#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00634 Uniform title: mātṛkātantra Manuscript : Manuscript 72 Rashtriya Sanskrit Sansthan, Lucknow Description: śāradā script Notes: Data entered by the staff of Muktabodha under the direction of Anirban Dash. Diplomatic transcription of manuscript. Revision 0: Nov. , 21, 2023 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### मातृकातन्त्रम् शारदा नो. ७२ श्रीरणवीरपरिसर जम्मू पृ०?) ओंनमःशिवाय||ओंनमःसरस्वत्यै||ओंनमोगुरवे||ओंश्रीरस्तु ओंकैलासशिखरेरम्ये नानारत्नोपशोभिते|| पप्रच्छपरया भक्त्या भैरवंप्रतिचण्डिका|| ओंश्रीचण्डिका|| ओंत्रिपुरापू जनंनाथस्वर्णरत्नैःविशेषतः|| कलियुगेस्वर्णरत्नंभवे द्धेमतथामणिः|| केनोपायेनदेवेशि स्वर्णरत्नादिकंलभे त्|| ज्ञातोक्तंसर्वशास्त्रेषुतद्वदस्वदयानिधे|| श्रीशंकरः|| ओंशृणुदेविप्रविक्ष्यामि यथारत्नादिकंलभेत्|| मत्तेजसा पारदेन किंनरंलभ्यतेनहि|| यथागूढप्रकारेण शुद्धंसं वल्लकेनच|| शंबलस्यप्रकारंहि शृणुद्रव्यंप्रियंवदे|| वी रतन्त्रानुसारेण पूजयेत्सिद्धकालिका|| अथवापूजये द्देवीं दक्षिणांकालिकांपरां|| कालीतन्त्रोक्तविधि ना सप्ताहंजपपूजनैः|| सत्येचैकंतुत्रेतायां द्विगु णंद्वापरेत्रयं|| एवंसर्वत्रजानीयाच्चतुर्गुणंपूज येत्कलौ|| आनीयबहुयत्नेन शंबलंतोलकोद्वयं|| व सुरायुःशिवंचाद्यं मायाबिन्दुविभूषितम्|| बीज त्रयंचाष्टशतं प्रजपेश्शम्बलोपरि|| अशीतितोलकं मानं कृष्णाधेनुसमुद्भवम्|| दुग्धमानीययत्नेन चाष्टोत्तरश तंजपेत्|| ओंश्रीःमः १ पृ० १अ) रक्तवस्त्रेणसूत्रेण दुग्धमध्येविनिक्षिपेत्|| उत्थाप्यज्ञार्ण येद्धीमन्मन्दमन्देनवह्निना|| बिन्दुदेवाग्निपर्यन्तं अ र्धशेषयदाभवेत्|| तदैवतोलनद्रव्यं दुग्धमध्येविनिक्षि पेत्|| ततःपरीक्षाकर्तव्या प्रदद्यात्पावकोपरि|| निर्धूम पावकेद्रव्यं द्रष्ट्वाउत्थापयेत्ततः|| तत्रैवप्रजपेन्मन्त्रं सर्वलक्षणचात्मकं|| सार्धंचतोकंताम्रंच वह्निम ध्येविनिक्षिपेत्|| यथावह्निस्तथाताम्रंद्रष्टाउत्थापय त्ततः|| गुङ्जाप्रमाणतद्द्रव्यंतच्चूर्णेपदियोजपेत्|| स त्यंसत्यंहिगिरिजे रोप्यंभवतिनिश्चितम्|| ओंश्री चण्डिका|| ओंकारणंदुग्धरूपावा केनोपायेनशंकरः|| तत्प्रकारंमहादेव कृपयावदशंकर|| ओंश्रीशं करः||ओंटङ्कनंचानयेद्धीमात्तोलकंचचतुष्टयं|| वह्नियोगेनगिरिजे लाजारौप्यंचकारयेत्|| आ म्रपुष्पंचद्विगुणं पिष्ठामेलनमाचरेत्|| तस्यो परिजपेन्मन्त्रं सर्वदालक्ष्मणात्मकम्|| महामा यांजपेत्पश्चादष्टोत्तरसहस्रकम्|| ततस्तगुटिकां कृत्वा मेलनंकारयेद्यदि|| तदैवदुग्धरूपंस्यात्सत्यंस त्यंचशैलजे|| पृ० १ब) यामायामधुकैटभप्रमथिनीयामाहिषोन्मूलिनीयाधू म्रेक्षणचण्डमुण्डमथिनीयारक्तबीजाशिनीशक्तिः सुम्भनिसुम्भदैत्यदलिनीयासिद्धलक्ष्मीःपरासादे वीनवकोटिमूर्तिसहितमांपातुविश्वेश्वरी|| ओंमन्त्रंशृणुवरारोहेत्रैलोक्येपिचदुर्लभं ओंएं ह्लींक्लींह्रींक्लींनमःवेदाधांवाग्भवंमायांका मबीजंततःपरम् स्थिरमायांमहामायांका मबीजंततोनमः नवाक्षरंमहामन्त्रंजपेदादौ शतंविपरीतंमहामन्त्रंपाठेन्तेतुशतंजपेत् शृणुदेविप्रविक्ष्यामिऋषिःछन्दःसुलक्षणं ओंसप्तशतीमहास्तोत्रस्यमेधातिथिःऋषिः गायत्रीअनुष्टुप्वृहतीपङ्क्तिस्त्रिष्टुजग तीछन्दांसिमहाकालीमहालक्ष्मीमहास