#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00034 Uniform title: mahānayaprakāśa Main title: mahanayaprakāśaḥ Author : unknown (see catalog record notes) Editor : śāstrī k. s. Description: The e-text is from the Trivandrum Sanskrit Series No. CXXX, also published in Sri Citrodaya-mañjari Series No. XIX, 1937. Notes: The e-text was transcribed by the staff of Muktabodha under the supervision of mark S. G. Dyczkowski. Ascribed to abhinavagupta by the T.S.S. edition editor śāstrī k. s. but ascribed to śivānanda II by Navjivan Rastogi in his The Krama Tantrism of Kashmir pg. 257 . Revision 0: 02/08/2006 Publisher : Trivandrum Sanskrit Series Publication year : 1937 Publication city : Trivandrum Publication country : India #################################################### || श्रीः || महानयप्रकाशः (प्. १) यस्याः क्रमाक्रमपदोज्झितवृत्तिरूपः (-पदोजत्सितनृ-) साक्षाद् विराजतितरां (-* रां) क्रमभूमिकान्तः | तां कामपि प्रगहनानुभवैकरूपां देवीं नमाम्यपटटङ्कमयप्रतिष्ठाम् || १/१ || विचक्षणैर्यद्यपि सम्ययुक्तो महार्थचक्रक्रमसम्प्रदायः | प्रकुर्वते हन्त तथापि युक्त्या यथान्वितः स्वानुभवाविलुप्तः || १/२ || स्वात्मस्वरूपमनिकेतनमप्रमेयं स्वाभासमच्छमविलुप्तमतिस्वतन्त्रम् | विश्वात्मकं तदतिवर्ति च यत् तदस्य मिथ्याविकल्पजनितौ किल बन्धमोक्षौ || १/३ || एवंविधं यदघिगन्तुमिहात्मतत्त्वम् मिथ्याविकल्पविभवोद्दलनं च सम्यक् | युक्तिं महानयमयीं न विहाय शक्यं सर्वोत्तमोत्तमतमो हि ततो महार्थः || १/४ || (प्. २) तस्यास्य सम्प्रति यथास्थितलोकयात्रा- रूपस्य सर्वविषयप्रतिपत्तियुक्त्या | उन्मील्यते कथनपूजनसंक्रमात्मा नित्याविलुप्तविभवो गुरुसम्प्रदायः || १/५ || इदमनुभवसारयुक्तिगर्भं गुरुमुखमुद्गतसंशयावसानम् | झटिति परपदाप्तयेऽन्तरं हृदि परिमृश्य निधीयते महद्भिः || १/६ || अतितीव्रंशक्तिपातादारूढे शाम्भवे समावेशे | स्वानन्दामृतरूपं जीवन्मुक्तेः प्रकल्पते विश्वम् || १/७ || अतिमात्रमध्यमृदुताभेदेनापि प्रवर्तमानस्य | सूक्ष्मेक्षिकाप्रकारो विलसति तस्यातिशक्तिपातस्य || १/८ || अनिदंप्रथमतया यद्विश्वगतं व्यापकं निजं रूपम् | अनुपाययोगयुक्त्या गुरुमुखदृष्टेन सम्प्रदायेन || १/९ || सर्वानुभवदशायां यदलुप्तः सर्वदा भवेत् पृथक् | तस्य स्वभावविलसद्विश्वमयस्य स्वरूपकिरणस्य || १/१० || सोऽयं पुराणाधिष्ठानः क्रमः क्रमविवर्जितः | महार्थस्य परा निष्ठा गलितस्वपरस्थितेः || १/११ || पुराणस्यादिसिद्धस्य यदधिष्ठानमात्मनः | गीतं पुराणाधिष्ठानं भाषयातु (-तत्) तदुत्तमम् (तू-) || १/१२ || युक्तिचर्यादिविक्षेपवासनाक्षोभवर्जितः | अनुपायक्रमः सोऽयं यस्य रूढः स (रूढस्य) योगिराट् || १/१३ || (प्. ३) सर्वावरणनिर्मुक्तो हानादानपदोज्झितः | स्थितये स्वस्वरूपस्य नान्यत् किञ्चिदपेक्षते || १/१४ || निर्विकल्पविकल्पादिसंविदोघसमाश्रया | या चितिस्तन्मयस्पर्शात् (चित-) परानन्दचमत्कृतिः (-तेः) || १/१५ || सा भूतव्योम वामेशी गुरुदृक्पातसाहसात् | पीठक्रमादौ सर्वत्र विशुद्धिस्तस्य जायते || १/१६ || अनपह्नवनीयस्य विश्वस्यास्य यथोदयः | स्थितिनाशौ स्वभावस्य स्वरूपे च विलेपनम् || १/१७ || निरावरणता चापि यथास्मिन् सति जायते | परानन्दचमत्कारचन्द्रिकाच्छान्तचेतसः || १/१८ || अत्र सर्वत्र विषये निर्विकल्पः प्रवर्तते | गुरुप्रसादाद् यज्ज्ञानं * * * * किलोच्यते || १/१९ || महातिव्रतमे * * * * स्वानुभवस्थिते | कथनादिक्रमातीता विशुद्धिस्तत्र काशते || १/२० || महातीव्रतमे चास्मिन् प्रवृत्ते गुरुशासनात् | दृष्टादृष्टादिसङ्केतकथामात्रा प्रकाशते || १/२१ || प्रकाशन्ते (-ते) महातीव्रे व्यवहारदशासु याः (-दरासु याः) | प्रत्येकविषयावृत्त्या बहिरन्तर्मुखोदयाः || १/२२ || संविद्देव्यो महाव्योमसंघादित्रोटिताश्शलाः(?) | तासां पूजनविच्छित्त्या स्वरूपं सम्प्रकाशते || १/२३ || विकल्पवासनाशून्यप्ररूढस्वात्मसंविदः (-रूढस्सा-) | प्रथते कस्यचिज्ज्ञानमनपेक्षितसाधनम् || १/२४ || (प्. ४) उद्रिक्तनिर्विकल्पांशं मन्दमन्दविकल्पतः | प्रथते कस्यचिज्ज्ञानं सङ्केतादिकथाश्रयात् || १/२५ || पूजनादिक्रमापेक्षं संस्थिते (स्वं-) * * कस्यचित् | विकल्पसामनन्तर्यान्निर्विकल्पः प्रवर्तते || १/२६ || अप्रवृत्तस्य * * * शक्तिपातस्य या स्थितिः | अतिमात्रादिभेदेन ततोऽयमुदितः (-मुचितः) क्रमः || १/२७ || परधारासमारूढमाहेश्वर्यप्रदर्शकः | शक्तिपातक्रमो योऽयं महातीव्रतमादिकः || १/२८ || नान्यत्र स तथोद्दिष्ट इत्यतो गुरुगौरवात् | महानयक्रमे पूर्वं महाशब्दोऽर्थयुक्तिभाक् (उहाशब्दो-)|| १/२९ || कुलकौलादिकाम्नायशाक्तत्रिकमतादिषु | सरहस्यप्रप्रञ्चेषु स्वरूपस्थितिहेतुषु || १/३० || सिद्धान्ततन्त्रभेदेषु नान्योपायात्मकेषु च | स्थितेष्वपि च सोल्लेखो व्यापको हि महानयः || १/३१ || पौर्वापर्यपरिक्षीणा ये महार्थार्थिनः किल | अस्ति नान्या गतिस्तेषां विकल्पग्राससाहसात् || १/३२ || सुप्रबुद्धोऽनपेक्षोऽत्र प्रबुद्धोऽपेक्षते पुनः | सङ्केतादिकथामात्रं तथा चक्रप्रपूजनम् || १/३३ || दृष्टनष्टादि सङ्केतकथामात्रस्य मर्म यत् | तत् प्रपञ्चितमन्यत्र यदतः साम्प्रतं मनाक् || १/३४ || एतत्पूजनमक्रमक्रममयं पीठक्रमोपक्रमः चक्रोल्लासविभागयुक्तिघटनासत्सम्प्रदायोज्ज्वलः | (वक्रोल्लास- - घटनं-) (प्. ५) मा गाल्लुप्तमिहेदृशं (गा * * मिहे) गुरुमुखं कालक्रमादित्यतः सम्यक् * * * * * * * नवशादस्माभिरुन्मील्यते || १/३५ || इति श्रीमहानयप्रकाशे सर्ववैलक्षण्यप्रतिपादनो नाम प्रथमोल्लासः || अथ द्वितीय-उल्लासः | (प्. ५) परमरहस्या * * * गुरुवरमुखसम्प्रदायसद्बीजम् | पीठक्रमस्वरूपं नत्वा सन्तन्यते प्रथमम् || २/१ || यथास्थितं समाश्रित्य भूतभावात्मकं जगत् | पीठक्रमस्य संस्थानं कथ्यते हृदयङ्गमम् || २/२ || देवीचक्रस्य यः स्फारः पीठक्रमतया स्थितः | यागादिक्रमरूपेण रज्ज्ञप्तिर्गुरुणोच्यते || २/३ || प्राधान्येन स्थितो लोके व्यवहारः क्रियात्मकः | अतः पीठक्रमज्ञप्तिस्तन्मुखेनैव कथ्यते || २/४ || अनेनैवाशयेनादौ चरुप्राशनपूर्वकः | गुरुणा सम्प्रदायस्य भाजनं क्रियते पशुः || २/५ || पीठश्मशानक्षेत्रेशमेलयागात्मको हि यः | पीठक्रमोऽत्र पीठेभ्यो व्योमेश्वर्यादयः क्रमात् || २/६ || यः शून्यप्राणधीबुद्धिकर्मेन्द्रियचयात्मकः | कायो यश्च जडत्वेन बाह्येन विषयात्मना || २/७ || व्योम्न आरभ्य पृथिवीपर्यन्तेन व्यवस्थितः | अनन्तानुभवाधारसिद्धयोगिनिषेवितः || २/८ || (प्. ६) एतत्सङ्केतकस्थानमाश्रिताश्चिन्मरीचयः | दृश्यन्ते प्रकटं यस्मादसौ पीठक्रस्ततः || २/९ || कर्मेन्द्रियात्मनो यागाच्छून्यान्तं यावदास्थितः | उद्योगादिक्रमः काये बहिः पृथ्व्याद्यनुक्रमात् || २/१० || पूर्वं पूर्वं महाव्याप्तिरत्र सर्वत्र वर्तते | आश्रयाश्रयिभावश्चाप्यविभिन्नतया स्थितः || २/११ || निशावरणरूपत्वादनन्तत्वादनाकुला | पीठस्वरूपे (-रूपं) व्योमेशि विश्रान्तिः सर्वसंविदाम् || २/१२ || अन्तश्शून्यात्मना काये सैव पठितया स्थिता | यः कर्मेन्द्रियपर्यन्तः संवित्स्फारस्तदाश्रयः || २/१३ || पातादारभ्य पृथिवीपर्यन्तं यज्जडात्मकम् | एतस्यैवाश्रयत्वेन नभः पीठकला बहिः || २/१४ || अकालकलिते व्योम्नि स्पन्दमाना तु या चिति | कालदाहैकभूः सैषा श्मशानं खेचरी मता || २/१५ || अपवेद्ये सुषुप्तेषु प्राणः स्पन्दनशक्तिमान् | कालं ग्रसति देहान्तः श्मशानं स तथा स्मृतः || २/१६ || वेद्यस्य कलनारूपे (-रूपं) कालस्त्वपि समाप्यते | कालग्रसनशीलत्वात् त्वक् श्मशानं तु सा बहिः || २/१७ || एतद्रूपं परं क्षेत्रं प्रकाशानन्दभूमिगम् | पालये * * * * भ्यां भूपरि क्षेत्रपस्ततः || २/१८ || बुद्धिप्रमाता देहान्तः शून्यप्राणमयं यतः | क्षेत्रं पालयते तेन क्षेत्रेशश्चैव (-शवस्यै) तन्मयः || २/१९ || (प्. ७) बाह्येऽपि विषये तेजस्त्वङ् नभोमण्डलात्मकम् | क्षेत्रं पालयते तेन तदात्मत्वेन सैव तत् || २/२० || विश्वाभासमयं ज्ञानं यद्गतं परसंविदि | सामरस्यात्मना सैषा मेलः संहारभक्षिणी || २/२१ || आभासानां स संहारो या प्रकाशान्तरास्थितिः | सामरस्यात्मना सैषा प्रत्यावृत्त्या समन्ततः || २/२२ || भक्षयन्त्यान्तरस्पर्शादतः संहारभक्षिणी | विषयाभोगसम्भूतचमत्कारोपबृंहितम् || २/२३ || बुद्धीन्द्रियाभासमयं ज्ञानं यत्रोपशाम्यति | बीजभावात्मना मेलः स्निग्धो यः प्रत्यगात्मना || २/२४ || अ * वता बहिर्येयं प्रतिबिम्बग्रहक्षमा | साम्यान्तररसास्वादमेलावात्मानुभूयते || २/२५ || वासनावेधसंस्कारसामरस्यात्मना स्थितिः | आहन्यमाने रभसात् परतर्पणहेतुतः || २/२६ || पूर्णान्तरमहारावद्रावणादलिकुलाकुला (-द्रावणा * लि-) | निरावरणदुर्ल्लक्ष्यस्वविश्रान्तिपदोन्मुखी(म्?) || २/२७ || आद्ययागमयी (आद्यगाय-) ये (यो) यं गभीरोदारभूमिका | रौद्ररौद्रेश्वरी यागस्तस्मादिष्टो गुरूत्तमैः || २/२८ || अलंग्रासंक्रमः सोऽयं महासाहसजन्मभूः | अधिकप्रियमेलावाद्धठमेलोपलक्षणः || २/२९ || अन्तःकायेऽपि ये भावा ह्युक्ताः कर्मेन्द्रियैः स्फुटाः | तत्क्षणे विस्मृतिस्तेषामाकाङ्क्षायाः परिक्षयात् || २/३० || (प्. ८) सान्तरीयकविश्रान्तिर्योऽयं यागः स्वसाक्षितः | अत्रानुगुण्यमेतस्या देव्याः सञ्चेत्यते स्फुटम् || २/३१ || दृश्यते यत् तया पृथ्वी (बहिः पृथिवी) तत्तत्कर्मव्यपाश्रया | स यागो यत्र भावानां विश्रान्तिः समनन्तरम् || २/३२ || इत्थं श्मशानतारूपचिज्जडात्मप्रमेयता (स्माश्यानता- -म्)| पीठक्रमेण संश्रित्य देवीचक्रं विजृम्भते || २/३३ || सर्वयापकरूपत्वात् तथा प्रत्यक्षवेदनात् | सर्वाद्यन्तप्रतिष्ठानादेतत् सर्वोत्तमत्वतः || २/३४ || सर्वंसहस्वभावत्वात् परानुग्रहहेतुतः | प्रकर्षनुतिमात्रत्वात् पीठं प्रणवसंज्ञितम् || २/३५ || महाचक्रक्रमो योऽयं कथ्यमानो यथायथम् | अत्रान्तर्नेत्रनाथस्य प्रकटानुभवोऽभवत् (न्) || २/३६ || ततो ध्यातं (ध्यानं) तु तत्पीठं सर्वपीठोत्तमं बहिः | योगिनीसिद्धसंसेव्यमुत्तरस्यां दिशि स्थितम् || २/३७ || धामक्रमस्यापि वपुरन्तरेव निरूपितम् | सर्वज्ञानाश्रयत्वेन लोकयात्राप्रतिष्ठितम् || २/३८ || यत्र यत्र पतन्त्येता अन्तर्वा यदि वा बहिः | संविद्देव्यो व्याप्तिसारास्तद्धाम परिकीर्तितम् || २/३९ || यदि काचिदिहान्यास्ति सूक्ष्मा संशयकालिमा (-ता) | प्रमेयलोचनादग्रे सा स्वयं विनिवर्तते || २/४० || प्रत्यक्षकायविषयानुभवैकनिष्ठः पीठक्रमस्य कथितो गुरुसम्प्रदायः | (प्. ९) अत्रैव दत्तहृदया विलयं नयन्ति मिथ्याविकल्पजनितं भवमोक्षजालम् || २/४१ || इति श्रीमहानयप्रकाशे पीठस्वरूपनिरूपणं नाम द्वितीयोल्लासः || २ || अथ तृतीय उल्लासः | (प्. ९) उदयावभासकालग्रासादीनां (* *) [-स] स्वरूपविश्रान्तिः | आकुञ्चनप्रसारणवशतो (-कारणवशतो) यत्रास्ति तत्पदं नत्वा || ३/१ || आमूलविश्वविभवप्रस्पन्दनयुक्तिसुन्दरोदारम् | प्रातीतिकस्वरूपं ब्रूमो व्योमेश्वरीचक्रम् || ३/२ || पीठक्रमे यत् प्रकटं रश्मिचक्रं प्रतिष्ठितम् | आ मूलात् तस्य संस्थानं कथ्यते संविदात्मना (-विदुन्मना) || ३/३ || शब्दादिपञ्चवर्गात्मविश्वं हि यदिदं स्थितम् | न शक्यं तदपह्नोतुं स्वसंवेदनसिद्धितः || ३/४ || संवेदनाद् बहिर्भावेनास्य सिद्धिः कथञ्चन | ज्ञानात्मतां विना यस्माद् बाह्यतापि न सिध्यति || ३/५ || अतो बाह्यात्मता लोके शरीरापेक्षया स्थिता | संवेदनं पृथक् तस्य (* *) सर्वज्ञेनापि दुष्करम् || ३/६ || अतः संवेदनायत्ता सत्ता विश्वस्य सर्वतः | ज्ञानाधिकत्वात् सिद्धेस्तु न माया नापि वासना || ३/७ || (प्. १०) दिग्देशकालाकारादिकलातङ्कविवर्जितम् (-काला * रादि-) | कल्प्यविश्वात्मकत्वेऽपि (कत्प-) तदुत्तीर्णतया स्थितम् || ३/८ || ननु विश्वमयी संवित् सर्वस्यानुभवात् स्थिता | तदुत्तीर्णस्वरूपायास्तस्या नानुभवस्तदा || ३/९ || प्रथैव चेत् कथं विश्वं चिन्मात्रं हि प्रशेक्ष्यति (प्रथेष्यति) | निरावरणरूपायाश्चितो विश्वात्मता कुतः || ३/१० || नीलप्रकारो नीलात्मा प्रकाशातिशयो न चेत् | नीलप्रकारो नैव स्यादात्मसंवित्प्रथाबलात् (स्यादाद्ध-) || ३/११ || तस्मान्नीलप्रकाशो यः स नीलातिशयात्मकः | नीलाभिन्नप्रथासिद्धा नीलताप्यनुभूयते || ३/१२ || तस्याः प्रथैकरूपत्वे नीलनिह्नवसम्भवः | प्रथाबहिष्ट्वेऽप्येषैव न्यायोक्तिर्यदतः पृथक् || ३/१३ || वासनाहेतुवैचित्र्याद् (-चित्र्या) विश्ववैचित्र्यसङ्गतिः (-गति) | नतु शुद्धस्वरूपायाः प्रथाया एव जृम्भणात् || ३/१४ || प्रकाशमानं विश्वं तदित्युक्तिरुपपद्यते | प्रकाश एव विश्वं तु सर्वानुभववासितम् || ३/१५ || विश्वोत्तीर्णप्रकाशस्तु स्वतन्त्रो नानुभूयते | यदतः स्वप्रथोऽप्येष सिद्धो विश्वनियन्त्रितः || ३/१६ || अत्रोच्यते यदुक्तं तु विश्वोत्तीर्णचितिः कथम् | सञ्चेत्यते समाविश्य विश्वानुभवभूमिकाम् || ३/१७ || नीलानुभवकाले हि नीलरूषणयोज्झिता | निर्विकल्पपराहन्तास्वरूपा प्रथते प्रथा || ३/१८ || (प्. ११) सविकल्पदशात्वेऽपि सुखनीलादिसंविदाम् | विशेषानुभवो नास्ति विवादोऽन्तर्बहिष्ठया || ३/१९ || तथैव नीलानुभवादभिन्नोऽपि तदुज्झितः | अन्तर्मुखप्रकाशो यः पराहन्तात्मकः स्थितः || ३/२० || हेवाकात् केवलं सोऽन्यैस्तत्त्वज्ञैरुपलभ्यते | अन्यथा नीलसंवित्तिरपि नैव प्रसिध्यति || ३/२१ || आभासं न विना यस्मात् सत्ता संविद इष्यते | आभासोऽपि कथं सिध्येत् किल संवेदनं विना || ३/२२ || अन्योन्यापेक्षया हीत्थं नीलसंविन्न सिध्यति | आभासनिरपेक्षात्र द्रष्टव्या संविदः स्थितः || ३/२३ || परतन्त्रस्वतन्त्रत्वे तत्राकिञ्चित्करे यतः | नीलानुभवसंसिद्धिं न समर्थयितुं क्षमे || ३/२४ || सिद्धेः प्राक् परतन्त्रत्वं समं नीलप्रकाशयोः | सिद्धे रूपे स्वतन्त्रत्वं समं नीलप्रकाशयोः || ३/२५ || अथ नीलं परापेक्षां (-पेक्षं) प्रथयेन्न (प्रथयान्न) प्रथा पुनः | स्वयम्प्रथनशीलत्वान्नीलमात्मन्यपेक्षते || ३/२६ || परतन्त्रमतो नीलं स्वतन्त्रा तु प्रथा मता | परतन्त्रस्वतन्त्रत्वे तत्राकिञ्चित्करे कथम् || ३/२७ || ज्ञातमेतद् यथा नीलमुत्पन्नमपि हेतुतः | प्रकाशापेक्षया (प्रकाशयापे-) ह्यक्तं परतन्त्रं न रूपतः || ३/२८ || नीलं नीलात्मके रूपे स्वतन्त्रं न प्रथात्मके | प्रकाशस्तु प्रथामात्रादतिरिक्तो न विद्यते || ३/२९ || (प्. १२) तावन्मात्रे प्रकाशस्य नीलापेक्षा न युज्यते | नीलात्मनि तु नीलस्य प्रथापेक्षास्ति (प्रथाकेपक्षास्ति) सर्वथा || ३/३० || नीलात्मकं हि नीलस्य रूपं सिद्धं स्वहेतुतः | न प्रकाशात्मकमपि प्रायशोऽन्धादिदर्शनात् || ३/३१ || प्रकाशरूपे तूत्पन्ने स्वपरप्रथनात्मके | यथानुभवसंसिद्धौ सर्वापेक्षा निवर्तते || ३/३२ || नीलं तर्हि स्वसिद्ध्यर्थं (स्वसिद्धा-) न प्रकाशमपेक्षते | प्रकाशस्तूपलम्भार्थं नीलमात्मन्यपेक्षते || ३/३३ || पारतन्त्र्यं प्रकाशस्य सुतरामित्थमुल्लसेत् | आभासरहिता यस्मान्नैतस्योत्पत्तिरिष्यते || ३/३४ || ननु (नतु) नीलप्रकाशे यः (या) प्रकाशांशो व्यवस्थितः | तस्य स्वरूपसत्तार्थं नीलापेक्षा कथं भवेत् || ३/३५ || स्वरूपलाभः पूर्वस्मात् प्रथांशात् कारणात्मकात् | नीलापेक्षा न तत्रास्ति स्वस्फुरत्त्वेन संविदः || ३/३६ || नीलांशस्य प्रथार्थत्वे (-त्वं) प्रथापेक्षास्ति वस्तुतः | तदेतद्धि स्वतन्त्रत्वं परतन्त्रत्वलक्षणम् || ३/३७ || इत्थं किमेतदुक्तं स्यात् सोपाधि निरुपाधि वा | प्रकाशस्य निजं रूपमथवाप्युभयात्मकम् || ३/३८ || सोपाधि चेदुपाधेश्च तस्य चान्योन्यसंश्रयात् | उभयासिद्धितो रूपं सिध्येत् सोपाधिकं कथम् || ३/३९ || अथानुपाधि तद्रूपमुपाधेः प्रथनं कथम् | परस्यापरनिष्ठत्वादेवं दुष्येज्जगत्स्थितिः || ३/४० || (प्. १३) अथोभयात्मकं रूपं सोपाध्यपि तदुज्झितम् | तथा सर्वं समीचीनमिति चेत् तर्हिचेत्य (-चप्त्य)ताम् || ३/४१ || तत्रानुपाधि यद्रूपं तस्यानुभवनं कथम् | स्वसंवेदनरूपायां निर्विकल्पभुवि स्थितम् || ३/४२ || नचापलापः कर्तव्यः पूर्वदोषप्रसङ्गतः | नचानुपाधिरूपस्य नीलांशत्वेन वेदनम् || ३/४३ || पराहन्तात्मकं तस्मात् तदसाङ्केतिकं मतम् | प्रत्यक्षभेदः कथितो यः स्वसंवेदनात्मकः || ३/४४ || तत्राशयो नचेदेष तद्भेदः किन्निबन्धनः | ननु रक्तोदकन्यायाद् (-यो) भवतोऽपि स्मृतिः कथम् || ३/४५ || रक्तोदकात्मकं रूपमेकमेव हि तात्त्विकम् | विकल्पस्तु स्वशिल्पेन तद्भिनत्ति (तद्भुनर्ति) विशेषतः || ३/४६ || तद्वन्नीलप्रकाशात्मरूपञ्चाखण्डतः (-माखण्ड्यतः) स्थितम् | विकल्पशिल्पतस्तत्र केवलं खण्डनं स्थितम् || ३/४७ || अविभागात्मकाद् भासात् तादृशादेव कारणात् | कार्यस्य तादृशस्यैव प्रबन्धेन प्रवर्तनम् || ३/४८ || अन्योन्याश्रयताद्यास्तु दोषा वैकल्पिका मताः | सम्भवेयुः कथं तत्र निर्विकल्पप्रतिष्ठितौ || ३/४९ || ज्ञातं किन्त्वेष विगुणो [द्वि-] न्यायो नीलप्रकाशयोः | विरोधात् तावदेकत्वं स्याज्जडाजडयोः कथम् || ३/५० || निरंशस्वप्रकाशश्च प्रकाशस्तात्त्विको मतः | साङ्गश्चान्यप्रथाधीनोऽप्यभ्यासस्तात्त्विको [-भासस्तात्त्विको] मतः || ३/५१ || (प्. १४) सर्वथैक्येऽन्य * * * सत्यासत्यत्वहानितः | एकानेकस्वभावत्वात् स्वभावो न