंतरेत् || ततस्तत्पल्लवेणैव घटस्थंतीर्थवारिणा | मूलमंत्रेण मंत्रंज्ञ स्त्रिवारं प्रोक्षयेच्छुचिं || मंत्रज्ञः अभिषेक मंत्रज्ञः इत्यर्थः एवमेवाभिषेकांतरैश्च नारायणीये | उड्डीशमते आदौ गर्गरीस्थानं | ततश्च कुंभाविशेकः | शारदायास्तु दत्सु पंचपाद्ये सार्द्धं विप्र शिवा गुरुः | विधिवकुंडमुद्धृत्य तन्मुखस्थान् सुरद्रुमान् | शिवाः शिरसि विन्यस्य मातृकां मनसां जपेन् || मूलेन साधितैस्तोयेरभिपिंचे तु मात्मवित् | पूजितां पुनरादाय अस्त्रेणोदाय गर्गरी || तस्याः सुसाधितैः स्तोयैः सिंचेद्रक्षार्थमंजसा | अवशिष्टेन तोयेन शिष्यमाचमयेद्गुरुः || एतन्मते रक्षार्थे मयमप्यशकः | अत्र संप्रदायः शरणं शुद्धेन वासागात्रं संमार्ज्यषंकृतो भवेत् | स्ववामभागेतं शिष्यमन्यस्मिन्नुपवेशयेत् | अभिषेकं मंत्रं यथा | क्रियासारे | ओं सुरास्त्वामभिषिंचं तु ब्रह्मविष्णु महेश्वराः | वासुदेवो जगन्नाथस्तथा संकर्षणो विभुः | प्रद्युम्नश्चानि रुद्धश्च भवं तु विजयायते || आखंडलोग्र भगवान् यमो निरृतिस्तथा | वरुणः पवनश्चैवधनाध्यक्षस्तथा शिवः || ब्रह्मणा सहिता ह्येते दिक्पालाः पांतुवः सदा | कीर्ति लक्ष्मी धृतिर्मेधा पुष्टिः श्रद्धास्क्रियामतिः || वृद्धिर्लज्जावती शांतिः यया निद्रा च भावना | एतास्त्वामभिषिंचं तु राहुः केतुश्चं पूजिताः || * * * * * (?) गंधर्वा यक्ष राक्षस पन्नगाः | ऋषयो मुनयोगावो देवमातर एव च देवपत्न्योद्रुमानागा दैत्याश्चाप्सरसांगणाः | अस्त्राणि सर्वशस्त्राणि राजानो वाहननै च | ओंवधानि च रत्नानि कालस्या वयवाश्चये || शरितः सागराः शैलार्णा जलदाह्रदाः | एतैत्वामभिषिंचं तु सर्वकामार्थसिद्धये | उक्तमान शिष्यं संस्था शिष्यमुखं वस्त्रेण वेष्ठ्य फडिति गर्गरी नादाय मूलेन नालमुक्त जलेन वालं स्नापयित्वा कुंभमुद्धृत्य अथ स्थापनत्ववान् विलोममातृकां पठन् शिशोः शिरसि निक्षिप्य विलोम मातृकाया मूलेनाभिषेक मंत्रैरभिषिच्य वाससा जलमपनीयधौ तेन वाससा परिधाय स्ववामभागे शुद्धासने समुपवेशयेत् करे पुष्पफलं कृत्वा ब्रह्मरंध्रेकरं क्षिपेत् | प्. १०७ब्) ततो सुकत्व सेवासि वाक्यमेवाक्य वाक्यमेवदेद्गुरुः | पश्चात् षट्चक्र विज्ञानं शिष्यायं प्रतिपादयेत् | ऋष्यादि मातृकान्यासं शिष्यदेहे प्रविन्यसेत् || शिवोक्ताश्वेतं कांडस्तु शिष्यकर्णे प्रकाशयेत् | कैवल्योपनिषदित्यर्थः यदि प्राणाधिकः शिष्यो भवेत् कालक्रमेरतः ततो वाला मनुनाशनी दक्षकर्णे च त्रिर्वदेत् | तत्वमंत्रे तत्वशुद्धिं कारयित्वा विधानतः | पूर्ववदित्यर्थः | मंडूषतीर्थं शिष्य सकृद्धस्ते दद्याद्यथाविधि | श्रावयोः सकलं चास्त्र वद्देवं गुरुत्तमः | विभावज्ञस्ततः साहं गृह्नीयाच्छिष्य सत्तमः | गंडूषदा नाम शिष्यस्य विकल्पो यदि जायतो व सिद्धिस्तस्य कुत्रापि श्रीविद्या च पराङ्मुखी वशिष्ट संहितायां ततस्तत् छिरसिर्यस्य हस्तं दत्वा शतं जपेत् | अष्टोत्तरं ततो मंत्र. दद्यादुदक पूर्वकं | आवयोस्तु न फलदो भवद्धेदमुदीरयेत् || यदीनादि ज्ञाना गुरुभक्तिं पूर्वोक्त विशेषण विशिष्ट इत्यर्थः स एव प्राणाधिकः | इत्यभिषेकः शाक्त शैवादि साधारणः | पशुभावे जनेनैव स दिव्यवीरे स विकल्पानामनुकल्पेन निर्विकल्पना मुख्येनैकेति प्रागेव प्रतिपादितं | उड्डीशे | ततो भूमौ लिखित्वा तु विद्यां पुष्पादिभिर्यजेत् | दक्षिणं च करां भोजं शिष्य मूर्द्ध्नि निवेश्य च || शिष्य मे दर्शयेद्विद्यां तज्जपन् साधकोत्तमः | यदिस्यान् महती प्रीतिः शिष्यदः प्राणदस्य स || ततोच्चारण मात्रेण दक्षकर्णे जपेत् परां | श्रीविद्या ब्रह्मरूपेंद्र यदा मोक्षप्रदायिनीं || इदं तु श्रीविद्या षोडशी परां तारा मंत्रे मोक्ष पुनज्ञानोड्डीशे | न्यास तस्य देहे गुरुः संन्यस्य यत्नतः | दक्षकर्णे वदेन्मंत्रं मैकां संभावयन् शिशु | त्रिवारं पूर्णमानसः | दक्षेति द्विजाति परं स्त्री शूद्राणां तु योगिनी तंते दक्षकर्णे त्रिशोविधा मेकोच्चारण चोच्चरेत् | एवं विधिर्द्विजातीनां स्त्री शूद्राणां तु वामतः | ऋषिछंदो देवतानां विभागां तु प्रकाशयेत् || देवता गुरु मंत्राणामैक्यं संभावयन् शिशुः शतं जपेतदग्रस्तो निकटे त्रिदिनं वसेत् | नोचेत् संचारणीस्तरमेति न संशयः | ततो मंत्रवत्स्यशु स छिष्यामत् प्रकाशयति | किमप्यंगं ततः शिष्यं स्पर्शयेच्छी गुरुप्रिये तदंग मातृकावर्णं कलयित्वा गुरुत्तमाः | द्यक्षरं त्र्यक्षरं वापि चतुरक्षरमेव वा | आनंदनाथ शब्दांतं तस्य नाम प्रकल्पयेत् || ततः प्रदक्षिणी कृत्य गुरुं वारत्रयं शिशुः | अष्टागं नमनं कृत्वा आत्मानं च समर्पयेत् || दक्षिणापश्चान्निरुप्यते | एषाकृपावती दीक्षा प्रोक्ता सर्वसमृद्धिदा | अथ दीक्षाभिषेकवोर्विशेषः ज्ञानार्णवे || प्. १०८अ) क्रिया चस्तु कला स्पर्श वाग्दृङ्मामानस सांज्ञिका | दीक्षा मोक्षप्रदा देवि सप्तविकीर्तिता | समयाख्या विशेषाख्या साधका पूतकाज्ञया | साधका पूतसंज्ञा स सदाचार्या निर्वाण संज्ञका || क्रियाज्ञानाशादि समायुक्ता कर्तव्या गुणा यदि | देवेशि देहशुध्यर्थं पूर्वोक्त विधिमाचरेत् || कुलीन पशुभ्यां संयुक्ता उभय कर्तव्येत्यर्थः | पंचाशुद्धिपूर्वक पूजामारभेदित्यर्थः || विभागस्तु पूर्णाभिषेक प्रकरणे | वर्णदीक्षा त्रिधा प्रोक्ताद्वि | चत्वारिंशदक्षरः पंचाशद्वर्णैर्वादेवि त्रिषष्ठि लिपिभिस्तु वा त्रिचत्वारिंशदा भूतलिप्या अकारादिकस्तु मालया त्रिषष्ठिलिपिः | वर्ण एकपंचाशत दशवर्णत्मकादशवर्णाः कालिका प्रस्तावे वक्तव्या हंसाभ्यां त्रिषष्ठितिपयः वर्णनो शिष्यतनोन्यस्य प्रतिलोभेन संहरेत् | परमात्मनि संयोज्य तच्चैतन्यं क्षिपेद्गुरुः | तस्मात् संपादिता वर्णान् ससेच्छिप्यतनौपनः || सृष्टिमार्गेन विधिना तच्चैतन्यं च नियोजयेत् | जायते देवताभावः परानंदमयं शिशोः || एषा वर्णमयी दीक्षा प्रोक्ता पाशापहा प्रियो कदला दीक्षा त्रिधा ज्ञेया कर्तव्या विधिवत् प्रिये | निवृत्ति जानु पर्यंतं तलादारभ्य संस्थिता | जानुनो नाभिपर्यंतं प्रतिष्ठातिष्ठति प्रियो नाभेः कंठावधि प्राप्ता विद्याशांतिस्तथा प्रिये | कंठाल्लाटपर्यंतं व्याप्ता तस्माच्छिरावधि | शांत्य तीताकला ज्ञेया कला व्याप्तरितीरिता || संहार क्रमयोगे स्थानात् स्थानांतर गुरुः | संयोगस्था विधिवत् सम्यग् विधिवत्ता शिरोवधि || अष्टत्रिंशत् कलाभिर्वा पंचाशद्भिरंथापिवा | उक्तन्यासं क्रमेणैव सृष्टिसंहारमार्गतः || ज्ञात्वा गुरुमुखाद्देवि शिष्यंसां राज्यवेधयेत् | जायते देवता भावो जोगिनी वीरसंगमः || कला दीक्षा समुदिप्त पशुपाशापहारिणी | देवि तृसंख्यां ज्ञामानुसाख्या महेश्वरि || क्रियायासादिरहिता देवि दीक्षा त्रिधा स्मृता | यथा पक्षी स्वपक्षाभ्यां शिशून् संवर्द्धयेच्छनैः || स्पर्श दीक्षोप दर्शदीक्षोपदेशस्तुस्तादृशः कथितं प्रिये | स्वापत्यामि यथा यथा मत्स्यो वीक्षणे नैव पोषयेत् | दृगीक्षोपदेशस्तु तादृशः कथितः प्रिये | यथा कर्म सुतनयान् ध्यान मात्रेण पोषयेत् | वेधदीक्षोपदेशस्तु समानस्यात् तथाविधिः शक्तिपातानुसारेण शिष्योनुग्रहमर्हति | यत्र शक्ति निपातता तत्र सिद्धिर्वजायते | शक्तिः सामर्थ्यं सेवयामित्यर्थः | हस्ते शिवपुरं ध्यात्वा जपेन्मूलांगमालिनी | गुरुस्पृशेच्छिष्य तनुं स्पर्शदीक्षा भवेदियं || चित्त तत्वं समाधाय परतत्वोप वृंहितान् | उच्चरेत् सहितान्मंत्री वाग्मीक्षोति निगद्यते || निमिल्य नयने ध्यात्वा परतत्वं प्रसून्नधी | सम्यक् पश्येद्गुरुः शिष्यं दृग्दीक्षा सा भवेत् प्रिये || कल्पाय भुवनं तत्वं कलां वर्णपदं गुरोरालोकमात्रेण भाषणात् स्पर्शनादपि | प्. १०८ब्) सद्यः संजायते ज्ञानं सा दीक्षा शांभवी स्मृता | मनोदीक्षा द्विधा प्रोक्ता तात्रातीद्धतरापि च | अध्मनः षड्भिधं ज्ञात्वा शिष्यो दहेत् प्रिये || कल्पाय भुवनं तत्वं कलावर्ण पदं मनुं | स्थनानु नाभि हृत्कंठ तालु मूर्द्धां नमंविके || गुरुपदिष्ट मार्गेण वेधं कुर्याद् विचक्षणः | पूर्वस्थि परस्मिनलयः विभाव्य सर्वं मंत्राध्व निलयं विभावितं ब्रह्माणलीनं ध्यात्वा तत्स्वरूपं शिष्यं चिंतयेत् इत्यर्थः * * * * (?) सदाछिष्यः परानंदमयो भवेत् | एषा मुक्तिपदा प्रोक्तानांत्र वीक्षा कुलेश्वरि | देवितीन्नतरादेवतो प्रतरापि चंगुणा स्मृति मानुतः सम्यक् संवाधितो शिष्यः छिन्नपाशस्तदा भवेत् | आतुरो ज्ञानज्ञानमराभ्यां तीव्रतीव्रतरत्वमितो वाह्य व्यापार निर्मुक्तो भूमौ पतति तत्क्षणात् | संज्ञात दिव्यभावो सौ सर्वं वेदति शांभवि | यदस्ति वेधकाले तत्स्वयमेवानुभूयते | प्रवुद्धस्तु न शब्दोति असौख्यं वहुमीश्वरि || वेधविदुः शिवः साक्षान्न पुनर्जन्मतां व्रजेत् | एषा तीव्रतरं दीक्षा भववंध विनोदनी || शिवभाव प्रदादाक्षा दीक्षेयं कुलनायिके | आक्षदंश्चैव कम्यघूर्णः कुलेश्वरि || निद्रा मूर्छा च वेधश्च षडवस्थाः प्रकीर्तिताः | दृश्यंते षड्गुणा ल्लोते वेधकाले कुलेश्वरि || वेधितो यत्र यत्रापि तिष्ठ सुक्तो न संशयः | वेधदीक्षाकरो लोके श्रीगुरुदुर्लभः प्रिये || शिष्योपि दुर्लभःस्तादृक् पुनर्योगेन लभ्यते | न दद्यायस्य कस्यापि इत्याज्ञा पारमेश्वरी || अथ कौलिकानां दीक्षा तत्रैव कुलद्रव्यः समभ्यर्च्य कुलचक्र. म्विधानतः | शिष्याय दर्शयेद्देवि दीक्षैषा कौलिकी स्मृता सिद्धद्रव्यं सुखे पूधर्यपं च द्रव्यो मामृतान्वितं | अभिषिचे प्रियं शिष्यं गंडूषाख्येयमीरिता | सामान्य कौलिकपरं | ऊर्द्ध्वाम्नाय कौलिकानं | दीक्षा तत्रैव | स जायती नील युक्ते सुरया पूजितेन च | पंचामृतैः समं पूर्णसंखये कलसे नवाः | अभिषेकं ततः कुर्याद् वाह्येन कथितः पुनः | मपंचामन कुंडमंडपं ल पूर्वकं शंखं कलस संस्थाप्य पूर्वोक्त क्रमेण नाभि पंचेत् | उभयामेव ग्राह्यं | मीनं तु लंविकादेवि चक्रं च नल उष्यते | पंचव्यो मामृतं पूर्णं शिष्यंतेनभिषिंचयेत् | इत्युभयोवंतरतः लंविका अमृत श्राविनी वाडी चक्रत्वेष्ट चक्रं | पूर्वोलक्षणाक्रांतांतर पंचमुद्रा मृतपूर्णं षट्चक्रं विभाव्य कुंडलिनी संतर्प्यतेन शिष्यं अभिषिंचेत् | इत्यर्थः | अयं सिद्धाभिषेकस्तु आधार्याख्यस्य पार्वति | अयं पूर्णाभिषेक आचार्यस्य पूर्णोभिषेकाह इत्यर्थः | क्रियावत्याह्येषात्व विवरणं | तत्रैव | स्वीकारोदंगेकाष्ठश्च पुष्पांजलिरपि नियोशंखो वेधश्चाभिषेकं गुनाज्ञीं चाष्ठधा विदुः | प्. १०९अ) अष्ठधा अष्ठांगकमित्यर्थः | समयाख्या स्वीकारऽस्च दातव्यमित्यदीकारः | विषेयाख्यादंतकाष्ठं दंतकाष्ठ्यदि देवशुद्ध्यपर्यंतं | साधका पुष्पांजलिश्चमिति पूजका शंखभिषेक | वोधकावेधः शक्तिवेधः पूर्णसंज्ञा अभिषेकः | आर्या मंत्रदानं तु तनयेता मंत्रदेवतादीनां शिष्यस्य साम्यता | निर्वाण संज्ञा निर्वाणत्व विधायिनी आज्ञा आज्ञा संक्रमणमित्यर्थः | समयी दंतकाष्ठेन साधकः कुसुमांजलिः | पुत्रुः शंखाभिषेकेनेत्यर्थः वोधकोवेधसंज्ञय | पूर्णाभिषेके नाचार्यः पंचावस्थाः प्रकीर्तिताः पूर्णाभिषेक कर्तव्ये एकस्यां क्रियावती दीक्षायत गुरोः पंचभिः कर्मभिः पंचावस्था तथा हि दंतकाष्ठांत कर्मणा समयी भवति | कुसुमांजल्यंत कर्मणा साधको भवति शांस्वाभिषेकेन पुत्रो भवति नरकत्राता इत्यर्थः | शक्तिवो धनरोधेके भवति ब्रह्मप्रकाशक इत्यर्थः पूर्णाभिषेकेन पूर्णपंचकलश संगमा आचार्या भवति | आचार्य नामना पित्यर्थः | कुलाचारैक नियता गुरुभक्ता दृढव्रताः | पूर्णाभिषेक पूतायेते मुक्ताश्चात्र जन्मनि || पूर्णाभिषेक हीनाये मृताश्च कुलनायिके | पुनर्नश्चोत्तमं जन्मगुरुणा शिवरूपिणा || शुद्धाः पूर्णाभिषेकेन शिवसायुज्यदायिना | तत् तन्मुक्तिं व्रजंत्येषांतरी वाक्यव्रवीत् || तस्मात् स्नायसाधक पशुपरं | अन्यास्नायोपासकानां पशूनां पूर्वस्मरणे सति परजन्मनि कौलिका भूत्वा मुक्तिं व्रजंतीति प्रागेवक्तव्यं | पूर्णाभिषेकं हीनोयः कौलिको मृयते यदि | पिशाच च मवाप्नोति यावदाहूत संप्लवं || उर्द्ध्वाम्नायं साधक कौलिक इत्यर्थः | कुलार्णवमते | ऊर्द्ध्वाम्नायस्यैव कुलविधात्वं पूर्णाभिषेकस्य श्रेष्ठत्वं तदभिषेक्तानामे प्राधान्यं तत्र एव श्रीचरण मूलमंत्रार्थ तत्ववित् | देवता गुरुभक्ता स्यात् कौलिकःस्या नदीक्षया | इत्यादि वचनात् | दीक्षा च द्विविधा प्रोक्ता वाह्याभ्यंतरभेदतः | क्रिया दीक्षा भवेद् वाह्वावेधाख्याशांतना भवेत् || इत्युर्द्धाम्नाय परं | अंतस्तनूत्रयाच्छुद्धिर्वहिः शुद्धिस्तु दीक्षया इति सामान्यश्चैनिकपरं | दीक्षायाशक्ताशक्तेनेदेन क्रियावत्याद्यया गंडूषार्थ्यया वासंक्षामोकोपदेशेन चांडालोपि विमुच्यतो आभ्यां विना कुलेशानि कौलिको नैव मुच्यते | सामान्यच्च कौलिकमित्यर्थः | ऊर्द्ध्वाम्नायोपासकानां प्रागेवोक्तं | दीक्षा ह्येताः कर्मसाम्ये भिन्नर्थ प्रतिपादका च | अभिसंधान कृद्यत्नादेशिकोत्तमशिष्ययोः कर्मशंभो समाने कर्मणि वाह्यशुद्धि मनःशुद्धि कर्मणि भिन्नार्थकारणभिन्नेति कर्तव्यताकत्वेन प्रतिपादिता इअत्यर्थः | प्. १०९ब्) मंत्राधारं यथा हन्याद् विष शक्तिं कुलेश्वरि | पशुपाशंह्यथा छिंद्याद्दीक्षया मंत्रवीक्षणात् || दीक्षाग्नि दग्धकर्मा सौ माया विच्छिन्न वंधवः गतः परांम्नान काष्ठां निजीर्णं तु शिवो भवेत् | गर्त शूद्रस्य शूद्रत्वं विप्रस्यापि च विप्रता | दीक्षा संस्कार संपन्ने जातिभेदेन विद्यते || शिवलिंगे शिलावुद्धिं कुर्वन् पापमवाप्नुयात् | दीक्षितस्यापि पूर्वत्वं स्मृत्वा तत्पापमश्नुते || अधिवासन पूर्वं तु चक्रपूजापुरःसरं | दीक्षयेतादितं शिष्यमन्यथा निष्कलं भवेत् || शारदायां | ततस्तं सकली कृत्य पदेन तात्मान सात्मवित् | उत्थाय शिष्ये वाससी परिधाय च | आचम्य वाग्यतो भूत्वा निषीदे सन्निधौ गुरोः | देवतामात्मनः शिष्ये संक्रांतात् देशिकोत्तमः || पूजायगंधपुष्पाद्यै नैवेद्यं तारयन् धिया | प्रणमेद्दंडवद्भूमौ गुरुवंदेवतात्मकं || तस्य पादांवुज द्वंद्वं निजमूर्द्ध्नि नियोजयेत् | शरीरमर्थान् प्राणांश्च सर्वं तस्मै नियोजयेत् || ततः प्रभृति कुर्वीत गुरोः प्रिय मनन्यधीः | ऋत्विग्स्योदक्षिणा दद्यात् समंमां प्रीतिमानसः || ब्रह्मणां तर्पयेत् पश्चा शुद्धा भोज्यैः सु दक्षिणैः | उड्डीशे च | ततश्च दक्षिणां दद्यात् संपूज्य गुरुपादुकां | सर्वस्वं वा तदर्धं वा चतुर्थ्यंशी मथापि वा || दक्षिणा नियमस्तु यामले | असीतितो * * * * * * * * * * * * (?) | ततः स्वात्म विशुद्ध्यर्थं लक्षमेकं जपेद्गुरुः || सहस्रं प्रजपेद्विद्वान् देशिको विजितेंद्वियः | लक्षजपाशक्तश्चेत् सहस्रं प्रजपेदित्यर्थः || मंत्रयुक्तो गुरुश्चैव उपवासं चरेद्यदि | मोहाद्वाकामतो वापि कृतिर्भवति नान्यथा || दीक्षा कृत्वा ततो मंत्री उपवासं चरेद्यदि | तस्य देव सदा रुष्टः सापं दत्वा व्रजेत् पुरं || एषा क्रियावती दीक्षा प्रोक्ता सर्वसमृद्धिदा | अथ द्रव्या भावात् कुंडमंडपा भावाद समर्थस्याभिषेकः | यथा ज्ञानार्णवे स उष्मरूपं श्रीचक्रं मुक्तिं तस्य विचिंतयेत् | अभावे तु महाशंखं जलेनापूर्य सुंदरि | कलास्तस्मिन् समावाह्य देवीं पूज्याभिषे वदेत् || उड्डीशे च | अथवा शंखपात्रं तु जलेनापूर्य साधकः | वह्नि सूर्य चंद्रमसां कलास्तत्र प्रपूजयेत् || अग्नीशा सुर वायव्य मध्ये दिक्ष्वंग पूजनं | अस्त्रमंत्रेण संपूज्य मूलं च दशधा जपेत् || शंखपात्रं तु कुंभस्य प्रतिनिधि एवं प्रकारेण कुंभस्थापन समय एव शम्खपात्र स्थापनं | अथ महावाक्य कथन विवरणं ज्ञानार्णवे | दृष्ट्या स लोकयेत्तं तु दृष्ट्या दृष्ट्वां तु मेलनं येत् | आज्ञा संक्रमणं कुर्यात् यावन्निश्चलता भवेत् निश्चल्यं शांभवो माया शून्याशून्य विवर्जितः | प्. ११०अ) शून्यं शिवमयं वस्तु पुरुषः परमेश्वरि | अशून्यं शक्ति वाक्या हि प्रकृतिः परमेश्वरि || शाज्याधिक्येरजःस्थैल्यं संयोगाच्छिवयो यदा | स्वप्नावस्था तदा ज्ञेया योगः सज्याधिकं ततः || शक्तिजाग्रदिति ख्यातो शिवे निश्चलता प्रिये | सुषुप्तिरिति मंत्रज्ञे कथिता लिखितायतः || गुणत्रयं तु कथितं जाग्रत् सत्वगुणाः प्रिये | तमोगुणा सुषुप्तस्तु शिवनिश्चलरूपिणी || शिवाधिक्याद् गुणातीत वस्तुजानीहि सुंदरि | शिवशक्ति समायोगे शिवाधिक्यं यदा भवेत् || तदा समाधिं रानीयात् सर्ववंध निकृंतनं | कला षोडश देवेशि ह्यात्मज्ञान समुद्भवा || श्रीविद्यावीज संलीना शिष्यदेहे प्रकाशयेत् | उत्पत्तिर्जाग्रकोरोधः मनोष्यावृत्तिः एताः जाग्रदवस्थाः कलाः | मरणं विस्मृति मूर्छानिद्रा एताः सुषुप्तेः | अभिलाषो श्रमश्चिंता विषये स्वमनुः स्मृतिः एता स्वप्नावस्थायाः | नैवार्थं च सुमुक्षत्वं समाधिः एताः सूर्यावस्थायाः इति षोडशकलाः शिष्यदेहे स्थापयेत् | इति श्रीविद्या षोडशी विषय एव षोडशी मंत्रोद्धार प्रस्तावो व्यक्तिर्भविष्यति | तया विद्या षोडशार्णा महात्रिपुरसुंदरी | तद्धोमांत मूलस्थेमुन्मनीति निगद्यते || ब्रह्मज्ञान मनः पक्षी तृष्ना चक्षुर्विलंवितः | संकल्पेन विकल्पेन पक्षाभ्यां चंचलः सदा || मोहमात्सर्य कामेश्च क्रोधाऽहंकारदुर्मदैः | संवंध पिच्छ वहुलः कृत्या कृत्य पदद्वयः || संसारष्टक्ष देवेशि धता प्रतादि धूनके | अभिलासफुरत् पुष्पे भविते पातकादिभिः || पर्णपूर्णे वरारोहे पापपुण्य फलान्विते | तत्र साखामये स्थूले स्थित हृष्टाभिधे स्थितं || पक्षिणंतं समाक्रम्य ज्ञानपाशेन पाशनुत् | पक्षिखेलावतो नित्यं कटाक्षैः श्रीगुरोः प्रिये || तेन पक्षद्वयं छिन्नं यदा भवति निश्चयात् | तदा स तुन्मनी भूत उन्मुखो निश्चयात् प्रिये || सर्वसंकल्परहितां कलादशी भवेत् | उन्मनीनाम तस्या हि भवपाश निकृंतनी | उन्मन्या सहितो साया सीनोन्मनीपण यथा कर्पूर गोदीपो न दीपो न पुनः शशी | अत एव महेशानी दृष्ट्या संक्रमणं चरेत् | तत्वमस्यादि वाक्येन पश्चात् साध्यं हि योजयेत् || आदयोनष्ठ संयोज्य पार्श्वेनैव सुलोचने | स्पर्शस्पर्श इवाभाति श्रीगुरोःकर संभवः || स्पर्शेन धातवः सर्वेतौहाद्याः सुरसेविते | सुवर्णतां प्राप्य सर्वे विशिष्टा भरणान्विताः || करस्पर्शस्तु देवेशि प्रपंचमलिनापिकं | लोहत्वं नाशयित्वा हि सुवर्णत्वं करोति हि || करे प्रथफलं कृत्वा ब्रह्मरंध्रे करं क्षिपेत् | तस्माद्ब्रह्मत्वमेवासि वाक्यार्थः स कराद् भवेत् || प्. ११०ब्) अनिवार्योपि देशोयं स्पर्शनाद् ब्रह्मरंध्रके | ब्रह्मरंध्रे सहस्रारे कर्पूर धवलो गुरुः || वराभयकरो नित्यं ब्रह्मरूपी सदानघः | जागर्ति परमेशानि यस्थानांत प्रकाशकः || पं * (?) न् षट्चक्र विज्ञानं शिष्याय प्रतिवोधयेत् | आधारं स्वर्णवर्णं च चतुर्दल सुशोभितं || वादिसांतश्च तु वर्णेर्द्धूत हेम समप्रभः | गणेशसहितं विद्धि स्वाधिष्ठानं ततः परं || इंद्रगोप प्रतीकाशं स्फुरद्विद्रुमसन्निभैः | वादिलांतैः स्फुरद्वर्णै ब्रह्मण मंडितं प्रिये || नीलवर्णं तृतीयां हि मनिपूरंदशारकं | विद्युत्पुंज प्रभावर्णडादिफांतैश्च मंडितं || गदाधर हरिप्रौढं चतुर्थं शृणु पार्वति | पिंगं भित्वा दशावर्णकादिवर्णैः सुलोचने || विस्फुलिंगं प्रभादिव्यैः शिवेन च युतं प्रिये | विशुद्धचक्रं देवेशि धूम्रवर्णं कलात्मकं || स्वरैर्मनि संकाशैर्मंडितं परमेश्वरि | जीवात्मनाधिष्ठितं तज्जानी हि तानंतरं || आज्ञा चक्रं महेशानि विद्युत्कोटि समप्रभं | द्विदलं हक्षषर्णाभ्यां शुभ्राभ्यां परिमंडितं || परमात्म स्वरूपाद्यनादरूपं हि सप्तम | नादो विनानो यस्माहुतस्मात ब्रह्म उच्यते || देहेक्षराणां देवेशि नाद एव तु कारणं | नादः पवनसंयोगा कुंडलिन्यायुतो यदा || प्रसवत् परमेशानि षट्चक्रणो दलेषु सः | पंचाशद्वर्णरूपत्वं ज्ञाप्तवान् सुरवंदिते || अव्यक्तमुरतां प्राप्त उदात्तादिस्वरैः क्रमात् | एवं सर्वयुतां तस्मै दत्वा शिष्याय सद्गुरुः || शिष्योस्तदा सद्गुरोस्तु पूजां कुर्यात् स्वरक्षणां | रत्नाभरण शोभाद्यांन् यदृ वस्त्रधरान्वितां || गृहीत्वा शिष्यवाहूं तु गुरुणा तदनंतरं | वालां प्रवासयेत् कर्णे दक्षिणे ततः परं || पंचसिंहासनगता विद्या च पश्चात् प्रवाशयेत् | ततो रहस्यं परमं महात्रिपुरसुंदरी || प्रकाशये दक्षकर्णे परब्रह्ममयीं प्रिये | सर्वसौभाग्यजननीं भोगमोक्ष फलप्रदां || श्रीविद्या षोडशार्णां तु ब्रह्मानंद स्फुरत्कलां | न प्रकाशये देवेशि सर्वस्वमिव सुव्रते || वेदशास्त्र पुराणेषु यामलेष्वपि सुव्रते | गुप्ता हि षोडशार्णोयं निधानमिव संस्मरन् || वालां प्रकाशयेदित्यनेनांग मंत्रोपदेशः सूचितः | तदुक्तं फेत्कारणीये | उपदेशादंग मंत्रो वलिमंत्रस्तथैव च | ज्ञातव्यां विदुषा सिद्धिरंग मंत्रस्य लाभतः || इति सर्वसाधारणं | असंक्षेपेण दीक्षा विवरणं | उड्डीशे | अथ दीक्षां प्रवक्ष्यामि संक्षिप्तां सिद्धिदायिनीं | यदैवेच्छा तदा दीक्षा गुरोराज्ञानुसारतः || न तिथिर्न व्रतो होमो न स्नानं न जपक्रिया | दीक्षायाः कारणं किंतु स्वेच्छावातिस्तु सद्गुरोः || तदेव लग्नं सु दिनं तारवलं चंद्रवलं तदेव | विद्यावलं देववलं तदेव देवतासादि वलं यथार्थां अथवा ग्रहणे तीर्थे सिद्धिक्षेत्रे शिवालये मंत्रमात्र प्रकथनं उपदेशः स उच्यते | प्. १११अ) ताराकल्पे विशेषस्तु नीलतंत्रे | अष्ठोत्तरशतं होमं वि * (?) पत्रेण कारयेत् | अथवाष्टा दशं होमं अष्टाविंशतिमेव वा || पायसं कृशरं दद्या मोदकं शक्तुशर्करां | वलिं दद्यात् तु छगलं गोधानां स मनुत्तमं || रंभा पुष्पं शालमत्स्यं जुहुयाच्च प्रयत्नतः | गव्यं क्षीरं ततो दद्याच्छाल्पन्नं मधुवायुतं || नारिकेल जलं दद्यात् सान्वयं तदनंतरं | शर्करा संयुतं दद्यात् पायसं मोदकादिभिः || दद्यात् पट्टदुकूले च स्वर्णाभरणकं तथा | क्रमं प्रवर्त्य विधिवत्पूजा होमौ विधायचातां विद्यात् कथंयेत् कर्णे दक्षे शिष्य मंत्रवित् | गोभूहिरण्यवस्नाद्यैस्तोषयेद्गुरुमात्मनः | सर्वस्वं दक्षिणां दद्यात्गांश्च दद्यात् पयस्विनी || भूमिं वृत्तिकरीं दद्यात् पुत्रपौत्रानुयायिनीं | नारिकेलाभ्यंतरस्थशश्येन सहसंयुतं || दद्यादित्यर्थः | अथ शारदोक्त वर्णमयया दीक्षा वर्णात्मिकां दीक्षां वक्षे मागमसंप्रतां | पुं प्रकृत्यात्मिकावर्णाः शरीरेमपि तादृशं | यतत्तस्मात्तनौन्यस्येत् वर्णान् शिष्यस्य देशिकः || तत्तस्थानयुता वर्णान् प्रतिलोमेन संहरेत् | आज्ञया देवता भावाद्विषितो देशिकोत्तमः || तदा विलीन तत्वोयं शिष्यो दिव्यंतनुर्भवेत् | परमात्मनि संयोज्य तच्चैतन्यं गुरुत्तमः || तस्मादुत्पाद्यतान् वर्णान् न्यसेच्छिष्यतनौ पुनः | सृष्टि क्रमेण विधिवतच्चैतन्यं नियोजयेत् || जायते देवता भावात् परानंदमयं शिशोः | एषा वर्णमयं दीक्षा प्रोक्ता ज्ञानप्रदायिनी || अथ कलावती दीक्षा तदुक्तं शारदातिलके | निवृत्ताद्याः कला पंचभूतानां शक्तयो यतः || तस्माद् भूतमये देशहे ध्यात्मतां वेधयोच्छिशोः | निवृत्तिर्जानु पर्यंतं तलादारभ्य संस्थिताः || जानुनोर्नाभिपर्यंतं प्रतिष्ठाप्य च तिष्ठति | नाभिः कंठावधि व्याप्ता विद्याशांतिस्ततः परं || कंठातालु ललाटपर्यंतं व्याप्ता तस्माच्छिरोवधि | शांत्यतीता कला ज्ञेया कला व्याप्तिरितीरिता || संहार क्रमयोगेन स्थानात् स्थानांतरं गुरुः | संयोज्या वेधयेद्विद्वानाज्ञयाताः शिरोवधि || इयं प्रोक्ता कला दीक्षा दिव्यभाव प्रदायिनी | ततो वेधमयीं वक्षे दीक्षां संसारमोचनीं || ध्यायेच्छिष्यंतनोर्मध्ये मूलाधारे चतुर्दले | त्रिकोण मध्ये विमले तेजत्रय विभूषिते || वरयत्र संयुक्तां तडित्कोटि समप्रभां | नवशक्तिमयीं देवीं चेतनामात्र विग्रहां || सूक्ष्मा सूक्ष्मतरा शक्तिं भिन्ना षट्चक्र मंजसा | गच्छंती मध्यमार्गेन दिव्यां परशिवावधि || वादिशांतदलस्थानान् संहयेत् कमलासने | तंषट्पत्रमये पद्मे वा दिशांताक्षुरान्वितान् || प्. १११ब्) स्वाधिष्थाने समायोज्य वेधयेदाज्ञया गुरुः | तान् वर्णान् संहरेद्विष्णौतं पुनर्णाभि पंकजे || दशपत्रेडादिकांत वर्णाद्ये योजयेद्गुरुः | तान् वर्णान् संहरेत् पत्रतं पुनर्हृदयांवुजे || कादिठांतार्कवर्न्.आद्ये योजयेश्चपुरे गुरुः | तान् वर्णान् संहरेदग्निंस्तंभूयः कंठपंकजे || स्वराद्ये षोडशदले योजयित्वा स्वरान् पुनः | सदाशिवेतान् संकृत्यते पुनर्भूसरोरुहे || द्विपत्रे हृक्षलसिते योजयित्वा ततो गुरुः | तदाणी संहरेद्विन्दौ कलायातन्नियोजयेत् || तन्नादेनंतरं नादं नादांते योजयेद्गुरुः | तत्वमन्यो समायोज्य विष्णुवक्त्रांतरेचतां || तत्पुनर्गुरुरस्त्रे च योजयेद्देशिकोत्तमः | सहेवमात्मना शक्ति वेधयेत् परमेशिवे || गुर्वानुज्ञा क्लिन्नपाश तदा शिष्ययतेद्भुवि | संव्रात दिव्यभावो सौ संववेदति तत् क्षणात् || साक्षाच्छिवो भवत्येव नात्र कार्या विचारणा | इति वेधमयी दीक्षातं च तत् क्रमानंतरं मंत्रदान विधिना मंत्रोदये | संस्कारेणैव शुद्धति | स्वप्नवरेक्रतु कलसे गुरोः प्राणान्निवेशयेत् | वटपत्रे कुंकुमेन लिखित्वा ग्रहनेकृते || ततः शुद्धिमवाप्नोति चान्यथा निःफलं भवेत् | गुरोरिति यस्य कस्यापि मनोतिलषितेत्यर्थः || तेन तद्यैव वंदनादिकं कर्तव्यां स्वलब्धे तु संस्कारे नैव दशसंस्कारेण जननादिनेत्यर्थः | अत्र मंत्रसाधकयोरेकीकरणं | तदुक्तं सवोधनतेत्रो संस्कृतं पूजितं मंत्रदत्वा शिष्याय देशिकः | कुर्यादथ तयोरैक्यं शास्त्र दृष्टेन वर्त्मना | तंत्रं संदर्भयित्वां तु नामवर्णैर्यथाविधि || आद्यंते सकलं नाम ततः प्रणवमालिखेत् | स्वराः पत्रेषु संलेख्या ध्यायेत्तान मृतात्मकान् || भुजे रोचन गंधाद्यैः पद्ममध्ये सुशोभने | मृदा पवित्रयावेष्ट्य तत्पुनः | शिवेध केन तु | निक्षिप्य मधुरेतत्तु मृनाये लघुभाजने | क्षीरपूर्ण नवे कुंभे तत् क्षिपेल्लघुभाजनं || धारये देशिकः प्रज्ञमग्नि कुंडसमीपतः | मूलमंत्रेण मंत्रज्ञः सहस्रं शतमेव वा || कुंभे संपातयेद्धैव मधुरार्णा त्रयं शुभं | निधाय निक्षिपेत् कुंभं शनैस्तं महदंभसि || मंत्रसाधकयोरैक्यं भवेदेवं एतद्योन विजानाति नासौ देशिकसत्तमः | रहस्यं कथितं चैव न वदेत् द्यस्य कस्यचित् | पयो मधु घृतसा मंत्रि मधुरं स्मृतं | सहस्रैत्यादि होमकृत्वेत्यनेन इदं तु दीक्षांग किंतु तत्समीपता विभिन्न फलश्रुतेरारंभणीयावदिति || श्रीपूर्णानंदनाथेनकृतायां गुरुभावतः कुलवृत्तौ पटलो * * * * * * * * * * * * * * (?) विवरणं || तदुक्तं भावचूडामनौ || श्रीभैरव उवाच || * * * * * * * * (?) भावसंकेतमेव च | सूचितं तु महादेवि कथय * * * * * (?) || प्. ११२अ) Pअगे मिस्सिन्ग् प्. ११२ब्) Pअगे मिस्सिन्ग् प्. ११३अ) स्वान कल्पया | सर्वतंत्रेषु विद्या सु भाव संकेत एव च | विशेषा तत्रापि शक्तितंत्रेषु विशेषात् सर्वसिद्धिद || श्रीदेव्युवाच | भावस्तु त्रिविधो देवी दीव्यवीर धनु क्रमात् | गुरुस्तु त्रिविधा चात्र तथैव मंत्रदेवताः || आद्यभावो महादेव श्रेयान् सर्वसमृद्धिदा | द्वितीयो मध्यमश्चैव तृतीयः सर्वनिग्रहः || वहुजपास्तथा होमात् कामाद्वेशादिविस्तरैः | न भावेन विना सिद्धिदेव तंत्रमंत्राः फलप्रदाः || किं वीरसाधनैर्देव किं वा कृष्टि कुलाकुलैः | किं पीठ पूजने नैव किं कन्या भोजनादिभिः || स्वयोपित प्रीतिदानेन किं परेषां तथैव वा किं जितेंद्रिय भावेन किं कुलाचार कर्मणा | यदि भावविशुद्धात्मानस्यात् कुलपरायणः | भावेन लभते मुक्तिं भावेन कुलवर्द्धनं || भावेन गोत्रवृद्धिः स्याद्भावेन कायशोधनं | किं न्यास विस्तरेणैव किं भूतसिद्धिविस्तरैः || किं तथा पूजने नैव यदि भावो न जायते | केन नो पूज्यते देव न च केन न पूज्यते || फलाभ्यवश्च देवेश भावा भावात् प्रजायते | एतद्रहस्य कथयेत् कल्पते मम मानसं || त्रिनोवीमत्सवीप्रायः सर्व एतत्समागमः | नोवीक्ष्ये निर्जनस्थानं कथं तत्कथयाश्रिते || श्रीभैरव उवाच || मत्प्रसादान् महादेवि विद्या स्वप्न प्रवोधिनी | सर्वमाया प्रवंचानां दिक्षा दक्षा ममाग्रशः || विद्यते देव व सर्वेषु भूतानः स्वापयोजनकरामि कथयत्वं वै यदि पुत्रत्वमागतः || श्रीदेव्युवाच || प्रथमं दिव्यभावंस्तु कथ्यते शृणु पादुकं | यद्वर्णा देवता यत्र तत्तेजः वुंजपूरितं || तेजोमयं जगत् सर्वपि भाव्यमूर्ति कल्पनं | दिव्यभावाश्रितस्यैकं कर्मरशुद्धा दिषु ज्ञेयं || तत्तन्मूर्तिमयं द्रव्यः स्वैन स्वेनैवरः पुनः | आत्मानंत स्वयं दृष्ट्या सर्वं भावं तथैव च || तत्सर्वं योरिति ध्यात्वा चिंतयेद्यतमानसः | अस्यार्थः || द्रव्यैर्घटपादिभिस्तत्तदेवतामूर्तिस्वरूपेः | सर्वजपज्ञे रुपत्वेन विभाव्येत्यर्थः स्वेन स्वेन घटपटत्वादि रूपेन वेत्यर्थः | त स्वयं देवतामित्यर्थः | भावयेयोषिदेव देवतारूपत्वेन चिंतयेदित्यर्थः | इत्यर्थकं | अशेष कुलसम्पन्ना नानाजाति समुद्भवा | नानादेशोद्भवा वापि गुणलावण्य संयुता || द्वितीयवत्सरादूर्द्धं यावं स्यादष्टमाद्दकं | तावत् कुमारी विज्ञेया तंत्रमंत्र फलप्रदा || कुमारी पूजनाद्वापि कुमारी भोजनादपि | एकद्वित्र्यादिवीजातः फलदा नात्र संशयः || भाजिता पूजिता कुमारी एकद्वित्र्यादि वीजानां वीजाभनोपासना क्रमेण क्रमेण यत् फलमस्ति यथा संख्येन तत्फलदात्रीत्यर्थः | ताभ्यः पुष्पं फलं वापि अनुलेपादिकं तथा | वाला प्रियावत् दैवक्यं दत्वा तद्भावपूरितः || प्. ११३ब्) तद्भावो देवता भावांसेन इत्यर्थः | ध्यात्वा तदंगेष्वात्मानं वालभावविवेष्टिताः | ताभिः प्रिय कथालाप क्रीडा कौतूहलादिभिः || यथा तथा तत् प्रिय कृत्कृत्वा सिद्धीश्वरो भवेत् | इत्यप्येकं कर्म || तस्मात् षोडशपर्यंतं मूर्तीं प्रवक्ष्यते | तत्र भावैः प्रकाशांशं स भावः परमोमतः | चरणान् मूलपर्यंतं पीत्वा पिव पुनः पिवेत् || दृष्टेत्यर्थः | तस्या रश्मि शशि ज्योत्स्ना खंडितांत तमो भवत् | कमठी कर्परीकार प्रपदांश्चल शोभया || स्निग्धांतः करणौ वीरो निर्विकारः सदा भवेत् | निर्विकारः कामभाव सून्य इत्यर्थः | स्ववृत्त जानुनाचार जंघोरुजघनाश्रयैः | नाभि रोमावली वक्षःस्थलैः पीनपयोधरैः || ग्रीवा नयनपर्यंत केशाग्रैः प्रवरस्मितैः | श्रीकुर्वायार मधुमदी पूर्णनदीनैर्भावलोलितैः | श्रवंति मधुमधुरद्रव्यानितैर्योमदः आस्वादःतैः पूर्णैरित्यर्थः तृतीया वहुवचनां विशेषणं शाक्तयोर्भावः साधकोस्तेन लोलितै स्निग्धैरित्यर्थः | स्निग्धेंति येन संतुष्टश्चतुरांगपदाननः | इत्येक. कर्म | निवृत्तिकाले पुनस्तस्या भावपूर्णामृतैनिजं | मुखविंदुरदाकारं | सर्वविद्यासृता पूर्णं सर्ववाग्भि भवप्रदं | सर्वार्थसाधकं देव सर्वरंजनकारकं || तदधः स परार्द्धं च सुपरिस्कृतमंडलं | सर्वदेवासि संभूतं सर्वमेव नमस्कृतं || सर्वाह्लादन संपूर्णं सर्वरंजनकारकं | सर्वार्थसाधकं देव सर्ववस्य प्रवर्तकं || एतत् कामकला ध्यानं सुगोप्यं साधकोत्तमैः | एतद्वाह्य शरीरभेदचिंतनं | ध्यात्वा दृष्टवाथ वाह्यात्वा कामकलान्वितः क्षणं तत्वविमर्षेण जायते भावसंचयः | ध्यात्वा दूरस्थां शक्तिरित्यर्थः | दृष्ट्वा कामकलारूपमित्यर्थः दृष्ट्वा वाह्यशक्तिं ध्यात्वा कामकलारूपंमित्यर्थः | कुलेषु यत् कलारूपमकुले परविंद च | कुलीनो जायते यस्मात् कथं तत्कथयामिते || जले साक्षायुतस्तद्व स्वयं तिष्ठति तत्वतः | तेन तत् कुलशास्त्रज्ञैः पूजनीयं प्रयत्नतः || कुलदेवी चात्मदेकाचात्मदेवीं निश्चला यस्य विद्यते | साधकाः पुरुषो लोके निश्चलादय एव सः | कुलेषु शक्तिषु यत् कामकलारूपां ध्यातं || तत् कुले साधके पुंसि इत्यर्थः | यत् कुले कुलदीक्षा तु नस्यात् पापी स एव हि | यस्य कुलेकुलमंत्रग्रहणमितर्थः || माता पितृकृतं नाम वर्जनीयं प्रयत्नतः | परयोषाधिकाज्ञेयानिजा श्रीप्रीतिवर्द्धिनी || आगते स्वागतं कुर्या प्रीणात्मागात् सु लीलया | तल्पामुत्था महस्ताग्रे धृत्वा शषेशयेत् ततः || वामभागे समासीनां सुवर्णा कामरूपिणीं | ध्यात्वा कामकलां तत्र विंद्वा पूर्ण विग्रहां || प्. ११४अ) केशरिन्पाल तिलकं हरेकेयूरयावरं | सर्वकल्पं विलोक्यादौ कुलद्र्व्यं निवेदयेत् || हेतुयुक्त तांवूलं दत्वा भुक्त्वा तु साधकः | पृच्छेत् कुलकथां सर्वो लौकिका लौकिकादिकां || स पंचाद्भव पुष्पाणि कीर्तितानि लतादिषु | न करोति कुलाभिज्ञः सिद्धोपि नस्यति ध्रुवं || दृष्ट्वा दोषादिकं तत्र स्नेहा विस्कृत सिक्षया | भावयेन्न कटुक्त्यां वै कृतेषु निष्फलं भवेत् || कुलशास्त्रै रहस्यं तु कुलमूलं युतः प्रभो | वरं कुलमनस्त्यागोचरं कुलमनोरपि || नत्याग योग्यं स्वकुलं दृष्टदोषमपि प्रिये | कुलवृक्षे स्थिता चाहमकुलं पोषयाम्यहं || तेन सर्वप्रयत्नेन मणीयं प्रयत्नतः | स्वकुले कुल वाहुल्यं यदि स्याद्भाग्य योगतः || समरूपं विधातव्यं वैपरीत्यं विवर्जयेत् | पृथक् स्थानं पृथक् स्थानं पृथक् पूजा पृथक् स्तुतिः || न कर्तव्यं प्रयत्नेन किमेति वहुजल्पितैः | तासां निश्वपि योगेन तद्देशश्चैव नश्यति || प्रमोदाद मृतस्नानं नमस्यान्नात्र संशयः | कुलजाहं वीरास्फारणकारिणी | न दोष मनुगच्छामि पालयामि यतो जगत् | मौखययंवति विद्वेषः कटुक्त्या कलहादिकं || नीचाभिगमनाच्चैव न हे वहराप्रिये | ब्रह्मांडभांड संभेद तेन जीवेत स सिद्धियुक् || विना कुलेन यत् सिद्धि न कुत्र प्रतिपद्यते | भैरव उवाच | चतुर्था श्रमिनां देवि मोक्षदातुं दथप्रिये | कुलभाव विरोधित्वात् संशयं वमदूरय || श्रीदेव्युवाच || मोक्षद्वारं तु वहुधायद्यस्ति कुलभैरव | कैवलं कुलयोगेन प्रसीदामिन संशयः || यदि न स्यात् तदा वत्स शृणु तत्कथयामिते | ज्ञानभाव समुत्पन्ने संप्रार्थ्य निजकौलिकी || तस्मान् मया विमुक्तः स्यात्तां संगृह्यं कुलांतरे | कुंडलीं शक्तिविवरे तदा योगं समभ्यसेत् || निर्द्वंद्वो निरहंकारः शुद्धा नाडीगणोवृती | मृद्वासने समासीनः खगसंयमनेरतः || मेरुदंडवहिः पार्श्व चंद्रसूर्यात्मिके शिवे | मध्ये सुषुम्ना संदिष्टा तन्मध्ये व्यक्त रूपिणी || तथैव ग्रथितं सर्वमूलादि पद्मपंचकं | कलिकाररूपेण डाकिन्याद्यलंवितं | यथा कलिकया माला * * * (?) ग्रथ्यते तथा | पद्मानाम स्फुटत्वात् | मूलद्वार समाश्रित्य स्थिता नागस्वरूपिणी | वायुनाभिद्यते वक्त्रं दृढं विद्रावयेत् ततः || आकुंचयेदित्यर्थः | उत्स्वसोज्वलकामस्या शिखायाति समुज्वला | कामलिंगस्य शिखायाति शिखा वा शिखा दीपा शिखा तुल्यत्वात् | कामकलाया | प्रतिचक्र प्रवुद्धासौ जीवात्मानं परे कुले | वियोजयति तद्योगाद मृतं क्षरते चिरात् || व्योम प्रोद्भिद्यमानं तु गतौ चंद्र दिवाकरौ | इडा पिंगलानाड्यौ * * * * * * * * * (?) || अधोवक्त्रं महापद्मं क्रोडीकृत्य सुषुम्नया | क्रोडीकृत्यमित्यर्थः | व्योमपद्मस्य विशेषणं | प्. ११४ब्) व्याषूढ्यनासिका मध्यंगता चित्रांतरं ततः | नासिका मध्य चंद्रादिवाकरौगता चित्यर्थःगता चिंत्रांतरमिति गणेशात्रयः | उर्द्ध्वंभित्वा लिंगस्वैहं तवं पुस्करं ततः | वहिरद्यामनाकांख्याकांक्षिणीं मोक्षदायिनीं * * * * * * (?) एतद्भेदं विजानाति भित्वा जीवपरं पदं | अदुष्ठधा तु जीवो सौ वहिर्जानि दिने दिने | दिनेशांगुलिमानेन तदर्द्धं चोपवासितः || अर्द्धाधिक्यमित्यर्थः तेनाष्टादशांगुलमित्यर्थः | द्विगुणं रतिकालेस्याद्विगुणां भोजनाद्वहिः || अत उर्द्ध्वं वहे देवि द्विगुणं यदि भैरव | तदं वा तदधः प्राणः शरीरं परिमुंचति || अतः उपवासादितः सूनमिति अष्टादशांगुलमित्यर्थः | शरीरसमतां न्यूनं वा वटुकेश्वर | कुंभयित्वा आधारवायुं कुंडली मुखवर्त्मनि | योजयित्वा ततो जीवं चित्र नीत्वा नादावसनकं | गमागम कारयित्वा सिद्धो भवति तत्परः | पीद्यते खाद्यते यद्यत् तत्सर्वं कुंडलीमुखे || हुत्वा सिद्धिमवाप्नोति रसवंधे स वध्यते | भिक्षाकार्यनि च स्वार्थे कुंडलिन्याः कृते पुनः || रेमातर्देहि मे भिक्षा कुंडलीं तर्पयाम्यहं | अवधूता श्रमे स्थित्वा भैरवागमवत्पराः || भैरवोहं न चान्यस्मिन् देवोमत्परः क्वचित् | तंत्रमंत्रार्चनं सर्वंमयिजातं न चान्यथा || शिवोहं भैरवानंदोमत्तोहं कुलनायकः | रक्तचंदनादि रक्तकौपीन भूषणाः | रक्तमाल्यां वरधरो हेतु मुक्तः सदा भवेत् | एवं भिक्षां व्रजन् भिक्षुः भैरवागमवत् परः || क्षीय तेन च पापेन वध्यते नवचंदना | पत्रदेशे द्वयं याति स देशःक्षितिनामकः || अत्र निंदापराये तु वचनस्यंति क्षणप्रभो | तस्मा यत्नात् पूरितव्यो वतिवस्थार्प एव हि || यत्रेच्छा विद्यते तस्या तत्कार्यं प्रियम पियं | तदान्य देवदेवेश विनोपहारविस्तरं || पूजयंतं महादेवीं कुलाद्याहृष्टिमात्रतः | पुष्पं गंधं च तांवूलं नैवेद्यं यत्र यद्भवेत् || मनसा तत्समुत्सृज्य वाह्यतः कुलकारिणा | आत्मा न तत्समायोज्य देवीरूपं कुलेश्वर || न पूजानापितन्न्यासो न निष्टा न व्रतादिकं | पूर्णोहं भैरवश्चाहं नित्यानंदोतमव्ययः || निरंजन स्वरूपोहं निराकारस्त्वहं प्रभुः | सर्वशास्त्राभियुक्तोहं सर्वमंत्रार्थपारगः || ना स्मात् पर ततो देवो न जाता ननु निष्यति | आनंद रूपवान् भूत्वा सर्वेषां प्रियकारकः || मुक्तव कुसुमत्स्यामित्याज्यं दिव्य विलिप्रियः | नानासुगंधि संयुक्तं मांसादि भोजनं चरेत् || सुगंधान न तैलाद्यै नीलांगरागविस्तरैः | स्नानं कार्यं चाति शुद्धं सूक्ष्मं वासो विवासयेत् || सुगंधि पुष्पमालाभिः सुवर्णालंकारभूषणैः | स्निग्धं स्वमधुरं देहं कामरूपं मनोहरं || प्. ११५अ) कृत्वा सुमंगलं देहं मृदुभाषण तत्परः | कुलालापन संधाया कुलरूपं विचिंतयेत् || विहरे दिवसे चैव रात्राव ज्योति तत्परः | आनीययोषितः सर्वाजात्यष्टक समुद्भवा || गंधानु क्रमतो देवनाम्ना प्रायान् महेश्वर | यास्यात् प्रथम शक्तिस्तु अर्थावधूत लक्षणं || तदुक्तं यामले | श्रीदेव्युवाच || लक्षणान्यवधूतस्य कथयस्वमयि प्रभो | श्रीभैरव उवाच || न योगी न भोगी न वामोक्षकारी | न वीरो न धीरो न वा साधनेंद्रा न शाक्तो न शैवो न वा वैष्णवो वा वधूताश्चिदानंदरूपाहमात्मा | विभूत स्त्रिगुणं रक्तवासो दधानः कपालंगले नागसूत्रं संगान पूर्णः प्रशन्नानरेषु | विरोजावधूता द्वितीयो महेशः | श्रुतौ कुंडल श्रीगले मुंडमालं करे पाणियुग्मे हंतहाला | परित्यक्त कर्मालयत्यंतमर्माधरण्या विवेकी विरोजवधूतः | न जातिर्नशुचं न वृत्तिर्नधमो न पापं न पुण्यं न वंधो न मोक्षः | न दानं न पूजा न यंत्रं न मंत्रोधरण्यां न रोधेंजवधूतो विवेकी | श्मशाने गृहे रात्रिरण्ये त्रिणेवातनूजेरिपौ वाहूताशे जले वा | समत्वेन नश्यन् दृशा मोक्षदाता विवेकी विरोज वधूतो महेशः | चिताभस्मभूषाभवोवि लक्षीमहिं साक्षमाशाति धर्मानुतश्रीः | प्रचंडोदयात्मा सदा हृष्ट चेता विरिसमुक्तो वधूतो महेशः | निजस्तपस्यन्मनोतिर्नितांतं पवित्रं संसारं स्वयं लक्षणेनः | समंतादसारं जगन्मन्यमानीविराजै वधूतोवतारः प्रवीनः | अभेदेन पश्यन् वुजाद्ब्रह्मणो चैवने वा गृहे वा समानानुरागः | धुनानः समंतात् सु कर्म प्रपंचं वरस्यैवदातांवधूतो महेशं | शुद्धांतः करणात्मिका | शुद्धावमनसांज्ञात्री दिव्यगंधा मनोहरा | साहं स्वप्नावती देवी तन्मंत्रं तत्र योजयेत् || शुद्ध पुष्पाश्च नैवेद्यं लवणैर्मधु संयुतैः पूजयित्वा यथा पूर्वं साधनं तत्र माचरेत् | या कृष्णा नीलवर्णाभा मधुपिंगललोचना साधकानां सुहृदया पुंगंधा नित्यगंधिका | तस्यां कालीममायाज्या सा काली परिकीर्तिता | तत्पुष्पैश्चैव नैवेद्यैश्च पूजयेत् | मास्या तृतीया गौरांगी मधुगंधा सुलोचना | त्रिपुरनाम सा देवी रक्त पुष्पेण पूजयेत् || मदगंधा तु या नारी मदस्थान मदस्रुवा | मुक्तां आमिषगंधेन महिषासुरमर्दिनी || मदगंधा च या नारी रक्तनेत्रारिनिष्ठुरा | मे पूजावेति विख्यातामता पापविनाशिनी || अनुगषण तु या नारी दीर्घ जंघा मनोहरा | सास्याच्चकिलगोराक्षी अश्वारूढा वरप्रदा || आमगंधा च वदने पूति गंधा च संधिषु | नीलवर्वरकेशाय सास्यार्द्राव मनोन्मुखी || प्. ११५ब्) सर्वलक्षण संयुक्ता नानागंध समाकुला | सुंदंती चारुकेशी वदीर्य नेत्रा मनोहरा || नानाविलास कुशला कुलशास्त्र विचारिणी | सुंदरी शांभवी देवी सर्वकार्य प्रवार्द्धनी || एतस्यागः समायुक्तानागतः परिकीर्तिताः | राक्षितव्याः प्रयत्नेन अक्षतस्तोन कारयेत् || स्वयं कामेश्वरो नाम्ना भूत्वा कामपरायणः | भावशुद्धिं विधायैव भावशुद्धिं समाचरेत् || मूलयोगे कृते तत्र सप्ताहान् मरणं भवेत् | न विष्णुर्नर्हवि शंभुर्नदेवीर्न च षोडश || न च मृत्युंजयो वापि तन्यासो न च भावना | तस्य मृत्युक्षये वापि प्रभवंति न देवताः || शस्त्रेण शूरयोगेन नागदष्ट विशेषेण वा | वज्रेणाभि ज्वरेणैव महाव्याधि वशादपि || श्रियते तेन पापेन सत्यं सुव्रत नाहुतं | देवकृत्या तु वहुला दृष्टादृष्त विभेदतः || विशेषतोत्र देवेश किमन्यद्वब्ज जल्पितैः | मायया छाद्य चात्मानं निजस्त्री रूपधारिणी || आगत् परमते शीघ्रं तेन वश्यंतितं ध्रुवं | तस्मात् स्वदेशे नैवे तत् कर्तव्यं सिद्धिमिच्छता || किमुकामविलोपार्थं यतितव्यं महेश्वरः | कर्मदंडं समासाद्य शिवसाम्यं विद्याय च || तद्गात्रं चक्रसूत्रेण वेष्टनं सप्तधा कृतं | पाशत्वं सर्वधूताना रक्षणाय स्वयंभुवा || निर्मितासि महाभाग उग्रं वंधो विधीयते | एवमासं त्र्यनताप्त शिवांगं सप्तवेष्टितं || जाग्रद्दशा समासाद्य स्वापमंत्र ततो जपेत् | आग्नेयादि भेदेन स्वासानुक्रमेण जग्रदशाच्चया || संहारः स्वप्नवोधिन्या पुटितं प्रणव वारत्रयं | सापमंत्रः समाख्यातः सुखदः सर्वजंतुषु || एवं जप्त्वा त्रयो देवो महेशाधिक एव च | कुलं यदि स्याप्तद्योगं च चूलं स्मरलोलुपं || तदाक्षेपा विधातव्यान् कार्यं कर्हिचिद्वुधैः | वरांशि शृणु मद्वाक्यं मारयोः शृणु हेतुकं || एतत्कार्यं समासाद्य कर्तव्यं तव चेष्टितं | निजं कार्यंविधाय साधकोत्तमैः | वक्तव्यं न च कर्तव्यं मूलयोगं महेश्वर | वीरपत्नीं वीरकन्यां वीरांगणवरांगणा || नाकृष्याः साधकैः पूर्वं यावत् स्यान् मनसः स्थितिः | मनः क्षोभे तत्र जाते मूलयोगेन यत्फलं || तत्फलं जायते देव सत्यं सत्यं न चान्यथा | वीरपत्नी तु परमा स्वयमेव महेश्वरी || तत्सुता कुलविद्यानामाद्यावे त्रिपुरातना | तद्वधूर्त्तववेशानी सर्वमंत्र प्रवोधिनी || न्यायतो न्यायतो देवि वीरपत्नीं गुरोपि च | वीषणादेव सर्वार्थसाधको भवेत् | यदि भाग्यवसाद्देवि वीरपत्नी तु लभ्यते | फलपाकं ततः कृत्वा किन्न सिद्ध्यंति भूतले || फलं व्याधि विधारं तु सर्वदेव नमस्कृतं | कथयामि महादेव न प्रकाश्यं कदाचन || दृष्ट्यारुष्टा कुलदेवगंधर्वकिन्नराः | आयांति फलपाकार्थं तस्माद्यत्वाद्विचिंतयेत् | विसर्जन विधातच्छेपां पानं भागशात्मिकं || प्. ११६अ) तत् तत्कल्पविधानं तु कुलं कुर्यात् सुशम्मितं | मातः पतिव्रता धर्मा