#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00160 Uniform title: mālinīvijayottaratantra Main title: mālinīvijayatantra Editor : śāstrī M.R. Description: Photographed from volume 37 of the Kashmir Series of Texts and Studies. Notes: The corrections listed in the printed edition have been made directly to the text. Date-entered by the staff of Muktabodha under the direction of Mark S.G. Dyxzkowski. Revision 0: January 31, 2015 Revision 1: October 1, 2021 Removed front material Publisher : Research Department Jammu and Kashmir State Publication year : 1922 Publication city : Srinagar Publication country : India #################################################### अथ मालिनीविजयोत्तरे तन्त्रे प्रथमोऽधिकारः | जयन्ति जगदानन्दविपक्षक्षपणक्षमाः | परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः || १ || जगदर्णवमग्नानां तारकं तारकान्तकम् | सनत्कुमारसनकसनातनसनन्दनाः || २ || नारदागस्त्यसंवर्तवसिष्ठाद्या महर्षयः | जिज्ञासवः परं तत्त्वं शिवशक्त्युन्मुखीकृताः || ३ || समभ्यर्च्य विधानेन ते तमूचुः प्रहर्षिताः | भगवन्योगसंसिद्धिकाङ्क्षिणो वयमागताः || ४ || सा च योगं विना यस्मान्न भवेत्तमतो वद | ऋषिभिर्योगमिच्छद्भिः स तैरेवमुदाहृतः || ५ || प्रत्युवाच प्रहृष्टात्मा नमस्कृत्य महेश्वरम् | शृणुध्वं संप्रवक्ष्यामि सर्वसिद्धिफलप्रदम् || ६ || मालिनीविजयं तन्त्रं परमेशमुखोद्गतम् | भुक्तिमुक्तिप्रदातारमुमेशममरार्चितम् || ७ || प्. २) स्वस्थानस्थमुमा देवी प्रणिपत्येदमब्रवीत् | सिद्धयोगीश्वरीतन्त्रं नवकोटिप्रविस्तरम् [तं० शतकोटिप्रविस्तरमिति] || ८ || यत्त्वया कथितं पूर्वं भेदत्रयविसर्पितम् | मालिनीविजये तन्त्रे कोटित्रितयलक्षिते || ९ || योगमार्गस्त्वया प्रोक्तः सुविस्तीर्णो महेश्वर | भूयस्तस्योपसंहारः प्रोक्तो द्वादशभिस्तथा [तं० द्वादशभिस्त्वत इति] || १० || सहस्रैः सोऽपि विस्तीर्णो गृह्यते नाल्पबुद्धिभिः | अतस्तमुपसंहृत्य समासादल्पधीहितम् || ११ || सर्वसिद्धिकरं ब्रूहि प्रसादात्परमेश्वर | एवमुक्तस्तदा [तं: उक्तस्तत इति] देव्या प्रहस्योवाच विश्वराट् || १२ || शृणु देवि प्रवक्ष्यामि सिद्धयोगीश्वरीमतम् | यन्न कस्यचिदाख्यातं मालिनीविजयोत्तरम् || १३ || मयाप्येतत्पुरा प्राप्तमघोरात्परमात्मनः | उपादेयं च हेयं च विज्ञेयं परमार्थतः || १४ || शिवः शक्तिः सविद्येशा मन्त्रा मन्त्रेश्वराणवः | उपादेयमिति प्रोक्तमेतत्षट्कं फलार्थिनाम् || १५ || मलः कर्म च माया च मायीयमखिलं जगत् | सर्वं हेयमिति प्रोक्तं विज्ञेयं वस्तु निश्चितम् || १६ || प्. ३) एतज्ज्ञात्वा परित्यज्यं सर्वसिद्धिफलं लभेत् | तत्रेशः सर्वकृच्छान्तः सर्वज्ञः सर्वकृत्प्रभुः || १७ || सकलो निष्कलोऽनन्तः शक्तिरप्यस्य तद्विधा | स सिसृक्षुर्जगत्सृष्टेरादावेव निजेच्छया || १८ || विज्ञानकेवलानष्टौ बोधयामास पुद्गलान् | अघोरः परमो घोरो घोररूपस्तदाननः || १९ || भीमश्च भीषणश्चैव वमनः पिवनस्तथा | एतानष्टौ स्थितिध्वंसरक्षानुग्रहकारिणः || २० || मन्त्रमन्त्रेश्वरेशत्वे [प० श्री० मन्त्रमहेश्वरेशत्वे इति |] संनियोज्य ततः पुनः | मन्त्राणामसृजत्तद्वत्सप्त कोटीः समण्डलाः || २१ || सर्वेऽप्येते महात्मानो मन्त्राः सर्वफलप्रदाः | आत्मा चतुर्विधो ज्ञेयस्तत्र विज्ञानकेवलः || २२ || मलैकयुक्तस्तत्कर्मयुक्तः प्रलयकेवलः | मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् || २३ || धर्माधर्मात्मकं कर्म सुखदुःखादिलक्षणम् | ईश्वरेच्छावशादस्य [क्: वशात्तस्येति] भोगेच्छा संप्रजायते || २४ || भोगसाधनसंसिद्ध्यै भोगेच्छोरस्य मन्त्रराट् | जगदुत्पादयामास मायामाविश्य शक्तिभिः || २५ || प्. ४) च चैका व्यापिनीरूपा निष्कला [क्: निष्कलस्य स्वभावजेति | ख्० पु० निष्कलस्य शिवात्मन इति पाठः | निष्कला इत्यारभ्य कथ्यते इत्यन्तः पाठः घसंज्ञपुस्तकात्पूरितः |] जगतो निधिः | अनाद्यन्ताशिवेशानी व्ययहीना च कथ्यते || २६ || असूत सा कलाअतत्त्वं यद्योगादभवत्पुमान् | जातकर्तृत्वसामर्थ्यो विद्यारागौ ततोऽसृजत् || २७ || विद्या विवेचयत्यस्य कर्म तत्कार्यकारणे | रागोऽपि [क्: रागोऽनुरञ्जयतीति |] रञ्जयत्येनं स्वभोगेष्वशुचिष्वपि || २८ || नियतिर्योजयत्येनं स्वके कर्मणि पुद्गलम् | कालोऽपि कलयत्येनं तुट्यादिभिरवस्थितः || २९ || तत एव कलातत्त्वादव्यक्तमसृजत्ततः [क्, ख्: तत्त्वमव्यक्तमिति |] | गुणानष्टगुणां तेभ्यो धियं धीतोऽप्यहङ्कृतम् [क्, ख्, ग्: अहंकृतिमिति ] || ३० || तत्त्रिधा तैजसात्तस्मात्मनोऽक्षेशमजायत | वैकारिकात्ततोऽक्षाणि तन्मात्राणि तृतीयकात् || ३१ || श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं बुद्धीन्द्रियाणि तु | कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाङ्घ्रयः क्रमात् || ३२ || कलादिक्षितिपर्यन्तमेतत्संसारमण्डलम् | समुद्रादि [ख्, ग्: समुद्राद्यमिति|] जगत्कृत्स्नं परिवर्तयतीच्छया || ३३ || प्. ५) भेदः परः कलादीनां भुवनत्वेन यः स्थितः | असृजत्तमसावेव भोगिनां भोगसिद्धये || ३४ || इत्यनेन कलाद्येन धरान्तेन समास्थिताः [ख्: अवस्थात्रितय इति |] | पुमांसः सकला ज्ञेयास्तदवस्थाजिघांसुभिः || ३५ || अवस्थात्रितयेऽप्यस्मिंस्तिरोभावनशीलया | शिवशक्त्योभयाक्रान्ताः [ख्: शक्त्युभयेति |] प्रकुर्वन्ति विचेष्टितम् || ३६ || एवं जगति सवत्र रुद्राणां योग्यतावशात् [ख्: कर्तृतावशादिति|] | अङ्गुष्ठमात्रपूर्वाणां शतमष्टादशोत्तरम् || ३७ || अनुगृह्य शिवः साक्षन्मन्त्रेशत्वे नियुक्तवान् | ते स्वगोचरमासाद्य भुक्तिमुक्तिफलार्थिनाम् || ३८ || ब्रह्मादीनां प्रयच्छन्ति स्वबलेन समं फलम् | ऋषिभ्यस्तेऽपि ते चानु मन्वन्तेभ्यो महाधिपाः || ३९ || हेयोपादेयविज्ञानं कथयन्ति शिवोदितम् | ब्रह्मादिस्तम्बपर्यन्ते जातमात्रे जगत्यलम् || ४० || मन्त्राणां कोट्यस्तिस्रः सार्धाः शिवनियोजिताः | अनुगृह्याणुसंघातं याताः पदमनामयम् || ४१ || एवमस्यात्मनः काले कस्मिंश्चिद्योग्यतावशात् | शैवी संबध्यते शक्तिः शान्ता मुक्तिफलप्रदा || ४२ || प्. ६) तत्संबन्धात्ततः कश्चित्तत्क्षणांदपवृज्यते | अज्ञानेन सहैकत्वं कस्यचिद्विनिवर्तते || ४३ || रुद्रशक्तिसमाविष्टः स यियासुः शिवेच्छया | भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति || ४४ || तमाराध्य ततस्तुष्टाद्दीक्षामासाद्य शाङ्करीम् | तत्क्षणाद्वोपभोगाद्वा [ख्: उपयोगाद्वेति |] देहपाताच्छिवं [क्: पाते शिवमिति |] व्रजेत् || ४५ || योगदीक्षां समासाद्य ज्ञात्वा योगं समभ्यसेत् | योगसिद्धिमवाप्नोति तदन्ते शाश्वतं पदम् || ४६ || अनेन क्रमयोगेन संप्राप्तः परमं पदम् | न भूयः पशुतामेति शुद्धे स्वात्मनि तिष्ठति || ४७ || आत्मा चतुर्विधो ह्येष पुनरेष चतुर्विधः | आचार्यत्वादिभेदेन शुद्धात्मा परिपठ्यते || ४८ || नित्यादित्रितयं कुर्याद्गुरुः साधक एव च | नित्यमेव द्वयं चान्योयावज्जीवं शिवाज्ञया || ४९ || उपादेयं च हेयं च तदेतत् परिकीर्तितम् | ज्ञात्वैतज्ज्ञेयसर्वस्वं सर्वसिद्ध्यरहो भवेत् [क्, ख्: सिद्धिफलं लभेत् ] || ५० || इति श्रीमालिनीविजयोत्तरे प्रथमोऽधिकारः || १ || अथ द्वितीयोऽधिकारः अथैषामेव तत्त्वानां धरादीनामनुक्रमात् | प्रपञ्चः कथ्यते लेशाद्योगिनां योगसिद्धये || १ || शक्तिमच्छक्तिभेदेन धरातत्त्वं विभिद्यते | स्वरूपसहितं तच्च विज्ञेयं दशपञ्चधा || २ || शिवादिसकलात्मान्ताः शक्तिमन्तः प्रकीर्तिताः | तच्छक्तयश्च विज्ञेयास्तद्वदेव विचक्षणैः || ३ || एवं जलादिमूलान्तं तत्त्वव्रातमिदं महत् | पृथग्भेदैरिमैर्भिन्नं विज्ञेयं तत्फलेप्सुभिः || ४ || अनेनैव विधानेन पुंस्तत्त्वात्तु [तं: पुंस्तत्त्वात्तत्कलान्तकमिति] कलान्तिकम् | त्रयोदशविधं ज्ञेयं रुद्रवत्प्रलयाकलाः || ५ || तद्वन्मायापि विज्ञेया नवधा ज्ञानकेवलाः | मन्त्राः सप्तविधास्तद्वत्पञ्चधा [तं: पञ्च मन्त्रविनायका इति |] मन्त्रनायकाः || ६ || त्रिधा मन्त्रेश्वरेशानाः शिवः साक्षान्न भिद्यते | भेदः प्रकथितो लेशादनन्तो विस्तरादयम् || ७ || एवं भुवनमालापि भिन्ना भेदैरिमैः स्फुटम् | विज्ञेया योगसिद्ध्यर्थं योगिभिर्योगपूजिता || ८ || प्. ८) एतेषामेव तत्त्वानां भुवनानां च शाङ्करि | य एकमग्नि जानाति सोऽपि योगफलं लभेत् || ९ || यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः | स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः || १० || स्पृष्टाः संभाषितास्तेन [ख्: संभाविता] दृष्टाश्च प्रीतचेतसा | नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि || ११ || ये पुनर्दीक्षितास्तेन प्राणिनः शिवचोदिताः | ते यथेष्टं फलं प्राप्य पदं गच्छन्त्यनामयम् [ख्: गच्छन्ति परमं पदमिति] || १२ || रुद्रशक्तिसमावेशस्तत्र नित्यं प्रतिष्ठितः | सति तस्मिंश्च चिह्नानि तस्यैतानि विलक्षयेत् || १३ || तत्रैतत्प्रथमं चिह्नं रुद्रे भक्तिः सुनिश्चला | द्वितीयं मन्त्रसिद्धिः स्यात्सद्यः प्रत्ययकारिका || १४ || सर्वसत्त्ववशित्वं च तृतीयं लक्षणं स्मृतम् | प्रारब्धकार्यनिष्पत्तिश्चिह्नमाहुश्चतुर्थकम् || १५ || कवित्वं पञ्चमं ज्ञेयं सालङ्कारं मनोहरम् | सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते || १६ || रुद्रशक्तिसमावेशः पञ्चधा परिपठ्यते | भूततत्त्वात्ममन्त्रेशशक्तिभेदाद्वरानने || १७ || प्. ९) पञ्चधा भूतसंज्ञस्तु तथा त्रिंशतिधापरः | आत्माख्यस्त्रिविधः प्रोक्तो दशधा मन्त्रसंज्ञकः || १८ || द्विविधः शक्तिसंज्ञोऽपि ज्ञातव्यः परमार्थतः | पञ्चाशद्भेदभिन्नोऽयं समावेशः प्रकीर्तितः || १९ || आणवोऽयं समाख्यातः शाक्तोऽप्येवंविधः स्मृतः | एवं शाम्भवमप्यैभिर्भेदैर्भिन्नं विलक्षयेत् || २० || उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः [ग्: विकल्पनैरिति |] | यो भवेत्स समावेशः सम्यगाणव उच्यते || २१ || उच्चाररहितं वस्तु चेतसैव विचिन्तयन् | यं समावेशमाप्नोति शाक्तः सोऽत्राभिधीयते || २२ || अकिंचिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः | जायते [वि० भै० उत्पद्यते य आवेश] यः समावेशः शाम्भवोऽसावुदाहृतः [ग्: उदीरित] || २३ || सार्धमेतच्छतं प्रोक्तं भेदानामनुपूर्वशः | संक्षेपाद्विस्तरादस्य परिसंख्या न विद्यते || २४ || संवित्तिफलभेदोऽत्र न प्रकल्प्यो मनीषिभिः | भेदोऽपरोऽपि संक्षेपात्कथ्यमानोऽवधार्यताम् || २५ || जाग्रत्स्वप्नादिभेदेन सर्वावेशक्रमो बुधैः | पञ्चभिस्तु परिज्ञेयः स्वव्यापारात्पृथक् [ख्: भेदैश्चान्यैः पृथगिति |] पृथक् || २६ || प्. १०) तत्र स्वरूपं शक्तिश्च सकलश्चेति तत्त्रयम् | इति जाग्रदवस्थेयं भेदे पञ्चदशात्मके || २७ || अकलौ द्वौ परिज्ञेयौ सम्यक् स्वप्नसुषुप्तयोः | मन्त्रादितत्पतीशानवर्गस्तुर्य इति स्मृतः || २८ || शक्तिशंभू परिज्ञेयौ तुर्यातीते वरानने | त्रयोदशात्मके भेदे स्वरूपमकलावुभौ [ग्: स्वरूपमकलाविति] || २९ || मन्त्रमन्त्रेश्वरेशानाः शक्तिशंभू च किर्तितौ | प्रलयाकलभेदेऽपि स्वं विज्ञानकलावुभौ || ३० || मन्त्रमन्त्रेश्वरेशानाः शक्तीशावपि पूर्ववत् | नवधा कीर्तिते भेदे स्वं मन्त्राः मन्त्रनायकाः || ३१ || तदीशाः शक्तिशंभू च पञ्चावस्थाः प्रकीर्तिताः | पूर्ववत्सप्तभेदेऽपि स्वं मन्त्रेशेशशक्तयः || ३२ || शिवश्चेति परिज्ञेयाः पञ्चैव वरवर्णिनि | स्वं शक्तिः सनिजेशाना [क्: स्वनिजेति] शक्तिशंभू च पञ्चके || ३३ || त्रिके स्वं शक्तिशक्तीच्छाशिवभेदं विलक्षयेत् | सव्यापाराधिपत्वेन तद्धीनप्रेरकत्वतः || ३४ || इच्छानिवृत्तेः स्वस्थत्वादभिन्नमपि [तं: अभिन्नं चेति] पञ्चधा | इति पञ्चात्मके [क्: पञ्चात्मभेदेनेति] भेदे विज्ञेयं वस्तु कीर्तितम् || ३५ || प्. ११) भूयोऽप्यासामवस्थानां संज्ञाभेदः प्रकाश्यते | पिण्डस्थः सर्वतोभद्रो जाग्रन्नाम द्वयं मतम् || ३६ || द्विसंज्ञं स्वप्नमिच्छन्ति पदस्थं व्याप्तिरित्यपि | रूपस्थं तु महाव्याप्तिः सुषुप्तस्यापि तद्द्वयम् || ३७ || प्रचयं रूपातीतं च सम्यक् तुर्यमुदाहृतम् | महाप्रचयमिच्छन्ति तुर्यातीतं विचक्षणाः || ३८ || पृथक्तत्त्वप्रभेदेन भेदोऽयं समुदाहृतः | सर्वाण्येव हि तत्त्वानि पञ्चैतानि यथा शृणु || ३९ || भूततत्त्वाभिधानानां योगोऽधिष्ठेय इष्यते [ग्: उच्यते] | पिण्डस्थमिति तं प्राहुः पदस्थमपरं विदुः || ४० || मन्त्रास्तत्पतयः सेशा रूपस्थमिति कीर्त्यते | रूपातीतं परा शक्तिः सव्यापाराप्यनामया || ४१ || निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः | सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते || ४२ || चतुर्विधं तु पिण्डस्थमषुद्धं बुद्धमेव च | प्रबुद्धं सुप्रबुद्धं च पदस्थं च चतुर्विधम् || ४३ || गतागतं सुविक्षिप्तं संगतं सुसमाहितम् | चतुर्धा रूपसंज्ञं [तं: संस्थमिति] तु ज्ञातव्यं योगचिन्तकैः || ४४ || प्. १२) उदितं विपुलं शान्तं सुप्रसन्नमथापरम् | मनोन्मनमनन्तं च सर्वार्थं सततोदितम् || ४५ || प्रचये तत्र संज्ञेयमेकं तन्महति स्थितम् | इत्येवं पञ्चधाध्वानं त्रिधेदानीं निगद्यते || ४६ || विज्ञानाकलपर्यन्तमात्मतत्त्वमुदाहृतम् | ईश्वरान्तं च विद्याह्नं शेषं शिवपदं विदुः || ४७ || एवं भेदैरिमैर्भिन्नस्तत्राध्वा परिकीर्तितः | युगपत्सर्वमार्गाणां प्रभेदः प्रोच्यतेऽधुना || ४८ || पार्थिवं प्राकृतं चैव मायीयं शाक्तमेव च | इति संक्षेपतः प्रोक्तमेतदण्डचतुष्टयम् || ४९ || पृथग्द्वयमसंख्यातमेकमेकं पृथक् पृथक् | आद्यं धारिकया व्याप्तं तत्रैकं तत्त्वमिष्यते || ५० || एकमेकं पृथक् क्षार्णं पदार्णमनुषु स्मरेत् | कालाग्निभुवनाद्यावद्वीरभद्रपुरोत्तमम् || ५१ || पुरषोडशकं ज्ञेयं षड्विधोऽध्वा प्रकीर्तितः | आप्यायिन्या द्वितीयं च तत्र तत्त्वानि लक्षयेत् || ५२ || त्रयोविंशत्यवादीनि तद्वट्टाद्यक्षराणि च | पदानि पञ्च मन्त्राश्च षट्पञ्चाशत्पुराणि च || ५३ || प्. १३) तत्त्वानि सप्त बोधिन्या तच्चतुर्था पुराणि च | तृतीये सप्त वर्णाः स्युः पदमन्त्रद्वयं द्वयम् || ५४ || उत्पूयिन्या चतुर्थं तु तत्र तत्त्वत्रयं विदुः | वर्णत्रयं मन्त्रमेकं पदमेकं च लक्षयेत् || ५५ || अष्टादश विजानीयाद्भुवनानि समासतः | शिवतत्त्वं परं शान्तं कला तत्रावकाशदा || ५६ || स्वरषोडशकं मन्त्रं पदं चैकं विलक्षयेत् | इत्येवं षड्विधोऽप्यध्वा समासात्परिकीर्तितः || ५७ || शुद्धाशुद्धं जगत्सर्वं ब्रह्माण्डप्रभवं यतः | तस्माच्छुद्धमिमैः शुद्धैर्ब्रह्माण्डैः सर्वमिष्यते || ५८ || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्चेति सुव्रते | पृथगेतेषु बोद्धव्यं शान्तं पतिचतुष्टयम् || ५९ || यो हि यस्माद्गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते | एतत्ते कथितं सर्वं किमन्यत्परिपृच्छसि || ६० || इति श्रीमालिनीविजयोत्तरे तन्त्रे व्याप्त्यधिकारो द्वितीयः || २ || अथ तृतीयोऽधिकारः | एवमुक्ता महादेवी जगदानन्दकारिणा | प्रणिपत्य पुनर्वाक्यमिदमाह जगत्पतिम् || १ || एवमेतन्महादेव नान्यथा समुदाहृतम् | यथाख्यातं तथा ज्ञातमादितः समनुक्रमात् || २ || शिवादिवस्तुरूपाणां वाचकान्परमेश्वर | सांप्रतं श्रोतुमिच्छामि प्रसादाद्वक्तुमर्हसि || ३ || इत्युक्तः स महेशान्या जगदार्तिहरो हरः | वाचकानवदन्मन्त्रान्पारम्पर्यक्रमागतान् || ४ || या सा शक्तिर्जगद्धातुः कथिता समवायिनी | इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते || ५ || सैकापि सत्यनेकत्वं यथा गच्छति तच्छृणु | एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् || ६ || ज्ञापयन्ती जगत्यत्र ज्ञनशक्तिर्निगद्यते | एवंभूतमिदं [स्प० प्र० एवंभूतमिदं सर्वमिति कार्योन्मुखी यदा] वस्तु भवत्विति यदा पुनः || ७ || प्. १५) जाता तदैव तत्तद्वत्कुर्वत्यत्र क्रियोच्यते | एवं [क्: एवमेषेति] सैषा द्विरूपापि पुनर्भेदैरनेकताम् [क्: भेदैरनन्ततामिति] || ८ || अर्थोपाधिवशाद्याति चिन्तामणिरिवेश्वरी | तत्र तावत्समापन्ना [शि० वि० समापन्नमातृभावा] मातृभावं विभिद्यते || ९ || द्विधा च नवधा चैव पञ्चाशद्धा च मालिनी | बीजयोन्यात्मकाद्भेदाद्द्विधा बीजं स्वरा मताः || १० || कादिभिश्च स्मृता योनिर्नवधा वर्गभेदतः | प्रतिवर्णविभेदेन [शि० वि० पृथग्वर्णविभेदेनेति] शतार्धकिरणोज्ज्वला || ११ || बीजमत्र शिवः शक्तिर्योनिरित्यभिधीयते | वाचकत्वेन सर्वापि शंभोः शक्तिश्च सस्यते || १२ || वर्गाष्टकमिह ज्ञेयमघोराद्यमनुक्रमात् | तदेव शक्तिभेदेन माहेश्वर्यादि चाष्टकम् || १३ || माहेशी ब्राह्मणी चैव कौमारी वैष्णवी तथा | ऐन्द्री याम्या च चामुण्डा योगीशी चेति ता मताः || १४ || शतार्धभेदभिन्नानां तत्संख्यानां वरानने | रुद्राणां वाचकत्वेन कल्पिताः परमेष्ठिना || १५ || प्. १६) तद्वदेव च शक्तीनां तत्संख्यांनमनुक्रमात् | सर्वं च कथयिष्यामि तासां भेदं यथा शृणु || १६ || अमृतोऽमृतपूर्णश्च अमृताभोऽमृतद्रवः | अमृतौघोऽमृतोर्मिश्च अमृतस्यन्दनोऽपरः || १७ || अमृताङ्गोऽमृतवपुरमृतोद्गार एव च | अमृतास्योऽमृततनुस्तथा चामृतसेचनः || १८ || तन्मूर्तिरमृतेशश्च सर्वामृतधरोऽपरः | षोडशैते समाख्याता रुद्रबीजसमुद्भवाः || १९ || जयश्च विजयश्चैव जयन्तश्चापराजितः | सुजयो जयरुद्रश्च [क्: जयभद्र] जयकीर्तिर्जयावहः || २० || जयमूर्तिर्जयोत्साहो जयदो जयवर्धनः | बलश्चाति बलश्चैव बलभद्रो बलप्रदः || २१ || बलावहश्च बलवान् बलदाता बलेश्वरः | नन्दनः सर्वतोभद्रो भद्रमूर्तिः शिवप्रदः || २२ || सुमनाः स्पृहणो दुर्गा भद्रकालो मनोनुगः | कौशिकः कालविश्वेशौ सुशिवः कोप एव च || २३ || एते योनिसमुद्भूताश्चतुस्त्रिंशत्प्रकीर्तिताः | स्त्रीपाठवशमापन्ना एत एवात्र शक्तयः || २४ || प्. १७) बीजयोनिसमुद्भूता रुद्रशक्तिसमाश्रयाः | वाचकानामनन्तत्वात्परिसंख्या न विद्यते || २५ || सर्वशास्त्रार्थगर्भिण्या इत्येवं विधयानया | अघोरं बोधयामास स्वेच्छया परमेश्वरः || २६ || स तया संप्रबुद्धः सन्योनिं विक्षोभ्य शक्तिभिः | तत्समानश्रुतीन्वर्णांस्तत्संख्यानसृजत्प्रभुः || २७ || ते [क्: तैस्तैरिति] तैरालिङ्गिताः सन्तः सर्वकामफलप्रदाः | भवन्ति साधकेन्द्राणां नान्यथा वीरवन्दिते || २८ || तैरिदं संततं विश्वं सदेवासुरमानुषम् | तेभ्यः शास्त्राणि वेदाश्च संभवन्ति पुनः पुनः || २९ || अनन्तस्यापि भेदस्य शिवशक्तेर्महात्मनः | कार्यभेदान्महादेवि त्रैविध्यं समुदाहृतम् || ३० || विषयेष्वेव संलीनानधोऽधः पातयन्त्यणून् | रुद्राणून्याः समालिङ्ग्य घोरतर्योऽपराः स्मृताः || ३१ || मिश्रकर्मफलासक्तिं पूर्ववज्जनयन्ति याः | मुक्तिमार्गनिरोधिन्यस्ताः स्युर्घोराः परापराः || ३२ || पूर्ववज्जन्तुजातस्य शिवधामफलप्रदाः | पराः प्रकथितास्तज्ज्ञैरघोराः शिवशक्तयः || ३३ || प्. १८) एताः सर्वाणुसंघातमपि निष्ठा (धिष्ठाय) यथा स्थिताः | तथा ते कथिताः शंभोः शक्तिरेकैव शाङ्करी || ३४ || अस्या वाचकभेदेन भेदोऽन्यः संप्रचक्ष्यते | यथेष्टफलसंसिद्ध्यै मन्त्रातन्त्रानुवर्तिनाम् || ३५ || विशेषविधिहीनेषु न्यासकर्मसु मन्त्रवित् | न्यसेच्छाक्तशरीरार्थं भिन्नयोनिं तु मालिनीम् || ३६ || न शिखा ॠऋ ऌॡ च शिरोमाला थ मस्तकम् | नेत्राणि च ध वै नासा ई समुद्रे णुणू श्रुती || ३७ || वकवर्ग-इ-आ वक्त्रदन्तजिह्वासु वाचि च | वभयाः कण्ठदक्षादिस्कन्धयोर्भुजयोर्डढौ || ३८ || ठो हस्तयोर्झञौ शाखा ज्रटौ शूलकपालके | पहृच्छलौ स्तनौ क्षीरमा स जीवो विसर्गयुक् || ३९ || तत्परः कथितः प्राणः षक्षावुदरनाभिगौ | मशंताः कटिगुह्योरुयुग्मगा जानुनी तथा || ४० || ए-ऐकारौ तथा जङ्घे तत्परौ चरणौ दफौ | अतो विद्याश्च मन्त्राश्च समुद्धार्या यथा शृणु || ४१ || सबिन्दुकां दक्षजङ्घां ततो वाचं प्रकल्पयेत् | तथैव जङ्घया युक्तं चतुर्थं दशनं ततः || ४२ || दक्षजानुयुतं दण्डं प्राणं दण्डस्थमीर्युतम् | पृथग् घृद्दण्डकटिगा द्विजदण्डौ च पूर्ववत् || ४३ || प्. १९) उस्थितं बिन्दुयुक्प्राणं पूर्ववद्दशनं ततः | दण्डं केवलमुद्धृत्य वाममुद्रान्वितं पुनः || ४४ || दक्षजानुयुतं हृच्च प्राणं जीवात्मना युतम् | दशनं पूर्ववन्न्यस्य दण्डं केवलमेव च || ४५ || नितम्बं दक्षमुद्रेतं द्वितीयं जिह्वया द्विजम् | सनासं दक्षशिखरं नितम्बं केवलं ततः || ४६ || पुनस्तथैव शिखरं जठरं केवलं ततः | दक्षजानुयुतं कर्णं कण्ठं केवलमेव च || ४७ || नितम्बं केवलं न्यस्य हृदयं जिह्वया युतम् | वक्त्रं केवलमुद्धृत्य प्राणमाद्येन जानुना || ४८ || शूलदण्डचतुष्कं च तत्राद्यं द्वयसंस्थिमुस्थितम् | वामपादं च तस्यान्ते कपालं पतितं न्यसेत् || ४९ || ततः परमघोरान्तं पाद्यकाद्ये च पूर्ववत् | परापरा समाख्याता अपरा च प्रकथ्यते || ५० || अघोरान्तं न्यसेदादौ प्राणं बिन्दुयुतं पुनः | वाममुद्रान्वितं न्यस्य पाद्यं काद्येन [ग्: पाद्यकाद्ये चेति] पूर्ववत् || ५१ || अपरेयं समाख्याता रुद्रशक्तिं परां शृणु | मन्त्राः संमुखतां यान्ति ययोच्चारितमात्रया || ५२ || प्. २०) कम्पते गात्रयष्टिश्च द्रुतं चोत्पतनं भवेत् | मुद्राबन्धं च गेयं च शिवारुदितमेव च || ५३ || अतीतानागतार्थस्य कुर्याद्वा कथनादिकम् | वामजङ्घान्वितो जीवः पारम्पर्यक्रमागतः || ५४ || परेयमनया सिद्धिः सर्वकामफलप्रदा | नाशिष्याय पदेयेयं नाभक्ताय कदाचन || ५५ || रुद्रश्च रुद्रशक्तिश्च गुरुश्चेति त्रयं समम् | भक्त्या प्रपश्यते यस्तु तस्मै देयं वरानने || ५६ || शिष्येणापि तदा ग्राह्या यदा संतोषितो गुरुः | शरीरद्रव्यविज्ञानशुद्धिकर्मगुणादिभिः || ५७ || बोधिता तु यदा तेन गुरुणा हृष्टचेतसा | तदा सिद्धिप्रदा ज्ञेया नान्यथा वीरवन्दिते || ५८ || परापराङ्गसंभूता योगिन्योऽष्टौ महाबलाः | पञ्च षट्पञ्च चत्वारि द्वित्रिद्व्यर्णाः क्रमेण तु || ५९ || ज्ञेयाः सप्तैकादशार्णा एकार्धार्णद्वयान्विता | जीवो दीर्घस्वरैः षड्भिः पृथग्जाति [क्, ख्: जातिविभेदत] समन्वितः || ६० || विद्यात्रयस्य गात्राणि ह्रस्वैर्वक्त्राणि पञ्चभिः | ओंकारैः पञ्चभिर्मन्त्रो विद्याङ्गहृदयं भवेत् || ६१ || प्. २१) ओं अमृते तेजोमालिनि स्वाहापदानि (दवि) भूषितम् | एकादशाक्षरं प्रोक्तमेतद्ब्रह्मशिरः प्रिये || ६२ || वेदवेदिनि हूंफट् च प्रणवादिसमन्वित [ग्: युता शिखेति] | रुद्राण्यष्टाक्षरा ज्ञेया शिखा विद्यागणस्य तु || ६३ || वज्रिणे वज्रधराय स्वाहान्तं प्रणवादिकम् | एकादशाक्षरं वर्म पुरुष्टुतमिति स्मृतम् || ६४ || श्लीपदं [ग्: श्लशब्दमिति] पशुशब्दं च हूंफडन्तं भवादिकम् | एतत्पाशुपतं प्रोक्तमर्धसप्ताक्षरं परम् || ६५ || लरटक्षवयैर्दीघैः सूमायुक्तैः सबिन्दुकैः | इन्द्रादीन्कल्पयेद्ध्रस्वैस्तदस्त्राणि विचक्षणः || ६६ || तद्वन्नासापयोभ्यां तु कल्प्यौ विष्णुप्रजापती | स्वरावाद्यतृतीयौ तु वाचकौ पद्मचक्रयोः || ६७ || इति मातृगणः [ग्: मन्त्रगण] प्रोक्तः सर्वकामफलप्रदः | योगिनां योगसिद्ध्यर्थं किमन्यत्परिपृच्छसि || ६८ || इति श्रीमालिनीविजयोत्तरे तन्त्रे मन्त्रोद्धाराधिकारस्तृतीयः || ३ || अथ चतुर्थोऽधिकारः | अथैतदुपसंश्रुत्य मुनयो मुदितेक्षणाः | प्रणम्य क्रौञ्चहन्तारं पुनरूचुरिदं वचः || १ || योगमार्गविधिं देव्या पृष्टेन परमेष्ठिना | तत्प्रतिज्ञावताप्युक्तं किमर्थं मन्त्रलक्षणम् || २ || एवमुक्तः स तैः सम्यक्कार्तिकेयो महामतिः | इदमाह वचस्तेषां संदेहविनिवृत्तये || ३ || योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुना | यद्वस्तु ज्ञेयामित्युक्तं हेयत्वादिप्रसिद्धये || ४ || द्विरूपमपि तज्ज्ञानं विना ज्ञातुं न शक्यते | तत्प्रसिद्ध्यै शिवेनोक्तं ज्ञानं यदुपवर्णितम् || ५ || सबीजयोगसंसिद्ध्यै मन्त्रलक्षणमप्यलम् | न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे || ६ || क्रियाज्ञनविभेदेन सा च द्वेधा निगद्यते | द्विविधा सा प्रकर्तव्या तेन चैतदुदाहृतम् || ७ || न च योगाधिकारित्वमेकमेवानया भवेत् | अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया || ८ || प्. २३) श्रुत्वा चैतत्पतेर्वाक्यं रोमाञ्चितशरीरिणी | इदमाह पुनर्वाक्यमम्बा मुनिवरोत्तमाः || ९ || अभिन्नमालिनीकाये तत्त्वानि भुवनानि च | कलाः पदानि मन्त्राश्च यथावदवधारिताः || १० || भिन्नयोनिस्तु या देव त्वयोक्ता मालिनी मम | तस्या अङ्गे यथैतानि संस्थितानि तथा वद || ११ || एवमुक्तो महादेव्या भैरवो भूरिभोगदः | स्फुरद्धिमांशुसंतानप्रकाशितदिगन्तरः || १२ || सुरासुरशिरोमौलीमालालालितशासनः | उवाच मधुरां वाचमिमामल्लेशिताशयाम् || १३ || या मया कथिता देवि भिन्नयोनिस्तु मालिनी | तदङ्गे संप्रवक्ष्यामि सर्वमेतद्यथा स्थितम् || १४ || फे धरातत्त्वमुद्दिष्टं दांदिझान्तेऽनुपूर्वशः | त्रयोविंशत्यबादीनि प्रधानान्तानि लक्षयेत् || १५ || ठादौ च सप्तके सप्त पुरुषादीनि पूर्ववत् | इङ्घेषु त्रयं विद्याद्विद्यातः सकलावधि || १६ || शिवतत्त्वे गकारादिनान्तान् षोडश लक्षयेत् | कलाः पदानि मन्त्राश्च भुवनानि च सुन्दरि || १७ || पूर्ववद्वेदितव्यानि तत्संख्यार्णविभेदतः | विद्यात्रयविभागेन यथेदानीं तथा शृणु || १८ || प्. २४) निष्कले पदमेकार्णं त्र्यर्णैकार्णमिति [क्: मथेति] द्वयम् | सकले तु परिज्ञेयं पञ्चैकार्णद्वयं द्वये || १९ || चतुरेकाक्षरे द्वे च मायादित्रितये मते | चतुरक्षरमेकं च कालादिद्वितये मतम् || २० || रञ्जके द्व्यर्णमुद्दिष्टं प्रधाने त्र्यर्णमिष्यते | बुद्धौ देवाष्टकव्याप्त्या पदं द्व्यक्षरमिष्यते || २१ || ततः पञ्चाष्टकव्याप्त्या द्व्येकद्विद्व्यक्षराणि तु | विद्यापदानि चत्वारि सार्धवर्णं तु पञ्चमम् || २२ || एकैक [क्, ख्, ग्: एकद्विसार्धेति] सार्धवर्णानि त्रीणि तत्त्वे तु पार्थिवे | पराङ्गे [ग्: पुराङ्गे] सर्वमन्यच्च वर्णमन्त्रकलादिकम् || २३ || सार्धेनाण्डद्वयं व्याप्तमेकैकेन पृथग्द्वयम् | अपरायाः समाख्याता व्याप्तिरेषा विलोमतः || २४ || सार्णेनाण्डत्रयं व्याप्तं त्रिशूलेन चतुर्थकम् | सर्वातीतं विसर्गेण पराया व्याप्तिरिष्यते || २५ || एतत्सर्वं परिज्ञेयं योगिना हितमिच्छता | आत्मनो वा परेषां वा नान्यथा तदवाप्यते || २६ || द्वावेव मोक्षदौ ज्ञेयौ ज्ञानी योगी च शाङ्करि | पृथक्त्त्वात्तत्र * * * * बोद्धव्यं फलकाङ्क्षिभिः || २७ || प्. २५) ज्ञानं तत्त्रिविधं प्रोक्तं तत्राद्यं श्रुतमिष्यते | चिन्तामयमथान्यच्च भावनामयमेव च || २८ || शास्त्रार्थस्य परिज्ञानं विक्षिप्तस्य श्रुतं मतम् | इदमत्रेदमत्रेति इदमत्रोपयुज्यते || २९ || सर्वमालोच्य शास्त्रार्थमानुपूर्व्या व्यवस्थितम् | तद्वच्चिन्तामयं ज्ञानं द्विरूपमुपदिश्यते || ३० || मन्दस्वभ्यस्तभेदेन तत्र स्वभ्यस्तमुच्यते | सुनिष्पन्ने ततस्तस्मिज्जायते भावनामयम् || ३१ || यतो योगं समासाद्य योगी योगफलं लभेत् | एवं विज्ञानभेदेन ज्ञानी प्रोक्तश्चतुर्विधः || ३२ || संप्राप्तो घटमानश्च सिद्धः सिद्धतमोऽन्यथा | योगी चतुर्विधो देवि यथावत्प्रतिपद्यते || ३३ || समावेशोक्तिवद्योगस्त्रिविधः समुदाहृतः | तत्र प्राप्तोपदेशस्तु पारम्पर्यक्रमेण यः || ३४ || प्राप्तयोगः स विज्ञेयस्त्रिविधोऽपि मनीषिभिः | चेतसो घटनं तत्त्वाच्चलितस्य पुनः पुनः || ३५ || यः करोति तमिच्छन्ति घटमानं मनीषिणः | तदेव चेतसा नान्यद्द्वितीयमवलम्बते || ३६ || सिद्धयोगस्तदा ज्ञेयो योगी योगफलार्थिभिः | यः पुनर्यत्र तत्रैव संस्थितोऽपि यथा तथा || ३७ || प्. २६) भुञ्जानस्तत्फलं तेन हीयते न कथंचन | सुसिद्धः स तु बोद्धव्यः सदाशिवसमः प्रिये || ३८ || उत्तरोत्तरवैशिष्ट्यमेतेषां समुदाहृतम् | ज्ञानिनां योगिनां चैव सिद्धो योगविदुत्तमः || ३९ || यतोऽस्य ज्ञानमप्यस्ति पूर्वो योगफलोज्झितः | यतश्च मोक्षदः प्रोक्तः स्वभ्यस्तज्ञानवान्बुधैः || ४० || इत्येतत्कथितं सर्वं विज्ञेयं योगिपूजिते | तन्त्रार्थमुपसंहृत्य समासाद्योगिनां हितम् || ४१ || इति श्रीमालिनीविजयोत्तरे तन्त्रे चतुर्थोऽधिकारः || ४ || अथ पञ्चमोऽधिकारः | अथातः संप्रवक्ष्यामि भुवनाध्वानमीश्वरि | आदौ कालाग्निभुवनं शोधितव्यं प्रयत्नतः || १ || अवीचिः कुम्भीपाकश्च रौरवश्च तृतीयकः | कूष्माण्डभुवने शुद्धे सर्वे शुद्धा न संशयः || २ || पातालानि ततः सप्त तेषामादौ महातलम् | रसातलं ततश्चान्यत्तलातलमतः परम् || ३ || सुतलं नितलं चेति वितलं तलमेव च | हाटकेन विशुद्धेन सर्वेषां शुद्धिरिष्यते || ४ || तदूर्ध्वं पृथिवी ज्ञेया सप्तद्वीपार्णवान्विता | देवानामाश्रयो मेरुस्तन्मध्ये संव्यवस्थितः || ५ || भुवोलोकस्तदूर्ध्वे च स्वर्लोकस्तस्य चोपरि | महो जनस्तपः सत्यमित्येतल्लोकसप्तकम् || ६ || चतुर्दशविधो यत्र भूतग्रामः प्रवर्तते | स्थावरः सर्पजातिश्च पक्षिजातिस्तथापरा || ७ || मृगसंज्ञश्च पश्चाख्यः पञ्चमोऽन्यश्च मानुषः | पैशाचो राक्षसो याक्षो गान्धर्वश्चैन्द्र एव च || ८ || प्. २८) सौम्यश्च प्राजापत्यश्च ब्राह्मश्चात्र चतुर्दश | सर्वस्यैवास्य संशुद्धिर्ब्राह्मे संशोधिते सति || ९ || भुवनं वैष्णवं तस्मान्मदीयं तदनन्तरम् | तत्र शुद्धे भवेच्छुद्धं सर्वमेतन्न संशयः || १० || कालाग्निपूर्वकैरेभिर्भुवनैः पञ्चभिः प्रिये | शुद्धैः सर्वमिदं शुद्धं ब्रह्माण्डान्तर्व्यवस्थितम् || ११ || तद्बहिः शतरुद्राणां भुवनानि पृथक् पृथक् | दश संशोधयेत्पश्चादेकं तन्नायकावृतम् || १२ || अनन्तः प्रथमस्तेषां कपालीशस्तथापरः | अग्निरुद्रो यमश्चैव नैर्-ऋतो बल एव च || १३ || शीघ्रो निधीश्वरश्चैव सर्वविद्याधिपोऽपरः | शंभुश्च वीरभद्रश्च विधूमज्वलनप्रभः || १४ || एभिर्दशैकसंख्यातैः शुद्धैं शुद्धं शतं मतम् | उपरिष्टात्पुरस्तेषामष्टकाः पञ्च संस्थिताः || १५ || लकुली भारभूतिश्च दिण्ढ्याषाढी सपुष्करौ | नैमिषं च प्रभासं च अमरेशमथाष्टकम् || १६ || एतत्पत्यष्टकं प्रोक्तमतो गुह्यातिगुह्यकम् | तत्र भैरवकेदारमहाकालाः समध्यमाः || १७ || आम्रातिकेशजल्पेशश्रीशैलाः सहरीन्दवः | भीमेश्वरमहेन्द्रादृहासाः सविमलेश्वराः || १८ || प्. २९) कनखलं नाखलं च कुरुक्षेत्रं गया तथा | गुह्यमेतत्तृतीयं तु पवित्रमधुनोच्यते || १९ || स्थाणुस्वर्णाक्षकावाद्यौ भद्रगोकर्णकौ परौ | महाकालाविमुक्तेशरुद्रकोट्यम्बरापदाः || २० || स्थूलः स्थूलेश्वरः शङ्कुकर्णकालञ्जरावपि | मण्डलेश्वरमाकोटद्विरण्डछगलाण्डकौ || २१ || स्थाण्वष्टकमिति प्रोक्तमहंकारावधि स्थितम् | देवयोन्यष्टकं बुधौ कथ्यमानं मया शृणु || २२ || पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च | तथा सौम्यं सप्राजेशं ब्राह्ममष्टममिष्यते || २३ || योगाष्टकं प्रधाने तु तत्रादावकृतं भवेत् | कृतं च वैभवं ब्राह्मं वैष्णवं तदनन्तरम् || २४ || कौमारमौमं श्रैकण्ठमिति योगाष्टकं तथा | पुरुषे वामभीमोग्रभवेशानैकवीरकाः || २५ || प्रचण्डोमाधवाजाश्च अनन्तैकशिवावथ | क्रोधेशचण्डौ विद्यायां संवर्तो ज्योतिरेव च || २६ || कलातत्त्वे परिज्ञेयौ सुरपञ्चान्तकौ परे | एकवीरशिखण्डीशश्रीकण्ठाः कालमाश्रिताः || २७ || प्. ३०) महातेजः प्रभृतयो मण्डलेशानसंज्ञकाः | मायातत्त्वे स्थितास्तत्र वामदेवभवोद्भवौ || २८ || एकपिङ्गेक्षणेशानभुवनेशपुरः सराः | अङ्गुष्ठमात्रसहिताः कालानलसमत्विषः || २९ || विद्यातत्त्वेऽपि पञ्चाहुर्भुवनानि मनीषिणः | तत्र हालाहलः पूर्वो रुद्रः क्रोधस्तथापरः || ३० || अम्बिका च अघोरा च वामदेवी च कीर्त्यते | ईश्वरे पिवनाद्याः [क्, ख्: भुवनानि स्युरिति] स्युरघोरान्ता महेश्वराः || ३१ || रौद्री ज्येष्ठा च वामा च तथा शक्तिसदाशिवौ | एतानि सकले पञ्च भुवनानि विदुर्बुधाः || ३२ || एवं तु सर्वतत्त्वेषु शतमष्टादशोत्तरम् | भुवनानां परिज्ञेयं संक्षेपान्न तु विस्तरात् || ३३ || शुद्धेनानेन शुद्ध्यन्ति सर्वाण्यपि न शंशयः | सर्वमार्गविशुद्धौ तु कर्तव्यायां महामतिः || ३४ || सकलावधि संशोध्य शिवे योगं प्रकल्पयेत् | बुभुक्षोः सकलं ध्यात्वा योगं कुर्वीत योगवित् || ३५ || इत्येष कीर्तितो मार्गो भुवनाख्यस्य मे मतः | इति श्रीमालिनीविजयोत्तरे तन्त्रे भुवनाध्वाधिकारः पञ्चमः || ५ || अथ षष्ठोऽधिकारः | अथास्य वस्तुजातस्य यथा देहे व्यवस्थितिः | क्रियते ज्ञानदीक्षासु तथेदानीं निगद्यते || १ || पादाधः पञ्चभूतानी व्याप्त्या द्व्यङ्गुलया न्यसेत् | धरातत्त्वं च गुल्फान्तमवादीनि ततः क्रमात् || २ || तद्वत्तदुपरिष्टात्तु पर्वषट्कावसानकम् | पुंस्तत्त्वात्कलातत्त्वान्तं तत्त्वषट्कं विचिन्तयेत् || ३ || ततो मायादितत्त्वानि चत्वारि सुसमाहितः | चतुरङ्गुलया व्याप्त्या सकलान्तानि भावयेत् || ४ || शिवतत्त्वं ततः पश्चात्तेजोरूपमनाकुलम् | सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत् || ५ || षट्त्रिंशत्तत्त्वभेदेन न्यासोऽयं समुदाहृतः | अधुना पञ्चतत्त्वानि यथा देहे तथोच्यते || ६ || नाभेरूर्ध्वं तु यावत्स्यात्पर्वषट्कमनुक्रमात् [तन्त्रालो पूर्वषट्कमिति] | धरातत्त्वेन गुल्फान्तं व्याप्तं शेषमिहाम्बुना || ७ || द्वाविंशतिश्च पर्वाणि तदूर्ध्वं [तन्त्रालो ततोर्द्धमिति] तेजसावृतम् | तस्माद्द्वादश पर्वाणि वायुव्याप्तिरुदाहृता || ८ || प्. ३२) आकाशान्तं परं शान्तं सर्वेषां व्यापकं स्मरेत् | शक्त्यादिपञ्चखण्डाध्वविधिष्वप्येवमिष्यते || ९ || त्रिखण्डे कण्ठपर्यन्तमात्मतत्त्वमुदाहृतम् | विद्यातत्त्वमतोर्ध्वं तु शिवतत्त्वं तु पूर्ववत् || १० || एवं तत्त्वविधिः प्रोक्तो भुवनाध्वा तथोच्यते | कालाग्नेर्वीरभद्रान्तं पुरषोडशकं ततः || ११ || गुल्फान्तं विन्यसेद्ध्यात्वा यथावदनुपूर्वशः | तस्मादेकाङ्गुलव्याप्त्या लकुलीशादितः क्रमात् || १२ || विन्यसेत्तु द्विरण्डान्तं त्र्यङ्गुलं छगलाण्डकम् | ततः पादाङ्गुलव्याप्त्या देवयोगाष्टकं पृथक् || १३ || ततोऽप्यर्धाङ्गुलव्याप्त्या पुरषट्कमनुक्रमात् | चतुष्कं तु द्वयेऽन्यस्मिन्नेकमेकत्र चिन्तयन् || १४ || उत्तरादिक्रमाद्द्व्येकभेदो विद्यादिके त्रये | काले प्रत्येकमुद्दिष्टमेकैक तु यथाक्रमम् || १५ || मण्डलाधिपतीनां तु व्याप्तिरर्धाङ्गुला मता | त्रिभागन्यूनपर्वाख्या त्रितयस्य तथोपरि || १६ || द्वितीयस्य तु संपूर्णा पञ्चकं समुदाहृतम् | अष्टकं पञ्चकं चान्यदेवमेव विलक्षयेत् || १७ || प्. ३३) भुवनाध्वविधावत्र पूर्ववच्चिन्तयेच्छिवम् | पदानि द्विविधान्यत्र वर्गविद्याविभेदता || १८ || तेषां तन्मन्त्रवद्व्याप्तिर्यथेदानीं तथा शृणु | चतुरङ्गुलमाद्यं तु द्वे चान्यऽष्टाङ्गुले पृथक् || १९ || दशाङ्गुलानि त्री-एयस्मादेकं [क्: एवं पञ्चदशेति] पञ्चदशाङ्गुलम् | चतुर्भिरधिकैरन्यन्नवमं व्यापकं महत् || २० || ऊनविंशतिके भेदे पदानां व्याप्तिरुच्यते | एकैकं द्व्यङ्गुलं ज्ञेयं ततः पूर्व पदत्रयम् || २१ || सप्ताङ्गुलानि [तन्त्रालो अष्टाङ्गुलानीति] चत्वारि दशाङ्गुलमतः परम् | द्व्यङ्गुलं द्वे पदे चान्ये षडङ्गुलमतः परम् || २२ || द्वादशाङ्गुलमन्यच्च द्वेऽन्ये पञ्चाङ्गुले पृथक् | पदद्वयं चतुष्पर्व द्वे पूर्वे द्वे पृथक्ततः || २३ || व्यापकं पदमन्यच्च * * * तत्परिकीर्तितम् | अपरोऽयं विधिः प्रोक्तः परापरमतः शृणु || २४ || पूर्ववत्पृथिवी तत्त्वं विज्ञेयं चतुरङ्गुलम् | सार्धद्व्यङ्गुलमानानि धिषणान्तानि लक्षयेत् || २५ || प्रधानं त्र्यङ्गुलं ज्ञेयं शेषं पूर्ववदादिशेत् | परेऽपि पूर्ववत्पृथ्वी त्र्यङ्गुलान्यपराणि च || २६ || प्. ३४) चतुष्पर्व [क्: चतुष्पथेति] प्रधानं च शेषं पूर्ववदाश्रयेत् | द्विविधोऽपि [क्: द्विविधेऽपीति] हि वर्णानां षड्विधो भेद उच्यते [क्: इष्यत] || २७ || तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः | पदमन्त्रकलादीनां पूर्वसूत्रानुसारतः || २८ || त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना | इत्थं भूतशरीरस्य गुरुणा शिवमूर्तिना || २९ || प्रकर्तव्या विधानेन दीक्षा सर्वफलप्रदा | इति श्रीमालिनीविजयोत्तरे तन्त्रे देहमार्गाधिकारः षष्ठः || ६ || अथ सप्तमोऽधिकारः | अथातः संप्रवक्ष्यामि मुद्राख्याः शिवशक्तयः | याभिः [स्वच्छ याभिस्तु रक्षित] संरक्षितो मन्त्री मन्त्रसिद्धिमवाप्नुयात् || १ || त्रिशूलं च तथा पद्मं शक्तिश्चक्रं सवज्रकम् | दण्डदंष्ट्रे महाप्रेता महामुद्रा खगेश्वरी || २ || महोदया कराला च खट्वाङ्गं सकपालकम् | हलं पाशाङ्कुशं घण्टा मुद्गरस्त्रिशिखोऽपरः || ३ || आवाहस्थापनीरोधा द्रव्यदा नतिरेव च | अमृता योगमुद्रेति विज्ञेया वीरवन्दिते || ४ || तर्जनीमध्यमानामा दक्षिणस्य प्रसारिताः | कनिष्ठाङ्गुष्ठकाक्रान्तास्त्रिशूलं परिकीर्तितम् || ५ || पद्माकारौ करौ कृत्वा पद्ममुद्रां प्रदर्शयेत् | संमुखौ प्रसृतौ कृत्वा करानन्तरिताङ्गुली || ६ || प्रसृते मध्यमे लग्ने कौमार्याः शक्तिरिष्यते | उत्तानवाममुष्टेस्तु दक्ष * * * * * * || ७ || * * * क्षयेन्मुष्टिं चक्रं नाराचं * * * * | उत्तानवामकस्योर्ध्वं न्यसेद्दक्षमधोमुखम् || ८ || प्. ३६) कनिष्ठाङ्गुष्ठकौ श्लिष्टौ शेषाः स्युर्मणिबन्धगाः | वज्रमुद्रेति विख्याता चैन्द्री संतोषकारिका || ९ || ऊर्द्ध्वप्रसारितो मुष्टिर्दक्षिणोऽङ्गुष्ठगर्भगः | दण्डमुद्रेति विख्याता वैवस्वतकुलप्रिया || १० || वामतो वक्त्रगां कुर्याद्वाममुष्टेः कनिष्ठिकाम् | दंष्ट्रेयं कीर्तिता देवि चामुण्डाकुलनन्दिनी || ११ || वामजानुगतं पादं हस्तौ पृष्ठप्रलम्बिनौ | विकृते लोचने ग्रीवा भग्ना जिह्वा प्रसारिता || १२ || सर्वयोगिगणस्येष्टा प्रीता योगीश्वरी मता | हस्तावधोमुखौ पद्भ्यां हृदयान्तं नयेद्बुधः || १३ || तिर्यग्मुखान्तमुपरि संमुखावूर्ध्वगौ नयेत् | महामुद्रेति विख्याता देहशोधनकर्मणि || १४ || सर्वकर्मकरी चैषा योगिनां योगसिद्धये | वद्ध्वा पद्मासनं योगी नाभावक्षेश्वरं न्यसेत् [तं: क्षियेदिति] || १५ || दण्डाकारं तु तं भावं नयेद्यावत्कखत्रयम् [ख्: तं च तं तावदिति] | निगृह्य तत्र तत्तूर्णं प्रेरयेत् खत्रयेण तु || १६ || एतां बद्ध्वा महावीरः खेगतिं प्रतिपद्यते | अधोमुखस्य दक्षस्य वाममुत्तानमूर्ध्वतः || १७ || प्. ३७) अनामामध्यमे तस्य वामाङ्गुष्ठेन पीडयेत् | तर्जन्या तत्कनिष्ठां च तर्जनीं च कनिष्ठया || १८ || मध्यमानामिकाभ्यां च तदङ्गुष्ठं निपीडयेत् | मुद्रा महोदयाख्येयं महोदयकरी नृणाम् || १९ || अनामिकाकनिष्ठाभ्यां सृक्वण्यौ प्रविदारयेत् | जिह्वां च चालयेन्मन्त्री [क्: जिह्वां च लालयेदिति] हाहाकारं च कारयेत् || २० || क्रुद्धदृष्टिः करालेयं मुद्रा दुष्टभयङ्करी | वामस्कन्धगतो वाममुष्टिरुच्छ्रिततर्जनी || २१ || खट्वाङ्गाख्या स्मृता मुद्रा कपालमधुना शृणु | निम्नं पाणितलं दक्षमीषत्संकुचिताङ्गुलि [स्व: मीषत्तत्कुञ्चिताङ्गुलिम्] || २२ || कपालमिति विज्ञेयमधुना हलमुच्यते | मुष्टिबद्धस्य दक्षस्य तर्जनी वाममुष्टिना || २३ || वक्रतर्जनिना ग्रस्ता हलमुद्रेति कीर्तिता | मुष्ट्या (पृष्ठ) गयोर्दक्षवामयोस्तर्जनीद्वयम् || २४ || वामाङ्गुष्ठाग्रसंलग्नं पाशः प्रसृतकुञ्चितः | हले मुष्टिर्यथा वामो दक्षहीनस्तथाङ्कुशः || २५ || अधोमुखस्थिते वामे दक्षिणां तर्जनीं बुधः | चालयेन्मध्यदेशस्थां घण्टामुद्रा प्रिया मता || २६ || प्. ३८) करावूर्ध्वमुखौ कार्यावन्योन्यान्तरिताङ्गुली | अनामे मध्यपृष्ठस्थे तर्जन्यौ मूलपवर्गे [स्व० मूलपर्वत] || २७ || मध्यमे [स्व० मध्ये द्व तु युत परुषावपि च] द्वे युते कार्ये कनिष्ठे परुषावधि | तर्जन्यौ मध्यपार्श्वस्थे विरले परिकल्पिते || २८ || मुद्गरस्त्रिशिखो [क्: स्त्रिशिर] ह्येष क्षणादावेशकारकः | कराभ्यामञ्जलिं कृत्वा अनामामूलपर्वगौ || २९ || अङ्गुष्ठौ कल्पयेद्विद्वान्मन्त्रावाहनकर्मणि | मुष्टी द्वावुन्नताङ्गुष्ठौ स्थापनी परिकीर्तिता || ३० || द्वावेव गर्भगाङ्गुष्ठौ विज्ञेया संनिरोधिनी | द्रव्यदा तु समाख्याता * * * * त्र संमुखी || ३१ || हृदये संमुखौ हस्तौ संलग्नौ प्रसृताङ्गुली | नमस्कृतिरियं मुद्रा मन्त्रवन्दनकर्मणि || ३२ || अन्योन्यान्तरिताः सर्धाः करयोरङ्गुलीः स्थिताः | कनिष्ठां दक्षिणां वामेऽनामिकाग्रे नियोजयेत् || ३३ || दक्षिणे च तथा वामां तर्जनीमध्यमे तथा | अङ्गुष्ठौ मध्यमूलस्थौ मुद्रेयममृतप्रभा || ३४ || प्. ३९) दक्षिणं नाभिमूले तु वामस्योपरि संस्थितम् | तर्जन्यङ्गुष्ठकौ लग्नौ उच्छ्रितौ योगकर्मणि || ३५ || एवं मुद्रागणं मन्त्री बध्नीयाद्धृदये बुधः | सर्वासां वाचकश्चासां ओं ह्रीं नाम ततो नमः || ३६ || इति श्रीमालिनीविजयोत्तरे तन्त्रे मुद्राधिकारः सप्तमः || ७ || अथ अष्टमोऽधिकारः | अथातः संप्रवक्ष्यामि यजनं सर्वकामदम् | यस्य दर्शनमात्रेण योगिनीसंमतो भवेत् || १ || तत्रादौ यागसदनं शुभक्षेत्रे मनोरमम् | कारयेदग्निकुण्डेन वर्तुलेन समन्वितम् || २ || पञ्चविंशतिपर्वेण समन्तादर्धनाभिना | तुर्यांशमेखलेनापि पर्वौष्ठेन सुशोभिना || ३ || ततः स्नात्वा जितद्वन्द्वो भावस्नानेन मन्त्रवित् | तच्च षड्विधमुद्दिष्टं भस्मस्नानाद्यनुक्रमात् || ४ || भस्मस्नानं महास्त्रेण भस्म सप्ताभिमन्त्रितम् | मलस्नानाय संहारक्रमेणोद्धूलयेत्तनुम् || ५ || विद्याङ्गैः पञ्चभिः पश्चाच्छिरः प्रभृति गुण्ठयेत् | अभिषेकं तु कुर्वीत मूलेनैव [क्: जलेनैवेति] षडङ्गिना || ६ || ततोऽवासाः सुवासा वा हस्तौ पादौ च धावयेत् | आचम्य मार्जनं कुर्याद्विद्यया भूरिवर्णया || ७ || न्यासं कृत्वा तु सामान्यमघमर्षं द्वितीयया | उपस्थानं च मालिन्या जपेच्चैकाक्षरां पराम् || ८ || प्. ४१) जलस्नानेऽपि चास्त्रेण मृदं सप्ताभिमन्त्रिताम् | पूर्ववत्तनुमालभ्य मलस्नानं समाचरेत् || ९ || विधिस्नानादिकं चात्र पूर्ववत् किंतु वारिणा | साधारणविधिस्नातो विद्यात्रितयमन्त्रितम् || १० || तोयं विनिक्षिपेन्मूर्ध्नि मन्त्रस्नानाय मन्त्रवित् | रजसा गोधुतेनैव [तं; लो: कृतेति] वायव्यं स्नानमाचरेत् || ११ || महास्त्रमुच्चरन् गच्छेद्ध्यानयुक् पदसप्तकम् | तदेव पुनरागच्छेदनुस्मृत्य परापराम् || १२ || वर्षातपसमायोगाद्दिव्योऽप्येवंविधो मतः | किंतु तत्र परां मन्त्री स्रवन्तीममृतं स्मरेत् || १३ || अस्त्रेणाङ्गुष्ठमूलात्तु वह्निमुत्थाप्य निर्दहेत् | स्वतनुं प्लावयेत्पश्चात्परयैवामृतेन तु || १४ || सूर्यादौ मन्त्रमादाय गच्छेदस्त्रमनुस्मरन् | यागवेश्मास्त्रसंशुद्धं विशेच्छुचिरनाकुलः || १५ || तत्र द्वारपतीन् पूज्य महास्त्रेणाभिमन्त्रितम् | पुष्पं विनिक्षिपेद्ध्यात्वा ज्वलद्विघ्नप्रशान्तये || १६ || दशस्वपि ततोऽस्त्रेण दिक्षु संकल्प्य रक्षणम् | प्रविशेद्यागसदनं वह्निवद्वह्निसंयुतम् || १७ || प्. ४२) पूर्वास्यः सौम्यवक्त्रो वा विशेषन्यासमारभेत् | तत्रादावस्त्रमन्त्रेण कालानलसमत्विषा [क्: समन्विता] || १८ || अङ्गुष्ठाग्रात्तनुं दग्धां सबाह्याभ्यन्तरां स्मरेत् | विकीर्यमाणं तद्भस्म ध्यात्वा कवचवायुना || १९ || शिवबिन्दुसमाकारमात्मानमनुचिन्तयेत् | ततोऽस्य योजयेच्छक्तिं सोऽहमित्यपराजितः || २० || विद्यामूर्तिं ततो दध्यान्मन्त्रेणानेन शाङ्करि | दण्डाक्रान्तं महाप्राणं दण्डारूढं सनाभिकम् || २१ || नितम्बं तदधस्ताच्च वामस्तनमधः पुनः | कण्ठं च वामशिखरं वाममुद्राविभूषितम् || २२ || बिन्द्वर्धचन्द्रखं नादशक्तिबिन्दुविभूषितम् | एष पिण्डवरो देवि नवात्मक इति श्रुतः || २३ || सर्वसिद्धिकरश्चायं सरहस्यमुदाहृतः | एष त्र्यर्णोज्झितोऽधस्ताद्दीर्घैः षड्भिः स्वरैर्युतः || २४ || षडङ्गानि हृदादीनि जातिभेदेन कल्पयेत् | क्षयरवलबीजैश्च दीप्तैर्बिन्दुविभूषितैः || २५ || वक्त्राणि कल्पयेत्पूर्वमूर्ध्ववक्त्रादितः क्रमात् | प्रत्यङ्गविधिसिद्ध्यर्थं ललाटादिष्वथो न्यसेत् || २६ || प्. ४३) अ ललाटे द्वितीयं च वक्त्रे संपरिकल्पयेत् | इ-ई नेत्रद्वये दत्त्वा उ-ऊ कर्णद्वये न्यसेत् || २७ || ऋ ऋ नासापुटे तद्वंत् ऌ ॡ गण्डद्वये तथा | ए ऐ अधोर्ध्वदन्तेषु ओ-औकारौ तथोऽष्ठयोः || २८ || अं शिखायां विसर्गेण जिह्वां संपरिकल्पयेत् | दक्षिणस्कन्धदोर्दण्डकराङ्गुलिनखेषु च || २९ || कवर्गं विन्यसेद्वामे तद्वच्चाद्यमनुक्रमात् | टताद्यौ पूर्ववद्वर्गौ नितम्बोर्वादिषु न्यसेत् || ३० || पाद्यं पार्श्वद्वये पृष्ठे जठरे हृद्यनुक्रमात् | त्वग्रक्तमांसमूत्रेषु यवर्गं परिकल्पयेत् || ३१ || शाद्यमस्थिवसाशुक्रप्राणकूपेषु पञ्चकम् | मूर्त्यङ्गानि ततो दत्त्वा शिवमावाहयेद्बुधः || ३२ || प्राणोपरि न्यसेन्नाभिं तदूर्ध्वे दक्षिणाङ्गुलिम् | वामकर्णप्रमेयोतः सर्वसिद्धिप्रदः शिवः || ३३ || सद्भावः परमो ह्येष भैरवस्य महात्मनः | अङ्गान्यनेन कार्याणि पूर्ववत्स्वरभेदतः || ३४ || मूर्तिः सृष्टिस्त्रितत्त्वं च अष्टौ मूर्त्यङ्गसंयुताः | शिवः साङ्गश्च षोढैव न्यासः संपरिकीर्तितः || ३५ || प्. ४४) अस्योपरि ततः शाक्तं कुर्यान्न्यासं यथा शृणु | मूर्तौ परापरां न्यस्य तद्वक्त्राणि च मालिनीम् || ३६ || परादित्रितयं पश्चाच्छिखाहृत्पादगं न्यसेत् | कवक्त्रकण्ठहृन्नाभिगुह्योरूपादगं क्रमात् || ३७ || अघोर्याद्यष्टकं न्यस्य विद्याङ्गानि तु पूर्ववत् | ततस्त्वावाहयेच्छक्तिं सर्वयोगिनमस्कृताम् || ३८ || जीवः प्राणपुटान्तस्थः कालानलसमद्युतिः | अतिदीप्तस्तु वामाङ्घ्रिभूषितो मूर्ध्नि बिन्दुना || ३९ || दक्षजानुयुतश्चायं सर्वमातृगणान्वितः [तं० लो०: अर्चित] | अनेन प्रीणिताः सर्वा ददते वाञ्छितं फलम् || ४० || सद्भावः परमो ह्येष मातॄणां परिपठ्यते | तस्मादेनां जपेन्मन्त्री य इच्छेत्सिद्धिमुत्तमाम् || ४१ || रुद्रशक्तिसमावेशो नित्यमत्र प्रतिष्ठितः | यस्मादेषा पराशक्तिर्भेदेनानेन [तं० लो० अन्येनेति] कीर्तिता || ४२ || यावत्यः सिद्धयस्तन्त्रे सर्वाः [ख्: पु० ताः सर्वाः कुरुते त्वियमिति] स्युरनया कृताः | अङ्गानि कल्पयेदस्याः पूर्ववत्स्वरभेदतः || ४३ || प्. ४५) मूर्तिः सवक्त्रा शक्तिश्च विद्यात्रितय एव च | अघोर्याद्यष्टकं चेति [क्: अन्यथाप्यन्नेति] तथा विद्याङ्गपञ्चकम् || ४४ || साङ्गा चैव परा शक्तिर्न्यासः प्रोक्तोऽथ षड्विधः | यामलोऽयमतो न्यासः सर्वसिद्धिप्रसिद्धये || ४५ || वामो वायं विधिः कार्यो मुक्तिमार्गावलम्बिभिः | वर्णमन्त्रविभेदेन पृथग्वा तत्फलार्थिभिः || ४६ || यावन्तः कीर्तिता भेदैः शंभुशक्त्यणुवाचकाः | तावत्स्वप्येवमेवायं न्यासः पञ्चविधो मतः || ४७ || किंतु बाह्यस्तु यो यत्र स तत्राङ्गसमन्वितः | षष्ठः स्यादिति सर्वत्र षोढैवायमुदाहृतः || ४८ || स्वानुष्ठानाविरोधेन भावाभावविकल्पनैः | यागद्रव्याणि सर्वाणि कार्याणि विधिवद्बुधैः || ४९ || ततोऽर्घपात्रमादाय भावाभावाविकल्पितम् | ततश्चास्त्राग्निसंदग्धं शक्त्यम्बुप्लावितं शुवि || ५० || कर्तव्या यस्य संशुद्धिरन्यस्याप्यत्र वस्तुनः | तस्यानेनैव मार्गेण प्रकर्तव्या विजानता || ५१ || प्. ४६) ना चासंशोधितं वस्तु किंचिदप्यत्र [तं० किंचिदप्युपकल्पयेदिति] कल्पयेत् | तेन [क्: पु० संशोधितं च यत्सर्वमिति] शुद्धं तु सर्वं यदशुद्धमपि तच्छुचि || ५२ || तदम्बुना समापूर्य षड्भिरङ्गैः [क्: षड्भिरर्घैरिति] समर्प्य च | अमृतीकृत्य सर्वाणि तेन द्रव्याणि शोधयेत् || ५३ || आत्मानं पूजयित्वा तु कुर्यादन्तः कृतिं यथा | तथा ते कथयिष्यामि सर्वयोगिगणार्चिते || ५४ || आदावाधारशक्तिं तु नाभ्यधश्चतुरङ्गुलाम् | धरां सुरोदं पोतं च कन्दश्चेति चतुष्टयम् || ५५ || एकैकाङ्गुलमेतत्स्याच्छूलस्यामलसारकम् [क्: चतुरङ्गुलमेतदिति] | ततो नालमनन्ताख्यं दण्डमस्य प्रकल्पयेत् || ५६ || लम्बिकावधितश्चात्र शूलोर्ध्वं ग्रन्थिरिष्यते | अभित्त्वैनं महादेवि पाशजालमहार्णवम् || ५७ || न स योगमवाप्नोति शिवेन सह मानवः | धर्मं ज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम् || ५८ || कोणेषु चिन्तयेन्मन्त्री आग्नेयादिष्वनुक्रमात् | गात्रकाणां चतुष्कं च दिक्षु पूर्वादिषु स्मरेत् || ५९ || प्. ४७) ग्रन्थेरूर्ध्वं त्रीशूलाधो भवितव्या चतुष्किका | विद्यातत्त्वं तदेवाहुश्छंदनत्रयसंयुतम् [ख्: छदनद्वयेति] || ६० || कखलम्बिकयोर्मध्ये तत्तत्त्वमनुचिन्तयेत् [क्: कखलम्बकयोर्मध्ये तत्त्वमनुविचिन्तयेदित्येयंविधः] | पद्माकृति [क्: कृति कखे तत्त्वमिति] कखतत्त्वमैश्वरं चिन्तयेद्बुधः [चिन्तयेत्तत] || ६१ || कर्णिकाकेसरोपेतं सबीजं [क्: बीजं विकसितं सितमिति] विकसत्सितम् | पूर्वपत्रादितः पश्चाद्वामादिनवकं न्यसेत् || ६२ || वामा ज्येष्ठा च रौद्री च काली चेति तथा [क्: ततः] परा | कलविकरणी चैव बलविकरणी तथा || ६३ || बलप्रमथनी चान्या सर्वभूतदमन्यपि | मनोन्मनी च मध्येऽपि भानुमार्गेण विन्यसेत् || ६४ || विभ्वादिनवकं चान्यद्विलोमात्परिकल्पयेत् | विभुर्ज्ञानी क्रिया चेच्छ्वा वागीशी ज्वालिनी तथा || ६५ || वामा ज्येष्ठा च रौद्री च सर्वाः कालानलप्रभाः | ब्रह्मविष्णुहराः पूर्वं ये शाक्ताः प्रतिपादिताः || ६६ || प्. ४८) दलकेसरमध्यस्था मण्डलानां त ईश्वराः | ध्वनि? चार्केन्दुवह्नीनां संज्ञया परिभावयेत् || ६७ || ईश्वरं च महाप्रेतं प्रहसन्तं सचेतनम् | कालाग्निकोटिवपुषमित्येवं सर्वमासनम् [परात्रि त्येतत्सर्वमिति] || ६८ || तस्य नाभ्युत्थितं शक्तिशूलशृङ्गत्रयं स्मरेत् | कखत्रयेण निर्यातं द्वादशान्तावसानकम् || ६९ || चिन्तयेत्तस्य शृङ्गेषु शाक्तं पद्मत्रयं ततः | सर्वाधिष्ठायकं शुक्लमित्येतत्परमासनम् || ७० || तत्रोपरि ततो मूर्ति विद्याख्यामनुचिन्तयेत् | आत्माख्यां च ततस्तस्यां पूर्वन्यासं शिवात्मकम् || ७१ || ततो मध्ये परां शक्तिं दक्षिणोत्तरयोर्द्वयम् | परापरां स्वरूपेण रक्तवर्णां महाबलाम् || ७२ || इच्छारूपधरां ध्यात्वा किंचिदुग्रां न भीषणाम् | अपरां वामशृङ्गे तु भीषणां कृष्णपिङ्गलाम् || ७३ || इच्छारूपधरां देवीं प्रणतार्तिविनाशिनीम् | परां चाप्यायनीं देवीं चन्द्रकोट्ययुतप्रभाम् || ७४ || प्. ४९) षड्विधेऽपि कृते शाक्ते मूर्त्यादावपि चिन्तयेत् | विद्याङ्गपञ्चकं पश्चादाग्नेययादिषु विन्यसेत् || ७५ || अग्नीशरक्षोवायूनां दक्षिणे च यथाक्रमम् | शक्त्यङ्गानि शिवाङ्गानि तथैव विधिना स्मरेत् || ७६ || किंतु शक्रादिदिक्ष्वस्त्रमन्त्रं मध्ये च लोचनम् | अघोराद्यष्टकं ध्यायेदघोर्याद्यष्टकान्वितम् || ७७ || सर्वासामावृतत्वेन लोकपालांश्च बाह्यतः | सास्त्रान्स्वमन्त्रैः संचिन्त्य जपं पश्चात्समारभेत् || ७८ || स्वरूपे तल्लयो भूत्वा एकैकां दशधा स्मरेत् | ज्वलत्पावकसंकाशां ध्यात्वा स्वाहान्तमुच्चरेत् || ७९ || सकृदेकैकशो मन्त्री होमकर्मप्रसिद्धये | इत्येव मानसो यागः कथितः सामुदायिकः || ८० || एतत्त्रिशूलमुद्दिष्टमेकदण्डं त्रिशक्तिकम् | इत्थमेतदविज्ञाय शक्तिशूलं वरानने || ८१ || बद्ध्वापि खेचरीं मुद्रां नोत्पतत्यवनीतलात् | इत्येतच्छाम्भवं प्रोक्तमष्टान्तं शाक्तमिष्यते || ८२ || तुर्यान्तमाणवं विद्यादिति शूलत्रयं मतम् | पृथग्यागविधानेन शक्तिचक्रं [ख्: शक्तिपद्ममिति] विचिन्तयेत् || ८३ || प्. ५०) तेनापि खेचरीं बद्ध्वा त्यजत्येवं महीतलम् | ततोऽभिमन्त्र्य धान्यानि महास्त्रेण त्रिसप्तधा || ८४ || निक्षिपेद्दिक्षु सर्वासु ज्वलत्पावकवत्स्मरेत् | निर्विघ्नं तद्गृहं ध्यात्वा संहृत्येशदिशं नयेत् || ८५ || पञ्चगव्यं ततः कुर्याद्वदनैः पञ्चभिर्बुधः | गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथा || ८६ || मन्त्रयेदूर्ध्वपर्यन्तैः षडङ्गेन कुशोदकम् | मुद्रे द्रव्यामृते बद्ध्वा तत्त्वं तस्य विचिन्तयेत् || ८७ || तेन संप्रोक्षयेद्भूमिं स्वल्पेनान्यन्निधापयेत् [क्: नान्यद्विदारयेदिति] | वास्तुयागं ततः कुर्यान्मालिन्युच्चारयोगतः || ८८ || पुष्पैरञ्जलिमापूर्य फकारादि [क्: हकारादीति] समुच्चरन् | ध्यात्वा शक्त्यन्तमध्वानं नकारान्ते विनिक्षिपेत् || ८९ || गन्धधूपादिकं दत्वा गणेशानं प्रपूजयेत् | षडुत्थमासनं न्यस्य प्रणवेन ततोपरि || ९० || गामित्यनेन विघ्नेशं गन्धधूपादिभिर्यजेत् [क्: गन्धपुष्पादिभिरिति] | अस्याङ्गानि[तं० तस्याङ्गानीति] गकारेण षड्दीर्घस्वरयोगतः || ९१ || प्. ५१) त्रिनेत्रमुदितं ध्यात्वा गजास्यं वामनाकृतिम् | विसर्ज्य सिद्धिकायस्तु महास्त्रमनुपूजयेत् || ९२ || दत्त्वानन्तं तथा धर्मं ज्ञानं वैराग्यमेव च | ऐश्वर्यं कर्णिकायां च [क्, ख्, ग्: चेति] षडुत्थमिदमासनम् || ९३ || अस्योपरि न्यसेद्ध्यात्वा खड्गखेटकधारिणम् | विकरालं महादंष्ट्रं महोग्रं भ्रुकुटीमुखम् || ९४ || स्वाङ्गषट्कसमोपेतं दिङ्मातृपरिवारितम् | स्वार्णैरेवाङ्गषट्कम् [क्, ख्: साङ्गैः (सार्णैः) इत्येवंविधः] तु फट्कारपरिदीपितम् || ९५ || तद्रूपमेव संचिन्त्य ततो मात्रष्टकं यजेत् | इन्द्राणीं पूर्वपत्रे तु सवज्रां युगपत्स्मरेत् || ९६ || आग्नेयीं शक्तिहस्तां च याम्यां दण्डकरां ततः | नैर्-ऋतीं वरुणानीं च वायवीं च विचक्षणः || ९७ || खड्गपाशध्वजैर्युक्तां चिन्तयेद्युगपत्प्रिये | कौवेरीं मुद्गरकरामीशानीं शूलसंयुताम् || ९८ || गन्धपुष्पादिभिः पूज्य स्वतन्त्रे होममाचरेत् | आदौ च कलशं कुर्यात्सहस्राधिकमन्त्रितम् || ९९ || सहस्रं होमयेत्तत्र ततो जप्त्वा विसर्जयेत् | शतमष्टोत्तरं पूर्णं पश्चाद्यजनमारभेत् || १०० || प्. ५२) तत्रादौ कुम्भमादाय हेमादिमयमव्रणम् | सर्वमंन्त्रौषधीगर्भं[तं० सर्वरत्नौषधीगर्भमिति] गन्धाम्बुपरिपूरितम् || १०१ || चूतपल्लववक्त्रं च स्रक्सूत्रसितंकण्ठकम् [तं० कृतकण्ठकमिति] | रक्षोघ्रतिलकाक्रान्तं सितवस्त्रयुगावृतम् || १०२ || शताष्टोत्तरसंजप्त मूलमन्त्रप्रपूजितम् [क्: शूलमन्त्रप्रपूरितमिति] | वार्धान्यपि तथाभूता किंतु सस्त्रेण पूजिता || १०३ || विकिरैरासनं दत्त्वा पूर्वोक्तं तु विचक्षणः | इन्द्रादीन्पूजयेत्पश्चात्स्वदिक्षु प्रोक्तस्वस्वरैः || १०४ || अविच्छिन्नां ततो धारां वार्धान्या प्रतिपादयेत् | भ्रामयेत्कलशं पश्चाद्ब्रूयाल्लोकेश्वरानिदम् || १०५ || भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये [क्: विघ्नोपशान्तये] | सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया || १०६ || नीत्वा तत्रासने पूर्वं मूर्तिभूतं [क्: मूर्तिभूतां परामिति] घटं न्यसेत् | तस्य दक्षिणदिग्भागे वार्धानीं विनिवेशयेत् [तं० विनिवेदयेदिति] || १०७ || आत्ममूर्त्यादिपूज्यान्तं कुम्भे विन्यस्य मन्त्रवित् | गन्धपुष्पादिभिः पूज्य वार्धान्यां पूजयेदिमम् [ख्: पूजयेदसिमिति] || १०८ || प्. ५३) गन्धैर्मण्डलकं [तं० गन्धमण्डलकमिति; ख्: मनुमण्डलकमिति] कृत्वा ब्रह्मस्थाने विचक्षणः | तत्र संपूजयेत्षट्कं [ख्: संपूजयेच्छंखमिति] त्रिकं [तं० त्रिके वेति] वाप्येकमेव वा || १०९ || कुण्डस्योल्लेखनं लेखः कुट्टनं चोपलेपनम् | चतुष्पथाक्षवाटं च वज्रसंस्थापनं तथा || ११० || कुशास्तरणपरिधिविष्टराणां च कल्पनम् | सर्वमस्त्रेण कुर्वीत विद्यार्मोहीमिति [ख्: विद्यामैन्द्रीमिति] न्यसेत् || १११ || शिवमोमिति विन्यस्य संपूज्य द्वितयं पुनः | ताम्रपात्रे शरावे वा आनयेज्जातवेदसम् || ११२ || शिवशुक्रमिति ध्यात्वा विद्यायोनौ विनिक्षिपेत् | ततस्त्वाहुतयः पञ्च विद्याङ्गैरेव होमयेत् || ११३ || जननादि ततः कर्म सर्वमेवं कृते [तं० मेवं कृतं कृतमिति] कृतम् | परापरामनुस्मृत्य दद्यात्पूर्णाहुतिं पुनः || ११४ || संपूज्य मातरं वह्नेः पितरं च विसर्जयेत् | चर्वादिसाधनायाग्निं समुद्धृत्य ततः पुनः || ११५ || ज्वलितस्याथवा वह्नेश्चितिं वामेन वायुना | आकृष्य हृदि संकुम्भ्य दक्षिणेन पुनः क्षिपेत् || ११६ || प्. ५४) पूर्णां च पूर्ववद्दद्याच्छिवाग्नेरपरो विधिः | शिवरूपं तमालोक्य तस्यात्मान्तः कृतिः क्रमात् || ११७ || कुर्यादन्तः कृतिं मन्त्री ततो होमं समारभेत् | मूलं शतेन संतर्प्य तदङ्गानि षडङ्गतः || ११८ || शेषाणां मन्त्रजातीनां दशांशेनैव [क्: दशांशैश्चैव तर्पणमिति] तर्पणम् | ततः प्रवेसयेच्छिष्याञ्शुचीन्स्नातानुपोषितान् || ११९ || प्रणम्य देवदेवेशं चतुष्टयगतं क्रमात् | पञ्चगव्यं चरुं दद्याद्दन्तधावनमेव च || १२० || हृदयेन चरोः सिद्धिर्याज्ञिकैः क्षीरतण्डुलैः | संपातं सप्तभिर्मन्त्रैस्ततः षड्भागभाजितम् || १२१ || शिवाग्निगुरुशिष्याणां [क्: शिष्यांश्चेति] वार्धानीकुम्भयोः समम् | दन्तकाष्ठं ततो दद्यात्क्षीरवृक्षसमुद्भवम् || १२२ || तस्य पातः शुभः प्राचीसौम्यैशाप्योर्ध्वदिग्गतः | अशुभोऽन्यत्र तत्रापि होमोऽष्टशतिको भवेत् || १२३ || बहिःकर्म ततः कुर्याद्दिक्षु सर्वासु दैशिकः | ओं क्षः क्षः सर्वभूतेभ्यः स्वाहेति मनुनामुना || १२४ || प्. ५५) समाचम्य कृतन्यासः समभ्यर्च्य च शङ्करम् | * * * * * * * * * * * * गृहे शुचिः || १२५ || न्यासं कृत्वा तु शिष्याणामात्मनश्च विशेषतः | प्रभाते नित्यकर्मादि कृत्वा स्वप्नं विचारयेत् || १२६ || शुभं प्रकाशयेत्तेषामशुभे होममाचरेत् | ततः पुष्पफलादीनां सुवेशाभरणाः स्त्रियः || १२७ || आपदुत्तरणं चैव शुभदेशावरोहणम् | मद्यपानं शिरश्छेदमाममांसस्य भक्षणम् || १२८ || देवतादर्शनं साक्षात्तथा विष्ठानुलेपनम् | एवं विधं शुभं दृष्ट्वा सिद्धिं प्राप्नोत्यभीप्सिताम् || १२९ || एतदेवान्यथाभूतं दुःस्वप्न [क्: दुःखस्वप्नमितीति] इति कीर्त्यते | पक्वमांसाशनाभ्यङ्गगर्तादिपतनादिकम् || १३० || तन्त्रोक्तां निष्कृतिं कृत्वा द्विजत्वापादनं ततः | देवाग्निगुरुदेवीनां पूजां कृत्वा सदा बुधः || १३१ || एतेषामनिवेद्यैव न किंचिदपि भक्षयेत् | देवद्रव्यं गुरुद्रव्यं चण्डीद्रव्यं च वर्जयेत् || १३२ || निष्फलं नैव चेष्टेत मुहूर्तमपि मन्त्रवित् | योगाभ्यासरतो भूयान्मन्त्राभ्यासरतोऽपि वा || १३३ || प्. ५६) इत्येवमादिसमयाञ्श्रावयित्वा विसर्जयेत् | देवदेवं ततः स्नानं शिष्याणामात्मनोऽपि वा || १३४ || कारयेच्छिवकुम्भेन सर्वदुष्कृतहारिणा | इत्येतत्सामयं कर्म समासात्परिकीर्तितम् || १३५ || इति श्रीमालिनीविजयोत्तरे तन्त्रे समयाधिकारोऽष्टमः || ८ || अथ नवमोऽधिकारः | अथैषां समयस्थानां कुर्याद्दीक्षां यदा गुरुः | तदाधिवासनं कृत्वा * * * * * * * * || १ || स च पूर्वां दिशं सम्यक् सूत्रमास्फालयेत्ततः | तन्मध्यात्पूर्ववारुण्यावङ्कयेत् समान्तरम् || २ || पूर्वापरसमासेन सूत्रेणोत्तरदक्षिणम् | अङ्कयेदपरादङ्कात्पूर्वादपि तथैव ते || ३ || मत्स्यमध्ये क्षिपेत्सूत्रमायतं [क्: ददेत्सूत्रमिति] दक्षिणोत्तरे | मतक्षेत्रार्धमानेन मध्याद्दिक्ष्वङ्कयेत्समम् || ४ || तद्वद्दिक्स्थाच्च कोणेषु अनुलोमविलोमतः | पातयेत्तेषु सूत्राणि चतुरश्रप्रसिद्धये || ५ || वेदाश्रिते[क्: वेदाश्रिते त्रिहस्ते; ख्: एवमस्य त्रिहस्तस्य प्राक्] हि हस्ते प्राक् पूर्वमर्धं विभाजयेत् | हस्तार्धं सर्वतस्त्यक्त्वा पूर्वोदग्यामदिग्गतम् || ६ || गुणाङ्गुलसमैर्भागैः शेषमस्य विभाजयेत् | त्र्यङ्गुलैः कोष्ठकैरूर्ध्वैस्तिर्यक् चाष्टद्विधात्मकैः || ७ || प्. ५८) द्वौ द्वौ भागौ परित्यज्य पुनर्दक्षिणसौम्यगौ | ब्रह्मणः पार्श्वयोर्जीवाच्चतुर्थात्पूर्वतस्तथा || ८ || भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम् | तयोरन्तस्तृतीये तु दक्षिणोत्तरपार्श्वयोः || ९ || जीवे खण्डेन्दुयुगलं कुर्यादन्तर्भ्रमाद्बुधः | तयोरपरमर्मस्थं खण्डेन्दुद्वयकोटिगम् || १० || बहिर्मुखभ्रमं [क्: मुखं भ्रममिति] कुर्यात् खण्डचन्द्रद्वयं द्वयम् | तद्वद्ब्रह्मणि कुर्वीत भागभागार्धसंमितम् [क्: भागं भागार्धेति] || ११ || ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर्द्वयोः | द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः || १२ || एकार्धेन्दूर्ध्वकोटिस्थं [क्: एकार्धेन्द्वर्धेति] ब्रह्मसूत्राग्रसंगतम् | सूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये || १३ || तदग्रपार्श्वयोर्जीवात्सूत्रमेकान्तरे श्रितम् [ख्: वृतमिति] | आदिद्वितीयखण्डेन्दुकोणात्कोणान्तमाश्रयेत् || १४ || तयोरेवापराज्जीवात्प्रथमार्धेन्दुकोणतः | तद्वदेव नयेत्सूत्रं शृङ्गद्वितयसिद्धये || १५ || प्. ५९) क्षेत्रार्धे चापरे [ख्: चापरे कुर्याद्दण्डमस्य यथा शृणु इति पाठान्तरं वर्तते] दण्डो द्विकरच्छन्नपञ्चकः | द्विकरं पञ्च तद्भागाः पञ्चपीठतिरोहिताः || १६ || षेषमन्यद्भवेद्दृश्यं पृथुत्वाद्भागसंमितम् | षड्विस्तृतं चतुर्दीर्घं तदधोऽमलसारकम् || १७ || वेदाङ्गुलं च तदधो मूलं तीक्ष्णाग्रमिष्यते | आदिक्षेत्रस्य कुर्वीत दिक्षु द्वरचतुष्टयम् || १८ || हस्तायामं तदर्धं तु विस्तारादपि तत्समम् | द्विगुणं [ग्: द्विगुणं बाह्यमर्धं चेति] बाह्यतः कुर्यात्ततः पद्मं यथा शृणु || १९ || एकैकभागमानानि कुर्याद्वृत्तानि वेदवत् | दिक्ष्वष्टौ पुनरप्यष्टौ जीवसूत्राणि षोडश || २०|| द्वयोर्द्वयोः पुनर्मध्ये तत्संख्यातानि पातयेत् | एषां [ग्: एषु तृतीयेति] तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम् [क्: भ्रमादिति] || २१ || एतदन्तं प्रकुर्वीत ततो जीवाग्रमानयेत् | यत्रैव कुत्रचित्सङ्गस्तत्संबन्धे स्थिरीकृते || २२ || तत्र कृत्वा नयेन्मन्त्री पत्राग्राणां प्रसिद्धये | एकैकस्मिन्दले कुर्यात्केसराणां त्रयं त्रयम् || २३ || प्. ६०) द्विगुणाष्टाङ्गुलं [क्: द्विगुणाष्टदलमिति] कार्यं तद्वच्छृङ्गकजत्रयम् | ततः प्रपूजयेन्मन्त्री रजोभिः सितपूरकैः || २४ || रक्तैः कृष्णैस्तथा पीतैर्हरितैश्च विशेषतः | कर्णिका पीतवरेणेन मूलमध्याग्रदेशतः [क्: मध्याग्रभेदत] || २५ || सितं रक्तं तथा पीतं कार्यं केसरजालकम् | दलानि शुक्लवर्णानि प्रतिवारणया सह || २६ || पीतं तद्वच्चतुष्कोणं कर्णिकार्धसमं [ग्: कर्णिकारसममिति] बहिः | सितरक्तपीतकृष्णैस्तत्पादान्वह्नितः क्रमात् || २७ || चतुर्भिरपि शृङ्गाणि त्रिभिर्मण्डलमिष्यते | दण्डः स्यान्नीलरक्तेन पीतमामलसारकम् || २८ || रक्तं शूलं प्रकूर्वीत यत्तत्पूर्वं प्रकल्पितम् | पश्चाद्द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् || २९ || द्वारं वेदाश्रि वृत्तं वा संकीर्णं वा विचित्रितम् | एकद्वित्रिपुरं तुल्यं सामुद्रमथ वोभयम् || ३० || कपोलकण्ठशोभोपशोभादिबहुचित्रितम् | विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम् || ३१ || प्. ६१) एवमत्र सुनिष्पन्ने गन्धवस्त्रेण मार्जनम् | कृत्वा स्नानं प्रकुर्वीत पूर्वोक्तेनैव कर्मणा [ग्: वर्मणेति] || ३२ || प्रविश्य पूर्ववन्मन्त्री उपविश्य यथा पुरा | न्यस्य पूर्वोदितं सर्वं पञ्चधा भैरवात्मकम् || ३३ || उत्तरे विन्यसेच्छृङ्गे देवदेवं नवात्मकम् | मध्ये भैरवसद्भावं दक्षिणे रतिशेखरम् || ३४ | रक्तत्वङ्मांसमूत्रैस्तु वामकर्णविभूषितम् | बिन्दुयुक्तं प्रमेयोतं रतिशेखरमादिशेत् || ३५ || शाक्तं च पूर्ववत्कृत्वा तर्पयेत्पूर्ववद्बुधः | पुनरभ्यर्च्य देवेशं भक्त्या विज्ञापयेदिदम् || ३६ || गुरुत्वेन त्वयैवाहमाज्ञातः परमेश्वर | अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः || ३७ || तदेते [क्: तदेतद्विविधा] तद्विधाः प्राप्तास्त्वमेषां कुर्वनुग्रहम् | मदीयां तनुमाविश्य येनाहं त्वत्समो भवन् || ३८ || करोम्येवमिति प्रोक्तो हर्षादुत्फुल्ललोचनः | ततः षड्विधमध्वानमनेनाधिष्ठितं स्मरेत् || ३९ || प्. ६२) सृष्ट्यादिपञ्चकर्माणि निष्पाद्यान्यस्य [ख्: निष्पाधानानीति] चिन्तयेत् | शक्तिभिर्जीवमूर्तिः स्याद्द्विधैवास्य परापरा || ४० || मूर्तामूर्तत्वभेदेन [क्: मूर्त्यमूर्तत्वभेदेन ममाप्येषा] मामप्येषानुतिष्ठति | करणत्वं प्रयान्त्यस्य मन्त्रा ये हृदयादयः || ४१ || एवंभूतं शिवं ध्यात्वा तद्गतेनान्तरात्मना | भाव्यं तन्मयमात्मानं दशधावर्तयेच्छिवम् || ४२ || त्रिःकृत्वा सर्वमन्त्रांश्च गर्भावरणसंस्थितान् | सितोष्णीषं ततो बद्ध्वा सप्तजप्तं नवात्मना || ४३ || शिवहस्तं ततः कुर्यात्पाशविश्लेषकारकम् | प्रक्षाल्य गन्धतोयेन हस्तं हस्तेन केनचित् || ४४ || गन्धदिग्धो यजेद्देवं साङ्गमासनवर्जितम् | आत्मन्यालम्भनं कुर्याद्ग्रहणं योजनं तथा || ४५ || वियोगं च तहोद्धारं पाशच्छेदादिकं च यत् | एवं पतित्वमासाद्य प्रपञ्चव्याप्तितः शिवम् || ४६ || भावयेत्पृथगात्मानं तत्समानगुणं ततः | मण्डलस्थोऽहमेवायं साक्षीवाखिलकर्मसु || ४७ || प्. ६३) होमाधिकरणत्वेन वह्नावहमवस्थितः | आयागान्तमहं कुम्भे संस्थितो विघ्नशान्तये || ४८ || शिष्यदेहे च तत्पाशविश्लेषत्वप्रसिद्धये | साक्षात्स्वदेहसंस्थोऽहं कर्तानुग्रहकर्मणः || ४९ || इत्येतत् सर्वमालोच्य शोध्याध्वानं [ग्: शोध्यात्मानमिति] विचिन्तयेत् | दीक्षां येनाध्वना मन्त्री शिष्याणां कर्तुमिच्छति || ५० || तत्रैवालोचयेत्सर्वं यायात्पदमनामयम् | तत्र तेनापृथग्भूत्वा पुनः संचिन्तयेदिदम् || ५१ || अहमेव परं तत्त्वं मयि सर्वमिदं जगत् | अधिष्ठाता च कर्ता च सर्वस्याहमवस्थितः || ५२ || तत्समत्वं गतो जन्तुर्मुक्त इत्यभिधीयते | एवं संचिन्त्य भूयोऽपि शोध्यमाद्यं समाश्रयेत् || ५३ || शिष्यमण्डलवह्नीनां तत्रैकं भावयेत्स्थितम् | शोध्याध्वानं तु शिष्याणां न्यस्य देहे पुरोक्तवत् || ५४ || स्वेन स्वेनैव मन्त्रेण स्वव्याप्तिध्यानमाश्रयेत् | आगन्तु सहजं शाक्तं बद्ध्वादौ पाशपञ्जरम् || ५५ || प्. ६४) बाहुकण्ठशिखाग्रेषु त्रिषु (वृत्) त्रिगुणतन्तुना | स्वमन्त्रेण ततस्तत्त्वमावाह्येष्ट्वा [क्: आवाह्याध्वा प्रतर्प्येति] प्रतर्प्य च || ५६ || ततस्तच्छोध्ययोनीनां व्यापिनीं योनिमानयेत् | मायान्तेऽध्वनि तामेव शुद्धे विद्यां विचक्षणः || ५७ || तस्यां संतर्पणं कृत्वा शिष्यमस्त्रेण ताडयेत् | आलभ्य हृदये विद्वाञ्छिवहस्तेन तं पुनः || ५८ || ग्रहणं तस्य कुर्वीत रश्मिमात्रावियोगतः | नाडीमार्गेण गत्वा तु हंहृन्मन्त्रपुटीकृतम् || ५९ || कृत्वात्मस्थं ततो योनौ गर्भाधानं विचिन्तयेत् | त्र्यर्णार्धाक्षरया [क्: त्र्यर्णाधीर्धाक्षरामिति क्रियान्वितामिति च] मन्त्री सर्वगर्भक्रियान्वितम् || ६० || भोग्यभोक्तृत्वसामर्थ्यनिष्पत्त्या जननं बुधः | दक्षशृङ्गस्थया मन्त्री प्रकुर्वीत सुलोचने || ६१ || पिबनीपूर्विकाभिश्च अस्त्राद्यैः परयापि च | सम्यगाहुतयो दद्याद्दश पञ्च विचक्षणः || ६२ || ततोऽस्यापरया कार्यं पाशविच्छेदनं बुधैः | भुवनेशमथामन्त्र्य तत्त्वेश्वरमथापि वा || ६३ || प्. ६५) भोगभागा * * * * पश्चात्तमिदमादिशेत् | भुवनेश त्वया नास्य साधकस्य शिवाज्ञया || ६४ || प्रतिबन्धः प्रकर्तव्यो यातुः पदमनामयम् | उत्क्षेपणं ततः कुर्यात्तयैवाध्युष्टवर्णया || ६५ || अव्याप्तिमन्त्रसंयोगात्पृथङ् मार्गविशुद्धये | दद्यादेकैकशो ध्यात्वा आहुतीनां त्रयं त्रयम् || ६६ || ततः पूर्णाहुतिं दद्यात्परया वौषडन्तया | शिशुमुत्क्षिप्य चात्मस्थं तद्देहस्थं च कारयेत् || ६७ || आहुतीनां त्रयं दद्याद्दत्त्वा पूर्णाहुतिं बुधः | महापाशुपतास्त्रेण विलोमादिविशुद्धये || ६८ || विसर्जयित्वा वागीशीं तत्त्वं तु तदनन्तरम् | विलीनं भावयेच्छुद्धमशुद्धे परमेश्वरि || ६९ || कालान्तव्याप्तिसंशुद्धौ कृतायामेवमादरात् | बाहुपाशं [ग्: बहुपाशमिति] तु तं छित्त्वा होमयेदाज्यसंयुतम् || ७० || मायातत्त्वे विशुद्धे तु कण्ठपाशे तथा बुधः | मायान्तमार्गसंशुद्धौ दीक्षाकर्मणि सर्वतः || ७१ || प्. ६६) क्रियास्वनुक्तमन्त्रासु योजयेदपरां बुधः | विद्यादिसकलान्ते च तद्वदेव परान्पराम् || ७२ || योजयेन्नैश्वरादूर्ध्वं [क्: योजयेच्चैश्वरादिति] पिबन्यादिकमष्टकम् [क्: अष्टधेति] | न चापि सकलादूर्ध्वमङ्गषट्कं विचक्षणः || ७३ || निष्कले परया कार्यं यत्किंचिद्विधिचोदितम् | विशुद्धे सकलान्ते तु शिखां छित्त्वा विचक्षणः || ७४ || हुत्वा चाज्यं ततः शिष्यं स्नापयेदनुपूर्वतः | आचम्याभ्यर्च्य देवेशं स्रुवमापूर्य सर्पिषा || ७५ || कृत्वा शिष्यं तथात्मस्थं मूलमन्त्रमनुस्मरेत् | शिवशक्तिं तथात्मानं शिष्यं सर्पिस्तथानलम् || ७६ || एकीकुर्वञ्छनैर्गच्छेद्द्वादशान्तमनन्यधीः | तत्र कुम्भकमास्थाय ध्यायन्सकलनिष्कलम् || ७७ || तिष्ठेत्तावदनुद्विग्नो यावदाज्यक्षयो भवेत् | एवं युक्तः परे तत्त्वे गुरुणा शिवमूर्तिना || ७८ || न भूयः पशुतामेति दग्धमायानिबन्धनः | विधिरेष समाख्यातो दीक्षाकर्मणि भौवने || ७८ || प्. ६७) इतराध्वविधिं मुक्त्वा शिवयोगविधिं तथा | विलोमकर्म संत्यज्य द्विगुणस्तत्त्ववर्त्मनि || ८० || तद्वच्च वर्णमार्गेऽपि चतुर्धा पदवर्त्मनि | अष्टधा मन्त्रमार्गेऽपि कलाख्येऽपि च तद्द्विधा || ८१ || त्रिखण्डे विंशतिगुणः स एव परिकीर्तितः | इति सर्वाध्वसंशुद्धिः समासात्परिकीर्तिता || ८२ || साधकाचार्ययोः कर्म कथ्यमानमतः शृणु | इति श्रीमालिनीविजयोत्तरे तन्त्रे क्रियादीक्षाधिकारो नवमोऽधिकारः || ९ || अथ दशमोऽधिकारः अथ लक्षणसंपन्नं सिद्धिसाधनतत्परम् | शास्त्रज्ञं संयतं धीरमलुब्धमशठं दृढम् || १ || अपरीक्ष्य गुरुस्तद्वत्साधकत्वे नियोजयेत् | समभ्यर्च्य विधानेन पूर्ववत्परमेश्वरम् || २ || द्वितीये पूर्ववत्कुम्भं हेमादिमयमव्रणम् | सर्वत्र मध्यपद्मस्य दक्षिणं दलमाश्रितम् || ३ || नायकानां पृथङ्मन्त्रान्पूजयेत्कुसुमादिभिः | तं संतर्प्य सहस्रेण प्रकुर्यादभिषेचनम् || ४ || भद्रपीठे शुभे स्थाप्य श्रीपर्णे दारुनीर्मिते | पूर्वामुखमुदग्वक्त्रं स्नातं पुष्पाद्यलङ्कृतम् || ५ || कृतमन्त्रतनुः सम्यक् सम्यक् कृतमङ्गलः | शङ्खभेर्यादिनिर्घोर्षैर्वेदमङ्गलनिस्वनैः || ६ || सर्वराजोपचारेण कृत्वा तस्याभिषेचनम् | सदाशिवसमं ध्यात्वा ततस्तमपि भूषयेत् || ७ || पुनः संपूज्य देवेशं मन्त्रमस्मै ददेद्बुधः | पुष्पाक्षततिलोपेतः सजल * * श्वरं न्यसेत् || ८ || प्. ६९) सोऽपि मूर्धनि तं तद्वन्मूर्तिमाश्रित्य दक्षिणाम् | अभिषिच्य ततोऽस्त्रेण रुद्रशक्तिं प्रकाशयेत् || ९ || स तयालिङ्ग्य तन्मन्त्रं सहस्रेण प्रतर्पयेत् | तदा प्रभृति तन्निष्ठस्तत्समानगुणो भवेत् || १० || आचार्यस्याभिषेकोऽयं स * मन्त्रविधिं विना | किंतु तस्य * * * * अधिवासपदान्वितम् || ११ || एवमेतत्पदं प्राप्यं दुष्प्राप्यमकृतात्मनाम् | साधको मन्त्रसिद्ध्यर्थं मन्त्रव्रतमुपाचरेत् || १२ || एवं कृत्वाभिषेकोक्तं स्नात्वा विद्याधिपं जपेत् | लक्षमेकं द(शांशेन त)स्य तर्पणमाचरेत् || १३ || पूर्ववच्चाभिषेकं च कृत्वा ब्रह्मशिरो जपेत् | तल्लक्ष्यस्तन्मयो भूत्वा लक्षद्वयमतन्द्रितः || १४ || लक्षद्वयं च रुद्राणीं चतुष्कं तु पुरुष्टुतम् | लक्षाणां पञ्चकं देवि महापाशुपतं जपेत् || १५ || सितरक्तपीतकृष्णविचित्राम्बरभूषणः | ततः संरक्षितो मन्त्रैरेभिरप्रतिमो भवेत् || १६ || अबाध्यः सर्वदुष्टानां मन्त्रतेजोपबृंहितः | एवं चीर्णव्रतो भूत्वा यं साधयितुमिच्छति || १७ || प्. ७०) दत्त्वार्घं तस्य लक्षाणां जपेन्नवकमादरात् | उत्तमद्रव्यहोमाच्च तद्दशांशेन तर्पणम् || १८ || महाक्ष्मापपलान्याहुरुत्तमादीनि तद्विदः | मध्यमे द्विगुणं कृत्वा त्रिगुणं कन्यसेऽपि च || १९ || आज्यगुग्गुलनृस्नेहा महामांससमाः मताः | दधिबिल्वपयः पद्माः क्ष्मासमाः परिकीर्तिताः || २० || धात्रीदूर्वामृतामीनाः सम्यगाज्यसमा मताः | तिलाद्यैरथ कुर्वीत नवषट्त्रिगुणं क्रमात् || २१ || पूर्वमेवमिमं [ग्: पूर्वसेवामिमामिति] कृत्वा सिद्धेरर्घं ददेद्बुधः | दत्त्वार्घं तु जपेत्तावद्यावत्सिद्धिरभीप्सिता || २२ || लक्षेणैकेन पृथ्वीशः सभृत्यबलवाहनः | वशमानीयते देवि द्वाभ्यां राज्यमवाप्नुयात् || २३ || त्रिभिर्निधानसंसिद्धिश्चतुर्भिर्बलसिद्धयः | पञ्चभिर्मेदिनी सर्वा षड्भिरप्सरसां गणः || २४ || सप्तभिः सप्तलोकाश्च दशभिस्तत्समो भवेत् | पञ्चाशद्भिस्ततो गच्छेदव्यक्तान्तं महेश्वरि || २५ || प्. ७१) मायान्तं षष्टिभिर्लक्षैरीश्वरान्तमशीतिभिः | सकलावनिपर्यन्तं कोटिजप्तस्य सिद्ध्यति || २६ || अथवा वीरचित्तः स्यात्कृत्वा सेवां यथोदिताम् | कृष्णभूतदिने रात्रौ विधिमेनं समाचरेत् || २७ || कृत्वा पूर्वोदितं यागं हुत्वा द्रव्यमथोत्तरम् | ऊर्ध्वकायो जपेन्मन्त्री सुनिष्कम्पोत्तरामुखः || २८ || तावद्यावत्समायाता [क्: समाख्याता] योगेश्वर्यः समन्ततः | कृत्वा कलकलारावमतिघोरं सुदारुणम् || २९ || भूमौ निपत्य तिष्ठन्ति वेष्ट्यान्तः साधकेश्वरम् | तासां कृत्वा नमस्कारं भित्त्वा वामाङ्गमात्मनः || ३० || तदुत्थेन ततस्तासां दत्त्वार्घं तत्समो भवेत् | आचार्योऽपि च षण्मासं मौनी प्रतिदिनं चरेत् [ग्: प्रतिदिनं जपेदिति] || ३१ || दश पञ्च च ये मन्त्राः पूर्वमुक्ता मया तव | पूर्वन्यासेन संनद्धस्त्रिकालं वह्निकार्यकृत् || ३२ || ध्यायेत्पूर्वोदितं शूलं ब्रह्मचर्यं समाश्रितः | कृत्वा पूर्वोदितं यागं त्रिशक्तिपरिमण्डलम् || ३३ || प्. ७२) अभिषिञ्चेत्तदात्मानमादावन्ते च दैशिकः | एवं चीर्णव्रतो भूत्वा मन्त्री मन्त्रविदुत्तमः || ३४ || निग्रहानुग्रहं कर्म कुर्वन्न प्रतिहन्यते [क्: प्रतिपश्यतीति] | शुद्धयोर्विन्यसेन्मूलमध्यादित्रितये त्रयम् || ३५ || वामाङ्गुष्ठे तले नेत्रं तर्जन्यामस्त्रमेव च | अक्षह्रीमिति [ख्: नमो ह्रीमिति] खण्डेन शब्दराशिं निवेशयेत् || ३६ || नफह्रीमित्यनेनापि शक्तिमूर्तिं विचक्षणः | विपरीतमहामुद्राप्रयोगान् * * मूलमेव च || ३७ || स्वस्थानेषु तथाङ्गानि न्यासः सामान्य इत्ययम् | इति श्रीमालिनीविजयोत्तरे तन्त्रेऽभिषेकाधिकारो दशमः || १० || अथ एकादशोऽधिकारः अथातः संप्रवक्ष्यामि दीक्षां परमदुर्लभाम् | भुक्तिमुक्तिकरीं सम्यक्सद्यः प्रत्ययकारिकाम् || १ || नास्यां मण्डलकुण्डादि किंचिदप्युपयुज्यते | न च न्यासादिकं पूर्वं स्नानादि च यथेच्छया || २ || प्रविश्य यागसदनं सूपलिप्तं सुचर्चितम् | प्राङ्मुखोदङ्मुखो वापि सुपुष्पाम्बरभूषितः || ३ || दीप्तां शक्तिमनुस्मृत्य पादाग्रान्मस्तकावधि | महामुद्राप्रयोगेन निर्दग्धां चिन्तयेत्तनुम् || ४ || अनुलोमप्रयोगाच्च मालिनीममृतप्रभाम् | चिन्तयेत्तनुनिष्पत्त्यै तद्ध्यानगतमानसः || ५ || शोध्याध्वानं ततो देहे पूर्वोक्तमनुचिन्तयेत् | ततः संशोध्य वस्तूनि शक्त्यैवामृततां नयेत् || ६ || परासंपुटमध्यस्थां मालिनीं सर्वकर्मसु | योजयेत विधानज्ञः परां वा केवलांप्रिये || ७ || गणेशं पूजयित्वा तु पुरा विघ्नप्रशान्तये | ततः स्वगुरुमारभ्य पूजयेद्गुरुपद्धतिम् || ८ || प्. ७४) गणेशाधस्ततः सर्वं यजेन्मन्त्रकदम्बकम् | तत्पतीनां ततोऽर्धं च तत्रैव परिपूजयेत् || ९ || अन्त्याधः पूजयेद्विद्यां तद्वद्विद्यां महेश्वरीम् | मन्त्रविद्यागणस्यान्तः कुलशक्तिं निवेशयेत् || १० || पूर्वयाम्यापरोदक्षु माहेश्यादिचतुष्टयम् | इन्द्राणीपूर्वकं तद्वदैशादिदल अन्तगम् || ११ || तत्रोपरि न्यसेद्देवं कूटरूपाणुनामुना | जीवं दण्डसमाक्रान्तं शूलस्योपरि संस्थितम् || १२ || दक्षाङ्गुलि ततोऽधस्तात्ततो वामपयोधरम् | नाभिकण्ठौ ततोऽधस्ताद्वामस्कन्धविभूषणौ || १३ || शिवजिह्वान्वितः पश्चात्तदूर्ध्वोष्ठेन चोपरि | सर्वयोगिनीचक्राणामधिपोऽयमुदाहृतः || १४ || अस्याप्युच्चारणादेव संवित्तिः स्यात्परोदिता | ततो वीराष्टकं पश्चाच्छक्त्युक्तविधिना [क्: शक्त्याक्तेति] यजेत् || १५ || प्रभूतैर्विविधैरिष्ट्वा गन्धधूपैः स्रगादिभिः | श्रीकारपूर्वकं नाम पादान्तं परिकल्पयेत् || १६ || ततः शिष्यं समाहूय बहुधा सुपरीक्षितम् | रुद्रशक्त्या तु संप्रोक्ष्य देवाग्रे विनिवेशयेत् || १७ || प्. ७५) भूजौ तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत् | तथैवाप्यर्पयेत्पुष्पं करयोर्गन्धदिग्धयोः || १८ || निरालम्बौ तु तौ ध्यात्वा शक्त्याकृष्टौ विचिन्तयेत् | शक्तिमन्त्रितनेत्रेण बद्ध्वा नेत्रे तु पूर्ववत् || १९ || ततः प्रक्षेपयेत्पुष्पं सा शक्तिस्तत्करस्थिता | यत्र [क्: तत्र तत्पतनेति] तत्पतते पुष्पं तत्कुलं तस्य लक्षयेत् || २० || मुखमुद्घाट्य तं पश्चात्पादयोः [क्: मुखं बद्धा युतं पश्चादिति] प्रतिपातयेत् | ततोऽस्य मस्तके चक्रं हस्तयोश्चार्च्य योगवित् || २१ || तद्धस्तौ प्रेरयेच्छक्त्या यावन्मूर्धान्तमागतौ | शिवहस्तविधिः प्रोक्तः सद्यः प्रत्ययकारकः || २२ || चरुकं दापयेत्पश्चात् खर्जूरादिफलोद्भवम् | शक्त्यालम्बां तनुं कृत्वा स्थापयेदग्रतः शिशोः || २३ || पुष्पक्षेपप्रयोगेन हस्तमाकृस्य दक्षिणम् | चरुकं ग्राहयेन्मन्त्री तद्ध्यानगतमानसः || २४ || शिवहस्तप्रयोगेन समारोप्य मुखं नयेत् | अनेनैव विधानेन क्षीरवृक्षसमुद्भवम् || २५ || प्. ७६) दन्तकाष्ठं ददेद्देवि षोडशाङ्गुलमायतम् | एतेषां चालनान्मन्त्री शक्तिपातं परीक्षयेत् || २६ || मन्दतीव्रादिभेदेन मन्दतीव्रादिकाद्बुधः | इत्ययं समयी प्रोक्तः संस्थितोक्तेन वर्त्मना || २७ || चिकीर्षुश्च यदा दीक्षामस्यैवार्पितमानसः | तदिष्ट्वा पूर्ववद्योगी कुलेशं तमनुक्रमात् [क्: सुकुलीनमनुक्रमादिति] || २८ || संपूज्य पूर्ववच्छिष्यमृजुदेहे विलोकयेत् | शक्तिं संचिन्त्य पादाग्रान्मस्तकान्तं विचक्षणः || २९ || शोध्याध्वानं ततो न्यस्य सर्वाध्वव्याप्तिभावताम् | शक्तितत्त्वादिभेदेन पूर्वोक्तेन च वर्त्मना || ३० || उपविश्य ततस्तस्य विधानमिदमाचरेत् | मूलशोध्यात्समारभ्य शक्तिं दीप्तानलप्रभाम् || ३१ || योजयेच्छोध्यसंशुद्धिभावनागतमानसः | एवं सर्वाणि शोध्यानि निर्दहन्तीमनामयाम् || ३२ || शिवे संचिन्तयेल्लीनां निष्कले सकलेऽपि वा | योगिना योजिता मार्गे स्वजातीयस्य पोषणम् || ३३ || प्. ७७) कुरुते निर्दहत्यन्यद्भिन्नजातिकदम्बकम् | अनया शोध्यमानस्य शिष्यस्यास्य महामतिः || ३४ || लक्षयेच्चिह्नसंघातमानन्दादिकमादरात् | आनन्द उद्भवः कम्पो निद्रा घूर्णिश्च पञ्चमी [क्: धूर्णिश्च पञ्चकमिति] || ३५ || एवमाविष्ट्या शक्त्या मन्दतीव्रादिभेदतः | पाशस्तोभपशुग्राहौ प्रकुर्वीत यथेच्छया || ३६ || गृहीतस्य पुनः कुर्यान्नियोगं शेषभुक्तये | अथवा कस्यचिन्नायमावेशः [क्: कंस्यचिद्वायमिति] संप्रजायते || ३७ || तदेनं युगपच्छक्त्या सबाह्याभ्यन्तरे [ग्: भ्यन्तरं दहोदिति] दहेत् | तया संदह्यमानोऽसौ च्छिन्नमूल इव द्रुमः || ३८ || पतते काश्यपीपृष्ठे आक्षेपं वा करोत्यसौ | यस्य त्वेवमपि स्यान्न तं चैवोपलवत्त्यजेत् || ३९ || पृथक्तत्त्वविधौ दीक्षां योग्यतावश्यवर्तिनः | तत्त्वाभ्यासविधानेन वक्ष्यमाणेन कारयेत् || ४० || इति संदीक्षितस्यास्य मुमुक्षोः शेषवर्तनम् | कुलक्रमेष्टिरादेश्या पञ्चावस्थासमन्विता || ४१ || प्. ७८) बुहुक्षोस्तु प्रकुर्वीत सम्यग्योगाभिषेचनम् | तत्रेष्ट्वा पूर्ववद्देहं विस्तीर्णैर्विबुधैर्बुधैः (?) || ४२ || हेमादिदीपकानष्टौ घृतेनारुणवर्तिकान् | कुलाष्टकेन संबोध्य शिवं शङ्खे प्रपूजयेत् || ४३ || सर्वरत्नौषधीगर्भे गन्धाम्बुपरिपूरिते | तेनाभिषेचयेत्तं तु शिवहस्तोक्तवर्त्मना || ४४ || आचार्यस्याभिषेकोऽयमधिकारपदान्वितः | कुर्यात्पिण्डादिभिस्तद्वच्चतुःषष्टिं प्रदीपकान् || ४५ || अभिषिक्तविधावेव सर्वयोगिगणेन तु | विदितौ भवतस्तत्र गुरुर्मोक्षप्रदो भवेत् || ४६ || अनयोः कथयेज्ज्ञानं [क्: कथयोर्ज्ञानमिति] त्रिविधं सर्वमप्यलम् | स्वकीयाज्ञां ददेद्योगी स्वक्रियाकरणं प्रति || ४७ || इति श्रीमालिनीविजयोत्तरे तन्त्रे दीक्षाधिकार एकादशः || ११ || अथ द्वादशोऽधिकारः | अथैतां देवदेअस्य श्रुत्वा वाचमतिस्फुटाम् | प्रहर्षोत्फुल्लनयना जगदानन्दकारिणी || १ || संतोषामृतसंतृप्ता देवी देवगणार्चिता | प्रणम्यान्धकहन्तारं पुनराहेति भारतीम् || २ || पूर्वमेव त्वया प्रोक्तं योगी योगं समभ्यसेत् | तस्याभ्यासः कथं कार्यः कथ्यतां त्रिपुरान्तक || ३ || एवमुक्तो जगद्धात्र्या भैरवो भयनाशनः | प्राह प्रसन्नगम्भीरां गिरमेतामुदारधीः || ४ || योगाभ्यासविधिं देवि कथ्यमानं मया शृणु | स्थिरीभूतेन येनेह योगी सिद्धिमवाप्स्यति || ५ || गुहायां भूगृहे वापि निःशब्दे सुमनोरमे | सर्वाबाधाविनिर्मुक्ते योगी योगं समभ्यसेत् || ६ || जितासनो जितमना जितप्राणो जितेन्द्रियः | जितमिद्रो जितक्रोधो जितोद्वेगो गतव्यथः || ७ || प्. ८०) लक्ष्यभेदेन वा सर्वमथवा चित्तभेदतः | धरादिशक्तिपर्यन्तं योगीशस्तु प्रसाधयेत् [ख्: मुक्त्वा समादधे] || ८ || व्योमविग्रहविन्द्वर्णभुवनध्वनिभेदतः | लक्ष्यभेदः [क्: लक्षभेदो मत] स्मृतः षोढा यथावदुपदिश्यते || ९ || बाह्याभ्यन्तरभेदेन समुच्चयकृतेन च | त्रिविधं कीर्तितं व्योम दशधा विन्दुरिष्यते || १० || कदम्बगोलकाकारः स्फुरत्तारकसंनिभः [क्: तारकसप्रभ] | शुक्लादिभेदभेदेन एकोऽपि दशधा मतः || ११ || चिञ्चिनीचीरवाकादिप्रभेदाद्दशधा ध्वनिः | विग्रहः स्वाणुभेदाच्च द्विधा भिन्नोप्यनेकधा || १२ || भुवनानां न संख्यास्ति वर्णानां सा शतार्धिका | एकस्मिन्नपि साध्ये वै लक्षेदत्रानुषङ्गतः || १३ || अन्यान्यपि फलानि स्युर्लक्ष्यभेदः स उच्यते | एकमेव फलं यत्र चित्तभेदस्त्वसौ मतः || १४ || होमदीक्षाविशुद्धात्मा समावेशोपदेशवान् [क्: समादेशोपदेशवानिति] | यं सिषाधयिषुर्योगमादावेव समाचरेत् || १५ || प्. ८१) हस्तयोस्तु पराबीजं न्यस्य शक्तिमनुस्मरेत् | महामुद्राप्रयोगेन विपरीतविधौ बुधः || १६ || ज्वलद्वह्निप्रतीकाशं पादाग्रान्मस्तकान्तिकम् | नमस्कारं ततः पश्चाद्बद्धा हृदि धृतानिलः || १७ || स्वरूपेण पराबीजमतिदीप्तमनुस्मरेत् | तस्य मात्रात्रयं ध्यायेत्कखत्रयविनिर्गतम् || १८ || ततस्तालशताद्योगी समावेशमवाप्नुयात् | ब्रह्मघ्नोऽपि हि सप्ताहात्प्रतिवासरमभ्यसेत् || १९ || एवमाविष्टदेहस्तु यथोक्तं विधिमाचरेत् | यः पुनर्गुरुणैवादौ कृतावेशविधिक्रमः [क्: विधिक्रमात्] || २० || स वासनानुभावेन भूमिकाजयमारभेत् | गणनाथं नमस्कृत्य संस्मृत्य त्रिगुरुक्रमम् || २१ || सम्यगाविष्टदेहः स्यादिति ध्यायेदनन्यधीः | स्वदेहं हेमसंकाशं तुर्याश्रं वज्रलाञ्छितम् || २२ || ततो गुरुत्वमायाति सप्तविंशतिभिर्दिनैः | दिवसात्सप्तमादूर्ध्वं जडता चास्य जायते || २३ || प्. ८२) षड्भिर्मासैर्जितव्याधिर्द्रुतहेमनिभो भवेत् | वज्रदेहस्त्रिभिश्चाब्दैर्नवनागपराक्रमः || २४ || एषा ते पार्थिवी शुद्धा धारणा परिकीर्तिता | आद्या पूर्वोदिते देवि भेदे पञ्चदशात्मके || २५ || सव्यापारं स्मरेद्देहं दुर्तहेमसमप्रभम् | उपविष्टं च तुर्याश्रे मण्डले वज्रभूषिते || २६ || सप्ताहाद्गुरुतामेति मासाद्व्याधिविवर्जितः | षड्भिर्मासैर्धरान्तःस्थं सर्वं जानाति तत्त्वतः || २७ || त्रिभिरब्दैर्महीं भुङ्क्ते सप्ताम्भोनिधिमेखलाम् | द्वितीयः कथितो भेदस्तृतीयमधुना शृणु || २८ || तद्वदेव स्मरेद्देहं किंतु व्यापारवर्जितम् | पूर्वोक्तं फलमाप्नोति तद्वत्पातालसंयुतम् || २९ || चतुर्थे हृद्गतं ध्यायेद्द्वादशाङ्गुलमायतम् | पूर्ववर्णस्वरूपेण सव्याअपारमतन्द्रितः || ३० || प्राप्य पूर्वोदितं सर्वं पातालाधिपतिर्भवेत् | तदेव स्थिरमाप्नोति निर्व्यापारे तु पञ्चमे || ३१ || स्फुरत्सूर्यनिभं पीतं षष्ठे कृष्णं घनावृतम् | निस्तरङ्गं स्मरेत्तद्वत्सप्तमेऽपि विचक्षणः || ३२ || द्वयेऽप्यत्र स्थिरीभूते भुर्भुवःस्वरिति त्रयम् | वेत्ति भुङ्क्ते च लोकानां पुरोक्तैरेव वत्सरैः || ३३ || प्. ८३) सकलं हृदयान्तस्थमात्मानं कनकप्रभम् | स्वप्रभाद्योतिताशेषदेहान्तमनुचिन्तयेत् || ३४ || सव्यापारादिभेदेन सप्तलोकीं तु पूर्ववत् | वेत्ति भुङ्क्ते स्थिरीभूते भेदेऽस्मिन्नवमे बुधः || ३५ || रविबिम्बनिभं पीतं पूर्ववद्द्वितयं स्मरेत् | ब्रह्मलोकमवाप्नोति पूर्वोक्तेनैव वर्त्मना || ३६ || अधः प्रकाशितं पीतं द्विरूपं पूर्ववन्महत् | चिन्तयेन्मत्समो भूत्वा मल्लोकमनुगच्छति || ३७ || सबाह्याभ्यन्तरं पीतं तेजः सर्वप्रकाशकम् | चिन्तयेच्छतरुद्राणामधिपत्वमवाप्नुयात् || ३८ || इत्येवं पृथिवीतत्त्वमभ्यस्यं दशपञ्चधा | योगिभिर्योगसिद्ध्यर्थं तत्फलानां बुभुक्षया || ३९ || योग्यतावशसंजाता [क्: वशगा जातेति] यस्य यत्रैव वासना | स तत्रैव नियोक्तत्र्यो दीक्षाकाले विचक्षणैः || ४० || यो यत्र योजितस्तत्त्वे स तस्मान्न निवर्तते | तत्फलं सर्वमासाद्य शिवयुक्तोऽपवृज्यते || ४१ || अयुक्तोऽप्यूर्ध्वसंशुद्धिसंप्राप्तभुवनेशतः | शुद्धाच्छिवत्वमायाति दग्धसंसारबन्धनः || ४२ || इति श्रीमालिनीविजयोत्तरे तन्त्रे प्रथमधारणाधिकारो द्वादशः || १२ || अथ त्रयोदशोऽधिकारः | अथातः संप्रवक्ष्यामि धारणां वारुणीमिमाम् | यया संसिद्धयोगेन जलान्ताधिपतिर्भवेत् || १ || जलान्तःस्थं [जलात्मकं स्मरेदिति पाठः स्वच्छन्दे प्रमाणितः |] स्मरेद्देहं सितं शीतं सुअर्तुलम् | सबाह्याभ्यन्तरं योगी नान्यदस्तीति चिन्तयेत् || २ || एवमभ्यस्यतस्तस्य सप्ताहात्क्लिन्नता भवेत् | पित्तव्याधिपरित्यक्तो मासेन भवति ध्रुवम् || ३ || स्निग्धाङ्गः स्निग्धदृष्टिश्च नीलकुञ्चितमूर्धजः | भवत्यब्देन योगीन्द्रस्त्रिभिर्वर्षति मेघवत् || ४ || इत्येषा वारुणी प्रोक्ता प्रथमा शुद्धधारणा | अधुना संप्रवक्ष्यामि भेदैर्भिन्नामिमां पुनः || ५ || पूर्ववच्चिन्तयेद्देहं सव्यापारं सितं स्वकम् | जलोपरि स्थितं देवि तद्गतेनान्तरात्मना || ६ || सप्ताहान्मुच्यते रोगैः सर्वैः पित्तसमुद्भवैः | षण्मासाज्जायते स्थैर्यं यदि तन्मयतां गतः || ७ || प्. ८५) जलावरणविज्ञानमब्दैरस्य त्रिभिर्भवेत् | निर्व्यापारप्रभेदेऽपि सर्वत्र वरुणोपमः || ८ || स याति वारुणं तत्त्वं भूमिकां क्रमशोऽभ्यसेत् | पूर्ववत्कण्ठमध्यस्थमात्मानं द्वादशाङ्गुलम् || ९ || संस्मरञ्जलतत्त्वेशं प्रपश्यत्यचिराद्ध्रुवम् | तद्दृष्टिः स्थिरतामेति स्वरूपे पञ्चमे स्थिरे || १० || द्विभेदेऽपि स्थरीभूते चन्द्रबिम्बे घनावृते | तत्समानत्वमभ्येति ततः सकलरूपिणी || ११ || चिन्त्यते देहमापूर्य सितवर्णेन तेजसा | तदेव स्थिरतामेति तत्र सुस्थिरतां गते || १२ || घनमुक्तेन्दुबिम्बाभस्ततः समनुचिन्त्येत् | तत्पतित्वं समभ्येति द्वितीयं स्थिरतां व्रजेत् || १३ || अतः प्रकाशकं शुक्लं ततस्तेजो विचिन्तयेत् | विद्येश्वरत्वमाप्नोति जलावरणसंभवम् || १४ || स्वदेहव्यापिनि ध्याते तत्रस्थे शुक्लतेजसि | सर्वाधिपत्यमाप्नोति सुस्थिरे तत्र सुस्थिरम् || १५ || ध्येयतत्त्वसमानत्वमवस्थात्रितये स्थिरे | द्वितीये च तदीशानसंवित्तिरूपजायते || १६ || द्वितीयेऽन्यत्र तत्तूल्यः स्थिरो भवति योगवित् | षट्के सर्वेशतामेति द्वितीयेऽन्यत्र तु च्युतिः || १७ || प्. ८६) इत्ययं सर्वतत्त्वेषु भेदे पञ्चदशात्मके | ज्ञेयो विधिर्विधानज्ञैः फलपञ्चकसिद्धिदः || १८ || तत्फलान्तरमेतस्मादुक्तं यच्चापि वक्ष्यते | अनुषङ्गफलं ज्ञेयं तत्सर्वमविचारतः || १९ || इत्येवं वारुणी प्रोक्ता प्रभेदैर्दशपञ्चभिः | योगिनां योगसिद्ध्यर्थमाग्नेयीमधुना शृणु || २० || त्रिकोणं चिन्तयेद्देहं रक्तज्वालावलीधरम् | सप्तभिर्दिवसैर्देवि तैक्ष्ण्यमस्योपजायते || २१ || वातश्लेष्मभवैः सर्वैर्मासान्मुच्यति साधकः | निद्राहीनश्च बह्वाशी स्वल्पविण्मूत्रकृद्भवेत् || २२ || इच्छया निर्दहत्यन्यत्स्पष्टवस्तु ऋतुक्षयात् | त्र्यब्दादग्निसमो भूत्वा क्रीडत्यग्निर्यथेच्छया || २३ || सर्वं निर्दहति क्रुद्धं सशैलवनकाननम् | त्रिकोणमण्डलारूढमात्मानमनुचिन्तयेत् || २४ || सव्यापारादिभेदेन सर्वत्रापि विचक्षणः | सप्ताहाद्व्याधिभिर्हीनः षण्मावदग्निसाद्भवेत् [ग्: अग्निवद्भवेदिति] || २५ || त्रिभिरब्दैः स संपूर्णं तेजस्तत्त्वं प्रपश्यति | यच्छक्तिभेदे यद्दृष्टं तत्तद्भेदे स्थिरीभवेत् || २६ || प्. ८७) पूर्ववत्तालुमध्यस्थमात्मानं ज्वलनप्रभम् | ध्यायन्प्रपश्यते तेजस्तत्त्वेशानखिलान्क्रमात् || २७ || धूमाक्रान्ताग्निसंकाशं रविबिम्बसमाकृतिम् | ध्यायंस्तन्मध्यतस्तेजस्तत्त्वेशसमतां व्रजेत् || २८ || प्रभाहततमोजालं विधूमाग्निसमप्रभम् | तत्रैव सकलं ध्यायेत्तत्पतित्वमवाप्नुयात् || २९ || दिवसाग्निप्रभाकारं तत्र तेजो विचिन्तयेत् | तन्मन्त्रेश्वरतामेति [ग्: तन्मन्त्रसमतामिति] तत्र सुस्थिरतां गते || ३० || मणिप्रदीपसंकाशं तेजस्तत्र प्रकाशयेत् | मन्त्रेशेशत्वमभ्येति योगी तन्मयतां गतः || ३१ || सबाह्याभ्यन्तरं तेजो ध्यायन्सर्वत्र तद्गतम् | तस्मान्न च्यवते स्थानादासंहारमखण्डितः || ३२ || संहारे तु परं शान्तं पदमभ्येति शाङ्करम् | इत्येषा पञ्चदशधा कथिता वह्निधारणा || ३३ || स्वदेहं चिन्तयेत्कृष्णं वृत्तं षट्बिन्दुलाञ्छितम् [क्: वृत्तषट्पञ्चलाञ्छनमिति] | चलं सचूचूशब्दं च वायवीं धारणां श्रितः || ३४ || चलत्वं कफजव्याधिविच्छेदाद्वायुवद्भवेत् | षण्मासमभ्यसेद्योगी [ग्: अभ्यसन्योगीति] तद्गतेनान्तरात्मना || ३५ || प्. ८८) योजनानां शतं गत्वा मुहूर्तादेत्यखेदतः [क्: मुहूर्तादेव खेदत] | वत्सरैस्तु त्रिभिः साक्षाद्वायुरूपधरो भवेत् || ३६ || चूर्णयत्यद्रिसंघातं [क्: चूर्णयन्पत्रसंघातमिति] वृक्षानुन्मुलयत्यपि | क्रुद्धश्चानयते [क्: क्रुद्धश्च जयति शत्रुमिति] शक्रं सभृत्यबलवाहनम् || ३७ || नीलाञ्जननिभं देहमात्मीयमनुचिन्तयेत् | पूर्वोक्तं सर्वमाप्नोति षण्मासान्नात्र संशयः || ३८ || त्र्यब्दात्प्रपश्यते वायुतत्त्वं तन्मयतां गतः | भ्रूवोर्मध्ये स्मरेद्रूपमात्मनोऽञ्जनसंनिभम् || ३९ || पश्यते वायुतत्त्वेशानाशुगानखिलानपि | घनावृतेन्द्रनीलाभो रविबिम्बसमाकृतिम् || ४० || ध्यायंस्तत्समतामेति तत्संलीनो यदा भवेत् | भिन्नेन्द्रनीलसंकाशं सकलं तत्र चिन्तयेत् || ४१ || तन्मन्त्रेशत्वमाप्नोति ततस्तस्येशतामपि | सर्वव्यापिनि तद्वर्णे ध्याते तेजस्यवाप्नुयात् || ४२ || तदाप्रधृष्यतामेति तत्रोर्ध्वाधोविसर्पिणि | इत्येवं कथिता दिव्या धारणा वायुसंभवा || ४३ || स्वदेहं वायुवद्ध्यात्वा तदभावमनुस्मरन् | दिवसैः सप्तभिर्योगी शून्यतां प्रतिपद्यते || ४४ || प्. ८९) मासंमात्रेण भोगीन्द्रैरपि दष्टो न मुह्यति | सर्वव्याधिपरित्यक्तो वलीपलितवर्जितः || ४५ || षण्मासाद्गगनाकारः सूक्ष्मरन्ध्रैरपि व्रजेत् | वत्सरत्रितयात्सार्धाद्व्योमवच्च [व्योम एवेति स्वच्छन्दतन्त्रे प्रमाणितः] भविष्यति || ४६ || इच्छयैव महाकायः सूक्ष्मदेहस्तथेच्छया | अच्छेद्यश्चाप्यभेद्यश्च च्छिद्रां पश्यति मेदिनीम् || ४७ || शतपुष्परसोच्छिष्टमूषागर्भखवन्निजम् | देहं चिन्तयतस्त्र्यब्दाद्व्योमज्ञानं प्रजायते || ४८ || पूर्वोक्तं च फलं सर्वं सप्ताहादिकमाप्नुयात् | ललाटे चिन्तयेत्तद्वद्द्वादशाङ्गुलमायतम् || ४९ || तत्तत्त्वेशान्क्रमात्सर्वान्प्रपश्यत्यग्रतः स्थितान् | राहुग्रस्तेन्दुबिम्बाभं ध्यायंस्तत्समतां व्रजेत् || ५० || सकलं चन्द्रबिम्बाभं तत्रस्थमनुचिन्तयेत् | तन्मन्त्रेशत्वमाप्नोति ज्योत्स्नया चन्द्रतामपि || ५१ || तयैवाधोविसर्पिण्या सबाह्याभ्यन्तरं बुधः | मन्त्रेश्वरेशतामाप्य विज्ञानमतुलं लभेत् || ५२ || तया चोर्ध्वविसर्पिण्या ज्योत्स्नयामृतरूपया | स्वतन्त्रत्वमनुप्राप्य न क्वचित्प्रतिहन्यते || ५३ || प्. ९०) इत्येवं पञ्चतत्त्वानां धारणा परिकीर्तिता | शुद्धाध्वस्था तु संवित्तिर्भूतावेशोऽत्र पञ्चधा || ५४ || तास्वेव संदधच्चित्तं विषादिक्षयमात्मनः | अन्यस्यामपि संवित्तौ यस्यामेव निजेच्छया || ५५ || चेतः सम्यक्स्थिरीकुर्यात्तया तत्फलमश्नुते | एकापि भाव्यमानेयमवान्तरविभेदतः || ५६ || अन्तरायत्वमभ्येति तत्र कुर्यान्न संस्थितिम् | संस्थितिं तत्र कुर्वन्तो न प्राप्स्यन्त्युत्तमं फलम् || ५७ || धारणापञ्चके सिद्धे पिशाचानां गुणाष्टकम् | ऐन्द्रान्ताः पञ्च सिद्ध्यन्ति योगिनां भेदतोऽपिवा || ५८ || इष्टाः पञ्चदशावस्थाः क्रमेणैव समभ्यसन् | त्र्यब्दादाद्यां प्रसाध्यान्यां द्वाभ्यामेकेन चापराम् || ५९ || षण्मासात्पञ्चभिश्चान्यां चतुर्भिस्त्रिभिरेव च | द्वाभ्यामेकेन पक्षेण दशभिः पञ्चभिर्दिनैः || ६० || त्रिभिर्द्वाभ्यामथैकेन व्यस्तेच्छोः पूर्ववत्क्रमः | शाश्वतं पदमाप्नोति भुक्त्वा सिद्धिं यथेप्सिताम् || ६१ || इति श्रीमालिनीविजयोत्तरे तन्त्रे भूतजयाधिकारस्त्रयोदशः || १३ || अथ चतुर्दशोऽधिकारः | अथ गन्धादिपूर्वाणां तन्मात्राणामनुक्रमात् | धारणाः संप्रवक्ष्यामि तत्फलानां प्रसिद्धये || १ || पीतकं गन्धतन्मात्रं तुर्याश्रं पर्वसंमितम् [स्वच्छ० पञ्चसंमितमिति] | नासारन्ध्राग्रगं [क्: रन्ध्रान्तकमिति] ध्यायेद्वज्रलाञ्छनलाञ्छितम् || २ || दशमाद्दिवसादूर्ध्वं योगिनोऽनन्यचेतसः | कोऽपि [ख्: क्वापि गन्ध इति द्विधाभूतस्य नैकधा] गन्धः समायाति द्विधाभूतोऽप्यनेकधा || ३ || ततोऽस्य ऋतुमात्रेण शुधो गन्धः स्थिरीभवेत् | षड्भिर्मासैः स्वयं गन्धमय एव भविष्यति || ४ || यो यत्र रोचते गन्धस्तं तत्र कुरुते भृशम् | त्र्यब्दात्सिद्धिमवाप्नोति प्रेरितां पाञ्चभौतिकीम् || ५ || तदूर्ध्वमात्मनो रूपं तत्र संचिन्तयेद्धृदि | गन्धावरणविज्ञानं त्रिभिरब्दैरवाप्नुयात् || ६ || ईषद्दीप्तियुतं तत्र तन्मण्डलविवर्जितम् | ध्यायन्प्रपश्यते सर्वान्गन्धावरणवासिनः || ७ || प्. ९२) धरातत्त्वोक्तबिम्बाभं [क्: बिम्बान्तमिति] तत्रैवमनुचिन्तयन् | तत्समानत्वमभ्येति पूर्ववद्द्वितये स्थिरे || ८ || स्वरूपं तत्र संचिन्त्य भासयन्तमधः स्थितम् | तदीशत्वमवाप्नोति पूर्वोक्तेनैव वर्त्मना || ९ || धरातत्त्वोक्तवत्सर्वमत ऊर्ध्वमनुस्मरन् | तद्रूपं फलमाप्नोति गन्धावरणसंस्थितम् || १० || रसरूपामतो वक्ष्ये धारणां योगिसेविताम् | यया सर्वरसावाप्तिर्योगिनः संप्रजायते || ११ || जलबुद्बुदसंकाशं जिह्वायां [ग्: राजनाड्यग्रसंस्थितमिति] चाग्रतः स्थितम् | चिन्तयेद्रसतन्मात्रं जिह्वाग्राधारमात्मनः || १२ || सुशीतं षड्रसं चिन्त्यं [क्: षड्रसं स्निग्धमिति] तद्गतेनान्तरात्मना | ततोऽस्य मासमात्रेण रसास्वादः प्रवर्तते || १३ || लवणादीन्परित्यज्य यदा मधुरतां गतः | तदा तन्निगिरन्योगी षण्मासान्मृत्युजिद्भवेत् || १४ || जराव्याधिविनिर्मुक्तः कृष्णकेशोऽच्युतद्युतिः | जीवेदाचन्द्रतारार्कमभ्यस्यंश्च क्वचित्क्वचित् || १५ || पूर्वोक्तबुद्बुदाकारं [ग्: बहुधाकीरमिति] स्वरूपमनुचिन्तयन् | नीरावरणविज्ञानमाप्नोतीति किमद्भुतम् || १६ || प्. ९३) तमेव द्युतिसंयुक्तं ध्यायंन्नाधारवर्जितम् | पद्येत [ग्: पश्यते वत्सरैरिति] वत्सरैः सर्वां रसावरणमाश्रिताम् || १७ || जलतत्त्वोक्तबिम्बादि तदूर्ध्वमनुचिन्तयन् | पूर्वोक्तं सर्वमाप्नोति रसावरणजं स्फुटम् || १८ || अतो रूपवतीं वक्ष्ये दिव्यदृष्टिप्रदां शुभाम् | धारणां सर्वसिद्ध्यर्थं रूपतन्मात्रमाश्रिताम् || १९ || एकान्तस्थो यदा योगी विनिमीलितलोचनः [क्: बहिर्मीलितलोचन] | शरत्संध्याभ्रसंकाशं यत्तु किंचित्प्रपश्यति [क्: यत्तत्किंचिदिति] || २० || तत्र चेतः समाधाय यावदास्ते दशाहकम् [क्: दशाह्निकमिति] | तावत्प्रपश्यते तत्र बिन्दून्सूक्ष्मतमानपि [क्: तमानितीति] || २१ || केचित्तत्र सिता रक्ताः पीता नीलास्तथा परे | तान्दृष्ट्वा तत्र [क्: तेषु] संदध्यान्मनोऽत्यन्तमनन्यधीः || २२ || षण्मासात्पश्यते तेषु रूपाणि सुबहून्यपि | त्र्यब्दात्तान्येव तेजोभिः प्रदीप्तानि स्थिराणि च || २३ || तान्यभ्यस्यंस्ततो द्व्यब्दाद्बिम्बाकाराणि पश्यति | ततोऽब्दात्पश्यते तेजः षण्मासात्पुरुषाकृति || २४ || प्. ९४) त्रिमासाद्व्यापकं तेजो मासात्सर्वं विसर्पितम् | कालक्रमाच्च पूर्वोक्तं रूपावरणमाश्रितम् || २५ || तत्सर्वं फलमाप्नोति दिव्यदृष्टिश्च जायते | इतीयं कल्पनाशून्या धारणा कृतकोदिता || २६ || दशपञ्चविधो भेदः स्वयमेवात्र जायते | यतोऽस्यां निश्चयं कुर्यात्किमन्यैः शास्त्रडम्बरैः || ५७ || अत स्पर्शवतीमन्यां कथयामि तवाधुना | धारणां तु यया योगी वज्रदेहः प्रजायते || २८ || षट्कोणमण्डलान्तः स्थमात्मानं परिभावयेत् | रूक्षमञ्जनसंकाशं प्रत्यंशं [क्: प्रत्यङ्गच्छुरिताकुलमिति] स्फुरिताकुलम् || २९ || ततोऽस्य दशभिर्देवि दिवसैस्त्वचि सर्वतः | भवेत्पिपीलिकास्पर्शस्ततस्तमनुचिन्तयन् || ३० || वज्रदेहत्वमासाद्य पूर्वोक्तं पूर्ववल्लभेत् | पूर्वोक्तमण्डलाकारं पूर्वरूपं विचिन्तयन् || ३१ || स्पर्शतत्त्वावृतिज्ञानं लभन्केन निवार्यते | हीनमण्डलमात्मानं ध्यायेत्तत्पतिसिद्धये || ३२ || यया संसिद्धया सर्वस्पर्शवेदी भविष्यति | कर्णौ पिधाय यत्नेन निमीलितविलोचनः || ३३ || प्. ९५) यं शृणोति महाघोषं चेतस्तत्रानुसन्धयेत् | दीप्यते जाठरो वह्निस्ततोऽस्य दशभिर्दिनैः || ३४ || दूराच्छ्रवणविज्ञानं षण्मासादुपजायते | यस्तस्यान्ते ध्वनिर्मन्दः किंचित्किंचिद्विभाव्यते || ३५ || सकलात्मा स विज्ञेयस्तदभ्यासादनन्यधीः | शब्दावरणविज्ञानमाप्नोति स्थिरतां गतम् || ३६ || यः पुनः श्रूयते शब्दस्तदन्ते शंखनादवत् | प्रलयाकलरूपं तदभ्यस्यं तत्फलेप्सुभिः || ३७ || स एवातितरामन्यशब्दप्रच्छादको यदा | विज्ञानाकल इत्युक्तस्तदासावपराजिते || ३८ || मनोह्लादकरो योऽन्यस्तदन्ते संविभाव्यते | स मन्त्र इति विज्ञेयो योगिभिर्योगकाङ्क्षिभिः || ३९ || ततस्तु श्रूयते योऽन्यः शान्तघण्टानिनादवत् | स मन्त्रेश इति प्रोक्तः [क्: मन्त्रेश इति मन्त्र] सर्वसिद्धिफलप्रदः || ४० || घण्टानादविरामान्ते यः शब्दः संप्रजायते | मन्त्रेशेशपदं तद्धि सिद्धीनां कारणं महत् || ४१|| अनिलेनाहता वीणा यादृङ्नादं विमुञ्चति | तादृशो यो ध्वनिस्तत्र तं विद्याच्छांभवं पदम् || ४२ || प्. ९६) पृथग्वा क्रमशो वापि सर्वानेतान्समभ्यसेत् | प्राप्नोति सर्ववित्सिद्धिः शब्दावरणमाश्रिताः || ४३ || इत्येताः कथिताः पञ्च तन्मात्राणां तु धारणाः | इति श्रीमालिनीविजयोत्तरे तन्त्रे तन्मात्रधारणाधिकारश्चतुर्दशः || १४ || अथ पञ्चदशोऽधिकारः | अथ वागिन्द्रियादीनां मनोन्तानामनुक्रमात् | धारणाः संप्रवक्ष्यामि दशैकां च समासतः || १ || वदनान्तं नमः शब्दमात्मनश्चिन्तयेद्बुधः | गृहीतवाक्त्वमभ्येति मौनेन मधुसूदनि || २ || सर्वत्रास्खलिता वाणी षड्भिर्मासैः प्रवर्तते | सर्वशास्त्रार्थवेत्तृत्वं वत्सरादुपजायते || ३ || वागेवास्य प्रवर्तेत काव्यालङ्कारभूषिता | त्रिभिरब्दैः स्वयं कर्ता शास्त्राणां संप्रजायते || ४ || तत्रैव चिन्तयेद्देहं स्वकीयमनुरूपतः | भूयस्तमेव धवलमीषत्तेजोवभासितम् || ५ || रसान्तः सोमबिम्बादितेजोन्तं तमनुस्मरेत् | सर्वं फलमवाप्नोति वागावरणजं क्रमात् || ६ || पाणौ च तं समादाय षण्मासाद्दूरसंस्थितम् | वस्तु गृह्णात्यसंदेहात्त्र्यब्दात्पारेऽपि वारिधेः || ७ || तत्रात्मदेहं पूर्वं तु पद्माभमनुचिन्तयन् | सव्यापारादिभेदेन चतुर्दशकमादरात् || ८ || प्. ९८) पूर्वोक्तकालनियमात्पूर्वोक्तेनैव [ग्: पुरोक्तेति] वर्त्मना | सर्वं फलमवाप्नोति हस्तावृतिसमाश्रितम् || ९ || पादावेवंविधो ध्यायन्वत्सरत्रयमादरात् | मुहूर्तेन समुद्रान्तामश्रान्तो भ्रमति क्षितिम् || १० || चतुर्दश समभ्यर्च्य स्वदेहादिकमभ्यसन् | प्राप्नोति पूर्ववत्सर्वं फलं पादावृतिस्थितम् || ११ || पायावपि मनस्तत्त्वं [ग्: मनस्तद्वदिति] स्थिरीकुर्वन्नवाप्स्यति | मासेन तद्भवव्याधिविमुक्तिमविलम्बतः || १२ || पुण्यश्लोकत्वमाप्नोति त्रिभिरब्दैरनादरात् | चतुर्दशविधं चात्र पूर्ववत्फलमाप्स्यति || १३ || स्वरूपतः स्मरेल्लिङ्गं मासमात्राज्जितेन्द्रियः | षड्भिर्मासैरनायासादिच्छाकामित्वमाप्नुयात् [क्: इच्छासिद्धिमवाप्नुयादिति] || १४ || चतुर्दशविधे भेदे तत्राभ्यस्ते महामतिः | लिङ्गावरणजं सर्वं पूर्ववल्लभते फलम् || १५ || स्वजिह्वामिन्दुवर्णाभां चिन्तयेद्दशभिर्दिनैः | प्राप्नोत्यनुभवं योगी जिह्वाभवमिवात्मनः || १६ || प्. ९९) आस्वादयति दूरस्थं षण्मासादेकमानसः | वत्सरैस्तु त्रिभिः साक्षाल्लेढ्यसौ परमामृतम् || १७ || येनासौ भवति योगी जरामरणवर्जितः | अपेयादिप्रसक्तोऽपि न पापैः परिभूयते || १८ || पूर्ववत्सर्वमन्यच्च