निरुध्यते || ३/५२ || स्वभावविनिरोधस्तु बाधितोऽनुभवेन यत् | तत् स्वसिद्धप्रकाशोऽन्यव्य (-शोऽन्यद्वय)वस्थाहेतुतामियात् || ३/५३ || अखण्ड्योऽपि तदेष्टव्योऽभेदो नीलप्रकाशयोः | ततो रक्तोदकन्यायोऽसङ्गतोऽत्र कथं भवेत् || ३/५४ || अन्यच्च नीलप्रथयोरभेदे वास्तवे कथम् | आभासविगमादच्छान्मुक्तिभूता प्रथा भवेत् || ३/५५ || अनादिकप्रवाहात्मा * * * * * * * * | * * * * * * * * मायाभासप्रतिष्ठितेः || ३/५६ || ज्ञातृत्वकर्तृत्वकर्तृतासारं * * * * * | * * * * * * * * * * * * * * * * || ३/५७ || प्रथावासनयोश्चान्या सामग्री नास्ति वास्तवी | प्रकाशविगमेऽपि स्याद् यद्धेतोर्वासनाक्षयः || ३/५८ || तन्मुक्तिकाले यस्तज्ज्ञैराभासोच्छेद इष्यते | नस्वप्राप्तास्य (?) विकलस्वहेतोरविरामतः || ३/५९ || तत्रोपादानशुद्द्यादि यत्किञ्चित् परिकल्प्यते | न तत् सर्वज्ञताबीजं युक्तितः पर्यवस्यति || ३/६० || तस्मात् सोपाधिकं ज्ञानं परस्परसमाश्रयात् | तादात्म्येऽपि कथं नाम प्रतिष्ठामधिगच्छति || ३/६१ || प्रकाशस्य च चिन्मात्ररूपं यत् स्वप्रतिष्ठितम् | तदुपाधिं प्रति कथं मात्रयापि प्रसर्पति || ३/६२ || (प्. १५) प्रतीतौ यच्च नारूढं तादात्म्येऽपि न तद् भवेत् | प्रतीतिभाजनं यद्वन्मणिरौप्यादिकैरलम् || ३/६३ || अनेनैवाशयेनोक्तो युक्तितत्त्वविचक्षणैः | प्रकाशार्थोपरक्तोऽपि स्फटिकादि जालोमपम्(?) [जडोपमः] || ३/६४ || ननु नीलप्रथाकाले नीलात्मातिरयोऽधिकः | अपह्नोतुं कथं शक्यः परतन्त्रमय(ः?)प्रथः || ३/६५ || अधिकश्चेत् कथं भाति भाति चेदधिकः कथम् | भासते चाधिकञ्चेति परस्परमसङ्गतम् || ३/६६ || प्रकाश एव तर्हि स्यान्निरुपाधिर्निरञ्जनः | एवञ्च नानानुभवमयी नश्येज्जगत्स्थितिः || ३/६७ || अत्रोच्यते यदधिकं भानात् तत्तावत्प्रथमयुक्तिकः(?) | * * * * * * * * तत्र त्वित्थं समर्थना || ३/६८ || यदा स्वोल्लेखविभवः प्रथया जगदुद्गमः | अनवच्छिन्नरूपत्वं तदा तस्य निजं प्रति || ३/६९ || चिदुल्लेखमयं (वि- -लं) विश्वं चिदुल्लेखे प्रतिष्ठितम् | चिदुल्लेखादनधिकं लोकयात्राप्रसाधकम् || ३/७० || उल्लेखश्च विमर्शात्मा स्वाभासमयनिर्मितः | इयं सा वस्तुनः सिद्धिस्तात्त्विकी विदुषां मता || ३/७१ || सेयं स्फुरत्ता बोधस्य महासत्तास्वरूपिणी | स्वोल्लेखकर्तृतासारा प्रत्यक्षानुभवात् स्थिता || ३/७२ || एतत् (* तत्) स्वोल्लेखविभवमयं विश्वं स्वभावतः | स्वतन्त्रत्वादनुन्भग्नमुन्मग्नमिव भासयेत् || ३/७३ || (प्. १६) अखण्डविषयानन्दमयादनुभवाच्च (-विषया * द) तत् | सामरस्येन सर्वत्र स्थितंचिन्मात्रसारतः (स्थितश्चि-) || ३/७४ || दिग्देशकालवैचित्र्यभेदाद् भागवताद् यदि | तदात्मवर्तिनि ज्ञाने भेदः स्यात् तत्प्रथा कथम् || ३/७५ || प्रथासामर्थ्यतः (-* ) तस्मात् तद्भेदो न व्यवस्थितः | नवांशांशिकया भेद आभासेऽप्यनुभूयते || ३/७६ || तिलराशिवदज्ञानात् सङ्गतत्वेन वासनात् | अतः प्रथैकरूपत्वमाभासस्य (प्रशेथक-) व्यवस्थितम् || ३/७७ || अन्यच्च चित्रविज्ञानमेतदेवावभासते (-मेतमेवा-) | तत्प्रपञ्चो विभिन्नोऽपि तद्रूपं ज्ञातुमक्षमः (ज्ञे-) || ३/७८ || न च व्यस्तः समस्तो वा तत्स्वरूपस्य भेदकः | तथात्वानुभवासिद्धेः समं तत्प्रथनं कथम् || ३/७९ || तद्वद् विश्वमयी संविदेका चेत् तत्प्रथा कथम् | तन्नियन्त्रणया चास्या एकत्वं परिहीयते || ३/८० || विश्वावेशेऽपि तत्संवित् तत्तद्रूपणयोज्झिता (-टा रूप-) [रूषण-] | अखण्डानुभवात्मत्वात् सामरस्यतया स्थिता || ३/८१ || अपटाटङ्कता सेयं गम्भीरोदारता तथा | इदं तद् दुर्घटैश्वर्यमसामान्यस्वभावकम् || ३/८२ || संविदा भासमाने च रूपे भ्रान्तिर्न विद्यते | अन्यावष्टम्भतोऽन्यस्य प्रथनं भ्रान्तिरिष्यते || ३/८३ || न स्वभासप्रथा भ्रान्ता स्वसंवेदनसिद्धितः | स्वसंवेदनसिद्धत्वं न कथञ्चन बाधितम् || ३/८४ || (प्. १७) बहिश्चन्द्रद्वयाभावात् तद्बाधोत्तरकालिका | ननु द्विचन्द्रानुभवे प्रथामात्रैकजीविते || ३/८५ || स्वसंवेदनरूपस्य यदि बाधा भवेत् ततः | तदेकमयरूपत्वाद् भवेद् भाधापि बाधिता || ३/८६ || तस्मान्निजोल्लेखमयं स्वस्वसंवेदनात्मकम् | संविद्देवी जगच्चित्रं निर्मिमीते स्वभित्तिकम् || ३/८७ || विवर्तपरिणामादि न किञ्चित् संविदोऽधिकम् | यदसत्यादिकलनावशाद् विश्वस्य सम्भवः || ३/८८ || नचापि विश्ववैचित्र्यं तस्य स्याद् वासनात्मकम् | यथर्द्धि प्रातिर्यादि(?)गम्भीरोदारसंविदः || ३/८९ || उल्लिख्यमानं तद्रूपं नाम्ना (ना *) नावैचित्र्यशोभितम् (*-) | फेनवत् संविदुद्बुद्धं तत्सामर्थ्याद् विजृम्भते || ३/९० || ईदृक् स्वातन्त्र्यमाश्रित्य संविदः पारमार्थिकम् | प्रमेयजातमखिलं स्थितं शक्यसमर्थनम् || ३/९१ || प्रत्यक्षरूपमाश्रित्य विषयानुभवात्मकम् | महानयस्यानुगुणं चिद्रूपं प्रतिपादितम् || ३/९२ || बहुवक्तव्यता यस्मात् प्रमेयस्यास्य वर्तते | अतो विरम्यतेऽस्माभिर्दिङ्मात्रं तु प्रकाशितम् || ३/९३ || संविदः साश्रयाः काश्चित् काश्चनापि निराश्रयाः | तत्रापि तासां वैचित्र्यं सविकल्पाविकल्पतः || ३/९४ || तत्रापि बहुवैचित्र्यं नियतानियतात्मकम् | ज्ञानज्ञेयप्रपञ्चश्च तत्रापि बहुभूमिकः || ३/९५ || (प्. १८) श्रद्धाश्रद्धाक्रियाजालफलानुगुणयोगतः | तत्रापि स्वर्गनरकाद्यनन्तमतिविभ्रमाः (-नतिवि-) || ३/९६ || अतात्त्विका बन्धमोक्षविभेदा अपि तत्र च | अनन्तलोकसंस्थान (ः?) प्रभवाश्च तथाविधाः || ३/९७ || तथाश्यानं (-द्यन्म) मनोभूमिमतिक्रम्यातिवर्तते (* नो-) | आश्यानसंविदंशस्य (आद्या-) तदेतत् स्फूर्जितं मतम् || ३/९८ || अविकल्पनिजाभोगविमर्शात्ममयं च तत् | स्वच्छैकरूपस्वच्छन्दचिद्रसाश्यानतामयम् || ३/९९ || क्रमाक्रमपदावेशि प्रतिभारूषणादिके | अनन्तागाधगम्भीरे संविद्रूपे निमज्जति || ३/१०० || विश्वात्मकं तदन्यच्च रूपमेतद् यदीशितुः | अस्तिनास्तिव्यतिक्रान्तं सर्वाश्रयनिराश्रयम् || ३/१०१ || अप्रकाशप्रकाशात्माप्यसमञ्जसमञ्जसम् (-सा) | परां शक्तिं विना तस्य स्थितस्यापि स्वभावतः || ३/१०२ || चिच्चमत्कारविश्रान्तिवैक्लव्यादप्रतिष्ठितेः (-तेः) | असत्कल्पत्वमित्यस्य (असङ्कल्प *-) तदपेक्षित्वमिष्यते || ३/१०३ || महेशस्यात्मविश्रान्तिः पराहन्तात्मिका हि या | तस्या अपि परावस्थाभाति (-याति) सूक्ष्मप्रभेदतः || ३/१०४ || तद्देवीधाम यत्रासौ (या-) कान्दिशीको विभुर्भवेत् | भावाभावौ प्रकाशेऽन्तः प्रतिष्ठामधिगच्छतः || ३/१०५ || स चापि सकलापेक्षाशून्यायां चिच्चमत्कृतौ | तारतम्यादिकलनावासनावेधदूरगे || ३/१०६ || (प्. १९) परविश्रान्तिपर्यन्ते सापि विश्राम्यति स्वतः | परप्रकाशविश्रान्तिदशायामपि यत् स्थिताः || ३/१०७ || वासनावेधसंस्कारा भावाभावोभयात्मकाः | अतस्तामसनीकृत्य या विश्रान्तिरनुत्तरा || ३/१०८ || सा देवी कथ्यते तस्या नयोऽसौ देवतानयः | यत्रापटे परिक्षीणोऽपि (परिक्षीणा-) टङ्कोऽसौ नयस्ततः || ३/१०९ || या कालग्रासविश्रान्तिस्तद्रूपं परमेशितुः | या तु विश्रान्तिविश्रान्तिस्तद्देवीरूपमिष्यते || ३/११० || इत्थं सूक्षेक्षितारूपो (सूक्ष्मि-) भेदो यत् परमेशयोः | ऐक्येऽपि दर्शितं सम्यक् प्रतीतिपरिशुद्धये || ३/१११ || इत्थं संवेदनापेक्षा रूपे ज्ञप्तौ च सर्वथा | विश्वस्येति कथं पूर्वमुत्पत्तिरिति संशयम् (-ये) || ३/११२ || छेत्तुं व्योमेश्वरीचक्रं स्फुटमत्र प्रकाश्यते | निरावरणचित्सिन्धौ (-द्धौ) स्फुरत्तासारसुन्दरम् || ३/११३ || परप्रकाशविश्रान्तिर्यत्र विश्राम्यति स्वयम् | तद्देवीरूपमत्रान्तः प्रथमस्पन्दनात्मना || ३/११४ || पञ्चाकाशमयं चक्रं विश्वबीजं तथोदितम् | सर्वापेक्षाविरहितं स्वोच्चलत्तास्वरूपकम् || ३/११५ || तत्रापि चान्यत् संवित्खमन्येषां नभसां परम् | तन्मयं च तदुत्तीर्णं व्यापकत्वेन वर्तते || ३/११६ || प्रथमप्रतिभारूपा व्योमेशी सेयमुच्यते | खेचर्यादिस्वरूपं यत् तदस्या - एव जृम्भितम् || ३/११७ || (प्. २०) प्रत्येकं सामरस्येन देवीपञ्चकमञ्चितम् | स्वातन्त्र्योल्लासकोद्रेकप्राधान्यात् पृथगुच्यते || ३/११८ || शब्दाद्यनुभवस्थाने संवित् स्पन्दादिरूपणी | प्रत्येकं सूक्ष्मया वृत्त्या स्वौचित्येनानुभूयते || ३/११९ || इत्थं प्रत्येकविषये पञ्चानुभवबृंहितम् | सामरस्यात्मना सर्वं देवीचक्रं प्रकाशते || ३/१२० || एवं पञ्चात्मकं विश्वं सिद्धं स्वानुभवेन यत् | पञ्चाकाशतया पूर्वं तदुक्तं संविदात्मना || ३/१२१ || परप्रकाशप्राधान्याच्चिदाद्यं शक्तिपञ्चकम् | परविश्रान्तिविश्रान्तिप्राधान्यात् त्विदमिष्यते || ३/१२२ || व्यापकत्वं च नित्यत्वं पूर्णत्वं सर्ववेदिता (म्?) | सर्वकर्तृत्वमित्येतत् शक्तिपञ्चकलक्षणम् || ३/१२३ || स्वरूपलाभो