#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00341 Uniform title: mātṛkācakraviveka Author : svatantrānandanatha Editor : Pandit Lalita Prasada Dabral Description: Volume 50 of the Princess of Wales Saraswati Bhavana Texts. Edited and with an introduction by Pandit Lalita Prasada Dabral. Notes: Data entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: Februrary 21, 2016 Publisher : Princess of Wales Saraswati Bhavana Texts Publication year : 1934 Publication city : Benares Publication country : India #################################################### || श्रीः || मातृकाचक्रविवेकः | स्वतन्त्रानन्दनाथ विरचितः प्रथमः खण्डः | जाग्रत्सुषुप्तिकृतदक्षिणवामभागां स्वप्नस्वभावपरिकॢप्तजघन्यभागाम् | इह खलु परमशिवभट्टारकस्य प्राणभूतया विद्याविद्योभयचमत्कारमयया स्वरसवाहिन्या विमर्शशक्त्या समुन्मीलितासु बाह्याभ्यन्तरविविधविचित्रसिद्धान्तविप्रतिपत्तिषु विलुठतो लोकस्यानुग्रहाय शिवप्रयुक्तः स्वतन्तानन्दनामा महासिद्धः स्वरसिद्धतया निखिलवाङ्मयनिदानतया च महाप्रमाणस्य मातृकामहामन्त्रस्यार्थोपदेशेन निखिलसंशयनिरासनिराकुलं परमार्थस्वरूपं निरूपयितुकाम आदौ महामन्त्रार्थरूपिणीं भगवतो महादेवस्य महाशक्तिं ग्रन्थस्य पारम्पर्यप्रवृत्तिरूपाभीष्टसिद्धये परामृशति-जाग्रदित्यादि | सुप्तिनिवृत्तौ घटपटादीनां चिद्वेदनानुसन्धानदशा जाग्रत् सुषुप्तिर्जडनिद्रा क्रमेण ताभ्यां कृतौ दक्षिणवामपार्श्वौ यया ताम् | जाग्रतः क्रियारूपतया दक्षिणभागत्वं कर्मप्रधानः खलु दक्षिणभागः शरीरेऽनुभूयते | निद्रात्मिकायाः सुप्तेर्वामभागत्वं वामभागः खलु निष्क्रियः स्त्रीभागः | स्वप्नेत्यादि | प्. २) तुर्यातितुर्यघटिताननहृत्प्रदेशां प्राणेश्वरीं परशिवस्य परामृशामः || १ || अनिवृत्तायां सुप्तौ मानसिको भेदः संसारः स्वप्नः स एव स्वभावोऽवस्थाविशेषः तेन परिकॢप्तो जघन्यभागो योनिभागो यया तां सुषुप्तिजाग्रन्मध्यदशायाः स्वप्नस्य मध्याङ्गौचित्ये विकल्पोदयस्थानत्वाद्योनित्वमुक्तम् | एवं च सुषुप्तिः संसारस्य गर्भदशा स्वप्नः प्रसवदशा जाग्रत् प्रवृद्धिदशेति वेदितव्यम् | एवं जीवावस्थात्रयात्मकं त्रिकोणं शरीरचक्रस्थितमनुसन्धाय तत्रैव स्थितं शिवत्रिकोणमनुसन्धत्ते - तुर्येति | तुर्यं चतुर्दशा | चेत्यव्याप्तिम(ति)ती | जीवावस्थात्रये चित्कारणकस्य चास्य चिन्मयत्वानुसन्धानदशा तुर्यम् | तत्रापि यद्यपि चिद्व्याप्तिविषयभूतजाग्रदाद्यवस्थात्रयवशादवस्थात्रयसम्भवः तथापि सर्वव्याप्तिमत्त्वाच्चितेरैक्येन वैचित्र्याभावादेकविधत्वमुक्तं तुर्यस्य | अतीततुर्यं तुर्यातीतं संसारकलङ्कास्पृष्टशुद्धान्तर्मुखचिद्विश्रान्तिः ताभ्यां क्रमेण घटितमुखहृदयभागाम् | तुर्यस्य जाग्रदादिदशाविजृम्भमाणचेत्यकवलनान्मुखत्वमुक्तम् | मुखं हि चर्वणव्यापारवत् | अतितुर्यं निखिलदशाप्राणभूतमिति हृदयत्वेनोक्तम् | एवं च जाग्रदादिदशाचतुष्टयात्मकचतुरस्रचक्रस्य अथवा जाग्रदाद्युपाधिवशात् तुर्यस्यापि त्रैविधयभिमाने शिवजीवत्रिकोणद्वयश्लेषसम्भावितषट्कोणचक्रस्य वा शरीररूपेणावस्थितस्य मध्ये चक्रनाभिपदे हृदयदेशे तुर्यातीतविश्रान्त्यात्मना प्राणकलया स्फुरन्तीं चतुरङ्गां षडङ्गां वा परमशिवस्य प्राणेश्वरीं सत्तासंपादनीयम् | अनेन पञ्चावस्थोत्तरा सार्वत्रिकतया अखण्डरूपिणी परमशिवदशा काचिदङ्गीकृतेति शिवाधिक्यमुक्तम् | प्राणेश्वरीमित्यनेन यद्यपि सा परमशिवदशा सम्भवति तथापि तस्याश्चित्सारभूतविमर्शशक्त्यधीना सत्तेति शक्त्युत्कर्षः परिगृहीत इति विज्ञेयम् | परामृशाम इत्यनेन नमस्कारादेः सर्वस्या अपि क्रियायाः पर्यालोचने विमर्शमात्रत्वमेवेति सूचितम् || १ || प्. ३) स्पर्शस्वरोल्लिखितजागरसुप्त्यवस्था- मन्तःस्थसूचितसुषुप्त्युदित प्रबोधाम् | ऊष्मोक्तजागरदशोदितसुप्त्यवस्थां मन्त्रोत्करस्य जननीं मनसा विशामः || २ || अथेयमेव पञ्चावस्थात्मकपञ्चावयवमूर्तिः सकलसिद्धान्तसमष्टिरूपिणी परमशिवशक्तिर्मातृकामहामन्त्रेणोच्यते इत्याह - स्पर्शेत्यादि | कादयो मावसानाः स्पर्शाः सृष्टिप्रलयविषयत्वात् अकारादिविसर्गान्ताः स्वराः उच्चारणे सङ्कोचविकासबाहुल्यान्नादकल्पा नादा एवेत्यर्थः | स्वरो नादः | स्पर्शैः स्वरैश्च क्रमेण उल्लिखिते बोधिते जागरसुप्तिदशे यया तां स्पर्शैर्जागरं स्वरैः सुप्तिं च व्यञ्जयन्तीमित्यर्थः | अन्तःस्थेत्यादि | यरलवा अन्तःस्था स्वरस्पर्शयोरन्तर्मध्ये तिष्ठन्तीति तथोक्ताः | तैः सूचितः बोधितः सुषुप्त्युदितः सुषुप्तिदशायामेवोदितः न तु जागरवत्सुप्तिविरामे प्रबोधः घटपटाद्यनुसन्धानरूपो बोधः स्वप्नमिति यावत् यया ताम् | अन्तःस्थवर्णेषु स्वप्नदशामवगमयन्तीमित्यर्थः | ऊष्मेत्यादि | शषसहा ऊष्माणः | पारिभाषिकोऽयं शब्दः | अथवा सङ्कुचितरूपतया जडानां स्पर्शवर्गाणां पुनःसङ्कोचत्यागरूप ऊष्मादिविकृतताप्रारम्भलक्षणः प्रयत्नविशेषः येषु वर्णेष्विति ऊष्माणस्तैरुक्ता जागरदशायामेवोदिता उत्थिता सुषुप्त्यवस्था जागरादूर्ध्वं सुप्तेः प्राग्भवन्ती योगनिद्राखय जीवावस्था तुर्यं यया ताम् | मन्त्रोत्करस्य बाला श्रीविद्या परा महार्थशाम्भवी चरणविद्यादि पारलौकिकस्य पञ्चाक्षर्यष्टाक्षर्यादेः लौकिकस्य मन्त्रसमुदायस्य जननीं कारणभूतां मातृकामित्यर्थः | मनसा विमृशामः सकलमृलतया सकलसिद्धिहेतुत्वात् विविधसमयसमुत्पादितपरमार्थविषयसंशयसमुच्छेदिमहाप्रमाणत्वाच् च तदेकाग्रचित्ता भवाम इत्यर्थः | अत्रोष्मवर्णोक्ते तुर्ये क्षकाररूपकूटाक्षरविषयस्य तुर्यातीतस्य समुल्लेखनं च विवक्षितमिति निरवशेषं प्रमेयम् || २ || प्. ४) सङ्कोचसंश्रयणवर्जनभावभङ्ग्या जाग्रत्सुषुप्तिदशयोर्गमकौ प्रयत्नौ | द्वौ स्पृष्टताविवृतते विदितौ सुधीभिः स्पर्शस्वराक्षरगतौ परिशीलयामः || ३ || स्पर्शादिभिर्वर्णैः जाग्रदादयो दशा ज्ञाप्यन्त इत्युक्तम् | ज्ञाप्यज्ञापकयोरभिधालक्षणादिषु केनचित्सम्बन्धेन भवितव्यम् | कोऽयमत्र सम्बन्ध इत्याशङ्क्याह - सङ्कोचेति | सङ्कोचस्य संश्रयणे परिग्रहः वर्जनं तत्त्यागः तयोर्भावः स्वभावः संस्थनविशेष इति यावत् | तस्य भङ्ग्या प्रकारेण सादृश्येनेत्यर्थः | जाग्रत्सुषुप्तिदशयोर्यथाक्रमं गमकौ ज्ञापकौ द्वौ यथाक्रमं स्पर्शस्वराक्षरगतौ स्पृष्टताविवृतते द्वौ प्रयत्नौ | स्पृष्टता नाम कण्ठताल्वादीनामधरोर्ध्वभागसङ्घट्टनरूपो वर्णोच्चारणप्रयत्नः विवृतता नाम सङ्घट्टितस्य कण्ठादिभगद्वयस्य पुनर्विघट्टनप्रयत्नः | कण्ठादिभागयोः सङ्घट्टनमेव स्पृष्टता विघट्टनमेव विवृतता | एतयोः सङ्कोचग्रहणतत्त्यागलक्षणौ प्रयत्नौ सादृश्याज्जाग्रत् सुषुप्त्योर्बोधकौ | अभिनयनाद् व्यञ्जकाविति भावः | यथा अङ्गुलिमुकुलनादिर्व्यञ्जकः तद्वदिति भावः | घटपटादिग्रहणपदे जाग्रति त्वात्मनः सङ्कोचभावः विश्रान्तिपदे सुषुप्तु तु पूर्णभाव इत्येतदनुभववेद्यम् | अतो जाग्रत्सुषुप्त्योः स्पर्शस्वरकदम्बकाभ्यां सङ्कोचग्रहणतत्त्यागरूपमवस्थासादृश्यं प्रेक्षावद्भिरङ्गीक्रियत एव | तदेव सादृश्यं व्यङ्ग्यव्यञ्जकसम्बन्धकल्पकमित्यभिप्रायः | सुधीभिर्विदिताविति विशेषणेन वर्णानामवस्थानां च व्यङ्ग्यव्यञ्जकसम्बन्धनिदानभूतौ प्रयत्नौ प्रेक्षावन्मात्रगम्यावित्युक्तानां वर्णानामेव दशागमकत्वेऽपि सङ्कोचतत्त्यागरूपमवस्थासादृश्यं वर्णानां प्रयत्नमूलमिति प्रयत्नयोरवस्थागमकत्वमुपचरितं परिशीलयाम इत्येतत्प्रयत्नपर्यालोचनमेवास्माभिरप्यनुसन्धीयते नातः परः समाधिरित्युपदिष्टम् || ३ || प्. ५) स्पृष्टिर्यवर्गविषया विवृतत्वयुक्ता स्पृष्ट्यन्विता विवृतता च शवर्गनिष्ठा | तौ स्वप्नतुर्यदशयोर्गमकौ प्रयत्ना- वेतौ स्मराम्यसकलापरिपूर्तिपूर्त्योः || ४ || अथान्तःस्थोष्मणां स्वप्नतुर्यगमकत्वे सम्बन्धमुपपदयतिस्पृष्टिरित्यादि | यवर्गविषया स्पृष्ट्ः स्पृष्टता प्रयत्न विवृतत्वयुक्ता मिश्रप्रयत्न इत्यर्थः | अत्र स्पृष्टतायाः प्राधान्यं विवृततायास्तु तदनुवृत्त्या गुणत्वम् | एवं च यवर्गोच्चारणप्रयत्नस्य स्पृष्टताया विवृतत्वसङ्कीर्णतया असमग्रत्वे ईषत्स्पृष्टत्वमिति विवेकः | शवर्गोच्चरणप्रयत्नस्य विवृततायाः स्पृष्टतासङ्कीर्णतया सामग्र्यभावे ईषद्विवृतत्वमेवेति वेदितव्यम् | अत एवैतौ प्रयत्नौ असकलापरिपूर्तिपूर्त्योः असमग्रसङ्कोचपूर्णभावयोः स्वप्नतुर्यदशयोः यथाक्रमं गमकौ ईषत्सङ्कोचरूपस्य स्वप्नस्य ईषत्स्पृष्टता ईषत्पूर्णरूपस्य तूर्यस्य ईषद्विवृतता च पूर्ववत्सादृश्यात् व्यज्यत इति भावः | अत्रैव गम्यते स्पृष्टं करणं स्पर्शानामीषत्स्पृष्टमन्तः स्थानामिति वैयाकरणैर्यदुक्तं तत्साधु विवृतमूष्मणां स्वराणां चेत्येतत्तु उष्मस्वरानुभवविरोधादुपेक्षणीयमिति | स्मरामीति | स्वानुसन्धानेनास्य उपदेश्यजनशिक्षा विवक्षिता || ४ || प्. ६) पूर्णैव पूर्तिरविकल्पपदे सुषुप्तौ जाग्रत्यपूर्तिरपि संसृतिधाम्नि तद्वत् | जाग्रत्सुषुप्तिसमवायपदे तुरीये स्वप्ने च तादृशि तयोरसमग्रतैव || ५ || अथानुभववेद्यं जाग्रदादीनां सङ्कोचविकासाद्यानन्दान्वयायोपपादयति - पूर्णेत्यादि | अविकल्पपदे निर्विकल्पकक्ष्यायां बाह्याभ्यन्तरेन्द्रियविश्रान्तिरूपत्वादिति भावः | इदं च विशेषणं पूर्तिसमग्रताया हेतुत्वेनोक्तम् | विकल्पाभाव एव निराघटपूर्णभावबोधक इत्यनुभवः प्रमाणम् | अविकल्पपदत्वात् सुषुप्तौ पूर्तिः पूर्णैव समग्रैव संसृतिधाम्नि घटपटाद्यननुसन्धानरूपविश्रान्त्यस्पृष्टसंसारपदे गाढविकल्पोदयस्थान इति भावः | इदं च सङ्कोचभावसमग्रताया हेतुत्वेनोक्तं विशेषणम् | गाढविकल्पोदय एव महासङ्कोचसमर्पक इति चानुभव एव प्रमाणम् | जाग्रत्सुषुप्तिसमवायपदे मिश्रपदे तुर्ये चतुर्थदशायाम् | यद्यपि तुर्ये चिद्विश्रान्तिलक्षणसुषुप्तिव्याप्तिः तथापि साजाग्रद्व्याप्तिश्चेत्येप्यनुसन्धीयत इति विकल्पस्पृष्टतयाजाग्रतश्चानुवृत्तिरिति मिश्रत्वमेव | स्वप्ने च तथाविधे मिश्ररूपे यद्यपि स्वप्नस्य विकल्पप्राधान्यात् जाग्रत्सुषुप्तिसमवाय उभयोरेकरूपः तथापि मिश्रत्वमात्रसामान्यविवक्षया स्वप्नस्य तुर्यसाम्यमुक्तम् | तादृशीति | तयोः पूर्त्यपूर्त्योः असमग्रतैव तुर्ये पूर्त्यसामग्र्यं स्वप्ने त्वपूर्त्यसामग्र्यं च क्रमेण योज्यम् || ५ || प्. ७) स्वप्नः सुषुप्त्यनुगतं ननु जाग्रदेव तुर्यं च जाग्रदनुवृत्तसुषुप्तिरेव | स्वप्नस्तथा च सति जाग्रत एव भेद- स्तुर्या दशापि च तथैव सुषुप्तिभेदः || ६ || उक्तप्रकारेण स्पर्शादिभिर्वर्णैः जाग्रदादीनां सङ्कोचभावादिलक्षणं सादृश्येन गम्यगमकभावसंबन्धनिबन्धनं प्रैपाद्य ज्ञानक्रियारूपतया प्रत्येकं द्वैविध्यं जाग्रत्सुषुप्त्योः | तत्र स्वप्नो ज्ञानजाग्रत् या जाग्रदिति प्रसिद्धा दशा सा क्रियाजाग्रत् तदा तुर्यं ज्ञानसुषुप्तिः या सुप्तिः या सुषुप्तिरिति प्रसिद्धदशा सा क्रियासुषुप्तिः | ततः स्वप्नो जाग्रद्भेद एव तुर्यं च सुषुप्तिभेद एवेति दशाचतुष्टयस्य वर्गद्वयरूपतां तत्स्वरूपज्ञानाद्यधिकरणाय समुपदिशतिस्वप्नः सुषुप्त्यनुगतमित्यादिना | ननु स्वप्नो नाम जाग्रदेव यथा जाग्रति घटपटादयो गृह्यन्ते तथात्रापीति | अयमेव विशेषः यत्स्वप्ने सुषुप्तेरनुवृत्तिः जाग्रति तन्निवृत्तिरिति | अथ तुर्यं च सुषुप्तिरेव | तथा विश्रान्त्युपलम्भादत्र चायमेव विशेषः यत्तुर्ये जाग्रदनुवृत्तिः सुषुप्तौ तु तन्निवृत्तिरिति | एवं विशेषाल्पतया स्वप्नतुरीययोः जाग्रत्सुषुप्तिभेदत्वं वेदितव्यमिति भावः || ६ || प्. ८) ज्ञानात्मनान्तरुदिते खलु बोधसुप्ति- स्वप्नस्तुरीयमिति नामविशेषभाजौ | वाह्ये क्रियात्मकतयोदितयोस्तयोः स्या- दाख्या प्रबोध इति सुप्तिरिति प्रसिद्धा || ७ || स्वप्नतुर्ययोर्जाग्रत्सुषुप्त्यपेक्षामभिस्फुटीकरोति - ज्ञानात्मनेति | ज्ञानाकारत्वमेव वर्णभेद इति प्रक्रान्तप्रमेयतात्पर्यम् | ज्ञानात्मनेति | बोधश्च सुप्तिश्च बोधसुप्ती इत्यर्थः | प्रथममन्तः अभ्यन्तरक्षायां ज्ञानात्मना ज्ञानरूपेण उदिते (सति) यथाक्रमं स्वप्नस्तुरीयमिति नामविशेषौ भवतः | अथ वाह्ये वाह्येन्द्रियकक्षायां क्रियात्मकतया क्रियारूपेण उदितयोस्तयोर्जाग्रत्सुषुप्त्योः प्रबोध इति सुप्तिरिति जाग्रत्सुषुप्तिरिति प्रसिद्धाख्या व्यवहारो भवतीत्यर्थः | एतेनाभ्यन्तरेन्द्रियानुसन्धानं ज्ञानरूपं बाह्येन्द्रियानुसन्धानं क्रियारूपमिति वेदितव्यम् | संसृतिश्चविश्रान्तिश्च प्रथममाभ्यन्तरेन्द्रियानुसंहिता सती पश्चाद् बाह्येन्द्रिय प्रथायामवतरतीति विवेकः | सर्वस्यापि भावस्य शिवशक्त्यात्मकतया ज्ञानक्रियारूपत्वमिति भावः | एवं च ज्ञानजाग्रत्क्रियाजाग्रज्ज्ञानसुषुप्तिः क्रियासुषुप्तिः पुनरपि ज्ञानजाग्रदादीत्येवं दशा चतुष्टयादवतरतस्तुर्यातीतनाभेः कालचक्रस्य परिभ्रमणमनुसन्धेयमिति तात्पर्यम् || ७ || प्. ८) जाग्रद्बहिर्विलसनं ननु भेदसृष्टेः स्वप्नोन्तरुल्लसनमित्युभयी दशैव | तुर्याभिधानमुपयात्यविभेदसृष्टौ सृष्टिद्वयस्य जनिविश्रमभूस्सुषुप्तिः || ८ || इदानीं जाग्रददिदशाचतुष्टयस्य भेदाभेदरूपसंसारतद्विश्रान्तिस्वभावतां यथायोगमुपदर्शयति - जाग्रद्बहिरित्यादि | सृष्टिः प्रवृत्तिरूपसंसारः भेदसृष्टेः भेदरूपप्रवृत्तिसंसारस्य बहिर्विलसनं बाह्येन्द्रियकक्ष्यायामवभासनं जाग्रत् तस्या एव भेदसृष्टेः अन्तरुल्लसनं आभ्यन्तरेन्द्रियकक्ष्यायां स्फुरणं स्वप्नः दशाद्वयमिदं पशोः संसारभूमिरिति वेदितव्यम् | इत्युभयी दशैव जाग्रत्स्वप्नरूपदशाद्वयमेवाविभेदसृष्टिः | अविभेदो विभेदस्याभावः संहारः विश्रान्त्यौन्मुख्येन भेदनिवृत्तिमार्गपरिग्रहः तत्सृष्टौ तुर्याभिधानमुपयाति भेदसंसारादयं मार्गः जाग्रदन्तदशात्रयापेक्षया चतुर्थत्वाच्चतुर्थः चतुर्थपर्यायः खलु तुर्यशब्दः | सुषुप्तिस्वभावं दर्शयति - सृष्टिद्वयेति | सृष्टिद्वयस्य भेदाभेदरूपस्य जनिरुत्पत्तिः विश्रमो विलयः तद्भूस्तत्पदं सुषुप्तिः सुषुप्तेर्भेदाभेदविश्रान्तिरूपतया प्रतिपादयिष्यमाणया जीवशिवसंसारोदयविलयभूमित्वम् | एतदुक्तं भवति - सुषुप्त्यादिजाग्रदन्तेन भेदरूपेण पदत्रयेण जीवः संसरति | जाग्रदादिसुषुप्त्यन्तेनाभेदरूपेण तुर्याभिधानजुषा तेनैव पदत्रयेण शिवो (ख्यानान्वि)श्रमते तं विश्रममार्गं पाशमेव भजन्नपि मायया न विमृशति | एवं शिवोऽपीच्छाज्ञानक्रियापर्यायभेदरहितसुषुप्तिस्वप्नजाग्रत्तयेव संसरति तुर्यपर्यायजाग्रदादिसुषुप्त्यन्तनिवृत्तिमार्गेण विश्रमते च | यद्यपि शिवे प्रवृत्ति निवृत्ति मार्गयोरभेदैकरूपत्वात् तुर्यव्यवहारो विद्यते तथापि निवृत्तिमार्ग एव तस्य व्यवहारस्य मुख्यत्वमिति महोपदेशः | अद्वैतसंसारस्य द्वैतसंसारसमः समाधिरित्युत्तरप्रतिपादयिष्यमाणेषु तत्पदेषु तत्प्रक्रियोन्नयनम् || ८ || प्. १०) सृष्टा बहिः शिवचिता प्रकृतिर्विसर्ग- स्तां स्वात्मना कवलयन् शिव एष बिन्दुः | संसारविश्रमजुषोरिति नामधेये संसारिणौ पशुशिवौ च पशुः शिवश्च || ९ || एवं दशास्वरूपमुपदिश्य तदधिष्ठातृभूतं शिवजीवस्वरूपं निरूपयिष्यन् प्रकृतोपयुक्ततया मन्त्रसमयासिद्धां बिन्दुविसर्गपरिभाषां व्यौत्पादयति - सृष्टा बहिरित्यादि | शिवचिता शिव इति व्यवह्रियमाणया चिता प्रकाशतत्त्वेन बहिः बहिरिव न तु परमार्थतो बहिः | सर्वव्यापिवस्तुनः प्रकाशभित्तिलग्नतायां सत्यामेव सत्तासिद्धेः तद्बहिष्ठतायां तदसिद्धेः | सृष्टा विसृष्टा | विसर्जनमपि चमत्कारमात्रा | प्रकृतिः स्वभावः विमर्श इत्यवगन्तव्यम् | प्रकाशस्य वा स्वभावो विमर्शः | येन स्वभावेन विना प्रकाशस्यार्थो परागेपि स्फटिकादिकस्येव जाड्यं प्रसज्यत इति प्राप्तस्वसंविच्छास्त्रकारैरुद्धोषितमन्त्रमात्रसमयं दीक्षानन्तरमधिकृतसंविच्छास्त्रसिद्धान्ता एव परमरहस्यरूपस्य मन्त्राथस्योपदेशाधिकारिण इत्यस्माभिरिह मन्त्रार्थविवेकप्रस्तावे संविन्मतसारमात्रमेवोद्गीर्यत इत्यनभियोगः | प्रकाशो हि स्वस्वभावभूतं स्वात्मविश्रान्तं पराप्रकृतिस्वातन्त्र्यमायाविद्यादिशब्दैरागमिकैर्वह्रियमाणं जगद्बीजभूतं विमर्शं कदाचित् प्रपञ्चानुसन्धित्सायां स्वात्मभित्तावेव बहिरिव विसृज्यत इति विसर्गशब्दवाच्यो विमर्शो वेद्याकारवान् वेदकं कवलयति अत एव प्रमाता च भवति | स (न ?) च वेदकश्चिद्रूपोऽपि प्रमुषितवैभवः प्रमेयतामुपगतो जीवो भवति | यदा पुनः स शिवप्रकाशः प्रपञ्चसञ्जिहीर्षायां तां विमर्शरूपिणीं प्रकृतिं स्वात्मना कवलयति तदा (भि)विदिधातोरविच्छेदार्थतया (भि)विद्यन्तेऽविच्छिद्यत इति बिन्दुशब्दव्यवहार्यो भवति | बिन्दुरविच्छेदकारणमिति भारतीयानां च व्यवहारः | अपरिच्छिन्नस्वभावो भवतीत्यभिप्रायः | एवं वेद्यात्मनो विमर्शस्य (वि)सर्गत्वं वेदा(दका)त्मनः प्रकाशस्य विन्दुत्वमुपदिष्टं भवति | एतदेवाह - संसारविश्रमजुषोरिति | संसरणस्वभावो विमर्शः (विश्रमण)अरुणस्वभावः प्रकाशः तयोरित्युक्तप्रकाशौ विमर्शप्रकाशयोर्विसर्गबिन्दुशब्दौ नामधेयत्वेन परिभाषितौ | अथ विसर्गसमुन्नितस्य विचित्रस्य संसारस्य सामान्यदृष्ट्या विषयमाह - संसारिणा इति || ९ || प्. ११) द्वैतात्मकं भवति संसरणं पशोस्त- द्द्वैतरूपमभवस्य परस्य शम्भोः | मिश्रं त्रिरूपमपि संसरणं यतः स्या- द्विश्रान्तिभाक्तदिह धाम परं हि बिन्दुः || १० || पशुशिवपरशिवासामान्याः न (सामान्येन) तावत्संसारिण एवेति प्रदर्शितम् | इदानीं पश्वादीनां विविच्य संसारविशेषविषयतामुपदर्शयति - द्वैतात्मकं भवतीति | तत्र विसर्गपर्यायस्य विमर्शस्याविद्यारूपेण भेदचमत्कारोन्मीलनादिति भावः | तत्संसरणं अभवस्य शिवस्य संबन्धि अद्वैतरूपं तत्र विमर्शात्मकविद्यारूपेणाभेदचमत्कारपरिग्रहात् तथात्वमित्यवगन्तव्यम् | परस्य शम्भोः संसरणमित्यनुवर्तते | मिश्रं द्वैताद्वैतरूपं तत्र विद्याविद्योभयरूपिण्या विमर्शशक्तेर्यौगपद्येन भेदाभेदैकरहस्यप्रदर्शनचमत्काराभ्युपगम इति वेदितव्यम् | अत्र तृतीयकक्ष्यायां परशम्भुपदोपादानेन त्रिकविश्रान्तिसिद्धन्तेऽपि बहुमतिरुपसूचिता | तस्यापि तृतीयपदाधिष्ठातृसंसारेषु परिगणनं चतुष्टयार्थमतश्रद्धया कृतम् | अतः संसारकलङ्का स्पृष्टं शुद्धान्तर्मुखविश्रमस्वभावं महाबिन्दुपदं विवेचयति - त्रिरूपमित्यादि | यतः यत्रेति त्रिरूपमपि संसरणं विश्राम्यति | तत्परमनुत्तरं धाम विन्दुरिति निष्कृष्टमिति भावः | यद्यपि चतुर्थकक्ष्यायाः सर्वसंसारोपादानभूतपूर्णविमर्शस्वभावतया महाविश्रान्तिपदत्वं तथापि कक्ष्यात्रयोदञ्चितप्रपञ्चकलकलानुसंन्धानगन्धो नोपशान्त इति तदुत्तीर्णं पञ्चममेव परव्योमलक्षणं पदं पञ्चमाम्नायपरिशोधितं निष्कलमहाबिन्दुतत्त्वमिति तात्त्विकसिद्धान्तः | अत्रैतदुद्दिष्टं भवति | यत्पशोः सुषुप्त्याद्यवस्थात्रयं भेदरूपं अथवा भेदरूपायां शैवीतुर्यदशायां च तदतीतदशा | एतस्मिन्स्वरस्पर्शादिभिर्मन्त्रैः अभिधीयत इति प्रतिपादिते दशापञ्चके भेदाभेदमिश्रसंसाररूपास्तिस्रो दशाः सर्वसंसारैकैकविश्रान्तिरूपा (रूपाणां) चतुर्थ दशानां (चतुर्थदशान्तर्गतानां) योगः तुर्ये चतुर्थदशायां योगः तदतीते महाबिन्दुदशायोग इति तद्विवेकः | त्रिविधसंसारतदेकरसविश्रमतदुत्तीर्णमहाविश्रमदशासु सर्वमपि दशाजातमन्तर्भुतमिति सिद्धजनघण्टापथः | अतोऽयमुपदेशो मनीषिजनहृदयङ्गम इत्यलमतिप्रसङ्गेन || १० || प्. १२) गौणो हि बिन्दुरिति वित्तिरभेदरूपा शैवी तनूर्भवति भेदपदं तु वेद्यम् | जीवस्य संवरकमस्य ततः स्वरूपं सर्गैर्भवेद्व्यवहृतिर्महतामितीयम् || ११ || उक्तन्यायेन बिन्दोरपरिच्छेदलक्षणत्वाच्छिवस्य विकल्पस्पृष्ट्या परिच्छेदसंभवेन विन्दुलक्षणस्यासमग्रत्वेऽपि गौणन्यायेन बिन्दुव्यवहारोऽङ्गीक्रियते इत्याह - गौणेत्यादि | वृत्तिः संवित्तिः अभेदरूपा | इदं विशेषणं गौणविन्दुव्यवहारहेतुभूतगुणगर्भितमभेदरूपत्वं गुणः तद्वत्तया गौणो विन्दुर्भवतीति विशेषः | सा वित्तिः शैवी शिवसंबन्धिनी तनूः स्वरूपं भवति मिश्रसंसाराधिष्ठातुरप्येवं बिन्दुत्वमूहनीयम् | व्यवहारबाहुल्याभिसान्धिना शिवस्यैवोक्तं बिन्दुत्वमिति वेदितव्यम् | एवं पशोरपि परिच्छेदे सत्यपि चिद्रूपतया बिन्दुत्वं प्राप्तमेव | अथ तस्य चैत्यव्याप्ततया विसर्गत्वमपि संभावितमित्याह - भेदपदमित्यादि | भेदपदं भेदस्थानं वेद्यं तु शब्दो वित्तिस्वरूपाच्छिवाज्जीवस्य भेदमवगमयति | जीवस्य संवरकं तत एवास्य स्वरूपं यद्यस्य संवरकं तत्तस्य स्वरूपमिति भावः | वेद्यमपि भेदस्य संवरकं व्यापकं ततस्तस्य स्वरूपं भवतीत्यर्थः | अतो वेद्यरूपतया जीवस्य वेद्यवद्विसर्गशब्दव्यवहारविषयो भवेदित्यर्थः | महतां मन्त्रसमयविदामिति | इयमुक्तप्रकारा व्यवहृतिः व्यवहारः || ११ || प्. १३) चैत्यं विमर्शपरिणामदशाविमर्श- श्चिद्धर्म एष च चितो जननाल्लयाच्च | नास्त्येव सा चिदपि यद्यविमृष्टरूपा धर्मस्ततो भवति चिच्च विमर्शशक्तेः || १२ || अथ पशुशिवपदयोः वेद्यवेदकान्योन्यकवलनमित्युक्तं तत्र किं निमित्तमित्याकाङ्क्षायामाह - चैत्यमित्यादि | शिवशक्तिपर्यायप्रकाशविमर्शपरिणामो जगदिति रहस्यागमसिद्धान्तः | यद्यपि विमर्शस्यैव विलासो जगदित्यङ्गीकृतं पुरातनैः तथापि विमर्शस्य प्रकाशमन्तरेण स्वरूपासिद्धेर्विमर्शो जगदाकारेण विलसन्नपि तत्र जगति प्रकाशांशमर्धेनावभासयति अर्धेन निजांशं तत्र वेदकः प्रकाशांशः वेद्यं विमर्शांशः | एवं सति वेद्यपर्यायं चैत्यं विमर्शपरिणामदशा तत्पर्यालोचने विमर्श एव | एष च विमर्शः चिद्धर्मः प्रकाशस्य धर्मः | कुतः - चितो जननात् लयाच्च यतः प्रकाशादेवोदेति तत्रैव विलीयते च ततः सर्वस्यापि वस्तुनः स्फुरणेन विना सत्ताभावात् स्फुरणस्य तु प्रकाशादीनत्वात् प्रकाशकारणकत्वमवश्यमङ्गीकार्यम् | किञ्च शब्दरूपस्य विमर्शस्य गगनादुदयो गगन एव लयः सम्भावितः तदेव गगनं प्रकाश इत्यलङ्कृतादि कारुण्युपदेश्ये प्रतिपादनलम्पटेन(?) | अथान्यस्मिन्पक्षे प्रकाशोऽपि विमर्शस्य धर्म इत्याह - नास्त्येवेति | सा चित्प्रकाशोऽपि यद्यविमृष्टरूपा इयमीदृशीति विमर्शेन अनिर्दिष्टस्वरूपा चेत् नास्त्येव इदमीदृगित्यविमृष्टस्यापि वस्तुनः सत्तायां शशविषाणादेरपि सत्त्वं प्रसज्यते | ततः सर्वमपि वस्तु कोट्यधिरोहे विमर्शमपेक्षत इति प्रकाशस्यापि सत्त्वे विमर्शकारणकत्वेन विमर्शधर्मत्वमवश्यमङ्गीकर्तव्यमित्याह - धर्मस्ततो भवतीत्यादिना || १२ || प्. १४) चिच्चैत्ययोरिति समे सति धर्मधर्मि- भावे परस्परपदाक्रमणं स्वभावः | चैत्यावृता भवति चित्पशुरेष चैत्य- मावृण्वती चिदपि याति शिवप्रसिद्धिम् || १३ || प्रकाशविमर्शयोरन्योन्यधर्मधर्मिभावप्रवचनस्य प्रकृतोपयोगमाह - चिच्चैत्ययोरित्यादि | इति उक्तप्रकारेण चिच्चैत्ययोः धर्मधर्मिभावे समे सति परस्परपदाक्रमणं स्वभावो नैसर्गिको व्यापारो भवति | धर्मिणो धर्मपदव्याप्त्यौ चित्यादिति भावः | चिच्चैत्ययोरन्योन्याक्रमेणैका वा दशा सम्भाव्यत इत्यत्नाह - चैत्यावृतेत्यादि | चैत्यावृता चित् एष पशुर्भवति एष इति पुरो निर्देशेन स्वशक्तिप्रमोषपरिप्राप्तं दीनभावं निदर्शयति अथ चैत्यमावृण्वती व्याप्नुवन्ती चित् शिव इति प्रसिद्धिं याति || १३ || प्. १५) चिच्चैत्ययोः समतया स्तिमिते स्वभावे मिश्रं तु मध्यमपदं परशम्भुरूपम् | चिच्चैत्यमिश्रणतया तदयं त्रिरूपो धर्मी च तत्तदुचितश्च तथा विमर्शः || १४ || इदानीं चिच्चैत्ययोः समव्याप्तिपदस्य तृतीयतत्त्वस्य स्वरूपं विप्रतिपत्तिविषयतया सम्यगुपदिशति - चिच्चैत्ययोरित्यादि | चिच्चैत्ययोः समतया समव्याप्तिकत्वेन स्वभावे स्तिमिते निश्चले सति विश्रान्तिस्वभावावगाहितया निश्चलं तन्मध्यमपदं मिश्रमिति व्यवह्रियमाणमिति परशम्भुरूपं भवतीति शेषः | तु शब्दः शिवजीवाभ्यां भेदाभिधायकः मध्यमपदमित्यनेनास्य पदस्य तृतीयत्वेऽपि शिवजीवोभयस्वभावतया सन्धित्वौचित्येन मध्यमत्वमप्यङ्गीकृतमित्युपदिष्टं प्रवृत्तिनिवृत्तिरूपयोर्जीवशिवव्यापारयोरेककालीनत्वपर्यालोचनाया##- समव्याप्तिपदत्वेन सम्भाव्यते सैव स्तिमितदशोभयमूलतयोभयपक्षव्यापिनी पक्षद्वयगतविशेषस्वाम्यं लभते | यथा बहुविटपमूलपदभूता तरुशाखा विटपसम्बन्धिषु पुष्पफलादिषु स्वत्वं भजति तरुशाखेयं पुष्पिता फलिता तद्वत् | तदेवंरूपेणैव मिश्रपदप्रमातुः शिवजीवव्यापारयौगपद्यानुसन्धानं न तु विकल्पकक्ष्याधिरोहेण शिवजीववत् | तथात्वे तृतीयपदव्यवस्थितस्य महातत्त्वस्य शिवजीवपङ्क्तौ तत्सार्थक्येन व्यापारान्तराङ्गीकारलम्पटे शिवजीवस्वभावानुप्रवेशवैभवस्याप्यभावात् तदुभयापेक्षया दाक्षिण्यमूल एवोत्कर्षोऽपि स्यादित्यलमसामयिकविवादाग्रहेण | तदत्रायं विप्रतिपत्त्या वार्ता नोपकर्तव्य(?) इति प्रमेयतात्पर्यमुक्तम् | जीवादिस्वरूपं त्रैविध्यनिगमनद्वारेण दृढीकुर्वन्नाह - चिच्चैत्येति | मिश्ररूपतत्त्वेन अयमपरोक्षभूतो धर्मी द्वैतानुसन्धानरूपो विमर्श एवात्र धर्मः तद्वान् प्रमातेति यावत् | त्रिरूपः मन्त्रव्यवहारबाहुल्यदृष्ट्या त्रैरूप्यमुक्तं न तु चतुर्थपञ्चमदशयोरनन्तरोक्तधर्मस्य द्वैतादिरूपस्य विमर्शस्य त्रैविध्यात् धर्मित्रैविध्यमित्यभिप्रेत्याह - तत्तदुचितश्चेति | औचित्यं जीवस्य द्वैतविमर्शः शिवस्याद्वैतविमर्शः परमशिवस्योभयात्मकविमर्श इति || १४ || प्. १६) चित्तिश्च चैत्यमपि तच्च विमर्शतत्त्वं ज्ञानक्रिये न हि तयोः परमार्थभेदः | ज्ञानं गृहीतकठिनत्वगुणं क्रिया स्या- ज्ज्ञानं भवेद्विरलिमाश्रयिणी क्रियैव || १५ || एवमत्र विषयोपयुक्तं शिवरूपं शिवस्य जीवत्रयस्वरूपं स्फुटतरमुपपाद्य तदत्यन्तोपयुक्तं ज्ञानक्रियास्वरूपं व्युत्पादयति - चितिश्चेत्यादि | चिदेव चितिः सा च अभेदरूपं खलु ज्ञानं घटो ज्ञात इति भिन्नेष्वपि घटपटादिष्वेकरूपत्वेनाभिन्नतयानुभूयमानत्वात् | भेदरूपा खलु चैत्यरूपिणी क्रिया चैत्यानां घटपटादीनामन्योन्यव्यावृत्तस्वरूपतया भेदरूपेणानुभूयमानत्वात् | एवं चिच्चैत्यरूपयोः ज्ञानक्रिययोः पारमार्थिको न भेद इत्याह - न हि तयोरित्यादि | चिच्चैत्ययोर्योऽयं भेदावभासः सन (पारमार्थिकः - अपि) तु मायापर्यायविपर्ययज्ञाननिबन्धन इत्यभिप्रायः | तत्त्वभेदश्चिच्चैत्ययोरित्यत्राह - ज्ञानमित्यादि | ज्ञानं प्रकाशः गृहीतकठिनत्वगुणं विमर्शाकारेणेति भावः | आकाशस्य काठिन्यं शब्दः तदा चिदाकाशस्य काठिन्यरूपो विमर्श इति प्रकाशविमर्शयोः जलकरकयोरिव न वास्तवो भेद इति तात्पर्यम् | ननु प्रकाशविमर्शयोः जलकरकयोरिव भेदो मास्तु चैत्यात्मिकत्वेन घटपटादिनानारूपायाः क्रियायाः ज्ञानरूपात्प्रकाशाद्भेदो दुरपन्हवः | वर्णरूपाद्विमर्शादपि पृथुबुध्नोदराद्याकारतया घटपटादयो भिद्यन्त एवेति चेद्घटपटादिनः सर्वस्यापि वस्तुनो घटपटादिशब्दरूपविमर्शातिरिक्तं न किञ्चिदपि स्वरूपं विवेकदशायामवतिष्ठत इति गुरुकटाक्षपरिक्षपितमायान्धकारैः सुप्रतिपन्नत्वात् ज्ञानाभेदं क्रियायाः प्रतिपाद्य क्रियाया अभेदं ज्ञानस्य प्रतिपादयति - ज्ञानं भवेदित्यादि | सापि विमर्शरूपिणी क्रिया विरलिमाश्रयिणी काठिन्यपरित्यागेन विश्रान्तिलक्षणं विरलिमानं परिगृह्णाति | ज्ञानं भवेत्प्रकाशैकरस्यं प्राप्नोतीत्यर्थः | एवं ज्ञानस्य बहीरूपं क्रिया क्रियाया आन्तरं रूपं ज्ञानमिति तयोरेकार्थत्वामिति निष्कर्षः || १५ || प्. १७) ज्ञानस्य सिध्यति विना क्रियया न रूपं तस्यास्तथैव न हि तेन विनोपलम्भः | तस्मात्तयोर्यमलतैव मतं हि सैद्धं पूर्वापरत्वकलनं त्विह पूर्वपक्षः || १६ || अथ शिवशक्तिस्वरूपयोः ज्ञानक्रिययोस्तुल्यप्राधान्यतया यौगपद्यसिद्धिसंप्रतिपत्तिमूलयामलसिद्धान्तं मन्त्रहृदयभूतत्वेन सिद्धाभिमतं प्रतिबोधयन्नेतन्मताभ्युपगममूलभूतं प्रकाशविमर्शपर्यायज्ञानक्रियान्योन्यकारणकत्वं प्रागुक्तमेवानुवदति - ज्ञानस्येत्यादिना | हि यस्मात् क्रियया विमर्शेन विना ज्ञानस्य प्रकाशस्वरूपं न सिध्यति तथैव तस्याः क्रियायास्तेन ज्ञानेन विनोपलम्भनासिद्धिः तस्मात्तयोर्ज्ञानक्रिययोर्यमलता युतपत्सिद्धतैव सैद्धं सिद्धसम्बधि मन्त्रहृदयत्वादिति भावः | इह ज्ञानक्रियासिद्धिविचारविषये पूर्वापरत्वकलनं तु पूर्वपक्षः वेद्यवेदकाकारेण