स्वदेहाद्यनुचिन्तयन् | फलमाप्नोत्यसंदेहाद्रसनावृतिसंभवम् || १९ || कनकाभं स्वकं घ्राणमनुचिन्तयतः [क्: स्वकं ज्ञानमिति] शनैः | दिवसैर्दशभिर्घ्राणशून्यतानुभवो भवेत् || २० || षण्मासाद्गन्धमाघ्राति दूरस्थस्यापि वस्तुनः | घातयेद्गन्धमाघ्राय यस्य दुष्टो भविष्यति || २१ || वत्सरैस्तु त्रिभिर्दिव्यं गन्धमासाद्य योगवित् | जरामरणनैर्गुण्ययुक्तो दिव्यत्वमर्हति || २२ || सर्वमन्यद्यथोद्दिष्टं तथैव च विचिन्तयेत् | क्रमिकं फलमाप्नोति घ्राणावरणमास्थितम् || २३ || उदयादित्यसंकाशे चिन्तयंश्चक्षुषी निजे | दशाहाच्चक्षुषो रक्तस्रावानुभवमाप्स्यति || २४ || वेदना महती चास्य ललाटे संप्रजायते | न भेतव्यं महादेवि न चाभ्यासं परित्यजेत् || २५ || प्. १००) संत्यजन्नन्धतामेति तेन यत्नाअत्समभ्यसेत् | षड्भिर्मासैर्महायोगी दिव्यदृष्टिः प्रजायते || २६ || छिद्रां प्रपश्यते भूमिं कटाहान्तामतन्द्रितः | आध्रुवान्तमथोर्ध्वं च करामलकवद्बुधः || २७ || वत्सरैस्तु त्रिभिर्योगी ब्रह्माण्डान्तं प्रपश्यति | तदन्तर्योगिनीज्ञानं शरीरस्थं प्रजायते || २८ || स्वदेहादिकमन्यच्च पूर्वोक्तं पूर्ववत्स्मरन् | नयनावृतिजं सर्वमाप्नोतीति किमद्भुतम् || २९ || सर्वत्राञ्जनपत्राभां निस्तरङ्गां त्वचं स्मरन् | शस्त्रैरपि न मासेन हन्तुं [ग्: च्छेत्तुं शक्य] शक्यो भविष्यति || ३० || षण्मासादतितीव्रेण नाग्निनाप्येष दह्यते | वत्सरत्रितयाद्योगी वज्रोपलविषादिभिः || ३१ || पीड्यते न कदाचित्स्यादजरामरतां गतः | स्पर्शादृतिपविज्ञानगीतवच्च चतुर्दश || ३२ || भेदाः सह फलैर्ज्ञेयाः पूर्वकालानुसारतः | किंत्वत्र चिन्तयेद्देहं स्वदेहादिभिरावृतम् || ३३ || संदधानः स्वकं चेतः श्रोत्राकाशे विचक्षणः | दूराच्छ्रवणविज्ञानं षण्मासादुपजायते || ३४ || प्. १०१) त्रिभिः संवत्सरैर्देवि ब्रह्माण्डान्तरुदीरितम् | शृणोति स [क्: विस्फुटं सर्वमिति] स्फुटं सर्वं जरामरणवर्जितः || ३५ || तत्राकाशोक्तवत्सर्वं स्वदेहाद्यनुचिन्तयेत् | श्रोत्रावरणजं सर्वं फलमाप्नोति पूर्ववत् || ३६ || मनोवतीमतो वक्ष्ये धारणां सर्वसिद्धिदाम् | यया संसिद्धया देवि सर्वसिद्धिफलं लभेत् || ३७ || मन एव मनुष्याणां कारणं बन्धमोक्षयोः | तस्मात्तदभ्यसेन्मन्त्री यदीच्छेन्मोक्षम्व्ययम् [ग्: मक्षयमिति] || ३८ || तदर्धचन्द्रसंकाशमधोवक्त्रं हृदि स्थितम् | चिन्तयन्मासमात्रेण प्रतिभां [क्: पतितां प्रतीति] प्रतिपत्स्यते || ३९ || अकस्मात्पस्यते किंचिदकस्माच्छृणुते तथा | सर्वेन्द्रियात्मकं ज्ञानमकस्माच्च क्वचित्क्वचित् || ४० || स्वस्वकेन्द्रियविज्ञानं संपश्येद्वत्सरत्रयात् | भवते योगयुक्तस्य योगिनः सुपरिस्फुटम् || ४१ || स्वदेहादिकमप्यत्र पूर्वोक्तवदनुस्मरन् | चित्तावरणविज्ञानं प्राप्य सोमगुणं लभेत् || ४२ || प्. १०२) इत्येकादश गीतानि समभ्यस्यानि ते तथा | इन्द्रियाणि यतः सर्वं फलमेव प्रतिष्ठितम् || ४३ || बन्धमोक्षाबुभावेताविन्द्रियाणां [तं० इन्द्रियाणीति] जगुर्बुधाः | विगृहीतानि बन्धाय विमुक्तानि विमुक्तये || ४४ || एतानि व्यापके भावे यदा स्युर्मनसा सह | विमुक्तानीति विद्वद्भिर्ज्ञातव्यानि तदा प्रिये || ४५ || यदा तु विषये क्वापि प्रदेशान्तरवर्तिनि | संस्थितानि तदा [क्: तदेतानीति] तानि बद्धानीति प्रचक्षते || ४६ || इत्ययं [तं० इत्येवमिति] द्विविधो भावः शुद्धाशुद्धप्रभेदतः | इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरीमते || ४७ || इति श्रीमालिनीविजयोत्तरेऽक्षधारणाधिकारः पञ्चदशः || १५ || अथ षोडशोऽधिकारः | अथ गर्वमयीं दिव्यां धारणां धारणोत्तमाम् | महागर्वकरीं वक्ष्ये योगिनां योगवन्दिते || १ || षोडशारं स्मरेच्चक्रमात्मदेहमनन्यधीः [ख्: आत्मन्यहमनन्यधीरिति] | एषोऽहमिति संचिन्त्य स्वकार्यपरिवारितम् || २ || अप्रधृष्यो भवेद्योगी वत्सरत्रितयेन तु | ममत्वमच्युतं तस्य भवेत्सर्वत्र कुत्रचित् || ३ || तादृग्रूपस्य चक्रस्य नाभिं मूर्तिं स्वकां स्मरन् | चिन्तयेत्सर्वमेवाहं मयि सर्वमवस्थितम् || ४ || ततोऽहङ्कारविज्ञानं प्राप्नोतीति किमद्भुतम् | हृच्चक्रे समनुध्यायन्मत्स्वरूपमतन्द्रितः || ५ || अर्कलोकमवाप्नोति गर्वावरणजं फलम् | बिम्बादिकं क्रमात्सर्वं चिन्तयन्नीललोहितम् || ६ || तद्भवं सर्वमाप्नोति दशावस्थाप्रचोदितम् | इति गर्वमयी प्रोक्ता प्रजापतिगुणप्रदा || ७ || प्. १०४) उद्यदादित्यबिम्बाभं [क्: उदितादित्येति] हृदि पद्ममनुस्मरन् | धर्मादिभावसंयुक्तमष्टपत्रं सकर्णिकम् || ८ || मासेन स्थिरबुद्धिः स्यात्षड्भिः श्रुतिधरो भवेत् | त्रिभिरब्दैः स्वयं कर्ता शास्त्राणां संप्रजायते || ९ || स्वां तत्र चिन्तयेन्मूर्तिं बुद्धितत्त्वं प्रपश्यति | तदीशज्ञानमाप्नोति ब्रह्माणमनुचिन्तयन् || १० || वेदानुद्गिरते सप्त ? (सुप्तः) समाधिस्थोऽथवा मुनिः | सुस्थिरास्ते सदाभ्यासादनधीता अपि स्फुटम् || ११ || बिम्बादिकं क्रमात्सर्वं पूर्वोक्तमनुचिन्तयन् | प्राप्नोति ब्राह्ममैश्वर्यं बुद्ध्यावरणमाश्रितम् || १२ || हृदि बिम्बं रवेर्ध्यायंस्तदन्तः सोममण्डलम् | एवमभ्यसतस्तस्य षण्मासादुपजायते || १३ || दिव्यचक्षुरजायासात्सिद्धिः स्याद्वत्सरत्रयात् | स्वदेहं चिन्तयंस्तत्र गुणज्ञानमवाप्स्यति || १४ || लिङ्गाकारं स्मरन्दीप्तं तदीशत्वमवाप्नुयात् | बिम्बादि पूर्ववद्ध्यायन्दशकं दशकात्मकम् || १५ || प्. १०५) फलमाप्नोत्यसंदेहाद्गुणावरणसंस्थितम् | चतुर्विंशत्यमी [क्: विंशतिसंप्रोक्ता] प्रोक्ताः प्रत्येकं दशपञ्चधा || १६ || धारणाः क्ष्मादितत्त्वानां समासाद्योगिनां हिताः | त्रयोदशात्मके भेदे षडन्याः संस्थिता यथा || १७ || योगिनामनुवर्ण्यन्ते तथा योगप्रसिद्धये | देहं मुक्त्वा स्वरूपेण नान्यत् किंचिदिति स्मरेत् || १८ || सितपद्मासनासीनं मण्डलत्रितयोपरि | एवमत्र स्थिरीभूते मासमात्रेण योगवित् || १९ || सर्वव्याधिविनिर्मुक्तो भवतीति किमद्भुतम् | षण्मासादस्य विज्ञानं जायते पृथिवीतले || २० || अब्दाज्जरादिनिर्मुक्तस्त्रिभिः पुंस्तत्त्वदृग्भवेत् | हृदधः पङ्कजेऽत्रैव द्वादशार्धाङ्गुलाः तनुम् || २१ || हृदन्ते भावयेत्स्वान्यां षण्मासान्मृत्युजिद्भवेत् | त्रिभिरब्दैः समाप्नोति पुंस्तत्त्वेश्वरतुल्यताम् || २२ || बिम्बादौ पूर्ववत्सर्वं तत्र संचिन्तिते सति | फलमाप्नोत्यसंदेहात्पुरुषावरणस्थितम् || २३ || एतद्वेदान्तविज्ञानं समासादुपवर्णितम् | कपिलस्य पुरा प्रोक्तमेतद्विस्तरशो मया || २४ || प्. १०६) शरत्संध्याभ्रसंघाभं स्वदेहमनुचिन्तयन् | वीतरागत्वमाप्नोति षड्भिर्मासैर्न संशयः || २५ || जरामरणनिर्मुक्तो वर्षेणैवोपजायते | त्र्यब्दाज्ज्ञानमवाप्नोति रागावरणजं महत् || २६ || रक्तं संचिन्तयेद्देहं संपूर्णाभ्रोपरिस्थितम् | मासषट्कमनुद्विग्नो वीतरागत्वसिद्धये || २७ || स्मरन्संवत्सरे सम्यङ्मृत्युना न प्रपीड्यते | त्रिभिरब्दैर्जितद्वन्द्वो रागे च समतां व्रजेत् || २८ || रक्तपद्मस्थितं रक्तं पञ्चपर्वं हृदावधि [क्: पर्वहृदावधीति] | ध्यायन्फलमवाप्नोति पूर्वोक्तमखिलं क्रमात् || २९ || बिम्बादि चात्र पूर्वोक्तमनुचिन्तयतो मुहुः | फलं भवति निःशेषं रञ्जकावृतिसंभवम् || ३० || हृदि पद्मं सितं ध्यायेद्द्व्यष्टपत्रं सकेसरम् | सर्वामृतमयं दिव्यं चन्द्रकल्पितकर्णिकम् || ३१ || निश्चलं तत्र संयम्य चेतो निद्रान्तमात्मनः | ततो यत्पश्यते स्वप्ने तथ्यं तत्तस्य जायते || ३२ || प्. १०७) एवमभ्यसतस्तस्य तद्धि पद्मोदितं फलम् | सर्वं प्रजायते तस्य [ग्: प्रजायते देवीति] तत्कालक्रमयोगतः || ३३ || चतुरङ्गुलदेहादि सर्वत्रैवं विचिन्तयन् | पूर्ववत्सर्वमाप्नोति विद्यातत्त्वसमुद्भवम् || ३४ || हृदयादेकमेकं तु व्यतिक्रम्यार्धमङ्गुलम् | पृथक् चक्रत्रयं ध्यायेद्रक्तनीलसितं क्रमात् || ३५ || तत्रत्यद्व्येकपर्वं [क्: तत्र तिथ्येकपर्वमिति] तु पुरुषं तत्समद्युतिम् | बिम्बादिकं च यत्प्रोक्तं तत्त्वत्रयमिदं महत् || ३६ || त्रयोदशात्मकं भेदमेतदन्तं विदुर्बुधाः | एकादशप्रभेदेन तत्त्वद्वयमथोच्यते || ३७ || कण्ठकूपावधौ चक्रे पञ्चारे नाभिसंस्थितम् | ध्यायेत्स्वरूपमात्मीयं दीप्तनेत्रोपलब्धवत् || ३८ || क्षित्यादिकालतत्त्वान्ते यद्वस्तु स्थितमध्वनि | सर्वं प्रसाध्य योगीन्द्रो न कालेनाभिभूयते || ३९ || बिम्बादिकेऽपि तत्रस्थे योगिनामनुचिन्तिते | भवतीति किमाश्चर्यमनायासेन तत्फलम् || ४० || प्. १०८) कण्ठाकाशे स्थिरं चेतः कुर्वन्योगी दिने दिने | मायोत्थं फलमाप्नोति बिम्बादावपि तत्रगे || ४१ || कण्ठकूपविधानाभं राहुग्रस्तेन्दुबिम्बवत् | चिन्तयन्न पुनर्याति मायादेर्वशवर्तिताम् || ४२ || तदेव तत्र स्वर्भानुमुक्तवत्परिचिन्तयन् | तेजोदेहादिकं चापि प्राप्नोति परमेशताम् || ४३ || मध्यन्दिनकराकारं लम्बकस्थं विचिन्तयेत् | समस्तमन्त्रचक्रस्य रूपं यत्सामुदायिकम् || ४४ || ततः कालक्रमाद्योगी मन्त्रत्वमधिगच्छति | अनुषङ्गफलं चात्र पूर्वोक्तं सर्वमिष्यते || ४५ || मूर्ति तत्रैव संचिन्त्य मन्त्रेशत्वमवाप्नुयात् | तदधो दीपकं तेजो ध्यात्वा तत्पतितां व्रजेत् || ४६ || सबाह्याभ्यन्तरं तस्मादधोर्ध्वं व्यापि च स्मरन् | तेजो मन्त्रेश्वरेशानपदान्न च्यवते नरः || ४७ || बद्ध्वा पद्मासनं योगी पराबीजमनुस्मरन् | भ्रुवोर्मध्ये न्यसेच्चित्तं तद्बहिः किंचिदग्रतः || ४८ || निमीलिताक्षो हृष्टात्मा शब्दालोकविवर्जिते | पश्यते पुरुषं तत्र द्वादशाङ्गुलमायतम् || ४९ || प्. १०९) तत्र चेतः स्थिरं कुर्यात्ततो मासत्रयोपरि | सर्वावयवसंपूर्णं तेजोरूपमचञ्चलम् || ५० || प्रसन्नमिन्दुसंकाशं पश्यति दिव्यचक्षुषा | तं दृष्ट्वा पुरुषं दिव्यं कालज्ञानं प्रवर्तते || ५१ || अंशिरस्के भवेन्मृत्युः षण्मासाभ्यन्तरेण तु | वञ्चनं तत्र कुर्वीत यत्नात्कालस्य योगवित् || ५२ || ब्रह्मरन्ध्रोपरि ध्यायेच्चन्द्रबिम्बमकल्मषम् | स्रवन्तममृतं दिव्यं स्वदेहापूरकं बहु || ५३ || तेनापूरितमात्मानं चेतोनालानुसर्पिणा | सबाह्याभ्यन्तरं ध्यायन्दशाहान्मृत्युजिद्भवेत् || ५४ || महाव्याधिविनाशेऽपि योगमेनं समभ्यसेत् | प्रत्यङ्गव्याधिनाशाय प्रत्यङ्गाङ्गमनुस्मरन् || ५५ || धूमवर्णं यदा पश्येन्महाव्याधिस्तदा भवेत् | कृष्णे कुष्ठमवाप्नोति नीले शीतलिकाभयम् || ५६ || हीनचक्षुषि तद्रोगं नासाहीने तदात्मकम् | यद्यदङ्गं न पश्येत तत्र तद्व्याधिमादिशेत् || ५७ || आत्मनो वा परेषां वा योगी योगपथे स्थितः | वर्षैस्तु पञ्चभिः सर्वं विद्यातत्त्वान्तमीश्वरि || ५८ || प्. ११०) वेत्ति भुङ्क्ते च सततं न च तस्मात्प्रहीयते | तत्रस्थे तेजसि ध्याते सर्वदेहविसर्पिणि || ५९ || पूर्वोक्तं सर्वमाप्नोति तत्कालक्रमयोगतः | अथोर्ध्वव्यापिनि ध्याने तत्र तस्मादखण्डितः || ६० || सर्वं मन्त्रेश्वरेशत्वान्न भूयोऽपि निवर्तते | एवं ललाटदेशेऽपि महादीप्तमनुस्मरन् || ६१ || प्रपश्यत्यचिरादेव वर्णाष्टकयुतं क्रमात् | इन्द्रनीलप्रतीकाशं शिखिकण्ठसमद्युति || ६२ || राजावर्तनिभं चान्यत्तथा वैदूर्यसंनिभम् | पुष्परागनिभं चान्यत्प्रवालकसमद्युति || ६३ || पद्मरागप्रतीकाशमन्यच्चन्द्रसमद्युति | तां दृष्ट्वा परमां ज्योत्स्नां दिव्यज्ञानं प्रवर्तते || ६४ || विहारपादचारादि ततः सर्वं प्रवर्तते | अधोर्ध्वं व्यापिनि ध्याते न तस्माच्च्यवते पदात् || ६५ || इत्येतत्सर्वमाख्यातं लक्ष्यभेदव्यवस्थितम् | अधुना चित्तभेदोऽपि समासादुपदिश्यते || ६६ || प्. १११) पिशाचानन्तपर्यन्तगुणाष्टकसमीहया | तत्तद्रूपगुणं कुर्यात्सम्यगीशे स्थिरं मनः || ६७ || इतीश्वरपदान्तस्य मार्गस्यास्य पृथक् पृथक् | यथोपासा तथाख्याता योगिनां योगसिद्धये || ६८ || इति श्रीमालिनीविजयोत्तरे तन्त्रे धर?णाधिकारः षोडशः || १६ || अथ सप्तदशोऽधिकारः अथैतत्सर्वमुद्दिष्टं यदि न स्फुटतां व्रजेत् | स्फुटीकृते स्थिते तत्र न मनस्तिष्ठते स्फुटम् || १ || गतिभङ्गं ततस्तस्य प्राणायामेन कारयेत् | स च पञ्चविधः प्रोक्तः पूरकादिप्रभेदतः || २ || पूरकः कुम्भकश्चैव रेचको ह्यपकर्षकः | उत्कर्षः पञ्चमो ज्ञेयस्तदभ्यासाय योगिभिः || ३ || पूरकः पूरणाद्वायोर्द्वेधा षोढा च गीयते | स्वभावपूरणादेको विरेच्यान्यः प्रपूरितः || ४ || नासामुखोर्ध्वतालूनां रन्ध्रभेदाद्विभिद्यते | भिन्नः षोढात्वमभ्येति पुनर्भेदैरनन्तताम् || ५ || कुम्भः पञ्चविधो ज्ञेयस्तत्रैकः पुरितादनु | विधृतो रेचकात्पश्चाद्द्वितीयः परिकीर्तितः || ६ || द्वयोरन्ते द्वयं चान्यत्स्वभावस्थश्च पञ्चमः | स्थानान्तरप्रभेदेन गच्छत्येषोऽप्यनन्तताम् || ७ || रेचकः पूर्ववज्ज्ञेयो द्विधाभूतः षडात्मकः | स्थानसंस्तम्भितो वायुस्तस्मादुत्कृष्य नीयते || ८ || प्. ११३) योऽन्यप्रदेशसंप्राप्त्यै स उत्कर्षक इष्यते | तस्मादपि पुनः स्थानं यतो नीतस्तदाहृतः || ९ || अपकर्षक इत्युक्तो द्वावप्येतावनेकधा | एषामभ्यसनं कुर्यात्पद्मकाद्यासनस्थितः || १० || अधमः सकृदुद्घातो मध्यमः सिद्धिदो मतः | ज्येष्ठः स्याद्यस्त्रिरुद्घातः स च द्वादशमात्रकः || ११ || त्रिर्जानुवेष्टनान्मात्रात्रिगुणछोटिकात्रयात् | अजितां नाक्रमेन्मात्रां वायुदोषनिवृत्तये || १२ || प्रत्यङ्गधारणाद्वायुं न च चक्षुषि धारयेत् | नाभिहृत्तालुकण्ठस्थे विवृते मरुति क्रमात् || १३ || चतस्रो धारणा ज्ञेया शिख्यम्व्वीशामृतात्मिकाः | यद्यत्र चिन्तयेद्द्रव्यं तत्तत्सर्वगतं स्मरेत् || १४ || बिन्दुनादात्मकं रूपमीशानीं धारणां श्रितम् | अमृतायाः स्मरेदिन्दुं कालत्यागोक्तवर्त्मना || १५ || धारणाभिरिहैताभिर्योगी योगपथे स्थितः | हेयं वस्तु परित्यज्य यायात्पदमनुत्तमम् [ग्: पदमनामयमिति] || १६ || त्रिवेदद्बीन्दुसंख्यातसमुद्घातास्त्विमा मताः | एताभिरप्यधोऽप्युक्तं फलं प्राप्नोत्यनुत्तमम् || १७ || प्. ११४) योगाङ्गत्वे समानेऽपि तर्को योगाङ्गमुत्तमम् | हेयाद्यालोचना तस्मात्तत्र यत्नः प्रशस्यते || १८ || मार्गे चेतः स्थिरीभूते हेयेऽपि विषयेच्छया | प्रेर्यं तेनानयेत्तावद्यावत्पदमनामयम् || १९ || तदर्थभावनायुक्तं मनोध्यानमुदाहृतम् | तदेव परमं ज्ञानं भावनामयमिष्यते || २० || मुहूर्तादेव तत्रस्थः समाधिं प्रतिपद्यते | तत्रापि च सुनिष्पन्ने फलं प्राप्नोत्यभीप्सितम् || २१ || यत्किंचिच्चिन्तयेद्वस्तु नान्यत्वं प्रतिपद्यते | तेन तन्मयतामाप्य भवेत्पश्चादभाववत् || २२ || पञ्चतामिव संप्राप्तस्तीव्रैरपि न चाल्यते | ततः शब्दादिभिर्योगी योगिनीकुलनन्दनः || २३ || इत्यनेन विधानेन प्रत्याहृत्य मनो मुहुः | प्राणायामादिकं सर्वं कुर्याद्योगप्रसिद्धये || २४ || सर्वमप्यथवा भोगं मन्यमानो विरूपकम् | स्वशरीरं परित्यज्य शाश्वतं पदमृच्छति || २५ || तदा पूर्वोदितं न्यासं कालानलसमप्रभम् | विपरीतविधानेन कुर्या * * द्वियुग्मताम् || २६ || आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापिनीम् | पूरयेद्वायुना देहमङ्गुष्ठान्मस्तकान्तिकम् || २७ || प्. ११५) तमुत्कृष्य ततोऽङ्गुष्ठाद्ब्रह्मरन्ध्रान्तमानयेत् | छेदयेत्सर्वमर्माणि मन्त्रेनानेन योगवित् || २८ || जीवमादिद्विजारूढं शिरोमालादिसंयुतम् | कृत्वा तदग्रे कुर्वीत द्विजमाद्यमजीवकम् [क्: माद्यं सजीवकमिति] || २९ || इत्येषा कथिता कालरात्रिर्मर्मनिकृन्तनी | नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीवितम् || ३० || शतार्धोच्चारयोगेन जायते मूर्ध्नि वेदना | एवं प्रत्ययमालोच्य मृत्युजिद्ध्यानमाश्रयेत् || ३१ || निपीड्य तं ततस्त्रत्र बिन्दुनादादिचिन्तकम् | वेगादुत्कृष्य तत्रस्थकालरात्रीं विसर्जयेत् || ३२ || * * * * * * * * सिद्धयोगीश्वरी मते | तत्सकाशाद्भवेत्सिद्धिः सर्वमन्त्रोक्तलक्षणा || ३३ || तदेव मन्त्ररूपेण म (नुष्यैः) समुपास्यते | एष ते ज्ञेयसद्भावः कथितः सुरवन्दिते || ३४ || अभक्तस्य गुहस्यापि नाख्येयो जातुचिन्मया | उदरं सर्वमापूर्य ब्रह्मरन्ध्रान्तमागतम् || ३५ || वायुं भ्रमणयोगेन [क्: तदा भ्रमणेति] ततस्तं प्रेरयेत्तथा | यावत्प्राणप्रदेशान्तं योगिनां मनसेप्सितम् || ३६ || प्. ११६) व्याप्यते पुनरा (वृत्य) तथैव नाभिमण्डलम् | एवं समभ्यसेत्तावद्यावद्वासरसप्तकम् || ३७ || तदाप्रभृति संयुक्तः कर्षयेत्त्रिदशानपि | अनेनाकृष्य विज्ञानं सर्वयोगिनिषेवितम् || ३८ || गृह्णीयाद्योगयुक्तात्मा किमन्यैः क्षुद्रशासनैः | प्रथमं महती घूर्णिरभ्यासात्तस्य जायते || ३९ || ततः प्रकम्पो देवेशि ज्वलतीव ततोऽप्यणुः | इति श्रीमालिनीविजयोत्तरे तन्त्रे सप्तदशोऽधिकारः || १७ || अथ अष्टादशोऽधिकारः | शृणु देवि परं गुह्यमप्राप्यमकृतात्मनाम् | यन्न कस्यचिदाख्यातं तदद्य कथयामि ते || १ || सर्वमन्यत्परित्यज्य चित्तमत्र निवेशयेत् | मृछैलधातुरत्नादिभवं लिङ्गं न पूजयेत् || २ || यजेदाध्यात्मिकं लिङ्गं यत्र लीनं चराचरम् | बहिर्लिङ्गस्य लिङ्गत्वमनेनाधिष्ठितं [ग्: मन्येनाधिष्ठितमिति] यतः || ३ || अतः प्रपूजयेदेतत्परमाद्वैतमाश्रितः | अनुध्यानेन देवेशि परेण परमाणुना || ४ || योऽनुध्यातः स एवैतल्लिङ्गं पश्यति नापरः | यदेतत्स्पन्दनं नाम हृदये समवस्थितम् || ५ || तत्र चित्तं समाधाय कम्प उद्भव एव च | तत्र प्रशान्तिमापन्ने मासेनैकेन योगवित् || ६ || हृदयादुत्थितं लिङ्गं ब्रह्मरन्ध्रान्तमीश्वरि | स्वप्रमोद्द्योतिताशेषदेहान्तममलद्युति || ७ || तत्रैव पश्यते सर्वं मन्त्रजालं महामतिः | तन्मस्तकं समारुह्य मासमात्रमनन्यधीः || ८ || प्. ११८) ततस्तत्र सुनिष्पन्ने षण्मासात्सर्वसिद्धयः | एतल्लिङ्गमविज्ञाय यो लिङ्गी लिङ्गमाश्रयेत् || ९ || वृथा परिश्रमस्तस्य न लिङ्गफलमश्नुते | शैवमेतन्महालिङ्गमात्मलिङ्गे (न) सिद्ध्यति || १० || सिद्धेऽत्र लिङ्गवल्लिङ्गी लिङ्गस्थो लिङ्गवर्जितः | भवतीति किमाश्चर्यमेतस्माल्लिङ्गलिङ्गितः || ११ || अनेन लिङ्गलिङ्गेन यदा योगी बहिर्व्रजेत् | तदा लिङ्गीति विज्ञेयः पुरान्तं लिङ्गमिष्यते || १२ || एतस्माल्लिङ्गविज्ञानाद्योगिनो लिङ्गिताः स्मृताः | अनेनाधिष्ठिताः मन्त्राः शान्तरौद्रादिभेदतः || १३ || भवन्तीति किमाश्चर्यं तद्भावगतचेतसः | रौद्रं भावं समाश्रित्य यदि योगं समभ्यसेत् || १४ || दुर्निरीक्ष्यो भवेत्सर्वैः सदेवासुरमानुषैः | गमागमविनिर्मुक्तः सर्वदृष्टिरकातरः || १५ || मुहूर्तं तिष्ठते यावत्तावदेवेशमाप्नुयात् | आविष्टः पश्यते सर्वं सूर्यकोटिसमद्युति || १६ || यत्तदक्षरमव्यक्तं शैवं भैरवमित्यपि | तं दृष्ट्वा वत्सरार्धेन योगी सर्वज्ञतामियात् || १७ || य एवैनं समासाद्य यस्तृप्तिमधिगच्छति | न च कृत्त्रिमयोगेषु स मुक्तः सर्वबन्धनैः || १८ || प्. ११९) प्राणायामादिकैर्लिङ्गैर्योगाः स्युः कृत्रिमा मताः | तेन तेऽकृतकस्यास्य कलां नार्हन्ति षोडशीम् || १९ || एतत्समभ्यसन्योगी दिव्यचिह्नानि पश्यति | उपविष्ट ऋजुर्योगी न किञ्चिदपि चिन्तयेत् || २० || मुहूर्तान्निर्दहेत्सर्वं देहस्थमकृतं कृतम् | दह्यमानस्य तस्येह प्रकम्पानुभवो भवेत् || २१ || ततस्तत्र स्थिरीभूते ज्योतिरन्तः प्रकाशते | तां दृष्ट्वा परमां दीप्तिं दिव्यज्ञानं प्रवर्तते || २२ || स्वतन्त्रशिवतामेति भुञ्जानो विषयानपि | अनिमीलितदिव्याक्षो यावदास्ते मुहूर्तकम् || २३ || तस्मात्सर्वगतं भावमात्मनः प्रतिपद्यते | तमेव भावयेद्यत्नात्सर्वसिद्धिफलेप्सया || २४ || ततस्तं भावयेद्योगी कम्पमानोऽत्यनुल्वणम् | ततः प्रपश्यते तेजो ललाटाग्रे समन्ततः || २५ || दृष्ट्वा तत्परमं तेजो [क्: परतमं तेज] दिव्यज्ञानमवाप्नुयात् | षड्भिर्मासैरनायासाद्वत्सरेण प्रसिद्ध्यति || २६ || शिवतुल्यबलो भूत्वा यत्रेष्टं तत्र गच्छति | चेतः सर्वगतं कृत्वा मुहूर्तादेव योगवित् || २७ || प्. १२०) शक्त्यावेशमवाप्नोति प्रकम्पानुभवात्मकम् | ततस्तत्र स्थिरीभूते मासमात्रेण योगवित् || २८ || शाक्तं प्रपश्यते तेजः सबाह्याभ्यन्तरे स्थिरम् | तत्र सम्यक् सुनिष्पन्ने