#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00662 Uniform title: mātṛkābhedatantra Description: Copied from Calcutta Sanskrit Series VII edited by Chintamani Bhattacharya, 1933 Notes: Data-entered by the staff of Muktabodha under the supervision of Anirban Dash. Revision 0: September 21, 2024 Diplomatic transcription Publisher : Metropolitan Printing and Publishing House Publication year : 1933 Publication city : Calcutta Publication country : India #################################################### मातृकाभेदतन्त्रस्य विषयसूची पृ० १) प्रथमपटलस्य १-४ पृ० श्लोकसंख्या ग्रन्थारम्भः १ रत्नादिनिर्माणप्रश्नः २-४ तत्र रौप्यनिर्माणप्रकारकथनम् ५-१६ कारणस्य दुग्धरूपताविषये प्रश्नः १७ कारणस्य दुग्धरूपताकथनम् १८-२० मद्यस्य गन्धहीनताविषये प्रश्नः २१ मद्यस्य गन्धहीनताकरणम् २२-२३ द्वितीयपटलस्य ५-८ पृ० पुत्रोत्पत्तिविषये जिज्ञासा १-३ महादेवस्य गर्भोत्पत्तिप्रकारकथनम् ४-१२ पुत्रकन्यादिजन्मकथनम् १३-१६ पुष्पमाहात्म्यकथनम् १७-२२ तृतीयपटलस्य ९-१५ पृ० भोगस्य मोक्षकारणतायां देव्याः प्रश्नः १ भोगस्य मोक्षकारणत्वकथनम् २-१६ होमकुण्डविषयकजिज्ञासा १७ चतुर्विधहोमकुण्डकथनम् १८-२३ चतुर्विधाहुतिकथनम् २४-२५ चतुर्विधमुक्तिकथनम् २५-२६ बाह्यहोमज्ञानहोमविमर्शः २७-२९ देव्या मद्यपानविषये जिज्ञासा ३० मद्यपानव्यवस्था ३१-३४ पृ० २) सशक्ति चतुर्वर्णानां मद्यपानप्रशंसा ३५-३६ मद्यपानस्य ब्रह्मज्ञानकारणत्वम् ३७-४० सुरायाः शापमोचनस्य कर्त्तव्यता ४१-४३ प्रसङ्गतो मुक्तिमार्गनिर्णयः पशुसन्निधौ तन्निर्णये निन्दाकथनञ्च ४४-४५ चतुर्थपटलस्य १६-२१ पृ० शिवनिर्माल्यस्य कारणस्य च अग्राह्यत्वविषये देव्या जिज्ञासा १-२ कारणोपन्यासेन सुरानिर्माल्ययोः प्रशंसाकथनम् ३-९ निर्वाणस्य महामोक्षस्य मद्यपानमेव कारणम् १०-१२ गङ्गाम्भसोऽपि कारणस्योत्कर्षनिरूपणम् १३-१५ प्रसङ्गतो महाशङ्खमालाप्रशंसा १६-१७ महाशङ्खस्य शालग्रामादौ स्पर्शनिषेधः १८ कारणस्पर्शेन मालाया उत्कर्षः, गङ्गास्पर्शेन च तदभाव इत्यत्र हेतुप्रश्नः १९-२० तत्र भगवत उत्तरदानम् २१-२६ प्रसङ्गतो महाशङ्खमालाप्रशंसा २७-३० पञ्चमपटलस्य २२-२८ पृ० पारदभस्मनिर्माणप्रश्नः १ तत्र महादेवस्य तदर्थं शान्तेः कर्त्तव्यताकथनम् २ शान्तिप्रकारकथनम् ३-१४ गुरवे दक्षिणादानस्याऽऽवश्यकता १५ भस्मनिर्वाणविधानप्रश्नः १६ तत्र भस्मनिर्माणप्रकारकथनम् १७-२६ देव्याः स्वयम्भूकुसुमादिविषये जिज्ञासा २७ महादेवस्य तत्रोत्तरम् २८-३३ पृ० ३) पारदभस्मपरीक्षानिर्माणप्रसङ्गेन स्वर्णनिर्माणकथनम् ३४-३८ पारदभस्मप्रशंसा ३९-४३ षष्टपटलस्य २९-३७ पृ० महारोगादिदुःखमुक्त्युपायप्रश्नः १-३ तत्र महादेवस्योत्तरम् ४-५ ग्रहणविषये देव्या जिज्ञासा ६-७ तत्र ग्रहणशब्दस्यार्थकथनम् ८-१० तत्प्रकारकथनम् ११-१४ ग्रहणप्रशंसा १५-१८ ग्रहणतत्त्वप्रकाशनिषेधः १९-२० चामुण्डामंत्रपूजाविषये प्रश्नः २१ चामुण्डामन्त्रपूजादिकथनम् २२-२४ चण्डीपाठप्रकारकथनम् २५-५० चण्डीपाठप्रशंसनम् ५०-५५ चण्डिकाया ध्यानमन्त्रादिकथनम् ५६-६३ चण्डिपाठात् सर्वसिद्धिकथनम् ६४-६९ सप्तमपटलस्य ३८-४९ पृ० त्रिपुरामन्त्रज्ञानप्रशंसा १ त्रिपुरायास्त्रैविध्यकथनम् २ प्रातःकृत्यादिप्रश्नः ३ तद्विषयकशिववाक्यानि ४-११ स्त्रीगुरुस्तवकवचविषये देव्याः प्रश्नः १२-१३ स्त्रीगुरुस्तोत्रकथनम् १४-२४ स्त्रीगुरुकवचकथनम् २५-३५ स्त्रीगुरुकवचप्रशंसा ३६-४४ महादेवस्य वक्तव्यविषये जिज्ञासा ४५-४७ श्रीविद्याविषये सन्ध्याध्यानादिप्रश्नः ४८ पृ० ४) श्रीविद्यायाः प्रातरादिभेदेन रूपत्रैविध्यकथनम् ४९-५३ श्रीमत्त्रिपुरसुन्दरीपूजाग्रे शम्भुपूजाया अवश्यकर्त्तव्यत्वकथनम् ५३-५६ शम्भुपूजायामाधारभेदप्रश्नः ५७ तत्राऽऽधारभेदकथनम् ५८-६० शिवसंस्कारकथनम् ६१-६४ लिङ्गप्रमाणप्रश्नः ६५ लिङ्गप्रमाणकथनम् ६६-६९ अष्टमपटलस्य ५०-५४ पृ० देव्याः पारदमाहात्म्यविषये लिङ्गरूपविषये च जिज्ञासा १-३ महादेवस्य तत्रोत्तरम् ४-७ सर्वलिङ्गितः पारदनिर्मितलिङ्गस्य प्राधान्यकथनम् ८-१० तत्र लिङ्गनिर्माणविषये देव्या जिज्ञासा ११ पारदताडननिषेधः १२ तत्र विघ्नादिशमनप्रश्नः १३ पारदशिवनिर्माणे शान्त्यादेरावश्यकता १४ शान्तिप्रणालीकथनम् १५-२९ पारददृढीकरणप्रणाली ३०-३४ नवमपटलस्य ५५-५८ पृ० प्रकारान्तरेण पारदभस्मनिर्माणप्रणाली १-५ तत्र पूजादिप्रकारः ६-१० तत्र होमकुण्डप्रमाणादिकम् ११-१५ दक्षिणादानस्याऽऽवश्यकता १६-१७ तत्र प्रयोगः १८-२६ पारदभस्मव्यवहारप्रशंसा २७-२८ पुत्रवतो गृहिण एतत्प्रयोगनिषेधः २९-३१ पृ० ५) दशमपटलस्य ५९-६२ पृ० गुरुमन्त्रयोरेकत्वविषये देव्याः प्रश्नः १ तत्र महादेवस्योत्तरम् २-४ अचाक्षुषस्य ध्यानविषये प्रश्नः ५ तत्र महादेवस्योत्तरम् ६-७ देव्याः पशुप्रदानवाक्यप्रश्नः ८ तत्र महादेवस्योत्तरम् ९-११ दिव्यवीरमते पशुदानस्याऽऽवश्यकता १२-१५ प्रसङ्गतो बलिदानप्रशंसा १६ यज्ञावशेषभोजनस्याऽऽवश्यकता १७-१८ पटलश्रवणप्रशंसा १९-२२ तन्त्रश्रवणप्रशंसा २३-२४ एकादशपटलस्य ६३-६९ पृ० देव्याः प्रासाद-मण्डप-कूपादिनिवेदनविधानप्रश्नः, तन्माहात्म्यप्रश्नश्च १-२ प्रासादोत्सर्गविधानकथनम् ३-२२ कूपोत्सर्गे विशेषः २३-२८ कूपाद्युत्सर्गप्रशंसाकथनम् २९-३५ देव्या यज्ञसूत्रविधानप्रश्नः ३६ महादेवस्य यज्ञसूत्रविधानकथनम् ३७-४३ अज्ञातसङ्केतस्य यज्ञसूत्रधारणनिन्दा ४४ द्वादशपटलस्य ७०-८० पृ० पूजाधारकथनम् १-४ तत्र पार्थिवलिङ्गस्य निषेधः ४ शालग्रामादौ यन्त्रलिखननिषेधः ५-६ प्रतिमापूजायां विशेषः ७-८ यन्त्रे कृते मूर्त्तेरकर्त्तव्यता ९ प्रतिमायां पूजायां यन्त्रलिखननिषेधः १० पृ० ६) दैवाद् यन्त्रलिखने कर्त्तव्यव्यवस्था ११ तदकरणे दोषः १२-१३ शिवलिङ्गलक्षणकथनम् १४ पार्थिवादिशिवलिङ्गाधिकरणकशिवपूजासु विशेषः १४-२० शम्भुपूजाप्रशंसा २१-२२ बिल्वपत्रेण पूजायां फलाधिक्यकथनम् २३-२५ पुनः शिवपूजाप्रशंसा २६ लिङ्गोपरि पुष्पगन्धादिदानप्रशंसा २७-२९ लिङ्गोपरि जलदानफलम् ३० लिङ्गोपरि पुष्पदानफलम् ३१-३३ लिङ्गोपरि दूर्वादानफलम् ३४ शिवस्नपनफलम् ३५ देव्या ब्रह्मशक्तिविष्णुशक्तिविषये जिज्ञासा १२-३६ तत्र महादेवस्योत्तरम् ३७-४० मन्त्रधारिणो वातुलत्वरोगित्वविषये देव्याः प्रश्नः ४१ तत्र मन्त्रच्छन्नादिदोषेण वातुलत्वादिकथनम् ४२-४६ मन्त्रहरणदोषकथनम् ४७ तत्र साधकस्यावस्थाविशेषकथनम् ४८-४९ अष्टविधमन्त्रच्छन्नदोषनाशोपाये देव्या जिज्ञासा ५० महादेवस्योपायकथनम् ५१-६२ प्रसङ्गतः श्मशानसाधनकथनम् ६३-७० त्रयोदशपटलस्य ८१-८६ पृ० मालाविषये देव्या जिज्ञासा १ तत्र देवताविशेषे मालाविशेषकथनम् २-७ मालाग्रन्थिकथनम् ८-१४ मालाजपे कम्पनादौ दोषकथनम् १५-१७ दोषे जाते शान्तिकथनम् १७-२२ तत्र दरिद्रस्य विशेषः २३-२५ पृ० ७) चतुर्दशपटलस्य ८७-९२ पृ० देव्या भोगाविषये प्रश्नः १-२ तत्रोत्तरप्रसङ्गेन त्रिविधभोगकथनम् २ दिव्यभोगकथनम् ३ वीरभोगकथनम् ४ पशुभोगकथनम् ४ दिव्यभावगतिः ५ वीरभावगतिः ५ सायुज्यादिमोक्षाधिकारिणः ६ पशुभावगतिः ६-१० देव्या दिव्यवीरलक्षणजिज्ञासा ११ उत्तरप्रसङ्गेन महादेवस्य वारुणीप्रशंसा तन्मुखेन दिव्यवीरलक्षणकथनञ्च १२-२१ साधिकालक्षणकथनम् २२ साधिकायाः प्रकारभेदः साधिकाया विशेषेण गुरुपूजाप्रकारश्च २२-२३ साधिकाया विशेषेण गुरुपूजाऽकरणे दोषः २४ तत्र विशेषविधिनिषेधाः २५-३२ देव्या गुरुपूजाप्रकारे प्रश्नः ३३ तत्र महादेवस्योत्तरम् ३४ गुरुपुत्रपूजनप्रशंसा ३५-३६ एकाधिकगुरुपुत्रपूजननिषेधः ३७-३९ गुरुपुत्रपूजनस्यावश्यकर्त्तव्यता ४०-४१ गुरुपुत्रापूजने दोषः ४२ श्रीमद्गुरुपादुकास्तोत्रम् ९३ पृ० पृ० १) मातृकाभेदतन्त्रम् प्रथमः पटलः ओं [नमः परदेवतायै घ |]नमो देव्यै [कैलाश- घ ङ |]कैलासशिखरे रम्ये नानारत्नोपशोभिते | पप्रच्छ परया भक्त्या भैरवं परमेश्वरम् || १ || श्रीचण्डिकोवाच- त्रिपुरापूजनं नाथ [सर्व- घ ङ]स्वर्णरत्नैर्विशेषतः[र्विभूषणैः ख-ग |]| कलिकाले [स्वर्णरत्नस्तप्तभावस्तथा मणिः ख-ग, सर्वरत्नं ङ |]स्वर्णरूप्यं गुप्तभावं तथा मणिम् [ः] || २ || केनोपायेन देवेश स्वर्णरूप्यादि[-रत्नादि ख-ग-घ-ङ |] लभ्यते | तद् वदस्व विशेषेण यथा रत्नादिकं भवेत् || ३ || यन्नोक्तं सर्व्वतन्त्रेषु तद् वदस्व दयानिधे || ४ || श्रीशङ्कर उवाच- शृणु देवि प्रवक्ष्यामि यथा रत्नादिकं भवेत् | मत्तेजसा [पारकेण ङ |]पारदेन किं रत्नं न हि लभ्यते || ५ || तथा सामुद्रकेणैव सुशुभ्रलवणेन[शुद्धसामुद्रके तथा ख-ग, शुभ्रसम्बलकेन घ-ङ |] च | [सामुद्रस्य ख-ग |]सम्बलस्य प्रकारं हि [तच्छृणुष्व प्रियंवदे ख-ग |]शृणु देवि प्रयत्नतः || ६ || --------------------- ६ | सम्बलस्येति | दारमुच् इति यस्य प्रसिद्धिरिति ङ-पुस्तकटिप्यन्याम् | पृ० २) चीनतन्त्रानुसारेण पूजयेत् [कालिकां पराम् ख-ग, सिद्धि- घ |]सिद्धकालिकाम् | [श्लोकार्द्धमिदं नास्ति ख-ग |]अथवा पूजयेद् देवीं दक्षिणां[दक्षिणा-का क-ख-ग-घ |] कालिकां पराम् | कालीतन्त्रोक्तविधिना सप्ताहं जपपूजनम् || ७ || सत्ये चैकन्तु त्रेतायां द्विगुणं द्वापरे त्रयम् | एवं सर्व्वत्र जानीयाच्चतुर्गुणजपः कलौ || ८ || ---------------------- ७ | कालीतन्त्रेति | अत्र संक्षेपतः कालीतन्त्रोक्ता पूजा निरूप्यते- अथार्च्चनविधिं वक्ष्ये देव्याः सर्वसमृद्धिदम् | येनानुष्ठितमात्रेण स्वयं भैरवरूपवान् || ... ... ... ... आदौ यन्त्रं प्रवक्ष्यामि यज्ज्ञात्वाऽमरतां व्रजेत् || आदौ त्रिकोणं विन्यस्य त्रिकोणं तद्बहिर्न्यसेत् | ततो वै विलिखेन्मन्त्री त्रिकोणत्रयमुत्तमम् || वृत्तं विलिख्य विधिवल्लिखेत् पद्मं सुलक्षणम् | ततो वृत्तं विलिख्यैव लिखेद् भूपुरमेककम् || चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् | पीठपूजां ततः कृत्वा स्ववामेऽर्घ्यं न्यसेत् प्रिये || मूलविद्यां षडङ्गेन मूलमन्त्रेण चार्च्चयेत् | ततो हृदयपद्मान्तः स्फुरन्तीं परमां कलाम् || यन्त्रमध्ये समावाह्य न्यासजालं प्रविन्यसेत् | ततो ध्यात्वा महादेवीमुपचारान् प्रकल्पयेत् || नमस्कृत्य महादेवीं तत आवरणं यजेत् | कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम् || विप्रचित्तान्तु सम्पूज्य बहिःषट्कोणके ततः | उग्रामुग्रप्रभां दीप्तां तथा मध्यत्रिकोणके || नीलां घनां बलाकाञ्च तथैवान्यत्रिकोणके | मात्रां मुद्रां मिताञ्चैव तथैवान्तस्त्रिकोणके || सर्वाः श्यामा असिकरा मुण्डमालाविभूषिताः | तर्जनीं वामहस्तेन धारयन्त्यः शुचिस्मिताः || ततो वै मातरः पूज्या ब्राह्मी नारायणी तथा | माहेश्वरी च चामुण्डा कौमारी चापराजिता || वाराही च तथा पूज्या नारसिंही तथैव च || सर्वासामपि देवीनां बलिः पूजा तथैव च | अनुलेपनकं गन्धो धूपदीपौ तथैव च || त्रिस्त्रिः पूजा प्रकर्त्तव्या सर्वासामपि साधकैः | गुरुपङ्क्तिं षडङ्गञ्च दिक्पालांश्च ततोऽर्च्चयेत् || एवं पूजां पुरा कृत्वा मूलेनैव यथाविधि | नैवेद्यादीन् यथाशक्त्या दद्याद् देव्यै पुनः पुनः || ततो वै दश वारांस्तु दीपं दद्यात् तु साधकः | पुष्पादिकं पुनर्दद्यान्मूलेनैव यथाविधि || ततः सावहितो मन्त्री गुरुं नत्वा शिरःस्थितम् | देवीं ध्यात्वा चाष्टोत्तरसहस्रं प्रजपेन् मनुम् || तेजोमयं जपफलं देव्या हस्ते समर्पयेत् | गुह्यातिगुह्यगोप्त्री त्वमिति मन्त्रेण मन्त्रवित् || ततः शिरसि वै पुष्पं दत्त्वाष्टाङ्गं प्रणम्य च | विसृज्य परया भक्त्या संहारेणैव भक्तितः || उद्वास्य हृदये देवीं तन्मयो भवति ध्रुवम् | [संस्कृत-साहित्यपरिषत्-प्रकाशित-कालीतन्त्रम्, १ म पः २५-५८ | मन्त्रन्यासादिकन्तु तत्रैव प्रथमपटलेऽनुसन्धेयम् |] पृ० ३) आनीय बहुयत्नेन सम्बलं तोलकद्वयम् | वसुराद्यं शिवं चाद्यं[चाद्यां क|] मायाबिन्दुविभूषितम्[ताम् क-ख-ग |] | बीजत्रयं चाष्टशतं प्रजपेत्[जपेत घ |] सम्बलोपरि || ९ || अशीतितोलकं मानं [कृष्णा-धे- ङ |]कृष्णधेनुसमुद्भवम् | दुग्धमानीय यत्नेन चाष्टोत्तरशतं[अष्टोत्तर- क-ख-ग |] जपेत् || १० || वस्त्रयुक्तेन सूत्रेण दुग्धमध्ये विनिक्षिपेत् | उत्तापं जनयेद्धीमान् मन्दमन्देन वह्निना || ११ || बिन्दु[वेदाङ्ग ख-ग, वेदाग्नि- घ, वेदाह्न- ङ |]वेदान्तपर्यन्तमर्द्धशोषं[-मर्द्धशेषं ख-ग-घ |] भवेद् यदा | तदैवौत्तोल्य[तदैवोत्तुल्यते द्रव्यं घ |] तद्द्रव्यं तोयमध्ये[दुग्धतोये घ |] विनिक्षिपेत् || १२ || ततः परीक्षा कर्त्तव्या प्रदद्यात् पावकोपरि | निर्धूमं[निधूमं घ |] पावके द्रव्यं दृष्ट्वा उत्थाप्य यत्नतः || १३ || तत्रैव प्रजपेन्मन्त्रं [सर्वबन्ध- क-ख-ग |]सर्व्ववन्द्यनवात्मकम्[-मयात्मकम् ख-ग, सर्व्वबन्धनरात्मकम् ङ |] | [क-ङ-पुस्तकयोरिदमर्द्धं नास्ति |]आनीय बहुयत्नेन शुद्धं ताम्रं मनोहरम् || १४ || सार्द्धेन तोलकं ताम्रं वह्निमध्ये विनिक्षिपेत् | यथा [वह्निं तथा क-ङ |]वह्निस्तथा ताम्रं दृष्ट्वा उत्थाप्य यत्नतः || १५ || गुञ्जाप्रमाणं [तं द्रव्यं क |]तद्द्रव्यं तत्क्षणाद्[-क्षणे क |] यदि योजयेत् | सत्यं सत्यं हि गिरिजे रौप्यं भवति निश्चितम् || १६ || ----------------- ९ | वसुराद्यमित्यादि | क-पुस्तक-टिप्पन्यां क्लीं ह्रीं क्लीं, इत्येवं मन्त्रो दृश्यते | ११ | वस्त्रयुक्तेन रक्तवस्त्रयुक्तेन इति ङ-पुस्तकटिप्पन्याम् | १२ | क-पुस्तकटिप्पन्यां बिन्दुवेदान्तशब्दस्य चत्वारिंशदित्यर्थो दृश्यते | पृ० ४) [घ-पुस्तके श्री नास्ति |]श्रीचण्डिकोवाच- [कारणमित्याद्यारभ्य शैलजे इत्यन्ता श्लोकचतुष्टयी ख-ग-पुस्तकयोर्नास्ति |]कारणं दुग्धरूपं वा केन रूपेण शङ्कर | तत्प्रकारं महादेव कृपया वद शङ्कर || १७ || श्रीशङ्कर उवाच- टङ्कनम् आनयेद्धीमान् तोलकन्तु चतुष्टयम् | वह्नियोगेन गिरिजे [राजरूपं क-ख-ग-घ |]लाजरूपञ्चकारह || १८ || आम्रपुष्पं तद्द्विगुणं पिष्ट्वा मिलनमाचरेत् | तस्योपरि जपेन्मन्त्रं महामायां हि चण्डिके || १९ || एतत्[तत्र घ, ततस्तु ङ |] तु गुटिकां कृत्वा [मीलनं ङ |]मेलनं कारयेद् यदि | तदैव दुग्धरूपं स्यात् सत्यं सत्यं हि शैलजे || २० || श्रीचण्डिकोवाच- गन्धहीनं भवेन्मद्यं केनोपायेन शङ्कर | तत् सर्व्वं श्रोतुमिच्छामि यदि स्नेहोऽस्ति मां प्रति || २१ || श्रीशङ्कर उवाच- शिवं वह्निसमारूढं वामनेत्रविभूषितम् | बिन्दुनादसमायुक्तं[-दं कलायुक्तं ख-ग, -द-कलायुक्तं घ-ङ |] गन्धमादाय संलिखेत् || २२ || उह्यतां[उष्णतां पर- ख-ग, ऊह्यताम् क-ख-ग-घ |] पदमुच्चार्यय चाष्टोत्तरशतं यदि | प्रजपेत् साधकश्रेष्ठो दुर्गन्धादिविनाशनम् || २३ || इति श्रीमातृकाभेदतन्त्रे शिवपार्वतीसंवादे प्रथमः पटलः || १ || ----------------------- १८ | टङ्कनं सोयागा इति भाषेति ङ-पुस्तकटिप्पन्याम् | १९ | महामायां ह्रीं इत्यर्थः | २२ | शिवमित्यादि | तेन ह्रीं गन्ध उह्यताम् इति मन्त्रेण भवितव्यमिति प्रतीयते | २३ | उह्यतामित्यत्र उज्भ्यतामिति पाठः समीचीनतया प्रतिभाति किन्तु आदर्शपुस्तकेषु तथाऽदर्शनात् उह्यतामिति पाठ एव मूले सन्निवेशितः | पृ० ५) द्वितीयः पटलः | श्रीदेव्युवाच- वद ईशान सर्व्वज्ञ सर्व्वतत्त्वविदां वर | यत् त्वया कथितं [देव ङ |]नाथ मम सङ्गे विहारतः || १ || कथं वा जायते पुत्रः शुक्रस्य[कथं वा शुक्र- घ-प्रा |] कुत्र संस्थितिः | वर्द्धमानं[वर्द्धमानस्य लिङ्गस्य प्रवेशो वा कथं भवेत् प्रा- |] सदा[महालिङ्गं ख-ग |] लिङ्गं प्रवेशो[प्रवेशं क-घ |] वा कथं भवेत् || २ || भीतियुक्ता ह्यहं नाथ त्राहि मां [भयसागरात् ख-ग |]दुःखसङ्कटात् || ३ || [घ-पुस्तके श्रीशङ्कर उवाच इत्यंशो नास्ति, महादेव उवाच प्रा |]श्रीशङ्कर उवाच- मणिपूरं महापद्मं सुषुम्णामध्यसंस्थितम् | तस्य[तस्मान्नालेन घ-प्रा |] नालेन देवेशि नाभिपद्मं मनोहरम् || ४ || [रक्तत्रय- ख-ग, वक्त्र ङ, नालत्रय- प्रा |]वक्रत्रयसमायुक्तं सदा शुक्रविभूषितम् | ऊर्द्ध्वं[ऊर्द्धनालं ख-ग-घ |] नालं सहस्रारे अतः शुक्रविभूषितम् || ५ || तस्मादेव स्तनद्वन्द्वं वर्द्धमानं[वर्द्धते च ख-ग |] दिने दिने || ६ || मध्यनालं सुषुम्णान्तं वृन्ताकारं[वृत्ताकारं ख-ग |] सुशीतलम् | [आयोन्यन्त- घ |]आयोन्यग्र-मधोनालं[-नाले सदानन्दमयं ख-ग, -मयं ङ-प्रा |] सदानन्दमयि शिवे[-नन्दमयी शिवे घ, शिवम् ङ |] || ७ || शृणु चार्वङ्गि सुभगे तन्मध्ये लिङ्गताडनात्[-ताडनम् ख-ग |] | यद्रूपं परमानन्दं तन्नास्ति भुवनत्रये || ८ || पृ० ६) नाभिपद्मन्तु यद्रूपं तच्छृणुष्व समाहितः(ता)[-हिता प्रा |] | [बिन्दु-नालं ख-ग, व-[व] स्थानं मध्यदेशेऽस्य प्रा |]बिन्दुस्थानं मध्यदेशे सदा पद्मविराजितम् || ९ || बाह्यदेशे चाष्टपत्रं[चाष्टशतं ख-ग |] चतुरस्रं तु[च प्रा |] तद्बहिः | चतुर्द्वारसमायुक्तं सुवर्णाभं सवृत्तकम्[सुवृन्तकम् ख-ग, सवृन्तकम् ङ-प्रा |] || १० || तत्पत्रेण[-पद्मेन घ-ङ-प्रा |] भवेत् पुष्पं वृन्तयुक्तं त्रिपत्रकम् | प्रफुल्ले तु त्रिपत्रारे[त्रिपत्रे वै प्रा |] बाह्ये[बाह्य ख-ग |] [शोणित- प्रा |]रुधिरदर्शनम् || ११ || एतन्मध्ये[तन्मध्ये च ख-ग |] महेशानि यदि स्याल्लिङ्गताडनम् | पद्ममध्ये गते शुक्रे सन्ततिस्तेन जायते || १२ || ------------------- १२ | एतन्मध्य इत्यादि | तत्रापि कालादिनियमाह- शाक्तानन्दतरङ्गिणीप्रथमपरिच्छेदधृतज्ञानभाष्ये- रजस्वला च या नारी विशुद्धा पञ्चमे दिने | पीडिता कामबाणेन ततः पुरुषमीहते || भगलिङ्गसमायोगान्मैथुनं स्यात् तदा तयोः | अन्योऽन्यस्पर्शनादेव जायते च महासुखम् || क्षरते च यदा रेतः प्राणापानविसंश्रितम् | क्षितिरापस्तथा तेजो वायुराकाशमेव च || सर्वेषां तत्र तत्त्वं स्याद् देहस्थरक्तबीजयोः || इति | पद्ममध्य इत्यादि | पद्ममध्ये शुक्रगमनप्रकारस्तु प्रपञ्चसारे- स्वस्थानश्च्युताच्छुक्राद् बिन्दुमादाय मारुतः | गर्भाशयं प्रविशति यदा तुल्यं तदापरः || आर्त्तवात् परमं बीजमादायास्याश्च मूलतः | यदा गर्भाशयं नेष्यत्यथ संमिश्रयेन्मरुत् || संक्षोभ्य संवर्द्धयति तन्मलं शोणिताधिकम् | स्त्री स्याच्छुक्राधिकं ना स्यात् समेन च नपुंसकम् || वायुवह्न्यम्भसां योगे गर्भवृद्धिः प्रजायते | तथा ज्ञानभाष्ये- नाभिपद्मे महादेवि भ्राम्यते च समीरणैः | कुम्भकारो यथा चक्रे घटते च घटादिकम् || तथा समीरणो गर्भे घटते प्राणिनां तनुम् | वीर्यवद्गर्भकारणमुक्तं राघवभट्टधृताध्यात्मविवेके- पूर्वषोडशवर्षा स्त्री पूर्णविंशेन सङ्गता | शुद्धगर्भाशये मार्गे रक्ते शुक्रेऽनिले हृदि || वीर्यवन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः | रोगाल्पायुरधन्यो वा गर्भो भवति नैव वा || इति | पृ० ७) पुरुषस्य तु यच्छुक्रं शक्ते[शक्तिर्व्वा चाधिका घ, शुक्रं वा चाधिकं ख-ग, सक्तेरत्रा- ङ, शक्तेस्तस्याधिकं यदि प्रा |]रक्ताधिको भवेत् | तदा कन्या[कन्यां विजानीयाद् प्रा |] भवेद्देवि विपरीतः[विपरीतात् ख-ग, विपरीते घ-ङ प्रा |] पुमान् भवेत् || १३ || उभयोस्तुल्यशुक्रेण क्लीवं भवति निश्चितम् || १४ || शृणु चार्व्वङ्गि सुभगे पुष्पमाहात्म्यमुत्तमम् | मध्ये[मेध्यं प्रा |] तच्छुक्रसंयोगे[-योगेन ख-ग |] वर्द्धते तद्[च घ-प्रा |] दिने दिने | एवं दिङ्माससंप्राप्ते[संप्राप्तौ प्रा |] तत्[तत्पुष्पे वृन्तसंयुते घ-प्रा, तत्पुष्पं वृत्तसंयुते ङ |] पुष्पं वृन्तसंयुतम् || १५ || गलिते[गणिते ख-ग |] परमेशानि व्यक्तो[व्यक्ता प्रा |] भवति सन्ततिः || १६ || श्रीदेव्युवाच[श्री नास्ति क-ख, श्रीशिव उवाच ख-ग?]