#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00514 Uniform title: liṅgārcanatantra Manuscript : IFP transcript T00937 pages 1-60. Description: Deals with the worship of the Lingam. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: August 14 2021. Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### || श्रीः || ओं नमो गणेशाय | देव्युवाच- कामरूपं समासीनं शङ्करं प्रियशङ्करम् | पप्रच्छु सादरं देवी योगमाया जगन्मयी || त्रिलोचन महादेव सर्वेषामीश्वर प्रभो | पूर्वं या सूचितं देव शिवलिङ्गार्चनं प्रभो || हृदये चिन्त्यते देव मम प्राणोपमं सदा | इदानीं परमेशान कृपया सम्यगुच्चर || शिवलिङ्गार्चनन्तत्त्वं विचार्य कथय प्रभो | साङ्गोपाङ्गेन सहितं रहस्यं यच्च विद्यते || देवगन्धर्वमनुजा असुरा राक्षक्षाश्च ये | ते सर्वे सिद्धिमायान्ति शिवलिङ्गार्चनात्प्रभो || पूर्वं हि सूचितं देव चान्यदेवैर्महेश्वर | सर्वं हि कथयेशान यद्यहं तव वल्लभा || ईश्वर उवाच- शृणु नगात्मजे प्रौढे मेनका नगनन्दिनि | एतत् ज्ञानं महेशानि वक्ष्येतेहं सदा प्रिये || पदन्ते परमेशानि * * * * क्षते तथा | मया दत्तं महेशानि स्थिति संहारकारिणे || यत्कृत्वा परमेशानि विष्णुस्तु स्थितिकारकः | सृष्टिकर्ता भवेद् ब्रह्मा एतज्ज्ञानप्रभावतः || प्. २) एतज्ज्ञानप्रभावेण मृत्युं जित्वा वरानने | मृत्युञ्जयोऽहं देवेशि सदासुन्दरि योगिनि || सर्वपूजासु देवेशि लिङ्गपूजां परं पदम् | लिङ्गपूजां विना देवि अन्यपूजां करोति यः || विकृता तस्य सा पूजा अन्ते नरकमाप्नुयात् | तस्माल्लिङ्गं महेशानि प्रथमं परिपूजयेत् || यद्राज्यं लिङ्गपूजायां रहितं सततं प्रिये | तद्राज्यं पतितं मन्ये चिताभूमिसमं स्मृतम् || ब्रह्मविच्चापि देवेशि यदि लिङ्गं न पूजयेत् | तत्क्षणात् परमेशानि चाण्डालतां व्रजेत् || शूद्रश्च परमेशानि सदा सुरवर प्रिये | पूजयेत् शिवलिङ्गन्तु चत्वारो ब्राह्मणादयः || शिवपूजासु चार्वङ्गि यद्गृहं वर्जितं सदा | विष्ठागर्तसमं तस्य तद्गृहं विद्धि पार्वति || अन्नं विष्ठा पयो मूत्रं तस्य वेश्मनि कामिनि | शिवपूजां विना देवि अन्यपूजां करोति यः || सर्वं विष्ठासमं तस्य पूजानैवेद्यमेव च | अन्नं विष्ठासमं तस्य पयोमूत्रं वरानने || कान्तो वा चेश्वरो वापि * चो वा परमेश्वरि | आदौ नित्यं प्रपूज्याथ बिल्वपत्रे वरानने || प्. ३) पश्चादन्यं महेशानि शिवं प्रार्थ्य प्रपूजयेत् | अन्यथा मूत्रवत् सर्वं शिवपूजां विना प्रिये || यत्कृतं गन्धनैवेद्यं धूपं दीपं तथा प्रिये | पाद्यं चार्घ्यमाचमनीयं घृतं मधु सशर्करम् || दधिदुग्धं महेशानि नानापुष्पं मनोहरम् | फलं सर्वविधं भद्रे आम्रं द्राक्षाफलं तथा || पनसन्तु तथा सर्वं विष्ठासमं भवेत् प्रिये | तस्मात् सर्वासु पूजासु प्रथमं लिङ्गपूजनम् || सर्ववेदेषु तन्त्रेषु पुराणेषु वरानने | गीयते परमेशानि प्रथमं लिङ्गपूजनम् || शिवपूजां विना देवि नास्ति पूजा कदाचन | स्वर्गे मर्त्ये च पाताले शिवपूजा गरीयसी || ब्रह्माण्डवासिनां देवि शिवपूजा सदा धनम् | शिवपूजां विना देवि अन्यपूजां करोति यः || स एव रसनाहीनः कुम्भीरो जायते प्रिये | शिवपूजा महेशानि सर्वधर्मसु शस्यते || सर्वधर्मसु यद्धर्म सर्वदानेषु यद्धनम् | तद्धनं समवाप्नोति शिवपूजाक्रियादिभिः || तस्मात्सर्व प्रयत्नेन शिवपूजां सदा प्रिये | निर्माय पार्थिवं लिङ्गं रुद्रं संहाररूपिणम् || प्. ४) आशुतोषं महादेवं शाश्वतं वृषभध्वजम् | निर्माय विधिवल्लिङ्गं विधिवत् पूजयेत् शिवम् || रहस्यं विधिवद्देवि कृत्वा मोक्षमवाप्नुयात् | अर्चयेद्विविधैः पुष्पैर्गन्धैश्च सुमनोहरैः || पुष्पैरनेक जातीयैः फलैर्बहुविधैस्ततः || || इति लिङ्गार्चनतन्त्रे हरपर्वातीसंवादे प्रथमः पटलः || १ || श्रीदेव्युवाच- इन्द्रियरहितो देव शून्यरूपः शिवः स्मृतः | शिवस्य कारणं नास्ति किं तस्य पूजनं ततः || ईश्वर उवाच- साधु पृष्ठं महेशानि शृणु वक्ष्यामि पार्वति | प्रेत पूजा महेशानि कदाचिनास्ति भामिनि || रुद्रस्य परमेशानि रौद्रीशक्तिरिति स्मृता | ज्येष्ठा च वैष्णवी शक्तिर्यथा विष्णोः प्रकीर्तिता || वामा तद्ब्रह्मणः शक्तिर्यथा भवति कामिनि | रुद्रस्य परमेशानि रौद्री शक्तिस्तथा स्मृता || रुद्रं हि परमेशानि महाकुण्डलिनीयुतम् | वर्तते सततं देवि ब्रह्मविष्णुशिवेषु च || सार्द्धत्रिवलयाकारैः शिवं वेष्ट्य सदास्थितम् | शक्तिं विना महेशानि प्रेतत्वं तस्य निश्चयम् || शक्तिसंयोगमात्रेण कर्ता हर्ता महेश्वरः | अत एव महेशानि पूजयेत् शिवलिङ्गकम् || प्. ५) शिवशक्त्योर्महेशानि एकदा यदि जायते | तदैव परमं ज्ञानं सर्ववेदेषु सम्मतम् || सर्ववेदेषु तन्त्रेषु पुराणेषु वरानने | एकदा शिवशक्त्योस्तु परमं ज्ञानमुच्यते || अत एव महेशानि शिवं नित्यं प्रपूजयेत् | पूजयेत् परमेशानि चत्वारो ब्राह्मणादयः || संपूज्य परया भक्त्या निर्वाणं याति पूजकः | शिवपूजा महेशानि यद्गृहे सततं प्रिये || काशीपुरं महेशानि तद्गृहं विद्धि पार्वति | शिवलिङ्गं प्रपूज्याथ सर्वपूजाफलं लभेत् || श्रीदेव्युवाच- शिवलिङ्गं महादेव परमज्ञानसंयुतम् | साक्षाद्ब्रह्म महादेव कृपया कथय प्रभो || शिवलिङ्गार्चनं देव साक्षादुक्तं न संशयः | ईश्वर उवाच- शृणु देवि प्रवक्ष्यामि तव भक्त्या वरानने | पूजयेत् परमेशानि सर्व ब्रह्माण्डवासिनः || मृत्युञ्जयपुरं गत्वा ब्रह्माद्यास्त्रिदिवौकसः | शिवशक्तिमये गेहे तिष्ठन्ति त्रिदशादयः || सर्वं ज्ञानमयं द्रष्ट्वा तावद्दृष्ट्यादिभिः प्रिये | चतुर्युगं नाभसस्तु एवं हि गतवान् प्रिये || तदन्ते प्रलयस्तावान् द्राक्षीरात्रिः प्रगीयते | एवमेव प्रकाशेन प्रलयं नाभसो गतः || ब्रह्माद्या परमेशानि प्रेतत्यं गतवान् प्रिये | ततस्तु शतवर्षान्ते रौद्री रुद्रमुखात् प्रिये || भावितः परमेशानि अग्निपर्वत सन्निभः | जलादिकं महेशानि तत्क्षणात् भस्मसात्कृतः || दृष्ट्वाश्चर्यं महेशानि कौतुकं मम जायते | भस्मञ्च परमेशानि गृहीत्वा परमं पदम् || विलिप्य देहे देवेशि भस्म श्रीमन्त्रसन्निभम् | क्षणमात्रं महेशानि ध्यानस्थोऽहं नगात्मजे || भस्मराशिगते लोके सदेवासुरमानुषे | विभाव्य परमेशानि हृदये परमेश्वरि || भावनात् परमेशानि लक्षवर्षं गतं मम | ध्यानभावं महेशानि यदा मम शुचिस्मिते || तदैव परमेशानि कामिनी वृषरूपधृक् | संमुखे दर्शनं दत्वा किञ्चिद्वाक्यं च मां प्रति || उवाच शुभया वाचा सुन्दरं कमलेक्षणे | मृत्युञ्जय महाबाहो वाक्यं मे शृणु सत्वरम् || यद्दृष्टं हृदये देव साहं शान्तिस्वरूपिणी | कामिनी वृषरूपेण साक्षाद्धर्मो न संशयः || आकर्ण्य मम पूर्वोक्तं पार्थिवं शिवमर्चय | शक्तिरूपी महादेव कामिनी सततं सदा || प्. ७) नाम्ना नन्दी महादेव वाहनं तव सुन्दरः | धर्मराजेति लोकेऽस्मिन् गीयते मां महेश्वर || उल्लूकोऽहं महादेव गीयते सततं जनाः | शक्तिरूपी अहं देव किञ्चिन्नास्त्यत्र संशयः || शक्तिपुञ्जं महादेवं सर्वं त्वयि प्रतिष्ठितम् | अत एव महादेव धर्मराट् शक्तिरूपिणी || वृषरूपं समास्थाय उल्मुकोऽहं महेश्वरः | सर्वं प्रेतमयं दृष्ट्वा शक्तिराविर्भूता प्रभो || अत एव महादेव नम्ना निरञ्जन संज्ञकः | उकारश्च उमादेवि ऊकारं कामिनी प्रभो || नकारं पृथिवी देवी विद्धित्वं गुणसागर | ककारञ्च महादेव सदा ते उ * * ते जिनं || अत एव महादेव नाम्ना उल्लूक योगधृक् | सर्वयोगेश्वरस्त्वं हि सततं मृत्युनाशकः || सर्वदेवाः सगन्धर्वा हरिर्वृक्षादयस्तथा | प्रेतत्वं गतवान् सर्वं देववृक्षान्तवासिनः || प्रेतत्वरहितं देव त्वं हि वृक्षः सनातनः | अनन्ताः शक्त्यो देव त्वययंशे विद्यते विभो || यकारस्यान्तिमो विन्दुः त्वं हि देव निरञ्जनः | यद्बीजं सप्तमं देव यकारस्य तपोधन || प्. ८) शक्तिपुञ्जं महादेव स एव सर्गवान् विभो | भृगुस्तु परमेशान त्वं गतिभिर्यदा प्रभो || तदैव परमेशान स्थिति सृष्टिं भवेद् ध्रुवम् | त्वं देवा परमेशान भृगुबीजं हि गच्छति || प्रलयं परमेशान तत्क्षणात् जायते ध्रुवम् | मृत्युञ्जयपदात्त्वं हि सदाशक्त्या प्रसादतः || आरुह्य मम पृष्ठे तु पार्थिवं शिवमर्चय | ईश्वर उवाच- उल्मुकस्य वचः श्रुत्वा वृषमारुह्य पार्वति | यत्कृत परमेशानि सत्वरं तच्छृणु प्रिये || यत्कृतं पार्थिवं लिङ्गमर्चनम् अवधारय | आरुह्य वृषभेऽन्तस्थे उल्मुके शक्तिरूपिणी || साक्षाद्वक्षमयं देवि आरुह्य यत् कृतं मम | शिवलिङ्गं विनिर्माय अन्तस्थानं शुचिस्मिते || भूतशुद्धिं महेशानि प्राणायामं तथा प्रिये | अन्तर्न्यासं बहिर्न्यासं मातृकाद्या शुचिस्मिते || यानि यानि महेशानि श्रीकण्ठादीनि पार्वति | बहूनि परमेशानि न्यासानि कथितं मया || पूर्वतन्त्रे महेशानि यदुक्तं परमेश्वरि | कृत्वा तु सर्वं कृत्स्नेन बहुधा परमेश्वरि || भूतशुद्धौ महेशानि लक्षवर्षं गतं मम | दृष्ट्वानन्दमयीं देवीं हृत्पद्मे परमेश्वरि || प्. ९) शक्तिपुञ्जं महेशानि दृष्ट्वा देविञ्चराचरम् | सुषुम्नान्तर्गता देवि तत्रस्थां परमेश्वरीम् || सूक्ष्माति सूक्ष्मा परमां यवासिन्दूर आकृतिं | वर्तन्ते देवतास्तत्र वृक्षाद्याश्च तदा शिव || तां दृष्ट्वा परमेशानि अन्तरात्मनि पार्वति | लक्षवर्षं गते देवि उमुकोपरि पार्वति || सम्पूज्य प्रथमं धर्मं वाहनं मम पार्वति | उल्मुकं वृषभं देवि नाम्ना नन्दी प्रकीर्तितं || कामिनी या तु सा देव सा तु धर्मादयः प्रिये | शक्तिं विना महेशानि स्वां धर्तुं कथमुत्सहे || अनन्ताः शक्तयो देवि सर्वं मयि शुचिस्मिते | शक्तित्वात् परमेशानि मां हि धर्तुं समुत्सहे || शक्तिः स्वयं महेशानि धर्मश्चापि वृषः स्वयं | प्रथमं परमेशानि धर्म्मं संपूज्य सत्वरम् || ततस्तु परमेशानि पार्थिवं लिङ्गपूजनम् | कृत्वा क्रमेण पश्चाद्धि दृष्ट्वा तु पत्रकं सदा || श्री देव्युवाच- देव देव महादेव सृष्टिस्थित्यन्तकारकः | पूजनं धर्मराजस्य यथार्थं वद शङ्कर || ईश्वर उवाच- आसनं मम चार्वङ्गि स्वयं धर्मस्वरूपिणि | आसनं प्रथमं पूज्य धर्मपूजां यथा कृतिम् || प्. १०) निगदामि महेशानि सावधानावधारय | पूर्वोक्ततन्त्रवत्सर्वं स्नानमाचमनं प्रिये || शक्तिक्रमेण देवेशि कृत्वा सर्वं वरानने | धर्मबीजेन देवेशि यदुक्तं परमेश्वरि || कृत्वा तु बहुयत्नेन मातृकान्यासपूर्वकम् | पूर्वोक्त तन्त्रवद्देवि प्रथमं परमेश्वरि || कृत्वा तु भूतशुद्धिं वै मातृकान्यासमाचरेत् | प्राणायामं ततः कृत्वा अर्घ्यस्थापनमाचरेत् || पूर्वोक्ततन्त्रवद्देवि अर्घ्यं परमदुर्ल्लभं | वर्ममन्त्रं वरारोहे तत्रस्थो जपमाचरेत् || सर्वं हि पूर्ववत्कृत्वा कामिनीं धर्मरूपिणीं | ध्यात्वा तु परमेशानि हृत्पद्मे परमेश्वरीं || ध्यानं शृणु वरारोहे साक्षादानन्दरूपिणं | कोटिचन्द्रप्रभाकारं श्वेतसिंहासनस्थितम् || चतुर्भुजं महाबाहुं पद्मनेत्रं मनोहरं | आजानुलम्बिनी माला हृदि यत्परिशोभिता || गङ्गातरङ्गकर्पूरं शुभ्राम्बरविभूषितं | हास्ययुक्तं कटाक्षञ्च भुवनत्रयमोहनम् || उल्मुकं भावयेद्देवं साक्षाद्धर्मं त्वकारणम् | ध्यात्वैवं मनसा देवि हृत्पद्मे परमेश्वरि || प्. ११) संपूज्य परमेशानि मानसैः परमेश्वरि | जपञ्च मानसं कृत्वा धर्ममन्त्रं शुचिस्मिते || धर्ममन्त्रं महादेवि शृणु वक्ष्यामि कामिनि | यन्नोक्तं सर्वतन्त्रेषु इदानीं कथयामि ते || प्रणवं पूर्वमुद्धृत्य दन्तिबीजं ततः प्रिये | वर्णबीजयुतं कृत्वा मुद्रा?युक्तं ततः कुरु || धर्मशब्दं चतुर्थ्यन्तं वह्निजाया ततः | एषा सप्ताक्षरी विद्या चतुर्वर्गफलप्रदा || लक्षं जप्त्वा महेशानि समर्प्य दक्षिणे त्यजेत् | आरुह्य धर्मरूपे च वृषे उल्लूकसंज्ञके || संपूज्य पार्थिवं लिङ्गं विधिना येन पार्वति || || इति लिङ्गार्चन तन्त्रे हरपार्वतीसंवादे द्वितीयः पटलः || ईश्वर उवाच- स्वगात्रे भस्म आदाय लिङ्गं निर्माय कामिनि | भस्माभावे महेशानि लिङ्गं कुर्याच्च मृण्मयम् || दृष्ट्वा तु विस्मयाविष्टो सततं नगनन्दिनि | किं करोमि क्व पृच्छामि इति चिन्ताकुलाम्यहम् || शरीरस्थं महेशानि भस्म आदाय यत्नतः | स्वगात्र स्पर्शनाद्भस्म साक्षात्तु चन्द्रचन्दनम् || || ओं विं धर्माय स्वाहा || प्. १२) हस्ते गृहीत्वा देवेशि भस्मस्थं चन्दनप्रभं | मातृकामन्त्रमुच्चार्य अनुलोम विलोमतः || गङ्गाजलैः श्लथं कृत्वा निर्माय पार्थिवं शिवम् | जटासु च स्थिता गङ्गा सततं परमेश्वरि || गङ्गा त्रिजगतां माता सर्वदा पापहारिणी | आदिभूता जगन्माता साक्षात् शक्तिस्वरूपिणी || अत्रेहान्यं प्रवक्ष्यामि गुरूं परमदुर्लभम् | भारनाशाय विष्णुश्च स्थितो यदा अभूत्प्रिये || कृष्णनाम्ना महेशानि कारणं तस्य संशृणु | ब्रह्मशापभवात् कृष्ण पिप्पलस्थो यमाश्रितः || तत्र व्याधोदुराधर्षो कृष्णस्य चरणश्रिये | विव्याध कृष्णं सव्याधः शापं संनम्य निर्मितम् || लोहनिर्मितवाणेन कृष्णस्य चरणे रुषा | व्यधिते परमेशानि कृष्ण * * करः सदा || स्वधामं गतवान् देवि वृक्षदण्डहतः प्रिये | जाज्वल्यमानं तत् शापं कृष्णस्य चरणे सदा || दाहयामास सर्वं हि कृष्णस्य चरणं तदा | वृक्षशापं स्वचाधर्मं चरणे सततं स्थितं || ददाह परमेशानि कृष्णस्य वपुरुत्तमं | सत्वरं प्रययौ विष्णुः कृष्णलोकं वरानने || प्. १३) सर्वं हि पूर्वं विज्ञातं कृष्णशापं वरानने | वृक्षञ्च कथयामास प्रणिपत्य वरानने || विष्णोर्वाक्यं महेशानि श्रुत्वा कृष्णः प्रजापतिः | उवाच मधुरं वाक्यं विष्णवे प्रभविष्णवे || शृणु वाक्यं महाविष्णो औषधं परमौषधं | औषधं जाह्नवीतोयं मम कमण्डलौ स्थितं || पादौ प्रक्षाल्य देवेश निष्पापो भव सुन्दर | त्रिलोकजननीगङ्गा आदिशक्तिर्जगन्मयी || हरिस्तु पादौ प्रक्षाल्य कमण्डलुजलात् प्रिये | आदौ शिवमिमं वन्द्य पादं पंचाननं ततः || विन्यस्य परमेशानि तत्पापं मज्जनात् प्रिये | वैकुण्ठं प्रययौ शीघ्रं स हरिः परमेश्वरि || ततः पादावनीयात् सा गत्वा त्रिपथगामिनी | भूमौ भागीरथी नाम तले भोगवती तथा || स्वर्गे मन्द्रा महामाया विष्णोर्यशः प्रकाशिनी | सा गत्वा परमेशानि पुण्यरूपावधारणे || जटाजूटे महेशानि सततं मम संस्थिता | पृथ्व्यप्तेजो महेशानि वायवाकाशं वरानने || इदं तत्त्वं महाद्वारं सप्तावरणसंयुतं | प्रज्ञावेष्टितं सर्वं प्रलये मयि पार्वति || प्. १४) विभूति भूषणां देवि पृथिवीं विद्धि पार्वति | अपस्तु परमेशानि गत्वाश्नीयाज्जटातटे || यत्तेजः परमेशानि तदग्निं विद्धि पार्वति | नासिकायां वहेद्वायु तद्वायुं विद्धि पार्वति || आकाशं कण्ठदेशन्तु शिवस्य सततं प्रिये | महत्तत्त्वमहङ्कारं प्रकृतिः शक्तिरूपिणी || शिवस्य परमेशानि शरीरे संस्थिता सदा | शरीरस्य महेशानि कारणं परमं पदम् || अत एव महेशानि श्लथं कृत्वा तु चन्दनम् | निर्माय पार्थिवं देवि यथा पूजित वाहनम् || तत्शृणुस्व च चार्वङ्गि गुह्यं परमदुर्लभम् | उत्तराभिमुखोभूत्वा उल्मुकोपरि पार्वति || पद्मासनेनोपविश्य यत्कृतं परमेश्वरि | तत्सर्वं परमेशानि निगदामि शृनु प्रिये || हस्तप्रमाणं लिङ्गां हि निर्माय परमेश्वरि | सर्वाङ्गसुन्दरं लिङ्गं सर्वावयव सुन्दरम् || दिव्याकृतिं महेशानि साक्षात् रुद्रं सुरेश्वरि | वेष्टिता अञ्जली लिङ्ग प्रकृतिः परमेश्वरि || द्वयोरेकतमाद्देवि परं ब्रह्म परं पदम् | तत्क्षणाज्जायते देवि किञ्चिन्नास्त्यत्र संशयः || प्. १५) उक्तञ्च पार्थिवं लिङ्गं मृत्स्नाभेदेन पार्वति | शुक्लं रक्तं तथा पीतं कृष्णञ्च परमेश्वरि || शुक्लं तु ब्राह्मणे शस्तं क्षत्रिये रक्तमिष्यते | हरितं वैश्यजातौ तु कृष्णं शूद्रे प्रकीर्तितम् || चन्दनञ्च महेशानि सर्वाजातिषु शस्यते | चन्दनं हि म्हेशानि विभूतिभूषणो मम || तस्माद्धि चन्दनं भद्रे सर्वजातिषु शस्यते | ब्रह्माण्डमोहनं देवि चन्दनं मम लेपनम् || दाहनात् परमेशानि शुक्लरूपञ्च भूषणं | ब्रह्माण्डबीजं देवेशि सर्वशक्तिमयं सदा || शुक्लरूपं महेशानि तद्भस्म कमलानने | ब्रह्माण्डबीजं तद्भस्म ममाङ्गे सततं स्थितं || चन्दनस्य तु लिङ्गं हि निर्माय यस्तु पूजयेत् | ब्रह्माण्डं पूजयेत्तेन महामोक्षप्रदायकम् || शुक्लं हि पार्थिवं लिङ्गं निर्माय यस्तु पूजयेत् | स च विप्रो महेशानि त्रिवर्गकुलभाग्भवेत् || क्षत्रियश्च वरारोहे रक्तं निर्माय पार्थिवं | पूजयेत् सततं यस्तु त्रिवर्गं कुलभाग्भवेत् || हरितं पार्थिवं देवि निर्माय यस्तु पूजयेत् | स च वैश्यो महेशानि त्रिवर्गकुलभाग्भवेत् || प्. १६) कृष्णं हि पार्थिवं लिङ्गं निर्माय यस्तु पूजयेत् | स शूद्रः परमेशानि त्रिवर्गकुलभाग्भवेत् || मृत्सूक्ते परमेशानि वर्णभेदेन सुन्दरि | संगृह्य मातृकामन्त्रैरनुलोमविलोमतः || जप्त्वान्ते परमेशानि दशधा परमेश्वरि | इति मन्त्रं