#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00644 Uniform title: mṛtitatvānusandhāndarśanam Manuscript : Dogra Art Museum manuscript 436 Description: Paper manuscript in sharada script. Notes: Data-entered by the staff of Muktabodha under the supervision of Anirban Dash. Revision 0: Apr. 4, 2024 Diplomatic transcription Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### मृतितत्वानुसन्धान्दर्शनम् ४३६ मृ० १ पृ० १) ओंस्वस्तिश्रीगणेशायनमः|| श्रीभैरव्युवाच श्रावंश्रावंमहादेवलोकविस्तारमुत्तमम् कृतार्थास्मिकृतार्थास्मिकृतार्थास्मिनसंशयः इदानींश्रोतुमिच्छामियमलोकस्यविस्तरम् यमलोकःकथंकुत्रह्यधोवाप्युर्ध्वमेववा मृतश्चकुत्रवैयातिजन्तुःपाशैर्वशीकृतः कायोवा लीयतेकुत्रशावोसौकाष्ठसन्निभः निरयाःकतिधाप्रोक्तायातनाश्चतथाविधाः मृतिंचैवजनस्यास्यविधिंतत्समयेतथा शावस्नान विधिंदेवचान्त्येष्टिमपिमेवद अन्त्यमण्डनभूषादेर्विधिंचापिमहेश्वर शवनिःसरणंचापिश्मशानविधिमुत्तमम् किमर्थंमुख वस्यंहि पादवाहेविपर्ययः किमर्थं पादतोयज्ञोपवीतस्यचधारणम् क्रियाविधिमपीशानदशाहंकर्मचप्रभो मरणादेव भीतानांनराणांवदकागतिः मरणेच महेशान ह्यद्भुतामेत्वनुस्मृतिः कृपयावदमेशम्भोलोकानुग्रहकाम्यया|| श्रीभैरवः निवारितापिदेवेशिग्रहिलाचित्तचापला इदंरहस्यंपरमंनाख्येयंयत्रकुत्रचित् नदातव्यंशठेक्रूरेभक्तिहीनेथसुन्दरि परशि ष्येपिदेवेशिसमयाचारवर्जिते परिहासकरेवापिवेदागमविनिन्दके मृतितत्वानुस्मरणंप्रेतमुक्तिप्रदायकम् गुरुभक्तिरतानांच वेदतन्त्रानुसारिणाम् साधूनांसमचित्तानांसमयाचारदर्शिनाम् परिषत्सुमहेशानि श्राव्यमेतन्नसंशयः श्रोतव्यंपरयाभक्त्या ह्येतद्गुरुमुखात्प्रिये मृतितत्वानुस्मरणंपितृमातृगुरुक्षये प्रथमंदिनमारभ्यद्वादशान्तंसमापयेत् श्रवणात्पठनाद्वापिमहापा पृ० १ब) तकनाशनम् नप्रमादेनश्रोतव्यं परिहासेन वापुनः अन्यथाविघ्नदंनॄणामिति सत्येन तेशपे श्रुत्वापठित्वानोपश्येन्नयमंनिरयांस्तथा यममार्गमपीशानि चेत्याज्ञापारमेश्वरी|| श्रीभैरवी|| दिव्यन्तरिक्षाकाशेऊर्ध्वंतिर्यगथापिवा यमलोकःकुत्रतिष्ठेद्वदसत्यंमहेश्वर|| श्रीभैरवः|| शृणुदेविप्रवक्ष्यामियामंलोकमनुत्तमम् दक्षिणस्यांदिश्यऽवनेरध ऊर्ध्वमपीश्वरि पातालस्यपरःप्रोक्तोयमलोकः सुदुस्तरः चतुरशीतिलक्षाणिनरकाश्चैकविंशतिः वसन्तितत्रदेवेशिपापिनांयातनाप्रदाः यमोवसतितत्रैवलोकशासनतत्परः चित्रगुप्तोपिदेव्यत्रकायस्थानांप्रधानकः सर्ववेत्यधरश्रेष्ठोयक्ष्मावसतिनित्यशः सर्वेरोगामहेशानिचित्रगुप्तनिवेशने वसन्ति भयदा नॄणांमहापातकिनामपि व्यासादयोमहेशानिमुनयश्चोर्ध्वरेतसः वसन्तियामेभवनेधर्माधर्मविचारकाः|| यमःप्रोक्तोमहादंष्ट्रो दण्डपाणिऽरयोमुखः यक्षराक्षसवेतालपिशाचपरिवारितः पापिनांभीतिदोनित्यंसाधूनांमानवर्धनः चित्रगुप्तस्तत्पुरतःसमषीलेखनी करः कर्मसण्ठी(वहीखात) स्वाभिमुखेनिधायचविचारयन् लिखतेपापिनांकर्मसाधूनांचशुभाशुभम् मृतस्यजन्तोर्नीतस्य भटैर्यमगृहं पुनः पृथक्पत्रेसमालिख्यकर्मपापवृषात्मकम् यमायाभिमुखंगत्वापत्रंदर्शयतेशिवे तत्पत्रेमुनयःसम्यग्विमृश्यकर्मचाखिलम् स्वर्गेवानिरयेवापिक्रिमिकीटपतङ्गके तिर्यग्योनाऽवपितथास्थावरत्वेपिसुन्दरि तत्रदेशेतत्रकाले इयन्तंकालमेववा अयंवसतुस्वंकर्म पालयन्नितिपत्रके स्वहस्तेनाऽक्षराण्युश्चैरऽङ्कयन्तियथाविधि आदाय तत्पत्रमथोचित्रगुप्तोमुनिब्रजात् कारयित्वाधर्मराजहस्तमुश्रां ततोप्यधः मृ० २ पृ० २अ) आज्ञापयतिरोगंतंमार्गेणानेनचानय समेनविषमेनापित्वरितंवाबिलम्बितम् आनयध्वंमहारोगाःपापिनंवाप्यपातकम्|| यमगृहंनयन्त्येवं रोगारोगिणमीश्वरि यस्यौषधैरोगचयोप्यपगच्छतिकष्टतः द्रव्याणांसङ्क्षयात्तस्य प्रायश्चित्तमितीरितम् उपप्लुति र्विवर्धेतरोगग्रस्तस्य यस्यतु तस्यकुर्वीतदेवेशि धर्मंवैपारलौकिकम्(गोचरं) पाथेयं शम्बलंदेविकुर्यात्पुत्रोप्यतन्द्रितः शोकरोदनमुत्सृज्य गांरौप्यंस्वर्णमेववा वासांसिनानापात्राणिदद्याच्छक्त्यानुसारतः|| स्वस्थःसञ्चयनं तत्रपाथेयस्यकरोतियः सयातिसुखसन्तुष्टः यामेमार्गेसुदुस्तरे यियासुतायां यःकश्चित्पितुःस्वस्यकरोतिन अन्त्यदानंमहादेविकेशवार्चनपूर्वकम् सयातिनिरयान्देवियाव दिन्द्राश्चतुर्दश यानियानिचदानानिस्वयंदत्तानिमानवैः तानितानीहसर्वाणिह्युपतिष्ठन्तिचाग्रतः| ततःस्वबान्धवाःसर्वेशोकंत्यक्त्वा महेश्वरि विष्णोःशिवस्यनामानिस्मारयेयुःपुनःपुनः नरोकर्तारणादीनिस्तोत्राणि जगदम्बिके पठेयुःपाठयेयुर्वाप्रस्थितंभुवनेश्वरि जानौशिरःसमादद्यात्पुत्रःशोकसमन्वितः यस्माच्छ्मशानंदैत्यानांविष्णुनाविहितंपुरा जानोरग्रेततोदेविशिरःस्थापनमीरितम् जान्व ग्रस्थंशिरोदृष्ट्वाम्रियमाणस्यसुन्दरि भूताःप्रेताःपिशाचाश्चपलायन्तेदिशोदश ततोब्राह्मींमहाविद्यांपाठयेयुरमोहिताः यत्संश्रुत्य