विश्वस्य पूर्वं ज्ञप्तिस्ततः परम् | ज्ञानाधिकत्वात् सिद्धेस्तु स तु चिन्मात्रलक्षणः || ३/१२४ || इत्थं विश्वस्य संस्थानं प्रथमं संविदात्मना | पश्वात्मकेन स्फुरितं परशक्तिस्वभावतः || ३/१२५ || स्वप्रकाशात्मकानन्दस्फूर्तिबिन्दुक्रमात्मकः (-मूर्ति-) | चक्रपञ्चकविष्फारो व्योमेश्यादिमयः स्थितः || ३/१२६ || अक्रमोऽपि क्रमात्मायमुपदेशभुवि स्थितः | तत् तत् प्रतीतिवैचित्र्यविभागप्रतिपादनात् || ३/१२७ || तदेव संविदो रूपं पञ्चात्मत्वेन संस्फुरत् | सामरस्यात्मना पूर्वं व्योमेशीचक्रमुच्यते || ३/१२८ || (प्. २१) गुरोः स्वरूपमेतच्च सर्वावरणभेदकम् | परस्वरूपविश्रान्तिसमावेशनतत्परम् || ३/१२९ || एतस्य ज्ञप्तिमात्रेण देहाद्यावरणक्षयः | पूजनेन तु संरूढिरतः पूज्यतमं हि तत् || ३/१३० || निश्शेषविश्वविभवप्रतिपत्तिहेतुर्- व्योमेश्वरीप्रथमचक्रनिरूपणेन | लब्धावधानवशतः (लब्ध्वा-) कृतिनो भजन्त आद्यन्तवर्जितपदं परमात्मनिष्ठाः || ३/१३१ || इति श्रीमहानयप्रकशे व्योमेश्वरीचक्रनिरूपणं नाम तृतीयोल्लासः || अथ चतुर्थ उल्लासः | (प्. २१) नानानुभवविलासप्रसरणबीजस्वरूपमविभिन्नम् (-बीजं-) | ज्ञात्वा स्वयुक्तिगर्भं प्रकाशचक्रक्रमं तनुमः || ४/१ || पञ्चात्मकं स्वचक्रं यत् प्रथितं संविदात्मना | ज्ञानक्रियात्मकत्वेन प्रत्येकं तद् द्विधा मतम् || ४/२ || बुद्धिकर्मेन्द्रियव्रातौ स्थितौ ज्ञानक्रियात्मना | दशधाप्याप्तिसारत्वात् तयोरपि परिस्फुटम् || ४/३ || आश्रये बुद्धिमनसी स्थिते सामान्यरूपतः | एवं द्वादशकं यत्र प्रकाशकलिलात्मकम् || ४/४ || अविभिन्नतयोत्पन्ननिर्विकल्पमयप्रथम् | प्रकाशचक्रपूज्यं * * * द्वादशधा स्थितम् || ४/५ || (प्. २२) संवित्कदम्बकगुहास्थितं (-बकल-) सिद्धनिषेवितम् | प्रकाशमात्रप्राधान्यादन्वर्थं नामतः स्थितम् || ४/६ || प्रमाणसृष्टिप्रवणा अत्र संविन्मरीचयः | अवधानधनैर्ज्ञेया (-नैव्येया) द्वादशात्मावशुद्धये || ४/७ || संमूर्च्छितप्रकाशात्मा मरीचीनामयं चयः | देशकालक्रियारूपकलासृष्टिलयावनिः || ४/८ || मासराश्यादिरूपोऽपि द्वादशात्मानुभूयते | कालक्रमो बहिस्तत्तद्भावभावकसंवृतः || ४/९ || प्रमाणसृष्टिसंरम्भलम्पटासु (-रभंलप-) मरीचिषु | बहिर्मुखास्वहङ्कारो निलीनोऽत्र व्यवस्थितः || ४/१० || अन्तःस्पन्दप्रधानत्वात् खे निरावरणात्मनि | चरन्त्या एव विष्फारः खेचर्या द्वादशात्मना || ४/११ || ज्ञानक्रियासामरस्यमयशक्तिस्वभावतः (-ञ्च) | तदाकारमयत्वेन (आ *-) पूर्वं विश्वस्य सम्भवः || ४/१२ || ततः प्रमाणरूपेण द्वादशात्मतयोदयः | ज्ञानक्रियासामरस्यात् (स्यं-) किञ्चिदुद्रेकलक्षणः || ४/१३ || अत्र दत्तावधानानां देशकालक्रियात्मनः | कालक्रमस्य सहसा ग्रासो भवति योगिनाम् || ४/१४ || स्वभावावरकत्वेन (*-) ये लोकस्य व्यवस्थिताः | ज्ञानिनः स्वस्वरूपस्य विष्फारस्तैस्तु तन्यते || ४/१५ || अतः कालक्रमस्यास्य द्वादशात्मा य उद्भवः | स एवं सन्निविष्टान्तत्(?)ग्रासेन सहसावनिः || ४/१६ || (प्. २३) इति कथितमुदारयुक्तियोगा- दनुभवभूमिगतं प्रकाशचक्रम् | गुरुवरमुखसम्प्रदायगम्यं परमसमाधिमतामतन्द्रितं स्यात् || ४/१७ || इति श्रीमहानयप्रकाशे प्रकाशचक्रनिरूपणं नाम चतुर्थोल्लासः || अथ पञ्चम उल्लासः | (प्. २३) स्वात्मप्रमेयमयनिर्मितपूर्णभावा- दिच्छानुरूपविभवेन समुल्लसन्त्यः | चिद्रश्मयो न च चमत्कृतयो हि यस्मिन्- नानन्दचक्रमधुना तदिदं प्रवच्मः || ५/१ || प्रकाशचक्रं यत् पूर्वं प्रमाणाद् विनिरूपितम् | विषयाभोगविभवा प्रसृतेच्छास्य पूर्यते (प्रपूर्यते) || ५/२ || तन्मात्राभूतरूपं च संविदाश्यानतामयम् | पञ्चात्मकं यद्विषयस्वरूपमनुभूयते (यद्विषय * रूप) || ५/३ || तत्र संविन्मरीचीनां बुद्धिकर्मेन्द्रियात्मनाम् | विषयाभोगनिर्ज्ञातनिर्विकल्पप्रतिष्ठिते || ५/४ || ऐकध्याद् बुद्धिमनसोर्य एकादशधोद्यमः | षोडशात्मा स सञ्जातो विषयाभोगपूरणात् || ५/५ || आनन्दचक्रं तदिदं षोडशात्मतया स्थितम् | चिन्मरीचिचमत्कारप्रमेयोल्लेखदन्तुरम् || ५/६ || (प्. २४) स्वस्वरूपापरित्यागात् प्रमेयीकरणं हि यत् | स्वात्मनो दुर्घटैश्वर्यप्रतिपादनलक्षणम् || ५/७ || अनेन परिपूर्णत्वादिच्छाभोग्यस्य सर्वतः | महानन्दप्रधानत्वाच्चक्रमानन्दसंज्ञितम् || ५/८ || अत्रापि दत्तचित्ता ये भवन्ति ज्ञानशालिनः | विषया एव एतेषां भवेत् संवित्स्वरूपभूः || ५/९ || अत्र विश्वस्वरूपस्य सर्वाकारं समापनात् | चर्वणात्मापि संहारो नान्तरीयतयोदितः || ५/१० || सामरस्यक्रियोद्रेकान्निष्पन्नेऽन्तर्जगद्भरे | विषयाभोग औत्सुक्यं मरीचीनां निवर्तते || ५/११ || चिच्छक्तिभूतायामस्यामिच्छात्मन्युदितो (-या * * मिच्-) भुवि | चरन्त्या एव विष्फारो भूमययाः षोडशात्मकः || ५/१२ || आनन्दचक्रस्य यथोपपत्ति प्रदर्शितं स्वानुभवस्वरूपम् | समाधिलाभाय सदैव भूयाद् भावोपभोगेन महाजनस्य || ५/१३ || इति श्रीमहानयप्रकाशे आनन्दचक्रनिरूपणं नाम पञ्चमोल्लासः || अथ षष्ठ उल्लासः | (प्. २४) यत्रावृत्तिवशेन विश्वविभवोल्लासोपभोगात्मनां रश्मीनां विलयो ह्यकृत्रिमतमेऽहङ्काररूपे भवेत् | तत्तत्कालकलाकलापकबलव्यापारपारङ्गमं ध्यात्वा सम्प्रति मूर्तिचक्रमुचितं व्या *? न्यते (युक्तिभिः) || ६/१ || (प्. २५) आनन्दचक्रं यदिदं षोडशात्म निर्रुपितम् | विश्रान्तिरुदिता (-चिरा) तस्य प्रत्यावृत्त्या प्रमातरि || ६/२ || अतः प्रमातृरूपस्य मूर्ततात्रानुभूयते | अहङ्कारस्य सकलप्रयोगार्थदशात्मनः || ६/३ || बहिर्मुखमरीचीनां प्राधान्ये सति यो भवेत् | अव्यक्तरूपोऽहङ्कारः स मूर्तोऽत्र स्फुटं स्थितः || ६/४ || प्रमाणरूपः प्रथमं द्वादशात्मा यतः स्थितः | कालसृष्टिमयः स्फारो (स्फुरा) मरीचीनां चिदुत्कटः || ६/५ || विषयाभोगरूपेण कामेनास्य प्रपूर्यते | बहिर्मुखे वा यदतः कालकामात्मकं जगत् || ६/६ || निष्पन्ने जगतो रूपे कालकामक्रमात्मके | विषयाभोगविष्फारविषण्णासु मरीचिषु || ६/७ || प्रत्यावृत्त्या स्वस्वरूपमेलनाभासतत्परः | सप्तदशः (-श) षोडशानां मरीचीनां विनायकः || ६/८ || प्रमातृरूपोऽहङ्कारो मूर्तत्वेन समुत्थितः | सप्तदशात्म तदिदं मूर्तिचक्रं विमृश्यताम् || ६/९ || कामोपभोगकालात्मग्राससाहसतत्परम् | तत्तत्प्रतीतिवैचित्र्यवासनालयभूमिगम् || ६/१० || पूर्वं बहिर्मुखात्मा यो मरीचीनां चयो भवेत् | इदानीं स समापन्नो मातृमेलावभाजनम् [-मेलाप-] || ६/११ || कालसृष्टिमयं मानं (भानं) मेयं कामक्रियात्मकम् | एतद् द्वयं यत्र लीनं सामरस्येन वर्तते || ६/१२ || (प्. २६) बीजभावात्मना सैषा कालग्रासप्रनालिका | आवासनेन (अव-) सहसा मूर्तिचक्रेऽनुभूयते || ६/१३ || कालात् कामस्य विष्फारः कामात् कालस्तु वर्धते | इति विश्वक्रमे हेतू कालकामौ न तात्त्विकौ || ६/१४ || कामात्मतां विना कालः कथं स्यात् कलनात्मकः | कलनात्मकतावर्ज्यं कथं कामस्य सम्भवः || ६/१५ || अतः (* *) परस्परापेक्षौ कालकामौ न तात्त्विकौ | अकालकलिताद् रूपादकामाच्च समुत्थितौ || ६/१६ || तयोः कबलनं यत्र प्रत्यावृत्त्या भवेत् स्फुटम् | तद् विश्वग्रासरसिकं स्वरूपं परमेशितुः || ६/१७ || एतत् प्रमेयानुगमात् कालकाममयं (* यं) द्वयम् | बाह्यं ददाह शिखिनां स्थूलरूपधरो हरः || ६/१८ || तदित्थं यो ह्यहङ्कारो निर्माता कालकामयोः | प्रत्यावृत्त्या स एवान्तः संहर्ता कालकामयोः || ६/१९ || अहङ्कारस्य मूर्तत्वप्राधान्यान्मूर्तिसंज्ञितम् | चक्रं सप्तदशमयक्रममेलपसुन्दरम् || ६/२० || तत्तादृशाद् विचित्रत्वात् प्रतीतीनां स्वभावतः | नामसंस्थानयोर्भेदं प्रति चक्रं प्रवर्तते || ६/२१ || स्वसिद्धरूपप्राधान्यात् तत्र सिद्धतया स्थितेः (स्थितिः) | निर्मेययोगतः शक्तेर्योगिनीत्वेन सम्भवः || ६/२२ || परं रहस्यं कथितं किञ्चित् किञ्चित् क्वचित् क्वचित् | सर्वं सभयभीरुत्वान्नैकत्रैव प्रकाश्यते || ६/२३ || (प्. २७) महानयप्रकाशेऽस्मिन् ये पूर्वापरवेदिनः | हस्तामलकवत् तेषां वस्तुतत्त्वं प्रकाशते || ६/२४ || इत्थं विश्वस्य संस्थानं प्रमात्रन्तं निरूपितम् | गुरुदृक्पातपात्राणां संशयत्रासविच्छिदे || ६/२५ || यथाक्रमं मानमेयमातृरूपतया बहिः | खचक्रात् प्रसृतं विश्वं परशक्तिस्वभावतः || ६/२६ || स्तोत्रकारस्येदमेव स्थितं चेतसि यज्जगौ | संवित् स्तोत्रैः समालोकप्रमाणार्थप्रमातृतः (-तृदः) || ६/२७ || प्रत्यावृत्त्या वितन्वत्याः संहारस्यापि भक्षणम् | देव्याः संहारभक्षिण्याः स्फार एष सुसङ्गतः || ६/२८ || मूर्तिचक्रवरसम्प्रदायतः कालघट्टनमयी समन्ततः | संविदत्र परमार्थयोगिनां भासतामसमसाहसावनिः || ६/२९ || इति श्रीमहानयप्रकाशे मूर्तिचक्रनिरूपणं नाम षष्ठोल्लासः || अथ सप्तम उल्लासः (प्. २७) अविकल्पविकल्पसंविदां सकलं वृन्दमनुज्झितक्रमम् | उदयादिमयं (-मया) यदन्तरे हठपाकेन गलत्यनारतम् || ७/१ || अनुभूय गुरुप्रसादतः परविश्रान्तिदशामनुत्तराम् | तदिदं समुदायपूर्वकं किल वृन्दक्रमचक्रमुच्यते || ७/२ || प्रत्यक्षानुभवं श्रित्वा भूतभावमयं जगत् | पीठक्रमदृशा पूर्वं गुरुणा प्रतिपादितम् || ७/३ || (प्. २८) अन्यहेतुनिरासेन तस्य मूलात् समुद्भवः | खचक्रात्मतयोन्मग्नः पञ्चात्माथ प्रकाशितः || ७/४ || स्वप्रकाशकरान्तस्थस्फुटज्ञानक्रियात्मकः | प्रमाणात्मा द्वादशधा ततोऽपि प्रतिपादितः || ७/५ || ततोऽपि दुर्घटैश्वर्यपारिपूर्ण्यचमत्कृतेः | आनन्दाख्यः षोडशधा प्रमेयात्मा निरूपितः || ७/६ || ततो बहिर्मुखैश्वर्यतृप्तेरुपरमे सति | स्वप्रतिष्ठतया सृष्टिसंहारात्मा व्यवस्थितः || ७/७ || प्रत्यावृत्त्यात्मतश्चापि यत्र सर्वं प्रलीयते | मातुः सप्तदशस्यास्य मूर्तत्वेन समुद्भवः || ७/८ || तदित्थं सर्वजन्तूनां व्यवहारदशाक्रमे | सिद्धोऽपि यो बहिर्भावः सर्वः सर्वविदात्मकः || ७/९ || मेयमानप्रमात्रात्म बहिः सिद्धमपीह यत् | तत् प्रकाशं विना सिध्येन्न कथञ्चन कस्यचित् || ७/१० || अतः प्रकाशनिष्पत्त्या निष्पत्तिर्यस्यकस्यचित् | परस्यापरनिष्ठत्वान्नत्वैक्यं चिज्जडात्मनोः || ७/११ || अतो यद् विश्ववैचित्र्यं [-चित्यं] जडात्मैवानुभूयते | स्वोल्लेखरेखासंस्थानं तत् स्वतन्त्रं चिदात्मकम् || ७/१२ || पराकाशात् स्पन्दनत इच्छातोऽथ यथाक्रमम् | इन्द्रियद्वारतः पश्चाद् भावाभासः प्रवर्तते || ७/१३ || बहिःसिद्धेऽपि विषये प्रमातॄणां स्वभावतः | तदत्र यावद् गुरुणा विश्वस्योदयसंस्थितिः || ७/१४ || (प्. २९) संहृतिः स्वस्वभावश्च स्वसाक्षित्वेन दर्शितः | अतः सर्वत्र चक्राणां स्वरूपप्रतिपादनम् || ७/१५ || महानुभावाधिष्ठानात् सामरस्यं प्रवर्तते | आरघट्टघटीयन्त्रन्यायेनैतावतः सदा || ७/१६ || जगतः सृष्टिसंहारौ (-संसारौ) भावाभावमयौ स्थितौ | अने(क)क्रमयोगेनाप्याक्षिप्ते (अने * - -ते) * * गोचरम् || ७/१७ || विचित्रसृष्टिसंहारप्रबन्धः परिवर्तते | शून्यादारभ्य देहान्तं सङ्कोचात्मा हि योऽग्रतः || ७/१८ || स संसारो विमुक्तिस्तु तत्स्वरूपविपर्ययः | तदत्र यावत् संसारस्तत्तद्रूपतया स्थितः || ७/१९ || * * * समुद्धर्षाभ्यां सङ्कोचस्य व्यवस्थितेः | न भावत्यागतो मुक्तिर्नापि भावोपभोगतः || ७/२० || भावनालम्बनान्नापि (भावनाशाल-) शून्यमात्रोपलम्भतः | अनाग्रहादाग्रहाद्वा कस्यचिन्नापि तात्त्विकी || ७/२१ || असङ्कोचापटात्मा सा विमुक्तिः पारमार्थिकी | यदपेक्षावशात् सर्वाः संसारोन्या(?) विमुक्तयः || ७/२२ || एतदात्मनि विश्वस्य स्वस्वरूपविलापनम् | सङ्कोचदलनाभ्यासाद् वासनालयभूमिगम् || ७/२३ || निरावरणताहेतोरतस्तत्प्रतिपत्तये | वृन्दक्रमस्य संस्थानं कथ्यते गुर्वनुग्रहात् || ७/२४ || स्वविमर्शावधानेनाप्याकालाग्नि शिवावधि | विश्वस्य भावः सहसा स्वस्वरूपे विचीयते || ७/२५ || (प्. ३०) महानयमहायानवेदान्ताद्वयवादिनः | सदृशाः प्रतिपाद्यन्ते चार्वाकाद्वयवादिभिः || ७/२६ || ये हस्तिमशकन्यायादर्थादर्थास्तु भेदिनः | तैर्जडा विप्रलम्यन्ते सदृशैरभिधायकैः (-सायतैः) || ७/२७ || अतो नास्तिकतातत्त्वं चित्ते कृत्वा दुरात्मभिः | महानयोपदेशेन पात्येते स्वपरावधः || ७/२८ || सर्वोत्कृष्टस्वभावस्य शिवस्यापि महात्मनः | स्थितः सङ्कोचसंस्कारः का कथान्येषु जन्तुषु || ७/२९ || अतो नित्यावधानेन स्वस्वरूपमयस्थितेः | सर्वाग्रहग्राहवशाज्जीवन्मुक्तिः प्रकाशते || ७/३० || तच्चावधानं विषयिस्वरूपपरिशीलनात् | अविकल्पविकल्पात्मस्थैर्यरूपतया पुनः || ७/३१ || विकल्पशृङ्खलाबद्धो हेतुकार्यात्मको हि यः | नानाविधाग्रहग्रन्थिवासनावेधबृंहितः (-जहितः) || ७/३२ || न शक्योऽसावपह्नोतुं किल प्रत्यात्मवेदनात् | अतः संहाररूपोऽयं * * * * विना कथम् || ७/३३ || सहसा ग्रसितुं शक्यः संवादैरेव पेशलैः | तस्मात् स्वरूपदार्ढ्येन सर्वावरणभेदिना || ७/३४ || परावधानरूपेण स्थातव्यं परयोगिना | अतो विश्वस्य संस्थाने यन्मुखेन यदागतम् || ७/३५ || तन्मुखेनैव तत् तस्य हठपाकेन लीयते | विश्वं प्रकाशाधीनत्वात् तन्मयत्वाच्च वस्तुतः || ७/३६ || (प्. ३१) संवित्स्वरसवाहित्वाच्छून्यं स्थापयितुं यथा | तथैव हठपाकेन प्रत्यावृत्तिक्रमात्मना || ७/३७ || निरावरणतां नेतुं शक्यं संस्थानशीलनात् | एतस्मिन् विदिते सम्यङ्मुक्तिः संसारभूमितः (-नाम्) || ७/३८ || अन्यथा मुक्तिरूपं तु संसारस्यापरो विधिः | यथास्थितस्य विश्वस्य यथैवानुभवे स्थिते || ७/३९ || सङ्कोचसंस्थानलयाज्जिवन्मुक्तिः प्रकाशते | यथैव पश्यन्ति विश्वं तथैव परिवर्तते || ७/४० || संवित्स्वातन्त्र्यतस्त्यक्तसर्वोपायकदर्थनम् | अतो विमर्शरूपोऽयं कथनात्मा प्रकाशते || ७/४१ || सत्सम्प्रदायो गुरुणा सर्वावरणभेदकः | मूर्तिचक्रे ह्यहङ्कारः प्रमात्रात्मा य उत्थितः || ७/४२ || स्वात्मसङ्कोचसंहारपूर्वे स हठपाकतः | भावसंस्काररूपस्य रश्मिवृन्दस्य सर्वतः || ७/४३ || तिष्ठतो बीजभावेन मातृमेलावरूपिणः (मात्र-) | निर्विकल्पविकल्पांशान् भावाभावद्वयानुगान् || ७/४४ || विनिर्भिद्य विनिर्भिद्य संहरत्यान्तरानपि | निर्विकल्पविकल्पांशाः प्रायः सङ्कलनावशात् || ७/४५ || सम्भवन्ति चतुष्षष्टिः प्रतीतीनां स्वभावतः | तत्रापि ज्ञेयसंस्काराभिज्ञरूपाः प्रतीतयः || ७/४६ || सम्भवन्ति चतुष्षष्टिः सोपानक्रमयोगतः | अन्या - अपिच तन्निष्ठा हठपाकैकलम्पटाः || ७/४७ || (प्. ३२) ज्ञातृभोगस्वरूपिण्यस्तत्संख्या एव वस्तुतः | ज्ञातृभोगस्वरूपाणां मरीचीनां कदम्बकम् || ७/४८ || प्रत्येकं हठपाकेन ग्रसितुं तत्र वर्तते | तच्च स्फुटास्फुटत्वेन वर्ततेऽनुभवादपि || ७/४९ || ज्ञेयसंस्काररूपाणां (ज्ञेयं-) प्रतीतीनामनुक्रमात् | आसां सर्वप्रतीतीनां परविश्रान्तिलक्षणम् || ७/५० || न क्षणं च्यवते रूपं यस्याः सा पारमार्थिकी | सर्वोत्तीर्णा सर्वमयी सर्वसर्वात्मकप्रथा || ७/५१ || अविभिन्ना विभिन्नेव या काचित् पारमेश्वरी | व्यपदेशातिगा तस्याः स्वस्वरूपमयस्थितेः || ७/५२ || पञ्चषष्टिप्रतीतित्वमुपचारेण गीयते | रौद्रेश्वर्या अयं स्फारः प्राधान्येन व्यवस्थितः || ७/५३ || संस्कारहठपाकात्मा ग्रासव्यापारपारगः | संहारभक्षिणीरूपाद् व्योमेश्यन्तं हि यत् स्थितम् || ७/५४ || चक्रसंस्थानमेतस्य निजचक्रक्रमान्तरे | निर्विभज्य स्वकं रूपं हठपाकक्रियात्मकम् (कः?) || ७/५५ || प्रत्यावृत्त्या स्वस्वरूपे निरावरणसुन्दरे | इच्छासंस्कारविरहे क्षीणा विश्राम्यति स्वतः || ७/५६ || परधारासमारूढसामरस्यावसानभूः | एषा कृशतनुर्देवी सर्वेच्छाविलयावनिः || ७/५७ || अनपायपदप्राप्त्यै कैश्चिदेवाभ्युपास्यते | यां (*) यां (या) स्वचक्रे चक्रेशी तां तामाविश्य युक्तितः || ७/५८ || (प्. ३३) रौद्रेश्वरी सर्वचक्राण्यामूलाद् ग्रसति स्वयम् | अतो वृन्दक्रमे सर्वमुपादेयतया स्थितम् || ७/५९ || प्रमेयजातं सङ्कोचकलाविच्छेदनक्षमम् | मुद्रामन्त्रनिरीहादिप्रमेयप्रतिपादनात् || ७/६० || कथनात्मा सम्प्रदायो निष्ठामत्र परां गतः | कथनात् संशयच्छेदः पूजनं परिपूर्णता || ७/६१ || सङ्क्रमात् सामरस्यस्य परा निष्ठा प्रवर्तते | अतोऽत्र सावधानेन हृदयेन विमृश्यताम् || ७/६२ || चतुष्षष्टिमरीचीनां संस्थानं हृदयङ्गमम् | प्रत्यक्षानुभवात् (* * वात्) सर्वं स्वात्मा भवति योगिनाम् || ७/६३ || अतो गुरुमुखात् तद्यत् प्रत्यक्षेणानुभूयते | विषयाभोगसंस्काररूपो यः कामसम्भवः || ७/६४ || कालेनासाद्यते भूयः स तद् बीजक्रमात्मना | तद्भोगेनापि कालस्य तृप्तेरुपरमे सति || ७/६५ || यथाक्रमं स्वस्वरूपहानिः संजायते स्फुटम् | तदित्थं प्रथमः कालः कामं सृष्ट्वा ततः क्रमात् || ७/६६ || प्रत्यावृत्त्या तु तद्ग्रासात् स्वं स्वं रूपं ग्रसत्यपि | तदेतद् वस्तुतः सर्वं मरीचीनां विजृम्भितम् || ७/६७ || अक्रमाणां क्रमाभासरूपमप्रत्यक्षतः स्थितम् | तत्र कालस्य या सृष्टिर्द्वादशात्मा निरूपिता || ७/६८ || प्रत्यावृत्तिक्रमोन्माना मूर्ताहङ्कारमेलनात् | त्रयोदशात्मतां प्राप्ता सा विश्रान्तिपदोन्मुखी || ७/६९ || (प्. ३४) त्रयोदशानां रूपाणां प्रत्येकमुदयादिभिः | पञ्चात्मिका पञ्चषष्टिस्तत एता मरीचयः || ७/७० || अन्त्या क्रमाक्रमोत्क्रान्त्या विश्रान्तिरिति गीयते | चतुष्षष्टिमरीचीनां सामरस्यावसानभूः || ७/७१ || उदयादिमयोल्लासद्वादशात्ममरीचयः | तन्मयोल्लासपरमाहङ्कारानुगमूर्तयः || ७/७२ || प्रतिभावं प्रवर्तन्ते हठग्रसनलम्पटाः | भावानुभवभूमौ हि स्तिमितिव्यन्तरात्मनि || ७/७३ || सर्वेन्द्रियमरीचीनां चक्रं युगपदुल्लसेत् | यस्या यस्या