प्रकृतिपुरुषाकारेण देहात्माकारेण शब्दार्थाकारेणैव पर्यायप्रकारान्तराकारेण वा क्रियाज्ञानयोः सिद्धेः पौर्वापर्याभ्युपगमः पूर्वपक्षत्वमेव भजति निर्वोढुमशक्यत्वादिति तात्पर्यम् || १६ || प्. १८) अर्धं क्रिया भवति दक्षिणमन्यदर्धं ज्ञानं समत्वमनयोरपि मध्यमिच्छा | इच्छैव बीजमचलान्तरबाह्यगत्या ज्ञानं क्रिया च खलु मूलमिहाङ्कुरश्च || १७ || इदानीं ज्ञानक्रिययोरन्योन्याविनाभावस्वभावतैकस्वरूपसम्बन्धौचित्ययोः तत्समष्टिरूपयेच्छया समस्त्रीपुमुभयस्वभावतया रहस्यविद्भिरभिमतस्य परमशिवतत्त्वस्य स्वरूपभागत्वाभिप्रायेण एकस्वरूपसम्बन्धं दर्शयति - अर्धं क्रियेत्यादि | क्रिया दक्षिणमर्धं भवति शिवस्येत्यभिप्रायः | कर्मकाण्डस्य दक्षिणमार्गतयाङ्गीकारादियं व्यवस्था | ज्ञानमन्यद्वाममर्धं ज्ञानकाण्डस्य वाममार्गत्वेनाङ्गीकारादिति भावः | ननु शैवं दक्षिणाचारः शाक्तं वामाचार इति सिद्धजनप्रतिपादात् क्रिया विमर्शरूपत्वाच्छक्तिस्वरूपमित्यङ्गीकर्तव्यम् ज्ञानं प्रकाशरूपत्वात् शिवस्वरूपमिति च तत्कथं क्रियाया दक्षिणत्वं ज्ञानस्य वामत्वमिति चेत् सत्यं रहस्यसमयसारावबोधकसद्गुरुसपर्याविधुराणामयं विप्रतिपत्तिषु सङ्घट्टो दुरतिक्रमः महागुरुकटाक्षशिवतां(?) तु निराकृत्यात्र विवेचयति तदुपदिश्यते ज्ञानक्रियारूपयोः शिवशक्त्योरन्योन्यानुरागेणान्योन्यस्वभावोपरक्तस्वभाव इति वेदितव्यम् | शिवस्य स्वभावो ज्ञानं जडाकारया क्रिययोपरक्तं सत् जडस्य शुक्लतया शुक्लं भवति | शक्तिः स्वभावः क्रिया अजडेन ज्ञानेनोपरक्ता सती अजडस्य रवेः ऋतुतया अरुणा भवति | तदुभयमिश्रं तद्रूपमुभयवर्णसंसर्गात्त्विदं हेमनिभं भवतीति शिवादिस्वरूपत्रयपर्यायशाम्भवोक्तचरणत्रयवद्वर्णवा##- शक्तिस्वभावक्रियास्वरूपानुसन्धानैकव्यापारतया ज्ञानमार्गे वामाचारे व्यवस्थापित इति (?) कौलिकोपनिषत् | तदेतत्प्रमेयं ज्ञानक्रिययोर्वामदक्षिणार्धत्वोपन्यासद्वारेण सूत्रकृता व्युत्पादितं ज्ञानक्रियामिश्रपदे स्वे(ष्वि)च्छया भागव्यवस्थामाह - समत्वमनयोरिति | अनयोर्ज्ञानक्रिययोः समत्वं समव्याप्तिकत्वं यत्तदिच्छेति इच्छालक्षणं चात्रानुसन्धेयम् | मध्यमिति | दक्षिणवामयोर्मध्यमित्यर्थः | इच्छातत्त्वस्य प्राक्प्रतिपादितपरशिवस्वभावस्य ज्ञानक्रियात्मकपक्षद्वयमूलरूपतया तदुभयबीजत्वं समर्थयति इच्छैव बीजमित्यादि | एवकारेण पक्षत्रयस्यापि ज्ञानं च कर्म चेत्यादिवक्ष्यमाणत्रिमूर्त्यात्मकत्वप्रतिपादनेन यद्यप्यन्योन्यमूलत्वमुपपत्तिमत् तथापि माध्यमिकतया सुषुम्नापर्यायभूताया इच्छाया एव प्रेक्षावन्महायोगिभिरुररीकृतं ज्ञानक्रियारूपत्वमित्युपदिष्टम् | इच्छैवाचला प्राक्प्रतिपादितमर्यादया स्तिमितस्वभावा | इदं च विशेषेण बीजत्वसमर्थकम् | बीजं हि निश्चलं तिष्ठति मूलाङ्कुरावेव अन्तर्बहिश्च प्रसरतः | आन्तरगत्या निवृत्तिरूपप्रसरणेन ज्ञानं मूलं बीजस्याधोभागप्रसृतवान् रोहावयवः बाह्यगत्या प्रवृत्तिरूपप्रसरणेन क्रिया इह बीजे अङ्कुरः | चकारः समुच्चयाभिधानेन बीजस्य पूर्णं लक्षणत्वमभिधत्ते || १७ || प्. २०) ज्ञानं क्रिया तदुभयैकरसापि चेच्छा तत्त्वत्रयं भवति नित्ययुतस्वभावम् | ज्ञानस्य मानमिति मेयमिति क्रियाया मातेति चेतरपदस्य हि नामभेदाः || १८ || इच्छाज्ञानक्रियाणां प्रमात्रादिभिरेकार्थतया प्रमातृप्रमाणप्रमेयशब्दव्यवहारोऽपि भवतीत्याह - ज्ञानं क्रियेत्यादि | ज्ञानं क्रिया तदुभयैकरसा तदुभयसमष्टिरूपा इच्छा च इति तत्त्वत्रयं नित्ययुतस्वभावं भवति अन्योन्याविनाभूतं भवति | एतद्विशेषणं त्रिपुटीरूपतया नित्ययुतस्वभावेभ्यः प्रमत्रादिभ्य इच्छादीनां सादृश्योक्तिद्वारेणैकार्थताप्रतिपादकम् | इच्छादीनां प्रमात्रादिषु कस्य केनैकार्थतेत्याकाङ्क्षायामाह ज्ञानस्येत्यादि | ज्ञानस्य मानमिति क्रियाया मेय इति इतरपदस्य ज्ञानक्रियाभ्यामितरस्य पदस्य इच्छाया इत्यर्थः | मातेति च नामभेदात्संज्ञाभेदः ससंज्ञकानामिच्छादीनां प्रमात्रादीनां च पर्यालोचने भेद इति भावः || १८ || प्. २१) ज्ञानं च कर्म च परस्परमूलमिच्छा मूलं तयोस्तदुभयं खलु मूलमस्याः | मूर्तित्रयं मतमिदं त्रयमेव सृष्टि- स्थित्यन्तकारणतया त्रिगुणस्वभावम् || १९ || इच्छादीनां मन्त्रसमयसिद्धत्रिकोणभावोपपत्तेव्युत्पादनाभिप्रायेण प्रत्येकमितरद्वयमूलतामुपपादयति - ज्ञानं चेत्यादि | ज्ञानं च कर्म च परस्परमूलं प्रकाशविमर्शस्वरूपत्वात् | प्राक्प्रतिपादितमर्यादयेति भावः | इच्छा तयोर्ज्ञानक्रिययोर्मूलं मिश्रतत्त्वस्योभयमूलत्वं च प्राक्प्रतिपादितं तस्या इच्छायास्तदुभयं मूलं ज्ञानक्रियामिश्ररूपिण्या इच्छायास्तृतीयतत्त्वस्य सिद्धिर्ज्ञानक्रियासिद्धिमूलेति चोपपन्नमिति भावः | इदमिच्छादित्रयमेवोक्तमर्यादया अन्योन्यमूलं सन्मूर्तित्रयं हरिहरहिरण्यगर्भात्मना | महाशक्तिरिच्छादिरूपिण्येवावभासत इति तत्त्वविदामभिमतमित्यर्थः | मूर्तित्रयस्यापि परस्परमूलत्वादिच्छादिभावोपपत्तिः | इच्छादित्रयस्य मूर्तित्रयत्वोपपत्तौ महत्तत्त्वादिकं निधत्ते सृष्ट्यादि | इदमिच्छादित्रयं सृष्टिस्थित्यन्तकारणतया त्रिगुणस्वभावं - भेदरूपस्य मिश्रस्य वा संसारस्येच्छातत्त्वे सृष्टिः ज्ञानतत्त्वे स्थितिः क्रियातत्त्वे संहार इति इच्छादित्रयस्य सृष्ट्यादिहेतुत्वात् त्रिगुणस्वभावता सृष्ट्यादिक्रमेण रजःसत्त्वतमःप्रकृतिता | इच्छादित्रयमेव गुणत्रयस्वभावं चेत्यर्थः || १९ || प्. २२) एतत्त्रयात्मकतया सकलं त्रिरूपं सुप्त्यादिका अपि दशाश्च तथैव तिस्रः | सुप्तिः क्रियाजडतया भवति प्रबन्धो ज्ञानं विमिश्रमनयोः पदमन्यदिच्छा || २० || अत इच्छादिरूपतयैव संसारे सर्वमपि वस्तु त्रैरूप्येणावतिष्ठत इत्याह - एतत्त्रयात्प्रकतयेत्यादि | लोकत्रयं वर्णत्रयं वेदत्रयमित्यादिरूपेण सकलमपि वस्तुजातं पर्यालोच्यमानं त्रैरूप्येणैवावतिष्ठते | तत्रेच्छादित्रयात्मकत्वमेव हेतुरित्यर्थः | इदानीं प्रकृतास्तिस्रः (सुप्त्या)सृष्ट्यादिदशा अपि इच्छाद्यात्मिका एवेत्याह - सुप्त्यादिका इति | सुप्त्यादिदशा अपि अथैवेच्छाद्यात्मिका इति सूत्रकारस्य सामान्योक्ततात्पर्यभूतमुत्तरत्र तद्व्यवहारदर्शनात्पारम्पर्येण गुरुमुखागतत्वाच्चादिकृतं रहस्यप्रमेयमुपदिश्यते | सुप्त्यादीनामिच्छाद्यात्मकत्वेनान्योन्य मूलतायां तुल्यप्राधान्यतया त्रिकोणभावप्राप्तावन्योन्यमादिमध्यान्तभावः सम्भाव्येत तथा च सत्यादिमध्यान्तव्यवस्थित इच्छाज्ञानक्रिअयभावः प्रत्येकमपि सम्भाव्यते | तथा हि भेदसंसारे सुषुप्तिरिच्छा भेदाकारविश्रान्तिरूपत्वात् भेदसंसारप्रारम्भपदत्वाच्च प्रारम्भपदमिच्छादिप्रहतो मार्गः स्वप्नो ज्ञानं किञ्चित्सङ्कोचपदत्वात् | प्रारम्भपदमिच्छेति प्रारब्धस्य किञ्चित्सिद्धिपदं ज्ञानदशेति स्फुटतरपदा जाग्रत् क्रियासङ्कोचस्य पर्यवसितत्वात् प्रारब्धस्य निर्वर्णक्रियेति ऋजुमार्गः | एवमिच्छति जानाति करोतीति पदत्रयव्यवस्थितः सर्वोप्युद्यम इति वेदितव्यम् | अथ पुनर्विश्रमणक्रिअयसमुद्यमे जाग्रदिच्छा कस्यचिदुद्यमस्य निष्पत्तावन्यस्य चोद्यमस्य प्रवृत्तौ मध्ये विश्रान्तिः सम्भवतीति जाग्रद्विरताविच्छालक्षणं विश्रान्तिपदं सम्भवत्येवमन्यत्रापि विज्ञेयम् | निवृत्तिः स्वप्नो ज्ञानं किञ्चिद्विश्रान्तिसमुन्मीलनात् | सुषुप्तिः क्रिया विश्रमरूपा क्रियाया अनुसन्धानात् | तथेह सुप्तिजाग्रतोः प्रत्येकमिच्छात्वं क्रियात्वं च स्वप्नस्य ज्ञानत्वं च निरूपितम् | अथान्यत्पदं निरूप्यते | विकल्पाविकल्परूपत्वादजडविश्रमरूपस्वप्नः प्रकाशपदं जडविश्रमरूपा सुषुप्तिर्विमर्शपदं अनयोरन्योन्यभावपरिग्रहप्रक्रियायां स्वप्न इच्छा जडीभावक्रियाप्रारम्भरूपत्वात् जाग्रज्ज्ञानं जाग्रति प्रकाशस्य स्ववहिर्भूततयावभासमाने वेद्यांशे जडतापरिग्रहात् जडसुषुप्तिः क्रियासमभिलषिताया जडीभावक्रियायाः साकल्येनानुसन्धानात् | अथास्य जडस्वरूपस्य पुनः प्रकाशकरस्या(थ?)ऽजडी भावक्रियासमुद्यम एव सुषुप्तिरिच्छा अजडीभावक्रियाप्रारम्भरूपत्वात् | जाग्रत् ज्ञानं वेदकप्रकाशस्पृष्टस्य (या) वे(द्य)दस्य किञ्चिदजडीभावसमुदयाद् स्वप्नः क्रिया किञ्चि जडाजडरूपस्य साकल्येन अजडीभावक्रियानुसन्धानात् | एवं स्वप्नसुप्त्योः प्रत्येकमिच्छात्वं क्रियात्वं च जाग्रतो ज्ञानत्वं च विज्ञेयम् | अनयैव दिशा जडाजडप्रमातृपदयोर्जाग्रत्स्वप्नयोरन्योन्यभावप्रक्रियायामपि वक्ष्यमाणमर्यादया बिन्दुविसर्गश्लेषरूपत्वेन जडाजडविश्रान्तिरूपसुषुप्तिमध्यकक्ष्यावगाहेन प्रत्येकमिच्छात्वं च योजनीयम् | विश्रान्तिरूपाया अपि सुषुप्तेश्चिदचिन्मयत्वात् ज्ञानत्वोक्तिरनवद्यैव | जीवः सुषुप्त्यवगाहेन विश्रान्तिं जानन्नेव शिवो भवति | शिवश्च तदवगाहेन जडत्वं जानन् जीवो भवतीति सुषुप्तेः मध्यपदत्वमुपपन्नमेवेति निरवद्यकरं प्रमेयम् | एवं सुप्त्यादिपदत्रये यस्य कस्यचिदप्युपक्रमेण विलोमानुलोमभावात् पदत्रयप्रवाहशिवशक्त्यन्योन्यभावसमाधिरपि सिध्यतीति सुप्त्यादिदशात्रयावबोधके मातृकाखण्डत्रये यस्य कस्यचिदप्युपक्रमेणावर्तनं साम्प्रदायिकमेवेति तत्सर्वप्रक्रियानुसन्धानं परिशीलनीयम् | तदुक्तं मातृकासङ्ग्रहरूपस्य बालामन्त्रस्य प्रस्तावे लघुस्तोत्रकारेण क्रमगतं यद्वास्थितं व्युत्क्रमादिति सुप्त्यादिदशात्रयप्रतिबिम्बभूतचतुर्दशारादिचक्रस्कन्धत्रयात्मनः श्रीचक्रस्यापि सपर्याविषये यस्य कस्यचिदपि स्कन्धस्योपक्रमेण बीजत्रयोद्देशेन विलोमानुलोमस्कन्धत्रयप्रवाहे सम्यगनुभवसमाधिसिद्धिरेवेति तदखिलप्रक्रियानुसन्धानमाचार्यवर्याणामिति महामन्त्रयन्त्रप्राणभूतमिदं प्रमेयमिति प्रपञ्चितं स्वप्नजाग्रत्सुषुप्तीनामिच्छाज्ञानक्रियात्वं प्रसिद्धमार्गतया प्रतिपादयैत् सुप्तिः क्रियेत्यादि | क्रियात्वे जाड्यं हेतुतयोक्तं क्रिया खल्ल स्मृतिविलक्षणसाक्षादनुभवरूपतया बहिरुपसन्धानं तज्ज्ञानरूपान्तरानुसन्धानवदजडं न भवतीति क्रियाया जडत्वमनुभवसम्प्रतिपन्नम् || २० || प्. २४) अन्योन्यलीनवपुषोरिह चैत्यचित्योः सुप्त्यदिषु त्रिषु पदेषु भवो द्विरूपः | श्लिष्टः प्रवृत्तिविनिवृत्तिमयो विभाव्यः श्रीचक्रमूलमनुसंस्थितिदर्शनेन || २१ || उक्तमर्यादया सूचितं सुषुप्त्यादीनां जडाजडस्वभावतया द्वैरूप्येणावस्थानं स्फुटीकरोति - अन्योन्यलीनवपुषोरित्यादि | सुप्त्यादिदशात्रयं खलु चिच्चैत्यपर्याययोः शिवजीवयोः संसरणविश्रमणव्यवहारपदं स्वरूपमेव | प्रकाशविमर्शपर्याययोश्चिच्चैत्ययोरन्योन्यलीनत्वं स्वभावः | प्रकाशे खलु विमर्श(वास)ना नैयत्येनावस्थिता विमर्शे च प्रकाशवासना तयोरन्योन्यभावोपादानस्वभावत्वात् त(थै)दैव जडत्वाजडत्वव्यवस्थया तयोः प्रत्येकं स्वरूपभूते सुप्त्यादि दशात्रये अजडेऽजडं जडे वा जडमपि वासनारूपेण निलीनं पर्यायेण परिस्फुरतीति सूत्रतात्पर्यम् | चैत्यचित्योरिति | चैत्यशब्दस्य पूर्वनिपातेन मायाप्राबल्यात् चैत्यपर्यायजीवदशानामेव प्रथमपर्यायस्फुरणमित्यभिसन्धिः | चैत्यचित्योर्जीवशिवयोः क्रमेण प्रवृत्तिनिवृत्तिमयः अत एव द्विरूपो भवः संसारः सुप्त्यादिषु त्रिषु पदेषु श्लिष्टोन्योन्यनिलीनो विभाव्यः जीवशिवपदानामन्योन्यनिलीनतालक्षणश्लेषनिर्णये मूलमाह श्रीचक्रेत्यादि | चक्रं नवत्रिकोण श्लेषविशिष्टं यन्त्रं मूलमनुर्मातृका तयोः संस्थितिः संस्थानविशेषः तद्दर्शनेन पर्यालोचनेन श्रीचक्रसंस्थितिश्चतुर्दशारादिस्कन्धत्रयेऽपि प्रतिस्कन्धं त्रिकोणयोः श्लेषः तेन श्लेषेण प्रत्येकं त्रैरूप्येणावस्थितानां शिवजीवदशानामन्योन्यनिलीनताध्यवसायेन पर्यायेण स्फुरणप्रतिपत्तिः मूलमनुसंस्थितिः खण्डत्रयस्यानुलोमविलोमवर्तनं तेन च प्रवृत्तिनिवृत्तिरूपव्यवस्थयान्योन्यनिलीनानां जीवशिवदशानां पर्यायेणोल्लसनप्रतिपत्तिरिति विवेकः || २१ || प्. २५) इच्छा सुषुप्तिरबहिर्जनितः प्रबोधो ज्ञानं क्रिया भवति जागरणं जडस्य | तुर्यस्थजागरपदादिसुषुप्तिसीमा इच्छादयः खलु दशास्त्वजडाः शिवस्य || २२ || इदानीं विवृतीषत्स्पृष्टिस्पृष्टीषद्विवृतिविवृतिप्रयत्नक्रमेण व्यवस्थितमन्त्रसंस्थानेनावबोध्येन सुप्त्यादिजाग्रदन्तजाग्रदादिसुषुप्त्यन्तप्रवृत्तिनिवृत्तिमार्गयोर्जीवशिवयोः सङ्कोचपूर्णभावाभिव्यक्तिः सहृदयसामयिकहृदयङ्गमेति तन्मार्गोपाश्रयेण तत्समयमवबोधयितुकामः सुप्त्यादीनामिच्छादिभावमुपपादयति - इच्छा सुषुप्तिरित्यादि | सुषुप्तिरिच्छाभेदसंसारा इत्यभिप्रायः अबहिरन्तर्जनितः प्रबोधः स्वप्नः ज्ञानं जागरणं जाग्रदवस्था क्रिया जडस्य जीवस्येवेच्छादीनां समवायनिर्देशः तुर्यस्थेत्यादि | उक्तं खलु प्राक् जाग्रत्स्वप्नसुषुप्तीनामभेदविस्ऽयत्वे तुर्यव्यवहार इति तदभिप्रायेणात्रोक्तं तुर्यस्थजागरपदादीति | तुर्यस्थं तुर्यव्यवहारलग्नं यदभेदरूपं जागरपदं तदादित आरभ्य सुषुप्तिसीमाः तुर्यस्थेन या सुषुप्तिः तदवधिकाः अभेदजाग्रत्स्वप्नसुषुप्तय इत्यर्थः | अजडाः तुर्यस्थलेनैवाजडत्वे सिद्धे पुनरजडविशेषणमनु(धि)ष्ठानतया योजनीयम् | शिवस्येच्छादयो दशा भवन्ति | ननु प्रकाशमयः शिवः प्रवृत्त्यभिमुखो विमर्शमयः पशुर्निवृत्त्यभिमुख इति प्रागुक्तं कथमत्र निवृत्तिरूपिणी तुर्यदशा शिवस्येत्युक्तमिति चिदुच्यते | निवृत्त्याह्बिमुख पशुः शिव इत्येव व्यवह्रियते | प्रवृत्त्यभिमुखः शिवश्च पशुरित्येव व्यव्हारमुपलभत इति महागुरोः सूत्रकारस्य निरवद्यः प्रवचनमार्गः || २२ || प्. २६) अन्तर्मुखी भवति बिन्दुगतिर्विसर्ग- स्योक्ता गतिर्गुरुजनेन बहिर्मुखीति | पूर्वः सुषुप्तिपदमध्यमुपैति जाग्रन् मध्यात्तमृच्छति परस्तु सुषुप्तिमध्यात् || २३ || अथ जीवशिवयोर्बहिर्मुखान्तर्मुखतयान्योन्यविलक्षणस्फुरणमुपपत्तिमदेवेति प्राक्प्रतिपादितप्रक्रियामनुस्मारयन्नाह - अन्तर्मुखीत्यादि | बिन्दुगतिरन्तर्मुखी भवति विसर्गस्य गतिर्बहिमुखीति गुरुजनेनोक्ता | तयोर्विश्रमणसंसरणस्वभावतेति प्राक्प्रतिपादितत्वादत्राप्रतिपादनमिति मन्तव्यम् | अतः कारणात्पूर्वोपसन्निहितवाक्ये पूर्वनिर्दिष्टो बिन्दुः सन्निहितवाक्यपूर्वनिर्दिष्टो जाग्रन्मध्यात्सुषुप्तिपदमध्यमुपैति तिसृणामपि दशानां प्रत्येकं जडाजडभागद्वयस्य प्रतिपादितत्वान्मध्यदेशो भागद्वयस्य सन्धिरित्यवगम्यते | जडजाग्रत्परिसमाप्त्यनन्तराद्बुद्धं तुर्यपर्यायाजडजाग्रत्प्रारम्भपदं जाग्रन्मध्यं ततः पूर्वावधेः सुषुप्तिपदमध्यं अभेदसुषुप्तिपरिसमाप्तिपदमुत्तरावधिमुपैति | परस्तु उत्तरनिर्दिष्टो विसर्ग इत्यवगम्यते | सुषुप्तिमध्यात् अजडसुषुप्तिपरिसमाप्त्यनन्तरोद्बुद्धजडसुषुप्तिप्रारम्भपदात् पूर्वावधेः तं जाग्रन्मध्यं भेदजाग्रत्परिसमाप्तिपदमुत्तरावधिमृच्छति गच्छति | एवं बिन्दुविसर्गयोरन्तर्बहिः प्रसरणप्रक्रिया मन्त्रार्थविवेकादित्यन्तोपयोगिनीति सूत्रकारेण स्फुटीकृतेति वेदितव्यम् || २३ || प्. २७) सुप्त्यादि जाग्रदवधि त्रितयं दशानां जन्तोः प्रवृत्तिवपुषोऽथ निवृत्तिमूर्तेः | तज्जाग्रदाद्यवधिभूतसुषुप्ति शम्भो- रारोहसीमसमुपक्रमणोवरोहः || २४ || उक्तमेवार्थं दृढीकरणाय उपपत्त्यन्तरोपन्यासेन प्रतिपादयति - सुप्त्यादीत्यादि | प्रवृत्तिस्वरूपस्य जन्तोर्जीवस्य दशानां त्रितयं सुप्त्यादिजाग्रदवधि प्रागुक्तमर्यादेवेति भावः | अथेति पक्षान्तरे | निवृत्तिमूर्तेः शम्भोर्दशानां जाग्रदादि अवधिभूतसुषुप्ति सुषुप्त्यवधिमित्यर्थः | अत्र च प्रागुक्तप्रक्रियानुसन्धातव्या | जीवदशाप्रवहणवैलक्षण्येन शिवदशानां जाग्रदादिप्रवहणप्रक्रियायामुपपत्तिमाह - आरोहेति | आरोहस्य आरोहणरूपक्रियायाः या सीमा अवधिः तत्समुपक्रमणं तत्प्रारम्भः खल्ववरोहः प्रसिद्धः | तस्मात्प्रवृत्तिरूपसजीवदशावधिपदं (##? भवतीत्युपपद्यत इत्यर्थः || २४ || प्. २८) तस्मात्प्रवृत्तिविनिवृत्तिमयोभयार्थः स्वप्नः सुषुप्तिरपि जाग्रदपीति गोप्यम् || भेदानि भेदमयजीवशिवाङ्गकानां षण्णां विमिश्रणमिदं प्रकृत्तिर्दशानाम् || २५ || अथारोहावरोहरूपयोः प्रवृत्तिनिवृत्ति(रारोह##? प्रत्येकं भागद्वयाङ्गीकारो रहस्यमार्ग इत्युपदिशति - तस्मादिति | प्राक्प्रतिपादितप्रमेयतात्पर्यस्य हेतुत्वमुक्तं तदुच्यते | जीव एव खलु प्रवृत्तिकर्त्ता निवृत्तिमङ्गीकुर्वन् शिव इत्युच्यते शिवो वा प्रवृत्तिपदे जीवशब्देन व्यवहृतः पुनर्निवृत्तिपदे शिवशब्दव्यवहारं प्राप्नोति न तु जीवशिवयोः पारमार्थिको भेदः अपि तु दशाभेदेनैव भेद इत्येकार्थता | एतदुभयपर्याययोः तयोः प्रकाशविमर्शयोः एवमेकार्थतानुसन्धेया | एवं प्रवृत्तिनिवृत्तिकर्त्र्योरेकार्थंत्वे या प्रवृत्तिरूपा क्रिया तस्या एव निवृत्त्या भाव्यम् | यद्यन्यतः प्रवृत्तिरन्यतो निवृत्तिः तर्हि जीवस्यान्यत्र प्रागुक्तप्रवृत्तिरूपबन्धानुच्छेदेऽन्यत्र निवृत्तिरूपा मुक्तिरिति मुक्तेर्बन्धसहितत्वेन निराकुलानन्दरूपं तल्लक्षणं न प्राप्नोतीति प्रवृत्तिनिवृत्त्योरैकपद्यमेवोपपद्यते | तत्प्रवृत्तिरूपस्यैव दशात्रयस्य निवृत्तिरूपतेति प्रत्येकमवस्थाद्वयमङ्गीकर्तव्यम् | तदेवावस्थाद्वयं भावद्वयमिति व्यपदिश्यत इति प्राक्प्रमेयतात्पर्यम् | तस्मादिति हेतुतयोक्तम् | तस्मात्कारणात् स्वप्नः प्रवृत्तिनिवृत्तिमयोभयार्थः सुषुप्तिरप्येवं जाग्रदप्येवमित्येतद्रहस्यम् | एवं प्रवृत्तिनिवृत्तिसंभावितभेदाभेदमयत्वेन प्रत्येकं द्विस्वभावानां अत एव षण्णां जीवशिवाङ्गकानां दशानां विमिश्रणमन्योन्यलीनतालक्षणश्लेषः प्रकृतिस्वभावः शिवस्याभ्यन्तरे शक्तिः शक्तेरभ्यन्तरे शिव इति यदा शिवशक्त्योरन्योन्यान्तरवस्थानं तदा भेदविभागेन तदङ्गभूतानां जाग्रदादीनां भागद्वयस्यान्योन्यान्तरवस्थानमिति || २५ || स्वप्नप्रजागरसुषुप्तिमयाष्टकोण- पङ्क्त्यस्रयुग्ममनुकोणविराजमाने | यन्त्रेश्वरे हि शिवजीवसमन्वयोऽयं दृष्टः समस्तपरमार्थविदीष्टदेवे || २६ || एवं भेदाभेदभागयोः प्रत्येकमुपपादिततया द्विरूपस्य जाग्रदेकस्य अन्योन्यश्लेषं तत्रेति बिम्बभूते महायन्त्रे संपादयतिस्वप्नप्रजागरेत्यादि | स्वप्नप्रजागरसुषुप्तिमयैः स्वप्नादिप्रतिबिम्बभूतैः अष्टकोणः पङ्क्त्याश्र(य?)को युग्ममनुकोणैः अष्टकोणस्वप्नप्रतिबिम्बं यकारादिहकारान्तैरष्टभिर्वर्णैः स्वप्नतत्त्वावयवानां कलादिशक्त्यन्तानां वक्ष्यमाणत्वात् पङ्क्त्यश्रयुग्मं जाग्रत्प्रतिबिम्बं ककारादिस(न)कारान्तैर्विंशत्त्या वर्णैः जाग्रत्तत्त्वावयवानां पृथिव्यादिश्रोत्रान्तानां वक्ष्यमाणत्वात् मनुकोणश्चतुर्दशकोणः सुषुप्तिप्रतिबिम्बं अकाराद्यौकारान्तैश्चतुर्दशभिर्वर्णैः सुषुप्तितत्त्वावयवानां पृथिवीसंस्कारादिबिन्द्ववर्तसंस्कारान्तानां वक्ष्यमाणत्वात् | एवं स्कन्धत्रयात्मकैश्चक्रैर्विराजमाने यन्त्रेश्वरीमहायन्त्रे अयं शिवजीवसमन्वयः प्रत्येकमवस्थात्रयात्मकशिवजीवश्लेषः दृष्टः | दर्शनं चैवं अष्टकोणादिषु चतुर्दशकोणान्तेषु चक्रेषु | योऽयं त्रिकोणद्वयश्लेषः संलक्ष्यते स एव श्लेषो जीवशिवाङ्गभूतस्वप्नोद्य(##? त्रिकोणः प्रतिबिम्बमिति युक्तं एकैकस्मिन् जाग्रदादिपदे कथं त्रिकोणभवमूलभूता त्रैरूप्योपपत्तिरिति नाशङ्कनीयम् | अवस्थानामिच्छादिरूपतया तस्य चेच्छादित्रयस्य प्राक्प्रतिपादितमर्यादया नित्ययुतस्वभावत्वादेकस्यापि पदे सर्वस्या अपि त्रिपुट्या व्यतिषङ्ग इति निरवद्यम् | यन्त्रेश्वरस्य मातृकाया इव महाप्रमाणतामुपपापयति - समस्तेति | समस्तपरमार्थविदामनेन विशिष्टोपादेयतोक्ता | इष्टदेवे इष्टदेवतारूपेणाभिमते | मन्त्रदेवताभ्यामतिरिक्तं न हि प्रमाणम् | अतो मातृकाचक्रबोधितोऽर्थो न संशयैरुप्स्पृश्यत इति तात्पर्यम् || २६ || प्. ३०) सुप्तिः शशी जडतया तपनोऽपि जाग्र- च्चैत्यस्य सन्तपनमात्रचिदात्मकत्वात् | स्वप्नोनलोगिलितचैत्यतया पशुत्वे सोऽप्यर्क एव दहनः सकलं शिवत्वे || २७ || अथ स्वरस्पर्शव्यापकानां चन्द्रसूर्याग्निव्यवहारोपपत्तिस्तदर्थभूतसुषुप्त्यादीनां चन्द्रादित्योपपत्तिमूलेति तत्प्रमेयं व्युत्पादयति - सुप्तिः शशीत्यादि | जडतया जाड्याद्धेतोः सुप्तिः शशी चन्द्रः ब्रह्माण्डे योऽयं जडस्वरूपश्चन्द्रः स खलु पिण्डाण्डे सुषुप्तिः ब्रह्माण्डपिण्डाण्डयोरन्योन्यकारणकत्वेनैकस्वभावत्वात् | चैत्यस्य वेद्यस्य घटपटादेः सन्तपनमात्रचिदात्मकत्वात् सुषुप्तिगतजाड्यप्रमार्जनादजडत्वस्पृष्ट्युपलम्भनेन यत्सन्तपनं प्रकाशोष्मणा शोषणं न तु तत्सन्तापनमेतद्दहनतन्मात्रचिदात्मकत्वात् तत्परिपाटीव्यवस्थितप्रकाशकात्मकत्वाद्धेतोर्जाग्रदवस्था तपनः सूर्यः जाग्रतः परिच्छिन्नप्रकाशात्मकतया बहिर्गतत्वेनैव चैत्यप्रकाशनं सूर्यस्येव न तु वह्निवत् स्वान्तर्गतत्वेन स्वावधिपर्यन्तप्रकाशनमिति भावः | गिलितचैत्यतया स्वान्तरुपक्षिप्तचैत्यतया स्वप्नोऽनलः स्वप्ने खलु चैत्यं स्वमनोगर्भ एव निलीनं भाति | एवं वह्नित्वेन संभावितस्य स्वप्नस्य पशुत्वविषये सूर्यत्वमेवाह पशुत्वे सोऽप्यर्क एवेति स इति स्वप्नः पशुः खलु स्वप्ने स्वमनोगतत्वेन स्वान्तस्थमपि जगन्मायया स्वबहिष्ठमेवानुसन्धत्ते | जाग्रति पतितो जाग्रदिव स्वप्नोऽपि पशोः सूर्य एवेत्यनुभवसंप्रतिपन्नं शिवत्वे सुप्त्यादीनां विशेषमाह - शिवत्वे सकलं दहन इति | सकलं सुप्त्यादित्रयं दहनोऽग्निरेव सर्वत्र दशायामभेदवासनापाटवेन जगत्कवलनादिति भावः || २७ || प्. ३१) चैत्यातिविस्फुरणसीम्नि खलु प्रतिष्ठा जाग्रत्यणोरथ तुरीयपदान्तरर्थे | शम्भोर्विमर्शवति जाड्यमलव्यपेते जाग्रत्सुषुप्तिदशयोः सममध्यभागे || २८ || अथ जीवशिवयोर्दशात्रये सर्वत्र वा कुत्रचिद्वा स्वात्माभिमानदार्ढ्यमित्याकाङ्क्षायां मन्त्रतात्पर्यमभिसन्धायाह ##- अवधिः तत्र जाग्रति भेदपरमावधौ अणोर्जीवस्य प्रतिष्ठा स्वात्मनोऽभिमानदार्ढ्येनावस्थानं जाग्रत्पदबोधकेषु स्पर्शेषु मकारस्य जीवकलास्थानत्वेन वक्ष्यमाणत्वात् | अथ शम्भोर्विमर्शवति अत एव जाड्यमलव्यपेते जाग्रत्सुषुप्तिदशयोः सममध्यभागे अभेदविकल्पपदमत्र जाग्रद्विवक्षितं निर्विकल्पपदं सुषुप्तिः तयोर्मध्यभागे सन्धिरूपस्य तस्य पदस्य विकल्पाविकल्पोभयपदव्यापकत्वात् | अभेदविकल्पाविकल्पसन्धिपदबोधकस्य क्षकारस्य शिवकलास्थानत्वेन वक्ष्यमाणत्वात् || २८ || प्. ३२) माता शशी भवति मेयपदं पशुत्वे वह्निः प्रमाणमिह तिग्मरुचिः क्रियाग्र्यम् | मातानलः शिवपदे हिमगुः प्रमेयं ज्ञानाग्र्यभाग इह तुर्यरविः प्रमाणम् || २९ || अथ जाग्रन्मध्यमपदकस्य मार्गस्य प्रमेयमाह - माता शशीत्यादि | पशुत्वे शशी सुषुप्त्यात्मकस्वरखण्डार्धश्चन्द्रः माता प्रमाता भवति | पशुत्वे चन्द्ररुपस्य वेद्यस्यैव व्याप्तिः मेयपदं वह्निः स्वप्नात्मकं व्यापकखण्डार्धो वह्निः प्रमेयपदं भवति | पशुत्वे वह्निरूपस्य वेदकस्य व्याप्यत्वात् | इह पशुत्वे तिग्मरुचिः जाग्रदात्मकस्पर्शखण्डार्धः सूर्यः क्रियाग्र्यं वेद्यांशप्रधानं प्रमाणं वेद्यवेदकोभयात्मके प्रमाणे पशुदशायां वेदकांशव्यापकतया वेद्यांशप्राधान्यमवलम्बते | अथ शिवतायां चन्द्रादेर्भावान्तरग्रहणमाह शिवपदे अनलपदकः प्रमाता शिवपदे वेदकस्य व्यापकत्वात् तत्र हिमगुश्चन्द्रः वेद्यं प्रमेयं व्याप्यत्वात् इह शिवतायां तुर्यरविः अभेदजाग्रद्रूपो रविस्तुर्यरविः ज्ञानाग्र्यभागं वेदनप्रधानांशकं व्याप्तिमत्तया प्रधानभूतवेदकांशं प्रमाणं भवति | अयं सुप्त्यादिस्वप्नान्तमार्गे विवेक इति वेदितव्यम् || २९ || प्. ३३) चैत्यप्रमातुरिह यज्जडमेव मानं तच्चित्प्रमाणमनुजीवति तद्धि चैत्यम् | चित्तत्त्वमेव नियमादनुजीवदेतन्- नात्यश्नुते स्वमिव चित्तदिदं विभेदि || ३० || अथ विसर्गरूपस्य वेद्यप्रमातुर्भेदरूपतोपपत्तिमाह - चैत्यप्रमातुरित्यादि | इह जाग्रन्मध्यमपदके मार्गे चैत्यप्रमातुः चैत्यरूपस्य प्रमातुः जडमेव क्रियारूपतया जडमेव यावन्मानं प्रमाणं वेद्यकवलनसाधनं तच्चितिप्रमाणं चितः साधनभूतं ज्ञानरूपं प्रमाणमनुजीवति अनुप्राणिति | अत्रायमभिप्रायः पशुत्वे वेद्यस्य कवलयतः पृथिव्यादिरूपस्य वेद्यप्रमातुस्तत्कवलने व्याप्तौ साधनं शब्दादिपञ्चकं शब्दादिभिः खलु स्वधर्मभूतैः साधनैः पृथिव्यादयो वेदकं बध्नन्ति | तत्र शब्दादयो जडत्वाद्वेदकस्य साधनं विमर्शरूपत्वादजडं श्रोत्रादिकमनुजीवन्ति | श्रोत्रादीनामेव शब्दादिव्याप्त्यनुसन्धानेन शब्दादीनां व्याप्तिप्रसादसिद्धिरिति भावः | अतो वेद्यप्रमाणस्य वेदकप्रमाणसापेक्षकार्यकारित्वम् | तच्च चैत्यं प्रमातृचित्तत्त्वमेव नियमादनुजीवति | चित्तत्त्वाभावे चैत्यव्याप्त्यनुसन्धातुरभावाच्चैत्यव्याप्तेरसिद्धिरेव | अपि च चैत्यस्वरूपस्याप्यसिद्धिः प्रथत इति चैत्यव्याप्तिपदे चितः शिरोदर्शनमवश्यमिति चिद्व्याप्तिपदे चैत्योच्छेद इव चैत्यव्याप्तिपदे चितो नोच्छेदः | अतश्चैत्यं स्वव्याप्तिपदे चित्सहितमेवेति भेदस्योपपत्तिरिति तात्पर्यम् | चित् स्वमिवात्मानमिव एतच्चित्तत्त्वं कर्म नात्यश्नुते नात्यन्तमुत्सादयति तत्तस्मात्कारणादिदं चैत्यं विभेदि भेदवत् || ३० || प्. ३४) जाड्यादचिन्न विमृशत्यपि मातृभावे तां चित्कलेव गिलितात्मपदां मृशन्ति | मोहेन कल्पयति मातृदशाममुष्या व्याप्तिर्हि मातृपदलक्षणतोपपन्ना || ३१ || उक्तमेवार्थं स्फुटीकरोति - जाड्यादित्यादि | अचित् चैत्यं मातृभावेऽपि स्वव्याप्तिकपदेऽपि जाड्याद्धेतोर्न विमृशति | न हि पृथिव्यादौ चैत्यविमर्शः तां अयति संपादयति | एवं चेद्विमर्शवतो वेदकस्येव वेद्यव्याप्तिपदेऽपि प्रमातृत्वमस्त्विति चेत् नेत्याह | अव्याप्तेर्मातृलक्षणत्वं व्याप्तिमात्रतावच्छिन्नप्रमातृलक्षणरूपविमर्शवतोऽपि वेदकस्य तृतीयपदमपि व्याप्यत्वाभिमानदोषेण व्याप्यत्वान्न प्रमातृत्वमिति तात्पर्यम् || ३१ || मानं तृतीयपदभागपि बाह्यतस्तु मध्ये विमिश्रणमिदं खलु मेयमात्रोः | मिश्रं हि मध्यमपदे निखिलस्य दृष्टं द्वैरूप्यमस्य च नपुंसकता च धाम्नः || ३२ || इदानीं स्पर्शार्धस्य जाग्रद्रूपस्य प्रमाणात्मनः सूर्यस्य मेयमातृमिश्ररूपतया तदुभयसिद्ध्यनन्तरं सिद्धिरापन्नेति तृतीय (पदत्वे स्वीकृते) स्वयं कृते स्वपदौचित्यं कथं मध्ममरूपद्वितीयपदौचित्यमित्याशङ्कां परिहरति - मानमित्यादि | मानं प्रमाणं तृतीयपदभागपि बाह्यतस्तु मध्यविश्रान्तिपदे निराग्रहरूपेण सिद्धस्वरूपयोर्मयमात्रोर्बाह्यतयाऽन्योन्यव्यातिस्वभावतया तत्स्वभावपरिग्रहसन्नाहरूपप्रमाणस्य द्वितीयकक्ष्यारोहित्वम् | एतदुक्तं भवति | विश्रान्तावन्तर्मुखयोर्मेयमात्रोरन्योन्यव्याप्त्याग्रहानुदयात्स्वा##- तयोराग्रहोदयेनाभिमुख्यं भजतोर्मध्ये प्रमाणपदाविर्भाव इति वेदितव्यम् | अतस्तृतीयपदत्वं बहिर्मध्यकक्ष्यारोहेण द्वितीयपदत्वं प्रमाणस्येति निष्कर्षः | अक्षरार्थस्तु मानं तृतीयपदभान्यपि बाह्यतस्त्विति बाह्ये विशेषकथनादिदमन्तरेति गम्यते | बाह्यतस्तु मध्यम् | अत्रोपपत्तिमाह - इदं प्रमाणं मेयमात्रोः विमिश्रणं अन्योन्यभावग्रहणमार्गत्वात्सन्निपातपदं व्यामिश्रणपदस्य मध्यत्वोपपत्तिमाह | निखिलस्य वस्तुनोऽहोरात्रादेर्मिश्रं सन्ध्यारूपं पदं मध्यमपदे दृष्टं तस्य धाम्नः पदस्य द्वैरूप्यं द्विस्वभावत्वं शक्तिशिवात्मकतया स्त्रीपुमात्मकमेयमातृसङ्करतया नपुंसकता चेति वेदितव्यमिति शेषः || ३२ || प्. ३५) रश्मीननूदयति बिम्बमतः स्वरेषु सर्गः सितांशुरणुबिन्दुरिनश्च कादौ | यादौ शिखी महितबिन्दुरिति त्रिखण्ड्या वर्णक्रमेण विदितं त्रिमहोमयत्वम् || ३३ || अथ स्वरादीनां प्रसिद्धं चन्द्रादिभावं सोपपत्तिकं प्रतिपादयति - रश्मीनित्यादि | बिम्बं सूर्यादीनां बिम्बं रश्मेरनु किरणानां पश्चादुदयति | अवयवोदयानन्तरमवयव्युदय इति बहुमतमित्यर्थः | अतः तस्मात्कारणात् स्वरेषु विसर्गः सितांशुश्चन्द्रः अधिष्ठितश्चेति शेषः | अकारादिविन्द्वन्तानां पञ्चदशस्वराणां विसर्गापेक्षया प्रथमोच्चारणमेव प्रथमोदयोपलक्षकतया चन्द्रकलात्वसमर्पकम् | एवं चाकारादिबिन्द्वन्तपञ्चदशस्वराः कलाः षोडशकलारूपो विसर्गश्चन्द्रस्वरूपमित्युपपादितम् | तथैव कादौ स्पर्शकदम्बके अणुबिन्दुः परिच्छिन्नबिन्दुः अन्योन्यान्तर्गतमेयमातृमिश्रस्वभावतया सा(?)