- किञ्चिद्रोगादिसम्भूते कृमिकीटादिसम्भवे | तस्माज्जीवं[तस्या जीवं ख-ग, -ज्जीवे घ, तस्या जीवः ङ, -ज्जीवाः प्रा, |] प्रणश्यन्ति सा[निनरी ? घ |] नारी जीव्यते[जीवते प्रा |] कथम् || १७ || श्रीशङ्कर उवाच[क-ख-ग-पुस्तकेषु श्री नास्ति |]- अस्य[तस्य ख-ग-घ-ङ-प्रा |] पुष्पस्य माहात्म्यं किं वक्तुं शक्यते मया | बिन्दुस्थानं[बिन्दुस्थान-स- घ-प्रा |] सहस्रन्तु पुष्पमध्ये प्रियंवदे || १८ || -------------------- १३ | पुरुषस्येत्यादि | शारदातिलकेऽप्युक्तम्- रक्ताधिका भवेन्नारी भवेद्रेतोऽधिकः पुमान् | उभयोः समतायान्तु नपुंसकमिति स्थितिः || १४ | उभयोरित्यादि | तत्राधिकतुल्यतादिकं प्रमाणीकृतं राघवभट्टेन- द्वाविंशती रजोभागाः शुक्रमात्राश्चतुर्द्दश | गर्भसञ्जनने काले पुंस्त्रियोः सम्भवन्ति हि || नारी रजोऽधिकांशे स्यान्नरः शुक्राधिकांशके | उभयोरुक्तसङ्ख्यायां स्यान्नपुंसकसम्भवः || इति | पृ० ८) बुद्बुदा यत्र[येऽत्र प्रा |] तिष्ठन्ति तत्रैव सन्ततिर्भवेत् | एवं क्रमेण देवेशि सहस्रं सन्ततिर्यदि[-र्यदा ख-ग |] | वर्द्धमानं [तदा प्रा |]महापुष्पं पीडा किञ्चिन्न जायते || १९ || [मम क-घ-ङ |]मया सार्द्धं महेशानि विहारं कुरु यत्नतः | विहारे यो भवेत् पुत्रो गणेशः [सैव ङ |]स च कीर्त्तितः || २० || अपरे परमेशानि तव पुत्रप्रसादतः | पृथिव्यां जायते सृष्टिर्न्निर्व्विघ्नेन यथोचितम् || २१ || [क-ख-ग-घ-पुस्तकेषु इदमर्द्धं नास्ति |]एतच् श्रुत्वा ततो देवी मदनानलविह्वला | शिवेनालिङ्गिता देवी शिवाकारेण वै तदा || २२ || इति श्रीमातृकाभेदतन्त्रे शिवपार्वतीसंवादे द्वितीयः पटलः || २ || पृ० ९) तृतीयः पटलः | श्रीदेव्युवाच- सर्व्वत्राहं[सर्वत्रैव श्रुतं ख-ग |] श्रुता नाथ भोगं [च श्रिय- ? घ |]चेन्द्रियपुष्टिदम् | भोगेन मोक्षमाप्नोति कथं वदसि योगभृत् || १ || श्रीशङ्कर उवाच- भोगेन लभते योगं भोगेन कुलसाधनम् | भोगेन सिद्धिमाप्नोति भोगेन मोक्षमाप्नुयात् || २ || तस्माद् भोगं सदा कार्ययं बाह्यपूजा यथेच्छया[यदेच्छया क |] | भोजनस्य विधानं[यद्विधानं क |] यत् तच्छृणुष्व प्रियंवदे || ३ || मूलाधारे तु या शक्तिर्भुजगाकाररूपिणी | जीवात्मा परमेशानि तन्मध्ये वर्त्तते सदा || ४ || भोजनेच्छा[भोजनेषु भवेत् तस्य नि- ख-ग, भोजनेच्छा भवेत्तस्या नि- घ |] भवेत् तस्मान्निर्ल्लिप्तो जीवसंज्ञकः | सैव साक्षाद् गुणमयी निर्गुणो जीव उच्यते || ५ || जीवस्य भोजनं देवि भ्रान्तिरेव[भ्रान्तिः केवलसंशयः क-ख-ग |] न संशयः | गुणयुक्ता कुण्डलिनी चन्द्रसूर्याग्निरूपिणी || ६ || मूलाधाराच्च तां[-धारस्थितां क |] देवीमाजिह्वान्तां[-ह्वां तां क, -ह्वान्तं घ-ङ |] विभावयेत् | शोधितान् मत्स्यमांसादीन् सम्मुखे स्थापयेद् बुधः || ७ || ------------------- ७| शोधितानित्यादि | मत्स्यमांसादिशोधनमाह महानिर्वाणतन्त्रे पञ्चमोल्लासे- मांसमानीय पुरतस्त्रिकोणमण्डलोपरि | फटाभ्युक्ष्य वायुवह्निबीजाभ्यां मन्त्रयेत् त्रिधा || कवचेनावगुण्ठ्याथ संरक्षेच्चास्त्रमन्त्रतः | धेन्वा वममृतीकृत्य मन्त्रमेतदुदीरयेत् || पृ० १०) मूलमन्त्रं समुच्चार्यय जुहोमि कुण्डलीमुखे | अनेन मनुना देवि [सर्व ग्रासं घ-ङ |]प्रतिग्रासं [समुद्धरेत् क-ख-ग |]समाहरेत् || ८ || प्रतिग्रासे [महेशानि ङ |]परेशानि एवं कुर्ययाद्विचक्षणः | तदैव ब्रह्मरूपोऽसौ सत्यं सत्यं सुरेश्वरि || ९ || [पूज्यते क |]भुज्यते कुण्डली देवी इति चिन्तापरो हि[भवेत् घ |] यः | मन्त्रसिद्धिर्भवेत्तस्य ज्ञानसिद्धिर्न चान्यथा || १० || एवं कृते ब्रह्मरूपः शिवरूपः स्वयं हरिः | योगसिद्धिर्भवेत्तस्य चाष्टसिद्धिर्भविष्यति || ११ || शत्रुभिर्दीयते यत्[यस्मै ख-ग, देवि घ |] तु कृत्रिमं दारुणं विषम् | भक्षणात् तत्क्षणे[तत्क्षणात् ख-ग |] देवि ह्यमृतं नात्र संशयः || १२ || मन्त्रेण [पुटितं घ |]शोधितं द्रव्यं भक्षणादमृतं भवेत् | यदैव[तदेव ख-ग, यदैक- घ |] कालकूटन्तु[-टं हि ख-ग |] समुद्रमथने प्रिये || १३ || तदा चानेन[चारेण क-ख-ग-ङ |] मनुना[मधुना क |] तत्क्षणात् खादितं मया || १४ || सर्पाकारा कुण्डलिनी या देवी परमा कला | भुज्यते सर्परूपेण तत्रैव[तत्तत्रैवोरगे घ |] दारुणं विषम् || १५ || इति ते कथितं कान्ते भोजनस्य विधानकम् | एतत् सर्व्वं महेशानि गोप्तव्यं पशुसङ्कटे || १६ || ------------------ विष्णोर्व्वक्षसि या देवी या देवी शङ्करस्य च | मांसं मे पवित्रीकुरु कुरु तद्विष्णोः परमं पदम् || इत्थं मीनं समानीय प्रोक्तमन्त्रेण संस्कृतम् | मन्त्रेणानेन मतिमांस्तं मीनमभिमन्त्रयेत् || ओं त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् | उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् || अथवा सर्व्वतत्त्वानि मूलेनैव विशोधयेत् | केवलं मूलमन्त्रेण यद्द्रव्यं शोधितं भवेत् || तदेव देवताप्रीत्यै सुप्रशस्तं मयोच्यते || इति | [महानिर्व्वाणतन्त्रम्, पञ्चमोल्लासः, २०६-२१०, २३१-२३४] पृ० ११) श्रीदेव्युवाच- शृणु नाथ परानन्द[...नन्दं घ |] परापरकुलात्मक[परमेश कुलान्तक ख-ग, -कुलान्तकम् घ, कुलात्मकम् ङ |] | वद मे परमेशान होमकुण्डन्तु कीदृशम् || १७ || श्रीशिव उवाच- मणिपूरस्य बाह्ये तु नाभिपद्मं मनोहरम् | अष्टपत्रं तथा वृत्तं तन्मध्ये कुण्डदुर्लभम् || १८ || [-चतुर्व्वर्णा- क, -चतुर्हस्ता- ख-ग |]चतुरस्रादिकं देवि तत् कुण्डं कामरूपकम् | सर्व्वकुण्डस्य देवेशि विप्रः[विप्रकर्त्ता क |] कर्त्ता विधीयते || १९ || वर्त्तुलं बाहुजातस्य वैश्यस्य [अर्द्ध- ख-ग |]चार्द्धचन्द्रकम् || २० || त्रिकोणं पादजातस्य होमकुण्डं सुरेश्वरि | एवं कुण्डं महेशानि नालत्रयविभूषितम् || २१ || ऊर्द्ध्वनालं सहस्रारे[सहस्रारामृतबिन्दुविभूषितम् ख-ग |] [परमामृतविभूषितम् क |]परामृतविभूषितम् | [मध्ये नालं ख-ग |]मध्यनालं [-नाभिमध्ये ख-ग |]नाभिपद्मे मूलाधारे च सुन्दरि || २२ || आलिङ्गाग्रमधोनालं सदानन्दमयं शिवे | होमकुण्डमिदं देवि सर्व्वतन्त्रे[-तन्त्रपरि- ख-ग-घ |] परिष्कृतम् || २३ || येन होमप्रसादेन साक्षाद्ब्रह्ममयो भवेत् | विप्रस्य [चाहुतीं होमो क, चाहुतिं होमे घ |]चाहुतिर्होमं विज्ञातव्यं चतुष्टयम् || २४ || ------------------ १९ | चतुरस्र इत्यादि | अत्र संवादि प्रमाणमुक्तं तन्त्रान्तरतन्त्रेऽपि- विप्राणां चतुरस्रं स्याद् राज्ञां वर्त्तुलमिष्यते | वैश्यानामर्द्धचन्द्राभं शूद्राणां त्र्यस्रमीरितम् || इति | पृ० १२) क्षत्रियस्य[बाहुजातस्य क, राजन्यस्य घ-ङ |] त्रयं देवि वैश्यस्य चाहुतिद्वयम् | [पादजातस्य होमे तु दद्यादेकाहुतिं शिवे | चतुर्वर्णस्य होमेषु ख-ग |]शूद्रस्यैकाहुतिर्देवि[-हुतिं देवि घ-ङ |] [मुक्तिञ्चापि चतुर्विधाम् घ-ङ |]मुक्तिश्चापि चतुर्विधा || २५ || महामोक्षं ब्राह्मणस्य सायुज्यं क्षत्रियस्य च | सारूप्यञ्चोरुजातस्य सालोक्यं [पाद- क-घ-ङ |]शूद्रजातिषु || २६ || बाह्यकुण्डं[बाह्यं कुण्डं ख-ग-घ |] बाह्यहोमे[-होमो क |] एवं हि सुरवन्दिते | जातिभेदे[-भेदं क |] कुण्डभेदं कुर्ययात् साधकसत्तमः || २७ || बाह्यहोमे[अस्य श्लोकस्य स्थाने ख-ग-पुस्तकयोः सन्न्यासमग्निहोमञ्च तावदेव कलौ युगे अयं पाठः- |] [कार्यय- घ-ङ |]काम्यसिद्धिर्भविष्यति न संशयः | ज्ञानहोमे मोक्षसिद्धिर्लभते नात्र संशयः || २८ || इति ते कथितं कान्त तन्त्राणां सारमुत्तमम् | न वक्तव्यं पशोरग्रे शपथो[संशयो ख-ग |] मे त्वयि प्रिये || २९ || श्रीदेव्युवाच- मद्यपाने[-दाने ख-ग |] महापुण्यं सर्व्वतन्त्रे श्रुतं मया | जातिभेदं[-भेदे घ-ङ |] न कथितमिदानीं तत् प्रकाशय || ३० || [महादेव ख-ग |]श्रीशङ्कर उवाच- सर्व्वयज्ञाधिपो विप्रः संशयो नास्ति पार्व्वति | [शोत्रामिण्यां ङ, संयामिन्यां कुलाचारे ङ पुस्तक-टिप्पनीपाठः |]सौत्रामण्यां कुलाचारे[महे यज्ञे ख-ग, महायज्ञे घ-ङ-प्रा |] चत्वारो[तत्त्वज्ञा ख-ग |] ब्राह्मणादयः || ३१ || -------------- २६ | महामोक्षमित्यादि | अत्र संवादि प्रमाणन्तु निर्वाणतन्त्रे द्वितीयपटले- ब्राह्मणस्य महामोक्षं सायुज्यं क्षत्रियस्य च | सारूप्यञ्चोरुजातस्य शूद्रस्य सहलोकताम् || इति | पृ० १३) ब्राह्मणस्य महामोक्षं मद्यपाने[-दाने क |] प्रियंवदे | ब्राह्मणः परमेशानि यदि पानादिकञ्चरेत् || ३२ || तत्क्षणा[तत्क्षणे शिव- क-घ-ङ |]-च्छिवरूपौऽसौ सत्यं सत्यं हि शैलजे || ३३ || तोये[तोयं तोये घ |] तोयं यथा लीनं यथा[तेजसि तेजसं तथा ख-ग, तेजसं तेजसि यथा क, तेजसं तैजसे यथा प्रा |] तेजसि तेजसम् | घटे भग्ने[भग्नं ख-ग-प्रा |] यथाऽऽकाशं वायौ [वायुं यथा भवेत् घ-ङ |]वायुर्यथा प्रिये || ३४ || तथैव मद्यपानेन ब्राह्मणो ब्रह्मणि[ब्राह्मणि क] प्रिये | लीयते नाऽत्र सन्देहः परमात्मनि शैलजे || ३५ || सायुज्यादि महामोक्षं नियुक्तं क्षत्रियादिषु | सा[सा नारी मद्यपानेन तत्तद्देवी क-ङ |] नारी मानवी [उक्त्वा देवि ख-ग |]मद्यपाने देवी न संशयः || ३६ || सूक्ष्मसूत्रे यथा वह्निर्देहमध्ये तथा[यथा शिवः ख-ग |] शिवा | [ततो रूपं क |]तपोरूपं बृहत् सूत्रं पूजारूपं तथा हरिः[हविः घ |] || ३७ || संयुक्तं कुरुते[कारयेदत्र ख-ग |] यत्र वर्द्धमानो[-न- उषर्बुधः क-ङ |] महाङ्कुशः | मद्यपानं विना देवि तज्ज्ञानं[तत्त्वज्ञानं न लभ्यते ख-ग-प्रा |] न हि लभ्यते | अत एव हि विप्रेण[विप्रस्तु प्रा |] मद्यपानं सदा[समा- प्रा |] चरेत् || ३८ || ----------------- ३२ | ब्राह्मणस्येत्यादि | अत्र संवादि प्रमाणमुक्तं गुप्तसाधनतन्त्रे सप्तमपटले- यदि विप्रो भवेद्देवि पञ्चतत्त्वपरायणः | सत्यं सत्यं महेशानि परतत्त्वे प्रलीयते || यथा जलं तोयमध्ये लीयते परमेश्वरि | तथैव तत्त्वसेवायां लीयते परमात्मनि || क्षत्रियः परमेशानि सहयोगे वसेद् ध्रुवम् | वैश्यस्तु लभते देवि स्वरूपं नात्र संशयः || शूद्रस्तु परमेशानि सहलोके सदा वसेत् | एतदन्यो महेशानि यदि तत्त्वपरायणः || सत्यं सत्यं महेशानि मुक्तिफलमखण्डितम् | सेनानीः परमेशानि देवीदेहे प्रलीयते || शोधनञ्च मया प्रोक्तं नीलतन्त्रादियामले | न कस्मैचित् प्रवक्तव्यं प्रकाशाच्छिवहा भवेत् || इति | पृ० १४) वेदमाताजपेनैव ब्राह्मणो न हि शैलजे | ब्रह्मज्ञानं यदा देवि तदा ब्राह्मण उच्यते || ३९ || [वेदाना- ङ |]देवानाममृतं ब्रह्म तदियं[तदिदं क-घ-ङ, तदेव प्रा |] [कौलिकी ख-ग |]लौकिकी सुरा | सुरत्वं[चत्वारिंशश्लोकपरार्द्धमारभ्य द्विचत्वारिंशश्लोकपूर्व्वार्द्धस्य स्थाने ख-ग-पुस्तकयोः सुरान्नं भोगमात्रेण वह्निर्दीप्तो भवेन्नरः | अयं पाठः |] भोगमात्रेण सुरा तेन प्रकीर्त्तिता || ४० || मन्त्रत्रयं सदा[तदा पाठ्यं घ |] पाठ्यं ब्रह्मशापादिमोचनम् | प्रकुर्ययात्तु [हि येनैव प्रा |]द्विजेनैव तदा ब्रह्ममयी सुरा || ४१ || ------------------- ३९ | वेदमातेति | प्रकरणेऽस्मिन् ऽऽब्राह्मणस्य मद्यपानविधायकवचनम्...अभिषिक्तब्राह्मणपरमिति ज्ञातव्यम् | नन्वभिषेके-स्वस्ववर्णं परित्यज्य शिवत्वं लभते ध्रुवमिति वचनादभिषिक्तस्य जातिविचाराभावात् कथमभिषिक्तपरमिति चेत्, सत्यं स्वजातिचिह्नरक्षकस्य ज्ञानदुर्बलस्य पानार्थमेतद्वचनमित्यवेहि | अथवाऽभिशप्तसुरापाननिषेधार्थं सुरापाननिषेधकवचनम् | सुरा तु चतुर्युग एव पवित्रकारिणी केवलमभिशापेनैवापेया, अतः शापमोचनपूर्व्वरूपतया पेयैवेऽऽति प्राणतोषिणी | तन्त्रसारकारास्तु तत्त्वशोधनप्रकारमुक्त्वा ऽऽएतद्द्रव्यतानन्तु शूद्रस्यैव ... ... | एतद् द्रव्यन्तु शूद्रस्य नान्येषान्तु कदाचन || ... ... तदभावेऽनुकल्पविधानम् | तथा च गोक्षीरं ब्राह्मणो दद्याद् गव्यमाज्यञ्च बाहुजः || ... तेन क्षत्रियादीनां मुख्यस्य दानेऽधिकारो न पाने | यत्तु पीत्वा पीत्वा पुनः पीत्वा पतित्वा च महीतले | उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते || भैरवीतन्त्रे- पाने भ्रान्तिर्भवेद् यस्य घृणा स्याद्रक्तरेतसोः | शुचौ चाशुद्धताभ्रान्तिः पापाशङ्का च मैथुने || स भ्रष्टः पूजयेद् देवीं चण्डीमन्त्रं कथं जपेत् | तथा मदिरायां मैथुने च जातिवृत्तिं न चाचरेत् | एतत् तु चतुर्थाश्रमिपरम्ऽऽ इत्युक्तवन्तः | अनयोः पर्ययालोचनया ऽऽब्राह्मणैः पीयते मद्यं न मद्यं द्विजपुङ्गवैःऽऽ इति निरुत्तरतन्त्रपञ्चमपटलीयप्रमाणैकवाक्यतया च एवमेव प्रतीयते यद् एतादृशस्यैव ब्राह्मणस्य मद्यादावधिकारिता न तु केवलं जात्या ब्राह्मणस्य | एवञ्च मद्यपानविधायकवचनेषु ब्राह्मणशब्दस्य विशेषार्थपरत्वे न काचिदनुपपत्तिः स्यादिति सुधीभिश्चिन्त्यम् | कारणस्याग्राह्यत्वविषयकवचनानि तु चतुर्थपटले द्वितीयश्लोकटिप्पन्याम् निवेदयिष्यन्ते | ४१ | मन्त्रत्रयमित्यादि | संक्षेपतो यत् सुराशोधनमुक्तं तन्त्रसारे तदेवोपस्थाप्यते- पृ० १५) हविरारोपमात्रेण वह्निर्दीप्तो यथा भवेत् | शापमोचनमात्रेण सुरा मुक्तिप्रदायिनी || ४२ || अत एव हि देवेशि ब्राह्मणः पानमाचरेत् | स ब्राह्मणः स वेदज्ञः सोऽग्निहोत्री स दीक्षितः || ४३ || बहु किं कथ्यते देवि स एव [निर्गुणात्मकः प्रा |]त्रिगुणात्मकः || ४४ || मुक्तिमार्गमिदं देवि गोप्तव्यं पशुसङ्कटे[-सन्निधौ घ |] | प्रकाशात् कार्ययहानिः स्यान् निन्दनीयो न चान्यथा || ४५ || इति श्रीमातृकाभेदतन्त्रे हरगौरीसंवादे तृतीयः पटलः || ३ || --------------- यथा सुराभाण्डं धृत्वा पठेत्- एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् | कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम् || सूर्ययमण्डलसम्भूते वरुणालयसम्भवे | अमाबीजमये देवि शुक्रशापाद्विमुच्यताम् | वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि | तेन सत्येन ते देवि ब्रह्महत्यां व्यपोहतु || ततः ओं वां वीं वूं वैं वौं वः ब्रह्मशापविमोचितायै सुरादेव्यै नमः | इति तदुपरि दशधा जपेत् | ततः ओं शां शीं शूं शैं शौं शः शुक्रशापविमोचितायै सुधादेव्यै नमः | इति तदुपरि दशधा जपेत् | एवं ह्रीं श्रीं क्रां क्रीं क्रूं क्रैं क्रौं क्रः कृष्णशापं विमोचयामृतं स्रावय स्वाहेति दशधा जपेत् | ततो मूलमन्त्रं तदुपरि अष्टधा जप्त्वा देवतामयं विभावयेदिति द्रव्यशुद्धिः | पृ० १६) चतुर्थः पटलः | [श्री नास्ति क |]श्रीचण्डिकोवाच- कारणेन महामोक्षं[मोक्षो प्रा |] निर्म्माल्येन शिवस्य च | श्रुतं वेदे[देव ख-ग, वेद- प्रा |] पुराणे च[-णेषु ख-ग-प्रा |] तव वक्त्रे[भक्तः सुरेश्वरः ख-ग, वक्त्रात् घ, वाक्ये महेश्वरः प्रा |] सुरेश्वर || १ || अग्राह्यं तव निर्म्माल्यमग्राह्यं कारणं विभो | मृषा वाक्यं महादेव कथं वदसि योगभृत् || २ || -------------------- १ | निर्म्माल्येनेत्यादि | अत्र संवादि प्रमाणम्- शिवदत्तं विष्णुदत्तं गिरिजादत्तमेव च | नैवेद्यमुदरे कृत्वा नरः सायुज्यमाप्नुयात् || इति | तथा- रोगं हरति निर्म्माल्यं शोकन्तु चरणोदकम् | नैवेद्यं सर्वपापानि शम्भोर्दहति निश्चितम् || इति हरतत्त्वदीधितिधृततन्त्रकौमुदीवचनद्वयम् | २ | अग्राह्यमित्यादि | शिवनिर्म्माल्यस्याग्राह्यतोक्ता कालिकापुराणे- अग्राह्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलमिति | पद्मपुराणे च- द्रव्यमन्नं फलं तोयं शिवस्य न स्पृशेत् क्वचित् | न नयेच्छिवनिर्माल्यं कूपे सर्वं विनिक्षिपेत् || मक्षिकापादमात्रं यः शिवस्वमुपजीवति | लोभान्मोहात् पतत्येव कल्पान्तं नरके नरः || इति | पुराणसंग्रहेऽपि- शिव उवाच | अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं जलम् | शालग्रामशिलालग्नं सर्वं याति पवित्रताम् || नैवेद्यञ्च नरो भुक्त्वा शुद्ध्यैव चान्द्रायणञ्चरेदिति एतदेव देव्याः प्रश्ने बीजम् | अत्र देव्याः प्रश्ने बीजरूपेण वचनान्युच्यन्ते- तथा च रुद्रयामले- वेदत्यागान्मद्यपानाच् शूद्रदारनिषेवणात् | तत्क्षणाज्जायते विप्रश्चण्डालादपि गर्हितः || इति | कालीकुलार्णवे- सुरा वै मलमन्नानां पुरीषं मलमुच्यते | तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् || सुरादर्शनमात्रेण कुर्ययात् सूर्ययावलोकनम् | तत्समाघ्राणमात्रेण प्राणायामत्रयञ्चरेदिति || कुब्जिकातन्त्रे च- भुक्त्वा मत्स्यञ्च मांसञ्च स्पृष्ट्वा हेतुञ्च भैरवि | त्रिरात्रोपोषितो भूत्वा पञ्चगव्येन शुध्ययतीति || कालीकुलामृते चतुर्थपटले च- ब्राह्मणस्तु सुरां दत्त्वा ब्राह्मण्यादेव हीयते | ब्राह्मणः पशुराख्यातः पृ० १७) श्रीशङ्कर उवाच- शृणु देवि प्रवक्ष्यामि [निर्म्माल्यं परिपृच्छति ख-ग, यन्मा त्वं घ |]यन्मां त्वं परिपृच्छसि | [एतत् ख-ग |]तत्तत् सर्व्वं प्रवक्ष्यामि सावधानावधास्य || ३ || चतुरशीतिलक्षेषु [सहस्रेषु क-घ-ङ |]योनिगर्त्ते तथैव हि | भ्रमणं कुरुते जीवस्ततो मोक्षस्य भाजनम् || ४ || एतन्मध्ये महाज्ञानं यदि स्याद् [सुर- प्रा |]वीरवन्दिते | [तदैव मोक्षमाप्नोति प्रा |]तदा मोक्षमवाप्नोति भ्रमणं [कस्य क-घ-ङ |]केन वा भवेत् || ५ || [अयं श्लोकः क-ख-ग-ङ-पुस्तकेषु नास्ति |]अत एव महेशानि गुप्तभावमथाकृतम् | यस्य जन्म न [पूर्णन्तु प्रा |]पूर्णत्वं स कथं मोक्षभाजनम् | यस्य [पापाधिकत्वञ्च प्रा |]पापाधिकं देवि स कथं स्वर्गभाजनम् || ६ || [ऽअत एवऽ इत्यारभ्य ऽसुरया भवेऽदित्यन्तोंऽशः ख-ग-पुस्तकयोर्नास्ति |]अत एव [महादेवि प्रा |]महेशानि गुप्तभावं मया कृतम् | निर्म्माल्येन [लभेत् प्रा |]भवेत् स्वर्गं निर्व्वाणं सुरया भवेत् || ७ || पापयुक्तो हि चाण्डालो निर्म्माल्यं गृह्यते यदा | तदा [मोक्षो भवेत् सत्यं शिवरूपो ख-ग-घ, मोक्षं भवेत् सत्यं शिवरूपो ङ, मोक्षं लभेत् सत्यं शिवरूपो प्रा |]मोक्षमवाप्नोति शिवरूपी न चान्यथा || ८ || ----------------- पाशवं कल्पमाचरेत् || इति | वाराहीतन्त्रे नवमपटले च- मद्यं मांसं तथा मत्स्यं मैथुनं परमेश्वरि | मानुषेण बलिं पञ्च ब्राह्मणो न स्मरेत् क्वचित् || इति | श्रीक्रमे च- न दद्याद् ब्राह्मणो मद्यं महादेव्यै कथञ्चन | वामकामो ब्राह्मणोऽपि मद्यं मांसं न भक्षयेत् || इति | कुलचूडामणौ च- यत्रासवमवश्यन्तु ब्राह्मणस्तु विशेषतः | गुडार्द्रकं तदा दद्यात् ताम्रे वा विसृजेन्मधु || इति मेरुतन्त्रे प्रथमपटले- वाममार्गेण तच्चाद्यवर्णं हित्वा प्रशस्यते | ब्राह्मणस्तु सुरां पीत्वा रौरवं नरकं व्रजेत् | वाममार्गी ब्राह्मणोऽपि मद्यं मांसं न भक्षयेत् || इति | पृ० १८) महापातकयुक्तोऽपि[-युक्तो वा कारणं पीयते यदा क-ङ, -युक्तोऽपि कारणं पीयते यदा- घ |] कारणं प्रपिबेद् यदि | [तदा मुक्ति- ख-ग-प्रा |]ज्ञानान्मुक्तिर्भवेत् सत्यं जातिभेदादिकं न हि || ९ || सर्व्वजातिषु निर्व्वाणं ज्ञानेन परमेश्वरि | अत एव [हि देवेशि ख-ग |]महेशानि गुप्तभावं मया कृतम् || १० || गुप्तभावार्थ[-भावार्थ ख-ग |]-यद्वाक्यं [परिहारार्थ- घ |]परिहासार्थमेव च[हि ख-ग |] | [तत्तदर्थेन घ-ङ, तत्तदर्थेन मद्वाक्यं ख-ग |]तदर्थमेव तद् वाक्यं न मिथ्या परमेश्वरि || ११ || निर्वाणविषये देवि मद्यं परमकारणम् | मद्यपानं विना देवि [महामोक्षं क-ख-ग-ङ |]महामोक्षो न लभ्यते || १२ || श्रीचण्डिकोवाच- गङ्गायां ज्ञानतो मोक्षं तथैव म्रियते यदि | गङ्गायाश्चाधिकं नाथ कारणं [देव- ख-ग, परम- ङ |]परदुर्लभम् || १३ || श्रीशङ्कर उवाच- पूर्णब्रह्ममयी [देवी क-घ |]देवि [सुधा- घ-ङ |]सुरादेवी न चान्यथा | तस्याश्च षोडशांशैका या गङ्गा [भुविदुर्लभा क-टिप्पनी |]सुरपूजिता || १४ || तथैव तुलसी देवी शतांशैका [न संशयः ख-ग |]सुरेश्वरी | [विमूढो हि ख-ग |]विमोक्षार्थी च यो मर्त्त्यस्तीर्थसेवां न चाचरेत् || १५ || [तथैव ङ |]यथैव मालिकामध्ये महाशङ्खं विमोक्षदम् | तथैव कारणं देवि [महामोक्ष- ख-ग |]सदा मोक्षप्रदायकम् || १६ || ----------------- १६ | महाशङ्खमित्यादि | महाशङ्खमालाया वैशिष्ट्यं तत्कारणस्यास्थ्नः पञ्चाशद्वर्णबीजात्मकत्वकथनेनाह प्राणतोषणीधृतनित्यातन्त्रे द्वितीयपटले- भग- पृ० १९) कारणेन विना देवि मोक्षज्ञानादिकं न हि | महाशङ्खं विना देवि न मन्त्रः सिद्धिदायकः || १७ || साक्षाद् ब्रह्ममयी माला महाशङ्खाख्यया[-ख्यमेव च ङ |] पुनः | शिलायन्त्रे[-यन्त्रेषु ख-ग, -मन्त्रे च घ |] च वृन्दायां गङ्गायां सुरपूजिते[-पूजिताम् घ |] | [नैवं स्पृश- ख-ग |]नैव स्पृशेन्महाशङ्खं स्पर्शनात् काष्ठवद् भवेत् || १८ || ----------------------- रूपा महामाया शुक्र-तर्पणतत्परा | जगदाकषिणी विद्या जगद्गुह्या वरानने || तत्रैव गृह्यते सारं जगतां बीजरूपकम् | तद्बीजं परमेशानि पञ्चाशद्वर्णरूपकम् || गर्भं प्राप्य भवेदस्थि शिशोर्मज्जासमन्वितम् | तदस्थि त्वर्द्धमप्यस्ति पञ्चाशद्वर्णरूपकम् | महाशङ्खस्वरूपमाह ताराकल्पे- नृललाटास्थिखण्डेन रचिता जपमालिका | महाशङ्खमयी माला | इति | कर्णनेत्रान्तरस्थास्थिमहाशङ्खः प्रकीर्त्तितः | इति च | बृहन्नीलतन्त्रे चतुर्थपटलेऽपि- युद्धे मृतस्य देवेशि चण्डालस्यास्थिकेन च | मस्तकस्य विशेषेण महाशङ्खः प्रकीर्त्तितः || इति | मुण्डमालातन्त्रे द्वितीयपटलेऽपि- नराङ्गुल्यस्थिभिर्माला ग्रथिता पर्वभेदतः | सर्वसिद्धिप्रदा मोक्षदायिनी वरवर्णिनि || नाड्या संग्रथिता माला कार्या रक्तेन वाससा | नाडीभिर्ग्रथिता माला महासिद्धिप्रदा प्रिये || इति | महाशङ्खविशेषस्य वर्जनीयत्वमाह नित्यातन्त्रे- स्वेच्छामृतं स्त्रियं विप्रं तिर्ययगयोनिगतं तथा | रोगिणं यवनं वृद्धं दीक्षितञ्चापि वर्जयेत् || ग्राह्यत्वमप्याह तत्रैव- वज्राहतं सर्पदष्टं पतित्वा वा जले मृतम् | व्याघ्रादिनिहतं वापि सम्मुखे वा रणे मृतम् || चण्डालाद्याः प्रधानास्ते अधमाः शूद्रजातयः | इति | १८ | शिलायन्त्र इत्यादि | उक्तमेतत् स्वतन्त्रतन्त्रेऽपि- आनीय च्छिन्नशीर्षस्य नरस्य पतितस्य च | तुलसीगोमयास्पृष्टं तथा गङ्गोदकेन च || यवनब्राह्मणास्यस्य तत्कार्ययं साधकैर्जनैः | अस्पृश्यं तच्च जानीयाच्छालग्रामशिलादिभिः || इति | पृ० २०) [श्रीपार्व्वत्युवाच ख-ग |]श्रीचण्डिकोवाच- गङ्गा [कारणवारि च घ, गङ्गा कारणवाची च क |]तु कारणं वारि मद्यं परमकारणम् | कारणस्पर्शमात्रेण [माला इत्यारभ्य देवेश इत्यन्तोंऽशः ख-ग-पुस्तकयोर्नास्ति, मालास्तुष्टा घ, माला तुष्टा ङ |]मालाः शुद्धा भवन्ति हि || १९ || [गङ्गायाः स्पर्शमात्रेण ङ |]गङ्गास्पर्शेन देवेश काष्ठवन्मालिका कथम् | वद मे परमेशान इति मे संशयो हृदि || २० || श्रीशङ्कर उवाच- कारणं देवदेवेशि मोक्षदं सर्व्वजातिषु | तथा स्वर्गादिजनकं गङ्गातोयं न संशयः || २१ || कारणे निवसेद् देवि महाकाली परा कला | [अयं श्लोकः ख-ग-पुस्तकयोर्नास्ति |]महाविद्या वसेन्नित्यं [सुरया घ |]सुरायां परमेश्वरि || २२ || महाशङ्खे वसेन्नित्यं पञ्चाशद्वर्णरूपिणी | महाविद्या वसेन्नित्यं महाशङ्खे च सर्व्वदा || २३ || गङ्गास्पर्शनमात्रेण गङ्गायां लीयते [ध्रुवम् ख-ग |]प्रिये | [ऽकाष्ठेऽत्यादि ऽप्रियेऽ इत्यन्तोंऽशः ख-ग-पुस्तकयोर्नास्ति |]काष्ठस्पर्शनमात्रेण काष्ठे वह्निस्तृणे[-स्तृणा क, -स्तृणं ङ |] यथा || २४ || गङ्गास्पर्शे तथा देवि गङ्गायां लीयते प्रिये | तत्क्षणे च [महाशङ्खं क-घ-ङ |]महाशङ्खः काष्ठवन्नात्र संशयः || २५ || शिलायन्त्रे तुलस्यादौ तथैव परमेश्वरि || २६ || [महाशङ्खे च ख-ग |]महाशङ्खाख्यमालायां यो जपेत् साधकोत्तमः | अष्टसिद्धिः करे तस्य स एव शम्भुरव्ययः | मौलौ गङ्गा स्थिता यस्य गङ्गास्नानेन तस्य किम् || २७ || पृ० २१) वाराणसी कामरूपं हरिद्वारं प्रयागकम् | गण्डकीं वदरिकां देवि गङ्गासागरसङ्गमम् || २८ || यस्य भक्तिर्महाशङ्खे तस्य दर्शनमात्रतः | तीर्थस्नानफलं सर्व्वं लभते नात्र संशयः || २९ || इति ते कथितं [सर्व्वं घ |]कान्ते [सारं घ, सारात् सारं सुदुर्लभम् ख-ग |]सर्व्वं परमदुर्लभम् | [पशोरग्रे न वक्तव्यं ङ |]न वक्तव्यं पशोरग्रे प्राणान्ते[-न्तेऽपि कदाचन ख-ग |] परमेश्वरि[एतदनन्तरं इति ते कथितं देवि रहस्यं सर्व्वकामदम् इत्यधिकः पाठः घ-ङ-पुस्तकयोः |] || ३० || इति श्रीमातृकाभेदतन्त्रे [चण्डिकाशङ्करसंवादे घ |]हरगौरीसंवादे चतुर्थः पटलः || ४ || पृ० २२) पञ्चमः पटलः | श्रीचण्डिकोवाच- पारदं भस्मनिर्माणं केनोपायेन शङ्कर | तदहं श्रोतुमिच्छामि [तद् वदस्व कृपानिधे ख-ग |]यदि तेऽस्ति कृपा मयि || १ || श्रीशङ्कर उवाच- पारदे भस्मनिर्माणे नानाविघ्नानि[-विघ्नादि- ख-ग |] पार्व्वति | अत एव हि तत्रादौ शान्तिं कुर्ययाद् द्विजोत्तमः || २ || वरयेत् कर्म्मकर्त्तारं वक्ष्यमाणविधानतः | पूजयेत् षोडशं लिङ्गं पार्थिवं पर्वतात्मजे || ३ || षोडशेनोपचारेण तोडलोक्तविधानतः | भोगयोग्यं प्रदातव्यं मधुपर्कं सुरेश्वरि || ४ || पञ्चामृतेन देवेशं स्नापयेच्छुद्धवारिणा | पुरुषस्य [प्रमाणञ्च ख-ग |]यथायोग्यं युग्मवस्त्रं निवेदयेत् || ५ || [चतुरङ्गुल- ख-ग |]चतुरङ्गुलिविस्तारं रौप्यनिर्म्माणपीठकम् | अलङ्कारं यथायोग्यं [पुरुषाय ख-ग |]पुरुषस्य निवेदयेत् || ६ || --------------- ४ | षोडशेनेत्यादि | षोडशोपचारा उक्ताः शिवार्च्चनचन्द्रिकायाम्- आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् | मधुपर्काचमस्नानवसनाभरणानि च || गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं तथा | प्रयोजयेदर्च्चनायामुपचारांस्तु षोडश || इति | प्रकारान्तरं यथा कृष्णार्च्चनचन्द्रिकाधृत-मन्त्ररत्नावल्याम्- पाद्यार्घ्याचमनीयञ्च स्नानं वसनभूषणे | गन्धपुष्पे धूपदीपौ नैवेद्याचमनं ततः || ताम्बूलमर्चना स्तोत्रं तर्पणञ्च नमस्क्रियाम् | प्रयोजयेदर्चनायामुपचारांस्तु षोडश || इति | तोडलतन्त्रोक्तशिवपूजा तु निरूपयिष्यते सप्तमपटले | पृ० २३) [अलक्तसंयुतं क-ख-ग, अलक्तं संयुतं वारि ङ |]अलक्तकयुतं वापि दद्यान्मलयजं शिवे | षडङ्गधूपं देवेशि प्रदद्याच्च पुनः पुनः || ७ || घृतयुक्तं तथा दीपं दद्यात् कल्याणहेतवे | नैवेद्यं विविधं रम्यं नानाफलसमन्वितम् || ८ || [शर्करान्नयुतं क |]शर्करासंयुतं कृत्वा पायसं विनिवेदयेत् | दद्यात् तोयं महेशानि विजयासंयुतं प्रिये || ९ || षडक्षरं महामन्त्रं [जपेदेक- ख-ग |]गजान्तकसहस्रकम् | प्रजपेत् साधकश्रेष्ठस्ततः सिद्धो भवेद् ध्रुवम् || १० || अथवा परमेशानि धनदां धनदायिनीम् | पूजयेद् बहुयत्नेन षोडशेनोपचारतः || ११ || ---------------- ७ | षडङ्ग इत्यादि | षडङ्गधूपो यथा शारदायाम्- गुग्गुलु अगुरूशीरशर्करामधुचन्दनैः | धूपयेदाज्यसंमिश्रैर्नीचैर्देवस्य देशिकः || ४र्थः पः १०६-१०७ | प्रकारान्तरमपि तत्रैव शारदातिलके- सिताज्यमधुसंमिश्रं गुग्गुल्वगुरुचन्दनम् | षडङ्गधूपमेतत्तु सर्वदेवप्रियं सदा || १० | षडक्षरमित्यादि | ओं नमः शिवाय इति | अत्र तोडलतन्त्रोक्तप्रमाणन्तु निवेदयिष्यतेऽष्टमपटले | गजान्तकेति-अष्टोत्तरसहस्रमित्यर्थः | ११ | धनदामित्यादि | धनदाप्रयोगस्तु गुप्तसाधनतन्त्रे नवमपटले- श्रीशिव उवाच | अथातः संप्रवक्ष्यामि धनदां सर्वसिद्धिदाम् | यामाराध्य महादेवि कुबेरो धननायकः || दान्तं बिन्दुसमारूढं महामायां हरिप्रियाम् | रतिप्रिये ततः पश्चाद् वह्निजायां ततः प्रिये || नवाक्षरो महामन्त्रो द्रुतं सिद्धिप्रदायकः | कुबेरोऽस्य ऋषिः प्रोक्तः पङ्क्तिश्छन्द उदाहृतम् || देवता धनदा देवी सर्वसिद्धिप्रदायिनी | धर्मार्थकाममोक्षाख्यचतुर्वर्गफलप्रदा || षड्दीर्घमायया चैव षडङ्गन्यासमाचरेत् | ध्यानमस्याः प्रवक्ष्यामि येन सिद्धो भवेन्नरः || ओं देवीं काञ्चनकान्तकान्तिविमलां रक्तांशुकाच्छादितां हेमाम्भोजयुगाभयाङ्कुशकरीं रत्नोल्लसत्कुण्डलाम् | सर्वाभीष्टफलप्रदां त्रिनयनां नागेन्द्रहारो- पृ० २४) द्वादशाहं [जपेद् ख-ग |]यजेद् धीमान् दिक्सहस्रं ततो जपेत् | तद्दशांशं महेशानि होमं [कुर्याद् द्विजोत्तमः घ-ङ |]कुर्ययाद्विचक्षणः || १२ || [-होमकर्मण्यशक्त- ख-ग |]होमकर्माद्यशक्तश्चेद् द्विगुणं जपमाचरेत् | यदि प्रीता भवेत् [सापि ङ |]सा हि तदा किं वा न सिध्यति || १३ || प्रत्यहं परमेशानि कुबेरो दीयते वसु | भस्मनिर्माणकं [कर्म ख-ग |]देवि विचित्रं तस्य किं शिवे || १४ || गुरवे दक्षिणां दद्याद् यथाविभवविस्तरैः | ततः सिद्धो भवेन्मन्त्री नात्र [कार्ययविचारणा ङ |]कार्यया विचारणा || १५ || [श्री नास्ति क-ङ |]श्रीचण्डिकोवाच- विधानं देवदेवेश भस्मनिर्माणकर्म्मणि | [कृतेन रूपेण ख-ग, कृते येन रूपेण ङ |]सकृत्कृते येन रूपे [भस्मसादयते क |]भस्मसाज्जायते विभो || १६ || ----------------- ज्ज्वलां वन्दे सर्वभयापहां त्रिजगतां पापापहारीं पराम् || स्वकीयात्मस्वरूपां तां भावयेच्चित्स्वरूपिणीम् | एवं ध्यात्वा महेशानि मानसैः पूजनञ्चरेत् || अर्घ्यपात्रं स्थापयित्वा धेनुयोनिं प्रदर्शयेत् | पीठपूजां ततः कृत्वा ततः पीठमनुं जपेत् || आधारशक्तिमारभ्य यजेत् पद्मासनं प्रिये | प्रणवादिनमोऽन्तेन पूजयेत् साधकाग्रणीः || पुनर्ध्यात्वा महेशानि मूलेनावाहनञ्चरेत् | षडङ्गेन च संपूज्य जीवन्यासं समाचरेत् || मूलमन्त्रं समुच्चार्य ततो द्रव्यं समुच्चरेत् | देवायै च ततः पश्चाद् योगात्मकमनुं स्मरेत् || पाद्याद्यैः पूजयेद्देवीं यथाविभवविस्तरैः | यन्त्रमस्याः प्रवक्ष्यामि तज्ज्ञात्वामृतमश्नुते || नवयोन्यात्मकं चक्रं विलिखेत् कर्णिकोपरि | द्विदलं पद्ममालिख्य चतुरस्रं ततो बहिः || कोणेषु वर्जं संलिख्य मध्ये बीजं समुल्लिखेत् | इदं यन्त्रं महेशानि साक्षाद् देवीस्वरूपकम् || लक्ष्मीं पद्मां पद्मालयां श्रियञ्चैव हरप्रियाम् | शवाञ्च कमलाञ्चैव अब्जाञ्च चञ्चलान्तथा || लोलाञ्च प्रणवाद्येता नमोऽन्तेन प्रपूजयेत् | पुनर्मध्ये ततो देवीं पूजयेत् साधकोत्तमः || प्राणायामं ततः कृत्वा यथाशक्ति जपञ्चरेत् | गुह्यातीति जपफलं देव्या हस्ते समर्पयेत् || प्राणायामं ततः कृत्वा प्रणामाष्टाङ्गमाचरेत् | अथोत्थाय महेशानि विशेषार्घ्यं निवेदयेत् || आत्मसमर्पणं कृत्वा विहरेच्च निजेच्छया | इति | पृ० २५) [श्री नास्ति क-ङ |]श्रीशङ्कर उवाच- आनीय पारदं देवि [ऽस्थापयेऽदित्यादि ऽपारदं देवीऽत्यन्तोंऽशः ख-ग-पुस्तकयोर्नास्ति |]स्थापयेत् प्रस्तरोपरि | तस्योपरि जपेन्मन्त्रं [सर्व्वबद्धमयात्मकम् क, सर्वबन्धनमात्मकम् ङ |]सर्व्ववन्द्यनवात्मकम् || १७ || [साष्टं घ |]साष्टसहस्रं देवेशि प्रजपेत् साधकाग्रणीः | स्वयम्भुपुष्पसंयुक्ते वस्त्रे चारुणसन्निभे || १८ || संस्थाप्य पारदं देवि मृत्पात्रयुगले शिवे | पुष्पयुक्तेन सूत्रेण बध्नीयाद् बहुयत्नतः || १९ || [मृत्तिकया च रजसा ख-ग, मृत्तिकया रजेनैव घ-ङ |]मुक्तिधाराजलेनैव [बध्नीयात् ङ |]धान्यस्य परमेश्वरि | लेपयेद् बहुयत्नेन रौद्रे [शुष्काणि क-ङ |]शुष्कञ्च कारयेत् || २० || पुनश्च लेपयेद् धीमान् ततो वह्नौ विनिक्षिपेत् | अष्टमीनवमीरात्रौ [निक्षिपेन्नैव सुन्दरि ख-ग |]क्षिपेन्नैव सुरेश्वरि || २१ || अथवा परमेशानि मृत्पात्रे स्थापयेद्रसम् | वल्लीरसेन तद्द्रव्यं शोधयेद् बहुयत्नतः || २२ || [घृतकुमारी- घ |]घृतनारीरसेनैव तथैव शोधनञ्चरेत् | एवं कृते तु गुटिकां यदि स्याद् दृढबन्धनम् || २३ || [धुस्तूरफल- ङ |]धुस्तूरञ्च समानीय मध्ये शून्यञ्च कारयेत् | [कृष्णाख्या- क-घ |]कृष्णाख्यतुलसीयोगे तथा घृतकुमारिका || २४ || ----------------- १७ | सर्व्ववन्द्येत्यादि- ओं ऐं ह्रीं क्लीं ह्लीं ह्रीं क्लीं नमः इति नवाक्षरमन्त्र इति ङ-पुस्तक-टिप्पन्याम् | पृ० २६) एवं कृते वह्नियोगे भस्मसाज्जायते किल | [भस्मयोगं क |]भस्मयोगे भवेत् स्वर्णं धनदायाः प्रसादतः || २५ || विवर्णं जायते द्रव्यं यदि पूजां न [चारयेत् ङ |]चाचरेत् || २६ || [श्री नास्ति क |]श्रीचण्डिकोवाच- [स्वयम्भू ख-ग, स्वयम्भुं क-ङ |]स्वयम्भु कीदृशं नाथ कुण्डगोलन्तु[-गोलञ्च ख-ग |] कीदृशम् | [इदमर्द्धं क-ख-ग-पुस्तकेषु नास्ति, खपुष्पं ङ |]स्वपुष्पं कीदृशं नाथ वज्रपुष्पन्तु कीदृशम् | सर्व्वकालोद्भवं नाथ कीदृशं वद शङ्कर || २७ || [श्री नास्ति क-ङ |]श्रीशङ्कर उवाच- विवाहरहिता कन्या [प्रथमे ऋतुसंयुता ख-ग, प्रथमा ङ |]प्रथमं पुष्पसंयुता | तच्छोणितं महेशानि स्वयम्भु[स्वयम्भुं क, स्वयम्भू- ख-ग |] नात्र संशयः || २८ || भर्त्तरि [वर्त्तते देवि घ, भर्त्तते देवि क-ङ |]विद्यमाने तु [कन्यायाश्चैवसुन्दरि ख-ग |]या कन्या [चान्यगा घ |]चान्यजा शिवे | तदुद्भवं कुण्डपुष्पं सर्व्वकार्ययार्थसाधकम्[-साधनम् ख-ग, साधकः क-घ |] || २९ || मृते भर्त्तरि [या देवि ख-ग |]देवेशि या कन्या [जायते प्रिये क-घ-ङ |]अन्यजा शिवे | तदुद्भवं गोलपुष्पं देववश्यकरं परम् || ३० || [ख-ग-पुस्तकयोः अयं श्लोको नास्ति |]विवाहितायाः कन्यायाः प्रथमे ऋतुसम्भवे | तच्छोणितं महेशानि [ख-पुष्पं ङ |]स्वपुष्पं सर्वमोहनम् || ३१ || विवाहितायाः कन्यायाः पुरुषस्य [तु ख-ग |]च ताडनात् | यदि पुष्पं समुद्भूतं वज्रं तत् परिकीर्त्तितम् || ३२ || पृ० २७) विवाहितायाः कन्यायाः प्रतिमासे च यद् भवेत् | सर्व्वकालोद्भवं पुष्पं कथितं वीरवन्दिते || ३३ || सप्तक्रोशं वह्निमध्ये स्थापयेद् बहुयत्नतः | [उत्थापितं ख-ग |]तत उत्थाय [तं द्रव्यं क-ख-ग-ङ |]तद् द्रव्यं स्वर्णपात्रे निधाय च || ३४ || प्रजपेत् परमेशानि [प्रसादाख्यं ख |]प्रासादाख्यं महामनुम् | ततः सिद्धो भवेन्मन्त्री नान्यथा मम भाषितम् || ३५ || एतन्मन्त्रं महेशानि [गजाण्डक- ख-ग |]गजान्तकसहस्रकम् | जपित्वा पूजयेत् पश्चात् पार्थिवं शिवलिङ्गकम् || ३६ || ततः परीक्षा कर्त्तव्या शृणु मत्प्राणवल्लभे | शुद्धताम्रं वह्निमध्ये मृत्पात्रे तोलकं [सितं क-घ-ङ |]मितम् || ३७ || द्रवीभूते च ताम्रे च [शुक्रमानं ख-ग, गुञ्जामात्रं ङ |]गुञ्जामानं क्षिपेद् यदि | तत्क्षणे[-क्षणात् ख-ग |] परमेशानि स्वर्णं भवति निश्चितम् || ३८ || गुञ्जाप्रमाणं[-मात्रं तु ङ |] तद् द्रव्यं भोजनं कुरुते यदि | [सर्वरोगैः परि- ख-ग, सर्वरोगं परित्यक्त्वा घ |]सर्वरोगपरित्यक्तो जायते मदनोपमः | मन्त्रसिद्धिर्भवेत्तस्य जायते [चिरजीवितः ख-ग, चिरजीवता घ |]चिरजीविता || ३९ || प्रत्यहं परमेशानि शतनारीं[-नारी ख-ग-घ |] रमेद् यदि | वीर्ययादिरहितं न स्यात् तेजोवृद्धिकरं परम्[-वृद्धिः परस्परम् क-ग-ङ |] || ४० || ---------- ३४ | सप्तक्रोशमिति-क्रोशं प्रहरम् इति ङ-टिप्पन्याम् | ३५ | प्रासादाख्यमित्यादि | सान्तमौकारसंयुक्तं बिन्दुभूषितमस्तकम् | प्रासादाख्यो मनुः प्रोक्तो भजतां कामदो मणिः || तेन हौं इति मन्त्रकोषः | ३६ | गजान्तकसहस्रकम्-अष्टोत्तरसहस्रमित्यर्थः | पृ० २८) [सवर्णं ख-ग |]मरणं नैव पश्यामि यदि [व्याल- ख-ग |]ध्यानयुतो भवेत् | तस्य वित्तं विलोक्यैव कुबेरोऽपि तिरस्कृतः || ४१ || गानेन तुम्बुरुः साक्षाद् दानेन वासवो यथा | महेश इव [योगीशो ख-ग |]योगीन्द्रो [निरृते- ङ |]निरृतिरिव दुर्धरः || ४२ || महाबलो महावीर्ययो महासाहसिकः शुचिः | महास्वच्छो दयावांश्च सर्वप्राणिहिते रतः | बहु किं कथ्यते देवि स एव गणनायकः || ४३ || इति श्रीमातृकाभेदतन्त्रे [चण्डिकाशङ्कर- घ |]हरगौरीसंवादे पञ्चमः पटलः || ५ || पृ० २९) षष्ठः पटलः | श्रीचण्डिकोवाच- वद ईशान सर्व्वज्ञ सर्वतत्त्वविदां वर | महारोगे महादुःखे महादारिद्र्यसङ्कटे || १ || नानाव्याधिगते वापि नानापीडादिसङ्कटे | [राजध्वंसे ख-ग |]राज्यनाशे राजभये कारागारगते पुनः || २ || राजदण्डे[तथा ग्रहपीडने च जलवह्निसमाकुले ख-ग, राज्ञि कुण्डे च घ, राज्ञः कुप्ते ङ |] च देवेश तथा च ग्रहपीडिते[-पीडने ङ |] | केनोपायेन[-पाये द्रुतं नाथ क-ङ, पायेन हे नाथ घ |] देवेश मुच्यते वद शङ्कर || ३ || [श्री नास्ति क, ईश्वर घ |]श्रीशङ्कर उवाच- शृणु चार्वङ्गि सुभगे यन्मां त्वं परिपृच्छसि | [एतत् घ |]तत्तत् सर्वं प्रवक्ष्यामि सावधानावधारय || ४ || या चाद्या परमा विद्या चामुण्डा कालिका [स्मृता ख-ग |]परा | [योगमात्रेण सुभगे ख-ग |]तस्याः प्रयोगमात्रेण किं न सिध्यति भूतले || ५ || [श्री नास्ति क-ङ |]श्रीचण्डिकोवाच- राहुश्चाण्डालो[-ल-विख्यातः क-घ-ङ |] विख्यातः [सर्ववित् ख-ग |]सर्व्वत्र परमेश्वर | पुण्यकालः[-कालं ख-ग-ङ-प्रा |] कथं [नाथ घ |]देव तस्य स्पर्शे दिवाकरे || ६ || निशाकरे तथा [देव घ |]नाथ [चेति क-घ-ङ |]इति मे संशयो हृदि | [कथमस्य घ |]कथयस्व [महादेव ख-ग |]परानन्द पश्चादन्यत् प्रकाशय || ७ || पृ० ३०) [श्री नास्ति क-ङ |]श्रीशङ्कर उवाच- शृणु चार्वङ्गि सुभगे [प्रयोग- ख-ग-प्रा |]ग्रहणञ्चोत्तमोत्तमम्[-मोत्तमः घ |] | ग्रहणं त्रिविधं देवि चन्द्रसूर्याग्निसंयुतम् || ८ || शक्तेर्ललाटके[-चक्रे च ख-ग, -टे नेत्रे च घ-प्रा |] नेत्रे वह्निस्तिष्ठति सर्वदा | वामनेत्रे तथा चन्द्रो दक्षे सूर्यः प्रतिष्ठितः || ९ || शम्भुनाथेन देवेशि रमणं क्रियते [यदि प्रा |]यदा | तदैव[तथैव ख-ग, तदेव घ |] ग्रहणं देवि शक्तियुक्तो[-युक्तः सदा ख-ग-प्रा |] यदा शिवः || १० || वामनेत्रे [चुम्बिते च प्रा |]चुम्बने तु शशाङ्कग्रहणं तदा | दक्षनेत्रे [चुम्बिते च प्रा |]चुम्बने च भास्करग्रहणं [तथा प्रा |]तदा || ११ || ललाटे [चुम्बिते प्रा |]चुम्बने चाग्निग्रहणं परमेश्वरि | शिववीर्यं[-बीजं ख-ग-ङ-प्रा |] यतो वह्निरतोऽदृश्यः[-ऽदृश्यं ख-ग |] सुरेश्वरि || १२ || [ख-ग-पुस्तकयोरयं श्लोको नास्ति |]राहुः [शिवं ङ |]शिवः समाख्यातस्त्रिगुणा शक्तिरीरिता | शिवशक्त्योः समायोगो[-योगाद् प्रा |] ग्रहणं परमेश्वरि || १३ || [शिवशक्तेः ख-ग, शिवशक्त्योः क |]शिवशक्तिसमायोगः [कालो प्रा |]कालं ब्रह्ममयं[-मयः शिवे प्रा |] प्रिये | अत एव महेशानि राश्यादीन् न विचारयेत् || १४ || तिथिनक्षत्र[-योगे च ख-ग, -योगे तु प्रा |]योगेन [यथायोगं महेश्वरि प्रा |]यद्योगं परमेश्वरि | [तदेव ख-ग-प्रा |]तदैव परमेशानि राश्यादिगणनञ्चरेत् || १५ || -------------- १३ | त्रिगुणा शक्तिरिति | चन्द्रसूर्ययाग्निरूपिणीत्यर्थ इति ङ-पुस्तकटिप्पन्याम् | पृ० ३१) शिवशक्तिसमायोगात् सर्व्वं ब्रह्ममयं जगत् | मासपक्षतिथीनाञ्च [नोच्चार्यय ख-ग |]नोच्चार्ययं परमेश्वरि || १६ || दृष्टिमात्रेण जप्तव्यं तदा [सिद्धो भवेत् क-घ |]सिद्धिर्भवेद् ध्रुवम् | तत्कालं परमं [कामं ङ |]कालं विज्ञेयं वीरवन्दिते || १७ || तत्र यद्यत् कृतं [कर्म अनन्त- ख-ग-प्रा |]सर्व्वमनन्तफलमीरितम् | [पूर्वे च ख-ग-प्रा |]पुरैव कथितं सर्वं बहु किं कथ्यतेऽधुना || १८ || एतत् सुगुप्तभेदं हि तव स्नेहात् प्रकाशितम् | न वक्तव्यं पशोरग्रे [प्राणान्तेऽपि ख-ग-प्रा |]न वक्तव्यं सुरेश्वरि || १९ || [एतत् सर्वं ङ |]एतत्तत्त्वं प्रयत्नेन ब्रह्मा जानाति माधवः | प्रगोप्तव्यं प्रयत्नेन स्वयोनिरिव [पार्वति ख-ग |]शैलजे || २० || श्रीचण्डिकोवाच- चामुण्डाया महामन्त्रं कीदृशं [वद शङ्कर ख-ग |]परमेश्वर | आराधनं कीदृशं वा तद् वदस्व दयानिधे || २१ || श्रीशङ्कर उवाच- शृणु चार्व्वङ्गि सुभगे चामुण्डामन्त्रमुत्तमम् | यस्य विज्ञानमात्रेण पुनर्ज्जन्म न विद्यते || २२ || -------------- १८ | तत्र यद् यदित्यादि | अत्रानन्तफलकीर्त्तनाद् जपदशांशहोमादिकमपि न कर्त्तव्यं | तदुक्तं गायत्रीतन्त्रे प्रथमपटले- चन्द्रसूर्ययोपरागे च जप्त्वा ब्रह्ममयो भवेत् | मन्त्रस्य परमेशानि न च होमादिकञ्चरेत् || कृते होमादिके भद्रे तज्जपं विफलं भवेत् | जपमात्रे महेशानि अनन्तस्तन्मनुर्यथा || अनन्तस्य महेशानि दशांशं केन जायते | इति | एतत्कल्पस्तु ज्ञानिनाम् इति प्राणतोषणी | पृ० ३२) कालीबीजयुगं देवी कूर्च्चबीजं ततः परम् | त्र्यक्षरी [सा महा- घ |]परमा विद्या चामुण्डा कालिका स्वयम् || २३ || सप्ताहं पूजयेद् देवीमुपचारैश्च षोडशैः | पूजान्ते प्रजपेन्मन्त्रं त्रिसहस्रं वरानने || २४ || रात्रौ [च ङ |]तु पञ्चतत्त्वेन पूजयेत् परमेश्वरीम् | तथा रात्रौ जपेन्मन्त्रं कुलशक्तिसमन्वितम् || २५ || यन्त्रनिर्माणयोग्यं हि पीठं [कुर्ययात् ख-ग |]दद्यात् सुविस्तरम् | भोगयोग्यं प्रदातव्यं मधुपर्कं यथोचितम् || २६ || शक्तेर्यथा विधेयं स्याद् युवत्याः परमेश्वरि | तथा वस्त्रं प्रदातव्यं सर्वकल्याणहेतवे || २७ || अलङ्कारं यथायोग्यं [तव देव्यै निवेदयेत् घ |]तत्र तत्र नियोजयेत् | नैवेद्यं विविधं रम्यं नानाद्रव्यसमन्वितम् || २८ || सामिषान्नं प्रदातव्यं परमान्नं सशर्करम् | पूजयेत् परया