#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00110 Uniform title: maṇḍalabrāhmaṇopaniṣat Main title: yoga upaniṣads with the commentary of śrī upaniṣad brahmayogin Secondary title: maṇḍalabrāhmaṇa upaniṣat Commentator : brahmayogin Alternate name : śrī upaniṣad brahmayogin Editor : śāstrī mahādeva Description: Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: June 14, 2007 Publisher : Adyar library and research centre Publication year : 1920 Publication city : Madras Publication country : India #################################################### मण्डलब्राह्मणोपनिषत् पूर्णमदः- इति शान्तिः प्रथमं ब्राह्मणम् आत्मतत्त्वजिज्ञासा याज्ञवल्क्यो ह वै महामुनिरादित्यलोकं जगाम | तमादित्यं नत्वा भो भगवन्नादित्यात्मतत्त्वमनुब्रूहीति || १ || विवरणम् बाह्यान्तस्तारकाकारं व्योमपञ्चकविग्रहम् | राजयोगैकसंसिद्धं रामचन्द्रमुपास्महे || अथ खलु शुक्लयजुर्वेदप्रविभक्तेयं मण्डलब्राह्मणोपनिषत् सूक्ष्माष्टाङ्गयोगप्रकटनपूर्वक लक्ष्यत्रयव्योमपञ्चकतारकद्वयादिप्रकाशकराजयोगसर्वस्वं प्रकाशयन्ती विजृम्भते | अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते | याज्ञवल्क्यादित्यप्रश्नप्रतिवचनरूपेयमाख्यायिका विद्यास्तुत्यर्था | आख्यायिकामवतारयति- याज्ञवल्क्य इति || १ || सूक्ष्माष्टाङ्गयोगप्रतिज्ञा स होवाच नारायणः | ज्ञानसहितयमाद्यष्टाङ्गयोग उच्यते || २ || प्. २७४) याज्ञवल्क्येन एवं पृष्टः तत्प्रश्नमङ्गीकृत्य स होवाच | आदित्यमण्डलान्तर्वर्ती सर्वलोकपरायणरूपोऽसौ याज्ञवल्क्यप्रश्नोत्तरमाहेत्यर्थः | किं तदित्याकाङ्क्षायां तत्पृष्टात्मतत्त्वोपायतया यमाद्यष्टाङ्गयोगमादावाह- ज्ञानेति | ब्रह्मैव सर्वम्, ब्रह्मातिरिक्तं न किंचिदस्ति इति ज्ञानम् उपेयं तत्सहितः तद्गर्भित इत्यर्थः || २ || चतुर्विधयमः शीतोष्णाहारनिद्राविजयः सर्वदा शान्तिर्निश्चलत्वं विषयेन्द्रियनिग्रहश्चैते यमाः || ३ || अष्टाङ्गेषु चतुर्धाभिन्नयमलक्षणमाह- शीतेति | देहादावात्मात्मीयाभिमानत्यागतः शीतादिविनिवृत्तिः भवति | स्वाप्राप्तं वस्तु नेतीति ज्ञानात् सर्वदा शान्तिः भवति | स्वाभिलषितलक्ष्ये मनसो निश्चलत्वम् | इन्द्रियेन्द्रियार्थेषु वस्तुचिन्तनम् इन्द्रियेन्द्रियार्थनिग्रहो भवति | चशब्दः समुच्चयार्थः | एते चतुष्प्रकारा यमा इत्यर्थः || ३ || नवविधनियमः गुरुभक्तिः सत्यमार्गानुरक्तिः सुखागतवस्त्वनुभवश्च तद्वस्त्वनुभवेन तुष्टिर्निःसङ्गता एकान्तवासो मनोनिवृत्तिः फलानभिलाषो वैराग्यभावश्च नियमाः || ४ || नवधा भिन्ननियम उच्यते- गुर्विति | नित्यं अमायया स्वाज्ञानमोचकगुरुभजनं गुरुभक्तिः, गुरुभक्तिं सदा कुर्यात् श्रेयसे इति श्रुतेः | सत्यं ब्रह्म तत्प्रापकमार्गः तद्बोधः तत्रानुरक्तिः आसक्तिः | निरतिशयसुखरूपतया श्रुत्याचार्यप्रसादादागतब्रह्मवस्त्वनुभवश्च | तद्वस्त्वनुभवेनैव तुष्टिः न बाह्यविषयानुभवतः | तुष्टावपि निःसङ्गता | सदा आदिमध्यान्तभेदेन एकान्तत्रये वासः- विजने प्रयत्नपूर्वकं मनोनियमनम् आद्यैकान्तं, विजने प्. २७५) सजने वापि प्रयत्नपूर्वकमनोनियमनं मध्यैकान्तं, विजने सजने वा प्रदेशे अप्रयत्नेन मनोनियमनम् अन्तैकान्तं, यस्य येन यदा एकान्तं साधितं स तत्रैव वसेदित्यर्थः | स्वातिरेकेण मनो नास्तीति दृढाभिसंधिः मनोनिवृत्तिः | स्वानुष्ठितकर्मफलानभिलाषः | स्वातिरिक्तविषयसामान्ये वान्ताशनमूत्रपुरीषवदिच्छाराहित्यं सर्वत्र वैराग्यभावश्च | सर्वत्र समुच्चयार्थं चशब्दद्वयम् | एते नियमा नवविधाः || ४ || आसनादिषडङ्गविवरणम् सुखासनवृत्तिश्चिरवासश्चैवमासननियमो भवति || ५ || पूरककुम्भकरेचकैः षोडशचतुष्षष्टिद्वात्रिंशत्संख्यया यथाक्रमं प्राणायामः || ६ || विषयेभ्य इन्द्रियार्थेभ्यो मनोनिरोधनं प्रत्याहारः || ७ || विषयव्यावर्तनपूर्वकं चैतन्ये चेतःस्थापनं धारणं भवति || ८ || सर्वशरीरेषु चैतन्यैकतानता ध्यानम् || ९ || ध्यानविस्मृतिः समाधिः || १० || आसननियम उच्यते- सुखेति | यत्र सुखेनाखण्डाकारात्मिका वृत्तिरुदेति सा सुखासनवृत्तिः | निरायासेन यत्र चिरं वसति स चिरासनवासः || ५ || प्राणायामलक्षणमाह- पूरकेति | षोडशमात्राकालपरिमितं पूरक, कुम्भक तच्चतुर्गुणितं, रेचकं तदर्धमित्यर्थः || ६ || प्रत्याहारलक्षणमाह- विषयेभ्य इति || ७ || धारणाध्यानसमाधिलक्षणमाह- विषयेति | सर्वत्र विषयेति || ८ || अनेकघटशरावादिषु भिद्यमानेष्वपि यथा तदवच्छिन्नव्योम्न एकत्वं तथेत्यर्थः || ९ || समाधिः निर्विकल्पकसमाधिः त्रिपुटीग्रासत्वात् || १० || सूक्ष्मयोगाष्टाङ्गज्ञानफलम् एवं सूक्ष्माङ्गानि | य एवं वेद स मुक्तिभाग् भवति || ११ || प्. २७६) एवं