पादिभान्तचतुर्वर्णकलाद्वयरूपाङ्गाङ्गिरूपः इनः सूर्यो वाधिष्ठातेति शेषः | सूर्यस्य द्विस्वभावत्वादक्षरद्वयात्मकाः कलाः | अतः ककारादिनकारान्तैर्विंशत्या वर्णैर्दशकलाः सम्पद्यन्ते | तासां च पूर्ववदवयवकलात्वविवेकः | एकादश्या द्वादश्याश्च कलाया यादिस्वरूपायाश्च तथा | यरलवादौ वर्णगणे महितबिन्दुः (अत्रोपेतव्यः) अनग्न्योपेतव्यः शिखी अनलः अधिष्ठातेति शेषार्थः पूर्ववत् इति वर्णक्रमेण त्रिखण्ड्या मातृकाखण्डत्रयस्य त्रिमहोमयत्वं चन्द्रादितेजस्त्रितयस्वभावत्वं विदितम् | अत्रायं सारो बिन्दु क्षकारादेः साम्प्रदायिकोपदेशः प्राक्प्रतिपादिते स्वप्नमध्यपदे मार्ग इव अत्रापि जाग्रन्मध्यपदे मार्गे चैत्यचित्पर्याययोर्विसर्गबिन्द्वोरन्योन्यनिलीनतालक्षणश्लेषः सुप्त्यादिपदत्रयावबोधके स्वरादिखण्डत्रये विभाव्यः | स्वरेषु तावदेकमात्रद्विमात्ररूपा बिन्दुविसर्गकलाः प्रथमद्वितीयोच्चारणोपलक्षितयोरन्तर्बहिःकक्ष्ययोः स्थिताः | तथैव तत्पर्यन्ते समुच्चारणप्रयत्नोपलक्षितान्तर्बहिः प्रसरणौ बिन्दुविसर्गौ तौ तदत्र जडविश्रान्तिपदसुषुप्तौ बहिर्विसर्गोऽन्तर्बिन्दुरिति शक्तेरभ्यन्तरे शिव इति चैत्यपर्यायशक्तितत्त्वाद्यवस्थादयः | अथाजडविश्रान्तिरूपस्वप्नावबोधके व्यापकवर्गे यवर्गस्येषत्स्पृष्टाविषयत्वेन भेदप्रमातृकलात्वात् विसर्गकलात्वं शवर्गस्य विवृतताविषयत्वेनाभेदप्रमातृबिन्दुकलात्वप्रवृत्तिनिवृत्तिमेलनात्मनो व्यापकवर्गस्य उभयपर्यन्तगतौ मकारक्षकारो भेदाभेदकलाधिष्ठातारौ विसर्गबिन्दू | अत्रापि प्रथमद्वितीयोच्चारणोपलक्षिते अन्तर्बाह्यकक्ष्ये अतो बिन्दुगर्भे विसर्ग इति शक्तेरभ्यन्तरे शिव इत्यस्य स्वप्नात्मनो विश्रमपदस्य शिवतत्त्वतयाध्यवसायः | अथान्योन्यग्रहणपदजागरावस्थाबोधके स्पर्शस्कन्धे कार्यज्ञेयरूपपृथिव्यादिगन्धादिरूपदशविषयकरणज्ञानसाधनरूपप् आयवादिघ्राणादिदशेन्द्रिययोगाद्दशकलानिष्पत्तिः | तत्र विषयाणां जडत्वाद्विसर्गरूपता इन्द्रियाणामजडत्वाद्बिन्दुरूपता | अत्र ग्रहणपदे कादीनां प्रथमोच्चारणरूपः पूर्वनिपातोऽभ्यर्हिंतग्राहकत्वमभिव्यक्तिद्वारा वेद्यतत्त्वस्य प्रथमव्याप्तिमुपपादयैत् | सुप्तिस्वप्नयोस्तु विश्रान्तिपदत्वाद्बिन्दुविसर्गयोः पूर्वनिपातोऽभ्यर्हितविश्रान्तिताभिन्नान्तरत्यन्तनिलीनतामापादयति | इति निरवद्यं प्रमेयं स्पर्शपर्यन्ते पादिभान्तवर्णचतुष्कसंबन्धिद्विद्विवर्णनिष्पन्नं कलाद्वयं विन्दुविसर्गरूपमधिष्ठातृद्वयं प्रमाणकलानां मेयमातृमिश्रतया द्विद्विवर्णनिष्पन्नत्वाद्वर्णचतुष्केणाधिष्ठातृतदङ्गबिन्दुविसर्ग##- विसर्गांशव्याप्तिः प्रवृत्तिपदे | अथ निवृत्तिपदे वेदकव्याप्त्यां खण्डत्रयेऽपि विन्द्वंशव्याप्तिरित्यनुसन्धेयम् || ३३ || प्. ३४) खण्डक्रमेण शशिनो दहनाङ्गतोक्ता तद्व्युत्क्रमेण जडभानुगुणत्वमग्नेः | खण्डेषुच क्रमविलोमजपेन चैत्य- चित्योः परस्परपदाक्रमरीतिरुक्ता || ३४ || खण्डत्रयस्य प्रथमं स्वरादिपाठस्तदनन्तरं व्यापकादिपाठश्च प्रथमं वेद्येन वेदकाक्रमणं पश्चाद्वेदकेन वेद्याक्रमणं बोधयतीति उत्तरेण सूत्रेणाह - खण्डक्रमेणेत्यादि | खण्डक्रमेण स्वरादिखण्डानां क्रमेणानुलोमपाठेन शशिनश्चन्द्रस्य दहनाङ्गता दहनः अङ्गं यस्येति विग्रहः | तद्भावस्तत्ता | उक्ता | तद्व्युत्क्रमेण तेषां खण्डानां व्युत्क्रमेण विलोमपाठेन अग्नेः जडभानुगुणत्वं जडभानुश्चन्द्रः गुणोऽङ्गं यस्येति विग्रहः | पूर्ववत् उक्तमित्यनुषञ्जनीयम् | अ(त्र)खण्डानां क्रमव्युत्क्रमोक्त्या अकारादिक्षकारान्तवर्णानां क्रमव्युत्क्रमपाठोक्तिरसती स्फुटेति स्फुटत्वायाह - खण्डेषु चेति | खण्डेषु च क्रमविलोमजपेन क्रमः अनुलोमः विलोमस्तद्विपर्ययः तथाविधेन जपेन चैत्यचित्योर्विसर्गबिन्द्वोः परस्परमाक्रमरीतिः आक्रमः आक्रमणं रीतिः प्रक्रिया उक्ता | अनुलोमजपेन चैत्येन चिदाक्रमणं विलोमजपेन चिता चैत्याक्रमणमिति योजना || ३४ || प्. ३८) स्वप्नश्च जाग्रदपि वासरपूर्वयामौ तुर्यं पदद्वयवदुत्तरयामयुग्मम् | सुप्तिस्तुरीयलयभुः प्रथमं क्षपार्धं स्वप्नप्रजागरदशालयभूर्द्वितीयम् || ३५ || इति श्रीमातृकाचक्रविवेके तात्पर्यविवेकः प्रथमः खण्डः || १ || अथ स्वप्नमध्यमे मार्गे दशानां पुनः पुनरावृत्त्या कालरूपतां व्यवस्थापयति - स्वप्नश्चेत्यादि | अहोरात्ररूपः खलु कालः अष्टयामात्मकः | तत्र स्वप्नश्च जाग्रदपि वासरस्य प्रहमयामः स्वप्नः सुषुप्तिरूपिण्या रात्रेरनन्तरं प्रवर्तमानत्वात् | वासरस्य द्वितीययामो जाग्रत्स्वप्नानन्तरं प्रवर्तमानत्वात्ग्राहकरूपेण प्रमाणरूपभेद स्फुरणपरमावधित्वाच्च पदद्वयवत् | निवृत्तिजाग्रत्स्वप्नरूपपदद्वययुक्तं तुरीयम् उत्तरयामयुग्मं वासरस्येति संबन्धः | तत्र तुर्यजाग्रत्तृतीययामभेदः संसारस्य निवृत्तिप्रारमभरूपत्वात् तुर्यस्वप्नश्चतुर्थयामः भेदरवेः रूपजाग्रतो भेदसन्तापस्यातिमात्रनिवृत्तेः | अथ तूरीयलयभूः उक्तनिवृतीजाग्रत्स्वप्नरूपतुरीयतादशाविश्रान्तिभूमिः सुप्तिः | सुप्तिः खलु भेदाभेदरूपाणां संसारदशानां विश्रमपदं कारणरूपत्वात् | अतस्तुर्यजाग्रद्विश्रान्तपदं सुषुप्तिरूपिण्या रात्रेः प्रथमयामः | तुर्यस्वप्नविश्रान्तपदंद्वितीययाम इति तुरीयलयभूः सुप्तिः प्रथमं क्षपार्धं यामद्वयं स्वप्नजागरदशालयभूः सुप्तिः द्वितीयं क्षपार्धं स्वप्नविश्रमपदं तृतीययामो जाग्रद्विश्रमपदं रात्रिचतुर्थयाम इति सम्यगनुभवतां हृदयङ्गमप्रमेयतया मन्त्रार्थप्राणभूतत्वाच्चैतदुपदिष्टम् | अथ प्रकरणपरिसमाप्तिवाच्यग्रन्थस्योपपत्तिमन्नामोद्देशमुपदिशन्नेतरस्य ग्रन्थप्रमेयाङ्गतां स्फुटीकरोति - इतीत्यादि | अत्र मातृकाशब्दस्य तन्त्रेण द्विरुक्तिरवगन्तव्या तेन मातृका च मातृकाचक्रं चेति लभ्यते | तयोर्विवेकोऽत्रेति विग्रहः | मातृका मन्त्रो मातृकायाश्चक्रं मातृकाचक्रं मातृकावर्णसन्निवेशवशेन संभूतं चक्रं मातृकैव चक्राकारेण सन्निवेष्टेति भावः | तहा हि मन्वस्रे अकाराद्यौकारान्तचतुर्दशस्वरेषु विन्दुकलानां सप्तानामेकभागे सन्निवेशः विसर्गकलानां सप्तानामन्यभागे चक्रमध्ये प्रतिकोणं कोणाभ्यन्तरभागविभावितेषु चतुर्दश दलेषु दलमूलविभावितवृत्ताकारदलतत्कर्णिकावृत्तरूपदलसहितेषु षोडशसु षोडशदलपद्मरूपविन्दोर्विसर्गचन्द्रस्तेष्वेव दलेषु एकैकदलव्यवहितदलाष्टकसंभाविताष्टदलपद्मबिम्बो बिन्दुवह्निरिति बिन्दुविसर्गवर्गयोः प्. ४०) सन्निवेशः विसर्गव्याप्तेः प्राधान्ये विसर्गस्य बहिर्निवेशः बिन्दोस्त्वन्तर्व्याप्यत्वेनाभिमतत्वाद्बिन्दुव्याप्तौ बिन्दुपदे बाह्यत्वाभिमानः विसर्गपदेऽन्तरभिमान इत्यभिमानस्योभयाकारसंभवादनवद्यम् | दशारयुग्मे विस्ऽयेन्द्रियरूपविंशतिवर्णानां विंशतिकोणेषु यथाभिमुख्यं सन्निवेशः बहिर्दशारबाह्ये विदिक्चतुष्टयोपलक्षितमर्मचतुष्टयस्य प्रतिपदमन्तर्भागविभावितत्रिकोणचतुष्टये प्रकृत्यादिमनोऽन्ततत्त्वरूपाणां पादिभान्तानां सन्निवेशः | अथवा वेद्यवेदकरूपे कादिभान्तवर्णकदम्बके कादयो द्वादशवर्णा वेद्यरूपा अवरोहक्रमेण भकारप्रभृतिद्वादशवर्णा वेदकरूपाः तेषां यथाक्रममन्वयेन द्वादशकलानिष्पत्तिः | तत्र प्रथमतः कलाद्वयं बिम्बरूपं इतराः कला अवयवभूताः कोणेषु सन्निवेश्याः | वेद्यवेदकव्याप्तिप्रक्रिया पूर्ववत् | अष्टकोणे एकतो भागे चतुर्षु कोणेषु यादिलान्तवर्णचतुष्टयसन्निवेशः | अन्यतो भागे चतुर्षु कोणेषु शादिहान्तवर्णचतुष्कविन्यासः | यादिचतुष्कमूले शादिचतुष्कान्ते च त्रिकोणबिन्दुरूपचक्रद्वये गुणत्रयावृतगुणोत्तीर्णजीवशिवरूपयोः मकारक्षकारयोः सन्निवेशः तयोरन्योन्यव्यापकतयाभिमुख्येन चक्राद्यन्तोपलक्षके चक्रमध्ये विनिवेश इत्यनवद्यम् इति वर्णसन्निवेशप्रक्रिया किञ्चिदुन्मीलिता मन्त्रार्थानुरोधेन मतिमद्भिर्वर्णसन्निवेशाच्चक्रे विशेषवत्तया कृतोऽपि अर्थाविशेषाभावात्प्रतिपादितेन सवर्णानुरूपेण अनुरुध्यत इत्यनवद्यम् | द्विवेकरूपः | इदं च प्रकरणं ग्रन्थतात्पर्यप्रमेयमित्युक्तमिति शिवम् || ३५ || विद्यामातृविवेचने पुरभिदः प्रज्ञापि संमुह्यतीत्यर्थाद्दशारयुतद्विदशारचतुर्विंशतिदलविवेके तन्नेत्यनेन कलाद्वादशके रवेर्दशावयवकला सद्विस्वरूपकले वेदितव्ये | अष्टकोणे चैवमष्टदलविवेके वह्न्यवयवकला | प्. ४१) चक्रं (त्रित्रिककोण) यत्संनिवेशोवहिर्मन्वस्त्रे प्रथितस्तदत्र न हि मे गर्हा प्रमादे गिराम् || मातुर्मन्त्रतनोर्मिंथश्च समये मययन्यतो दुर्लभ | स्वाङ्गक्रीडनयोग्यतावितरणाद्यत् (?)पुत्रकोऽहं कृतः || शिवानन्देन मुनिना देशिकादेशवर्तिना | व्याख्यातं मातृकाचक्रविवेके प्रथमं पदम् || १ || अथ द्वितीयः खण्डः | मायाबलात्प्रथमभासि जडस्वभावं विद्योदयादथ विकस्वरचिन्मयत्वम् | सुप्त्याह्वयं किमपि विश्रमणं विभाति चित्रक्रमं चिदचिदेकरसस्वभावम् || १ || अथ मन्त्रखण्डानां दशाचतुष्टयाभिधानप्रक्रियां प्रतिपदमारभमाणस्तत्रादौ जीवशिवयोर्विश्रान्तिपदत्वेन सर्वसंसारबीजरूपतया चाभ्यर्हितां सुषुप्तिं तदवच्छेदके स्वरखण्डे वितत्य विवरिष्यन् जडाजडरूप(त)यासुप्ति(प्ते)रेकपदे सामरस्येन स्थितिचमत्कारमभिष्टौति | मायेत्यादि | चिदचिदेकरसस्वरूप चिदचितोस्तत्त्वयोर्य एको रसः गजवृषभचित्रन्यायादन्योन्याऽविरोधेन एकपदानुप्रविष्टोभयतत्त्वमध्यसम्भूतो रसः | यत्र रसे जडस्याऽजडस्य च तत्त्वस्य प्रत्येकं भागकरणं विना सर्वत एव स्वरूपानुप्रवेशः यदैकस्मिंशिच्त्रविशेषे गजवृषभयोः प्रत्येकमनुप्रवेशो भागकरणं विनैव साकल्येन तद्वत् | सोऽयं जडाजडमध्यैकरसः स्वभावः स्वरूपं यस्य तत्सुप्त्याह्वयं सुप्तिरिति व्यवह्रियमाणं किमपि अनिर्वचनीयं अनुभवैकवेद्यमिति यावत् | विश्रमणं विश्रान्तिः विभाति सर्वस्यानुभवविषयं स्फुरति | एतत्सुषुप्तिविश्रमणं विशेषण मुखेन स्फुटं व्युत्पादयति | चित्रेति मायेत्यादि च | चित्रस्याऽलेख्यविशेषस्य गजवृषभश्लेषकादेः क्रम इव क्रमः प्रकारो यस्य तत् | एकस्मिन्नेव सुप्तिविश्रमे जडाजडपर्याययोर्विसर्गबिन्द्वोः प्रत्येकं सर्वतोऽनुप्रवेश इति | चित्रविशेषसादृश्यं सुप्तिदशाया जडत्वं तावत्सर्वस्यानुभवसिद्धत्वात् सम्प्रतिपन्नम् | अजडत्वं तु एतावन्तं कालं सुखमहमस्वाप्समिति सुप्त्यन्तसम्भावितसुषुप्तिसुखानुवादेन गम्यते | चित्रशब्दस्य अद्भुतार्थत्वमप्यवगन्तव्यम् | एकस्यां सुप्तौ अन्योन्यविरुद्धजडाजडसामरस्यमद्भुतमिति | एवं सुप्तिविषययोः जडाजडप्रतीत्योर्मध्ये जडप्रतीतेः प्राथम्यमुपपादयति मायेति | मायैव विद्यातो बलीयसी बाह्यकक्ष्याविलसनशीलतया पाश्चात्यस्फूर्तिः स्फूर्तिप्राथम्यलक्षणं बलीयस्त्वं न लभते | उत्पत्तौ तु विद्याया एव प्राथम्यं न मायायाः अतो मायाबलात् सुप्तिविश्रमणप्रथमभासे जडस्वभावं अथ विद्योदयादविकस्वरचिन्मयत्वं चित्सामरस्येन निस्पन्दस्ये(स्यै)व (चित्)तत्त्वस्य युगपज्जडाजडान्योन्यव्या(प्ति)पिरूपस्पन्दं चमत्कारश्चेति | सामरस्यजडाजडपर्यायाणामिच्छाज्ञानक्रियाणां यामलत्वमेव सिद्धान्ततया मन्त्रेणोच्यत इत्यवगन्तव्यम् | अतः सुप्त्यादिदशासु सामरस्यं स्पन्दद्वयं च यामलं च सर्वतो विभावनीयम् | इच्छाज्ञानक्रियापर्यायस्य सामरस्यस्पन्दद्वयात्मनः पदत्रयस्य यामलत्वादेव एतदनन्तरमेतदिति न क्रमो नियतः || अत एव तत्त्रितयबोधकानां मन्त्रखण्डानां न पौर्वापर्यक्रमः | तदात्मनो महाचक्राङ्गभूतचक्रत्रितयस्य च न क्रमनियम इति सर्वत्र स्कन्धत्रयस्य प्रत्येकं प्राधान्याभिव्यक्त्यर्थं तत्तदाद्यावर्तप्रक्रिया प्रागुपपादिता || १ || ३६ || प्. ४४) माता नभःक्षितिविमिश्रपदं प्रमाणं वायुः शिखी च सलिलं च मही च मेयम् | ज्ञानात्मपूर्वपठितं युगलत्रयेऽपि पश्चादुदीरितमिहाभिमतं क्रियात्म || २ || अथ स्वरवर्णप्रस्तावे सर्ववर्णानां सामान्यभूतं भूतपञ्चकाभिधायकत्वं व्युत्पादयिष्यन् भूतपञ्चकस्य सकलसंसारकलापभूतप्रमातृप्रमाणप्रमेयात्मतां व्युत्पादयति | मातेत्यादि | नभः क्षित्योर्विमिश्रपदं माता | देहात्मनोः पृथिव्याकाशरूपयोरुभयोरपि प्रमात्रभिमानविषयत्वात् | वायुः शिखी च उभयं प्रमाणं शिखी वह्निः सलिलं च मही च उभयं प्रमेयं देहात्मनोरन्यतरस्मिन् प्रमातृत्वाभिमाने इतरस्य प्रमेयत्वमिति | पृथिव्याकाशयोरुभयोरपि प्रमेयत्वं सम्भवत्येव | अत्रा(काशा)त्मनः प्रमातृत्वपक्षापेक्षया पृथिव्याः प्रमेयत्वमुक्तमिति मन्तव्यम् || ज्ञानक्रिययोरित रेतराऽविनाभावस्वभावत्वात् || प्रमात्रादिपदत्रये प्रत्येकपदं तयोर्द्वयोरपि स्थितिरिति तद्विभागमाह ज्ञानात्मेत्यादि | युगलत्रयेऽपि नभःक्षितिवायुशिखिसलिलमहीरूपे युग्मत्रयपूर्वपदे तन्नभोवायुसलिलरूपं ज्ञानात्मा | पश्चादुदीरितं क्षितिशिखिमहीरूपं क्रियात्म | ज्ञानम्प्रमाता आकाशः क्रिया प्रमाता क्षितिरूपो देहः ज्ञानं प्रमाणं वायुः क्रिया प्रमाणं वह्निः ज्ञानं प्रमेयं सलिलं क्रिया प्रमेयं महीति विभागः | अयं विभागः उत्तरत्र ज्ञानक्रियाप्रमात्रोरितरेतरव्याप्तौ प्रमाणादिपदद्वयेऽपि तत्तदंशत्वं भवेदिति तत्रोपयुक्ततयाऽत्र प्रदर्शित इति मन्तव्यम् || २ || प्. ४५) वर्णाः स्ववायुशिखितोयधराः क्रमेण स्युः कण्ठतालुकशिरोरदनोष्ठजातः | स्थानोच्चयापचयजौ महदल्पभावौ स्याद् व्युत्क्रमः पशुपदे सलिलानिलादौ || ३ || एवं प्रमात्रादिरूपतया सकलसंसारकलापस्य भूतपञ्चकस्य वर्णबोध्यत्वं सम्बन्धप्रवचनपूर्वं व्युत्पादयति - वर्णा इत्यादि | कण्ठतालुकशिरोरदनोष्ठजाताः कण्ठादिपञ्चस्थानसम्भूता वर्णाः अकारकवर्गहकाराः कण्ठजाः इकारचवर्गयकारशकारास्तालुजाः ऋकारटवर्गरेफषकाराः शिरोभवाः ऌकारतवर्गलकारसकारा दन्तजाताः उकारपवर्गवकारा ओष्ठजा इति वैयाकरणमतानुसारेण वेदितव्यम् | उभयसन्धिरूपाणां सन्ध्यक्षराणामुभयरूपता कूटाक्षरस्य स्थानकूटजन्यत्वमिति विवेकः | कण्ठाद्योष्ठान्तपञ्चस्थानजाता वर्णाः क्रमेण खवायुशिखितोयधराः आकाशादिपृथिव्यन्तपञ्चभूतबोधकाः | बोध्यबोधकयोरभेदोपचाराद्वर्णानामाकाशादित्वोक्तिः | कण्ठादिस्थानजातानां वर्णानामाकाशादिबोधने सम्बन्धमुपपादयति - स्थानेति | महदल्पभावौ आकाशादीनां महावृत्त्यल्पवृत्तित्वेन मिथः प्रसिद्धानामन्योन्यापेक्षया महानल्पश्च उभौ भावौ स्वभावौ स्थानोच्चयापचयजौ स्थानस्य कण्ठादेः उच्चयः उच्चत्वं अपचयो नीचत्वं ताभ्यां जायेते सम्भाव्येते इति तज्जौ | अयमत्राभिप्रायः - वर्णानां सुप्त्यादिदशावबोधने यथा सदृश्यं सम्बन्धः तेषामाकाशाद्यवबोधने च सादृश्यमेव सम्बन्धः | स्थानपञ्चके कण्ठस्य सर्वोन्नतस्थानतया तद्भवो वर्णो महावृत्तिर्भूतपञ्चके महावृत्तिमाकाशं सादृश्येनावबोधयति | एवं तालुभवः शिरोभवाद्यपेक्षया महावृत्तिरास्याद्यपेक्षया महावृत्तिं वायुं सादृश्येनैव बोधयति | एवमन्यदप्यूह्यम् | शिरसः पञ्चसु स्थानेषु मध्यत्वेनाभिमतत्वात् सर्वोच्चत्वं नाऽशङ्कनीयम् | कण्ठजादीनामाकाशादिबोधनं पशुपदे व्युत्क्रमं भजतीत्याह स्यादित्यादि | चैत्यव्याप्तिमत्खलु पशुपदं तत्र व्याप्तिपरिग्रहेण पृथिव्या आकाशभावः व्याप्तिभ्रंशादाकाशस्य पृथिवीभावः | तथा नीलकण्ठजैर्वर्णैराकाशभावं प्राप्ता पृथिव्युच्यते | तालुभवैर्वायुभावं प्राप्तं सलिलमुच्यते | शिरोभवैरजडांशकस्याहारो जडांशकोटिर्वह्निरुच्यते | वह्निर्जडाजडरूपं तेजः वायुरजडरूपं तेजः सलिलं जडतेज इति जाग्रत्स्कन्धे वक्ष्यमाणत्वात् | दन्त्यौष्ठ्यवर्णैः पृथिव्युदकरूपौ वायवाकाशावुच्येते | सर्वत्रैव क्रिया व्याप्तिमती पशुपदे क्रियारूपा पृथिव्येव ज्ञानांशं जलं व्याप्नोतीति दन्त्योष्ठ्ययोः पृथिवीजलबोधकत्वमेवोपपन्नम् | लकारवकारयोर्दन्त्योष्ठ्ययोः पृथिवीजलबीजत्वं प्रसिद्धमिति ततोऽपीदमुपपन्नम् | एवं च वर्णा विवृतत्वादिप्रयत्नोपघटितसुषुप्त्यादिसादृश्येन सुषुप्त्यादिबोधकाः कण्ठादिस्थानोपघटितव्याप्तितारतम्यरूपेण आकाशादिसादृश्येन आकाशादिबोधकाः सम्बन्धद्वयान्वयेन सुषुप्त्यादिविषयाकाशादिबोधका भवन्तीति मन्त्रस्य तत्त्वरहस्यप्रतिपादकता परमोपपत्तिमती || ३ || प्. ४६) इच्छाद्वयं भवति तालुभवोष्ठ्यवर्णौ मूर्धन्यदन्त्यतनुमानयुगं क्रियादि | सङ्कोचभावतदभाववशादकारः सर्गोऽपि बिन्दुरपि सन् श्रितमातृभावः || ४ || अथ सकलसंसारकारणरूपायां सुप्तौ कार्यकारणयोरेकरूप्यनियमाद्वासनारूपेण सर्वसंसारसंविधानेन भवितव्यमिति | आ(अ)कारादिषु पञ्चस्वरेषु भेदाभेदरूपवासनां संसारसन्नाहमुपदर्शयति | इच्छेत्यादि | तालुभवौष्ठ्यवर्णौ इकारोकारौ इच्छाद्वयं भवति | जडाजडप्रमात्रोर्विसर्गबिन्द्वोरिति सूत्रान्तोपदिश्यमानविसर्गबिन्दुप्रमातृसम्बन्धेन लभ्यते | इकारोकारयोर्व्याप्य पद एवेच्छात्वं वेदितव्यंनतु व्यापकपदे विसर्गव्याप्तौ | विसर्गरूपः अकार एवेच्छा इकारस्तत्साधनं भवति | अकारेकारयोः क्रियात्वेनेकारस्य भावः | बिन्दुव्याप्तावपि बिन्दुरूपः अकार एवेच्छा उकारस्तु तदेकाकारतां लभते ज्ञानरूपत्वात् | ततः यदापि विसर्गो व्यापी तदा उकारस्य बिन्द्विच्छात्वं बिन्दोरूपरूपत्वात् | यदा बिन्दुर्व्यापी तदा इकारो विसर्गेच्छा तदुपरूपत्वादिति विवेकः | मूर्धन्यदन्त्यौ ऋकारऌकारौ तत्तनु तत्स्वरूपं | क्रियादिमानयुगं कर्मेन्द्रियज्ञानेन्द्रियरूपं प्रमाण्युगलमित्यर्थः | सङ्कोचभावतदभाववशात् सङ्कोचभावो भेदरूपता तदभावस्त्वभेदरूपता | तद्वशात् अकार एव विसर्गो बिन्दुरपि संश्रितमातृभावः प्रमातृभावं श्रयतीत्यर्थः | इदमत्र रहस्यम् | अकार एवाभेदरूपो बिन्दुः अकार एव भेदरूपो विसर्गः तयोर्बिन्दुविसर्गयोः सामरस्यपदमप्यकार एव | सामरस्यपदे निष्पन्द एवाकारः ज्ञानक्रियारूपबिन्दुविसर्गेच्छारूपेण बहिःस्पन्दचमत्कारं परिगृह्णाति | तत्रादौ यदा विसर्गरूपेण स्पन्दते तदा प्रमातृभूतविसर्गरूपाकारस्पन्दसमकालमेव इकारादिवर्णचतुष्टयात्मकस्त्रीपुंरूपः संसारकलापश्चाकारगर्भादेव बहिःस्पन्दते | यदा बिन्दुरूपेणाकारस्पन्दः तदा बिन्दुना प्रमात्रा सहैव निवृत्तिरूपः प्रागुक्तवर्णचतुष्टयात्मकः संसारकलापः पूर्ववदकारगर्भादेव स्पन्दते | तदेवमकार एव सामरस्यपदमकारस्यैव | बिन्दुविसर्गरूपेण बहिः स्पन्दनमकारादेव सकलसंसारकलापभूतभूतपञ्चकोत्पत्तिरकार एव मातृकोदयविश्रान्तिस्थानमित्युपनिषत् || ४ || प्. ४८) मूलद्वये स्फुरति मातृयमस्तदन्त- रिच्छाद्वयं भवति मानयुगं तदन्तः | एतत्समं पदमतो विषमं द्विरूपं चैत्योच्छ्रये स्फुरति जातु चिदुच्छ्रये च || ५ || अथानन्तरवर्णगर्भे वासनारूपेणावस्थितस्वस्पन्दद्वयवशात् बहिर्विलसितस्य विसर्गबिन्दुसंसारद्वयसन्नाहसंस्थानस्य पदस्वरूपं दर्शयति | मूलेत्यादि मूलद्वये संसारकलापपदस्य उभयोर्मूलयोः मातृकायुगं विसर्गविन्दुरूपं प्रमातृयुगलं स्फुरति तदन्तस्तयोरन्तः व्याप्यप्रदेशे इच्छाद्वयं इकारोकाररूपं यथायोगं भवतीति सम्बन्धः विसर्गस्यान्तः सन्निधौ इकारः बिन्दोरन्तः सन्निधौ उकार इति योजना | तदन्तस्तयोरिच्छयोरन्तः व्याप्यप्रदेशे मानयुगं ऋकारऌकाररूपं प्रमाणद्वयं भवतीति पूर्ववत्सम्बन्धः | विसर्गादकारादारभ्य अकारेकार##- समं विसर्गबिन्द्वोः समव्याप्तौ पदं अतः अस्मात्पदाद्विषमं असमानरूपं पदं द्विरूपं भवति | जातु कदाचित् चैत्योच्छ्रययोर्विसर्गव्याप्तौ बिन्दोरकारस्यादर्शनं उकाररूपेणैव तदवस्थानमिति पञ्चाङ्गत्वं जातु चिदुच्छ्रये चिद्व्याप्तौ विसर्गरूपस्याकारस्यादर्शनं इकाररूपेणैव तदवस्थानं उकारस्यापि बिन्दावकारेऽप्यैकरूप्यमिति चतुरङ्गता एवं विषमं पदमुत्तरत्र प्रतिपादनपरीक्षया योजनीयम् | पञ्चाङ्गकस्य विसर्गपदस्य सुप्त्याद्यवस्थात्रयसम्भाविते त्रैरूप्ये पञ्चत्रिकोणाः सम्पद्यन्ते | चतुरङ्गस्य बिन्दुपदस्यापि तथात्वे चत्वारस्त्रिकोणाः सम्पद्यन्ते | तथा च पञ्चत्रिकोणरूपस्य शक्तिपर्यायस्य विसर्गस्य चतुस्त्रिकोणरूपस्य शिवपर्यायस्य बिन्दोः समपदे अन्योन्यश्लेषेण नवत्रिकोणश्लेषात्मनः श्रीमहायन्त्रस्य सम्पत्तिरिति वेदितव्यम् || ५ || प्. ४९) साम्यं भवेत्प्रकृतमत्र चमत्क्रियैव वैषम्यमद्भुततरा हि विमर्शवृत्तिः | निष्पन्दतां समपदे सततं भजन्ती प्रस्पन्दते च चिदचित्कलितोच्छ्रितत्वात् || ६ || उक्तमर्यादया नवाङ्गरूपस्य समपदस्य पञ्चाङ्गरूपस्य विसर्गपदस्य चतुरङ्गरूपस्य बिन्दुपदस्य च मध्ये स्वाभाविकवैकारिककक्ष्याविभागं दर्शयति - साम्यमित्यादि | अत्र समविषमरूपे पदत्रये साम्यं समत्वं प्रकृतं भवेत् | यद्यपि यामलन्यायेन पदत्रयस्य पौर्वापर्याभावात् स्वाभाविकागन्तुकपर्यालोचनाया निरवकाशः तथापि निष्पन्दविश्रान्तिरूपत्वेन समपदस्य स्वरूपपदद्वयापेक्षया निर्विकारत्वमनुभवपदे स्फुरतीति तस्य प्रकृतत्वं मूलरूपत्वमिति यावत् | वैषम्यं स्पन्दरूपं विषमत्वं तु चमत्क्रियैव चमत्कारमात्रमेव तत्रापि पर्यालोचने निष्पन्दस्वभावस्य भित्तिभूतस्यानुवृत्तत्वात् | कथं स्पन्दास्पन्दयोर्विरुद्धयोः सामानाधिकरण्यमित्यत्राह - अद्भुतेत्यादि | विमर्शवृत्तिः सकलसंसारमूलभूतस्य महाप्रकृतेर्विमर्शस्य वृत्तिर्व्यापारः अद्भुततरा हि | तदेवाद्भुततरत्वमभिधत्ते निष्पन्दतामित्यादि | समपदे सततं नित्यं निष्पन्दतां भजन्ती | चिदचित्कलितोच्छ्रितत्वाच्चिदचितोः प्रमात्रा(त्राः) संयोजितव्याप्तिरूपोच्छ्रितत्वात् प्रस्पन्दते च यौगपद्येन निष्पन्दस्पन्दद्वयप्रक्रिया चैवं निष्पन्दस्वरूपानुभवकाले स्पन्दद्वयं व्यवृत्तिरूएणाऽनुभूतत एव | अत्र निष्पन्दविश्रामे स्पन्दो न स्फुरतीति स्पन्दद्वयमनुसन्धाय खलु तदस्फुरणमनुसन्धेयम् || अओ निष्पन्दे पदे व्यावृत्तिविषयतया स्पन्दयोरनुभवोऽपि नियत एव | एवं जडस्पन्दानुभवकाले विश्रान्त्यजडस्पन्दयोर्व्यावृत्तिविषयतयाऽनुभवः अजडस्पन्दानुभवकाले च विश्रान्तिजडस्पन्दानुभवश्चैवमेवेति | अथवा सन्धिरेकाकारतया चैत्रमैत्रादीनामेकत्वे चैत्रो विश्रमते मैत्रो बहिर्मुखः स्पन्दते देवदत्तोऽन्तर्मुखः स्पन्दते इति यौगपद्यं पदत्रयस्य | अतो विमर्शवृत्तिरद्भुततरेति यथोक्तम् || ६ || प्. ५०) चैत्यं यदोल्लसति सङ्घटितस्वकेच्छं चित्स्वं स्वभावमणुमाश्रयते निजेच्छाम् | अन्तर्भवेदथ चिदुल्लसने तु चेत्यं पञ्चाङ्गकं जडपदं चतुरङ्गमन्यत् || ७ || चैत्यमित्यादि | प्रबोधसौकर्याय प्राग्व्याख्या तस्य विसर्गपदपञ्चत्वबिन्दुपदचतुष्ट्वप्रमेयस्येदं सूत्रम् | चैत्यं विसर्गः बहिः पृथिवीरूपोऽन्तःप्रकृतिरूपः यदासङ्घटितस्वकेच्छं (चवर्गेकार) चवर्गाकार इकारप्रतिपाद्यगन्धाद्यहङ्काररूपिण्या यया स्वकीयेच्छया स्वयैव रूपान्तरेण सङ्घटितं सम्बद्धं सत् उल्लसति | तदा चित् अणुम् सङ्कुचितम् स्वम्स्वसम्बन्धिस्वभावं स्वरूपं निजेच्छां अकार(उ)(व)कारप्रतिपा(द्य)द्यापरिमितप्रमातृरूप् आम् आश्रयते तदाकारेण तिष्ठति | चिदुल्लसने तु चैत्यं विसर्गः तन्मयः परिमितप्रमाता च अन्तर्भवेत् | चितीति शेषः | चैत्यस्वरूपान्तरमिच्छैव तिष्ठति | अतः कारणात् जडपदं पञ्चाङ्गकम् | अन्यत् अजडपदं चतुरङ्गम् || ७ || प्. ५१) अन्तर्बहिः करणजृम्भणयोरदीर्घ- दीर्घस्वरेषु जडसंसरणं द्विरूपम् | ए ऐ इति द्वयमिहोल्लिखति क्रमेण स्वीयेच्छया पदयुगे घटनं जडस्य || ८ || प्रमेयप्रमाणप्रमातृरूपकक्ष्यात्रयोपलक्षितानां स्वप्नादीनां कारणरूपतया कक्ष्यात्रयवति सुषुप्तिपदे पञ्चपञ्चरूपह्रस्वदीर्घस्वरवर्गद्वयविभक्तबिन्दुविसर्गपदात्मिकायां प्रमेयकक्ष्यायां सुषुप्तिसुषुप्तौ तद्विश्रान्ततत्कारण भूतभेदा भेदमिश्रप्रमातृसंसारवासनां व्युत्पाद्य इदानीं सन्ध्यक्षरचतुष्करूपे सुषुप्तिप्रमाणपदे ग्राहकपदत्वात् भेदादिप्रमातृसंसारविलासं दर्शयति - अन्तरित्यादि | अन्तर्बहिःकरणजृम्भणयोः क्रमादन्तर्बहिरिन्द्रियसमुन्मेषे च सति जडसंसरणं परिमितप्रमातृसंसारः द्विरूपं स्वप्नजाग्रद्रूपेणेत्यर्थः | तत्संसरणद्वयं कर्म ए ऐ इति वर्णद्वयं कर्तृ अदीर्घदीर्घस्वरेषु पञ्चपञ्चात्मना पदद्वयरूपेण स्थितेष्वित्यर्थः | अधिकरणसप्तमी ह्रस्वस्वरपदरूपे अधिकरण येकारः स्वप्नरूपमन्तःसंसारमुल्लिखति बोधयति | दीर्घस्वरपदरूपे अधिकरण यैकारो जाग्रद्रूपं बहिः संसारं बोधयति | ए ऐ इति द्वयं रूपं सद्बोधयतीत्यत्राह क्रमेणेत्यादि | क्रमेण पदयुगे अन्तर्बहीरूपे जडस्य प्रमातुः अन्तर्बहिः प्. ५२) पदयोरेकमात्रद्विमात्राकाररूपस्य स्वीयेच्छया अन्तर्बहिरेकमात्रद्विमात्रेकाररूपया घटनं सत् सङ्घट्टनरूपं सत् एकारः खल्वकारेकारघटनरूपः तत्रैवैकारे अकारेकारयोः द्वितीयमात्रायोगेन निष्पन्नत्वात् अकारेकारघटनरूप ऐकारः | अत्रेदं हृदयं | स्पर्शव्यापकबोध्ययोः जाग्रत्स्वप्नयोः संसारपदयोः प्रतिपदमादौ प्रमेयकक्ष्या मध्यतः प्रमाणकक्ष्या अन्ततः प्रमातृकक्ष्या चोपलक्ष्यते | तत्कारणरूपतया सुषुप्तावपि कक्ष्यात्रयम् तत्रादौ ह्रस्वदीर्घरूपादश स्वराः प्रमेयकक्ष्याः सन्ध्यक्षरचतुष्टयं प्रमाणकक्ष्या विन्दुविसर्गौ प्रमातृकक्ष्या | एवं सति प्रमेयकक्ष्या जडविश्रान्तिपदं प्रमातृकक्ष्या अजडविश्रान्तिपदं प्रमाणकक्ष्या जडाजडयोः संसारपदं तस्य संसारपदस्य विश्रान्तिमूलत्वाद्विश्रान्तिरूपे प्रमेयपदे संस्थान(संसार)वासना इच्छाद्वयं भवतीत्यादि सूत्रचतुष्टयेन निरूपिताऽनेन सूत्रेण सन्ध्यक्षररूपे प्रमाणपदे ए ऐ इति वर्णद्वयं जडप्रमातुरन्तर्बाह्यसंसारौ प्रतिपाद्यते | प्रमाणत्वात्सन्ध्यक्षराणां द्विद्विवर्णरूपता | सुषुप्ते विश्रान्तिपदत्वेन तत्रेच्छामात्रस्यैव संसारस्योपपत्तिः | अकारस्य विसर्गस्येच्छायामिकार##- योग एव विसर्गस्य चित्पदग्राहकत्वमिति | एकारस्य ग्राह्यग्राहकोभयरूपता | एवमैकारादिष्वपि योज्यम् | स्वप्नप्रमातुरेव बहिर्मुखत्वेन जाग्रत्प्रमातृत्वमिति | एकारस्यैव लकारेकारद्वितयमात्रायोगेन सन्धिवशादैकारत्वमिति | नायमैकार आकार ईकारयोगो निष्पन्नः | तथात्वे सन्धिवशादेकारत्वमेवेति | एतेन स्वप्नस्याऽन्तःसीमतया बिन्दुपदत्वं जाग्रतो बाह्यसीमतया विसर्गपदत्वमिति सूचितम् || ८ || प्. ५३) अन्तर्भैः करणवृत्तिवशाददीर्घ- दीर्घं स्वरेष्वजडसंसरणं द्विरूपम् | ओ औ इति द्वयमिहोल्लिखति क्रमेण स्वीयेच्छया द्विरजडस्य पदस्य योगम् || ९ || अथ जडप्रमातुरन्तर्बहिः संसाराणामोकारौकारविषयौ निरूपयति अन्तरित्यादि | अन्तर्बहिःकरणवृत्तिवशात् पूर्ववदन्तर्बहिरिन्द्रियोल्लासवशात् द्विरूपमजडसंसरणं अजडप्रमातृसंसारं पूर्ववददीर्घदीर्घस्वरेषु पदद्वयरूपेषु अधिकरणभूतेषु अजडस्य पदस्य अजडप्रमातुर्बिन्दोरित्यर्थः | स्वीयेच्छया अन्तर्बाह्यकक्ष्ययोः द्विः द्विवारं योगं सङ्घट्टनं कर्म ओ औ इति द्वयं कर्तृ उल्लिखति सूचयति | अकारात्मनो बिन्दोः ह्रस्वस्वरेषु स्वीयेच्छया उकारेण अन्तः पद एवयोगः | तस्यैव बहिःपदे दीर्घस्वरेषु पदभूतेषु द्वितीयमात्रायुक्तया उकाररूपया इच्छया द्वितीयमात्रायुक्तस्यैकवारं योग इति | तद्योगनिष्पन्नस्वरूपा औकारौकारान्तं योगौ सूचयत इति तात्पर्यम् | ओकाराकारयोः प्रत्येकं ग्राह्यग्राहकोभयरूपत्वादिति विवेकः पूर्ववत् || ९ || भेदेऽपि बिन्दुरविभेदपदेविसर्गो ज्ञानक्रियास्थल तयाऽन्तरबाह्यसीम्नोः | दृष्टाविह प्रकरणस्य बलात्स्वभावं नैवाप्नुतः स्फुटमभेदविभेदरूपम् || १० || ननु बिन्दुरभेदरूपः विसर्गो भेदरूपः कथं भेदप्रमातुरन्तःपदे स्वप्ने बिन्दुत्वं | अभेदप्रमातुर्बहिःपदे तुर्यजाग्रति विसर्गत्वमित्यत्राह | भेदेऽपीति | भेदेऽपि भेदसंसारे बिन्दुः ह्रस्वस्वरवर्गाधिष्ठाता अविभेद पदे अभेदसंसारे विसर्गः दीर्घस्वरवर्गाधिष्ठाता च आन्तरबाह्यसीम्नोः भेदस्वप्ने तुर्यजाग्रति च ज्ञानक्रियास्थलतया अन्तःपदस्य ज्ञानस्थलतया बहिःपदस्य क्रियास्थलतया दृष्टौ लक्षितौ एकारौकाररूपेणेत्यर्थः | एतौ बिन्दुविसर्गौ प्रकरणस्य बलाद्भेदाऽभेदरूपस्य प्रकरणस्य बलात् | अभेदविभेदरूपं स्वभावं बिन्दोरविभेदरूपस्वभावः विसर्गस्य विभेदरूपः तं स्वभावं स्फुटमभिव्यक्तं तथा यथा नैवाप्नुतः स्फुटस्यैव स्वभावस्य नैवाप्नुत इति निषेधात् | किञ्चित्स्वभावे प्राप्नुत एवेति गम्यते | अयमर्थः - भेदस्वप्नपदे निविष्टो बिन्दुः भेदप्रकरणबलादभेदरूपं स्वभावं न स्फुटमाप्नोति किञ्चिदाप्नोत्येव | शुद्धभेदपदाज्जाग्रतः स्वप्ने (अभेदस्पर्श) अविभेदः स्पर्शवशाद्विशेषः | एवं तुर्यजाग्रति निविष्टो विसर्गोऽपि अभेदप्रकरण बलाद्भेदरूपं