जप्त्वा वै मृत्सु प्राप्य वरानने || सर्वशक्तिमये देवि मूर्तिके त्रिदशेश्वरि | निर्माय पार्थिवं लिङ्गं शिवपूजां करोम्यहम् || द्वारं धर्मश्च कामश्च अर्थञ्चोक्तं त्वयीश्वरि | चतुर्वर्गप्रदे देवि नानारत्नविभूषिते || त्वां विना परमेशानि ज्ञात्वा प्रोक्तं कुतः सुखं | अर्थकामौ च देवेशि त्वां विना न हि जायते || ओं ह्रीं मूर्तिके दुष्कृति हरे ह्रीं ओं इति मन्त्र समुच्चार्य गृह्णीयात् भृत्तिकां प्रिये | द्वादशाक्षरमन्त्रं च यदा मम हृदि स्थितं | अति गोप्यं महत्पूण्यं चतुर्वर्गप्रदायकम् || अज्ञात्वा परमेशानि गृह्णीयाद्यस्तु मृतिकाम् | निष्फला तस्य सा पूजा पार्थिवस्य शिवस्य च || ओं हराय इति मन्त्रेण गृह्णीयाद्वा शुचिस्मिते | निर्माणं मातृकामन्त्रैः ओं महेश्वराय इति प्रिये || प्. १७) उच्चार्य मातृकामन्त्रं शूलपाणे ततः परम् | सुप्रतिष्ठो भव इत्युच्चार्य मातृकां ततः || प्राणं नियोजयेद्देवि पार्थिवे शिवलिङ्गके | प्राणपतिष्ठामन्त्रेण प्राणं नियोजयेत् ततः || भूतशुद्धिं महेशानि प्रथमं परिकीर्तयेत् | पूर्वोक्तमन्त्रवत् कुर्यात् भूतशुद्ध्यादिकं च यत् || ततस्तु मातृकान्यासं कुर्यात्परमयत्नतः | प्राणायामं ततः कुर्यात् शिवं ध्यात्वा शुचिस्मिते || ध्यात्वा शिवं महादेवं सर्वदेवादिकारणम् | ध्यात्वा षोडशधा देवि वामनाड्यां वरानने || वायुमापूर्य चार्वङ्गि ध्यानमार्गेण कामिनि | वायुधारणमाचर्य रेचकं कारयेत् सुधीः || पूरकं धारकं देवि रेचकं परमेश्वरि | प्राणस्य सततं देवि प्राणायाममिदं स्मृतम् || द्वादशाकुलमानेन प्राणं हि परिकीर्तितं | प्राणश्च परमेशानि आत्मज्ञानं शुचिस्मिते || यस्तु प्राणं महेशानि सर्वाङ्गं परिकीर्तितम् | प्रदीपकलिकाकारं हृदये विद्यते प्रिये || परं ब्रह्म महेशानि प्रदीपकलिका कृति | अन्तरात्मा महेशानि सर्वेषां हृदि विद्यते || प्. १८) अन्तरात्मा परब्रह्म शरीरं व्याप्य तिष्ठति | द्वयोस्तेजो वरारोहे शक्तिः प्रकृति रूपिणी || प्राणायामस्य काले तु दृष्ट्वाश्चर्यं वरानने | यद्युक्तं परमं गुह्यं तन्निशामय योगिनि || || इति लिङ्गार्चनतन्त्रे हरपार्वति संवादे तृतीयः पटलः || ३ || ईश्वर उवाच- आत्मा ब्रह्ममयो भूत्वा यदुक्तं परमेश्वरि | तत्क्षणं परमेशानि दृष्टमानन्दमद्भुतम् || १ || मनोमयं महेशानि कृत्वा तत्रैव पार्वति | सुधान्तरे महेशानि मनोभूत्वा वरानने || २ || लक्षवर्षं महेशानि गतवान् परमेश्वरि | प्राणायामक्षणे देवि लक्षवर्षं गतं मम || ३ || यद्दृष्टं परमेशानि निर्दिष्टं तत् शृणु प्रिये | नातः परतरं किंचिद् वर्तते मम गोचरे || ४ || पर्यङ्कं परमेशानि आश्चर्यं रूपमद्भुतं | तत्र फेननिभां शययां नानावस्त्र विभूषिताम् || ५ || सा शयया परमेशानि महावस्त्रा सदाशिवः | तस्योपरि महेशानि सुप्तां त्रिपुरसुन्दरीम् || ६ || यवायावक सिन्दूरसदृशाकृति कामिनीम् | चतुर्भुजां त्रिनेत्राञ्च पञ्चबाणधनुर्धराम् || ७ || प्. १९) वरदाभयमुद्रां च धारिणीं परमेश्वरीम् | दृष्ट्वानन्दमयीं लोलां लक्षवर्षं गतं मम || ८ || यदा च परमेशानि मम दृग्गोचरं गता | तदैव सहसा तु सूक्ष्मरूपमुपागता || ९ || ध्यानभङ्गो महेशानि तदैव मम सुन्दरि | तत्रैव दृष्टं ब्रह्माण्डं ब्रह्माद्यास्त्रि दिवौकसः || १० || शक्तिं विना महेशानि नास्ति किञ्चिन्मयि प्रिये | शक्तिर्हि ब्रह्मणो रूपं शक्ति पुञ्जं वरानने || ११ || शक्तिं विना महेशानि न किंचिन्मम गोचरे | एवं हि क्रमशो देवि प्राणायाममनुत्तमम् || १२ || प्राणायामे कृते देवि मातृकान्यासमुत्तमम् | कृत्वा न्यासं महेशानि मातृकां विश्वमोहिनीं || १३ || अतः परं वरारोहे श्रीकण्ठन्यासमाचरेत् | श्रीकण्ठन्यासमात्रेण शिवोऽहं कमलानने || १४ || श्रीकण्ठं परमेशानि त्रैलोक्ये चापि वन्दितं | पूर्वोक्त तन्त्रवत्सर्वं विशेषार्ह्यं च कामिनि || १५ || सर्वं कुर्यान्महेशानि यत्नतः परमेश्वरि | ध्यायेत् शिवं महेशानि हृत्पद्मे कमलेक्षणे || १६ || हृत्पद्मे परमेशानि ब्रह्मज्ञानं मनोहरम् | जीवस्य स्थानमत्रोक्तं हृदयं परमं पदम् || १७ || प्. २०) हृत्पद्मं द्वादशदलं सहस्रादित्यवर्चसम् | तन्मध्ये भावयेद्देवं शिवं मृत्युञ्जयं प्रिये || १८ || शुद्धस्फटिकसंकाशं पञ्चवक्त्रं महाप्रभम् | आजानुबाहु देवेशि रक्तपद्मच्छवीक्षणम् || १९ || किरीटिनं कुण्डलिनं केशराङ्क सुशोभितम् | सततं हास्ययुक्तञ्च दन्तपंक्तिविराजितं || २० || रुद्राक्षशोभितं वक्षः जटाशोभितमस्तकम् | व्याघ्रचर्मपरीधानं दशबाहुविराजितं || २१ || एवं ध्यात्वा महादेवं सदा मृत्युञ्जयं प्रिये | शक्तियुक्तं महादेवं सर्वज्ञं सर्वमोहनम् || २२ || सर्वज्ञ चिन्तनं कृत्वा एकाङ्गं चिन्तयेत्ततः | एकाङ्गञ्च परित्यज्य समाधिर्जायते ततः || २३ || समाधिकाले देवेशि यत् तेजस्तूपजायते | तन्निशामय देवेशि ज्ञानं परमशोभनम् || २४ || सर्वज्ञञ्च परित्यज्य यत् तेजस्तूपजायते | स एव परमेशानि शिवो मृत्युञ्जयः प्रिये || २५ || प्रदीपकलिकाकारां प्रकृतिं विद्धि पार्वति | तत्र तेजसि देवेशि अद्भुतात्मा सदा स्थितः || २६ || अद्भुतात्मा महेशानि कार्यकारणवर्जितम् | भ्रमरं भ्रमरी बद्ध्वा हृत्पद्मे परमेश्वरि || २७ || योगस्थोऽहं महेशानि लक्षवर्षं गजो मम | एतस्मिन् समये देवि भ्रमरीं गतवान् प्रिये || २८ || आज्ञापुरं महेशानि तद्दृष्ट्वा भ्रमर प्रिये | तत्पश्चात् प्रद्ययौ शीघ्रं लोलत्वं कमलानने || २९ || कार्यञ्च कारणञ्चैव प्रकृतिं विद्धि पार्वति | एवं ध्यानपरो भूत्वा यत् कृतं तत् शृणु प्रिये || ३० || भ्रमरश्च महेशानि भ्रमर्या सह सुन्दरि | ज्ञानपाशेन विज्ञातो अन्योन्यं च शुचिस्मिते || ३१ || षट्पद्मसंस्थितो भूत्वा मधुपानयुतः सदा | भ्रमरी परमेशानि साक्षान्मोक्ष प्रदायिनी || ३२ || यत्र यत्र महेशानि भ्रमरी याति सुन्दरी | तत्र तत्र महेशानि भ्रमरः प्रययौ द्रुतम् || ३३ || भ्रमरीं तु गते देवि योगभङ्गमभून्मया | योगस्थे सति चार्वङ्गि षट्पुरं परमाद्भुतम् || ३४ || षट्पुरीपरमेशानि सदा ज्योतिर्मयी प्रिये | पूरीं ज्योतिर्मयीं दिव्यां परमामृतपूरिताम् || ३५ || दृष्ट्वा पद्मवनं भद्रे कदाचिन्न निवर्तते | भ्रमरी मम देवेशि नहि याति वनात् प्रिये || ३६ || श्रीदेव्युवाच- तत्कथं परमेशान भ्रमरस्तत्र जायते | ज्ञानपाशं महेशान चिद्व्योम प्रययौ कथम् || ३७ || प्. २२) ईश्वर उवाच- भ्रमरी चाङ्गना देवि पक्षि यस्यानुगामिनी | अत एव महेशानि योगमङ्गममून् मम || ३८ || अत एव महेशानि बाह्यपूजां समाचरेत् | भेत्तुरभिमुखो भूत्वा उल्मुकोपरि पार्वति || ३९ || उपविश्य महेशानि यथा पूजितवाहनः | निगदामि शृणु प्रोक्तं तत्सर्वं वरवर्णिनी || ४० || अन्तःपूजां विधायैवं बाह्यपूजां यथा कृतम् || || इति लिङ्गार्चनतन्त्रे हरपार्वतीसंवादे चतुर्थः पटलः || ४ || ईश्वर उवाच- पूर्वोक्तं तन्त्रवत् सर्वप्रथमं परमेश्वरि | कृत्वा तु बहुयत्नेन बाह्यध्यानं समाचरेत् || पूर्वोक्त ध्यानं देवेशि कृत्वा पुष्पं विनिक्षिपेत् | मण्डपं रक्तवर्णं हि चतुर्द्वारसमन्वितम् || सुवेशं सुन्दरं रम्यं प्रस्तूय परमेश्वरि | नन्दिपृष्ठे महेशानि कृत्वा तु चन्दनोपरि || चतुरस्रं चतुर्द्वारं परमज्ञानसंयुतं | आत्मदक्षिणवेद्यां हि पूर्ववेद्यां शृणु प्रिये || पूर्वस्यां दिशि या वेदी अन्तरात्मा तु गीयते | या वेदी उत्तरे देवि परमात्मा सा च गीयते || या वेदी पश्चिमे देवि ज्ञानात्मा सा च गीयते | चतुरस्रे चतुष्कोणे अणिमाद्यष्ट सिद्ध्यः || प्. २३) वर्तन्ते सततं देवि नात्र कार्या विचारणा | अणिमा पूर्ववेद्यां च महिमा वह्नि कोणके || व्याप्तिस्तु याम्यवेद्यां वै नैर्-ऋते प्राकाम्य पार्वति | महिमा पश्चिमे देवि ईशिता वायुकोणके || वशिता ऊर्ध्वे देवेशि ऐशाने कामसुन्दरी | तन्मध्ये परमेशानि बिन्दुं निर्माय सुन्दरम् || तन्मध्ये परमेशानि कामबीजं वरानने | विलिख्य बीजं देवेशि सर्वशक्तिमयं प्रिये || चतुरस्रं हि संवेष्ट्य कुण्डली द्वितयं प्रिये | संलिख्य परमेशानि कुण्डलीं विश्वमोहिनीम् || चतुरस्रे महेशानि चतुरस्रं प्रणवं लिखेत् | ततस्तु परमेशानि अष्टबीजं क्रमाल्लिखेत् || तद्बीजं परमेशानि क्रमाद् वक्ष्यामि संशृणु | बिन्दूर्ध्वसंयुतं देवि संलिख्य अभयं प्रिये || बिन्दूर्ध्वसंयुतं कृत्वा पृथिवीबीजं ततः