रस्वत्योदेवतास्तवकं एंह्रींक्लींबीजंक्षौंशक्तिः ममामुककामनासिद्ध्यर्थेपाठेविनियोगः|| प्रणवेनमहेशानिषडङ्गध्यानमाचरेत् इ तितेकथितंकान्तेचण्डीपाठस्यलक्षणम् श्रीः १०) सावर्णिसूर्यित्यादिसावर्णिभवितामनुःएतन्मन्त्रं पठेद्देविसंस्थाप्यचदिनत्रयंवारत्रयंपठेद्देविकि ञ्चितृणादिकंनहि महारोगेमहादुःखेराज पीडादिदारुणेनानाव्याधिगतेवापिचायुना शेतथाभये ग्रहपीडादिसङ्घातेब्रह्महत्यादि पातके एवंपाठेनदेवेशिमुच्यतेनात्रसंशयः बहुकिंकथ्यतेदेविसर्वशान्तिःलभेन्नरःस र्वशङ्काविनिर्मुक्तोजायतेमदनोपमः एवं कृतेमहेशानियदिशान्तिनजायन्ते || पुनस्तेनैवकर्तव्यं ततःसिद्धोभवेद्ध्रुवं इतिश्रीमातृकाभेदतन्त्रेषष्ठःपट लःपरिपूर्णः||६|| ओंश्रीः पृ० १०ब) ओंश्रीचण्डिका|| ओंगन्धहीनंभवेद्द्रव्यं केनोपायेनशंकरः|| तत्सर्वंश्रोतुमिच्छामि यदिस्नोहोस्तिमांप्रति||श्रीशंकरोवाच|| ओंशिवंवह्निसमारूढंवामनेत्रविभूषितम्||बिन्दुनाद समायुक्तं गन्धमादायसंवदेत्||उल्लोट्यपदमुच्चार्य चाष्टो त्तरशतंजपेत्|| तदैवजायतेसत्यं दुर्गन्धादिविनाशनम्|| इतिश्रीमातृकातन्त्रभेदप्रथमःपटलः|१| ओंश्रीदेवी|| ओंवदमीशानसर्वज्ञ सर्वतत्वविदांबर|| यत्वयाकथितं नाथ समसर्गोविहारतः|| कथंवाजायतेपुत्रः शुक्रस्यकुत्र वान्स्थितिः|| वद्धमानंसदालिङ्गं प्रवेशंवाकथंभवेत्|| इ तियुक्ताह्यहंनाथ त्राहिमांदुःखसङ्कटात्|| ओंशंकरः||ओं मणिपूरेमहापद्मं सुष्मणामध्यसंस्थिता|| तस्मिन्नालोकदेवे शी नाभिरन्ध्रंमनोहरम्|| अष्टपत्रसमायुक्तं सदामुक्तविभूषितम्|| तस्यदेवंस्तन्द्वंन्द्वंवर्धमानंदिनेदिने|| मध्यनालंसुष्मणान्त र्वृत्ताकारं सुशोभनम्[सुशीतलमित्यपिपाठः]|| अनाम्यग्रमध्येनालं सदानन्दमयशिवे|| शृणुचार्वाङ्गिशुभगे तन्मध्येलिङ्गनयत्|| यद्रूपंपरमा नन्दं तत्रास्तिभुवनत्रये|| नाभिपद्मंतुयद्रूपं तच्छृणुष्वसमा हितः|| बिन्दुस्थानंमध्यदेशे सदापंकजराजिते|| बाह्यदे शेचाष्टपत्रं चतुरश्रंचतद्बहिः|| चतुर्द्वारसमायुक्तं सुवर्ण भास्वद्वृत्तकम्|| तत्पत्रेणभवेत्पुष्पं बिन्दुयुक्तंत्रिपंचकम्|| (चित्रम्) श्रीः २अ) प्रफुल्लतत्रपत्रारे बाह्यंचाधिकदर्शनम्|| तन्मध्येतुमहेशा नियदिस्याल्लिंगतादियत्|| पद्ममध्येगतंसूत्रं सन्ततिः तेनजायते|| पुरुषस्यव्यपद्द्रर्थं? शक्तेर्वाचाधिकंभवेत्|| तदाकन्याभवेद्देवी विपरीतेपुमान्भवेत्|| उभयोस्तुल्ययोगं तंकृई(क्ष्री)?वोभवतिनिश्चितम्|| शृणुचार्वङ्गिसुभगे पुष्प माहात्ममुत्तमम्|| संयोगमध्येतद्युक्तं वर्धतेचदिनेदिने||ए वंद्विमासेसम्प्राप्ते तत्पुष्पव्यतिसंयुतम्|| गलितपरमेशा निव्यक्ताभवतिसन्ततिः|| किञ्चिद्रोगादिसम्भूते क्रमकी टादिसम्भवे|| तस्माज्जीवःप्रणष्टःस्या त्सनारीजीव तिकथं|| ओंश्रीशंकरः|| ओंतस्यपुष्पस्यमहिमा किंवक्तुंश क्यतेमया|| बिन्दुस्यान्नसहस्रंतु पुष्पमध्येप्रियंवदे|| बुद्बु दायत्रतिष्ठन्ति तन्त्रैवसन्ततिर्भवेत्|| वर्धमानेमहापुष्प पीडाकिञ्चिन्नजायते|| एवंक्रमेणदेवेशि सहस्रंसन्ततिर्भ वेत्|| ममसार्धंमहेशानिविहारंकुरुयत्नतः||विहारयो भवेत्पुत्रो गणेशःपरिकीर्तितः|| अपरंपरमेशानितवपुत्र प्रसादतः|| पृथिव्यांजायतेर्सृष्टिः निर्विघ्नेनयथोचितम्|| एतच्छ्रुत्वामहादेवि मदनानलविह्वला|| शिवंचालङ्ग येद्देवीशिवोपिसमताययौ||इतिश्रीमातृकातन्त्रे द्वितीयःपटलःपरिपूर्णः||२|| ओंनमोमातृकायै|| ओं