स्वभावं स्फुटं नाप्नोति किञ्चिप्राप्नोत्येव | शुद्धाऽभेदरूपात्तुरीयस्वप्नपदात् तुर्यजाग्रतो भेदस्पृष्टिवशाद्विशेषोऽस्त्येवेति मन्तव्यम् || १० || प्. ५४) बिन्दुः कला अपि विसर्गकला गुणाः स्युः सर्गः कला अपि च बिन्दुकलाङ्गभूताः | बिन्द्वग्निरष्टकल एव विसर्गपायी सर्गस्तु षोडशकलादृढबिन्दुरिन्दुः || ११ || अथास्मिन् सुषुप्तिपदे बिन्दुविसर्गयोस्तत्कलानाञ्च अन्योन्यश्लिष्टतयाऽङ्गाङ्गि भावः समान इति प्रतिपादयन् बिन्दुविसर्गयोः बिम्बस्वरूपं व्युत्पादयति ##- विसर्गव्याप्त्यभिमाने सतीति वेदितव्यम् | अथ सर्गो विसर्गः तत्कला अपि बिन्दोस्तत्कलानां चाऽङ्गभूता भवतीति बिन्दुव्याप्त्यभिमाने सतीति वेदितव्यम् | अथ बिन्दोः कति कलाः विसर्गस्य कतीत्यत्राह - बिन्द्वग्नीत्यादि | बिन्द्वग्निः अग्न्रिरूपो बिन्दुः | अष्टकल एव ह्रस्वस्वराः पञ्च एकारौकारौ द्वे अं इति स्वस्वरूपमेका कलेति सम्भूय बिन्दोरष्टौ कलाः बिन्दोरङ्गभूता विसर्गकला अष्टौ सन्ति | तथा च कथं बिन्दोरष्टकलत्वमित्यत्राह - विसर्गपायीति विसर्गं चन्द्ररूपं पिवतीति विसर्गपायी | बिन्द्वग्निः बिन्दावग्नौ कलासहितो विसर्ग एकाकारतां भजतीति विन्दोरष्टावेव कला इत्यर्थः | दृढविन्दुः स्वव्याप्तावपि अनुच्छिन्नबिन्दुः | तदुच्छेदे विसर्गस्वरूपस्यैक्यसिद्धेः | इन्दुश्चन्द्ररूपो विसर्गस्तु षोडशकलोऽङ्गभूताभिर्बिन्दुकलाभिः सह दीर्घस्वरपञ्चक ऐकारौकारह(अः)कारारूपविसर्गकलाः षोडशेति योजना || ११ || प्. ५५) बिन्दोः कला अपि विसर्गकलाश्च सप्त सप्तैतदन्वयवशेन चतुर्दशारम् | बिन्द्वग्निरष्टदलपद्मगतस्तदन्तः सर्गश्च षोडशदलाब्जगतोऽस्य चान्तः || १२ || इदानीं बिन्दुविसर्गयोस्तत्कलानां च अन्योन्यश्लेषं महायन्त्रस्य सुषुप्तिपदे चतुर्दशारचक्रे समुपदर्शयति - बिन्दोरित्यादि | बिन्दोः कला अपि सप्त | विसर्गकलाश्च सप्त | उभयत्र अवयविकलां विनेति विज्ञेयम् | एतत्सप्तकद्वयस्याऽन्वयवशेन श्लेषवशेन चतुर्दशारं संपद्यत इति शेषः | तदन्तः तस्य चतुर्दशकोणस्यान्तः | प्रागुपदिष्टसुप्तिविभावनामर्यादया बिन्द्वाग्निरष्टदलपद्मगतः | अस्य चाऽष्टदलपद्मरूपबिम्बस्य बिन्दोरन्तर्विसर्गश्च षोडशदलाऽब्जगतः | अत्रापि प्राक्प्रतिपादितप्रक्रियाऽनुसन्धेया || १२ || प्. ५६) ह्रस्वस्वराष्टदलभागनलो हि दीर्घ- मात्रात्मषोडशदलाम्बुजभाद्छशाङ्कः | चन्द्रार्कयोस्त्रिगुणिताऽष्टकलात्मनोः स्या- द्बिन्दौ प्लुताष्टकदलात्मनियुक्तिरग्नौ || १३ || इति मातृकाचक्रविवेके सुषुप्तिविवेको द्वितीयः खण्डः || इदानीं प्रकारान्तरेण बिन्दुकला विविक्ता | एवं विसर्गस्य षोडशदलान् समुपदर्शयन् बिन्दुविसर्गस्य तत्सामरस्यरूपं पदत्रयं स्वरवर्गे समुपदर्शयति - ह्रस्वेत्यादि | अनलो बिन्दुः ह्रस्वस्वररूपाऽष्टदलपद्मबिम्बगतः स्यात् | शशाङ्को विसर्गः दीर्घमात्रात्मषोडशदलाम्बुजभाक् | अष्टसु दीर्घस्वरेषु या मात्राः षोडश तदात्मकषोडशदलाम्बुजबिम्बसंश्रित इत्यर्थः | प्रतिवर्णं द्विमात्रतया षोडशमात्रासम्पन्नेषु दीर्घस्वरवर्णेषु यद्यप्यष्टौ मात्रा बिन्दुरूपाः बिन्दुसाहित्येनेव विसर्गसंस्थाननियमात् तथापि बिन्दोर्ह्रस्वस्वररूपविविक्तविस्ऽयसंभवात् षोडशमात्रात्मकं दीर्घस्वराष्टकं विसर्गस्य विविक्तो विषय इत्यभिमानः | एवं च चन्द्रार्कयोर्विसर्गबिन्द्वोरभेदपदाधिष्ठातुर्बिन्दोरर्कत्वमप्यनेन सूच्यते अभेदखण्डस्यैकाधिष्ठातृत्वात् | भेदचमत्कारसम्पत्तिरभिहितत्वात् सावशेषजगत्स्वामीकरणोऽर्कः | निरवशेषजगत्स्वामीकरणोऽनल इति | तस्मादभेदबिन्दोरुभयोरपि व्यवहार इति भावः | तयोर्विसर्गबिन्दुरूपचन्द्रार्कयोस्त्रिगुणिताऽष्तकलात्मनोः त्रिगुणिताष्टकलाश्चतुर्विंशतिकलाः तदात्मनो बिन्दोरष्टौ कलाः | विसर्गस्य दीर्घस्वरमात्रारूपाः षोडशकलाः | संभूयोभयोश्चतुर्विंशतिकलाः तद्रूपयोरेतयोः प्लुताष्टकदलात्मनि चतुर्विंशतिमात्राभिरष्टौ प्लुताः सम्पद्यन्ते | प्लुतस्य त्रिमात्रत्वात् | प्. ५७) तस्मिन्महाबिन्दावग्नौ भेदाभेदोभयपक्षव्यापित्वादयं महाबिन्दुरग्निरेव | न तु सूर्यव्यवहारस्यापि पदं तस्मिन्नग्नौ तयोश्चन्द्रार्कयोर्युक्तिर्योगः स्यात् | प्लुतस्य नासान्तरनादत्वात् | तदात्मकस्याऽस्य सामरस्यपदस्य प्रवृत्तिनिवृत्तिस्पन्दभित्तिभूतनिष्पन्दभूतस्य महातत्त्वस्य शाश्वतत्वमित्युपदिष्टम् | अविभेदविभेदमिश्रणैस्त्रिभिरङ्गैर्घटितैकमूर्तिका | हृदयेषु विभाति शाङ्करी स्वरवर्गार्थमयी महात्मनाम् || भागद्वयस्फुरितबिन्दुविसर्गरूपं तत्सामरस्यपदलक्षकमध्यरेखम् | आलोच्यमर्थवदनुत्तरवर्णबिम्ब- मर्च्यं च जप्यमपि चाऽखिलसिद्धिमूलम् || १ || अन्तःस्फुरद्बिन्दुपदं बहिष्ठा त्तदूर्द्ध्वतस्त्वष्टविसर्गरूपम् | इकारबिम्बं समुपासनीयं मकारबिम्बं च ततो विलोमम् || २ || मध्ये विमिश्रपदलक्षकपूर्णबिन्दु- मूर्द्ध तले च चिदचित्पदखण्डबिन्दुम् | ईकारबिम्बमिनचन्द्रकृशानुरूपं श्रीपादुकां परशिवस्य शिरस्सु शेयात् || ३ || प्. ५८) नित्या षोडशिकात्मिका स्वरकला नित्यत्रिकोणाकृति- र्नव्ये द्रव्यरसैकदभ्रलहरी साक्षात्कृतव्योमभिः | यः सम्यग्वरिवस्यति स्फुरणया तस्याऽम्बिकानुग्रहे गूढोऽप्येष हृदि स्फुरेत्स्वरगणस्यार्थः कृतार्थत्वभूः || ४ || शिवानन्देन मुनिना देशिकादेशवर्तिना | द्वितीये मातृकाचक्रविवेके व्याकृतं पदम् || ५ || || इति द्वितीयः खण्डः समाप्तः || अथ तृतीयः खण्डः | विश्वस्य कारणदशेति विचारितैवं कार्यक्रमो भवति कार्यमिदं विमर्शात् | विश्रान्तमात्मनि पराह्वयवाचि सुप्तौ विश्वं वमत्यथ विबोधपदे विमर्शः || १ || अथ स्कन्धान्तरमारभमाणः पूर्वोत्तरस्कन्धयोः सम्बन्धदर्शनाय पूर्वस्कन्धतात्पर्याभिधानपूर्वमुत्तरस्कन्धप्रमेयं प्रस्तौति - विश्वस्येत्यादि | इति उक्तप्रकारेण विश्वस्य विश्रान्तिसंसाररूपेण कारणकार्यरूपस्य कारणदशा विश्रान्तिरूपा अवस्था निरूपिता | विश्रान्तिरूपासुषुप्तिः कारणरूपं विश्वं संसाररूपाः स्वप्नादयः कार्यरूपं विश्वमिति भावः | एवं कार्यक्रमः | यदा कारणक्रमः तदा कार्यस्यापि क्रमः कारणकार्ययोरेकरूपत्वादिति भावः | प्रमेयादिकक्ष्यात्रयसम्पन्नत्वजडाजडव्याप्त्यादिः कारणक्रमः | एवमेव कार्यक्रमोऽपि कार्यनिष्ठः प्रमेयकक्ष्यादिक्रमः कार्यक्रमः | इदं कार्यं विश्वं विमर्शाद्भवतीति शेषः | इदमीदृगित्यनुसन्धानमूलं वाचिकत्वरूपं कार्यं विश्वानुसन्धानं विमर्शः | अतः कार्यरूपस्य विश्वस्य विमर्शमूलत्वम् | अयं विमर्शः सुषुप्तिविश्रान्तौ केनरूपेण स्थित इत्यत्र आह विश्रान्तमित्यादि | विमर्शः सुप्तौ सुषुप्तिकाले | पराह्वयवाचि परेति व्यवह्रियमाणायां वाचि | आत्मनि स्वाकारे परावाग्रूपे स्वात्मनीत्यर्थः | विश्रान्तं निलीनं विश्वम् | अथ सुषुप्त्यनन्तरं विबोधपदेऽप्यु(व्यु)त्थानदशायां वमति वहिरुद्वमति अनेन विश्वस्य विमर्शगर्भ एव स्थितिरुद्दिष्टा | तद्विलासरूपत्वात् विमर्शविलास##- विमर्शे स्वयमपि निलीनः प्रबोधपदे अन्तर्बाह्येन्द्रियात्मना स्फुटस्वरूपस्य विमर्शस्य गर्भान्निःसरतीति भावः || १ || प्. ६०) वाणी परा खलु ऋकारऌकाररूपा सङ्कोचगन्धसहिता गगनेऽपि सुप्तौ | सङ्कोच एव चिदचिद्गगनस्य वाणी तद्व्योम सङ्कुचति च प्रकृतौ विमर्शे || २ || विमर्शः पारावाग्रूपेण सुषुप्तिविश्रान्तौ तिष्ठतीत्युक्तम् | प्रमेयप्रमाणप्रमातृरूपे अकाराद्युकारान्तविश्रान्तिपदे परस्या वाचः किं स्थानं कः स्वभाव इत्यत्राह - वाणीत्यादि | परा वाणी ऋकारऌकाररूपा खलु अनेन परावाग्रूपस्य विमर्शस्य प्रमाणत्वमुक्तम् | व्युत्थानपदेष्वपि विमर्शः प्रमाणरूप इति वेदितव्यम् | प्रमाणरूपाणामिन्द्रियाणां अनुसन्धानरूपत्वादनुसन्धानस्य विमर्शरूपेण पर्यवसानादिन्द्रियाण्येव विमर्शस्य स्वरूपमिति निष्कृष्टो विवेकः | ऋकारऌकारात्मनः प्रमाणस्य परावाक्तत्वविमर्शरूपतायामुपपत्त्यन्तरमासां सङ्कोचयति | गमनेऽपि सामान्यरूपायामपि सुप्तौ पूर्णस्वभावायामिति भावः | सङ्कोचगन्धसहिता ऋकारऌकारयोरिकारोकारापेक्षया सङ्कोचभावः प्रतीयते | व्यञ्जनवर्णेष्विव स्थौल्यानुभवात् | ननु परावाचो विमर्शस्य सङ्कोचः स्वभावश्चेत् तदानीं खलु सङ्कोच भावोपलक्षित - ऋकारऌकारात्मकप्रमाणत्वोपपत्तिरिति परावाचो विमर्शस्य सङ्कोचस्वभावतामुपपादयति - सङ्कोचेति | चिदचिद्गगनस्य चिदचित्सामरस्यरूपस्य गगनस्य विश्रान्तिः सङ्कोच एव | वाणीविमर्शदशायां विश्रान्तस्वभावः पूर्णतयाऽनुभूयते | स एव स्वभावो यथानुसन्धानभूमिकां प्रतिगृह्णाति तथा ग्राह्यग्राहकोभयाभासात्मकविमर्शरूपेण सङ्कुचति | गगनस्य शब्दाकारेण खलु सङ्कोचः | विश्रान्तिरूपस्य गगनस्य शब्दरूपविमर्शानां सङ्कोच इत्युपपन्नम् | ननु पूर्णतया स्थितं तद्विश्रान्तिगगनं कुतो हेतोर्विमर्शात्मना सङ्कोचभावं प्राप्नोतीत्यत आह - तद्व्योमेति | तद्व्योम विश्रान्तिगगनं विमर्शे प्रकृतौ स्वभावे सति सङ्कुचति | विमर्शात्मना सङ्कोचभावपरिग्रहो विश्रान्ति तत्त्वस्य स्वभावः न कश्चिदप्यत्र हेतुरिति भावः || २ || प्. ६१) धर्मे स्वके स्वरसवाहिनि वाक्स्वरूपे लग्नं परं गगनमप्युपयाति सत्ताम् | सत्त्वाय नित्यमुपगूढाविमर्शतत्त्वं तद्धर्मतां गगनमप्युपयाति चित्रम् || ३ || इदानीं कार्यरूपजगद्बीजस्य विमर्शस्य कारणरूपजगद्बीजत्वमपि प्रतिपादयन् महत्त्वतां व्युत्पादयति | धर्म इत्यादि - स्वरसवाहिनि स्वत एव प्रवहणशीले न त्वन्यप्रेरणया तथात्वे तस्यापि प्रेरकस्य प्रेरणसङ्कल्परूपं विमर्शं विना प्रेरणानुपपत्तेः तस्यापि विमर्शस्य विमर्शान्तरं विनाऽप्रवहणमित्यनवस्थया विमर्शस्य पर्यन्ततया स्वरसवाहित्वमङ्गीकार्यम् | अतः स्वरसवाहिनि वाक्स्वरूपे चिद्धर्म एव च चितो जननलयाच्चेति प्राक्प्रतिपादितमर्यादया धर्मे विमर्शस्वरूपे स्वके धर्मे लग्नं सत् परं गगनमपि चिदचित्सामरस्यरूपं विश्रान्तितत्त्वमपि सत्तामुपयातीति विमर्शसीमानुप्रवेशा भावात् | नास्त्येव सा चिदपीति प्रागुक्तक्रियया विश्रान्तितत्त्वस्यापि स्वरूपासिद्धेः | अतः सत्त्वाय सत्तासिद्धये नित्यं नियतं उपगूढविमर्शतत्त्वं आलिङ्गितविमर्शतत्त्वं गगनमपि चिदचित्सामरस्यरूपं विश्रान्तिगगनमपि तद्धर्मतां तस्य विमर्शस्य धर्मतामुपयाति | चित्रं अन्योन्यधर्मधर्मित्वमद्भुतमित्यर्थः | प्राक्प्रतिपादितोऽयमर्थः विमर्शस्य सर्वप्रकारजगन्मूलत्वप्रवचनप्रस्थाने विमर्शप्रभावव्युत्पादनायाऽनुस्मृत इति निरवद्यम् || ३ || प्. ६२) तस्मात्परैव जननी समुपासनीया व्योम्नः परस्य गतजाड्यमियं हिरूपम् | बध्नाति चेयमिदमंशसमुच्छ्रयेण जन्तून् विमोचयति चोन्नमिताऽहमंशात् || ४ || अतः सर्वमूलतया विमर्शतत्त्वमेवोपासनीयमित्याह - तस्मादित्यादि | तस्माद्विश्रान्तेरपि मूलत्वात् कारणत्वात् जननी सर्वमूलत्वात् सर्वमातृका परैव विमर्शशक्तिरेव समुपासनीया | एवकारः पर्यालोचितो वाऽस्य निर्णयमभिधत्ते | तामेव पर्यालोचनामुद्घाटयति व्योम्न इत्यादि | परस्य व्योम्नः उपास्यत्वेन संभावितस्येति भावः | गतजाड्यं निर्विमर्शतया सम्भावितजाड्यशङ्काव्यपेतं रूपं | इयं हि खलु परावाक् चेतनरूपतयोपास्यत्वेना.भिमतस्य परमगगनस्य चैतन्यकलास्थानम् अत एवाऽव्यक्तचैतन्यादंशात् अभ्यर्हितेति भावः | अनेन विमर्शस्य प्रकाशैकात्म्यमुपपादितम् | विमर्शस्य परमोपास्यत्वकथनात्तदात्मकस्य प्रमाणतत्त्वस्य विशेषेण उपास्यत्वमुपपादितम् | अयमर्थो महायन्त्रप्रथमोपासनायोग्यप्रमुखपदचतुरस्ररूपस्य प्रमाणचक्रस्य सन्निवेशादभिव्यक्तः उपास्यत्वेन व्युत्पादितस्य विमर्शस्यैवोपासनाप्रवृत्तिमूलं बन्धमोक्षैककर्तृ प्रतिपादयति बध्नातीत्यादि | इयमेव विमर्शरूपिणी परा इदमंशसमुच्छ्रयेण स्वस्वरूपोभयभागयोर्भेदाभेदरूपयोरिदमहमंशयोर्मध्ये इदमंशसमुच्छ्रयेण जन्तून् बध्नाति | सर्वत्र वस्तुनि इदमाकारप्रतीतौ देहमात्रेऽप्यहमाकारप्रतीतौ सैवोच्छ्रितेदग्ताप्रतीतिः खलु बन्धः | उन्नमिताऽहमंशाज्जन्तून् विमोचयति च | इदंप्रतीत्यन्यथाभावेन सर्वत्राऽहन्ताप्रतीत्यौल्बण्यमेव च मोक्ष इति भावः | अनयोर्बन्धमोक्षयोर्विमर्शरूपिणी पराशक्तिरेव मूलं स्वरसवाहिनी खलु परा यस्य यस्यहृदये इदन्तौल्बण्येनाऽहन्तान्यग्भावेन प्रवहति स स बद्धो भवति यस्य यस्य हृदये अहन्तौल्बण्येन इदन्तान्यग्भावेन प्रवहति स स मुक्तो भवतीति भावः || ४ || प्. ६३) त्रेधेदमित्यहमिति स्फुरणात्मिकाया- स्तस्याः स्वरूपमुभयांशसमाऽसमत्वे | तद्धर्मसङ्गतिवशेन तथा त्रिरूपो धर्मीं च चैत्यचितिमेलनसिद्धरूपः || ५ || पूर्वसूत्रेण इदमहमत्मकौ प्रत्ययौ विमर्शरूपिण्याः परायाः स्वरूपे उभौ भागाविति सूचितं अनेन सूत्रेण तमेवार्थं स्फुटीकरोति - त्रेधेत्यादि | इदमित्यहमिति यत् स्फुरणद्वयं तदात्मिकायाः तस्याः परायाः स्वरूपं त्रेधा भागत्रयविशिष्टत्वदिति भावः | के ते भागा इत्यत्राह उभयांशेत्यादि | इदमित्यहमिति स्फुरणरूपयोरुभयोरंशयोः समासमत्वेन त्रिधेत्यन्वयः | इदमहमंशयोः साम्यमेको भागः तयोरसमत्वे इदमिति स्फुरणोल्बणतायामेको भागः अहमिति स्फुरणोल्बणतायामन्यो भाग इति तौ द्वौ भागौ समत्वभावेन सम्भूय त्रयो भागाः | अत्रापि जडाजडसाम्यानामिव भागकरणं विना प्रत्येकं सर्वसन्निविष्टानां समत्वादिस्वरूपाणामंशत्वमुपचारः | एवं धर्मरूपं विमर्शं पर्यालोच्य प्रक्रियासाम्येन प्राक्प्रतिपादितस्यापि धर्मिणस्त्रिरूप्यमनुस्मरति तद्धर्मेत्यादि | तद्धर्मसङ्गतिवशेन उक्तनवीनत्रिरूपस्य तस्य विमर्शात्मनो धर्मस्य संसर्गवशेन धर्मी च तथा त्रिरूपः त्रैरूप्योपलक्षितं धर्मिणं प्रदर्शयति चैत्येति | चैत्यचितिमेलनसिद्धरूपः व्याप्तिमता चैत्येन व्याप्तिमत्या चिता तदुभयमेलनेन सिद्धस्वरूप इत्यर्थः | इदन्तोल्वणविमर्शसङ्गतिवशात् व्यापकचैत्यरूपः धर्मी अहन्तोल्वणविमर्शसङ्गतिवशात् व्यापकचिद्रूप् धर्मी इदन्ताऽहन्तासाम्येन स्तिमितविमर्शसङ्गतिदशा चिच्चैत्यसामरस्यरूपो धर्मीति विवेकः || ५ || प्. ६४) विश्रान्तिधामनि निजाश्रययोर्विमर्श- श्चिच्चैत्ययोर्भवपदे स्वयमाश्रयोऽपि | एतद्द्वयं निजसमाश्रयमेव कुर्वन् स्वैरक्रमेण विलसत्यबहिर्बहिश्च || ६ || अथ सूत्रत्रयेण परमशिवभट्टारकस्वातन्त्र्यशक्तेर्विमर्शस्य निराधारविलसनचमत्कारान् प्रदर्शयति - विश्रान्तीत्यादि | विमर्शः कर्ता विश्रान्तिधामनि विश्रामपदे सुषुप्तावित्यर्थः | निजाश्रययोः चिच्चैत्ययोर्विश्रान्तेः निःशब्दतया विमर्शश्चिच्चैत्ययोराश्रितो लीन इत्युपपन्नम् | भवपदे संसारपदे स्वयमाश्रयो भवपदस्य विकल्पमूलत्वाद्विकल्पस्य विमर्शत्वात्तत्र पदे प्रमात्रादिकः सर्वोऽप्यर्थो विमर्शमूल एवेति चिच्चैत्ययोः प्रमात्रोरपि विमर्शाश्रितत्वम् | तथा धर्मिणोरप्याश्रयो विमर्श एतद्द्वयं चिच्चैत्यरूपं धर्मिद्वयं निजसमाश्रयमेव स्वमाश्रयमेव कुर्वन् अबहिः - अन्तः सीमायाम् | बहिश्च बहिःसीमायां च स्वैरक्रमेण बाह्यादभ्यन्तरं वा अभ्यन्तराद्बाह्यं वेति एवमादिभिः स्वरसप्रवहणक्रमैर्विलसति || ६ || प्. ६५) स्वप्ने स्फुरत्यबहिरिन्द्रियमूर्तिरन्त- र्बाह्ये बहिःकरणमूर्तिरथ प्रबोधे | सङ्कोचमाश्रयति पूर्वपदेऽत्र किञ्चि- दत्यर्थमुत्तरपदे तु तमादधाति || ७ || स्वप्नेत्यादि | स्वप्ने अबहिरिन्द्रियमूर्तिर्मनोबुद्धिस्वरूपः अन्तरभ्यन्तरकक्ष्यायां स्फुरति | जगद्रूपं स्वविलासं दर्शयतीति भावः | स्वप्नशब्दः प्रकृतिसंसारस्याप्युपलक्षकस्तत्रापि मनोबुद्धिरूपेण विमर्शस्य जगदुद्वमनात् | अथानन्तरं प्रबोधे सुषुप्तिनिवृत्त्या शुद्धजाग्रद्रूपे प्रबोधे बहिः कारणमूर्तिः श्रोत्रादिवागादिज्ञानकियेन्द्रियस्वरूपः | बाह्ये बाह्यकक्ष्यायां स्फुरतीति संबन्धः | अत्र स्वप्नजाग्रद्रूपपदद्वये यत्पूर्वपदं स्वप्नस्तत्र किञ्चित्सङ्कोचमाश्रयति | सुषुप्तौ विश्रान्त्यैकरस्येन पूर्णस्य विमर्शस्य तदन्तरपदे स्वप्ने ईषत्सङ्कोचस्तद्वशात् प्रमातृप्रमेययोरपि तथात्वम् तमेव जाग्रत्सङ्कोचमाह उत्तरपदेत्विति | उत्तरपदे स्वप्नान्तरपदे जाग्रति अत्यर्थमतिमात्रं तं सङ्कोचमादधाति अङ्गीकरोति || ७ || प्. ६६) सङ्कोचवर्तिपरसीमनि बाह्यरङ्गे व्याप्तिं समर्पयति नान्तरधाम्नि पूर्णे | विश्रान्तिमर्पयति पूर्णतरामितोऽपि माया चमत्कृतिमवाप्य जडो विमर्शः || ८ || पशोः संसारपदे विमर्शस्य मायाचमत्कारपरिग्रहेण विपरीतप्रतीतिरूपेण विलसनं दर्शयति - सङ्कोचेति | सङ्कोचवर्तिपरसीमनि सङ्कोचभावपरमपदे बाह्यरङ्गे जाग्रत्पदे व्याप्तिं समर्पयति पूर्णतामारोपयति | घटपटादीनां प्रस्फुटं साक्षात्करणेन जाग्रत्प्रकाश एव पूर्ण इत्यनुसन्धत्ते | पूर्णे जाग्रदपेक्षया पूर्णे सङ्कोचस्येषन्मात्रत्वात् | आन्तरधाम्नि आन्तरकक्ष्यायां स्वप्न इत्यर्थः | अत्र व्याप्तिं पूर्णतां न समर्पयति स्वप्नप्रकाशस्य जाग्रत्प्रकाशादल्पत्वमनुसन्धत्ते | साक्षात्कृतानामपि घटपटादीनां जाग्रदुदये अन्तर्धानात्स्वप्नप्रकाशस्य निष्प्रकाशसुषुप्तिकल्पत्वमेवेति प्रतिपद्यत इत्यर्थः | इतोऽपि स्वप्नात् पूर्णतरामतिपूर्णां विश्रान्तिसुषुप्तिमितोऽपि स्वप्नादल्पमिति सङ्कोचपदं प्रतिपद्यते कस्यचिदपि घटपटादेरप्रतिपत्तेरिति भावः | एवं विमर्शस्य विपरीतप्रतिभाने निमित्तमाह - मायेत्यादि | माया चमत्कृतिमवाप्य जडः सन् विमर्श एव विपरीतरूपो भवतीत्यर्थः | न क्वचिन्माया विद्यानामतत्त्व | विमर्श एवेदन्तौल्वण्येन संभासमानामायेत्युच्यते स एवाहंतौल्बण्येन भासमानो विद्येति व्यपदिश्यत इति वेदितव्यम् || ८ || प्. ६७) इच्छाद्वयान्तरितमानयुगे यवर्गे स्वाप्ने जडा खलु दशा समवेक्षणीया | मातृत्वमत्र मनसो हि लकारमूर्तेः स्वप्नो हि मानसिकसंसरणं प्रसिद्धम् || ९ || इदानीमिच्छामात्रसंसारस्य सुषुप्तेरनन्तरं ज्ञानक्रियासंसारयोः स्वप्नजाग्रतोर्मध्येविसर्गप्रकरणत्वात् क्रियाप्राधान्येन यद्यपि जाग्रतः प्रथमविवेकौचित्यं तथास्योत्पत्तिक्रियासृष्ट्या ज्ञानस्य प्रथमत्वात् ज्ञानसंसारस्य स्वप्नस्य प्रथमं विवेकमाचरमाण ईषत्सङ्गोचरूपां स्वप्नदशामीषत्सङ्कोचवति यवर्गे निरूपयति - इच्छेति | इच्छाद्वयान्तरितमानयुगे स्वरपदप्रक्रियानुसारेण इकारोकारसङ्कोचरूपयोः यकारवकारयोः जडाजडेच्छात्वम् तेन इच्छाद्वयेन अन्तरितं मध्येकृतं मानयुगम् | ऋकारऌकारसङ्कोचरूपरेफलकारात्मकं क्रियाज्ञानरूपं प्रमाणयुगं यत्र तस्मिन् यवर्गे जडा स्वाप्ने दशा जीवसंबन्धिनी भेदस्वप्नदशा समवेक्षणीया खलु यवर्गस्वप्नदशयो रीषत्सङ्कोचरूपयोः सादृश्ययोगादिति भावः | अत्र स्वप्ने लकारमूर्तेर्मनस एव प्रमातृत्वम् | लकारः खलु ज्ञानप्रमाणस्थानीयः | अन्तःकरणसंसारे स्वप्ने ज्ञानरूपे प्रमाणं मन एव न तु श्रोत्रादयो न तु स्वतन्त्राणीन्द्रियाण्येव निजनिजेषु विषयेषु प्रवर्तन्त इत्यनुभवः | मनसः किं स्वरूपं वेत्यत आह श्रोत्रादीनां बहीरूपमान्तरंरूपं चेति रूपद्वयं यथा(दा) श्रोत्रादयो बहिर्निमीलिता अन्तः प्रवर्तन्ते तथा(दा) श्रोत्रादीनामेव तथान्तरं रूपं मन इत्युच्यते यदा बहिरुन्मीलिताः प्रवर्तन्ते तदानीं श्रोत्रादिव्यवहार इति विज्ञेयम् | अन्तः श्रोत्रादीनामन्तः पदे मन इति व्यावहारात् | ज्ञानेन्द्रियस्थानीयो लकारो मन एव एवं कर्मेन्द्रियस्थानीयो रेफो बुद्धिः कर्मेन्द्रियाणामप्यान्तररूपं बुद्धिरित्यवगन्तव्यम् | स्वप्ने मनस एव प्रमात्रादित्रिपुटीभावपरिग्रहचमत्कारेण संसरणं न तु तात्विकदेहरूपस्य प्रमातुः तथात्वे स्वप्नानुभूतानामर्थानां जाग्रति सम्पातप्रसक्तेः | अतो मनस एव महाशक्तेर्विमर्शस्य त्रिपुटीरूपेण स्वप्ने विलसनं तस्यैव मनसो बहिरपि श्रोत्रादिरूपस्य विषयाकारेण विलसनमिति जगतो न कुत्रापि बहिरन्तर्वा विमर्शादन्यतः परमाण्वादेः सिद्धिरिति गुरुकठाक्षनिरस्तमायान्धकाराणां सम्प्रतिपन्नम् | स्वप्न संसारस्य तत्त्विकदेहप्रमातृकर्तृकत्वे जाग्रति तत्सम्पादौचित्यात्तत्संपातस्यादर्शनात् स्वप्नो मनोविलास इति लौकिकस्यापि सम्प्रतिपन्नमिति तदपेक्षया स्वप्ने निर्विवादं मनस एव प्रमातृत्वमिति तथोक्तं तामेवलौकिकसम्प्रतिपत्तिमुद्घाटयति - स्वप्नो हीति || ९ || प्. ६८) स्वस्यैव शक्तिरवमर्शमयी स्वगर्भे ग्रस्तस्तयैव मनसा वपुरादिमूर्त्या | आत्मास्वरश्मिपटलस्थगितोऽर्यमेव नाभति किञ्चिदपि कञ्चुकपञ्चकान्तः || १० || इदानीं चित्तत्त्वस्यात्मनः स्वान्तःस्थयैव विमर्शपर्यायया मनः शक्त्या(क्तौ) देहाद्यन्तःप्रपञ्चस्य पृथिव्यादिबाह्यप्रपञ्चरूपिण्या(ण्यां) संवरणचमत्कारं व्युत्यादयति - स्वस्यैवेत्यादि | अवमर्शमयी विमर्शरूपिणी शक्तिः स्वस्यैव | स्वसम्बन्धिन्येव | अस्याः स्थितिरपि स्वगर्भे | धर्मत्वात् मनसा मनोरूपिण्या तयैव वपुरादिमूर्त्या देदपृथिव्यादिप्रपञ्चभूमिकापरिग्राहिण्या ग्रस्तः व्याप्तः | अनेन प्रपञ्चेन अहंकवलित इति विमर्श्यैव विपरीतप्रतीतिचमत्कारभावाद्भ्रसनचमत्क्रियाविषयः न तु परमार्थतो ग्रस्तः | विद्योदयानन्तरं स्वरूपपर्यालोचनायां स्वस्य प्रपञ्चेन कबलनं विमर्शचमत्कारमात्रे पर्यवस्यतीति स्वधर्मविलास स्तेन कथं स्वस्यावरणमित्येतदुपमामुखेन समर्थयतिस्वरश्मीति | स्वरश्मिपटलेन स्थगितः छन्न अर्यमा सूर्य इव कश्चुकपञ्चकस्य मनःशक्तिसमुन्मिषितपरिच्छिन्नसङ्कल्परूपवेद्यादिपञ्चाङ्गपदात्मनः | अतः व्याप्यकक्ष्यायां स्थित इत्यर्थः | नाभाति न प्रभाति | यथा सूर्यः स्वरश्मिपटलेनैवाच्छादितो न दृग्विषयबिम्बः तथायमप्यात्मा स्वशक्तिविलासेन | अत एव स्वरश्मिचक्ररूपेण प्रपञ्चेन च्छन्नोन्तर्हितचिदात्मकमूलरूप इत्युपपन्नमिति भावः || १० || प्. ६९) आत्मान्वितं वपुरहङ्कृति धीमनांसि त्रीण्यान्तराणि करणानि पदं प्रमातुः | एतन्मनोविलसितं यदि पञ्चरूपं मायापदं पदमिदं प्रकृतेस्तु साक्षात् || ११ || अथ विसर्गव्याप्तिविषयतया सम्भावितपञ्चाङ्गकस्य स्वप्नपदस्य संस्थानमुपदर्शयन् वक्ष्यमाणप्रकृतेः संसारपदादन्यभेदमुपपादयति - आत्मेत्यादि | आत्मान्वितं वपुः आत्मना सह परिगणितं वपुः | अहङ्कृतिधीमनांसि अहङ्कारबुद्धिमनोरूपाणि | त्रीण्यान्तराणि करणानि | सम्भूय पञ्चाङ्गकम् स्वप्नरूपं प्रमातुः पदं पदमित्यस्मिन्नर्थे प्रमातुरात्मन एव स्वाम्यमुक्तम् | अस्य पदस्यात्मशक्तिमनोविलासरूपत्वादात्मविलासरूपत्वमर्थात्सिद्धमिति जाग्रति मानसिकसंसारूपं प्रकृतिपदं वक्ष्यमाणपवर्गरूपम् | तत्राप्यात्मा वपुः पर्यायप्रकृतिः अहङ्काराद्यन्तःकरणत्रयमिति पञ्चाङ्गं पदम् | तथा च प्रकृतिपदात् स्वप्नपदस्य को भेद - इत्यत्राह एतदित्यादि | एतत्पञ्चरूपं पदं मनोविलसितम् | यदि मनस एव तात्त्विकदेहे प्रमातृनिर्व्यपेक्षस्य यदि विलसितं तदानीं स्वप्नपर्यायं मायापदं भवति साक्षाच्चेदहमेवं स्मरामीति जाग्रत्प्रकृतिरूप प्रमातृमूलं चेत् प्रकृतेः - पदं भवतीति भावः || ११ || प्. ७०) मायापदे स्वमन एव शरीरताभा- गित्यादिशन्त्यणुविदोऽत्र वकारगर्भे | तद्बाह्यतोऽपि च लकारमनुस्मरन्तः पञ्चाङ्गकं पदमिदं चतुरङ्गमेव || १२ || ननु स्वप्नपदं विसर्गव्याप्तिविषयतया पञ्चाङ्गकमित्युक्तम् | तत्र यकारादिवकारान्ताश्चत्वारो वर्णाः जडाजडेच्छाप्रमाणद्वयाज्जडेच्छास्थानीयविसर्गप्रमातृस्थानं वर्णो न श्रूयते वहिश्च न दृश्यते | तत्कथमस्य पदस्य पञ्चाङ्गत्वमित्यत्राह - मायेत्यादि | अणिविदो मन्त्रविदः | मायापदे स्वप्नपदे | भेदविमर्शो मायाभेद विमर्शस्य स्वप्न एव प्रथमाभिव्यक्तिस्थलमिति स्वप्नपदे मायापदमिति च व्यवहारः | तत्र पदे मन एव कालरूपः शरीरताभाक् देहप्रमातृभावभाक् | मनोव्यतिरेकेण स्वप्ने व्यवहर्ता देहो नास्तीति प्राक्प्रतिपादितम् | अतो मनस एव देहत्वमित्यादिशन्ति | कुर्वन्तर ? (अत्र)रवकारगर्भे वकारस्यान्तः यकारानन्तरपद इत्यर्थः | तद्बाह्यतोऽपि च वकारात्पूर्वप्दे च लकारमनुस्मरन्तः अनुयोजयन्तः | मनः स्थानीयस्य वियोजने मन एव देहत्वं प्राप्तमिति प्रतीयते | अतस्तथायोजनेन सम्प्रदायप्रवर्तनमेवोपदेश इति भावः | वकारात्पूर्वपदे बाह्यत्वेनाभिमते मनःस्थानीयो लकारोऽनुसन्धेयः | वकारात्परपदे आन्तरत्वेनाभिमते देहस्थानीयस्य लकारस्य सन्निवेश इति | ननु विसर्गव्याप्तिपदे विसर्गप्रमातृरूपस्य देहस्य कथमात्मस्थानियस्य वकारस्य गर्भे सन्निवेश इत्यत्रोच्यते - स्वप्नपदे विसर्गस्य स्थितिर्बिन्दुगर्भ एव तथापि विन्दोर्विसर्गेणाव्याप्तिप्रतीतिः | अत एव स्वप्नस्य चिदचिद्व्याप्तिप्रदेशे विसर्गप्रमातृरूपस्य देहस्य कथमात्मस्थानियस्य वकारस्य गर्भे सन्निवेश इत्यसङ्केतस्थानतया मिश्राद्वयं वक्ष्यति | जाग्रति तु विसर्गप्रमातुर्बिन्दुबहिर्भागसन्निवेशः | अत एव तस्याशुद्धता वक्ष्यते | देहस्यात्मान्तर्गत्वेन अन्तःकरणत्रयस्यात्मान्तर्गतत्वमनुमेयम् | तद्बहिर्गतत्वसन्निवेशस्तद्व्याप्तिप्रतिपत्त्यपेक्षयोपपद्यत इति निरवद्यम् | नन्वेतत्पदं पञ्चाङ्गकमुक्तम् तथा चेच्चतुरङ्गकेण शवर्गेण सह अष्टकोणे कथं समसङ्ख्यया सन्निवेशमर्हति | अथास्य चतुरङ्गत्वे विसर्गव्याप्तिर्न सङ्गच्छत इत्यत्राह - पञ्चाङ्गकमित्यादि | वकारस्य बहिरेव लकारसन्निवेशे चतुरङ्गमेव सत्साम्प्रदायिकेन वकारगर्भे लकारगर्भसन्निवेशरहस्येन पञ्चाङ्गकं चेति विशेषज्ञैः सम्प्रतिपद्यते इति विज्ञेयम् || १२ || प्. ७१) पृथ्वी लकार इह देहमयी स्वधामा कर्तृज्ञतेस्य मरुदग्निमयौ यरेफौ | व्याप्ये तयोः क्षितिजलौ(ले) विकृते लवौ च स्वात्मस्थितस्य वपुषः करणानि गर्भे || १३ || उक्तमर्यादया विसर्गव्याप्याभिमाने पञ्चाङ्गस्य स्वप्नपदस्याङ्गेषु वर्णेषु पशुपदत्वात्पृथिव्यादीनां व्युत्क्रमेण सन्निवेशं दर्शयति - पृथ्वीत्यादि | इह स्वप्नपदे लकारः वकारान्तर्वर्तिलकारः स्वधामाऽन्यस्मिन्पदयाकाशस्थानं प्राप्ता देहरूपिणी पृथ्वी | अस्य पृथ्वीरूपस्य देहस्य विसर्गप्रमातुः | मरुदग्निमयौ वायवग्निरूपौ यरेफौ | कर्तृज्ञते क्रिअयज्ञानकरणे विद्याप्तिपदे सलिलजडाग्निरूपे यत्तत्त्वद्वयं तदिदानीं व्युत्क्रमपदे वायुजडाग्निस्थानं यकाररेफरूपेण उपलक्षितम् | पृथिव्यात्मनो देहप्रमातुः चिद्व्याप्तौ साधनभूतं क्रियाज्ञानकरणद्वयं भवतीति भावः | क्रियात्मनो देहस्य प्रमातृत्वात् तत्साधनमपि क्रियाप्रधानं भवतीति विज्ञेयम् | वकारात्पूर्वो लकारः वकार(रात्पर)श्च लकारस्तयोर्यकाररेफरूपवाययग्न्योः व्याप्ये विकृते विकृतिमापन्ने | प्रकृत्या वायवाकाशरूपयोस्तत्त्वयोः क्षितिजलभागौ (वि)वकारक्षितिजलौ(ले) | एवं स्वात्मस्थितस्य वपुषः आत्मस्थानीयवकारगर्भे स्थितस्य देहस्य विसर्गप्रमातुः गर्भे करणानि | भवन्तीति शेषः | विसर्गस्य स्वव्याप्तिपदे चित्पदावच्छेदनियमात् आकाशादिरूपस्य विसर्गपदस्य संस्थानविशेषेणैव चिदन(व)च्छेदो गम्यते | विसर्गप्रमातृसाधनाभ्यां वायवग्निभ्यां पृथिवीजलयोरुच्छेदो न सिध्यति | वायुना जलस्योच्छेदः अग्निना पृथिव्या उच्छेदः सम्भवति | वायुना पृथिव्युच्छेदोऽग्निना जलस्योच्छेदो न सम्भाव्यत इति || १३ || प्. ७३) मग्नः पुमान्वपुषि चित्तमहंक्रियायां बुद्धौ जडांशजठरेऽप्यजडस्तदंशः | इत्थं प्रमातरि जडांशगताऽजडांशे ज्ञानक्रियान्तरवभाति महानजाण्डः || १४ || इदानीमात्मनः स्वगर्भस्थेनैव देहादिना व्याप्तिं निरूपयन् मनोबुद्धिरूपस्य विमर्शस्य देहाहङ्काररूपान्तर्जगदुद्वमनानन्तरं बाह्यजगदुद्वमनचमत्कारं दर्शयति - मग्न इत्यादि | पुमानात्मा वकाररूपः | वपुषि लकाररूपे | मग्नो भवतीति शेषः | चित्तं पूर्वलकाररूपं मनः | अहं क्रियायां यकाररूपे अहङ्कारे मग्न इत्यन्वयः | बुद्धौ जडांशजठरे | अजडस्तदंशः मग्न इत्यन्वयः | बुद्धेरग्नित्वं जडाऽजडरूपत्वं च प्रतिपादितम् | ननु वायुनाहङ्कारेण पृथिवीरूपस्य चित्तस्य कबलनम् अग्निरूपया बुद्ध्या जलरूपस्यात्मनः कबलनं पूर्वसूत्रेणोन्मीलितम् | इदानीमात्मनो देहेन कबलनं कथमिति चेत् उच्यते | ज्ञानक्रियारूपं करणद्वयं प्रमातुरङ्गमेव | तत्कबलनं फलतः प्रमातृकबलनमेवेति न विरोधः | इत्थमुक्तनिमज्जनपक्रियया | प्रमातरि वकाररूपे प्रमातरि | जडांशगताऽजडांशे विसर्गतदङ्गनिमग्नस्वात्मस्वकीयाङ्गे सति ज्ञानक्रियान्तः