धर्मो न द्विजगत्रये || पतिः श्रापप्रदो नित्यं पतिरेव परागतिः | पतिरेव परंब्रह्म पतिः प्राणधिकः प्रभुः || सर्वतीर्थमयः श्रीमां सर्वदेवमयः पतिः | सर्ववेदमयश्चैव पतिरेव महागुरुः || आगत्योपविशेत् पार्श्वे मुखं वीक्ष्यं स्थिता भवेत् | पतिभावेंशिते दक्षा हृष्टासात् परिदर्शने || उत्तरेणोत्तरं दद्याद्व्याहरेद्भुतकर्मणि | सर्वदेवमयं हित्वा या नारीपरगोचरा || शृगाली गर्द्धनीकारी शूकरी जायते ध्रुवं | अहं तु पुत्रवद्देनं विरात्र भूत तत्रपाः || तवा संगोयाहि याति रूपधरः क्वचित् | मूलमंत्र जपं तोयं तद्गात्रे देममीश्वरि | तदा यदि वहिर्नस्यात् तदाज्ञपंति वै रसः || इत्यादि शिक्षया कार्याः शिक्षिताः कुलयोषिताः | रक्षा कार्या विधानेन पूर्वोक्ति न च वर्णना || योगिनीनां महापूजा वटुकानां च भैरव | कार्याविधु विलोपार्थं कुलवारर्क्ष योगतः || तेषां मानतरोर्मूले मूलविद्यां तु कामितां | लिखित्वा शेषकाले तु ततो विघ्नैर्नलिप्यते || वीरपत्न्या मूलदेशेन कापिमंत्रयोजनं | विसर्जतं विधौ देवि यदा यत्फलपातनं || तद्रूपे प्रीतरे तस्य कुलस्य कुलवित्तम | तद्रूपं विग्रहं कृत्वा भैरवा वटुकादयः || तत्र वीजार्पणं कृत्वा कुर्वंति फलरक्षणं | विज्ञैर्वाक्यैः पदैर्द्देव ज्ञात्वा फलसमुद्भवं || देवराजं मवैक्लांतं यथा विज्ञान शास्वतः | ज्ञात्वा फलविज्ञानं तु पंचमत् परताप्रभो || सप्तमाष्टममासाद्वामृक्षमध्यसरोरे | हस्तं दत्वा पादुकाख्यां विद्यां संहारयोगतः || रूपेदष्ट सहस्रं वै स्वयं वृक्षात्पतिष्यति | एवं यत्पतति तत्फलं देवनिर्मितं | अस्वामिकं च पातति वै परित्य समागमांत् | एतल्लिंग फलं ज्ञात्वा आनीय क्षालयेत् ततः || दोषभागं परित्यष्ट फलवृक्षं प्रणम्य च | दोषभागं तदस्तां समनां नाडीमित्यर्थः || ताम्रपाते महारण्ये फलपाकं समाचरेत् | लक्षादिकं विधामेवं कटुत्रय समन्वितं || नानासुगंधिसंमिश्रं सिद्धं ज्ञात्वा विचक्षणः | संस्कृतां नरमध्ये तु आघोरं होमयेत् ततः || अघोरस्तु होमसारे उक्तः धेनुमुद्रामृतीकृत्य होमं कुर्याद लक्षितः एतावेवं विधायैवं यज्ञशेषं भुजेत् ततः | भुक्तमात्रे तु तस्मिन् वै चिरजीवीक्षिता भवेत् | मुख्या मधुमती तस्य करस्था भोगदायिनी || दिव्यभावः साधकेंद्रोमर्त्ये शक्र समो भवेत् | दर्वकां प्रियकारित्वा मोक्षदाहं महेश्वर || साधकानां कुलज्ञानां न दोषः फलपातये | अस्त्रैव फलपाकार्थं प्रवर्तंते समोपतः || प्रपदा समभंगात वेदागमयोर्ववोधे | पर्युदा केनैव निवोध भ्रमः इति | प्. ११६ब्) एतत् फल निपातार्थं फलवष्टा पदे पदे | विघ्नं करोति सर्वत्र निजसंकोच कारणात् || कल्पवृक्षो परितथा विघ्नना चरति ध्रुवं | फलवृक्षंस्यहानिश्चेत् कदाचिद्दैव योगतः || साधकोपि तथा देवभावनात्र विकल्पनं | वाचा वाम न सारांशिकायाद्वा यदि वाध्यते || फलवृक्षस्तदा देवो नश्यंति स्मरशासनं | सध्यते कुलवृक्षश्चेत् साधकस्य कृते प्रभे || तावन्न कुलपूजास्या यावन्न विकृतिर्भवेत् | तावन्निज कुलालापो वर्जनीयः प्रयत्नतः || एतत्पार्श्वविशेषणेति योग्योनास्ति महीतलो अतिदूरतरेदेशे नामवर्ण विविर्जितं | करोति यदि भद्रं विघ्नं या फलसाधनं | द्यं फलं समनु प्राप्य क्रियते यदि पारगः | फलं भवति देवेश पापैनं वाध्यते ध्रुवं || मुख्या मधुमती तत्रं जायते नात्र संशयः | मधुमत्याः फलं देव कथयामि शृणुष्वमे || सुधा धारधरा राशी वक्त्रात् तस्य प्रजायते | सर्वज्ञः सर्वशास्त्रेण मधिपः सुरनायकः || चंद्रसूर्यावधिः पृष्ठ्याभुनक्तिर्वहुलं सुखं | चिरकालंतरि स्थित्वा चांते मुक्तिमवाप्नुयात् || लक्ष्मीं तत्र महादेव सु स्थिरं सर्वदा भवेत् | मंत्रं स्वप्न प्रवोधिन्या अवश्यं वृक्षमूलके || योजनीयं प्रयत्नेन च विघ्नं प्रजायते | एषते कथिता देव दिव्यभावः सुखावहः || न देयो यस्य कस्यापि पशौगोप्य प्रयत्नतः | वीरभावो महादेव कथ्यते शृणु भैरव || निर्द्वंद्व मानसो भूत्वा हृदा कला तनुः | निशा प्रसन्न प्रवरो हेतु मुक्तः सदैव हि | नैजं कुलं समादाय स्वयं भैरव रूपधृक् || कुलं च भैरवीरूपं तद्गात्रे न्यासनिस्तकं | विन्यस्य सकलं न्यासं नवयोन्यात्मकं तथा || प्रसून तूलिका मध्ये पुष्पप्राकार संकुले | नानागंध समाकीर्णे कुलद्रव्येन यंत्रकं || लिखित्वा पूजयेच्छंखं घटस्थापन पूर्वकं | स्ववामेवृत्त षट्कोणं तन्मध्ये ब्रह्मरंध्रकं || लिखित्वा तत्वकुंभे वै सौवर्णं राजतं च वापि यद्वा लौहरि वज्रितं | स्थापयेत् कलया देव कुंभं गंध सुवासितं | हेतु द्रव्यं ब्राह्मणादिभेदतः परिपूरयेत् || तर यंत्रं विलिख्यादौ यद्यत् कुलसमुद्भवं | ध्यात्वेष्ट देवतां तत्र जपेदष्टोत्तरं शतं || धेनुमुद्रां समासाद्यता मृतं त विचिंतयेत् | दृष्ट्यार्घस्यत पात्रश्वै नृत्यंति योगिनीगणा || नृत्यंति भैरवाः सर्वे नृत्यंति मातरोगणाः | इंद्रादयः सुराः सर्वे नृत्यंति मधुलोलुपाः || ब्रह्मविष्णु महेशाद्या नृत्यंति हर्ष तत्पराः | अर्घ शृणु त्रिधा कृत्वा गुरवे चैकभागकं || एवं कुलाय दत्वा वै एकेन देवतर्पणं | पीत्वा कुलरसं देवनानालंकारभूषितः || साक्षाद्यदि गुरुं तस्या त्दा तोये विसर्जयेत् | आनंद रूपवान् भूत्वा पूजयेत् परमेश्वरीं || प्. ११७अ) तत् तत्कल्पोक्त विधिना तत्र मंत्रं प्रपूज्य च | विसर्जनं विधायाथष्वकुले योजयेन्नतः || तद्विं वर स पानेन अमृतं भुज्यते मया | तच्चोकोर रसास्वादैः सम्यत्तुममजायत || तत्फलश्वथनं देव सु मेरुं शृंगरोहनं | लतालिंग न मात्रेण सुधा धौतं कलेवरः || मूलयोगे कृते तत्र जपेदष्टोत्तरं शतं | तपपूतं हविर्द्रव्यं गृहीत्वा तर्पयेत् ततः || विधाय तर्पणं देव प्रदक्षिण मनु व्रजन् | प्रणम्यस्तुत्वा कल्पोक्तस्तवेन तोषयेत् ततः || इति वीजपूजाक्रम | इदं वीरकुलं देवसुंदरं सुमनोहरं | यद्देशे विद्यते वीरस्तत्कुलं वापि भैरव || न च मारीभयं तत्र न च राजभयादिकं | सुमंगलं सदा तत्र धनपुत्र विवर्द्धनं || लक्ष्मीस्तत्र महादेव सुस्थिरा सर्वदा भवेत् | मंत्र स्वप्न प्रवोधिन्या अरण्यं वृक्षमूलके || योजनीयं प्रयत्नेन न च विघ्नं प्रजायते | नान्य वीरेण तद्योग्यं ग्रहने दैवतैरपि || योगिनीभिस्तु युक्तं तत् न च पापेन युज्यते | यत्र देवकुलेवारे श्मशाने गमने कृते || पक्ष पूजाफलं तत्र सप्तवासर सम्मितं | चतुर्दश्यांगते तत्र पक्षे पूजाफलं भवेत् || न गतेनार्चिते तत्र पशुरेव न संशयः | नान्यस्मादधिको देव इति चिंतापरायणः || साधके क्षोभमापन्ने मयि क्षोभ प्रजायते | तस्माद्यत्नाद्भोगयुते भवेद्वीरः * * (?) सुधीः || भोगेन मोक्षमाप्नोति भोगेन कुलवर्द्धनं | विना हेतुं समासाद्य क्षोभयुक्तो महेश्वर || न पूजां मम संकुर्या न ध्यानं न च चिंतनं | तस्माद्यत्वाद्भोगयुतो भवेद्वीरवरः सुधीः || तस्माद् भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरीं | न क्रमच्युति क्रमदोषोस्तिनाचार दोषदूषणं || यद्यद्वदतिं निद्राति यत्करोति पदर्चति | तत्सर्वं कुलरूपं तु ध्यात्वा तद्विहरेत् सुधीः || एकाकी निर्जने देशे श्मशाने पर्वते वने | शून्यागारे नदीतीरे निःसंगो विहरेन्मुदा || वीराणां जपकालं तु सर्व एव प्रशस्यते | सर्वपीठे सर्वदेशे कर्तव्यं नात्र संशयः || यदि भावभवे श्रेष्ठ कुलद्रव्य परायणः | तदानेन विधानेन कर्तव्यं कुलतोषणं || विप्र इति स विकल्पिद्विज परं | सौत्रामन्यामित्यादि वचनेन ब्राह्मणस्यापि मुख्याधिकारित्व श्रवणादित्यादि प्रागेव प्रपंचितं | अपरा पुष्पगर्भे तु कुलस्थानं मनोहरं | सर्वदेवमुखं तत् तु महाकाल कलात्मकं || तया किं कुसुमे देवि स्वयमस्ति सदानरः | हयारिः करवीरं | तन्मध्ये लघुमादाय पुष्पमध्ये चतुर्दलं | पुष्पं अपराजिता | रक्तकुंकुमरागंधा दत्वा तत्र शिवात्मके | शिवात्मकेन परा पुष्पैन्यष्ट विशेषणं || प्. ११७ब्) योजयेच्छिव शक्त्यास्तु ऐक्यं सद्भावयन् धिया | क्षणं विचिंत्य तत्रैव संपूज्य परमेश्वरीं || जप्त्वा तप्त्वा तदेव ज्ञात्तांश्वं द्रव्यं परमदुर्लभं | अमृतादधिकं ज्ञेयं एतद्रव्यं सुदुर्लभं | इति कुलपुष्पानुकल्पः | यत्रापराजिता पुष्पं जपापुष्पा च भैरव | करवीरे रक्तशुक्लेत्रा पत्रा यत्र तिष्ठति || तत्र देवी वसेन्नित्यंत यंत्रे पूजनं मम | दत्ते चैक जवा पुष्पे पत्रै वस्त्रफलं भवेत् || ब्रह्महत्यादिकं पापं क्षणान्नश्यति निश्चितं | इत्यपरादीनां फलं | अपरायास्तु माहात्म्यं रक्तं नाहं महेश्वर | इति पुष्पमाहात्म्यं प्रसंगादुक्तं वस्तुतः सामान्यं | वीरसाधन कार्यं हि कर्तव्यं वीरपुरुषैः | दिव्यैरपि च कर्तव्यं पशुभिर्न्न च पामरैः || वरं पामरकार्यं तन्न पशोरिति निश्चितं | यद्यन्मया पुरा प्रोक्तं संकेतं मंत्रसाधनं || अंजनं गुटिकादींश्च कुर्याद् वीरो महावलः | इति वीर * * * * (?) दिव्ये वीरेण भेदोस्तियो भेदः स च कथ्यते | शांतो विनीतो मधुरं न नलावत्य संयुतः | दिव्यस्तु देववत्प्रायो वीरश्चोन्नतमानसः || इति दिव्यवीरयोभेदः | वक्षमानं यदुभय साधारणं | विभूति भूषणै वापि चंदनैर्वा विलेपितः | आकार गोपिनो वापि व्यक्तोपि कुलभैरव || रक्तचंदन दिग्धांगोरक्तकोपीन भूषणः | रक्तवस्त्र परीधानो वैष्णवो वाप्य वैष्णवः || असंस्कृतः केशजालः संस्कृतो वा कुलेश्वरः | अपमाने च पूजायां हृष्टपुष्टः सदा भवेत् || देवनिंदा परो वापि तत्पूजापि परोपि वा | इत्यन्य देव परं | पूजावेतस्तद्रहितः कुलाकुलमते स्थितः | निजभाव समायुक्तो देववत् विहरेत् क्षितौ || स्वकुलांते पुरश्चर्या कार्या रात्रौ न चान्यथा सिद्धिनेत्यर्थः | एतयोरपि पूर्वसेवास्ति प्रमाणं पुरश्चरण करणे वक्तव्यं | वेदहीने द्विजे देव अथा न श्रुति संस्कृया | विष्णुभक्ति विना नैव भक्तिर्न प्रभवैर्यथा || विष्णोर्भक्तिस्तु नवधा भक्तिर्लक्षणं कुर्यादिति भागवतोक्तं पूजादिन्योपि उक्ताशीर्घोपि न लभ्यते | अतः सर्वदेवता भक्तिभ्यो विष्णुभक्ति श्रेष्ठा | यत्र यस्य वेदेन रोमांचादि दृश्यते इत्यर्थः || शाक्तं ज्ञानं विना मुक्तिर्यथा हास्याय कल्पते | गुरुं विना यथा तंत्रेनाधिकारः कथंचन || पतिहीनो यथा नारी सर्वकर्म विवर्जिता | कुलं विमा तथा दिव्यो न वीरो ममसाधकः || नाधिकारीति कौलेय तस्माद्भाव परो भव | अविनीतं कुलं यस्य स कथं मम पूजकः || तस्माद्यत्नात् तथा कार्यं यथा स्याद्विनयान्वितं | भावा भावात् कुलेशास्त्रेनाधिकारः कथंचन || तेन भावं विशुद्धिस्तु साधकः कौलिको भवेत् | देव्युवाच || पशुभावं प्रवक्ष्यामि शृणु वत्स समाहितः | यथाविधि पशोर्विद्यां गृहीत्वा भावतत्परः || प्. ११८अ) प्रथमं पूर्वसेवार्थं यतात्रः सिद्धिमाप्नुयात् | न मत्स्य भोजनं कुर्यानस्त्रियं मनसा स्मरेत् || न परः द्रव्यलोभः स्यात् न भोगे मानसं भवेत् | सिंधुतीरे पर्वते वा कानने वा सुरालये || विल्वमूले विविक्ते च पुण्यक्षेत्रे च शोभने | न शूद्रदर्शनं कुर्या कौटिल्यं यत्नतस्त्यजेत् || देवता शुक्लवर्णा तृध्यातव्या सु समाहितै | त्रिसंध्यं देवपूजा स्यात् त्रिसंध्यं जपमाचरेत् || रात्रौ यंत्रं च मालां च स्पृशेन्नैव कदाचन | न मंत्रमुच्चरेद्भक्त्या मौनी स्यात् सर्वकर्मसु || पर्वकाले स्त्रियं नैव गच्छेद्धै साधकोत्तमः | पुष्पं गंधं जलं चैव स्वयमानीय पूजयेत् || मैथुनं तत्कलालापं तद्गोष्ठी परिवर्जयेत् | ऋतुकालं विना गच्छेन च स्वस्त्रियमादरात् || पुराण श्रवणे श्रद्धा वेदवेदार्थ तत्परः | न रात्रौ भोजयेद्विद्वान् स्तांवूलं परमेश्वरः || गुणा यद्यदाष्ठं तत्सर्वं यत्नतश्चरेत् | अतस्त्वकुलं चैव हेतु द्रव्यं च भैरव | स्पृष्ट्वा स्मृत्वा त्रिवारं तु पंचगव्येन शुद्ध्यति | रक्तवस्त्रं न गृह्नीया देवीभक्ति परायणः || विष्णु कल्पोक्त कल्पानि तदनुष्ठानमाचरेत् | अस्याधिकारः पूजायां न गुरुत्वे कदाचन || पूजायां कौलपूजायां उभयत्रनं च संवंधः | पूर्वस्यनाधिकारोस्ति पूजादेश गतागते || पूर्वं तु सर्वकौलेयै वहि कार्यः स्वदेशतः | पूर्वदेशं न मात्रेण कुलदर्शनमाचरेत् || ब्रह्महत्यादिकं पापं वरसह्यं न तत्प्रभो | पूर्वदर्शन मात्रं तु सत्यं सत्यं वदाम्यहं || पूर्वः पशुभावः स्वभावः पशुः | न मात्मा सर्वदेवेश विभुत्वा सद्यपि प्रभो | तथापि तत्र मे शंका जायते च पदे पदे || वरं कुलं परित्याज्यं वरं स्वकुलहिंसनं | वरं स्वकुल निंदास्तु वरं स्वकुलकुट्टनं || काये नमन सा वाचा वरं स्वकुलपातनं | न कुर्यात् पूर्वसंगस्तुं तु ममा कुलशास्त्रद्वयं पापगरिष्टो कुलनायकः | स्वकुले महती निंदा ** (?) योगो न संशयः | परो भिन्न इत्यर्थः | तस्मादपि महत्पापं पशुसंगात् प्रजायते | सर्वथा तत्र भावौ न न प्रकाश्यो कदाचन || स भावश्च विभावश्च पशु द्वेधा व्यवस्थितः | स भावः पशुभावेन जगत्रय विभावनात् || वीरभावो भवेद्देव ततो देवः प्रजायते | देवाच्च जायते वीरोवीरो देवः प्रजायते || दिव्यवीरेण भेदोस्ति साम्यमित्यभिजायते | भावस्तु मनसोधर्मः सहिशाब्दः कथं भवेत् || तस्माद् भावो न वक्तव्यो दिङ्मात्रं संमुदाहृतं | दिङ्मात्रं मात्रं निर्देशकमात्रं तत्प्रकारेण दीक्षाभिषेक मुक्तो ब्रह्मत्वेन भावयन् तत् तदाचरमुक्तश्चे दिव्यवीरा दिव्यपदेशताग्रवतीत्यर्थः | ब्रह्मणः शानूवोध भावत्वान वक्तव्य इत्यर्थः | प्. ११८ब्) यथा गुडं माधुर्यं रस ज्ञायते प्रभो | तथा भाव विभावश्चमना परिभाव्यते | एक एव महान् भावो मनसा परिभाव्यते | एक एव महान् भावो नानात्वं भजते यतः || उपाधि भावभेदेन नानात्वं भजते प्रभुः | उपाधि शक्तिभेदेनेत्यर्थः | आनंदघन संदोह प्रभुः प्रकृति रूपधृक् | निजेष्ट देवता ब्रह्मणो भेद इत्यर्थः | रसरूप स एवात्मा स प्रभुः परमेश्वरः | श्रोतव्यः स च मर्तव्यो निदि ध्यातव्य एव च || साक्षात् कार्यश्च देवेश आगमे विविधैः प्रभोः | श्रोतव्य श्रुतिवाक्येस्योमंतवो मननादिभिः || सोपपत्तिभिरेनायं ध्यातव्यं गुरुदेशितैः | तदा स एव सर्वात्मा प्रत्यक्षो भवति क्षणात् || तस्मिन् देवे तु देवेश प्रत्यक्षे परमेऽऽवर | भावैर्वहुविधैर्देवभावस्तत्रापि लीयते || भावैर्भावाचारैः | भावस्तत् तदाचर भेदेन भिन्नोभावः | आत्मस्वरूपः | दिव्यवीरानुपाधिं लोपयित्वा उपाधि रहिते पूर्णे ब्रह्मणिलीनो भवतीत्यर्थः | दृष्टांतमाह | भुक्त्वा नानाविधं ग्रासं गविचैको यथा रसः | दुग्धाद्य ध्यास योगेन नानात्वं भजते क्षणात् || तृणेन जायते देवरसस्तस्मात् परो रसः | तस्मादधि ततो हरति तस्मादपि रसोदयः || तृण निर्जा स परौरवः दुग्धं हव्यादपि रसादयलडुकादिभेदेन मधुरजातीयः | मधुरतमादयः स एव कारणं तत्र तत्कार्यं न च लभ्यते | तास्तोरसः कारणं | तदेव स एव तच्छस्त अव्ययः | कार्यत्वेन कारणेत्वेन तृण रसो न ज्ञायते | इत्यर्थः | दृश्यते च महादेवना कार्यं नापि कारणं मनसानोप लभ्यते | इत्युक्तं चक्षुषापि दुग्धादय तृणरासत्वेन नोपलभ्यते | इत्यर्थः | तथैवायं स एवात्मा नानाविग्रह योनिषु | जायेज निष्यते जातः काल भेदाद्विभाव्यते || स जातः स मृतोवद्धः समुक्तः सम्मुखी पुमान् | स स्त्री स नपुंसकः सो हि स विद्वान् स मुख एव सः | अत्र तच्छेद प्रयोग द्वयं वीप्सार्थं | नाना स्वास समा सदा योगानानात्वं भजते प्रभुः | अध्यास उपाधिः | एक एव स एवात्मा रसरूपी सनातनः | रसो नित्यानंदः | अव्यक्तः स च व्यक्तश्च प्रकृत्या ज्ञायते ध्रुवं | तस्मात् प्रकृति योगेन ज्ञायते नान्यथा क्वचित् || प्रकृति भजनेन नान्यथा अन्य भजने न लभ्यते | तत एव भजनं च यमकारणमित्यर्थः | तत्र दृष्टांतमाह | विना घटत्व योगेन न प्रत्यक्षौ यथा घटः | इतराद्विद्यमानोपि न भेदमुपगच्छति || इतरस्मात् पटादेर्भिद्यमानोपि भिन्नोपि द्रष्टु घटत्वात्मानं यथा भेद ज्ञानविषये भवति तद्वदित्यर्थः | इदं तु घट पटद्वयोः | परस्परात्यंताभाव वहृत्तिनेज्ञातं | त एव घटत्व पटत्वयोरेकाधिकरस्यवृत्तित्व भेदज्ञानं न जायते इति | प्. ११९अ) मां विना पुरुषोपेतं न च याति कथंचन | न पुंयोगेन च ज्ञानैर्न श्रुत्या न गुरुं क्रमात् || प्रकृत्या ज्ञायते ह्येष प्रकृत्या लुप्यते पुमान् | प्रकृत्य प्रकृत्य धिष्ठितं सर्वं प्रकृत्या रंजितं जगत् || प्रकृत्या भेदमाप्नोति प्रकृत्या भेदमाप्नुयात् | अर्थः अभिन्नस्य ब्रह्मणो भेदः | मायैव प्रकृत्या ज्ञायते | उत्तमा विद्यया अधमा विधानासे सति ब्रह्मज्ञायते | मयाधिष्ठिते मनसि लुप्यते | अकृष्यै भवति रंजितं भेदस्थापितं | तै कालिको भेदः प्रकृति वंधन इति | नवस्तु प्रकृतिर्नैव वस्तुतत्वं महेश्वर | नञ द्वयं वीप्सार्थं | भयोः समर संज्ञात्वा वस्तु तत्वं महेश्वर | प्रकृति पुरुषयोर्नर्यावस्था ज्ञात्वा ब्रह्मजनीयादित्यर्थः | ज्ञाते तस्मिन् स्वयं प्राज्ञतत् स्वरूपः पुमानसौ | निर्विकारः सर्वदेव एकैव भुवनेषु सः | व्यक्तो भवति देवेश स्वयमात्मा स्वयंभुवः || अभेदे षष्ठी | उपयाः सति वहुधा ज्ञातं ब्रह्म सनातनं | तथापि प्रकृतिर्योगात् क्षिप्रं प्रत्यक्षतां व्रजेत् || सांपात्रिकाः कुले तै तु यथा नावं प्रयुज्य च | नानादेशं समुत्तीर्य समुद्रं विसते चिरात् || तत् तटे नावमास्थाय क्षणाद्याति यथा प्रभो | विष्णुभक्त्या लभेद्ब्रह्म तद्दभावादपि प्रभो || वैजात्यं नास्ति चेद् ब्रह्मकथं तद्विद्धिकारणं | तस्मात् परसुवायातास्ते हि कारणतांगताः || न कारणानि ते वस्तु साक्षात् प्रतिकारणं | अर्थः अन्वय व्यतिरेकाभ्यां कारणता गृह्यते | विष्णुभक्त्या ब्रह्मलभ्यतो शक्तिभक्त्यापि लभ्यते | तत्र कारण व्यतिरेकेन कार्य व्यतिरेकश्चेन्नास्ति तदाकथं कारणं तत्रः पुष्पं वा कारणं न तु साक्षाद्यथा नौकापारप्राप्तौ कारणं स्वदेशगमनेनं कारणं तद्विष्णु भक्त्यादि पुंसाक्षात्कारणं न तु ब्रह्मप्राप्तौ साक्षात् कारस्तु विजातीय इति स्त्रीभावः प्रकृति ज्ञेयः पुंभावः पुरुषोमतः | ज्ञप्ति ज्ञेय विभागेन ज्ञायतां भैरवेश्वरः ज्ञप्तिज्ञानं प्रकृति ज्ञेयः पुमान् एवं विभागेन प्रकृतिः पुरुषश्च ज्ञायता मित्यर्थः | घट प्रत्यक्षतायां तु आलोको व्यंजको यथा | चक्षुरादि न तत् किंचिदधिकं निर्विकल्पकं | आलोकादीना विषय संवंधे कारणत्वं चक्षुरादि विषयमात्र ज्ञाने उपक्षीणं | तेन ज्ञाने घटत्वादि ज्ञानं कारणं अन्येषां परंपरा कारणत्वं | घटत्वं पुनरेवास्य भेदकारणमेव हि | न तथा व्यक्ति विभावप्यन्ये व्यंजनतां गताः || निर्विकल्प विषय ज्ञाने चक्षुरादीनां कारणत्वं न तथा घटत्वस्य कारणत्वं विशिष्टज्ञाने विशेषण ज्ञानस्य कारणत्वं न तु निर्विकल्प तथा अन्ये विष्णु भक्तादयः व्यंजनतां परंपरा कारणत्वं साक्षात्कारण मे तत्तु प्रकृतिश्चैव भैरवा प्रकृतिरेवेत्यर्थः | प्. ११९ब्) दिव्यभावो वीरभावो यस्य चित्ते व्यवस्थितः | जीवन्मुक्तः स एवात्मा भोगार्थे मटते महीं || देवीरूपः स एवात्मा भैरवः परिकल्पते | भावत्रयाणां मध्ये तु द्वौ भावौयौ प्रतिष्ठितौ || न वक्तव्यौ महादेव कुलसारौ कुलोत्तमैः || श्रीपूर्णानंदनाथेन कृतायां गुरुभावतः कुलवृत्तौ स्वतंत्रायां पटलश्चैकविंशतिः || अथ सद्गुरो वा हित दीक्षः नैमित्तिककाम्य सिद्ध्यर्थं पुरश्चरण मावदेत् | तदर्थः पुरश्चरण विवरणं | श्रीमद्गुरुपदद्वंद्वं नत्वा प्रणतवत्सलं | पूर्णानंदो निवध्नाति पुरश्चरण निर्णयं | तत्वविद्यांत्यमकरण प्रत्यवाय श्रवणात् || यथा वैशंपायन संहितायां | पुरश्चरणं संपन्नो मर्णो हि फलदायकः | नित्यहोमैः किं जपैश्चैव किंमंत्रन्यासविस्तरैः || रहस्यानां च मंत्राणां यदि प्रकृति पुनस्क्रिया हि मंत्राणां प्रधानं जीव उच्यते | जीवहीनो यथा देही सर्वकर्म सु न क्षमः | पुरश्चरण हीनोपि तथा मंत्रः प्रकीर्तिताः || यामले च | वीर्यहीनो यथा देही सर्वकर्म सु न क्षमः | पुरश्चरण हीनोपि तथा मंत्रः प्रकीर्तिताः || तस्मादादौ च तत्कुर्याद्गुरुं वा कारयेद्वुधः | योगिनीतंत्रेषु | पुरश्चरणमधिकृत्य गुरोरभावे विप्रं वा सर्वप्राण हितेरतं | स्निग्धं शास्त्ररिदं मित्रं नानागुण समन्वितं | स्त्रियं च सद्गुणोपेतां स पुत्रां विनियोजयेत् || स्वाशक्तौ गुरुं तदभावे ब्राह्मणं तदभावे स्त्रियं वा तदकारयेत् | लक्षणं तु तत् तद्विधि पूर्वक तत् तत्संख्ययामं तु जपपुरश्चरणं | होमादयस्तु तदंगतया उप * * * * (?) लक्ष मात्रं जपेद्विद्या हविष्याशी दिवा शुचिरिति वचना जप विशेष एव पुरश्चरण पदस्य शक्तिः | यत्तु पृथकांगोपाशनं सौके | पुरश्चरणमते इति तत् कर्ममात्रं सत्पतं न तु शक्तिग्राहकं | सिद्धिस्यात् केवलज्जपात्दिति वचनात् | यत्र तु संख्या न श्रुयते | तत्र मंत्रवर्ण संख्याय जपेत् | तदुक्तं यामले | वर्णलक्षं जपेद्वापि पुरश्चरण सिद्धये | संख्या श्रवणेपि युगभेदात् संख्यावृद्धिः | वैशंपायन संहितायां | येषां तु निगरे नैव तंत्रे संख्या विधीयते | तत्र सर्वत्र मंत्राणां संख्यावृद्धियुगै क्रमात् || कल्पोक्तैव कृते संख्या त्रेतायां द्विगुणो भवेत् | द्वापरे त्रिगुणा प्रोक्ता कलौ संख्या चतुर्गुणा || कालिकांता सिद्धि विद्योपासनानां पुनर्युगसेवा परिश्रमोनास्ति | तदुक्तं तंत्रचूडामणौ | सिद्धिविद्या तया नात्र युग सेवा परिश्रमः | एकवीरा कल्पेपि | भाव वा रहिता * (?) च क्षुद्राणां क्षुद्रचेतसां चतुर्गुण जपप्रोक्तः सिद्धये नान्यथा भवेत् | कलियुग इत्यर्थः सिद्धि विद्यास्तु अग्रेन दाह्नियंते | अथ स्थान निवरणे तदुक्तं यामले पुण्यक्षेत्रं नदीतीरं गुहा पर्वत मस्तकं | प्. १२०अ) तीर्थप्रदेशाः सिनूनां संगमः पावनंवलं | उद्यानानि विविक्तानि विल्वमूलंतटंगिरे || तुलसी काननं गोष्ठं वृषशून्यः शिवालयः | अश्वत्थामलकी मूलं अथवा जलमध्यतः || देवता यतनं कूलं समुद्रस्य निजं गृहं | गुरुणां सन्निधानं तु चित्तैकाग्र्यस्थलं तथा || प्रेतभूस्यादिकं चैव तत् तत्कल्प प्रकाशितं | एकलिंगे पितृभूमौ विजने च चतुस्पथे || उज्जटे भूधर तटेषु निर्जन देवागार निर्जन * * (?) विल्वमूले नदीतीरे चैत्ये अवटावव्यश्वत्थ मूलेन | अतो वैषा पूज्येति | फेत्कारिणीतंत्रे | एकलिंगे श्मशाने च शून्यागारे चतुष्पथे | तत्रस्थः साधयेद्योगी विद्यां त्रिभुवनेश्वरी | एकलिंगं यथा मत्स्य सूक्ते | पंचक्रशाभ्यंतरे यत्र न लिंगांतकमीक्ष्यते | तदेकलिंगमाख्यातं तंत्र सिद्धिरनुत्तमा | देवागारे देवशून्ये निर्जने कांतवेश्मनि | वीरतंत्रे च | शून्यागारे श्मशाने यदि जपति जडस्त्वे कलिंगे तडागे गंगापार्श्वे गिरौ वा शुचि विमलमतिः सर्वदा भक्तियुक्तः विश्व श्रीनीलवान्या भुवन जनपतिः सर्वशास्त्रार्थवेत्तादेहांते योगि मुख्या परमसुखपदं ब्रह्मनिर्वाणमंते | मुंडमालायां च | शवस्योपरिमुंडे वा जले वा कंठपूरिते | संग्रामभूमौ योनौ वा स्थले वा विजने वने || यत्र कुत्र स्थले वापि यत्र वास्यान्मनोलयः | वामकेश्वरतंत्रे च | वाराणस्यां कृता पूजा संपूर्ण फलदायिनी | ततश्चतुर्गुणा प्रोक्ता पुरुषोत्तम सन्निधौ || ततोपि द्विगुन्.आ प्रोक्ता द्वारवत्यां विशेषतः | ततः शतगुणा प्रोक्ता गंगायामपि तत्समा || आर्यावर्ते मधादेशे ब्रह्मावर्ते तथैव च | विंध्ये च फलदा प्रोक्ता प्रयागे गह्वरे तथा || ततश्चतुर्गुणा प्रोक्ता लौहिय नद कुंडके | तत्समा कामरूपे च सर्वत्रैव जले स्थले || सर्वश्रेष्ठो यथा विष्णु लक्ष्मीः सर्वोत्तमाप्यथा | देवी पूजा तथा शस्ता कामरूपे पुरालये || देवीक्षेत्रं कामरूपं विद्यतेन्य मनुत्समं | अन्यत्र विरला देवी कामरूपे गृहे गृहे || ततः शतगुणा प्रोक्ता नीलकंठस्य मस्तके | ततोपि द्विगुणा प्रोक्ता हेरुकेश्वर लिंगके || ततः शतगुणा प्रोक्ता कामाख्या योनिमंडले | कामाख्यायां महामाया पूजां यः कृतवानयत् || सचेत्तु लभते कामान् परत्र शिवरूपतां | न तस्य सदृशोप्यस्ति कृत्यं तस्य न विद्यते || गृहे जपं समः प्रोक्तो गोष्ठे शतगुणं भवेत् | पुण्यारण्ये तथा रामे सहस्रगुण उच्यते || अयुतं पर्वतेरन्ये नद्यालमुदाहृतं | कोटि देवालये शत्तुरनंतगुरुसन्निधौ || अत्र वेदविरोधि स्थानानि दिव्यपुराणानि अन्यानि भावत्रय प्रानि एवं शिवादीनां पूजायां च ज्ञेयानि | अथ कालनियमः | वाराहीतंत्रे | प्. १२०ब्) चक्र द्रवानुकूले च शुक्लपक्षे शुभेहनि | आरभेत पुरश्चर्यां हरौ सुप्तेन चागमत् || दीक्षाकाल एव पुरश्चरणकालः | विशेषश्च हरिशयन वर्जनमिति | अथ भक्ष नियमः | तदुक्तं वैशंपायन संहितायां | वेदानादि युक्तानां शुचीनां श्रीमतां सतां | सत्कुलस्थान जातानां भिक्षा शंसोग्र जन्मनां | भुंजानो वा हविष्यान्नं शाकं यावकमेव वा || पयो मूलं फलं वापि यद्वा यत्रोप लभ्यते | निर्दिष्टानां मध्य इत्यर्थः | सितं विविध हेमंतं शाल्पन्नं स्वीयसंवितं | अशूद्रोपहितं पत्र्यां समुत्ताल्प समुद्धृतं || पश्चासमुच्चयं कृत्वा स्थानांतरे समुद्धृतंमित्यर्थः | दधिक्षीरं घृअं गव्यं मैक्षवं गुडवर्जितं | नारिकेलं च कदली लानी पातकी तथा || आम्रमानलकं चैव पनसांतं हरीतकी | एतेन विशिष्यो पादानात् | फलानां मध्ये एतानि भोक्तव्यानि | आर्तं स्वस्वर्तूत्पन्नं फलानां विशेषणं तेन अकालोत्पन्नं वर्जयेदित्यर्थः अथवा क्षीरमात्रं स्यात् पुरश्चर्यं च वृत्तये | अथ वाह्यानि | तदुक्तं तेनैव क्षारं चलवनं मांसं ग्रंजनं कांश्य भाजनं | माषादिकं पशूरं चक्रे द्रव्यन् वनकानपि | तांवूलं च द्विभुक्तं चदुः संभाषणमत्ततां | दुःसंभाषण मश्लीनं | न्यायोपात्तेन वित्तेन जपहोमादिकं चरेत् | अन्यथा नैव सिद्धिःस्यात् सर्वं भवति निष्फलं || अन्यायोपार्जितं वित्तं वर्ज्यमित्यर्थः | यस्याष्ठयान पुष्टांगः कुरुते धर्मसंचयं | अनुदात्तः फलस्यार्द्धे कर्तुस्यार्द्धं न संशयः || तस्मात् सर्वप्रयत्नेन परात्रं वर्जयेत् सुधीः | जिह्वा दग्धा परान्नेन करौ नष्टौ प्रतिप्रतिग्रहात् || मनोदग्धं परस्त्रीणां कथं सिद्धिर्वरानने | स्त्री शत्रुपतितव्रात्यनाशिवैः सहभाषणं || असत्यभाषणं वाचं कुटिलीं परिवर्जयेत् | सत्येनापि न भाषेत जपहोमार्चनादिषु || वर्जयेद्गीत वाद्यादि दर्शनं नित्यदर्शनं | अभ्यंग मनुलेपं च पुष्पधारणमेव च || मैथुनं तत्कथालापं तद्गोष्ठीः परिवर्जयेत् | अस्रातां वद्धिजान् शूद्रान् स्त्रियो नैव स्पृशे द्विजं || त्यजेद्धष्टोदकं स्नानं मनिवेदित भोजनं | प्राणि हिंसां न कुर्यात पुरश्चरण कृद्विजः || विहाय वह्निं न हि वस्तु किंचिद्राज्यं परेभ्यः सति संभवे च | असंभवे तीर्थहिर्विशुद्धात् पर्वातिरिक्ते गृह्यजप्यात् तत्रा समर्थोनुदिनं विशुद्धाया चेतयावंगि न मात्रभैक्षं | गृह्नाति रागारधिकं नाविद्धिर्जायेत कल्पस्य शतैवमुप्य | यामले च | कौटिल्यं क्षौरमभ्यंगमनिवेदितभोजनं | असंकल्पित कृत्यं च वर्जयेन् मर्दनादिकं || तांवूलं कांश्यपात्रं च दिवा भोजनमेव च | एवमादीनि चान्यानि वर्जयेत् साधकोत्तमः || प्. १२१अ) अन्यानि भक्षादौ पुरश्चरणे अविहितानि | अथ कृत्याकृत्यविधिः | मंत्रसाधनमात्रस्तु त्रिसंध्यं देवमर्चयेत् | सिद्ध्यर्थमेक वह्यं वालमंत्रं केवलं जपेत् || तद्व जपानु पानाद्यैः स्नाना च मन भोजनं | स्नायाच्च पंचगव्येन केवलेन जलेन वा || शक्तौ विमलक स्नानमशक्तौ द्विशंक वा | अस्नातस्य फलं नास्ति न वा तर्पयतः पितृन् || देवतां कृत्वा कृत्वा च हृदय स्थिरं | परांदीश्च गुरुन्नत्वा जपेन्मंत्रं समाहितः | शनैः शनैश्च विस्पष्ठं न दूतं न विलंवितं || न न्यूनं नाधिकं वापि जपं कुर्याद् दिने दिने | नौनंतर्य विधि प्रोक्तो न दिनं व्यति लंघयेत् || दिवसाति क्रमाद्धुत्सां सिद्धि वोधः प्रजायते | अनन्यमान् सुस्वांतः कला मध्यं दिनावधि || उष्णीशी कंचुकी नग्नो मुक्तकेशगलावृतः | अपवित्रकरो शुद्धः प्रलपन्न जपेत् क्वचित् || अत्रा वृतकरो वापि शिरसा प्रावृतोपि वा | अस्त्रातस्य फलं नास्ति चित्ता व्याकुल चित्तो वा क्रुद्धो भ्रांत धरान्वितः | निवासनं शयानश्च गच्छंतः अत एव वा | रथ्यायामपिवस्थान न जपंति निरालये || उपानं गूढपादो वा या नासनगतोपि वा | प्रसाप्रलपेत् पादावुत्कटासन संस्तिताः || नक्षुस्कुष्टन हीनांगं विकृतीकृत मानसः | मंत्रसिद्धिमवाप्नोति तस्माद्यत्न परो भवेत् || नैक वा सा जपेन्मंत्रं हुवा सा कुलोपि वा | पतिता नामंत्यजानां दर्शने भीषणे द्रुते || क्षुद्धोध वायुगमने जृंभने जपमुत्सृजेत् | उत्थायाचम्य तत्प्राप्तौ प्राणायाम षडंगकं || यद्वा सूर्यादि दर्शनं | हिण्मूत्रारंगशंकादिमुक्तः कर्म करोति हि | जपार्चनादिकं सर्वपवित्रो भवेत् सदा || मार्जारं कुर्कुटं क्रौंच श्वानं शूद्रं कपिं खरं | दृष्ट्वा च सनं जपेत् स्पृष्ट्वा स्नानं विधीयते || इदं तु सामान्य जप परं | न तु पुरश्चरण मात्र परं | एकग्राम स्थितो नित्यं गत्वा वंदेत वै गुरु | गुरुरेव परंब्रह्म तस्मादादौ तमर्चयेत् || नित्यं नैमित्तिकं कुर्यात् संगमं साधुभिः सह | सधीत शुद्धशययायां शुचि वस्त्रधरः सदा || प्रत्यहं क्षालयेच्छप्यामेकांकी निर्भयः शुचिः | अथ भूमि परिग्रहः | तदुक्तं यामले | उक्त क्षेत्रं ततो गत्वा कुर्याद्भूमि परिग्रहं | तथाद्यामुकमंत्रस्य पुरश्चरण सिद्धये || मयेयं गृह्यती भूमि मंत्रोयं सिद्ध्यतामिति | भूमेः परिग्रहं कृत्वा परिमाणं च सर्वतः || चतुर्दशात्यर्थः | नदी पर्वत वृक्षादौ परिमाणेन वर्जितं | पुरश्चर्यात्तुरोमानं क्वचिन्मान विद्यते || प्. १२१ब्) मे क्रोशमित स्थानं न घाटौ स्वेच्छयामतं | नगरींदारथक्रोशं क्रोशद्वय मथानु वा || अहोरात्रं विहारार्थं तावतीं भूमिमां क्रमेत् | क्षीरवृक्षोद्भवान् कीलान् नस्त्र मंत्राभि मंत्रितान् || निखने दशदिग्भागे तत्रो परिपूजयेत् | क्षेत्रे च कीलिते मंत्री निर्विध्नैः परिभूयते || क्षेत्रपालादिकं तत्र पूजयेद्विधिवत् ततः | दिक्पतिभ्यो वलिं दत्वा ततः क्षेत्रं समाश्रयेत् || कालेष्वेवलि | कूर्म चक्रं मुखं वीक्ष्यं शीता तपसहांकुटीं | चतुर्द्धस्तां चतुरस्रां तथा सुंदरवेदिकां || एकैकस्यांदिक् चतुर्हस्त प्रमाणामित्यर्थः | चंद्रा तप विशोभाद्यां तोरणै रथलंकृतां || विविक्तामभिलिप्तां च प्राकारेणापिवेष्टितां | निर्माय च ततः कुर्यादैकभक्तं शुभे दिने || प्रातः स्नात्वा तु गायत्र्या अयुतं नियतो जपेत् | ज्ञाता ज्ञातस्य पापस्य क्षपार्थं साधकोत्तमः || इति गायत्री जपस्य शंकल्पसूचनं | विघ्नान तर्पयेद् भक्त्या भोजनाच्छादनादिभिः | वहुभिर्वस्त्र भूयाभिः संपूज्य गुरुमात्मनः || अभावो उक्तमतः पश्चात् पदाज्ञा च पुरःसरं | इत्याधि वा सकृतं दीक्षाधि वा स दिनोक्ता वलयोपि देवाः संकल्पानंतरं पूजनेते जपः यन्मते पूजानांगं तन्मते संकल्पानंतरं जपः | आचम्यदिक्यतीनत्वा ततः संकल्पमाचरेत् | अपरदिने कृत नित्य कियो नत्वा संकल्पयेदित्यर्थः | सिद्धिकामोऽस्य मंत्र इयत् संख्या जपं ततः | पुरश्चरणमेवं करिष्ये प्रागुदङ्मुखः | अथ प्रयोगः | ओं कुशत्रय तिल जलान्यादाय ओं तत् सत् अघामुकेमासि शुक्ले पक्षे मुकतिथौ अमुकमंत्रसिद्धिकामः पुरश्चरणमहं करिष्ये | पूजात्रैकालिकीनित्यं जपस्तर्पणमेव च | होमोद्याग भुक्तिश्च पुरश्चरणमुच्यते || इति पंचादिनोपासनायां पुरश्चरण पदशक्तिरिति ज्ञानार्णवमतं तन्मतेप्य यमेव संकल्पः | केचित्तु होमादी नामुल्लेखनं केचित्तु पृथक्तं कल्पमिच्छति | तन्नः एकमंगं विहायेत् मंत्रीनेष्ठमवाप्नुयात् | इति ज्ञानार्णव वचनादधिक फलाश्रुते | अज्ञात्वा निरूपिते उल्लेखस्य पृथकल्पस्य प्रयुक्तत्वात् | ततो जपेदशांशेन होमं कुर्या दिने दिने | अथवा खलु संख्यायां पूर्णायां होममाचरेत् || होमदशांशतः कुर्यात् तर्पणं देवतामुखे | तर्पणस्य दशांशेन मार्जनं स्वात्ममूर्द्धनि || मार्जनस्य दशांशेन कार्यं ब्राह्मगतोजनं | एतन्मते पूजनमेकमंगं | संकल्पानंतरं पूजा ततो जपः | यन्मते पूजानांगं तन्मते संकल्पानंतरं जपः | कुशाक्षत जलेनैव संकल्प प्रेयतस्ततः | तीक्ष्णदंष्ट्र महाकाय कल्पांत दहनोपमः || भैरवाय नमस्तुभ्यं मनुज्ञां दातुमर्हति | इत्यनुज्ञां गृहीत्वास्य जपस्थानं विशोधनं || प्. १२२अ) वीक्षणादिभिरवे आसनस्थापनं चरेत् | सामान्यार्घादि संस्थाप्य स्वस्वकल्पक्रमेन तु || पीठाग्रेयादि कोणेषु पूर्णकुंभं चतुष्टयं | संस्थाप्य पूजयेत् तेषु गणेशं च सरस्वतीं || दुर्गां क्षेत्राधिपं वापि विधिवत् साधकोत्तमः | ततः कल्पोक्तविधिना देवपूजां समाचरेत् || ततो जपेत् | अथ होमाद्यशक्ताश्चेद्विगुणादिविधान जपं कुर्युः | तदुक्तं कुलार्णवे | यद्यदंगविहीयेत तत्संख्याद्विगुणं जपं | कुर्वीत त्रिश्चतुः पंच संख्यया साधकप्रिये || कुलप्रकाऽसे च | होमाकर्माद्य शक्तश्चेद्वुगुणं तद्वि प्राणां द्विगुणोजपः | इतरेषां तु वर्णानां त्रिणादि समीरितः | चंद्रिकायां | होमाशक्तौ जपं कुर्याद्धोम संख्या चतुर्गुणं | षड्गुणं चाष्टगुणितं यथा संख्यं द्विजातयः || द्विजस्त्रीणां तु विज्ञेयो द्विजानामिह यो जपः | द्विगुणं चैव शूद्रास्तु क्वचिद्दाहुविदोन्नितोन्यथा | होमाशक्तौ चतुर्नेत्र संख्यं सर्वजपेन्मनुं | मुंडमालातंत्रे | यदि पूजाद्य शक्ताश्चे द्रव्याभावेन सुंदरि | केवलं जपमात्रेण पुरश्चर्या विधीयते || अनास्थपान सिद्धंतो जाद्या सिद्धस्तिलोकदा | तस्मादे तत्परित्यज्य सिद्धिस्यात् केवला जपात् || अन्यैश्चतुर्विधैर्देवि पदार्थैः सद्रसन्वितैः | स्वभोजितेषु विप्रेषु सर्वं हि सफलं भवेत् || सम्यक् सिद्धौक मंत्रस्य पंचांगोपासनेन हि | सर्वमंत्राश्च सिद्ध्यंति मत्प्रसादात् कुलेश्वरि || अथ होमादीनां मंत्रा | कृत्वा मंत्रं जपं मंत्री पुरश्चरण संमतः | दशांशं जुहुयादग्नौ यथोक्त विधिना ततः || दत्वा जप चतुर्तांशं स्वाहांतं मंत्रमुच्चरन् | ततो होम दशांसेन स्वाहांतं तर्पयेज्जलैः || तर्पनं य दशांशेन नमोंतं मंत्रमुच्चरन् | अभिषिंचेत् सुमूर्द्धानं जलैः कुंभाक्ष मुद्रया || चंद्रिकांश्च पुरश्चर्यां विधायेत्थं यत्नात् साधकसत्तमः | तदंते महतीं पूजां कुर्याद् ब्राह्मणभोजनं गुरवे दक्षिणां दद्यात् तस्मै तत्सुताय च | वहुभिर्वस्त्र भूषाभिः संपुज्य गुरुमात्मनः | दीनानाथांश्च संपूज्यमंभिषेकोत्तमैः तर्पणस्य दशांशतःत्र सिद्धि भवेत्किल | अथ कल्पेविशेषः | तदुक्तं स्वतंत्रे | दिवालक्षं शुचिर्भूत्वा लक्षमात्रं दिवा शुचिः | ततो जपाद् दशांशेन होमयेद्धविषां प्रिये || तर्पये तीर्थतो येन पयसा सर्पिषा पिवा | मधुना वा शिता मिश्रातो येन परमेश्वरि || देवीमभिषेकोन्नमैः तर्पणस्य दशांशतः | तद्दशांशं हविष्यान्नं भोजयेद् भक्तिता ततः || कालीमंत्र विदो विप्रान् दक्षिणां गुरवे ददेत् | हविष्यान्नेन ब्राह्मणा भोजनं सर्वदेवतायामपिज्ञेयं | स्व स्वमंतविदं लाता देवीमात्र मंत्रविद्या अलाभे सामान्य ब्रह्मणेभ्यो दद्यात् | प्. १२२ब्) तारायां तु विशेषः | नक्तं भोजी हविष्यान्नं लक्षमात्रं दिवा शुचिः | तत् क्षयात् सिद्धिमाप्नोति जपाच्च मनसा स्थिरं || वर्जयेद्विष्णुमंत्रं कल्पयेत् तुलसीदलं | वर्जयेन् मालती पुष्पं वर्जयेदन्यपूजनां || हस्त प्रक्षालनं सौरं आच्चा तत् तदाचरेत् | पूजाकाले दैवा देवानिष्पन्नी हस्तक्षालनादीनि कुर्यायद्यपि एतद्विद्योपासनानां सर्वदैव विसर्जनं | तथापि पशुभावत्वेनायाति तत्र निषेधः | देवीनां तथा पुष्पं पात्रे संस्थापयेत् पृथक् नैवेद्य फलतोये जानीया देवमेव हि | परिवार देवदेवीनामित्यर्थः अस्य पूजनं अंगान्य पूजनं | पंचायतनी दीक्षायां चेत्तेपि देवा अंगी भूतां इति | अंगांगत्वमपित्यग्धा वर्जयेदन्य पूजामिति वचनात् | इदमपि सर्वसामान्यं अन्यमंत्रार्चना श्रद्धा अन्यमंत्रं पूजनाद् निषेधा तथाप्यतकरणे पापाधिका सूचनार्थं | अथ विद्यासां लक्षजपः प्रायशः पुरश्चरणं | भैरवी प्रभाव तत्वलक्षं जितेंद्रिय इति शारदा वचनेनामपि ज्ञानार्नवादिं सुरसात् कूटपरत्वे सति समुदायस्य लक्षण जप एव सुंदरी प्रकरणे एषैव व्याख्या | अन्यासां देवीनां जपसंख्या तत् तत्पटले ज्ञातव्येतिदिक् सुंदर्यास्तु विशेषः | अथाद्भूतं प्रवक्ष्यामि कूटभेदेन साधनं | शुक्रां वरधरा वीरा गंधकस्तूरि मंडितः || मुक्ता फलद्भूषा भूषा शुभ्रमाल्यधृक् | धवलांगके मध्येन तु ब्रह्मचर्यरतोवरः | पूजयेत् शुभ्र कुसुमै नैवेद्यं च पायसं घृतसंपूर्णं तथायुत फलादनं | द्रुग्धें मोदकसंपूर्णं नानापूपान्नपूरितं | निवेद्य दर्शये देव्यै वागीश्वर्य च साधकः || मनः संकल्प्य शुद्धो वा साधारयावाग्भवाक्षरं | वाग्भवाख्यां जपेद्विद्यां वागीशीं संस्मरन् सुधः || कर्पूर धवलां शुभ्रां शुभ्राभरणभूषितां | मुक्ताफलामलमणि जपमालालसत्करां || पुस्तकं वरदानं च दधनिमभयुप्रदां | कुच भारतराक्रांता दीपां भीतं तु रूपिणीं || गच्छंती ब्रह्ममार्गेण लिंगभेद क्रमेण तु | विसर्गस्थामृतं दिव्यं क्षीरधारोपमंपरं || पीत्वा कुलामृतं चैव पुनरेवविशेत् कुलं | पुनरेव वकुलं गते द्वादशांते निवेशयेत् || सहस्रारे महापद्मे वाग्भवं पूर्णचंद्रकं | ब्रह्मग्रंथिं ततो भित्वा सप्तवष्ट्याक्षधारया || लंविका ब्रह्ममार्गेण तत्वमूले प्रवेशयेत् | जिह्वामापूर्य मंत्रज्ञो मातृकावस्थवारिणीं || आमूला ब्रह्मरंध्रांतं तस्यात् जिह्वा प्रासादकं | वाग्भवी वीजरूपातां दीपशिखा विभावयेत् || प्. १२३अ) हस्तयो पादयोश्चैव तथा नाडी त्रये सु च | आधाराच्च समुत्थाप्य वाग्भवं द्वादशेनयेत् || द्वादशाधारमानीय तद्ग्रंथिं परिभेदयेत् | तस्माज्जिह्वाग्रमानीया दीपातां परिभावयेत् || लक्षमेकमिदं जप्त्वा सर्वपापहरो भवेत् | तथापि च महाकूट वाक्पतिर्जायते ध्रुवं || महामूको भवेच्चैव पाशान सदृशो यदि | वादेसदसिसत्वाक्यस्तंभकः एभिवासिनः || सत्पंडित घटाटोपेजाड्यात् प्रति हतप्रभः | सत्वकं पदवाक्यार्थ्या ज्ञाललंकारस्य दे ** (?) पदस्तर्कै महावाक्यकर्ता मंत्री प्रजायते | अव्याहतमतिः शास्त्रे विजयो वाक्पतिर्भवेत् | वालकस्य तु जिह्वायां त्रिदिनाभ्यंतरे लिखेत् || मधुनाश्वे तदूर्वाभिः स्वर्णस्य वा शलाकया | अमृतं वाग्भवं कूटं वागीशत्व प्रदायकं || स एवः पंडितः श्रीमान्न च मूर्खो भवेध्रुवं | एतद् वाग्भव कूटं तु वालकस्य तु मूर्द्धनि || हस्तं दत्वा यदि जपेत् शतमष्ठोत्तरं सुधीः | सोपि श्लोकं सर्वथैव करोति वाक्पतिर्यथा || एतत् तु कथितं सारं वाग्भवस्य तु साधनं | रक्तालंकार सुभगो रक्तगंधानुलेपितः || रक्तवस्त्रावृतः सम्यक् मध्या कमलाद्वना | रक्तपुष्पश्च विधिवत् कुंकुमादिभिरर्चयेत् || ततः कामकलारूपं मदनांकुर मध्यमे | उद्यदादिय संकाशां स्फुरद्दीपशिखाप्रभां || गच्छंती ब्रह्ममार्गेण ब्रह्मरंध्रांतमेव च | पतंती विंदुधाराभिरक्तलाक्षा रसोपमी || वंधूक कुसुमाकारकांति भूषणभूषितां | कुक्स्.