महाविद्यांपशुःपाशैर्विमुच्यते श्रुत्वापिमुच्यतेजन्तुर्महापातककोटिभिः|| श्रीभैरवी|| वदसत्यंमहादेवलोकानुग्रहकाम्यया इमांमहाब्रह्मविद्यांयांश्रुत्वामुच्यते पशुः जीवनिर्गमनंचापिभौतिकाद्विग्रहाद्विभो केनमार्गेणनिर्यातिवदमेहितकाम्यया|| पृ० २ब) (हन्तिअविद्यामितिहंसःप्राक्संवित्प्राणेपरिणतेतिश्रुत्यासंविदेवप्राणापानरूपेणपरिणता हकारेणवहिर्यातिसकारेणविशेत्पुनः हंसहंसेतिहंसेतिजीवोजपतिनित्यशः| शुचिषदं शुचिदेशेहृदयेपदंनिषण्णं वसुंतेजोरूपंहोतारंतत्तदिन्द्रियद्वारासर्वविषयग्राहकं) श्रीभैरवः|| शृणुदेविपरांगुह्यांब्रह्मविद्यामतन्द्रिता यांश्रुत्वामुच्यतेजन्तुःसद्योसौपशुभावतः| हंसंशुचिषदंविष्णुमन्तरिक्षचरं वसुम् होतारंवेदिसदनमतिथिंदुरणासदम्(ब्रह्माण्डान्तर्वर्तिनं) नृषदंवरसदनमृतंव्योम(हृदयाकाशेबाह्याकाशेवा)सदंतथा अब्जंगोजंचृतजमद्रिजंशरणंस्रये त्वमेव शुद्धस्त्वंबुद्धोनिर्मलश्चत्वमेवहि (मातृतोलोमलोदितमांसानि पितृतःस्नायवस्थिमज्जाः|| ||) एह्येहिप्रत्यभिज्ञांत्वंत्यजषाट्कौशिकंगृहम् यस्मात्वंत्रिविधैर्देवतथामायाऽणुकार्मणैः मलै र्मलिनतांयातस्तस्माज्जहिहिविग्रहम् यस्मात्वंपशुतांयातो देहपाशविमोहितः तस्मात्वंपशुभावंस्वंत्यक्त्वायाहिस्वभावताम् रागःस्फटिकरत्नस्ययथास्याद्रागसङ्गतः तस्मात्वंपशुभावस्थःपशुत्वमधुनाजहि मोहंत्यजमहाभागकायेस्मिञ्जर्जरेस्वयम् परंस्वभावमातिष्ठःनिर्मलोबुद्धतांगतः जहीहिजीर्णांतांशावींतनुंपाशवशीकृताम् स्वभावंपरिप्राप्तोसि मामोहंकुरुपञ्जरे तारत्रयं(ओं३) वह्नियुतं(ह्रीं) हकारं(ह) मायां(इ) चत्वंजपदेवक्षणेस्मिन् एतस्मात्वंमुच्यसेपाशबन्धान्मोहंमागाःपञ्जरेस्मिन्नऽसत्ये इमांमहाब्रह्मविद्यामन्तका लेस्मरेत्तुयः सयातिशिवतांदेवियत्रगत्वानशोचते किंबहुक्तेनदेवेशिब्रह्मविद्यामिमांस्मरन् तांतांसिद्धिमवाप्नोतिदुर्लभाया दिवौकसाम् यमभङ्गात्यजेज्जातिमलंदेवियतोनरः ब्रह्मविद्यांचिन्तयतोयमभीतिःकथंभवेत् तस्मात्सर्वप्रयत्नेनब्राह्मींविद्यामिमां पठेत् मृ ३ पृ० ३अ) श्रावयेद्वामहेशानिशिवसायुज्यतामियात् नरोदनंनशोकोत्रशस्तोवैसुरसुन्दरि यियासोःस्मृतिजननंकुर्यात्पुत्रःसबान्धवः पुत्रेणतेनभ्रात्रावापित्राकिंवाथबान्धवैः येस्मारयेयुर्नामानिमुमूर्षुंनशिवाऽजयोः यावच्छ्वासोभवेत्तस्यतावद्वैस्मारयेच्छिवम् श्वासान्तेरोदनंकार्यंनिजैःपुत्रैःसबान्धवैः हाहेतिचमुहुर्देविप्रकुर्यात्परिदेवनम् आतुरस्ययदाप्राणानयान्तिवसुधातले दाना दिकंतदादेयंद्वारस्योद्घाटनंदिवः रुद्राक्षतुलसीस्रग्भिःकण्ठमाभूषयेत्प्रिये रुद्राक्षस्रग्विनंदृष्ट्वायमदूतामहेश्वरि पलायनपरा सूर्णंभवन्तिगणशङ्कया|| अधुनाशृणुदेवेशिदेहाज्जीवस्यनिर्गमम् परिज्ञायचयंभूयोनदुःखंजन्मनोलभेत् अन्तःसङ्कु चितज्ञानोदशांश्रित्वाऽन्तिकीमणुः अङ्गुष्ठमात्रःपुरुषोनिर्गच्छेत्कायमध्यतः आदायेन्द्रियसङ्घातंवायुवत्पुष्पसौरभम् पश्यन्त्यऽणुं निःसरन्तंसूक्ष्मार्थाःसूक्ष्मदर्शिनः| त्रिविधाश्चनराःप्रोक्ताउत्तमाधममध्यमाः उत्तमानांब्रह्मरन्ध्रान्मध्यानामास्यतःप्रिये अधमानाऽमपानेनयातिजीवोमहेश्वरि प्रयातंपुरुषंज्ञात्वास्नानंकृत्वामलाऽपहम् उष्णैर्जलैर्मृदावापिदेहलेपान्निवारयेत् ततश्चवेदतन्त्रोक्तैःस्नानंमन्त्रैःप्रदापयेत् ब्रह्मद्वारेप्राणवृतीर्यथास्यान्मृतकस्यच तदर्थंपादतोयज्ञोपवीतस्यचधारणं वस्त्रद्वयं परीधाप्यबद्ध्वायज्ञोपवीतकम् गङ्गाप्रयागतुलसीमृत्तिकोर्थंविशेषकम् आजन्मसञ्चितंपापंहरेत्सद्यःसुरार्चिते अङ्गराङ्गैश्च तांशावींतनुमेतांसुवासितां छिद्राऽपिधापितां पृ० ३ब) कृत्वाधूपैर्मुक्ताफलान्वितैः पञ्चरत्नैर्मुखंतस्यसम्बलेनपूरयेत् काष्ठलोष्ठसमंकायंदृष्ट्वाप्रेताःपिशाचकाः प्रविशन्तियतश्चिद्रै तस्मात्तत्परिधापनम् इन्द्रियाणांस्थितिर्यद्वत्स्थिरास्यादात्मनिस्फुटम् अन्तर्मुखतयादेवितदर्थंमुखवस्त्रकम् शिवशक्ति स्वरूपंहिप्रत्यक्षंवैशरीरकम् यथै?क्यरायातितद्वैपादवाहेविपर्ययः|| संभूष्यतांतनुंमाल्यैर्निर्हरेयुर्वनंततः घण्टारावैः शङ्खशब्दैर्वाद्यैश्चहरिनामभिः यमगाथाःप्रगायद्भिर्ब्राह्मणैःपुरतःकृतैः दाहयेद्वनमासाद्यचन्दनैस्तुलसीभवैः काष्ठैरगुरुसंभूतैःशुचिभिर्देवदारुभिः वैदिकैस्तान्त्रिकैश्चापिमन्त्रैःसर्वत्रसंकृताम् चितामारोहयेच्छावं देहंवैपूर्वतोमुखं दाहयित्वातनुंशावींरुदित्वाबहुधानरः रोमदाहेसमेत्याथबान्धवैस्तीर्थवर्यके तिलैस्तर्पणमादद्यात्प्रेततृप्तिकरंपरम् आधारभूतंजीवस्यज्वलनेज्वलयेच्चतम् निःशेषश्च?यदग्धव्यःकिञ्चिद्देहंपरित्यजेत् एवंयःकुरुतेमोक्षंतन्वाःसुरवरार्चिते सयातिशिवसायुज्यनित्यानन्दमयंध्रुवम् इत्येवंमुक्तंतनुमोक्षणंतेजन्तोःपशोःपाशवशीकृतस्य पितृक्षयेयःशृणुते सुरेशि सभोगमोक्षौर्लभतेचसिद्धिम् प्रैत्यंचहित्वाजनकोऽस्यदेविप्रयातिसादाशिवतां वितापःषडूर्मिमुक्तःप्रतिया तिशैवंपदंनचावृत्तिममुत्रभूयः|| (शीतातपौशरीरस्यलोभमोहेतुचेतसा प्राणस्यक्षुत्पिपाशे?