मनोबुद्धिगर्भात् | मनोबुद्धिरूपविमर्शगर्भादित्यर्थः | महान् अतिविततः | अजाण्डो ब्रह्माण्डः | अवभाति निर्गच्छति | विमर्शः स्वगर्भादन्तः प्रपञ्चोन्मीलनानन्तरं बाह्यप्रपञ्चमुद्वमतीति भावः | स्वप्नपदे ब्रह्माण्डस्य पिण्डाण्डं कारणमितिलौकिकस्यापि सम्प्रत्ययः | जाग्रति तु ब्रह्माण्डः पिण्डाण्डस्य कारणमिति दक्षिणमार्गलौकिकप्रतीतिः | वाममार्गस्य योगिनस्तु तत्र पिण्डाण्ड एव ब्रह्माण्डकारणमिति निश्चयः सिद्धदर्शने | यामले तु तयोरन्योन्यकार्यकारणत्वं यौगपद्यसिद्धेरिति शक्त्यात्मनोः पिण्डाण्डब्रह्माण्डयोरविनाभाव इति | अन्तः पदे पिण्डाण्डाङ्गं ब्रह्माण्डमिति बहिः पदे ब्रह्माण्डाङ्गं पिण्डाण्डमिति समविवेकः || १४ || प्. ७४) पिण्डाण्डमूलमपि मूलमिवास्य भाति ब्रह्माण्डमन्तरमपि बाह्यमिवास्य चित्रम् | मायाविमोहितदृशा तदणुर्निरीक्ष्य स्वाङ्गानि पञ्च कलयत्यणुशक्तिकानि || १५ || इदानीं पशोः स्वस्वरूपभूतात् पिण्डाण्डादेवोदितस्य ब्रह्माण्डस्य दर्शनेन योऽयं विपरीतप्रतीतिरूपविमर्शविलास स्तं विवृणोति - पिण्डाण्देति | ब्रह्माण्डपिण्डाण्डमूलमपि स्वप्नेऽपि देहाभिमानिनः विवादं मनोमूलत्वात्पिण्डाण्डमूलकमपि अस्य पिण्डाण्डस्य स्वयं मूलमिव भाति | अस्य पिण्डाण्डस्य अन्तरेऽपि मनोनिष्ठत्वादन्तःस्थमपि बाह्यमिव भाति | चित्रमद्भुतम् | स्वान्तःस्थस्य स्वव्यापकत्वेन प्रतीतेर्द्भुतत्वात् | अणुः सङ्कुचितप्रमाता | तत्तदेवंविधं ब्रहाण्डम् | मायाविमोहितदृशा मायाचमत्कारपरिग्रहेण विमोहितया विकृतिं गतया दृशा | दृग्विमर्शेन निरीक्ष्य | पञ्च पिण्डाण्डस्थानानि देहादीनि | स्वाङ्गानि | अणुशक्तिकानि ब्रह्माण्डापेक्षया अत्यल्पसाराणि | कलयति | मनुते || १५ || प्. ७५) सङ्कॢप्तवायुशिखिभूजलखापकर्षा बन्धाः स्युरन्तरणुकस्य कलाप्यविद्या | रागश्च कालनियती इति कञ्चुकास्ते मायात्मनः प्रथमकञ्चुकता सुषुप्तेः || १६ || इदानीं पशोः पञ्चमहाभूतात्मकब्रह्माण्डाङ्गदर्शनेन संकुचितभूतात्मकस्वस्वरूपपिण्डाण्डाङ्गानामपकर्षसङ्कल्पा एव अन्तर्बन्धाः कलादिशब्दव्यवह्रियमाणाः षट्कञ्चुका भवन्तीत्याह - सङ्कृप्तेति | सङ्कॢप्तवायुशिखिभूजलखापकर्षाः | सङ्कॢप्ताः सङ्कल्पिताः वायवाद्यपकर्षाः यकाररेफलकारवकारलकारस्थानकवायवाग्निक्षितिजलाकाशसङ्कोचाः | अणुकस्य परिच्छिन्नप्रमातुः | अन्तर्बन्धाः स्युः | सङ्कल्पानां पशोरन्तर्हृदयेऽवस्थानात् प्रपञ्चव्याप्तिलक्षणबन्धमूलत्वाच्च अन्तर्बन्धत्वम् | स्वसङ्कल्पवशाद् बद्ध इति प्रसिद्धेः | तेषां सङ्कल्परूपबन्धानां यकारस्थानकवायवादिक्रमेण सिद्धसम्प्रदायप्रसिद्धकलादिषट्कञ्चुकरूपतां क्रमेणानुदिशति - कलेत्यादि | यकारस्थानकवायुसङ्कोच सङ्कल्पः कला नाम कञ्चुको भवति | रेफस्थानकाग्निसङ्कोच सङ्कल्पः अविद्या नाम कञ्चुको भवतीति | लकारस्थानकपृथ्वीसङ्कोच सङ्कल्पो राग इति कञ्चुको भवति | वकारस्थानकजलसङ्कोचः सङ्कल्पः कालो नाम कञ्चुको भवति | लकारस्थानकाऽकाशसङ्कोचः सङ्कल्पो नियतिर्नाम कञ्चुको भवति | अपरिच्छिन्नप्रमातृपदे सर्वकर्तृत्वस्य वायोः पशुपदे सङ्कोचात्कलामात्रकर्तृत्वमिति कला सर्वज्ञत्वस्याग्नेर्विद्यारूपस्य सङ्कोचाद्वैपरीत्ये अविद्यात्वम् पूर्णत्वशक्तेः पृथिव्याः सङ्कोचे ममेदमाशास्यमिति स्पृहापर्यायरागोदयाद्रागत्वम् नित्यत्वशक्तेः सलिलस्य सङ्कोचे अनित्यताकलनात्कालत्वम् व्यापकत्वशक्तेराकाशस्य सङ्कोचे अत्रैवाहमिति देशनियमान्नियतित्वमिति कलादीनामुपपत्तिः | ननु कञ्चुकाः षडितिप्रसिद्धिस्तत्र माया प्रथमेति श्रूयते तस्याः कथं नात्र विवेक इत्यत्राह - मायात्मन इति | योऽयं पञ्चकञ्चुकरूपात्स्वप्नात्पूर्वभाविनी तत्कारणरूपभूता जडसुषुप्तिः | सैव मायाभेदसंसारस्य मूलरूपत्वात् तस्या मायात्मनः सुषुप्तेः प्रथमकञ्चुकता क्षकारादि ककारान्तवर्णाः शिवादिक्षित्यन्तषट्त्रिंशत्तत्त्वरूपा इति साम्प्रदायिकी प्रसिद्धिः | ते च वर्णा द्विरूपेण लकारेण सह पञ्चत्रिंशकेन षकारक्षकारयोरेकवर्णत्वेन सम्प्रदाये सम्प्रतिपन्नत्वात् | ततः स्वरवर्गस्य मायातत्त्वरूपस्यान्तःस्थःवर्गमूले सन्निवेशे वर्णेषु षट्त्रिंशत्तत्त्वस्थिति रविसंवादिनी | स्वर खण्डः खलु व्यापकखण्डस्य मूलम् | यवर्गरूपभेदस्वप्नबीजत्वाच्छवर्गरूपा-भेदस्वप्नविश्रान्तिपदत्वाच्च | उत्पत्त्यपेक्षया ज्ञानस्य प्राधान्यं प्रतीत्यपेक्षया क्रियायाः प्राधान्यमितिज्ञानक्रियासंसाररूपयोः स्वप्नजाग्रतोर्मध्ये सर्वकारणस्य सुषुप्तेः स्वरवर्गरूपस्य सन्निवेश इति स्वरवर्गे स्वप्नवासनारूपयकारो मायातत्त्वस्थानमिति विवेकः || १६ || प्. ७६) कर्तृत्वशक्तिरनिलः सकलज्ञताग्नि- र्भूः पूर्णताऽविलयताम्बु वियद्विभुत्वम् | पञ्चापि शक्तय इमा वितताः स्वरूपं शम्भोर्भवन्त्यपि च सङ्कुचिताः पशोस्तु || १७ || इदानीं यकारादिस्थानानां वायवादीनां भूतानां पूर्णापूर्णतया जीवशिवस्वरूपकर्तृत्वादिपञ्चशक्तित्त्वं व्युत्पादयति - कर्तृत्वेति | अनिलः शिवस्य सर्वकर्तृत्वशक्तिः | अग्निः सर्वज्ञताशक्तिः | भूः - पूर्णताशक्तिः | अम्बु - अविलयता नित्यत्वशक्तिः | वियदाकाशः - विभुत्वं व्यापकत्वशक्तिः | इमाः पञ्चापि शक्तयः निरताः पूर्णाः शम्भोः स्वरूपं भवन्ति | सङ्कुचितास्तु पशोः स्वरूपं भवन्ति | सर्वस्याः क्रियायाः स्पन्दरूपत्वात् स्पन्दस्य वायुधर्मत्वाद्बायोः कर्तृत्वशक्तिता | ज्ञानस्य भासनरूपत्वात् भासनस्य तेजोधर्मत्वाद्वह्नेर्ज्ञत्वशक्तिता | सम्पन्नतापर्यायस्य पूर्णत्वस्य सकलभोग्यवस्तुमूलत्वात्सकलभोग्यवस्तूनां पृथिवीमूलत्वात् पृथिव्याः पूर्णत्वशक्तिता | नित्यत्वस्याऽप्यायनाविच्छेदमूलत्वादाप्यायनस्य नित्यत्वशक्तित्वम् | विभुत्वस्य व्याप्तिमूलत्वा द्व्याप्तेराकाशधर्मत्वादाकाशस्य विभुत्वशक्तिरिति विवेकः || १७ || प्. ७७) स्यात्पञ्चशक्तिमयता प्रकृतिः शिवस्य स्वान्तर्जगत्कलनमप्यथ देहिनस्तु | बाह्ये जगत्कलनमेव भवेद्विभेदः स्वाभ्यन्तरस्थजगतोऽपि विमोहशक्त्या || १८ || शिवयोः पञ्चशक्तिमयत्वे सामान्ये भेदकं धर्ममुत्पादयति - स्यादिति | शिवस्य पञ्चशक्तिमयता प्रकृतिः स्वभावः स्यात् | अष्टौ मूर्तयः शिवस्येति प्रसिद्धिः | तत्र चन्द्रार्कयोस्तेजसि वह्नावन्तर्भावाद्यजमानस्य चिदात्मन आकाशे तेजसि शिवान्तर्भावात् ब्रह्माण्डरूपेण परिणताः पञ्चमहाभूता एव शिवस्य स्वरूपमाकाशप्रभूतिका इत्युपपन्नम् | शिवस्य जीवाद्भेदकं धर्ममाह - स्वान्तर्जगत्कलनमिति | महाभूतपरिणामरूपाणां जगतां भूर्भुवादीनां महाभूतेष्वेवावस्थानात् तदात्मनः शिवस्य स्वान्तर्जगत्कलनमेतावती शिवस्य प्रकृतिः | अथ देहिनस्तु | अथ पक्षान्तरे | पञ्चभूतात्मकत्वात् पञ्चशक्तिमयस्यैव सतः स्वाभ्यन्तरस्थजगतः पिण्डाण्डरूपस्य जीवस्य | पिण्डाण्डादेव ब्रह्माण्डोदयात्तत्रैव तस्य संस्थानात् स्वाभ्यन्तरस्थजगतोऽपीत्युपपन्नम् | विमोहशक्त्या विपरीतप्रतीतिरूपविमर्श शक्त्या | बाह्ये व्याप्तिपदे | यज्जगत्कलनम् जगतामवस्थानसङ्कल्पः | तदेव शिवाद्विशेषः | भेदकोधर्मः | यदा निजस्वरूपं पिण्डाण्डं ब्रह्माण्डस्य मूलतया ब्रह्माण्डादधिकं मन्यते | तदा स्वस्वरूपस्यैव ब्रहाण्डत्वे तदुत्तीर्णत्वे च प्राप्ते सति विश्वमयविश्वोत्तीर्णस्वभावं शिवत्वमेव शिवस्य प्राप्नोतीति भावः || १८ || प्. ७८) अन्तःस्थितस्य मनसो न हि पूर्तियोग- श्चैत्यस्य तत्कबलितत्वविनिश्चयायाः | तद्वच्चितेरपि न पूर्तिरतो दशेयं पक्षद्वये स्फुरदपूर्त्यभिपूर्तियोगा || १९ || इदानीं स्वप्नस्य मिश्राध्वताप्रतिपादनाय तत्र चिदचिद्व्यापिसाङ्कर्यं दर्शयति - अन्तरित्यादि | मनसः | अन्तःस्थितस्य चैत्यस्य | देहब्रह्माण्डरूपस्य वेद्यस्य | पूर्तियोगः पूर्त्युपपत्तिः | न हि | तत्कबलितत्वविनिश्चयायाः - तेनोभयविधेन चैत्येन कबलितत्वं व्याप्तत्वम् तत्र विनिश्चयः प्रतिपत्तिदार्ढ्यम् यस्याः सा तथोक्ता | चितेरपि वकारस्थानकस्यात्मनोऽपि तद्वत् न | यथा चैत्यस्य तथेत्यर्थः | पूर्तिः चैत्यस्य चिदन्तर्गतत्वे परमार्थे चिद्व्याप्तिरेवास्तु | अन्यथा प्रतिपत्तिदोषेण परमार्थस्य न खलु व्याहतिरिति नाशङ्कनीयम् | निर्विकल्पपरमार्थो मूलवस्तु निर्विकल्पवशादेव खलु संसाराध्यवसायः | न हि पारमार्थिकः संसारः | अतस्तत्तत्प्रतीतिरूपविमर्शभासिता भावा अतात्त्विकत्वेन नापह्नवनीयाः | तथात्वे सर्वस्यापि संसारस्यापह्नवीयत्वप्रसक्तेरित्यलं रहस्योपदेशान्तरायकथाभिः अतश्चिदचितोर्व्याप्तिनिर्णयानैकान्त्यात् | इयं दशा | स्वप्नः | पक्षद्वये चिदचिद्रूपे पक्षद्वये | स्फुरदपूर्त्यभिपूर्तियोगा स्फुरन्त्योरपूर्त्यभिपूर्त्योर्योगः संसृष्टिरस्यामिति सा तथोक्ता || १९ || प्. ७९) अध्वा भवेच्चिदपकर्षवशादशुद्धः शुद्धस्त्वसौ भवति चैत्यपदापकर्षात् | चिच्चैत्ययोरुपचयाऽपचयाऽविशेषान्- मिश्रो हि मायिकपदं भवतीदमध्वा || २० || स्वप्नस्याशुद्धाध्वताप्रवचनप्रस्थाने सर्वस्याप्यध्वनः स्वरूपं व्युत्पादयति - अध्वेति | चिदपकर्षवशाच्चैत्यस्य व्याप्त्या चित्तत्वस्यापकर्षे व्याप्यत्वे प्राप्ते तद्वशात् | अशुद्धः अध्वा भवति | यत्र यतो व्याप्यत्वादपकर्षः तदेव पदमशुद्धाध्वेति व्यवह्रियते | भेदजाग्रज्जडसुषुप्तिश्चाऽशुद्धाध्वेत्यर्थः | तत्र चैत्यव्याप्तेरैकाधिपत्येन चितो व्याप्यत्वात् | असावध्व चैत्यपदापकर्षात् शुद्धो भवति | शुद्ध इति व्यवह्रियते | तुर्यपदं शुद्धाध्वा चिद्व्याप्तिरैकाधिपत्येन चैत्यस्य व्याप्यत्वात् | इदं मायिकपदं स्वप्नपदम् चिच्चैत्ययोरुपचयापचयाविशेषात् | उपचयो व्यापकत्वम् | अपचयो व्याप्यत्वम् | तयोरविशेषः सामान्यभावः | चिच्चैत्ययोः प्रत्येकं व्याप्य व्याप्तिसामान्यात् मिश्रो ह्यध्वा भवति | मिश्राध्वेति व्यवह्रियते | विश्वस्य चिन्मयत्वपारमार्थ्यात् तद्व्याप्तिप्रतीतिरेव शुद्धिः | तद्वान शुद्धः | चैत्यव्याप्तेश्चमत्कारमात्रतया चित्स्वरूपावरकत्वेन मलपर्यायतायां चैतव्याप्तिप्रतीतिरशुद्धिः | तद्वानशुद्ध इति वेदितव्यम् | जाग्रदादीनामेव दशानां शिवजीवयोः सञ्चरणपर्याये पुनःपुनरभ्यावृत्तिविषयतया व्यवहारः || २० || प्. ८०) आत्मा वकारवपुषाणुरुकार एव देहात्मनैव खलु संसृतिरस्य जन्तोः | देहं च तात्त्विकममुष्य सुषुप्तमेव स्वप्ने तदत्र मन एव शरीरताभाक् || २१ || इति मातृकाचक्रविवेके स्वप्नविवेकस्तृतीयः खण्डः || प्रकरणमुपसंहरन् स्वप्ने मनस एव शरीरत्वमिति विप्रतिपत्तिविषयत्वात् सविशेषं प्रतिपादयति - आत्मेति | अकारादिरूपे सुषुप्तिपदे आत्मस्थानीये य उकारः सोऽयमुकाररूप एवात्मा स्वप्नपदे वकारवपुषा वकाररूपेण | अणुः सङ्कुचितः | अस्य वकाररूपस्य जन्तोः जीवस्य | देहात्मनैव देहरूपेणैव | संसृतिः संसरणम् खलु शिववद्देहबन्धं विना निर्मलचिदाकाशरूपेण संसरणलीलाचमत्कारानुसन्धानं न संभवतीति भावः | अतो जीवस्य संसरणे देहमवश्यं स्वप्ने मनः - कल्पितम् तात्त्विकं देहं सुषुप्तमेव निमीलितबहिरिन्द्रियग्रामं सच्छययातलं न जहातीति भावः | तस्यैव स्वप्नसंसारिणोऽधिष्ठातृत्वे स्वप्नसम्भाविताङ्गुलिच्छेदादेर्जाग्रति सम्पातप्रसक्तेः | यद्यपि तात्त्विकस्यापि देहस्य मनोमूलत्वं तथापि लौकिकप्रतीत्यपेक्षयाऽतात्त्विकं मनःकृतमित्युक्तम् | तत्तस्मात्कारणाद् अत्र स्वप्ने | मन एव | पारिशेष्यादिति भावः | शरीरताभाक् शरीरत्वं भजतीति सम्प्रतिपन्नं लौकिकस्यापीत्यर्थः || २१ || प्. ८१) शम्भोर्दक्षिणमक्षिभूतविततेः शोषे यकारः पटु - र्नेत्रं मध्यममुष्य लोकदहने जागर्तिरेफाक्षरम् | विश्वाप्लावककर्मठं पशुपतेर्वामेक्षणे वाक्षरं त्रैनेत्रं पदमाददाति जपतामेतत्त्रयं देहिनाम् || सुप्त्या मग्नस्य जलधौ विश्वस्योद्धृत्य धारणात् | मन्त्रविद्भिर्यवर्गोऽयं धारणाशक्तिरुच्यते || १ || स्थितिरिन्द्रे हि विश्वस्य लकारे मानसे तथा | तदिन्द्राख्या लकारस्य मन्त्रवित्साम्प्रदायिनी || २ || वकारं च लकारंच भित्वा बुध्यातितीक्ष्णया | (वलभिद्वलभित्प्रोक्तो नवलो नाम राक्षसः ) || ३ || भेदप्रत्ययघस्मरैर्नवरसैः पेयैर्यकारात्मकै- ?र्लाकारैरुपदंशनैश्च रदनोत्पत्तिक्रियायाः फलैः | मायां ये समुपासते कृतधियस्तेषां यवर्गस्थितं मायास्फूर्तिरहस्यमन्तरचिरादुद्योतते स्वात्मनि || ४ || शिवानन्देन मुनिना देशिकादेशवर्तिना | तृतीयं मातृकाचक्रविवेके व्याकृतं पदम् || ५ || इति तृतीयः खण्डः समाप्तः || ३ || अथ चतुर्थः खण्डः || इत्यन्तरीषदिह सङ्कुचिते विमर्शे सङ्कोचमाश्रयति बाह्यपदे प्रगाढम् | प्रत्येकमेव कलयन्त्यथ भावमेवं भूतानि पञ्च जगतो नियतः कलापः || १ || अथ स्कन्धान्तरमारभमाणः पूर्वोत्तरस्कन्धयोः सम्बन्धदर्शनाय पूर्वस्कन्धप्रमेयानुवादपूर्वकमुत्तरस्कन्धप्रमेयं प्रस्तौति - इतीत्यादि | इत्युक्तप्रकारेण | अन्तरन्तःकरणकक्ष्यायाम् | इह स्वप्नदशायाम् | ईषत्सङ्कुचिते विमर्शे बाह्यपदे बाह्येन्द्रियकक्ष्यायाम् | जाग्रति | प्रगाढमतिमात्रं सङ्कोचमाश्रयति | भूतानि जगतो नियतः कलापः | जगतो भूतपरिणामरूपत्वात् भूतानां नियमेन जगत्कलापत्वम् | प्रत्येकं पञ्चभावं कलयन्ति प्राप्नुवन्ति | विमर्शस्यातिसङ्कोचपदे जाग्रति भूतानामप्यतिसङ्कोचपरिग्रहात् | पृथिव्यादीनामेकैकस्य पृथिव्यादिपञ्चरूपत्वेनातिसङ्कोचः | पशुप्रमातृपदस्य सलिलस्य पुरुषप्रकृत्यादिरूपेण पञ्चभूतात्मतयातिसङ्कोचः | पशुप्रमातृज्ञानेन्द्रियपदायाः पृथिव्याः श्रोत्रत्वगादिरूपेण पञ्चभूतात्मतयातिसङ्कोचः | पशुप्रमातृकर्मेन्द्रियपदस्याग्नेर्वाक्पाण्यादिरूपेण पञ्चभूतात्मतयातिसङ्कोचः | पशुप्रमातृज्ञेयवेद्यपदस्य वायोः शब्दस्पर्शादिरूपेण पञ्चभूतात्मतयातिसङ्कोचः | पशुप्रमातुः कार्यवेद्यरूपस्याकाशस्याकाशवायवादिरूपेण पञ्चभूतात्मतयाति सङ्कोचः | अत्रायमर्थो गम्यते - भूतानां प्रत्येकंपञ्चभूतात्मतया विलसनं स्वभावः सुषुप्तिस्वप्नयोरपि सङ्कोचाविषयत्वान्नोन्मिषति | जाग्रत्यतिसङ्कोचपदे तु समुन्मिषतीति | एतेन भूतानामपि सर्वेषां सर्वभूतैः सहाविनाभावसम्बन्ध नियम इति वेदितव्यम् || १ || प्. ८३) यद्वर्णपञ्चकमपूर्वकमादिवर्ग्य- मन्तःस्थतां भजति सङ्कुचिते तदीषत् | तत्कादिवर्गतनुसङ्कुचितं नितान्त- मूष्मात्मकं च दधतेऽङ्कुरिताभिपूर्ति || २ || इदानीं जाग्रत्प्रस्तावे कादिमान्तस्पर्शवर्णानां सङ्कोचाधिक्यदर्शनाय सर्ववर्णकारणरूपस्याकारादिवर्णपञ्चकस्य स्फुरणे प्रतिपादिप्रक्रियां व्युत्पादयति - यद्वर्णेत्यादि | आदिवर्गः - वर्गाणामादित्वादादिवर्गः स्वरवर्गः | तत्र भवम् आदिवर्ग्यम् | अपूर्वकम् अकारः पूर्वो यस्य वर्णपञ्चकस्य तदपूर्वकं यद्वर्णपञ्चकम् अकारेकारोकार-ऋकारऌकाररूपम् | तदेवं वर्णपञ्चकम् | ईषत्सङ्कुचितं सत् | ईषत्स्पृष्टताप्रयत्नविषयतया ईषत्सङ्कुचितं सत् | अन्तःस्थतां यकारादिरूपतां भजति | इकारस्येषत्सङ्कोचो यकारः ऋकारस्य रेफः (ऌ)?इकारस्य लकारः उकारस्य वकारः सङ्कोचः | मनस एव लकारस्थानकस्य विसर्गप्रमातृपर्यायदेहरूपत्वादकारसङ्कोचो नास्ति | एवमकारादिवर्णपञ्चकस्यैव रूपान्तरमन्तःस्थवर्गः | तदेव वर्णपञ्चकं नितान्तं सङ्कुचितं स्पृष्टाविषयतयातिसङ्कुचितं सत् | कादिवर्गतनु - कवर्गादिवर्गपञ्चकस्वरूपम् | अकारस्य सङ्कोचः कवर्गः | इकारस्य सङ्कोचश्चवर्गः | ऋकारस्य सङ्कोचष्टवर्गः | ऌकारस्य सङ्कोचस्तवर्गः | उकारस्य सङ्कोचः पवर्गः | अथ तदेव वर्णपञ्चकम् | अङ्कुरिताभिपूर्ति - ईषद्विवृत्तिप्रयत्नविषयतया अङ्कुरितपूर्णत्वं सत् ऊष्मात्मकं च | (दधते - भजति) पवर्गपञ्चकरूपेण सङ्कुचितस्याकारादिवर्णपञ्चकस्येषत्पूर्णत्वरूपा ऊष्माण इत्यर्थः | चवर्गस्येषत्पूर्णत्वं शकारः | टवर्गस्येषत्पूर्णत्वं षकारः | तवर्गस्येषत्पूर्णत्वं सकारः | कवर्गस्येषत्पूर्णत्वं हकारः | एवं कारणरूपस्याकारादिवर्णपञ्चकस्यैव दशाविशेषास्तत्कार्यरूपाः सर्वे वर्णा इति विवेकः || २ || प्. ८४) स्थानेन साधितधराप्रभृतिस्वभावे वर्णोत्करे भवति मातृपदं पवर्गः | आत्मा मनस्तदनु बुद्धिरहङ्क्रिया च | प्राक् चेतसः प्रकृतिरप्यवरोहभङ्ग्या || ३ || अथ स्पर्शकदम्बकस्य स्थानवशात्पृथिव्यादिरूपत्वविवेकं प्रागुक्तप्रमेयतया सूचयन्निति तत्प्रमातृपदस्य पवर्गस्य वर्णपञ्चके तत्प्रतिपाद्यं तत्त्वपञ्चकं व्युत्पादयति - स्थानेति | स्थानेन कण्ठताल्वादीना | साधितधराप्रभृति स्वभावे प्रागुक्तप्रक्रियया नीचोच्चस्थानेपर्यालोचनया निश्चित पृथिव्यादिस्वभावे | वर्णोत्करे स्पर्शवर्णकदम्बके | पवर्गो मातृपदं प्रमातृपदं भवति | यद्यपि कवर्गस्यैव व्यापकतया प्रमातृपदत्वं तथापि चैत्यस्य प्रमातृत्वं वैकारिकं चितः प्रमेयत्वं च तथेति चित्पदस्य पवर्गस्य प्रमातृपदव्यवहारः पूर्व(शा)शसनयेति निरवद्यम् | अवरोहभङ्ग्या विलोमक्रमेण | मकारमारभ्य पकारपर्यन्तमित्यर्थः | आत्मा मनः बुद्धिः अहङ्क्रिया प्रकृतिरितिपवर्गवर्णानां विलोमक्रमेण तत्त्वपञ्चकस्वरूपता | तद्भावकत्वे तत्स्वरूपत्वमुपचारतः | मकार आत्मा पुरुषतत्त्वमित्यर्थः | भकारो मनस्तत्त्वम् | बकारोबुद्धितत्वम् फकारोऽहङ्कारतत्त्वम् | पकारः प्रकृतितत्त्वमिति विज्ञेयम् | पकारादिवर्णपञ्चकस्य पृथिव्याद्याकाशान्तरा(ता)यां सत्यामेव प्रकृत्यादिव्यवहारः | पृथिव्यंशः प्रकृतिः | जलांशोऽहङ्कारः | अग्न्यंशो बुद्धिः | वायवंशो मनः | आकाशांशः पुरुष इति विवेकः | एवमितरवर्गचतुष्टयस्यापि प्रथमवर्णादारम्य पृथिव्याद्यंशतत्वे सत्येव वक्ष्यमाणतत्तत्तत्त्वरूपता विज्ञेया | ननु पुरुषतत्त्वानन्तरं प्रकृतितत्त्वमिति प्रवादः तत्कथमत्र क्रमविरोध इत्यत्राह - प्राक्चेतस इति | चेतसो मनसः प्राक् प्रथमं प्रकृतिरिति तत्त्वोदयक्रमः | आकाशपृथिवीरूपयोः पुरुषप्रकृत्योर्धर्मिणोरनन्तरं तद्धर्मभूतानां मनोबुद्ध्यहङ्काराणामुदयस्योपपत्तिः तथापि तेषां धर्माणां धर्मिद्वयमध्य एवोदयात् मध्यगता परिगणना उदयापेक्षया धर्माणां धर्मिद्वयानन्तर्य मनवस्थित्यपेक्षया तु धर्मिद्वयमध्यत्वमिति भावः | मध्यत्वेऽपि मनसः पुरुषधर्मत्वात्तत्समीप एवावस्थानम् अहङ्कारस्य प्रकृतिधर्मतया प्रकृतिसमीप एव स्थितिः मनोऽहंकारयोर्मध्ये उभयधर्मस्य बुद्धेः स्थितिरिति विज्ञेयम् | विसर्गव्याप्तौ प्रकृत्यहङ्कारबुद्धिमनः पुरुषा इति बिन्दुव्याप्तौ पुरुषमनोबुद्ध्यहङ्कारप्रकृतय इति क्रमः तदत्र विसर्गव्याप्तेः प्राथम्यात् प्रकृत्यादिकः क्रमोऽङ्गीकर्तव्यः || ३ || प्. ८६) श्रोत्रादिकं खलु तवर्गमयं विलोमा- द्वागादि पञ्चकमिदं च टवर्गरूपम् | शब्दादि खाद्यपि चवर्गकवर्गरूप- मेतानि वायुदहनाम्बुमहीविलासाः || ४ || पवर्गवर्णप्रतिपाद्यानि तत्त्वान्युक्त्वा तवर्गादिवर्णप्रतिपाद्यान्यपि तत्त्वानि व्युत्पादयति - श्रोत्रादिकमित्यादि | श्रोत्रादिकं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणरूपं तत्त्वपञ्चकम् | विलोमात्तवर्गमयम् विलोमक्रमिकतवर्गरूपनकारादितकारान्तवर्णपञ्चकरूपमित्यर्थः | अत्रापि नकारप्रतिपाद्यं श्रोत्रतत्त्वमाकाशांशः | धकारप्रतिपाद्या त्वक् वायवंशः | दकारप्रतिपाद्यं चक्षुस्तेजोऽशः | थकारप्रतिपाद्या जिह्वा जलांशः | तकारप्रतिपाद्यः प्राणः पृथिव्यंश इति विज्ञेयम् | इदं प्रत्यक्षनिर्देश्यं वागादिपञ्चकं च वाक्पादपाण्युपस्थपायुरूपतत्त्वपञ्चकम् | विलोमादि त्यस्यात्रापि सम्बन्धः | विलोमक्रमिकटवर्गरूपम् | णकार आकाशांशो वाक् | ढकारो वायवंशः पादौ | डकारस्तेजोंऽशः पाणी | ठकारो जलांशः उपस्थः | टकारः पृथ्विव्यंशः पायुः | शब्दादिशब्दस्पर्शरूपरसगन्धरुप तत्त्वपञ्चकमाकाशाद्यपि च आकाशवायवग्निजलपृथिवीरूपं तत्त्वपञ्चकं च | क्रमेण चवर्गकवर्गरूपम् | अत्रापि विलोमादित्यस्यानुवृत्तिः | ञकार आकाशांशः शब्दः | झकारो वायवंशः स्पर्शः | जकारस्तेजोंऽशोरूपम् | छकारः सलिलांशो रसः | चकारः पृथिव्यंशो गन्धः | ङकार आकाशः | घकारो वायुः | गकारस्तेजः | खकारः सलिलम् | ककारः पृथिवीति विवेकः | एतानि तवर्गादिवर्गचतुष्टयतत्त्वानि | वायुदहनाम्बुमहीविलासाः | वायोस्तवर्गाधिष्ठातृत्वात् तवर्गप्रतिपाद्यतत्त्वानि वायुविलासा इति विज्ञेयम् | अग्नेष्टवर्गाधिष्ठातृत्वात् टवर्गप्रतिपाद्यतत्त्वानि अग्निविलासाः | जलस्य चवर्गाधिष्ठातृत्वाच्चावर्गप्रतिपाद्यतत्त्वानि जलस्य विलासाः | पृथिव्याः कवर्गाधिष्ठातृत्वात् कवर्गप्रतिपाद्यतत्त्वानि पृथिवीविलासा इति विवेकः || ४ || प्. ८७) देहात्मिका प्रकृतिरान्तररूपमुर्व्याः सूक्ष्मं जलस्य खलु रूपमहङ्क्रिया स्यात् | अग्नेस्तु बुद्धिरनिलस्य मनोऽन्तरात्मा सर्गः खलु प्रकृतिजः क्षितिसर्गबीजम् || ५ || इदानींकचटतवर्गतत्वात्मनः स्थूलस्य पृथिव्यण्डस्य पवर्गवर्णरूपं प्रकृत्यन्तं सूक्ष्मरूपतया कारणमिति प्रतिपादयति - देहात्मिकेति | देहात्मिका देहरूपिणी | प्रकृतिः | देहाभिमान एव प्रकृतिरिति व्यवह्रियते | सा प्रकृतिः | उर्व्याः पृथिव्याः | कवर्गरूपिण्या इति भावः | आन्तरम् अन्तःकक्ष्यास्थितं रूपं स्वरूपं सूक्ष्मं रूपम् | अहंक्रियाऽहङ्कारश्चवर्गरूपस्य सलिलस्याऽन्तरं रूपं स्यात्खलु | अग्नेष्टवर्गरूपस्य अन्तरात्मना बुद्धिः | अनिलस्य तवर्गरूपस्य अन्तरात्मना मनः | एवं प्रकृतिजः सर्गः संसारः | पवर्गवर्णचतुष्टयं भवति | रूपप्रकृति संसारः | क्षितिसर्गस्य कवर्गादिवर्गचतुष्टयात्मनः पृथिवी संसारस्य | बीजं कारणम् | सूक्ष्मस्य प्रकृतिसंसारस्यैव स्थूलभावः पृथिवी संसार इति प्रकृतिसंसारस्य ब्रह्माण्डपर्यायस्य कार्यत्वं स्वाभाविकस्य प्रकृत्यन्तस्य पृथिव्यन्त मूलत्वं प्रकृत्यन्तस्तु मायाविलास इति तात्पर्यम् | अत एव चतुरस्ररूपस्य प्रकृत्यन्तस्य रविबिम्बत्वं दशारयुग्मरूपस्य पृथिव्यन्तस्य रश्मिचक्रत्वं महायन्त्रं विभाव्यते || ५ || प्. ८८) देहात्मनोः प्रकृतिपूरुषयोः प्रमाता देहोत्र तस्य निलयोऽपि तदङ्गमात्मा | आत्मा यथा भवति मातृपदं वपुश्चेत् तल्लीनमस्त्यविरहः शिवयोः स्वभावः || ६ || इदानीं प्रकृत्यण्डमारभते - देहात्मनोरित्यादि | देहात्मनोर्देहात्मपर्याययोः प्रकृतिपुरुषयोर्मध्ये | अत्रविसर्गप्रकरणे | देहः प्रमाता | तस्य देहस्य | निलयोऽपि आश्रयोऽपि | अपि शब्देनाङ्गित्वसम्भावना प्रतीयते | देहस्य विमर्शतत्त्वपरिणामरूपस्य आत्मनः प्रकाशं विना न कुत्रापि स्थितिरुपपद्यते धर्मस्य धर्मिण्येवाश्रयणमिति नियमात् | आत्मातदङ्गम् तस्य देहस्याङ्गं तदन्तर्गतत्वेन तदङ्गत्वम् | विसर्गप्रमातृदेहस्य प्रकृतिपर्यायस्य व्याप्तौ आत्मा तदन्तर्गतः सन् तदङ्गतां भजते | यथा आत्माप्रमातृपदं प्रमातृस्थानं भजत्यारोहते | तत्र बिन्दुव्याप्तिपदे | तल्लीनम् - तस्मिन्नात्मनि लीनमेकरसीभूतम् | वपुः | अस्ति सत्तामवलम्बते | न तु परमोच्छेदं प्राप्नोति | तथात्वे विमर्शपदस्यापुनरुदयप्रसङ्गात् | विमर्शस्य पुनः पुनरुदय(दर्शनेन)प्रकाशव्याप्तावपि विमर्शस्यात्यन्तिकोच्छेदो न सम्भाव्यते इत्यवधारणीयम् | प्रकाशविमर्शयोरितरेतरव्याप्तौ उभयोरप्यनुच्छेदं प्रतिपादयति - अविरह इति | शिवयोः शिवा च शिवश्च शिवौ तयोः शिवयोः | अविरहः अन्योन्याविनाभावः | स्वभावः नैसर्गिक इत्यर्थः | प्रकाशं विना विमर्शोऽपि न विमर्शं विना प्रकाशोऽपि न किन्तु प्रकाशव्याप्तौ विमर्शस्य प्रकाशैकरस्येन स्थितिः विमर्शव्याप्तौ प्रकाशस्य भिन्नरसत्वेनैव स्थितिरिति विभागः || ६ || प्. ८९) जाड्यादहङ्कृतिरिति प्रथते विमर्शो बुद्धिर्जडाजडतया मनसस्त्वजाडयात् | त्रैगुण्यमेतदबहिः करणत्रयं स्यात् सौषुप्तजाग्रदवशेषदशानिदानम् || ७ || एवं धर्मिणोः देहात्मनोः स्वरूपं विचार्य इदानीं अहङ्कारबुद्धिमनोरूपेण त्रिविधस्य विमर्शादभिन्नस्य धर्मस्य स्वरूपं परामृशति - जाड्यादित्यादि | विमर्शजाड्यात् जडत्वभूमिका परिग्रहात् अहङ्कृतिरितिप्रथते | प्रसिद्धो भवति | जडत्वभूमिकापरिग्रहे विमर्श एवाहङ्कारशब्देन व्यवह्रियते इत्यर्थः | देहे अहमिति योऽयं विमर्शः स एव जडः विमर्शोऽहंकारः | जडभूतदेहाश्रितत्वेन तद्धर्मत्वात् | अयमेव जडविमर्शोऽन्तःकक्ष्यायामहङ्कारः सन् देहधर्मबहिःकक्ष्यायां शब्दादिपञ्चकरूपः सन् भूतचतुष्टयाङ्कायाः पृथिव्या अङ्गिन्या धर्मः | अथ विमर्श एव जडाजडत्वभूमिकापरिग्रहे बुद्धिरिति व्यवह्रियते इत्याह - बुद्धिर्जडाजडतयेति | क्रियासाधनमिन्द्रियं स्वयमपि स्थौल्येन क्रियारूपत्वाज्जडं च स्वत एव स्पन्दमानत्वादजडं च अतः क्रियासाधनरूपेण जडाजडो विमर्शः अन्तः कक्ष्यायां बुद्धिरित्युच्यते | बहिः कक्ष्यायां वागादिपञ्चकमुच्यते | अथ विमर्श एव अजडत्वभूमिकापरिग्रहेण मन इत्युच्यते विमर्शस्त्याजडत्वं ज्ञानसाधनरूपेण | ज्ञानसाधनं खलु मनश्चक्षुरादिकमन्तर्बहिः कक्ष्याविभक्तं सूक्ष्मरूपतया बुद्धिवागादिविलक्षणं पदं जडमेव | एवं विमर्शरूपमहंकाराद्यन्तःकरणत्रयमेव गुणत्रयमित्याह - त्रैगुण्यमिति | एतद्बहिःकरणत्रयम् अन्तःकरणत्रयत्रैगुण्यं सत्त्वादित्रिगुणसमाहारः स्यात् | अहंकारो रजोगुणः | उत्पत्तिरूपत्वात् | बुद्धिः सत्वम् | स्थितिरूपत्वात् | मनसस्तमोगुणः संहाररूपत्वात् | चिदेकाकारता खलु संहारः प्रकाशविश्रान्तिरूपो लौकिकैस्तम इत्युच्यते | तदस्य मनसो लौकिकापेक्षयैव तमस्त्वम् | अथवा क्रियायाः संहारपक्षे क्रियारूपोऽहङ्कारस्तमः ज्ञानरूपं मनोरजः अजडत्वं जगदुत्पत्तिदशा जडत्वं तत्संहार इति लौकिकः पक्षः | जडत्वं जगदुत्पत्तिदशा अजडत्वं संहारदशेति योगसिद्धान्तः | अतो यथा विवक्षितं जडाजडयोरहङ्कारमनसोस्तमोरजोगुणयोर्योजना कर्तव्या | अथैतद्देहान्तःकरणत्रयंसुप्त्यादिदशात्रयबीजमित्याह - सौषुप्तेति | सुषुप्तिरेव सौषुप्तं सुषुप्तिजाग्रद्भ्यामवशेषदशा स्वप्नः अहङ्कारो जडत्वात्सुषुप्तिनिदानम् बुद्धिर्जडाजडतया जाग्रन्निदानम् मनस्त्वजडतया स्वप्ननिदानमिति विवेकः || ७ || प्. ९०) देही गुणत्रयमयप्रकृतिर्दशासु सुप्त्यादिकासु नियमात्परिबंभ्रमीति | तास्वप्यहङ्कृतिपुरःसरणात्त्रिपुट्यां मेयोन्नतिं कलयति प्रमुखक्रियांशम् || ८ || इदानीं देहिनो गुणत्रयमयप्रकृतियोगेन सुप्त्यादिदशात्रये परिभ्रमणमित्याह | देहीति | देही देहाभिमानी प्रमाता गुणत्रयमयप्रकृतिः गुणत्रयसंसृष्टिरूपिणी प्रकृतिः स्वभावो देहपर्यायो यस्य तयोक्तः | एतेन गुणत्रयसंसृष्टिरेव प्रकृतिरिति प्रकृतिलक्षणमुक्तम् | एवंरूपप्रकृतिर्जीवः सुप्त्यादिकासु दशासु सुषुप्तिजाग्रत्स्वप्नेषु नियमादव्यभिचारेण परिबंभ्रमीति पुनःपुनर्भ्रमति | तास्वपि दशासु अहङ्कृतिपुरःसरणात् देहधर्मस्याहङ्कारस्य प्राधान्यात् | त्रिपुट्यां प्रमातृप्रमाणप्रमेयरूपायां संसारकलापसंपुटिकायाम् | मेयोन्नतिं प्रमेयव्याप्तिम् | प्रमुखक्रियांशम् - प्रधानःक्रियांशो यस्यास्मिन्कर्मणि तथा | कलयति विमृशति | देहस्य प्रमातृत्वे तद्धर्मस्य विमर्शस्य जडत्वाज्जडपक्ष्यस्य प्रेमयस्य व्याप्त्यनुसन्धानं भवतीत्यर्थः || ८ || प्. ९१) मेयादिका सततयुक्त्रिपुटी मनस्तां मेयादि भासयति मूढमहङ्क्रियात्म | मात्रादि भासयति चाथ निजस्वभावा- द्बुद्धिश्च मध्यमपदे मन एव बोध्यम् || ९ || इदानीं सर्वस्यान्तःकरणस्य मन एव प्रमाणभूतं मनस एवाहङ्कारादयो भूमिकाः मनसो विमर्शप्रथमरूपत्वाद्विमर्शवैभवं मनोवैभवमिति व्युत्पादयति | मेयादीति | मेयादिका मेयमानमातृरूपा त्रिपुटी त्रयाणां मेयादिपुटानां समाहारस्त्रिपुटी | सततयुक् | अन्योन्याविनाभावस्वभावा | तां त्रिपुटीम् | मनः विमर्शस्य मूलरूपम् मूढं जाड्यपर्यायमौढ्यभूमिकापरिग्रहेण | अहङ्क्रियात्म - अहङ्कारस्वरूपं सत् | मेयादि भासयति | प्रमेयादिकं यथा तथा भासयति | मेयव्याप्तिं दर्शयतीत्यर्थः | मनस एवानुसन्धानमहङ्कार आरोप्यत इत्यर्थः | अथ तदेव मनः निजस्वभावादजडरूपात् | अजडरूपं निजस्वभावं परिगृह्येत्यर्थः | तां त्रिपुटीमित्यनुवर्तते | मात्रादि भासयति प्रमात्रादिकं यथा तथा भासयति | चित्प्रमातृव्याप्तिं दर्शयतीत्यर्थः | मन एव मध्यमपदे जडाजडसमानपदे | जडाजडपदपरिग्रहेणेत्यर्थः | बुद्धिश्च प्रमेयप्रमात्रोः समव्याप्तिप्रदर्शिका