उको दंडं प्रष्पुरक्षु वराभय लसत्करां || कामराज स्वरूपां तु वालार्क किरणोरुणां | चिंतयेत् कुलपीठे तु संक्षोभो जायते क्षणात् || शक्तानांमित्यर्थः कामनां हृदि मध्ये सिंदूरं सदृशप्रभां | चित्ताकर्षणकारी च नारीणां च विशेषतः | मूर्द्धभागे कमलावर्षंती रत्नधारया | संप्रयोगेन करोति वश्यां जगत् | होमंति जगत्सर्वं प्रयोग कथयाम्यथ | विदभोद्येन कामेन मन्मथा भ्रू कुचं कुरु | कंदर्प संपुटं कृत्वा कोनगर्भगतं ततः मकरध्वज संज्ञस्तु कारयेत् साधकोत्तमः | मीनके तु शतं कृत्वा भूर्जपत्रे सुशोभने | रोचना गुरु कस्तूरी कर्पूर कुंकुमादिभिः || साध्यं प्रतिष्ठितं प्राणं कारयेद्धेम मध्यगं | पंचशश्वं कामस्तु साधकः | मूलं भानु सहस्रं च प्रयत्नेत् साधयेत् सुधीः | अथवा नाभिमध्ये तु हृदये मुखमंडले || पद्मराग प्रतीकारां कामराज मोहरं | मनसा चिंतयेद्यस्तु तस्यैश्वर्यं भवेत् खलु || अधोवान्नाभिपर्यंतं दीपशिखां विचिंतयेत् | तस्मादुदयपर्यंतं पद्मराग समप्रभं || प्. १२३ब्) रक्तवस्त्र परीधानो लाक्षारुहगृहे स्थितः | रक्तासनोपविष्टस्तु रक्तमाल्य विभूषितः || परमानंद हृदयस्त्रिंपुरीं कृतविग्रहः | एवं भूत वपुःकांतं कामवीजं विचिंतयेत् || अथातः संप्रवक्ष्यामि शक्तिवीजस्य साधनं | सृष्टिसंहारपर्यंतं शरीरे चिंतयेत् परां || श्रवत् पीयूषधाराभिवर्यंतीं विषहारिणीं | हेमप्रभां भाषमाणं विद्युत् निकरसप्रभां || स्फुरच्चंद्रकला पूर्णकमलं वरदाभयौ | ज्ञानमुद्रां च दधती साक्षाद मृतरूपिणीं || ध्यात्वा विषं हरे मंत्री वानाकाय व्यवस्थितं | द्वादशांता निभा स्वंतं जगदाह्लादनं परं || पुनः कंवादिताल्वंतं शक्तिकूटं विचिंतयेत् | आधाराद् ब्रह्मरंध्रांतं तस्मादा धारकावधिः || अथ मध्यात् शक्तिवीजं विद्युदग्नि समप्रभं | केवलं पद्मरागं च भ्रुवोर्मध्ये विचिंतयेत् || तस्माच्च ब्रह्मरंध्रांतं तुरीयं पद्मरागकं | सहस्र वाहुमूलंतं पद्मराग समप्रभं || तस्मात् तु ब्रह्मरंध्रातं कुलशक्ति विभावयेत् | वैनतेय समो मंत्री विषभार सहस्रतः || भूतप्रेत सहस्रांश्च नाशयन्नात्र संशयः | चतुर्थक ज्वरान् सर्वान् परांश्च नाशयेद्ध्रुवं || अतन्नि कूट संपूर्ण महात्रिपुरसुंदरी | चिंतिता साधकस्याशु त्रैलोक्यवशकारिणी || त्र्य * * * * * * * * * * * (##? पद्मरागवान् पुच्छ चिंतनाह साधकस्य च || अनिमादि गुणैश्वर्य सौभाग्यं च प्रजायते | तस्मान् मनुं स्मरेन् मंत्री योगिनीनां भवेत् प्रियः || महाचक्रं तस्य कामे तेन सार्द्धं सुखी भवेत् | पुत्रवांश्च भवेन्मंत्री मंत्रध्यानान्न संशयः || इति पाशवकल्पः | अत्र पशूनामयमेवकल्पः | कुटीलानां तु पशवो वैरश्चेति प्रमाण मद्ये | अथ वीरकल्पः | अत्रापि विरोध पाशावकल्पोक्तग्राह्यं | अथ वीरतंत्रे | आरंभकाले च नियतं स्वयं पंकानुते मनं | न्यूनाविधि पिष्टकं च नानारस समन्वितं | दुग्धं मधुयुतंतकं नवनीतं स शर्करं | कुलचूडामनौ च | पुरश्चरण कालेपि परामाषां प्रपूज्य च | दीक्षिता वस्त्र पुष्पाद्यै भोज्यैः पायस संभवैः || आरंभकालेपि नियतं स्वयं पक्वान्नते मनं | उपली खंडचूर्णं तु नानाविधि रसायनं || नारिकेलं नागरंगं सुदर्शकं | शिवाकं वीजपूरं च दाडिमी फलमुत्तमं | नानारसफलं चैव नानागंध विलेपनं || चंदनं मृगनाभि च श्रीखंडं नवपल्लवं | टंगनं लोध्रकं चैव जलजं स्थलजं तथा || नानामूर्ति समुद्भूतं नानालंकारभूषणं | शून्यगेहे समानीय चार्घ्योदक विशोधितं || अमृतीकरणं कृत्वा मन्नौश्चाभिमुखं नयेत् | शक्तिर्यथा पंचमी तंत्रे | नटी कापालिनी शौंडी रजकी नापितांगना | ब्रह्मकन्या शूद्रकन्या तथा गोपालकन्यका || प्. १२४अ) विदग्धाः सर्वजातीनां शुधाश्चाष्टौ वरांगनाः | उत्तरतंत्रे च | नटी कापालिनी वेश्या पुकसीनापितांगना | रजकी वंचकी चैनसैरिंध्री च सुवासिनी || खटिकां घटिका चै न तथा गोपालकन्यका | विशेष वै दग्ध्ययुताः सर्व एव कुलांगनाः || गुरुभक्ता शिवभक्ता घृणानज्जा विवर्जिताः | संगोपन पराः प्रायस्तरुण्यां सर्वसिद्धिदा || एवं यथा योग्यां प्रसून तूलिको परिसंस्थितां | पूजामारभेत् | कुलचूडामणौ | कुलपूजा न चेदुत् स कुलमात्रा परांङ्मुखा | अन्ययोषा यदावत्स स्वसंतस्या गुरुर्भवेत् || वीरतंत्रे | ब्राह्मणी क्षत्रिया वैश्या शूद्राच्चे कुलभूषणा | वेश्यानापित कन्या च रजकी योगिनी तथा || विशेषा वै दग्ध्ययुताः सर्वात्र वरांगनाः | कुलार्णवे च | चंडाली कर्मकारी च मातंगी प्रकुसी तथा | स्वपची स्वठकी चैव कैवत्तो विश्वयोषितः || सर्वजातिमयोषिदष्टमी शक्तिरित्यर्थः | ज्ञानाष्टकंमिदं प्रोक्तमकुलाष्टकमुच्यते || कंचुकी शौंडिकी चापि शस्त्रजीवी च वंधकी | गायकी रजकी शिल्पी कौशिकी च तथाष्टमी || मंत्रतंत्र समायुक्तां समयाचारपालिकां | कुमारीस्था व्रतस्था वा योगमुद्रा धरास्तथा || पूजाकाले सुतप्राप्ता सा पूज्या सहजा वुधैः | उक्तजात्यंगना भावे चतुर्वर्णा कुलां व्रजेत् || सुरूपा तरुणी शांता अनुकूला शुचिस्मिता | शंकाहीनो भक्तियुक्ता गूढशास्त्रोपयोगिनी || अथानुरूपा सुशीला च म्रितहास्या प्रियवादिनी | गुरुदैवत संभक्तां सुचित्तां कौलिकाश्रियां || वियत्सवां विशेषज्ञां देवताराधनोत्सुकां | मनोहर सदाचारा शक्तिरेषा सुलक्षणा || दुष्टोयाकर्कषास्तच्चा कुत्सिता कुलभूषिता | दुराचारा पराधीना भीता च विकृतालसा || निद्रा शक्ताति दुर्मेधा हीनांगी व्याधिपीडिता | दुर्गंधा त्वरिता मूर्खार्वृद्धामत्ता रहस्यवित् || कुतर्का कुत्सिता लुब्धा निर्लज्जा कलहप्रिया | विरूपोत्वांगगा दुष्टा पिंगला विकृतानना || इदृशी मंत्रयुक्तां वा शक्तिं यागे विवर्जये | क्रमो यथा | दीक्षिता चाष्ठ शक्तीः क्रमेण संस्थाप्य | पूर्वदर्घ्य पात्रादिकं स्थापयित्वा | अर्घ्योदकेनता अभ्युक्ष्य | वमिति धेनुमुद्रयाऽमृतीकृत्य | मद्यं मांसं च मत्स्यं च चर्वणं च प्रदापयेत् | ततस्तु तोषयेद् भक्त्या गुरुं स्वर्णादिभिः प्रिये || एतत् कल्पद्वये नैव मंत्राः सिद्ध्यंति निश्चितं | विना पीत्वा सुरां भुक्त्वा मांसं गत्वा रजस्वलां || यो जपेद्दक्षिणां देवीं तस्य दुःखं पदे पदे | अत्र दक्षिणेत्युपलक्षण सर्वकुलदेवीमित्यर्थः || सामान्यग्रंथे कुलचूडामणादवुक्तत्वात् नीलतंत्रे | स्वेच्छाचारपरो मंत्री पुरश्चरण सिद्धये | प्. १२४ब्) रहस्यमाला मानवलक्षं सदा जपेत् | कुलार्णवेपि | रात्रौ नग्नो मुक्तकेशो मैथुने वापि तत्वतः | प्रकर्तव्यं प्रयत्नेन पर्वंमाकार्थ सिद्धये || द्विजातीनां तु सर्वेषां दिवाविधिरिहोच्यते | शूद्रादीनां तु सर्वेषां रात्राविष्टं महाफलं || यद्यत् कामायते कामं तत् तदाप्नोति नित्यशः | द्वितजातीनामिदं विकल्पिनामित्यर्थः | शूद्राणामिति निर्विकल्पिनामित्यर्थः | कालिका श्रुतौ च | अथ हैनं कालिका मनुपांजापी शुद्धात्मा ज्ञान वैराग्यनुक्तः शांभव दीक्षा स्वभावतः | शाक्तेषु वा दिवा ब्रह्मचारी रात्रो नग्ने मैथुनाशक्तमानसः जपपूजादि नियमोयोषित् प्रियकारकः सुभगोत्वकेनतर्पणं | तेनैव पूजनं | सर्वदा कालीरूपमात्मानं विभावयेत् | सर्वगोपित् स्व स्वभक्तो भवति स सर्वहत्यांतरति || अपंचमकारेण सर्वमाप्नोति | विद्यां पशुं धनधान्यं सर्ववसत्वं च कवित्वं च नान्यः यथा विद्यते मोक्षा यज्ञानाय धर्माय तत्सर्वं भूतं भव्यं यत्किंचित् दृश्यादृश्यमानं स्थावरजंगमं तत्सर्वं कालिकातंत्रेषुतं प्रेतं वेदयनक्रत मनुजापी सवाष्मानं भवति | स सर्वशास्त्रे वेतु नरति सर्वसुखमासं सर्वत्यागी भवति स विरक्तो भवति सर्ववेदाध्यायी भवति | सर्वमंत्रजापी भवति | स सर्वशास्त्रोवेत्ता भवति | स सर्वग्रहकारी भवति | आवयो मित्रभूतो भवति | इत्याहं भगवान् शिवः | निर्विकल्पेन मनसापः सर्वकरोतीति | अथैवं विधिना पुरश्चरणं | कृत्वा प्रयोगादिकं च कुर्यात् | अथ पाशवकः सशाक्तानां पुरश्चरणनुकल्पः | तदुक्तं कालीकुलसर्वस्वे | अशक्तानां तु मे देवपुरश्चरण मुच्यते | इश्वर उवाच || श्मशानेया पुरश्चर्या कथिता देवि दुर्लभा | अथवान्य प्रकारेण पुरश्चराममुच्यते || कुजे वा शनिवारे वा नारमुंडं समाकुलं | पंचगव्येस्तु मिलितं चंदनाद्यैर्विशेषतः || निक्षिप्य भूमौ हस्तार्द्धमानतः कारणांतरे | अथ तद्दिवसे रात्रौ सहस्रं यदि मानवः || एकाकी प्रजपेन्मंत्री स भवेत् कल्पपादपः | अथवान्य प्रकारेण पुरश्चरणमुच्यते || अष्टम्यां च चतुर्दश्यां पक्षयोरपि | सूर्यादये समारभ्य यावत् सूर्योदयांतरं | तावजप्त्वा निरातंकः सर्वसिद्धीश्वरो भवेत् || मुंडमालाया च | सूर्योदयं समारभ्य यावत् सूर्योदयांतरं | तावज्जप्त्वा महेशानि पुरश्चर्यां विधीयते || कालितंत्रेपि | अथवान्य प्रकारेण पुरश्चरणमुच्यते | चंद्रसूर्यग्रहे चैव ग्रासावधि विमुक्तितः || यावत् संका मनुं जप्त्वा तावद्धोमादिकं चरेत् | सूर्यग्रहण कालाद्धिनान्यकालः प्रशस्यते || प्. १२५अ) तत्र यद्यत् कृतं कर्म तदनंत फलं भवेत् | तावदिति जपदशांशहोममित्यर्थः | ग्रहणे चंद्रसूर्यस्य शुचिः पूर्वमुपोषितः | नवां समुद्रगामिन्यां नाभिमात्रोदके स्थितः || यद्वा शुद्धौदके स्थित्वा शुचौ देशे समाहितः | पर्शाद् विमुक्तिपर्यंतं जपं कुर्यादनन्यधीः || अनंतरं दशांशेन कामाद्धोमादिकं चरेत् तदंते महतीं पूजां कुर्याद् ब्राह्मणभोजनं || ततो मंत्रस्य सिद्ध्यर्थं गुरुं संतोष्य पूजयेत् | तंत्रसारे च | अथवान्य प्रकारेण पुरश्चरणिकोविधिः | चंद्रसूर्योपरागे च स्नात्वा प्रयतमानसः || स्पर्शादि मोक्षपर्यंतं जपेन्मंत्रं समाहितः | दृष्ट्वा स्नात्वा स संकल्पे विमोक्षात जपं चरेत् || श्राद्धा देवत्व रोधेन यदि जाप्यं त्यजेन्नरः | स भवेद् देवता द्रोही पितृन् सप्तनयत्पधः || इति ग्रहणे श्राद्धकर्तव्यतावश्यकत्वा प्रयतमानसः | स्पर्शादि मोक्षपर्यंतं जपेन्मंत्रं समाहितः परिज्ञादावविधं जपविषयं अन्यथा श्राद्धस्यावश्यकत्वात् | जपारंभ एव न संभवततीति व्यर्थोक्तिः स्यादिति पुरश्चरणं तु जीववत् पितृकस्यैव मृतपितृकस्यापि श्राद्धाकरणे पूजयते येन तु स्मद्धोप विज्ञानात् | जपारंभं कृतं तेन कर्तव्यता परिज्ञानो जपोरत्याज्यः परित्यागेन तु पापं | श्राद्धात् करणात् पापमुत्पन्नमेव तथा च स्मृतिः अकुर्वामद्भुतं चास्रं पंकेयौरिवसीदति | मुंडमालायां | कृष्णाष्टमी समारभ्य यावत् कृष्णाष्टमी भवेत् | सहस्र संख्य जप्ते तु पुरश्चरणमिष्यते || कृष्णां चतुर्दशी प्राप्य नवम्यंतं महोत्सवे | अष्टमी नवमी रात्रौ पूजाकार्या विशेषतः || दशम्यां पारण कुर्यात् मत्स्यमांसादिभिः प्रियो षट्सहस जपेन्नित्यं भक्तिभावपरायणः अन्यच्च | चतुर्दशी समारभ्य मावदन्या चतुर्दशी | तावज्जपं महेशानि पुरश्चरणमिष्यते || केवलं जपमात्रेण मंत्राः सिद्धाः भवंति हि | विना होमादिदानेन विशेषात् पीठपूजनैः || योनिपीठं महापीठं कामरूपं तथा परं | तयोरेक्ततमं पूज्यं रुद्रदेहद्रवापरः || तावज्जप्तेति प्रतिदिनं षट्सहस्रमित्यर्थः | अव्यवहित प्रथमकल्पोपदेशादिति || कालीतंत्रेपि | शरत्काले चतुर्थ्यादि नवम्यंतं विशेषतः | भक्तितः पूजयित्वा तु रात्रौ तावेत् सहस्रकं || जपेदेकाकी विजने केवलंति मिरालये | अष्टम्यादि नवम्यंतमुपवासपरो भवेत् || अन्यत्र गुरुमार्गस्य लंघन नैव कारयेत् | अथवान्य प्रकारेण पुरश्चरणमिष्यते || प्. १२५ब्) अष्टमी सिद्धिवेलायां अष्टोत्तरलतागृहं | प्रविश्य मंत्री विधिवत्ताः सम्यभ्यर्चयेत् ततः || पूर्वोक्त कल्पमासाद्य पूजादिकं समाचरेत् | केवलं कामरूपो सौ जपेदष्टोत्तरं भवेत् || एताषां सुपत्र मूलेन उत्पन्नां संगृह्य यत्नतः मंत्रसिद्धि भवेत् सत्यो लता दर्शन पूजनात् | तासां शक्तीनां तत्वसिंदूरं पत्र मूलेन श्रीफलपत्रादीनां वृत्तेन संगृह्य स्वमस्तकेस्तावद्वि भूयात् | अथ वान्य प्रकारेण पुरश्चरणमिष्यते | कुलाकृष्ट लतागारे लिखित्वा मंत्रमेव च || प्रपूज्य तत्संस्कारि कृत्वा तस्यै निवेय च | किं च जप्तं मनुं नीत्वा देवता भावतत्परः || तां विसृज्य नमस्कृत्य स्वयं जप्त्वा स्वयं यतः | प्रातः स्त्रीभ्यो वलिं दत्वा मंत्रसिद्धिर्न संशयः || अथवान्य प्रकारेण पुरश्चरणमिष्यते | गुरुमानीय संस्थाप्य देववत् पूजनं विभोः || वस्त्रालंकार भूषाद्यैस्तोषयेद् गुरुमात्मनः | तत्सुतं तत्सुतां वापि पत्नीं चैव विशेषतः || * * * * * * * * (?) स्वयं सिद्धीश्वरो भवेत् | अथ वेत्यादि | सहस्रारे गुरोपाद पद्मं ध्यात्वा यथाविधि | केवलं देवता भावे जप्त्वा सिद्धीं परो भवेत् || गुरवे दक्षिणां दद्यात् यथा विभव पूर्वकं | गुरोरनुज्ञामात्रेण दुष्टामंत्रोपि सिद्ध्यंति || गुरुं विलंघ्य शास्त्रेस्मिन् नाधिकारः सुरैरपि | एतां च मंत्रतंत्रानां प्रयोगः क्रियते यदि || गुरुवक्त्रं विना देवि सिद्धिहानि प्रियजायते | एततत्रिंश मंत्रं च शिष्योभ्योपि न दर्शयेत् || अन्यथा प्रेतराजस्य भवनं याति निश्चितं | अथ सुरश्चरणा दिव्यतिरेकेण मंत्रसिद्धि विवरणं | तंत्रसारे मासमात्रं जपेन्मंत्रं भूतलिप्त्वात् * * * * (?) | क्रमात् क्रमात् सहस्रं च तस्य सिद्धो भवेन्मनुः | नीलतंत्रे | अथातः संप्रवक्ष्यामि गुरु सिद्धि परं परं | रहस्यां मंत्र सिद्धस्तु पुरश्चर्यादि निर्विना || गोपितं कोटि शास्त्रेषु इदानीं प्रकटी कृतं | एवं ज्ञात्वा विशेषज्ञो गोपयेत् प्रीतयो मम || शिवशिखिशितभानुं पंचमंत्य स्वराद्यं द्वितयमिदमपूर्वं वीजमुग्र प्रभायाः | क्षणमपि सुमलीनां मंडलांतर्विभाव्य क्षणपति स्वर दृष्टिं वा दिवाज्जायते सः | अस्यार्थः शिवोहः शिखीवः शितं भानुश्चंद्रकला पंचमस्य उकारास्यांत्यः उतेन कूमिति सिद्धं | एतद्वितयं अपूर्वं अनादि परिप्राप्तं उग्रप्रभाय वा वनहर्गायाः क्षणमपि सकृद शिखमनीनां सूर्याणां मंडलमध्ये ध्यात्वा दुरदृष्टं मंत्रसिद्धिं प्रतिवंधक पापं क्षपयति नाशयति वा दिश्रेष्ठो भवति | इति वाह्यार्थः | गुप्तार्थस्तु खमनीनां चंद्राणां मंडलांतः सहस्रदल पद्मस्त चंद्रमध्ये इत्यर्थः | एतद्विज स्वरूपां कुंडलिनी परमशिवेनीत्वातयोः सामरन्यं विभाव्य षोडशि कलांगलिता मृतमध्ये विभाव्या मृतं पाययित्वा ध्यायेदिनि | प्. १२६अ) स जयति * (?) पुरज्ञान वादिराजान् विवादेन घटयति कमनीनां चित्ताचुरश्चिरायुः | कवयति कविराजैरप्य दृष्टं स्वराद्यं मधुमतिरपिहेयो किं पुनः सिद्धि संघाः | पूर्वप्रयोगस्य फलं | कुलयुवति स्वयोनौ मंत्रवर्णान् विलिख्या निखिल निगमपर्णान् सुप्तष्टादिदो पानूंदिदुष्टान् | विदित गुरुकुलांत वाह्यरात्मा विधिज्ञो मनु पुटित पटीयान्साधयेच्चांतचेताः | अस्यार्थः | कुलवधुमुद्रायां स्वस्वतंत्रवर्णान् स्वरव्यंजनभेदेन विश्लेषितान् | अगृहीत निगमागम मंत्रान् पूर्वोक्त सुप्त च * * * * * * * * (?)ज्ञात गुरुकुलांतः करणाचष्टः | तथा च कुटिलगुरु प्रौतोपदेशो भवति | विधिज्ञः साधने अपेक्षित विध्ज्ञः मंत्रःस्यु स्पुटित प्रकारेण लिखने पट्टत्तरः | पाहिमादिनि वृत्त चेताः साधयेत् | एतद्वीज त्रय पुटित कृत्वा स्व स्वमंत्रं वाह्यभ्यंतर भेदेन मुद्रायां मूलाधार त्रिकोणे विलिख्य ध्यात्वा वा जपतो मंत्र सिद्धिर्भवतीत्यर्थः | पर्युयसितः | कुलपथ मधुसंधायामितायां स्वभूमौत रजा विमनायस्तर्पयेत्तीर्थतोयैः | रुधिरतर सुपुष्पै कंदमाल्यानुलेपै रचित युवति वेशस्तद्धिपाध्यामतेसः | अस्यार्थः | तद्धिमा हे देवित्वद्धुध्या ज्ञायते | अय दैवीति सर्वज्ञायते | वाह्यभ्यंतरभेदेन सामरस्यं विधाय एवं वेऽसधरं तीर्थतोयैस्तर्पयेत् | इति पर्यवसितोर्थः परिचरति समस्तैर्न्यास पूर्वैः प्रसिद्धैस्तव परिजनजालैर्योनि चक्रे प्रपूज्य | सुविमल कुलजांत्वां ह्रीं घृणावर्जितोयः स्वयमपि रुचितांगः क्षोभ कृद्योगिनीनां | अस्यार्थः | हे देव् स्वविमलकुलजांत्वां घृणावर्जितां अंतः पक्षे कुंडलिनीं वाह्यशक्तिं तत्स्वरूपां या शक्तिः सा माहादेवीति दर्शनात् | एताद्दशीं प्राप्यतव परिचरति | पूजां करोति परिकरजालैः रश्मि वृंदैः | सहसमस्ते विधिर्भिन्यास पूर्वकैः | एतेन सामान्यार्घस्थापनादि सूचितं | प्रसिद्धेस्तंत्रोक्तै रचितांगः अलंकारादिना एतद्वीज द्वयं पुटित मूलविद्यास्त्र रूपां कुलकुंडलिनीं योनिमुद्रा वंधप्रकारेण यजेत् | वाह्यपक्षे दूतीयाग प्रकारेण यजेत् | तदा योगिनी क्षोभकारी भवति | सिद्धमंत्रो भवतीत्यर्थः | पशु विप्रकुलचक्रं संस्पृशेन्मध्यशाखं सुरतरुसुरनाथः शापभ्रष्टः सुरेशः | कुलपति कुलनाथस्तद्वयं योजयित्वा मनुपुटित विमृग्यं योजयेत् द्वहिर्यः | अस्यार्थः | पशुरिषुप शुरेवपभावाश्रित ना मनधिकारात् | यद्वा पशूनां जीवानां वैरि एतद्भावनयाजीवत्वं गच्छति ब्रह्मत्व मवतिष्ठते | कुलचक्रं मूलाधारं मध्यशांखं इडापिंगलयोर्मध्ये नाडीमित्यर्थः | प्. १२६ब्) कुलपथि ब्रह्मपथे कुलीनः | तद्वयं पूर्वोक्त वीजद्वयं | कथं भूतं मनूनां पुटिताय विमृग्यं वहिरपियो नावपि योजयेत् | स्वस्वमंत्रं एतत् पुटितं कृत्वा तत्स्वरूपा कुंडलिनीं मूलादि ब्रह्मरंध्रांतं भवेत् | वाह्येपि भावयेत् इति | जननि तवकलानां कोवेद कामरूपः | कुमति विहित चित्तः संलिसंलिखेत्तां त्रिधारो विगत भयविवादधांतजालः शुभां शुस्तववरणतलांतधूलिजालैर्विशालैः | परिकलितवपुस्तद्वर्त्मभिर्देव पूज्यैः | परिभवति स विद्वो मोक्षपूर्याधिपः सः | तां वीजद्वय पुटितां त्रिधावे अंतन्यक्षे मूलाधार त्रिकोणे मनुमालिखेत् | वाह्यपक्षे कुंकुमादिना यो लिखेत् | अन्यत् सर्वं विशेषणत्वेन फलं न निर्दिष्टमिति | नवेति देवपूज्यैः कुलधर्मैरित्यर्थः | पशूनां अनाचारः परिचरते पूजयति सविज्ञः तत्वज्ञानवान् जीवन्मुक्तो भवतीति परममुक्ति भाग्भवतीति | मदनमदवधूनां वीजमुद्धृत्य शक्तितालु कठिन वीजं लोकधात्री तदंतः | यदि जपति सदंतर्भावमासाद्य सद्यः सु नगरगतैस्तैः सिद्धिरज्ञैः प्रपूज्यः | अस्यार्थः | मदनः कामदेवधूरे एतत् स्वरुपवीजं | अभेदे षष्ठी छांदसी | शक्तिवीः कठिनवीजं भूश्चवीज. न लोकधात्री माया एतद्वीजं स दंतभीनं पूज्यभावं कुंडाली स्वरूपं वा यदि जपति तदे तत्सफली पुटितादि प्रयोगस्तु पूर्ववीजद्वयं | शिवभृगुमदपृथ्वी शक्तियुक्तं सुसिद्धं हरिहर चतुरास्य स्वस्वभूमि प्रसूतं | परम रसज्ञः क्षोभकृत् कामिनीनां | शिवहरभृगु सः मदकः पृथ्वीशः शक्तिर्मायावीजं हर्यादीनां स्वस्वभूति प्रसूतं | सृष्टिस्थिति प्रलयकर्तृत्वदामकं परमरसज्ञः वाह्याभ्यंतरभेदेन पुटितादि प्रयोगस्तु पूर्वरता भृगुमदकठिनाधः कामवीजं तदग्रे भुवनभयविनाशः क्षोभणो योजयित्वा | जपति यदि स कृद्धा चिंत्यते वीजसिंहः | कुलयुवति कुलांतः क्षोभकृत् कामिनीनां | मदन मदनभावः शक्तिवीजं नियोज्य स्मरहरहरिरूपी कामरूपः कुवेरः | रिपु कुलहरिणाक्षी लोचनां भोजसिद्ध विपुल कुलनिसेवात् खंडितांते स्वतापः || मदनकः | मदन अत्र शक्तिवीजं क्रीं अन्यत् सर्वं कथनकं पुटितायोमस्तु पूर्ववत् | शिवभृगु भृगुमुनि लोभमूलं समूलं यदि भजति यदि गुरुणां धर्ममूलं निमृग्यं | निधिपतिरपिनायोगीप्यतिः क्षुद्रयेतां यदि तदेतस्माश्यं शूवा पतिरयं | शिवहः भृगु सः भृगुमूलं लोभमूलं ह्रींवीजेन सहवर्मे मूलं गुरुणां भावक्रमेण यदि भवति तस्यै तत्फलं क्षुद्रचेता यदि स्यात् तदानाह्यं मृगां न वारण विवर्जं घ्राण मेकविवर्जं | प्. १२७अ) घ्राणमेक विवर्जयेत् | तदुपमृग्या चिह्नं द्वंद्व मे तद्भवान्याः | निखिलमनुवराणां मृग्यदा नैव दक्षं दमशरसधर्माक्षोभ कृन्मत्रे राजः | वशविघर्जम्टे नरः घ्राणस्यापि वसवर्जंतेन प्राणमृगचिह्नं चंद्रकला तेन निखिल मनुरवानां निर्द्धारणे षष्ठी | अन्यत् सर्वं पूर्ववत् | अनलान् धर्मं वादिवर्जं स चंद्रं असमनयन मुक्तं वीज मे तद्भवान्याः | द्वितयमपि विमानं वक्तुमीशो महेशः | किमिहकमलं जन्मं जन्मधारे सहस्रैः | रेफोपि धर्मपदस्य रेफादि वर्जनी लघुमिति असमनयनायुग्मनयनी इते लघिमिति एतद्वितयं विगतमानं एतत् फलवक्ता महेश एव जन्मधारा सहस्रेणापि ब्रह्मा अस्मर्थः | इह जातिनां य एनं मंत्रवर्यं सुभस्यै भजति जननि युष्मत्तू पादपद्मोत्थ भक्त्या | त्यजति परषुमासंमादृशं क्वापि कालेन खलु वपुरनर्घ्यं तस्य काचित् कदाचित् | सम्यक् फलं | विविध गुरुमुखाद्वा वालकाद्वापशो वा लिखितमपि सु वुद्ध्या प्रापकस्मादवस्यत् | स्मर रिपु रसारे मोक्षचर्याश्च पारेपरमपदविलीनः सर्वसौभाग्य भोग्यैः | इदमपि तस्यैव माहात्म्यं निखिलं तंत्रोक्तं दृष्टवा वुद्धिवलादुद्धृत्येत्यर्थः | कस्मात् कस्मादपि पूर्वापरी भूतात् अकस्मात् समय वहुव्यतिरेण प्राप्य स्मररिपु पुरपारे महेशपुरस्य दूरे मोहशागम्यत्वात् ब्रह्मपूर्याश्चपारे ब्रह्मणोप्यगम्यत्वात् | एवं भूतं परमपदं तस्मिल्लीन इत्यर्थः | अनलपुरविभागे कालिका वंधुवीजं तदपि यदि विदध्याद्दिग्युतं दंतवर्णान् | नयनयुत मूवीजान् मस्तके नामयुक्तं तदनु विकट दंष्ट्रा सोत्कटं वीजमुक्तं | अनलपुरविभागे यद्वीजं त्रिगुणित मित्यर्थः | तेन कालीवीजं ततः ककारः दांतवर्णात् उकारात् पूर्वाष्टमोऽवर्णः अकारस्तदुद्भुस्तेन का इति नयनयुत भूवीजातनीकारात् पूर्वं स्थितं तेन कालीतिनाम तद्वीजं मस्तकं | अत्र तन्नामयुक्तं | विकट दंष्ट्राया उत्कटं वीजं कूर्चमिति यावत् यदि जपति समस्तं गुह्यगुह्याति गुह्यं त्रिजगति किमिहास्ति क्लेशवलं कथंचित् | क्रमपठितम पूर्वं सर्वमेनवद्यं | मनुवरमपरं वाव्यस्तमव्यसरूपं | भजति यदि चिदानंदकः केवलो सौ विपिन भुवि मनुष्यः कौतुकी मामजुष्यः स जनमानमनुष्यः किंतुकी मनुष्यः स्वेच्छा मनुष्यः | परमार्थतस्तु देव इति | अथ मंत्रः | शिवामुखीत्यादि हरकुं २ | मनेत्यादिक ए ईल ह्रीं | शिवेत्यादित्यादिह सकलं ह्रीं शिवेत्यादित्यादिःह सकल ह्रीं मृगुमदेत्यादि सकलक ह्रीं | प्. १२७ब्) मदनमदलतेत्याद्पिक ए ह्रीं शिवभृग्वीत्यादि हसह्लीं वरणेत् पावंकां अनल शिरसीत्यादि घ्रिं २ अनलेत्यादित्रीं ३ कालि लूं इति वनदुर्गामंत्रेण नात्यमंत्र सिद्ध्युपायः | कुलार्णवे | उपदेशस्य सामर्थ्या श्रीगुरोः प्रभावतः | मंत्रप्रभाव वद्भक्त्या च मंत्रसिद्धिं प्रजायते | सिद्धमंत्राद्गुरोर्लब्धा मंत्रोयं सिद्धि भाग्भवेत् | पूर्वजन्म कृताभ्यासान्मंत्रोयं शीघ्रसिद्धिदः | दीक्षापूर्वं कुलेशानि पारम्पर्य क्रमाद्गतं || न्यास लब्धस्तु यन्मंत्रं तच्च सिद्धात्य संशयः | मंत्रं जपेत् कुलेशानि भूतलिप्यं तु संपुटः || क्रमात् क्रमात् सहस्रं तु तस्य सिद्धो भवेन्मनुः | मंडलं प्रजपेन्मंत्रं मातृकाक्षरसंपुटं || अनुलोम विलोमेन तस्य सिद्धो भवेन्मनुः | मातृका जपमात्रेण मंत्राणां कोटिकोटयः || उदितास्युर्न संदेह एतत् सर्वं तदुद्भवं | अनेककोटि मंत्राणि वित्तया कुलकारणं || मंत्रं गुरुकृपाप्राप्तं एकं स्यात् सर्वसिद्धिदं | यदृच्छया श्रुतं मंत्रं छद्मनापि वलेन वा || पत्रे क्षितं वा तज्जपेद्य * (?) नर्थकृत् | गौतमीये | सम्यगनुष्ठितो मंत्रो यदि सिद्धिर्नजायते | पुनस्ते नैव कर्तव्यं ततः सिद्धो भवेध्रुवं || पुनस्वनुष्ठितो मंत्रो यदि सिद्धिर्नजायते | उपायस्तत्र कर्तव्याः सप्तशंकरभाषिताः || अथ प्रसंगां तु लिपिः | तदुक्तं शारदायां | अथ भूतलिपिं वक्ष्ये गुगोप्यामतिदुर्लभां | तां प्राप्य शंभोर्मुनयः सर्वान् कामाश्रयेदिराट् || पंचह्रस्वाः संधिवर्णाः व्योमे वापि जलंधरा | आंत्यमाद्यं द्वीतियस्तु चतुर्थं मध्यमं तथा || क्रमात् | पंचवर्गाक्षराक्षरानिस्युर्वोते श्वेतेदुंभिः सहात्वि च | एतद्भूतलिपि प्रोक्ता द्विचत्वारिंश दक्षरैः | अर्थः | पंचह्रस्वा अ इ उ ऋ ऌ संधिवर्णा ए ऐ उ ओं अंव्योमरग्ने जलंधरा ह य र व ल अंत्ये साद्यं द्वितीयं तु चतुर्थं मध्यमं तथा क्रमात् | दिङं क ख ग घ गजढद ध्वजं ण ट झ च ड न त थ ट ध द म प फ भ ष वर्णेत्यादि श ष स अनुलोम स ष श | र भ फ प म द ध थ त न ड ढ ढ ट ण ज झ छ च ञ ग घ ख क ङं ल व र य ह अ अं उ ऐ ए ॡ ॠ उ ई अ एतत्पुटीकृत्य सर्वमंत्रं जपेत् ततः सिद्धो भवति मंत्रः | अथ सप्तशंकरभाषिता यथा कुलोड्डीशे | एवं भूतेषु सर्वेषु यदि सिद्धिर्न विंदति | उपायास्तत्र कर्तव्याः सप्तशंकरभाषिताः || धारणं वोधनं वश्यं पीतना शोषपोत्तणे | दहनांतं क्रमात् कुर्यात् तत्र सिद्धो भवेद्ध्रुव || द्रावणं वारणे वीजे मथनं कमयोगतः | तन्मंत्रं यन्मंत्रमालिख्यसित कपूरे कुंकुमैः | प्. १२८अ) उशीर चंदनाभ्यां च मंत्रं संमिश्रितं लिखेत् | क्षीराष्ट मध्जेयानी मध्ये तल्लिखनं भवेत् || पूरणाज्जपनाद्धोमाद्रावितः सिद्धिदो भवेत् | द्रावितो नैव सिद्धाश्चद्धोधनं तस्य कारयेत् || सारस्वतेन वीजेन संपुटीकृत्य तं जपेत् | एवं कृतो भवेत् सिद्धो नोचेतद्वश्यमाचरेत् || अनक्तं चंदनं कुष्ठं हरिद्रामदसिह्लकैः | एतैस्तु मंत्रमालिख्य भूजपत्रे सुशोभने || धार्यः कंठे भवेत् सिद्धो नोचे तत्पीडनं भवेत् | अधत्वा तुरयोगेन पदानि परजप्य वै || ध्यायेच्च देवतां तद्वद धरोन्नररूपिणीं | विद्यामादित्य दुग्धेन लिखित्वा क्रम्य चांघ्रिणा || तथा भूतेन मंत्रेण होमं कुर्याद्दिने दिने | पीडितो लज्जयाविष्टः सिद्धस्यादथ पोषयेत् || वालया त्रितयं वीजंमभ्यांते तस्य योजयेत् | गोक्षीर मधुनालिख्य विद्यां पाशौ निधारयेत् || पोषितोयं भवेत् सिद्धो नोचेत् कुर्वीत शोषणं | विद्यां च वायुवीजाभ्यां मंत्री कुर्याद् विदर्भितां || एषा विद्यागलेधार्या लिखित्वा वीरभस्मना | शोषितोपि न सिद्धाश्च ग्रहनीपात्रि वीजतः || आत्रे येन तु वीजेन मंत्रस्यैकैकमक्षरं | आद्यंतमध उर्द्ध्वं च योजयेद्ध दाहकर्मणि || ब्रह्मवृक्षस्य तैलेन मंत्रमालिख्य धारयेत् | कंठदेशे ततो मंत्रः सिद्धिस्याच्छं करोदितः || पुरश्चर्या विधायैवं गुरुसंपूजयेत् सुधीः | गुरुं प्रकाशयेद्धीमामंन्नं यत्नेन गोपयेत् || अक्षमालां च मुद्रां च गुरोरपि न दर्शयेत् | मंत्रे तद्देवतायां च तथा मंत्रप्रदे गुरौ || त्रिषु भक्तिः सदा कार्या सा हि प्रथमसाधना | मंत्रो हि देवता ज्ञेया देवता मंत्ररूपिणी || द्वयोर्भेदो न कर्तव्यो यदिच्छेत् परमं पदं | सम्यक् सिद्धस्य मंत्रस्य नासाध्यं विद्यते क्वचित् || अथ पापानां सिद्धि प्रतिवंधक तत् तत्क्षयार्थं लक्षादिभेदेन जपमाहात्म्यमुच्यते | तदुक्तं तत्रैव लक्षमात्रं जपेद्यस्तु महापापैः प्रमुच्यते | लक्षद्वयेन पापानि सप्तजन्म भवान्यपि | महापातक मुख्यानि नाशयेन्नात्र संशयः || ततो लक्षत्रं जप्त्वा यंत्रमंत्र कलेवरः | महापातक कोटी तु नाशयेन्नात्र संशयः || चतुल्लक्ष जपेच्चैव महायोगीश्वरो भवेत् | कुवेर इव रत्नाद्यः पंचलक्षान्न संशयः || षड्लक्ष जपमात्रेण महाविद्या परो भवेत् | सप्तलक्ष जपेन्मंत्री खेचरी मेलनो भवेत् || अष्टलक्ष जपेन्मंत्री देवि पूज्यो भवेद्ध्रुवं | अनिमाद्यष्ठ सिद्धीनां नायकेः साधकोत्तमः || वशगास्तस्य राजानोयोषितस्तु विशेषतः | नवलक्षप्रमाणेन जपे त्र्पुरसुंदरीं || रुद्रमूर्तिः स्वयं कर्ताहर्ता साक्षान्न संशयः | सुंदरीत्युपलक्षणं सर्वदेवीमित्यर्थः || प्. १२८ब्) मेढ्रे दीपशिखाकारमधरे कनकप्रभं | नाभिस्थं सूर्यविंवाभं हृदि ज्योतिशिखासनं || तदूर्द्धे भास्कर समां कंठे दीपशिखाभं | लंविके चंद्रविंवाभं भ्रुमध्ये रत्नवद्रुभिः || नवमे विश्वतेजश्च नवलक्षानियानि च | नवस्थानानि मंत्रेण क्रमात् संभिद्य कुंडलीं || विसर्गस्थामृतं पीत्वा पुनराधारमाविशेत् | स्थानां स्थानगतेमंत्रं स्मरेदेवं क्रमेण तु || मंदभाग्योपि नियतं सिद्ध्यते नात्र संशयः | अथवा धरपद्मेत्वलिंगंघौ पश्चिमामुखं || तत्र स्थित्वा जपेल्लक्षं | कुलाचार क्रमेणैव कर्पूरक्षोप मंडितं | यत्र कुत्र समाहितः | ततो भवति विद्येयं त्रैलोक्यवशकारिणी | अत्र तु कृतपुरश्चरणस्यंवाधिकारः प्रयोगत्वादिति | ज्ञानार्णवे च | ब्रह्महत्यादि पापानां प्रायश्चित्तं वदाम्यहं | रक्तपुष्पैर्मनेचक्रं समस्तरश्मिसंयुतं || कुलाचार क्रमेणैव कर्पूर क्षोपमंडितं | मासमात्रेण नियतं महापातक कोटयः || जन्मांतर कृताः सर्वेक्षणात्र संप्रयांति च | लक्ष्मीस्तस्य गृहे वा स्यातु स्थिरा सर्वकामदा || जवा पुष्पैश्च मंत्रज्ञः सर्ववत् पूजयेच्छिवां | ब्रह्महत्यादि पापानि पूर्वजन्मकृतान्यपि || नाशयेन्नात्र संदेहो धनवान् जायते नरः | शिवां संपूजयेन्नित्यं सुगंधि कुसुमैरपि || महापातकं मुक्तात्मा तत् क्षणात् पापमुच्यते | शमी दुर्वांकुराश्वत्थपल्लवैरथसाधकः || मांसेन हंतिकलुषं सतजन्मकृतं ध्रुवं | केतकी तरुणैः पुष्पैः पूर्ववत् पूजयेधूहि || उपपातक संहाश्चनाशयेनात्र संशयः | सौभाग्यमतुलं तस्य जायते परमाद्भुत || पूजनाच्छत पत्रैस्तु सर्वपाप विनाशयेत् | सर्वजन्मं कृतं पाप व्यापके पूजयेद्यदि || त्रैलोक्यं वशमं तव्यं सर्वपाप हरेध्रुवं | विल्वपत्रैश्च जलजैः सहैव परिपूज्यते || समूद्धिमान् भवेतच्छत् सर्वथापहरन्नथा | मल्लिका मालती पाती कुंदश्च शतपत्रकैः || श्वेतोत्पलैश्च संशुद्धैः पूजयेन् मासमात्रकं | कुलाचारे क्रमेणैव पातकं शतं जन्मजं || ब्रह्महत्यादिजंनितां नाशयेन्नात्र संशयः | मुक्तिस्तस्यकरे नूनं वाचा जीव समोभुवि || अगस्त्य वा नवंधूक्य जवारक्तोत्पलैरपि | पूर्वक्रमेण संपूज्य मासमेकं प्रसन्नधीः || पातकं नाशयेन्मंत्री साक्षात्काम समो भवेत् | चंपकैः पाटलैश्चैव वकुलैर्न्नागकेशरैः || कह्लारै सिंधुवारैश्च पूजयेद्यदि साधकः | सौभाग्यं मतुलं तस्य मासमात्रेन वै भवेत् || श्रीपूर्णानंदनाथेन कृतायां गुरुभावतः कुलवृत्तौ स्वतंत्रायां द्वाविंशः पटलः स्मृतः || प्. १२९अ) एवं कृतपुरश्चरणस्यनैमित्तिककाम्यकर्मणोरधितारः | तत्र कर्मणां गुणाधाय कत्वेन कुलपूजनं | त्रिगुणं यत्र यद्वा स्यात् स फलं कुलपूजनात् || तद्विधं कुमारीम्वरयती तत् तद्रूपेणादौ कुमारी पूजन विवरणं | अथ कुमारी पूजा || तदुक्तं रुद्रयामले च | कथयामि न संदेहः कुमार्याः पूजनं शुभं | यस्याः पूजनमात्रेण त्रैलोक्यं पूजनं भवेत् || सुकुमारीह्यहंनाथ त्रिधामूर्ति व्यवस्थिता | परा चैवा परा चैव तृतीया च परापरा || यत्र कालेन किंचित्तु देवासुर महोरगाः | त्रैलोक्यं च त्वया हेतु तदा जाता कुमारिका || आद्या सृष्टिकरीया तु प्रत्यक्षा सा तु तत्रिधा | उमा कला तु सा जाता सृष्टिरूपा भवार्णवे || एकवर्षा भवेत् संध्या द्विवर्षा तृसरस्वती | त्रिवर्षा तु त्रिधा मूर्तिश्चतुर्वर्षा तु कालिका || सुभगा पंचवर्षा च षड्वर्षा च उमा भवेत् | सप्ताभिमालिनी साक्षादष्ट वर्षा तु कुब्जिका || नवभिः कालसंकर्षी दशभिश्चापराजिता | एकादशी तु रुद्राणी द्वादशाब्दे तु भैरवी || त्रयोदशे महालक्ष्मी द्विसप्ता पीठनायिका | क्षेत्रज्ञा पंचदशभिः षोडशे चांविकामता || चर्चिकेति क्वचित् पाठः | एवं क्रमेण संपूज्या यावत् पुष्पं न जायते | प्रतिपदादि पूर्णांतं वृद्धिभेदेन पूजयेत् || महापर्वेषु सर्वेषु विशेषाच्च पवित्रके | महानवम्यां देवेशि कुमारीश्च प्रपूजयेत् || एतेषु कालेषु पूजनाधिक्यं | कन्यकाः पूजयेधस्तु षोडशीश्चैव भक्तिमान् | पूजयित्वा तु भक्त्या वै सर्वसंपत्तिमान् भवेत् || पूजयेत् कुलविद्यानामेकैकां वापि भैरव | कुलविद्यानां पूजकः एकैकं वापि पूजयेदित्यर्थः अशक्त परमे तत् | शक्तश्चेत् वृद्ध्या षोडशीश्च पूजयेत् | यो भूयारभते तस्य फले विशेषः इति न्यात् फलाधिक्यं | एवं प्रणव योगे चैतन्य मनार्चयेत् | ऐं ह्रीं श्रीं हूं हूं एते वै प्रणवाह्नौः इति चैतन्यवीजं स्यान्नतौ वीजाक्षरौ गिरो एकाद्वाभ्यां त्रिभिश्चैव सप्ताष्ट नवधा पुनः | नित्य क्रमेण देवेशि पूजयेद्विधिपूर्वकं हंति विघ्नान् पूजितास्ताता शत्रून् महोत्कटान् | व्याधयः सर्वरिष्टाविदुर्निमित्तान्य संशयः | ग्रहा यक्षाक्षयं यांति भूतवेताल पन्नगाः || अथवा गुह्यकाः प्रेतायोगिनी गुह्यडाकिनी | महामायादुर्निरीक्षं मृत्युपातः कुलेश्वरि || दुःस्वप्नमयं मृत्युंश्च अन्येये ये महाभयाः | कुमारी पूजनादेव न तस्य प्रभवंति हि || अनिमादीनि सिद्धानि पातालगुटिकांजनाः | प्रत्यक्षं दिव्यवेतालो भवेत् कुमारिकार्चनात् || ऐंकारेण जलं देयं ह्रींकारैः पादसौचकं | श्रींकारेणार्घ्यकं दद्यात् तूर्यवीजेन चंदनं || प्. १२९ब्) कूर्चवीजेन पुष्पाणि षष्ठे धूपं दापयेत् | ऐं ह्रीं श्रीं हूं ह्लीं कुलनायिके हृदयाय नमः || ऐं ऐं ह्रीं श्रीं ह्लीं कुलकुमारिके शिरसे स्वाहा | ऐं ह्रिं श्रीं हूं आं ह्लूं कुलकुमारिके शिखायै वौषट् | ऐं ह्रीं श्रीं हूं हूं ह्लैं कुलवागीश्वरी कवचाय हूं | ऐं ह्रीं श्रीं हूं हूं ह्लौं कुलकुमारिके नेत्रत्रयाय वौषट् | ऐं ह्रीं श्रीं हूं हूं ह्लः कुलवागीश्वरी अस्त्राय फट् इति संपूज्य ओं सिद्ध पूर्ववक्त्राय नमः | ओं जपाय उत्तरवक्त्राय नमः | ऐं ह्रीं श्रीं कुब्जिके पश्चिम वक्त्राय नमः | ऐं कालिदक्ष वक्त्राय नमः | वाग्भवेन पुनः क्षोभं यायावीजे गुणाष्टकं | श्रीयोवीजेन श्रीनाथो हूंवीजे नारिसंक्षयः || भैरवेन तु वीजेन नीशत्व ममरागतिः | कुमारिकाह्यहंनाथ सदात्वं हि कुमारिका || अष्टोत्तरशतं वापि एकां कन्यां प्रपूजयेत् | पूजिताः पूजयंत्या श्रुतिर्दहत् पवमानिताः || कुमारी योगिनी साक्षात् कुमारी सर्वदेवताः | भूर्भुवो मूर्त्यमर्त्येका कुमारीति सुपूजिताः || असुरा दुष्टनागाश्चए ये दुष्टग्रहा अपि | एकां कन्यां प्रपूजयेत् | कालाग्नि शिवपर्यंतं तथा गौर्यादि भूतवेतालगंधर्वाडाकिनी यक्षराक्षसाः | न शक्ता वीक्षितुं सर्वभूर्भुवं स्वश्च भैरवाः | पृथिव्यादीनि सर्वाणि ब्रह्मांडं स चराचरं || ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | भरुडाः सर्वतृष्टाश्च यस्तु कन्यां प्रपूजयेत् || कालाग्नि शिवपर्यंतं तथा गौर्यादि संयुता | सप्तद्वीपा समुद्राश्च भुवनानि चतुर्दश || विधियुक्तां कुमारीं च भोजयेश्चैव भैरवीं | पाद्यमर्घ्यं तथा धूपं कुंकुमं शुभवंदनं || भक्तिभावेन संपूज्य कुमारीभ्यो निवेदयेत् | प्रदक्षिण त्रयं कुर्यात् दिदिश्य शुशुभं चरेत् || पश्चात्तुदमिं सा देया रजतं स्वर्ण मौक्तिकः | विंवाहये स्वयं कन्यां ब्रह्महत्या विनश्यति || गोहत्या स्त्री वधश्चापि सर्वपाप प्रणश्यति | तं माता जनकश्चैव भ्रातरस्यैव सर्वदा || सिद्धये च पुनः सर्वः कल्पादानं प्रकल्पयेत् | भुक्तिमुक्ति यतं तस्य सौभाग्यं सर्वसंपदः || रुद्रलोकेवसेन्नित्यं त्रिनेत्रो भगवान् हरः | षष्ठि कोटि सहस्राणि अश्वमेध फलं च यत् || एतत्फलं लभेन् मर्त्यः कन्यायस्तु विवाहयेत् | रत्नं कांश्यं ममं देयं भवेदेवं महेश्वरः || एकैकं कुलमुद्धृत्य स्वर्गलोक गता अपि | तावद्भुंजंतिते भोगान् यावद्भूमि दिवौकसः || प्. १३०अ) कन्यादानं महादानं सर्वदातेषुचोत्तमं | दौर्भाग्यं नश्यति क्षिप्रं सौभाग्यंन् च प्रवर्द्धते || राजद्वारे लभेत् पूजां राजलक्ष्मीं स्वयं वसः | सर्वेषां च कुमारीं च पूजयेच्च प्रयत्नतः || महाभाग्य समुत्पन्ने कन्यकां यस्तु पूजयेत् | तत्क्षणात् लभते मोक्षं सत्यं सत्यं हि भैरव || ज्ञानार्णवे च | ईश्वर उवाच | होमादिकं तु सकलं कुमारी भोजनं विना | परिपूर्णफलं चैव सफलं पूजनाद् भवेत् || कुमारी पूजनाद्देवि पूजा कोटिफलं लभेत् | पुष्पं कुमार्यै यद्दत्तं तन्मेक सदृशं फलं || कुमारी भोजिता येन त्रैलोक्यं तेन तोषितं | कुमार्ये यज्जलं दत्तं तज्जलं सागरोपमं || अन्नं सु मीन नयने कुलवेल समं भवेत् | एकाब्दा षोडशादांता कन्याः पूजने शुभाः || विवाहविहिताः स्युश्चेदुत्तरोत्तरसिद्धिदाः | विवाहितास्तु देवेशि वाला एव कुमारिका || विवाहिता यदि वाला भवति अष्टमद्दीया भवति | तदा कुमारी द्वितीयै यत्परादूर्द्धमावस्यादष्टमान्दकं | तावत् कुमारी विज्ञेया तत्र मंत्र फलप्रदा | इति वचनायत्तु तावत् कुमारी विज्ञेया यावत् पुष्पं न विद्यते | इति वचन र ** (?) ह रहिता परमिति | सुवासिन्यामद प्रौढाः संशयं त्यज सुव्रते | कुमारी भोजनं देवि कुमारी अनुना भवेत् || मंत्रभेदेन तेनैव श्रीविद्यां च प्रपूजयेत् | तस्मात् षोडशपर्यंतं युवतीति प्रचक्षते || तत्र भाव प्रकाशश्चेत् स भावः परमोमतः | इत्यादि वचनां फलाधिक्यं | ततो युवती भावविवरणं | तदुक्तं रुद्रयामले ताराकल्पे | मातर्देवि नमस्तेस्तु भक्तानाम भयप्रदे | त्वदीय चरणांभोजे भजामि करुणां कुरु || केनोपायेन भक्ताना इहलोके परत्र च | संपत्तिश्च भवेन्मुक्तिस्तदुपायं वदस्वमे || श्रीदेव्युवाच || शृणु पुत्र रहस्यमे परं तत्वं वदामिते | यस्य स्मरणमात्रेण भुक्तिमुक्तिं च विंदति || अननुष्ठानतेस्तस्य साधकस्य मृतिर्भवेत् | जपहोमं विहीनस्य साधकस्यापि सिद्धिदा || भवामि तव सर्वज्ञ तत्ववोधे प्रवर्तकः | सत्यं सत्यं पुनः सत्यं सत्य मे तच्च संशयः || नैव योषित् समोदाता न विष्णुर्नापि शंकरः | स्त्रियः प्राणा स्त्रियो देवाः स्त्रिय एव हि भूषणं || स्त्रिं विना सदाभाष्य मन्यथा न प्रसीदति | दोषान्न गणयेत् स्त्रीणां गुणाकेवल प्रकाशयेत् || शतापराध निरतां पुष्पेणौव न ताडयेत् | अशुद्धमपि शुद्धं स्यात् द्यदूत्याः करस्पृशं || श्राद्धे विवाहे दाने च यथा देवप्रपूजने | योषितं पूजयित्वादौ ततः कर्मसमारभेत् || गंधपुष्पादि वस्त्राद्यैः भक्षैर्भोज्यैर्मनोहरैः | न चे निद्धनतां विद्यानुर्गामंत्रार्चनस्य वै || प्. १३०ब्) नित्य श्राद्ध यथा संध्या वंदनं पितृ तर्पयेत् | तथैव योषितां पूजां परमानंददायिनी || क्षुद्धायां योषिक्षुच्चायां सदा हं कुलनायकः | दुःखिता याचा स दुःखिता शापदायिनी | मात्रापित्रोवरीयागः शंभोत्वमाहरेः | वरं वाहं परित्याज्या नरम स्वकामिनी | किंवा वहुविधैर्जापै योषित् प्रियकरः शिवः | योषिदा लयकारी च महिंषां च न संशयः || दुर्गामंत्ररतः पुंसो योषि संतति विवर्द्धिनी | साचेंतरति संक्षुद्धा धनमाद्यश्च नाशयेत् || वृथामान्यो वृथा पूजावृथा जापो पृथास्तुतिः | वृथा स दक्षिणो होमो यद्य प्रियकरः स्त्रियाः || वरं जल यथा विज्ञावरं वा गहितं नशः | एवं प्राणाः परित्याज्या न कुर्यादा प्रवस्त्रियाः || गंगाक्षयोद्धवा प्रायः पानमंत्रो शिलाशिना | क्ली वद्धया मनुष्ये स्यायोपित्र्ंदा परो यदि || वुद्धिर्वलं यशोरूपमायुर्वित्तसुतावयः | हरामितस्य वै सर्वं सहायस्त्वं भवेद्यदि | तस्मात् सर्वप्रयत्नेन पूजितव्या नितंविनी | मद्यातिष्ठध्वदा लोकेतत्तदेव हि लभ्यते || मुक्ति चतुर्विधामंते लभते नात्र संशयः | एतत्ते कथितंवं स शक्तिमंत्रस्तु साधने || निंदयेन न सिद्ध्यंति मंत्राः कल्पशतैरपि | न धातावच्युतः शंभु न च राहूं शनातनी || योषिदा प्रियकर्तारं दक्षितुं क्षमत्योपिनः | अथ दीक्षित कुला सगांन्निंदाः श्रुतेः शक्ति शुद्धि विलिख्यते | तद्यथा भावचूडामणौ | अदीक्षित कुलासंगात् सिद्धिहानिः प्रजायते | तत् कथा श्रवणं चेत् स्यातच्चाल्यगमनं यदि || स कुलीन् कथं देवपूजयेत् परमेश्वरीमिति | श्रीक्रमेपि | संशोधन मनाचार्य स्त्रीषु मध्येषु साधकः | कृतोपसिद्धहानिः स्यात् क्रुद्धा भवति चंद्रिका || तस्माच्छक्ति शुद्धि कृत्वा तदुक्तं जपादिकं कुर्यादिति | पूजायां तु दीक्षिता शक्तिरेवस्थापनाया | षट् कुलेक्षलदीक्षा तु नस्यात् पापी स एव हि | इति वचनात् केवल संभोगार्थमभिषेकः मायावीज निवेदनं च शक्तिदीक्षा तु अग्रे लिख्यते | इदानीमभिषेकः | तदुक्तं कौलतंत्रे | अभिषेकांतरेच्छुद्धिमंत्रास्योच्चारणाच्छुचौ | रतिकाले महेशानि दीक्षा काले च कन्यका | वलाद्रायत्नताप्यर्थोदभिपर्क समाचरेत् || सुरयारेत सा वापि जलेन मनुनाथ वा | सांभवीषिं च यन्नारीं मुंडवामवर्जितां || आदौ वासां समुच्चार्य त्रिपुरायै समुच्चरेत् | नमः पदं समुच्चार्य इमां शक्तिं ततो वदेत् || पवित्री कुरु शब्दांते ममशक्तिं कुरु प्रिये | वह्निजायां समुच्चार्य शुद्धिमंत्रं सुरेश्वरि || अनेन मनुनादेवि अभिषिंचेत् स्त्रियः सदाः | रममानो भवेन्नित्यं सर्वसिद्धिमवाप्नुयात् || इहलोकं सुखं भुक्त्वा परं मुक्तिमवाप्नुयात् | प्. १३१अ) अन्यत्रापि | आनीय कन्यकां भद्रां घृणा लज्जा विवर्जितां | स्वकांतां परकांतां वा दीक्षितां यौवनोन्नतां || पूजकः पूजयेन्नित्यं वामपार्श्वे निवेश्य च | स्वीय कल्पोक्तविधिन्यासजालं तु विन्यसेत् || ततो जपेत् स्त्रियं गच्छन् विद्यां भुवनतारिणी | कौलतंत्रे | नटी कापालिनी वेश्या रजकीनापितांगना | ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका || मालाकारस्य कन्या तु नवकन्या प्रकीर्तिताः | एतासु कांचिदानीय ततस्तद्योनिमंडले || पूजयित्वा महादेवीं ततो मैथुनमाचरेत् | धर्माधर्म हविर्दीप्त आत्माग्नौ मनसा श्रुता || सुषुम्ना वर्त्मना नित्यं मक्षवृत्तीजुहोम्यहं स्वाहा | स्वाहांतोयं महामंत्र आरंभे परिकीर्तितः | ततो जपेत् स्त्रियं गच्छन् देवीं त्रिभुवनेश्वरीं || प्रकाशाकाशहस्ताभ्यांमवलंव्योन्मनी श्रुचा | धर्माधर्मकला स्नेहपूर्णमग्नौ जुहोम्यहं || स्वाहांतोयं महामंत्रः सुक्रत्यागे विधीयते | ततो ब्रह्मामयं ध्यात्वा विसृजेत् कुंडलीमुखे || अथ रहस्यातरं | गंध्र्वे | पृथ्वी ऋतुमतीं वीक्ष्य सहस्रं यदि नित्यशः | तदा वा ह्रीं स्वसिद्धांते हतः क्षितितलं विशेत् || नित्यशयित्रिदिनमित्यर्थः पृथ्वी ऋतुमतीमिति श्रीगुरुचरणादेव वसंतमिति | तथा पर्वते हस्तमारोप्य निर्भयः स्थिरमानसः | कवितां लभते लोकौ अमृतत्वं च गच्छति | अन्यच्च नीलतंत्रे | पद्मं दृष्ट्वा तथा विंवं खंडजनं शिखरं तथा | चामरं रविविंवं च तिलपुष्पं सरोरुहं | त्रिसूत्रं वीक्ष जप्त्वा तु शतशो गुरुभावतः || सुखं प्रसादं सु वचः सुलोचन सुहास्यकं | सुकेशं सुगतिं गंधं सुगंधं सुखमेव च || लभते च यथा संख्यं शृणु पार्वति सादरं | महाचीन क्रमं ध्यात्वा तत्र देवीं प्रपूज्य च || तत् क्रमाद्भव पुष्पेण पूजयेद् भक्तिभावतः | स भवेत् कुलदेवश्च कुलक्रमगतः शुचिः || ब्रह्मतरोर्महापद्मे देवी ध्यात्वा यथाविधिः | तत् सुधाधारसारेण पूजयेन् मातृकानने || स भवेत् साधक श्रेष्ठो मातृणां च भवेत् प्रियः | महाचीन क्रमलतावेष्टितः साधकोत्तमः || रात्रौ यदि जपेन्मंत्रं सैव कल्पलता भवेत् | तिथि क्रमेण संख्याभिर्लताभिर्वेष्टितो यदि || तदामासेन सिद्धिस्यात् सहस्रजपमानतः | अष्टम्यां च चतुर्दश्यां द्विगुणं यदि दृश्यते || तदैव महती सिद्धिर्देवानामपि दुर्लभं | महाचीन क्रमेवीजं लिखित्वा कुंकुमेन च || तत्पार्श्वसाध्यमालिख्य भावयेद्यष्टि वृत्तिभिः | तत्र गच्छति कामार्ता यत्र तरोप लभ्यते || वीजमिति काल्या एकाक्षरमित्यर्थः | तस्य स्वतंत्रोत्कर्षणे विनिमुक्तत्वात् | प्. १३१ब्) महाचीन क्रमवसेनक्ति पिण्डं विधाय च | यन्नाम्नादीयते देवि स चिरान्मृत्युयेष्यति || महाचीन क्रमलतामज्जाभिर्विल्वपत्रकं | सहस्रं देविमभ्यर्च्य श्मशाने साधकोत्तमः || तदा राज्यमवाप्नोति यदि सा न पलायते | महाचीन क्रमलता वेष्टनेन च यत्फलं || तस्यापि षोडकलाम्नार्हेतितेशवाः | सवासवाधिकं फलं लता गृहप्रवेशनि | एवं भूतः सदादेवं साधकोत्तमदुर्लभः || जमकेवाहुषष्ठ्यावाचः को वा परिदृश्यते | एतत् प्रकाशनाद्देवि मृत्युर्भवति नान्यथा || एतत् साधन निंदां वा एतन्मंत्रस्य वा पुनः | महाभूतगणैः सार्द्धंन् तस्य सर्वहरान्यहं || योगिनीचक्र सहितात्वं च तद्वधकारिणी | अथ सप्तपीठार्चनं तद्भक्तं कुलचूडामणौ || आनीय देवीं तद्गात्रै व्यापकं विन्यसेत् ततः | प्रथमं साधकश्रेष्ठो देवी कटुमस्तके || विलिख्यमंत्रं पूर्वोक्तं पूरयेत् कुलवर्त्मना | पीठदेवीं च प्रथमं पूजयेद् गंधपुष्पकैः || महाभागां ततो मूलं देवीमावरणैः सह | लक्षमेकं ततो जप्त्वा उड्डीशानं ततो विशेत् || तत्पीठेद्योनि मुद्राख्यां पूजयित्वा ततो जपेत् | निजेष्ठ देवतां तत्र जपेल्लक्षं समाहितः || कामरूपे ततो गत्वा तत्र कात्यायनीं यजेत् | जप्त्वा लक्षं ततो रात्रौ कामाख्यां प्रथमं यजेत् || ततो जालंधरे गत्वा पूर्णेशीं प्रथमं यजेत् | तत्रापि लक्षमाणेन जप्त्वा मंत्रं समाहितः || ततः पूर्णगिरौ गत्वा यजेच्चंडीं ततो यजेत् | कामरूपा भवेद्वत्स कामाख्यं प्रथमं यजेत् || तत्प्रांते च उमां देवीं जप्त्वा पूजयित्वेष्ट देवतां | सप्तपीठे सप्तलक्षं जप्त्वा रात्रौ समाहितः || संख्या पूर्तौ पुनः पृच्छेत् कामं देवि कुलोत्तमे | एवं कृत विस्मिता चेत् स्वनाम्निगोत्र जन्मनि || तवेष्ट देवताहं वै वृणुष्व वरमुत्तमं | ततः प्रणम्य देवेशीं शृणुयात् सिद्धिमात्मनः || यद्येवं नैव सा देवी पुनः पूर्णोक्तमाचरेत् | ऋक्षोचित कुलाचार परिचर्या परायणः || अथा सर्वपीठेषु यजेन्महिषमर्दिनीं | ततः प्रसन्ना भवति सुरं कुलजनप्रिये || ततो जप्त्वा मूलमंत्रं ततः सिद्धीश्वरो भवेत् | इति देवीकूटं पदयुगंमित्यर्थः | उड्डियानं उरुयुगंमित्यर्थः | कामरूपेयोनावित्यर्थः | जालंधरे चरणयुगमित्यर्थः | पूर्णशैलमस्तक इत्यर्थः | कामरूपांतरे योनिमध्ये इत्यर्थः | ततः प्रांते गुद इत्यर्थः | इति पीठार्चनं काम्यं | अन्यच्च कालीतंत्रे | अथ काम्यविधिं वक्ष्ये येन सर्वत्र सर्वगः | साधकः साधयेत् सिद्धिं देवानामपि दुर्लभां || कुलागारं पुष्पिता या दृष्ट्वा यो जपते नरः | अयुतैक प्रमाणेन साधकः स्थिरमानसः || केवलं गुप्त भावेन स तु विद्यानिधिर्भवेत् | संस्कृताः प्राकृताः शब्दाः वैदिका लौकिकास्तथा || प्. १३२अ) वशमायांतिते सर्वेसाधकस्य न चान्यथा | अथवा मुक्तिकेशस्तु हविर्भुक्त्वा स्वयं मतः || प्रजप्यैवायुतं प्राज्ञ एतदेव फलं भवेत् | इति पशुभाव परमिति | नग्नां परं स्त्रियं पश्यन् युतं यस्य साधकः | प्रजपेत् स भवेत् सद्योविद्यायावल्लभः स्वयं || तस्य दर्शनमात्रेण वा दिनोनिःकटंतांगताः | गद्यपद्यमयी वाणी सभायां तस्य जायते | तन्नाम्नाः सुधियः सर्वे प्रणमंति मुदान्विताः || तस्य वाक्य परिचयाज्जडाभवति वा पुनः | अथवा मुक्तकेशस्तु हविष्यं भक्षयेन्नरः || प्रजपेदयुतं यस्तु एष प्रतिनिधिं स्मृतः | धनकामस्तु यो विद्वान्मदै ऐश्वर्यकामुकः || वृहस्पति समोयस्तु भवितुं कामयेन्नरः | अष्टोत्तरशतं जप्त्वा योनिमामंत्र्य तत्ववित् || मैथुनं यप्रयात्येष स तु सर्वलतारतेषु जप्तव्यं महापातकशांतये | लता यदि न संसर्गे तदामज्जां प्रयत्नतः | समुत्सार्य जपेन्मंत्रं सैव कल्पलता भवेत् || महाचीन क्रमलता वेष्टनेन च यत्फलं | तस्यापि षोडशांसेन कलानार्हेति षोडश || शरशनाधिकफलं लता गृहप्रवेशनं | सिद्धसारस्वतेपि | लता यदि गृहं न संसर्गे तदामज्जां