द्वेष*****?) इतिश्रीभृङ्गीशसंहितायांभैरवीभैरवसंवादेभुवनवर्णनप्रस्तावेयमलोकविशेष वर्णनेजन्तुदेहमोक्षणंनामप्रथमःपटलः||१|| पृ० ४अ) श्रीभैरवः|| अस्थीन्यादायदेवेशिदेशकालानुसारतः चतुर्थेहनिवाकुर्यादस्थिसञ्चयनंप्रिये गृहमागत्यपुत्रस्तुरुदित्वा ससुरंततः संस्थाप्यास्थीनिरहसिकोष्ठान्तर्हरकोणके तीर्थंगत्वास्नानकर्मसचैलंविनिवर्तयेत् स्नानंकृत्वामहेशानि दाहयित्वातृणंततः प्रदक्षिणंप्रकुर्वीतजपन्मन्त्रंतु(अग्रअयुंषि?) वैदिकम् शवसंस्तवसम्भूतमशौचंनाशयेद्यतः गोमयेनमहादेवि लेपयेद्देशमेकतः पूर्वपश्चिमभागेनचुल्लींतत्रसमारभेत् पुत्रश्चजगदीशानिस्वयमेवचरुंश्रपेत् श्रपयित्वाचरुं तत्रतिलामधुपयःसमम् मुत्रंचजगदीशानिद्रोणार्धपरि?सस्मितम् यस्सङ्कृशतरोदेहःप्रेतैःसंबाध्यते पथि तस्माद्द्रव्यैश्च पुष्टंतुकायंसंजनयेद्भृशम् पयोमधुतिलानांचतण्डुलानांचसुन्दरि द्रोणार्धंवातदर्धंवा तस्मान्न्यूनंनकारयेत् सुतोनिवापान्दत्वावैदद्यात्पिण्डनमन्त्रतः|| ततःकुम्भौमहेशानि पूरयेत्प्रेतदूतयोः दूतकुम्भं प्रेतकुम्भेपरिधाप्यमहेश्वरि यस्मात्क्षणार्धंमुञ्चन्तिदूतानैवपरेतकम्? प्रेतकुम्भंसमादायवामकुक्षौमहे श्वरि द्वारप्रवेशेवामेतुह्यन्तरिक्षेनिधापयेत् प्रशस्तवृक्षशाखाग्रंविन्यसेत्तत्समीपतः यतःप्रेताःपिशाचा श्च वसन्त्यग्रेतरोःसदा शाखास्थितानतेतस्मात्प्रविशन्तिगृहंप्रिये स्नुषातुसोदकुम्भंतुसदीपंविदधीतवै पृ० ४ब) अस्थ्नांसमीपेदेवेशिशुचिर्भूत्वासमाहिता दृष्ट्वाप्रेतंमोदकुम्भंगृहस्वामिनमेवच क्षुभ्यन्तिदेवतायस्माद्गृहस्थाभूतदेवताः स्थाना द्भ्रष्ठामहादेवि चरक्याद्याःश्मशानतः यावैगतवताऽरण्यंकर्तासंपूजिताःपुरा गृहबाह्येयतःक्षुब्धाविघ्नयन्तिक्रियाःशुभाः वामपादेनलोहास्त्रमन्तर्भूतेषुदापयेत् बहिःस्थांस्ताडयेत्तद्वद्दृशदादक्षिणेनतु योऽस्त्राभ्यांभूतनिचयं नताडयतिसुन्दरि तस्यविघ्नं प्रकुर्वन्तिबहिरन्तःस्थितागणाः अस्त्रेणहत्वाभूतान्वैसोदकुम्भंप्रपूजयेत् कार्योऽवश्यंतिलैहोमोराक्षोघ्नःसुरसुन्दरि यत्रस्थाने चनड्यांवादृशदिस्थण्डिलेपिवा दशाहान्तंमहादेवितत्रस्थानेसमाचरेत् पुद्गलोमूढधीर्यस्माद्दिक्षुभ्रमतिसर्वतः अन्यदेशे क्रियांयस्यकुर्वीरन्बान्धवाःप्रिये नसतृप्तिमवाप्नोतिदत्तैर्स्रव्यशतैरपि योषितःपुरुषस्यापि प्रेतशब्दंसमुच्चरेत् प्रेतशब्देनयद्दत्तंमृतस्या नन्ददायकम् प्रीणनार्थंधर्मराजःकुमारेष्ठिंचकारयेत् मांसैर्मीनैश्चशाकैश्चमुद्गैश्चवरवर्णिनि तर्पयेद्विविधैर्द्रव्यैःफलमूलैश्च सुन्दरि यःकुमारान्नार्चयेततस्यविघ्नाःपदेपदे|| प्रेततृप्तिर्नजायेत तस्मात्तान्पूजयेद्बुधः|| पूर्ण(पूनो) माप्यायनंचैवबान्धवैःपरि कल्पितम् सगोत्राहृतमेकत्रभोक्तव्यंबान्धवैःसह एकत्रचैवसुप्तव्यंदशाहांतंचसुन्दरि स्मरेत्प्रेतगुणाञ्चस्तान्ननिन्दांकारयेत् चित् दशाहंयेचस्वप्यन्ति देवपूज्येपृथक्पृथक् तेप्रेतगर्भेजायन्ते जीवन्तोदुःखभाजनम् योनदद्यात्समर्थोपिपूर्ण(पूनौरानोन्) मा प्यायनं पृ० ५अ) शिवे सजीवन्प्रेतेवास्तिमृतोनिरयमृच्छति प्रेतकुम्भोपरिशिवेतोयैरारात्रिकांचरेत् यस्मिन्गेहेमहादेविदशाहंवाणिरोदनम्(वानवनोन्) तस्मिन्गेहेप्रेतबाधाप्रभवेन्नकदाचन प्रसमेत्यस्त्रियोयत्रध्वनिनैकेनसर्वशः कीर्तयेयुः प्रेतगुणांसुद्धाणीरोदनंस्मृतम् श्रुत्वा वाणींनबाधन्ते प्रीताःप्रेताःसुरेश्वरि प्रेतस्यक्षुत्तृडार्तस्य गृहद्वारंप्रपश्यतः तद्भारवश्यदुच्चैःशब्दःकार्यःप्रगेप्रगे|| श्रीभैरवी|| दशाहावधिकंकर्मश्रुत्वात्वन्मुखपङ्कजात् प्रीतास्मिजगदीशाननिर्वृतास्मिमुहुर्मुहुः इदानींश्रोतुमिच्छामि कन्याश्राद्धस्यनि र्णयम् चातुर्थिकस्यवादेवलावणस्यापिसुव्रत कथंकुर्यात्पितुर्मातुर्सुहिताप्यौर्ध्वदेहिकम् भर्तुर्द्रव्येणवाकुर्यात्स्वद्रव्येण महेश्वर पुत्रिकासाधितंकायंकुत्राविश्यप्रतिष्ठति संशयंपरमंह्येतंच्छिन्धिमेहितकाम्यया|| श्रीभैरवः|| शृणुदेविप्रवक्ष्यामि कन्यानांविधिमुत्तमम् पितुर्मातुर्मृतौपूर्वैरशौचंत्यहमुच्यते| तृतीयेहनिकुर्वीतदशपिण्डोदकक्रियाम् चतुर्थेहनिश्राद्धंतु कुर्यात्पुत्र्यथतत्सुतः फलैर्मूलैश्चपक्वान्नैर्मत्स्यैर्मांसैश्चमोदकैः भक्ष्यैर्भोज्यैरपूपैश्चब्राह्मणान्भोजयेत्ततः यानकुर्यात्सुतापित्रोस्तत्सुतोबौन्ध्वदे हिकम् साजीवन्तीमृतावापिप्रेतभावंब्रजत्यलम् चतुर्थेहनिपौत्रीभिर्दत्तेनलावणेनतु पिण्डेनलावण्यभृताप्रेतःपथिसुखं व्रजेत् लावण्यहीनंदेहंतुप्रेताभक्ष्यन्तिवैपथि अत्रोदाहरणंदेविकाणंकुब्जंकुचैलिनम् श्वानोभक्ष्यन्तितद्वत्तुभूतालावण्यवर्जितं अदत्तानांचकन्यानांपिण्डेऽर्हत्वंतुलावणे दत्तानामपिवादेविवात्सल्यादितिनिश्चयः|| पृ० ५ब) भ्रात्रैवकिञ्चिद्दातव्यंद्रव्यंचातुर्थिकेविधौ कन्यादानंननश्येतमरणेपिमहेश्वरि पुत्रिकासाधितःकायोमहारौद्रपुरेवसेत् पुत्रेण