बुद्धिश्च मन एवेति बोध्यम् || ९ || प्. ९२) तस्मात्पकारवपुषः प्रकृतेः प्रमातु- रात्मा मकारवपुरन्तर एव लीनः | तन्मध्यतास्थितिरहङ्कृतिधीहृदां स्या- देतत्यमातृपदमिन्द्रियलग्नविश्वम् || १० || उक्तप्रमेयं कारणीकृत्य पवर्गेप्रकृत्यादितत्त्वसन्निवेशं दृढीकृत्योपदर्शयति - तस्मादिति | तस्मात्पूर्वोक्तप्रमेयरूपात्कारणात् | पकारवपुषः पकारप्रतिपाद्यायाः प्रकृतेः | पकारवपुषः पकारस्वरूपाया इत्युपचारः | प्रमातुः देहपर्यायप्रकृतिरूपस्य प्रमातुः | अन्तर एव व्याप्यपद एव | मकारवपुर्मकारस्वरूपः | आत्राप्युपचारः | आत्मा पुरुषः | लीनः व्याप्त इत्यर्थः | तन्मध्यतः तयोः प्रकृतिपुरुषयोर्मध्यभागे | अहङ्कृतिधीहृदाम् - अहङ्कारबुद्धिमनसाम् | स्थितिः सन्निवेशः स्यात् | यद्यपि मकारस्यात्मनो व्यापकवर्गे प्रमातृपदे सन्निवेशः तथापि पवर्गव्यापकवर्गयोर्मध्ये सन्निवेशादुभयपक्षप्रक्रियासम्बन्धो वेदितव्यः | स्पर्शकदम्बकस्य प्रमाणपदत्वान्मकारस्य प्रमातुस्तत्प्रकाशानुसारेण परिगणना | तथापि प्रमाणपदक्रियासम्बन्धमात्रं ताटस्थ्यादङ्गीकर्तव्यमेव | अतः प्रकृतिव्याप्तिः पुरुषपर्यन्तं प्रवहतीति निरवद्यम् | चतुरश्रचक्रसन्निवेशे तु मनोबुद्ध्योरेवात्मपुरुषरूपयोरहङ्कारप्रकृतिभ्यां व्याप्तिस्ताभ्यां च तदुभयव्याप्तिरिति विवेकः | अथैतस्मिन्नेव प्रकृत्यन्ते मनोबुद्ध्योः स्वप्नपद इव ब्रह्माण्डोन्मीलनचमत्कारं दर्शयति - एतदित्यादि | एतत्प्रमातृपदं प्रकृत्यन्तरूपम् | इन्द्रियलग्नविश्वं मनोबुद्धिरूपज्ञानक्रियेन्द्रियसम्बद्धं विश्वम् | भवतीति शेषः || १० || प्. ९३) एतच्च मातृपदमिन्द्रियसंश्रितं च तत्संश्रयश्च मन एव तदिन्द्रियं स्यात् | तद्ग्रामणीन्द्रियकुलस्य विमर्शशक्ति- श्चिच्चेत्यमिश्रमखिलं खलु तद्विलासः || ११ || अथ यदेतदन्तर्बाह्यजगद्विलसितं तत्सर्वं मनोमूलमेवेति प्रतिपादयति - एतच्चेति एतच्चमातृपदं प्रकृतन्त रूपं प्रमातृपदम् - इन्द्रियसंश्रितं च मनोबुद्दिरूपेन्द्रियविलासःत्वात्तत्संश्रितं तयोर्मनोबुद्ध्योः संश्रितं तत्संश्रयश्च तयोर्मनोबुद्ध्योः संश्रयः आश्रयश्च | एतद्द्वयं निजसमाश्रयमेव कुर्वन्नित्युक्तत्वात् | तद्द्विरूपमिन्द्रियमपि पर्यालोचनायां मन एव स्यात् | मनस एव दशाविशेषो बुद्धिरित्युक्तत्वात् | इन्द्रियकुलस्य अन्तर्बाह्यकरणजालस्य | ग्रामणि प्रवर्तकम् | तत् मनः | विमर्शशक्तिः - विचित्रविश्वोद्वमनानुचर्वणक्रियाप(स्फुर)णोन्मेषनिमेषसम्भ्रमा विमर्शशक्तिः | मन एव | चिच्चैत्यमिश्रं प्रमातृप्रमेयप्रमाणरूपमखिलम् | तद्विलासः तस्य मनसोविलासः खलु | तेनेयमिन्द्रियजालश्रीर्जाग्रतिप्रविलसत इति प्रसिद्धिः || ११ || प्. ९४) स्वप्ने च जागरणमातृपदे च वेद्य- मिच्छात्मनो मनस एव विभाति कुक्षौ | पूर्वत्र मातृ मन एव शरीरताभाक् प्रत्यक्षमुत्तरपदे तु शरीरमेव || १२ || एवं स्वप्नप्रकृतिसंसारयोर्विश्वमिच्छात्मनो मनस एव गर्भे विलसतीति प्रबोधयति - स्वप्ने चेति | स्वप्ने च जागरणमातृपदे जाग्रदवस्थायां यन्मातृपदमवैकारिकम् | पवर्गप्रतिपाद्यप्रकृतिसंसाररूपमित्यर्थः तस्मिंश्च वेद्यम् अन्तर्बहिःप्रपञ्चरूपम् | इच्छात्मन इच्छास्वरूपस्य मनसः कुक्षावेव गर्भ एव विभाति विलसति | स्वप्नप्रकृतिसंसाराविच्छासंसारावित्यर्थः | ज्ञाने ज्ञानेन्द्रियकर्मेन्द्रियसंसारौ ज्ञानक्रियासंसाराविति भावः | ननु स्वप्नस्य ज्ञानस्वरूपस्य मनः संसारत्वं जाग्रतः क्रियासंसारत्वं विश्रान्तिरूपायाः सुषुप्तेरिच्छा संसारत्वमिति प्रागुपदिष्टम् | इदानीं कथमन्यरूपोपदेश इति न मन्तव्यम् | विश्रान्तेरेव बहिर्मुखतायाम् इच्छासंसारः स्वप्न एव ज्ञानसंसारः जाग्रदेव क्रियासंसारः जडविश्रान्तिरजडविश्रान्तिश्चेति सुषुप्ते स्वप्नयोर्जडाजडविश्रान्त्यभिमाने जाग्रत एव ज्ञानक्रियेन्द्रियव्यापारव्यवस्थाया ज्ञानक्रियासंसारत्वम् | अथवा प्रकृतिसंसारस्य ज्ञानसंसारत्वम् पार्थिवसंसारस्य क्रियासंसारत्वम् जडाजडरूपसुषुप्तिरेव जडाजडेच्छासंसारत्वाभिमाने स्वप्नोज्ञानसंसारः जाग्रत्क्रियासंसार इति विवेकः | तदत्र स्वप्नविश्रान्तेरजडेच्छासंसारत्वाभिमाने स्वप्नवन्मानसिकसंसारत्वात् प्रकृतिसंसारस्यापि इच्छासंसारत्वमुक्तमिति निरवद्यम् | स्वप्न प्रकृतिसंसारयोरिच्छासंसारत्वेन ऐकरूप्ये प्राक्प्रतिपादितमेव भेदकमुद्घाटयति - पूर्वत्रेति | पूर्वत्र स्वप्ने | शरीरताभाक् मन एव | मातृ प्रमातृ | उत्तरपदे प्रकृतिसंसारे तु प्रत्यक्षमानसिकत्वेनाभिमतं शरीरमेव प्रमातृ अनयोः संसारयोरयमेवेत्यर्थः || १२ || प्. ९५) चेतश्चमत्कृतिपदं वमति स्वलीनं विश्वं बहिः श्रुतिमुखेन्द्रियवर्गभावात् | तत्रापि धीन्द्रियगणः पवनोऽपि पृथ्वी ज्ञेयैर्जलैरपि मरुद्भिरुदीरितोऽन्तः || १३ || अथ पार्थिवसंसारप्रक्रियामुपक्रमते - चेत् इत्यादि | चमत्कृतिपदं चमत्काराणां स्थानम् | चेतः विमर्शस्य मूलरूपम् मनः कर्तृ | स्वलीनं स्वान्तर्गतम् | प्रकृतिसंसारे स्वप्नसंसार इव लौकिकैरपि विश्वस्य मनोविलासमात्रत्वाभ्युपगमान्मनोनिष्ठत्वमिति मनोलीनत्वम् मनः स्वस्वरूप एव विलसदित्यर्थः | विश्वं बहिर्वमति | विश्वस्य भैर्वमनं च मनश्चमत्कारविशेषः | मनसः किं रूपेण बहिर्वमनमित्यत्राह - श्रुतिमुखेन्द्रियवर्गभावात् | श्रोत्रादिवागादिज्ञानक्रियेन्द्रियवर्गस्वरूपाङ्गीकारात् | श्रोत्रादिभूमिकापरिग्रहेणेत्यर्थः | श्रोत्रादिभ्य एव ज्ञेयरूपस्य विश्वस्य निर्गमः वागादिभ्य एव कार्यरूपस्य | नियमेन विश्वस्येन्द्रियप्रकाशान्तर्भासनादिन्द्रियकारणत्वम् तथा चेन्द्रियरूपान्तर(त्वं)त्वाद्विश्वस्येन्द्रियप्रकाशादेव पर्यवस्यति | इन्द्रियप्रकाशोन्मेष एतत्स्फुरणम् तदनुन्मेषेत्वस्फुरणमित्यन्वयव्यतिरेकाभ्यां विश्वस्येन्द्रियप्रकाशकारणं न तु मायाविमोहितकाणादसम्प्रतिपन्नपरमाण्वादय इत्यलमतिप्रसङ्गेन | एवं परमार्थादिन्द्रियप्रकाशोद्वान्तस्यविश्वस्य पशुविषये विपरीतप्रतीतिप्रक्रियामाह - तत्रापीति | तत्र बहिःकक्ष्यायाम् | अपि शब्दोऽन्तःकक्ष्यासमुच्चयाभिधायकः | यथान्तःकक्ष्यायां प्रकृतिसंसरे पशोर्विपरीतप्रतीतिः तथा बहिःकक्ष्यायां पार्थिवाण्डसंसारेऽपीत्यर्थः | इन्द्रियगणो ज्ञानेन्द्रियवर्गः | पव(मा)नोऽपि परमार्थरूपे चिद्व्याप्ते संसारे वायुस्थानकोऽपि पृथ्वीस्थानं सङ्कोचभावात्प्राप्तः | ज्ञेयैर्ज्ञेयरूपैः वेद्यैर्जलैरपि चिद्व्याप्तौ जलस्थानकैरपि | अत्र विपरीतमरुद्भिः | व्याप्त्या वायुस्थानं प्राप्तैः | अन्तरुदीरितः स्वभ्यन्तरे क्षिप्तः | व्याप्तः इत्यर्थः | तवर्गरूपाणां ज्ञानेन्द्रियाणां चवर्गरूपैः शब्दादिभिर्व्याप्तिरित्यर्थः || १३ || प्. ९६) कर्मेन्द्रियाणि कठिनत्वपरान्तभाञ्जि वह्न्याकृतीनि खपदस्थधराश्रितानि | पृथ्वीमयप्रकृतिखग्रहणोन्मुखानि बोध्यानि भूतविततेरिह वैपरीत्ये || १४ || इदानीं कर्मेन्द्रियाणां कार्यरूपवेद्यानां च वैपरीत्यमाह - कर्मेत्यादि | कर्मेन्द्रियाणि यवर्गप्रतिपाद्यवागादीनि | कठिनत्वपरान्तभाञ्जि कठिनत्वस्य परान्तः परमावधिस्तं भजन्तीति तथोक्तानि | क्रियायाः सङ्कोचनिर्बहणपदत्वात्कर्मेन्द्रियाणां कार्यरूपवेद्यानां चातिसङ्कोचभावादतिकाठिन्यम् | वह्न्याकृतीनि जडांशप्रधानवह्निमयानि | चिद्व्याप्तौ तु कर्मेन्द्रियाणामजडांशप्रधानवह्निमयत्वम् | वह्नेर्जडाजडमयत्वं प्राग्व्याख्यातम् | खपदस्थधराश्रितानि व्याप्तिलक्षणमाकाशपदमाक्रान्तवतीं पृथिवीमाश्रितानि | वागादीनां पशुपदेऽपि यद्यपि देहपर्यायप्रकृत्याश्रितत्वं तथापि कार्यवेद्यप्रधानभूतपृथिवीव्याप्त्यनुसन्धानात् पृथिव्याश्रितत्वं पृथिवीत्यादिचिद्व्याप्तिपदे पूर्णरूपतया च उपचरितरूपिण्याः महापृथिव्या एव पार्श्वे पृथिवीमययाः प्रकृतेः ग्रहणे व्याप्तौ उन्मुखानि भूतविततेरिह वैपरीत्ये बोध्यानि | अत्रायभिप्रायः पशोर्ज्ञानेन्द्रियाणि ज्ञेयेषु शब्दादिषु किञ्चिदेव ज्ञातुं क्षमन्ते न तु सर्वम् | अतस्तानि तैः ज्ञेयैः व्याप्तानि | शब्दादय एव कार्यावस्थायां वचनादिभावेन स्थूलतां प्राप्याकाशादयो भवन्ति | कर्मेन्द्रियाणि च वचनादिमात्रमाकाशादिकं कर्तुं क्षमन्ते न तु महाभूतरूपमाकाशादि कर्तुम् अतस्तानि च महाभूतैः कार्यैर्व्याप्तानि | एवं द्विविधमिन्द्रिवर्गं द्विविधेन वेद्यवर्गेण व्याप्तं सत् आत्मदेहरूपस्य प्रमातृद्वयस्य ज्ञेयकार्यवर्गाभ्यां व्याप्तिं समर्पयति चिद्व्याप्तौ तु आत्मा स्वसाधनैर्ज्ञानेन्द्रियैः ज्ञेयवेद्यं व्याप्नुवन् स्वात्मीकरोति अशेषज्ञेयस्य स्वात्मीकरणात्सर्वज्ञो भवति | देहश्च स्वसाधनैः कर्मेन्द्रियैः कार्यवेद्यं व्याप्नुवन् तत्स्वात्मीकरोति विशेषकार्यस्य स्वात्मीकरणात् सर्वकर्ता भवतीति ज्ञानक्रियेन्द्रियाणां प्रकृतिविकृतिभावप्रक्रिया वेदितव्या || १४ || प्. ९७) मानात्मकस्यतरणेर्द्वयतो हि सिद्धिः मायाबलात्प्रथमतात्र च मेयकोट्याः | ग्राह्यग्रहीतृपदवर्णसमन्वयेन योज्याः कला बहिरथान्तरपि क्रमज्ञैः || १५ || अथ प्रमेयप्रमातृमिश्ररूपस्थ प्रमाणसूर्यस्य कलासंस्थानप्रक्रियां व्युत्पादयति - मानेत्यादि | मानात्मकस्य प्रमाणरूपस्य तरणेः सूर्यस्य द्वयतः प्रमेयप्रमातृभ्यां सिद्धिःस्वरूपलाभो हि | अत्र च मायाबलात् प्रमेयकोट्या एव प्रथमपदता प्रमातृकोट्या द्वितीयपदता | विसर्गव्याप्तिरेव प्रथमेत्यर्थः | अत्र प्रमाणसूर्यस्य द्विद्विवर्णप्रतिपाद्यानां कलानां योजने ग्राह्यग्रहीतृत्वपदवर्णसमन्वयेन - ग्राह्यस्थानकानां वर्णानामनन्तरं ग्राहित्वस्थानकवर्णानां यथायोगं समन्वयेन | बहिः कवर्गादितवर्गान्तरूपे पृथिव्यन्ते | अन्तरपि पकारादिभकारान्तरूपे प्रकृत्यन्ते | क्रमज्ञैः ग्राह्यग्राहकवर्णक्रमविद्भिः | कला योज्याः | कवर्गटवर्गवर्णानां यथाक्रमं योगः चवर्गतवर्गाणानां च तथा | पकारबकारयोर्योगः फकारभकारयोश्च तथा | एवं च दशारयुग्मं रवेः रश्मिचक्रं चतुरस्रम् विम्बचक्रम् | यत्तु ककारादिडकारान्तैरनुलोमपठितद्वादशवर्णैः भकारादिडकारान्तविलोमपठितद्वादशवर्णानां योगेन द्वादशानां सूर्यकलानां प्रकल्पनापारमपर्यं तत्प्रमेयप्रामात्रात्मनः सूर्यस्य स्वरूपभूतेषु चतुर्विंशतिस्पर्शाक्षरेषु अर्धं प्रमेयकोटि रर्धं प्रमातृकोटिरुभयपक्षसमन्वयाद्वादशकलानिर्वृत्तिरिति विद्यमानमपि चक्रसंस्थानसंवादं न लभत इति मातृकाचक्रमर्मविद्भिर्महानुभावैरुपेक्षितमित्यलं महामार्गविसंवादकथया || १५ || प्. ९८) माता दशेन्द्रियमयोदशकं च मेयं तन्मेलनाद् दशकलात्मदशारयुग्मम् | अन्तः कलाद्वयमिह प्रकृतौ निलीन स्त्रैगुण्यमातरि पुमांश्चतुरस्रविम्बे || १६ || बहिरन्तरपि ग्राह्यग्रहीतृपदवर्णसमन्वयेन कला योज्या इति पूर्वसूत्रेण सूचितम् | कलायोजनप्रकारं चक्रे संस्थाने संवादयन् मातान्तरव्याक्षेपाभिप्रायेण स्फुटमुपदिशति - मातेत्यादि | मातृमेयात्मको हि रविः माता च बहिस्तवर्ग टवर्गप्रतिपाद्यदशेन्द्रियमयः | मेयं च तथा चवर्गकवर्गप्रतिपाद्यशब्दाद्याकाशादिकदशकमयम् तन्मेलनात् यथाक्रमं पृथिव्यादिकर्यवेद्यप्रतिपादककवर्गाक्षरपञ्चकेन वागादिकर्मेन्द्रियप्रतिपादकटवर्गाक्षरपञ्चकस्य मेलनात् | तथा गन्धादिप्रतिपादकचवर्गाक्षरपञ्चकेन घ्राणादिप्रतिपादकतवर्गाक्स्ऽरपञ्चकस्य मेलनात् | पञ्चपञ्चकलात्मकं सम्भूय दशकलात्मकं दशारयुग्मं भवति | अन्तः पवर्गरूपे प्रमातृपदे कलाद्वयं कार्यवेद्यबीजभूतप्रकृतिप्रतिपादकेन पकारेण कर्मेन्द्रियबीजभूतबुद्धिप्रतिपादकस्य बवर्णस्य मेलनादेकाकला ज्ञेयवेद्यबीजभूताहंकारप्रतिपादकेन फकारेण ज्ञानेन्द्रियबीजभूतमनःप्रतिपादकस्य भकारस्य मेलनादन्याकलेति कलाद्वयमिह चतुरक्षरनिष्पन्नकलाद्वयात्मके चतुरस्रबिम्बे त्रैगुण्यमातरि त्रिगुणसवित्र्यां प्रकृतौ पुमान्मकाररूप आत्मा निलीनः | अहङ्कारसहितायां प्रकृतौ बुद्धिमनसोर्यन्निलयनं तत्पुरुषस्य निलयने पर्यवस्यतीति भावः | स्पर्शवर्णचक्रस्य प्रमाणचक्रत्वान्मनोबुद्धिरूपेणैव पुरुषस्यात्र चक्रे संस्थानं न तु मकाररूपेण | तथापि मनोबुद्ध्योः पुरुषस्यैव रूपान्तरत्वात्पुरुषस्यापि मकारस्य प्रमाणप्रमातृचक्रयोर्मध्यवर्तित्वादुभयचक्रसम्बन्ध इति पुमान्निलीन इत्युक्तम् || १६ || प्. १००) मानात्मनैव चिदचित्स्थितिरत्रचक्रे भेदात्मके न भवतीह विसर्गबिन्दोः | मस्यानुषक्तिरपि मुख्यसमन्वयस्य बिन्द्वेकभोगपदमातृपुरोचितस्य || १७ || पूर्वसूत्रे सूचितं मकारप्रतिपाद्यपुरुषतत्त्वस्यैव प्रमाणप्रमात्रोरुभयचक्रसम्बन्धं स्फुटीकरोति | मानेत्यादि | अत्र भेदात्मकम् चक्रे | प्रमाणचक्रस्य ग्राह्यग्रहीतृभेदाविनाभावभूमित्वात् दशारयुग्मरूपत्वम् न तु चतुर्दशाराऽष्टावदेकैकचक्रत्वम् अतो भेदात्मके प्रस्फुटभेदस्वरूपम् | अत्र प्रमाणचक्रे चिदचितोः प्रमातृप्रमेययोः स्थितिः | मानात्मनैव इन्द्रियरूपेणैव | इन्द्रियाणां प्रमाणपर्यायाणां ग्राह्यग्राहकोभयसिद्धरूपत्वात् ग्राह्यग्राहकरूपेणैव प्रमेयमातृस्थितिरित्यर्थः | अतः कारणादित्यौचित्यादध्याहर्तव्यम् | इह प्रमाणचक्रे | विसर्गबिन्दोः बिन्दोरपि सतो भेदमयत्वात् विसर्गस्येत्यर्थः | मस्य मकारप्रतिपाद्यस्य पुरुषस्य | अनुषक्तिरनुषङ्गो न भवति | चतुर्विशत्यक्षरात्मकद्वादशकलारूपे प्रमाणचक्रे पुरुषस्थानकस्य मकारस्य पञ्चविंशतितमस्य न संनिवेश इत्यर्थः | तर्हि तस्य मकारपुरुषस्यात्र चक्रे किं सम्बन्धाभाव एवेत्यत्राह - अपि मुख्यसमन्वयस्येति | प्राधान्येन सम्बन्धवतोऽपि प्रमाणचक्रे प्रकृतिव्याप्तिविषयत्वेन सम्बन्धवतोऽपि तत्र चक्रे नानुषक्तिर्भवतीत्यन्वयः | कुत इत्याह - बिन्द्वेकभोगपदमातृपुरोचितस्य - बिन्दोरेकभोगस्थानम् - अष्टाररूपं प्रमातृपुरम् तदुचितस्य | द्वौ हि सङ्ग्रहेण प्रमातारौ | अभेदानुसन्धाता भेदानुसन्धाता च तत्रमकारप्रतिपाद्यो भेदानुसन्धाता अतः प्रसिद्धप्रमाता मकारप्रतिपाद्यप्रमातृपुरसन्निवेशमेवार्हति न तु प्रमाणपुरसन्निवेशम् तत्र तद्रूपान्तरयोर्मनोबुद्ध्योरेव सन्निवेशः | सम्बन्धस्तु प्रमाणचक्रेऽपि मकारप्रतिपाद्यस्यास्त्वेवेति निष्कर्ः || १७ || प्. १०१) स्वप्ने स्मृतं तदनु जाग्रति सत्यकल्पं बन्धं प्रपद्य वपुष स्वविमर्शशक्त्या | क्षित्या च तत्परवशो हृतमातृभावो मध्यन्दिनद्युमणिरेषमकारबिन्दुः || १८ || विसर्गव्याप्तिप्रकरणमुपसंहरन्नादितश्चिन्निगरणरूपं प्रकरणमेयं क्रोडीकृत्य दर्शयति - स्वप्न इत्यादि | स्वप्ने स्मृतं मनसा सङ्कल्पितम् | तदनुजाग्रति सत्यकल्पं दृढानुभवारूढतया परमार्थवदेव भासनं न तु परमार्थता अन्तःकक्ष्यापरामर्शनिर्विकल्पचिदात्मनः शिवस्य नित्यनिरावरणत्वेन भासमानत्वात् बहिरवभासमानस्य प्रवृत्तिरूपविमर्शस्पन्दविप्लवस्य चमत्कारप्रमातृत्वात् | अन्तः स्वविमर्शशक्त्याविमर्शशक्तेरेव स्वरूपेण वपुषा प्रकृतिपर्यायेण वहिस्तु क्षित्या च एवं कक्ष्याद्वयेऽपि बन्धं प्रपद्य तत्परवशः तयोर्देहमहापृथिव्योः परवशः परतन्त्रः | हृतमातृभावः ताभ्यामेवापहृतप्रमातृभावः प्रमेयतां प्रापित इति भावः | मकारबिन्दुः मकारप्रतिपाद्योबिन्दुः चित्तत्त्वं पुरुष इत्यर्थः | मध्यन्दिनद्युमणिः मध्याह्नकालसूर्यो जात इति शेषः | यथा मध्यन्दिनसूर्यः स्वरश्मिपटलेन स्थगितो नावभासते | तथायमपि चिदात्मा स्वस्या एव विमर्शशक्तेर्विजृम्भणरूपेण अन्तर्बहिः प्रपञ्चेन च भार्या(आवृत)मूलस्वरूपो जात इत्यर्थः || १८ || प्. १०२) यत्पादिवर्गवमुखार्णचतुष्टयस्य सङ्कोचवर्जनमिदं खलुतन्त्रनीत्या | तुर्यस्थितं हमुखशान्तचतुष्टयात्म- योज्यं क्रमेण बहिरन्तरभेदसृष्टयोः || १९ || इति श्रीमातृकाचक्रविवेक जाग्रद्विवेकश्चतुर्थः खण्ड || ४ || इदानीं प्रकरणान्ते चिद्व्याप्तिरुपमुत्तरप्रकरणप्रमेयमवतारयन् जाग्रच्चक्रे वक्ष्यमाणे स्वप्नचक्रे च विसर्गप्रमातुः प्रतिसिंहासनं तुर्यजाग्रत्स्वप्नरूपं पदद्वयं तत्र न्यायेन एकैकमातृकया समुन्मीलितं व्युत्पादयति - यत्पादीत्यादि | पादिवर्गवमुखार्णचतुष्टयस्य विलोमेन पवर्गादिवर्गचतुष्टयं पवर्गतवर्गटवर्ग च वर्गरूपं वर्गचतुष्टयं वकारलकाररेफयकाररूपं वर्णचतुष्टयं तस्योभयस्य | तन्त्ररीत्या एकया क्रियया | प्रयोजनद्वयसिद्धिरूपया तन्त्रनीत्या तन्त्रन्यायेन | इदं सङ्कोचवर्जनम् खलु स्पृष्टतेषत्स्पृष्टताप्रयत्नकृतसङ्कोचत्यागः खलु | यत्तुर्यस्थितं हमुखशान्तचतुष्टयात्मवर्णकदम्बकं पवर्गस्य वकारस्य च सङ्कोचत्यागरूपो हकारः | तवर्गस्य लकारस्य च सङ्कोचत्यागरूपः सकारः | टवर्गस्य च रेफस्य च सङ्कोचत्यागरूपः षकारः | चवर्गस्य यकारस्य सङ्कोचत्यागरूपः शकारः | कवर्गस्य देहप्रतिपादकलकारस्य च विसर्गप्रमातृरूपत्वात् तस्य च चिद्व्याप्तिपदे चित्स्वरूप एवान्तर्धानात्पदद्वयेऽपि हकार एव विलयनम् अतो न तत्सङ्कोचत्यागरूपो वर्णोऽन्वेषणीयः | एवं स्पर्शसङ्कोचत्यागरूपमतं तत्सङ्कोचत्यागरूपं हकारादिशकारान्तवर्णचतुष्टयं पदद्वयरूपं सत् क्रमेण | बहिरन्तरभेदसृष्ट्योः | बहिरभेदसृष्ट्यां अन्तरभेदसृष्ट्यां च भेदजाग्रत्प्रतियोगिन्यभेदजाग्रत्पदे भेदस्वप्नप्रतियोगिन्यभेदस्वप्नपदे चेत्यर्थः | दशारयुग्मार्धपदे अष्टारार्धपदे चेति वेदितव्यम् | योज्यं योजनीयम् || १९ || सर्वोहि भेदपद एव भवः पुरस्ता- त्पश्चादभेदमवगच्छति जातबोधः | शक्तिः शिवस्य महति प्रकृतिस्तदात्मा भेदोग्रवन्दनमतोऽर्हति भेदतत्त्वम् || १ || संस्थापितां पुरत एव शिवेन मायां पश्चात्करोति यजने द्वयतत्परो यः | सिद्धं न याति शिवसामयि ? किं समूढ- स्तस्माद्यखे(जे)तमुखतश्चतुरस्रबिम्बम् || २ || ईकारयोष(ग)जविसर्गकलास्तविन्दुः प्रत्याहृतं खलु विसर्गपदं कलाभ्याम् | सद्यो जगत्सपदि संभृतभेदसिद्धिः क्लींकारमूर्तिरनिशं मनुरभ्युदीर्यः || ३ || येकारेकारगर्भं कलयुगलतमं मायया व्याप्तमौलिं मन्त्रं मत्तोऽनुतिष्ठेदरुणमणिकृतामक्षमालां वहन्यः | भुञ्जानोऽसौ भुजिष्याप्रकृतिकमणिमाद्याख्यया संप्रसिद्धं सिद्धीनां सिद्धलभ्यं दशकमभवतां प्राप्य दिव्यैरिहैव || ४ || शिवानन्देन मुनिना देशिकादेशवर्तिना | चतुर्थं मातृकाचक्रविवेके व्याकृतं पदम् || ५ || इति चतुर्थः खण्डः समाप्तः || अथ पञ्चमः खण्डः | अक्षेषु वेद्यविलयः खलु शुद्धविद्या देहे तदक्षविलयो भवतीश्वरत्वम् | ईशो हि विश्वमयदेहकृताभिमानो जाग्रच्छिवस्य पशुजागरचक्रलग्नम् || १ || अथ निवृत्तिरूपं तुर्यस्कन्धमारभमाणो निवृत्तिजाग्रदुपक्रमत्वान्निवृत्तिजाग्रदधिष्ठातारं शिवस्य सर्वकर्तृत्वभूमिकाभूतमीश्वराख्यं प्रमातारं तद्बाह्यदशाविशेषेण शुद्धविद्याप्रमात्रा सह लक्षयति - अक्षेष्वित्यादि | अक्षेष्विन्द्रियेषु श्री(पाण्यादिषु)वागादिषु घ्राणादिषु | च | वेद्यविलयः वेद्यानां पृथिव्यादिभूतानां च विलयस्तदेकीकरणम् शुद्धविद्या खलु शुद्धविद्याश्रयः प्रमाता शुद्धविद्येत्युपचारः | पाशवे इन्द्रियप्रकाशाद्बहिस्तत्सार्थक्येनावभासमानानां वेद्यानाम् | इन्द्रियप्रकाशकगर्भ एवावभासननैयत्यविमर्शनेन्द्रियप्रकाशविमर्शरूपताध्यवसायादिन्द्रियै कात्म्यानुभवरूपा शुद्धविद्या पाशव्यामोहकर्तरि गुर्वनुग्रहमूलेन समुन्मिषतीति सैषा शुद्धविद्या वेद्येषु पशुदशायामिदम्प्रत्ययैकविषयेषु पाशवव्यावृत्तौ स्वात्मेन्द्रियप्रकाशतादात्म्याध्यवसायादहंप्रत्ययविषयताम##- तदभिधानतामुपचारेण भजतीति तद्विवेकः || एवं प्रमाणपदे प्रमेयनिमज्जनलक्षणं शुद्धविद्याप्रमातृपदं व्युत्पाद्य तदूर्ध्वतनीमीश्वरदशां व्युत्पादयति - देह इत्यादि | देहे प्रमातरि | तदक्षविलयः तेषां शुद्धविद्यादशाभ्यस्तप्रमेयस्वात्मीकरणानामक्षाणां विलयो निमज्जनमेकरसीकरणमीश्वरत्वं भवति | शुद्धविद्यादशायां प्रमाणपदनिमज्जितानां प्रमेयानां प्रमाणपदेन सह देहात्मरूपे प्रमातृपदे यद्देहांशे विनिमज्जनं तदीश्वरत्वमित्यर्थः | अत्र प्रथमप्रमेयात्मनो विश्वस्य किञ्चिदिदंप्रत्यायाधिवासिताहन्ताप्रत्ययविषयविषयत्वम् देहपदे निमज्जितस्य विश्वस्य देहस्येव दृढाहम्प्रत्ययविषयत्वादीश्वरस्य देहाद्विश्वस्मिन्नपि चेष्टकत्वम् | अत एव सर्वकर्तृत्वमीश्वरस्येत्यवगन्तव्यम् | शुद्धविद्यापदे त्विदंप्रत्ययाहंप्रत्यययोरिदंप्रत्ययस्यैवौल्वण्यात् विश्वचेष्टकत्वानुदयः | ईश्वरस्यानयादीशा विश्वशरीरस्य शिवजाग्रत्पदत्वात्पशुजाग्रत्पदे संश्लेष इति प्रतिपादयति - ईशोहीति | ईशो हि विश्वमये देहे कृताभिमानः शिवस्य जाग्रत् परिच्छिन्नदेहे कृताभिमानस्य पशोर्जागरचक्रे दशारद्वयात्मके लग्नं श्लिष्टं पशुजाग्रत्पदे शिवजाग्रतः श्लेषौचित्यादिति भावः | जडाजडपदयोः सुप्त्यादिदशात्रयेप्यन्योन्य श्लेषस्वभावता प्राक् प्रीतपादिता || १ || प्. १०५) यद्बाह्यबाह्यपदमज्जनमन्तरन्त- स्तच्चित्पदे जडपदे विपरीतमेतत् | अक्षात्मवेद्यमिह शः स हि शुद्धविद्या देहाविभिन्नकरणेन्द्रियमीश्वरः षः || २ || अथ निवृत्तिरूपस्य शुद्धविद्याप्रमातुः प्रमेयेष्वभ्यस्यमानाहम्भावस्य भेदो न प्रशान्त इत्यभेदजाग्रत्पदाधिष्ठातृत्वं नाभ्युपगतं चिद्व्याप्तिपदस्य बहिर्बहिरर्थानामन्तरन्तर्थेषु निमज्जनरूपं स्वभावं व्युत्पादयन् शवर्गे शुद्धविद्याद्यभेदप्रमातॄणां विषयविभागं दर्शयति - यद्बाह्येत्यादि | अन्तरन्तःपदे बाह्यवाह्यपदमज्जनं यत् बाह्यबाह्यपदस्य यन्मज्जनम् प्रमेयाणां प्रमाणपदे मज्जनं प्रमाणां प्रमातृपदे मज्जनमित्यर्थः | तच्चित्पदे चिद्व्याप्तिपदे | भवतीति शेषः | जडपदे चैत्यव्याप्तिपदे | एतद्विपरीतम् | अन्तरन्तःपदस्य बहिर्बहिःपदे मज्जनं विपरीतम् | प्रमातृपदस्य प्रमाणपदे मज्जनम् प्रमाणपदस्य प्रमेयपदे मज्जनमित्यर्थः | इह शुद्धविद्येश्वरसदाशिवशक्त्याह्वयस्य प्रमातृचतुष्टयस्य | साधारणपदे शवर्गे | अक्षात्म इन्द्रियप्रकाशैकात्म | इन्द्रियप्रकाशे लब्धैकात्म्यमित्यर्थः | वेद्यं प्रमेयजातम् | शः शवर्ण इति वेदितव्यम् | प्रमाणलब्धैकात्म्यप्रमेयस्थानीयः शवर्ण इत्यर्थः | यद्यपि चवर्गयकारसङ्कोचत्यागात्मनः शकारस्य शब्दादिमात्रवेद्यस्थानीयत्वं युक्तं तथापि सर्वप्रमेयोपलक्षणत्वेन चित्पदेऽहङ्कारे कवर्गलकारयोर्मज्जनाद्बहिरवभासमानश्चवर्गयकारयोग रूपभेदशकारोऽपि सर्वप्रमेयोपलक्षण इति वेदितव्यम् | स हि शकारः शुद्धविद्याप्रमाता | प्रमातृप्रमाणप्रमेयरूपेण पदत्रयेण निष्पाद्यस्वरूपस्य प्रमातुः कथं प्रमेयमात्रप्रतिपादके शकारे स्वरूपपत्तिरित्यत्रोच्यते | वर्णचतुष्टयात्मकः सर्वोऽपि शवर्गः शुद्धविद्यादिप्रमातृचतुष्टयस्य साधाणरणपदे प्रत्येकं स्वरूपं(स्वरूपं) भवति | तथापि शुद्धविद्यादीनां चतुर्णां (प्रमा)प्रमातॄणां शकारादयश्चत्वारो वर्णा एकैकस्यैकैक एव स्वरूपसिद्धिहेतुभूतस्य विशेषस्य प्रतिपादक इत्युपचारात्तत्तदेकैकवर्णरूपता तेषाम् | तथा हि शुद्धविद्याप्रमातुरिन्द्रियैकात्म्यवेद्यत्वं स्वरूपसिद्धिहेतुविशेषः | अतस्तस्येन्द्रियैकात्म्यवेद्यप्रतिपादकशकाररूपत्वम् | ईश्वरस्य प्रमातुर्देहाविभिन्नकार्यवेद्यैकात्म्यकर्मेन्द्रियत्वं स्वरूपसिद्धिहेतुर्विशेषः | अतस्तस्य तादृक्कर्मेन्द्रियप्रतिपादकषकाररूपत्वम् | एतदेवाह देहाविभिन्नकरणेन्द्रियमीश्वरः ष ति || २ || प्. १०७) ज्ञानेन्द्रियं स हि सदाशिव आत्मनैक्ये स्वात्मा खविश्रममयो ह इतीह शक्तिः | एतत्तुरीयपदमङ्गचतुष्टयाढ्यं बाह्यान्तरालपदयोः श्रितरूपसाम्यम् || ३ || अथ सदाशिवशक्तिप्रमातृस्वरूपं वर्णद्वयमाह | ज्ञानेन्द्रियमित्यादि | सदाशिवस्य प्रमातुरात्माविभिन्नस्वात्मीकृतज्ञेयवेद्यज्ञानेन्द्रियत्वं स्वरूपसिद्धिहेतुर्विशेषः | अतस्तस्य तादृग्ज्ञानेन्द्रियप्रतिपादकसकाररूपत्वं | एतदाह - आत्मनैक्ये आत्मना तादात्म्ये सति तादृशं ज्ञानेन्द्रियम् | स हि सकारो हि तादृग्ज्ञानेन्द्रियप्रतिपादकः | सकारो हि सदाशिव इत्यर्थः | खविश्रममयः अपरिच्छिन्नचिदचित्सामरस्य रूपाकाशविश्रान्तिमयः | स्वात्मा देहात्मोभयलक्षणं स्वरूपम् | ह इति | हकार इति वर्णः | इह शवर्गे | शक्तिः शक्तिनाम प्रमाता | अपरिच्छिन्नविश्रान्तिमयदेहात्मसामरस्यलक्षणस्वरूपत्वं शक्तेः स्वरूपसिद्धिहेतुर्विशेषः | अतस्तस्यास्तादृक्स्वरूपप्रतिपादकहकाररूपत्वम् | एवं शुद्धविद्यादीनां साधारणपदे शवर्गे तत्तस्वरूपसिद्धिहेतुविशेषप्रतिपादक वर्णाश्रयणेन विषयविभागं व्युत्पाद्यास्य शवर्गरूपस्य पदस्य बाह्ये स्पर्शसङ्कोचत्यागरूपस्यान्तरन्तःस्थ सङ्कोचत्यागरूपस्य उभयत्र रूपसाम्यम् प्रागुपदिष्टमेव स्फुटप्रत्ययायोद्घाटयति - एतदित्यादि | अङ्गचतुष्टयाढ्यम् महाभूतचतुष्टयगर्भिण्या महापृथिव्याः प्रकृत्याश्च चित्पदे हकारे निमज्जनादुभयत्राङ्गचतुष्टयाढ्यम् | एतत्तुरीयपदम् | अभेदजाग्रत्स्वप्नरूपं तुर्यपदम् | बाह्यान्तरालपदयोः स्पर्शान्तःस्थप्रतिपाद्यजाग्रत्स्वप्नपदयोः | श्रितरूपसाम्यम् | चवर्गस्य यकारस्यापि सङ्कोचत्यागे शकार एव टवर्गस्य रेफस्य सङ्कोचत्यागे षकार एव | एवमवशिष्टमुन्नेयम् || ३ || प्. १०८) एत्पदं पदमखण्डितमेव शुद्ध- विद्यादिकस्य खलु तत्त्वचतुष्टयस्य | वेद्याद्युदञ्चितचितिस्फुरणक्रमेण तत्तद्दशावतरणं विबुधैर्विभाव्यम् || ४ || शवर्णशुद्धविद्यादीनां प्रत्येकस्वर एव साधारणं पदमित्युक्तम् | तदेवाह - एतदित्यादि | एतच्छवर्गरूपं पदम् अखण्डितमेव अविभक्तमेव | शुद्धविद्यादिकस्य तत्त्वचतुष्टयस्य पदम् | प्रमाणप्रमेयाङ्गस्य प्रमातुरेकवर्णमात्रेण दुष्प्रतिपादत्वात् | एवमपि शुद्धविद्यादीनामेकैकवर्णव्यवहारोपचारे प्राक्प्रतिपादितोपपत्तिमासूत्रयति - वेद्यादिति | वेद्याद्युदञ्चितचितिस्फुरणं चैत्यव्याप्त्यवसाने यदा तदुन्मेषप्रारम्भः तदायं प्रारम्भो वेद्यादिक एव भवतीत्यनुभवः प्रमाणम् | तथा हि - पाशवावसाने साधको गुर्वनुग्रहसमुन्मिषितविवेकदृष्टिर्वेद्यमेव स्वात्मेन्द्रियप्रकाशे निमज्जयति | प्रमेयस्यैवं प्रमाणनिमज्जनाभ्यासादारूढशुद्धविद्यास्वभावस्तदनन्तरं स्वात्मीकृतप्रमेयं प्रमाणं प्रमातृपदे निमज्जयितुमुद्युञ्जानः शरीररूपे तावत्प्रमातृभागे स्वात्मीक्र्तकार्यप्रमेयं कर्मेन्द्रियवर्गरूपं प्रमाणं निमज्जयति | अतो विश्वशरीरः सन् विश्वचेष्टकतयाविर्भूतसर्वकर्तृत्वशक्तिरारूढेश्वरताकक्ष्यस्ततः परं स्वात्मीकृतज्ञेयप्रमेयं ज्ञानेन्द्रियप्रमाणमात्मरूपे प्रमातरि निमज्जयति | अतो विश्वात्मकः सन्नाविर्भूतसर्वज्ञत्वशक्तिरारूढसदाशिवकक्ष्यो ज्ञानस्य प्राग्भावेन क्रियां क्रियाप्राग्भावेन ज्ञानं चानुसन्दधानस्ततः परं ज्ञानक्रियासामरस्यभूमिमपरिच्छिन्नविश्रान्तिमयीमिच्छात्मिकां शक्तिक्रियामारोहतीति प्रक्रियया वेद्याद्युदञ्चिचितिस्फुरणक्रमेण तत्तदंशवर्ण उक्तमर्यादया | शुद्धविद्यादितत्तद्दशावतरणम् | विबुधैर्विद्वद्भिर्विभाव्यम् | उक्तमर्यादया वेद्यादिकं चित्प्रवहणे यं यं भागमधिकृत्य शुद्धविद्यादीनां स्वरूपलाभः तत्तद्भावरूपतत्तदावरणस्य तत्तत्प्रमातृपदत्वमापैचारिकमितिभावः || ४ || प्. १०९) सा(स)दाशिवः स खलु विन्दुमयस्तवर्ग- स्तत्रेश्वराङ्गमयमान्तरधामयोग्यः | ज्ञानक्रिये न सुशिवस्य सदाशिवेशा- वन्तर्बहिश्च नियताङ्गिपदौ क्रमेण || ५ || इदानीं बाह्ये ज्ञानेन्द्रियप्रतिपादकतवर्गसङ्कोचत्यागरूपस्य सकारस्य सदाशिवकलायाः सतोऽपि बहिस्तस्य प्राधान्यानौचित्यादीश्वराङ्गत्वम् अन्तःपदे रेफाक्स्ऽरत्यागरूपस्य षकारस्येश्वरकलायाः सदाशिवाङ्गत्वमिति व्युत्पादयति - सदाशिव इत्यादि | बिन्दुमयस्त्यक्तसङ्कोच इत्यर्थः | तवर्गः | स खलु सकारः खलु | असौ सकारः सदाशिवस्वभावः | अन्तरधामयोग्यः | स्वप्नलक्षणज्ञानकक्ष्यासमुचितोऽयं सकाररूपः सदाशिवस्वभावः | तत्र बाह्यपदे | क्रियाप्रधाने | ईश्वराङ्गम् | ईश्वरस्याङ्गमेव | क्रियापदेज्ञानांशस्य न्यग्भावः | अत्रोपपत्तिमाह - सदाशिवेशौ शिवस्य ज्ञानक्रिये | ननु शिवस्य ज्ञानशक्तिली(वि)लासरूपः सदाशिवः क्रियाशक्तिविलासरूप ईश्वरः अस्तु प्रकृते का नामोपपत्तिरित्यत्राह - एतौ सदाशिवेशौ | क्रमेणान्तर्बहिश्च नियताङ्गिपदौ सदाशिवस्यान्तः कक्ष्यानियतमङ्गिपदं तस्य ज्ञानस्वभावात् | ज्ञानस्य चान्तःपदे प्राधान्यात् बहिःकक्ष्या