अष्टाङ्गयोगज्ञानफलमाह- एवमिति | सूक्ष्म- अष्ट- अङ्गानि | स्वात्तज्ञानानुरोधेन स मुक्तिभाग् भवति || ११ || इति प्रथमः खण्डः देहपञ्चदोषनिरसनम् देहस्य पञ्च दोषा भवन्ति कामक्रोधनिश्वासभयनिद्राः || १ || तन्निरासस्तु निःसङ्कल्पक्षमालघ्वाहाराप्रसादतातत्त्वसेवनम् || २ || पञ्चदोषवद्देहावच्छिन्नस्य मुक्तिभाक्त्वं कथमित्याशङ्क्य तन्निरसनोपायसत्त्वात् तत्सिद्धिः स्यादित्याह- देहस्येति | के ते इत्यत्र- कामेति || १ || क्रमेण तन्निरासस्तु- निःसङ्कल्पतः कामादिनिवृत्तिः, क्षमातः क्रोधनिवृत्तिः, लघ्वाहारोपलक्षितप्राणायामतः श्वासस्थिरत्वं, सर्वत्र द्वैतधीत्यागतो भयनिवृत्तिः, परमार्थतत्त्वसेवनतः स्वाज्ञाननिद्रानिवृत्तिः | एवं पञ्चदोषशान्तितो मुक्तिभाक्त्वं स्यादित्यर्थः || २ || तारकावलोकनं तत्फलं च निद्राभयसरीसृपं हिंसादितरङ्गं तृष्णावर्तं दारपङ्कं संचारवार्धिं तर्तुं सूक्ष्ममार्गमवलम्ब्य सत्त्वादिगुणानतिक्रम्य तारकमवलोकयेत् || ३ || भ्रूमध्ये सच्चिदानन्दतेजःकूटरूपं तारकं ब्रह्म || ४ || अपारदुस्तारसंसारवारिधेः सत्त्वात् तत्तरणोपायो नास्तीत्याशङ्क्य लक्ष्यत्रयगोचरतारकनौकासत्त्वात् तदाश्रित्य तद्वारिधिः तरितुं शक्य इत्याह- प्. २७७) निद्रेति | संसृतेः सागरत्वं कथमित्यत्र निद्रेत्यादि | उक्तविशेषणविशिष्टं संसारवार्धिं तर्तुं तरितुं वक्ष्यमाणसूक्ष्ममार्गम् || ३ || किं तत्तारकमित्यत्र भ्रूमध्य इति | नासाग्रदर्शिनो भ्रूमध्ये ज्योतिर्दृश्यते, सच्चिदानन्दस्य सर्वव्यापकत्वेन चक्षुर्मनोविकल्पिततेजःकूटरूपेऽपि व्याप्तत्वात् | भ्रूमध्यविलसितसच्चिदानन्दतेजःकूटरूपस्य परमेश्वररूपत्वेन स्वभजद्भक्तपटलस्वातिरिक्तास्तित्वलक्षणसंसारसागरसंतारणात् तारकत्वम् | वस्तुतः स्वमात्रतया बृंहणात् तारकं ब्रह्मेति व्यपदिश्यते || ४ || लक्ष्यत्रयावलोकनेन तारकप्राप्तिः तदाप्त्युपायं तक्ष्यत्रयावलोकनम् || ५ || तदुपायः क इत्येपेक्षायामाह- तदाप्त्युपायमिति | विद्धि इत्यर्थः || ५ || अन्तर्लक्ष्यदर्शनम् मूलाधारादाब्रह्मरन्ध्रपर्यन्तं सुषुम्ना सूर्याभा | तन्मध्ये तटित्कोटिसमा मृणालतन्तुसूक्ष्मा कुण्डलिनी | तत्र तमोनिवृत्तिः | तद्दर्शनात् सर्वपापनिवृत्तिः || ६ || तर्जन्यग्रोन्मीलितकर्णरन्ध्रद्वये फुत्कारशब्दो जायते | तत्र स्थिते मनसि चक्षुर्मध्यनीलज्योतिः पश्यति | एवं हृदयेऽपि || ७ || लक्ष्यत्रयं किम् इत्यत्र अन्तर्बाह्यमध्यभेदेन तत् त्रिविधम् | तत्र अन्तर्लक्ष्यलक्षणं तत्फलं चाह- मूलेति | वीणादण्डमाश्रित्य सुषुम्ना वर्तते | तटित्कोटिसमाभा कुण्डलीशक्तिरस्ति | तत्र मनसि स्थिरीभूते स्वाज्ञानतमोनिवृत्तिः | कुण्डलिनीमध्ये यदाकाशं विद्यते तद्दर्शनात् सर्वपापनिवृत्तिः प्. २७८) भवति || ६ || कर्णद्वयान्तः तर्जनीद्वयप्रवेशो मुकुन्दमुद्रा तया, तर्जनीति | तर्जनीभ्यां कर्णद्वयपिधानात् तत्र फूत्कारादिनादः उदेति | तत्र स्थिते मनसि साधकः चक्षुरित्यादि | न केवलं नादे, किं तु एवं हृदयेऽपि पश्यति || ७ || बहिर्लक्ष्यदर्शनम् बहिर्लक्ष्यं तु नासाग्रे चतुःषडष्टदशद्वादशाङ्गुलीभिः क्रमान्नीलद्युतिश्यामत्वसदृग्रक्तभङ्गीस्फुरत्पीतवर्णद्वयोपेतं व्योमत्वं पश्यति स तु योगी || ८ || चलदृष्ट्या व्योमभागवीक्षितुः पुरुषस्य दृष्ट्यग्रे ज्योतिर्मयूखा वर्तन्ते | तद्दृष्टिः स्थिरा भवति || ९ || शीर्षोपरिद्वादशाङ्गुलिमानज्योतिः पश्यति तदामृतत्वमेति || १० || अन्तर्लक्ष्येयत्तामुक्त्वा बहिर्लक्ष्येयत्तामनुक्रामति- बहिरिति | योगी स्वदृष्टी समे कृत्वा स्वनासाग्रे स्वकृताभ्यासानुरोधेन क्रमाच्चतुरादिद्वादशाङ्गुलिपर्यन्तं व्योमत्वं व्योमभावं पश्यति | किंविशिष्टं व्योमेत्यत्र दृश्यमाननीलद्युतिः ईषच्छ्यामत्वगुणसदृशा आपाततो रक्तभङ्गी च स्फुरत्पीतवर्णविशिष्टा | तत्र नीलपीतवर्णौ प्रधानौ | श्यामादिवर्णस्तु उपसर्जनभूतः | एवं वर्णद्वयविशिष्टं व्योमेत्यर्थः | यदा एवं पश्यति तदा अयं योगी भवति || ८ || एवंदर्शनान्मनोऽनुगृहीतदृष्टिः स्थिरा भवतीत्याह- चलेति | स्वदृश्यग्रे | मयूखाः किरणाः | उद्दृष्टिः तत्र समारोपिता तद्दृष्टिः || ९ || मस्तकोपरि ज्योतिर्दर्शनं अमृतत्वफलकमित्याह- शीर्षेति | यदा अयं योगी शीर्षोपरि || १० || मध्यलक्ष्यदर्शनम् मध्यलक्ष्यं तु प्रातश्चित्रादिवर्णसूर्यचन्द्रवह्निज्वालावलीवत्तद्विहीनान्तरिक्षवत् पश्यति || ११ || तदाकाराकारी भवति || १२ || प्. २७९) अभ्यासान्निर्विकारं गुणरहिताकाशं भवति | विस्फुरत्तारकाकारगाढतमोपमं पराकाशं भवति | कालानलसमद्योतमानं महाकाशं भवति | सर्वोत्कृष्टपरमाद्वितीयप्रद्योतमानं तत्त्वाकाशं भवति | कोटिसूर्यप्रकाशसंकाशं सूर्याकाशं भवति || १३ || एवमभ्यासात् तन्मयो भवति | य एवं वेद || १४ || अन्तर्बाह्यलक्षणमुक्त्वा