पृ० २ब) ओंश्रीदेवी|| ओंसर्वत्रापिश्रुतंनाथभोगंचन्द्रायसौख्यदम् भोगेनमोक्षमाप्नोतिकथंवदसियोगवित्|| ओंशंकरः|| भोगेनलभ्यतेयोगंभोगेनकुलसाधनम् भोगेनसिद्धिमा प्नोतिभोगेनमोक्षमाप्नुयात् तस्माद्योगपदाकार्याबाह्य पूजायथोद्दया भोजनस्यविधानंतुच्छृणुष्वप्रियवदे मूलाधारातुपाशक्तिभुजङ्गाकाररूपिणी जीवात्मा परमेशानितन्मध्येवर्ततेसदागुणयुक्ताकुण्डलिनीचन्द्र सूर्याग्निरूपिणी मूलाधारच्युतांदेवीमांजिह्वातांविभा वयेत् शोधितान्मत्स्यमासादीन्मून्मुखेन्स्थापयेद्बुधः मूलमन्त्रसमुच्चार्यजुहोमिकुण्डलिनीमुखे अनेन विधिनादेवी सर्वंवाचसमाहरेत् भुनंङ्क्तिकुण्डलि नीदेवीद्वतिचिन्तायपरोहियः मन्त्रसिद्धिर्भवेत्तस्य ज्ञानसिद्धिनवान्यथा एवंकृतेब्रह्मरूपःशिवःरूप स्वयंहरिः योगसिद्धिर्भवेत्तस्यचाष्टसिद्धिंभविष्यति शत्रुभिर्दीयतेधन्तुदारुणंकृत्रिमंविषं यस्याश्चभक्ष णाद्देवीचामृतत्वंनसंशयः मन्त्रेणशोधयेद्द्रव्यंत त्क्षणादमृतंभवेत् तदैवकालकूटंतुसमुद्रंमथनं प्रिये तदाचारेणमथनातद्विषंखादितंमया सर्पा काण्डलिनीयादेवीपरमाकलाभुज्यते सूर्यरूपेण श्रीः ३अ) विषमप्यमृतंभवेत् इतितेकथितंदेविभोजनस्यविधात्म कम् एतत्सर्वंमहेशानिगोप्तव्यंपशुसङ्कटे||श्रीदेवी|| ओंशृणुनाथपरानन्दपरापरकुलात्मक वदमेविप्र मीशानहोमकन्दंतुकीदृशं||ओंश्रीशंकरः|| ओंम णिपूरस्यबाह्यंतुनाभिपद्मंमनोहरम् अष्टपत्रंतथा (चित्रम्) वृत्तंतन्मध्येकुण्डदुर्लभं चतुरश्रादिकंदेवितत्कु ण्डंकामरूपकम् सर्वकुण्डस्यदेवेशिविप्रकर्ता विधीयते वर्तुलंबहुजातस्यवैशस्यवार्धचन्द्रकम् त्रिकोणभूषितंकुण्डंशूद्राणांपरिकीर्तितम् एवं कुण्डमहेशानिनात्रत्रयविभूषितम् ऊर्धनालं सहस्रारेपरामृतविभूषितम् मध्यनालंनाभिदे शं मूलाधारीचसुन्दरी आलिंगनामध्येनालंस दानन्दमयंशिवे होमकुण्डमिदंदेवी सर्वतन्त्रपरि स्मृतम् येनहोमप्रसादेनसाक्षाद्ब्रह्ममयंभवेत् विप्रस्यचाहुतिंहोमेविज्ञातव्या चतुष्टयं राजन्यस्य त्रयदेवीवैश्यस्यचाहुतिद्वयं शूद्धस्यैकाहुतिर्देवी मुक्तिश्चापिचतुर्विधा महामोक्षोब्रह्मणस्यसायु ज्यंक्षत्रियस्यच सारूप्यबाहुएतास्य सालोक्यंपा दजातिषु बाह्यकुण्डंबाह्यहोमेमेष्व * वंहिसुरव न्दिते पृ० ३ब) जनिभेदंकुण्डभेदंकुर्यात्साधकसत्तमः बाह्यहोमेका मसिद्धिभविष्यन्तिनसंशयः इतितेकथितंकान्तेत न्त्राणांसारमुत्तमं नवक्तव्यंय(प)शोरग्रोसपथोतत्वयिप्रिये श्रीदेव्युवाच|| मद्यपानंमहापुण्यंसर्वतन्त्रेश्रुतंमयाजा तिभेदेनकथितंददानीतत्प्रकाशये||श्रीशंकरोवाच सर्वयज्ञाधिपोविप्रसंशयोनास्तिपार्वती सौत्रामण्यां महायज्ञोचत्वारोब्राह्मणादयः ब्रह्मणस्यमहायोगं मद्यपानेप्रियंवदे ब्राह्मणापरमेशानियदिपानादिकं चरेत् तत्क्षणेशिवरूपोसौसत्यंसत्यंहिशैलेजे तोयेतो यंयथालीने तेजेतेजशिवेयथा घटेभग्नंयथा काशंवायवेवायौप्रियःतथैव मध्यमानेनब्राह्मशिप्रिये लीयतेनात्रसन्देहोसत्यंसत्यंहिशैलजे सायुज्यपि तथामोक्षोनियुक्तःक्षत्रियादिषु यानारीमध्यपानेन सादेवीनात्रसंशयः सूक्ष्मसूत्रेयथावह्निदेहम ध्येयथाशिवे तपोरूपवृहत्सूत्रंपूजारूपंयथाहविः हरिर्वाकुरुतेदेवीवर्धमानंविदुर्बुधाः मध्यमानंवि नादेवितत्वज्ञानंनलभ्यते अतेवहिविप्रोहिमध्यमा नंसदाचरेत् वेदमाताजयत्नैव?