प्रयत्नतः समुत्सार्य जपेन्मंत्रं सर्वकामार्थसिद्धये | कुलचूडामणौ विशेषः | रजोवस्थां समालोक तन्मूले स्वेष्टदेवतां | पूजयित्वा महारात्रौ त्रिदिनं च प्रपूजनं || लक्षपीठकुलं देव लभते नात्र संशयः | वेताल पादुकासिद्धिं खड्गसिद्धिं च भैरव || अंजनं तिलकं गुप्तिं साधयेत् साधकोत्तमः | प्रजपेदिति अष्टोत्तर शतसहस्रमित्यर्थः || तयोद्भवे | कुलं शक्ति समाख्यातं तस्याः पूजादिकं च यत् | कुलाचार स विज्ञेयो देवानामपि दुर्लभः || देवीयामले | पूर्वोक्तं देवदेवेशि न सिद्धिः स्याद्विनास्त्रिया | स्त्रीसमीप प्रदेशोयंन् कामरूपाधिकोत्तमः || श्रीदेव्युवाच || पुरश्चरण लक्षैर्वाहोमानामपि कोटिभिः | कोटिहोमैर्दक्षिणाभिः तस्मात् पूजनविस्तरैः || न मंत्रसिद्धैमाप्नोति वनिता सन्निधिं विना | वनितायासदानाथनिकसामिलिनंतरं || वाराणसीं कामरूपं जालंधरमथापि वा | अथवान्यानि पीठा नित्यक्तुं शाक्तामिशंकर || कदाचिद्वनितां वापि वनितानां च सन्निधिं | नारीरूप समुत्पन्ना सुदृप्तागर्वशालिनी || मम तस्या स विज्ञेया शेषा तु शक्तिरीश्वर | वालां वा यौवनोन्मत्ती वृद्धां वा सुंदरी तथा || कुब्जिकां वा महादुष्टां नमस्कृत्य विभावयेत् | सर्वावस्था प्रयुक्तापि योषिद्वंद्या तु साधकैः || प्. १३२ब्) मूलं तु सर्वसिद्धीनां सर्वरूपा सुभावंवहु | साक्षाद् वा मनसां वापि नारी पूज्येवदर्शनात् || कदाचिनयुक्त्यां वै संभाष्या वनिता जनैव स्त्रियोदेवाः | स्त्रियप्राणाः स्त्रिय एव विभूषणां | स्त्रीसंगिना सदाभाव्यमन्यथा स्वस्त्रियामपि | न विज्ञेयान कुत्सेया वनिताः साधुभिः क्वचित् || प्रत्यक्ष दृष्टदोषेपि स्वस्तियो वा परस्त्रियः | सकृदपि न वक्तव्यं निंदयेन्न कदाचन || मम निंदा ममद्वेषो ममहिंसा ममर्दनं | गुरुनिंदा गुरुद्वेषो गुरुहिंसा तथैव च || साधकेन वरं कार्यं वनितां नैव विंदयेत् | वरं पूजान कुर्वीत वरं वलि परिंत्यजेत् || कुलाचारं कुलद्रव्यं कुलवृत्तिं च संत्यजेत् | तथापि नैव योषायां निंदाया मानसं नयेत् || किमिहोक्तन वहुनानरं त्याज्यो भवेन्मनुः | तथापि नैव कर्तव्यं वनिता निंदनादिकं || साधक प्रीतदानेन प्रीतस्याद्यदिकामिनी | न पुनं मोघमासाद्यदेहमाप्नोति शाश्वतं || अथ दूतीकृत्यनिर्णयः | पंचमीतंत्रे | कुंडगोलोद्भवैः पुष्पैः स्वयंभू कुसुमेन च | सर्वकालज्ञैः पुष्पैः पूजयेत् पंचमीपरां || वीरद्रव्यामृते नैव साक्षास्तेन शुभेन च | शक्तीमांतोपणे नैव पूजयेत् परमेश्वरी || पूजयेत् प्रयतो भक्त्या तस्य सिद्धो भवेन्मनुः प्रत्यक्षा सुरीतस्या नात्र कार्या विचारणा | भवरूपा समाद्देन्मयो निरूपा सुखावहा | स योनिः सर्वभूतेषु पूजनी योगरूपिणी || आधाररूपिणी नित्या वुद्धिदा सिद्धिदा शुभा | पुंसा योनिः स्त्रियो योनिः भूतानां चैव कामदा || सर्वेषा * * * * * (?) निलयानि लयात्मिका | यस्यां योनी जगत्सर्वं मद्यापि वर्तते किल || यस्यां पुरीचतेचांते यस्यां च जायते पुनः | त्रिशक्तिं सहिता योनि ब्रह्मविष्णु शिवात्मिका || संयोगे तु तुरीया सा पूर्णिता पंचमी परा | तस्माद्योनौ जपेद्विधां दिव्यमानंदकारिणी || संयुक्तां लिंगरूपेण चिंतयेत् कामिनीं परां | लिंगस्था लिंगरूपा च लिंगत्रय निवासिनी || स्वयंभुवानुयोन्यां च चरंती वनिता प्रिया | सर्वसा लिंगमध्यस्था महालिंगनिवासिनी || भगलिंग स्वरूपा च भगलिंगस्तु स्वावद्धां | कामरूपा च रामस्था कामाकाम कलात्मिका || कामिनी हृदयं स्याचस्तनस्थास्तेनरूपिणी | पूजनीया प्रयत्नेन कामदाकामरूपिणी || सिद्धिःस्यादाचरात् पुंसां प्रत्यक्षा सुंदरी भवेत् | कुंडगोलोद्भवैः पुष्पैः स्वयंभू कुसुमेन च || रोचना कुंकुमेणैव अक्षमालां तु कथयेत् | कर्पूरा गुरुकस्तूरी तथा वै चंदनेन च || अक्षमालां पुरस्कृत्य प्रतिष्ठां विधिवच्चरेत् | तद्रव्यैरंकितां शुद्धां संयात्य च पुनः पुनः || वारिणां शोधितां कृत्वा सिंदूरास्थि क्षिपेत् ततः | पट्ट चित्रमये शुद्धेनक्तयः पूजयेन्नरः || प्. १३३अ) जप्त्वा विशुद्धमायां सर्वकाममुपा लभेत् | आनीय कन्यकां दिव्यां प्रमदां यौवनोन्नतां || दीक्षितां मूलमंत्रेण स्वलीलां चारुहासिनीं | स कलानंद हृदयां घृणा लज्जा विवर्जितां || नानारसानुपाने च तृप्तिमाचर्ययतुतः | वस्त्रालंकार पुष्पैश्च शक्तीश्च पूजयेत् ततः || यथा काले यथा पुष्पं स्वयं तद्गोप्य यत्नतः | गृहीत्वा तत्प्रयत्नेन स्वयंभू कुसुमं च यत् || स्वयंभू कुसुमं दिव्यं त्रैलोक्येष्वपि दुर्लभं | प्राप्नोति साधकश्रेष्ठोह्य साध्यं साधयेद्भुवि || स्वयंभू पुष्पयोगेन साक्षात् तेन यदर्चयेत् | दिव्यां स्वप्नावतीं जप्त्वा क्षिप्र साकर्षणं भवेत् || देवताश्च ग्रहानागाराक्षसादानवाश्चये | राजनिश्चस्त्रियः सर्वानित्यं वश्यं भवंति च || स्वयंभू कुसुमैः पूजां प्रत्यहं यः समाचरेत् | जप्त्वा तद्दिव्यमाला योनौ संगमे साधकोत्तमः || गुरुपूजा कराकृष्टि विघ्नोत्सारण कर्म तत् | रहस्याकर्णकुचयो आसनं गंडचुंवनं || भूतशुद्धिःपरी रंभः संवाभावे इंद्रियं विदुः | प्राणायामस्तना कृष्ठिन्या समस्याः समीरितं || परस्परावलोकश्च ध्यानकार्यं प्रचक्षते | नखदंतक्षतादीनि धूपदीप प्रतापनं || चतुर्गंध विशेषाश्च प्रेम्ना मुद्रा प्रकीर्तिता | पूजनं गमनंस्तुत्यंरेतः पातो विसर्जनं || देवीयामले | शृणु देवि रहस्यंते कथयामि यथार्थतः | सत्यमे तद्विना योषित् संगान् मंत्रो न सिद्ध्यति || संग एव हि कर्तव्यः कर्तव्यं न च मैथुनं | पूजनीया सदायोषा सद्भावे कृत निश्चया || तस्मात् तु मैथुनं कस्माकर्तव्यं ममसाधकैः | ममभावस्वरूपायां मत्स्वरूपाहमेव सा || अन्येन वस्यते देव सा कथं भवता | तत्र तादृश भावेन सदृशो जायते यतः | मद्भाव प्रतिपन्नायान् अधिकारी स मैथुनं || सदृशत्वं दृढज्ञाने | मद्भावैक परायणः | कदाचित् पतितां याति कदाचिद्वापि पुत्रतां | कदाचिद्गुरुतां याति कदाचिद्वापि शिष्यतां || ईदृशं सर्वदाज्ञानं निश्चलं यस्य योषितां | सविष्णुः सशिवः साक्षात् सयोग्यः सर्वकर्म सु || अहं हि जगतांधात्री जननी जन्मकारणं | मद्भाव प्रतिपन्नाया महमेव सुनिश्चितं || कर्तव्यं मैथुनं नैव तस्या मनधिकारिणा | मोहाद्वागुरुमौद्याद्वायदा तत्कुरुते सुधीः || वीरोवाप्यथ वादित्योऽनुवंधा नरकं व्रजेत् | गुरुपत्नीं ब्रह्मपत्नीं पितृपत्नीं प्रपूज्य च || पुण्यं तु मैथुने यावत् तावत् कोटिगुणं भवेत् | पापमित्यर्थः | मायामद्भावमापन्ना नारी सर्वमयी हि सा | अहं तु रोषसंपन्ना नाशयामितमीश्वर || प्. १३३ब्) छिन्नशिराः शिरस्तस्यादिति यस्येव पातयेत् | मयाहतोपि पापात्मा प्राप्नोति नरकं महत् || अथवापि चिरंजीवेन् महादुर्गति दुर्गतिः | निरंतरं रोगपीडा जायते तस्य पापिनः पीडा कदाचित् षड्ज्वरोद्भवः | कदाचिद्गात्र संतापः कदाचिद्गात्रपीडनं | कदाचिदपि कंडूया कदाचित् तु विचर्चिका || अनालोक्यं च वाधिर्यं खंजका कुब्जकं तथा | अन्येपि विविधारोगाः पापिनः प्रभवेति वौ चक्षुर्माशः श्रुतिछेदोकास छेदं तथैव वा पादछेदो भुजछेदः शिरश्छेदोपि जायते | राजपीडा दस्युपीडा वह्निपीडा च जायते | कुलं तस्य सुदुःखेन म्रियते नात्र संशयः || प्रार्थनामपि कुर्वाणो नलभेदन्नमुष्टिकं | मूलाहारः फलाहारः पत्राहारो जलाशनः || प्रायसेत् जायते पापी तपः फल विवर्जितः | तस्य स्यादश कृत् द्रुद्धो होतृभ्याश्चभराः || स्वगोत्र कलहो नित्यं स गोत्र हिसनं सदा | सुहृदा कृषते द्वेषो रिपोरुत् साह एवते || स्वपोषापि विषं सधाम्मित्रं वा सेवकोथवा | ओंषधं च भवेतस्य हालाहल तथा प्रभो || हितं पथ्यं सुकृद्वाक्यं कदाचन न रोचते | अहिता वदनान्नस्यं काचिद्वाणि वहिर्भवेत् || चारुक्ता मंत्रजावास्त्री विपरीतैव जायते | तद्वाक्यकारिणो नस्युः सुहृद्भृत्यादमस्तथा || एकदेश गृहस्थोपि ग्रहः पीडायते ध्रुवं | अन्यथा सिद्धिमापन्ना मंत्राः स्युर्हृतसिद्धयः || एते यत् कथिता दोषो योषिन्मथु न संभवाः | अनधिकरणामेननं पुनस्त्र्धिकारिणाः || ईश्वर उवाच | अधिकारी भवेत् कीदृक् देवेशि भवदर्चने | कथं स्यादधिकारश्च प्रयोगं कुर्वतेस्तथा || महालय यैव संदेहोवर्द्धते जगदीश्वरि | तदे तत् शौतुमिच्छामि संदेहोच्छादनानि च || ममानुग्रहतो देवि तदे तद्वक्तुमर्हसि | शृणु देव प्रवक्ष्यामि गुह्याद्गुह्यतरं परं || गोपितं सर्वतंत्रेषु न देयं यस्य कस्यचित् | अहमेव परं ज्ञानं अहमेव परागतिः || अहमेव परं ध्यानं अहमेव परा श्रुतिः | मंतः परतरं विश्वं ना किंचदवलोकयेत् || अहमेव जातसंर्वं जगदेव महेश्वरं | मद्भावभाविता नारी भवेदे तादृशी शिव || तह्याक भावितः सर्वपुमानेव सदाशिवः | एवं ज्ञानविशिष्टास्यादधिकारी महेश्वर || ब्रह्मविष्णुमहेशादि सर्वदेवमयो हि सः | जयमानस्य वालस्य मातृयोनि सु लिंगयाः || संपर्के दधिकारो हि न यथा जायते क्वचित् | मातृ योनिं परित्यज्या सर्वयोनिं विभावयन् || संज्ञाताः साधकश्रेष्ठः शिववत् क्रीडते भुवि | स्यतथा यस्य मतिः स्याधिकारिणी | सोधिकारी भवेन्नित्यं वागादौ सहयोदिता | मद्भाव प्रतिपन्नायामत्स्वरूपा महावसा || प्. १३४अ) विकारो पाहियोषायां तस्यामपि स एव हि | एवं यस्य स्थिरावुद्धिः सोधिकारी न संशयः || मातृयोनिं परित्यज्य सर्वयोनिं विचारयन् | संज्ञानां साधकश्रेष्ठः शिववत् क्रीडते भुवि || प्रथमान्या स काले तु यावत् कार्य प्रजायते | तावत्काल विलोपार्थं यदि तव्यं प्रयत्नतः || कामभाव विलोपार्थं संगं न सहयोषिता | साध्य मे तत् सर्वकार्यादेवता | तद्वर्ण समतो जातिः पूर्णं भुवनमंडलं | भावनाभिः स्थिरीकृत्य देवता ध्यान तत्परः || मथा स्वरूपं वर्णादि चिंतयेद्यत मानसः देवी जामले | कुमार्यामेव कर्तव्यं लक्षविद्यां कदाचन | न प्रयोगादिककं वापि गृहस्थानि जयोषिति || इत्यादि वचनात् विधि प्रतिपादक वचनानि अधिकारपराणि अविधि प्रतिपादकानि वचनानि अंधिकारिपरानीतिदिक् | अथ अदीक्षित कुलासंगात् सिधिस्थानिः प्रजायते | इत्यादि सूचितस्य कुलसंस्कारावश्यकत्वातु द्विवरणं क्रियते | तदुक्तं कुलचूडामणौ | निजकांतां समानीय सुशीलां स्वयशस्विनीं | कुलभक्तंस्तरुं प्राप्य दीक्षयेत् कुलदीक्षया || परानंद रसाघूर्णलोचना कुलजां सतीं | तांवूलग्रा स पूर्णास्य गुरुरक्षोन्वितः सुखी || निजपुत्री वदाचार्यात् तद्भाल पट्टके लिखेत् | शक्तिचक्रं तृधा वृत्या लिखेत् कामकलां ततः || तन्मध्ये देय मंत्रेण दर्भितं कामरंजितं | तत्र देवीं समावाह्य ध्यात्वा तत्र प्रपूज्य च || ततस्तत् पुत्रिका कर्णे ऋषिवृंदं समन्वितं | मूलमंत्रं त्रिधा वृत्या कथयेद् वामकर्णके || अद्य पश्यति पुत्रित्वं कुलपूजार्चनेरता | स्वकुलज्ञं समादाय लज्जालस्य विवर्जिता || यथोपदिष्ट विधिना सामरस्यं समालय | इत्यनुज्ञांस्तवो लब्ध्वा प्रणम दंडवद्भुवि || त्राहिनाथ कुलाचार पद्मिनी पद्मनायक | तत्पादांभोरुहच्छायां मूर्द्ध्नि घ्रेहि यशोधन || गुरवे दक्षिणां दत्वा तांवूलारुण लोचना | स्वकुलं परमीकृत्य यथादृष्टं समाचरेत् || अंगावरण पूजादौ यदि न क्षमते कुलं | तदा मूर्द्ध्नि गुरुं ध्यात्वा कुलामृत रसेन तु || तर्पयित्वा कुलं ध्यात्वा जपेन्मंत्रं निराकुली | इति शक्तिदीक्षा || श्रीपूर्णानंदनाथेन कृतायां गुरुभावतः कुलवृत्तौ मटलोयंत्रयोविंशति संख्यकः || अथ दूतीयागः तदुक्तं कुलार्णवे | ईश्वर उवाच | नैमित्तिकं प्रवक्ष्यामि येन ब्रह्ममयोवुध | निर्विकारेण देवेशि नान्यस्य सुरवंदिते || सर्वशंका विनिर्मुक्तः सर्वज्ञः साधकोत्तमः | दूतीयागविधिं कृत्वा खेचरो जायते प्रिये || प्. १३४ब्) अर्घपात्रे वह्नि सूर्ये सूर्ये सोमामृतमये शिवो पुष्पं विकीर्य मध्ये तु सोमामृतं तु जानी हि नानाद्रव्यं मयं सदा | एतेन कल्पोक्त पूजाप्रकरणं सामान्यार्घस्थापनादि वलिदानं कर्मसूचितं ततः परदूत्यासनं पूजनं | मंचकं जमदं तस्य हेमरौप्यादि निर्मितं | विशुद्धक्षौ मरचितां तूलिकां तत्र योजयेत् || पुष्पं विकीर्य मध्ये तु कर्पूर रजसस्तथा | रजांसि इत्यर्थ रजसः प्रयोगस्तु तांत्रिकः || मंडूकायपदींस्तत्र देवि उपर्युपरि शैलज | मंडूलं पृषेदादौ रुद्रं कालाग्नि संयुतं || आधारशक्तिं कूर्मं च तथानंतं वराहकं | पृथिवी च थाकंदं तालं पद्मं दलंस्तथा || केशराणि च संपूज्य कर्णिकां पूजयेत् ततः | मंचकं च समभ्यर्च्य तत्र पादचतुष्टये || धर्मज्ञानं च वैराग्यं ऐश्वर्यं च यथाक्रमं | अपूर्वान् पूजयेदेतान्स्तन्पादानांतनीपके || आत्मांतरात्मा परमात्मा ज्ञानात्मानः क्रमोत्ततः | पंचकांतर संपूज्य गुण त्रय मथार्चमेत् || दूतीं स्वलक्षणां रम्यां सर्वलक्षण लक्षितां | हाहालंकार शुभगां शारदामिव | पूजयेत् परमेशानि पंचकामैः शरैरपि | वटुकादींश्चतुर्दिक्षु पूजयेत् सिद्धिहेतवो मातृकां विन्यसेत् तस्यादेहे कामशरान्वितां त्रिकोणं चिंतयेन् मूर्द्ध्नि तव पूजां जयेक्रमात् | त्रिकोणमध्ये वालाख्ये कामेशीं परिपूजयेत् | गणेशं च कुलाध्यक्ष तथा लक्ष्मीं सरस्वतीं || त्रिकोणेषु च संपूज्य वसंतं मदनप्रिये | स्तनयोः पूजयेत् पश्चात् मुखे तस्या कलाधरं || दक्षपादादि मूर्द्धांतं वाममूर्द्धादि सुंदरि | पादांते पूजयेत् सर्वा कला वै कामसोमयोः || अथ यथा संख्ये वान्वयः | तेन दक्ष मूर्द्धादि पादांतं कामकला | वाममूर्द्धांदि पादांतं सोमकला पूजयेदिति | श्रद्धा प्रीतिरतिश्चैव धृतिः कानि मनोरमा || मनोहरा मनोरामा मदनोन्मादिनीत्प्रिये | मोहिनी दीपनी चैव शोधिनी च वशंकरी || वंचनी च भगा देवी षोडशी प्रियदर्शना | षोडश स्वरसंयुक्ता एताः कामकलां यजेत् || पुष्पारसा च सुमनारतिः प्रीतिः जयाधृतिः | ऋद्धिः सौम्यामरीचिश्च शैलजे जांवुमालिनी || अंगिराशशिनी चैव छाया संपूर्णमंडली | तथा तृच्छामृते चैव कलाः सौम्याश्च षोडश || पूर्ववत् क्रमयोगेन श्रीविद्यां तत्र योजयेत् | सर्वसिद्धिप्रदः सर्वानंदमयं चक्रद्वयं त्रिकोण विंदुरूपं संपूज्य तत्त श्रीविद्यां त्रिपुरसुंदरी यजेत् | संपूर्णचक्र पूजासामर्थ्यापि चक्र द्वय पूजनमावश्यकं | अन्यविद्योपासकोपि स्व स्वचक्रं पूजयेत् | असमर्थश्चे मूलदेवी सायुधां स वाहनं | स परिवारां पाद्यादिभिः पूजयेत् | धूपाधिकं समर्थाय तल्लिंगे तदनंतरं | तारं च भुवनेशानीं महात्रिपुरसुंदरीं || प्. १३५अ) नमः शिवाय विद्येयं दशांता परिकीर्तितां | अनया विद्यया देवि सुलिंगं पूजयेच्छिवां || यजेत् तत् पुरुषाघोरं सद्यो वामेश संस्कृतं | निवृत्तिः स प्रतिष्ठा च विद्या सिद्धिःस्तथैव च || शांत्यतीतां च संपूज्य षडंगावरणं यजेत् | समग्रविद्यामुच्चार्य नंदिकेशं प्रपूजयेत् || मध्ये वृषणयोर्देवि गंधपुष्पाक्षतादिभिः | निवेद्य पुष्पधूपादिविजितेंद्रियमानसः || सर्वसंक्षोभिणीं मुद्रां वध्नायोनिं प्रदर्शयेत् | क्षोभिण्या वाथ वा देविं गजस्तुंडाख्यमुद्रया || उच्चरेद् भगमालां च द्राविणी वीजमुच्चरन् | अक्षुब्धः स वरारोहे परं रेतः प्रवर्तते || गजतुंडाख्य मुद्रया भगमालां द्राविणी वीजमुच्चरन् | अक्षुब्धः साधकायौनौ लिंगं प्रावेशयित्वा तथारभेत् यथा तस्याः क्षोभो भवतीत्यर्थः | रजोमयं रजः साक्षात् माद्यं देव न संशयः | सीत्कारो मंत्ररूपं तु वचनं स्तवनं भवेत् || नखदंतक्षतादीनि पुष्पाणि विविधानि च | गाजनं गायनं स्तुत्या ताडनं हरणं भवेत् || आलिंगनंस्तू कस्तूरी चंदनं घृष्टनादिकं | मथनं तर्पणं विद्धिवीर्यपातो विसर्जनं || कुलद्रव्येण संशोध्य शिवशक्तिमयं प्रिये | वीजामृतं परंब्रह्म परं निःक्षिप्य पार्वति || अर्घपात्रोमृतेत्यक्ता निर्विकल्पः सदानघः | श्रीविधाचक्रमभ्यर्च्य परब्रह्ममयो भवेत् || इतिते कथितं ज्ञानं सारं रम्यं वरानने | स विकल्पस्तु स ततं पापभाग्जायते नरः || विविकित्सा परो मंत्री जायते गुरुतल्पगः | अत एव वरारोहे निर्विकल्पः सदा भवेत् || उत्तरतंत्रे च | मामायात्रेगते रात्रौ कुलगेहं गतः पुमान् | धूपामोद सुगंधितः | रक्तचंदनदिग्धां गोरक्षालंकारभूषितः | रक्तवस्त्र परीधानो लाक्षारुण गृहस्थितः || रक्तमाल्येन संवीतो रक्तपुष्पेण तोषितः | पंचीकरण संकेतैः पूजयेत् कुलनायिका || अद्वैतावार संपन्नां शीलसौभाग्यशालिनीं | सदा परिगृहीतां वायद्वा संकेतमागतां || अथ वा तत्क्षणाद्यातं मदनाल स पीडितां | विलिप्तां रक्तगंधेन रक्ता रविभूषितां || सुगंधिवद्ध कुसुमां सर्वाभरणशोभितां | सुधूपधूपितां तन्नीं दूती कर्मनियोजयेत् || एवं भूतां यजेत्तां तु प्रसून तूलिकोपरि | व्यंगांगीं विकृतांगीं वाह्यविकल्पकमानस्मं || वर्षयह्नीं पापवतीं क्रूरामत्यलोलुपां | अभक्तमानसादीनां वर्जयेत् साधकोत्तमः || शक्तीनां सदसल्लक्षणानि कौलपुरश्चरणे प्रोक्तानि | इदं तु संक्षेपः | समानीय कुलं साधु उद्वर्तितमनंतरं | स्थानं शुद्धदुकूलादि अनुलेपन शोभितं || अलंकृतं गतत्रासं स्वागतं चासनं तथा | विवेश्य तूलिकामध्ये प्रसूनेन सुगंधिना || प्. १३५ब्) रोचना गुरुकर्पूर कस्तूरि कुंकुमादिभिः | समाकीर्णे स्वपर्यंके पूजयेत् कुलनायिकां || अंगन्यासं करन्यासं प्राणायामं ततः परं | विधाय मातृकान्यासं कुलांगेपि प्रविन्यसेत् || पूजयेदपि पर्यंकं मध्ये मंडूकमग्रतः | कोणाग्रे रुद्रमाधारे शक्तिं कूर्ममनंतरं || वराहं पृथिवीं कंदं मृणालं केशरान्यपि | पत्रं च कर्णिकां चैव मंडलं च समर्पयेत् || धर्मवैराग्यमैश्वर्यं ज्ञानमज्ञानमेव च | अवैराग्यमनैश्वर्यम धर्ममपि पूजयेत् || आत्मा अंतरात्म परमज्ञानात्मानः प्रपूजयेत् | गंधपुष्पक्षतादीनि दत्वा तत्रैव धूपयेत् || तस्योपरि कुलं स्थाप्य पूजानुष्ठानमेव च | पूजयेच्च ततस्तंस्यां पंचकामांस्ततश्चरेत् || ऐवैव कामराजश्च क्लीं कंदर्पोल्लूंश्च मत्मथः | स्त्रीं मकरकेतुंश्च सश्चैव च मनोभवः || ओंकारादि नमोंतेन कुसुमैर्गंध संयुतैः | अर्चयित्वा चतुर्दिक्षु पूजयेत् कुलनायकः || तत्र ज्ञानार्णवादिमते | कामानां वै परित्यंतन्यत्र कर्मणि | इदं तु दूतीयाग एव | ज्ञानार्णवमतेपि | कामनामयमेव क्रम दूतीयागे विशेष्यविधानात् | वटुकं भैरवं चैव दूर्गां च क्षेत्रपालकं | कुलामृत संहितायां वाग्भवं कामराजं च स्त्रीवीजं कामराजकं | हसक्लेमात्मकं दत्वा आधारशक्तिमुच्चरेत् | श्रीपादुकां ततौ दत्वा पूजया वा वदेन्नतः || अनेन मनुना दद्यात् तल्पटे सुमनोहरं | त्रिकोण तत्र संलिख्य सिंदूराद्यै वरानने || उत्तरातंत्रे | तस्य मूर्द्ध्नि त्रिकोणंच यंत्रमालिख्य यत्नतः | महाप्रेतासनं मध्ये वालां च पूजयेत् ततः || मौनी गणेशं केशाग्रे कुलाध्यक्षं ललाटके | दुर्गा भ्रुवौ तथा लक्ष्मीं रसनायां सरस्वतीं || स्तनद्वये वसंतमदनं चैव पूजयेत् | मुखे सुधाकरं पृष्ठे ग्लूं वीजानंतरोदिते || दक्षिणांशं समाश्रित्य आशिषश्चरणावधिः | पूज्या कामकलास्तस्यासाधकोगे विशेषतः || श्रद्धा प्रीतिरतिश्चैव भूमिःकांतिर्मनोरमा | विमलामालिनी घोणामदनोन्मादिनीमता || मोहिनीं दीपनीं चैव शोधनी शांकरी तथा | वंजली चैव मदनकुलाः स्वरविराजिताः || ततःश्चंद्रकलाः पूज्या आशिरश्चरणावधिः | पूषावला च सुमनारतिः प्रीतिर्धृतिःस्तथा || ऋद्धिः सौम्यामरीचिश्च तथा चैषांह्यशुमालिनी | मदिरा शशिनी छाया तथा संपूर्णमंडल || तुष्टिःश्चापि मृता चैव पूज्याःश्चंद्रकलाः इमाः | स्वरैरभिः प्रपूज्याभि सर्वकामार्थ सिद्धये || ललिताव्याप्ति दीपिकायां | भगे तदीये वर्त्तंते नाद्यस्त्रि सु प्रधानिकाः | एका तु नाडिका चांद्री सौरीरान्या तु नाडिका || आग्नेयी चा परा ज्ञेया पूजयेत् तास्तु साधकः | अंवु श्रवति चांद्रीशा पुष्पं श्रवंति भागिनी || वीजं श्रवति चाग्ने पीतांस्तु नाम निरर्धयेत् | वाग्भवाद्यैर्मनीर्युक्तैः पूजयेत् सुप्रसन्नसी || प्. १३६अ) उत्तरातंत्रेपि | पूजयेन् मदनागारे रक्तगंधेन चर्चिते | भगमालामनुं प्रोच्य त्रितारानंतरं तथा || भगमाला मनुर्यथा ज्ञानार्णवे | वाग्भवं भगशब्दांते भुगभगनिचालिखेत् | भगोदरिभगांते च भगमाले भगावहे || लिंखेत्ताभगोदरिभगंतेव भगमाले भगावहे लिखेत् | भगगुह्ये भगप्रांते योनिप्रांते भगं ततः | निपांतानि च सर्वांते ततो भगवशंकरि || भगरूपे ततो लिख्य नीरजायतलोचने | नित्यक्लिन्ने भगप्रांते स्वक्ष्ये सर्वचालिखेत् || भगानि मह्वानयेति वदे वतेति समालिखेत् | रेते सुरेते भग च क्लिन्ने क्लिन्न द्रवेत् ततः || क्लेदयद्रावयाथा च सर्वसत्वान् भगेश्वरि | अमोघे भगविच्छे च क्षुभक्षोभय सर्व च || सत्वान् भगेश्वरि व्रूयाद्वाग्भव म्लूं यमादिमं | मैं म्लूं मों म्लूं चाअं किन्ने ततः परं || सर्वाणि च भगन्यंतेमेव शंवानयेति च | स्त्रीवीजं च हरं प्रांतेवलेमात्मकमक्षरं || भुवनेशीं समालिख्य नित्येयं भगमालिनी | प्रसंगात् कथिता विद्या सर्वलोकवशंकरी || पूजयित्वा व्रतचक्रं गंधैअः पुष्पैः तथाक्षतैः | धूपदीपैश्च नैवेद्यं विविधैः कुलसाधकः || विधाया लिंगितांतं च तदुच्छिष्टं स्वयं हरेत् | अर्चयेद् गंधपुष्पाद्यै स्वशिरं तदनंतकं || मूलमंत्रं तत ऐं क्रीं कृच्छवाय ततः परं | यजेत् तत्पुरुषा घोर सद्यो वामेश्वरानपि || अत्र तत्पुरुषत्युपलक्षणं षडंगान्यसिसंह चकितत्वात् | तदुक्तं शारदायां षड्भिः वर्णैः षडंगानि कुर्यान् मंत्रस्य देशिकः | मंत्रवर्णादिकान्यस्य पंचमूर्ती यथाक्रमं | निवृत्तिश्च प्रतिष्ठा च विद्या च तदनंतरं || शांतिश्च शंत्यतीताश्च षडंगं तदनंतरं | समस्तविद्यामुच्चार्य त्रिकोणं चैव पूजयेत् || कुलामृत संहितायां | इहाप्या वाहनां नस्ति जीवन्यासादिनैव च | अत्रैवं विना षोडशोपचारैरिष्टदेवीं प्रपूजयेत् || तदुक्तं उत्तरातंत्रे | अवधूतेश्वरीं देवीं कामाख्यां समयामपि | वज्रेश्वरीं कालिकां च तथादिह्वारवासिनीं || महाचंडेश्वरीं तारां पूजयेत् तत्र साधकः | तदनुज्ञां ततो लब्ध्वा दत्वा तांवूलमुत्तमं || शिवं च तत्र निःक्षिप्य गजतुंडाख्यमुद्रया | गजतुडा मुद्रा यथा ज्ञानार्णवे | अंगुष्ठानामिका मध्यायोन्या कारेण योजयेत् | गजेतुंड्राकृतिं देवियोषित् क्लेदनकारिणी || अथारंभकालयोगे मंत्रत्व मुह्यं वचनांतरदर्शनं | तद्यथा | शिवशक्त्यः समायोगो यस्मिन्काले प्रजायते | तत्र तत्र द्वयं ग्राह्यो धर्माधर्मादिको मनुः || ततो अष्टोत्तर सहस्रशतं वा अक्षुद्धमनाः पूजयेत् | तद्वत्तमुत्तरातंत्रे | प्. १३६ब्) प्रजपेत् क्षोभरहितश्चाष्टोत्तर सहस्रकं | अष्टोत्तरशतं वापि अक्षुब्धः स्थिरमानसः || जपांते तज्जपदेव्यै तत्समर्थ तदनंतरं | क्षुब्धां मनोभव मुखे पूजायत् सुचिरंवसात् || गलच्चंद्र रसं तस्मास्य ह्रीत्वा कुंडगोलकं | अर्घस्थापन मंत्रांतं चंदनादित्यु च योजयेत् || ज्ञानार्णवे च | शिवशक्ति समायोगे एव न संशयः | ज्ञानार्णवे च | आलिंगनं चुंवनं च स्तनयोर्मर्दनं तथा | दर्शनं स्पर्शनं मात्मर्विकारो लिंगघर्षणं || प्रवेशःष्ठापनं शक्तेर्नव पुष्पैस्तु पूजयेत् | रुद्रयामलेपि | संयोगाज्जायते सौख्यं परमानंद न क्षणं | कुलामृतं प्रयत्नेन गृहीत्वा दुर्लभं नरः || तेनामृत दिव्येन तर्पयेत त्रिपुरां परां | सान्निध्य तत्क्षणं द्योति प्रीता सिद्धिं प्रयच्छति || समस्त देवतानां च तर्पणं च सदामृतैः | गुरुणां साधकानां च सर्वेषां तर्पणं चरेत् || तेनामृतेन दिव्येन सर्वे तुष्टा भवंति हि | यत्कालं कुरुते मंत्री तत्क्षणादेव सिध्यति || समयाचारेपि | कुलामृतं समादाय ततो योनिं क्षिपेद्वुधः | अशक्तस्य संक्षेपतः | कुंडवानि प्रहरणं विधि तदुक्तं कुलामृत संहितायां | आनीय प्रमदांमष्टां दीक्षितां यौवनोन्वितां | स्वकांतां परकांतां वा घृणा लज्जा विवर्जितां || प्राङ्मुखेनोपविष्टस्तु निशायै मर्द्धरात्रके | हेतुयुक्तं स तांवूलं दत्वा न्यासान् विधाय च || सीमंत लिखनेननखैवरनिजं गृहीत गाठं ततः | कुर्वीता विरतं मनोभव गृहे मातंगलोलामितं जन्नंगुष्ठपदोय गुल्फ हननं चान्योन्यतः कानिनो | स्यगुरुष्तौं समुच्चार्यक्तेमात्मकं वदेत् ततः | ल्लूं प्लांवः समुच्चार्य मंत्रेणानेन साधकः || योनिमुद्रां प्रदर्श्याथ मौनौ क्षोभं विचिंतयेत् | वाग्भवं कामराजं च वधूनीजं ततो वदेत् || योनिमुद्रां प्रदर्श्याथ नैच्व हि साधकः | वाग्भवं च समुच्चार्य ल्लें क्लैं ल्लूं च ततो वदेत् || कामं मायां क्षमाग्लौंत्मानं तस्या क्षोभं समाचरेत् | मूलमंत्रेस्ततः पंचकरणे योनौ विनिःक्षिपेत् | सतली नाम विद्येयं परे निःचैतन्यकारिणी || पुष्पांजलि त्रयं दद्यात् वा ततः क्षोभं विचिंतयेत् | वाङ्माया च गले चैव न च चित्ते ततो वदेत् || रेतोषुं परद्वंद्वं ऐं ल्लूं चैव ततो वदेत् | कामस्त्री परमाभाष्य मायां चैव ततो वदेत् || द्वाविनीनामविधेयं विंशार्णा अपरा स्मृता | अस्या मौलौ लिखेद्विद्या मैथुनं च स्माचरेत् || धर्माधर्म हविर्ज्ञाप्तं आत्माग्नेनि न सा श्रुचा | सुषुम्नः वर्त्मना नित्यं अक्षवृत्तीर्जुहोम्यहं स्वाहा || गुदूमागजवक्त्रेण मंत्रेणानेन साधकः | आत्मानं शिवरूपं तु शक्तिर्देवी स्वरूपिणी || प्. १३७अ) देवशक्तिस्वरूपं च भावयित्वा तु साधकः | लिंगं च प्रविशे योनौ च प्रतिघातं मुहुर्द्धाहः || स्वाहांतेन जपे मुक्तं स्ववीर्यं न त्यजेद्वुधः | शुद्धमंत्रौषधे नैव योनि प्रमथनं चरेत् || मथ्यमाने पुनस्तस्य जायतेत् मनुमुत्तमां गृह्नीया तु प्रयत्नेन द्रव्यं कुंडोद्भवं शुभं | अथ शुद्धमंत्रौषधिर्यथा | तदुक्तं कुलोड्डीशे | मायागच्छपदं शक्रस्तंभनंकारिणि चत्वरं | अनेनाकपिराशे तु जातीमूलं समाहरेत् || एतधृत्वा साधकेंद्र शुक्रस्तंभनमाचरेत् | गोलोद्भवं तथा देवि सृज्यते रमते च यत् || कुलजामं दीक्षिता मक्तं पतिहीनां विचक्षणां | शक्तियोग्या स्वरूपां च अनयत्या समानयेत् || सुंदरीं शोभनां दीनां पीनोन्नतपयोधरां | द्विरष्टवर्षां दर्शीयां सदा कामाभिलासिनी || पूर्वोक्त क्रमयोगेन कृत्वान्यासादिकं तथा | तत्वं प्रगृह्व यत्नेन पूजार्थ साधकोत्तमः || इति गोलोद्भवं पुष्पं देवताप्रीतिकारकं | अनेन पूजयेद्यो हि सर्वकाममुपालभेत् || स्वयंभू कथयिष्यासि पूजार्थ साधकोत्तमः | आनिय प्रमदां दिव्यां प्रमत्तां यौवनोन्नतां || दीक्षितां मूलमंत्रेण सु नासां चारुहासिनीं | सर्वानंद कुमार्या घृणा लज्जा विवर्जितां || गुरुनक्तां स्ववेशां च देवता पूजनेरतां | पूर्ववन्न्या स वर्यं तु कारयेद्देवि सुंदरीं || तस्यास्तु मानागारे पूजयेत् परमेश्वरीं | स्वयमक्षोमितो भूत्वा साधकं पंचमीं यजेत् || स्वेच्छा ऋतुमती शक्तिः साक्डाद्देवीं महेश्वरीं | तस्याः पुष्पं स्वयं यत्तु द्रक्षणीयं प्रयत्नतः || वस्त्रालंकार पुष्पेण शक्ति च पूजयेत् सदा | यथा काले यथा पुष्पं तद्गोप्यै यत्नतः गृही || त्वात प्रयत्नेन स्वयंभू कुसुमां चरेत् | स्वयंभू पुष्पयुगेन साक्षतेन समर्चयेत् || विद्यां स्वप्रावती जप्त्वा क्षिप्र माकर्ष्णादिकं | देवताश्च महानागा राक्षसा दानवाश्चये || राजानश्च स्त्रियः सर्वानित्यं वश्या भवंति च | मुंडमालामपि | स्वयंभू कुसुमं देवि त्रिविधं तु विजायते | अषोडशादरुढाया उत्तमा सर्वसिद्धिदा || वलात्कारेण उडाया मध्यमाभोगवर्द्धिनी | रजो योगवशादन्या अधमाक न दायिनी || तंत्रचूडामणौ | शृणुवत्स कुलद्रव्य महात्म्यं परमं शुभं | यत्प्राश्य कुलदेवेन लभ्यते वा त्रितं महत् || अमावास्या तिथिर्देवि सुषुम्ना मध्यवर्तिनी | अमृतं वर्षते सा तु त्रिदिनं पृथिवितले || तं सिंचति कुलं देवि यदि विद्यां समुच्चरेत् | पूर्वमेवा भवेत् तत्र प्रत्युच्चारणमेव हि || तस्मात् सर्वप्रयत्नेन कुलं वीक्ष्यं जपं कुरु | दृष्ट्या तदमृअं देवि गलितं परिगृह्यते || प्. १३७ब्) साधयेत् साधनं सर्वं कुलाचारस्य सिद्धये | शिवहीना च या शक्तिः सर्वादौ वर्षते द्वियत् || तदेव परमं द्रव्यं स्वयंभू कुसुमांख्यं | स्वयंभू कुसुमं द्रव्यं त्रैलोक्ये चापि दुर्लभं || क्वचिद्गंध वीज न लभ्यते वा न वा विभो | यदि तल्लभ्यते देवलाक्षा रसनिभं शुभं || कस्तूरी कुंकुमाभ्यां च वटीं कृत्वा तु गोपयेत् | यंत्रवीजं समालिख्य पूजयेद्यदि साधकः || एतेनाक्षत योगेन मधुमती सिद्धिमालभेत् | सुप्तादि दोषदुष्टाय मंत्रविद्याश्चकीर्तिताः || प्रवुद्धास्तत्प्रयोगेन यावत् सा पुनरागत | ततः प्रयोगं विद्यानां मंत्रादीनां कारयेत् || एवं प्रवुद्धा भवति नैव तादृ कदाचन | एतत्रयानां मध्ये तु स्वयंभू कुसुमं महत् || श्रीक्रमेपि | कस्तूरी कुंकुमं तत्र चंदना गुरुकामिकं | नाना सुगंधकं दत्वा एकीकृत्य प्रपूजयेत् || एतेन कृतयोगेन पूजयेत् परमेश्वरीं | स्वयंभू कुसुमः पूजां प्रत्यहं या समाचरेत् || मुख्या मधुमतीं सिद्धिं वधीनां देवि जायते || श्रीपूर्णानंदनाथेन कृतायां गुरुभावतः कुलवृत्तौ स्वतंत्रायां पटलस्तत्संख्यकः || अथाचार विवरणं | कालीतंत्रे || अथाचारं प्रवक्ष्यामि यत् कृते मृतमश्रुते | सर्वभूतहिते युक्तः समयाचार तत्परः || अनित्य कर्मसंत्यागी वित्यानुष्ठान तत्परः | मंत्राराधन भावेन शिवभावेन तत्परः || परस्या देवतायां च सर्वकर्म निवेदकः | अन्यमंत्रार्चने श्रद्धा अन्यमंत्र प्रपूजनं || कुलस्त्री वीरनिंदां च तद्रव्यहरणं तथा | स्त्रीषुरोषं प्रहारं च वर्जयेन् मतिमान्सदा || स्त्रीमयं च जगत् सर्वभावयेद्यतमानसः | चर्व्यं चोष्यं तथाप्येयं भक्षं भोज्यं गृहं सुखं || सर्वं च युवतीरूपं भावयेद्यतमानसः | कुलजां युवतीं वीक्ष्य नमस्कुर्याद् यथाविधिः || यदि भाग्यवसाद्देवि कुलदृष्टिस्तु जायते | तदैव मानसीं पूजां तत्र तावत् प्रकल्पयेत् || तासां भगादि देवीनांमित्यर्थः | भगादिव्यो यथा गंधर्वतंत्रे | भगिनीं भगजिह्वां च भगास्या भगमालिनीं | भगदत्तां भगाक्षीं च भगकर्णा भगावरं || भगनासां भगस्तनीं | संपूज्यतो सुगंधाद्यै मानसैर्गुरुमेव च | वालां वा यौवनोन्मत्तां वुद्धां वा सुंदरीं तथा || कुत्सितां वा महादुष्टां नमस्कृत्य विभावयेत् | तासां प्रहारं निंदां च कौटिल्यम प्रियं तथा || सर्वथा न च कर्तव्यमन्यथा सिद्धिरोधकृत् | स्त्रिद्वेषो नैव कर्तव्यो विशेषात् पूजनं स्त्रिया || जपस्थाने महाशंखं निवेश्योर्द्धं जपं चरेत् | स्त्रियं गच्छन् स्पृशन् पश्यन् विशेषां कुलजां शुभां || भक्षतांवूलमाल्यश्चित क्षुद्रव्यां यथा क्वचित् | भक्त्याद्यशेष भक्षाणि भुक्त्वा भक्षन् वरेज्जपं || प्. १३८अ) इति ज्ञाननियमो नात्र स्थित्यादि नियमेन च | न जपेकालनियमोनार्चादिषु वलिष्वपि || स्वेच्छानियम उक्तौत्र महामंत्रस्य साधने | अय जपो मानसः तदुक्तं यामले | शुचिर्वाप्य शुचिर्वापि गच्छन् तिष्ठन्ष्वपन्नपि | मंत्रैकश रसोविद्वान् नु सैवं समभ्यसेत् || न दोषो मानसे जप्य सर्वदेशे च सर्वदा | जपेन देवता नित्यंस्तयमानो प्रसीदति || प्रसन्ना विपत्रान् कामान् दद्यान् मुक्तिश्च शाश्वतीं | यक्ष रक्षः पिशाचाश्च ग्रहाः सर्वाश्च भीषणाः || जापिनंनोप सर्पंति भयभीताश्च सर्वतः | वस्त्रासन स्नानत्रे गेहस्पर्शादिवारिणः || शुद्धिं न चर्चयेदन्न निर्विकल्पं मनश्चरेत् | सुगंधिश्चेत लौहित्य कुसुमैरर्चयेत् कुलैः || विल्वैर्मरुवकाद्यैऽस्च तुलसी वर्जितैः शुभैः | नाधर्मो विद्यते स्वभ्रु किं तु धर्मो महान् भवेत् || स्वेच्छाचारोत्रगदितः प्रचरेदृष्टमानसः | इत्यावारवरः श्रीमान् जपपूजादि तत्परः || पालकः कुलतत्वानां परतत्वे प्रलीयते | उदिता कृतिरानंदमयः संसारमोचनः || अनिमाद्यष्ठ सिद्धीनामीश्वरः साधको भवेत् | अथ कुलीनाचारानंतरं | तदुक्तं कौलतंत्रे | शृणु देवि प्रवक्ष्यामि कुलीनाचारणं यथा | पाणे भ्रांतिर्भवैर्यस्य घृणास्याद्रक्तरेतसोः || शुद्धा वा शुद्धतो भ्रांतिः पापाशंका च मैथुने | स भ्रष्ठः पूजयेदेवी चंडी मंत्रं कथं भवेत् || रोगी दुःखी भवेदेवौ रौरवं नरकं व्रजेत् | अमंत्रा तु यदा देवीवला यत्नस्तु लभ्यते || आत्मदेह स्वरूपेण तत् कर्णमंत्र सुच्चरेत् | तदा सा शक्तिरूपास्या भुक्ति मुक्तिप्रदायिनी || मायावीजमित्यर्थः | रंभाशच्युम्वैशी मुख्या या नारीगमने भुवि | पाताले वा स्थिताया च तस्यानाथस्तु कौलिकः || तत्रापि वर्ज्या नाथस्य तस्याः शृणुविधिं प्रिये | गुरुरेव शिवः साक्षात् पतिपत्नी स्वरूपिणी || मनसा कर्मणा वा चारमनं तत्र वर्जयेत् | तस्य एव पदे भक्तो मुक्तिं प्राप्य परां व्रजेत् || गुरोःस्तुषा च पुत्री च तथा च मंत्रपुत्रिका | एतस्या रमणं वर्यं ब्रह्मस्वं मानसेन तु || कौलिकस्य च पत्नी च सा साक्षादीश्वरी प्रिये | तस्यावरण मात्रेण कौलिको नारकी भवेत् || मातापिगोर वा द्वर्या अन्यायात् हविषस्त्रियः | दूती यागे प्रकर्तव्ये विहारो मंत्रवित्तमैः || अन्यस्थान विचारे च देवीशाप प्रजायते | शिवहीना च या शक्तिर्दूरेतां परिवर्जयेत् || अभिषेकातरेच्छक्ति मंत्रस्योच्चारणांततौ | य पंचमेन देवेशि सर्वपापैः प्रमुच्यते || केवलेनाद्य तत्वेन साधको भैरवो भवेत् | द्वितीये लभतत्वेन पूजको ब्रह्मरूपभाक् || केवलेन तृतीयेन महाभैरवतां व्रजेत् | चतुर्थेन तु तत्वेन कवि पूज्यैकनायकः || परेण परतांयाति ममतुल्यः सुरेश्वरि | पंचमेन भवेद्योगी सर्वसिद्धि परानतः || प्. १३८ब्) इतीदं कथितं देवि सुगोप्यमति यत्नतः | न देयं पशवे देवि कुलनिंदापराय च || कुलार्णवेपि | कुलाचार गृहं गत्वा भक्त्या पापविशुद्धये | याचयेदमृतं ज्ञानं तदभावे जलं पिवेत् || कुलाचार्येण यदत्तमलिपात्रं तु भक्तितः | तत्र मस्कृत्य गृह्नीयादन्यथा नरकं व्रजेत् || वृथा न गमयेत् कालं द्यूतक्रीडादिनासुधीः | गमयेद्देवता पूजायज्ञस्तवादिनाः गुरोः कृपालांप कथास्तोत्रागमविशेत्करैः | गमयेदनिशंकाल न वदेत् परदूषणैः | प्रत्यक्षं वा परोक्षं वा प्रत्यक्षं प्रणमेद्गुरुं || गुरोरग्रे पृथक् पूजामद्वैतं च विवर्जयेत् | दीक्षां व्याख्यां प्रभुत्वं च गुरोरग्रे विवर्जये || गुरुशययाशनं पीठं पादुकापानदौ तथा | स्नानोदकं तथा छायां लंघयेन्न कदाचन || उत्पादक ब्रह्मदात्रोर्गरीयानद्वतः पिता | तस्मान्मन्येत स ततं पितुरप्यधिकं गुरुं || गुरोरालोकितः शिष्य उत्तिष्ठेदासनं त्यजेत् | गुंसत्कुलीनं गुरुं देवं मनसापि न निंदयेत् || कुलस्त्री वीरनिंदां च वर्जयेन्मतिमान्सदा | अंतः शाक्ताः वहिः शैवा स भायां वैष्णवामताः || नाना वेशधराः कौला विचरंति महीतले | लिंगागमे च | गुरुणा लोकितः शिष्य उत्तिष्ठे दासनं त्यजेत् | गुरुणा सदसद्वापि यदुक्तं तन्न लंघयेत् || रभसं मैथुनं मिथ्यां नवदे गुरुसन्निधौ | स याति नरकं घोरं भैरवेणेति भाषितं || शंक्रांतिर्नवमी पूर्णाचाष्टमी च चतुर्दशी | एकादशी व्यतीपाते कर्मलोपं न कारयेत् || तत्वहीनं कृतं कर्म जपकर्म च निष्फलं | शांभवी कुप्यते तेभ्यो ब्रह्महत्या दिने दिने || भावचूडामणौ | एकाकी निर्जने देशे श्मशाने पर्वते वने | शून्यागारे नदीतीरे निःसंगो विहरेन्मुदा || वीराणां जपकालं तु सर्व एव प्रशस्यते | सर्वदेशे सर्वपीठे कर्तव्यं नात्र संशयः || अन्यदुक्तं तत्रैव स्वकुलांतपुरेश्चर्या रात्रौ कार्या न चान्यथा | वेदहीने द्विजादेव यथा न श्रुतिसंस्कृया | विष्णुभक्तिं विना देवभक्तिर्न प्रभवेद्यथा || शाक्तं ज्ञानं विना मुक्तिं यथा हास्याय कल्पते | गुरुं विना तथा तंत्रेनाधिकारं कथंचन || पतिहीना यथा नारी सर्वकर्म विवर्जिता | कुलं विना तथा दिव्यो वीरो वा ममसाधकः || नाधिकारीति कौलेय तस्मायत्नपरो भवेत् | अविनीतं कुलं यस्य स कथं ममपूजनं || तस्माद्यत्नात् तथा कार्यं यथास्याद्विनयान्वितं | तंत्रचूडामणौ च | विष्णुभक्तो यदावत्स शक्तिदीक्ष्य परायणः | पुत्रदारधनं तस्य नाशयामि न संशयः || कुलदेवं द्विजं हत्वा वैष्णवं देशिकं यदि | करोति कुलशिष्यो सौ भ्रष्टो भवंति निश्चितं || हविर्वारोपमात्रेण वह्ने दीप्तिर्यथा भवेत् | कुलदेव मुखाद्वत्स तथा दीप्ता भवाम्यहं || प्. १३९अ) पशोर्विद्यां समादाय यदि पूजा परो भवेत् | तस्य वक्त्रं विलोक्यैव कुलवक्त्रं विलोकयेत् || पशूपदिष्टं यत् किंचित् क्रियते कुलजनैर्न्नरैः | तत् तत्कर्म महादेव अभिचाराय कल्पते || यदि देवात् पशोर्विद्या लभ्यते कुलजैर्जनैः | द्विजस्य कौलिकीं प्रार्थ्य पुनर्विद्यानुपालभेत् || अज्ञानात् सुकृतं कर्मनालोड्य कुलकौलिकीं | क्षमस्वमातस्तत्पापं हरदेवि कृपां कुरु || एवं प्राप्य पुनदीक्षां कुर्यात् साधकसत्तमः | वाराहीतंत्रे | न कुत्सयेद् ब्राह्मणं च युवतीं च न निंदयेत् | पीठेश्वरं च युवतीं मातरं पितरं गुरुं || न लंघयेदष्टमीं च पवित्रं च न लंघयेत् | न लंघयेद्गुरोः छायां गुरुपत्या विशेषतः || गुरोश्चैव परीवादो निंदा चैव प्रवर्तते | कर्णौ तत्रपि धातव्यौ गंतव्यं वा ततोन्यतः || अन्यद्धूक्तं तत्रैवा मनसा वचसा वापि कुलाकुलगुरुं यदि | निंदा करोति शापो मे तस्योपरि विजायते | एतच्छास्त्र प्रसंगोपि एतत् पुस्तकदर्शनं || पशोरग्रेन वक्तव्यं प्राणांतेपि कदाचन | कृत्वा सूर्यमुखं दृष्ट्वा स्मर्तव्यः कुलनायकः || पशूनां यत्सहालापः पशुशयया सहासनं | संसर्गश्चेकमेवात्र कुलीनस्य महात्मनः || पातनं न तु चैतेषां संक्षये पुण्यपराशयः | प्रभवंति न तीर्थानि न गंगा न च काशिका || महाविद्या जपादेव चत्वारि पातकानि च | नश्यंति न च संसर्गः क्षयं यांति कदाचन || अज्ञानात् पशुं संसर्गे यदि दैवात् प्रजायते | तदा द्वादश वर्षाख्यं व्रतार्थं यत्नमाचरेत् || कुलीनाया समीपस्थः कुलमेवा परायणः | उच्छिष्टभोजी तन्नाम प्रजापी तत् पतेरपि || तदंते तां समभ्यर्च्य रत्नैश्च परितोष्य च | शुचिर्भूत्वा पुनर्विद्यां गृहीत्वा शुद्धिमाप्नुयात् || व्रताशक्तो यदि भवेत् सुवर्णं कुलतोषकृत् | दद्यात् कुलाय पापीनां क्षयार्थं कुलसाधकः || ज्ञानात् संसर्गमासाद्य सिद्धिं प्राप्नोति नैव च | पंचत्वे भाषकारादि योनिमालंव्यसाधकः || नानाक्लेश समायुक्तो नरकान् प्रतिपद्यते | न चैन दीक्षयेन्नामनचास्यदर्शनं चरेत् || ममशास्त्रकथां चात्र प्रयत्नेन विवर्जयेत् | कर्मणा मनसा वाचये पशुशास्त्रे प्रपूजनं || प्रकुर्वंति महापापस्त्याज्या वै कुलपांशनाः | निर्जीवे काष्ठलोष्ठे वा शर्करायां तृणेपि वा सर्व तत्र चिंतिताहं न पशोर्मंत्र विग्रहे | चेतनाधिष्ठित सुखंदुःखं प्रकल्पितं | तत्रैवाच नभोवान्नि यमोनास्ति तादृशः | प्रशन्ना तेन गोप्तव्या कुलीनैः सिद्धि हेतवे | अन्यदुक्तं तत्रैव | दीक्षायां कुलपूजायां शिष्यत्वे यदि वा गुरौ | लज्जा परं कुलं तत्र नित्यापि नित्य निंदिता || अधस्ता दृष्टिपातेन तस्य विद्याह्यवोमुखी | निमीलनान्मृतां विद्यारोदनान्मारयेद्ध्रुवं || प्. १३९ब्) पार्श्वावनेनेव व्याधि दारिद्रपीडिता | चतुर्दिशवलो केन उच्चाटनगता भवेत् | एतादृशं कुलं देवि यदि दर्शेत् कथंचन || तदा कुलगुरुं प्रार्थ्यदीक्षणं कारयेत् ततः | उपदेष्ठा यदा देवि तदा सु श्रीतुरन्यकाः || पूजार्तातु यदा देवि तदा माता न संशयः | सर्वथा पितृपुत्रिभ्यां मूलयो न दृश्यते || तत् कृते कृते पाप वदुच्चारै उभौ नरकगामिनौ | चुंवुकेत्वन्य शास्त्रज्ञे पशुयामेव भैरव || न वक्तव्यंन् न कर्तव्यं नववाद्यं कथंचन | एवं कृते गुरौ शिष्य ममशापे भविष्यति || शिवागमे च | शक्त्युच्छिष्टमविचारात् पिवेच्चक्रेश्वरो यदि | घोरं च नरकं याति कुतलमार्गेपाते ध्रुवं || तस्माद् विचार्य यत्नेन शक्त्युच्छिष्टं पिवेत् सुधीः | आनंदं कारयेद्वीरस्तत्वं निर्भ्रांतितः पिवेत् || शक्तिः शिवः शिवः शक्तिः शक्तिर्ब्रह्माजनार्दनः | शक्तिरिंद्रो रविः शक्तिः शक्तिश्चंद्रो ग्रहा ध्रुवं || शक्तिरूपं जगत्सर्वं यो न जानाति नारकी | वीरतंत्रेपि | स्नानादि मानसं शौचं मानसः प्रवरो जपः | अत्र मानस जाप न कश्चिन्नि यमः | तदुक्तं यामले | शुचिर्वाप्य शुचिर्वापि गतन् तिष्ठन् स्वपन्नपि | मंत्रैक शरणो विद्वान् मनसैव मनभ्यसेत् || न दोषो मानसे जाप्ये सर्वदेशे च सर्वदा | जपेन देवता नित्यंस्तूयमाना प्रसीदति || प्रसन्नारि पुनाभोगोन् दद्यान् मुक्तिं च शाश्वती | यक्ष रक्षः पिशाचाश्च ग्रहाः सर्वाश्च भीषणाः || जापिनंन्योप सर्पंति भयाद्भीताश्च सर्वशा | वीरतंत्रे | मानसं पूजनं दिव्यं मानसं तर्पणादिकं | सर्व एव शुभः कालो ना शुभो विद्यते क्वचित् || न विशेषो दिवा रात्रौ न संध्यायां महानिशि | सर्वथा पूजने देवि मस्नातः कृत भोजनः || महानिश शुचौ देशे वलिं मंत्रेण दापयेत् | एतं च दिवसेनां च तत्वेन शूचितं || महारात्रावेव महापूजा कर्तव्या वीरवंदिते | यदिने सर्वथा कार्या शासनान् मम सुव्रते | हविष्यासी दिवालक्षं पुरश्चारे तु योजयेत् || तत्र मात्रं दिवा पूजा पशुवद्वीरवंदिते | इति स्वतंत्रतंत्रवचनं तत्पुरश्चरेण विषये वोद्धव्यं | तर मतेमिति मात्रशब्दः पुरश्चरणे दिवा पूज्य व्यवच्छेदकः | पुरश्चरणयोर्मध्ये पशुभाव एव दिवा पूजां कुर्यात् | रात्रावेवेत्यवा एककारः कुलपुरश्चरणे दिवा पूजा व्यवच्छेदकः | तत् तत्पुरश्चरण नियंत्रित्वात् | अन्यत्र तु दिव्यवीरभावो ना विशेषः | रात्रावपि दिवसेपि संध्ययोरपि पूजा कुर्यादित्यर्थः | यत् तु वलिपूजादिकं कृत्वा यत् तु वलिपूजादिकं यद्यन्निशायां क्रियते सदा | तत् तदृक्षमवाप्नोति कालीविद्या प्रसादतः | इति तन्नैमित्तिकपरं यत् तु विद्यार्चनं देवा कुर्याद्रात्रौ निमित्तिकांचनं | प्. १४०अ) उभयोः काम्यकर्मस्याणात्रस्य निश्चयः | इति कुलार्णव वचनं | तन्नैमित्तिकदिने नित्यपूजापरं | दिवसे नित्यपूजां कृत्वा नैमित्तिक पूजनं रात्रौ कुर्यादित्यर्थः | न विशेषेत्यादि तृनैमित्तिकदिनैतर दिने नित्यपूजां प्रतिज्ञेयं | छिन्नमस्ता कल्पेपि | सिद्धमंत्रेन दोषःस्यानाशौचं नियमो न चानकल्पतादि वा रात्रौ न च संध्या च सानकं | सदैव पूजयेद्देवीं मैथुनेति विशेषतः | किंतू न पश्येत् नग्नां तु उन्मत्तं प्रकटस्तनीं || दिवसेन्नरमेन्नारीं तद्योनी नैव वीक्षयेत् | इति यत् कुलार्णव वचनं | तत् कुलपुरश्चरणपरं | तत्त तंत्र विरोधा यद्यपि पतितोन्मन्तन दर्शनं सर्वदेव पापजनकं तथापि पुरश्चरणे अधिक पापजनकंमिति | रुद्रयामले भैरवी प्रकरणेपि | पशोः संभाषणाद्देविर्मंत्रसिद्धिर्भवेन्नहि | पशस्तद्विविधा देवि अदीक्षित भवेत् पशुः || दीक्षितोपि कुलाचार निंदयोद् विविधः पशुः | गोलोकेन सहालायां स्पर्शनात् संभाव संस्कृतान् || न सिद्ध्यंति महेशानि सत्यं सत्यं न संशयः | विकल्पिता न सिध्यंति यद्योत् सिध्यंतिलोकदा || तस्मादे तत् परित्यज्य सिद्धिः स्यात् केवला जपात् | वीरहत्या वृथा पानं वीरमातानिसेवनं || महापातकमित्याहुः कौलिकानां महेश्वरि | अर्थाद्वाकामतो वापि लौल्यादपि च यो नरः || लिंगयो