#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00553 Uniform title: mṛtyuṇjayanityārcanavidhi Manuscript : NGMCP 1/462 Reel no: B 195/19 Description: Ritual manual Notes: Manuscript selected by Dr. Mark S.G. Dyczkowski . Data-entered by the staff of Muktabodha under the supervision of Dr. Anirban Dash. Revision 0: Sept. 26, 2021 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : United States #################################################### प्. १अ) श्रीगणेशाय नमः || कर्प्पूरगौरशुद्धाङ्गमङ्गसंलग्ने मङ्गलं | विलसन्मौलि कल्लोलगङ्गां मृत्युञ्जयं भजे || अथ श्रीगणपत्यादि चतुरायतनाङ्गसहित श्रीमृत्युञ्जयनित्यार्च्चनपद्धति लिख्यते || तत्रादौ पूजकः कृतनित्यक्रियः सूर्यायार्घं दद्यात् || ओं हं सः श्रीसूर्ययभट्टारकाय पञ्चायतनपूजां कर्तुमेषोऽर्घो नमः || मूलेन भूतशुद्धि प्राणायामौ कुर्ययात् || अञ्जलिं बध्वा || अस्य श्रीमृत्युञ्जयमन्त्रस्य कहोल ऋषिर्द्देवी गायत्रीच्छन्दो मृत्युञ्जयो देवता आयुरारोग्याभिष्ठसिद्धौ विनियोगः || ओं कहोल ऋषये नमः | शिरसि || प्. १ब्) ओं देवी गायत्रीच्छन्दसे नमः | मुखे || ओं मृत्युञ्जयदेवतायै नमः | हृदि || आयुरारोग्याभीष्टसिद्धये नमः || कराङ्गन्यासः || सां हृदयाय नमः || सीं शिरसे स्वाहा || सूं शिखायै वषट् || सैं कवचाय हूं || सौं नेत्रत्रयाय वौषट् || सः अस्त्राय फट् || एवं हृदयादि ८ || अर्घस्थापनं || रं अग्निमण्डलाय नमः || हं सूर्ययमण्डलाय नमः || सं सोममण्डलाय नमः || षडंगेन च संपूज्य || तेनैव जलेनात्मानं पूजोपकरणान्युभ्युक्षणं || आसनं पूजा || ओं आधारशक्तये नमः || ओं अनन्ताय नमः || प्. २अ) ओं कन्दाय नमः || ओं नालायै नमः || ओं पद्माय नमः || ओं पत्रेभ्यो नमः || ओं केशरेभ्यो नमः || ओं कर्णिकायै नमः || ततः पीठशक्तीः पूजनं || ओं वामायै नमः || ओं ज्येष्ठायै नमः || ओं रौद्र्यै नमः || ओं काल्यै नमः || ओं कलविकरण्यै नमः || ओं बलविकरण्यै नमः || ओं बलप्रमथिन्यै नमः || ओं सर्व्वभूतदमन्यै नमः || ओं मनोन्मन्यै नमः || ओं नमो भगवते सकलगुणात्मशक्तियुक्तायानन्ताय योगपीठात्मने नमः || ततो गणेशं पूजयेत् || न्यासः || अस्यैकाक्षरगणपतिमन्त्रस्य गणक ऋषिर्न्निवृच्छन्दो प्. २अ) गणपतिदेवता अभीष्ठार्थसिद्धये विनियोगः || शिरसि गणकाय ऋषये नमः || मुखे निवृच्छन्दसे नमः || हृदि श्रीविघ्नाय देवतायै नमः || गां हृदयाय नमः || गीं शिरसे स्वाहा || गूं शिखायै वषट् || गैं कवचाय हूं || गौं