त्वङ्गपदम् ईश्वरस्य बहिःकक्ष्याङ्गिपदं तस्य क्रियास्वभावात् | क्रियायाश्च बाह्यपदे प्राधान्यात् | तस्यान्तःकक्ष्या त्वङ्गपदम् | अतो रेफसङ्कोचत्यागरूपस्य षकारस्येश्वरकलायास्तत्राङ्गत्वमेवेति विवेकः || ५ || प्. ११०) इच्छापपञ्चकवबिन्दुमयी हशक्ति- र्ज्ञानक्रियासमपदं खलु सोभयात्मा | बिन्दौ समुन्मिषति सर्गपदे क्रमेण संसृष्टिरापरिसमाप्तितयोर्विभाव्या || ६ || सदाशिवकलाया अन्तःप्राधान्यमीश्वरकलाया बहिःप्राधान्यमित्युक्तम् | इदानीं शक्त्याः कलाया इच्छात्मिकायाः साम्येन तदुभयमूलतया बहिरन्तरपि प्राधान्यमिति प्रतिपादयति - इच्छेत्यादि | प पञ्चक व बिन्दुमयी | वर्णपञ्चकात्मनः पवर्गस्य वकारस्य च यो बिन्दुत्वम् | गुणप्रधानोऽयं निर्देशः | सङ्कोचत्याग इत्यर्थः | तन्मयी तत्स्वरूपा | हशक्तिः हकारप्रतिपाद्या शक्तिदशा | इच्छा इच्छास्वभावा | सा इच्छाशक्तिः | ज्ञानक्रिया समपदं ज्ञानक्रिययोः साधारण्येन मूलपदम् | इच्छां (विना) विज्ञानमपि न प्रवर्तते क्रियापि न प्रवर्तते इति ज्ञानक्रिययोः इच्छैवान्तरं कूटस्थं रूपम् | अत एव सा उभयात्मा उभयस्य ज्ञानस्य क्रियायाश्च आत्मा मूलस्वरूपम् | अतस्तस्या ज्ञानपदेऽन्तः क्रियापदे बहिश्च प्राधान्यमेव नाङ्गत्वमिति भावः || इदानीं विसर्गपदे विद्यादिक्रमेण बिन्दुन्मेषे प्रवृत्ते सत्यसौ बिन्दून्मेषः क्रमप्रवृत्तिशाली यावत्सर्वमपि पदं व्याप्नोति तावद्विसर्गगन्धस्यानुवृत्तत्वाद्विन्दुविसर्गयोः संसृष्टिरेव न बिन्दोरेकाधिपत्यमिति व्युत्पादयति - बिन्दौ इत्यादि | सर्गपदे क्रमेण बिन्दौ समुन्मिषति सति | आपरिसमाप्ति सर्वत्रपदे बिन्दुव्याप्तिनिष्पत्तिपर्यन्तम् | तयोर्बिन्दुविसर्गयोः | संसृष्टिः | त्रिपुटीरूपे पदे क्वचित् बिन्दून्मेषः क्वचिद्विसर्गस्फुरत्तेति संसृष्टिः | विभाव्या ऊहनीया | अयमर्थः शुद्धविद्याप्रमातरि वेद्यानामिन्द्रियप्रकाशे निमज्जनेन वेद्यांश एव चिदुन्मेषः इन्द्रियाणां प्रमातृपदे निमज्जनाभ्यासपाटवाभावादिन्द्रियादिकेषूत्तरोत्तरपदेषु भेदस्याप्रशमाद्विसर्गस्य स्फुरत्तेति बिन्दुविसर्गसंसृष्टिः ईश्वरदशायां शुद्धविद्योत्तरपदत्वात्प्रमेयेषु चिदुन्मेषः सिद्ध एव | विशेषस्तु स्वात्मीकृतस्वविषयाणां कर्मेन्द्रियाणां देहात्मकप्रमातृपदे निमज्जनम् स्वात्मीकृतस्वविषयाणां ज्ञानेन्द्रियाणामात्मरूपे प्रमातृपदभागे निमज्जनं तत्प्राधान्येन अपाटवमेवाप्रधानम् अतस्तदाद्युत्तरपदे भेदस्फुरत्तेति विसर्गसंसृष्टिः सदाशिवदशायामीश्वरदशापर्यन्तचिदभेदोन्मेषः सिद्ध एव | विशेषस्तु स्वात्मीकृतज्ञेयानां ज्ञानकरणानाम् विश्वमयस्य च स्वात्मप्रमातृपदे निमज्जनम् तस्या अपि दशाया निराकुलचिद्विश्रमरूपेच्छाशक्तितत्त्वैकात्म्यं सावशेस्ऽमिति तदंशे भेदगन्धाद्विसर्गस्पर्शः शक्तिदशायां तु विश्रमरूपत्वादपरिच्छिन्नायामेवाभेदसाम्राज्यमिति तात्पर्यम् | तं (तत्) बिन्दून्मेषपदे विसर्गानुवृत्तितारतम्यविवेकः शुद्धविद्यादितत्त्वानां प्रस्फुटज्ञानकारणमिति तस्य तत्कर्तव्यत्वेन चोदना || ६ || प्. ११२) पुर्वत्र नैवहि परो नियतः परत्र पूर्वो भवेन्नियत एव शषादिवृन्दे | एकत्र संविदुदयेऽप्यपरत्र भास- स्तस्या इतीदमथवा सम मेव बिन्दुः || ७ || शुद्धविद्यादिषु बहिर्बहिदशायामन्तरन्तर्दशा नान्तर्भवन्ति(ति) | अन्तरन्तर्दशायां तु बहिर्बहिर्दशान्तर्भवतीति व्युत्पादयति - पूर्वत्रेत्यादि | शषादिवृन्दे शषादिप्रतिपाद्ये शुद्धविद्यादिवृन्दे | पूर्वत्र शुद्धविद्यादौ पूर्वदशायाम् | परः परदशा | नैव हि नियतः | न नियता | शुद्धविद्यायामीश्वरदशा न नियता | ईश्वरदशायां च सदाशिवदशा सदाशिवदशायां शक्तिदशा च तथेत्यर्थः | परत्र तु ईश्वरादिदशायां तु | पूर्वः | शुद्धविद्यादिदशा नियत एव भवेत् | नियमेन भवेदेव | ईश्वरदशायां शुद्धविद्यादशाऽन्तर्भूतास्त्येव सदाशिवदशायां चेश्वरदशा शक्तिदशायां च सदाशिवदशेति योजना | इदानीं वेद्योपक्रमेण संविदुदये क्रमं विना वेद्यादिप्रतिपादकं सर्वमपि शषादिवृन्दं संविन्मयूखानां निराघाट(निर्वाध)प्रसरणेन युगपदेव सङ्कोचति त्यजतीति पक्षान्तरमुपक्षिपति - एकत्रेति | एकत्र वेद्यभागे | संविदुदये सति | अपरत्रापि प्रमाणादिपदे सर्वत्रापि | तस्याः संविदो भास इति | भासः प्रवहन्तीति (शेषः) | इदं शषादिवृन्दं शषाद्यक्षरचतुष्टयम् अथवा पक्षान्तरेण | सममेव युगपदेव | बिन्दुः बिन्दुशब्देन त्यक्तसङ्कोचत्वं लक्ष्यते | त्यक्तसङ्कोचो भवतीति शेषः | अयमर्थः | वेद्यपदोपक्रमेण बिन्दून्मेषे शुद्धविद्यादिदशानां कालविलम्बापेक्षः क्रमो न नियतः | क्वचित्प्रमातरि भाग्याधिके शक्तिपातस्य तीव्रतया शुद्धविद्यादिदशानां निर्विलम्बेन क्षणादाविर्भावो युगपदेव सम्भवति क्वचित्तु क्रमापेक्षया शनैः सम्भवतीति पक्षद्वयमत्रानुसन्धेयम् || ७ || प्. ११३) जाग्रच्छिवस्य पशुजागरयुक्तदैश- मन्तर्दशारमिह कोणगतं बहुत्वम् | भेदोदयोल्लसित मेतदभेदकोट्यां प्राप्नोति सङ्ग्रहामिति प्रतिपद्रहस्यम् || ८ || इदानीं शकाराद्यक्षरचतुष्टयाधिष्ठातुरीश्वरस्य बह्वक्षरसन्निवेशवति दशारयुग्मरूपे पशुजागरचक्रे कथं सन्निवेशौचित्यमित्याशङ्क्य तदुपपादयति | जाग्रदित्यादि | शिवस्य | जाग्रत् जाग्रदवस्था | पशुजागरयुक् पशुजागरावस्थया युक् योगिनी | यतः श्लिष्टमित्यर्थः | (तत्) तस्मात्कारणादन्तर्दशारं दशेन्द्रियसन्निवेशपदं व्याप्य दशारम् | ऐशं ईश्वराधिष्ठातृकम् | इहेश्वराधिष्ठातृके दशारचक्रपदे | भेदोदयोल्लसितं भेदविजृम्भणेन समुदञ्चितम् | यत्कोणगतं बहुत्वं कोणबाहुल्यम् | एतदभेदकोट्याम् अभेदपक्षाविर्भावे | सङ्ग्रहम् | अभेदपदोचितं बाहुल्यत्यागं प्राप्नोतीति प्रतिपद्रहस्यं ज्ञानरहस्यम् | अयमर्थः विसर्गव्याप्तौ सकलभेदसमुज्जृम्भस्थले चतुर्विंशत्यक्षरात्मके स्पर्शकदम्बके पञ्चवर्गसंविभक्तं यत्पञ्चाङ्गकं पदं चतुरस्रे दशारयुग्मस्य चतुर्षु कोणपञ्चकेषु व्यवस्थितम् | पशुजागरे शिवजागरे तु भेदसङ्क्षये सति चतुरश्रपदं पादिवर्णचतुष्टयं हकारत्वेन परिणमते | बहिर्दशारकोणपञ्चकगतः कवर्गश्च हकारेऽन्तर्भवति | अवशिष्टकोणपञ्चकगतश्चवर्गः शकारत्वेन परिणमति | अन्तर्दशारे कोणपञ्चकगतष्टवर्गः षकारत्वेन परिणमति | अवशिष्टकोणपञ्चकगतस्तवर्गः सकारत्वेन परिणमति | मकारो हकाररूपेण परिणामिनि पवर्गे च सम्बन्धमुपलभते | प्रमातृकक्ष्यायां च वक्ष्यमाणत्रिकोणबिमे सम्बन्धमुपलभत इति | विसर्गपदे विन्द्वाविर्भावप्रक्रिया चतुरश्रदशारयुग्मरूपं चक्रत्रयं कोणचतुष्टयाकारेण परिणमति | विसर्गपदे बिन्दुपदे च वर्णानां कोणानां चैकरूप्येण भवितव्यमिति ये मन्यन्ते ते भेदाभेददशयोरप्यविशेषं प्रतिपद्यन्त इत्यलम् || ८ || प्. ११४) यः पार्थिवे चिदुदयः स हि शुद्धविद्या यः प्राकृते स पुनरीश्वरता किलाऽण्डे | यो मायिके स तु सदाशिवतेति शादे स्त्रैरुप्यधीरिहरहस्यतमं गुरूणाम् || ९ || इदानीं पक्षान्तराश्रयणेन इन्द्रियदेहात्मनि मज्जितप्रपञ्चानां शुद्धविद्येश्वरसदाशिवानां पृथ्वी(भू)प्रकृतिमायान्ताश्चिन्मयीकृता विषया इत्युपकल्पयति - यः पार्थिवेत्यादि | बहिरिन्द्रियविषयरूपे पार्थिवाण्डे यश्चिदुदयः | चिद्व्याप्तिः | स हि स खलु | बिन्दूदयः शुद्धविद्या | शुद्धविद्यायामिन्द्रियप्रकाशैरेकाकारीकृतप्रमेयत्वलक्षणात् | पार्थिवाण्डे प्रमातृस्थानीयः पवर्गः सम्बन्धवानेव त्रिपुट्यां नित्यं तत्सम्बन्धनियमात् | अतस्त्यक्तसङ्कोचे पार्थिवाण्डे चतुर्वर्णरूपस्य सर्वस्यशवर्गस्य सम्भवः | एवं चास्मिन्पक्षे शुद्धविद्याप्रमातुर्भेदप्रशमोपक्रमपदत्वात्पशुजाग्रच्च त्रिकोणबाहुल्ये सत्येव सन्निवेशोपपत्तिरिति च विसर्गस्पर्शाः शवर्गाकारेण परिणमदवस्था शुद्धविद्या प्रमातरि भेदशिरोदर्शनमुपलभन्त इति मुख्यया वृत्त्या त्वीश्वरस्यैव शिवजाग्रत्पशुजाग्रच्चक्रसंश्लेषः शुद्धविद्या(या)स्त्वपरिणतविवेकानामङ्गीकाराय पाक्षिकस्तत्संश्लेष इत्यलम् | यः प्राकृतेऽण्डे चिदुदयः शवर्गाकारेण सङ्कोचत्यागः | स पुनरीश्वरता किल | अत्रोपपत्तेः प्रतिभासमात्रगम्यत्वात् | किलेति साम्प्रदायिकमैतिह्यम् | अत्र पवर्गस्य शवर्गाकारेण सङ्कोचत्याग एवमभ्यूह्यः - मकारस्योष्ठ्यवर्णस्य सङ्कोचत्यागः कण्ट्यवर्णो हकार इति सुगमम् | पकारस्य प्रकृतिवर्णस्य हकारे चित्पदेऽन्तर्भावः | फकारादिवर्णत्रयस्य शकारादिवर्णत्रयत्वे युक्तिरुच्यते | फकारबकारभकारा जलाग्निवायवः शकारषकारसकाराश्च तथा | अतः फकारादिसङ्कोचत्यागरूपत्वं शकारादीनाम् समानतत्त्वप्रतिपादकत्वात् शकारादीनां जलादिप्रतिपादकत्वम् | प्रागुक्तभूतवैपरीत्याभावविमर्शे स्फुटं फकारादीनां रूपमुच्यते | अल्पप्राणो वर्गप्रथमवर्णः अल्पवृत्तिश्चेतरभूतापेक्षया पृथिवी अतस्तत्प्रतिपादकः | महाप्राणो वर्गद्वितीयवर्णः पृथिव्यपेक्षया महावृत्ति च जलम् अतस्तत्प्रतिपादकः | नादवान्वर्गतृतीयवर्णः महाप्राणान्नादोऽधिकवृत्तिः जलादधिकवर्तिवृत्तिश्चाग्निः अतः स तत्प्रतिपादकः | नादवान्घोषवांश्च वर्गचतुर्थवर्णः केवलनाद(भवः नाद)वतो घोषवानधिकवृत्तिः अग्नेरधिकवृत्तिश्च वायुः अतस्तत्प्रतिपादकः | उक्तसकलधर्मसंसृष्टिरूपपवर्गपञ्चमम् | अतः पृथिव्यादिभ्यश्चतुर्भ्योऽधिकवृत्तिराकाशः | अतः पञ्चमवर्णः आकाशप्रतिपादक इति | अतः फकारादिप्रतिपाद्यतत्त्वप्रतिपादकतया सङ्कोचत्यागरूपत्वाच्च शकारादयः फकारादि परिणतिरूपा इति लभ्यते | ईश्वरस्य विश्वमयप्रकृत्यभिमानलक्षणत्वात्त्यक्तसङ्कोचं प्रकृत्यण्डमीश्वरपदत्वमर्हतीत्यभिप्रायः | योमायिकेऽण्डे चिदुदयः स तु सदाशिवता | मायिकाण्डस्य स्वप्नस्यात्मप्रकाशपदत्वात्सदाशिवस्य विश्वात्मत्वलक्षणात्त्यक्तसङ्कोचो मायाण्डः सदाशिवपदमिति | शादेः शकारादिवर्णचतुष्टयस्य | त्रैरूप्यधीः पृथिव्यण्डे प्रकृत्यण्डे मायाण्डे च सिद्धस्य त्रैरूप्यस्य ऐकरूप्ये सत्येव स्थानकृतत्रैविध्यस्य या धी विवेकः | सा धीरिह शुद्धविद्यादिदशाविवेकप्रस्तावे गुरूणां रहस्यतममति रहस्यम् || ९ || प्. ११६) बिन्दूदये विशति सर्ग इमं तथैव सर्गोदये तमथ सोऽपि पदे तदन्तः | कःस्याद्धकारहृदिलश्च वकारगर्भे बाह्ये तु चित् प्रकृतिसर्गमुखे विभक्ता || १० || इदानीं शवर्गे कवर्गस्य देहप्रतिपादकलकारस्य शङ्का(सङ्कोच)त्यागरूपवर्णादर्शनात् तद्दर्शनोपपत्तिमाह | बिन्दूदय इत्यादि | बिन्दूदये बिन्दुव्याप्तौ | इमं बिन्दुम् | पूर्वमेतद्व्यापकसर्गो विशति | बिन्दावेकीभवतीत्यर्थः | पूर्वं बिन्दुगर्भादेव बहिर्विश्वस्रष्टा विसर्गः पुनस्तमेव विशतीत्यर्थः | तथैव | सर्गोदये विसर्गव्याप्तौ | तं विसर्गम् | अथानन्तरम् | सोऽपि बिन्दुरपि | विशतीत्यर्थः | तत्तस्मात्कारणादन्तःपदे बिन्दुव्याप्तिस्थले | कः | जलादिभूतचतुष्टयप्रतिपादकेनफादिवर्णचतुष्टयेनात्तगर्भः पृथिवीप्रतिपादकः ककारो हकारहृदि स्यात् | तत्रान्तर्गतोभवतीत्यर्थः | स्वप्नस्याप्यान्तरपदत्वात् | तत्रापि विसर्गप्रमातुर्लकारस्य गर्भे स्थितिमाह ##- अन्तःस्थसङ्कोचत्यागरूपे शवर्गे च हकारगर्भे लकारान्तर्धानं भवतीत्यर्थः | विसर्गस्य बिन्दुसमावेशे तदेकरसत्वमेव | बिन्दोर्विसर्गसमावेशे विशेषमाह - बाह्येत्विति | बाह्ये विसर्गव्याप्तिस्थले | तु | चिद्बिन्दुः | प्रकृतिसर्गमुखे प्रकृतिरूपस्य विसर्गस्य मुखे | संमुखे तिष्ठन्नपि | विभक्ता | प्रकृतौ नान्तर्भवति | अपि तु विभक्तरूपेण दृश्यते | मकारो हि पकाररूपिण्याः प्रकृतेश्च तत्समीपस्थितिसूचितस्याबहिर्मोक्षणस्य कर्तैव तया नाऽन्तर्धीयते न तत्रैकरस्यात् स्वरूपहानिं लभते | पृथिवीरूपस्य विसर्गबिन्दुना बहिर्विसृष्टस्य न बिन्द्वेकरसीकरणं पवर्गरूपे बिन्दोर्दर्शनात् | अतो विसर्गव्याप्तौ न बिन्दुस्वरूपतो लोप इति भावः || १० || प्. ११७) अन्तः पदं भवति तच्चतुरङ्गमैक्या- च्चिच्चैत्ययोः करणसीम्न्यपि भावितैक्यम् | पञ्चाङ्गकं भवति बाह्यपदं प्रकृत्यां चिद्वह्निगर्भकुहरादथ निर्गतायाम् || ११ || अथ विसर्गस्य बिन्दुनिलयनान्तःपदस्य चतुरङ्गत्वं विसर्गबिन्दोरनिलयनेन बाह्यपदस्य पञ्चाङ्गत्वमिति प्रागुक्तमपि प्रमेयं प्रस्फुटप्रतिपत्तये पुनरुद्भासयति - अन्तरित्यादि | तत्तस्मात्कारणात् बिन्दौ विसर्गनिलयनरूपाद्धेतोः | अन्तः पदं चतुरङ्गं भवति | कुत इत्याह चिच्चैत्ययोरैक्यात् चितश्चैत्यैकरसीकरणसामर्थ्यसम्भवात् | किम्विधमन्तः पदम् | करणसीम्न्यपि भवितैक्यं विसर्गप्रमातुः सर्वव्यापि पदस्योपलक्षणेन चिन्मज्जनेन बहिर्भासमाने करणत्रयपदेऽपि विभावितचिदैक्यम् | विसर्गपदस्य कवर्गस्य हकारमज्जनेन उपलक्षणे न करणत्रयस्थानीय चवर्गटवर्गतवर्गसङ्कोचत्यागरूपाणां शषसानां हकारे निमज्जनमेवेति विभाव्यमित्यर्थः | तेषां यद्बहिः स्फुरणेन सि(शु)द्धविद्यादिस्वरूपविवेचनं तत् हकारनिमज्जने सत्येवेति वेदितव्यम् | ततश्चाभेदरूपं चित्पदमेकाङ्गमेव शषसानां हकारनिमज्जनेनादर्शने शुद्धविद्यास्वरूपं न विज्ञायते इति तद्विज्ञानाय हकारान्तर्गतानामेव तेषां बहिरवभासनमिति वेदितव्यम् | अथ विसर्गस्पन्दे चिद्वह्निगर्भकुहरात्प्रकृत्यां विनिर्गतायाम् | करणत्रयेण सहेत्यध्याहार्यम् | बाह्यपदं पञ्चाङ्गकं भवति | चैत्यस्य चित्पदं विनास्वरूपासिद्धेस्तत्रालुप्तेन चित्पदेन सहेत्यर्थः || ११ || प्. ११८) ज्ञानक्रियोन्मुखहकारमयाद्वयेच्छा- विश्रान्तिरन्तरवहिर्मुखविश्रमात्मा | कूटाक्षरात्मतनुरेष शिवः सुषुप्ति- विश्रान्तिरेव सविकल्पकलाल्पगन्धा || १२ || इदानीं शक्तिरूपस्य हकारस्य स्वरूपं विविच्यच्युत्पादयन्नेतदुत्तरपदस्य लकारक्षकाररूपकूटाक्षरप्रतिपाद्यस्य शिवतत्त्वस्य स्वरूपमवबोधयति - ज्ञानेत्यादि | ज्ञानक्रियोन्मुखहकारमयाद्वयेच्छाविश्रान्तिः सदाशिवेश्वरात्मकयोर्ज्ञानक्रिययोर्विषये उन्मुखा | तदधिष्ठातृत्वादित्यर्थः | हकारमयाऽद्वयेच्छा हकारस्वरूपाभेदेच्छा | हकारप्रतिपाद्यत्वे हकारस्वरूपत्वादभेदेच्छायामाचरितम् | सैवेच्छाविश्रान्तिरूपत्वाद्विश्रान्तिः | अयमर्थः - येयमपरिच्छिन्नज्ञानक्रियात्मकसदाशिवेश्वर स्वरूपज्ञानक्रियाकरणाधिष्ठात्री ज्ञानक्रिययोः कूटस्थ त्वलक्षणेन तदधिष्ठातृत्वेनेच्छाव्यपदेशविषया ज्ञानक्रियाकूटस्थत्वस्यैवेच्छालक्षणत्वादिच्छास्वरूपिणी शक्तितत्त्वमित्यागमिकैरुद्घोष्यमाणा द्वैतस्पृष्टिरहिताकारप्रतिपाद्या महाविश्रान्तिः | सैवान्तः पदे अबहिर्मुखविश्रमात्मा प्रपञ्चानभिमुखा विश्रान्तिरूपा | सविकल्पकलाल्पगन्धा | सुषुप्तिविश्रान्तिरेव स्वरूपानुभवमात्रविकल्पयुक्ता | सुषुप्तिरेव | कूटाक्षरात्मतनुः लकारक्षकारोभयैक्यरूपकूटाक्षरात्मकनिजस्वरूपः | तत्प्रतिपाद्य इत्यर्थः | एष अपरोक्षानुभवगोचरः | शिवः शिवतत्त्वम् | भवतीति शेषः | जाग्रत्येव सम्भवन्ती सोमादिसाधनताभाग्यवशात् स्वतः प्रवृत्ता वा काचित्सुषुप्तिविश्रान्तिरन्तर्मुखी चेच्छिवतत्त्वं भवति सैव बहिर्मुखीचेच्छक्तितत्वं भवतीति विवेकः || १२ || प्. ११९) नास्त्यस्ति वेत्त्युदितसंशयजाग्रतीह सुप्तौ * * शिवे (भवति)(ज ग्र)जगदभेदरूपम् | ज्ञानक्रियात्मकतया प्रतिरूपभिन्न- मेवं चतुर्विधमधिश्रितबीजमात्रम् || १३ || अथान्तर्मुखजाग्रत्सुषुप्तिविश्रान्तिरूपस्य शिवस्य जडसुषुप्तिविश्रान्तिरूपायाः स्वरप्रतिपाद्यायाः शक्तेरिव जगत्कारणत्वेन तत्त्वजगद्बीजस्थित्यौचित्यमिति तदवस्थानं कूटाक्षररूपेण विभाव्यमानं व्युत्पादयति - नास्तीत्यादि | नास्त्यस्तिवेत्युदितसंशयजाग्रति नास्त्यस्तिवेत्युद्भूतसंशयः जाग्रत्यत्र हीह सुप्तौ अस्ति वा नास्ति वेति संशयगोचरेण निर्देशितायां सुषुप्तावित्यर्थः | शिवे तादृक्सुषुप्तिस्वरूपे शिवे | अभेदरूपमपि अथेत्येवं भिन्नम् एवं सम्भूय चतुर्विधं जगत् अधिश्रितबीजमात्रं बीजमात्रेणाधिश्रितं भवतीति शेषः | अयमर्थः | स्वप्नरूपेऽन्तःपदे भेदज्ञानरूपम् जाग्रदरूपे बहिःपदे भेदक्रियारूपम् तथैव स्वप्नरूपेऽन्तःपदे अभेदज्ञानरूपम् जाग्रद्रूपे बहिःपदे भेदक्रियारूपमिति सङ्ग्रहेण जगच्चतुर्विधम् | तदेव शिवतत्त्वे कूटाक्षररूपेण बीजमात्रं तिष्ठतीति व्युत्पादितम् || १३ || प्. १२०) ज्ञानं द्वयाद्वयमयं लसकाररूपं तादृक् च कर्म कषकारमयं विदुस्तत् | श्लिष्टं पुरः स्फुरितसद्वयकोटि ल क्ष- रूपं परस्परगतं च समं च कूटम् || १४ || इदानीं लकारसकारककारषकाररूपवर्णचतुष्टये कादिस्पर्शकूटाक्षरस्य चतुर्विधजगद्बीजसंसृष्टिरूपत्वं व्युत्पादयति - ज्ञानमित्यादि | द्वयाद्वयमयं भेदाभेदात्मकं ज्ञानं लसकाररूपम् | भेदज्ञानपदान्तः स्थवर्गे प्रकृतिप्रतिपादको यो लकारस्तस्यैव तत्पदाधिष्ठातृत्वात्तत्पदस्य ज्ञानपदत्वात् ज्ञानप्रमातृत्वं मनःप्रतिपादकस्य लकारस्य तद्व्याप्यत्वाभिमानदोषान्न ज्ञातृतोपपत्तिः तन्मूलरूपस्य वकारस्य च तथा ज्ञेयस्थानीयस्य यकारस्य च ज्ञातृत्वं नाशङ्कनीयम् | ज्ञेयवर्गस्य गन्धादेः सर्वत्र पृथिव्याद्यङ्गत्वात् प्रकृत्याकारपृथिवीरूपस्य लकारस्यान्तःपदे क्रियाप्रमातृशङ्का न समुचिता | अतो लकारस्य ज्ञातृत्वं निश्चितम् | शवर्गपदे अभेदज्ञानत्वं सदाशिवात्मनः सकारस्य निर्विवादम् | तादृग्द्वयाद्वयमयं कर्म | च | कषकाररूपं ककारषकाररूपम् | भेदप्रक्रियापदे स्पर्शस्थले टवर्गस्य कवर्गव्याप्यत्वाभिमानदोषान्नकर्तृत्वम् | अपि तु कवर्गाधिष्ठातुः ककारस्य अभेदक्रियापदे शवर्गे (ट)वर्गे ईश्वरात्मनष्षकारस्य कर्तृत्वं स्फुटम् | तदेतच्चतुष्कमिदं श्लिष्टं | भेदज्ञानेन लकारेणाभेदज्ञानं सकारः | भेदक्रियया ककारेणाभेदक्रिया षकारः | भेदाभेदयोरन्योन्यश्लिष्टतास्वभावात् | श्लेषे च पुरः स्फुरितसद्वयकोटिप्रमायाबलादिति भावः | श्लिष्टयोरक्षरद्विकयोः सद्वयकोटिपुरःस्फुरणे कीदृग्रूपमित्यत आह - ल क्षरूपमिति | लकारसकारयोः श्लेषभेदरूपस्य लकारस्य पुरःस्फुरणे ल इति वर्णः स्यात् | ज्ञाने ज्ञानमेकरसीभवतीति | सकारस्य लकारे सामरस्यात्सकारयोगसम्भावितोच्छ्रून भावो लकारो ल इति श्रूयते | ककारषकारयोः श्लेषे ककारस्य द्वैतरूपस्य पुरःस्फुरणे क्रियायां क्रिया न सामरस्यं लभत इति क्षकारः स्यात् | एतत्कूटं परस्परगतं क्रमात् परस्परेण व्याप्तम् | प्रथमं लकारेण सकारो व्याप्यते | एतत्संस्थानं भेदसंसारबीजम् | अनन्तरं सकारेण लकारः | आ ? एतत्सं(स्था)नमभेदसंसारबीजम् | क्रियापदे च प्रथमं ककारेणषकारो व्याप्यते अनन्तरं षकारेण ककारः | (एतत्)संस्थानकृतं भेदाभेदबीजत्वं पूर्ववत् | समं च मध्यमपदे समव्याप्तिकत्वान्निष्पन्दम् सद्भिदाभेदोभयविमिश्रेण बीजम् | भेदसंसारबीजभूतेन संस्थानेन दृश्यमानस्य कूटस्यैवं संस्थानप्रक्रिया गुरुमुखात्पारम्पर्यागतप्रतिभावद्भिरनुसन्धेया | शिवतत्त्वपुञ्जकस्य कूटस्यैकाक्षरत्वमेव व्यङ्ग्यस्य शिवतत्त्वस्यैकत्वात् | सास्नादिमत्त्वव्यङ्ग्याया जातेरिव (शिव) स्थूलरूपकूटाक्षरव्यङ्ग्यस्य शिवतत्त्वस्य न विश्रान्तिस्वरूपताभङ्ग इति वेदितव्यम् || १४ || प्. १२२) ज्ञानात्मजागरसुषुप्त्यवधी मकार- कूटात्मकौ पशुशिवौ गुणकोणबिन्द्वोः | श्लिष्टौवशादिचतुरस्रयुगान्वयोत्थ- नागाश्ररश्म्युदरगौ ननु सर्गबिन्दू || १५ || इदानीं मकारादिक्षकारान्तदशाक्षररूपस्य प्रमातृपदस्याष्टारत्रिकोणबिन्दुचक्रेषु सन्निवेशं व्युत्पादयति - ज्ञानात्मेत्यादि | ज्ञानात्मजागरसुषुप्त्यवधीज्ञानात्मनोर्जागरस्य सुषुप्तेश्च अवधी | स्थानभूतौ | अवधिस्थाने तिष्ठन्तावित्यर्थः | ज्ञानजागरोऽन्तःस्थप्रतिपाद्यः स्वप्नः तस्यावधौ यकारप्रान्ते स्वप्नस्य प्रवृत्तिः प्रथमपदस्य जाग्रदाभिमुख्येन प्रवर्तमानत्वाद्वकारमारभ्य यकारे परिसमाप्तिः तदनन्तरपदत्वान्मकारस्य स्वप्नावधिस्थानत्वम् ज्ञानसुषुप्तिः शकारवर्ग(र्ण)प्रतिपाद्यनिर्विभेदजाग्रत्स्वप्नरूपं पदद्वयं तस्यावधौ हकारोत्तरभागे क्षकारः निवृत्तिरूपा या ज्ञानसुषुप्तिः सुषुप्त्यभिमुखं प्रवर्तमानत्वाच्छकारमारभ्य हकारे परिसमाप्तिः तदनन्तरपदत्वात् क्षकारस्य ज्ञानसुप्त्यवधिस्थानत्वम् | एवं ज्ञानजागरज्ञानसुषुप्त्यवधीमकारकूटात्मकौ मकारकूटाक्षरस्वरूपौ | पशुशिवौ | गुणकोणबिन्द्वोः त्रिकोणबिन्दुचक्रयोः श्लिष्टौ | त्रिकोणगर्भे बिन्दुः बिन्दुगर्भे त्रिकोण इति जीवशिवयोरन्योन्यव्याप्तिस्वभावत्वाच्छ्लेषः | भेदस्त्रैगुण्यरूप इति त्रिगुणावच्छिन्नस्य भेदप्रमातुर्जीवस्य त्रिकोणरूपता अभेदस्त्वेकरूप इत्यभेदप्रमातुः शिवस्य निर्गुणत्वोपलक्षणनिष्कोणबिन्दुस्वरूपता | ननु भेदप्रमातृत्वं प्रकृतेः पृथिव्या एवेति युज्यते तत्र भेदपदे जीवस्य प्रमेयत्वमिति प्राक्प्रतिपादितम् | तत्कथमत्र भेदप्रमातृत्वं जीवस्योच्यते अभेदप्रतिसिंहासनारोहश्चाप्यत्रैवोच्यत इति चेत् उच्यते | प्रमातृत्वस्य अनुसन्धातृत्वलक्षणत्वाच्चित्पद एव मुख्यवृत्त्योपपत्तिः चैत्यपदेनुव्याप्तिमधिकृत्य गौणवृत्योपचार इति चैत्यप्रमातृत्वं जीवस्यैव फलसमये अभेदपदीये व्यवहारे तु चैत्यस्यैवेति विवेकः | अतस्त्रिकोणबिन्द्वोः | श्लिष्टौ जीवशिवौ | वशादिचतुरस्रयुगान्वयोत्थनागाश्ररश्म्युदरगौ वकारादयः शकारादयश्च वर्णा वशादयः वशादिभिर्यच्चतुरश्रयुगम् | वादिभिर्यान्तैश्चतुर्भिर्वर्णैरेकं चतुरश्रम् शादिभिर्हान्तैश्चतुर्भिर्वर्णैरन्यच्चतुरश्रम् | तयोश्चतुरश्रयोरन्वयः श्लेषः तेनोत्थमुद्भूतं यन्नागाश्रमष्टकोणं तदेव रश्मयः रश्मिचक्रम् | क्षकारात्मनः शिवस्य शादिवर्णनिष्पन्न चतुरस्रं रश्मिचक्रम् मकारात्मनो जीवस्य वादिवर्णनिष्पन्नं चतुरश्रं रश्मिचक्रम् तयोश्चक्रयोर्यथाक्रममन्तरगौ अधिष्ठातृत्वेन मध्यस्थितौ | सर्गबिन्दू | ननु | विसर्गबिन्दुस्वरूपौ ननु | त्रिकोणात्मनो जीवस्य विसर्गरूपता | बिन्दुचक्रात्मनः शिवस्य बिन्दुरूपतेति विवेकः || १५ || प्. १२४) ज्ञानक्रियात्मकसुषुप्तिविबोधमध्य- संस्थौ क्षमावुभयपक्षगबिन्दुसर्गौ | सव्यापकौ तदुभयस्य तदङ्गिभृतौ जाग्रत्सुषुप्तिसमवायपदेऽनुषक्तौ || १६ || इदानीं क्षकारमकारात्मनोः शिवजीवयोर्ज्ञानक्रियासुषुप्त्योर्मध्यपदे ज्ञानक्रियाजागरयोर्मध्यपदे च यथाक्रमं सन्निवेशौचित्यं व्युत्पादयति - ज्ञानक्रियेत्यादि | ज्ञानक्रियात्मकसुषुप्तिविबोधमध्यसंस्थौ | ज्ञानात्मिका सुषुप्तिरभेदजाग्रत्स्वप्नरूपा शवर्गप्रतिपाद्या क्रियात्मिका भेदसुषुप्तिः स्वरेषु बिन्दुभागप्रतिपाद्या | तयोः सुषुप्त्योर्मध्ये क्षकारात्मनः शिवस्य संस्थानं ज्ञानत्मको विबोधो जागरोऽन्तःस्थप्रतिपाद्यो भेदस्वप्नः क्रियात्मको विबोधःस्पर्शप्रतिपाद्यो जागरः तयोर्मध्यभागे मकारात्मनः जीवस्य सन्निवेशः | ज्ञानविभेदोभेदसुषुप्तेरप्युपलक्षणम् | अभेदजाग्रत्स्वप्नरूपायाः पूर्वकोटेरभेदसुषुप्तेरुदरकोटिमध्ये यदा शिवस्य सन्निवेशस्तदाभेदसुस्.उप्तिज्ञानविबोधात्मिकायाः पूर्वकोटेः क्रियाविबोधरूपाया उत्तरकोटिमध्ये जीवस्य सन्निवेश इति वेदितव्यम् || एवं निरूपितसन्निवेशस्थानौ क्षकारमकारात्मकौ शिवजीवौ | उभयपक्षगबिन्दुविसर्गौ ज्ञानक्रियासुषुप्तिलक्षणोभयपक्षगस्तद्व्यापकस्तदुभयाधिष्ठाता | वैन्दवः क्षकारः | भेदसुषुप्तिसहितज्ञानजागरकेवलक्रियाजागरलक्षणोभयपक्षव्यापकस्तदद् हिष्ठाता विसर्गो मकारः | एवं सुषुप्तिरूपोभयपक्षबैन्दवसुषुप्तिसहितजागररूपोभयपक्षव्यापकौ | अत एव तदङ्गिभूतौ | निवृत्तिरूपाया द्विविधायाः सुषुप्तेः प्रवृत्तिरूपस्य भेदसुषुप्तिसहितस्य द्विविधस्य जागरस्याधिष्ठातृत्वसूचकेन मध्यसन्निवेशेन निवृत्तिप्रवृत्तिरूपयोः अभेदपदयोरङ्गिभूतौ जाग्रत्स्वप्नसुषुप्ती समवायपदे जाग्रत्सुषुप्त्योर्यः समवायो मिश्रणं तत्पदे अन्तःस्थोष्मवर्गयोः खलु जाग्रत्सुषुप्त्योः समस्तयोर्न तु व्यस्तयोः समवायः | अन्तःस्थपदे च जाग्रत्सुषुप्त्योः समवाय-ईषत्स्पृष्टताविषयत्वात् ऊष्मपदे च जाग्रत्सुषुप्त्योः समवायः तच्छ्लेषात्तस्येषद्विवृतताविषयत्वात् | अतो व्यापकवर्गा(र्णा) दशाक्षररुपाः स्वरस्पर्शदशयोर्व्यापकाः | अत एव तस्य व्यापकवर्गसंज्ञा | तत्र मध्यपदे पक्षद्वयव्यापकयोः शिवजीवयोः मध्यपदोचितयोः सन्निवेशः सोपपत्तिक इति विवेकः || १६ || प्. १२५) सङ्कोचपूर्तिपरसीमपदोभयार्था श्रीचक्रमध्यनिलया त्रिपुरेश्वरी सा | त्रेधा विसर्गपदमेकविधं पदं च बिन्दोस्तुरीयमिति बाहुचतुष्टयाढ्या || १७ || इदानीं दशारयुग्मचतुर्दशारव्यापकस्य अष्टारात्मनो मध्य चक्रस्य अधिष्ठातृत्वेन जीवशिवात्मकमकारक्षकारसामरस्यमेव सर्वचक्राधिष्ठातृभूताया मध्यचक्रनिलयायास्त्रिपुरेश्वर्याः स्वरूपमिति व्युत्पादयति - सङ्कोचेत्यादि | सङ्कोचपूर्तिपरसीमपदोभयार्था सङ्कोचस्य सङ्कोचभावस्य पूर्तेः पूर्णभावस्य च यत्परसीम पदं परमावधिस्थानम् जाग्रदात्मकदशारयुग्मरूपं सुषुप्त्यात्मकं चतुर्दशाररूपं च तदुभयोभयार्धा(र्था) | श्रीचक्रमध्यनिलया प्रमेयप्रमाणप्रमातृलक्षणपुरत्रयात्मनः श्रीचक्रस्य मध्यं स्वप्नात्मकमष्टाररूपं प्रमातृपुरम् तदेव निलयः सन्निवेशस्थानं यस्या सा | त्रिपुरेश्वरी | अनेन मकारक्षकारयोरष्टाराधिष्ठातृत्वादुभयसामरस्यमेव त्रिपुरेश्वरी स्वरूपमिति प्रतिबोधितः | अथ त्रिपुरेश्वर्याः सुषुप्तिस्वप्नजागरतुर्यलक्षणसकलचक्रार्थस्वरूपिण्या दशाचतुष्टयमेवाङ्गचतुष्टयमिति तद्विभागमाह - त्रेधेत्यादि | त्रिधा त्रिविधं विसर्गपदं भेदपदम् भेदस्तु सुषुप्तिभेद स्वप्नभेद जागररूपम् बिन्दोरेकविधं पदं तुर्यरूपम् | अत्र च यद्यपि अभेदजाग्रत्स्वप्नसुषुप्तिरूपेणत्रैविध्यं सम्भवति | तथापि तस्य त्रिविध्यस्य भेदप्रतियोगित्वोपाधिवशात् स्फुरत्ता न तु पारमार्थ्येनेति तुर्यस्याभेदपदस्यैकविध्यमेवेति | बाहुचतुष्टयाढ्या इत्युक्तदशाचतुष्टयोपलक्षणेन बाहुचतुष्टयेन आढ्यायाः सम्पन्नायाः त्रिपुरेश्वर्याः साम्प्रदायिको योऽयं बाहुचतुष्टयसङ्केतः सोऽयं दशाचतुष्टयाङ्गत्वोपलक्षणं न तु पारमार्थिक इति सद्गुरुकटाक्षक्षयितसर्वसंशयस्य भाग्यवतो जीवनस्य एकवेद्यं महारहस्यमिति साम्प्रदायिकप्रवादः || १७ || प्. १२६) सौषुप्तजाग्रदबहिः पदजागरेषु तोयक्षमानिलमयेष्व क लात्मशक्त्या | आत्तेचवर्गयमयस्वगुणेक्षुचाप- पुष्पेषुपाशनिगृहीतचिता त्रिबाहुः || १८ || अथैवमेव बाहुचतुष्टयसङ्केतमायुधचतुष्टयसङ्केतेन सह प्रस्फुटं व्युत्पादयति - सौषुप्तेत्यादि | सौषुप्तं सुषुप्तिः | जाग्रज्जागरः | अबहिः पदजागरः स्वप्नः | सुषुप्तिजाग्रत्स्वप्नेषु | तोयक्षमाऽनिलमयेषु जलपृथ्वीवायुरूपेषु | सुषुप्तिर्जडत्वात् जलरूपा जाग्रत् - सङ्कोचरूपत्वेन कठिनत्वात्पृथिवीरूपम् स्वप्नो वायुपर्यायमनोविलासत्वाद्वायुरूपः | क्रमेणैतासु दशासु | अ क लात्मशक्त्या अकारककारलकाररूपया शक्त्या | चैत्यात्मिकया पृथ्वीरूपयेति भावः | पृथिव्या एवात्यन्तकठिनस्वरूपायाः परमचैत्यत्वात् | किंविधया शक्त्या | आत्तेचवर्गयमयस्वगुणेक्षुचापपुष्पेषुपाशनिगृहीतचिता सुषुप्तिजाग्रत्स्वप्नेषु क्रमेण आत्तैः परिगृहीतैः इकारचवर्गयकारमयैः स्वगुणैः स्वकीयधर्मैः भूतपञ्चकाधिष्ठातृभूतायाः पृथिव्याः शब्दादिपञ्चकं खलु धर्मरूपम् नियमेन तदाश्रितत्वात् एतैरेव शब्दादिभिः सुप्त्यादिदशात्रये प्राप्तौल्वण्यतारतम्यमयैः | अत एव सुषुप्ताविक्षुचापमिति सङ्केतितैः | जलमयत्वेन मधुरत्वाच्च जीवस्वरूपावर्जकत्वाच्च | जाग्रति प्रवृद्धभेदे प्रस्फुटपञ्चरूपैः वशीकरणमात्रव्यापारवत्तया कुसुमबाणा इति सङ्केतितैः | स्वप्ने किञ्चिदुच्छुनदशायां वायुरूपत्वाद्वात्यावद्भ्रामणव्यापारेणभेदाभेदभ्रान्तिजननेन पाश इति सङ्केतितैः | एवं इकारचवर्गयकारमयैः प्रतिपाद्याः शब्दादय एव इक्षुचापपुष्पबाणपाशत्वेन सङ्केतिताः तैरेवंभूतैः साधनैर्निगृहीता बद्धा आवृता चित् जीवस्वरूपिणीचितिर्यया तया पृथिव्या शक्त्या | त्रिबाहुः बाहुत्रयवती | एवं चैत्यात्मिकया शक्त्यैव सुप्त्यादिदशात्रयाधिष्ठात्री त्रिपुरेश्वर्या बाहुत्रयम् | तदाश्रितंशब्दादिपञ्चकमेव तत्तद्दशाव्यवस्थितस्वरूपविशेषं सत् इक्षुचापाद्यायुधत्रयमिति महोपदेशः || १८ || प्. १२७) तुर्येऽग्निधाम्नि हचिता ससृणिप्रणुन्न- चैत्यातिपश्विभजडत्वरुजैकबाहुः | एवं चतुर्भुजविभाव्यचतुर्थदशाङ्गा क्ष्मात्माङ्गिनी जयति