भक्त्या बलिदानं ततः परम् || २९ || ---------------- २३ | कालीबीजयुगमित्यादि | तेन क्रीं क्रीं हूं इति मन्त्रो भवति इति ङ-पुस्तकटिप्पन्याम् | २५ | रात्रौ तु पञ्चतत्त्वेनेति | पञ्चतत्त्वमुक्तं गुप्तसाधनतन्त्रे सप्तमपटले- श्रीशिव उवाच | शृणु देवि प्रवक्ष्यामि तत्त्वं परमदुर्लभम् | मन्त्रोद्धारक्रमेणैव तत् सर्वं कथयामि ते || भान्तमकारसंयुक्तं थान्तं वायुयुतं कुरु | बिन्दुयुक्तं पुनर्भ्रान्तमाकारं बिन्दुसंयुतम् || चन्द्रबीजं समुच्चार्यय अंकारं तदनन्तरम् | पुनर्भान्तं तकारञ्च चन्द्रवायुयुतं शिवे || पुनर्भान्तं महेशानि पञ्चमस्वरसंयुतम् | थान्तं वह्निसमारूढमाकारसंयुतं कुरु | पुनर्भान्तं महेशानि सूर्ययस्वरविभूषितम् | तान्तमुकारसंयुक्तं धान्तमबिन्दुसंयुतम् || पञ्चतत्त्वमिदं देवि सर्व्वतन्त्रेषु गोपितम् || इति | कालीकुलार्णवे च- मद्यं मांसं तथा मत्स्यं मुद्रा मैथुनमेव च | पञ्चमात् तु परं नास्ति शाक्तानां भोगमोक्षयोः || इति | पृ० ३३) प्रत्यहं परमेशानि [आद्यन्ते ख-ग, चाद्यान्तेव घ |]चाद्यन्ते [वारुणीं ख-ग |]वा बलिं हरेत् | साङ्गे जाते महेशानि चाथवा [वारुणीं हरेत् ख-ग |]बलिमाहरेत् || ३० || एवं कृते [महासिद्धिर्ल- क-घ-ङ |]महासिद्धिं लभते नात्र संशयः | धनार्थी धनमाप्नोति पुत्रार्थी पुत्रवान् भवेत् || ३१ || विवादे जयमाप्नोति राजद्वारे जयी भवेत् | सर्वत्र विजयी भूत्वा देवीपुत्र इव क्षितौ || ३२ || रोगेभ्यो घोररूपेभ्यः पूजयित्वा प्रमुच्यते | [इति सिद्धि- घ |]इच्छासिद्धिर्भवेत् तस्य सर्वसिद्धिर्न चान्यथा || ३३ || कारागारगते[-गारागते क-घ-ङ |] [चापि ङ |]देवि मुच्यते नात्र संशयः | प्रयोगं परमेशानि सारं परमदुर्लभम् || ३४ || अतिस्नेहेन देवेशि तव स्थाने प्रकाशितम् | अथवा परमेशानि पठेच्चण्डीं [पुरा- ख-ग |]सनातनीम् || ३५ || [पूजयेच्चण्डिकादेवीं ख-ग |]पूजयेच्चण्डिकां देवीं सुगन्धिपुष्पसंयुतैः | धूपदीपेन गन्धेन नैवेद्येन सुरेश्वरि || ३६ || अवश्यं पञ्चतत्त्वेन पूजयेच्चण्डिकां पराम् || ३७ || आदावृष्यादि-[-सूत्रेण क-घ-ङ |]सूक्तेन [चाद्यन्ते ख-ग, चार्ययान्ते क|]चार्घ्यान्ते परमेश्वरि | पञ्चतत्त्वं समानीय शोधयेच्छास्त्रवित्तमः[-येन्मन्त्रवि- ख-ग-घ-ङ |] || ३८ || -------------- ३७ | पञ्चतत्त्वेनेत्यादि | तत्त्वशोधनमुक्तं महानिर्वाणतन्त्रे अष्टमोल्लासे- आसादयेत् तु तत्त्वानि स्थापयेदग्रतः शिवे | तारादिप्राणबीजान्तं शतावृत्त्या जपन् मनुम् || सर्वतत्त्वेषु चक्रेश इमं मन्त्रमुदीरयेत् | ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौर्ब्रह्मणा हुतम् || ब्रह्मैव तेन गन्तव्यं पृ० ३४) तर्पणञ्च ततः कृत्वा चार्घ्यपात्रे विनिक्षिपेत् | अर्घ्योदकेन संप्रोक्ष्य पूजयेत् पीठदेवताम् || ३९ || प्रणवञ्च समुद्धृत्य मायाबीजं ततः परम् | प्रभां मायां [तमां क |]जयां सूक्ष्मां विशुद्धां [नन्दनीं ख-ग, नलिनीं क |]नन्दिनीं तथा || ४० || सुप्रभां विजयां सर्वसिद्धिदां परिपूजयेत् | [वज्रनख तथा दंष्ट्रायुधाय हूं फडिति ततः क, वज्रनखदंष्ट्रायुधाय हूं फडित्यपि ख-ग |]वज्रनखदंष्ट्रायुधाय हूं फडित्यन्ततस्ततः || ४१ || नमोऽन्तेन[-न्तेनैव मन्त्रेण ख-ग, नम अन्तेन घ |] तु देवेशि आसनञ्च समर्च्चयेत् | गुरुपङ्क्तिं पूजयित्वा पुनर्ध्यानं समाचरेत् || ४२ || आवाहनं ततो मुद्रां जीवन्यासं प्रपूजनम् | [षडङ्गमण्डलं पूज्य घ |]षडङ्गेन तु सम्पूज्य परिवारान् प्रपूजयेत् || ४३ || शङ्खनिधिं [तथा पद्मनिधिं ब्राह्मादिकं क-घ-ङ |]पद्मनिधिं तथा ब्राह्म्यादिकं यजेत् | [इन्द्रादींश्च तथा वज्रादींश्चैव परिपूजयेत् क-घ-ङ |]इन्द्रादींश्चैव वज्रादीन् पूजयेत् साधकोत्तमः || ४४ || प्रणवादिनमोऽन्तेन पूजयेत् साधकोत्तमः | पुनर्देवीं महेशानि पञ्चतत्त्वेन पूजयेत् || ४५ || ------------- ब्रह्मकर्मसमाधिना | सप्तधा वा त्रिधा जप्त्वा तानि सर्वाणि शोधयेत् || ततो ब्राह्मेण मनुना समर्प्य परमात्मने | ब्रह्मज्ञैः साधकैः सार्द्धं विदध्यात् पानभोजनम् || इति | तत्रैव पञ्चमपटले- मद्यं मांसं तथा मत्स्यं मुद्रा मैथुनमेव च | शक्तिपूजाविधावाद्ये पञ्चतत्त्वं प्रकीर्त्तितम् || पञ्चतत्त्वं विना पूजा अभिचाराय कल्पते | नेष्टसिद्धिर्भवेत् तस्य विघ्नस्तस्य पदे पदे || शिलायां शस्यवापे च यथा नैवाङ्कुरो भवेत् | पञ्चतत्त्वविहीनायां पूजायां न फलोद्भवः || इति पञ्चतत्त्वैः पूजायाः प्राशस्त्यमुक्तम् | पृ० ३५) प्राणायामं ततः कृत्वा गुरुमन्त्रेष्टदेवताम् | ऐक्यं विभाव्य देवेशि मूलमन्त्रं [जपेत् सुधीः ख-ग |]जपेच्छतम् || ४६ || प्राणायामं ततः कृत्वा कारणादीन् समाहरेत् | तस्यै दत्त्वा स्वयं पीत्वा पठेच्चण्डीं सुरेश्वरि[-रीम् ख-ग-घ |] || ४७ || साङ्गे जाते तु [माहात्म्यम् ख-ग |]माहात्म्ये पुनः पानं समाचरेत् | [ततस्तत्सत् पठेद् घ |]ततस्तु प्रपठेद् धीमान् क्रमेण [परिपूजयेत् ख-ग |]पानमाचरेत् || ४८ || समाप्ते तु [विरोमेण क |]विलोमेन [मूलमन्त्रं क-घ-ङ |]पुनर्म्मन्त्रं शतं जपेत् | यदि भाग्यवशाद् देवि शक्तियोगं[-योगो भवेन्नरः ख-ग, -योगो क-ङ |] लभेन्नरः || ४९ || [तत्क्षणाद्धि ख-ग |]तत्क्षणे हि विजानीयात् सर्वसिद्धिः करे स्थिता | एवं कृत्वा महेशानि यदि पाठं समाचरेत् || ५० || माहात्म्यं तस्य पाठस्य [न वक्तुं ख-ग |]किं वक्तुं शक्यते मया | [पद्यार्द्धमिदं नास्ति ख-ग-पुस्तकयोः |]शतवक्त्रं यदि भवेत् तदा वक्तुं न शक्यते || ५१ || पञ्चवक्त्रेण देवेशि किं [मया कथ्यतेऽ- ख-ग-घ-ङ |]वक्तुं शक्यतेऽधुना | सकृत् पाठेन देवेशि किं पुनर्ब्रह्म केवलम् || ५२ || अवश्यं लभते शान्तिं [सर्व्वत्र परमेश्वरि, यदि शान्तिं न लभते इत्यंशः ख-ग-पुस्तकयोर्नास्ति |]सर्वत्र परमेश्वरि | यदि शान्तिं न लभते मम वाक्यं मृषा [कदा ख-ग |]तदा || ५३ || षोडशेनोपचारेण प्रथमं पूजनञ्चरेत् | द्वितीये पञ्चतत्त्वेन पूजयेच्चण्डिकां प्रिये || ५४ || पृ० ३६) सहस्रावृत्तिपाठेन यत् फलं लभते नरः | सकृत् पाठस्य देवेशि कलां नार्हति षोडशीम् || ५५ || ध्यानमस्याः प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः || ५६ || ओं या चण्डी मधुकैटभादिदैत्यदलनी या माहिषोन्मादिनी या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी | शक्तिः शुम्भनिशुम्भदैत्यदलनी या [स्वर्ग- ख-ग |]सिद्धिलक्ष्मीः परा सा देवी [नवकोटिशक्ति- घ |]नवकोटिमूर्त्तिसहिता मां पातु विश्वेश्वरी || ५७ || [इदमर्द्धं क-घ-ङ-पुस्तकेषु नास्ति |]ध्यानमेतच्चण्डिकायाः शृणुष्व वीरवन्दिते || ५८ || [शृणुष्व तं ख-ग |]शृणु मन्त्रं [महेशानि ख-ग-घ |]प्रवक्ष्यामि त्रैलोक्येषु च दुर्लभम् | वेदाद्यं [वाग्भवं बीजं मायां काममतः ङ |]वाग्भवं [माया घ |]मायां कामबीजं ततः परम् || ५९ || स्थिरमायां महामायां कामबीजं[काममायां घ |] ततो नमः | नवाक्षरं महामन्त्रं जपेदादौ शतं प्रिये || ६० || विपरीतं महामन्त्रं पाठान्ते तु शतं जपेत् | शृणु देवि प्रवक्ष्यामि ऋषिच्छन्दः[-च्छन्दं क-घ-ङ |] [अनुत्तमम् ङ |]सुदुर्लभम् || ६१ || ओं सप्तशतीमहास्तोत्रस्य [मेध्यादि- घ |]मेधातिथिरृषिर्गायत्र्यनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगत्य[-जगत्युष्णिङ्महत्य- ख-ग |]श्छन्दांसि महाकालीमहालक्ष्मीर्महा- ------------- ५९ | वेदाद्यमित्यादि | तेन ओं ऐं ह्रीं क्लीं हीं ह्रीं क्लीं नमः इति मन्त्रो भवति | ६१ | विपरीतमित्यादि | तेन नमः क्लीं ह्रीं हीं क्लीं ह्रीं ऐं ओं इति मन्त्रो भवति | पृ० ३७) सरस्वतीदेवता-[स्तवकवचं क |]स्तवकं, ऐं ह्रीं क्लीं बीजानि[बीजं क-ख-ग-घ |] क्ष्रौं[क्रीं ख-ग |] शक्तिः [ममात्मक- ख-ग |]ममामुककामसिद्ध्यर्थे[-सिद्ध्यर्थे चण्डीपाठे, -र्थपाठे घ |] [जपे विनि- ङ |]विनियोगः || ६२ || प्रणवेन महेशानि षडङ्गन्यासमाचरेत् | इति ते कथितं कान्ते चण्डीपाठस्य लक्षणम् || ६३ || सावर्णिः सूर्यय [-तनयः ख-ग |]इत्यादि सावर्णिर्भविता मनुः | एतन्मात्रं पठेद्देवि किञ्चिन्न्यूनाधिकं न हि || ६४ || वारत्रयं [महा- ङ |]पठेद्देवि [स्थाप्यते तद् ख-ग, संव्याप्यं तु घ-ङ |]संजप्यं तु दिनत्रयम् || ६५ || महारोगे महादुःखे राजपीडादिदारुणे | नानाव्याधिगते वापि राज्यनाशे तथा भये || ६६ || ग्रहपीडादिसंजाते ब्रह्महत्यादिपातके | एवं पाठेन देवेशि मुच्यते नात्र संशयः || ६७ || बहु किं कथ्यते देवि सर्व्वशान्तिं[-शान्तिर्भवेद् ध्रुवम् घ |] लभेन्नरः | सर्वशङ्काविनिर्मुक्तो जायते मदनोपमः || ६८ || एवं कृते महेशानि यदि सिद्धिर्न जायते | पुनस्तेनैव कर्त्तव्यं ततः सिद्धो भवेद् ध्रुवम् || ६९ || इति श्रीमातृकाभेदतन्त्रे[-तन्त्र सर्वतन्त्रोत्तमोत्तमे ख-ग | -तन्त्रे षष्ठः घ |] हरपार्व्वतीसंवादे षष्ठः पटलः || ६ || पृ० ३८) सप्तमः पटलः | [श्रीशङ्कर ख-ग |]श्रीशिव उवाच- अथातः संप्रवक्ष्यामि त्रिपुरामन्त्रमुत्तमम् | यस्य विज्ञानमात्रेण पुनर्ज्जन्म न विद्यते || १ || त्रिपुरा त्रिविधा देवी बाला [चोक्ता घ-ङ |]प्रोक्ता [तथा ख-ग |]पुरा शिवे | तथैव भैरवी देवी नित्यातन्त्रे मयोदिता | इदानीं [सुन्दरी देवी घ |]सुन्दरीं देवीं शृणु पार्वति सादरम् || २ || [श्रीपार्वत्युवाच ख-ग, श्री नास्ति ङ |]श्रीदेव्युवाच- महामन्त्रं श्रुतं नाथ [वामकेशे च ङ |]वामकेश्वरयामले | प्रातःकृत्यादि देवेश [आराधनं घ |]आराधनक्रमं वद || ३ || [नास्ति घ-पुस्तके | शिव उवाच ङ |]श्रीशिव उवाच- [प्रातःकाले समुत्थाय ङ |]प्रातरुत्थाय मन्त्रज्ञः सहस्रारे निजं गुरुम् | पूर्वोक्तध्यानमुच्चार्यय[-माचर्यय ख-ग |] पूजयेद् बहुयत्नतः || ४ || तथा च [स्त्रीगुरो- ङ |]श्रीगुरोर्ध्यानं गुप्तसाधनतन्त्रके | कथितञ्च मया पूर्वं मन्त्रं शृणु वरानने || ५ || ----------------------- ५ | तथा चेत्यादि | श्रीगुरोर्ध्यानमुक्तं गुप्तसाधनतन्त्रे द्वितीयपटले- श्रीशङ्कर उवाच ......कुलवृक्षान् नमस्कृत्य गुरुं ध्यायेत् पराम्बुजे | शरच्चन्द्रसमाभासं शरत्पङ्कजलोचनम् || ईषद्धास्यं शारदीयपूर्णेन्दुसदृशाननम् | दिव्यस्रगम्बरधरं दिव्यगन्धानुलेपनम् || सुरक्तशक्तिसंयुक्तवामभागमनोहरम् | वराभयकराम्भोजं सर्वलक्षणलक्षितम् || सहस्रारे पृ० ३९) वाग्बीजञ्च महामायां विष्णुशक्तिं समुच्चरेत् | हसखफ्रे[हंसखफ्रें क-घ-ङ |] तथानन्दभैरवस्य [मनुर्मतः ख-ग, मनुस्ततः घ |]मनुं ततः || ६ || तस्य शक्तेर्मनुं[शक्तिमनुं क-ङ, शक्तेर्मनुः ख-ग |] पश्चात् ततश्चैवं[-श्चैव ख-ग |] ह्सौः स्मृतः[ह्सौः ङ |] | [श्रीगुरोस्तत्तथा ख-ग |]श्रीगुरोश्च तथा शक्तेर्मन्त्रमेतत् सुरेश्वरि || ७ || [श्रीगुर्वानन्दनाथान्तः स्वाहान्तः शक्तिरीरिता ख-ग, श्रीगुरुं वन्दे नाथान्ते आद्यन्ते शक्तिरीरिता घ, श्रीगुरुदेवानन्दनाथान्ते नमोऽन्तेन यजेद् गुरुम् ङ |]श्रीगुरोरानन्दनाथान्ते अथातः शक्तिरीरिता | [वाग्बीजादि ख-ग |]वाग्बीजादीन् समुच्चार्यय अमुकानन्दनाथ च || ८ || श्रीपादुकां समुच्चार्यय पूजयामि नमस्ततः | वाग्बीजञ्च शम्भुपत्नीं[-पत्नी ख-ग-ङ |] तदुत्तरे[तदुत्तर- क-घ-ङ, तदुत्तरे च हपिप्रिया ङ |] हरिप्रियाम् || ९ || भूतबीजं समुच्चार्यय प्रवदेच्च तदात्मकम्[तदात्मकः ङ |] | समर्पयामि देवेशि पूजाविधिरिति प्रिये || १० || ततश्चाष्टाक्षरं मन्त्रमष्टोत्तरशतं जपेत् | जपं समर्पयित्वा तु[प्रणमे- ङ |] नमेदञ्जलिना प्रिये || ११ || --------------- महापद्मे गुरुं शिरसि चिन्तयेत् | एतत् ते कथितं देवि श्रीगुरोर्ध्यानमुत्तमम् || इति | स्त्रीगुरोर्ध्यानञ्च तत्रैव- सहस्रारे महापद्मे किञ्जल्कगणशोभिते | प्रफुल्लपद्मपत्राक्षीं घनपीनपयोधराम् || सहस्रवदनां नित्यां क्षीणमध्यां शिवां गुरुम् | पद्मरागसमाभासां रक्तवस्त्रसुशोभनाम् || रत्नकङ्कणपाणिञ्च रत्ननूपुरशोभिताम् | शरदिन्दुप्रतीकाशवक्त्रोद्भासितकुण्डलाम् || स्वनाथवामभागस्थां वराभयकराम्बुजाम् || इति | ६-७ | बाग्बीजञ्चेत्यादि | अत्र ऐं ह्रीं श्रीं हंसखफ्रें इति मन्त्रः, इति ङ-टिप्पन्याम् | हसक्ष मलवरयूं आनन्दभैरवाय वषट् हसक्ष मलवरयीं सुधादेव्यै वषट् इति आनन्दभैरवस्य तच्छक्तेश्च मनुरिति प्राणतोषणी | ८ | श्रीगुरोरित्यादि | एवञ्चात्र ऐं ह्रीं श्रीं अमुकानन्दनाथश्रीपादुकां पूजयामि नमः, ऐं ह्रीं श्रीं ह्सौः तदात्मकं समर्पयामि इति मन्त्रेण पूजा कर्त्तव्येति | ११ | ततश्चेति | ऐं ह्रीं श्रीं हसखफ्रें ह्सौः इत्यष्टाक्षरो मन्त्र इति | पृ० ४०) [श्री नास्ति ङ |]श्रीदेव्युवाच- स्तुतिञ्च कवचं नाथ श्रोतुमिच्छामि साम्प्रतम् | श्रीगुरोः कवचं स्तोत्रं [स्वयं घ |]त्वया प्रोक्तं पुरा प्रभो || १२ || इदानीं [श्रीगुरोः ख-ग-घ |]स्त्रीगुरोः स्तोत्रं कवचं मयि कथ्यताम् | यस्य विज्ञानमात्रेण पुनर्जन्म न [जायते प्रा |]विद्यते || १३ || श्रीशिव उवाच- शृणु देवि प्रवक्ष्यामि स्तोत्रं परमगोपनम् | यस्य श्रवणमात्रेण संसारान्मुच्यते नरः || १४ || नमस्ते देवदेवेशि[-देवेश क |] नमस्ते हरपूजिते | ब्रह्मविद्यास्वरूपायै तस्यै नित्यं नमो नमः || १५ || अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया | [चक्षुरुन्मीलितं येन क-ख-ग-घ |]यया चक्षुरुन्मीलितं [तस्मै ख-ग |]तस्यै [श्रीगुरवे नमः ख-ग |]नित्यं नमो नमः || १६ || भवबन्धनपारस्य तारिणी जननी परा | ज्ञानदा मोक्षदा नित्या तस्यै [श्रीगुरवे नमः ख-ग |]नित्यं नमो नमः || १७ || [अनाथ- क, श्रीनाथवामोरुसंस्था घ |]श्रीनाथवामभागस्था [सर्वदा ख-ग, सदया प्रा |]सदा या सुरपूजिता | सदा विज्ञानदात्री च तस्यै [श्रीगुरवे नमः ख-ग |]नित्यं नमो नमः || १८ || सहस्रारे महापद्म सदानन्दस्वरूपिणी | महामोक्षप्रदा [देवि घ |]देवी तस्यै नित्यं नमो नमः || १९ || ब्रह्मविष्णुस्वरूपा च महारुद्रस्वरूपिणी | त्रिगुणात्मस्वरूपा च तस्यै नित्यं नमो नमः || २० || पृ० ४१) चन्द्रसूर्ययाग्निरूपा च [मदाऽऽ- प्रा |]सदाऽऽघूर्णितलोचना | स्वनाथञ्च [सदालिङ्ग्य ङ |]समालिङ्ग्य तस्यै नित्यं नमो नमः || २१ || ब्रह्मविष्णुशिवत्वादि[-स्वरूपा च ख-ग |]-जीवन्मुक्तिप्रदायिनी | ज्ञानविज्ञानदात्री [-प्रदात्री प्रा |]च तस्यै [स्त्रीगुरवे प्रा |]नित्यं नमो नमः || २२ || इदं स्तोत्रं महेशानि यः पठेद् भक्तिसंयुतः | स सिद्धिं लभते नित्यं सत्यं सत्यं न संशयः || २३ || प्रातःकाले पठेद् यस्तु गुरुपूजापुरःसरम् | स एव धन्यो लोकेऽस्मिन्[लोकेशो क-घ-ङ, लोकेषु प्रा |] देवीपुत्र इव क्षितौ || २४ || [इति श्रीमातृकाभेदतन्त्रे इत्यादि समाप्त- मित्यन्तोंऽशः क-घ-ङ-पुस्तकेषु नास्ति](इति श्रीमातृकाभेदतन्त्रे सर्व्वतन्त्रोत्तमोत्तमे हरगौरीसंवादे शक्तिरूपिगुरोः स्तोत्रं समाप्तम् ||) [श्री नास्ति क-घ-ङ |]श्रीशङ्कर उवाच- स्तोत्रं समाप्तं देवेशि कवचं शृणु सादरम् | यस्य [स्मरण- प्रा |]श्रवणमात्रेण वागीशसमतां व्रजेत् || २५ || [श्रीगुरोः घ |]स्त्रीगुरोः कवचस्यास्य सदाशिव ऋषिः स्मृतः | [ताराख्या प्रा |]तदाख्या देवता [ख्याता प्रा |]प्रोक्ता चतुर्वर्गफलप्रदा || २६ || [इदमर्द्धं ख-ग-पुस्तकयोर्नास्ति |]क्लीं बीजं मे शिरः पातु [-ख्यातां घ |]तदाख्यातं ललाटकम् | क्लीं बीजं चक्षुषोः [मध्ये घ-प्रा |]पातु सर्व्वाङ्गं मे [सदाशिवः * त०प० |]सदाऽवतु || २७ || पृ० ४२) [ऐं इत्यारभ्य नखोपरि इत्यन्तोंऽशः ख-ग-पुस्तकयोर्नास्ति |]ऐं बीजं मे मुखं पातु ह्रीं [जिह्वां घ-त०प०प्रा० |]जङ्घां परिरक्षतु | श्रीं बीजं स्कन्धदेशं मे [हसखफ्रें भुजद्वयं घ-ङ-त०प०प्रा० |]वाग्भवं मे भुजद्वयम् || २८ || हकारं [कण्ठदेशं मे सकारं षोडशं दलम् घ-ङ-त-प०प्रा० |]मे दक्षभुजं क्षकारं वामहस्तकम् | [खमनोफ्रें अधःपातु घ, क्षमार्णं ङ, क्ष-वर्णस्तदधः त०प०प्रा० |]क्षमर्णौ तदधः पातु [नकारं घ, लकारो त०प०प्रा० |]लकारं हृदयं मम || २९ || [वकारः घ |]रकारं पृष्ठदेशञ्च[-देशं मे क |] रकारं[वकारः ङ त०प०, वकारो त०प०प्रा०] दक्षपार्श्वकम् | [मकारं वामपार्श्वे च घ, यूंकारं ङ, हूंकारो त०प०, यूंकारो प्रा |]जूङ्कारं वामपार्श्वे तु सकारं [मेरुदेशके घ |]मेरुमेव तु || ३० || मकारं[मकारश्चा- प्रा |] चाङ्गुलीः पातु [नकारं क, लकारो प्रा, लकारः पातु मे नखम् त०प०, वकारो प्रा |]लकारं मे [नकारं मे नखं वतु क |]नखोपरि | [वकारो प्रा |]वकारं मे नितम्बञ्च [रकारो त०प० |]रकारं [चोरुयुग्मञ्च ङ, जठरेऽवतु घ, जठरं वतु क, जठरं मम त०प० |]जानुयुग्मकम् || ३१ || [रींकारं ख-ग, वींकारं घ, यींकारं ङ, यींकारः त०प० |]यीःकारं पादयुगलं ह्सौः [सर्वाङ्गे मेऽवतु ख-ग, सर्वाङ्गके त०प० |]सर्व्वाङ्गमेव तु | ह्सौर्लिङ्गञ्च [लोमानि त०प०प्रा |]लोमञ्च केशञ्च परिरक्षतु || ३२ || [श्रीं बीजं ख-ग |]ऐं बीजं पातु पूर्व्वे [मे त०प०प्रा |]तु ह्रीं बीजं दक्षिणेऽवतु | [स्त्रीं प्रा |]श्रीं बीजं पश्चिमे पातु उत्तरे भूतसम्भवम्[-सम्बरम् ख-ग |] || ३३ || [ऐं त०प० |]श्रीं पातु चाग्निकोणे च[तु ख-ग |] तदाख्यां[वेदाद्या त०प०, वेदाख्या प्रा |] नैरृतेऽवतु | [दिव्यम्बा क-ङ, देवान् मां घ |]देव्यम्बा पातु वायव्यां शम्भोः श्रीपादुकां तथा || ३४ || पृ० ४३) पूजयामि तथा चोर्द्ध्वं नमश्चाधः सदाऽवतु | इति ते कथितं कान्ते कवचं परमाद्भुतम् || ३५ || गुरुमन्त्रं [पठित्वा च ख-ग |]जपित्वा तु कवचं प्रपठेद् यदि | स सिद्धः [सुगुणः ख-ग |]सगणः सोऽपि [शिव एव न प्रा |]शिवः साक्षान्न संशयः || ३६ || पूजाकाले पठेद् यस्तु कवचं मन्त्रविग्रहम् | पूजाफलं [लभेत् ख-ग |]भवेत् तस्य सत्यं सत्यं सुरेश्वरि || ३७ || [ख-ग-पुस्तकयोर्नास्ति |]त्रिसन्ध्यं यः पठेद् देवि स सिद्धो नात्र संशयः || ३८ || भूर्ज्जे विलिख्य [गुलिकां ङ-प्रा० |]गुटिकां स्वर्णस्थां धारयेद् यदि | तस्य दर्शनमात्रेण वादिनो निष्प्रभां[निष्प्रभा मताः |] गताः || ३९ || विवादे जयमाप्नोति [रणे च इत्याऽरभ्य जयमाप्नोति इत्यन्तोंऽशः ख-ग-पुस्तकयोर्नास्ति |]रणे च [निरृतेः समः ङ-प्रा, नैरृते त०प० |]निरृतिरिव | सभायां जयमाप्नोति मम तुल्यो न संशयः || ४० || सहस्रारे [भावयेतां घ |]भावयं [तं ख-ग, यः त०प०प्रा |]स्तां त्रिसन्ध्यं [यः पठेत् ख-ग |]प्रपठेद् यदि | स एव [सिद्धलो- प्रा |]सिद्धो लोकेशो[लोकेऽस्मिन् ख-ग |] [निर्वाणे नीयते तु सः घ |]निर्वाणपदमीहते[-पदलीयते क, -मीयते ङ-त०प०प्रा | ] || ४१ || समस्तमङ्गलं नाम कवचं परमाद्भुतम् | यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन || ४२ || देयं शिष्याय शान्ताय चान्यथा पतनं[विफलं त०प० |] भवेत् | अभक्तेभ्योऽपि[-भ्यस्तु त०प०, -भ्यश्च प्रा |]देवेशि पुत्रेभ्योऽपि न दर्शयेत् || ४३ || पृ० ४४) इदं कवचमज्ञात्वा [विद्याञ्चैव च त०प०, दशविद्याश्च प्रा |]दशविद्याञ्च यो जपेत् | स नाप्नोति फलं तस्य [चान्ते प्रा |]परे च नरकं व्रजेत् || ४४ || ([इति इत्यादि समाप्तमित्यन्तोंऽशः क-घ-ङ पुस्तकेषु नास्ति |]इति मातृकाभेदतन्त्रे सर्व्वतन्त्रोत्तमोत्तमे हरगौरीसंवादे स्त्रीगुरोः कवचं समाप्तम् ||) समाप्तं कवचं देवि किमन्यच् छ्रोतुमिच्छसि | तव स्नेहानुबन्धेन किं मया न प्रकाशितम्[अतः परं इति मातृकाभेदतन्त्रे स्त्रीगुरुकवचं समाप्तम् इत्यधिकम् प्रा |] || ४५ || कूर्च्चबीजं समुच्चार्यय प्राणमन्त्रं ततः [परम् ख-ग-ङ |]प्रिये | अनेन वायुयोगेन [कुण्डलीं क्रमणञ्चरेत् ख-ग |]कुण्डलीचक्रसञ्चरेत् || ४६ || अष्टोत्तरशतं मूलमन्त्रं जप्त्वा नमेत् सुधीः | स्नानकर्म ततः कृत्वा सन्ध्यां [कृत्वा ख-ग |]कुर्ययात् पुरोदिताम् || ४७ || श्रीदेव्युवाच- [सन्ध्यायां घ |]सन्ध्यायाः कीदृशं ध्यानं [वदस्व ख-ग |]वद मे परमेश्वर | श्रीविद्याविषये नाथ विशेषो मयि कथ्यताम् || ४८ || श्रीशिव उवाच- ध्यायेच्च सुन्दरीं देवीं त्रिविधां [बिन्दु- ख-ग |]बीजरूपिणीम् | प्रभाते[च गुरुं ख-ग |]वाग्भवां देवीं मध्याह्ने [च सदात्मिकाम् ख-ग |]मदनात्मिकाम् || ४९ || सायाह्ने शक्तिरूपाञ्च त्रिविधां बिन्दुरूपिणीम् | पूजाकाले महादेवीं ध्यानानुरूपिणीं शिवाम् || ५० || --------------- ४६ | कूर्च्चबीजं हूं प्राणमन्त्रो हंसः इति | पृ० ४५) वाग्भवेनेन्दुसदृशां[-माहेशीं ख-ग, -सहसां- घ |] शुक्लवर्णां [अतः परं इन्द्रवर्णां कामबीजं नीलवर्णां विभावयेद् इत्यधिकम् ,ङ |]विचिन्तयेत् | शक्तिबीजं[बीजस्वरूपाञ्च ख-ग |] [स्वर्णवर्णां ख-ग |]स्वर्णवर्णं रक्तवर्णां [विचिन्तयेत् ङ |]विभावयेत् || ५१ || प्रभाते शुक्लवर्णाभां मध्याह्ने नीलसन्निभाम् | सायाह्ने रक्तवर्णाभां भावयेत् साधकोत्तमः || ५२ || एवं ध्यात्वा महेशानि सन्ध्यां कुर्ययाद् विचक्षणः | शिवपूजां ततः कृत्वा [पूजयेदिष्टदेवताम् ङ |]पूजयेत् परदेवताम् || ५३ || [इदमर्द्धं ख-ग-घ-ङ-पुस्तकेषु नास्ति |]ततस्तु पूजयेद्देवीं त्रिपुरां मोक्षदायिनीम् | [त्रिविधा ख-ग |]त्रिपुरा परमा विद्या महाविद्या पतिव्रता || ५४ || [अतिपूजां क |]पतिपूजां विना पूजां[देवि ङ |] न गृह्णाति कदाचन | अत एव महेशानि आदौ लिङ्गं प्रपूजयेत् || ५५ || पञ्चाक्षरं पञ्चवक्रं पूजयेद् बहुयत्नतः | ततस्तु पूजयेद् देवीं त्रिपुरां मोक्षदायिनीम् || ५६ || [पार्वत्युवाच ख-ग |]श्रीदेव्युवाच- किमाधारे [व्रजेत् क |]यजेच्छम्भुं कृपया वद शङ्कर | आधारभेदे देवेश साधकः फलभाग् भवेत् || ५७ || -------------- ५२ | प्रभात इत्यादि | अत्र यद् वर्णविषये विसंवादि सन्ध्याध्यानमुक्तं गायत्रीतन्त्रे प्रथमपटले- सन्ध्याध्यानं प्रवक्ष्यामि सावधानेन संशृणु | विना ध्यानं महेशानि न सन्ध्याफलमाप्नुयात् || नासाग्रे लोचनं न्यस्य ध्यायेद् ब्रह्मस्वरूपिणीम् | प्रातरादित्यसङ्काशां मध्याह्ने शङ्खसन्निभाम् || सायाह्ने मरकतभासां चतुर्ब्बाहुसमन्विताम् || इत्यादि | तत्रैव- मध्याह्ने ......