नेत्रत्रयाय वौषट् || गः अस्त्राय फट् || एवं हृदादि || आधारशक्तये इत्यादि ८ || पीठपूजनं || ओं तीव्रायै नमः || ओं ज्वालिन्यै २ || ओं नन्दायै २ || ओं भोगदायै २ || ओं कामरूपिण्यै २ || ओं उग्रायै २ || ओं तेजोवत्यै २ || ओं सत्यायै २ || मध्ये ओं विघ्ननाशिन्यै नमः || ओं सर्व्वशक्ति कमलासनाय नमः || प्. ३अ) ध्यानं || सिंदूराभं त्रिनेत्रं पृथुतर डाठरं हस्तपद्मैर्द्दधानं दन्तं पाशाङ्कुशेष्ठान्युरुकरेविलसद्वीजपूराभिरामं | बालेन्दु द्योतिमौलिं करिपति वदनं दाने पूरार्द्धगण्डं भोगीन्द्रा वद्धभूषं भजत गणपतिं दिव्यवस्त्राङ्गरागं || इति ध्यात्वा पाद्यादिभिरुपचारैः संपूजयेत् || त्र्यञ्जलिः || गं गणपतये नमः || षदंगः || आवरणं पूजयेत् || ओं वक्त्रतुण्डाय २ || ओं एकदंष्ट्राय २ || ओं महोदराय २ || ओं गजाननाय २ || ओं लम्बोदराय २ || ओं विकटाय २ || ओं विघ्नराजाय नमः || ओं धूम्रवर्णाय २ || धूप दीप नैवेद्यान्तं || जपः || प्. ३ब्) गं १० || स्तुतिः || अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरोत्तमैः || सर्व्वविघ्नच्छिदे तस्मै गणाधिपतये नमः || ततस्सूर्ययं पूजयेत् || अस्य श्रीसूर्ययमन्त्रस्य मनु ऋषिर्ग्गायत्रीच्छन्दः सूर्ययोदेवता अदृष्टफलसिद्ध्यर्थे विनियोगः || शिरसि मनवे ऋषये नमः || मुखे गायत्रीच्छन्दसे नमः || हृदि सूर्ययाय देवतायै नमः || न्यासः || ह्रां हृदयाय नमः || ह्रीं शिरसे स्वाहा || ह्रूं शिखायै वषट् || ह्रैं कवचाय हूं || ह्रौं नेत्रत्रयाय वौषट् || ह्रः अस्त्राय फट् || अनेन हृदादि || ६ || आधारशक्तयेत्यादि ८ || पीठं पूजयेत् || ओं दीप्तायै नमः || ओं सूक्ष्मायै २ || प्. ४अ) ओं जयायै नमः || ओं भद्रायै २ || ओं विभूत्यै २ || ओं विमलायै २ || ओं अमोघायै २ || ओं विद्युतायै २ || ओं सर्व्वतो मुख्यै २ || मध्ये ओं ब्रह्मविष्णुशिवात्मकाय सौरपीठाय नमः || ध्यानं || रक्ताम्बुजासनमशेषगुणैकसिन्धुं भानुं समस्तजगतामधिपं भजामि | पद्मद्वयाभयवरान्दधतं कराब्जै र्म्माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रं || इति ध्यात्व पाद्यादिभिरुपचारैः संपूजयेत् || त्र्यञ्जलिः || ह्रां ह्रीं सः सुर्ययाय नमः || ३ || षडंगः || आवरणं पूजयेत् || सां सोमाय नमः || अं अङ्गाराय नमः || वुं बुधाय नमः || प्. ४ब्) वृं वृहस्पतये २ || शुं शुक्राय २ || शं शनैश्चराय २ || रां राहवे २ || कें केतवे २ || धूप दीप नैवेद्यान्तं || जपः || ह्रां ह्रीं सः १० || स्तुतिः || नमः सवित्रे जगदेक चक्षुषे जगत्प्रसूति स्थिति नाशहेतवे | त्रयी मयाय