मध्यपदेऽतितुर्या || १९ || एवं बन्धकं बाहुत्रयं तदायुधत्रयसहितं व्युत्पाद्य मोचकं चतुर्थं बाहुं तदायुधेन सह व्युत्पादयति | तुर्य इत्यादि | अग्निधाम्नि अग्निस्वरूपे | चिद्व्याप्तिस्थानत्वादिति भावः | तुर्ये चतुर्दशायाम् पारिशेष्यात्तुर्यमिति | तमा(दा)काशस्वरूपमिति वेदितव्यम् | हचिता | हकारप्रतिपाद्यया चिता | ससृणीत्यादिसकाररूपेण सृणिना अङ्कुशेन प्रणुन्नः - चैत्यमेवातिपशुर्महापशुः अत एव महापशुत्वादिभो गजः तस्य जडत्वम् चिद्व्यतिरेकेण स्फुरणं तदेव रुक् रोगः यया तयेति हचिद्विशेषणमेतत् | (यथा)महापशुर्गजः खल्वङ्कुशेन बोध्यते चैत्यमपि तथा सकाररूपेण सदाशिवविमर्शेन बोध्यते | चिदेकरूपतां प्राप्यत इति सकारस्याङ्कुशसङ्केतोपपत्तिः | अभेदविमर्शः सकारो हकारात्मिकायाः संविच्छक्त्या अङ्गत्वाद्धर्म इति तदायुधत्वं तस्य एवं सकाराङ्कुशभृता हसाकारशक्त्या | एकबाहुः एकबाहुमती | एवं चतुर्भुजं विभाव्य | चतुर्दशाङ्गा | चतुर्भुजैर्विभाव्यानि चतस्रो दशा एवाऽङ्गानि यस्याः साक्ष्मात्माङ्गिनी | क्षकारमकारसंसृष्टिरूपा अङ्गिनी | क्षकारमकाराभ्यामेव दशाचतुष्टयमधिष्ठितमिति | तदुभयसंसृष्टिरङ्गित्वं त्रिपुरेश्वर्याः प्राणस्वरूपतेति सम्यगुपपत्तिः | निर्विकल्पपदस्य तुरीयस्य माध्यमिकत्वेनाधिष्ठातृतया क्षकारो बीजभूतः | विकल्पपदस्य सुषुप्त्यादिदशात्रयात्मनो माध्यामिकत्वेन मकारो बीजभूतः | तदुभयसंसृष्टिरेव सर्वमूलत्वात्तुर्यातीतस्वभाव इति समुपदिशति - मध्यपदेऽतितुर्येति | एतस्यैव पदस्य सर्वोत्कृष्टता जयतीति शब्देनोन्मीलिता || १९ || प्. १२९) सुप्तिप्रभृत्युदितचैत्यविजृम्भितस्य जाग्रत्पदप्रभृतिचिद्विनिमज्जनं यत् | तुर्यं पदंच् अ खलु तत्र सुषुप्तिभागो यश्चिन्मयः शिववपुस्तदतीव तुर्यम् || २० || ननु पञ्चभूतानि पञ्चाम्नाया देवस्य पञ्चमुखानीति दशाभिरपिपञ्चभिर्भवितव्यम् | सुषुप्त्यादिभिः पञ्चभिर्दशाभिरङ्गैरुपलक्षितस्तत्सर्वमयादितदन्यो भवितुमर्हति | तत्कथं तुर्यातीतस्याङ्गित्वमुक्तमुत्यत्राह - सुप्तिप्रभृतीति | सुप्तिदशामारभ्य | उदितस्य चैत्यविजृम्भितस्य | जाग्रत्पदप्रभृति जाग्रत्पदमारभ्य यच्चिद्विनिमज्जनं चिन्मयतावभासः | तत्खलु तुर्यं पदम् | सुषुप्तिस्वप्नजाग्रत्क्रमेणोन्मीलितस्य भेदावभासस्य जाग्रत्स्वप्नसुषुप्तिक्रमेण योऽयमभेदावभासः तत्खल्वभेदावभासस्थानं तुर्यदशा | तस्यां दशायां यश्चिन्मयसुषुप्तिभागः जाग्रत्स्वप्नयोश्चिन्मयावभासनान्तरं सम्भाव्यमानश्चिन्मयीभूतसुषुप्तिरूपो विश्रमः | असौ खल्वतीततुर्यं तुर्यातीतस्वभावम् | शिववपुः शिवस्य शिरोरूपं वपुः | चिन्मयौ जाग्रत्स्वप्नौ शिवस्य जघन्यं वपुः चिन्मयीसुषुप्तिस्तस्य शिरःपदमिति वेदितव्यमिति भावः | एतदुक्तं भवति | येषां चतस्र एव दशा इति मतम् चिन्मयसुषुप्तेरतीततुर्यमत्युत्तीर्णतुरीयमिति व्यपदेशाङ्गीकारेण तुर्य एवान्तर्भावः | तेषां तुर्यातीतं नाम नान्यापृथग्दशा चिन्मयसुषुप्तेस्तुर्यातीतत्वसम्भावनाविषयस्य (तुर्य एवान्तर्भावात्##? सर्वदशाधिष्ठाता | एतन्मतानुसारेण क्षकारमकारसमवायस्य सर्वदशाधिष्ठातृभूतस्य तुर्यातीतस्वभावत्वमङ्गित्वाभिप्रायेणोक्तम् दशामात्रपरत्वेननेति पूर्वसूत्राभिप्रायः | नन्वेवं चाङ्गिपरत्वेनाभिमतस्य तुर्यातीतस्वभावस्य सर्वदशाङ्गसमवाय एव युक्तः स (न) त्वेकदेशनियतक्षकारमकारसंसृष्टिसन्निवेशौचित्यमिति न मन्तव्यम् | यथा शरीरेण सर्वशरीरसमवायवतोऽपि शरीरैकदेशे हृदयकमले सन्निवेशाङ्गीकारस्तथा सर्वदशासमवायवत एव तुर्यातीते(त) स्वभावस्य क्षकारमकारसंसृष्टिरूपमध्यचक्रसन्निवेशो युज्यत एवेति निरवद्यम् | येषां पुनर्मते तुर्यातीतं चिन्मयसुषुप्तिपरम् पञ्चमी दशैव तेषां मते क्षकारमकारसंसृष्टिरूपं पदं सर्वदशासमवेतं महातत्त्वमेव त्रिपुरेश्वरीप्राणपर्यायमिति (न)व्यत्यययोगः || २० || प्. १३०) तुर्यं द्विखण्ड मभवस्य जघन्यभागो मूर्धाऽतितुर्यमनयोरनुभूः क्षमध्यम् | जाग्रच्छिराःस्वपनसुप्तिजघन्यभागो मप्राणकः पशुरसौ विपरतिबोधः || २१ || अतीततुर्यं शिववपुरिति पूर्वसूत्रे सामान्योक्तं विशेषेण व्युत्पादयति - तुर्यमित्यादि | द्विखण्डं खण्डद्वयोपलक्षितम् | अभेदजाग्रत्स्वप्नरूपमिति भावः | तुर्यम् | अभवस्य शिवस्य | जघन्यभागः | अतितुर्यम् | अभेदसुषुप्तिरूपं तुर्यं तुर्यदशाभागः | मूर्धा शिरः | अभवस्येति सम्बध्यते | शिवस्य निर्विकल्पप्रधानत्वाद्विकल्पाप्राधान्याच्चेति भावः | अनयोरप्रधानप्रधानाङ्गयोः | क्षमध्यं क्षकाररूपं मध्यम् | अनुभूः प्राणस्थानम् | जघन्यशिरोरूपयोरङ्गयोर्मध्यस्थाने कण्ठे खलु प्राणस्तितिरिति भावः | उभयाधिष्ठातुरुभयमध्यस्थितिरुपपन्नेति तात्पर्यम् | शिवप्रसङ्गेन जीवस्याप्यङ्गविवेकमाह - जाग्रच्छिरो यस्य जाग्रच्छिराः | स्वपनसुप्तिजघन्यभागः स्वप्नं स्वप्नः | स्वपनसुषुप्तिर्जघन्यभागो यस्य असौ | विपरीतबोधः शिवाद्विपरीतज्ञानः | पशुः | विकल्पप्राधान्यान्निर्विकल्पाप्राधान्याच्च पशोः शिवाद्वैपरीत्यम् | एवंविधः | पशुः मप्राणकः | उभयाङ्गमध्यवर्तीयो मकारः स एव पशोःप्राणस्थानमिति पूर्ववद्विवेकः || २१ || प्. १३१) मात्मा पशुः प्रकृतिरेव तया निगीर्णो हात्मापि चित्प्रकृतिरेव निवृत्तिरूपा | इत्थं द्विधा प्रकृतिविश्रमभूः क्षकारः शम्भुः परः परत एव भवेत्प्रकृत्याः || २२ || भेदसंसारप्रवर्तिन्या प्रकृत्या यथा मकाररूपः पशुर्बदधः अभेदसंसारप्रवर्तिन्या प्रकृत्या तथा क्षकाररूपस्यापि शिवस्य बन्धः सम्भाव्यते | तत्कथं नियतबन्धं मकारक्षकारसामरस्यमुपास्यत्वेनाङ्गीकृतमित्यत्राह - मात्मेति | मात्मा मकारस्वरूपः | पशुर्जीवः प्रकृतिरेव | तत्रहेतुमाह | तया निगीर्ण इति | प्रकृत्या ग्रस्तत्वात् | प्रकृत्युत्तीर्ण स्तदुतीर्ण इति भावः | हात्मापि चित् | हकाररुपिणी चित् | निवृत्तिरूपा प्रकृतिरेव | तदनुषङ्गनैयत्यादित्यभिप्रायः | क्षकारस्तु इत्थं द्विधा प्रकृतिविश्रमभूः | इत्थमुक्तमर्यादया | द्विधा | द्विरूपिण्याः प्रवृत्तिनिवृत्तिरूपिण्याः | प्रकृतेर्विश्रमभूः - विश्रमस्थानम् | शुद्धान्तर्मुखत्वेन संसारद्वयकलास्पृष्टत्वात् प्रकृत्यनावृतः किन्तु प्रकृतेः स्वयमावरकमित्यभिप्रायः | अत एव | क्षकारः | परः शम्भुः | प्रकृत्याः परत एव | न तु तदन्तः पतितः | अतो नित्यमुक्तः क्षकारः | अस्यैव यद्बहीरूपं हकारः यच्चा(स्या)त्यन्त(र्ब)बहीरूपं मकारः तयोरेव प्रकृतिपारतन्त्र्येण प्रकृतित्वं न तु क्षकारस्य अतस्तस्योपास्यत्वं युज्यत एवेति तात्पर्यम् || २२ || प्. १३२) यद्वा शिवः क्ष इह म प्रतियोगिभावात् सौषुप्तमेव परशम्भुपदं चिदात्मा | यच्चक्रमध्यपदता तदधीशता च शम्भोः(स्तदस्य) सदेश्यगुणगन्धितयार्च्यभावात् || २३ || क्षकारस्य मकारप्रतियोगितया विकल्पगन्धो दुर्निवारः अतः शुद्धनिर्विकल्पं चित्सुषुप्तिपदमेव परम तत्त्वम् | तदेवोपास्यमिति ये मन्यन्ते तदाक्षेपायाह - यद्वेति | मप्रतियोगिभावात् मकारस्य जीवप्रतिपादकस्य प्रतियोगिभावात् अन्योन्यव्याप्यव्यापकभावसंसर्गात् | क्षकारः | शिवः | न तु परमशिवः | विकल्पगन्धनैयत्यादिति भावः | चिदात्मा चिन्मयं सौषुप्तपदं सुषुप्तिरेव | परशम्भुपदं परमशिवतत्त्वम् | यद्वा | यद्वेति पक्षान्तरे | अस्मिन् पक्षे चित्सुषुप्तावपि विकल्पात्यन्तोच्छेदो दुष्प्रतिपादः | साधिते विकल्पात्यन्तोच्छेदे पर्यन्ततो जडत्वं प्रसज्येत | जडस्य च नोपास्यत्वम् | अतो विकल्पपदे वा गन्धपदे वा तत्त्वमुपास्यमिति क्षकारस्य चक्रमध्यस्थित्या विभाव्येन चक्राधिष्ठातृत्वेनोपास्यत्वं स्फुटीभूतमिति समाधत्ते - यच्चक्रमध्यपदतेत्यादि | क्षकारस्य शम्भोश्चक्रमध्यपदता साम्प्रदायिकी चक्रस्य मध्यप्रतिष्ठा तत्प्रतिबोधिता तदधीशता चक्राधीशता च तदेतदस्य शम्भोर्गुणगन्धितया हेतुना सिद्धिरेते (सिद्ध्यति) अर्च्यभावात् अर्चनीयत्वात् | उपपाद्यत इति शेषः | गुणगन्धाधानेनाऽर्चनीयो न तु निर्गुण इति प्रतिपत्तिरेव क्षकारस्य शम्भोश्चक्रमध्यस्थितिः साम्प्रदायिकीति समर्थयतीति विवेकः || २३ || प्. १३३) चन्द्राग्निभुक्छशिभुगग्निरथः समस्वं भानुः पदे पद इदं त्रितयं स्वरादौ | खण्डत्रयात्मकमखण्डपदं च तद्वत् तद्विश्रमः प्रतिदशं समसङ्ख्यतैषाम् || २४ || अथ पुनः पुनरावर्तमानाभिर्दशाभिरेव तिथिभिः कालो व्यवस्थाप्यते | तिथयश्च शुक्लपक्षे पञ्चदश कृष्णपक्षे च तावत्यः सम्भूय त्रिंशत्संख्यकाः पुनः पुनरावर्तन्ते | योगिदृष्टौ दशानामेव तिथिरूपतायां तिथिसमानसङ्ख्यता दशानां साम्प्रदायिकोपदेशगम्येति तदेव प्रमेयमुपदिशति - चन्द्रोऽग्निभुगित्यादि | सूत्रद्वयेन दशायां दशायां तथा तथारूपः संसारः पञ्चभूतात्मनैव कलापेन सम्पद्यते | तान्यपि भूतानि दशास्वभावान्येव | तथा हि | जलतत्त्वात्मकश्चन्द्रः सुषुप्तिरूपः | वायुतत्त्वात्मकः सूर्यो जाग्रद्रूपः | तेजस्तत्त्वात्मको वह्निः स्वप्नस्वरूपः | पृथ्वीतत्त्वात्मिका प्रकृतिर्गुणत्रयपर्यायतेजस्त्रयबीजभूता तुर्यम् | आकाशतत्त्वात्मकः पुमान् सकलप्रपञ्चबीजरूपिण्याः प्रकृतेः विश्रान्तिस्थानम् तुर्यातीतम् | यद्यपि सुप्त्यादौ कलानां बाहुल्यं विद्यते | तथापि ताः कलाः पञ्चस्वेवतत्त्वेष्वन्तर्भवन्ति | इति प्रतिदशं पञ्चैवाङ्गदशाः | सुषुप्तिसुषुप्तिर्जलम् सुषुप्तिजाग्रद्वायुः सुषुप्तिस्वप्नो वह्निः सुषुप्तितुर्यं पृथिवी सुषुप्तितुर्यातीतमाकाशः | इत्येवं जाग्रदादावप्यङ्गदशापञ्चकविभागोऽवगन्तव्यः | एवं प्रवृत्तिरूपासु सुषुप्तिजाग्रत्स्वप्नेषु प्रतिदशं पञ्चाङ्गदशागणनायां प्रवृत्तिरूपसंसारः पञ्चदशाङ्गवान्भवति | तान्येवाङ्गानि शुक्लपक्ष(स्य)योः पञ्चदशतिथय इति विवेकः | अथ निवृत्तिसंसारे प्रवृत्तिसंसाराङ्गानां सर्वेषां निवृत्तिरूपतेति तत्र कृष्णपक्ष(स्य)योस्तिथयः पञ्चदश भवन्ति | प्रवृत्तिसंसारे वेद्यमयस्य चन्द्रस्याभिवृद्धिरिति तत्संसार(क)स्य शुक्लपक्षता | निवृत्तिसंसारे वेद्यस्य चन्द्रस्य क्षय इति कृष्णपक्षता तस्येति विवेकः | सूत्रयोरक्षरार्थस्तु अग्निभुगग्निव्यापकश्चन्द्रः | शशिभुक् चन्द्रव्यापकोऽग्निः | एवं चन्द्राग्न्योःस्वभावोऽग्निः | न तु सर्वासु दशास्वग्निना चन्द्रकबलनं चन्द्रेणाग्निकबलनं विवक्षितम् तथात्वे प्रवृत्तिसुषुप्त्यादौ अग्निना चन्द्रकबलने शुक्लपक्षत्व(व्या)हानिरिति | अथ | समता | अनयोश्चन्द्राग्न्योः समता | भानुः | स्वरादौ स्वरवर्गादौ पदे पद इदं त्रितयम् | संसारकलापत्वेन नियताभ्युपेयमिति शेषः | तद्वच्चन्द्रादिवत् | खण्डत्रयात्मकं चन्द्राग्निभानुरूपखण्डत्रयात्मकम् | चन्द्राद्याकारेण विलसनम् | अखण्डपदं प्रवृत्तिपर्यायपृथिवीरूपम् | चन्द्रादयः खलु गुणत्रयमयाः प्रवृत्तिपर्यायपृथिवीविलासरूपा इति विवेकः | अखण्डपदं गुणत्रयसमष्टिरूपत्वात्प्रकृतेरखण्डपदत्वम् | एतच्च पदं पदे चन्द्रादिपदवच्च संस्थानमिति एतद्वच्छब्दार्थः | तद्विश्रमश्च तस्य प्रकृतिरूपपदस्य विश्रमः विश्रान्तिस्थानम् | आकाशरूपम् | स्वात्मतत्त्वमित्यर्थः | एतदपि पदं प्रतिदशं नियतमिति अङ्गदशापञ्चकनैयत्यदशानामुक्तम् | एषामङ्गानां दशासु नियतानां तिथिभिः समसङ्ख्यता वेदितव्येति शेषः || २४ || प्. १३५) भेदाविभेदसमतातनुभिः सुषुप्ति- स्वप्नप्रजागरपदैस्त्रिगुणीकृताभिः | पृथ्वादिस्वान्ततिथिभिर्ननु शुक्लपक्षः कृष्णस्तुजागरपदादिकतन्निवृत्या || २५ || भेदेत्यादि | भेदविभेदसमतातनुभिः | क्रमेण भेदाभेदतदुभयसाम्यस्वरूपैः सुषुप्तिस्वप्नजागरपदैः | त्रिगुणीकृताभिः | पृथिव्यादिखान्ततिथिभिः पृथिव्याद्याकाशान्ताङ्गदशारूपाभिः | पञ्चभिस्तिथिभिः | त्रिगणनायां पञ्चदशभिः | शुक्लपक्षो ननु | भवतीति | शेषः | जागरपदादिकतन्निवृत्त्या | अथ तुर्यदशायां जाग्रदादिप्रथममन्त्यात्तुनिवृत्तिरासां तिथीनां निवृत्त्या निवृत्तिरूपाङ्गीकारेण | कृष्णः पक्षः | तु शब्दो भेदे | एवं सिद्धसाम्प्रदायिककालविवेकयोगे दृप्तदृष्टेः पुरुषस्य कालपञ्चकत्वं सिध्यतीति एतत्प्रमेयोपदेशः || २५ || देहात्मिका प्रकृतिरेव परा विमर्शः सैव प्रवृत्तिविनिवृत्त्युभयादिभूता | वागर्थमिश्रवपुरिन्द्वनलार्यमत्र ययेकैक युक्त्रिपुटिका नवमूर्तिरेका || २६ || इदानीं महाप्रकृतिरूपपरात्मिकाया विमर्शशक्तेर्दशाविशेषरूपाणामङ्गानां नवसङ्ख्याकत्वेन तस्याः प्रतिबिम्बरूपं श्रीचक्रमपि नवचक्रसमयरूपमिति व्युत्पादयन्नाह - देहात्मिकेत्यादि | देहात्मिका देहरूपिणी अनेन त्रिपुरेश्वर्याः शरीरत्रयमेव मुख्यं रूपमिति व्युत्पादितम् | प्रकृतिरेव परावाग्रूपिणी स्वरसप्रहणलक्षणा | एवम् प्रकृतिरिति परावागिति व्यव(स्थापिता)(स्थिता)धिष्ठा | विमर्शः | विमर्श शक्तिः सैव(शिव)प्रवृत्तिनिवृत्त्युभयादिभूता | प्रवृत्तिसंसारस्य निवृत्तिसंसारस्य मिश्रसंसारस्य च कारणभूतः सर्वोऽपि संसारः प्रकृते मूलः प्रकृतिरेव विलासरूपत्वादित्यर्थः | वागर्थमिश्रवपुः न तु केवलं परावाग्रूपत्वाच्छब्दरूपा अपि त्वर्थरूपा च मिश्ररूपा च सर्वव्यापिवस्तुनः शब्दमूलत्वाच्छब्देऽन्तर्भावात् एवं रूपता त्रिपुरेश्वरी | इन्द्वनलार्यमादित्रययेकैकयुक्त्रिपुटिका त्रिपुटिकाप्रमेयप्रमाणप्रमातृसमुदायलक्षणा इन्द्वनलार्यम्णां त्रयया एकैकयुक् एकैकं प्रत्येकं युज्यते इत्येकैकयुक् | एवं प्रत्येकं प्रवृत्तिरूपेण चन्द्रेण निवृत्तिरूपेणानलेन उभयसाम्यरूपेणार्यम्णा सूर्येण युक्ता या त्रिपुटी प्रमेयादिपुरत्रयी तत्स्वरूपा सती तत्त्वत एकरूपापि विश्रान्तिदशायामद्वितीयापि नवमूर्तिः नवसङ्ख्याकस्वरूपभेदा | अयमर्थः | जडत्वात्प्रमेयरूपं चतुर्दशारात्मकं सुषुप्तिपुरं विसर्गप्राधान्याद्विन्दुप्राधान्यादुभयप्राधान्याच्च त्रिधा भिद्यते | प्रमाणरूपं दशारद्वयात्मकं जाग्रत्पुरमपि तथा प्रमातृरूपम् अष्टारात्मकं स्वप्नपुरमपि तथेति नवचक्रविवेकः | एतच्चक्रं तत्तद्दशारूपेण नवधाविलासं स्यात्सा त्रिपुरेश्वर्या बिम्बं भवतीति हृद्गताभिप्रायः || २६ || प्. १३६) चैतन्यता च जडता च विमर्शचित्यो- स्तुल्या यदिन्द्वनलयोरुभयं तदिच्छा | स्यात्कर्म चावगलितं तु मिथो जडत्वात् ज्ञानं तयोः समपदं च तथा द्विरूपम् || २७ || एवं शिवस्य सगुणस्वरूपं प्रकृतिमेवोत्कृष्य उपास्यत्वसम्भावनया नवचक्रेश्वरीं व्युत्पाद्य तस्याश्चेत्यत्वे प्रसिद्धे सम्भावितमुपास्यत्वव्याहृतिशङ्काकरण्डत्वं (कारणत्व) प्रवादमपवदन्नाह - चैतन्यतेत्यादि | (भी)चितिरजडेति सम्प्रत्ययः विमर्शस्य चित्साम्यं(?) प्रतिपादयन् जडत्वमपवदति | विमर्शचित्योः विमर्शप्रकाशयोः चैतन्यता च जडता च तुल्या | उभयोरपि प्रत्येकं चैतन्यत्वं जडत्वं च भवतीति चमत्कारः | अयं चमत्कारोऽन्योन्यव्याप्तिनिबन्धनः | व्यापकमेव चैतन्यं व्याप्यमेव जडमिति द्वयोरपि व्यापकत्वे व्याप्यत्वे च सति चिदचिद्भावचमत्कारो निर्विशेषेण कर्तव्य इति भावः | उभावेतौ प्रकाशाविमर्शौ इच्छाज्ञानक्रियावन्ताविति विमर्शस्याजडत्वप्रतिपादने हेतुमाह - यद्यस्मात्कारणात् इन्द्वनलयोरुभयं द्वयम् | तदिच्छा | तयोःप्रकाशविमर्शयोरिच्छा | प्रकाशस्यकदाचिद्व्यापकत्वे अनल इच्छा भवति | कदाचिद्व्याप्यत्वे इन्दुः | विमर्शस्यापि तथा | विमर्शस्येन्दुरेवेच्छेति नाशङ्कनीयम् | तस्य विमर्शस्य व्यापकदशायां तदिच्छाया इन्दोरग्निवैभवप्राप्तिरग्नित्वमेव प्रकाशेच्छाया अग्नेरपि तद्व्याप्येदन्तायामिन्दुजाड्यप्राप्तेरिन्दुत्वमेव | एवं प्रकाशविमर्शयोर्व्यवहारपदे स्वरूपस्याऽनलेन्दुद्वयस्याऽन्योन्यमेषितव्येच्छारूपेण प्रत्यैकयं (प्रत्येकं) जडाजडत्वमुक्त्वा मिथः कर्तृकार्यरूपं जडाऽजडत्वमाह - स्यादित्यादि | मिथः अवगिलितं व्याप्तं कर्त्रा खलु कर्म व्याप्यते | अतः परस्परमवगिलितं ग्रसितं कर्म च भवति भूतात्कर्ता च भवतीत्यर्थः | तयोः समपदम् | अन्योन्यविपयत्वात्तुल्यरूपं ज्ञानं च | तथा पूर्ववदद्विरूपम् | अन्योन्यं ज्ञाता च भवति ज्ञानं च भवतीत्यर्थः | एवमिन्द्वनलयोर्विमर्शप्रकाशयोरेषितव्येच्छाभावे कार्यकर्तृत्वभावे ज्ञातृज्ञेयभावे मिथो निर्विशेषे सति प्रकाशतत्त्वं जडमितिदुराग्रहे विवेकहीनतामापादयतीत्यर्थः || २७ || प्. १३८) पक्षद्वयेऽपि परिवृत्तिवशात्त्रयाणा- मिच्छादिकत्रितयताप्रतिधाम धाम्नाम् | षट्स्वत्रवृत्तिषु च कारणकार्यतास्या- द्बिन्दुक्षयोर्मभवयोः पफवर्ग(र्ण)योश्च || २८ || अथ खण्डत्रयात्मनो मातृकामहामन्त्रस्य प्रतिबन्धमुभयपक्षार्थे न सदावर्तनं भवेत् | खण्डानामन्योन्यमादिमध्यान्तत्वनिर्विशेषेऽन्योन्यकार्यकारणभावचमत्क् आरश्चक्राकारता च भवतीति रहस्यमेतद्व्युत्पादयति - पक्षद्वय इत्यादि | त्रयाणाम् धाम्नाम् | पदानाम् | मन्त्रखण्डानामित्यर्थः | पक्षद्वयेऽपि | दक्षिणतो वामतश्चेत्यर्थः | परिवृत्तिवशात् आवर्तवशात् | प्रतिधाम प्रतिपदम् इच्छादिकत्रितयता इच्छात्वं ज्ञानत्वं क्रियात्वं च भवति | यस्यकस्यचिद्वा खण्डस्याऽदित्वाङ्गीकारे इच्छात्वं मध्यत्वाङ्गीकारे ज्ञानत्वमन्त्यत्वाङ्गीकारे क्रियात्वमिति विवेकः | अत्र खण्डत्रये | उक्तमर्यादया षट्सु वृत्तिषु | सर्वासु | बिन्दुक्षयोः(बिन्दुः)स्वरवर्गस्तस्य बिन्दोः क्षकारस्य च | तथा मभबयोः | व्यापकवर्गसन्निवेशवतो मकारस्य स्पर्शवर्गस्य || तयोर्भकारबकारयोर्युगलस्य स्पर्शवर्गस्य तयोरेव(म्) पकारफकारयोर्युगलस्य | स्वरवर्गस्थितस्य विसर्गस्य चान्योन्यं कार्यकारणभावो भवति | अयमर्थः | प्रतिखण्डंहृदयप्रदेशात्प्राणपदादावर्तोदयः संभाव्यः प्रतिखण्डं च हृदयप्रदेशे बिन्दुविसर्गौ स्वरवर्गोदरे अन्तः इति विन्दुविसर्गौ स्वरवर्गोदरे चतुरस्रचक्रसंनिविष्टाः प्रकृत्यहङ्कारबुद्धिमनःप्रतिपादकाः पकारफकारबकारभकाराः | तत्र विसर्गस्थानीयौ पकारफकारौ बिन्दुस्थानीयौ बकारभकारौ व्यापकवर्गोदरे मकारक्षकारौ (विसर्गबिन्दुस्थानीयौ) विसर्गः बिन्दुस्थाने | एवं सति (यदा) सर्वेषु बिन्दुमुपक्रम्य प्रतिलोमावर्तेन व्यापकवर्गावगाहे क्षकारपर्यन्तमावर्तः तदानीं बिन्दुः कारणं क्षकारः कार्यम् क्षकारमारभ्य अनुलोमावर्तेन बिन्दुपर्यवसाने क्षकारः कारणं बिन्दुः कार्यम् | अथ स्वरोदरगतं विसर्गमारभ्य स्पर्शोदरगतपफवर्णरूपविसर्गान्तमनुलोमेनावर्ते विसर्गः कारणं पफरूपविसर्गः कार्यम् पफरूपविसर्गमुपक्रम्य स्वरविसर्गान्तप्रतिलोमेनावर्ते पफविसर्गः कारणं स्वरस्थविसर्गः कार्यम् | अथ स्पर्शोदरगतं बभवर्णरूपं बिन्दुमुपक्रम्यानुलोमेन व्यापकवर्गोदरस्थमकाररूपबिन्दुपर्यन्तमावर्ते बभरूपबिन्दुः कारणं मकारबिन्दुः कार्यम् | मकारबिन्दुमारभ्य प्रतिलोमेन बभरूपबिन्दुपर्यन्तमावर्ते मकारबिन्दुः कारणं बभरूपबिन्दुः कार्यमिति तद्विवेकः | अत्र बिन्दुक्षकारयोर्बिन्दुत्वं शुद्धविसर्गपफवर्णयुगलस्य विसर्गत्वं शुद्धं बभवर्णयुग्ममकारयोः साङ्कर्येण बिन्दुत्वं विसर्गत्वं चेति साम्प्रदायिकोपदेशः | प्रमेयप्रमाणप्रमातृखण्डेषु यस्य कस्यचिद्वा मूलत्वाभ्युपगमसिद्धान्तः सिद्धैरनुभवानुरोधेनापिकृतः | अनुभवश्चैवं हि घटादिस्फुरणे चक्षुरादिप्रमाणस्फुरणं चक्षुष्मत्प्रमातृस्फुरणं चाऽविभाव्य क्रम मनुभूयते | तत्र कश्चित् घटस्फुरणं प्रधानतया मन्यते कश्चिदिन्द्रियस्फुरणं प्रधानम् (कश्चित्) प्रमातृस्फुरणमिति तत्पुरुष प्रतिभाव्यवस्थापिते सिद्धान्तत्रये विप्रतिषेधविषये सति सिद्धसिद्धान्तः प्रकाशविमर्शचमत्कारभूतेषु घटादि स्फुरणे(षु) सिद्धान्तत्रयसमष्टिरेव संतिष्ठतीति || २८ || प्. १४०) चन्द्राग्निविश्रमणयोः स्वरयादिधाम्नोः र्विश्वस्य बीजदशयोः प्रथमे पदे चित् | चित्ये निमज्जति परत्र चितौ तु चैत्य- मेतत्समस्तमुभयोल्लसिते तु भानौ || २९ || ननु पूर्वोक्तत्रिखण्डस्वरूपस्य चतुर्दशारविन्यासवतः सुषुप्त्यात्मनः शाक्तस्य स्वरखण्डस्य प्राधान्येन यजद्भिः शाक्तैः सिद्धन्तीकृतम् | चिन्निमग्नचैत्यस्वरूपस्या(सा)ष्टारविन्यासवतः स्वप्नात्मनः शैवस्य व्यापकखण्डस्य प्राधान्येन यजनं शैवेः सिद्धान्तितम् | चतुरस्र(स्र)गर्भितदशारविनयसवतो जाग्रदात्मनः स्पर्शखण्डस्य पशुदशाशङ्कया प्राधान्येन यजन मविवेकिजनस्य उपेक्षाविषये वा स्यादिति तस्यैव खण्डस्य प्रधानयजनौचित्यंसाम्प्रदायिकमिति सूत्रचतुष्टयेन व्युत्पादयति - चन्द्राग्नीत्यादि | चन्द्राग्निविश्रमणयोः | स्वरयादिधाम्नोः | स्वरवर्गव्यापकवर्गात्मनोः पदयोः चन्द्रस्य विसर्गस्य विश्रमणं विश्रान्तिस्थानत्वम् स्वरवर्गपदे अग्नेर्बिन्दोः विश्रमणं व्यापकवर्गपदे स्वरवर्गे चिन्निगरणेन चैत्यैकच्छत्रतो (ता)व्यापकवर्गे चैत्यनिगरणेन चिदेकश्चि(च्छ)त्रतेति भावः | विश्वस्य बीजदशयोः | चैत्यविश्रमचिद्विश्रमयोः | प्रत्येकं विश्वबीजत्वं विश्वस्य विमर्शमयत्वेन प्रकाशमयत्वेन चानुभवात् | प्रथमे पदे स्वरपदे | चित् | चित्ये चैत्यं चिता निमज्जति | चैत्यस्य दर्शनं नास्तीत्यर्थः | उभयोल्लसिते | चिच्चैत्ययोरुल्लसिते | उल्लासरूपे | भानौ | तु | स्पर्शखण्डे तु एवं (एतत्) चिच्चैत्ययुगलम् | समस्तम् अन्योन्यनिगीर्णस्वरूपम् चिचैत्यरूपमुभ्यमपि तत्त्वं संभूय दर्शनपदे भवति | शिवशक्त्यो रुभयोरपि दर्शनस्थानत्वाद्भानुरूपं जाग्रच्चक्रमेव प्राधान्येन यजनीयमिति विवेकः || २९ || प्. १४१) इन्दौ च हव्यभुजिचोदरसीम्नि यत्स्या- च्चक्रद्वयं चिदचिदभ्यवमर्दरूपम् | बिम्बद्वयीयुगलमेतदशीत(ति)भानो- र्बिम्बस्थले हि चतुरश्र(स्र)तया समस्तम् || ३० || चतुर्दशारचक्रे गर्भितचित्स्वरूपं यच्चैत्यम् अष्टारगर्भितचैत्यस्वरूपा या चित् एवमेतच्चक्रद्वयाधिष्ठातृभूतं देवतायुगलंदशारद्वयाधिष्ठातृभूते चतुरश्र(स्र)चक्रेसंमिलितम् | अत एवास्य चक्रस्य चतुरश्र(स्र)भाव इति व्युत्पादयति - इन्दौ चेत्यादि | इन्दौ | च | चतुर्दशारचक्रे | हव्यभुजि | च | अष्टारचक्रे | प्रतिचक्रम् | उदरसीम्नि | बिम्बस्थरश्मिचक्रमध्ये बिम्बचक्रस्यौचित्यात् | यच् चक्रद्वयं स्यात्प्रतिचक्रं म(न्दि)न्दरे चक्रद्वयं भवतीत्यर्थः | च्चतुर्दशारोदरे अष्टदलषोडशदलरूपं चिच्चैत्यरूपं चक्रद्वयम् | अष्टारोदरे त्रिकोणबिन्दुरूपं चैत्यचिदात्मकं चक्रद्वयम् | कीदृशं चक्रद्वयम् चिदचिदभ्यवमर्दरूपम् | चिदचितोश्चिच्चैत्ययोरभ्यवमर्दः अन्योन्यक्रमणं तद्रूपं तदवस्थम् | चतुर्दशारे षोडशदलात्मना चैत्यचक्रेण अष्टदलात्मकचिच्चक्रक्रमणम् | अत एवाऽष्टदलस्य षोडशदलरश्मिरूपेण तद्बहिरवस्थानम् | अष्टारे बिन्द्वात्मना चिच्चक्रेण त्रिकोणात्मना ? चैत्यचक्रक्रमणम् | अत एव त्रिकोणस्य बिन्दुरश्मिरूपेण बहिरवस्थानम् | एवं व्यवस्थितमेतद्बिम्बद्वयीयुमलम् | अष्टदलषोडशदलात्मकं त्रिकोणबिन्द्वात्मकं च युगलं संभूय चतुरूपम् | अशीत(ति) भानोः सूर्यबिम्बस्थले दशारद्वयोदरे चतुरश्र(स्र)तया चतुरश्र(स्र) रूपेण | समस्तं संभूयस्थितम् | अष्टदलषोडशदलत्रिकोणबिन्दुरूपं चक्रचतुष्टयं चतुरश्रचतुष्कोणरूपेण स्थितम् | अतश्चतुरश्रं प्राधान्येन यष्टव्यमिति निष्कर्षः || ३० || प्. १४२) तस्माच्चतुष्पदमिदं चतुरस्रविम्बं चिच्चैत्यनिर्जरसरिद्यमुनाप्रयागः | अर्च्यं भवेत्प्रथमतोऽथतदङ्गभूत- चिच्चैत्यचक्रयजनं त्वितिपूर्वतस्तत् || ३१ || चतुरश्रचक्रस्य उक्तोपपत्त्या प्रथमतो यष्टव्यतां निगमयति - तस्मादित्यादि | तत्तस्मात्पूर्वसूत्रप्रतिपादितोपपत्तिरूपात्कारणात् | चतुष्पदम् | अङ्गाङ्गिरूपेण स्थितस्य देवताचतुष्टयस्य समवायस्थलम् | इदं चतुरस्रबिम्बम् | चिच्चैत्यनिर्जरसरिद्यमुनयोः | भागीरथीयमुनयोः | चितः स्वच्छत्वात्तथावर्णभूतभागीरथीसाम्यम् चैत्यस्य संसाररूपतया कलङ्कितत्वान्नैल्येन यमुनासाम्यम् | प्रयागो नाम यमुनाभागीरथ्योः सङ्गमरूपः पुण्यतमस्तीर्थविशेषः | देवताचतुरश्र(स्र)विम्बमिति(मपि) तथा पुण्यतमः | तत्र निमज्जने सद्यो (देवता) भावश्चेति तथा निरूपितम् | (इति | प्रथमतः) प्रमेयतः | अर्च्यमर्चनीयं भवेत् | अथ चतुरश्र(स्र)यजनानन्तरं तदङ्गभूतयोश्चिच्चैत्यचक्रयोरष्टारचतुर्दशाररूपयोर्यजनमिति | तच्चतुरश्रचक्रम् | पूर्वतः प्रमुखे कृतमिति शेषः | पुरत्रयात्मके श्रीचक्रे चतुरश्र(स्र)मेव प्रथमतो यष्टव्यमित्येतदुपदेशायप्रमुखे देव्याः पदे(दम्) सर्वचक्रव्यापकस्थले कृतम् चतुरश्र(स्र)स्य नैसर्गिकस्थितिषु (अष्टार)चतुर्दशाररूपयोर्यजनमिति तच्चतुरश्रचक्रं पूर्वतः चतुर्दशाराष्टारमध्यदेश एव प्रथमयष्टव्यताव्युत्पादनाय तयोश्चक्रयोर्व्यापकत्वेनाभिमते बाह्यस्थले सन्निवेशः काल्पनिक इति भावः | चतुरश्र(स्र)चक्रं दशारद्वयस्याप्युपलक्षणम् | तस्य रश्मिचक्रमन्तरेण बिम्बचक्रावस्थानस्यानुपपन्नत्वात् || ३१ || प्. १४३) अन्तःस्थमेव चतुरस्रमुषर्बुधेन्द्वो- रर्कात्मकं चिदचिदुद्भवमेतदङ्गम् | एवं च सत्यपि जडाजडसारमेतत् प्रागेव पूज्यमिति पूर्णपदे कृतं तत् || ३२ || इति परमरहस्यं मातृकार्थस्वरूपं स्फुटतरमुपदिष्टं चक्रराजाभिनीतम् | लगति यदयमर्थः शक्तिविद्धेऽन्तरङ्गे न तु तुनरपरत्र प्रत्यवायो(ऽस्ति) न तन्मे || ३३ || [अत्रायंश्लोको मूलश्लोकानुपूर्वीसमानप्रायः आदर्श पुस्तके टीकायामधिकमुपलभ्यते | इति परमरहस्यं मातृकार्थस्वरूपं स्फुटतरमुपदिष्टं चक्रराजाभिनीतम् | लगति यदयमर्थः शक्तिविद्धेऽन्तरङ्गे न तु पुनरपरत्र प्रत्यवायोऽस्ति तस्मै || १ || ] इति मातृकाचक्रविवेके तुर्यविवेकः पञ्चमः खण्डः || ५ || मातृकाचक्रविवेकमूलं सम्पूर्णम् || चतुरश्रो(स्रो)पलक्षितस्य जाग्रच्चक्रस्य बहिःसन्निवेशः शिष्यव्युत्पादनायैव व्युत्पन्नापेक्षया त्वियं कल्पना(ना)नुसरणीया अपि तु मध्यस्थितस्यैव चतुरश्र(स्र)स्य प्राधान्यदृष्ट्या प्रथमयष्टव्यता सिद्धेति चक्रस्यान्यथासन्निवेशकल्पनाप्रत्यवायं परिहरति - अन्तःस्थमित्यादि | उषर्बुधेन्द्वोः | अष्टारचतुर्दशारोपलक्षितयोः | अर्कात्मकं चतुरश्रं(स्रम्) दशारद्वयोदरनियतसन्निवेशमन्तः स्थमेव | एवकारेण नैयत्यमुक्तम् | न तु बहिर्देशे तस्य सन्निवेशः शङ्कनीय##- भानुरूपं खलु भानुश्चाग्निचन्द्रयोरङ्गम् | तदुभयाधीनसिद्धिकत्वात् | एवं चतुरश्र(स्र)स्य अङ्गत्वे सत्यपि | जडाजडसारं चन्द्राग्नितत्त्वयोः सारभूतमेतच्चतुरश्रचक्ररूपमङ्गसारत्वात्प्रागेव पूज्यमिति व्युपादनायैव | तच्चतुरश्र(स्र)चक्रम् | पूर्णपदे व्याप्तिस्थले | वाह्यदेशे कृतम् | आदिसिद्धेन शिवेनेति शेषः | मध्यचक्रस्य चतुरश्रोपलक्षितस्य | मूलाङ्कुरापेक्षया मध्यस्थितस्य बीजस्यैव यैरुपासकैः प्राधान्यमवगतं ते मध्यस्थितमपि चतुरश्रं(स्रम्) बीजवत्प्राधान्यदृष्ट्या प्रथमतो यजन्ते | ये तत्राव्युत्पन्नाः तदपेक्षयेयं चतुरश्रस्य बहिः सन्निवेशरूपकल्पना चक्रस्थितस्यैवार्थस्य व्याख्यानरूपता | तदप्रत्यवायविषय इति तात्पर्यम् | अष्टालषोडशदलयोश्चतुर्दशारमध्य एव सन्निवेशः | तयोश्चतुर(स्र)श्रस्योदरभागे यः सन्निवेशश्चतुरश्र(स्र)स्य दशारद्वयस्याप्युपलक्षकस्यसमनन्तरं चतुर्दशाराष्टारयोर्यजनं कर्तव्यमिति चतुर्दशारोपलक्षकत्वेन षोडशदलमष्टारोपलक्षकत्वेनाष्टदलं च शिष्यव्युत्पादनायैव बहिः सन्निवेशितमिति वेदितव्यम् | अयमर्थः | सुषुप्तिजाग्रत्स्वप्नात्मकं चक्रत्रयमपि प्रत्येकं प्रधान्येन यष्टव्यम् | तत्र सुषुप्तिचक्रस्य चतुर्दशारस्य व्याप्तिस्थले बहिर्देशे स्थित्या प्राधान्यमवगम्यते | साम्प्रदायिकेन विलोमेन स्वप्नचक्रव्यापारस्यापि प्राधान्यमवगम्यते | तदुभयमध्यपतितस्य जाग्रच्चक्रस्य बीजसन्निवेशन्यायेन यैः प्रधान्यमवगम्यते तदपेक्षया चतुरश्र(स्र)षोडशदलाष्टदलानां जाग्रत्सुषुप्तिस्वप्नचक्रोपलक्षकाणां बहिः सन्निवेशकल्पनानुसरणीया | ये तु पुनरत्राव्युत्पन्नाः तदपेक्षया जाग्रच्चक्रस्य प्रधान्यं बहिश्चतुरस्रादिचक्रस्य (रेखा) त्रयसंन्निवेशेनव्युत्पादितम् | तदीयाकल्पना (शिष्य)व्युत्पादनमात्रपरा सन्निवेशकल्पना विवेकेन व्युत्पत्तिमता च साधकजनेन चतुर्दशारपर्यन्त एव श्रीचक्रे सुषुप्त्यादिचक्रत्रयस्य प्रत्येकं (प्राधान्यमव)गन्तव्यमिति ? शिवम् || ३२ || ३३ || (१) || इति मातृकाचक्रव्याख्यानं सम्पूर्णम् || ########### END OF FILE #######