ब्राह्मणेनहिशै लजे ब्रह्मज्ञानंयदादेवि तदाब्राह्मणमुच्यते श्रीः ४अ) वेदाम्नायस्मृतंब्रह्मतदीयंकौलिकेस्वरा हविरारु प्यमात्रेणवह्निदाहोयथाभवेत् शापमोचनमात्रेण स्वराज्ञानप्रदायिनी अतेवहिदेवेशि ब्रह्मणंपा नमाचरेत् सब्राह्मणःसविज्ञेयःसोग्निहोत्री सदीक्षितः बहुकिंकथ्यतेदेविसेवत्रिगुणात्मकः मुक्तिश्चयोजपेद्देविगोप्तव्यःपशुसङ्कटे प्रकाशा त्सिद्धिहानिःस्यान्निन्दनीयोनचान्यथा||इतिश्रीमा तृकातन्त्रभेदेतृतीयःपटलः||३||ओंश्रीदेवी ओंकारणेनमहामोक्षोनिर्विकल्पशिवस्यच श्रुतं वेदपुराणेषुतववक्त्रासुरेश्वरम् अग्राह्यंशिवनि र्मालमग्राह्यंकारणंप्रभो मृपावोध्यमहादेव कथंवदतियोगवित्(घृत्)||ओंश्रीशिवुवाच||ओंशृणु देविप्रविक्ष्यामिसावधानावधारयः ततेसर्वंप्रवि क्ष्यामियन्मेत्वंपरिपृच्छसि चतुराशीतिलक्ष्येषुस हस्रेषुतथैवच भ्रामणंकुरुतेजीवःततोमोक्षस्य भाजकः एतत्मध्येमहाज्ञानंयदिस्याद्वीरवन्दि ते तदामोक्षमवाप्नोतिभ्रमणंकस्यवाभवेत् अत एवमहेशानिगुप्तभासात्मेवच ततद्भावेनतद्वाक्यं पृ० ४ब) र्नमिथ्यापरमेश्वरिनिर्वाणंविप्रयेद्देविमद्यं परमकारणं मध्यपानविनादेविमहामुक्तिर्नलभ्यते||श्रीचण्डिका|| ओंगंगायाज्ञानतोमोक्षतदैवमृयतेयदि गंगायाः चाधिकंनाथकारणंपरदुर्लभं||ओंश्रीशिवुवाच|| पूर्णब्रह्ममयीदेविसुरादेवीचनान्यथा तस्माच्च षोडशंसैकायागङ्गासुरपूजिता तथैवतुलसीदेवी सतीशैकासुरेश्वरीविमोक्षार्थीचयोमृत्युंतीर्थसै वःसमाचरेत् तथैवमालिकामध्ये महाशङ्खंविमो क्षदं तथैवकारणंदेविसदामोक्षप्रदायकम् कारणेनविनादेविमोक्षज्ञानादिकंनहि महा शङ्खंविनादेविविनामन्त्रसिद्धिदायिकः साक्षानब्रह्ममयीमालामहासखाकयापुनः सालिग्रामेचवृन्दायांगङ्गायांसुरपूजिते नै वस्पृशन्महाशंखंस्पर्शनकाष्ठमद्भवेत्|ओंच ण्डिका||ओंगंगाकारणवारीचमद्यंपरमकारणं कारणस्पर्शमात्रेणमालातुष्टिभवेद्यदि गंगास्प र्शनमात्रेणकाष्ठवत्मलिकाभवेत् वदमेपरमेशा निचेतिमेसंशयोहृदि|| ओंश्रीशंकरः||ओंकारणे श्रीः ५अ) निवसेद्देविमहाकालीपराकला महाविद्योत्वसेद्देवि सुरयांसुरपूजिता महाशङ्खेवसेन्नित्यं पंचाशब्दर्णरू पिणी महाशङ्खेवसेन्नित्यंमहाविद्याचसर्वदा काष्टस्प र्शेनमात्रेणमहावह्निस्मृतंयथा गंगास्पर्शतथा देवी गंगायालीयतेप्रिये तत्क्षणेनमहाशङ्खंका ष्टवत्नात्रसंशयः शिलायांचातुलस्यादौ तथै वपरमेश्वरी महाशङ्खस्यशाज्ञायांयोजपेत्साधको धमः अष्टसिद्धिःकरेतस्यसेवशम्भुरव्ययम् मौलेगंगास्थितेर्यस्यगंगास्थानेनतस्यकिम् वाराणसीकामहयंहरिद्वारप्रयागकम् गण्डकीबदरीदेवी गंगासागरसंगमः यस्यभक्तिमहाशङ्खं तस्यदर्शनमात्रतः तिर्थ स्थानफलंसर्वंलभतेनात्रसंशयः इतितेकथि तंकान्तेसारंपरमदुर्लभम् नवक्तव्यंपशोरग्धेप्रा णंतेपरमेश्वरि|| ओंइतिश्रीमातृकातन्त्रेच तुर्थःपटलः||४|| ओं श्रीः पृ० ५ब) ओंश्रीचण्डिका||ओंपारदंभस्मनिर्माणंकेनोपायेन शंकरः तदहंश्रोतुमिच्छामियदितेस्तिकृपामपि|ओं श्रीशंकरोवाच||ओंपारदंभस्मनिर्माणंनानाविद्यादि धारिणी अतेवहितन्त्रादौशान्तिंकुर्याद्द्विजोतुमां वर्धयेत्कर्मकर्तारंवक्ष्यमानंविधानतः भोगंभोग्यंप्रदा तव्यं मधुपर्कंसुरेश्वरि पंचामृतेनदेवेशिस्नापयेच्छु द्धवारिणा पुरुषस्ययथायोग्यंयुग्मंवस्थुनिवेदयेत् चतुरङ्गुलविस्तारंरौप्यादिताम्रपीठकं अलंकारय थायोग्यंपुरुषस्य निवेदयेत् अलक्तसंयुतंवापि पुष्पंदद्याज्जलंशिवे षडङ्गश्रुवदेवेशिप्रदध्याच्च पुनःपुनः घृतयुक्तंतथादीपंदध्यात्कल्याणहेल वे नैवेद्यंविविधंरम्यंनानाफलसमन्वितम् शर्करा