साधितःकायःपथिप्रेतःप्रबाधितः कृशःक्षीणश्चजीर्णश्चजायतेसुरसुन्दरि देशंरौद्रपुरंप्राप्ययुक्त्वातंजीर्णमन्ततः| पुत्रिकादेह संयोगात्प्रयातियममन्दिरम् तस्मात्सर्वप्रयत्नेनपुत्रिकाचौर्ध्वदेहिकम् प्रकुर्यान्मरणेपित्रोःपुष्टिसंबर्धनंप्रिये पित्रोर्मृतौसमर्थाया नकुर्यादौर्ध्वदेहिकम् मृतानिरयमाप्नोतिगोधावागृहगोधिका द्विमुखीचभवेद्देविदरिद्राचैवजायते प्रेतभावेवितृप्तिः स्याद्यमलोकेसुदुस्तरे| पूर्वोक्तविधिनादेवि कुर्यात्पित्रोरतन्द्रितः दशाहावधिकंकर्मप्रेतदेहस्यसाधनम्|| दशाहंप्राप्य देवेशि तीर्थेवपनमाचरेत् शोकादुद्धरणंदेविनखरोमनिकृन्तनम् कृत्वास्नानंप्रेतकुम्भंवामस्कन्धेनिधायच महेशानिपठेन्मन्त्रमगाधे म्भसिसङ्क्षिपेत् पुनःस्नानकृत्वा नदीतीरंगत्वा वस्त्रंप्रधापयेत् वस्त्रोद्धरणमीशानिकार्यमेवस्वबान्धवैः मलिनाचभवेद्यस्माच्छोकेवस्त्रच्छवि र्नृणाम् तस्मात्तुबान्धवादेविबध्नीयुर्नूतनांछविम् योवस्त्रंवस्त्रमूल्यंवानददातिस्वबान्धवः सिहैवभवेत्प्रेतोमृतोनरकमस्नुते यः स्वबन्धंमहादेविशोकान्नोद्धरतिस्वयम् सयातिप्रेतभावंतु ध्रुवमाभूतसंप्लवम् दशाह्निकंकायमनुप्रविश्य सपुद्गलो(जीवः) देविवुभुक्षित श्च द्वारंप्रंपश्यन्प्ररुदन्मुहुश्च पिपासुताशुष्कमुखोमहेशि ततःप्रभातेश्रपयेच्चरुंचक्षीरेणमध्वाज्यगुरैस्तथार्द्रैःफलैश्चमुलैर्विविधैश्च वस्त्रैःप्रभोज पृ० ६अ) ये द्विप्रमथप्रभाते कृत्वानवश्राद्धमथापिदेविप्रेतस्यशक्त्यापथिविश्रमार्थम् पिपासुतापगमायापि भक्त्यासुखावहं प्रेतजनस्य शश्वत् आप्नोतिभोगान्विपुलान्मनुष्योजीवन्मृतश्चापि सुरालयंव्रजेत्|| जलाञ्जलौकृतेपश्चात्काष्ठैःप्रेतविसर्ज नम् सग्रावाणःपरित्याज्यःपश्चात्सर्वैर्नगात्मजे इतिप्रोक्ता तवेशानि दशाहावधिकीक्रिया श्रुतावापठिताभक्त्यासर्वसिद्धि प्रदानृणाम्|| इतिभृङ्गीशसंहितायांमृतितत्वानुस्मरणेद्वितीयःपटलः ||२|| श्रीभैरवः|| प्रभातेविमलेशुद्धे स्नात्वादेविविधानतः कलशंपूजयित्वाचविष्णुंसंपूज्यचेश्वरि जलत्कुम्भास्ततःपूज्यारत्नान्नैःसपरिच्छदैः पदैस्त्रयोदशविधैः ब्राह्मणान्पूजयेत्ततः भक्ष्यैर्भोज्यैर्महेशानि ब(क)र्बरैर्वटकैस्तथा(भवा?) पानकैःफलमूलैश्चशत(वरे)च्छिद्रैरनेकधा घृतपूरैर्मोदकैश्च पक्वैःपञ्च विधैरपि मत्स्यैर्मांसैस्तथाऽपूपैःप्रेततृप्तिकरैःप्रिये भोजयेद्ब्रह्मणान्भक्त्यास्वात्मवित्तानुसारतः अर्थंनपीडयेद्देविधर्मंचैवनपीडयेत् अर्थधर्मौचसंप्रेक्ष्यकुर्याद्दानान्यनेकशः देशंकालंतथात्मानंद्रव्यंद्रव्यप्रयोजनम् उत्पत्तिंचाप्यवस्थांचज्ञात्वाकर्मसमाचरेत्|| पात्रेदत्तंनयेत्स्वर्गमपात्रेनरकंप्रति गांचैव वृषभंवापिहयंशययांतथैवच प्रेतेदानानिदेयानियथाविभवमन्ततः अथवावृषधर्मंच कुर्यात्प्रेतेविमुक्तिदम् वृषोत्सर्गंप्रियेकुर्याद्देशकालानुसारतः| अन्यथावृषधर्मं(देशकालमविचार्य)चकुर्वन्नरकमाप्नुयात् ब्राह्मणान्विधिवद्भक्त्या पृ० ६ब) पूजयेद्भोजयेत्तुयः सयातिशिवसान्निध्यंयत्रगत्वानशोचते कुम्भान्सचैलान्सान्नांस्तुब्राह्मणेभ्यःप्रकल्पयेत् विसृज्यब्राह्मणान्देविनम स्कारक्षमापनैः| ततोवैद्वादशाहेतुप्रकुर्वीतसपिण्डनम् आनन्त्यात्कुलधर्माणामनित्यत्वात्तथाऽयुधः विसृज्यसर्वंकर्तव्यंद्वादशाहे सपिण्डनम् इत्येतदुक्तं जगदम्बिके ते श्राद्धंसपिण्डीकरणेनयुक्तम् एकादशेद्वादशेवापिदेविश्रुत्वाविमुच्येतहिप्रेतभावात् द्वादशाहे समाप्तेतुनीयतेयमकिङ्करैः पाशैर्बद्ध्वाततोदेविश्ववद्वानरवन्नरः| हादैवेतिविषीदंश्चपुत्रपौत्रकुटुम्बकान् स्मरन्मोहान्वितोयाति यामेमार्गेऽतिदारुणे मुहुर्मुहुर्विप्ररुदन्निःस्वसंश्च पुनःपुनः किंकरोमि क्वगच्छामि विश्राम्यामि नचक्षणम् क्वगृहंक्वसुताजाया क्वधनंधान्यमेवच क्ववस्तुक्वचवैसर्वेमित्रसम्बन्धिबान्धवाः मयाक्वगम्यतेचैवनिर्धनेनहतायथा मार्गेच्छायाविरहिते शीताढ्येबहुदुस्तरे क्वैकोगच्छामिनिर्बन्धुहादशेयंचकीदृशी इत्येवंप्ररुदन्नेवप्रयातियममन्दिरम् प्रेतंरुदन्तंदृष्ट्वैवतेसुतादारुणाभृशम् ताडयन्तितुतंमार्गेमुसलैः परिघैस्तथा वदन्तिप्रेतंहुङ्कारैःकिंरोदिषिसुदुर्मते अस्मिन्वैभारतेखण्डेकर्मभूमौसुदुर्लभे नकृतंसुकृतंकस्मात्किंरोदिषिसुदुर्मते दानंनदत्तं नहुतंहुताशेतपोनतप्तंनकृतःप्रेतमोक्षः स्नानंनतीर्थे नकृताहरार्चावृथागतंजन्ममनुष्य तेद्य पित्रोर्नसेवानकृतासुरेज्यावराटिकैकाविहिता नविप्रेकिंनत्वयाविप्रमुखेऽन्नमाहुतं मनुष्यरेरोदिषिधूर्तकस्मात् नित्यंचनैमित्तिकमेवकर्मत्वयाऽतिपापेनकृतंनकस्मात् पापंकृतंतेमधुवच्च मूढकस्मादिदानींविलपन्प्रयासि| पीतंनपादोदकमत्रविष्णोः श्रुतानवाभागवती कथाच कृतानसत्सङ्गतिरीश्वरस्य ध्यातंनपादाम्बुजयुग्मकंवा पृ० ७अ) गङ्गाप्रयागादिषुतीर्थसेवाकृतानकिंमूढमनुष्यपापिन् श्रुतश्चनासीद्यमलोकमार्गःसुदुस्तरःपातकिनांसुघोरः| किंरोदिषिमहामूढ मानुष्यंप्राप्यदुर्लभम् नकृतंसुकृतंकस्मान्मोहविक्षिप्तबुद्धिना इत्थंविनिर्भर्त्स्यततःप्रेतंतंबहुधाप्रिये दूताःकृष्यन्तिपाशैस्तु हत्वामुसलमु द्गरैः एवंबहुविधाबाधाःप्राप्ताःपथिसुदुस्तरे ब्रजतःप्रेतसङ्घातैःसहक्लेशहतस्यच मार्गश्रमापनोदायनित्य(न्तरेच) श्राद्धंचरेतुयः सोदकुम्भ समायुक्तं ब्रह्मचर्यधरःसुतः दीपदानंचकुर्वीत प्रत्यहं ध्वान्तनाशकम् यथेच्छंभोजयन्विप्रंससम्पद्भाजनंभवेत् नित्यश्राद्धेचदेवेशि ब्रह्मचारीजितेन्द्रियः विशेषेणमहेशानिज्योतिष्टोमफलंलभेत् यःकश्चिन्मानवोलोके ब्रह्मचर्यात्स्खलेन्नरः तदेवरेतस्तेदुताःप्रेतंतंपाययन्ति ते तस्मान्सर्वप्रयत्नेनब्रह्मचारीजितेन्द्रियः कर्ताविप्रश्चदेवेशिज्योतिष्टोमफलंलभेत्|| श्रीभैरवी|| कलावस्मिन्महेशाननकश्चिद्वि जितेन्द्रियः नियमेषु नदार्ढ्यस्थोब्रह्मचर्यधरोऽथवा असम्पन्नतयातेननित्यश्राद्धस्यसुब्रत तत्पित्रोःकेनसाम्येद्वैमार्गखेदोर्निदुःसहः| देशकालोपप्लवाद्वानिर्धनत्वादथाऽपिवा कथंप्रेतस्य सुखदो याममार्गोभवेद्भव|| श्रीभैरवः|| शृणुष्वावहिताप्राज्ञेप्रश्नस्यास्य विनिर्णयम् द्वादशाहंसमारभ्य यावत्संवत्सरंबुधः प्रातरुत्थायविधिवत्स्नानं कृत्वासुरेश्वरि ताम्रनिर्मितकुम्भेनतर्पयेत्प्रेतमन्वहम् कुरुक्षेत्रे प्रयागेचगङ्गासागरसङ्गमे कपिलानांसहस्रस्यविधिदत्तस्ययत्फलम् तत्फलंसमवाप्नोति कुम्भतर्पणतःशिवे यत्रयत्रव्रजेत्प्रेतोयामेमार्गे तृषादितः तत्रतत्रपिबेद्देवि कुम्भोदकमनुक्षणम् पाथेयं(आरेच) चप्रवक्ष्यामिप्रेतानांतृप्तिकारकम् प्रातरुत्थायदेवेशिस्नात्वासंलिप्यमेदिनीम् पृ० ७ब) चरुमाश्रपयेत्तत्रप्रेतार्थंजगदम्बिके दिने दिने आरचितः(कृतः) प्रेतार्थंचरुरीश्वरि तस्मादारर्चनंप्रोक्तंपाथेयंजगदम्बिके प्रेतार्थंपूजनंकुर्या च्चरुणातुमहेश्वरि चान्द्रायणानांकृच्छ्राणांकर्ताफलमवाप्नुयात् योनकुर्याच्चदेवेशिस्वस्थःप्रेतार्चनंशिवे सयातिबहुधानित्यंनरकाऽनेकविंश तिम् रात्रौवर्तिं(सयत्) घृताक्तांचयममार्गान्ध्यनाशनीम् निदध्यात्प्रयतोभक्त्यासर्वभावेनसुन्दरि वर्तिकांयोनदद्याद्वैप्रेतोद्देशेनभामिनि तस्यमार्गेस्ख लन्यायाद्विषमेचपदेपदे प्रेतःसकर्तापिभवेदन्धोजन्मनिजन्मनि कुम्भोदकार्चादीपेषु दीयमानेष्वनुक्रमात् प्रेतस्यनामगृह्णीयुर्गोत्रोश्चार समन्वितम् इत्येतावन्मात्रकंप्रेतजन्तोः पाथेयंयोनित्यशोदेविदद्यात् आशीर्वादात्तस्यविन्दत्यऽजस्रंसौख्यंकर्तानात्रसन्देहशङ्का|| श्रीभैरवी|| संशयोमेमहाञ्छम्भोहृदयेविचरत्यलम् छेतुंतंशक्तिरीशानत्वदन्यस्यकुतोभवेत् दशाह्निकेकर्मणिये दीयन्तेपिण्डसञ्चयाः शरीरसिद्ध्यै प्रेतस्य व्रजतोमृत्युमार्गकम् कैःकैरङ्गानिकानीऽहजायन्तेपुष्टिमन्तितु एतद्वक्तुमशेषेणममाहसिजगत्पते|| श्रीभैरवः|| शृणुसुन्दरि वक्ष्यामिनिर्णयंहितकाम्यया लोकानांयत्वयापृष्टंरहस्यं परमाद्भुतम् शिरस्त्वाद्येनपिण्डेनक्रियतेम्रियतःशिवे द्वितीयेनतुकर्णाक्षिनासिके चसमासतः ग्रीवाऽऽस्यभुजवक्षांसितृतीयेनयथाक्रमम् चतुर्थेनचपिण्डेननाभिलिङ्गगुदानिच ऊरूजङ्घेतथापादौपञ्चमेनचसर्वशः सर्वमर्माणिषष्ठेनसप्तमेनचनाडयः दन्ताजिह्वाचाष्टमेनवीर्यंचनवमेनतु दशमेनचपूर्णत्वंतृप्तताक्षुद्विपर्ययः एवंक्रमेणदेवेशिभौतिकं देहमन्ततः समर्प्यपञ्चभूतेषुदेहीविशति पिण्डजम् शरीरंक्षुत्पिपासातौगृहद्वारंनिरीक्षते क्षुधातृष्णादिकंदुःखंसहमानोव्रजन्पथि|| पृ० ८अ) अहन्यहनिवैप्रेतोयोजनानांशतद्वयम् चत्वारिंशत्तथासप्तअहोरात्राणि(रात्रेण) गच्छति गृहीतोयमपाशैस्तुहाहेतिप्ररुदन्मुहुः अतीत्यषोडशान्येव मार्गेपुरवराणिच क्रमेणयातिसप्रेतःपुरंयाम्यंशुभाशुभैः|| इतिश्रीभृङ्गीशसंहितायांमृतितत्वानुस्मरणेप्रेतार्चादिविधिर्नामतृतीयःपटलः ||३|| भैरवी इदानींश्रोतुमिच्छामियममार्गस्यलक्षणम् कीदृशोसौस्वरूपेणकियान्वास्यात्प्रमाणतः|| भैरवः|| अवधारयदेवेशियामंमार्गंचदा रुणम् पापिनांक्लेशदंनित्यंरूपतोथप्रमाणतः तप्तबालुकसंकीर्णःक्वचित्सूचीपरीवृतः अयोमयःक्वचिद्भूरिकण्ठकौघसमाकुलः| प्रतिक्षणपतच्छस्त्रिपत्रैस्तरुभिराश्रितः मूषकैर्म्राघिष्ठदन्तैःकृमिभिश्चैवदूषितः उरगैर्गोनसैश्चैववृश्चिकैश्चविषोल्बणैः दशद्भिः पापिनोलोकान्क्रोधाद्व्याप्तोतिदुःसहैः| क्वचिद्दंशकयूकादिमक्षिकाभिश्चसंश्रितः अयस्तुण्डैःकाकचयैर्गृद्ध्रैश्चिल्यैरधिष्ठितः सिंहैर्भल्लैर्व नौकोभिरयोदन्तैःसमन्ततः उल्लूकैश्चमहाघोरैःस्वभिश्चविकटाननैः यमदूतैश्चदेवेशिलोहदंष्ट्रैरयोमुखैः| महाकायैर्बभ्रुनेत्रैर्दी र्घजङ्घैर्भयानकैः शिरोनेत्रैर्जत्रु(फहरवाय) जिह्वैर्विवृत्ततारकाक्षिभिः वमद्भिर्मुखतोवह्निमट्ठहासपरायणैः कोलाहलेनमहताबधिरीकृत दिङ्मुखैः नानाशस्त्रसमायुक्तैःपाणिवादनतत्परैः पदान्दीर्घान्प्रक्षिपद्भिर्भूमिंकम्पयतोमुहुः जङ्गाग्राहंप्रेतगणान्गभयद्भिर्बहु व्यथम् इतस्ततःप्रेषितैश्चचित्रगुप्तेनभामिनि