निरतो मंत्री रौरवं नरकं व्रजेत् | कुलीनया वै मन्येत कुलजं परिपूजयेत् || कुलज्ञेषु प्रसन्नेषु कालिकासन्निधिर्भवेत् | अहो धन्यवती लोके जानाति कुलदर्शनं || तेषा मध्येपि यः कोपि कुलदेवीं प्रपूजयेत् | कुलाचार विहीनायः पूजयेत् कालिका नरः || मस्वर्गमोक्षभागी च नस्यां सत्यं न संशयः | अथवा वान्यमैश्वर्यं वलं पुष्टि महायशः || कविता भुक्तिमुक्ती च कालिका पदऊजनात् | तत्र काली पददुपलक्षणं कुलपूजनादित्यर्थः | कुलार्णवे | श्रीगुरोः पादुकां मुद्रां मूलमंत्रं सुपादुकां | शिष्यादन्यत्र देवेशि न वदेद्यस्य कस्यचित् || पारंपर्यागमाम्नाय मंत्राचारादिकं प्रिये | सर्वं गुरुकुलेश्वरि | सफलं स्यान्न चान्यथा | श्रीशास्त्राश्रय यद्भूतं यत्पुस्तकं देववत् प्रिये | नित्यं समर्चयेद् भक्त्या पशुगेहे न निःक्षिपेत् || सुदाररंविकेचेत कुलशास्त्राणि पार्वति पशुशास्त्राणि वर्जयेत् परदेववत् | दृढां धृतां च प्राप्ता च मौन्येन च समाकृतां स तत्कामगता वापि पंचसप्तव्य शक्तयः | प्. १४०ब्) आनीयंजत् पूजनीयास्यु गुरुस्तद्गुरुयोषितः | तिष्ठंति कुलयोगिन्यः कुलवृक्षेषु सर्वदा || तत्पत्रेषु न भोक्तव्य मर्कपत्रे विशेषतः | न सुषेत् कुलवृक्षानानचोपत्र न माचरेत् || अथ शिवावलिः || तदुक्तं कालीतंत्रे | अथोच्यते दक्षिणायाः सामान्ये साधकः प्रिये | कृतेन येन विधिवत् पलायंते महापदा || शिवावलिश्च दातव्यः सर्वसिद्धिमभिपूज्य | महोत्पाते महाघोरे महादोषे महाभये || महापदि महायुद्धे महाविग्रह संकुले | महादारिद्रगमने महादुःखप्रदर्शने || महाशास्तौ महारन्ये महास्वस्त्ययने तथा | घोराभिचार समरे घोरोपद्रवनाशने || कूटयुद्धादि समरे कूटशत्रु निवारणे | राजादि भयशांत्यर्थं राजाक्रोधशांतये || न ददाति वलिं यस्त्वा शिवायाः शिवताप्तये | सपापिष्ठान लज्जेत कुलदेव्याः समर्चने || अथ शिवावलि प्रकारः | तदुक्तं कुलचूडामणौ | विल्वमूले प्रांतरे वा श्मशाने वापि साधकः | मांसप्रधान नैवेद्यं संध्याकाले निवेदयेत् || कालिकालीति वक्तव्ये तद्रोमा शिवरूपिणी | पशुरूपा समायाति परिवारगणैः सह || भुक्त्वारौति यदैशान्यां मुखमुत्तोल्य सुस्वरं | तदेव मंगलं तस्य नान्यकूल न दूषण || अवश्यमन्नदानेन नियतं तोषयेच्छिवां | नित्यश्राद्धं तथा संध्या चंदनं पितृतर्पणं || तथैव वकुल सेवानां नित्य ता कुलपूजने | पशुरूपा शिवां देवीं यो नार्चयति निर्जने || शिवावारेण तस्याशु सर्वं नश्यति निश्चितं | जपपूजा विधानानि यत्किंचित् सुकृतानि च || गृहीत्वा शापमादाय शिवारोदिति निर्जने | एकया शिवया यत्र भुज्यते कुलभैरव || तत्रैव सर्वदेवीनां प्रीतिः परमदुर्लभा | पशुशक्तिःर्नरशक्तिः पक्षिशक्तिस्तु भैरव || पूजिता विगुणं कर्म सगुणं कारयेद्यतः | तेन सर्वप्रयत्नेन न कर्तव्यं पुनर्महत् || राजादि भयमापन्ने देशांतरभयादिके | शुभाशुभादि कर्माणि विचिंत्य वलिमाहरेत् || गृह्न देवि महाभागे शिवे कालाग्नि रूपिणि | शुभाशुभ फलव्यक्तिं व्रूहि गृह्न वलिं तव || एव मुच्चार्य दातव्यो वलिः कुलजनात् प्रिये | यदिनो भुज्यते देव तदा नैव शुभं भवेत् || शुभं यदि भवेत् तस्य भुज्यते तदशेषतः | एवं ज्ञात्वा महादेव शांतिस्वस्त्ययनं चरेत् || कुलाचारं दक्षिणाभ्यां कथितं तव सुव्रते | न कस्मैचित् प्रदातव्यं यदीच्छेत् सिद्धिमात्मनः || निदान चैव कर्तव्यं न चैनं जनसन्निधौ | तम्मतुः सिद्धिदाने वा नापितुः सन्निधौ तथा || प्. १४१अ) किं वा पक्षि पतंगादि दर्शने नैव कारयेत् | पातालमंडले वापि गंधर्वे वा सु यंत्रिते || न हि मंडपे वापि कर्तव्यं न च सन्निधौ | कुलपुष्पं कुलद्रव्यं कुलपूजां कुलीजपं || गुरुं कुलपतिं चापि कुलमाला कुलाकुलं | कुलचक्रं कुलं ध्यानं सर्वदान प्रकाशयेत् || प्रकाशात् सिद्धिहानिः स्यात् प्रकाशाद्वंधनादिकं | प्रकाशान् मंत्रलापः स्यात् प्रकासादौर हिंसनं || प्रकाशान् मृत्युलाभःस्या न प्रकाश्य कदाचन | पूजाकालेष्व देवेशि यदि कोप्यत्र गच्छति || दर्शयेद् वैष्णवी मुद्रां विष्णुन्या सस्तवादिकं | प्रकाशाद्यदि गुप्तिःस्यात् तत् प्रकाशं न दूषणं || गोपनाद्यदि व्यक्तिः स्यान्नगुप्तिः स्याद्विधीयते | कदाचिदंगहानिस्तु न च व्यक्तिः कदाचन || वरं पूजा न कर्तव्या न च व्यक्तिः कदाचन | अथ समयाचारः | तदुक्तं कुलचूडामणौ | शृणु पुत्रं रहस्यं मे समयाचार संभवं | येन हीना न सिद्धान्ति जन्मकोटि सहस्रशः || मनवः कुलशास्त्राणां कुलमाज्ञानुसारिणां | उदारचित्तः सर्वत्र वैष्णवाचार तत्परः || परनिंदा सहिष्णुः स्यादुपकाररतः सदा | पर्वते विपिने चापि निर्जने शून्यमंडपे || चतुष्पथे कला मध्ये यदि देवाद्या तिथिर्भवेत् | क्षणं ध्यात्वा मनुं जप्त्वा वद्वा गच्छेद्यथा सुखं || गृध्रं वीक्ष्यं महाकालीं नमस्कुर्यादलिक्षितः | क्षेमंकरीत् तथा वीक्ष्यं जंवुकीं यमदूतिकां || कुरु वंश्येन भूकाकौ कृष्णमार्जारमेव च | कृशोदरि महातुंडै मुक्तकेशि वलिप्रिये || कुलाचार पुगन्नास्येनमस्ते शंकरप्रिये | शृगालं च गनं दृष्ट्या प्रदक्षिण मनु व्रजन् || प्रणम्यानेन मनुना मंत्री सुखमवाप्नुयात् | घोरदंष्ट्रे कोटराक्षि किदृशब्दप्रनादिनी || घोरघोरकराष्फेलेनमस्वेचितिरूपिणि | रक्तवस्त्रां रक्तपुष्पां विलोक्य त्रिपुरात्मिकां || प्रणमेद्दंडवद्भूमौविमं मंत्रवुभावपि | वंधूक पुष्पसंकाशे त्रिपुरे तनयाश्विनि || भाग्योदय समुत्पन्ने नमस्ते वरवर्णिनि | कृष्णवस्त्रां तथा पुष्पां राजानं राजपुत्रकं || हस्त्येश्वरथ शस्त्राणि फलका वीरपुरुषान् | महिषं कुलदेवं च दृष्ट्वा महिषमर्दिनी || प्रणम्य जयदुर्गां वा स च विघ्नैर्नलिप्यते | जयदेवि जगद्धात्रि त्रिपुराद्ये त्रिदैवते || भक्तेभ्यो वरदे देवि महिषघ्नि नमोस्तुते | मधूभांडं समालोक्य मत्स्यमांसं वरस्त्रियं || दृष्ट्वा च भैरवीं देवीं प्रणम्य विमृषेण्मनुं | घोरविघ्न विनाशाय कुलाचार समृद्धये || नमामि वरदे देवि मुंडमाला विभूषिते | रक्तधारा समाकीर्ण वरदेत्वां नमाम्यहं || सर्वविघ्नहरे देवि नमस्ते हरिवल्लभे | एतेषां दर्शनाद्देवि यदि नैव प्रकुर्वते || शक्तिमंत्रं पुरस्कृत्य तस्य सिद्धिर्नजायते | एतेषां मारणोच्चाट हिंसनं वा गुरादिकं || प्. १४१ब्) क्रियते यदि पापात्मामद्भक्तः स कथं भवेत् | प्रधानां समुद्भूता एते कुलाप्रियाः | डाकिन्यश्च तथा सर्वामदं शाशृणु भैरव | लब्धसिद्धि समायोगा डाकिनी हिंसनं यदि || अथवा योगिनीनां च मद्भक्तानां विशेषतः | वटुकानां भैरवानां तस्य सिधिर्न जायते || श्रीपूर्णानंदनाथेन कृतायां गुरुभावतः कुलवृत्तौ स्वतंत्रायां पटलः पंचविंशतिः || अथ नीलक्रमः || जतुद्विचितारूपः सवरूपश्च | सुगमत्वादादौचिता विवरणां तत्रादौ | वेतालक्षणं | गंधर्वे | असंस्कृता चिताग्राह्या न तु संस्कार संयुता | प्रक्षालिता च यदि चेत्कारयेदस्ति संचयं || केवलं शीघ्रसिद्धिःस्यादा | वीरतंत्रे च | महानील क्रमं देव सूचितं न प्रकाशितं | कथयस्व महादेव सर्वसिद्धिप्रदं भवेत् || भैरव उवाच || सर्वसिद्धिप्रदं साक्षात् सर्वदेव नमस्कृतं | सर्वरोगहरं देवि सर्वपापप्रनाशनं || ब्रह्मविष्णुशिवादीनां दिक्पालानां च भाविनि | भैरवानां च सर्वेषां गंधर्वानां च योगिनां || स्वस्वसिद्धिप्रदं देवि सर्वेषां मालयं महत् | नान्यत् सिद्धिप्रदं देवि वीरसाधनवर्जितं || महावलो महावुद्धिर्महासाहसिकः शुचिः | महास्वच्छोदयांवांश्च सर्वभूतहितेरतः || तेषां कृते महेशानि कथयं नीलसाधनं | अष्टम्यां च चतुर्दश्यां पक्षयो रुभयोरपि || कृष्णपक्षे विशेषेण साधयेदनयाहितं | भौमवारेत मित्रायां याग्नेर्योते तु भाविने || तदर्द्धाभ्यंतरे सम्यक् पूजोपकरणं वलिं | सानिसान्वंगुडं छागं सुरां पिष्टकपायसं || नानाफलं च नैवेद्यं स्वस्वकल्पोक्तसाधितं | चितास्थाने समानीय सुहृद्भिः शस्त्रपाणिभिः || समानगुणसंपन्नैः साधको वीतभीः स्वयं | शवं वापि चितां वापि नीत्वा गत्वा यथा विधिः || स्नात्वा रक्षांशुकं वध्वा देवता ध्यान तत्परः | भीताश्चेत् साधकस्तत्र चतुर्दिक्षु च साधकः || नोचोत् च वंके वलो सौ भैरवः परिकीर्तितः | वस्त्रालंकार भूषाद्यै भूषितः पूर्वसंमुखः || अस्त्रांत मूलमंत्रेण प्रोक्षणं यागभूमिषु | गुरुपाद रजो ध्यात्वा गणेश वटुकं ततः || योगिनी मातृकाश्चैव वामपाद पुरःसरां | ये चात्र संस्थिता देवाराक्षसार्द्ध भयानकाः || पिशाचा सिद्धियक्षाश्च गंध व शिरसांगणाः | योगिन्यो मातरो भूताः सर्वाश्च खेचरः स्त्रियः || सिद्धिदास्ताभवंत्पत्रं तथा च मम राक्षसाः | प्रणम्य मनुनानेन पुष्पांजलि त्रयं क्षिपेत् || श्मशानाधिपतिपश्चाद्भैरवं कालभैरवं | महाकालं यजेयत्ना पूर्वादिदिक् चतुष्टये || पाद्यादिभिस्चमंत्रज्ञो वलिं पश्चान्निवेदयेत् | शब्दवीजा ततः पश्चा श्मशानाधिप तत्परं || प्. १४२अ) ईमं मंत्रेण सामिन्नं वलिं गृह्न ततः परं | गृह्न गृह्न पद द्वंद्वं विघ्नं निवारणं ततः || कुरुसिद्धिं मे युतं भांत प्रयच्छ स्वाहयान्वितं | प्रणवाद्येन मनुना प्रथमोवलिरीरितः || मायांते भैरवात् पश्चात् भयानक पदं ततः | पूर्वमंत्र समुद्धृत्य दक्षिणे वलिमुद्धरेत् || हूं मंतेव महाकालात् पश्चात् पूर्ववदुद्धरेत् | पश्चिमे कालदेवाय प्रणवाद्येन कल्पयेत् || शब्दांते कालशब्दांते भैरवेति ततः परं | श्मशानाधिप इत्येवं पूर्ववध वलिं हरेत् || चितामध्ये ततो दद्याद् वलिन्नयमनुत्तमं | कालरात्रि महारात्रि कालिके घोरनिस्वने || गृहाणेवं वलिं मातर्देहि सिद्धिमनुत्तमां | कालिकाय वलिं दत्वा भूतनाथाय दापयेत् || शब्दांते भूतनाथांते श्मशानाधिप इत्यपि | प्रणमाद्येन मनुना दापयेद् वलिमुत्तमं || हूं मतं च सर्वत्र नाथांते चाधिपेति च | श्मशानांतरतो दत्वा पूर्ववच्च समुद्धरेत् || ताराद्येन वलिं दत्वा पंचमध्येन सुंदरि | अस्ति संप्रोक्षणं कृत्वा पीठमंत्रं न्यसेत् ततः || भूर्जे वा वटपत्र्रे वा तत्र पीठ मनुं न्यसेत् | पीठमास्तीर्य तस्मिन् वै वंधनी वा समं ततः || वीरार्दनेन देवेशि वक्षी दीक्षु प्रकल्पयेत् | कूर्चवीज द्वयं देवि मायामथ मतः परं || कालिका घोरदंष्ट्रे च प्रचंडे चंडनायिके | दानवान् दारयेत् युक्त्वा हनेति द्वितयं ततः || शवशरीर महद्विघ्नं छेदये द्वितयं पुनः | द्विठांते वर्मशस्त्रांते द्विठांतेयं मनुर्मतः || अनेन मंत्रितं लोष्ट्रं दशदिक्षु विनिक्षिपेत् | तन्मध्ये भैरवो देवो न विघ्नैः परिभूयते || यदि प्रमादाद् देवेशि साधको भय विह्वलः | ततस्तंभैः सुहृद्वर्गै रक्षितो नाभिभूयते || निर्गूंडी शितवा व्यालतूलै निर्मितवर्तिकां | प्रदीप तत्र संस्थाप्य अस्त्र तत्र प्रपूजयेत् || हते तस्मिन् महादीपे विघ्नैश्च परिभूयते | तदधरश्चास्त्र मंत्रेण निखनेत् कुलदीपकं || तत् तत्कल्पविधानेन भूतशुद्ध्यादिकं क्रमात् | श्रोतां वा तारिकीं वापि विन्यसेत् पूजयेत् ततः || मंत्र ध्यान परो भूत्वा जपेन्मंत्र मनन्यधीः | एकाक्षरी यदि भवेद्दिक् सहस्रं ततो जपेत् || द्व्यक्षरेचाष्ट साहस्रं अक्षरे चार्द्धस्तार्द्धुकं | अतः परं तु मंत्रज्ञो गजांतक सहस्रकं || निशायां वा समारभ्य तदायांतं समाचरेत् | अथ तारकन्या सा यथा गंधर्व मातृकापुटितं तार षट्कारंमाकास्थले | तारेण पुटितां तां तु षोढीन्या सेतु साधकः | आचरोन्यस्तसर्वांगो भवेत् साक्षाच्छिवोपरः || मातृका सृष्टि स्थिति संहाराद्यतमा अधिकारिभेदात् ग्राह्या | षोढा तु स्वतंत्रे प्रसिद्धा | मत्स्यसूक्ते ततः पंचोपचारेण पुरतो देवतां जयेत् | प्. १४२ब्) निमील्य चक्षुषां पश्चात् देवीं ध्यायेन् मनुं जपेत् | यद्य सह्यभयं कर्णे नेत्रवस्त्रेण वंधयेत् || ततोर्द्ध रात्रपर्यंतं यदि किंचिन्न लक्षते | जयदुर्गा मनुना चार्घ्यंते नैव सर्षपान् क्षिपेत् || अथ जप दुर्गामंत्रो यथा | तारो दुर्गेयुगं रक्षि ततोढांतः स लोचनः | द्विठांतो जपदुर्गेयं विद्यावेद्या दशाक्षरी || ओं तिलोसिस्येम दैवत्योगो सवो देवनिर्मितः | पितृणां स्वर्गदाता त्वं मर्त्यानां ममरक्षमः || भूतप्रेत पिशाचानां विघ्नेशु शांतिकारकः | इति क्षिप्त्वा तिलांस्तत्र चतुर्मानो शिवादितः || ततः सप्तपदं गत्वा ततस्तत्रैव संविशेत् | देवं तत्रापि संपूज्य प्रजपेन् मनुमुत्तमं || निर्भयः प्रजपेयं वा सिद्धिं वा लभ्यते जनैः | ततः सत्यकारायत्वावरयेद्वरमुत्तमं || यदा वलिं प्रार्थयति नरकुंजरमेव वा | दिनांतरे च वक्ष्यामि स्वीकृत्य स्वगृहं व्रजेत् || परेति ततो दद्यात् पिष्टेन नरकुंजरान् | पिष्टेति यधान्योद्भवनेत्यर्थः | नीलतंत्रेपि | जपादौ च वलिं दद्यात् पश्चादपि वलिं हरेत् | जपांते जपमध्ये वा देहि देहीति भाषते || तदापि च वलिं दद्यात् महिषं छागलं चपि | वा न दिक्षु दर्शनं किंचिन्न च वंधु समागमः || जलादि दुर्गसर्पाणां गजानां दंष्ट्रिनां तथा | पक्षि कीट पिशाचानां यद्यन्मनसि कल्पितं || सर्वं स्वप्न वद्धुध्यांते भयं सर्वत्रज्जायते | समाप्य साधनं देवि दक्षिणां विभवावधि || गुरवे गुरुपुत्राय पत्न्यैया प्रदापयेत् | सम्यक् सिद्धैक मंत्रस्य नासाध्यं विद्यते क्वचित् || वहुमंत्ररतः पुंसः काकथा शिव एव सः | श्मशाने साधक विशेषो यथा | तदुक्तं कुलसंभवे | श्मशानालयमागत्य सुक्तकेशोदिगंवरः | जपेदयुत संख्यं तु सर्वकामार्थ सिद्धये || अत्रैव प्रेतमारुह्य प्रजपेन् मंत्रवित्तमः | अयुतं मैथुनी भूत्वा विभो सत्यपरायणः || स जाति परमां सिद्धिं देवानायापि दुर्लभं | आकर्षणवशीकारंमारणोच्चाटनादिकं || स्तंभनं मोहनं चैव द्रावणं रासनं तथा | वासित्वं च धनित्वं च वहूपुत्रं च मेव च || वंधु दुर्लभतामेति सर्वासु यत्वमेव हि | स याति खेचरत्वं च देवत्वमपि चेव हि || न जरान च मृत्युश्च न रोगो न च घातनं | न च भीतिमनुष्यं च न च संशय पातनं || अथवा स भवेन्नित्यं च तृर्विंशति सिद्धिभाक् | स्वदेह रुधिराक्तैश्च विल्वपत्रैः सहस्रशः || श्मशानेभ्यर्चयेद्देवीं तु वागीशत्व मवाप्नुयात् | समतां व्रजेत् | कालीतंत्रे च | महाचीन क्रमलतामज्जाभिर्विल्वपत्रके | सहस्र दशमभ्यर्च्य श्मशाने साधकोत्तमः || तदा राज्य मवाप्नोति यदि सा न भयायते | मूलादितां तथा दृष्ट्वा लक्षं जपति भूमिपः || निर्मालं च तथा दृष्ट्या वश्यार्थमयुतं जपेत् | प्. १४३अ) भैरवतंत्रे | श्मशाने योषितं मंत्री संपूज्य ऋतुगां शुभां | रक्तचंदन दिग्धांगी रक्तपुष्पैरलंकृतां || तावत् पुष्पैर्मनुं प्रोच्य ततो ध्यायेत् तु चंडिकां | तावत् पुष्पैस्तत्पुष्पैरित्यर्थः | मक्षां प्रोच्यदित्यर्थः | रमित्वातां लभेद्राज्यं यदि सा नभयायते | मेष माहिष रक्तेन वास्वित्वं तस्य जायते || धनित्वं तस्य जायते | तस्य सर्वसिद्धि प्रजायते | वचसा च भवेज्जीवो धनेन च धनाधिपः | आज्ञया देवराजो सौरूपेणैव मनोभवः || वलेन पंचनोह्येष सर्वतत्वार्थसाधकः | साधितं शोणितं दद्यात् सास्मितांसं सदावलिं || मूषमांसं छागमांसं मेषं माहिषमेव च | सर्वं सास्थि प्रदातव्यं तथा लोम समन्वितं || सु न खंछिन्न जीर्णं केशसंमार्जनागतं | निवेदयेत् श्मशाने तु सर्वसिद्धिप्रदं भवेत् || नारीरक्तैर्युतं कृत्वा पर्णानां नातमुत्तमं | प्रत्येकं प्रजपेन् मंत्रं ततस्तं होमयेद्ध्रुवं || युगानामयुतं तेन दक्षिणा पूजिता भवेत् | सर्वसिद्धिर्भवेत् तस्य वाग्मी वीरश्च जायते || न तस्य दुर्लभं किंचित् पृथिव्यां दिवि जायते | कुलसद्भावेपि | रेतो युक्तेन वार्कस्य पत्रेण च सहस्रशः | श्मशानेभ्यर्च्य काली तु वागीश समतां व्रजेत् || धनवान् बलवान् वाग्मी सर्वयोषित् प्रियः सुखी | जायते नात्र संदेहो महाकाल वंचो यथा || श्मशाने योषिता वीजैर्मंत्रैर्भाव्यं सहस्रशः | रक्तचंदनसिक्तांगीं रक्तपुष्परलंकृतां || तावत् पुष्पैर्मनुं प्रोच्य ततो ध्यायेत् तु कालिकां | ततो गत्वा लभेद्राज्यं यदिसान पलायते || श्मशाने विलये चैव गवासवगतः पुनः | असकुब्ज जपन्मंत्रं सर्वसिद्धिप्रदं भवेत् || तर्पयेत् तु शवास्यं तु रक्तमांसादिभिस्तथा | त्रिःत्रिर्मंत्रेमुदीर्येवं सर्वसिद्धिर्भवेत् ततः || तर्पयेच्च पयोभिश्च रक्तं वा वयुतैस्तथा | श्रोतोभिश्च तथा तद्वत् स्वकामेन कदाचन || मैथुना गतयोषाया कुलप्रक्षालनेन च | मेषमाहिषरक्तेन नररक्तेन चैव हि || मूषमार्जार रक्तेन वाग्मित्वं तस्य जायते | धनित्वं जायते तस्य सर्वसिद्धिश्च जायते || वचसा स भवेज्जीवोधनेन च धनाधिपः | इदानीं स च विवरणं गांधर्वे | शवारुटो यदि भवेतद्विशे षडं होच्यते | शून्यागारे नदीतीरे विल्वमूले चतुष्पथे || ऊर्द्धं द्विवर्षा यदि वा पंचाष्टं तरुणं यदि | सप्तमाष्टममासीय गर्भजंघादिवासवं || चांडालाद्यदि भूतं वा शीघ्र सीद्धि फलप्रदं | यष्टिविद्धं शूलविद्धं खड्गविद्धं पयोघृतं || रज्जुवद्धं सर्पदंष्ट्रं चांडालं चातिभूतकं | तरुणं सुंदरं सूररणेनष्टं समुज्वलं || पलायण विशून्यं तु संमुखेरणवर्तिनं | गृहीत्वा साधयेदित्यर्थः | गंधर्वे च | प्. १४३ब्) सर्वेषां जीवह्नीनानां जंतूनां वीरसाधने | ब्राह्मणं गोमृतं त्यक्त्वा साधयेद्वीरसाधनं || महाशवाः घशस्तास्युः प्रधान साधने प्रिये | ब्राह्मणं च स्त्रिय. त्यक्त्वा सर्वतः शवमाहरेत् || मत्स्यसूक्ते च | यष्टि प्रभृत्यस्त्र भिन्नं शूलविद्धं पयोमृतं | शवमानीय कर्तव्यं नावेत्सयामृतं || स्त्रीवर्ज्यापति स्पृश्यामयवज्रहतं नरं | अव्यक्त लिंगं कुष्ठं वा नेदृशं शवमाहरेत् || न दुर्भिक्षमृतं वद्धमपर्युषितमेव वा | स्त्रीजनंनेदृशं रूपं सर्वथा परिवर्जयेत् || उत्तरातंत्रे च | स्वेच्छामृतं द्विवर्षं च वृद्धं स्त्रियं द्विजं तथा | एवं चतुर्विधं त्यक्त्वा पूर्वोक्तान्यतमं शिवं || गृहीत्वा मूलमंत्रेण पूजास्थानं समानयेत् | अथ स्थाननिर्णयः | तदुक्तं भावचूडामणौ | शून्यागारे नदीतीरे पर्वते निर्जनेवने | विल्वमूले श्मशाने वा तत्समीप वनस्थले || अथ कालनियमः | अष्टम्यां च चतुर्दश्यां प्रक्षयो रुभयोरपि | कृष्णपक्षे विशेषेण साधयेदनयाहितं || भौमावास्यां विशेषेण साधयेदनयाहितं | अथाधिकारि निरूपणं | तदुक्तं स्वच्छंदभैरवे | सम्यक् परिश्रमेनापि नैव सिद्धिः समीरिता जायते साधकानां च वीरसाधनवर्जितं || भूतभैरवतंत्रेपि | यदुक्तं भाव सर्वस्वे सर्वतंत्रेषु गोपितं | वीरसिद्धिः प्रधानं च देवदेवेन शंभुना || यस्य विज्ञानमात्रेण मंदभाग्योप सिध्यति | अहोरात्रेण कालेन हेलया साधकोत्तमः || मंत्रं नीत्वा गुरोः पार्श्वे गुरुभक्ति परायणः | मंत्री श्रोत्रस्य हृन्नेत्रे प्रायात् विज्ञाय वा हरेः || मंत्रं च कीलकं कृत्वा कुर्या मंत्रः पुरस्क्रियां | पुरश्चरण संपन्नो वीरसाधनमाचरेत् || पुत्रदारधनस्नेहलोभमोहविवर्जितः | मंत्रं वा साधयिष्यामि शारीरं पातयाम्यहं || प्रतिज्ञा म ** (?) रूपं कृत्वा द्रव्याणि चिंतयेत् | यस्मिन् मंत्रे यदुक्तं च तत् तद्ग्राह्यं व साधकः || भावचूडामणौ | महाबलो महाबुद्धिः महासाहसिकः शुचिः | महास्वच्छोवयांवांश्च सर्वभूत हितेरतः || तेषां कृते महेशानि वीराध्नाधनमुत्तमं | अथ प्रशंसा भावचूडामणौ | सर्वसिद्धिप्रदं साक्षात् सर्वदेव नमस्कृतं | सर्वपापहरं चैव सर्वरोगविनाशनं || नान्यत् सिद्धिप्रदं देवि वीरसाधनवर्जितं | श्रीक्रमेपि | ना स्मात् परतरं किंचित् सत्वकं सिद्धिदायकं | सर्वसिद्धि भवत्येव अहोरात्रे कलौयुगे || द्वापरैश्चमासेन त्रेतायां हायनेन च | कृते च दशभिर्वर्षैः सद्यसिद्धिर्न संशयः || अथ नीलवसो यात्रां कुर्या यथा | स्वतंत्रेवटी वंधेन वस्त्रं च मूलेन परिधाय च | तद्वाह्ये च पुनर्वस्त्रं मूलेनांग प्रलेपनं || कृतोष्णीशश्च मूलेन सिंदूरेणार्द्ध पुंड्रकः | इष्टदेवं ततो नत्वा यत्रा प्रहर मध्यतः || प्. १४४अ) कार्या च साहकेः सार्द्धं हृदिरूपं परामृषं | अक्षुब्धेन भुक्तभोज्यं यदिस्याद्वीरसाधकः || दिव्यो वा न पशुस्तत्र भुक्त्वा साधनमाचरेत् | सार्द्ध प्रहराभ्यंतरे पूजासामग्री कुर्याद्यथा || मत्स्यसूक्ते | तदर्द्धाभ्यंतरे सम्यक् पूजोपकरणं वलिं | मासभक्तं च वल्यर्थ धूपदीपादिकं तथा || तिलाः कुशाः सर्षपाश्च स्नापनीयाः प्रयत्नतः | गुडाद्रक रसं चैव सुरा तु ब्रह्मणस्य च || गौडीदेमाक्षुमत्रिमेणमाध्वीवैश्येन अत्र वौ कदली मधुमिश्रेण शालत्वक् सु वासः समाः | सर्वं सूत्रस्य संप्रोक्तं मत्र चैव रुचिर्भवेत् | गृहीत्वा तत्र दातव्यं सर्वं दैव च संस्पृशेत् || न स्पृशेदिति पशुपर | स्वतंत्रे च | गुरुपूजादिकं सर्वं पूर्वोक्तमतमाचरेत् | वीरार्दनांकिते भूमौ माया मोहो न विद्यते || ये चात्रेद्या मंत्रेण भूमौ पुष्पांजलि क्षिपेत् | श्मशानाधिपतीनां च पूर्ववच्च वलिं हरेत् || अघोरास्त्रेण मंत्रेण शिखावंधनमाचरेत् | सुदर्शनेन वा रक्षामुभ्यां प्रकल्पयेत् || उभाम्यामिति वहुविघ्न संकास्थले इत्यर्थः | माया स्वरद्वयं भूयः पुस्करद्वितयं पुनः || घोरघोरतरत्यंते तत्व रूपपदं ततः | वटयुग्मं तदंते च प्रचटद्वितयं ततः || कहयुग्मं रमद्वंद्वं ततो वंधयुगं पुनः | घातय द्वितयं वर्म फडंतः समुदाहृतः || एकपंच | शदर्णोय मघोरास्त्र समोमनुः | हालाहलं समुच्चार्य सहघोर स्वरूपकं | वर्मास्त्रास्त्रं महामंत्रं सुदर्शनस्य कीर्तितं || भूतशुद्धिं ततः कृत्वान्यासजालं प्रविन्यसेत् | जयदुर्गाख्य मनुर्नाम श्मशाने दक्षिणे क्षिपेत् || तिलोसीति च मंत्रेण तिलान् दिक्षु विनिक्षिपेत् | भावचूडामणौ | प्रणवाद्येन मंत्रेण शवस्य प्रोक्षणं चरेत् | प्रणवं कूर्चराजं च युत कामनमः फट् || अयं प्रणवाद्यः | पुष्पांजलि त्रयं दत्वा प्रणमेत् स्पर्शपूर्वकं | मे वीर परमानंद शिवानंद कुलेश्वर || आनंदभैरवाकार देवीपर्यंक शंकर | वीरोहत्वां प्रपद्यामि उत्तिष्ठ चंडिकार्चने || प्रणम्यानेन मंत्रेण क्षालये तदनंतरं | पूजास्थानं समानीयनावं च क्षालयेत् तथा || स्वतंत्रे | गत्वा शिवस्य सान्निध्यं कारयेत् कटिदेशतः | यद्यूपचारयेत् तत्र दद्यान्निष्ठीवनं परे || पुनः प्रक्षालनं कृत्वा जपस्थानं समानयेत् | शवस्नान मंत्रो यथा गांधवे | आनीय स्नापयेदादौ न्यासजालं समाचरेत् | ततो जप्त्वा मूलमंत्रं सर्वसिद्धीश्वरो भवेत् || तारं शब्दं कामनां नमोंतं मंत्रमुच्चरेत् | शवस्नापन मंत्रोयं शवासन मनुं ततः || मंत्रांते भुवनेशी स्यात् यतंतो मंत्र ईरितः | शवारोहनसमये मंत्रोयं | भावचूडामणौ | प्. १४४ब्) धूपेन धूपितं कृत्वा गंधादिना प्रलिप्य च | यदि रक्ताक्तकस्तिष्ठेद्भैरवाच्च भयं भवेत् || कुशशययामुपस्कृत्य तत्र स्थापयेत् शवं | एलालवंग कर्पूरजाती खदिरमाद्रकैः || तांवूलं च मुखे क्षिप्त्वा शवं कुर्या दधोमुखं | क्षालयित्वा ततः पृष्ठं चंदनेन विलेपयेत् || वाहुमूलादिकद्यंतं चतुरस्रं विधाय च | मध्ये पद्मं चतुर्द्वारं दलाष्टक समन्वितं || विलिखेदित्यर्थः | ततश्चैलेयमजिनं कंवलांतरितं न्यसेत् | द्वादशांगुलमानानि यज्ञकाष्ठानि दिक्षु च || संस्थाप्य पूजयेत् तत्र इंद्रादि दशदेवता | एतेषां मंत्रस्तु दीक्षासमये उक्तं च || शवाधिष्ठान देवेभ्यः स्वयं चैवलिमाहरेत् | चतुःषष्ठी योगिनीभ्यो डाकिनीभ्योपि पूजयेत् || पूजाद्रव्यं संमुखे च दूरे चोत्तरसाधकं | समानगुणसंपन्नं मांत्रिकं विजितेंद्रियं || अभिषेकविधिज्ञं वा दिव्यवीरविशारदं | संस्थाप्यासनमभ्यर्च्य स्वमंत्रांते परं तपः || फडित्यंतेन मंत्रेण तत्राश्चो रोहणं विशेत् | कुशान् पादतले दत्वा शवकेशान् प्रसर्य च || दृढं निवध्य युटिकां कृतसंकल्प साधकः | स्वतंत्रे | शवोपरि समारुह्य गुरुपूजादिकं चरेत् | प्राणायामं विधायाथ दिक्षु लोष्ठानि निक्षिपेत् || एतेनामाद्यार्द्यं स्थापनादि वलिदाना कर्मसूचितं | लोष्ठानि निक्षिपे तत्र वीरार्दन मनुनेत्यर्थः || भावचूडामणौ | तत्र देवीं स्वसंपूज्य उपचारैः सुविस्तरैः | नीलतंत्रे च | ततः शवास्ये विधिवदेवताप्याम संचयेत् | आप्यायनं तर्पणमित्यर्थः | पशुभिश्चै जलेन दिव्यवीरैः कारणे नैव | भावचूडामणौ | उत्थाय सम्मुखे गत्वा पठेद्भक्तिपरायणः | वशो मे भवदेवेश ममामुकपदं ततः || सिद्धिं देहि महाभागकृता श्रमपरायण | स्वतंत्रे | मूलं समुद्धरन् मंत्री शवपादद्वयं ततः | पट्टसूत्रेण वध्नीयात् तदोत्थातुं न शक्यते || भावचूडामणौ | भीमभीरुभया भावभव्य भावकलोचना | त्राहिमां देवदेवेश शवानामधिपाधिप || इति पादतलेन्यस्य त्रिकोणं चक्रमुल्लिखेत् | इति मंत्रं शवपादतले विन्यस्य त्रिकोण चक्रं पश्चाल्लिखेत् || पट्टसूत्रवंधं एतत् क्रममपि कर्तव्यं | भावचूडामणौ | उपविश्य पुनस्तस्य वाहनिःसार्य पार्श्वयोः | हस्तयो कुशमास्तीर्य तत्र पादौ निधापयेत् || ओंष्ठौ तु संपुटौ कृत्वा स्थिरचित्तः स्थिरेंद्रियः | सदा देवीं हृदिं ध्यात्वा मौनी जपमथाचरेत् || चलासनाभयं नास्ति भये जाते वदेत् ततः | यत्प्रार्थयसि देवेशि वल्यत्वं कुंजरादिकं || दिनांतरे वदास्यामि स्वनाम कथयस्वमे | इत्युक्त्वा संस्कृते नैव पुनर्भयश्च जायते || पुनश्चेन्मधुरं वक्तिवक्तव्यमधुरं ततः | ततः सत्यं कारयित्वा वरं तु प्रार्थयेत् प्रिये || प्. १४५अ) यदि सत्यं न करोति वरं वा न प्रयच्छति | तदा जपेत् पुनर्धीमान्नेकात्रमान सा यथा || न रूपं विना तत्र देवोपिनोपसर्पति | यत्नतस्तेनरौक्तव्यं नरो वा देवयोनिजः || माता मातुः स्वसा वापि मातुलानी तथैवं च | आलोक्य विप्रं कुरुते माययाच्छाद्य विग्रहं || उत्तिष्ठवत्सते कार्यं सर्वजातं न संशयः | प्रभातसमया जातस्त्वत्पिता क्रोशते गृहे || प्रायोविमत् सदा लोका राजानोदंडकारिणः | कदाचित्तैव राज्यस्तु तदा किंतु भविष्यति || इत्यादि विविधैर्वाक्यै अ च जाप्यैवरित्यजेत् | मृताः पितृगणास्तत्र दूरदेश निवासिनः || वांधवास्तत्र आयांति देवरूपधरास्ततः | स्त्रीपुत्राशिवकादींश्च गृहीत्वा नियते परैः || रुद्दंति पुत्रकाः सर्वे भ्रातरोनुजशिष्यकाः | निजकांतांगसं स्पर्शं वस्त्राद्या भरणानि च || गृहीत्वा नीयते पत्तिः पालकैःस्तद्भयं त्यजेत् | दिवसे यत्र वा संकासैव तत्र प्रजायते || यदि न क्षुभ्यते तत्र तदा किं वा न लभ्यते | स्त्रीरूपधारिणी देवी द्विजरूपधरः पुमान् || वरं गृह्नेति शब्दे वै त्रिवारांते वलिं लभेत् | साधूनासाधुना वा पियोषिचेद्वरदायिनी || तदा वीरपतेस्तस्य किं न सिध्यंति भूतले | निष्पाप पुरुषे चैव कुलीने चैव संस्कृता || असंस्कृतवरा देवी पापमुक्तेन संशयः | सम्मुखे सम्मुखे वापि संस्कृतं वाप्य संस्कृतं || सैव देवी न संदेहः स देवो भैरवः स्वयं | न चेदेवं भवेच्चैव मायाघटित विग्रहः || न वरं प्रार्थयेत् तत्र न किंचित् प्रवदेत् क्वचित् | सा चेत् संस्कृतमाख्यानं वह्निरव्यक्तमीदृशं || नोचेत् स्वयं लौकिकोक्त्यांवरं ग्राह्यं निराकुलं | अथवा उत्कटं किंचिज्योतिर्वानलनोहितं || शब्दोपि जायते सम्यग् ममृतं वापि लभ्यते | विचार्यं तद्गृहीतव्यमिति दिक्परिकीर्तितं || देवकृत्या तु वहुधा नराः अकृत वुद्धयः | अवश्यं तत्र भेतव्यं न तत्र प्रत्पयः क्वचित् || भैरवा वटुकं चैव कुलशास्त्र परायणाः | एतच्छास्त्र प्रसंगेन कृत्या कुटिलविग्रहाः || पुत्रो भूत्वा हरेद्विद्यां नारी भूत्वा विमोहयेत् | तस्मात् तत्त भवेद्वापि विचारे यत्नमाचरेत् || सत्यं कृते वरं लब्धा संत्यजेच्च जपादिकं | फलं जाता मज्ञात्वा पुटिकां मोचयेत् ततः || कुलामृत संहितायां | सवं प्रक्षाल्य संस्नाप्य वंधनान् मोचयेत्पदं | पदचक्रं मार्जयित्वा पूजाद्रव्यं जले क्षिपेत् || शवं जलेप्यगर्ते वा निक्षिपेत् स्नानमाचरेत् | ततस्तु स्वगृहं गत्वा वलिं दद्याद्दिनांतरे || अग्निमदिने येषा यजमाने हिते गृह्नं तु मयादन्नमिमं वलिमितीरितं | प्. १४५ब्) भावचूडामणौ | अथ यैर्याचितं वा नरकुंजर शूकरान् | दत्वा पिष्टमयेनैव कर्तव्यं स सुपोषणं || परेह्नि नित्यमाचर्य पंचगव्यं पिवेत् ततः | ब्राह्मणा भोजयेत् तत्र पंचविंशति संख्यकान् || पंचपरिहीना नरा कुर्याच्चैव दशावधि | ततः स्नात्वा च भुक्त्वा च निवसेदुत्तमस्थले || यदि न स्यात्व प्रभोज्यं तदा निर्धनतां व्रजेत् | ते लभे निर्धनां च स्यात् तदा देवी प्रकुप्यति || त्रिरात्रं वाथ षड्रात्रं नवरात्र गोध्रुव स्मृतः | अंषधानामनुक्ते च पत्र मूलादिमानके || पत्रं मूलं तद्ग्राह्यंमिति तंत्रविदांमतं | वैशंपायन संहितायां | येषां जपे च होमे च संख्यानोक्त मनीषिभिः | तेषामयै सहस्राणि संख्योक्ता जपहोमयोरिति | अत्र लिखित वचनानां विषय शिष्टानां विषयविभागः कल्पते | कालीतंत्रीय वैशंपायन वचनीयं वचनीयं प्रयोगपरं | लक्षजप विधायकं वाराहीतंत्रीय वचनं पुरश्चरणपरं | प्रयोगमात्रं चेति वाराहीतंत्र वचनं स्वल्पकार्यसाध्य प्रयोगेपंरमिति निस्कृष्टार्थः | अथवा | कुंकुमा गुरु कस्तूरी रोचनांघन चंदनं | कर्पूरं पद्मरागं च केशरं हरिचंदनं || एकत्र साधितं कृत्वा प्रत्येकं साधयेत् ततः | अस्य तिलकमंत्रेण रजोनं वंशमानयेत् || जिह्वाग्रे रुधिरं वीर आकाशे स्वयमाहरेत् | तेनैव वटिकां कृत्वा तत्र कालीं ततो जपेत् || नीलां नीलपताकां च ललज्जिह्वां करालिकां | ललाटे तिलकं कृत्वा साधकोभीतिभीः स्वयं || महाष्टमी नवम्यां तु संयोगे पुरतः संधिरित्यर्थः | छागमहिषमेषासनां चतुर्दिक्षु शवान् क्षिपेत् | कवंधान् मुंडपुंजाश्च दीपादिभिरलंकृतान् | मध्यकवंधमास्तीर्य ततो गंधर्व रूपधृक् || तांवूल पूररक्तास्यनंजनांचितलोचनान् | कृत्वा नावन्मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् || वियद्रवियुतं देवि नेत्रांतं चंद्रं भूषितं | वीजं प्रत्येक द्रव्यानां मिलितानां च पार्वति || मूलमंत्रेण मंत्रज्ञो जपेत् साग्रश तत्रयं | जिह्वाग्रे रुधिरं गृह्नं चामुंडे घोरनिःस्वने || वलिं छित्वा वरदेहि रुधिरं गगनेयले | कालिकालि प्रचंडोग्र ततो अस्त्री कवचं ततः || कालिकेयं समाख्याता वीराणां हितकाम्यया | कूर्चयुग्मं ततो देवि लीलायाः कथितं तव || वियद्भृगुयुतं देवि वलमिंद्रं रवीरतिः | चंद्रखंड समायुक्तं ततो नीलपदं ततः || पताके हूं फट् स्यात् पूर्वं कूर्चमनुर्मतः | सुगुप्तेयं महाविद्या योद्यावै नीलसाधने || जय श्रीधरणीदेवी पताके वरणे स्थले | तेन नीलयता केयं योद्यावै नीलसाधनं || उग्रचंडा महाविद्या पराया कथिता प्रिये | ललज्जिह्वा तु सा प्रोक्ता वोद्यावै नीलसाधने || यो सौ विद्या महाभाषा साधकानेति कीर्तिता | भूमिपुत्र समायुक्ताय शोराष्या शुभप्रदा || प्. १४६अ) भाद्रे पुष्करयोगे च तस्यां वीरंवरोत्तमः | विष्णुक्रांतां समानीय निक्षिःपेत् प्रियभूमिषु || तत्रतां साधितां कृत्वा तद्दिने मृतहट्टके | तत्र प्रसारितं मत्स्यमेक मूल्येन दापयेत् || तज्जलेनाभिरेकं च पूर्ववच्च शवोपरि | साधितां विजयां तस्य उदरेमुख वर्त्मना || क्षिप्त्वा तत्र मुखे मत्स्यमंजनांचितलोचनः | पूर्वद्रव्ये तिलकं उत्थाय च म जपेत् | स्वयं वै तत्र भगवान् भैरवान्य गुडांक्षतः | गतभीतस्ततो वीरः तं विलोक्य जपेन्मनुं || यदि भाग्यवसादेवि न गुडस्तत्र लभ्यते | तदा स्वयं भैरवो सौ स्वयं वीरोश्वरो भवेत् || मत्यमानीय देवेशि निक्षिपेत् पितृकानने | ततो स कृज्जपित्वा तु देवतामेलनं भवेत् || तदनया महादेवं महादेवीं च भाविनि | तद्भस्मतिलकं कृत्वा स्वयं वीरेश्वरो भवेत् || निशायां मृतहट्टे च उन्मंता नंदभैरवा | दिग्वासा विमली भस्मभूषितो मुक्तकेशिकैः || कपाली खड्गहस्तश्च जपेन्मातृकयानरः | तदा तस्य महादेवी सर्वसिद्धिःकरो स्थिता || डाकिनीं योगिनीं वापि अन्यां वा भूतनांगनां | तत्राप्यानीय संपूज्य सर्वसिद्धीश्वरो भवेत् || श्रीपूर्णानंदनाथेन कृतायां गुरुभावतः कुलवृत्तौ स्वतंत्रायां पटलोरष्टविंशतिः | अथ काम्यहोम विवरणं | मालती मल्लिकाजातीर्मिश्रित्रै कुसुमैर्मधु | घृतसंपूर्ण हवनाद्वागीशत्वं प्रजायते || मूकस्यापि च मूढस्य निरूपस्य नान्यथा | करवीरं जवापुष्पैः साज्यहोमाज्जगद्वशं || ये शिष्ट सकला वास्या दासी भूता भवंति हि | मधूक्तै रक्तवर्णैश्च करवीरैः स गुग्गुलैः || हुत्वा लक्षंवशी कुर्या विंशति धरणी भुजां | मधाक्त करवीरैस्तु सांगां भूमिं वशंनयेत् || सप्तरात्रैस्तु साज्येन जुहुयाच्चगरावुधः | पाटलैर्जू ** (?) कुदैः शतपत्रैश्च जातिभिः || मालती नवमल्लीभि मल्लिका पद्म किंशुकैः | पूजनाद्धवनाद्वापि मिश्रितैर्वा मिश्रितैः || सर्वसौभाग्यमाप्नोति वुद्ध्याचारा कविर्भवेत् | स्वरक्त कमलैर्होम सम्यक् संपत्तिदायकः || रक्तोत्पलैर्जगद्वश्यं राजानोवशगक्षणात् | नीलोत्पलैर्महद्वेष्ठावशमायाति नान्यथा ||| श्वेतात्पलैः श्रियं वाचं लभते हवनाद्ध्रुवं | कह्लार हवनाद्देवि सौभाग्यं च धनं भवेत् || वकुलस्य फलैः पुष्पैः सौभाग्यं जायते महत् | कर्पूर कुंकुमश्चैव मिश्रितैर्मृगमदेन हि || हवनाद्वदरैश्चैव मंत्रिणा विजयो भवेत् | चंपकैः पाटलैर्होमैः स्रेयं प्रोल्लासितां परां || प्राप्नोति मंत्री महतीं स्तंभयेज्जगतीमिमां | श्रीखंडमगरुं हुत्वा कर्पूरं गुग्गुलुं तथा || प्. १४६ब्) भूयो नागेंद्र देवानां पुरंध्री वशमानयेत् | सर्वलोकवशास्तस्य भवंत्येव न संशयः || लक्षहोमाभवेद्राज्य दारिद्र्यभारपीडितः | दुर्गोप सर्गसमनं पलत्रि मधुहोमतः || महापलेन नियतं रिपो सैन्यं विनाशयेत् | खेचरो जायते रात्रौ होमं कृत्वा चतुष्पथे || रुधिराक्तेन छागस्य मांसेन निशिहोमतः | मधुरत्रय युक्तेन गुरुणोक्त विधानतः || महाराष्ट्रं महाद्वंद्वं समप्तं वशमानयेत् | क्षीरं मधुदधिघृतं पृष्ठ्य कृत्वा तु होमयेत् || आयुर्वलमथारोग्य समृद्धि जायते नृणां | मधुना क्षीरयोगेन होमान्मृत्युं विनाशयेत् || जुहुयात् क्षीरसंयुक्तं मधुचाष्टशतं वुधः | मध्वाज्य गुग्गुले नैव राजेंद्र वशमालयेत् || रोमादधिमधुक्षीरलाजाभिः साधकोत्तमः | रोगहंता कालहंता मृत्युहंता भवेत् किल || आरोग्यं घृतदुर्वाभ्यां हवने शताष्टकं | तिलाघा होममात्रे या सर्वकार्याणि साधयेत् || शितां हुत्वा मंत्रज्ञो रिपोस्तंभनमाचरेत् | गुग्गुलस्य च होमेन सर्वदुःख निवारयेत् || वैरीणा वशगाः शीघ्रं चंदनस्यापि होमता | रक्तं चंदन होमेन वश्याहि पुरुषा स्त्रियः || कर्पूरस्य च होमेन वाग्वश्यं जायते नृणां | कस्तूरी हवनान् मंत्री सर्ववश्या भवंति हि || तिलतंडुल होमेन सर्वशां * * * * * (?) | शर्करागुड होमेन सर्वकार्याणि साधयेत् || घृतपायस होमेन सितमक्तेन मंत्रिणः | त्रैलोक्यं वशमायांति धान्यैर्वृद्धिभवेत्किल || दशांगधूपयोगेन सौभाग्यमतुलं भवेत् | पूर्णदाडिम होमेन वशीकुर्यान् महागृहान् || पूर्णवदरहोमेन वशीकुर्यान् महेश्वर | पूर्णपदं पक्वपरं मातुलंगं फलैर्होमात् क्षत्रिया दशगाध्रुवं | नागरंगं फलैर्होमेद्वैश्यवश्या भवंति हि | कुष्मांड होमयोगेन शूद्रा वश्या भवंति हि || द्राक्षाफलैः सिद्धयोष्ठौ लक्षहोमाप्त संशयः | कदलीफल होमेन लक्षमात्रेण भूभृतः || वश्यास्तु दशसंख्या च भवंत्येव न संशयः | खर्जूर फलहोमेन लक्षमात्रेण भूभृतः || वश्यां संविंशति संख्या च भवति नात्र संशयः | नलिकेलफलैर्होमात् समृद्धि जायते चिरात् || लक्षमात्रेण मंत्रज्ञो राजातुल्यो भवेद्ध्रुवं | पक्वान्त फलहोमेन लक्षमात्रेण मंत्रवित् || चतुः समुद्रपर्यंतां मेदिनीं दशमां नयेत् | जंवू फलैः स्त्रियोवश्याः कुष्मांडैर्दलकन्यकाः || श्रीफलैश्च कुसुमै लक्ष्मीं पत्रैर्वा होमतो लभेत् | इक्षुखंडैः सुखोमाप्तेस्तद्वशा राजकन्यका || अथ द्वर न द्रव्य परिमाणं | रुद्रयामले | पुष्पं समग्रं जुहुयात् तमाल अपि पुष्करं | कुसुभं वाण पुष्पं च यथेष्ठं जुहुयात् सुधीः || शतसंख्यातिलाश्चैव राजिका शतसंख्यकाः | राजासृष्टि पुमानांस्युः घृतंभ कर्षमितं तथा || प्. १४७अ) चुल्लुकार्द्धं तथा क्षीरमन्नं या समितं भवेत् | स्थूलंकं च कुष्मांडं मातुलंगं तथैव च || ननःप्रियैश्च खंडैश्च फलं भवति निश्चितं | रंभाफलं चतुःखंडं लघुचेत् खंडितं न हि || पनसैः फलगर्भस्थैश्चूतैर्मधुयुतैर्हुनेत् | इक्षु खंडं पर्वस्थाने मनः संतोषकारणं || द्राक्ष्याफलं समग्रं स्यान्नागरंगं च खर्जूरं गुग्गुलुं क्रमकार्द्धं च कुंकुमं च तथा | गुंजासमानं कर्पूर कस्तूरी घृष्टनं तथा | अगरं चंदनं चैव क्रमुकैनं सर्म भवेत् || मनः प्रियाणि द्रव्यानि सर्वाणि हवनाय च | मनः प्रियाहुतीः कृत्वा सर्वमन्यद्धुनेत् सुधीः || दधिप्रसूतिमानंस्था पृथुका शब्दक्तवोपि च | भवंति कर्षमात्रं च गुडं पलार्द्धमानतः || ग्रासार्द्धं चरुमानं ख्यात् पत्रमेकमुदाहृतं | मातुलंगं चतुःखंडंपनसं दशधाकृतं || अष्टधा नारिकेलानि खंडितव्यामि विदुर्वुधाः | द्विधा कृतं फलं वैल्वं कपित्थं खंडितं द्विधा || फलान्यन्यानि खंडानिशधः सहदशांगलाः | व्रीहयोमुष्टिमात्रास्युरक्तमाद्योयवा अपि || तंडुलास्यु तदर्द्धं शास्तिलाश्चैकमात्रतः | अनुक्तं तु हविदूव्येति लाज्यं वा विरुच्यते || वाराहीतंत्रे | होमे वुद्धाग्र मांसं स्यात् सरोमंचार्द्धमात्रके | हंस विल्वाकृतं चैव वदरं पूगमेव च || वुद्ध्वा प्रमां समानं स्याऌलापश्य नवस्य च | तथा प्रमाणमानं स्याद्विजस्य गरजस्य च || व्याघ्रस्य धनुर्मानं च गोधावां धातुकीसमं | एतदामस्य कथितं भर्जीत मानवरितं || हीनस्त्रियपशोर्मांसंदूरतः परिवर्जयेत् | न दिवा जुहुयान् मांस संध्याया मनसा नवे || ब्राह्ममुहूर्त जुहुयादथ वा पर्वसंधिषु | एकन च सहस्रं स्याद्विगुणं चार्द्ध रात्रके || ब्राह्म्येमुहूर्ते त्रिगुणं संध्यायां च चतुर्गुणं | पर्वगंधौ शतगुणं तिथिसंधौशतोत्तरं || काम्येषु योजये मांसं पुरश्चरण शेषके | योन्यवटे शतगुणं स्थंडिलेपि च चाचरेत् || अथ पूर्वादि दिग्विवरणं | मानसोल्लासे | यत्रैव भानुस्तु वियत्पुदेति प्राधीतितां वेदविदो वदंति | तथा परां पूजकं पूजायाश्च सदागमज्ञा पवदंतितां तु | अन्यच्च | देवसाधकयोरंतः पूर्वाशादिगिहोच्यतो अपि च | पूज्यपूजकयोरतः पूर्वाशैव निगद्यते | त्रिपुरासारे च | होतुः पूर्वं पूर्वभागमुदिष्ठं सव्यभागं दक्षिणंत्वागमज्ञैः | दक्षिणं विद्यादुत्तरं भागमध्यंश्यं प्रज्ञावद्भिः पश्चिमं भागमुक्तं | सव्यमिति वाममित्यर्थः | मंत्रमुक्तावल्यां च | पूज्यपूजकयोर्मध्यं प्रातिकीर्त्यते वुधैः | तद्दक्षिणं दक्षिणं स्यादुत्तरं चोत्तरं मतं | प्. १४७ब्) पृष्टं च पश्चिमं ज्ञेयं सर्वत्रैव प्रपूजने | यत् तु पुरंदरमुखोमंत्री पूजयेत् सुंदरीं यदि || देवी पश्चात् तथा प्राची प्रतीची त्रिपुरापुरः | इति कुलार्णव वचनं त्रिपुरामात्रावोद्धव्यं || देवीमात्रे कल्पने मानाभावात् | तदुक्तं ज्ञानार्णवे | एवं वंधविमलं श्रीचक्रं परिचिंतयेत् | उत्तराशामुखोदेवि यदि चक्रं समुद्धरेत् || उत्तराशा तदा देवि पूर्वा शैव न संशयः | वायुकोण तदाग्नेयं ईशानं राक्षसं भवेत् || दक्षिणा सा मुखो मंत्री तदा चक्रं समुद्धरेत् | पूर्वा सैव तदा सापि रक्षः कोणं तु वह्निमदिति || अथ कुलवारादि विवरणं || कुलचूडामणौ | कुलवारे कुलाष्टम्यां चतुर्दश्यां विशेषतः | योगिनी पूजनं तत्र प्रधानं कुलपूजनं || यथा चितिथौ विष्णुः पूजितो वांछितः प्रदः | तथा कुलतिथौ शक्तिः पूजिता वरदायिनी || तदुक्तं यामले | रविःश्चंद्रो गुरुः शौरिःश्चत्वारश्च कुलामताः | भौमयुक्तौ कुलाख्यौ तु वुधवारः कुलाकुलः || द्वितीया दशमी षष्ठी कुलाकुलमुदाहृता | विषमश्चाकुलाः सर्वाः शेषाश्चतिथयोकुलाः || वारुणीद्राभिजिन्मूलं कुलाकुल मुदाहृतं | कुलानि समधिष्ठानि शेषाभाव्य कुलानि च || तिथिवारे च नक्षत्रेऽकुलस्थायिनी जयः | कुलाख्यो जापिनोन्नित्यं सामं चैव कुलाकुलं || अथैवं कुलवारादिकं ज्ञात्वा साधकस्य कुर्यादिति || अथ कुलीन प्रशंसा विवरणं || तदुक्तं कालीतंत्रे | कुलीनं नावमन्येत कुलज्ञं परिपूजयेत् | कुलज्ञेषु प्रसन्नेषु कालिका सन्निधिर्भवेत् || अहोधन्यरतां लोके जानाति कुलदर्शनं | तेषां मध्येदियः कोपि कुलदेवीं प्रपूजयेत् || कुलाचार विहीनोयः पूजयेत् कालिकानरः | सस्वर्गमोक्षभागी च न स्यात् सत्यं न संशयः || आयुरारोग्यमैश्वर्य वलपुष्ठिर्महायशः | कविता भुक्तिमुक्ती च कालिका पदपूजनात् || सोमभुजगावल्यां च माहेश्वरं समालोक्य पूजयेद् विधिपूर्वकं | यथा विभवरूपेण पंचतत्वं निवेदयेत् | तदा तुष्टा भवेदेवी सर्वान् कामालभेदपि || अन्यथा नैव सिद्धिः स्यात् क्रुद्धा भवति योगिनी | मेदिनीं यस्तु संपूर्णां द्राक्षणे वेदपारगे || ज्ञात्वा यत् फलमाप्नोति तत्फलं कौलिकार्चनात् | अश्वमेध सहस्राणि वा जपेय शतानि च || इष्ट्वा यत् फलमाप्नोति तत्फलं कौलिकार्चनात् | मेरुतुल्यं सुवर्णं तु ब्राह्मणे वेदपारगे दत्वा यत् फलमाप्नोति तत् फलं कौलिकार्चने | वापी कूप तद्रागादि कृत्वा यत् फलमाप्नुयात् | तत्फलं लक्षगुणित कौलिकानां प्रपूजने || कपिलाश्च गजान् दत्वा यत्फलं लभते नरः तत्फलं कोटिगुणितं कौलिकानां प्रपूजने | प्. १४८अ) कौलिकं निंदयेद्यस्तु कुलशास्त्र परायणं | स याति नरकं घोरः सत्यमेव न संशयः || अथ कौलिकानां प्रायश्चित्तं | तदुक्तं लिंगागमे | शृणु देवि प्रवक्ष्यामि प्रायश्चित्त मनुत्तमं | तद्वि शुद्धि विधिश्चैव भैरवेनेति भाषितं || गुरुत्याग नरः शिष्यः प्रायश्चित्ती भवेद्ध्रुवं | लक्षं श्रीपादुकां जप्त्वा तस्मात् पापात् विशुद्ध्यति || तंत्र त्यागकरः शिष्यःस्तत्संगं नैव कारयेत् | लक्षमेकं जपेन्मंत्रं होमतर्पणतः शुचिः || एतद्गुरुं त्यागे वोद्धव्यं | पशु गुरुत्यागश्च कुलशिष्यो न कर्तव्य एव एतत् प्रमाणं पुरै वा चारपटले | कुलचूडामन्युक्त क्रमेण लिखितं | रुद्रयामले | मधुलोभाद्यथा भृंगः पुष्पात् पुष्पातरं व्रजेत् | ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुरुतरं व्रजेत् || मंत्रान्मंत्रांतरमिति पाठांतरमिति केचित् | रिपु साध्य वीजहीन संदिग्धमंत्रं त्यक्त्वात् परमंत्र गृह्नीयात् | अथवा मंत्रं त्यक्त्वा महामंत्र प्रहणं कुर्यात् | तदुक्त तत्रैव | सकलो वीजहीनश्च संदिग्धो सिद्धितस्तथा | मनवस्तेन वस्तेन सिद्धंतिं गुरुः स्याद्ब्रह्मघातकः || तदा तं सहसा ज्ञात्वा मंत्रं देवगुरुं त्यजेत् | वहुज्ञोपि गुरुस्त्याज्यो ज्ञाता सारो वरानने || अल्पज्ञोपि गुरुः पूज्यो योजानाति कुलाकुलं | एकत्र गुरुणा सार्द्धं स्वपेत्युप विशेच्चयः || स याति नरकं घोरं यावदिंद्राश्चतुर्दश | गुरुवाक्यं हतं कृत्वा आत्मवाक्यं तु रोदयेत् || गुरुजे तुं मनो यस्य पतते नरकार्णवे | अनेकधा पशोरन्नं भुंजते ये च कौलिकाः || तेभ्यः प्रकुप्यते देवी तत्संसर्गं न कारयेत् | लक्षत्रयं जपेल्लोपां