संयुतंकृत्वापायसंचनिवेदयेत् दध्यात्तोयमहेशा नि विजयासंयुतंप्रिये षडक्षरंमहामन्त्रंगजान्त कसहस्रकं प्रजपेत्साधकःश्रेष्ठःतत्सिद्धिरभवद्धुवं अथवापरमेशानिधनदाधनदायिनी पूजयेद्बहु यत्नानिषोडशैरुपचारकैः द्वादशाहंजपेद्धी मन्दिवसहस्रंततोजपेत् तद्दशांशंमहेशानि श्रीः ६अ) होमंकुर्याद्विचक्षणा होमकर्मादशक्तच्चेद्विगुणजपमाच रेत् यदिप्रीतामेवत्साहितदाकिंकिनलभ्यते प्र त्यहंपरमेशानिकुबेरादिपतेवसु भस्मनिर्माणकं देवी विचिन्यंतस्यकिंशिवे गुरवेदक्षिणांदत्वा यथाविभवविस्तरम् ततःसिद्धाभवेत्मन्त्रीनात्रका र्याविचारणा||चण्डिकोवाच|| विधानंदेवदेवे शिभस्मनिर्माणकर्मणि सत्कृतंयेनरूपेनभस्म साजायतेविभिः||ओंश्रीशंकरुवाच||ओंआनीय पारदंस्थापयेत्प्रपश्यद्यदिरोपरी तस्योपरिजपेन्म न्त्रं शर्वलक्षणचात्मकं षट्सहस्रंहिदेवेशिप्रज पेत्साधकागुणैः स्वयंम्भूपुष्पसंयुक्ते वस्थेचारु णसन्निभे संस्थाप्यपारदैःदेवी मृत्पात्रयुग लेशिवे पुष्पयुक्तेनसूत्रेणबन्ध्वीयादभयंततः मृतिकापंचह्योभिश्चधान्यस्यपरमेश्वरि लेप येद्बहुयत्नेन रौद्रशुष्कंचकारयेत् पुनश्चले पयेद्धीमान्ततोवह्नौ विनिक्षिपेत् अष्टमीन वमीरात्रौ क्षिपेन्नैवकदाचन|| ओंश्रीशंज्ञिका? पृ० ६ब) ओंस्वयम्भूकीदृशंनाथकुण्डगोलंचकीदृशं स्वपुष्पं कीदृशंनाथवज्रपुष्पंचकीदृशं सर्वकालोद्भवंना थकीदृशंवदशङ्कर||ओंश्रीशंकरः|| विवाहरहि ताकन्याप्रथमार्थतुसंयुताः तच्छ्रोणितंमहेशानि स्वयम्भूनात्रसंशयः विद्यमानेभत्तेरिधाकन्यावै चान्यगाशिवे तदुद्भवंकुण्डपुष्पंसर्वकार्यार्थसा धकं मृतंभत्तेरिदेवेशियावलाचान्यगाशिवे तदु द्भवंगोलपुष्पंदेववश्यकरंपरं विवाहरहिताकन्या प्रथमेक्रतुसंभवेत् तच्छ्रोणितंमहेशानिस्वपुष्पसर्व मोहनं विवाहितायाकन्यायापुरुषस्यताडनात् य दिपुष्पंसमुद्भूतंवज्रंतत्परिकीर्तितम् विवाहिता याकन्याया प्रतिमासंचयद्भवेत् सर्वकालोद्भ वंपुष्पं कथितंवीरवन्दिते सप्तरात्रौवह्निर्मध्येस्थाप येद्बहुयत्नतः ततुत्थाप्यतद्द्रव्यंस्वर्णपात्रेनिधाय च प्रजपेत्परमेशानिप्रसादाख्यंमहामनुःततः सिद्धोभवेन्मन्त्रीनान्यथाममभाषितं एनंमन्त्रंमहेशा निगजान्तकसहस्रकं जपित्वापूजयेत्पश्चात्पार्थि वंशिवलिंगकं ततःपरीक्षाकर्तव्या शृणुमत्प्राण वल्लभे शुद्धताम्रंवह्निमध्येमृत्वांत्रेतोलकद्वयम् श्रीः ७अ) द्रव्येभूतेचताम्रेचगुञ्जामानंक्षिपेद्यदि तत्क्षणेपर मेशानिस्वर्णंभवतिनिञ्चितं गुञ्जामानंतुतद्द्रव्यंभोज नंकुरुतेयदि सर्वरोगैपरित्यक्तोजायतेमदनोपमः मन्त्रसिद्धिर्भवेत्तस्यजायतेचिरजीविनः प्रत्यहंपरमे शानिशतनारीरमेद्यदि वीर्यादिरहितोतस्याःतेजो वृद्धिकरंपरं मरणानैवपश्यामियदिध्यानयुतोभवेत् तस्यवित्तंविलोकैवकुबेरोपितिरस्कृतः जानेचतुस्व रंसाक्षान्दानेतुवासवोयथा महेशेवयोगीन्द्रोमृते हितुसुदुर्धरः महावक्त्रोमहावीर्योमहाशाहशिकाशु चिः महावक्षोदयानांचसर्वप्राणिहितेषुच बहु किंकथ्यतेदेविसम्यक्पाननायकः|| इतिश्रीमातृ काभेदेतन्त्रेपंचमःपटलः||५||ओंदेव्युवाच|| ओंवदमीशानसर्वज्ञसर्वतन्त्रविदांवर महारोगे महादुःखेमहादारिद्रसङ्कटे नानापीडिगतेना थनानापीडादिसङ्कटे राजनाशेराजभयेकारा गारनृगतेपुनः राज्ञोदण्डेचदेवेशिसतथाग्रह पीडिने कैरुपायैद्रुतंनाथमुच्यतेवदमेप्रभोः|| ओंशिवुवाच||ओंशृणुचार्वङ्गिशुभगेयन्मात्वं परिपृच्छसि