यत्र यत्र रूपादावधिकारिता || ७/७४ || तस्यास्तस्यास्तत्र तत्र स्वोद्रेकः केवलं स्थितः | तन्निलीनत्वमन्यासामित्येकोऽनुभवो नचेत् || ७/७५ || कथं स्याद्रूपलावण्यविकासाढ्यपरस्त्रियाम् | अभिलाषस्तथाह्येष प्रायः स्पर्शेन्द्रियात्मकः || ७/७६ || नचात्र रूपलावण्यविलासः स्पर्शनात्मकः | एवं वचनमाधुर्यं तथाङ्गश्वाससौरभम् || ७/७७ || अधरामृतपानं च सर्वं स्यात् तच्च निष्फलम् | तदित्थं सर्वरश्मीनां सर्वसर्वात्मतामयम् || ७/७८ || प्रमातृपरितोषात्मसामरस्यव्यवस्थितम् | स एष परमो वीरः पराहङ्कारलक्षणः || ७/७९ || युगपत् सर्वरश्मीनां परं द्रावणलक्षणम् | आद्ययागं समासाद्य सामरस्येन वर्तते || ७/८० || (प्. ३५) चक्रेश्वरः स एवायमाद्ययागादनन्तरम् | चतुष्षष्टिमयेनान्तः शक्तिचक्रेण सङ्गतः || ७/८१ || निर्विकल्पविकल्पात्मसंस्कारान् पशुरूपिणः | गगलनक्षमा ततोऽपि परिविश्रामविलीना(?) || ७/८२ || हठेनाहन्ति रभसात् स्वचक्रपरितृप्तये | मध्ये च परमामोदचमत्काररसात्मिका (पर * -) || ७/८३ || मदिरा जृम्भते कापि विभस * कलक्रियः | कान्दिशीकत्वमायाति परशक्तावसावपि (-त्सावपि) || ७/८४ || वीरसिंहासनस्थेयं देवी (-वीं) परममङ्गला (-लाम्) | चलनान्मोहरूपस्य क्रमणात् परसंविदः || ७/८५ || गुरुः सकलचक्राणां क्रमाक्रमपदोज्झितः | उद्द्योतातिक्रमश्चापि (उद्योगातिक *श्चापि) द्वैविध्येन व्यवस्थितः || ७/८६ || पराकाशस्पन्दनेच्छादृक्क्रियात्मा बहिर्मुखः | एकस्तद्व्युक्रमात्मान्यः पराकाशप्रतिष्ठितः || ७/८७ || बहिर्मुखत्वेऽपीच्छातश्चर्वणं तत्त्रयात्मनः | कामसंसर्गतस्तस्य प्रत्यावृत्त्या (+त्म)समन्ततः || ७/८८ || ज्ञानक्रियातः कालस्य ग्रासो विश्रान्तिरप्यथ (-*) | विषयाभोगनिर्ज्ञातनिर्विकल्पेऽपि यत् स्फुटम् || ७/८९ || कालग्रसनविश्रान्ती सर्वेषां भवतः क्षणम् | अन्तर्मुखत्वे तूद्द्योताद् भावामर्शक्रियात्मकात् || ७/९० || आरभ्य चिति विश्रान्तिपर्यन्तं पञ्चकं स्थितम् | एवं बहिर्मुखाभावावसरे ह्युदयादिकम् || ७/९१ || (प्. ३६) व्योमेश्वरीक्रमाद् यावद् रौद्रेशीपञ्चकं स्थितम् | तद् (*) बहिर्विश्वमाश्रित्या * * * थ क्रियात्मनः || ७/९२ || विमर्शात् परमाकाशपर्यन्तमपि तत् स्थितम् | * * * * समाश्रित्य पूर्वं पीठक्रमात्मना || ७/९३ || यागादिभेदरूपेण तज्ज्ञप्तिर्गुरुणा कृता | ततो विश्वस्य संस्थानमामूलात् प्रतिपादितम् || ७/९४ || मानमेयप्रमात्रात्ममूर्तिचक्रान्तमित्यतः | इदानीं येन रूपेण सर्वाकारं विलीयते || ७/९५ || यथास्थितक्रमेणैव तद् बृन्दं प्रतिपाद्यते | सामरस्ये प्रवृत्तेऽपि ज्ञानमेलापलक्षणे (-मेलाव-) || ७/९६ || वासनावेधसंस्काराः कालग्रासेऽपि यत् स्थिताः | अतः क्रियां विना तेषां हि (न) निर्हरणं भवेत् || ७/९७ || चिद्विमर्शस्वरूपेण स्वात्मयागमयात्मना | अलं ग्रासप्रवृत्तेन क्रियावेशेन तत्त्वतः || ७/९८ || भूय उन्मज्जनं न स्यादेषामिति विशेषतः | रौद्रेश्वरीमयः स्फारः परानुग्रहभूमिकः || ७/९९ || मिथ्याभिमानरूपो (-विमान-) यः संसारोऽत्र विलीयते | निस्संस्कारप्रकामात्मा पराशक्तिः प्रवर्तते || ७/१०० || अस्या एव ततो देव्या अपि प्राधान्यमिष्यते | निरावरणता (-णं *) यस्मादतः सञ्जायते स्फुटम् || ७/१०१ || पूर्वं या ज्ञेयसंस्कारभित्तिरूपाः प्रतीतयः | सोपानक्रमरूपेण चतुष्षष्टिर्निरूपिताः || ७/१०२ || (प्. ३७) स्वचक्रे पशुरूपाणां तासां धामत्रयात्मनाम् | चिद्विमर्शस्वरूपेण हठपाकेन गालनम् || ७/१०३ || क्रियते चरुचर्यादिप्रक्रमानुभवात् स्थिरम् (-रः) | तत्र रौद्रेश्वरीरूपं प्रथमं षोडशात्मनः || ७/१०४ || मेयसंस्कारचक्रस्य विषयाभोगरूपिणः | निरावरणतां नेतुं प्रवृत्तं चिद्विमर्शतः (-कः) || ७/१०५ || कामस्वरूपमामूलादत्र ग्रस्तं समन्ततः | अहङ्कारेण सिद्धत्वं श्रित्वा तत्तन्मरीचिनाम् || ७/१०६ || संहारभक्षिणीरूपं ज्ञानं सिद्धमयात्मताम् | आविश्य मेयसंस्कारचक्रं तत्र प्रलीयते || ७/१०७ || ततः कालस्वभावस्य द्वादशात्ममयस्थितेः | मानसंस्कारचक्रस्य प्रत्यावृत्तिक्रमात्मनः || ७/१०८ || अविकल्पविकल्पाभ्यां चतुर्विंशतिरूपतः | मननत्राणधर्माभ्यां मन्त्रसिद्धमयात्मताम् (-नाम्) || ७/१०९ || आविश्य तत्स्वरूपस्य विकल्पोपक्रमो लयः | भूचरीरूपमाविश्य क्रियतेऽनुभवात्मना || ७/११० || ततो विकल्परूपस्य निर्विकल्पप्रतिष्ठितेः | मेलापसिद्धतां (मेलाव-) श्रित्वा कालग्रासो हि तन्यते || ७/१११ || द्वादशात्मक्रमोन्मग्नमेलापानन्तरं (-मेलावा-) ततः | तन्मात्ररूपसंस्कारास्तथान्तःकरणत्रयम् || ७/११२ || अष्टाविह विशिष्यन्ते शाक्ता अव्यक्तमूर्तयः | तद्विनिर्हरणाद्युक्तं शाक्तमष्टात्मकं हठात् || ७/११३ || (प्. ३८) खेचरीरूपमाविश्य सूक्ष्मकालांशभेदकम् (-कः) | सूक्ष्मेक्षिताप्रकारेण परं तन्मात्ररूपिणः || ७/११४ || एकस्य कामसंस्कारवेधस्याप्यस्ति (-न्ति) संभवः | तथैव चान्तःकरणत्रयसंस्कारभूमिगः || ७/११५ || अनुवेधोऽस्ति यस्याप्युद्युगाप्यत्र संलयः (?) | चक्ररूपं शाम्भवं * तञ्चक्रं क्रमतः स्थितम् || ७/११६ || श्रेयसः पररूपस्य शंस्वभावतया यतः | भवनं शाम्भवं तेन चक्रमेतत् प्रकीर्तितम् || ७/११७ || व्योमेश्वरी स्वस्वरूपे प्रत्यावृत्तिक्रमात्मना | रौद्रेशीरूपमाविश्य कालग्रासादनन्तरम् || ७/११८ || स्वकृत्यं सकलं कृत्वा सम्यग् विश्राम्यति स्वतः | तदत्र सर्वसंस्कारचक्रमक्रमरूपिणा || ७/११९ || ज्ञातृभोगस्वरूपेण चतुष्षष्टिमयात्मना | स्फुटास्फुटत्वभिन्नेन मेयाभ्यासाद् यथायथम् || ७/१२० || मेयमानप्रमातृत्वं विचित्रक्रमरूपतः | चतुष्षष्टिमयं मेयं सर्वाकारं (-*) रसिष्यते (-स्यते) || ७/१२१ || मुद्रामन्त्रात्मकोऽत्रैव सम्प्रदायोऽनुवर्तते | प्रसङ्गादिह तस्यापि स्वरूपं प्रतिपाद्यते || ७/१२२ || स्वरूपज्ञापनारूपं मुद्रासंस्थानमिष्यते | स्वविमर्शात्मना त्राणमिष्यते मन्त्रलक्षणम् || ७/१२३ || नानानुभवरूपासु व्यवहारदशास्वपि | एतद् द्वयं व्याप्तिसारं स्फुटं प्रत्यक्षतः स्थितम् || ७/१२४ || (प्. ३९) अद्याप्यभिन्नरूपत्वात् परोक्षमिव वर्तते | यत्परिज्ञानवशतो भवो भवति मुक्तिभूः || ७/१२५ || मुद्रामन्त्रौ बिन्दुनादौ निरीहात्मा तदाश्रयः | अविभागेन वर्तन्ते सर्वानुभवभूमिषु || ७/१२६ || करङ्किणी क्रोधिनी च भैरवी लेलिहानिका | खेचरी चेति मुद्रायाः पञ्चात्मकतया स्थितिः || ७/१२७ || यो ज्ञानमन्त्रमेलापशाक्तशाम्भवभेदतः (-मेलाव-) | क्रमस्तस्य यथासंख्यमेताभिः सर्वथान्वयः || ७/१२८ || मुद्रामन्त्रनिरीहाणां धामवर्णचिदात्मनाम् | अन्योन्याव्यभिचारेण सामरस्यादभिन्नता || ७/१२९ || क्रमे सर्वज्ञपर्यन्तं प्रत्यक्षा कापि या स्थिता | यत्परिज्ञानवशतः कायवङ्मनसाश्रयम् || ७/१३० || सङ्कोचसंस्कारलयात् सर्वाकारं विशुध्यते | आणवादिसमावेशत्रयव्यापकरूपता || ७/१३१ || यत्रापि भिन्नानुभवात् स्वरूपस्थितये भवेत् | यादिकर्मादिकल्म(?)त्रयमक्रमतो लयम् || ७/१३२ || यत्प्रसादेन यत्स्फारात् त्र्युट्यते कालघट्टनम् | इच्छानिर्हरणात् सृष्टमाकालाग्नि शिवावधि || ७/१३३ || मेयमद्याप्यनुन्मग्नप्रथाकथनरूपतः | केषाञ्चिदेव सङ्क्रान्ता मुखान्मुखमनुक्रमात् || ७/१३४ || महार्थकथनं यस्या विना यादृशतादृशम् | यां विनापि नयस्यास्य वैलक्षण्यं न जायते || ७/१३५ || (प्. ४०) सैषा रहस्यरूपत्वान्मुखाम्नायैकगोचरा | लिपौ पातयितुं शक्त्या न सम्यग्वदते मनाक् (*) || ७/१३६ || कटाक्षीक्रियते (* टा-) बुद्धौ तज्ज्ञानं सूक्ष्मदर्शिनाम् | प्रत्यक्षानुभवादस्या भेदग्रासो हि यत्नतः || ७/१३७ || अवर्णाकारसंस्थानां प्रमातॄणां स्वभावतः | अपटाटङ्कसङ्केतात् कायसंस्थानतः स्थिता (-तम्) || ७/१३८ || कायसंस्थानरूपा च मुद्रा सार्वत्रिकी मता | करङ्कानुभवात्मत्वात् प्रथमं साकरंकिणी (-रकिंकिणी)|| ७/१३९ || ततः करङ्करूपस्य स्वात्मन्याधारतावशात् | संरभात् क्रोधिनीरूपमसावाश्रित्य वर्तते || ७/१४० || ततोऽपि तत्स्वरूपस्य सान्तर्विपरिवर्तिनः | यथायथं सम्भरणाद् भैरवीति प्रकीर्तिता || ७/१४१ || ततोऽपि वासनारूपपुर्यष्टकविलापनात् | महाविलयरूपत्वाल्लेलिहानेति कथ्यते || ७/१४२ || ततश्चापि स्वस्वरूपे (* स्व-) प्रतिष्ठामभ्युपेयुषि | निरावरणरूपत्वात् खेचरीरूपमास्थिता || ७/१४३ || इयं सा परमा मुद्रा ह्यापातालाच्छिवावधि | तर्पयित्वा जगत्कृत्स्नं निजसंस्थानतः स्थिता || ७/१४४ || एवंविधं हि यत् स्थानं जङ्गमस्थावरात्मकम् | वाचकात्मस्वरूपान्तरध्यस्तं मन्त्ररूपतः || ७/१४५ || आपाद्यते परामर्शात् स्वरूपत्राणयोगतः | अवर्णमयवाक् कल्प * * कारतया स्थितः || ७/१४६ || (प्. ४१) अवर्णात्मा महामन्त्रो विश्वावरणतत्परः | निजस्वरूपटङ्कान्तपञ्चमुद्रात्मकं जगत् || ७/१४७ || आकृष्य घट्टयत्युञ्चैरनाहतहतोज्झितः | भेदप्रपञ्चोपशमः परामर्शान्तकोटिगः (-शः) || ७/१४८ || एतद् द्वयं संविदन्तः सामरस्यतया स्थितम् | निरीहरूपे विश्रान्तिः परविश्रान्तिलक्षणे || ७/१४९ || वाच्यवाचकसंस्थानं वस्तुतः संविदेव हि | निरावरणता यस्मात् स्थिता तत्रापि वस्तुतः || ७/१५० || परस्परापेक्षतया कालकामौ न तात्त्विकौ | नचापि न स्थितौ यस्मात् प्रतीतिपथि वर्तते || ७/१५१ || निरावरणत्वञ्चि तदेवचितो यथा (?) | स्वसंवेदनसंसिद्धं तद्वदेवानयोर्न किम् || ७/१५२ || आमुखाद् भासमानं तु यद्रूपमनयोः स्थितम् | केशोण्डुकाभाससमं तन्निरावरणं पुनः || ७/१५३ || अपरामर्शदोषेण केवलं ह्यनयोः स्थितिः | परामर्शः पुनर्देवी परानुग्रहभूमिका || ७/१५४ || परामर्शे प्रवृत्ते तु शालनं यदि वा स्थितिः | अनयोः समतामेति योगिनः प्रति वस्तुतः || ७/१५५ || एतद्रूपपरिज्ञानद्वयघट्टनसम्भवा | निरीहात्मा संविदेव प्रथतेऽनुपयोगिनः || ७/१५६ || (प्. ४२) मुद्रामन्त्रनिरीहाणां धामवर्णचिदात्मनाम् | ऐकध्यमनया भङ्ग्या प्रतिभावं व्यवस्थितम् || ७/१५७ || मुद्रा स्वरूपकथनं मन्त्ररूपं च पूजनम् | संक्रामश्च (-ञ्च) निरीहात्मा त्रयमेकतयाप्यदः || ७/१५८ || पञ्चशून्यात्मकाकाशपिण्डरूपतया विभुः | संवित्संस्थानमाश्रित्या (-आश्रित्य) वर्णात्माजो (-* जो) विराजते || ७/१५९ || षोडशस्वररूपत्वमस्यान्तः प्रकटं स्थितम् | अपटाटङ्कसङ्केतात् केवलं न विभाव्यते || ७/१६० || एतत्प्रभावाद् व्युत्थाने समाधिर्योगिनां भवेत् | अनुकार्यानुकरणसमानप्रतिपत्तितः || ७/१६१ || एकस्वभावा (-वः) सर्वासु लिपिष्वेव विभुस्थितिः | अन्ये वर्णा विभिद्यन्ते यथा नायं पुनस्तथा || ७/१६२ || एकस्वरूपं मुद्रायाः करङ्कात्मतया स्थितम् | आक्षितेः शिवपर्यन्तं महासामान्यलक्षणम् || ७/१६३ || तथैव वर्णराजस्य महामन्त्रस्वरूपिणः (-णिम्) | सर्ववाचकसामान्यध्वनिरूपतया स्थितम् || ७/१६४ || ७/ तथा खचक्ररूपायाः संविदोऽनुगमः स्थितः | निरीहात्मतयाप्येतद्द्वयविश्रान्तिलक्षणः || ७/१६५ || तदिदं धारणाध्यानसमाधीनां स्वभावतः | व्युत्थानेऽपि स्थितं साक्षात् त्रयमेकत्र संयमः || ७/१६६ || एतत् परिज्ञानवशाद् विक्षेपो नास्ति वस्तुतः | एतद्रूपापरिज्ञानात् का न विक्षेपभूमयः || ७/१६७ || (प्. ४३) तदेतत् परमं गुह्यं योगिनीनां मुखे स्थितम् | मुखागमम्लानभयादुद्घाट्य प्रतिपादितम् || ७/१६८ || एतत्प्रकटनाज्जातो योऽपराधो महान् मम | मरीचिमण्डलं तन्मे क्षम्यतां गुर्वनुग्रहात् || ७/१६९ || पञ्चपिण्डस्वरूपस्य (पण्ड-) सूक्ष्मप्राणक्रमात्मनः | अस्यैव वर्णराजस्य लिपिसंस्थानमन्यथा || ७/१७० || आश्रित्य परमा संविन्मुण्डदण्डतया (-न्मण्ड-) स्थिता | हृत्संविदुत्थरूपाया वर्णारणिमयात्मनः || ७/१७१ || ध्वनन्त्याः परमं नादं महासामान्यवाचकम् | अधः कुण्डलिनीस्रोतोमहावर्तफणाहतेः || ७/१७२ || स्वस्फारध्वनिरूपस्य (-राध्वान-) निष्पत्त्या रचितास्थितेः | प्रत्यावृत्त्या तु यद्धाममेयसंहरणात्मनः || ७/१७३ || अमाकलान्तं पश्यन्त्यास्ततोऽपि परमे पदे | बिन्दुशून्यात्मनि स्थानान्निरावरणता ततः || ७/१७४ || मुण्डनं ज्ञानरूपेण दण्डनं च क्रियात्मना | मुण्डदण्डक्रमौ तेन मतौ ज्ञानक्रियात्मकौ || ७/१७५ || शिरःप्रदेशे मुण्डात्मा ज्ञानेन्द्रियमयाश्रयः | कर्मेन्द्रियस्फारमयो (-धो) दण्डात्मा तु ततोऽपरः || ७/१७६ || आद्यो व्योमेश्वरीस्पन्दरूपो विश्वोदयोन्मुखः (विश्व-) | अन्यो रौद्रेश्वरीस्फारमयो विश्वविलापकः || ७/१७७ || कस्यापि पिण्डनाथस्य देहसंस्थानरूपिणी | व्याप्तिसारा स्थिता मुद्रा पञ्चप्राणक्रियात्मिका || ७/१७८ || (प्. ४४) सूक्ष्मप्राणक्रमोल्लासपिण्डनाथानुसन्धितः | महाप्रभावाज्जायन्ते योगिनामक्रमोदयाः || ७/१७९ || प्रत्यक्षानुभवात् सोऽयमुत्तमः पिण्डवर्णराट् | योगिनां मुख्यविश्रान्तिश्चिदानन्दाय (मुद्द्य-) कल्पते || ७/१८० || परस्थूलक्रमौ प्रायो व्याप्तिसारौ व्यवस्थितौ | सूक्ष्मक्रमप्रभावानामाकारो योगिनां मतः || ७/१८१ || अतोऽत्र पिण्डनाथस्याप्युपयोगो व्यवस्थितः | धामवर्णचिदैकाग्र्यमस्याप्यनुभवस्थितम् || ७/१८२ || आलिङ्ग्यकायं (-* कां) ग्रसितुं यदा कालः प्रवर्तते | तदा भोगविनाशाय तदा कालोपि (-वि) कल्प्यते || ७/१८३ || वाच्यवाचकविच्छेदमयप्राणक्रमात्मना | अक्रमोच्चाररूपेण चित्प्रकाशः प्रकाशते || ७/१८४ || अक्रमोच्चाररूपस्य क्रमात्मायं व्यवस्थितः | अदूरविप्रकर्षेण सामान्यात्मतया पुनः || ७/१८५ || इत्थं स्वानुभवं त्यक्त्वा ये सङ्ख्यामात्रपूरणात् | यथाकथञ्चिच्चक्राणां ग्रन्थ्याधारकलादिभिः || ७/१८६ || वर्णक्रमान्त्यैरन्यैश्च प्रकारैरसमञ्जसैः | स्वरूपं बोधयन्त्युच्चैः तेऽपि (के-) न (*) ज्ञानशालिनः || ७/१८७ || नातः क्रमादयोऽप्यत्र ये तज्ज्ञैः प्रतिपादिताः | आणवत्वात् (अन-) प्रपञ्चस्य नास्माभिस्ते प्रपञ्चिताः || ७/१८८ || आमूलाद् विलसति शाकिनीक्रमेऽस्मिन् शक्ता * द्विगलितसंशयोदयो यः | (प्. ४५) भव्यानामनुभवनिष्ठसम्प्रदायः स्वानन्दामृतरसतृप्तये स भूयात् || ७/१८९ || इति श्रीमहानयप्राकशे बृन्दचक्रनिरूपणं नाम सप्तमोल्लासः || अथाष्टम उल्लासः | स्वात्मज्ञानप्रवणं महाप्रभावप्रवर्तनोपायम् | सृष्टिस्थितिसंहारस्वरूपनिष्ठक्रमं तनुमः || ८/१ || प्रत्यभिज्ञागम्यरूपप्रथनात्मगुरूदयः | बृन्दक्रमान्तैः स्फुरितः सर्वसंशयभेदकः || ८/२ || अतो बृन्दक्रमस्यान्ते पूज्यते गुरुसन्ततिः | आत्मरूपपरिज्ञाने परानुग्रहकारिणी || ८/३ || अत आत्मपरिज्ञाने सम्पन्ने निर्विकल्पकः | विकल्पवासनाविद्धः पूजनात्मा प्रवर्तते || ८/४ || पूजा नाम न पुष्पाद्यैर्या मतिः क्रियते दृढा | निर्विकल्पे महाव्योम्नि सा पूजा ह्यादरालया || ८/५ || इति पूजास्वरूपस्य तत्त्वतः प्रतिपादनात् | स्वसङ्कोचकलालोपे निर्विकल्पं हि पूजनम् || ८/६ || पञ्चाकाशस्वरूपस्य खचक्रस्यानुरूपतः | योन्यादिपञ्चरूपेण पूजनात्मा यतः स्थितः || ८/७ || तत्र योनिर्महासत्ताविश्रान्तिः सर्वसंविदाम् | महायोनिस्वरूपस्य पिकायात्मतयोदिता (?) || ८/८ || (प्. ४६) प्रमेयभूमिकावर्तशङ्खयोनितयोदिता | प्रत्यावृत्तिक्रमाद् भूयः स्वरूपपदरूपिणी || ८/९ || पद्मयोनितया ख्याता ततोऽपि परमे पदे | निजविश्रान्तिमापन्नो दिव्ययोनितयोदिता || ८/१० || इति संक्षेपतस्तत्त्वं पञ्चवाहक्रमस्य यत् | तन्निर्विकल्पतारूपसृष्ट्यात्मा पूजनोदयः || ८/११ || युगनाथप्रसादेन सर्वदास्य स्थितिर्यतः | अतस्तदात्मकत्वेन स्थित्यात्मा पूजनक्रमः || ८/१२ || तत्र व्योमेश्वरीरूपं खगेन्द्रात्मतया स्थितम् | पञ्चाकाशस्वभावस्य निरावरणतामयम् (निशा-) || ८/१३ || मानमेयमयस्वाङ्गसङ्कोचप्रसरक्षमम् | खेचरीभूचरीरूपं कूर्मनाथतयोदितम् || ८/१४ || प्रत्यावृत्त्या प्रमेयस्य महासंहाररूपकृत् | संहारभक्षिणीरूपं मेषनाथतयोदितम् || ८/१५ || भावात्ममयरूपत्वात्मच्छन्द इति वस्तुतः | रौद्ररौद्रेश्वरीरूपं श्रीमच्छन्दतयोदितम् || ८/१६ || तदित्थं युगनाथानां व्याप्तिसारतया स्थितम् | अदृष्टविग्रहाविष्टं व्योमेश्वर्यादिपञ्चकम् || ८/१७ || अविकल्पकविज्ञानस्थैर्येण तदनन्तरम् | देवतारूपमासाद्य स्वस्वातन्त्र्यविजृम्भणात् || ८/१८ || मनसः खण्डनोद्युक्ता एकादश मरीचिकाः | बुद्ध्याद्या एष संहारः प्रधानः पूजनक्रमः || ८/१९ || (प्. ४७) सर्गावतारसंहारचक्राणामित्थमिष्यते | पूजनात्मस्वरूपाणां क्रमोऽयं निर्विकल्पकः || ८/२० || अत्राधिरूढवृत्तीनां व्युत्थानावसरेऽपि यत् | कालग्रासो भवेन्नित्यं नानानुभवभूमिषु || ८/२१ || अतः पूजनरूपोऽयमात्मज्ञानतया स्थितः | उपदेशतरोः पुष्पं चिदामोदमनोहरम् || ८/२२ || ततोऽपि सर्ववृत्तिनां कालग्रासपुरस्सरम् (कलि-) | निरावरणविश्रान्तिः सङ्क्रमात्मा प्रवर्तते || ८/२३ || कथनादेव येषां तद्विश्रान्तिर्जायते परा (पराम्) | सृष्टिस्थितिसंहारचक्रापेक्षां न कुर्वते || ८/२४ || वृन्दक्रमानन्तरं तैरनाख्यं चक्रमिष्यते | सृष्ट्यादिचक्रत्रितयं तन्मते नैव पूज्यते || ८/२५ || अस्मन्मतेऽपि तदपि परिपूर्णार्थमिष्यते | एतत् समारूढिवशात् प्रभावो हि प्रवर्तते || ८/२६ || एतद्विमर्शसम्भूतवीरावल्यादितर्पणात् | आसीद्वामनवीर्यस्य यद्विष्णुस्तम्भनादिकम् || ८/२७ || पूजनात् खेचरत्वं हि सिद्धसूत्रेषु गद्यते | आत्मज्ञानात् प्रवर्तन्ते यथेच्छमणिमादयः || ८/२८ || कथने (कथं न) पूजने चैव सङ्क्रामेऽपि स्वभावतः | प्रत्येकमस्ति त्रैविध्यमुद्रेकाद् भेद इष्यते || ८/२९ || आत्मज्ञानसमुद्यतैरिति निजैर्भावानुभासात्मकैः संविन्मज्जनसारतामुपगतैः सृष्ट्यादिभिः पूजनैः | (प्. ४८) सम्पूर्णामलसुन्दरामृतमयस्फारासवानन्दिताः कालग्रासचरूपहाररसिका नन्दन्तु योगिव्रजाः || ८/३० || इति महानयप्रकाशे सृष्ट्यादिचक्रनिरूपणं नाम अष्टमोल्लासः || अथ नवम उल्लासः | यत्सर्गस्थितिसंहृतिक्रममयैश्चक्रैरुपारूपितं न (*) स्वस्माच्च्यवते मनागपि पदाद्विश्रान्तिलाभात्मिकात् | आविश्याथ तदक्रमक्रमकलोत्तिर्णप्रथं साम्प्रतं तत् सङ्क्राममनाख्यचक्रमुचितैर्युक्तिक्रमैर्दृश्यते || ९/१ || इत्थं गुर्वात्मदेवानां कथनादिकमात्मना | लोलीभावस्थितं नित्यं सर्वानुभवभूमिषु || ९/२ || अभेदेऽपि (-दोऽपि) किलोद्रेकादेतेषां भेद इष्यते | तमाश्रित्यानुरूपेण प्रमेयं प्रतिपाद्यते || ९/३ || प्रायो हि मैथुने मद्ये मांसे च परिदृश्यते | आसक्तिः सर्वजन्तूनां विशेषात् कस्यचित् क्वचित् || ९/४ || यदि तत्त्यागसंरम्भः पूर्वं तेषां विधीयते | उपदेशो न स मनागपि चित्ते प्ररोहति || ९/५ || जन्मान्तरशताब्यस्ता विषयेषु मतिर्नृणाम् | जरद्गौरिव सस्येभ्यः सा हि दुःखेन वार्यते || ९/६ || इति संवादतस्तेषां परित्यागो हि दुष्करः | अभ्यसूयन्ति ते यस्मादुपदेशकराय च || ९/७ || (प्. ४९) यथास्थितोपभोगात्मपूर्वं यत्तूपदिश्यते | तत्राधिरूढिर्लोकस्य श्रद्धापूर्वं प्रजायते || ९/८ || प्रथैकरूपाभावाच्च निर्ह्वियन्ते(??) ततः कथम् | प्रथाया भावपर्यन्तं रूपं तद् भिद्यते कथम् || ९/९ || भेदश्चेद् कल्प्यते तर्हि कल्पनेयं न सत्यभूः | स्फुरणादेव वै तेषां गालनं नापि तात्त्विकम् || ९/१० || तच्च कल्पैरसङ्ख्येयैर्बहुदुष्करचर्यया | नचास्ति स्फुरणाभावो (स्फुर *-) ह्यन्यस्यानुपलम्भतः || ९/११ || अभावमात्रं नास्त्येव स्याच्चेत् तद् भाति सर्वदा | तस्मात् तत्त्वमतत्त्वं वा न भावेन विना भवेत् || ९/१२ || स्वसाम्राज्यवशाद् भानं सतत्त्वातत्त्वयोः समम् | हानोपादानकलनातन्त्रे त्वित्थं समर्थना || ९/१३ || यथास्थितस्य तस्यातः स्वरूपमुपपद्यते | एतत्परिज्ञानमयी जीवन्मुक्तिर्निगद्यते || ९/१४ || एकं स्वरूपरूपं हि मेयमानप्रमातृतः | सर्गावतारसंहारमयिराक्रम्य वर्तते || ९/१५ || स्वस्वरूपानुगुण्येन प्रत्येकं कलनावशात् | सृष्टिस्थित्यादिभिर्भेदैश्चतुर्धा अपि ताः स्थिताः || ९/१६ || कालग्रासान्तमुदयाच्चतुर्धा विहितो हि यः | तस्य विश्रान्तिरेकैव ततो देव्यस्त्रयोदश (देव्यात्र-) || ९/१७ || अनाख्यचक्रप्राधान्यात् (अन्या-) पूजनीयतया स्थिताः | तासामन्त्या स्वविश्रान्तिर्महाविलयभूः परा || ९/१८ || (प्. ५०) सर्गावतारसंहाराः क्रमात्मानो व्यवस्थिताः | अनाख्यमक्रममपि क्रमात्मैव तदाश्रयात् || ९/१९ || अक्रमात्मपरामर्शात् क्रमारूषणरूपिणः | कालस्य सहसा ग्राससङ्क्रमादित्थमिष्यते (ग्रा *-) || ९/२० || यस्मिन् यस्मिन् हि विषये संक्रामन्ति मरीचयः | तत्र तत्र ह्यनायासादनाख्यस्फुरणं स्थितम् || ९/२१ || उद्योगेनावभासश्चेत् कथं सक्तस्य सम्भवे | अचर्वितोऽवभासः स्यात् तदमृष्टतया कथम् || ९/२२ || तत् सर्गस्थितिसंहाररूपे यो यः क्रमः स्थितः | तत्र तत्राक्रमत्वेन अनाख्यं प्रथमं स्थितम् || ९/२३ || अत्रान्तरेऽपि विश्रान्तिः क्रमाक्रमपदोज्झिता | कालोपाधेरनाक्रम्य नान्तरीयतया स्थिता || ९/२४ || नो चेद् भावान्तरे संवित् प्रसरेत् कथमन्यथा | तद्रूपमात्रावष्टम्भात् परिच्छिन्नात्मरूपतः || ९/२५ || नीले तावत् स्थितं भानं भानं च किल (तिल) चर्वणे | अक्रमेण स्थितं नो चेन्नीलसंविन्न सिध्यति || ९/२६ || आदौ नीलं ततो भानं ततश्च यदि चर्वणम् | अन्योन्यपरिहारेण नीलसंविन्न तद् भवेत् || ९/२७ || कालक्रमात्मा कथितः क्रमश्चान्योन्यवर्जनात् | नैवं काचित् प्रतीतिः स्याद्विविधांशाभभेदतः || ९/२८ || तन्निरंशविदां (-दं) भोगमयानाख्यानुभावतः | सर्वानुभवसंसिद्धौ लोकयात्रा प्रतिष्ठिता || ९/२९ || (प्. ५१) आमुखाद् भासमानश्च क्रमो योऽयं व्यवस्थितः | यथानुभवमेतस्य भेदेऽनाख्यं स्फुटं स्थितम् || ९/३० || तत्र मेयस्वरूपस्य चतुर्धा भेदसम्भवः | आदावकलितोल्लासस्तत्सम्भोगस्ततः परम् || ९/३१ || ततोऽपि चर्वणं तत्र विरामस्तदनन्तरम् | एवं मानस्वरूपेऽपि चतुर्धा भेदसम्भवः || ९/३२ || स्वौचित्येन परिज्ञेयो मातृरूपे तथैव च | अत्र सर्वत्र विश्रान्तिरेकैव निरुपाधिका || ९/३३ || आसां द्वादशदेवीनां परामर्शबलात् स्फुटम् | विकल्पवासनाशून्यं निर्विकल्पं प्रवर्तते || ९/३४ || ये तु योषिद्व्यसनिनस्तन्मुखेनैव ते क्रमात् | कालग्रासपदे सम्यक् प्रविशन्ति निराश्रये || ९/३५ || केचिद् दर्शनमात्रेण तथाङ्गस्पर्शनात् परे | द्वीन्द्रियोत्पत्तितश्चान्ये विश्राम्यन्ति निराश्रये || ९/३६ || इत्थं योषिद्व्यसनिनां तिस्रोऽनुभवभूमिकाः | दृश्यन्ते कालविलये विश्रान्तिर्निरुपाधिका || ९/३७ || सृष्ट्यसृष्ट्यादिभेदेन (सृष्टि-) चतस्रोऽनाख्यदेवताः | प्रमेयभूमिमाश्रित्य कालग्रासपराः स्थिताः || ९/३८ || क्षेपार्थस्य कलेर्धातोरन्वर्थानुगमात् स्फुटम् | कालीशब्दश्चतसृणां देवीनां वाचकः स्थितः || ९/३९ || क्षेपो बहिर्मुखेच्छात्मयोषित्सम्भोगजन्मनि | प्रवृत्तेस्ता (-ता) स्तम्यादिवशात् कालग्रासः (-मयः) स्थितः || ९/४० || (प्. ५२) एवं मद्यव्यसनिनो ये केचिज्जन्तवः स्थिताः | तेषां तदाश्रयेणैव कालग्रासोऽभिधीयते || ९/४१ || तस्यापि दर्शनस्पर्शपानयोगवतः (-ता) स्फुटम् | उद्रेकात् कर्षतो दृष्टः कालग्रासस्य सम्भवः || ९/४२ || प्रविष्टेऽन्तः शीधुरसे (-सं) भेदनिर्हरणात्मके | स्थैर्यमेति चमत्कारो विना विषयसङ्गतिम् || ९/४३ || प्रतिबिम्बमहाभोगमध्यभूमिविकासतः | प्रमाणभूमिमाश्रित्य चतस्रः कालिकाः स्थिताः || ९/४४ || शब्दसङ्ख्यानवृत्तेश्च कलेर्धातोः किलार्थतः | स्थितिसृष्ट्यादिभेदेन चतुर्धा कालिकोदयः || ९/४५ || एवं मांसव्यसनिनामन्तरास्वादभूमिनाम् | प्रमातृरूपमाविश्य चतस्रः कालिकाः स्थिताः || ९/४६ || गतार्थस्य कलेर्धातोरर्थस्यानुगमादिमाः | दर्शनस्पर्शसम्भोगविरामोद्रेकता मताः || ९/४७ || संहारसृष्ट्यादिमयश्चतुर्धायं क्रमः स्थितः | स्त्रीमद्यमांसभोगेषु चमत्कारानुवृत्तितः || ९/४८ || कालग्रासो व्यसनिनां कञ्चित्कालं स्फुटं स्थितः (-तम्) | एतत् परिकरस्त्वन्यो भाववर्गो व्यवस्थितः || ९/४९ || युक्त्यानयैव तत्रापि कालग्रसमयी स्थितिः | अनेनैवाशयेनैव परब्रह्मोपलब्धये || ९/५० || ललनामधुमांसानि पूज्याग्राणि विशेषतः | तदित्थं सर्वभावानां सर्वानुभवभूमिषु || ९/५१ || (प्. ५३) महार्थदृष्ट्या सुगमः कालग्रासोऽप्ययत्नतः | सम्यग्वस्तुविचारेण (सम्यग-) भावानामास्वभावतः (-नाम-) || ९/५२ || लब्धबोधोदयानन्दं (-बोधो *-) वन्दे संस्थानमात्मनः | इति सिद्धमुखाम्नाययुक्त्या नैवास्ति वस्तुतः || ९/५३ || वस्तुस्वभावो यत्रायं कालः स्यात् कलनात्मकः | स्वविष्फारमयं सर्वमिदं संस्थानमात्मनः || ९/५४ || इति बोधोदयानन्दात् कः कालो ग्रस्यते हि यः | तद्ग्राससंरम्भपरा याश्च द्वादश कालिकाः || ९/५५ || इत्थं विचार्यमाणानां न किञ्चिदिति निश्चयात् | एकैव चिदचिद्भोगभोगनिर्भोगलक्षणा || ९/५६ || विश्रान्तिः परमा देवी कालोपाधिविवर्जिता | सविकल्पाविकल्पानां सर्वासा संविदालयः || ९/५७ || क्रमाक्रमपदोत्तीर्णा (क्रमात्-) तदाभोगात्मिकापि या | अचला स्पन्दरहिता सर्वस्पन्दोपभोगिनी || ९/५८ || प्रत्यक्षभूता सर्वस्याप्यद्यापि विविधैर्मुखैः | तथा पूजनसङ्क्रामैरुपायैरुपलक्षिता || ९/५९ || आसां द्वादशदेवीनां स्वरूपविलयावनिः | त्रयोदशीति या देवी कथ्यते ह्युपचारतः || ९/६० || उपादेयतया सैव परोपास्यतया स्थिता | त्रयोदशीनां देवीनां स्वौचित्यार्थानुसारतः | अभिधानानि (-न्नि) वर्तन्ते हृदयङ्गमयुक्तितः || ९/६१ || एतासामभिधानेन या मन्त्राक्षरमालिकाः | कालिकाक्रमदृष्टत्वादुपचारेण ताः स्थिताः || ९/६२ || (प्. ५४) मेलापदर्शने (मेलाव-) ह्यत्र प्रत्यक्षज्ञानगोचरे | कथं मन्त्रस्य सद्भावः स प्रत्यक्षोऽपि वा कथम् || ९/६३ || अवर्णराजप्रत्यक्षः कायानुभवभूमिकः | पञ्चपिण्डात्मकोऽपि स्यात् सूक्ष्मप्रत्यक्षदर्शिनः || ९/६४ || नान्यानि मन्त्रवर्णानि प्रत्यक्षानीव सर्वथा | उपचारेण तद्वृत्तिकालिका क्रमगोचरा || ९/६५ || तत्तद्विकल्पसम्भूतवासनावेधसंक्षयात् | सर्वाकाङ्क्षाविरहिता विश्रान्तिर्जायते परा || ९/६६ || इत्थमुत्थानविषये भावानुभवभूमिषु | प्रत्यक्षः सर्वजन्तूनां स्थितोऽसौ (स्थितो *) पूजनक्रमः || ९/६७ || अन्यैरावरकत्वेन ये भावाः परिवर्जिताः | तैरेव ज्ञानिनामित्थं जाज्वलीति परा चितिः || ९/६८ || एतदर्थानुसारेण स्तोत्रभट्टारके मया | स्फुटं ये विवृताः श्लोकास्तत् * * * * * * * * || ९/६९ || || शुभं भूयात् || ########### END OF FILE #######