मध्यलक्ष्यलक्षणं प्रकटयति- मध्येति | योगी नातिदूरदेशपुरोभागान्तरिक्षे प्रातरित्यादि || ११ || एवंदर्शनतः किं स्यादित्याशङ्क्य तन्मयत्वं व्योमपञ्चकदर्शनं तद्भावापत्तिरपि स्यादित्याह- तदाकारेति || १२-१३ || अभ्यासज्ञानफलमाह- एवमिति || १४ || इति द्वितीयः खण्डः तारकामनस्कभेदेन द्विविधो योगः तद्योगं च द्विधा विद्धि पूर्वोत्तरविधानतः | पूर्वं तु तारकं विद्यादमनस्कं तदुत्तरमिति || तारकं द्विविधम् | मूर्तितारकममूर्तितारकमिति | यदिन्द्रियान्तं तन्मूर्तितारकम् | यद्भ्रूयुगातीतं तदमूर्तितारकमिति || १ || व्योमपञ्चकाभ्यासतः किं स्यादित्यत्र पर्यवसाने तारकामनस्कसिद्धिः स्यादित्याह- तदिति | यद्व्योमपञ्चकाभ्यासयोगः उक्तः पर्यवसाने तद्योगम् | प्. २८०) किं मूर्तितारकं किममूर्तितारकम् इत्यत्र मूलाधारमारभ्याज्ञाचक्रपर्यन्तं मूर्तितारकम्, आज्ञाचक्रमारभ्य सहस्रारान्तम् अमूर्तितारकमित्याह- यदिति || १ || मनोयोगविधिः उभयमपि मनोयुक्तमभ्यसेत् | मनोयुक्तान्तरदृष्टिस्तारकप्रकाशाय भवति || २ || लक्ष्यदर्शनस्य चक्षुरधीनत्वात् किं मनसेत्याशङ्क्य मनोऽनुगृहीतदृष्टिः अन्तर्दृष्टिर्भूत्वा तारकग्राही भवति न केवलदृष्टिरित्याह- मन इति || २ || पूर्वतारकम् भ्रूयुगमध्यबिले तेजस आविर्भावः | एतत् पूर्वतारकम् || ३ || पूर्वतारकस्वरूपमाह- भ्रूयुगेति || ३ || उत्तरतारकम् उत्तरं त्वमनस्कम् | तालुमूलोर्ध्वभागे महज्ज्योतिर्विद्यते | तद्दर्शनादणिमादिसिद्धिः || ४ || सफलोत्तरतारकस्वरूपमाह- उत्तरं त्विति | सिद्धिः भवति || ४ || उत्तरतारकस्य शांभवीपर्यवसानम् लक्ष्येऽन्तर्बाह्यायां दृष्टौ निमेषोन्मेषवर्जितायां च इयं शांभवी मुद्रा भवति | सर्वतन्त्रेषु गोप्या महाविद्या भवति | तज्ज्ञानेन संसारनिवृत्तिः | तत्पूजनं मोक्षफलदम् || ५ || प्. २८१) उत्तरतारकमेव पर्यवसाने मुक्तिफलप्रदशांभवीमुद्रा भवतीत्याह- लक्ष्य इति | तथा च श्रुत्यन्तरम्- अन्तर्लक्ष्यं बहिर्दृष्टिः निमेषोन्मेषवर्जिता | एषा सा शांभवीमुद्रा सर्वतन्त्रेषु गोपिता || इति | शांभवीज्ञानं संसारनिवर्तकं, तद्योगिपूजनं मुक्तिफलदं भवेदित्याह- तदिति || ५ || अन्तर्लक्ष्यलक्षणम् अन्तर्लक्ष्यं जलज्योतिःस्वरूपं भवति महर्षिवेद्यं अन्तर्बाह्येन्द्रियैरदृश्यम् || ६ || किं पुनः अन्तर्लक्ष्यमित्यत्र यत्करणग्रामागोचरं तदेव अन्तर्लक्ष्यमित्याह- अन्तरिति || ६ || इति तृतीयः खण्डः अन्तर्लक्ष्ये वादिविप्रतिपत्तिः सहस्रारे जलज्योतिरन्तर्लक्ष्यम् | बुद्धिगुहायां सर्वाङ्गसुन्दरं पुरुषरूपमन्तर्लक्ष्यमित्यपरे | शीर्षान्तर्गतमण्डलमध्यगं पञ्चवक्त्रमुमासहायं नीलकण्ठं प्रसान्तमन्तर्लक्ष्यमिति केचित् | अङ्गुष्ठमात्रः पुरुषोऽन्तर्लक्ष्यमित्येके || १ || प्. २८२) अन्तर्लक्ष्यविषये वादिविप्रतिपत्तिं परमार्थदृष्ट्या सर्ववादिविकल्पगोचरलक्ष्यस्यैकत्वं तद्दर्शनतो ब्रह्मनिष्ठत्वं चाह- सहस्रार इति | योगिनः बुद्धिगुहायाम्, अपरे वैष्णवाः | केचित् शैवाः | एके दहरविद्योपासकाः || १ || सर्वलक्ष्यानुस्यूतात्मदर्शनविधिः उक्तविकल्पं सर्वमात्मैव | तल्लक्ष्यं शुद्धात्मदृष्ट्या वा यः पश्यति स एव ब्रह्मनिष्ठो भवति || २ || परमार्थदृष्ट्या योग्यादिभिः उक्तेति | एवमन्तर्लक्ष्यैक्यदर्शी ब्रह्मनिष्ठः इत्याह- तल्लक्ष्यमिति || २ || आत्मनिष्ठस्य ब्रह्मभावप्राप्तिः जीवः पञ्चविंशकः स्वकल्पितचतुर्विंशतितत्त्वं परित्यज्य षड्विंशकः परमात्माहमिति निश्चयाज्जीवन्मुक्तो भवति || ३ || एवमन्तर्लक्ष्यदर्शनेन जीवन्मुक्तिदशायां स्वयमन्तर्लक्ष्यो भूत्वा परमाकाशाखण्डमण्डलो भवति || ४ || स्वतत्त्वे स्थितो जीवः स्वन्यूनतत्त्वं परित्यज्य स्वाधिकतत्त्ववेदनान्मुक्तो भवतीत्याह- जीव इति | ज्ञानकर्माक्षप्राणभूतपञ्चकानि विंशतिः अन्तःकरणचतुष्टयं चेति चतुर्विंशतितत्त्वानि | तदुपाधिको जीवः पञ्चविंशकः, पञ्चविंश आत्मा भवति इति श्रुतेः | तत्सर्वोपाधिसंबन्धरहितः षड्विंशक इत्यर्थः || ३ || जीवन्मुक्तः कां गतिं भजतीत्याशङ्क्य जीवन्मुक्ताभिमतित्यागानन्तरं ब्रह्मैव भवतीत्याह- एवमिति | भूत्वा तदभिमतित्यागसमकालं भवति, परमात्मैव भवतीत्यर्थः || ४ || इति चतुर्थः खण्डः इति प्रथमं ब्राह्मणम् द्वितीयं ब्राह्मणम् सर्वाधारज्योतिरात्मनः अन्तर्लक्ष्यत्वम् अथ ह याज्ञवल्क्य आदित्यमण्डलपुरुषं पप्रच्छ | भगवन्नन्तर्लक्ष्यादिकं बहुधोक्तम् | मया तन्न ज्ञातम् | तद् ब्रूहि मह्यम् || १ || तदु होवाच पञ्चभूतकारणं तटित्कूटाभं तद्वच्चतुःपीठम् | तन्मध्ये तत्त्वप्रकाशो भवति | सोऽतिगूढ अव्यक्तश्च || २ || जानन्नपि याज्ञवल्क्यो मन्दबुद्ध्यारोहाय पुनरन्तर्लक्ष्येयत्तां पृच्छतीत्याह- अथेति | किमिति ? भगवन्निति | यथावत् मया || १ || तत्प्रश्नोत्तरं