चतुर्भुजां कृष्णवर्णाम् इत्यादि, तदपि सुधीभिर्विभाव्यम् | पृ० ४६) [श्रीशिव क-घ-ङ |]श्रीशङ्कर उवाच- पूजयेत् पार्थिवे लिङ्गे [पाषाणलि- ख-ग-ङ-प्रा |]पाषाणे लिङ्गके[-ऽथवा प्रा |] तथा | स्वर्णलिङ्गेऽथवा देवि[देवे ख |] [वैश्ये घ |]रौप्ये ताम्रे च कांस्यके || ५८ || पारदे वाऽथ गङ्गायां स्फाटिके [मरकते क-ङ |]मारकतेऽपि वा | कार्ययभेदे लौहलिङ्गे[-लिङ्गं ख-ग |] भस्मनिर्माणलिङ्गके || ५९ || वालुकानिर्मिते लिङ्गे गोमये वाऽथ पूजयेत् | पार्थिवे पूजनं देवि [सर्वत्रैव ङ |]तोडलाख्ये मयोदितम् || ६० || -------------- ५८ | पूजयेदित्यादि | लिङ्गस्य पञ्चसूत्रीकरणमुक्तं लैङ्गै तन्त्रान्तरतन्त्रे च- शिवलिङ्गस्य यन्मानं तन्मानं दक्षसव्ययोः | योन्यग्रमपि यन्मानं तदधोऽपि तथा भवेत् || लिङ्गस्य यादृग् विस्तारः परिणाहोऽपि तादृशः | लिङ्गस्य द्विगुणा देवि योनिस्तदर्धसम्मिता || कुर्वीताङ्गुष्ठतो ह्रस्वं न कदाचिदपि क्वचित् | रत्नादिशिवनिर्माणे मानमिच्छावशाद् भवेत् || इति | ६० | वालुकानिर्म्मित इत्यादि | तदुक्तं तोडलतन्त्रे पञ्चमपटले- शृणु देवि प्रवक्ष्यामि पार्थिवं शिवपूजनम् | तत्रादौ परमेशानि गुरुदेवं नमेत् सुधीः || ओं हराय नमस्कारं मृत्तिकामाहरेत् सुधीः | महेश्वराय नमस्कारं लिङ्गं निर्माय यत्नतः || शूलपाणे इहोच्चार्यय सुसंप्रतिष्ठितो भव | अनेन मनुना देवि जीवन्यासं विधीयते || शकारं बिन्दुसंयुक्तं दीर्घयुक्तं षडङ्गकम् | तस्य ध्यानं प्रवक्ष्यामि शृणुष्व सुसमाहिता || ओं ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् | पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् || पुष्पं शिरसि सन्धार्यय मानसैः पूजनञ्चरेत् | पुनर्ध्यात्वा महेशानि शिवे पुष्पं निधाय च || पिनाकधृगिति चोच्चार्यय इहागच्छद्वयं वदेत् | इह तिष्ठ ततो द्वन्द्वं सन्निधेहिद्वयम् इह || इह सन्नि ततो रुद्ध्यस्वशब्दञ्च ततो वदेत् | यावत् पूजां समुच्चार्यय ततश्चैवं करोम्यहम् || स्नानीयञ्च पशुपति ङेयुक्तञ्च नमश्चरेत् | वेदाद्यं योजयेद् देवि ब्राह्मणः साधकोत्तमः || एतत् पाद्यं महेशानि षडक्षरमनुं ततः | विचार्यय सर्वं देवेशि षोडशैरुपचारकैः || पूजयित्वा पृ० ४७) [संस्कारञ्च ख-ग |]संस्कारेण विना देवि पाषाणादौ न पूजयेत् | संस्कारञ्च प्रवक्ष्यामि विशेष इह यद् भवेत् || ६१ || रौप्यञ्च [ताम्रपात्रे वा घ |]स्वर्णलिङ्गञ्च स्वर्णपात्रे निधाय च | तस्मादुत्तोल्य तं[तद् द्रव्यं ख-ग |] लिङ्गं दुग्धमध्ये दिनत्रयम् || ६२ || [त्र्यम्बकेणेत्यादि दिनत्रयमित्यन्तोंऽशः ख-ग-पुस्तकयोर्नास्ति |]त्र्यम्बकेण [स्नापयित्वा ङ-श-प्रा० |]स्थापयित्वा कालरुद्रं प्रपूजयेत् | षोडशेनोपचारेण वेद्यान्तु पार्व्वतीं यजेत् || ६३ || तस्मादुत्तोल्य तं लिङ्गं [गाङ्गतोये प्रा० |]गङ्गातोये दिनत्रयम् | ततो वेदोक्तविधिना [संस्कारञ्च समाचरेत् ख-ग |]संस्कारमाचरेत् सुधीः || ६४ || [श्रीदेव्युवाच ख-ग-घ-ङ |]श्रीचण्डिकोवाच- लिङ्गप्रमाणं देवेश कथयस्व मयि प्रभो | पार्थिवे च शिलादौ[शिला चादौ क |] च विशेषो यदि[यत्र भावयेत् ख-ग, यदि भावयेत् ङ, यत्र यो भवेत् प्रा० |] वा भवेत् || ६५ || --------------- महेशानि चाष्टमूर्त्तिं प्रपूजयेत् | शर्वो भवस्तथा रुद्र उग्रो भीमः पशुपतिः || महादेवश्च ईशान ङेयुतं कुरु यत्नतः | क्षितिं जलं तथा चाग्निं वायुञ्चाकाशमेव च || यजमानं तथा सोमं सूर्ययञ्च मूर्त्तिना सह | सर्वत्र ङेयुतं कृत्वा पूजयेत् साधकोत्तमः || प्रणवादिनमोऽन्तेन वामावर्त्तेन पूजयेत् | मूर्त्तयोऽष्टौ शिवस्यैताः पूर्वादिक्रमयोगतः || आग्नेययान्ताः प्रपूज्याथ वेद्यां लिङ्गे शिवं यजेत् | अष्टोत्तरसहस्रं वा शतं वा प्रजपेत् ततः || गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् | सिद्धिर्भवतु मे देव त्वत्प्रसादान्महेश्वर || ततस्तोयं समादाय जपञ्चैव समर्पयेत् | मुखवाद्यं ततः कृत्वा चाष्टाङ्गं प्रणमेत् सुधीः || संहारेण महादेव क्षणस्वेति विसर्जयेत् | ६३ | त्र्यम्बकेणेति | मन्त्रस्तु- ओं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् | उर्व्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् || इति | शुक्लयजुः-३|६० पृ० ४८) श्रीशिव उवाच- मृत्तिकातोलकं ग्राह्यमथवा तोलकद्वयम् | एतदन्यं[एतन्न्यूनं क, एतदन्यं न कुर्वीत श०-प्रा० |] न कर्त्तव्यं कदाचिदपि पार्व्वति[सुन्दरि ख-ग |] || ६६ || शिलादौ [च महेशानि प्रा० |]परमेशानि स्थूलञ्च फलदायकम् | अङ्गुष्ठमानं देवेशि यद्वा [हेमादि- क |]हेमाद्रिमानकम् || ६७ || ----------------- ६६ | मृत्तिकेत्यादि | अत्र संवादि प्रमाणन्तु- मृत्तिकातोलकं ग्राह्यमथवा तोलकद्वयम् | त्रिसूत्रस्य प्रमाणेन घटनं कारयेद् बुधः || अङ्गुष्ठपर्वमानन्तु कृत्वा लिङ्गं प्रपूजयेत् | मृदादिलिङ्गगठने प्रमाणं परिकीर्त्तितम् || फलमुक्तमवाप्नोति अन्यथा चेत् तदन्यथा | (इति षट्कर्मदीपिकाधृतविश्वसारतन्त्रम्) | मृत्तिकाभेदेन ब्राह्मणादीनां पूजाफलस्य प्राशस्त्यमुक्तं तत्रैव- शुक्लं हि पार्थिवं लिङ्गं निर्माय यस्तु पूजयेत् | स एव परमेशानि त्रिवर्गफलभाग् भवेत् || क्षत्रियस्तु वरारोहे रक्तं निर्माय पार्थिवम् | पूजयेत् सततं यस्तु त्रिवर्गफलभाग्भवेत् || हरितं पार्थिवं देवि निर्माय यस्तु पूजयेत् | स च वैश्यो महेशानि त्रिवर्गफलभाग्भवेत् || कृष्णं हि पार्थिवं लिङ्गं निर्माय यस्तु पूजयेत् | स शूद्रः परमेशानि त्रिवर्गफलभाग् भवेत् || इति | लिङ्गार्च्चनतन्त्रे द्वितीयपटले- मृत्स्ना तु परमेशानि वर्णभेदेन सुन्दरि | वर्णभेदस्तु तत्रैव तृतीयपटले- चतुर्द्धा पार्थिवं लिङ्गं मृत्स्नाभेदेन पार्व्वति | शुक्लं रक्तं तथा पीतं कृष्णञ्च परमेश्वरि || शुक्लन्तु ब्राह्मणे शस्तं क्षत्रिये रक्तमिष्यते | पीतन्तु वैश्यजातौ स्यात् कृष्णं शूद्रे प्रकीर्त्तितम् || इति | पार्थिवे त्रिसूत्रीकरणञ्चोक्तं कालोत्तरे- लिङ्गे वेद्यां तथा पीठे समसूत्रनिपातनात् | समञ्चैव विजानीयात् त्रिसूत्रीकरणन्त्विदम् || इति | मृत्तिकाग्रहणस्थानान्याह प्राणतोषणीधृतमत्स्यसूक्ते पञ्चदशपटले- तीर्थमृत्स्नां समाहृत्य निर्माय लिङ्गमद्भुतम् | तीर्थाभावे महेशानि नदीमृत्स्नां शुचिस्मिते || नद्यभावे महेशानि क्षुद्रस्य मृत्तिकां प्रिये | नदीक्षुद्रयोर्लक्षणमपि तत्रैव- पर्वतप्रभवा देवि नदी नाम्नेत्युदाहृता | एतद्भिन्ना महेशानि नदी क्षुद्रा इति प्रिये || निर्झरस्य च देवेशि मृत्स्ना सम्पत्प्रदायिनी | तथा चैव सरोत्पन्ना नानासुखप्रदायिनी || सर्वाभावे महेशानि गोष्पदस्थाञ्च मृत्तिकाम् | अथवा परमेशानि यत्र चित्तं प्रसीदति || इति | ६७ | शिलादौ चेति | अत्र संवदति- रुद्राक्षं शिवलिङ्गञ्च स्थूलात् स्थूलं प्रशस्यते | पृ० ४९) [क्रमेण देवदेवेशि क-ख-ग |]एवंक्रमेण देवेशि फलं बहुविधं [भवेत् ङ |]लभेत् | [स्थूलादित्यादि स्मृतमित्यन्तोंऽशः ख-ग-पुस्तकयोर्नास्ति |]स्थूलात् स्थूलतरं लिङ्गं रुद्राक्षं परमेश्वरि || ६८ || पूजनाद् धारणाद्देवि फलं बहुविधं स्मृतम् || ६९ || इति श्रीमातृकाभेदतन्त्रे[घ-पुस्तके सर्वतन्त्रोत्तमोत्तमे इत्यधिकः पाठः |] हरपार्वतीसंवादे सप्तमः पटलः || ७ || -------------- शालग्रामो नार्मदश्च सूक्ष्मात् सूक्ष्मो विशिष्यते || इति मेरुतन्त्रवचनम् | हेमाद्रिप्रमाणञ्चोक्तं मत्स्यपुराणे षडशीतितमेऽध्याये- उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः | तदर्द्धेनाधम इति | ६८ | स्थूलादिति | स्थूलात् स्थूलतरमिति पार्थिवलिङ्गेतरपरम्, मृत्तिकातोलकं ग्राह्यमित्यादिवचनादिति | पृ० ५०) अष्टमः पटलः | [पार्वत्युवाच ख-ग |]श्रीदेव्युवाच- शृणु नाथ परानन्द परापरकुलात्मक | त्वां विना [नात्र कर्त्ता घ |]त्राणकर्त्ता च मम ज्ञाने न वर्त्तते || १ || [पूर्णलिङ्गमित्यादि न वर्त्तते इत्यन्तोंऽशः ख-ग-पुस्तकयोर्नास्ति |]पूर्णलिङ्गं महेशान शिवबीजं न चान्यथा | [शिलामध्य इत्यादि न वर्त्तते इत्यन्तोंऽशो घ-पुस्तके नास्ति |]शिलामध्ये तथा चक्रं लक्ष्मीनारायणं परम् || २ || पारदस्य शतांशैकं मम ज्ञाने न वर्त्तते | शिवबीजं महादेव शिवरूपं न चान्यथा | [लिङ्गं रूपं घ |]लिङ्गरूपं [महादेव ङ |]कथं देव तद् वदस्व [दयानिधे ग |]मयि प्रभो || ३ || [शङ्कर ख-ग |]श्रीशिव उवाच- [ज्योतिर्मयं महालिङ्गं श० |]यथा ज्योतिर्मयं लिङ्गं कैलासशिखरे[-नगरे प्रिये क-घ-ङ |] मम | तस्यैव षोडशांशैकः काश्यां [विश्वेश्वरस्थितं ङ-ख-ग |]विश्वेश्वरः स्थितः[अतः परं ख-ग-पुस्तकयोः पारदः षोडशांशैक काश्यां विश्वेश्वरस्थितम् इत्यधिकः |] || ४ || [पूर्वबीजं ख-ग, पूर्णबीजं ङ |]पूर्णलिङ्गं महेशानि [शिवरूपं ख-ग |]शिवबीजं न चान्यथा | शिलामध्ये [च यच्चक्रं ख-ग, यथा घ |]तथा चक्रं लक्ष्मीनारायणं[-यणः श |] [स्मृतम् ख-ग |]परम् || ५ || पारदस्य शतांशैकं[-शैकः लक्ष्मीनारायणो श |] लक्ष्मीनारायणं न हि | [प्रकारं ख-ग |]पकारं विष्णुरूपञ्च आकारं[चाकालं घ |] कालिका तथा[स्वयं ख-ग-ङ-श |] || ६ || पृ० ५१) रेफं शिवं दकारञ्च ब्रह्मरूपं न चान्यथा | पारदं परमेशानि ब्रह्मविष्णुशिवात्मकम् || ७ || यो यजेत्[जपेत् ख-ग, -ऽर्च्चयेत् ङ |] पारदं लिङ्गं स एव शम्भुरव्ययः[अतः परं क-ख-ग-ङ-पुस्तकेषु आजन्ममध्ये यो देवि एकदा यदि पूजयेत् इत्यधिकः |] | स एव धन्यो देवेशि स ज्ञानी स तु तत्त्ववित् || ८ || स ब्रह्मवेत्ता स धनी स राजा भुवि पूजितः[भूरि पूज्य सः क, भुवि पूज्य सः घ-ङ |] | अणिमादिविभूतीनामीश्वरः साधकोत्तमः || ९ || स्त्रियः स्वभावचपला[-चपलाद्- क-ङ |] गोपितुं न हि शक्यते | अत एव हि देवेशि विरता भव पार्व्वति || १० || श्रीदेव्युवाच- कथयस्व कृपानाथ करुणा यदि वर्त्तते | तव वाक्यं विना [नाथ ख-ग |]देव क्व[क उक्तः कश्च शब्दितः ख-ग, का मुक्तिः क्व च साधुता घ-ङ |] मुक्तिः क्व च साधुता || ११ || श्रीशिव उवाच- पारदं [मम ख-ग |]शिवबीजं हि ताडनं [नैव, ख-ग |]न हि कारयेत् | ताडनाद्वित्तनाशः स्यात् ताडनात् [वित्त- श० |]सुतहीनता | ताडनाद्रोगयुक्तः स्यात् ताडनान्मरणं भवेत् || १२ || [पार्व्वत्युवाच ख-ग |]श्रीदेव्युवाच- एतद्विघ्नादिकं नाथ सत्यमेव न संशयः | विघ्नादिरहितं नाथ कथयस्व दयानिधे || १३ || पृ० ५२) श्रीशिव उवाच- पारदे शिवनिर्माणे नानाविघ्नं यतः शिवे[अतः परं घ-पुस्तके नानाविघ्नं भवेद्देवि तत्र भक्तियुतः शिवे इत्यधिकः पाठः |] | अत एव हि तत्रादौ शान्ति-स्वस्त्ययनञ्चरेत् || १४ || द्वादशं पार्थिवं लिङ्गमुपचारैश्च षौडशैः | पट्टादिसूत्रनिर्माणं[निर्म्माणरचितं श |] रचितं शुक्लमेव वा[च ख-ग |] || १५ || पुरुषस्य यथायोग्यं [वस्त्रयुग्मं ख-ग, युग्मं वस्त्रं ङ |]युग्मवस्त्रं निवेदयेत् | भोगयोग्यं प्रदातव्यं मधुपर्कं [महेश्वरि ङ, कुलेश्वरि श |]सुरेश्वरि || १६ || अलङ्कारं यथाशक्ति दद्यात् कल्याणहेतवे | पूजयेद् बहुयत्नेन बिल्वपत्रेण पार्वति || १७ || तोडलोक्तेन विधिना [प्रत्येकमयुतं ख-ग |]प्रत्येकेनायुतं जपेत् | आदौ पञ्चाक्षरं मन्त्रमष्टोत्तरशतं जपेत् || १८ || पूजान्ते प्रजपेत् पश्चात् प्रासादाख्यं महामनुम् | दक्षिणान्तं समाचर्यय[समुच्चार्यय ख-ग, समाचार्यय ङ |] हविष्याशी जितेन्द्रियः || १९ || ताम्बूलञ्च तथा मत्स्यं वर्जयेन्न कदाचन | [तस्मि- ख-ग-घ |]अस्मिंस्तन्त्रे हविष्यान्नं ताम्बूलं मीनमुत्तमम् || २० || ---------------- १५ | द्वादशमित्यादि | लिङ्गपूजाधारनियमश्च महिषमर्दिनीतन्त्रे त्रयोदशपटले- स्वर्णपात्रे तथा रौप्ये ताम्रे च प्रस्तरे तथा | पद्मपत्रे पलाशे च तथा वा कदलीदले || पूजनं मृन्मयं लिङ्गं काशीक्षेत्रसमं प्रिये | तैजसे दारवे पात्रे सामान्यफलदं सदा || अन्यत् पात्रञ्च चार्वङ्गि वर्जयेच्छिवपूजने | इति | १८ | तोडलोक्तेनेत्यादि | तदुक्तं तोडलतन्त्रे पञ्चमपटले- नमस्कारं समुद्धृत्य वान्तं नेत्रविभूषितम् | वारुणं मुखवृत्तञ्च वायुं ललाटसंयुतम् || अयं पञ्चाक्षरो मन्त्रः पञ्चाम्नायफलप्रदः | एतेन नमः शिवाय इति मन्त्रो भवति | प्रणवादिर्यदा देवि तदा मन्त्रः षडक्षरः | एतेन च ओं नमः शिवाय इति षडक्षरो मन्त्रः | पृ० ५३) होमयेत् परमेशानि दशांशं वा शतांशकम् | होमस्य दक्षिणा कार्यया तदा विघ्नैर्न लिप्यते || २१ || ततः परस्मिन् दिवसे पारदमानयेद् बुधः[सुधीः ख-ग-घ-श० |] | तस्योपरि जपेन्मन्त्रं [सर्व्वबन्ध- क-ख-ग, -सर्व्वबद्ध- ङ |]सर्व्ववन्द्यनवात्मकम् || २२ || व्योमबीजं [शिवार्णञ्च श |]शिवान्तञ्च [वर्णाद्यं ख-ग-घ-ङ-श |]वर्गाद्यं बिन्दुमस्तकम् | वायुबीजं च त्रितयं[चेन्दुयुतं क-घ-ङ |] त्रितयं [त्र्यम्बक- क |]त्र्यम्बकं प्रिये || २३ || [इदं ख-ग-घ |]इमं मन्त्रं महेशानि प्रजपेदौषधोपरि | पारदे प्रजपेन्मन्त्रमष्टोत्तरशतं [प्रिये क |]यदि || २४ || [तदेवौषधि- ख-ग |]तदेवौषधयोगेन [बन्धो ख-ग |]बद्धो भवति नान्यथा || २५ || ततः [परस्य ङ |]परस्मिन् दिवसे शृणु मत्प्राणवल्लभे | वरयेत् [सर्व्व- श |]कर्म्मकर्त्तारं यथोक्तविभवावधि || २६ || [सुवर्णचम्पका- ख-ग |]सुवर्णं चम्पकाकारं कर्णयुग्मे [निवेशयेत् श |]निवेदयेत् | [चतुष्कोणेषु तं ख-ग |]चतुष्कोणयुतं स्वर्णं ग्रीवायां सुमनोहरम् || २७ || हस्तद्वये महेशानि दद्याद् वलययुग्मकम् | वलयं शुक्लवर्णञ्च अङ्गरीयं तथैव च || २८ || [तस्मै ख-ग |]ऊर्म्मिं दद्यात् पीतवस्त्रं क्षौमवस्त्रयुगं शिवे | [एवं कृते ख-ग |]एवं कृत्वा महेशानि शिवरूपं विचिन्तयेत् || २९ || --------------- २३ | व्योमबीजमित्यादि | तेन हं क्षं कं यं यं यं हं हं हं इति नवाक्षरो मन्त्रो भवति | पृ० ५४) अथातः संप्रवक्ष्यामि विधानं शृणु पार्व्वति | प्रस्तरे [हि ख-ग |]चैव संस्थाप्य [चिञ्जी- घ |]झिण्टीपत्ररसेन च | [प्रस्तरे च ख-ग, प्रणवेन श० |]प्रस्तरेण समालोड्य कुर्ययात् कर्दमवत् प्रिये || ३० || निर्म्माणयोग्यं[-योग्यः ख-ग, युग्मं घ |] [तद् द्रव्यं श |]तत्रैव यदि स्यात् सुरसुन्दरि | तदा निर्म्माय [तल्लिङ्गं घ-ङ |]तं लिङ्गं पुनर्दृढतरं चरेत् || ३१ || [थ-पुष्प- ङ-श |]स्वपुष्पसंयुते वस्त्रे अङ्गारे च करीषके | किञ्चिदुष्णं प्रकर्त्तव्यं [अतो ख-ग |]यतो दृढतरो[-तरं ङ |] भवेत् || ३२ || ततो निर्म्माय तं लिङ्गं [-र्दृढतरो भवेत् ख-ग, स्वपुष्पं संयुतञ्चरेत् घ |]पुनर्दृढतरं चरेत् | [ख-ग-ङ-पुस्तकेषु स्वपुष्पेत्यादि भवेदित्यन्तोंऽशो नास्ति |]स्वपुष्पसंयुते वस्त्रे [अङ्गारे च करीषके घ |]स्थापयेत् पार्थिवे पुनः || ३३ || किञ्चिदुष्णं प्रकर्त्तव्यं यावद् दृढतरो भवेत् | विना [चौषधियोगेन भस्म भवति तत्क्षणात् ख-ग |]ह्यौषधयोगेन भस्मो भवति नान्यथा || ३४ || इति श्रीमातृकाभेदतन्त्रे[ग-पुस्तके सर्व्वतन्त्रोत्तमोत्तमे इत्यधिकः |] हरगौरीसंवादेऽष्टमः पटलः || ८ || ----------- ३५ | भस्मो भवतीति | अत्रावधूतैरुच्यते-मुडरीलीजे सूत पर उसको दीजे मण्डलभरके खल करीजे || तव होजाय कादो प्राय उससे शिवजी निर्माय | उसमें दीजेजड़के पानी वज्रसमान करके जानी || इति | पृ० ५५) नवमः पटलः | [श्री नास्ति क-घ-पुस्तकयोः |]श्रीशिव उवाच- भस्मप्रकारं देवेशि शृणु मत्प्राणवल्लभे | कर्त्तारं वरयेदादौ यथोक्तविभवावधि || १ || [सौवर्णं मौक्तिकं युक्तं ख-ग |]सुवर्णं मौक्तिकयुतं कर्णयुग्मे निवेदयेत् | हस्तयुग्मे च वलयं अङ्गुरीयं तथैव च || २ || ताडद्वयं बाहुयुग्मे शुद्धकाञ्चननिर्म्मितम् | ग्रीवायां दापयेत् स्वर्णं चतुष्कोणं मनोरमम् || ३ || वस्त्रयुग्मं [पट्टसूत्रं निर्मि- क-घ-ङ |]पट्टसूत्रनिर्म्मितञ्च सुशोभनम् | [उष्णीषं पीतवस्त्रञ्च परीधानञ्च वाससम् ख-ग |]उष्णीषं शुक्लवर्णञ्च [ऊर्म्मिञ्च सितवाससम् घ, ऊर्म्मी च सीतवाससम् ङ |]उष्णीषं पीतवाससम् || ४ || एवं हि वरयेद् देवि कर्म्मयोग्यं [निवेदयेत् ख-ग |]विचिन्तयेत् | चिन्तयेच्छिवरूपञ्च चिन्तयेत् त्रिगुणात्मकम् || ५ || ततः परस्मिन् दिवसे शान्तिस्वस्त्ययनञ्चरेत् | निर्म्मितं [शुद्धवर्णेन ख-ग-ङ |]शुद्धस्वर्णेन बिल्वपत्रेण सुन्दरि || ६ || सहस्रसङ्ख्यया [जप्यं ख-ग |]देवि पार्थिवं द्वादशं यजेत् | षोडशेनोपचारेण पट्टवस्त्रयुगेन च || ७ || [अलङ्कारं विचि- ङ |]अलङ्कारविचित्रैश्च पूजयेत् [परमेश्वरि ख-ग, परमेश्वरीम् क |]परमेश्वरम् | भोगयोग्यं [महेशानि घ-ङ |]प्रदातव्यं मधुपर्कं [शुचिस्मिते ख-ग |]निवेदयेत् || ८ || पृ० ५६) स्वर्णासनेन[च -घ |] संस्थाप्य प्रत्येकं पूजनञ्चरेत् | पूजान्ते प्रजपेन्मन्त्रमष्टोत्तरशतं सुधीः || ९ || [-क्षरमहा- घ |]षडक्षरं महामन्त्रं [ततः प्रासादसंज्ञकम् क-ख-ग-ङ |]प्रासादाख्यं मनुं ततः | दिक्सहस्त्रं जपेन्मन्त्रं तद्दशांशं हुनेत् प्रिये || १० || [होमद्रव्यं हि घ |]होमस्य द्रव्यं देवेशि शृणु मत्प्राणवल्लभे | वालुकानिर्म्मिते वापि कुण्डे वा परमेश्वरि || ११ || द्वात्रिंशदङ्गुलिमानं विस्तृतं तत्समं प्रिये | षोडशाङ्गुलिमानं हि [कण्ठं ङ |]कुण्डं कुर्यात् सुलक्षणम् || १२ || तदूर्द्ध्वे परमेशानि [वेदनत्राङ्गुलिं ग |]वेदनेत्राङ्गलिं शिवे | एवं हि स्वर्णकुम्भञ्च [ताम्रकुण्डासमर्थिना ख-ग, ताम्रकुम्भं सम- ङ |]ताम्रकुम्भासमर्थिना || १३ || एतदन्यतरं कुम्भं स्थापयेद् वेदिकोपरि | पट्टवस्त्रेण युग्मेन संवेष्ट्य बहुयत्नतः || १४ || होमयेद् बिल्वपत्रेण [यथोक्तविधिना शिवे ख-ग |]यथोक्तेन सुरेश्वरि | [त्रिमध्वोक्तेन क |]त्रिमध्वक्तेन विधिना ततः सिद्धो भवेद् ध्रुवम् || १५ || ततस्तु दक्षिणा कार्यया यथोक्तविभवावधि | सर्व्वद्रव्यमयं[-समं पुण्यं ख-ग |] मूल्यं द्विगुणं वा प्रदापयेत् || १६ || [दक्षिणाविहीनो यज्ञः सिद्धिदो न च मोक्षदः ख-ग |]दक्षिणाविहीना[विहिना घ-ङ |] यज्ञाः सिद्धिदा न च मोक्षदाः | अत एव महेशानि दक्षिणा विभवावधि || १७ || ------------ १० | षडक्षरमित्यादि | तेन ओं नमः शिवाय हौं इति मन्त्रस्य