व्याप्तेवंविधैर्दूतैर्यामोमार्गोतिदारुणः घोरध्वान्तावृतोभूरिवैषम्यानुगतोऽभितः नतत्र भूरिसन्तापेछायाकुत्रापिशाखिनः क्षणंविश्रम्ययत्रैव जन्तुःसुखमवाप्नुयात् पृ० ८ब) तृषाविवृद्धौदेवेशि नकुत्रापिजलाशयः केवलंधर्मेवात्रशरणंननुदेहिनाम् षडशीतिसहस्राणियोजनानांप्रमाणतः कथितोऽयं महामार्गोदुर्गमःपापकर्मभिः तस्मात्सर्वप्रयत्नेन धर्ममेवाचरेद्बुधः यस्यधर्मःसहायोवैससर्वत्राऽकुतोभयः नपितानचवाभ्रातानमित्रं नचबान्धवाः नपुत्रोनचवापौत्रोधनंजायागृहाणिवा पूरयिष्यन्तिदेवेशितस्यपञ्चपदीमपि एकेवप्रयात्यत्रजन्तुर्धर्मसहायवान् मानुष्यं जन्मचासाद्यखण्डेस्मिन्भारतेशुभे सर्वंचैवाध्रुवंज्ञात्वाधर्ममेवसमाचरेत् स्वःकार्यमद्यकुर्वीत प्राह्णिकेचापराह्निकम् बिलम्बो नात्रकार्योवैकालोजागर्तिपत्रिवत् यावत्स्वास्थ्यमयोदेहोयावन्नैवेन्द्रियक्षयः यावन्नजरयादेविजर्जरःपतितःक्षितौ तावदेवजनैः कार्यमात्मरक्षणमम्बिके यावन्नायातिचयमःपाशपाणिर्भयङ्करः मुह्यमानस्यवैजन्तोरन्धस्यकरघातवत् तावदेवाचरेच्छ्रेयात्मनोहितका म्यया|| यावत्स्वस्थमिदंकलेवरगृहंयावत्क्षयोनायुषः यावच्चेन्द्रियशक्तिरप्रतिहतायावश्चदूरेजरा आत्मश्रेयसितावदेवविदुषाकार्यःप्रयत्नो महान्संदीप्तेभवनेपिकूपखननंप्रत्युद्यमः कीदृशः|| इतितेकथितोदेवियममार्गोभयङ्करः पापिनांसर्वदाब्रुहिकिंभूयःश्रोतुमिच्छसि|| श्रीभैरवी|| श्रुत्वासुदुस्तरंमार्गंयमलोकस्यशङ्कर कम्पतेमेतनुर्भूरिवायुवेल्लितवल्लिवत् उद्भिन्नैःकण्ठकैर्व्याप्ताभीतास्मिपरमेश्वर स्थानानि कतिदेवेशजन्तोर्विश्रमणेवद क्षणंविश्रमतेयत्रजन्तुःपाशैर्वशीकृतः अथविश्रामहीनःसगच्छत्येवदिवानिशम् कस्मिन्देशेकुत्रकुत्र पृ० ९अ) यातिविश्राममातुरः कृपयावदमेशम्भोलोकानुग्रहकाम्यया|| श्रीभैरवः|| शृणुवक्ष्येवरारोहेयानिस्थानानिसन्तितु जन्तोर्विश्रमणे देवियममार्गेभयानके| त्रयोदशाहेदेवेशिप्रेतःपाशवशीकृतः तन्वद्भिर्बहुहुङ्कारंपुष्यभद्रानदीतटे न्यग्रोधपादपश्छायामाश्रित्ययमकि ङ्करैः स्मरन्गृहंयोषितंचपुत्रान्पौत्रान्महेश्वरि|| तृषातुःक्षुधितस्तत्ररोदित्येवपुनःपुनः श्रुत्वातुकरुणंवाक्यंजन्तोःप्रलपतोमुहुः| यमदूताःक्रूरमुखाःवदन्तस्ताडयन्तितम्|| दूताऊचुः|| निश्चितं मूढगन्तव्यं मार्गेप्रेतसमाकुले विपणिर्यत्रवैनास्तिक्रयोवा पिनविक्रयः यद्यदुपार्जितंकर्मतत्तद्भुक्त्वापथिव्रज अधुनातवरेमुढकिंप्रलापैर्वृथाकृतैः इत्येवं प्रवन्त्येवताडयन्तोभृशंशतम् स्नेहेनकृपयावापिमासिके श्राद्धुत्तमे|| सुतैर्दत्तंतुयत्किञ्चित्तत्तन्त्राश्नातिसुन्दरि तत्रजङ्गमकंनामदृष्ट्वाराजनमीश्वरि पिण्डंमासिक मश्नन्वैप्रेतःसौरिपुरंव्रजेत् तत्रत्रिपाक्षिकं(मिष्ठान्नलवणदानं) श्राद्धंदत्तंयन्निजबान्धवैः भुक्त्वापुरमतिक्रम्यनरेन्द्रभुवनंव्रजेत् तत्रप्रेतगणान्दृष्ट्वाभीतः प्रलपतेहिसः|| (कस्तूरताम्बूलदान) द्विमासिकंतुतत्रैवपिण्डंभुक्त्वाप्रयातिसः पाशबद्धोमहादेविताड्यमानश्चदुर्भटैः (मुद्रिकाक्षीरतण्डुलतूलपट्ठिकादानं) पञ्चपक्षेमहेशानिसौम्यंपुर मथाश्रयेत् तत्रापिविविधाःपीडायमदूतैःकृताःप्रिये अनुभूयमहेशानिश्राद्धंभुक्त्वाचलेत्ततः (कमण्डलुसुवर्णदानं) तृतीयेमासिवसतिगन्धर्वनगरेशुभे तृतीयमासिकंपिण्डंभुक्ष्वैतिशैलमुञ्चकम् पर्ज पृ० ९अ) न्यायत्रदृशदोवर्षन्तिप्रेतमूर्धसुचातुर्थिकं (पीटिकादर्विदानम्) श्राद्धमत्वाप्रेतःक्रूरपुरंश्रयेत् (श्रीगणेशायनमः) पञ्चमेमासिदेवेशितत्त्रदत्तंस्वबान्धवैः (जलपात्रपादुकादानम्) भुक्त्वातुनाडींविश्रम्यहुङ्कृतोयमकि ङ्करैः प्रयातिचित्रनगरंक्षुत्तृडात्तोमहेश्वरि तत्रराजानमापृच्छ्यविचित्रंनामभामिनि|| ऊनषाण्मासिकंपिण्डंभुक्त्वा(धेनुमुद्रिकानौछत्रादि) यातिनदितटम् कोमेसुतोबान्धवश्चसु हृन्मित्रमथापिवा यश्चमोक्ष्यतिमामस्मात्पतितंसोकसागरात्|| विलपंश्चमुहुर्देविताड्यमानश्चकिङ्करैः किमातरस्त्वयानीतसुतुमेतांमहानदीम्|| शम्बलंकिञ्चिदस्तीहयेनैतांप्रतरिष्यसि कैवर्ताश्चवसन्त्यत्रताडयन्तिसहस्रशः| प्रेतानात्ततरान्मूढतरैतांदुस्तरांनदीम्|| इतिसन्तर्जितस्तत्रदष्टाधरपुटैश्चतैः|| भूमौपत तिचाकाशाद्दृष्ट्वाघोरां(वैतारिणी) तरङ्गिणीम् षाण्मासिकंतत्रपिण्डंभुक्त्वाप्रेताःप्रयातिच (गुडान्नगोधूमपिष्टदानम्) तित्वातांसरितंदुःखात्पुरंबह्वापदंव्रजेत् बह्व्यन्मुपदन्मुयान्तिय त्रप्रेतस्यसुन्दरि सप्तमासिका(सुवर्ण) पिण्डं(चर्मपादुकादानं) तुभुक्त्वादुःखदमाश्रयेत् महादुःखानियत्रारातुंप्रेतंपीडयन्तितु|| जग्ध्वाष्टमासिकंपिण्डंघुर्घुरंपुरमाश्रयेत् तत्रक्रन्दत्प्रेतलोकदुःखारवसमाकुलेबधिरीकृतकर्णोसौविभेतिनितरांशिवे(उपानद्दानं) नवमासिकपिण्डंतुभुक्त्वातप्तपुरंव्रजेत् यत्रसन्ताप्यमानश्चवह्निनाभृशमातुरः|| दुःखादुल्लिशतिस्वंवैमासंतीक्ष्णैर्नखैःप्रिये दशमासिकमत्वात्रपिण्डंरौद्रपुरंविशेत् वृकायत्रान्वेषयन्ति प्रेतान्मांसबुभुक्षवः