भगवानुवाच | किमिति ? पञ्चेति | अन्तर्लक्ष्यात्मनः पञ्चभूतहेतुत्वात्, आत्मन आकाशः संभूतः इति श्रुतेः | तटित्कूटाभं तेजः पुञ्जरूपत्वात् | तद्वत्तेजोवदात्मनः स्वाज्ञादिदृष्ट्यनुरोधेन तमोरजःसत्त्वगुणसाम्यरूपेण जाग्रदाद्यवस्थाचतुष्टयभेदेन स्वाविद्यापदस्थूलादिचतुरंशभेदेन वा चत्वारि पीठस्थानानि यस्य तत् तद्वत् चतुष्पीठं, जाग्रदादेः विश्वविराडोत्राद्यासनत्वात् | स्वाधिष्ठिताविद्यापादप्रकाशकः स्वयमेवेत्याह- तदिति | तस्य अविद्यापादस्य मध्ये तद्गतविशेषजातं ग्रसित्वा तत्त्वप्रकाशः तुर्यतुर्यज्योतिः सदा भवति | तादृशश्चेत् प्रकाशः किं न दृश्यत इत्यत आह- स इति | स्वावृत्यावृतदृष्टेः सोऽतिगूढ अव्यक्तश्च भवति || २ || ज्योतिरात्मज्ञानफलम् तज्ज्ञानप्लवाधिरूढेन ज्ञेयम् | तद्बाह्याभ्यन्तर्लक्ष्यम् || ३ || तन्मध्ये जगल्लीनम् | तन्नादबिन्दुकलातीतमखण्डमण्डलम् | सगुणनिर्गुणस्वरूपम् | तद्वेत्ता विमुक्तः || ४ || प्. २८४) तत् केन वा ज्ञातुं शक्यते इत्यत आह- तदिति | ज्ञानप्लवाधिरूढेन स्वाज्ञानसागरं तीर्त्वा तत्पारं यत् तत् स्वमात्रमिति ज्ञेयम् | तत् कीदृशमित्यत्र तत् बाह्याभ्यन्तर्लक्ष्यं, बाह्याभ्यन्तःकलनारोपापवादाधिकरणतया लक्षितत्वात् || ३ || अत एव तन्मध्ये जपल्लीनं, लयाधारत्वात् | लयाधारत्वे सविशेषता स्यादित्यत आह- तदिति यत् सर्वाधिकरणं तन्नादेति | नादादिविशेषापह्नवसिद्धं निष्प्रतियोगिकाखण्डैकरसचिन्मात्रमित्यर्थः | सविशेषं तद्भिन्नमित्यत आह- सगुणेति | तद्गतविशेषाविशेषत्वं स्वाज्ञादिदृष्टिनिष्ठं न स्वनिष्ठमिति | वेदनफलमाह- तद्वेत्तेति || ४ || शांभव्या तदधिगमः आदावग्निमण्डलम् | तदुपरि सूर्यमण्डलम् | तन्मध्ये सुधाचन्द्रमण्डलम् | तन्मध्येऽखण्डब्रह्मतेजोमण्डलम् | तद्विद्युल्लेखावच्छुक्लभास्वरम् | तदेव शांभवीलक्षणम् || ५ || यद्वेत्ता मुक्तो भवति तदधिगमोपायमाह- आदाविति | सिद्धासनमारुह्य षण्मुखीमुद्राभ्यासयोगिनः वह्निमण्डलादि क्रमेण दृश्यते | पर्यवसाने तदेवोन्मन्यवस्थाजनकशांभवी भवतीत्यर्थः || ५ || पूर्णिमादृष्टिविधिः तद्दर्शने त्रयो (तिस्रो) दृष्टय अमा प्रतिपत् पूर्णिमा चेति | निमीलितदर्शनममादृष्टिः | अर्धोन्मीलितं प्रतिपत् | सर्वोन्मीलनं पूर्णिमा भवति | तासु पूर्णिमाभ्यासः कर्तव्यः || ६ || तल्लक्ष्यं नासाग्रम् तदा तालुमूले गाढतमो दृश्यते | तदभ्यासादखण्डमण्डलाकारज्योतिर्दृश्यते | तदेव सच्चिदानन्दं ब्रह्म भवति || ७ || प्. २८५) तद्दर्शनोपायमाह- तद्दर्शन इति | कथं दृष्टेः त्रैविध्यमित्यत्र अमेति | तत्र निमीलितेति || ६ || दृष्टित्रयलक्ष्यं किमित्यत्र- तल्लक्ष्यमिति | नासाग्रावलोकनतः किं दृश्यत इत्यत्र- तदेति | एवं तदभ्यासात् तद्दृष्ट्या तदेव | सच्चिदानन्दब्रह्मातिरिक्तस्य मृग्यत्वात् सहजानन्दरूपं तदेवेत्यर्थः || ७ || पूर्णिमादृष्टेः शांभवीपर्यवसानम् एवं सहजानन्दे यदा मनो लीयते तदा शांभवी भवति | तामेव खेचरीमाहुः || ८ || तत्र मनोलय एव शांभवीत्याह- एवमिति | पर्यवसाने शांभवीखेचर्योः एकलक्ष्यसमाप्तत्वात् || ८ || मुद्रासिद्धिः तच्चिह्नानि च तदभ्यासान्मनःस्थैर्यम् | ततो बुद्धिस्थैर्यम् || ९ || तच्चिह्नानि | आदौ तारकवद् दृश्यते | ततो वज्रदर्पणम् | ततः परिपूर्णचन्द्रमण्डलम् | ततो रत्नप्रभामण्डलम् | ततो मध्याह्नार्कमण्डलम् | ततो वह्निशिखामण्डलं क्रमाद् दृश्यते || १० || मुद्राभ्यासेन किं स्यादित्यत आह- तदिति || ९ || तच्चिह्नानि तत्सिद्धिचिह्नानि | कानीत्यत आह- आदाविति | तारकवत् नक्षत्रवत् | परिष्कृतवज्रवत् दर्पणवच्चेत्यर्थः | तथा च श्रुतिः- निहारधूमार्कानलानिलाना खद्योतविद्युत्स्फटिकशशीनाम् | एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे || इति || १० || इति प्रथमः खण्डः प्रणवस्वरूपप्रत्यक्प्रकाशानुभवः तच्चिह्नानि च तदा पश्चिमाभिमुखप्रकाशः स्फटिकधूम्रबिन्दुनादकला- नक्षत्रखद्योतदीपनेत्रसुवर्णनवरत्नादिप्रभा दृश्यन्ते | तदेव प्रणवरूपम् || १ || यदैवं चिह्नानि दृष्टानि तदा प्रत्यक्प्रकाशानुभवो भवति | ततः कानि चिह्नानि दृश्यन्त इत्यत्र- स्फटिकेति | दृश्यन्ते प्रणवानुसंधानं कुर्वतः | बिन्दुशब्देन मनस्तत्त्वं, नादशब्देन बुद्धितत्त्वं, कलाशब्देन महत्तत्त्वं, शिष्टं स्पष्टम् | तदेतदेवं दृष्टं तत् सर्वं प्रणवरूपमित्याह- तदिति || १ || षण्मुख्या प्रणवाधिगमः प्राणापानयोरैक्यं कृत्वा घृतकुम्भको नासाग्रदर्शनदृढभावनया द्विकराङ्गुलिभिः षण्मुखीकरणेन प्रणवादिध्वनि निशम्य मनस्तत्रलीनं भवति || २ || षण्मुख्युपायपूर्वकं मनस्तत्कार्यलयाधिकरणं प्रणवार्थं ब्रह्मेत्याह- प्राणेति | हठयोगरीत्या प्राणेति | धृतकुम्भको योगी | तत्र नादावसाने ब्रह्मणि || २ || प्रणवविदः कर्मलेपाभावः