लक्षं वाप्य जपं जपेत् || होमयेद्ध विषार्द्धनि निःष्पापः स्यात् तदा ध्रुवं | कौलिकः पशुगामी च पशुशक्तिं वसेद्वलात् || गोष्ठी मध्ये च यत्नेन स्पर्शं तस्य न कारयेत् | एकपात्रे पिवे द्रव्यं वीरो माहेश्वरो यदि || शूनोच्छिष्ठं भवेत् पानं प्रायश्चित्ती स कौलिकः | गायत्रीभिः सहस्रेण उपवास त्रयेण च || सम्यक् शोधित चित्तस्तु सुवर्ण गुरवे ददेत् | चक्रं दत्वा तु देवेशि पूजयेत् तर्पनं विना || चत्वारि तस्य नश्यंति आयुर्विद्या यशोवलं | अभिषेके विना भूते आचार्यत्वं करोतियः योनिकोटिशतंत्वा रौरवं नरकं व्रजेत् | मातृरूपं परित्यज्य स्त्रीरूपं शक्तिमादरेत् | स याति नरकं घोरं जन्मकोटि शतानि च || परां लक्षत्रयं जप्त्वा अजपा लक्षमेव च | तूर्यवीजं पंचलक्षं ततः शुद्धि प्रजायते || मंत्रमाता च पुत्री च भगिनी च कुलांगना | नवमे कौलिकः सत्यमेताः सम्यक् प्रपूजयेत् || श्रीपात्रग्रहणं कृत्वा चक्र मुत्थापयेदिंद्य | पशुपानं भवेत् तस्य प्रायश्चित्तं तु जायते || मंत्रमातृगमनं | प्रायश्चित्तं प्राणांतं | तदुक्तं मंत्रांतरे | रमाद्वा स्वेच्छया वापि योरमेन्मंत्रमातरं | दशलक्षं मनुंजप्त्वा तुषारं न समाचरेत् || प्. १४८ब्) मंत्रपुत्री कुलांगना भगिनी गमने मूलमंत्र जपो शुद्धिः तदुक्तं तत्रैव | मंत्री स्वपुत्री च भगिनी च कुलांगना रमनाल्लक्षजापेन पूतो भवति कौलिकः अन्यच्च तंत्रांतरे | पर्वण्य पूज्य देवेशीं गुरुमग्निं च शक्तितः | अदत्वा च वलिं तत्र मूलमष्टशतं जपेत् || पत्रं पुष्पं फलं मूलमन्नपानादिवौषधः | अनिवेद्य न भुंजीत यदाहाराय कल्पितं || अनिवेद्य न भुंजीतः प्रायश्चित्ती भवेन्नरः | देव्याश्चाष्टशतं जप्त्वा मंत्रपूतो भवेद्वरं || अनस्थि प्रणिसंहातं हत्वा तु दशकं हत्वा तु पक्षिणः | सर्वान् त्रिरेकोदशकं जपेत् | खरमार्जार न कुलं स्यानमुष्टं नरं हयं | गजाद्याश्च मृगान् सर्वान् हत्वा चाष्टशतं जपेत् || जपेदष्ठ सहस्रं तु क्षत्रवंशो वधेर्विदुः | वीरस्त्रीगमने चैव वृथा पाने तथैव च || गुरोःसुषा मंत्रपूती गमनेन च कौलिकः | इदं त्व ज्ञान कृते वोध्यं | ज्ञानकृते तु लक्षजापाच्छुद्धिः | तदुक्तं यामले | कृत्वा वीरववं मंत्री वृथापानं गुरोस्रुषां | वीरपल्ली मंत्रपुत्रीं रमित्वागयुतं जपेत् || अथ वार्षिककृत्य विवरणं | तंरराजे | दमनारोपनं वक्षे साधकानां हिता वच | संवत्सर कृता पूजायेन पूर्णा भवेद्ध्रुवं || शिवस्य मदनः पूर्वं तपोवंध निवंधनात् | भस्मी भव तदा पत्नी रतिः प्रीतिश्च दुःखिता || तन्नेत्र वारि संभूता मदनस्य लता भवेत् | तव सौरभं च सौभाग्यं महदासी तु दंतरं || तेन संतुष्ठ हृदयापुरोदत्ता मया प्रिये | रत्यै प्रीत्यै च तस्मात् तु मदनः प्रकटी कृतः || मदनं चैव यो मंत्री वर्षमध्येन पूजयेत् | तस्य सांवत्सरिकी पूजा मदनाय भविष्यति || इति तस्मै वरोदत्तो शंकरेण महात्मना | तस्मान् मदन पूजा च कर्तव्या साधकोत्तमैः || चैत्रेसित चतुर्दश्यां दमनारोपनं चरेत् | द्वादश्यां साधकैः सार्द्धं गत्वा दमन संनिधौ || चतुःकल्पलतानां तु विद्यया मंत्रयेत् ततः | ओं शिवप्रसाद संभूत अत्र सन्निहितो भव || शिवकार्ये समुच्छिद्यनेतव्योसि शिवाज्ञया | कार्मरत्यादिकं चैव पूजयित्वा गृहं व्रजेत् || त्रयोदश्यां पुनर्गत्वा अस्त्रेणामंत्र्य तत्पुरः | द्रात्रादिना तस्य गच्छं छेदयि समानयेत् || आधार विद्यया पश्चादा मंत्र्य नवधा पुनः | विभज्य पात्रमध्ये तु नवयोनि प्रकल्पयेत् || हं सं क्षं मं लं वं रं यूं नामांतैं प्रपूज्या मध्य पूर्वादि पक्षतः | ज्ञानार्णवे | स मूलं मदनं वायुछेर्नापि प्रकल्पितं | दमनं नवधा कुर्यात् पूजयेत् तदनंतरं || आनंदेश्वर वीजेन तेनाभित्तेन सुंदरि | आनंदेश्वर वीजेन नवधा विंदुनासहं || नवप्रकार स भिन्नं दमनं पूजयेत् क्रमात् | अघोर विद्यया पूर्वोक्तया दक्षिणस्यादिशि सिंहासनस्थया एवं पीठं समभ्यर्च्य ततः सिंहासनं यजेत् | अघोरविद्यारूपं तु महापाप निकृंतनं | अघोरेम् वाग्भवं तद्वघोरे च भुवनेश्वरी || प्. १४९अ) सर्वतः सर्वसर्वेभ्यो घोरघोरतरेवमे | नमस्ते रुद्ररूपेस्यो देव्या वीजयुगं लिखेत् || त्रिशद्भिश्च त्रिभिर्वर्णैर्विद्येय कथिता प्रिये | अस्त्रेण रक्षणा कुर्या कवचेन ततः परं || वधा त्रिशूलमुद्रां तु भ्रामयेद्दमनोपरि | त्रिशूलमुद्रा यथा वामकेश्वरे | अंगुष्ठेन कनिष्ठां तु वध्वा शिष्टांगुलित्रयं | प्रासारये त्रिशूलस्य मुद्रेयं परिकीर्तितं || चैत्रेसित चतुर्दश्यां मदना रोपनं चरेत् | उद्धरेदस्त्रमंत्रेण हृदयेन विलेपयेत् || श्रीखंड घृष्टनं स्त्वाद्यैरधि वासश्च कारयेत् | प्रथमे दिवसे | कुर्यादधि वा सनमुत्तमं | सद्योधिवासनं वापि वर्षपूजार्थ सिद्धये | प्रातःकाले चतुर्दश्यां नित्यार्चनांतरंतरतः || नवकोणं विधायाथ सिंदूरेण महायुतं | कलसान्वर संस्थाप्य हेमरत्नादिभिः पूरितान् || एकं वा कलशं रम्यस्थापया देशिकोत्तमः | दक्षतो मंडलं कृत्वा कुंकुमाद्यैर्विचित्रितं || अशोकतरुमालिख्य त्रिकोण मंडलं लिखेत् | तन्मध्ये पूजयेत् कामं तरुणं चारुण प्रभं || रक्तवस्त्रं रक्तभूषं वामदक्षिणयोः प्रिये | रतिप्रीती विशोभाद्यं पंचवाण धनुर्द्धरं || वसंत सहितं कामं पूजयेत् सिद्धि हेतवे | वाग्भवं भुवनेशीं च श्रियं कामात्मकेन च || कामाय सम आलिख्य विद्येयं रुद्रवर्णिनीं | कामवीज यथोक्त्वा फरमात्मकमुद्धरेत् || रत्यै नमश्चाष्ट वर्णारति विद्या वरानने | प्रीतिं वदेव्रत स्थाने प्रीति मंत्रोष्टवर्णकः || गौरश्यामरति प्रीतो मणिरत्न विभूषणे | पद्मं तांवूलहस्ते च रक्तं वस्त्र विभूषिते || विद्याभरणभूषै च पुष्पदाम विराजिते | वाम दक्षिणयो ध्यात्वा कामस्य च दमंतकं || वसंतं पूजयेत् पश्चात् कदंव वनमध्यगं | गौरमं वर्णं वामहस्ते सुधापूर्णं घटांवुजं || दक्षहस्तेन दधतं नानापुष्प समुच्चयं | सांगं कामं प्रपूज्याथ धूपदीपादि दर्शयेत् || दमनैः पूजितः कामः सर्वकार्याणि साधयेत् | तं च सम्यक् प्रपूज्याथह्य त्रिपुरसुंदरीं || क्रमं समर्चयेत् सम्यक् कुमारी पूजयेद्वुधः | स्ववासिनीं च पूज्याथ योगिनीगणमर्चयेत् || अत्र त्रिपुरसुंदरीत्युपलक्षणं स्वस्वविद्या क्रममित्यर्थः | ब्राह्मणान् परिपूज्याथ नानादर्शनमानवान् | तदंग हवनात् पश्चाद्गुरुं रत्नाद्यभूषणैः || स्वर्णभार सहस्रंस्तु दिव्यवस्त्र मनोहरैः | पूजयित्वा ततो देवि पूर्णाहुति मथाचरेत् || अनेन विधिना देवि मदनारोपनं चरेत् | तस्य सांवत्सरी पूजा सफला शैलसंभवे || वैशाखेमासि पूर्णायां स्वर्णपुष्पैर्यजेत् परां | अथवा चंद्रकस्तूरी चंदनैः शिशिरोदकैः || प्. १४९ब्) ज्येष्ठेमासि च पूर्णायां कदलीपन साम्रजं | फलैस्तु पूजयेद्देवीं पूर्ववत् सर्वसिद्धये || अथ पवित्रारोपणं | तदुक्तं ज्ञानार्णवे | वैशाखेमासि रूपायां पवित्रारोपणं वक्ष्ये साधकानां हिताय च | वर्षमात्रकृता पूजा स फला जायते स्फुटं | तस्मात् पवित्र पूजा हि कर्तव्या सिद्धिहेतवे || आरभ्य मिथुनार्केषु तुलामं क्रमणांतरं | अतिरम्यां महापूजां पवित्राणां सुरेश्वरि || यक्षद्वयेपि पूजास्या चतुर्दश्यष्ठमीदिने | नवम्यां वा चतुर्दश्यां पवित्रारोपनं चरेत् || आषाढ पूर्णिमायां वा पवित्रैः पूजयेच्छिवां | उड्डीशे च | सुवर्णरौप्यताम्रे वा सूत्रैः पट्ट समुद्भवैः | यज्ञसूत्र समुद्भूतैः पद्मनाल समुद्भवैः || दर्भमंजुशनोद्भूतैर्नवधानुणितैः शुभैः | कुर्यात् पवित्र शक्तीनां सर्वासां षोडशांगुलैः || नवांगुलैर्वा तत् संख्यमान ग्रंथ्यादि संयुतं | होमत्वेकशंत ग्रंथिं कृत्वातैः पूजयेत् क्रमात् || ज्ञानार्णवे च | सुवर्णरौप्यताम्रानां सूक्ष्मसूत्राणि कारयेत् | कार्या स संभवान्येव पट्टसूत्र समुद्भवं || द्रसवीसूत्र संभूतं पद्मवल्क समुद्भवं | दर्भमुंच समुद्भूतं पवित्राय प्रकल्पयेत् || प्रणवश्चंद्रमा वह्नि ब्रह्माणो गोगुहारविः | सर्वाख्यः सर्वदेवाऽस्च नवतंतुषु पूजयेत् || शिरोमंत्रेनाभिमंत्र्यत्रान्मंत्रेण ततः परं | प्रक्षल्पि च ततो शुक्ष्यशस्त्र मंत्रेण देशिकः || अवगुंठ्य च नेत्रेण ग्रथितुं कवचेन हि | रोचना कुंकुमाभ्यां च पूजयेद्रक्त चंदनैः || कस्तूरी घृसृणाद्यैश्च कर्पूरैरंभवैरपि | गैरिकाद्यैर्विचित्रं च कारयेत् सुमनोहरं || मूलमंत्रेण चाभ्युक्ष्य स्थापयादीशकोणके | पवित्र वृंदं सकलं षडंगैस्तु प्रपूजितं || कृत्वा देवेशि पूर्वेस्मिन् दिवा सं * * * * * (##? अष्टोत्तरशतैः सूत्रैर्नवसूत्रेण कल्पितैः || उत्तमं तु पवित्रं हि तदर्द्धं मध्यमं स्मृतं | तस्यार्द्धं कनिष्ठं स्यात्रिविधं कथितं प्रिये || पवित्रं मूलशक्तीनां षन्नवत्यंगुलैर्युतं | शरग्राभियुतं कृत्वा त्रितयस्तु समर्पयेत् || अधिवासन वेलायां यवास्तार्य सुव्रते | चतुर्भिर्वासमैस्तत्र पुष्पं निक्षिप्य देशिकः || पवित्राणि पवित्राणि पंचामृत समुच्चयैः | रचितान्यमलैः पंचरात्रैः सर्वौषधान्वितैः || नववस्त्र युगेनाथ सम्यगाछाद्य सुव्रते | चतुर्भिवासनैरित्यादि आसनैः आसन मंत्रैः आसनानि तु | अमृतार्णवासनपोतांवुजासन आत्मासन चक्रासनानि तेषा मंत्रास्तु मंत्रखड्गे | सुंदरी प्रस्ताव ज्ञातव्याः | पवित्राणीति पंचामृत समुच्चयैः प्रोक्षितानीत्यर्थः | रचितानीति पंचरत्नैः संयुतानि रत्नैः सर्वोषधान्वितैः | तेन एताभ्यां मुक्तानि पवित्राणि पूजितेषु यवेषु स्थापयेदित्यर्थः | प्. १५०अ) इत्यधिवासकृत्यां | देवीकुंभं प्रतिष्ठाप्य पूर्णचाशीकरादिभिः | देवीमावाह्य कुंभे च मूलमंत्रेण पूजयेत् || ततः क्रमं समभ्यर्च्य पवित्रार्पणमारभेत् | ततः क्रमभ्यर्चेति सांगां पूजां कृत्वेत्यर्थः || श्रीविद्यायाः | पवित्राणि गुरोर्नाम्ना च देशिकः | पवित्रं गुरवे दद्यात् सर्वेभ्यस्तदनंतरं | गुरुशक्तिवीरशिष्यपवित्रीनाभिमानकं || स्कक्षादारभ्य रश्मीकं गण संख्यानि तं तु च | गुरुभ्यस्त्रिविधेभ्यश्च पवित्रात्पर्यद्वुधः || तिथि नित्यागणा यथा पवित्रारोपनं यजेत् | न च चक्रे स्थितायेव चक्रेशी नवकाय च || इति श्रीविषयं अन्यविद्यापक्षे | पूजा क्रमेण तत् तदेव परिवारेभ्योदेयमित्यर्थः | रश्मि सदा च देवेशि प्रत्येकं तव पूर्वकं | पवित्रकं समभ्यर्च्य कलषां तु ययेत् ततः || स्वच्छालंकार वस्त्रैश्च नानारत्न समुच्चयैः | तस्रसार पवित्रं च धारयेत् तदनंतरं || तदंग होमं निर्वर्त्य पवित्रेण समर्चयेत् | समर्चयेत् होमयेदित्यर्थः | कुमारी पूजनं चैव ततः स्ववासिनीगणं | योगिन्यो योगिनश्चैव ब्राह्मणा विविधागणाः || पूज्यो हि परमेशानि यदिच्छेत् सिद्धिमात्मनः | फाल्गुणेमासि पूर्णाया सर्वपाप विशांतये || सिंदूर कुष्ठमाद्यैश्च चंदनैर्विविधैः फलैः | उत्पलैः कमलैश्चैव पूजयेत् परमेश्वरीं || अथ भाद्रपदेमासि पूर्णायां केतकोद्भवैः | प्रसूनैरर्चयेद्देवीं महाविभवविस्तरैः || अश्वपूजा विशेषस्तु दर्शते प्रतिपत्तिथिं | आरभ्य पूजयेद्देवीं पूर्णांतं साधकोत्तमः || जवा पराजिताद्रोणैः करवीरैश्च पंकजैः | सौगंधिकैस्तु कह्लारैर्वस्त्रभूषणदर्पणैः || व्यजने शुद्धसिंदूरैश्चामलैर्श्चंदनादिभिः | नानाविधैः फलद्रव्यैर्नानाविधिरसायणैः || पूजयित्वा जपेद्विद्यां जुहुयात् प्रतिदिनं शतं | सहस्रं वा जुहुया त्रिपुरा प्रीति हेतवे || तेन विद्या भवेत् सिद्धा नृपति कुरुतेर्वनात् | कार्तिकेमासि पूर्णायां नारिकेलानुचंद्रमुक् || निर्वद्याम्मर्चयेन्मांसंपिष्टपूपैर्यथाविधिः | पौषेमासि च पूर्णायां | शर्कराभिगुडेन वा | पूजयेत् भूमिसंसिद्ध्यैर्गव्यं दुग्धं निवेदयेत् | माघे मासि च पूर्णायांस्तिलै शुक्लैस्तथोत्तरैः || पूजयेद्गंधनैवेद्यसिंतपुष्पादिभिः सह | फाल्गुणेमासि पूर्णायां चंपकै स्वर्णराजतैः || चूतसुगंधि कुसुमैः पूजयेदीप्सिताप्तये | विषुवायण दर्शेषु युगादिषु समर्चनं || कुर्याद्वेशेषिकं तेषु स्वागमोक्तेषुतेष्वपि | इति द्वादशमासीयकृत्यं कुर्यात् प्रयत्नतः || वर्षे वर्षे च मंत्रज्ञो अन्यथा पापभाग्भवेत् | योगिनीनां भवेद्भक्ष क्रुद्धा श्रीत्रिपुराभवेत् || त्रिपुरेत्युपलक्षणं सर्वविद्या परमित्यर्थः || प्. १५०ब्) श्रीपूर्णानंदननाथेन कृतायां गुरुभावतः कुलवृत्तौ स्वतंत्रायां पटलो सप्तविंशतिः || असंख्यातेस्तु यत् सुप्तं तत् सर्वं निष्फलं भवेत् दिति | मुंडमालानां तंत्र वचनामालाया जपसाधनी भूतत्वेन प्राप्तत्वान् माला विवरणं क्रियते | तत्रादौ करमाला यथा | तदुक्तं श्रीक्रमसंहितायां || तर्जन्यंये तथा मध्ये योजयात् स तु पापकृत् | अनायामस्त्रयं पर्व कनिष्ठायास्त्रि पर्वकाः || मध्यमायास्त्रयं पर्व तर्जनी मूलपर्वणि | मुंडमालायां च | तत्रांगुलि जपं कुर्वन् सांगुष्ठांगुलिभिर्जपेत् | अंगुष्ठेन विना कर्मकृतं तदफलं भवेत् || आरभ्यानामिका मध्यात् प्रदक्षिण क्रमेङ् तु | तर्जनी मूलपर्यंतं जपेदशसु पर्वसु || मतभेदे | मध्यमा त्रितया ग्राह्या अनामा मूलमेव च | अनामातुल्य पर्वात्र मेरुं कृत्वा न लंघयेत् || तर्जन्यग्रे तथा मध्ये योजयेत् तस्य निश्चितं | चत्वारि तस्य नश्यंति आयुर्विद्या यशोवलं || इति नवपर्वात्मिकाक्षरमालात् संसारे च | अनामामूलमारभ्य प्रादक्षिण्य क्रमेण तु || मध्यमा मूलपर्यंतं जपेदष्ट सु पर्वसु | अनामा मूलमारभ्य कनिष्ठा मूलमेव च || तर्जन्यं मूलपर्यंतमष्ठ पर्वसु संजपेत् | शाक्ता शैव भेदेन अधिक जपार्थं तदसंख्या योगिनीतंत्रे | शतं सहस्रकं चैव अयुतं नियुतं तथा | लक्षं चैव तथा कोटिं योमजप्य च मानकं || प्रतिमाले तथा चाष्टौ हस्तपर्वणि संजपेत् | अथ वा अष्टभिषीजैवर्गाष्टैर्वा यथा पुनः || करमाला जपेहस्तमानमाला जपेवीजं अक्षमाला जपे अष्टगंनत्वष्ठ पर्वात्मिका करमाला मालाभंग संगादिति | हंसपारमेश्वर्येपि | पर्वद्वयमनामायाः परिवर्तिनाव क्रमात् | पर्वतयं मध्यमाया तर्जन्येकं समाहरेत् || शक्तिमालां समाख्याता सर्वमंत्र प्रदीपिका | पुंदेवताका यथा चंद्रिकायां कनिष्ठां नामिका मध्या चतुर्थी तर्जनीमतास्तिस्रोंगुल्य स्त्रिपर्वास्यु मध्यमा चैक पर्विका पर्वद्वयं मध्यमाया जपकाले विवर्जयेत् | एवमेवं विजानीया दूषितं ब्रह्मणा स्वयं | तेन वचनानाम विरोधः | यामले च | शाक्ते मेरुं नमस्कुर्याच्छैव मेरोः प्रदक्षिणं | नित्यं जपंकुरे कुर्यान्न तु काम्यरोधनात् || काम्यप्रकार कुर्यान् मालाभावे वरानने | इति मुंडमाला वचनात् करमालाया नित्य जपः | काम्यंस्तु सत्यां मालायां न करे | मालाभावे करेपि एतदुक्तं तत्रैव | सर्वासामक्षमालानां जापयेत् फलमुच्यते | तत्फलं शतसाहस्र्यं जपे चांगुलि पर्वणि || तस्मादंगुलि पर्वाणि जपार्थं प्रवलानि च | प्. १५१अ) जपार्थं नित्य जपार्थं सर्वत्र मानमाला विधानं नित्यार्थं श्रुयते | किंतु नैमित्ति काम्यार्थमेव श्रुयते | यत् तु नाम सहस्रनामस्तोत्र महाशंखेन देवेशि सर्वं कार्यां जपादिकं | तत् काम्यपरं | करमालाद्वर्णमालाया अपि नित्य जपे प्रयुक्तत्वात् | करमालया वर्णमालया च किप (?) जपस्तदुक्तं शक्तियामले | नित्यजापे करभाक् च मातृका वर्णमालिका | इति एकवाक्यतालाघवात् | अष्टोत्तरशतं जप्त्वामादौ क्लीवं नियोजयेत् | अथ जप क्रमः | तदुक्तं तत्रैव अंगुली न वियुंजीत किंचित् संकोचयेतुलं | अंगुलीनां वियोगे तु छिष्टेषु श्रवते जपः | अंगुल्यग्रेषु यज्जप्तं मेरुलंघनं पूर्वसंधिषु यद्यप्तं तत्सर्वं निस्फलं भवेत् | गणाविधिमुल्लंघ्य योजयेत् तु प्रमादतः | गृह्नाति राक्षसा यस्मान्नितयं गणयेद्वुधः | इति करमाला | अथ वर्णमाला | तदुक्तं विशुद्धेश्वरतंत्रे | माला विधानं परमं शृणु पार्वति तत्वतः | येन विज्ञातमात्रेण मंत्राः सिद्ध्यंति तत् क्षणात् || अनुलोम विलोमेन मंत्रनातुर्विभेदतः | मंत्रेणांतरितं वर्णं वर्णेनांतरितं मनुं || कुर्याद् वर्णमयींमालां सर्वमंत्र प्रदीपिकां | चरमार्थ मेरुरूपं न लंघयेच्च सर्वदा || मेरुः शिवश्च सर्वेषां यथा देवे तथा हरिः | तस्मानुस्थिरकायेन कर्मं कुर्यादहर्निशं || देव इति निर्द्धारण सप्तमी | एतत् परमरहस्यं मयोक्तंते सुरेश्वरि | त्वया गुप्ततरं कार्यं नाख्येयं यस्य कस्यचित् || रुद्रयामले च | स विम्डुवस्तूर्णमुच्चार्य पश्चान्मंत्रं जपेत्सुधीः | क्षमेरु कल्पयित्वा तु जपेत्तं नाभिलंघयेत् || श्रीक्रमे च | अकारादिक्षकारांतो वर्णमाला प्रकीर्तिता | स विंदुवर्णमुच्चार्य पश्चान् मंत्रं जपेत् सुधीः || अनुलोम विलोमेन क्षकारं मेरुमाचरेत् | सनत्कुमार संहितायां च | क्रमात् क्रमगतैर्माला मातृकावर्णैः क्षमेरुकैः | स विंदुकैः साष्टवर्गेरंतर्यजनकर्मणि || आदि कुमुदुतुपुषवोष्ठौ प्रकीर्तिताः | नारदीतंत्रेपि | अकारादिक्षकारांतं विंदुयुक्तं विभाव्य च | वर्णमाला समाख्याता अनुलोम विलोमिकाः || स विंदुं वर्णमुच्चार्य पश्चान् मंत्रजपेद्वुधः | क्षमेरुकं कल्पाम्तं पित्वा तु जपेत् तं नाभिलंघयेत् || सुरश्चरण चंद्रिकायां | अनुलोम विलोमस्थै विंदुयुक्तं मातृकाक्षरैः | क्षमेरुकैश्चाष्टवर्गैःज्ञप्तया वर्णमालया || प्रत्येकं वस्तु पुङ्मंत्रा जप्तास्युःक्षि प्रसिद्धिदा | भवंतिश्च तत्प्रौढा विस्तरादुच्यते स वैरिमंत्रा अपि नृणांमन्यो मंत्राश्च किं पुनः | मुंडमालायां श्रीदेव्युवाच अक्षमाला च कथिता यत्नतो न प्रकाशिता | अक्षमालेति किंन्नामफलं चापि वदस्वमे | प्. १५१ब्) ईश्वर उवाच | अक्षमाले तु देवेशि कलाभेदोदनेकधा | भवंति शृणु तत् प्रौढविस्तरादुच्यते मया || अनुलोम विलोमस्थकॢप्ताया वर्णमालिका | आदिलांता नाद्यकांता क्रमेण परमेश्वरि || क्षकारं मेरुरूपं च न लंघेन् मनसा स्मरेत् | मेरुहीना तु या माला सेरुलंघ्या च या भवेत् || अश्रद्धाति प्रकाशा च सा माला निस्फला भवेत् | चित्रिणी विशतंत्वाभा ब्रह्मनाडीगतांतरा || तया संग्रंथिता ध्येया सर्वकाम फलप्रदा | अष्टोत्तरशतं जप्त्वारादौ क्लीवं प्रचक्षते || ऋ ऌ युग्मद्वय यत् तु तत् तु क्लीवं प्रचक्षते | वर्गानामष्वमी वापि कला भेद क्रमेण तु || अ क च ट त प य ष इत्येवं चाष्टवर्गकं | कल्पतदे रुद्रयामले | स्वाधिष्ठानेवादिलां वा | अथ चाक्षरं तु मालांयां ज्ञात्वा सिद्धिभाग्भवेत् | गुरुपदिष्टमार्गेण चिंतयेद्यतमानसः || विशुद्ध षोडशदले स्वरान् ध्यायेत् स विंदुकान् | हृदये द्वादशेकादिठांतान स विंदुकान् || मणिपूरेडादिकांतान् नाभौ दशदले स्मरेत् | स्वाधिष्ठांते वा दिलांतान् षट्पत्रेषु विचिंतयेत् || मूलाधारे श्रुतिदले वा दिशांताश्च विंदुभिः | आज्ञा चक्रे स्मरेद्धंद्धूं वर्णमालायमीरिता || एतेषां वर्णसंहानांमुत्थितोध्वनिरुच्यते | त्तमः | अनाहतश्च नाम्नायां कथितो ब्रह्मवादिभिः || वहिर्जपेन्मिंदुवर्णं प्रजप्यमिवमानसैः | एवं वर्णं समुच्चार्य संख्याते नैव जायते || कंठाद् भूमध्यपर्यंतं पंचाशत् क्रमतो भवेत् | व्युत्क्रमाच्चैव पूर्णास्याच्छतं तेनैव जायते || ध्यानं तु मानसे जाप्य मंत्रवर्णं विचिंतयेत् | ज्योतिर्मयं सद्मयुक्तं मनं तेनैव लीयते || शते शते वाह्य संख्यांर्यान्नियतमानसः लक्षावधि जपेदेवं सिद्धिरत्रं स्थिरामता | स्वरादिकादिवर्गाश्चयाद्यासाद्यास्तथाष्टधा | पूर्वं तद्वर्गकाष्टाभिर्भवेदष्टोत्तरंशतं || सुषुम्नांतश्चित्र नाडी तस्यां या ध्वनिरूपिणी | शक्तिः सा सूत्ररूपेणसिता संग्रंथ्यवर्णकान् || अजपाख्यो मनु प्रोक्तः स्वास प्रस्वास रूपतः | मेरुरूपेन लंघ्या सौ तस्मात् तत्र हि तां जपेत् || यथास्या वर्णमालाया वक्षते जपनिर्णयः | ग्रथिता शक्तिसूत्रेण हंसमेरु विभूषिता || अकारादिक्षुकारांता मातृकावर्णरूपिणी | इति वर्णमाला | मणिनिर्मितामाला यथा मुंडमालायां | आदिक्षांतां तु योगित्वा दक्षमालेति कीर्त्यते | तद्वर्ण संख्यै मालाभि जपमाला प्रकीर्तिता || स्फाटिकैर्मोक्षलाभः स्यात् पद्माक्षैर्वहुपुत्रता | जीवपुत्रैस्तु धनदा पापारगैः सर्वभिमिदा || शुद्धस्फटिकमाला तु महासंपत्प्रदा शिवे | श्मशानधुस्तुरेरेव माला धूमावतीविधौ || नरांगुल्यस्थिमाला तु ग्रथिता पूर्वभेदतः | सर्वसिद्धिप्रदा मोक्षदायिनी वरवर्णिनी || प्. १५२अ) नाद्या सप्तथिकारुक्ताववसेसापि च | सदा गोप्या प्रयत्ने च मातुश्च जारवत् प्रिये | पर्वभिरिति जपेत् तथा | पर्वभेदस्तथा ग्रथनेपि | मौक्तिकै ग्रथितामाला सर्वैश्वर्य फलप्रदा | मणिमुक्ता प्रवालैश्च हेमराजत संभवा || मालाकार्याकुश ग्रंथ्या सर्वक्षय फलप्रदा | नाडीभिर्ग्रथितामाला महासिद्धिप्रदा प्रिये || संख्या तत्रैव | त्रिंशदैश्वर्य फलदा मोक्षदा पंचविंशति | चतुर्दशमयी मोक्षदायिनी भोगवर्द्धिनी || दशपंचात्मिकादेवि मारणेच्चाटनेमता | स्तंभने मोहने वश्येति वोधनेंजनेतनोः || पादुका सिद्धिकार्यो च शतसंख्या प्रकीर्तिता | अष्टोत्तरशतैः कार्या अथवा सर्वकामदा || यामले | अथ मुक्तामयीमाला चतुर्वर्गप्रदायिनी | वाक्सिद्धिं च तथा माला स्फाटिके न विनिर्मिता || रुद्रमालिको मोक्षदा भवेत् सर्वसमृद्धिदा | प्रवाल मालावश्ये च सर्वकार्यार्थसाधिका || पुत्रजीवयमाला तु लक्ष्मीविधा प्रदायिनी | पद्माक्षमालया लक्ष्मीर्जायये तु महायशी || रक्तचंदनमाला तु वश्ये सौभाग्यदा भवेत् | सुवर्णरौप्यघटितामालाकामान् प्रयच्छति || निर्मिता शंखमालाभिः कुरुते कीर्तिनन्ययां | सर्वैरेतैर्विरचितामालास्यान्मुक्तयेनृणां || पंचविंशतिभिर्वाजैर्मालांमोक्ष प्रकल्पयेत् | सप्तविंशतिभिःपुष्टौ स्त्रिंशद्भिर्मोक्ष कर्मणि || त्रिशड्भिः पंचपर्वाभिरभिचारे च कर्मणि | पंचाशड्भिश्चयामाला सर्वकर्माणि सा शुभा || चतुरुत्तरा भवेन्माला काम्यैकर्म फलप्रदा | अष्टोत्तर शतैर्वापि सर्वसिद्धिःस्यादपवर्गदा || अधिकास्यान् महादोषो न तु सिद्ध्यति साधकाः | चंद्रिकायां | रुद्राक्ष शंखपद्माख्य पुत्रजीवकमौक्तिकैः | फाटिकैर्मणिरत्नैश्च हेमराजतविद्रुमैः || कुशैः पुरोदितैः सर्वैः पर्वभिर्मातृकाक्षरैः | गर्दभानां नराणां वदंतैरप्यभिचारके || वैष्णवे तुलसीमाला गजदंतैर्गणेश्वरे | त्रिपुराया जपेशस्तं इंद्राक्षै रक्तचंदनः || महाशंखमयीमाला सौभाग्यं विपुलांश्रियं | मंस्वप्रत्यक्षतां सिद्धिं शांतिकं चाथ पौष्टिकं || नीलसारस्वतेमणौ | रुद्राक्षविहितामाला सर्वकामप्रदायिनी | निर्मिता शंखमालाबिवश्यं कीर्तिप्रयच्छति || पद्माक्षैः पुष्टि लक्ष्मीदा शत्रुनाशकरी तथा | पुत्रजीवभवा पुत्रराज्यदोधन ऋद्धिदा || मुक्ताभीरचितामाला सौभाग्य विपुलं श्रियं | मंत्रप्रत्यक्षतां सिद्धिं शांतिकं चाथ पौष्टिकं || मुक्तिं च तनुते तद्वत् स्फाटिकी चाक्षमालिका | सारस्वते पद्मरागापुस्कले च धने तथा || सौवर्णा राजतीमाला सर्वान् कामान् प्रयच्छति | सारस्वते प्रवालोत्यावश्येधिकधनागमे || प्. १५२ब्) पापक्षयकरीकौशी रुद्राक्षादिकुशांतकैः | पर्वैरेभिर्विरचितामालास्यान् सूक्तये नृणां || उच्चाटनेषु दंतानां मालाप्रोक्तापुराननैः | स्वरदंतरिवधोभूतैः मनुस्यस्था तु तंतुना || ग्रथिते निर्मिता मालाशनुनांनाशिनीमंता | प्रेतदंतैरधोभूतैः कर्तव्या जपमालिका || साध्य देहोद्भवैः कौशैः कर्तव्याद्वेषकर्मणि | द्वेषप्रस्थैःर्मलिभिः साध्यकेशैग्रथयेदित्यर्थः || अंगुली निःसंख्या च मेकमेव उदाहृतं | पद्मजीव दशगुणेशतं संख्यसहस्रकः || प्रवालैर्मणिरत्नैश्चर्दश साहस्रकं स्मृतं | देवैः स्फाटिकं प्रोक्तं मौक्तिकैर्लक्ष उच्यते || पद्माक्षिर्दशलक्षं स्याद्राजतैः कोठि उच्यते | सौवर्णेर्दशर्गुणं चैव सर्वोशतगुणं तथा || शतं वा य तदर्द्धं वा सर्वसाधारणं जपे | पंचाशद्भिः काम्यकर्मसिद्धिःस्याच्चतुरुत्तरैः || अष्टोत्तरशतैः सर्वसिद्धिरुक्ता कृतस्रजाः | मोक्षार्थी पंचविंशत्य धनाथो त्रिंशतो जपेत् || सृष्ट्यायो पंचविंशत् पापं च दश्याभिचारके | श्वेतपद्माक्षमालाभिरपिस्याद्गतं फलं || शक्तियामलो कुशमाला च रौद्राक्षी श्वेतपद्माक्षमलिस्तं | अक्षमाला तथादवि अनंतफलदा स्मृता | सर्वसाधारणे जापे नमया परिकीर्तिता || सर्वसाधारणेकाम्य नैमित्तिके किंतु नित्यजपे सिद्धिकामो विहिता पूर्वोक्त वचनात् | इदार्घ्यं विशेषः | अकस्माद् विहिता सिद्धिर्महाशंखाख्यमालया | अरक्षा विरचिता माला तया जप्तोग्रतारिका तथा सरस्वती * * * * (?) मुक्तिप्रदा भवेत् | तथा नीलसरस्वत्यामरभालास्थिमालिका | तारार्णवे च | महाशंखेप्य शक्ताश्चेत् स्फाटिक्या मालया जपेत् | कालीतंत्रे च | दंताख्यमालया नैव राजदंतेन मेरुणा | दंतेन कालिकायाः सर्वदा भुविदुर्लभा || योगिनीतंत्रे | शोनचंदननराष्टेर्वा फलधात्री विधानतः | विल्वकाष्ठ समुद्भूत मध्यमुदकं य ** (?) || तथामलक संभूतं यथा कालेषु योजयेत् | अष्टोत्तर सहवीजेन प्रथम जपमालिका द्वितीये च तदर्द्धाति स्त्रितीया पंचविंशतिः || इति नित्यजपः || वीज यथादिकं कृत्वा योनिं कुर्यात् तु पश्चिमं | रुद्राक्षैः शक्तिमंत्रं च ग्रंथियुक्तं जपेत् प्रिये || स दुर्गतिमवाप्नोति निस्फलं तस्य तज्जपः | कुशग्रंथ्यादिमनिभिविष्णु सर्वेषु योजयेत् || प्रवाल राजतं शंखं त्रिपुरायाश्चशस्यते | वाराहीतंत्रे | सुवर्णमालाः गुंजायाः फलैः कार्याक्षमलिका | गृह्नीयात् प्राणिभिर्मालां स्फाटिकं शंखनिर्मितां || प्रवाले नैव कर्तव्या पुत्रजीवं विवर्जयेत् | पद्माक्षं चैव रुद्राक्षं इंद्राक्षं चैव शेषतः || इति त्रिपुरायाः एवं प्रकरणोक्तात् | प्. १५३अ) अथ प्रतिष्ठा विवरणं | कुब्जिकातंत्रे | शिल्पिनं पूजयादादौ वस्त्रगंधानुलेपनैः | सुहृद्भिः कारयेन्मालां विशुद्धां वस्तुरूपिणां || आदौ न विघटनादौ वर्णरूपणीं | वर्णं समसंख्यकां | यथानुक्रमसंस्था च यथा इति पूर्वं यथोदितं | निर्विशंका च मालां वै निर्मलांक्षतवर्जितां | यथा योग्यां वेधावती मालां मालाकुर्याद्विचक्षणः || मुंडमालायां च | कृतनित्यः क्रियः शुद्धः शुद्धार्द्धेषु च मंत्रवित् | यथा कालं यथा लाभं मक्षाण्यानीय यत्नतः || अन्योन्य समरूपानितान्शूलकृशानि च | कीटादिवरनुष्ठानि न जीर्णानि नवानि च || कुब्जिकायां | तंस्तुनायेनया कार्या पंचगव्ये त्र्यहंक्षिपेत् | सूत्रं चापि चतुर्थेह्निक्षालयेदसु संत्रतः || मुंडमालायां च | गव्यैश्च पंचभिस्तानि प्रक्षाल्य च पृथक् पृथक् | तानि वीजानीत्यर्थः पंचगव्ये त्रिदिन प्रक्षेपः क्षालनं च इतिद्वये | शक्ताशक्तभेदे व्यवस्था | ततो द्विजेंद्र पुण्यस्त्रीनिर्मितं ग्रंथिवर्जितं | त्रिगुणं त्रिगुणीकृत्य कृत्य पद्यमथापि वा || यामले च | शुक्लं रक्तं तथा कृष्णं शांतिवश्याभिचारिके | सूत्रं संपादयेद्विद्वान् पट्टसूत्रमथापि वा || कार्यासैर्वैष्णवीमालां पट्टसूत्रैरथापि वा | उर्णाभिर्वल्कलैर्वापि शैवी माला प्रकीर्तिता || यामले च | अप्रतिष्ठितमालाभिर्मंत्रंजपतियोनरः | सर्वं तदफलं विद्या क्रुद्धा भवति चंडिका || कांताया रचिता सा तु द्रुतसिद्धिकरीमता | उर्द्ध्वं तु त्रिवृतं कार्यं तंतु त्रयमथोवृतं || पुण्यस्त्रीरचितं सूत्रं कार्या समथपातकं | मूलास्त्रं च पठं सूत्रं वीजं प्रक्षालयेत् ततः || एकैकं मणिमादाय ब्रह्मग्रंथिं विनिर्दिशेत् | योगिनीतंत्रे च | ग्रथयेत् क्षोणिसूत्रेण पट्टसूत्रेण शांकरि | सुप्रशस्तं तथारुक्तं श्वेतन मुक्तिदं मतं || ब्रह्मग्रंथियुतं कृत्वा त्रिवृतं उर्द्ध्वमेव च | एकविंशति सूत्रेण तथा त्रिगुणितेन चागृहस्थः सर्वमंत्रे च काम्यमोक्षे च दक्षिणे | कुब्जिकातंत्रे | समानवर्ण तंतूनां ग्रथयेद् हृदयात्मना | ब्रह्मग्रंथि ततो दद्याम्नागपाशमथापि वा || कवचेनाथवस्तीया देवध्यान परायणः | सर्वशेष ततो मेरुं सूत्रद्वय समन्वितं || ग्रथयेत्तारयोगेन वध्नीयात् सादकोत्तमः | वाराहीतंत्रे च | कोषकारैश्च सूत्रश्च प्रथमे चाक्षमालिकां | रुक्तैर्मुक्तिमवाप्नोतिश्वेतैर्योगादिसाधनं || पीतैः काम्यैः जनानां च कृष्णरोगादि संभवः | मुंडमालाया च | अश्वत्थं पत्र नवके पद्माकारेणन्यापितः | सूत्रंमनी च गंधांतः क्षालितं तत्र निःक्षिपेत् || श्मशानवारिणा वापि पीठप्रक्षालन न च | शुद्धोदकेन रक्तेन कस्तूरी कुंकुमेन च || तावत् शक्तिं मातृकां च सूत्रे चैव मनेष्वपि | विन्यस्य पूजयेदाज्यै जुहुयाद् भक्तिभावतः || प्. १५३ब्) होमकर्मण्य शक्तश्चेद्विगुणं जपमाचरेत् | मनिमेकैकमादाय ब्रह्मग्रंथि विनिर्दिशेत् || मुखे मुखं तु संयोजपूच्छे पुच्छं तु योजयेत् | इति फवां जपक्षे | गोपुच्छसदृशी कार्या अथ सर्पाकृतिर्भवेत् | तत् सा जातीयमेकाक्षं मेरुत्वेन प्रकल्पयेत् || शांभव संहितायां || सूतसूत्रंवीतिहोत्रमव्यति त्रितयं पुनः | दिवा निशाकरौ प्रोक्तौ तस्मात् तेजत्रयी शुभा || यामले | ततः सुस्नापितां मालां स्थापयेद्धेमपात्रके | पद्माकारश्वत्थ पत्र नवके विन्यसेच्च वा || मुंडमाला तंत्रमतोश्वत्थ पत्रपूजानंत्रं ग्रथनं | यामलादिमते ग्रथनांतरं अश्वत्थ पत्र स्थापनं पूजनं | चेति | पूजां विधान भक्त्या तु शुचिः पूर्वमुपोषितः | उपोषित इति पशुपरं यथा वीरागमे || रक्तसूत्रमाला देव्याः प्रीतिकरी सदा | कार्या सैःर्वैष्णवीमाला कर्तव्या सोपवासतः | मंत्रज्ञो विष्णुमंत्रेण दिवाभागे प्रयत्नतः || शाक्तीमाला प्रकर्तव्या रात्रौ भुक्त्वा यथाविधिः | अष्टम्यां च चतुर्दश्यां नवम्यां च विशेषतः || त्रयोदश्यां तु वै कुर्यात् शिवस्यापि सुरेश्वरि | वाराहीतंत्रे च | ग्रंथिहीनं न कर्तव्यं पुच्छापुच्छेन दुष्यति | शैवे च वैष्णवे सौरेगाणेशे श्रीकरेपि च || वीजस्पर्शे पुनः कुर्यात् तत्र नास्ति विचारणा | या देव्यो ग्रंथि या देव्यो ग्रंथिलीनाः स्युस्तान्निशामय सांप्रतं | कालिकाकारितायाश्च इंद्राक्षाः षट्कभेदतः | तीतलावन वासिन्या वाराह्याश्चैव योजयेत् || अनुलोम विलोमाभ्यां मातृकांतरितं न्यसेत् | पंचगव्योक्षपेन्मालां शिवमंत्रेण मंत्रितां || कालिकापुराणे | ब्रह्मग्रंथियुतं कुर्यात् प्रति * * * (?) था स्थित | अथवा ग्रंथिरहितं दृढरज्जु समन्वितं || त्रिरावृत्या तु मध्येन उर्द्ध्वा वृत्तांतदेशतः | ग्रंथिः प्रदक्षिणावर्त्तः शब्दग्रंथि संज्ञकः || ईद्रक्ष स्वजायते कुरुते जपमुत्तमं | अपमृत्यु कलिभ्यां समुच्यते नात्र संशयः || कुब्जिकायां | एवं निष्पाद्य देवेशि प्रतिष्ठां च समाचरेत् | स्थंडिले मंडलं कृत्वा यथा योगविधिः क्रमात् || पूजयित्वा यथान्यायामिष्टदेवं यथा क्रमात् | न्यासपूर्वं जपेन्मंत्रं अष्टोत्तरं सहस्रकं || जुहुयात दशांशेन यस्य देवस्य यत् प्रियं | मुंडमालायां | जपमालाविधायेत्थं ततः संस्कारमाचरेत् | क्षालयेत् पंचगव्येन सद्यो जातेन सज्जलैः || ओं सद्यो जातं प्रवक्ष्यामि सद्यो जाताय वै नमः | भवे भवेनादि भवे भजस्वमां भवोद्भवाय वै नमः | चंदना गुरुगंधाद्यैर्वामदेवेन घर्षयेत् | ओं वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बल प्रमथनाय नमः सर्वभूतदमनाय मनोन्मनाय नमः | प्. १५४अ) धूपयेत्तामघोरेण लेपयेत् पुरुषेण | ओं अघोरेभ्योथ घोरेभ्यो घोरघोरतरेभ्यः | सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः | ओं तत्पुरुषाय विद्महे महादेवायधीमहि तन्नो रुद्रः प्रचोदयात् | मंत्रयेत् पंचंमेनैव प्रत्येकं तु शतं शतं | ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्मणाधिपति ब्रह्मणोधिपतिः शिवोमेस्तु सदाशिवे | मेरुस्तु पंचमेनैव ततो मंत्रेण मंत्रयेत् | सद्यो जातादि मंत्राणां | प्रत्येकं शतवारं जपः मेरुमंत्रणं वारमेकमेव | सनत्कुमारसंहितायां | मंत्रयेत् पंचमेणैव प्रत्येकं तु सकृत् सकृत् | मंत्रयेच्च तथा मेरुं मनुना सकृदेव हि || संस्कृत्यैव वधो मालां तत्प्राणास्त्र विन्यसेत् | गुरुं संपूज्यत यत्नाद्गृह्नीयाद् भक्तिभावतः || मंत्रांतर कृत्यं | कुब्जिकातंत्रे | ततो मंडल मध्यतां मालां संस्थापयेद्बुधः | अस्त्रमंत्रं ततोन्यस्य मूलमंत्रं ततोन्यसेत् || अंगानि तानि विन्यस्य देवतां तत्र चिंतयेत् | अभेदरूपमासाद्यमालां कुर्यात् तदात्मिकां || ततो वलिं यथान्यायं दद्यात् साधकसत्तमः | एवं प्रतिष्ठामासाद्य मालायामिष्टदेवतां || आचार्यं पूजयेन्मंत्री शिल्पिनं च यथा विधिः | यामले | पंचामृतेन सुस्नाप्य शीतलेन जलेन च | महाप्रेतासनं वीजं विन्यसेत् तत्र साधकः || तत्र देवीं प्रपूज्येवं परिवारगणैः सह | विधिवदग्निमारोप्य घृतेन शक्तितो हुनेत् || होमकर्मन्य सक्तश्चेद्विगुणं जपमाचरेत् | अष्टोत्तरशतं मूलं जप्त्वा देव्यै समर्पयेत् || शिष्यहस्ते ततः सोपि प्रजप्याष्टोत्तरं शतं | गुरवे दक्षिणां दद्याद्यथाविभवपूर्वकं || गुरोःरभावमालायाः संस्कारं स्वयमाचरेत् | मालाग्रहणांतरं कृत्यं यथा | कुब्जिकातंत्रे | अथ माला गुरोर्हस्ताद् गृहीत्वा मंत्रयेत् ततः | त्वं माले सर्वदेवानां प्रीतिदाय सदा मम || शिवं में कुसुमे भद्रे यशोवीर्यं च सर्वदा | इत्या मंत्र्य शिवे धृत्वा अस्त्रादौ गोपयेत् ततः || एवं कृताक्षमालायां जपेन्मातृकयासुधीः | मातृका मंत्रभेदेन सर्वमंत्राः प्रजज्ञिरे || ततः स्वतंत्र मंत्राणां जपः कार्या न या स्रजा | मुंडमालायां च | अशुचिर्न स्पृशेदेनांकरभ्रष्टां न कारयेत् | तर्जन्या न स्पृशेन्मालां पूजयित्वा तु गोपयेत् || गुरोरपि न दर्शयेत् | भुक्तौ तथा कृष्टौ मध्यमायां जपेत् सुधीः | अंगुष्ठा नामिकाभ्यंते जपेदुत्तमकर्मणि || तर्जन्यंगुष्ठयोगेन मारणोच्चाटने जपः | कनिष्ठांगुष्ठयोगेन जपेन्मारण कर्मणि || जपान्यकालेतां मालां पूजयित्वा तु गोपयेत् | जपमाला च गोप्तव्या जपमाला सुशोभना || प्. १५४ब्) गुरुं प्रकाशयेद्धीमान्न तु मंत्र कदाचन | अक्षमालां च मुद्रां च गुरोरपि न दर्शयेत् || भूतराक्षस वेतालाः सिद्धिगंधर्वचारणाः | हरंति प्रकटात् सिद्धि तस्माद्गुप्तां सदाकुरु || जीर्णे सूत्रं पुनः सूत्रं ग्रथयित्वात्मकं जपेत् | प्रमादात् पतिता हस्ताच्छतमष्टोत्तरं जपेत् || तावन्नि सिद्धसंस्पर्शेक्षालयित्वा यथोदितं | योगिनीतंत्रे | कराद्भृष्टे शब्दकृते शतमष्टोत्तरं जपेत् | यामले च | अभ्यर्च्यादौ जपेन्मालां जपांते च तथैव च | वाग्भवं भुवनेशानीं अक्षमालां च देयुतां || हृन्मंत्रं च समुच्चार्य पूजयेत् साधकोत्तमः | ओं मालेमाले महामाले सर्वशक्तिस्वरूपिणि || चतुर्वर्गस्त्वयिन्यस्तस्तस्मात्मे सिद्धिदा भव | अभिमंत्र ततो मालां गृह्नीयादक्षिणेकरे || मायां सिद्धेश्वरीं ङेंतां हृदयांतो मनु स्मृतः | एष सप्ताक्षरो मंत्रो ग्रहणे च जपांतिके || हाप्रदेशे समानीय न तु वामेन संस्पृशेत् | वामहस्तेन संस्पर्शो माहयान ग्रथने प्रिये || मध्यमाया मध्यभागे स्थापयित्वा समाहितः | तर्जन्या न स्पृशेन् माला अंगुष्ठाग्रेण चालयेत् || प्रत्येकं * * * * (?) घ मेरुं चैव न लंघयेत् | अंगुष्ठस्थामक्षमालां मध्यमाग्रेण चालयेत् || अंगुष्ठानामिकाभ्यां तु जपेद्दुत्तमकर्मणि | तर्जन्यंगुष्ठ योगाभ्यां विद्वेषोच्चाटने जपः || कनिष्ठांगुष्ठयोगेन जपेन्मारणकर्मणि | जपांते मस्तके मालां क्षिप्त्वानेन समर्चयेत् || त्यमाले सर्वदेवानां प्रीतिदा शुभदा मम | शिवं कुरुष्व मे भद्रे यशोवीर्यं च सर्वदा || योगिनीतंत्रे | मूलादारभ्य प्रजपेवस्त्रेणावृत्यशंकरि | उत्तरीय युग्मवस्त्रंपिधाने काम्यकर्मणि || वामेन पाणिना नैव स्पृशेन् मालां कदाचन | वामहस्तेन संस्पर्शो मालायग्रथितं प्रिये || भूया देवपरै स्पृष्टे छिन्ने संवत्सरांतरे | संस्कुर्यान् मनिनानेदि ताम्रपात्रे निसेशयेत् || आकाश शिखि संयुक्तं वामनेत्र विभूषितं | नादविंदुकलाक्रांतं सिद्ध्यै हृदयसंयुतं || एष पंचाक्षरो मंत्रो मालायाः परिकीर्तितः | ग्रहणे स्थापने चैव पूजने विनियोजयेत् || जपांते शिरशिस्तस्य मंत्रांतेस्तुस्तुतिं पठेत् | कालिकापुराणे | हस्ताच्चुतायां विघ्नः स्याच्छिन्नयो मरणो भवेत् | जपादौ पूजयेन् मालांतोयैभ्युक्ष यत्नतः निधाय मंडलस्यांतः सव्यहस्तगतां च वा | पूजयित्वा ततो मालां गृहीत्वा दक्षिणे करे | मध्यमाया मध्यभागे वर्जयित्वाथ तर्जनी || अनामिका कनिष्टाभ्यां युताया नम्रभावतः | स्थापयित्वा ततो मालामंगुष्ठाग्रेण तद्गतं || प्रत्येकवीजमादाय जपं कुर्वीत भैरवः | मालां मुहृदयसंपन्ने धृत्वा दक्षिणपाणिना देवीं विजेचिंतयं कुर्याद्धा प्रतिवारं पठेन्मंत्रं शनैरोष्ठं प्रचालयेत् | प्. १५५अ) मालावीजं तु पूजांश्वै पृसेन्न हि परस्परं | पूर्वजाप प्रयुक्तेन चांगुष्ठाग्रेण भैरव || पूर्वं वीजदनयस्तु परवीजं तु संस्पृशेत् | अंगुष्ठेन भवेत् तस्य निस्फलः स तु वै जपः || मालां सु हृदयासन्ने धृत्वा दक्षिण पाणिना | देवी विचिंतयं जपं कुर्याद्वामेन न स्पृशेत् || जप्त्वा मालां शिरोदेशि प्रांशुस्थानेथनान्यसेत् | सनत्कुमारसंहितायां | येन प्रतिष्ठितामालातमेव तु मनं जपेत् | अन्य मंत्रजपो नित्यं न कार्यःकर्तु चिह्नधैः || अथ महामाला संस्कारः नीलतंत्रे | एकैकं मणिमादाय ब्रह्मग्रंथिं विनिर्दिशेत् | अनुलोम विलोमेनाभ्यां मातृकांतरितां न्यसेत् || तेन सर्वगुणोपेतः जायते सर्वसिद्धिभाक् | अत्र वक्यै वाक्यता | मुंडमायुक्त मथुह्यमिति केचित् | अथ प्रयोगः | आदौ शिल्पिनं वस्त्रगंधानुलेपनैः संपूज्यमालां कारयेत् | आदौ स्तूल उत्तरोत्तर संकुलं | निर्विढकं क्षतवर्जितं | यथायोग्यं विधेयं तं मन्योन्य समरूपं कं नाति स्थूलं नाति कृशं कीटाद्यादष्टमजीर्णं कारयेत् फलं | वीजपक्षे आनयेत् तत्र शिल्पिपूजनास्तीति विशेषः | तथा यथोक्तदिने कृत नित्यक्रियः | यथोक्त तंत्रमानं च पंचगव्ये त्रिदिनं प्रक्षिपेत् | आशक्तश्चेदिन एव | पंचागास्त्रमंत्रेण प्रक्षाल्य गंधजलेन श्मशान संवंध जलेन पीडक्षालन शुद्धोदकेन यथाधिकारं यथालाभं स्थापयित्वा अश्वं पत्रान्यष्टौ अष्टदिक् स्थापयित्वा पद्माकारं यथा स्यात् तथा मध्ये पत्रमेकं संस्थाप्य तत्र सूत्रं मालं च संस्थाप्य ओं ह्रीं अं ५ नम इति | मालसूत्रयोर्विन्यस्य तत्र मूलदेवीं यथाविधि संपूज्याष्टोत्तर सहस्रं जप्त्वा तदशांशं संस्कृते | गौ कृत्वा नम इति मंत्रेण मलीन ग्रंथयित्वा लूमिति मंत्रेण ब्रह्मग्रंथिं नागपाशं वा दद्यात् | ततः सूत्रद्वयमेकीकृत्य मेरुं ओंमिति मंत्रेण संमुख्य पूर्ववदग्रेखयेत् | मंत्रांतरेतु | यथाविधि प्रक्षाल्य यथाविधि ग्रथयित्वा मालाः पंचगव्ये निःक्षिप्य क्षालयित्वा | पद्माकारेश्वत्थ पत्रेषु स्थापयेत् | अथ प्रतिष्ठा यथा मालां पंचगव्येन ओं सद्योजातमित्यादिना प्रक्षाल्य | ओं वामदेवाय नम इत्यादिना चंदना गुरु गंधाद्यै घर्षयेत् | ओं अघोर इत्यादिना मालां धूपयित्वा तत्पुरुषेत्यादिना चंदनाद्यैर्विलिप्य ओं ईशानेत्यादिना मंत्रयेत् | ऋचां प्रत्येकं | शतवारं जपः मेरुमपि ओं ईशानेत्यादिना मंत्र्यनंदल मध्येतां संस्थाप्य अस्त्रमंत्रं मूलषडंगानि चा विन्यस्य देव्याः प्राणप्रतिष्ठां कुर्यात् | तत्र देवीं विचिंत्या तदरूपं विभाव्यच्छागादि वलिं दत्वानुलोमविलोमतो मातृकां जप्त्वा मूलमष्टोत्तरशतं जप्त्वास्तुत्वा गुरवे दक्षिणां दद्यादिति || प्. १५५ब्) तदयामले | अथोच्यते महायंत्र संस्कारः सर्वसिद्धिदः | शुभेह्नि स्नानमाचर्य शुभेलग्ने शुभेक्षणे || कृतनित्यक्रियो मंत्री प्राङ्मुखो वा उदङ्मुखः | भूतशुद्ध्यादिकं कृत्वा कल्पोक्तन्या समाचरेत् || ततः संकल्प शुद्धात्मा देव मंत्रविशोधितं | पंचगव्यं समानीय तत्र मंत्रं समाहितः || सुवर्णादि मणौ क्षिप्तं क्षिपेत् प्रणवमुच्चरन् | उद्धृत्य च सुवर्णादौ पात्र संस्थाप्य मंत्रवित् || पंचामृतेन तीर्थेन जलेन शीतलेन च | सहस्र शीर्षामंत्रेण मूलमंत्र पुरःसरं || संस्नाप्य शुद्धवस्त्रेण जलमुत्तोल्प तेजसे | सिंहासनादावारोप्य कुंकुमाद्यैर्विलोपयेत् || पीठपूजां ततः कुर्या स्वकल्पोक्त विधानतः | कुशैः स्पृशन् यंत्रराजं शतमष्टोत्तरंशतं || प्रणवं यंत्रराजाय विद्महे पदनुद्धरेत् | महायंत्रायधी रूपं लिखेत् तते महीति च || तन्नो रुद्रं प्रचोरूपं दद्या दैवा प्रकीर्तिता | इमां यंत्रस्य गायत्रीं जप्त्वा देवत्वमालभेत् || यथेष्ट देवतां ध्यात्वा मुद्रया वाहयेत् क्रमात् | जीवन्यासं ततः कुर्यात् पूजयेदिष्टदेवतां || उपचारैः षोडशैश्च नानाविभव विस्तरैः | टत्यगीतैश्च वाद्यैश्च पंचघोष पुरःसरैः || ततो जपेदिष्ट मंत्रमष्टोत्तर सहस्रकं | ततः कल्पोक्तमासाद्य हविषा संस्कृतानले || अष्टोत्तरशतं हुत्वा शुद्धं विभव पूर्वकं | तोषयेत् स्वर्णवस्त्राद्यैः प्रदद्या दक्षिणामपि || वामकेश्वरतंत्रे | पंचगव्यं ततः कृत्वा शिववीजेन शोधितं | ततःश्चक्रं क्षिपेन्मंत्री प्रणवेन समाक्षलं || तत उद्धृत्यतचक्रं स्थापयेत् पूर्णपत्रके | पंचामृते स्नानं तु शीतलेन जलेन च || वंदनेन शुगंधेन कस्तूरी घृसृणे न च | हाटके कलसैर्देवीमष्टाभिर्वारिपूरितैः || कषाय जलसंखं तु करायेत् स्नानमुत्तमं | वाससा जलमुत्तोल्प स्थापयेद्धेमपीठके || आत्मशुद्धिं ततः कृत्वा षडंगंन्यसनादिभिः | अत्रावाह्य महादेवी वीजन्यासं समाचरेत् || उपचारैः षोडशं तु महामुद्रादिभिः सदा | फलतांवूल नैवेद्यैर्देवं मंत्री समर्चयेत् || पट्ट सूत्रादिकं दद्याद्वस्त्रालंकारमेव च | कुंकुमं चामरं घंटां यथायोग्यं महेश्वरि || ततो जपसहस्रं तु कुर्यादीपित सिद्धये | वलिदानं ततः कृत्वा प्रणमे चक्रराजकं || अष्टोत्तरशतं होममाषधान्यत्तिलेन च | धेनुयुग्मं समानीय स्वर्णशृंगाभ्यलंकृतं || गुरवे दक्षिणां दद्यात् ततो देव्या विसर्जयेत् | अथ दग्ध यंत्रादि व्यवस्था | दग्धं च स्फटितं यंत्रं कृतं चौरेण वा प्रिये | उपवास प्रकुर्वीत दिनमेकम्तंद्रितः | लक्षमेक जपेद्विद्यां होमतर्पणपूर्विकां | सद्भक्त्या च गुरुं तोष्य ब्राह्मणानपि भोजयेत् || प्. १५६अ) कदाचिलुप्त चिह्नं च स्फुटितानि विवर्जयेत् | दिविदूषितं दग्धं करोतियोमर्त्या मृत्युस्तस्या त्रिमासतः | तस्माच्चतीर्थंराजे वा समुद्रे वा क्षिपेद्देवि अन्यथा मृत्युमाप्नुयात् | अथ वक्षे देवताया सुप्रतिष्ठ्य विधि क्रमं | पुण्यक्षेत्रे पुण्यशल्यादि रहिते स्थले | मंत्रीकल्पानुसारेण पूर्वेद्युरधि वासयेत् | सायं संकल्प्य विधिवद्वटस्थापन पूर्वकं || गणेशादिकमभ्यर्च्य दिक्पालान् परिपूजयेत् | यथाशक्त्युपचाराद्यैः पूजयेन् मूलदेवतां || सुगंधितैलगंधाद्यैदिव्यैस्तवधिवासयेत् | चंद्रेत्यादि मंत्रेण जयघोष पुरःसरं || इत्यधिवासनं कृत्वा संयतो विजितेंद्रियः | प्रातनिर्वस्तु निर्वर्त्यकॢप्तयागस्थलेविशेत् || पताकाध्वज संकीर्णदित्य मंडलमंडिते | आदित्यमंडलमंडिते पंचवर्णरजःश्चित्रित सूर्यादिमंडलमंडित इत्यर्थः | वितान चामरछत्रे पुष्पमाला विराजिते | मंगलांकुर