परम् | शक्तिबीजं महेशानि बिन्दुर्ध्वसंयुतं प्रिये || पुनः शक्तिं महेशानि संलिख्य पूर्ववत् सदा | पपञ्चमं महेशानि कृत्वा बिन्दूर्ध्वसंयुतं || वामाक्षिसंयुतं बिन्दुं कृत्वा परमयत्नतः | वलबीजयुतं कृत्वा संलिख्य परमेश्वरि || प्. २४) अष्टबीजं महेशानि अष्टैश्वर्य प्रदायकम् | सर्वं वेष्ट्य महेशानि महाकुण्डलिनी प्रिये || संलिख्य चञ्चलापाङ्गि मन्त्रं ब्रह्माण्डरूपिणम् | द्वारस्य बाह्यकोणे तु अष्टपद्मं शुचिस्मिते || संलिख्य बहुयत्नेन सुन्दरं सुमनोहरं | एतन्मात्रं वरारोहे सदा मम हृदि स्थितम् || एतन्मन्त्रप्रभावेण सिद्धोऽहं च नगात्मजे | एतन्मन्त्रं महेशानि सुरासुरसुदुर्लभम् || अतः परं महेशानि निर्माणं शृणु पार्वति | हस्तमात्रप्रमाणेन चन्दनस्य महेश्वरि || निर्माय विधिवल्लिङ्गं घटितं चन्दनेन च | आत्मनो हस्तमात्रं हि निर्माय सुरपूजिते || संस्थाप्यमन्त्रमध्ये तु कामबीजोपरि प्रिये | सम्पूज्य ध्यानमाचर्य तस्योपरि विनिक्षिपेत् || बिल्वपत्रं महेशानि ब्रह्मविष्णु शिवात्मकम् | गुणत्रयात्मकं देवि त्रिपत्रं सर्वदायकम् || ततस्तु परमेशानि कृत्वा सङ्कल्पमानसम् | यथा पूर्वं महादेवं ब्रह्माण्डं स्थितवानसौ || तथा भवतु ब्रह्माण्डं इति संकल्पमेव च | त गोप्यं मम देवेशि ननाम परमेश्वरि || प्. २५) न माता परमेशानि न पिता मम कामिनि | तस्मिन् काले महेशानि मम सर्वं न हि प्रिये || न वारं न तिथिं देवि तस्मिन्काले शुचिस्मिते | न काष्ठां न कलां देवि तस्मिन्काले वरानने || न दिवा परमेशानि न रात्रिं परमेश्वरि | अत एव महेशानि संकल्पं मानसं स्मृतम् || मानसं यदि आयाति तदा स्थूलेन किं प्रिये | संकल्पं मानसं देवि चतुर्वर्ग प्रदायकम् || स्थूलं हि परमेशानि सङ्कल्पं व्यर्थमुच्यते | सङ्कल्पेन विना देवि यत्किंचित् कृतवान् सुधीः || यदुक्तं परमेशानि तत्सर्वं मानसं परम् | यदुक्तं परमेशानि मुनिना क्षुद्रबुद्धिना || तत्सर्वं परमेशानि व्यर्थं भवति पार्वति | इति सङ्कल्पमाचर्य जीवन्यासं समाचरेत् || जीवन्यासं महेशानि सावधानावधारय | प्राणापानसमानश्च उदानव्यान एव च || पञ्चप्राणा इमे देवि हृदये मम विद्यते | हृदि प्राणो महेशानि अपानन्तु गुदे प्रिये || नाभिदेशे समानन्तु उदानं कण्ठदेशतः | व्यानन्तु परमेशानि शरीरं व्याप्य तिष्ठति || प्. २६) एतान् वायून् महेशानि प्रणवेन समाचरेत् | प्रतिपद्मं महेशानि तेजः पुञ्जं प्रजायते || वामनासापुटे नीत्वा तत्तेजः प्रणवे प्रिये | वामनासापुटे देवि लक्षं विश्राम्य पार्वति || तदोजः परमेशानि जवाकुसुमसन्निभम् | शिवलिङ्गे विनिक्षिप्य तदोजः कमलानने || इति कृत्वा महेशानि वायोर्मन्त्रं शृणुष्व मे | पञ्चमन्त्रं वरारोहे सावधानावधारय || ओं प्राणाय इति देवेशि अन्ते स्वाहां समुच्चरेत् | ओं अपानाय स्वाहा इत्यन्तं सुरपूजिते || ओं समानाय इति स्वाहान्तं सुरवन्दिते | ओं उदानाय स्वाहा इत्यन्तं मीनलोचने || ओं व्यानाय इति स्वाहान्तं सर्वदा सदा | पञ्चमन्त्रं जपित्वा वै प्राणं न्यस्य शिवोपरि | धृत्वा शिवं महेशानि सततं ज्ञानमुद्रया || प्राणप्रतिष्ठां देवेशि विशेषं शृणु पार्वति | ओं ह्रां ह्रीं यं रं लं वं शं षं सं हं क्षं सौं नमः शिवायेति उच्चार्य यत् कृतं मया अस्य शूलपाणेः प्राणाः इह प्राणाः | पूर्वमन्त्रं समुच्चार्य अस्य शूलपाणेः सर्वेन्द्रियाणि पुनः पूर्वमुच्चार्य अस्य शूलपाणेः वाङ्मनः चक्षुः श्रोत्रं प्राण प्राणा इहागत्य चिरं तिष्ठन्तु स्वाहा | इति | ततः पुनः समुच्चार्य ओं नमः शिवाय षडक्षरम् | इति मन्त्रं महेशानि उच्चार्य सप्तवा प्रिये || प्. २७) धृत्वान्ते परमेशानि लिङ्गं श्रीकण्ठनिर्मितं | अतः परं महेशानि पाद्यं दत्त्वा वरानने || अर्घ्यञ्चाम्चमनीयञ्च दत्त्वा तु शिवालिङ्गके | पूर्वोक्तध्यानं देवेशि कृत्वाहं वरवर्णिनि || कलकण्ठप्रिये देवि बिल्वपत्रैः शुचिस्मिते | ध्यानञ्च हृदयायान्तं कृत्वा पुष्पं शुचिस्मिते || लिङ्गे निक्षिप्य देवेशि बिल्वपत्रं मनोहरं | ततस्तु परमेशानि आवाह्य परमेश्वरम् || पूर्वोक्ततन्त्रवत्सर्वं कृत्वाहं जगदीश्वरि | तर्पणं त्रिविधं दत्त्वा आत्माभेदेन सुन्दरि || ततस्तु प्रार्थनं मन्त्रं पठित्वा परमेश्वरि | आगच्छ देवदेवेश लिङ्गेऽत्र सुस्थिरो भव || स्थितो भूत्वा महादेव पूजां गृहण नमोऽस्तुते | तव प्रसादाद्देवेश ब्रह्माण्डं रचयाम्यहम् || ततस्तु षोडशैर्देवि उपचारैः पृथक् पृथक् | सम्पूज्य देवदेवेशं लिङ्गं श्रीकण्ठसम्भवम् || ततस्तु अञ्जलिं देवि दत्तं भक्त्या शिवाय वै | सर्वं दद्यान्महेशानि लिङ्गे श्रीकण्ठसम्भवे || एतस्मिन् समये देवि उल्मुकं सव्यविक्रमः | यदुक्तं मयि चार्वङ्गि निगदामि शृणु प्रिये || || इति लिङ्गार्चनतन्त्रे हरपार्वतीसंवादे पञ्चमः पटलः || ५ || ईश्वर उवाच- मृत्युञ्जय महाबाहो वचनं प्रथमे प्रभो | न शक्नोमि महादेव धर्तुं लिङ्गं कदाचन || मम पृष्ठे महादेव द्वितीयं शिवमेव हि | स्थित्वान्तरिक्षे देवेशि धारयामि कथं प्रभो || क्षमस्व देवदेवेश कृपां कुरुमयि प्रभो | नमस्ते देवदेवेश परमेशः पुरातनः || नमस्ते जगतां नाथ मृत्युञ्जय नमोऽस्तु ते | उल्मुकस्य वचः श्रुत्वा किं करोमि इति प्रिये || चिन्ताकुलोऽहं देवेशि तत्क्षणादपि पार्वति | ध्यानस्थोऽहं महादेवि तत्क्षणादपि पार्वति || विभाव्य हृदये देवीं तडिन्मे * तनीमयीं | हृत्पद्मान्त स्थितां देवीं सुन्दरीं सूक्ष्मरूपिणीं || साक्षान्मन्त्रमयीं दिव्यां षोडशीं मोक्षदायिनीं | इति रूपं महेशानि दृष्ट्वाश्चर्यं वरानने || शीविद्यां परमां सूक्ष्मां मयाराध्यां शुचिस्मिते | सुषुम्नान्तर्गतां विद्यां धर्मकामार्थमोक्षदाम् || परं ब्रह्ममयीं नित्यां शब्दब्रह्मस्वरूपिणीं | सिन्दूरसदृशाकारां यवायावकसन्निभां || तरुणादित्य सङ्काशां प्रणम्य परमेश्वरीं | प्रजप्य परमेशानि श्रीविद्यां परमेश्वरीं || प्. २९) जपित्वा मानसे देवि दशधा परमेश्वरि | अन्तरात्मनि सा देवी यदुक्तं मयि पार्वति || शृणु तत्साम्प्रतं गुह्यं ज्ञानसारं वदामि ते | माभैर्माभैर्महादेव मृत्युञ्जय सदाशिव || मां विना परमेशान नास्ति किञ्चित्तपोधन | एतद्विश्वं महादेव सप्तावरणसंयुतम् || सर्वमेतन्महादेव ब्रह्माण्डं मयि वर्तते | शक्तिं विना महादेव न किञ्चिद्विद्यते प्रभो || शक्तिं विना महादेव जगत् शवमयं सदा | प्रलये सति देवेश मयि सर्वमुपस्थितम् || कथिते सति चार्वङ्गि तदित् शक्तिपुरीं ययौ | ईश्वर उवाच- यदुक्तं परमेशानि सा तडित् परमेश्वरि | शृणु गुह्यं महेशानि ज्ञानसारं वदामिते || मृत्युञ्जय महाबाहो भ्रमश्च उपजायते | एतद्धिपूजनं देव भ्रमजन्यं सदाशिव || श्रीविद्या परमाराध्या सर्वदा तव सुव्रत | तत्कथं परमेशान इष्ट विद्यां त्यजेत् प्रभो || इष्टविद्यां प्रथमतो जप्त्वा देवि समर्चयेत् | एतद्धि केवलाद्देव बलहीनश्च उल्मुकं || इदानीं स्मर देवेन्द्र मृत्युञ्जय सदाशिव | तस्या वाक्यं ततः श्रुत्वा प्रणम्य मोक्षरूपिणीम् || प्. ३०) तत उल्मुकमाश्वास्य कथितं यत् शृणु प्रिये | भो विश्व उल्मुकस्त्वं हि वदामि वरमुत्तमम् || कलौ तु भारतेवर्षे प्रादुर्भावो भविष्यति | तव देव महाभाग उल्मुकं सत्यविक्रमः || कामिनी त्वं महाभाग धर्मस्त्वं श्वेतरूपधृक् | कलौ तु तवपूजायां योऽन्यच्च मनसायुतं || ब्राह्मणः क्षत्रियो वापि वैश्यो वा शूद्रजातयः | तत्क्षणात् परमेशानि तेषां व्याधिः प्रजायते || योगभङ्गं महेशानि तत्क्षणात् मम जायते | इष्ट विद्यां न जप्त्वा वै विघ्नं तस्मात्प्रजायते || जगत्शक्तिमयं सर्वं यो न वेत्ति स नारकी | योगभङ्गं महेशानि कृत्वा सुन्दरि यत्कृतम् || तत्सर्वं शृणु चार्वङ्गि पार्थिवस्य मखं प्रिये | विभाव्य मुखपद्मं हि शिवस्य वरवर्णिनि || सद्योजातं वामदेवं अघोरञ्च ततः परम् | तत्पुरुषं तथेशानं पञ्चवक्त्रं प्रकीर्तितम् || सद्योजातञ्च वै शुक्लं शुक्लेन तेजसान्वितं | पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् || कृष्णवर्णमघोरञ्च समं भीम विवर्धनम् | रक्तं तत्पुरुषं देवं दिव्यमूर्तिं मनोहरम् || प्. ३१) श्यामलञ्च तथेशानं सर्वदेवशिवात्मकं | चिन्तयेत्पश्चिमेनाद्यं द्वितीयन्तु तथोत्तरे || अघोरं दक्षिणे देवं पूर्वे तत्पुरुषं तथा | ईशानं मध्यतो ज्ञेयं चिन्तयेद् भक्तितत्परः || पञ्चमन्त्रं