तस्य न कर्मलेपः | रवेरुदयास्तमययोः किल कर्म कर्तव्यम् | एवंविदश्चिदादित्यस्योदयास्तमयाभावात् सर्वकर्माभावः || ३ || प्. २८७) यस्य मनो ब्रह्मणि लीयते तस्य न कर्मलेपः, योगिनो निर्लिप्तत्वात् | कर्तव्यकर्मसु सत्सु कथं तत्र निर्लेपतेत्याशङ्क्य कर्मणामादित्योदयास्तमयनिमित्तत्वेन योग्यात्मादित्यस्योदयास्तमयाभावात् तन्निमित्तकर्माभावतो निर्लिप्तोऽयमित्युक्तिरपि गौणीत्याह- रवेतिरि | कर्मणा बध्यते जन्तुः विद्ययामृतमश्नुते | तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः || इति श्रुतेः || ३ || उन्मन्यवस्थाद्वारा अमनस्कसिद्धिः शब्दकाललयेन दिवारात्र्यतीतो भूत्वा सर्वपरिपूर्णज्ञानेनोन्मन्यवस्थावशेन ब्रह्मैक्यं भवति | उन्मन्या अमनस्कं भवति || ४ || एवं प्रणवनादलयतः किं स्यादित्यत्र सर्वकलनाविरलब्रह्मैक्यं भवतीत्याह- शब्देति | अभिधानाभिधेयात्मकशब्दकाललयेन- शब्दः अभिधानप्रपञ्चः, अभिधेयकलनात्मकः कालः, तयोः श्रावणज्ञानतो मिथ्यादृष्ट्या सत्ताबाध एव लयः | ततो विज्ञानं जायते | तेन ब्रह्मातिरेकेण दिवारात्र्युपलक्षितावस्थात्रयं नास्तीति निश्चयज्ञानतः तदतीतो भूत्वा ततो ब्रह्मातिरिक्तसामान्यासंभवपरिपूर्णसम्यग्ज्ञानेन उन्मन्यवस्था जायते | उन्मनी नाम तत्त्वज्ञानम् | तेन सर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति ब्रह्मैक्यं भवति | न हि पृथग्भावं गतजीवेशयोरेकत्वमित्यर्थः | उन्मन्या किं जायत इत्यत आह- उन्मन्येति | अमनस्कं स्वरूपं तन्न तत्र कलनामलम् इति श्रुत्या ब्रह्मैव अमनस्कशब्दार्थः || ४ || अमनस्कपूजाप्रकारः तस्य निश्चिन्ता ध्यानम् | सर्वकर्मनिराकरणमावाहनम् | निश्चयज्ञानमासनम् | उन्मनीभावः पाद्यम् | सदामनस्कमर्घ्यम् | प्. २८८) सदा दीप्तिरपारामृतवृत्तिः स्नानम् | सर्वत्र भावना गन्धः | दृक्स्वरूपावस्थानमक्षताः | चिदाप्तिः पुष्पम् | चिदग्निस्वरूपं धूपः | चिदादित्यस्वरूपं दीपः | परिपूर्णचन्द्रामृतस्यैकीकरणं नैवेद्यम् | निश्चलत्वं प्रदक्षिणम् | सोऽहंसंभावो नमस्कारः | मौनं स्तुतिः | सर्वसंतोषो विसर्जनमिति | य एवं वेद || ५ || यदमनस्कं ब्रह्म तस्य ध्यानाद्युपचारः कथमित्याशङ्क्य सोऽहंभावेन पूजयेत् इति श्रुत्यनुरोधेन तदस्मीत्यनुसंधानमेव तत्पूजेत्याह- तस्येति | दीप्तिमद्ब्रह्मगोचराखण्डाकारवृत्तिरेव स्नानमित्यर्थः | सर्वत्र ब्रह्मेति भावना | भ्रूमध्यसहस्रारान्त- रालविलसत्परिपूर्णचन्द्रमण्डलनिःसृतामृतस्य एकीकरणम् अमृतसागररूपं नैवेद्यम् | सर्वदा संतोषः | सोऽयमेवं ब्रह्मानुसंधानतो ब्रह्मैव भवतीत्यर्थः || ५ || इति द्वितीयः खण्डः ब्रह्मानुसंधानेन कैवल्यप्राप्तिः एवं त्रिपुट्यां निरस्तायां निस्तरङ्गसमुद्रवन्निवातस्थितदीप- वदचलसंपूर्णभावाभावविहीनकैवल्यज्योतिर्भवति || १ || ब्रह्मानुसंधानस्य त्रिपुटीकबलितत्वेन कथं योगी ब्रह्मभावमेतीत्याशङ्क्य सर्वापह्नवसिद्ध ब्रह्म निष्प्रतियोगिकस्वमात्रमित्यनुसंधानात्मकसम्यग्ज्ञानस्य ध्यात्रादित्रिपुटीग्रासत्वात् ब्रह्मभावापत्तिरिष्यत इत्याह- एवमिति | स्वातिरिक्तमस्ति नास्तीति भावाभावकलनासंभवप्रबोधसिद्धं कैवल्यज्योतिः स्वमात्रमवशिष्यते विद्वानित्यर्थः || १ || प्. २८९) ब्रह्मवित्स्वरूपम् जाग्रन्निद्रान्तपरिज्ञानेन ब्रह्मविद्भवति || २ || तस्य ब्रह्मत्वं विना ब्रह्मवित्त्वं कुत इत्यत्र कृत्स्नब्रह्मवेदनतः ब्रह्मत्वं सिद्धमेव | अकृत्स्नब्रह्मज्ञानतो ब्रह्मवित्त्वं स्यादित्याह- जाग्रदिति || २ || सुषुप्तिसमाध्योः भेदः सुषुप्तिसमाध्योर्मनोलयाविशेषेऽपि महदस्त्युभयोर्भेदस्तमसि लीनत्वान्मुक्तिहेतुत्वाभावाच्च || ३ || समाधौ मृदिततमोविकारस्य तदाकाराकारिताखण्डाकारावृत्त्यात्मकसाक्षिचैतन्ये प्रपञ्चलयः संपद्यते प्रपञ्चस्य मनःकल्पितत्वात् || ४ || सुषुप्तिसमाध्योः मनोलयसाम्यतः बन्धमुक्तिहेतुत्वम् उभयमपि स्यादित्यत आह- सुषुप्तीति | तत् कथम् ? तमसीति || ३ || तत् कथम् ? प्रपञ्चस्येति || ४ || ब्रह्मविदो ब्रह्मभावः ततो भेदाभावात् कदाचिद्बहिर्गतेऽपि मिथ्यात्वभानात् | सकृद्विभातसदानन्दानुभवैकगोचरो ब्रह्मवित् तदेव भवति || ५ || मनस्तत्कार्याभावे तत्तदनुस्यूतचैतन्यस्य यत एकत्वं ततः बहिर्गतेऽपि मनसि तद्विकल्पितप्रपञ्चस्य मिथ्यात्वभानात् | सर्वप्रकारेण ब्रह्मवित् ब्रह्मैव भवतीत्याह- सकृदिति | सदाद्यावृतित्रयानावृतसकृदित्यादि || ५ || प्. २९०) संकल्पत्यागपूर्वकपरमात्मध्यानेन मुक्तिसिद्धिः यस्य संकल्पनाशः स्यात् तस्य मुक्तिः करे स्थिता | तस्माद्भावाभावौ परित्यज्य परमात्मध्यानेन मुक्तो भवति || ६ || पुनःपुनः सर्वावस्थासु ज्ञानज्ञेयौ ध्यानध्येयौ लक्ष्यालक्ष्ये दृश्यादृश्ये चोहापोहादि परित्यज्य जीवन्मुक्तो भवति | य एवं वेद || ७ || संकल्पभावाभावौ बन्धमुक्तिहेतू स्यातामित्याह- यस्येति | यस्मादेयं तस्मात् | संकल्पोऽस्ति नास्तीति तद्भावाभावौ | निष्प्रतियोगिकपरमात्मा स्वमात्रमिति ज्ञानाविर्भूतपरमात्मध्यानेन || ६ || इत्थंभूतज्ञानफलमाह- पुनरिति | स्वावशेषधिया ब्रह्मणि ज्ञातेऽपि स्वातिरिक्तधिया यदि ज्ञानज्ञेयादिवृत्तिरुदेति तदा पुनःपुनरिति | तत्त्यागाधिकरणं ब्रह्मास्मीति य एवं वेद स विद्वान् जीवन्मुक्तो भवेदित्यर्थः || ७ || इति तृतीयः खण्डः जाग्रदादिपञ्चावस्थाः पञ्चावस्थाः जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीताः || १ || बन्धमोक्षहेतुः कः ? इत्यत आह- पञ्चेति | कास्ता इति ?