#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: m00225 Uniform title: māheśvaratantra Main title: śriimāheśvaratantra Description: Notes: Copied from Chowkhamba series 469, 470, 471 . Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyckzowski. Revision 0: Sept. 18, 2011 Publisher : Chowkhamba Publication year : 1940 Publication city : Benares Publication country : India #################################################### श्रीमाहेश्वरतन्त्रम् अथ प्रथमं पटलम् श्रीपार्वत्युवाच देवदेव महादेव करुणार्णव शङ्कर | हर शम्भो शिव मृड् पशुनाथ नमोऽस्तु ते || १-१-१ || नमस्ते सर्वदेवानां दैवताय परात्मने | पिनाकिने नमस्तुभ्यं गङ्गाधर नमोऽस्तु ते || १-२ || भूतिभूषितदेहाय भक्तानामभयङ्कर | कर्पूरविशदाभाय त्रिनेत्राय नमोऽस्तुते || १-३ || नमश्चन्द्रकलाधारिन् नीलकण्ठ महेश्वर | महाभुजङ्गमाबद्धजटाजूट शिवप्रद || १-४ || अकिञ्चनाय शुद्धाय ह्यणिमाद्यष्टसिद्धये | संसारवारिधितरणे प्लवभूतपदाम्बुज || १-५ || योगीश्वराय योगाय योगिनां पतये नमः | योगिहृत्पद्ममार्तण्ड योगानन्दमयाय ते || १-६ || सृष्ट्यर्थं ब्रह्मरूपोऽसि पालनार्थं स्वयं हरिः | रुद्रोऽस्यन्ताय देवेश नमस्त्रितयरूपिणे || १-७ || नमो वेदान्तवेद्याय नित्यानन्दमयाय ते | निरञ्जनाय शुद्धाय सच्चिदानन्दचेतसे || १-८ || निर्मलाय निराशाय निरीशायाखिलात्मने | अणोरणीयसे तुभ्यं महतोऽपि महीयसे || १-९ || दिक्कालाद्यनवच्छिन्ननित्यचिन्मात्रमूर्त्तये | नमस्ते सर्वलोकैकपालकायार्त्तिनाशिने || १-१० || ब्रह्मा त्वं हरिरुद्रोऽसि हव्यवाट् हुतमित्युत | मन्त्रर्त्त्विक् देवता चासि यज्ञस्त्वं तत्फलात्मकः || १-११ || दयां कुरु महादेव प्रसीद परमेश्वर | त्वयि प्रसन्ने लोकानां फलन्ते कामपादपाः || १-१२ || त्वयाहं दीननाथेन शरीरार्द्धे निरूपिता | कृतकृत्याऽस्मि तेनाहं किमन्यदवशेषितम् || १-१३ || तस्मात्संप्रष्टुमिच्छामि रहस्यं किञ्चिदुत्तमम् | यद्यहं ते प्रियतमा ब्रूहि नाथ ! तदाखिलम् || १-१४ || त्वया प्रोक्तानि तन्त्राणि चतुःषष्टिमितानि भोः | न तेषु तत्वविज्ञानं प्रकटीकृतमीश्वर || १-१५ || तत्प्रकाशय देवेश प्रवक्तुं यदि मन्यसे || १-१६ || शिव उवाच नैतज्ज्ञानं वरारोहे वक्तुं योग्यं वरानने | राज्यं देयं शिरो देयं देयं सर्वस्वमप्युत | न देयं ब्रह्मविज्ञानं सत्यं सत्यं शुचिस्मिते || १-१७ || ब्रह्महत्यासहस्राणि कृत्वा यत्पापमाप्नुयात् | तत्पापं लभते देवि परमार्थप्रकाशनात् || १-१८ || बालहत्यासहस्राणि स्त्रीहत्यायुतमेव च | गवां लक्षवधात्पापं तथा विश्वासघाततः || १-१९ || मित्रद्रोहाद्गुरुद्रोहात्साधुद्रोहाच्च यद्भवेत् | तत्पापं लभते देवि परमार्थप्रकाशनात् || १-२० || तस्मात्तु गोपयेद्विद्वान् जननीजारगर्भवत् | भक्तासि त्वं प्रियतमा तस्मात्तेऽहं वदामि भोः || १-२१ || ज्ञानं तत्तु विजानीयात् येनात्मा भासते स्फुटः | अज्ञानेनावृतो नित्यं मोहरूपेण नित्यदा || १-२२ || तावत्संसारभावः स्याद्यावदज्ञानमुल्लसेत् | तावन्मोहो भ्रमस्तावत्तावदेव भयं भवेत् || १-२३ || अहं ममेत्यसद्भावो विस्मृतिर्दुःखदर्शनम् | नानाधर्मानुरागश्च कर्मणां च फलैषणा || १-२४ || बन्धमोक्षविभागश्च जडदेहाद्यहंकृतिः | तावदीश्वरभावः स्यात्पाषाणप्रतिमादिषु || १-२५ || जलादौ तीर्थभावश्च यावदज्ञानमुल्लसेत् | उदिते तु परिज्ञाने नाऽयं लोको न कल्पना || १-२६ || न त्वं नाहं न वै किञ्चिन्निवृत्ते मोहविभ्रमे | स्वयमेवात्मनात्मानमात्मन्यात्माभिपद्यते || १-२७ || तदा सुखसमुद्रस्य स्वरूपनिरतो भवेत् | लयश्चात्यन्तिको देवि कदाचिद्वा भविष्यति || १-२८ || तदेवात्माक्षरः साक्षादेक एवावशिष्यते | स शिवो विष्णुरेवेन्द्रः स एवामरदानवाः || १-२९ || स एव यक्षरक्षांसि सिद्धचारणकिन्नराः | सनकाद्याश्च मुनयो ब्रह्मपुत्राश्च मानसाः || १-३० || पशवः पक्षिणश्चैव पर्वतास्तृणवीरुधः | स एवेदं जगत्सर्वं स्थूलसूक्ष्ममयं च यत् || १-३१ || अज्ञानाद्रजतं भाति शुक्तिकायां यथा प्रिये | ज्ञानात्तद्रजतं देवि तस्यामेव विलीयते || १-३२ || तथाक्षरे परे ब्रह्मण्याभाति सकलं जगत् | मोहने केनचिद्देवि मोहनाशे तु शाङ्करि || १-३३ || अवशिष्यते परं ब्रह्म साक्षादक्षरमव्ययम् | न त्वं नाहं तदा विष्णुर्लक्ष्मीर्ब्रह्मासरस्वती || १-३४ || नेश्वरो न शिवश्चापि यथापूर्वं भविष्यति | मृदुद्भवानि कार्याणि मृच्छेशाणि यथाप्रिये || १-३५ || तथैवाखिललोकोऽयं ब्रह्मभूतो भविष्यति | यथा वायुवशाद्देवि समुद्रे तरलोर्मय | प्रादुर्भवन्ति देवेशि तस्मिन् शान्ते तु पूर्ववत् || १-३६ || तथा विस्मारितज्ञानान्मोहाद्भ्रान्तं चराचरम् | चतुर्विंशतितत्त्वोत्थं सत्यमित्येव रूपितम् || १-३७ || तत्र जाता इमे लोकाश्चतुर्दश महेश्वरि | अधः सप्त तथा चोर्ध्वमेवं संख्याश्चतुर्दश || १-३८ || अतलं वितलं चैवं सुतलं च तलातलम् | रसातलं च पातालं भूर्भुवः स्वस्तथोपरि || १-३९ || महर्जनस्तप इति सत्यं वैकुण्ठ इत्यपि | शिवलोको देवलोकस्तथाऽवान्तर्गता अपि || १-४० || मोहशान्तौ भविष्यन्ति सर्वे ब्रह्ममया इमे | यावत्सर्पमयी भ्रान्ती रज्जौ तावद्भयं प्रिये || १-४१ || रज्जुत्त्वेन तु विज्ञाता भयं नोद्वहते पुनः | अप्रपञ्चे प्रपञ्चोऽयं मोहादुन्मीलति स्फुटः || १-४२ || तावद्भयप्रदोऽज्ञानं यावन्मोहं न विन्दते | द्विधा त्रिधा पञ्चधा च चतुर्विंशतिधा पुनः || १-४३ || एकधा च पुनस्त्रेधा बहुधा च पुनः स्वयम् | विस्तीर्णः स तु मोहोऽयं आवृत्य परमेश्वरम् || १-४४ || कालमायांशयोगेन ब्रह्माण्डमसृजत्प्रभुः | कोटिब्रह्माण्डलक्षाणां स निर्माताक्षरो विभुः || १-४५ || न तस्येच्छा न कर्त्तव्या निर्गुणः प्रकृतेः परः | तथापि बालवत् क्रीडन् कोटिब्रह्माण्डसंहतीः || १-४६ || सृजते संहरत्येषः कटाक्षाक्षेपमात्रतः | चिन्मात्रः परमः शुद्धः कूटस्थः पुरुषः परः || १-४७ || विराट् तस्य वपुः स्थूलं पञ्चधा तु समुद्भवम् | पातालं पादमूलेऽस्य पार्ष्णिदेशे रसातलम् || १-४८ || गुल्फे महातलं तस्य जङ्घयोश्च तलातलम् | जङ्घयोपरि सुतलं वितलं कट्युत्तरं प्रिये || १-४९ || कटिमध्येऽतलमस्ति मर्त्यलोकोदरे तथा | पार्श्वदेशेभुवर्लोकस्तदूर्ध्वं च स्वरादयः || १-५० || ज्योतींष्यस्योरःस्थले च ग्रीवायां च महस्तथा || १-५१ || वदने जनलोकोऽस्य तपोलोको ललाटके | सत्यलोको ब्रह्मरन्ध्रे बाह्वोरिन्द्रादयः सुराः || १-५२ || दिशः कर्णप्रदेशस्य शब्दस्तच्छ्रोत्रमध्यगः | नासयोरस्य नासत्यौ मुखे वह्निः समाश्रितः || १-५३ || सूर्योऽस्य चक्षुषि गतः पक्ष्मणि ह्यहनीशितुः | दंष्ट्रायां यमस्तस्य हास्ये माया महेश्वरि || १-५४ || उत्तरोष्ठे स्थिता लज्जा लोभः स्यादधरोष्ठके | स्तनयोरस्य वै धर्मः पृष्ठेऽधर्मः समाश्रितः || १-५५ || कुक्षिष्वस्य समुद्रा वै पर्वता ह्यस्थिसन्धिषु | आपगा नाडिदेशस्था वृक्षा रोमपथि स्थिताः || १-५६ || मेघाः केशेषु हृदये चन्द्रमाः परिकीर्तितः | इदं स्थूलशरीरं तु ब्रह्मणः परमात्मनः || १-५७ || इयत्तयाऽपरिच्छेद्यमन्तपारविवर्जितम् | लिङ्गं नारायणस्तस्य ह्यक्षरस्य चिदात्मनः || १-५८ || हिरण्यगर्भं जगदीशितारं नारायणं यं प्रवदन्ति सन्तः | सर्वस्य धातारमनन्तमाद्यं प्रधानपुंसोरपि हेतुमीशम् || १-५९ || तं सर्वकालावयवं पुराणं परात्परं योगिभिरीड्यपादम् | ब्रह्मेशविष्णुप्रमुखैकहेतुं यतः प्रवृत्तो निगमस्य पन्थाः || १-६० || तं देवदेवं जगतां शरण्यं नारायणं यस्य वदन्ति लिङ्गम् | यावन्न लिङ्गं प्रलयं प्रयाति स्थूलं वपुश्चापि न शान्तिमेति || १-६१ || ततः परं कारणमेव तस्य वपुः परस्यात्मन एव मोहः | यावद्विमोहः प्रशनं न याति न लिङ्गमुत्सीदति कार्यबद्धम् || १-६२ || न कारणं तावदुपैति शान्तिं चराचरस्यापि च बीजभूतम् | यावन्महाकारणमम्बिके तत् न शान्तिमायाति च बीजबीजम् || १-६३ || गुह्याद् गुह्यतरं शास्त्रमिदमुक्तं तवानघे | न कस्याप्यग्रतो वाच्यं सत्यं सत्यं प्रियंवदे || १-६४ || न पद्मायै हरिः प्राह प्रार्थितोऽपि पुनः पुनः | तन्मयात्र तव स्नेहात्प्रकटीकृतमुच्चकैः || १-६५ || न गुह्यायापि पुत्राय गणराजाय नन्दिने | सुगोपितमिदं भद्रे तव स्नेहादुदीरितम् || १-६६ || तस्माद्गोप्यतरं भद्रे वराङ्गमिव सर्वतः | इतीदं ते समाख्यातं किमन्यत्प्रष्टुमिच्छसि || १-६७ || इति श्रीनारदपञ्चरात्रे माहेश्वरतन्त्रे ज्ञानखण्डे शिवपार्वतीसंवादे प्रथमं पटलम् || १-१ || अथ द्वितीयं पटलम् श्रीपार्वत्युवाच भगवन् देव देवेश लोकनाथ जगत्प्रभो | धन्यास्म्यनुगृहीतास्मि सकलं जीवितं मम || २-१ || वाक्यपीयूषवर्षेण शीतलीकृतमानसा | न जानामि परं श्रेयस्तत्वज्ञानकथादृते || २-२ || किमायुषा च दीर्घेण पाषाणस्येव दुर्मतेः | क्षणं वै यस्य नो लग्नं चेतो वा तत्त्वचिन्तने || २-३ || यज्ञदानतपस्तीर्थव्रतानि नियमा यमाः | न तुलामभिगच्छन्ति स्वात्मतत्वैकचिन्तया || २-४ || आत्मतत्वैकशुद्ध्यर्था (र्थं) यज्ञादीनामनुष्ठितिः | शुद्धे मनसि तत्वस्य स्फुरण भवति प्रिय || २-५ || तदेव यदि वा लब्धमनायासेन कुत्रचित् | दैवाद्वा गुरुतोषाद्वा साधनैर्वापि शङ्कर || २-६ || किन्नु तस्यावशिष्टं वा साधनं स्वात्मदं परम् | तस्मान्महत्तरमिदं सर्वतस्तत्वचिन्तनम् || २-७ || श्रुतं मया महेशान पुनर्ब्रूंहि यथातथम् | प्रष्टव्यं बहुधा भाति तथाप्येकं वदेश्वर || २-८ || क्रमयोगेन तच्चापि पुनः पृच्छे कृपानिधे | पद्मायै हरिणा नोक्तं यद्रहस्यं महाद्भुतम् | तदत्र संशयो जातो तद्भवान् छेत्तुमर्हति || २-९ || या लक्ष्मीः परमा शक्तिः नित्यं तत्सहचारिणी | तत्प्राणवल्लभा साध्वी किं तया पृष्ठमुत्तमम् || २-१० || किं रहस्यं किमध्यात्म्यं यन्नोक्तं हरिणा स्वयम् | तदत्र ब्रूहि भगवन् प्रवक्तुं यदि मन्यसे || २-११ || न मे त्वत्तः परं किञ्चित् प्राणादप्यधिको भवान् | तथाप्यहं तवैवास्मि यन्मेर्द्धं वपुराहितम् || २-१२ || न त्वया तद्रहः कार्यं तेन गुप्तमिति प्रभो | इत्युक्त्वा शिवपादाब्जप्रणताभूत्पुनः पुनः || २-१३ || शिव उवाच अहो धन्यासि धन्यासि धन्यासि भुवनत्रये | न त्वया सदृशीं पश्येत्प्रेयसीं प्राणवल्लभाम् || २-१४ || त्वद्वागमृततृप्तोऽहं प्रजल्पामि शृणुष्व तत् | एकदा खलु वैकुण्ठे विष्णुरेकान्तसंस्थितः || २-१५ || सन्नियम्येन्द्रियगणं मनसा बुद्धिसारथिः | किञ्चिद्दध्यौ महातेजाः प्रमोदभरनिर्वृतः || २-१६ || गलद्वाष्पाम्बुपूर्णाक्षः पुलकाङ्कितविग्रहः | स्तिमितोद इवाम्भोधिः स्मृत्वा लीलारसाम्बुधिम् || २-१७ || प्राणेन्द्रियमनश्चेष्टा निमग्ना ध्यानवर्त्मनि | अन्तःप्रमोदभरितो बहिः सम्वेदनाक्षमः || २-१८ || केवलेन शरीरेण स्थित इत्यद्भुतं च यत् | क्रीडन्ती सखिभिः सार्द्धं तत्राभूद्भार्गवी हि सा || २-१९ || ध्यानवर्त्मनि संलीनप्राणेन्द्रियमनोमतिम् | प्रध्वस्तबाह्यविज्ञानं दृष्ट्वा विस्मितमानसा || २-२० || कोऽसौ त्रिलोकगुरुणा ध्यायते स्थिरचेतसा | न चास्मादपरं लोके ध्येयं पश्यामि किञ्चन || २-२१ || ब्रह्मणो वापि रुद्रस्य कारणं दैवतं च यः | यस्यावतारचरितं गायन्ते नारदादयः || २-२२ || यत्पदं प्राप्तुमिच्छन्तो वानप्रस्थं यतिव्रतम् | चरन्ति ब्राह्मणाः शुद्धा धृतविद्यातपोवृताः || २-२३ || न यत्समोऽन्यो लोकेऽस्मिन् ह्यधिकस्तु कुतो भवेत् | यदुन्मेषाज्जगज्जातं यन्निमेषात्प्रलीयते || २-२४ || यस्मिन् चित्तं समाधाय योगिनो ज्ञाननिर्मलम् | अविद्यां हृदयग्रन्थिमुन्मुञ्चन्ति गतक्लमाः || २-२५ || यस्य चेतस्ययं देवो वर्त्ततेऽसौ कृतार्थकः | सोऽयं हरिः परानन्दः कस्मिंश्चित्तं दधात्यहो || २-२६ || इत्येव सन्दिहाना सा सखीनां पुरतः स्थिता | सस्मितं जगदे सख्या कयाचित्परया मुदा || २-२७ || सख्युवाच अयं त्रिलोकेशगुरुः कमन्यं ध्यातुमर्हति | देवासुरनरा नागा गन्धर्वाप्सरसां गणाः || २-२८ || सिद्धा योगेश्वरा रुद्रा आदित्या वसवस्तथा | मरुद्गणाः सोमपाश्च पितरश्चापि चारणाः || २-२९ || यं पूजयन्ति सततं भक्तिप्रवणचेतसः | न तस्मात् त्रिषु लोकेषु ह्यस्य पूज्यतमो भवेत् || २-३० || त्वामेकां ध्यायते चित्ते प्रेयसीं प्राणवल्लभाम् | प्रतिव्रतां पतिप्राणां प्राणनाथो रहो गतः || २-३१ || धन्यासि कृतकृत्यासि यत्त्वया हरिरीश्वरः | शुद्धभावेन सततं सेवया च प्रसादितः || २-३२ || क्षणं तद्विरहं सोढुमशक्तो मिलितेक्षणः | रहः स्थितः स्वहृदये त्वन्मूर्तिं ध्यायते हरिः || २-३३ || तस्माद्धन्याः स्त्रियो लोके याः पतिप्रेमभाजनम् | इति हासच्छलेनोक्ता मेने वितथमेव सा || २-३४ || रमोवाच- अहो सखि यदीत्थं त्वं निरर्थकमिदं वचः | न मां स्मरति देवेशो ध्यानमार्गे कदाचन || २-३५ || मयि विरक्तः सततमकिञ्चनजनप्रियः | कथं मां ध्यायते चित्ते विरहं सोढुमक्षमः || २-३६ || अकुण्ठितमहाबाधा प्रसादादस्य सन्ततम् | जानामि सकले लोके भजतो मां दृढव्रतान् || २-३७ || ये चापि त्रिषु लोकेषु यत्र कुत्रापि संस्थिताः | भजन्ते तानहं भक्तान् हृदि पश्यामि सन्ततम् || २-३८ || तदा कथं तु हरिणा चित्ते ध्यातापि तं सखि | न वेद्मि सर्वभावज्ञा सर्वलोकान्तरस्थिता || २-३९ || तस्मान्न मां न च विधिं न रुद्रमपि शङ्करम् | नान्यं वा प्राणसदृशं भक्तं वा ध्यायतीश्वरः || २-४० || को वेदास्य परं चित्ते निहितः कश्चिदीश्वरः | तस्मात्प्रबुध्यमानेऽस्मिन् सर्वं पृच्छाम्यसंशयम् || २-४१ || इत्युक्त्वा सखिवर्गेण कुतूहलसमन्विता | पुरः तस्थौ परेशस्य प्रबद्धकरसम्पुटा || २-४२ || तावदेव हरिः साक्षान्मुक्तध्यानो ददर्श ताम् | बद्धहस्ताञ्जलिपुटां सखीमण्डलमध्यगाम् || २-४३ || विरोचयन्तीं प्रभया दिव्यालङ्कारभूषिताम् | मणिकुण्डलनिर्भान्तकपोलविमलप्रभाम् || २-४४ || सुनासां सुदतीं सुभ्रूं चिबुकोद्देशशोभिताम् | कम्बुकण्ठीं हृदि भ्राजन्मणिहारमनोहराम् || २-४५ || काञ्चीकलापरुचिरां वलयाङ्गदनूपुराम् | त्रिलोकीदेवतां साक्षाद्विनयावनतेक्षणाम् || २-४६ || दृष्ट्वा प्रबोधमापन्नं हरिं कमललोचनम् | शीर्ष्णा स्पृशन्ती चरणं प्रोवाच विनयान्विता || २-४७ || रमोवाच अहो देवेश भगवन् भक्तवत्सल भूधर | कृपां कुरु जगन्नाथ सन्देहं विनिवारय || २-४८ || त्वमेकः सर्वलोकानां स्रष्टा हर्त्ता च पालकः | दैवतं सर्वदेवानां न त्वया न समोऽधिकः || २-४९ || किं ध्यायसि रहः स्थित्वा विलीनकरणाशयः | तद्ध्यानानन्दसन्दोहपुलकाङ्कतनुर्भृशम् || २-५० || अस्मिन् खिद्यति मच्चित्तं त्वत्तोऽप्यपरशङ्कया | तं ब्रूहि करुणासिन्धो यथाहं प्रकृतिं व्रजे || २-५१ || इत्युक्तो रमया देव्या हरिरात्मा शरीरिणाम् | गिरा मधुरया वाचा रमणी रमयन्निव || २-५२ || श्रीभगवानुवाच अहो कल्याणि वचनं वदामि शृणु साम्प्रतम् | अहं लोकगुरुः साक्षान्न मे ध्येयोऽस्ति कश्चन | अहमात्माखिलाधारो ब्रह्मरुद्रेन्द्रवन्दितः || २-५३ || विश्वस्मिन्विततं पश्य मामेव सचराचरे | विश्वं मयि ततं पश्य किमन्यज्ज्ञातुमिच्छसि || २-५४ || तस्य मे विश्वजीवस्य शक्तिस्त्वं समधर्मिणी | आद्याखिलाधारमयी मदानन्दमयी शुभा || २-५५ || तां त्वां ब्रह्मादयो देवा ऋषयोऽथ धृतव्रताः | इन्द्रादयस्तु दिक्पाला मुनयो नारदादयः || २-५६ || भजन्तोऽपि न ते सुभ्रु प्रसादकणिकास्पृशः | सा त्वं मे हृदये लीना परमानन्दरूपिणी || २-५७ || यदा त्वां नैव पश्यामि जगदान्ध्यं विभाति मे | दृष्टायां त्वयि देवेशि सम्यक् पश्याम्यह पुनः || २-५८ || त्वं गता सखिभिः सार्धं पुष्पावचयहेतवे | तावत्ते विरहं सोढुमशक्तोऽहं वरानने || २-५९ || त्वच्चित्तो रहसि स्थित्त्वा त्वत्प्राणस्त्वन्मनाः प्रिये | त्वामेव हृदये ध्यायन्निमीलितविलोचनः || २-६० || ललने ललितं रूपं त्वदीयं सुरदुर्लभम् | ध्यायामि ध्यानयोगेन तावत्त्वं समुपागता || २-६१ || इत्येवं ते मया प्रोक्तं सत्यं जानीहि सुव्रते | श्रीलक्ष्मीरुवाच देवेश त्वत्प्रसादेन सर्वेषां हृदि चेष्टितम् | जानामि सकलं नाथ यथाकर्म यथारुचि || २-६२ || अहं हृदि त्वया ध्याता विरहेणापि माधव | त्वययेव निवसाम्येव त्वदन्तःकरणैक्षिणी || २-६३ || अहो चित्रमिदं भाति त्वदन्तःस्थाप्यहं प्रभो | न जानामि त्वदन्तःस्थं आत्मानमिवसन्मतिः || २-६४ || न प्रतारयितुं योग्या भक्ता तेतीव वल्लभा | भक्तप्रतारकं लोके कथमन्यो भजिष्यते || २-६५ || त्रिलोक्यां यदि वा कञ्चित् भक्तं ध्यायसि दुर्गतम् | त्वदिच्छयैव तद्दुःखं सर्वं विलयमेति च || २-६६ || तस्मात्त्वदन्यो वै कश्चिदीश्वरस्त्वनुमीयते | तं वै वदस्व देवेश यद्यहं तव वल्लभा || २-६७ || न चान्यो मे प्रियतमो नेश्वरो वा भवत्परः | परं वेदितुमिच्छामि कौतुकेन समन्विता || २-६८ || विष्णुरुवाच न कौतुकं त्वया कार्यं मदुक्त्या निर्वृतिं व्रज | न चाग्रहं प्रकुर्वन्ति विद्वांसः साधवो जनाः || २-६९ || देव्याग्रहवतां पुंसां न धर्मार्थौ न कामना | प्रसिध्यन्ति कदाचिद्वा बुद्धेः फलमनाग्रहः || २-७० || प्रार्थितं तु शिरो देयं पशुद्रविणसम्पदः | राज्यं कोशो मही दुर्गं तथान्यदपि सुन्दरि || २-७१ || धनैः प्राणैः शरीरैश्च त्यक्षद्भिर्नोपकुर्वते | ते यास्यन्ति स्वयं त्यक्त्वा कालवेगेन कर्षिताः || २-७२ || याचकाशा हता येन हतं तेन चराचरम् | तस्मात्प्राणादिकं सर्वं याचते देयमेव हि || २-७३ || अदेयं तु परं तत्वं लोकातीतं यतो हि तत् | तस्माद्दुराग्रहं त्यक्त्वा प्रसन्नेनान्तरात्मना || २-७४ || वर्तितव्यं त्वया भद्रे मत्प्रसादपरीप्सया | इत्युक्ता सा तदा लक्ष्मीर्विष्णुना प्रभविष्णुना | ईषत्कोपसमाविष्टा कषायीभूतलोचना || २-७५ || आत्मानमात्मना धृत्वा प्रोवाच वचनं पुनः | स्त्रीपुंसोर्देहभागाभ्यामेकमेव वपुः स्मृतम् || २-७६ || कथं पश्यसि भेदेन मामेकतनुरूपिणीम् | पुरातनैश्च कविभिर्दाम्पत्ये प्रेम रूपितम् || २-७७ || तन्नाशितं त्वयैकेन प्रेमरीतिविदापि भोः | पत्युः प्रेमबहिर्भूतां धिक् स्त्रियं विमतां गृहे | पतिश्चापि शठस्तस्या यः साध्वीमप्युपेक्षते || २-७८ || तस्माद्देवाल्पपुण्याहं कथं प्राप्स्यामि चेप्सितम् | आप्रसादं च भवतः करिष्ये तप उल्बणम् || २-७९ || येन प्रसन्नो भगवान् उपदेश्यति तत्पदम् | इत्युक्त्वा भगवत्पादं प्रणम्य च मुहुर्मुहुः | प्रदक्षिणीकृत्य ययौ वैकुण्ठात्तपसे रमा || २-८० || सामभिर्विविधैश्चापि वचनैश्च नयान्वितैः | निवार्यमाणापि रमा न न्यवर्तत निश्चयात् || २-८१ || इति श्रीनारदपञ्चरात्रे माहेश्वरतन्त्रे ज्ञानखण्डे शिवोमासंवादे द्वितीयं पटलम् || २-२ || अथ तृतीयं पटलम् पार्वत्युवाच भगवत् श्रोतुमिच्छामि परं कौतूहलं हि मे | रमया परया साध्व्या प्रार्थितोऽपि पुनः पुनः || ३-१ || नोक्तवान्परमं तत्वं तदर्थं तपसे गता | महाश्चर्यतमं देव तन्मे व्याख्यातुमर्हसि || ३-२ || शिव उवाच शृणु सुन्दरि वक्ष्यामि तव स्नेहादशेषतः | अवाच्यमन्यथा देवि कोटिकल्पशतैरपि || ३-३ || प्रार्थितोऽपि यदा विष्णुर्नोक्तवान् स्वहृदि स्थितम् | श्रवणेच्छाविघातेन विरहाग्निविधूतया || ३-४ || कृतं महत्तपश्चोग्रं सर्वलोकोपतापनम् | केतुमालं (ले) समासाद्य कृत्वा नियममात्मना || ३-५ || साध्वी चकार प्रतिमां विष्णोः परमसुन्दराम् | तत्र पर्यचरत् प्रीत्या गर्हयन्ती स्वकं वपुः || ३-६ || स्नानेन त्रिषु कालेषु नियमेन दमेन च | भावशुद्धिं गता साध्वी स्थण्डिले शयने गता || ३-७ || शीतकाले जले मग्ना ग्रीष्मे पञ्चाग्निसेविनी | वर्षाष्वपि स्थलगता वृष्टिवातसहा स्थिता || ३-८ || स्त्रीत्वचाञ्चल्यमुत्सृज्य नानालङ्कारसम्पदम् | भूम्यामशेत सततं चिन्तयन्ती हरिं हृदि || ३-९ || स्वप्ने ददर्श सततं हरिं कमललोचनम् | तत्रापि प्रार्थयन्तीदं सोऽपि नेत्त्याह विक्लवम् || ३-१० || सुप्ता सोत्थाय तत्रैव पुनरुद्बोधमागता | एवं सा तन्मयीभूतहृदया विवशा भृशम् || ३-११ || आत्मानं गर्हयामास मनोरथमपश्यति | यदा मनोरथं नैवं प्राप्ता देवी तपस्विनी | तदैकपादेन भुवमाक्रम्यात्मनि निर्मला || ३-१२ || निधाय स्वामिनं चित्ते तस्मिन् चित्तं निधाय च | एकात्म्यं तु गता साध्वी तताप परमं तपः || ३-१३ || तच्छिखायाः समुद्भूतः सधूमोऽग्निः परिज्वलन् | तापयामास निखिलं ब्रह्माण्डं भयविह्वलम् || ३-१४ || देवासुरनरा नागा गन्धर्वाप्सरसस्तथा | पिशाचा गुह्यकाः सिद्धा विद्याध्राः खगचारणाः || ३-१५ || तपोमयेन ज्वलता वह्निना दुःसहेन च | व्यथिताः शोकसंविग्ना न सुखं लेभिरे क्वचित् || ३-१६ || ततश्चेन्द्रादयो देवा मरुतश्रोष्मपादयः | आदित्या वसवो रुद्रा ह्यश्विनौ पितरस्तथा || ३-१७ || ब्रह्माणं शरणं जग्मुः पितामहमनिन्दितम् | ददृशुः परमं देवं ब्रह्माणं परमासने || ३-१८ || प्राणायामेन युञ्जानं शुभ्रकूर्चं चतुर्मुखम् | सनकाद्यैः परिवृतं नारदाद्यैरुपासितम् || ३-१९ || मूर्तिमद्भिस्तथा वेदैः पृथक्सिंहासनस्थितैः | पुराणैः संहिताभिश्च विद्याभिः परिवेष्टितम् || ३-२० || विचारयन्तमात्मानं परमं तमसः परम् | पुण्योत्कर्षेण धर्मेण त्यागेन ज्ञानसम्पदा || ३-२१ || विमर्षेणात्मनश्चापि ब्रह्मचर्येण संयमैः | नियमैर्योगधर्मैश्च यत्र क्रीडन्ति सङ्गताः || ३-२२ || दृष्ट्वामरास्ते परमासने स्थितं ब्रह्माणमाद्यं पुरुषं पुरातनम् | प्रणेमुरानन्दजलाकुलेक्षणाः कृष्यत्वचो गद्गदयाब्रुवन् गिरः || ३-२३ || नमो नमस्ते जगदेककर्त्रे नमो नमस्ते जगदेकपात्रे | नमो नमस्ते जगदेकहर्त्रे रजस्तमःसत्वगुणाय भूम्ने || ३-२४ || अण्डं चतुर्विंशतितत्त्वजातं तस्मिन् भवानेष विरञ्चिनामा | जगच्छरण्यो जगदुद्वमन्स्वयं पितामहस्त्वं परिगीयसे बुधैः || ३-२५ || त्वं सर्वसाक्षी जगदन्तरात्मा हिरण्यगर्भो जगदेककर्त्ता | हर्त्ता तथा पालयितासि देव त्वत्तो न चान्यत्परमस्ति किञ्चित् || ३-२६ || त्वमादिदेवः पुरुषः पुराणः साक्षात् स्वयं ज्योतिरजः परेशः | त्वन्मायया मोहितचेतसो ये पश्यन्ति नानात्त्वमहो त्वयीशे || ३-२७ || त्वमाद्यः पुरुषः पूर्णस्त्वमनन्तो निराश्रयः | सृजसि त्वं च भूतानि भूतैरेवात्ममायया || ३-२८ || त्वया सृष्टमिदं विश्वं सचराचरमोजसा | कथं न पालयस्येतत् ज्वलदाकस्मिकाग्निना || ३-२९ || विनाशमेष्यति जगत् त्वया सृष्टमिदं प्रभो | न जानीमो वयं तत्र कारणं तद्विचिन्त्यताम् || ३-३० || कोऽयं वह्निरपूर्वोऽयमुत्थितः परितो ज्वलन् | तेनोद्विग्नमिदं विश्वं ससुरासुरमानवम् || ३-३१ || तस्य त्वं शमनोपायं विचारय महामते | न चेदद्य भविष्यन्ति लोका भस्मावशेषिताः || ३-३२ || इति तेषां च गृणतां देवानामातुरं वचः | विमृश्य ध्यानयोगेन तदिदं हृद्यवाप सः || ३-३३ || ततः प्रोवाच वचनममरांस्तु पितामहः | शृणुध्वममराः सर्वे वचनं मदुदाहृतम् || ३-३४ || तपस्यति रमा देवी साक्षात्पत्यावमानिता | किं त्वं ध्यायसि देवेश परं तत्त्वं भवत्परम् || ३- तद्वदस्वेति चाप्युक्तस्तथा नोवाच वै हरिः || ३-३५ || ततो निर्बन्धनिर्विण्णा रमा देवी रुषान्विता | केतुमालं समासाद्य तपो दारुणमाश्रिता || ३-३६ || सा तपो लोकभयदं दारुणं विष्णुवल्लभा | करोति तद्भालदेशादुत्थितोऽग्निस्तपोमयः || ३-३७ || तेन लोकाः सुसन्तप्ता दग्धप्राया विचेतसः | नाशमेष्यन्त्यसन्देहो यदि सा न तपस्त्यजेत् || ३-३८ || तस्माद्वैकुण्ठनिलयं हरेर्गत्वा दिवौकसः | विष्णुं प्रसादयिष्यामः सरुद्राः सर्व एव हि || ३-३९ || एवं निश्चित्य ते सर्वे मम धाम समाययुः | मामस्तुवन् गिरा माध्व्या प्रबद्धकरसम्पुटाः || ३-४० || मयापि सत्कृता देवि सेन्द्रा ब्रह्मपुरोगमाः | दृष्ट्या सम्भाव्य देवेशं उपगुह्य पितामहम् || ३-४१ || नत्वा बृहस्पतिं देवि यथा योग्यं तथापरान् | निषीदध्वं निषीदध्वमित्युक्तास्ते मयामराः || ३-४२ || निषेदुर्म्लानवदनाः सज्वरास्ते दिवौकसः | अपि स्वित् कुशलं देवा भवतामनुवर्तते || ३-४३ || स्वागतं भो ! सुराः सर्वे यूयं मे चातिवल्लभाः | दृष्टो मदीयो लोकोऽयमदृष्टो मत्पराङ्मुखैः || ३-४४ || वनेषूपवनेष्वेव रमध्वमिह चेत्स्पृहा | शृण्वन्तु रुचिरालापान् शुकसारसपक्षिणाम् || ३-४५ || जिघ्रन्तु परमामोदमोहितानेकषट्पदान् | लतानामतिदिव्यानां सर्वर्तुकुसुमाकरान् || ३-४६ || महामरकतकॢप्तस्वर्णवेदिषु निर्भरम् | गङ्गानिलसुखस्पर्शाः परिक्रीडन्तु चामराः || ३-४७ || नदन् मत्तमरालासु सुधापूर्णासु नित्यशः | खेलन्तु सस्त्रियः सर्वे दीर्घिकासु गतक्लमाः || ३-४८ || यद्यद्वा मनसोऽभीष्टं तत्कुरुध्वमतन्द्रिताः | किमर्थमिह सम्प्राप्ता ब्रह्मोपेन्द्रपुरोगमाः || ३-४९ || निवेदयध्वं कर्त्तव्यं यदि चेदस्ति किञ्चन | इत्येवं ते मया प्रोक्ता मामवोचन् दिवौकसः || ३-५० || भगवन् करुन्णासिन्धो भक्तवत्सल धूर्जटे | त्वया सञ्चिन्त्यमानानां कुशलेषु च का कथा || ३-५१ || तदेवाकुशलं विद्मस्त्वत्पादस्मरणच्युतिः | जानीमः पूर्णमात्मानं अद्य तेऽनुग्रहोदयात् || ३-५२ || किं ध्यायसि चिरं तात निरुध्य हृदये मनः | लब्धानन्द इवाभासि स्वयमात्माऽपि देहिनाम् || ३-५३ || एतदाचक्ष्व नो ब्रह्मन् प्रवक्तुं यदि मन्यसे | अहमाकर्ण्य वै तेषां वाचं परमशोभनाम् | मन आह्लादयन्नेषामवोचं परमोक्तिभिः || ३-५४ || शृणुध्वं त्रिदशाः सर्वे भवद्भिर्यदुदाहृतम् | किं ध्यायसि चिरं तात निरुध्य हृदये मनः || ३-५५ || लब्धानन्द इवाभासि स्वयमात्मापि देहिनाम् | तन्न वाच्यं मया देवा अपि कल्पायुतायुतैः || ३-५६ || न यान्ति योगिनो योगैर्न यज्ञैस्तप आदिभिः | न ज्ञानतीर्थवैराग्यैर्विना साधुनिषेवया || ३-५७ || मायामात्रमिदं विश्वं वस्तुतो नास्ति किञ्चन | भूरादिसप्तलोकाश्च कालेन कवलीकृताः || ३-५८ || विषयानन्दसन्तुष्टा लोकाः सर्वेऽपि देवताः | न प्राप्नुवन्ति कणिकां नित्यानन्दमहोदधेः || ३-५९ || वेदे कर्मप्रधानं हि ततः कर्ममयी गतिः | कर्मभिर्भ्राम्यमाणा ये तृणानीवाम्भसो रयैः || ३-६० || न ते विन्दन्ति तत्तत्वं कोटिकल्पशतैरपि | केचित्स्वर्गपरा लोके यजन्ते ज्ञानदुर्बलाः || ३-६१ || केचिदष्टाङ्गयोगेन निगृहीतधियः परे | वर्णाश्रमविधानेन तत्तदाचारशालिना || ३-६२ || केचित्पत्राशनरता वायुभक्षास्तथेतरे | केचिद्दिगम्बराः केचित् कृष्णरक्ताम्बराः परे || ३-६३ || केचिन्मुण्डितमुण्डाश्च फलमूलाशने रताः | केचिद्भस्मनि निष्णाता मोक्षमिच्छन्ति दुर्बलाः || ३-६४ || नैव ते मुक्तिमायान्ति विना तत्त्वावमर्षणात् | मायाम्भोधिरयं भाति ह्यसन्नपि सदात्मकः || ३-६५ || अनेककोटिब्रह्माण्डबुद्बुदाकुलितो भृशम् | तत्त्वोर्मिजालजटिलो वासनाजलगह्वरः || ३-६६ || पापपुण्यतटोन्नद्धो मोहपङ्कप्रपूरितः | सदसत्कर्मकमलकैरवानन्तमण्डलः || ३-६७ || अहन्ताशिशुमारेण निरन्तरमुपासितः | तृष्णाफेनौघबहुलः कामनातटपादपः || ३-६८ || कामक्रोधमहालोभगर्तपाषाणदुःखदः | परनिन्दापरद्रोहभुजङ्गमभयानकः || ३-६९ || श्रद्धोरुपद्मिनी यत्र अक्षयो मोहकल्पितः | विषयतृडभिक्लान्ताः पतन्त्यस्मिन्ननेकशः || ३-७० || दृष्ट्वारमत वै कश्चित् सरागं कमलाकरम् | सेव्यमानोऽपि नातृप्यत् षट्पाद इव लोलुपः || ३-७१ || अह्नः क्षयमजानन्वै लोभितात्माजितेन्द्रियः | मधुलिट् मधुलोभेन तत्रैव विलयं व्रजेत् || ३-७२ || यत्र हंसगणास्तूर्णमाघ्राय कमलाकरम् | अशाश्वतमिति ज्ञात्वा सुखं नीडेषु शेरते || ३-७३ || यत्र पङ्केषु निर्मग्ना सीदन्ती गौस्तृषातुरा | महात्मना समुद्धृत्य सुधासिन्धौ निवेशिता || ३-७४ || यत्र खेलन्ति बहुशो मातङ्गाश्च करेणुभिः | अतृप्यमानाः सततं कमलामोदलम्पटाः || ३-७५ || यत्र मत्स्यगणान् बालान् निघ्नन्ति बलवत्तया | मकरास्तानपि क्षिप्रं निगृह्णातीह जालिकः || ३-७६ || शिशुमारभयोद्विग्नाः पिपासामतिवाह्य ते | न पिबन्त्यपि पानीयं पद्मिनीछायमाश्रिताः || ३-७७ || यत्र पान्थो भुजङ्गेन परिदष्टोम्बुलालसः | चिकित्सकेन सुज्ञेन रसदानेन बोधितः || ३-७८ || यत्राभिमानिनी वेश्या सेव्यमानातिनिर्घृणैः | उपस्थिता पञ्चनटैर्नित्यसेवनतत्परैः || ३-७९ || पिपासबो नटान् यान्ति प्रापयन्ति नटीं हि तान् | ततः क्रीडन्ति वेगेन स्वच्छन्दं च तदाज्ञया || ३-८० || यदि सूर्यसहस्राणां प्रकाशपरमोज्ज्वलम् | उदेति ज्ञानविज्ञानं तदा शुष्यति नान्यथा || ३-८१ || उदिते तु परे ज्ञाने नाहं यूयं न किञ्चन | न यास्यन्ति परं तत्त्वं मदाद्या अपि देवताः || ३-८२ || किमुताल्पधियश्चान्ये स्वप्निका इव जाग्रतम् | यन्निर्बन्धसमाविष्टा प्राणेभ्योप्यति वल्लभा || ३-८३ || नोपदिष्टादूनचित्ता केतुमाले तपस्यति | तस्मान्मदानन्दमूलं नाहं वक्ष्ये कथञ्चन || ३-८४ || अन्यन्निवेद्यतां कृत्यं यदि योग्यं भवेन्मम | इत्युक्तास्तेमराः सर्वे वीक्ष्यमाणाः परस्परम् || ३-८५ || परं विस्मयमापन्नाः श्रुत्वा शङ्करभाषितम् | देवा ऊचुः देवदेव महादेव जगतां ज्ञानदो गुरुः || ३-८६ || यदात्थ देव तत्सत्यं विष्णुपत्नी तपस्यति | तत्तपो वह्निना विश्वं परितप्तं समन्ततः | किमद्य करणीयं वै तच्च शम्भो विचार्यताम् || ३-८७ || शिव उवाच रमा देवी जगच्छक्तिः प्रकृत्यंशमयी शिवा | विष्णोरानन्दलहरी यया भाति जगच्छिवम् || ३-८८ || सा तपश्चरते तीव्रं जगद्दाहकरं महत् | पतिव्रता पतिं त्यक्त्वा नान्यं चापि प्रभाषते || ३-८९ || न तस्मादन्यसंसाध्या विना स्वपतिमाधवम् | तस्माद्विष्णुं व्रजामोद्य सर्वैं चापि वयं सह || ३-९० || गत्वा निवेदयिष्यामो जगतामशिवं च यत् | दृष्ट्वास्मानपि मानार्हान् जगद्भङ्गमपीक्ष्य च || ३-९१ || निषेधयिष्यति रमां तपसोऽसौ दुरत्ययात् | इति मे वाचमाकर्ण्य देवाः सर्वे गतज्वराः || ३-९२ || अहं चापि च तैः सार्धं गतः प्रियनिकेतनम् | यत्र सर्वे घनश्यामाः पीतकौशेयवाससः || ३-९३ || किरीटिनः कुण्डलिनः शङ्खचक्रगदाधरः | तत्र गत्वा जगन्नाथः स्तुतो देवगणैरपि || ३-९४ || नमो मत्स्यकूर्मादिनानावतारैर्जगद्रक्षणायोद्यतायार्त्तिहर्त्रे | जगद्बन्धवे बन्धहर्त्रे च भर्त्रे जगद्विप्लवोपस्थितौ पालयित्रे || ३-९५ || यदा वेदपन्थास्त्वदीयः पुराणः प्रभज्येत पाखण्डचण्डोग्रवादैः | तदा देवदेवेश सत्त्वेन सत्त्वं वपुश्चारु निर्माय रक्षां विधत्से || ३-९६ || भूम्यम्बुतेजोनिलखात्मकं यत् ब्रह्माण्डमेतत्प्रविशन्निव त्वम् | चराचरं जीव इति प्रसिद्धिं गतोऽसि तस्मान्न भवत्परं यत् || ३-९७ || रक्षस्व नाथ लोकांस्त्वं तपसोग्रेण पद्मया | दह्यमानान् गतानन्दान् रक्षितासीश्वरो यतः || ३-९८ || निवर्त्तय परमां साध्वीं तव प्राणाधिकां प्रियाम् | न वै स्त्रियो विरोद्धव्या गृहमेधिभिरन्वहम् || ३-९९ || यद्गृहे स्त्री विरुद्धा स्याद्यदिवाप्यवमानिता | न तद्गृहे सुखं सम्पन्न चारोग्यं प्रजासुखम् || ३-१०० || कथं सुखेन वर्त्तेत विश्वमेतद्भवद्गृहम् | त्वयि विरोधमापन्ने गृहिण्या समशीलया || ३-१०१ || तस्माद्विश्वस्य रक्षार्थं सावधानो भव प्रभो | इत्यावेद्यामराः सर्वे प्रणम्य जगतां पतिम् || ३-१०२ || बद्धाञ्जलिपुटास्तूष्णीमासन् म्लानमुखाम्बुजाः || ३-१०३ || इति श्रीपञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसंवादे तृतीयं पटलम् || ३-३ || अथ चतुर्थ पटलम् शिव उवाच अथ तेषां वचः श्रुत्वा देवानामतिविक्लवम् | प्रहसन्वाचमकिरत् देवानां हृदयङ्गमाम् || ४-१ || विष्णुरुवाच भो महेश विधे ब्रह्मन् शक्राद्याः शृणुतामराः | मम प्राणप्रिया देवी रमा देवी तपस्विनी || ४-२ || कलहान्तरिता जाता केतुमाले तपस्यति | तेनोग्रतपसा विश्वं परितप्तं समन्ततः || ४-३ || न सा सन्तोषमायाति स्वनिश्चितमृते सुराः | स्त्रीणां जातिस्वभावोऽयं कार्कश्यमविवेकिता || ४-४ || अशौचं निर्दयत्वं च निर्बन्धः साहसं तथा | लोभानृतं च कपटं मूर्खत्वमपदे च रुत् || ४-५ || नष्टं कुलं कुतनयात् नष्टं राज्यं कुमन्त्रिणा | ब्राह्मणः शूद्रसेवाभिरनभ्यासात्सरस्वती || ४-६ || निद्रया नष्टमायुष्यं [अत्र आयुरेवायुष्यम् नत्वायुषे हितमायुष्यम् |] अनुद्योगात्समृद्धयः | गुणा लोभैर्धनं पापैः सुखं नष्टं कुभार्यया || ४-७ || यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्द्धते | प्रातिकूल्येन नश्येत ग्रीष्मे बीजाङ्कुरा इव || ४-८ || देवी निर्बन्धमापन्ना विरमेन्न कथञ्चन | जगतामसुखं भूरि प्रवृत्तं तन्निवर्तते || ४-९ || प्रतिक्रियां करिष्यामि यात यूयं मुदान्विताः | इति देवा वचः श्रुत्वा परिक्रम्य जनार्दनम् || ४-१० || प्रणम्य पुनरायाताः स्वं स्वं धाम प्रहर्षिताः | ब्रह्मा विष्णुश्च ईशश्च केतुमालं गतास्तथा || ४-११ || यत्र सा निश्चलवपुः पदाङ्गुष्ठेन संस्थिता | ऊर्ध्वदृष्टिर्निरुद्धान्तःपवना सा मनस्विनी || ४-१२ || स्वभालशिखिविद्योतज्ज्वालाभिर्ग्रसतीव हि | ब्रह्माण्डं कवलाकारं कल्पान्तेग्निशिखा यथा || ४-१३ || दृष्ट्वा तां च तथाभूतां त्रयो ब्रह्मादिका वयम् | परमं विस्मयं जग्मुर्देव्याश्चरितमद्भुतम् || ४-१४ || ततस्तन्निकटं गत्वा हरिः प्राह हसन्निव ! रमे प्राणप्रिये देवि वृथा किं परितप्यसे || ४-१५ || निवृत्तिमेहि तपसो वृथायासफलादिह | बह्वायासं चाल्पफलं न कर्मांचरणं सताम् || ४-१६ || ध्यानानन्दरसे लीनं तन्मनोवतरत् क्षणात् | एवमुक्ते तु हरिणा प्रियां सान्त्वयता भृशम् || ४-१७ || ददर्श प्रियमङ्कस्थं घनश्यामं चतुर्भुजम् | विरञ्चीशानसहितं वनमालाविभूषितम् || ४-१८ || ननाम दण्डवद्भूमौ कृताञ्जलिपुटा रमा | नोवाच वचनं किञ्चित् नोत्थितापि पुना रमा || ४-१९ || हरिस्तत्प्रेम परमं स्वस्मिन् वीक्ष्य सुविस्मितः | प्राह देवीं हरिः प्रीत्या शृण्वतो विधिरुद्रयोः || ४-२० || विष्णुरुवाच अहो धन्यासि धन्यासि कमले लोकवन्दिते | आत्मनोर्धं स्त्रियः साध्व्यः पुंसो धर्मपरायणाः || ४-२१ || स्त्रीसाहाययेन जेतव्या लोका धर्मपरायणैः | अपत्नीकस्य ते सर्वे भवन्ति विफला यतः || ४-२२ || स्त्रीमूलं सर्वधर्माणां तदभावात्कुतश्च ते | तैर्विना न भवन्त्येव लोका ज्ञानमथापि वा || ४-२३ || धिक् जीवितं स्त्री रहितस्य लोके जुगुप्सितं धर्मविदां समाजे | देवामुनीन्द्रातिथयोऽपि यस्य गृहाण्युपेक्षन्त इवाधनं जनाः || ४-२४ || किं धनैर्विभवाकल्पैर्विभवैः किं सुखच्युतैः | किं सुखं यस्य नो वेश्मन्युदारा धर्मचारिणी || ४-२५ || दुःशीलं दुर्नयं दुष्टं दरिद्रं जरया प्लुतम् | पतिं पुष्णाति कुलजा तस्मात्स्त्री तु गरीयसी || ४-२६ || न मित्रं स्त्रीसमं मन्ये न बन्धुं न सहोदरम् | यतस्ते पृथगालोच्याः स्त्री तु नैव कदाचन || ४-२७ || सुखे वा यदि वा दुःखे जीविते मरणेऽपि वा | न मित्रं स्त्रीसमं क्वापि सत्यं सत्यं प्रियंवदे || ४-२८ || तस्मात्त्वं तु विशेषेण स्त्रीरत्नं मम रोचसे | मूर्धन्या पतिदेवानां यतस्त्वं परिगीयसे || ४-२९ || स्त्रीणामपि परो धर्मः पतिशुश्रूषणं च यत् | कायेन मनसा वाचा ततोऽन्यन्नास्ति किञ्चन || ४-३० || या स्त्रीपतिव्रता लोके पतिधर्मपरायणा | तदुक्तमेव कुर्वाणा सुखमक्षयमश्नुते || ४-३१ || तस्मादहं ते तपसा परितुष्टोऽस्मि साम्प्रतम् | उत्तिष्ठोत्तिष्ठ भद्रं ते तपसो लोकदःखदात् || ४-३२ || व्यतीयुः सप्तकल्पास्ते साधिकाः कोमलां तनुम् | ग्लपयन्त्या ह्यनुदिनं नोचितस्ते वृथा श्रमः || ४-३३ || पुष्पशययासु रुचिरं वपुस्ते परिखिद्यते | सा कथं चण्डतिग्मांशु सहते तापवर्षिणम् || ४-३४ || शीतोष्णवातवर्षाभ्यां परिक्लिष्टा वपुर्लता | वेणीभूता मूर्धजास्ते मनो मे खेदयन्ति च || ४-३५ || मन्दास्मितप्रभोदारं मुखं बिम्बाधरं तव | हिमक्लिष्टं न चाभाति हेमन्तकमलं यथा || ४-३६ || चण्डतिग्मांशुतापेन कपोलौ श्यामलौ तव | मुक्तादामश्रिया हीनौ न शोभा ते (शोभेते) यथा पुरा || ४-३७ || अनञ्जनं च नयनं भालं काश्मीरवञ्चितम् | मुखं ताम्बूलरहितं वीक्षतः कस्य ते सुखम् || ४-३८ || मा शोषय वपू रम्यं तपसा दुर्द्धरेण वै | मूर्ध्ना प्रणम्य ते पादं प्रार्थयामि पुनः पुनः || ४-३९ || किं ध्यायसि रह इति यत्प्रष्टं कमले त्वया | अवाच्यं तत्तु जानीहि अपि कल्पायुतायुतैः || ४-४० || तथापि कथयिष्यामि कृतस्ते तपसा ह्यहम् | साक्षान्न जिह्वया वाच्यं तत्तु देवि कथञ्चन || ४-४१ || तथापि कथयिष्यामि प्रकारं शृणु सुन्दरि | द्वापरान्तेऽष्टाविंशतिमे असुरा नृपरूपिणः | वेदमार्गविनाशाय यतिष्यन्ति दुराशयाः || ४-४२ || स्त्रीगोब्राह्मणसाधूनां धर्मिष्ठानां तपस्विनाम् | वर्णाश्रमाणां सेतूनां स्वस्वधर्मानुवर्त्तिनाम् || ४-४३ || करिष्यन्ति यदा पीडां तदाहं धर्मगुप्तये | वेदधर्मादिरक्षार्थं विनाशाय दुरात्मनाम् || ४-४४ || ययातिकुलजातस्य यदुराजस्य वेश्मनि | वासुदेवो भविष्यामि नाम्ना कृष्णेति विश्रुतः || ४-४५ || तत्रापि त्वं रुक्मिणीति भविष्यसि वराङ्गना | तत्र त्वां केचन नृपा असुरा ज्ञानदुर्बलाः || ४-४६ || आयास्यन्ते समुद्वोढुं जित्वा तान् समरे खलान् | उद्वहिष्यामि भवतीं मच्चितां नात्र संशयः || ४-४७ || तदा कुलाङ्गनाः पुत्रपतिवन्त्यः पतिव्रताः | गास्यन्ति मङ्गलार्थं तु मच्चरित्राणि सुन्दरि || ४-४८ || उपचारविधानेन तच्छ्रुत्वा हृदय मम | भविष्यति सुखापूर्णं यथाम्भोधिर्विधूदये || ४-४९ || ईदृक्तादृगितिगिरां न वक्तुं भवतीं क्षमम् | स्वयमेवानुभवति शर्कराक्षीरपानवत् || ४-५० || तत्सुखाम्भोनिधेर्देवि कणिकापि कथञ्चन | न ब्रह्मादिषु देवेषु वर्ततेन्यत्र का कथा || ४-५१ || नोपदिष्टं तु तद्वेति न शब्दैरुपदिश्यते | केवलानुभवाकारं वेत्येकोनुभवी सदा [प्रया वक्तुं न योग्यं यत् इति वा पाठः |] || ४-५२ || अनुमानप्रमाणेन ह्यनुमेयं कथञ्चन | लक्षणैर्देव देवेशि नान्योपायैः कथञ्चन || ४-५३ || लक्षणानि तु ते वच्मि शृणु सुन्दरि यत्नतः | अन्तः सुखसमुद्वेल्लो बहिः सन्धानविस्मृतिः || ४-५४ || नेत्रयोरश्रु संवाहः कम्पः स्वेदोदयस्तथा | रोमाञ्चः कण्ठरोधश्च लक्षणानि च वै विदुः || ४-५५ || इत्येतैर्लक्षणैर्देवि मदन्तःकरणस्थितम् | [मया वक्तुं न योग्यं यत् इत्यपि पाठः |] सुखमद्ध्यानयोग्यं यत्तज्जानिष्यसि केवलम् || ४-५६ || तावत्त्वं तं च समयं परिपालय वल्लभे | इत्येतत्ते समाख्यातं सर्वस्वं मे न संशयः || ४-५७ || श्रुतीनां चापि सर्वासां रहस्यं त्विदमेव हि | इदमेव परं ज्ञानमिदमेव परा क्रिया || ४-५८ || इदमेव परो योग इदमेव परो मखः | इदमेव परं ध्येयमिदमेव परा गतिः || ४-५९ || इदमेव परं ज्ञेयमिदमेव महाधनम् | इदमेवाखिला सम्पत् सत्यं सत्यं पतिव्रते || ४-६० || इत्येवं विष्णुना प्रोक्ता रमा देवी पतिव्रता | जहौ तापं च ग्रीष्मार्त्ता भूरिवाम्भोदतर्पिता || ४-६१ || विकसन्नयनाम्भोजा प्रमोदभरविह्वला | पपात पादयोर्भर्त्तुः दण्डवत् विमलाशया || ४-६२ || ब्रह्मणापि मया चापि संस्तुता बहुधा गिरा | तपसः फलमभ्येत्य कृतार्थास्मीत्यमन्यत || ४-६३ || मुमुचुः पुष्पवर्षाणि नेदुर्दुन्दुभयो दिवि | जगुर्गन्धर्वपतयो नतुतुश्चाप्सरोगणाः || ४-६४ || सप्तर्षयः समभ्येत्य तुष्टुवुस्तामनिदिन्ताम् | तापः शशाम जगतां सर्वत्रासीत् सुमङ्गलम् || ४-६५ || ववौ वायुः सुखस्पर्शो दिगासीद्विमलप्रभा | जलान्यासन्प्रसन्नानि जज्वलुर्वह्नयः शुभाः || ४-६६ || मनांस्यासन्प्रसन्नानि भूतानां नष्टचेतसाम् | इत्येवं मङ्गले जाते प्रसन्ना दिवि देवताः | पृथिव्यां मानवाः सर्वे पाताले पन्नगेश्वराः || ४-६७ || ब्रह्मलोकं गतो ब्रह्मा अहं कैलासमागतः | गृहीत्वा च करे लक्ष्मीं विष्णुः स्वनिलयं प्रति || ४-६८ || इत्येव ते मयाख्यातं त्वया पृष्टमनिन्दिते | तत्वज्ञानं न सुलभं तस्माद् गोप्यतमं प्रिये || ४-६९ || तत्वज्ञानाधिकारण्यो विरलाः सन्ति केचन | कालेन बहुना देवि तान् परीक्ष्य प्रकाशयेत् || ४-७० || स्नेहाल्लोभाद्भयाद्वापि योऽन्यस्मै वक्ति मूढधीः | नाऽसौ ज्ञानी भवेद्देवि उदरम्भरिरेव सः || ४-७१ || सहसवाससेवाभिस्ताडनैः परुषोक्तिभिः | यदा न याति कालुष्यं सोधिकारी मतो मम || ४-७२ || श्रुत्वा तत्वकथावाद वपू रोमाञ्चसङ्कुलम् | हर्षाश्रुव्याकुले नेत्रे सोऽधिकारी मतो मम || ४-७३ || परापवादविमुखो परस्त्रीधननिस्पृहः | अक्रोधी लोभनिर्मुक्तः शान्तः शास्त्रविचक्षणः || ४-७४ || वेदशास्त्रार्थतत्वज्ञः श्रद्धालुर्गतसाध्वसः | गुणरागी सदात्यागी विरागी बाह्यवस्तुषु || ४-७५ || पापभीतो भवेद्द्वेषो विषयादिष्वलोलुपः | अन्यैश्चापि शुभैर्देवि लक्षणैश्चापि लक्षितः || ४-७६ || अधिकारीति विज्ञेयस्तस्मै देयमिदं रहः | वेदगुह्यमिदं देवि ! नान्यथा तु प्रकाशयेत् || ४-७७ || प्रकाशयन्विमूढात्मा स भवेदापदां पदम् | न तस्य तत्वसंसिद्धिर्गुरोः शिष्यस्य चाप्यहो || ४-७८ || तत्वज्ञेनोपदिष्टा ये तत्वज्ञा एव सुन्दरि | अनर्हैरुपदिष्टा ये तेप्यनर्हा भवन्ति हि || ४-७९ || अनर्हैरुपदिष्टा ये येनर्हाश्च स्वयं शिवे [तेऽनर्हाः स्वयं शिवे इत्यपि पाठः] | उभयभ्रंशदोषेण ते यान्ति नरकं प्रिये ! || ४-८० || लोकभ्रंशः कर्मलोपात् अयोग्यत्वात् फलाग्रहः | तेषां तमः स्यादतुलं यावच्चन्द्रार्कतारकम् || ४-८१ || सुप्तं प्रबोधयेद् बुद्धो ह्यबुद्धस्तु च तं कथम् | पाषाणं तारयेत्तुम्बी न पाषाणः परस्परम् || ४-८२ || तस्मादेवं विनिश्चित्य सद्गुरोः शरणं गतः | आत्मानं मोहविभ्रान्तं तारयेत्स च बुद्धिमान् || ४-८३ || इत्येतन्मे समाख्यातं यत्पृष्टोऽहं त्वया प्रिये ! | समासेन महादेवि ! किमन्यत्प्रष्टुमिच्छसि || ४-८४ || इति श्रीनारदपाञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे (ज्ञानखण्डे) शिवोमासंवादे चतुर्थं पटलम् || ४-४ || अथ पञ्चमं पटलम् श्रीपार्वत्युवाच भगवन् लोकनाथेश देव देवेश धूर्जटे | इयं कथा महापुण्या कथिता पापनाशिनी || ५-१ || यद्रामायै न च प्राह भगवन् प्राणवल्लभः | साक्षान्मुखेन देवेशाभिनयेन वदिष्यति || ५-२ || तत्तु तत्त्वं कथयसि साक्षादेव मम प्रभो | त्वमेव तादृशो देव दयालूर्नापरः प्रभो || ५-३ || तत्तत्वज्ञानसामर्थ्याद्भोगाः सर्वेवधीरिताः | दिग्वासा जटिलो नन्दी चरस्येकोऽपि पण्डितः || ५-४ || त्वं गुरुः सर्वलोकस्य तत्वमार्गोपदेशकः | न त्वया सदृशः कश्चित् तत्वज्ञानानुभूतिमान् || ५-५ || अर्द्धाङ्गदानतो जाने तव प्राणाधिकास्म्यहम् | अतो वदसि भो नाथ तत्वं गुह्यतमं च यत् || ५-६ || न तच्चित्रं त्वयि विभो कृपासिन्धौ महेश्वरे | अतस्त्वां प्रष्टुमिच्छामि सन्दिहाना महेश्वर || ५-७ || यत्त्वयोक्तं पुरा मोहो जगत्कारणरूपकः | यथा बीजादुद्भवन्ति पत्रपुष्पफलादयः || ५-८ || एवं मोहात्समुद्भूतं सदेवासुरमानुषम् | अज्ञानप्रभवो मोहो मोहाज्जातं चराचरम् || ५-९ || स्रजं शुक्तिं समावृत्य यथाज्ञानं स्वशक्तितः | अहिं च रजतं चैव यथा दर्शयते स्फुटम् || ५-१० || तथाक्षरं परं ब्रह्म ह्यज्ञानं मोहकारणम् | समावृत्यात्मशक्त्यैव विश्वं सृजति शङ्कर ! || ५-११ || इत्युक्त यत्त्वया देव तत्र मे संशयो महान् | अक्षरं यत्त्वया प्रोक्तं निष्प्रपञ्च निरामयम् || निर्दोषं निर्मलं शुद्धं निरीहं सङ्गवर्जितम् || ५-१२ || स्वप्रकाशं गुणातीतं ज्ञानरूपं समं शिवम् | निर्विकारं सदाभान्तं सदसद्भावतः परम् || ५-१३ || तस्मिन्नज्ञानसंसर्गः को वा वक्तु समीहिते | कथमज्ञानजो मोहस्तस्मिन् ज्ञानात्मनीश्वरे || ५-१४ || स्वप्रकाशे यदज्ञानमावृत्तिं कुरुते यदि | तमसापि कथं सूर्यो नाव्रियेत् मनागपि || ५-१५ || कथं वा मोहनाशेऽपि कैवल्यमवशिष्यते | असत्य सत्यवद्भाति संशयोऽत्र महान्मम् | छेत्तुमर्हसि देवेश ! तत्वज्ञानासिना प्रभो ! || ५-१६ || शिव उवाच शृणु सुन्दरि यत्नेन रहस्यं परमाद्भुतम् | तव स्नेहवशाद्वच्मि प्रेम्णाह प्रार्थितस्त्वया || ५-१७ || न वाच्यं यस्य कस्यापि मातृजारसमं रहः | गोपयेत्सर्वतो भद्रे विवदेन्न कथञ्चन || ५-१८ || न वादितर्कविषयं परं ब्रह्मसनातनम् | तर्कैककर्कशधियो वादिनो मूढबुद्धयः || ५-१९ || सूर्यस्यावरणे शक्तं तिमिरं न कथञ्चन | स्वप्रकाशे तथाज्ञानं कदाचित्प्रभवेन्नहि || ५-२० || इति प्रामाणिकैस्तर्कैर्विरुद्धमिव भासते | मोहसृष्टिसमुद्भूता ये प्रमाणविदो जनाः || ५-२१ || कथं ते वेदितुं शक्ताः प्रमाणैरपि पण्डिताः | यथा स्वप्नजनो देवि ! स्वप्नदृष्टारमेकलम् || ५-२२ || न जानाति तथा देवि ! प्रमाणान्यपि कृत्स्नशः | परे ब्रह्मण्यक्षरेऽस्मिन् आज्ञानावेशमाहितम् || ५-२३ || तस्माद्युक्तिर्न कर्त्तव्या श्रुतिभिर्या विरुध्यते | अनुकूला श्रुतिगिरां युक्तिः सा विदुषां मता || ५-२४ || यथा न सत्यादनृतात्केवलाद् व्यावहारिकम् | तथा सत्यानृताभ्यां तु व्यवहारः प्रवर्त्तितः || ५-२५ || अनृतं तु तदज्ञानं सत्य ब्रह्मैव केवलम् | न तुषादङ्कुरोत्पत्तिः केवलात्तण्डुलादपि || ५-२६ || तुषतण्डुलयोगेन जायतेऽङ्कुरविस्तृतिः | ब्रह्मण्यज्ञानयोगेन जायते विश्वसम्भवः || ५-२७ || तस्मान्न संशयः कार्यो ब्रह्मण्यज्ञानसम्भवे | नापनेया मतिस्तर्कैर्भावा ये [भावा तच्चाप्यलौकिकः इति पाठः |] चाप्यलौकिकाः || ५-२८ || न तांस्तर्केण युञ्जीतेत्याहुश्चोपनिषद्गिरः | ब्रह्मण्यज्ञानसद्भावो लोकसिद्धो न विद्यते || ५-२९ || विद्यते वेदसिद्धोऽयं तस्माद्वेदः प्रमाणकम् | अलौकिकं न सिध्येत विरुद्ध यच्छ्रुतेः सह || ५-३० || अपरोक्षं लौकिकं च परोक्षं चाप्यलौकिकम् | कथं सिध्येदप्रमाणं परोक्षं लौकिकोक्तिभिः || ५-३१ || प्रमाणराजो यद्यादक् निरूपयति केवलम् | तत्तादृगेव मन्तव्यमन्यथा स बहिर्मुखः || ५-३२ || अलौकिकं लौकिकं च तस्यैतदुभय गतम् | स चाण्डालमयीं योनिं प्रविशेत्तद्बहिर्मुखः || ५-३३ || ब्रह्मक्षत्रियविट्शूद्राश्चैते वेदानुवर्तिनः | वेदैस्त्यक्तास्त्यजन्तस्ते यान्ति नीचपरम्पराम् || ५-३४ || प्रत्यक्षं चानुमानं च शब्दः सादृश्यमेव च | चत्वार्येतानि देवेशि ! प्रमाणानि न संशयः || ५-३५ || प्रत्यक्षं लौकिके सिद्धं न चैवालौकिके हि तत् | पर्वतो वह्निमान् धूमादित्येवमनुमीयते || ५-३६ || ब्रह्म केनात्र संसाध्यं सदसत्परमव्ययम् | तस्माद्ब्रह्मण्यनुमितिर्न सिध्येत कदाचन || ५-३७ || सादृशाभावतो लोके सादृश्यं नापि सिध्यति | अनादिः शब्दब्रह्माख्यो ब्रह्मवक्तीह यादृशम् | तादृशं तद्विजीनायात् पाखण्डी चान्यथा हि सः || ५-३८ || ब्रह्माभासमया जीवा ब्रह्मैवेति विनिश्चयः | अहं मनुष्य इत्याद्या अहं बुद्धिर्हिदेहिनाम् || ५-३९ || आत्मत्वेनैव गृह्णाति देहं चैनमचेतनम् | विपरीतमिदं भद्रे सन्दिग्धमिदमेव हि || ५-४० || अलौकिकं हि सन्दिग्धं वेदेनैव निवर्त्तते | न निश्चयं विना क्वापि मुक्तिर्भवति शाश्वती || ५-४१ || तस्माद्वेदान्तवाक्यैश्च सहायैः सर्वतोधिकैः | विचारयेत् परं ब्रह्म स्वात्मानं लभते हि सः || ५-४२ || शब्दातीतं परं ब्रह्म शब्दगोचरमित्यपि | तथाप्यनादिशब्दैस्तत् ज्ञायते नान्यथा प्रिये || ५-४३ || प्रमाणराजो निगमादनुभूतिर्गरीयसी | तथाप्यनुभवी साक्षात् शब्दैरेवोपदिश्यति || ५-४४ || गुरूक्तं चापि वेदोक्तमेकार्थं यदि भासते | तदा कृतार्थः पुरुषो मुक्तो भवति संशयात् || ५-४५ || निवृत्ते संशये देवि जाते स्वानुभवोदये | ब्रह्माण्यज्ञानमित्येषः सन्देहो नाशमेष्यति || ५-४६ || यदि युक्त्या प्रमाणैश्च विरुद्धं श्रुतिसम्मतम् | नायं विरुद्धो विदुषां अनुभूतिमतामपि || ५-४७ || जाग्रत्येतत्प्रतीयेत स्वप्ने तत्प्रातिभासिकम् | सुषुप्तौ तन्निरासेऽपि मूलाज्ञानं हि तिष्ठति || ५-४८ || आभासस्तदवच्छिन्नो जीवत्वेन प्रतीयते | आभासो ज्ञानरूपो हि बहिरन्तःप्रकाशकः || ५-४९ || तदज्ञानं तु देहादिरूपैः परिणतं प्रिये | तत्र व्याप्तश्चिदाभास एवं स्याद्व्यावहारिकम् || ५-५० || मूलाज्ञानमिदं देवि यदात्मनि च धिष्ठितम् | तन्निरासं विना देवि जीवा आभासरूपिणः || ५-५१ || न मुच्यन्ते कदाचिद्वा कथंचिद्वा सुरेश्वरि | व्रतोपवासनियमैस्तपोभिर्विविधैरपि || ५-५२ || स्वाध्यायाध्ययनैर्दानैस्तीर्थैर्वा चान्यसाधनैः | ब्रह्मचर्यवानप्रस्थसन्नायासाचरणैरपि | अगाधाज्ञानपाथोधौ दुरन्ते पारवर्जिते || ५-५३ || उन्मज्जन्ते निमज्जन्ते देवत्वजडतादिभिः | नैव पारं गताः केचिन्नैव यास्यन्ति केचन || ५-५४ || अहोऽत्र परमानन्दः पुरुषोत्तम ईश्वरः | यानीक्षतेनुग्रहदृशा ते यास्यन्ति गिरीन्द्रजे || ५-५५ || अस्मिन्नज्ञानपथोधौ वयं ब्रह्मादयोऽपि च | बुद्बुदाकारतां प्राप्तास्तदिच्छावायुजृम्भिताः || ५-५६ || वायूपशमने देवि बुद्बुदा नीरतां गताः | तथा यास्यति ब्रह्माण्डमस्माभिरविशेषितम् || ५-५७ || अप्रबोधो यथा स्वप्ने चित्रं सृजति कौतुकम् | तथैवात्माऽप्रबोधेन जातं सर्वं चराचरम् || ५-५८ || प्रबोधाद्विलयं याति परं ब्रह्मावशिष्यते | स्रजि सर्पलये यद्वत् स्रगेव परिशिष्यते || ५-५९ || अध्यारोपापवादेन परं ब्रह्मैव शिष्यते | इति ते सर्वमाख्यातं यत्पृष्टोऽहं त्वया प्रिये || ५-६० || समासेन महेशानि किं भूयः श्रोतुमिच्छसि ? | इति श्रीनारदपाञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे (ज्ञानखण्डे) शिवोमासंवादे पञ्चमं पटलम् || ५-५ || अथ षष्ठं पटलम् श्रीदेव्युवाच देवदेव कृपासिन्धो दीनबन्धो जगत्पते | आपीय भवतः सूक्तिं महानन्दः प्रवर्तते || ६-१ || अज्ञानान्निखिलं जातं ब्रह्मादिस्थावरान्तकम् | इति यद्भवता प्रोक्तं सङ्क्षेपेण महेश्वर ! || ६-२ || प्रपञ्चय पुनः सर्वं सृष्टिसंहारभेदतः | शृणु पार्वति वक्ष्यामि यत्त्वं पृच्छसि तत्त्वतः | तस्य श्रवणमात्रेण परमात्मा प्रकाशते || ६-३ || अज्ञानं