दत्तमेकादशेमासिपिण्डंभुक्त्वास्व बान्धवैः(छत्रदानं) आविशेत्पर्जन्यपुरंयत्राब्दाःकरकंघनम् वृष्टाकिणव्रणाश्छन्नान्प्रेतान्कुर्वन्त्यहर्निशम्|| ऊनाब्दिकंपिण्डमत्वापुरेपर्जन्यसज्जाके|| ततःप्रयातिदेवे शिपुरींशिताभिधांपराम्(वस्त्रकम्बलदानम्) कठोरशीतवशतःसङ्कुच्याङ्गानिसर्वशः कान्दिशीकोप्यवश्यायवृतदृष्टिःप्रतिष्ठति सस्वरंरोदतेतत्रानुशयानोनिजंकृतम् बहु दैन्यंसमालम्ब्यप्रयातियमपत्तनम् चत्वारिंशश्चतुर्युक्तैर्योजनैःपरिसंमितम् चतुर्द्वारंसुरेशानिसिद्धचारणसेवितम् नानापुष्पलसद्भ्यङ्गगुञ्जारवनिनादितैः उद्यानैःशिशिरच्छायाफलवत्तरुभिःश्रितम् पयःप्रणालीसञ्जष्टंशष्पशादुलमण्डितम् स्वर्णेष्टकचितैरम्यैर्वेश्मभिःपरिशोभितम् इन्द्रनीलचतुष्काष्टद्वा रैरतिमनोदरैः अगुरूद्भवधुमेनाप्यधिवासितमार्गकम् तत्रमध्येस्फाटिकाश्मनिर्मितंचातिविस्तरम् यमसङ्जवनंदेविमुकुटमपरिष्कृतैः पद्मरागमयैर्नी(याकोत्) पृ० ९ब) ध्रैःकृडाच्छादनमन्ततः नानाभोगमयंदिव्यस्त्रीजनैरप्यधिष्ठितम्|| गायद्गन्धर्वगीतोऊर्ध्वनिश्रुतिसुखंशिवे प्रतीहरैर्वेत्रधरैर्नानाभरणभूषितैः प्रतिद्वारमुपा कीर्णंरूपातिशयशोभितैः तत्रान्तश्चत्वरेतिष्ठन्वितन्दौरत्ननिर्मितौ संपूजयन्मुनिवरान्व्यासादीनभितःस्थितान् यमोदण्डधरोदेविपाशकल्पभुजङ्गभृत् चित्रगु प्तप्रधानानांकायस्थानांमुहुर्मुहुः मनोनुरङ्जयञ्शश्वत्प्रसादवचनैःशुभैः पापिनांनिजदुष्कर्ममोहितानांभयङ्करः दृष्ट्वौसाधुजनानांतुसौम्यमूर्तिर्धरप्रदः|| तत्रदेशेमहारोगाविषूच्याद्याःपृथक्पृथक् घोरांमूर्तिमुपालम्ब्यचित्रगुप्तनिवेशने वसन्त्याज्ञाकरास्तस्यदूताश्चापिपृथग्विधाः मृतस्तुदक्षिणद्वारग्नीयतेयम किङ्किरैः चतुराशीतिलक्ष्याणिनरकाणिमहेश्वरि तेषुमध्येमहाघोरानरकाश्चैकविंशतिः तामिश्रंलोहशङ्कुंचमहारौरवशल्मली रौरवंकुट्मलंपूतिमृत्ति कंकालसूत्रकम् सङ्घातकंलोहभाण्डंसविषंसंप्रतापनम् महानरककाकोलेसञ्जीवनमहापथम् अवीचिमन्धतामिस्रंकुम्भीपाकंतथैवच असिपत्रवनं चैकविंशन्तिम् एतानिनरकाण्यत्रस्थितानिशृणुवत्सले|| श्रीभैरवी|| योयंयमायनंमध्येकथितावैतरङ्गिणी नाथवैतरणीनामदुस्तरापापकर्मभिः|| तांस्वरूपेणाभिधातुंप्रमाणाद्वार्हसिप्रभो येचयत्कर्मवसतोमज्जन्त्यस्यांचमानवः येनोपायेनवातस्वामोक्षणंप्राप्नुवान्त्युततां स्तंचभगवन्मह्यंब्रुहिविस्तरतःशिव|| श्रीभैरवः|| याम्यावैतरणीनामयमद्वारेमहासरित् यत्स्वरूपाचसादेवियत्प्रमाणातथाशृणु पूयशोणिततोयाढ्यासर्पवृश्चिकसङ्कुला केशशेवालकाशी र्षक्षुद्रोपलवृताभितः|| ओघेनवेगिनासद्योवाहयन्तीगिरीनपि महाकालाग्निरुद्रस्यात्यू?ष्मज्वालाभिरावृता|| गिरिशृङ्गसमाकारैःपरस्परविघट्टनैः कठोरगर्जर्नैर्देविविचिभिःपरितस्तता शतयोजनविस्तीर्णाप्यगाधादुस्तरासरित् तातमातरात्मजेतिक्रन्दमग्नैश्चभीषणम् तटस्थैःपापिसङ्घैश्चव्याप्तादेविदिवानिशम् शिशुमारैमकरैश्चैववज्रतुण्डीवराहकैः जलतन्तुभिरन्यैश्चयादोभिर्मांसभोजिभिः अन्योन्यंनितरांसङ्ख्यतत्परैःसर्वतःश्रिता पापिभिःकर्मनिर्मुक्तैर्घोरावर्तान्तराप्रिये|| उन्मज्जद्भिर्निमज्जद्भिप्राप्तैःकठिनदुर्दशाम् दश्यमानैर्व्याडसङ्घैःसमन्तात्परिवारिता चतुर्विधैःप्राणिगणैर्म्रष्टव्यासामहानदी साधवोयोगिनो पृ० १०अ) देविज्ञानिनोव्रततत्पराः उपस्विनोदेशिकेन्द्राःदीक्षिताःपरमेश्वरि यामंमार्गंनपश्यन्तिकुतोवैतरणींपुनः मातरंयेवमन्यन्तेगुरुमाचार्यमेवच पितरंदेवदेवेशिते षांवसस्तुतज्जले विश्वासघातीयोपिस्याच्छिद्रान्वेषणतत्परः साध्वींपरित्यजन्भार्यांतेषांवासोत्रनित्यशः श्रान्तंवुभुक्षितंविप्रंयोविघ्नायोपसर्पति कथाभङ्गकरोयश्चसत त्रवसतिप्रिये कूटसाक्षीचगरदोवह्निदोमद्यपस्तथा पैशुनीवृत्तिहारीचसन्ततंतत्रसंवसेत् सेतुसीमाभेदकश्चब्राह्मणोरसविक्रयी परदाराभिगामीचवैतरण्यांपते न्नरः ब्राह्मणायप्रतिश्रुत्ययथार्हंनोददातियः आहूयचनतंब्रुयाद्यस्सतत्रवसेच्चिरम् कन्यांददातिवित्तेनस्वयंदत्तापहारकः कन्याभिदूषकश्चैवतत्रवासोस्यनिश्चितम्|| यज्ञविध्वंसकःस्वामिपत्नीगामीचमित्रध्रुक् कलौप्रतिग्रहंकुर्वन्वैतरण्यांवसेच्चिरम् शूद्रश्चकपिलादुग्धपायीवैश्यःश्रुतिंपठन् क्षत्रियोविमुखःसङ्ख्याद्विप्रःस्वाध्यायवर्जितः परद्रव्य स्पृहांकुर्वन्वैतरण्यांवसेच्चिरम् दत्वाहङ्कारवान्यश्चयश्चशास्त्रविरोधकृत् कृतघ्नोब्रह्महाचैववैतरण्यांवसेच्चिरम् कदाचिद्भाग्ययोग्यातुतुरणेचेन्मतिर्भवेत् तत्रोपायंप्रवक्ष्यामिएक तानाशृणुप्रिये जीवन्नन्विच्छत्युपायंचेत्तदाविषुवेयने व्यतीपातेथोपरागेदर्शेसङ्क्रान्तिवासरे अन्यस्मिन्पुण्यकालेवाप्रकुर्याद्दानमुत्तमम् यदावाप्रभवेच्छ्रद्धादानंप्रतिसुरेश्वरि सेवपुण्यकालःस्यादायुर्वैभवसंपदः यस्मात्स्थिरानसन्त्येवत्वरितंधर्ममाचरेत् धेनुंकृष्णांपाटलांवादृश्याद्विप्रायसादरम् स्वर्णशृङ्गींरौप्यखुरांकांस्यपात्रोपदोदनाम् तरुणींचातिसौभाग्यांपीनोध्नीं?