त्रिगुणात्मधारिणे विरिञ्चि नारायणशङ्करात्मने || ततो विष्णुं पूजयेत् || अस्य द्वादशाक्षरमन्त्रस्य प्रजापति ऋषिर्ग्गायत्रीच्छन्दो विष्णुर्द्देवता चतुर्व्वर्ग्गफल प्राप्तये विनियोगः || शिरसि ओं प्रजापति ऋषये नमः || मुखे गायतीच्छन्दसे नमः || हृदि विष्णुदेवतायै नमः || न्यासः || प्. ५अ) ओं हृदयाय नमः || नमः शिरसे स्वाहा || भगवते शिखायै वषट् || वासुदेवायै कवचाय हुं || ओं नमो भगवते वासुदेवाय अस्त्राय फट् || इत्यनेन हृदादि पञ्चाङ्गन्यासः || आधारशक्तयेत्यादि || पीठं पूजयेत् || ओं विमलायै नमः || ओं उत्कर्षिण्यै २ || ओं ज्ञानायै २ || ओं क्रियायै २ || ओं योगायै २ || ओं प्रह्व्यै २ || ओं सत्यायै २ || ओं ईशानायै २ || मध्ये अनुग्रहायै नमः || ओं सर्व्वभूतात्मने वासुदेवाय सर्व्वयोगपीठासनाय नमः || ध्यानं || हरिमुज्वलचक्रदराब्जगदा कुलदोः परिघं सितपद्मगतं || वलयाङ्गद हारकिरीटधरं नवकुन्दरुचं प्रणमामि सदा || प्. ५ब्) त्र्यञ्जलिः || नमो भगवते वासुदेवाय || ३ || षडंगः || आवरणं पूजयेत् || ओं वासुदेवाय नमः || ओं सङ्कर्षणाय नमः || ओं प्रद्युम्नाय २ || ओं अनिरुद्धाय २ || ओं शान्त्यै २ || ओं सरस्वत्यै २ || ओं श्रियै २ || ओं रत्यै २ || ओं शंखाय २ || ओं चक्राय २ || ओं गदायै २ || ओं पद्माय २ || ओं कोस्तुभाय २ || ओं खड्गाय २ || ओं वनमालाय २ || ओं गरुडाय २ || ओं ध्वजाय २ || ओं अरुणाय २ || ओं दुर्ग्गायै २ || ओं ईश्वराय २ || ओं चन्द्राय नमः || धूप दीप नैवेद्यान्तं || जपमूलेन १० || प्. ६अ) स्तुतिः || जितेन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन | नमस्तेस्तु हृषीकेश महापुरुषपूर्व्वज || ततो दुर्ग्गां पूजयेत् || अस्याष्टाक्षर श्रीदुर्ग्गामन्त्रस्य नारद ऋषिर्ग्गायत्रंच्छन्दः श्रीदुर्ग्गादेवता मम सर्व्वाभीष्टसिद्ध्यर्थे विनियोगः || शिरसि नारदाय ऋषये नमः || मुखे गायत्रायच्छन्दसे नमः || हृदि श्रीदुर्ग्गायै देवतायै नमः || न्यासः || ओं ह्रीं दुं दुर्ग्गायै ह्रीं हृदयाय नमः || ओं ह्रीं दुं दुर्ग्गायै ह्रीं शिरसे स्वाहा || ओं ह्रीं दुं दुर्ग्गायै ह्रीं शिखायै वषट् || ओं ह्रीं दुं दुर्ग्गायै ह्रीं कवचाय हूं || ओं ह्रीं दुं दुर्ग्गायै ह्रीं नेत्रत्रयाय वौषट् || ओं ह्रीं दुं दुर्ग्गायै प्. ६ब्) ह्रीं अस्त्राय फट् || अनेन हृदादि ६ || आधारशक्तये इत्यादि || पीठं पूजयेत् || ओं आं प्रभायै नमः || ईं मायायै २ || ऊं जयायै २ || एं सूक्ष्मायै २ || ऐं विशुद्धायै २ || ओं नन्दिन्यै २ || औं सुप्रभायै २ || अं विजयायै २ || अः