यन्मया प्रोक्तं न सन्नासत्तदुच्यते | सच्चेन्मुक्तिसमुच्छेदों ह्यसच्चेद्भासते कथम् || ६-४ || अनिर्वाच्यमिदं तस्मात् त्रिगुणोत्पादकं तथा | ज्ञाननाश्यं भावरूपं मूलाज्ञानं विदुः प्रिये || ६-५ || शशशृङ्गनरशृङ्गवन्ध्यापुत्रखपुष्पवत् | अज्ञानं कथितं सद्भिः कथं सदिति चोच्यते || ६-६ || नासत्तु कारणत्वेन ह्युपयुञ्जीत कर्हिचित् | कथं सृजति ब्रह्माण्डं ब्रह्मादिस्थावरान्तकम् || ६-७ || न शक्यस्तदभावोऽपि यस्मात्तत्त्रिगुणात्मकम् | श्रुतिप्रसिद्धं व्योमादिरूपेण विततं च यत् || ६-८ || सत्यवद्भासते वापि मूलाज्ञानं गिरीन्द्रजे | दीपार्चिषेव तिमिरं ज्ञानेन विनिवर्त्तते || ६-९ || स्वस्वरूपावबोधो हि ज्ञानमित्युच्यते प्रिये | स्वस्वरूपभ्रमो देवि विकल्पो भवसंज्ञकः | भ्रान्तात्मनस्तु शयने विकल्पो जायते महान् || ६-१० || प्राप्तात्मनः समूलोऽपि नश्यते तद्वदेव हि | तदज्ञानं द्विधाभूतं कार्यकारणभेदतः || ६-११ || अक्षरे परमानन्दे मूलं स्यात्कारणं परम् | कार्यात्मकं बुद्धिभेदात् बुद्धिराभासदीपिता || ६-१२ || सूते कार्यात्मकं पिण्डं ब्रह्माण्डं कारणात्मकम् | ब्रह्माण्डपिण्डयोरैक्यं प्रवदन्ति विपश्चितः || ६-१३ || सर शरावयोर्मध्ये यथार्कः प्रतिबिम्बितः | अक्षरः स्वावभासेन कार्यकारणसङ्गतः || ६-१४ || यथोपाधिद्वयाभावे सूर्य एकः प्रतीयते | तथोपाधिद्वयाभावे विशुद्धः केवलोऽक्षरः || ६-१५ || मूलोपाधिर्विशुद्धश्च सत्वप्राधान्यतः प्रिये | क्षुद्रोपाधिर्हि मलिनस्तमःप्राधान्यतो भवेत् || ६-१६ || उत्कृष्टत्वाद्विशुद्धत्वात् सत्वप्राधान्यतस्तथा | नारायणादिकान् सूते सर्वज्ञानोपबृंहितान् || ६-१७ || कार्योपाधिर्निकृष्टत्वादशुद्धत्वाच्च तामसः | जीवसृष्टिं वितनुते सर्वेशगुणवर्जिताम् || ६-१८ || नारायणादिजीवन्ता सृष्टिर्मोहावधिस्थिता | एकमेवाद्वितीयं च ब्रह्मेति श्रुतयो जगुः || ६-१९ || बुद्धिवृत्तिस्त्रिघा यद्वज्जाग्रत्स्वप्नसुषुप्तिकाः | आभासात्मनि जीवाख्ये वर्तन्ते ताः पुनः पुनः || ६-२० || तद्वद्ब्रह्मणि चाज्ञानं त्रिधैव परिवर्तते | मूलाज्ञानं लयस्थानं सुषुप्तिः परिकीर्तिता || ६-२१ || नारायणोपाधिकं यत्स्वप्नं तत्परिचक्षते | विष्णुपाघिमयाज्ञानं जाग्रदित्यभिधीयते || ६-२२ || आदिजीवो महाजीवो विष्ण्वाख्यः परिकीर्त्तितः | स एव सर्वजीवाख्यः [आभासात्मनि पश्यति इत्यपि पाठः |] आभासात्मा परस्य तु || ६-२३ || जाग्रत्स्थानगताज्ञानं नानारूपैर्विजृम्भितम् | देवासुरमनुष्याद्यैर्गन्धर्वोरगकिन्नरैः || ६-२४ || पशुकीटपतङ्गाद्यैर्विचित्रैः कर्मनिर्मितैः | तानेतान्वासनारूढान्नानाभेदव्यवस्थितान् || ६-२५ || नारायणेन रूपेण स्वयं पश्यति चाक्षरः | जाग्रत्स्वप्ने विलीयेत स्वप्नस्तु शयनं व्रजेत् | तत्तुरीयं लयं याते स्मृतिरत्रावशिष्यते || ६-२६ || यथा जागरणे स्वप्नः स्वप्ने जागरणं यथा | तथा वृत्तमिदं देवि यो जानाति स मुच्यते || ६-२७ || अक्षरः परमात्मायं जाग्रत्स्वप्नं प्रपश्यति | जीवो जाग्रति वै स्वप्ने चित् क्षरस्य परात्मनः | स्वप्न तज्जागरश्चापि द्वयमेतद्गतार्थकम् || ६-२८ || स्थूलार्थोपासत्तिकालो जागरः परिकीर्त्तितः | स्थूलं त्यक्त्वा तु सूक्ष्मार्थोपासत्तिः स्वाप्निकी मता || ६-२९ || सूक्ष्मार्थानामप्यभावोपासत्तिः शयनात्यिका | शयनं तत्तु चाज्ञानं मोहरूपं वरानने || ६-३० || कारणं तद्विजानीयात् महाकारणनिर्मितम् | कार्यरूपेण विततं क्रमात्स्थूलविभेदतः || ६-३१ || तदहं ते प्रवक्ष्यामि शृणुष्वैकाग्रचेतसा | अज्ञानं प्रकृतिर्माया मोहोव्यक्तं प्रधानकम् | अदृष्टं चेति बहुधा वादिनस्तत्प्रचक्षते || ६-३२ || एकार्थमेव तत्सर्वं गुणस्तत्वाविरोधतः | नाममात्रेण कलहो नार्थं दृष्ट्वा कदाचन | प्रकृतिश्चापि पुरुषो यतस्तत्सृष्टिसम्भवौ || ६-३३ || कार्यकारणयोर्भेदः अभेदाख्यः प्रकीर्तितः | मृत्सुवर्णादिकानां च घटादेर्वलयस्य च || ६-३४ || भेदोऽथाभेद एव स्यात् तद्वदेतत्प्रकीर्त्यते || ६-३५ || तदज्ञानस्य शक्ती द्वे विक्षेपावरणात्मिके | ब्रह्मावृणोति सहसा शक्त्यावरणसंज्ञया || ६-३६ || यथाच्छादयति स्वल्पो मेघो भानुं सहस्रगुम् | तथाच्छादयते मिथ्या ब्रह्मानन्तमखण्डकम् || ६-३७ || अनावृतोऽपि पूर्णात्मा निःसङ्गो निर्विकल्पकः | तद्वासनानुवशगस्तिभितात्मा चिदक्षरः || ६-३८ || अथ विक्षेपशक्तिः सा यथा बहिरिवान्तरे | दर्शयामास विततं प्रपञ्चं सकुतूहलम् || ६-३९ || ददर्शासौ तदात्मानं नारायणमिति स्थितम् | वेदानां वेदमार्गाणां लोकानां च परायणम् || ६-४० || नारायणेन रूपेण स्वयं पश्यति चाक्षरः | स [स वेदात्मा परो देवो स्यामित्यमन्यत इत्यपि पाठः |] वेदात्मोप देवोऽपि बहु स्यामित्यमन्यत | अहङ्कारस्ततो जातो विकुर्वन्समभूत्त्रिधा || ६-४१ || सात्विको राजसश्चैव तामसश्चेति वै त्रिधा | तामसादप्यहङ्काराज्जडमासीन्नभः प्रिये || ६-४२ || तस्य शब्दो गुणश्चासीदेक एव सुलोचने | सत्वानुविद्धान्नभसो जातं श्रोत्रमथेन्द्रियम् | शब्दस्तु विषयस्तस्य सात्विकी दिक् च देवता || ६-४३ || रजो गुणप्रधानात्तु वागासीद्वचनग्रहा | अग्निस्तत्राभवद्देवः सात्विकः सुरवन्दिते || ६-४४ || यथाकाशादभूद्वायुः शब्दस्पर्शौ च तद्गुणौ | सत्त्वानुविद्धात्पवनात् त्वगासीदिन्द्रिय प्रिये || ६-४५ || रजोनुविद्धात्पवनादासीत्पाणीन्द्रियं प्रिये | आदानं तस्य विषये इन्द्रस्तस्याधिदेवता || ६-४६ || अथ वायोरभूदग्निः शब्दस्पर्शस्वरूपवान् | तेजसः सत्वविद्धाद्वे चक्षू रूपग्रहं सति || ६-४७ || रजोगुणप्रधानात्तु पादेन्द्रियमभूत्प्रिये | उपेन्द्रः सात्विको देवो गमनं विषयो भवेत् || ६-४८ || आपस्तेजःसमुद्भूता रसाधिकगुणास्त्रयः | सत्त्वानुविद्धात्सलिलाद्रसनं तद्रसग्रहम् || ६-४९ || वरुणः सात्विको देवो बभूव सुरवन्दिते | रजःप्रधानात्सलिलात् पायवासीच्च विसर्गकृत् || ६-५० || यमोधिदेवता तत्र सात्विकः सम्बभूव ह | अद्भ्योऽभवद्वसुमती शब्दादिगुणपञ्चका | पृथिव्याः सत्वविद्धायाः घ्राणं गन्धग्रहं शिवे || ६-५१ || नासत्यौ देवता तत्र सात्विकी सम्बभूव हा | रजोनुविद्धया चासीदिन्द्रियं गुह्यसंज्ञकम् || ६-५२ || आनन्दानुभवस्तेन जायते सुरवन्दिते | देवः प्रजापतिस्तत्र सात्विकः परिकीर्तितः || ६-५३ || रजःप्रधानभूतेभ्यो मिलितेभ्यः सुरेश्वरि | क्रियाशक्त्यात्मकं प्राणपञ्चकं जायते शिवे || ६-५४ || सत्वप्रधानभूतेभ्यो मिलितेभ्यः सुरेश्वरि | ज्ञानशक्तिप्रधानं तु ह्यन्तःकरणमुच्यते || ६-५५ || मनोबुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम् | त्वक् चक्षूरसनाघ्राणं श्रोत्रं ज्ञानेन्द्रियाणि च || ६-५६ || वाक् पाणिपादपायूपस्थानि कर्मेन्द्रियणि च || ६-५७ || दिक्वातार्कप्रचेतोऽश्विवह्नींद्रोपेन्द्रमित्रकाः | दशेन्द्रियाधिदेवाश्च मया ते परिकीर्तिताः || ६-५८ || पृथिव्यधिपतिर्ब्रह्मा विष्णुः सलिलनायकः | तेजसोऽधिपतिः शम्भुर्वायोरीश्वर एव च || ६-५९ || व्योम्नः सदाशिवः प्रोक्त इत्येता भूतदेवताः | दशेन्द्रियाणि बुद्धिश्च मनःप्राणादिपञ्चकम् | एतल्लिङ्गं समाख्यातं जीवोपाधिरिति स्फुटम् || ६-६० || विशेषं तत्र देवेशि ! वर्णयामि शृणुष्व तत् | प्राणादिपञ्चकं देवि ! कर्मेन्द्रियसमन्वितम् || ६-६१ || प्राणकोश इति ख्यातः क्षुत्पिपासादिधर्मवान् | मनोज्ञानेन्द्रियैर्युक्तं मनःकोश उदीरितः || ६-६२ || बुद्धिज्ञानेन्द्रियैर्युक्तो विज्ञानाख्यः प्रकीर्तितः | इदं कोशत्रयं देवि ! व्यष्ट्या लिङ्गमुदाहृतम् || ६-६३ || तत्राभासमयो जीवो याति चायाति सुन्दरि ! | जडं कोशत्रयं देवि ! ब्रह्माभासेन चेष्टते || ६-६४ || यथायस्कान्तसान्निध्ये यथा लोहं सुरेश्वरि ! | यज्जडं तदसद्देवि यत्सत्तत्सदिति प्रिये ! || ६-६५ || तस्मात्तच्चेतनं ब्रह्म सत्यमित्येव सुन्दरि ! | समुदायस्तु लिङ्गानां तत्राभासस्तु यः प्रिये || ६-६६ || हिरण्यगर्भं तं प्राहुः सूत्रात्मानं पुनस्तथा || ६-६७ || इति ते कथितं देवि ! यत्पृष्टोऽहं त्वया शुभे | समासेन महेशानि किं भूयः श्रोतुमिच्छसि || ६-६८ || इति श्रीनारदपाञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे (ज्ञानखण्डे) शिवोमासंवादे षष्ठं पटलम् || ६-६ || अथ सप्तमं पटलम् पार्वत्युवाच देवदेव ! महादेव ! करुणार्णव ! शङ्कर ! | श्रुत्वा त्वदीयवचनं नात्मा मे परितुष्यति || ७-१ || नारायणादिरूपाणि त्वयोक्तानि च शङ्कर ! | तदुद्भवे हेतुमात्रं ब्रह्माज्ञानं निरूपितम् || ७-२ || ब्रह्मण्यज्ञानसम्बन्धः सन्देहस्ते निवारितः | कारण ब्रूहि देवेश मोहोत्पत्तौ विशेषतः || ७-३ || शिव उवाच शृणु देवि ! प्रवक्ष्यामि रहस्यं वेदगोपितम् | यस्य कस्यापि नो वाच्यं वाच्यं सर्वस्वदायिने || ७-४ || तव स्नेहवशाद्देवि ! कथयामि न चान्यथा | सच्चिदानन्दकं ब्रह्म सदंशेन क्षरं जगत् || ७-५ || चिद्रूपं ब्रह्म परमं नित्यमक्षरमव्ययम् | बाललीलाविनोदेन कोटिब्रह्माण्डसंहतीः || सृजते संहरत्येव निर्विकारं तथापि यत् || ७-६ || तस्मादप्यक्षरादूर्ध्वं परमानन्दसुन्दरम् | नित्यवृन्दावनानन्दि नानाक्रीडारसार्णवम् || ७-७ || विराजति ब्रह्मपुरे मनोवाग्विषयातिगम् | अम्भोजकर्णिकावच्च नित्यवृन्दावनान्तरे || तत्पत्रवदनेकैश्चिन्महोद्यानैर्विराजितम् || ७-८ || निजं धामं रसानन्दं स्वप्रकाशं महोज्ज्वलम् | कालिन्दी यत्र कोट्यर्कभास्वद्रत्नतटोन्नता || ७-९ || हंससारसकारण्डनानापक्षिनिनादिता | फुल्लाम्भोजवनामोदलुब्धभ्रमरमण्डला || ७-१० || नवरत्नमयीभिस्तु सिकताभिरलंकृता | महामणितटोत्तुङ्गकुट्टिभैः परिमण्डिता || ७-११ || नानादिव्यलताकुञ्जैरम्लानकुसुमोज्ज्वलैः | दिव्यगन्धसमाकृष्टभृङ्गझङ्कारपेशलैः || ७-१२ || सप्ततीर्थैर्दिव्यरत्नराजिराजितभूतलैः | उपरिस्थमणिभ्राजत्कुट्टिमैर्दिव्यमण्डपैः || ७-१३ || शोभमानामृतजला स्वर्णपङ्कजमालिनी | रक्ततुण्डपदैश्चित्रपक्षैः पक्षिगणैः शिवे || ७-१४ || सेव्यमाना सुखस्पर्शैर्वायुभिश्चलपङ्कजा | क्वचित्पर्यस्तमुक्तालिमहामरकतावनौ | शुद्धतामसहृद्युच्चैर्भाति भक्त्यङ्कुरा इव || ७-१५ || यत्रोन्नदन्तःशुकसारसाद्याः पठन्ति दिव्यां गुणचित्रसत्कथाम् | शाखास्थिताः कल्पमहीरुहाणां मन्दानिलान्दोलितपल्लवश्रियाम् || ७-१६ || न यत्र शोको न भयं मृतिर्वा कालो न यत्र प्रभवेदनन्तः | यदेत्य शोचन्ति पुनर्नहीश्वराः कुञ्जेषु लीलावपुषोऽमलाशया || ७-१७ || प्रतप्तजाम्बूनदसुन्दरत्विषः कटाक्षविक्षैपविलोभितेश्वराः | चरन्ति मूर्त्तां इव विद्युतः स्फुटा घनेषु कुञ्जध्वनियोषिताङ्गणाः || ७-१८ || प्रफुल्लचाम्पेय वनोल्लसल्लता शतोपशङ्कं ययिता समीरणः | तनुष्विवानन्द परंपरां परां तनोति तारुण्यभृतोन्नतद्भ्रुवाम् || ७-१९ || सख्यः कुशेशयदृशो विलसद् विभूषाः प्रोत्तुङ्गपीनकुचमण्डललम्बिहाराः | काश्मीरनीरलुलिताम्बररश्मिमाला निर्भत्सितोदितदिवाकरबिम्बशोभाः || ७-२० || दिव्यन्ति यत्र सुरसिद्धदुरापलोकाः श्रुत्युल्लसत्कनककुण्डललोलगल्लाः || ७-२१ || द्युमणिमणिसमुद्यत्कान्तिसन्दोहरम्याः [द्युमणिः=अम्बरमणिः सूर्य इत्यर्थः द्युमणिमणि=सूर्यकान्तमणिः |] विशदमरकतानामंशुकिर्मीरिताश्च | प्रचलदचलशोभैः पद्मरागैः सरागैः प्रकटपरमशोभा भूमयो यत्र भान्ति || ७-२२ || नीलाद्रिकान्तिसन्दोहैरूर्ध्वगैः सर्वतः प्लुतैः | दूरादाभाति वसुधा हरितृणमयाङ्कुरा || ७-२३ || परापरविभागेन नीलपुष्पमयौ गिरी | नानाश्चर्यमयौ दिव्यौ दिव्योद्यानमनोहरौ || ७-२४ || स्फुरन्मयूखमालाभिः प्रकाशितदिगन्तरः | पद्मरागाचलः श्रीमानास्ते यत्र महाद्धिंमान् || ७-२५ || सरांसि यत्र भूयांसि चित्सुधारसवन्ति च | विलसन्ति महारत्नशिलाबद्धानि सर्वतः || ७-२६ || यत्रोद्यानलताकुल्या वमन्ति मधुरां सुधाम् | यूथशः खेलमानास्ताः पिबन्त्यानन्दनिर्भराः || ७-२७ || यत्रैव कुञ्जसदनानि हसन्मुखानि व्याकीर्णकाञ्चनभुगासनमण्डितानि | प्रत्याहसन्मणिविजृम्भितकुट्टिमानि कूजद्विहङ्गमकुलानि शिवानि नित्यम् || ७-२८ || स्फूर्जन्मणिप्रविततिर्वितनोति लक्ष्मीं विस्फूर्जदूरुशशिकान्तशिलातलेषु | कूलप्ररूढनलिनीदलरश्मिबिम्बा रूढेषु कामपि नितान्त मुदः प्रणाली || ७-२९ || वैदूर्यवीरुध इह प्रतिभान्ति विष्वक् यासूल्लसन्त्यरुणविद्रुमनर्त्तनानि | दूरादुपेतसितमौक्तिकरश्मिलेश शोभां दधाति विमलां विलसन्तमार्याम् || ७-३० || यत्रैव चम्पकवनानि जयन्ति विष्वक् मत्तभ्रमद् भ्रमरदूरतरोज्झितानि | प्रत्युन्नदन्ति विटपेष्वनिशं द्विजेन्द्रा गीतध्वनिं सुखसमीरसमुन्नमत्सु || ७-३१ || श्यामोदरद्युतिसरोजवनीस्थिताभिः कान्तिच्छटाभिरभितोघृतदुर्दिनेषु | प्रोत्फुल्लपङ्कजकदम्बपरागपुञ्जो विद्युच्छविं वहति गन्धवहः प्रणुन्नः || ७-३२ || क्रीडासरः स्फुटमुदञ्चति कुञ्जलीन- गुञ्जद्द्विरेफपटलाकुलपङ्कजश्रिः | वप्रप्ररूढगुणरूढकदम्बलम्बद् दोलासहस्रकमनीयगुणं गुणोरु || ७-३३ || दूरादिहाद्रितनये कमलाकराणा- मुद्यत्परागपटलैश्च समीरवेगात् | स्फारीभवत्सुरभिगन्धसुधामयाम्भश्- चेतःसरो रमयतीत्यनुरागिभावम् || ७-३४ || मध्योल्लसद्विपुलविद्रुमदेहलीक- विश्रान्तिमण्डपसमृद्धसमस्तभोगम् | सोपानवर्त्मसु निविष्टसखीसहस्र- व्याहन्यमानमृदुमर्दलपूर्णकुञ्जम् || ७-३५ || उद्यन्मयूखमयशुद्धसुधातिवर्षै- रत्नेन्दुरुल्लसति नित्यमनस्त भावः | नित्याभिरन्विततमः स्वकलाभिरन्तः शुद्धेतरप्रथितपक्षविपक्षधामा || ७-३६ || यत्रामृताम्भोनिधिमध्यविस्फुर- द्रत्नोल्लसद् द्वीपनिवेशमद्भुतम् | चकास्ति तस्मिन्परमाद्भुतं मह- न्नैकेन भास्वन्मणिना विनिर्मितम् || ७-३७ || निजालयं मन्दिरमद्भुताकृतिं महामणिस्तम्भविराजमानम् | समोदितानेकर्दिवाकरेन्दुरुक्- प्रभावनिर्भर्त्सनरत्नमण्डितम् || ७-३८ || नानाविधानन्दविहारभूमिका दशैव यस्मिन् प्रतिभान्ति पेशलाः | विहारशययासनचारुचामरा- मृतानुलेपोत्तमगन्धसाधना || ७-३९ || गवाक्षमालापथचारिभिर्महा- गरुद्भवैर्धूमवरैः सुगन्धिभिः | इतस्ततः केलिवनानिलोद्धतैः सुवासयन्त्यो वनपुष्पसम्पदः || ७-४० || क्वचिद्दिनमणिज्योत्स्नाजालैर्मध्याह्नसूचकम् | क्वचिदञ्जनसङ्काशैर्मणिभिर्दर्शितक्षपम् || ७-४१ || उदितार्कमिवान्यत्र पद्मरागप्रभारुणम् | सन्ध्यायमानमेकत्र इन्द्रनीलमणित्विषा || ७-४२ || जलजाकृतिमत्यम्ब चतुरस्रा च वेदिका | तस्याश्चतुर्षु कोणेषु हेमकुंभाः सुधाभृताः || ७-४३ || रत्नपङ्कजसंशोभैर्मुखा यत्र चकासते | मुक्तामयवितानानि मणिभूमिप्रभाङ्कुरैः || ७-४४ || निर्भिन्नानीह लक्ष्यन्ते नानाचित्राकृतीनि च | कर्णिकावन्महासौधं परितस्तस्य सुन्दरि || ७-४५ || द्वादशैव सहस्राणि प्रियाणां सोधपङ्क्तय | प्रवालदेहलीकानि मणिद्वाराणि पार्वति | मुक्तातोरणवन्त्युच्चैर्नानाश्चर्यमयान्यपि || ७-४६ || नानावर्णैर्महाचित्रैश्चित्रितानि समन्ततः | गवाक्षमालाविलसन्मणिदीपोज्ज्वलानि च || ७-४७ || दीर्घिकाभिश्च दीर्घाभिर्विकचोत्पलपङ्क्तिभिः | गाहमानाभिरनिश सखीवृन्दैर्विभूषितैः || ७-४८ || क्वणत्कनकभूषाढ्यैः कौशम्भाम्बरशोभितैः | नानाकेलिरसास्वादविघूर्णितविलोचनैः || ७-४९ || महाद्वारमहं वन्दे भास्वद्रत्नकपाटकम् | सन्मुखं दूरतो यस्य विभाति यमुना नदी || ७-५० || तत्प्राऽऽगणं कुङ्कुमपङ्कपिच्छलं समुद्यदादित्यसहस्रभास्वरम् | मुक्तामयूखावलिमिश्रितैर्महा- मणिप्रकाशैररुणीकृतान्तरम् || ७-५१ || यत्र कार्त्तस्वरमयी पर्यस्तमणिमौक्तिका | परमानन्दभवनं विभाति विविधास्थली || ७-५२ || सव्यापसव्ययोर्यस्य पुरश्च सुरवन्दिते | कुट्टिमानि विचित्राणि भान्ति भूयांसि यत्र वै || ७-५३ || यत्र जाम्बूनदस्तम्भेष्वारोपितमणिव्रजाः | प्रपुष्णन्ति महीदीपशोभामधूतवर्चसः || ७-५४ || तन्मध्यतो जयति कश्चिदनर्ध्यमुक्ता माणिक्यराशिरचितो विलसत्पताकः | वैदूर्यविद्रुमविनिर्मितदेहलीकः श्रीमण्डपः कुसुमराशिभिरुद्यतश्रीः || ७-५५ || नृत्यन्ति कूजदलघुध्वनिनूपुराणां केयूरचारुवलयावलिभासुराणाम् | यूथानि सस्मितमुखद्युतिनर्त्तकीना- मादर्शिताभिनयमुच्चलकुण्डलश्रीः || ७-५६ || यत्रेन्द्रनीलमणिनिर्मितनीलपद्मे- षूद्भ्रान्तभृङ्गवनितापटलीविभाति | यत्रोल्लसत्स्फटिकभूमितलोपविष्टा- हंसाविशेषमभजन्पदचञ्चुभासा || ७-५७ || आमोदमोदितदिगन्तरभृङ्गसङ्घ- कल्पद्रुकोमलपरागसरागमार्गे | मन्मानसं गिरिसुते सितसैन्धवीयः खण्डो निमज्जतु महामणिमण्डपान्तः || ७-५८ || यमुनायाः परे कूले निजं धाम प्रतिष्ठितम् || ७-५९ || अपरस्मिन् महेशानि धाम स्यादक्षरस्य तु || ७-६० || धाम्नोभिमुखमीशानि वनान्युपवनानि च | चिदानन्दमयी वापी मणिमण्डपमण्डिता || ७-६१ || पारिजातवनं यत्र प्रवालकुसुमोज्ज्वलम् | पद्मरागमयाकारनानावृक्षैर्विराजितम् || ७-६२ || वैदूर्यमयवल्लीनां पद्मरागपलाशकैः | मुक्तास्तबकयुक्तैश्च काञ्चनाङ्कुरसंगतैः || ७-६३ || यूथैर्विराजितं विष्वक् नानाक्रीडारसालयम् | सपादलक्षयोजनानां संख्यायां विमलं सरः || ७-६४ || मणिरत्नशिलाबद्धमणिकुट्टिममण्डपम् | प्रवालपद्मरागाद्यैः कॢप्तसोपानसुन्दरम् || ७-६५ || तत्रस्था भर्त्तुरुद्दाम यशो गायन्ति योषितः | काश्चिल्लम्बन्ति दोलाभिर्गायन्त्यो मधुरस्वरम् || ७-६६ || काश्चिन्मृदङ्गवीणाद्यैर्नांनाक्रीडारसोज्ज्वलाः | खेलन्ति परमानन्दाः सखीसख्यो मुदान्विताः || ७-६७ || महापद्मवनं यत्र पद्मरागमयाम्बुजम् | वैदूर्यदण्डपत्रालिस्फुरद् वैडूर्यपद्मिनी || ७-६८ || प्रवालकेसरोद्भासिदिव्यगन्धमनोहरम् | सृजद्वितानमाकाशे रजोभिर्वायुनोद्धतैः || ७-६९ || संख्यया परितो देवि लक्षयोजनविस्तृतम् | यद्गन्धानन्दसंसर्गात् ब्रह्मानन्दपरम्पराः || ७-७० || अप्रार्थनीयतमाभान्ति केनचित्सर्वथा सदा | रमते भगवान् क्वापि सप्रियाभिः समन्वितः || ७-७१ || वसन्ते कुंकुमाम्भोभिर्जलयन्त्रैर्विनिर्गतैः | वसन्तपुष्पाभरणैः स्फुरन् मुक्ताविभूषणैः || ७-७२ || प्रच्छन्नाभिः प्रकाशाभिः क्रीडाभिरितरेतरम् | नानापरिमलोद्गारैर्नानापक्षिगणस्वनैः || ७-७३ || पिककोलाहलैर्दिव्यैर्नित्यानन्दविवर्द्धनैः | स्फुरत्तडितमेघालिध्वनन्नभसि प्रावृषि || ७-७४ || भूमिकासु सखीवृन्दैर्गायमानः प्रमोदते | एवं क्रमेण भगवान् क्रीडते ऋतुचर्यया || ७-७५ || कदाचिन्मणिगेहस्थकुट्टिमे सुमनोहरे | चतुर्दिक्षुमहारत्नस्तम्भैः षोडशभिर्युतैः || ७-७६ || अन्योन्यप्रतिबिम्बत्वादन्योन्येतरथागतैः | प्रियामध्यगतो भाति तारामध्ये यथा शशी || ७-७७ || नानानर्मविनोदैश्च नानाक्रीडाकुतूहलैः | रमते भगवान् यत्र स्वय रसमयः पुमान् || ७-७८ || अक्षरः परमात्मा च पुरुषोत्तमसंज्ञकः | उभावप्येक एवार्थो लीलाभेदेन सुन्दरि || ७-७९ || अक्षरे सृष्टिकर्तृत्वान्न शृङ्गाररसोदयः | अमायत्वाद्रसात्मत्वान्नापरः सृष्टिकृत्प्रिये || ७-८० || दिदृक्षा ह्यक्षरस्यासील्लीलाया दर्शने प्रिये | पूर्णप्रियाप्रेम पश्ये विलसत्पुरुषोत्तमे || ७-८१ || तज्ज्ञात्वा पुरुषः श्रेष्ठः प्रियास्विच्छां दधे प्रिये | प्रार्थयामासुरेतास्तं श्रीस्वामिन्या समन्विताः || ७-८२ || सख्य ऊचुः भो भो स्वामिन्परानन्द परात्परतर प्रभो | वयं प्रियाः प्रियोऽसि त्वं तस्मान्नः प्रियमाचर || ७-८३ || अक्षरात्मा तु भगवान् या लीलाः सृजते प्रभुः | अस्माभिर्नानुभूतास्ताः कीदृशीः किंविधा इति || ७-८४ || तद्दिदृक्षितचित्तानां कामो नः प्रतिबाधते | कारयानुभवं तस्याः कारुण्येन कृपानिधे || ७-८५ || श्रीकृष्ण उवाच प्रियाः शृणुत मे वाक्यं सावधानेन चेतसा | न यूयं दर्शने योग्याः नित्यानन्दपदे स्थिताः || ७-८६ || यत्रानन्दस्वरूपस्य हानिर्भवति सर्वथा | त्रिगुणायास्तु लीलाया दर्शनेन प्रियंवदाः || ७-८७ || मायावेशाद्विचित्रत्वं भावरूपात्मनां भवेत् | स्वलीलासहितं मां च न द्रक्ष्यथ कदाचन || ७-८८ || दुःखानुभव एवास्ति न सुखस्य कदाचन | विस्मरिष्यथ मां तत्र किमन्यत्तु वदामि भोः || ७-८९ || इत्युक्तास्ताः प्रियाः सर्वाः प्रत्यूचुः पुरुषोत्तमम् | तथापि प्रिय तत्सर्वं नानुभूतं कदाचन || ७-९० || तस्मादनुभवारूढ यथा भवति तत्कुरु | दुःख कामो विना दुःखदर्शनं न निवर्तते || ७-९१ || विना दुःखं न च सुखं स्वरूपेण प्रतीयते | तस्मात्साधय नः कामं गुणलीलानुदर्शने | एवमुक्ते प्रियाभिस्तु तथास्त्विति जगाद सः || ७-९२ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे सप्तमं पटलम् || ७-७ || अथ अष्टमं पटलम् शिव उवाच इच्छया ससृजे निद्रा त्रिगुणा मोहरूपिणी | तथा विस्रंसितज्ञानो मुमोह जगदीश्वरः || ८-१ || मोहरूपं तदज्ञानं यस्य शक्तिद्वयं प्रिये | आवरणा प्रथमा देवि विक्षेपात्मा परा मता || ८-२ || स्वप्रकाशं यथा दीपमभ्रपत्रावृतिर्यथा | निगुह्येतं जितानेन नानाभावान्प्रदर्शयेत् || ८-३ || एवं कूटस्थपुरुषमावृत्यावरणात्मिका | ततो विक्षेपरूपेण विश्वमात्मन्यदर्शयत् || ८-४ || शक्तिद्वयसमापेतमज्ञानमिति तद्विदुः | यथा शयानः पुरुषो जाग्रद्दृष्टं विमुञ्चति || ८-५ || तद्वासनावासितायां बुद्धौ स्वप्नं प्रपश्यति | यथा ददर्शविश्वात्मा स्वप्नारूढं जगत्प्रिये || ८-६ || यथाशयानः पुरुषः स्वप्ने राजा यथा भवेत् | राजदेहेन प्रकृतीः सर्वा एव नियच्छति || ८-७ || तथा नारायणं रूपं धत्ते देवश्चिदात्मकः | तेन रूपेण देवेशि स्वप्नलीलां प्रपश्यति || ८-८ || सत्वं रजस्तम इति पृथिव्यादीनि सुन्दरि | तत्र जातानि देवेशि येभ्योऽण्डमभवत्प्रिये || ८-९ || तत्र जाता इमे लोकाः सप्त चोर्ध्वमधस्तथा | सप्तार्णवाः सप्तद्वीपा जम्बूद्वीपस्तु मध्यगः || ८-१० || तन्मध्ये भारतं वर्षं माथुरं तत्र मण्डलम् | तन्मध्ये गोकुलं जातं स्वाप्निकं सुरसुन्दरि || ८-११ || बहिर्वत् भासते विश्वं निद्रयान्तर्गतं प्रिये | ब्रह्मसत्तैव तत्सत्ता पृथक् सत्ता न विद्यते || ८-१२ || भित्यन्तर्गतचित्राणि यथाधिष्ठानतः पृथक् | न सन्ति देवदेवेशि तदा त्रासमयान्यपि || ८-१३ || एवं विश्वमयं चित्रं आत्मभित्तिमधिंष्ठितम् | न पृथक् देवि कुत्रापि पृथक् जानन्त्यपण्डिताः || ८-१४ || ब्रह्मगुह्यमिदं देवि वक्तुं जिह्वा जडायते | गात्राणि शिथिलायन्ते वाणी मे गद्गदायते | तथापि प्रेमवशगो दिङ्मात्रं प्रब्रवीमि ते || ८-१५ || एकदा पुरुषः साक्षात्पुरुषोत्तमसंज्ञकः | सखीनां मण्डलगतः स्वामिन्या श्लिष्टया प्रभुः || ८-१६ || रत्नसिंहासनासीनः पदाक्रान्तमहीतलः | पाणिना भ्रामयन्पद्मं पदावष्टब्धविग्रहः || ८-१७ || दिव्यक्रीडारसानन्दो दिव्यभूषणभूषितः | दिव्यमाणिक्यमुकुटो दिव्यकुण्डलमण्डितः || ८-१८ || निश्चलालिकुलाकारकुटिलः स्निग्धकुन्तलः | शरत्पद्मलसद्वक्रो नयनानन्दवर्षणः || ८-१९ || दिव्यहीरालिदशनः प्रवालदशनच्छदः | अनङ्गधनुराकारकुटिलभ्रूलतोत्सवः || ८-२० || स्मितमाधुर्यविजितमाधुर्यरससागरः | कम्बुकण्ठलसद्रेखात्रयशोभामनोहरः || ८-२१ || मुक्ताहारलसद्वक्षः स्फुरमाणमणिप्रभः | कांचीकपालविस्फूर्जत्किंकिणीजालमण्डितः || ८-२२ || वलयांगदकेयूरोर्मिकावृन्दविभूषितः | सुनासः सुन्दरमुखः स्मितोदारमुखाम्बुजः || ८-२३ || दिव्यगन्धानुलिप्तांगो दिव्याम्बरविभूषितः | सुधासमुद्रलहरीशीतलाकृतिसुन्दरः || ८-२४ || गंभीरावर्तनाभ्युद्यत्तनुरोमलतांकुरः | स्वामिनी संस्थिता तस्य वामदेशे सहासना || ८-२५ || अचञ्चलतडित्कोटिद्युतिभूषणभूषिता | दिव्यधात्रीफलस्थूलनासानटितमौक्तिका || ८-२६ || शृङ्गाररससम्पूर्णनेत्रान्दोलनविभ्रमैः | विलुम्पन्तीव देवेशि भर्त्तुश्चित्तगभीरताम् || ८-२७ || मधुरोल्लापमाधुर्यविनिर्भर्त्सितकच्छपी | मन्दर्स्मितप्रभापूरमज्जत्प्राणेशमानसा || ८-२८ || मुखामोदविलुब्धालिझङ्कारोद्विग्नलोचना | भ्रूलताजितकन्दर्पवरकार्मुकविभ्रमा || ८-२९ || मणिमजीरनिर्ह्रादविमोहितमरालिका | नखेन्दुरुचिसदोहमज्जन्नूपुरमण्डला || ८-३० || आनन्दसागरोद्वेलविधूपममुखाम्बुजा | कुचकुम्भलसन्मुक्ताहारभारमनोहरा || ८-३१ || ग्रैवेयाभरणोद्दीप्ता क्रम्बुकण्ठी शुचिस्मिता | सख्यः प्रियां पुरस्कृत्य प्राहुः प्राणेश्वरं मुदा || ८-३२ || सख्य ऊचुः प्राणनाथ प्रियायास्ते मनोरथमहाद्रुमः | फलितो नैव दृश्येत त्वयि भर्त्तरि किं पुनः || ८-३३ || मनोरथविघातेन धुनोत्येव प्रियामनः | बाललीलादिदृक्षास्मान् बाधते हृदयस्थिता || ८-३४ || यथेन्दोश्चन्द्रिकायाश्च यथा कुसुमगन्धयोः | शब्दार्थयोर्यथैवेश यथा बह्न्यर्चिषोः प्रभो || ८-३५ || अनाद्यभेदो देवेशि स्वामिन्यापि तथैव ते | अस्माकमपि भो स्वामिन् स्वामिन्यापि तथैव सः || ८-३६ || कस्य हेतोर्न कुरुषे तन्मनोरथपूरणम् | अविलम्बितमेवैतत्कुरुष्व हृदयस्थितम् || ८-३७ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे अष्टमं पटलम् || ८-८ || अथ नवमं पटलम् श्री शिव उवाच अथ श्रुत्वा सखीवाक्यं दर्शनावश्यकं प्रिये | तूष्णीं स्थितोऽपि मनसा मेने सर्वं भवत्विति || ९-१ || स्वामिनीसहिताः सर्वाः सख्यस्तन्मुखपङ्कजम् | वीक्ष्यमाणा इवातस्थुः प्रभुश्चापि तथा स्थितः || ९-२ || वासनांशैर्गताः सर्वा मथुरामण्डलस्थिते | गोकुले गोपिका जाता गोपगेहेषु ताः पृथक् || ९-३ || वृषभानुगृहे जाता राधिकेति च विश्रुता | स्वामिनीवासनालेशः केनाप्यंशेन सुन्दरि || ९-४ || तत्सख्यश्चापि सञ्जातास्तासां नामानि कानिचित् | कथयिष्यामि देवेशि शृणुष्वैकाग्रमानसा || ९-५ || सुन्दरी स्वर्णवर्णा च रम्याङ्गी स्वर्णमालिनौ | ललिता चित्रवर्णा च विशाखा विजया जया || ९-६ || सुकुण्डला कुण्डलिनी मालिनी स्वर्णंमञ्जरी | मञ्जुघोषा विचित्रा च देवसेना वरूथिनी || ९-७ || गौरी चित्राम्बरा तन्वी चन्द्रलेखा मनोजवा | अजिता जयिनी श्यामा बलाकी विमलप्रभा || ९-८ || तारा कुरङ्गनयना कमला वनमालिका | नित्या विलासिनी ताम्रा अनङ्गानङ्गमालिनी || ९-९ || अनङ्गमेखला माध्वी मोहिनी मदनावती | पुष्पावती हेमलता हेममाला मनोजवा || ९-१० || कर्पूरगन्धा काश्मीरी पद्मगन्धा विहारिणी | हंसिनी चित्रिणी चित्रा सुनन्दा बिन्दुमालिनी || ९-११ || मनोजापाङ्गलालित्या वैताली विमलप्रभा | पद्मरागा विचित्राङ्गी नित्यानन्दा निरङ्कुशा || ९-१२ || इत्येवं कोटिशः ख्याताः सख्यः कुवलयेक्षणाः | न संख्यया परिच्छेद्या नित्यवृन्दावनाश्रयाः || ९-१३ || तासां द्वादशसाहस्री संख्या प्रोक्ता तथापि या | अन्तःपुरगतानां च रहोमिलितचेतसां || ९-१४ || जाग्रत्स्वप्नं गताः सर्वाः स्वात्मानं ददृशुस्तदा | नन्दव्रजमिवोपेतमनुल्लङ्घितकेतनाः || ९-१५ || यथा समीरवेगेन नीयते पद्मसौरभः | न पद्मस्याधिकं किञ्चिन्न्यूनं वा भवति प्रिये || ९-१६ || तथा मोहेन ता नीता अपि स्वप्नं परात्मनः | अनुभूतवन्त्यस्तास्तत्र स्वप्नमायामनोरथम् || ९-१७ || परात्मा भगवांश्चापि लीलामेतां ददर्श सः | पार्वत्युवाच नन्दगोपव्रजं प्राप्ताः सख्यो या भवतोदिताः | कूटस्थलीलानुभवप्रकारं वद शङ्कर || ९-१८ || परात्मा भगवांश्चापि कथं लीलां ददर्श सः | कीदृशी सा भवेल्लीला सगुणानिर्गुणापि वा || ९-१९ || अनित्या वाथ नित्या वा यथार्थं ब्रूहि शङ्कर | शिव उवाच शृणु पार्वति वक्ष्यामि तव प्रश्नान् सुगोपितान् || ९-२० || न नास्तिकेभ्यो धूर्तेभ्यो हैतुकेभ्यः सुरेश्वरि | न वेदनिन्दकेभ्यश्च नाविश्वासाय कर्हिचित् || ९-२१ || वेदशास्त्रपुराणादिश्रद्धापूतान्तरात्मने | अनिन्दकाय शुद्धाय सर्वत्र ब्रह्मदर्शिने || ९-२२ || अलोलुपाय शान्ताय निर्मलाय महेश्वरि | कृतज्ञाय क्रियाकाण्डाचारसंशुद्धचेतसे || ९-२३ || स्नानदानदयादाक्ष्यदमाद्यमलमूर्त्तये | परीक्ष्य शतधा देवि दद्यान्नान्यत्र कर्हिचित् || ९-२४ || स्नेहाद्वा धनलोभाद्वा अज्ञानाद्वा भयादपि | प्रकाशयति मूढात्मा नारक्याचन्द्रतारकम् || ९-२५ || तस्मात्त्वयापि देवेशि गोपितव्यं सुरेश्वरि | सखीनां ब्रह्मलीलाया दर्शनं तु यथा भवेत् || ९-२६ || तत्प्रकारं प्रवक्ष्यामि शृणुष्वैकाग्रमानसा | मथुराधिपतिः कंसः उग्रसेनसुतः खलः || ९-२७ || श्रुत्वात्ममृत्युं देवक्याः पुत्रद्वारेण दुष्टधीः | भगिनीं हन्तुमारेभे खङ्गेन तरसा बली || ९-२८ || वारितो वसुदेवेन नीत्या चाध्यात्मशिक्षया | न निवृत्तः खलः पापस्तदीपायमचिन्तयत् || ९-२९ || न चास्यास्ते भयं वीर पुत्रेभ्यश्चेद्भयं तव | समर्पयिष्ये तान्पुत्रान्यानसौ प्रसविष्यति || ९-३० || न सन्देहस्त्वया कार्यो यतः सत्यमयः पुमान् | सत्ये नष्टे स्वयं नष्टो विशतेन्धं महत्तमः || ९-३१ || इत्युक्तो मोहितमतिर्मुमोच भगिनीं खलः | तया प्रसूतः समये पुत्रः पावकसन्निभः || ९-३२ || तमादाय गतः कंसं वसुदेवः प्रसादयन् | अर्पयामास तनयं कंसायात्मजमृत्यवे || ९-३३ || औग्रसेनिस्तु तं दृष्ट्वा प्रसन्नेनान्तरात्मना | प्रत्यपर्यन् सुतं प्राह प्रसन्नोऽहं तवानघ || ९-३४ || न चास्मान्मे भयं शूर तस्मान्नो हन्मि ते शिशुम् | युवयोरष्टमाद्गर्भान्मृत्युर्मे संश्रुतः पुरः || ९-३५ || वृथा किमर्थं ते बालान् हन्मि लोकविगर्हितः | अष्टमस्तु यदा पुत्रो भविष्यति तवानघ || ९-३६ || तदा मां तूर्णमासाद्य निवेदयतु वै भवान् | स्वस्त्यस्तु ते चिरं याहि मा भयं धेहि सर्वथा || ९-३७ || इति कंससमादिष्टो वसुदेवो महाशय | निवृत्तः सुतमादाय कंसवाक्ये ससंशय || ९-३८ || ततो नारदवाक्येन विमोहितमतिः खलः | अहनत्तं सुतं भूयस्तत्र गत्वा रुषान्वितः || ९-३९ || जग्राह निगडे चोभौ वसुदेवं च देवकीम् | यान्यान्पुवान्प्रसुश्रुवे मारयामास तान् खलः || ९-४० || दधार सप्तमं गर्भं शेषसंज्ञं सुदुःसहम् | आदिष्टा देवदेवेन योगमाया महेश्वरि | गर्भमाकृष्य देवक्या रोहिणीं प्रणिनाय सा || ९-४१ || स्वयं प्रादूरभूत्तस्मिन् देवकीजठरे प्रभुः | शङ्खचक्रगदापद्मधरश्चारुचतुर्भुजः || ९-४२ || पीतवासा घनश्यामः स्फुरन्मकरकुण्डलः | स्फुरन्माणिक्यमुकुटो वलयाङ्गदभूषितः || ९-४३ || वसुदेवस्तु तं दृष्ट्वा विस्मयोदारलोचनः | तुष्टावोपनिषद्वाग्भिस्ततस्तुष्टोऽब्रवीद्वचः || ९-४४ || विष्णुरुवाच त्वयाहं तोषितः पूर्वं तपसा दुश्चरेण हि | पृश्निगर्भेति विख्यातो नाम्ना पत्रोऽभवं तव || ९-४५ || द्वितीये जन्मनि तथा कश्यपस्त्वं प्रजापतिः | उपेन्द्र इति विख्यातिं गतोऽहं यदुनन्दन || ९-४६ || वसुदेव तृतीयेस्मिन् भवे जातो भवद्गृहे | मुक्तिदानाय भवते प्रादुर्भूतोऽस्मि साम्प्रतम् || ९-४७ || नय मां गोकुलं यत्र यशोदा नन्दगेहिनी | तत्र जाता महामाया तां नयस्व स्वकं गृहम् || ९-४८ || तव मास्तु भय क्वापि कंसान्मज्ज्न्मशङ्कितात् | इत्युक्ता देवदेवेशो दम्पत्योः पश्यतोः पुरः || ९-४९ || अक्षरस्य तु या चित्तवृत्तिर्लीलावलोकने | तदुपाधिकतत्सत्तारूपे व्यूहत्त्वमागतः || ९-५० || बभूव द्विभुजः सद्यः शिशुभावं गतः प्रभुः | तस्मिन्नाविविशे साक्षाद्रसरूपी स्वयं प्रभुः || ९-५१ || निनाय गोकुले नन्दगेहं निद्राविमोहिते | आदाय योगनिद्रां तां वसुदेवो गृहं गतः || ९-५२ || देवकीप्रसवं प्रातः कंसायाचख्युरुत्सुकाः | गृहपाला ध्वनिं श्रुत्वा बालस्येति त्वरान्विताः || ९-५३ || कंसस्त्वरितमागम्य हठादाक्षिप्य तां खलः | भूपृष्ठे प्रोथयद्देवीं ततः सा दिवमुत्पतत् || ९-५४ || सा प्रोवाच वचः क्रुद्धा हरिजातस्तवान्तकृत् | यो वेदधर्मरक्षार्थं पाखण्डविनिवृत्तये || ९-५५ || असुराणां विनाशार्थमाविर्भवति लीलया | युगान्ते तमसा ग्रस्तान् वेदानुद्धर्त्तुमिच्छया | मत्स्यरूपी स्वयं जातः सर्वज्ञः सर्वशक्तिमान् || ९-५६ || कूर्मरूपेण यः पृष्ठे दधार मन्दराचलम् | उद्दिधीर्षुर्भुवं मूढ योऽसृजत् शौकरीं तनुम् || ९-५७ || स्वभक्तद्रोहिणं हन्तुं त्रातुं भक्तजनं तु यः | नृसिंहरूपी यः स्तम्भात्प्रादुरासीत्कृपानिधिः || ९-५८ || आत्मानं वामनं कृत्वा भक्तकार्यार्थमुद्यतः | बलिं बध्वा मघवते त्रिलोकीमददात्प्रभुः || ९-५९ || क्षत्रियान् दुर्नयान् दृष्ट्वा जमदग्निगृहे तु यः | जातश्चकार पृथिवीं क्षत्रवीजविवर्जिताम् || ९-६० || योऽसौ दाशरथिर्भूत्वा रावणं लोकरावणम् | जघान समरे दुष्टं शरण्यः शत्रुसूदनः || ९-६१ || कलौ जनिष्यमाणानां असुराणां दुरात्मनाम् | वेदमार्गप्रवृत्तानां अतदर्हतया तु यः || ९-६२ || अरुच्युत्पादनार्थाय नानापाषण्डकल्पनाम् | कृत्वा विनाशमेतेषां करिष्यति परः प्रभुः || ९-६३ || स जातो यत्र कुत्रापि मृत्युस्तव विमूढधे | इत्युक्त्वान्तर्दधे माया कंसस्तु विमनाः स्थितः || ९-६४ || इति श्रीपञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे नवमं पटलम् || ९-९ || अथ दशमं पटलम् शिव उवाच अथ नन्दगृहे जातः प्रातरेव महोत्सवः | नन्दः स्नातः शुचिर्विप्रानाहूयागमपारगान् | ददौ महामना गावो वासांस्याभरणानि च || १०-१ || गोपा गोप्यो ययुर्हृष्टा नानाभूषाम्बरावृताः | नन्दं वर्धापयामासुराशीर्भिः सर्वतोमुखम् || १०-२ || यशोदां च महाभागां गत्वा गोप्योऽति हर्षिताः | उत्सुकानि मनांस्यासां बभूवुः कृष्णदर्शने [ब्रह्मसृष्टिभ्यः तदानीं किशोरस्वरूपेण श्रीकृष्णो निजदर्शनं दत्तवान् |] || १०-३३ || श्रीकृष्णदर्शनानन्दनिमग्ना निजमूर्त्तयः | बभूवुर्गोपिकाः सर्वाः निजलोकं गता इव || १०-४ || गृहे गृहे समभवन्महोत्सवपरम्पराः | याचका वन्दिनः सूता मागधाः समुपाययुः || १०-५ || तेभ्यो ददौ महार्हाणि भूषावासांसि गोपराट् | अथ कंससमादिष्टा पूतना बालघातिनी || १०-६ || निघ्नन्ती बालकान् जातान् चचार परितो व्रजम् | शिशवस्ते पराभूताः प्रविष्टाः पूतनान्तरम् || १०-७ || नन्दगृहे पुत्रजनिं श्रुत्वा तस्य जिघांसया | कृत्वा विमोहनं रूपं दिव्यालङ्कारचर्चितम् || १०-८ || दिव्यमालाम्बारधरं दिव्यगन्धमनोहरम् | मनोहरन्ती नन्दस्य प्रविवेश शनैर्गृहम् || १०-९ || अथ सा सूतिकागारमभ्येत्य क्रूरनिश्चया | मोहयित्वा वचोभिस्तां बहिःप्रेमनिरूपितैः || १०-१० || सुप्ताहिमिव जग्राह बालं कमललोचनम् | अङ्कमारोप्य बहुधा लालयन्ती शुचिस्मिता || १०-११ || ददौ हालाहलालिप्तं स्तनं तन्मुखपङ्कजे | तदन्तःस्थशिशृन् प्राणान् पूतनायाः पपौ हरिः || १०-१२ || सार्द्धयोजनविस्तारो देहस्तस्या महीतले | पपात पातध्वनिना कम्पयन् व्रजमण्डलम् || १०-१३ || स्तन्यं हालाहलमयं हरये परमात्मने | दत्वापि सद्गतिं प्राप्ता किं पुनः साधुकारिणः || १०-१४ || पार्वत्युवाच व्रज्रस्थाः शिशवो ये च तया व्यापादिता इति | पूतनायां स्थितान् सर्वान् तत्प्राणैरपिबद्धरिः || १०-१५ || इति यद्भवता प्रोक्तं के तेऽत्र शिशवः प्रभो | शिव उवाच एकदा ब्रह्मणः सत्रे देवगन्धर्वपन्नगाः || १०-१६ || सिद्धा विद्याधराः सर्वे समाजग्मु महर्षयः | आदित्या वसवो रुद्रा मरुतः पितरस्तथा || १०-१७ || अग्नयो वायवश्चान्ये तेषामासीन्महासदः | जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः || १०-१८ || अप्सरोदर्शनक्षुब्धस्मरग्रस्तोन्यथा मतिः | न शशाक मनो यन्तुं यतन्नपि पितामहः || १०-१९ || चस्कन्द रेतस्तस्याशु तपो विद्यामयं महत् | अज्ञात्वा तस्य संस्थानं कुण्डाग्नावजुहोत्प्रभुः || १०-२० || अग्निमध्यात्समुद्भूताः कुमारा वह्नितेजसः | बद्धाञ्जलिपुटाः सर्वे प्रणेमुस्ते पितामहम् || १०-२१ || ब्रह्मन् पितासि नः कामं वयं ते तनयाः प्रभो | उत्पादिताश्च भवता किंकुर्मस्तदुदीर्यताम् || १०-२२ || ब्रह्मोवाच अग्नौ क्षिप्तं मया रेतस्तपोविद्यामयं शुभम् | तत्र जाता भवन्तो हि तस्मादग्निकुमारकाः || १०-२३ || दण्डकारण्यमासाद्य तपश्चरत पुत्रकाः | इत्युक्ता ब्रह्मणा सर्वे दण्डकारण्यमाश्रिताः || १०-२४ || तपः कुर्वन्तो यत्नेन ब्रह्मणोद्देशयन्त्रिताः | ततः कतिपये काले रामो दाशरथिः स्वयम् || १०-२५ || रावणं समरे हत्वा राज्यं कृत्वा बिभीषणे | विमानं वरमारूढो दण्डकारण्यमाश्रितः || १०-२६ || तत्रागस्त्याश्रमं रामो गत्वा चक्रेभिवादनम् | मुनिः सम्भावयामास कन्दैर्मूलफलादिभिः || १०-२७ || रामस्य दर्शनं चक्रुर्मुनयोपि धृतव्रताः | उवास रामः कतिचिद्दिनानि मुनिसत्कृतः || १०-२८ || एकदा जनकी दृष्टुं मुनीनामाश्रमान् शुभान् | जगाम मुनिपत्नीनां सौहार्देनापि सुन्दरि || १०-२९ || चक्रे रामकथाः पुण्याः रावणस्य वधं प्रति | सत्कृता मुनिपत्नीभिः मुनिभिः साधुभिस्तथा || १०-३० || निवृत्ता जानकी तत्र जगामाग्निकुमारकान् | द्रष्टुं तपस्यतः पूर्णान् मुनिकन्यासमावृता || १०-३१ || जानकी तान्नमस्कृत्य कुमाराननलप्रभान् | निषसाद क्षणं तत्र वनशोभाहितेक्षणा || १०-३२ || ते विचित्रेण दैवेन प्रेर्यमाणाः कुमारकाः | अमर्षजननं वाक्यमब्रुवन्कृतहेलनाः || १०-३३ || अहो सीते प्रभुः साक्षादीश्वरो जगतां पतिः | वेदरक्षाविधानार्थमवतीर्णो महीतले || १०-३४ || न यस्य स्वपरो वापि न द्वेष्यः प्रिय एव च | सत्यसन्धः क्षमी शूरो रामः कमललोचनः || १०-३५ || जटीवल्कलसंवीतो मोहमग्नो वने वने | भ्रान्तश्चचार निर्विण्णः पृच्छमानो वनस्पतीन् || १०-३६ || इयं कान्तेति वै मत्वा मोहविभ्रंशिताशयः | क्वचित्पल्लविनीं हृद्यां लतामालिंग्य निर्वृतः || १०-३७ || निवारितो लक्ष्मणेन नेयं कान्तेति जल्पता | दधाराम्भोनिधौ सेतुं सख्यं कृत्वा च वानरैः || १०-३८ || त्वन्निमित्तमिदं सीते प्रभोरपि विडम्बनम् | तस्मात्स्त्रियः पापरूपा दोषैकनिलयाः सदा || १०-३९ || न धार्या सुखमिच्छद्भिः कदाचित् क्वापि पण्डितैः | इत्येवं वचनं तेषां श्रुत्वा दाशरथेः प्रिया || १०-४० || चक्रोध रक्तनयना शापं दातुं मनोदधे | सीतोवाच मन्निन्दायाः फलं शीघ्रमवाप्स्यथ कुमारकाः || १०-४१ || द्विधाविदीर्णदेहाश्च यूयं पण्डितमानिनः | पतन्तु भूतले सर्वे सर्वे स्वात्मकृतं भुजः || १०-४२ || इत्युक्ते सीतया तूर्णं द्विधाभूतकलेवराः | शिशवः पेतुरुर्व्यान्ते मुनिपत्न्यो विसिस्मिरे || १०-४३ || हाहाकारो महानासीन्मुनीनां तत्र शृण्वताम् | एवं शप्त्वा कुमारांस्तान् ययौ सीतानिकेतनम् || १०-४४ || रामः श्रुत्वाथ तां वार्त्तामप्रियां दुर्मना भृशम् | निनिन्द सीतां मनसा किमेतद्दुर्विनीतया || १०-४५ || अर्विचारितमेवेह कृतं नष्टविमर्षया | अहो मूढधियो दुष्टाः स्त्रियो दारुणचेतसः || १०-४६ || श्रेयसां परिपन्थिन्यो मायेयं दैवनिर्मिता | ससारान्मुक्तिकामानां याः स्वयं निगडोपमाः || १०-४७ || महामोहस्य मञ्जूषा स्वार्थायानर्थतत्पराः | क्रोधलोभानृतधियो न विश्वस्ताः कदाचन || १०-४८ || न च ता विश्वसेत्क्वापि विश्वस्तान् घ्नन्त्यसंशयम् | अल्पार्थे बह्वनर्थेषु प्रवर्त्तन्ते दुराशयाः || १०-४९ || न विद्वान् स्त्रीवशं गच्छेद् वशं प्राप्तो विनश्यति | इत्याकलयय हृदये जानकीं प्राह स प्रभुः || १०-५० || राम उवाच किमेतत्साधुचरिते विनिन्दितमचीकरः | नास्माकमुचितं कर्म यत्कुमारविहिंसनम् || १०-५१ || तपोविद्याधृतधियो विनयाचारशालिनः | न चैते शापमर्हन्ति यदि घ्नन्त्यपि सुन्दरि || १०-५२ || यथार्थवादिनां पुंसां श्रुत्वा वाचो यथार्थकाः | कुप्यन्ति ये मूढधियो न तेषां निष्कृतिः क्वचित् || १०-५३ || सीते यथार्थमुक्त तैर्मामुद्दिश्य दयालुभिः | तेष्वमर्षः कथं जात ईदृशोनर्थदर्शनः || १०-५४ || यदि स्वल्पोपराधोऽपि तस्मिन् दण्डो महान् घृतः | न चैतदुचितं चण्डि क्षत्रियाणां दयावताम् || १०-५५ || वनचराणामस्माकं मुन्याश्रमवासिनाम् | साध्वीत्थमुक्ता रामेण लज्जया नम्रकन्धरा || १०-५६ || बद्धहस्ताञ्जलिः प्राह भर्तृवाक्यविबोधिता | सीतोवाच अपराधो महान् देव कृतो मे नात्र संशयः || १०-५७ || अदण्डेष्वप्यपापेषु यन्मया ह्युद्यमः [यन्मन्योरुर्दमः कृतः इति मूल पाठः |] कृतः | अपि मे दुर्नयं देव क्षमस्व त्वं दयानिधे || १०-५८ || तेष्वनुग्रहमाधस्त्व साधुष्वपि तपस्विषु | राम उवाच न करिष्याम्यहं भद्रे कुमाराणामनुग्रहम् || १०-५९ || मया त्वनुग्रहीतानां मुक्तिः स्याज्जलवज्जले | वेदवेदान्तसङ्गीतः परमात्मा परः प्रभुः | करोत्वनुग्रहं तेषामनुभूतिर्यथा भवेत् || १०-६० || तस्मादिमे लिङ्गदेहमात्रशेषाः सुलोचने | मयि स्थास्यन्ति सततं कालाविर्भावहेतवे || १०-६१ || रामे च भगवत्येते विलीनास्ते ततः परम् | वसुदेवगृहे साक्षादवतीर्णे हरौ स्वयम् || १०-६२ || तेवतीर्णा व्रजभुवि तद्देहस्थाः कुमारकाः | पूतनायां स्थिताः सर्वे तया व्यापादिता इति || १०-६३ || तत्प्राणैरपिबद् बालान् दक्षिणांगव्यवस्थितान् | वामांगभूताः सकलाः गौडदेशेऽभवन् स्त्रियः || १०-६४ || कुमारीरानयामास परचक्रं जिघांसता | निरुद्धा राजधर्मेण नन्दस्तद्देशमागतः || १०-६५ || इति ते कथितं देवि यत्पृष्टोऽहं सुलोचने | समासेन महेशानि किं भूयः श्रोतुमिच्छसि || १०-६६ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे दशमं पटलम् || १०-१० || अथ एकादशं पटलम् श्री शिव उवाच हृत्वाथ पूतनाप्राणान् सहबालान् कृपानिधिः | शकटं पातयामास पादपल्लवलीलया || ११-१ || तृणावर्त्तमथाकाशे हरन्तमहनद्धरिः | स्तनं पीत्वा यशोदायै जृम्भमाणस्तु केवलम् || ११-२ || मुखे प्रदर्शयामास भुवनानि चतुर्दश | बाललीलाविनोदेन मृदमश्नन् कृपानिधिः | अकल्पयद्देहयोगं कुमाराणामलौकिकम् || ११-३ || नाश्नाति मृदमानन्दो दधिदुग्धान्यपि स्वयम् | पुष्ट्यर्थं च कुमाराणामकरोत्सकलं प्रभुः || ११-४ || व्रजस्था गोपिकाः सर्वाः कृष्णलीलाहृताशयाः | विलोभयन्त्यः श्रींकृष्णं दास्ये दुग्धं दधीन्यपि || ११-५ || मृदूनि नवनीतानीत्युक्त्वा निन्युर्गृहान् स्वकान् | ततोप्येकान्त आहूय दत्वा दधिमधूनि च || ११-६ || कृष्णमालिङ्गयामासुश्चुचुम्बुर्मुखपङ्कजम् | बालोभूत्वापि लोकस्य यशोदानन्दयोरपि || ११-७ || आलिङ्ग्यत्यालिंग्यमानः प्रतिचुम्बति चुम्बितः | गोपिकाहृदयानन्दं वर्धयन् रतिचेष्टितैः || ११-८ || रतिज्ञमिव तं मत्वा गोपिका रतिचेष्टयाः | कुतूहलनिमग्नास्ता न वक्तुं शेकुरुत्सुकाः || ११-९ || अन्यापि गृहमानीय खाद्यपानैरतोषयत् | भूषयित्वांजनाकल्पैरङ्गरागैः सुगन्धिभिः || ११-१० || शुभासने समारोप्य दत्वा ताम्बूलवीटिकाम् | इहैव बालकैरेतैः परिक्रीडस्व निर्भयः || ११-११ || मान्यत्र गच्छ ते माता ज्ञापिता ताडयिष्यति | इत्याहुर्गोपिकाः काश्चित्प्रेमबद्धा व्रजार्भके || ११-१२ || व्रजेश्वरसुतं नीत्वा गृहमूचुः पराः स्त्रियः | यदि नृत्यति सत्कृष्ण भवान् दास्ये मनोरथम् || ११-१३ || इत्युक्तो नृत्यति स्मासौ रभसा वै मुदान्वितः | हरन् कटाक्षमालाभिर्भावपूर्णाभिरावृतः || ११-१४ || वव्रे नृत्यविधानार्थं कामं देहि प्रतिश्रुतम् | कस्ते कामस्तयोक्तेसौ वव्रे कृष्णः स्ववांछितम् || ११-१५ || त्वदीयहृदये भाति कन्दुकद्वयमुत्तमम् | देह्येतद्रमणार्थाय मित्रैः गोपसुतैः सह || ११-१६ || जहास गोपीकृष्णस्य वाक्यश्रवणहर्षिता | वृषभानोः सुता देवि राधिकानामविश्रुता || ११-१७ || स्वामिनी वासना जाता श्रीकृष्णप्रेमविह्वला | द्वादशैवसहस्राणि याः सख्यः परिकीर्त्तिताः || ११-१८ || तदंगभूतास्ताःसर्वाः वस्तुभेदो न किंचन | स्वामिन्यात्मा भवेत्कृष्णः कृष्णात्मा स्वामिनी हि सा || ११-१९ || न तयोर्विद्यते भेदश्चन्द्रचन्द्रिकयोरिव | रसात्मकं रसभोक्तृ परं ब्रह्म श्रुतीरितम् || ११-२० || रसः शृंगार एवोक्तो रसशास्त्रविशारदैः | संयोगो विप्रलम्भश्च शृंगारो द्विविधो मतः || ११-२१ || संयुक्तयोश्च [द्र० पृ० चतुर्विंशपटलम् ११-१२ |] संयोगो विप्रलंभो वियुक्तयोः | रसनित्यतया जातो वियोगस्तद्दलात्मकः || ११-२२ || रसस्वभाव एवाय यत्सयोगवियोगवान् | अन्यथा ह्यक्षरे कस्माद्दिदृक्षा जायते तथा || ११-२३ || कथं प्रियाणां च तथा रसस्तस्माद्धि ताद्दृशः | सच्चिदानन्दकं ब्रह्म यदुक्त श्रुतिमौलिभिः || ११-२४ || चिदानन्दौ तु कूटस्थे पुरुषोत्तमे एव च | उभावपि भवेद्ब्रह्म ब्रह्मभेदैर्विवर्जितम् || ११-२५ || सजातीयविजातीयस्वगतैश्च सुलोचने | ब्रह्मत्वे ह्यक्षरस्यापि आनन्दो द्विदलात्मकः || ११-२६ || सदंशबीजमूला च प्रकृतिर्ह्यक्षरात्मगा | न तस्माद्रसलीलायाः स्थितिः कुटस्थ ईश्वरे | प्रकृतेश्च परत्वाच्च निर्गुणत्त्वान्महेश्वरि || ११-२७ || उत्तमे पुरुषे पूर्णे ह्यानन्दात्मनि केवले | लीला रसमयी रम्याः प्रतिक्षणनवा स्थिता || ११-२८ || दिदृक्षितान्तःकरणवृत्तिः स्यादक्षरस्य या | पुरुषोत्तमावेशती जाता नन्दगृहे तु सा || ११-२९ || गुणलीलादिदृक्षायुक्वासनास्तत्प्रियासु याः | ता एव व्रजसुन्दर्यस्ताभिः संक्रीडते रसः || ११-३० || स्वामिनीवासना राधा स्वयं वृन्दावनेश्वरी | लवमात्रकालावच्छिन्नो विरहोऽभूद्रसात्मकः || ११-३१ || नलिनीपत्रसंहत्याः सूक्ष्मसूच्याभिवेधने | दले दले च यः कालः स कालो लववाचकः || ११-३२ || अत्रापि संयोगवियोगभावैः क्रीडति वै हरिः | कृष्णो राधास्वरूपेण विरहाक्रान्तचेतनः || ११-३३ || कथं सा संगता मे स्यादिति चिंतापरोऽभवत् | तत्सखीकृतमैत्रस्तु तत्कथाः कुरुतेऽनिशम् || ११-३४ || नित्यं स्वरूपस्तवनैर्गतिहासनिरूपणैः | वस्त्रमद्यतनं हृद्य तव संख्याः परिष्कृतम् || ११-३५ || इत्यावेदितहार्दास्ताः सख्यः प्राहुश्च राधिकाम् | राधे नन्दसुतः सोऽयं सुन्दरः प्रतिभाति मे || ११-३६ || तव रूपानुरूपोऽयं चतुरो व्रजबल्लभः | नित्यं च त्वत्कथालापः त्वत्प्राणस्त्वन्मनाः सदा | त्वामेव ध्यायते चित्ते सङ्गमस्ते यथा भवेत् || ११-३७ || राधोवाच कुत्र सङ्गतिरेतेन मम स्यात्सखि चिन्तय | अहमप्यस्य रूपेण सौन्दर्येण गुणेन च | मोहितास्मि क्षणं नैनं विस्मरामि कथंचन || ११-३८ || यशोदानन्दनं कृष्णं स्वप्ने पश्यामि सन्ततम् | क्रीडमानं मया सार्द्धं पिबन्तमधरासवम् || ११-३९ || यस्मिन् दृष्टे ममांगेषु स्वेदरोमांचकंचुकम् | वेपथुः स्वरभङ्गो वा जायते साम्प्रतं सखि || ११-४० || यत्सौन्दर्यरसाम्भोधौ निमग्नं सखि मे मनः | न निवृत्तिमवाप्नोति विना तद्दर्शनं क्वचित् || ११-४१ || कृष्णमूर्तिं प्रपश्यामि भ्रमान्निकटवर्तिनीम् | क्षणादन्तर्हितां दृष्ट्वा मदात्मा तप्यते भृशम् || ११-४२ || किं करोमि क्व गच्छामि कस्याग्रे कथयाम्यहम् | नय मां नन्दतनयं कृष्णं प्राणाधिकं मम || ११-४३ || विरहाग्निमहाज्वालावलीढा मे वपुर्लता | कृष्णाधरसुधापूरप्लाविता शान्तिमेष्यति || ११-४४ || तस्य मे सङ्गमोपायं विचारय निजे हृदि | गच्छ कृष्णागमे यत्नं कुरु सङ्केतसद्मनि || ११-४५ || इत्येवं राधया प्रोक्ता सखी प्राणपतिं ययौ || ११-४६ || इति श्रीपञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे एकादशं पटलम् || ११-११ || अथ द्वादशं पटलम् शिव उवाच कृष्णस्तामागतां दृष्ट्वा हर्षाकुलितचेतसाम् | कार्यसिद्धिमिमां ज्ञात्वा हर्षांदुल्लसितेक्षणः || १२-१ || पप्रच्छ तां सखीं प्रेम्णा किमुक्तं राधया सखि | तदिदानीं ममाचक्ष्व श्रुत्वा सन्तोषमाप्नुयाम् || १२-२ || त्वयि गतायां यावन्तः कालस्यावयवा ययुः | तावन्त्येव युगान्यासन् विरहाकुलितस्य मे || १२-३ || सख्युवाच त्वत्सङ्गविरहात्कृष्ण राधापि क्लिश्यतेतराम् | न निवृत्तिमवाप्नोति विना ते दर्शनं क्वचित् || १२-४ || कृष्ण कृष्णेत्यमु मन्त्रं विरहाकुलया तया | जप्यतेऽहर्निश मन्यमानया निकटे मृतिम् || १२-५ || विरहानलनिर्दग्धा शोभते न वपुर्लता | हिमक्लिष्टेव हेमन्ते मृदुला पद्मिनी यथा || १२-६ || दिवारात्रौ तु रहसि कृत्वा चित्रमयीं प्रभो | मूर्त्तिं निधाय हृदये शेते विरहकर्षिता || १२-७ || शुष्कौ बिम्बाधरौ तस्यास्तन्द्रा लोचनयोः स्थिता | अन्यथा भाषणं वक्त्रात् किमन्यत्कथयामि ते || १२-८ || नानुसन्धानमाधत्ते मनोवृत्तिर्मनागपि | अन्यथासिद्ध एवासौ कामस्ते नन्दनन्दन || १२-९ || तस्मात्तन्निकटं याहि सङ्केते कृतनिश्चयः | इति सख्योदितं श्रुत्वा उल्ललास हृदि प्रभुः || १२-१० || श्रीकृष्ण उवाच अहं तत्रागमिष्यामि सङ्केते कृतनिश्चयात् | तत्र तामानय क्षिप्रं वेषगुप्तिं विधाय च || १२-११ || कस्यापि न भयं भीरु त्वया कर्त्तव्यमण्वपि | वञ्चयिष्ये जनान् सर्वान् इन्द्रजालकलादिभिः || १२-१२ || राधिकायै प्रणाम मे तत्र गत्वा निवेदय | त्वं मे प्रियासि नितरां प्राणादप्यधिका मम || १२-१३ || नावयोरन्तरं किञ्चित् प्राणरूपात्मनामपि | त्वन्नामस्मरणाच्चाह यथा तुष्यामि सुन्दरि | मत्सेवया मम ध्यानात्तथा तुष्टिर्न मे क्वचित् || १२-१४ || इत्यादि मम वाक्यानि राधिकायै निवेदय | पुनर्याता सखी राधामुवाच सकलं हि तत् || १२-१५ || सुधामाधुर्यधिक्कारक्षम कृष्णवचोमृतम् | पीत्वोल्ललास हृदय ग्रीष्मतप्तेव भूर्यथा || १२-१६ || अथ सङ्केतसदने शयया पुष्पमयोचिता | नानागन्धमहामोदपुष्पराजिविराजिते || १२-१७ || निर्दग्धागरुसद्धूमधूपिते च समन्ततः | पानयोग्यरसेर्दिव्यैस्ताम्बूलैरङ्गलेपनैः || १२-१८ || सत्कृते सदने रम्ये राधा सख्यावृता ययौ | तत्रासनगता राधा काङ्क्षन्ती प्रियसङ्गमम् || १२-१९ || अचञ्चलतडित्कोटिप्रभापिञ्जरिताम्बरा | समावृत्तसुवृत्तोरुजघनस्तनमण्डला || १२-२० || कटाक्षसरणीनिर्यद्रसमोहितमन्मथा | शुकाकारसमाकारनासाभरणभासुरा || १२-२१ || दाडिमीबीजसन्देहकारिदशनहीरका | वीणारवघृणादायिनिजवाणीगुणोदया | कर्पूरबीटिकामोदसुगन्धितदिगन्तरा || १२-२२ || मणिदर्पणदर्पघ्नकपोलफलकप्रभा | मणिमङ्गलसूत्रेण विलसत्कम्बुकन्धरा || १२-२३ || रत्नाङ्गुलीयनिवहोल्लसदङ्गुलिपल्लवा | कुचभारलसन्मध्यत्रिवलीललितोदरा || १२-२४ || चन्दनागरुकस्तूरीकर्पूरादिसुगन्धिनी | निःश्वासहारिकुर्पासनिबद्धस्तनमण्डला || १२-२५ || कुचोपरिलसन् मुक्ताहारतारसुशोभिता | क्वणन्माणिक्यमञ्जीरप्रभाभिर्बद्धमण्डला || १२-२६ || रेजे राधासनगता कथंचक्रे