दशसहस्रजपतद्दशांशहोमादिकं कर्त्तव्यमिति | १५ | त्रिमध्वक्तेनेति | मधुत्रयमुक्तं वराहपुराणे-क्षौद्रमिक्षुरसं क्षीरं तथा त्रिमधुरं स्मृतम् | इति वैदिकसर्वस्वे | पृ० ५७) वराहवत्समानीय जन्ममात्रेऽपि सुन्दरि | पारदं तोलकं मानं भक्षयेद् बहुयत्नतः || १८ || पुनस्तोलकमानं हि मातृदुग्धं ततः परम् | पुनश्च भक्षयेद् धीमांस्ततो दुग्धन्तु भक्षयेत् || १९ || [ततस्तद्वत्समानीय ख-ग |]ततश्च वत्समानीय [सर्व्वद्वारं घ]नवद्वारं प्रयत्नतः | [घ-पुस्तके पद्यार्द्धमिदं नास्ति |]सूत्रयोगेण देवेशि [बन्धं क-ख-ग |]बद्धं कुर्ययात् प्रयत्नतः || २० || ततश्च [ततश्चाहलकीमन्त्र- ख-ग |]हेलकीमन्त्रमष्टोत्तरशतं जपेत् | गजप्रमाणं देवेशि [दीर्घपुत्रन्तु क |]दीर्घप्रस्थन्तु खातकम् || २१ || करीषकेण देवेशि [चूर्णं ङ |]पूर्णं [कुर्ययात्तु खातकम् ख-ग |]कुर्ययाद्विचक्षणः | तन्मध्ये स्थापयेद् वत्सं [सन्दह्य च प्रयत्नतः ख-ग |]सन्दहेद् बहुयत्नतः || २२ || वह्निस्थिते महेशानि न स्पृशेत् कुण्डमुत्तमम् | [कुम्भे सुशीतले देवि क, कुण्डेषु शीतले ख-ग, कुण्डेषु शीते जाते तु ङ |]कुण्डे सुशीतले जात उत्थाप्य बहुयत्नतः || २३ || सर्व्वप्रकाशकं मन्त्रमष्टोत्तरशतं जपेत् | विश्वेश्वरं प्रवक्ष्यामि शृणु पार्व्वति सादरम् || २४ || पारदं तोलकं मानं ताम्रपात्रे तु लेपयेत् | चूर्णं कुर्यान्महेशानि गन्धकं सार्द्धतोलकम् || २५ || समाच्छाद्य प्रयत्नेन चूर्णेन परमेश्वरि | सन्दहेद् बहुयत्नेन मन्दमन्देन वह्निना || २६ || पृ० ५८) कृष्णवर्णं [रेणुयुक्तं ख-ग |]रेणुयुतं दृष्ट्वा उत्थाप्य सुन्दरि | [रतिप्रमाणं ख-ग, गुञ्जाप्रमाणं घ |]रत्तिप्रमाणं तद् द्रव्यं भक्षयेद् यदि सुन्दरि || २७ || सत्यं सत्यं [सर्वारिष्टं ख-ग |]सर्व्वकुष्ठं भक्षणान्नाशमाप्नुयात् | [अम्लपात्र- घ |]अनुपानमुष्णतोयं मत्स्यादीन् परिवर्जयेत् || २८ || एवं प्रयोगं देवेशि न कुर्यात् [साधको घ-ङ |]पुत्रवान् गृही | प्रथमे दिवसे पुत्रान् [द्वितीयदिवसे ख-ग-घ |]द्वितीये दिवसे धनम् || २९ || [तृतीयदिवसे ग-घ-ङ |]तृतीये दिवसे शक्तिं [नाशयामि न संशयः ख-ग, चतुर्थदिवसे घ |]चतुर्थे दिवसे गृहम् | [चतुर्थे दिवसे रोगं पञ्चमे शोकमाप्नुयात् ख-ग |]पञ्चमे दिवसे रोगं [नाशञ्च घ |]नाशं तु जायते ध्रुवम् || ३० || अत एव महेशानि [शान्तिस्वस्त्ययनञ्च- ख-ग |]आत्मस्वस्त्ययनञ्चरेत् | पूर्वोक्तविधिना मन्त्री [-र्गुणमथाचरेत् ख-ग |]चतुर्गुणं समाचरेत् || ३१ || इति श्रीमातृकाभेदतन्त्रे [अयमंशो नास्ति घ |]हरगौरीसंवादे नवमः पटलः || ९ || पृ० ५९) दशमः पटलः | [ङ-पुस्तके श्री नास्ति |]श्रीदेव्युवाच- [नरश्चेति गुरुर्नाथ ख-ग |]नराकृतिं गुरुं नाथ [मन्त्रवर्णा- ङ |]मन्त्रं वर्णात्मकं तथा | [ध्यानानुरूपिणीं देव एकं वापि कथं वद घ |]ध्यानानुरूपिणं [देव एकत्वं वा कथं भवेत् ख-ग |]देवमेकत्वं वा कथं वद || १ || [शङ्कर ख-ग |]श्रीशिव उवाच- गुरुवक्त्रान्महामन्त्रो[-मन्त्री क, -मन्त्रं ख-ग |] [लभते ख-ग |]लभ्यते [-त्तमः ख-ग |]साधकोत्तमैः | [यद्देयो जायते बीज- ख-ग, यज्ञे वा जायते वीर्य- घ, यद्देवाज्जायते बीजन्तस्य प्रा |]यद्येको जायते वीर्ययस्तस्य [मुक्ति- प्रा |]मूर्त्तिर्भवेद् ध्रुवम् || २ || देवतायाः शरीरञ्च[-न्तु ख-ग, ...-रं हि घ-ङ-प्रा |] बीजादुत्पद्यते प्रिये | गुरोराज्ञानुसारेण चान्यमूर्त्तिस्तु जायते || ३ || गुर्वादिभावनाद् देवि भावसिद्धिः प्रजायते | अत एव महेशानि चैकत्वं परिकथ्यते || ४ || --------------------- ४ | गुर्वादीति | अत्र संवादि प्रमाणमुक्तं यामले- गुरुरेकः शिवः प्रोक्तः सोऽहं देवि न संशयः | गुरुस्त्वमपि देवेशि मन्त्रोऽपि गुरुरुच्यते || अतो मन्त्रे गुरौ देवे न हि भेदः प्रजायते | कदाचित् स सहस्रारे पद्मे ध्येयो गुरुः सदा || कदाचिधृदयाम्भोजे कदाचिद्दृष्टिगोचरे || इति | मुण्डमालातन्त्रे च- देवतागुरुमन्त्राणामैक्यं सम्भावयन् धिया | तदा सिद्धो भवेन्मन्त्रः प्रकटे हानिरेव च || मन्त्रे वा गुरुदेवे वा न भेदं यस्तु कल्पते | तस्य तुष्टा जगद्धात्री किं न दद्याद् दिने दिने || इति | पृ० ६०) [ङ-पुस्तके श्री नास्ति |]श्रीदेव्युवाच- [यच्चाक्षरं ख-ग |]यच्चाक्षुषं महादेव तदाकारं विचिन्तयत् | [अचक्षुषो महादेव ख-ग |]अचाक्षुषे महादेव ध्यानं[ध्यानञ्च ङ |] वा कीदृशं भवेत् || ५ || श्रीशिव उवाच- [-मये ङ |]शब्दब्रह्ममयं देवि मम [वक्त्रादि- क |]वक्त्राद्विनिर्गतम् | आकाररहिते देवि यथा ध्यानादिकं भवेत् || ६ || तथैवोच्चारणेनैव भक्तियुक्तेन चेतसा | सत्यं सत्यं महेशानि प्रत्यक्षं नात्र संशयः || ७ || श्रीदेव्युवाच- पशुप्रदाने वाक्यं तु कीदृशं वद शङ्कर | येन वाक्येन [प्राणेश घ-ङ |]देवेश [काली ख-ग |]देवी तुष्टा भवत्यपि || ८ || [ख-ग-पुस्तकयोः श्री नास्ति क |]श्रीशिव उवाच- मृगे महिषे चोष्ट्रे च पशुशब्दं न योजयेत् | छागले च तथा सिंहे व्याघ्रे च परमेश्वरि || ९ || पशुशब्दं योजयित्वा महादेव्यै निवेदयेत् | [भावस्थो यो क-घ-ङ |]पशुभावस्थितो मन्त्री महिषो दीयते यदि || १० || -------------- ९ | छागले चेति | तथा च छागादिबलिदानफलमुक्तं मुण्डमालातन्त्रे- छागे दत्ते भवेद्वाग्मी मेषे दत्ते कविर्भवेत् | महिषे धनवृद्धिः स्यान्मृगे मोक्षफलं लभेत् || पक्षिदाने समृद्धिः स्याद् गोधिकायां महाफलम् | नरे दत्ते महर्द्धिः स्यादष्टसिद्धिरनुत्तमा || इति | एवं तत्रैव- राजा नरबलिं दद्यान्नान्यो हि परमेश्वरि | सिंहव्याघ्रनरान् दत्त्वा ब्राह्मणो रौरवं व्रजेत् || इति वचनाद् ब्राह्मणानां नरादिबलिदाने नाधिकार इति | एवमपि निबन्धे तृतीयपटले- सिंहं व्याघ्रं नरञ्चापि स्वगात्ररुधिरं तथा | मद्यञ्चापि ददद् विप्रो ब्राह्मण्यादेव हीयते || इति | पृ० ६१) बलिदानं [प्रवक्तव्यं ख-ग |]प्रकर्त्तव्यं न मांसं भक्षयेन्नरः | सम्यक् फलं न लभते दशांशं [लभ्यते क-घ-ङ |]लभते प्रिये || ११ || महिषादि प्रदातव्यं दिव्यवीरमते स्थितः | स एव सिद्धिमाप्नोति फलं सम्यक् प्रियंवदे || १२ || पशुदानं विना [देवीं ह |]देवि पूजयेन्न कदाचन | तथा च नित्यपूजायां यदि शक्तो भवेन्नरः || १३ || केवलं बलिदानेन सिद्धो भवति नान्यथा | [विधिना ह |]निर्धनः परमेशानि यदि पूजादिकञ्चरेत् || १४ || वत्सरान्ते प्रदातव्यं बलिमेकं सुरेश्वरि | अन्यथा नैव सिद्धिः स्यादाजन्म पूजनादपि[दाजन्मावधि पूजनात् ख-ग |] || १५ || बलिदानं महायज्ञं कलिकाले [तु ख-ग |]च चण्डिके | अश्वमेधादिकं यज्ञं कलौ नास्ति [महेश्वरि ख-ग |]सुरेश्वरि || १६ || -------------- १३ | पशुदानमित्यादि | अत्र संवादि प्रमाणमुक्तं कालीतन्त्रे एकादशपटले- न ददाति बलिं यस्तु शिवायै शिवताप्तये | स पापिष्ठो नाधिकारी कुलदेव्याः समर्च्चने || इति | तथा च निबन्धे तृतीयपटले- बलिदानं विना यस्तु पूजयेत् तारिणीं नरः | न ज्ञानं न च मोक्षः स्यात् तेषां पशुधियां प्रिये || इति | अत्र तारिणीत्त्युपलक्षणम्, यथा काली तथा च्छिन्ना यथा च्छिन्ना तथोन्मुखी | यथा दुर्गा तथा धूमा तथा महिषमर्द्दिनी || यथा काली तथा तारा सर्वास्ताराविभेदकाः | इति तस्यैव वचनात् | महानीलतन्त्रीयषष्ठपटलस्य सुन्दरी च तथा च्छिन्ना कालीतारादिकाश्च याः | महाविद्याश्च याश्चान्याः सर्वास्तारावदाचरेत् || इति वचनाच्च | १६ | बलिदानमित्यादि | तत्र च स्त्रीपशुदाननिषेध उक्तो महानिर्वाणतन्त्रीयषष्ठोल्लासे- बलिदानविधौ देवि विहितः पुरुषः पशुः | स्त्रीपशुर्न च हन्तव्यस्तत्र शाम्भवशासनात् || इति | अन्यत्रापि- शक्तिमांसं न गृह्णीयादण्डजं जलजं विनेति हरतत्त्वदीधितिः | पृ० ६२) केवलं बलिदानेन [अश्वमेध- ख-ग |]चाश्वमेधफलं भवेत् | यज्ञावशेषं यद् द्रव्यं भोजनीयं न चान्यथा || १७ || यज्ञावशेषभोगेन स [यज्ञो ख-ग |]यज्ञी नात्र संशयः | [भक्षयेद् घ |]न भक्षेद् यदि मोहेन न यज्ञफलभाग् भवेत् || १८ || [त्यज्यं ख-ग |]त्याज्यं द्रव्यं कथं देवि [यतो देव्यै ख-ग |]महादेव्यै निवेदयेत् | ब्रह्मरूपं [महामन्त्रं क |]महातन्त्रं मम वक्त्राद्विनिर्गतम् || १९ || स पूतः सर्व्वपापेभ्यो यदि चैकाक्षरं श्रुतम् | महाभक्तियुतो भूत्वा शृणोति [पठनं ख-ग |]पटलं यदि || २० || किं तस्य ध्यानपूजायां तीर्थस्नानेन तस्य किम् | शब्दब्रह्ममयं ज्ञात्वा समस्तं यदि चण्डिके || २१ || केवलं श्रवणेनैव [यत् फलं लभते नरः घ |]स सिद्धो नात्र संशयः | [घ-पुस्तके पद्यार्द्धमिदं नास्ति |]अष्टादशपुराणानां[पुराणानि क-ङ |] श्रवणेनैव यत् फलम् || २२ || चतुर्व्वेदेन [चाङ्गेन ख-ग |]साङ्गेन [श्रवणे यत् फलं लभेत् ख-ग |]श्रवणेनैव यत् फलम् | [तस्य तन्त्रस्य क, अस्य मन्त्रस्य ख-ग |]अस्य तन्त्रस्य देवेशि कलां नार्हन्ति षोडशीम् || २३ || ब्रह्मरूपमिदं तन्त्रं सारात् सारं परात् परम् || २४ || इति श्रीमातृकाभेदतन्त्रे[नास्ति घ |] हरगौरीसंवादे दशमः पटलः || १० || --------------- १७ | केवलमित्यादि | एवमपि निबन्धे पञ्चमपटले- सर्वत्रिकोटितीर्थेषु स्नात्वा यत् फलमश्नुते | तत् फलं लभते भक्त्या बलिभिः पूजनान्मम || इति | बृहन्नीलतन्त्रे षष्ठपटलेऽपि- भूतहिंसा न कर्त्तव्या पशुहिंसा विशेषतः | बलिदानं विना देव्या हिंसां सर्वत्र वर्जयेत् || इति || पृ० ६३) एकादशः पटलः | श्रीचण्डिकोवाच- [प्रसादं क, प्रासादमण्डलं ख-ग |]प्रासादं मण्डपं वापि यदि देव्यै निवेदयेत् | विधानं [चैव क |]तस्य माहात्म्यं [श्रोतुमिच्छामि तत्त्वतः क |]वद मे परमेश्वर || १ || [ख-ग-घ-ङ-पुस्तकेषु श्लोकोऽयं नास्ति |]कूपादिकं महादेव यदि देव्यै निवेदयेत् | विधानं तस्य माहात्म्यं वद मे परमेश्वर || २ || श्रीशङ्कर उवाच- शृणु देवि प्रवक्ष्यामि येन प्रासादमुत्सृजेत् | तस्यैव पश्चिमे भागे [वैदिकीं चतुरस्रिकां ख-ग, वेदिकाचतुरस्रकम् घ |]वेदिकां चतुरस्रकाम् || ३ || प्रकुर्ययाद् बहुयत्नेन वस्त्रेण वेष्टनञ्चरेत् | [ख-ग-पुस्तकयोः पद्यार्द्धमिदं नास्ति |]तदभावे महेशानि [तृणेन वेष्टयेत् सुधीः घ-ङ |]तृणेनैव च वेष्टयेत् || ४ || [कुम्भयुग्मे क्षौमवस्त्रं रक्तपुष्पं निवेदयेत् ख-ग |]कुम्भयुग्मं स्थापयित्वा क्षौमवस्त्रेण वेष्टयेत् | [ख-ग-पुस्तकयोः श्लोकार्द्धमिदं नास्ति |]युग्मं युग्मं क्षौमवस्त्रं कुम्भयुग्मे [निवेदयेत् घ |]नियोजयेत् || ५ || [ईशानकुम्भे ख-ग |]ईशकुम्भे यजेद्देवीमाग्नेययामग्निदैवतम् | चतुःषष्ट्युपचारेण पूजयेदिष्टदेवताम् || ६ || ------------ ६ | शक्तिविषये चतुःषष्टिरुपचारा यथा तन्त्रसारधृतयामले-आसनारोपणम्(१)सुगन्धितैलाभ्यङ्गः(२)मज्जनशालाप्रवेशनम्(३)मज्जनमणिपीठोपवेशनम्(४) पृ० ६४) अभावे पूजयेद् देवीं तदर्द्धेन प्रयत्नतः | अथवा परमेशानि यथाशक्त्युपचारतः || ७ || पूजयेद् बहुयत्नेन ततो होमादिकञ्चरेत् | [आगमोक्तविधानेन ख-ग |]आगमोक्तेन विधिना कुर्ययात् तत्र कुशण्डिकाम् || ८ || त्रिमध्वक्तेन[त्रिमध्वोक्तेन क |] देवेशि बिल्वपत्रेण होमयेत् | सहस्रं होमयेन्मन्त्री [शतान्यूनं क |]शतन्यूनं न कारयेत् || ९ || --------------------- दिव्यस्नानीयम् (५) उद्वर्त्तनम् (६) उष्णोदकस्नानम् (७) कनककलसस्थितसकलतीर्थाभिषेकः (८) धौतवस्त्रपरिमार्जनम् (९) अरुणदुकूलपरिधानम् (१०) अरुणदुकूलोत्तरीयम् (११) आलेपमण्डपप्रवेशनम् (१२) आलेपमणिपीठोपवेशनम् (१३) चन्दनागुरुकुङ्कुमकर्पूरकस्तूरीरोचनादिव्यगन्धसर्वाङ्गानुलेपनम् (१४) केशभारस्य काला-गुरुधूप-मल्लिकामालतीजातीचम्पकाशोकशतपत्रपूगकुहरीपुन्नागकल्हार-यूथीसर्वर्तुकुसुममालाभूषणम् (१५) भूषणमण्डपप्रवेशनम् | (१६) भूषणमणिपीठोपवेशनम् (१७) नवमणिमुकुटम् (१८) चन्द्रशकलम् (१९) सीमन्तसिन्दूरम् (२०) तिलकरत्नम् (२१) कालाञ्जनम् (२२) कर्णपालीयुगलम् (२३) नासाभरणम् (२४) अधरयावकः (२५) ग्रथनभूषणम् (२६) कनकचित्रपदकम् (२७) महापदकम् (२८) मुक्तावलिः (२९) एकावलिः (३०) देवच्छन्दकः (३१) केयूरयुगलचतुष्कम् (३२) वलयावलिः (३३) ऊर्म्मिकावलिः (३४) काञ्चीदाम (३५) कटिसूत्रम् (३६) शोभाख्याभरणम् (३७) पादकटकम् (३८) रत्ननूपुरम् (३९) पादाङ्गुरीयकम् (४०) एककरे पाशः (४१) अन्यकरेऽङ्कुशम् (४२) इतरकरे पुण्ड्रेक्षुचापः (४३) अपरकरे पुष्पवासाः (४४) श्रीमन्माणिक्यपादुका (४५) स्वसमानवेशास्त्रावरणदेवताभिः सह सिंहासनारोहणम् (४६) कामेश्वरपर्ययङ्कोपवेशनम् (४७) अमृताशनचषकम् (४८) आचमनीयम् (४९) कर्पूरवटिका (५०) आनन्दोल्लासविलासहासम् (५१) मङ्गलारात्रिकम् (५२) श्वेतच्छत्रम् (५३) चामरयुगलम् (५४) दर्पणम् (५५) तालवृन्तम् (५६) गन्धः (५७) पुष्पम् (५८) धूपः (५९) दीपः (६०) नैवेद्यम् (६१) पुनराचमनीयम् (६२) ताम्बूलम् (६३) वन्दनम् (६४) इति | पृ० ६५) [पद्यार्द्धमिदं ख-ग-पुस्तकयोर्नास्ति |]पूर्णाहुतिं ततो दत्त्वा ततो वाक्यं समाचरेत् | अद्येत्यादि समुच्चार्यय सौरमासं समुच्चरेत् || १० || तिथिगोत्रं चामुकोऽहं धर्म्मार्थकाममेव वा[च ख-ग-घ-ङ |] | प्राप्तये परमेशानि ततो मूलं समुच्चरेत् || ११ || देवतायै नमः पश्चाद् दक्षिणां दापयेद् गुरौ | कुम्भतोयेन देवेशि स्नापयेद् यजमानकम् || १२ || [शान्त्यादीन् स ख-ग |]सुरास्त्वादीन् समुच्चार्यय शान्तिं कुर्ययात् ततो गुरुः | सर्व्वादौ गुरुदेवस्य वरणं कारयेत् [बुधः ख-ग |]सुधीः || १३ || [सुवर्णचम्पकाकारं ख-ग |]सुवर्णं चम्पकाकारं कर्णयुग्मे निवेदयेत् | चतुष्कोणयुतं स्वर्णं ग्रीवायां [परिधापयेत् ख-ग |]परियोजयेत् || १४ || उष्णीषञ्च ततो दद्यात् [कण्ठमालां ङ |]कण्ठे मालां [निधापयेत् ख-ग |]नियोजयेत् | ताडयुग्मं ततो बाहौ वलयं मणिबन्धके || १५ || अङ्गुल्यामङ्गुरी[मङ्गुलीं देयं ङ |] देया दिव्यवस्त्रं [निवेदयेत् ख-ग |]नियोजयेत् | एवं हि वरणं कृत्वा कर्म्मयोग्यं विचिन्तयेत् || १६ || गुरुं वा गुरुपुत्रं वा वरयेद् यत्नतः सुधीः | सदस्यं [च प्रकर्त्तव्यं ख-ग-ङ |]न हि कर्त्तव्यं तन्त्रधारं [च तत्र वै ख-ग-ङ |]न तत्र वै || १७ || [ङ-पुस्तके पद्यार्द्धमिदं नास्ति |]ब्रह्माणं न हि कर्त्तव्यं केवलं वरयेद् गुरुम् | [गुरुभृत्यो ख-ग-ङ |]गुरोर्भृत्यो महेशानि भैरवो नात्र संशयः || १८ || पृ० ६६) स्वीयेन[स्नांयेन क |] परिधानेन वाससा तोषयेत् [गुरुम् ख-ग |]स्वयम् | स्वयं होता भवेद् विप्रो गुरोराज्ञानुसारतः || १९ || मायाबीजं समुच्चार्य आधारशक्तये नमः | अनेन मनुना देवि [देव्याः सं- ख-ग |]वेदिसंस्कारमाचरेत् || २० || [भूरस्येत्यादि- क-घ, भुवस्वेत्यादि- ख-ग |]भूरसीत्यादिमन्त्रेण घट[युग्मेऽभिऽ- ख-ग |]-युग्माभिमन्त्रितम् | अस्त्रान्तेनैव मूलेन उष्णीषं परियोजयेत्[-योजनं क |] || २१ || [वेदोक्तं नैव ख-ग |]वेदोक्तञ्चैव स्मृत्युक्तं [न मन्त्रं ख-ग, मन्त्रं नानायजेत् घ |]मन्त्रं न योजयेत् सुधीः | एवं [धूपादि घ |]कूपादिदानेषु कर्त्तव्यं परमेश्वरि || २२ || अन्यत् सर्व्वं समानं हि प्रासादादिस्थले पुनः | कूपादियोजनं कुर्ययात् [यष्टिकाष्ठविनिर्म्मितम् ख-ग |]यष्टिप्रोतनमाचरेत् || २३ || [एवं यष्टि प्रकर्तव्यं क, एकयष्टिप्रकर्त्तव्यं घ-ङ |]चतुर्हस्तप्रमाणञ्च मध्यभागे[भागेन पोतनम् ख-ग, -भागे तु पोतनम् ङ |] तु प्रोतनम् | मूलमन्त्रं समुच्चार्य ततो वह्निबधूं न्यसेत् || २४ || ततो यष्टिं समुच्चार्यय [प्रोत- क-ख-ग-घ |]पोतयामि वदेत् सुधीः | तत्र सन्तरणं धेनुं नैव कुर्ययाद्विचक्षणः || २५ || धेनुसन्तरणेनैव फलहानिः प्रजायते | [स्वर्णरौप्यं ख-ग-ङ |]स्वर्णं रूप्यं प्रवालञ्च दक्षिणां परियोजयेत् || २६ || स्नापयित्वा कुम्भतोयैः शान्तिं कुर्ययात् ततो गुरुः || २७ || -------------- २१ | भूरसीत्यादि | मन्त्रस्तु- ओं भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री | पृथिवीं यच्छ पृथिवीं दृᳫहः, पृथिवीं मा हिᳫसीः | शुक्लयजुर्व्वेद, १३|१८ पृ० ६७) [अनेन विधिना देवि घ |]अनेनैव विधानेन कूपाद्युत्सर्गमाचरेत् | [ङ-पुस्तके श्लोकार्द्धमिदं नास्ति |]वापीकूपतडागादि ह्यनेनोत्सर्गमाचरेत् || २८ || दीर्घिकाञ्च पुष्करिणीं [मूलेनैव घ |]ह्यनेनैव जलाशयम् | [उदकं ख-ग |]उत्सृज्य परया भक्त्या महादेव्यै [निवेदयेत् ख-ग |]प्रयत्नतः || २९ || पुरुषं सप्तमं कान्ते पितृवंशे च मातरि | सप्तमं पुरुषं [काण्डे ख-ग, कान्तारं सेतुसमं प्रिये घ |]कान्ते मातृवंशे समं प्रिये || ३० || कैलासे निवसेन्नित्यं देव्या वरप्रसादतः | स्वयं देवस्वरूपश्च[-ञ्च क |] जीवन्मुक्तो न संशयः || ३१ || अश्वमेधसहस्रेण[-सहस्राणि ङ |] वाजपेयशतेन[-शतानि ङ |] च | यत् फलं लभते देवि तस्माल्लक्षगुणं भवेत् || ३२ || मेरुतुल्यं[-तुल्य- क-घ-ङ |]सुवर्णन्तु[सुवर्णञ्च घ-ङ |] ब्राह्मणे वेदपारगे | [दाने घ |]दत्त्वा यत् फलमाप्नोति [तस्य कोटि- ख-ग |]तस्माल्लक्षगुणं भवेत् || ३३ || [पूर्णमाशेन ङ |]पूर्णशस्येन देवेशि सप्तद्वीपां वसुन्धराम् | प्रदद्याद् बहुयत्नेन ब्राह्मणे वेदपारगे || [तस्य कोटि- ख-ग |]तस्माल्लक्षगुणं पुण्यमनेन परमेश्वरि || ३४ || [पद्यमिदं क-ख-ग-पुस्तकेषु नास्ति |]सदक्षिणं व्रतं सर्व्वं दानं यद्वेदसम्मतम् | तस्माल्लक्षगुणं पुण्यमनेन परमेश्वरि || ३५ || [पार्वत्युवाच ख-ग |]श्रीचण्डिकोवाच- यज्ञसूत्रधारणेन[धारणे तु ख-ग |] भूपूज्यो नात्र संशयः | इदानीं यज्ञसूत्रस्य विधानं मयि कथ्यताम् || ३६ || पृ० ६८) [शिव क-घ |]श्रीशङ्कर उवाच- यज्ञसूत्रस्य यन्मानं तच्छृणुष्व वरानने | ऋग्वेदी धारयेत्[-न्नित्यं ङ |] सूत्रं नाभेरूर्द्ध्वं स्तनादधः || ३७ || यजुषां सूत्रमानं हि[परमाश्चर्ययं हि शैलजे ग; हि परमाश्चर्ययशैलजे घ; तु परमाश्चर्यय शैलजे ख-ङ |] आश्चर्यं शैलजे परम् | [बाहुमूलं क |]बाहुमूलप्रमाणेन यज्ञसूत्रं द्विजातिभिः | धारणीयं प्रयत्नेन [नान्यद्रूपं ख-ग, नान्यदघ्नं घ; नान्यरूपं ङ |]नान्यद् दैर्घ्यं कदाचन || ३८ || सामगस्य [दीर्घसूत्रं घ-ह०त० |]यज्ञसूत्रं त्रिविधं [परमेश्वरि ख-ग-ङ |]वरवर्णिनि | ब्रह्मरन्ध्रान्नाभिदेशपर्ययन्तं यज्ञसूत्रकम् || ३९ || [श्लोकोऽयं नास्ति ह०त० |]अथवापि च ग्रीवायामारोप्य नाभि संस्पृशेत् | तस्मात् [पृष्ठे मेरुदण्ड- ख-ग-घ-ङ |]पृष्ठान्मेरुदण्डपर्ययन्तं यज्ञसूत्रकम् || ४० || [अथवेत्यादि यजुषां मतमित्यन्तो भागः ख-ग-घ-पुस्तकेषु नास्ति |]अथवा परमेशानि प्रकारान्तरकं शृणु | ग्रीवाया दक्षिणाङ्गुष्ठपर्ययन्तं [परमेश्वरि ङ |]यज्ञसूत्रकम् || ४१ || [पद्यार्द्धमिदं ङ-पुस्तके नास्ति |]अथवा धारयेत् सूत्रं यत्नेन यजुषां मतम् | अथवा[अथर्वी ख-ग-ङ |] धारयेत् सूत्रं सामगस्य प्रमाणतः || ४२ || -------------- ३७ | यज्ञसूत्रस्येति | यज्ञसूत्रं कस्य किं निर्म्मितं स्यादित्यपेक्षायामुक्तं महानीलतन्त्रे एकत्रिंशपटले,- कार्पासन्तु द्विजातीनां क्षौमञ्च भूभुजां तथा | वैश्यानां शणसूत्रञ्च शङ्करस्य मतेन च || इति | पृ० ६९) [अथवा ख-ग-घ-ङ |]अथर्वी धारयेद् यज्ञसूत्रं परममोहनम् | आज्ञाचक्रान्नाभिदेशपर्ययन्तं यज्ञसूत्रकम् || ४३ || एतत् सङ्केतमज्ञात्वा यः कुर्ययात् सूत्रधारणम् | स चण्डालसमो देवि यदि व्याससमो भवेत् || ४४ || इति श्रीमातृकाभेदतन्त्रे हरगौरीसंवादे एकादशः पटलः || ११ || पृ० ७०) द्वादशः पटलः | श्रीशङ्कर उवाच- अथातः संप्रवक्ष्यामि पूजाधारं सुदुर्लभम् | शालग्रामे मणौ यन्त्रे प्रतिमायां घटे[जले घटे ख-ग |] जले || १ || पुस्तिकायाञ्च गङ्गायां शिवलिङ्गे प्रसूनके | शालग्रामे शतगुणं मणौ तद्वत् फलं लभेत्[भवेत् ङ |] || २ || यन्त्रे लक्षगुणं [प्रोक्तं ख-ग-ङ |]पुण्यं मूर्त्तौ लक्षं सुलोचने | [जले चैकगुणं पुण्यं घटे ङ |]घटे चैकगुणं [प्रोक्तं ख-ग |]पुण्यं जले चैकगुणं प्रिये || ३ || पुस्तिकायां सहस्रन्तु गङ्गायां तत्समं फलम् | शिवलिङ्गे ह्यनन्तं हि विना पार्थिवलिङ्गके[-लिङ्गकम् प्रा०ह०त० |] || ४ || -------------------- १ | अथात इत्यादि | अत्र संवादि