#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00252 Uniform title: lalitāgama Main title: lalitāgamaḥ saṃprokṣaṇavidhimātram Manuscript : IFP/EFEO transcript T0202 Description: Transcribed from IFP transcript T0202 which is copied from a manuscript of Swaminatha Gurukkal Tiruvanadudurai See Muktabodha IFP/EFEO on-line catalog for bibliographic details at www.muktabodha.org . Notes: Data-entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: April 3, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### ललितागमः (संप्रोक्षणविधिमात्रम्) प्. १) || संप्रोक्षणम् || ललितागमे संप्रोक्षणविधिः || काली च दक्षिणे चैव पूजयेत्तु क्रमेण तु | दक्षिणद्वारवामे तु भृङ्गिणे तु समर्चयेत् || १ || गणेशं दक्षिणे भागे तन्मानञ्च यजेद्बुधः | पश्चिमद्वारवामे तु वृषभाय नमोन्तकम् || २ || स्कन्दस्य दक्षिणे भागे स्कन्देशाय नमो नमः | उत्तरद्वारवामे तु गौरीञ्चैव तु पूजयेत् || ३ || तद्दक्षिणाय चण्डेशं नमोन्तादिमिति स्मृतम् | तत्तद्ध्यानमनुस्मृत्य अर्चयेत्तु गुरोत्तमः || ४ || पश्चिमद्वारवामे तु महालक्ष्मीं प्रपूजयेत् | तत्वदृष्ट्या विशेषेणाक्षेपमथ शास्त्रकैः || ५ || पा * * त विशेषेण विघ्नोच्चाटनकर्मणि | घण्टान्तु ताडयेद्धीमान् त्रि * कारं यथा कुरु || ६ || इति द्वाराणि सं * प्य पश्चिमद्वारमाविशेत् | देहाल्यमध्यमे चैव अस्त्रमन्त्राणि पूजयेत् || ७ || वास्तुब्रह्मविशेषेण तन्मन्त्रेण समर्चयेत् | यागमण्टपकं पूर्वे भूमितत्वेन पूजयेत् || ८ || प्. २) जलतत्वे नमोन्तञ्च तृणानां पूजयेत्ततः | अग्नितत्वे नमोन्तञ्च बन्धेषु यजनं क्रमात् || ९ || वायुतत्वे नमोन्तञ्च वंशानां पूजयेत्ततः | नममाकाशतत्वञ्च स्थूणानां पूजयेत्ततः || १० || चन्द्राय यजनञ्चैव विधानेन सुपूजयेत् | वासुकायां नमोन्तञ्च दर्भमाला सुपूजयेत् || ११ || पूर्वादीनि समारभ्य दर्पणं पूर्णकुम्भयोः | तन्नाम्नेन समभ्यर्च्य पाद्यादीन्युपचारकैः || १२ || वृषभं चामरञ्चैवा तन्नाम्ने [च] सुपूजयेत् | श्रीवत्सं स्वस्तिकञ्चैव तन्नाम्नेति पूजयेत् || १३ || शंखदीपेन कर्तव्यं पूजयेत्तु स्वनामतः | एवं क्रमेण संपूज्य शुद्धतत्वेन भावयेत् || १४ || आत्मदैवतमभ्यर्च्य विशेषार्घ्यञ्च कल्पयेत् | अस्त्रेण द्रव्यशुद्धिञ्च आत्मानं पूजयेत्ततः || १५ || स्वदक्षिणे पा * * * * * न्तं गमं चैव तु | विन्यसेत् हस्तेन धर्मादिभिर्मन्त्रयेत् || १६ || धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्चैव * त्मकम् | कर्णिकायै नमोऽन्तञ्च मन्त्राणाञ्च स्मरन् गुरुः || १७ || मूर्ध्नि मध्ये विशेषेण विन्यसेत्तु विचक्षणः | अभिमन्त्रितपुंसञ्च ज्ञानखड्गञ्च सङ्गृहेत् || १८ || प्. ३) अस्त्रेण दश संख्याभिः अभिमन्त्रेण बुद्धिमान् | पञ्चगव्यक्रमेणैव साधयेत्तु विचक्षणः || १९ || प्रोक्षयेत्पञ्चगव्येन अस्त्रमन्त्रं समुच्चरन् | तद्वैतञ्च विशेषेण परिधानाद्यलङ्कृतम् || २० || नैज्यदेवासनं कल्प्यं उत्तराभिमुखस्थितः | निरीक्षणप्रोक्षणञ्चैव ताटनाभ्युक्षणं तथा || २१ || खड्गेनोद्धारणञ्चैव पूरणञ्च समीरणम् | कुट्टनं सेचनञ्चैव मार्जनं लेपनं तथा || २२ || कलारूपञ्च कल्याथ त्रिसूत्रीबन्धनं दृढम् | पू * ना रेखया चैव चतुष्पद्वीनि त्रिक्षिपेत् || २३ || वज्रीकरणमेवोक्तं शम्बरेण तु मन्त्रतः | फालचन्दनसिद्धास्यैः भस्मदूर्वाक्षतान् कुशान् || २४ || द्रव्यपञ्च समादाय विकरान्यस्त्रमुच्चरन् | कुशकूर्चञ्च संग्राह्य वर्धन्या मूर्ध्नि विन्यसेत् || २५ || तदूर्ध्वे स्थण्डिलं कल्प्य तोये हेमादिकुम्भयेत् | वामे तु वर्द्धनीञ्चैव पश्चिमाननमेव च || २६ || वृषभाय नमोन्तेन कुम्भे आसनमर्चयेत् | कुम्भे मूर्ध्नि च विन्यस्य शिवं साङ्गञ्च पूजयेत् || २७ || व्यालासननमोन्तञ्च वर्धन्याञ्च चलासनम् | पाशुपतास्त्रमूर्ती च पूर्ववद्ध्यानसंयुतम् || २८ || प्. ४) इति ललितागम वचने पाशुपतास्त्रमन्त्रम् | ओं श्रीं ह्रीं ग्लीं क्लीं ऐं सौं पशु हुंफट् स्वाहा | इति पाशुपतास्त्राय नमः | श्री स्थलपाण्ड्यन् | श्री स्थलीश्वराय नमः || ########### END OF FILE #######