सर्वेन्द्रियजमादरात् || २९ || तत्र स्फुटमवाप्नोति विज्ञानमनिवारितम् | सर्वगं चात्र विज्ञेयं यदक्षार्थेन [ग्: यदक्षार्थैर्न संगतमिति] संगतम् || ३० || एकमेवेदमाख्यातं तत्त्वं पर्यायभेदतः | कर्मेन्द्रियाणि बुद्ध्यन्तं परित्यज्य समस्तकम् || ३१ || भावयेत्परमां शक्तिं सर्वत्रैव विचक्षणः | निश्चलं तु मनः कृत्वा यावत्तन्मयतां गतः || ३२ || तावत्सर्वगतं भावं क्षणमात्रात्प्रपद्यते | निर्दह्य पाशजालानि यथेष्टं फलमाप्नुयात् || ३३ || तस्मात्समभ्यसेदेनं कृत्वा निश्चयमात्मनः | यत्राधारविनिर्मुक्तो जीवो लयमवाप्स्यति || ३४ || तत्स्थानं सर्वमन्त्राणामुत्पत्तिक्षेत्रमिष्यते [क्: उत्पत्तिस्थानमिति] | द्विविधं तत्परिज्ञेयं बाह्याभ्यन्तरभेदतः || ३५ || प्रयातव्याधिका मात्रा सा ज्ञेया सर्वसिद्धिदा | अथवा गच्छतस्तस्य स्वप्नवृत्त्या विचक्षणः || ३६ || प्. १२१) निरोधं मध्यमे स्थाने कुर्वीत क्षणमात्रकम् | पश्यते तत्र चिच्छक्तिं तुटिमात्रामखण्डिताम् || ३७ || तदेव परमं तत्त्वं तस्माज्जातमिदं जगत् | स एव मन्त्रदेहस्तु सिद्धयोगीश्वरीमते || ३८ || तेनैवालिङ्गिता मन्त्राः सर्वसिद्धिफलप्रदाः | ईषद्व्यावृत्तवर्णस्तु हेयोपादेयवर्जितः || ३९ || यां संवित्तिमवाप्नोति शिवतत्त्वं तदुच्यते | तत्र चित्तं स्थिरीकुर्वन्सर्वज्ञत्वमवाप्नुयात् || ४० || तत्रैव दिव्यचिह्नानि पश्यते च न संशयः | यत्रैव कुत्रचिद्गात्रे विकार उपजायते || ४१ || संकल्पपूर्वको देवि तत्तत्त्वं तत्त्वमुत्तमम् | तदभ्यसेन्महायोगी सर्वज्ञत्वजिगीषया || ४२ || प्राप्नोति परमं स्थानं भुक्त्वा सिद्धिं यथेप्सिताम् | गन्धपुष्पादिभिर्योगी नित्यमात्मानमादरात् || ४३ || ब्रह्मरन्ध्रप्रदेशे तु पूजयेद्भावतोऽपि वा | द्रवद्द्रव्यसमायोगात्स्नपनं [क्: द्रव्याद्रव्येति] तस्य जायते || ४४ || गन्धपुष्पादिगन्धस्य ग्रहणं यजनं मतम् | षड्रसास्वादनं तस्य नैवेद्याय प्रकल्पते || ४५ || प्. ११२) यमेवोच्चारयेद्वर्णं स जपः परिकीर्तितः | तत्र चेतः समाधाय दह्यमानस्य वस्तुनः || ४६ || ज्वालान्तस्तिष्ठते यावत्तावद्धोमः [ग्: तावद्धूम] कृतो भवेत् | यदेव पश्यते रूपं तदेव ध्यानमिष्यते || ४७ || प्रसङ्गादिदमुद्दिष्टमद्वैतयजनं महत् | उदयार्कसमाभासमूर्द्ध्वद्वारे [क्: समाभ्यासेति] मनः स्थिरम् || ४८ || हृदि वा तत्तथा कुर्याद्द्वादशान्तेऽथ वाप्नुयात् | ततो मासार्धमात्रेण तद्रूपमुपलभ्यते || ४९ || उपलब्धं तदभ्यस्य सर्वज्ञत्वाय कल्पते | वस्त्रेण मुखमाच्छाद्य योगी लक्ष्ये नियोजयेत् || ५० || नाभिकन्दादधस्तात्तु यावत्तत्त्वं शिखावधि | सूक्ष्मतारकसंकाशं रश्मिज्वालाकरालितम् || ५१ || प्राणशक्त्यवसाने तु पश्यते रूपमात्मनः | तदेवाभ्यसतो देवि विकासमुपगच्छति || ५२ || तन्मुखं सर्वमन्त्राणां सर्वतन्त्रेषु पठ्यते | ततोऽस्य मासमात्रेण काचित्संवित्तिरिष्यते || ५३ || यतः सर्वं विजानाति हृदये संव्यवस्थितम् | तां ज्ञात्वा कस्यचिद्योगी न सम्यक्प्रतिपादयेत् || ५४ || प्. १२३) अध्यायात्कथनं कुर्यान्नाकाले मृत्युमाप्नुयात् | मृतोऽपि श्वभ्रसंघाते क्रमेण परिपच्यते || ५५ || एवं ज्ञात्वा महादेवि स्वहितं समुपार्जयेत् | शिष्योऽप्यन्यायतो गृह्णन्नरकं प्रतिपद्यते || ५६ || न च तत्कालमाप्नोति वचस्त्ववितथं मम | न्यायेन ज्ञानमासाद्य पश्चान्न प्रतिपद्यते || ५७ || तदा तस्य प्रकुर्वीत विज्ञानापहृतिं बुधः | ध्यात्वा तमग्रतः स्थाप्य स्वरूपेणैव योगवित् || ५८ || षड्विधं विन्यसेन्मार्गं तस्य देहे पुरोक्तवत् | ततस्तं दीपमालोक्य तदङ्गुष्ठाग्रतः क्रमात् || ५९ || नयेत्तेजः समाहृत्य द्वादशान्तमनन्यधीः | ततस्तं तत्र संचिन्त्य शिवेनैकत्वमागतम् || ६० || तत्र ध्यायेत्तमोरूपं तिरोभावनशीलनम् | पतन्तीं तेन मार्गेण ह्यङ्गुष्ठाग्रान्तमागताम् || ६१ || सबाह्याभ्यन्तरं ध्यायेन्निविडाञ्जन सप्रभाम् | अनेन विधिना तस्य मूढबुद्धर्दुरात्मनः || ६२ || विज्ञानमन्त्रविद्याद्या न कुर्वन्त्युपकारिताम् | चित्ताभिसंधिमात्रेण ह्यदृष्टस्यापि जायते || ६३ || कथंचिदुपलब्धस्य नित्यमेवापकारिणः | अथवा सूर्यबिम्बाभं ध्यात्वा विच्छेद्यमग्रतः || ६४ || प्. १२४) स्वर्भानुरूपया शक्त्या ग्रस्तं तमनुचिन्तयेत् | अपराधसहस्रैस्तु कोपेन महतान्वितः || ६५ || विधिमेनं प्रकुर्वीत क्रीडार्थं न तु जातुचित् | अनेन विधिना भ्रष्टो विज्ञानादपरेण च || ६६ || न शक्यो योजितुं भूयो यावत्तेनैव नोद्धृतः | करुणाकृष्टचित्तस्तु तस्य कृत्वा विशोधनम् || ६७ || प्राणायामादिभिस्तीथैः प्रायश्चित्तैर्विधिश्रुतैः | ततस्तस्य प्रकुर्वीत दीक्षां पूर्वोक्तवर्त्मना || ६८ || ततः सर्वमवाप्नोति फलं तस्मादनन्यधीः | एवं ज्ञात्वा प्रयत्नेन गरुमासादयेत्सुधीः || ६९ || यतः संतोष उत्पन्नः शिवज्ञानामृतात्मकः | न तस्यान्वेषयेद्वृत्तं शुभं वा यदि वाशुभम् || ७० || स एव तद्विजानाति युक्तं वायुक्तमेव वा | अकार्येषु यदा सक्तः प्राणद्रव्यापहारिषु || ७१ || तदा निवारणीयोऽसौ प्रणतेन विपश्चिता | तेनातिवार्यमाणोऽपि यद्यसौ न निवर्तते || ७२ || तदान्यत्र क्वचिद्गत्वा शिवमेवानुचिन्तयेत् | एष योगविधिः प्रोक्तः समासाद्योगिनां हितः || ७३ || नात्र शुद्धिर्नचाशुद्धिर्न भक्ष्यादिविचारणम् | न द्वैतं नापि चाद्वैतं लिङ्गपूजादिकं न च || ७४ || प्. १२५) न चापि तत्परित्यागो निष्परिग्रहतापि वा | सपरिग्रहता वापि जटाभस्मादिसंग्रहः || ७५ || तत्त्यागो न व्रतादीनां चरणाचरणं च यत् | क्षेत्रादिसंप्रवेशश्च समयादिप्रपालनम् || ७६ || परस्वरूपलिङ्गादि [क्: परलिङ्गस्वरूपादीति] नामगोत्रादिकं च यत् | नास्मिन्विधीयते किंचिन्न चापि प्रतिषिध्यते || ७७ || विहितं सर्वमेवात्र [क्: सर्वमेवेदमिति] प्रतिषिद्धमथापि वा | किंत्वेतदत्र देवेशि नियमेन विधीयते || ७८ || तत्त्वे चेतः स्थिरीकार्यं सुप्रयत्नेन योगिना | तच्च यस्य यथैव स्यात्स तथैव समाचरेत् || ७९ || तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि | न संस्पृश्येत दोषैः स पद्मपत्रमिवाम्भसा || ८० || विषापहारिमन्त्रादिसंनद्धो [ख्: तं० च मन्त्रादिसंयुक्त] भक्षयन्नपि | विषं न मुह्यते तेन तद्वद्योगी महामतिः || ८१ || इत्येतत्कथितं देवि किमन्यत्परिपृच्छसिं | इति श्रीमालिनीविजयोत्तरे तन्त्रे परमविद्याधिकारो नामाष्टादशोऽधिकारः || १८ || अथ एकोनविंशोऽधिकारः | अथैनं परमं योगविधिमाकर्ण्य शाङ्करी | पुनराह प्रसन्नास्या प्रणिपत्य जगद्गुरुम् || १ || साध्यत्वेन श्रुता देव भिन्नयोनिस्तु मालिनी | विद्यात्रयं सविद्याङ्गं विधिवच्चावधारितम् || २ || अधुना श्रोतुमिच्छामि ह्यभिन्ना साध्यते कथम् | हिताय साधकेन्द्राणां प्रसादाद्वक्तुमर्हसि || ३ || एवमुक्तो महेशान्या जगतां पतिरादरात् | विकसद्वदनाम्भोजः प्रत्युवाच वचोऽमृतम् || ४ || आरिराधयिषुः शंभुं कुलोक्तविधिना बुधः | कुलचक्रं यजेदादौ बुधो दीक्षोक्तवर्त्मना || ५ || ततो जपेत्परां शक्तिं लक्षमेकमखण्डितम् | पराबीजपुटान्तःस्थां न द्रुतां न विलम्बिताम् || ६ || तद्वत्खण्डाष्टकं चास्या लक्षं लक्षमखण्डितम् | जपेत्कुलेश्वरस्यापि लक्षषट्कमनन्यधीः || ७ || होमयित्वा दशांशेन द्रव्यं पूर्वोदितं बुधः | नित्यानुस्मृतिशीलस्य वाक्सिद्धिः संप्रजायते || ८ || प्. १२७) स्वकूले जपयुक्तस्य अशक्तस्यापि साधने | भवन्ति कन्यसा [ग्: कन्यका देवीति] देवि संसारे भोगसंपदः || ९ || शक्तस्तु साधयेत्सिद्धिं मध्यमामुत्तमामपि | कृतसेवाविधिः पृथ्वीं भ्रमेदुद्भ्रान्तपत्त्रिवत् [ग्: पत्रवदिति] || १० || नगरे पञ्चरात्रं तु त्रिरात्रं पत्तने तु वै | ग्रामेऽपि चैकरात्रं तु स्थित्वैनं विधिमाचरेत् || ११ || यन्नामाद्यक्षरं यत्र वर्गे तत्तस्य [क्: वर्गतत्त्वस्येति] वस्तुनः | कुलमुक्तं विधानज्ञैर्नगरादेर्न संशयः || १२ || या यत्र देवता वर्गे वाच्यत्वे संव्यवस्थिता [क्: संव्यवस्थितिरिति] | सैव तस्य पतित्वेन ध्येया पूज्या च साधकैः || १३ || तस्य किंचित्समासाद्य नगरादिकमादरात् | स्वदिग्वर्गस्थितो [ग्: स्वदिशि संस्थित] भूत्वा चक्रं योज्य निजोदये [नियोजयेत्] || १४ || अवा * * * समेकैक उदिते * * * * | देवता माहेश्वर * * * * * * * * * || १५ || क्रमेणैव यथा रात्रौ * * * * तथा दिवा | स्वदिशि स्वोदये वर्गं तमेवानुस्मरेद्बुधः || १६ || प्. १२८) तिष्ठेदन्योदयं यावत्ततः स्वां दिशमाश्रयेत् | स्वकुलं चिन्तयन्यायात्तद्देशकुलमेव [क्: यावत्तद्देशेति] वा || १७ || यावदन्यां दिशं मन्त्री ततस्तदनुचिन्तयेत् | एवं यावत्स्वकं स्थानं कुलचक्रोक्तवर्त्मना || १८ || भ्रमित्वा पुनरायाति पूर्वकालक्रमेण च | तावदागत्य देवेशि तद्देशकुलनायिका || १९ || ददेद्भक्ष्यादिकं किंचिद्दापयेद्वाथ केनचित् | अनेन विधिना युक्तो गुप्ताचारो दृढव्रतः | २० || योगिनीमेलकं प्राप्य षण्मासेनैव सिद्ध्यति | दुष्करोऽयं विधिर्देवि सत्त्वहीनैर्नराधमैः || २१ || सर्वसिद्धिकरो मुख्यः कुलशास्त्रेषु सर्वतः | अथैकस्मिन्नपि ग्रामे पत्तने नगरेऽपि वा || २२ || तद्दिग्भागं समाश्रित्य तदेवं जपते कुलम् | त्रिभिरब्दैरनायासात्साधयेदुत्तमं फलम् || २३ || लोकयात्रापरित्यक्तो ग्रासमात्रपरिग्रहः | अथवा नाभिचक्रे तु ध्यानचक्रं कुलात्मकम् || २४ || चेतसा भ्रमणं कुर्यात्सर्वकालक्रमेण तु | ततोऽस्य वत्सरार्धेन देहान्तं योगिनीकुलम् || २५ || प्. १२९) आविर्भवत्यसंदेहात्स्वविज्ञानप्रकाशकम् | तेनाविर्भूतमात्रेण योगी योगिकुले कुली || २६ || भवेदपि पतिर्देवि योगिनां परमेश्वरि | अथवा चिन्तयेद्देवि यकारादिकमष्टकम् || २७ || स्वरूपेण प्रभाकारकरालाकुलविग्रहम् | तस्य मध्ये कुलेशानं स्वबोधकमनुस्मरन् || २८ || सर्वमेव च तत्पश्चाच्चक्रं दीपशिखाकृति | संभूतं चिन्तयेद्योगी योगिनीपदकाङ्क्षया || २९ || एतस्मिन्व्यक्तिमापन्ने पिण्डस्थं बुद्ध उच्यते | ततोऽस्याकस्मिकी देवि महामुद्रोपजायते || ३० || शृङ्गारवीरकारुण्यशोककोपादयस्तथा | प्रबुद्धमेतदुद्दिष्टं पिण्डस्थममरार्चिते || ३१ || दिवसैरभियुक्तस्य ततोऽस्य बहुभिर्दिनैः | धरादितत्त्वभावानां संवित्तिरुपजायते || ३२ || सुप्रबुद्धं तदिच्छन्ति पिण्डस्थं ज्ञानमुत्तमम् | चक्रं च त्रिगुणाष्टारमथवा तत्र चिन्तयेत् || ३३ || कादिहान्ताक्षराक्रान्तं पूर्वरूपं सविन्दुकम् | तत्रापि पूर्ववत्सर्वं कुर्वन्नेतत्फलं लभेत् || ३४ || आदिवर्णान्वितं वाथ षोडशारमनुस्मरन् | मध्यक्रमेण वा योगी पञ्चमं चुम्बकादिभिः || ३५ || प्. १३०) द्वासप्ततिसहस्राणि नाडीनां नाभिचक्रके | यतः पिण्डत्वमायान्ति तेनासौ पिण्ड उच्यते || ३६ || तत्र स्थितं तु यज्ज्ञेयं पिण्डस्थं तदुदाहृतम् | अ * * मल * * त्केश * * * * * * कम् || ३७ || विज्वरत्वमवाप्नोति वत्सरेण यदृच्छया | चक्रपञ्चकमेतद्धि पूर्ववद्धृदये स्थितम् || ३८ || पदस्थमिति शंसन्ति चतुर्भेदं विचक्षणाः | यत्रार्थावगतिर्देवि तत्स्थानं पदमुच्यते || ३९ || चतुष्कमत्र विज्ञेयं भेदं पञ्चदशात्मकम् | सर्वतोभद्रसंसिद्धौ सर्वतोभद्रतां व्रजेत् || ४० || जरामरणनैर्गुण्यनिर्मुक्तो योगचिन्तकः | व्याप्तावपि प्रसिद्धायां मायाधस्तत्त्वगोचरः || ४१ || वेत्ति तत्पतितुल्यत्वं तदीशत्वं च गच्छति | पदस्थे किंतु चन्द्राभं प्रदीपाभं न चिन्तयेत् || ४२ || एतदेवामृतौघेन देहमापूरयत्स्वकम् | चिन्तितं मृत्युनाशाय भवतीति किमद्भुतम् || ४३ || उपलक्षणमेतत्ते चन्द्रबिम्बाद्युदीरितम् | येन येनैव रूपेण चिन्त्यते परमेश्वरी || ४४ || पिण्डस्थादिप्रभेदेषु तेनैवेष्टफलप्रदा | रूपमैश्वरमिच्छन्ति शिवस्यासिवहारिणः || ४५ || प्. १३१) यद्भ्रूमध्यस्थितं यस्मार्त्तेन तत्र व्यवस्थितम् | पञ्चकं सूर्यसंकाशं रूपस्थमभिधीयते || ४६ || तत्रापि पूर्ववत्सिद्धिरीश्वरान्तपदोद्भवा | रूपातीतं तु देवेशि प्रागेवोक्तमनेकधा || ४७ || एत्येषा कुलचक्रस्य समासाद्व्याप्तिरुत्तमा | कथिता सर्वसिद्ध्यर्थं सिद्धयोगीश्वरीमते || ४८ || सर्वदाथ विभेदेन पृथग्वर्णविभेदतः | विद्यादिसर्वसंसिद्ध्यै योगिनां योगमिच्छताम् || ४९ || भूयोऽपि संप्रदायेन वर्णभेदश्च कीर्त्यते | स्त्रीरूपां हृदि संचिन्त्य सितवस्त्रादिभूषिताम् [क्: भूषणामिति] || ५० || नाभिचक्रोपविष्टां तु चन्द्रकोटिसमप्रभाम् | बीजं यत्सर्वशास्त्राणां तत्तदा स्यादनारतम् || ५१ || स्वकीयेनैव वक्त्रेण निर्गच्छत्प्रविचिन्तयेत् | तारहारलताकारं विस्फुरत्किरणाकुलम् || ५२ || वर्णैस्तारकसंकाशैरारब्धममितद्युति | मासार्धाच्छास्त्रसंघातमुद्गिरत्यनिवारितम् || ५३ || स्वप्ने मासात्समाधिस्थः षड्भिर्मासैर्यथेच्छया | उच्छिन्नान्यपि शास्त्राणि ग्रन्थतश्चार्थतोऽपि वा || ५४ || प्. १३२) जानाति वत्सराद्योगी यदि तन्मयतां [क्: चिन्मयतामिति] गतः | अनुषङ्गफलं चैतत्समासादुपवर्णितम् || ५५ || विद्येश्वरसमानत्वसिद्धिरन्याश्च सिद्धयः | प्रतिवर्णविभेदेन यथेदानीं तथोच्यते || ५६ || ध्यातव्या योगिभिर्नित्यं तत्तत्फलबुभुक्षुभिः | विन्यासक्रमयोगन त्रिविधेनापि वर्त्मना || ५७ || यो यत्राङ्गे स्थितो वर्णः कुलशक्तिसमुद्भवः | तं तत्रैव समाधाय स्वरूपेणैव योगवित् || ५८ || स्फुरत्प्रभास्ततिमिरं कुवन्नत्र मनः स्थिरम् | पूर्वकालक्रमादेव तत्त्वाभ्यासोक्तवर्त्मना || ५९ || तद्वर्णव्याप्तिजं सर्वं प्राप्नोति फलमुत्तमम् | अथवा योजयेत्कश्चिदेनां वश्यादिकर्मसु || ६० || तदा प्रसाधयत्याशु साधकस्य समीहितम् | उदितादित्यवर्णाभां समस्ताक्षरपद्धतिम् || ६१ || इच्छयैनां सुवर्णाभां स्रवन्तीं मदिरां मुहुः | सप्ताहं चिन्तयेद्यस्य सर्वाङ्गेषु यथाक्रमम् || ६२ || स वश्यो दासवद्भूत्वा नान्यं स्वामिनमिच्छति | त्रिसप्ताद्रूपसंपन्नां पदविभ्रान्तलोचनाम् || ६३ || प्. १३३) उर्वशीमप्यनायासादानयेत्किमु मानुषीम् | अनेनैव विधानेन वायुवह्निपुरान्तगाम् || ६४ || पिण्डाकृष्टीकरी ज्ञेया योजनानां [ ] शतैरपि | शरत्पूर्णनिशानाथवर्णाभैषानुसंधिता || ६५ || विदधात्यतुलां शान्तिमात्मनोऽथ परस्य वा | द्रुतहेमप्रतीकाशा स्वस्थाने संप्रयोजिता || ६६ || महतीं पुष्टिमाधत्ते दशाहेनैव शाङ्करि | जम्बूफलरसाभासां वज्रकीलकसंनिभाम् || ६७ || कीलने चिन्तयेद्योगी मोहने शुकपिच्छवत् | वज्रनीलप्रतीकाशां प्रतिस्थाननिकृन्तनीम् || ६८ || कालानलसमस्पर्शां रिपुनाशाय चिन्तयेत् | मालायष्टरभीतानां [ग्: मालयिष्टरभीष्टानामिति] कुलमद्रिसमोपमम् (?) || ६९ || चिन्तयेद्धूमसंकाशामत्यन्तमनलाकुलाम् | शान्तिकर्मोक्तवत्कोपप्रशान्तावप्यनुस्मरन् || ७० || तापने तु तथा किंतु स्वरूपं सूर्यवद्बुधः | विद्वेशे तु कपोताभां भञ्जने चाषसंनिभाम् || ७१ || उत्सादे नीलहरितपीतरक्तासितां स्मरेत् | प्रत्यङ्गव्याधिसंभूतावेकमेव तदुद्भवम् || ७२ || प्. १३४) वर्णं विचिन्तयेद्योगी मारणोक्तेन वर्त्मना | तद्वत्तु शान्तिकर्मोक्तवर्त्मना तत्प्रसान्तये || ७३ || चिन्तयेत्कृतके व्याधिसंघाते सहजेऽपि वा | अथवैतां जपन्कश्चिद्वाक्सिद्धिमभिवाञ्छति || ७४ || तदानेन विधानेन प्रकुर्यादक्षमालिकाम् | मणिमौक्तिकशङ्खादिपद्माक्षादिविनिर्मिताम् || ७५ || हेमादिधातुजां वाथ शतार्धप्रमितां [क्: शतार्धाक्षमितामिति] बुधः | यथा स्वबाहुमात्रा स्याद्वलयाकृतितां गता || ७६ || तां गृहीत्वा समालभ्य गन्धधूपाधिवासिताम् | पूजयित्वा कुलेशानं तत्र शक्तिं निवेशयेत् || ७७ || प्रत्येकमुच्चरेद्बीजं पराबीजपुटान्तगम् [क्: बीजपुटं गर्तमिति] | प्रस्फुरत्क्षान्तमेकस्मिन्नाद्यक्षे विनियोजयेत् || ७८ || आद्यर्णं व्यापकं भूयः सर्वाधिष्ठायकं स्मरेत् | द्विविधेऽपि हि वर्णानां भेदे विधिरयं मतः || ७९ || द्वितीयं व्यापकं वर्णं द्वितीयं पूर्ववन्न्यसेत् | तृतीयादिषु वर्णेषु फान्तेष्वप्येवमिष्यते || ८० || ततः शक्तिमनुस्मृत्य सूत्राभामेकमानसः | अक्षमध्यगतां कुर्यादक्षसूत्रप्रसिद्धये || ८१ || प्. १३५) चक्रवद्भ्रामयेदेनां यदेवात्र प्रभाषते | तत्सर्वं मन्त्रसंसिद्ध्यै जपत्वेन प्रकल्पते || ८२ || होमः स्याद्दीक्षिते तद्वद्दह्यमानेऽत्र वस्तुनि | विपरीतप्रयोगेन संक्रुद्धो भ्रामयेद्यदि || ८३ || नदा मारयते शत्रुं सभृत्यबलवाहनम् | अभिमन्त्र्य यदेवात्र चेतसा कर्म साधकः || ८४ || रात्रौ सौम्यादिभेदेऽत्र भ्रामयेदक्षसूत्रकम् | तदेव सिद्ध्यते देवि कृतसेवाविधेः [ग्: सेवाविधिरिति] प्रिये || ८५ || सेवा चात्राक्षसूत्रस्य षण्मासं परिवर्तनम् | विधावत्र नियुक्तस्य योगिनो वत्सरत्रयात् || ८६ || वाक्सिद्धिर्जायते देवि सर्वलोकसुदुर्लभा | वाक्सिद्धेर्नापरा सिद्धिरुत्तमा भुवि जातुचित् || ८७ || वाचो वर्णात्मिका यस्माद्वर्णरूपा च मालिनी | अथवा चिन्तयेदेनामुल्काकारां विचक्षणः || ८८ || निर्गच्छन्तीं स्वकाद्देहाद्विस्फुरन्तीं ततोऽप्यतः | स्फुलिङ्गैः कोटिसंख्यातैः संततैः किरणाकुलैः || ८९ || ग्रामं वा पत्तनं वापि नगरं देशमेव वा | मण्डलं पृथिवी वापि ब्रह्माण्डं वा समस्तकम् || ९० || विस्तीर्णं वा जनानीकमेकैकमुत्तमोत्तमम् | स बाह्याभ्यन्तरं व्याप्य पुनः प्रतिनिवृत्त्य च || ९१ || प्. १३६) प्रविशन्तीं स्वकं देहं पूर्वाकारामनुस्मरेत् | एवं दिने दिने कुर्यात्तद्गतेनान्तरात्मना || ९२ || ततोऽस्य मासमात्रेण जनास्तत्र निवासिनः | आगच्छन्ति यथा तीर्थं शक्तितेजोपबृंहिताः || ९३ || रूपिण्यो विविधाकारा ललनाद्यास्तथा पराः | भूचर्यः क्षोभमायान्ति षण्मासान्नात्र संशयः || ९४ || योनिजा द्वा मजा (?) क्षेत्रजाताः पीठसमुद्भवाः | नायिकाश्च महादेवि क्रमात्क्षुभ्यन्ति वत्सरात् || ९५ || अन्तरिक्षगता दिव्या ब्रह्मलोकगताश्च याः | ब्रह्माण्डान्तर्गताः सर्वाः क्षोभं यान्ति समात्रयात् || ९६ || स्वं स्वं ददति विज्ञानं साधकेन समीहितम् | यदि ता न प्रयच्छन्ति साधकेन समीहितम् || ९७ || नश्यते दिव्यविज्ञानं त्रुट्यते कुलसंततिः | दत्त्वा तु साधकेन्द्रेण प्रार्थितं फलमादरात् || ९८ || अनुपालितगुर्वाज्ञाः सिद्धिं प्राप्स्यन्त्यनुत्तमाम् | ताभ्यो विज्ञानमासाद्य योगी योगिकुले कुली || ९९ || भुक्त्वा यथेप्सितान्भोगान्यात्यन्ते परमं पदम् | इत्ययं कथितो लेशात्कौलिको विधिरुत्तमः || १०० || योगिनां सर्वसिद्ध्यर्थं कुलमार्गानुसारिणाम् || १०१ || इति श्रीमालिनीविजयोत्तरे तन्त्रे कुलचक्राधिकार एकोनविंशः || १९ || अथ विंशोऽधिकारः | अथ पिण्डादिभेदेन शाक्तं विज्ञानमुच्यते | योगिनां योगसिध्यर्थं संक्षेपान्न तु विस्तरात् || १ || पिण्डं शरीरमित्युक्तं तद्वछक्तिशिवात्मनोः | ब्रह्मानन्दो बलं तेजो वीर्यमोजश्च कीर्त्यते || २ || अज्ञानेन निरुद्धं तदनाद्येव सदात्मनः | तदाविभूतये सर्वमनिरुद्धं प्रवर्तते || ३ || तेनाविर्भाव्यमानं तत्पूर्वावस्थां परित्यजत् | याः संवित्तीरवाप्नोति ता अधस्तात्प्रकीर्तिताः || ४ || तदेव पदमिच्छन्ति सर्वार्थावगतिर्यतः | तस्मात्संजायते नित्यं नित्यमेव शिवात्मनोः || ५ || तदेव रूपमित्युक्तमात्मनश्च विनश्वरम् | रूपातीतं तदेवाहुर्यतोक्षाविषयं परम् || ६ || भावनां तस्य कुर्वीत नमस्कृत्य गुरुं बुधः | तावदालोचयेद्वस्तु यावत्पदमनामयम् || ७ || नैवं न चैवं नाप्येवं नापि चैवमपि स्फुटम् | चेतसा योगयुक्तेन यावत्तदिदमप्यलम् || ८ || प्. १३८) कृत्वा तन्मयमात्मानं सर्वाक्षार्थविवर्जितम् | मुहूर्तं तिष्ठते यावत्तावत्कम्पः प्रजायते || ९ || भ्रमणोद्भवनिद्राश्च किंचिदानन्द इत्यपि | तत्र यत्नेन संदध्याच्चेतः परफलेच्छया || १० || तदेतदात्मनो रूपं शिवेन प्रकटीकृतम् | यत्र तु यच्चं [ग्: यत्र तत्र त्विति] विज्ञेयं शिवात्मकमपि स्थितम् || ११ || तद्रूपोद्बलकत्वेन स्थितमित्यवधारयेत् | तत्समभ्यसतो नित्यं स्थूलपिण्डाद्युपाश्रयात् || १२ || चतुर्भेदत्वमायाति भक्त्याभिन्नमपि स्वतः | स्थूलपिण्डे द्विधा प्रोक्तं बाह्याभ्यन्तरभेदतः || १३ || भौतिकं बाह्यमिच्छन्ति द्वितीयं चातिवाहिकम् | तत्राद्योपाश्रयाद्योगी ससंवित्तिरपि स्फुटान् || १४ || बाह्यार्थान्संप्रगृह्णाति किंचिदाध्यात्मिकानपि | द्वितीयोपाश्रयात्तत्त्वभावार्थान्संप्रपद्यते || १५ || ईक्षते च स्वदेहान्तः पीठक्षेत्रादिकं स्फुटम् | स्वरूपालोचनादस्य यत्किंचिदुपजायते || १६ || तत्र चेतः स्थिरीकुर्वंस्तदेव सकलं लभेत् | तेन तत्र न कुर्वीत चैतदुत्तमवाञ्छया || १७ || प्. १३९) पिण्डद्वयविनिर्मुक्ता किंचित्तद्वासनान्विता | विज्ञानकेवलान्तस्था पदमित्यभिधीयते || १८ || यतं एतामनुपाप्तो विज्ञानक्रमयोगतः | रूपोदयातिविज्ञानपदत्वं प्रतिपद्यते || १९ || एतच्चतुर्विधं ज्ञेयं चतुर्धार्थप्रतिश्रयात् | स च तत्त्वादिसंवित्तिपूर्वस्तत्पतितावधिः || २० || पदभावविनिर्मुक्ता किंचित्तदनुवर्जिता | अवस्था स्वस्वरूपस्य प्रकाशकरणी यतः || २१ || तेन सारूप्यमित्युक्ता रूपस्थं यत्तदान्वितम् | उदितादिप्रभेदेन तदप्युक्तं चतुर्विधम् || २२ || ज्ञानोदया च देवेशि ममत्वात्तत्फलप्रदम् | अमुना क्रमयोगेन अन्तरा येषु संदधत् || २३ || चेतः शुद्धमवाप्नोति रूपातीतं परं पदम् | चतुर्विधं तदप्युक्तं संवित्तिफलभेदतः || २४ || त्रिविधं तत्समभ्यस्य सर्वसिद्धिफलेच्छया | चतुर्थात्तु तनुं त्यक्त्वा तत्क्षणादपवृज्यते || २५ || इति पिण्डादिभेदेन शिवज्ञानमुदाहृतम् | योगाभ्यासविधानेन मन्त्रविद्यागणं शृणु || २६ || प्. १४०) पूर्वोक्तविधिसंनद्धः प्रदेशे पूर्वचोदिते | नाभ्यादिपञ्चदेशानां परार्णं क्वापि चिन्तयत् || २७ || स्वरूपेण प्रभाभात्प्रकाशिततनूदरम् | दीप्तिभिस्तस्य तीव्राभिराब्रह्मभुवनं ततः || २८ || एवं संस्मरतस्तस्य दिवसैः सप्तभिः प्रिये | रुद्रशक्तिसमावेशः सुमहान्संप्रजायते || २९ || आविष्टो बहुवाक्यानि संस्कृतादीनि जल्पति | महाहास्यं तथा गेयं शिवारुदितमेव च || ३० || करोत्याविष्टचित्तस्तु न तु जानाति किंचन | मासेनैवं यदा मुक्तो यत्र यत्रावलोकयेत् || ३१ || तत्र तत्र दिशः सर्वा ईक्षते किरणाकुलाः | यां यामेव दिशं षड्भिर्मासैर्युक्तस्तु वीक्षते || ३२ || नानाकराणि रूपाणि तस्यां तस्यां प्रपश्यति | न तेषु संदधेच्चेतो न चाभ्यासं परित्यजेत् || ३३ || कुर्वन्नेतद्विधं योगी भीरुरुन्मत्तको भवेत् | वीरः शक्तिं पुनर्याति प्रमादात्तद्गतोऽपि सन् || ३४ || वत्सराद्योगसंसिद्धिं प्राप्नोति मनसेप्सिताम् | परापरामथैतस्या अपरां वा यथेच्छया || ३५ || प्. १४१) सद्भावं मातृसंघस्य हृदयं भैरवस्य वा | नवात्मानमपि ध्यायेद्रतिशेखरमेव वा || ३६ || अघोर्याद्यष्टकं वापि माहेश्यादिकमेव वा | अमृतादिप्रभेदेन रुद्रान्वा शक्तयोऽपि वा || ३७ || सर्वे तुल्यबलाः प्रोक्ता रुद्रशक्तिसमुद्भवाः | अथवामृतपूर्णानां प्रभेदः प्रोच्यते परः || ३८ || प्राणस्थं परयाक्रान्तं प्रत्येकमपि दीपितम् | विद्यां प्रकल्पयेन्मन्त्रं प्राणाक्रान्तं परासनम् || ३९ || द्वादशारस्य चक्रस्य षोडशारस्य वा स्मरेत् | अष्टारस्याथ वा देवि तस्य त्रेधा शतस्य वा || ४० || षडरस्याथ वा मन्त्री यथा सर्वं तथा शृणु | संक्षेपादिदमाख्यातं सार्धं चक्रशतद्वयम् || ४१ || एतत्त्रिगुणतां याति स्त्रीपुंयामलभेदतः | शान्त्यादिकर्मभेदेन प्रत्येकं द्वादशात्मताम् || ४२|| दक्षश्चण्डो हरः शौण्डी [क्: हरिश्चण्डीति] प्रमथो भीममन्मथौ | शकुनिः सुमतिर्नन्दो गोपालोऽथ पितामहः || ४३ || नन्दा भद्रा जया काली कराली विकृतानना | क्रोष्टकी भीममुद्रा च वायुवेगा हयानना || ४४ || प्. १४२) गम्भीरा घोषणी चैव द्वादशैताः प्रकीर्तिताः | आग्नेययादिचतुष्कोणा ब्रह्माण्याद्या अपि प्रिये || ४५ || सिद्धिर्-ऋद्धिस्तथा लक्ष्मीर्दीप्तिर्माला शिखा शिवा | सुमुखी वामनी नन्दा हरिकेशी हयानना || ४६ || विश्वेशी च सुमाख्या [ग्: सामाख्या चेति] च एता वा द्वादश क्रमात् | एतासां वाचका ज्ञेयाः स्वराः षण्ठविवर्जिताः || ४७ || षोडशारेऽमृताद्याश्च स्त्रीषुपाठप्रभेदतः | श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिः शर्वरीश्वरः || ४८ || अर्घेषो भारभूतिश्च स्थितिः स्थाणुर्हरस्तथा | झिण्ठीशो भौतिकश्चैव सद्योजातस्तथापरः || ४९ || अनुग्रहेश्वरः क्रूरो महासेनोऽथ षोडश | सिद्धिर्-ऋद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः स्वधा धृतिः || ५० || दीप्तिः पुष्टिर्मतिः कीर्तिः संस्थितिः सुगतिः स्मृतिः | सुप्रभा षोडशी चेति श्रीकण्ठादिकशक्तयः || ५१ || षोडशारे स्वरा ज्ञेया वाचकत्वेन सर्वतः | अघोराद्यास्तथाष्टारे अघोर्याद्याश्च देवताः || ५२ || माहेश्याद्यास्तथा देवि चतुर्विंशत्यतः शृणु | नन्दादिकाः क्रमात्सर्वा ब्रह्माण्याद्यास्तथैव च || ५३ || प्. १४३) संवर्तो लकुलीशश्च भृगुः श्वेतो बकस्तथा | खड्गी पिनाकी भुजगो [क्: भुजगी नवमा दालिरित्येवंविधः] नवमो बलिरेव च || ५४ || महाकालो द्विरण्डश्च [क्: दुरण्डश्चेति] च्छगलाण्डः शिखी तथा | लोहितो मेषमीनौ च त्रिदण्ड्याषाढिनामकौ [क्: त्रिदण्डाषाढेति] || ५५ || उमाकान्तोऽर्धनारीशो दारुको लाङ्गुली तथा | तथा सोमेशशर्माणौ चतुर्विंशत्यमी मताः || ५६ || कादिभान्ताः परिज्ञेया अष्टारे याद्यमष्टकम् | मकारो बिन्दुरूपस्थः सर्वेषामुपरि स्थितः || ५७ || जुंकारोऽथ तथा स्वाहा षडरे षट्क्रमेण तु | बलिश्च बलिनन्दश्च दशग्रीवो हरो हयः || ५८ || माधवश्च महादेवि षष्ठः संपरिकीर्तितः | विश्वा विश्वेश्वरी चैव हाराद्री वीरनायिका || ५९ || अम्बा गुर्वीति योगिन्यो बीजैस्तैरेव षट् स्मृताः | अन्योन्यवलिताः सर्वे स्वाम्यावरणभेदतः || ६० || अकारादिक्षकारान्ताः सर्वसिद्धिफलप्रदाः | ध्यानाराधनयुक्तानां योगिनां मन्त्रिणामपि || ६१ || अथवा सर्वचक्राणां मध्ये विद्यां यथेप्सिताम् | मन्त्रं वा पूर्वमुद्दिष्टं जपन्ध्यायन्प्रसिध्यति || ६२ || इति संक्षेपतः प्रोक्तः सर्वकामफलप्रदम् | इति श्रीमालिनीविजयोत्तरे तन्त्रे सर्वमन्त्रनिर्णयो नाम विंशतितमोऽधिकारः || २० || अथ एकविंशतितमोऽधिकारः अथातः परमं गुह्यं शिवज्ञानामृतोत्तमम् | व्याधिमृत्युविनाशाय योगिनामुपवर्ण्यते || १ || षोडशारे खगे चक्रे चन्द्रकल्पितकर्णिके | स्वरूपेण परां तत्र स्रवन्तीममृतं स्मरेत् || २ || पूर्वन्यासेन संनद्धः क्षणमेकं विचक्षणः | ततस्तु रसनां [ग्: रसतां नीत्वेति] नीत्वा लम्बके विनियोजयत् || ३ || स्रवन्तममृतं दिव्यं चन्द्रबिम्बसितं [क्: बिम्बात्स्मितं स्मरेदिति] स्मरेत् | मुखमापूर्यते तस्य किंचिल्लवणवारिणा || ४ || लोहगन्धेन तच्चात्र न पिवेत्किंतु निक्षिपेत् | एवं समभ्यसेत्तावद्यावत्तत्स्वादु जायते || ५ || जराव्याधिविनिर्मुक्तो जायते तत्पिवंस्ततः | पड्भिर्मासैरनायासाद्वत्सरान्मृत्युजिद्भवेत् || ६ || तत्र स्वादुनि संजाते तदाप्रभृति तत्रगम् | यदेव चिन्तयेद्द्रव्यं तेनास्यापूर्यते मुखम् || ७ || प्. १४५) रुधिरं मदिरां वाथ वसां वा क्षीरमेव वा | घृततैलादिकं वाथ द्रवद्द्रव्यमनन्यधीः || ८ || अथान्यं संप्रवक्ष्यामि संक्रान्तिविधिमुत्तमम् | मृते जीवच्छरीरे तु प्रविशेद्योगविद्यया || ९ || निवातस्थो जितप्राणो जितासनविधिक्रमः | कुर्वीत वायुनावेशमर्कतूले शनैः शनैः || १० || स्वादाकृष्टिविधिं [क्: स्वादाकृष्येति] यावद्गुडे निम्बे च कारयेत् | श्रीखण्डगुडकर्पूरैस्ततः कृत्वाकृतिं शुभाम् || ११ || प्रगुणामगुण * * * * न्यङ्गेषु संदधत् | न्यासं कृत्वापि तत्रापि वेधं कुर्याच्छनैः शनैः || १२ || निरोधं तत्र कुर्वीत घट्टनं तदनन्तरम् | घट्टनं नाम विज्ञेयमङ्गप्रत्यङ्गचालनम् || १३ || एवमभ्यसतस्तस्य योगयुक्तस्य योगिनः | चलते प्रतिमा सा तु धावते चापि संमुखी || १४ || पुनस्तां प्रेरयेत्तावद्यावत्स्वस्थानमागताम् | पतितां चालयेद्भूय उत्तानां पार्श्वतः स्थिताम् || १५ || एवं सर्वात्मनस्तावद्यावत्स्ववशतां गता | ततः प्रभृत्यसौ योगी प्रविशेद्यत्र रोचते || १६ || प्. १४६) मृते जीवच्छरीरे वा संक्रान्त्याक्रान्तिभेदतः | प्रक्षिप्य जलवच्छक्तिजालं सर्वाङ्गसंधिषु || १७ || प्रत्यङ्गमङ्गतस्तस्य शक्तिं तेनाक्रमेद्बुधः | स्वकीयं रक्षयेद्देहहमाक्रान्तावन्यथा त्यजेत् || १८ || बहून्यपि शरीराणि दृढलक्ष्यो यदा भवेत् | तदा गृह्णात्यसंदेहं युगपत्संत्यजन्नपि || १९ || अथापरं प्रवक्ष्यामि सद्यः प्रत्ययकारकम् | समाधानामृतं दिव्यं योगिनां मृत्युनाशनम् || २० || चन्द्राकृष्टिकरं नाम मासाद्वा योगभोगदम् | शुक्लपक्षे द्वितीयायां मेषस्थे तिग्मरोचिषि || २१ || स्नातः शुचिर्निराहारः[क्: निराकार] कृतपूजाविधिर्बुधः | न्यसेच्चन्द्रे कलाजालं परया समधिष्ठितम् || २२ || सर्वबाधापरित्यक्ते प्रदेशे संस्थितो बुधः | एकचित्तः प्रशान्तात्मा शिवसद्भावभावितः || २३ || तावदालोकयेच्चन्द्रं यावदस्तमुपागतः | ततो भुञ्जीत दुग्धेन चन्द्रध्यानसमन्वितः || २४ || एवं दिने दिने कुर्याद्यावत्पञ्चदशी भवेत् | शेषां रात्रिं स्वपेद्ध्यायंश्चन्द्रबिम्बगतां पराम् || २५ || प्. १४७) पौर्णमास्यां तथा योगी अर्धरात्र उपस्थितः | जने निःशब्दतां याते प्रसुप्ते सर्वजन्तुभिः || २६ || चन्द्रकोटिकरप्रख्यां तारहारविभूषणाम् | सिताम्बरपरीधानां सितचन्दनचर्चिताम् || २७ || मौक्तिकाभरणोपेतां सुरूपां नवयौवनाम् | आप्यायनकरीं देवीं समन्तादमृतस्रवाम् || २८ || राजीवासनसंस्थां च योगनिद्रामवस्थिताम् | चन्द्रबिम्बे परां देवीमीक्षते नात्र संशयः || २९ || ततस्तां चेतसा व्याप्य तावदाकर्षयेत्सुधीः | यावन्मुखाग्रमायाता तत्र कुर्यात्स्थिरं मनः || ३० || ततः प्रसार्य वदनं ध्यानासक्तेन चेतसा | निगिरेत्तां समाकृष्य भूयो हृदि विचिन्तयेत् || ३१ || तया प्रविष्टया देहं योगी दुःखविवर्जितः | शक्तितुल्यबलो भूत्वा जीवेदाचन्द्रतारकम् || ३२ || एकोऽप्यनेकधात्मानं संविभज्य निजेच्छया | त्रैलोक्यं यौगपद्येन भुनक्ति वशतां [क्: वशमेति चेति] गतम् || ३३ || आसाद्य विपुलान्भोगान्प्रलये समुपस्थिते | परमभ्येति निर्वाणं दुष्पापमकृतामनाम् || ३४ || प्.१४८) अथवा तन्न शक्नोति गगने परिचिन्तितुम् | प्रतिबिम्बे तथा ध्यायेदुदकादिषु पूर्ववत् || ३५ || तत्पीत्वा मनसा शेषां स्वपेद्रात्रिमनुस्मरन् | पूरोक्तं समवाप्नोति षड्भिर्मासैरखण्डितम् || ३६ || इति श्रीमालिनीविजयोत्तरे तन्त्रे चन्द्राकृष्ट्यधिकार एकविंशतितमः || २१ || अथ द्वाविंशतितमोऽधिकारः | अथान्यत्परमं गुह्यं कथयामि तव प्रिये | यन्न कस्यचिदाख्यातं योगामृतमनुत्तमम् || १ || सूर्याकृष्टिकरं नाम योगिनां योगसिद्धिदम् | सम्यङ्मासचतुष्केण दिनाष्टाभ्यधिकेन तु || २ || प्रहरस्याष्टमो भागो नाडीकेत्यभिधीयते | तत्पादक्रमवृद्ध्या तु प्रतिवासरमभ्यसेत् || ३ || उदयास्तमयं यावद्यत्र सूर्यः प्रदृश्यते | प्रदेशे तत्र विजने सर्वबाधाविवर्जिते || ४ || अहोरात्रोषितो योगी मकरस्थे दिवाकरे | शूचिर्भूत्वा कृतन्यासः कृतशीतप्रतिक्रियः || ५ || भानुबिम्बे न्यसेच्चक्रमष्टषट्द्वादशारकम् | शिवशक्तिगणोपेतं भैरवाष्टकसंयुतम् || ६ || वर्षादि-ऋतुसंयुक्तं मासैर्-ऋक्षादिभिर्युतम् | अष्टारं चिन्तयेद्बिम्बे शेषं रश्मिषु चिन्तयेत् || ७ || तत्र चित्तं समाधाय प्रोक्तकालं विवक्षणः | अनिमीलितनेत्रस्तु भानुबिम्बं निरीक्षयेत् || ८ || प्. १५०) ततः काले व्यतिक्रान्ते सुनिमीलितलोचनः | प्रविशेदन्धकारान्तर्भुवनं निरुपद्रवम् || ९ || तत्रोन्मीलितनेत्रस्तु बिम्बाकारं प्रपश्यति | संधाय तत्र चैतन्यं तिष्ठेद्यावन्न पश्यति || १० || नष्टेऽपि चेतसा शेषं तिष्ठेत्कालमनुस्मरन् | एवं पासेन देवेशि स्थिरं तदुपजायते || ११ || मासद्वयेन सर्वत्र प्रेक्षते नात्र संशयः | त्रिभिः समीक्षते सर्वं रविबिम्बसमाकुलम् || १२ || प्रोक्तकालावसानेन वृषस्थे तिग्मरोचिषि | प्रेक्षते सूर्यबिम्बान्तः सचक्रं परमेश्वरम् || १३ || उपलब्धं समाकृष्य मुखाग्ने स्थिरतां नयेत् | आपीय पूर्ववत्पश्चाद्वृत्तिं निश्चलतां नयेत् || १४ || तत्र तेन सहात्मानमेकीकृत्य मुहूर्तकम् | यावत्तिष्ठति देवेशि तावत्संत्यजति क्षितिम् || १५ || पश्यतो जनवृन्दस्य याति सूर्येण चैकतः | अनेन विधिना देवि सिद्धयोगीश्वरेश्वरः || १६ || शिवाद्यवनिपर्यन्तं न क्वचित्प्रतिहन्यते | भुक्त्वा तु विपुलान्भोगान्निष्कले लीयते परे || १७ || तदेतत् खेचरीचक्रं यत्र खेचरतां व्रजेत् | सिद्धयोगीश्वरीतन्त्रे सरहस्यमुदाहृतम् || १८ || प्. १५१) अथवा चक्ररूपेण सबाह्याभ्यन्तरं स्वकम् | देहं चिन्तयतः पूर्वं फलं स्यान्निश्चितात्मनः || १९ || उच्चरन्फादिनान्ता वा ध्वनिज्योतिर्मरुद्युताम् | विश्राम्य मस्तके चित्तं क्षणमेकं विचक्षणः || २० || त्रीशूलेन प्रयोगेन सद्यस्त्यजति मेदिनीम् | एवं समभ्यसन्मासाच्चक्रवद्भ्रमति क्षितौ || २१ || मुहूर्तं स्पृशते भूमिं मुहूर्ताच्च नभस्तलम् | शिवारावादि कुरुते वलनास्फोटनानि च || २२ || मुद्राबन्धादिकं वाथ भाषा वा वक्त्यनेकधा | षण्मासान्मेदिनी त्यक्त्वा समाधिस्थो दृढेन्द्रियः || २३ || तिष्ठते हस्तमात्रेण गगने योगचिन्तकः | पश्यते योगिनीवृन्दमनेकाकारलक्षणम् || २४ || संवत्सरेण युक्तात्मा तत्समानः प्रजायते | पश्यतामेव लोकानां तेजोभिर्भासयन्दिशः || २५ || यात्युत्कृष्य महीपृष्ठात् खेचरीणां पतिर्भवेत् | मुद्रा खगेश्वरी नाम कथिता योगिनीमते || २६ || जागरित्वाथ वा योगी त्र्यहोरात्रमतन्द्रितः | चतुर्थेऽह्नि निशारम्भे पूजयित्वा महेश्वरम् || २७ || ततोऽन्धकारे बहुले कृतरक्षाविधिर्बुधः | भ्रुवोर्मध्ये समाधाय क्षणं चेतः प्रपश्यति || २८ || प्. १५२) तेजो रूपप्रतीकाशं पर्यङ्कासनमास्थितः | प्रयोगं त्वेव सततं योगयुक्तः समभ्यसेतु || २९ || पश्यते मासमात्रेण गृहान्तर्वस्तु यत् स्थितम् | द्वाभ्यां बहिः स्थितं सर्वं त्रिभिः पत्तनसंस्थितम् || ३० || चतुर्भिर्विपयान्तःस्थं पञ्चभिर्मण्डलावधि | षड्भिर्मासैर्महायोगी च्छिद्रां पश्यति मेदिनीम् || ३१ || सर्वज्ञत्वमवाप्नोति वत्सरान्नात्र संशयः | योगिनीसिद्धसंघस्य सद्भावव्याप्तिसंस्थितम् || ३२ || पश्यते योगयुक्तात्मा तत्समानश्च जायते | अनेनैव विधानेन स्वस्तिकासनसंस्थितः || ३३ || बिन्दुं नानाविधं त्यक्त्वा शुद्धरूपमनुस्मरेत् | तेनापि सर्वं पूर्वोक्तं व्याप्नोति फलमुत्तमम् || ३४ || इति श्रीमालिनीविजयोत्तरे तन्त्रे सूर्याकृष्ट्यधिकारो द्वाविंशतितमः || २२ || अथ त्रयोविंशतितमोऽधिकारः | अथातः परमं गुह्यं कथयामि तवाधुना | सद्योपलब्धिजनकं [क्: सद्यः फलानुजनकमिति] योगिनां योगसिद्धये || १ || पूर्वन्यासेन संनद्धश्चित्तं श्रोत्रे निवेशयेत् | निवाते स्वल्पवाते वा बाह्यशब्दविवर्जिते || २ || ततस्तत्र शृणोत्येष योगी ध्वनिमनावृतम् [ग्: ध्वनिमनाहतमिति] | सुविशुद्धस्य कांस्यस्य हतस्येह मुहुर्मुहुः || ३ || यमाकर्ण्य महादेवि पुण्यपापैः प्रमुच्यते | तत्र संधाय चैतन्यं षण्मासाद्योगवित्तमः || ४ || रुतं पक्षिगणस्यापि प्रस्फुटं वेत्त्ययत्नतः | दूराच्छ्रवणविज्ञानं वत्सरेणास्य जायते || ५ || सर्वकामफलावाप्तिर्वत्सरत्रितयेन च | सिद्ध्यतीति किमाश्चर्यमनायासेन सिद्ध्यति || ६ || अथवा ग्रहणे मासि कृत्वा सूर्यं तु पृष्ठतः | पूर्वन्यासेन संनद्धः किंचिद्भित्तिमदाश्रितः || ७ || प्. १५४) लक्षयेदात्मनश्छायां मस्तकोर्ध्वमनाहताम् | धूमवर्तिविनिष्क्रान्तां तद्गतेनान्तरात्मना || ८ || याति तन्मयता तत्र योगयुक्तो यथा यथा | तथा तथास्य महती सा वित्तिरुपजायते || ९ || ततस्तत्र महातेजः स्फुरत्किरणसंनिभम् | पश्यते यत्र दृष्टेऽपि सर्वपापक्षयो भवेत् || १० || तदस्याभ्यसतो मासात्सर्वत्र प्रविसर्पति | ज्वालामालाकुलाकारा दिशः सर्वाः प्रपश्यति || ११ || षण्मासमभ्यसन्योगी सर्वज्ञत्वमवाप्नुयात् | अब्दं दिव्यतनुर्भूत्वा [ग्: अब्दाद्दिव्यतनुरिति] शिववन्मोदते चिरम् || १२ || अथ जात्यः प्रवक्ष्यन्ते सपूर्वासनशाश्वताः | हीं क्ष्लां [ग्: क्षामिति] क्ष्वीं वं तथा क्षं च पञ्चकस्य यथाक्रमम् || १३ || हं यं रं लं तथा वं च पञ्चकस्यापरस्य च | ऋं ॠं ऌं ॡं तथा ओं औं हः अं आकर्णिकावधौ || १४ || केसरेषु भकारान्ता हं हां हिं हीं च हुं तथा | हूं हें हैं च दलेष्वेवं स्वसंज्ञाभिश्च शक्तयः || १५ || मण्डलत्रितये शेषं सूक्ष्मं प्रेतस्य कल्पयेत् | ज्रकारं शूलशृङ्गाणामित्येतत्परिकीर्तितम् || १५ || प्. १५५) अनुक्तासनयोगेषु सर्वत्रैवं प्रकल्पयेत् | नमः स्वाहा तथा वौषट् हुं वषट् फट् च जातयः || १६ || प्रायश्चित्तेषु सर्वेषु जपेन्मालामखण्डिताम् | भिन्नां वाप्यथवाभिन्नामतिक्रमबलाबलाम् || १७ || सकृज्जपात्समारभ्य यावल्लक्षत्रयं प्रिये | प्राणवृत्तिनिरोधेन ततः परतरं क्वचित् || १८ || सदा भ्रमणशीलानां पीठक्षेत्रादिकं बहिः | प्रयोगं संप्रवक्ष्यामि सुखसिद्धिफलप्रदम् || १९ || नासाक्रान्तं महाप्राणं दण्डरूपं सबिन्दुकम् | तद्वद्गुह्यं च कुर्वीत विद्येयं द्व्यक्षरां मता || २० || अस्याः पूर्वोक्तविधिना कृतसेवः प्रसन्नधीः | पीठादिकं भ्रमेत्सिद्ध्यै नान्यथा वीरवन्दिते || २१ || तत्प्रदेशं समासाद्य मन्त्रैरात्मानमादरात् | विद्यया वेष्टयेत्स्थानं रक्तसूत्रसमानया || २२ || बहुधानन्यचित्तस्तु सबाह्याभ्यन्तरं बुधः | ततस्तत्र क्वचित्क्षेत्रे योगिन्या भीमविक्रमाः || २३ || समागत्य प्रयच्छन्ति संप्रदायं स्वकं स्वकम् | येनासौ लब्धमात्रेण संप्रदायेन सुब्रते || २४ || तत्समानबलो भूत्वा भुङ्क्ते भोगान्यथेप्सितान् | अथवा कृतसेवस्तु लक्षमेकं जपेत्सुधीः || २५ || प्. १५६) तर्पयित्वा दशांशेन क्षुद्रकर्मसु योजयेत् | तत्रोच्चारितमात्रेयं विषक्षयकरीं भवेत् || २६ || चक्रवद्भ्रममाणैषा योनौ रक्तां विचिन्तयेत् | गमागमक्रमाद्वापि विन्द * * * वारिता || २७ || तत्रस्थश्चाशु संघातविघाताकुञ्चनेन तु | क्षणादनन्यचित्तस्तु क्षोभयेदुर्वशीमपि || २८ || कृतसेवाविधिर्वाथ लक्षत्रयजपेन तु | महतीं श्रियमाधत्ते पद्मश्रीफलतर्पिता || २९ || षडुत्थासनसंस्थाना साधिताप्युक्तवर्त्मना | सर्वसिद्धिकरी देवी मन्त्रिणामुपजायते || ३० || शूलपद्मविधिं मुक्त्वा नवात्माद्यं च सप्तकम् | षडुत्थमासनं दद्यात्सर्वचक्रविधौ बुधः || ३१ || मुद्रा च महती योज्या हृद्बीजेनोपचारकम् | अथान्यत्संप्रवक्ष्यामि स्वप्नज्ञानमनुत्तमम् || ३२ || हृच्चक्रे तन्मयो भूत्वा रात्रौ रात्रावनन्यधीः | मासादूर्ध्वं महादेवि स्वप्ने यत्किंचिदीक्षते || ३३ || तत्तथ्यं जायते तस्य ध्यानयुक्तस्य योगिनः | तत्रैव यदि कालस्य नियमेन रतो भवेत् || ३४ || तदा प्रथमयामे तु वत्सरेण शुभाशुभम् | षट्त्रिमासेन क्रमशो द्वितीयादिष्वनुक्रमात् || ३५ || प्. १५७) अरुणोदयवेलायां दशाहेन फलं लभेत् | संकल्पपूर्वकेऽप्येवं परेषामात्मनोऽपि वा || ३६ || क्वचित्कार्ये समुत्पन्ने सुप्तज्ञानमुपाक्रमेत् | इत्येतत्कथितं देवि सिद्धयोगीश्वरीमतम् || ३७ || नातः परतरं ज्ञानं शिवाद्यवनिगोचरे | य एवं तत्त्वतो वेद स शिवो नात्र संशयः || ३८ || तस्य पादरजः मूर्ध्नि घृतं पापप्रशान्तये | एतच्छ्रुत्वा महादेवी परं संतोषमागता || ३९ || एवं क्षमापयामास प्रणिपत्य पुनः पुनः | इति वः सर्वमाख्यातं मालिनीविजयोत्तरम् || ४० || ममैतत्कथितं देव्या योगामृतमनुत्तमम् | भवद्भिरपि नाख्येयमशिष्याणामिदं महत् || ४१ || न चापि परशिष्याणामपरीक्ष्य प्रयत्नतः | सर्वथैतत्समाख्यातं योगाभ्यासरतात्मनाम् || ४२ || प्रयतानां विनीतानां शिवैकार्पितचेतसाम् | कार्तिकेयात्समासाद्य ज्ञानामृतमिदं महत् || ४३ || मुनयो योगमभ्यस्य परां सिद्धिमुपागताः | इति श्रीमालिनीविजयोत्तरे तन्त्रे त्रयोविंशतितमोऽधिकारः || २३ || समाप्तं चेदं मालिनीविजयोत्तरं नाम महातन्त्रम् || श्रीमत्प्रतापभूभर्तुराज्ञया प्रीतये सताम् | मधुसूदनकौलेन संपाद्येदं प्रकाशितम् || श्रीसाम्बशिवार्पणमस्तु | ########### END OF FILE #######