महेशानि निगदामि वरानने | मृत्युञ्जयोऽहं देवेशि यज्जप्त्वा परमेश्वरि || समस्तानां स्वराणान्तु दीर्घाः शेषाः सबिन्दुकाः | ऋ-ऌशून्याः सार्धचन्द्र प्रणवैः सहिता सदा || पञ्चवक्त्रं महेशानि पञ्चभूतात्मकं सदा | पृथिवीं वायुबीजञ्च आप आकाशमेव च || इति तत्त्वं महेशानि पञ्चभूतं परम्पदम् | सद्योजातक्रमेणैव भावयेत्परमेश्वरि || क्रमात् सन्मद सन्मोह नाद गौरवसंज्ञकाः | प्रसादस्तु भवेत् पुष्टः पञ्चमन्त्राः प्रकीर्तिताः || आमोदकारकः शम्भोर्मन्त्रः सन्मद् उच्यते | मनः प्रपूरं गत्वा च सन्मोहः परिकीर्तितः || आकर्षणं महेशानि नादमन्त्रं प्रकीर्तितं | श्रेष्ठं हि गोरवं मन्त्रं धर्मार्थकाममोक्षदं || प्रासादं परमेशानि विभवप्रदमुच्यते | एकैकेन तथैकैकं वक्त्रं मन्त्रेण पूजयेत् || प्. ३२) एकं समुदितं कृत्वा पञ्चभिर्वै प्रपूजयेत् | एतत्तत्त्वं महेशानि ज्ञानसारं शिवस्य हि || सर्वेषां स्थावरादीनां ज्ञानसारं सुदुर्लभम् | तवभक्त्या मयाख्यातं ज्ञानसारं सुदुर्लभम् || || इति लिङ्गार्चनतन्त्रे हरपर्वती संवादे षष्ठः पटलः || ६ || अपरञ्च महेशानि ज्ञानसारं शृणु प्रिये | यस्य स्मरणमात्रेण आपदः प्रलयं गताः || ध्यायेन्नित्यं महादेवं रजताद्रिसमप्रभम् | हास्ययुक्तं प्रसन्नासां श्रवणे चन्द्रमण्डनम् || आरक्तनयनं देवं पञ्चवक्त्रं मनोहरं | जटाजूटसमायुक्तं प्रतिवक्त्रत्रिलोचनम् || योगपद्मसमासीनं मुण्डमाला विभूषणम् | विभूतिभूषणं देवं व्याघ्रचर्मपरिच्छदम् || चतुर्भुजं महाकायं अक्षमालाधरं सदा | एवं हि चिन्तयेद्देवं देवदेवं सनातनम् || एवं हि चिन्तयित्वा तु सर्वदेवेश्वरेश्वरम् | अणिमाद्यष्टसिद्धिवत्पूजां कृत्वा वरानने || स्वस्वमन्त्रैः प्रपूज्याथ बिल्वपत्रैर्वरानने | चतुर्थ्यन्तं महेशानि कृत्वा सिद्धिन् शुचिस्मिते || आदौ प्रणवमुच्चार्यं यद्बीजं पुनरुद्धृत्य चतुर्थ्यन्तं शुचिस्मिते | बीजं हि पुनरुद्धृत्य प्रणवान्तं ततः परः || अनेनैव विधानेन अष्टविद्या शुचिस्मिते | अष्टविद्यां महेशानि संपूज्य सुरवन्दिते || प्रतिकोणे महेशानि चतुर्दिक्षु च सुन्दरि | सम्पूज्य विधिवद्भक्त्या जप्त्वा स्तुत्वा शुचिस्मिते || कृत्वा पूजां महादेवि अष्टमूर्तिशिवस्य च | यथां परमेशानि तत् शृणुष्व वरानने || द्वारदेशे महेशानि अष्टमूर्तिं प्रपूज्य वै | सिद्धोऽहं परमेशानि सम्पूज्य विधिवत्सदा || अष्टमूर्तेर्महेशानि नामानि शृणु सुन्दरि | सम्पूज्य परया भक्त्या संमुखादिक्रमेण हि || प्रयोगं शृणु चार्वङ्गि हृदयस्यं सदा मम | ओं शर्वाय क्षितिमूर्तये नमः | ओं भवाय जलमूर्तये नमः | ओं रुद्राय अग्निमूर्तये नमः | ओं उग्राय वायुमूर्तये नमः | ओं भीमाय आकाशमूर्तये नमः | ओं पशुपतये यजमानमूर्तये नमः | ओं महादेवाय सोममूर्तये नमः | ओं ईशानाय सूर्यमूर्तये नमः | कृत्वा पूजां महेशानि अनेन विधिना प्रिये | अपरैकं महेशानि ज्ञानसार वदामि ते || अष्टविष्णुं महेशानि सम्पूज्य तदनन्तरम् | सम्पूज्य परमेशानि कुण्डल्या बाह्यवेष्टनि || अष्टविष्णोर्महेशानि नामानि निगदामि ते | उग्रं विष्णुं महाविष्णु ह्यनन्तं संप्रतापनम् || प्. ३४) नृसिंहं भीषणं भीमं मृत्युमृत्युं प्रकीर्तितम् | एतान् विष्णु महेशानि यथा संपूज्य तत् शृणु || संमायादिक्रमाद्देवि पूजितं विष्णुमव्ययम् | तन्मन्त्रं शृणु चार्वङ्गि ज्ञानसारं वरानने || ओं उग्राय विष्णवे नम इति महाविष्णवे नमस्ततः | ओं अनन्ताय विष्णवे नम इति संप्रतापनाय विष्णवे नमः || ओं नृसिंहाय विष्णवे नम इति भीषणाय विष्णवे नमः | ओं भीमाय विष्णवे नमः | ओं मृत्युमृत्यवे विष्णवे नमः || इति पूजां महेशानि कृत्वाहं परमेश्वरि | विष्णुज्ञानं मया प्राप्तं सर्वशक्ति समन्वितम् || षोडशैरुपचारैश्च पूजितं विष्णुमव्ययम् | ततः परं वरारोहे मन्त्रवाह्यं शुचिस्मिते || सर्वेषां मातृणां माता पूजिता सुरवन्दिते | यदुक्तं पूर्वतन्त्रेषु मातृकामन्त्रमुत्तमम् || एतैर्मन्त्रैर्महेशानि मातृकां पूजितां मया | अकारादि क्षकारान्तां मातृकां ब्रह्मरूपिणीम् || सर्वेषां मातृभूता सा ऐश्वरी मातृरूपिणी | यां विना परमेशानि वाणी च जडतामियात् || तां देवीं परमेशानि कलारूपेण साक्षिणीम् | पूजयित्वा यथान्यायं विधिवत्सुरवन्दिते || रक्षार्थमात्मनो देवि ब्रह्माण्डस्य च सुन्दरि | या नारी परमेशानि मातृका सा शुचिस्मिते || प्. ३५) तस्मादादौ च मध्ये च अन्त्ये च नगनन्दिनि | संपूज्य मातृकां देवीम् अन्यथा विघ्नता भवेत् || पूर्वोक्तमन्त्रवत्सर्वं मातृकामन्त्रमेव हि | पूजयित्वा यथा न्यायं गणेशं तदनन्तरम् || संपूज्य परयाभक्त्या गन्धपुष्पादिभिः प्रिये | अतः परं वरारोहे दक्षिणे विष्णुमर्चयेत् || वामे गौरीं महामायां संपूज्य परमेश्वरि | दक्षिणे ओं विष्णवे नम इति वामे गौर्यै नमस्ततः || अनेन विधिना देवि संपूज्य लिङ्गमद्भुतम् | आम्तादि मन्त्रभेदेन त्रिवारं तर्पयेत् शिवम् || अतः परं वरारोहे जपं कुर्याद्यथा प्रिये | तन्निशामय चार्वङ्गि ज्ञानसारं परात्परम् || ततश्च हृत्पद्मान्ते ध्यात्वा लिङ्गं मनोहरं | पञ्चमन्त्रं महेशानि प्रजप्य वरवर्णिनि || अकारादिक्षकारान्ता वर्तमाना प्रकीर्तिता | अनुलोमविलोमेन जप्त्वा लिङ्गं शुचिस्मिते || सुषुम्नान्तर्गतां चित्रां जपमालां वरानने | मालां सूक्ष्मां महेशानि नानाचित्रविचित्रिताम् || सुषुम्नान्तर्गता या तु सा नाभि मुच्यते | शिवशक्तिमयी सा तु सततं कमलानने || प्. ३६) जपमालां गृहीत्वा तु जप्त्वा लक्षं शुचिस्मिते | सहस्रारे महापद्मे दृष्ट्वा चानन्दमद्भुतम् || आनन्दं ब्रह्मणो रूपं इयं प्रकृति रूपिणी | सदाशिव महाप्रेत दृष्टा शक्तिपुरी प्रिये || मालां नित्यनतां देवि कृत्वा तत्रैव लीयते | तदक्षरं महेशानि लक्षं जप शुचिस्मिते || एतस्मिन् समये देवि मनोब्रह्मणि लीयते | सदाशिवपुरो देवि दृष्ट्वा शक्तिं सुधामयीम् || यद्वा षडक्षरं जाप्यं यदुक्तं तत् शृणु प्रिये || || इति लिङ्गार्चनतन्त्रे हरपार्वती संवादे सप्तमः पटलः || ७ || ईश्वर उवाच- सूक्ष्माति सूक्ष्मां परमां यवा सिन्दूरसन्निभाम् | चतुर्भूजां त्रिनेत्रां च पञ्चबाण धनुर्धराम् || रक्तवस्त्रपरीधानां किङ्किणी कटिशोभिताम् | नूपुरादिरणत्कारैः शोभितां परमेश्वरीम् || शङ्खकङ्कणकेयूर वलयादि विभूषिताम् | स्तनद्वययुतां देवीं तारहार विराजिताम् || सर्वदेवमयीं देवीं सर्वदेवमयीं शिवां | ब्रह्मविष्णुशिरोरत्न निधृष्टचरणाम्बुजाम् || अभयं वरदं चैव मुद्राद्वय विधारिणीम् | गङ्गाञ्च यमुनाञ्चैव शोणञ्च नयनस्थिताम् || सिन्दूरमसृणं यस्याः प्रातरारुणसन्निभाम् | एवं दृष्ट्वा महेशानि आनन्दं मम जायते || प्. ३७) विस्मृतोऽहं महेशानि सडक्षरजपं प्रिये | श्रीविद्यां परमेशानि मुक्ंहे तस्याः शुचिस्मिते || श्रीविद्यां परमेशानि सदा मम हृदि स्थिताम् | तथा च कालिकां विद्यां तस्याः कण्ठे विराजते || अथ दशमहाविद्याया उत्पत्तिः भुवनेशीं महाविद्यां तस्या दक्षिणबाहुषु | वामबाहौ महेशानि तस्यास्तु भैरवी प्रिये || हृदये छिन्नमस्ता च तस्यास्तु परमेश्वरि | मातङ्गी वगलादेवी तस्याः पादद्वये तथा || तस्या नाभौ महेशानि लक्ष्मीञ्च कमलानने | तस्याः मौलौ महेशानि स्वयं महिषमर्दिनी || पञ्चाशन्मातृकां देवीं पञ्चाशत् स्थानसन्धिषु | तिष्ठन्ति परमेशानि स्वस्वरूपादिभिः प्रिये || सर्वागममयीं देवीं सुन्दरीं मोक्षरूपिणीं | तस्या मुखे महेशानि दृष्ट्वा विद्यां पराक्षराम् || तां विद्यां परमेशानि दृष्ट्वा हृदयपद्मसु | निर्वच्य परमं ज्ञानं श्रीविद्यामन्त्रमुत्तमम् || जपित्वा परमेशानि लक्षं मानससंभवम् | आत्मना मनसो देवि कृत्वा संयोगमुत्तमम् || एवं जप्त्वा महेशानि लक्षवर्षं गतो मम | स्वाहागमो महेशानि अजपाद्व्यक्षरात्मकम् || स्वयमात्मा महेशानि तस्याः शिरसि वर्तते | अतः परं वरारोहे भ्रमरीं गतवान् प्रिये || प्. ३८) भ्रमरेण सह शीघ्रं भ्रमरी नागनन्दिनि | मूलाधारं ययौ देवि मधुपानाय कामिनी || बद्ध्वा तु भ्रमरी देवि मुखन्तूर्ध्वं शुचिस्मिते | सदाशिवपुरे रम्ये यत्रास्ते मोक्षरूपिणी || लक्षं हि मानसं जप्त्वा श्रीविद्यां परमेश्वरीम् | योगं मम महेशानि तत्क्षणात् भङ्गतामियात् || भ्रमरः परमेशानि सृष्ट्यादीनां शुचिस्मिते | भ्रमरीं सिद्धिहस्ताञ्च बध्वायाति पुरीं पुरीम् || बद्ध्वा