तत्तेसर्वंप्रविक्ष्यामिसावधानावधारय पृ० ७ब) याचाद्यापरमाविद्याचामुण्डाकालिकापरा तस्यप्रयो गमात्रेणकिंन् सिद्ध्यतिभूतले||श्रीदेव्युवाच||ओंरा हुच्चण्डालमाख्यातःसर्वत्रपरमेश्वर पुण्यकालंकथं देव स्तेनमृष्टेदिवाकरे निशाकरेतथानाथचेति मेसंशयोहृदि कथयस्वपरानन्दपश्चादन्यत्रप्रकाश य||ओंश्रीशिवोवाच||ओंशृणुचार्वङ्गिशुभगे ग्रहाणांचोत्तमोत्तमं ग्रहाणांत्रिविधंदेविचन्द्रसूर्या ग्निरूपिणं शक्तिर्ललाटेनेत्रेचवह्निस्तवतिसर्वथा वामनेत्रेस्तथाचन्द्रोदक्षेस्तर्प्यप्रतष्ठति सम्भूनाथेनदेवे शिरमणंक्रियतेयदा तदैवग्रहणंदेवीशक्तियुक्तेस दाशिवे वामनेत्रेचुम्बंनेचचर्णंकिंग्रहणंतदा लला टेचुम्बतेचाग्निग्रहणंपरमेश्वरि शिवोबीजयते वह्निअतोदृश्यसुरेश्वरी शिवशक्तिसमायोगोकालो ब्रह्ममयःशिवे अतेवमहेशानिराश्यादिन्नवि चारयेत् राश्यादिगणनंचैवयवनश्रुतिसुन्दरी ति थिनक्षत्रयोगोचयोयोगःपरमेश्वरि तत्रैवपरमेशा निराश्यादिगणनंचरेत् शिवशक्तिसमायोगःस र्वब्रह्ममयंजगत् मासपक्षतिथीनांचनोचारः परमेश्वरि दृष्टिमात्रेणजन्तव्यंतदसिद्धोभवेद्ध्रुवम् श्रीः ८अ) तत्कालपरमाकालीविज्ञेयोवीरवन्दिते तत्रपद्यत्कृतंकर्म तदन्तरफलंलभेत् नवक्तव्यंपशोरग्रेप्राणातेपिसुरे श्वरि एततत्वंप्रयत्नेनब्रह्मजानातिसाधकः प्रगोप्त व्यंप्रयत्नेन स्वयोनिरिवपार्वति||श्रीदेव्युवाच||चामु ण्डायाःमहामन्त्रंकीदृशंपरमेश्वर आराधनंकी दृशंवा तद्वदस्वदयानिधे||ओंश्रीशिवुवाच|| शृणुचार्वङ्गिसुभगेचामुण्डामन्त्रमुत्तमम् य स्यविज्ञानमात्रेणपुनजन्मनविद्यते कालीबीज युगंदेविकूर्मबीजततःपरम् त्र्यक्षरीपरमावी द्माचामुण्डाकालिकास्वयं चेतसापूजयेद्देवीशु द्धाच्चारैःचषोडशैः पूजान्तेपूजयेन्मन्त्रंत्रिसह स्रंवरानने रात्रौतुपूजयेद्देविपंचत्तत्वेनसाध कः तथारात्रौजपेन्मन्त्रंकुलशक्तिसमन्वितम् य न्त्रनिर्माणयोग्यंहिपीठंदद्यात्सुविस्तरम् भोगभोग्यं प्रदातव्यंमधुपर्कंयथोचितम् शक्तेयथाविधे यस्माध्युवत्या परमेश्वरि तथावस्तंप्रदातव्यं सर्व कल्याणहेतवे अलङ्कारतथादेवी तत्रतत्रनि योजयेत् नैवेद्यंविविधंरम्यंनानाद्रव्यसमन्वितम् यामेषात्रंप्रदातव्यं परमान्नंसशर्करम् पूजयेत्प रयाभक्त्या बलीदानंततःपरं पृ० ८ब) प्रत्यहंपरमेशानिचाद्यंतेवाबलिंहरेत् एवंकृतेमहा सिद्धिं लभ्यतेनात्रसंशयः धनार्थिधनमाप्नोतिपुत्रार्थि पुत्रवान्भवेत् विवादेजयमाप्नोतिराजद्वारेजयी भवेत् सर्वत्रविजयीभूत्वादेवीपुत्रिवप्सितौ रोगेभ्यो घोररूपेभ्यः पूजयित्वाप्रमुच्यते इक्षासिद्धिर्भवेत्तस्य सर्वसिद्धिनचान्यथा कारागारगतोवापिमुच्यतेना त्रसंशयः प्रयोगंपरमेशानिसारंपरमदुर्लभम् अतिस्नेहेनदेवेशितवख्यानेप्रकाशितम् अथवापर मेशानिपठेच्चण्डीसुरेश्वरि पूजयेच्चण्डिकांदेवींसु गन्धिपुष्पसंयुते धूपदीपेनगन्धेननेवेद्येनसुरे श्वरि अवश्यंपंचतत्वेनपूजयेच्चण्डिकांपरां आद्या द्द्रव्यादिस्नेहेनचर्प्यातेपरमेश्वरि पंचतत्वंसमानीयसो धयेन्मन्त्रवित्ततः तर्पणंचतथाकृत्वाचार्घपात्रेवि निक्षिपेत् अर्घोदकेनसंप्रोक्ष्यपूजयेत्पीठसंवतम् प्रणवंचसमुद्धृत्यमायाबीजंततःपरम् प्रभामा यांजपांसूक्ष्मांविशुद्धानन्दनीतथा सुप्रभांवि जयांसर्वसिद्धिदापरिपूजयेत् शंषंनीद्धिंपद्म नीद्धिंतथाब्रह्मादिकाजपेत् षडङ्गेनतंसम्पूज्य परिवान्प्रपूजयेत् श्रीः ९अ) इन्द्रादीनांचतथावज्रादिश्चप्रपूजयेत् प्रणवादि