प्रियश्रया | कथं नाद्यावधि प्रेयान् नागतः सखि तर्कय || १२-२७ || रुद्धः कयाचित्प्रियया किं वा त्वं तेन वञ्चिता | तद्वचः किमतथ्यं वा तथ्यं वा ज्ञायते कथम् || १२-२८ || नागमिष्यति चेत्कान्तः प्राणांस्त्यक्ष्याम्यसंशयम् | वयस्यामेतदाश्राव्य कृत्वा करतले मुखम् || १२-२९ || विरहाग्निशिखात्युष्णं निशश्वास प्रियंवदा | ताम्बूलगन्धपुष्पादिरतिसाधनमाहितम् | निनिन्द मनसा सर्वं वियोगज्वरविप्लुता || १२-३० || तद्वक्रं हसितेन्दुमण्डलमतिस्फारं तदालोकितं सा वाणीजितकामकार्मुकरवा सौन्दर्यमेतस्य तत् | इत्थं सन्ततमालि वल्लभतमध्यानप्रसक्तात्मन- श्चेतश्चुम्बितकालकूटमिव मे कस्मादिदं मुह्यति || १२-३१ || तदैव कृष्णः सङ्केतं प्राप्तः प्राण इव स्वयम् | स्वासनात्तुर्णमुत्तस्थौ राधा कमललोचना || १२-३२ || समानासनसमासीनौ परस्पररतिप्रियौ | भावपूरितदृक्प्रान्तनिक्षेपान्योऽन्यमोहितौ || १२-३३ || श्रीकृष्ण उवाच प्रिये त्वद्विरहज्वालावलीढवपुरुषो हि मे | न शान्तये सुधाम्भोधिकोटिपीयूषसेचनम् || १२-३४ || त्वदीयविरहे राधे प्रियमप्यास विप्रियम् | अमृतांशोरपिकराश्चण्डांशोरिव दारुणाः || १२-३५ || ग्लपयन्ति वपुर्वल्लीं विरहे तव सुन्दरि | शयया पीयूषचित्ता वह्न्यङ्गारचितेव सा || १२-३६ || मलयालेपनं देहे व्यथते विस्फुलिङ्गवत् | कोटिकल्पायते रात्रिः पुष्पं सूचीफलायते | दावाग्निज्वालेव मरुत् शीतलो व्यथयेत्तनुम् || १२-३७ || ध्यायामि त्वां दिवारात्रौ त्वत्प्राणस्त्वन्मनाः प्रिये | राधिके राधिके चेति महामन्त्रजपेन च || १२-३८ || विरहाहिविषं प्राणहारि प्रशमयाम्यहम् | अद्य लब्धासि भो कान्ते निधानमिव निर्धनैः || १२-३९ || विवेकविद्याविनयप्रसाद- महेन्धने चाशुविदीप्यमाने | वियोगवातद्विगुणीकृतेन्तः स्मरानले गोपि जुहोमि देहम् || १२-४० || इतः क्षणं वा च ततः क्षणं वा गृहे क्षणं वा शयने क्षणं वा | बहिस्तथान्तः क्षणमात्मनस्वद्- ग्रहगृहीतस्य निवृत्तिरस्ता || १२-४१ || कियन्त्य एवात्र न सन्ति राधे सुलोचना मां तु न हर्षयन्ति | पयोदबिन्दुप्रतिरुद्धबुद्धे- र्विहङ्गमस्येव जलोपकण्ठम् || १२-४२ || दिशां मुखेषु प्रमदे त्वदीयां भ्रमोपनीतामपि वीक्ष्य मूर्त्तिम् | गतावधिव्याप्तिमुपैति चित्ते हर्षस्य वैयर्थ्यमुदीक्ष्य शोकम् || १२-४३ || समुद्ररुद्रौ प्रथितौ जगत्या- मौर्बेण हालाहलधारणेन | अहं तु कल्पान्तहुताशकल्प- वियोगदग्धोऽपि न चित्रमेतत् || १२-४४ || अपि प्रिये त्वद्विरहानलोत्थ- ज्वालाहुतीभूतशरीरयष्टेः | त्वमेव [अत्र प्रतिपादिताक्षरातीताख्यस्य कृष्णस्यानबतारित्वेऽपि स्वप्रेममहिमप्रदर्शनायैवेत्थमुक्तं श्रीराधिका प्रतीतीति विवेकः |] मे जन्मनि जन्मनि स्याः प्रिया सखी चेति विधिर्व्यधत्ताम् || १२-४५ || अपि प्रिये केतककुङ्मलौघाः स्फुटन्ति मे हृदयेन साकम् | विलोचनाभ्यां तु समं पयोदाः किरन्ति वारिप्रकरानमन्दान् || १२-४६ || वियोगदावानल एष एव क्षणात् क्षिणोत्येव तनुं मदीयाम् | यदा सुधारस्मिसहोदरास्य- मसङ्कुचध्यानपथादपैति || १२-४७ || धुन्वन् पयोदावलिविस्फुरन्तस्- तडित्प्रकाशाः शिखिनर्त्तनानि | सुकेतकामोदमुचश्च वाताः सहस्रधा मे हृदयं दलन्ति || १२-४८ || स्मराशुगीभूतविलोचने द्वे भ्रूभ्यां धनुर्भावमुपागताभ्याम् | स्फुटं वहन्ती जनमोहविद्या विद्या किमेषा मम मोक्षकर्त्रीं || १२-४९ || स्मितोदयादर्शितदन्तपङ्क्ति- प्रभावलीढाननपङ्कजेन | परिस्फुरल्लोचनषट्पदेन विमोहयन्ती हृदयं मदीयम् || १२-५० || ध्येयं ममैतत्तवपादपङ्कजं गेयं ममैतत्तव रूपसौभगम् | त्वत्तो न किञ्चित्प्रतिभाति तत्त्वं त्वया विनान्ध्यं जगतो विभाति || १२-५१ || इत्यं प्रियामनुनयन् वचोभिः प्रेमगर्भितैः | रेमे कृष्णः कुचतटीपरिरम्भादिभिस्तथा || १२-५२ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे द्वादशं पटलम् || १२-१२ || अथ त्रयोदशं पटलम् शिव उवाच एकदा तु कुमार्यस्ता व्रतं चेरुः समाहिताः | कात्यायनीमर्चयन्त्यः कृष्णो भर्त्ता भवेदिति || १३-१ || मासान्ते फलदानाय गतः कृष्णः सरित्तटम् | तीरस्थितानि वासांसि हृत्वा नीपमथारुहत् || १३-२ || कुमार्यः कृष्णचरितं दृष्ट्वा प्रेमपरिलुप्ताः | लज्जितस्मेरवदनाः कृष्णमूचुः कदम्बकम् || १३-३ || कृष्ण वासांसि नो देहि खिन्नाः स्म सलिले वयम् | त्वं वृद्धसम्मतो भूत्वा नैतत्कर्त्तुं त्वमर्हसि || १३-४ || यदि जानाति वै कश्चित्तदायं दुर्नयो महान् | जानिष्यति यदा राजा कंसः क्रूरमतिर्मनाक् || १३-५ || तदा ह्यनर्थ एवायमस्माकं भवतोऽपि च | श्रीकृष्ण उवाच इहागत्य प्रतीच्छध्वं स्वं स्वं वासः सुलोचना || १३-६ || अन्यथा न ददाम्येव कंसभीत्या बिभीषितः | निशम्य वचनं तस्य गोप्यो लज्जास्मितेक्षणाः | जलादुत्तीर्य वासांसि कृष्ण देहीति चाब्रुवन् || १३-७ || कृष्णः प्रीतमनास्ताभ्यो वासांसि पृथगाददौ || १३-८ || तत्तद्भागैश्च [कुमारीभ्यः स्वगततत्तदंशस्वरूपदानायैव वस्त्रहरणलीलां कृतवान् भगवानिति ज्ञेयम् |] ताः सर्वाः स्वान्तःस्थैः सन्नियुज्य च | चक्रे पूर्णतराः कृष्णो रसयोग्या रसप्रियः || १३-९ || ततः प्रसन्नो भगवान् कुमारीभ्यो वरं ददौ | श्रीकृष्ण उवाच रात्रयो ह्याधिदैविक्यो मयि तिष्ठन्ति ताः प्रियाः || १३-१० || पश्यध्वं रमयिष्यामि तासु वः पद्मलोचनाः | प्रतियात गृहं तस्मात्कामः कालेन सेत्स्यति || १३-११ || ततो लब्धवराः सर्वा गोप्यः पूर्णमनोरथाः | गृहं जग्मुः प्रगायन्त्यः कृष्णलीलां मुदान्विताः || १३-१२ || जनयन् मन्युमिन्द्रस्य कृत्वा गोर्वधनोत्सवम् | इन्द्रोत्सृष्टजलैरन्नैः सङ्कर्षणमहीश्वरम् || १३-१३ || वर्षद्वादशकं योऽसौ त्यक्ताम्बुफलमूलकः | तर्पयामास तं कृष्णः पुरूहूतमदं नुदन् || १३-१४ || एकदा कृष्ण एवैको गतो वृन्दावनं शुभम् | रमणाय मतिं चक्रे सखीभिः सह केवलम् || १३-१५ || दृष्ट्वा वृन्दावनं रम्यं नमत्कुसुमपादपम् | कूजत्पक्षिमरालालिप्रतिध्वनिमनोहरम् || १३-१६ || प्रफुल्लमल्लिकाम्भोजं मन्दमारुतकम्पितम् | योगमायामथो कृष्णः कालमायाविनाशिनीम् || १३-१७ || जाग्रदन्ते सुषुप्त्यादौ स्फुरणायोपलभ्यते | तादृशीमकरोद् देवि लीलार्थं पुरुषोत्तमः || १३-१८ || प्रकाशा चाप्रकाशा च द्विधा सेयं व्यवस्थिता | दर्शनांशे प्रकाशा च दृषट्टत्वाच्छादने तथा || १३-१९ || बहिः प्रकाशं विच्छिद्य अन्तराकाशते यथा | योगमायेति विख्याता जाग्रत्स्वप्नमायीशितुः || १३-२० || कालमाया हृता तूर्णं तया तच्चित्स्वरूपया | तत्कार्यमात्रमखिलं लीन स्थावरजङ्गमम् || १३-२१ || योगमायोद्भवं स्वप्नमक्षरः संददर्श ह | अन्यूनाधिकमीशानि भूतेन्द्रियगुणात्मकम् || १३-२२ || दिव्यमाणिक्यमुकुटं स्फुरन्मकरकुण्डलम् | दिव्यमुक्तामणिभ्राजन्नानाभूषणभूषितम् || १३-२३ || कृष्णरूपमभूत्तत्र योगमायोपबृंहितम् | अलौकिकलतादिव्यकुसुमामोदवायुना || १३-२४ || सेवितं सर्वतः श्रीमद् वृन्दावनमहाद्भुतम् | खगा मृगा लता वृक्षा वायवश्चन्द्रतारकाः || ऋटुः पुष्पाणि रात्रिश्च सर्वमासीन्नवं प्रिये || १३-२५ || प्रससारोत्सृजन्ती सा ग्रसन्ती विश्वमोजसा | उत्सारयन्ती तिमिरं यथा दीपशिखाम्बरे || १३-२६ || योगमायाप्रपञ्चोऽपि सदेवासुरमानवः | तासु सङ्कल्पमकरोन्मनसा पुरुषोत्तमः || १३-२७ || अबोधयत्पूर्वकामं कामरूपतया हृदि | यावदङ्कुरितो भूयात् हृदि कामस्तु सुभ्रुवाम् || १३-२८ || तावत्तद्वर्धनार्थाय वेणुनादमथाकरोत् | योगमायोद्भवाकाशे वेणुनादः प्रतिष्ठितः | तं नादमेव गोप्यस्ताः शुश्रुवुः प्रथमं प्रिये || १३-२९ || अधरामृतसंसिक्तवेणुनादः सहानिलः | प्रविश्य कर्णरन्ध्रेण हृच्छयं समतेजयत् || १३-३० || ततस्ताः सहसा हित्वा शयनासनभोजनम् | सात्विकी राजसी चैव तामसी चेति विश्रुताः || १३-३१ || श्रुतिरूपा कुमार्यश्च आजग्मुर्नादमोहिताः | निषिद्धा अपि यत्नेन बन्धुवर्गैरनेकधा || १३-३२ || न निवृत्ता यथा वेगः सरितामर्णवं प्रति || १३-३३ || बलात् रुद्धा अपि जहुः प्राणान् विरहकर्षिताः | काश्चिद्गोप्यः क्षणादेव दिव्यदेहाः समाययुः || १३-३४ || पुरः प्रकाशः पश्चात्तु शून्यमासीत् व्रजस्त्रियः | प्रविष्टा मण्डलं सर्वा योगमायिकमुत्तमम् || १३-३५ || कुमार्यो द्वादश प्रोक्ताः सहस्राणि तथा पराः | तावन्त्यः किल विज्ञेयाः श्रुत्वा वेणुरव निशि || १३-३६ || चत्त्वारिंशत्तु यूथानि तासां प्रोक्तानि योषिताम् | तासां द्वादशसाहस्री संख्या संयोगभावतः || १३-३७ || प्रियसङ्गार्हमेतासां माया वेषमरीरचत् | भूषामालाम्बराण्यासन् लोकसिद्धेतराणि च || १३-३८ || समानवेषाभरणाः सर्वाः सवयसः प्रिये | समचित्ताः समरसाः कृष्णस्य निकटं ययुः || १३-३९ || वेदस्थित्यर्थमेवासौ क्रीडन्नपि समाहितः | मर्यादामुक्तवान् वाचा वागासीत्कारणोदया || १३-४० || न निषिद्धाः स्वरूपेण स्वरूपं वागगोचरम् | रसभोक्तृरसात्मत्वं विरुद्धेदान्यथा प्रिये || १३-४१ || श्रीकृष्ण उवाच किमर्थमागताः सर्वाः मिलिताश्च परस्परम् | रात्र्यामघटमानं तु वनेष्वागमनं स्त्रियः || १३-४२ || स्त्रीधर्मं सहसा हित्वा भर्तृसेवामयं शुभम् | ऐहिकं पारलौकिक्यं स्त्रियो नाशयति ध्रुवम् || १३-४३ || येन संतुष्यते भर्त्ता स धर्म उचितः स्त्रियः | तं विहाय ध्रुवं नारी पतत्येव न संशयः || १३-४४ || तस्माद्व्रजं स्त्रियो यात मदुक्त्या यन्त्रिताशयाः | गोप्यस्तद्वाक्यमाकर्ण्य तीक्ष्णं हालाहलोपमम् || १३-४५ || किं वज्रनिर्घातहता इव पेतुः क्षितेस्तले || १३-४६ || इति श्रीपञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे गुप्तसारे शिवोमासंवादे त्रयोदशं पटलम् || १३-१३ || अथ चतुर्दशं पटलम् पार्वत्युवाच देवेश परमेशान धूर्जटे नीललोहित | ततः किमभवत्तत्र तन्मे ब्रूहि सदाशिव || १४-१ || शिव उवाच रूक्षं वचनमाश्रुत्य सहसा जातसम्भ्रमाः | गतप्राणा इवासंस्ताः प्राणरूपी प्रियोऽभवत् || १४-२ || दुःखाकुला रुद्धवाचो निरुछ्वासा व्रजस्त्रियः | अश्रूण्यमुञ्चन्नेत्रेभ्यस्तापेनोष्णतराणि च || १४-३ || अब्रुवन् धैर्यमालाम्ब्य तामस्यो विरहातुराः | किमेवं भाषसे कृष्णविचाररहितं वचः || १४-४ || अविचारितवक्तारो लोके मूर्खा इति स्थिताः | तस्माद्विचार्य वक्तव्यं सर्वज्ञोऽसि यतः स्वयम् || १४-५ || वयं गोप्यो भवद्दास्यस्त्वच्चित्तास्त्वत्परायणाः | त्वत्प्राणास्त्वन्मयाः कृष्ण नान्यत्पश्यामि किञ्चन || १४-६ || नास्माकं पतयः पुत्रां भ्रातरो न च बान्धवाः | वयं त्वदेकशरणाः त्वन्न्यस्तात्मकलेवराः || १४-७ || अहं स्त्री मत्पतिश्चायमिति यासां मतिः स्थिता | तासामयं परो धर्मो यस्त्वया चोपदिश्यते || १४-८ || यस्याधिकारो यद्धर्मे त्यजेत्त न कदाचन | नोचेत्सन्न्यासिनः कुर्युः कथं न गृहिवादिनाम् || १४-९ || देहातीता गुहातीता लोकातीता वयं प्रभो | त्वामेव शरणं प्राप्ताः कथमर्हन्ति लौकिकम् || १४-१० || विकारेऽहमिति भ्रान्तिः पुत्रदारधनादिषु | तदध्यासवशात्तेषां देहधर्माधिकारिता || १४-११ || प्रवृत्ते ह्यधिकारे तु धर्मं लुम्पति यः खलः | पतत्येव न सन्देहो यतः स वासनान्तरे || १४-१२ || अह ममायमित्येषः पतिपुत्रादिषु स्थितः | समूलमाग्रहो नष्टः कथं तत्र नियुञ्जसि || १४-१३ || न प्रेम्णि बाधकं किञ्चित्प्रेमस्थितिरलौकिकी | वयं प्रेमसमाकृष्टा निशि प्राप्ता वनान्तरे || १४-१४ || अविद्वानिव तद्विद्वानपि त्वं किं प्रजल्पसि | लोकवेदपथांस्त्यक्त्वा समूलान्विपिनान्तरे || १४-१५ || निशि स्त्रियो वयं प्राप्तास्ता अपि त्यजता त्वया | विनाशिता प्रेमरीतिः कृतध्नत्वमुपार्जितम् || १४-१६ || वयं तु न गमिष्यामस्त्यक्तसर्वपरिग्रहाः | विरहाग्नौ तनुर्हुत्त्वा त्वामेष्यामो न संशयः || १४-१७ || तस्माद्भजस्व गोविन्द नोपेक्ष्या गोपिका वयम् | त्यजाग्रहमिमं कृष्ण प्रेमरीतिं समाश्रय || १४-१८ || इत्यावेदितमाकर्ण्य गोपिकानां यथार्थतः | वचः पीयूषधाराभिस्तासामाह्वादयन्मनः || १४-१९ || उवाच वचनं कृष्णो मधुरस्मितवीक्षणः | धन्यातिधन्या भो गोप्यो यूयं मत्प्राणवल्लभाः || १४-२० || न निवार्याः कदाचिद्वा भवत्प्राणमयेन मे | निषेधो वाग्विलासोत्थो मयि युञ्ज्यो न कर्हिचित् || १४-२१ || जानेऽहं भवतीः प्रेमबद्धा एव मयि स्फुटम् | त्वद्वचः श्रीतुकामत्वान्निषेधोऽयं न वास्तवः || १४-२२ || जिज्ञासूनामसन्दिग्धो रूपितो धर्मनिर्णयः | पतिसेवापरं शास्त्रं मामेव पतिरूपिणम् || १४-२३ || निरूपयत्यलब्धत्वाद् भावनामात्रमन्यतः | भवतीनां पतिस्तस्मादहमेव सनातनः || १४-२४ || इत्युक्त्त्वा मध्यगस्तासां रेमे रामाभिरन्वितः | पृथगालिंग्य ताः सर्वा बिम्बाधरसुधां पपौ || १४-२५ || हासयन् प्रहसन् कृष्णो नानाक्रीडाकुतूहलैः | नीवीराकर्षयन्कासां कासामास्यं पिबन्नपि || १४-२६ || आलिङ्गतीर्विहायान्या अन्यां आलिङ्गयन्नपि | पिबन्नधरपीयूषं कासाञ्चिद्दद्भिरादशत् || १४-२७ || सीत्कृतान्यसृजन् गोप्यः अर्द्धमीलितलोचनाः | एवं रसवशः कृष्णो रेमे तन्मण्डले प्रभुः || १४-२८ || अत्यातुरमिति ज्ञात्वा कृष्णं स्ववशमागतम् | मेनिरे गोपिकाः सर्वाः स भावोऽपि रासात्मकः || १४-२९ || रसः परिणतः सोऽय मानरूपेण निश्चितम् | एषा शृङ्गारमर्ययादा रसशास्त्रनिरूपिता || १४-३० || कारण शृणु तत्रापि यन्न वाच्यं कथञ्चन | अक्षरस्य दिदृक्षाय या पूरणार्थमपेक्षिता || १४-३१ || अन्तर्द्धानं च तत्रापि मानो हेतुतयोद्गतः | अथ मानवतीर्वीक्ष्य तासामेव हृदि प्रभुः | रसरूपो विलीनोभून्मानमुत्सादयन्निव || १४-३२ || अक्षरस्थ मनोवृत्तिरावेशरहिता पुनः | स्थानं प्राप्ता रासलीलावासनावासिता सती || १४-३३ || तया विहितविज्ञानो मण्डलस्थमतर्कयत् | एवं ददर्श भगवान् रासक्रीडामहोदयम् || १४-३४ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे चतुर्दशं पटलम् || १४-१४ || अथ पञ्चदशं पटलम् शिव उवाच अन्तर्भूते परमानन्दे द्विधा च हृदि मण्डले | अदृष्ट्वा निजनाथं तमतप्यन्विरहातुराः || १५-१ || मनस्यानन्दसम्पूर्णे लतावृक्षादिषु स्फुटम् | चैतन्यस्फूर्त्तिरभवत्ततोऽपृच्छंस्तरूंल्लताः || १५-२ || यो नादादुत्तरं तं तं निनिन्दुर्धृतनिश्चयाः | कृष्णावेशात् कृष्णभावं गताः कृष्णोऽहमूचिरे || १५-३ || एवं नानाविधा लीलाः कुर्वन्त्यो विरहातुराः | तामसीशिक्षया सर्वा एकीभूत्वाथ यूयशः || १५-४ || व्रजस्य लीलानुकृतिं चक्रुस्तत्प्राप्तिसाधनम् | पूतनावधमारभ्य यावद्दाम्ना निबन्धनम् || १५-५ || व्रजलीला [ब्रजलीलाविभवतश्चित्तगो इत्यपि पाठः |] विधेर्भावश्चित्तगोभूत्परात्मनः [रासलीलावसाने जलक्रीडानन्तरं श्रीयमुनातटमण्डपस्थसखीमध्यगतः भगवान् स्मृतरासमध्यान्तर्धानेन सखीगणेन अन्तर्हिते भवति मया सम्पूर्णतया व्रजलीला कृतेति यदा विज्ञापितस्तदैव सम्पूर्णव्रजलीलां स्मृतिपथारूढां कृतवानिति सम्प्रसादो नवरङ्गस्वामी किलाज्ञापयति |] | नित्याखण्डा व्रजस्येयं लीला वेदेनुवर्णिताः || १५-६ || पुनरक्षरचित्तवृत्तिराविष्टाविबंभौ ततः | सखीनां मण्डलादेव विस्मितोदारमुखाम्बुजः || १५-७ || तडित्प्रकाशवसनस्तारहारविराजिताः | स्फुरत्कटाक्षमालाभिः सुधाभिरिव शीलयन् || १५-८ || तं दृष्ट्वा विरहाक्रान्ता दुःखमात्यन्तिकं गताः | पुनरानन्दसन्दोहमग्ना एव हि केवलम् || १५-९ || रुदन्तीनां मुखान्यश्रुप्रवाहकलुशान्यपि | स्ववस्त्राञ्चलमादाय करेणामृजदच्युतः || १५-१० || आलिङ्गनानि चुम्बानि नानाभावनिदर्शनम् | चकार भगवांस्ताभी रसलीलामहोदयम् || १५-११ || सखीभिर्विरहे दुःखमनुभूतमभूच्च यत् | तच्चानन्दसुधाम्भोधौ विलापितमभूदहो || १५-१२ || जलक्रीडां ततश्चक्रे यमुनाया जले शुचौ | तीरे स्थित्वा पुनर्गोप्यो विवादांश्चक्रिरे ततः || १५-१३ || समाहिता भगवता परमानन्दसमप्लुताः | इत्येषा रासलीलायाः स्थितिः प्रोक्ता तवानघे || १५-१४ || शिव उवाच अवशिष्टस्य कामस्य सखीनां पूरणाय च | आविश्चकार कालमायां पुनस्तां पुरुषोत्तमः || १५-१५ || अपश्यदक्षरः स्वप्नं कालमायाविजृम्भितम् | प्रातर्नन्दगृहे सुप्तः प्रबुद्धोऽस्मीति निश्चितम् || १५-१६ || सखीश्च ददृशे सर्वा गोपगेहेभ्य उत्थिताः | न मूलावेशतः किञ्चित् कूटस्थस्यैव वासनाः || १५-१७ || उज्जृम्भिता बहुविधा तदद्भुतमिवाभवत् | कुर्मार्ययः श्रुतयश्चापि कालमायाप्रपञ्चगाः || १५-१८ || अत्युग्रविरहावेशादुद्धवस्यापि शिक्षया | कूटस्थान्तर्हृदि स्फूर्जद्व्रजलीलारसोदधौ || १५-१९ || निम्नगा इव तिष्ठन्ति तच्चित्तस्य रसस्पृशः | अथ कंससमदिष्टो ह्यक्रूरो गोकुलं गतः || १५-२० || तेन साकं गते कृष्णे गोपिका विरहातुराः | दुःखेन निन्युर्दिवसान् तत्कथा [तत्कथेल्लापनादिभिरित्यपि पाठः |] ख्यापनादिभिः || १५-२१ || हत्वा कंसं मल्लयुद्धे चाणूरं मुष्टिकं तथा | बद्धकच्छोल्लसद्धूलिधूसरश्चासृगांकितः || १५-२२ || पश्यतां सर्वलोकानां प्राप्तः कारागृहं गृहम् | देवकी वसुदेवश्च यत्रैवासत्रुत्सुकौ || १५-२३ || ववन्दे चरणौ मातुः पितुः प्रणयविह्वलः | बद्धाञ्जलिर्जगादेदं क्षम्यतामिति मां प्रति || १५-२४ || प्रसाद्य पितरं कृष्णो मातरं च विशेषतः | यमुनायां ततः स्नात्वा शुचिदिव्याम्बरं दधौ || १५-२५ || जरासन्धादिकान् हत्वा समुद्वाह्य सुलोचनाः | षोडशैव सहस्राणि शतमष्टोत्तरं तथा || १५-२६ || हत्वासुरभरं पृथव्याः यादवैरुपबृंहितम् | भारं जिहीर्षुर्भगवान् कुले शापमपातयत् || १५-२७ || शापदग्धधियः सर्वे यादवाश्च परस्परम् | विनेशुर्भगवांस्तत्र प्रभासे रहसि स्थितः || १५-२८ || चतुर्भुजः कञ्जपलाशलोचनः पीताम्बरः कौस्तुभशोभिताकृतिः | स्वपाञ्चजन्याम्बजचक्रसद्गदः प्रगल्भसङ्गीतगुणो बभौ हरिः || १५-२९ || व्याधेन शरसंस्पृष्टः पादे मृगविशङ्कितः | वैकुण्ठमगमत्साक्षद्धारिः कमललोचनः || १५-३० || कालामायागृहीताङ्गा मूलसख्यस्तुयाः स्थिताः | ता अपि स्वप्नलीलायां विचित्राकृतयोऽभवन् || १५-३१ || तद्वासनास्तासु लीना भविष्यन्ति यदा प्रिये | बोधमाप्स्यति कूटस्थः प्रलयोऽयं महान् शिवे || १५-३२ || मोहनाशे भविष्यन्ति सर्वे ब्रह्ममया इमे | इत्येतत्ते समाख्यातं यत्पृष्टोऽहं त्वया शिवे || १५-३३ || गुह्याद् गुह्यतरं शास्त्रमिदमुक्त मयाऽनघे | गोपितव्यं प्रयत्नेन जनजीजारगर्भवत् || १५-३४ || इति माहेश्वरतन्त्रे ज्ञानखण्डे शिवोमासंवादे पञ्चदशं पटलम् || १५-१५ || अथ षोडशं पटलम् देवेश भगवन् शम्भो यत्त्वयोक्तमलौकिकम् | तच्छ्रुत्वा हृदयं मेद्य मज्जते विस्मयोदधौ || १६-१ || तत्रोक्तं यत्त्वया देव प्रिया भगवतस्तु याः | कामशेषानुभूत्यर्थमिहासन्निति शङ्कर || १६-२ || अवशिष्टः कथं कामोऽनुभूतस्ताभिरीश्वर | कथं वा लक्षयेयुस्ता लक्षणैरिति तद्वद || १६-३ || मर्त्यलोकं गतानां च कृष्णस्त्रीणां महेश्वर | गुरुभावं गतोऽसि त्वं प्रोक्तवानसि यद्रहः || १६-४ || योगिनो ज्ञानिनो भक्ताः कर्मनिष्ठास्तपोधनाः | तेषां गुरुस्त्वमाद्यो हि तत्तत्तत्त्वोपदेशकः || १६-५ || त्वामनादृत्य ये पापाः प्रवर्त्तन्ते स्वकर्मसु | न तेषां जायते सिद्धिः कोटिकल्पशतैरपि || १६-६ || त्वमेव सर्वधर्माणां कर्त्ता वक्ताभिरक्षिता | त्वद्भक्त्यैव हि संसिद्धिर्नृणां भवति कर्मजा || १६-७ || त्वदुक्त्या बोधमाप्स्यन्ति भूतले भगवत्प्रियाः | मर्त्त्यदेहगतानां तु गुरुभूतोऽसि शङ्कर || १६-८ || तस्मादवश्यमेवैतदुपदेष्टव्यमीश्वर | मययपि कृपया नूनं रहस्यमिदमद्भुतम् || १६-९ || शिव उवाच धन्यासि देवदेवेशि ललित ते परं वचः | श्रुत्वा प्रसन्नहृदयः कथयिष्ये कथां शुभाम् || १६-१० || अहं लोकगुरुः साक्षात् धर्मवक्ता जगत्त्रये | तं मां निन्दन्ति ये मूढास्तेषां सिद्धिः कथं भवेत् || १६-११ || नानादैवतसद्भक्त्या नानाधर्मैर्व्यवस्थिताः | तत्र तत्रोपदेष्टाऽहं तं मां निन्दन्ति पामराः || १६-१२ || किं न कुर्वन्ति ते मूढाः यतो माया महेशितुः | बलीयसी विमोहार्हान् विमोहयति नापरान् || १६-१३ || भविता फलरूपश्च येषां धर्मः सनातनः | ते [बहुधाधुनिका मूढधियः सुखमिति स्वर्गः दुःखमिति नरक इति अभिधायान्यत्र स्वर्गनरकस्थानं पृथक् न मन्यन्ते तदसत् चतुर्दशलोकानां मध्ये इत ऊर्ध्वं तृतीयं स्वः अधः सप्तमः पातालाख्यो लोकस्तत्रैव दक्षिणाशायां निरयाणाः मनकेषां स्थितिरिति सत्यम् |] न निन्दन्ति देवांश्च धर्मान्वेदान्मतानि च || १६-१४ || पाखण्डवादनिरता वेदधर्मविनिन्दकाः | नरकं प्रतिपद्यन्ते न निवर्त्तन्ति कर्हिचित् || १६-१५ || इदमेव लक्षणं देवि मर्त्यलोकगतासु तत् | अक्षरः परमात्मा च स्वभिन्नौ पुरुषावुभौ || १६-१६ || शब्दब्रह्म परब्रह्म ह्येतदप्यद्वयं प्रिये | शब्दब्रह्मोदिता धर्माः कर्मज्ञानादयः प्रिये || १६-१७ || ते सर्वे स्वात्मबोधाय यदि कामविवर्जिताः | धर्माऽनुष्ठातृनिन्दाभिर्धर्मा एव विनिन्दिताः || १६-१८ || तत्र धर्मस्य निन्दाभिः शब्दब्रह्मैव निन्दितम् | तन्निन्दया परब्रह्म अक्षरः स्याद्विगर्हितम् || १६-१९ || गर्हिते ह्यक्षरे देवि गर्हितः पुरुषोत्तमः | स्वभर्त्तुर्निन्दया देवि तत्प्रियाणां कुतो गतिः || १६-२० || न निन्देन्मनसा वाचा धर्मान्वेदपथांन् शिवान् | ब्राह्मणान्कर्मनिष्ठांश्च हविः कामदुघाश्च गाः || १६-२१ || तस्मादित्यादिकं सर्वं मनसा वेद्य तत्वतः | निन्दाद्वेषादिरहितो भजते पुरुषोत्तमम् || १६-२२ || प्रतिविंद्याद् देवदेवेशि कृष्णस्यैव प्रियेति ताम् | सर्वमक्षरसम्भूतं विदित्वानन्यभावतः || १६-२३ || प्रणमेन्मनसा वाचा तमाहुः कृष्णवल्लभा | पातिव्रत्यमिदं देवि तदनन्यविभावनम् || १६-२४ || स एवेदं बभूवाग्रे पश्चादप्येवमेव सः | क एवान्योऽस्ति देवेशि तत्त्वदृष्ट्यावलोकने || १६-२५ || तस्मादिदं पातिव्रत्यं कृष्णस्त्रीणां मयोदितम् | पातिव्रत्यपरिज्ञानं यो न जानाति केवलम् || १६-२६ || न तस्मिन्वासनालेशो निश्चितं सुरवन्दिते | पतिव्रताधर्ममिमं सद्गुरोः शास्त्रतोऽपि वा || १६-२७ || निशम्याप्नोति तन्निष्ठां तमाहुः कृष्णवल्लभा | केचिद्वदन्ति वै मूढाः पातिव्रत्यमितोऽन्यथा || १६-२८ || एक एव पतिः सेव्यो नान्यो मान्यः कदाचन | अन्यस्य सेवया लोके योषित्सा पतिता भवेत् || १६-२९ || पातिव्रत्यमिदं देवि लौकिकं न त्वलौकिकम् | अनीश्वरः परिच्छिन्नः सदोषो लौकिकः पतिः || १६-३० || योषित्सापि तथा लोके पातिव्रत्यमतस्तथा | ईश्वरस्तु विभुः साक्षाद्विश्वात्मा विश्वविग्रहः || १६-३१ || स एव सर्वरूपैश्च नामभिः ख्यातिमागतः | सर्वनामस्वरूपं च ज्ञात्वा ब्रह्म सनातनम् || १६-३२ || दृष्ट्याऽविषमया देवि सर्वत्र परिपश्यति | पातिव्रत्यमिदं भद्रे मयैतत्कथितं शुभम् || १६-३३ || इत्येतन्निर्णयाज्ञानाद्विभ्रमन्ति विमोहिताः | षट् दर्शनानि मेऽङ्गानि पादौ कुक्षी करौ शिरः || १६-३४ || तेषु भेद तु यः कुर्यान् मदङ्गच्छेदको हि सः | एव पतिव्रताधर्मं सम्यक् ज्ञात्वा गुरोर्मुखात् || १६-३५ || पतिं परिचरेद्यस्तु तमाहुः कृष्णवल्लभा | श्रुत्वा कृष्णकथालापं यद्वपुः पुलकाङ्कितम् | आनन्दाश्रुजलं नेत्रे तमाहुः कृष्णवल्लभा || १६-३६ || श्री पार्वत्युवाच कामसङ्कल्परहितं कर्म वर्णाश्रमोचितम् | कस्मात्करोति यस्येच्छा कामसङ्कल्पवर्जिता || १६-३७ || अनुद्दिश्य फलं देव न बालोऽपि प्रवर्तते | ब्रह्मसृष्टि [ब्रह्मसृष्टिवासनेह ह्यत्तमजीवानामुपरि संस्थिता मायामनु भवति |] गतो जीवः कस्माद् व्यर्थं प्रवर्तते || १६-३८ || मोहसृष्टिसमुद्भूताः स्वर्गादिफलमोहिताः | ते कर्मणि प्रवर्त्तन्ते न तच्चित्रं महेश्वर || १६-३९ || कृष्णप्रियाः कृष्णरूपा [कामनाभिरित्यपि पाठः |] वासनाभिः समागताः | कथं ताः कर्मणि व्यर्थे नियोजयसि शङ्कर || १६-४० || शिव उवाच अप्रबुद्धः प्रबुद्धो वा कर्म कुर्यात्सदाहितम् | सकामं निन्दितं कर्म मुमुक्षुं प्रति मानिनी || १६-४१ || क्रियावान् पुरुषः श्रेष्ठो भवाब्धिं तरते सुखम् | क्रियाविरहिता लोके धर्मभ्रष्टा विभान्ति मे || १६-४२ || अश्रद्दधानात् धर्मेषु विद्वांसः कृपया विभो | नोपदेश्यन्ति शास्त्रार्थमुषरे बीजवत्प्रिये || १६-४३ || न च तत्वस्य निर्धारः शास्त्रहीनस्य जायते | तदर्थं निर्णयं शास्त्र त्यक्त्वाऽन्यत् साधनं मुधा || १६-४४ || श्वपुच्छालम्बनं यद्वत्तितीर्षोः सागरं यथा | विना तत्वस्य निर्धारं शङ्कापि न निवर्त्तते || १६-४५ || शङ्कापङ्काङ्कमलिने हृदये नैव सुन्दरि | प्रेमार्कप्रतिबिम्बः स्याद्येन कृष्णः प्रभासते || १६-४६ || तस्माद्वर्णाश्रमाचारभ्रष्टे नरचतुष्पदे | नैव ज्ञानं तथा भक्तिर्यथार्थोदेति निश्चयः || १६-४७ || नित्यं नैमित्तिकं तस्मात्कर्तव्यं तदशङ्कया | काम्यं निषिद्धं यत्कर्म तत्तुदूरात्परित्यजेत् || १६-४८ || नित्यं नैमित्तिकं कर्म फलं बध्नाति न क्वचित् | अननुष्ठानमात्रेण प्रत्यवायस्तु जायते || १६-४९ || अनुष्ठाने फलं नास्ति चित्तशुद्धिं विनेतरत् | काम्यादिकर्मकर्त्तारो देहभाजः पुनः पुनः || १६-५० || तस्मात्काम्यं परित्यज्य नित्यं विद्वान् समाचरेत् | अप्रबुद्धदशायां च प्रबुद्धायामपि प्रिये || १६-५१ || कर्त्तव्यं सहजं कर्म न तान्विघ्नः प्रभूयते | प्रबुद्धस्यापि यत्कर्म तत्र मे निर्णयं शृणु || १६-५२ || वार्त्तामात्रेण विज्ञानं प्रबोधो नैव वास्तवः | साक्षात्प्रबोधे देवेशि देहः सद्यो विलीयते || १६-५३ || तस्माच्छाब्दप्रबोधोऽयं परमार्थो न विद्यते | संसारमोहनाशाय शाब्दबोधो न हि क्षमः || १६-५४ || न निवर्त्तेत तिमिरं कदाचिद्दीपवार्तया | ज्वलितः पतितो देहौ यदा विरहवह्निना || १६-५५ || तदा विद्यादात्मबोधमन्यथा शाब्द एव सः | शाब्दप्रबोधमात्रेण नित्यं नैमित्तिकं त्यजेत् || १६-५६ || प्रत्यवायी स विज्ञेयो नासौ बोधमवाप्नुयात् | यावद्देहाभिमानः स्यान्ममता तावदेव हि || १६-५७ || तावद्देहानुबन्धित्वात्कर्म कर्तव्यमेव हि | शास्त्रोक्तं कर्म कर्त्तव्यं विकर्म विनिवृत्तये || १६-५८ || विकर्मणि प्रवृत्तिस्तु नृणां स्वाभाविकी यतः | विकर्मणः प्रभावेन देहभाजः पुनः पुनः || १६-५९ || नित्यं नैमित्तिकं देवि फलं सङ्कल्पवर्ज्जितम् | चित्तं शोधयते साध्वि ! न तु देहाय जायते || १६-६० || का हानिस्तत्र देवेशि निष्कामाचरणे नृणाम् | इत्येवं निर्णयाज्ञानान्मूढाः पण्डितमानिनः || १६-६१ || त्यजन्तः शोधनं कर्म पापचित्ता भ्रमन्ति वै | सांसारिकसुखासक्तं ब्रह्मज्ञोऽस्मीति वादिनम् || १६-६२ || कर्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा | देहेन्द्रियसुखासक्तो [सुखासक्तमिति मूलपाठः |] ब्रह्मज्ञोऽस्मीति यो वदेत् || १६-६३ || न तं वैज्ञानिनं मन्ये मणिभूषितगर्दभम् | ब्रह्मवादं पुरस्कृत्य वर्णाश्रमनिबन्धनाः || १६-६४ || विलुंपन्तः क्रियाः सर्वाः लोकनाशकरा हि ते | ब्रह्मवादः कलियुगे गेहे गेहे जने जने || १६-६५ || भविष्यति ततः काले धर्मकर्मविलोपनम् | धर्मकर्मविहीनानां पापमेवानुसेवताम् || १६-६६ || तेषामासुरजीवानां नरकं न निवर्त्तते | तस्मादेवं सुनिर्णीय धर्मकर्मपरायणाः || १६-६७ || कृष्णमेवानुसेवन्तस्तान्मन्ये कृष्णवल्लभाः | इति ते कथितं देवि वासनालक्षणं मया || १६-६८ || यज्ज्ञात्वा ह्यचिरादेव स्वात्मबोधः प्रजायते || १६-६९ || इति श्रीपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वती संवादे षोडशं पटलम् || १६-१६ || अथ सप्तदशं पटलम् पार्वत्युवाच भगवन् देवदेवेश निर्णयः साधुसंमतः | कथितोऽयं सदाचारलक्षणः पावनो नृणाम् || १७-१ || धर्मकर्मविहीनानां सदाचारं विमुञ्चताम् | मलीमसानां दुष्टानां ब्रह्मसिद्धिर्न जायते || १७-२ || यथा जह्यात् शनैरम्भः सोपानानि क्रमात् क्रमात् | तथा देहानुसम्बन्धान् शनैर्जह्यात् स पण्डितः || १७-३ || देहाभिमाने गलिते विज्ञाते स्वात्मनि स्वयम् | अश्मकाञ्चनयोस्तुल्यं भावप्राप्तौ समस्थितौ || १७-४ || उदासीनारिमित्रेषु स्वानन्दानुभवोदये | न कर्मभिस्तदा कार्यं सम्राजो भिक्षया यथा || १७-५ || यथामृतेन तृप्तस्य नाहारेण प्रयोजनम् | स्वात्मानन्दोदये तद्वत्कर्माभिनं प्रयोजनम् || १७-६ || तालवृन्तेन किं कार्यं लब्धे मलयमारुते | स्वात्मानन्दोदये जाते कर्मणा किं प्रयोजनम् || १७-७ || पार्वती उवाच साध्वेतद्व्याहृतं देव त्वया भागवता प्रभो | परं वेदितुमिच्छामि सन्देहाकुलमानसा || १७-८ || ब्रह्मवादः कलियुगे गेहे गेहे जने जने | धर्मकर्मविलोपार्थं भविष्यति न संशयः || १७-९ || इति यद्भवता प्रोक्तं तत्र मे संशयो महान् | ब्रह्मवादेन सदृशं पवित्रं नहि किञ्चन || १७-१० || तपो दानं क्रिया योगः स्वाध्यायनियमा यमाः | समाप्यन्ते महेशान ब्रह्मज्ञानोदयादनु || १७-११ || ब्रह्मज्ञानैकनिष्ठानां महादेव महात्मनाम् | सर्वं सम्पूर्णतां याति नित्यं नैमित्तिकं च यत् || १७-१२ || ब्रह्मज्ञानेन मुच्येत यदि चेद्विश्वघातकः | न तस्य कर्मलोपोऽस्ति पद्मस्यैवाम्भसा यथा || १७-१३ || कलिस्तु सुमहान् पापस्तामसात्मा मलीमसः | अधर्मे रमते नित्यं येन स्पृष्टा प्रजा भुवि || १७-१४ || यत्रोदेष्यन्ति पाषण्डा धर्मनिर्नाशहेतवः | वर्णानां सङ्करो यत्र स्वस्वकर्मविलुम्पताम् || १७-१५ || कन्या विक्रयिणश्चैव वेदविक्रयिणो द्विजाः | म्लेच्छाचाररता लोके म्लेच्छभाषाविशारदाः || १७-१६ || म्लेच्छान्नपानपुष्टाङ्गा धर्मकर्मविनिन्दकाः | स्वाहास्वधाविरहिताः शिश्नोदरपरायणाः || १७-१७ || परस्त्रीपरधनलोभाय हेतुवादपरायणाः | कलौ सर्वे भविष्यन्ति सर्वधर्मविवर्जिताः || १७-१८ || ब्रह्मवादः कलियुगे गेहे गेहे जने जने | असम्भाव्यमिवाभाति ममैतत्सुरपूजित || १७-१९ || कलावपि महापापे प्रवृत्तं ब्रह्मकीर्तनम् | तत्कथं धर्मलोपाय लोकानां मेऽत्र विस्मयः || १७-२० || विचार्य ब्रुहि मे देव कृपया करुणानिधे | शिव उवाच साधु पृष्टं त्वया भद्रे सर्वलोकैकहेतवे || १७-२१ || तदहं ते प्रवक्ष्यामि शृणुष्वैकाग्रमानसा | यस्य श्रवणमात्रेण धर्मश्रद्धा प्रजायते || १७-२२ || पुरा द्वादशवार्षिक्यामनावृष्ट्यामनम्भसि | दवाग्न्यर्कविनिर्दग्धवनकन्दादिसम्पदि || १७-२३ || क्षुत्तृट्परीतावै [क्षतृड्भ्यां च परीतापैः इत्यपि पाठः |] काश्चित्प्रजा गिरिगुहाश्रिताः | परस्परं भक्ष्यमाणामम्रिरे व्याधिकर्षिताः || १७-२४ || गौतमस्याश्रमे रम्ये तपतीतीरसंस्थिते | क्षुधार्ता ब्राह्मणाः प्राप्ता देहनिर्वाहकाम्यया || १७-२५ || अलक्षन् गौतममुनिं शिष्यराशिपरिवृतम् | ब्रह्मतेजःप्रभावेन ज्वलन्तमिव पावकम् || १७-२६ || अन्नान्युत्पाद्य तपसा पुष्णन्तं शिष्यसंहतिम् | प्रणेमुर्ब्राह्मणाः सर्वे निबद्धकरसम्पुटाः || १७-२७ || ब्राह्मणा ऊचुः त्राहि त्राहि मुने प्राप्तान् शरण्यान् शरणप्रद | जाठरेणाग्निना तप्ता वयं सर्वे द्विजातयः || १७-२८ || अलभ्यं कन्दमूलादि निर्जले क्षितिमण्डले | न प्रवर्त्तन्त एवेह क्रिया निगमचोदिताः || १७-२९ || अन्नं वै प्राणिनां प्राणाः प्राणदोन्नं ददाति यः | तस्मादन्नप्रदानेन प्राणदो नः पिता भवान् || १७-३० || एकतः सकला धर्मा यज्ञाः सर्वस्वदक्षिणाः | तपांस्युग्राणि दानानि व्रतानि सुबहून्यपि || १७-३१ || न तुलामधिगच्छन्ति ह्यन्नदानस्य वै मुने | क्षुत्पिपासे प्राणधर्मौ क्षुधया कृष्यते वपुः || १७-३२ || वपुःकार्श्ये चेन्द्रियाणि कर्षितानि भवन्ति वै | म्लानेन्द्रियमनोवृत्तेः विवशित्वं प्रपद्यते || १७-३३ || मनोम्लानौ बुद्धिलयस्ततो ध्यानं निवर्तते | अध्यायतः कुतः स्वात्मानुभूतिर्भवति प्रभो || १७-३४ || तस्मादन्नेन सदृशं दानं नास्ति जगत्त्रये | म्लानेन्द्रियमनोवृत्तेः क्षुधया पीडितस्य च || १७-३५ || अन्नाभिकाङ्क्षिणो येन प्राणतृप्तिः कृता मुने | तेन दत्तं हुतं जप्तं तपस्तप्तं शुभं कृतम् || १७-३६ || पृथ्वी रत्नेन सम्पूर्णा तेन दत्ता द्विजातये | तस्यैव ज्ञानससिद्धिर्भवतीति श्रुतं हि नः || १७-३७ || किमन्यज् ज्ञाप्यते तुभ्यं सर्वज्ञाय मुनीश्वर | तथाविधेह्यंग तूर्णं यथा नः प्राणधारणा || १७-३८ || शरीरमूलमन्नं हि धर्ममूलमिदं वपुः | चित्तशुद्धौ विशेषेण धर्म एव हि कारणम् || १७-३९ || भक्तिर्ज्ञानं च वैराग्यं [शुद्धिश्चित्तस्य इत्यपि पाठः |] शुद्धचित्तस्य जायते | सर्वार्थसाधनं तस्माच्छरीरमिदमुच्यते || १७-४० || पुनर्ग्रामं पुनर्वित्तं पुनः क्षेत्रं पुनर्गृहम् | पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः || १७-४१ || शरीररक्षणायासः कर्त्तव्यः सर्वथा बुधैः | नहीच्छन्ति तनुत्यागमपि कुष्टादिरोगिणः || १७-४२ || तद्गोपितं स्याद्धर्मार्थे धर्मो ज्ञानार्थमेव च | ज्ञानं तु ध्यानयोगार्थमचिरात्तेन मुच्यते || १७-४३ || तपः प्रभावमास्थाय पाह्यस्मान् कृपणानिह | इत्येवं वचनं तेषां ब्राह्मणानां तपोधनः || १७-४४ || दीनानां क्षुधयार्त्तानां निशम्य करुणोऽभवत् | गौतम उवाच साधु साधु महाप्राज्ञा न्याययमेतद्वचो हि वः || १७-४५ || धर्मार्थकाममोक्षाणां साधनं देह उच्यते | रक्षितव्यः प्रयत्नेन तस्माद्देहो मुनीश्वराः || १७-४६ || देहत्यागं न चेच्छन्ति ये भक्ता ये च साधकाः | महापापादिभिर्लिप्तः सर्वकर्मविनिर्गतः || १७-४७ || पृथिवीभारभूतो यो देहस्त्याज्यः स एव हि | पितृदेवातिथीनां च कर्मणि यः सुपुण्यकृत् || १७-४८ || ईश्वरध्यानयोग्यश्च स कथं त्यागमर्हति | कर्मणापि निषिद्धेन देहः पोष्य इहा यदि || १७-४९ || दग्ध्वा तानि पुनः सोऽयं नयते हि गतिं पराम् | यावद्देहस्थितिर्लोके तावत्कुशलमाचरेत् || १७-५० || जलबुद्बुदतुल्योऽयं यस्मादेषो विनश्वरः | अस्थिरेण शरीरेण स्थिरधर्मं समाचरेत् || १७-५१ || सर्वं ब्रह्ममयं पश्यन् मुच्यते मोहसङ्कटात् | स चाहं तपसा तस्मात्करिष्ये वः समीहितम् || १७-५२ || विज्वराः सन्तु भो विप्राः स्वस्वकर्मण्यतन्द्रिताः | धन्यस्य कृतपुण्यस्य द्वार्यायान्त्यर्थिनो जनाः || १७-५३ || तेन सम्भावनीयास्ते प्राणैरपि धनैरपि | पञ्चभूतात्मको देहस्वनित्यः क्षणभङ्गुरः || १७-५४ || अवश्यं नाशमायाति कीर्तिधर्मौ न सर्वथा | भूतद्रोहं परित्यज्य दया भूतेषु नो धृता || १७-५५ || नोपार्जितोऽपि सद्धर्मः स्फारितं न यशो भुवि | नात्मा विमर्शितः शुद्धो वेदविद्भिश्च साधुभिः || १७-५६ || भूमिभराय तज्जन्म जीवन्नेव मृतो हि सः | तस्मात्तपोव्ययेनाहमर्थिनां वो मुनीश्वराः || १७-५७ || परिचर्यां करिष्येहं यथा स्याद्देहधारणा | इत्युक्त्वा गौतमस्तान् वै दानमानार्हणादिभिः || १७-५८ || सम्भावयामास तदातिथ्यागमनहर्षितः || १७-५९ || इति श्रीपञ्चरात्रे श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे सप्तदशं पटलम् || १७-१७ || अष्टदशं पटलम् शिव उवाच एवं सम्भावितास्तेन मुनिना मुनयस्तदा | असम्बाधे शिवे तस्मिन्नाश्रमे न्यवसन्सुखम् || १८-१ || [प्रातरुत्थाय इति वा पाठः |] प्रातरुप्तानि मध्याह्ने परिणामं गतानि च | अन्यान्यपरभागे तु तैर्मुनिस्तानजीवयत् || १८-२ || हव्येर्देवान् पितृन्कव्यैस्तर्पयन्तो मुनीश्वराः | ततः शेषामृतभुजो निन्युस्तेऽहर्गणान् बहून् || १८-३ || ततो द्वादशवर्षान्ते वृष्टिरासीत्सुशोभना | साङ्कुरा सजला पृथ्वी पुनरासीद्यथा पुरा || १८-४ || प्रजाः स्थानानानि भेजुस्ताः पूर्वं गिरिगुहाशयाः | अन्नादिविरहान्नष्टो धर्मः प्रावर्तत प्रिये || १८-५ || क्षितिरन्नादिसम्पूर्णा विश्वमासीत्सुमङ्गलम् | ततः कतिपये काले गन्तुकामाः मुनीश्वराः || १८-६ || प्रेमबद्धोऽन्वह विप्रान्न्येषधद्विरहाक्षमः | निषिद्धाः कतिचिन्मासान् न्यवसंस्ते मुनीश्वराः || १८-७ || पुनः पप्रच्छुरौत्सुक्यात्स्वस्वाश्रमगतिं प्रति | नेत्याह गौतमो विप्रान् विरहव्यथितो भृशम् || १८-८ || ततस्ते कृतसङ्केताः केचित्तेष्वपि वाडवाः | ऊचुः परस्परं येन मुनित्यागः कथं भवेत् || १८-९ || मुनिः स्नेहवशाद्बद्धः स्वयमस्मान्न सन्त्यजेत् | अस्माभिस्त्यज्यते सोऽयं तथा कुर्वध्वमादृताः || १८-१० || विमर्षंतस्तथान्योऽन्यमुपायं मनसागमन् | अभिषापं मुनौ धृत्वा गमिष्यामो यथारुचि || १८-११ || ते दैवनिहताः सर्वे परस्परममन्त्रयन् | कदाचिदथ मध्याह्ने कर्तुं मध्याह्निकीं क्रियाम् || १८-१२ || ऋषिसङ्घैः परिवृतो जगाम तपतीं प्रति | निर्मितां मुनिभिर्धेनुं जरठामतिवेपतीम् || १८-१३ || सीदन्तीं कलिले वीक्ष्य गौतमः करुणोऽभवत् | आसाद्य सुरभेः पार्श्वं यावत्तामस्पृशन्मुनिः || १८-१४ || तावत्पपात सहसा मायाधेनुर्मृतिं गता | तद्दृष्ट्वा मुनयः प्रोचुर्धिग्धिक् गौतम ते कृतिम् || १८-१५ || हिंसिता धेनुरबला किमतो निन्दितं भवेत् | अद्य प्रभृति ते द्वारि जलमात्रार्थिभिर्नरैः || १८-१६ || न स्थातुमर्हाः किं कुर्मो गमिष्यामो वयं ततः | एवमुक्तो मुनिर्ध्यात्वा तत्कृतानर्थमाप सः || १८-१७ || उवाच वचनं क्रुद्धो ज्वलन्निव हुताशनः | वेदबाह्या भविष्यध्वं कृतघ्नाः स्वेन कर्मणा || १८-१८ || वेदब्राह्मणगोमन्त्रनिन्दावादपरायणाः | कलौ भविष्यथो मूढाः ब्रह्मवादपरायणाः || १८-१९ || अन्तर्दुष्टा बहिः स्वच्छा हेतुवादपरायणाः | ब्रह्मज्ञत्वाभिमानेन धर्मकर्मबहिर्मुखाः || १८-२० || ब्रह्म सत्यं जगन्मिथ्येत्यनुवादविचक्षणाः | मिथ्यात्वाज्जगतः किं स्यात्कर्मभिश्च शुभाशुभैः || १८-२१ || इत्येवं नास्तिका मूढा दुर्हृदा वेदनिन्दकाः | ब्रह्मवादविलासोत्थैर्वचनैर्भावगर्वितैः || १८-२२ || साधुवेषेण शिक्षाभिः प्रियवाक्यामृतादिभिः | एतैर्जवनिकाकारैः पापमावृत्य केवलम् || १८-२३ || ज्ञानित्त्वमात्मनो लोके ख्यापयन्तो दुराशयाः | यूयं वैडालिनो लोके भवन्तु चरमे युगे || १८-२४ || न तु वो वास्तवं ज्ञानमुदेष्यति कदाचन | इति गौतमशप्तानां धर्मच्छेदोद्यमे ततः || १८-२५ || वासना समभूत्तेषां गौतमं प्रतिकुर्वताम् | अथ तद्वासनायुक्ताः कलौ पापयुगे शठाः || १८-२६ || अवतीर्य क्षितितले [वचनमिदमाकर्ण्यं श्रीपूर्णपुरुषोत्तमसेवामतिक्रम्य वेदप्रतिपादितकर्मकाण्डादि चावलम्ब्य निजधाममार्गों ब्रह्मसृष्टिभिरिह नैव त्याज्यः पतिसेवात्यागेन प्रत्यवायदर्शनात् अतो ब्रह्मसृष्टीनां निजपतिपुरुषोत्तमसेवैव परमो धर्मः |] ब्रह्मसृष्टिमुपाश्रिताः | वेदशास्त्रविरुद्धानि ह्याचरन्तीह पामराः || १८-२७ || द्विषन्त्याचारमास्तिक्यं यज्ञव्रततपांसि च | द्रुह्यन्त्यन्योऽन्यमासाद्य नष्टज्ञाना विचेतसः || १८-२८ || परद्रव्यपरद्रोहपरस्त्रीगमनोत्सुकाः | तत्सम्बन्धात् ब्रह्मसृष्टिर्मालिन्यमुपयास्यति || १८-२९ || यथा कालिमसम्बन्धात् स्फटिकोऽपि मलीमसः | आभाति तद्वदेवेयं ब्रह्मसृष्टिस्तदाश्रयात् || १८-३० || तस्माद् बुभुत्सुभिः साध्वि त्याज्यो वैडालिकाश्रयः | समधर्मक्रियाछद्मधारिणस्ते तु कीर्त्तिताः || १८-३१ || अन्येऽपि सन्ति पाषण्डा आसुरं भावमाश्रिताः | तेऽपि निन्दन्ति पापिष्ठा वेदधर्म पुरातनम् || १८-३२ || तांस्ते व्रवीमि सङ्क्षेपात् शृणुष्वेकाग्रमानसा | यत् शृण्वतां न पाखण्डो बुद्धिं मोहयति क्वचित् || १८-३३ || पुरा देवासुरयुद्धे निर्जितेष्वसुरेष्वथ | पाखण्डाधिकृताः सर्वे ह्येते सृष्टाः स्वयम्भुवा || १८-३४ || तपश्चरत्सु सर्वेषु असुरेषु जयार्थिषु | विष्णुः सुदुस्तरां मायामास्याय सुरनोदितः || १८-३ || मोहयामास योगात्मा तपोविघ्नाय तान्प्रभुः | स मूढान् बुद्धरूपेण तानुवाच महामनाः || १८-३६ || शक्या जेतुं सुराः सर्वे युष्माभिरितिदर्शनैः | बौद्धधर्मं समास्थाय शक्यास्ते बभूविरे || १८-३७ || तानुवाचार्हतो मम यूयं भवत मद्विधाः | ज्ञानेन सहितं धर्मं ते चार्हन्त इति स्मृताः || १८-३८ || बौद्धश्रावकनिर्ग्रन्थाः सिद्धपुत्रास्तथैव च | ऐते सर्वेपि चार्हन्तो विज्ञेया दुष्टचारिणः || १८-३९ || त्रयीक्लेशं समुत्सृज्य जीवतेत्यव्रवीत्तु यान् | जीवकानाम् ते जाताः सर्वधर्मबहिष्कृताः || १८-४० || यान् भूत्वादित्यवद्व्योम्नि धर्मान्वै प्रतिपादयत् | कापिलास्तेपि सम्प्रोक्ताः कपिलो हि दिवाकरः || १८-४१ || चरध्वं तानुवाचेदं मच्छासनमतिद्युति | चरकास्तेपि विज्ञेया अधर्माचारणाः शठाः || १८-४२ || दीर्घचरमिति प्रोक्त सूक्ष्मं वा धर्मरूपकम् | धर्मचरध्वमित्युक्ता यस्मात्ते दीर्घचक्षुषः || १८-४३ || चीराणि चैव नीलानि बिभ्राणाश्चीरकास्ततः | एषश्चोक्षोतिसंशुद्धो धर्मस्तं श्रयतेति यान् || १८-४४ || उवाच मायया विष्णुस्ते हि चौक्षाः प्रकीर्त्तिताः | विट्भक्षाश्चैव ये केचित् कपालकृतभूषणाः || १८-४५ || तथेतरे दुरात्मानः सर्वेप्यासुरदेवताः | बौद्धश्रावकनिर्ग्रन्थाः सिद्धपुत्रास्तथैव च || १८-४६ || नैरात्म्यवादिनः सर्वे अपज्ञानास्तिवादिनः | वर्त्तमानास्त्वधर्मेषु जायन्ते तु पुनः पुनः || १८-४७ || निरय प्राप्य तैरेव कर्मभिर्भावितैः पुनः | वृथा जटी वृथा मुण्डी वृथा नग्नाश्च ये नराः || १८-४८ || एतेऽन्ये च त्रयीबाह्याः पाखण्डाः पापचारिणः | पाशब्देन त्रयीधर्मः पालनाज्जगतः स्मृतः || १८-४९ || तं खण्डयन्ति यस्मात्ते पाखण्डास्तेन हेतुना | यदि ह्मनादरेणैषां न कथ्येता प्रमाणता || १८-५० || अशक्यैवेति मत्वान्ये भवेयुः समदृष्टयः | त्रयीमार्गस्य सिद्धस्य ये ह्यत्यन्तविरोधिनः || १८-५१ || अनिराकृत्य तान् सर्वान् धर्मशुद्धिर्न लभ्यते | पाखण्डिनो विकर्मस्थान् बैडालान् हेतुकांस्तथा || १८-५२ || बकवृत्तांश्च यान् तान्वै वाङ्मात्रेणापि नार्चयेत् | या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः || १८-५३ || सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ते स्मृताः | पुराणानि तथा सांख्यं योगः पाशुपतं तथा || १८-५४ || देशजातिकुलानां च धर्माश्चान्ये महत्तराः | सर्वे वेदाविरोधेन प्रमाणं नान्यथा भवेत् || १८-५५ || या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः | सर्वास्ता निष्फलाः किञ्च प्रत्यवायस्य हेतवः || १८-५६ || तस्मात्सर्वप्रयत्नेन देवि देवेन्द्रवन्दिते | त्यक्त्वा वेदविरुद्धानि वेदमेकं समाश्रयेत् || १८-५७ || पुराणन्यायमीमांसाधर्मशास्त्रांगमिश्रिताः | वेदाः स्थानानि विद्यानां घर्मस्येति चतुर्द्दश || १८-५८ || यथा वेदास्तथा तन्त्रं धर्मनिर्द्धारहेतवे | तदुक्तमाचरन् देवि ! भवपाशाद्विमुच्यते || १८-५९ || अतोऽन्यथा प्रवर्त्तन्ते ये मूढाः पापबुद्धयः | असुरास्तान्विजानीहि विष्णुना मोहिताः पुरा || १८-६० || ब्रह्मवादेषु वाचाला धर्मोच्छेदैकतत्पराः | तेषां मुखावलोकेन कुर्यात्सूर्यांवलोकनम् || १८-६१ || तस्य संस्पर्शमात्रेण सवासा जलमाविशेत् | कलौ ते घोषयिष्यन्ति ब्रह्मवादं जने जने || १८-६२ || इति मे कथितं देवि यत्त्वया पृष्टमुत्तमम् | समासेन महादेवि किं भूयः श्रोतुमिच्छसि || १८-६३ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे अष्टादशं पटलम् || १८-१८ || अथ एकोनविंशं पटलम् | शिव उवाच अथेदानीं शृणु शिवे प्रियाणां कामनिर्णयम् | यस्य श्रवणमात्रेण वैराग्यं देहगेहयोः || १९-१ || मनोरथश्च यश्चासीत् प्रियाणां दुःखदर्शने | रासे प्रदर्शिते प्रायो ह्यसम्पूर्णेविशेषितः || १९-२ || तद्भोगार्थं पुनः सर्वाः प्रियास्ता रासविच्युताः | कालमायामयं देवि ब्रह्माण्डं विविशुः सह || १९-३ || संभूता भारते वर्षे नैकत्र स्थितयोऽभवन् | मोहावेशवशाद् देवि ! दुस्तरादीशनिर्मितात् || १९-४ || विच्युतात्मानुसन्धाना बभूवुर्भगवत्प्रियाः | यथा स्वप्ने जनः कश्चिन्निद्रात्याजितसंस्मृतिः || १९-५ || स्वप्नलब्धगजाकार आत्मानं मनुते गजम् | मोहलब्धाकृतिस्तद्वल्लब्ध्वा तादात्म्यभावतः || १९-६ || उच्चावचासु योओनीषु विभ्रमन्ति विचित्रधा | तत्र देहाभिमानोत्त्थकर्मसंसर्गदूषिताः || १९-७ || कर्मबन्धस्ततो जातो यथा स्यादुत्तरोत्तरम् | श्वकाकोलूकमार्जार खरगृध्रादि योनिषु || १९-८ || भ्रान्त्वा भ्रान्त्वा मनुष्येषु भूत्वा भूत्वा पुनः पुनः | जायन्ते च म्रियन्ते च तेषामन्तो न विद्यते || १९-९ || जन्मदुःख जराःदुख बाल्ये यद्दुःखमुल्बणम् | देहत्यागनिमित्तं च दुःखमाप्ताः पुनः पुनः || १९-१० || क्वचिद्धर्मः क्वचिच्छोको रागद्वेषादिकं क्वचित् | क्वचिद्बन्धः क्वचिन्मोक्षो राजसन्ताडनं क्वचित् || १९-११ || अन्नादिकाङ्क्षया क्वापि दरिद्रेणापि विद्रुताः | म्लानेन्द्रियमुखाकारा दैन्यभावं समागताः || १९-१२ || पुत्रमित्रकलत्रादिनाशोत्थं दुःखमद्भुतम् | प्राप्य हाहेति हाहेति परितापान् जुषन्ति ताः || १९-१३ || बृहत्सेनस्य राजर्षेर्यथा राज्ञी पतिव्रता | अधौतपादा चोच्छिष्टा सुष्वाप विधिमोहिता || १९-१४ || यक्षः कश्चिन्निशाचारी प्रसुप्तामहरच्च ताम् | समुद्रद्वीपमानीय यक्षमायामयं महत् || १९-१५ || ददर्श नगरं दिव्यं दिव्याट्टालकगोपुरम् | यक्षस्तिरोदधे तस्यां तदावेशविमोहिता || १९-१६ || सैका बभ्राम नगरे गृहे गृहे विचेतना | यत्र यत्र गता सा तु जनैस्तत्र बिभीषिता || १९-१७ || तमिश्रायां तमोमययां भ्रमन्ती भ्रान्तमानसा | हृतवस्त्राम्बरा क्वापि प्रसह्य परिपन्थिभिः || १९-१८ || मुक्तकेशा वस्त्रहीना धूलिधूसरविग्रहा | पिशाचिनीव नगरे बभ्रामैका दिवानिशम् || १९-१९ || रुदन्ती करुणा दीना ताड्यमाना जनैर्मुहुः | क्षुत्तृड्व्याकुलचित्ता सा वल्गन्तीव जनाज्जनम् || १९-२० || महाजनैश्च विपिने नगरात्तु विवासिता | व्याघ्रसिंहध्वनिं श्रुत्वा भीषणं त्रस्तमानसा || १९-२१ || दृष्ट्वा तांस्तु पुनः साध्वी वृक्षखण्डेष्वेवलीयत | वृक्षकोटरगैः सर्पैदंशिता विवशाभवत् || १९-२२ || अशेत भूमिशयने विषव्याघूर्णमानसा | भूविलोत्थैर्वृश्चिकाद्यैः सन्दष्टा सर्वसन्धिषु || १९-२३ || एवं नानाविधांस्तापान् प्राप्ता नृपसुन्दरी | कर्कराकण्टकैर्विद्धपादाम्भोजा महावने || १९-२४ || का त्वं कस्यासि वामोरु ! पृष्टा सप्तर्षिभिस्तु सा | नाहं विदामि चात्मानं न तातं मातरं पतिं || १९-२५ || दुःखातिदुःखपाथोघौ मग्नास्मीत्यभ्यभाषत | भृशं नागरिकैर्दुष्टैः पीडिता भर्त्सिता पुनः || १९-२६ || तस्करैर्वस्त्रभूषादि दुष्टैरपहृतं हि मे | क्षुत्तृट्परीता पापिष्ठैर्नगराच्च विवासिता || १९-२७ || याता महावनं भ्रान्ता व्याघ्रसिंहभयाकुला | भुजङ्गवृश्चिकैः क्रूरैर्विषव्यापादितान्तरा || १९-२८ || भ्रमाम्यहं दिवारात्रौ न जाने विदिशं दिशम् | अतः कुरुध्वं साहाययमनाथायाः कृपालवः || १९-२९ || एवमुक्तं तया साध्व्या कृपया पीडिता भृशम् | कमण्डलुजलेनौक्षन् यक्षोघ्रेन मुनीश्वराः || १९-३० || लीनायां लक्षमायायां आत्मानं समपद्यत | सस्मार मातरं तातं बृहत्सेनं पतिं तथा || १९-३१ || व्रीडिताधोमुखी बाला मुनीन्द्रान् प्रत्यभाषत | सूर्यवंशप्रसूतस्य बृहत्सेनस्य धीमतः || १९-३२ || प्रियास्म्यहं विप्रदेवा उच्छिष्टा शयनं गता | केनचिज्जलधेस्तीरमानीता भयविह्वला || १९-३३ || तत्रैकं नगरं दिव्यं मया दृष्टं महाद्भुतम् | तत्रैकला विभ्रमन्त्री लोकपीडासहानिशम् || १९-३४ || ततो निष्कासिता पौरैः प्राप्तेदं विपिनं महत् | अस्तंगतात्मविज्ञाना भ्रान्ता दुःखमयेऽध्वनि || १९-३५ || भवद्भिर्नष्टमज्ञानं तमः सूर्यांशुभिर्यथा | नष्टं लब्धमिवात्मानं मेने भवदनुग्रहात् || १९-३६ || सवस्त्रभूषणाकल्पं देहं चैव यथा पुरा | पश्यामि शयनोद्बुद्धा यथा स्वप्ने लयं गते || १९-३७ || भवत्प्रसादाद् दुःखाब्धिमुत्तीर्णा भगवत्तमाः | इत्युक्त्वा मुनिपादाब्जं प्रणताभूत्पुनः पुनः || १९-३८ || ततः प्रोचुर्मुनिवराः सान्त्वयन्तश्च तां सतीम् | भयं मा कुरु कल्याणि पातिव्रत्यपरायणे || १९-३९ || अज्ञानप्रभवं विश्वं वस्तुतो नास्ति किञ्चन | यावदज्ञानमात्मस्थं तावद्दर्शयते भयम् || १९-४० || मिथ्या स्वप्नोऽपि राजर्षिप्रिये ! भयकरो यथा | तथा मिथ्यापि संसारो भयकृत्तादृशा जुषाम् || १९-४१ || अज्ञातैव यथा रज्जुः सर्पभूता भयप्रदा | अविद्यासबलब्रह्मविवर्त्तोऽयं प्रपञ्चकः || १९-४२ || तदंशभूतजीवानामविज्ञातो भयङ्करः | स्वात्मत्वेन तु विज्ञातो भयं नोद्वहते पुनः || १९-४३ || आत्मा शुद्धोऽव्ययः सूक्ष्मो व्यापी नित्यो निरञ्जनः | स्वमायावरणाच्छन्नः स्वस्मिन् स्वप्नं प्रपश्यति || १९-४४ || यथा तदुद्भवैश्छन्नं शैवालैः सलिलं भवेत् | स्वमायया तथा छन्न अक्षरं ब्रह्मकेवलम् || १९-४५ || मायावृतं परं ब्रह्म स्वप्नसाक्षितया पुनः | स्वाप्नमण्डं प्रविश्याशु धत्तं नारायणाभिधाम् || १९-४६ || तस्य नाभेरभूत्पद्मं तत्र जातश्चतुर्मुखः | प्रवरो वेदविदुषां बीजं संसारभूरुहः || १९-४७ || तत्र जाता वयं सर्वे स्वाप्निका एव भामिनि | भ्रमामः कर्मभिर्नुंन्नाः स्वप्नमायामये पथि || १९-४८ || त्वयानुभूतमेतद्धि यथेदं यक्षमायिकम् | तस्यापसरणे साध्वि स्वात्मालब्धो यथा पुरा || १९-४९ || जीवाः सर्वे वयं तद्वद् ब्रह्माभासमया अपि | मायाकार्यांशविलये भविष्यामोऽक्षरात्मकाः || १९-५० || मायाकार्ये विद्यमाने दुःखशोको भयं शुचः | धर्माधर्मौ पुण्यपापे सत्यमित्येव गम्यते || १९-५१ || तस्मादवास्तवं दुःखं विज्ञाय हृदये दृढम् | वीतशोका वीतभया भव भामिनि नित्यदा || १९-५२ || इत्युक्त्वा तां मुनिश्रेष्ठा योगमायाबलेन च | निमिषेण गृहं निन्युर्घटिकांतरितं प्रिये || १९-५३ || प्रिया राज्ञोऽपि तद्वृत्तं विचार्य च पुनः पुनः | महाकुतूहलाक्रान्ता राज्ञे सर्वं न्यवेदयत् || १९-५४ || एवं ता देवदेवेशि प्रिया भगवतो हि ताः | भ्रान्तात्मरूपविज्ञाना मायास्वप्ने परात्मनः [परात्मना इत्यपि पाठः |] || १९-५५ || नानायोनिषु देवेशि ससरन्ति पुनः पुनः | भ्रान्तात्मानश्च्युतानन्दाः संसारेप्यसति प्रिये || १९-५६ || निजधाम्नि महानन्दे दुःखाभासो न विद्यते | न