पत्राद्यैर्दीपैश्च परिभूयते || मंडलं सर्वतो भद्रं वेद्या उपरिसंलिखेत् | प्राङ्मुखो वाग्यतो भूत्वा संकल्पहीष्टसिद्धये || पंचशुद्धिं समभ्यर्च्य कूर्चमक्षत संयुतं | संस्थाप्य मंडले तत्र जपेदाधारशक्तिकां || पीठमंत्रांतमंत्रेण स्थापयेत् सकलं वुधः | दीक्षाकालोक्तविधिनाभिषेकं कलसं यथा || पंचगव्यं ततः कुर्यात् शिवमंत्रं विशोधितं | तेन सुस्नापयेन् मंत्री प्रतिमा प्राण संजपन् || पंचामृतेन हविषा दध्ना च पयसा क्रमात् विन्यसे देवता हृदि | प्राणप्रतिष्ठा मंत्रस्तु | तदुद्वर्तनं कुर्याज्जलेन स्नानयेदपि | वाससा जलमुत्तोल्पदुकूले परिधाय च | नयेत् स्थापित कुंभस्यसमीपे देवतांवुधः | ततो ध्यात्वा यथोक्तां तां मुद्रया वाहयेत् क्रमात् || लेलिहा मुद्रयाहस्तं विन्यसेदेवता हृदि | प्राणप्रतिष्ठा मंत्रस्तु दशधा प्रजपेत् ततः || ततो दैवतगायत्री शतमष्टोत्तरामपि | ततः कल्पोक्त विधिना परिवार समन्वितां || पूजये देवता पश्चासुवासे स्थानमंडलं | अष्टपत्र समायुक्तं पीठोपरि विधाय च || सुगंधि दिव्यतैलेन दद्यादंग प्रलेपनंमेव हि | अनेन परिमाणेन सहस्र शीर्षयाद्वुधः || स्नापयेद् भक्तिभावेन अभिषेक घटायुतैः | कर्पूरागरुकस्तूरी प्रसून चंदनादकैः || नानातीर्थोदकेनापितूर्णरत्नादिकैर्जलैः | सर्वोषध जलैर्गंधजलैर्यत्नेन सेचयेत् || ततः शुद्धदुकूलेन जलमुत्तोल्पसाधकः | परिधायदुकूलेद्वेस्वर्णनिर्मितदोलया || मंडलेतां समानीय नृत्यगीतैर्ययः स्वनैः | षोडशैरुपचारैस्तु पूजयेत् कल्पमानतः || कुंडे वा स्थंडिले मंत्री हविषा संस्कृते नले | शतमष्टोत्तरं जप्त्वा स्रपयित्वा चरुं ततः || प्. १५६ब्) यथाविधि विधानेन श्रुत्वा होमं समाचरेत् | घृत श्रुवं ततो हुत्वा जुहुयादपि संमुखे || पंचविंशति वारस्तु देवमुद्दिश्य यत्नतः | चरादि तिथि देवेशिभ्यो दद्यात् पूर्वोदितां वलिं || तदंगेवृति देवेभ्यो घृतेनाहुतिमाचरेत् | अथवा चरुणा तद्वत् ततो देवसमीपगः || गंधपुष्पांजलिं चैव प्रदद्याच्छत्र चामरै | अष्टोत्तरशतं मंत्रं जप्त्वा मूलं समं ततः || अभिषिंचेत् ततो देवीं पूजां कुंभस्थ पल्लवैः | मातृका मुक्तमंत्रश्च जपन् जयजस्वनः गत्वा होमसमं पूर्ण दद्यात् पूर्णाहुतिं ततः | दक्षिणां गुरवे दद्यात् सुवर्णकर्षमानमः | अथवा तच्चतुर्थांशं यथाविभव पूर्वकं || गुंजाब्दा दशकं मासं तदर्ध्यैकर्ष उच्यते | ततः संतोषयेद्विधं गृहीत्वा शिषोद्विजान् || इति देव प्रतिष्ठानं मुक्तं पूर्व समृद्धिदं | यः करोति प्रतिष्ठानं देव तस्य महात्मनः || वसेद्विनि सहस्राणि ब्रह्मलोके महीयते | अथवा कोटिकल्पांतं मोदते च्युते पदे || अथ वक्षे गृहोत्सर्गं वास्तुयाग पुरःसरं | शरत्काले महापुण्ये पुण्यक्षेत्रे शुभेहनि || शुद्धये मंदिरं दद्यात् स्वस्वमंत्रानुसारतः | पूर्वोस्तु सर्वमाचर्य वुद्धिं चात्मपुरःसरं || ततः संकल्प विधिवत्संदिरेसु पुरस्कृते | पताकाध्वजसंकीर्णे सुवार्तारणे शोभिते || छत्र चामर मालाद्येवितानैरूपशोभिते | विलिख्य सर्वतो भद्रं स्थापयेत् कलशं स्थितं || पूजयेदिष्ट देवस्य षोडशैरुपचारकैः | अंगं देवान् समभ्यर्च्य तत् तद्देवगणां यजेत् || वहुमानेन मनुनाशतं मष्टोत्तरशतं | हुनेत् दशाक्षरेण दुर्गायै दद्यान् मंदिरमुत्तमं || भुवनेशी महावीजं दुर्गे मनुमुदीरितं | रक्षणीति क्रमात् प्रोच्य वह्निजायां वधिर्मनुः || मंत्रेणानेन यो दद्यान् मंदिरं सुप्रतिष्ठितं | सर्वेश्वर्यमवाप्नोतिवसेत् कल्पायुतंदिवि || इदं पीठे नरे वरे देवि साधयेत् सिद्धिमुत्तमं | सप्तम्या संपन्नो भूत्वा महाष्टम्या जयेच्छिवांमिति गृहोत्सर्गः || * * * * * * * * * * * * * * * * | (?) * * * * * * * * * * * * * * * * || (?) अथ षट्कर्म विवरणं | तदुक्तं सोमभुजगावल्यां | शांतिवश्यस्तंभनानिविद्वयोच्चाटना तथा | मारणांतानि सुमति षट्कर्माणि मनीषिणः || रोगकृत्या ग्रहादीनां निराशः शांतिरीरितः | वश्यं जनानां सर्वेषां विधायत्वमुदीरितं || प्रवृत्तिवोधः सर्वेषां स्तंभन समुदाहृतं | स्निग्धानां द्वेषजननंमिथो विद्वेषणं मतं || उच्चाटनं स्वदेशादे भ्रमं परिकीर्तितं | प्राणिनां प्राणहरणं मारणं समुदाहृतं || स्वस्वदेवतादि दिक्षु पूजयेत् ज्ञात्वा कर्मादि साधयेत् | रतिर्वाणी रमाज्येष्ठा दुर्गाकाली यथा क्रमात् || प्. १५७अ) षट्कर्मदेवताः प्रोक्ताः कर्मादौताः प्रपूजयेत् | ईशचंद्रेद्र निर्-ऋति वामेग्नी वा दिशो मता || सूर्योदयं समारभ्य घटिकादशकं क्रमात् | ऋतवःस्युर्वसंताद्यो अहोरात्रं दिने दिने || वसंत ग्रीष्म वर्षाख्य शरद्धेमंतशैशिराः | हेमंतः शांतिके प्रोक्तो वसंतोवश्यकर्मणि || शिशिरस्तंभने प्रोक्तो शस्तो विद्वेषे ग्रीष्म ईरितः | प्रावृट्दुच्चाटने ज्ञेयो शरण्मारणकर्मणि || शसोमभुजगावल्यां | शांतिकं शरदिज्ञेयं हेमंते पौष्टिकं तथा | आकर्षणं वसंते ग्रीष्मे विद्वेषणं स्मृतं || शवृत्युच्चाटनं कुर्यात् मारणं शिशिरे तथा | एषु कालेषु चैतानि कुरुते साधकः सदा || अर्द्धरात्रं शरत्काले हेमंतश्च प्रभातकः | पूर्वाह्नश्च वसंतःस्यान् मध्याह्ने ग्रीष्म एव च || प्रावृह्नयो पराह्नेश्च प्रदोषो शिशिरः स्मृतः | अथवा | उषायोगे च हेमंतः प्रभाते शिशिरस्तथा | प्रहरार्द्धे वसंतश्च ग्रीष्मो मध्यदिनांतरे || तूर्ययामे च वर्षाख्यं शरदस्तंगरेरवौ | स्वतंत्रे पुष्टिकादीनि कर्माणि यद्वारतिथियोगतः || प्रयोक्तव्यानि विधिना तच्च संप्रोच्यतेधुना | पंचमी च द्वितीया च तृतीया सप्तमी तथा || वुधेज्यवार संयुक्ता शांतिकर्माणि पूजिता | गुरुचंद्रयुता षष्ठी चतुर्थी च त्रयोदशी || नवमी पौष्टिके शांता अष्टमी नवमी तथा | दशम्येकादशी चैव भानु शुक्रदिनान्विता || आकर्षणेऽष्टमीस्या नवमी प्रतिपत्तथा | पौर्णमासी नंदभानु मुक्ता विद्वेषकर्मणि || कृष्णा चतुर्दशी तद्वदष्टमीमंदतारका | उच्चाटने तिथिः शस्ता प्रदोषे च विशेषतः || चतुर्दश्यष्टमी कृष्णाह्यमावास्या तथैव च | मंदभौमदिनोपेताशस्तामारणकर्मणि || वुधचंद्रदिनोपेता पंचमी दशमी तथा | पौर्णमासी च विज्ञेयाया तिथिस्तंभनकर्मणि || शुभग्रहोदये कुर्या शुभानि च शुभोदये | रौद्रकर्मणोरिक्तार्को मृत्युयोगे च मारणं || अथाधिकारि निरूपणं | तदुक्तं नीलतंत्रे | सिद्धमंत्रः प्रकुर्वीत काम्यकर्मणि नान्यथा | अथ सिद्धिलक्षणं स्वतंत्रे | मनोरथानामक्लेशं संसिद्धिरीरितां | विख्याति वहेर्भूषादिलाभः शुकिरजांरिता || आयुरारोग्यमचिरसांतशित्वं कृतज्ञता | प्रत्यक्ष सिद्धयः प्रोक्ताः सिद्धमंत्रस्यभाविनि || सिद्धमंत्रेण कर्तव्या प्रयोगानान्यथा प्रिये | यामले च | मनोरथानाम क्लेशसिद्धिव्यतुमलक्षणं | मृत्यूनां हरणं तद्वदेवतादर्शनं तथा || प्रयोग क्लेशसिद्धिश्च सिद्धेस्तु लक्षणं परं | परकाय प्रवेशस्तु परं पुरगमनं तथा || ऊर्द्ध्वौरक्रमणमेवं हि चराचर पुरं गतिः | खेचरीगमनं चैव तत्कथा श्रवणं तथा || प्. १५७ब्) भूमिछिद्रानिचे पश्येदुत्तमस्य च लक्षणं | मृत्युनां हरणं तद्वदेवतादर्शनं तथा || प्रयोगक्लेशसिद्धिश्च सिद्धेस्तु लक्षणं परं | ख्यातिर्वाहन भूषादिनीतः शुविजीरिता || नृपानां तदंगनानां च वशीकरणमुत्तमं | सर्वत्र सर्वलोकेषु चमत्कारकरः सुखी || रोगापहरणं दृष्ट्या विषापहरणं तथा | पांडित्यं लभतेर्मंत्री चतुर्विधम यत्नतः || वैराग्यं च मुमुक्षत्वं त्यागिता सर्ववश्यता | अष्टांगयोगव्यसनं भोगेच्छा परिवर्जनं || सर्वभूतेष्वनुकंपा स सर्वज्ञादि गुणोदयः | इत्यादि गुण संपत्ति मध्यसिद्धेस्तुलक्षणं || महैश्वर्य धनित्वं च पुत्रदारादि संपदः | अधमाः सिद्धयः प्रोक्ता मंत्रिणा प्रथमोद्भवाः || सिद्धयस्तुन्नयः साक्षात् स शिवो नात्र संशयः | अथासनानि | सोमभुजगावल्यां | पद्माख्यं स्वस्तिको भूयो विकटं कुक्कुटं पुनः | वज्रं भद्रकमित्याहुः वासनानि मनीषिणः || स्वतंत्रे च | पद्मासनं पौष्टिके च शांति कोखस्तिकासनं | आकृष्टौ पार्श्विके तद्वत् विद्वेषे शत्रुनिग्रहे || अर्द्धस्वस्तिकमुच्चाटेमारणादौ प्रशस्यते | अथ मुद्रा सोमभुजगावल्यां | षण्मुद्रा क्रमतो ज्ञेया पद्मया रागदाह्वयाः | मुशला शनि खड्गा कृत्या शाकादिषु कर्मसु || अथ भूतोदयः तत्रैवा जलौशांतिविधौ शस्तं वश्ये वह्निरुद्राहृतः स्तंभने पृथिवीशस्ता विद्वेषव्योमकीर्तितं | उच्चाटने स्मृतो वायुभूयोग्नि मारणे मतः | तत् तद्भूतोदये सम्यक् तत् तन्मंडलसंयुतं || तत् तत्कर्मविभातव्यं मंत्रिणा निश्चितात्मना | एवं शांतिक पौष्टिकानि वामवाहे कर्तव्यान् रौद्रकर्माणि दक्षिणवाहे न कर्तव्याने | अथ वामदक्षिणवहेभूतोदय विवरणं | त्रिपुरासारो ईडायां च चरत्येवं शीतांशुमाली ततो वामभागेमृतं संप्रदिष्टां रविः पिंगलायां चरत्येष तस्माद्विषं दक्षिणोभाग उक्तं मुनींद्रैः | जानीयादुदयं वुधः | स जठरे देवस्यकन्देनृणां | घ्रणतीग्मकरांगुलेः खल्वलयं संध्ये च पूर्वा परे | उत्पत्तिं च लयं च संतत मधोवृत्तिं निशां वासरं चोर्द्धांवृत्तिमधस्तथा हि मकरंयोर्द्धादिनेशंगतिं | तुषारांशु नाडी प्रपन्ने तु देवेतदाशांतिकादीनि कर्माणि कुर्यात् | वधोंवोकमार्तंडनाडीयुगेमिश्रकर्माणि नासौप्रपन्ने || भूतानां मुदयद्वयोरपि वुधः संलक्षयेत् पक्षयोस्तत्रादौ वसुधोदयं निशितधी प्राणस्य दंडस्पृशे | देवेधः स्पृशिवारिणे | मृतवस्येद्धः गते तु दयंतिर्यक् संस्पर्शेभान्यं तस्य परितः स्पृष्टेन रुद्वयेनः | वश्यस्तंभनयोः प्रशस्त उदयो भूमेजलस्योदयःशस्तः शांतिकपौष्टिकादिषुभेधा हृदये वह्ने पुनः | शत्रोर्मारणदारणोदिकरणेतूच्चाटन छादयोर्षसे | प्. १५८अ) शांतिकानिर्वशीकरणयो व्योम्नोहितसूदयः | धरणेरुदयोगदार्दितानां यदि भूतः समुपेत्य पृच्छतीह | सदृसान हि रोगजा प्रवाधा प्रशनं प्रयाति सम्यक् || जलोदये व्याधिरूपैति शांतिं मृत्युर्भवत्येव सूदये च | तथोदये सापि समीरणस्य व्योम्नो चिरेणैवरुजो विनाशः | देवदक्षिणभागगेथ पुरुषे रोगातुरे पृच्छेत् | दक्षिने स्थित्वा पृच्छति पृच्छकः स पुरुंषो जीवत्परोगश्चिरं वामे यां तु रुजाकुलीकृतनौ वामास्रेतेचश्वरे | वामापृच्छति चेत् स्थिरागत गदा वामाचिरं जीवति | देवगते पृच्छति वामभाग्यं स्थित्यना वा दक्षिणतो यदीहाव्यत्यागतो स्मादपि कृश्र साध्यं वदंति संतः खलु रोगजातं || अंतर्गति पृच्छति पृच्छकश्चे देवेनवो जीवति वीतरोगः | तेनैव रोगेन विगर्हिते स्मिन् परेतराजस्यपुरं प्रयाति || सर्वेषु कार्येषु सदीश्वरेस्मिन्नंतर्गतिर्वांछितसिद्धयःस्युः | वहिर्गते मंगलमीश्वरे च शुभाशुभ कर्मफलं तु विद्यात् | अथ वीजानि सोमभुजगावल्यां | शीतांशु शलिलक्षुणी व्योमवायू हविर्भुजां | वर्णाःस्युर्यंत्रजीवा निषट्कर्म स्वयथा क्रमं || स्वस्वभूतमंडलमध्येतानि वीजानि शांतिकादिषु | यथा संख्य क्रमेण विलिख्यरत्यादयः स्वस्वदेवता पूजयेदित्यर्थः || अथ मंत्रानां विन्यासः | गृथनं च विदर्भं च संपुटो रोधनं तथा | योगपल्लव इत्येते विन्यासाः षट्सु कर्मसु || मंत्रांतांतरितं कुर्यान्नाम वर्णान् यथाविधिः | ग्रथनं तद्विजानीयात् प्रशस्तं शांतिकर्मणि || मंत्रां तद्वर्ण मध्यस्थः साध्यनामाक्षरं लिखेत् | विदर्भ एष विज्ञेयर्मंत्रिभिर्वश्यकर्मणि || आदावंते च मंत्रः स्यान्नाम्ना सौ संपुटः स्मृतः | एष संस्तंभनेशस्त इत्युक्तो मंत्रवेदिभिः || नाम्न आद्यंत मध्येषु मंत्रः स्याद्रोधनं मतं | विद्वेष कर्मणि | मंत्रांतरं तु मध्यस्थं साध्यनामाक्षरं लिखेत् | विदर्भ एष विज्ञेयण प्रधाने प्रशस्तमिदमीरितं | मंत्रस्यांते भवेन्नामयोग उच्चाटने मतः | अंतेनाम्ना भवेन्मंत्रः पल्लवो मारणे मतः || भैरवा श्रोतसि | अंते नाम्नो भवेन्मंत्रः पल्लवः परिकीर्तितः | मारणे विषसंहारे गृहभूतानि चावने || उच्चाटने च विद्वेषे पल्लवस्तु प्रमुच्यते | मंत्रांते मम संस्थानं प्रयोग इति धीयते || शांतिके पौष्टिके वश्ये प्रायश्चित्त विशोधने | मोहने दीपने योगं प्रयुंजंति मनीषिणः || स्तंभनोच्चाटने छेद विद्वेषे च स चोच्यते | नाम्न आद्यंत मध्ये च मंत्रःस्या क्रुद्ध उच्यते || प्. १५८ब्) मंत्राभिमुक्त्यकरणे सर्वपापनिवारणे | ज्वरगृहं विषाकृत्या शांतिके च प्रवुध्यते || सम्मिश्रणे च एवाथ मंत्राणामक्षराणि च | एतैवांतरित यत् तु ग्रथनं तत्प्रकीर्तितं || तछांतिके विधातव्यं आद्यंते च यदा मनुः | तत् संपुटो भवेच्चैव कीलने परिभाषितं || स्तंभे मृत्युंजयेदिष्ठो लक्षणादिषु संपुटः | द्विर्द्विमंत्राक्षरं यस्य साध्यं नामाक्षरं क्रमात् || ग्रथ्यते स दर्भस्तु वश्य कर्षण पौष्टिके | एवं योगक्रमः प्रोक्तः सर्वकामे मनीषिभिः || नमु संपुटे आद्य मनुरंते च मनुरित्युभयत्रानुलोमेनैव चोरकथं संपुटिता संपुटस्याद्य खंडेऽनुलोमतात्वात् | सत्यं अत्रापि वाक्यविभागे आज्य मनु इत्यत्रायियोमता अंते ननु चित्पत्र विलोमता अन्यथा षोडशीप्रस्तारे षट्कूटं संपुटी कुर्यादाज्यैद्यै पंचभिरक्षरैरित्पत्र विलोमेनोद्धरणात् | एतच्चतन्मंत्र प्रस्तारे स्फुटममं भविष्यति | तदुक्तं यामलेपि | ग्रथितं संपुटं ग्रंथा समस्तं च विदर्भितं | तथा चक्रांतमासाद्यंतर्गभस्थं सर्वतो वृतं || तथा मुक्ति विदर्भं च विदर्भग्रथित तथा | इत्येका मंत्रा प्रयुक्ता मंत्राः सर्वसिद्धिदाः || मध्यमानामां तु मेकैकंमंतरे संप्रयोजितं | ग्रथितं तत्प्रविख्यातं वश्या कृष्टकरं परं || मंत्रमादौ वदेच्चैव साद्य संज्ञा मनंतरं | विपसंतंदुनश्चांते मंत्रं संपुटकं स्मृतं || शांतिपुष्टिकरं ज्ञेयं त्रैलोक्येश्वर्यदायकं | अर्द्धमर्द्धं तथाद्यंतं मंत्रकुर्याद्विचक्षणः || मध्ये चास्यं भवेत् साध्यं ग्रस्तमित्यभिधीयते | अभिचारेषु सर्वेषु मारणेषु च योजयेत् || अभिधारं वदेत् पूर्वं पश्चान्मंत्रं तथा चरेत् | एतत् समस्तमित्युक्तं शत्रुच्चाटनकारकं || द्वौ द्वौ मंत्राक्षरौ यत्र एकैकं साध्यवर्णकं | विदर्भितं तु तंतुं तत् प्रोक्तं दुष्टघ्नं वशलक्षणं | मंत्रांतांतरितं साध्यं समंतास्तिष्ठते यदि | आक्रांतता विजानीयात् सद्यः सर्वार्थसाधनं || योगद्वैवे इच्छा विकल्पः | शितरक्तपीतमिश्र कृष्णं धूम्राः प्रकीर्तिताः | वर्णतो मंत्र संप्रोक्ता देवता षट्सु कर्मसु || भाव श्रोतसि (?) | वश्ये चाकर्षणे स्तंभे स्वर्णवर्णं विभावये | निर्विषीकरणे शांतौ पुष्टौ चाप्यायने शितां || पीतांस्तंभणकार्येषु धूम्रा मुच्चाटेने स्मरेत् | * * * * * * * * (?) कृष्णवर्णं च मारणे || इति वर्णः | अथ देवता संस्थितिः | उत्थितं मारणे ध्यायेत् सुप्त मुच्चाटने सदा | उपविष्टा सुवेशानि वश्यादौ * * * * * (?) || * * * (?) श्वेतवर्णा च शांतिके परिचिंतयेत् | याममार्गस्थितां कृष्णां तामसं परिकीर्तितं || सात्विकं भोगमोक्षाणां राजसं राज्यमिच्छता | तमयं शत्रुनाशार्थ सर्वव्याधिनिवारणं || प्. १५९अ) शांतिके पौष्टिदं वश्ये सुंदरी सौभनातया | सर्वभाव समुत्पन्नाधात्र काममनोरथा || ध्यातव्या देवता सम्यक् तु * * * (?) नगात्मजा | कुरूपासऽशोभभीता सर्वाभव विवर्जिता || ता प्राप्तकामा ध्यातव्या विद्वेषकर्मणि | उच्चाटने तथा सम्यक् मारणेव प्रशस्यते || अन्यसाध्यावस्था माध्यमाकर्षणेद्वेषे तर्ज्यमाने विवर्जिता | तर्ज्यमानो जनैर्दुष्टैर्ग्रसित तस्करेण तु | उलूक पायसाविष्ठैर्ग्रस्त उच्चाटने रिपुः || स्तंभना शिलयाक्रांतं त्रिणं पत्रादिवं स्मरेत् | व्याप्तैश्च तस्करैराजं पुरुषैश्च पशुर्यथा || व्याघ्रेण सिंहकेनापि हन्यते मारणे रिपुः | जपेच्चैव शवारुह्य संदेष्टौष्ठ पुटः क्रुधाः || शवारूढ.ःदांताष्ठसन यदि जपति शीघ्रफलीत्यर्थः | अथ मंत्रभेदः | वह्निकार्ये परस्वानहा नमः | सर्वत्र चात्मार्चने | शांतौ पुष्टौ द्वेषे उच्चाटे चैव मारणे | स्वधा स्वाहा वषट् हू च वौषट् कारकं क्रमात् | अथ क्रमः | अधिकारी स निवर्त्य यथा विहित हस्तौ यथा विहित स्नाने यथा परिधायी यथादिङ्मुख आदौ तत् तत्कर्माधित्रीं देवतामादौ संपूज्य पश्चात् स्वेष्टदेवीं तत् तद्रूपेण संपूज्य तत्तश समये तत् तत् योगेन तत् तत्संख्यया तत् तत्कामी जपेत् | इति संक्षेपः | द्यत्नेर्थी पुनः षट्कर्म न कुर्यात् | नैन वृक्षे फलद्वयमिति निंदा श्रवणात् | अथ वलि विवरणं | लक्षण तत् तन्मंत्र पूर्वैक तत्तदेवतार्थ विहित प्राणविधो वलिः | कुष्मांडादिस्तु आतिदेशिकोवलिः | एते वलि समाज्ञेया इति पूर्वोक्त वचनात् | ननु कथं प्राणि वधः पुण्यजनकः प्रत्यूतो हिंसात्वात् पापजनक एव | तथा च श्रुतिः | माहिं स्यात् सर्वभूतानि | गीतायां अहिंसा सत्यमस्तेयं सर्वहं स प्रतिपालनं | इतिन्यास प्रकिरणं वाक्यं | वाशिष्ठे | राक्षसीं प्रतिराजवाक्यं | भूयो भवत्या यत्प्राणा हिंसनीया न कस्यचित् | सत्यं कपिं जलाना लभेत् | अमीषोमीयं पशुमा लभेत् | धायव्यं श्वेतमालभेत् | वायूर्वैक्षेपिष्टा | इत्यादि वचनानां वै यर्थ्या माहिं स्यात् सर्वभूतानीत्यादिनां व्यापक विषयतया आंशिकवाधः कल्प्यते | तथा च रागजवधे निषेध वचनानां विषयः वैधवधेविधाय कवचनानां विषयः कल्पनीयः तेन पर्युदासः कल्पनीयः | वैधहिंसेतरहि सा पापजनिकारागजा हिंसेतर हिंसा पुण्यजनिकेतिपर्युदासः | यत् तु वैध हिंसायापि निंदा श्रुयते | यथा भागवते मुचुकुंदप्रति श्रीभगवद्वाक्यं | अस्त्वेवं नित्यदा तुभ्यं भक्तिर्मययतपायिनी | क्षातुधर्मस्थितो नित्यमवधी मृगयादिभिः || प्. १५९ब्) समाहितस्तु तपसा जलयंमदपाश्रयः | जन्मन्यनंतरे राजन् सर्वभूत सुकृत्तमः || भूत्वा द्विजवरंस्त्ववैमामुपैष्पसि केवलं | पर्षदं प्रतिनारदवचनं | तत्रैव | भो भो प्रजापते राजन् पशून् पश्यत्वयाध्वै | संजापितान् जीवसंज्ञान् निर्घृणेन सहस्रशः || एतेत्वा संप्रतीक्षंते स्मरांता वैशेषं ततः | संपरेतमयः कूटेन्दत्यूत्थितमन्यवः || तत्तूनिमार्यत रिक्तपरानियमातिरिक्त वधस्याद्वेधत्वात् | नियमश्च तत्रैव | तीर्थेषु श्रुति वृष्टेसु राजा मे ध्यान् पशून् वनोयावदर्थं मनलुब्धो हन्मादिति नियम्यते | य एवं कर्म नियतं विद्वान् कुर्वति मानवः | कर्मणावैव राजेंद्र ज्ञानेव स न लिप्यते || अस्यामर्थः | वधं प्राज्ञेनविधिः | * * * * * * * * * * * * * * * * (?) | तत्र मृगयायां यानुयमाः | तीर्थेषु यज्ञेषु श्रुतिदृष्टेशु श्रुत्या प्रतिपादितमासदानेषु इत्यर्थः | इत्येको नियमः राज * * * * * * * * (##? * * * * * * * * * * * * * * * * (?) || * * * * * * * * * (?) येव इति पंचमः | * * (?) दर्थ मनया वदुप्यया समर्थानेव इति षट् | अन्ये च नियमद्वयं | * * * * * * * * * * * * * * * * (?) | * * * * * * * * * * * * * * * * (?) || * (?) तय इति द्वेधात् सा हिंसेति समासतः | यज्ञार्थ ब्राह्मणै वंध्या प्रस्तास्ता प्रक्षिणः || * * * * * * (?) मरणार्थाय हिंसा कर्तव्या | यज्ञार्थे निरमाय * * * (?) या च पिवे धत्वात् || आनत्याह्याचरत्पुर || अस्यायमर्थः | शारीर दुःखंताडनादि * * * * * * * (##? कृताडनं हि व्रत्यपि हि सौचधश्च हि साठभेश्चपि || वर्जनीये यज्ञार्थे पुनर्वद्धस्या हिंसा कर्तव्यां दुर्भिक्षादौ अवश्यभृत्यानां भरणार्थ हिंसा कर्तव्या | यज्ञाय भरणत्यं हि मायो अपि वेधत्वात् | अविद्यमासपक्षणेरागतोद्वेषस्तज्जन्याया हिंसाया अवैधत्वं तेन तस्याः पापजनंकांचं परमहंसा ** (?) वुद्धमतसां निवृत्तमांज्ञानांकमोवावेत्ताग्यानराः | करस्थैः सामान्यताः विंशैव वर्जनीया अत एव नियम लोभपदोपादानं यदि कपादानं कर्मलुब्धः प्रवृत्तिमोहुःस्तदा वेदवोदिता हिंसा कर्तव्यानु क्त्वार्थिनापि तत् तत्कर्मांगत्वेन विहिता मनः सुद्ध्यर्थ कर्तव्ये रसांगाद्धि वैदिककर्मतः फलावश्यं भावं इति नियमात् तेषां फलं तु मनः शुद्धिरेव प्रसिद्धाः अरिसिद्धाः य एव मित्यादियः पुरुष एवं नियतं एतत् प्रकारणं वियमेनरवं श्रांगकं कर्मकुर्वीत तेन कर्णा ज्ञानमुत्वाद्यते तेन ज्ञानेन परलिप्य वधजन्य प्राग्भाव भवतीत्यर्थः | अत एव तस्मा ज्ञेयं नरोचधः | इति कालीतं वलिदानं विना देव्या हिंसाः सर्वत्र वर्जयेत् अत एव युधिष्ठिर प्रतिना अश्वामध्यादिःश्रूयते | प्. १६०अ) एवं श्रीरामचंद्रादीनां मांसभक्षदर्शनाद्वैधातिरिक्त मांसभोजनं पापजनकं | वैधभोजनं पुण्यजनकमिति विधृत मांसे भक्षणेगकं कर्मवर्जनीयं ये तु मांसावधिकारिणस्ते मांसभोजनं कर्तव्यं प्रात्यत्रिक् भोजने विभुंजते ते त्वं द्यं पापां ये पचंत्यात्मकारणात् | यज्ञ शिष्टासनः सर्वे दृष्टांत सर्वकिल्विषादित्यावादि तदैव पितृसृष्टं मत्स्यमांसादिः स्वीकुर्युर्न्न पापभाजः | पाठीनं रोहिता वाद्यौ नियुक्तौ हव्य कव्ययोरिति वचना सात्विका स करुणात्यजंति न तु वैधभोजने पापं अत एव याज्ञवल्क्येनाप्युक्तं | भक्ष्याः पंचनखासेधागोधा कच्छप शल्पकाः | शशश्चेत्मात् सष्चापि सिंहतुंडकरोहिताः | तथा पाठी न राजीव स शल्काश्च द्विजातिभिः | एवं मत्स्याश्चका मते जनसोप वा सस्त्यहंवसेत् | इति यत् तु शारदी पूजामधिकृत्य कालिकापुराणं | शारदी चंडिकापूजा त्रिविधा परिगीयते | सात्विकी जपयज्ञा वै नैवेद्यैश्च निरामिषैः || माहात्म्यं भगवत्याश्च पुराणादिषु कीर्तितं | पाठस्तस्य जपः प्रोक्तो जपो गौरी मनोस्तथा || देवी सूक्ता जपश्चैव यज्ञो वह्निषु तर्पणं | राजसी वलिदानेन नैवेद्यैः सामिसैस्तथा || जपर्जज्ञैर्विना सा तु रागिनामिहकीर्तिता | सुरामांसाद्युपाहारैर्जपयज्ञैर्विना तु या || विना मंत्रैस्तामसानां किरतोनां च सम्मता | अत्र सात्विकी पूजायां वलिदानं न विहितं न निसिद्धं किंतु पूजांगत्वेना याति नवम्यां विधिवद्वलिः | वलिहीने च दुर्भिक्षमित्यादि वचनात् | एतेन सात्विकाः स करुण कृदः प्रभूत वलिदानं न कुर्वंतु कर्मसांगार्थं एकोवलिदेय एव | निरामिषैमिति सात्विकानां निरामिषैर्नैवेद्यं पूजांगमित्यर्थः | तदर्थं वधं कुर्यादेव | राजसास्तु व भूत वलिदानं सामिष नैवेद्यं पूजां गंदद्युवलि पुनरेकमेव पूजांगं फलार्थिनः प्रभूत वलिं दद्युः पापभाजो न भवंति पूर्वोक्त नियमात् | यद्यपि यावदनियम न वाध्यते तत् तत्फलार्थिभिः प्रभूत वलिदानांगात्मकं तत् तत्कर्मकुर्युः | पापिनो न भवंति पूर्वोक्त नियमादिति दिक् | अथ विहितवलयः | कालिकापुराणे | अजश्च महिषश्चैव नरश्चैव यथाक्रमं | वलिर्महावलिश्चाति वलिश्चैव प्रकीर्तिता || साधकैर्वलिदानेषु ग्राह्याः सर्वसुरस्य च | पक्षिणः कच्छपः ग्राहामत्स्याः पंचविधामृगाः || महिषो गवयो गावच्छागोवभ्रुश्च शूकरः | खड्गश्च कृष्णसारश्चगोधिकाशरभो हरिः || प्. १६०ब्) शार्दूलश्च नरश्चैव स्वगोत्र रुधिरं तथा | चंडिका भैरवादीनां वलयः परिकीर्तिताः || वलिभिः साध्यते मुक्तिर्वलिभिः साध्यते दिवं | वलिदानेन स ततं जयेच्छत्रुन्नृपानृपं || छागादीनां प्रथमतो वलित्वात् प्रदर्शनं मात्रं इदानीं वलिसंख्याने उदाहरणं विनापानरुक्त्यं | कुष्मांडमिक्षुदंडश्च मद्यं मांसं तथैव च | एते वलि समाज्ञेया कृष्णौ छाग समानता || वाराहीतंत्रे | संभवेपि पशुं दद्या उत्सवादि तथा चामरः कृष्णसारश्च मत्स्यामद्गुर एव च | रोहित सापि मेषश्च गोधा कच्छप एव च | मद्गुरुरोहितायाः पृथगुपादानं अधिकफलार्थं | यामले | चामरः कृष्णसारश्च मत्स्योमेषश्च कच्छपः | महिषो वानरः खड्गो नरो व्याघ्रस्तु सिंहकः || शशकः कूर्मं कश्चैव पक्षिणश्च तथा प्रिये | अथ वर्ज्याः | तदुक्तं कालिकापुराणे | काणं वृद्धं च पंगुं च रोगिणे च श्रवत् कफं | क्लीवं हीनांग मथवा विद्धसिंगंगलक्षणं || चित्रिणं चाति ह्रस्वं च महापातनिकं तथा | न ब्राह्मणं वलिं दद्या चांडालमपि पार्व्हिव || व्येच्छिष्ठं द्विजदेवेभ्यो नृपतेस्तनयं तथा | न दद्यात् तु तथा मत्यं मंत्रेण न चिरं तथा || नृपस्यानुमंतं मर्त्यः ददन् पापमवाप्नुयात् | रणे विजित्यतं दद्यात् मंडलाद्रिपु भूभृतः || तं नदमित्यर्थः | अन्यत् तु गृहोत्पन्नादि | स्वपुत्रं भ्रातरं वापि पिंडं वापि योविनं | वलिं तं च प्रदद्यात् तु भानेयं च मातुलं || छिन्नलांगूल कर्णादि उग्रदंत तथैव च | उग्र शृंगादिकं चैव न दद्यात् तु कदाचन || पूर्वोक्तमपि दूषणं | यथा संभव छागादिष्वेवधेयं | न च त्रैमासिकान्यूनं पशूं दद्याच्छि वा वलिं | नवत्रैपक्षिकान्यूनं प्रदद्याद्वैपतत्रिणं || हयमेधमृधे दद्यात् कदाचित् तु हयं वलिं | तथा दिक्पालमेव तु गजं दद्यापुराधिप || न कदाचिन्नथा देव्यै प्रदद्याद्वयहस्तिनौ | सिंहव्याघ्रनरं चैव स्वगात्र रुधिरं तथा || न दद्याद् ब्राह्मणो मह्यं महादेवौ कदाचन | सिंहव्याघ्रनरं दत्वा ब्राह्मणो नरकं व्रजेत् || हयो न स्यात् स हीनामुः खलु सौभाग्यवर्जितः | स्वगात्र रुधिरं दत्वा आत्महत्यामवाप्नुयात् || मद्यं दत्वा ब्राह्मणस्तु ब्राह्मणादेवहीयते | न कृंचमितरेदद्यु वलिं च क्षत्रियादयः || दत्वा च कृष्णसारं तु ब्रह्महत्यामवाप्नुयात् | पशूनां पक्षिणां वापि नरां च विशेषतः || स्त्रियं च दद्यात् तु वलिं दत्वा नरकमाप्नुयात् | योगिनीतंत्रे | स्त्रियं न दद्यात् तु वलिदत्वा नरकमाप्नुयात् | मिथुने दीयमाने तु न दोषो जायते प्रिये || कालिकापुराणे | संहात वलिदानेषु योषितं पशुपक्षिणेः | वलिं दद्यान् मानुषीं तु भक्त्या संहात तज्जले || यत्र सिंहस्य व्याघ्रस्य नरस्य विहितो वधः | ब्राह्मणोक्त्या तु वर्णादौ तत्रादौ विहिक्रदः || प्. १६१अ) कृत्वा घृतमयं व्याघ्रं नरं सिंहं च भैरव | अथवा पूषनिहितं यवक्षोदमयं च वा || अथाग्रयन्याद्वितयः | ना पंचनादौ खड्ग्यादौ मेष आदितः | कृष्ण छागवलिं दत्वा पश्चादद्यान् महावलिं | अथ वर्णभेदः | श्वेतः कृष्णो न हिश्चैकपिलश्चित्र पांडवौ | षड्विधः छागल प्रोक्तो गृहस्थानां महावलिः || राज्ञां महावलिर्महिष गृहस्थानां महावलि छागः अतिवलिर्महिषः | राजातिरिक्तानां नरवलावनधिकारात् | वास्तु मेषगोधिका प्रभृतयः | राज्ञात् तु एते क्षुद्र वलयः | उत्तमौश्वेत कृष्णौ च मध्यस्थौ चित्रपिंगलौ लोहितः कपिलश्चैव कनिष्ठः परिकीर्तितः | त्रिमासात् परतश्चैव यावदेकं तु वत्सरां | छागलं तादृशं विद्वान् दूरतः परिवर्जयेत् || कृष्णः श्वेतश्च तरुणः प्रशस्तौ वलिस्त्व्यते | वत्सरात् परतश्चैव यावद्वर्षद्वयं भवेत् || उत्तमो सौ वलिः प्रोक्तास्तस्माद्धीनोधमः स्मृतः | कृष्णवर्णो वलिर्यस्तु श्वेतपुच्छो यदा भवेत् || छागलं तादृशं विद्वान् द्वारतः परिवर्जयेत् | एवं श्वेतं कृष्णपुच्छं वर्जयेन्मतिमान्नरः || कृष्णवर्णोथ छगलः पृष्ठवंशोसितो यदि | प्रशस्तं तं विजानीया विपरीतं परित्यजेत् || सर्वं मुकुट संपन्नो प्रशस्तो वलिरुच्यते | खंजं काणं च कुब्जं च सच्छि स व्रणं तथा || विशालदंतरहितं वर्जयेच्च प्रयत्नतः | यावन्न गौग्गुलं गंधं तादृशं वर्जयेद्वलिं || पक्षिदान समं यस्मातस्मात् तत्परिवर्जयेत् | पंचाब्दं महिषं श्वेतं प्रशस्तं परिकीर्तितं || स एव मध्यमः कृष्णः पांडकःश्चाधमः स्मृतः | स एव महिष एव स्मृतः | स एव महिष एव | पक्षिणश्च प्रशस्ताऽस्युः सर्ववर्णाः सुशोभनाः | अच्छेदस्थान विवरणं | सिंहं च दक्षिणे दद्या महिषं वितरेत्पुरः | पक्षिणं वामतो दद्यादग्रतो देहशोणितं || देव्या इत्यर्थः अन्ये वलयः | यथा संभवस्थाने देया | इत्यर्थः | अथ वलीनां तारतम्यं | योगिनीतंत्रे | चामराणां च दशकं छागलैकं विशिष्यते | दशति छगलश्चैव कूर्म एक प्रशस्यते || कूर्मस्य शतकेनापि शशकैकं प्रशस्यते | शशकस्य शतेनापि स्वगात्र रुधिरंमतं || यावत् पद्मदलं पूर्णं तावन्मात्रं महेश्वरि | ततः शतपुटानां च शीर्षण्यकं विशिष्यते || ततस्तस्येत्यर्थः | सर्वविधक्तिभ्यस्त स इति षष्ट्यास्तन् | शिशिन्याश्च सहस्राणि वराहं च विशिष्यते | द्वे सहस्रे वराहस्य महिषश्च विशिष्यते || द्धे सहस्रेनुलापस्य खड्ग्या एकोविशिष्यते | खड्गानां च सहस्राणि मानुषं चातुलं फलं || इति कामाख्यापरं | नारेण वलिना देवी सहस्रं परिवत्सरात् | विधिदश्नेन चाप्नोति तृप्तिं लक्षं त्रिभिर्न्नरै || प्. १६१ब्) एकदिने एकदोत्सृज्यमानेवित्यर्थः | सहस्रादि शब्दस्य प्राणे संवत्सरादूर्द्धै द्वादशाब्दं दशाब्दकं | संवत्सरैरेककुर्वत् संवरतरत्रयं | वराहेण तु पंचाद्दश तदर्द्धं चामरेण तु | अब्दैकं गोधिकामिस्तु षण्मांसंगात्र शोणितं | इदं तु परकीयगात्रा शोणितपरं | तेन वक्षमाण वचनेन विरोधः | एवं मांसादि पण्यं लघुफलं | वलीयं गुरुफलमिति | मुंडमालातंत्रे | ईशद्दग्धं घृतेनाक्तं निशायां दिवसेपि वा | वलिं दद्याद् विशेषेण कृष्णपक्षे विशेषेण कृष्णपक्षे विशेषतः | छागे दत्ते भवेद्वाग्मीमेषेदत्ते कविध्रुवं | महिषे धनवृद्धिःस्यान्मृगे भोगफलं भवेत् || पक्षिणं तु महद्धिः स्याद्गोधिकायां महाफलं | नरेदत्ते महर्द्धिः स्याद्खड्गे सिद्धिरनुत्तमा || ललाटहस्त हृदये शिरे भ्रूमध्यदेशतः | स्वदेहरुधिरेदत्ते रुद्रदेहद्रवापरः || तत्फलं विवरणं | कालिकापुराणे | मत्स्यानां कांस्यपानां च रुधिरैः शतुं शिव | मासैकं तृप्तिमाप्नोति ग्राहैर्मांसां तु त्रीनथ || मृगानां शोणिते देवी नराणां च विशेषतः | अष्टौमासां न वाप्नोति तृप्तिं कल्याणदा च सा || गोधिकाः रुधिरेः पंचवार्षिकीं तृप्तिमाप्नुयात् | कृष्णसारस्य रुधिरैः शूकरस्य तु शोणितैः | आप्नोति शततं देवी तृप्तिं द्वादश वार्षिकीं | जांविकानां रक्तेन पंचविंशति वार्षिकीं || महिषानां च खड्गानां रुधिरैः शतवार्षिकीं | तृप्तिमाप्नोति परमांशार्दूलरुधिरस्तथा || सिंहस्य शरभस्तस्याथ स्वगात्रस्यश्च शोणितैः | देवी तृप्तिमवाप्नोति सहस्रं परिवत्सरात् || मांसै वापि तथा प्रीति रुधिरैर्यस्य यावती | कृष्णसारं मृते खड्गं तथा मत्स्यं च रोहितं || नाडी न संयुगं चापि फलं तेषां पृथक् शृणु | कृष्णसारस्य मांसेन तथा खड्गेन चंडिका || वर्षान् दशशतानेव तृप्तिमाप्नोति केवलं | रोहितस्य मत्स्यमांसैर्वाद्धीलशस्य च | तृप्तिमाप्नोति वर्षाणां शतानि त्रीणि चंडिका | योगिनीतंत्रे | न दद्यात् स्त्री पशोर्मांसं गोधिकां हरिणीं विना | अथवाद्धीन लक्षणं | कालिकापुराणे | त्रिज्ञेवच्चिंद्रियक्षीणं श्वेतं वृद्धमजापतिं | चार्द्धीनसः प्रोच्यते सौ हव्यकव्येषुमत्कृतः || नीलग्रीवो रक्तशीर्षः कृष्णपाद छिंदशिच्छदः | वाद्धीनसः स्यात् पक्षीशोमपि विष्णोरपि प्रियः || नारेन रक्तमांसेन त्रिसहस्राणि वत्सरान् | तृप्तिमाप्नोति कामाख्या भैरवो मम रूपधृक् || मंत्रपूतं शोणितं तु पीयूषं जायते सदा | मस्तकं चपितुष्टा च मांसं चापि सदाशिव || तस्मात् तु पूजने देव्याः वलं शीर्ष च शोणितं | अमंत्र पूतं तदत्तं दातुः सर्वविनाशकृत् || भोज्यहोमे च मांसानि नियुंजीत विचक्षणः | पूजा स्वनाम मांसानि दद्याद् वै साधकं क्वचित् || प्. १६२अ) ऋते तु लोहितं शीर्सं अमृतं तंतु जायते | नारेण शिरसा देवी पूजिता विधिवन्नृप || तृप्ता भवेद्भृशं दुर्गा वर्षाणां लक्षमेव च | अथ खड्गनिरूपणं || कालिकापुराणे | चंद्रहासेन कर्त्या वा छेदनं मुख्यमेव च | दात्रामिधे चक्रक च मंगुलाभिस्तु मध्यमः || असिधेनुः स्वल्प खड्गः शंकुलाय यंत्रकर्ता | क्षुरप्रक्षुरभल्लैश्च अधमं परिकीर्तितं || एभ्योण्यैः शक्तिवाणाद्यैर्वलिछेद्यः कदाचन | नाप्ति देवीं वलिं तंतु दाता मृत्युमवाप्नुयात् || हस्तेन छेदये सुष्मसाधकः प्रोक्षितं पशुं | पक्षिणं वा ब्रह्महत्यां स प्राप्नोति दुरुत्सकः || वाराहीतंत्रे च | अथ वक्षे महेशानि खड्.गादीनां विनिर्णयं | येन संछिन्न शस्त्रेण साधकः सिद्धिमेव च || चंद्रहासश्च तु स्थाल्प उत्तमः परिकीर्तितः | पंचाशदंगुलैः कार्यः किं वा तालत्रयेण तु || नरवीर दलाकारः किं वा पददलाकृतिः | अथवा कुब्ज खड्गेन दंडखड्गैर्नद्यातयेत् || वलीनामति संज्ञानां चंद्रहासो विशिष्यते | महावलीनां सर्वेषांदात्र शस्त्रं प्रकीर्तितं || कर्तृकयाक्षरेणापिच्छिंद्या छुरिकयानि च | कुदाल परशुभ्यां वा क्षुरकर्तृकयानि च || छेदये तीक्ष्णखड्गेन अछिद्रेण शुभेन च | नाकाशेछेदयेत्तं तु समेदेशे शुचौ तथा || छेदयेद्भुमिसंस्थं तु वलिं पूर्वमुखं तथा | उदंडमुखः स्वयंनेत्र मंत्रेणैव तु साधकः || छागलादि पशूनां च विपरीतमुखानि तु | ग्रहाणागाधिकानां च तेषामेव विधीयते || घातकनिर्णयस्तत्रैव | स्वयं वा भ्रातृ पुत्रो वा भ्राता वा सु हृदेव वा | स पिंडछेदयेद्वापिना स गोत्रं नियोजयेत् || न रिपुंनांगहीनं वा न काणं नापि कुब्जकं | न योजयेच्छत्रुपक्षं वलिं छेदन कर्मणि || अथ मस्तकपातनिर्णयः | यदि वायव्य दिग्भागेणैरृत्ये दक्षिणे शिरः | मस्तकं पततेजा तु तस्य हानि विनिर्दिशेत् || शेषा सु दिक्षु सर्वासु विदिक्षु च फलं शृणु | पूर्वोत्तरे च दिग्भागे पतते यदि मस्तकं || सर्वसंपत्करं विंद्या राज्ञांद्राज्यं विनिर्दिशेत् | भ्रमित्वा दक्षिणे कर्णे यदा पतति वै शिरः || तदा सिद्धिं च मांसां ते वामकर्णे विपद् भवेत् | राज्ञामश्नौ महानिगृहस्थाना सुखं भवेत् || ऐश्यान्यां मध्यमे चैव पतते यदि मस्तकं | तदा स्वप्नेन कालेन सर्वसिद्धिर्भवेद्ध्रुवं || एकोत्सर्गे भवेत् सिद्धिर्मुखेनाष्टं विनिर्दिशेत् | त्रिभिर्हानिं विजानीयात् तस्मात्र्यादीन विवर्जयेत् || पंचविंशतिभिःशस्तं मध्ये चाष्टोत्तरंशतं | अतोधिकं न दद्यात् तु हीनं वा साधकोत्तमः || रजतास्य कांचनस्य पात्रं चैव नियोजयेत् | केचिदाहुः खर्परस्य विश्वामित्र कपालिकं || किंजल्क शतपत्रस्य तथा रक्तोत्पलस्य च | स्वगात्र रुधिरं दद्यान् मेषदान फलं लभेत् || प्. १६२ब्) अथवा विंदुशतकं द्वात्रिंश द्वादशैपि वा | मालस्य कंठदेशस्य नोदरस्य कदाचन || न क्षीरं शोणितं दद्यान चान्यं च कदाचन | शर्करैकृत कूर्चानि प्रदद्य त्रिर्महामृतं || शैंधवं शृंगवेरं च कदलीफलमेव वा | पातयेन् मधुधारं च काममुद्दिश्य साधकः || क्षितिस्थ रुधिरं तावयावन्नोरात्रिदर्शनं | अहोरात्रगतं न गुरुं निजशोणितं | छिन्नं शिरो निपतितं स हासं यदि दृश्यते | विभूतिं तस्य जानीयाद्राज्ञां राज्यं विनिर्दिशेत् || एकवारे भवेत्सिद्धि द्विवारे हानि विश्यते | गृहस्थानां विजानीयाद्राज्ञां च विपरीतकं || यदा श्रुदृश्यते नेत्रे तदा हानिं विनिर्दिशेत् | यदा कटकटाशब्दो दंतानां जायते क्वचित् || तदा तु मरणं विंद्याद्धानि मात्रं विनिर्दिशेत् | अथ मुंडस्थानं | दद्याद्राक्षसदिग्भागे मंत्री छित्वा वलिं स्वयं | तद्दक्षिणे रक्तपात्रं विपरीतं न संवदेत् || महावलीनां वायव्ये प्रदद्यात् साधकोत्तमः | वलीनामति संज्ञाना शिरांसि पुरतोन्यसेत् || क्रव्यादानां पशूनां च पक्षिणां च शिरोष्टजं | वामे निवेदयेत् पार्श्वे जलजानां च सर्वशः || कृष्णासारस्य खड्गास्य कूर्मस्य शशकस्य च | ग्रहाणामथमत्स्या वामग्र एव निवेदयेत् || पृष्ठदेशेन दद्यात् तु शिरो वा रुधिरं वलेः | देवस्य संमुखं कृत्वा छिन्नभागं प्रकल्पयेत् || तदेव मस्तंजानीयान् मध्यमं विपरीतकं | कीलकांते न्यसेत् शीर्षं यदा कल्पो न जायते || शीर्षो परिज्वलद्दीपं प्रदद्याच्चदनोक्षितं | घृतेन सार्वभौमःस्यात्तैले सिद्धिं च विंदति || सूत्रवर्तिन प्रदद्याद्वस्त्रवर्त्ये च शस्यते | अंगुष्ठस्य प्रमाणं हि दीर्घं चैव षडंगुलं || कार्या स सूत्रैर्वादद्यादिक विंशति सूत्रकैः | सुगंधिं गर्भैस्तं दद्या कर्पूरागुरुचंदनैः || ग्रहानां कच्छपानो च गोधायाश्च विशेषतः | मत्स्यानां पक्षिणां चैव न दीपं दापयेच्छिरे || शीर्षो परिज्वलद्दीपं यावत्कालं प्रवर्तते | तावत्कालं वमेत् स्वर्गे तस्माद्यत्नेन दापयेत् || व्योमदा होद्भवं गंधं घ्रात्वा देवी प्रसीदति | तस्मात् समुद्धयेद्दीपं तस्मात् पात्रं विवर्जयेत् || निर्वाणे मृत्युमाप्नोति लीयमाने प्रदीपके | अथ रुधिरदानेगात्र विवरणं | कालिकापुराणे | पूर्वोक्त सैंधवादींश्च रक्ते तस्य नियोजयेत् | वैशकं राजतं ताम्रं वैत्यंत्रिपुटके तथा || माहेयंकाश्यमथ वा यज्ञदारुमयं च वा | पात्रं रुधिरदानाय कर्तव्यं विभवावधिः || न लौहेवल्कले वैद्ये वांगे च शैशिके तथा | न दद्यारक्तं वलीनां तु भूमौ श्रुति श्रुथवा || न घटे भूतले वापि देव्यास्तुपभोजने | रुधिराणि प्रदद्यात् तु भूतिकामे नरोत्तमः | नरस्य तु सदारक्तं माहेये तेजसे तदा || दद्यान्नरपतिस्तत्र न पुटादौ कदाचन | अथ वलि प्रक्षणं विवरणं | प्. १६३अ) वाराहीतंत्रे | स्वयं पूर्वमुखो भूत्वा वलिं कुर्यादुदङ्मुखः | अथवा तद्वात् पयः स्यात् सिंदूराद्यैरलंकृतं || अर्घपात्रोदकैः शुद्धैः मूलेन प्रोक्षये त्रिशः | ओं वाराहीत्यादि मंत्रेण पशुपाशादिनापि च || सहस्रशीर्षामंत्रेण विल्वपत्रोदकैः शुभैः | प्रोक्षयेत् पूजयेत् तंतु तंवेष्टं गंधचंदनैः || ततो निरीक्षितं मंत्री पठेत् करद्वयं पुटं | छागत्वं वलिरूपेण मम भाग्यादुपस्थितः || प्रणमामि ततः सर्वं रूपिणं वलिरूपिणं | चामुंडा प्रीतिदानेनदत्तेरापद्विनाशनः || चामुंडा वलिरूपाय वले तुभ्यं नमो नमः | यज्ञार्थेवयमुत्सृष्टाः स्वयमेव स्वयंभुवा || अतस्त्वां घातयिष्यामि तस्माद् यज्ञे वधोवधः | अथ कुलार्णवे | शिवामृतमिदं पिंडं मत्तस्तं शिवतांगतः | आबाद्धःस्व पशुत्वे हि ना शिवोत्वं शिवो सि हि || हन्यादनेन मंत्रेणत्वर्यामंत्रा पशुं प्रिये | ऐं ह्रीं श्रीं इति वीजत्रयेण त्रिवारं मूर्द्ध्नि पुष्पं क्षिपेत् | वाङ्मायाकमला वीजैस्तन्मूर्द्ध्निः प्रसून क्षिपेत् | प्रसूनितिछांदसयिदामिति | ततो वलिं समुत्सृज्य काम्यं कृत्वा विशालधीः | कालिकापुराणे | प्रभूत वलिदाने तु द्वेरात्रीन् वालजागतान् | पूजयेत् प्रमुखान् कृत्वा सर्वास्तंत्रेण साधकः || महिषस्तु यदा दद्याद्भैरव्यै भैरवाय च | अनेनैव तु मंत्रेण तदा तं पूजयेद्वलिं || यथा वाहं भवान् द्वेष्टि यथा रहसि चंडिकां | तथा मम रिपू न हिंस शुभं वहुलुलंक || यमस्य वाहनस्त्वं हि नररूपधराय च | आयुर्वित्तं यशोदेहिकाकाराय नमोस्तुते || खड्गस्य तु यदा दानं क्रियते तत्र मंडलं | जलेनाभ्युक्ष्य कुर्वीत गुहाजातेतितो पयन् || रेवेपैत्रेशु भगखड्गस्त्वं खड्गसन्निभः | छिंदि विघ्नान् महाभागगुहाजात नमोस्तुते || प्रदाने कृष्णसारस्य मंत्रोयं परिकीर्तितः | कृष्णसार ब्रह्ममूर्ते ब्रह्मतेजो विवर्द्धयन् || चतुर्वेदमय प्राज्ञे प्रज्ञां देहि यशोमहत् | अथ खड्गपूजा विवरणं || कालिकापुराणे | सा मंत्र्य शुभगवलिं नियुंजीत विचक्षणः | खड्गस्य मंत्रणे मंत्राः यावंतः कथिता पुराः || महामाया वलौ तवै योज्या मंत्रादितो वुधैः | अनेन ध्यानपूजने नमस्कारा सूचिताः || एतत् प्रमाणं वाराहीतंत्रा वचने व्यक्तं भविष्याद्विः कालीति पदप्रोच्य ततो वज्रेश्वरीति च | ततोनुलोहदंडाद्यै नमः शेषे तु योजयेत् | संगृह्यानेन मंत्रेण खड्गमादाय पाणिना || कालरात्र्यादि मंत्रेण तं खड्गमभिमंत्रयेत् | नेत्रवीजस्य मंत्रेण मध्यं तु द्विरावृत्या प्रयोजयेत् || ततोपि कालिकालीति विकटदंष्ट्रे कपालिनि | हांतादीनिकृतीयेन स्वरेणैकादशेन तु || प्. १६३ब्) योजितौ शाप विष्णुत्यां द्वौ तत्पश्चान्नियोजयेत् | फेत्कारिणि पदं पश्चात् खादय छेदयेति च || सर्व * * * (?) च ततो द्विर्मावयलुलापकं | खड्गेन छिंधिछिंधीति ततः किलिकिली च || ततः किचिकिचीत्येवं ततः पिवपिवेतितः | * * * * * * * * * * * * * * * * (?) || कालिकायै नमः इति कालरात्र्यास्तु मंत्रकः | इत्यको मंत्रेण * * * * * * * * * * (?) | कालरात्रि स्वयं * * * * * * * * * * (?) | * * * * * * * * * समुद्दिश्यचात्मनः (?) || छेदयेते न खड्गेन वलिं पूर्वमुखं चतं | अथरोत्तरवकं तु स्वयं पूर्वाननास्तथा || प्रोक्षयेदित्यर्थः | * * * * * * * * * * * * * * * * (?) | * * * * ङ्गपुरतो गंधादिभिः समर्चयेत् (?) || कृष्णमित्यादि रूपेण ध्यात्वा मंत्रेण पूजयेत् | रसनात्वं चंडिकायाः * * * * * * * * (?) || * * * * * * * * * * कालिपदं ततः (?) | वज्रेश्वरि ततो लोहदंडामंता नमं पदः || कूर्चवीजं लिखेत् खड्गे सिंदूरचंदनादिना | * * * * * * * * * * * * * * * * (?) || * * * * * * (?) खड्गस्त्रीक्ष्णधारोदुरासदः | श्रीगर्भो विजयश्चैव धर्माधाय नमोस्तुते || तं खड्गं गृहीत्वात् देवता रस * * * * * (##? अभिमंत्र्य * * * * * * * * * * * * (?) || वियं माया कालियुग्मं विकटरूपतः | दंष्ट्रे स्फ्रें स्फ्रें पदं व्रूयात् फेत्कारिणीति खादया द्वितयं छेदय * * * * * * * * * * * * * * * (?) खड्गेन छिंदि चा कालि किचिद्वंद्वं पिवेयुग्रुधिरं पदं | स्फ्रों स्फ्रां * * * * * * * * * * * * * * * * * * * * * * * (?) अरण्याछानां प्रोक्षणं नास्ति अरण्या सर्वदेवताः प्रोक्षिताः * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * (?) स्पर्शाषे तु पतितं यत्र यत्र वाय शुभं च | शुभं वापि पश्चादीनां ततः * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * (?) निर्दिशेत् | पूर्वाग्नियाम्ययोरण्य वायव्यो दिग्गतं क्रमात् | * * * * * * * * * * * * * * * * * * * * * * * * (##? * * * * * * * * * * * * * * * * * * * * * * (?) संशयः | यद्यद्वाक्यं निगदति तत् तद्भवति चाचिरात् | हूंकारद्राज्यहानैः स्यात् * * * * * * * * * * * * * * * * * * * * * * * * (?) मस्तकां विभूति मतुलं विंद्यात् षण्माषाभ्यंतरे तदा | प्. १६४अ) रुधिरादानकाले तु सकृन्मूत्रं सृजेद्यदि | कायस्तथाधश्चोद्धां वा दत्तेस्यान्मरणं तदा || आक्षेयाद्वामपादस्य महारोग प्रजायते | अन्यदाक्षेपचलनैः कल्याणनुपजायते || उत्तरादि क्रमं नैव महिषस्यापि मस्तकं | पतितं वायुकोणांतं यच्छुचाया शृणुथ तत् || भाग्यं हानिं तथैश्वर्यं वित्तं जयं तथाभयं | राज्यलाभं त्रयंश्चैव क्रमाद्विद्धिं च भैरव || पशूनां चैव सर्वेषां छागादीनां विशेषतः | एवं फलं काद्विघाट्टते जलचरांद्रवौ || जलजानरं पक्षिणां च ग्राम्य नैर्-ऋतयोभयं | अन्यत्र तु ज्ञेयं तुभ्यावच्छिन्नं च पतच्छिरः || यदा कटकव्य शब्दो दंत्यनांछिन्नमस्तके | नराणां पशुपक्षादि ग्रहादीनां च रोगदः || महिषे मस्तके नेत्रा यदि स्थूलति नेत्रकं | छिन्ने निवेदिते वैरि भूपमृत्युं विनिर्दिशेत् || अन्येषामपि पार्श्वादि वलीनां शिरसो यथा | निर्गतं लोतकंधत्ते परांभीतिंगदं तथा || रक्तगात्रं वलीनां यः शिरोरक्तं करद्वये | गृहीत्वा चिंतयेद्देवी पुरस्तिष्ठति मानवः || स कामानि हसं प्राप्यं देवीलोके महीयते | अथात्म मांसदानं | यः स्वयं हृदयं जातं मांसमाष प्रमाणतः | तेन मुद्गप्रमाणं नादद्या देव्यै प्रयत्नतः || षण्माषाभ्यंतरे सम्यक् कामामिष्टमवाप्नुयात् | ये नात्म मांससत्येन