नमोन्तेनपूजयेत्साधकोत्तमः पुनर्देवीमहेशानि पंचतत्वेनपूजयेत् प्राणायामंततःकृत्वाकारणादी न्समाचरेत् तस्यैदेव्यास्वयंपीत्वापठेच्चण्डीसुरेश्वरी साङ्गेपातेतुमहातम्येपुनःप्राणंसमाहरेत् तत स्तुपूजयेद्विमानक्रमेणपानमाचरेत् समाप्तेन विलोमेनमूलमन्त्रशतंजपेत् यदिभाग्यवसिदे वीभक्तियोगंलभेन्नरः ततःक्षणेक्षणिबीजानि सर्वसिद्धिःकरेस्थिता एवंकृत्वामहेशानियदिपा ठंसमाचरेत् माहात्म्यंतस्यपाठस्यकिंवक्तुंशक्यते मया सकृत्पाठेनदेवेशिकिंपुनःब्रह्मकेवलं अ वश्यंलभतेशान्तिसर्वत्रपरमेश्वरि यदिशान्तिनो लभ्येतममवाक्यमृषातदा षोडशानोपचारेण प्रथमंपूजनंचरेत् द्वितीयंपंचतत्वेनपूजयेत्च ण्डिकांप्रिये सहस्रामतिपाठेनयत्फलंलभ्यते नरः सकृत्पाठेनदेवेशिकलानार्हतिषोडशीं ध्यानमस्याप्रविक्ष्यामियथाध्यात्वापठेत्नरः||ओं पृ० ९ब) खंपातुह्रींजिह्वांपरिरक्षतुश्रींबीजंसन्धिदेवासेहस खफ्रेंभुजद्वयं हकारंकण्ठदेशंमेशकारंषोडशदलं क्षकारंतदधंपातुमकारंहृदयंमम लकारंपृष्ठदेशंमे वरौपार्श्वेसदेवतान् पुंकारोवामपार्श्वेतुशकरोमेतुरोव तु हेंकारोदक्षिणभुजंक्षकारोवामहस्तकम् मकारंस्वा ङ्गुलीपातुलकरोमेभुजानन् वकारोममबालंचरका रोजठरंतथा योंकारपादयुगलंक्लींतुसर्वाङ्गंमेवतु हौंहौंलिङ्गंसर्वाणिकेशंचयरक्षतु एंबीजंपातुपूर्वं चह्रींबीजंदक्षिणेवृत्तश्रींबीजंपश्चिमेपातुतुरे द्भुतसञ्चरः श्रीपातुचाग्रेकोणेतुतदैवनैनृतेर्वतु देव्यंवापातुवायव्येईशान्यांपातुपादुकां पूजयामि तथाचोर्ध्वंनमश्चार्धेसदावतु इतितेकथितंकान्तेकवचं परमाद्भुतम् गुरुमन्त्रंजपित्वातुकवचंयःपठेद्य दि ससिद्धःसगणःसोपिशिवसाक्षान्नसंशयः पूजाकालेपठेद्यस्तुकवचंमन्त्रविग्रहं पूजाफलंभवेत्तस्य सत्यंसत्यंसुरेश्वरि त्रिसन्ध्यंप्रपठेद्देविससिद्धोनात्रसंशयः भूर्जेविलखेद्विधिवस्वर्णस्थंधारयेद्यदि तस्यदर्शनमात्रेण श्रीः १२अ) वादिनानिप्रभामता विवादेजयमाप्नोतिरणेचविजयी भवेत् सभायांजयमाप्नोतिममतुल्योनसंशयः सहस्रारे भावयन्तंत्रिसन्ध्यंप्रपठेद्यदि सेवसिद्धोलोकेषुनिर्वाणपद मीयते समस्तमंगलंनामकवचंपरमाद्भुतम् यस्मैकस्मै नदातव्यंनप्रकाशंकदाचन देयंशिष्यायशान्तायचान्यथा पतितंभवेत् भक्तेयस्तुदेवेशिपुत्रेभ्योपिनदीयते इदंक वचमज्ञात्वा(अ)दशविद्यांचयोजपेत् समाप्तोतिफलंतस्य चान्तेचनरकंव्रजेत् समाप्तंकवचंदेविकिमन्येधोतुमि च्छति तवस्नेहानरोधेनकिंमयानप्रकाशितम् कूर्म बीजंसमुच्चार्यप्राशमन्त्रंततप्रिये अनेनवायुयोगे नकुण्डलीचक्रमांचरेत् अष्टोत्तरशतंमूलमन्त्रंजप्तां न्मेत्सुधी पानकर्मततःकृत्वासन्ध्यांकुर्यात्पूर्णेदिता||श्री देवी||सन्ध्यायांकीदृशंध्यानवदमेपरमेश्वर||श्रीविद्याविषमेनाथविशेषोमपिकथ्यतां||ओं श्रीशिवोवाच||ध्यायेच्चसुन्दरींदेवींत्रिभेदंबीजरूपि णीं ध्यायेच्चवैष्णवींदेवींशुक्लवर्णस्वरूपिणीं कामबी जंस्वरूपंचनीलवर्णंविचिन्तयेत् शक्तिबीजंस्वर्ण वर्णंरक्तवर्णंविभावयेत् प्रभातेशुक्लवर्णांचमध्याह्नेनी पृ० १२ब) नीलसन्निभां सायाह्नेरक्तवर्णांभांभावयेत्साधकोत्तमः एवंध्यात्वामहेशानिसन्ध्यांकुर्याद्विचक्षणः शिवपूजा ततःकृत्वापूजयेत्परदेवता त्रिपुरापरमाविद्याम हाविद्यापतिव्रता पतिपूजा विनापूजानगृह्ण न्तिकदाचन अतेवमहेशानिचादौलिं गंप्रपूजयेत् पंचाक्षरंपंचवक्त्रंपूज येद्बहुयत्नतः ततस्तुपूजयेद्देवीं त्रिपुरामोक्षदायिनी||श्रीदेवी|| किमाधारयेच्छुम्भंकृपयावद