दुःखानुभवश्चापि तत्रत्यानां कदाचन || १९-५७ || न कार्पण्यं न दुःखं च नोद्वेगो नारतिः क्वचित् | तत्प्रियाप्रार्थितं मत्वा निर्बन्धेन गिरीन्द्रजे || १९-५८ || कूटस्थस्वप्नसम्बन्धमनो भावान् [बावः इत्यपि पाठः |] प्रचक्रिरे | असन्नपि महेशानि स्वप्नोऽयं दुःखदो महान् || १९-५९ || स्ववासनाकामशेषो ह्यधुनापि निषेव्यते || १९-६० || इति श्रीपञ्चरात्रे श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे एकोनविंशं पटलम् || १९-१९ || अथ विंशं पटलम् पार्वत्युवाच अहो देव महादेव परात्मन् परमेश्वर | त्वदुक्तमेतदाश्रुत्य मनो मे क्षुभ्यतेतराम् || २०-१ || निरीहस्यापि देवस्य कूटस्थपरमात्मनः | दिदृक्षा यत्समुत्पन्ना रहःक्रीडावलोकने || २०-२ || नित्यानन्दविहाराणां प्रियाणां परमात्मनः | दिदृक्षा यत्समुत्पन्ना केवलं दुःखदर्शने || २०-३ || इत्येतन्महदाश्चर्यं प्रतिभाति महेश्वर | तन्निराकुरु देवेश मनः शल्यं महार्तिकृत् || २०-४ || पूर्णस्यैवाप्तकामस्य किन्तु क्रीडावलोकनैः | तदङ्गभूतास्तत्तुल्याः प्रियास्तु परमात्मनः || २०-५ || दुःखकामः कथं तासु केवलानन्दमूर्त्तिषु | न दुःखदर्शने कश्चिन्मूर्खो वा रमते क्वचित् || २०-६ || एतदाचक्ष्व भगवन् कृपां कृत्वा ममोपरि | शिव उवाच शृणु देवि प्रवक्ष्यामि रहस्यं परमाद्भुतम् || २०-७ || वेदागमपुराणेषु यत्तु गुप्ततरं प्रिये ! | अद्यप्रभृति कस्यापि नोक्तवानहमद्रिजे || २०-८ || तव स्नेहवशाद् देवि ! प्रवक्ष्यामि न चान्यथा | त्वयापि गोपितव्यं हि स्कन्दाच्च गणपादपि || २०-९ || प्रकाशितं हरेद्धर्मं यशोलक्ष्मीसुखानि च | वेदशास्त्रपुराणानि सामान्यगणिका इव || २०-१० || इयं विद्या महाविद्या गोप्या कुलवधूरिव | सुगुप्तेयं महाविद्या ज्ञानसिद्धिकरी नृणाम् || २०-११ || यथा प्रकाशितं द्रव्यं तस्करेभ्योपगच्छति | तथा प्रकाशिता विद्या पशुभ्य उपगच्छति || २०-१२ || गोपितव्या ततो यत्नाद्विद्येयं ब्रह्मदर्शिनी | मन्त्रौषधक्रियाधर्माः गुप्ता एव फलन्ति हि || २०-१३ || आवाच्यमपि ते वच्मि शृणुष्वैकाग्रमानसा | गणनाविषयानन्दो वर्त्तते केवलेऽक्षरे || २०-१४ || सप्तद्वीपवतीं पृथ्वीं यः शास्ता व्याहतेन्द्रियः | निरामयो निःसपत्नो युवा राजेन्द्रवन्दितः || २०-१५ || तदानन्दो हि देवेशि ! मनुष्यानन्द ईरितः | मनुष्यानन्दशतकं गन्धर्वानन्द उच्यते || २०-१६ || गन्धर्वानन्दशतकं पित्रानन्द उदीरितः | पित्रानन्दशतेनैको ह्युपदेवस्य चोच्यते || २०-१७ || उपदेवानन्दशतं देवानन्द उदीर्यते | देवानन्दशतं देवि ! वैरंच्यानन्द उच्यते || २०-१८ || वैरंच्यानन्दशतकमानन्दो वैष्णवः स्मृतः | वैष्णवानन्दशतकं रुद्रानन्दस्तु उच्यते || २०-१९ || रुद्रानन्दशतेनोक्तः ईशानन्दपरो महान् | ईशानन्दशतेनोक्त [ईश्वरानन्दसंज्ञकः इत्यपि पाठभेदः |] शैवानन्दस्तु केवलः || २०-२० || तच्छतेन भवेद् देवि ! प्रकृत्यानन्द उत्तमः | प्रकृत्यानन्दशतकं पुरुषानन्द उच्यते || २०-२१ || पुरुषानन्दशतकं अक्षरानन्द उच्यते | अक्षरं परमं ब्रह्म ब्रह्मानन्दस्ततः स्मृतः || २०-२२ || ब्रह्मानन्दमयं विश्वं नानाभावो न विद्यते | मायोपाधिसमायोगान्नानात्वेन प्रतीयते || २०-२३ || तत्प्रतीतिनिरासे तु पर ब्रह्मैव शिष्यते | तन्माया प्रकृतिर्देवि नित्या तत्सहधर्मिणी || २०-२४ || शुद्धसत्वप्रधाना हि निर्मला ज्ञानरूपिणी | तत्र यः प्रतिबिम्बोऽभूदक्षरस्य परात्मनः || २०-२५ || तमाहुः पुरुषं देवि ! श्रुतिसिद्धान्तवादिनः | स एव कालरूपेण प्रकृतिक्षोभकारकः || २०-२६ || तस्मान्नारायणो जज्ञे स एव प्रणवाभिधः | हिरण्यगर्भमपि तं प्रवदन्ति मनीषिणः || २०-२७ || शब्दब्रह्ममय प्राहुस्तमेवागमवेदिनः | तस्माद्वेदाः प्रवर्त्तन्ते शब्दब्रह्मात्मना प्रिये || २०-२८ || आदौ शब्दात्मकं विश्वं ततश्चार्थमयं भवेत् | शब्दः प्रकृतिरूपश्च अर्थः स्यात्पुरुषात्मकः || २०-२९ || उभयात्मकः प्रपञ्चोऽयं तस्मात्स्त्रीपुंस्वरूपधृक् | त्वमहं च तथा विष्णुर्लक्ष्मीर्ब्रह्मा सरस्वती || २०-३० || सूर्यः सञ्ज्ञानलः स्वाहा पुरूहूतः पुलोमजा | अम्भोनिधिश्च मर्यादा वृक्षः पल्लविनी लता || २०-३१ || महद्वाल्पतरं वापि तत्सर्वमुभयात्मकम् | अक्षरे शाश्वतावेतौ प्रकृतिः पुरुषस्तथा || २०-३२ || जाग्रत्स्वप्नविभेदेन प्रपञ्चपरिणामिनौ | नित्यत्वमुभयोर्देवि विवदन्तेऽत्र वादिनः || २०-३३ || नित्यः प्रपञ्च एवेति ह्यनित्य इति केचन | अहङ्कारवशाद्देवि वादिनो मूढबुद्धयः || २०-३४ || नित्यानित्यं न जानन्ति स्वपक्षाग्रहदोषतः [स्वमताग्रहदोषतः इत्यपि पाठः |] | नित्यत्वात्कारणस्यापि प्रवाहे नित्यतास्तु वा || २०-३५ || श्रौतत्वाज्जन्यनाशस्य ह्यनित्यत्वेऽपि का क्षतिः | द्वैताद्वैते तथा देवि विवदन्ते कुबुद्धयः || २०-३६ || ईश्वराज्जीवपार्थक्यमिति तत्त्वविदो विदुः | ब्रह्मैवाज्ञानवशतो जीवस्तत्प्रतिगीयते || २०-३७ || न जीवं परमार्थेन विदुरद्वैतवादिनः | न विरुद्धमिदं देवि ! ह्यज्ञानावधिभेदतः || २०-३८ || ज्ञानेनाज्ञाननाशे तु लब्धेनेश्वरतुष्टितः | जाग्रत्स्वप्नस्य विलये स्वप्नसाक्षीव सुन्दरि ! || २०-३९ || एकमेवावशिष्येत नित्यं ब्रह्मैव केवलम् | अद्वैतवादिनो ह्येवं श्रुतिमात्रावलम्बिनः || २०-४० || एकमेव परं ब्रह्म नाना नास्तीह किञ्चन | मृदेव सत्यमित्येवं नामरूपे विकारवत् || २०-४१ || इत्यद्वैतं श्रुतिशतैरुद्धोषितमनेकधा | द्वैतवादरताश्चापि द्वासुपर्णावितीरणात् || २०-४२ || द्वैतमेव प्रशंसन्ति ह्यभेदो भजनात्मकः | अद्वैतभूमिकाधस्तात्सोपानास्थास्तु ते प्रिये || २०-४३ || तेषां नारायणः साक्षात्परब्रह्म श्रुतीरणात् | ब्रह्माभासमया जीवाः क्षुद्रोपाधिगुणाश्रिताः || २०-४४ || अस्वतन्त्राः पराधीना नित्या इत्यपि चक्षते | अव्याहतं च नित्यत्वं भ्रान्तिमूलमपि प्रिये || २०-४५ || निद्रोपलब्धभावानां निद्रा तावत्स्थितिः स्थिरा | इति यत् शास्त्रहृदयमज्ञात्वा विवदन्ति ये || २०-४६ || द्वैताद्वैतविचारेऽस्मिन्न ते तत्त्वमवाप्नुयुः | तस्मात्सर्वप्रयत्नेन सर्वशास्त्रैकनिश्चयम् || २०-४७ || ज्ञात्वा भजन्ति देवेशि ! निःसन्देहः फलात्मकः | वाक्यभेदाननादृत्य बुद्धिक्लेशादहङ्कृतेः || २०-४८ || ये प्रवर्तन्त एवैते सशल्याः फलविच्युताः | एकमेवाद्वयं ब्रह्म द्विधा लीलाविभेदतः || २०-४९ || प्रवृत्तिश्च निवृत्तिश्च लीलाभेदे व्यवस्थिता | निवृत्तिः सुखसञ्ज्ञा हि सुखमानन्दरूपकम् || २०-५० || प्रसङ्गात् प्रकृतेर्देवि प्रवृत्तिर्बहुरूपिणी | अजानतां वरारोहे ! दुःखरूपतया स्थिता || २०-५१ || अक्षरस्य तु सा प्रोक्ता लीलान्यातीतधर्मिणी | प्रवृत्तिलीलालेशोऽपि नैवातीते परात्मनि || २०-५२ || आग्रहमात्रो देवेशि ! नित्यानन्दमहोदधेः | लेश एव सदा तिष्ठेत्सकामो नित्यरूपधृक् || २०-५३ || कामरूपी सदानन्दः कामांशो लेश उच्यते | तस्मादेवाक्षरे देवि ! नित्यकामो हि दर्शने || २०-५४ || तस्मादेवाक्षरे जाता दिदृक्षा या तु पार्वति | न चैककर्तृका सा तु परापरमयी हि सा || २०-५५ || अक्षरे ज्ञानतन्मात्रे स्वत इच्छा न जायते | न प्रवर्तयते साक्षात्पूर्णात्मा पुरुषोत्तमः || २०-५६ || सामरस्यमयीं प्राहुस्तस्मादागमवेदिनः | आनन्दगा सामरस्यात् स्वपक्षविषयग्रहा || २०-५७ || साङ्गिनं तु परित्यज्य भृशमङ्गेष्वसर्पत | स्वामिनीषु ततो जाता दिदृक्षा दुःखदर्शने || २०-५८ || उभयव्यापिनी सा तु सर्वकारणकारणा [सर्वकारणकारणं इत्यपि पाठः |] | ततः कार्यप्रवृत्तिस्तु हेतोर्गुणनिबन्धिनी || २०-५९ || स्त्रीपुंभावात्मिका जाता ब्रह्मादिस्तम्बभेदतः | इच्छया ससृजे निद्रा सापि जातोभयात्मिका || २०-६० || ज्ञानात्मिका स्वतः शुद्धा बहिर्वृत्तिविवर्जिता | निद्रया सृजते मोहश्चेतनाचेतनो हि सः || २०-६१ || सचैतन्यस्य कार्यस्य हेतुर्यच्चेतनात्मकः | स एव जडहेतुश्च यस्मादयमचेतनः || २०-६२ || विद्याविद्ये स एवोक्त शृणु तत्रापि कारणम् | चिदचिद्ग्रन्थिको ह्येषश्चिदाकारेण केवलम् || २०-६३ || यदा परिणमेद् देवि ! यदा विद्येति तां विदुः | यदा चैतन्यमावृत्य केवलं मोहरूपधृक् || २०-६४ || जीवबुद्धिं समावृण्वन् अविद्येति च गीयते | तमः कालुष्यमुत्सृज्य शुद्धसत्वप्रधानिका || २०-६५ || जीवबुद्धेर्भेदकरी मायेति कथिता प्रिये | सात्विकांशं परित्यज्य केवलं चित्स्वरूपिणी || २०-६६ || अपरोक्षकरी विद्या ब्रह्मविद्येति तां विदुः | तस्माद्विधा त्रिधा प्रोक्ता मया ते वरवर्णिनि ! || २०-६७ || ततो गुणास्त्रयो जातास्तेऽपि तादृग्विधा शिवे ! | सत्वं तु चेतनं विद्धि तमो विद्यादचेतनम् || २०-६८ || रजस्तदुभयात्मत्वाच्चेतनाचेतनात्मकम् | भूतानि पञ्च जातानि तानि तादृग्विधान्यपि || २०-६९ || अधिष्ठेयान्यधिष्ठातृतया द्वैविध्यवन्ति च | ब्रह्माण्डमभवत्तेभ्यस्तदेवोभयरूपधृक् || २०-७० || एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वया शिवे ! | समासेन महेशानि ! किं भूयः श्रोतुमिच्छसि || २०-७१ || इति श्रीपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वती संवादे विंशं पटलम् || २०-२० || अथ एकविंशं पटलम् शिव उवाच अतोऽन्यत् शृणु देवेशि ! रहस्यं किञ्चिदुत्तमम् | गोपनीयं प्रयत्नेन यस्मै कस्मै न दर्शयेत् || २१-१ || परीक्षिताय वक्तव्यं ताडनैस्तर्जनादिभिः | ऋते पात्रमिदं ज्ञानं न तिष्ठति कदाचन || २१-२ || अविर्भूताक्षरे शक्तिरिच्छा नाम सुमङ्गला | अङ्गान्यावृत्य सत्प्रेमविरहौत्कण्ठ्यदर्शने || २१-३ || रतिमुत्पादयामास ततः सा पुरुषोत्तमम् | प्रार्थयामासुरौत्सुक्यात्स्वामिन्या सह सङ्गता || २१-४ || निवारिता बहुविधैर्वाक्यैरिच्छाविमोहिताः | न मेनिरे प्रियाः सर्वा प्रार्थयामासुरन्वहम् || २१-५ || प्रार्थना स्वीकृतास्तासामतीतेनाक्षराद्यदा | तदा सा पुनरासाद्य निद्रा चित्यन्वधात्प्रिये || २१-६ || चिदात्मा पुरुषः साक्षान्मोहमययैव निद्रया | घूर्णितोशेत सन्मंचे पञ्चब्रह्ममये शुभे || २१-७ || यदैव निद्रया घूर्णो विस्मृतात्माऽभवत् प्रिये | हृदयाब्जकर्णिकामध्ये विहरेतापरा हि सा || २१-८ || व्यचिनोत्पञ्चधा देवि ! स्वरूपमपि चात्मना | उद्गारिणी पालिका च तथा संहारिकापि च || २१-९ || विशाला व्यापिका चेति शक्तयः पञ्च कीर्तिताः || २१-१० || रजः प्रधानहारिणी पालिनी सात्विकी मता | तमःप्रधाना संहर्त्री शुद्धसत्वा विशालिका || २१-११ || निर्गुणा व्यापिका शक्तिरिच्छा पञ्चविधोदिता | एता एवोदिता देवि ! जाग्रति प्राकृतास्तथा || २१-१२ || इच्छामययस्तु शयने तस्मान्मञ्चो निरामयः | उद्गारिणीपालिकयोः स्कन्धयोस्तत्पदद्वयम् || २१-१३ || विशालाहारिणीकण्ठदेशे पाणिद्वयं स्थितम् | व्यापिका मञ्चफलकीभूताधारतया स्थिता || २१-१४ || पञ्चसु प्रतिबिम्बोऽभूदक्षरस्य चिदात्मनः | बिम्बितं यत्तु चैतन्यं तस्मिन्नुद्गारिणी हि सा || २१-१५ || दर्शयामास वेदास्याद्युपाधिमतिविस्तृतम् | बिम्बितं यत्तु चैतन्यं तस्मिन् या पालिनी शिवे || २१-१६ || अदर्शयच्चतुर्भुजाद्युपाधिमतिविस्तृतम् | बिम्बितं यत्तु चैतन्य तस्मिन् संहारिणी तु या || २१-१७ || अदर्शयन्त्रिनेत्राद्युपाधिमतीव सुन्दरि ! | बिम्बितं यत्तु चैतन्यं तस्मिन् या तु विशालिका || २१-१८ || अष्टबाह्वाद्युपाधिं च दर्शयामास केवलम् | बिम्बितं यत्तु चैतन्यं तस्मिन् या व्यापिका मता || २१-१९ || दशबाहुं च पञ्चास्याद्युपाधिमसृजत्प्रिये | ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || २१-२० || पञ्चपादत्वमापन्ना नित्यमुद्वहते परम् | सृष्टिं स्थितिं च संहारं तिरोधानमनुग्रहम् || २१-२१ || नित्यमेव प्रकुर्वन्ति भूताधिष्ठातृरूपिणः | सृष्ट्यादित्रयसिद्ध्यर्थं त्रयाणां बुभुजेंशतः [बुभुवे इत्यपि पाठः |] || २१-२२ || तिरोधानानुग्रहौ तु मञ्चपादस्थयोर्विदुः | पेञ्चशक्तिप्रभेदेन परेच्छैव सुमङ्गला || २१-२३ || ब्रह्मविष्ण्वादिरूपाणि धत्ते नानास्वरूपिणी | अक्षरस्य तु रूपे द्वे पुरुषाक्षरभेदतः || २१-२४ || नारायणस्तु पुरुषाज्जज्ञे स्वप्नेक्षिता स्वयम् | नादबिन्दू शिवः शक्तिर्जातौ नारायणात्प्रिये || २१-२५ || नादबिन्दुमयत्वेन त्रिधा नारायणः स्थितः | सङ्कर्षणो वासुदेवः प्रद्युम्नः अनिरुद्धकः || २१-२६ || चतुर्धा विष्णुरेवोक्तो ह्यंशभेदा ह्यनेकशः | एकादश विभेदात्मा रुद्रोऽहमहमीश्वरि || २१-२७ || मदात्मभेदाः शतशः कोटिशः सन्ति सुन्दरि | सदाशिवेश्वरावेतौ आत्मभेदाविवर्ज्जितौ || २१-२८ || वेदप्रणवभेदेन द्विधा नारायणोदभूत् | नाद एव महेशानि बहु स्यामित्यवेक्षणात् || २१-२९ || न भेदो विद्यते बिन्दौ अखण्डात्मनि सुन्दरि | महत्तत्वमिदं भद्रे मनो नारायणस्य तत् || २१-३० || मनसस्तु बहु स्यामित्यमन्यत यदा हि सः | अहङ्कारस्ततो जज्ञे प्रसृतो बिन्दुतां ययौ || २१-३१ || बिन्दुः शून्यात्मको ज्ञेयस्तस्माद्विश्वं निरर्थकम् | व्याप्तोऽहङ्कार एवायं ब्रह्माभासे दृश्यते || २१-३२ || ब्रह्माभासो निर्विकारो निष्प्रपञ्चो निरञ्जनः | न करोति न लिप्येत प्रदीप इव भासकः || २१-३३ || अहङ्कारस्य कर्तृत्त्वं भोक्तृत्वमपि सुन्दरि | धर्माधर्मौ पुण्यपापे बन्धमोक्षादिकं तथा || २१-३४ || अहङ्कारेण भिद्येत नानाभेदव्यवस्थया | अहङ्कारेण तादात्म्यादाभासेऽपीक्षते स्फुटम् || २१-३५ || अहङ्कारमयो ग्रन्थिर्यावन्नैव विभिद्यते | अविद्यमानः संसारः तथाप्येनं न मुञ्चति || २१-३६ || स्फटिकस्यैव रागित्वं जपाकुसुमयोगजम् | नापगच्छति तद्देवि कुसुमापहृतिं विना || २१-३७ || तथा संसरणं जीवे ह्यहङ्कारच्युतिं विना | निवर्तते न देवेशि कल्पकोटियुतायुतैः || २१-३८ || सोऽहङ्कारस्त्रिधा प्रोक्तो गुणभेदेन पार्वति | अहङ्कारोऽयमेवाहं तथा जीवगतो द्विधा || २१-३९ || महत्तत्वं त्रिधा प्रोक्तं आध्यात्मादिप्रभेदतः | नारायणमनोरूपमाधिदैविकमुच्यते || २१-४० || जीवानां चित्तरूपं यदध्यात्म्यमिति चक्ष्यते | ब्रह्मणो देहरूपस्थमाधिभौतिकमुच्यते || २१-४१ || नारायणेधिदैवेन रूपेण [नारायणे यदध्यात्मरूपेण इत्यपि पाठः |] परिनिष्ठितम् | आविर्बभूव तद्वर्णभेदैर्वेदस्वरूपतः || २१-४२ || जीवगं यत्तु देवेशि चित्तरूपतया स्थितम् | सुषुम्णावर्त्तिना प्राणवायुना सह सङ्गतम् || २१-४३ || वायुस्तेन युतो देवि ब्रह्मरन्ध्राहतः पुनः | ताल्वोष्ठपुटनासादिभेदेन [देहेन इत्यपि पाठः |] परमेश्वरि || २१-४४ || वर्णात्माविर्भवति गद्यपद्यादिभेदतः | ब्रह्मदेहतया यस्मात् स्थितं त्रैलोक्यकारणम् [तल्लोक इत्यपि पाठः] || २१-४५ || अतस्तस्माज्जगज्जातं देवासुरनरोरगम् | इति तेऽभिहितं देवि रहस्यं परमाद्भुतम् || २१-४६ || श्रद्धाहीनाय दुष्टाय कृतघ्नाय दुरात्मने | नास्तिकायाविनीताय वेदशास्त्रोद्गताय च || २१-४७ || अविश्वस्ताय देवेशि दर्शयेन्न कथञ्चन | यदा राजा तु सर्वस्वं बलं कोशो महीगजान् || २१-४८ || निवेदयतु जिज्ञासुस्तदा तस्मै प्रकाशयेत् | अन्यथा सिद्धिहानिः स्यात् सत्यं सत्यं न संशयः || २१-४९ || तस्मात्सर्वप्रयत्नेन गोपितव्यं त्वयापि हि || २१-५० || इति श्रीनारदपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वती संवादे एकविंशं पटलम् || २१-२१ || अथ द्वाविंशं पटलम् पार्वत्युवाच यदुक्तं देवदेवेश त्वया पशुपते प्रभो | प्रविश्य कर्णरन्ध्रेण चिदानन्दायते हृदि || २२-१ || तीर्थानां परमं तीर्थं ज्ञानानां ज्ञानमुत्तमम् | योगानां परमो योगो धर्माणां धर्म उत्तमः || २२-२ || श्रोतव्यानां च परमं श्रोतव्यमिदमेव हि | ज्ञातव्यानां च परमं ज्ञातव्यमिदमुच्यते || २२-३ || श्रुतं मया विशेषेण सोपपत्तिकमित्यपि | न तथाप्यन्तरात्मा मे तृप्तिमायाति शाश्वतीम् || २२-४ || अतस्त्वां परिपृच्छामि विशेषं तत्र धूर्जटे | तं च ब्रूहि महादेव प्रसादपरमो भव || २२-५ || स्वप्नभूतप्रपञ्चेस्मिन्नक्षरस्य परात्मनः | प्रियाः सख्यो भगवतो वासनावशतो गतः || २२-६ || क्रियांस्तत्र गतः कालस्तासामागमनादनु | कियत्कालं च ताः सर्वा इह स्थास्यन्ति मोहिताः || २२-७ || कथ ता बोधमाप्स्यन्ति कस्तासां प्रतिबोधकृत् | युगपद्वा गमिष्यन्ति पृथक् वा परमेश्वर || २२-८ || एतत्सर्वं महादेव कथयस्व प्रसादतः | संशयो मे महानद्य तमपानुद शङ्कर || २२-९ || शिव उवाच शृणु पार्वति वक्ष्यामि तव प्रश्नानशेषतः | त्वं मे प्राणाधिकैवासि तस्माद्वक्ष्ये यथातथम् || २२-१० || विरञ्चेर्ब्रह्मणः पूर्व अष्टवक्त्रोऽभवद्विधिः | शब्दब्रह्मेति य प्राहुर्वेदवेदान्तपारगाः || २२-११ || द्विपरार्द्धावसानेस्य ब्राह्मः कल्पो महानभूतः | प्रलयोऽयं महेशानि प्रकृत्यवधिरुच्यते || २२-१२ || एका [एकावशेषा-प्रकृतिः इत्यपि पाठः |] शिष्टा च प्रकृतिः पुरुषाधिष्ठिता हि सा | कियत्कालं ततो देवि शून्यमासीदिति श्रुतिः || २२-१३ || आविर्भूता ततो निन्द्रा अक्षरे परमात्मनि | महत्तत्वमतस्तस्माद् अहङ्कृतिरजायत || २२-१४ || स एव च त्रिधा जातो गुणभेदेन सुन्दरि | सात्विकाच्च मनो जज्ञे देवताश्च दशैव ताः || २२-१५ || राजसादिन्द्रियाण्यासन् भूतानि तमसोऽभवन् | तेभ्यौऽण्डमभवेद्देवि तत्र नारायणः स्थितः || २२-१६ || [तत्र इत्यपि पाठः |] तस्य नाभेरभूत्पद्म यत्र ब्रह्माभवत्स्वयम् | द्विपरार्द्धमितं चास्य परमायुर्निगद्यते || २२-१७ || अस्मिन् ब्रह्माण्डगोले हि जम्बूद्वीपे महेश्वरि | वर्षे भारतसंज्ञे हि प्रियाणां वासनाः स्थिताः || २२-१८ || परार्द्धः प्रथमो जातो द्वितीयेस्मिन् महेश्वरि | निर्बन्धात्स्वामिनीनां च लीलामाविश्चकार ह || २२-१९ || श्रीकृष्णः परमानन्दो नन्दगेहेभवत्तदा | गोपकन्यामिषेणैव ह्याविर्भूतास्ततः प्रियाः || २२-२० || तत्कामपूर्त्तये साक्षात् श्रीकृष्णः पुरुषोत्तमः | रासलीलां प्रकुर्वाणो रमयामास ताः प्रियाः || २२-२१ || योगमायासमावेशान्मायाकार्यं विलुंपतः | ब्रह्मणोऽपि लये जाते यथापूर्वमभूदिदम् || २२-२२ || पुनर्जातं ततः सर्वं ब्रह्मादिस्थावरान्तकम् | मनोरथस्य चापूर्त्या वासनाः कार्यमध्यगाः || २२-२३ || विचरन्ति यथा कालं यथादेशं यथारुचि | द्विपरार्द्धे त्वतिक्रान्ते नष्टे स्थावरजङ्गमे || २२-२४ || विरञ्चौ मुक्तिमापन्ने प्रबुद्धे ह्यक्षरे प्रिये | प्रबुद्धा वासनास्ता हि भविष्यन्ति स्वबिम्बगाः || २२-२५ || आविर्भावाच्च लीलाया द्वापरान्ते कलौ युगे | [क्वचित्पुस्तके २६-२७ श्लोकयोः आस कृष्णः प्रियाणां च दुःखलीलानुदर्शने | तासामेका च परमा सुभगा सुन्दरी प्रिया | प्रबोधयिष्यति सा सर्वाः कथयित्वा विनिर्णयम् | ईदृशः पाठभेदो भाति |] असहिष्णुः स्वप्रियाणां दुःखलीलानुदर्शनम् || २२-२६ || तासामेकां च परमां सुभगां सुन्दरीं प्रियाम् | प्रबोधयिष्यतितरां कथयित्वा विनिर्णयम् || २२-२७ || ततस्तत्सम्प्रदायेन सर्वास्ता भगवत्प्रियाः | स्वभर्तृविरहाक्रान्ताः त्यक्त्त्वा देहान् प्रपञ्चगान् || २२-२८ || भगवल्लोकवैकुण्ठे स्थितिमाप्स्यन्ति यूथशः | पद्मया रममाणास्ताः कालभोगे यथाविधि || २२-२९ || दिव्यदेहानपि त्यक्त्त्वा भविष्यन्ति स्वबिम्बगा | अक्षरोऽप्यनुभूयैतत्स्वप्नवत् परमेश्वरि || २२-३० || परमानन्दसम्मग्नो भविष्यति कृतार्थधीः | सर्वा लीला नित्यरूपा भविष्यन्ति तदा प्रिये || २२-३१ || भगवल्लोकमात्मानं दिव्यभावेऽपि सुन्दरि | अविद्यालेशसम्बन्धादक्षरस्य परात्मनः || २२-३२ || निद्रांशस्यापि शेषत्वात् कियत्कालमवस्थितिः | युगपद्देवि सर्वास्ता गमिष्यन्ति निजं गृहम् || २२-३३ || न कथञ्चन देवेशि गतिस्तासां पृथक् भवेत् | स्वप्नस्य विषये साम्यादैकात्म्याच्च तथा प्रिये || २२-३४ || वैरस्याच्च विचित्रत्वे भर्तृस्नेहाविशेषतः | न पृथक् गमनं तासां तस्माद्वैकुण्ठसंस्थितिः || २२-३५ || क्रमयोगेन देवेशि सर्वा यास्यन्त्यसंशयम् | तस्माद्देवि विशेषेण स्वपतिः पुरुषोत्तमः || २२-३६ || भजनीयो हि सततं वेदशास्त्रानुरोधतः | देहेन्द्रियस्वभावानामन्तं कर्माणि पार्वति || २२-३७ || आत्मनोन्तं परब्रह्मध्यानश्रवणकीर्तनम् | स्वभावाज्जायते कर्म सदसच्चेति सर्वथा || २२-३८ || सत्त्यागादसदासङ्गन्नानायोनिभ्रमो भवेत् | आधिव्याधिदरिद्रोत्थपीडाविस्मारिततात्मनः || २२-३९ || उद्रिक्ततमसो देवि न शुभं स्यात्कदाचन | तस्मात्कर्तव्यमेवेह देहपर्यवसायि यत् || २२-४० || देहान्ते कर्मसम्बन्धो न भविष्यति कर्हिचित् | प्रत्यवायनिवृत्यर्थमनिष्टाचरणस्य च || २२-४१ || नित्यं नैमित्तिकं कार्यं काम्यं कर्म परित्यजेत् | एवं यो वर्त्तते देवि निष्प्रत्यूहं स सिध्यति || २२-४२ || यः शास्त्रविधिमुत्सृज्य वर्तते कामलोलुपः | स सिद्धिमिह नाप्नोति परत्र न पराङ्गतिम् || २२-४३ || एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वया प्रिये | समासेन महेशानि किं भूयः श्रोतुमिच्छसि || २२-४४ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे द्वाविंशं पटलम् || २२-२२ || अथ त्रयोविंशं पटलम् पार्वत्युवाच भूयोऽहं श्रोतुमिच्छामि तन्मे ब्रूहि सदाशिव | भूतले भगवद्भार्या नानायोनिषु संस्थिताः || २३-१ || तत्र तत्र विचित्राणि कर्माण्यपि कृतानि च | क्वचित्तीर्थं क्वचिद्दानं क्वचिद्धोमं क्वचिज्जपः || २३-२ || क्वचिन्मखादिचरणं स्वाध्यायाचरणानि च | पितृदेवार्चनं क्वापि ब्राह्मणा योः सताम् || २३-३ || क्वचिन्निन्दादिकरणं देवब्राह्मणातिथिपूजनम् | क्वचिद्दत्तविलोपश्च तथेन्द्रियविलोभनम् || २३-४ || असत्यभाषण चैव पैशुन्यं भूतहिंसनम् | स्वर्णस्त्येयादिकं चैव सुरामांसनिषेवणम् || २३-५ || द्रोहमात्सर्यहिंसादिपाकभेदादिकं तथा | स्वस्ववर्णाश्रमाचारोल्लङ्घनं कामवर्त्तनम् || २३-६ || स्वगुणाख्यानमीशान पङ्क्तिभेदो वृथा क्रिया | परेषां मर्मकथनं म्लेच्छान्नात्क्वाऽपिजीवनम् || २३-७ || निषिद्धाचरणं देव विहिताचारलङ्घनम् | गोभूगजाश्वकन्यादेस्तथा विक्रयण प्रभो || २३-८ || वेदविक्रयणं चैव भूतसन्त्रासनं तथा | आलस्यात्कर्मणस्त्यागस्तथैवाहङ्कृतेरपि || २३-९ || कर्मण्येतानि देवेश सदसन्ति महान्त्यपि | प्रारब्धसञ्चितान्येव क्रियमाणानि यानि च || २३-१० || तेषामन्तं न पश्यामि कल्पकोटिशतैरपि | स्वरूपज्ञानमात्रेण सञ्चितक्रियमाणयोः || २३-११ || श्रुतिसिद्धो भवेन्नाशः प्रारब्धस्य तु न क्वचित् | नाभुक्तं क्षीयते कर्म कर्मणां भोगतः क्षयः || २३-१२ || इत्येवं शास्त्रसिद्धान्तः सर्वथैव त्वयोदितः | प्रारब्धविद्यमानत्वात् स्वरूपस्मरणेऽपि च || २३-१३ || कथं वकुण्ठगमनं गोचरो [न्यस्तकर्मणः इत्यपि पाठः |] ग्रस्तकर्मणः | अभुक्तान्येव कर्माणि विहाय यदि यान्ति ताः || २३-१४ || न विना कर्तृ [कर्मसम्बन्धं इत्यपि पाठः |] सम्बन्धं क्षणं तिष्ठन्ति तान्यपि | इत्येनं संशयं देव छेत्तुमर्हसि मामकम् || २३-१५ || शिव उवाच साधु पृष्टं त्वया भद्रे रहस्यं परमाद्भुतम् | यस्य श्रवणमात्रेण कर्मबन्धाद्विमुच्यते || २३-१६ || सञ्चितं क्रियमाणं च तस्य नश्यति सर्वथा | विरहाग्न्याहुतीभूतशरीरा या हि केवलम् || २३-१७ || निक्षिप्य भूते भूतोत्थं तैजसं वपुरास्थिताः | प्रारब्धसहिता एव ब्रह्मलोकं व्रजन्ति ताः || २३-१८ || ब्रह्मलोकाद्यदा चोर्ध्वं गच्छन्ति भगवत्प्रियाः | वैकुण्ठनिकटे प्राप्ते बलीयान् पवनो ह्यवन् || २३-१९ || तेनाविष्टास्ततः सख्यः कम्पयन्ति वपुर्लताः | वपुःकम्पेन देवेशि प्रारब्धानां च पङ्क्तयः || २३-२० || वृक्षेभ्य इव पुष्पाणि क्षरन्ति क्रमशोऽपि च | कर्मसम्बन्धरहिता यान्ति वैकुण्ठमुज्ज्वलाः || २३-२१ || सदसन्त्यपि कर्माणि क्षरितानि शरीरतः | यानाश्रयन्ति सततं वक्ष्ये तान् त्वं शृणु प्रिये || २३-२२ || यैः सेवाप्रह्वणादीनि स्तोत्राणि रचितान्यपि | उपकारः कृतो यैर्वा धनधान्याम्बरार्पणैः || २३-२३ || तद्गुणश्रवणे हृष्टास्तन्निन्दायां च दुःखिताः | सहभोज्याः सहवासाः सहयानाः सहासनाः || २३-२४ || तानाश्रयन्ते देवेशि सत्कर्माणि न संशयः | यैस्तु दुःखं कृतं तासां निन्दापारुष्यपैशुनैः || २३-२५ || तदर्थहरणं चैव तद्दोषस्यैव कीर्तनम् | वृथापवादकथनं ताडन तर्जनं तथा || २३-२६ || असत्कर्माणि सर्वाणि ह्याश्रयन्ते खलान् हि तान् | कर्मणां देहसम्बन्धो नात्मनस्तु कदाचन || २३-२७ || स्तुतिर्निन्दापि देवेशि देहगा नात्मगोचरा | तस्माद्देहस्य संस्तुत्या निन्दया वापि पार्वति || २३-२८ || प्राप्यते पुण्यपापानि तदीयानि न संशयः | पुण्यपापे निहत्यैवं वैकुण्ठे विहरन्ति ताः || २३-२९ || वैष्णव धाम यास्यन्ति सात्विक्यो भगवत्प्रियाः | द्विपरार्द्धावसाने तु यास्यन्ति युगपद्धि ताः || २३-३० || राजस्यश्चापि वैरच्यं तामस्यो मन्निकेतनम् | न प्रकारविभेदोऽस्ति कर्महानौ गिरीन्द्रजे || २३-३१ || गुणानुरूपाञ्च गर्ति सर्वे यान्ति न संशयः | प्रकारं शृणु तत्रापि वैकुण्ठगमनं प्रति || २३-३२ || वासनालिङ्गमेतासां देहान्ते पृथिवीं विशेत् | कियत्कालं ततः स्थित्वा पार्थिवेन्द्रियसंयुता || २३-३३ || पार्थिवं विषयं देवि सेव्यमाना जलं विशेत् | कियत्कालं ततः स्थित्वा लब्ध्वा तत्रेन्द्रियं रसम् || २३-३४ || अतिदिव्यं सेव्यमाना तेजस्तत्त्वं समाविशेत् | कियत्कालं ततः स्थित्वा तैजसेन्द्रियसंयुता || २३-३५ || विषयं रूपमासाद्य वायुतत्त्वं ततः विशेत् | कियत्कालं ततः स्थित्वा त्वगिन्द्रियसमन्विता || २३-३६ || दिव्यस्पर्शं च विषयं सेव्यमाना खमाविशेत् | कियत्काल ततः स्थित्वा लब्ध्वा च श्रोत्रमिन्द्रियम् || २३-३७ || विषयं शब्दमासाद्य ततो भूतादिमाविशेत् | भूतादितामसं हित्वा राजसं याति सुन्दरि || २३-३८ || ततः सत्वमयं प्राप्य वैकुण्ठे रमते चिरम् | अनेन क्रमयोगेन गमिष्यन्ति हरेः प्रियाः || २३-३९ || एतत्तुभ्यं समाख्यातं वैकुण्ठगमनादिकम् | नाख्येयं यस्य कस्यापि तव स्नेहात्प्रकाशितम् || २३-४० || त्वयापि गोपनीयं हि सत्यं सत्यं न संशयः | अपात्रायापि पुत्राय दत्त्वा पापमवाप्नुयात् || २३-४१ || एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि || २३-४२ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे त्रयोविंशं पटलम् || २३-२३ || अथ चतुर्विंशं पटलम् पार्वत्युवाच देव देव महेशान धूर्जटे नीललोहित | भूयोऽहं श्रोतुमिच्छामि नित्यलीलाविनिर्णयम् || २४-१ || निर्गुणे स्यात्कथं लीला लीला चेन्निर्गुणः कथम् | सगुणे वा कथं लीला नित्या गुणमयी यतः || २४-२ || यत्तु कालत्रयाबाध्यं तच्च नित्यं प्रचक्षते | कदाचिद्वा पुरा जाता लीलेयं वा भविष्यति || २४-३ || अथवा नैव जातेयं भविष्यति न वा पुनः | इदानीं लीला चेज्जाता जन्यकार्यं विनश्यति || २४-४ || कथं नित्येति तां वक्तुं शक्यते विदुषा प्रभो | यद्यक्षरस्य हृदये लीला नित्यत्वमागता || २४-५ || पुरा ह्यविद्यामानत्वान्नित्यतायाः कथं स्थितिः | इति मे संशयं देव छेत्तुमर्हसि साम्प्रतम् || २४-६ || त्वदन्यं नैव पश्यामि सन्देहविनिवर्त्तनम् | न तवाविदितं किञ्चित्सर्वज्ञोऽसि यतः स्वयम् || २४-७ || शिव उवाच शृणु पार्वति वक्ष्यामि तव स्नेहादशेषतः | यस्य श्रवणमात्रेण भवेद्विज्ञानमुत्तमम् || २४-८ || निर्गुणेप्यक्षरातीते लीलायाः किं विरुध्यते | सगुणस्य तु या लीला सगुणा सा निगद्यते || २४-९ || निर्गुणे या भवेल्लीला सा लीला निर्गुणा भवेत् | निर्णयं तत्र वक्ष्यामि लीलाया ब्रह्मणस्तथा || २४-१० || रसरूपं भवेद् ब्रह्म वेदविद्यासु गीयते | संयोगविप्रलम्भात्मा रसः स्याद् द्विदलात्मकः [द्रष्टव्य- ११,२१-२२ पृ० १२२ |] || २४-११ || संयुक्तयोस्तु संयोगो विप्रलम्भो वियुक्तयोः | नानाभावात्मिका तत्र लीला भवति शाश्वती || २४-१२ || ब्रह्मणो निर्गुणत्वाच्च नित्यत्वाच्चेति सुन्दरि ! | नित्या च निर्गुणा चैव लीलेयं न विरुध्यते || २४-१३ || केचिदाहुर्निर्गुणस्य नैव लीलोपयुज्यते | लीलाविशिष्टं [लीलाविष्टं च इत्यपि पाठः |] सगुणं मायासम्बन्धभावतः || २४-१४ || निर्गुणं तु परं सूक्ष्ममवाङ्मानसगोचरम् | वर्णयन्ति विभागेन मायामोहितचेतसः || २४-१५ || श्रुतेर्विरोधमाशङ्क्य विनियोगः पृथक् कृतः | रसश्रुतिविरोध तु न ते पश्यन्ति मोहिताः || २४-१६ || निषेधयन्ति चाकारं श्रुतयः प्राकृतं प्रिये | आनन्दमात्रमाकारं रसश्रुतिरुपासते || २४-१७ || अन्यथाद्विदलः सोऽयं श्रुतिसिद्धः प्रियवदे | निराकारस्य देवेशि नोपयुक्तः कदाचन || २४-१८ || प्रलापाः शतशः सन्ति श्रुतियुक्तिमजानताम् | न तेषु रमते चित्तं रसज्ञस्य विवेकिनः || २४-१९ || रसस्तादृग्विधो देवि लीलाभिर्योनुभूयते | तस्माल्लीलारसमयी रसो लीलामयः स्मृतः || २४-२० || तादात्म्यादेकरूपत्त्वाल्लीला ब्रह्ममयी भवेत् | लीलोपयोगिनो भावा विभावा व्यभिचारिणः || २४-२१ || आलम्बनानुभावाश्च तेऽपि तादृग्विधाः प्रिये ! | चन्द्रालङ्कारभूषादिमालालेपसमीरणाः || २४-२२ || दीर्घिकोपवनाराम-ऋतुवृक्षलतादयः | वस्त्रपानाशनं भृङ्गशुककोकिलकूजितम् || २४-२३ || रसोत्पादनसामग्री रसरूपा हि सा स्मृता | लीलोपयोगिनस्तस्मात् पदार्था रसरूपिणः || २४-२४ || द्रवीभूतः घनीभूतो रसस्य द्विविधा स्थितिः | द्रवीभूतः प्रियाधारो घनीभूतोक्षिगोचरः || २४-२५ || तस्मात्प्रियाभीष्टभावान् स्वतः प्रकटयत्यसौ | द्रवीभूतः प्रियाधारः प्रियाभावात्मको रसः || २४-२६ || प्राधान्यं तत्र चेच्छन्ति घनीभूतादपि प्रिये ! | रसो नैव प्रसिध्येत प्रियालम्बनवर्जितः || २४-२७ || प्रियादर्शे रसः पश्येत् स्वात्मानं प्रतिबिम्बवत् | आदर्शापसरे यद्वन्मुखस्यानुपलम्भनम् || २४-२८ || अङ्गहीनो रसस्तद्वत्स्वानुभूतिं न विन्दति | आनन्दो हि रसस्तस्मात्प्रियाप्रियदलद्वयम् || २४-२९ || आनन्दरूपा सामग्री सर्वभावात्मको रसः | न मायागुणसंसर्गः कदाचित्कुत्रचित्प्रिये || २४-३० || रसरूपं निर्गुणं च नित्यलीलाविहारि यत् | अद्वैतं ब्रह्म परमं पुरुषोत्तमसंज्ञकम् || २४-३१ || अतीतानागता चासौ वर्तमानापि सुन्दरि | नित्या एवेति विज्ञेया लीलेयमनपायिनी || २४-३२ || इत्येतत्कथितं देवि प्रश्नमन्यं निशामय | यस्य श्रवणमात्रेण सन्देहो विनिवर्त्तते || २४-३३ || इति श्रीनारदपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वती संवादे चतुर्विंशं पटलम् || २४-२४ || अथ पञ्चविंशं पटलम् शिव उवाच पुरा ह्यविद्यमानत्त्वान्नित्यतायाः कथं स्थितिः | इति यद्देवि ते प्रोक्त [पृष्ठं इत्यपि पाठः |] तत्र मे निर्णयं [निर्णये इ० पा० |] शृणु || २५-१ || अविद्यमानं यत्किञ्चिन्नैव प्रादुर्भविष्यति | सर्वथा विद्यमानं हि वस्तु प्रादुर्भवेत्प्रिये || २५-२ || तस्मात्सदंशतो देवि प्रपञ्च उपवर्ण्यते | घटो नास्तीत्युच्यमाने घटसत्ता तु लभ्यते || २५-३ || असच्छ्रुत्या तथा देवि प्रपञ्चः सन्निरूप्यते | अपरोक्षपरोक्षत्व सदसच्छ्रुतिनोदितम् || २५-४ || तथा प्रपञ्चलीलेय रसलीलापि तादृशी | सर्वास्ता नित्यरूपा हि विज्ञेया वेदवादिभिः || २५-५ || यथा मृदि घटस्यैव प्रागभावः प्रकल्प्यते | मृत्सकाशात्समुत्पत्तिः पश्चात्तस्योपचर्यते || २५-६ || न पुनस्तस्य देवेशि ह्यभावोऽत्यन्तसंज्ञितः | आम्रबीजस्थितो ह्याम्रस्तस्माद् व्यक्तो यथा भवेत् || २५-७ || अभूतमेव देवेशि यदि व्यक्तिं प्रयाति हि | आम्रबीजात् [आम्रबीजादुभ्रवस्य इत्यपि पाठः |] छुद्छुदस्य कथं व्यक्तिर्भवेन्नहि || २५-८ || व्यावहारिकी वास्तवी तथा च प्रातिभासिका | सत्ता तु त्रिविधा ज्ञेया देवि शास्त्रार्थकोविदैः || २५-९ || शुक्तौ रजतमित्येषा सत्ता स्यात्प्रातिभासिकी | गजाश्वादिमहासम्पत् [स्वप्नवत् इत्यर्थ |] स्वाप्निकी वापि तद्विधा || २५-१० || व्यवहारार्थमित्येषा जागर्तिं व्यावहारिकी | ब्रह्मसत्ता तु देवेशि वास्तवी परिकीर्त्तिता || २५-११ || ब्रह्मसत्तावशाद् देवि लीलासत्यत्वमुच्यते | सत्यस्याभावमीशानि शक्तः कर्त्तं न कश्चन || २५-१२ || तस्माद् देवि यथाकाल लीलाविर्भावमुच्यते | द्वादशद्वादशतमे स्वामिन्या वत्सरे प्रिये || २५-१३ || आविर्भवति लीलेयं पौनःपुन्येन सर्वदा | एतावति गते काले ह्यक्षरे परमात्मनि || २५-१४ || रहस्यरमणालोके जायते सा सुमङ्गला | ततः प्रियासु जायेत लीलाविस्तरणं ततः || २५-१५ || अक्षरात्मनि सा लीला ततश्चास्थिरतां व्रजेत् | स्मृतिमात्रा हि सा देवि न तु साक्षात्कदाचन || २५-१६ || गते द्वादशमे वर्षे स्वामिन्याः परमेश्वरि | पुनस्तथावलोकाय कामांशेनात्मयोगतः [नामयोगतः इत्यपि पाठः |] || २५-१७ || इच्छा प्रवर्त्तते देवि कूटस्थस्य परात्मनः | ततश्च त्रिविधा [एतल्लीलात्रैविध्यं सुन्दरीतन्त्रे आलमन्दारसंहितायां श्रीशिवेन श्रीपार्वत्यै सुस्पष्टं निरूपितम् |] लीला काले प्रादुर्भवेत्प्रिये || २५-१८ || श्वेतद्वीपस्य तु च्छाया मथुरायां प्रतिष्ठिता | वैकुण्ठप्रतिबिम्बस्तु द्वारिकायां तथा प्रिये || २५-१९ || व्रजस्तु साक्षाद्देवेशि गोलोकप्रतिबिम्बजः | गोलोकातीत[तथैवोक्तं पुराणसंहितायां प्रथमेऽध्याये- एवं ब्रह्मणि चिन्मात्रे निर्गुणे भेदवर्जिते | गोलोकसंज्ञके कृष्णो दिव्यतीति श्रुतं मम || २५-५४ || नातः परतरं किंचिन्निगमागमयोरपि | तथापि निगमो वक्ति ह्यक्षरात् परतः परः || २५-५५ || गोलोकवासिभगवानक्षरात्पर उच्यते | तस्मादपि परः कोऽसौ श्रुतिभिर्गीयते सदा || २५-५६ || पाद्मेऽपि गोलोकलीलातोऽस्याः लीलायाः परत्वं पठ्यते |]लीला [लीलेयं इत्यपि पाठ |] च रसानन्दमयी शिवे || २५-२० || आविर्भवति देवेशि समये समये हि सा | समयं तं प्रवक्ष्यामि शृणुष्वैकाग्रमानसा || २५-२१ || परमाणुद्वयमणुः त्रसरेणुः त्रिभिश्च तैः | त्रयरेणुत्रयेणैव कालः स्यात् त्रुटितसंज्ञितः || २५-२२ || तच्छतेन भवेद्वेधः त्रिभिर्वेधैर्लवः स्मृतः | निमिषस्त्रिलवैर्देवि क्षणो ज्ञेयस्त्रिभिश्च तैः || २५-२३ || क्षणैश्च पञ्चभिः काष्ठा पञ्चभिर्दशभिस्तथा | काष्ठाभिर्लघु विज्ञेयं लघुभिर्दशपञ्चभिः || २५-२४ || घटिकैका तु विज्ञेया मुहूर्तो घटिकाद्वयम् | प्रहरः सप्तघटिकाश्चतुर्भिस्तैरहः स्मृतः || २५-२५ || पुनश्चतुर्भिः प्रहरैरुच्यते तदहर्निशम् || २५-२६ || दशभिः पञ्चभिः पक्षः पुनश्च दशपञ्चभिः | आद्यः शुक्लस्तथा कृष्णः पितृणां तदहर्निशम् || २५-२७ || मासः पक्षद्वयेनोक्तः तावेव द्वौ ऋतुः स्मृतः | ऋतुत्रयेणाप्ययनं दक्षिणं परिकीर्तितम् || २५-२८ || त्रयेणैवोत्तरं प्राहुर्देवानां तदहर्निशम् | संवत्सरस्तु ह्ययनद्वयं देवि निगद्यते | तच्छतं मानवानां च परमायुर्निरूपितम् || २५-२९ || दिव्यैर्द्वादशसाहस्रैर्वर्षाणां सुरवन्दिते | कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगाः || २५-३० || चतुर्युगीसहस्रेण ब्रह्मणो दिनमुच्यते | तावत्येव भवेद्रात्रिस्त्रिलोकी यत्र लीयते || २५-३१ || ब्रह्मणो दिवसे जाता मनवस्तु चतुर्दश | प्रतिमन्वन्तरे देवि युगानामेकसप्ततिः || २५-३२ || प्रतिमन्वन्तरे देवि विष्णोरवतरणं भुवि | इन्द्राद्या देवताश्चैव तथा सप्तर्षयश्च ये || २५-३३ || मन्वन्तरविभेदेन भिन्ना एव भवन्ति हि | स्वायम्भुव स्वारोचिषोत्तमतामसरेवताः || २५-३४ || चाक्षुषश्चेति मनवो व्यतिक्रान्ताः षडम्बिके | वैवस्वतो मनुर्नाम सप्तमोऽद्य प्रवर्तते || २५-३५ || चतुर्युगी व्यतिक्रान्ता तस्याष्टाविंशति प्रिये | अष्टाविंशतिके देवि कलौ लीलेयमागता || २५-३६ || परार्द्धः प्रथमोऽतीतो द्वितीयस्तु प्रवर्तते | तत्रापि प्रथमाब्दस्य नवमो मास उच्यते || २५-३७ || दिन तु षोडशं चैव यामस्तस्यद्वितीयकः | मुहूर्त्तं तृतीयं देवि वर्त्ततेऽद्य प्रियंवदे || २५-३८ || एवं विधेरहोरात्रैर्ब्रह्मणो हि दिनं स्मृतम् | पक्षमासविभेदेन यावत्संवत्सरः प्रिये || २५-३९ || एवं संवत्सरशत तदा स्याद् ब्रह्मणो लयः | विष्णोर्नेत्रनिमेषेण यात्यायुर्ब्रह्मणोऽखिलम् || २५-४० || तावन्निमेषमारभ्य लवक्षणविभेदतः | यावद्वषेशत विष्णोर्मदीयः स्यान्निमेषकः || २५-४१ || मन्निमेषक्रमेणापि यावद्वर्षशतं भवेत् | निमेषमात्रमीशस्य तन्निमेषक्रमेण च || २५-४२ || शतवर्षं भवेद्यावत्तावच्छिवनिमेषकः | तन्निमेषक्रमेणैव यावद्वर्षसहस्रकम् || २५-४३ || अपाङ्गस्फुरणं तावत्स्वामिन्याः कृष्णविभ्रमे | तन्निमेषक्रमेणैव वर्षं द्वादशकं भवेत् || २५-४४ || लीलावलोकनार्थाय भूयः कामो भवेत्तदा | वर्षद्वादशकेऽतीते स्वामिन्याः सुरपूजिते || २५-४५ || पौनःपुन्येन लीलायाः नित्याविर्भाव उच्यते | अक्षरस्यैव हृदये यः कामांशोऽप्यधिष्ठितः || २५-४६ || तत्संयोगाद्दिदृक्षास्य स्वस्वकाले भवेद्धि सा | एवं नित्येव सा लीला रसरूपा प्रियवदे || २५-४७ || संयोगविप्रलम्भाख्यदलाभ्यां यानुवर्णिता | रसो यदाविप्रलम्भदलं समधितिष्ठति || २५-४८ || तदेवाविर्भवत्येषा लीला च सुरपूजिते | यदा तु संयोगदलं समधिव्याप्य तिष्ठति || २५-४९ || निजधाम्नि तदा लीला साक्षात्कृष्णकृता भवेत् | यदा संयोगविश्लेषसन्धिं याति रसः प्रिये || २५-५० || तदा प्रबोधसमयो निकटः कृष्णचेतसाम् | गुरोः सत्सम्प्रदायेन शास्त्रार्थस्यानुरूपतः || २५-५१ || वर्त्तितव्यं ततो भद्रं साधनैरात्मलब्धये | इत्येवं ते मया ख्यातं यत्पृष्टोऽहं सुलोचने || २५-५२ || समासेन महेशानि किं भूयः श्रोतुमिच्छसि ? || २५-५३ || इति श्रीनारदपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वतीसंवादे पञ्चविंशं पटलम् || २५-२५ || अथ षड्विंशं पटलम् पार्वत्युवाच महेश श्रोतुमिच्छामि साधनानां विनिर्णयम् | यस्य श्रवणमात्रेण सर्वं हि सफलं भवेत् || २६-१ || श्रीशिव उवाच शृणु देवि प्रवक्ष्यामि साधनस्य विनिर्णयम् | गुह्याद्गुह्यतरं साक्षान्न वाच्यं यस्य कस्य कस्यचित् || २६-२ || तन्त्रार्थोऽयं रहस्यार्थो यस्तु वेदेषु गोपितः | ईश्वरात्तु मया लब्धः प्राप्तस्तेन सदाशिवात् || २६-३ || मञ्चे फलकमापन्नो लक्षयोजनविस्तृते | सदाशिवोऽशृणोदेतत्कूटस्थोपरिसंस्थया || २६-४ || इच्छाशक्त्या तु देवेशि वर्ण्यमानं मया रहः | तच्च ते गदितं साध्वि शृण्वतः परमप्युत || २६-५ || एकदा मे वितर्कोंऽभूद्विजने स्मरतः प्रिये | अहमेवेश्वरो लोके मदन्यो वापि कश्चन || २६-६ || इति तर्कयता देवि समाधिर्हि मया धृतः | तस्मिन् युगसहस्राणि व्यतीयुः पञ्च सुन्दरि || २६-७ || [समाधिगीतं इ० पा० |] समाधिस्थेन देवेशि श्रुतमीश्वरभाषितम् | तच्छ्रुत्वा हृदयं देवि निर्विकल्पमभून्मम || २६-८ || तदाप्रभृति देवेशि लीलामेनां रहःस्थितः | ध्यायामि ध्यानयोगेन निर्विकल्पेन चेतसा || २६-९ || समाधावीश्वरेणोक्तमिदं तन्त्रं यतो मम | तस्मान्माहेश्वर तन्त्रमित्येवंख्यातिमागतम् || २६-१० || चतुःषष्टीनि तन्त्राणि मयैवोक्तानि पार्वति | मोहोच्चाटवशीकारमारणार्थानि तानि तु || २६-११ || सद्यःप्रत्ययहेतूनि नानामन्त्रमयानि च | मोहनानि तु लोकस्य इन्द्रजालकलादिभिः || २६-१२ || तानि विस्तरतो देवि ! तदाग्रे कथितानि च | न तेषु विद्यते किञ्चित्परमार्थं सुरेश्वरि || २६-१३ || मायिक वर्णितं सर्वं मायाजीवोपयोगिकम् [मया इ० पा० |] | इदं माहेश्वरं तन्त्रं समाधौ यच्छ्रुतं मया || २६-१४ || प्रबोधसाधनीभूतं प्रियाणामिति मे मतम् | अन्यथेश्वरविज्ञानान्नान्यदेतत्प्रयोजनम् [तन्महेश्वरविख्यातं तन्मयेश्वरविख्यातं तन्मेश्वरविख्या वेत्यपपि पाठः |] || २६-१५ || वैष्णवान्यपि तन्त्राणि पञ्चरात्राभिधानि तु | विष्णुप्रोक्तानि देवेशि पञ्चविंशतिसंख्यया || २६-१६ || हयशीर्षं तन्त्रमाद्यं तन्त्रं संमोहनं तथा | वैभवं पौष्करं तन्त्रं प्रह्लादं गार्ग्यगालवम् || २६-१७ || नारदीयं च श्रीप्रश्नं [वैष्णवं पौष्करं तन्त्रं प्रह्लादं गार्गमाणवम् | नारदीयं च श्री वत्सं ... इति वा पाठः |] शाण्डिल्यं चेश्वरं तथा | सत्योक्तं शौनकं तन्त्रं वाशिष्ठं ज्ञानसागरम् || २६-१८ || स्वायम्भुवं कापिलं च तार्क्ष्यं नारायणीयकम् | आत्रेयं [नारसिंहाक्षं इति वा पाठः |] नारसिंहाख्यं आनन्दं [आदाक्षं आट्टाक्षं इति वा पाठः |] च तथारुणम् || २६-१९ || वैहायसं तथा ज्ञानं विश्वोक्तं चेति सुन्दरि | अत्यन्तस्खलितानाञ्च जनानां वेदमार्गतः || २६-२० || पञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः | बौद्धतन्त्राणि देवेशि वर्त्तन्ते सुबहून्यपि || २६-२१ || तानि प्रोक्तानि सर्वाणि बौद्धरूपेण विष्णुना | न तत्र धर्मलेशोऽस्ति मोहनानि दुरात्मनाम् || २६-२२ || अन्ते तु नरकायैव भविष्यन्ति न संशयः | पार्वत्युवाच किमर्थं देवदेवेन विष्णुना सत्वमूर्त्तिना || २६-२३ || दयावतापि लोकस्य प्रतारणमहो कृतम् | निर्दोषे पुरुषे देव नानृतं स्यात्कदाचन || २६-२४ || केन प्रयुक्तस्तु हरिर्मोहशास्त्रमरीरचत् | एतन्मे ब्रूहि सर्वज्ञ सन्देहविनिवृत्तये || २६-२५ || शिव उवाच शृणु देवि प्रवक्ष्यामि कारणं मोहकल्पने | एकदा विधिविष्णू च स्वाभिमानावृतान्तरौ || २६-२६ || नित्यं विवदमानौ तावन्योऽन्यं प्रतिचक्रतुः | अहं ब्रह्मेति न भवानित्येवं पूर्णमानिनौ || २६-२७ || क्रुद्धचित्तावुभौ देवि शेपतुस्तौ परस्परम् | ब्रह्मोवाच यस्मात्त्वं मामवज्ञाय स्वात्मानं बहु मन्यसे || २६-२८ || अपूज्यस्त्वं तु लोकेषु भविष्यसि न संशयः | इत्येव दारुणं शापं निशम्य मधुसूदनः || २६-२९ || क्रुद्धः शापं प्रतिददौ त्वमप्येवं भविष्यसि | अन्योऽन्यं शापमाश्राव्य भवितव्येन मोहितौ || २६-३० || मामेव शरणं यातौ परिम्लानमुखावुभौ | व्यवस्था तु कृता देवि मया शापस्य वै तयोः || २६-३१ || ब्रह्मणो यन्मया प्रोक्त तत्ते वक्ष्यामि संशृणु | ब्रह्मन्नो वैष्णवं वाक्यमन्यथा भवति क्वचित् || २६-३२ || तस्मादपूज्यो लोकेषु भविष्यति भवान् किल | पञ्चायतनपूजायां न शापस्ते भविष्यति || २६-३३ || केवलं भवतः पूजाबाधकं शाप एव हि | त्वमेकं वपुराधत्स्व शापस्य विषयं हरे || २६-३४ || तत्रैवास्तु च ते शापः सत्त्वमूर्त्तौ न सर्वथा | एवमुक्ते मया चोभौ ययतुः स्वस्य केतनम् || २६-३५ || एतस्मिन्नन्तरे देवि देवासुरमहारणः | वभूव तत्र समरे जिता देवैः सुरेतराः || २६-३६ || जयोपाय प्रकुर्बाणास्तपस्तेपुर्महत्तरम् | तपोविघ्नाय तान् देवो बौद्धरूप स्वयं गतः || २६-३७ || बौद्धतन्त्राणि निर्माय दैत्येभ्यः समदर्शयत् | देहादन्यो न चात्मास्ति न मुक्तिर्मरणात् परा || २६-३८ || न देवाः पितरः सन्ति मुधा वेदेन दर्शिताः | स्ववृत्तये तु निगमः कल्पितो ब्राह्मणैरिह || २६-३९ || सर्वथा न प्रमाणत्वे धार्यः स्यादसुरेश्वराः | एवं तन्त्रेषु नैरात्म्यवादमुख्येषु मोहिताः || २६-४० || असुराः समसज्जन्त बौद्धमायाहृताशयाः | तदा प्रभृति तद्रूप अपूज्यत्वं हरेर्ययौ || २६-४१ || बौद्धोपदेशस्य [शुद्धोदनस्य च गृहे जातस्य इत्यपि पाठः |] ग्रहो जातश्च परमेश्वरि | तस्मात्तदुक्ततन्त्राणि नास्तिवादपराणि च || २६-४२ || न ग्राह्याणि बुधैर्देवि धर्माधर्मविचारणे | इदं माहेश्वरं तन्त्रं सर्वतन्त्रोत्तमोत्तमम् || २६-४३ || सामरस्येच्छया शक्त्या यथाभूतार्थमीरितम् | अक्षरस्यासनीभूतस्तन्निशम्य सदाशिवः || २६-४४ || प्रोक्तवानीश्वरायैतत् यथाश्रुतमनिन्दिते | समाधावीश्वरः प्राह मह्यं देवि यथाश्रुतम् || २६-४५ || मयापि च तव स्नेहादुच्यते नान्यथा प्रिये | त्वया तु गोपनीयं हि न वाच्यं यस्य कस्यचित् || २६-४६ || एतत्तन्त्रार्थविज्ञाने न सर्वे ह्यधिकारिणः | पार्वत्युवाच अधिकारविहीनोऽपि यदि चात्र प्रवर्त्तते || २६-४७ || निःशङ्को निर्भयो भूत्वा प्रेमासक्तिसमन्वितः | नित्यानन्दं च पुरुष विभाव्य स्वपतिं हृदि || २६-४८ || तदीयविरहज्वालाग्लपितां तनुमुत्सृजेत् | कां गतिं याति देवेश तन्मे साधु निरूपय || २६-४९ || शिव उवाच ब्रह्माभासमयः कश्चिद्यदि जीवः परिभ्रमन् | अनेकजन्मसंसिद्धपुण्यराशिभिरूर्ज्जितैः || २६-५० || साधुसङ्गेन देवेशि यदिदं ज्ञानमाप्नुयात् | जितेन्द्रियो निविंषयः प्रेमासक्तिसमन्वितः || २६-५१ || त्यजन् देहमवाप्नोति कुमार्यः प्रापुरेव यत् | न जले जलवत्तस्य लयो भवति चाक्षरे || २६-५२ || यदय विरही जातो नित्यलीलाविहारिणि | न पश्यति तथा चापि नित्यलीलाविहारिणम् || २६-५३ || अक्षराभासमात्रत्त्वात् स्वस्यैव परमेश्वरि | तस्माद् वृन्दावने देवि [अक्षरे हृदयङ्गमे इत्यपि पाठः |] कूटस्थहृदयङ्गमे || २६-५४ || लीलामनुभवन् तिष्ठेत् तिष्ठेत् पुनरागविवर्ज्जितः | इति ते निर्णयः प्रोक्तोऽनधिकारिणि सुन्दरि || २६-५५ || अतः परं च भजने निर्णयं वच्मि सं शृणु || २६-५६ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे षड्विंश पटलम् || २६-२६ || अथ सप्तविंशं पटलम् शिव उवाच नित्यानन्दविहाराणां प्रियाणां परमेशितुः | स्वभर्त्तुर्भजनं देवि कर्त्तव्य सर्वथैव हि || २७-१ || भजनाङ्गं सदाचारः कर्त्तव्यः कर्मशुद्धये | न सिद्धाः सिद्धिमवाप्स्यन्ति सदाचारविवर्जिताः || २७-२ || आचारहीनं न पुनन्ति वेदा आचारहीनं न तपः पुनाति | आचारहीनं न पुनन्ति तीर्थान्याचारहीनस्य न चैव सिद्धिः || २७-३ || आचारः प्रथमो धर्म आचारो हन्त्यलक्षणम् | आचाराल्लभते शुद्धिं तस्मात्तं सततं चरेत् || २७-४ || अनाचारेण मालिन्यं बुद्धिः समधिगच्छति | लीलावधारणं नास्ति मलिने बुद्धिदर्पणे || २७-५ || आचारः कथितः सद्भिः सर्वधर्मेषु सर्वदा | आचाररहितो धर्मो ह्यधर्मत्वेन कल्प्यते || २७-६ || आचाररक्षणं तस्मात्कर्त्तव्यं सर्वथा प्रिये | आचारो द्विविधः प्रोक्तो बाह्याभ्यन्तर एव च || २७-७ || भावसंशुद्धिमेवैकामाचारं ह्यान्तरं विदुः | तत्सिद्धये देहसाध्यो बाह्यः शौचादिरुच्यते || २७-८ || साध्यो भावः साधनं तु देहशुध्यादिकं प्रिये | तमाचारं प्रवक्ष्यामि येन संशुध्यते मनः || २७-९ || नाभाषेन्नावलोकेत शृणुयान्न कथञ्चन | न स्पृशेन्नोपजिघ्रेत नाश्नीयाद्विमतं च यत् || २७-१० || यदेश्वरगुणान्वक्तुमीहते वाक् विजृम्भिता | तदैनां विध्यते पाप्मा विद्धा विमतभाषिणी || २७-११ || यदेश्वरं मूर्त्तिमन्तमालोकयितुमिच्छति | चक्षुस्तदा पाप्मविद्धं विमत पश्यति प्रिये || २७-१२ || यदेश्वरगुणान् श्रोतुमीहते श्रोत्रमिन्द्रियम् | तदैव पाप्मना विद्धं जानीयाद्विमते च तत् || २७-१३ || यदा निवेदितान्नेन नियमं रसनेहते | तदैव पाप्मना विद्धा विमतं प्रतिपद्यते || २७-१४ || पापरूपं विजानीयाद्विमताचरणं च तत् | विमताचरणं पापमिन्द्रियमुपगच्छति || २७-१५ || निरावरणमेवैतद्ध्यानाभ्यासः प्रपद्यते | नियम्य चेन्द्रियाण्यादौ अभ्यासेन दृढीयसा || २७-१६ || यदा सर्वेन्द्रियाणां च नियमं कर्तुमक्षमः | रसनेन्द्रियमेवैकं जेयं सर्वजिगीषया || २७-१७ || जिते रसे जितः कामः जिते [जिततृष्णे इति पाठः |] कामे जितेन्द्रियः | जितजिह्वोपस्थरतेरसाध्यं किं तु [नु |] विद्यते || २७-१८ || सिसृक्षोर्ब्रह्मणः पूर्वं स्तनाद्धर्मो विनिर्गतः | वृषरूपश्चतुर्वेदचतुःपादः शुभाकृतिः || २७-१९ || ज्ञानं वैराग्यमत्युग्र यस्य शृङ्गद्वयं प्रिये | सत्यं तपः कर्णयुग दमो दानं तु चक्षुषी || २७-२० || लांगूलमस्य चैश्वर्यं रोमावलिः पुण्यसन्ततिः | तेन स्पृष्टाः प्रजाः सर्वाः शुद्धसत्वा बभूविरे || २७-२१ || ज्ञानवैराग्यसम्पन्ना मोक्षमार्गपरायणाः | तं दृष्ट्वा भगवान् ब्रह्मा पश्चात्पापमथासृजत् || २७-२२ || स पाप्मा महिषाकारस्तमोभूतः शरीरिषु | अज्ञानं चाप्यनैश्वर्यमवैराग्यमधर्मकम् || २७-२३ || चत्वारस्तस्य वै पादा छलद्रोहौ [श्रुतिद्वयम् |] शृङ्गद्वयम् | क्रोधमोहौ कर्णयुगं कामलोभौ हि चक्षुषी || २७-२४ || मात्सर्यमुग्रलांगूलं ब्रह्महत्या शिरोऽस्य च | सुरापानं च हृदय कटिः स्यादुपपातकम् || २७-२५ || तेन स्पृष्टाः प्रजाः सर्वा नष्टसत्त्वा [मलीमसः इति पाठः |] मलीमसा | ज्ञानवैराग्यरहिताः काम्यकर्मकृतश्रमाः || २७-२६ || आसुरेष्वेव भावेषु व्यसज्जन्त विमोहिताः | तस्मात्तं तु परिज्ञाय देहेन्द्रियचरं प्रिये || २७-२७ || स्वाचारमाचरेत्प्राज्ञो यथा स्यादुज्ज्वलात्मधीः | उज्ज्वलत्व तदा बुद्धेः समं पश्यति वै यया || २७-२८ || सुखेषु विद्यमानेषु दुःखशोकभयादिकम् | पश्यन् विरमते तेषु शुद्धत्वं च तदा धियः || २७-२९ || न व्यथेन्निंदया चित्तं हर्षते न च सस्तुवैः | उदासीनोरिमित्रेषु साम्य बुद्धिस्तदोज्वला || २७-३० || अलोलुपत्वमास्तिक्यं मुमुक्षुत्वं गभीरता | प्रसादः स्वात्मना सौख्यं लोकसङ्गनिवर्त्तनम् || २७-३१ || एकान्तसेवाभिरुचिर् दम्भमानविवर्ज्जनम् | एतानि यत्र जायन्ते तस्य बुद्धिः समुज्ज्वला || २७-३२ || आचारसेवनस्येह बुद्धिशुद्धिः परं फलम् | शुद्धायां ततो बुद्धौ लीलाध्यानेऽर्हतां व्रजेत् || २७-३३ || शास्त्रदुष्ट भावदुष्टं लोकदुष्टमथापि वा | वर्जयेन्मतिमान् देवि सत्वशुद्धिविधित्सया || २७-३४ || गुह्यशौचं पादशौचं हस्तशौचं महेश्वरि | मुखशौचं चतुर्थं च कुर्यात्सर्वत्र सर्वदा || २७-३५ || उच्छिष्टो न स्पृशेत् क्वापि सेवाद्रव्याणि शाम्भवि | प्रणम्य प्रविशेत्स्थानं निर्गच्छेच्च प्रणम्य च || २७-३६ || निष्ठीवनं प्रलापं च अधोवायुविसर्जनम् | औदासीन्यं भयं क्रोधं न कुर्यात्तत्र संस्थितः || २७-३७ || यथावर्णं यथाज्ञानं यथाज्येष्ठकनिष्ठकम् | तथैवोपविशेत्तत्र रागद्वेषविवर्जितः || २७-३८ || न निन्देन्मनसा वाचा कुमारीं ब्राह्मणं गुरुम् | दया भूतेषु कर्त्तव्या न हिंस्यात्कमपि प्रिये || २७-३९ || सर्वं सहेत परुषं देहानित्यत्वभावनात् | देहगेहकलत्राप्तमित्रद्रविणसम्पदः || २७-४० || स्वप्नविद्युन्निभाः पश्येन्नात्मानं तत्र