- जाग्रदिति | पञ्चावस्था इत्यर्थः || १ || प्रवृत्तिसंकल्पः जाग्रति प्रवृत्तो जीवः प्रवृत्तिमार्गासक्तः पापफलनरकादि मास्तु शुभकर्मस्वर्गफलमस्त्विति काङ्क्षते || २ || प्. २९१) तत्र जीवप्रवृत्तिनिवृत्तिसंकल्पौ प्रतिपादयति- जाग्रतीति | शुभकर्मजस्वर्गफलम् | एवं काङ्क्षन् स्वाज्ञः संसारबद्धो भवति || २ || निवृत्तिसंकल्पः एवं स च स्वीकृतवैराग्यात् कर्मफलजन्मालं संसारबन्धनमलमिति विमुक्त्यभिमुखनिवृत्तिमार्गप्रवृत्तो भवति || ३ || एवं स्थितेष्वनेकेषु कश्चिदन्तकोटिजन्मस्वनुष्ठितकर्मफलार्पणसंतुष्टेश्वरप्रसादतः निवृत्तिमार्गप्रवृत्तो भवतीत्याह- एवमिति | य एवंविधसंसारनिर्विण्णो भवति सः | इतः कर्मफलजन्म || ३ || संसारतरणमार्गः स एव संसारतारणाय गुरुमाश्रित्य कामादि त्यक्त्वा विहितकर्माचरन् साधनचतुष्टयसंपन्नो हृदयकमलमध्ये भगवत्सत्तामात्रान्तर्लक्ष्यरूपमासाद्य सुषुप्त्यवस्थायामुक्तब्रह्मानन्दस्मृतिं लब्ध्वा एक एवाहमद्वितीयः कंचित्कालमज्ञानवृत्त्या विस्मृतजाग्रद्वासनानुफलेन तैजसोऽस्मीति तदुभयनिवृत्त्या प्राज्ञ इदानीमस्म्यहमेक एव स्थानभेदादवस्थाभेदस्य परं तु न हि मदन्यदिति जातिविवेकः शुद्धाद्वैतब्रह्माहमिति भिदागन्धं निरस्य स्वान्तर्विजृम्भितभानुमण्डलध्यानतदाकाराकारितपरंब्रह्माका- रितमुक्तिमार्गमारुढः परिपक्वो भवति || ४ || प्. २९२) कामादि पराग्भावप्रवृत्तिं त्यक्त्वा | पुरा स्वाज्ञदशायां कंचित् कालम् | तैजसोऽस्मीति विश्वभावग्रासतैजसभावमेत्य तद्भोगक्षयतो यत् जाग्रत्स्वप्नकलनान्वितं तदुभयेति | जाग्रदादिस्थानभेदात् अवस्थाभेदस्य स्वाज्ञानविकल्पितस्य स्वज्ञानतः प्रलयात् यदवशिष्यते तत् परं तु ब्रह्म न हि मदन्यदिति जातिविवेकः- ब्रह्मातिरेकेण जायते इति जातिः जन्मादि न कदापि मेऽस्तीति विवेकः- उदेति | ततः किमित्यत आह- शुद्धेति | ब्रह्माहमिति विज्ञानेन व्यावहारिकभिदागन्धम् | यदा विज्ञानेन भिदागन्धनिरासो भवति तदा स्वान्तःप्रत्यग्भानुमण्डलसाक्षात्कारो भवति | तद्ध्यानाभ्यासतः ब्रह्माकाराकारितो यो मुक्तिमार्गः सम्यग्ज्ञानाख्यः तमवष्टभ्य परिपक्वः कृतकृत्यो भवतीत्यर्थः || ४ || मनसो बन्धमोक्षहेतुत्वनिरूपणम् संकल्पादिकं मनो बन्धहेतुः | तद्वियुक्तं मनो मोक्षाय भवति || ५ || तद्वांश्चक्षुरादिबाह्यप्रपञ्चोपरतो विगतप्रपञ्चगन्धः सर्वं जगदात्मत्वेन पश्यंस्त्यक्ताहंकारो ब्रह्माहमस्मीति चिन्तयन्निदं सर्वं यदयमात्मेति भावयन् कृतकृत्यो भवति || ६ || स्वाज्ञादिदशाविजृम्भितबन्धमोक्षहेतुः मन एवेत्याह- संकल्पादिकमिति || ५ || एवं निःसंकल्पान्तरो योगी स्वातिरिक्तास्तित्वभ्रमविरलो भूत्वा ब्रह्ममात्रं निष्प्रतियोगिकमिति वेदनसमकालं कृतकृत्यो योगी भवतीत्याह- तद्वानिति | निर्विकल्पकवृत्तिमान् ज्ञानी तद्वान् | ब्रह्मैवेदं सर्वम् इति श्रुत्यनुरोधेन सर्वं भावयन् ज्ञानसहितभावनातः || ६ || इति चतुर्थः खण्डः निर्विकल्पकसमाध्यभ्यासेन ब्रह्मविद्वरत्वप्राप्तिः सर्वपरिपूर्णतुरीयातीतब्रह्मभूतो योगी भवति | तं ब्रह्मेति स्तुवन्ति || १ || सर्वलोकस्तुतिपात्रं सर्वलोकसंचारशीलः परमात्मगमने बिन्दुं निक्षिप्य शुद्धाद्वैताजाड्यसहजामनस्कयोगनिद्राखण्डानन्दपदानुवृत्त्या जीवन्मुक्तो भवति || २ || ब्रह्मभूतः भूत्वा ब्रह्ममात्रयोगी | ब्रह्मविदो य एवं विद्वान् तम् || १ || उक्तविशेषणविशिष्टो योगी परमात्मगगने बिन्दुं निक्षिप्य चिदाकाशे मनोविलयं कृत्वा तद्विलयाधिकरणशुद्धाद्वैतेति | मनोलयाधारशुद्धाद्वैते ब्रह्मणि जाड्यजाग्रदाद्यवस्थावैरल्यात् अजाड्यसहजामनस्कयोगनिद्रा निर्विकल्पसमाधिः तत्राखण्डानन्दतया पद्यत इत्यखण्डानन्दपदं तदनुवृत्त्या अनवरतानुसंधानात् ब्रह्मविद्वरो भवतीत्यर्थः || २ || अपरिच्छिन्नानन्दरूपब्रह्मावाप्तिः तच्चानन्दसमुद्रमग्ना योगिनो भवन्ति || ३ || तदपेक्षया इन्द्रादयः स्वल्पानन्दाः | एवं प्राप्तानन्दः परमयोगी भवतीत्युपनिषत् || ४ || यद्ब्रह्म निस्तरङ्गानन्दसमुद्रतया विख्यातं तच्च || ३ || इन्द्रादिरस्मीत्यभिमानात् परिच्छिन्नानन्दत्वं, तद्वैपरीत्येन