तु भ्रमरं देवि ब्रह्मरूपं निरञ्जनम् | सर्वेषां परमेशानि सृष्ट्यादीनां शुचिस्मिते || भ्रमरः कारणं देवि मोक्षादीनां न संशयः | भ्रमरी तु महेशानि भ्रमरस्य च कारणम् || कार्यञ्च कारणं देवि भ्रमरी कमलानने | भ्रमरानुगः सदात्मा च भ्रमर्या अनुगतौ च तौ || सर्वेषां कारणं देवि भ्रमरी सिद्धिधारिणी | या सिद्धीः सिद्धिसूत्राणां सर्वमावृत्य तिष्ठति || भ्रमरः परमेशानि साक्षाद्ब्रह्मयः सदा | भ्रमरी उन्मनी देवि साक्षान्मोक्षस्वरूपिणी || स्थित्वा पद्मवते देवि मधुपानं करोति हि | दृष्ट्वा मोक्षप्रदां नित्यां साक्षान्मोक्षस्वरूपिणीम् || तदैव सहसा जातं ज्ञानसारं मम प्रिये | ईश्वर उवाच- अपरैकं शृणुज्ञानं परमं पद्ममुत्तमम् | त्रिगुणैर्धारितां देवि दृष्टाश्चर्यं मम प्रिये || त्रिगुणं परमेशानि रुद्रविष्णुपितामहाः | सर्वे ते परमेशानि स्त्रीरूपा परमेश्वरि || या वामा परमेशानि ब्रह्मा साक्षाच्चतुर्मुखः | रजोगुणान्विता वामा सिन्दूराकृति रूपिणी || या विष्णु परमेशानि सदा सत्त्वगुणात्मकः | शुक्लाकारा महेशानि सदा पालनकारिणी || चतुर्भुजा महेशानि शङ्खचक्रगदाधरा | सनकाद्यैः स्तुता दृष्टा आश्चर्यमपरं शृणु || या रौद्री परमेशानि सा कृष्णा परमेश्वरि | जित्वा मां परमेशानि लेलिहाना जगत्त्रयम् || अत एव महेशानि निर्धूय मम मानसि | ब्रह्मा विष्णुश्च रुद्रश्च स्त्रीरूपा सर्वदास्थिताः || चतुर्वेदं शिरेधृत्वा वामा तिष्ठति सन्निधौ | अन्यच्चतुर्दशं शास्त्रं धृत्वा विष्णुः शुचिस्मिते || सूर्यशास्त्रमितीहास धृत्वा रुद्रः शुचिस्मिते | अस्यामन्ते महेशानि पादेलग्ना स्थितिः प्रिये || वामा ब्रह्मामहेशानि ज्येष्ठा विष्णुरितीरिता | रुद्रस्तु रौद्री विज्ञेया त्रिगुणं परमेश्वरि || प्. ४०) कोटिलक्षं आगमं हि सुन्दर्या हस्तसंस्थितम् | जपनविद्यां मयाराध्यां श्रीविद्यां ब्रह्मविग्रहाम् || सदाशिवपुरे दृष्ट्वा आश्चर्यं मम जायते | परं रूपं समास्थाय सदाशिवपुरे सदा || सा देवी सुन्दरी देवि जगन्मोहनरूपिणी | सर्वेषां स्थावरादीनाभादिभूता सनातनी || अतः परं वरारोहे लक्षं जप्त्वा शुचिस्मिते | आदौ तन्त्रं महेशानि पठित्वा देवदुर्ल्लभम् || निगदामि शृणु प्रौढे तन्त्रं गुह्यं परात्परम् | अस्य श्री पञ्चाक्षरमन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः ऋग्यजुः सामाथर्वच्छन्दांसि श्रीमृत्युञ्जया सर्वे देवता चतुर्वर्गसिद्ध्यर्थं जपे विनियोग | बाह्य जापं महेशानि कृत्वा लक्षं प्रयत्नतः | अर्पणीयं ततो दृष्ट्वा बिल्वपत्रं प्रयत्नतः || नमस्कृत्य पार्थिवं लिङ्गं परब्रह्ममयं प्रिये | ततस्तु लिङ्गं कवचं पठित्वा कमलानने || अथ मुखवाद्य प्रशंसा मुखवाद्यं सनित्यं हि कृत्वा तु परमेश्वरि | मातृकामन्त्र सहितं मुखवाद्यं सुदुर्लभम् || अकारादिक्षकारान्तं अनुलोमविलोमतः | उच्चार्य परमेशानि मुखवाद्यं प्रयत्नतः || सबिन्दुं वर्णमुच्चार्य पञ्चाशन्मातृकां प्रिये | अनुलोम विलोमेन शब्देन च वरानने || प्. ४१) अनेनैव विधानेन मुखवाद्यं करोति यः | स सिद्धः स शिवः सोऽपि सगुणो नात्र संशयः || मृत्युञ्जयोऽहं देवेशि मुखवाद्यप्रसादतः | यस्मिन् काले महेशानि असुरो बलवद्भवेत् || तस्मिन्काले महेशानि मुखवाद्यं करोम्यहम् | तत् श्रुत्वा परमेशानि असुरा वाह्ययाश्रिताः || पलायन्ते महेशानि तत् श्रुत्वा परमेश्वरि | ये नवा भुवि तिष्ठन्ति मुखवाद्यं विना प्रिये || स सर्व यातनाभोगी अन्ते कुम्भीरतां व्रजेत् || || इति लिङ्गार्चनतन्त्रे हरपार्वती संवादे अष्टमः पटलः || ८ || श्रीदेव्युवाच- भगवन् देवदेवेश शूलपाणे पिनाकधृक् | योगेन्द्रेन्द महाबाहो मृत्युञ्जय नमोऽस्तुते || षोडशैरुपचारैस्तु कुतो लब्धं तपोधन | प्रलये सति देवेश नष्टे स्थावरजङ्गमे || प्राणायामस्य काले च भूतशुद्धौ तथा प्रभो | यदा तत्र महादेव मनोबुद्ध्यादि लीयते || क्षणमात्रेण देवेश लक्षवर्षं गतो मम | चन्द्रार्कौ गगने नष्टे कुतो रात्रिः कुतो दिवा || कारणं परमेशान कुतो सङ्ख्या तपोनिधे | ईश्वर उवाच- साधुपृष्ठं त्वया भद्रे वाक्यं पीयुषसम्भवं | तव वाक्यं महेशानि सदा पीयुषसम्भवम् || प्. ४२) पीयूषसम्भवं वाक्यं हास्ययुक्तं तव प्रिये | ब्रह्मानन्दमयं वाक्यं मम योगसमं प्रिये || योगेन परमेशानि भावयामि दिवानिशं | शरीरं तव देवेशि बहुभाव्येन भामिनि || योगकाले महेशानि पश्यामि बहुभाग्यतः | बाह्यज्ञानं महेशानि पश्यामि सकलं तव || अन्तर्ज्ञानं बहिर्ज्ञानं तव माया वरानने | तव माया दुराधर्षा तव हस्तस्थिता यदा || भ्रमरी या तु देवेशि सिद्धसूत्रविधारिणी | स्थावरं जङ्गमं देवि त्वयि सर्वं प्रतिष्ठितम् || मृत्युञ्जयोऽहं देवेशि तवाङ्गस्पर्शनात् प्रिये | शृणु पार्वति वक्ष्यामि यत्त्वया गदितं प्रिये || प्रलये परमेशानि नष्टे स्थावर जङ्गमे | सर्वं मयि महेशानि स्थावरा जङ्गमाश्च ये || तानि सर्वाणि देवेशि तिष्ठन्ति सततं प्रिये | मम तेजसि चार्वङ्गि सर्वं तिष्ठति कामिनि || तेजस्तु परमेशानि सदा प्रकृतिरूपिणि | निर्गुणोऽहं महेशानि सततं परमेश्वरिं || सगुणा सर्वदात्वं हि सगुणास्त्वं शुचिस्मिते | विशेषं शृणु वक्ष्यामि रहस्यमति गोपनम् || ये ये भक्त्या महेशानि ब्रह्माद्यास्त्रिदिवौकसः | ये ये मर्त्या महेशानि क्षालाद्याः परमेश्वरि || प्. ४३) मातृका प्रभृताश्चान्ये नराः गन्धर्वयोनयः | ब्रह्माण्डवासिनां देवि भक्तानां कमलानने || गन्धपुष्पादिभिर्देवि दत्त्वा पूजितवान् मयि | सर्वं तदक्षयं भूत्वा तिष्ठते परमेश्वरि || जटाजूटेषु देवेशि सततं मम कामिनि | षोडशैरुपचारैश्च कृत्वा पूजामयि स्थिता || मम मध्यमुखं देवि ईशानं ब्रह्म सम्मितं | तत्र दत्तं महेशानि सर्वं ब्रह्ममयं भवेत् || षोडशैरुपचारैश्च यदत्तं भक्तिभावतः | सर्वं हि अक्षयो भूत्वा जटाजूटे स्थितो मम || यत् किञ्चित् परमेशानि जलंदत्त्वा शुचिस्मिते | तज्जलं देवदेवेशि जटाजूटे स्थितं मम || सा गङ्गा परमेशानि ब्रह्माण्डव्यापिनी परा | श्वेत मूर्तिधरा देवि श्वेतपद्मासनस्थिता || श्वेताम्बरपरीधाना श्वेतमाल्योपशोभिता | युक्तामाणिक्य जटिता कुण्डलं सततं धृता || चतुर्भुजा महामाया अभयं वरदं धृता | सुधाकुण्डञ्च देवेशि धृता सा परमेश्वरि || धृता रुद्राक्षमालाञ्च सततं जपकामिनी | धृता तु जपमाला वै जपकारणमुत्तमम् || तन्मन्त्रं शृणु चार्वङ्गि कालिकायाः सुदुर्लभं | अष्टाक्षरीं महेशानि शृणु वक्ष्यामि कामिनि || प्. ४४) कामबीजं समुद्धृत्य दक्षिणे कालिके ततः | पुनः कामं समुद्धृत्य अष्टाक्षरमिदं प्रिये || एवं भूत्वा तु सा गङ्गा सदा जटातटे स्थिता | स्थावरं जङ्गमं चैव जटाजूटे स्थितो मम || ब्रह्माण्ड व्यापिनी यस्याः सा गङ्गा इति गीयते | सा गङ्गा परमेशानि ईश्वरी अद्यनाशिनी || जलरूपेण सा देवी सदा मम शिरः स्थिता | एतद्द्रव्यैः षोडशैश्च उपचारैः पृथक् पृथक् || सम्पूज्य पार्थिवं लिङ्गं बाह्ययोगं मम प्रिये | बाह्ययोगं विना देवि अन्तर्योगं न सिद्ध्यति || अन्तर्योगं विना देवि बाह्ययोगं न सिद्ध्यति | अत एव महेशानि लिङ्गपूजा कृता मया || बाह्यपूजां विना देवि न हि सृष्टिः प्रजायते | सृष्टिं विना महेशानि सर्वं हि गुप्ततामियात् || इति तत्त्वं महेशानि गङ्गा जन्मसमुद्भवम् | योगकाले महेशानि कतिलक्षं गतो मम || सर्वं तेजसि तद्दृष्टं प्रकृतौ सर्वसंस्थितं | इति ज्ञानं न जानामि यदि कामिनी तच्छृणु || तदा योगेन देवेशि किं करोमि वरानने | एतत्सर्वं महेशानि योगमार्गस्थितं सदा || योगमार्गं वरारोहे पञ्चाशत्तत्त्वं संयुतम् | तत्त्वं हि परमं ज्ञानं प्रकृतीरूपमव्ययम् || प्. ४५) प्रकृतिर्ब्रह्मणो रूपं त्रैलोक्यमोहिनि प्रिये | लोमेयादि वर्ष पर्यन्तं सर्वं तिष्ठति पार्वति || इति दृष्ट्वा महेशानि लक्षसंख्यं करोम्यहम् | गङ्गा हि कारण जलं जटाजूटे स्थितं सदा || गङ्गायाः परमेशानि उत्पत्ति स्थानमुत्तमं | जटाजूटं महेशानि सदा मम शुचिस्मिते || प्रलये परमेशानि नष्टे स्थावरजङ्गमे | तस्मिन् काले महेशानि कारणं द्रुतमागतं || समीपं मम देवेशि सा गङ्गा सत्वरं वचः | उवाच सूक्ष्मया वाचा तस्मिन् पूर्वेण पार्वति || भो देव तपसां श्रेष्ठ परमात्मन् नमोस्तुते | गौरीनाथ महादेव प्रसन्नो भव मे प्रभो || चन्द्रार्कौ गगने देव अदृश्ये सति शूलभृत | स्थावरे