सज्जयेत् | असदासक्तिवशतः संसारो न निवर्त्तते || २७-४१ || दानं दमो दया चेति न त्याज्यं सर्वथा त्रयम् | असत्यं न वदेद्वाक्यं वाचोऽपि मरणं हि तत् || २७-४२ || मृता वाक् नहि योग्या स्याद् गुणालापे परेशितुः | न परस्त्रीमुखे क्वापि दृष्टिं भोगेच्छया छिपेत् || २७-४३ || स्वस्मिन् स्त्रीभावनानश्येत्तस्मात्पातकमेव तत् | निर्विकाराणीन्द्रियाणि जातमात्रशिशोर्यथा || २७-४४ || ललनावृन्दमध्यस्थस्यापि चेतो द्विधा नहि | सखीभावः स्थिरस्तस्य विशुद्धश्च प्रियंवदे || २७-४५ || विशुद्धस्त्रीस्वभावा ये दृश्यन्ते पुरुषा अपि | निश्चयादवगन्तव्या प्रिया भगवतो हि ते || २७-४६ || स्त्रीदुष्टान् समयभ्रष्टान् भावनाविमुखान् शथान् | नास्तिकान् दुर्नयान्दुष्टान् परस्त्रीगमनोत्सुकान् || २७-४७ || विरोधिनः क्रूरचित्तान् श्रद्धाप्रेमविवर्जितान् | असदालापकान् देवि न पंक्त्यामुपवेशयेत् || २७-४८ || न पिबेत्तत्र पानीयमेकपात्रेण कर्हिचित् | पादुकावसनं शययाशयनासनसंस्थितिम् || २७-४९ || न कुर्यादेव तैः साकं दोषावेशोन्यथा भवेत् | अदृष्टपुरुषैर्देवि देशान्तरनिवासिभिः || २७-५० || इन्द्रियार्थरतैर्दम्भच्छलेनापि समागतैः | न स्थितिः सह कर्त्तव्या परानन्दोत्सवे प्रिये || २७-५१ || अस्नातोऽधौतपादो वा ह्यनाचारो भयाकुलः | अधौतवसनो वापि नोत्सवं प्रविशेत्क्वचित् || २७-५२ || उत्सवे गुणगानादि कुर्यात्कृष्णकथाः शुभाः | न लौकिकीं कथां कुर्याद्विवदेन्न परस्परम् || २७-५३ || न मर्माणि वदेद्देवि न चोपद्रवमाचरेत् | परस्परं तु देवेशि स्वात्म्यैक्यं भावयेद्धिया || २७-५४ || रसावेशस्तदाभूयान्निर्विकारा यदा स्थितिः | तस्मात्तत्प्रवणं चेतः प्रकुर्वीत महोत्सवे || २७-५५ || ध्यायन्ति केचन निमीलितपक्ष्मभारा गर्जन्ति हेतिपरिलब्धगुरुप्रमाणाः | नृत्यन्ति तद्रसविलीनमनोरथार्था भक्त्या द्रवन्त इव दृक्कमलैगैलद्भिः || २७-५६ || तद्ध्यानदृष्टपदहृष्टधियः प्रसन्नाः स्वानन्दसागरसमुच्छलदच्छभावाः | रोमाञ्चकञ्चुकविचित्रतनुप्रदेशा जानन्ति नेदमखिलं च विभिन्नलिङ्गाः || २७-५७ || यज्जातमुत्सवे किञ्चित् वृत्तान्तं साध्वसाधु वा | हृदयाद्विस्मृतमिव बहिर्नैव प्रकाशयेत् || २७-५८ || यथावर्णविभेदेन स्वीकुर्याच्च निवेदितम् | पृथगासनपात्राणि कारयेत् सुरवन्दिते || २७-५९ || परस्परं प्रणमेदेवं कुर्यान्महोत्सवोत्सवम् | स्वपुत्रस्त्रीजन्मदिने गुरोर्जन्मविपर्यये || २७-६० || मङ्गले सम्पदाधिक्ये लाभे भक्तसमागमे | व्यतीपाते तथाष्टम्यामेकादश्यां च संक्रमे || २७-६१ || पुष्यार्के चैव हस्तार्के ग्रहणे चन्द्रसूर्ययोः | कृष्णजन्माह्नि देवेशि राधाजन्मदिने तथा || २७-६२ || अवतारदिनेष्वेवं विष्णोरमिततेजसः | चैत्रे शुक्लस्य पञ्चम्यां भगवान्मीनरूपधृक् || २७-६३ || ज्येष्ठे शुक्ले द्वादश्यां ततः कूर्मस्वरूपधृक् | चैत्रे कृष्णनवम्यां तु हरिर्वाराहरूपधृक् || २७-६४ || वैशाखे शुक्लपक्षे तु चतुर्दश्यां दिनक्षये | प्रादुर्बभूव नृहरिर्भक्तरक्षार्थमुद्यतः || २७-६५ || वैशाखे शुक्लपक्षे तु तृतीयायां गिरीन्द्रजे | जमदग्निसुतो रामो रेणुकायामजीजनत् || २७-६६ || मासि भाद्रपदे देवि शुक्ले चैकादशी तिथिः | अदित्यां कश्यपाज्जातो वामनः सुरकार्यकृत् || २७-६७ || चैत्रे शुक्लनवम्यां तु रामो दशरथात्मजः | रावणस्य वधार्थाय कौशल्यायां परः पुमान् || २७-६८ || श्रावणे बहुले पक्षे अष्टम्यां च महानिशि | कृष्णः प्रादुरभूद् देवि सुरकार्यचिकीर्षया || २७-६९ || नभसे तु द्वितीयायां बलभद्रोऽभवद्धरिः | पौषशुक्ले तु सप्तम्यां बौद्धः प्रादुर्भविष्यति || २७-७० || माघशुक्लतृतीयायां कल्की प्रादुर्भविष्यति | एतेष्वन्येषु पुण्येषु दिवसेषु विशेषतः || २७-७१ || प्रकुर्यादुत्सवं देवि वित्तशाठ्यविवर्जितः | नोत्सवो भक्ष्यभोज्याद्यैर्न पुष्परचनादिभिः || २७-७२ || रसावेशो भवेद्यत्र तमाहुः परमोत्सवम् | निर्विकारं भवेच्चित्तं भगवज्ज्ञानगोचरम् || २७-७३ || प्रेमैकरर्सिकं [प्रेमैक्य रासिकं इत्यपि पाठः |] शुद्धं तत्रावेशो भवेद्ध्रुवम् | उत्सवे देवदेवेशि त्रिविधैव जनसङ्गमः || २७-७४ || प्रियाणां वासनाश्चैको देवसर्गो द्वितीयकः | तृतीयो गौतमैः शप्ता ये च वैडालिनः स्मृताः || २७-७५ || वासनासु रसावेशः शुद्धो नैवात्र संशयः | देवेषु देवतावेशो भगवत्प्रेमवत्स्वपि || २७-७६ || प्रेमहीना दुराचाराः परस्त्रीधनलम्पटाः | पिशुनाः वञ्चकाः क्रूराः कुटिलाः पापचारिणः || २७-७७ || आचाररहिता दुष्टा निर्लज्जाः कलहोत्सुकाः | आसुरं भावमापन्ना वेदशास्त्रार्थनिन्दकाः || २७-७८ || ते वै वैडालिनो देवि ह्यधिकारविवर्जिताः | असुरावेशिणस्ते तु मयोक्तमवधार्यताम् || २७-७९ || जानीयात्तत्तदावेशं तत्तच्चेष्टानुरूपतः | इत्येतान् त्रिविधान् ज्ञात्वा महोत्सवगतान् शिवे || २७-८० || व्यवहार्यं यथायोग्यं सङ्करो न भवेद्यथा | यथायोग्यं यथाकालं यथाद्रव्यं यथोचितम् || २७-८१ || तथा कुर्यान्महेशानि ह्यन्यथा पतितो भवेत् | इति तेऽभिहितं देवि किं भूयः श्रोतुमिच्छसि || २७-८२ || तदहं ते प्रवक्ष्यामि सुगुह्यमपि विस्तरात् || २७-८३ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे सप्तविंशं पटलम् || २७-२७ || अथ अष्टाविंशं पटलम् पार्वत्युवाच पुनर्ब्रूहि महादेव यथा स्याद्भजनोदयः | कं वा गुरुमुपासीत कथं ज्ञानोदयो भवेत् || २८-१ || शिव उवाच साधु पृष्टं त्वया भद्रे प्रवक्ष्यामि यथातथम् | गोपनीयं प्रयत्नेन दर्शयेन्नैव कस्यचित् || २८-२ || मायाग्रस्तमिदं विश्वं नानादुःखभयातुरम् | अनित्यभवसन्तापपरितप्त समन्ततः || २८-३ || कालदण्डभुजङ्गेन ग्रस्तमानमहर्निशम् | दृष्ट्वा विरक्तः सततं स्वात्मनः शिवहेतवे || २८-४ || सद्गुरोः शरणं यायात् शुद्धभावेन भामिनि | गुरवो बहवः सन्ति दीपवच्च गृहे गृहे || २८-५ || दुर्लभा गुरवो देवि ! सूर्यवत्सर्वदीपकाः | गुरवो बहवः सन्ति शिष्यवित्तापहारकाः || २८-६ || विरला गुरवो देवि ! शिष्यहृत्तापहारकाः | शुद्धान्वयः शुद्धचेत्ताः शुद्धवेशः शुभाकृतिः || २८-७ || शुभवादी शुभाचारः शुद्धभावः शुचिः स्वयम् | वेदशास्त्रार्थतत्त्वज्ञो लोकसङ्गविवर्ज्जितः || २८-८ || अलोलुपः सुशीलश्च दयादाक्षिण्यसंयुतः | त्यागी विरागी गुणवान् गुणज्ञः शिष्यवत्सलः || २८-९ || येन केनापि सन्तुष्टः शरण्यः क्रोधवर्ज्जितः | स्वसिद्धान्तार्थतत्त्वज्ञो मितवाक् लोकवल्लभः || २८-१० || पवित्रः संशयच्छेत्ता कृष्णप्रेमपरिप्लुतः | एवं विधं गुरुं ज्ञात्वा कृपापीयूषवर्षिणम् || २८-११ || फलपुष्पादिहस्तश्च गच्छेदभिमुखं गुरोः | गुरोर्मन्दिरमासाद्य नत्वा तद्देहलीं प्रिये || २८-१२ || आज्ञया सद्गुरोर्देवि दक्षपाद पुरःसरम् | प्रविश्य तद्गृहं साज्ञाद्दण्डवत्प्रणमेच्च [तत् इत्यपि पाठः |] तम् || २८-१३ || भो नाथकरुणासिन्धो संसारार्णवतारक | भ्रान्तं संसारगहने नानातापसमाकुले || २८-१४ || अत्यन्तदीनहृदयं सर्वसाधनवर्जितम् | अज्ञानपङ्कनिर्मग्नं मामुद्धर दयानिधे || २८-१५ || अहं त्वां शरणं प्राप्तः शरण्यस्त्वं दयानिधिः | अविलम्बेन संसारविच्छेदं कुरु मे प्रभो || २८-१६ || एवं सम्प्रार्थितः सोऽथ गुरुनाथः कृपानिधिः | पूर्वं परीक्षितं विप्रं वर्षेणैकेन सुन्दरि || २८-१७ || वर्षाभ्यां क्षत्रियं देवि वैश्यं संवत्सरैस्त्रिभिः | चतुर्भिर्वत्सरैः शूद्रं बोधयेद्विरहातुरम् || २८-१८ || यदिचेद्वासनाजीवस्तदा बोध्यश्च सर्वथा | स्वाप्निकश्चेत्तदा त्याज्यः अधिकारविपर्ययात् || २८-१९ || परीक्षा लक्षणैर्देवि पुरा प्रोक्ता मयानघे | अपरीक्षितजीवाय वितरेद्यदि बोधनम् || २८-२० || न गुरुं तं विजानीयात् वासनापि न सा भवेत् | शिष्येभ्यो धनमादाय सुखीस्यामिति यस्य धीः || २८-२१ || न गुरुं तं विजानीयात् केवलं धूर्त एव सः | धनाहारार्जने युक्ता दाम्भिका वेषधारिणः || २८-२२ || भ्रामयन्ति जनान् सर्वान् ज्ञानिवत्प्रियदर्शनाः | शिष्येणापि गुरुर्देवि परीक्ष्यः सर्वथैव हि || २८-२३ || यद्यज्ञानवशात् शिष्यो गुरुं लक्षणवर्जितम् | जानीयात्तत्क्षणं त्यक्त्वा गुरुमन्यं समाश्रयेत् || २८-२४ || गन्धलुब्धो यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् | ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् || २८-२५ || त्यजेन्मित्रममर्मज्ञं नारीं च व्यभिचारिणीम् | अहन्तादुष्टसम्बन्धं ज्ञानहीनं गुरुं त्यजेत् || २८-२६ || नदत्सु पञ्चवाद्येषु ब्राह्मणेषु पठत्सु च | गायन्तीषु तथा स्त्रीषु शिष्यं सम्बोधयेद् गुरुः || २८-२७ || आदौ शिष्यस्य देहं तु शोधयेन्निपुणो गुरुः | असंस्कृतशरीरस्तु न योग्यः स्यात्कथंचन || २८-२८ || कृतस्नानं समाहूय मुखाग्रे स्थापयेच्च तम् | शुभासनश्वेतवस्त्रवसानं मलवर्जितम् || २८-२९ || बोधयेत्तद्धृदाम्भोजे प्रदीपकलिकाकृतिः | आत्मचैतन्यमीशानि तच्च स्वात्मनि योजयेत् || २८-३० || ततोऽस्यपदयुगले भुवनानि चतुर्दश | लिङ्गप्रदेशेऽस्य भूतानि चिन्तयेत्परमेश्वरि || २८-३१ || अवशिष्टानि तत्त्वानि चिन्तयेद्धृदयाम्बुजे | कण्ठदेशे नादविन्दुगुणांश्च परिचिन्तयेत् || २८-३२ || ब्रह्मरन्ध्रे परं ब्रह्म पुरुषं प्रकृतीश्वरम् | एवं संचिन्त्य देवेशि जुहुयात्तान्यनुक्रमात् || २८-३३ || जुहुयाल्लिङ्गदेशेस्य भुवनानि चतुर्दश | लिङ्गदेशस्थभूतानि हृदितत्वेषु होमयेत् || २८-३४ || हृदयस्थानि [हृदये यानि इति वा पाठः |] तत्वानि बिन्दुनादे च ह्यर्पयेत् | ब्रह्मरन्ध्रे चिते देवि परब्रह्मणि निष्कले || २८-३५ || नादबिन्दुगुणान् हुत्वा प्रपञ्चविलयं स्मरेत् | निष्प्रपञ्चं तदा शिष्यं बोधयेत्परमेश्वरि || २८-३६ || न वर्णेषु तदा कश्चित् ब्राह्मणक्षत्रियादिषु | न देवोऽसि न गन्धर्वो नासुरः पन्नगोऽपि वा || २८-३७ || न त्वं देहो न त्वद्दहो नेन्द्रियाणि तथा मनः | न च प्राणो न बुद्धिस्त्व नाहङ्कारो भवान्मतः || २८-३८ || क्षरः सर्वप्रपञ्चोऽयमक्षरे प्रतिबिम्बतः | अक्षरस्य दिदृक्षाभूद् ब्रह्मलीलावलोकने || २८-३९ || तत्प्रियायाऽभवत्कामोऽक्षरलीलानिरीक्षणे | तत इच्छा समुद्भूता ब्रह्मण्यज्ञानमसृजत् || २८-४० || मोहाण्डं प्रविशन् साक्षी ददर्श स्वप्नगं जगत् | तत्र वृन्दावने रासलीलायां रमिता प्रिया || २८-४१ || अन्तर्हिते प्रिये कृष्णे दुःखाद्दुःखतरं गता | कालमायान्धकारोऽस्मिन् भ्रान्तासि बहुधा मुधा || २८-४२ || श्रीकृष्णस्य प्रिया चासि पूर्णस्य परमात्मनः | उद्बुध्य स्वप्नतश्चित्ते प्रियाभावं निजं श्रय || २८-४३ || तिरोभूय [तिरोभवित्री शनकैर्मायादेहमित्यपि पाठः |] च शनकैर्मायादेहमनीप्सितम् | क्षरं चैवाक्षरं हित्त्वा स्वपतिं पुनरेष्यसि || २८-४४ || ब्रह्मानन्दरसज्ञानां [क्वचित्पुस्तके ४४-५५ श्लोकयोर्मध्ये एते ४५-५४ श्लोका नोपलभ्यन्ते | १८ मा०] ब्रह्मज्ञानवतां सताम् | पद्धतिं ब्रह्मसृष्टीनां वक्ष्यामि शृणु सुन्दरि || २८-४५ || गोत्रमुक्तं चिदानन्दं ब्रह्मानन्दो हि सद्गुरुः | शिखा ज्ञानमयो प्रोक्ता सूत्रमक्षररूपकम् || २८-४६ || किशोरी परमेष्टा च सेवनं पौरुषोत्तमम् | पातिव्रत्यमनन्यत्वं साधनं समुदाहृतम् || २८-४७ || वृन्दावनं नित्यमुक्तं विलाससुखसञ्ज्ञकम् | जाप्यं च युगलं नाम तारतम्यो (मो) मनुः स्मृतः || २८-४८ || ब्रह्मविद्या परा देवी देवो ब्रह्म सनातनम् | शाला गोलाक इत्युक्तो द्वारमूर्ध्वमुदाहृतम् || २८-४९ || स्वसंवेदः [सुसंवेदः सूक्ष्मो वेदः इत्यपि पाठः | स्वसंवेद्यः इत्यपि कश्चित् |] समादिष्टः फलं नित्यविहारकम् | दिव्यब्रह्मपुरं धाम परात्परमुदाहृतम् || २८-५० || सद्गुरोश्चरणं क्षेत्रं सर्वशुद्धिकरं परम् | यमुनासञ्ज्ञकं तीर्थं मननं प्रेमलक्षणम् || २८-५१ || श्रीमद्भागवतं प्रोक्तं श्रवणं सारमद्भुतम् | ऋषिः प्रोक्तो महाविष्णुर्ज्ञानं जाग्रत्स्वरूपकम् || २८-५२ || आनन्दाख्यं कुलं प्राप्तं नित्ये धाम्नि प्रकीर्तितम् | सम्प्रदायश्चिदानन्दो निजानन्दैः प्रकाशितः || २८-५३ || एवं पद्धतिराख्याता पुरुषोत्तमसञ्ज्ञिका | वर्तितव्यं ततो भद्रे साधनैरात्मलब्धये || २८-५४ || प्रबोध्यैवं गुरुस्तस्मिन् चैतन्यं परमेश्वरि | दिव्यदृष्ट्यावलोकेन स्थापयेत्पुनरेव तत् || २८-५५ || ब्रह्मरन्ध्रपथा तस्मिन् चावतीर्ण इति स्मरन् | कण्ठदेशे नादबिन्दू स्थापयेच्च ततः परम् || २८-५६ || तत्वानि हृदयाम्भोजे लिङ्गे भूतानि पञ्च च | ततः पादप्रदेशे तु स्थापयेद्भुवनावलिम् || २८-५७ || एवं विराजं संस्कृत्य ततो मन्त्रं समादिशेत् | मन्त्रोपदेशतः पूर्वं गुरुं सम्पूजयेत्प्रिये || २८-५८ || सर्वस्वदक्षिणां दत्वा कृतकृत्यो भवेद्धि सः | तदर्द्धं वा तदर्धं वा तदर्द्धार्द्धमथापि वा || २८-५९ || सन्तोषयेद् गुरुं भक्त्या धनधान्याम्बरादिभिः | अन्येभ्योऽपि यथाशक्ति भूषावस्त्रादिकं ददेत् || २८-६० || साष्टाङ्गं च ततो देवि ! दण्डवत्पतितो भुवि | प्रणमेद् गुरुमात्मीयं गुरुरुत्थापयेच्च तम् || २८-६१ || उपवेश्य पुनः पार्श्वे लीलाभेदान् समादिशेत् | लीलाभेदा गुरुमुखाद्बोद्धव्या एव सुन्दरि || २८-६२ || ततो रहो रहश्चैव संस्थितो भावयेच्च तान् | प्रियाभावो यदा बुद्धेः कृतकृत्यो भवेत्तदा || २८-६३ || इति तेऽभिहितं देवि गोप्याद्गोप्यतरं च यत् | समासेन महादेवि ! भूयः किं श्रोतुमिच्छसि || २८-६४ || इति श्रीनारदपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वतीसंवादे अष्टाविंशतिततं पटलम् || २८-२८ || अथ एकोनत्रिंशं पटलम् पार्वत्युवाच ब्रूहि तं च महेशान् मन्त्रराजं महेश्वरम् | यस्य श्रवणमात्रेण सर्वमन्त्रफलं भवेत् || २९-१ || श्रीमहादेव उवाच देवेशि मन्त्रराजोऽयं भाति गोप्यतरो महान् | पातकानि प्रलीयन्ते सकृद्यस्य जपादपि || २९-२ || सप्तकोटिमहामन्त्रास्तवाग्रे कथिता मया | तेषु श्रीकृष्णमन्त्राश्च बहवः कीर्त्तितास्तव || २९-३ || रासलीलाप्रविष्टस्य [मया इ० पा० |] पुरा गोपालरूपिणः | प्रोक्ता मन्त्रा महेशानि तत्रायं गोपितो मया || २९-४ || रहस्यत्त्वान्मया नोक्तः पुनस्तं परिपृच्छसि | त्वयापि गोपितव्योऽयं न देयः स्यात्कथञ्चन || २९-५ || लेखयित्त्वा ददेन्मन्त्रं न वाचोपदिशेत्प्रिये | ब्रह्महत्यासहस्राणां दत्त्वा पापमवाप्नुयात् || २९-६ || निर्धारत्वे वासनाया यदि प्रेमोद्गमो भवेत् | तदैवोपदिशेद्देवि ह्यन्यथा कृष्णघातकः || २९-७ || विधिः सर्वोऽपि कर्त्तव्यो मन्त्रदानं विना प्रिये | ततः [परिणते इ० पा० |] परीक्षिते काले योग्यत्वे मन्त्रमादिशेत् || २९-८ || शृणु मन्त्रं प्रवक्ष्यामि सावधानेन चेतसा | स्वर [आद्यः स्वरोऽकारः चतुर्थश्च दीर्घ इकारोऽर्धमात्रबिन्दुयोगेन आकाशोऽहमिति व्योमबीजम् |] आद्यश्चतुर्थश्च आकाशस्तदनन्तरम् || २९-९ || वायुबीजं ततः पश्चात् अग्निबीजमतः परम् | ततो वरुणबीजञ्च भूबीजं स्यात्ततः परम् || २९-१० || श्रीकृष्ण परमानन्द ते प्रियास्मीति वै वदेत् | मामङ्गीकुर्विति चोक्त्त्वा दर्शयेति द्वयं वदेत् || २९-११ || प्रबोधयेति द्वितीयं मोहेति च ततो वदेत् | मपाकुरुद्वयं चोक्त्त्वा नमोन्तोऽयं महामनुः || २९-१२ || एकोनैकोनपञ्चाशद्वर्णैः सङ्घटितः प्रिये | आद्यबीजं महेशानि परमात्माक्षरः प्रभुः || २९-१३ || तस्मात्सृष्टिर्वर्णमयी हकारान्ताविजृम्भिता | प्रतिलोमलयं तस्याः स एव परिशिष्यते || २९-१४ || अनन्तत्वादात्मतत्वाद् व्यापकत्वान्महेश्वरि | न तस्यास्ति लयः क्वापि वर्णानामात्मनः प्रिये || २९-१५ || स्वरश्चतुर्थस्तन्माया ह्युपर्यङ्कुरतां गता | ततो ज्ञानहरा देवि जाता सा विश्वमोहिनी || २९-१६ || मध्यबिन्दुसमायोगाच्छून्यरूपा हि साभवत् | शून्यत्त्वेधस्तना रेखा जगदङ्कुररूपिणी || २९-१७ || अर्द्धबिन्दुसमायोगाद्योगमायात्मिका हि सा | एवं त्रितययोगेन ज्ञेयं तस्या गुणत्रयम् || २९-१८ || प्रतिबिम्बवदाभास [भात इ० पा० |] निर्मले परमात्मनि | यदा समरसाकारा विश्वयोनिस्तदा हि सा || २९-१९ || कोणत्रयसमायोगा ब्रह्मादित्रितयात्मिका | लोकत्रयात्मिका चैव तथा वेदत्रयात्मिका || २९-२० || इच्छाज्ञानक्रियात्मा च कालत्रितयरूपिणी | अग्निसोमार्करूपा [अग्निष्टामार्क इ० पा० |] च सर्वत्रितयरूपिणी || २९-२१ || अधोमुखा हि सा ज्ञेयावतरन्ती परात्मनः | यदा चोर्ध्वमुखी भूयाद्वह्निज्वालेव सा लये || २९-२२ || शून्यत्वेऽधस्तना रेखा जगदङ्कुररूपिणी | यदेव च महत्तत्त्वमित्याहुस्तन्त्रवादिनः || २९-२३ || अहङ्कारस्तु रेखान्तस्तद्गुणोपाधिसङ्गतः | त्रिविधः स तु विज्ञेयस्तस्माद्भूतानि जज्ञिरे || २९-२४ || तद्वाचकान्यक्षराणि हकारादीनि पञ्च च | पुरतस्तानि दृश्यन्ते मन्त्रराजे महेश्वरि || २९-२५ || आकाशस्तु हकारस्थो देवता तु सदाशिवः | गुणः शब्दस्तथा श्रोत्रं श्रोतव्या दिक् च सुन्दरि || २९-२६ || यकारे देवदेवेशि वायुरीश्वर एव च | स्पर्शस्त्वगिन्द्रियं देवि स्पृष्टव्यं च महीरुहम् || २९-२७ || रकारेऽग्निरह देवि रूपं चक्षू रविस्तथा | दृष्टव्यं चेति विज्ञेयं मञ्जूषामणिवत्तथा || २९-२८ || वकारे सलिलं विष्णु रसश्च रसनेन्द्रियम् | रसितव्यं च वरुणो देवता चेति संस्थिता || २९-२९ || लकारे पृथिवीतत्वं ब्रह्मा गन्धश्च नासिका | घ्रातव्यमश्विनौ देवि देवता चेति संस्थिता || २९-३० || इत्येवं पञ्चभूतानां बीजकार्यं तदीश्वरि [बीजोऽयं कार्यमीश्वरि इ० पा० |] | सदृशं [कथितस्तेन यमाहुःक्षरसंज्ञया इ० पा० |] कथितं ते च यदाहुः क्षरसञ्ज्ञया || २९-३१ || अकारः परमं ब्रह्म कूटस्थ व्यापकं ध्रुवम् | अनुत्तरं निर्विशेष चिदंशस्तेन कथ्यते || २९-३२ || अक्षरातीतरूपोऽसौ शेषवर्णैर्मनुः स्मृतः | तस्मादहो सच्चिदानन्दरूपोऽय मन्त्रनायकः || २९-३३ || मननं विश्वविज्ञानं त्राणं संसारसङ्कटात् | यतः करोति संसिद्धो मन्त्र इत्युच्यते प्रिये || २९-३४ || मन्त्रचूडामणिं ज्ञात्वा मुच्यते सर्वसंशयात् | विज्ञाते मन्त्रराजन्ये ज्ञातव्यं नावशिष्यते || २९-३५ || शाब्दं वपुः परानन्दवपुषः परमेश्वरि | मन्त्रचूडामणिरयं मया ते परिकीर्तितः || २९-३६ || अकथ्यः पारमार्थ्येन तथापि कथितस्तव | गोपनीयः प्रयत्नेन जननी जारगर्भवत् || २९-३७ || पश्यन्ति ये शठधियो वर्णबुध्या महामनुम् | ते यान्ति नरकान् सर्वे यावदाभूतसप्लवम् || २९-३८ || पुरुषं मन्त्रजप्तारं ये पश्यन्ति नराधमाः | तेषां पापानि नश्यन्ति ब्रह्महत्यादिकान्यपि || २९-३९ || कोटिकल्पेषु पापिष्ठा नित्यं पापपरायणाः | तेऽपि शुध्यन्ति सम्पर्कान्मन्त्रजप्तुर्न संशयः || २९-४० || लब्धे चिन्तामणौ देवि किमन्यैर्धनसञ्चयैः | तथा लब्धे मन्त्रराजे किमन्यैः साधनैर्भवेत् || २९-४१ || एतन्मन्त्रार्थविज्ञानं मन्त्रसिद्धान्तसूचकम् | यो नित्यं भावयेच्चित्ते वासना तस्य शुध्यति || २९-४२ || विहाय मायामालिन्यं देहेन्द्रियनिबन्धनम् | वासना सम्मुखीभूयाद्विवेकं प्रनिबिम्बवत् || २९-४३ || मन्त्रमाहात्म्यमेतत्तु मया ते परिकीर्तितम् | किमन्यत् श्रोतुमिच्छा ते तदिदानीं वद [वदाम्यहम् इ० पा० |] प्रिये || २९-४४ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे एकोनत्रिंशतितमं पटलम् || २९-२९ || अथ त्रिंशं पटलम् पार्वत्युवाच भगवन्देवदेवेश श्रोतुमिच्छाम्यहं पुनः | मन्त्रस्य साधनं साक्षात् यत्कृत्वा साङ्गता भवेत् || ३०-१ || शिव उवाच शृणु त्वं देवदेवेशि मन्त्रराजस्य साधनम् | ऋषिरस्य स्मृतो देवि परात्मा पुरुषोत्तमः || ३०-२ || छन्दोनुष्टुप्समाख्यातं श्रीकृष्णो देवतास्य च | अहं बीजं नमः शक्तिर्विनियोगः प्रसादने || ३०-३ || ऋषिः शिरसि विन्यस्य छन्दस्तु मुखमण्डले | देवता हृदये न्यस्य बीजं पादयुगे न्यसेत् || ३०-४ || कटिदेशे न्यसेच्छक्तिं नियोगः करसम्पुटे | एवं ऋष्यादिकं न्यस्य वर्णन्यासं ततश्चरेत् || ३०-५ || अथ बीजं न्यसेन्मूर्ध्निन्यसेन्माया ललाटके | व्योमबीजं न्यसेत्कर्णयुगलेऽथ समीरणम् || ३०-६ || न्यसेत्त्वचि ततो नेत्रे वह्निबीजं न्यसेत्प्रिये | जिह्वायां वारुणं बीजं पृथ्वीबीजं च नासयोः || ३०-७ || श्रीकारं कण्ठदेशे तु कृकारं हृदये न्यसेत् | ष्णं पं न्यसेत्कुचद्वन्द्वे वामादि परमेश्वरि || ३०-८ || रकारं चैव माकार कुक्षियुग्मे च वामतः | नकारं च दकारं च न्यसेत्कट्योस्तथैव हि || ३०-९ || तेकारं विन्यसेल्लिंगे प्रिया वर्णावुरुद्वये | स्मिमार्णद्वयं देवि जानुयुग्मे तथा न्यसेत् || ३०-१० || मं गी वणौं च देवेशि जङ्घायुग्मे प्रविन्यसेत् | कुर्वित्यक्षरयोर्द्वन्द्वं पार्ष्णिद्वन्द्वे नियोजयेत् || ३०-११ || दकारं च शकारं च प्रपदद्वन्दके न्यसेत् | प्रकारं चैव बोकारं न्यसेत्पादतलद्वये || ३०-१२ || धं न्यसेदङ्गुलीष्वेव अङ्गुल्यन्तेषु यं न्यसेत् | तलादिजानुपर्यन्तं प्रबोवर्णद्वय पुनः || ३०-१३ || जान्वादिनाभिपर्यन्तं धयवर्णद्वयं न्यसेत् | मोकारं विन्यसेन्नाभौ हकारमुदरे न्यसेत् || ३०-१४ || मपावर्णौ स्कन्धयुगे कुरु कक्षा युगेन्यसेत् | कुरुवर्णद्वयं दोष्णोर्गल्लयोश्च प्रविन्यसेत् || ३०-१५ || नमः शिखायां विन्यस्य समग्रं व्यापकं न्यसेत् | एवं [एवं न्यस्तशरीरोऽसौ इ० पा० |] न्यासाच्छरीरेऽसौ जायते मन्त्ररूपधृक् || ३०-१६ || अलौकिकं वपुः कृत्वा गच्छेद् ध्यानेन तत्पदम् | तत्प्रकारं प्रवक्ष्यामि सुगुप्तमपि सुन्दरि || ३०-१७ || वर्णरूपं वपुर्ध्यायेत् पञ्चभूतमयान् हि तान् | तत्तत्कारणभूतेषु तत्तत्कार्य विलोपयेत् || ३०-१८ || पादादिजानुपर्यन्तं पृथ्वीतत्वं विचिन्तयेत् | पृथ्वीतत्त्वमयान् वर्णान् प्रवक्ष्यामि समासतः || ३०-१९ || पञ्चमश्चैव षष्ठश्च त्रयोदश एव च | स्वराणां त्रितयं चैतत् आकाशादग्रिमाक्षरम् || ३०-२० || स्पर्शेषु चाष्टमश्चैव तथा चैव त्रयोदश | दवलाश्चेति वै वर्णाः पार्थिवाः परिकीर्त्तिताः || ३०-२१ || ऋ ऋ औ घ झ ढ ध भ वर्णास्ते वारुणाः स्मृताः | जान्वादिकटिपर्यन्तं जलतत्वगतान् स्मरेत् || ३०-२२ || इ ई ए ख छ ठ थ फ र क्षास्ते वह्निरूपिणः | कट्यादिकण्ठपर्यन्तं तेजस्तत्वगतान् स्मरेत् || ३०-२३ || अ ऐ कचटतपसषाः मारुताः कथिताः प्रिये | कण्ठादिभ्रूप्रदेशान्तं वायुतत्वमयान्स्मरेत् || ३०-२४ || ऌ ऌ अंङञणनमशबहानाभसाः स्मृताः | भ्रूमध्यादिब्रह्मरन्ध्रस्थिताकाशमयान् स्मरेत् || ३०-२५ || तत्तद्वर्णविलोपन्तु कारयेत्कारणाक्षरे | हित्वा स्थौल्यं भूतमयं सूक्ष्मं शब्दमयं ततः [गतः इ० पा० |] || ३०-२६ || शब्दब्रह्मशरीरोऽसौ सर्वकारणकारणम् | सहस्रदलपद्मस्य कर्णिकायां व्यवस्थितम् || ३०-२७ || अकार केवलं ध्यायेदुदरे निष्कलं प्रिये | अकार [अकारोदरमाकाशे इ० पा० |] चोदराकाशे दहरास्ते महेश्वरि || ३०-२८ || पूर्वानुभूता रासलीला व्रजलीलाश्च संस्मरेत् | अहं प्रिया भगवतः कामस्य कामरूपिणी [कामरूपिणः इ० पा० |] || ३०-२९ || कृष्णस्येति दृढाभ्यासवशगेनैव चेतसा | संस्मरेत्परमेशानि नान्यत् किञ्चन चिन्तयेत् || ३०-३० || अथ तेनैव मार्गेण शाब्दं चापि वपुस्त्यजेत् | शब्दातीतं परं धाम रसानन्दमहार्णवम् || ३०-३१ || नानाकेलिकलापूर्णं नानापक्षिनिनादितम् | भ्रमद्भ्रमरझङ्कारमुखरीकृतदिङ्मुखम् || ३०-३२ || स्वप्रकाशं समभ्येत्य स्वरूपं चिन्तयेत्तदा | नवयौवनसम्पन्नमनोहररतिप्रियम् || ३०-३३ || क्वणन्नूपुरसंशोभिपादाम्भोजविराजितम् | लाक्षारसाक्तचरणं क्वणत्किङ्किणिमेखलम् || ३०-३४ || नवीनयौवनोत्तुङ्गकुचभारमहालसम् | कराङ्गुलीयनिवहोल्लसदङ्गुलिपल्लवम् || ३०-३५ || नानालङ्कारसुभगं कौसम्भाम्बरशोभितम् | मुक्ताहारोल्लसद्वक्षः स्फुरमाणमणिप्रभम् || ३०-३६ || कामकोदण्डकुटिलभृकुटीविशिखेक्षणम् | मुक्तादामलसद्भालं काश्मीरतिलकोज्वलम् || ३०-३७ || दिव्यचन्दनलिप्ताङ्गं दिव्यपुष्पस्रगाकुलम् | भालप्रदेशविलसत्सुरत्नतिलकोज्ज्वलम् || ३०-३८ || ध्यात्वैवं स्ववपुर्दिव्य सखीयूथगतं स्मरेत् | यूथमध्यगतं कृष्ण ध्यात्वानन्येन चेतसा || ३०-३९ || प्रार्थयेत्तं पतिं तत्र सस्मिताननसुन्दरम् | प्राणनाथ त्वदीयाहं त्राहि दुःखेष्वनेकधा || ३०-४० || त्वामहं विस्मृता नाथ परमानन्दपेशल | अनुभूता स्वप्नलीला नानादुःखौघसङ्कुला || ३०-४१ || कालो महान् व्यतीतोऽयं त्वां विना पुरुषोत्तम | स्वप्ने मया बहुभ्रान्तं देहगेहातिसक्तया || ३०-४२ || क्वचिन्मनुष्यरूपेण देवरूपेण वा क्वचित् | गन्धर्वोरगरूपेण [ब्रह्मसृष्टीनामीदृशी दशा कदापि न भवति | किन्तु प्रार्थनामात्रमिदं अथवा तु प्रार्थनेयं जीवानां कृते बुधैरिति बोध्यम् |] पशुरूपेण वा क्वचित् || ३०-४३ || चेष्टापितो मया ह्यात्मा स्वप्ने मायाविनिर्मिते | इदानीं कृतकृत्यास्मि नष्टस्वप्नमयाकृतिः || ३०-४४ || विलोकय कृपादृष्ट्या दृष्टं देव विना त्वया | इति सम्प्रार्थ्य भर्त्तारं प्रणमेत्पादपङ्कजम् || ३०-४५ || प्रोत्थापिता पुनस्तेनालिङ्गिता च मुहुर्मुहुः | दत्ताधरसुधाचापि सखीयूथस्य पश्यतः || ३०-४६ || परस्परं वीक्ष्यमाणा सखिभिः कृतकौतुकम् [वीक्ष्यमाणः सखीभिः कृतकौतुकः इ० पा० |] | नित्यानन्दविहारेषु भूमिकासु दशस्वपि || ३०-४७ || पुष्परागमयभ्राजत्पर्वतापत्यकासु च | नीलमाणिक्यशैलोरुशिखरेषु विशेषतः || ३०-४८ || यमुनासप्ततीर्थेषु नानावृक्षोदयेषु च | मणिमण्डपविभ्राजत्कुट्टिमैर्मण्डितेषु च || ३०-४९ || नानाविहारसङ्केते नीयमाना प्रियेण हि | तत्र तत्र महालीलारसानन्दपरिप्लुता || ३०-५० || षोडशस्थम्भविभ्राजन्मणिकुट्टिममागता | सखीसमाजमध्यस्थं कृष्णं दृष्ट्वा पुरः स्थिता || ३०-५१ || लालिता प्राणनाथेन वचनामृतवर्षिणा | एवं धारणया देवि मनो यावत्स्थिरं भवेत् || ३०-५२ || तावदेनाभ्यसेल्लीलामेवमात्मा विशुध्यति | एतत्ते कथितं देवि मन्त्रध्यानादिकं मया || ३०-५३ || समासेन महेशानि किं भूयः श्रोतुमिच्छसि | तदहं ते प्रवक्ष्यामि शपथस्तव सुव्रते || ३०-५४ || इति श्रीनारदपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वतीसंवादे त्रिंशं पटलम् || ३०-३० || अथ एकत्रिंशं पटलम् पार्वत्युवाच ब्रूहि सेवाप्रकारं मे येन तुष्येत् स्वयं प्रभुः | कथं पूजा प्रकर्त्तव्या व्यवहारश्च कीदृशः || ३१-१ || शिव उवाच शृणु देवि प्रवक्ष्यामि व्यवहारार्चनादिकम् | तुर्ये यामे समुत्थाय शययायामेव सुव्रते || ३१-२ || ब्रह्मरन्ध्रे गुरुं ध्यायेत् कर्पूरधवलप्रभम् | द्विनेत्रं द्विभुजं चैव श्वेतवस्त्रानुलेपनम् || ३१-३ || पञ्चभूतात्मकैरेव पञ्चभिरुपचारकैः | पूजयेद् देव देवेशि आत्मानं तद्गतं स्मरेत् || ३१-४ || तच्चरणोदकधारानिपतितं स्वमूर्द्धनिः | क्षालितं निर्मलं शुद्धमात्मानं परिचिन्तयेत् || ३१-५ || नमोऽस्तु गुरवे तस्मै इष्टदेवस्वरूपिणे | यस्य वागमृतं हन्ति विषं संसारसञ्ज्ञकम् || ३१-६ || गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवः सदाशिवः | गुरुरेव परं तत्त्वं [ब्रह्म इ० पा० |] तस्मै श्रीगुरवे नमः || ३१-७ || प्रणम्य मन्त्रयुग्मेन हृदि लीनं विभावयेत् | ततो लीलाविहारस्य ध्यायेत्कृष्णं हृदाम्बुजे || ३१-८ || पूजयेत्पूर्ववद्देवि ह्युपचारैश्च पञ्चभिः | ततस्तं प्रार्थयेदीशं बद्धहस्ता प्रियंवदे || ३१-९ || अहं नाथ त्वदीयास्मि पतिस्त्वं मेऽसि भो प्रभो | भ्रामितास्मि त्वया नाथ मायागहनवर्त्मनि || ३१-१० || त्वत्पार्श्वं नय मां नाथ विरहो मां प्रबाधते | अनन्यगतिका चाहं तस्मात्कुरु यथोचितम् || ३१-११ || एवं सम्प्रार्थ्य भर्त्तारं तत्प्रभापटलारुणम् | स्वदेहं भावयेद्देवि नमस्कुर्यात्ततः प्रिये | ततो भूमिं च सम्प्रार्थ्य दक्षपादं निधापयेत् || ३१-१२ || समुद्रमेखले देवि पर्वतस्तनमण्डले | विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे || ३१-१३ || ततो ग्रामाद् बहिर्गच्छेन्मलोत्सर्गाय सुन्दरि || ३१-१४ || अतिक्रम्य शरक्षेपमात्रा भुवमतन्द्रितः | आच्छाद्य च तृणैर्भूमिं शिरः प्रावृत्य वाससा || ३१-१५ || मृत्तिकां जलपात्रं च हस्तमात्रे नियोजयेत् | सूर्यं चैव दिशः प्रान्तान् गावं नैवावलोकयेत् || ३१-१६ || लिङ्गशौचं च तिसृभिः मृत्तिकाभिः समाचरेत् | पञ्चापाने प्रदेयाश्च मृत्तिकाः सुरसुन्दरि || ३१-१७ || गन्धलेपक्षयकरमेवं शौचं समाचरेत् | तत्रैव वामहस्ते तु प्रदेया सप्त मृत्तिका || ३१-१८ || मौनी स्वगृहमागत्य हस्तपादादि शोधयेत् | वामहस्ते मृदः सप्त प्रदेयाः सुरवन्दिते || ३१-१९ || उभयोश्च तथा सप्त हस्तशौचमिदं स्मृतम् | पञ्च पञ्च तथा पादे प्रदेया मृत्तिकाः शुभाः || ३१-२० || ततो द्वादशगण्डूषैर्मुखं प्रक्षालयेत्प्रिये | तत आचमनं कृत्वा दन्तकाष्ठं समाचरेत् || ३१-२१ || जम्बूदुम्बरजं काष्ठं तथा च बदरीभवम् | अपामार्गोद्भवं वापि दन्तांस्तेन विशोधयेत् || ३१-२२ || अज्ञातैः कीटविद्धैश्च वनेषु दाहितैरपि | निषिद्धैश्च तथा काष्ठैर्दन्तान्नैव स्पृशेत्प्रिये || ३१-२३ || आयुर्देहि प्रजां देहि धनं विद्यां सुखानि च | वाक्सिद्धिं देहि मे नित्यं प्रार्थितोऽसि वनस्पते || ३१-२४ || द्वादशावृत्तिसञ्जप्तं मूलमन्त्रेण मन्त्रवित् | प्रक्षाल्य भक्षयेत्काष्ठं यावन्नो सूर्यदर्शनम् || ३१-२५ || दन्तानां शोधनं कुर्यादुदीचीं दिशमाश्रितः | न सूर्याभिमुखीभूय निष्ठीवादि क्षिपेत्प्रिये || ३१-२६ || जिह्वामलमपाकृत्य काष्ठं प्रक्षाल्य मन्त्रवित् | एकान्ते शुचिदेशे तु क्षिपेत्काष्ठं ततः प्रिये || ३१-२७ || मन्त्रजन्यजलैर्देवि मुखं प्रक्षालयेत्ततः | त्यजेद् द्वादशगण्डूषान् मूलमन्त्रमविस्मरन् || ३१-२८ || तत आचमनं कृत्वा नमस्कृत्य [नमस्तुत्वा इति मूलपाठः |] रविं प्रिये | ध्यायन् गच्छेत्ततस्तीर्थमसक्तस्तु गृहे चरेत् || ३१-२९ || गालितं शोधितं तोयं शुचिपात्रगतं च यत् | सूर्यमण्डलतस्तस्मिन् तीर्थान्यावाह्य भक्तितः || ३१-३० || तस्मिन्नष्टदले ध्यात्वा कर्णिकायां सुरेश्वरि | प्रियायथगतं कृष्णमावाह्य दृढमानसः || ३१-३१ || उपचारैर्जलमयैर्मानसैर्वापि पूजयेत् | तदीयचरणद्वन्द्वगलत्पीयूषमिश्रितम् || ३१-३२ || ज्ञात्वा तत्तु जलं देवि साक्षाच्चैतन्यरूपकम् | ज्ञानानन्दस्वरूपं तत् त्रिधा मूर्ध्नि क्षिपेत्ततः || ३१-३३ || अन्येनैवाम्भसा कुर्यान्मौशलं स्नानमूर्द्धनि | ततः स्नायाद्वरारोहे पूर्वसंस्कृतवारिणा || ३१-३४ || श्रीकृष्णं हृदये लीनमिति ध्यात्वाचमेत्ततः | गात्रं सम्मार्ज्य देवेशि मन्त्रवारिविशोधिते || ३१-३५ || वासांसि परिधायैव ततो मन्दिरमाविशेत् | पूजागृहे बहिः स्थित्वा तिलकं गोपिकामृदा || ३१-३६ || चक्रादिधारणं कुर्यात् बिभृयात्तुलसीसृजम् | विना च तुलसीमालां विना चक्रादिधारणम् || ३१-३७ || न जपध्यानपूजासु योग्यो भवति कर्हिचित् | देवान् पितृंश्च सन्तर्प्य दिक्पालान् प्रणमेत्ततः || ३१-३८ || सर्वं कृष्णमयं ध्यायेद्भेदभावं विवर्जयेत् | भेदभावात्मको देवि संसारः कथितो यतः || ३१-३९ || देहलीं च नमस्कृत्य दक्षपादपुरःसरम् | प्रविशेत्पूजनागारं निर्माल्याद्यपसारयेत् || ३१-४० || प्रोत्थापयेत् प्रभुं सुप्तं सुगीतैर्मङ्गलस्वनैः | श्रेष्ठा मनोमयीमूर्तिरथाश्मा [अथाश्मो गल्लकी इति मूल पाठः |] गण्डकीभवः || ३१-४१ || सौवर्णी राजतीं शैलीं काष्ठीं वा मृण्मयीमपि | चैत्रीं वा पूजयेन्मूर्त्तिमुपचारैः शुभैः प्रिये || ३१-४२ || अर्घं च पाद्याचमने मधुपर्कमपःस्पृशः | स्नानं वस्त्रमथाप्रोह्य वासांस्याभरणानि [स्नानं वस्त्रमथाचाम इ० पा०] च || ३१-४३ || दर्पणालोकनं चैव गन्धपुष्पे ततः परम् | धूपोगरुसमुद्भूतो दीपो नैवेद्यमेव च || ३१-४४ || पानीयं तोयमाचामं हस्तवासस्ततः परम् | ताम्बूलमनुलेपं च ततो नीराजनादिकम् || ३१-४५ || गीतं वाद्य तथा नृत्यं स्तुतिः चैव प्रदक्षिणम् | पुष्पाञ्जलिर्नमस्कारः साष्टाङ्गप्रणतिस्तथा || ३१-४६ || इत्येतैरुपचारैश्च पूजयेत्प्राणवल्लभम् | अनिर्माल्यं सनिर्माल्यं पूजनं द्विविधं मतम् || ३१-४७ || दिव्यैर्मनोभवैः पुष्पैर्गन्धद्रव्यैर्मनोहरैः | भक्तैर्यत्क्रियते सम्यगनिर्माल्यं तदर्चनम् || ३१-४८ || जातमात्राणि पुष्पाणि घ्रातान्येव निसर्गतः | पञ्चभिश्च महाभूतैर्भानुना शशिनापि च || ३१-४९ || प्राणिभिश्च द्विरेफाद्यैः पौष्पैरेव न संशयः | यदर्चनं सनिर्माल्यं दिव्यभोगापवर्गदम् || ३१-५० || ग्रामारण्यादिसंभूतैः पूजाद्रव्यैर्मनोहरैः | घ्रातपुष्पात्फलं सिध्येदल्पं नो मानसात्तथा || ३१-५१ || तस्मादपरिहार्यत्वादन्यथा चाप्युपायतः | बुद्धिशुध्यै [बुद्धिशुद्धेस्तत इति पाठः |] ततो देवि बाह्यद्रव्यैः प्रपूजयेत् || ३१-५२ || पुनस्त्रेधा कृष्णपूजा चोत्तमाधममध्यमा | यथोपकरणैः [यज्ञोपकरणैरिति पाठः |] कृत्स्नैः क्रियमाणोत्तमोत्तमा || ३१-५३ || यथालब्धैर्विनिष्पाद्या द्रव्यैः पूजा तु मध्यमा | पत्रपुष्पाम्बुनिष्पाद्या पूजा चाधमसंज्ञिका || ३१-५४ || आदौ तु मानसीं कृत्वा ततो बाह्यां प्रवर्तयेत् | नीराजनान्तमासाद्य जपं कुर्याज्जितेन्द्रियः || ३१-५५ || तुलसीकाष्ठसम्भूतैर्मणिभिः कृतमालया | जपेच्छतं सहस्रं वा त्रिसन्ध्यास्वपि तं जपेत् || ३१-५६ || जपपूजासन कुर्याच्चित्रकम्बलनिर्मितम् | कौशेय वाथ चैलं वा चर्म तूलमथापि वा || ३१-५७ || वेत्रजं तालपत्रं वा दार्भमासनमेव च | वंशाश्मदारुधरणीतृनपल्लवनिर्मितम् || ३१-५८ || वर्जयेदासनं मन्त्री दारिद्र्यव्याधिदुःखदम् | एवं सम्पूजयेत्कृष्णं प्रत्यहं परमेश्वरि || ३१-५९ || न गृही ज्ञानमात्रेण परत्रेह च मङ्गलम् | प्राप्नोति चन्द्रवदने जपपूजादिभिर्विना || ३१-६० || अहिंसा सत्यमस्त्येयं ब्रह्मचर्यजपार्जवम् | क्षमा धैर्यं मिताहारं आस्तिक्यं दानमेव च || ३१-६१ || वैराग्यं च विवेकश्च शमः श्रद्धा दमस्तथा | मुमुक्षुता विवेकश्च समाधानं तथात्मनः || ३१-६२ || एतत्साधनसम्पत्तीं कुर्वतां परमेश्वरि | ज्ञानं दारिद्र्यशमनं भविष्यति न संशयः || ३१-६३ || सर्वेषामेव जन्तूनामक्लेशजननं प्रिये | वाङ्मनः कर्मभिर्नूनमहिंसेत्यभिधीयते || ३१-६४ || यथादृष्टश्रुतार्थानां स्वरूपकथनं पुनः | सत्यमित्युच्यते सद्भिस्तद्ब्रह्मप्राप्तिसाधनम् || ३१-६५ || तृणादेरप्यनादानं परस्य च प्रियंवदे | अस्तेयमेतदप्यंङ्गं ब्रह्मप्राप्तेः सनातनम् || ३१-६६ || अवस्थास्वपि सर्वासु कर्मणा मनसा गिरा | स्त्रीसङ्गतिपरित्यागो ब्रह्मचर्यं प्रचक्षते || ३१-६७ || परेषां दुःखमालोक्य स्वस्येवालोच्य तस्य तु | उत्सादनानुसन्धानं दयेति प्रोच्यते शिवे || ३१-६८ || व्यवहारेषु सर्वेषु मनोवाक्कायकर्मभिः | सर्वेषामपि कौटिल्यराहित्यं चार्जवं स्मृतम् || ३१-६९ || सर्वात्मना सर्वदापि [सर्वदास्योपकारिषु इ० पा० |] सर्वषामुपकारिता | बन्धुष्विव समाचारः क्षमा स्यात्परमेश्वरि || ३१-७० || इच्छाप्रलापराहित्यं जातेषु विषयेषु च | दुःखेषु [लाभस्तु धृतिर्धैर्यं इ० पा० |] च धृतिर्धैर्यं प्रवदन्ति वराङ्गने || ३१-७१ || भोज्यस्यैव चतुर्थांशो भोजनं स्वस्थचेतसः | अत्युग्रकटुतिक्ताम्ललवणादिविवर्जितम् || ३१-७२ || हितं मेध्यं सुखं चेति मिताहारः स उच्यते | श्रुत्याद्युक्तेषु विश्वास आस्तिक्यं सम्प्रचक्षते || ३१-७३ || ध्यात्वान्तर्यामिनं चित्ते तदर्पणधियाऽन्वहम् | सत्पात्रे दीयते दानं तद्दानमभिधीयते || ३१-७४ || ब्रह्मादिस्थावरान्तेषु विषयेषु बहुष्वषि | वान्ताशनजुगुप्सा [वान्त्य शनवज्जुगुप्सा च इति पाठः |] च वैराग्यं प्राप्तिसाधनम् || ३१-७५ || नित्यं वै वासनात्यागः परदारगृहादिषु [पुरद्वार इ० पा० |] | परानन्दपरा भक्तिः शम [सक्ति इ० पा० |] इत्युच्यते हि सः || ३१-७६ || निगमागमवाक्येषु भक्तिः श्रद्धेति कीर्त्तिता | विषयानन्दचरतामिन्द्रियाणां विनिग्रहः || ३१-७७ || दम इच्युते देवि ब्रह्मप्राप्तेर्हि कारणम् | ससारं भयदं मत्वा विरहः [विरहस्य दशांशकं इ० पा० |] स्यादशेषकः || ३१-७८ || मुक्तिकामस्य देवेशि कथिता सा मुमुक्षुता | कोऽहं कथमिदं जातं को वै कर्त्तास्य विद्यते | उपादानं किमस्तीह विचारः सोऽयमीदृशः || ३१-७९ || उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न किञ्चन | तस्मात्सर्व प्रपञ्चोऽयं ब्रह्मैवाविद्यया ततम् || ३१-८० || ब्रह्मैव सर्वनामानि रूपाणि विविधानि च | कर्माण्यपि समग्राणि बिभर्तीति श्रुतिर्जगौ || ३१-८१ || यथैव व्योम्नि नीलं च यथा नीरं मरुस्थले | पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि || ३१-८२ || यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् | पात्ररूपेण वै ताम्रं ब्रह्माण्डो वै तथाक्षरः || ३१-८३ || तस्मात्प्रपञ्चविभ्रान्तां नियम्य मतिमात्मनि | उक्तसाधनसम्पन्नः सखीभावं निजं गतः || ३१-८४ || नित्यं लीलारसानन्दं स्वपतिं पुरुषोत्तमम् | भजत्यनन्यया बुध्या पुनः संयोगमाष्नुयात् || ३१-८५ || इति ते कथितं देवि तदाराधनलक्षणम् | समासेन महेशानि किं भूयः श्रोतुमिच्छसि || ३१-८६ || इति श्रीनारदपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वतीसंवादे एकत्रिंशं पटलम् || ३१-३१ || अथ द्वात्रिंशं पटलम् पार्वत्युवाच देवेश भगवन् शम्भो भक्तवत्सल धूर्जटे | श्रुतोऽयं मे महामन्त्रश्चूडामणिरनुत्तमः || ३२-१ || यस्य विज्ञानमात्रेण स्वयं शुध्यति वासना | अन्येऽपि शुद्धिमायान्ति स्वयं तत्सङ्गिसङ्गतः || ३२-२ || मन्त्रराजमिमं देव प्राप्नुयात्कः पुमान्यदि | भिन्नभिन्नफलैः कर्मपाशजालैर्नियन्त्रितः || ३२-३ || न स्त्री न पुरुषः कश्चिद्विद्यते नामरूपतः | स्त्रीप्राप्यमेव तद्ब्रह्म कृष्ण आनन्दविग्रहः || ३२-४ || भोक्तृभोग्यस्वरूपेण रसश्चेति श्रुतेर्मतम् | नात्यन्तं च तयोर्भेदो भेदः स्वाभाविकः प्रभो || ३२-५ || आलम्बनादि विधुरो रस एव न सिद्ध्यति | यद्विना यन्न संसिद्ध्येत्तत्तदेव न चान्यथा || ३२-६ || तथापि भोक्तृभोग्याभ्यां भागाभ्यां क्रीडतेऽनिशम् | भोग्यभागस्तु तापात्मा भोक्तृभागोऽमृतात्मकः || ३२-७ || अविनाभावसम्बन्धस्तापस्य च सुखस्य च | भोक्तृभोग्यांशयोर्विप्रलंभस्तापस्य सिद्धये || ३२-८ || कृष्णस्त्रीणां विप्रयोगे यदि तापोदयो भवेत् | कृतार्थता तदा जाता न निषेधविधिस्थितौ || ३२-९ || विप्रयोगे तु विज्ञाते हृदि तापोदयो न चेत् | तदा चूडामणिजपात् शीघ्रं सिद्ध्यति नान्यथा || ३२-१० || तस्माच्चूडामणेर्मन्त्रराजस्य च पुरस्क्रियाम् | वद शम्भो विशेषण यथायं जीवितो भवेत् || ३२-११ || त्वद्वागमृतपानेन न तृप्तिर्जायते मम | धन्यं मत्कर्णयुगलं ब्रह्मलीलामृतप्लुतम् || ३२-१२ || अद्य मे पितरौ धन्यौ ययोरासमहं सुता | प्रसादपात्रं भवतो वदतो ब्रह्मणो रहः || ३२-१३ || धिक्कुलं धिग्धनं तस्य धिग्विद्यां धिग्यशोऽमलम् | न यस्य ब्रह्मचिन्तासु लीनवृत्ति [लीनवति इ० पा० |] मनो भवेत् || ३२-१४ || आयुर्वर्षशतं लोके तदर्द्धं निद्रया हृतम् | बाल्यवार्द्धकभावाभ्यां तथा रोगादिपीडनैः || ३२-१५ || व्यर्थयन्ति महामूढा विमुखा ब्रह्मकीर्त्तने | तस्मात्कथय देवेश कथां पापप्रणाशिनीम् || ३२-१६ || पुरस्क्रियां विधोपेतां मन्त्रराजस्य शङ्कर | यस्य श्रवणमात्रेण मन्त्रसिद्धिः प्रजायते || ३२-१७ || शिव उवाच धन्यासि देवि गिरिन्द्रजे साधु पृष्टमिदं रहः | यस्य कस्यापि नो वाच्यं वाच्यं सर्वस्वदायिने || ३२-१८ || लब्ध्वा मन्त्रं गुरोः सम्यक् सेवया च प्रसादतः | जपतर्पणहोमाद्यैर्बोधयेन्मन्त्रमुत्तमम् || ३२-१९ || शून्यागारे गिरौ रम्ये तीर्थे चोपाधिवर्जिते | उद्याने सिद्धपीठे वा प्रयोगे पुष्करेऽथवा || ३२-२० || नर्मदायास्तटे वापि विन्ध्याद्रौ वा शुभस्थले | जपतो मन्त्रराजानं सिद्धिः शीघ्रं प्रजायते || ३२-२१ || जितेन्द्रियो जितक्रोधो जितचित्तो दृढव्रतः | दृढवैराग्यसम्पन्नो देहाहङ्कारवर्जितः || ३२-२२ || दयालुः सर्वभूतेषु भूतबाधापराङ्मुखः | शङ्कातङ्कादिरहितो रागद्वेषविवर्जितः || ३२-२३ || देहगेहादिकां चिन्तां परित्यज्य प्रशान्तधीः | मन्त्रध्यानपरो नित्यं लीलाध्यानरतः सदा || ३२-२४ || त्रिधास्त्रीसंङ्गतित्यागात् ध्यानमुद्राधरोऽनिशम् | मौनी त्रिषवणास्नायी शुचिदेहः सिताम्बरः || ३२-२५ || वर्णाश्रमक्रियायुक्तो विश्वासी ह्यनसूयकः | देवब्राह्मणगोनिन्दारहितो लोभवर्जितः || ३२-२६ || एवंविधगुणैर्युक्तः कुर्यान्मन्त्रपुरस्क्रियाम् | मनसा कल्पयेत्क्षेत्रं गमनागमनाय च || ३२-२७ || विकिरेत्सर्षपान् दिक्षु शतधा मन्त्रशोधितान् | ज्वलदग्निनिभान् दृष्ट्वा पलायन्ते विनायकाः || ३२-२८ || ततः खादिरकीलांश्च दशदिक्षु खनेत्प्रिये | नायान्ति कीलिता विघ्ना दृष्ट्वा क्षेत्रं च कीलितम् || ३२-२९ || न बहिर्गमनं कुर्यात् क्षेत्रमुल्लङ्घ्य मोहतः | तमोमात्रात्मकाः केचित् श्रेयसां परिपन्थिनः || ३२-३० || औदासिन्यं भयं क्रोधं निद्रातन्द्राविवर्जयेत् | दुग्धपानं फलाहारं भिक्षान्नं चापि सेवयेत् || ३२-३१ || कन्दमूलफलैः पत्रैस्तथैवायाचितेन च | कल्पयेद्दैहिकीं वृत्तिं यथा नेन्द्रियविक्रिया || ३२-३२ || इन्द्रियाणां विकारे तु मन्त्री शीघ्रं विनश्यति | सर्वेषु धर्ममार्गेषु चरतां सिद्धिकाम्यया || ३२-३३ || परिपन्थी न चान्योऽस्ति यथेन्द्रियविकारिता | तस्मादिन्द्रियरक्षार्थं सावधानतया चरेत् || ३२-३४ || इन्द्रियाणि मनो देवि नोपेक्ष्याणीति मे मतिः | उपेक्षया हता लोका विभ्रमन्ते विचित्रधा || ३२-३५ || विषयेभ्यो निवृत्तोऽपि जितकाममदोऽपि सन् | न करोमीन्द्रियोपेक्षां मायासृष्टिर्विमोहिनी || ३२-३६ || के के वा न हता देवि बलिष्ठैरिन्द्रियारिभिः | अहल्यायां कृतो जार इन्द्रस्त्रैलोक्यरक्षकः || ३२-३७ || चन्द्रमा गुरुभार्यायां तारायां विनियोजितः | बन्धुक्षेत्रे गुरुश्चापि वेदवेदान्तवित्कविः || ३२-३८ || सीतायां रामभार्यायां मद्भक्तोपि दशाननः | एतेऽन्येपीन्द्रियहतास्तस्मात्तानि न विश्वसेत् || ३२-३९ || तस्मादाहारमाकुंच्य जेतव्यानीति मे मतिः | धारयेन्नखकेशांश्च वासः प्रक्षालितं वसेत् || ३२-४० || शयीत भूमौ शययायां कुशमययां निशासु च | वासः प्रक्षालयेद् देवि कटिमुक्तं यदा भवेत् || ३२-४१ || पतितैः कर्मचाण्डालैः जातिचाण्डालकैरपि | म्लेच्छान्त्यजसङ्करैश्च न भाषेत जपे स्थितः || ३२-४२ || सन्ध्याकाले व्यतिक्रान्ते देहवृत्तिं तु कल्पयेत् | न्यूनाधिक न कुर्वीत जपं देवि दिने दिने || ३२-४३ || नीचसम्भाषणे [न नीचो यवनात्परः |] देवि म्लेच्छसम्भाषणे तथा | प्रायश्चित्तं प्रकुर्वीतं सहस्रजपसंख्यया || ३२-४४ || यामार्द्धेनावशिष्टायां निशि शययां परित्यजेत् | उदिते च सहस्रांशौ यः शेते निद्रितोऽलसः || ३२-४५ || जपः छिद्रमवाप्नोति सिद्धिर्भवति दूरगा | सावधानतया भाव्यं तस्माद्देवि दिने दिने || ३२-४६ || ध्यायेल्लीलां जपश्रान्तो ध्यानश्रान्तः पुनर्जपेत् | जपध्यानसमायुक्तः शीघ्रं सिध्यति मन्त्रवित् || ३२-४७ || नैकवासा जपेन्मन्त्रं बहुवस्त्राकुलोऽपि वा | तैलताम्बूलपूगादिसर्वभोगान् विवर्जयेत् || ३२-४८ || वाङ्मनः कायकौटिल्यं सर्वथैव परित्यजेत् | न वाचोद्वेजयेत्किञ्चिन्नाशुभं कस्य वा स्मरेत् || ३२-४९ || न चक्षुषा निरीक्षेत् पशुक्रीडां कदाचन | न चेक्षेत स्त्रियं नग्नां न स्पृशेद्यदमङ्गलम् || ३२-५० || मध्यन्दिनावधि जपेन्मन्त्रराजमनन्यधीः | ततः परं तु मनसा ध्यायेल्लीलां समाहितः || ३२-५१ || जपस्यैवं दशांशेन होमं कुर्याद् दिने दिने | अथवा लक्षपर्यन्तं जप्त्वा होमं समाचरेत् || ३२-५२ || समाप्तौ वापि जुहुयात् यथासम्भवमम्बिके | प्रत्यक्षरं जपेल्लक्षं श्रद्धावान्नातिचञ्चलः || ३२-५३ || आरब्धे तु जपेद्देवि मन उद्विजतेतराम् | चिन्ताशोकभयोद्वेगदुःस्वप्नादि प्रजायते || ३२-५४ || तदा धैर्यं समालम्ब्य स्थिरीकुर्यान्मनो धिया | एवं लक्षत्रये जप्ते लीलाध्यानैकचेतसः || ३२-५५ || विघ्नाः सर्वे पलायन्ते पातकानि ज्वलन्ति च | निर्विघ्नस्य विपापस्य मनः सम्यक् प्रसीदति | मनःप्रसन्ने देवेशि स्वप्ने देवादिदर्शनम् || ३२-५६ || वरार्थं प्रार्थ्यमानोऽपि नैव लुभ्यान्मनः प्रिये | पञ्चलक्षजपेद्देवि देवदानवरक्षसाम् || ३२-५७ || अवधृष्यो भवेत्साक्षाज्ज्वलन्निव हुताशनः | दशलक्षजपे सिद्धे प्रार्थयन्त्यमराङ्गनाः || ३२-५८ || त्वं स्वामी च वयं दास्योऽनुग्रहाण दयापरः | यावद्यास्यसि धाम स्वं भित्वा ब्रह्माण्डमण्डलम् || ३२-५९ || तावत्त्वं स्वर्गमातिष्ठ ह्यस्माभिः कृतसेवनः | तत्रास्ति नन्दनवनं सर्वर्तुगुणमण्डितम् || ३२-६० || स्वर्धुनी स्वर्णसोपाना रत्नमण्डपमण्डिता | हंसकारण्डवाकीर्णा स्वर्णपद्मालिसङ्कुला || ३२-६१ || आहारो यत्र पीयूषं रक्षिता यत्र देवराट् | प्रार्थयन्ति देवलोकं क्रतुभिः कर्मकोविदाः || ३२-६२ || तस्मादलङ्कुरु स्वयं स्वर्गं त्रिदशमण्डितम् | एवं विलोभ्यमानोऽपि मन्त्री निश्चलमानसः || ३२-६३ || श्रावयेदुत्तरं तासामक्षुब्धो निःकुतूहलः | न स्वर्गो नापि नरको न मोक्षो बन्धनं नहि || ३२-६४ || स्वप्ने यथा तथा भाति रोचते न मनाङ् मम | तस्माद्यूयं मया प्रोक्ताः प्रयान्तु त्रिदशालयम् || ३२-६५ || श्रुत्वैवं वचनं तस्य निराशाः यान्ति ताः स्त्रियः | दशपञ्च च लक्षाणि यदा जप्तो महामनुः || ३२-६६ || तदा सिद्धाः समायान्ति सिद्धिभिः सह सुन्दरि | पातालेषु प्रवेशं च दूरश्रवणदर्शनम् || ३२-६७ || परकायाप्रवेशं च मनः पवनवद्गतिम् | पादुकाञ्जनसिद्धिं च रसधातुक्रियां तथा | इत्यादिविविधां सिद्धिं दर्शयन्ति न संशयः || ३२-६८ || पूर्वोक्तवचने चोक्ते यान्ति ते नातिपूर्वकम् | यदा विंशति लक्षाणि जप्ते चिन्तामणिमनौ || ३२-६९ || स्फुरन्ति सकला विद्याः शास्त्राणि विविधानि च | पञ्चविंशति लक्षाणि जप्ते चिन्तामणौ प्रिये || ३२-७० || साक्षात्पश्यति देवेशि ब्रह्माण्डमक्षरात्मकम् | ब्रह्माण्डान्तः प्रविष्टं च विराजं पश्यति प्रिये || ३२-७१ || त्रिंशल्लक्षजपे सिद्धे नारायणमनामयम् | ध्याने पश्यति देवेशि व्यापकं सर्वतोमुखम् || ३२-७२ || सर्वतः पाणिपादान्तं सर्वतः श्रवणाक्षिमत् | अनेकमूर्द्धमुकुटमनेकाभरणाकुलम् || ३२-७३ || पञ्चत्रिंशत्तु लक्षाणि मन्त्रावर्त्तनगौरवात् | ध्यानं विनापि चक्षुर्भ्यां पश्येन्नारायणं विभुम् || ३२-७४ || चत्वारिंशत्तु लक्षाणि मन्त्रावर्त्तयेद्यदा | पश्येन्मञ्चे ब्रह्ममये शयानं पुरुषं तदा || ३२-७५ || चत्त्वारिंशत्तथा चाष्टौ लक्षाणि जपगौरवात् | मोहनिद्रावशेषोऽपि पश्येत् ब्रह्मपुरश्रियम् || ३२-७६ || मोटियोजनविस्तीर्णे सुधासिन्धौ सुरेश्वरि | रत्नद्वीपे ब्रह्मपुरे नित्यवृन्दावनस्थितिम् [स्थिते इति पाठः |] || ३२-७७ || मणिमन्दिरमध्यस्थरत्नसिंहासनस्थितम् | स्वामिन्याश्लिष्टवामाङ्गं सखीमण्डलवेष्टितम् || ३२-७८ || उत्तमं पुरुषं पश्येत् ध्याने साक्षादिव स्वयम् | ततस्तापो भवेत्तीव्रविरहेण फलात्मकः || ३२-७९ || तदा च नियमाः सर्वे कृता वाप्यकृता अपि | समाप्यन्ते महेशानि स्वास्थ्याभावस्वभावतः || ३२-८० || इत्येवं कथितं देवि यथा तापोदयो भवेत् || समासेन महेशानि किं भूयः श्रोतुमिच्छसि || ३२-८१ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे द्वात्रिंशं पटलम् || ३२-३२ || अथ त्रयस्त्रिंशं पटलम् देव्युवाच साधूक्तं मन्त्रराजस्य पुरश्चरणमद्भुतम् | अतः परं वदैशान तापावस्था सुदुर्लभा || ३३-१ || ययानुभूतया सम्यक् रसः पूर्णोनुऽभूयते | तस्मादहं श्रोतुकामा भवामि भक्तवत्सल || ३३-२ || शिव उवाच शृणु देवि परं गुह्यं त्वया पृष्टं वदामि ते | रसात्मकं रसभोक्तृं ब्रह्मेति श्रुतयो जगुः || ३३-३ || रसः शृङ्गार एवादौ प्रोक्तस्ते गिरिनन्दिनि | संयोगविप्रलम्भात्मा द्विविधः स च कीर्त्तितः || ३३-४ || अधुनाविप्रलम्भात्मा वर्त्तते केवलं रसः | कर्त्तव्योनुभवस्तस्य स एव परमं फलम् || ३३-५ || यावत्तापोदयो न स्याद्विप्रलम्भो न सिध्यति | अनुभूतिः कथं तस्य जायते वद सुव्रते || ३३-६ || संयोगरसमध्यस्था विप्रयुक्ता तु या प्रिये | तस्या एव भवेत्तापो नान्यस्य तु कदाचन || ३३-७ || दशावस्था भवन्त्येताः तापे विरहसम्भवे | तास्ते वक्ष्यामि देवेशि शृणुष्वैकाग्रमानसा || ३३-८ || अभिलाषस्तथा चिन्ता स्मरणं च ततः प्रिये | उद्वेगाधिप्रलापश्च जडतोन्माद एव च || ३३-९ || गुणानां कीर्तनं चैव सज्वरं मरणं स्मृतम् | अत्युग्रविरहे देवि अवस्था दशमी भवेत् || ३३-१० || राजपुत्रो यथा दैवाद्वनं वनचरैर्वसन् | आत्मानं वेत्ति विवशं परं वनचरं प्रिये || ३३-११ || प्रभुत्वशौर्यधैर्याद्याः धर्माः सर्वे तिरोहिताः | दीनः कृपणधीर्मन्दः पशुमांसोपजीवनः || ३३-१२ || आत्मापह्नवमापन्नं दृष्ट्वा कश्चित्प्रबोधयेत् | न वनेचरपुत्रोऽसि राजपुत्रोऽसि सर्वथा || ३३-१३ || किमर्थं हिंसि भो जीवान् दीनः कृपणधीः स्वयम् | क्व गुणाः शौर्यधैर्याद्याः प्रभुता क्वगता तव || ३३-१४ || त्यज प्रकृतिदौर्बल्यं श्रय भावं निजं पुनः | इत्याप्तवचनं श्रुत्वा जालपाशादिकं त्यजन् || ३३-१५ || राज्यप्राप्तिं च मनसा सङ्कल्प्याकुलचेतनः | उच्छून [उच्छिन्न इति मूलपाठः |] हृदयो भूयादभिलाष कुलान्तरः || ३३-१६ || तथा कृष्णप्रिया देवि प्रपञ्चे मोहकल्पिते | वासनादेहमासाद्य तद्देहममताकुला || ३३-१७ || तिरोहितानन्दधर्मा दीना कृपणमन्दधीः | जीववत् वर्त्तमाना सा भूतद्रोहेण जीवति || ३३-१८ || पुरुषोत्तमानुग्रहतः सद्गुरुस्तां प्रबोधयेत् | न त्वं स्त्री लौकिकी चासि न पुमानसि सर्वथा || ३३-१९ || न च विप्रादिको वर्णः स्वात्मानं चेष्टसे मुधा | देहगेहममताहङ्कारमायां परित्यज || ३३-२० || प्रपञ्चबीजभूतायाः प्रकृतेः परतः प्रभोः | अक्षरादप्यतीतस्य पूर्णस्य परमात्मनः || ३३-२१ || प्रियासि त्वं परानन्दा परानन्दपदस्थिता | देहानुसन्धानपरां [प्रकारैः इ० पा० |] मायां जहि वराङ्गने || ३३-२२ || सुधासिन्धौ मणिद्वीपमध्यखण्डे सुशोभने | कोटिसूर्यप्रतीकाशं कोटिचन्द्रसुशीतलम् || ३३-२३ || वेष्टितं मणिमुक्तादि [स्वस्वरूपानुसन्धानपरा मायां जहीहि हि इ० पा० |] प्राकारैः परमाद्भुतम् | सखीमन्दिरसाहस्रैः परिवीत समन्ततः || ३३-२४ || मणिमन्दिरमत्युच्चैः पञ्चयोजनमानतः | आस्ते ब्रह्माण्डतो बाह्ये तत्र ते रमणं शुभम् || ३३-२५ || यमुनासप्ततीर्थेषु भर्त्राक्रीडां निजां स्मर | प्रफुल्लशतपत्रालि झङ्कारमुखरान्तरे || ३३-२६ || मणिमुक्तान्वितानावमारुह्य सखिभिर्वृता | महासरसि विद्योतन्मणिसोपानमण्डिते || ३३-२७ || यथा क्रीडन्तमात्मानं कथं विस्मरसे भ्रमात् | सहस्राश्वयुजं रम्यं शतचक्रस्फुरत्प्रभम् || ३३-२८ || सर्वतः किंकिणीजालैर्मणिमुक्ताञ्चितान्तरैः | कुर्वद्भिः मुखरान् सर्वदिगन्तान् कूजितैर्निजैः || ३३-२९ || दाडिमीपुष्पसङ्काशं वरूथोपरि कल्प्यते | सुवर्णकलशै रम्यैर्दीप्यमानमनेकशः || ३३-३० || नृत्यद्भिः स्त्रीगणैः सम्यक् गायद्भिः स्वकुतूहलैः | हासयद्भिर्हसद्भिश्च समन्तात्परिशोभितम् || ३३-३१ || मुक्तावितानकौमुद्या समुद्भासितदिङ्मुखम् | प्रियेण रथमारुह्य वनक्रीडां स्मर स्वकाम् || ३३-३२ || कदाचित्पुष्परागाद्रावुद्याने सुमनोहरे | नानापक्षिगणाकीर्णे स्थलपङ्कजमालिनि || ३३-३३ || अनेककुट्टिमोत्तुङ्गमण्डपैः परितो वृते | दिव्यपुष्पभरामोदसुवासितदिगन्तरे || ३३-३४ || चन्द्रप्रभह्रदे रम्ये रम्यराजीवसङ्कुले | मुक्ताजटितसौवर्णायुतसोपानपङ्क्तिभिः || ३३-३५ || क्वचित् क्वचिच्छोभिताभिर्मण्डपैः कुट्टिमोपरि | चतुस्तम्भैर्महारत्नैर्मण्डितास्तोरणोज्ज्वलैः || ३३-३६ || पतत्पतत्रिपक्षोत्थवायुप्रचलपादपे | पतन्नेत्राञ्जनैर्दिव्यैः सखीयूथस्य दिव्यतः || ३३-३७ || चन्दनैरङ्गगलितैः कुङ्कुमैः कुचविच्युतैः | परागैः पद्मगलितैः कुसुमैर्वायुनाहृतैः || ३३-३८ || विचित्रदिव्यसलिले मणिमौक्तिकबालुके | जलक्रीडारसानन्दः कथं विस्मारितोऽधुना || ३३-३९ || महापद्मवने दिव्ये समन्ताल्लक्षयोजने | गन्धमाधुर्यनिपतत्षड्ङ्घ्रिपटलाकुले || ३३-४० || योजनोत्सेधविस्ताररत्नमण्डपमध्यगे | वायुहृतपरागोघैर्वितानित नभोऽन्तरे | अनेकपक्षिसङ्घातकोलाहलसुखास्पदे || ३३-४१ || स्वप्रियेण कृता या याः क्रीडाः सर्वारसाश्रयाः | कथं विस्मृत्य सहसा जीववत्परितप्यसे | कथं मायामुखे लग्ना मिथ्याभूते भ्रमात्मके || ३३-४२ || पङ्के कस्तूरिकाबुद्धिर्लवणे शशिविभ्रमम् | काचखण्डे मणिभ्रान्तिर्जलबुद्धिर्यथा मरौ || ३३-४३ || तथैव शर्कराबुद्धिः कर्कराश्मादिषु भ्रमात् | कुर्वते मन्दमतयस्तथैव हि तवेदृशी || ३३-४४ || शुक्तिकारजतेनैव न कश्चिद्विभवं गतः | न स्वप्नलब्धराज्येन राजा [विवुश्रुतः इ० पा० |] कश्चित्सुविश्रुतः || ३३-४५ || मरीचिकाजल पीत्वा न कश्चित्तृप्तिमागतः | यदीच्छसि सुखं नित्यं जहि सर्वमिमं भ्रमम् || ३३-४६ || विना भ्रमनिरासेन विना च स्वात्मधारणाम् | विना विषयवैतृष्ण्यं विना सन्तोषमार्जवम् || ३३-४७ || विना वैराग्यमत्युग्र विना सद्गुरुसेवनम् | विना विनयमास्तिक्यं शास्त्रशिक्षां विनापि च || ३३-४८ || देहाध्यासो मोहकृतो न निवर्त्तेत सर्वथा | देहाध्यासो निवर्त्तेत निवृत्ते मोहविभ्रमे || ३३-४९ || बिम्बभूतस्वरूपस्य विस्मृतिर्मोह उच्यते | मोहस्था वासना तस्य जीववच्च प्रतीयते || ३३-५० || न जीवो वास्तवः कश्चित् वर्त्तते जलचन्द्रवत् | जलचन्द्रस्वरूप च गगनेन्दुर्यथा भवेत् || ३३-५१ || तथैव वासनारूप निजे धाम्नि स्थिताः प्रियाः | गुणः कम्पादिको यद्वत् प्रतिबिम्बे प्रतीयते || ३३-५२ || सुखदुःखादिमोहोत्थं वासनायां निरूपितम् | न ते सुख च दुःखं च मोहमात्रं विजृम्भिते || ३३-५३ || तस्मात्स्वरूपं विज्ञाय शास्त्राद्गुरोरपि | भ्रमं त्यक्त्वा निजानन्दमाप्नुहि प्रेममीलिता || ३३-५४ || एवं सद्गुरुणा वाक्यामृतैरासेचिता यदा | निर्वाप्य मोहभुजगविषज्वालां व्यथाकरीम् || ३३-५५ || अभिलाषवती भूयात्परानन्दपतिं प्रति | अभिलाषो मया प्रोक्तः शृण्ववस्या नवापराः || ३३-५६ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वती सम्वादे त्रयस्त्रिंशं पटलम् || ३३-३३ || अथ चतुस्त्रिंशं पटलम् शिव उवाच अभिलाषे समुत्पन्ने ततश्चिन्ता प्रवर्त्तते | प्रियो मे परमानन्दः परात्मा पुरुषोत्तमः || ३४-१ || अहं तु तत्प्रिया साक्षाद्वासना मोहवेष्टिता | बाललीलावलोकार्थं सम्प्रार्थ्य पुरुषोत्तमम् || ३४-२ || विमग्ना मोहजलधौ दुस्तरे तमसावृते | निरस्त सकलं ज्ञानं जाता मे स्वात्मविस्मृतिः || ३४-३ || विभ्रमामि [ब्रभ्रामामि इति पाठः |] भ्रमाविष्टा देहाघ्यासादितस्ततः | इय मे जननी चायं पिता भ्राता सहोदरः || ३४-४ || पुत्राः पौत्राश्च सुहृदो ज्ञातयो गोत्रिणस्तथा | ममत्वान्मे [वृथौत्सुक्यात् इ० पा० |] वृथा मौढ्यात् परिगृह्य [विमोहिता इ० पा० |] विमोहितम् || ३४-५ || स्वप्नदृष्टेषु लोकेषु न च द्वेष्यः प्रियोऽपि वा | परकीयः स्वकीयो वा मोह एव हि कारणम् || ३४-६ || अतः परं न मे कार्यं प्रियैर्वा चाप्रियैरपि | एक एव प्रियः स्वामी स तु विस्मारितो मया || ३४-७ || तदा किमपरैः कार्यं स्वाप्निके दुःखहेतुभिः | तस्मात्किं साधनं कुर्यां येनाहं प्रीतिमाप्नुयाम् || ३४-८ || तन्न पश्यामि लोकेस्मिन् वेदवेदान्तयोरपि | यत्कृत्वा सुलभो भूयात्पतिः प्रियतमो मम || ३४-९ || न वेदैरुपदिष्टेन कर्मणा प्राप्यते पतिः | कर्मणां फलमुद्दिष्ट स्वर्गमात्रं विनश्वरम् || ३४-१० || न दानैर्वा तपस्तीर्थै कायक्लेशैः महत्तरैः | उपवासैर्व्रतैर्जाप्यैश्चित्तशुद्धिविधायिभिः || ३४-११ || कथं तैः केवलानन्दः पतिर्मे वशतामियात् | न ज्ञानेन भवेद्वश्यः केवलं मुक्तिकृद्धि तत् || ३४-१२ || वर्म तु पुरुषस्येह वैराग्यं ज्ञानगुप्तये | यदि ज्ञानोदयो न स्याद्वैराग्य यदि केवलम् || ३४-१३ || तथापि प्रकृतौ साक्षाल्लीयते च तथापि किम् | योगस्यापि पराकाष्ठा स्वात्मनो दर्शनावधि || ३४-१४ || पुराणेष्वितिहासेषु भक्तिरुद्धोषिता मृशम् | सापि ज्ञानाङ्गमुद्दिष्टा तया प्राप्यः कथं पतिः || ३४-१५ || प्रियप्राप्तेरुपायस्य कोऽपि वक्ता न विद्यते | किं करोमि क्व गच्छामि कस्याग्रे प्रवदाम्यहम् || ३४-१६ || वनभ्रान्तो यथा कश्चित् पिशाचपरिमोहितः | क्षुत्तृङ्भ्यां मर्दितो नक्तं दिवमस्तमिताशयः || ३४-१७ || दन्दशूकैर्मृगैव्याघ्रैर्वाराहैर्भीषितो भृशम् | तथा दंशैश्च मशकैः व्यथितः श्वापदादिभिः || ३४-१८ || काङ्क्षत्यप्याश्रमं गन्तु मार्गभृष्टः करोमि किम् | को मे प्रापयति स्थानं भ्रान्तस्यारण्यवीथिषु || ३४-१९ || किं करोमि क्व गच्छामि कस्याग्रे च वदाम्यहम् | बहुद्रुमलताकीर्णं काननं जनवर्जितम् || ३४-२० || इत्यादिविविधां चेष्टां कुर्वाणो व्याकुलान्तरः | अवतिष्ठते तथा चिन्ता जायते वाक्षनास्वपि || ३४-२१ || चिन्तामग्नो यथा सर्वं पश्यन्नपि न पश्यति | प्रियचिन्तारसे मग्ना सखीनां वासना तथा || ३४-२२ || चिन्तैवोद्वेगभावेन ततः परिणता भवेत् | उद्विग्नमनसः किञ्चित् नैव हर्षाय जायते || ३४-२३ || प्राणादप्यधिवल्लभस्य विरहे किंनाम रम्यं भवेत् येनात्मा क्षणमप्युपैति विरतिं स्वास्थ्यं समालम्बते | स्फुरन्मीतान्वारिष्विव करणवृत्तीः समुदिताः समादाय क्षिप्य प्रियविरहचिन्ता विजयते || ३४-२४ || उद्विग्नभावाकुलितान्तराया न रोचते भूषणमम्बरं वा | शययासनं वाप्यशनं श्रुतं वा स्नानादिकं वा भुवनं वनं वा || ३४-२५ || इतः क्षणं वा च ततः क्षणं वा गृहे क्षणं वा शयने क्षणं वा | बहिस्तथान्तः क्षणमात्रमेत्य ह्युद्विग्नभावा न लभेत शर्मं || ३४-२६ || यथा विरक्तो न विधिष्वधिकृतः कृताकृते कर्मणि नैव दोषभाक् | उद्विग्नताया अपि विप्रलम्भे न नित्यनैमित्तिककर्मयोगः || ३४-२७ || यदुद्वेगो देवि प्रियविरहजन्मा समुदितस् तदाकृष्णस्त्रीणां किमपि नहि कार्यं निगमतः | तपस्तीर्थं योगो व्रतनियमकर्माणि सकलं समाप्तं यत्तासां न हि मतिरभूद्देहविषया || ३४-२८ || श्रीकृष्णविरहे देवि य उद्वेगः प्रियासु च | अस्माकमीश्वराणाञ्च दुर्लभः किं पुनर्नृणाम् || ३४-२९ || इति श्रीमाहेश्वरतन्त्रे शिवोमासम्वादे चतुस्त्रिंशं पटलम् || ३४-३४ || अथ पञ्चत्रिंशं पटलम् देव्युवाच वैराग्यस्योदये देव ज्ञाने स्यात्साधनावधिः | साधनावधिस्तत्रापि य उद्वेगस्त्वयोदितः || ३५-१ || यथा विरक्तो देवेश न कर्मस्वधिकारवान् | उद्विग्नोऽपि तथा देव न कर्माधिकृतो भवेत् || ३५-२ || मतिर्न देहविषया तत्र हेतुस्त्वयोदितः | अत्र मे खिद्यते चेतो न सम्यगवधारणम् || ३५-३ || भौतिको विषमो देहो वासना ब्रह्मकेवलम् | कस्य युज्येत संसारः कोऽत्र कर्माधिकारवान् || ३५-४ || कर्मणि क्रियमाणे हि कोऽत्र भोक्ता फलस्य तु | अनित्यस्य जडस्यापि कथं देहस्य तद्भवेत् || ३५-५ || कर्मणामिह भोक्त्री चेद्वासना यदि शङ्कर | कृतनाशः प्रसज्येत ह्यकृताभ्यागमस्तथा || ३५-६ || अन्येन क्रियमाणे हि कथमन्येन भुज्यते | वासनायाश्च देहादेस्तारतम्यं वद प्रभो || ३५-७ || शिव उवाच शृणु वक्ष्यामि देवेशि तव प्रश्नमनुत्तमम् | देहात्मधीर्विनश्यते यस्य श्रवणमात्रतः || ३५-८ || ज्ञानमार्गे तु देवेशि वैराग्यं साधनावधिः | नानाजन्मान्तराभ्यासरागरञ्जितचेतसाम् || ३५-९ || जीवानां विषयेष्वैव बहिर्धावति वै मनः | सुखं स्यादिष्टविषये ह्यनिष्टे दुःखवद्भवेत् || ३५-१० || सुखदुःखादिकं सर्वमहङ्कारोभिमन्यते | अहङ्कारगतं सर्वं चिदाभ्यासे प्रतीयते || ३५-११ || जलचन्द्रे यथा तस्य कम्पादिर्दृश्यते गुणः | प्रतीतिमात्रमेवैतत् तथापि न निवर्त्तते || ३५-१२ || तत्प्रतीति निराकर्त्तुं प्रकारं वच्मि ते शिवे | अनेकजन्मसंसिद्धसाधनानां बलेन च || ३५-१३ || शुद्धचित्तस्य देवेशि वैराग्यमुपसर्पति | रागाद्यभावाद्विषयेष्वहङ्कारो निवर्त्तते || ३५-१४ || न मनो धावनं कुर्याद्विषयेषु इतस्ततः | न गृह्णाति सुख दुःख रागद्वेषाद्यभावतः || ३५-१५ || कर्त्तृत्वं चैव भोक्तृत्वमहङ्कारे हि दृश्यते | स्थूलं वपुरधिष्ठानमहं लिङ्गस्य सुन्दरि || ३५-१६ || अहङ्कारगृहीतेन स्थूलदेहेन पार्वति | योऽन्यकर्माणि कुरुते निबध्येतापि तैरयम् || ३५-१७ || भोगायतनमात्रं हि स्थलो देहः प्रकीर्त्तितः | अहङ्कारे सचाध्यस्ते ह्यहङ्कारश्चिदात्मनि || ३५-१८ || स्फाटिके हि यथाऽध्यस्तो जपारागः प्रकाशते | चिदाभासे तथा शुद्धेध्यस्ताहन्ता तथा प्रिये || ३५-१९ || स चावृत्य चिदाभासं स्वयमेव प्रकाशते | घटाकाशमिवावृत्य जलाकाशः प्रकाशते || ३५-२० || सुखं दुःखं भयं क्रोधो मोहो मात्सर्यमेव च | धर्माधर्मौ पुण्यपापे ज्ञानमज्ञानमेव च || ३५-२१ || अहङ्कारगतं सर्वं चिदाभासस्य न क्वचित् | तथाप्येक्याध्यासवशादात्मन्येव प्रतीयते || ३५-२२ || विशुद्धे निर्मले देवि शोणिमेव मणौ यथा | तस्मादनात्मधर्माश्च जडा नित्यमशेषतः || ३५-२३ || विज्ञायाप्नोति वैराग्यमाविरञ्चिपदादपि | रागाद्यभावान्न मनो विषयानुपधावति || ३५-२४ || विषयानुरागरहिते निर्मले मनसि प्रिये | स्वात्मा प्रकाशते ध्यानाद्दर्पणे स्वमुखं यथा || ३५-२५ || मनस्यपि लयं याते विकारशतवेश्मनि | समाधिस्थो भवेद्योगी यत्र शोको न विद्यते || ३५-२६ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे पञ्चत्रिंशं पटलम् || ३५-३५ || अथ षट्त्रिंशं पटलम् शिव उवाच स्वस्वमोहेन सख्यस्ता नीताः स्वप्नं परात्मनः | तस्मात् [तासा इ० पा० |] स्थूलशरीराणि भौतिकानि महेश्वरि || ३६-१ || सामान्यतो विदुस्तासां सूक्ष्मदेहस्तथाविधाः | कारणात्मा भवेन्मोहो वासनासु पृथक् पृथक् || ३६-२ || वासना तदवच्छना जीवभावमिवागता | इच्छाशक्तिप्रयुक्तत्त्वात्स मोहोऽपि रसात्मकः || ३६-३ || न वासनायाः संसारो न मोहस्य तथात्मनः | अहं लिङ्गस्य देवेशि संसारं उपयुज्यते || ३६-४ || यतो नारायणोद्भूतो मायिकः परिकीर्त्तितः | इच्छानन्दांशसम्भूतः सखीमोहस्तु केवलम् || ३६-५ || तस्मादहङ्कृतेरेषः संसारोऽन्यस्य न क्वचित् | कर्तृत्वं चैव भोक्तृत्वमहङ्कारस्य विद्यते || ३६-६ || प्रतीयते वासनायां मोहस्तत्र प्रयोजकः | स्थूलदेहाभिमानेन अहङ्कारो विजृम्भते || ३६-७ || सर्वेन्द्रियचरो भूत्वा सर्वकर्मप्रसाधकः | बध्यते तत्फलैश्चैवं प्रति जन्म विचित्रधा || ३६-८ || स अध्यस्तौ वासनासु वासना तद्गता भवेत् | तादात्म्यभावमापन्ने वासनाहङ्कृतिस्तथा || ३६-९ || शृङ्गाररसरूपाणां सखीनां वासनास्तु याः | तासामानन्दरूपं च अहङ्कारेण मिश्रितम् || ३६-१० || प्राप्य नारायणं द्वारमक्षरे प्रतिबिम्बिते | अन्तरङ्गा बहिरङ्गा स्वप्ने वृत्तिद्वयं भवेत् || ३६-११ || प्रत्यक्वृत्तिरन्तरङ्गा बहिरङ्गा बहिर्गता | प्रत्यग्वृत्या तु देवेशि अहङ्काराश्रितं सुखम् || ३६-१२ || नारायणमुखेनैव कूटस्थे व्यक्तिमागतम् [व्यक्तिमागत इ० पा० |] | यथा सहस्रकुल्याभिः पूर्यमाणं महासरः || ३६-१३ || प्रोत्फुल्लकमलामोदं रोचते रचिराकृति | वासनानां सहस्रैश्च ह्यहङ्कारविमिश्रितैः | पूर्णानन्दो भवेद्देवि गणितानन्द इत्यपि || ३६-१४ || बहिरङ्गा तु या वृत्तिरहङ्कारस्य सुन्दरि | बहिर्वत्पश्यति विश्वं तयेदन्तात्मकं शिवे || ३६-१५ || अहङ्कारो विश्वबीजं वासनासु च बिम्बितः | दर्शयत्यखिलं विश्वं सखीभ्यो मुकुरो यथा || ३६-१६ || एवं रहस्य कूटस्थो बाललीलाः सखीगणः | अनुभूतवन्तावन्योऽन्यं सुदुर्घटमिदं प्रिये || ३६-१७ || यथा कल्लोलजालेषु चन्द्रज्योत्स्ना प्रसर्पति | अहङ्कारविभेदेषु प्रियाणां वासना तथा || ३६-१८ || यथा कल्लोलजालेषु प्रशान्तेषु महेश्वरि | लक्ष्यते कौमुदी तस्मिन् प्रशान्ते वासना तथा || ३६-१९ || सद्गुरोः शरणं यायात्तदर्थमिह सुन्दरि | त्वं प्रियासीति कृष्णस्य पूर्णस्य परमात्मनः || ३६-२० || बाललीलाविलोकार्थमिह प्राप्ता न संशयः | प्रपञ्चसागरे मग्ना कथं तिष्ठसि निर्भया || ३६-२१ || पुत्राः पौत्रा धनं धान्यं देहगेहाम्बरादिकम् | स्वप्नलब्धमिदं सर्वं हित्वा बिम्बं निजं श्रय || ३६-२२ || कथं खेदयसे बिम्बं मोहमग्ना निरन्तरम् | प्रियाणां वासनासि त्वं न प्रियाभ्यः पृथङ्मता || ३६-२३ || अहङ्काराश्रितायास्ते खेदो बिम्बाश्रितो भवेत् | तस्मात्प्रबुध्य झटिति निज बिम्बं प्रबोधय || ३६-२४ || अहमध्यस्त एवायं देहस्ते पाञ्चभौतिकः | अहं स्त्री पुरुषः कृष्णो गौरस्तेनाभिमन्यसे || ३६-२५ || इदन्ताहविरादाय अहन्ता सृष्टिकल्पिता | स्वस्वरूपमये वह्नौ हुत्वानन्दमवाप्नुहि || ३६-२६ || इदन्तावैरिमत्युग्रं मूलाहन्तारणाङ्गणे | स्मृतिखड्गेन तीव्रेण घातयित्वा सुखी भव || ३६-२७ || एवं प्रबोधिता सम्यक् वासना गुरुणा यदा | क्रमेणोद्वेगमासाद्य वैराग्यमिव योगतः || ३६-२८ || त्यजत्यहङ्कृतिं सद्यो गेहे देहेन्द्रियेष्वपि | देहाभिमाने गलिते विज्ञाते स्वात्मनि ध्रुवम् || ३६-२९ || आसाद्य विरहावस्थामुद्वेगाख्यां रसात्मिकाम् | विप्रलम्भरसानन्दानुभवो जायते ततः || ३६-३० || इति माहेश्वरतन्त्रे शिवोमासम्वादे षट्त्रिंशं पटलम् || ३६-३६ || अथ सप्तत्रिंशं पटलम् शिव उवाच योगिनो हि विरक्तस्य मनो ध्यानरतं भवेत् | सम्यक् प्रजातया स्मृत्या मनो लीलारतं तथा || ३७-१ || तदैवमानसी सेवा प्रसिध्यति न चान्यथा | तस्मादन्तर्बहिः कार्या सेवा यावत्स्मृतिर्भवेत् || ३७-२ || स्मृतिं विना तु देवेशि बहिः सेवां परित्यजेत् [परित्यजन् इ० पा० |] | प्रत्यवायमवाप्नोति मार्गभ्रष्टो भवेदपि || ३७-३ || स्मृत्यवस्थैव देवेशि मानसीमूलमुच्यते | मानस्यां जायमानायां बाह्यसेवा निवर्त्तते || ३७-४ || प्रियसेवा प्रियाधर्मो यावत्सर्वेन्द्रियक्रिया | सर्वेन्द्रियक्रियाभावान्मानसी सा प्रवर्त्तते || ३७-५ || प्रेमपीयूषपाथोघौ यदा लग्नं मनो भवेत् | बाह्येन्द्रियाणां वृत्यभावाद्बाह्यसेवा न जायते || ३७-६ || प्रवर्तते मानसी सा स्मृत्यवस्थोदये सति | तस्मात्स्मृति प्रवक्ष्यामि शृणुष्वेकाग्रमानसा || ३७-७ || स्मृत्यां वै जायमानायामनुसन्धानवर्जितम् | मनो लीलावगाहेत घर्मतप्तो यथा गजः || ३७-८ || अवगाहे च मनसि ब्रह्मलीलामहानदीम् | लीयन्ते वृत्तयः सर्वा गेहात्मविषया अपि || ३७-९ || विगाढमाने मनसि प्रविष्टे लीलामहानन्दसुधासमुद्रम् | नेदं न चादो न सुखं न दुःखं जानाति तत्रैव विलग्नचित्ता || ३७-१० || स्मरेत् तदानन्दसुधासमुद्रमनर्गलाप्रोच्छ्वलदूर्मिमालम् | समन्ततोन्तःस्फुरमाणरत्नप्रभाङ्कुरोद्भासितवीचिरम्यम् || ३७-११ || हिरण्मयोद्भिन्नपतत्पतत्रिनकादिचक्रोत्पतनाभिरामम् | इतस्ततो धावदनेकपोतकुलाकुलं योजनकोटिमानम् || ३७-१२ || जले शयानेकसुवर्णरत्नगिरिप्रभालङ्कृतकुक्षिभागम् | वैदूर्यतालीवनशोभिकूलं कूजद्विहङ्गस्वनितै रसालम् || ३७-१३ || उद्भिन्नतालीवनजान्धकारमुन्मूलयन्तं मणिमिस्तटस्थैः | स्फुरद्भिरुद्योतितदिग्विभागैर्दिवाकरेन्दुद्युतितस्करैरिव || ३७-१४ || अलङ्कलङ्कोज्जितपूर्णचन्द्र- विडम्बिनीभिस्तटगाभिरुच्चैः | अनेकचन्द्राकुलितस्य शोभां विलज्जयन्तं नभसोऽपि शुक्तिभिः || ३७-१५ || द्वीपं मणीनां च तदन्तरुद्यन्मयूख- किञ्जल्कितमादधानम् | अनेककोटीन्दुदिवाकरप्रधं स्मरे- च्चिदानन्दघनं [धां ई० पा० |] महेश्वरि || ३७-१६ || उपेतं नवखण्डैश्च नवरत्नमयैः शुभैः | नवभूम्यात्मकैश्चित्रैरुद्यानपरिमण्डितम् || ३७-१७ || कोट्यर्धयोजनायामविस्तार सुमनोहरम् | तिर्यगूर्ध्वायिता रेखाश्चतस्रो नवकोष्ठवत् || ३७-१८ || मध्यः खण्डः पद्मरागमयश्चानन्दभूमिकः | पुष्परागमयस्तस्य पूर्वभागे प्रतिष्ठितः || ३७-१९ || चिदानन्दमयीं भूमिं तत्र सञ्चिन्तयेद्धिया | आग्नेयां वज्रघटितास्तत्र वैराग्यभूमिका || ३७-२० || महामारकतं दक्षे चिन्तयेत्खण्डमुत्तमम् | राजते यत्र देवेशि महासन्तोषभूमिका || ३७-२१ || नैर्-ऋते चिन्तयेत्खण्ड यत्रास्ते प्रेमभूमिका | प्रवालमणिसन्नद्धं प्रकाशपरमोज्ज्वलम् || ३७-२२ || प्रतीच्यां नीलमणिभिर्मण्डितं भुक्तिभूमिकं | इन्द्रनीलमयं देवि प्रभालिप्तनभोन्तरम् || ३७-२३ || वायव्ये संस्मरेत्खण्डं ज्ञानभूमिसमाश्रयम् | उत्तरे चिन्तयेत्खण्डं गोमेदरचितान्तरम् || ३७-२४ || प्रकाशभूमिका यत्र राजते सुमनोहरा | महामौक्तिकखण्डश्च य ईशान्येगतः प्रिये | तं स्मरेत्सततं यत्र राजते रतिभूमिका || ३७-२५ || भूमयः सप्तदेवेशि योजनानां चतुर्दश | लक्षाणि ते मया प्रोक्ता निबोध [लक्षाणि मितयोक्तानि इ० पा० |] गिरिनन्दिनि || ३७-२६ || चिदानन्दमयी भूमिस्तावत्येव प्रकीर्तिता | द्वाविंशतिर्योजनानां लक्ष्याण्यानन्दभूमिका || ३७-२७ || नित्यं वृन्दावनं यत्र राजते कर्णिकाकृति | स्मरेद् ब्रह्मपुरं तत्र प्रकाशपरमोज्ज्वलम् || ३७-२८ || तन्मध्ये देव देवेशि मणिनैकेन निर्मितम् | समकालोदितानेककोटिचन्द्रार्कभास्वता || ३७-२९ || क्वचिन्नीलं क्वचिद्रक्तं क्वचित्कृष्णं क्वचित्सितम् | दशभूम्यात्मकं श्रीमत्संस्मरेन्निजमन्दिरम् || ३७-३० || मन्दिरं परितः पङ्क्तिः सौधानां कृष्णयोषिताम् | एकैकं मन्दिरं देवि ! योजनार्द्धप्रमाणतः || ३७-३१ || सार्द्धद्वियोजनोत्सेधं निजमन्दिरमद्भुतम् | प्राकारैर्दशभिर्गुप्तं महोद्यानविराजितैः || ३७-३२ || परिवृत्तीः स्मरेत्तस्य षट्सहस्राणि योजनाः | द्विसहस्रमिदं सूत्रं दक्षिणोत्तरगं भवेत् || ३७-३३ || पूर्वपश्चिमगं सूत्रं तथैव परिमाणतः | महापद्मवनं ध्यायेत् परितो निजमन्दिरम् || ३७-३४ || प्रकाशानन्दभूम्योस्तु सन्धौ नीलाद्रिरुत्तमः | योजनायुतमानेन तस्योच्छ्रायं स्मरेत्प्रिये || ३७-३५ || शृङ्गाणि तस्य देवेशि त्रीणि सन्त्यद्भुतानि च | चन्द्रगौरं चन्द्रचूडं महाचन्द्रं ततः परम् || ३७-३६ || चन्द्रगौरे महाशृङ्गे चन्द्रनाम्ना महासरः | शतयोजनविस्तारं चन्द्रसोपानमण्डितम् || ३७-३७ || गुञ्जद् भ्रमरझङ्कारमुखरीकृतदिङ्मुखम् | प्रफुल्लपङ्कजवनामोदमोहितषट्पदम् || ३७-३८ || मरालीयूथमध्यस्थमरालगणमण्डितम् | कूजितैश्चित्रपक्षाणां पक्षिणां सुमनोहरम् || ३७-३९ || तटस्थोद्यानशोभाभिर्नयनानन्दमन्दिरम् | आनन्दसुधयापूर्णं संस्मरेत्स्मृतिधारया || ३७-४० || कदाचित् क्रीडनं तत्र भगवान् पुरुषोत्तमः | सखीसहस्रसेव्याभिः स्वामिन्या सह केवलम् || ३७-४१ || चन्द्रचूडं पञ्चह्रदाः परमानन्दसुधामृताः | रत्नसोपानसाहस्रैः काञ्चनैः कृतकौतुकाः || ३७-४२ || सुवर्णपङ्कजवनैर्वायुनान्दोलितैर्मुहुः | सुवासयद्भिः सततं दिगन्तात्परिशोभिताः || ३७-४३ || क्रीडते तत्र भगवान् कदाचिद्योषितां गणैः | उद्यानराजं देवेशि महाचन्द्रेऽपि संस्मरेत् || ३७-४४ || पादपाः पत्रविस्तीर्णाः स्वर्णशाखासुपेशलाः | नीलवैदूर्यपत्राढ्यामुक्तास्तबकमालिनः || ३७-४५ || कदम्बाशोकपुन्नागमालतीबकुलाज्जुनैः | बिल्वपालैस्तमालैश्च हितालैः पारिजाजकैः || ३७-४६ || केतकैश्चम्पकैश्चतैः कल्पवृक्षैः सुशोभितम् | तन्मध्ये संस्मरेद्देवि मणिमण्डपमायतम् | शतस्तम्भैः स्वर्णमयैः मुक्तारत्नचितान्तरैः || ३७-४७ || शोभमानं चतुर्द्वारं साप्तभौमं निरामयम् | प्रतिद्वारं कुट्टिमाभ्यां प्रतिकुट्टिमदीर्घिकम् || ३७-४८ || दीर्घिकासु लसत्स्वर्णपद्मव्यग्रषडाङ्घ्रिकम् | कुट्टिमोपरि विस्फूर्जद्रत्नस्तम्भमनोहरम् || ३७-४९ || प्रवालनीलमाणिक्यमुक्तावैदूर्यगारुडैः | कृतस्वस्तिकविस्फूर्यन्मध्यदेशश्रियोज्ज्वलम् || ३७-५० || शुकैः पारावत्तैर्हंसैह् क्रूजद्भिः परिशोभितम् | स्वर्णवैदूर्यमुक्ताभिर्विलसत्तोरणोज्ज्वलम् || ३७-५१ || चतुर्दिक्षु महासौधराजिराजितमद्भुतम् | कदाचिदत्र भगवान् रथमास्थाय सुप्रभम् || ३७-५२ || सखीसहस्रैरायाति क्रीडनार्थं महेश्वरि | कृत्वा नादाविधां क्रीडामुद्याने सुमनोहरे || ३७-५३ || मण्डपं प्रविशेत्सद्यः सखीभिः सह संवतः | आराधन्ते ततः सर्वास्तासां याः परिचारिकाः || ३७-५४ || दिव्यसौधानि मणिभिर्दीप्यमानानि सर्वतः | वीणामृदङ्गतन्त्रीभिर्गायन्ति यश उत्सुकाः || ३७-५५ || तद्गीतानन्दसन्दोहनिमग्नेन्द्रियवृत्तयः | उद्यानराजहरिणाः हरिण्यः शुकसारसाः || ३७-५६ || पिकाः पारावताश्चैव मयूरा मधुभाषिणः | स्ववाचं मुद्रयन्त्येव यथा चित्रगताः शिवे || ३७-५७ || सुधारसादप्यधिकैर्वाक्यैर्हास्यरसान्वितैः | हासयन्ति हसन्त्यश्च प्रियं च स्वामिनीमपि || ३७-५८ || कदाचित्प्रार्थयामासुः स्वामिनीपक्षमाश्रिताः | नेत्रबन्धमयीं लीलां रन्तु कृष्णं सहस्रशः || ३७-५९ || पणबन्ध ततश्चक्रुर्नेत्रबन्धे कृते सति | यदि नाम न जानासि तदा प्रिय पराजितः || ३७-६० || स्ववस्त्राभरणान्यस्यै देहि चित्तमखेदयन् | सा प्रिया प्रिय ते रूपं करिष्यति मनोहरम् || ३७-६१ || त्वत्सिंहासनमारूढा कृष्णोऽहमिति वादिनी | भवन्तमाज्ञापयतु नृत्यतां सखि मत्पुरः || ३७-६२ || त्वया नृत्यं तदा कार्यमवश्यमिव चाङ्गना | त्वयि नृत्यति निःशङ्के गास्यामो वयमेव हि || ३७-६३ || यदि वा नाम जानासि प्रियापि कुरुतां तथा | इति ताः पणमाश्राव्य परिवव्रुः प्रियं प्रियाः || ३७-६४ || तदेन्दिरा सखी काचित् पश्चादागत्य सत्वरम् | बबन्ध नेत्रयुगलं करपद्मयुगेन च || ३७-६५ || नेवे गृहीतः कृष्णः प्राह त्वमसि सुन्दरी | तदोन्मुच्याक्षियुगलं स्मिता प्राहेन्दिरा सखी || ३७-६६ || किं जल्पसि मुधा नाम प्राणनाथ पराजितः | न चाहं सुन्दरी नाम्ना प्रिया तेऽस्मीन्दिराभिधा || ३७-६७ || तस्माल्लज्जां परित्यज्य पणबन्धं विचारय | श्रीकृष्ण उवाच नाहं पराजितः साक्षादज्ञातेति न मुह्यताम् || ३७-६८ || त्वयीन्दिरे सुन्दरीति भ्रमः सार्वदिको मम | सुन्दर्यां मत्प्रियायां च स्फुरत्येवेन्दिराभ्रमः || ३७-६९ || नाण्वप्यन्तरं वापि नामतो रूपतोऽपि च | ज्ञात्वापि त्वामिन्दिरेति क्षणादेव भ्रमद्धिया | जल्पितं सुन्दरीत्येतन्मयोक्तमवधार्यतां || ३७-७० || प्रियस्य वचनं श्रुत्वा पुनः प्राहेन्दिरा वचः | इन्दिरोवाच अहो नाथ महत्येषा वञ्चना चातुरी तव || ३७-७१ || ज्ञात्वापि मामिन्दिरेति सुन्दरीति मुखोद्गतम् | कथ श्रद्दधां हे नाथ वेदार्थमिव नास्तिकाः || ३७-७२ || स्त्रीषु हास्येषु धूर्त्तेषु प्राणबाधाभयेषु च | संवदत्यनृता वाणीत्येतज्जानाति भो भवान् || ३७-७३ || मुखोद्गते हि विश्वासो नास्माकं हृदयस्थिते | नास्तिकस्येव प्रत्यक्षे प्रमाणे न तु शाब्दिके || ३७-७४ || तस्मात्त्वं स्वीयवचनं यदि सत्येन युञ्जसि | देहि लज्जां विहायाशु वासांस्याभरणानि च || ३७-७५ || नो चेत्स्वतन्त्रः किं कुर्मः प्रभुस्त्वमस्वतन्त्रकाः | पणलोपभयाद् भूयः का प्रतीतिस्तवेति हि || ३७-७६ || तस्मादर्थमनर्थं च स्वकीयहृदये पुनः | विनिश्चित्य यथा न्यायं यदिच्छसि तथा कुरु || ३७-७७ || श्रुत्वेन्दिरावाक्यमतिप्रगल्भं चातुर्ययुक्त च सखीसमाजे | स्मित्वा स्वभूषावसनानि सद्यः स्वयं समुत्तार्य ददावथास्यै || ३७-७८ || महानीलं ददौ वासः कटिवस्त्रं सुवर्णभम् | उष्णीषं चैव कौसुम्भ मुक्ताभूषितकुण्डले || ३७-७९ || स्फुरत्कोटीन्दुविलसदुष्णीषमणिमुत्तमम् | दिव्यमुक्ताफलानद्धग्रीवाभरणमुज्ज्वलम् || ३७-८० || नवरत्नमयीमालां विचित्रकिरणोज्ज्वलाम् | किर्मीरितमिवात्युच्चैः प्रकुर्वन्तीं हृदाम्बुजम् || ३७-८१ || माणिक्यमुक्तामणिभिर्जटितं वलयद्वयं | नखसुक्तिं महारम्यां स्वर्णपद्मविभूषिताम् || ३७-८२ || केयूरयुगलं चारु चिन्तारत्नचितान्तरम् | मध्योल्लसत्पद्मरागं चतुष्कं चातिसुन्दरम् || ३७-८३ || उन्मत्तानङ्गमातङ्गगलघण्टाविडम्बिनीम् | नीलहीरादिमणिभिः स्फुरद्भिः परितो वृत्ताम् | क्षुद्रघण्टाक्वणत्कारैः स्वर्णकाञ्चीमनूपमाम् || ३७-८४ || ऊर्मिकाः प्रस्फुरद्रत्नप्रभापटलमध्यगाः | अङ्गुलीछद्मलावण्यधाराशङ्कां वितन्वतीः || ३७-८५ || पादयोः कटके दिव्ये सुवृत्तेः मणिभूषिते | ददौ महामनाः कृष्णो यदन्यद्भूषणादिकम् || ३७-८६ || ततश्च रचयामास वेषं तस्या मनोहरम् | उष्णीवं मूर्ध्नि रचितं कर्णयौः कुण्डलद्वयम् || ३७-८७ || कण्ठे मालां दधौ रम्यां नवरत्नविराजिताम् [विभूषिताम् इत्यपि पाठः |] | वलये कल्पयायास मणिबन्धद्वये तथा || ३७-८८ || केयूरयुगल बाहोश्चतुष्कं हृदयाम्बुजे | कट्यां प्रकल्पयामास स्वर्णकाञ्ची मनोहराम् || ३७-८९ || अङ्गुलीयान्यङ्गुलिषु तदङ्गे कल्पयद्धरिः | ददौ वेत्रं महादिव्यं खचितं मणिमौक्तिकैः || ३७-९० || रत्नसिंहासने स्थाप्य तां सखीमिन्दिराभिधाम् | ननर्त कृष्णो रुचिरान् भावानाविश्चकार ह || ३७-९१ || वनितारूपमास्थाय मोहयन्निव मायया | प्रिये नृत्यति सोत्साहं जगुः काश्चन योषितः || ३७-९२ || मृदङ्गमहनत् माध्वी यौवनोद्वेलगर्विता | वीणामासावती विद्युल्लता तन्त्रीमवादयत् || ३७-९३ || लावण्यलहरी साक्षाद्वंशीवादनतत्परा | सुप्रभा निस्तुला चोभे अभृतां तालधारिके || ३७-९४ || काश्चिन्मुखध्वनिं चक्रुस्तालीवादनतत्पराः | काश्चिज्जयजजयेत्युच्चैरूचर्हास्यरसाकुलाः || ३७-९५ || सुमुखीललिताद्यास्तु साधु साध्विति चाब्रुवन् | अन्याः कुतूहलामग्नाः कृष्णस्य मुखपङ्कजम् || ३७-९६ || पपुर्लावण्यमधुरं भ्रमन्ननषट्दम् | ततो लीलावसाने तु कृष्णरूपधरा सखी | सिंहासनात्समुत्थाय रचिताञ्जलिराययौ || ३७-९७ || पपात पादयोर्भर्त्तुः प्रिय उत्थाप्य तां सखीम् | आलिलिङ्ग चिरं प्रेम्णा चुचुम्बाननपङ्कजम् || ३७-९८ || कृष्णं विभूषयामास पुनस्तैर्भूषणाम्बरैः | रथारूढा ययुः सर्वाः प्रियेण निजमन्दिरम् || ३७-९९ || चतुःषष्टिमहास्तम्भराजराजितभूमिकाम् | प्राप्यसिंहासनगतं परिवव्रुः प्रियं प्रियाः || ३७-१०० || इति श्रीमाहेश्वरतन्त्रे शिवोमासम्वादे सप्तत्रिंशं पटलम् || ३७-३७ || अथ अष्टत्रिंशं पटलम् पार्वत्युवाच देवेश परमेशान सुरासुरनमस्कृत | कथेयं सुमहत्पुण्या सुधास्वादीयसंस्तुता || ३८-१ || तथापि देवदेवेश त्वद्वाक् पीयूषपानजा | तृप्तिर्न जायते सम्यक् शुश्रूषाकुलचेतसः || ३८-२ || कथाश्रवणजानन्दो न मुक्तावपि दृश्यते | कस्तं विहाय मोहेन निजायुः प्रविलापयेत् || ३८-३ || ते मन्दभाग्याः कुधियो दुराचारपरा हि ते | यैर्न लब्धा क्षणमपि कथा कर्णसुधा सती || ३८-४ || सार्द्धत्रिकोटितीर्थानि ऋषयो मन्त्रदेवताः | यत्र कृष्णकथावादस्त्रैवायान्तिनिऽस्चितम् || ३८-५ || तस्मादनुग्रहीतास्मि भवता करुणात्मना | कथां कथयता रम्यां कृष्णस्यानन्दरूपिणः || ३८-६ || पुनः कथय देवेश कथामानन्दकारिणीम् | चतुःषष्टिमहास्तंभराजिराजितभूमिकाम् || ३८-७ || अधिष्ठाय प्रियेणैताः सङ्गताश्च किमाचरन् | तद्वदस्वमहेशान यदि तेनुग्रहो मयि || ३८-८ || शिव उवाच शृणु पार्वति वक्ष्यामि यत्पृष्टोहं सुलोचने | यस्य श्रवणमात्रेण जायते रतिरुत्तमा || ३८-९ || नीलाद्रिशिखरादेत्य निजं धाम परात्परः | रत्नसिंहासने तस्थौ नवरत्नविभूषिते || ३८-१० || सिंहासनस्य परितो मण्डलाकारसंस्थितः | प्रफुल्लनयनाम्भोजाः पश्यन्ति स्म प्रियं मुदा || ३८-११ || पूर्णानन्दं पूर्णकामं तत्र काञ्चन योषितः | राजोपचारविधिना ह्युपतस्थुर्मुदान्विताः || ३८-१२ || शरच्चन्द्रप्रभागौरं मुक्तामणिविभूषितम् | रत्नदण्डमनोहारि मिहिला छत्रमादधौ || ३८-१३ || माणिक्यखचितस्वर्णदण्डचामरचालनैः | उपतस्थौ महाभागा चन्द्रलेखा मनस्विनी || ३८-१४ || सुवर्णसूत्रविद्योतच्चन्द्रकार्पितमौक्तिकम् | मयूरव्यजनं धृत्वा करे चित्रा परामृशत् || ३८-१५ || हिमांशुमण्डलप्रख्यं दर्पणं स्वर्णभूषितम् | रत्नचित्रं करे धृत्वा तस्थावानन्दमञ्जरी || ३८-१६ || सुगन्धद्रव्यसम्भिन्नास्ताम्बूलदलवीटिकाः | रत्नपात्रे समादाय तस्थौ मदनमेखला || ३८-१७ || शतयोजनसंसर्पि दिव्यचन्दनपूरितम् | रत्नपात्रं करे धृत्वा तस्थौ भुवनमालिनी || ३८-१८ || मुक्ताजटितसौवर्णभृङ्गारजलपूरितम् | माणिक्यनालमादाय रत्नरेखा पुरःस्थिता || ३८-१९ || शरच्चन्द्रांशुधवलं दशावलितमौक्तिकम् | हस्तवासः करेधृत्वा पुरस्तथौ विहारिणी || ३८-२० || स्वर्णपात्रे स्थितं दिव्यं नानास्वादुरसान्वितम् | आनन्दभोगमादाय माधुरी दक्षिणे स्थिता || ३८-२१ || लीलावचांसि यानीह प्रवक्ति पुरुषोत्तमः | तानि श्लाघयितुं तस्थौ सुन्दरीशानकोणगा || ३८-२२ || माध्वी मृदङ्गघोषेण वीणयाशावती सती | विद्युल्लता तथा तन्त्रीरवेणातिरसच्युता || ३८-२३ || वंशीवाद्येन लावण्यलहरी ललिताकृतिः | रागरङ्गा विनोदार्थं प्रयुक्तपरिभाषया || ३८-२४ || रागविद्यासु कुशला रागिणी रागविद्यया | उपतस्थुर्महाभागाः कृष्णं परमपूरुषम् || ३८-२५ || ततो नाना विधां चक्रुर्लीलां हास्यरसाधिकाम् | तदन्ते प्रियमाभाष्य वप्रच्छुस्ताः समुत्सुकाः || ३८-२६ || सख्य ऊचुः भो नाथ पुरुषश्रेष्ठ प्रियस्त्वं च वयं प्रियाः | प्रियत्त्वभाजां या प्रीतिर्न चोपाधिकृता भवेत् || ३८-२७ || यद्युपाधिकृता प्रीतिस्तदा रूपं न सिद्ध्यति | तस्मात्प्रेमवतीनां नो यथावद्वक्तुमर्हसि || ३८-२८ || अवाग्विषयमत्युग्रहैतुकमनामयम् | त्वययेवास्माकमतुलं प्रेम विद्योतते प्रिय || ३८-२९ || शब्दोपाधौ कथं तच्च धर्तुं शक्ता वयं स्त्रियः | तस्मात्तत्प्रकटीकर्तुं न समर्थाः कदाचन || ३८-३० || स्वयंवेद्यमिदं भाति कथं वाचां प्रचक्ष्महे | अस्मासु यद्भवेत्प्रेम त्वदीयं पुरुषोत्तम् || ३८-३१ || अधिकं वा समं न्यूनं कथं विद्मः प्रिया वयम् | त्वमेव वाचा तद्ब्रूहि तारतम्यविदो वयम् || ३८-३२ || सखीनामपि सर्वासां स्वस्वप्रेमनिरूपणे | विवादः शान्तिमाप्नोति त्वत्प्रेमश्रवणेन च || ३८-३३ || इति श्रुत्वा वचस्तासां परात्मा पुरुषोत्तमः | न वाग्वृत्तिव्यक्तियोग्य ज्ञात्वा प्रेमाब्रवीद्वचः || ३८-३४ || श्रीकृष्ण उवाच भवतीभिर्यदुक्तं भो तत्तथैव न संशयः | स्वसंवेद्यमिदं [स्वयंवेद्यमिदं इ० पा० |] प्रेम न वाचा वक्तुर्महति || ३८-३५ || रम्यैर्मनोहरैर्भावैर्लक्षणीयं भवेदपि | प्रेम रत्यात्मकं सख्यो रतिरेव रसोस्म्यहम् || ३८-३६ || तस्मान्मदात्मकं प्रेम ज्ञातव्यमिह सर्वथा | मत्स्वरूपं तु को वेत्ति को वा वक्तुं समीहते || ३८-३७ || निषेधमुखतो वेदा वर्णयन्ति विशारदाः | कथमन्ये वराकास्तु कालावच्छेदमूर्त्तयः || ३८-३८ || मत्स्वरूपमिदं प्रेम न शब्दविषयं भवेत् | तस्मान्मयापि नो वक्तुं शक्यतेऽन्यस्य का कथा || ३८-३९ || एवं ताः प्रत्युदीर्याय दर्पणं स्वपुरःस्थितम् | आदाय ताभ्यः प्रायच्छत्सन्मुखं पुरुषोत्तमः || ३८-४० || प्रेमदत्ते प्रियेणास्मिन् दर्पणे योषितां तदा | पश्यन्तीनां मुखाब्जानि वितर्कः सुमहानभूत् || ३८-४१ || प्रेमप्रश्नोत्तरं वक्तुमात्मदर्शः प्रदर्शितः | किं सूचितमनेनेति कथं विज्ञायते हि तत् || ३८-४२ || स्वच्छ दर्पणवत् प्रेम स्वकीयं वक्ति किं प्रभुः | प्रतिबिम्बवदस्माकं बिम्बवत्स्वीयमित्युत || ३८-४३ || अथवा दर्पणे यद्वत् यथारूपं च दृश्यते | तथा भवेत्प्रेमनिभ मदीयमिति सूचितम् || ३८-४४ || प्रेमभेदनिरासार्थमैक्यसंसूचनाय किम् | रूपस्य प्रतिरूपस्य यथा तद्वद्भवेन्न किम् || ३८-४५ || इति संशयमग्नं स्वं सखीवर्गं परात्परः | भवतीनामयं तर्को मदाशयनिरूपकः || ३८-४६ || न मया विद्यते भेदो युष्माकं च मनागपि | अहं यूयं यूयमहमित्येषा मे मतिः प्रियाः || ३८-४७ || अभेदसूचनार्थाय दर्पणो वः पुरोधृतः | इति प्रहर्षजनकैर्वचोभिः समनन्दयत् || ३८-४८ || शिव उवाच एवमानन्दिताः सर्वाः श्रुत्वा वाचः सुशोभनाः | प्रहर्षवेगविवशाः कृष्णस्य मुखपङ्कजम् || ३८-४९ || अङ्गुष्ठतर्जनीभ्यां गृहीत्वा चिबुकस्थलम् [गृहीतचिबुकस्थलाः इ० पा० |] | चुचुम्बुः परया प्रीत्या ससीत्कारं गतत्रपाः || ३८-५० || आलिलिङ्गुस्तथा चान्याः प्रशसंसुस्तथापराः | त्वययेतदुचितं नाथ यत्प्रियाणां प्रियङ्कराः [पियकरः इ० पा० |] || ३८-५१ || इत्याहुरपराः सख्यः प्रेमनिर्भिन्नमानसाः | एतस्मिन्नन्तरे नाम्ना सुन्दरीति वराङ्गना || ३८-५२ || स्मितपूर्वमुवाचेदं वचनं प्रेमगर्विता | सुन्दर्युवाच भवतीनामयं तर्को यद्यपि प्रियसम्मतः || ३८-५३ || तर्कशेषस्तथाप्यस्ति न प्रियेण प्रकाशितः | भवतीभिः स्वमत्यापि [स पत्यापि इ० पा०] स च नावगतः परम् || ३८-५४ || स्वीयोपरि प्रेम कीदृगिति पृष्टे प्रियेण हि | आत्मदर्शो दर्शितो वस्तत्र वक्ष्ये प्रियाशयम् || ३८-५५ || आत्मादर्शे यथा सम्यक् स्वस्वरूपं निरीक्षते | तदभावे स्वस्वरूपानुभवो नैव जायते || ३८-५६ || श्रुतिगीतमिदं तद्वत्स्वरूपं मे रसात्मकम् | मयानुभूयते सम्यक् प्रियापात्रसमाश्रयम् || ३८-५७ || अन्यथा मत्स्वरूपस्य न ममानुभवः क्वचित् | यथा धरागतं सूर्यो रसं पीत्वाभिवर्षति || ३८-५८ || तथा प्रियारसं मां च पीत्वा तद्भावपूरिताः | आनन्दयन्ति मामेव घनीभूतरसात्मकम् || ३८-५९ || दर्पणछद्मना सख्यः अयमर्थोऽपि सूचितः | इत्येतत्सुन्दरीवाक्यं श्रुत्वा सख्योतिविस्मिताः || ३८-६० || भगवानपि पूर्णात्मा तदुक्तार्थममन्यत | श्रीकृष्ण उवाच अन्वर्थं साधु ते नाम सुन्दरीति मम प्रियम् || ३८-६१ || त्वं मे प्राणाधिका चासि सर्वस्वं मे त्वमेव हि | त्वदधीनोऽस्म्यहं साध्वि प्रेमपाशनियन्त्रितः || ३८-६२ || त्वदुक्तं यन्मयोक्तं तत् त्वद्दृष्टं तन्मयेक्षितम् | यत्त्वयाङ्गीकृतं साध्वि मयाप्यङ्गीकृतं हि तत् || ३८-६३ || आवयोरन्तरं नास्ति यः करोति स पातकी | इत्येवं वचनं श्रुत्वा प्रियास्ताः प्रियभाषितम् || ३८-६४ || प्रहर्षं परमं जग्मुर्विषण्णां स्वामिनीं विना || ३८-६५ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसम्वादे अष्टत्रिंशं पटलम् || ३८-३८ || अथ एकोनचत्वारिंशं पटलम् पार्वत्त्युवाच भगवन् देवदेवेश दिव्यज्ञानविशारद | अत्याश्चर्यकरी प्रोक्ता कथा ते जीवदुर्लभा || ३९-१ || प्रादुर्भवन्ति देवेश सर्गेस्मिन् देवदानवाः | मनुष्यलौकेपि च ते सम्भवन्ति यदृच्छया || ३९-२ || देवाः क्षमार्जवोपेताः दयादाक्षिण्यसंयुताः | जितेन्द्रिया जितक्रोधा दम्भमात्सर्यवर्ज्जिताः || ३९-३ || अलोलुपाः सुशीलाश्च श्रद्धाभक्तिसमन्विताः | जिज्ञासवो [जितासवो इ० पा०] दृढाभ्यासा वेदशास्त्रार्थचिन्तकाः || ३९-४ || तेषापि महादेव तत्त्वमेतत्सुदुर्लभम् | किं पुनर्दानवांशानां परद्रोहरतात्मनाम् || ३९-५ || नास्तिकानां च धूर्तानां कृघ्नानां दुरात्मनाम् | वेदार्थदूषकानां च देहादिष्वर्थमानिनाम् || ३९-६ || वैडालिकानामक्षपादशापविभ्रष्टचेतसाम् | सौगतानाञ्च बौद्धानां दिगम्बरमतस्पृशाम् || ३९-७ || जैनमाघ्यमिकानां [जैन्यमाध्यमिकानामित्यपि पाठः] च चार्वाकाणां दुरात्मनाम् | वेदशास्त्रोज्झितानां च न मुक्ति क्वापि विश्रुता || ३९-८ || यस्त्वया वासनासर्गस्तृतीयः परिकीर्त्तितः | यदर्थमुपदेशोऽयं तत्वज्ञानस्य धूर्जटे || ३९-९ || अह तु श्रवणादेव कृतार्थास्मीति मे मतिः | प्राप्तिः सम्बन्धविषया नान्यथा तु कदाचन || ३९-१० || तस्मान्मे श्रवणानन्दो रोचतेतितरां प्रभो | अप्राप्यः श्रवणानन्दः पापग्रस्तैर्दुरात्मभिः || ३९-११ || तस्मात् संश्रोतुमिच्छामि प्रवक्तुं यदि मन्यसे | न त्वया सदृशः कश्चित्करुणामृतवारिधिः || ३९-१२ || यत्त्वयोक्तं महादेव सर्वास्ताः कृष्णयोषितः | प्रहर्षं परमं जग्मुर्विषण्णां स्वामिनीं विना || ३९-१३ || तत्र मे संशयो जातो देवदेव जगत्पते | स्वामिनीखेदमूलं मे कथयस्व यथातथम् || ३९-१४ || शिव उवाच शृणु देवि प्रवक्ष्यामि स्वामिनीखेदकारणम् | नेत्रबन्धात्मिका लीला नीलाद्रिशिखरे कृता || ३९-१५ || तत्रेन्दिरानाम हित्वा सुन्दरीत्यवदत्प्रियः | तदेन्दिरावदद्वाक्यं सुन्दरी न भवाम्यहम् || ३९-१६ || नाम्नाहमिन्दिरा साक्षात्प्रियास्मि प्राणनायक | तदा कृष्णोवदद्वाक्यं शृण्वतीनां च योषिताम् || ३९-१७ || त्वयीन्दिरे सुन्दरीति भ्रमः सार्वदिको मम | ज्ञात्वापि त्वामिन्दिरेति क्षणादेव भ्रमद्धिया | जल्पितं सुन्दरीत्येतन्मयोक्तमवधार्यताम् || ३९-१८ || इत्येतद्वचनं श्रुत्वा सुन्दरीगौरवात्मकम् | किञ्चित्कलुषचित्ताभूत् सखीमण्डलमध्यतः || ३९-१९ || सर्वास्वेतासु घटते समः स्नेहः प्रियस्य हि | सुन्दर्यामधिकं प्रेम हेतुना केन युज्यते || ३९-२० || सखीनां चापि सर्वासामहमेका वराङ्गना | मत्तः किमधिका जाता सौन्दर्यादिगुणादिभिः || ३९-२१ || स्वामिनीत्थं विमृष्य स्वे हृदये प्रेमपूरिते | तस्थौ समाहितमतिर्गूहयामास हृद्गतम् || ३९-२२ || ततो नीलाद्रिशिखरादागत्य मणिसद्मनि | प्रियाभिर्वेष्टितस्तत्र संस्थितः पुरुषोत्तमः || ३९-२३ || तत्र प्रियाभिः सम्प्रश्ने कृते दर्पणमादिशत् | आदाय दर्पणं सख्यस्तर्कयन्त्यो मुदं ययुः || ३९-२४ || स्वबुध्या सुन्दरी चापि सखीचित्तं समादधे | तत्समाहितमाकर्ण्य प्रसन्नः पुरुषोत्तमः || ३९-२५ || व्यक्तीकुर्वन्निजं प्रेम प्रोवाच वचनं तदा | अन्वर्थं साध्वी ते नाम सुन्दरीति मम प्रियम् || ३९-२६ || त्वं मे प्राणाधिका चासि सर्वस्वं मे त्वमेव हि | त्वधीनोस्म्यहं साध्वि प्रेमपाशनियन्त्रितः || ३९-२७ || त्वयोक्तं यन्मयोक्तं तत्त्वदृष्टं तन्मयेक्षितम् | यत्त्वयाङ्गीकृतं साध्वि मयाप्यङ्गीकृतं हि तत् || ३९-२८ || आवयोरन्तरं नास्ति यः करोति स पातकी | इत्यादिवचनं श्रुत्वा सुन्दरीप्रेमसूचकम् || ३९-२९ || उत्तम्भयन्ती भ्रूवल्लीमीषत्कलुषितेक्षणा | वक्रितग्रीवमवदत्स्वामिनी स्फुरिताधरा || ३९-३० || एषा सखीसहस्राणां सुन्दरी सुन्दरप्रिया | किं कार्यं विद्यतेऽस्माभिर्गुणरूपविपर्ययात् || ३९-३१ || सुन्दर्येव प्रियैका चेदसुन्दर्यः कथं प्रियाः | भवन्ति सुन्दरास्यास्य मादृश्यौ वामलोचनाः || ३९-३२ || एवं वक्रोक्तिमाश्राव्य सखीनां पुरतः प्रियम् | अगमत्सहसोत्थाय निजकेलिगृहान्तरम् || ३९-३३ || सम्प्रेषयामास तदा कृष्णः कमललोचनः | प्रियामाननिरासार्थं दूतीं नाम्ना कलावतीम् || ३९-३४ || सन्धिकार्येककुशलां स्मितपूर्वाभिभाषिणीम् | सदुक्तिचतुरां धीरां युक्तिवादविचक्षणाम् || ३९-३५ || कलावतीं ततो गत्त्वा दृष्ट्वा मानवतीं च ताम् | निजकेलिगहे रम्ये स्थितामेकाकिनीं रहः || ३९-३६ || नानामन्त्रप्रयोगैश्च विषवेगं यथा भिषक् | वाक्प्रयोगैरभिनवैर्मानवेगं न्यवारयत् || ३९-३७ || प्राणादप्यधिके साध्वि किमेतदुचितं प्रिये | त्वं पत्युः प्राणसदृशी पतिः प्राणसमस्तवः || ३९-३८ || सखीवर्गसमस्तोऽपि इन्द्रियाणीव देहिनः | त्वमात्मेव प्रियस्यासि क्व मानावसरस्तव || ३९-३९ || पूर्णानन्दे पूर्णकामे गिरः प्रियतमे सति | न वक्तुं पुरुषो योग्यो यथा दूर्त्ते शठे खले || ३९-४० || बिम्बाधरस्फुरणतो भ्रुवोरुत्तम्भनादपि | लौहित्याद्गल्लभित्तेश्च मानस्ते लक्ष्यते गुरुः || ३९-४१ || अन्तस्तापोष्णनिश्वासो दहत्यधरपल्लवम् | मिथ्या ग्लापयसे चाङ्गलतिकां मानवह्निना || ३९-४२ || दुःसहः क्षणविश्लेषः प्रियस्याननपङ्कजम् | अदृष्ट्वा यत्तु जीवेत तस्माच्च मरण वरम् || ३९-४३ || सखीनां च सहस्राणि सन्ति यद्यप्यनेकशः | त्वययेव रमते चित्तं कौमुद्यामिव शीतगोः || ३९-४४ || मान्यो मानिनि नायकः प्रमदया वाक्यैः सुधासन्निभै- र्वांच्यः कोमलपाणिपङ्कजपुटं बध्वाभिवन्द्यः सदा | तद्वाक्यं प्रियमप्रियं न हृदये धार्यं सतीनामयं स्वाचारः कथितो मथा तमनु किं त्यक्त्वा वृथा तप्यसे || ३९-४५ || किं मानिनि बहूक्तेन कुरु मद्वचनं यथा | गाढमानपरिक्लिष्टं औदासिन्यं व्रजेत्प्रियः || ३९-४६ || तस्मान्मद्वचने श्रद्धां कृत्वा तन्निकटं व्रज | विलम्बेन तु मानोऽयं परां कोटिं गमिष्यति || ३९-४७ || प्रियस्त्वयि प्रयातायामकस्माज्जातकश्मलः | हास्यक्रीडारसावेशरहितो वर्त्ततेधुना || ३९-४८ || त्वामाह्वायितुमेवाहं प्रेषितास्मि प्रियेण हि | आज्ञापयसि चेत्कान्ते तमेवेहानयाम्यहम् || ३९-४९ || शिव उवाच श्रुत्वा कलावतीवाक्यं स्वामिनी मानमन्थरा | मानाद्रिशिखरात् किंचिदुत्तीर्णा वाक्यमब्रवीत् || ३९-५० || स्वामिन्युवाच कलावति प्रिये मानो न कदापि मया कृतः | सुन्दरीगुणमाहात्म्यश्रवणं मे विषादकृत || ३९-५१ || मनुते चेत्प्रियस्त्वेकां सुन्दरीं गुणगुम्फिताम् | कलावति तदा कार्यं किमस्माभिः प्रियस्य हि || ३९-५२ || इति मत्वाहमुत्थाय प्राप्तास्मि भवनं रहः | सुखी भवतु सुन्दर्या गुणवत्त्या गुणी प्रियः || ३९-५३ || कलावत्युवाच नाग्रहः सति कर्त्तव्यस्त्वया सरलनायके | नायकाः सन्ति चत्वारः स्वलक्षणविलक्षिताः || ३९-५४ || अनुकूलो दक्षिणश्च धृष्टश्च शठ एव च | एकपत्नीव्रतधरः अनुकूल उदीरितः || ३९-५५ || अन्यस्यां बद्धचित्तोऽपि पूर्वस्यां स्नेहगौरवम् | न त्यजत्येव सततं स च दक्षिणनायकः || ३९-५६ || त्वमेका मम सर्वस्वं नान्या मे कामिनी प्रिया | समक्षमेवं वदति परोक्षं योऽपराधकृत [सः शठः इति शेषः] || ३९-५७ || ज्ञातापराधः शपथान् कुरुते गूढचेष्टितः | कुटिलं तं विजानीयान्नायकं शठसंज्ञकम् || ३९-५८ || कृतदोषोऽपि निःशङ्कस्ताड्यमानो न लज्जते | प्रत्यक्षेष्वपि दोषेषु मिथ्यावाक् धृष्ट उच्यते || ३९-५९ || एवं चतुर्विधेष्वेषु नायकेषु मनस्विनि | अनुकूलो दक्षिणश्च कीर्त्यतेऽसौ तव प्रियः || ३९-६० || न शठोऽयं धृष्टोऽयं किं मुधा खिद्यसे हृदि | इत्युक्ते विस्मयं प्राप्ता पुनः प्राह कलावतीम् || ३९-६१ || इति माहेश्वरतन्त्रे उत्तरखण्डे शिवोमासम्वादे एकोनचत्वारिंशं पटलम् || ३९-३९ || अथ चत्वारिंशं पटलम् स्वामिन्युवाच कलावति महाप्राज्ञे यत्त्वयोक्तं प्रियाश्रयम् | विरुद्धमिव मे भाति विरुद्धैलक्षणैः किल || ४०-१ || एकपत्नीव्रतधरोऽनुकूल इति कीर्त्तितः | दक्षिणो बहुपत्नीकः सर्वास्वविषमः स्मृतः || ४०-२ || एकस्मिन्नायके साध्वि कथमेतद्द्वयं भवेत् | अश्रद्धेयमिवाभाति यदि जानासि तद्वद || ४०-३ || कलावत्युवाच शृणु स्वामिनि प्रवक्ष्यामि तव प्रश्नोत्तर शुभम् | यस्य श्रवणमात्रेण स्वास्थ्यं तव भविष्यति || ४०-४ || एकदा पुष्परागाद्रौ क्रीडनाय गतः प्रियः | आरुह्य शिविकां दिव्यां सुवर्णकलशोज्ज्वलाम् || ४०-५ || उपर्युपरिविन्यस्तनानातोरणमण्डिताम् | हंसपारावतशुकपिकसारसनादिताम् || ४०-६ || नवरत्नविचित्राभां कामगां च मनोजवाम् | शतयोजनविस्तीर्णां नानाक्रीडारसालयाम् || ४०-७ || काञ्चने मध्यकलशे विन्यस्ते चोपरिस्थिते | कोटिचन्द्रप्रभागौररत्नेनोल्लासिताम्बराम् || ४०-८ || तस्मिन्विमानप्रवरे संस्थितः पुरुषोत्तमः | द्विषट्सखीसहस्रेषु मध्ये चन्द्र इवोडुषु | ९ || मनोनुसारिगमनं विमानं कृष्णयोषिताम् | तीर्यगूर्ध्वमधश्चापि पुष्पाद्रिशिखरेऽपतत् || ४०-१० || तत्र [तत्र यश्च नदो नाम्ना नदः पीयूषपूरितः इ० पा० |] चन्द्रप्रभो नाम्ना हृदः पीयूषपूरितः | रचितस्वर्णसोपानः स्वर्णपङ्कजभूषितः || ४०-११ || अस्ति दक्षिणतस्तस्य सरः परमसुन्दरम् | नाम्ना पञ्चनदं ख्यातं शतयोजनविस्तरम् || ४०-१२ || अधोधः कल्पितैः सप्तशतैर्मणिचितान्तरैः | जातरूपमयैर्दिव्यसोपानैर्बद्धमायतैः || ४०-१३ || वैदूर्यपद्मिनीखण्डैः पद्मरागसरोरुहैः | मराललीलापतनैर्मण्डितं तत्र तत्र ह || ४०-१४ || तत्र या याः कृताः क्रिडा जलस्थलविभेदतः | त्वया स्वपतिना साकं तास्ताः स्मर भामिनि || ४०-१५ || प्रियः सरसि सर्वाभिः सखीभिः परिवेष्टितः | समन्तान्निपतद्वर्षैराहतो यत्र विद्रुतः || ४०-१६ || आरुरोह ततस्तूर्णं सरोविश्रान्तिमण्डपम् | प्रतिजग्मुः प्रियाः सर्वास्तत्रोत्तीर्णसरोवराः || ४०-१७ || तावत्पपात सहसा पुनरेव सरोजले | उत्तीर्णगम्भीरजलः कुत्रचिद्विजनस्थले || ४०-१८ || अनेककुञ्जगहने प्रच्छन्नोऽभवदेकलः | मृगयन्त्यः प्रियाः सर्वा विचेरुस्तत्र तत्र च || ४०-१९ || अहं विचिन्वती तत्र गता गहनधामनि | विलीय संस्थितं कृष्णमद्राक्षमतिसुन्दरम् || ४०-२० || तत्र मामागतां सुभ्रु विलोक्य प्रहसन् प्रियः | नासाग्राहिततर्जन्या कौतुकी सन्न्यवारयत् || ४०-२१ || प्रिय उवाच कलावति कलाभिज्ञे मां विचिन्वन्ति योषितः | न पश्यन्ति परं चात्र विभ्रमन्ते यतस्ततः || ४०-२२ || त्वमप्यत्रैव सन्तिष्ठ मया सह कलावति | त्वया सह करिष्यामि लीलाखेल रहः स्थितः || ४०-२३ || इत्युक्ताहं स्थिता तत्र बहुमानेन मानिता | तत्र नानाविधाः क्रिडाः प्रियश्चक्रे मया सह || ४०-२४ || तदा मया कृतः प्रश्नः प्रियमुद्दिश्य भामिनि | नायकाः सन्ति चत्वारस्तेषु वा को भवानिति || ४०-२५ || ततः प्रश्नोत्तरं प्राह कृष्णः कमललोचनः | तदहं ते प्रवक्ष्यामि यथाश्रुतमनिन्दिते || ४०-२६ || श्रीकृष्ण उवाच अनुकूलो दक्षिणश्च द्वैविध्यं मयि वर्त्तते | तदन्यत्र विरुद्धं स्यादविरुद्धं मयि स्फुटम् || ४०-२७ || रसोऽहं मूर्त्तिमान् साक्षात् घनीभूतः कलावति | तस्याद्यभागं मां विद्धि द्वितीयं स्वामिनीं प्रियाम् [पराम् इ० पा० |] || ४०-२८ || नावयोर्विद्यते भेदो भोक्तृभोग्यस्वरूपयोः | मदात्मा स्वामिनी प्रोक्ता स्वामिन्यात्माहमेव च || ४०-२९ || मदन्यः पुरुषो नास्ति न च स्त्री स्वामिनीपरा | नैकाकी रमते यस्मात् द्विधाभूतो रसस्ततः || ४०-३० || पुंस्त्रीरूपविभागाभ्यां रसोऽहं विलसाम्यहम् | ब्रह्मानन्दमयीं साक्षान्न लक्ष्मीमपि संस्पृशेत् || ४०-३१ || तेनाहमनुकूलोऽस्मि नायकः कमलेक्षणे | यथाहं दक्षिणश्चास्मि तत्प्रकारं वदामि ते || ४०-३२ || यथानर्घस्य रत्नस्य परितः किरणावलिः | प्रसर्पति न सा भिन्ना मणितस्तु विचारतः || ४०-३३ || स्वामिन्या एव ताः सख्यः कलारूपाः कलावति | न स्नामिन्या विभेदोस्ति सखीनामणुमात्रतः || ४०-३४ || अत एवासु सर्वासु द्रवीभूतो वसाम्यहम् | बहिश्चापि घनीभूतस्ताभिः क्रीडारतोस्म्यहम् || ४०-३५ || क्रीडमानोऽपि सर्वाभिः स्वामिनीप्रेमविह्वलः | अतोऽहं दक्षिणश्चास्मि नायको हि कलावति || ४०-३६ || अत्रापि नैव विहतमानुकूल्यं विचारतः | भेदद्वयोपचारो हि कदाचिन्मयि वर्तते || ४०-३७ || इति मानिनि यत्पृष्टं त्वयैतत्कथितं मया | प्रियेण कथितं साक्षात्स्वमुखेन यथा तथा || ४०-३८ || प्रश्नोत्तरावसाने च विचिन्वन्त्यश्च ताः प्रियाः | घनकुञ्जान्तरे लीनं दृष्ट्वाजग्मुस्त्वरान्विताः || ४०-३९ || ततः प्रियेण सहिता आगतास्तव सन्निधिम् | एतत्सर्वं तु जानासि विशेषस्तु मयोदितः || ४०-४० || तस्मान्मानिनि मानस्ते प्रियेण सह नोचितः | आनन्दोऽपि निरानन्दः प्रतिभाति विना त्वया || ४०-४१ || तस्मादुत्तिष्ठ तत्पार्श्वमलंकुरु मनस्विनि | त्वया विरहितं चण्डि प्रियं नो वीक्षितुं क्षमाः || ४०-४२ || इति पाण्डित्यचातुर्यं कलावत्या प्रयोजितम् | निशम्य हृष्टवदना वाक्यं चेदमुवाच ह || ४०-४३ || स्वामिन्युवाच कलावति महाप्राज्ञे मानस्ते वचसा गतः | तथापि [भामिनीनां चेत्यपि पाठः |] मानिनीनां च समयान् वेत्सि हृद्गतान् || ४०-४४ || आगच्छामि यदि स्वैरं गौरवं मेऽपगच्छति | तस्मात्प्रियः करे धृत्वा सुखं नयतु मामिति || ४०-४५ || इत्थं तया निगदिता सखी प्राप्ता प्रियान्तिकम् | प्रहृष्टवदनां दृष्ट्वा प्रियोऽपि मुमुदे भृशम् || ४०-४६ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसम्वादे चत्वारिंशं पटलम् || ४०-४० || अथ एकचत्वारिंशं पटलम् पार्वत्त्युवाच कलावती यदा कान्तदूती प्राप्ता प्रियान्तिकम् | ततः किमभवत्तत्र तन्मे ब्रूहि महेश्वर || ४१-१ || शिव उवाच शृणु देवेशि वक्ष्यामि कथां दिव्यां रसाश्रयाम् | यस्याः श्रवणजानन्दो न मुक्तावपि विद्यते || ४१-२ || प्रहृष्टवदनाम्भोजां दृष्ट्वा दूतीं कलावतीम् | स्मयन्निव प्रियः प्राह शृण्वतीनां च योषिताम् || ४१-३ || कलावति कलाभिज्ञे किमुक्तं प्रियया तया | पिपासोरिव पीयूषं तद्वचस्तृप्तये मम || ४१-४ || तत्सुधानिधिपीयूषप्रणाली