गुप्तसाधनतन्त्राष्टमपटलवचनमुल्लिख्यते- अथातः संप्रवक्ष्यामि पूजाधारन्तु सिद्धिदम् | यं विना परमेशानि न हि सिद्धिः प्रजायते | शालग्रामे मणौ यन्त्रे प्रतिमायां सुरेश्वरि | पुस्तिकायाञ्च गङ्गायां सामान्येन जले तथा || अथवा पुष्पयन्त्रेण पूजयेच्छिवलिङ्गके | यन्त्रभेदेन देवेशि फलं सम्यक् प्रजायते || शालग्रामे शतगुणं मणौ तद्वत् फलं लभेत् | यन्त्रे लक्षगुणं प्रोक्तं प्रतिमायां तथैव च || पुस्तिकायाञ्च गङ्गायां समानफलमीरितम् || इति | ४ | शिवलिङ्ग इत्यादि | अत्रापि गुप्तसाधनप्रमाणम्- शिवलिङ्गे महेशानि अनन्तफलमीरितम् | न कुर्ययात् पार्थिवे लिङ्गे देवीपूजादिकाः क्रियाः || पार्थिवे पूजनाद् देवि सिद्धिहानिः प्रजायते | यदि दैवान्महेशानि मृत्तिकास्खलनं भवेत् || तावद् वर्षसहस्राणि नरके पूयशोणिते | कुम्भीपाके महाघोरे पच्यते पितृभिः सह || अत एव महेशानि पार्थिवे न हि पूजयेत् | स्फटिकादीन् समानीय लिङ्गं निर्म्माय यत्नतः || तल्लिङ्गे पूजनाद् देवि सर्व्वसिद्धियुतो भवेत् || इति | एवमपि पार्थिवे देवताविशेष- पृ० ७१) पुष्पयन्त्रे महेशानि पूजनात् सर्व्वसिद्धिभाक् | शालग्रामे च पूजायां न लिखेद् यन्त्रमुत्तमम् || ५ || [पद्यार्द्धमिदं ख-ग-ङ-पुस्तकेषु नास्ति |]मणौ स्थिते महेशानि न लिखेद् यन्त्रमुत्तमम् | प्रतिमायाञ्च पूजायां न लिखेद् यन्त्रमुत्तमम् || ६ || प्रतिमायाश्च[-ञ्च क |] पुरतो घटं [स्थाप्य प्रयत्नतः ख-ग |]संस्थाप्य यत्नतः | परिवारान् यजेत् तत्र घटे तु परमेश्वरि || ७ || [मन्त्राधिष्ठितदेवांश्च घटवक्त्रे च ख-ग, यन्त्राधिष्ठितदेवानां ङ |]यन्त्राधिष्ठातृदेवांश्च [घटवक्त्रे ख-ग-घ-प्रा०, ह०त० घटे वक्त्रे ङ |]घटे यन्त्रे प्रपूजयेत् | समस्तदेवतारूपं [घटञ्च ख-ग-घ-ङ-प्रा० |]घटन्तु परिचिन्तयेत् | [मूलद्रुम- ङ |]सुरद्रुमस्वरूपोऽयं[-स्वरूपो हि प्रा० |] घटो[घटोऽयं क-घ-ङ-प्रा० |] हि परमेश्वरि || ८ || [महायन्त्रन्तु देवेशि ख-ग |]जन्मस्थानं महायन्त्रं यदि [कुर्ययाच्च ख-ग |]कुर्ययात् तु साधकः | [पद्यार्द्धमिदं घ-पुस्तके नास्ति |]तत्र मूर्त्तिं न [कुर्ययाच्च ख-ग |]कुर्ययात् तु [यदि यन्त्रञ्च कारयेत् प्रा० |]कदाचिदपि मोहतः || ९ || [यत्र मूर्त्तिः कृता देवि घ, इदमर्द्धं नास्ति प्रा० |]यदि मूर्त्तिं प्रकुर्ययात् तु तत्र यन्त्रं न कारयेत् | यदि कुर्ययात् तु मोहेन यजेद् वारद्वयं प्रिये || १० || द्विगुणं पूजनं तत्र द्विगुणं बलिदानकम् | द्विगुणं प्रजपेन्मन्त्रं द्विगुणं [होममाचरेत् घ-प्रा० |]होमयेत् सुधीः || ११ || ------------ पूजने फलविशेषमुक्तं तन्त्रान्तरतन्त्रे- कालिकां तारिणीञ्चैव त्रिपुरां भुवनेश्वरीम् | योऽर्च्चयेत् पार्थिवे लिङ्गे स याति परमां गतिम् || तारिण्याः कालिकायाश्च सुन्दर्ययाः परमेश्वरि | पार्थिवे पूजनाद् देवि चतुर्वर्गफलं लभेत् || इति | अत्र च सामान्यविशेषन्यायेन विधिनिषेधयोरविरोधं प्रमाणयन्तोऽनूचाना वंशपरम्परया तथैव व्यवहरन्तीति | पृ० ७२) अन्यथा विफला पूजा विफलं बलिदानकम् | सर्व्वं हि विफलं यस्मात् तस्माद् यन्त्रं न कारयेत् || १२ || इति ते कथितं कान्ते पूजाधारं सुदुर्लभम्[अतः परं ख-ग-पुस्तकयोः इति श्रीमातृकाभेदतन्त्रे श्रीदुर्गाशिवसंवादे द्वादशः पटल इत्यधिकः | पाठः |] || १३ || अथातः संप्रवक्ष्यामि शिवलिङ्गस्य लक्षणम् | पार्थिवे शिवपूजायां सर्व्वसिद्धियुतो भवेत् || १४ || ------------------ १२ | अन्यथेत्यादि | यत्तु संस्थाप्य पूजयेत् तञ्च यन्त्रराजं घटोपरि | देव्यग्रे च घटं दिव्यं सुदृढं लक्षणान्वितम् || तत्र यन्त्रं समारोप्य पूजयेद् विभवावधि || इति शाम्भवीतन्त्रीयचतुर्द्दशपटलवचनं, तदन्नपूर्णापूजापरं प्रकरणबलात् द्विगुणपूजाभिप्रायेण वेत्यविरोधः | १४ | अथात इत्यादि | आधारभेदेन शिवपूजायाः फलभेदे अन्यत्रोक्तप्रमाणानि | कालोत्तरे- महाभुक्तिप्रदं हैमं राजतं भूतिवर्धनम् | आरकूटं तथा कांस्यं शृणु सामान्यमुक्तिदम् || त्रपुसीसायसं लिङ्गं शत्रूणां नाशने हितम् | कीर्त्तिदं कांस्यजं लिङ्गं राजतं पुष्टिवर्धनम् || पैत्तलं भुक्तिमुक्त्यर्थं मिश्रजं सर्वसिद्धिदम् || इति | शिवनारदसंवादे- पितॄणां मुक्तये लिङ्गं पूज्यं रजतसम्भवम् | हैमजं सत्यलोकस्य प्राप्तये पूजयेत् पुमान् || पूजयेत् ताम्रजं लिङ्गं पुष्टिकामो हि मानवः | (ताम्रादिलिङ्गन्तु कलीतरपरम्) | तथा च मत्स्यसूक्ते- ताम्रलिङ्गं कलौ नार्चेद् रैत्यस्य सीसकस्य च | रक्तचन्दनलिङ्गञ्च शङ्खकांस्यायसं तथा || तुष्टिकामस्तु सततं लिङ्गं पित्तलसम्भवम् | कीर्त्तिकामो यजेन्नित्यं लिङ्गं कांस्यसमुद्भवम् || शत्रुमारणकामस्तु लिङ्गं लौहमयं सदा | सदा सीसमयं लिङ्गमायुष्कामोऽर्च्चयेन्नरः || लक्षणसमुच्चयेऽपि- स्थिरलक्ष्मीप्रदं हैमं राजतं चैव राज्यदम् | प्रजावृद्धिकरं राङ्गं ताम्रमायुःप्रवर्द्धनम् || विद्वेषकारकं कांस्यं रीतिजं शत्रुनाशनम् | रोगघ्नं से?सकं लिङ्गमायसं शत्रुनाशनम् || अष्टलौहमयं लिङ्गं कुष्ठरोगक्षयावहम् | त्रिलौहसम्भवं लिङ्गं विज्ञानं प्रति सिद्धिदम् || लिङ्गपुराणे- श्रीपदं वज्रजं लिङ्गं शिलाजं सर्वसिद्धिदम् | धातुजं धनदं साक्षाद् दारुजं भोगसिद्धिदम् || कालोत्तरे- गन्धपुष्पमयं लिङ्गं तथान्नादिविनिर्म्मितम् | कस्तूरीसम्भवं लिङ्गं धनाकाङ्क्षी प्रपूजयेत् || लिङ्गं गोरोचनोत्थञ्च रूपकामस्तु पूजयेत् | कान्तिकामस्तु सततं लिङ्गं कुङ्कुमसम्भवम् || श्वेतागुरुसमुद्भूतं महाबुद्धिविवर्द्धनम् | धारणाशक्तिदं लिङ्गं कृष्णागुरुसमुद्भवम् || इति | गरुडपुराणे च- कस्तूरिकाया द्वौ भागौ चत्वार- पृ० ७३) पाषाणे शिवपूजायां द्विगुणं फलमीरितम् | स्वर्णलिङ्गे च पूजायां शत्रूणां नाशनं मतम् || १५ || सर्व्वसिद्धीश्वरो रौप्ये फलं [तस्याश्चतुर्गुणम् क-ङ |]तस्माच्चतुर्गुणम् | ताम्रे पुष्टिं विजानीयात् कांस्ये च धन[-संक्षयः श०, -सञ्चयः प्रा० |]सञ्चयम् || १६ || पारदस्य च माहात्म्यं पूरैव कथितं मया | गङ्गायाञ्च लक्षगुणं लाक्षायां रोगवान् भवेत् || १७ || स्फाटिके सर्व्वसिद्धिः स्यात् तथा [मरकते क-ङ-श० |]मारकते प्रिये | लौहलिङ्गे [रिपुनाशं ख-ग, रिपोर्नाशः प्रा० |]रिपोर्नाशं कामदं भस्मलिङ्गके[-लिङ्गकम् श०-प्रा० |] || १८ || वालुकायां काम्यसिद्धिर्गोमये रिपुहिंसनम् | [स्वर्ण- ख-ग-प्रा० |]सर्व्वलिङ्गस्य माहात्म्यं [सर्वार्थ- ख-ग, धर्मकामार्थ- प्रा० |]धर्म्मार्थकाममोक्षदम् || १९ || आधारभेदे यत् पुण्यं चाधिकं कथितं तु ते | अतिरिक्तफलान्येतदाधारस्य सुलोचने || २० || शिवस्य पूजनाद् देवि चतुर्वर्गाधिपो भवेत् | [सर्व्वैश्वर्यय- ङ |]अष्टैश्वर्यययुतो मर्त्त्यः शम्भुनाथस्य पूजनात् || २१ || --------------------- श्चन्दनस्य च | कुङ्कुमस्य त्रयश्चैव शशिनश्च चतुःसमम् || एतद् वै गन्धलिङ्गन्तु कृत्वा संपूज्य भक्तितः | शिवसायुज्यमाप्नोति बन्धुभिः सहितो नरः || इति | पद्मपुराणे च- पारदञ्च महाभूत्यै सौभाग्याय च मौक्तिकम् | चान्द्रकान्तं मृत्युजित् स्याद्धाटकं सर्वकामदम् || इति | मत्स्यसूक्ते च- विशेषाच्छैलजं मुक्त्यै भुक्तये चानुसङ्गतः | पार्थिवं भुक्तये शस्तं मुक्तये चानुसङ्गतः || एवं वै दारुजं ज्ञेयं चिह्नलिङ्गं तथा पुनः | स्थिरलक्ष्मीप्रदं ज्ञेयं हैमं राज्यप्रदञ्च तत् || पुत्रवृद्धिकरं ताम्रं राङ्गमायुःप्रवर्द्धनम् || इति | पृ० ७४) स्वयं नारायणः प्रोक्तो [शम्भुनाथस्य पूजनात् ङ |]यदि शम्भुं प्रपूजयेत् | [ङ-पुस्तके स्वर्गे इत्यादि पूजनादित्यन्ता पादचतुष्टयी नास्ति |]स्वर्गे मर्त्त्ये च पाताले ये देवाः संस्थिताः सदा | तेषां पूजा भवेद् देवि शम्भुनाथस्य पूजनात् || २२ || स्वर्णपुष्पसहस्रेण यत् फलं लभते नरः | तस्माल्लक्षगुणं [प्रोक्तं ङ |]पुण्यं भग्नैकबिल्वपत्रके || २३ || भग्नैकबिल्वपत्रस्य सहस्रैकेन भागतः | मेरुतुल्यसुवर्णेन तत् फलं न हि लभ्यते || २४ || शुद्धाशुद्धविचारोऽपि नास्ति तच्छिवपूजने | येन तेन प्रकारेण बिल्वपत्रैः [प्रपूजयेत् ख-ग-घ |]प्रपूजनात् | सर्व्वसिद्धियुतो भूत्वा स नरः [शिव ख-ग-घ-ङ |]सिद्ध एव हि || २५ || ब्रह्माण्डमध्ये ये देवास्तद् बाह्ये [ये च क-घ |]याश्च देवताः | ते सर्व्वे तृप्तिमायान्ति केवलं शिवपूजनात् || २६ || --------------- २४ | भग्नैकेत्यादि | अत्र संवादि प्रमाणमुक्तं योगिनीतन्त्रे- बिल्वपत्रञ्च माध्यञ्च तमालामलकीदलम् | कह्लारं तुलसीञ्चैव पद्मपुन्नागपुष्पकम् || एतत् पर्युषितं न स्याद् यच्चान्यत् कलिकात्मकम् | नीरजस्य च बिल्वस्य तुलस्या दलमेव च || न दूष्येच्छिन्नभिन्नञ्च जातिपुष्पञ्च सुन्दरि || इति | २५ | येनेत्यादि | अत्र विशेषमाह वरदातन्त्रे चतुर्थपटले- फलशून्यैर्वृक्षजातैर्बिल्वपत्रैर्न चार्चयेत् | इति | त्रिविक्रमसंहितायामपि- अच्छिन्नमूलं तत् पत्रं यो तद्याच्छङ्करार्चने | तस्य पूजा वृथा देवि मृतो नरकमाप्नुयात् || इति | लिङ्गार्चनतन्त्रे द्वादशपटलेऽपि- बिल्वपत्रं महादेवि कीटादिदोषवर्ज्जितम् | कोमलं मधुरं पत्रं पत्रत्रययुतं शिवे || बिल्वपत्रं विना देवि न हि पूजां समाचरेत् || इति | एवञ्च मूलग्रन्थेन सह पर्ययालोचनया विशेषवचनानि फलभूयस्त्वशंसीनीति विज्ञायते | पृ० ७५) पुष्पं गन्धं जलं द्रव्यं लिङ्गोपरि नियोजयेत् | लिङ्गमध्ये महावह्निः सैव रुद्रः प्रकीर्त्तितः || २७ || रुद्रोपरि क्षिपेद् [यद्यत् तदेव भस्मतां गतम् ख-ग-ङ |]यत्तु तदेव भस्मतां गतः || २८ || [श्लोकार्द्धमिदं ख-ग-पुस्तकयोर्नास्ति |]साक्षाद्धोमो महेशानि शिवस्य पूजनाद् भवेत् | महायज्ञेश्वरो मर्त्त्यः शिवस्य पूजनाद् भवेत् || २९ || [कुशाप्रमाणं क-ङ |]कुशाग्रमानं यत् तोयं तत्तोयेन यजेद् यदि | सत्यं सत्यं हि गिरिजे तज्जलं सागरोपमम् || ३० || पुष्पञ्च मेरुसदृशं लिङ्गोपरि [नियोजयेत् ङ |]नियोजनात् | लिङ्गस्य मस्तके देवि यदन्नं परितिष्ठति || ३१ || तदन्नस्य च दानेन क्षितिदानफलं लभेत् || ३२ || एकेन तण्डुलेनैव यदि लिङ्गं प्रपूजयेत् | ब्रह्माण्डपात्रसंपूर्ण-[अन्नदान- क |]मन्नदानफलं लभेत् || ३३ || [एकेन क |]एकया दूर्व्वया वापि योऽर्चयेच्छिवलिङ्गकम् | सर्व्वदेवस्य शीर्षे तु [अन्नदान- घ |]चार्घदानफलं लभेत् || ३४ || सामान्यतोयमानीय यदि स्नायान्महेश्वरम् | सार्द्धत्रिकोटितीर्थस्य स्नानस्य फलभाग् भवेत् || ३५ || श्रीचण्डिकोवाच- तारिणी ब्रह्मणः शक्तिस्त्रिपुरा वैष्णवी [तथा ख-ग-घ |]परा | कथं शाकम्भरी तारा त्रिपुरा शाम्भवी कथम् || ३६ || पृ० ७६) [शिव ख-ग-घ |]श्रीशङ्कर उवाच- काली-[-देहस्वेदजाता ख-ग |]देहाद् यदा जाता सावित्री वेदमातृका | त्रिवर्गदात्री[-दाता घ |] सा देवी ब्रह्मणः शक्तिरेव च || ३७ || [गुरुरूपा ङ |]गुप्तरूपा महाविद्या शैवी सैकजटा परा | तस्माल्लक्ष्मीर्व्वैष्णवी या [त्रिवर्गफलदायिनी ख-ग |]त्रिवर्गदायिनी शिवा || ३८ || गुप्तरूपा महाविद्या श्रीमत्त्रिपुरसुन्दरी | [शाकम्भरी परा ङ |]शाम्भवी परमा [या सा ख-ग |]माया त्रिपुरा मोक्षदायिनी || ३९ || एकैव हि महाविद्या नाममात्रं पृथक् पृथक् | तथैव [पुरुषाश्चैकनाम- घ |]पुरुषश्चैको[-श्चैव ख-ग |] नाममात्रविभेदकः || ४० || श्रीचण्डिकोवाच- मन्त्रधारणमात्रेण तदात्मा तन्मयो भवेत् | कथं वा वातुलः सोऽपि कथं वा रोगवान् भवेत् || ४१ || [शिव ख-ग |]श्रीशङ्कर उवाच- मन्त्रच्छन्नाद् वातुलत्वं रोगो देहे न जायते | [मन्त्रच्छन्नं महेशानि आत्मा देवि ख-ग, मन्त्रच्छन्नं महेशानि घ |]मन्त्रच्छन्नं प्रवक्ष्यामि शृणु देवि [समाहितः क-ख-ग-घ |]समाहिता || ४२ || [अभक्तिं चाक्षरे भ्रान्तिं लुप्तस्थिरं तथैव च ख-ग |]अभक्तिश्चाक्षरे भ्रान्तिर्लुप्तश्छिन्नस्तथैव च | [ह्रस्वदीर्घश्च कथनं ख-ग |]ह्रस्वो दीर्घश्च [कथनः क-घ |]कथनं स्वप्ने तु चाष्टधा स्मृतः || ४३ || -------------- ४३ | अभक्तिरित्यादि | अस्यार्थः- अभक्तिः मन्त्रेष्वक्षरबुद्ध्यादिरूपा | तदुक्तं कुलार्णवे द्वादशोल्लासे- गुरौ मनुष्यबुद्धिन्तु मन्त्रे चाक्षरभावनाम् | प्रतिमासु शिला- पृ० ७७) अभक्त्या नैव सिद्धिः स्यात् कल्पकोटिशतैरपि | एवं मन्त्रश्चान्यथा वा चेति भ्रान्त्या च वातुलः || ४४ || लुप्तवर्णे बुद्धिनाशश्छिन्ने नाशो भवेत् किल | ह्रस्वोच्चारे व्याधियुक्तो [दीर्घोच्चारे ङ |]दीर्घजापे वसुक्षयः[तथा भवेत् घ, वपुःक्षयः ह०त० |] || ४५ || कथने मृत्युमाप्नोति स्वप्नेऽपि [चैव ख-ग |]शृणु शैलजे | कालिकायाश्च ताराया मन्त्रोऽपि ज्वलदग्निवत् || ४६ || विप्ररूपेण[-जपेन ख-ग |] [देवोऽपि ह०त० |]देवेन प्रेमभावेन चेतसा | यदि [मन्त्रो क-घ-ङ |]मन्त्रं हरेद् देवि शृणु साधकलक्षणम् || ४७ || सर्व्वाङ्गे वै भवेज्ज्वाला देहमध्ये विशेषतः | तोये [सत्यं ख-ग |]शैत्यं न जायेत तथैवौषधसेवने || ४८ || सदा वातुलवत् सर्व्वं प्रत्यक्षे [-श्वर- ङ |]स्वप्नवद्भवेत् | वर्षमध्ये त्रिवर्षे वा मृत्युस्तस्य न संशयः || ४९ || श्रीचण्डिकोवाच- मन्त्रच्छन्नं[-च्छिन्ना घ |] चाष्टविधं तव वक्त्राच्छ्रुतं मया | यदि दैवाद् भवेद् देव तस्योपायं वदस्य मे || ५० || ------------------- बुद्धिं कुर्व्वाणो नरकं व्रजेत् || इति | देवतान्तरमन्त्रप्रशंसया स्वमन्त्रस्याफलत्वबुद्ध्यादिरूपा च || १ || अक्षरे भ्रान्तिः-गुरोः शिष्यस्य वा भ्रान्त्या मन्त्रेषु वर्णवैपरीत्यं वर्णाधिक्यञ्च || २ || लुप्तः-मन्त्रेषु वर्णन्यूनत्वम् || ३ || छिन्नः-मन्त्रान्तर्गत-युक्तवर्णैकदेशन्यूनत्वम् || ४ || ह्रस्वः-दीर्घस्थाने ह्रस्वप्रयोगः || ५ || दीर्घः-ह्रस्वस्थाने दीर्घप्रयोगः || ६ || यद्यप्येतद्दोषयोरक्षरभ्रान्त्यन्तर्भूतत्वेन पौनरुक्त्यं स्यात्, तथापि पृथकप्रायश्चित्तस्य वक्ष्यमाणत्वाद् अक्षरभ्रान्तिस्तदितरविषया || ६ || कथनम्-अन्येषु स्त्रीयमन्त्रप्रकाशः || ७ || स्वप्नेत्विति-स्वप्ने ब्राह्मणरूपिदेवेन स्वीयमन्त्रस्य प्रहरणं प्रकर्षेण हरणं तस्मिन् स्वीयमन्त्रप्रकाश इति यावत् | इति | पृ० ७८) श्रीशङ्कर उवाच- बहुजापात् तथा होमात् कायक्लेशादिविस्तरात् | यदि भक्तिर्भवेद् देवि तस्य सिद्धिरदूरतः || ५१ || गुरुणा तत्सुतेनैव साधकेन वरानने | अक्षरे दूषणं [छित्त्वा घ |]हित्वा पुनर्मन्त्रं प्रकाशयेत् || ५२ || [ङ-पुस्तके गुरुणेत्यादि प्रकाशयेदित्यन्तः श्लोको नास्ति |]गुरुणा तत्सुतेनैव साधकेन समाहितः | लुप्तवर्णं समुत्थाप्य पुनर्मन्त्रं प्रकाशयेत् || ५३ || चक्रभेदेन [षट्केन ख-ग-ह०त० |]षट्कोणं तथैव योनिमुद्रया | एकोच्चारे जपेन्मन्त्रं लक्षमेकं वरानने | गुर्व्वादिना महेशानि [छिन्नदोषं क |]छिन्नदोषनिकृन्तनम् || ५४ || गुरुणा लक्षजापेन तन्मन्त्रं श्रावयेत् त्रिधा | [दूषणे ह०त० |]दूषणं ह्रस्वदीर्घस्य [शान्तिर्यातो क, शान्तिर्जायते घ |]शान्तिश्चात्र न संशयः || ५५ || गुरुणा तत्सुतेनैव साधकेनैव शैलजे | उक्तमार्गेण देवेशि [जपेल्लक्षं क-ङ |]जपेल्लक्षचतुष्टयम् || ५६ || तद्दशांशं हुनेत् पश्चात् तर्पणादि समाचरेत् || ५७ || ------------------- ५१ | अभक्तिजन्यदोषशान्तिमाह-बहुजापादित्यादि (१) ५२ | अक्षरभ्रान्तिजन्यदोषशान्तिमाह-गुरुणेत्यादि (२) ५३ | लुप्तदोषशान्तिमाह-गुरुणा तदिति (३) ५४ | छिन्नदोषशान्तिमाह-चक्रभेदेनेति (४) ५५ | ह्रस्वदीर्घदोषशान्तिमाह-गुरुणेति (५-६) ५६ | कथनदोषशान्तिमाह-गुरुणा तदिति (७) पृ० ७९) [ततो यदि च नैवाभूत् ख-ग |]ततोऽपि यदि नैवाभूत् साधकः स्थिरमानसः | चतुर्गुणं हि कर्त्तव्यं शिष्यस्य मुक्तिहेतवे || ५८ || यदि मृत्युर्भवेत् तस्य तथापि मुक्तिभाग् भवेत् | कथनस्य दोषशान्तिर्भवत्येव न संशयः || ५९ || स्वप्नेऽपि मन्त्रकथने [श्मशानसाधनञ्चरेत् ख-ग-घ |]श्मशाने चैव शैलजे | [ख-ग-पुस्तकयोः उक्तमार्गेणेत्यादि पूजनञ्चरेदित्यन्तो भागो नास्ति |]उक्तमार्गेण देवेशि जपेल्लक्षं चतुष्टयम् || ६० || तद्दशांशं हुनेत् पश्चात् तर्पणादि समाचरेत् | ततोऽपि यदि नैवाभूत् साधकः स्थिरमानसः || ६१ || चतुर्गुणं हि कर्त्तव्यं पूर्व्वोक्तं पूजनञ्चरेत् | [कुजवारे शनौ वारे ख-ग, घ-ङ-पुस्तकयोः कुजे वेत्यादि पद्यार्द्धभागो नास्ति |]कुजे वा शनिवारे वा प्रथमे गमनञ्चरेत् | सप्ताहं वा [जपेत् ह०त० |]यजेद् देवीं तुरीयं वादिनं यजेत् || ६२ || श्मशानसाधनं वक्ष्ये [शृणुष्वैकाग्र- घ |]शृणु चैकाग्रचेतसा | स्वर्णं रौप्यं तथा वस्त्रं दत्त्वा वरणमाचरेत् || ६३ || स्वर्णपीठं प्रदातव्यं [ख-ग-पुस्तकयोः चतुरङ्गुलिविस्तृतं भोगयोग्यं प्रदातव्यं इति भागो नास्ति |]चतुरङ्गुलिविस्तृतम् | भोगयोग्यं प्रदातव्यं मधुपर्कं [यथोचितम् ह०त० |]यथोदितम् || ६४ || राजपत्नी येन तुष्टा तोषयेत् तेन वाससा | अलङ्कारं यथायोग्यं तत्र तत्र[तस्य ख-ग |] [निवेदयेत् ङ |]नियोजयेत् || ६५ || ---------------- ६० | स्वप्ने स्वीयमन्त्रप्रकाशजनितदोषशान्तिमाह-स्वप्नेऽपीति (८) पृ० ८०) नैवेद्यं विविधं रम्यं नानाद्रव्यसमन्वितम् | सामिषान्नं गुडं छागं सुरापिष्टकपायसम् || ६६ || [भोगद्रव्यं ह०त० |]भोग्यद्रव्यं जले दद्याद्[सर्व्वं क-घ-ङ |] यदि भोक्ता न तिष्ठति | एवं पूजां [समर्प्यादौ ख-ग |]समाप्यादौ शिवपूजां समाचरेत् || ६७ || षोडशैरुपचारैश्च [लिङ्गन्तु चैक- क-ख-ग, लिङ्गञ्च एक- घ |]लिङ्गानाञ्चैकविंशतिम् | अष्टोत्तरशतेनैव बिल्वपत्रैः सचन्दनैः || ६८ || प्रत्येकं [प्रजपेन्मन्त्रं ह०त० |]पूजयेन्मन्त्रं [गजान्तर- क |]गजान्तकसहस्रकम् | सहस्रं होमयेत् पश्चाद् बिल्वपत्रैर्वरानने || ६९ || एवं [एवं कृत्वा घ |]कृते लभेच्छान्तिं दीर्घायुर्नात्र संशयः || ७० || इति श्रीमातृकाभेदतन्त्रे [चण्डिकाशङ्कर- घ |]हरगौरीसंवादे [त्रयोदशः ख-ग |]द्वादशः पटलः || १२ || ----------------- ६९ | प्रत्येकमित्यादि | एकविंशतिशिवलिङ्गानि सचन्दनाष्टोत्तरशतबिल्वपत्रैः प्रत्येकं पूजयित्वा शिवषडक्षर-मन्त्रमष्टोत्तरसहस्रं जपेत् | ततश्च साज्यबिल्वपत्रैः सहस्रं जुहुयात् | विशेषेण कथनाद् दशांशबाधः | इति | ७० | एवं कृत इति | अत्रापि स्वस्यासामर्थ्ये गुर्वादिनैतत् कारयितव्यमिति बोध्यम् | पृ० ८१) त्रयोदशः पटलः | श्रीचण्डिकोवाच- शृणु नाथ परानन्द परापरजगत्पते | इदानीं श्रोतुमिच्छामि मालायाः[-यां ङ |] कीदृशो जपः | [किं मानं क-घ-ङ |]का माला कस्य देवस्य तद् वदस्व समाहितः || १ || श्रीशङ्कर उवाच- वैष्णवे तुलसीमाला गजदन्तैर्गणेश्वरे | कालिकाया [महामन्त्रो जपेद्दन्ताख्य- क |]महामन्त्रं जपेद् रुद्राक्षमालया || २ || तारायाश्च जपेन्मन्त्री महाशङ्खाख्यमालया | महाशङ्खाख्यमालायां सर्व्वां विद्यां जपेत् सुधीः || ३ || -------------- २ | वैष्णव इत्यादि | अत्र प्रमाणम्- सुवर्णमणिभिर्मालां स्फाटिकीं शङ्खनिर्मिताम् | प्रवालैरेव वा कुर्ययात् पुत्रजीवं विवर्ज्जयेत् || पद्माक्षञ्चैव रुद्राक्षं भद्राक्षञ्च विशेषतः | रक्तचन्दनमाला तु भोगदा मोक्षदा भवेत् || वैष्णवे तुलसीमाला गजदन्तैर्गणेश्वरे | त्रिपुराया जपे शस्ता रुद्राक्षै रक्तचन्दनैः | इति मुण्डमालातन्त्रोक्तं संवदत्यत्र | तत्रापि मणिसंख्यामाह योगिनीतन्त्रे- मणिसंख्यां महादेवि मालायाः कथयामि ते | पञ्चविंशतिभिर्मोक्षं पुष्ट्यै तु सप्तविंशतिः || त्रिंशद्भिर्धनसिद्धिः स्यात् पञ्चाशन्मन्त्रसिद्धये | अष्टोत्तरशतैः सर्वसिद्धिरेव महेश्वरि || ......