जङ्गमे देव अदृश्ये परमेश्वर || किं करोमि क्वगच्छामि सत्यं वद दयानिधे | स्थानं देवि महाबाहो मृत्युञ्जय नमोस्तु ते || ईश्वर उवाच- तस्यास्तु कारणं वाक्यं श्रुत्वा यत् प्रव्रुवं शृणु | आगच्छ मृगशावाक्षि कारणे परमेश्वरि || जटाजूटे महेशानि स्थिताभव नमोस्तु ते | प्रकृतिस्त्वं महाभागे सर्वपापप्रणाशिनि || त्राहि मां चञ्चलापाङ्गि श्वेतमूर्तिधरे शुभे | जटाजूटं महेशानि गङ्गास्थानमनुत्तमम् || प्. ४६) तत्र गङ्गा सदाव्याप्ता प्रकृतिः परमेश्वरी | या या च मम देवेशि साक्षात् प्रकृतिरूपिणी || जलैः पिङ्गलवर्णाभा सहस्रादित्यसन्निभा | तेजोमयीं जटां दिव्यां साक्षान्मोक्षं वरानने || जटायां क्राणे देवि सर्वपापपहारिणि | तस्या नाम महागङ्गा वेदोक्ता परमेश्वरि || महागङ्गा तु सा देवि जटाजूटतटे स्थिता | आनन्द प्रलयीभूता आनन्दलहरी सदा || या सा गङ्गा महादेवि स्वयं शक्ति स्वरूपिणी | बिल्वपत्रयुता सा तु जटाजूटे स्थिता सदा || मृत्युं जित्वामथा देवि तिष्ठामि तव हेतुना | यथा गङ्गा प्रिया देवि अजरामरता मम || अजरामरतां देवि महागङ्गाप्रभावतः | सा या तु महतीगङ्गा अष्टैश्वर्य प्रदायिनी || तस्मात्तु कारणजले निर्मले पापहारिणि | जटायां तिष्ठ चार्वङ्गि महादेव प्रिये सदा || अतः परं तु सा गङ्गा स्थिरीभूता जटातटे | दृष्ट्वा जतातटे रम्यां नानापुष्प समन्विताम् || नानागन्ध समायुक्तां नानारत्नपरिष्कृतां | यद्यद् दृष्टं जटाजूटे मम सुन्दरि कामिनि || दृष्टा तु कारणी गङ्गा तत्क्षणात् च स्वयं गता | जटाजूटेषु यद्दृष्टं वर्णितुं नैव शक्यते || प्. ४७) जटाजूटेषु या गङ्गा आदिगङ्गेति विश्रुता | श्वेत गङ्गेति देवेशि जीवभूता सनातनी || ईश्वर उवाच- गङ्गाद्वयं महेशानि सदा मम शिरः स्थितम् | यत् किञ्चिद् दृश्यते स्थूलं सूक्ष्मं वा परमेश्वरि || जटाजूटेऽसि देवेशि सर्वं मम शुचिस्मिते | जटा तु परमेशानि शुक्लरूपा मनोहरा || कर्पूरसदृशाकारा शुभ्रमेघ समप्रभा | जटा मम महेशानि अष्टधा वरवर्णिनि || अष्टस्वङ्गे वरारोहे सदा जटातटे स्थिता | सम्पूज्य पार्थिवं लिङ्गं गन्धपुष्पादिभिः प्रिये || यावच्च उपचाराणि तत्सर्वं प्रकृतिः प्रिये | ततः पश्चान्महादेवि सुखदं पुष्पचन्दनं || नैवेद्यं विविधं देवि सुगन्धं गन्धवर्जितम् | बिल्वपत्रं च कल्हारं तगरं मल्लिकां तथा || मालतीं यूथिकां देवि करवीरं मनोहरम् | पद्मञ्च केतकीं कुन्दं तथा आमलकीं प्रिये || कुमुदं कोकनदं चैव चतुर्वर्णञ्च सुन्दरम् | दूर्वाञ्च तुलसीं चैव दत्त्वा संपूज्य पार्थिवम् || अन्यानि यानि पुष्पाणि धुस्तूरादीनि पार्वति | धुस्तूरसदृशं पुष्पं मम ज्ञानेन दृश्यते || धुस्तूरं परमेशानि साक्षान्मोक्षस्वरूपकम् | गोकोटिदाने देवेशि यत्फलं परमेश्वरि || प्. ४८) धुस्तूरस्य प्रदानेन समतां यानि पार्वति | यानि यानि च पुष्पाणि ब्रह्माण्ड भरितानि च || तानि सर्वाणि संन्यस्य देवेशि पार्थिवोपरि | यानि यानि च धूपानि दीपानि विविधानि च || अन्यानि उपचाराणि यथोक्त विधिना प्रिये || || इति श्रीलिङ्गार्चन तन्त्रे हरपार्वती संवादे नवमः पटलः || ९ || ईश्वर उवाच- यथोक्तविधिना देवि शिवं सम्पूज्य पार्थिवम् | कृतार्थोऽहं महेशानि सर्वं त्वयि शुचिस्मिते || पूजाकाले महेशानि बहुकालं गतो मम | तथा तु विजयापत्रं संन्यस्य पार्थिवोपरि || दत्त्वा तु विजया पत्रं अश्वमेधफलं भवेत् | मुखवाद्यं हि सम्यक् कृत्वा लक्षं गतो मम || ताण्डवं मम देवेशि मुखवाद्यं वरानने | दृष्ट्वा तु परमेशानि लिङ्गं भित्त्वा तदा प्रिये || आविरासीत्ततो भद्रे स्वयं प्रकृतिः कामिनि | आविर्भूता महामाया जगतां रक्षणाय च || दृष्ट्वा देवीं महेशानि साक्षान्मोक्षस्वरूपिणी | पार्श्वभूता महामाया दशवाद्यसमन्विता || सिद्धस्था परमेशानि पूजनात्तव सुव्रते | तस्या वाक्य ततः श्रुत्वा निपत्यचरणोपरि || प्. ४९) पाद्यार्घ्यादीनि देवेशि यद्दत्तं भक्तिभावतः | यद्दत्तं परमेशानि जलगङ्गाशिरः स्थितम् || सा गङ्गा परमेशानि तस्याः पद्मे व्यवस्थिता | त्रैलोक्य जननी भूत्वा त्रैलोक्यस्यापि संस्थिता || यद्दत्तं परमेशानि तस्यै देव्यै शुचिस्मिते | तच्छृणुष्व महेशानि निगदामि तवानघे || ईश्वर उवाच- परमानन्दविभवे नमोऽस्तु परमेश्वरि | साक्षात्तु धर्मदे सत्ये कामदेऽर्थदे सदा || नमस्ते जगतां मातः पापहन्त्रि नमोऽस्तुते | नष्टे तु परमेशानि ब्रह्माण्डे मणि पूजिते || किं करोमि च्छगच्छामि चिन्ता व्याकुलमानसः | सम्पूज्य पार्थिवं लिङ्गं बहुयानेन सुन्दरि || अद्यैव सफला पूजा श्रीपाददर्शनात्तव | कृतार्थोऽहं महेशानि तव श्रीपाददर्शनात् || यद्दत्तं तु महेशानि उपचारं मनोहरं | तत्सर्वं परमेशानि पश्यामि तव पादयोः || वरं देहि महामाये सृष्टिसंहारकारिणि | विश्वं पूर्वं स्थितं देवि स्थावरं जङ्गमं च यत् || ते नैव विधिना देवि ब्रह्माण्डपतनं कुरु | अतः परं महामाया श्रुत्वा मम शिवं प्रिये || चन्दनैर्मिलितं लिङ्गं आदाय वामकेऽङ्गुले | पूतनीं परमां रम्यां निर्माय सा जगन्मयं || प्. ५०) वामा ज्येष्ठा तथा रौद्री पूतनीयमिदं स्मृतम् | वामा ब्रह्मा महेशानि ज्येष्ठा विष्णुस्तु गीयते || ततो रौद्रीं विनिर्माय प्राणमन्त्रेण पार्वति | प्राणप्रतिष्ठां देवेशि तत्र कृत्वा शुचिस्मिते || प्राणप्रतिष्ठाकाले तु यद्दृष्टं योगवर्धिनि | ब्रह्माविष्णुश्च रुद्रश्च रजः सत्त्व तमोगुणः || पूतन्यां परमेशानि ते देवास्तत्क्षणात् प्रिये | आविर्भूता महेशानि सत्यं सत्यं शुचिस्मिते || मूर्तित्रयं विनिर्माय तत्रैवान्तरधीयते | अन्तर्धानं गते सा तु चिन्मयोऽहं वरानने || तस्मिन् काले महेशानि योगस्थोऽहं वरानने | योगमार्गे महेशानि स्थित्वा च लक्षवत्सरम् || योनिकुण्डे महेशानि सुन्दर्याः परमेश्वरि | बहुयत्नेन तां देवीं दृष्ट्वा महिषमर्दिनीम् || यो योनिरर्धमात्रा सा तारं ब्रह्मादिभिः सदा | मुखं तस्या विजानंति बिन्द्वर्कं कमलानने || दृष्टमात्रेण देवेशि भ्रमरो भ्रमरीसह | प्रययौ परमेशानि अन्तस्थानं शुचिस्मिते || तस्या डिम्भे महेशानि त्वं मया सहिता प्रिये | सर्वं दृष्टं महेशानि यथा पूर्वं शुचिस्मिते || प्. ५१) श्रीदेव्युवाच- योनिकुण्डे महेशान यद्दृष्टं परमेश्वर | तन्मे कथय देवेश ज्ञानसारं तपोधन || ईश्वर उवाच- दृष्टं मया महेशानि त्रिगुणं सिंहवाहिनि | तस्याः पादाम्बुजे देवि दृष्टं त्रिगुणविग्रहं || रजः सत्त्वं महेशानि तथा तमोगुणं प्रिये | रजो ब्रह्मा महेशानि विष्णुश्च सत्त्वरूपधृक् || रुद्रस्तमात्मकं देवि दृष्टं तस्याः पदद्वये | पदे लग्ना महेशानि तिष्ठन्ति सततं प्रिये || वाग्भवं कामबीजं च श्रीबीजं च शुचिस्मिते | वाग्भवं रजोगुणं देवि श्रीबीजं सत्त्वमद्भुतम् || कामबीजं महेशानि तमोरूपञ्च मूर्तिमान् | बीजत्रयं वरारोहे स्त्रीरूपी नात्र संशयः || वामा तु वाग्भवं बीजं ज्येष्ठा श्रीबीजमुच्यते | कामं रौद्री महेशानि दृष्ट्वा तस्याः पदद्वये || बाह्यज्ञाने महेशानि मम कामिनि सुन्दरि | योगमार्गे च यद्दृष्टं बाह्यज्ञाने च यत् प्रिये || || इति श्रीलिङ्गार्चनतन्त्रे हरपार्वतीसंवादे दशमः पटलः || १० || ईश्वर उवाच- निगदामि वरारोहे बाह्यज्ञानं शृणु प्रिये | यत्पृष्टं परमेशानि विष्णुं रुद्रं पितामहम् || या ब्रह्मा सृष्टिकर्ता सा विष्णुः पालनतत्परः | रुद्रस्तु परमेशानि सदा संहारकारकः || प्. ५२) उद्ग्राह्य विश्वं ब्रह्माण्डं वामाशक्त्याः प्रसादतः | ब्रह्मणे किमधिष्ठानं यः सुमेरुश्च पार्वति || अन्ते ब्रह्मा महेशानि सदारजोगुणात्मिका | विष्णुः प्रविश्य ब्रह्माण्डं पालयत्यति सुन्दरि || वष्णवीं शक्तिमास्थाय विष्णुस्तु पालकः सदा | रुद्रः संहारको देवि रौद्रीशक्त्याः प्रसादतः || अतः परं महेशानि ज्ञानसारं वदामि ते | विष्णोः सत्त्वगुणे देवि यद्दृष्टं परमेश्वरि || निगदामि शृणु प्राज्ञे खञ्जनाक्षि नमोस्तु ते | खञ्जनं तव नेत्रं हि यथाभवति पार्वति || तव तत्परमेशानि निगदामि शृणु प्रिये | अवतारा महेशानि व्यासेन गीयन्ते सदा || व्यासस्तु परमेशानि मम देहो वरानने | स च व्यासो महेशानि मम मूर्तिमुपासय || मत्स्यः कूर्मो वराहश्च नृसिंहो वामनस्तथा | रामः कृष्णश्च देवश्च जामदग्न्यस्तथा परे || बुद्धश्च कल्किरूपश्च अन्ये च बहवः प्रिये | विष्णौ सत्त्वमये देवि मया दृष्टाः