त्वं कलावति | सखीलतासमाश्लिष्टकल्पद्रुमं निषिञ्च माम् || ४१-५ || कलावत्युवाच प्राणनाथ प्रिया तेऽद्य मानमास्थाय संस्थिता | गत्वा मया बहुविधैर्वाक्यैरुद्बोधिता मुहुः || ४१-६ || मानाद्रिशिखरारूढा मां कथञ्चिदुवाच ह | कलावति प्रिये मानो न कदापि मया कृतः || ४१-७ || सुन्दरीगुणमाहात्म्यश्रवणं मे विषादकृत् | मनुते चेत्प्रियस्त्वेकां सुन्दरीं गुणगह्वराम् || ४१-८ || अस्माभिर्गुणहीनाभिः कार्यं तस्य न विद्यते | इत्यादिविविधैर्वाक्यैर्वदन्ती सा मनस्विनी || ४१-९ || युक्तियुक्तैश्च वचनैस्तोषिता सा मयापि हि | त्यक्तरोषा प्रियं च त्वां हस्तग्राहमपेक्षते || ४१-१० || स्त्रीणां जातिस्वभावोऽयं तस्मात्कुरु तथा प्रभो | कलावतीवचस्तथ्यं मन्यमानः परात्परः | आत्मारामोऽपि तत्प्रीत्यै आजगाम तदन्तिकम् || ४१-११ || श्रीकृष्ण उवाच नोचितस्ते प्रिये साध्वि मानो मयि निरागसि | त्वदात्मकत्वात्सख्यो मे सर्वाः प्रियतमा अपि || ४१-१२ || लहर्ययः सलिलस्येव यथाग्नेर्विस्फुलिङ्गकाः | पृथक् न सन्ति ते तद्वत्सख्यो भिन्ना न ते क्वचित् || ४१-१३ || तासु सर्वासु यत्प्रेम मदीयं परिवर्त्तते | अनेकधापि विलसत् त्वययेव पर्यवस्यति || ४१-१४ || इति सत्येन वचसा प्रार्थयामि मुहुर्मुहुः | स्वसङ्केतं समायाहीत्युक्त्त्वा जग्राह तत्करम् || ४१-१५ || गृहीते स्वकरे पत्या मावपूरितमानसा | तीर्यक्कटाक्षविशिखं सन्दधाना स्मिताधरा || ४१-१६ || चुम्बितालिङ्गिता प्रेम्णा प्रियेणोत्थाप्य सत्वरम् | प्रियांसारोपितभुजा स्वीयांसारूढतद्भुजा || ४१-१७ || स्वसङ्केतं समागत्य यथापूर्वं निषेदतुः | मुद्रमापुः परां सख्यो दृष्ट्वा तं प्रियया युतम् || ४१-१८ || हासक्रीडावसाने तां प्रियः प्राह हसन्निव | प्रिये विज्ञाप्तुमिच्छामि यदि ते श्रवणे स्पृहा || ४१-१९ || अवाच्यं तत्तु जानीहि तथापि कथयामि ते | कदाचिन्मोहजलधौ यदा मग्ना भविष्यथ || ४१-२० || तदेयं सुन्दरी साक्षाद्भवतीरुद्धरिष्यति | यदा यदा महामोहजलधौ परिमज्जथ | तदा तदोद्धरित्रीयं भवतीर्नात्र संशयः || ४१-२१ || यदेनामवलम्ब्यैव सख्यः सर्वा भ्रमार्णवम् | तरिष्यन्तीति विज्ञातवतो मे सुन्दरी प्रिया || ४१-२२ || सुन्दर्ययामधिकः [अधिकं प्रेम इ० पा० |] प्रेम हेतुस्ते विनिरूपितः | इति प्रियवचः श्लक्ष्णं श्रुत्वा सर्वा विसिस्मिरे || ४१-२३ || तां सर्वाः पूजयामासुः स्वामिन्याद्याश्च सुन्दरी | मनोज्ञभाषणपरैर्वचोभिः कुसुमैरिव || ४१-२४ || स्वभावशीतलै रम्यैः स्वभावैश्चन्दनैरिव | प्रसन्नाग्निविनिर्दग्धहृत्कालर्ष्यश्च धपकः || ४१-२५ || मानांधतमसध्वंसप्रसादैरिव दीपकैः | ततो बहुतरे काले यदा जाता सुमङ्गला || ४१-२६ || [अक्षरान्तःस्थिताक्षरातीतप्रतिबिम्बभूतकेवलधामविहारिणी-नामन्तरावृणोत्येषा सुमङ्गला अक्षरहृदाकाशे तत्सत्त्वात् | ब्रह्मानन्दविहारिणीदर्शनलालसमानसस्याक्षरब्रह्मणोऽपि निजधामान्तर्दुष्प्रवेशत्वात् कुत एतस्यास्तत्र प्रवृत्तिरिति ब्रह्मानन्दरसज्ञचरणाः किलाज्ञापयन्ति |] तदाविष्टः सखीवर्गो ययाचे प्रियमीप्सितम् | दुःखाति दुःखमिति वः प्रार्थितं चेति बोधिताः | न शिक्षावचनं चक्रुरिच्छाशक्तिविमोहिताः || ४१-२७ || वियोगदलमाश्रित्य यदा क्रीडति वै रसः | तद्रसानुकूलगतिर्विमोहयति सुमङ्गला [तत्कालानुकूलगतिर्विमोहयति सुमङ्गला इ० पा० |] || ४१-२८ || तदा प्रियः सखीः प्राह शृणुध्वं मम भाषितम् | निवार्यमाणा हि मया दुरन्ताच्च मनोरथात् || ४१-२९ || न निवृताश्च भो सख्यो यूयमाग्रहतत्पराः [आग्रहमेदुराः इ० पा० |] | नानादुःखमयीं बाललीलां द्रक्ष्यथ मा चिरम् || ४१-३० || विस्मरिष्यथ मां तत्र किमन्यदधिकं ब्रुवे | तथापि सुन्दरी ह्येषा तारयिष्यति तत्तमः || ४१-३१ || मता प्रबोधिता सम्यक् कथयित्वा विनिर्णयम् | इति प्रियवचः श्रुत्वा सर्वाः सख्यो मुदान्विताः || ४१-३२ || प्रसन्नानन्दजलधौ निमग्नाः शक्तिमोहिताः | फले विलम्बमाज्ञाय पुनस्ताः प्रार्थनोत्सुकाः | [यदास्माकम्प्रियं चेच्छ तदा पूरय चेप्सितम् इत्यपि पा० |] यदा तदा प्रियश्चक्रे तन्मनोरथपूरणम् || ४१-३३ || इति माहेश्वरतन्त्रे उत्तरखण्डे शिवोमासम्वादे एकचत्वारिंशं पटलम् || ४१-४१ || अथ द्विचत्वारिंशं पटलम् अतः परं प्रवक्ष्यामि प्रस्तुतं शृणु सुन्दरि | यच्छ्रुत्वा विविधा लीला हृद्यारूढा भवेत्प्रिये || ४२-१ || सन्तोषानन्दभूम्योस्तु सन्धौ पुष्पाद्रिरुत्तमः | योजनायुतमानेन नानाश्चर्यमयो महान् || ४२-२ || नानाधातुमयः श्रीमान् नानामणिविभूषितः | त्रीण्यस्याद्रिप्रधानस्य शिखराणि द्युमन्ति च || ४२-३ || पावमानं महारम्यं विभ्राजमिति तद्भिदा | पावमाने तु शिखरे नित्यं सङ्क्रीडते हरिः || ४२-४ || नित्यं सङ्क्रीडतोरेव स्वामिनीकृष्णयोरपि | श्रमघर्मजलस्रावो महानासीच्च देहतः || ४२-५ || तद्वारिपूर्णं यत्रास्ते सरः परमसुन्दरम् | शतयोजनमानेन रत्नसोपानभास्वरम् || ४२-६ || भ्रमद्भ्रमरसंशोभि सरोजवनसङ्कुलम् | पक्षिणां स्वर्णपक्षाणां कुलैर्मण्डितसैकतम् || ४२-७ || तस्मात्प्रवृत्ता सरसो नाम्ना सा यमुना नदी | अगाधतोया गम्भीरा बहुलावर्तभीषणा || ४२-८ || पावमानात्पतन्ती सा नदी विरजमस्तके | शतैकयोजनोत्तुङ्गे धाराध्वनितगह्वरे || ४२-९ || सन्तोषभूमिकां प्लाव्य किञ्चिद्वैराग्यभूमिकाम् | चिदानन्दमयीं भूमिं किञ्चिदानन्दभूमिकाम् || ४२-१० || रतिभूमिं प्लावयन्ती याति भूमिं प्रकाशिकाम् | प्रकाशानन्दभूम्योऽस्तु ह्यन्तराले महासरः || ४२-११ || सपादलक्षयोजनमांनेन परिविस्तृतम् | समुद्र इव गम्भीरं रत्नसोपानसुन्दरम् || ४२-१२ || पूरयन्ती पुनस्तस्मान्निर्याति ज्ञानभूमिकाम् | भुक्तिभूमिं समाप्लाव्य याति प्रेमात्मिकां भुवम् || ४२-१३ || प्रेमात्मिकां भुवं प्लाव्य सुधाब्धौ विलयङ्गता | रसस्य रममाणस्य दलाभ्यां गिरिनन्दिनि || ४२-१४ || तत्स्यन्दमात्रां यमुनां चिन्तयेत्तदभेदतः | यमुनानिलसंसर्गसमुत्थानन्दसागरः | कूटस्थं गणितानन्दं पूरयत्येव सन्ततम् || ४२-१५ || परब्रह्म रसः कृष्णः तस्यापि द्रवरूपिणीम् | यमुनां केन तुलयेद्रसानन्दजलात्मिकाम् || ४२-१६ || गोमेदखण्डे यमुनाप्रवाहो योजनात्मकः | तत्र पीतमिव स्वच्छं जलं पीयूषसन्निभम् || ४२-१७ || उभयोः कूलयोस्तस्याः कुट्टिमानि बृहन्ति च | नानारत्नमयस्तम्भमण्डपानि द्युमन्ति च || ४२-१८ || गुञ्जद्भ्रमरपुष्पालिलताकुञ्जावृतानि च | चतुर्लक्षाणि देवेशि [महान्त्युज्ज्वलानि च इ० पा० |] महस्तोमोज्वलानि च || ४२-१९ || उपर्यधः स्थितास्तेषां पक्षिणश्चित्रपक्षकाः | कुञ्जसञ्चारिणः केचित् केचिन्मण्डपसंस्थिताः || ४२-२० || कुट्टिमान्तःस्थिताः केचिद्गायन्तो मधुरस्वराः | वज्रखण्डप्रवेशोऽस्यादशयोजनमानतः || ४२-२१ || पयः फेननिभं तत्र दृश्यते सलिलं शिवम् | तावानेव प्रवाहोस्यास्तटयोः कुट्टिमानि च || ४२-३२ || स्वर्णभक्तिविचित्राणि रत्नस्वस्तिकवन्ति च | चतुर्द्वाराणि सर्वाणि मुक्तातोरणवन्ति [चतुर्द्वाराणि मुक्तानां नानातोरणवन्ति व इ० पा० |] च || ४२-२३ || मणिमण्डपयुक्तानि स्वर्णस्तम्भोज्वलानि च | वज्रमुक्ताप्रवालाढ्यविष्टरास्तरितानि च || ४२-२४ || रसानन्दात्मनां यत्र पक्षिणां कलकूजितैः | श्रवणानन्दसन्दोहं वर्षद्भिः सुखमीयते || ४२-२५ || पुष्परागमये खण्डे चिदानन्दात्मभूमिके | श्यामश्वेतजला भाति प्रविष्टा यमुना नदी || ४२-२६ || शतयोजनमानेन विंशालास्तत्प्रवहकाः | स्वर्णमाणिक्यसोपाना फुल्लस्वर्णाम्बुजाकुला || ४२-२७ || पतत्पद्मरजःपुञ्जपिञ्जरीकृतसज्जला | हंसकारण्डवानेककोलाहलतटोत्सवा || ४२-२८ || अन्तःस्थारत्नसिकताचाकचक्यलसज्ज्ला | एकेनोनं च [एकेन न्यूनं शतकं इ० पा० |] शतकं योजनानां प्रमाणतः || ४२-२९ || चिदानन्दमहीव्याप्ता पादेनानन्दभूमिका | आनन्दभूमिसञ्चारियमुनातटसीमनि || ४२-३० || तीर्थसप्तकमीशानि स्मरेल्लीलारसाश्रयम् | जलावतारमार्गाणां तटसीमवनानि [तटसीम्नि इ० पा० |] तु || ४२-३१ || वनं चान्द्रमसं नाम द्वितीयं नीलकाननम् | तृतीयं पुष्पदन्ताख्यं तूर्यमानन्दकाननम् || ४२-३२ || पञ्चमं हेमकूटाख्यं षष्ठं तत्तारकूटकम् | गारुडं नाम विख्यातं सप्तमं वनमुच्यते || ४२-३३ || वने चान्द्रमसे देवि नाम्ना चान्द्रमसो महान् | न्यग्रोधराज आभाति वैदूर्यविलसच्छदः || ४२-३४ || चक्षुष्मत्पद्मरागोऽथ फलस्फारप्रभाचितः | स्वर्णाङ्कुरजटाप्रान्तलम्बिनमौक्तिकगुच्छकः || ४२-३५ || दिव्यपक्षिकृतावासशाखान्दोलनविभ्रमैः | दर्शनादन्तरात्मानं चमत्कुर्वन्नटो यथा || ४२-३६ || फलापह्नुतचञ्चुश्रीपत्रापह्नुतपत्रकाः | महाराजेति कृष्णेति वाचा च दृष्टव्यक्तिकाः || ४२-३७ || माध्वीकश्रवणां दिव्यां नानाकलपदांचिताम् | गिरं च कीरनिवहाः संसृजन्ति कुतूहलम् || ४२-३८ || यस्याधस्तात् समाभाति शशिकान्तमणिस्थली | अखण्डचन्द्रकान्तोद्यत्प्रभापुञ्जसुपेशला || ४२-३९ || यद्दीर्घविटपालम्बमानान्दोलनविभ्रमाः | सख्यः परस्परं यस्यां प्रतिबिम्बभुजो भुवि || ४२-४० || यदालवालवद्भाति माणिक्यवरकुट्टिमः | चतुर्भिः काञ्चनस्तम्भैर्मुक्तावैदूर्यभूषितैः || ४२-४१ || उपर्यर्कमणिकॢप्तमण्डपच्छाययाविलः [छाययान्वितः इ० पा० |] | विष्वग्विततविटपाक्रान्तप्रान्तमहीतलः || ४२-४२ || न्यग्रोधमूलसंसूतकल्पद्रुमलतामधः [संसृत इ० पा० |] | दिव्यपल्लवपुष्पाढ्यो रत्नसिंहासनोत्तमे [पुष्पाढ्यां इ० पा० |] || ४२-४३ || क्रीडार्थमागतस्तत्र तिष्ठते पुरुषोत्तमः | योजनायुतमाणिक्यकुट्टिमस्थाः सखीगणाः || ४२-४४ || हसन्तो हासयन्तश्च दिव्यक्रीडाकुतूहलैः | मञ्जुस्वरेण गायन्ति प्रियस्यैव यशोऽमलम् || ४२-४५ || तिष्ठन्त्यत्र महोद्याने तत्स्थानपरिचारिकाः | चतुर्विंशतिर्देवेशि सहस्राणीति संख्यया || ४२-४६ || तासां सौधानि शुभ्राणि मणिद्वाराणि पार्वति | प्रवालदेहलीकानि विष्वक् न्यग्रोधमण्डलम् || ४२-४७ || द्विपङ्क्तिभाञ्जि रम्याणि साप्तभौमानि सुन्दरि | तावन्त्येव विराजन्ते वीथीयुक्तानि मध्यतः || ४२-४८ || अन्योन्यपङ्क्तिस्थितहर्म्यलम्बद्दोलासमारूढसखीसमूहः [सहसः |] | अन्योन्यसङ्घट्टन [काकतालीकरः इ० पा० |] पाणिपालीकरः पुनः श्लेषमुपैति गायन् || ४२-४९ || हेमप्राकारकलितमिदं चान्द्रमसं वनम् | यमुनाभिमुखे यस्य द्वारमाभाति काञ्चनम् || ४२-५० || द्वारापसव्यसव्यस्थौ कुट्टिमौ रत्नकाञ्चनौ | महाचतुःस्तम्भलसन्मण्डपाडम्बरस्पृशौ || ४२-५१ || ततः सोपानमार्गेण गन्तव्या यमुना नदी | सोपानानि सहस्रे द्वे द्वे शते च दशोत्तरे || ४२-५२ || पद्मरागार्कवैदूर्यप्रवालशशिगारुडैः | मुक्तेन्द्रनीलगोमेदपुष्पवज्रहिरण्मयैः || ४२-५३ || पुनः पुनः क्रमादेतैः सोपानैः प्रान्तमण्डपैः | अधोघः कल्पितैः सम्यक् गम्यते यमुना नदी || ४२-५४ || मणिकाञ्चनसन्नद्धा यत्र नौकाः सुपेशलाः | वायूद्धूतध्वजपटाः विभ्रमन्ते यतस्ततः || ४२-५५ || अनेकपोतसंस्थासु सखीषु पुरुषोत्तमः | मध्यपोतस्थितः सम्यक् राजते तिसृभिर्युतः || ४२-५६ || स्वामिनी वामभागस्था दाडिमीपुष्पभांशुकाः | इन्दिरा सुन्दरी चोभे पुरः सव्यापसव्ययोः || ४२-५७ || इन्दिरा कृष्णपक्षीया सुन्दरी स्वामिनी परा | हास्य केलिविहारेषु विवादेषु रसात्मसु || ४२-५८ || तेनेयमिन्दिरा साक्षात्स्वामिनीप्राणवल्लभा | सुन्दरी चापि कृष्णस्य प्राणाधिवल्लभा हि सा || ४२-५९ || एवं क्रीडारसानन्दसखीभिः पुरुषोत्तमः | वने चान्द्रमसे कृष्णः सेवते च यदृच्छया || ४२-६० || इति माहेश्वरतन्त्रे उत्तरखण्डे शिवोमासम्वादे द्विचत्वारिंशं पटलम् || ४२-४२ || अथ त्रिचत्वारिंशं पटलम् शिव उवाच नीलोद्यानेऽपि देवेशि कदाचित्पुरुषोत्तमः | सखीसहस्रैरागत्य क्रीडते स्वामिनीमुखैः || ४३-१ || अखण्डमाणिक्यशिलाकल्पिता नीलभूमिका | अन्तरान्तरितामुक्तावज्रवैदूर्यविद्रुमैः || ४३-२ || यत्र वाप्यः सुधापूर्णाः काञ्चनोत्पलमालिनः [मालिनी इ० पा० |] | प्रवालपुष्पाभरणा लतोल्लासितमण्डपाः || ४३-३ || उपर्युपरिविन्यस्तभूमिस्थपरिचारिकाः | वीणामृदङ्गघोषेण घोषयन्त्यो वनस्थलीम् || ४३-४ || रुचिरांशुतडिद्दीप्तरत्नभूषणभूषिताः [चीरांशुतडिदुहीप्त इ० पा० |] | नानारसकलाभिज्ञा यशो गायन्ति संहताः || ४३-५ || चतुर्विंशतिसाहस्रं तत्स्थानपरिचारिकाः | द्विपङ्क्तया परितस्तासां मन्दिराण्युज्वलन्ति च || ४३-६ || तन्मध्यभूमौ देवेशि क्रीडासौधमनुत्तमम् | कोटिचन्द्रप्रभापुञ्जधिक्कारिमणिकल्पितम् || ४३-७ || चतुर्दिक्षु लसत्स्वर्णस्तम्भराजिर्विराजितम् | प्रतिस्तम्भं प्रविन्यस्तपुत्रिकाभिरलङ्कृतम् || ४३-८ || मुक्ताप्रवालरचितं कपाटद्वारतोरणम् | हंसपारावतशुकैर्भित्तिशङ्कुकृतास्पदैः || ४३-९ || अन्योऽन्यं वादिभिरिव क्षिप्ता वाचो जिगीषया | मनः श्रोत्रहरा यत्रानन्दयन्ति सखीगणान् || ४३-१० || सौधाङ्गणचतुर्दिक्षु कुट्टिमानि बृहन्ति च | मण्डपाट्टालयुक्तानि मणिस्तम्भशतानि च || ४३-११ || दीर्घिकास्तेषु दिव्यन्ति सृजन्त्यः सलिलोन्नतिम् | कल्पद्रुकुसुमामोदसुवासितजलाः शिवाः || ४३-१२ || नर्त्तक्यो यत्र नृत्यन्तिं नाट्यविद्याविशारदाः | यन्नूपुररणत्काराः श्रूयन्ते कुञ्जभूमिषु || ४३-१३ || कुट्टिमनिकटारूढाश्चत्वारो जम्बुपादपाः [चतुर्दशश्लोकोऽयं कुट्टिमनिकटनिरूढाश्चत्वारो जम्बपादपप्रवराः | शाखाशतविचिन्तयन्तः कितव इवेह काननस्योच्चैः || ४३-१४ || ४३-इत्थमार्याछन्दसोपनिबद्ध प्राचीन पुस्तकेषूपलभ्यते | ] | शाखायां शतविस्ताराः काननस्येव केतवः || ४३-१४ || शाखाबद्धसुवर्णशृङ्खललसद्दोलाधिरूढाङ्गना | हस्ताहस्तमृदङ्गधीरनिनदैरानन्दयन्त्यः शिखीन् | विद्युत्पुञ्जनिभांशुकांशुपरिघानापादयन्त्यश्चलान् यातायातविहारविभ्रमलसत्स्मेराननाक्षिभृतः || ४३-१५ || इन्द्रनीलमणिभ्राजत्प्राकारपरिवेष्टिते | नीलोद्याने महारम्ये क्रीडते पुरुषोत्तमः || ४३-१६ || यमुनाभिमुखे यस्य महाद्वारं विराजते | चन्द्रकान्तशिलाकॢप्तकपाटं रत्नतोरणम् || ४३-१७ || द्वारस्य दक्षिणे वामे काञ्चनौ कुटिमौ समौ | चतुर्द्वारमणिस्तम्भवज्रीकल्पितमण्डपौ || ४३-१८ || ततः सोपानमार्गेण गन्तव्या यमुना नदी | सोपानानि सहस्रे द्वे शते च दशोत्तरे || ४३-१९ || अस्मिन् सोपानमार्गेऽपि वामदक्षिणयोः स्थिताः | रत्नमण्डपशोभाढ्याः कुट्टिमाः सन्त्यनेकशः || ४३-२० || कदाचिज्जलखेलान्ते तिष्ठन्त्यत्र सखीगणाः | चतुरस्रा विशालास्ति तत्रोचेर्मणिवेदिका || ४३-२१ || वेदिकायां विशालायां कुट्टिमो मणिभूषितः | स्वर्णस्तम्भचतुर्द्वारो मुक्तामण्डितमण्डपः || ४३-२२ || वेदिकायां समुद्भूते द्वे दले स्वर्णपत्रके | पार्श्वयोः पद्मरागीयपुष्पप्रचयभूषिते || ४३-२३ || मण्डपोपरि तच्छाखाः प्रसृताः कुसुमाकुलाः | काश्चन प्रसृतास्तस्य मध्यदेशे सुशोभने || ४३-२४ || तत्र सिंहासन देवि कोटिचन्द्रांशुनिर्मलम् | इन्दिरासुन्दरीभ्यां तु पार्श्वयोः समधिष्ठितम् || ४३-२५ || कदाचित्तत्र भगवान् कृष्णः कमललोचनः | तिष्ठते क्रीडते ताभिः सखीभिः कृतकौतुकः || ४३-२६ || स्मरेदथो वनं दिव्यं पुष्पदन्ताख्यमद्भुतम् | वैदूर्यवीरुधां यत्र राजयो भान्ति पेशलाः || ४३-२७ || लतापरिमलोद्गारलोभमुग्धीकृताशयाः | इतस्ततोनुधावन्ति भृङ्गा मायार्दिता यथा || ४३-२८ || पुष्पदन्ताभिधो यत्र दाडिमीतरुरुल्लसन् | माणिक्यकुसुमश्रीको वैदूर्य [अत्र सर्वत्र वैडूर्य शब्द एवोपलभ्यते नतु वैदूर्य इति |] रुचिरच्छदः || ४३-२९ || विशुद्धस्फाटिकमयी यत्र भूमिर्विराजते | अरजस्कामृतस्यन्दा प्रतिबिम्बतभूरुहा || ४३-३० || वैदूर्यपत्रद्युतिपुञ्जपूरितं माणिक्यपुष्पप्रभयानुरञ्जितम् | वनं विशन्त्यो हि मयूरवल्लभा नृत्यन्ति विद्युद्धनशङ्किताशयाः || ४३-३१ || विदीर्णसद्दाडिमबीजसंहतीर्निरीक्षमाणाः प्रबलानुरागिणीः | स्वदन्तसादृश्यमुपेति वा न वाभ्युपेतुमादर्शधरा भवन्ति || ४३-३२ || योजनायुतमूर्द्धन्यः शाखाक्रान्तमहीतलः [योजनायतमूर्धन्यशाखा क्रान्तमहीतलः इ० पा० |] | फलपल्लवपुष्पश्रीभारभुग्नमहाभुजः || ४३-३३ || अनेकपक्षिसङ्घातगीतश्रवणनन्दनः | यदधः कुट्टिमवरो राजते स्वर्णनिर्मितः || ४३-३४ || प्रवालस्तम्भशोभाढ्यरत्नमण्डपमण्डितः | पुष्पदन्तः सखीवृन्दावतंसीकृतपुष्पकः || ४३-३५ || आधिपत्ये वनस्यास्य नियुक्त इव राजते | स्वर्णकुट्टिममध्ये तु वैदूर्यमणिनिर्मितम् || ४३-३६ || महासिंहासनं देवि यच्च कृष्णोऽधितिष्ठति | नीलाम्बर इवाभाति शुभ्रवस्त्रधरोऽपि यत् || ४३-३७ || सर्वाः सख्योऽपि वैदूर्यसिंहासनपरम्पराम् | जुषाणाः परितो भान्ति नीलाम्बरधरा इव || ४३-३८ || अतीव भूषाम्बरवैपरीत्यं निरीक्ष्यमाणाः प्रहसन्ति सख्यः | स्वानां प्रियस्यापि परस्परं ताः प्रदत्ततालीकरपङ्कजेषु || ४३-३९ || चतुर्विंशतिसाहस्रं तत्स्थानपरिचारिकाः | परिचर्यापरास्तत्र वसन्ते कृष्णयोषिताम् || ४३-४० || दिव्यपुष्पाम्बराकल्पैर्दिव्यगन्धानुलेपनैः | दिव्यानन्दरसैस्तत्र सेवन्ते परिचारिकाः || ४३-४१ || नानाक्रीडारसासक्ता यदा सख्यः प्रियेण हि | तदा काचिन्मृदङ्गेण काचित्तन्त्रीरवेण च || ४३-४२ || काश्चिन्मधुरवीणाभिर्नृत्यगीतादिभिश्च काः | परितः स्वगृहारूढा दूरतस्तोषयन्ति ताः || ४३-४३ || पूर्वोक्तेन प्रकारेण तासां सौधानि पार्वति | द्विपङ्क्त्यापरितो भान्ति वीथीयुक्तानि मध्यतः || ४३-४४ || वैदूर्यरत्नविलसत्प्राकारपरिवेष्टिते | पुष्पदन्तमहोद्याने क्रीडते पुरुषोत्तमः || ४३-४५ || यमुनाभिमुखे यस्य राजते गोपुरं महत् | पद्मरागमणिकॢप्तकपाटद्वारतोरणम् || ४३-४६ || ततः सोपानमार्गेण गन्तव्या यमुना नदी | सोपानानि च तावन्ति संख्यावर्णविभेदतः || ४३-४७ || द्वारस्य दक्षिणे वामे कुट्टिमौ सुमनोहरौ | स्तम्भमण्डपसंयुक्तौ मुक्तामाणिक्यतोरणौ || ४३-४८ || जलक्रीडावसाने तु कृष्णः स्वसखीवृतः | मुहूर्त्तं कुट्टिमे स्थित्वा ततो याति निजालयम् || ४३-४९ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसम्वादे त्रिचत्वारिंशं पटलम् || ४३-४३ || अथ चतुश्चत्वारिंशं पटलम् शिव उवाच स्मरेदथो महानन्दवनं सर्वर्तुसेवितम् | नानापुष्पलताकुञ्जपुञ्जशोभाविराजितम् || ४४-१ || यत्र भूः काञ्चनी दिव्या नवरत्नविचित्रिता | सार्द्धैकयोजनायामविस्तारा मध्यवेदिका || ४४-२ || चतुरस्रा दिव्यरत्ना प्रभापुञ्जारुणान्तरा | तन्मध्ये कुट्टिमो देवि योजनार्द्धप्रमाणतः || ४४-३ || रजतस्वर्णवज्रेन्दुमुक्ताविद्रुमगारुडैः | वैदूर्यैरिन्द्रनीलैश्च पद्मरागार्कगोमदैः || ४४-४ || समन्तता परिकॢप्तस्तम्भराजिविराजितः | दक्षिणोत्तरमध्यस्थसूत्रमाकर्ष्य पार्वति | पूर्वगर्भगतं कुर्यादधः पश्चिमगर्भगम् || ४४-५ || इन्द्रनीलप्रभालिप्तमेवं कोणचतुष्टयम् | कल्पद्रुमलताकोणे चतुष्कोपरिराजते || ४४-६ || शतयोजनसंसर्पिदिव्यसौरभमेदुरा | दिव्यप्रवालकुसुमामोदमोहितषट्पदा || ४४-७ || मन्दमारुतसंसर्गचलत्कुसुमपल्लवा | पद्मरागमयस्तम्भौ पूर्वद्वारे नियोजितौ || ४४-८ || महानीलमणिस्तम्भौ दक्षिणे तु व्यवस्थितौ | महावज्रमणेः स्तम्भौ प्रतीच्यां दिशि कल्पितौ || ४४-९ || वैदूर्यस्तम्भयुगलमुत्तरे ह्यनुकल्पितम् | तप्तचामीकरकॢप्तमण्डपस्तेषु कल्पितः || ४४-१० || अन्तर्बहिस्तत्र मुक्ता भान्ति तारागणा इव | अनेककोटिचन्द्रार्कप्रभाधिक्कारिवर्चसः || ४४-११ || वेदिमध्ये तु कलशा विभान्ति मणिमेदुराः | मण्डपाधो मध्यभागे रत्नसिंहासनोत्तमम् || ४४-१२ || परितस्तस्य देवेशि सिंहासनपरम्परा | कृष्णप्रियानिवेशार्हा कृष्णे मध्यासनं गते || ४४-१३ || वेदिकापरितो भान्ति नानामणिमया लताः | मालती मल्लिका यूथी जातिचन्दनपाटली [पाटला इ० पा० |] || ४४-१४ || कदम्बपारिजाताम्रबकुलार्जुनकेसराः | केतकीचम्पकाशोकनीपाश्वत्थवटादिकाः || ४४-१५ || रत्नच्छदा घनीभूताः पुष्पपल्लवमण्डिताः | मरुल्लीलाचलशाखारूढस्यलविहङ्गमाः [चल इ० पाठः० |] || ४४-१६ || रत्नकुल्याविनिर्गच्छत्सुधापूरसुतर्पिताः | आभान्ति पादपा दिव्या महानन्दवने प्रिये || ४४-१७ || चतुर्विंशतिसाह्स्रं तत्स्थानपरिचारिकाः | तासां गृहाणि दिव्यानि परितो भान्ति सुन्दरि || ४४-१८ || वज्रप्रकल्पितमहाप्रकारपरिवेष्टितम् | महानन्दवनं वन्दे रसानन्दैकपत्तनम् || ४४-१९ || यमुनाभिमुखे यस्य गोपुरं पद्मरागजम् | यौगपद्योदितानेकबालार्कद्युतिभासुरम् || ४४-२० || कुट्टिमद्वयमीशानि यद्बहिर्भातिसुन्दरम् | चतुर्द्वारं चतुःस्तम्भं शोभाविर्भावभूमिकम् || ४४-२१ || ततः सोपानमार्गेण गन्तव्या यमुना नदी | स्मरेदथो महेशानि हेमकूटवनं महत् || ४४-२२ || यत्र हेममयी भूमिर्हेमपादपसङ्कुला | तन्मध्ये कुट्टिमौ हैमौ हैमस्तम्भचतुष्टयम् || ४४-२३ || गव्यूत्यर्द्धयुतः श्रीमान् हैममण्डपभूषितः | चतुर्विंशतिसाहस्रं तत्स्थानपरिचारिकाः || ४४-२४ || तासां गृहाणि दिव्यानि हैमोपस्करवन्ति च | मण्डपम्परितो भान्ति तडितामिव राशयः || ४४-२५ || सौधमण्डपयोर्देवि यावत्स्यादन्तरालकम् | तत्सर्वं परितो व्याप्तं नारङ्गीलतिकाशतैः || ४४-२६ || एलालविङ्गकाश्मीरसुरभ्यनिलसेवितम् | मृद्वीकामण्डपयुतं मातुलिङ्गलतोल्लसत् || ४४-२७ || बन्धूकैर्हयमारैश्च लवलीभिरलङ्कृतम् | कर्णिकारैश्च कुन्दैश्च चम्पकैश्चन्दनैर्वृतम् || ४४-२८ || नानापक्षिगणाध्वानमुखरीकृतदिङ्मुखम् | महानन्दमहोल्लासक्रान्तकोकिलकूजितम् || ४४-२९ || नृत्यत्कलापिनिकर गुञ्जन्मत्तमधुवृतम् | धावद्धरिणसञ्चारमुत्पतत्प्लवगद्रुमम् [उत्प्लवत्प्लवगद्रुमम् इ० पा० |] || ४४-३० || हेमप्राकारसंवीतं हेमकूटमिवास्थितम् | हेमकूटमहोद्यानं हेमगोपुरमण्डितम् || ४४-३१ || हेमकुट्टिमविभ्राजद् बहिःपार्श्वद्वयोज्ज्वलम् | ततः सोपानमार्गेण गतब्या यमुना नदी || ४४-३२ || ततश्च तारकूटाख्यं स्मरेद्विपिनमद्भुतम् | नीलरत्नमयी भूमिर्भ्राजते यत्र निस्तुला || ४४-३३ || कदम्बकल्पद्रुपमपारिजातैरमन्दगन्धाहृतभृङ्गसङ्घैः | मरुल्लसत्पल्लवराजिपुष्पैर्यथा सदः सद्भिरिवातिशोभते || ४४-३४ || जम्बीरैर्निम्बुकैश्चैव कोविदारार्जुनैरपि | श्रीपर्णैः सरसैराम्रैः पनसैर्दकुलैरपि || ४४-३५ || नागपुन्नागमन्दारैस्तथैवामलकीद्रुमैः | अम्लानपुष्पाभरणैः समन्तात् परिशोभितम् || ४४-३६ || तारकूटमहं वन्दे तारप्राकारवेष्टितम् | चतुर्विंशतिसाहस्रं तत्स्थानपरिचारिकाः || ४४-३७ || तासां गृहाणि दिव्यानि तारकुट्टिममुच्चकैः | परितो भान्ति देवेशि दलानीव कुशेशयम् || ४४-३८ || यमुनाभिमुखे यस्य भाति गोपुरमुन्नतम् | गोपुरस्य बहिर्भागे राजितं कुट्टिमद्वयम् || ४४-३९ || स्तम्भैश्चतुर्भिरुद्भान्तं राजतैः स्वर्णसूत्रितैः | ततः सोपानमार्गेण गन्तव्या यमुनानदी || ४४-४० || स्मरेदथो महेशानि गारुडं वनमद्भुतम् | गारुडै रत्ननिचयैः परिकल्पितभूमिकम् || ४४-४१ || तत्र हस्तान्तरे देवि चतुष्कं मणिकल्पितम् | पूर्वपश्चिमभागेन चन्द्रकान्तमणिद्वयम् || ४४-४२ || दक्षिणोत्तरभागेन पद्मरागद्वयाङ्कितम् | अन्योन्यचुम्बितमुखं शुद्धस्वर्णगृहार्पितम् || ४४-४३ || एवं कोटिचतुष्काणि हस्तमात्रान्तरान्तरम् | भान्ति सर्वत्र देवेशि गरुत्ममणिभूमिषु || ४४-४४ || यस्याः प्रान्तचतुष्केषु स्थलपङ्केरुहाण्यपि | यत्परागरजः पुञ्जैररुणीक्रियतेऽम्बरम् || ४४-४५ || तन्मध्यदेशगः श्रीमान् भाति माणिक्यमण्डपः | सूर्यकान्तमणिस्थम्भनीलपत्रश्रियोल्लसत् || ४४-४६ || तन्मध्ये दीर्घिका दीर्घा स्वर्णपङ्कजमालिनी | यद्गन्धाघ्राणमत्तालिझङ्कारमुखरान्तरा || ४४-४७ || माणिक्यभूमिपतिता अपि मौक्तिकराजयः | न हर्षयन्ति कादम्बान् गुञ्जाशङ्काप्रतारितान् || ४४-४८ || माणिक्यकन्दलाक्रान्ता वैदूर्यविलसच्छदाः | मण्डपं परितो दूराद्विभान्ति कदलीलताः || ४४-४९ || कदलीकाण्डमारूढा हंसा गोफेनसन्निभाः | तत्पत्रद्युतिसम्भिन्ना न लक्ष्यन्ते मनागपि || ४४-५० || वायवान्दोलितपत्रौघप्रकम्पत्कन्दलस्तनाः | कूजत्पक्षिगणक्रीडा मनोनयननन्दनाः || ४४-५१ || नृत्यमाना इवाभान्ति कदल्यो वारयोषितः | चतुर्विंशतिसाहस्रं तत्स्थानपरिचारिकाः || ४४-५२ || मध्यवीथीनि सौधानि द्विपंक्त्त्या भान्ति तद्बहिः | भ्राजन्मणिकपाटानि हसद् रत्नाजिराणि च || ४४-५३ || तद्बहिर्भान्तिदेवेशि महोद्यानलताद्रुमाः | गन्धालुभ्य भ्रमद्भृङ्गा मरुदाघातवेपिताः [गन्धलुभ्यद्भ्रमद्मृङ्गाः सप्त गायन्ति ते स्वराः इ० पा० |] || ४४-५४ || मयूरमृगचक्राह्वहंसकारण्डवैः पिकैः | शुकपारावतक्रौञ्चसारसैर्हारिलैरपि || ४४-५५ || शाखामृगैः शशैः क्रोडैश्चातकैश्चटकैरपि | पतत्रिभिरनेकैश्च कुलङ्गैरुपसेवितम् || ४४-५६ || जाड्यं मम धियो भिद्यादुद्यानं गारुडाह्वयम् | मुक्ताप्राकारकल्पितमप्राकृतजनाश्रयम् || ४४-५७ || यमुनाभिमुखे यस्य महाद्वारं विराजते | माणिक्यदेहलीरम्यमिन्द्रनीलकपाटकम् || ४४-५८ || महाद्वारबहिर्भागे कुट्टिमद्वयमद्भुतम् | काञ्चनं विद्रुमस्तम्भं स्वर्णमण्डपमण्डितम् || ४४-५९ || यत्रस्थाः परिगायन्ति नृत्यन्ति च वराङ्गना | वीणामृदङ्गवाद्यादिविद्यानैपुण्यशालिनः [शालिनीः |] || ४४-६० || ततः सोपानमार्गेण गन्तव्या यमुना नदी | पूर्वसङ्ख्यैव सर्वत्र सोपानानां प्रियंवदे || ४४-६१ || एषु स्थानेषु देवेशि लीलार्थं पुरुषोत्तमः | आयाति चन्द्रिकोद्गारिविमानेन सखीवृतः || ४४-६२ || कदाचिद्रथमारुह्य सहस्राश्वयुजं हरिः | सखीसमाजमध्यस्थस्तल्लीलाप्रेमगर्वितः || ४४-६३ || रथाः सन्ति महादिव्याः सहस्राणि तु षोडश | प्रधानाः षोडशैवेषु तांस्ते वक्ष्यामि नामतः [सशृणु इ० पा० |] || ४४-६४ || चन्द्रको भद्रकश्चैव मनोजवमहाजवौ | जवमाली मणिस्कन्दो रोचिष्मान् भद्रसेनकः || ४४-६५ || मेघनादो महानादश्चन्द्रगौरो विसर्पणः | नीलचक्रः कुरङ्गाह्वः स्वर्णनेमिर्विभावसुः || ४४-६६ || सर्व एते सहस्राश्वयुजः काञ्चनमालिनः | क्षुद्रघण्टानिनादेन परिपूरितदिङ्मुखाः || ४४-६७ || केचिन्नीलवरूथेषु व्युप्तमौक्तिकराजयः | विभान्ति विलसत्तारागणा इव बलाहकाः || ४४-६८ || केचिन्नीलवरूथेषु स्वर्णरेखाविचित्रिताः | तडिदुन्मेषरुचिरा हेपयन्ति घनश्रियम् || ४४-६९ || केचिद्रक्तवरूथेषु वज्रमण्डपमण्डिताः | विलज्जयन्ति सन्ध्याभ्रशतभानूदयं नभः || ४४-७० || अन्येपि स्यन्दनवरा मेघगम्भीरनिःस्वनाः | मौक्तिकाख्ये वने दिव्ये राजन्ते राजिमण्डलैः || ४४-७१ || महासौधाङ्गणभ्राजन्मण्डपस्यापसव्यतः [मण्डपस्यास्य सव्यतः इ० पा० |] | रथाः षोडश तिष्ठन्ति हयशालासु ते हयाः || ४४-७२ || विमानान्यपि दिव्यानि व्यायतानि निजेच्छया | विचित्रशयनस्थानसभावाटीवृतानि च || ४४-७३ || मुक्तावितानशोभानि मणिस्तम्भोज्ज्वलानि च | कोटिचन्द्रप्रभास्पर्द्धिरत्नचित्राङ्गणानि च || ४४-७४ || रत्नस्तम्भावलिभ्राजत्पुत्रिकाहस्तकल्पितैः | मणिभिर्भान्ति वेश्मानि प्रदीपावलिभिर्यथा || ४४-७५ || अष्टादशसहस्राणि विमानप्रवराणि हि | तेष्वप्यष्टादशैवेह वरीयांसि द्युमन्ति च || ४४-७६ || उन्मादनं सुधास्यन्दि चन्द्रकं शतचन्द्रकम् | तुङ्गभद्रं मनोयानं महानीलमुदञ्चनम् || ४४-७७ || वज्रकूटं कलासारं चारुचन्द्रं प्रभारुणम् | हेमकक्षं प्रभापूरं पुष्पगन्धमनाविलम् || ४४-७८ || चित्रध्वजं [चित्रकूट इ० पा० |] वज्रकूटमेवमष्टादश स्मृताः | स्थाप्यन्ते शिविकाख्या या विमानश्रेष्ठभूमिषु || ४४-७९ || चिदानन्दानन्दभूम्योरेवमाप्लाव्य निम्नगा | प्रकाशानन्दसन्धिस्थसरस्यां विशते हि सा || ४४-८० || सरसः पुनरुद्भूय प्रकाशाभिमुखं गता | शतयोजनमानेन ततः पश्चिमवाहिनी || ४४-८१ || ज्ञानभूमिमथाप्लाव्य प्रयाता भुक्तिभूमिकाम् | प्रेमभूमिं ततः प्लाव्य प्रविष्टा पश्चिमार्णवम् || ४४-८२ || आनन्दभुक्त्योरन्तराले महामाणिक्यपर्वतः | बलार्ककोटिरुचिर उच्छ्राये शतयोजनः || ४४-८३ || यन्नितम्बभवा नद्यश्चतस्रो यमुनां गताः | प्रविशन्ति सुधासिन्धुं सुषुम्णा सिरसा सिता || ४४-८४ || निम्लोचा नामतः ख्याताः सर्वाः पीयूषवाहिनीः | कदाचित् क्रीडते तत्र निर्झरध्वनिनादिते || ४४-८५ || सखीसहस्रसङ्कीर्णविमानवरमाश्रितः | गिरिद्रोणीषु रम्यासु भगवान्पुरुषोत्तमः || ४४-८६ || एवं चानेकलीलाभी रसरूपाभिरन्वहम् | क्रीडते हि रसः साक्षात् कृष्णः परमपूरुषः || ४४-८७ || एतत्ते सर्वमाख्यातमनापृष्टमपि प्रिये | स्मृत्यवस्थोदये कृष्णस्त्रीणामेतद्धितं यतः || ४४-८८ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसम्वादे चतुश्चत्वारिंशं पटलम् || ४४-४४ || अथ पञ्चचत्वारिंशं पटलम् शिव उवाच स्मरेदथो महादेवि ब्रह्मनालश्रियं शुभाम् | ब्रह्मनालानन्दवनाद्दण्डाकारतया [ब्रह्मनालोनन्दवनात् इ० प० |] स्थितः || ४५-१ || मार्ग एव महेशानि निजालयनिवेशने | गोपुरद्वारमारम्य प्राकारदशकावधि || ४५-२ || विंशतिर्योजनानां च ब्रह्मनाल उदाहृतः | पार्श्वयोरुभयोस्तस्य षष्ट्युत्तरशतं प्रिये | सौधानि सन्ति देवेशि बहिः कुट्टिमवन्ति च || ४५-३ || तत्तत्प्राकारसंवीत तत्तदुद्यानमण्डलम् | तत्तद्द्वारप्रवेशेन गम्यते ब्रह्मनालतः || ४५-४ || प्रतिप्राकारामीशानि प्रवेशे ब्रह्मनालतः | सव्यापसव्ययोर्द्वारद्वयमुद्यत्प्रभारुणम् || ४५-५ || स्वर्णप्राकारसंवीता महाचम्पकवाटिकाः | अनेकपक्षीनिनदा बहुलामोदमेदुराः || ४५-६ || तप्तकाञ्चनवर्णाभा भान्ति चम्पककोरकाः | दीपा इव निवातस्था भृङ्गैर्दूरतरोज्झिताः || ४५-७ || पूर्णशारदराकेशानुकारिकुसुमोज्ज्वलाः | राजन्ते यत्र बहुशो दिव्याश्चम्पकवीरुधः || ४५-८ || चम्पकोद्यानकुञ्जेषु दिव्यहर्म्यकृतास्पदाः | चतुर्दशसहस्राणि वसन्ति परिचारिकाः || ४५-९ || कदाचित् क्रीडते तत्र श्रीकृष्णः स्वसखीवृतः | मध्ये तारागणस्येव पूर्णशारदचन्द्रमाः || ४५-१० || तदन्तः संस्मरेद्देवि वनं कल्पद्रुमाकुलम् | महावैदूर्यशालेन समन्तात् परिवेष्टितम् || ४५-११ || कल्पद्रुकुसुमामोदमोदमाना शिलीमुखाः | नान्यगन्धमपेक्षन्ते पूर्णकामा यथेतरत् || ४५-१२ || कल्पद्रुकुसुमास्वादुरसव्यासक्तबुद्धयः | स्वां वाचं मुद्रयन्तीह ज्ञाततत्वा इवालयः || ४५-१३ || महामरकतकॢप्तस्थलीपतितमौक्तिका | यथा तामसभक्तस्य बुद्धिः प्रेमाङ्कुरोज्ज्वला || ४५-१४ || मधुश्रीमाधवश्रीकः स्त्रीस्कन्धार्पितसद्भुजः | पुष्पकल्पितवासःश्रीर्भूषाशृङ्गारमण्डितः || ४५-१५ || वसन्तः सन्ततं यत्र चरतेऽसौ रसात्मकः | कल्पद्रुममहाकुञ्जवीथिषु प्रेमविह्वलः || ४५-१६ || कामकोदण्डकुटिलभ्रूलताचारुविभ्रमः | कुङ्कुमारक्तवसनः साचीक्षणविचक्षणः || ४५-१७ || दिव्यपुष्परजः पुञ्जधूसरः सस्मिताननः | कल्पकोद्यानकुञ्जेषु दिव्यहर्म्यकृतालयाः || ४५-१८ || त्रयोदश सहस्राणि वसन्ति परिचारिकाः | कदाचिदत्र भगवान्कृष्णः कमललोचनः || ४५-१९ || वसन्तलीलारसिको रसात्मोपवने चरन् | इन्दिरासुन्दरीमुख्यप्रियाविभ्रममोहितः || ४५-२० || प्रियाकटाक्षचषकैरापीत इव सर्वतः | आवृष्ट इव पुष्पौघैः सखीमुक्तैः समन्ततः || ४५-२१ || अभिवर्षन् स्वयमपि सखीः कुसुमवृष्टिभिः | मुखामोदसुसक्तालिझङ्कारोद्विग्ननेत्रया || ४५-२२ || गाढमालिङ्गितः कण्ठे स्वामिन्या पद्महस्तया | प्रियाभिः प्रेमयुक्ताभिर्जलयन्त्रविनिर्गतैः | कुङ्कुमाम्भोभिरासिक्तो जातः पीताम्बरो यथा || ४५-२३ || गजीभिरिव मातङ्गो रमते रतिलम्पटः | अनेकरसयुक्तासु क्रीडासु कृतकौतुकः || ४५-२४ || तदन्तः संस्मरेद्दिव्यां मन्दारद्रुमवाटिकाम् | दिव्यप्रवालरत्नोद्यत्प्राकारपरिवेष्टिताम् || ४५-२५ || महानीलमणिभ्राजद्भूमिकाभासमाश्रिताम् [भासिनीकृताम् इ० पा० |] | नृत्यन्ति यत्र शिखिनो नित्यमम्भोदशङ्कया || ४५-२६ || मन्दारमकरन्देषु विलीनमतयोऽलयः | विस्मरन्त्यन्यपुष्पाणि यथा ब्रह्मरसप्लुताः || ४५-२७ || यत्रास्ते सततं राका पूर्णचन्द्रसमन्विता | कुहूः कोकिलचञ्चुस्था केवलं यत्र लभ्यते || ४५-२८ || मन्दारमन्दसौरभ्यलुब्धा रोलम्बराजयः | न क्वापि गन्तुमिच्छन्ति दानलुब्धा इवार्थिनः || ४५-२९ || शुक्तिश्रीति शुचिश्रीति यस्य वामे मदालसे | मन्दारोद्यानसञ्चारी ग्रीष्मर्त्तुर्मदविह्वलः [ग्रीष्मर्तुस्तिग्मलोचनः इ० पा०] || ४५-३० || मन्दारोद्यान कुञ्जेषु दिव्यहर्म्यकृतास्पदाः | द्वादशैव सहस्राणि वसन्ति परिचारिकाः || ४५-३१ || मन्दारकुञ्जक्रीडार्थं कदाचित्प्रमदागणैः | मूलभूमेः समुत्थाय पश्चिमद्वारमार्गतः || ४५-३२ || प्रविशत्यरबिन्दाक्षः क्रीडते रतिलालसः | महाकामकलाभिज्ञः कामात्मा पुरुषोत्तमः || ४५-३३ || ततस्तदन्तरुद्यानं पारिजातमयं स्मरेत् | महामाणिक्यशालेन समन्तात्परिवेष्टितम् || ४५-३४ || चन्द्रकान्तशिलाकॢप्तस्थलीकमतिसुन्दरम् | यत्रेन्दुरश्मयः स्पर्शात्सुधाकणमवापिताः || ४५-३५ || कुट्टिमा यत्र भूयांसो विस्फुरद्रत्नमण्डपाः | कुञ्जगुञ्जन्मधुकरव्रातझङ्कारनादिताः || ४५-३६ || सरस्यो [सरसीषु लसत् इ० पा० |] विलसत्स्वर्णसहस्रदलपङ्कजैः | खेलन्मरालमिथुनैर्गन्धवासितपादपैः || ४५-३७ || निश्चलालिसमाक्रान्तपत्रजालैः समन्तत | विलोकयन्ति वात्यन्तं नेत्रैरुन्मेषवर्ज्जितैः || ४५-३८ || पारिजातवनीकुञ्जदिव्यसौधकृतालयाः | एकादशसहस्राणि वसन्ति परिचारिकाः || ४५-३९ || पारिजातवनक्रीडारसलुब्धेन चेतसा | कदाचिदत्र भगवान् समायाति सखीगणैः || ४५-४० || कृष्णं सरोवराभ्यासमणिकुट्टिमसंस्थितम् | भूषाम्बरादिभिः सख्यः [कौसुमैः इ० पा० |] कौसुम्भैर्भूषयन्ति हि || ४५-४१ || हारकुण्डलकेयूरवलयोत्तुङ्गमौलिभिः | उष्णीषकञ्चुककटिबन्धरम्योत्तरीयकैः || ४५-४२ || पौष्पैः कृतश्रीः भगवान् सखीवृन्दान्तरे चरन् | दिव्यपुष्पमयं वेत्रमादधानः कराम्बुजे || ४५-४३ || वमद्भिरिव सत्प्रेम विकुञ्चद्भृकुटीतटैः | अभिवर्षन्निव सखीवृन्दं लोचनपङ्कजैः [अभिवर्षन्तीव सखीवृन्दलोचनषट्पदः इ० पा० |] || ४५-४४ || स्वकरालूनकुसुमाभृषाभिर्भूषयन् [कुसुमाक्रीडाभिः इ० पा० |] सखीः | हसितो हासयन्सर्वा लोलागतिविचक्षणः || ४५-४५ || गीयमानयशा गायन् रमते कुञ्जभूमिषु | स्मरेदतस्तदन्तःस्थां हरिचन्दनवाटिकाम् || ४५-४६ || गोमेदकमहारत्नरचितस्वीयगोपुराम् | शुद्धस्फटिकविभ्राजद्भूमिकाकिरणोज्ज्वलाम् || ४५-४७ || मरुल्लसत्पल्लवराजिराजितद्रुमावलीनां प्रतिबिम्बभूमिषु | विहङ्गमाः पक्वफलाशया मुहुश्चञ्चूपुटाघातविधिं वितेनिरे || ४५-४८ || क्वचिद्विहङ्गाः स्फटिकावनीतले निरीक्षमाणः प्रतिबिम्बविभ्रमम् | स्वजातिपक्षिव्रजशङ्किताशयाः कूजन्ति स्वं स्वं स्वरमुच्चकैर्मुहुः || ४५-४९ || हरिचन्दनस्फुरदमन्दसुन्दरस्फटिकावनीतला वनविहारिणः | पवनोल्लसद्विटपविष्टराः खगा विवदन्ति पण्डितगणा इवोद्भटाः || ४५-५० || मणिकुट्टिमास्फुरदमन्दरश्मयः परितो विभान्ति कृतरत्नमण्डपाः | शुककोकिलभ्रमरहंससारसैः समुपास्यमानरमणीयमध्यमाः || ४५-५१ || मुखराट्टहासपरिपूरिताम्बरः सुनभोनभस्थरमणीविराजितः | ऋतुराज एव किल प्रावृडित्ययं मदघूर्णमाननयनो विराजते || ४५-५२ || मृदुमन्दगर्ज्जितपयोदमण्डलीघटनान्धकारपरिलब्धवर्चसः | परितो भ्रमन्ति वनकुञ्जमण्डलेष्वतिनीलरत्ननिभकीटकोटयः || ४५-५३ || हरिचन्दनद्रुमनिकुञ्जमण्डलेष्वतिदिव्यरत्नपरिचारिकागृहाः | परितो विभान्त्ययुतसंख्यया शिवे ज्वलदग्निबीजरचिताङ्गणश्रियः || ४५-५४ || अत्रापि क्रीडते कृष्णः स्वामिन्यादिसखीवृतः | नानाक्रीडाविनोदैश्च परिहासरसादिभिः || ४५-५५ || तदन्तः संस्मरेद्दिव्यमुद्यानं सुमनोहरम् | वैडूर्यलतिकाखण्डमण्डितं नन्दनं दृशाम् || ४५-५६ || यत्र वैडूर्यवृक्षेषु प्रवालप्रतिबिम्बजा | काप्यभिख्या दृगम्भोजमोदहेतुः प्रवर्तते || ४५-५७ || सूर्यकान्तमणिकॢप्तदिव्यप्राकारमण्डितम् | सन्धिवर्ज्जितमाणिक्यशिलाकल्पितभूमिकम् || ४५-५८ || सूर्यकान्तमणिच्छायाविद्धमाणिक्यभूमिकम् | जातारुणोदयमिव भ्रममुत्पादयत्यहो || ४५-५९ || वैडूर्यद्रुमकुञ्जेषु दिव्यसौधकृतालयाः | सहस्राणि नव प्रोक्ताः तत्स्थानपरिचारिकाः || ४५-६० || तदन्तः संस्मरेद्दिव्यां महामौक्तिकवाटिकाम् | विस्फुरत्पुष्परागीयप्राकारपरिवेष्टिताम् || ४५-६१ || माणिक्यपुष्पविद्योतन्महामुक्तालतावृताम् | लतासु विस्फुरद्दिव्यवैडूर्यवृन्तभासुराः || ४५-६२ || महावज्रमणिभ्राजद्भूमिकाकिरणप्लुताम् | कुञ्जेषु पक्षिनिनदप्रतिध्वनिमनोहराम् || ४५-६३ || इषोर्जलक्ष्मीलावण्यप्रवाहपतितान्तरः [बिस्फूर्जलक्ष्मी इ० पा० |] | मल्लिकामालतीपुष्पभूषावासःपरिच्छदः || ४५-६४ || स्मितशोभिमुखाम्भोजश्चम्पकद्युतिपाण्डुरः | तत्र सञ्चरते साक्षाद्रसरूपी शरदृतुः || ४५-६५ || मुक्तानिकुञ्जभुवनक्रीडारसवशंवदाः | सहस्राण्यष्ट देवेशि वसन्ति परिचारिकाः || ४५-६६ || क्रीडतेऽत्रापि भगवान् कृष्णः कमललोचनः | स्वामिन्यादिसखीवृन्दसभाक्रीडाकुतूहलः || ४५-६७ || तदन्तः संस्मरेद्दिव्यां प्रवालद्रुमवाटिकाम् | गरुत्मन्मणिशालेन निगूढां परितः प्रिये || ४५-६८ || पुष्परागशिलाकॢप्तवसुधातलमण्डिताम् | मुक्तास्तबकसंशोभिप्रवालद्रुमशिभिताम् || ४५-६९ || सहसहस्यश्रीभ्यां [सहः इ० पा०] तु नारीभ्यामुपलालितः | हेमन्तस्तत्र चरते लीलाखेलकृतादरः || ४५-७० || प्रवालोद्यानकुञ्जस्थरत्नसौधनिकेतनाः | सप्त चैव सहस्राणि वसन्ति परिचारिकाः || ४५-७१ || सूर्यकान्तमणिभ्राजल्लताकुसुमपल्लवम् | तदन्तः संस्मरेद्दिव्यमुद्यान् कोटिसूर्यभम् || ४५-७२ || कोटीन्दुविस्फुरच्चन्द्रकान्तशालेन व्यूहितम् | दिव्यप्रवालरत्नौघैर्निबद्धवसुधातलम् || ४५-७३ || तपस्तपस्यश्रीभ्यां च तरुणीभ्यामलङ्कृतम् | तद्भावानुभवानन्दमोदमानमहर्निशम् || ४५-७४ || शिशिरर्तुं भजेत्तत्र चरन्तं मदविह्वलम् | सूर्यकान्तनिकुञ्जेषु खेलन्त्यो मदविह्वलाः || ४५-७५ || षट्सहस्राणि देवेशि वसन्ति परिचारिकाः | कदाचिदत्र क्रीडार्थं सखीभिः पुरुषोत्तमः || ४५-७६ || स्वामिन्या च समासाद्य क्रीडन् विक्रीडयत्यपि | तदन्त संस्मरेद्दिव्यमुद्यानं तु मनोहरम् | पद्मरागलतापुञ्जकुञ्जगुञ्जन्मधुव्रतम् || ४५-७७ || चिन्तारत्नविचित्रान्तर्भूमिविद्योतितान्तरम् | अनेककुट्टिमैर्भ्राजन्मण्डपैः कुञ्जमध्यगैः || ४५-७८ || भ्राजत्कपाटरत्नालिप्रभोद्यैर्वियदन्तरम् | उदितेन्द्रधनुःकोटिकुर्वाणमिव सर्वतः || ४५-७९ || क्वचिदिन्दीवरवनप्रोच्छलन्तः प्रभाङ्कराः | सान्द्रमेघान्धकारेण लिम्पन्त इव दिक्तटान् || ४५-८० || कलापिनो हृष्टचित्तास्तत्र नृत्यन्ति सन्ततम् | उद्धाट्य स्वकलापांश्च जलदाटोपशङ्कया || ४५-८१ || शुकपारापतक्रौंचपिककोलाहलाकुलम् | कोटीन्दुकौमुदीगवंनिर्वासनलताशतम् || ४५-८२ || उत्पतद्भिमृगीवृन्दैर्वराहैर्गवयैः शशैः | रुरुभिर्मृगनाभैश्च चमरीभिरलङ्कृतम् || ४५-८३ || अनेकसूर्यसङ्काशचिन्तारत्नावृतिव्रतम् | यत्र पञ्चसहस्राणि मणिहर्म्यकृतास्पदाः || ४५-८४ || दिव्यशृङ्गारवेषाढ्या रसभावविभावुकाः | सेवोपचारचतुरा वसन्ति परिचारिकाः || ४५-८५ || तदन्तः संस्मरेद्दिव्यं महापद्मवनं महत् | लक्षयोजनविस्तीर्णं गुञ्जन्मत्तमधुव्रतम् || ४५-८६ || वियद्वितानितमिव परागैः पवनेरितैः | कुर्वन् तद्गन्धसञ्चारिषट्पदव्याजचित्रितम् || ४५-८७ || महापद्माटवीमध्ये स्मरेदेकमणिगृहम् | चतुःषष्टिमहास्तम्भशोभाडम्बरमण्डितम् || ४५-८८ || मूलभूमिस्तु प्रथमा द्वितीया मतिविभ्रमा | तृतीया भोगभूमिश्च नृत्यभूमिश्चतुर्थिका || ४५-८९ || पञ्चमी शयनीयाख्या षष्ठी वैमानिकीति च | सप्तमी अष्टमी चोभे दोलाभूमी निरूपिते || ४५-९० || नवमी दूरलक्षा च दशमी चन्द्रभूमिका | इत्येता दश आख्याता भूमयो निजवेश्मनः || ४५- प्रियाभिः सह वसेदस्मिन् घनीभूतो रसः पुमान् || ४५-९१ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसम्वादे पञ्चचत्वारिंशं पटलम् || ४५-४५ || अथ षट्चत्वारिंशं पटलम् शिव उवाच इत्थं स्मरन्ती सततं निजधाममहोदयम् | क्रमेण वासना देवि गमयत्येव वासरान् || ४६-१ || यद्येषा विरहावस्था स्मरणाख्या प्रवर्त्तते | तदा स्मृतिपथारूढं निजं धाम भवेत्प्रिये || ४६-२ || अन्यथा ध्यायमानस्य रसलीलामहोदधिम् | मध्ये विच्छिद्य विच्छिद्य मनस्तस्मान्निवर्त्तते || ४६-३ || यावन्न जायते ह्येषा दशा विरहसम्भवा | तावन्न शक्नुयात्कर्तुं विद्धि सेवां मनोमयीम् || ४६-४ || स्मृत्यवस्थोदयो यावत्तावत्सेवाद्वयं भवेत् | आन्तरीया तथा बाह्या तयोर्नैकतरा क्वचित् || ४६-५ || सेवया तद्गतं चेतः शनैर्लीलागतं भवेत् | स्मृत्यवस्थामवाप्नोति क्रमेण परमेश्वरि || ४६-६ || स्मृत्यवस्थोदये देवि मनस्तत्तन्मनोरथैः | प्रलापाख्यामवाप्नोति दशां च व्याकुलीकृतम् || ४६-७ || अबुद्धिपूर्वकालापः प्रलापः कथितः प्रिये | प्रियलीलाविलासादिविषयस्थिरचेतसः || ४६-८ || रमयस्वाद्य रुचिरं प्रियप्रेम्णा वनान्तरे | प्रियं त्वं चिरकालेन मया प्राप्तोऽसि साम्प्रतम् || ४६-९ || इत्यादिविविधालापाः प्रवर्त्तन्ते महेश्वरि | यदा देहानुसन्धानं मध्ये मध्ये प्रजायते || ४६-१० || अत्युग्रतरसन्तापनिर्वापणपटीयसी | सुधाधारेव सततं वाक् त्वदीया रसस्रवा || ४६-११ || अनङ्गकोटिसौन्दर्यमहाब्धिमथनोद्धृतः | सारांश इव ते रूपमानन्दोद्वेलनक्षमम् || ४६-१२ || महादुःखतमस्तोमविपाटनपटीयसी | चन्द्रज्योत्स्नेव रुचिरा हास्यशोभा तव प्रिय || ४६-१३ || मययेतत्तु कथं नाथ विपरीतं प्रवर्त्तते | एवमादीनि वाक्यानि प्रवर्त्तन्ते गुणस्तवे || ४६-१४ || ततः क्रमेण देवेशि मनोवैवश्यकारिणी | आध्यवस्था प्रवर्तेत विप्रलम्भदशात्मिका [विप्रलम्भरसात्मिका इ० पा० |] || ४६-१५ || दीर्घतापाग्निसन्तप्तमाधिग्रस्तं मनोन्तरम् | बहिः सृजत्यश्रुधारां श्वासकम्पादिकं तथा || ४६-१६ || विरहे प्राणनाथस्य अप्राप्तौ सङ्गमस्य च | जायते देवदेवेशि दशा चोन्मादसंज्ञिका || ४६-१७ || श्वासाश्रुपातसन्तापकम्पभूलेखनादिभिः | अवस्था ज्ञायते देवि ह्युन्माद इति संज्ञया || ४६-१८ || जायमाने ततो देवि तापे विरहसम्भवे | हुङ्कारमात्रवचना तन्द्रामोहसमाकुला || ४६-१९ || अनुसन्धानरहिता श्वाससंशोषिताधरा | विवर्णवदनाकारा कृशीभूतकलेवरा || ४६-२० || नकट्यजातमरणा जडावस्था भवेप्रिये | कदाचिद्देवदेवेशि धैर्यस्याप्यनवस्थितौ || ४६-२१ || निजनाथवियोगाग्निज्वालाज्वलितविग्रहा | जायते देवदेवेशि दशा मरणरूपिणी || ४६-२२ || इत्येता विरहावस्था दश प्रोक्ता तवानघे | विप्रलम्भाख्यशृङ्गाररसे प्रादुर्भवन्ति ताः || ४६-२३ || यद्यप्येका प्रजायते दशा विरहसम्भवा | तथापि च वरारोहे रसस्यानुभवो भवेत् || ४६-२४ || यावन्न जायतेऽप्येका दशा विरहसम्भवा | तावन्न जायते देवि रसस्यानुभवः क्वचित् || ४६-२५ || ज्ञात्वापि प्रियविश्लेषं यद्यवस्थोदयो नहि | तदा चूडामणिजपः कर्त्तव्यः शुद्धिहेतवे || ४६-२६ || मनोविकारे भावाख्ये जायमाने सुरेश्वरि | अप्राप्तौ विरहावस्थां धत्ते भावः स एव हि || ४६-२७ || परानन्दे प्रिये ज्ञाते तदप्राप्तिवशादिह | मनो विकृतिमभ्येति भावसंज्ञामलौकिकीम् || ४६-२८ || अनेकजन्मकलुषेर्यदा वीतं मनो भवेत् | नैवाप्नोति तदाभावं येन स्याद्विरहोदयः || ४६-२९ || तन्मालिन्यनिरासार्थं जपसेवार्चनादिकम् | अवश्यमेव कर्त्तव्य श्रीकृष्णप्रीतये चिरम् || ४६-३० || अनुग्रहदृशा पश्येत् यदैव पुरुषोत्तमः | प्रसादसुमुखो भूत्त्वा तदा स्याद्विरहोदयः || ४६-३१ || इति ते सर्वमाख्यातं दशावस्थानिरूपणम् | समासेन महेशानि किं भूयः श्रोतुमिच्छसि || ४६-३२ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासम्वादे षट्चत्वारिंशं पटलम् || ४६-४६ || अथ सप्तचत्वारिंशं पटलम् पार्वत्युवाच भगवन् श्रोतुमिच्छामि यथा कृष्णः प्रसीदति | विना जपं विना सेवां विना पूजामपि प्रभो || ४७-१ || यथा कृष्णः प्रसन्नः स्यात्तमुपायं वदाधुना | अन्यथा देवदेवेश पुरुषार्थो न सिद्ध्यति || ४७-२ || शिव उवाच साधु पार्वति ते प्रश्नः सावधानतया शृणु | विना जपं विना सेवां विना पूजामपि प्रिये || ४७-३ || यथा कृष्णः प्रसन्नः स्यात्तमुपायं वदामि ते | जपसेवादिकं चापि विना स्तोत्रं न सिद्ध्यति || ४७-४ || कीर्तिप्रियो हि भगवान् वरात्मा पुरुषोत्तमः | जपस्तन्मयतासिद्ध्यै सेवा स्वाचाररूपिणी || ४७-५ || स्तुतिः प्रसादनकरी तस्मात्स्तोत्रं वदामि ते | सुधाम्भोनिधिमध्यस्थे रत्नद्वीपे मनोहरे || ४७-६ || नवखण्डात्मके तत्र नवरत्नविभूषिते | तन्मध्ये चिन्तयेद्रम्यं मणिगृहमनुत्तमम् || ४७-७ || परितो वनमालाभिः ललिताभिः विराजिते | तत्र सञ्चिन्तयेच्चारु कुट्टिमं सुमनोहरम् || ४७-८ || चतुःषष्ट्या मणिस्तम्भैश्चतुर्दिक्षु विराजितम् | तत्र सिंहासने ध्यायेत्कृष्णं कमललोचनम् || ४७-९ || अनर्घ्यरत्नजटितमुकुटोज्वलकुण्डलम् | सुस्मितं सुमुखाम्भोजं सखीवृन्दनिषेवितम् || ४७-१० || स्वामिन्याश्लिष्टवामाङ्गं परमानन्दविग्रहम् | एवं ध्यात्वा ततः स्तोत्रं पठेत्सुविजितेन्द्रियः || ४७-११ || श्रीकृष्णस्तोत्रम् कृष्णं कमलपत्राक्षं सच्चिदानन्दविग्रहम् | सखीयूथान्तरचरं प्रणमामि परात्परम् || ४७-१२ || शृङ्गाररसरूपाय परिपूर्णसुखात्मने | राजीवारुणनेत्राय कोटिकन्दर्परूपिणे || ४७-१३ || वेदाद्यगमरूपाय वेदवेद्यस्वरूपिणे | अवाङ्मनसविषयनिजलीलाप्रवर्त्तिने || ४७-१४ || नमः शुद्धाय पूर्णाय निरस्तगुणवृत्तये | अखण्डाय निरंशाय निरावरणरूपिणे || ४७-१५ || संयोगविप्रलम्भाख्यभेदभावमहाब्धये | सदंशविश्वरूपाय चिदंशाक्षररूपिणे || ४७-१६ || आनन्दांशस्वरूपाय सच्चिदानन्दरूपिणे | मर्यादातीतरूपाय निराधाराय साक्षिणे || ४७-१७ || मायाप्रपञ्चदूराय नीलाचलविहारिणे | माणिक्यपुष्परागाद्रिलीलाखेलप्रवर्त्तिने || ४७-१८ || चिदन्तर्यामिरूपाय ब्रह्मानन्दस्वरूपिणे | प्रमाणपथदूराय प्रमाणाग्राह्यरूपिणे || ४७-१९ || मायाकालुष्यहीनाय नमः कृष्णाय शम्भवे | क्षरायाक्षररूपाय क्षराक्षरविलक्षणे || ४७-२० || तुरीयातीतरूपाय नमः पुरुषरूपिणे | महाकामस्वरूपाय कामतत्त्वार्थवेदिने || ४७-२१ || दशलीलाविहाराय सप्ततीर्थविहारिणे | विहाररसपूर्णाय नमस्तुभ्यं कृपानिधे || ४७-२२ || विरहानलसन्तप्तभक्तचित्तोदयाय च | आविष्कृतनिजानन्दविफलीकृतमुक्तये || ४७-२३ || द्वैताद्वैतमहामोहतमःपटलपाटिने | जगदुत्पत्तिविलयसाक्षिणेऽविकृताय च || ४७-२४ || ईश्वराय निरीशाय निरस्ताखिलकर्मणे | संसारध्वान्तसूर्याय पूतनाप्राणहारिणे || ४७-२५ || रासलीलाविलासोर्मिपूरिताक्षरचेतसे | स्वामिनीनयनाम्भोजभावभेदैकवेदिने || ४७-२६ || केवलानन्दरूपाय नमः कृष्णाय वेधसे | स्वामिनीहृदयानन्दकन्दलाय तदात्मने || ४७-२७ || संसारारण्यवीथीषु परिभ्रान्तात्मनेकधा | पाहि मां कृपया नाथ त्वद्वियोगाधिदुःखिताम् || ४७-२८ || त्वमेव मातृपित्रादिबन्धुवर्गादयश्च ये | विद्या वित्तं कुलं शील त्वत्तो मे नास्ति किञ्चन || ४७-२९ || यथा दारुमयी योषिच्चेष्टते शिल्पिशिक्षया | अस्वतन्त्रा त्वया नाथ तथाहं विचरामि भोः || ४७-३० || सर्वसाधनहीनां मां धर्माचारपराङ्मुखाम् | पतितां भवपाथोधौ परित्रातुं त्वमर्हसि || ४७-३१ || मायाभ्रमणयंत्रस्थामूर्ध्वाधोभयविह्वलम् | अदृष्टनिजसंकेतां पाहि नाथ दयानिधे || ४७-३२ || अनर्थेऽर्थदृशं मूढां विश्वस्तां भयदस्थले | जागृतव्ये शयानां मामुद्धरस्व दयापरः || ४७-३३ || अतीतानागतभवसन्तानविवशान्तराम् | बिभेमि विमुखी भूय त्वत्तः कमललोचन || ४७-३४ || मायालवणपाथोधिपयःपानरतां हि माम् | त्वत्सान्निध्यसुधासिन्धुसामीप्यं नय माऽचिरम् || ४७-३५ || त्वद्वियोगार्तिमासाद्य यज्जीवामीति लज्जया | दर्शयिष्ये कथं नाथ मुखमेतद्विडम्बनम् || ४७-३६ || प्राणनाथ वियोगेऽपि करोमि प्राणधारम् | अनौचिती महत्येषा किं न लज्जयतीह माम् || ४७-३७ || किं करोमि क्व गच्छामि कस्याग्रे प्रवदाम्यहम् | उत्पद्यन्ते विलीयन्ते वृत्तयोब्धौ यथोर्मयः || ४७-३८ || अहं दुःखाकुली दीना दुःखहा न भवत्परः | विज्ञाय प्राणनाथेदं यथेच्छसि तथा कुरु || ४७-३९ || ततश्च प्रणमेत्कृष्णं भूयो भूयः कृताञ्जलिः | इत्येतद्गुह्यमाख्यातं न वक्तव्यं गिरीन्द्रजे || ४७-४० || एवं यः स्तौति देवेशि त्रिकालं विजितेन्द्रियः | आविर्भवति तच्चित्ते प्रेमरूपी स्वयं प्रभुः || ४७-४१ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे सप्तचत्वारिंशं पटलम् || ४७-४७ || अथ अष्टचत्वारिंशं पटलम् पार्वत्त्युवाच भगवन् देवदेवेश जगन्नाथ दयानिधे | कथा साध्वी महापुण्या भवता विनिरूपिता || ४८-१ || अनुगृहीता नाथेन त्वयाहं करुणात्मना | ब्रह्मगुह्यमिदं देव यदेतत्प्रकटीकृतम् || ४८-२ || अतः परं तु देवेश वेदितव्यं न विद्यते | तथापि प्रष्टुमिच्छामि कोऽमृतं पीय तृप्तिभाक् || ४८-३ || मन्त्रराजप्रसङ्गेन सेवा ते विनिरूपिता | यथा सिध्यन्ति देवेश वासनाः कृष्णयोषिताम् || ४८-४ || धर्मः कृष्णप्रियाणां हि न सेवातोधिकः क्वचित् | तथापि भवता नाथ किञ्चित् पूजापि सूचिता || ४८-५ || विधिना केन देवेश क्रियते सा कदा च कैः | एतन्मे ब्रूहि भो विद्वन् महांस्त्वं दीनवत्सलः || ४८-६ || शिव उवाच प्रिये धन्यासि धन्यासि धन्यासि मम मानसम् | प्रीणासि प्रश्नवादने सूर्योऽब्जमिव भानुना || ४८-७ || अतस्त्वां कथयिष्यामि सुगोप्यमपि पूजनम् | सेवनं मुख्यमेवोक्तं पूजनं गौणमुच्यते || ४८-८ || सेवां कर्तुमशक्तश्चेत् पूजयेत्पुरुषोत्तमम् | तदहं ते प्रवक्ष्यामि यन्मां त्वं पृच्छसि प्रिये || ४८-९ || प्रातरुत्थाय देवेशि ब्रह्मरन्धे निजं गुरुम् | ध्यात्वा पञ्चोपचारैश्च मानसैः पूजयेत्परम् || ४८-१० || ततो हृदम्बुजे ध्यायेच्छ्रीकृष्णं स्वामिनीयुतम् | प्रसन्नवदनाम्भोजप्रियावृन्दविहारिणम् || ४८-११ || पूर्ववत्पूजयित्वाथ व्यवहारविधौ प्रिये | अनुज्ञां प्रार्थयेत्तस्य प्रबद्धकरसम्पुटा || ४८-१२ || जानामि धर्मं न हि