सर्व्वसिद्धायै नमः || मध्ये ओं वज्रनखदंष्ट्रायुधाय महासिंहाय हूं फट् नमः || ध्यानं || सिंहस्था शशिशेखरा मरकटप्रख्या चतुर्भिर्भुजैः शंखं चक्र धनुः शरांश्च दधती नेत्रैस्त्रिभिः शोभिता | आमुक्ताङ्गदहार कङ्कणरणत्काञ्ची क्वणन्नूपुरा दुर्ग्गा दुर्ग्गतिहारिणी भवतु वा रत्नोल्लसत्कुण्डला || इति ध्यात्वा पाद्यादिभिरुपचारैः पूजयेत् || प्. ७अ) त्र्यञ्जलिः || ओं ह्रीं दुं दुर्ग्गायै नमः || ३ || षडंगः || आवरणं पूजयेत् || जं जयायै नमः || विं विजयायै २ || कीं कीर्त्यै २ || प्रीं प्रीत्यै २ || प्रं प्रभायै २ || श्रं श्रद्धायै २ || में मेधायै २ || श्रुं श्रुत्यै २ || शं शंखाय २ || चं चक्राय २ || गं गदायै २ || खं खड्गाय २ || पां पाशाय २ || अं अङ्कुशाय २ || शं शरेभ्यो २ || धं धनुषे २ || धूप दीप नैवेद्यान्तं || जप मूलेन १० || स्तुतिः || सर्व्वमङ्गलमङ्गल्ये शिवे सर्व्वार्थसाधिके | शरण्ये त्र्यम्बिके गौरि नारायणि नमोस्तुते || पुनः प्राणायाम षडंग न्यासौ कृत्वा ध्यायेत् || चन्द्रार्क्का ग्निविलोचनं स्मितमुखं पद्मद्वयान्तं स्थितं प्. ७ब्) मुद्रापाश मृगाक्षसूत्रपाणिं हिमाञ्शुप्रभं | कोटीरेन्दुमलत्सुधाप्लुततनुं हारादिभूषोज्वलं कान्त्या विश्वविमोहनं पशुपतिं मृत्युञ्जयं भवये || इति ध्यात्वा मूलेन पाद्यादिभिः संपूज्यावरणं पूजयेत् || षडंगेन पूजयेत् || ओं अनन्ताय नमः || ओं सूक्ष्माय २ || ओं शिवोत्तमाय २ || ओं एकनेत्राय २ || ओं एकरुद्राय २ || ओं त्रिमूर्त्तये २ || ओं श्रीकण्ठाय २ || ओं शिखण्डिने २ || ओं उमायै २ || ओं चण्डेश्वराय २ || ओं नन्दिने २ || ओं महाकालाय २ || ओं गणेशाय २ || ओं वृषभाय २ || प्. ८अ) ओं भृङ्गिने २ || ओं स्कन्दाय २ || ओं इन्द्रादि लोकपालेभ्यो नमः || ओं वज्राद्यायुधेभ्यो नमः || धूप दीप नैवेद्य ताम्बूलं दत्वा || ओं जुं सः मृत्युञ्जयाय नमः || आरात्रिकं कुर्ययात् || ओं अग्यर्क्केन्दु ग्रहादीनां तेजसामपि तजसः | आरात्रिकमिदं शम्भो गृहाण मम सिद्धये || मूलेन जपः ५४ || स्तुतिः || महिम्नः पारन्ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः | अथावाच्यः शर्व्वः स्वमति परिणामावधि गृणन् ममाप्येष स्त्रोत्रे हरनिरपवादः परिकरः || प्. ८ब्) इत्यादि स्तवं कुर्ययात् || मुखवाद्यदण्डप्रणामादिकं विधाय सुखं विहरेत् || शुभं || प्. ९अ) ओं नमो भगवति वासुदेवाय || युधिषेन उवाच || मे मस्यामं पीत प्. ९ब्) लिंग योनि त्रिशूलाक्षमालेष्टाभी मृगात्मिकाः | खट्वांगी च कलापाख्या डमरूः शिवतो पदाः || ########### END OF FILE #######