वदशंकर आधारभेददेवेशिसाधकःफलभा क्भवेत्||ओंश्रीशंकरः||ओंपूजयेत्पार्थिवं लिंगंपाषाणेलिंगकेतथा स्वर्णलिंगंतथादेवी तौप्येवाताम्रकाश्यपे पारदेवाथगंगायांस्फटिके मर्कन्नथवा अस्यभेदेनदेवेशिभस्मनिर्मितलिङ्गके बालुकानिर्मितेलिंगेगोमयेच्चाथपूजयेत् सस्कारंच प्रविक्ष्यामिपरमेशिवयद्भवेत् रौप्यंचस्वर्णलिंगंच श्रीः १३अ) स्वर्णपात्रेनिधायच तस्मादुतोल्पतल्लिंगंदुग्धमध्येदिनत्रयं त्र्यम्बकंस्थापयित्वातुकालरुद्रंप्रपूजयेत् षोडशेनो पचारेणवैद्यात्तथा च तिथि?र्जपेत् तस्मादुतोल्प्य तल्लिङ्गंगंगातोयेविनिक्षिपेत् ततोवैदा न्तविधिनासंस्कारमाचरेत्सुधीः||ओंचण्डिकोवाच|| ओंलिङ्गप्रमाणदेवेशिकथायिशमपिप्रभो पार्थि वेशिलाद्याचविशेषोयदिवाभवेत्||ओंश्रीशिवः|| मृतिकातोलकग्राह्यंत्र्यथवातलोतकद्वयम् एवंदु र्धनकर्तव्यंकदाचिदपिपार्वति शिलादौपरमे शानिस्थलंचफलदायकं अङ्गुष्ठमात्रंदेवेशिकुर्या द्द्विपर्वमानकं क्रमेणदेवदेवेशिफलंबहुविधि र्भवेत् स्थूलात्स्थूलतरंलिंगंरुद्राक्षंपरमेश्वरि पूजनोद्धारणाद्देविफलंबहुविधंमतम्||इ तिश्रीमातृकातन्त्रेसप्तमःपटलःपरिपूर्णः||ओं सं३९भावति३चन्द्रेमयाकौलमुकुन्देनलिखितम्|| यादृशंपुस्तकंदृष्टांतादृशंलिखितंमया|यदिशुद्धं पृ०??) ओंश्रीगणेशायनमः ओंश्रीशिवुवाच||ओंअथातःसम्प्रविक्ष्या मित्रिपुरामन्त्रमुत्तमम् यस्यविज्ञानमात्रेणपुनजन्मनविद्य ते त्रिपुरात्रिविधादेवीबगलात्रिपुराशिवे तथैवभैरवी देवीसाचदेवीमयोदिता इदानींभैरवीदेवीशृणुपा र्वतिसादरं||श्रीचण्डिका||महामन्त्रंशृतंनाथडामरे वीरयामले प्रातःकृत्यादिवेशश्चाराधनक्रमंवद||शं करः||पुनरुत्थायमन्त्रज्ञःसहस्रारेनिजंगुरुं पूर्वो क्तध्यानमात्रेणपूजयेद्बहुयत्नतः तथाचश्रीगुरुंध्यानं गुप्तसाधनमात्रके कथितंचमयापूर्वंमन्त्रंशृणुवरा नने वाग्भवांद्यांमहामायांविष्णुशक्तिसमुद्धृतः ह सखफ्रंतदानन्दभैरवस्यमनुंततःतस्येशक्तेमनुःपश्चा तदुक्तंचपुराविभो इदानींश्रीगुरोःस्तोत्रंकवचंमपि कथ्यतां पक्षीवेगानमात्रेणसंसारात्मुच्यतेनरः ओंनमस्तेदेवदेवेशिनमस्तेहरपूजिते ब्रह्मवी ध्यासुरूपायैतस्यैनित्यंनमोनमः अज्ञानस्तिमिरा न्धस्यज्ञानाञ्जनशिलाकया चक्षुरुन्मीलितंयेनतस्मै श्रीः पा११ ८० ओं ११अ) श्रीगुरवेनमः श्रीनाथवामभागस्थासदयासुरपूजिता सदाविज्ञानदात्रीचनित्यंतस्यैनमोनमः सहस्रारेमहा पद्मे सदानन्दस्वरूपिणि महापक्षयदादेवीतस्यैनि त्यंनमोनमः ब्रह्मविष्णुस्वरूपाचमहारुद्रस्यरूपिणी त्रिगुणात्मास्वरूपाचनित्यंतस्यैनमोनमः चन्द्रसूर्याग्नि रूपाचसदाघूर्णितलोचना स्वनाथंचसमालिङ्ग्य तस्यैनित्यंनमोनमः ब्रह्मविष्णुशिवत्यादिजीवन्मु क्तिप्रदायिनी ज्ञानविज्ञानदात्रीचतस्यैनित्यंनमोनमः इदंस्तोत्रंमहेशानियःपठेद्भक्तिसंयुतः समृद्धिंलभतेस त्यंनित्यंसत्यंनमोनमः प्रातःकालेपठेद्यस्तुगुरुपूजांपुरस्सरं सेवावन्योलोकेचदेवीपुत्रिवाप्सितौ स्तोत्रंसमाप्तंदे वेशिकवचंशृणुसादरम् यस्यस्मरणमात्रेणवागी शंसमतांव्रजेत् श्रीगुरोःकवचस्यैवसदाशिवृषि र्स्मृतः तदाख्यादेवताप्रोक्ताचतुर्वगफलप्रदा क्लींक्लींबीजंमेशिरंपातुतदाख्यातुललाटकम् क्लींबीजंचक्षुषिपातुसर्वाङ्गेचसदावतु एंबीजंमेमु पृ०??) मशुद्धंवाममदोषोनदीयते||ओंसमाप्तंचेदं||ओं|| पृ०??) श्रीमातृकातन्त्रंसम्पूर्णम् (अमुद्रितम्) ########### END OF FILE #######