मे प्रवृत्तिर्जानाम्यधर्मं न ततो निवृत्तिः | मायान्धकारे गहने प्रविष्टा गृहान्धकूपे पतिता प्रमादात् || ४८-१३ || यद्यत्करिष्यामि शुभाशुभं वा नाहं स्वतन्त्रः प्रकरोमि तत्तत् | तस्मात्क्षमस्व प्रियनाथ सर्वं संसारयात्रामनुवर्त्तमानम् || ४८-१४ || आदायाज्ञां ततो देवि भूमिं सम्प्रार्थ्य पूर्ववत् | मलोत्सर्गविधिं कृत्वा हस्तपादादिशोधनम् || ४८-१५ || पूर्ववद्देवदेवेशि दन्तशुद्धिं समाचरेत् | तीर्थे वा स्वगृहे वापि स्नानं कृत्वा च पूर्ववत् || ४८-१६ || पूजागृहसमीपं तु गत्वोक्तासनसंस्थितः | कुङ्कुमादिशुभैर्द्रव्यैस्तिलकं हरिमन्दिरम् || ४८-१७ || वामरेखास्थितो ब्रह्मा दक्षिणायामह प्रिये | हरिर्मध्यगतस्तस्मान्मध्यदेशं न लेपयेत् || ४८-१८ || न दर्पणे च जले तैले विलोक्य तिलकी भवेत् | कृतमप्यकृतं वीक्ष्य दर्पणादौ तु यत्कृतम् || ४८-१९ || मुद्रादिधारणं कुर्यात् यथा स्थानं महेश्वरि | आदौ ललाटदेशे तु गदां कौमोदिकीं न्यसेत् || ४८-२० || एकैकां विन्यसेद्वामपार्श्वे वामस्तने तथा | बाहुयुग्मे तथैकैका द्वे द्वे वा भक्तिभावतः || ४८-२१ || उदरे पञ्च चक्राणि हृदि चक्रत्रयं न्यसेत् | चक्रद्वयं ततो देवि दक्षपार्श्वे नियोजयेत् || ४८-२२ || त्रीणि दक्षस्तने युज्यात् द्वयं दक्षभुजे वहेत् | दक्षकर्णस्य मूले तु चक्रयुग्मं प्रविन्यसेत् || ४८-२३ || कण्ठदेशे तथा वामबाहौ चक्रं सकृत्सकृत् | एक एव भवेद्देवि शङ्खो वामकपोलगः || ४८-२४ || वामपार्श्वे तथा चैकः स्तने वामे द्वयं न्यसेत् | वामबाहौ त्रयं विद्याद्वामकर्णे द्वयं तथा || ४८-२५ || अधरेऽपि द्वयं न्यस्य शुभया गोपिकामृदा | दक्षबाहौ तथा चैकमेवं शङ्खान् प्रविन्यसेत् || ४८-२६ || पद्ममुद्राद्वयं वामे दक्षिणेऽपि तथा न्यसेत् | नाममुद्रा तु सर्वाङ्गे विभृयाद्भक्तितत्परः || ४८-२७ || अधृत्वा तुलसीमालामकृत्वायुधलाञ्छनम् | न सिद्धिमाप्नुयात्कोऽपि सत्यमेव वचो मम || ४८-२८ || पार्वत्युवाच अधृत्वायुधलिङ्गानि यः कुर्याद्भजनादिकम् | न सिद्धिमाप्नुयादत्र मनो मे मुह्यतेतराम् || ४८-२९ || रसरूपस्य कृष्णस्य न चास्त्यायुधधारणम् | कस्मात्कृष्णप्रिया साक्षात् बिभृयाद्वैष्णवायुधम् || ४८-३० || यो यो यद्देवता भक्तः स बिभर्ति तदायुधम् | प्रयोजनं तु नास्त्येव तथाप्यादिश्यते त्वया || ४८-३१ || तस्मान्मे संशयो जातो व्यथते हृदि शल्यवत् | तमुद्धर दयासिन्धो येन मे निश्चयो भवेत् || ४८-३२ || शिव उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | यस्य श्रवणमात्रेण मनो निःसंशयं भवेत् || ४८-३३ || अद्वैतं भावयेन्नित्यं द्वैतभावं न भावयेत् | द्वैतभावनया नित्यं संसारो न निवर्त्तते || ४८-३४ || अद्वैतभावनिष्णातः संसारं नैव पश्यति | तस्मादद्वैतभावेन यः पश्यति स पश्यति || ४८-३५ || अयं ब्रह्मा हरिरयं रुद्रोयमिति व भिदा | यः पश्यति महेशानि तस्य कालकृतं भयम् || ४८-३६ || प्रपञ्चो ब्रह्मतन्मात्रं ब्रह्मादिस्थावरान्तकः | द्वे ब्रह्मणीति वेदोक्तिर्लीलाभेदकृता भवेत् || ४८-३७ || एकमेवाद्वितीयं चेत्यन्यथा तु विरुद्ध्यते | तस्माद्द्वैतं तु देवेशि भ्रममात्रं न संशयः || ४८-३८ || चन्द्रद्वैतं प्रतीयेत जलोपाधिप्रसङ्गतः | जलोपाधिनिरासेन चन्द्राद्वैतं प्रकाशते || ४८-३९ || ब्रह्मण्यपि तथा द्वैतमज्ञानेन विजृम्भितम् | अज्ञानस्य निरासे तु ब्रह्माद्वैतं यथा भवेत् || ४८-४० || कः शिवः को हरिर्ब्रह्मा एकत्वमनुपश्यतः | तस्मादायुधलिङ्गानां धारणं न विरुध्यते || ४८-४१ || आत्मश्रेयः प्रवृत्तानां तामससर्गमाश्रिताः | दोषा विनायकाश्चान्ये भ्रंशयन्ति मनःश्रिताः || ४८-४२ || पलायन्ते च ते सर्वे वैष्णवायुधदर्शनात् | जाज्वल्यमानज्वलनज्वालयेवाकुलीकृताः || ४८-४३ || सत्त्वोपाधिगतं ब्रह्म विष्णुस्तस्यायुधान्यपि | दृष्ट्वा दोषाः पलायन्ते सिंहं दृष्ट्वा यथा गजाः || ४८-४४ || अन्यथाविश्य चित्तं ते भजनं वारयन्ति हि | तस्मादायुधलिङ्गानां धारणं सर्वथा प्रिये || ४८-४५ || दृष्ट्वा बिभ्यति पापानि चक्राङ्कितवपुर्धरम् | रजस्तमोमयाभावा न स्पृशन्ति कदाचन || ४८-४६ || ये लोकरञ्जनार्थाय चक्राद्यायुधलाञ्छनाः | पाखण्डिनः पतन्त्येते निरयेषु पुनः पुनः || ४८-४७ || तस्माद्भजनाङ्गतया बिभृयादायुधानि तु | भजन्सिद्धिमवाप्नोति पापदोषाद्यसंश्रितः || ४८-४८ || द्वारपूजां ततः कृत्वा प्रविशेद्यागमन्दिरम् | त्रिर्वामपार्ष्णिघातेन भौमांस्तालत्रयेण च || ४८-४९ || अन्तरिक्षस्थितान् दिव्यदृष्ट्या भूतान् दिवि स्थितान् | उत्सार्य भूमिं सम्प्रार्थ्य सम्प्रोक्ष्य विधिनासनम् || ४८-५० || आचम्य च शिखां बध्वा मूलमन्त्रेण देशिकः | स्त्रीवेषधारी सुभगः ताम्बूलवदनोर्चयेत् || ४८-५१ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसम्वादे अष्टचत्वारिंशं पटलम् || ४८-४८ || अथ एकोनपञ्चाशत्तमम् पटलम् शिव उवाच पृथिव्यादीनि भूतानि ब्रह्मणि प्रविलाप्य च | क्रमेणोत्पाद्य च पुनः पवित्राणि विभावयेत् || ४९-१ || भूतशुद्धिं विधायेत्थं प्राणान् संस्थापयेत्पुनः | पञ्चाशन्मातृका न्यस्य न्यसेत् ऋष्यादिकं ततः || ४९-२ || मूलमन्त्राक्षरन्यासं ततः कृत्वा समाहितः | ध्यायेत्स्वहृदयाम्भोजे कृष्णं कमललोचनम् || ४९-३ || दिव्यरत्नकिरीटं तु मूर्ध्नि सञ्चिन्तयेत् प्रिये | अथवोष्णीषकं ध्यायेद्दाडिमीकुसुमप्रभम् || ४९-४ || अनर्घ्यरत्नविलसन्मुक्ताकुण्डलमण्डितम् | उष्णीषबद्धरत्नेन वर्त्तुलेनातिभास्वता || ४९-५ || धिक्कुर्वन्तमिव प्रोद्यत्पूर्णचन्द्रस्य मण्डलम् | दिव्यमुक्ताफलस्रजा वेष्टितोष्णीषसुन्दरम् || ४९-६ || क्षीरसागरकल्लोलशोभातिशयसुन्दरम् | न्यस्तरत्नप्रभोद्भासि वसानममलाम्बरम् || ४९-७ || प्रांतपल्लवविभ्राजंल्लम्बिमुक्तालिभास्वरम् | दधानमुत्तरं वासो नवीनजलदप्रभम् || ४९-८ || वलयाङ्गदकेयूरभ्राजमानकरद्वयम् | वैडूर्यमुक्तामाणिक्यहारभारविराजितम् || ४९-९ || दिव्याङ्गरागसौरभ्याघ्राणमत्तमधुव्रतान् | लीलारविन्दभ्रमणैर्वारयन्तं मुहुर्मुहुः || ४९-१० || हीरालिदशनज्योत्स्नां विकिरन्तं स्मिताननात् | रसालभृकुटिलीला [भृकुटीभाव इ० पाठः |] विह्वलीकृतवल्लभम् || ४९-११ || नीलकुञ्चितसुस्निग्धालकशोभिमुखाम्बुजम् | पाटीरतिलकोद्भासिभालस्थलमनोहरम् || ४९-१२ || ताम्बूलपूर्णवदनं चाम्पेयद्युतिविग्रहम् | सदाषोडशवर्षीयं ध्यायेत्कृष्णं [वार्षिक्यं इ० पाठः |] हृदाम्बुजे || ४९-१३ || वामभागगतां तस्य स्वामिनीं संस्मरेत् प्रिये | कुञ्चितानङ्गकोदण्डभ्रूलताबिभ्रमश्रियम् || ४९-१४ || रसानन्दाङ्कुरौभूतदशनावलिभासुराम् | मीनाब्जखञ्जरीटोग्रगर्वनिर्नाशिलोचनाम् || ४९-१५ || तिलसूनलसन्नासानटन्मौक्तिकभूषणाम् | प्रान्तमुक्तावलिभ्राजद्भालभूषणभूषित्ताम् || ४९-१६ || मुखेन्दुमण्डलप्रोद्यत्कस्तूरीतिलकाङ्किताम् | कपोलपालिविलुठन्मुक्तादाममनोहराम् [कपोलावलि इ० पाठः |] || ४९-१७ || किंशुकाभांशुकद्युत्या प्रसर्पन्त्याध ऊर्ध्वतः | सिन्दूरपूरितमिव कुर्वाणां वियदन्तरम् || ४९-१८ || सुवर्णरचनाचञ्चन्मुक्तारत्नविचित्रिताम् | दधानां नीलजलदश्यामलां कुचपंट्टिकाम् || ४९-१९ || प्रान्तलम्बितमुक्तादिच्छटाविच्छुरितावनि | नीलचण्डातक चारु दधानां स्वर्णसूत्रवत् || ४९-२० || सुवर्णमुक्तामणिहारशोभां ग्रैवेयविद्योतितकम्बुकण्ठीम् | माणिक्यमञ्जीररणत्पदाब्जां श्रीस्वामिनीं चेतसि चिन्तयामि || ४९-२१ || ततस्तौ मानसैर्दिव्यैरुपचारैः प्रपूजयेत् || ४९-२२ || दत्त्वा नैवेद्यमीशानिवै श्वदेवं समाचरेत् | मूलाधारे महाकुण्डे चतुरस्रं विचिन्त्य च || ४९-२३ || चतुर्भिरात्मभिः कॢप्तं संविदग्निसमुज्ज्वलम् | जुहुयादाहुतीस्तत्र कामक्रोधादिकाः प्रिये || ४९-२४ || कामः क्रोधश्च लोभश्च मोहश्च मदमत्सरौ | अधर्मानृतमज्ञानं जुहुयाज्ज्ञानपावके || ४९-२५ || दग्धकामादिकलुषमात्मानं वासनात्मकम् | ध्यात्वा कृतक्षणः किञ्चिद्दत्वाचमनमेतयोः || ४९-२६ || भुञ्जानौ मनसा ध्यात्वा दत्त्वा चैव पुनर्जलम् | ताम्बूलवीटिकां दत्त्वा यथाशक्ति जपेद्धिया || ४९-२७ || अन्तःपूजां समाप्यैवं बहिःपूजां समारभेत् | पूजायन्त्रं लिखेत् पट्टे सौवर्णे राजते च वा || ४९-२८ || ताम्रे चापि महेशानि श्रीपर्णीचन्दनोद्भवे | षट्कोणमादौ निर्माय शक्तिं निर्भिद्य वह्निना || ४९-२९ || अष्टकोणं ततः कुर्यात् तत्प्रकारं शृणुष्व मे | चतुरस्रं लिखेदादौ ऋजुरेखं मनोहरम् || ४९-३० || पूर्वरेखामूर्ध्वभागाद् रेखामाकृष्य पार्वति | मध्यभागान्महादेवि सन्धिभेदक्रमेण च || ४९-३१ || पूर्वरेखामध्यभागात् रेखामाकृष्य पार्वति | मध्यभागान्महादेवि सन्धिभेदक्रमेण च | दक्षरेखां विनिर्भिद्य बहिः किञ्चित्प्रसारयेत् | दक्षरेखामूर्ध्वगतामाकृष्य परमेश्वरि || ४९-३२ || प्रतीचिमानयेदाशां पूर्ववद् बहिरानयेत् | तामाकृष्योत्तरगतरेखां मूर्द्धानमानयेत् || ४९-३३ || प्राग्वद्बहिः प्रसृमरां तामाकृष्य सुलोचने | पूर्वरेखोपरि स्थाप्य अग्रदेशेन मेलयेत् || ४९-३४ || अष्टकोणमिदं कृत्वा वेष्टयेद् वृत्तरेखया | तल्लग्नमूलपत्रञ्च लिखेद् द्वादशयन्त्रकम् || ४९-३५ || तस्योपरि लिखेद् देवि वृत्तं पूर्णेन्दुसन्निभम् | चतुरस्रत्रयं कुर्याच्चतुर्द्वार मनोहरम् || ४९-३६ || पूजापीठं समारोप्य पूजयेच्च ततः परम् | सामान्यविधिना देवि सामान्यार्घं प्रकल्पयेत् || ४९-३७ || स्ववामभागे देवेशि जलेन चतुरस्रकम् | कृत्वाभ्यर्च्याक्षतैरक्तैर्गन्धचन्दनलालितैः || ४९-३८ || तत्राधारं प्रतिष्ठाप्य पूजयेद्वह्निमण्डलम् | शङ्खं वान्यतरत्पात्रं तत्र संस्थाप्य सुन्दरि || ४९-३९ || कलाभिः सहितं तत्र पूजयेत्सूर्यमण्डलम् | तत्र शुद्धोदकं पूर्य चन्द्रगन्धादिमिश्रितम् || ४९-४० || तत्र तीर्थान्यथावाह्य भित्वा सूर्यस्य मण्डलम् | अभिमन्त्र्याष्टधा मूलमन्त्रेण कुसुमादिभिः || ४९-४१ || सुरभ्या चामृतीकृत्य शङ्खमत्स्यौ प्रदर्शयेत् | अनेनैव विधानेन पाद्यमर्घं प्रकल्पयेत् || ४९-४२ || कांस्यजं मधुपर्कार्थं तथैवाचमनीयकम् | एवं पात्राणि संस्कृत्य पीठपूजां समारभेत् || ४९-४३ || मण्डूकाधारशक्ती च कूर्मोऽनन्तवराहकौ | पृथिवी च जलं तेजो वायुराकाश एव च || ४९-४४ || अहङ्कारो महत्तत्त्वं प्रकृतिः पुरुषस्तथा | रत्नद्वीपो ब्रह्मनालः कल्पद्रुमवनं ततः || ४९-४५ || मन्दारोद्यानमीशानि पारिजातवनं ततः | हरिचन्दनमुद्यानं वैडूर्यद्रुमवाटिका || ४९-४६ || दिव्यमुक्तावनं चैव प्रवालद्रुमवाटिका | सूर्यकान्तद्रुमोद्यानं पद्मरागवनं ततः || ४९-४७ || महापद्मवनं चैव मणिगृहमनुत्तमम् | चतुःषष्टिमणिस्तम्भमण्डपस्तु ततः परम् || ४९-४८ || रत्नसिंहासनं देवि तस्य पादचतुष्टये | धर्मो ज्ञानं च वैराग्यमैश्वर्यं वह्निदिक् क्रमात् || ४९-४९ || एवं पीठार्चनं कृत्वा बध्वावाहनमुद्रिकाम् | स्वामिनीसहितं कृष्णं ध्यात्वायाकुलचेतसा || ४९-५० || हृद्यागतमिति ध्यायन् सामरस्यमयं महः | नेत्रद्वारेण कुसुमं जलाक्षतसमन्वितम् || ४९-५१ || यन्त्रराजोपरि क्षिप्त्वा प्राणन्यासं समाचरेत् | आवाहनादिकां मुद्रां दर्शयेदथ पार्वति || ४९-५२ || पाद्यपात्रोदकेनैव पाद्यं दद्याद्विचक्षणः | अर्ध्यपात्रोदकेनैव दद्यादर्ध्यं च मूर्द्धनि || ४९-५३ || मधुपर्कं ततः कृत्वा दद्यादाचमनीयकम् | पुष्पतैलं ततो दत्वा दर्शयेन्मणिपादुकाम् || ४९-५४ || स्नानं दिव्यजलैर्देवि वासः खचितरत्नकम् | भूषणादि समर्प्याथ दिव्यगन्धार्पर्णं ततः || ४९-५५ || चम्पकैः करवीरैश्च केतकैर्बकुलैरपि | पङ्कजैर्जातिकुसुमैर्मालतीमोगरैरपि || ४९-५६ || पूजयेद्यन्त्रराजस्थं धूपं दद्याद्यथाविधि | निवेदयेत्ततो दीपमज्ञानध्वान्तनाशनम् || ४९-५७ || दक्षिणे स्थापयेद्दीपं तैलदीपस्तु वामतः | तयोरेकतरेणापि दीपं दद्याद् यथारुचि || ४९-५८ || वामभागे तु देवेशि त्रिविधानर्चयेद् गुरून् | करुणानन्दनायश्च तरुणानन्द एव च || ४९-५९ || भुवनानन्दनाथश्च त्रीनेतानूर्ध्वतो यजेत् | द्वितीयायां तथा पङ्क्तौ तदधः परमेश्वरि || ४९-६० || मदनं मोहनं चैव मन्द्रं चैव यजेत्ततः | मन्दरं शङ्करं ताम्रं स्वगुरुं तद्गुरुं तथा || ४९-६१ || षट्गुरूश्च [तद्गुरूंश्च इ० पाठः |] महेशानि तदधः परिपूजयेत् | साध्यसाधकयोर्मध्यदेशः प्राचीति गद्यते || ४९-६२ || कॢप्तप्राचीं समारभ्य सर्वत्र परिपूजयेत् | षट्कोणेष्वर्चयेद्देवि सुन्दरीमिन्दिरां तथा || ४९-६३ || आह्लादिनीमथानन्दामरुणां करुणावतीम् | श्यामानङ्गानङ्गरेखा सुरङ्गा व्यञ्जुली रतिः || ४९-६४ || बलाकी केसराङ्गी च वसुकोणे प्रपूजयेत् | ततो द्वादशपत्रेषु पूजनं प्रवदामि ते || ४९-६५ || चत्त्वारिंशद् यूथमुख्यास्तिस्रस्तिस्र उदाहृताः | प्रतिपत्रं प्रपूज्ये द्वे स्वामिनीनित्यपार्श्वगे || ४९-६६ || मालती माधवी नन्दा सुभद्रा रुचिरानना | पुष्पावती रत्नरेखा पद्मवृन्दा विलासिनी || ४९-६७ || मन्दारमधुरा माध्वी मञ्जनादा कलावती | शृङ्गारलतिका वृन्दा प्रमोदा मधुमालती || ४९-६८ || किशोरी कुसुमानन्दा रसकुल्या प्रभावती | आशावती विशाला च निस्तुला नीलकुन्तला || ४९-६९ || विद्युद्वर्णा निम्ननाभिः विरजस्का विहारिणी | रागिणी रङ्गलतिका तथा रत्नावतीति च | पद्मावती पद्मगर्भा पद्मिनी च पिकस्वरा || ४९-७० || बहिर्वृत्ते च कूटस्थ [अक्षरस्वरूपवर्णनमिदम् |] व्यापकं नित्यमव्ययम् | अखण्डं सच्चिदानन्दं पूजयेत्परमेश्वरि || ४९-७१ || कालमेघालिरुचिरं स्फुरन्माणिक्यकुण्डलम् | दिव्यरत्नकिरीटेन ज्वालयेव हविर्भुजम् || ४९-७२ || मुक्ताहारं चतुर्बाहुमुद्यत्सूर्यारुणाम्बरम् | कोटिचन्द्रांशुसन्दोहप्रकाशपरमोज्ज्वलम् || ४९-७३ || यदुन्मेषनिमेषाभ्यां ब्रह्माण्डविलोदयौ | जगद्भ्रमस्याधिष्ठानं रजतस्येव शुक्तिका || ४९-७४ || अध्यारोपापवादाभ्यां विदुषां ज्ञानगोचरम् | यत्सत्तयाप्यसद्भाति नामरूपविकल्पितम् || ४९-७५ || उपेतं रमया पञ्चवार्षिक्या सप्तवार्षिकम् | नवरत्नविचित्रश्रीमालयालङ्कृतं परम् || ४९-७६ || तद्बहिश्चतुरस्रे च प्रतिद्वारं सुरेश्वरि | पुरुषं प्रकृतिं कालं यज्ञं पूर्वादिवामतः || ४९-७७ || तद्बहिश्चतुरस्रे च वासुदेवादिकान् यजेत् | किरीटकुण्डलधरान् जलदश्यामलाकृतीन् || ४९-७८ || शङ्खचक्रगदापद्मभ्राजद् भुजचतुष्टयान् | तद्बहिश्चतुरस्रेऽपि पूजयेच्च ततः परम् || ४९-७९ || अग्नेरीशानपर्यन्तं पञ्चभूतार्चनं क्रमात् | ईशानाद्वायुपर्यन्तं तन्मात्राः परिपूजयेत् || ४९-८० || नै-ऋतेर्वायुपर्यन्तं पञ्चकर्मेन्द्रियाण्यपि | नै-ऋतादग्निपर्यन्तं पूजयेत् ज्ञानपञ्चकम् || ४९-८१ || तद्बहिर्द्वारदेशेषु पूर्वादिक्रमतोर्चयेत् | इन्द्रमग्निं यमं चैव नैर्-ऋति च जलेश्वरम् || ४९-८२ || पवनं धनदं रुद्रमूर्ध्वं ब्रह्माणमर्चयेत् | अधस्ताच्च तथानन्त तत्रैवास्त्राणि वाहनैः || ४९-८३ || पूजयित्वा ततो देवि ततो नैवेद्यमर्पयेत् | भक्ष्यभोज्यान्नभरितं साधारं पात्रमुत्तमम् || ४९-८४ || सामान्यसलिलैः प्रोक्ष्य दत्त्वा पुष्पाक्षतादिकम् | ततो धेन्वामृतीकृत्य मूलमन्त्रं ततोऽष्टधा || ४९-८५ || पञ्चप्राणाहुतीर्दद्यात् ग्रासमुद्रां च दर्शयन् | जलपात्रं निवेद्याथ बिभृयादन्तरे पटम् || ४९-८६ || पौराणैः प्राकृतैः स्तोत्रैः स्तुत्वा भुञ्जानमीश्वरम् | ध्यात्वा तृप्तमिति ज्ञात्वा दूरीकृत्य पटावृत्तिम् || ४९-८७ || दत्त्वाचमनमीशानि गन्धचूर्णैरनेकधा | स्नेहापनोदनं कृत्वा हस्तयोः परमेशितुः || ४९-८८ || गण्डूषान् कारयेत्पश्चात् कर्पूरैर्मुखशोधनम् | हस्तपादौ च प्रक्षाल्य हस्तवासस्ततोर्चयेत् || ४९-८९ || ततः प्रसन्नपूजान्ते लबिङ्गैलेन्दुमिश्रिताम् | पूगाश्मचूर्कनिर्भिन्नां ददेत्ताम्बूलबीटिकाम् || ४९-९० || सम्प्रार्थ्य पादुकायुग्मं निधाय पुरतः शिवे | पुनः सिंहासनगतं दीपैर्नीराजयेत्ततः || ४९-९१ || ईषत्पक्वसुपिष्टेन कुर्याद्वेदाङ्गुलोन्नतान् | चतुरस्रान् शुभाकारान् नव सप्ताथ पञ्च वा || ४९-९२ || ततश्छत्रं चामरं च मायूरं व्यञ्जनं तथा | दर्पणं च ततो दत्वा प्रदक्षिणनमस्क्रियाम् || ४९-९३ || गीत नृत्यादिकं कृत्वा प्रीणयेत्परमेश्वरम् | इति ते कथितो देवि पूजाया विधिरुत्तमः [इति ते कथिता देवि पूजाया विधिरुत्तमा इ० पा० |] || ४९-९४ || मनः प्रसादकाले तु कुर्यात्पूजां समाहितः | न कालनियमश्चात्र विद्यते परमेश्वरि || ४९-९५ || इत्येतत् कथितं देवि त्वया पृष्टं सुलोचने | समासेन महेशानि किं भूयः श्रोतुमिच्छसि || ४९-९६ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासम्वादे एकोनपञ्चाशत्तमं पटलम् || ४९-४९ || अथ पञ्चाशत्तमं पटलम् पार्वत्युवाच देव नाथ महेशान त्रिलोचन जगत्पते | पूजनस्यापि परमो विधिर्मे संश्रुतो महान् || ५०-१ || कूटस्थपूजने तत्र ध्यानमुक्तं त्वयाऽस्य हि | व्यापकं नित्यमव्यक्तमखण्डमिति शङ्कर || ५०-२ || अखण्डं व्यापकं तच्चेत्तदानन्दगतं न किम् | केवलानन्दलीलायामङ्गीकारो विरुध्यते || ५०-३ || अनङ्गीकारे देवेश व्यापकत्वं विरुध्यते | ज्ञानरूपं तु कूटस्थमानन्दः पुरुषोत्तमः || ५०-४ || मिथौ विरुद्धौ देवेश ज्ञानानन्दौ सुरेश्वर | भेदशून्य यदा ज्ञानं जायते कृष्णयोषिताम् || ५०-५ || रसस्तदा निवर्त्तेत निर्विशेषतया प्रभो | रसाभासकरं ज्ञानं कथं युज्येत तत्र हि || ५०-६ || अखण्डव्यापकत्वादि धर्माणां तत्र का गतिः | एतज्जिज्ञासया देव मनो मे खिद्यतेतराम् || ५०-७ || शिव उवाच साधु पृष्टं त्वया भद्रे जिज्ञासूनामभीप्सितम् | यच्छ्रुत्वा तत्क्षणादेव जिज्ञासा विनिवर्त्तते || ५०-८ || कूटस्थं व्यापकं देवि व्याप्यं कार्यमिति स्थितम् | न कार्यं व्यापकं क्वापि न व्याप्यं कारणं भवेत् || ५०-९ || अल्पवृत्ति भवेद् व्याप्यं व्यापकं तु तदन्यथा | व्याप्यव्यापकता चापि कूटस्थानन्दयोरपि || ५०-१० || विशेषं तत्र वक्ष्यामि शृणु त्वं कमलेक्षणे | कामांशकणिकाव्याप्तं कूटस्थं ज्ञानरूपकम् || ५०-११ || अत एव श्रुतिशतैरानन्दमिति कीर्त्यते | कूटस्थमपरिच्छिन्नं विद्यते यद्यपि प्रिये || ५०-१२ || तिरोहितमिवानन्दे कुह्वां बिम्बमिवैन्दवम् | कामांशस्त्वपरिच्छिन्नमखण्डमचलं ध्रुवम् || ५०-१३ || सर्वतो व्याप्य देवेशि स्वरूपेण प्रकाश्यते | चिदानन्दमयीलीला प्रोक्ता कामांशभावजा || ५०-१४ || अनुभूता पुरा देवि निगमैः प्राकृते लये | तस्माद्गोलोकलीलेति प्रोच्यते वरवर्णिनि || ५०-१५ || पार्वत्युवाच कीदृशी सा भवेल्लीलानुभूता निगमैः कथम् | शब्दात्मकः कथं वेदो रसानुभवमर्हति || ५०-१६ || एतदाख्याहि भगवन् यदि योग्यं भवेन्मम | शिव उवाच शृणु पार्वति वक्ष्यामि तव प्रश्नमनुत्तमम् || ५०-१७ || सम्प्राप्ते प्रतिसञ्चरे न स विभुर्ब्रह्मा प्रजानां पति- र्नोसूर्यादिगृहर्क्षसागरसरिद्विश्वन्धराः [विश्वंभराः इ० पा० |] पर्वताः | वृक्षा औषधयस्तदा न विबुधा दैत्या मनुष्या दिशो गन्धर्वा न च राक्षसा मुनिवरा यक्षा [साध्या इ० पा० |] न सिद्धोरगाः || ५०-१८ || नष्टं स्थावरजङ्गमं विधिकृतं शिष्टं न किञ्चित्तदा यः शिष्टः स विभुर्विनाशरहितः कूटस्थ एकः पुमान् | वेदा विस्मितचेतसोऽप्यथ विभुं तेऽन्तरश्चरा ब्रह्मवत् सञ्चित्याथ हृदास्तुवन् रहसि ते यं वाङ्मनोगोचरम् || ५०-१९ || वेदा ऊचुः- [यथा - बृहद्वामनपुराणेऽपि भृग्वादीन् प्रति ब्रह्मणो वाक्यानि षष्टिवर्षसहस्राणि मया तप्तं तपः पुरा | नन्दगोपव्रजस्त्रीणां पादरेणूपलब्धये || ५०-१ || तथापि न मया प्राप्तास्तासां वै पादरेणवः | श्रुत्वैतद्ब्रह्मणो वाक्यं भृगुः प्राहाथ सादरम् || ५०-२ || भृगुरुवाच वैष्णवानां पादरजो गृह्यते त्वद्विघैरपि | सन्ति ते बहवो लोके वैष्णवा नारदादयः || ५०-३ ||] एकस्त्वमात्मा पुरुषः पुराणो नित्योऽव्ययोऽनन्तगुणो निरीहः | क्वचित्स्थितः क्वापि गतो न विद्महे तं त्वां परं संशरणं गता वयम् || ५०-२० || तेषां विहाय गोपीनां पादरेणुस्त्वयापि यत् | गृह्यते संशयो मेऽत्र को हेतुस्तद्वद प्रभो || ५०-४ || ततो ब्रह्मा भृगुं प्राह चिन्तयित्वा पुरातनीम् | कथां सर्वश्रुतीनां च रहस्यं परमाद्भुतम् || ५०-५ || ब्रह्मोवाच न स्त्रियो व्रजसुन्दर्यः पुत्र ताः श्रुतयः किल | नाहं शिवश्च शेषश्च श्रीश्च ताभिः समा क्वचित् || ५०-६ || प्राकृते प्रलये प्राप्ते व्यक्तेऽव्यक्तं गते पुरा | शिष्टे ब्रह्मणि चिन्मात्रे कालमायातिगेऽक्षरे || ५०-७ || ब्रह्मानन्दमयो लोको व्यापिवैकुण्ठसंज्ञकः | निर्गुणोऽनाद्यनन्तश्च वर्तते केवलेऽक्षर || ५०-८ || अक्षरं ब्रह्म परमं वेदानां स्थानमुत्तमम् | तल्लोकवासी तत्रस्थैः स्तुतो वेदैः परात्परः || ५०-९ || चिरं स्तुत्या तु सन्तुष्टः परोक्षं प्राह तान् गिरः | तुष्टोऽस्मि ब्रूत भो प्राज्ञा वरं यन्मनसीप्सितम् || ५०-१० || श्रुतय ऊचुः नारायणादिरूपाणि ज्ञातान्यस्माभिरच्युत | सगुणं ब्रह्म सर्वेदं वस्तुबुद्धिर्न तेषु नः || ५०-११ || ब्रह्मेति पठ्यतेऽस्माभिर्यद्रूपं निर्गुणं परम् | वाङ्गनोगोचरातीतं ततो न ज्ञायते तु तत् || ५०-१२ || आनन्दमात्रमिति यद्वदन्तीह पुराविदः | तद्रूपं दर्शयास्माकं यदि देयो वरो हि नः || ५०-१३ || श्रुत्वैतद्दर्शयामास स्वं लोकं प्रकृतेः परम् | केवलानुभवानन्दमात्रमक्षरमव्ययम् || ५०-१४ || यत्र वृन्दावनं नाम वनं कामदुघैर्द्रुमैः | मनोरमणीयकुञ्जाढ्यं सर्वर्तुसुखसंयुतम् || ५०-१५ || यत्र गोवर्द्धनो नाम सुनिर्झरदरीयुतः | रत्नधातुमयः श्रीमान् सुपक्षिगणसंकुलः || ५०-१६ || यत्र निर्मलपानीया कालिन्दी सरितां वरा | रत्नबद्धाभयतटी हंसपद्मालिसङ्कुला || ५०-१७ || नानारासरसोन्मत्तं यत्र गोपीकदम्बकम् | तत्कदम्बकमध्यस्थ किशोराकृतिरच्युतः || ५०-१८ || दर्शयित्वेति च प्राह व्रत किं करवाणि वः | दृष्टो मदीयो लोकोऽयं यतो नास्ति परं वरम् || ५०-१९ || श्रुतय ऊचुः कन्दर्पकोटिलावण्ये त्वयि दृष्टे मनांसि नः | कामिनीभावमासाद्य स्मरक्षुब्धान्यसंशयः || ५०-२० || यथा त्वल्लोकवासिन्यः कामतत्वेन गोपिकाः | भजन्ति रमणं मत्वा चिकीर्षाऽज्जनि नस्तथा || ५०-२१ || श्रीभगवानुवाच दुर्लभो दुर्घटश्चैव युष्माकं सुमनोरथः | मयानुमोदिताः सम्यक् सत्यो भवितुमर्हति || ५०-२२ || आगामिनि विरञ्चौ तु जाते सृष्ट्यर्थमुद्यमे | कल्पं सारस्वतं प्राप्य व्रजे गोप्यो भविष्यथ || ५०-२३ || पृथिव्यां भारते क्षेत्रे माथुरे मम मण्डले | वृन्दावने भविष्यामि प्रेयान् वो रासमण्डले || ५०-२४ || जारधर्मेण सुस्नेहं सुदृढं सर्वतोधिकम् | मयि सम्प्राप्य सर्वा हि कृतकृत्या भविष्यथ || ५०-२५ || श्रुत्वैतच्चिन्तयन्तस्ते रूपं भगवतश्चिरम् | उक्तं कालं समासाद्य गोप्यो भूत्वा हरिं गताः || ५०-२६ || स्त्रियो वा पुरुषो वापि भर्तृभावेन केशवम् | हृदि कृत्वा गतिं यान्ति श्रुतीनां नात्र संशयः || ५०-२७ || तासां पादरजांस्येव नित्ये वृन्दावने भुवि | तत्प्राप्य तत्कामनया यान्त्यहो गोपिकागतिम् || ५०-२८ || नन्दगोपव्रजस्त्रीणामतः पादरजो मया | वाञ्छितं पुत्रकाः सम्यक् यतस्ताः श्रुतयः किल || ५०-२९ || श्रुत्त्वैतदृषयो वाक्यं ब्रह्मणः परमेष्ठिनः | सर्वात्मना प्रसन्नाः स्युः श्रीगोपीजनवल्लभे || ५०-३० || उक्तं च सनत्कुमारसंहितायां एकत्रिंशे पटले श्रीमहादेव उवाच कश्चिद्वः कुशलं विप्रा ब्रह्मणो विष्णुदेवयोः | ध्यानयोगौ तपो वेदाः कुशलाः सन्ति शाश्वताः || ५०-१ || यदर्थमागता यूयं तद्वदामि परिस्फुटम् | एवं तु ऋषयो गुह्यं न विख्यातं मया क्वचित् || ५०-२ || इदं च कथ्यते गोप्यं गुह्याद् गुह्यतरं महत् | श्रूयतां मुनिशार्दूलाः कृष्णधामसमुत्सुकाः || ५०-३ || वृन्दावनं महापुण्यं सर्वपावनपावनम् | सर्वलोकबहिर्भूतं निराधारं परिस्फुरत् || ५०-४ || शुद्धं वस्त्रैश्च सवीतं प्रियं तं सुपरिस्थितम् | तत्र संक्रीडते युग्मं ललितादिसखीवृतम् || ५०-५ || पुनश्चोक्तं सनत्कुमारसंहितायां द्वाविंशत्तमे पटले सदाशिव उवाच वृन्दावनस्याद्वयाद्यं वृन्दानन्दनमुच्यते | द्वितीये करणैर्जातं मथुरामण्डलं परम् || ५०-६ || तत्समो नास्ति तीर्थोऽन्यो न चेद्वैकुण्ठ एव च | किमन्यत्तीर्थगणना अन्धकूपसमा मुने || ५०-७ || मथुरामण्डलं रम्यं सर्वतीर्थोत्तमोत्तमम् | तत्र वृन्दावनं रम्यं पञ्चयोजनविस्तृतम् || ५०-८ || प्राणत्यागं च मर्त्यास्तत्वज्ञास्तत्वदर्शिनः | कुर्वन्ति ये वने पुण्यं प्राप्नुवन्ति पदं शुभम् || ५०-९ || उत्तरे दक्षिणे भागे योजनद्वयमुच्यते | यत्र स्मरणमात्रेण सिद्धिर्नून भवेद्ध्रुवम् || ५०-१० || भूमौ च जीवसिद्ध्यर्थं रचितं वृन्दावनस्थलम् | अन्यभूमौ न सहसा यथा वृन्दावने वरे || ५०-११ || जायते तत्पदप्राप्तिरचिरेण सुखेन च | सर्वं संत्यज्य गार्हस्थं सर्वतीर्थगणं तथा || ५०-१२ || गुह्याद्गुह्यतरं [वाराहसंहिताया |] गुह्यं परमानन्दकारणम् | अत्यद्भुतरहस्यानां रहस्यं परमं शिवम् || ५०-१३ || दुर्लभानां च परमं दुर्लभं सर्वमोहनम् | सर्वशक्तिमयं देवि सर्वशास्त्रेषु गोपितम् || ५०-१४ || सात्वतं स्थानमूर्द्धन्यं विष्णोरेकान्तवल्लभम् | नित्यं वृन्दावनं नाम ब्रह्माण्डोपरि संस्थितम् || ५०-१५ || पूर्णब्रह्मसुखैश्वर्यं नित्यमानन्दमव्ययम् | वैकुण्ठादि तदंशांशं स्वयं वृन्दावनं भुवि || ५०-१६ || गोलोकैश्वर्यंयत्किंचिद्गोकुले तत्प्रतिष्ठितम् | वैकुण्ठवैभवं यच्च द्वारकायां प्रकाशितम् || ५०-१७ || यद्ब्रह्मपरमैश्वर्यं नित्यवृन्दावनाश्रयम् | तद्देवि माथुरं मध्ये वृन्दावनविशेषतः || ५०-१८ || स्त्री लक्ष्मीः पुरुषो विष्णुस्तदंशांशौ बभूवतुः | तत्र किशोरवयसा नित्यमानन्द विग्रहः || ५०-१९ || अनन्तकोटिब्रह्माण्डे अनन्तत्रिगुणाश्रये | तत्कलाकोटिकोट्यंशाः ब्रह्मविष्णुमहेश्वराः || ५०-२० || उक्तं च गोतमीतन्त्रे तत्सर्वोपरि गोलोकस्तद्गोलोकोपरि स्वयम् | विहरेत्परमानन्दो गोविन्दोतुलनायकः || ५०-२१ || उक्तं च वाराहसंहितायाम् दिव्यवनेषु यद्रूपं नित्यं वृन्दावनेश्वरम् || ५०-२२ || व्रजेन्द्रं सात्वतैश्वर्यं व्रजप्राणैकवल्लभम् || ५०-२३ || परं धामपरं रूपं द्विभुजं गोकुलेश्वरम् | वृन्दावनेश्वरं ध्यायेन्निर्गुणस्यैककारणम् || ५०-२४ || नखेन्दुकिरणश्रेणीपूर्णब्रह्मैककारणम् | केचिद्वदन्ति तद्रश्मिं ब्रह्म चिद्रूपमव्ययम् || ५०-२५ || योगीन्द्रैरपि दुष्प्राप्यं सत्यं पुंसामगोचरम् | यदंशांशं महाविष्णुं प्रवदन्ति मनीषिणः || ५०-२६ || उक्तं च सनत्कुमारसंहितायां पञ्चत्रिंशत्तमे पटले सदाशिव उवाच नन्दस्य गेहे सञ्जातं कृणांशं च तुरीयकम् | वसुदेवेन यद्दृष्टमाराधितोऽन्यसंज्ञया || ५०-२७ || यथा चतुर्भुजो विष्णुस्तथा कोऽप्यपरः पुमान् | सोऽपि चतुर्भुजध्येयः इति मोहेन मोहितः || ५०-२८ || द्रोणो नन्दो महाकीर्तिर्यशोदा सा यशस्विनी | तयोर्योगे च सञ्जातः कृष्णांशः कृष्णरूपधृक् [अत एव कृष्णः पशुपांगजः गोपीसुतश्चेति कथ्यते |] || ५०-२९ || चक्रतुस्तन्महारासं मुनिविस्मयकारकम् | ब्रह्मविष्णुमहेशाद्यैर्दुर्विज्ञं देवतागणैः || ५०-३० || ५०-इति || ५०-] कर्माणि तानीह गुणाश्च ते प्रभो नष्टानि [प्रभोऽनन्तानि इ० पा० |] सर्वाण्यधुना न सन्ति | क्वचिद्धतानि [क्वचिद्गतानि इ० पा० |] क्व गता हि जन्तवो ये यज्ञभुग्ब्रह्मपुरोगमास्ते || ५०-२१ || न सन्ति ते क्वापि पुरन्दरादयो येऽस्मत्प्रदत्तानि हवींष्यदन् क्रतौ | कामान् मनोज्ञान् हि ददत्यनारतं नाशं गतास्तेऽपि न विद्महे क्वचित् || ५०-२२ || ब्रह्मेशनारायणनामधेयः करोषि सृष्टिं हरणं च पालनम् | स्वयं गुणातीतगुणैस्त्रिभिस्त्वं मनुष्यदैत्यान् विबुधान् विधासि || ५०-२३ || नमः कूटस्थरूपाय नमोऽनन्ताय वेधसे | व्याप्यव्यापकरूपाय वाच्यवाचकरूपिणे || ५०-२४ || नमः शिवाय शान्ताय निर्गुणाय गुणात्मने | सदसद्व्यतिरिक्ताय [सदसद्व्यक्तिरूपाय इ० पा० |] सदसद्वयक्तिहेतवे | इच्छाप्रवर्त्तितजगद्व्यापाराय [इक्षा इ० पा० |] रते नमः || ५०-२५ || त्वययुदितं त्वयि लीनं जगदेतद्धेम्नि कुण्डलं यद्वत् | आदावन्ते यत्सत्तत्सन्मध्येऽप्यसत्तया सद्वत् || ५०-२६ || तस्मिंस्त्वयि वचनानामेषा रचना विभाति नो नाथ | दीपविधिर्दिवसेश्वरबिम्बालोकाय निष्फलो यद्वत् || ५०-२७ || तस्मात्प्रसीद भगवन् नोऽनुग्रहमुररीकुरु | त्वदुद्भवा वयं वेदास्त्वन्निष्ठास्त्वां कथं स्तुमः || ५०-२८ || स्तुवन्त एवं भगवन्तमव्ययं स्थिता हि वेदाः [वेदश्चकितार्द्रमानसाः इ० पा० |] स्थगितार्द्रमानसाः | महालये प्राकृतसंज्ञके हि ते बभूव गोर्व्योम्नि तदा मनोहरा || ५०-२९ || शृणुध्वं विभोर्वाक्यमेतन्मनोज्ञं वृणुध्वं वरं मत्तु वेदाः प्रसन्नात् | प्रसन्ने परे मययलभ्यं किमस्ति न चापीह लोके परत्रापि शश्वत् || ५०-३० || वेदा ऊचुः वरः कः [कोऽपरो इ० पा० |] परो योऽस्माभिरीड्यो न चैतत्परं किञ्चिदस्तीह लोके | यदस्तीह किञ्चित्परं तत्त्वमेव प्रसन्नोऽसि चेद्दर्शनं नो विधेहि || ५०-३१ || अस्माभिर्वर्ण्यते नित्यं तव रूपाण्यनेकशः | ज्ञातान्यपि विशेषेण दृष्टानि बहुशोऽपि हि || ५०-३२ || आविर्भवन्ति लीयन्ते निर्गुणे त्वयि केवले | निर्गुणातीतमात्मानं त्वदीयं दर्शयाद्यतः || ५०-३३ || एवं प्रार्थयमानेषु वेदेषु बहुधा तदा | आविर्बभूव सहसा लीला गोलोकविश्रुता || ५०-३४ || प्रादुर्बभूवातिमनोहरा सरित् स्फुरन्महारत्नतटाच्छवालुका [अम्बुबालुका इ० पा० |] | सुवर्णपङ्केरुहशोभमाना गभीरपीयूषजलोर्मिमालिनी [जवोमिं इ० पा० |] || ५०-३५ || वृन्दावनं तद्वरवृक्षवृन्दै- र्युत सचिन्तामणिकल्पपादपैः | शालैस्तमालैस्तरलैः कदम्बै- र्जम्ब्वाम्रप्लक्षैर्वटपिप्लाद्यैः || ५०-३६ || कपित्थबिल्वामलनालिकेरैरश्वत्थपूगैः कदलैर्वनैश्च | युतं मनोहारिभिरन्यवृक्षैरशोकपाटीरसुपारिजातैः || ५०-३७ || मनोज्ञकुञ्जैर्बहुभिः परीतं गोगोपगोपीनिलयैरुपेतम् | आनन्दसन्दोहमिवोद्गिरद्भिर्मरुद्भिरानर्त्तितपल्लवद्रुमम् || ५०-३८ || प्रादुर्भूतं वनं तत्र नानापक्षिगणाकुलम् | नातिदूरे वर्तमानो गोवर्धननगोत्तमः || ५०-३९ || सर्वर्तुगुणसम्पन्नो नानाधातुविचित्रितः | स्फुरत्सुवर्णशिखरः सुधानिर्झरशीतलः | वीक्ष्य तं विस्मयं प्राप्ताः स्वप्नोऽयं वा मनोभ्रमः || ५०-४० || पारावताः कलरवाः कलराजहंसाः कारण्डवा रथवदाह्वयकोकिलाद्याः | सारङ्गबर्हणमनोहरपक्षिपूगास्- तस्थर्वने हरिगणा इव तं स्तुवन्तः || ५०-४१ || घनश्यामरूपं प्रफुल्लाब्जनेत्रं किरीटाङ्गदैरुल्लसद्भ्रूकपोलम् [किरीटाङ्गदाढ्यं लस० इति पाठः | ] | सुनासं सुवक्त्रं रणद्वेणुहस्तं सुवर्हावतंसं तमापीतवस्त्रम् || ५०-४२ || तमानन्दरूपे वने नन्दसूनुं तदानन्दरूपं प्रभुं तेऽभ्यपश्यन् | महावल्लवीयूथमध्ये चरन्तं त्रिभङ्गाकृतिर्भ्राजमानस्वरूपम् || ५०-४३ || कोट्यर्कप्रभया विराजिततनुं कोटीन्दुदर्पापहं कोटिस्फूर्जदनङ्गरङ्गवपुषं कोट्यब्धिगाम्भीर्यकम् | तं लावण्यनिधिं विलोक्य सहसा पार्श्वस्थया राधया जुष्टं गोपिकया निरन्तरमतिप्रेम्णाथ ते विस्मितः || ५०-४४ || काचिद्गोपी सचमरकरा बीजयन्ती स्वकान्तं काचिच्चाग्रे करयुगपुटं कृत्य तस्थौ निरीह | काचित् स्थाल्यां मणिगणमयीं कृत्य दीपावलिं त्तां राधाकृष्णप्रतिमुखगता कुर्वती दीपकृत्यम् || ५०-४५ || काचित्कृष्णमुखं निरीक्ष्य सुतरां चित्रार्पितेवाभवत् काचित्कृष्णकरं निगृह्य हृदये संस्थाप्य तस्थौ मुदा | काच्चिच्चांघ्रियुगं निगृह्य सदयं स्वेमूर्ध्न्यधास्यन्मुदा काचिन्नृत्यति कृष्णकीर्तनपरा धृत्वा करे तालिकाम् || ५०-४६ || एवं रासरसोन्मत्तं गोपिकायूथमध्यगम् | वीक्ष्य वृन्दावने कृष्णं प्रणेमुः श्रुतयः समम् || ५०-४७ || ततः प्रसन्नस्ता आह ब्रूत मत्तो वरं शुभम् | भवद्भिर्दृष्टमित्येव धाम गोलोकशब्दितम् || ५०-४८ || श्रुतय ऊचुः न वृणीमो वरं किञ्चित्कालग्रस्तं विनश्वरम् | यदि दास्यति चेन्नाथ तदा नोऽनुग्रहं कुरु || ५०-४९ || विलसन्ति यथा गोप्यस्त्वत्प्रिया भवता सह | जायते च तथास्माकं रिरंसाकुलितं मनः || ५०-५० || सम्पादय तथा काममस्माकं हृदयस्थितम् | कोटिकन्दर्पसुभगं वीक्ष्य स्थातुं न शक्नुमः || ५०-५१ || निशम्य वेदगदितं किशोराकृतिरच्युतः | शृण्वन्तीनां च गोपीनां प्राह प्रहसिताननः || ५०-५२ || कामोऽयं निगमाः सत्यं खपुष्पमिव दुर्लभः | न प्राप्तुं शक्नुयात् कोऽपि स्वयं पुरुषबुद्धिभाक् || ५०-५३ || प्रियारूपं स्वमात्मानं जानन्मां प्रियमित्यथ | अत्युग्रविरहज्वालाज्वलिताकृतिरेति माम् || ५०-५४ || नाद्यावधि ममैवायं गोलोकसंज्ञितः | प्राप्तः केनापि निगमा मदुक्तेनापि वर्त्मना || ५०-५५ || तथापि वरदानार्थं प्रोक्ताः स्थ वरदेन मे | तदपि स्यान्न मे वाक्यं व्यलीकं कर्हिचित्क्वचित् || ५०-५६ || यदा चतुर्मुखो ब्रह्मा पद्मकल्पे भविष्यति | तत्सृष्टलोकमध्ये तु माथुरं मण्डलं शुभम् || ५०-५७ || तत्र वृन्दावनं दिव्यं भविष्यति रसाश्रयम् | तत्र गोलोकलीलेयं सर्वथावतरिष्यति || ५०-५८ || मूलरूपं च मे तत्र स्वप्रियाभिरुदेष्यति | भवन्तोऽपि विशेषेण पुरुषत्वं विहाय च || ५०-५९ || कामिनीभावमापन्ना भविष्यथ [वरांगनाः इ० पा० |] व्रजाङ्गनाः | तत्रापि मुरलीनादश्रवणानन्दमोहिताः || ५०-६० || अतिक्रम्य स्वमर्यादां रासमण्डलमागताः | भविष्यथ तदा यूयं पूर्णकामा न संशयः || ५०-६१ || इत्युक्त्वान्तर्दधे साक्षात्किशोराकृतिरच्युतः | ततः कतिपये काले पद्मकल्पे चतुर्मुखे || ५०-६२ || जाते तस्य व्यतिक्रान्ते परार्द्ध प्रथमे ततः | द्वितीयस्यापि तस्यैव मध्ये लीलेयेमागता || ५०-६३ || द्विषट्सहस्रभेदेन स्वात्मानं च विभज्य ते | कामियीभावमापन्ना रासमण्डलमध्यगाः || ५०-६४ || कृष्णप्रियाप्रसङ्गेन कृतकृत्या बभूविरे | इति ते सर्वमाख्यातं यत्पृष्टोहं सुलोचने || ५०-६५ || कूटस्थहृदयं साक्षात् गोलोक इति विश्रुतः | तत्र क्रीडति गोपीभिः कामांशः पुरुषोत्तमः || ५०-६६ || आविर्भूतः सदैवायं कूटस्थे परमात्मनि | तिरोहितं तु चैतन्यं वर्त्तसे पुरुषोत्तमे [पुरुषोत्तमः इ० पा० |] || ५०-६७ || रसलीलारसाम्भोधेः पारं गन्तुंक ईश्वरः | दिङ्मात्रदर्शनं विद्धि यन्मया वर्णितं शिवे || ५०-६८ || इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासम्वादे पञ्चाशत्तमं पटलम् || ५०-५० || अथ एकपञ्चाशत्तमं पटलम् शिव उवाच अथान्यत्ते प्रवक्ष्यामि प्रकारं शृणु पार्वति | यस्य श्रवणमात्रेण जायते भावना शुभा || ५१-१ || भूमयो दश ते प्रोक्ता मया च वरवर्णिनि | पञ्चमी शयनीयाख्या तस्यां शेते निशास्वपि || ५१-२ || स्फूर्जद्रत्नमयूखचित्रविलसत्स्वर्णाच्छदण्डोद्घृत- भ्राजन्मण्डपमण्डिते परिलसद्दिव्योपधानैः सुखे | प्रान्तस्फूर्जदनेकमौक्तिकमणिभ्राजत्पटीप्रावृते दिव्यामोदमनःप्रमोदसुमनःसौरभ्यसम्भाविते || ५१-३ || तल्पे तल्पसुखास्पदे परिलसन्मुक्तावितानोत्तमे हंसीतूलचिते स्फुरन्मणिगणप्रोच्चैः प्रदीपोज्ज्वले | स्वामिन्या परया विलासविविधक्रीडारसव्यग्रया रात्रौ निर्भरमन्मथोत्सवसुखं शेते रसात्मा प्रभुः || ५१-४ || वीणामृदङ्गमधुरध्वनिगीतनादैः क्रीडागृहं च परितः परिवृत्तमानाः | सख्यः प्रियं परिचरन्ति निशावसाने | प्राणप्रियेशपरिबोधनकर्मदक्षाः || ५१-५ || कनकाङ्गी मञ्जुमुखी कलकण्ठी स्मितानना | आनन्दवल्लरी वृन्दा मित्रवृन्दा विशोकिनी || ५१-६ || चित्रवस्त्रा विचित्राङ्गी चन्द्रघण्टा विभावरी | मञ्जुमोदा विधुमुखी रत्नदन्ती मदालसा || ५१-७ || लावण्यलहरी लीलावती लावण्यमन्थरा | ललिताङ्गी कामवती पुष्पिणी पुष्पदन्तिका || ५१-८ || हसन्तिका हंसगतिः पुष्पवेणी मरुल्लता | मुदिता मोदिनी श्यामा तथा मुक्तावती रतिः || ५१-९ || हारिणी हरिणी हंसी विहंसी हंसकुण्डला | अरुणाङ्गी रङ्गरङ्गा रसरङ्गा कुमुद्वती || ५१-१० || कुङ्कुमाङ्गी कुन्दहासा चन्द्रहासा चरित्रिणी | आनन्दमञ्जरी मन्द्रा पद्मवृन्दा ज्वलन्तिका || ५१-११ || कुन्ददन्ती रत्नकला जयिनी स्वर्णमेखला | पुलिंदिनी हेमवर्णा हरिणाक्षी रतिप्रिया || ५१-१२ || पद्मकोशा भृङ्गरावा गायनी मदमन्थरा | एकषष्टिमिताः सख्यो नियुक्ता [ख्याताः इ० पा० |] बोधकर्मणि || ५१-१३ || प्रातः प्रोत्थितमायतादिकमलप्रोत्तम्भितभ्रूलतं जृम्भामञ्जुमुखारविन्दविलसद्विम्बाधरोद्यस्मितम् | निद्रान्ताघूर्णमानं समधिगतसखीवृन्दमालोकयन्तं दृष्ट्या वातेरिताम्भोरुहमुकुललसच्छोभया निस्तुलाङ्गम् || ५१-१४ || स्फूर्जत्काञ्चनमण्डितामलमणिप्रोद्भासिते पात्रके श्रीमन्मङ्गलवस्तुनि प्रविलसच्छ्रीरत्नदीपैः शुभैः | सख्यस्ता मृदुमञ्जुकङ्कणरणत्कारान् [समातन्वती इ० पा० |] समातन्विताः कान्ताः कान्तमनङ्गकोटिरुचिरं नीराजयन्ति प्रियम् || ५१-१५ || तदनु झटिति रागादागतानन्दमञ्ज- र्ययनघकरसरोजे व्यादधत् [व्यादधानात्मदर्श इ० पा० |] दर्पण च | प्रियसुभगमुखाब्जं दर्शनीयं तवेदं असितकणकृतश्री [सुकृतिजनकृतश्चि इ० पा० |] रम्यमालोकयेति || ५१-१६ || ह्रादिनीनिहितरत्नपादुके पादपङ्कजयुगे निधाय च | रत्नपीठमुपसाद्यसुन्दर दन्तधावनविधिं करोति सः || ५१-१७ || दन्तधावनविधानयोजिते मन्द्रिणीति सुरसेति विश्रुते | मन्द्रिणी धृतवती शुभं जलं हस्तवस्त्रममलं तथेतरा || ५१-१८ || ततो लविङ्गकर्पूरचूर्णैलापूगमिश्रितम् | उपतिष्ठति सत्पात्रे धृत्वा मदनमेखला || ५१-१९ || ताम्बूलमास्वाद्य ततः प्रसन्नः सखीजनप्रार्थनयातिकामम् | आरुह्य रत्नोज्ज्वलपादुके द्वे स्नानगृहस्याभिमुखः प्रयाति || ५१-२० || रत्नमौक्तिकवितानमण्डितं धूपितं स्वगरुधूमराजिभिः | कल्पवृक्षकुसुमालिसौरभोद्- भ्रान्तभृङ्गमुखरीकृताम्बरम् || ५१-२१ || सज्जसर्वपरिचारिकागणं नृत्यमानबहुनर्त्तकीगणम् | उल्लसद्विविधवाद्यगायनोज्जृम्भितप्रतिनिनादमञ्जुलम् || ५१-२२ || स्तम्भलग्नमणिपुत्रिकागणं स्नानमण्डपमुपेत्य भास्वरम् | रत्नपीठमुपनीय दर्शितं भामया समधितिष्ठति प्रभुः || ५१-२३ || उत्तार्य भूषणकलापमथो मनोज्ञं तत्तत्प्रियाकरयुगान्युपलम्भयित्वा | नीराजितः स्वप्रमदोत्तमभूषणोद्यत् कान्तिच्छटाभिरिव दीपशतैर्विभाति || ५१-२४ || यक्षकर्द्दम [कर्पूरागरुकस्तूरी कुंकुमं चन्दनं तथा | महासुगन्धिरित्युक्तो नामतो यक्षकर्दमः | इति धन्वन्तरिः |] काश्मीररजनीचूर्णमिश्रितैः | उद्वर्त्तनं चकारेलागन्धद्रव्यैर्मनोहरैः || ५१-२५ || आनीय मणिपात्रस्थं गन्धतैलं मनोजवा | करोत्यभ्यङ्गमङ्गेषु स्वभावसुरभिष्वपि || ५१-२६ || मुक्तारत्नविचित्रहेमकलशैरापीड्यमानैः शरत् पूर्णेन्दूज्वलहस्तिकुम्भशिखरारूढैः सुधास्पर्द्धिभिः | कस्तूरीद्रवयक्षकर्दममहासौरभ्यसम्भावितैः सख्यः पुष्पगणाधिवासितजलैः संस्नापयन्ति प्रियम् || ५१-२७ || स्मेरानना विधुकला बल्गुनादा विहङ्गमा | सङ्गमाला [मंगलामाला इओ पा० |] स्मरानन्दा विश्वानन्द सुकुण्डला || ५१-२८ || तेजोवती हेमगर्भा तरुणी तपनावती | एताः प्राधान्यतः प्रोक्ता द्वादश स्नानकर्मणि || ५१-२९ || गोफेनस्वच्छशुचिन वाससाङ्गं सुकुण्डला | प्रियस्याह्लादजननी प्रोच्छयत्यतिकोमलम् [प्रीत्थयति इ० पा० |] || ५१-३० || स्नानवासः परित्यज्य तेजोवत्या निवेदितम् | काश्मीररागरुचिरं कटिवस्त्रं विभर्त्यसौ || ५१-३१ || पादुकायुगमारुह्य मन्दं मन्दं परः प्रभुः | भूषामण्डपमायाति प्रियाभिः परिवेष्टितः || ५१-३२ || रत्नराजितसुवर्णकुट्टिमे स्फुर्जदंशुनिवहैस्तथोर्ध्वगैः | शक्रचापरचनाचितान्तरे मण्डपे [चिताम्बरे |] स्फटिकपीठमाश्रितः || ५१-३३ || केशावलिं कङ्कतिकामुखेन संशोध्यमाना ललिता प्रियस्य | निर्दग्धकालागरुधूपधूपैः सुवासयत्यत्र सरोजगन्धा || ५१-३४ || सिन्दूरपूरारुणिमानमुच्चैर्वहन् महोष्णीषमनङ्गरेखा | प्रान्तेषु मुक्तागुणगुम्फितं तदा व्यापारयामास तदुत्तमाङ्गे || ५१-३५ || सुवर्णरचितं प्रान्तं मुक्ताजालपरिस्कृतम् | पद्मरागं मध्यनीलमुष्णीषाग्रे बबन्ध सा || ५१-३६ || अनेकमुक्तामणिराजमाने निजेच्छया स्वीकृतहंसकुण्डले | तडित्प्रभापुञ्जविमोद्वमन्ती [उद्वहन्ती इ० पा० |] श्रुतिद्वयस्याभरणीवकार || ५१-३७ || नवरत्नमयीं मालां ग्रैवेयाभरणं तथा | हृदम्बुजे लम्बमाननं चतुष्काभरणं तथा || ५१-३८ || बाह्वोः केयूरयुगलं कटकाङ्गदमुद्रिकाः | उन्मिषद्रत्नरचितं काञ्चीसूत्रं महद्धनम् || ५१-३९ || निर्यद्भूषांशुनिचयैः किर्मीरितमिवोत्तमम् | निःश्वासहारिवसनं श्वेतं स्निग्ध मनोहरम् || ५१-४० || नवीनजलदस्निंग्धमुत्तरीयं सुशोभनम् | अनर्घ्यमौक्तिकमणिभ्राजत्प्रान्तचतुष्टयम् || ५१-४१ || अनेकदिव्याभरणान्यङ्गे प्रियतमस्य हि | रचयामास शृङ्गारचमत्कृतिमुपेयुषः || ५१-४२ || इति सज्जितशृङ्गारो गायद्भिः परितो वृतः | सखीवृन्दैः वाद्यहस्तैर्भोगभूमिं प्रयाति सः || ५१-४३ || पाकशालास्वधिकृता ललिताङ्गादिकाः प्रियाः | तिष्ठन्ति यत्र सुभगाः किशोराकृतयः शतम् || ५१-४४ || स्वर्णपीठं समास्थाय तिष्ठति पुरुषोत्तमः | सौवर्णविमलं पात्र साधारमति विस्पृतम् || ५१-४५ || परितस्तस्य सौवर्णपात्राणां च सहस्रकम् | स्थाप्यन्ते तेषु ते भोगाः स्निग्धा हृद्याः पृथग्विधाः || ५१-४६ || जातीकोरकपुञ्जविभ्रमकरं स्वन्नं च मव्यस्थितं वामे ऽस्याढकमुद्गमोदनमथो प्राज्यं घृतं माहिषम् | सूपापूपहयङ्गवीनविलसत्पक्कान्नरम्भाफलै- र्मुक्तालड्डुकपूलिकाशिखरिणीदध्यक्तमाषान्नकैः || ५१-४७ || वह्न्युष्णशर्करयुतं मणिपात्रसंस्थं दुग्धं च पायसमथो घृतशर्करःक्तम् | पूर्णेन्दुचन्द्रकचित मधुराम्लतिक्त नानारसाम्ररसमाक्षिकगोस्तनीकम् || ५१-४८ || कूष्माण्डवृन्ताकपटोलबिम्बी- शिम्बीसुकौशातकिसूरणाद्यैः | मृद्वग्नितापेन सुपाचितैर्युतं हिङ्ग्वामरीचादिसुवासितैर्भृशम् || ५१-४९ || चतुर्विधान्नं परिवेश्यमाण- मानन्दमानन्दमयौऽपि भुङ्क्ते | प्रियाः समस्ता अपि त समन्तात् प्रहासयन्त्यो बुभुजुः स्वपात्रैः || ५१-५० || भोजनान्ते ततः कृष्णं मणिपीठे तु दक्षिणे | शुद्धाङ्गी स्वर्णभृङ्गारजलेनाचमनं ददौ || ५१-५१ || स्नेहापनोदनार्थाय गन्धचूर्णं शुभं ददौ | दन्तकाष्ठं च कर्पूरशशाङ्कशकलास्तथा || ५१-५२ || गण्डूषाचमनीयान्ते केसराङ्गी तु बीटिकाम् | पादुकायुगमारुह्य पञ्चवाद्यपुरःसरम् || ५१-५३ || पीठान्तरगतं कृष्णं परमानन्दविग्रहम् | स्वामिनीप्रमुखाः सर्वाः मुक्ताभिः समवाकिरन् || ५१-५४ || मुक्ताविचित्रचतुरस्रसुवर्णपात्रे दूर्वादधिप्रभृतिमाङ्गलिकोपचारैः | आरोपितैः स्थिरशिखैः शुभरत्नदीपै- र्नीराजयन्ति निजनाथमकामकामम् || ५१-५५ || शृङ्गारहास्योद्भुतमोदमानः प्रियानुरोधेन ततः परेशः | विश्रम्य तत्रैव मुहूर्तमात्रं प्रयाति भूर्मिं शयनीयसंज्ञाम् || ५१-५६ || मृदुवाद्यादिगीतेन गीयमानः प्रियाजनैः | चित्रया वीजितः शेते मृदुव्यजनहस्तया || ५१-५७ || सुप्तोत्थितः परिजनैः सह नृत्यभूमौ सिंहासने विमलरत्नमयूखचित्रे | स्थित्वा प्रियाविलसनादिकनृत्यगीतं पश्यंस्तुतोष यदपि स्वयमेव तोषः || ५१-५८ || अखण्डितशरच्चन्द्रस्मयापहारमण्डलम् [अपस्मार इ० पा० |] | मिहिला छत्रमाधत्त रत्नदण्डरुचोज्ज्वलम् || ५१-५९ ||अयुतं मणिपात्रसंस्थं दुग्ध च पायसमथो घृतशर्करःक्तम् | अक्तमाषान्नकैः || ४७ || || ५ व्यजनं पादुके चारु चामरे दर्पणादिकम् | दधानाः परिसेवन्ते पूर्वोद्दिष्टाः परात्परम् || ५१-६० || ततो विमानप्रवरं नाम्ना चित्रध्वजं महत् | सखीसहस्रैरास्थाय गतश्चान्द्रमसं वनम् || ५१-६१ || कदाचिन्नीलविपिने कदाचित्पुष्पदन्तके | कदाचिदानन्दवने हेमकूटेऽपि कर्हिचित् || ५१-६२ || कदाचित्तारकूटाख्ये गारुडे नीलपर्वते | कदाचित्पुष्परागाद्रौ माणिक्याद्रावपि क्वचित् || ५१-६३ || मन्दारविपिने क्वापि पारिजातवनान्तरे | हरिचन्दनकोद्याने वैदूर्यविपिने [वैडूर्यमणिकानने इ० पा० |] क्वचित् || ५१-६४ || महामुक्तावने क्वापि प्रवालोद्यान् एव च | पद्मरागवनोद्याने महापद्मवने तथा || ५१-६५ || कदाचिच्चम्पकवने क्वचित्कल्पद्रुकानने | अनेकविधलीलाभिः क्रीडते पुरुषोत्तमः | ततश्चान्द्रमसादेत्य विमानेन महौजसा || ५१-६६ || महाद्वारपुरोवर्त्तिं मण्डपेऽपि स्थितः क्षणः [कृतक्षणः इ० पा० |] | चतुःषष्टिमहास्तम्भां मूलभूमिं समाश्रितः || ५१-६७ || रत्नसिंहासनगतं तदैवेच्छाविमोहिताः | स्वामिनीप्रमुखाः कृष्णं प्रार्थयामासुरुत्सुकाः || ५१-६८ || तत्तु सर्वं मया प्रोक्तं पुरा ते वरवर्णिनि | अतः परं प्रवक्ष्यामि शृणुष्वैकाग्रमानसा || ५१-६९ || यथानेन प्रकारेण प्रियाः परिचरन्ति तम् | तथैव काश्चन व्यग्राः स्वामिनीसेवनादिषु || ५१-७० || नीराजनस्नानवस्त्रगन्धमाल्यविभूषणैः | शयनासनताम्बूलैः सख्यः परिचरन्ति ताम् || ५१-७१ || द्विषटसहस्रसंख्याताः याः परिचरन्ति ताम् | षट्सहस्राणि कृष्णस्य परिचर्यापराणि हि || ५१-७२ || स्वामिन्याः षट्सहस्राणि वर्त्तन्ते परिकर्मणि | तासां यूथानि देवेशि चत्वारिंशन्मितानि हि || ५१-७३ || तासां सोधानि दिव्यानि सहस्राणीति द्वादश | एकैकं योजनार्द्धेनायामविस्तारसंयुतम् || ५१-७४ || एकैकस्याः प्रियायास्तु मन्दिरे मन्दिरे प्रिये | शतं शतं प्रवर्त्तन्ते सेवार्थं परिचारिकाः || ५१-७५ || प्रियासौधबहिर्भागे तत्क्रमेणैव भामिनि | परिचारिकावर्गसमं मन्दिराणि पृथक्-पृथक् || ५१-७६ || योजनार्द्धप्रमाणेन किञ्चिदप्यधिकेन च | विस्तारयामयुक्तानि त्रिभौमानि द्युमन्ति च || ५१-७७ || प्रियासौधानि दिव्यानि नानावर्णाकृतीनि च | चन्द्रामृतोद्गारवन्ति चन्द्रकान्तोद्भवानि तु || ५१-७८ || कानिकृष्णानि रक्तानि कृष्णरक्तानि कान्यपि | कानिचिद्रक्तकृष्णानि श्वेतरक्तानि काचिचित् || ५१-७९ || श्वेतानि चैव रक्तानि रक्तश्वेतानि कान्यपि | एवं धूम्राणि कृष्णानि धूम्रकृष्णानि कानिचित् || ५१-८० || कृष्णधूम्राणि देवेशि सर्वसौधेष्वयं क्रमः | एकैकमन्दिरे देवि मज्जनागारमायतम् || ५१-८१ || नानोपकरणैर्युक्तं दिव्यरत्नवितानकम् | भूषागृह कथैकत्र महाकुट्टिममण्डपम् || ५१-८२ || भूषागृहस्य पूर्वे तु गन्धालेपस्य मन्दिरम् | नानागन्धविभेदादिसमृद्धं बहुयुक्तिकम् || ५१-८३ || महानसं तु देवेशि वर्त्तते वह्निकोणगम् | ईशान्ये तु सभासद्म दिव्यासनविराजितम् || ५१-८४ || एवं कृष्णप्रियासौधस्थितिरुक्ता तवानघे | द्रवीभूतरसः कृष्णः प्रियाभावात्मकस्तु यः || ५१-८५ || आविर्भूय प्रियावृन्दैः क्रीडते प्रतिमन्दिरम् | स्वामिनीमन्दिरेपि च घनीभूतस्तु केवलम् || ५१-८६ || न स्वामिनीं विना कृष्णः न स्वामिनी कृष्णं विना | न तिष्ठति क्षण देवि ह्यन्यथा लुप्यते रसः || ५१-८७ || अत्र ये मणयो मुक्ताः कुसुमानि लतांघ्रिपाः | विद्रुमस्वर्णरजतनानाभेदाश्च धातवः || ५१-८८ || सूर्याचन्द्रमसौ देवि पशुपक्षिसमीरणाः | भक्ष्यभोज्यलेह्यचोष्यपेयभेदा ह्यनेकशः || ५१-८९ || भोक्तृभोग्यविभागश्च ज्ञातृज्ञेयादिकं तथा | रस एवेति विज्ञाय न मुह्यति कदाचन || ५१-९० || न कालगणना तत्र वर्त्तते परमेश्वरि | न सूर्यचन्द्रताराणामुदयास्तादिकं भवेत् || ५१-९१ || उदयास्तादिभावाश्च प्रतीयन्ते तथापि हि | लीलासमयभेदार्थमेवं जानीहि पार्वति || ५१-९२ || एतन्मयोदितं साध्वि त्वया सम्यक् श्रुतं किल | न वाच्यं कस्यचिद्देवि सर्वोपनिषदां रहः || ५१-९३ || एतन्माहेश्वरं तन्त्रं सर्वतन्त्रोत्तमोत्तमम् | रसनिर्णयसम्पन्नं समाधौ यच्छ्रुतं मया || ५१-९४ || मया [अनेन ज्ञायतेऽस्य तंत्रस्यातिगोप्यत्वान्नाममात्रमपि न क्वापि ९४ तंत्रेषु प्राकट्यं हसमाहेश्वरतंत्रं तु भिन्नविषयकमिति मे मतम् |] प्रकटितं तेऽद्य पुत्रयोरपि गोपितम् | वासना एव तुष्यन्ति श्रुत्वा साध्वीं कथामिमाम् || ५१-९५ || अल्पाः कूपा विवर्द्धन्ते ज्योत्स्नया किं समुद्रवत् | हरिणा एव तुष्यन्ति गानं श्रुत्वा न गर्दभाः || ५१-९६ || तस्मात्परीक्ष्य वक्तव्यं सहसा न प्रकाशयेत् | श्रद्धधानाय शान्ताय कुलीनाय महेश्वरि || ५१-९७ || विनीताय कृतज्ञाय क्रियाशुद्धाय दीयताम् | श्रद्धाभक्तिविहीनाय कृतघ्नाय दुरात्मने || ५१-९८ || गुरुभक्तिविहीनाय हेतुवादरताय च | असम्भावितचित्ताय विपरीतार्थवादिने || ५१-९९ || वृथार्थैकप्रवृत्ताय वेदशास्त्रार्थमानिने | दाम्भिकायातिदुष्टाय विषयाक्रान्तचेतसे || ५१-१०० || न देयः सर्वथा देवि तन्त्रार्थः पराद्भुतः | तन्नास्ति त्रिषु लोकेषु यद्दत्त्वाप्यनृणी भवेत् || ५१-१०१ || प्रभोर्देवस्य सर्वस्वं मयेदं ते प्रकाशितम् | अतः परं तु देवेशि ज्ञातव्यं नावशिष्यते || ५१-१०२ || तस्मादिदं सुविज्ञाय रहस्यं कृष्णयोषिताम् | स्वयमेव परानन्दनिमग्ना भव सुन्दरि || ५१-१०३ || अतः परं तु देवेशि पष्टव्यं नैव किञ्चन | नित्यं ध्यायामि यच्चित्ते तदेतत्ते निवेदितम् || ५१-१०४ || इत्युक्त्वा च तदा शम्भुस्तूष्णींभूत्वा च संस्थितः | वर्णमानमहालीलासमुद्रे मन आदधे || ५१-१०५ || स्मितोर्मिरिवाम्भोधिः पुलकाङ्गः सुलोचनः | बभूव देवदेवेशः कृपासिन्धुरुमापतिः || ५१-१०६ || एवमानन्दसन्दोहनिमग्नं वीक्ष्य शङ्करम् | सर्वोपचारविधिना पूजयामास पार्वती || ५१-१०७ || दण्डवत्प्रणनामैषा [दण्डवत्प्रणतामैषा० इति पा० |] कृतार्थास्मीति वादिनी | तुष्टाव शङ्कर भूयः कृपानिधिमनुत्तमम् || ५१-१०८ || त्व देव सर्वविद्यानामुपदेष्टा गुरुः स्वयम् | त्वयि भक्तिवतामेव मन्त्रयन्त्रादि सिध्यतु || ५१-१०९ || इत्युक्त्वा पार्वती चित्ते लीलामाधाय वर्णिताम् | अवाप परमानन्दं हर्षाश्रुपुलकाङ्किता || ५१-११० || इति श्रीमन्माहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे एकपञ्चाशतमं पटलम् || ५१-५१ || आदितः श्लोकानां समष्ट्यंकाः || ३०६० || || समाप्तमिदं श्रीमाहेश्वरं तन्त्रम् || ########### END OF FILE #######