वालतर्णिकाम् अनादताम्बरयुगच्छन्नांधान्यैश्चसप्तभिः विष्णुपूजापूर्वकंचदद्यात्पात्रायसुन्दरि सदक्षिणंसमन्त्रंचबह्वादरपुरःसरम् वैतरण्यांभवेद्दे विसाधेनुर्दिव्यरूपिणी प्रतीक्षमाणादातारंतदासन्निधिमेष्यति तत्प्रच्छलग्नोमनुजःसुखंवैतरणींतरेत् मुमूर्षोर्मनुजस्यापिविधिरेवंविधःस्मृतः|| श्रीभैरवी|| जीवन्प्रतिग्रहंकर्त्ता विप्रोदातामृतस्तथा कस्माद्गृह्णातितद्दानंसाक्षीतस्यचकोवद|| श्रीभैरवः|| गृह्णातिवरुणोदानंविष्णुहस्तेसयच्छति विष्णुश्चभास्करेदेविभास्करात्सोश्नुतेफलम् इत्थंतवास्यप्रश्नस्यप्रो क्तोनिर्णयीश्वरि|| अधुनाकिंपरिप्रष्टुंत्वच्चित्तमुत्सुकायते|| इतिश्रीभृङ्गीशसंहितायांभैरवीभैरवसंवादेमृत्तितत्वानुस्मरणेचतुर्थःपटलः ||४|| श्रीभैरवी|| वेदेतन्त्रेचप्रोक्तानिष ट्कर्माणिद्विजन्मनः अध्यापनमध्ययनंयजनंयाजनंतथा दानंप्रतिग्रहश्चैवषट्कर्माण्यग्रजन्मनाम्|| प्रतिग्रहंकुर्वतश्चगतिर्घोरात्वयोदिता कर्मोक्तंब्राह्मणस्यैवप्रतिग्रहविधिः प्रभो| अन्यवर्णस्यदेवेशविषद्धस्तुप्रतिग्रहः कलावस्मिन्ब्राह्मणानांत्वत्प्रदिष्टानुसारतः प्रतिग्रहमकृत्वावैजीवनंभुविदुर्लभम् उपायोवास्त्यत्रकश्चिद्ग्रहणेसुरसत्तम येनदातृ पृ० १०ब) ग्रहीतारौभवेतांपुण्यभागिनौ वदन्यादातृरहितमन्यथानश्यतेजगत् एतद्वक्षुमशेषेणकृपयार्हसिमेप्रभो|| श्रीभैरवः|| शृणुसुन्दरिवक्ष्येहंरहस्यंपरमाद्भुतम् यज्ज्ञात्वातुम नुष्याणांज्ञातव्यंनावशिष्यते|| त्रियुगेतुपुरादेविसर्वेवैधर्मचारिणः मनःसंयमिनश्चैवशास्त्रचिन्तापरायणाः मैत्र्यादिचित्तसंस्कारसंपन्नाविजितेन्द्रियाः सन्ध्यास्नानजपास क्तानित्यकर्मणिवैरताः|| षट्कर्माणियथान्याययंकुर्वन्तोलोभवर्जिताः साब्धीद्वीपांवसुमतींगृह्णन्तोपिनदोषिणः कलावस्मिन्महेशानिवदन्योपिनतादृशः योमहेशधिया भक्त्यासत्कृत्यार्चयतेद्विजम्|| सर्वलोभसमायुक्तोग्रहीतापिनतादृशः सतसूनासमःप्रोक्तःकलौतस्मात्प्रतिग्रहः अतोहेतोर्मयादेविकलौसप्तःप्रतिग्रहः उपायंशृणु देवेशिकलौघोरेप्रतिग्रहे यत्कृत्वाविधिवद्देविदषिणौनोउभावपि|| कुशादूर्वाश्चदेवेशिरोमभ्यतत्थिताःपुरा शिवशक्त्योस्ततःप्रोक्ताःपावमानामनीषिभिः तस्मात्तैर्ब्राह्म णःकार्यःपावनःपापमार्जनः कुशोसिब्रह्मपुत्रोसिमन्त्राणीयोसिचानघ कुशेस्मिन्सन्निधिंदेवकुरुतांमदनुग्रहात्|| इतिमन्त्रेणतस्मैचप्राणंदद्यात्समाहितः पञ्चोप चारैस्तंदेविपूजयेतविधानतः तस्मैदानंप्रदत्वाहिफलंद्विगुणमाप्नुयात् यस्मान्मन्त्रेणलीनोत्रशिवःशक्त्यायुतःप्रिये तस्मात्तंपूजयित्वाचभोगान्प्राप्नोतिपुष्कलान् वै तरण्यंनवश्राद्धेग्रहणेचन्द्रसूर्ययोः महादानैषुचान्येषुप्रशस्तःकुशब्राह्मणः| एवंकृत्वामहादेविविधिंवेदेषुनिश्चितम्|| द्विगुणंफलमाप्नोतिदातान्यश्चनदोषभाक् यु क्त्याविषंप्रपिवताममृतत्वंप्रयातिच अमृतंविषतामेतिचायुक्त्यासेवितंप्रिये|| लोभाद्वायदिवामोहाद्मुष्प्रतिग्रहमाचरेत् तेजोहानिंबलस्यापिहानिंपुण्येक्षतिंलभेत्|| इन्द्रियाणिदहन्त्यस्यनिश्चितंसुरसुन्दरि मुखंनास्यपरीक्षेतनसंभासेतवाप्रिये इत्यलंबहुनादेविसंलापेनमहेश्वरि प्रतिग्रहोवर्जनीयःसर्वथास्मिन्कलौयुगे इत्ये षकथितोदेविकुशब्राह्मणनिर्णयः यंश्रुत्वामुच्यतेजन्तुर्महापातककोटिभिः|| श्रीभैरवी|| त्वयैवकथितोमार्गोयामःपरमदारुणः महान्धकारसंयुक्तस्तद्वशाद्दिग्भ्र मार्तिदः दत्तायामपिलोकेशनित्यवर्त्तौकियत्तमः| अपयायाज्जगतस्वामिञ्शीतमास्योष्मणायथा कथंतरतितामिस्रंयामेमार्गेभयानके|| श्रीभैरवः|| शृणुदेवि परंगुह्यमुपायंवदतोमम महातामिस्रसंयुक्तेयममार्गेयियासतः|| कार्तिक्यांमाघमासेवाफाल्गुणेवामहेश्वरि| शुभनक्षत्रसंयुक्तेशुभेवारेतिथौशुभे|| धनिष्ठाप ञ्चकंचैववर्जयित्वात्रिपुष्करम् भरणिकृत्तिकाश्लेषाःशिवनैनृतभेतथा षष्ठींजयांद्वादशींचगलग्रहमपीश्वरि| विशेषाच्छुक्लपक्षेचवर्ज्यसोमारकाश्यपान्|| पृ० ११अ) दीपश्राद्धंप्रकुर्वीतयममार्गतमोनुदम् संपूजयेदत्रचण्डींशिवंलक्ष्मींचकेशवम्|| रामंसीतांलक्ष्मणंचतथान्यानपिशास्त्रतः|| प्रज्वाल्यराजतान्दीपान्मध्येसौवर्णवर्तिकान्|| घृतेनतिलतैलेनपूरयेद्विधिनाप्रिये दीपान्प्रज्वाल्यविधिवत्पूजयेदुपचारकैः तिलैरपूपैर्मांसैश्चमीनैःपक्वान्नसंयुतैः मन्त्रमत्रप्रवक्ष्यामिदीपानामर्पणेशुभे|| य स्मिंल्लोकेनिरालोकेनसूर्योनापिचन्द्रमाः तमहंतत्तुमिच्छामिदीपदानान्महेश्वरि यमलोकंमहाध्वान्तंनिरालोकंनिराश्रयः तमहंतत्तुमिच्छामिदीपदानान्म हेश्वरि प्रेतस्यशून्यरूपस्ययममार्गेयियासतः तमोन्धकारनिचयंनाशयाशुमहेश्वरि| प्रेतस्यवायुरूपस्ययामेपथियियासतः मोहान्धंनाशयक्षिप्रंभालनेत्रनमोस्तुते|| यामैःपाशैर्विकृष्टस्यप्रेतस्यपथियास्यतः ज्वालासंस्थेमहालक्ष्मितमोन्ध्यंनाशयास्तमे| इतिमन्त्रंपठित्वाचदीपान्दद्याथाविधिविविधा इतिशुभम् मृतिसन्धान ########### END OF FILE #######