अपरिच्छिन्नब्रह्मभावारूढतया एवम् || ४ || इति पञ्चमः खण्डः इति द्वितीयं ब्राह्मणम् तृतीयं ब्राह्मणम् शांभवीमुद्रान्वितम् अमनस्कम् याज्ञवल्क्यो महामुनिर्मण्डलपुरुषं पप्रच्छ स्वामिन्नमनस्कलक्षणमुक्तमपि विस्मृतं पुनस्तल्लक्षणं ब्रूहीति || १ || तथेति मण्डलपुरुषोऽब्रवीत् | इदममनस्कमतिरहस्यम् यज्ज्ञानेन कृतार्थो भवति तन्नित्यं शांभवीमुद्रान्वितम् || २ || याज्ञवल्क्यो मन्दबुद्धिवैशद्यार्थं अमनस्कलक्षणमादित्यं पृच्छतीत्याह- याज्ञवल्क्य इति | किमिति ? स्वामिन्निति || १ || तत्प्रश्नमङ्गीकृत्य तदुत्तरं भगवानाह- तथेति | किं तदित्यत्र वक्ष्यमाणविद्यां स्तौति- इदमिति | मनो यत्र विलीयते अमनीभावमेति इदम् | योगी यज्ज्ञानेन || २ || परमात्मप्रत्ययलक्ष्यदर्शनेन अमनस्कप्राप्तिः परमात्मदृष्ट्या तत्प्रत्ययलक्ष्याणि दृष्ट्वा तदनु सर्वेशमप्रमेयमजं शिवं पराकाशं निरालम्बमद्वयं ब्रह्मविष्णुरुद्रादीनामेकलक्ष्यं सर्वकारणं परं ब्रह्मात्मन्येव पश्यमानो गुहाविहरणमेवं निश्चयेन ज्ञात्वा भावाभावादिद्वन्द्वातीतः संविदितमनोन्मन्यनुभवस्तदनन्तर- मखिलेन्द्रियक्षयवशादमनस्कसुखब्रह्मानन्दसमुद्रे मनःप्रवाहयोगरूपनिवातस्थितदीपवदचलं परं ब्रह्म प्राप्नोति || ३ || शांभवीमुद्रोपायसिद्धं तुर्यचैतन्यं परमात्मदृष्ट्या | ब्रह्मविष्णुरुद्रादीनामिति तृतीयार्थे षष्ठी, तैः सर्वात्मैक्यधिया तक्षितत्वात् | प्. २९५) गुहाशब्देन बुद्धिगुहोच्यते | तत्र तद्वृत्तिभासकप्रत्यग्रूपेण विहरणात् गुहाविहरणं मनो यत्र उन्मनीभावं निःसङ्कल्पतामेति तादृशं ब्रह्मास्मीत्यनुभवो मनोन्मन्यनुभवः | शिष्टं स्पष्टं तत्र तत्र व्याख्यातं च || ३ || ततः संसारनिवृत्तिः ततः शुष्कवृक्षवन्मूर्च्छानिद्रामयनिश्वासोछ्वासाभा- वान्नष्टद्वन्द्वः सदाचञ्चलगात्रः परमशान्तिं स्वीकृत्य मनः प्रचारशून्यं परमात्मनि लीनं भवति || ४ || योगी स्वात्मानमेवं ज्ञात्वा परब्रह्म प्राप्नोतीत्युक्तम् | ततः परं योगी पूर्ववत् किं संसरतीत्याशङ्क्य संसारकलनानिर्वाहकमानसाभावात् ब्रह्मैव भवतीत्याह- तत इति | प्राणान्तःकरणसरूपविलयो मूर्च्छा निद्रावस्थेत्यर्थः | तन्मयः तद्विकारः मूर्च्छास्वापयोरिव निश्वासोच्छ्वासकामसंकल्पादिव्यापृत्यभावात् नष्टद्वन्द्वः | बाह्यान्तर्व्यापारोपरमात् परमशान्तिं स्वीकृत्य ब्रह्मभूतो विजयते दीर्घनिर्विकल्पकसमाधिपरवशो भवति | तदा तत् मनः शून्यं सत् || ४ || तारकमार्गेण करणविलयद्वारा मनोनाशः पयःस्रावानन्तरं धेनुस्तनक्षीरमिव सर्वेन्द्रियवर्गे परिनष्टे मनोनाशं भवति तदेवामनस्कम् || ५ || तदनु नित्यशुद्धः परमात्माहमेवेति तत्त्वमसीत्युपदेशेन त्वमेवाहमहमेव त्वमिति तारकयोगमार्गेणाखण्डानन्दपूर्णः कृतार्थो भवति || ६ || समाधिस्थयोगिनः इन्द्रियग्रामे सति कथं मनोनाश उपपद्यते इत्यत आह- पय इति | भवति इति यत् तदेव || ५ || यदि कदाचित् प्. २९६) विरूपलयमप्राप्य सरूपलयमेत्य तन्मनो बहिः निःसरति तदा तदनु | तारकयोगमार्गेण योगी करणग्रामविरूपविलयमेव भजति | ततो योगी अखण्डेति | ब्रह्मैव भवतीत्यर्थः || ६ || इति प्रथमः खण्डः उन्मनीप्राप्त्या योगिनो ब्रह्मात्मभवनम् परिपूर्णपरमाकाशमग्नमनाः प्राप्तोन्मन्यवस्थः संन्यस्तसर्वेन्द्रियवर्गः अनेकजन्मार्जितपुण्यपुञ्जपक्वकैवल्य- फलोऽखण्डानन्दनिरस्तसर्वक्लेशकश्मलो ब्रह्माहमस्मीति कृतकृत्यो भवति || १ || त्वमेवाहं न भेदोऽस्ति पूर्णत्वात् परमात्मनः | इत्युच्चरन्त्समालिङ्ग्य शिष्यं ज्ञप्तिमनीनयत् || २ || कथं पुनः योगी कृतार्थो भवतीत्यत आह- परिपूर्णेति | प्राप्तोन्मन्यवस्थः संप्राप्तदीर्घनिर्विकल्पकावस्थः || १ || ब्राह्मणोक्तार्थं मन्त्रोऽपि अनुवदति- त्वमेवेति | मण्डलपुरुषो याज्ञवल्क्यं प्रति हे याज्ञवल्क्य परमात्मनो मम पूर्णरूपत्वात् त्वमेवाहं नावयोः भेदोऽस्ति इत्युच्चरन् स्वशिष्यं याज्ञवल्क्यं गाढं समालिङ्ग्य स्वईयां ज्ञप्तिं ब्रह्मैव अस्मीति प्रज्ञामनीनयत् || २ || इति द्वितीयः खण्डः इति तृतीयं ब्राह्मणम् चतुर्थं ब्राह्मणम् व्योमपञ्चकज्ञानं तत्फलं च अथ ह याज्ञवल्क्यो मण्डलपुरुषं पप्रच्छ व्योमपञ्चकलक्षणं विस्तरेणानुब्रूहीति || १ || स होवाचाकाशं पराकाशं महाकाशं सूर्याकाशं परमाकाशमिति पञ्च भवन्ति || २ || सबाह्याभ्यन्तरमन्धकारमयमाकाशम् | सबाह्याभ्यन्तरे कालानलसदृशं पराकाशम् | सबाह्याभ्यन्तरेऽपरिमितद्युतिनिभं तत्त्वं महाकाशम् | सबाह्याभ्यन्तरे सूर्यनिभं सूर्याकाशम् | अनिर्वचनीयज्योतिः सर्वव्यापकं निरतिशयानन्दलक्षणं परमाकाशम् || ३ || एवमन्तर्लक्ष्यदर्शनात् तद्रूपो भवति || ४ || पुनः याज्ञवल्क्यो मन्दबुद्ध्यनुकम्पया व्योमपञ्चकलक्षणं पृच्छतीत्याह- अथेति | किमिति ? व्योमेति || १ || स होवाच किं तदिति- आकाशमित्यादि || २ || तत्र आकाशं कीदृशमित्यत्र जडभूतिरित्याह- सबाह्येति | पराकाशं किमित्यत्र जडभूतिग्रासमोहभूतिरित्याह- सबाह्येति | मोहभूतेः कृत्स्नजडभूतिव्यापकत्वेन तत्परतया च काशमानत्वात् पराकाशत्वम् | महाकाशं किमित्यत्र जडमोहभूतिग्रासलीलाभूतिरित्याह- सबाह्येति | लीलाभूतेः जडमोहभूतिभ्यां व्यापकत्वेन तदपेक्षया अपरिमितद्युतिनिभतत्त्वरूपेण काशमानत्वात् | सूर्याकाशं किमित्यत्र जडादिभूतित्रयग्रासनित्यभूतिरित्याह- सबाह्येति | नित्यविभूतेः लीलादिभूतित्रयव्यापकत्वेन सर्वावभासकसूर्यवत् काशमानत्वात् | परमाकाशस्वरूपं किमित्यत्र नित्यभूत्यादिव्यापकत्वेन अनिर्वचनीयेति | त्रिपाद्भूतेः नित्यादिभूतिचतुष्टयगतहेयांशापह्नवसिद्धत्वात् प्. २९८) निरतिशयादिविशेषणता उपपद्यत इत्यर्थः || ३ || व्योमपञ्चकात्मकभूतिपञ्चकज्ञानफलमाह- एवमिति || ४ || राजयोगसर्वस्वक्रोडीकरणम् नवचक्रं षडाधारं त्रिलक्ष्यं व्योमपञ्चकम् | सम्यगेतन्न जानाति स योगी नामतो भवेत् || ५ || राजयोगसर्वस्वं क्रोडीकृत्योपसंहरति- नवचक्रमिति | मूलाधारादिषट्चक्रं ताल्वाकाशभ्रूचक्रभेदात् चक्रत्रयम्; आहत्य नवचक्रम् | लक्ष्यत्रयं व्योमपञ्चकं च व्याख्यातम् | सम्यगेतत् सर्वं यो न जानाति तद्याथात्म्याज्ञानात् केवलग्रन्थार्थज्ञानमात्रतो नाममात्रयोगी भवति | यस्तु यथावत् जानाति स योगी कृतकृत्यो भवतीत्यर्थः || ५ || इति चतुर्थं ब्राह्मणम् पञ्चमं ब्राह्मणम् परमात्मनि मनोलयाभ्यासविधिः सविषयं मनो बन्धाय निर्विषयं मुक्तये भवति || १ || अतः सर्वं चित्तगोचरम् | तदेव चित्तं निराश्रयं मनोन्मन्यवस्थापरिपक्वं लययोग्यं भवति || २ || तल्लयं परिपूर्णे मयि समभ्यसेत् | मनोलयकारणमहमेव || ३ || प्. २९९) अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः | ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः || ४ || यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसनकर्मकृत् | तन्मनो विलयं याति तद्विष्णोः परमं पदम् || ५ || बन्धमोक्षहेतुः किमित्याशङ्क्य विषयसङ्गासङ्गमन एवेत्याह- सविषयमिति || १ || यतः एवम् अतः | यच्चितं योगाभ्यासतः शुद्धं भवति तदेव निराश्रयं विषयसंबन्धविरलम् || २ || लयाधिकरणं किमित्यत्र तल्लयमिति || ३ || यत् सर्वलयास्पदम् आधेयसापेक्षाधारगतविशेषापाये तदेव निर्विशेषपरमपदमित्याह- अनाहतस्येति | अनाहतभवनादान्तर्गतप्रत्यग्ज्योतिर्विकल्पितं स्वातिरिक्तसृष्टिस्थितिनाशनिर्वर्तकं मनो यत्र विलीयते तत् लयाधिकरणं परमार्थदृष्ट्या निरधिकरणवैष्णवपदरूपेण अवशिष्यत इत्यर्थः || ४-५ || अमनस्काभ्यासेन ब्रह्मावस्थानसिद्धिः तल्लयाच्छुद्धाद्वैतसिद्धिर्भेदाभावात् | एतदेव परमतत्त्वम् || ६ || स तज्ज्ञो बलोन्मत्तपिशाचवज्जडवृत्त्या लोकमाचरेत् || ७ || एवममनस्काभ्यासेनैव नित्यतृप्तिरल्पमूत्रपुरीषमितभोजन- दृढाङ्गाजाड्यनिद्रादिग्वायुचलनाभावब्रह्मदर्शनाज्ञातसुख- स्वरूपसिद्धिर्भवति || ८ || यन्मनो द्वैतहेतुः तल्लयात् | तदा प्रत्यक्परयोः भेदाभावात् | यत् त्वया परमतत्त्वमनुब्रूहीति पृष्टम् एतदेव || ६ || मदुक्तप्रकारेण य एवं परमतत्त्वं जानाति स तज्ज्ञः | आचरेत् स्वमाहात्म्यख्यापनप्रयोजनाभावात् || ७ || प्. ३००) एवममनस्काभ्यासतः का सिद्धिरुदेतीत्यत आह- एवमिति | यदा योगी निर्विकल्पकसमाध्यारूढो भवति तदा अतृप्तिहेतुवृत्त्यनुदयात् नित्यतृप्तिः समाधितो व्युत्थानेऽपि केवलकुम्भकतो मूत्रपुरीषादेः शोषितत्वात् मूत्रादेरल्पत्वम्, उदरे निरवकाशतोऽल्पभोजनं, तथाऽपि योगमहिम्ना दृढाङ्गत्वं, पदे पदे जाड्यनिद्राभावादजाड्यनिद्रो निर्विकल्पकसमाधिः | तत्र दृग्वायुचलनाभावतो निश्चलब्रह्मदर्शनसंजातम् अवाङ्मानसगोचरतया अज्ञातसुखस्वरूपब्रह्ममात्रावस्थानरूपिणी सिद्धिः भवति | विद्वान् तद्रूपेण अवशिष्यत इत्यर्थः || ८ || अमनस्कसिद्धस्य महिमा एवं चिरसमाधिजनितब्रह्मामृतपानपरायणोऽसौ संन्यासी परमहंसः अवधूतो भवति | तद्दर्शनेन सकलं जगत् पवित्रं भवति | तत्सेवापरोऽज्ञोऽपि मुक्तो भवति | तत्कुलमेकोत्तरशतं तारयति | तन्मातृपितृजायापत्यवर्गं च मुक्तं भवतीत्युपनिषत् || ९ || यः एवंवित् स एव मुख्यावधूतः, तद्दृष्टिपथं गतम् अखिलम् अखिलतामेति, तत्सेवया अज्ञोऽपि मुच्यते, तत्कुलमपि कृतार्थत्वं भजतीति शास्त्रमुपसंहरति- एवमिति | इत्युपनिषच्छब्दः प्रकृतोपनिषत्समाप्त्यर्थः || ९ || इति पञ्चम ब्राह्मणम् श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना | मण्डलब्राह्मणव्याख्या लिखिता ब्रह्मगोचरा | मण्डलब्राह्मणव्याख्याग्रन्थस्तु त्रिशतं स्मृतः || इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे अष्टचत्वारिंशत्संख्यापूरकं मण्डलब्राह्मणोपनिषद्विवरणं संपूर्णम् ########### END OF FILE #######