शुचिस्मिते || विष्णुवेशा महेशानि मत्स्याद्याः परमेश्वरि | एतत्सर्वं मया दृष्टं विष्णोः सत्त्वनिकेतने || ब्रह्मा रुद्रस्तथा विष्णुः सदा दृष्टो महेश्वरि | तदा तु परमेशानि अभिषेकं मया कृतम् || अभिषिक्ते महेशानि देवान् त्रिगुणधारिणः | ततस्तु परमेशानि देवत्वं परमेश्वरि || ततो ब्रह्मा महेशानि तज्जलं परमेश्वरि | कमण्डलुं पूरयित्वा ब्रह्मलोकं ययौ द्रुतम् || इति तत्त्वं महेशानि सदा मम हृदि स्थितम् | ततो ब्रह्मादयः सर्वे मां नमस्कृत्य पार्वति || स्वस्थानं परमेशानि या तुं बद्धादराः सदा | अहन्तु परमेशानि देवानाश्वास्य सत्वरम् || कैलासं पर्वतश्रेष्ठं निर्वाणसदृशं प्रिये | कैलासं परमेशानि स्थानं मम सुदुर्लभम् || अलका पूश्च देवेशि सर्वशक्तिमयि प्रिये | विमानं पुष्पकं देवि सर्वगं परमेश्वरि || मम कोषं महेशानि सर्वरत्नविभूषितम् | कोषाध्यक्षो महेशानि कुबेरः कमलेक्षणे || वासार्थं परमेशानि योगधारणसक्षमम् | उल्मुकं पृष्ठमारुह्य धर्मस्य वृषरूपिणः || नाम्ना नन्दी महेशानि सीयन्ते सकला जनाः | सा नन्दी परमेशानि कामिनी सा वरानने || कैलासमाश्रितं देवि कृतं यत्नेन सुन्दरि | एतस्मिन् समये देवि शरीरग्रहणं कृतम् || शक्तित्वात्परमेशानि शान्तोऽहं वरवर्णिनि | प्. ५४) श्रीदेव्युवाच- भो देव करुणानाथ सदात्वं भक्तवत्सलः | दीनत्राणपरो देव नीलकण्ठ तपोधन || अपरैकं महादेव सन्देहं ज्ञानयोगहृत् | ब्रह्माण्डं नाशमायाति जायते तत्कथं पुनः || जीवे गते महेशान पुनर्याति कथं प्रभो | नष्टे सति महादेव स्थूलं भस्ममवाप्नुयात् || सूक्ष्मं हि परमेशान निर्वाणं पदमाप्नुयात् | स्थूलं सूक्ष्मं महादेव शरीरद्वयमुच्यते || स्थूलेनष्टे महेशानि कृमिविड्भस्मसाद्भवेत् | सूक्ष्मं हि परमं ज्ञानं निर्वाणं पदमाप्नुयात् || निर्वाणं ब्रह्मणो रूपं प्रकृतिर्मोक्षरूपिणी | स्थूलं हि परमेशान सामान्यं प्रकृतेर्वपुः || तत्कथं परमेशान पुनः सृष्टिं व्रजत्यसौ | ईश्वर उवाच- सन्देहं त्यज चार्वङ्गि ज्ञानसारं वदामि ते | ब्रह्माण्डे परमेशानि गते नष्टे शुचिस्मिते || स्थावरं जङ्गमं चैव सर्वमेव चराचरम् | पुनरायान्महेशानि यथापूर्वं यथामति || सर्वं दृष्टं मया देवि सर्वशक्तिस्वरूपिणि | स्थूलं वा प्रमेशानि सूक्ष्मं सर्वञ्च अद्भूतम् || मया दृष्टं ब्रह्ममार्गे योगेन्द्रत्वं मयि प्रिये | ब्रह्माद्यास्तृणपर्यन्तं सर्वशक्तिपुरे मया || प्. ५५) यथा दृष्टं शक्तिपुरे तत्सर्वं परमेश्वरि | अपरं ज्ञानसारं हि सारात्सारं परात्परम् || निगदामि शृणु प्रौढे सावधानावधारय | ब्रह्ममार्गे शक्तिपुरे परमानन्दरूपिणि || मयादृष्टं महेशानि आश्चर्यं परमाद्भुतम् | आयान्ति यान्ति बहुशो गणना तस्य का प्रिये || लोमकूपात् महेशानि आमोक्षात् प्रकरोति हि | तत्सर्वं परमेशानि ब्रह्माण्डोपमयं प्रिये || एतत्तथ्यं वरारोहे न हि मिथ्या शुचिस्मिते | जन्मवन्मरणञ्चैव गमनागमनं प्रिये || सर्वं दृष्टं मया देवि सदा शक्तिपुरे प्रिये | तस्मात्तु परमेशानि मरणं जननं तथा || एतद् द्वयं महेशानि गमनागमनं स्मृतम् | गमनं द्विविधं भद्रे जननं मरणं प्रिये || तस्मात्तु जननं देवि मरणं वा वरानने | कस्य स्याच्चञ्जलापाङ्गि मिथ्यावदसि कामिनि || सर्वं शक्तिमयं देवि ब्रह्माण्डं सचराचरम् | यथापूर्वं शरीरं हि पुनरायात् वरानने || यन्नष्टं परमेशानि शरीरं स्थूलरूपकम् | यदाकारं महेशानि दृष्टं शक्तिपुरे मया || सन्देहं त्यज चार्वङ्गि आत्मनो मरणे प्रिये | आत्मा हि ब्रह्मणो रूपं प्रकृतिः परमेश्वरी || प्. ५६) शुद्धजम्बूनदाकारं आत्मानं विद्धि सुन्दरि | तत्कथं परमेशानि मरणं तस्य सुन्दरि || श्रीदेव्युवाच- नमस्ते पुण्डरीकाक्ष योगेन्द्र परमेश्वर | अतिगुह्यं रहस्यं हि कृपया वद शङ्कर || यद्यस्ति परमेशान कोटिशो ह्यचराशय | कस्मिन् पिण्डे महादेव स्थितिस्तु तव योगमृत् || ईश्वर उवाच- प्रति पिण्डे महेशानि स्थितोऽहं सर्वदा मम | प्रतिपिण्डं महेशानि एतद्विश्वोपमं सदा || पिण्डे पिण्डे महेशानि तिष्ठामि सततं सदा | त्वां विना परमेशानि न हि तिष्ठामि कुत्रचित् || तव योगबलाद्देवि शरीरं बहुधा मम | महति प्रलये देवि सर्वदेवमवाप्नुयात् || महति प्रलयं देवि एकदैव भवेत्प्रिये || || इति श्रीलिङ्गार्चनतन्त्रे हरपार्वती संवादे एकादशः पटलः || ११ || श्रीदेव्युवाच- देवदेव महादेव यत्त्वया पूर्वसूचितम् | रहस्यं शिवलिङ्गस्य कृपया वद शङ्कर || ईश्वर उवाच- रहस्यं परमेशानि सामान्यं तव सम्मतम् | पूर्वोक्त विधिना देवि सम्पूज्य पार्थिवं शिवम् || सम्पूज्य आत्मनो गेहे यथा शक्त्या विनिर्मितम् | षोडशैरुपचारैश्च सम्पूज्य पार्थिवं सिवम् || प्. ५७) एवं वत्सरपर्यन्तं सद्भक्त्या पूजयेच्छिवं | रहस्यं वाह यत्पश्चात् मासि मासि शुचिस्मिते || सम्पूज्य दिवसे लिङ्गं यावत्सङ्ख्यं वरानने | तद्रात्रौ परमेशानि तल्लिङ्गं परमेश्वरि || आदाय निशितल्लिङ्गं गत्वा बिल्वतरुं प्रिये | अमावस्यां चतुर्दश्यां पौर्णमास्यां विशेषतः || कुण्डे च शनिवारे च सोमवारे विशेषतः | पूजितव्यं प्रयत्नेन नग्नो भूत्वा वरानने || बिल्वपत्रैः प्रपूज्याथ सहस्रैः परमेश्वरि | बिल्वपत्रं महेशानि कीटादिदोष वर्जितम् || कोमलं मधुरं पत्रं पत्रत्रययुतं प्रिये | बिल्वपत्रं विना देवि न हि पूजां समाचरेत् || एतद्धि वचनं देवि सृष्टिवत्परमेश्वरि | संहारं परमेशानि एकदैव वरानने || न कस्मैचित्प्रवक्तव्यं पशवे परमेश्वरि | ब्रह्माण्डं प्रकृते रूपं सर्वशक्तिमयं यतः || अत एव महेशानि स्त्रीमयं सकलं जगत् | प्रलये परमेशानि मातृकां ब्रह्मरूपिणीम् || एतद्धि वचनं देवि रहस्यं प्रति पार्वति | पूजयेत्सर्वथा देवि यथानुष्ठान पूर्वकम् || अतः परं महेशानि मन्त्रमुच्चार्य यत्नतः | बिल्वपत्रं प्रददयात्तु एकैकेन पृथक् पृथक् || प्. ५८) संशोध्य विधिवद्देवि बिल्वपत्रं वरानने | एवं वत्सरपर्यन्तं यः करोति प्रसन्नधीः || मनसा कार्यमुद्दिश्य एवं यस्तु प्रपूजयेत् | शीघ्रं काममवाप्नोति गणेशदृशो भवेत् || अतः परं महेशानि गर्तं कृत्वा तु तत्स्थले | निक्षिप्य लिङ्गं तत्रैव मन्त्रं जप्त्वा तु तत्र वै || नमस्कृत्य महेशानि क्षमस्वेति विसर्जनम् | * * * हवनं कृत्वा रहस्यं परमेश्वरि || यः करोति प्रसन्नात्मा स एव श्रीसदाशिवः | अनेन च क्रमेणैव लक्षं यस्तु प्रपूजयेत् || सर्वपूजा कृता देवि च तेनात्र संशयः | अन्यथा त्रिफला पूजा अन्ते नरकमाप्नुयात् || अष्टोत्तरशतं देवि सहस्रं वा शुचिस्मिते | अयुतं वा महेशानि लक्षवद्वरवर्णिनि || पूजयेद्यस्तु देवेशं पार्थिवं वरवर्णिनि | स एव परमेशानि साक्षात् श्रीपरमेश्वरः || श्रीयुक्तः परमेशानि साक्षात् श्रीपरमेश्वरः | श्रीशक्ति युक्तो देवेशि साक्षात् श्रीपरमेश्वरः || कार्यं च कारणं देवि तत्र श्रीपरमेश्वरी | परमेश्वरो यस्तु देवि न कार्यं कारणं न च || कार्यवत्कारणं देवि प्रकृतिमोक्षिरूपिणी || प्. ५९) ईश्वर उवाच- निगदामि शृणु प्रौढे श्रीशिवस्य च पूजनम् | नरलोकं महेशानि निर्माय पार्थिवं शिवम् || अङ्गुष्ठमात्रं निर्माय शर्करारहितं प्रिये | पूर्ववद्विधिना देवि सम्पूज्य पार्थिवं शिवम् || बिल्वपत्रैः समम्यर्च्य कल्हारैः परमेश्वरि | यद्यद्दत्तं महेशानि शिवाय परमात्मने || तत्सर्वं परमेशानि तत्क्षणात्तन्मयो भवेत् | प्रत्यहं परमेशानि यावज्जीवं वरानने || पूजयेत् परयाभक्त्या लिङ्गं ब्रह्ममयं प्रिये | एकं वा पूजयेल्लिङ्गं युगलं न तु पूजयेत् || एकीकृत्य महेशानि दशपञ्चशतानि वै | प्रत्येकेवाथवा देवि उपचारैः प्रपूजयेत् || यत्किञ्चिदुपचारं हि तस्य किञ्चित् शुचिस्मिते | गृहीत्वा परमेशानि लिङ्गोपरि निवेदयेत् || तन्निर्माल्यं महेशानि अग्राह्यं परमेश्वरि | तन्निर्माल्य महादेवि कालकूटयुतं सदा || || इति लिङ्गार्चनतन्त्रे हरपार्वती संवादे द्वादशः पटलः || १२ || श्रीदेव्युवाच- दुर्लभं तव निर्माल्यं ब्रह्मादीनां कृपानिधे | तत्कथं परमेशान निर्माल्यं तव दूषितम् || कृपया कथयेशान यद्यहं तव वल्लभा | यदिनो कथ्यते देव विमुञ्चामि तदा तनूम् || कृपया परमेशान हृदयाच्छल्यमुद्धर | तव वाक्यं महादेव ब्रह्मतुल्यं सुदारुणम् || हृदयान्मम देवेश शल्यमुद्धर साम्प्रतम् | अग्राह्यं तव निर्माल्यं कथं वदसि योगभृत् || ########### END OF FILE #######