ददामि स्वविभूतये || निर्वाण तेन सत्येन देहि हूं हूं नमानमः | मूलमंत्रांत वाक्येन उत्सृष्टे सति एतन्मंत्र पाठः || श्रीपूर्णानंदनाथेनकृतायां गुरुभावतः कुलवृत्तौ स्वतंत्रायां पटलो नवविंशकता || अथ चक्रविधिः तत्रादौ कालविवरणं | कुलार्णवमते | देवता विसर्जनांतर अन्यतंत्रमतेस्तवपाठानंतरं | अवीरदिव्यं व्यवस्था | दिव्यव्यग्रतः पानं वीरं मृद्धासने | कृतं | स्वेच्छपाप शुवत्पानं पशुपानं प्रचक्षते | इति वचनात् | सर्वमते शक्तिपूजा ब्रह्मार्पणकमांतरमेव | शक्तिपूजापि कुलार्णवमते ब्रह्मार्पणात् प्रागेव | अन्यतंत्रमते | घटार्घस्थानात्प्रागेव | इति यथासंभवं द्रष्टव्यं | अथ अन्नपूर्णायागः | तदुक्तं तत्वानंदा आदौ जयदन्नपूर्णां कारणानु प्रपूरिणी अन्नेनादलं पद्मं सुधा च सकमंडितं | विनिर्मायस्यसेदंगं षड्दीर्घमाययोन्वितं | ध्येये दन्नेश्वरीदेवीं देवीं प्रसन्नां नवयौवनां | नवहेन समाभाषां सर्वाभरणभूषितां | शुद्धकांचन संभूत दुग्धार्णामृत संपूर्णरत्नपात्रं तथोत्तरे | गृहीत्वा दक्षदाने स्वनिरतां तां समाश्रयेत् | तारमायारमाकामा नमो भगवतीति च || प्. १६४ब्) माहेश्वरि पदस्यांतेजन्नपूर्णेपदं लिखेत् | वह्निजायान्वितो मंत्रोकारणः प्रपूरकः || तत्र चावाहनं कुर्याद् वक्षमाण क्रमेण तु | इदमन्नामृतं प्रोच्य पूरयिद्वितयं ततः || नमो वह्निप्रियांतोयमावाहन मनुः स्मृतः | अन्नपूर्णा पादुकां तु ततः संपूजयेद्वुधः || अथ कुलार्णवे | ततः श्रीगुरुरूपाय साक्षात् परशिवाय च | कराभ्यां पात्रं मुद्धृत्य स द्वितीयं समर्पयेत् || भैरवतंत्रेपि | स्वशक्तिं वीरशक्तिं वा दीक्षितां गुरुमश्रुतः | पाययित्वा पिवेद्रव्यमिति शास्त्रस्य निर्णयः || कुलार्णवे | ततः पुष्पं समादाय गुरोःपात्रे निवेदयेत् | गुरवे च निवेद्याथ शक्त्यै दत्वा स्वयं हरेत् || भावचूडामणौ | साक्षाद्यदि गुरुर्नस्यात् तदातोये विसर्जयेत् | कुलार्णवे | श्रीदेव्युवाच | कुलेश श्रोतुमिच्छामि करुणामृतवारिधेः | उल्लासभेदं देवेश द्रव्यपात्रे संगमं च || श्रीक्रमं स्थितिमेव च | चेष्टा चेट्टालि शक्तीनां वदमे परमेश्वरः || ईश्वर उवाच || शृणुदेवि प्रवक्ष्यामि यन्मांतं परिपृच्छसि | तस्य श्रवणमात्रेण जायते दिव्यभावना || आरंभस्तरुणश्चैव यौवन प्रौढमेव च | तदंतश्चोन्मनाश्चैवस्तस्थोल्लासस्तु सप्तमः || तत्वत्रयंस्यादारंभः कथितः कुलनायिके | कथितस्तरुणोल्लासस्तरुणं सुखमंविके || यौवनं मनसः सम्यक् गुल्लासकहितः प्रिये | स्खलनं दृङ्मनो वाचां प्रौढ इत्यभिधीयते || पतनोत्थापनं चैव प्रौढांत इति कथ्यते | मनसो विलयं यावदुन्मनीति निगद्यते || अथ क्रमः | स्तोत्रांतपूजनेदत्ते अन्नपूर्णां संपूज्य गुरुपात्रं गुरवे निवेद्य शुद्ध्यादिकं दद्यात् | शक्तिपात्रं शक्त्यै दत्वा तत् पात्रं स्वपात्रे गृहीत्वा गुरुशक्त्यांज्ञां गृहीत्वा वक्षमाण क्रमेण वंदन मंत्रपूर्वकं प्रौढोल्लास स पर्यंतं तीर्थं स्वीकृत्वा कौलिका समागमं कुर्याद्यथा | ज्ञानार्णवे | समुल्लासे परे चक्रे यदीच्छेत्पात्रमेलनं | अर्वाणे प्रौढ समुल्लासान्नैव कुर्यात् कदाचन || यथाधिकारस्तत्रापि कर्तव्यं पात्रमेलनं | अदीक्षितैवनाचारै न मंत्रा गुरुदैवतैः || दूषकैः समयभ्रष्टैः न कुर्याद्रव्य संहतिं | अभिज्ञामन्यमानैश्च प्रपंचव्रतधारिभिः || पशुभिः क्षुद्रकर्मस्थैर्नकुर्याद्रव्यसंहतिं | स्त्रीद्विष्टैर्गुरुशक्त्यैश्च भक्तिहीनवरात्मभिः || कुलोपदेश हीनैश्च न कुर्यात् पात्र संहतिं | पदवाक्य प्रमाणज्ञा श्रुतिस्मृत्याववादिनः || कुलधर्मानभिज्ञाश्चेत् तत्संसर्गं विवर्जयेत् | स्त्रीषुन् मित्रवंधूनां स्निग्धानामपि पार्वति || कुलाचार नभिज्ञाना संगतिं वर्जयेत् प्रिये | अदृष्टपुरुषाणां च देशांतर निवासिनां || विना संकेत योगेन न कुर्यात् पात्रमंहतिं | प्. १६५अ) पदवाक्य प्रमाणज्ञाः श्रुतिस्मृत्यावादिनः संगतिं वर्जयेत् प्रिये | अदृष्ट पुरुषाणां च देशांतर निवासिनां | विना संकेत योगेन न कुर्यात् पात्र संगतिं || एकपात्रं न कुर्वीत यदि साक्षात् कुलेश्वरः | मंत्राः पराङ्मुखायांति विघ्नाश्चैव पदे पदे || स्वपात्रस्थित हेतुं च न दद्याद्भैरवाय च | यदि दद्यात् कुलेशानि देवता शापमाप्नुयात् || आसनं भोजनं पात्रंमंवरं स्वयनादिकं | अनभिज्ञैरणार्हैश्च शंकरं नैव कारयेत् || श्रोतो भेदेन वा कुर्यात् कौलिकैः पात्रमेलनं | पूर्वदक्षिणयोरैक्यमुंदक् पश्चिमयोस्तथा || तस्मिन् क्रमार्चन परैर्वीरैः स्वसदृशैरपि | कामिनीभिश्च तत् कुर्यात् श्वेतसांच चतुष्टये || रुद्रयामले | साधकेभ्यश्च शाक्तेभ्यो दद्यान्निर्माल्यचंदनं | सामयिकः समं कुर्या देवि पानादि भक्षिणं || सोमभुजगावल्यां | निवसेच्चक्ररूपेण पंक्त्याकारेण वा यथा | शक्तियुक्तो वसेद्वापि युग्मयुग्मविधानतः || शिवशक्तिधिया सर्वांन्श्चक्रमध्ये समर्चयेत् | कुलार्णवे | स्त्रीणामन्यतमस्थायनंपुंसामन्यतम पृथक् पृथक् | अथवा मिथुनं कृत्वा क्रमात् समुपवेशयेत् | पंक्त्याकारेण वा सम्यक् चक्राकारेण वा प्रिये || शिवशक्तिंधिया सर्वान्श्चक्रमध्ये समर्चयेत् | अविभक्तो यथा वाचां लक्ष्मींनारायणौ प्रिये || यथा वाणी सतानंदौ तथा वीरः स शक्तिकः | न चक्रामीन पद्मांगी न वक्रांगी तथा प्रजा || लिंगांगी च भगांगीं त तस्माच्छक्ति शिवात्मकं | कामुको न स्त्रियं गच्छेदप्यदीक्षितां | सद्यः संस्कार संशुद्ध विहीतत्वाद्व्रजेत् स्त्रियं | उदयापकृत्यां कृत्वा मंत्र तनुं स्मरेत् | गुरुपदं देवी कलां चिन्मयीं पश्चात्पात्रवरं पलासववृतं दीपेर्ज्वर्युतं चोज्वलैः | धूपोर्धादि स्वमंत्रितं रविनिभं संम्मोहविधंसकं | ये सिंच्यंति पवंति द्रिव्यममृतं यांति खलुते भुक्तिं च मुक्तिं परां | आगमार्णवे | देहं मंत्रविधाय स्मृत्वा गुरोर्मंडलं पात्रे श्रीकुलविद्यया समययासं नामृतं | ध्यात्वा पीठचतुष्टयं शिरसिनिंसंतर्प्य सिद्धिक्रमं | येशांताश्चपिवंति दिव्यममृतं दुःखदुमोन्मूलनं | सिंदूरं तिलकं भाले पाणौ च मदिरासवं | कृत्वा शिवेद्गुरुं ध्याये तथा देवीं च चिन्मयीं || असंस्कृतं प्रशोःपानं संस्कृतं भैरवा स्वयं | चक्रपूजविधौशस्तं मंत्रासिद्धिवरं शुभं || अथ पात्र पूरणं तदुक्तं कुलसारे | नयनान्निरससंख्याकर्षैस्तु परमेश्वरि | हेतु पानं प्रकर्तव्यमित्युकुलनानने || इतोप्यधिकपानं तु न कर्तव्यं च साधकैः | कर्षलौकिकतोलमित्यर्थः | तथोक्तं कुलोड्डीशे | गुंजा द्वादशमासःस्यात्तदष्टौकर्षमुच्यते | सामयिकोन्विमाधारो परिसंस्थाप्य तर्पयेत् || प्. १६५ब्) तत्वानंदे | तस्योपरि जपेन्मूलमष्टधा विधिवत् ततः | आनंदभैरवीं श्रीगुरुं परमेश्वरीं | विधिवत् तर्पणं कृते तत्वशुद्धिं समाचरेत् | तदुक्तं यामले | नैवेद्यं त्रिपुरादेव्यावांछंति विंवुधाः सुराः | तस्मादेवं सुरश्रेष्ठेच्छद्मने विष्णवेपि च || मद्यं सूर्याय शुक्राय गणेशाय यमाय च | वह्नये वरुणांगिराय वायवे धनदाय च || ईशानाय महादेवीं साधकाय प्रदापयेत् | यथा देवतावत्सांधकार्पयेदित्यर्थः स्वसंप्रदाय सिद्ध्यैवारैश्च सहपूजयेत् | अन्योन्यवंदनं कृत्वा पिवेत् तदनुज्ञया | सन्येनोद्धृत्य पात्रं तु मुद्रां कृत्वापसव्यतः || यथाविधि द्वितीयेन गृह्नीयान् मंत्रमुच्चरन् | पेषितं माषमात्रं हि द्रव्यं चुल्लूकसन्निभं || आत्मदेह समं कृत्वा तत्वत्रयं विशोधयेत् | गंधो यथा | कौलश्रुतो | ओं हिरण्यपात्रं मधोः पूर्णं ददाति मधुव्योषाणि एकदा ब्रह्मनृपं हरति आयुःस्थानां ददाति | ओं जुहोमि परमानंद हेतवे ब्रह्मसाधकानां मायानंदिनी वसुधा भवं | कुलार्णवे च | निर्मात्रं नापि वेद्धव्यं प्रायश्चित्तं विधीयते | तस्मान्मंत्रं विधानेन कर्तव्यं तु लतोषणमायिके | इदं पवित्रममृतपिवामि भव मंत्रजपशुपाश समुच्छेदकारण भैरवोदितं | चित् स्वातंत्र्यसाम्यंच्चेस्यादानंदमशेषतः | तन्मयत्वात्र भावानां भावाश्चांतरिता वसेत् || स्वस्वातंत्र्यविकांशांकतुरसस्तेन पीयते | तस्मादिमां सुरांदेवीं पूर्णोहंतां जुहोम्यहं || मंत्रेणानेन देवेशि तूलमंत्रणमंत्रवित् | अनाकुलमनाः कुर्याद्वलिपात्र शनैः शनैः || आत्ममूलत्रिकोष्ट्ये कोटि सूर्या नलप्रभो कुंडव्याकृति चिद्वह्न्यै हुनेद्रव्यं स मंत्रकं | अहंता पात्रभरितंमिदं तापरसामृतं | परहंतामये वह्नौ होमैः स्वीकारलक्षणं || गुरुदेवतमंत्राणामैक्यं संचिंतयेद्धिया | यावदुल्ला स पर्यंत स्वदेशैः पिवेन्मस्व || चरकं सिद्धिदं प्रोक्तं दीक्षा ज्ञानप्रदा भवेत् | पानात् परपदवाप्तिः कौले त्रितयमीरितं || अथ पात्रं ग्रहणानंतरो पात्रवंदनं | यथा कुलामृत संहितायां | आज्ञा गृहीत्वा देवेशि पात्रं संपूज्य वंदयेत् | श्रीमद्भैरवशेवामृतलसच्चंद्रामृतश्रावितं || क्षेत्राधीश्वरयोगिनी जपगनैः सिद्धैः समाराधितं | आनंदार्णवकं महात्मकमिदं साक्षाविखंडा ** (?) वंदं श्रीप्रथमकरांन्नुजगतं पात्रं विशुद्धिप्रदं | इति पात्रं नमस्कृत्य जुहुयात् कुंडं मुखे मंत्रमुच्चार्य पूर्वक्षेतनोन्यानि च वंदयेत् | हैमं मीनरसावहंदयितं यादत्तं च पेयादिभिः किंचिन्नं चलरक्तपंकजदृशातस्यै समावेदितं | वामे शुद्धि विशुद्धि शुद्धिकरणं पाऽनु विधायान्मके | प्. १६६अ) वंदे पात्रमहं द्वितीयमधुनानंदेक संवर्द्धनं | ओं सर्वाम्नाय कलाकलापकलितं कौतूहलोद्योतनं चंद्वोपेंद्रमहेंद्रशंभुवरुणब्रह्मादिभिः सेवितं | ध्यातं देवगणैः परं मुनिगणैर्मोक्षार्भिः सर्वदा वंदे पात्रमहं तृतीयमधुनाचात्मावरोधं क्षमं | ओं मद्यं मीन रसावहं हरिहरः ब्रह्मादिभिः पूरितं मुद्रामैथुनधर्मकानि निरतं क्षाराम्लतिक्ताथयं | आचार्याष्टकसिद्धिर्भैरवकलां मांसैवसं सेवितं | पायात् पंचमकार तत्वसहितं पात्रं चतुर्थं नमः | ओं आधारे भुजगाधि राजवलये पात्रं महीमंडलं | मद्यं सप्तसमुद्रवारि पिशितं चाष्ठौ च दिग्दंतिनः | सोहं भैरवमर्चये च प्रतिदिनं तारागणै रक्षतैरादित्यप्रमुखैः सुरासुरगणैराज्ञकरै किंकरैः | चक्रसमये शिष्योप स्थितो विशेषमाहा कुलार्णवे | तरुणोल्लाससहित प्रसन्नवदने क्षणः | गुरुःशिष्यान् समाहूय दद्यात् तत्वत्रयं प्रिये || शिष्योपायनमादाय शुद्धात्मा कुसुमादिकं | यथा शक्त्या विनीतात्मा वित्तशाव्यं विवर्जिताः || प्रणम्य वहिरष्टांगं प्रविश्यांतः शनैः प्रिये | समर्प्यो पायनं भक्त्या शिवाय गुरुरूपिणं || ग्रथितांगुष्ठकौ कृत्वा करौ शक्ताग्रतर्जनी | जानुभ्यांमवनीं गत्वा पंचांगं प्रणमेद्गुरुः || वामांगुष्ठानामिकाभ्यां दक्षहस्तं प्रसारितं | स्मृत्वा विशुद्धहृदयस्तिष्ठे दानतमंतकः || वामांगुष्ठा नामिकाभ्यां शिष्यायंन् श्रीगुरुःप्रिये | प्रकृत्याद्यैः पृथिव्यांतैरित्यादित पशुशुद्धि प्रस्थाने प्रागेवोक्तं | शोधय त्रितयं दद्यात् स द्वितीयमलिंगुरुः | चुल्लुकं गुरुणादत्तं शोधयामीति चोच्चरन् || भक्त्याचारनतः शिष्यो निःशब्दः त्रिःशनैः पिवेत् | पूर्ववद्धुना शिष्यै वापि तत्वशोधनं कर्तव्यं || परिपाटी तु पूर्वोक्तैव इति | एवं तत्वत्रयं ज्ञानं गुरोर्ज्ञात्वा यथा चरेत् | सजीवेत् सुरयुक्तःस्यादिति शंकरभाषितं || ततः श्रीकृत्य च गुरुः शिष्येभ्यः शिवदो भवेत् | आदाय गुरुणादत्तं स द्वितीया सर्वपिवेत् || श्रीगुरुज्येष्ठपूज्यानां पुरतः कुलनायिके | नोपविश्यपिवेम्मद्यमितिशास्त्रस्य निश्चयः || पान भेदफलोल्लास प्रमाण स्थिति लक्षणां अविज्ञायाचरेयस्तु स भवेद पदां पदं | भोजनांतं विषं मद्यं मद्यांते भोजनं विषं | अमृतं तद्विजानीयायदन्नं सुरया सहापाणं तु त्रिविधं प्रोक्तं दिव्यवीर पशुक्रमैः | दिव्यं देव्यग्रतः पानं वीरं मृद्वासने स्थितं | स्वेच्छया पशुवत् पीत्वा पशुपानमितीरितं || भुक्तिमुक्तिप्रदं दिव्यं वीरं मुक्तिप्रदं भवेत् | पशुपानं नवसदमिति पानफलं विदुः || प्. १६६ब्) दृष्टिमान स वाक्काये पावन्न चलते समं | तावत् पाणं न कुर्वीत पशुपानमतः पशु || पावन्नेंद्रिय वैकल्पं यावन्नो मुख वै कृतिः | तावदेव पिवेद्रव्यमन्यथा पतनं भवेत् || पूर्णाभिषेक मुक्तानां पानं देवि निगद्यते | कराभ्यां पानमुद्धृत्य पसारंन्मूलं च पादुकां || आगलांत पिवेद्रव्यं समुक्तो नात्र संशयः | पीत्वा पीत्वा पुनः पीत्वा पतित्वा च महीतले || उत्थायं च पुनः पीत्वा पुनर्जन्म न विद्यते | आनंदा तृप्यते देवी मूर्छा भैरवः स्वयं || रमनात् सर्वदेवाश्च तस्मात् त्रितयमाचरेत् | दिव्यपानरताअनां वै यत् सुखं कुलयोगिनं || तत् सुखं सर्वभौमस्य नृपस्यापि न विह्यते | यत् सौख्यं कुलनिष्ठानां कुलद्रव्यक्षिपेविनां || तत् सौख्यमेव मोक्षःस्यात् सत्यमेतद्धराजने | योगिभिर्योगिनीभिच्च पदत्त पूर्णपात्रकं || स मातृपादुका मूलजप्तं पिवेत् प्रिये | क्वचि यदिच्छयाप्राप्त मलिपात्रं तु भक्तितः | आदाय पूर्ववजप्त्वा पिवे देवि गुरुंस्मरन् || गुरुशक्ति सुतानां च गुरुत्येत कनिष्ठयोः | स्वज्येष्ठेस्यापि चोच्छिष्टं खादेनान्नस्य पार्वति || ज्येष्ठैः कनीयसे योज्यं न पुनग्राहयेत् ततः | शक्त्युं छिष्ठं पिवेन्मद्यं वीरोच्छिष्टं चर्वणं || आत्मोच्छिष्टं न दातव्यं परकीयं न भक्षयेत् | उच्छिष्ठं भक्षयेत् स्त्रीतां ताभ्योच्छिष्टं तु नार्पयेत् || चक्रमध्ये तु देवेशि नान्यथा पतनं भवेत् | कनिष्ठानां सु शिष्याणां दद्यानुच्छिष्टमंविके || दद्यात् स्नेहेनयोन्येभ्यः स भवेदा पदापदं | आसवोच्छिष्टपात्रं तु यो वा गृह्नाति मूढधीः || स्नेहाद्वाभाव वद्धापि देवता शापमाप्नुयात् | न कुर्याध कुमध्ये तु निष्ठीवं पवनादिकं || अतिहास्यं न कुर्वीत योगिनी वीरसंगमे | यदि चे दीक्षितः शिष्यः कुलपूजा विवर्जितः || तत् कनिष्ठः क्रमज्ञश्च कुलपूजां समाचरेत् | तत् समीप ततो मत्वा नमस्कृत्य गुरो यथा || तस्मै निवेद्यते छेषं सर्वभुंजीत पार्वति | पूजा मध्ये ततो ज्येष्ठे पूज्ये वापि समागते || नत्वा व्रूयात् स्थितिं शेषमाचरेत् तदनुज्ञया | नमस्कृत्य पूजायाः शेषं इदं वृत्तं इदमस्तीति व्रुयादित्यर्थः | ज्येष्ठा चैव कनिष्ठाश्च शिष्यावैक च संगतौ | तत्र पूर्ववदाचारः कथितः कुलनायिके || अज्ञातकाले प्राप्तं चेत् पौर्वापर्व्यषु चिंतयेत् | तत्वा स्वस्वगुरून् देवं स्वस्वमार्गेण तर्पयेत् || भिश्च गुरुश्चेत् स्वस्वगुर्वाज्ञानुसारेण तर्पयेदित्यर्थः | नित्या कुर्यादि वा कुर्याद्रात्रौ नैमित्तिकार्चनं | उभयोः काम्यकर्मस्यादिति शास्त्रस्य निश्चयः || अस्त्राऽत्वाऽसनस्थो वा भुक्त्वा वा प्रलेपन्नपि | गंधपुष्पाक्षतां कल्पै च ब्राह्मणलक्षतः || प्. १६७अ) अवीरस्थ शरीरो वा कुलपूजां न कारयेत् | विना मंत्रेणया पूजा विना मांसेन तर्पणं || विना शक्त्या तु यत् पानं निस्फलं कथितं प्रिये | श्रीचक्रमेकोनो कुर्यादेकपात्रे तु नार्चयेत् || नार्चयेदेकहस्तेन नापि वेदेक पाणिना | मत्स्यमांसा स वैर्देवीनार्चयेत् पशुसन्निधौ || प्रणम्य प्रविशेच्च विनिर्गच्छेत् प्रणम्यचाश्रीचक्रेनासने तिष्ठेन च वीरासने प्रिये | श्रीचक्रदर्शनं देविनेयोः पापनाशनं | तन्नास्ति चेद्रण द्वंद्वं कौलिकस्याक्षि युग्मकं | अनाचारान् सदाचारान् चक्रस्थान् शक्तिकौलिकान् || शिवगौरीधियादेवि भावयेन्नारमयेत् | कुलाचार्येण तच्छक्त्यादत्तं पात्रं तु भक्तितः || नमस्कृत्य च गृह्नीयादन्यथा नरकं द्रनेत् | अस्रात्वा वापि भुक्त्वा वाप्य भक्त्या च कुलेश्वरि || यः सेतकुलद्रव्यंस्यां स दारिद्र्यमवाप्नुयात् | उष्णीषी कंचुकी नग्नो मुक्तकेशोगलावृतः || पराङ्मुखो विवादी च न सेवेत कुलामृतं | योगामृतस्य निष्ठीवान्मद्यभांडपरिधमात् || उर्द्धवाल न पानोच्च देवताशापमाप्नुयात् | एकासने निविष्टायेयेभुंजानाश्चैकभाजनं || एकपात्रं पिवंतो पिते यांति नरकं प्रिये | यः सेवे तु कुलद्रव्यमेकग्रामस्थिते गुरौ || तत् कुलज्ञे च तत्पुत्रे स्वज्येष्ठे कुलदेशिके | विनानुज्ञां गृहीत्वा तु सोक्षयं नरकं व्रजेत् || उच्छिष्टां न पृशेच्चक्रं कुलद्रव्याणि पार्वति | वहिः प्रक्षाल्य च करौ कुलद्रव्याणि दापयेत् || मद्यभांडं समुद्धृत्य न पात्रं पूरयेत् | भोगपात्रं सुराकुंभेनाक्षिपेच्च कदाचन || चक्रमध्ये शुचिधिया करस्ये क्षालनादिकं | यह् करोति हि मूढात्मा स भवेदा पदां पदं || निष्ठीसनं मलमूत्रं मधो वायुनिवर्जनं | चक्रमध्ये तु यः कुर्यात् स भवेद्योगिनी पशुः || चक्रमध्ये घटोभिस्ते पात्रे च खादतो प्रिये | दीपेनाशेचतच्छांत्यै श्रीचक्रं वारयेद्वुधः || मत्ताजपंति ध्यायंति स्तुवंति प्रणमंति चा वोधयंति च पृच्छंति नंदंति ज्ञानिनः | मत्ताम्रमंति गर्जंति हसंति विंवदंति च | रुदंति स्त्रियमिच्छामि विंद्यंत्य ज्ञानिनः प्रिये || परिहासं प्रलापं च वितंड वहुभाषणं | ओं दासिन्य भयं क्रोधं चक्रमध्ये न कारयेत् || पात्रहस्तो महादेवि नम्रमेच्चक्रमध्यकाः | पूर्णपात्रं करे कृत्वा न तिष्ठेत्तु चिरं प्रिये || नालापात् पात्रहस्तःसन् न भिंद्यात् पात्रमंविके | पादाभ्यां न स्पृशेत् पात्रं न विंदुं पातयेदधः || नैकहस्तेन दातव्यं न मुद्रां वर्जितं पिवेत् | पात्रं तु चालयेत् स्थानात् शंकरं नैव कारयेत् || स शब्दाना पिवेन्मद्यं तथैव च न पूरयेत् | नान्योन्यं ताडयेत् पात्रं न पात्रं स्थापयेदधः || प्. १६७ब्) साधारंनोद्धरेत् पात्रानांश्चरे च न क्षिपेत् | रिक्तपात्रं न कुर्वीत न पात्रं भ्रामयेत् प्रिये || न पात्रं चालयेद्धीमान पात्रं पातयेत् प्रिये | प्रक्षाल्य गोपयेत् पात्र मित्यज्ञा परमेश्वरि || यदा संदीपतोल्लासः कौलिकः पशुमीक्षते | पठेह्ना पशुशास्त्राणि संगच्छेद्वापशुस्त्रियं || कुर्यात् पशुप्रसंगं वा पशुकार्याणि चारयेत् | धर्मार्थं वा पशोलाभो ज्ञानं सौख्यादि नश्यति || श्रीचक्रस्थं कुलद्रव्ययः पशुभ्यं प्रयच्छति | स्नेहाल्लोभाद्भयाद्वापि स भवेधोगिनी पशुः || रिपुनापि न कर्तव्यो वाग्वादश्चक्र मध्यमे | पितृमातृसमं पश्येतेनोक्तं पुरुषं सहेत् || यथा स्त्री पुत्र मित्राणि दृष्ट्वा चेतः प्रकृप्यति | तथा चेत् कौलिकान् दृष्ट्वा स भवेद्योगिनां प्रियः || ब्रह्मादिस्तंभपर्यंतं पश्यमे गुरुसंततिः | तस्य मे सर्वशिष्यस्य कौलपूज्यो महीतले || इति निश्चितबुद्धिर्यः स भवेदावयो प्रियः | अहं गुरुरहं ज्येष्ठं वहं * * * (?) गर्वितः || अहमेवमतिर्येषां कौलिकानांतरंतिते | श्रीगुरुं कुलशास्त्राणि पूज्यस्थानावियानि च || तस्या श्रीपूर्वकं देवि प्रणम्य परिकीर्तयेत् || अथ वलिविसर्जनं यथा कुलार्णवे | प्रौढोल्लासे महेशानि कुर्याद्वलिविसर्जनं | पूजागृहाद्वहिः कुर्या त्रिकोणं भूद्गृहांतरे || गंधपुष्पाक्षतैः पूज्य ध्यायेदुच्छिष्टभैरवं | गदात्रिशूलडमरुपात्रहस्तं त्रिलोचनं || कृष्णाभं भैरवं ध्यायेत् सर्वविघ्ननिवारणं | तारत्रयं समुच्चार्य पश्चादुच्छिष्ट भैरव || एहियुग्मं वलिं गृह्नयुग्मं हूं फट् द्विठांतकः | इति सर्ववलिं विसृजेत् | ततो वलिविसर्जानंतरं शांतिस्तोत्रं पठेद्यथा | अथ कुलार्णवे | शांतिस्तवं पठेत् पश्चातर्पयेदलिविंदुभिः | गुरुःपात्रं समादाय द्रव्यामृतयुतंकरे || परिषिंचेत् सामयिकनिमंशांतितरं पठेत् | ओं जयंति देव्यो हरपादपंकजं प्रपत्र कामामृतमोक्षदायकं | अनंतसिद्धांतमिति प्रवोधकं नमामिचाष्टाष्टकं योगिनीगणं | योगिनी चक्रमध्यस्थं मातृमंडलवेष्टितं नमामि शिरसानाथं भैरवभैरवीप्रियं | अनादि घोरसंसारध्वांसतविधं स कारिणे नमः श्रीनाथवैद्यायकुलौषधि विधायिने | आपदो दुरितं रोगाः समयाचार लंघनात् स्वसर्वेतेव्योपहंति दिव्यचक्रस्य मेलनात् | आयुरारोग्यमैश्वर्यं कीर्तिलाभः शुभजयः शांतिर्मनोरथश्चात्तं पांतु सर्वाश्च देवताः | संपूजकानां प्रतिपालाकानां यतींद्रियोगीं द्रुतयोधनानां देशस्य राष्ट्रस्य कुलस्यराज्ञः | करोतु शांतिं भगवान् कुलेशः | निंदं तु साधककुलान्वियदर्शकायष्टध्याद्यनाख्य चतुरुक्तं महान्वयोयानंदं तु सर्वकुलकौनरताः परथेत्वन्ये विशेषपरभेदकशांभवाय | प्. १६८अ) नंद तु सिद्धगुरवस्तनु क्रमौद्याज्येष्ठानुजाः समयिनोवटुकाः कुमार्यः | षड्योगिनी प्रवरवीरकुलैः प्रसूतानंदं तु भूमिपतिगोद्विजसाधुलोकाः | नंदं तु नीतिनिपुनानि वद्यं निष्ठानिर्मत्सरानि रूपयानिरूपद्रवाश्च | नित्यं निरंजनरता गुरवोनिरंताः शांताः प्रशांतमनसो कृतरोगशंकाः | नंदं तु योगनिरताः कुलयोगयुक्ता | आचार्य सामयिक साधक पुत्रकाश्च | गावो द्विजा युवतयो यतयः कुमार्या धर्मेरतास्य वचना गुरुभक्तिरेकाः | नंदं तु साधक कुलन्यनिमादिनिष्ठाः शापाः पतंतु समयद्विषि योगिनीनां | सा शांभवी स्फुट तु कापि ममाद्यवस्थायस्यां गुरोश्चरण पंकजमेव लभ्यांयाश्चक्रभूमिका स तयो नाडीषुयाः संस्थितायाः कायोद्गत रोमकूपनिलयायाः संस्थिताधत्तेषु | उच्छ्वासोर्मिमरुत्तरंगनिलया निश्वासवासाश्चयास्ता देव्येरूपपक्षभक्षणपरास्तृप्यस्तु कौलार्चिताः | यद्येषा भैरवी शक्तिर्यदि भैरवशासनं | यद्येष धर्मो नियतो नश्यंतु शिवदूषकाः || याषां महाप्रभावेन स्वस्तितं भुवनत्रयं | नमस्ताभ्यः समस्ताभ्योदिति च कार्चने कृते || या देव्यः कुलशंभवाःक्षितिगताया देवतायास्तागायनित्यं प्रथितप्रभाः शिखिगताः यामातरःश्चाश्रयाः | या व्योमामृतमंडलामृतमयायाः सर्वगाः सर्वदास्ताः सर्वाकुलमार्गपालनपराः शांतिं प्रयंछं तु मे | ऊर्द्ध्वे ब्रह्मांडतो वा दिविगगनतले भूतले निष्कले वा पाताले वा नले वा शलिल पवनयो यत्र कुत्रस्थिता वा | क्षेत्रे पीठोपपीठादिषु कृत पदा धूपदीपादि मांसैः | प्रीता देव्यः सदानः शुभवलिविधिनापातु वीरेंद्रवंद्याः | ब्रह्माश्रीशेषदूर्गागुहवटुकंगणाः भैरवाः क्षेत्रपाला वेतालादित्य ग्रहवसुमनिसिद्धाश्चाप्सरोगुह्यकाद्याः | भूता गंधर्वविद्याधरऋषिपितरः किन्नरायक्षरागायोगीशःश्चारणाः किं पुरुषमुखराश्चक्रगाःपांतु सर्वे | देहस्था खिलदेवताः गजमुखाः क्षेत्राधिपा भैरवा योगिन्यो वटुकाश्च यक्षपितरौ भूताः पिशाचा | ग्रहाः अन्ये भूचरखेचरानिशिचरावेतालिकाश्चेटिकास्तृप्तास्युः कुलपुत्रकस्य पिवतः पानंगदीपं चरुं | सत्यं चेद्गुरवो देवापितरो वेदागमौयोगिनी मंत्रश्चेत् परदेवता च यदि चेद्वेदाः प्रमाणं हि चेच्छाक्तीर्य यदि दर्शनं भवति चेदाज्ञाप्यनोद्यास्ति चेत् सत्यं वापि च कौलिकास्ति यदि चेत्स्यान्मेजयः सर्वदा | पिवं तु पितरः सर्वेदेवं तु कुलसत्तमाः | पिवं तु भैरवाः सर्वे मम देहे व्यवस्थिताः || प्. १६८ब्) तृप्यं तु मातरः सर्वाः समुद्राः स गणाधिपाः | योगिन्यः क्षेत्रपालाश्च मम देहे व्यवस्थिताः || शिवाद्य वलिपर्यंतं ब्रह्मादिस्तंभसंयुतं | कालाग्न्यादि शिवांतं च यगद्यज्ञेन तृप्य तु || वामकेश्वरतंत्रे | ओं यस्यार्चनेन विधिना किमहीहलोके कर्मप्रसिद्धमितिना फलं प्रसूते | तं सं ततं स कलसाध्वचित्तवृत्तिं | चिंतामणिंगं कुलगणाधिपतिं नममि | रक्तांवरं ज्वलनपिंगजटाकलापं ज्वालावली कुटिलचंद्रधरं प्रचंडं | वालार्कधातु कनका चलधातुवर्णं देवीसुतं वटुकनाथमहं नमामि | हर तु कुलगणेशोंविघ्नसंघान शेषान्न य तु कुल स पर्यां पूर्णता साधकानां | पिव तु वटुकनाथः शोणितं निंदकानांदिश तु सकलकामान् कौलिकानां गणेशः | धर्मोजयत्यखिललोक सु स्वावहोयं नश्यत्वधर्ममखिलं वहुदुःखमूलं | आशीर्वचांसि समयंत्व मृतोपमानिशायाः पतंतु समविद्विपयोगिनीनां | याश्चक्रक्रमभूमिकावसतयोनाडीषुयाः संस्थितायाः कायोद्गतं रोमकूपनिलयाः याः संस्थिता धातुषु | उच्छ्वासोर्मिमरुत्तुरंगनिलयां निःश्वासवासाश्चायास्तादेव्यो रिपुमक्षभक्षण परास्तृप्यं तु कौलार्चिताः | देहस्था क्षितिदेवताः गजमुखाः क्षेत्राधिपाः भैरवायोयित्या वटुकाश्च यक्षपितरौ वेतालकाश्चेटकाः | अन्येदिक् वरष्वेचराश्चखराः पिशाचा गृहाःस्तृप्तास्युः कुलपुत्रकस्यपिततुः पानं समं पंचकं | सत्यं चेद्गुरुवाक्यमेव पितरोदेवाश्चयेद्योगिनी प्रीता चेत्परदेवता च यदि चेद्वेदाः प्रमाणं हि चेत् | शाक्तीयं यदि दर्शनं भवति चेद्यज्ञाप्यमो पापि चेत् | स्वातंत्र्यापि च कौलिकाश्च यदि चेत् स्यात्माजयः सर्वदा | शिवमस्तु सर्वजगतः परहित निरता भवंति भूतगणाः | दोषाः प्रयां तु शांतिं सर्वत्र जनः सुखी भवतु | योगिन्योनंदं तु कुलकाः | नंदं तु च कुलाचार्या ये चान्ये कुलपालकाः | नंदं तु साधकाः सर्वे विनश्यं तु विदूषकाः || अवस्था शांभवीमेस्तु प्रशन्नास्तु गुरुः सदा | अनेककोष्ठं कुलयोगिनीनांमंतवहिः कौलिकचक्रसंस्थाः निपीयमानेन परामृतेन प्रीताः प्रशन्ना वरदा भवंतु | ये ये पापारयः सुदूषणरतामन्निंदकाः पूजने | कुलाचार विमर्दना सुहृदया भ्रष्टाश्च ये साधकाः | दृष्ट्वा च क्रमपूजनविधौ ये कौलिकादूषकास्तेतेयां तु विनाशमत्रसमये श्रीभैरवस्याज्ञया | साधकानां चंद्रेष्टारः स देवाम्नाय दूषकाः | डाकिनीनां मुखेयां तु तृप्तास्ते पिशितैः सुताः || यामले | पीत्वाम्यायिजनैः सार्द्धं शांतिंस्तोत्रं पठे ततः | नश्यं तु प्रेतकुष्मांडो नश्यंतु दूषकाः || प्. १६९अ) साधकानां शिवाः संतु माम्नय परिपालिनां | जयंति मातरः सर्वाजयंति योगिनीगणाः || जयंति सिद्धिडाकिन्यो जयंति गुरुपूजयः | जयंति साधकाः सर्वे विशुद्धा लौकिकाश्रये || समयाचार संपन्ना जयंति पूजकानां नंदं तु मुनयः सिद्धाः नंदं तु कुलपालकाः | सदाम्नाय विशुद्धाये मंत्रिणः | सर्वदानंद हृदयानंदं तु कुलपालकाः | इंद्राद्यास्तृप्तिमायां तु तृप्यंतु वास्तुदेवताः || चंद्रसूययादयोदेवास्तृप्यंतु मम भक्तितः | न क्षत्राणि गहारोगाः करण राशयश्चये || तृप्यंतु पितरः सर्वेसमाः संवत्सरादयः | खेचरा भूचराःश्चैव तृप्यंतु मम भक्तितः || अंतरीक्षचरायेचं ये वान्ये देवयोनयः | सर्वे ते सुखिनोयां तु सर्पानद्यश्च पक्षिणः || पशवस्ताशवाश्चैव पर्वता गुहाः | ऋषयाः ब्राह्मणाः सर्वेशांतिं कुर्वंतु मे सदा | तीर्थानि वहवोगावो ये चान्ये पुण्यभूमयः || वृक्षाः पतिव्रतानार्यः शांतिं कुर्वंतु मे सदा | शिवं सर्वत्र मे चास्तु पुत्रदारधनादिषु || राजानः सुखिनो पातु क्षमामार्गेण ये स्थिताः | शुभा मे दिवसायां तु मित्रास्तिष्ठं तु मे सदा || साधना जयिनः संतु शिवं तिष्ठं तु पूजकाः | ये ये पापधियः सुदूषणरतामन्निंदकाः पूजने | देवाचारविमार्गनष्ट हृदया भ्रष्टाश्चये साधकाः | दृष्ट्वा च क्रमपूर्वमंद हृदयाये कौलिकादूषकाः | ते ते यां तु विनाशमत्रसमये श्रीभैरवस्याज्ञया | साधकानां च द्वेष्टारः स दैवाम्नाय दूषकाः | डाकिनीनां मुखे यस्तु तृप्तास्तत्पिशितैस्तथा || शत्रवो नाशमायां तु मम निंदा कराश्चये | द्वेष्टारः साधकानां च तेन शंतु शिवाज्ञया || शांतिस्तवपाठांनंतरकृत्यं | ज्ञानार्णवे | पठित्वार्चनापात्रं समुद्वास्य गुरुः प्रिये | ततो दद्यात् सु शिष्याय प्रसादं कुलनायिके || अभीष्टचेष्टाचरणं प्रौढांतः परिकीर्तितः | प्रौढांतल्लासके देविमुदिते योगिमंडले || योगिनीमंडले चैव चक्रमानंदमुच्यते | तदा रूढेषु वीरेषु कार्या कार्य न विद्यते || इच्छैवसां तु संपत्तिंरित्याज्ञा परमेश्वरी | तत्र यद्यत् कृतं कर्मशुभं वा यदि वा शुभं || तत्सर्वं देवता प्रीत्यै जायते सुरसुंदरि | जल्पो जपफलंस्तंत्रा समाधिरभिधीयते || विक्रिया पूजनं देविछर्दितं भैरवोवलिः | मुक्तिस्याच्छक्ति संयोगः स्तोत्रं तत्कालभाषितं || न्यासाद्वयवसंस्पर्शोभोजनं हवनं क्रिया | वीक्षणं ध्यानमीशानि शयनं वंदनं भवेत् || तदुल्ला सकृता नानायाकृष्टा स च सत्कृपा | कार्या कार्य विवेकं तु यः करोति स पातकी || एतच्चक्रगता वीरविज्ञेयाः परयोगिनः | येनाप्नुवंति मनुजाः साक्षाद्भैरवरूपता || संपादकोपशमनतपनोद्गानवर्नं | वेणुवीनादिवाद्यं च करिता वचनादिकं || प्. १६९ब्) रोदनं भाषणं पातः समुत्थानं विजृंभनं | गमनं विक्रिया देवियाग इत्यभिधीयते || चक्रेस्मिन् योगिनी वीरायोगिन्यो मदनातुराः | समाचरंति देवेशि यथोल्लासं मनोगतं || शनैः पृच्छति पार्श्वस्थानि स्मृत्यात्मविचक्षितं | निधाय वदने पात्रं निर्वाणानि वसंति च || मत्वा स पुरुषंमत्ताकांतात्यमरलंम्मिते | तथैव पुरुषश्चापि प्रौढांतोल्लाससंस्कृतः || पुषःपुरुषंमत्ता आलिंगनांगनां | पृच्छति स्वपतिं मुग्धाकस्त्वंकाहमिहंविके || किं कार्यमिहतायातौ किमर्थनिहसंस्थितौ | उद्यानं किमिदंहंतगृहं किं च गतं किमु || मुखे संपूज्य मदिरां पाययंति स्त्रियः प्रिये | जपदंशंमुखे क्षिप्त्वा निक्षियंति स्त्रियामुखे | गृह्नं त्यान्योत्य पात्राणि व्यंजनानि च शांभवि | धृत्वा शिरसि नृत्यंति मद्यतानि योगिनः || अज्ञातं करतलांतमस्यष्टांतरगीतकं | प्रस्खलत्यदविन्यास नृत्यंति कुलशक्तयः || योगिनो मदमत्तांश्च प्रमादोंपविशांतति | मदाकुलाश्चयोगिन्यः पतंति पुरुषोपरि || मनोरथं सुसंपूर्णं कुर्वंति च परस्परं | इत्यादि विविधाश्चेष्टाः कुर्वंति कुलनायिके || चिकृतिं मनसो हित्वा यदोल्लासः प्रवर्तते | तदा तु देवताभावं भजंतं योगिपुंगवाः || कौलिका भैरवावेशान् यो वा निंदंति मूढधीः | तन्नाशयत्यसंदेहं योगिन्यः कुलनायिके || न निंदेन्न हसेद्वापि चक्रमध्येमदाकुलान् | एतच्चक्रगतां वार्तां वहिर्नैव प्रकाशयेत् || तेभ्यो द्रोहं न कुर्वीत नाहितं च समाचरेत् | भक्त्या संरक्षयेत्ता वै गोपयेच्च प्रयत्नतः || चक्रे तदा कुलान दृष्ट्वा चिंतयेदेवताधियाः | मोदते वंदते भुक्त्या संगच्छेद्योगिनीपदं || पश्ये देवं विधं चक्रं यो भक्त्या कौलिकः प्रिये | व्रततीर्थ तपो दानयज्ञ कोटिफलं लभेत् || उन्मनापतनोत्थानं मूर्च्छना च मुहुर्मुहुः | उन्मनाख्ये समुल्लासे षष्ठे वीरसमन्विते || चिरं सन्निदधातेतौथौचिदं तु पराक्षरौ | परं ब्रह्मा तु संधान कांक्षिणौ कुलनायिके || देहेंद्रियाणां मनसचानवस्था निगद्यते | अनवस्था विधानेस्मिनुल्लास सप्तमप्रिये || पुरानंदस्वरूपो सौ जायते मूर्छनाभवः | मूर्च्छनासन्निकषोर्मिमूलयुक्ते परं विदुः || अंतर्लक्षो वहिर्दृष्टिर्निमेषोन्मेषवर्जिता | एषासाशांभवीमुद्रा सर्वतंत्रेषु गोपिता || एषा तु खेचरीमुद्रो शिवसाम्यप्रदायिनी | सर्वोत्तीर्णासदाहंता सामरस्य च मत्कृतिः || अनयोल्लासिनोवीराः शिवा एव न संशयः | न किंचिदपि जानंति स्वात्मध्यान परायणाः || तदा परस्परं सौख्यं मनोवाचानगोचरं | स्वयमेवावभवंति शर्कराक्षीरपानवत् || ईदृशं तादृशं सौख्यंमिति वक्तुं न शक्यते | दृश्यते पुलकाद्यैर्यती तद्ब्रह्म ध्यानमुच्यते || प्. १७०अ) यत् स्वयं विद्यते ध्याने देहावेशकरं परं | कथितुं नैव शक्नोति प्रवुद्धिस्तु समाधितः || ब्रह्मानंद ध्यानरताः पराः सु कृतिनो उराः | क्षणेप्यंतर्हिते तस्मिन् शोचयंत्यसिहता इव || सप्तमोल्लासमुक्तानां त्वद्भक्तानां महात्मना | अष्टौति कालज्ञानोत्थाः प्रत्ययाश्च कुलेश्वरि || अष्ठावस्थाश्चार्घपाद्या जायंते नात्र संशयः | वहुनात्र किमुक्तेन अनिमाद्यष्ट सिद्धयः || प्रतीहारिपदं प्राप्ताः सेवं तु मंदिरं चिरं | ये गुणाः परमेशस्य पंचतत्वतनीः शुभाः || ते गुणाः कुलतत्वज्ञे तत्वज्ञान समाकृताः | आरंभस्तरुणश्चापि यौवनं प्रौढ उच्यते || तदंताजस्यदित्युक्ताश्चोन्मना स्वप्न उच्यते | अनवस्था सुषुप्तिःस्यादवस्थात्रय संयुता || सप्तमोल्लासांश्चयोवेत्ति सयुक्तः स च कौलिकः | प्रवृत्ते भैरवी चक्रे सर्वे वर्णाद्विजातयः || निवृत्ते भैरवी चक्रे सर्वे वर्णाः पृथक् पृथक् | स्त्रियोथ पुरुषः षण्ठश्चांडालो वा द्विजोत्तमः || चक्रमध्येन भेदोस्ति सर्वे देव समाः स्मृताः | नगरी मिलिताद्यं युगंगा प्राप्य यथैकता || याति श्रीचक्रमध्येपि चैकत्वं प्रियमानताः | क्षीरेण सहितं तोयं क्षीरमेव यथा भवेत् || तथा श्रीमध्येपि याति भेदो न विद्यते | स्वर्गादि पुण्यलोकेषु देवादन्य यथा न हि | तथैव चक्रमध्येपि मानवाः सर्वदेवताः || याति भेदेन चक्रेस्ति सर्वे शिव समाः स्मृताः | वेदेपि स्थितमेवं हि सर्वं ब्रह्मेति चाव्रवीत् || वहुनात्र किमुक्तेन चक्रमध्ये सुरेश्वरि | मद्धूपाः पुरुषाः सर्वे त्वद्रूपाः प्रमदाः प्रिये || चक्रमपि मूढात्मा याति भेदं करोतियः | तं भक्षयंति योगिन्यः स्र्वाशयेत् कुलनायिके || स्त्रीणामन्यतमं स्थानं कुर्यात् तत्र कामस्तु पुंसामन्यतमं पृथक् | अथवा मिथुनमत्वा क्रमात् समुपवेशयेत् | शक्त्या सहपरं शक्तिश्चेद्भिन्नस्थानमित्यर्थः || पक्त्याकारेण वा सम्यक् चक्राकारेण वा प्रिये | यथा वाणीशता नंदौ तथा वीरः स शक्तिकः || इत्यानंदानु भूयदेवी विसर्जनं | कुर्यात् तत्र कामस्तु | प्रागेव निरूपितः कुलार्णवे | ततोर्चनादिकं सर्वं मंत्रोदक पुरःसरं | इतः पूर्वादि मनुनामंत्री देव्यै समर्पयेत् || तारत्रयमितः पूर्वप्राण वुद्धि ततः परः | देहधर्माधिकारांते जागत् सुप्ति सुषुप्तिषु || मनसा वाच कर्मणा तत्परं वदेत् | हस्ताभ्यां च ततः पद्भ्यामुदरेण ततः परं | शिश्ना च यत् स्मृतं पश्चायदुक्तं यत्कृतं भवेत् || तत् सर्वं गुरुदेवांतेया समर्पितमन्विति | स्वाहा च मनुरित्युक्तं स्त्रिसप्तद्यक्षरप्रिये || ज्ञानतो ज्ञानतो वापि यन्मया क्रियते शिवे | तवकृत्यमिदं सर्वमिति मन्वक्षमस्वमे || प्. १७०ब्) इति सामान्यतः | दक्षिणायास्तु पिच्छिले | कूर्चवीजं समुद्धृत्यकपूर्वं तदनंतरं | मायावीजं तु मिलितमात्मानं कृति संयुतं || तवात्मनि दक्षिणे देवि एकीभावं महेश्वरि | समर्पितं महादेवि अहं त्वं चैकरूपकं || एवं कृते महेशानि साधकस्त्वत्स्वरूपतः | अस्यात्मार्पणमंत्रस्य ब्रह्मविष्णुमहेश्वराः || ऋषयश्चैव संप्रोक्ता स्त्रिपच्छंद उदाहृताः | देवैतत्कालिका प्रोक्ता ऋग्यजुः सामगा तथा || आत्मार्पणेकात्मभावे विनियोगः प्रकीर्तिताः | अस्मिन्न्यास कृते देविपश्चादात्म समर्पणं || एवं संप्रार्थ्य देवेशींस्तुत्वा नत्वाति भक्तितः | प्रधानदेवतामूर्तौ परिवारान् समुद्धसेत् || तदुक्तं भैरवतंत्रे | हृदये च वहिर्देवीं समर्प्य विधिवत् पुनः | निर्माल्य च शुचौ देशे नैवेद्यं भक्षयेत् ततः || अभिवंदनमाचार्य अर्घामृतं ददेत् ततः | न्युब्जी कृत्वा स्वयंपात्रं तव पुष्पं विनिक्षिपेत् || प्रक्षाल्य गोपयेत् पात्रं तत्वचिंतापरो भवेत् | तत्र क्रमः || मूलदेवीं संतर्प्य परांङ्मुखार्घं श्रीपात्रं मस्तको परित्रिः परिभ्राम्य च ओं पराङ्मुखार्घः स्वाहा | इति मंत्रेण देव्या शिरसि किंचिन्निधाय पुष्पं तस्योर्द्धे प्रणमेत् साधकोत्तमः निःक्षिप्य शेषद्रव्यसहितं पात्रं आधारो परिसंस्थापयेत् | तदुक्त भुजगावल्यां | मूलदेवीं च संतर्प्य पात्रमुत्तोल्पसाधकः | त्रिःपरिभ्राम्य मस्तांतं किंचिदद्यात् तु शेषयेत् || परांङ्मुखार्घस्वाहेति अर्घदानमनुर्मतः | यामले च | मूलमंत्रं समुच्चार्य त्रिपुरसुंदरीति च | परांङ्मुखार्घः स्वाहेति परङ्मुखार्घ इरितः || श्रीमत्रिपुरसुंदर्याः शरीरे सर्वदेवताः | विलीनाः संतु मूलेन देव्यांगे निहिता समेत् || ततः कामकलारूपं देवो संचिंत्य साधकः | खेचर्याः शक्तिचक्रं तु क्षमस्वेति विसर्जयेत् || खेचर्या मुद्रया इति सुंदरी पक्षे अन्यपक्षे योनिमुद्रा तत् तन्मंत्रे तत्तदेवीनाम ग्राह्यमिति | देव्यांग च षडंगानिन्यस्यमूलं समुच्चरन् | यंत्रस्थ पुष्पमाघ्राय तथा संहारमुद्रिकां || अधोमुखे वामहस्ते ऊर्द्ध्वास्य वामहस्तकां | क्षिप्त्वांगुलीरंगुलीभिः संग्रंथ्य परि * * * (?) || संहारमुद्रिका चैषा विसर्जनविधौ मता | गच्छगच्छपरं स्थानं स्वस्थानं परमेश्वरि || यत्र ब्रह्माणयोदेवानाविदुः परमं पदं | विसृज्यानेन मंत्रेण ततः पूरकवायुनो || ध्यायेत्त मूलमंत्रेण देवीसंस्थापरिहृदि | तत्वानंदे | आत्मार्पणे न मनुना तत आत्मा नमर्पयेत् | संहारमुद्रया पश्चाद्देवीं विसर्जयेत् हृदि || निर्माल्येन यजेद्देवींमीशे निर्माल्यवासिनीं | श्रीपात्राशेषममृतं पश्चात् स्वीकुर्याद् भक्तिभावतः || प्. १७१अ) सर्वतीर्थेन्दु यत् पुण्यं यत् पुण्यं पुण्यभूमिषु | श्रीपात्रामृत संस्पर्शात् तस्माच्छतगुणं भवेत् || अभिषेकाल्लभल्ला * (?) सर्वसाम्राज्यंदायिनीं | लेह्य चोस्यानुपानादि तांवूलमनुलेपनं || निर्माल्यभोजनं तुभ्यं ददामि श्रीशिवाज्ञया | अनेनं मनुनामंत्री शेषिकां सुंदरीं यजेत् || अयं तु प्रतिज्ञा मंत्रः | मूलमंत्रस्तु ज्ञानार्णवे | ततः सावर्णां देवीं समुद्वास्य हृदांवुजे | शेषिकाये समुद्वास्यमर्प्याथ स्थूलमंत्रेण शोधयेत् || स्याद्वान्भवं कृत्वा मुच्छिष्ट चांडालि तदनंतरं | वदेन्मातंगि सर्वांते च युग्मकं | एकविंशतिभिर्वर्णैशेषिकामनुरीरितं | मंत्रेणानेन निर्माल्यः शेषकाये समा * * (?) || देवीमुच्छिष्ट मातंगी प्रणतोस्मि सुस्मितं मुखीं | देवीं शुकल्पाणीं | क्रमस्त्वेशान्यां त्रिकोणवृत्त भूविंवंध्यायेल्लोकैकमोहिनीं | वीनावाद्य विनोदगीते निरतां नीलांशुकोल्लासिनीं | विंवोष्ठी नवया रुद्रे चरणामाकीर्णकेशालकां | हृद्यांगींशित शंखकुंडलधरं माणिक्यभूषोज्वलां मातंगीं प्रणतो सि * * * (?) मुखीं देवीरशुकश्यामले | क्रमस्त्वेशान्यां त्रिकोणवृत्त भूविंव विलिख्य प्रतिज्ञा मंत्रं पठित्वा निर्माल्याग्रभागं गृहीत्वा यथोक्तां ध्यात्वा उक्तमंत्रमुच्चार्य दद्यात् | अवटुतटघटितकुटीताडिताडी पलाशता डंकां वीणावादन वेलाकंपित शिरसां नमामि मातंगी | इति स्तुतिः | यामले | निर्माल्यं शिरसाधार्यं सर्वां न चानु लेपतं | नैवेद्यं चोपभुंजीत दत्वा तद्भक्तिशालिने || पुष्पादिकं ततो दत्वा शुचौ देशे विनिक्षिपेत् | अधोमुखं ततःश्चत्वानि जन्मनुं महीतले || निधाय पुष्पकृस्योर्द्ध्वे प्रणमेत् साधकोत्तमः | प्रक्षाल्य गोपनं कृत्वा तत् तीर्थ स्निग्धभूमिषु || महामायां समालिख्यस्तित्वा तिलकमाचरेत् | कनिष्ठांगुलिनां मंत्री मंत्रेणयं यमादिना || यं यं स्पृशति पादेन यं यं पश्यति चक्षुषा | सदा सतां स मायाति यदि सामातरेत् || कथिता कर्मयोगोयं येन उच्छिष्टता भवेत् | तदभ्या स तश्चैव सिद्धो भवति योगिदाट् || ततश्चे गुरवे दद्यन्नमस्कार त्रयं सुधीः | देवार्चाना वशिष्टं तु शलिलं शंखमध्यगं || अंगलग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति | रेवा सिंधु सरस्वती प्रभृति षु ब्रह्मांडभांडोदरे तीर्थेस्नान सहस्रकोटि ममलं श्रीचक्रपीठोदकं | गंगापुस्करं नर्मदा स यमुनागोदावरी गोमती तीर्थस्नानकुरु प्रयागनगरी वारानसी सिंधुषु || श्रीदुर्गा० || नमोस्तुवो मंगलमूह्ये मुद्रां सौंदर्यलक्षाभुवि वैजयंतीं | श्रीसुंदरीमिंदु कलावतं सामानंदनिस्यंदमयीं स्मरामि | श्रीसुंदरीपूजन तत्पराणां हालाभिरालोल विलोचनानां | प्. १७१ब्) अस्माकमानंदितमानसानां माहेश्वराणां दिवसाः प्रयांतु | आश्वाघमांसं पिशिं तस्य खंडंमाकंठपीठं मधुरीपिवंतः | वामेक्षणामंग समादधान भुक्तिं च मुक्तिं च वयं व्रजामः | नयशंकापिषि तस्य यस्मिन् पंचाक्षरी यत्र न यत्र लभ्या | स यत्र संगो मृगलोचनानां तत् तदिनंदुर्दिनमेवमन्ये | हालां पिवन् दीक्षित मंदिरेषु स्वपत्निशायांगणिका गृहेषु | गृहे गृहे भोजनमेव कुर्वन् च भ्राम्यते साधक चक्रवर्ती | दिने दिने सिद्धघटोस्तु पूर्णः दिने दिने तर्पणमस्तु देव्याः | दिने दिने संघाटतां द्वितीयं दिने दिने पंचमर्सगमोस्तु | निधौग्रधारां वदने सुराणां श्रीचक्रमुद्धृत्य कुलक्रमेणा आस्वाद्य सद्यःपिषितं मृगाक्षीमालिंग्य मोक्षं सुधिये व्रजंति | यत्रस्ति भोगो न च तत्र मोक्षो यत्रास्ति मोक्षो न च तत्र भोगः | श्रीसुंदरी तर्पण तत्पराणां भोगोपि मोक्षोपि करस्थि एव | भागीरथी यज्ञ समुत्प्रयोगः केदारतीर्थादि विलोकनं च | तान्येवमन्ये जगतः ** (?) श्रीसुंदरीत्वं तंत्रमेव तीर्थं | प्रवर्तकानां सहसैव लक्ष्मीः प्रयातिगेहं रिपवः क्रमेण | श्रीसुंदरी साधन साधकानां प्रायांतु नाशं प्रलया भवं तु | अंगेषु कुष्ठीनि गृहेषु लक्ष्मी सूकत्वमाह्ये भवनं श्मशानः | श्रीसुंदरी साधकलुंगवानां यथा यथा निंदनमातनोति | जनः स्वयं पुत्रं कलत्रमित्रेस्तथा तथा नाशमुप्नेति शीघ्रं | अनंतरं कालवशामुल्लयः सोहं भविष्यामि नमे विषादः | श्रीसुंदरिजन्मिनिजन्मनीनां नमामि तं भैरवमीशमीडे | विकल्पवापी तटसन्निधिये प्रवर्तमानो षड्गशोप्रराकाः | आकर्षणं पंकरूहे रूपतां मैवेयपानं वयमा च समः | आयात यातेन भवां तु राशौ जाता महानेश ममं प्रयासः | मोक्षाम्लार्थस्य वरप्रदांगी कृतः संप्रति कौलमार्गः | नान्यं विलोक्यंप्यश्रमान्यमीडे | नान्यं स्मरेनरेद्वापरमाश्रयामि | कदापि नाहं परमार्थ भावात् श्रीसुंदरं | च ता * * * (?) परामि विलिख्य सिंदूरमयं सुधाभिः ऽस्रीचक्रराजं निशितर्पयं तु | श्रीसुंदरी चेतसि चिंतनीहमावलोकैर्वशयंति लोकान् | वामेरामारमणकुशला *** (?) पानपात्रं अग्रेलेह्यं मरिचसहितं शूकरश्चेस्मिमांसं | स्कंदे वीणा ललितं सुभगा सद्गुरुणां प्रवृत्तिः | कौलोधर्मः परमगहनोयोगिनामप्यगम्यः | वाम ** (##? श्रीगुचिंतनं भगवती ध्यानोपदं मानसं | जिह्वाया जपसाधनंदयितया कौलक्रमाभ्यासनं | यः शतो * (?) यत करेन्यथ करेमुक्तिं च मुक्तिं जनः | प्. १७२अ) करे पात्रं मुखेस्तोत्रं आनंदं हृदयांवुजे | मूर्द्ध्नि श्रीगुरुपादाब्जस्मरणं किमतः परं || एकेन शुक्त च न ** (?) घटं * * * * * * * (?) | * * * * * * * * * * सवणार्द्रकेन (?) || प्रास्तदयामि यदि रोहित खण्डमेकं गंगां पिवामि यमुनां सहसागरेण अलिपिषितपुरंध्री भोगपूजा * * * * * * (##? गुरुचरणपरोहं भैरवोहं शिवोहं || इति मंगलास्तोत्रं समाप्तं || ४ || नेपाले च * * * * * (?) उत्पतीः कामरूपके | समाप्तिस्तु जपत्यां हि कुलवृत्तिरियंगतिः || श्रीश्री स्वयंप्रकाशानां गुरुणां शिष्यसत्तकः | श्रीदुर्गाशक्ति संयुक्तः श्रीदुर्गां *** (?) जकैः || आशीद्विप्रवरः सदातिथिपदः सद्विषेवमीक्षितो भोक्ता भोज्ययुताः प्रसन्नहृदयः | श्रीवंगदेशाश्रयः | कृष्णानंद इति प्रसिद्ध कथनं काष्ठा * * * * * (?) श्रितो भट्टाचार्य इति प्रलच्चपदकस्तज्जन्मदेशवृअः || नवछूसेन्यासिधर्मं विदितें निजपदं पीठनेपालवीसः | श्रीदेवीपदपद्मगलित हृदयः * * * * (?) वेताः पूर्णानंदामिधानिः प्रशमरसहृदः प्राप्तभावागुरोयं सौयं श्रीकौलिकानां हितकरंणमितिः कौलवृत्तिः विदधौत् || श्रीपूर्णानंदनाथेनकृतायां गुरुभावतः कुलवृत्तौ स्वतंत्रायां त्रिंशत् पटलः ईरितः || संपूर्न्.आश्चाद्यखंडकः || * (?) णीयारिकनगरे गुरुणां पदसन्निधे आद्यखंडस्तु संपूर्णा यशोधरगिराश्र* * * (?) || गंगावदेतागरिणांभावतः परं | कुलवृत्तिनामकंशास्त्रं लिखितं गुरुसम्मतं || आदौ नत्वा गुरून् मूर्द्धि पश्चाद्देवीं हृदांवुजे | पठयंति * * * * * * * * * * * * * * (?) || शुभमस्तु || ########### END OF FILE #######