दन्तमाला जपे कार्यया गले धार्यया नृणां शुभा | दशनैर्यदि कर्त्तव्या संख्या दन्तस्य ते प्रिये || इति | ३ | ताराया इत्यादि | अत्र संवादि प्रमाणं मुण्डमालायाम्- महाशङ्खमयी माला नीलसारस्वते विधौ | इति | ताराकल्पेऽपि- अचिराद् विहिता सिद्धिर्महाशङ्खाख्यमालया | महाशङ्खमयी माला ज्ञेया तारामनौ प्रिये || इति च | उक्तञ्च नित्यातन्त्रे प्रथमपटले- समाश्रित्य महाशङ्खमालां वीरपदं व्रजेत् | इति | पृ० ८२) अकस्माद् वै महासिद्धिर्महाशङ्खाख्यमालया | तथैव [सकलां विद्यां क-घ-ङ |]सकला विद्या महाशङ्खे वसेत् [प्रिये ङ |]सदा || ४ || [स्फाटिकीं क-घ-ङ |]स्फाटिकी सर्व्वदेवस्य [पुराणैः घ |]प्रवालैः सकलां जपेत् | स्वर्णरौप्यसमुद्भूतां[-भूतं क-घ-ङ |] सर्व्वदेवेषु योजिताम्[-तम् घ-ङ |] || ५ || कालिकायाश्च सुन्दर्यया [रुद्राक्षे ख-ग |]रुद्राक्षैः प्रजपेत् सदा | भैरव्याः प्रजपेन्मन्त्री[-न्मन्त्रं ङ |] शङ्खपद्माख्यया[-ख्ययोः ख-ग |] प्रिये || ६ || [श्मशानधुस्तुरै- ख-ग, श्मशानधुस्तुरभवां ङ |]श्मशाने धुस्तुरैर्मालां जपेद् धूमावतीविधौ | इति ते कथितं कान्ते महामालाविनिर्णयम्[-र्णयः ख-ग |] || ७ || अथ ग्रन्थिं प्रवक्ष्यामि शृणु कान्ते समाहिता[-हितः क |] || येन माला सुसिद्धा च [सर्वेप्सितफलप्रदा ङ |]नृणां सर्व्वफलप्रदा || ८ || ----------- अत एव महेशानि अस्थिमाला गले मम | इति च | योगिनीतन्त्रे द्वितीयपटलेऽपि- वर्णमाला शुभा प्रोक्ता सर्वमन्त्रप्रदीपनी | तस्याः प्रतिनिधिर्देवि महाशङ्खमयी शुभा | महाशङ्खः करे तस्य सिद्धिरदूरतः | तदभावे वीरवन्द्ये स्फाटिकी सर्व्वसिद्धिदा || इति | ४ | अकस्मादित्यादि | अत्र च संवादि प्रमाणमुक्तं गुप्तसाधनतन्त्रे एकादशपटले- महाशङ्खाख्यमालायां यो जपेत् साधकोत्तमः | अणिमादिविभूतीनामीश्वरो नात्र संशयः || ......यदि भाग्यवशाद् देवि महाशङ्खञ्च लभ्यते | स सिद्धः स गणः सोऽपि स च विष्णुर्न संशयः || तदैव सहसा सिद्धिर्नात्र कार्यया विचारणा || इति | ७ | श्मशान इत्यादि | अत्र संवादि प्रमाणमुक्तं मुण्डमालातन्त्रे- श्मशानधुस्तुरैर्माला ज्ञेया धूमावतीविधौ | इति | ८ | अथ ग्रन्थिमित्यादि | ग्रन्थौ सूत्रादिनियममप्याह सनत्कुमारतन्त्रे- कार्पाससम्भवं सूत्रं धर्म्मकामार्थमोक्षदम् | तच्च विप्रेन्द्रकन्याभिर्निर्म्मितञ्च सुशोभनम् || श्वेतं रक्तं तथा कृष्णं पट्टसूत्रमथापि वा | शान्तिवश्याभिचारेषु मोक्षैश्वर्ययजयेषु च || शुक्लं रक्तं तथा पीतं कृष्णं वर्णेषु च क्रमात् | सर्व्वेषामेव वर्णानां रक्तं सर्व्वेप्सितिप्रदम् || पृ० ८३) मालायाश्चाधिका[-श्चाधिकां क |] कान्ते [ग्रन्थिचैकां क |]ग्रन्थिश्चैका फलप्रदा | एकपञ्चाशिकायाञ्च मालायां परमेश्वरि || ९ || [-ग्रन्थियुतां मातां सा- ग, ग्रन्थिं युग्मवाणसार्द्धत्रि- क-घ-ङ |]ब्रह्मग्रन्थियुतां मालां सार्द्धद्वितयवेष्टिताम्[-वेष्टिती ङ |] | सपादवेष्टनं देवि नागपाशं मनोहरम् || १० || सर्व्वदेवस्य मालायां सर्व्वत्र परमेश्वरि | ब्रह्मग्रन्थिं विधायेत्थं नागपाशमथापि वा || ११ || [मालायामधिकां ख-ग, मालायाश्चाधिकां ङ |]मालायां त्वधिकां देवि चैकां ग्रन्थिं प्रदापयेत् | मूलेन [ग्रथनं ख-ग |]ग्रथितं कुर्यात् प्रणवेनाथवा प्रिये || १२ || ------------------ त्रिगुणं त्रिगुणीकृत्य ग्रथयेच्छिल्पशास्त्रतः | एकैकं मातृकावर्णं सतारं प्रजपन् सुधीः || मालामादाय सूत्रेण ग्रथयेन्मध्यमध्यतः | ब्रह्मग्रन्थिं विधायेत्थं मेरुञ्च ग्रन्थिसंयुतम् || ग्रथयित्वा पुरो मालां ततः संस्कारमारभेत् || एकवीराकल्पे च- मातृकावर्णतो ग्रन्थिं विद्यया वाथ कारयेत् | सुवर्णादिगुणैर्वापि ग्रथयेत् साधकोत्तमः || इति | ग्रन्थिनियमश्च एकवीराकल्पे- ब्रह्मग्रन्थिं ततो दद्यान्नागपाशमथापि वा | इति | छन्दःसारेऽपि- त्रिरावृत्तिग्रन्थिकेन तथार्धेन विधीयते | सार्द्धद्वयावर्त्तनेन ग्रन्थिं कुर्ययाद् यथा दृढम् || कालिकापुराणे च- ब्रह्मग्रन्थियुतं कुर्ययात् प्रतिबीजं यथास्थितम् | अथवा ग्रन्थिरहितं दृढरज्जुसमन्वितम् || एवं निर्माय मालां वै शोधयेन्मुनिसत्तम || इति | ९ | मालाया इत्यादि | माला कीदृशी कर्त्तव्या इत्यपेक्षायामुक्तं गुप्तसाधनतन्त्रे एकादशपटले- गोपुच्छसदृशीं कुर्ययादथवा सर्परूपिणीम् | स्थूला सूक्ष्मा च पर्ययन्तं क्रमेण ग्रथनञ्चरेत् || मूलेन ग्रथनं कार्ययं प्रणवेनाथवा प्रिये | ब्रह्मग्रन्थिं प्रयत्नेन दद्यात् साधकसत्तमः || सूत्रद्वयं परेशानि मिलितं कारयेत् ततः | मेरुञ्च ग्रथनं कार्ययं तदूर्द्ध्वे ग्रन्थिसंयुतम् || समीपे गुरुदेवस्य संस्कारमाचरेत् सुधीः | स्थूलावधि जपेन्मन्त्रं सूक्ष्मभागे समापयेत् || पुच्छावधि जपाद् देवि सिद्धिहानिः प्रजायते || इति | पृ० ८४) [ग्रन्थिं मध्ये क-घ-ङ |]ग्रन्थिमध्ये [तु ङ |]च गुटिकां [कुर्ययाद्दन्ति- ङ |]कुर्ययादतिमनोहराम्[-मनोरमम् क-घ- |] | सूत्रद्वयं महेशानि [मीलनं ख-ग |]मिलनं कारयेत् ततः || १३ || मेरुञ्च ग्रथनं कुर्यात् तदूर्द्ध्वे ग्रन्थिसंयुतम् | एवं मालां विनिर्माय गोपयेद् बहुयत्नतः || १४ || कम्पनं धूननं शब्दं [नैवं ख-ग |]नैव तत्र प्रकाशयेत् | करभ्रष्टं तथा छिन्नं महाविघ्नस्य कारणम् || १५ || कम्पने सिद्धिहानिः स्याद् धूननं बहुदुःखदम् | शब्दे जाते [भवेद्रोगं ख-ग |]भवेद्रोगः [करभ्रष्टादि- क |]करभ्रष्टाद्विनाशकृत् || १६ || [छिन्ने सूत्रे ख-ग |]छिन्नसूत्रे भवेन्मृत्युस्तस्माद् यत्नपरो भवेत् | एवं ज्ञात्वा महेशानि शान्तिस्वस्त्ययनं चरेत् || १७ || -------------- १४ | मेरुञ्चेत्यादि | अत्र संवादि प्रमाणम् एकवीराकल्पे- कवचेनाथ बध्नीयान्मालां ध्यानपरायणः | सर्व्वशेषं ततो मेरुं सूत्रद्वयसमन्वितम् || ग्रथयेत् तारयोगेण बध्नीयात् साधकोत्तमः | इति | गौतमीये च- मुखे मुखञ्च संयोज्य पुच्छे पुच्छञ्च योजयेत् | गोपुच्छसदृशी माला यद्वा सर्पाकृतिर्भवेत् || मुखपुच्छनियमश्च छन्दःसारे- रुद्राक्षस्योन्नतं प्रोक्तं मुखं पुच्छन्तु निम्नगम् | कमलाक्षस्य सूक्ष्मांशं सबिन्दुद्वितयं मुखम् || सबिन्दुकस्य स्थूलांशं पुच्छं श्लक्ष्णमिति स्थितम् | एवं ज्ञात्वा मुखं पुच्छं रुद्राक्षाम्भोरुहाक्षयोः | तत्सजातीयमेकाक्षं मेरुत्वेनाग्रतो न्यसेत् | एकैकं मणिमादाय ब्रह्मग्रन्थिं प्रकल्पयेत् || एकैकं मातृकावर्णं ग्रथनादौ तु संजपेत् || इति | १५ | कम्पनमित्यादि | अत्र संवादि प्रमाणन्तु मालाशोधनमधिकृत्योक्तं योगिनीहृदये- होमकर्म ततः कुर्ययाद् देवताभावसिद्धये | अष्टोत्तरशतं हुत्वा सम्पाताज्यं विनिक्षिपेत् || होमकर्मण्यशक्तश्चेद् द्विगुणं जपमाचरेत् | नान्यमन्त्रं जपेन्मन्त्री कम्पयेन्न विधूनयेत् || कम्पनात् सिद्धिहानिः स्याद् धूननं बहुदुःखदम् | शब्दे जाते भवेद्रोगः करभ्रष्टा विनाशकृत् || छिन्ने सूत्रे भवेन्मृत्युस्तस्माद् यत्नपरो भवेत् | जपान्ते कर्णदेशे वा उच्चदेशेऽथवा न्यसेत् || इति | कम्पनं जपकत्तुः शरीरस्य, धूननं मालाया इति केचिद् व्याचक्षते | पृ० ८५) कम्पने यो जपेन्मन्त्रं यदि सिद्धिं प्रयच्छति | यत्नेन गुरुमानीय [द्वात्रिंशदुप- ख-ग-ङ |]द्वाविंशदुपचारतः || १८ || कुम्भस्थापनकं कृत्वा पूजयेदिष्टदेवताम् | ततो हुनेद् बिल्वपत्रैरष्टोत्तरशताहुतिम् || १९ || [त्रिमध्वोक्तेन क |]त्रिमध्वक्तेन विधिना धूननेऽपि च सुन्दरि | सशब्दे [जल्पमाने च ख-ग |]जपने चण्डि ह्येवं कुर्याद् विचक्षणः || २० || करभ्रष्टे तथा छिन्ने पुरश्चरणमाचरेत् | जपाद्यन्ते यजेद् देवीं षोडशैरुपचारकैः || २१ || ------------ २१ | करभ्रष्ट इत्यादि | अत्र- जीर्णे सूत्रे पुनः सूत्रं ग्रथयित्वा शतं जपेत् | प्रमादात् पतिता हस्ताच्छतमष्टोत्तरं जपेत् || जपेन्निषिद्धसंसर्गे क्षालयित्वा यथोदितम् | इति वैशम्पायनसंहितोक्तप्रमाणम् | छिन्ने सूत्रे पुनः सूत्रं ग्रथयित्वा शतं जपेत् | इति कुब्जिकातन्त्रोक्तप्रमाणञ्चोपजीव्य यदुक्तं तन्त्रसारकृता छिन्नेऽपि अष्टोत्तरशतजपः कार्ययः, करभ्रष्टच्छिन्नयोस्तुल्यत्वादिति, तत्तु ग्रन्थमेतमनालोच्यैवेति सुधीभिश्चिन्तनीयम् | पुरश्चरणमिति |- पुरश्चरणविधिश्चोक्तस्तन्त्रसारे- कुलार्णवे ...एवं जपं पुरा कृत्वा गन्धाक्षतकुशोदकैः | जपं समर्पयेद् देव्या वामहस्ते विचक्षणः || जपान्ते प्रत्यहं मन्त्री होमयेत् तद्दशांशतः | तर्पणञ्चाभिषेकञ्च तत्तद्दशांशतो मुने || प्रत्त्यहं भोजयेद् विप्रान् न्यूनाधिकप्रशान्तये || तथा होमाद्यशक्तौ च योगिनीहृदये-होमकर्म्मण्यशक्तानां विप्राणां द्विगुणो जपः | इत्यादिना | गन्धर्व्वतन्त्रेऽष्टाविंशतिपटले च- ...जपसंख्यादशांशतः | यथोक्तविहिते कुण्डे जुहुयात् संस्कृतेऽनले || अथवा प्रत्यहं जप्त्वा जुहुयात् तद्दशांशतः | तथा होमदशांशन्तु जले सम्पूज्य देवताम् || तर्पयामीति मन्त्रान्ते प्रोक्ताभिर्मूर्द्ध्नि तर्पयेत् | जपो होमस्तर्पणञ्च पूजा ब्राह्मणभोजनम् || पूर्व्वपूर्व्वदशांशेन कुर्ययात् पञ्चाङ्गसंयुतम् | स्वाभिषेकाघमर्षौ च सूर्ययार्घ्यं जलपानकम् || प्राणायामं ततः कुर्ययात् पूर्व्वपूर्व्वदशांशतः | दशाङ्गोपासनं भक्त्या पुरश्चरणमुच्यते || तत् पुरश्चरणं नाम मन्त्रसिद्ध्यर्थमात्मनः | यथोक्तं नियमं कृत्वा स्वकल्पोक्तजपस्य च || करणं विजयान्तं तत् प्रोक्तं देशिकसत्तमैः | तदन्ते महतीं पृ० ८६) प्रत्यहं प्रजपेन्मन्त्रं प्रत्यहं बलिदानकम् | पञ्चाङ्गस्य प्रमाणेन सर्वकर्म्म समापयेत् || २२ || दरिद्रः परमेशानि यदि विघ्नपरायणः | आद्यन्ते महतीं पूजां [कुर्ययात् साधकसत्तमः ङ |]दिक्सहस्रं जपेन्मनुम् || २३ || सहस्रैकं हुनेत् पश्चात् [सर्वविघ्नोपशान्तये ख-ग |]सर्वविघ्नस्य शान्तये | कुम्भतोयैः स्नापयित्वा पुनर्मालां प्रदापयेत् || २४ || [ह्यने- क-घ |]अनेनैव विधानेन विघ्नजालैर्न लिप्यते || २५ || इति श्रीमातृकाभेदतन्त्रे हरगौरीसंवादे [चतुर्दशः ख-ग |]त्रयोदशः पटलः || १३ || ------------ पूजां कुर्ययाद् ब्राह्मणभोजनम् | गुरुं सन्तोषयेदेवं मन्त्राः सिद्ध्यन्ति मन्त्रिणः | होमकर्म्मण्यशक्तानां विप्राणां द्विगुणो जपः || इति | २३ | दिक्सहस्रमिति-दशसहस्रमित्यर्थः | २४ | सहस्रैकमिति | अत्रापि होमाद्यशक्तौ होमसंख्याद्विगुणजपादिकं कर्त्तव्यमिति बोध्यम् | पृ० ८७) चतुर्द्दशः पटलः | श्रीचण्डिकोवाच- मन्त्रधारणमात्रेण तत्क्षणे[-क्षणात् ख-ग |] तन्मयो भवेत् | जीवात्मा कुण्डलीमध्ये प्रदीपकलिका यथा || १ || निजेष्टदेवतारूपा देहसंस्था च कुण्डली | भुज्यते सैव देहस्था का चिन्ता साधकस्य च | तन्मे ब्रूहि महादेव यद्यहं तव वल्लभा || २ || [क-पुस्तके श्री नास्ति |]श्रीशङ्कर उवाच- [भोगन्तु त्रिविधं क |]भोगस्तु त्रिविधो देवि दिव्यवीरपशुक्रमात् | निर्लिप्तो दिव्यभावस्थः कुण्डली भुज्यते [यदा ङ |]यदि || ३ || आजिह्वान्ता कुण्डलिनी वीरस्य वीरवन्दिते[-वल्लभे ङ |] | महादेव्याः प्रीतये च प्रसादं भुज्यते पशुः || ४ || द्विजातेर्दिव्यभावश्च[-भावेश क |] सदा निर्वाणदायकः | विप्रो वीरश्च निर्वाणी भवत्येव न संशयः || ५ || सायुज्यादि महामोक्षं नियुक्तं क्षत्रियादिषु | पशुना भक्तियुक्तेन प्रसादं भुज्यते यदि || ६ || स्वर्गभोगी[-भागी ङ |] भवत्येव मरणे नाधिकारिता | जन्मान्तरमवाप्नोति महादेव्याः प्रसादतः || ७ || ------------ ३ | भोगस्त्वित्यादि | रुद्रयामले षष्ठपटले भावत्रयमुक्तमनुलोमक्रमेण, यथा- आदौ भावं पशोः कृत्वा पश्चात् कुर्ययादवश्यकम् | वीरभावं महाभावं सर्व्वभावोत्तमोत्तमम् || तत्पश्चादतिसौन्दर्ययं दिव्यभावं महाफलम् | कुर्ययाद् भावत्रयं दिव्यं भावसाधनमुत्तमम् || इति | अत्र च भावस्य प्रातिलोम्येन कथनेऽपि क्रमशब्दोपादानं भोगस्य क्रमापकर्षज्ञापनार्थम् | तथाच दिव्यभावे सर्व्वोत्कर्षेण भोगः, ततः क्रमेण तस्य ह्रास इति सुधीभिर्व्विवेच्यम् || पृ० ८८) दिव्यवीरमते दृष्टिर्जायते नात्र संशयः | दिव्यवीरप्रसादेन निर्वाणी नात्र संशयः || ८ || प्रसादभोगी यो देवि स पशुर्नात्र संशयः | मरणे नाधिकारोऽस्ति पशुभावस्थितस्य च || ९ || नैव मुक्तिर्भवेत् तस्य जन्म [नाप्नोति क |]चाप्नोति निश्चितम् || १० || श्रीचण्डिकोवाच- वद मे परमेशान दिव्यवीरस्य [सम्मतम् ख-ग |]लक्षणम् | यत् कृते दिव्यवीरस्य महामुक्तिर्भविष्यति || ११ || श्रीशङ्कर उवाच- साक्षाद् ब्रह्ममयी देवी चाभिशप्ता च वारुणी | शापमोचनमात्रेण [ब्रह्मरूपधरा ख-ग |]ब्रह्मरूपा सुधा परा || १२ || निवेदनान्महादेव्यै तत्तद् देवी भवेत् किल | मूलाधारात् कुण्डलिनीमाजिह्वान्तां [हि भावयेत् ख-ग |]विभावयेत् || १३ || -------------- ८ | दिव्यवीरेत्यादि | दिव्यस्य वीरस्य च लक्षणमुक्तं कामाख्यातन्त्रे चतुर्थपटले- दिव्यः सर्व्वमनोहारी मितवादी स्थिरासनः | गभीरः श्लिष्टवक्ता च शतावधानकः सुखी || गुरुपादाम्बुजे भीरुः सर्व्वत्र भयवर्ज्जितः | सर्व्वदर्शी सर्व्ववक्ता सर्व्वदुष्टनिवारकः || सर्व्वगुणान्वितो दिव्यः सोऽहं किं बहुवाक्यतः || इति | निर्भयो भयदो वीरो गुरुभक्तिपरायणः | वाचालो बलवाञ्छुद्धः पञ्चतत्त्वे सदा रतिः || महोत्साहो महाबुद्धिर्महासाहसिकोऽपि च | महाशयः सदा देवि साधूनां पालने रतः || तमोमयः सदा वीरो विनयेन महोत्सुकः | एवं बहुगुणैर्युक्तो वीरो रुद्रः स्वयं प्रिये || इति च | ९| प्रसादेत्यादि | अत्र संवादि प्रमाणमुक्तं कामाख्यातन्त्रे चतुर्थपटले- य उक्तः पशुभावो हि कलौ कस्तस्य पालकः | पञ्चतत्त्वं न गृह्णाति तत्र निन्दां करोति न || शिवेन गदितं यत्तु तत् सत्यमिति भावयन् | ......यदि चंक्रमणे शक्तः खडगधारे सदा नरः | पश्वाचारं सदा कुर्ययात् किन्तु सिद्धिर्न जायते || इत्यादि | पृ० ८९) तन्मुखे दानमात्रेण [साधको ज्ञानवान् ङ |]ज्ञानवान् साधको भवेत् | यथैव कुण्डली देवी देहमध्ये व्यवस्थिता || १४ || तथैव [चाबलां ख-ग |]वारुणीं ध्यायेत् [कलाद्धें ख-ग, सकलाङ्गे क |]कलाङ्गे स्वेष्टदेवताम् | कुण्डल्या [मध्यभागे तु ङ |]समभावेन शक्तिवक्त्रे प्रदापयेत् || १५ || [आत्मोत्सृष्टं ख-ग |]आत्मोच्छिष्टं महापूतं तन्मुखात् परमामृतम् | अवश्यमेव गृह्णीयात् [तदात्मानं ख-ग, तद्वक्त्रेन ङ |]तादात्म्येन वरानने || १६ || उत्सृष्टादिविचारोऽपि कदाचिन्नास्ति ब्रह्मणि | गङ्गातोयं परं ब्रह्म प्रसादं [कस्यचिद् वद ङ |]कस्य तद् वद || १७ || गङ्गासागरतोयं वा प्रसादं कस्य वा भवेत् | शृणु [जाये महामाये ख-ग |]देवि प्रवक्ष्यामि तज्जले स्नानमात्रतः || १८ || मुक्तिभागी भवेन्मर्त्यः[-र्त्त्यस्तज्जले चावगाहनात् ख-ग, -र्त्त्योजले स्नानावगाहनात् ङ |] स्नानावगाहनात् किल | [पदादि- ख-ग |]पादादिमस्तकान्तं वै स्नानकाले प्रमज्जति || १९ || पादस्पर्शो[-स्पर्शे न दोषाय ख-ग |] न दोषाय परंब्रह्मणि शैलजे | परमात्मनि लीने च तथैव परमेश्वरि || २० || ----------------- १५ | शक्तिवक्त्रे इति | अत्र विशेषस्तु निरुत्तरतन्त्रे पञ्चमपटले- निजशक्तिं विना देवि शक्त्युच्छिष्टं पिबेद् यदि | रौरवे नरके घोरे यावदिन्द्राश्चतुर्द्दश || एकासने वसेद् यस्तु भुञ्जीत चैकभाजने | परस्परमुखस्पर्शे स याति नरकं ध्रुवम् || एकासनस्थो यो वीरो दिव्यो वा कुलसुन्दरि || सुधां पीत्वा वीरचक्रे रौरवं नरकं व्रजेत् || महासिद्धीश्वरो वापि भुङ्क्ते पीत्वा परस्परम् | सिद्धिहानिं पुरस्कृत्य स याति नरकं ध्रुवम् || विना शक्तिं पिबेद् द्रव्यं वीरो गुरुपरायणः | तथापि नरके घोरे पतत्येव न संशयः | शक्त्यभावे कुलेशानि तद् द्रव्यं जलतः क्षिपेत् | गुर्वभावे च तद् द्रव्यं जलतो विनिवेदयेत् | इति || पृ० ९०) इति ते कथितं [कान्ते ख-ग |]देवि दिव्यवीरस्य लक्षणम् | [योनि- ख-ग, वीरतन्त्रेऽपि ङ |]वीरतन्त्रे च कथितं माहात्म्यं प्राणवल्लभे || २१ || शृणु देवि प्रवक्ष्यामि [वीरिकायाश्च ख-ग |]साधिकायाश्च लक्षणम् | दिव्यशक्तिर्वीरशक्तिर्गुरुशक्तिस्तथा परा || २२ || कुलशक्तिः कामिनी च नवशक्तिः कुमारिका | श्रीगुरुं पूजयेद् भक्त्या स्वदेहदानपूर्व्वकम् || २३ || अन्यथा [तस्य देहस्य ख-ग |]तु स्वदेहस्य निग्रहो जायते ध्रुवम् || सप्तजन्मनि सा देवी [पुंश्चली जायते ध्रुवम् ङ |]पुक्कसी पतिवर्ज्जिता || २४ [अत्रैव ङ-पुस्तके चतुर्दशः पटलः समाप्तो जात इति ||]|| शिवं [नत्वा ख-ग |]मत्वा स्वकान्तञ्च पूजासाधनमाचरेत् | कदाचिन्न यजेच्चान्यं पुरुषं परमेश्वरि || २५ || अन्यस्य यजनाच्चण्डि सर्वनाशो भवेद् ध्रुवम् | [कान्तस्यायुक्तहीनत्वं क |]कान्तस्यायुर्विहीनत्वं [पुत्राणां नाशमाप्नुयात् ख-ग-कटीप्पनी |]विपत्तिञ्च पदे पदे || २६ || धननाशो भवेन्नित्यं देव्याः [क्रोधेश क |]क्रोधश्च जायते | अवश्यं पूजयेन्नित्यं गुरुदेवं सनातनम् || २७ || भद्राभद्रविचारञ्च[विचारोऽपि क |] या करोति गुरुस्थले | तस्या मन्त्रं क्रोधयुक्तं [-त्तिञ्च क |]विपत्तिश्च पदे पदे || २८ || वरं जनमुखान्निन्दा वरं प्राणान् परित्यजेत् | तथापि [पूजयेच्चैवं ख-ग |]पूजयेद् देवं साक्षान्निर्वाणदायकम् || २९ || पृ० ९१) सदा भयञ्च[भक्तिञ्च ख-ग |] कापट्यं वर्जयेद् गुरुपूजने || ३० || श्रीगुरोस्तेजसं भक्त्या यदि धारणमाचरेत् | सत्यं सत्यं [महेशानि क |]पुनः सत्यं काशी सा नात्र संशयः || ३१ || अभक्त्या परमेशानि यदि धारणमाचरेत् | जपपूजादिकं [तस्य वर्द्धते तेजसाधिकम् ख-ग |]तस्याः सन्दहेत् तेन तेजसा || ३२ || श्रीचण्डिकोवाच- सपत्नीकं यजेद् देवं गुरुं निर्वाणदायकम् | [तस्याः ख-ग |]तस्य सङ्गं परित्यज्य कथमात्मनियोजनम् || ३३ || श्रीशङ्कर उवाच- शृणु देवि प्रवक्ष्यामि गुरोराज्ञानुसारतः | धारयेत् तेजसं भक्त्या स्वयं लिप्साविवर्ज्जिता || ३४ || गुरुपत्न्याश्चात्मजश्च श्रीगुरो[-रात्मयोषितः ख-ग |]रात्मजो यतः | गुरुपत्नी गुरुः साक्षाद् गुरुपुत्रो न संशयः || ३५ || एकस्य पूजनात् कान्त उभयोः पूजनं भवेत् | गुरुपुत्रो गणेशश्च गुरुपुत्रः षडाननः || ३६ || एकं गुरुसुतं कान्ते पूजने या सदा रता | अन्यं गुरुसुतं कान्ते पूजयेन्न कदाचन || ३७ || वीरं वा दिव्यमूर्त्तिं वा कदाचिन्न हि [पूजनात् ख-ग |]पूजयेत् | एकस्य पूजनाद् देवि महासिद्धीश्वरो भवेत् || ३८ || उभयोस्त्रीणि चत्वारि या नारी पूजनञ्चरेत् | तस्याः समस्तं विफलं ध्यानादि-जप-पूजनम् || ३९ || पृ० ९२) यदि भाग्यवशाद् देवि एकं गुरुसुतं लभेत् | मनोज्ञं शास्त्रवेत्तारं निग्रहानुग्रहे रतम्[तरम् क |] || ४० || सुन्दरं यौवनोन्मत्तं गुरुतुल्यं [न संशयः ख-ग |]जितेन्द्रियम् | प्राणान्तेऽपि च कर्त्तव्यं पूजनं मोक्षदायकम् || ४१ || नो यजेद् यदि मोहेन सैव [पापालया ख-ग |]पापमयी भवेत् || ४२ || इति श्रीमातृकाभेदतन्त्रे हरगौरीसंवादे [पञ्चदशः ख-ग |]चतुर्द्दशः पटलः || १४ || पृ० ९३) अथ श्रीमद्गुरुपादुकास्तोत्रम् | ब्रह्मरन्ध्रसरसीरुहोदरे नित्यलग्नमवदातमद्भुतम् | कुण्डलीविवरकाण्डमण्डितं द्वादशार्णसरसीरुहं भजे || १ || तस्य कन्दलितकर्णिकापुटे कॢप्तरेखमकथादिरेखया | कोणलक्षितहलक्षमण्डलीभाव[लक्ष्य- प्रा, ट |]लक्ष[-मबला- प्रा, ट |]ममलालयं भजे || २ || तत्पुटे[पुट- प्रा |] पटुतडित्कडारिमस्पर्द्धमानमणिपाटलप्रभम् | चिन्तयामि हृदि चिन्मयं वपु[-र्नादबिन्दु- ट |]र्बिन्दुनादमणिपीठमण्डलम् || ३ || ऊर्द्ध्वमस्य हुतभुक्शिखासखं[-त्रयं ट |] तद्विलासपरिबृंहणास्पदम् | विश्वघस्मर[-महोत्सदोत्कटं प्रा, -महोच्चिदोत्- ट |]महोत्सवोत्कटं व्यामृषामि युगमादिहंसयोः || ४ || तत्र नाथचरणारविन्दयोः कुङ्कमासव[-परी- ट |]झरीमरन्दयोः[-ममन्दयोः ] | द्वन्द्वमिन्दुकरकन्दशीतलं मानसं स्मरति मङ्गलास्पदम् || ५ || निषक्तमणिपादुकानियमिताघकोलाहलं स्फुरत्किशलयारुणं नखसमुल्लसच्चन्द्रकम् | परामृतसरोवरोदितसरोजसद्रोचिषं भजामि शिरसि स्थितं गुरुपदारविन्दद्वयम् || ६ || पादुकापञ्चकस्तोत्रं पञ्चवक्त्राद् विनिर्गतम् | षडाम्नायदलोपेतं[फलप्राप्तं ट फलं- प्रा |] प्रपञ्चे चातिदुर्लभम् || ७ || इति श्रीमातृकाभेदतन्त्रे सर्वतन्त्रोत्तमोत्तमे हरगौरीसंवादे श्रीशिववक्त्राद् विनिर्गतं श्रीमद्गुरुपादुकास्तोत्रं समाप्तम् | ------------- १ | स्तोत्रमिदं कुलमूलावतारकल्पसूत्रटीकायामिति प्राणतोषण्यामुक्तम् | तत्रादौ श्लोकोऽयमधिको वर्त्ततेः- आदि कादि किल थादितारकं वर्णमण्डलमखण्डसिद्धिदम् | अन्तरुल्लसितहक्षलाक्षरं लक्षयन्ति पशवः कथं शिवे | ########### END OF FILE #######